University Library,gurukul Kangri Vishwavidyalaya
गद्य पद्य माला
Front matter
विद्यादेवीमुपास्महे ।
गद्य-पद्य-माला
चतुर्थ कुसुमम्
मूल्यं रुप्यकद्वयम्
विद्यादेवीमुपास्महे ।
गद्य-पद्य-माला
चतुथं कुसुमम्
(टिळक-महाराष्ट्र-विद्यापीठस्य 'संस्कृत-परिचय' (चतुर्थ)-
परीक्षार्थे नियुक्तं पाठ्यपुस्तकम )
CHECKE 1973
HJune
Inin:
1335M.KHAD
सम्पादको
पं. सुब्रह्मण्यशास्त्री पाटणकर 'मीमांसाविद्वान्'
पं. शि. ह. धुपकर ' कान्यतीर्थ
आषाढ शु.११-१८७०] मूल्यं रूप्यकद्वयम्
[१६-७-१९४८
वा. वा. मसीनर
कार्यवाह, लिक महाराष्ट्र विद्यापीठ,
५२१, सदाशिव पेठ, पुणे २.
सर्वेऽधिकाराः प्रकाशकायत्ताः ।
मुद्रक:
लक्ष्मण नारायण चापेकर
आर्यसंस्कृति मुद्रणालय,
१९८/१७, सदाशिव, पुणे २,
श्रीकेवलानन्दसरस्वतीनामभिप्रायः ॐनारायणस्मरणम् । - पन्य माला तिलक महाराष्ट्र विद्यापीठानम्यमानेन पण्डितद्वयेन सम्पादितं 'गद्य- नाम चतुर्थपरीक्षोपयुक्तं पाठ्य पुस्तकमस्माभिलब्धं दृष्टं विचारित च मनीषया । अत्रत्या उद्धाराः सर्वे नितान्तमहत्तमवाङ्मयस्थाः । ब्राह्मणोपनिषन्महाभारतरामायणस्थाः केचित् । व्याकरणमीमांसाभाष्यस्थी च, आर्य चाणक्यप्रणीतार्थशास्त्रस्थश्च, माघबाणभारविश्रीहर्षकालिदासभव- भूतिवाङ्मयस्थाव, चम्पृद्वयस्थौ च, साहित्यदर्पणस्थश्च, लौकिकव्यवहारो- पयोगिनौ च सुभाषितानि च का नि चित् इति उद्धारा अत्रत्याः । एतत् कुसुममामोदि उपजिघ्रता पाटकानां मन्यामहे नितान्तं प्रमोदमपजनयिष्यति इत्यलं स्वत एवोत्तमस्य पुनरुत्तमत्व प्रतिपादनेनेति विरम्यते । आषाढे कृष्णे नवमी भृगुवासरः । शाकः १८७० स्वामी केवलानन्दसरस्वती, वाई. me- मुम्बापुरीप्रान्तस्य प्रधानमन्त्रिणां श्रीमतां खेरमहोदयानां पुरस्कारः अद्य निरतिशय: आनन्द: मे मनसि पुस्तिकामिमा पुरस्कुर्वतः । संस्कृतिशीलयोरन्वयेन श्रेष्ठवाङमयाध्ययनस्य महत्त्वं सुविदितमेव । संस्कृत- सारस्वतस्य च लोकोत्तरत्वं महाभिमानास्पदं जातं भारतवासिनाम् । एवं सत्यपि व्यवहारेऽप्रचलितत्वात् संस्कृतभाषायाः सर्वमपि तद् दुरवबोधं मन्यते सामान्यजनैः। अज्ञानमिदं दूरीकर्तुं गीर्वाणवाङ्मये च प्रीति जनयितुं तिलक-महाराष्ट्र-विद्यापीठेन संस्कृतमण्डलद्वारा संस्कृताध्यापन- परीक्षादिः प्रयत्नः क्रियते । परिचयपरीक्षापाठा अस्मिन् पुस्तके श्री. सम्पादकमहाशयैर्ग्रथितास्तेषां वाङ्मयावगाहनं लेखविवेकचातुर्य च प्रकाशयन्ति । अत्रान्तर्भूताः पाठाः विषयवैविध्येन भाषासुबोधतया च संस्कृतवाङ्मयाभ्यासेच्छूनां जिज्ञासाजागृत्यर्थं गीर्वाणवाण्यां प्रीति च निर्मातुं सुसमर्थाः। अङ्गीकृतकार्य अत्रभवद्भिः समासादित यशः अधिकाधिकरमणीयग्रन्थग्रथनाकांक्षां जनयति । पुस्तकमिदं विद्यार्थिनामन्येषां च गीर्वाणवाणीर सिकानां प्रियं भवेदिति शुभेच्छां प्रकटीकरोमि । २६ जुलै १९४८. बा. गं. खेरः मुंबापुरी. m प्रस्तावना स्वदेशीयानां विदेशीयानां च तासां तासां भाषाणां प्रचाराय यथा विविधाभिः संस्थाभिः परीक्षाः प्रचाल्य प्रयत्नः कृतः , तद्वदेव संस्कृत- भाषायाः प्रचाराय सर्वजनसाधारणतया रुच्युत्पादनाय च अस्माभिः अयं नवीनः परीक्षोपक्रमः कृतः । इदंप्रथमतया प्रवृत्तास्वप्येतासु परीक्षासु वर्षद्वयात्मकेनाल्पेनैव कालेन प्रायशो दशसहस्रसंख्याकानां विद्यार्थिनां प्रवेशो जातः । तेन चैषा परीक्षापद्धतिः विद्यार्थिजनप्रिया भवेदिति निःसन्देहमवधारयितुं शक्यते । अखिलेऽपि भारतवर्षे संस्कृतविषये परीक्षा- व्यवस्थापिकानामितरासां संस्थानां विद्यमानत्वेऽपि विषयसौलभ्येनापेक्षित- क्रमबद्धत्वेन च एतास्वेव परीक्षासु विद्यार्थिनां नितरामादरो दृश्यत इति प्रमोदावहम् । प्रतिपरीक्षं पाठ्यपुस्तकव्यवस्था अपेक्ष्यत एवेति परिचयपरीक्षायाः कृते पुस्तकमेतत्प्रकाशितम् । अस्मिश्च पुस्तके केचन पाठाः वैदिकवाङ्मयतः, केचन दर्शनत:, अपरे च काव्यनाटका दिभ्य उद्धृता इति विषय- विविधत्वानुसारेण प्रायशः सर्वस्यैव संस्कृतवाङ्मयस्य परिचयः कारितः । तत्तत्पाठोपक्रमे च प्रसिद्धानां तत्तद्ग्रन्थकाराणां जन्मदेशकालादिविषये संक्षेपतो निर्देशः कृतः। तथैव तत्तत्पाठे प्रतिपाद्यमानस्य विषयस्य वैशिष्टयं , यथासम्भवं पूर्वापरसन्दर्भश्चत्येवमादिकमतीव सुलभभाषया प्रतिपादितम् । अपि च पाठान्ते विद्यार्थिबुद्धिवेशद्यकारिणः प्रभा अपि परीक्षाधोरणीमाधु- निकी पद्धति चानुसृत्य विन्यस्ताः । पाठेषु च क्वचित् क्वचित् मूलग्रन्थे विद्यमानाया रचनायाः सोलभ्यदृष्ट्या , आकर्षकत्वदृष्ट्या , सामंजस्य- दृष्टया चापेक्षितोऽन्यथाभावः स्वातंत्र्येण मूलार्थसौन्दर्याविरोधेन कृतः । पुस्तकान्ते च परिशिष्टभागे अध्ययनाध्यापनोपयोगिटिप्पण्यः आवश्यक , छन्दोविज्ञानम् उपयुक्तानि व्याकरणसूत्राणि च समुल्लिखितानि , अत एवैष सुतरामभिनवा पुस्तकरचना सर्वेषामपि संस्कृतविद्यादरवतां जनानां महाड- पयोगकारिणी भवेत् इति विश्वसिमः । अनयैव रीत्या प्राथमिकपरीक्षात्रयोप. योगिनामपि पाठ्यपुस्तकानां प्रकाशनं नचिरादेव चिकीर्षितमस्ति । तदिदं विद्यादेवतासमाराधनरूपं कार्य श्रीसरस्वतीकृपाकटाक्षवशेन संस्कृतविद्या- भिमानिजनतासाहाय्येन च परिपूर्णतां यायादिति बाढमाशास्महे । संस्कृत-विद्या-मण्डलम् टिळक-महाराष्ट्र-विद्यापीठम् - अनुक्रमः . ४ . १२ . . २. २४ 4 . 4 . ३५ . ४५ . . (१) कपिराजस्य युक्तिवाद: (२) काव्यस्य प्रयोजनं स्वरूपं च (३) क्षात्रतेजस्विनी द्रौपदी (४) कपिराजं प्रति रामस्योत्तरम् (५) अभियानकालः (६) निगूढो मन्त्रविचार: (७) चित्रदर्शनम् (८) महाश्वेतादर्शनम् (९) किरातार्जुनौ (१०) महाभाष्यपरिच्छेदौ (११) शकुन्तला पतिगृहं प्रतिष्ठते (१२) मानव कर्तव्यानि (१३) युद्धोगतः शिशुपालः (१४) प्रदीप्तकोपं भीमं धर्मराजः सान्त्वयति (१५) यज्ञाधिकारविचार: (१६) रघुराजस्य पराक्रमो राजनीतिश्च (१७) रामस्य वनगमनम् (१८) हंसदूतः (१९) शुनःशेपकथा . (२०) पत्रलेखनम् (२१) निबन्धलेखनम् (२२) सुभाषितानि परिशिष्टम् (१) टिप्पण्यः परिशिष्टम् (२) छन्दोव्याकरणे . ५८ . . ७२ . . . 4 . ८८. . .
(१)
कपिराजस्य युक्तिवादः
परिचयः-आदिकविरिति पदवीविभूषितो वाल्मीकिनामा भारतवर्षस्य
आद्यः कविः । असौ च वल्मी सम्भवात् वाल्मीकि प्रातः । यस्य ' मा
निषाद' इति श्लोकः, कौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः
प्रसिद्ध एव । अनेन विरचितं रामायण रामरावगायाप्रति गदकं न केवल.
मितिहासरूपम् ; किन्तु सहृदयानुरजकं रसास्वाद करं चादिकाव्यम् ।
काण्डपकात्मकेऽस्मिन्नादिकाव्ये किष्किन्धाकाण्डतः समुद्धृतोऽयं
रामवालिनोः संवादो हृदयाह्लादकः । सुग्रीवपक्षपातिना रामेण वालि-
सुग्रीवयोद्वन्दू धटयित्वा छलेन निहत्तो वाली स्वकीयवधकारणं पृच्छन्
युक्तिवादेन रामं निरुत्तरीकरोति । तद्यथा-विषये वा पुरे वा ते नैव
पाप करोम्यहम् । न च स्वामवजानेऽहं कस्मात्वं इंस्यकिल्बिषम्'।
उदासीनेषु चारमासु विक्रमोऽयं प्रकाशितः'। एवं रीत्या वालिकृता
आक्षेपाः सुतरां न्यायसम्मता रुचिराश्च दृश्यन्ते । तदास्वादं सुकुमार-
मतयच्छात्राः स्वयमेवानुभवेयुः ।
ततः शरेणाभिहतो रामेण रणकर्कशः।
पपात सहसा वाली निकृत्त इव पादपः ॥१॥
भूमौ निपतितस्यापि तस्य देहं महात्मनः ।
न श्रीब्रहाति न प्राणा न तेजो न पराक्रमः ॥ २ ॥
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता।
दधार हरिमुख्यस्य प्राणांस्तेज श्रियं च सा ॥ ३ ॥
लक्ष्मणानुचरो रामो ददर्शोपससर्प च ।
तं तथा पतितं संख्ये गतार्चिषमिवानलम् ॥ ४ ॥
२
मानयित्वा च तं वीरं वीक्षमाण शनैरिव ।
उपयातौ महावीरी भ्रातरौ रामलक्ष्मणौ ॥ ५ ॥
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।
अब्रवीत्परुषं वाक्यं प्रश्रितं धर्मसंहितम् ॥ ६ ॥
कुलीनः सत्वसम्पन्न: तेजस्वी चरितव्रतः ।
रामः करुणवेदी च प्रजानां च हिते रतः ।। ७ ।।
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।
इत्येतत्सर्वभूतानि कथयन्ति यशो भुवि ।। ८ ।।
त्वामहं निहतात्मानं धर्मध्वजमधार्मिकम् ।
जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ ९ ॥
विषये वा पुरे वा ते नैव पापं करोम्यहम् ।
न च त्वामवजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् ? ॥ १० ॥
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः ।
धर्मलिङ्गप्रतिच्छन्नः ऋरं कर्म समाचरेत् ? ॥ ११ ॥
स्वं राघवकुले जातो धर्मवानिति विश्रुतः ।
अभव्यो भव्यरूपेण किमर्थ परिधावसि ? ।। १२ ।।
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ।। १३ ।।
वयं वनचरा राम मृगा मूलफलाशिनः ।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर ॥ १४ ॥
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ।
किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ १५॥
राजहा ब्रह्महा गोनः चोरः प्राणिवधे रतः ।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ १६ ॥
अधार्य चर्म मे सद्भिः रोमाण्यस्थि च वर्जितम् ।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ १७॥
३ तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ॥ १८ ॥ उदासीनेषु चास्मासु विक्रमोऽयं प्रकाशितः। अपकारिषु ते राम नैवं पश्यामि विक्रमम् ।। १९ ।। दृश्यमानस्तु युध्येथा मया युधि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ २० ॥ मामेव यदि पूर्व त्वम् एतदर्थमवक्ष्यथाः । सीतामेकदिनेनाहम् आनेष्यं तव सन्निधिम् ॥ २१ ॥ राक्षसं च दुरात्मानं तव भार्यापहारिणम् । कण्ठे बवा प्रदद्यां तेऽनिहतं रावणं रणे ।। २२ ।। न्यस्ता सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशात् श्वेतामश्वतरीभिव ।। २३ ।। युक्तं यत्प्राप्न याद्राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मण त्वयाहं निहतो रणे ॥ २४ ॥ काममेवंविधो लोकः कालेन विनियुज्यते । शक्यं चेद् भवता प्राप्तम् उत्तरं साधु चिन्त्यताम् ॥ २५ ॥ - प्रमाः (१) कीदृशं रामस्य यशः? (२) वाली स्ववधस्य अनौचित्यं कथं समर्थयति ? (३) 'पुरुषस्त्वं नरेश्वर' . ' आकारिषु ते राम नैवं पश्यामि विक्रमम् ' अनयोर्वाक्ययोः को गर्मितो भावः ? (४) अनिहतो रावणो वालिना पूर्व निगृहीतः स्वसुतस्याङ्गदस्य दोलायां नियद्धति कथा स्ववाक्यविस्तरेण लिख्यताम् । -- 30 । (२) काव्यस्य प्रयोजनं सरूपं च परिचयः-साहित्यदर्पणकर्ता विश्वनाथकविः विश्रुतो वर्तते । तद्ग्र- न्यस्य प्रथमपरिच्छेदे काव्यस्य स्वरूपं प्रयोजनं च वागतम् । तेन किं नाम काव्यम् ? किं तस्य प्रयोजनम् इत्यंशद्वयं ज्ञातुं सुशकम् । स्वरूपप्रयोजने- ऽजानन् काव्याध्ययने कथं प्रवर्तेत ? अतः तयोशानस्यातीवावश्यकता वर्तते। तत्र प्रयोजनं 'करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् , रामादिवत्प्रव- र्तितव्यम् , न रावणादिवत् ' इत्यादि सुलभभाषया प्रतिपादितम् । स्वरूपं तु पूर्वोत्तरपक्षनिरूपणद्वारा दार्शनिकी भाषामाश्रित्य कथितम् । क्रिस्ताब्दस्य चतुर्दशे शतकेऽयं कवियंभूबेति काव्यप्रकाशकारात् मम्मटभट्टादर्वाचीन इति च वदन्तीतिहासविदः शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरा देवी । अपहृत्य तमः सन्ततमर्थानखिलान् प्रकाशयतु ॥१॥ काव्यप्रयोजनानि चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ २॥ चतुर्वर्गफलप्राप्तिर्हि काम्यतो 'रामादिवत्प्रवर्तितव्यम् , न एवणादिवत्' इत्यादिकृत्यावस्यप्रवृत्तिनिवृत्युपदेशद्वारेण सुप्रतीतैव । उक्तं च- धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥ ३॥ ।
- किंव काव्यात् धर्मप्राप्तिः भगवन्नारायणचरणारविन्द स्तवादिना, 'एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके काम धुग्भवति' इत्यादिवेदवाक्येभ्यश्च सुपसिव । अर्थप्राप्तिश्च प्रत्यक्षसिद्धा। कामप्राप्तिश्व अर्थद्वारा एक । मोक्षप्राप्तिश्व एतजन्य- धर्मकलाननुसन्धानात् , मोक्षोपयोगिवाक्ये गुत्पत्त्याधायकत्वाच । चतुर्वर्गप्राप्तिाह वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धी- नामेव जायते । परमानन्दसन्दोहजनकतया सुखादेव सुकुमारबुद्धी. नामरि काव्यादेव। ननु तर्हि परिगतबुद्धिभिः सत्सु वेदशास्त्रेषु, किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्य सितशकै रोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्ति साधीयसी न स्यात् ? किंच काव्यस्योपादेयत्वम् अग्निपुराणेऽ प्युक्तम्- नरत्वं दुर्लभ लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ ४ ॥ त्रिवर्गसाधनं नाट्यम् ' इति च । विष्णुपुराणेऽपि-काव्या लापाव ये केचित गीतकान्यखिलानि च । शब्दमूर्तिधरस्यले विष्णोरंशा महात्मनः ।। ५॥ इति । काव्यस्वरूपम्- तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । तत् किं स्वरूप- मित्यपेक्षायां कश्चिदाह, 'तददोषौ शब्दार्थो सगुणावनलकृती पुनः क्वापि' ( काव्यप्रकाश १.४ ) इति । एतच्चिन्त्यम् । तथाहि- यदि दोषरहितस्यैव काव्यत्वाङ्गोकारः, तदा काव्यं प्रविरलविश्व निर्विषयं वा स्यात; सर्वथा निर्दोषस्यैकान्तमसम्भवात् ।
. . किं च, शब्दार्थयोः सगुणत्वविशेषणमनुपपन्नम् ; गुणानां रसैकधर्मत्वस्य 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ( काव्यप्रकाश ८.६६ ) इत्यादिना तेनैव प्रतिपादितत्वात् । रसाभिव्यञ्जकत्वेन उपचारत उपपद्यत इति चेत्, तथाप्ययुक्तम् । तथाहि-तयोः काव्यस्वरूपत्वेनाभिमतयोः शब्दार्थयोः रसोऽस्ति न बा ?। नास्ति चेत् , गुणवत्त्वमपि नास्ति ; गुणानां तदन्वय- व्यतिरेकानुविधायित्वात् । अस्ति चेन, कथं नोक्तं रस. वन्ताविति विशेषणम् ? गुणवत्त्वान्यथानुपपत्त्या एतल्लभ्यत इति चेत् , तर्हि सरसावित्येव वक्तुं युक्तं न सगुणाविति । न हि प्राणिमन्तो देशा इति वक्तव्ये शौर्यादिमन्तो देशा इति केनाप्युच्यते ! ननु 'शब्दार्थो सगुणो' इत्यनेन गुणाभिव्यञ्जको शब्दार्थों काव्ये प्रयोज्यौ इत्यभिप्राय इति चेत , न; गुणाभि व्यञ्जकशब्दार्थवत्त्वस्यापि काव्ये उत्कर्षमात्राधायकत्वम्, न तु स्वरूपाधायकत्वम् । उक्तं हि-काव्यस्य शब्दार्थो शरीरम; रसादिश्चात्मा; गुणाः शौर्यादिवत् ; दोषाः काणत्वादिवत; रीतयः अवयवसंस्थानविशेषवत; अलङ्काराः कटककुण्डलादिवत् इति । एतेन ‘अनलङ्कृती पुनः क्वापि' इति यदुक्तं, तदपि परास्तम् । अस्य ह्यर्थः, सर्वत्र सालंकारौ कचित्त्वस्फुटालंकारावपि शब्दार्थों काव्यमिति । तत्र सालंकारशब्दार्थयोरपि काव्ये उत्कर्षमात्रा. धायकत्वात् । आग्नेयपुराणेऽप्युक्तम्- 'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्' इति । व्यक्ति- विवेककारेणाप्युक्तम् -' काव्यस्यात्म ने सङ्गिनि रसादिरूपे न कस्यचिद्विमतिः' इति । ध्वनिकारेणाप्युक्तम् न हि कवेरिति- वृत्तमात्रनिर्वाहेण आत्मलाभः ; इतिहासादेरेव तत्सिद्धेः' इत्यादि । ननु तर्हि प्रबन्धान्तर्वर्तिनां केषाञ्चिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत् न; रसवत्पद्यान्तर्गतनीरसपदानामिव पधरसेन -
बन्धरसेनैव तेषां रसवत्ताङ्गोकारात् । यत्तु नीरसेष्वपि गुणा
भव्यञ्जकवर्ण सद्भावात् दोषाभावात् अलङ्कारसद्भावाच
व्यव्यवहारः स रसादिमत्काव्यबन्ध नाम्पात् गौण एव । तत् किं.
वरूपं काव्यम् ? इत्युच्यते । 'वाक्यं रसात्मकं काव्यम् ' !
श्राः
(१) काव्यस्य कानि फलानि ?
(२) वेदशास्त्रापेक्षया काव्ये को विशेषः ?
(३) तीक्षणबुद्धीनां जनानां काव्यमुपादेयं भवति न वा !
( ४ ) काव्यप्रकाशकारकृतं काव्यलक्षगं युक्तिभिः खण्डनीयम् ।
(५) स्पष्टीकुरुत।
(१) अन्वयव्यतिरेको. (२) अन्यथानुपपत्तिः ( ३ ) चतुर्वर्गः ।
(६) काव्यवाग्मयस्य नरदेहतुलना कथं संगच्छते ? ग्रन्थानुसारेण
लिखत ।
--
(३)
क्षात्रतेजस्विनी द्रौपदी
परिचय:-गभीरार्थप्रतिपादकानां महाकाव्यानां निमातृषु भारविर्नाम
तवर्षे सुप्रसिद्धः कविः। काव्येषु कानिचित् द्राक्षापाकतुल्यानि,
रणि च नारिकेलपाकतुल्यानि | तदुक्तम्---
द्राक्षापाकः स कथितो बहिरन्तस्फुरद्रस: ।
स नारिकेलपाकः स्यात् अन्तर्गदरसोदय: ' ॥ इति ।।
.
८ अर्थतः शब्दतश्च सुगमानां येषां काव्यानां वाचनमात्रौव रसास्वादो भवति ते द्राक्षापाकाः । शब्दतोऽर्थतश्च दुर्गमागां येबा रसास्वादः केवल. वाचनेन न भवति, किन्तु शब्दार्थविज्ञाने विशेषप्रयासमपेक्षते ते नारिकेल. पाकाः । भारविकविकृतं किरातार्जुनीयकाव्यं तु द्वितीयकोट्यामन्तर्भवति । अयं च भारषि: क्रिस्ताब्दस्य पठे शाके सम्बभूवेति वदन्तीतिहास- काराः । एतस्य जन्मदेशस्तु नाद्यापि निर्धारितः । एतेन रचितस्य महा. काव्यस्य किरातार्जुनीय मिति नाम कथावृत्तदर्श के वर्तते । अर्जुन इन्द्रकील पर्वते उग्रेग तपसा महेश्वर प्रसाद्य किरातरूपधारिणस्तस्मात् पाशुपतं नाम दिव्यानं लेभे इति महाभारतीया कथास्य काव्यस्य मलम् । तत्र च प्रथमसर्गात् उद्धृतोऽय पद्यसमुदायः । अब च द्वैतवनस्थितेन युधिष्ठिरेण प्रणिविरूपेण प्रहितो वनेचरो दुर्गेधनवृत्तं निभृतं विज्ञाय प्रत्यागतो युधिष्ठिराय तद्वार्ता कथयति । तत्र स किसखा साधु न शास्ति योऽधिषम् , हितं मनोहारि च दुर्लभं वचः, अहो दुरन्ता बलवद्विरोधिता, इत्यादिना सम्यग्रथितानि व्यावहारिकाणि तत्त्वानि वाचकानां हृदय मावर्जयन्ति । दुर्योधस्योत्कर्ष दूतमुखात् विज्ञाय प्रक्षुब्धमानसा द्रौपदी युधिष्ठिरादीन् युद्धोद्यमे प्रवर्तयितुं यद् भापते ; तद्भाषणमभि जातक्षत्र- कुलोत्पन्नानां पुरावनीनां भारतीयनारीणां राजनीत्यभिज्ञत्वं परपरिभवासहवं च सूचयति । । श्रियः कुरूणामधिपस्य पालनी प्रजासु वृत्ति यमयुङ्कत वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ।।। कृतप्रणामस्य महीं महीमुजे जितां सपत्लेन निवेदयिष्यतः । नविव्यथे तस्य मनो, न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ।। द्विषां विधाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः। स सौष्ठवौदार्यविशेषशालिनी विनिश्चितार्था मिति वाचमाददे ।।
९ क्रियासु युक्तैर्नृप चारचक्षुपो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हित मनोहारि च दुर्लभ वचः ॥१॥ सकिंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः। सदानुकूलेषु हि कुर्वते रतिं नृपेचमात्येषु च सर्वसम्पदः ।।५।। निसर्गदुर्वाधमत्रोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमदि यन्मया निगृहनत्वं नयवर्म विद्विवाम् ||६|| विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरउछद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥७॥ तथापि जिह्मः स भवजिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन भूतिमनार्यसङ्गमात् वरं विरोधोऽपि समं महात्मभिः ॥८॥ सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्।।९५ महौजसो मानधना धनार्चिता धनुर्भूतः संयति लब्धकीर्तयः । नसंहतास्तस्य नमिन्नवृत्तयः प्रियाणि वाञ्छत्न्यसुभिः समीहितुम् १० महीभृतां सच्चरितैश्चरेः क्रियाः स वेद निःशेषमशेषितक्रियः । महोदयैस्तस्य दिनानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ।।११।। न तेन सज्यं क्वचिदुद्यतं धनुः कृतं न वा कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥ १.२.! स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम ॥१२॥ प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः ! स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ।।६।। तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः॥१५ इतीरयित्वा गिरमात्तसत्किये गतेऽथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥१६
निशम्य सिद्धिं द्विषतामपाकृतीः ततस्ततस्त्या विनियन्तुमक्षमा ।
नुपस्य मन्युव्यवसायदीपिनी: उदाजहार तुपदात्मजा गिरः ॥१७॥
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारी समया दुराधयः ॥१८||
अखण्डमाखण्डलतुल्यधामभिः चिरं धृता भपतिभिः स्ववंशजैः ।
रेतयात्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिंता ॥१९||.
बजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः। .
प्रविश्य हि घ्नन्ति शठास्तथाविधान असंवृताङ्गान्निशिता इवेषवः २०
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमान नरदेव वर्मनि ।
कथं न मन्युर्बलवत्युदीरितः शतीतरं शुष्कमिवाग्निरुच्छिवः ॥२१
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न वि द्वादरः ।।२२।।
परिभ्रमल्लोहितचन्दनोचितः पदातिरन्तगिरि रेणुरूपिनः ।
महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥२३
विजित्य यः प्राज्यमयच्छ दुत्तरान् कुरूनकुप्यं वसु वासबोपमः ।
स वल्कवासांसि तवाधुनाहरन् करोति मन्यु न कथं धनञ्जनः ।।२४
बनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजो गजौ।
कथं त्वमेतो धृतिसंयमौ यमौ विलोकयनुत्सहसे न बाधितुम् ।।२५
इमामहं वेद न तावकी धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः॥२६
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अभ्रदर्भामधिशय्य स स्थली जहासि निद्रामशिवः शिवारुतैः॥२७
अनारतं यो मणिपीठशायिनी अरजयद्राजशिरःस्रजो रजः।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बहिषाम् ॥२८॥
द्विपन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीब मे मनः ।
भरैरपर्यासितवी पम्पदा पराभवोऽप्युत्सव एव मानिनाम् ॥२९॥
विहाय शान्ति नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । वजन्ति शनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥३०॥ अथ क्षमामेव निरस्तविक्रमः चिराय पर्येषि सुखस्य साधनम्। विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥३१॥ and- (१) शत्रोः दुर्योधनस्थोत्कर्षवृत्तं कथयत: पनेचरस्य मनः उद्विममभूर न वा? (२) दुर्योधनः अग्निसाध्या नि यज्ञकर्माणि कुतः करोति स्म ? (३) दुर्योधनस्य राज्यशासनपद्धति स्ववाक्यैः कथयत । (४) प्रतीयते धातुरिवेहितं फलैः' इति वाक्यं दुर्योधनविषये घटवंत । फलानुमेयाः प्रारम्भाः' इति कालिदासवचनेनास्य वचनस्य सादृश्यं विमृशत । (५) द्रौपदीभाषणे दर्शितायाः भीमार्जुनादीनां पूर्वावस्यायाः तत्काली- नावस्थायाश्च कीहशो भेदः १ (६) पल्या द्रौपद्या कृतः पत्युर्धर्मराजस्याधिक्षेपः कथं संगच्छते ? (७) 'पराभवोऽप्युत्सव एकः मानिनाम्, शमेन सिद्धि मुनयो व्रजन्ति, जटाधरः सञ्जहुधीह पावकम् ' एतैवाक्यौपद्या मन:स्थिति कीदृशी उन्नीयते ॥
१२
(४)
कपिराजं प्रति रामस्योत्तरम्
परिचयः -रामायणस्य कर्तुरादिकवेवाल्मीके: परिचयः प्रथमपाठे
निर्दिष्ट इहाप्यनुसन्धेयः । तत एव रामायणादुद्धृतोऽयं भागः । अस्य च
नैशिष्टयम्--- वालिना अविक्षिप्तो रामः तद्वधात्मकं स्वकृत्यं धर्म्यमेवेति
समर्थयति । "अधुना
अधुना भरतो राजा , स च धर्मेण राज्य शास्ति, तदादेश
बातमो वयमपि धर्मरक्षण एव बद्धपरिकराः, त्वं च सुग्रीवपत्नीहरणेन साप-
रामोऽसि । अपराघिनश्च युक्त एव दण्डः । किञ्च सुग्रीवसन्निधौ
मपा प्रतिज्ञा कृता 'तुभ्यं राज्यं दास्यामी' ति , साऽधुना उपेक्षितु-
मशक्या। अपि च मृगया नाम क्षत्रियाणां धर्म एव । मृगयायां न
अपादृशां शाखामृगाणां वधो न प्रत्यवायकारी” इत्यादियुक्तिवादेन
समाहितो पाली तदनुमत्य देहत्यागकाले पुत्रादिरक्षणभारं रामे निचिक्षेप ।
सोऽयं सन्दर्भः सांसारिकसुखदुःखाद्यनुभववतां हृदयानुरञ्जकः
कालीनदुःखानुभावकः शोकपूर्णो मर्भवेधी च वर्तते । तस्यास्वादः पाठकैः
स्वयमेवानुभवितव्यः ।
-
अन्त-
,
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ।
अधिक्षिप्तस्तदा रामो पश्चाद्वालिनमब्रवीत् ॥१॥
धर्ममर्थ च कामं च समयं चापि लौकिकम् ।
अविज्ञाय कथं बाल्यात् मामिहाद्य विगर्हसे ॥ २ ॥
अपृष्ट्वा बुद्धिसम्पन्नान वृद्धानाचार्यसंमतान् ।
सौम्यं वानरचापल्यात त्वं मां वक्तुमिहेच्छसि ॥ ३॥
इक्ष्वाकूणामियं भूमिः सशैलवनकानना ! तां पालयात धर्मात्मा भरतः सत्यवान् ऋजुः । धर्मार्थकामतत्त्वज्ञो निग्रहानुग्रहे रतः ।। ४ ।। तस्य धर्मकृतादेशा वयमन्ये च पाथवाः । चरामो वसुधां कृस्नां धर्मसन्तानमिच्छवः ॥५॥ तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले । पालयत्यखिलां पृथ्वी कश्वरेत् धर्मविप्रियम् ? ॥६॥ ज्येष्ठो भ्राता पिता वापि, यश्च विद्यां प्रयच्छति । जयस्ते पितरो ज्ञेया धर्ये च पथि वर्तिनः ॥७॥ यवीयानात्मजः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम् ॥ ८॥ तदेतत्कारणं पश्य यदर्थ त्वं मया हतः । भाया कि हरसि भ्रातुः त्यक्त्वा धर्म सनातनम् ।। ९ । अस्य त्वं धरमाणस्य सुभीवस्य महात्मनः । रुमाया वतैसे कामातू, स्नुषायां पापकर्मकृत् ॥ १० ॥ न हि लोकविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥११॥ प्रचरेद्यो नरः कामात् तस्य दण्डो वधः स्मृतः । स्वं च धर्मादतिकान्तः कथं शक्यमुपेक्षितुम् ? ।।१२।। प्रतिज्ञा च मया दत्ता, तदा वानरसन्निधौ । सा चाधुना कथं शक्या मद्विधेनानवेक्षितुम् ? ॥१३॥ तदेभिः कारणैः सर्वैः महद्भिर्धर्मसंश्रितैः शासनं तव ययुक्तं तद्भवाननुमन्यताम् ।।१४॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः । वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥१५॥ तदलं परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल , न वयं स्वरशे स्थिताः ।।१६।। शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव । तच्छ्रुत्वा हि महावीर न मन्युं कर्तुमर्हसि ॥ १७ ॥ यान्ति राजर्षयश्चात्र मृगयां धर्मको विदाः । तस्मात् त्वं निहतो युद्धे मया बाणेन वानर । अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखामृगो ह्यसि ।। १८ ।। एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् । न दोषं राघवे दध्यौं धर्मेऽधिगतनिश्चयः ॥१९॥ प्रत्युवाच ततो रामं प्रालिवानरेश्वरः । यत्वमात्थ नरश्रेष्ठ तत्तथैव न संशयः ॥ २०॥ प्रतिवक्तुं प्रकृष्ट हि नापकृष्टस्तु शक्नुयात् । यदप्युक्तं मया पूर्व प्रभादाद्वाक्यमप्रियम् । तत्रापि खलु मां दोषे कर्तुं नाईसि राघव ।। २१ ॥ बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः । उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः ॥ २२ ॥ शोचामि नाहमात्मानं न तारां नापि बान्धवान् । यथा पुत्रं गुणज्येष्ठम् अङ्ग कनकाङ्गदम् ।। २३ ।। स ममादर्शनात् दीनो बाल्यात्प्रभृति लालितः । तटाक इव पीताम्बुः उदशोपं गमिष्यति ॥ २४ ॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः ॥२५॥ या ते नरपते वृत्तिः भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजन् तां चिन्तयितुमर्हसि ॥२६॥ महोषकृतदोषां तां यथा तारां तपस्विनीम् । सुग्रीवो नावमन्येत वथावेक्षितुमर्हसि ॥ २७ ॥ इत्युक्त्वा वानरो रामं विरराम हरीश्वरः ।
१५ म तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् । साधुसंमतया वाचा धर्मतत्वार्थयुक्तया ॥ २८ ॥ यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर । तथा वर्तेत सुप्रीवे मयि चापि न संशयः ॥ २९॥ वाली झराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो। इदं महेन्द्रोपमभीमविक्रम क्षमख में सम्प्रति हे दयाघन ॥३०॥ - प्रभाः (१) रामः काभियुक्तिभिः स्वपक्षं समर्थयति ? (२) अन्तकाले वालिनः समाधानं जातं न वा ? (३) देहावसानसमये वालिमुख निर्गतानि वचनानि कि द्योतयन्ति ? (४) अन्ते च रामो वालिने किं प्रतिशुश्राब ? morew-- (५) अभियानकाल: परिचयः-~आर्यचाणक्यनामा कश्चिद्विद्वान् नन्दराज्यकाले राजनीतिस इति सुप्रसिद्ध आसीत् । एतस्यैव विष्णुगुप्तः कौटिल्य इति चाभिधानान्तरम् । नन्दमंसदि स्त्रीयमपमानमसहमान एष महाशयो नन्दान्वयं समूलमुत्साद्य १६ तस्मिन् राज्ये चन्द्रगुप्त स्थापयांचकार । क्रिस्तपूर्व चतुर्थशतके , सञ्जात इतीतिहासतो विज्ञायते । एतदीयराजनीतिकौशल्यस्य यथार्थानुभो मुद्राराक्षसनाटकाज्जायते । तत्र 'नन्दोन्मूलनदृष्टवीर्यमहिमा बुद्धिस्ट मागान्मम इति साभिमानं भाषमाणोऽयं केवलं स्वबुद्धितत्वोपजीवक्र आसीदिति प्रतीयते । तत्रैव 'उपलशकलमेतद्भेदक गोमयानाम्' इत्यादिना चन्द्रगुप्तप्रधानमन्त्रिणोऽप्यस्य वैषयिकराज्यसुख निःस्पृहता स्वकीयवणा- श्रमधर्मतत्परता च स्फुटमवभासते। तेन विरचितं कोटिलीयमर्थशाम्र नाम ग्रन्थरत्नमखिलेऽपि भारते सुप्रथित प्रामाणिकराहतं च । चन्द्रगुप्तस्य राज्यस्थितिलभार्थमेव तेनायं ग्रन्थो विरचितो भवेदित्यप्पुन्नीयते । तत पुरातनकालेऽपि लोकानुरजकराज्यशासनपद्धतेविमर्शः तत्कालीनैः सूक्ष्म विचारचतुरैर्विद्वद्वरै राजनीतिशास्त्रावलम्बनेनैव कृत इत्यनुमीयते । एतस्य परम्परा शिष्यः कामन्दको गुरुकृपालब्धां राजनीतिज्ञतां स्वीयबुद्धिसामर्थन संवर्धयन् राजनीतिविषये नीतिसारनामक ग्रन्थं रचयाम्बभूव । सेशं परम्पराप्राप्ता भारतीयानां राजनीत्यभिज्ञता क्रमशो विलुप्ता सद्यःकाले क्वापि देशे नोपलभ्यते इत्यहोऽदूरदर्शितायाः प्रभाव एषः । ईदृश्य परिस्थितावागामिनि काले राजनीतिज्ञान शिथिलता माभूदित्यनया बुद्धया विद्यार्थिवर्गण प्राचीनराजनीतिशास्त्राध्ययने सद्यपरिस्थितिसमीक्षणेन चतुरसमतिना भाव्यमित्येव युक्तम् । अयं च परिच्छेदः कौटिलीयार्थशास्त्र नवमाधिकरणे प्रथमाध्यायात् ( आदितो द्वाविंशतितमात् ) उद्धृतः। अस्मिश्च परिच्छेदे अभिशत्र जैत्रयात्राकालविचारः सूक्ष्मतया कृतः। तत्रापि प्राचीनराजनीतिग्रन्थान्द परामृश्यापेक्षित परिवर्तन अन्यकारेण स्वबुद्धिकौशल्येन कृतम् । प्राचीनमतं च तत्र तत्र निराकृतमिति स्थाने स्थाने ' इत्याचार्याः, नेति कौटिल्यः' इति निर्देशेन ज्ञायते । अत्र चोत्साहप्रभावमन्त्रशक्तीनाम् उत्तरोत्तर- बलीयस्त्वं सयुक्तिकं समर्थितम् । एवं जैत्रयात्रोचितपरिस्थितिविचारे जेतु- नपस्य देशकालादीनामानुकूल्यं शत्रोश्च तत्प्रातिकूल्यमपेक्षितमिति विस्तरेण १७ कथितम् । तथा हस्तिबलोपेस्य , खरोगाश्वादिषलोपेतस्य , चतुरङ्गवलो- पेतस्य चाभियानदेशव्यवस्थापि प्रदर्शिता । . सर्वत्रा विजिगीषुरात्मनः परस्य च बलाबलं शक्ति देशकालयात्राकालब. लसमुत्थानकालपश्चात्कोपक्षयव्ययलाभारदां ज्ञात्वा विशिष्टवलो यायात् , अन्यथाऽऽसीत । उत्साहप्रभावयोरुत्साहः श्रेयान् । स्वयं हि राजा शूरो बलवान . रोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभावयन्तं राजानं जेतुम् , अल्पोऽपि चास्य दण्डस्तेजमा कृत्य करो भवति । निरुत्माहस्तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यतीत्याचार्याः । नेति कौटिल्यः । प्रभाववानुत्साहवन्तं राजानं प्रभावेणातिस- धत्ते तद्विशिष्टमन्यं राजानमावाह्य हृत्वा क्रीत्वा प्रवीरपुरुषान् । प्रभूतप्रभावहयहतिरथोपकरणसम्पन्नश्चास्य दण्ड: प्रतिहतश्चरति । उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोऽन्धाश्च पृथिवीं जिग्युरिति । प्रभावमन्त्रयोः प्रभावः श्रेयान् । मन्त्रशक्तिसम्पन्नो हि वन्ध्य बुद्धिरप्रभावो भवति , मन्त्रकर्म चास्य निश्चितमप्रभावो गर्भधान्य मवृष्टिरिवोपहन्ति इत्याचार्याः । नेति कौटिल्यः । मन्त्रशक्तिः श्रेयसी । प्रज्ञाशास्त्रचक्षुर्हि राजा अल्पेनापि प्रयत्नेन मन्त्रमाधातुं शक्तः , परानुत्साहप्रभाववतश्च सामादिभिर्योगोपनिषद्भ्यां चातिसन्धातुम् । एवमुत्साहप्रभाव- मन्त्रशक्तीनामुत्तरोत्तराधिकोऽतिसन्धत्ते । देशः पृथिवी। तस्यां हिमवत्समुद्रान्तरमुदीचीनं योजनसहस्त्र. ३ १८ परिमाणं तिर्यक् चक्रवर्तिक्षेत्रम् । तत्रारण्यो ग्राम्यः पार्वत औदको भौमः समो विषम इति विशेषाः। तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत । यत्रात्मनः सैन्यव्यायामानां भूमिः अभूमिः परस्य , स उत्तमो देशः । विपरीतोऽधमः । साधारणो मध्यमः । कालः शीतोष्णवर्षात्मा। तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगमिति विशेषाः । तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत । यत्रात्मनः सैन्यव्यायामानामृतुः अनृतुः परस्य स उत्तमः- कालः । विपरीतोऽधमः । साधारणो मध्यमः । शक्तिदेशकालानां तु शक्तिः श्रेयसी इत्याचार्याः । शक्तिमान् हि निम्नस्थलवतो देशस्य शीतोष्णवर्षवतश्च कालस्व शक्तः प्रतीकारे भवति । देशः श्रेयानित्ये के। स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नकः श्वान मिति । कालः श्रेयानित्येके । दिवा काकः कौशिकं हन्ति , रात्रौ कौशिकः काकमिति । नेति कौटिल्यः । परस्परसाधका हि शक्तिदेशकालाः । तैरभ्यु चितः तृतीयं चतुर्थं वा दण्डस्यांशं मूले पाया प्रत्यन्ताटवीषु च रक्षां विधाय कार्यसाधनसहं कोशदण्डं चादाय क्षीणपुराणभक्त मगृहीतनवभक्तमसंस्कृतदुर्गममित्रं वार्षिकं सस्यं हैमनं च मुष्टि- मुपहन्तुं मार्गशीपी यात्रां यायात् । हैमनं चास्य सस्यं वासन्तिकं च मुष्टिमुपहन्तुं चैत्री यात्रां यायात् । क्षीणतृणकाष्ठोदकमसंस्कृत- दुर्गममित्रं वासन्तिकं चास्य सस्यं वार्षिकी वा मुष्टिमुपहन्तुं ज्येष्ठा. मूलीयां यात्रां यायात् । अत्युष्णमल्पयवसेन्धनोदकं वा देशं हेमन्ते यायात् । तुषार- दुर्दिनमगाधनिम्नप्रायं गहनतृगवृक्षं वा देशं ग्रीष्मे यायात् । स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात् । मार्गशीर्ष तैषं चान्तरेण दीर्घकालो यात्रां यायात् । चैत्रं वैशाख चान्तरेण - . मध्यमकालाम् , ज्येष्ठामूलीयमाषाढं चान्तरेण हम्बकालाम् व्यसने चतुर्थीम् । व्यसनाभियानं विगृह्ययाने व्याख्यातम् । प्रायशश्वाचार्याः परध्यसने यातव्यमित्युपदिन्ति । शक्त्युदये यातव्यमनैकान्तिकत्वात् व्यसनानामिति कौटिल्यः। यदा वा प्रयातः कर्शयितुमुच्छेतुं वा शक्नुयादमित्रं, तदा यायान् । अत्युष्णोपक्षीणे कालेऽहस्तिबलपायो यायात् । हस्तिनो ह्यन्तः स्वेदाः कुष्ठिनो भवन्ति । अनवगाहमानास्तोयमपिबन्तश्चान्त- श्वान्तरवक्षाराश्चान्धीभवन्ति । तस्मात् प्रभूतोदके देश वर्षति च हस्तिबलप्रायो यायात् । विपर्यये खरोष्ट्राश्वबलप्रायः । देशमल्प- वर्षपy वर्षति , मरुनायं चतुरङ्गबलो यायात् । समविमम- निम्नस्थल-हस्वदीर्घवशेन वाध्वनो यात्रां विभजेत् । सवी वा हस्वकालाः स्युः यातव्याः कार्यलाघवात् । दीर्घाः कार्यगुरुत्वाद्वा वर्षावासः परत्र च ।। १ ।। इति । प्रश्नाः --( १) उत्साहप्रभावमन्त्रशक्तीनां मध्ये कस्याः प्राबल्यम् ? ( २ ) देशकालयोयुद्धोपयोगिनोरुत्तमाधममध्यमभावः सो. दाहरणं दर्शनीयः। (३) युद्धयात्रायां वसन्तग्रीष्मादिकालव्यवस्था कीदृशी ?
(६) निगूढो मन्त्रविचारः परिचयः-- प्रौढपद्यकाव्यनिर्माणे भारवेरिव माघकवे पि कौशल प्रथितमेव । एतेन कविना शिशुपालवधाख्यं महाकाव्यं विरचितम् । अयं कवि: क्रिस्ताब्दस्य सप्तमशतकपूर्वार्धे बभवेति ज्ञायत इतिहासात् । जन्म. देशादिविषये तु सत्यपि विवादे गुर्जरदेशीयोऽयमित्यन्तरङ्ग बहिरङ्गप्रमाणे- निधारयितुं शक्यते । एतस्मिन् शिशुपालवधनामके महाकाव्ये प्राधान्येन प्रतिपाद्यमानः कथाभागो नाम्नैव सुज्ञेयः । द्वितीय सगात् समुद्धृत्य संकलि. तोऽयं भागः। अत्रत्यः कथासन्दर्भः युधिष्ठिरकृतामन्त्रणानुसा- रेग राजसूययज्ञार्थगमनं शिशुपालमभि युद्धयात्रागमनं चेति कार्यद्वयं श्रीकृष्णस्य कर्तव्यं समापतिः भवति । तयोर्मध्ये कस्प प्रथमकर्तव्यतेति निर्धारणाय उद्धवबलरामाभ्यां सह राजनैतिको मन्त्रविचारः प्रवर्तते । तत्र श्रीकृष्णेन विषयोपन्यासे कृते प्रहारप्रियो धीरोद्धतस्वभावो बलरामो युद्ध यात्राकर्तव्यतामेघ युक्तिभिः साधयति । अस्मिन् सन्दर्भ 'उत्तिठमानस्तु परो नोपेश्यो भूतिमिच्छता , ज्ञातसारोऽपि खल्वेकः मन्दिग्धे कार्यवस्तुनि , महीयांसः प्रकृत्या मितभाषिणः, क्रिया केवल मुत्तरम् , स्वस्थादेवापमानेऽपि दे हिनस्तद्वरं रजः, चतुर्थोपायसाध्ये तु रिपौ सान्त्वमप्रक्रिया, इत्यादीनि अणीयांस्यपि वचनानि व्यवहारोपयोगी नि राजनैनिक, नि च तत्त्वानि मार्मिकतयोपदिशन्ति । अस्य काव्यस्य प्रशस्ति- विषये 'माघ सन्ति त्रयो गुणाः' (उपमा, अर्थगौरवं, पदलालित्यं च ) इति प्रसिद्ध आमाणकः प्रतिश्लोकमनुभवपथमवतरति ।
इe 1 यियक्षमाणेनाहूतः पार्थनाथ द्विषन् मुरम । अभिचैद्यं प्रतिष्ठासुः आसीत् कार्यद्वयाकुलः ।।१।। सार्धमुद्धवसीरिभ्याम् अथासावासदत्सदः । गुरुकाव्यानुगां वित् चान्द्रीमभिनभः श्रियम् ॥ २॥ रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे । एकाकिनोऽपि परितः पौरुषेयवृता इव ।। ३ ।। गुरुद्वयाय गुरुगोः उभयोरथ कार्ययोः । हशिर्वप्रतिषेधं तम् आचचक्षे विचक्षणः ॥ ४॥ भवगिरामवसरप्रदानाय वचांसि नः । पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ।।५।। कर दीकृतभूपालो भ्रातृभिर्जित्वरैर्देशाम् । विनाप्यस्मदलंभूष्णुः इज्यायै तपसः सुतः ।। ६॥ उत्तिष्ठमानस्तु परो नोपेक्ष्यो भूतिमिच्छता । समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ।। ७ ।। न द्वये सात्वतीसूनुः यन्मह्यमपराध्यति । यत्तु दन्दह्यते लोकम् अदो दुःखाकरोति माम् ॥ ८ ॥ मम तावन्मतमिदं श्रूयतामड्ग वामपि । ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्य वस्तुनि ॥९॥ यावदर्थपदां वाचम् एवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितनापिणः ॥ १० ॥ ततो बलरामः जगाद वदनच्छद्मपद्मपर्यन्तपातिनः । नयन्मधुलिहःश्वैत्यम् उदग्रदशनांशुभिः ।। ११ ।। बद्वासुदेवेनादीनम् अनादीनवमी रितम् । वचसस्तस्य सपदि क्रिया केबलमुत्तरम् ।। १२ ॥ संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः । पुस्तकालय २२ सुविस्तरतरा वाचो भाष्यभूना भवन्तु मे ॥ १३ ॥ तृप्तियोगः परेणापि महिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥ १४ ।। सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः। कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।। १५ ।। समूलघातमध्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसः तत्रोदाहरणं रविः ।। १६ ।। विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिम उदकं नावतिष्ठते ।। १७ ।। ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिभाति सोमं हि सैंहिकेयोऽसुरद्रदाम् ॥ १८ ॥ सखा गरीयान शत्रुश्च कृत्रिमस्तौहि कार्यतः । स्याताममित्रौ मित्रे च सहजप्राकृतावपि ।। १९ ।। उपकारिणा सन्धिः न मित्रेणापकारिणा। उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥२०॥ विधाय वैरं सामर्षे नरोडरो य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ।। २१ ।। माजीवन्यः परावज्ञादुःख दग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ।। २२ ।। पादाहतं यदुत्थाय मूर्धानमधिरोहति । म्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।। २३॥ तुङ्गत्वमितरा नाद्री नेदं सिन्धावगाधता। अलङ्घनीयताहेतुः उभयं तन्मनस्विनि ।। २४ ।। तुल्येऽपराधे स्वर्भानुः भानुमन्तं चिरेण यत् । हिमांशुमाशु असते तन्म्रदिम्नः स्फुटं फलम् ।। २५॥ स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि ।
२३ नेदर्शनमसाराणां लघुबहुतृगं नरः ।। २६ ।। तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चमः पञ्चतपसः तपनो जातवेदसाम् ॥ २७ ॥ अकृत्वा हेलया पादम् उच्चैमर्धसु विद्विषाम् । कथङ्कारमनालम्बा कीर्तिर्यामधिरोहति ॥ २८ ॥ अङ्काधिरोपितमृगः चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूयो मृगाधिपः ।। २९ ।। चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वर प्राज्ञः कोऽम्भसा परिपिञ्चति ? ॥ ३० ॥ अन्यदुच्छृङ्खलं सत्वम् अन्यच्छास्त्रनियन्त्रितम् । सामानाधिकरज्यं हि तेजस्तिमिरयोः कुतः ? ।। ३१ ॥ इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः आस्माकदन्तिसान्निध्यात् वामनीभतभरुहः ।। ३२ ॥ पजतां पाण्डवः स्वर्गम् अवविन्द्रस्तपत्विनः । वयं हनाम द्विषतः सर्वः स्वार्थ समीहते ।। ३३ ।। इति संरम्भिणो वाणीः बलस्यालेख्यदेवतः। मभाभित्तिप्रतिध्वानैः भयादन्ववदन्निव ।। ३४ ।। निशम्य ताः शेषगवीः अभिधातुमधोक्षजः। शिष्याय बृहतां पत्युः प्रस्तावमदिशत्दशा ।। ३५ ।। - -- (१) सभायां विवक्षितो विषयः श्रीकृष्णेन कथभुपक्षिप्तः ? ( २ ) स्पष्टीकुरुत " मे वाचो भाष्यभूता भवन्तु । सर्वः स्वार्थ समौहते । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः (३) शत्रमित्रभावः स्थायी परिवर्तनशीलो वा ? ४) बलरामस्य मतेन किं युक्तियुक्तं प्राप्तकर्तव्यम् ? (७) चित्रदर्शनम् - परिचयः r:- करुणरसप्रधाननाटकानां निर्माणविषये सुप्रसिद्धो भवभूति नामा महाकविः क्रिस्तास्याष्टमे शतके विदर्भेषु पद्मपुरं नाम नगर स्वकीयेन जन्मनाऽलंचकार । अनेन कविना महावीरचरितं , मालती- माधवं , चेति अन्यदपि नाटकद्वयं विरचितम् | उत्तररामचरितनाटकस्य सर्वोत्कृष्टत्व विषये ' उत्तरे रामचरिते भवभूतिर्वि शिष्यते' इति सहृदयप्र- वाद एव पर्याप्त प्रमाणम् । एप च परिच्छेद उत्तररामचरितस्य प्रथमाङ्कादुद्धृतः । अत्रत्त्यः कथासन्दर्भः लङ्कायां रावणवधादनन्तरम् अयोध्यां प्राप्तेन श्रीरामच- न्द्रेण विजयोत्सवानिमित्तकसभाजनादिपूर्वकं सर्वेऽपि जनकप्रभृतयः स्वं स्वं स्थानं प्रतिनिवर्तिताः । पितुः स्वगृहगमनेन पतिगृहस्थितायाः कन्यायाः क्लेशो भवतीति नैसर्गिकमेव किल । तेन च दुर्मनायमानाया वैदेह्या मनो. विनोदनार्थ चित्रकारलिखितचित्रदर्शनप्रसङ्गः कविनोप निबद्धः । यद्यप्येत- न्नाटकमूलभूतायां रामायणकथायां नास्यप्रसङ्गस्योल्लेखोऽस्ति , नाटकनिर्मातृणां कवीनां रसपरिपोषदृष्टया सामाजिकचित्ताकर्षणदृष्ट्या च मूलकथावस्तुनि न्यूनाधिक्याद्यन्यथाभावकरणे स्वातन्त्र्यं सम्प्रदायसिद्धमिति भवभूतिना निबद्धश्चित्रदर्शनप्रसङ्गः सुतरां समञ्जस एव ।
२५ तस्मिश्च महर्षेविश्वामित्रात् रामस्य जम्भकास्त्रलाभप्रभृति जानक्या हुताशनशुद्धिपर्यन्तं वृत्तकथावस्तुदर्शकानि चित्राणि लिखितानि । एतस्मिन् सन्दर्भ ' तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमहंतः , यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः , मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः इत्यादी क्वचिच्छास्त्रार्थदशन , क्वचित् प्रशंसावादः , क्वचिच्च माम को लोकानुभव इति विविधा भावा दृश्यन्ते । क्वचिच इयमपि अपरा का ?' इत्यादी विनोदः । तदिदं नाटक समग्रमेव यथावकाशं स्वयमेव वाचयित्वा रसिका छात्रा भवभूतेः करुणरस निमागचातुरीमनुभवेयुरित्यत्र नास्ति सन्देहोऽस्माक वत्स, मनसि । ( प्रविश्य ) लक्ष्मणः ---जयति जयति आर्यः । आर्य, अर्जुनेन चित्रकारेगा- स्मदुपदिष्टमार्यस्य चरितम् अस्यां वीथ्यामभिलिखितम् । तत् पश्यत्वार्यः । रामः-जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् । तत् कियानवधिः ? । लक्ष्मणः-यावदायाया हुताशनशुद्धिः । रामः-शान्तं पापम् । (ससान्त्ववचनम) उत्पत्तिपरिपूनायाः किमस्याः पाबनान्तरेः । तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमहतः ॥ १ ॥ देवि देवयजनसम्भवे, प्रसीद । एष ते जीवितावधिः प्रवादः क्लिष्टो जनः किल जनेरनुरञ्जनीयः , २६ तन्नो यदुक्तमशुभं न च तत् क्षमं ते । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा , मूर्ध्नि स्थितिन चरणैरवताडनानि ॥ २ ॥ सीता- भवतु आर्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत् ते चरितम् । लक्ष्मणः-इदं तदालेख्यम् । सीता - (निर्वर्ण्य ) क एते उपरि निरन्तरस्थिता उप स्तुवन्तीवार्यपुत्रम् ?। लक्ष्मणः --देवि, एतानि तानि सरहस्यानि जम्भकात्राणि । यानि भगवतो भृशाश्वात् कौशिकमुपसंक्रान्तानि । तेन च ताट का- वधे प्रसादीकृतान्यायस्य । रामः-वन्दस्व देवि, दिव्यास्त्राणि । सीता- -नम एतेभ्यः । लक्ष्मणः---एप मिथिलावृत्तान्तः । आर्य, पश्य पश्य । सम्बन्धिनो वसिष्ठादीन् एष तातस्तवार्चति । गौतमश्च शतानन्दो जनकानां पुरोहितः ।। ३ ।। रामः-सुश्लिष्टमेतत् , जनकानां रघूनां च सम्बन्धः कस्य न प्रियः । यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥ ४॥ सीता---एते खलु तत्कालतगोदानमङ्गलाश्चत्वारो भ्रातरः विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते । ज २७ रामः - -- रामः समयः स वर्तत इवैष यत्र साम , समनन्दयत्सुमुखि गौतमार्पितः । अयमागृहीतकमनीयकङ्कणः , तब मूर्तिमानिव महोत्सवः करः ॥ ५ ॥ लक्ष्मणः--इयमाया । इयमप्यायर्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः । सीता वत्स , इयमपि अपरा का ? लक्ष्मणः--- ( सलज्जास्मितम् अपवार्य ) अये , अमिला पृच्छत्यार्या । भवतु । अन्यतः सञ्चारयामि । (प्रकाशम् ) आर्य , दृश्यताम् द्रष्टव्यमेतत् । अयं च भगवान भार्गवः । सीता (ससंभ्रमम् ) कम्पिताऽस्मि । ऋषे, नमस्ते। लक्ष्मणः-एते वयमयोध्यां प्राप्ताः । ( सात्रम् ) स्मरामि हन्त, स्मरामि । जीवत्सु तातपादेषु नूनने दारसंग्रहे । मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ।।६।। लक्ष्मणः - एष मन्थरावृत्तान्तः। ( सत्वरमन्यतो दर्शयन् ) देवि वैदेहि , इंगुदीपादपः सोऽयं शङ्गिवेरपुरे पुरा । निषादपतिना यत्र स्निग्धेनासीत् समागमः ।। ७ ।। लक्ष्मण :--[विहस्य स्वगतम् ] अये , मध्यमाम्बावृत्तान्तोऽन्त- रित आर्येण । सीता अहो , एप जटासंयमनवृत्तान्तः । लक्ष्मण :--पुत्रसंक्रान्तलक्ष्भीकैः यद् वृद्वेक्ष्वाकुभिधृतम् । धृतं बाल्ये तदार्येण पुण्यमारण्यकत्रतम् ।। ८ ।। रामः राम:
२८ - रामः - - लक्ष्मणः-एष - रामः - सीता एषा प्रसन्नसलिला भागीरथी । रघुकुलदेवते , नमस्ते । भरद्वाजावेदितश्चित्रकूटयायिनि वर्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । (रामः सस्पृहमवलोकयति ।) सीता स्मरति वा तं प्रदेशमार्यः ? अयि , कथं विस्मयते ? लक्ष्मणः --एष विन्ध्याटवीमुखे विराधसंवादः । सीता अलं तावदेतेन । पश्यामि तावत् आर्य पुत्रस्वहस्त- धृततालवृन्तातपत्रम् आत्मनोऽत्याहितं दक्षिणा- रण्यपथिकत्वम् । लक्ष्मणः- अयं जनस्थानमध्यगो गिरिः प्रस्रवणो नाम । एप पऊचवट्यां शूर्पणखाविवादः । सीता हा आर्यपुत्र, एतावत्ते दर्शनम् । अयि वियोगत्रस्ते , चित्रमेतत् । सीता यथा तथा वा भवतु । दुर्जनोऽसुखमुत्पादयति । हन्त , वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । लक्ष्मण:- अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना , तथा वृत्तं पापैठयथयति यथा क्ष लितमपि । जनस्थाने शून्ये विकलकरणैर्यचरितैः , अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ ९॥ सीता (साम्रमारमगतम्) अहो दिनकरकुलानन्दन एवमपि मम कारणात् क्लान्त आसीत् । - रामः - रामः . - , लक्ष्मणः ---( रामं निवर्ण्य साकूतम् ) आर्य किमेतत् ? अयं तावत् बाष्पस्त्रदित इव मुक्तामणिसरो, विसर्पन धारामिटुंठति धरणी जर्जरकणः । निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया , परेषामुन्नेयो भवति चिरमा मातहृदयः । रामः बास, तत्कालप्रियजनविप्रयोगजन्मा , तीनोऽपि प्रतिकृतिवाञ्छया विसोढः । दुःखाग्निमनसि पुनर्विपच्यमानो , हृन्मर्मत्रण इव वेदनां तनोति ।। ११ ।। सीता -~-हा धिक् , हा धिक् । अहमप्यतिभूमि गतेन रणरण- केन आर्यपुत्रशून्यभिवात्मानं पश्यामि । लक्ष्मणः (स्वगतम् ) भक्स आक्षिपामि । (चित्रं विलोक्य प्रकाशम् ) अर्थतन्मन्वन्तरपुरुषस्य तत्रभवतस्तात- जटायुषः चरित्रविक्रमोदाहरणम् । हा तात , निव्यढस्तेऽप्रत्यस्नेहः । हा तात , काश्यप शकुन्तराज क्व नु खलु पुनः स्वादशस्य महतस्तीर्थभूतस्य साधोः सम्भवः । लक्ष्मणः-अयमसौ जनस्थानस्य पश्रिमतः कुजवान नाम पवतो दनुकदम्बाधिष्ठितो दण्डकारण्यभागः। तदिद. ममुष्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणी नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः । सीता यत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमुक्त कण्ठं प्ररुदितमासीत् । सीता - नामः .
रामः -दिष्टया -वत्स, रामः-देवि, परं रमणीयमेतत् सरः । एतस्मिन्मदकलमल्लिका अपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । बाष्याम्भःपरिपतनोद्गमान्तराले, सन्दृष्टाः कुवलयिनो मया विभागाः ।। १२ ।। लक्ष्मण:-अयमार्यो हनूमान् । सोऽयं महाबाहुः अञ्जनानन्दवर्धनः । यस्य शौर्येण कृतिनो वयं च भुवनानि च ॥ १३ ॥ सीता एष स कुसुमितकदम्बताण्डवितबहिण: किंनामधेयो गिरिः ? लक्ष्मणः-सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मिन् नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः । आर्येणास्मिन्- विरम विरमातःपरं न क्षमोऽस्मि, प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥१४॥ लक्ष्मणः-अतः परमार्यस्य तत्रभवतां राक्षसानां चापरिसंख्या न्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या। तद्विज्ञापयामि विश्राम्यतामिति । प्रश्नाः (१) — नैसर्गिकी सुरभिगः कुसुमस्य सिद्धा, मूनि स्थितिः ' इत्यादिरामवचनस्य कोऽभिप्रायः ? (२) को नाम निषादपति: ? कथं च स स्निग्धः ? ३) चित्रदर्शने को वृत्तान्त: किमर्थ चान्तरितो रामेण ?
३१ (४) इक्ष्वाकुवंशे वृद्ध चरितव्रतं कीदृशम् ? (५) हनूमान जनानन्दवर्धनः कथम् ? (८) .. महाश्वेतादर्शनम् परिचयः- अस्ति किल बाणभट्टो नाम महाकविर्गद्य काव्य निर्माण प्रथितयशाः। क्रिस्ताब्दस्य सप्तमे शतके राज्ञा हर्षवर्धनेन प्रदत्ताश्रयोऽय विविधान् गद्यग्रन्थान् , नाटकानि च रचयामास । अस्य जन्मदेशस्तु ऐतिहासिकेर पि नाद्यावधि निर्धारितो दृश्यते । तद्विरचितगद्यग्रन्थेषु हर्षचरित कादम्बरी चेति द्वो सुविख्यातौ ग्रन्थौ । साहित्य वाङ्मये प्राथमिकग्रन्था- नधीत्य काव्यरसास्वादसामर्शसम्पन्न एवास्य ग्रन्थस्य माधुर्य स्वादनमो भवति । अत एव साहित्यवाङ्मये प्रौढग्रन्थेषु अस्य ग्रन्थस्य अन्तायो भवति । विशेषतश्च दीर्घसमासप्रचुरा विविधालङ्कारभूयिष्ठा चेतदीया रचनाशैली। तदीय कादम्बरीग्रन्थादुद्धृतोयं गद्यभागः । अत्र च दिग्विजयाथ प्रस्थितश्चन्द्रापीडनामा राजकुमारो हिमाल यसमीपे किन्नरमिथुन मनुधावन्न च्छोदसरो विलोक्य तत्र च विश्रान्तिसुखमनुभूयाकस्मादेव समुद्भूतगन्धर्व- गीतध्वनिश्रवणकुतूहलाकृष्यहृदयो' गीतरवानुमारेग मुदूरं प्रस्थाय शूलपाणेः किमपि सिद्धायतनं ददर्श । तत्र च वीणावादनोपस्कृतगानप्रबन्धेन महादेवा. चैनपरायणां भुवमवती देवकन्यामिवोपलक्ष्यमाणां गान विद्याप्रवणां रमधीयाकृति काञ्चित्कन्यकां ददर्शेत्येतावत् कथावस्तु । ।
३२ ३ अत्राच्छोदसरसः सर्वेन्द्रियाहादकत्वं कविनोपवागतमतीव मनोहारि । तथा च तेषु तेषु स्थलेषु कथाप्रसङ्गानुसारेणैकस्यैव विशेष्यस्य सुदीर्घ- समासग्रथितबहुतरविशेषण विन्यासेन विविधपरिस्थितिवर्पनेन वस्तुवृत्त साक्षात्कारसम्पादने विद्यमानमस्य कवेः सामर्थ्य मनन्यसाधारणम् । तथा सूक्ष्मतरवस्तुस्वभावनिरीक्षणेन कृतं तत्तद्वस्तुवर्णनमपि वाचकानां चित्त तरलीकरोति । यथा -अत्रवेन्द्रायुधस्य स्वभाववर्णनम् , वृक्षवर्णने चपल- स्वभावानां वानराणां वर्णनं चेति । येषां वाग्मित्वसम्पादनेऽभिलाषो वर्तत, तादृशविद्योपासकैः कादम्बरीसदृशानि गद्यकाव्यानि मुहुमहुर्वाचयित्वैव स्वकीयरसनाञ्चलस्य तीक्ष्ण धारता सम्पादनीया, न तु कदाचिदपि दीर्थ- समास निमित्तकोऽनादरः करणीय इति सनिर्भरमा वेद्यते । आलोकनमात्रणेवापगताध्वखेदो मनस्येवमकरोत् । अहो निष्फलमपि मे तुरगमुखमिथुनानुसरणमेतदालोकयतः अच्छो- दसरः सफलतामुपगतम । अद्य परिसमाप्तमोक्षणयुगलस्य द्रष्टव्य. दर्शन फलम् । आलोकितः खलु रमणीयानामन्तः । दृष्ट आह्वादनी यानाभवधिः। वीक्षिता मनोहराणां सीमान्तलेखा। विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरःसलिलममृतमु पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः। अतिविमलतया चक्षुषः प्रीतिमुपजनयति, शिशिरतया स्पर्शसुखमुपाहरति, कमलसुगन्धि- तया घ्राणमाप्याययति, हंसमुखरतया श्रुतिमानन्दयति, स्वादुतया रसनामाह्रादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्लासनिवासव्यसनमुमापतिः । नूनं चास्मादेव सलिल. लेशमादाय महाप्रलयेषु प्रलयपयोदा दार्दनान्धकारितदशदिशः प्लावन्ति भुवनान्तराणि ।
इति विचारयन्नेव तस्य शिलाशकलकर्कशवालुकापायं, अरु न्धतीदत्तदिन कगर्यपयापर्यस्तरक्तकमलशोभितम् , उपकूलशिला- तलोपविष्टजलमानुषनिषेव्यमाणातपम् अभ्यर्णतया कैलासस्य स्नानागतमातृमण्डलपद पंक्तिमुद्राङ्कितम् , अवकीर्णभस्मसूचित- मग्नोत्थितगणवृन्दोद्धृलनम् अवगाहावतीर्णगणपतिगण्डस्थल- गलितमदप्रस्रवणसिक्तं. दक्षिणं तीरमासाद्य तुरगादवततार । अवतीर्य च ध्यपनीतपर्याण मिन्द्रायुधं कृत्वा, क्षितितललुठितोत्थितं च गृहीतकतिपययवसग्रासं सरोऽवतार्य, पीतसलिलमिच्छया स्नानं चोत्थाप्यान्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायामपगत. खलीनं शृङ्खलया कनकमय्या चरणौ बद्ध्वा, कृपाणिकावलूनान क्षिप्त्वा चाग्रतः कतिचित्सरस्तीरदूर्वाप्रवालकवलान् पुनरपि सलिलमवततार । ततश्च प्रक्षालितकरचरणयुगलश्चातक इव कृत्वा जलमयमाहारं सीकरार्द्रपुष्करोपशोभितकरः सरःसलिलादुदगात् । प्रत्ययभनशिशिरैः कमलिनीपलाशैः शिलातले सस्तरमास्तीर्य निधाय शिरसि पिण्डीकृतमत्तरीयं निषसाद । मुहूर्त विश्रान्तश्च सरस उत्तरतीरप्रदेशे समुच्चरन्तमुन्मुक्त- कवलेन निश्चल श्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथमा- कर्णितं श्रुतिसुभगवीणातन्त्रीझंकारमिश्रममानुषं गीतशब्दमश्रौषीत् । श्रुत्वा च कुतोऽत्र विगतमर्त्यसम्पातप्रदेशे गीतध्वनिसम्भूतिरिति समुपजातकौतुकः कमलिनीपत्रसस्तरादुत्थाय तामेव गीतसम्पात सूचितां दिशं चक्षुः प्राहिणोत् । अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्यापृतलोचनोऽपि न किश्चिद्राक्षीत् । कुतूहलवशाच गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तपर्याणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवमा , सप्तच्छदबकुलैलालवङ्गलवलीलतालोलकुसुमसुरभिपरिमलया, ५ अलिकुलविरुतिमुखरितया तमालनीलया सरस्तीरवनलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे । क्रमेण च सम्मुखागतकैलासमारुतैरभिनन्द्यमानस्तं प्रदेशं गत्वा सर्वतो मरकतहरितैहारिहारीतरतिरमणीयैर्धमदभुंगराजनखजर्ज- रितजरठकुड्मलैरुन्मदकोकिलकुलकवलीकृतसहकारकोमलामपल्लवै- रुन्मदषट्चरणचक्रवालवाचालितविकचचूतकलिकैरचकितचकोर- चुम्बितमरिचांकुरैश्चम्पकपरागपुअपिञ्जरकपिञ्जलजग्धपिप्पलीफलैः फलभरनिकरनिपीडितनिबिडदाडिमनीडप्रसूतकलविकैः प्रक्रीडित- चपलकपिकुलकरतलताडनतरलितताडीपुटैरन्योन्यकलहकुपितकपोत. पक्षपालीपातितकुसुमैः शुकशतमुखनखशिखरशकलितफलस्फीतै- दृष्टिहारिभिः पादपैः परिवृतं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे कैलासमहीरुहस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेश भूतलभागसन्निविष्टं भगवतः शूलपाणेः शून्यं सिद्धायतनमपश्यत् । तत्र च पवनोदूनै रितस्ततः समापतद्भिः केतकीगर्भधूलिभिर्ध- वलीक्रियमाणकायः पशुपतिदर्शनहेतोबलादिव प्रतिपाद्यमानो भस्मव्रतं प्रविश्य चाद्राक्षीचतुःस्तम्भस्फटिकमण्डपिकातलप्रतिष्ठित शुचिभिर्मन्दाकिनीपुण्डरीकैः कृतार्चनममलमुक्ताशिलाघटितलिङ्ग मशेषत्रिभुवनवन्दितचरणं चराचरगुरुं चतुर्मुखं भगवन्तं त्र्यम्बकम् । तस्य च दक्षिणां मूर्तिमाश्रित्यामिमुखमासीनामुपरचितब्रह्मासनाम् अचिरस्नानावस्थितविरलवारिकणतयाप्रणामलग्नपशुपतिचरणभस्म. चूर्णाभिरिव जटाभिरुद्भासितशिरोभागां, जटापाशग्रथितमुत्त- माङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वयमुद्वन्तीम् , भस्मालंकृत ललाटपट्टिकां , स्थूलमुक्ताफलाक्षवलयाधिष्ठितकण्ठभागां, मण्डली. कृतब्रह्मसूत्रपवित्रीकृतकायां, त्रिपुण्ड्रकावशेषभस्मपाण्डुरेण दक्षिण करेण वीणामारफालयन्तीम् अनेकभावनानुविद्धया गीत्या देवं विरूपाक्षमुपवीणयन्ती , निर्ममा निरहङ्कारां , निर्मत्सराममानुषा- ३५ कृतिम् , अष्टादशवर्षदेशीयाभिवोपलक्ष्यमाणां , पतव्रतां कन्यकां ददर्श। प्रतिपन्नपाशु- --- प्रभाः (१) भौगोलिकदृष्टया कुत्र विद्यतेऽच्छोदं नाम सरः ? (२) चन्द्रापीडस्य महाश्वेतादर्शने निमित्तं किम् ? (३)किन्नराणामाकृतिः कीदृशी श्रूयते ? (४) अच्छोदसरः सिद्धायतनं च स्वशब्दैवर्णयत । (५) प्रवासकाले अश्वः कैरुपकरणैः सज्जीक्रियते ? कथं च तस्य व्यवस्था क्रियते ? . - (९) किरातार्जुनौ परिचयः- गद्यमिश्रपद्यात्मकेषु चम्पूकाव्येषु रामायणचम्पूतो भारत. चम्पूरतीव प्रौढेति साहित्यविदां मर्यादा । यदन्तरे कालिदासकाव्य- भारविकाव्ययोः तावदेवान्तरं रामायणचम्पूभारतचम्प्योरपि । एतावता. पेनापि विवेचनेनैतस्य भारतचम्पूग्रन्थस्य महत्वं वर्णितं भवति । सोऽयं ग्रन्थो वाग्देवतायाः सरस्वत्याः साक्षात् प्राणेभ्योऽपि प्रियतर इति ग्रन्थान्ते प्रन्थकारोऽनन्तभवनामा कविः यत् स्वयं कथयति 'दिगन्तरलुठत्कीर्तिरनन्त-
३६
कविकुञ्जरः । प्राणैस्तुल्यं सरस्वत्याः प्रागैषीच्चम्पुभारतम्' इत्या दिना
तत् तदीयकाव्यानुभवात्तरं यत्सत्यं सर्वथैव यथार्थमवभासते । तदीय.
चम्पूग्रन्थाच्चतुर्थस्तयकादुद्धृतोऽयं भागः ।
एतस्य सन्दर्भस्तु
इन्द्रकीलपर्वते तपश्चरतोऽर्जुनस्याश्रमसमीप आगतं कञ्चित् वनवराहम् ,
अर्जुनं परीक्षितुकामः किरातरूपधारी शङ्करः अजुनश्च बाणाभ्यां युगपदेव
विव्यधतुः। तन्निमित्तेन कलहायमानयोरर्जुन किरातयोर्द्वन्द्वयुद्धं प्रववृते ।
तदाऽर्जुनस्य बाहुपराक्रमेण निरतिशय शिवभक्त्या च प्रसन्नो धूर्जटिस्तं
वरप्रदानेनानुजग्राहेति ।
अस्य कवेः सरस्वतीप्रसादलब्धा काव्यकल्पनाशक्तिः स्फूर्तिशालिनी
प्रतिभा च स्थाने स्थानेऽनुभवगोचरीभवति- ' ताटङ्कमेव सहसे न कपोल-
मित्रम् , मनसा या त इषुः श्रुति जजाप' इत्यादौ। काव्य निर्माणप्रसङ्गे
वैदिकमन्त्राणां तदर्थस्य चानुसन्धानं नामातीव दुर्लभो विषयः यतो
वैदिकी भाषा लौकिक्या भाषाया बहुशो विभिद्यते । अयं तु कविरुभयोरपि
भाषयोः प्रवीण इति शङ्करकथायां प्रस्तुतायां शङ्करप्रिययजुर्वेदीयरुद्रा-
ध्यायगतस्य ' या त इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या
तव तया नो रुद्र मृडय'। इति मन्त्रस्य प्रतीकोद्धरणेन सुस्पष्टं प्रतीयते ।
अथ च किरातरूपं परित्यज्य स्वस्वरूपेण प्रकटीभूतस्य शङ्करस्यार्जुनकृत-
साक्षात्कारवर्णनं विविधरसभावादिचर्वणाजन्यमानन्दमास्वादयति ।
गद्यभागः शिवस्तुतिपरः पाठकैर्मुखोद्गतः करणीय
इत्यास्तां तावत् ।
अत
एव सोऽयं
क्षोदयन्नथ महीं खुरपातैः कोऽपि कोपकुटिलो वनकोलः ।
घोरघूत्करणघोणमुपागात् , कुक्षिमाश्रमभुवः कुरुसूनोः ॥ १ ॥
-
तं रौद्रवपुष वराहं वीक्ष्य पार्थो नियमान्निवृत्य करेण शरास-
नमादाय यदा जिघांसुर्जवादभिदुद्राव तावदेवतेन धनुराकृष्य
तमेवाभिधावन् शबरो ददृशे ।
मा मुञ्च बाणं मदनुद्धृतेऽम्मिन् ,
अपेहि जाल्मेति किरातनेतुः ।
वचः स लक्ष्यं मनसो न कुर्वन् ,
वराहमनस्य चकार लक्ष्यम् ॥२॥
ततश्चोभाभ्यामपि युगपत्प्रयुक्तावुभौ शिलीमुखौ घोरं तं
वराहमन्तकातिथिमकुरुताम् । इत्थं मदाश्रममागतं मया च प्रार
लक्ष्यीकृतं सूकरमेतं प्रहरन्तं मदीयशापदण्डयोग्यमपि भवन्तं
दयया सहे ' इति ब्रुवन्तमर्जुन किरातः सस्मितमवादीत्--
मृदुबुद्धिरङ्ग वचसैव लक्ष्यसे , मृगहिंसनं विपिनसीमनीदृशम् ।
शतशः स्वधर्म इति पठ्यते बुधैः शबरस्य वा वद तपोधनस्य वा ॥३॥
अर्जुनः
यस्माद्वनेचरकुलाधम जल्पसि त्वम् ,
एवं मनः पुलकयन् स्वजनस्य दृतः ।
तस्मादसंशयमुपान्तजुषः किरात्याः
ताटङ्कमेव सहसे न कपोल मित्रम् ॥ ४ ॥
अथ भिल्लमल्लकुरुवल्लभावुभौ ,
परिफुल्लभल्लकुलशल्यपल्लयैः।
स्थगितावलोकसरणिं दिवौकसां ,
समरं भयङ्करजवं वितेनतुः ॥ ५ ॥
सरुषीव हरे विकृष्टचापे सशरं शैलसुतापि जातशङ्का ।
मघवत्सुतमङ्गलाय देवी मनसा 'या त इषुः श्रुति' जजाप ॥६॥
३८ निःस्वे निषङ्गयुगले नितराममर्षी , चापेन मूनि गिरिशं पुर एव देव्याः । पाणिप्रमुक्तवरणिः प्रजहार वेगात् , कुर्वन् वणं स कुटिलं शशिखण्ड मित्रम् ।। ७ ।। सोऽयं गाण्डीवदण्डोऽपि तस्य जटावनकुटुम्बिभिः कुण्ड. लिभिर्भक्षित इव तत्क्षणं नालक्ष्यत । ततोऽयं दैवविपर्ययः किम् ? उतामुष्य माया किम् ? इति चिन्तापरतन्त्रेणाऽपि धैर्यदत्तहस्तोत्सा- हेन ‘तिष्ठ तिष्ठ जडात्मन् एवमर्जुनं निर्जित्य यशोऽर्जितुमिच्छसि इति कृततर्जनेन सितवाहनेन वृषवाहनं प्रति नियोद्धु मारेभे । तदनु च परस्परमुष्टिप्रहारबृष्टिपरिमृष्टवनकुसुमपरागभस्माङ्गरागौ सर- भसमेकेन बाहुना जटासु गृहीत्वापरेण बाहुना वलयितगलनालौ तौ शबरतपोधनौ क्रमेण हिमवतो महत्यामधित्यकायामापतताम् । पार्थस्य तस्य भुजयोः परमेश्वरोऽसौ, वीय विलोक्य युधि विस्मयमानचेताः । चापवणे सुरनदीकणसेकशङ्काम् , अप्युत्सृजन्मुहुरकम्पयदुत्तमाङ्गम् ।। ८॥ पार्थस्तु परुषतरपशुपतिप्रयुक्तमुष्टिप्रहारमूच्छितोऽप्यचिरादेव लब्धचेतनः शनैरुत्थाय पुरतो घण्टाघणघणात्कारसहचरेण कण्ठ- गर्जितेन कर्णयोः कल्पितसुधारसमोक्षे महोले निषेदिवांसं , भुज- मूलप्रसारितगिरिजापाणियुगलनखराङ्कुरधोरणीद्विगुणीकृतहार. मणिरमणीयवक्षसं, पारिषदगणाञ्जलिकमलवनमध्यराजहंसायमानं, मार्दवभरितशार्दूलचर्मनिर्मितपल्ययनपर्यकोपरिभागतिर्यगर्पित- चरणपल्लवसंवाहनपरेण शिलादकुमारेण च दर्पदुर्ललननिवारणाय मुखबन्धनकनकशृङ्खलेन निरुध्य मुहुर्मुहुः करपुटास्फालितककुद- शृङ्गेण भृङ्गिणा च लक्ष्यमाणोभयपक्षमागं, गाण्डीवदण्डताडन.
३९ परिपीडितचूडाशशिनमाश्वासयितुमवतरद्भि डुनि करिव सुरतरु- कुसुमवरवकीर्यमाणं, जटामस्मकुशचीर धारिभिस्तैरेव चतुर्भि- राम्नायपुरुषैः परिपाठ्यमानशतरुद्रीयबिरुदप्रबन्धम् , अम्बरे सविधमवलम्बमानस्तुम्बुरुप्रभृतिभिः सुरवैणिकैरुपवीण्यमानभक्त- जनरक्षणापदानप्रकरणं, कर्णपूरीकृततमालमञ्जरीमधुमिषेण कटा- क्षात्साक्षात्कृपामिव वर्षन्तं , प्रज्वलद्भिः परिष्कारपन्नगफणा- रत्ननूत्नैः शरव्रणैरिवानुग्ज्यमानावयवम् , अवतंसशशिकलापरि- गलितकिरणधारापातशोतासहिष्णुतयेव दन्तपटगर्भवर्तिना स्मितेन सूचितहृदयप्रसाद, भगवन्तं महादेव बुद्वीक्ष्य पक्षमतटरुहविट- पिसमुत्पाटनपटुभिः प्रमोदाश्रुपूरैर्नदीमातृकायमाणपुलकाङ्कुरः सवि. नयमुपसृत्य पादारविन्दयोः सहस्रकृत्वः प्राणसीत् । स्वामिन् मया जडधिया त्वयि देवदेवे , वाचा शरेण धनुषा दृढमुष्टिना च । यत्त चतुर्विधनकारि रणे तदागः , क्षन्तव्यमद्य भवता करुणार्णवेन ॥ ९॥ इति विज्ञापयन्तमेनं पारिजातपल्लवतल्लजप्रतिमल्लस्य पाणितलस्य परामर्शनेन प्रमुषितवणवेदनाङ्गं प्लवङ्गकेतनमनङ्गशासनोप्येव- मवादीत् । यथा तृतीयेन युधि प्रवीर तवापराधेन भवामि तुष्टः । तथा न भक्त्या तपसां विभूत्या , तरुप्रसूनार्चनया च बह्वथा ॥ १० ॥ , ४० प्रश्नाः (१) अर्जुनस्याल्पबुद्धित्वं मृगयाधर्मानभिज्ञत्वं च किरातेन कथं प्रकटीकृतम् ? (२) अर्जुनेन किरातविषये कृतश्चतुर्विवोऽपराधः कः ? (३) सन्दर्भपुरःसरं स्पष्टीकुरुत -' तवापराधेन भवामि तुष्टः 'प्लवंगकेतनोऽप्यनंगशासनमेवमवादीत्' । 'मनसा या त इषुः श्रुति जजाप' । --- (१०) महाभाष्यपरिच्छेदो परिचयः जगति प्रचलितानां सर्वासामपि भाषाणां व्याकरणं नाम: मूलाधारभूतम् । यस्याभावे जीवन्त्योऽपि भाषा मृता इवोद्वेगं जनयन्ति । न केवलं भाषायामेव व्याकरणस्योपयोगः किन्तु दर्शनेष्वपि । अत एव वदन्ति 'काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् । मुखं व्याकरणं स्मृतम् । तथापि पठ पुत्र व्याकरणम्' इत्यादि । तस्मिश्च व्याकरणे सूत्रभाष्यवार्ति. कादय आकरग्रन्थाः समुपलभ्यन्ते , येषामाधारेण शताधिका वादग्रन्थाः प्रकरणग्रन्थाश्चाधुनिकैर्विरचिता दृश्यन्ते । तत्र च पतञ्जलिन म व्याकरणमहाभाष्यस्य प्रणेता । अयं क्रिस्ताब्दात् पूर्व द्वितीयशतके हिमवत उपत्यकासु गोनर्ददेशे स्वीयेन जन्मना भारतवर्षे विभूषयामासेति ज्ञायते । एष च शेषावतारभूत इत्यपि वदन्ति । युक्तं चैतत् । कथमन्यथा एकस्यैव महामुनेः पतञ्जलेर्गम्भीरदुरूहेषु व्याकरण- योग-वैद्यशास्त्रेषु निरंकुशा धारावाहिनी बुद्धिः प्रसरेत् । दैवीं सम्पदं विना सद्गुणानां तीव्राविभावः सर्वथा अशक्यसभ्मवः । योगशास्त्र वैद्यशास्त्रे च महर्षेः पतञ्जलेः प्रभुत्वमासीदिति वक्ष्यमाणपद्येन ज्ञायते-- 'योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि'। इति अनेन विरचितस्य महाभाष्यस्य प्रथमाध्यायस्थितपस्पशाह्निकादुद्धृतः प्रथमः परिच्छेदः । तत्र व्याकरणशास्त्रस्य प्रयोजनकथनावश्यकत्वं व्याकरण- शास्त्र निर्माणरीतिश्चेति विषयद्वयं प्राधान्येनाभिहितम् । यथा हि वैदिक- वाङ्मये प्रयोजनकथनं विनापि तदध्ययनेऽध्येतारस्तत्परा भवन्ति तथा विनापि प्रयोजनकथनं व्याकरणं किमिति नाधीयीरन्निति शङ्कामुपन्यस्य हृदयंगमया सरण्या वैदिकवाङ्मयदृष्टान्तवैषम्यमुद्भाव्य भाष्यकारेण व्याकरणप्रयोजनकथनावश्यकता संसाधिता । तथा द्वितीयविषयेऽपि इन्द्रबृहस्पत्यादीनां महानुभावानामपि मतिवैशाल्यमगाधव्याकरणशास्त्रपार दर्शनविषये तत्कालीनसरण्या अपर्याप्तमेवाभूदतोऽन्या सरणिरनुसरणीयेति आख्यायिकोपन्यासेन प्ररोचनामुत्पाद्य व्याकरणशास्त्रमाहात्म्यं विशदीकृतम् । द्वितीयस्तु परिच्छेद: सस्मिन्नेव प्रथमाध्याये प्रत्याहाराह्निकादुद्धृतः । अस्भिश्च परिच्छेदे अर्थप्रतिपादकत्वं कस्येति विचारः कृतः । वाक्योच्चारणे कृतेऽर्थप्रतिपत्तिस्ततश्च कार्यप्रवृत्तिझटित्येव भवतीति लौकिका अपि जानन्ति । सेयमर्थप्रतीतिः किं वाक्यशक्त्या जाता, उत पदशक्त्या , आहोस्वित् वर्णशक्त्या इत्येवमादिकं सूक्ष्म विचारं ऋते शास्त्रकारेभ्यः केऽन्ये कुरिन् ? एकस्मिन्वाक्ये श्रुते तदन्तःपातीनि पदानि तदीयाश्च वर्णाः ऋमिका अपि युगपदेव श्रुता इव प्रतिभासन्ते । क्षणिका वर्णाः क्षणान्तरे नोपल. भ्यन्ते । एवं स्थितेऽपि वर्णपदवाक्यरूपाणां तेषां शब्दानामेतावान्महिमा यत् अतीतानागतसन्निहिततिरोहितादिभेद भिन्नं विविधमितिवृत्तजातं सद्यो- घटमान मिवानुभूतिपथमवतारयन्ति । ६ ४२ तदत्रैतादृशानां शब्दानां मध्येऽर्थवान् कः ? इति विचारो युक्त एव । अयं च विचारो भाष्यकारैः सरसया बालबोधिन्या च पद्धत्या प्रदर्शितः । प्रभोत्तरभावेन लघुवाक्यैः प्रमेयप्रतिपादनमपि कृतम् । प्राचीनभाष्यवार्तिका- दयो ग्रन्था दुरवबोधा इति कुदृष्टयो लोका जानन्ति वदन्ति च । परन्तु स्वयमेव ग्रन्थानुद्धृत्य यदा तदीयं भाषासौन्दर्यमवलोक्यते तदा नूनमेव कश्चिदनिर्वचनीयानन्दोऽनुभूयत इत्यलं विस्तरेण । -- , . (१) किं पुनरिदं व्याकरणमेवाधिजिगांसमानेभ्यः प्रयोजनम- न्वाख्यायते , न पुरन्यदपि किञ्चित् ? ओमित्युक्त्वा वृत्तान्तशः शमित्येवमादीन शब्दान् पठन्ति । पुराकल्प एतदासीत् , संस्कारो- त्तरकालं ब्राह्मणा व्याकरणं स्माधीयते। तेभ्यस्तत्तत्स्थानकरण- नादानुप्रदानशेभ्यो वैदिकाः शब्दा उपदिश्यन्ते । तदद्यत्वे न तथा । वेदमधीत्य त्वरिता वक्तारो भवन्ति वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच लौकिकाः। अनर्थकं व्याकरणमिति । तेभ्य एवं विप्रतिपन्नबुद्धिभ्योऽध्येतृभ्यः सुहृद् भूत्वा आचार्य इदं शास्त्रमन्वा- चष्टे - इमानि प्रयोजनानि , अध्येयं व्याकरणमिति । शब्दानुशासनमिदानी कर्तव्यम् । तत्कथं कर्तव्यम् ? किं शब्दोपदेशः कर्तव्यः , आहोस्वित् अपशब्दोपदेशः ; आहोस्वित् उभयोपदेशः ? अन्यतरोपदेशेन कृतं स्यात् । तद्यधा-भक्ष्यनिय- मेनाभक्ष्यप्रतिषेधो गम्यते, अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः। एव- मिहापि । यदि तावत् शब्दोपदेशः क्रियते , गौरियेतस्मिन्नुपदिष्टे गम्यत एतत् गाव्यादयोऽपशब्दा इति । अथाप्यपशब्दोपदेशः क्रियते, गाव्यादिषूपदिष्टषु गम्यत एतद् गौरित्येष शब्द इति । किं पुनरत्र ज्यायः १ लघुत्वात् शब्दोपदेशः । लघीयान् शब्दोपदेशः, गरीयानप. ?
peg- নগ্ন शब्दोपदेशः । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा-गौरित्यस्य शब्दस्य गावी- गोणी-गोता - गोपोतलिकेत्येवमादयोऽपभ्रंशाः। अथैतस्मिन् शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः गौरश्वः पुरुषो हस्ती शकुनिभृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्याः ? नेत्याह । अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः। एवं हि श्रूयते -बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं. प्रोवाच ; नान्तं जगाम । बृहस्पतिश्च पवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः । न चान्तं जगाम । किं पुनरद्यत्वे । यः सर्वथा चिरं जीवति, वर्षशतं जीवति । चतुर्भिश्च प्रकारेविद्योपयुक्ता भवति -~-आगमकालेन , स्वाध्यायकालेन , प्रवचनकालेन , व्यवहारकालेनेति । चास्यागमकालेनैवायुः कृत्स्नं पर्युपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः । कथं तह मे शब्दाः प्रतिपत्तव्याः ? किञ्चित्सामान्यविशेषवल्लक्षणं प्रवय॑म् येनाल्पेन यत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् । के पुनस्तत् ? उत्सर्गपवादौं। कश्चिदुत्सर्गः कर्तव्यः कश्चिदपवादः। कथंजातीयकः पुनरुत्सर्गः कर्तव्यः, कथंजातीयकोऽपवादः ? सामान्येनोत्सर्गः कर्तव्यः ; तस्य विशेषेणापवादः । (२) इदं विचार्यते-किं पुनरिमे वर्णा अर्थवन्तः, आहोस्विदन- र्थकाः? अर्थवन्तो वर्णाः। वर्णव्यत्यये चार्थान्तरगमनात् मन्यामहे अर्थवन्तो वर्णा इति । कूपः सूपो यूप इति । कूप इति सककारेण कश्चिदर्थो गम्यते, सूप इति ककारापाये सकारोपजने च अर्थान्तरं गम्यते। यूप इति ककारसकारापाये यकारोपजने चार्थान्तरं गम्यते । तेन मन्यामहे यः कूपे कूपार्थः स ककारस्य । यः सूपे सूपार्थः स सकारस्य । यो यूपे यूगर्यः स यकारस्य इति ।
. , सङ्घातार्थवत्वाच मन्यामहे अर्थवन्तो वर्णा इति । येषां सङ्घाता अर्थवन्तः , अवयवा अपि तेषामर्थवन्तः । येषां पुनरवयवा अनर्थकाः , समुदाया अपि तेषामनर्थकाः । तद्यथा--एकश्चक्षुष्मान दर्शनसमर्थः , तत्समुदायश्च शतमपि समर्थम् । एकश्च तिलस्तैल- दाने समर्थः , तत्समुदायश्च खार्यपि तैलदाने समर्था । येषां पुनरवयवा अनर्थकाः , समुदाया अपि तेषामनर्थकाः । तद्यथा--- एकोऽन्धो दर्शनेऽसमर्थः, तत्समुदायश्च शतमप्यसमर्थम् । एका च सिकता तैलदानेऽसमर्था ; तत्समुदायश्च खारीशतमप्यसमर्थम् । अनर्थकास्तु वर्णाः । कुतः ? प्रतिवर्णमानुपलब्धेः । न हि प्रति. वर्णमर्था उपलभ्यन्ते । उभयभिदं वर्णेषूक्तम् , अर्थवन्तः अनर्थका इति च । किमत्र न्याय्यम् ? उभयम इत्याह । कुतः ? स्वभावतः। तद्यथा समानमीहमानानां चाधीयानानां च केचिदर्थेयुज्यन्ते, अपरे न । न चेदानी कश्चिदर्थवान् इति कृत्वा सर्वैरर्थवद्भिः शक्यं भवितुम । कश्चिद्वा अनर्थक इति कृत्वा सर्वैरनर्थकैः । प्रश्राः RA , ? (१) भाष्यकाराणां भाषा कीदृशी ? तत्रत्यो गुण: क: (२) भाष्यकारस्य पतञ्जलेः व्याकरणादन्यत्र कस्मिन् शास्त्रे गतिरासीत् ? ( ३ ) साधुशब्दोपदेशासाधुशब्दोपदेशयोः कतरः पक्षो ज्यायान् ? (४) शब्दप्रतिपत्तौ अमोघोपायः कः ? (५) भाष्यकारमतेन वर्णानामर्थवत्त्वे का युक्तिः ? (६) अत्रत्य: सिद्वान्तः संग्रहेण सयुक्तिकं लेखनीयः ?
(११) शकुन्तला पतिगृहं प्रतिष्ठते परिचयः --काव्येषु दृश्यकाव्यानि श्रव्यकाव्यानीति च द्विविधता । येषां श्रवणेन वाचनेन वा रसास्वादोपयोगिता तानि श्रव्यकाव्यानि । येषां तु साभिनयप्रयोगसाध्यदर्शनसहकृतं श्रवणमेव रसास्वादोपयोगि भवति तानि दृश्यकाव्यानि इति प्रथन्ते । एतानि च दृश्याव्यानि दशरूपकाणीत्यपि व्यवह्रियन्ते । तेषु प्रधानत्वात्प्रमुखत्वाच्च नाटकस्य पुरातनानां महाकवीनां स्वारसिकी तत्र प्रवृत्ति: । नाटकेष्व पि ' काव्येषु नाटक रम्यं तत्रापि च शकुन्तला । तत्रापि च चतुर्थोऽङ्कः तत्र श्लोकचतुष्टयम् ' इति साहित्यविदा प्रसिद्धया शाकुन्तलनाटकस्य प्रथमगणनीयता । अस्य नाटकस्य कर्ता प्रसिद्धो महाकविः कालिदासः । तदीयमितिवृत्तादिकं च षोडशपाठप्रस्तावे द्रष्टव्यम् । अत्र चोद्धृतो भागश्चतुर्थाङ्कगतः । अत्र पुत्रप्रेमास्पदं शकुन्तला मृगयाव्याजेनाश्रमपदं प्राप्ते महाराजदुष्यन्ते बद्धभावां तेन च परिणीतामन्त- ईशा ज्ञातवान् काश्पपस्तां सानन्दमभिनन्द्य पतिगृहं प्रेषयितुकामो दुहितृवि- योगप्रयुक्तां वेदनामनुभवति । एवं गुरुजनाधिकारमनुध्यायन् तामुपदिशति , तथा दुष्यन्तं सन्दिशति च । तत्र ' यास्यत्यद्य शकुन्तलेति , सेयं याति शकुन्तला पतिगृहम् , अस्मान् साधु विचिन्त्य , शुश्रूषस्व गुरून् ' अन्ते च 'अर्थो हि कन्या परकीय एव' इत्यादिभिः कण्वमुखेन प्रकटितस्य कुटु. म्बिजनव्यवहारस्य अक्षरशोऽनुभववेद्यस्य निर्माता कवियत्सत्यं कविकुल- गुरुरेव । ईदृशीनां रसभावाविष्करणपटीयसीनां महाकविकृतीनामास्वादयि- तारो न केवलं भारतीया: किन्तु परम्परातः संस्कृतवाङ्मये परिचय- रहिताः पाश्चात्या अपि महता प्रयासेन संस्कृतभाषाज्ञानं कथञ्चित्सम्पाद्य ४६ तावन्मात्रेणैव नाटकीयरसास्वादमनुभवन्ति । श्रूयते किल गटेनामा जर्मनदेशीयः पण्डितो नाटकमिदं वाचयित्वा हर्ष निर्भरं ननर्त इति । अपरे च पाश्चात्यपण्डिता एतन्नाटककर्तारं कालिदासं शेक्सपिअरसदृशमेव मन्यन्ते । वस्तुतस्तु नायं शेक्स्पिअरसदृशः किन्तु स एव कालिदाससदृश इति वक्तुं युज्यते । mone (ततः प्रविशति स्नानोत्तीर्णः काश्यपः) काश्यपः यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया, कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीशमहो स्नेहादरण्यौकसः , पीडयन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैनवैः ॥ १ ॥ सख्यो हला शकुन्तले , अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् । (शकुन्तला उत्थाय परिधत्ते) गौतमी -जाते , एष त आनन्दपरिवाहिणा चक्षुषा परिष्वज- मान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व । शकुन्तला -(सब्रीडम् ) तात , वन्दे । काश्यपः -वत्से, ययातेरिव शार्मष्ठा भर्तुर्बहुमता भव । सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ २॥ गौतमी -भगवन , वरः खल्वेषः , नाशीः । काश्यपः --वत्से , इतः सद्योहुताग्नीन् प्रदक्षिणीकुरुष्व । - (शकुन्तला प्रदक्षिणं करोति ) प्रतिष्ठस्वेदानीम् । ( सर्व परिक्रामन्ति ) भो भोः सन्निहितास्तपोवनतरवः, पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या ; नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः , सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।। ३।। शकुन्तला-(जनान्तिकम् ) हला प्रियंवदे, आर्यपुत्रदर्शनो- त्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते । प्रियंवदा-न केवलं तपोवनविरहकातरा सख्येव । त्वयोप- स्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते। उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपमृतपाण्डुपत्रा मुश्चन्त्यश्रूणीव लताः ॥ ४ ॥ शकुन्तला-(स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावदा- मन्त्रयिष्ये । काश्यपः----अवैमि ते तस्यां सौहार्दम् । इयं तावत् दक्षिणेन । शकुन्तला - (लतामुपेत्य ) वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिङ्गैताभिः शाखाबाहाभिः । अद्यप्रभृति दूरवर्तिनी ते खलु भविष्यामि । ( सख्यौ प्रति) हला एषा द्वयो. युवयोर्हस्ते निक्षेपः । सख्या-अयं जनः कस्य हस्ते समर्पितः ? । (बाष्पं विहरतः) काश्यपः-~अनसूये, अलं रुदित्वा। ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला । शकुन्तला-तात , एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधू. ,
यंदाऽनघप्रसवा भविष्यति , तदा मह्यं किमपि प्रिय.
निवेदयितृकं विसर्जयिष्यथ ।
काश्यपः-नेदं विस्मरिष्यामः ।
शकुन्तला -(गतिभङ्गं रूपयित्वा) को नु खल्वेष निवसने
मे सज्जते ? । (परावर्तते)
काश्यपः-वत्से,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
नैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति,
सोऽयं न पुत्रकृतक: पदवीं मृगस्ते ।। ५ ।।
शकुन्तला-वत्स, किं सहवासपरित्यागिनीं मामनुसरसि ?
अचिरप्रसूतया जनन्या विना विवर्धित एव । इदानीमपि
मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
(रुदती प्रस्थिता)
शारिवः-भगवन् , ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति
श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।
काश्यपः-तेन हि क्षीरवृक्षच्छायामाश्रयामः ।
( सर्वे परिक्रम्य स्थिताः )
काश्यपः-- आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य
युक्तरूपमस्माभिः सन्देष्टव्यम् ? (चिन्तयति ) शारिव,
इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शारिवः-आज्ञापयतु भवान् ।
काश्यपः-
-
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनः ,
त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
, सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ।। ६ । झाझरवः---गृहीतः सन्देशः । काश्यपः-वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् । शाङ्गरवः-न खलु धीमतां कश्चिद विषयो नाम । काश्यपः--सा त्वमितः पतिकुलं प्राप्य , शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने , भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी , यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ७॥ कथं वा गौतमी मन्यते ? गौतमी--एतावान् वधूजनस्योपदेशः । जाते , एतत् खलु सर्वमवधारय। शकुन्तला तात इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ? काश्यपः वत्से , इमे अपि प्रदेये ? न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति । शकुन्तला--(पितरमाश्लिष्य) कथमिदानी तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये ? काश्यपः • वत्से , किमेवं कातरासि ? अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे , विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । , -- ५० - - - तनयमचिरात्प्राचीवार्क प्रसूय च पावनम् , मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ ८॥ ( शकुन्तला पितुः पादयोः पतति ) काश्यपः यदिच्छामि ते तदस्तु । सख्यौ - सखि , यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्येदमात्मनामधेयाङ्कितमङ्गलीयकं दर्शय । शकुन्तला-अनेन सन्देहेन वामाकम्पिताऽस्मि । सख्यो मा बिभीहि । अतिस्नेहः पापशङ्की । शकुन्तला ( आश्रमाभिमुखी स्थित्वा ) तात , कदा नु खलु भूयस्तपोवनं प्रेक्षिष्ये ? काश्यपः श्रूयताम् भूत्वा चिराय चतुरन्तमहीसपत्नी , दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भ; तदर्पितकुटुम्बभरेण साधं , शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिम् ॥ ९ ॥ गौतमी जाते , परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्तता भवान् । काश्यपः वत्से , उपरुध्यते तपोनुष्ठानम् । शकुन्तला तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व। - marwa काश्यपः शममेष्यति मे शोकः कथं नु वत्से स्वया रचितपूर्वम् । उटजद्वारि विरूढं नीवारबलिं विलोकयतः ॥१०॥ गच्छ , शिवास्ते पन्थानः सन्तु ।
- ( निष्क्रान्ता शकुन्तला सहयायिनश्च ) सख्या ( शकुन्तलां विलोक्य) हा धिक् हा धिक् , अन्तर्हिता शकुन्तला वनराज्या। काश्यपः - ( सनिःश्वासम् ) अनसूये , गतवती वां सहधर्म- चारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् । उभे तात , शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः। काश्यपः स्नेहप्रवृत्तिरेवंदर्शिनी । ( सविमर्श परिक्रम्य ) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानी स्वास्थ्यम् । कुतः अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं , प्रत्यर्पितन्यास इवान्तरात्मा ॥ ११ ॥ (निष्क्रान्ताः सर्वे ) wom प्रश्ना: (१) सुताविरहकातरस्य काश्यपस्य शोको लोकानुभवसंवादी कथम् (२) अस्मिन् परिच्छेदे कविना ग्रथितानि सुभाषितवाक्यानि संगृह्यन्ताम् । (३) वनज्योत्स्नाचूतवृत्तान्तस्य प्रकृते समञ्जसत्वं कथम् ? (४) 'चराचरस्नेहवती शकुन्तला' इत्ययमों युक्तिभिः समर्थनीयः। (५) स्पष्टीकुरुत - यदिच्छामि ते तदस्तु । (६) शकुन्तलायाः पतिगृहगमनप्रसङ्गेन तस्यैव काश्यपस्य शोकः समाधानं चेति विरुद्धमुभयं कथं संगच्छते ? ---- ५२ ( २) मानवकर्तव्यानि परिचयः वैदिकवाङ्मये उपनिषदो नाम सर्ववेदसाधारणो भागः तासु चोपनिषत्सु प्राय आध्यात्मिकतत्त्वानि प्रतिपादितानि भवन्ति । शङ्करभगवत्पादाचार्यः कठोपनिषद्भाष्ये उपनिपच्छब्दस्य अविद्या (अज्ञान). नाशकविद्या (ज्ञान ) परत्वं मुख्यवृत्त्या गोण्या च तादृशविद्याप्रतिपादक- ग्रन्थपरत्वमवयवार्थनिर्देशपूर्वकं वर्णितम् । उपनिषत्कालस्तु सामान्यतः क्रिस्तजन्मनः पूर्व सहस्रद्वयादारभ्यैकसहस्रपर्यन्तं भवेदिति मतमैतिह्यविदाम् । भारतवर्षीय पुरातनकालीनवाङ्मयेषु प्रायशः सर्वत्रैव वेदानां सृष्टप्यादि काले आविर्भूतत्वम् ऐकमत्येन प्रतिपादितं दृश्यते । सृष्टयादिकालीनत्वं क्रिस्त. पूर्वकालीनत्वं वा इत्येतस्य निर्णयार्थ नायमवसरः । कथमपि नाम भवतु , भारतीयानामध्यात्मविद्या आदर्शसंस्कृतिश्चातिपुरातनेऽपि काले कियतीं परां कोटिमधिरूढेति ज्ञायते औपनिषद्वाङ्मयपरामर्शात् । अयं च परिच्छेदः कृष्णयजुर्वेदीयनारायणोपनिषदः समुद्धृतः। अस्यां चोपनिषदि अध्यात्मविद्यासम्बन्धिनो विविधा विषयास्तेषु तेषु मन्त्रेषु प्रतिपादिताः। तथैव सन्ध्यावन्दनादारभ्य संन्यासस्वीकारपर्यन्तं तत्त. द्धार्मिक विध्युपयोगिनोऽपि भूयांसो मन्त्राः समाम्नाताः । तत्रास्मिञ्जगतीतले गृहीतजन्मना मानवेन स्वकीयोत्कर्षसम्पादनाय परमं कर्तव्यं किमनु सरणीयम् ? उत्कर्षस्य च कः परमोऽवधिः ? इति प्रदर्शनाय प्रवृत्तो मन्त्रभाग इह समुद्धृतः। सत्यतपोदमशमादिप्रशंसया तेषामेव कर्तव्याना- मनुस्मरणीयत्वमन्ते च स्वस्वरूपात्मकानन्दावाप्तिः परमं ध्येयमिति स्फुट- मेवावगम्यते । वैदिकवाङ्मये प्रमेयप्रतिपादनधोरणी बहुक्लिष्टा भवतीति प्रवादो भूय- सामर्वाचीनानाम् । अत एव वैदिकवाङ्मयाध्ययने बहवो जना विमुखी- , , भवन्ति । तादृशैः सर्वैरपि महाशयैरेतस्य परिच्छेदस्याध्ययनमर्थानुसन्धानं च कृवैव स्वकीयं मतं निर्धारणीयम् । वेदमूलाधिलितायाः पुरातनार्य संस्कृतेमहिमा च साक्षादनुभवनीय इति सविनयमावेद्यते । प्राजापत्यो हारुणिः सुपर्णेयः प्रजापतिं पितरमुपससार, किं भगवन्तः परमं वदन्तीति, तस्मै प्रोवाच सत्येन वायुरावाति, सत्येनादित्यो रोचते दिवि, सत्यं वाचः प्रतिष्ठा, सत्ये सर्व प्रतिष्ठितं , तस्मात्सत्यं परमं वदन्ति । तपसा देवा देवतामग्र आयन् , तपस ऋषयः सुवरन्व विन्दन् , तपसा सपत्नान्प्रणुदा. मारातीस्तपसि सर्व प्रतिष्ठितं , तस्मात्तपः परमं वदन्ति । दमेन दान्तः किल्बिषमवधून्वन्ति , दमेन ब्रह्मचारिणः सुवरगच्छन् , दमो भूतानां दुराधर्ष , दमे सर्व प्रतिष्ठितं तस्मात् दमः परमं वदन्ति । शमेन शान्तः शिवमाचरन्ति , शमेन नाकं मुनयोऽन्वविन्दन् , शमो भूतानां दुराधर्ष , शमे सर्व प्रतिष्ठितं , तस्मात् शमः परमं वदन्ति । दानं यज्ञानां वरूथं दक्षिणा , लोके दातारं सर्वभूतान्युपजीवन्ति , दानेनारातीरपानुदन्त , दानेन द्विषन्तो मित्रा भवन्ति , दाने सर्व प्रतिष्ठितं , तस्मात् दानं परमं वदन्ति । धर्मो विश्वस्य जगतः प्रतिष्ठा , लोके धर्मिष्ठं प्रजा उपसर्पन्ति , धर्मेण पापमपनुदति , धर्म सर्व प्रतिष्ठितं , तस्मात् धर्म परमं वदन्ति । यज्ञ इति यज्ञेन हि देवा दिवं गता , यज्ञेना. सुरानपानुदन्त, यज्ञेन द्विषन्तो मित्रा भवन्ति , यज्ञे सर्व प्रति. ष्ठितम् , तस्मात् यज्ञं परमं वदन्ति । मानसं वै प्राजापत्यं पवित्रं , मानसेन मनसा साधु पश्यति , मानसा ऋषयः प्रजा असृजन्त , मानसे सर्व प्रतिष्ठितं , तस्मान्मानसं परमं वदन्ति । य एष आदित्ये पुरुषः स परमेष्ठी ब्रह्मात्मा याभिरादित्यस्तपति रश्मिभि- स्ताभिः पर्जन्यो वर्षति , पर्जन्येनौषधिवनस्पतयः प्रजायन्त , ओषधिवनस्पतिभिरत्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा . , , ज श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः शान्त्या चित्तं चित्तन स्मृतिः स्मृत्या स्मारं स्मारेण विज्ञानं विज्ञाने- नात्मानं वेदयति , तस्मादन्नं ददन्सर्वाण्येतानि ददात्यन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञान विज्ञानादानन्दः - प्रश्नः (१) अयं वैदिकमन्त्रसन्दर्भः केन कस्मै किमर्थं प्रोक्तः ? (२) सत्यस्य दानस्य च कीदृशं माहात्म्यम् ? (३) इह लोकस्य द्युलोकस्य च कः सम्बन्धः ? (४) अन्नदानस्य श्रेष्ठत्वं सयुक्तिकं निरूपयत । (१३) युद्धोद्यतः शिशुपालः परिचयः --- शिशुपालवधस्य नाम महाकाव्यस्य कर्तुमहाकवेर्माघस्य विषये यद्वक्तव्यं तत् पष्ठपाठे उक्तम् । पञ्चदशसादुद्धृतोऽयं परिच्छेदः । सन्दर्भस्तु-राजसूयप्रसङ्गे धर्मराजकृतां श्रीकृष्णस्याग्रपूजामसहमानेन चेदिपतिना शिशुपालेन क्रमेण धर्मस्य, भीष्मस्य, भगवतः श्रीकृष्णस्य च निर्भर्त्सना कृता। उपस्थितानन्यानपि भूपान् दारुणैर्वचनैरवमत्य सभा. स्थानात् बहिर्निर्गत्य शिबिरं च प्रविश्य युद्धदुर्मदो बभूव इति ।
अस्मिन् सन्दर्भ युधिष्ठिरनिर्भत्सनायां धर्मराजसंज्ञायाः मङ्गलसंज्ञा- तुल्यता, भीष्मनिर्भत्सनाकाले च ' स्फुटं भवसि 'निम्नगासुतः' इति, श्रीकृष्णनिन्दाकाले च दण्ड दलितसरघः - मधुसूदन -- इत्यादयो वर्णना- प्रकारा अतीव प्रमोदावहा वर्तन्ते । एवं 'सुजनं जनाचलयितुं क ईशते' इत्यादिभिरर्थान्तरन्यासैः कविर्माधः 'माघे सन्ति त्रयो गुणाः इति स्व. कीयां प्रख्याति सार्थकीकरोति । , --- - अथ तत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः । मानमहसत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ।।१।। ध्वनयन्सभामथ सनीरवनरवगभीरवागभीः । वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतरामसौ ॥२।। धर्म प्रति- यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥३॥ अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे । निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्य सत्यता ||४|| तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते । भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥५॥ यदि वार्चनीयतम एष किमपि भवतां पृथासुताः । शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥६॥ भीष्म प्रति- स्वयमेव शन्तनुतनूज यमपि गणमयमभ्यधाः । तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥७॥ अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् । नीचि नियतमिह यञ्चपलो निरतः स्फुटं भवसि निम्नगासुतः ।।८।। -
५६
---
कृष्णं प्रति--
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमहणम ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता॥९॥
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥१०॥
जगति श्रिया विरहितोऽपि यदुदाधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः॥११
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूधजे ॥१२॥
राज्ञः प्रति.....
मृगविद्विधामिव यदित्थमजनि मिषतां पृथासुतः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ।।१३
अयमुग्रसेनतनयम्य नृपशुरपरः पशूनवन् ।
स्वामिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतन ॥१४॥
इति वाचमुद्धतमुदीर्य सपदि सह वेणु दारिणा ।
सोढरिपुबलभरोऽसहनः स जहास दत्तकरताल मुश्चकैः ।।१२।।
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्च लयितुं क ईशते ।।१६।।
विहितागसो मुहुरलयनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ।।१७।।
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स वाचमिति जाह्नवीसुतः।।१८।।
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूमपाम् ।।१९।।
इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥२०॥
रमसादुदस्थुरथ युद्धमनुचितभियोभिलाषुकाः । सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः॥२१ हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा। मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्न भूभृतः ॥२२॥ गुरु निःश्वसनथ विलोलसदवथुवपुर्वचोविषम् । कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥२३ विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ। यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥२४ अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् । वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ।।२५ क्षणमीक्षितः पथि जनेन किमिदमिति जल्पतो मिथः । प्राप्य शिबिरमविशङ्किमनाः समनीहनद् द्रुतमनीकिनी मसौ॥२६ - प्रश्ना:- (१) स्पष्टीकुरुत 'परवृद्धिमत्सरि मनो हि मानिनाम् , स्फुटमापदा पदमनात्मवेदिता , वचनेन किं भवतु साध्वसाधु वा। (२) शिशुपालेन कृतो भीष्मस्योपालम्भः स्वशब्दैवर्णनीयः । (३) कोपाविष्टस्य शिशुपालस्य हासः कथम् ? (४) चेदिपतेः सर्पोपमानेन किं सूच्यते ?
५८ (१४) प्रदीप्तकोपं भीमं धर्मराजः सान्त्वयति परिचयः तृतीयपाठवत् । किरातार्जुनीयस्य द्वितीयसर्गादुद्धृतोऽयं प्रसङ्गः । अस्मिन् प्रसङ्गे उपक्रमे भीमेन द्रौपदीमतपरिपोषः अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्' इति प्रशंसापूर्वकं कृतः । तदीयभाषणे 'मानिन: सुखमुज्झन्ति न धाम, त्वदनुत्साहहता विपत्तयो विद्विषाम् ' इत्यादीनि अमर्षसूचकानि वाक्यानि युधिष्ठिरस्य मन्यूद्दिपकानि सन्ति । तानि श्रुत्वापि अजातशत्रुः शान्तचेता युधिष्ठिरो भीमस्य विकार - परवशतामपनोदितुं 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् असुरक्ष्या हि बहुच्छलाः श्रियः' इत्यादिभिवाक्यैः सहिष्णुतामेवोपदिशति । सोऽयं सन्दर्भो भारतीयराजनीतेः सुदूरदर्शितां जनानुरागमूलतां च प्रकटयन् महाकविना भारविणा गभीरैः शब्दाथैः प्रदर्शितः । अत एव वदन्ति अभियुक्ताः -'भारवेरर्थगौरवम् ' इति । विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥१॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ।।२।। विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥शा इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥४॥ चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता । कथमेत्य मतिविपर्ययं करिणी पङ्कमिवावसीदति ।।५।।
विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम ।
अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥६॥
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥७॥
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ।।८।।
तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥९॥
मदसिक्तमुखैमृगाधिपः करिभिर्वर्तयते स्वयंहतैः ।
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥१०॥
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥११॥
किमपेक्ष्य फलं पयोधरान ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥१२॥
कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् ।
ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ।।१३।।
अथ धर्मराजः भीमं वदति-
अपवर्जितविप्लवे शुचौ हृदयमाहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥१४॥
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीगनीहगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥१५॥
अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥१६॥
सहसा विधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥१७॥
शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलक्रिया। प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥१८॥ समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥१९॥ क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्रचलाश्चलेन्द्रियैरसुरक्ष्या हि बहुच्छलाः श्रियः ॥२०॥ श्रुतमप्यधिगम्य ये रिपून विनयन्ते न शरीरजन्मनः । जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥२१॥ मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता। अतिमूढ उदस्यते नयानयहीनादपरज्यते जनः ॥२२॥ अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस्तरुवत् सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥२३॥ - प्रभाः-(१) स्पष्टीक्रियताम् । (१) गुणगह्या वचने विपश्चितः । (२) न महानिच्छति भूतिमन्यतः । (२) पराक्रमहीनस्य भूपतेः अपकर्षः केन क्रमेण भवति ? (३) तीक्ष्णत्वमार्दवयोः काले प्रयुक्तयोः फलं कीदृशम् ? (४) शुचिनः श्रुतस्य राजनीती क उपयोगः ? (५) मदमानसमुद्धतो नृपः कथं हसति ? -- (१५) यज्ञाधिकारविचारः परिचयः -- घण्णां दर्शनानां मध्ये साक्षात् वेदार्थविचारात्मके । एव दर्शने - पूर्वमीमांसा उत्तरमीमांसा चेति । तत्र पूर्वमीमांसायां कर्म - काण्डविचारः उत्तरमीमांसायां च उपासनाकाण्डस्य ज्ञानकाण्डस्य चेति व्यवस्थितिः । पूर्वमीमांसादर्शनस्य आद्यः प्रवर्तको भगवान् जैमिनिः षोडशाध्यायात्मकं सूत्रग्रन्थं प्राणपीत् । तस्य च भाष्यं शबराचार्येण रचितं प्रसिद्धमस्ति । असौ च शबराचार्यः क्रिस्ताब्दस्य चतुर्थशतके बभवेति ऐतिहासिकाः कथयन्ति । अयं च जन्मना आदित्यसेननामकोऽपि जैन भयेन नगरात् पलायितः शबररूपेण वने प्रच्छन्नं वसति स्म । तस्मिन्नेव च काले तत्रत्येषु तरुपत्रेषु मीमांमाभाष्यं लिग्वितवान् इत्यैतिह्यम् । अस्मिन् भाष्ये षष्ठाध्याये यज्ञाधिकारविचारः प्राधान्येन कृतः। तत्र विधायकवचनेषु स्वर्गकामः, पुत्रकामः, पशुकामः यजेतेति अविशेषश्रवणेन स्थावरतिर्यगादि- साधारण्येन सर्वमनुष्याणां यज्ञकर्मण्यधिकारो वर्तत इति पूर्वपक्षमुद्भाव्य साङ्गयज्ञकर्मानुष्ठातुं ये समर्था मानवास्तेषामेवाधिकारः , न तियंगादिसा. धारण्येन , नापि देवानां , ऋषीणां वा , इति सिद्धान्तः समर्थितः । प्राचीनानां भाष्यकाराणां भाष्यलेखनसरणिः अन्यादृशी भवति यादृशी भाषा प्रणप्रतिवक्त्रोः सम्भवति तादृशीमेव व्यावहारिकी भाषा- माश्रित्य ते भाष्यं लिखन्ति । तद्वाचनेन पुरातनकालीनोऽपि पूर्वोत्तरपक्ष- सम्प्रदायः सद्यः प्रचलन्निव प्रतिभासमानो वाचकानां चेतश्चमत्करोति । तत्रापि लघुभिर्वाक्यैः प्रमेयं प्रतिपाद्यते । यथा 'किं प्रासम् ? सर्वा धिकारः, अविशेषात् ' इत्येवमादि । एवं सत्यपि , पूर्वोत्तरसन्दर्भज्ञानेन स्वरविशेषसहकारेण भाष्ये वाचिते सत्येवार्थप्रतीतिर्भवेत् , नान्यथा इति ६२ सम्यगवथातव्यम् । जटिलस्यापि शास्त्रार्थस्यातिसुलभभाषया निरूपणे भाष्यकाराणां चातुर्यमसाधारणभनुभवैकवेद्यं च भवति । मा । -- फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् ' ( पूर्वपक्षसूत्रम् ) इदमामनन्ति-'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'ज्योति- टोमेन स्वर्गकामो यजेत' इत्येवमादि । तत्र सन्देहः । किं यावत् किञ्चित् सत्त्वं , तत्सर्वमधिकृत्य एतदुच्यते , उत समर्थमधि- कृत्येति । किं प्राप्तम् ? सर्वाधिकारः । अविशेषात् । ननु वृक्षादयो न किञ्चित् कामयन्ते , कथं तेषामधिकारः स्यात् ? उच्यते भूदचेतनानाम् । तिरश्चस्त्वधिकृत्य यजेतेति ब्रूयात् । ननु तिर्यञ्चोऽपि न किञ्चित् कामयन्ते । नेति ब्रूमः । कामयन्ते सुखम । एवं हि दृश्यते धर्मोपतप्ताश्छायामुपसर्पन्ति ; शीतेन पीडिता आतपम् । आह-ननु तिर्यश्च आसन्नं फलं चेतयन्ते , न काला- तरफलं प्रार्थयन्ते । कालान्तरफलानि च वैदिकानि कर्माणि । उच्यते-कालान्तरेऽपि फलं कामयमाना लक्ष्यन्ते । शुनश्चतुर्दश्या- मुपवसतः पश्यामः , श्येनांश्चाष्टम्याम् । न चैषां व्याध्याशङ्का । नियतनिमित्तत्वात् । नानाहाराणामपि तस्मिन् काले दर्शनात् । समानाहाराणामपि अन्यस्मिन् कालेऽदर्शनात् । लिङ्गानि च वेदे भवन्ति- देवा वै सत्रमासत' इत्येवमादीनि देवतानामृषीणां वनस्पतीनामधिकारं दर्शयन्ति । द्रव्यपरिग्रहोऽपि देवग्रामः , हस्तिग्रामः , ऋषभग्रामः इत्युपचारादस्त्येव इति । तस्माद- मनुष्याणामपि शक्नुवतामधिकार इति । कर्तुर्वा श्रुतिसंयोगाद्विधिः कात्न्येन गम्यते' (सिद्धान्तसूत्रम्) वाशब्दः पक्षं व्यावर्तयति। न चैतदस्ति तिर्यगादीनामप्यधि- कार इति । कस्य तर्हि ? यः समर्थः कृत्स्नं कर्माभिनिवर्तयितुम् ।
६३ न चैते शक्नुवन्ति तिर्यगादयः कृत्स्नं कर्माभिनिवर्तयितुम् । तस्मादेषां न सुखस्याभ्युपायः कर्म इति । कथं यो न शक्यते कतु , सोऽभ्युपायः स्यादिति ? न देवानाम् । देवतान्तराभावात् । न हि आत्मानमुद्दिश्य त्यागः सम्भवति । त्याग एवासौ न स्यात् । न ऋषीणाम् । आर्षेयाभावात् । न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति । न चैषां सामर्थ्य प्रत्यक्षम् । अथैतदेव वाक्यं समर्थानां सगुणं कर्म विधास्यति, असमर्थानां विगुणमिति । तन्न । सकृदुच्चारणे उभयशक्तिविरोधात् वाक्यं भिद्येत । साकांक्षं हि तदितिकर्तव्यतां प्रति । तस्मात्साङ्गयागोपदेशः स इति निरङ्ग- यागोपदेशाभावः । तस्मान्मनुष्याणामेवाधिकार इति । ----- प्रश्नाः --- (१) स्थावरागां तिर्यगादीना च वैदिककर्मस्वधिकारोऽस्तीति पक्षे का युक्तिः ? (२) कस्मिंश्चिद्विपये वादिप्रतिवादिभावेन शास्त्रेषु पूर्वोत्तरपक्षयोरुप- न्यासो लौकिकव्यवहारे कथमुपयोगकारी ? ३) देवानामृपीणां च कर्माधिकारः कुतो नास्ति ? --- -- (१६) रघुराजस्य पराक्रमो राजनीतिश्च परिचयः --कविकुलगुरुः कालिदासः कालीदेवतायां निस्सीमभक्ति- मान् तस्याः प्रसादेन एव स महाकविबभूव इति तदीयं नामैव सूचयति । अयं कविः क्रिस्ताब्दस्य चतुर्थशतके सञ्जात इत्यैतिह्यविदो वदन्ति । तथा च वङ्गीया: काश्मीरदेशीयाः विदर्भदेशीयाश्चेति नानादेशस्थिता जनाः एनं स्वस्वदेशोद्भवं साभिमानं कथयन्ति । अयमेक एव विषयोऽस्य कवेर्माहात्म्यं सूचयति । तत्कालप्रसिद्धभोजराजसभायां स्थितेषु नवसु कवि- मूर्धन्यरत्नेषु अयं कविरग्रेसरत्वं प्राप्त आसीदिति सुप्रसिद्धम् । एतत्कृता ग्रन्थाः रघुवंशादीनि काव्यानि , शाकुन्तलार्दानि च नाटकानि न केवलं भारतीयानां किन्तु पाश्चात्यानामपि श्लाघास्पदं वर्तन्ते । तत्र रघुवंशकाव्यात् तृतीयसर्गाद् उद्धृतोऽयं भागः। अस्मिन् भागे कथितः कथासन्दर्भः संक्षेपादित्थम् दिलीपः स्वसूनुं युवराज रघु होमतु. -रङ्गरक्षणे न्ययुक्त । दिलीपः स्वपदमपहरेदिति शङ्कितः शतक्रतुः तस्याश्व मेधतुरगमपजहार । तदा तद्रक्षणे नियुक्तेन रघुणा स्वपराक्रमः प्रकटितः इन्द्रं च प्रसाद्याभीप्सितं फलं सम्पादितमिति । अस्मिन् प्रसङ्गे इन्द्रेण सह रघो: संभाषणकाले प्रकटीभताः अमूल्या गुणाः सर्वैः संग्राह्या भवन्ति । तत्र ' पथः श्रुतेर्दर्शयितार ईश्वरा. मलीमसा- माददते न पद्धतिम् , न खल्व निर्जित्य रघु कृती भवान् , पदं हि सर्वत्र गुणैनिधीयते' इत्यादिभिर्वाक्यैः रघोः स्वाभिमानसाहसधैर्यवाग्मित्वादयो खुणा वाचकैः अवश्यं मनसि निधेया अनुकरणीयाश्च । - ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्यसौ नृपेण चके युवराजशब्दभाक् ॥१॥ विभावसुः सारथिनेव वायुना धनव्यपायेन गभस्तिमानिव । बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥२॥ नियुज्य तं होमतुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् । अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः ॥३॥ ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः । धनुभृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।।४।। स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ।।५।। शतैस्तमक्ष्णामनिमेषवृत्तिभिहारे विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥६॥ मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥७॥ त्रिलोकनाथेन सदा मखंद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः।।८।। तदङ्गमयं मघवन्महाकतोरमुं तुरंगं प्रतिमोक्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥९॥ इति प्रगल्भं रघुगा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥१०॥ यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥११।। हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्यम्बक एव नापरः । तथा विदुर्भा मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ।।१२।। ९ अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥१३|| ततः प्रहस्यापभयः पुरन्दरं पुनर्बभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघु कृती भवान ।।१४ स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥१५॥ रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥१६॥ दिलीपसूनोः स बृहद् भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥१७।। तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः । बभूव युद्धं तुमुलं जयैषिणोरधोमुरूमुखैश्च पत्रिभिः ।।१८।। अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः। शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥१९॥ ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम । रघुः शशाङ्काईमुखेन पत्रिणा शरासनज्यामलुनाद्विौजसः ॥२० स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥२१॥ रघुर्भशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय तां ठयथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥२२॥ तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैनिधीयते ॥२३॥ असङ्गमद्रिध्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् । अवेहि मां प्रीतमृते तुरङ्गमात् किमिच्छसीति स्फुटमाह वासवः ॥२४॥ ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खातिरञ्जिताञ्जलिम् । नरेन्द्रसूनुः प्रतिसंहरनिपुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥२५।।
अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनेव कर्मणि । अजमदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥२६ तथेति कामं प्रतिशुश्रुवान रघोर्यथागतं मातलिसारथिर्ययौ । नृपस्य नातिप्रमनाः सदोगृह सुदक्षिणासूनुरपि न्यवर्तत ॥२७॥ इति क्षितीशो नवति नवाधिका महाऋतूनां महनीयशासनः । समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥२८॥ अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे , नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये , गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥२९॥ प्रश्नाः (१) उपमानोपमेयभावः स्पष्टीकर्तव्यः विभावसुः सारथिनेव वायुना इत्यादि । (२) रघुणा कृतमिन्द्र महत्त्वस्य सोपालम्भवर्णनं कुरुत । (३) रघुवासवयोः संवाद स्वीयैर्वाक्यैलिखत । (४) इक्ष्वाकूणां कुलव्रतं किम् ? -- (१७) रामस्य वनगमनम् परिचयः कविकुलोपजीव्यो वदान्यो भोजराजः कालिदाससमका. बीन इति श्रयते । स चम्पूरामायणं नाम काव्यं रचयामास । ' गद्यपद्यात्म कं काव्यं चम्पूरित्यभिधीयते इति लक्षणेनैव चम्पूशब्दार्थो ज्ञायते । इदं काव्यं वस्तुतः कालिदासेन विरचितमपि भोजराजनाम्ना प्रकटीका मिति केचित् वदन्ति । यः कोऽपि वा भवतु कर्ताऽस्य ग्रन्थस्य, किन्तु अर्थगाम्भीर्यप्रसादगुणशालिवोदात्तरचनामिविषयेषु सर्व वैतत्काव्यं सहृदयानन्दकरं वर्तते । तत्रायोध्याकाण्डस्थोऽयं भागः । दशरथप्रतिश्रतं वरद्वयं याचमाना कैकेयी रामवनवासस्य कारणं बभवेनि शोकाकुलो दशरथोऽन्तकातिथिर्जातः। भरतस्तु सर्वमेतं वृत्तान्तं विदिल्या मातरं निर्भयं रामं वनवासात् निवर्तयितुं प्रयतते । किन्तु श्रीरामः तं सान्त्वयित्वा पितुराज्ञापालनपरे वनं व्रजत्येव । अस्मिन् प्रसङ्गे वार्धक्ये स्थितेन दशरथेन पुत्रवियोगमसहमानेन प्रार्थिताऽपि कैकेयी स्वकीयं हठं न मुमोच । सत्यसन्धाः पूर्वतना राजानः प्रतिज्ञापालनार्थ प्राणान पि त्यक्तुं समर्थाः किं पुनः सुतदारराजवैभवादिकम् ? इति अत्रत्यो दशरथवृत्तान्त एव सूचयति । तथा च रामोऽपि पूर्वस्मिन्नेव दिने यौवराज्याभिषेकवृत्तान्तं परदिने च स्ववनवासप्रसङ्गं श्रुत्वाऽप्य विचलितमानसः पितृवचनपालनार्थ वनं जगाम । प्रमदा दुरभिनिवेशग्रस्ता विषप्राशनेनात्मघातपर्यन्तमपि प्रवर्तन्ते इति कैकेयीवृत्तान्ततो ज्ञायते ।
६९ - - ततः कैकेयी किमकरोदित्याशङ्कायामाह सैषा मन्थराभिधानपिशाचिकावेशपरवशनिजाशया पूर्व दण्डके वैजयन्तपुरवास्तव्य शम्बरासुरसंगनवेदनापनोदनार्थमात्मने वितीर्ण वराय दशरथाय वरद्वयं न्यवेशयत् । तयोरेकस्य संरम्भो भरतस्याभिषेचनम् । अन्यस्य वन्यवृत्त्यैव वने रामस्य वर्तनम् । १।। तनयविरहवार्तामात्रसन्तप्यमाना दथ दशरथचित्ताच्चेतना निर्जगाम । दवहुनवहरोचिालया लेह्यमाना , झटिति गहन गुलमादुजिजहाना मृगीव ।। २१॥ अथ दशरथः कथमपि लब्धसंज्ञ: कैकेयीमभापत रामः काममुपाश्रयिष्यति वनं त्यक्त्वा धृतं कौतुकम् , लोकस्त्यक्ष्यति कौतुकं चिरघृतं तस्याभिषेके कथन ? । धर्मापायभयेन वत्सविरहं वक्ष्यामि वक्ष्यामि किम् , यावत्कलमकीर्तिरार्तिजननी जायेत जाये तव ।।३।। वत्सं कठोरहदये नयनामिरामं , रामं विना न खलु तिष्ठति जी वेतं मे । धातुर्बलादुपयमस्त्वयि जातपूर्वः , कैकेयि मामुपयमं नयतीति मन्ये ॥१॥ तदनु निजमनोरथैकपरिपूरणे कृतादरा कैकेयी सोपहासमवादीत् - सत्यविप्लवमपत्यसङ्गतः संगतं भृशमपश्यतस्तव आश्रुतस्य विफलत्वमस्ति चेदाः श्रुतस्य रचितोऽयमञ्जलिः ।।५।। किं नागतस्ते श्रवसोः सकाशमरिन्दमः सत्यगिरां पुरोगः । श्येनामिषीभूनकपोतपोतजीवातवे शस्त्रनिकृत्तगात्रः ।।६।। असुरसमरवेलाजातबाधावसाने , वरयुगमदिशस्त्वं प्रीतिपूर्व यया मे । , , , अशिथिलगुणबन्धाः सत्यसन्धा नरेन्द्रा जललिपिरिति काम संगिरन्तां गिरं ताम् ॥७॥ सत्योगां गिरमिह निर्वहस्व मा वा , सम्मानं भुवि न सहेय राममातुः । संस्थास्ये विषमुपभुज्य पश्यतस्ते , संनाहं त्यजसि न चेत्प्रवर्तमानम् ||८|| एवंवादिनीमेनां भूयोऽपि भूपतिरवदत् - अयि कठिनहृदये , किमुन्मुक्तलोकमर्यादया दयापेतया त्वयोत । नैवाभवस्त्वमिह शीलवतीषु गण्या, नैवाभजत्पितृमतां गणनां स रामः । नैवापमात्मजसुखान्यहमप्यनार्य , नैवापमम्बु भरतेन न मे प्रदेयम् ।।९।। वासस्त्वत्रां भवतु किंचन तारवीणां , छायाद्रुमाश्च भवनानि भवन्तु धन्याः । कैकेयि तस्य शयनानि कथं भवेयुः त्वच्चतसोऽपि कठिनानि शिलातलानि ॥१०॥ एवं भत्री भत्सिताऽप्याचित्ता , नाभूदेषा मन्थराक्रान्तवृत्तिः । राकाचन्द्र राजमानेऽप्यबाधं , वीरुच्छन्ना चन्द्रकान्तस्थलीव ॥११॥ तदनु मुहूर्तमपि राममुखावलोकनसुखमनुबुभूषुर्दशरथः कुमार- मानयेति सुमन्त्रमादिदेश । तेन सत्वरं राजभवनं प्रवेशितो रामः कृतप्रणामः पितरमयथातथभूतमुखविकासमारादालक्ष्य चकितः किमिदमिति कैकेयीमन्वयुङ्क्त । साऽपि पापाशया प्रत्यवादीत्- वत्स प्रतिश्रुतवरद्वयनिर्वहणे निपुणेतरस्तातस्ते सम्प्रति सानुशयस्तनयवात्सल्यात् सत्यव्यत्यासत्रासाच्च गाढमगाघे शोक- , सागरे निमज्जतीति । वरद्वयं तावत् तव मुनिवृत्त्यैव वने वर्तन- मवनेरवनं भरतस्येति' । रामस्तदाकर्ण्य प्रमुदितहृदयः कृताञ्जलिरेनां प्रति व्यजिज्ञपत् - भीतो भूभरतः किमम्ब भरतः किं वा वनात्पावनात् , त्रस्तोऽहं सगरान्ववायककुदस्तातः कुतः शोचति । दिव्यायाः सरितो निवापकरणादल्पां प्रतिज्ञामिमाम् , आवाभ्यामभिपूरयिष्यति न चेत्पुत्री कथं स्यादयम् ॥१२॥ वनभुवि तनुमात्रत्राणमाज्ञापितं मे , संकलभुवनभारः स्थापितो वत्समूनि । तदिह सुकरतायामावयोस्तर्कितायां , मयि पतति गरीयानम्ब ते पक्षपात: ।।१३।। तातः स्ववाचा व्यवहृत्य हृद्यं वत्साभिषेकोत्सवमङ्गलं मे । प्रणामसंज्ञस्य मयार्पितस्य किं पूर्णपात्रस्य न पात्रमासीत्॥१४॥ तत्क्षणमशनिहत इव पर्वतः सर्वतः परीतदवदहन इव वनस्पति- र्दिवस्पतिपदभ्रंशविधुर इव नहुष: पपात निःसंज्ञः पङ्क्तिरथः । ततः सा पितृनिदेशमाचरेति राममादिदेश । स एषः मातुराज्ञां वहन्मूना मालामिव महायशाः । वनाय रामो वव्राज जगतामवनाय च ॥१५॥ प्रश्नाः (१) रामे पुत्राधिकवात्सल्यवती कैकेयी वरप्राथानाववसरे कथं तद्वनवासं याचते ? २) सत्यसन्धोऽपि दशरथ: कैकेयीप्रार्थितवरदाने कुतो विचलितमना भवति ?
(३) राममातु: सन्मानमसहमाना कैकयी कथमाक्रोशति कथं चे
प्रकटयति मानसीं क्षुद्रताम् ?
४) भरतस्य राज्यलाभ: , स्वस्य च वनवास इति श्रुत्वापि रामस्य
मनसः का स्थितिः?
(५) कैकेय्याः कस्मिन् पक्षपातः ? रामे वा भरते वा ?
,
--
(१८)
हंसदूतः
-
.
परिचयः
श्रीहर्षनामा कविनलराजचरितप्रतिपादकं नैषधीयचरितं
नाम काव्यं रचितवान् । इदं च काव्यं भारते प्रसिद्धपु पञ्चमहाकाव्येषु
अन्ततं गुणालंकाररसभावादिविषये परोत्कर्षमधिरूढं विद्वत्प्रियं च
वर्तते । अत एवाभियुक्ता वदन्ति ‘नैपधं विदौषधम् ' इति । अयं च
कविः क्रिस्ताब्दस्य द्वादशशतकस्योत्तराधे मातः, श्रीहीर- मामल्लदेवी.
तनयः' इति तदीयकाव्यस्य प्रतिसन्तिपद्यादवधार्यते । चिन्तामणिमन्त्रो-
पासनालब्धतीव्रतरबुद्धिवैभव एप कविः प्रतिभासामर्थ्य विषये स्वकीय
गुरुमप्यतिशयान आसीदिति गुरुशिष्यसंवादात् ज्ञायते । जातुचित् गुरुः
एतस्य बुद्धिपरीक्षायै , ' श्रीहर्ष, किं करोषि ' ? इति पकारद्वयगर्भितं प्रश्न
चकार, श्रीहर्षस्तु तदुत्तरम् अशेषशेभुपीमुपमाषभक्षं भक्षयामीति
षकारषट्कोपेतं बभापे । अनेन एवं कविना रचितानि विजय.
प्रशस्तिरित्यादीनि काव्यानि तथाच अस्य खण्डनखण्डखाद्यं नाम
दार्शनिको ग्रन्थश्च नितरां प्रसिद्धः ।
..
अत्रत्यः परिच्छेदो नैषधचरितस्य प्रथमद्वितीयतृतीयसर्गेभ्यः कांश्चित्
श्लोकान् उद्धृत्य संग्रथितः । अत्रैवं कथासन्दर्भः
एकदा क्रीडोद्याने
विहारपरो नलभूपालः सौवर्णपक्षयुतं देवहंसं ददर्श कुतूहलेन च तं जग्राह ।
पश्चात् हंसेन साधिक्षेपं सदैन्य च याचितः तं मुमोच । आत्मनो विमोचनेन
तुष्टान्तरङ्गो हंसः कृतस्य प्रत्युपकारार्थ राजानं दमयन्तीं प्रापयितुकाम: तां
तथाऽवर्णयत् यथा प्रत्यक्षदर्शनाभावेऽपि नलस्तस्यामनुररज | अथ च
नलेनानुमतो हंसः विदर्भदेशे दमयन्तीसंनिधिमासाद्य नलभूपालवर्णनेन
तस्या अपि नलानुरागं जनयित्वा स्वदौत्यं सफलीचकारेति ।
अत्र सन्दर्भ ‘अहो विधे त्वां करुणा रुणद्धि नो ; त्रुवते हि फलेन
साधवो न तु कण्ठेन निजोपयोगिताम् ; अपां हि तृप्ताय न वारिधारा स्वादुः
सुगन्धिः स्वदते तुषारा ; पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस'
इत्यादिभिः करुणरसपरिपोषः , लोकव्यवहारः, अर्थान्तरन्यासोऽनुभवसंवादि.
दृष्टान्तोल्लेखनं चेत्येवमादयो गुणाः सुतरां वाचकहृदयमावर्जयन्ति ।
पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसी कलनादसादरम ।
स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥१
अथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं खगः ।
स तिर्यगावर्जितकंधरः शिरः पिधाय पक्षण रतिक्लमालसः ॥२॥
विधाय मूर्ति कपटेन वामनी स्वयं बलिध्वंसिविडम्बिनीमयम् ।
उपेतपाचश्चरणेन मौनिना नृपः पतङ्गं समधत्त पाणिना ॥३।।
तदात्तमात्मानमवेत्य संभ्रमात् पुनः पुनः प्रायसदुल्लवाय सः ।
गतो विरुत्योड्यने निराशतां करौ निरोद्भुर्दशति स्म केवलम् ॥४॥
RA हसो राजानं ब्रूते- धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान् मम हेमजन्मनः । तवार्णवस्येव तुषारसीकरैः भवेदमीभिः कमलोदयः कियान् ॥५॥ पदे पदे सन्ति भटा रणोद्भटाः न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपते कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ॥६॥ फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः । त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी घृणीयते ॥७ मदेकपुत्रा जननी जरातुरा नवप्रसूतिवरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्दयन् अहो विधे त्वां करुणा रुणद्धि नो ।।८।। इत्थममुं विलपन्तममुञ्चत् दीनदयालुतयाऽवनिपालः । रूपमदर्शि धृतोऽसि यदर्थ गच्छ यथेच्छमथेत्यभिधाय ||९|| अथ हसो भाषते - पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते । इति वेद्मि न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥१०॥ स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः । यमवाप्य विदर्भभूः प्रभु हसति द्यामपि शकभर्तृकाम् ॥११॥ तस्य पुत्री- भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् । उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां ययौ ॥१२॥ अनया तव रूपसीमथा कृतसंस्कारविबोधनस्य मे । चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥१३॥ तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवान् अपि नेन्द्रेण यथापनीयते ॥१४॥ तव संमतिमेव केवलामधिगन्तुं धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ||१५|| -
७५
अथ दमयन्त्यामनुरक्तो नलो ब्रवीति
शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम ।
अनुना तव शंसितेन तु स्वहशैवाधिगतामवैमि ताम् ।।१६।।
तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः ।
अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥१७॥
अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः ।
क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥१८॥
अथ भीमभुजेन पालिता नगरी मजुरसौ धराजिता ।
पतगस्य जगाम दृक्पथं हरशैलोपमसौधराजिता ॥१९||
अथ कनकपतत्रस्तत्र तां राजपुत्रीं ,
सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।
उडुपरिषदि मध्यस्थायिशीतांशुलेखा-
नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥२०॥
आकुंचिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसावतीर्य ।
निवेशदेशाततधूतपक्ष पपात भूमावुपभैमि हंसः ॥२१॥
आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चार ।
द्रागन्यविन्यस्तदशः स तस्याः संभ्रान्तमन्तःकरणं चकार ॥२२॥
दमयन्तीनिकटे हंसो नलं स्तौति-
यदि त्रिलोकी गणनापरा स्यात् तस्याः समाप्तियदि नायुषः स्यात् ।
पारे पराध गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥२३
निशा शशाङ्कं शिवया गिरीशं श्रिया हरिं योजयतः प्रतीतः ।
विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय ॥२४॥
अन्येन पत्या त्वयि योजितायां विज्ञत्वकीयां गतजन्मनो वा।
जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरीः स्यात् ।।२५।।
आस्तां तदप्रस्तुतचिन्तयालं मयासि तन्वि श्रमितातिवेलम् ।
सोऽहं तदागः परिमाटुकामः किमीप्सितं ते विदधेऽभिधेहि ॥२६॥
७६ इतीरिता पत्ररथेन तेन हीणा च हृष्टा च बभाण भैमी । चेतो नलं कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥२७॥ हंसः --' यद्येवं तर्हि तव कृतेऽहं नलं याचेय । किन्तु पितुर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे । त्वदर्थमर्थित्वकृतिप्रतीतिः कीदृङ् मयि स्यान्निषधेश्वरस्य ॥२८॥ दमयन्ती -यदि : अनैषधायैव जुहोति तातः किं मां कृशानी न शरीरशेषाम् । ईष्टे तनूजन्मतनोः स नूनं मत्प्राणनाथस्तु नलस्तथापि ॥२९॥ श्रुतः स दृष्टश्च हरित्सु मोहात् ध्यातश्च नीरन्ध्रितबुद्धिधारम् । ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमेकशेषः ॥३०॥ अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम । प्रियास्यदाक्षिण्यबलात्कृतो हि तदोदयेदन्यवधूनिषेधः ।।३१।। शुद्धान्तसम्भोगनितान्ततुष्टे न नैषधे कार्य मिदं निगाद्यम् । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥३२॥ त्वया निधेया न गिरो मदर्थाः क्रुधा कदुष्णे हृदि नैषधस्य । पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ॥३३|| विज्ञेन विज्ञाप्यमिद नरेन्द्रे तस्मात्त्वयास्मिन्समयं समीक्ष्य । आत्यन्तिकासिद्धिविलम्बिसिद्धयोः कार्यस्य काऽऽयम्य शुभा विभाति ॥३४॥ तथाभिधात्रीमथ राजपुत्रीं निर्णीय तां नैषधबद्धरागाम् । अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः ॥३५।। धन्याऽसि वैदर्भि गुणैरुदारैः यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकायाः यदब्धिमप्युत्तरलीकरोति ॥३६॥ नलेन भायाः शशिना निशेव त्वया स भायान्निशया शशीव । पुनः पुनस्तयुगयुग्विधाता योग्यामुपास्ते नु युवां युयुक्षुः ।।३७॥
इत्यालपत्यथ पतत्रिणि तत्र भैमी , सयश्चिरात्तदनुसन्धिपराः परीयुः । शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाजगाम निषधाधिपराजधानीम ॥३८॥ प्रश्नाः (१) हमकृतो नलस्योपालम्भः स्ववाक्यर्लिख्यताम । (२) नलदमयन्त्योः संघटने हंसस्य क उद्देशः ? (३) 'निशा शशाङ्क शिवया गिरीशम् , नलेन भायाः शशिना निशेव' इतिपद्यद्वये कथितमुपमानोपमेयभावं स्फुटीकुरुत । ( ४ ) दमयन्त्या नलविषय म्बानगगनिर्भरः गदरणमत्यमकल्पश्च कथं प्रकटिता?
(१९) शुनःशेपकथा परिचय:--'मन्त्रब्राह्मणयोर्वेदनामधेयम्' इति स्मृतिकारवचनानुसारेण प्रतिवेदं मन्त्रात्मको ब्राहाणात्मकश्च भागो वर्तते । आरण्यकम् उपनिष दश्रेति भागद्वयमपि ब्राह्मणान्तर्गतमेवेति न पूर्वोक्तस्मृतिवचनविरोधः । मन्त्रात्मक एव वेद इति वदन्त : केचन विद्वांसस्तु स्वोक्तौ किं मूल. मवलम्बन्ते इति त एव प्रष्टव्याः । ऐतरेयब्राह्मण नाम ऋग्वेदीयं ब्राह्मणम् । इतरवेदवदस्यापि जगत्सृष्टि काल आविर्भतत्वं वेदशास्त्रपरम्परायां प्रसिद्धम् । ऐतिहासिकास्तु क्रिस्तपूर्व सार्धद्विसहस्रवर्षादारभ्य साधैंकसहस्रवर्षपर्यन्तं ब्राह्मणनिर्माणकालमाहुः। कर्मणामुपासनानां ज्ञानस्य वा सार्थवादकं विधानं ब्राह्मणग्रन्थे भवति । तदुपयोगिमन्त्राम्नानं मन्त्रकाण्डे भवतीति औत्सर्गिको नियमः । अपवादस्तु वर्तत एव । इतराया अपत्यं पुमान् इति व्युत्पत्त्या इतरानाम्न्याः कस्याश्रन महर्पिपत्न्याः तनयेन महिदासनाम्ना रचितमेतद् ब्राह्मणमैतरेयब्राहाणमित्युच्यते । अस्मिंश्च ब्राहाणे प्राधान्येन ज्योतिष्टोमो राजसूयश्चेति ऋतुद्वयं प्रतिपाद्यते । तत्र राजसूयप्रतिपादकभागान्तर्गतोऽयं (७.१३.१५) परिच्छेदः । एतस्मिन् परिच्छेदे इक्ष्वाकुकुलोत्पन्नो हरिश्चन्द्रो नाम अपुत्रो राजा पुत्रलाभोपयोगं नारदं पृच्छति । स च तदुपयोग ‘नापुत्रस्य लोकोऽस्ति' इति कथयित्वा वरुणाराधनेन पुत्रप्राप्तिर्भविष्यतीति ब्रवीति । अथ वरुण- प्रसादेन जातेऽपि पुत्रे स्वप्रतिज्ञामनुसृत्य पुत्रालम्भनेन वरुणयागमकुर्वन्तं तं वरुणो जलोदररूपेण पीडयामास । पुत्रस्तु रोहितः पलायनेनारण्यं प्राप्य षट्सप्तवर्षपर्यन्तं तत्रैव चरन् पितू रोगवृत्तान्तं श्रुत्वा नगरमागन्तुकामोऽपि इन्द्रेण बहुवारं न्यवार्यत । पश्चाच्च तत्रैवाजीगर्तस्य नाम मुनेः शुनःशेपं नाम मध्यमपुत्र क्रीत्वा यज्ञार्थ पितृसंनिधिमानीतवान् इति कथासन्दर्भः। ..
७९ वरुणाराधनेन पुत्रलाभो भविष्यतीति प्रतिश्रुतस्य वरुणयागस्याकरणे जलोदरो भविष्यतीति च संकीर्तनेन तत्कालसमाजव्यवस्थायां देवतानुग्रहानु- वर्तित्वं प्रधानमासीदिति प्रतीयते। तथा इन्द्ररोहितसंवादेन ऐहिकानां पुरुषाणामामुष्मिकैः पुरुषैः सह दृढतरः सम्बन्ध आसीदित्यपि । तत्र पुत्र- विक्रयादयोऽपि तदात्वे प्रसिद्धा बभूवुः । सर्वथा यज्ञसंस्थायाः प्राधान्य दरीदृश्यते । -- हरिश्चन्द्रो ह वैधस एक्ष्वाको राजाऽपुत्र आस । तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे। तस्य पर्वतनारदो गृह ऊषतुः । सह नारदं पप्रच्छ । यं न्विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न । किंस्वित्पुत्रेण विन्दते तन्म आचव नारद ॥२॥ इति स एकया पृष्टो दशभिः प्रत्युवाच- ऋणमस्मिन्संनयति अमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥२॥ यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि । यावन्तो अप्सु प्राणिनां भूयान पुत्र पितुस्ततः ॥३।। इति हास्मा आख्यायाथैनमुवाच , वरुणं राजानभुपधाव पुत्रो मे जायतां तेन त्वा यजा इति । तथेति स वरुणं राजानमुपससार । पुत्रो मे जायताम् , तेन त्वा यजा इति । तथेति । तस्य ह पुत्रो जज्ञे रोहितो नाम । तं होवाच । अजनि वै ते पुत्रो , यजस्व माऽनेनेति स होवाच । यदा वै पशुर्निर्दशो भवति , अथ स मेध्यो भवति निर्दशो न्वस्तु , अथ त्वा यजा इति । तथेति । सह निर्दश आस । तं होवाच । निर्दशो न्वभूद्यजस्व माऽनेनेति । स होवाच । यदा वै ।
१ पशोर्दन्ता जायन्ते, अथ स मेध्यो भवति । दन्ता न्वस्य जायन्ता- मथ त्वा यजा इति । तथेति । तस्य ह दन्ताः पेदिरे । तं होवाच अपत्सत वास्य दन्ताः, यजस्व माऽनेनेति । स होवाच । यदा वै पशोर्दन्ताः पुनर्जायन्ते अथ स मेध्यो भवति । दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति । तस्य ह दन्ताः पुनजज्ञिरे । तं होवाच । अज्ञत वा अस्य पुनर्दन्ता यजस्व माऽनेनेति । स होवाच । यदा वै क्षत्रियः सान्नाहुको भवति अथ स मेध्यो भवति । सन्नाहं नु प्राप्नोत्वथ त्वा यजा इति । तथेति । स ह सन्नाहं प्रापत् । तं होवाच । सन्नाहं नु प्राप्नोत् , यजस्व माऽनेनेति । स तथेत्युक्त्वा पुत्रमामन्त्रयामास । तात अयं वै मह्यं त्वा- मदात् । हन्त, त्वयाहमिमं यजा इति । स ह नेत्युक्त्वा धनुरा- दायारण्यमुपातस्थौ। स संवत्सरमरण्ये चचार । अथ हैवाकं वरुणो जग्राह । तस्य होदरं जज्ञे। तदु ह रोहितः शुश्राव । सोऽ- रण्यात् ग्राममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम । चरैवेति, चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सर- मरण्ये चचार । सोऽरण्यात् ग्राममेमाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच 'चरैव' इति । इति ह तृतीयं संवत्सरमरण्ये चचार। सोऽरण्यात् ग्राममेयाय । तमिन्द्रः पुरुषरूपेण पर्यत्योवाच आस्ते भग आसीनस्य ऊर्ध्वस्तिष्ठति तिष्ठतः। शेते निपद्यमानस्य चराति चरतो भगः ।।४।। चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम् । सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन् ।।५।। ne चरैवेति । एवं चतुर्थ पञ्चमं पष्ठं संवत्सरमरण्ये चचार ।
८१ सोऽजीगत सौयवसिमृषिमशनया परीतमरण्य उपेयाय । तस्य ह त्रयः पुत्रा आसुः - शुनःपुच्छः , शुनःशेपः , शुनोलाङ्गुल इति । तं होवाच । ऋषेऽहं ते शतं ददाम्यहमेतेनात्मानं निष्क्रीणा इति । स ज्येष्ठं पुत्रं निगृह्वान उवाच । न विममिति । नो एवेममिति कनिष्ठं माता । तौ ह मध्यमे सम्पादयाञ्चक्रतुः शुनःशेपे । तस्य ह शतं दत्त्वा स तमादाय सोऽरण्यात् ग्राममेयाय । स पितरमे- त्योवाच, तत हन्त , अहमनेनात्मानं निष्क्रीणा इति । स वरुणं राजानमुपससार , अनेन त्वा यजा इति । तथेति । भूयान् वै ब्राह्मणः क्षत्रियादिति वरुण उवाच । तस्मा एतं राजसूयं यज्ञऋतुं प्रोवाच । तमेतमभिषेचनीये पुरुषं पशुमालेभे । प्रश्नाः (१) नारदोक्तं पुत्रलाभप्राशस्त्यं स्ववाक्यैः कथयत । (२) जातेऽपि पुत्रे वरुणयागस्योपेक्षां हरिश्चन्द्रः कथं कृतवान् ? (३) नगरं गन्तुकामस्यापि रोहितस्य परावर्तने इन्द्रस्य कोऽभिप्रेतोर्थः? (४) अन्ते च प्रतिश्रुतो वरुणयागः कथं पूर्णतां प्राप ?
८२ (२०) पत्रलेखनम परिचयः विविधाभिर्देशभाषाभिः परदेशभाषाभिश्च पत्रलेखन- व्यवहारोऽद्यावधि बहुभिलेोकैः कृतः करिष्यते च । संस्कृतभाषया पत्रलेखनं तु पुरातनक विकृतेषु कादम्बर्यादिकाव्यग्रन्थेषु क्वचिदेवोपलभ्यते । यथा कादम्बयाँ सार्वभौमतारापीडेन युवराज चन्द्रापीडं प्रति , यथा च महावीरचरिते परशुरामेण रावणामात्यं माल्यवन्तं प्रतिपत्रलिखितम् । तथा च ऐतिहासिकाः वदन्ति यत् श्रीशिवछत्रपतिसूनुना श्रीसंभाजीराजेन संस्कृत भाषया श्रीसमर्थरामदासं प्रति पत्रं लिखितम् इत्यादि । अवांचीनेषु संस्कृत- पण्डितेष्वप्ययं संस्कृतभाषया पत्रलेखनव्यवहारः मुतरां विरल इति महता खेदेन वक्तव्यं भवति । ईदृश्यां स्थितौ संस्कृतभाषा पत्रलेखनादि. व्यवहारेऽनुपयुक्ता , अत एव सा मृतभाषा' इति यदि केचन वदेयुस्तर्हि किं नाम तत्राचयम् ? संस्कृतभाषाया उपासकैः वैदिकशास्त्रिप्रभृतिभिर्जनैरेव यद्येषा भाषा व्यवहारपदात् प्रच्याविता , तर्हि एतया भाषया व्यवहारं केऽन्ये कर्तुं शक्नुयुः ? इदं तावदवधेयं यत् अद्यत्वे इयं भाषा पत्रलेखनादिव्यवहारोपयुक्ता न श्यत इत्येतावन्मात्रेण सोऽयं व्यवहारः संस्कृतभाषया न शक्यते कर्तुमिति कथमपि मा मन्यताम् । कृते यत्ने किं नाम न सिध्यति ? शास्त्रीया व्यवहारा अनया भाषया सिध्येयुरेव । तथैव लौकिकाः , सामाजिकाः , राजनैतिकाः , धार्मिकाश्चेति सर्वेऽपि व्यवहारा एतया साधयितुं शक्यन्ते इत्येतन्निश्चयेन विनयेन च सहृदयेषु निवेद्यते । एतस्मिन् विषये वाचकानां प्रत्ययोत्पादनाय प्रकृतः पत्रलेखननामकः पाठो विन्यस्तः। अत्रोपयोजितामेव सरणिं प्रतीकविधया मनसि निधाय स्वीयबुद्धि कौशलेनान्येषु व्यावहारिक- विषयेषु संस्कृतभाषानैपुण्यमधिगच्छन्तु प्रियबालविद्यार्थिन इत्यास्तां तावत् । , n ८३ (सख्युः सखायं प्रति) श्री: दिनाङ्कः ११-५-४८ अक्षय्यतृतीया १८७०. स्वस्ति तत्रभवते आबाल्यं सहाधीतिने सहपांसुक्रीडिताय च प्रिय सुहृदे अरविन्दमहाशयाय । मित्रवर, बहोः कालादारभ्य पत्रलेखनेन वार्तामपि मामनिवे. दयन् भवान् मां परीक्षितुकाम इव लक्ष्यते । एवं स्थितेऽपि कथमहं भवन्तं विस्मरिष्यामि ? यद्यप्यावयोरध्ययनस्थानमन्यत् अध्ययनविषयोऽपि भिन्नस्तथापि अभिन्नमेवान्तःकरणं किल । एवं. विधामेव स्निग्धान्तःकरणभावनां द्रढीयसीमवलम्ब्य स्वयमेव पत्रलेखने उद्यतोऽस्मि । अत्र गृहजनाः सर्वे कुशलिनः । त्वदीयं च सर्वाङ्गीणं कुशलं मुहुर्मुहुनिवेद्य मामनुगृह्णीयाः खलु ? अथवा को नामानुग्रहः ? अधिकारेणैवाज्ञापयामि “लेखनीयमेव मां प्रति त्वया पत्रम्' इति । विशेषस्तु किमु रे मित्र । अन्तरङ्गमाविष्कृत्य किंचि- प्रष्टु कामोऽस्मि । सुदूरं विचार्या तिसरलहृदयेन निर्व्याजवृत्त्या च यद् भवते रोचते तद्यथावस्थितं कथनीयमिति मनसि निधेहि । मम तावदध्ययनं समाप्तकल्पम् । त्रिचतुरैरेव मासैरुत्तीर्णपरीक्षोऽहं पदवीविभूषितो भूत्वा विद्यापीठानिष्क्रान्तो भविष्यामि। ततः पश्चात् मदीयकर्तव्यविषये किं त्वं मन्यसे ? किं गृहस्थाश्रमो मया स्वीकार्यः ? उत राजकीयसेवावृत्तिलाभाय प्रयतनीयम् ? अथवा स्वतन्त्रोद्योग आरब्धव्यः ? आहोस्वित् सर्वोच्चतम- परीक्षायां श्रेयः सम्पादयितुं प्रयत्नो विधेयः ? इत्येवमादयो विकल्पाः पदे पदे मां व्याकुलयन्ति । जननी तु कथयति--रूप- लक्षणसम्पन्नां कांचन कन्यकां परिणीय मदीये नयने स्नुषादर्शन- पारणानन्दमनुभावय' इति । तातचरणानां पक्षान्तरम् - 'विद्या.
* भ्यासानुकूले वयसि , दैवदत्ते धनानुकूल्ये , नैसर्गिकमतिवैभवे च विद्यमाने विद्याभ्यास एव तत्परो भूयाः । सर्वोचपरीक्षायां लब्धे यशसि सर्वाग्यपि श्रेयांसि तदनुबन्धी नि भविष्यन्त्येव । मम हितैषिणो राजकीयसेवकास्तु 'कुतों वृथा विविधविषयेषु मति खेदनेन श्रमं वहसि ? यं कंचिद्राजकीयाधिकारमवलम्ब्य गौरवं प्रतिष्ठां च लभस्व' इति । उद्योगप्रिया देशभक्तास्तु सम्प्रत्येव समा पिताध्ययनं मामौद्योगिकक्षेवे प्रवेश्य राष्ट्रोपकारिणं कमपि महदुद्योगं कारयितुमभिलषन्ति । यत्किल वदन्ति ‘कन्या वरयते रूपम्' इत्यादि तदेव किश्चिदन्यथाभूतमिव मद्विषये। एवं स्थिते अपरिपक्वमतेर्मम त्वामन्तरा किमन्यत् प्रश्नस्थानम ? को वाऽन्यो मार्गदर्शकः ? अत्रत्यां सर्वा परिस्थितिं यथावनिवेदितवानस्मि । त्वदीयोत्तर. लाभे विस्त्रब्धः कुतूहली चास्मि । लिखसि चेत्पत्रं द्रागेव लिख । इतोऽपि कान्या प्रार्थना ? भवद्गृहजनेषु आयुष्मद्भ्य आशीर्वा- दान , गुरुजनेभ्यः प्रणामांश्च मदीयकुशलेन सह ज्ञापय । विदितमस्तु । त्वदीयं निग्धमित्रम् , माधवः। प्रश्नाः १) सांप्रतं संस्कृतभाषया पत्रव्यवहारः कुतो न दृश्यते ? २) संस्कृतभाषया पत्रलेखनादयः सर्वे व्यवहारा: साधधितुं शक्या न वा ? कथम् ? (३) अस्यैव पत्रस्योत्तरं स्वमतमनुसृत्य लिखत । (४) वार्षिकसंमेलनवृत्तं पत्ररूपेण मातरं प्रति निवेदयत ।
८५ (२१) निवन्धलेखनम् परिचयः कञ्चन विपरमधिकृय स्वकी पविचारप्रदर्शको वाक्य सन्दी निबन्ध इत्युच्यते । तत्र च वस्तुस्वरूपवर्णनात्मको , गुणदोष- विचारात्मको , हैयोपादेयतानिदर्शकश्चति विविधाः प्रकारा भवन्ति । एष न निबन्धो न केवलं वैदिक शास्त्रीय -सामाजिक -राजनैतिकादिषु विषयेगु रचयितु शक्यते , किन्त सर्वजनमाधारणेषु क्षुद्र मेष्वपि विषयेषु निर्भात शक्यः। अधुना च संस्कृभाष या ईहा निबन्धलेखनमनीय विरलं जातम् । सभासंमेलनादिषु प्रमंगे। काचित् क्वचिदेव निबन्धा लिख्यमाना वाव्य- मानाश्च दृश्यन्ते , परं ते दुरूहशास्त्रीयविषयेऽतिमीहभापया निबद्धत्वेन पण्डितैकवेद्या भवन्ति । मन्दमत यो बालविद्यार्थिनश्च ताहशनिबन्धानाकर्ण्य संस्कृतभाषासागरनिमग्नमात्मानं विभावान्तः सम्भ्रान्ता भवन्ति । प्राचीन निबन्धेषु मतप्रकाशनस्यैव प्राधान्यं दृश्यते स्म । अधुनातनेषु तु निबन्धेषु मतप्रकाशनं विनैव वस्तु वर्णनादेः प्रामुख्यं विलोक्यते । तत्राधुनातनी पद्धतिमाश्रित्य बाल जनव्युत्पत्तये मर्व जनप्रसिद्ध चित्रपटविषये निवन्धोऽयं विरचितः । एतन्निबन्धवाचनेन लब्धव्युत्पत्तयो विद्यार्थिनो विषयान्तरेष्वपि निबन्धलेखने पदानि निदधीरन्निति बाढमाशास्यते । चित्रपट: नेपथ्यवाद्यगानादीनां विविधानां विषयाणां समवायेन साम्प्र. तिके काले चित्रपटो नाम सुमहत् मनोरञ्जनसाधनम् । एतेषु चित्रपटेषु पौराणिकाः, सामाजिकाः, शिअगविषयकाश्चेति नैक- प्रकारता दृश्यते । पुरातने काले चित्रपटेषु केवलं तत्तत्कथावस्तु सूचकानि चित्राणि दयन्ते स्म । क्रमेण च विज्ञानशास्त्र भावेण साभिनयचित्रदर्शनमुपक्रान्तम् । तदनन्तरं च तान्येव चित्राणि . भाषितुमप्यारेभिरे। सम्प्रति च तेषां चित्राणां रूपलावण्यसहिता- नामभिनयकारिणां भाषमाणानां च साक्षात्कारः सामाजिकैः कर्तुमारब्ध इत्यहो चित्रपटकलाया वर्धिष्णुता । उपयोगस्तु विदूर देशस्थितानां नदीनगरसागरादीनां विविधानां हिंसपशूनां , क्षेत्र- गिरिकन्दरादीनां, स्थावराणां च साक्षादिव दर्शनं चित्रपटे भवति । राजनीतिप्रवीणपुरुषैस्तु चित्रपटस्य राजकीयकार्येषु राष्ट्रकार्येषु चोपयोगः कृतः । चित्रपटदर्शनस्य सर्वजनसाधारणतया एष चित्रपटो महत्प्रचारसाधनं संवृत्तम् । इदमेव प्रचारसाधन- मवलम्ध्य तत्तद्राष्ट्रप्रमुखा राष्ट्रीयां जनतां स्वकीयविचारैराकृष्टां स्वोक्तमार्गानुवर्तिनी च कर्तुमभिलषन्ति , द्रागेव च फलं लभन्ते। एतादृशममोघं प्रचारसाधनं यदि साधुविषयप्रचारार्थमुपयुज्यते , सोऽयमुपयोगः सदुपयोग इत्यभिधीयते । यथा शैक्षणिकविषये , औद्योगिकविषये , आरोग्यादिविषये वा चित्रपट निर्माय तस्य प्रचारः समुचितया पद्धत्या समाजेपु क्रियमाणो महदुपकारी । स एव चित्रपट: केवलशृंगारप्रधानः शृंगाराभासप्रधानो वा यदि निर्मीयते, यदि च अधिकार्यनधिकारिमाधारण्येन सर्वस्मिन्समाजे तस्य प्रचारः करिष्यते तदा सोऽयं तस्य दुरुपयोग एव । अत एव तादृशस्य चित्रपटस्य महाविघातकारित्वमपरिहार्य भवति । यौवन- मुपागतानां स्त्रीपुरुषाणां शृंगारप्रधानचित्रपटदर्शनमनिषिद्धम् । परं तत्रत्येन शृंगारेण अत्युदात्तेन भावगम्भीरेण च भाव्यम् विद्यार्थिजनानां बालजनानां च शृंगारप्रधानचित्रपटदर्शनेन को नामोपयोगो भवेत् ? प्रत्युत वित्तव्ययो निद्राभंग आलस्य. प्राप्तिरनारोग्यं विद्याभ्यासवैमुख्यं चेति बहुविधा दोषा एव । तदेतत्सर्व मनसि निधाय चित्रपटनिर्माणका रिभी राष्ट्रीय- प्रजाजनहितदृष्ट्या तत्तत्कालोचितविद्याभ्यास-शौर्योदार्यकला- विज्ञानादिविविधगुणसंवर्धकाश्चित्रपटा निर्मातव्याः , केवलार्थार्जनबुद्धथा शंगारमात्रप्रधानाः। एवं सामाजिकैरपि चित्रपटदर्शनोत्सुकैस्तत्तच्चित्रपटदर्शनात्प्राक् स्वकीयाधिकार- श्चिन्तनीयः । एकमेव साधनं विवेकोपयुक्तं हिताय कल्पते । विना विवेकेनोपयुज्यमानं त्वनर्थावहं भवतीत्यवधेयम् । --- प्रश्नाः (१) निबन्धलेखनाभ्यासेन को लाभः ? (२) चित्रपटस्य लोकप्रियत्वे को हेतु: ? ( ३) अधोलिखितेषु विषयेषु निबन्धा लेख्याः (१) युद्धोद्यमः, (२) चित्रकला , (३) व्यायामः । ४) नाटकचित्रपटयोः कतरत् श्रेष्ठम् ?
(२२)
सुभाषितानि
१
अस्मिन् पाठे प्रसिद्धानां पुरातनानां तेषां तेषां कवीनां ग्रन्थेभ्यः
समुद्धृतानां सुभापितानां संग्रहः कृतः । अत एव नात्र कविकाल-
परिचयादीनामावश्यकता । संस्कृतवाङ्मये सुभाषितं नाम विशेषपरिश्रम
विना सुकुमारमतीनामपि व्यवहारज्ञानसम्पादनसाधनम् । एतस्मिन्
संकीर्णसंग्रहे कानिचित् सुभाषितानि गुरुदेवतावन्दनपराणि अपराणि
सुजनस्तुतिपराणि , इतराणि दुर्जन निन्दापराणि , अन्यानि च सद्गुण-
स्वाभिमानोत्साहविनयसाहमादिपराणि इत्येवं विविध विषयपराणि मनोहारी-
ण्येतानि सुभाषितानि । एतेषां चोपयोगः समाजे स्वकीय मतं प्रतिपादयितुं ,
परमतं निराकर्तुं , निबन्धादीन् रचयितुम् , अन्त्याक्षया दि पठितु चेति
बहुभिः प्रकारैभवेत् । अतः सर्वेऽप्यत्रत्याः श्लोका यथा मुखोद्गता
भवेयुः तथा विद्यार्थिनः प्रयतेरन् इति दृढ विश्वसिमः ।
,
----
तव करकमलस्था स्फाटिकीमक्षमाला ,
नखकिरणविभिन्नां दाडिमीबीजबुद्धथा ।
प्रतिकलमनुकर्षन येन कीरो निषिद्धः ,
स भवतु मम भूत्यै वाणि ते मन्दहासः ।।१।।
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो ,
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यपि जैनशासनरताः कर्मेति मीमांसकाः ,
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥२॥
, , . सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः कचन समुद्रो न तारङ्गः ॥ ३॥ प्रातः प्रातर्जाह्नवीवारि भक्त्या , गाहं गाहं क्लसनित्यक्रियेभ्यः । पुष्पैराद्यं पूरुषं पूजयद्भ्यः , पूतात्मभ्यो भूरेभ्यो नमोऽस्तु ।।४।। रजोजुषे जन्मनि सत्त्ववृत्तये , स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे , त्रयीमयाय त्रिगुणात्मने नमः ।।५।। ध्येयःसदा सवितृमण्डलमध्यवर्ती,नारायणः सरसिजासनसन्निविष्टः केयूरवान् मकरकुण्डलवान किरीटी,हारी हिरण्मयवपुर्धतशङ्खचक्र:६ शिष्यार्पितेन शुचिना द्रविणेन तुष्टाः ; शिष्टा मुकुन्दशरणागतिधर्मनिष्ठाः । सत्सम्प्रदायनियमप्रयताः सदा ये, तेभ्यो नमांसि करवै वरवैष्णवेभ्यः ॥७॥ गिरां देवी वीणागुणरणनहीनादरकरा , यदीयानां वाचाममृतमयमाचामति रसम् । वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेः , अधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः ।। ८ ।। सेवा श्ववृत्तिर्यैरुक्ता, न तैः सम्यगुदाहृतम् । स्वच्छन्दचारी कुत्र श्वा , विक्रीतासुः क्व सेवकः ॥ ९॥ अहमेव गुरुः सुदारुणानामिति हालाहल मा स्म तात इप्यः । ननु सन्ति भवादशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् १० शतमन्यु दण्डधरं कुबेरमपि शूलिन तथा गदिनम् । कुरुते जरा न सा किं कुर्यान्नीरूपनामकं मनुजम् अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ।। १२ ।। - १२ " अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य । उदरभरणमात्रकेवलेच्छोः , पुरुषपशोश्च पशोश्च को विशेषः ? ॥ १३ ॥ विधिरेव विशेषगर्हणीयः , करट त्वं रट कस्तवापराधः । सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥१४॥ ये नाम केचिदिह नः प्रथयन्त्यवज्ञा , जानन्ति ते किमपि तान्प्रति नैष यत्नः। उत्पत्स्यते हि मम कोऽपि समानधर्मा , कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ १५॥ रूक्षं विरौति परिकुप्यति निनिमित्तं , स्पर्शेन दूषयति वारयति प्रवेशम् । लज्जाकरं दशति नैव च तृप्यतीति , कौलेयकस्य च खलस्य च को विशेष: ? ॥१६॥ पादाहतोऽथ दृढदण्डविघट्टितो वा , यं दंष्ट्रया दशति तं किल हन्ति सर्पः । कोऽप्यन्य एव पिशुनोऽद्य भुजंगधर्मा , कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ १७ ॥ कैवर्तकर्कशकरग्रहणच्युतोऽपि , जालान्तरे निपतितः शफरो वराकः । दैवात्ततो विगलितो गिलितो बकेन , वके विधौ वद कथं व्यवसायसिद्धिः ? ॥ १८॥ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां, शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान् । तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं , प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥ १९ ।। .
यदि परगुणा न क्षम्यन्ते , यतस्व तदर्जने , नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान् पाणिच्छत्रैर्नुदन श्रममेष्यसि ।। २० ।। अविनयभुवामज्ञानानां शमाय भवन्नपि , प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ , विषधरफणारत्नालोको भयं तु भृशायते ॥ २१ ॥ क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः , क्वचिद्वीणावादः क्वचिदपि च हाहेति रुदितम् । क्वचिद्रभ्या रामा क्वचिदपि जराजर्जरतनुः , न जाने संसारः किममृतमयः किं विषमयः ॥ २२ ॥ अमीषां प्राणानां तुलितबिसिनीपत्रपयसां , कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ? । यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां, कृतं वीतब्रीडनिजगुणकथापातकमपि ।। २३ ।। जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया , वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंकाभर्तुर्वदनपरिपाटीषुघटना , मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ २४ ॥ प्रकृष्टे सम्पर्के मणिभुजगयोर्जन्मजनिते , मणि हेर्दोषान् भजति न च सर्पो मणिगुणान् । असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो, न संगादौर्जन्यं न च सुजनता कस्यचिदपि ॥ २५ ॥ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः , समानायां जातावपि वयसि सत्यामपि धियि ।
, अयं दृष्टान्तोऽत्र स्फुटपरिचयादभ्यसनतः शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥२६॥ विधातु कन्ये सुगतिरपरा दुर्गतिरभूत् , तयोराद्यां धाता गुणकुलविहीनाय स ददौ । सतः पश्चात्तापादिव सुगुणसजातमधुना , कुलीनं विद्वांसं वरमिह वरेण्यं मृगयते ॥ २७ ॥ वदन्तु कतिचिद्धठात्खफछठेति वर्णाञ्छठा , घटः पट इतीतरे पटु रटन्तु वाक्पाटवात् । वयं बकुलमञ्जरीगलदमन्दमाध्वीझरी- धुरीणपदरीतिभिर्भणितिभिः प्रमोदामहे ॥ २८ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः , क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानी हुतः । गन्तुं पावकमुत्सुकं तदभवद् दृष्ट्वा स्वमित्रापदम् , युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ २९ ।। कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्येनः परिभ्राम्यति । इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतः , तूर्ण तौ तु यमालयं प्रति गतौ, दैवी विचित्रा गतिः ॥ ३०॥ आहारे वडवानलश्च शयने यः कुम्भकर्णायते , संदेशे बधिरः पलायनविधौ सिंहः शृगालो रणे । अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने , भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः ॥ ३१ ॥ हस्ती स्थूलतनुः स चांकुशवशः किं हस्तिमात्रोंऽकुशः , वत्रेणाभिहताः पतन्ति गिरयः किं शैलमात्रं पविः । दीप प्रज्वलिते विनश्यति तमः किं दीपमानं तमः तेजो यस्य विराजते सं बलवान् स्थूलेषु का प्रत्ययः ॥३२॥ .
. नास्माकं शिविका न चास्ति कटकवेयकालंकृतिः , नोत्तुंगस्तुरगो न कश्चिदनुगो नाप्यम्बरं सुन्दरम । किन्तु मातलवय॑शेषविदुषां साहित्यविद्याजुषां , चेतस्तोषकरी शिरोनतिकरी विद्याऽनवद्याऽस्ति नः ॥ ३३ ।। त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः , ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥३४॥ दौर्गत्येन समीरिता हृदयतः कण्ठं समालम्बते , कण्ठात्कष्टतरं कथं कथमपि प्राप्नोति जिह्वाञ्चलम् । लज्जाकीलककीलितेव निबिडं तस्मान्न निर्यात्यहो , वाचा प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च ॥ ३५ ।। कीर्तिस्ते दयिता तदीयजठरे लोकुत्रयं वर्तते , तस्मात्त्वं जगतः पिता पितृधनं येनार्थिनां त्वद्धनम् । वीर श्रीवर विक्रमार्क भवतस्यागं न मन्यामहे , करत्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः ॥ ३६ ॥ काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि , क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लकाजयः । पार्थस्यापि पराभवं यदि रिपुर्नाधात् क्व तादृक् तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ।। ३७ ।। माने नेच्छति वारत्युपशमे दमामालिखिन्त्यां हियां , स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते। तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना , यः स्पृष्टो न पदा स एव चरणौ स्पष्टुं न संमन्यते ॥ ३८ ॥ निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव- न्मृद्धीकामधुमाधुरीमदपरीहारोबुराणां गिराम् ।
- काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां , नो चेद् दुष्कृतमात्मना कृतमिव स्वान्ताद् बहिर्मा कृथाः॥३९ नैव व्याकरणज्ञ मेति पितरं न भ्रातरं तार्किकं , दूरात्संकुचितेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमांसानिपुणं नपुंसकमिति ज्ञात्वा निरस्तादरा , काव्यालङ्करणज्ञमेव कविताकान्ता वृणीते स्वयम् ॥ ४० ॥ पायाद्वो जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः । येनाशेषहताहितांगरुधिरैः सन्तर्पिताः पूर्वजाः भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥ ४१ ।। नो सन्ध्या समुपास्यते यदि तदा लोकापवादाद्भयं , सा चेत्स्वीक्रियते भविष्यति तदा राजन्यवीजे नतिः । इत्थं चिन्तयतश्चिरं भृगुपतोर्नःश्वासकोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः सन्ध्याञ्जलिर्वेपते ॥ ४२ ॥ असितगिरिसमं स्यात्कज्जलं सिन्धुपाने , सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सार्वकालं , तदपि तव गुणानामीश पारं न याति ॥ ४३ ॥ सदसि विदुरभीष्मद्रोणशारद्वतानां , पतिभिरमरकल्पैः पञ्चभिः पालितापि। अहह, परिभवस्य द्रौपदी पात्रमासीत् , बलवति सति दैवे बन्धुभिः किं विधेयम् ॥ ४४ ॥ प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यग्रया , दृष्ट्वाग्रे परिणेतुरेव लिखितां गंगाधरस्याकृतिम् । औत्सुक्यस्मितरोषलज्जितधिया गौर्या कथश्चिञ्चिरात् , वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः सादरम् ॥ ४५ ॥ " ९५ अझं केऽपि शशङ्किरे जलनिधे: पत परे मेनिरे , सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छन् परे । इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते , तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ।। ४६ ।। दैत्येभ्यो न वरानदास्यत यदि त्र्यक्षो मुहस्तर्हि ते नाशक्ष्यन् भुवनानि पे मुदयं नाप्स्यया शाङ्गिणः । नोदायिष्यत मानुषादिषु हरि! सेतुगीतादिकं , प्रारप्स्यद्भगवान्नवार्णवममी नालंघयिष्यन्नराः ॥ ४७ ।। लीलालुण्ठितशारदापुरधियां विद्वन्मणीनां पुगे विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः । अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां वृकाः , सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति सालावृकाः ॥४८॥ बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि ; प्रहता , ताते काननसेवनावधि ; कृपा सुग्रीवसख्यावधि । आज्ञा वारिधिबन्धनावधि ; यशो लंकेशनाशावधि श्रीरामस्य बभूव लोकवशता जानक्युपेक्षावधि ।। ४९ ॥ पेटीचीवरपट्टवस्त्रपटलश्वेतातपत्रच्छटा- शाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं नमः। येनानक्षरकुक्षयोऽपि जगतः कुर्वन्ति सर्वज्ञता- भ्रान्ति येन विना तु हास्यपदवी सन्तोऽपि कष्टं गताः ॥ ५० कस्त्वं भद्र , खलेश्वरोऽहमिह किं घोरे क्ने स्थीयते , शार्दूलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया। कस्मात्कष्टमिदं त्वया व्यवसितं मदेहमांसाशिनः , प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान् नरान् ॥५१ ।। झोऽन्तः शश्छोटि शेषो ध्यसखि ससजुषोरुविरामोऽवसानम् , छ चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेद् बुधाः स्युः । . , ९६ , - किं तैरेवापराद्धं नटविटगणिकानृत्यहस्तप्रचारैः तोधी तोधी तधीति त्तकिट तकिट धिक् ताहधिक्तत्तकारैः ।।५२ भिक्षो कन्था श्लथा ते , नहि शफरिवधे जालिकैषारिस मत्स्यान् , तेऽमी मद्योपदंशाः, पिबसि मधु, समं वेश्यया, यासि वेश्याम् । दत्त्वारीणां गलेऽप्रिं, किमु तव रिपवो, भित्तिभेत्तास्मि येषाम् , चोररत्वं , द्यूतहेतोः कथमसि कितवो येन दासीसुतोऽस्मि ।।५३।। वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा , पुरारे न क्वापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यहमतनुरग्रेऽप्यनतिमान् , इतीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ५४॥ विद्वांसो यदि मम दोषमुगिरेयुः , यद्वा ते गुणगणमेव कीर्तयेयुः । युक्तं तत् , बहु मनुते मनो मदीयं , कष्टं तत् बत मनुते यदाह मन्दः ॥ ५५ ॥ प्रश्नाः - (१) वन्दनपरेषु पद्येषु कतमत् पद्यं युष्मभ्यं रोचते ? कुतः? (२) पुरुषस्य पशोश्च कथमविशेषः ? (३) ' उत्पत्स्यते हि मम कोऽपि समानधर्मा ' इति वदतः कवेः क आशयः? --- परिशिष्टम् (१) टिप्पण्यः (१) कपिराजस्य युक्तिवादः द्वन्द्वम् --युद्धम् । निकृत्तः- छिन्नः , नि+कृत् (६ प.) क, भू. धा. वि. । शक्रदत्ता माला-प्रसन्नः इन्द्रः स्वसूनवे वालिने सुवर्णमालां ददाविति श्रूयते । संख्यम्-युद्धम् । करुणवेदी-सांसारिकाणां दुःखशोकादीनामभिज्ञः । समयः-आचारः समयाः शपथाचार इत्यमरः । विषयः-~-देशः । अभव्यः-अमङ्गलः । प्रकृति:- स्वभावः । परिवेत्ता- अकृतविवाहे ज्येष्ठे कृतविवाहः कनिष्ठः , परिवेत्तानुऽजोऽनूढे ज्येष्ठे दारपरिग्रहात् इत्यमरः । वैवस्वतः यमः , विवस्वान्-सूर्यः , तस्यापत्यम् । अवक्ष्यथाः आनेष्यम् संकेतार्थे रूपद्वयम् । प्राप्तम् -योग्यम् । (२) काव्यस्य प्रयोजनं स्वरूपं च दार्शनिकी शास्त्रीया। अखिला अर्थाः -वाच्यलक्ष्यव्यङ्ग्यरूपाः। चतुर्वर्गः त्रिवर्गो धर्म. कामार्थे श्चतुर्वर्गः समोक्षकैः इत्यमरः । फलाननुसन्धानम् --फलानपेक्षणम् , फलापेक्षारहितं कर्म मोक्षाय कल्पते इति सिद्धान्तः । व्युत्पत्याधायकत्वम् --पदपदार्थज्ञानोपयोगित्वम् । एकान्तम्--- नियमेन । उपचारः-लक्षणा । अन्वयव्यतिरेकानुविधायित्वम् सद्भावः , व्यतिरेक:- अभावः, अनुविधायित्वम् --अनुसारित्वम् , कारणसत्त्वे कार्यसत्त्वं नाम अन्वयानुविधानम् , कारणाभावे कार्याभावो नाम व्यतिरेकानुविधानम् । स्वरूपाधायकत्वम्-स्वरूपसम्पादकत्वम् । (३)क्षात्रतेजस्विनी द्रौपदी- वर्णिलिङ्गी--ब्रह्मचारिचिह्नवान् । बन्धुता- बन्धूनां समूहः । एतर्हि सम्प्रति , एतर्हि सम्प्रतीत्यमरः । अकुप्यम् --हेमरूप्यात्मकम् । - - अन्वयः - -- लब्धज्ञानः। - - - - -- - -- (४) कपिराजं प्रति रामस्योत्तरम् अयुध्यन् अयमाषः प्रयोगः , अयुध्यमान इति तु युक्तम् । व्यक्तदर्शनः (५) अभियानकालः अभियानम् - शत्रुमभि गमनम् । जैत्र: -जयशीलः। पश्चात्कोप: प्रजानामनन्तरभावी कोपः।......लाभापदां (विषये ) बलाबलमिति सम्बन्धः । गर्भधान्यम् । उप्तं बीजम् । योगो- पनिषदौ योगः चारपुरुषः, उपनिषद् निगूढं प्रयुक्तो घातोपायः । ऋतुः अनुकूलः कालः । मूलम् प्रमुख स्थानं राजधान्यादि । पाणिः पृष्ठतो देशः । प्रत्यन्तः सीमाप्रदेशः ! भक्तः-धान्यम् । हैमनम् - हेमन्ते उप्तम् । तैषः पौषः । अनैकान्ति- कत्वम् अनिश्चितत्वम् । अवक्षार: - क्षीणशक्तिः । चतुरङ्गबलम्-- हस्त्यश्वरथपादात सेनाङ्गं स्याच्चतुष्टयमित्यमरः । (६) निगूढो मन्त्रविचार:-यियक्षमाणः यागं कर्तुमिच्छन् । पौरुषेयः पुरुषसमूहः । जित्वरः जयशीलः । अलंभूष्णुः । समर्थः । सात्वतीसूनुः -- शिशुपालः । दन्दह्यते---- गर्हितं पीडयति । सन्दिग्धे---- सम् +दिह् ( २ आ.) वर्तमानकाले प्रथमपुरुषैकवचनम् । अनादीनवम्---- निर्दोषम् , दोष आदीनवो मतः इत्यमरः । समूलघातमन्नन्तः समूलम् अघ्नन्तः। खिलीकृत्य उत्सन्नम् अकृत्वा । सैहिकेयः राहुः सिंहिकासुतः । माजीवन् - कुत्सितं जीवन् । इतरा अन्या, अगाधता इत्यर्थः । बहुतृणम् तृणतुल्यः । दवीयान् दूरतरः । पञ्चतपाः- पञ्चामिसाधनं नाम तपो यस्य सः। कथंकारम् कथम् । चतुर्थोपायः -दण्डः । सामानाधिकरण्यम एकस्मिन्नाधारे स्थितिः। शेषगवी शेषः बलरामः गाव: वचनानि , शेषस्य गावः शेषगव्य इति विग्रहः । बृहतां पतिः बृहस्पतिः देवगुरुः। (७) चित्रदर्शनम्-विथिः- (चित्रमयी) पंक्तिः । दुर्मनायमाना -खिन्नमानसा । देवयजनम्-यज्ञभूमिः । सरहस्यानि-प्रयोगप्रतिसंहा- - --. - - - - - ९९ - - -- - - - - इत्यमरः। घोणा रमन्त्रसहितानि । गोदानमङ्गलम् माङ्गलिकः क्षौरसंस्कारः । तातपादाः -पितृचरणाः, चरणपादांघ्रिप्रभृतयः शब्दाः पूज्यत्व द्योतयन्ति। आत्मनो. ऽत्याहितम् भयावहत्वेऽपि स्व जीवितनिरपेक्षम् । अतिभूमिं गतः पर कोटिं प्राप्तः। रणरणकम् नितरां प्रवृद्ध श्चिन्ताशोकादिमनोभावः । मन्वन्तरम् एकसप्ततिर्दिव्ययुगानि , मन्वन्तरं तु दिव्यानां युगानामेक- सप्ततिः : इत्यमरः । निव्यूढः कृतिप्रथेऽवतार्य सिद्धिं गमितः । (८) महाश्वेतादर्शनम् -- आप्याययति - (आ+प्याय् १ आ.) प्रीणयति । मातृमण्डलम् --~-सप्तमातृसमुदायः , ब्राह्मी माहेश्वरीत्यादिरमरः । पर्याण अश्वोपरि उपवेशनार्थमास्तरणम् । खलीनम् लोहमयम- श्वमुखबन्धनम् । सस्तरम् आसनम् । (९) किरातार्जुनौ - कोलः वराहः , वराहः सूकरो घृष्टिः कोल. नासिका । ताटङ्कम् - कर्णभूषणम् । निःस्वः बाणधनशून्यः । अधित्यका पर्वतर्वभभिः। पल्ययनम् । वाहन पृष्ठास्तरणम् । शिलादकुमारः नन्दिकेश्वरः । उडु नक्षत्रम् , नक्षत्र. मृक्षमियादिरमरः । शतरुद्रीयम् रुद्राध्यायः । अपदानम् पूर्वकृतं लाध्यकृत्यम् । नदीमातृकः नदोजलसंवर्धितसस्यपालितो देशः। देशो नद्यम्बु इत्यादिरपरः । प्रतिमल्लः-प्रतिभटः । प्लवङ्गकेतनः अर्जुनः । (१०) महाभाष्यपरिच्छदौ काणादम् कणादमुनिप्रणीतं वैशेषिकदर्शनम् । पाणिनीयम् पाणिनिमुनिप्रणीतं व्याकरणशास्त्रम् । आकरग्रन्थाः-संग्रहेण दार्शनिकानामर्थानां प्रतिपादका ग्रन्थाः । ओमिति- वेदारम्भे पठ्य मानः ओंकारः । शमिति - अथर्ववेदारम्भे स्थितस्य 'शं नो देवी' इत्यादिमन्त्रस्य प्रतीकम् । वृत्तान्तः प्रपाठकः मन्त्रादीनां समूहः । अनुप्रदानम्-वर्णोच्चारणानुकूलः प्रयत्नविशेषः । शब्दानुशासनम्- व्याकरणम् । कृतम्-----अलम् । अनभ्युपायः असाधकः । प्रतिपत्तिः- ज्ञानम् । दिव्यं वर्षसहस्रम्-मनुष्याणामेकं वर्ष नाम दिव्यो दिवसः , एत- - . - . - - , १०० प्रमाणमनुसृत्य दिव्यं वर्षसहस्रं कल्पनीयम् । उत्सर्गः सामान्यनियमः अपवादः विशेषनियमः । खारी परिमाणविशेषः । उपजनम् नवीनस्य संस्थापनम् । - आम्रः - नितरां युक्तम् , - - - (११) शकुन्तला पतिगृह पतिगृहं प्रतिष्ठते चूतः आम्रश्वतो रसाल इत्यमरः । बाहा बाहुः। ओदकान्तम् आ+ उदकान्तम् , उदकतीरपर्यन्तम् । क्षीरवृक्षः क्षीरसहितो वृक्षः वटो- दुम्बरादिः। युक्तरूपम् -- प्रशंसायां रूप । दौष्यन्तिः दुष्यन्तपुत्रः। नीवार: तृणधान्यम् । ( १२) मानवकर्तव्यानि - हारुणिः, ह आरुणिरिति पदच्छेदः , आरुणि रिति कस्यचित् संज्ञा । सुपर्णेयः सुपर्णासुतः । सुवः .-स्वः, स्वर्ग इत्यर्थः । वरूथम् वरिष्ठम् । स्मारः संस्कारः। (१३) युद्धोद्यतः शिशुपालः-...वाक् अभीः इति पदच्छेदः । अपष्ट -असत्यम् । नीचि. - न्यङ् नाम नीच वृत्तः , सप्तम्येकवचनम् । सरघा- मधुमक्षिका । उपायथाः -- उप+यम् (१ आ.) तृतीयभूते द्वितीय पुरुषै- कवचनम् । कङ्कतम् - दारुदन्तादिमयः केशप्रसाधनसाधनविशेषः । अघटते --न संगच्छते । मिषताम् पश्यताम् । वेणुदारिन् - नरका. सुरात्मजः । अपमृषितम् असोढम् । सदवथुः दवथुः नाम सन्तापः , तेन सहितः। ( १४ ) प्रदीप्तकोपं भीमं धर्मराजः सान्त्वयति - वृकोदरः भीमः। तीर्थम्-जलावतारः, घट्टः । गुणगृह्यः-गुणग्रहणशीलः । चतस्रो विद्याः 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्वेता- श्वतस्रस्तु लोकसंस्थितिहेतवः' इति कामन्दकः। अस्वन्ततर:-अतिदुरन्तः। रहयति त्यजति । आयतिः - उत्तरः कालः, उत्कर्षकाल इत्यर्थः । लघयन् -लघूकुर्वन् । हिरण्यरेता:-अग्निः । अनीहगाशय:-अविद्यमान - - - . - -- an - - । - - . - -- ईडश आशयः यस्य सः । विधेयम् सन्धिविग्रहादि कार्यम् । विशेष. सम्पदः भेदविस्ताराः। (१५) यज्ञाधिकारविचारः आमनन्ति वेदे पठन्ति। दर्शपूर्णमासी अमावास्यायां पूर्णिमायां च क्रियमाणो यागौ। ज्योति- ष्टोमः वसन्ते क्रियमाणो यागविशेषः। सत्वम् प्राणी। अवि- शेषात् - विधिवाक्ये विशेषनिर्देशाभावात् । चेतयन्ते अभिलषन्ति । लिङ्गम् गमकम् । सगुणम् साङ्गम् । (१६) रघुराजस्य पराक्रमो राजनीतिश्च – गभस्तिः किरणः। कटप्रभेदः-गण्डस्थलोद्भेदः । मखः यज्ञः । यज्वा-यागकर्ता , यजमानः । विग्रहः-शरीररम् , शरीरं वर्म विग्रहः इत्यमरः । हरिः - हरितवर्णः। राजन्यः क्षत्रियः । कपिलानुकारिणा कपिलेन मुनिना सगराध्वरे अश्वोऽपहृत इति प्रवादः । सर्ग: -निश्चयः। प्रकोष्ठः कूर्पराधोभागः। आलीढविशेषशोभी-आलीढेन आसनविशेषेण विशेषं शोभते इति । व्यपरोपणम् --- छेदनम् । नातिप्रमनाः नातिसन्तुष्टः। सदोगृहम् - यज्ञशालायाः सदोनामको मण्डपविशेषः । (१७) रामस्य वनगमनम् --संरम्भः-संवृत्तिः , फल मित्यर्थः । उजिहाना - अभ्युत्पतन्ती । कौतुकम् – माङ्गलिक हस्तसूत्रम् । उपयम:-- विवाहः , विवाहोपयमौ समौ इत्यमरः , उपयमम्-- यमस्य समीपे । श्रवः-कर्णः, श्रुतिः स्त्री श्रवणं श्रवः इत्यमरः । आश्रुतम्-प्रतिज्ञातम् । सत्योद्या सत्योक्तिः। संस्थास्ये मरिष्यामि । संनाहः - उद्योगः । पूर्ण- पात्रम् --- सन्तोषनिमित्तं दीयमानं पारितोषिकम् ' उत्सवादिषु यद्देयं पूर्णपात्रं तदुच्यते' । पक्तिरथः दशरथः। (१८) हंसदूतः --एकपादिका एकचरणेनावस्थितिः । कमलो दयः कमला लक्ष्मीः , तस्या उदयः । वरटा-हंसी , हंसस्य योषित् वरटा इत्यमरः । आतिः पीडा । वयः खगः तरीः - - - . नौका । - १०२ -- -- अन्तःपुरम् । विहायाः नीरन्ध्रितम् अविच्छिन्नम् । शुद्धान्तः विहगः । योग्या-अभ्यासः 'योग्याभ्यासार्कयोषितोः' इति विश्वः । (१९) शुनःशेपकथा- सन्नयति -प्रापयति । उपधाव-प्रीणय । एकया-गाथया इति शेषः । मेध्यः-~यज्ञाहः । अपत्सत-उदपद्यन्त । अज्ञत अजनिषत । सान्नाहुकः धृतकवचः । श्रेमा श्रेष्ठत्वम् । सौयवसिः- सुयवसः अपत्यम् । अशनया--( अशनाया) बुभुक्षा । । - - - . ब्रह्म काके तु (२२) सुभाषितानि अन्याक्षरी एकेन पठितस्य पद्यस्य अन्त्याक्षरं यस्य पद्यस्याद्याक्षरं तदन्येन पठ्यते , सोऽयं पद्यपठनस्पधी- 'विशेषोऽन्त्याक्षरीति व्यवह्रियते । प्रतिकलम् प्रतिक्षणम् । भूतिः ऐश्वर्यम् । अर्हन्—जैनदैवतम् । प्रमाणम्-ज्ञानसाधनम् । वीणागुणरणने हीनादरः करः यस्याः। शतमन्युः -इन्द्रः कोपनश्च । दण्डधरः यमः यष्टिधारी च । कुबेरः उत्तरदिक्पालः कुत्सितशरीरश्च । शूली- शंकरः व्याधितश्च । गदी विष्णुः रोगी च । नीरूपनामकः कुरूपश्च । श्रुतिसमयः - वैदिक आचारः । करटः -- काकः , करटारिष्ट इत्यमरः । कौलेयकः -सारमेयः । कैवर्तः धीवरः। शफरः- मत्स्यः। विधिः-दैवम् । मणि:-विषहरत्वेन प्रसिद्धो मणिविशेषः । बिसिनी- कमलिनी । जनस्थानम्- लोकवसतिः दण्डकारण्यभागश्च । वैदेहि- वै देहि , हे जानकि इति च । कृतालङ्काभर्तुः---कृता अलं कामतुः (कुत्सित- स्वामिनः) कृता लङ्काभर्तुरिति च । वदनपरिपाटीषुघटना परिपाटिः (पंक्तिः) तत्र इषु घटना, वदनपरिपाटीषु घटना (नैकमुखेषु दैन्यं प्रदर्शितम् )। कुशलवसुता कुशल-वसुता (निरपायं धनवत्वम् ) जानकी च । सुगतिः -सुस्थितिः , दुर्गति:-दुःस्थितिः । माध्वीझरी- मकरन्दधारा । कृशानौ हुत:-~-बाष्पीभूत इत्यर्थः । हस्तिमात्रः-हस्ति- प्रमाणः। पविः-वज्रम् । शिविका-पुरुषवाद्यं यानम् । अवेयकंकण्ठभूषा । दौर्गत्यम्-दारिद्यम् । मृवीका-द्राक्षा। उधुरः-समर्थः। हन्तकारः- -वदनः - -
१०३
यथा देवेभ्यः प्रदाने स्वाहाकारः यथा च पितृभ्यः प्रदाने स्वधाकार
तथा मनुष्येभ्यः प्रदाने हन्तकारः । राजन्यबीजम्-क्षत्रियमूलपुरुषः सूर्यः ।।
कोष्णः-मन्दोष्णः । भृगुपतिः-परशुरामः । देवार्चनम् - विवाहात् पूर्व
वध्वा क्रियमाणं गौरीहरपूजनम् इत्यर्थः । सालावृकः--जम्बूकः सारमेयो
वा । प्रह्वता-~नम्रता । पेटीचीवरेत्यादि-बाह्योपकरणानि । घटाटोपः
आडम्बरः । अनक्षरकुक्षिः-अक्षरशत्रः । झोन्त इत्यादीनि पाणिनीयसू.
त्राणि । तोधि तोधीति मृदंगध्वनेरनुकरणम् । उपदंशः-उपखाद्यम् ।
-
----
परिशिष्टम (२) आवश्यक छन्दोविज्ञानम्
पिङ्गलादिभिराचाथैर्यदुक्तं लौकिकं द्विधा ।
मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥ १ ॥
सममधसम वृत्तं विषमं च तथापरम् ।।
अध्रयो यस्य चत्वारः तुल्यलक्षणलक्षिताः ।
तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ २ ॥
प्रथमाङ घिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद् वृत्तं तदर्धसममुच्यते ॥ ३ ॥
यस्य चाङ्घिचतुकेऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ ४ ॥
एकमात्रो भवेद् हस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमावस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ।
ज्ञेयो लघुर्लकारोऽत्र गकारश्च गुरुर्मतः ॥ ५ ॥
संयुक्ताद्य दीर्घ सानुस्वारं विसर्गसंमिश्रम् ।
विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ ६॥
१०४
. .. मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुयः ।
जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरू: कथितोऽन्तलघुस्तः ॥ ७ ॥
यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥१॥
आर्यापूर्वार्धसमं द्वितीयमपि भवति सा गीति: ॥ २ ॥
आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् ।
छन्दसि तामुपगीति प्रकाशयन्ते महाकवयः ।। ३ ।।
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् ।
द्विचतुष्पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥ ४ ॥
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
षष्ठं गुरु विजानीयात् एतत्पद्यस्य लक्ष गम् ।। ५ ।।
स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ ६ ॥
उपेन्द्रवज्रा जतजास्ततो गौ ॥ ७ ॥
अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।। ८ ।।
शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ॥ ९ ॥
रान्नराविह रथोद्धता लगौ ॥१०॥
स्वागता रनभगैर्गुरुणा च ॥११॥
दोधकवृत्तमिदं भभभागौ ॥ १२ ॥
जतौ तु वंशस्थमुदीरितं जरौ ॥ १३ ॥
द्रुतविलम्बितमाह नभौ भरौ ॥ १४ ॥
भुजंगप्रयातं चतुर्भिर्यकारैः ॥ १५ ॥
म्नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम् ॥ १६ ॥
सजसा जगौ भवति मञ्जुभाषिणी ॥ १७ ॥
उक्ता वसन्ततिलका तभजा जगौ गः ॥ १८ ॥
ननमयययुतेयं मालिनी भोगिलोकैः ॥ १९॥
रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ २० ॥ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ २१ ॥ मन्दाक्रान्ताम्बुधरसनगैों भनौ तौ गयुग्मम् ॥ २२ ॥ नसमरसला गः षड्वेदैर्हयैह रिणी मता ॥ २३ ।। सूर्याश्वर्यदि म: सजौ सलतगा: शार्दूलविक्रीडितम् || २४ ।। ब्रस्नानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ २५ ।। विषमे ससजा गुरु: समे सभरा लोऽथ गुरुर्वियोगिनी ॥ २६ ॥ (वैतालीयम्) अयुजि नयगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताना ॥ २७ ॥ प्रथमे सजौ यदि सलौ च नस जगुरु काण्यनन्तरम् । यद्यथ भनजलगाः स्युरथो सजसा जगौ भवतीयमुद्गता ॥ २८ ॥ उपयुक्तानि व्याकरणसूत्राणि येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरण प्रोक्तं तस्मै पाणिनये नमः ॥ १ अइउण् । २. ऋलुक् । ३ ए प्रोङ् । ४ ऐऔच । ५ हयवरट् । ६ लण् । ७ ञमङणनम् । ८ झभञ् । ९ घढधम् । १० जबगडदश् । ११ खफछठथचटतव्। १२ कपय् । १३ शषसर् । १४ हल इति माहेश्वराणि प्रत्याहारसूत्राणि वर्णसमाम्नायश्च । एषामन्यव्यंजनानि इत्संज्ञकानि। आदिरन्त्येन सहेता । मुखनासिका वचनोऽनुनासिकः । तुल्यास्यप्रयत्न सवर्णम् । वृद्धिरादैच् । अदेङ्गुणः । इको यणचि । एचोऽयवायावः। आद्गुणः । अकः सवर्णे दीर्घः। वृद्धिरेचि। खरवसानयो विसर्जनीयः । ईदूदेद्विवचनं प्रगृह्यम् । यरोनुनासिकेऽनुनासि- ३ १०६ कोवा । विसर्जनीयस्य सः । अतो रोरप्लुतादप्लुते । हशि च । एङः पदान्ता- दति । भोभगोअघोअपूर्वस्य योऽशि । हलि सर्वेषाम् । ढो ढे लोपः । रो रि । ठूलोपे पूर्वस्य दीर्घोऽणः । कालाध्वनोरत्यन्तसंयोगे । अधिशीस्थासां कर्म । अभिनिविशश्च । अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि । अन्तरान्तरेण युक्ते । उपा- न्वध्यावसः । क्रुधद्रुहोरुपसृष्टयो: कर्म। येनाङ्गविकारः। सहयक्तेऽप्रधाने। रुच्यर्थानां प्रीयमाणः। धारेरुत्तमर्णः । स्पृहेरीप्सितः। क्रुधगुहेासूयार्थानां यं प्रति कोपः । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । भीत्रार्थानां भयहेतुः । वारणार्थानामीप्सितः। पराजेरसोढः । पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् । अधीगर्थदयेशां कर्मणि। यतश्च निर्धारणम् । यस्य च भावेन भावलक्षणम् । षष्ठी चानादरे। पञ्चम्यास्तसिल । सप्तम्यास्त्रल् । तदस्यात्यस्मिन्निति मतुप् । अस्माया- मेधास्रजो विनिः । अत इनिठनौ । तेन तुल्यं क्रिया चेद्वतिः । नेविंशः । विपराभ्यां जेः। समवप्रविभ्य: स्थः । उदोऽनूर्वकर्मणि । समो गम्यच्छिभ्याम् । स्पर्धयामाङः । भुजोऽनवने । व्यापरिभ्यो रमः । उपाच्च । रषाभ्यां नो णः समानपदे । अट्कुप्वानुम्व्यवायेऽपि । न पदान्तस्य । इण्को: । आदेशप्रत्यययोः ।
No text on this page.