Tms
Aashauchaashht'akan'
Front matter
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ३७.
आशौचाष्टकं
श्रीवररुचिप्रणीतं,
व्याख्ययासहित
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०८९, क्रेस्ताब्दाः १९१४.
No text on this page.
ÞREFACE. Asauchâshtaka is ascribed to the famous author Vararuchi of whom a brief mention was made in the preface of Vâraruchaaugraha, No. XXXIII of the Trivandrum Sanskrit Series. The name of the commentator is not known, but considering the force and dignity of the style of the cornmentary, we may take it to have been written by a very ancient author. The appearance of the manuscript itself will entitle it an age of some 300 or 400 years. The commentary quotes Mamu and other well-known authors of Smritis, an iluthor of a Bháshya on Yâjna valkya, the Nirnayakára and the work Shat-trimsanmata aud Bhishak-Sastra. It also quotes one Sahasraswâmin, a hither. tu unknown author of :1 code of law. The work was elited with the help of it correct palm-leaf inanuscript in Malayalam character, obtained from Mr. Subyrahmanyan Nanburipad of Ezhumaru Manakkil, Kadutturutti. TRIVANDRUM. T. GANAPATI SÄSTRÎ.
No text on this page.
निवेदना। आशौचाष्टकस्य प्रणेता तत्रभवान् वररुचिः । अनन्तशयनसंस्कृत- ग्रन्थावल्यास्त्रयस्त्रिंशाङ्कस्य वाररुचसङ्ग्रहस्य निवेदनायां वररुचिमन्तरेण कि- श्चिन्निवेदितम् । आशौचाष्टकव्याख्यायां तत्प्रणेतुर्नामधेयं न दत्तम् । किन्तु तस्यां प्रका. शमानाया अतिप्रौढेः पर्यालोचनया स पुरातन इत्यूहितुं शक्यते । व्याख्यादर्श- ग्रन्थस्यैव तावत् त्रिचतुरशतवर्षवृद्धत्वं प्रतिभासते । अस्यां मन्वादयः प्रसिद्धाः स्मारः पत्रिंशन्मतं निर्णयकारः याज्ञवल्क्यस्मृतिभाष्यकारा भिषक्छास्त्रं च स्मर्यन्ते । अश्रुतपूर्वः कश्चित् स्मृतिकारोऽपि स्मयते सहस्रस्वामीति । तालपत्रात्मकं केरलीयलिपिम् (एलुमामनक्कल्) श्रीसुब्रह्मण्यनम्बूरिप्पा- डुसकाशाद् अधिगतं शुद्धमादर्शग्रन्थमाश्रित्यैतत्संशोधनं निर्वर्तितम् । अनन्तशयनम् . त. गणपतिशास्त्री.
No text on this page.
॥ श्रीः॥ श्रीवररुचिप्रणीतम आशौचाष्टकं सव्याख्यम्। भगवन्तं मनु याज्ञवल्क्यं योगीश्वरं नतः । अज्ञानतिमिरान्धानां जनानां दृष्टिशुद्धय । अष्टकश्लोकमृच्यग्रबंधनं कृतवान् हि यः । तं च नत्वा वररुचि तदर्थ विवृणोम्यहम् ।। आशौचाष्टकगीताथतत्त्वसम्प्रतिपत्तये | परम्परभिदागृढवाक्या(र्थःर्थ स्फूर्तिहेतवे ।। आशाचं तावद् द्विप्रकारन अस्पृश्यत्वलक्षणम् अधिकाराभावलक्षणं च । तत्राम्पृश्यत्वलक्षणं चण्डालादिम्पर्शजन्यं स्नानादिकर्मणाप(वृत्ते वर्तत इ)ति लोकतः शास्त्रतश्च सिद्धम् । कर्माधिकाराभावलक्षणम्य किं निमित्तं, तत् कीह- शस्य पुंसः स्यात् , तस्य कन वापगमः इति चापेक्षायामाह नाम्नः प्राग् दन्तजातेरुपनयनविधे- राप्लवोऽहस्त्रिरात्रं ज्ञातेरूर्व दशैतत् सहभुवि तु कृते नानि पित्रोः सदैव।
आशाचाष्टक स्त्रीषु क्षौराष्टमाब्दादुपयभनविधेः पूर्ववत् सन्निधौ स्या- न्मातुस्तन्माससङ्ख्यासमदिनमुभयो- रुद्भवे गर्भनाशे ॥ १ ॥ नाम्नः प्रागित्यादि। अधिकाराभावलक्षणस्य जन्ममरणे निमित्तम् । तत्र जन्मनिमित्तान्मरणनिमित्तस्य गुरुत्वात् प्रथम तदुक्त्वा तन्न्यायं जन्म(निमित्त)स्यातिदेक्ष्यति । कस्माजन्म- निमित्तान्मरणनिमित्तस्य गौरवम् । ‘सूतकाद् द्विगुणं शावम्' इत्यादिस्मृतेः । जातस्य नाम्नः प्राङ् नाशे आप्लवः शोधन इत्यन्वयः। जातस्य नाश इति कुतो लब्धम् । नाम्नः प्रागिति लिङ्गाद् गर्भनाश इति वक्ष्यमाणत्वाच्च । गर्भनाश इत्यत्र नाशशब्दस्य सिंहावलोकितन्यायेनापकृप्य योजना । जातस्य नाश इति सिद्धम् । नामशब्देन नामकरणं लक्ष्यते । तेन च लक्षितलक्षणया तत्कालो गृह्यते । कुतो मुख्यार्थ विहाय लक्ष- णाङ्गीक्रियते । उपनयनविधेरिति वक्ष्यमाणस्य विधिशब्दस्य लिङ्गत्वात् । तेन नामकरणकालात् प्रागित्यर्थः । नामकरण- स्यापि द्वादशाहो मुख्यः कालः, 'द्वादश्यां सुमुहूर्ते वा', 'द्वादशे षोडशेऽपि वा' इति च ज्योतिःशास्त्रदर्शनाद् , नामधेयं दशम्यां तु द्वादश्यां चास्य कारयेद् इति मनुवचनाच्च । सर्वत्र द्वादशाहस्योक्तत्वात् स एव मुख्यः कालः । आप्लवस्य शोधनत्वं कुतो लब्धम् । द्वितीयश्लोकोपसं. हारस्थस्य शुद्धिपदस्यात्रान्वययोग्यतार्थ प्रत्ययविपरिणामेन सिं- " सव्याख्यम्। त्। , हावलोकितन्यायापकृष्टस्याप्लवविशेषणत्वेन शोधन इत्यन्वयात् । तत्राप्लवकर्मणा शुद्धिः । न । आप्लवशब्दस्य काललक्षणार्थत्वा- कथं लक्षणाश्रीयते । गौतमेन 'बाले देशान्तरे'त्यादिना सद्यः शौचविधानात् । ताप्लवशब्देन नाशौचमुच्यते। किं तर्हि , आशौचापगम इति चेद् , न । यस्मिन् क्षण इन्द्रियोपलब्धिर्मर- णस्य , तस्मिन् क्षण आशौचमिति । तर्हि सद्य इति वक्तव्यमिति चेत्, कालकर्मभ्यामुभाभ्यां शुद्धिरित्याप्लवशब्देनोपदेशः । इह यथाप्लव उक्तेऽपि कालम्याङ्गीकरणं , तथोत्तरत्र कालोक्तावपि क- माङ्गीकर्तव्यम । सर्वत्रोभाभ्यां शुद्धिगिति द्रष्टव्यम् । दन्तजातेः प्रागहः शोधनम् । दन्तजातिशब्दन दन्तजातेः कालो लक्ष्यते। दन्तजातिर्दन्तानां जन्म । तस्य कालः । प्रागुपरिष्टाच कालोप. देशात् । दन्तजन्मनो भिषक्शास्त्र कालयमभिहितं- - "दन्तोत्पत्तिः कुमारस्य षण्मासे वत्सरऽपि वा" इति । तत्र संवत्सरे सर्वेषां दन्तोत्पत्तिरिति संवत्सर एव मुख्य- तया ग्राह्यः । ततः संवत्सरात प्रागहः शोधनम् । अहोऽन्त आप्लवाच्छुद्धिरित्यर्थः । उपनयनविधेः प्राक् त्रिरा(त्र) त्रिदिनं शोधनम् । तत्रापि मुख्यतयाष्टमादः परिगृह्यते । उपनयनविधेः उपनयनकालात् । त्रिरात्रान्ते आप्लवाच्छुध्यतीत्यर्थः। (ततः परं दशरात्रम् । यद्यष्टमे नोपनीयेत , तदापि ततः परं दशरात्रेणैव शुध्यति । संस्कारेण कालस्य लक्षितत्वात् । यद्यप्यष्टमात् प्रागेवोपनीयेत, तदापि दशरात्रं गृह्णीयात् । संस्कारेण कालो लक्ष्यते यतः, अतो मुख्यातिक्रमो न युक्त इति । कीदृशस्य आशौचाष्टक पुरुषस्य इत्याकाङ्क्षायां परिहारमाह-ज्ञातेरिति । आसप्त- मात् सपिण्डतया, आदशमात् समानोदकतया च युक्ताः सामान्येन गृह्यन्ते ज्ञातिशब्देन । "सप्तमाद् दशमाहापि ज्ञातयोऽभ्यवयन्त्यपः" इति याज्ञवल्क्यवचनात् । ज्ञातिसामान्येनाशौचे प्राप्ते विशेषमाह-एतदित्यादि। एतत् सहभुवि प्रेते नामकरणाद्येव स्यात् । तुशब्दो विशेष- वाची। सहभुवां विशेषेणाशौचविशेषमाह-(सहभुवीति। सह) भवतीति सहभूः। सहभूत्वमपि त्रिप्रकारम् - एकोदरभूतत्वम् , एकबीजभूतत्वम् , एकमातापितृबीजसंस्कारभूतत्वमिति । तेष्वे- कोदरभुवां दशरात्रं नामकरणायेव । एकबीजभुवां दन्तजन्मन आरभ्य । एकबीजसंस्कारभुवां चौलादारभ्य । "भिन्नोदराणां दन्ताये भ्रातृणामथ संस्थिते दशाहं कृतचौले तु दत्तादीनां विधीयते ॥" इति वचनात् । एतद् दशरात्रं पित्रोः सदैव मातापित्रोः । 'पिता मात्रा' (१. २. ७०) इत्येकशेषः । सदा (एका?) एका- दशेऽहन्यपि । एवं तर्हि प्रागिति वक्तव्यम् । न सदेति वक्त- व्यमिति चेद् । अन्तर्दशाहेऽपि मृते मातापित्रोदशरात्रम् । नन्वन्तर्दशाहे मृते सूतकेन शावं गच्छति, "एक एव निमित्तं चेद् भवेत् सूतकशावयोः । तच्छावं सूतकेनैव तेन पित्रोरपि व्रजेत् ॥" 'अभ्युपयन्त्यप' इति याज्ञवल्क्यस्मृतो पाठो दृश्यते ।
सव्याख्यम् । इति वचनात् । शावमपि सूतकेनैव गच्छतीति तस्यार्थः, अपिशब्दस्यापकर्षात् । तस्मात् सदेति शब्दोऽनर्थक इति । ना- नर्थकः । जातस्यान्तर्दशाहे मरणं यदि न ज्ञायेत , सूतकेऽप- वृत्ते च पुनर्तायेत , तदा शावशेषं गृह्णीयादिति । एवकारेणे- तदेव स्पष्टीकृतम्। इदानीं पुरुषमृतावुक्तं स्त्रीमृतावतिदिशति-स्त्रीष्वि- त्यादि । स्त्रीषु नष्टासु मृतासु पूर्ववत् पुरुषमृतिवत् । समस्ता- तिदेशे प्राप्ते विधिविशेषमाह - क्षौराष्टमाब्दादुपयमनवि- धेरिति । क्षौरविधिश्चूडाकर्म । तेनापि काल उच्यते । 'तृतीय वत्सरे चूडाकर्मेति वचनात् कालोऽपि तृतीयोऽन्दः । तृती- याब्दात् प्रागाप्लवः । अष्टमान्दात् प्रागहः । क्षौराष्ट्रमाब्दादिति द्वन्द्वैकवद्भावः । उपयमनविधेः प्राक् त्रिरात्रभ् । उपयमनं विवाहः, तस्य काल उपयमनविधिः । उपयमनकालात् प्रागि- त्यर्थः । स च द्वादशाब्दः । 'प्रदानं प्रागृतोः इति गौतमवच- नात् । ऋतुश्च हादशाब्दे, 'सा च हादशाब्द ऋतुं पश्यतीति श्रुतेः। (विसमास ? विधिः संस्कारः), स्त्रीणामुपयमनस्यैव सं- स्कारजनकत्वात् । तत एवोपयमनविधेरिति विधिशब्दोऽपि प्रयुक्तः । तथा चाह मनुः "वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः" इति । गर्भक्रियाः परिज्ञात एव प्रवर्तन्ते । नामकरणादयोऽपि तूष्णीं व्यवहारार्थ प्रवर्तेरन् । तथा च याज्ञवल्क्यः - आशौचाष्टकं - “तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः इति । अवधित्रयमेव विशेषः स्त्रीमृतौ । इतरत् सर्वमतिदेशात पुरुषमृतिसमानमेव । आशौचकालेऽतिक्रान्ते किं स्यादित्याश- कयाह सन्निधाविति । सन्निधावेव । देशान्तरे बालमृतौ नाशौचम् । अनेनातिक्रान्ते बालाशौचकाले बालमरणे श्रुते नाशौचमित्युच्यते । तथा च स्मृतिः "तुल्यं वयसि सर्वेषामाशौचं परिकीर्तितम् । उपनीते तु विषमं तस्मिन्नेवातिकालजम् ॥" - . तन्मा- इति । जातमरणे आशौचमुक्तम् । गर्भनाशे किमाशौचमस्ति, उत नास्ति । यदि स्यात् , तर्हि ज्ञातीनां सामान्येन स्याद् , उत नेत्याशङ्कयाह-स्यादित्यादि । गर्भनाशेऽप्याशौचं तन्मा- तुरेव, न पित्रादीनाम् | कस्मात् । तस्या एव गर्भसन्निहित- त्वात् । जातस्यैव हि पित्रादिभिः सह सम्बन्धः। इममेव न्या- यमङ्गीकृत्य स्यादित्युक्तम् । तत् कियदित्याशङ्कयाह ससङ्ख्यासमदिनमिति । तस्य गर्भस्य माससंख्या याव(न्ति ? ती) तावन्ति दिनानि । तन्माससङ्ख्यास(म ? मानि) दिनानि य- स्मिन्निति विग्रहः । आशौचविशेषणत्वादेकवचनम्। चतुर्ष मासेषु त्र्यहमाशौचं, तत्र हि गर्भस्रावो न नाश इति। पञ्चमषष्ठसप्तमेषु माससमानि दिनानि। तथा च गौतमः-'गर्भसमा रात्रिः स्रेसने गर्भस्य व्यहं वेति । अष्टमादिषु दश दिनानि । तत्र प्रसव- कालत्वात् । अ(प)प्रसव इति समाख्या नाश इति । उभयोः सव्याख्यम्। स्त्रीपुंसयोः । अनेनापि नाशश गर्भपतनमुच्यते, न स्राव इति ज्ञापयति। यस्मात् पतन एव स्त्रीपुं(स)व्यक्तिः सम्भवति। उद्भवे उद्धृते । कर्तृव्युत्पत्त्या गर्भनाश उद्भूत इत्यन्वयः । केचिद् - गर्भनाशे मातुः, उद्भवे मातापित्रोरिति वर्णयन्ति । तदयुक्तम् । उद्भवे ज्ञातीनामप्याशौचविधानात् । तर्हि उद्भ- वशब्देनापप्रसवगत इति चेत् , तदयुक्तम् । अपप्रसवस्यापो- द्भवत्वात् । तस्मादुभयोरिति स्त्रीपुंसयोरित्येव युक्तम् ।। अथवान्या व्याख्या स्यान्मातुरित्यादः। गर्भनाशे मातुः, पूर्व ज्ञातीनां सामान्ये नोक्तत्वात् । (मास)सङ्ख्या गर्भनाशे मातुरेव, न पित्रादीनामिति। स्यादित्यनेनोपपत्तिं ज्ञापयति-यस्मान्माता गर्भधारिणी, तस्मान्मातुरव भवितुमर्ह(ती?)त्याशौचमिति। तत् कियदित्यपेक्षायामाह - माप्तसङ्ख्यासमदिनमिति । मास- तुल्याहोरात्राणि । पूर्ववदेव विग्रहः । माससमदिनमित्येतावतैव सिद्धत्वात् सङ्ख्याशब्दोऽनर्थक इति चेद् , न । सङ्ख्येयगर्भना- श एव मासतुल्यान्यहोरात्राणि । पूर्वम् आ चतुर्थान्न गर्भस्य माससङ्ख्येयत्वं, सन्दिह्यमानत्वात् । तथा च लौकिकाः पठ- न्ति एतावन्ति दिनानि न रजः प्रवृत्तम् । गर्भोऽस्ति उत नास्तीति न जानीम इति । अत आ चतुर्थात् त्रिदिनं द्रष्टव्यम् । तथा च गौतमः 'गर्भमाससमा रात्रिरि'त्यादि उभयोः स्त्रीपुंसयोरिति पूर्ववत् । उद्भवे उद्भवकाले जन्मकाले गर्भनाशे तदिति व्यवहितेनान्वयः । प्रसवकाले गर्भनाशे तद् - * इह पुंस्त्वं युक्तम् ।
आशोचाष्टकं जन्माशौचमेव भवतीत्यर्थः । अष्टमादीनां प्रसवकालत्वं शा- रीरव्याख्यातृभिरुक्तम् । अष्टमात् पुरैव सकलावयवोत्पत्त्युपदे- शाद् उपरि प्रसवकालत्वोपदेशाच्च । तथा च याज्ञवल्क्यः "अष्टम मास्यतो गर्भो जातः प्राणैर्विमुच्यते" (इति)। " नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निस्सार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ।।" इति च ॥ इति प्रथमश्लोकः। ज्ञातिमरण आशौचमुक्तम् । आशौचस्य कर्मानधिकारलक्षणत्वात् सर्व- कर्मण्यधिकाराभावे प्राप्ते प्रेतकर्मण्यधिकारविधित्सयाह ऊने द्वाभ्यां समाभ्यां न जलहुतवही नामचौलान्तराले कामं वोय तु कार्यों गुरुलघुदिनसं- वर्धने पश्चिमे न। आ शुद्धेः स्याद् दशाहत्रिदिनदिनविधि- यंत्यये त्रीणि पूर्वे स्नानं शिष्टेऽन्दतः प्रागुपरि तु सकले स्नानमात्रेण शुद्धिः ॥२॥ ऊने द्वाभ्यामित्यादि । ज्ञातिभरणे जलहुतवहौ कार्यों कर्तव्यौ । जलमुदकम् । तेनोदकदानं लक्ष्यते । हुतवहोऽभिः ।
सव्याल्यम्। ९ तेन च संस्कारो (व?) लक्ष्यते। तुशब्दो विशेषवाची। स उत्कृ- ष्य योज्यः कार्यों त्विति । जलहुतवहयोः सामान्येन कार्यत्वेऽपि हुतवहो ज्ञातीनां सन्निकृष्टेनैकेन कार्य इति । तथा चाह- " उदकं पिण्डदानं च सायंप्रातस्तु पुत्रकः” इति । अत्र चशब्देनाग्निसंस्कार उच्यते । उदकदानं सर्वैः सपिण्डैः कर्तव्यम् । तथा चाह - दग्ध्वा मृतं सपिण्डास्तु सकृद् दद्युर्जलाञ्जलिम् इति। दग्ध्वेति दाहानन्तरमेव न पूर्वम् । नात्र समानकर्तृ(क)त्वं विवक्षितमिति । ततश्चोदकक्रियैव सर्वैर्जातिभिः कर्तव्या। तथा " च याज्ञवल्क्यः " सप्तमाद् दशमाहापि ज्ञातयोऽभ्यवयन्त्यपः इति, "सकृत् प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः" इति च । मृतस्य सर्वस्यापि संस्कारोदकदानयोः प्राप्तयोरपवादं ज्ञातिविशेषेण तद्विशेषं चाह ऊन इत्यादि । द्वाभ्यां समा- भ्यामूने न । द्वाभ्यां संवत्सराभ्यामसम्पूर्णे बाले मृते संस्कारो- दकदाने न कार्ये । असम्पूर्णद्विवर्षस्य संस्कारोदकदानयोः प्रति(षेध ? पिड)त्वात् तत्करणे प्रत्यवाये प्राप्त पाह-नाम- चौलान्तराले कामम् । नामकरणचौलयोर्मध्ये कामम् इच्छातः। तर्हि मरिचभक्षणादिवदिच्छातः प्रवृत्तेः शास्त्रीयत्वं न भवतीति चेद् , न । शास्त्राभ्युपगमे शास्त्रीयत्वम् । शास्त्रीयत्वे १० आशौचाष्टकं , किं फलम् । करणेऽभ्युदयः, अकस्णे प्रत्यवायाभावश्च । पित्रा- दीनां सर्वेषामेवं प्राप्त आह वा विकल्पेन । मातापितृभ्यां दन्तजन्मायेव कर्तव्ये, प्राक् कामतः । पूर्णद्विवर्षस्यैव ज्ञातिभिः कर्तव्ये, प्राक् कामतो दन्तोत्पत्तेः परम् । तथा च गौतमः , "उदकदानं सपिण्डैः कृतजटस्य दन्तजन्मादि माता- पितृभ्याम्" इति । ऊर्ध्वम् । तुशब्दोऽत्रापि सन्निकर्षात् सम्बध्यते । उपन- यनादूर्ध्वमावृतैवाग्निसंस्कारः कर्तव्यः, न पूर्ववद् यथाकथ- ञ्चित् कर्तव्य इत्यर्थः । तथा च याज्ञवल्क्यः " यमसूक्तं तथा गाथा जपहिलौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् ॥" इति । संस्कारादिविधेः पूर्वमपवादश्छन्दोनुरोधात् । आशौ- चस्य कर्मानधिकारलक्षणस्य ज्ञातिसामान्येनोक्तत्वाच् शवसं- स्कर्तुराशौचाधिक्यं प्राप्नोतीत्याशङ्कयाह-गुरुलघुदिनसंवर्धने पश्चिमे नेति । पश्चिमे द्वितीये अग्निसंस्कारे , पूर्व जलहुतवहा- विति पठितत्वात् । तस्मिन् कृते गुरुदिनस्य त्रिदिनस्य , लघु- दिनस्य दिनस्य च वर्धने न स्तः । दिनस्य त्रिदिनत्वं, त्रि. दिनस्य दशाहत्वं च नास्तीत्यर्थः । तर्हि किं संस्कर्तुमा॑तितो न विशेषोऽस्ति । उच्यते । कालाधिक्यं नास्ति , समुपसर्गप्रयो- गात् । किन्त्वस्पृश्यत्वे विशेषोऽस्ति, दाहकत्वात् । अनेन .
सव्याख्यम् । ११ बालविषय आशौचाधिक्यापवादेनोर्ध्व संस्कारेणाशौचाधि- क्यमस्तीति ज्ञापयति । तथा च मनु:- "अह्ना चैकन राच्या च त्रिरात्रैरेव च त्रिभिः। प्रेतस्पृशो विशुध्यन्ति त्र्यहात्तूदकदायिनः ॥" इति । संवर्धने इति द्विवचनं दशाहस्य क्वचिदप्याधिक्यं ना- स्तीति ज्ञापनार्थम् । किं दशाहाद्युक्तमाशौचमेकदेशेऽतिक्रान्ते ज्ञाते मरणप्रभृति उत ज्ञानप्रभृति ग्राह्यमित्याशङ्कयाह आ शुद्धेरिति । अन्तरा ज्ञातं चेद् ज्ञानप्रभृति शिष्टकालेनैव शुद्धिः । आ शुद्धेः शुद्धिकालात् । शुद्धिकालः सङ्गवः, अधभाजः सङ्गवे स्नात्वा ग्रामं प्रविशेयुः" इति वचनात् । - अहस्त्वपररात्रादि न तु सूर्योदयादिकम् । द्वितीयसङ्गवान्तं तदेकाहाद्यघसङ्ग्रहः ॥ इति च स्मरणात् । यस्मिन् दिने सङ्गवः शुद्धिकालः, तस्मादा शुद्धिकालात् । आङनाभिविध्यर्थः । तस्मिन् सङ्गवेऽतिकान्ते शुध्यतीत्यर्थः । स्याद दशाहत्रिदिनदिनविधिः । दशाहं त्रि- दिनं दिनं च दशाहत्रिदिनदिनानि, तेषु विधिर्दशाहत्रिदिन- दिनविधिः । उदकक्रियादिकं विधिं कर्तुमाशौचकाल एव श(नोको)ति चेच्छेषेणैव शुध्यति । विधिरपि मन्वादिभिरुक्तः। यथाह - १२ आशौचाष्टकं " दग्ध्वा मृतं सपिण्डास्तु सकृद् दर्जलाञ्जलिम् । सायंप्रातस्तु कुर्वीरन्नेवमा दशमाद् दिनात् ॥” इति, उदकं पिण्डदानं च सायंप्रातस्तु पुत्रकः । कुर्यादाशौचकाले तु न चेत् कृत्वा शुचिर्भवेत् ॥ पिण्डोदकेऽपकर्षेच्च स्वल्पकालमघं यदि । भविष्यत्पिण्डनिर्वापे पृथक् तन्त्रं न चाश्रयेत् ॥ ब्रह्मचारी यदा कुर्यात् पिण्डनिर्वपणं पितुः । तावत्कालमशौचं स्यात् ततः स्नात्वा विशुध्यति ॥ ब्रह्मचारी यदा कुर्याच्छवनिर्हरणं पितुः । मुक्त्वा स्वाध्यायमन्यत् तु नित्यकर्म समाचरेत् ॥ आचार्यं पितरौ मुक्त्वा सपिण्डान् न दहेद् व्रती । अन्यांस्तु दहतः सद्यो व्रतं नश्यति कामतः ॥" इत्यादिको विधिरिति । दशाहादौ समस्तेऽतीते कथं स्यादित्यत आह व्यत्यय इत्यादि । व्यत्यये समस्तस्यातिक्रमे । पूर्वे दशाहेऽतिक्रान्ते त्रीणि दिनानि गृह्णीयात् । तेषु दिनेषु दशाह- विहितपिण्डोदकक्रियाश्च कुर्यात् । तथा चाह प्रथमेऽहनि तत्पिण्डं द्वितीये चतुरस्तथा । तृतीये पञ्च वै कुर्यादेष पिण्डविधिः स्मृतः॥" इति । तदिति प्रथमदिनसम्बई पिण्डं, चतुर इति चतुर्दिन- सम्बद्धान् पिण्डान् , पञ्चेति पञ्चदिनसंबद्धान् । पिण्डशब्द उद- - " सव्याख्यम् । १३ ३ कदानस्याप्युपलक्षणार्थः । शिष्टे त्रिदिनदिनयोरतीतयोः। स्नानं स्नानात् पूर्व पिण्डोदकक्रियां कृत्वा स्नात्वा शुध्यतीत्यर्थः । अतिक्रान्ते किं सदैव (त)दित्याशङ्कयाह -अब्दतःप्रागिति। कालातिकम उक्तो विधिरब्दतः संवत्सरात् प्रागेव । अत ऊर्ध्व कथं स्यादित्याशङ्कयाह-उपरि तु सकल इत्यादि । उपरि संवत्सरादूर्ध्वम् । स्नानमात्रेण शुद्धिः । स्नानमात्रेणेति मात्र- शब्देन उदकक्रियादिव्यावृत्तिः । उदकक्रियादिं मुक्त्वा केवलं खानेन शुध्यतीत्यर्थः । पिण्डकर्तुः प्रेतस्य पिण्डविच्छेदादेतन्न युक्तमित्यत आह सकल इति । पिण्डकर्तृत्वे सत्यपि स्लाने- नैव शुध्यतीत्यर्थः । तर्हि मातापित्रोरपि स्नानमात्रमेव प्राप्नोति । न । तुशब्दो विशेषवाची । अयं विशेष:--- महागुरुषु प्रेतेषु संवत्सरादूर्ध्वमपि सर्वमौर्ध्वदेहिकं कर्तव्यमिति । तथा च स्मृतिः "महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना । अतीतेऽन्देऽपि कर्तव्यं प्रेतकार्य यथाविधि ॥" इति ॥ इति द्वितीयश्लोकः। - - - जननमरणनिमित्ताशौचस्य चण्डालादिस्पर्शजन्यवदितरस्पर्शायोग्यत्वम् , उतान्यद् वा लक्षणमित्याशङ्कयाह विश्लिष्टा न स्पृशेयुतसविधनरान् दाहकं ते च तेषा- १४ आशौचाष्टकं मन्योन्यं नैव भुक्तिर्मरणदिवसतो- ऽनाहिताग्नेर्दशाहम् । आशौचं त्वाहिताग्नेर्दहनदिवसतः सञ्चयादव॑मस्थ्ना- मङ्गस्पृष्टौ न दोषस्तदपि निगदितं ब्राह्मणानां चतुर्थे ॥३॥ विश्लिष्टा इत्यादि । विश्लिष्टाः सपिण्डसमानोदकव्य- तिरिक्ताः । ते मृतसविधनरान् न स्पृशेयुः । मृतस्य सविधा नरा मृतसविधनराः । विधा पिण्डः । सविधाः सपिण्डाः । सपिण्डशब्देन समानोदकादयो लक्ष्यन्ते । मृतस्य सपिण्डादीन पुरुषान् न स्पृशेयुरित्यर्थः । मरणाशौचस्योक्तत्वाद् मृतशब्दो. ऽनर्थक इति चेद् , न । मरणाशौच एव सपिण्डानामस्पृश्य- त्वमिति ज्ञापनार्थत्वात् । अनेनैव विश्लिष्टा इति सिद्धे तगह- णात् समानोदका अपि लक्ष्यन्त इत्युक्तम् । ते मृतसविधनरा दाहकं न स्पृशेयुरिति योज्यम् । अनेन दाहकस्याशौचाधिक्य- मस्तीति ज्ञापितम् । तथा चाह "सूतकाद् द्विगुणं शावं शावाद् द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सृतिः मृतेश्च शवदाहकः ॥" इति । चशब्देनान्योन्यमिति वक्ष्यमाणमपकृप्यते । अन्योन्यं च न स्पृशेयुरित्यर्थः । तथा चाह शावाशौचिनोऽन्योन्यं न स्पृशेयुः इति । तेषां विश्लिष्टानां न भुक्तिः । भुक्तिप्रतिषेधादन्नस्ये- त्यर्थसिद्धम् । केषामन्नस्येत्याकाङ्क्षायामधिकारादेव च मतस- - “ सव्याख्यम् । १५ विधनराणामिति च सिध्यति । अन्नस्येत्यनेन सम्बन्धार्थ विभक्तिव्यत्यासश्च भवति मृतसविधनराणामिति। भुक्तिशब्दः प्रतिग्रहादीनामप्युपलक्षणत्वेन तद्दानादीनामप्युपसङ्ग्रहणार्थः । तथा च मनु:- "उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥" इति। अतोऽनधिकारलक्षगत्वं भवति शावेऽङ्गस्पर्शायोग्यत्वं च । अन्योन्यं च न भुक्तिः नपिण्डानाम् । ननु चैतद् विरुद्धं- द्वितीया(त् ) प्रभृत्येकोपचयेन चतुष्पष्टिं ब्राह्मणान् भोजयेत् (सा? आ)दशसादह्नः" इति, "ज्ञातिभिः सह भोक्तव्यमेतत् प्रेतस्य दुर्लभम् इति च विधेः । न विराधः । रागप्राप्तस्य निषेधो न शास्त्र- प्राप्तस्येति । अतः स्वेच्छयान्योन्यस्य गृहे न भुल्लीत । एव- कारेण भोजने दोषगौरवं दर्शयति । तथा चाह "आशौचिनां तु भुक्त्वान्नं चरेत् कृच्छ्रे विशुद्धये" - इति । दशरात्रादि कदाप्रभृति ग्राह्यमित्याशङ्कायां मरणनिमि- त्तत्वान्मरणप्रभृति युक्तमिति न्यायसिद्धमेवानुवदति विशेष- विधानार्थ-मरणदिवसतोऽनाहिताग्नेर्दशाहमिति । मर- णदिवसमारभ्य । येनाग्न्याधानं न कृतं, तस्य दश दिना- ११ आशौचाष्टक (स्या ? न्या)शौचं ग्राह्यम् । अनुवादप्रयोजनं तु यस्याहितामे रग्न्यभावे च मरणदिवसे कथश्चित् संस्कारो न सम्भवति, तस्यापि मरणप्रभृत्येवाशौचं ग्राह्यमिति । अनाहितामेरित्युक्त- त्वादाहिताग्नेः कथं स्यादित्याशङ्कयाह -आशौचं त्वाहिता- मेर्दहनदिवसत इति । आहिताग्नेस्तु , येनाग्न्याधानं कृतं तस्य विशेषोऽस्ति दहनदिवसमारभ्य तस्याशौचं ग्राह्यमिति । न्या- योऽप्यत्र-आहिताग्नेस्तदैव मृतिरपि, यदा पात्रसादनयुक्तो- ऽग्निदाहः । तथा चार्थवादश्रुतिरपि. "यज्ञायुधी ह वा एष याजमानोऽञ्जसा स्वर्ग लोकमेति आहिताग्नेर्दहनदिवसत इत्येतावतैव सिद्धत्वात् तुशब्दस्यान्यो वार्थस्तदनुष्ठाने विशेषोऽस्तीति । तथा च- आहिताग्निर्यदाशौची सन्ध्ययोरुभयोरपि । स्नात्वाग्निहोत्रं जुहुयादिति धर्मविदो विदुः ॥" - इति । शावाशौचस्येतरस्पर्शायोग्यत्वं चोक्तम् । तत् सदा प्राप्नो- तीत्याशङ्कयाह-सञ्चयादूर्ध्वमित्यादि । अस्थिसञ्चयनादूर्ध्व- मितरस्पर्शे तस्याशुचित्वं नास्तीत्यर्थः । तर्हि यदा दशाहादेर- न्तरास्थिसञ्चयनं नास्ति, तदा सर्वदैवास्पृश्यत्वं प्राप्नोतीत्याश- याह-तदपि निगदितमित्यादि । तत् सञ्चयनं ब्राह्मणा- नां चतुर्थे दिवसे निगदितं विहितम् । अपिशब्दो ‘दशमदिन- मुख' इत्युत्तरत्र वक्ष्यमाणपदाद् दिनमुख इत्यस्याध्याहारं द्यो- तयति । चतुर्थदिनमुखे चतुर्थदिवसस्य पूर्वाहे कर्तव्यमित्यर्थः सव्याख्यम्। १७ ब्राह्मणस्य चतुर्थदिनमुखं सञ्चयनस्य कालः । निगदितशब्देन लक्षणोच्यते । अतः काललक्षणार्थत्वात् सञ्चयनकालादर्वागङ्ग- स्पर्शायोग्यत्वं न परतोऽपीत्यर्थः ॥ इति तृतीयश्लोकः। - ब्राह्मणम्य सञ्चयने कालमुक्त्वेदानीमितरेषां सञ्चयनकालमाह- शृढे राजन्यवैश्ये दशमदिनमुखे पञ्चमे सप्तमेऽह्नि प्राप्तेऽन्यस्मिन् समाने प्रथमदिनवशं रात्रिशेषे द्विरात्रम्। पूर्वाशीचेऽन्यपाते त्रिदिनमतिदिने सगवे न व्यतीते दुराशौचान्तराले यदि विदितमभू- च्छेषमात्राच्छुचिः स्यात् ॥ ४॥ शूद्रे राजन्यवैश्य इत्यादि । शूद्रे प्रेते दशमदिनस्य पूर्वाह्नेऽस्थिसञ्चयनं कार्यम् । क्षत्रिये प्रेते पञ्चमदिनस्य मुखे- ऽस्थिसञ्चयनम् । वैश्ये प्रेते सप्तमदिनस्य मुखे । मुखशब्दस्या- धिकारात् प्रसङ्गः । ननु च ब्राह्मणस्यैवाशौचमुक्तम् । अत इ. तरेषां सञ्चयनकालः कस्मादुक्तः । सञ्चयनकालोपदेशादेव तेषा- माशौचकालोऽप्यर्थादुक्तो भवतीत्यदोषः । तत् कथमिति चेत् , सर्वेषामात्मीयाशौचतृतीयांशेऽस्थिसञ्चयनं कार्यम्" आशौचाष्टकं इति वसिष्ठवचनात् । अतः शूद्रस्य मासमाशौचमुक्तं भवति, क्षत्रियस्य पञ्चदशाहं, वैश्यस्य विंशतिरात्रमिति । कस्मात् पुन- ाह्मणसञ्चयनकालाभिधानानन्तरं क्षत्रिय(स्य ?)वैश्ययोरनुक्त्वा शूद्रस्य सञ्चयनमुक्तम् । तत् संस्कारे दिक्क्रमविवक्षयेत्यदोषः । तथा संस्कारे दिक्क्रमं यम आह- - प्रेतीभूतमलङ्कृत्य ब्राह्मणं पूर्वतो हरेत् । शूद्रं प्रेतमलङ्कृत्य दक्षिणा दिशि निहरेत् ॥ प्रेतं तु क्षत्रियं वैश्यं हरेत् प्रत्यगुदग्दिशोः॥" इति । अथवा क्रमभेदस्येदं प्रयोजनं ब्राह्मणस्यैव कलौ युगे जातेर्निर्णयः । शूद्रस्यापि तदनुकृतिरस्ति। क्षत्रियवैश्ययोः केवलजाति (ति?स्ति) । तथा निर्णयकारेणोक्तम् - "इदानीमन्यवर्णानां स्वरूपापरिनिश्चयात् । अस्माकं ब्राह्मणाशौचव्यवस्थाविषयः श्रमः ॥" इति । तर्हि कस्मात् क्षत्रियवैश्ययोरुक्तमिति चेत् , तयोरपि मातृजात्या व्यपदेशोऽस्तीति । अथवा क्षत्रियवैश्याशौचप्रवेशार्थ शूद्र() ब्राह्मणानन्तरमुक्तः। तथा चाह - 'अर्धमासमेक' इति , “वैश्यवच्छौचकल्पः स्याच्छूद्राणां न्यायवर्तिनाम्" इति च । राजन्यवैश्य इति समासनिर्देशस्तयोरपि कल्पान्तर- प्रवेशार्थः । तथा च गौतमः "एकादशरात्रं क्षत्रियस्य, द्वादशरात्रं वैश्यस्य' , सव्याख्यम् । इति । एवं मरणाशौचमुक्तम् । तत्रैकस्यान्तरालेऽन्यदाशौच- मागच्छेद् यदि 'प्रतिनिमित्तं नैमित्तिकमावर्तनीयमि'त्यनेन न्यायेन सकलस्य ग्रहणे प्राप्त आह-प्राप्तेऽन्यस्मिन् स- मान इत्यादि । एकस्मिन्नाशौचे समाने जातितः कालतश्च तुल्ये प्राप्ते । जातितः साम्यं मरणे मरणमेव, न जननम् । कालतः साम्यं दशाहे दशाह एवेत्यादि । समान इत्युक्तत्वा- न्यायतो गुरुणा लघोर्गमनं सिद्धं , यथा गुरुणा पाषाणेन बदस्य लघोः कुसुमस्य गमनम् । तथा चाह - शावेन सूतकं गच्छन्न सूतिः शवशोधिनी' इति (च?)। प्रथमदिनवशं पूर्वाशौचेनोत्तराशौचं गच्छति । पू. दिनवशमित्यनुक्त्वा प्रथमदिनवशमिति वदन् गुरुणा लघोरप- गमनं न्यायसिद्धं (मन्यते) । स्पष्टजातिकालनिमित्तगौरवयोः कालनिमित्तस्य मुख्यत्वं , यथा सङ्कुचितक्षत्रियमहाविस्तार- शूद्रयोः शूद्रेण सह क्षत्रियस्य गमनम् । तथा च सङ्कुचितं शावं विस्तीर्णेन सूतकेन गच्छेद् नान्यथा । प्राप्ते समान इत्युक्त एवान्यत्वे सिद्धेऽन्यस्मिन्नित्युक्तेरयमभिप्रायः- यद्या- शौचनिमित्तस्योत्तरस्याशौचिनान्यत्वमिति । यद्यनन्यत्वं तर्हि न प्रथमदिनवशम् । यथा पितापुत्रयोः । तथा च मन्त्रवर्णः पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् । तस्याः पुनर्नवो भूत्वा दशमे मासि जायते ॥" इति । यथा च दम्पत्योः । तथा च श्रुतिः २० आशौचाष्टकं - " अर्धो ह वा एष आत्मनो यत् पत्नी' इति । अतः पितापुत्रयोर्दम्पत्योश्वाशौचं न पूर्वशेषेणैव गच्छेत् । तथा च स्मृतिः- "मातापित्रोस्तु दम्पत्योः सूतके स्वसुतस्य च । दशाहेनैव शुद्धिः स्याच्छेषन्यायो न विद्यते ॥" इति । तत्र मातापित्रोराशौचमन्योन्यस्मिन्नापतेद् यदि, तर्हि गुरुत्वातिरेकान्मातस्तदाशौचस्य पितुराशौचेन नापगमः। पितु- राशौचं मातुराशौचेन गच्छेच्च । तथा चाह "मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥" इति । तुशब्दस्य त्रिरात्रादधिकं पक्षिणी ग्राह्येत्यर्थः । अर्धा- धिकं चतुरहमाशौचमित्यर्थः । अन्यस्मिन् समान इति विस- मासोक्तिरपेक्ष्यभेदाद् आशौचिनमपेक्ष्यान्यत्वम् आशौचमपेक्ष्य समानत्वमिति । अथवान्या व्याख्या समाने प्राप्ते प्रथमदि- नवशं पूर्वाशौचशेषेण शुद्धिः । अन्यस्मिन् विषमे प्राप्ते प्रथम- दिनवशम् । प्रथमो मुख्यः । गुरुरित्यर्थः । गुरुलध्वाशौचयो- रन्योन्यपाते लध्वाशौचं गुर्वाशौचेन गच्छेत् । तथाह 'गु. रुणा लघु शुध्येते'ति । अथवान्यस्मिन्नन्यनिमित्ते गुरुदिनव- शम् , एकनिमित्ते विषमे च सूतके शावे च अगुरुदिनवशं पूर्वदिनवशम् । अतः सूतकेन शावं गच्छेत् । तथा च स्मृतिः - सव्याख्यम् । २१ - " एक एव निमित्तं चेद् भवेत् सूतकशावयोः । तच्छावं सूतकेनैव तेन पित्रोरपि व्रजेत् ॥" इति । अन्तःपाते पूर्वाशौचनोत्तराशौचं गच्छेदित्युक्ते विशेष- माह रात्रिशेष इत्यादि । पूर्वाशौचे रात्रिशेषे अन्यपाते दशमदिनेऽन्यपाते रात्रिद्वयं ग्राह्यम् । परतः पूर्वाशौचेऽतिदिने दशमदिनेऽप्यतिक्रान्ते सङ्गवे न व्यतीतेऽन्यपाते त्रिदिनम् । स- व आशौचापगमकालः, अघभाजः सङ्गवे स्नात्वा ग्रामं प्रविशेयुः" इति वचनात् । सङ्गवः सम्यगुदयः । तथा च श्रुतिः- आहवनीयेन रश्मीन् सन्दधाति इति । दशमदिनस्य रात्रेः पूर्वभागयोरतिक्रान्तयोः सङ्गवात् प्रा- गापतेच्चेत् परतस्त्रिरात्रं गृह्णीयात् । तथा चाह --'प्रभाते ति- सृभिरि'ति । अन्तःपाते त्रिदिननियमाद् द्विरात्रशेषे पूर्वाशौचे परत एकरात्रं गृह्णीयादिति च सिद्धम् । किमन्तःपाते ज्ञाना- वधि त्रिरात्रम् , उत सत्तावधीत्याशङ्कयाह-दूराशौचान्तराल इत्यादि । दूरत्वादविदितस्य सतः पूर्वाशौचस्यापगमात् प्राग् विदितस्य च अन्तराले मध्ये उत्तराशौचं विदितं भवति चेत् । पतितमिति वक्तव्ये विदितमित्युक्तत्वादतिक्रान्तैकदेशं पूर्वमवि- दितं (स ? य)द्युत्तरमाशौचं विदितं भवति, तदा शेषमात्राच्छु- चिर्भवति । एतदुक्तं भवति-यदि पूर्वाशौचे सम्बद्धैकरात्रमु- त्तराशौचं विदितं भवति तदा दिनद्वयेन, यदि सम्बद्धद्विरात्रं , २२ आशौचाष्टक विदितं भवति तदैकरात्रेण , यदि सम्बद्धत्रिरात्रं विदितं भवति तदा शेषमात्राच्छुचिः स्यात् । सत्तोपाधि त्रिरात्रं, न ज्ञानप्रभृ- तीत्यर्थः । यद्याशौचापगमात् प्रागस्मिन्निदमापतितमिति पराम- शे भवति, तदा शेषन्यायेन शुद्धिर्भवतीत्यर्थः । न्यायेन निरू- पणप्रकार उक्तः । दूराशौचान्तराले विदितमिति वक्तव्ये यदि विदितमिति वाचोयुक्तेरयमभिप्रायः--कतिचिद् विषया उक्ता न सर्वे । आनन्त्याद् विषयाणाम् । अनुक्तेषु विषयेष्वनेन मा- र्गेण न्यायतो निरूप्य कल्पनीयमिति ॥ इति चतुर्थश्लोकः। सपिण्डानामाशोचमुक्त्वेदानी समानोदकानामाशोचमाह- स्नानं प्राग् दन्तजातेर्दिनमुपनयनात् त्रीणि पश्चात् समक्षं सद्योऽतीते श्रुतं चेत् त्रिदिनदिनविधौ शुद्धिरेकोदकानाम् । पित्रोस्तत्सोदराणामुभयतनुजयो- स्तद्गुरूणां प्रयाणे प्रत्तायाः पक्षिणी स्यादभिहितमरणे सैव गच्छेत् पुमांसम् ॥५॥ स्नानं प्राग् दन्तजातेरित्यादि । संवत्सरादर्वाङ् मृते समानोदकानां स्नानेन शुद्धिर्भवति । दिनमुपनयनात् प्राग सव्याख्यम् । २३ । अष्टमाब्दात् प्राङ् मृते एकदिनेन शुद्धिर्भवति । उपनयनका- लात् तत्कर्मणो वा उपरि दिनत्रयेण शुद्धिः समक्षम् । अतिक्रा- न्ताशौचं नास्ति समानोदकानाम् । यदि तस्मिन्नेव काले ज्ञानं तदैवाशौचं, न सपिण्डवदलिकान्तमपीत्यर्थः । स्त्रीणां मृतावष्ट- मान्दात् प्राक् स्नानम् । विवाहकालात् तत्कर्मणो वा प्राग दि- नम् । अतः परं प्रत्तानां त्रिदिनमिति । किं सपिण्डानामाशौ- चापगमात् प्राक् समानोदकानामाशौचं भवति उत नेत्याश- दयाह-सद्योऽतीते श्रुतं चेदिति । स्वाशौचकालेऽतिक्रान्ते यदि श्रुतं भवति, तर्हि स्नानमात्रेण शुद्धिः स्यात् । इदानीं समानोदकानां कर्मजन्यमाशौचमाह-त्रिदिनेत्यादि । त्रीणि त्रिदिनानि एक दिनं च त्रिदिनदिनं, तस्मिन् त्रिदिनदिने । दशाह इत्यर्थः । दशाहेऽतीते शुद्धिर्भव(ति।) विधौ संस्कारे कृते । विधिहेतौ त्रिदिनदिने इति विग्रहः । कारणे कार्यवदुप- चारात् । संस्कारे कृते समानोदकानां दशरात्रमाशौचमित्यर्थः । तथा च मनु:- "रज(ना ? न्या)द्वैव चैकेन त्रिरात्रैरेव च त्रिभिः । प्रेतस्पृशो विशुध्यन्ति व्यहात्तूदकदायिनः॥" इति । उदकदायिनरत्र्यहाच्छुध्यन्ति , प्रेतस्पृशस्तु दशरात्रेणेति तस्यार्थः । त्रिदिनदिनविधौ शुद्धिरित्यस्यान्यो वार्थः-- त्रिदि- नेषु दिनविधौ कृते । दिनविधिः श्राद्धं , 'रात्रौ श्राद्धं न कुर्वी- ते'ति वचनाद् रात्रौ निषेधात् । पिण्डकर्तृणां केनापि निमित्तेन २४ आशौचाष्टकं - , संस्कारमकुर्वतां समानोदकानामिदम् । तथा चाह- "प्रथमे त्रीन् द्वितीयेऽद्धि चतुरस्त्रीस्तृतीयके । पिण्डानेवं प्रदद्यात् तु सोदकः पिण्डदो यदि ॥" इति । त्रीनिति त्रिदिनसम्बन्धिनः, चतुर इति चतुर्दिनसम्ब- न्धिनः, प्रथमद्वितीयदिनयोः। एवं तृतीयेऽपि त्रिदिनसम्बन्धिन इत्येवं त्रिदिनेष्वेव दशाहसम्बन्धिनः पिण्डान् कुर्यात् । एवमु. दकक्रियाश्च कुर्यात् । पिण्डोदकयोः सहभावात् । चतुर्थेऽहन्या- शौचेऽपगते प्राग् दशाहात तूष्णीमासित्वा एकादशेऽहनि पिण्डं च कुर्यादिति । त्रिदिनदिनविधावित्यस्यान्या व्याख्या-त्रिदि- नानां दिन एव विधौ । त्रिदिनानि त्रिदिनचोदितानि कर्माणि । तेषामेकस्मिन्नेव दिनेऽनुष्ठानेऽपि शुद्धिरिति । अस्यायं विषयः- समानोदकानां पिण्डकर्तृणां त्रिदिनेष्वतीतेषु यदि ज्ञानं भव- ति, तदा त्रिदिनचोदितानि कर्माणि दिन एव कृत्वा स्नात्वा पिण्डं च कुर्यादिति । अयमों न्यायत एव प्राप्तः । अतीतस्या- शौचकालस्यासम्पाद्यत्वात् , पिण्डोदकक्रियाणामवश्यानुष्ठेयत्वा- च । अतो न वक्तव्यमिति चेत् । न । आशौचस्यातीतत्वात् तच्चोदितकर्माण्यपि निवर्तेरन् , उत तदनुष्ठानार्थं त्रिदिनमाशौ- चं ग्राह्यमिति सन्देहः स्यादिति तद्व्यावृत्त्यर्थ न्यायसिद्धमेवानुव- दतीति । सपिण्डसमानोदकयोराशौचमुक्त्वेदानी बान्धवाशौच- माह-पित्रोस्तत्सोदराणामित्यादि । मातापित्रोः (म ?) तयोः सोदराणां भ्रातृणां पितृव्यपितृष्व(स्रीया ? स्रा)दीनां मातुलमातृ- प्वस्रादीनां च , उभयतनुजयोः मातृपितृवर्गपुत्रयोः मातुः मातु- सव्याख्यम् । २५ , - तृणा च पुत्राणां , पितुः पितुम॒तॄणां च पुत्राणां, तदुरूणां मातापित्रोर्गुरूणां पितामहपितामहीमातामहमातामहीनां प्रयाणे प्रत्तायाः स्त्रियाः पक्षिणी आशौचं स्यात् । पक्षिणी पक्षद्वयवती रात्रिः। पार्श्वद्वये दिनवती रात्रिः । अहश्च रात्रिश्च दिवसपर्यायौं। "अहश्च रात्रिश्च तथा अहोरात्रस्य वाचकौ” इति नैखण्टुकदर्शनात् । पक्षिणी त्रिरात्रमित्यर्थः । अथवा पक्षिणी नवतिनाडिका अहईयमध्यगता इति केषाञ्चिन्मतं स्यात् । संस्कारेऽपि त्रिरात्रमेव बान्धवानाम् । तथा चाह- "असपिण्डं द्विजं प्रेतं विप्रो निहत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥” इति । तत्सोदराणामिति वचनाद् बीजयोनिसंबन्धरहितानां मातुलादीनामेकदिनमाशौचम । तथा च याज्ञवल्क्यः "अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ।।" इति । अत्र मातुलो बीजयोनिसंबन्धरहित उक्तो गुर्वादिभिः सहपाठादिति भाष्यकाराणां व्याख्या । तत् किं बान्धवा- शौचं स्त्रीणामेव उत पुंसामपीत्याशङ्कयाह -- अभिहितमरणे सैव गच्छेत् पुमांसमिति । अभिहितानां पित्रादीनां मरणे सा पक्षिणी पुमांसमपि गच्छेत् । पुंसामपि सापिण्ड्याभावे पक्षिण्याशौचं भवति । सेति स्त्रीणामुक्ताशौचपरामर्शः । स्त्रीणां हि सपिण्डता नास्ति पित्रादिभिः, - २६ आशौचाष्टकं "एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके इति वचनात् । तदाशौचपरामर्शात् सापिण्ड्याभाव एव स्या- दिति । तथा चाह "मातामहीपितामह्योर्मातर्यासामपत्यके । तदपत्येष्वसापिण्ड्ये पक्षिणी स्यात् परस्परम् ॥” इति । अथवा सेति स्त्रीणामाशौचपरामर्शः प्रत्तशब्दस्य पुंसो- ऽपि विशेषणत्वज्ञापनार्थः । यथा प्रत्तायाः स्त्रियाः पक्षिणी , तथा प्रत्तस्य पुंसोऽपि पक्षिणी स्यादिति । द्विविधं हि पुंसां प्रदानम् । अयमावयोः पुत्र इति संवादेन यद् दानं तदेकम् । अयं तवैव पुत्र इति संवादेन यद् दानं तदन्यत् । तथा प्रत्त- स्य पुंसः। एवकारेण अतीतगो(त्रा)द् उपनयनात् प्रागप्याशौचं व्यावर्त्यते । अतीताशौचव्यावृत्तौ सैवेत्यन्वयः । विवाहोपनय- नयोः प्रागाशौचव्यावृत्तौ प्रत्ताया एव प्रयाणे पित्रादीनां पक्षि- णीत्यन्वयः, विवाहोपनयनयोश्च समानत्वादिति । तथा चाह - “पक्षिणी योनिबन्धूनां नातिकालजसूतके । नोपनीतेरधः पुंसो न पाणिग्रहणात् स्त्रियाः॥" इति । अभिहितमरण इत्यादेरन्यो वार्थः-अभिहितानां पित्रादीनां मरणे । प्रत्ताशब्दः स्त्रीविशेषणत्वेन श्रुतोऽप्यधिका- रात् पुंसोऽपि विशेषणम् । तदन्वययोग्यतार्थ द्वितीयान्तो द्रष्ट- व्यः, प्रत्तं पुमांसमिति । प्रकर्षेण दत्तः प्रत्तः । तथा च भग- वतः पाणिनेः स्मरणं-दो दढोः' (७. ४. ४६) इति प्रकृत्य सव्याख्यम् । २७ 'अच उपसर्गात्तः' (७. ४. ४७) इति । प्रकर्षेण दानम् एका- मुष्यायणतया यद् दानं तत् प्रत्येतव्यम् । तदुक्तं षट्त्रिंश- न्म(ते)- "उपाध्यायांस्तथाचार्यान् बान्धवानुभयोरपि । ऋत्विजश्च तथा राज्ञः प्रकृतीपसन्निधौ ॥ समानाय्य यथाशास्त्रमपुत्रो विधिवद् द्विजः । मातृतः पितृतः पुत्रं गृह्णीयाद् भार्यया सह ॥ तस्मिन्नेव दिने पिण्डान् निर्वपेत् पितुरात्मनः । सर्वाणि प्रतकार्याणि मातुश्चैवाविशेषतः ॥ तद्गोत्राणां तु सर्वेषां श्राद्धं कृत्वा यथाविधि । य एवं पुत्रतां यात आदातुः स सुतो भवेत् ॥” इति । एवमेकामुष्यायणतया प्रत्तं पुमांसं सैव पक्षिणी गच्छेत् प्राप्नुयात् । एवकारेण सपिण्डसामान्येन प्राप्तदशाहपिण्डदा- नादिप्रतिषेधः क्रियते । ततो यामुप्यायणेन आशौचपिण्डादि द्वयोर्यथाविधि कर्तव्यम् । तथाह मनुः "आशौचमतच्छ्राद्धं च पित्रोः कुर्यात् तु दत्तकः । तत्सपिण्डमृतौ किञ्चिदाशौचं नोदकं तथा ॥" इति । भृगुरप्याह पिण्डांस्तु निर्वपेत् पुत्रो जनकस्य यथाविधि । गृहे स्थितोऽपि वा नित्यमथान्यत्र गतोऽपि वा ॥" " आशौचाष्टकं - " इति । बौधायनोऽप्याह - हिपितुः पिण्डदानं स्यात् पिण्डे पिण्डे च नामनी । त्रयश्च षण्णां पिण्डाः स्युरेवं कुर्वन्न रिष्यति ॥" इति । एवमादयो यामुष्यायणविषयतया द्रष्टव्याः ॥ इति पञ्चमश्लोकः। मरणनिमित्तमाशौचमभिधायेदानी प्रसङ्गतः क्रियानिमित्तमाशौचमाह - वोदुः सार्धं सपिण्डैर्वसनकटकृती कुर्वतः प्रेतवासे तेभ्योऽन्यस्य त्रिरात्रं दशदिनमशने तस्य चान्द्रायणं च। हीने तैरेकरात्रं बहिरुपवसतो वासरेऽस्तं गते के स्नानं दृष्टे तु तस्मिन् निशि यदि वहने धर्मतः स्नानमेव ॥६॥ वोढुः सार्थमित्यादि । सपिण्डादिभिः सह वह(न)व- च ? स)नं संस्कारं वा कुर्वतः । तेभ्योऽन्यस्य सपिण्डादि- भ्योऽन्यस्य । (त्रि?अत्र) सपिण्डशब्दः समानोदकबान्धवयो- रुपलक्षणम् , अन्यस्येत्येतावतैव सिद्धे तेभ्य इति वचनात् । प्रेतस्य मृतस्य गृहे वसनं शयनादि कटकरणं चानु(ष्ठितं ? ति- सव्याख्यम्। २९ ठतः) त्रिरात्रं दिनत्रयमाशौचम् । तस्मिन्नेव भोजनं कुर्वतो दशाहमाशौचं, तस्य चान्द्रायणमपि प्रायश्चित्तम् । चशब्दात्. छर्दनविरेचनादि । तथा च गौतमः अभोज्यभोजने निष्पुरीषीभावः" - इति । तत्रच्छर्दनविरेचने कृत्वा दशाहेऽतीते पुनश्चान्द्रायणं च कुर्यादित्यर्थः । अभ्यासे प्रायश्चित्तस्यापि गौरवं कल्प्यम् । वसनकटकरणाशनेषु कृतेषु आशौचं प्रायश्चित्तमप्युक्तम् । कटकरणे कथं स्यादित्याशङ्कयाह --हीने तैरित्यादि । तैहीने वसनकटकरणाशनाना समासेनाकरणे । वसनकटकरणयोः समासकरणे त्रिरात्रस्योक्तत्वाद् वसनमेव कुर्वत एकाहमिति । हीने तैरित्यस्यान्या व्याख्या वसनाद्यकरणे एकदिनमाशौचं, संस्कारानन्तरं प्रेतगृहमगत्वान्यत्र वसति चेदिति । यदि संस्का- रानन्तरं प्रेतगृहमगत्वान्यत्र बहिरेव तिष्ठेत् , तदा किमिति चेत्, तदाह--बहिरित्यादि । वासरे दिवसे यदि संस्कारः, तदा- दित्येऽस्तं गते स्नात्वा शुध्येत् । रात्रौ चेदुदित आदित्ये स्नात्वा शुध्येत् । बहिरुपवसत इति पाठः। बहिरेव तिष्ठतः, उपवासं च कुर्वत इति तस्यार्थः । दृष्टार्थे वहनादाविदम्, अदृष्टार्थे वक्ष्यमाणत्वात् । तर्हि अदृष्टार्थे कथमिति चेत् , तदाह-वहन इत्यादि । धर्मतो वहने धर्महेतुके वहनादौ स्नानमेव । एक्का- रेणाशौचामङ्गलाधर्माणामप्रसङ्गं ज्ञापयति , प्रत्युत धर्मोऽस्तीति च । तथा च स्मृतिः- . तु - ३० आशौचाष्टकं " अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः पदे पदे यज्ञफलमानुपूर्व्याल्लभन्ति ते ॥" इति ॥ इति षष्ठश्लोकः। आशौचमभिधायेदानीमाशोचधर्मानाह खटारोहोऽङ्गपेषः सकलशवदिने दारवासश्च नेष्टो वासे चान्द्रायणं स्यादनुगमनकृते स्नानमाज्याशनं च। कृच्छं शूद्रानुयाने त्रिदिनमपि मृता- वात्मकौक्षेयकादि- क्षोणीपप्रायदर्वीकरदहनमही- देवसञ्जीवनाद्यैः ॥७॥ खटारोह इत्यादि । आशौचदिनेषु खट्वारोहं वर्जयेत् । खट्वारोहः खट्वायां शयनम् । अङ्गपेषः गात्रमलापकर्षणम् । तं च वर्जयेत् । दारवासो दारैः सह वासः, स्त्रीणामासेवनम् । तं च वर्जयेत् । ननु च सूतकस्याप्रकृतत्वाच्छवदिन इति न वक्तव्यम् । न । उत्तरत्र सूतके शावाशौचातिदेशात् तदर्मा- णामपि प्रवेशो भवतीति । तर्हि शवदिन इत्येतावतैव सिद्धे सकलग्रहणमनर्थकमिति चेत् , सम्पूर्णशवदिने दोषातिरेकज्ञाप- , , सव्याख्यम् । ३१ नार्थत्वाददोषः । सम्पूर्णता च गुरुत्वप्रयुक्ता पिण्डकर्तृताप्रयुक्ता च । चशब्दो यमान्तरग्रहणार्थः । तथा चाह “आदर्श दन्तकाष्ठं च दूर्वालम्भप्रसाधने । अनावृतस्मितं चैव शावाशौची विवर्जयेत् ॥ लवणं मधु मांसं च क्षारं चन्दनसर्पिषी। डिर्भोजनं तथात्याशं वर्जयेदघभाङ् नरः॥” नेष्टो मन्वादिभिः प्रतिषिद्धः । तेषामनुष्ठाने प्रायश्चित्तमप्यु- क्तम् "यद्याशौचे निषिद्धानि मोहात् प्रकुरुते नरः। उपोप्यैकाहमब्लिङ्गै पन्नेनो व्यपोहति ॥ इति । दारवासस्य दोषगौरवान्मुखतः प्रायश्चित्तमाह - वासे चान्द्रायणं स्यादिति । सकृत् सेवने चान्द्रायणम् । अभ्यास- वशाच्चान्द्रायणस्याप्यावृत्तिरिति स्याद्ग्रहणम् । सपिण्डादीना- माशौचं तद्धर्ममप्युक्त्वा विश्लिष्टानां शबानुगमनेऽपि दोषमा- ह-अनुगमनकृत इत्यादि । संस्कारार्थ नीयमानस्य शव- स्यानुगमनक्रियायां स्नानम्। आज्याशनं घृतप्राशनम्। तच्च का- याप्लवनमात्रम् । चशब्दो धूमप्रवेशनार्थः । स्नात्वा धूपनं कृत्वा घृतप्राशनं च कर्तव्यम् । सर्वेषां सजातीयानुगमन एतत् । ब्राह्मणस्य क्षत्रियानुगमने एकाहमाशौचं गृहीत्वैतत् प्रायश्चित्तं च कर्तव्यम् । ब्राह्मणस्य वैश्यानुगमने व्यहमाशौचं गृहीत्वैतत् प्रायश्चित्तं च कर्तव्यम् । एतच्चशब्देनाक्षिप्तम् । दोषगौरवा- तच्चेत्यादि स्नानविवरणमिव भाति । * ३२ आशौचाष्टकं न्मुखतः शूद्रानुगमन आह -- कृच्छ्रे शूद्रानुयाने त्रिदिन- मपीति । अयमर्थः- ब्राह्मणः शूद्रं प्रेतमनुगम्य व्यहमाशौचं गृहीत्वा चतुर्थेऽहनि स्नात्वा धूपनं घृतप्राशनं च कृत्वा पुनः कृच्छ्रे च कुर्यादिति । अपिशब्दः पूर्व क्षत्रियवैश्ययोरनुगमने एकाहं त्र्यहमाशौचप्रवेशार्थः, शूद्रानुगमनेऽपि त्रिदिनमित्य- न्वयः इति । क्षत्रियस्य वैश्यानुगमने एकाहमाशौचं स्नाना- दीन्यपि, अंधिकारान्न्यायाच्च । शूद्रानुगमने त्रिरात्रमाशौचं गृहीत्वा स्नानादीनि कृच्छ्रार्धं च । वैश्यस्य शूद्रानुगमने त्रि- रात्रमाशौचं स्नानादीनि कृच्छ्रपादश्च द्रष्टव्यः । इदानीं सा- पिण्ड्ये सति यत्राशौचादि न स्यात्, तन्निमित्तमाह -मृता- वित्यादि । मृतौ मरणे । आत्मशब्दो बुद्ध्यर्थः । कौक्षेयकः । आदिशब्देन क्षुरिकादीनि शस्त्राण्यात्महननसाधनान्यु- च्यन्ते । क्षोणीपःः क्षत्रियः। प्रायो महाप्रस्थानम् । दर्वीकरः सर्पः । दहनोऽग्निः । महीदेवो ब्राह्मणः । सञ्जीवनं जलम् । आद्यशब्दश्चोरव्याघ्रादीनां ग्रहणार्थः । तथा चाह - "प्रायानाशकशस्त्राग्निविषोहन्धोदकैरपि । शैलाग्रपतननान्यैर्मतिपूर्वात्मघातिषु ॥ दंष्ट्रिभृङ्गिमहीपालविप्रैगसरीसृपैः । एवमाद्यैर्हते त्वन्यैः सद्यः शौचं यतावपि ॥" इति । बुद्धिपूर्व शस्त्रादिभिर्मरणे । आत्मशब्देनाबुद्धिरपि ल- क्ष्यते । अन्यथा बुद्धिपूर्वमिति . विशेषणानर्थक्यात् । क्षत्रिया- दिभिरबुद्धिपूर्व मरणेऽपि, खड़ा - सव्याख्यम्। ३३ “गोब्राह्मणहतानामन्वक्षम्" इति गौतमवचनात् । गवा ब्राह्मणेन वा हतानां , ब्राह्मणार्थे गोरक्षणार्थे वा हतानामिति तस्यार्थः । "प्रायानाशकशस्त्राग्निविषप्रपतनैश्चच्छताम्" इति चोक्तम् । अनेन पूर्वत्रानिच्छतामिति सिद्धम् । तथा च याज्ञवल्क्यः "गोनृपब्रह्महतानामन्वक्षं चात्मघातिनाम् । प्रायानाशकशस्त्राग्निविषाद्यैरिच्छतां स्वयम् ॥" इति । सहस्रस्वामिना चोक्तं- "प्रायानाशकशस्त्राग्निभृगूद्वन्धविषाशनैः । वारिप्रवेशतर्वादिपतनैरिच्छतामपि ॥ अन्वक्षमेषामाशौचं हतानामप्यनिच्छताम् । गोनृपाशनिचण्डालडिम्बविप्राहिदंष्ट्रिभिः ॥ न श्राडतोयदानाग्निसंस्कारादीन् समाचरेत् ।" इति ॥ इति सप्तमश्लोकः । - -- एवमेभिर्मरणे किं पिण्डोदकादि कर्तव्यम् उत नेत्याशङ्कयाह- श्राद्धं तोयं कृशानुबलिकटकरणे दुःखनामाश्रुपाता % मुद्रितयाज्ञवल्क्यस्मृतौ “हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्' इत्येवंरूपमधू प्रायेत्यादिरहितं दृश्यते ।
आशौचाष्टकं न स्युः स्पृष्टिप्रदाहानुगमनवहने ततकृच्छ्रेण शुद्धिः । जन्मन्येकोदकानां त्रिदिनमवगमे पिण्डभाजां दशाह सद्योऽतीते श्रुतं चेद् द्वयदिनसमिती प्रेतवन्मातुरन्यत् ॥ ८॥ श्राद्धं तोयमित्यादि । श्राद्धमेकादशपिण्डादिसपिण्डी- करणान्तं यत् , तदुच्यते । तोयमुदकक्रिया । कृशानुरमिः। तेन संस्कारो लक्ष्यते । बलिरन्तर्दशाहे यो बलिः सायं प्रातः क्रियते । एतेऽदृष्टार्थाः । कटकरणं लौकिकाचारेण प्रसिद्धम् । दुःखं (न ? दुः)खभावना गुणस्मरणेन । नामशब्देन नाम चो- च्चार्य रोदनमुच्यते । अश्रुपातो नयनत आस्रपातनम् । एतेषां दुर्निवारत्वात् कामतो न कार्या इति ज्ञापनार्थ न स्युरित्युक्तम् । एतेषु विशेषोऽस्ति । अदृष्टार्थेषु भ्रान्त्या क्रियमाणेषु नादृष्टार्थ भवति । प्रत्युत प्रत्यवायोऽपि गुरुर्भवति । कटकरणे लौकिकार्थे किश्चिद् दोषोऽस्ति । दुःखादीनां दुर्निवारत्वात् स्वयमेव जातेषु न दोषोऽस्ति । कामतः कृतेषु किञ्चिद् दोषोऽस्ति । अतो दु:- खादीनां निवारणे यत्नः कार्यः । अन्यथा प्राणायामादियत्किञ्चि- दनुबन्धानुसारेण प्रायश्चित्तं कार्यम् । स्पर्शनादिषु संस्काराङ्गेषु कृतेषु तप्तकृच्छ्रे कृत्वा शुध्यति । मरणनिमित्तमाशौचमभिधाय यन्निमित्तमरणे आशौचादि न भवति तान्यप्यभिधायेदानीं ज- नननिमित्तमाशौचमाह -जन्मन्येकोदकानामित्यादि । पुंसः सव्याख्यम्। , , - स्त्रिया वा जनने सति एकोदकानां समानोदकानां दिनत्रयमा- शौचम् अवगमे ज्ञाने सति । अवगम इति न वक्तव्यम् , आ- शौचस्यावगमेन विना ग्रहीतुमशक्यत्वात् । न । सत्प्रमाणेन ज्ञाने सति सर्वमाशौचं ग्राह्यं, न ध्वनिमात्रेणेति ज्ञापनार्थम् । तथा च गौतमः- "तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन्" इति । 'अन्तर्ग्रहणं विस्पष्टज्ञापनार्थम्' इति मस्करिभिर्व्याख्या- तम् । पिण्डमाजां सपिण्डानां दश दिनान्याशौचम् । ननु च सपिण्डानां प्रथममुक्त्वा समानोदकानामनन्तरं वक्तव्यम् । अतः क्रमभेदोऽनुपपन्नः । न । त्रिदशसङ्ख्ययोस्त्रिसङ्ख्यायाः पूर्वत्वात् तत्सम्बन्धवशात् समानोदकस्य पूर्वमभिधानमिति । अथवा सामान्यं प्रथममुक्त्वा विशेषस्य वक्तव्यत्वात् । कथं समानोदकसपिण्डयोः सामान्यविशेषत्वमिति चेत् । समानोद- कानामेव सपिण्डत्वम् । आ दशमात् पुरुषात् समानोदकत्वम् , उदकस्य दातृभोक्तृत्वेन सम्बन्धात् । तेष्वासप्तमात् सपिण्डत्वं, पिण्डस्य दातृभोक्तृत्वेन सम्बन्धात् । तथा च याज्ञवल्क्यः- " सप्तमाद् दशमाद् वापि ज्ञातयोऽभ्यवयन्त्यपः" इति । तथान्यत्रापि- "लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥" - - इति , ३६ आशौचाष्टकं , "सप्तमाघेकतोयत्वं यावत् सम्बन्धितास्मृतिः। तावत् प्रवर्तते तच्च कन्यासु च न विद्यते ॥" इति च । तत्रापि सम्बन्धस्मरणं दशपुरुषलक्षणार्थ याज्ञवल्क्या- नुसारेण । स्त्रीणां समानोदकत्वं नास्तीति चेत् । न । स्त्रीणां सप्तमादि समानोदकत्वं नास्ति । चतुर्थादि पञ्चमादि वा समा- नोदकत्वं, षट्सु सप्तसु वा पुंसु सापिण्ड्यं पुरुषाश्रयम् । चतुर्पु त्रिषु वा पुंसु कन्यकासु तदिष्यते ॥" इति वचनात् । यथा पुंसां सप्तसु पुरुषेषु मुख्यं सापिण्ड्यं, तथा स्त्रीणामपि त्रिपुरुषेषु सापिण्ड्यं मुख्यमिति । "अप्रत्तानां स्त्रीणां त्रिपुरुषी सपिण्डतेति विज्ञायते" इति वसिष्ठवचनात् । इति समानोदकानां पूर्वोक्तिरविरुद्धा । उत्पन्नकालज्ञान इदम् । अतीते किमिति तदाह सद्य इति । अतीते किमपि नास्तीत्यर्थः । अतीते इत्युक्तत्वात् समस्तेऽती- ते श्रुतं चेत् सद्य एव । शावादेरपि सूतेर्गौरवान्मातुरतिकालज- मपि भवतीत्याशङ्कानिवृत्त्यर्थ श्रुतं चेदित्युक्तम् । कथं मातुर- तीते श्रवणं सम्भवतीति चेत् । प्रसवक्लेशाद् व्याध्यादिना वा मोहेन वा दशाहे त्वविज्ञाय एकादशे बोधे जाते यदि प्रसवं शृणुयात् , तदापि न कालान्तरे शुद्धिः । किन्तु स्नानादिकर्मणा तदैव शुद्धिरित्यर्थः । सद्य इति च स्नानमभिप्रेत्योक्तम् । अ- न्यथा नास्तीत्येवावक्ष्यत् । अतो मातापित्रोरतीते पुत्रजन्मनि सव्याख्यम्। - - श्रुतेऽपि स्नानं कर्तव्यम् । सपिण्डसमानोदकैरतीते स्नानमपि न कर्तव्यमिति विशेषः । अतिकालजाभावाच्छावाद् विशेष उक्तः । अतोऽन्तःपाते पुनरापातः प्रवर्तत इति प्रवृत्त आह- द्वयदिनसमितावित्यादि । (य?)योर्जननाशौचयोः । समिती सङ्गतौ । प्रेतवत् शावाशौचवत् । शेषन्यायेन शुद्धिः । आपत- तः सामान्येनातिदेशान्मातापित्रोरपि शेषन्याये प्राप्ते आह. मातुरन्यदिति । मातृशब्देन पिताप्युच्यते । 'पिता मात्रा' (१. २. ७०) इत्येकशेषसम्बन्धदर्शनात् । मातापितरौ मुक्त्वे. त्यर्थः । सपिण्डाशौचे यदि पुत्रजननं भवेत् , तदा मातापि त्रोः सपिण्डाशौचेन न पुत्राशौचं गच्छेत् । पुत्राशौचं परि पूर्णमेव ग्राह्यमित्यर्थः। तथा च स्मृतिः---'सूतकेऽस्य सुतस्य च'। अतिदेशादेव सिद्धे कण्ठोक्तिरपप्रसवादावपि मातुर्नान्ये- नापगमः । अत एव मातृशब्देन पिता लक्ष्यते इति ॥ इत्यष्टमश्लोकः। समाप्तं चेदम् । शुभं भूयात् ।
No text on this page.
Ready for sale. Hurt (Stuti) by H. H. Svâti Sri Rama Varma Mahârâjab. 1 0 0 Trivandrum Sanskrit Series. No. 1 - 494 (Vyâkarana) by Deva with Purushakara of Krishnalilásukamuni. 100 No. 2 -- अभिनवकौस्तुभमाला - दक्षिणामूर्तिस्तवौ by Krishnalilâsukamuni. 0 2 0 No. 3 tepages: (Kavya) by Vâmana Bhatta Bâņa. 0 4 0 No. 4-fargerufa: (Kâvya) by Nilakantha Dîkshita. 2 00 No. 5 - what: (Alankara) by Mahima Bhatta with commentary. 2 12 0 No. 6-gateara: (Vyakarana) by Saraṇadeva. 2 0 0 No. 7 - HATIYATRTAT (Vedanta) by Sadasivendra Sarasvati. 2 4 0 No. 8-angesh (Nataka) by Ravi Varma Bhậpa. 1 1 00 No. 9-64789218791 (Vedânta) by Virti pakshanatha with the commentary of Vidyachakravartin. 0 8 0 No. 10 - ATAFUTA (Gajalakshana) by Nîlakantha. 0 80 No. 11 — ayarlacut (Nâtaka) by Kulasekhara Varma with the commentary of Sivarâma. 2 40 No. 12 - THÉHICH (Vedânta) by Bhagavad Adisesha with the commentary of Raghavananda. 0 8 0 No. 13-TTTH (Nataka) by Kulasekhara Varma with the commentary of Sivarama. 200 No. 14-fer: (Nîti) by Kamandaka, with the commentary of Sankarârya. 8 G No. 15 - FTHALH9CAH (Nâtaka) by Bhâsa. 2 8 0 No. 16-afgreinarrauth (Do.) Do. 1 80 No. 17-7174 (Do.) Do. 1 0 0 No. 18-Artavira (Stuti) by Nârâyaņa Bhatta with the commentary of Desamangala Vârya. 4 0 0 No. 19-Araca: (Mímâmsâ) by Nârâyaņa Bhatta and Narayana Pandita. 1 4 0 No. 20-fantesa (Nataka) by Bhasa. 1 80 3 2 100 No. 21-a (Do.) Do. 1 000 No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभङ्गानि (Nataka) by Bhâsa 1 80 No. 23— rarauagiha: (Kosa) by Kesavaswamin (1 & 2 Kâodas) 1 12 0 No. 24-gaturura: (Kavya) by Chakrakavi. No. 25-MUGI EI TEELT (Nyâya) by Gangadharasûri 0 12 0 No. 26mart (Nataka) by Bhasa 0 12 0 No. 27-FAHRT: (Kavya) by Kálidasa with the two commentaries, Prakâsikâ of Arunagirinatha and Vivarana of Narayana Pandita (1 & 2 Sargas)1 120 No. 28-annyi: (Dharmasútra) by Vikhunas 080) No. 29-Aftefuasieta: (Kosa) by Kesavaswamin (3rd Kanda) 2 40) No. 30—algiaal (Silpa) 0 12 0 No. 31---1719fdichiat: (Kosa) by Kesavaswamin (ith, 5th, & 6th Kaņdas) 1 0 0 No. 32-34Hita: (Kavya) by Káliðâsa with the two commentaries, Prakasiká. of Arunagirináthia and Vivarana of Nárâyana Pandita (3rd, 1th & 5th Sargas) 2 80 No. 33—arratge: (Vyakarana) with the commentary Dîpaprabliâ of Narayana 0 8 0) No. 34-HÛÇau: (216CYRTET:) (Nyâya) by Rajachâdâmanimakhin 1 40 No. 35-Aer: (819#rave:) (Nyâya) by Gopinathau $0 No. 36camaa: (Kavya) by Kálidása with the two commertaries, Prakásikå of Arunagirinatha and Vivarana of Narayana Pandita (6th, 7th & 8th sargas) 3 00 .No. 37–37181191224 (Smriti) by Vararuchi with the commentary 0 40 Apply to :- 1 The Agent for the sale of Government Sanskrit Publications, Trivandrum.
No text on this page.