Library
Shriipurshhasukttama~
Front matter
UNIVERSAL
LIBRARY
OU_184332
LIBRARY
UNIVERSAL
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलि
मन्थाइ ३
श्रीपुरुषसूक्तम् ।
श्रीमत्सायणाचार्यप्रणीतमायोपेतम
विद्वद्भिः संशोधितम् ।
एतच
रावबहादुर इत्युपपदधारिमिः
गंगाधर बापूराव काळे'
जे. पी.
इत्येतेः
'
पुण्याख्यपत्तने
श्रीमन् ' महादे। चिमणाजी आपटे
इत्यमिषेयमहाभागप्रतिष्ठापिते
आनन्दाश्रममुद्रणालये
आयसाक्षरमुद्रयित्वा
प्रकाशिवम् ।
शालिवाहनशकान्दाः १८७४
खिस्ताब्दाः (दि. १६-८-१९५२)।
पश्चमीयमङ्कनावृतिः।
( अस्व सर्वेऽधिकारा राजासनानुसारेण स्वापचीकवा)
No text on this page.
नमः परमात्मने । -- • मोडी एकनाकपल्ममम्पकपमाहात्म्यम् । किपदस्थ माहापामिति लामेर कथयति पत्पुरुषः परमात्मैवास्मिन्नते शोभनवयोकः । किंत्र पाबीनार्याणा बीकमामांनुसारियां जीवेश्वरजामबपदार्थसंबन्धेन किं मत, वर्गस्थाननिरोध- कल्पनापि कीडशी, गुणकर्मविभागशो पर्थाश्रमापवस्था ककथं, को नु खलीधरापनासको मुख्यो यः, किंच इष्टाहां ज्ञावाज्ञावं व्यकाम्पकं पदिदं सर्व परिकमस्ति बर्हि परमात्मापरपर्यायो मायाकरिपतपत्रविधमेदोऽपि वस्तो निरस्वाखिदेवपाशः समष्टिम्पष्टचात्मको विराहास्यः परमपुरुष खे- वीहो महान्राद्धान्तः सूत्रमायेणापि सरलान्यपतुबोधपदविन्पातेन सूकेना- नेन पकाशवापापन इत्याबाठमावृदं न त कश्चिविद्यवे यो नेदं पठवि नाभीवे न सरिन्धपत्यपीत्येवमवर्णनीपमाहात्म्पमिदमिति तु स्फुटमेव । अस्पोपरि बन्यो व्यारूपाः पण्डिविहितास्ताः सवा अपि प्रकाशनीया इति पथ पनी- पास्तीत् । परं तु स्थलकालानवकाशवशादेकस्य जगत्पतिचस्प भीषवः सापणापापस्पैष भाष्यं संपति पकाश्पते । वयाऽप्पपशिष्टमाष्पव्याख्यानादिकं पतवः शीघ्रमेव पतिदि पापयिष्यते । भीपस्तामणारार्पस्पतिवृत्तं तु रुदाम्यायपस्वावनासमये वर्णितमेवेवि पिटपे. पणदोषापादनषिया नात्रोपवर्णयितुमुचितम् । वच तवैव दृष्टव्यमित्यम्पर्यना। अस्प मापस्थादर्शपुस्तकानि पहुपलब्धानि तानि पथा- क. संजिवं--पुण्यपत्तननिवातिभिर्महादेव चिमणाजी आपटे इत्पेले. दत्तम् । ख. संज्ञियंटोदरनिवासिश्रीमत्कष्णराय भीमाशंकर पटवर्धन इत्येवैः पेपिवम् । संवत् १९०६ रोदनामसंवत्तरे शके १७७१ सौम्पनामसंवत्तर उद्गपने हेमन्वौँ मार्गशीर्ष शुरूपले चतुष्पयामिन्दुवासर इदं पुस्तकं लिखितम् । ग. संजिवं--श्रीमदिः, मावु महाराज इस्पेर्दत्तम् । घ..संशिव-भीमद्धिः, किरे साहेब इत्यवः मेषिते ।
:
[२]
च. संशिव--श्रीमद्भिः, रावसाहेब विचुरकर हरपतेः पेषिवन् ।
इत्येभिर्महाशयैः सुजनैरस्मि-कर्मण्यादर्शपुस्तकसाहाय्यविवरणेन बहूपकवामि-
त्यवश्यं कथनीयम् ।
एतानि पुस्तकान्याकलय्प पलवभाष्यशोधनादिकं यथामति रुवम् । पदन
सवलितं तरक्षन्तव्यं दयालभिर्विवद्भिरिति सविनयमभ्यर्थयवे--
दामले इत्युपनामधेयः केशवशास्त्री।
ॐ तत्सद्ब्रह्मणे नमः। अथ पुरुषसूक्तम् । श्रीमत्सायणाचार्यप्रणीतभाष्योपेत । --- सहस्रशीर्षेतिषोडशर्च षष्ठं सूक्तम् । नारायणो नाम ऋषिः। अन्त्या त्रिष्टुप् । शिष्टा अनुष्टुभः । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः "पुरुषोन परं किंचित्" इत्यादिश्रुतिषु पसिद्धः स देवता । तथा चानुकान्तम्-सहस्र- शीर्षा षोडश नारायणः पौरुषमानुष्टुभं त्रिष्टुवन्तं त्विति । गतो विनियोगः ॥ तत्र प्रथमा। हरिः ॐ । सहशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्वाऽस्थतिष्ठद्दशाङ्गुलम् ॥1॥ सहस्रऽशीर्षा । पुरुषः । सहस्रऽअक्षः । सहनऽपात् । सः। भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअ- गुलम् ॥ १॥ सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्र- शीर्षा । सहस्र शब्दस्योपलक्षणत्वादन-तैः शिरोभिर्युक इत्यर्थः । यानि सर्व- माणिनां शिरांसि तानि सर्वाणि तदेहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्ष- स्वम् । एवं सहस्राक्षत्वं सहस्रपात्वं च । स पुरुषो भूमि ब्रह्माण्ड गोलकरूपा विश्वतः सर्वतो बृत्वा परिवेष्टय दशाङ्गुलपरिमित देशमत्पविष्ठदतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । बलाण्डाहिरपि सर्ववो व्याप्याव. स्थित इत्यर्थः ॥१॥ अथ द्वितीया। पुरुष एवंदं सर्वं यद्भूतं यच्च मव्यम् । उतामृतत्वस्येशानो यदनातिरोहति ॥ २ ॥ १ ख. म. इ. पान्नाप । २ . भूमिब्रह्माण्डरूपातीतश्च भूमि । a श्रीमत्सायणाचार्यप्रणीतभाष्योपेतं- पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च भव्यम् । उत । अमृतऽत्वस्य । ईशानः । यत् । अनेन । अतिऽरोहति ॥ २॥ यदिदं वर्तमानं जगत्सर्वं तत्पुरुष एव । यच्च भूतमतीतं जगद्यश्च भव्यं भविष्यज्जगत्तदपि पुरुष एव । यथास्मिन्कल्पे वर्तमानाः माणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवास्तथैवातीतागामिनोरपि कल्पयोर्दष्टव्यमित्यभिमायः। उ. तापि च, अमृतत्वस्य देवत्वस्यायमीशानः स्वामी । यद्यस्मात्कारणादनेन पा- णिनामनेन भोग्येन निमित्तेनातिरोहति स्वकीयां कारणावस्थामविक्रम्य परि- दृश्यमानां जगदवस्था प्रामोति । तस्मात्माणिनां कर्मफलभोगाप जगदवस्था- स्वीकारानेदं तस्य वस्तुत्वमित्यर्थः ॥ २ ॥ अथ तृतीया । एतावानस्व महिमाऽतो ज्यायांश्च पूरुषः। पादोऽस्व विश्वा भूतानि त्रिपादस्यामृत दिवि ॥ ३ ॥ एतावान् । अस्य । महिमा । अतः । ज्यायोन् । च । पूरुषः । पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥ ३॥ अतीतानागतवर्तमानरूपं जगद्यावदस्त्येतावान्सर्वोऽप्यस्य पुरुषस्य महिमा स्वकीयसामय विशेषः । न तु तस्य वास्तवं स्वरूपम् । वास्तवस्तु पुरुषोऽवो महिम्नोऽपि ज्यायानतिशयेनाधिकः । एतच्चोभयं स्पष्टी क्रियते. --अस्य पुरु. षस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादचतुर्थाशः । अस्य पुरुषस्यावशिष्टं विपात्स्वरूपममृतं विनाशरहितं सदिवि घोवनात्मक स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि सत्यं ज्ञानमनन्तं प्रोत्याम्ना- तस्य परब्रह्मण इयचाया अभावात्पादचतुष्टयं निरूपयितुमशक्यं स्थापि नग- दिदं बलस्वरूपापेक्षाऽल्पमिति विवक्षितत्वात्पादत्वोपन्यासः ॥ ३ ॥ १ क. 'स्मिन्काले । २ ख. °स्य मोक्षुस्य । ३ क. ख. भित्तभूतेना। ग. मिसी. भूतेना' । ४ क. याऽत्यल्प। - पुरुषसूक्तम् । अथ चतुर्थी । त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहा भवत्पुनः । ततो विष्वब्यकामत्साशनानशने अभि ॥ ४ ॥ त्रिपात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अम्य । इह । अभवत् । पुनरिति । ततः । विष्वङ् । वि । अक्रामत् । साशनानशने इति । अभि ॥ ४ ॥ योऽयं त्रिपात्पुरुषः संसारस्पर्शरहितो बहुलस्वरूपः सोऽयमूर्ध्व उदैत् । अस्मादज्ञानकात्सिंसारादहिभूतोवत्यैर्गुणदोषैरस्पृष्ट उत्कर्षण स्थितवान् । स्थिवस्य तस्य योऽयं पादो लेशः सोऽयमिह मांयायां पुनरभवत् । सृष्टिसंहा- राभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताऽ- म्युक्तम्- “ विष्टभ्याइमिदं कृत्स्नमेकांशेन स्थितो जगत् " इति । तवो मापायामागत्यानन्तरं विष्वङ् देवतिर्यगादिरूपेण विविधः सन्ध्यकाम- व्याप्तवान् । किं कृत्वा । साशनानशने अभि । अभिलक्ष्य साशनं भोजना- दिव्यवहारोपेवं चेतनं पाणिजातम् । अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् । बदुभयं यथा स्यात्तथा । स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥ ४ ॥ अथ पञ्चमी। तस्माद्विराळेxजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भुमिमों पुरः ॥ ५ ॥ तस्मात् । विराट् । अजायत । विराजः । अधि । पूरुषः । सः। जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अयो इति । पुरः ॥५॥ पादोऽस्येहाभवात्पुनरिति तैत्तिरीयपाठ । x तस्माद्विराडजायतेति तैत्तिरीयपाठः। १ घ. "दल्पात्कार्या । २ ख. ग. माषयां पु । - ४ श्रीमत्सायणाचार्यप्रणीतभाष्योपतं- विश्व व्यकापदिति पदुक्तं तदेवाव प्रपञ्च्यते-तस्मादिति । तस्वादादिपु. रुषाद्विराइब्रह्माण्डदेहोऽणायवोत्पन्नः । विविधानि राजन्ते वस्तून्योति विराट् । विराजो अधि विराहदेहस्योपरि तमेव देहमाधिकरणं कृत्वा पुरुषस्तदेहाभिमानी कश्चित्पुमानजाय सोऽयं सर्ववेदान्तवेद्यः परमात्मा । स एव स्वकीयया मायया विराड्देहं ब्रह्माण्डरूपं' सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभि- मानी देवतात्मा जीवोऽभवत् । एतच्चाऽऽथर्वणिका उत्तरतापनीये विस्पष्टमाम- नन्ति-" स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्या- मूढो मूढ इव व्यवहरन्नास्ते माययैव " इति । स जातो विराट्पुरुषोऽत्यारच्य- तातिरिक्तोऽभूद्देवतिर्यमनुष्यादिरूपोऽभूत् । पश्चाद्देवादिजीवभाव दूर्ध्वं भूमि ससति शेषः । अथो भूमेः सृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥ ५॥ अथ षष्ठी। यत्पुरुषेण हविषा देवा यज्ञपतन्वत । बसन्तो अस्याऽऽसीदाज्यै ग्रीष्म इध्मः शरद्धविः॥६॥ यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत । वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥६॥ यद्यदा पूर्वोक्तकमेण देवशरीरेषूत्पन्नेषु सत्सु देवा उत्तरसृष्टिसिद्धयर्थं बाय- द्रव्यस्यानुत्पन्नत्वेन हविरन्तरासंभवात्पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञमतन्वतान्वतिष्ठन् । तदानीमस्य यज्ञस्य वसन्तो वसन्त रेवाऽऽज्यमासीदभूत् । तमेवाऽऽज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीष्म इध्म आसीत् । तमेवध्मत्वेन संकल्पितवन्त इत्यर्थः । तथा शरद्धवि- रासीत् । तमेव पुरोडाशादिहविष्ट्वेन संकल्पितवन्त इत्यर्थः । एवं पूर्व पुरुषस्य हविःसामान्यरूपत्वन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेषरूपरखेन संकल्प इवि दृष्टव्यम् ॥ ६ ॥ १ ख. °पं कृत्वा त° । ङ. च. पं दृष्ट्वा त° । २ क. ख. ग. भूदिराव्यतिरिक्तोऽभू, ५ - LA--mme पुरुषसूक्तम् । अथ सप्तमी। तं यज्ञं पाहिषि प्रौक्षन्पुरुषं जातमंत्रतः । तेन देवा *अयजन्त साध्या ऋषयश्च ये ॥ ७ ॥ तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः । तेनं । देवाः । अयजन्त । साध्याः । ऋषयः च । ये ॥ ७॥ यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया यूपे पद्धं बर्हिषि मानते यज्ञे पौक्षन्पोक्षितवन्तः । कीदृशमित्यत्राऽऽह--अगतः सर्वसृष्टेः पूर्वं पुरुषं जावं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवातम्-तस्मादिराळजायत विराजो अधि पूरुष इति । तेन पुरुषरूपेण पशुना देवा अयजन्त । मानसयागं निष्पादिववन्द इत्यर्थः। के ते देवा इत्यवाऽऽह-साध्याः सृष्टिसाधनयोग्याः प्रजापविमभवा- स्तदनुकूला ऋषयो मन्त्रदृष्टारश्च ये सन्ति ते सर्वेऽप्यपजन्तत्यर्थः ॥ ७ ॥ अथाष्टमी। तस्माद्यज्ञासर्वहुतः संभूतं पृपदाज्यम् । पशून्तांश्चके वायव्यानारण्यान्याम्याश्च ये ॥ ८॥ तस्मात् । यज्ञात् । सर्वऽहुतः । सम्ऽभृतम् । पृषत् । आज्यम् । पशून् । तान् । चके । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये ॥ ८ ॥ सर्वहुतः सर्वात्मकः पुरुषो यस्मिन्यज्ञे हूयते सोऽयं सर्वहुत् । तादृशाचस्मा- पूर्वोक्तान्मानसाद्यज्ञात्पृषदाज्यं दधिमिश्रमाज्यं संभूतं संपादितम् । दधि चाऽऽज्यं चेत्येवमादि भोग्यजातं संपादितमित्यर्थः । तथा वायव्यान्वायुदेवताका स्वाल्लोकपसिद्धानारण्यान्पशूश्चक उत्पादितवान् । आरण्या इरिणादप- -- * तैत्तिरीयाणां सप्तास्याऽऽसन्परिषय इत्यादिः सप्तमो ग्रन्थः । आश्वलायनानी तु स पञ्चदशः। * अयेजन्तति तैत्तिरीयपाठः । १ क. 'ण्या द्विखुरादयो ह ।
श्रीमत्सायणाचार्यप्रणीतभाष्योपेतं-- स्वथा ये माम्या गाइयस्तानपि चके । पशनामन्तरिक्षद्वारा वायुदेवत्पत्वं यजुर्मासणे समाम्नायते-" वायवः स्थेत्याह । षायुर्वा अवरिक्षस्याध्यक्षः। अन्तरिक्षदेवत्याः खलु वै पशषः । वायव एवैनान्परिददाति " इति ॥८॥ अथ नवमी। तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजस्तस्मादजायत ॥ ९ ॥ तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामानि । जज्ञिरे । छ- न्दांसि । जज्ञिरे । तस्मात् । यर्जुः । तस्मात् । अजायत ॥ ९॥ तबहुतस्तस्मात्पूर्वोक्ताद्यज्ञादृचः सामानि जज्ञिर उत्पन्नाः। तस्माद्यज्ञाच्छ- न्दाति गायत्र्यादीनि जज्ञिरे । तस्माद्यज्ञाद्यजुरजायत ॥ ९ ॥ अथ दशमी। तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१०॥ तस्मात् । अश्वाः । अजायन्त । ये । के । च । उभयादतः । गावा है। जाहिरे। तस्मात् । तस्मात् । जाताः । अजावयः ॥१०॥ वस्मात्पूर्वोक्ताद्यज्ञादधा अजायन्तोत्पन्नाः । ये के चायव्यतिरिका गर्दमा अश्वतराचोमयादव ऊर्ध्वाधोभागयोर्दन्तयुक्ताः सन्ति तेऽप्यजायन्त । वथा वस्माद्यज्ञाद्गावश्च जज्ञिरे । किंच तस्माद्यज्ञादजा अवयश्च जावाः ॥१०॥ अर्थकादशी। यत्पुरुष * व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य को बाहू का ऊरू पादा उच्यते ॥ ११॥ - - - * व्यदधुरिति तैत्तिरीपाठः । + कावूरू पादावुच्येते इति तैत्तिरीयपाठः । १ ख. म्या गोअजाद।२ क. ग. गवावाद । ३ घ. युदेवतात्पं ।
पुरुषसूक्तम् । - - यत् । पुरुषम् । वि। अदधुः । कतिधा। वि । अकल्प- यन् । मुर्खम् । किम् । अस्य कौ। बाहू इति । कौ । ऊरू इति । पादौ । उच्यते इति ॥ ११ ॥ पभोचररूपेण ब्राह्मणादिसष्टिं वक्तुं ब्रह्मवादिनां पना उच्यन्ते--प्रजापतेः पाणरूपा देवा यद्यदा पुरुषं विरारूपं व्यदधुः संकल्पेनोत्पादितवनास्वदानी कविधा कतिभिः प्रकारैव्यंकल्पयन्विविध कल्पितवन्तः । अस्य पुरुषस्प मुखं किमासीत् । को बाहू अभूताम् । का ऊरू, कौ च पादा उच्यते । प्रथम सामान्यरूपः पनः, पश्चान्मुखं किमित्यादिना विशेषविषयाः पनाः ॥११॥ अथ द्वादशी। ब्राह्मणोऽस्य मुखमासीवाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥ माह्मणः । अस्य । मुखम् । आसीत् । बाई इति । राजन्यः । कृतः । ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शुद्रः। अजायत ॥ १२॥ इदानीं पूर्वोक्तमभानामुत्तराणि दर्शयति-अस्य प्रजापतेबीलणो बालणत्व- जाविविशिष्टः पुरुषो मुखमासीन्मुखादुत्पन्न इत्यर्थः । पोऽयं राजन्यः क्षत्रिय- वणाविविशिष्टः स वाहू छतो बाहुत्वेन निष्पादितो बाहुभ्यामुत्पादिव इत्यर्थः। वलदानीपस्प मजापतेर्य द्यावूरू वद्रूपो वैश्यः संपन्न ऊरुभ्यामुत्पादित इत्यर्थः । पथाऽस्य पद्भ्यां पादाभ्यां शूद्रः शूदत्वजातिमान्पुरुषोऽजायत । इयं च मुखा- दिभ्यो ब्रालणादीनामुत्पत्तियंज:संहिवायां सप्तमकाण्डे--" स मुखतखिवत निरमिमीत " इत्यादौ विसष्टमाम्नाता । अतः प्रश्नोत्तरे उभे अपि तत्परत्वे. मेव योजनीये ॥ १२॥ अथ त्रयोदशी। चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मखादिन्द्रश्वामिश्च प्राणाद्वायुरजायत ॥ १३॥ ।
श्रीमत्सायणाचार्यप्रणीतभाष्योपेतं-- चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत । मुखात् । इन्द्रः। च । अभिः । च । प्राणात् । वायुः । अजा. यत ॥ १३॥ पथा दध्याज्यादिवव्याणि गवादयः पशव ऋगादिवेदा बालणादयो मनु- ध्याम तस्मादृत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह-- मजा- पतेर्मनसः सकाशाच्चन्द्रमा जातः । चक्षोश्चक्षुषः सूर्योऽप्यजायत । अस्य मु. खादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य प्राणाद्वायुरजायत ॥ १३ ॥ अथ चतुर्दशी। नाभ्या आसीदन्तरिक्षं शीष्णों द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अंकल्पयन् ॥ १४ ॥ नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्णः । द्यौः । सम् । अव- तत । पत्ऽभ्याम् भूमिः। दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन् ॥ ४॥ पथा चन्द्रादीपजापतेर्मनःप्रभृतयोऽकल्पयंस्तथान्तरिक्षादलोकान्पजापतेना- भ्याइयो देवा अवयवा अकल्पयनत्पादितवन्तः । एतदेव दर्शयति-नाभ्या: पनापसेनामेरम्तरिक्षमासीत् । शीर्णः शिरसो द्यौः समवर्ततोपन्ना । अस्य पम्या पादाम्यां भूमिरुत्पन्ना । अस्य श्रोत्रादिश उत्पन्नाः ॥ १४ ॥ अथ पञ्चदशी। सप्तास्याऽऽसम्परिधयस्त्रिः सप्त समिधः कृताः । देषा ययज्ञं तन्वाना अबध्नन्पुरुषं पशम् ॥ १५॥ सप्त । अस्य । आसन् । परिचयः । त्रिः। सप्त । समऽइधः कृताः । देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ॥ १५॥ - - * पञ्चमधष्ठस्थमिदं चिह्न दव-यम् ।
पुरुषसूक्तम् । अस्य सांकल्पिकस्य यज्ञस्य गायत्र्यादीनि सप्त च्छन्दांसि परिधय आसन् । ऐष्टिकरपाऽऽहवनीयस्य त्रयः परिधय औत्तरवेषिकास्त्रय आदित्यश्च सप्तमः परिधिपतिनिधिरूपः। अत एवाऽऽम्नायते--" न पुरस्तात्परिदधात्यादित्यो खेवोधन्पुरस्तावृक्षाश्स्यपहन्ति " इति । तत एत आदित्यसहिताः सप्त परिध- योन सप्तच्छन्दोरूपाः । तथा समिधास्त्रिः सप्त विगुणितसप्तसंख्याका एक- विंशतिः कताः । द्वादश मासाः पश्चर्तवस्त्रय इमे लोका असावादित्य एकवि- श्श इति श्रुताः पदार्था एकविंशतिदारुयुक्तेध्मत्वेन भाविताः । यद्यः पुरुषो बैराजोऽस्ति तं पुरुषं देवाः प्रजापतिपाणेन्द्रियरूपा यज्ञं तन्वाना मानसं यज्ञं कुर्वाणाः पशुपयनविराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिपेत्य पूर्वत्र पत्पुरुषेण हविषेत्युक्तम् ॥ १५॥ वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्ण तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वा भिवदन्य- दास्ते ॥१॥ पथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते । तत्र मन्त्रद्रष्टा स्वकीयं ध्यानानु. भावं पकटयति--ययः पुरुषः सर्वाणि रूपाणि देवमनुष्यशरीराणि विचित्य विशेषेण निष्पाद्य नामानि च देवोऽयं मनुष्योऽयं पशुरयमित्यादीनि कृत्वाऽमि. बदस्तैनामभिरभितो व्यवहरन्नास्त एवं पुरुषं विराजं महान्तं सर्वगुणैरधिकमा- दित्यवर्णमादित्यवत्मकाशमानं वेदाहं जानामि ध्यानेन सर्वदाऽनुभवामीत्यर्थः । स पुरुषस्तमसः पार अज्ञानात्परस्ताद्वर्तते । अतो गुरुशास्वरहितLढेरनुभवितु- मशक्य इत्यर्थः ॥ १ ॥ धाता परस्तायमुदाजहार। शकः प्रविद्वान्प्रदिशश्चतम्रः। तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय वियते ॥ २॥ धाता प्रजापति विराट्पुरुषमुदाजहार ध्यातॄणामुपकारार्थ पल्यापितवान् । * वेदाहमेतमित्यादि वियत इत्यन्तमृग्वयं तैत्तिरीयपुरुषसूक्तेऽधिकं दृश्यते। अत. सत्र संगृहीतम् । एवमष्टादशर्च तैत्तिरीयपुरुषसूक्तम् । or १० श्रीमत्सायणाचार्यप्रणीतभाष्योपेतं पुरुषसूक्तम् । . - चतमः पदिशश्चतुर्दिक्षु व( ग्वर्तिनः सर्वान्पामिनः पविद्वान्प्रकर्षण जानञ्श- क इन्द्रश्च वदनुग्रहार्थं प्रख्यापितवान् । धातुरिन्द्रस्योपदेशातं विराट्पुरुषमेव- मुक्तपकारेण विद्वान्साक्षात्कुनिहास्मिन्नेव जन्मन्यमृतो. मरणरहितो भवति । यदा विराट्पुरुषोऽहमिति साक्षात्करोति वदानीं वर्तमानदेहस्य तत्पत्यक्षरूपत्वा- भावादन्यमरणेनायमुपासको न म्रियते । अयनायामृतत्वमाप्तयेऽन्यः पन्था यथोकविराट्पुरुषसाक्षात्कारमन्तरेणान्यो मार्गों न विद्यते । न हि कर्मसह- सैरमृवत्वं संपादयितुं शक्यते न कर्मणा न प्रजवा धनेन " इत्या- दिशास्त्रात् ॥२॥ अथ पोडशी। यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाक महिमानः + सचन्त यत्र पूर्व साध्याः सन्ति देवाः ॥१६॥ यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् । ते ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्व । साध्याः । सन्ति । देवाः ॥ १६ ॥ पूर्व प्रपश्चेनोक्कमर्थं संक्षिप्पात्र दर्शपति-देवाः प्रजापतिपाणरूपा यज्ञेन यथोकन मानसेन संकल्पेन यज्ञं पयोक्तयज्ञस्वरूपं प्रजापतिमयजन्त पूजित- पन्तः । तस्मात्पूजनाचानि पतिद्धानि धर्माणि जगवूपविकाराणां धारकाणि प्रथमानि मुख्यान्यासन् । एतावता सृष्टिमविपादकसूतभागार्थः संगृहीतः । भथोपासनतत्फलानुवादकमागार्थः संगृह्यते । पत्र यस्मिन्विरामाप्तिरूपे नाके पूर्वे साध्याः पुरातना विरा/पास्विसाधका देवाः सन्ति तिष्ठन्ति तं नाकं विरा- मातिरूपं स्वर्ग ते महिमानस्तदुपासका महात्मानः सचन्त समवयन्ति प्राप्नु, बन्ति ॥ १६॥ इति श्रीमत्सायणाचार्यविरचितं सहस्रशीतिषोडशचंसूक्तभाष्यम् । - - - + सचन्ते इति तैत्तिरीयपाठः । १ स. ता विधि।
अथ वैष्णवमन्त्राः।
श्रीमत्सायणाचार्यपणीतभाष्योपेवाः।
पातःसवने सोमातिरेक एक शखं शंसनीयम् । पत्रातो देवा इत्याद्याः
पडचः । सोमातिरेक इति खण्डे सत्रितम्--" महाँ इन्द्रो य ओजसाऽतो देवा
अवन्तु न इत्यैन्द्रीभिर्वेष्णवीभिश्च " इति । अप्लोयामेऽच्छावाकाविरिक्तोक्थेऽ-
प्येवाः षडचः स्तोत्रियानुरूपार्थाः। तथा च यस्य पशव इति खण्डे सवित्रम्-
" अतो देवा भवन्तु न इति स्वोत्रियानुरूपी " इति । दशंपूर्णमासयोः पाय-
चित्तहोमेऽप्याये विनियुक्त । तथैव वेदं पल्या इति खण्डे सत्रितम्-" अतो
देवा अवन्तु न इति द्वाभ्यां व्याहातेभिश्च " इति । पाज्यानुवाक्ययोर्मध्ये
लौकिकभाषणेऽतो देवा इत्येषा जप्या । सत्रितं हि-" आपद्या(घ)तो देवा
अवन्तु न इवि जपेत् ॥ इति ॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पृथिव्याः सप्त धामभिः ॥ १ ॥
अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विऽचक्रमे ।
पृथिव्याः । सप्त । धामऽभिः ॥ १॥
विष्णुः परमेश्वरः सप्तधामभिः सप्तभिगायत्र्यादिभिश्छन्दोभिः साधनभूते-
पतः पृथिव्या यस्माद्धपदेशाविचकमे विविधं पादकमणं कृतवान्, अतोऽस्मा-
पृथिवीपदेशानोऽस्मान्देवा अवन्तु । विष्णोः पृथिव्यादिलोकेषु छन्दोभिः
साधनैजयं तैत्तिरीया आमनन्ति-" विष्णुमुखा वै देवाश्छन्दोभिरिमाल्लोकान-
नपजय्यमभ्यजयन् " इति । विष्णोत्रिविक्रमावतारे पादत्रयक्रमणस्य पृथिव्यु.
पादानम् । पृथिवीपदेशावक्षणं नाम भूलोंके वर्तमानानां पापनिवारणम् । अतः,
एतच्छन्दात्पञ्चम्यास्तसिलिति ततिलः “ एवदखतसोरित्यशादेशः। लित्स्वरे-
णाकार उदात्तः। यतः, वसिलः “ पाग्दिशो विभक्तिः" इति विभक्तिसं.
ज्ञायां त्यदायत्वं लित्स्वरः । विष्णुः। विषेः किञ्चेति नुप्रत्ययः । कित्वान
गुणः । निदित्यनुवृत्तेरायुदात्तत्वम् । विचक्रमे । सुविवि योगविभागादिशब्दस्य
समासः । समासान्वोदात्तत्वम् । यद्वृत्तपोगान निघावः। सप्त । सुपा सुलु-
गिवि भिसो लुक् । धामभिः । दधातेरातो मनिनिति मनिन् । नित्स्वरः ॥१॥
१२ श्रीमन्सायणाचार्यप्रणीतभाष्योपेतं-- इदं विष्णुर्वि चक्रमे त्रेधा नि दधे यदम् । समूहळमस्य पांसुरे ॥ २ ॥ इदम् । विष्णुः । वि । चक्रमे । त्रेधा। नि । दुधै । पदम् । संऽऊंहळम् । अस्य । पांसरे ॥ २ ॥ वैष्णवोपांशयाजस्पदं विष्णुरित्येषाऽनुवाक्या । उक्का देवता इति खण्हे सू- वितम्--" इदं विष्णवि चक्रमे विर्देवः पृथिवीमेष एताम् ” इति । गार्हप- स्याहवनीययोर्मध्ये श्वातिक्रमणेऽनयैव श्वपदेषु भस्म पक्षिपेत् । विध्यपराध हति खण्डे सूत्रितम्--" भस्मना शुनः पदं पतिवपेदिदं विष्णुर्वि चक्रम इति । आतिथ्यायां प्रधानस्य हविष एषैवानुवाक्या । अथातिथ्येळान्तेति खण्डे सू- वितम् . -इदं विष्णुर्विचक्रमे तदस्य पियमभिपाथो अश्यामिति । उपसत्सु वैष्ण- वस्यैषैवानुवाक्या । अथोपसदिति खण्डे सत्रितम्-गयस्फानो अमीवहेदं विष्णु- विचकम इति ॥ विष्णुलिविक्रमावतारधारीदं पायमानं सर्व जगदुद्दिश्य विचक्रमे विशेषण पादकमणं कृतवान् । तदा वेधा विभिः प्रकारैः पदं निदधे, स्वकीयं पादं पक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्तपादस्थाने समूढमिदं सर्वं जगत्स- म्यगन्नभूतम् । सेयमृग्यास्कनैवं व्याख्याता--" विष्णुर्विशतेर्वा व्यनोवेवां यदिदं किंच तद्विकमते विष्णुविधा निधत्ते पदं धामावाय पृथिव्यामन्तरिक्षे दिवीति शाकणिः । समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः । समूहळ- पस्य पांसुर आप्पायनेऽन्तरिक्षे पदं न दृश्यवेऽपि वोपमार्थे स्पात्समूहळमस्प पांसुल इव पदं न दृश्यत इति । पासवः पादैः सूयन्त इति पनाः शेरव इति वा पंसनीया भवन्तीति वा " इति । ( * यदिदं किंचिद्विभागेनावस्थितं त. विक्रम विष्णुरादित्यः । कथमित्यत आह-वेधा नि दधे पदं धत्ते पदम् । निधानः पादैः । क्व, तत्र तावत्-पृथिव्यामन्तरिक्षे दिवाति शाकपूणिः । पार्थिवोऽनिर्भूत्वा पृथिव्यां यत्किंचिदस्ति तद्विक्रमते तदधितिष्ठवि । अन्तरिक्ष अनुश्चिहूनान्तर्गतो ग्रन्थः पूर्वोक्तनिरुक्तव्याख्यानरूपः । अयं च ऋग्वेदभाध्ये न दुश्यते।
“ माठिरव. वैष्णवमन्त्राः। १३ विषुदापना । दिवि तूपात्मना । पदुक्तम्-वम् अण्वनवेश भूरे कविवि । समारोहण उदयगिरावुपन्पइमेकं निधने । विष्णपदे पद्मदिनेऽन्दरिख । मब- शिरस्पस्वगिराविस्पोर्णगाम आचार्य एवं मन्यते । समूहळपस्य पातुरे ।- स्मिनाप्यापन एवस्सिमन्वरिक्षे सर्वभूतवृद्धिहवो पम्पमंदिन पर विपु- दारूपं वस्तमूडमन्वहितं न नित्यं दृश्यते । वदुकम्-स्वपनवमाध्यषिक पोतिरनित्यदर्शनामिति । अपि वोपपार्थे स्यात्समूहळपस्य पातु हर पदं न दस्पद पवि । पथा पांसुळपदेशे पदं म्यस्त मुत्क्षेपणसपनन्तरमेव पांसुमिराकीर्ण- खान हरपव एवमस्प पम्पमं पियुरात्मकं पदलाविष्कविसमकाउमेव व्यवधी- पवे नावतिष्ठव इस्पर्थः । पांसुर इवि रो मत्वपः। अथ पतिः। करसाने हि पादः सूपन्चे जन्पन्द इत्यर्थः । अथवा पमाः शेरव इवि पंसनीषा भंस- नीया सनाहीस्ते भवन्ति वदाकीर्णस्य दुर्दर्शकत्वात् ) । पा । पानेले. भाज्यत्ययः । चिवोऽन्तोदानः। समूहळम् , वह पापणे । निवि कः। बपि. सपिपजेत्यादिना संपसारणम् । ढत्ववत्वष्टुत्वउगेपदीर्घस्वानि । सर: "पति गतेः पकविम्वरत्वम् । अत्य, इदमोऽन्वादेश इस्पशनुदासः पत्य. पक्ष सुप्स्वरेण । पांसुरे । “ नगपांतपाण्डुम्पश्चति बक्तव्यम् " वि मत्वर्थीयो र:। प्रत्ययस्वरः॥ २॥ जीणि पदा वि चक्रमे विष्णुगोपा अदाभ्यः । अतो धर्माणि धारयन् ॥ ३ ॥ श्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अ. दाभ्यः । अतः । धमाणि । धारयन् ॥ ३॥ उपसदि वैष्णवयागस्य पावःकाले माज्या सायंकालेभनुगापा वीषि पदेत्ये. का । सूरि र-वीणि पदा वि कम इवि सिष्टादि तृप्पल इदि । भदाम्पः केनापि हितितुमशमः । गोपाः सवस्य पगवो रक्षाको विष्णः। अव एवेषु पृथिम्पादिस्थानेषु त्रीणि पहानि विषकमे । किं कुर्वन् । पर्माण- बिहोत्रादीनि धारपम्पोषयन् । पदा। सुपा सुलगित्यादिना विमोदिशः। वस्व स्थानिवद्भावनानुदात्तत्वे पान उदात्तनिवृत्तिस्वरेजोदाचवम् । गोपाः, ४ श्रीमत्सायणाचार्यप्रणीतभाष्योपेतं-- गोपामृतस्पस्पोकम् । अदाभ्यः । दमेसंहलोपदिवि ण्यत् । नसमासः । ममयपूर्वपदपडविस्वरत्वम् । धारयन् । शपः पिचाइनुदाचवम् । शतुथ ल. सार्वधातुकस्वरेण पिच एव स्वरः शिष्यते ॥ ३ ॥ विष्णोः कर्माणि पश्यत यतो वतानि पस्पशे । इन्द्रस्य युज्यः सखी ॥४॥ विष्णोः । कमाणि । पश्यत । यतः । व्रतानि । पस्पशे । इन्द्रस्य । युज्यः । सखी ॥४॥ हे ऋत्विगादयो विष्णोः कर्माणि पालनादीनि पश्यत । यतो पैः कर्मभिवं. वान्यमिहोत्रादीनि पस्पशे सर्यो पजमानः स्पृष्टवान् । विष्णोरनुपहाइनविष्ठती- स्पर्थः । तादृशो विष्णुरिन्द्रस्य युग्यो योग्योऽनुकूलः सखा भवति । विष्णो- रिन्दानुकूल्पं त्वष्टा हतपुत्र इत्यनुवाकेऽथ वर्हि विष्णुरित्यादिना पपश्चन वैचिरीया आमनन्ति । पस्पशे । पश बाधनस्पर्शनयोः । लिट्, विर्भावः । " शपूर्वाः स्वपः ॥ इति पकारः शिष्यते तकारो लुप्यते । पढ्नयोगादनि- पावः । युज्यः । युजेबाहुलकात्क्यप् । कित्त्वाद्गुणाभावः। क्यपः पित्त्वादनु- दातलम् । धातुस्वरः ॥ ४ ॥ तष्णिोः परमं पदं सदा पश्यन्ति मूरयः । दिबींव चक्षुराततम् ॥५॥ तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः । दिविऽइव । चक्षुः । आऽततम् ॥ ५॥ सरपो विदांत कत्विगादयो विष्णोः संबन्धि परममुत्कष्टं वच्छासपासवं पदं स्वर्गस्थान शाखदृष्टया सर्वदा पश्यन्ति । वष दृष्टान्त:-दिवीव । आकाशे पचाऽऽनवं ततः प्रतवं चक्षुनिरोधामावेन विशदं पश्यति वद्वत् । सदा, सर्वै. कान्यवि दामत्यपः । “सर्वस्य सोऽन्यतरस्पां दि" इति सर्वशब्दस्य सभावः व्यत्ययेनापदाचत्वम् । दिवि, कडिदमित्यादिना विभकेरुदाचस्वम् । इवेन ।
वैष्णवमन्त्राः। j५ विभक्त्यलोपः पूर्वपदपछविस्वरत्वं चेति तदेव शिष्यते । चक्षुः। नविपयस्पे- त्यायुदात्तत्वम् । आवतम् । वनोतेः कर्मणि कः । यस्य विभाषेतीमविषेषः । अनुदाचोपदेशेत्यादिना नलोपः । कदुत्तरपदपकतिस्वरत्वे पाले "गतिरनन्वरः इति गतेरुदात्तत्वम् ॥ ५॥ तहिनासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ६॥ तत् । विप्रोसः । विपन्यवः । जागृऽवांसः । सम् । इन्धते । विष्णोः। यत् । परमम् । पदम् ॥ ६ ॥ पूर्वोक्तं विष्णोर्यसदमस्ति वत्पदं विपासो मेधाविनः समिन्धवे सम्पग्दीपथ- न्ति । कीदृशाः । विपन्यवो विशेषण स्तोतारः । जागांतः शम्दार्थयोः प्रमादराहित्येन जागरूकाः । विपातः । आज्जसेरसक् । विपन्यवो विशेषण स्तोतारः । स्तुत्यर्थस्य पने हुसकादौणादिको युपत्ययः । तत्र प्रत्ययस्वरः । जागृवांसः जागृ निद्राक्षये लिटः क्वसुः कादिनियमात्माप्तस्पेटो ववेकाजा- बसामिति नियमानिवृत्तिः ॥ ६ ॥ इति वैष्णवमन्त्रभाष्यं समाषम् ।
No text on this page.
No text on this page.
No text on this page.
No text on this page.