Osmania University

Mahaabhaashhyama~ Prathama Grantha

Manmukundamuni · 2005/11/22

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184110
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

श्रीः
भारततिहास-संशोधक-मण्डलम्
* महाराष्ट्रीय-सारस्वतम् -
* ग्रन्थः प्रथमः
श्रीमन्मुकुन्दमुनिकृतम्
महाभाष्यम्
पाठकोपाव्हण्यम्बकतनूजश्रीधरशर्मणा संस्कृतम्
१८३५ मितशाकसंवत्सरे फाल्गुन शुक्ले पौर्णमास्या
मूल्यमर्धरूप्यकम्

इदं पुस्तकं धूलिनगरे श्रीयुतैर्देवोपाव्हैः श्रीकृष्णतनूजैः शंकरशर्मभिः
स्वीये 'श्री आत्माराम ' मुद्रणालये संमुद्रितम् ।
तच्च
श्रीयुतै,हेन्दळे इत्युपाव्हैश्चिन्तामणितनूजैः खण्डेरावशर्मभिः पुण्यपत्तने
भा. इ. सं. मण्डलस्य कार्यालये प्रसिद्धिमनायि ।

॥ श्री॥ प्रास्ताविक किञ्चित् ORAN , निखिलाधिकारिजननिकायमलिनान्तःकरणशुद्धिद्वारा परमपु- रुषार्थस्य निःश्रेयसाख्यस्याधिगतौ वेदान्तशास्त्रं तद्विचारस्तदुदितो. पासनानुष्ठानं चेति त्रयं साधकतममिति सर्वविद्वज्जनैः सादरं संमन्य- ते । अस्मिस्त्रये वेदान्तशास्त्रं मूलभूतं तत्र सन्ति बहवः शारीरसूत्र. भाष्यादयो ग्रन्थास्तथापि तेषां स्वल्पविषयमतिदुरवगाह्यत्वमालोच्य परमकारुणिकेन श्रीमुकुन्दराजमुनिना 'महाभाष्यम् इत्याख्यः प्रबन्धी निरमायि सच मया यथामति संस्कृतिमनायि । अधुना प्रस्तु. तग्रन्थविषये किंचिद्विचार्यते-ग्रन्थवरोऽयं सिद्धान्तभूतस्य मीमांसित. मतस्य प्रतिपादकोऽपि सन्न केवलं पाण्डित्यद्योतिशब्दजालसंमिश्रः किन्तु मुमुक्षूणामुपकाराय सुगमसुललितपदबन्धविलसितः । अनाहता गुरुशिष्यसंवादद्योतिका पद्धतिस्तेन प्राचीनग्रन्थेषु यथा ननुनचेत्यादि- भिस्त्वाच्छिरस्कैर्वच:समूहैरध्येतॄणां व्यामोहस्तथा नात्र । किं च पूर्व- तनग्रन्थेषु वेदान्तपरिभाषावेदान्तसारादिषु केवलं सुगमतया प्रकृत. शास्त्रप्रवेशार्थ निर्मितेष्वप्यध्येतॄणां न्यायपूर्वमीमांसादिदर्शनैः संस्कृत- बुद्धि त्वमपेक्ष्यते न तथात्र ग्रन्थे, यतोऽस्मिंस्तत्तत्स्थले सौलभ्येन वि. चारक्रमो वरीवर्ति । दृढं विश्वसिति मे मनो यत्केवलं गीर्वाणभाषाप्र- विष्टानां पौराणिकानामपि बुद्धिपथमागेहेदयं निबन्धः । अयं ग्रन्थो निर्मातुर्भक्तवरिष्ठत्वमुपदेशपरम्पराप्रवणत्वं च द्योतयति । सर्ववेदान्त- निबन्धेषु सुगमत्वेनाखिलाद्वैततत्त्वप्रदर्शकोऽयं निबन्धः प्रथम एवेति कथनेऽपि नातिशयोक्तिः । अस्य महाभाष्यमिति संज्ञा व्यधायि नि- मात्रा तदाशयस्त्वेवं प्रतीयते यथा व्याकरणमहाभाष्ये पातञ्जले सर्व विषयाः सुगमतया प्रश्नोत्तररूपेण च प्रतिपादिता एवमत्रापि वेदान्त- विषयाः। ग्रन्थकारश्च भगवद्भक्तवरिष्ठः श्रीमुकुन्दराजो न केवलं वेदान्त- पारदृश्वा पण्डितोऽपि त्वेतद्ग्रन्थान्तनिविष्टमुनिपदाहः । यतः पुराणमु- निवत्तेन दुरवबोधोऽपि वेदान्तविषयः सुलभभाषामयेन दृष्टान्तपरिप्लु- तेन प्रबन्धेन जनता प्रत्यबोधि । अयं महात्मा मुनिः कस्मिन्समये कतमं भूप्रदेशमलं चकारेति किंचिदुच्यते श्रीयुतेतिहाससंशोधकराज- वाडेमहाशयाहतसरण्या । तेन च महाभागेन महाराष्ट्रभाषयैवमुदले- खि । श्रीमुकुन्दराजस्य मुनेनगंगातीरे नागपुरेति प्रसिद्धमण्डले भण्डा- रापुरसविधे खेडलाग्रामे समाधिः । तेनायं स्वजन्मना निवासेन च बैतुलछिन्दवाडेति प्रदेश भूषयामास किं चाद्यापि तच्छिध्यपरम्परा तस्मिन्विषये दरीदृश्यते । आदिनाथादारभ्यास्य श्रीज्ञानेश्वरस्य च पर- म्परा तेनास्य श्रीज्ञानेश्वरस्य चैककालभवत्वम् । ज्ञानेश्वरस्य कालः शा- कसंवत्सरान्तर्गतद्वादशशतात्मकस्तेनास्यापि स एव तत्समीपस्थो वा । अनेन महाराष्ट्रभाषायां विवेकसिन्ध्वादयो बहवो निबन्धा निरमीयन्त। एतस्य ग्रन्थानालोच्यैवं मनसि भावना प्रादुर्भवति यन्महाराष्ट्रादिभा- पाग्रन्थकाराः पूर्वे सर्वदेशस्थजनानुद्धत् गीर्वाणभाषाद्वारा अन्यानि- माय पश्चात्केवलं तत्तद्भाषाज्ञानुद्धर्तुं महाराष्ट्रादिभाषायां निबन्धान रचयन्ति स्म । उक्तं च ' गीर्वाणभाषा वासोवत्सर्वदेशविभूषिका । देशभाषा तु भूषावदेकदेशविभूषिका ॥ १॥ श्रीभक्तवरिष्ठो दासोपन्त इमां भावनां पोषयति । यतो गीर्वाणभाषया दशानामुपनिषद्भाष्याणां रचयितायं महाराष्ट्रभाषायां ग्रन्थचयं व्यदधौ । सम्प्रति दासोपन्तस्य प्रत्येक सपादलक्षग्रन्यात्मकं पदार्णवगीतार्णवेत्यभिधं निबन्धद्यमुप- लभ्यते ।

(३) अस्य प्रकृतमहाभाष्यस्यान्यानि त्रीणि पुस्तकानि दक्षिणमहा- विद्यालयादुपलब्धानि परं शुद्धपाठयुतत्वादेकमेव टिप्पणीरूपेण पाठप्र- दर्शनायोपयोजितम् । यावच्छक्यं गीताश्रुतिवचनस्थलनिर्देशोs- कारि संपूर्णश्च द्वितीयस्मिन्संस्करणे स्यादित्याशास्ते । प्राचीनहस्त- लिखितपुस्तकसंशोधने यथाशक्ति विरचितेष्वपि प्रयत्नेषु मानुपशेमुषी- सुलभावकाशा दोषा नान्तर्दधीरस्तान्क्षन्तुं प्रसीदन्तु विद्वांस इति स- विनयं साञ्जलिबन्धं समभ्यर्थयते । विद्वदनुचरः पाठकोपनामा त्र्यम्बकतनूजनुः श्रीधरशर्मा.

No text on this page.

श्रीः मुकुंदमुनिकृतं महाभाष्यम् श्रीगणेशाय नमः । श्रीमत्परमहंसपरिव्राजकाचार्य- चरणारविन्दाभ्यां नमः । अगुणाय गुणाढ्याय स्वस्थायान- न्दरूपिणे ॥ स्वप्रकाशाय शुद्धाय श्रीराममुनये नमः ॥ १॥ निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ॥ कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपपद्यते ॥ २ ॥ ( अपारसंसारसमुद्रमनजीवालिस- न्तारणकारणाय ॥ यः प्रादुरासीत्पुरुषोऽविनाशी तं रामचन्द्र मुनिमानतोऽस्मि ॥३॥ रामचन्द्रपदाम्भोजमकरन्दालिवृत्तिना ॥ मुकुन्दमुनिनाद्वैतं ज्ञानं सर्वस्वमुच्यते ॥ ४ ॥ श्रीमन्मुनीन्द्रेण मुकुन्दनाम्ना विनिर्मितोऽनन्तमुनेः सुखाय ॥ विवेकसिन्धुर्यमनुप्र- विश्य सद्यः पुमानेति हरिस्वरूपम् ॥ ५ ॥ विवेकसिन्धुं मुनि. वर्यनिर्मितं धीमन्दरेणाशु विमथ्य यत्नात् । लब्धो विवेकोऽमृत- मिष्टसिद्धं निपीयतां कर्णपुटैश्चिरं बुधाः ॥ ६ ॥ तापत्रयैस्तप्त- तनुर्विवेकसिन्धुं विगावि जहाति तापं ॥ इदं विवेकामृतमाशु पीतं विमुक्तिसोपानपरम्परापदम् ॥ ७॥ श्रीहरं जगदाधारं स- चिदानन्दमद्वयं ॥ अभिवन्द्यात्मविज्ञानोपदेशविधिरुच्यते)॥ ८॥ १ स्वात्मनेऽनन्त । २ कस्मिंश्चिदशुद्धपुस्तके लब्धा इमे श्लोकाः ।

२ मुकुंदमुनिकृतं सत्वरजस्तमोगुणरहितस्य सर्वप्रमाणातीतस्य विद्याविद्यारहितस्य केवलस्य ब्रह्मणः सृष्टिकर्तृत्वं कथं घटते । एतादृशं ब्रह्म जगतः कारणमिति न वदन्ति सूक्ष्मतत्त्वज्ञा निरालम्बसिद्धास्तत्त्वज्ञाः सूक्ष्मब्रह्मवादिनस्तर्हि किं पुनः कारणं मायाशबलं ब्रह्म कारण- मिति वदन्ति । मायाशबलं ब्रह्म किमिति चेत्-मायया सहितं मायाशबलमित्युच्यते । नन्वतन्न संभवति चैतन्यं स्वयंप्रकाशं माया च तमोरूपा । नन्वविद्या स्त्रयंज्योतिरात्मानं ढौकते कथं ॥ कूटस्थमद्वितीयं च सहस्रांशुं यथा तमः ॥ १॥ स्वयं- प्रकाशमात्मस्वरूपमविकाररूपं निर्विकारमद्वयमचलस्वरूपमविद्या कथमावृणोति सूर्य तम इव परिहरति । अविद्यायाः स्वभाव एष यत्र न संभवति तत्र संभवः प्रतीयमानमात्रत्वादेतदविद्याया भूषणं नतु दूषणं दुर्घटत्वमविद्याया भूषणं न तु दूषणं कथंचिद्धटमानत्वेऽवि- द्यात्वं दुर्घटं भवेत् । असंभवस्थाने संभवोऽविद्याया भूषणं न दूषणं न यत्र संभवस्तेत्र यं न संभवति तदाविद्यात्वमेव न संभवति । अपि च । असंभावनीयावभासचतुरा सेति शास्त्रमप्यस्त्येतत् । यतोऽविद्याया यथाकथंचिदपि प्रतीयमानतासामर्थ्यमस्ति तस्मा- चैतन्येऽविद्या न संगच्छत इति वक्तुं न युज्यते 'तत्सत्यानृते मिथु- नीकरोति ' मै० उ० इति श्रुतेः । स्मृतिश्चै 'प्रकृति पुरुषं चैव विद्धयनादी उभावपि ॥ विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् , 'इवेति परिहरति' इति शुद्धम् । २ (अ) संसर्गाभाव इति । ३ (अ) अत्र स्थलेऽयं श्लोकः-यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वबुद्धि (?) दारादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हि चि बने. ध्वभिशेषु स एव गोखरः ।

महाभाष्यम् - . ॥१॥"भ.गी.। चैतन्यं मायाशबलं ब्रह्म तस्याहमिति प्रथमोऽध्यासः। साच मायाऽनिर्वाच्या जगतः कारणं सैव माया प्रकृतिरित्युच्यते । प्रधानमिति चाव्यक्तमिति चाव्याकृतमिति च जगदधिष्ठानमिति च कल्पितपुरुषेति च शबलं ब्रह्मेति चैषैव मायैतावद्भिरेव नामभिर्व्य- वन्हियते । एतादृश्याः प्रकृतेर्महत्तत्त्वमजायत । महदित्यादि किं- नामोच्यते । सृष्टिकतैव सर्वशक्तिमानीश्वर एव प्रलयकाले गते तत्सृष्टिकाले चागते यथापूर्व सर्वोल्लोकान्सृजामीत्यैच्छत्तस्य महती मनोवृत्तिर्महदिति । श्रुतिः ‘स ईक्षत बहु स्यां प्रजायेय' छां. इति । स लोकानसृजतेत्यर्थः । एतादृशान्महतोऽहंकारोऽजायत सोऽहंकारस्त्रिविधोऽभूत् । एकस्य त्रैविध्यं कथमिति चेदित्थम् । श्रुतिः ' अहमिदं स्यां' इति यत आह-सात्त्विकाहंकाररूपो राजसाहंकाररूपस्तामसाहंकाररूपश्चेति त्रिविधो बभूव । एतेषां त्रयाणां तिस्रः शक्तयः कस्याहंकारस्य का शक्तिरिति चेदुच्यते सात्त्विकाहंकारस्य ज्ञानशक्ती राजसाहंकारस्य क्रियाशक्तिस्तामसा- हंकारस्य द्रव्यशक्तिरस्या द्रव्यशक्तेस्तामसाहंकारसकाशादुत्पन्नानि शब्दस्पर्शरूपरसगन्धसंज्ञकानि पंच तन्मात्राणि । शब्दैकगुणमा- काशं स्पर्शकगुणो वायू रूपैकगुणोऽग्नी रसैकगुणमुदकं गन्धैक- गुणा पृथ्वी च । एतानि पञ्च सूक्ष्मभूतानि पंच महाभूतसहिता- नि । एतानि दश मीलित्वा तामसाहंकारसर्ग एतत्साध्यमस्य सदनुवृत्तिरुपादानम् । क्रियाशक्ते राजसाहंकारादुत्पन्नानि श्रोत्रं त्वक् चक्षुर्जिव्हा नाणमिति पंच ज्ञानेन्द्रियाणि । वाक्पाणिपादपायुगुह्या- नीति पञ्च कर्मेन्द्रियाणि । प्राणापानव्यानोदानसमाना इति पञ्च वायवश्च । एतानि पञ्चदश मिलित्वा राजसाहंकारसर्गएतानि ४ मुकुंदमुनिकृत साधनान्यतेषां चिदनुवृत्तिरुपादानम् । ज्ञानशक्तिसहितसात्वि: काहंकारसकाशादुत्पन्नानि दिग्वातार्कप्रचेतोऽश्विनाविति ज्ञानेन्द्रि- याधिष्ठातृदेवताः । अग्निरिन्द्रो विष्णुर्मृत्युः प्रजापतिरिति कर्मेन्द्रि- याधिष्ठातृदेवताः । चन्द्रो ब्रह्मा रुद्रः क्षेत्रज्ञ इत्यन्तःकरणचतुष्ट. याधिष्ठातृदेवताः । मनसा सहैतानि सात्त्विकाहंकारसर्गः । एते पंचदश मिलित्वा मनसा सह साधकाः। एतेषामानन्दानुवृत्तिरुपादा, नम् । एवं साधकसाधनसाध्यत्वादिरूपमादिपुरुषस्वरूपं परमात्मनः सूक्ष्मशरीरमिदमेवोच्यते । हिरण्यगर्भोऽप्ययमेव सूत्रमपीदमेव सूक्ष्मशरीरे सत्यपि स्थूलशरीरेण विना स्थूलव्यवहारसिद्धेरभावा- स्थूलशरीरमवश्यमुत्पादनीयम् । तत्कस्मात्सकाशादुत्पन्नमिति चेत्तामसाहंकारात्पुरा कथितानि तन्मात्राणि पंच भूतसूक्ष्माणि चो- पादाय पंचीकरणे कृते पञ्च महाभूतान्यजायन्त । पञ्ची- करणप्रकारश्चेत्थं-पूर्व रसस्तन्मात्रामुपादायोदकं यथा भवति तथा कल्पयित्वावशिष्टभूतानि पंच पंच कृत्वा तेषां सर्वेषामु- दकमिश्रणे कृते रसमये भूतविभागेऽस्पष्टीकृते पुरा प्रविष्टे चैत. न्येऽहमिति प्रतीयमाने तेनैवाभिमानविशेषेणादिनारायणो भगवा- नित्युच्यते, पश्चाद्धनीभूतभूतविभागे स्पष्ट एकैकगुणोत्तरां वृद्धि प्राप्य महाभूतानि कथ्यन्ते । एकैकगुणवृद्धिप्रकारश्चेत्थं--आका- शस्य शब्द एक एव गुणो, वायोः शब्दस्पशौं द्वौ गुणावग्नेः श- ब्दस्पर्शरूपाणीति त्रयो गुणा आपः शब्दस्पर्शरूपरसचतुर्गुणाः पृथिव्याः शब्दस्पर्शरूपरसगन्धाः पञ्च गुणाः । एवं पंच महा: भूतान्येतानि कार्याणि चतुर्दश लोकान्विधाय तत्सहितान् ब्रह्मा: १ (अ)मित्रः । २(अ) एतानि सा ।३अ. उत्पादनाये भूतविभागे महाभाष्यम् ५ एडांश्च कूष्मांडवीजवन्मध्यगतचतुरधिकाशीतिलक्षयोनिप्रमुखा जी घराशयश्च स्थूलशरीराणि च मिलित्वा विराडित्युच्यते । एत- देव परमात्मनः स्थूलशरीरमेवं स्थूलशरीरं तत्र भवावस्थोत्पत्ति- श्वेति दूयमभिमन्यमानमीशचैतन्यं ब्रह्मा चैतत्त्रिविधं मिलित्वाऽ. काराक्षरमेतदेव प्रणयगतः प्रथमः पादो हिरण्यगर्भः सूक्ष्मशरीरं तन्न भवावस्था स्थितिः । एतवयमभिमन्यमानमीशचैतन्यं वि. ष्णुश्चैतत्रिविधं मिलित्वोकारः। एतदेव प्रणवस्य द्वितीयः पादः । अव्याकृतं कारणशरीरं तत्र भवावस्थालयश्चैतद्वयमभिमन्यमान- मीशचैतन्यं रुद्र इत्युच्यते । एतत्त्रिविधं मिलित्वा मकारस्तृतीयः पादः । एवं विराहिरण्यगर्भाऽव्याकृतसंज्ञकं तनुत्रयमुत्पत्ति. स्थितिप्रलयसंज्ञकमबस्थात्रयं ब्रह्माविष्णुरुद्रसंज्ञकमभिमानत्रयं चा. कारोकारमकारसंज्ञात्रयं च प्रणवगतप्रथमद्वितीयतृतीयपादत्रयं चेतावन्मिलित्वा परमात्मनः कारणोपाधिः । एतदेव तत्पदमित्यु. च्यते । इतः परं जीवस्य तनुत्रयमुच्यते तत्कथं-पञ्चसु महाभूतेषु पञ्च कृतेष्वेककस्मिन्नेकैकेन योजिते सति तद्भूतांशा: पंचविंशति- स्तैतिं स्थूलशरीरम् । ते भूतांशाः के । अस्थि पृथिव्युदकं मांसमग्निरंत्राणि त्वग्वायू रोमाण्याकाशमते पंच पृथिव्यंशाः । मैदः पृथिवी मूत्रमुदकं रक्तमग्निः शुक्रं वायुः श्लेष्माकाशमेते पंच उदकांशाः। क्षुत्पृथिवी तृडुदकमालस्यमग्निः संगमो वायुनि- द्राकाशमेते पंचाग्नेरंशाः निरोधः पृथिवी भ्रमणमुदकमूर्ध्वगमनम- निरत्यन्तं तिर्यग्गमन वायुरूप्रस्थितिराकाशमेते पंच वायोरंशाः । भयं पृथ्वी मोह उदकं क्रोधोऽग्निः कामो वायुर्लोभ आकाशमेते पंचाकाशस्यांशाः । एतेषां पंचानां समूहेन जातं . षड्भाववि.

मुकुंदमुनिकृतं कारयुक्तं स्थूलशरीरमिति । ते षड् भावविकाराः के, जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यतीत्येते षड् भावविकाराः । तत्र जायत इति विकार ईदृशः । मातुरुदरे रेतोरक्तयोः संयुक्तयोस्तस्य जीवस्याव्यक्तरूपेण संक्रमणं तस्य षड् भावा एव अस्तीति विकारः-हस्तपादाद्यवयवसंपूर्णता वर्धत इति विकारः । एते त्रयो विकाराः । जठरस्थितस्यैव विपरिण- मतेऽपक्षीयते विनश्यतीति एते त्रयो विकाराः । जठराग्निर्गतस्य पंचानां विकाराणां क्रमोऽस्ति विनश्यतीति विकारस्य क्रमो नास्ति । कथं-गर्भो जात इति न विश्वसनीयं कुतः शिश्ने मूत्ररूपेण वा निःसरति गर्भः स्रावेण वा नश्यति । स्त्रिया भुक्तः कुद्रव्यैर्वा जठराग्निक्षोभेण विनश्यति । एतैर्विकारैर्युक्तः शरीरी मनुष्यजातीयः ब्राह्मणक्षत्रियवैश्यशूभेदभिन्नः । ब्रह्मचारि- गृहस्थवनस्थयतय इत्याश्रमभेदभिन्नश्चात्रिवसिष्ठकाश्यपगौतमगो. त्रभेदभिन्नश्च देवदत्तयज्ञदत्तादिनामभेदभिन्नश्च कुरूपी सुरूपीति भेदभिन्नश्च स्त्रीपुनपुंसकश्चेतिभेदभिन्नश्च कृशस्थूल-हस्वदीर्घ- सामान्यादिगुणयुक्तश्च स्थूलशरीरमिन्द्रियाणि मनश्चेति साध- नसंपन्नस्तत्तद्विषयाजोवो निरीक्षत इतीयं जाग्दवस्था । एतत्स्थूल शरीरं तत्र भवा जाग्रदवस्था चेति द्वयमभिमन्यमानं जीव. चैतन्यं विश्वं चैतत्रिविध मिलित्वाऽकारो नयनस्थानं च सुख- दुःखमिश्रस्थूलभोगश्चैतावनिमलित्वाऽकारसंज्ञां लब्ध्वा प्रणवस्य प्रथमः पादः । कथमेतदित्थं--पंचीकृतपंचमहाभूतैर्विना ब्रह्मा- ण्डं पिण्डश्चेति संज्ञा च स्थूलशरीरमेव नास्ति । स्थूलशरीरेण ..१ अ. पृक्त।

महामाष्यम् च विना तत्रोत्पत्तिरूपा जाग्रदूपा चावस्था नास्ति तामवस्थी विना तदभिमन्यमानस्य चैतन्यस्य ब्रह्म विश्वादिसंज्ञा नास्त्येत. त्रिविधं विनाऽकार इति संज्ञापि नास्त्येतच्चतुर्विधं विना नयन- स्थानमपि नास्ति । एतत्पंचविधं विना स्थूलभोगोऽपि नास्त्येत- त्षड्डिधं विना प्रथमपादोऽपि नास्ति । एवमनेन क्रमेणैतावन्मि. लित्वा प्रथमपाद इत्युच्यत इत्यर्थः । अस्मिन्स्थूलशरीरे सत्यप्य- स्य जडत्वादेतत्प्रेरयता दहिना सता सूक्ष्मशरीरेण विना देहि- नां व्यवहारसिद्धिर्यतो नास्ति तस्मात्सूक्ष्मशरीरेण भवितव्यं तच्च सूक्ष्मशरीरं पंचमहाभूतकार्यमेव पंचविंशतितत्त्वात्मकं भूत्वा बुद्धिसुखदुःखेच्छाप्रयत्नद्वेषधर्माधर्मसंस्कारात्मकं नवगुणयुक्तं गम- नागमनसहितं पंच महाभूतानि पंचीकृतशक्तिश्च श्रोत्रत्व- क्चक्षुर्जिव्हाघ्राणसंज्ञकं बुद्धीन्द्रियं ज्ञानशक्तिश्च वाक्पाणिपाद- पायुगुह्यनामकर्मेन्द्रियक्रियाशक्तिश्च प्राणापानव्यानोदानसमान- नामकवायुचेष्टाशक्तिश्च मनोबुद्धिरहंकारश्चित्तमित्यन्तःकरणचतु- ष्टयगतज्ञानप्रवर्तकशक्तिश्चैतानि मिलित्वा लिंगमित्युच्यते । एता- वद्धर्मकर्मतत्त्वमेतदेव सूक्ष्मशरीरमित्युच्यते । तत्र भवा स्वप्ना- वस्था । तत्कथामिति चेत्-इत्थं सर्वेन्द्रियशक्तिसहितमनः- साधनेनेह जाग्दवस्थायामिव निद्रावस्थायां विषयान्वितसुखदु:- खाश्रयान् विषयान्पश्यतीयं स्वप्नावस्था । इत्थं सूक्ष्मशरीरं तत्र भवा स्वप्नावस्था च द्वयमभिमन्यमानं जीवचैतन्यं तैजस- श्वेति त्रिविध मिलित्वोकारः कण्ठस्थानं प्रविविक्तभोगश्चैतावन्मिलि- त्वा प्रणवस्य द्वितीयः पादः । एतावन्मिलित्वोकारो भूत्वा द्वितीयः १ अ. जीवचै० । २ अ. रेणावश्यं ।

मुकुंदमुनिकृतं पाद इति कथमित्थम्-भूतसूक्ष्मैर्विना महासूत्रं पुर्यष्टकसंज्ञक सूक्ष्मशरीरमेव नास्ति तत्सूक्ष्मशरीरं विना तत्र स्थितिरूपा स्वप्नरूपा च वर्तमानावस्था नास्ति । एतद्द्वयं विना विश्वस्तैजस इति नामापि नास्ति । एतत्रिविधं विनोकारसंज्ञापि नास्ति । एतच्चतुर्विधं विना कण्ठसंज्ञापि नास्ति । एतत्पंचविधं विना प्रविविक्तभोगोऽपि नास्ति । एतत्षड्डिधं विना द्वितीयपाद उकारोऽपि नास्त्यतो हेतोरेतत्सर्व द्वितीयपाद उच्यते । एतत्स्थूलसूक्ष्मकारणं तमोमा- यामोहाज्ञानसंज्ञकं मूल विद्यात्माज्ञानं प्रोच्यते । कारणशरीरमप्ये- तदेव । ईदृशं कारणशरीरं तत्र भवा सुषुप्त्यवस्था सा कीदृशीति चेदुच्यते । जाग्रत्स्वप्नावस्थाजनितसर्वसंस्कारलये सति मन- स्यात्ममूलाविद्यायां लीने संस्कारमात्राविशिष्टे सति पुरुषो विश्रम्य निर्विकल्पसुखानुभवो भूत्वावतिष्टत इतीयं सुषुप्त्यवस्था । एतव- यमभिमन्यमानं जीवचैतन्यं प्राज्ञः । एतत्रिविधं मकारो हृदय. स्थानमानन्दभोगः । एतावन्मिलित्वा प्रणवस्य तृतीयः पादः । एतापन्मिहित्वा मकार इति संज्ञां लब्ध्वा प्रणवस्य तृतीयः पादः कथमित्थं सर्वकारणयोगमायां विना कार्यकारणपरिणता साड विद्या नास्ति । अत्र स्वापाव्याकृतरूपेण तत्कारणशरीरं विना लयरूपेण सुषुप्तिरूपेण च वर्तमानावस्थापि नास्ति तदुभयं विने- श्वरः प्राज्ञ इति नामापि नास्ति । एतत्त्रिविधं विना मकार इति वक्तुं न शक्यते । एतच्चतुर्विधं विना हृदयस्थानं नास्त्येतत्पंचविधं वि. नानन्दभोगोऽपि नास्ति । एतत्षड्विधं विना तृतीयपाद इति वक्तुं न शक्यतेऽतो ज्ञानं सर्व प्रणव एव । अकार एवोकार उकार एव १ अ. स्थूला.

महाभाष्यम or मकारो मकारः प्रत्यक्चैतन्यमात्रत्वं विना नास्ति । एतत्कथं, त्वमेव निर्विशेषप्रत्यग्रूपेण निरुपाधिको भूत्वाहमिति प्रतीयमान स्त्रि- पुटीरूपेणाखिलसच्चिदानन्दे विविक्ते प्रतीयमान उभयनाम्नो व्यक्तरूपस्य प्रपंचस्य त्वमेव कारणं कार्य चातो हेतोस्त्वमेव कारणं कार्य चेति श्रीगुरुरुपदिशति स्थूलं सूक्ष्मं कारणमिति तनुत्रयं च जाग्रत्स्वप्नं सुषुप्तिरित्यवस्थात्रयं च विश्वतैजसप्राज्ञेति नामत्रयं चाकारोकारमकारेति नामत्रयं च नयनकण्ठहृदयमिति स्थानत्रयं स्थूलप्रविविक्तानन्देति भोगत्रयं च प्रणवस्य प्रथमद्वितीयतृती- येति पादत्रयं चेत्येतावत्सर्वस्य पुनः पुनः समुदायस्याश्रयभूता चतुर्थी तनुः । अत्रभवा तुरीयावस्था । एतद्द्यमभिमन्यमानं जीवचैतन्यं प्रत्यगात्मानन्दावभासभोगश्चैतावत्सर्वं मिलित्वा का- र्योपाधिरेतदेव त्वंपदमुच्यते त्वंपदमभिमन्यमानस्य सतो व्यति- रिक्तस्य तवैव संसारः कीदृश इति चेदुच्यते-चतुरधिकाशीति- लक्षयोनिमुखेषु पतित्वा जनित्वा मृत्वा चक्षुःशूलोदरवेदनामू- लव्याध्याधाध्यात्मिकतापं च पुत्रमित्रकलत्रादिजनिताधिभौति- कतापं च चन्द्रसूर्यग्रहादिजनिताधिदैविकतापं चानुभवन्गर्भ- नरकेषु पतनं यदनुभवति संसार एतादृशस्य संसारस्य निवृत्तिः कथं नु नाम भवेदिति विचार्य तीर्थस्नानादिभिः कायशुद्धि लब्ध्वा पुराणश्रवणेन महापुरुषगोष्टया च तदधिकारी भूत्वा सद्गुरु- प्रसादेन संसारनिवृत्तिर्भवतीति श्रुत्वा सर्वज्ञत्वेन विदितमखिल- वेदान्तार्थवेदिनं तीर्णसंसारसमुद्रं विनष्टाशेषसंशयं निरपेक्षं वि- द्यानिधिं विद्यादानविनोदिनं निरालम्बसिद्धं स्वयमजानानो गुरुं १ अ. सुखदुःखमा० ।

१० मुकुंदमुनिकृतं .. विज्ञापयति संसारनिवृत्तिं कुरु ममेति साष्टांग दण्डवत्प्रणम्य 'समिपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुं तत्त्वज्ञानार्थमभिगच्छेत् ' (मु०.४) इति श्रुतेः । यतो गन्धपुष्पादीनि गुरवे समर्थ्य प्रार्थयेत् । भगवन्भवसन्तापादातुरोऽस्मीति पाहि माम् ॥ कर्मभ्यो निर्वृतिर्नास्ति ज्ञानदाशु प्रसीद मे ॥ १ ॥ अपि च । भगवन्भ- वसंभूत दवदाहप्रपीडितं ॥ तत्त्वबोधसुधावर्षेरुज्जीवय कृपाम्बुधे ॥ २ ॥ इति विज्ञापितः सद्गुरुरुपदिशति तत्कथमित्थम्--तव परमात्मना सहैकत्वज्ञाने जाते सति संसारनिवृत्तिर्भवतीति । तत्केन भवति तत्त्वमसीति महावाक्योपदेशेन महावाक्यार्थबोधे जाते ( सति संसारसन्तापनिवृत्तिर्भवति ) तानि वाक्यानि च स्वारि ब्राह्मणादीनां त्रयाणां वर्णानां श्रुतिर्नवकृत्व आदिशेत् । आचार्य एतानि वाक्यानि नवकृत्वः शिष्यमुच्चारयति सति शि- प्योऽहं ब्रह्मास्मि ब्रह्माहमस्मीत्युपदेशकाले स्वीकृत्य स्वचित्तासारे- ण सर्वाराधनं श्रीगुरवे कुर्यात् । तादृशसामर्थ्याभावे श्रीगुरुमेवारा- धयेत् । सैव सर्वदेवतातुष्टिः । ब्रह्मा विष्णुश्च रुद्रश्च देवता मुन- यस्तथा ॥ कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ॥ १॥ इति यत आह शास्त्रं सर्वस्य जगतो मम च संसारस्यैतदेवोत्थापन- मिति वदन्गुरवे नमस्कुर्यात् । अतः परं विधिकिंकरपरत्वं वि- हाय श्रीगुरुकिंकरः सन्नुपदिष्टमर्थमेकान्ते मननं विधाय सम्य- ग्ज्ञात्वा स्वगुरुं विज्ञापयेत् । कथं विज्ञापयेदित्थं-परमात्मा सx एतदर्थप्रतिपादिका वर्णसाम्यबहुला मुण्डकश्रुतिः । १ अ. भवसागरा० । २ अ. भविष्यति । ३ एतद्वाक्यपूरकमपेक्ष्यते । ४ अ० स्ववित्तानुसारेण ।

महाभाष्यम् बज्ञः सर्वेश्वरः सकलजगदुत्पत्तिस्थितिप्रलयकारणं च सर्वकर्म- फलप्रदश्च जातिवर्णाश्रमरहितश्चाद्वयपरमानन्दस्वरूपी परिपूर्ण- श्व । अहं तु दुःखी प्रादेशिको जडो जातिवर्णाश्रमविशिष्टश्च सद्वयः परिच्छिन्नश्चेत्थं मम परमात्मना सहैकत्वं कथं सिध्यतीति- चेदुच्यते तान्विरुद्धार्थान्परिहायैकत्वं सिध्यतीति श्रीगुरुराज्ञापयेत् तद्विरुद्धार्थपरिहरणं कथमिति चेदित्थं-विराडित्युच्यमानं स्थूलं शरीरं परमात्मा न भवति कथमित्थं तद्यतः पंचमहाभूतेभ्यो भवति तर्हि पंचमहाभूतान्येव परमात्मा भवतीति चेन्मैवं तान्यपि पंच महाभूतानि परमात्मा न भवति । तद्ब्रह्म निःप्रपंचस्वरूपं अस्थूलमनणु' बृ. इति श्रुतेः । स विराड्यतो ब्रह्म न भवति । अतस्तत्र भवावस्थोत्पत्तिश्च ब्रह्मेति नाम चाकारेति संज्ञा च प्रणवस्य प्रथमपादश्च परमात्मा न भवति स विराट् परमात्मा न भवतीति चेत्तर्हि हिरण्यगर्भसंज्ञकं सूक्ष्मशरीरं परमात्मा भवत्विति चेन्न तत्सूक्ष्मशरीमहंकारत्रयाद्यत उत्पद्यते । स तु परमात्मा निरहंकारो निर्गुणश्च । यदा सूक्ष्मशरीरं परमात्मा न भवति तदैव तत्र भवावस्थास्थितिश्च विष्णुरिति नाम चोकारेति संज्ञा प्रणवस्य द्वितीयपादश्च परमात्मा न भवति । तर्हि प्रकृतिरित्युच्यमानं त. कारणशरीरं परमात्मा भवतु । न । यतो विविच्यमानायाः प्रकृते. जडत्वात् । यदा प्रकृतिः परमात्मा न भवति तदा तत्र भवावस्था लयश्च रुद्र इति नाम च मकारेति संज्ञा प्रणवस्य तृतीयः पादः सर्वज्ञः सर्वेश्वरः सर्वजगत्कारणं च परमात्मा न भवति । कथमि- त्थं विराट्प्रभृति तृतीयपादपर्यन्तं सर्वसंज्ञासहितः सर्वोऽपि १ अ. तद्यथा तदितरपंच° । २ अ. प्रकृत्या भिन्नः । जइत्वातप्रकृतेः।

१२ मुकुंदमुनिकृतं प्रपंचस्तत्पदवाच्यो भवति तस्मिन्परित्हते यदवशिष्टं शुद्धादयानन्द- चैतन्यं तत्पदस्य लक्ष्यमेतदेव तत्पदशोधनं नाम भागलक्षणापीय- मेव । एवमेव जीवस्यापि तनुत्रयं निरस्येदिति श्रीगुरुराह । तत्कथमिति चेदित्थं-पंचीकृतपंचमहाभूतानीति त्वया ज्ञायन्ते तानि त्वं न भवसि यतस्तान्यात्मानं न जानन्ति तेषां मध्ये परस्पर- मपि न जानन्ति । अत्यन्तजडान्यतस्तद्भूतांशसंभवमिदं स्थूलं शरीरमपि त्वं न भवसि पंचमहाभूतांशैरस्य देहस्योद्भवः कथमित्थं- यतस्तानि सर्वाणि भूतान्यस्मिञ् शरीरे दृश्यन्ते तानि सूक्ष्माण्यनु. वृत्तौ कथितानि । अस्थिमांसप्रभृतीनि पंचमहाभूतानि तेषां समूह एवेदं शरीरं तानि भूतानि यतस्त्वं न भवस्यतस्तदंशा अपि त्वं न भवसि । तदंशभूतमपि शरीरं त्वं न भवसि सुखदुःखे जानानो देह एवाहमन्यत्स्वरूपं नास्तीति पृष्टः सद्गुरुरुपदिशति देहो न जानाति सुखदुःखे यतो भौतिको दृश्योऽत्यन्तजडश्च भूतानि कदापि यतो न जानन्ति दंशा अपि न जानन्ति । दंशभूतो देहः कथं जानी- यात् । अपि च देहः सन्नपि निद्रां मूर्छा च न जानात्यतोऽत्य. न्तजडः । चोरे गृहं प्रविश्यापहृत्याभरणानि नयत्यपि न जाना- त्यतोऽत्यन्तजडः । जन्मकाले परामृश्यमानो देहो मलवदत्यन्ता- शुद्ध एव । अपि च दशदोषदुष्टो देह आत्मा न भवतीति सि. द्धम् । के ते दोषा दश । अशुचित्वम् १ विनाशित्वम् २ शो- ध्यत्वम् ३ दुर्गन्धित्वम् ४ अस्थिरत्वम् ५ तूलखण्डनिचयवद्द- धत्तम् ६ शिथिलत्वम् ७ अध्रुवत्वम् ८ आमिषत्वम् ९ त्रिमल- वातपित्तश्लेष्मात्मकत्वम् । पुनरप्यध्रुवतां प्रदर्शयामि । पंचीकृत- १ अ. ममान्यत् ।

महाभाष्यम् १३ पंचमहाभूतानि कारणचतुष्टयेन सह स्थित्वा स्वस्वनिजस्थानमेव गन्तुमभियतन्ते । तथाहि-आकाशोऽवकाशो भवितुमिच्छति । पवनो धावितुमेव यतते । जलं द्रवीभूय जिगमिषति । पृथिवी विशीर्णा भवितुमिच्छति । एवंभूतानि स्वस्वमार्गेण गन्तुमिच्छ- न्तीति देहस्यानित्यता तावन्निश्चिता । एवं महाभूतपंचीकृतशरीरं नियतभिन्नवृत्तिभिविनश्यति । घटो यथा दृश्यो जडश्च तथा देह इति सद्गुरुरुपदिशति । घटो यथा जातस्तथैव तिष्ठति देहस्तु बर्द्धतेऽतो घटवजडो देह इति वक्तुं न शक्यत इति पृष्टः सद्गुरु- रुपदिशति । वृद्धिमानिति देहः किं चैत्यन्यं भवति । वृद्धिमानपि चैतन्यं न भवतीति कुत्र दृष्टमित्याशंक्य दृष्टान्तान्कथयति । तृणं गोमयं च यत्र निक्षिप्यते स राशिः किं वर्द्धमानश्चैतन्यं भवति । किंवा घटीयंत्रकूप उद्गीर्यमाणमृत्तिकावर्द्धमाने तीरे किं चैतन्यं भवति । कुड्यादिनिर्मात्रा मुहुर्मुहुनिक्षिप्यमाण- मृत्तिकावर्द्धमानवेदिका किं चैतन्यं भवति । एवं प्रतिदिनमन्ने समय॑माणे देहरूपो मृत्संचयः मृत्संचयः सम्यग्वर्धमानोऽप्यत्यन्तजड एव । अतो हेतोरेतत्स्थूलशरीरं त्वं न भवसि । तत्र भवा जाग्दवस्था विश्व इति नाम चाकारसंज्ञा च नयनस्थानं च स्थूलसविकल्पकविषयसुखदुःखमिश्रभोगाश्च त्वं न भवसि । जातिवर्णाश्रमाश्च त्वं न भवसि । सर्वकर्तृत्वं च त्वं न भवसि । यतः शास्त्रमेवाह- -यावदेहात्मविज्ञानं बाध्यते न प्रमाणतः । प्रा- माण्यं कर्मशास्त्राणां तावदेवोपपद्यते ॥ इति । अहं देवो भवामी- ति यदा ज्ञानं जातं तदैव सर्वकर्तृत्वमपि नास्ति । सत्यमहं १ अ. प्रणवगतप्रथमः पादस्त्वं न भवसि षड्भावविकारश्च त्वं न भवसि ।

मुकुंदमुनिकृत स्थूलशरीरं न भवामीति । किन्त्वस्मिन्ससारे चतुरधिकाशीतिक- क्षयोनिषु भ्रममाणः स्वर्गनरकादिसुखदुःखे अनुभवन् सूक्ष्मश- रीरमेवाहं भविष्यामीति शिष्येन' पृष्टः सद्गुरुराह-तचतुर्विशति- तत्त्वात्मकं सूक्ष्मशरीरमपि स्वं न भवसि [ भूतानि जडानि तदं- शाश्च जडास्तत्संयोगभवानीन्द्रियाण्यपि जडानि कमिन्द्रियाणि जडानीति वक्तुं शक्यते । इन्द्रियाणि सुखं दुःखं चानुभवन्ति यदि जडानि भवेयुः कथमनुभवेयुरिति पृष्टो गुरुरुपदिशति । निद्रायां मूर्छायां च स्वविषयं देहमपि ज्ञातुं न शक्नुवन्ति । यतः श्रोत्रेन्द्रियं स्वविषयं शब्दं ज्ञातुं नेष्टेऽन्यविषयमपि । त्वगिन्द्रियं स्वविषयं स्पर्श ज्ञातुं न समर्थमन्यविषयमपि चक्षुरिन्द्रियं स्वविषयं रूपं न जानाति । अन्यविषयं च । जिव्हेन्द्रियं स्वविषयं रसं न जानात्यन्यविषयं च । घ्राणेन्द्रियं स्वविषयं गन्धं न जानात्य- न्यविषयं शब्दमपि न जानातीत्युभयथापि जडानीन्द्रियाणि । मणिप्रदीपवद्विषयज्ञानसाधनान्येव न त्वात्मा । एवं कर्मेन्द्रियाण्य. पि निद्रामूर्च्छयोः स्वं स्वं व्यापारं न कुर्वन्ति वाग्वक्तव्यस्य नेष्टे गृहप्रविष्टं चौरमप्यपसरेति न वदति । पाणीन्द्रियमपि चौरेण व्हियमाणं बलादादातुं न शक्नोति । पादेन्द्रियमपि चौरमनुधा- वितुं न शक्नोति । पारिवन्द्रियमपि स्वव्यापारं कर्तुं न जानाति । गुह्येन्द्रियमपि स्वविषयमनुभवितुं न जानाति । एष- मुभयथा जडानि कर्मेन्द्रियाणि किन्तु क्रियासाधनान्येव करें- न्द्रियाणि नात्मा । प्राणे सति देहश्चेष्टत इन्द्रियाण्यपि । प्राणे त्वसति देहश्चेष्टाहीनो भवति । इन्द्रियाण्यपि तादृशानि भवन्ति । १ अ. पंचभूतानि त्वं न भवसीत्यवोचाम । अतस्तु कार्यभूततत्त्व- समूहात्मकं । इत्यधिकं ।

महाभाष्यम्. , अतः प्राण एवात्मा भवत्विति पृष्टः सद्गुरुराह प्राणोऽपि नात्मा भवति । सुषुप्तौ स्वप्ने चोच्छ्रासनिश्वासरूपेणाविच्छेदेन प्रवर्त- मानोऽप्ययमन्तर्बहिश्च न जानाति देहवदेव । तत्कथमित्थं-चौरे गृहं प्रविश्य भूषणान्यपहृत्य निर्गतेऽपि शरीरेषु स्थितेषु विश्रम्य पतितेष्वपि, एकस्मिन्पर्य के बहूनां शयने संमर्दमसहमाने कस्मि- श्चिन्निर्गतेऽपि स्वस्त्रियां स्वसमीपे सुप्त्वा पतिं सुप्तं ज्ञात्वा पुमां- समन्यं गत्वा व्यभिचर्य पुनश्चागतायामपि समीपस्थितमप्यर्थम- न्यस्मिन्नपहरत्यपीत्थं न कर्त्तव्यमिति यतो न निवारयति । अतः प्राणो जड एव । प्रबुध्य जानातीति चेन्न सर्वावस्थास्वप्युच्छास- निश्वासरूपेणास्योपरतिर्नास्त्येव । अपि च स्थित्वाप्यसौ न जा- नाति कथमिदानी कस्मिन्भागे श्वासो वर्तत' इति पृष्टेऽप्यस्मि- भागेऽहं वर्त इति वक्तुं न जानात्यतः स्थित्वापि न जानाति । अपि चात्मप्राणयोर्मेदव्यपदेशश्च लोके विद्यते । तथाहि कस्मि- श्चिद्रिपौ कस्यचिद्धनमपहृत्य बलात्कारेणापगच्छति सति तव प्राणो मम हस्ते वर्तत इति वदति । स्वामिनं प्रति कश्चिद्वद्वति ममार्थः प्राणश्च त्वदधीन इति कश्चिजायापत्यादिषु क्लिष्टेष्वनश- नेन वदति मम प्राणा अनर्थका इति । एवं स्वस्य प्राणः स्वस्मा- द्भिन्न इत्यनुभवसिद्ध एवायमर्थः । अतः प्राण एवाहमित्यनया बन्धनरज्ज्वात्मा न बध्यः । जडश्चेत्प्राणस्तहिं कथं जडं शरीरं चेष्टयेत् । उत्तरं, जडोऽपि च जडं चेष्टयल्लोके दृश्यते प्रचण्ड- मारुतो गृहाच्छादनं तृणपर्णाद्युत्क्षिप्याकाशे भ्रामयन्वर्तते । जड- वृक्षस्य पर्णशाखादिकं भक्वान्यत्र पातयति पलालं च गगने नर्तयति । अन्यत्र स्थितं छत्रादिकं गृहात्परितः क्षिपति । जड- १६ मुकुंदमुनिकृतं स्याप्ययं स्वभावः । नैतावताप्यात्मा भवति प्राणस्य चेष्टा स्वतंत्रा भवति किंतु पुरुषाधीनैव । यथा भस्रां धमापयित्वा भस्राधीना वाता यावन्तः किं भस्राध्माता भवन्ति । किन्तु भस्राध्मापयिता यस्तद- धीना भवन्ति । तथा पुरुषस्य प्राणस्थितो वातः पुरुषो न भवति यन्त्रस्थापितदारुपुत्रिकाचेष्टावत् प्राणचेष्टा पुरुषाधीनैव । सूत्रचे- टापि सूत्रधाराधीना पेटिकामध्ये स्थिताः स सूत्रदारुपुत्रिकाः सूत्रधारेऽपगते किं स्वयं चेष्टन्ते किं पेटिकामुत्पाट्यान्यत्रापसृत्य नृत्यन्ति वा । एवमत्राप्यवस्थात्रये प्राणस्य चेष्टा विश्वाद्यधीनैव न स्वतन्त्रा पुरुषचेष्टा तु स्वतंत्रैव नाहंकारमपेक्षते न वा प्रयत्नं तस्य संनिधिसत्तामात्रेणैव देहेन्द्रियप्राणादयश्चेष्टन्ते । अयस्कान्तसंनिधि- मात्रेणापि जडमपि लोहं यथा चेष्टते । अत एतावद्भिहेतुभिः प्राणो जड इति बहुशो बोधितोऽसि । अतः प्राणापानादयः सर्वेऽपि स्वविषयान्क स्वातंत्र्येण न समर्था अन्यदीयव्यापारमपि कर्तुं न समर्थाः । अपिच पंचमहाभूतानां तदंशानां च स्वातं- त्र्येण चेष्टा केनापि प्रकारेण न संभवतीति । तदुद्भवानामपि प्राणादीनां स्वातंत्र्येण चेष्टा न संभवत्येव । अतो हेतोर्जडा एव प्राणादय इति निश्चयः । मनो बुद्धिरहंकारश्चित्तमित्यन्तःकरण- चतुष्टयमपि जडमेव । तत्र मनः संशयितुमेव शक्नोति न निश्चेतुम्। बुद्धिनिश्चेतुमेव शक्नोति न संशयितुम् । अहंकारो गर्वितुमेव शक्नोति न संशयितुं नापि निश्चेतुम् । चित्तं विचारयितुमेवेष्टे न पूर्वोक्तं निश्चयं कर्तुमीष्टे । इत्थमेतेषां मध्य एकस्य विषयमन्यन्ना- नुसंदधात्यतो जडमन्तःकरणचतुष्टयम् । नन्वेषोक्तिः पलायमानो जड इत्युक्तिरेवोपादानक्षमा न भवति । अन्यग्रामविषयमन्यग्रामी १ अ भोक्तमित्यधिकं ।

मुकुंदमुनिकृतं : न जानाति न त्वन्योऽन्यवृत्तं जानाति । अथ च जडो न भवति। अन्यगृहवृत्तान्तं वयं न जानीमोऽस्मद्गृहवृत्तान्तमपि नान्ये जान- न्ति । अथापि वयमन्येऽपि जडा न भवामः । एवमन्तःकर- णचतुष्टयमन्योन्यविषयमननुसन्धानमपि जडमिति वक्तुं न शक्यत इति पृष्टः सन्गुरुराह-तन्मनः सा बुद्धिरित्युच्यमाने प्रतिक्षणविल. क्षणे अयुगपद्भाविनी । तयोरेकस्य नाशेऽन्योत्पत्तिः । अतोऽ. नात्मभूते । यदुत्पत्तिमद्धंगुरं च तदेहादि नात्मेत्यवोचाम । मनश्चोत्पत्तिमत् 'आत्मनो मनो जातम् ' इति श्रुतेः । तत्कारणरूपात्त्वत्त एवोत्पद्यते त्वय्येव लीयते मनसो व्यभिचा- रित्वमप्यस्ति विकारित्वं चातो नात्मा । त्वं त्वजातोऽव्यभिचारी च सदा विद्यमानः करणानां करणवृत्तीनां च पृथग्भूत्या साक्षी च तानि त्वं सदा जानासि ते त्वां न जानन्तीति तवैवानुभवः । येन यदृश्यते लोके न तत्तेनैव दृश्यते । घटनेत्रादिवत् । तस्मा- नाहं दृश्यत्वमात्मन इति शास्त्रमाह यतः । चतुर्वृत्तिरूपमन्तःक- रणं जडम् । तेन मनोबुध्द्यादयो ज्ञानेन्द्रियादयश्च ज्ञानप्रवर्तकसाध- नान्येव नात्मा । एवमिन्द्रियसमूहः सदा न जानाति । एकः स- वार्ता कथ्यमानां तां शृण्वन् पृष्टः सन्पुनः कथयति । अन्तः- करणबामकरणेष्वप्यनुसन्धाता पुरुषो देहोऽपि न भवति । १ अ० 'एतस्मादात्मन आकाशः संभूत आकाशाद्वायुः । वायो- रामिः । अग्नेः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नाद्रेतः । रेतसः प्रजा इत्येका श्रुतिः । यथा महतो वन्हेः प्रज्वलतः क्षुद्रा विस्फुलिंगा विचरन्ति । एवमेवामुष्मादात्मनः सर्वे प्राणाः सर्वे देवाः सर्षे लोका: प्रजायन्ते' एवं नाना श्रुतयः सन्ति । . ३ १८ महाभाष्यम् इन्द्रियाण्यपि न भवन्त्यन्तःकरणमपि न भवति । एतेषु सत्स्व- सत्स्वपि स्वयं हि साक्षी विद्यमान स्तिष्ठति । एवमिन्द्रियसमु. दायात्मकं सूक्ष्मशरीरमप्यात्मा न भवति तत्र भवावस्थातवयम- भिमन्यमानस्य जीवचैतन्यस्य तेजस इति नामोकारेति संज्ञा क- ण्ठस्थानं मायामयेषु विषयेषु प्रविविक्तरूपः सुखदुःखभोगश्च नास्ति । ज्ञानेन्द्रियसाधका विषयाः कर्मेन्द्रियसाधकं कर्मकर्तृत्व प्राणनादि साधकं च नास्ति जानुनि भग्न इव लिंगशरीरभंगे ग- मनागमनं च नास्ति लिंगशरीरं गमनागमनसाधकमित्युच्यते । एवं तनुद्वयं विहाय त्वं क इति प्रश्न न जानामीति शिष्येण ब- तव्यम् । किं न जानासीति पुनः प्रश्ने तदज्ञानं विषयं न भव- तीत्यात्मामं जामामीति वदति । एतदेवात्माज्ञानमिदमेव कारण- शरीरमस्याश्रयस्त्वमेव । तत्कथमित्थं-त्वमेवाज्ञानं शिरसा वह- सि त्वा बिनान्यः कोऽपि न जानामीति न बदति तत्कथमुच्यते यथा यो ज्ञानभ्रमस्तस्य भ्रान्ति सम्यग्वेत्ति स जडो न, अविद्या- वेतृत्वादतो ज्ञान जडस्य न । त्वयि स्थितस्याज्ञानस्याश्रयस्त्वमेव तज्ज्ञानमपि त्वमेव । त्वयि स्थितमज्ञानं यतो जानासि । अत- स्तस्य साक्षित्वमेव त्वया दृश्यमानं त्वं न भवसीति स्थूल सूक्ष्मश- रीरादिव कारणशरीरादपि भिन्नस्त्वम् । एवमाश्रयस्य साक्षिणो विलक्षणरूपेण भिन्नस्य तवैतत्कारणशरीरं तत्र भवा सुषुप्त्यव- स्था च तवयमभिमन्यमानस्य जीवचैतन्यस्य प्राज्ञ इति नाम मकार इति संज्ञा च हृदयस्थानं च निर्विकल्पकविषयसुखभोग प्रणवगतस्तुतीयः पाद इति नास्ति । एवं स्थूलसूक्ष्मकारणश- मुकुंवमुनिक १९ रीरप्रभृति तृतीयपादपर्यन्तमेतावदेव दृश्यं जानानो विवेकोपाधि- को द्रष्टा । इयं तवैवावस्था । अस्या अपि च तवान्यावस्था भविष्यतीति न शंकनीयम् । नास्त्यवस्था पञ्चमीति श्रुतिराह यतः। अयं विवेकोपाधिरिति निरालंबसिद्धो भवति । द्रष्टादृश्यदर्शन- संस्कारस्य लयस्योदयस्य चाश्रयभूता मायातनुस्तत्र भवा तुरीया- वस्था तद्वयाभिमानिनो जीवचैतन्यस्य प्रत्यगात्मेति नाम । इयं मायातनुश्च तद्धर्माश्चैते विवेकेन विलक्षणा विज्ञातुं न शक्यन्ते । गुरुयंदानुगृह्य प्रदर्शयति तदा विलक्षण एव तनुचतुष्टयप्रभृतिः सर्वोऽपि प्रपंचस्त्वंपदवाच्यो ज्ञायते । एतदेव त्वंपदशोधनं नाम भागलक्षणा च । एतावता सर्वसाक्षिभूतं चैतन्यमेव त्वंपदस्य लक्ष्यमेतदेव शुद्धं नाम । इत्थं लक्ष्यस्यैकत्वं श्रुतिस्तत्वमसीति बोधयति । श्रीगुरुरुपदिशति-तत्पदलक्ष्यं शुद्धाद्वयानन्दचैतन्य त्वंपदलक्ष्यं प्रत्यगपरोक्षचैतन्यं त्वमेव भवसीति 'अहं ब्रह्मास्मि' वृ० इति श्रुतिं गृहीत्वा गुरोराज्ञया ब्रह्मणा सह शिष्यः स्वस्यैकता प्रतिपद्य- ते। अस्मिन्नर्थे वचनं 'पिण्डब्रह्माण्डयोरैक्यं लिंगसूत्रात्मनोरपि' इति। तव स्थूलशरीरं परमात्मनः स्थूलशरीरं चैकमेव जातं तव सूक्ष्मश- रीरं परमात्मनः सूक्ष्मशरीरमेकमेव जातं स्वापसंज्ञकं तव कारण. शरीरमव्याकृतसंज्ञकं परमात्मनः कारणशरीरं चैकमेव जातं क्षेत्र. ज्ञस्त्वं परमात्मासि । शिष्यः शंकते । क्षेत्रज्ञसंज्ञकोऽहं परमात्मा भवामीति वक्तुं न शक्यते । मायातनोः पाश्चात्यतनूनामिव निरसनं नास्ति । तत्कारणशरीरमपि भावरूपाशानमिति प्रतीयते । अत: स्वापाव्याकृतयोरैक्यमिति वक्तुं न शक्यते मम त्वविद्याया इव महाभाष्यम् भावरूपता नास्तीति कथमेकेन सह मां योजायतुं शक्यते । उत्तरं, तदभाव एव ते परोक्षस्तत्कथमित्थं-एकत्वानुसंधाने स्थिरीकृत एक एव परमात्मा कार्यकारणोपाधिना जीवः पर इ. त्युच्यते स्वभावतस्त्वेक एव ' कार्योपाधिरयं जीवः कारणोपा- धिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते' इत्युपा- धिद्वयपरित्यागे पूर्णबोधस्वरूपमेवावशिष्यते । तत्पदलक्ष्यस्य त्वं- पदलक्ष्येण सहैकत्वे सति परोक्षं सद्वितीयत्वं निवर्तते । त्वंपद- लक्ष्यस्य तत्पदलक्ष्यैकत्वे दुःखित्वं प्रादेशित्वं निवर्तते । तदुक्तं । तदस्त्वमा विशिष्टस्य परोक्षत्वं निवर्तते । त्वमस्तदा विशिष्टस्य दुःखित्वं विनिवर्तते ॥ प्रत्यक्त्वं ब्रह्मणः सिद्धं ब्रह्मत्वं प्रत्यगात्म- नः । वाक्यादेव यदि ज्ञानं श्रुतं किं क्रियते वृथा ॥' ब्रह्मणः प्रत्यगात्मत्वं प्रत्यगात्मनो ब्रह्मत्वं च वाक्यार्थज्ञानेनैव यदि सिद्धये. सान्तरा क्रिया निवर्तते । इमं सालम्बबोधमेव गृहीत्वैतल्लक्ष्यो- मरि विरोधः प्रतिभासेत्स शिष्यो गुरुं विज्ञापयति कथमित्थं- मया दृश्यमानमिदं सर्वमहं न भवामीति त्वदाज्ञयाज्ञासिषम् । एतल्लक्ष्यं मया ज्ञातं लक्ष्यान्योऽन्यतादात्म्यमपि मया ज्ञातम् । एतत्तु न विश्वसिमि । ब्रह्म भवतु सच्चिदानन्दनित्यापरोक्षं मम- स्वपरोक्षं न भवति । अहं तु नित्यापरोक्षोऽवतिष्ठे । एतद्ब्रह्माह- मस्मीति मामनुभवपन्थानं को वारोहयति । को वाहमिति पृष्टः सद्गुरुरुपदिशति कथमित्थं-आरूढस्य निरालम्बबोधस्याधिकार्ययं भवतीति विचिंत्याखिलमपि संशयं निरस्य श्रीरामनाथमनन्तान- स्दंब्रह्मविद्यानिधिमपारावारं निरालम्बसिद्धं परमावधूतं श्रीराम मुकुंदमुनिकृतं २१ चन्द्रमुनिमात्मनि विचिन्त्य नमस्कृत्य च श्रीमुक्ति नाथयोगीश्वरः स्वशिष्यान्सर्वसंशयरहिताज्ञानज्ञातृज्ञेयरहितान्कृत्वावबोधयति क. थमित्थं-कोऽहमित्युक्तवान्भवांस्त्वमेव नान्यः । तव निजस्वरूप- मन्यन्नास्ति निजस्वरूपे तिष्ठतस्तव कोऽहमित्ययं भ्रमः । उपाधौ तिष्ठतोऽपि यस्मिन्कस्मिन्भावे सज्जतोऽपि तव कोऽहमिति प्रश्नो न युज्यते यतो नानोपाधिकस्वरूपविराट् तद्धर्मेषु सज्जस्तस्याम- वस्थायां हिरण्यगर्भतद्धर्मेषु सज्जस्तस्यामप्यवस्थायां तदेवाव्याकृ- ततद्धर्मेषु सज्जस्तस्यामप्यवस्थायां सर्वभावरहितः सजगद्वीज- भावेषु सर्जस्तस्यामप्यवस्थायां ब्रह्मादिनामसु सज्जस्तस्यामप्य- वस्थायां तव कोऽहमिति प्रश्नो न युज्यते । एतत्स्थूलशरीरं तद्ध- मषु सज्जस्तस्यामप्यवस्थायां तव कोऽहमिति प्रश्नो न युज्यते । एतत्सूक्ष्मशरीरतद्धर्मेषु सज्जस्तस्यामप्यवस्थायां तत्कारणशरीरत- द्धर्मेषु सज्जस्तस्यामप्यवस्थायां तव कोऽहमिति प्रश्नो न युज्यते । तत्पदलक्ष्यस्वरूपः संस्त्वमसीत्यस्यामप्यवस्थायां कोऽहमिति प्रश्नो न युज्यते । त्वंपदलक्ष्यरूपः सन्मायातुरीयावस्थायां कोऽहामति प्रश्नो न युज्यते । उभयत्राच्यान्युभयलक्ष्याणि जानन्सर्वद्रष्टा भ- वान्प्रागेव त्वं सर्वभावरहितः सर्वप्रमाणातीतः सर्वसंशयरहितश्च यस्मिन्कस्मिन्नपि सज्जन्संशयं कोऽहमिति यतस्त्वं पृच्छस्यतस्तव कोऽहमिति संशय एव नास्ति । त्वं जानानोऽपि न भवसि त्व- मजानानोऽपि न भवसि त्वं निजं स्मृतवानपि न भवसि त्वं निजं विस्मृतवानपि न भवसि । अन्तरात्मा सज्ञानस्योदासीनः सन्कोऽहमिति वदसि । अविच्छिन्नज्ञानस्वरूपो भवान्कोऽहमिति २२ महाभाष्यम् वदसि । अतस्तव स्वरूपं ज्ञानमेव कोऽहमित्ययं भ्रमः । सर्वदा सन् सद्रूपी कोऽहमिति भ्रमः । एवं निरस्ताहंकारः सच्चिदानन्द- स्वरूपं ब्रह्मैव त्वम् । तदुक्तं श्रुत्या ' स वा अयमात्मा ब्रह्म' मु. इति । किं च ' सत्यं ज्ञानमनन्तं ब्रह्म' तै० इति त्वयि दृश्यते सत्यमिति वचनमन्यं वक्तुं न शक्नोतीति ज्ञानमिति पदं त्वमेय नान्यं वक्तुमीष्टे त्वमेवावशिष्यसे त्वळ्यतिरिक्तं सर्वमेवानित्यमशुचि जडं सुखदुःखस्वरूपं च । सत्यज्ञानानन्दरूपेण मम स्वरूपेऽप्र- तीयमाने कोऽहमिति प्रश्न एतदेव मम निजस्वरूपमिति सद्गुरु- राज्ञापयति इतः परं तवैव वचनं तव सत्यं भवति । तव दृश्य मानं सर्व त्वं न भवसीति तवैवानुभवः । सत्यज्ञानानन्दस्वरूपस्त्वं भवसीति तवैव स्वसंवेद्यत्वम् । यत एतादृशं दृश्यं तव निजं न भवति । सत्यज्ञानानन्दरूपता त्वय्येव तव । निजाश्रयस्त्वमेवे- त्यस्यार्थः । तदुक्तं श्रुत्या — सदैव मुक्तः ' इति । स्वभावतस्त्वं नित्यमुक्त एव । तवान्यन्निजं नास्ति । अतोऽद्वयोऽप्रमेयः स्वतः- सिद्धः स्वयंप्रकाश इत्यखिलश्रुतिसंमत इति सद्गुरुप्रसादेन सम्य- रज्ञानं भवति तथा लब्धेन सम्यग्ज्ञानेन पंचविधाविद्या तत्कार्य चा कालत्रयेऽपि शून्यमेव । तत्त्वमस्यादिवाक्योत्थसम्यग्बोधोदयो यदा तदाविद्यादिसंसारो न भूतो न भविष्यति । एवं गुरुशिष्य- संवादोत्थेन वेदान्तविद्याग्निना देहद्रष्टुभावप्रभृति सर्वद्रष्टुभाव- पर्यन्तो दृश्यमानः सर्वोऽप्यविद्यामयः शुष्काटवीरूपः प्रपंचो निःशेषो दह्यते । ज्ञानाग्निस्तु दाह्याभावात्स्वनाशकाभावेऽपि स्व. यमेव विलीयते । देहप्रभृति सर्वद्रष्टुभावपर्यन्तं सर्व जानानस्य मुकुंदमुनिकृतं २३ जन्तोराचार्यशिष्यसंवादेन चैतन्येन सह तादात्म्ये सति ज्ञातृत्व. मपि लीयते । तदुक्तं ' अन्विष्टस्यात्मविज्ञानं प्राक्प्रमातृत्वमात्म- नः । अन्विष्टः स्यात्प्रमातव पापदोषादिवर्जितः ॥ काष्ठान्निर्द- ग्धवानग्निरंगारानवशेषयेत् । तृणादीन्दग्धवानग्निर्भस्म चैवावशेष- येत् ॥' कर्पूरं दग्धवानग्निः किमपि नावशेषयेद्यथा। एवमेव श्रुति- गुरुप्रसादोत्थब्रह्मविद्याग्निः प्रमातृप्रमेयप्रमाणसंस्कारांस्तदाश्रयभूत- मूलाविद्यासंस्कारं च दग्ध्वा स्वनाशकाभावेऽपि दाह्याभावात्स्त्रयमेव विलीयते । 'यतो बोधानन्दात्मिका विद्या मन्दाविद्याविभंजनी । तदभावं समालोक्य लज्जयेव विलीयते ॥' एवं निरालम्बसिद्धश्च निजसर्ववर्णाश्रमरहितः सर्वकर्तृत्वरहितः सर्वभोक्तृत्वरहितः सर्व- क्रियारहितश्च प्रज्ञातार्थब्रह्मतत्त्वः स्वदेहेऽप्यनहंकृतो लोकसंग्रहाय । यत आहाचार्यः 'लोकसंग्रहहीनस्य कृत्याकृत्यं न विद्यते । अपि चान्तःकरणे स्तोकमपि संभ्रमरहितो बाह्ये कस्मिंश्चिदप्याश्रमे घसन्नपि यावान्कांश्चिदपि धर्माननुतिष्ठन्नपि न तत्केन गुणेन दो- षेण वा लिप्यते । यतोऽप्यस्य संसारस्तत्कारणं च कपटभ्रमरू- पम् । तदुक्तं ' बहिः कृत्रिमसंरंभो हृदिसंरंभवर्जितः । बहिः- कर्ता त्यकर्तान्तों के विहर राघव' क्रियां कुर्वाणः क्रियाभिस्त- न्मूलैश्च न बाध्यत इति । कुर्वाणोऽपि न बाध्यते कुतः । 'कुर्व- नपि न लिप्यते' भ० इति भगवद्वचनम् । ' दग्धाखिलविका- रश्चेब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेमूर्ध्नि नैव स्याद्वेदकि- करः ॥ विज्ञानहुतभुप्लुष्टं भोहतत्कार्यलक्षणं । दृश्यमानमपि स्वतन्न बन्धायावकल्पते ॥' एवंविधो बोध आचार्यप्रसादेन मया .

२४ महाभाष्यम् लब्धो नाभ्यासेनेत्याचार्यकृपाकटाक्षक्षणावाप्तपरब्रह्मतत्त्वावबोधः श्रीमुक्तिनाथो लोकानुग्रहाय ब्रह्मात्मैकत्वज्ञानमुपदिष्टवान् । ॐ इत्युपरम्यते । किंचिद्विश्रम्योच्यते महावाक्यार्थप्रबोधः । कथ- मित्थम्-व्यष्टिसमष्टिरूपयोस्तत्त्वंपदार्थयोविवेको बोधः । स विवे- कः कथमिति चेदुच्यते । व्यष्टिसमष्टिरूपौ तत्त्वंपदार्थों द्विविधौ वाच्या लक्ष्यौ च तत्र शबलौ वाच्यौ शुद्धौ लक्ष्यौ । इदमहरूप- विशिष्टार्थस्त्वंपदवाच्यः । अनयोः साक्षित्वेन विलक्षणस्त्वंपद- लक्ष्यः । अज्ञानोपाधिकं तत्पदवाच्यमज्ञानसाक्षित्वेन विवेकमुखेन विलक्षणं तत्पदलक्ष्य व्यष्टिसमष्टिरूपौ तत्त्वंपदार्थों द्विविधौ वाच्यौ लक्ष्यौ च । तत्र शबलं वाच्यं शुद्धं लक्ष्यं च । स्थूलसूक्ष्मशरीर- द्वयविशिष्टं त्वंपदवाच्यमनयोः साक्षिरूपेण विलक्षणं त्वंपदलक्ष्यं मायामायाकार्यविराड्ढिरण्यगर्भोपाधिकं तत्पदवाच्यं मायावि- निर्मुक्तं शुद्धाद्वितीयानन्दचैतन्यं तत्पदलक्ष्यम् । एवं व्यष्टि- समष्टिरूपयोस्तत्त्वंपदार्थयोर्मध्य उभयोर्लक्ष्ययोरेकत्वं सिद्धमेव । अस्यानुभव एवासिपदस्यार्थः । एवमेतन्महावाक्यार्थबोधरूपेण विवेकमलक्षमाणानां भ्रान्तानामपरोक्षज्ञानं न घटते । अतो व्यष्टिसमष्टिरूपस्थूलसूक्ष्मशरीरविशिष्टरूपतापरित्यागाभावेन वाच्यांशपरित्यागो मनोरथमात्रमेव । तस्य शून्यत्वं यदा नापरोक्षं भवति तदा व्यष्ठिसमाष्टरूपव्यक्तरूपपरित्यागेऽपि सम्देहो न निवर्तत इत्यपरोक्षज्ञानं नास्तीति भ्रमोत्पत्तौ निरा- लम्बसिद्धा महापुरुषास्तद्धमापनोदकयोगसांख्यमुखेनात्मव्यतिरे- केण प्रपंचस्यासद्भाव आत्मन्यपि प्रपंचस्यासद्भावो यथा स्वानु- मुकुंदमुनिकृतं २६ भवसिद्धो भवति तथानुगृहाति । कथमुच्यते । अस्तीति ना स्तीति च व्यवहारवस्तुनिष्ठयोरेकत्रस्थयोभिन्नं विरुद्धधर्मयोरवेक्षित 'किंचन योगसांख्ययोः समं परमनुकूलं द्रोहकृत् । अस्तीति नास्तीति च व्यवहार एकमाश्रित्यैकं विषयीकृत्यं च प्रवर्ततेऽन्यथा नोपपद्यते । अत एव तयोः सदेवाश्रयमिति वक्तव्यम् । अस- माश्रयो भवितुमर्हति । अतः सन्नाश्रय इति विषयोऽपि सन्ने भवितुमर्हति नासत्तर्हि तथैवास्त्विति चेत् । न । यः कश्चिद्वि- शेषो लोके स विनाशधर्मेवातो विषयत्वमंगीकुर्वाणेन विनाशित्व- मप्यंगीकरणीयम् । अंगीक्रियतामिति चेन्न सतो विनाशाभावात् । तदुक्तं भगवता 'नासतो विद्यते भावो नाभावो विद्यते सतः' भ. इंति । तस्मात्सतो विषयत्वं नास्ति । तसत एव विषयत्वमस्तीति चेत्र, असतो विषयत्वाभावात् । शशविषाणस्येव । एवमुभयो संकटे ब्रह्मैव गतिः । कथम् , उच्यते । तदेवास्तीत्यस्य व्यवहार रस्य विषयः । यच्चास्ति यदस्तीत्यस्य व्यवहारस्याओं विषयो न भवति । असतः सद्भावो यस्मिन्प्रतीयमानो भवति तस्यैव सत्तया परमार्थः सन्नभूत्वापि गगनकुसुमवदत्यन्तमसत् । अभूत्वापि सदसद्विषयनामरूपादिमान् भूत्वा सत्यज्ञानानन्दादिवद्भूत्वा प्रती- यमानो विचारितसिद्धोऽनिर्वचनीयमायारूपेण सद्भूत्वा विषयोऽस- दूत्वा विषय इति व्यवन्हियमाणो भवति । अतः सर्वोऽपि प्रम- विवर्तः स्वप्नवद्वयवहारमात्रसिद्धो न परमार्थसिद्धः । अस्मिन्न गौडपादाचार्यवचनं प्रमाणं ' आदावन्ते च यन्नास्ति वर्तमानेऽकि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः । - ४ २६ महाभाष्यम् .. to- इदानीमपि यथा स्वप्नद्रष्टा स्वप्नगतभयेनैव प्रबुद्धः स्वमव्यवहारे सर्वस्मिऽश्रुतिगुरुप्रसादेन जायमानब्रह्मापरोक्षवृत्तिसाधनेन प्रबुद्धो वस्तुतोऽसन्सन्निव प्रतीयमानः सर्वोऽपि स्वव्यतिरेकेण नास्ति स्वस्मिन्नपि नास्ति स्वयंवेद्यस्वरूपेण प्रजानानेऽन्यस्यासत्तां जानान- स्तस्य च ज्ञानस्य हेतुनाशेऽप्रमेयस्वरूपः स्वयमेवावशिष्यते । अपार- संसारसमुद्रमनजीवालिसन्तारणकारणायः । यः प्रादुरासीत्पुरुषोऽ विनाशीतं रामचन्द्रं मुनिमानतोऽस्मि ॥१॥ रामचन्द्रपदाम्भोज- मकरन्दालिवृत्तिना । मुकुन्दमुनिना द्वैतज्ञानसर्वस्वमुच्यते ॥ २ ॥ तद्यथा,सद्गुरोः स शिष्यः स्वगतमर्थमेवं विज्ञापयति । शरीरमहं न भवामि । अज्ञानमहं न भवामि । ज्ञानमहं न भवामि । ज्ञान- स्वरूपं शरीरं च त्वं किमिति न भवसीति चेच्छरीरोत्पत्तेः प्रा. गतच्छरीरं मम नास्तीत्येतच्छरीरमहं न भवामि । एतच्छरीर- नामादूर्वमेतच्छरीरं मम नास्तीत्येतच्छरीरमहं न भवामि । आ- दावन्ते च येत एतच्छरीरमहं न भवाम्यतो वर्तमानेऽपीदं शरीरं म भवामि । इदं शरीरं तव मा भूच्छरीरमात्रं किं न भवसीति- चेन्मम शरीरमिति शरीरं मत्तः सकाशाद्भिन्नं जानानोऽहं शरीरं न भवामि । किं च दृश्यं शरीरं द्रष्टाहं न भवामि तर्हि ज्ञानं भ- बान्भवस्विति चेत्तन्न । एतज्ज्ञानोत्पत्तेः पूर्वमेवैतदज्ञानं मम नास्ती- खेत ज्ञानमप्यहं न भवामि । एतज्ज्ञाननाशादूर्ध्वमप्येतज्ज्ञानं मम नास्तीत्येतज्ज्ञानमहं न भवामि । आदावन्ते च यतो ज्ञानमहं न भवाम्यतों वर्तमानकालेऽपि ज्ञानमहं न भवामि । अपि च मम ज्ञानमिति ज्ञान मत्तः सकाशाद्भिनं यतो जानाम्यतो ज्ञाताह मुकुदमुनिकतं ज्ञेयं ज्ञानं न भवामि तवज्ञानं किमिति न भवसीति चेन्न शरी- रज्ञानव्यतिरिक्तस्त्वं को वेति प्रश्नेऽहं न जानामीति वक्तव्यम् । न जानामीति यदेतदज्ञानं तन्न जानामीत्यतः पूर्व नास्तीत्यज्ञान- महं न भवामि । न जानामीत्यूर्वमपि तन्नास्तीत्यतोऽप्यज्ञानमहं न भवामि । आदावन्ते चैतदज्ञानमहं न भवामीति यतः सिद्ध. मतो वर्तमानेऽप्यज्ञानमहं न भवामि किंच न जानामीत्युक्ते कथं न जानासीति प्रश्नेऽज्ञानं मामावृणोतीत्युत्तरे दत्ते त्वां यदा- वृणोति तदज्ञानं कस्येति पुनः प्रश्ने ममैवाज्ञानमिति । किंच, अज्ञानान्मम भेदेऽवगतेऽज्ञानं जानानेन तेनैवैतदृश्यमज्ञानं न भवामि । अज्ञानमहं न भवामीति वदसि त्वां विहाय किमज्ञान- मस्तीति पृष्ठेऽज्ञानस्य मम ज्ञानमेव नास्ति । कथं नास्तीति प्रश्ने न जानामीति यतो जानास्यतो ज्ञानं नास्ति । अज्ञानं नास्तीति वदसि तर्हि ज्ञानं किमस्तीति पुनः प्रश्नेऽज्ञान नास्ती- त्यत एव ज्ञानमपि नास्ति । अज्ञानमपि नास्तीति कथमेत- दिति प्रश्ने दृष्टान्तपुरःसर परिहरति यथा सूर्यस्य तिमिरं नास्ति तथा ज्ञानस्य ज्ञानं नास्त्यतोऽसतो ज्ञानस्य ज्ञातृज्ञानं नास्ति । एवमज्ञानज्ञानरहितं ज्ञानस्वरूपमित्यनभिधीयमानं ज्ञातृत्वमेव तुरी- यम् । एतदेव ज्ञातृत्वरहितं ज्ञानमात्रमवशिष्य वर्तमानं तुरीयातीत तदेव मम स्वरूपं काष्ठस्य ज्वलनं स्वभावो न भवति नाप्यं. गारस्य किन्तु यदा यदा तु काष्ठमागत्यांगारः स्पृशति तदा तदा मध्ये ज्वलनमुत्पद्यते । सोत्पन्ना ज्वाला किं काष्ठं निःशेष नाशयत्यथवांगारमिति चर्चायां काष्ठं नाशयति स्वयमेव विनाशं मामाण्यम् प्रामुक्ती काष्ठस्पृष्टांगारमात्रमवशेषयति । तथाऽज्ञानस्यापि ज्ञान स्वभावो न भवति ज्ञानस्यापि शनं स्वभावो न भवति किन्तु बदा यदाऽज्ञानमागत्य ज्ञानं स्पृशति तदा मध्ये ज्ञानमुत्पद्यत उत्पद्यमानं च ज्ञानं किमज्ञानं निःशेष नाशयति ज्ञानं वा भिःशेषं नाशयतीति चर्चायामज्ञानं निशेषं नाशयत्सत्स्वयमपि नाशमानुबज्ज्ञाममात्रमवशेषयतिः ॥ इति श्रीसकलयोगीश्वराचार्य- श्रीहरिनाथचरणारविन्दानवरतशुश्रूषाप्रसादलब्धज्ञानतरणिकिरण. श्रेणीनिरस्तसमस्तविद्यान्धकारश्रीरामनाममुनीन्द्रचरणारविन्दमक- ल्दास्वादमधुव्रतेन निरस्ताखिलसंसारविकारेण श्रीमुक्तिनाथमुकु- न्दमुनिना विरचितो निखिलाज्ञानवनदहनपटुः परमार्थतत्त्वप्रबो- धः संपूर्णः ॥ श्रीः॥ .. श्रीकृष्णाय नमः ॥ प्रख्यातः परमार्थबोध इति यस्त्वं बालबोधप्रदं ग्रन्थं धीरमनोहरं परिमितर्वाचां विलासैः परैः ।। कृत्वा ब्रह्मविदाममन्दमहिमा श्रीमुक्तिनाथो मुनिर्मन्दं मन्दविबो- धनाय सदयो ब्रह्मावबोधं परम् ॥ १॥ अथोत्तरार्द्धम् ॥ . नमः परमात्मने ॥ पिण्डब्रह्माण्डयोरैक्यं लिंगसूत्रात्मनोरपि ॥ स्वापाच्याकृतयोरैक्यं क्षेत्रज्ञपरमात्मनोः ॥ १ ॥ व्यष्टिसमष्टिरूपं स्थूलमेकमेव । व्यष्टिसमष्टिरूपं सूक्ष्ममप्येकमेव । व्यष्टिसमष्टिरूपं कारणमप्येकमेव । व्यष्टिसमष्टिरूपं चैतन्यमप्येकमेव । चैतन्यस्य १ अयं पूर्वार्द्धः समाप्त इत्यवसीयते यत उत्तरग्रन्थे मंगलाचर गान्ते 'अयोत्तरार्धम् ' इति प्रारब्धम् । १ अ० अयानंदाय नमः ।

मुकुंदमुनिकनं व्यधिसमष्टिरुपता कथमिति चेदित्थम्अव्यक्तभावेन ज्ञानोपाधिक चैतन्यं ज्ञानाश्रयं साक्षिविलक्षणरूपेण समष्टिः । अज्ञानावच्छिन्ना- हंकारोपाधिकं सद्यष्टिरपि । प्रत्यगपरोक्षचैतन्यमेवाध्यस्तसदुद्भव निरुपाधिकाहंकाररूपेण चिदाकारं भूत्वा विषयमतिपरिणामभेदेन स्रोपाधिकाहंकाररूपेण विषयमुभयसंबन्धक्रियाजन्मवृत्तिश्च । एवं त्रिपुटीरूपेण ब्रह्मविवर्तः सन् प्रतीयते सकलप्रपंचो महाभूत. मयः । तानि पंच महाभूतानि कानि । आकाशं वायुरनिरुदक पृथ्वीति । एतानि च कतिविधानि भवन्तीति चेत् -द्विविधानि भूत्वा तिष्ठन्ति कथमित्थं-स्थूलानि सूक्ष्माणि च । कानि स्थूलानि कानि सूक्ष्माणि च । पंचीकृतपंचमहाभूतानि स्थूलानि । अपंची- कृतपंचमहाभूतानि सूक्ष्माणि । कानि तानि पंचीकृतपंचमहा- भूतानीति चेत् उच्यते गुणधर्मकर्मसहितानि सन्तीन्द्रियवेद्यानि स्थूलपंचीकृतपंचमहाभूतानि । तत्र कस्य भूतस्य को गुणः को वा धर्मः किं कर्म केनेन्द्रियेण किं किं प्रतीयत इति चेदुच्यते । आका- सस्य शब्द एवैको गुणः सच्छिद्रता धर्मोऽवकाशप्रदानं कर्म । एवं गुणधर्मकर्मसहितं श्रोत्रेन्द्रियेण श्रूयमाणमाकाशम्। वायोः शब्दस्पर्टी द्वौ गुणौ चलनं धर्मो व्यूहनादिकं कर्म । एवं गुणधर्मकर्मसहितः श्रोत्रेन्द्रियेण त्वगिन्द्रियेण श्रूयमाणः स्पृश्यमानश्च प्रतीयमानो वायुः । अग्नेः शब्दस्पर्शरूपाणि त्रयो गुणाः । ऊष्णत्वं धर्म: पचनादिकं कर्म । एवं गुणधर्मकर्मसहितः श्रोत्रेन्द्रियेण त्वगि- निद्रयेण चक्षुरिन्द्रियेण श्रूयमाणः स्पृश्यमानो दृश्यमानः प्रती- यतेऽग्निः । उदकस्य शब्दस्पर्शरूपरसाश्चत्वारो गुणा द्रव्यत्वं .

३० महाभाष्यम् धर्मः पिण्डीकरणादिकं कर्म । एवं गुणधर्मकर्मसहितं श्रोत्रेन्द्रि- येण त्वगिन्द्रियेण चक्षुरिन्द्रियेण जिव्हेन्द्रियेण श्रूयमाणं स्पृश्य- मानं दृश्यमानमास्वाद्यमानं प्रतीयमानमुदकम् । पृथिव्याः श- ब्दस्पर्शरूपरसगन्धाः पंच गुणाः कठिनत्वं धर्मो धारणादिकं कर्म । एवंगुणधर्मकर्मसहिता श्रोत्रेन्द्रियेण त्वगिन्द्रियेण चक्षुरि- न्द्रियेण जिव्हेन्द्रियेण घ्राणेन्द्रियेण श्रूयमाणा स्पृश्यमाना दृश्य- माना स्वाधमाना घ्रायमाणा प्रतीयते पृथ्वी । इति गुणधर्मकर्मस- हितानीन्द्रियवेद्यानि स्थूलानि पंचीकृतपंचमहाभूतान्येतानि कार- णम् । एतेषां कार्य किमिति चेदुच्यते ब्रह्मादिस्तम्बपर्यन्तानि स्वेदजांडजजरायुजोद्भिजसंज्ञकानि पंचविंशतिगुणानि स्थावर- जंगमात्मकान्याधिदैविकान्याध्याभिकान्याधिभौतिकानि नामरूप- क्रियावन्ति षट् कौशिकपिण्डमयानि षड्भावविकारयुक्तानि षड् । धर्मादिषटुंर्गस्य चालयपंचकोशेषु प्रथमकोशपरिणतानि व्यष्टिसमष्टिस्थूलशरीराणि पंचीकृतपंचमहाभूतकार्याण्येव । ते पंचविंशतिर्गुणाः क इति चेदुच्यते । अस्थिमांसत्वङ्नाड्यो रोमाणीत्येतन्नामकाः पंच कठिनांशाः पृथ्वीगुणाः । लालामूत्रशु- क्ररुधिरमज्जेत्येतत्संज्ञकाः पंच द्रवांशा उदकगुणाः, क्षुत्तृनिद्रा लस्यसंगमेत्येतत्संज्ञकाः पंचोष्णांशास्तेजोगुणाः । धावनचलन, कंपनाकुंचननिरोधनसंज्ञकाः पंच चलनांशा वायुगुणाः । काम- क्रोधभयलज्जामोहसंज्ञकाः पंच सुषिरांशा आकाशगुणाः । एते स्थूलशरीरेषु पंचविंशतिर्गुणा उच्यन्ते । षट् कौशिकानि का- १ अ० धारणा मुकुंदमुनिकृतं नीति चेत्त्वङ्मांसशोणितानि त्रीण्यस्थिस्नायुमज्जास्त्रयः । एवं षट् कौशिकानीत्युच्यन्ते । तत्र त्वङ्मांसशोणितनाम्नांत्रयाणां कोशानां शोणितमिनं मातुरेतः कारणम् । अस्थिस्नायुमज्जा. संज्ञकानां त्रयाणां पितरेतः कारणम् । एवं रेतोद्वयमन्नात्सप्त धातबो जायन्ते । अथ तत्पिण्डोत्पत्तिक्रमः कथ्यते । कथमि- स्थम्-अन्नाद्रसो रसाच्छोणितं शोणितान्मांसं मासान्मेदो भेदो- भ्यः स्नायुः स्नायुभ्योऽस्थीनि । अस्थिभ्यो मज्जा मज्जायाः शुक्र शुक्रादेतः । एवं रेतोद्वयं सप्तमो धातुर्भूत्वा मातृपितृसं- योगाज्जायते । कथमित्थम्-पंचमहाभूतमयं चतुर्विधानं भूत्वां पितुर्जठरे प्रदीप्तजठराग्निपक्कं जायमानस्य जन्तोरस्थिस्नायुमज्जाना बीजभूतं-पितृरेतो मातुर्जठरं प्रविश्य त्वङ्मांसशोणितानां बीजभूतं मातृरेतसा मीलितं गर्भः । एवं षट्कौशिकं स्थूलशरीर वर्धमानं तेनैव सहितं विनश्यति । तदुक्तम् ' आयुः कर्म च वित्तं च विद्या निधनमेव च ॥ पंचैतानि विलिख्यन्ते गर्भस्थस्यैव देहिनः॥१॥ एवं रेतोद्वयस्य मीलितस्य निषेककाल एवैतैः पंचप्राणैर्विधीयते गर्भः । प्रथमं रेतोद्वयमेलन एव पितरेतस आधिक्ये पुमान्भवति स्त्रीरेतस आधिक्ये स्त्री भवति रेतोद्वयसमत्वे नपुंसकस्थूलदेह उत्पद्यते । एतलिंगदेहयुक्तं रेतोद्वयं गर्भ जायमानं प्राणिप्राणवा- युनाधिष्ठितं सद्वर्धते । एतत् षाटकौशिकं रेतोद्वयं गर्भे प्रविशतः प्राणिनः कर्मानुसारेण कचित्कचिदप्यन्योन्यवायुपडिनने गर्भ १ अ० इत्येवं तत्पिण्डोत्पत्तिक्रमः कथ्यते । इत्यधिकम् ।. २ अ. एवोत्पद्यते । इत्यधिकम् ।

महाभाष्यम् निर्गस यमलमिति द्वयमपि भवति । दशरातात्पिण्डो भूत्वा वर्द्धते । वर्धनप्रकार इत्थम् -एकरात्रोषितेन कललं भवति पंचरात्रोषितेन बुबुदं भवति सप्तरात्रोषितेन फेनं भवति दश- रात्रोषितेन पिंडितमर्धमासेनांडाकृतिर्भवति । एकमासेन शिरो भवति द्विमासेन बाहुप्रदेशो भवति मासत्रयेण जठरप्रदेशो भवति भासचतुष्टयेनांगुलिजठरपादाद्यवयवा भवन्ति मासपंचकेन वाक्पा- णिरूपो भवति षण्मासेनास्थिसंघातो भवति माससप्तकेन समस्ता अवयया भवन्ति मासाष्टकेन चलनसमर्थः सन्पूर्वातीतनानाजन्मानि स्मरति । किमिति-मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।। मानाजन्मसहस्राणि मया दृष्टानि यानि वै ॥ १॥ एवं पूर्वातीत- मानाजन्मकर्मसुखदुःखानि विचार्यात्यन्तनिर्विणः सन्नितः परं जायमानः पुण्यानि कृत्वा यथा · पुनर्गर्भप्रवेशो न भवति तथा कर्तुं समर्थानामहं महानुभावानां श्रीपादपद्म सेवित्वा संसारं तरिष्यामीति बोधेन सह युज्यते । एवं स्थिते नवमे दशमे च मासे वैष्णवसंज्ञकप्रसूतिवायुभिरर्वाशिरा नोद्यमानो गर्भानिःसरन्बाह्यवायुसंपर्केणात्यन्तं क्लेशितः सन्ग- भस्थबोधरहितो भूत्वा शिशुस्तिष्ठति षड्भावविकारयुक्तः । ते च पड् भावविकाराः के, अस्ति, जायते, वर्द्धते, विपरिणमते, अपक्षीयते, विनश्यतीति । तत्रास्तीत्यस्य सद्भावोऽर्थः । जायत इत्यस्य जन्मार्थः । वर्द्धत इत्यस्यावयववृद्धिः । विपरिणमत इत्य- स्य पूर्वावस्थात्यागेनावस्थान्तरपरिग्रहः । अपक्षीयत इत्यस्या- वयवकार्यम् । विनश्यतीत्यस्य विनाशः । एते षड्भावविकारा मुकुंदमुनिकृतं ३३ उत्पद्यन्ते । षड् धर्माः के । उच्यन्ते । अशनापिपासाशीकमोह- जरामरणानि । तत्राशनापिपासे प्राणधर्मों। शोकमोहौ मनोधर्मों। जरामरणे शरीरधर्मों । एते षड् धर्माः । अरिषड्वर्गः कः । उच्यते । कामक्रोधलोभमोहमदमत्सराः । तापत्रयं किम् । आध्यात्मिक- माधिभौतिकमाधिदैविकं च । तत्राध्यात्म स्वमनसः स्वशरीराज्जा- यमानमाधिव्याधिरूपं दुःखम् । आधिभौतिकं भूतेभ्यो भवं दुःखम् । आधिदैविकं च ग्रहादिदेवताजनितं दुःखमेतत्तापत्रय- मुच्यते । पंच कोशाः के। उच्यन्ते । अन्नमयप्राणमयमनो- मयविज्ञानमयानन्दमयाः । तत्रानमयो देह उच्यते, प्राणमय इति प्राणादिवायव उच्यन्ते मनोमय इति मनोविकाराः विज्ञानमय इति बुद्धिः, आनन्दमय इति जीवः । एते पंच कोशा इत्यु. च्यन्ते । एवमनेकविकारयुक्तानि व्यष्टिसंज्ञकान्येकैकस्य पृथग्द- श्यमानानि । एतानि स्थूलशरीराणि पंचीकृतमहाभूतकार्याण्येव । पंचीकृतपंचमहाभूतानि कथितानि । एतत्कार्याणि च विराडि- त्युच्यते । एतदात्मनः स्थूलशरीरभितः सकाशादुत्पन्ना जानदवस्था कथमित्थम्-बाह्येन्द्रियैः सह मीलितेन मनसा बाह्यपदार्थावगति- र्जाग्रदवस्थीच्यते । एवं विराडित्युच्यमानं स्थूलशरीरं ततो भवा जाप्रदवस्था चैतद्वपमभिमन्यमानं जीवचैतन्यं विश्व इत्युच्यते । एतत्त्रयमकारः । अस्याधिदेवतारूपमीश्वरचैतन्यं ब्रह्मा । अत्री. स्पत्तिः । अयमेव प्रथमः पादः । सूक्ष्माण्यपंचीकृतपंचमहाभूता- नि कानि । उच्यन्ते । साक्षिचैतन्यवेद्यानि साविकराजसता- मसगुणयुक्तानि साधकसाधनसाध्यरूपाणि । तत्र साधकः कः .

महाभाष्यम् , कानि साधनानि किंवा साध्यमिति चेत् उच्यते ज्ञानशक्तियुक्त- सात्विकाहंकारादुत्पन्नं मन इन्द्रियाधिदेवताश्च साधकमुच्यते । इन्द्रियाधिदेवताश्चैता दिशो वायुः सूर्यो वरुणोऽश्विनावग्निरिन्द्रो विष्णुमित्रः प्रजापतिश्च । अन्तःकरणचतुष्टयस्य चन्द्रो ब्रह्मा रुद्रः क्षेत्रज्ञः । गुणत्रयस्य ब्रह्माविष्णुमहेश्वराः । एतज्ज्ञानशक्ति- युक्तः सात्त्विकाहकारसर्गः । क्रियाशक्तियुक्तराजसाहंकारोत्पत्तिः । दशेन्द्रियाणि प्राणादिवायवश्च साधनानि । दशेन्द्रियाणि च कानि । उच्यन्ते ज्ञानेन्द्रियाणि पंच कर्मेन्द्रियाणि पंच । श्रोत्र- त्वचक्षुर्जिव्हाघ्राणानि ज्ञानेन्द्रियाणि पंच तत्र शब्दज्ञानकारणं साधनं श्रोत्रं, स्पर्शग्राहकं करणं त्यक रूपग्राहकं करणं चक्षुः, रसज्ञानसाधनं करणं जिव्हा, गन्धज्ञानसाधनं करणं घ्राणम् । कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि । वचनसाधनं करणं वाक्, प्रदानसाधनं करणं पाणिः, गमनसाधनं करणं पादः, मलविसर्गसाधनं करणं पायुः, आनन्दसाधनं करणं गुह्यम् । करणशब्देन साधनमुच्यते । एक एव प्राणो वृत्तिभेदेन पंचधा प्राणोऽपानो व्यान उदानः समान इति । तत्र प्राण इडापिंग- लामुखेन द्वादशांगुलप्रमाणो बहिः प्रसरन्नन्तर्भुक्तानपानादिरसमा- त्मीकरोति । अपानवायुरधोगामी कटेः सकाशान्मलमूत्रविसर्जनं करोति ।व्यानो वायुर्नाभिदेशे स्थित्वाकुंचनचलनगमनागमनानि कारयति । उदानवायुरूर्ध्वगामी कंठे स्थित्वा स्वप्नादि कारयति । समानवायुः सर्वशरीरे स्थित्वानपानादिरसान् द्वासापति- सहस्रनाडीनां समं विभज्य प्रयच्छति । इति वायुगतिः । कि- मुकुंदमुनिकृतं ३५ याशक्तियुक्तराजसाहंकारसर्गः । अथ . द्रव्यशक्तियुक्ततामसाहं- कारोत्पन्नं पंच तन्मात्राणि सूक्ष्माणि भूतानि च साध्यम्. । पंच तन्मात्राणि चैतानि शब्दस्पर्शरूपरसगन्धाश्चेति । एतान्येवं पंच- महाभूतानां बीजरूपेण तन्मात्राणि स्थूलरूपेण गुणाश्च ज्ञाने- न्द्रियाणां विषयाश्च । भूतसूक्ष्माणि कानि । उच्यन्ते । एकैकगु- णयुक्तानि पृथ्व्यप्तेजोवावाकाशानि । एतान्येव द्रव्यशक्तियुक्त- तामसाहंकारसर्गः । कतिविधः साधकः कियत्प्रकाराणि साध- मानि कतिविधं साध्यमिति चेत्-उच्यते जानानः सज्ञाता, उत्पादक: सन्कर्ता, भुंजानः सन्भोक्ता । ज्ञानसाधनानि सन्ति झानेन्द्रियाणि कर्मसाधनानि सन्ति कर्मेन्द्रियाणि भोगसाधनानि सन्ति प्राणादयः । एवं साधनानि त्रिविधानि । साध्यमपि त्रि- विधम् । ज्ञानविषयं सज्ज्ञेयमुत्पाद्यमानं सत्कार्य भुज्यमानं सद्भो. ज्यं सर्वोऽपि साधकोऽधिदेवतारूपः । सर्वाण्यपि साधनान्यध्या स्मेन्द्रियाणि । एतत्सर्वं साध्यमधिभूतम् । एवं त्रिविधं त्रिवृदहं- कारात्मकं सर्वमादिपुरुषस्वरूपम् । व्यसृजत्पौरुषं रूपं भगवा. महदादिभिः ॥ संभूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥ इति शुकयोगीश्वरवाक्यमित्ययमपंचीकृतपंचमहाभूतसर्गः । एतदेव ब्रह्मांडकोटीनामावरकमाधारभूतमेतदेव कारणम् । अस्य कार्य किम् उच्यते । आधिदैविकाध्यात्मिकाधिभौतिकं स्थूलश- रीरमध्ये सूत्ररूपेण प्रविष्टं सप्तदशकं लिंगसंज्ञकं सर्वसूक्ष्मशरी. राणि । एतदेव पंचविंशतितत्त्वात्मकमित्युच्यते । पुर्यष्टकमिति सप्तदशकं लिंगमिति सूत्रमिति च । पंचविंशतितत्वानि कानि कानीति चेदुच्यते । आकाश आकाशं ज्ञातृत्वमाकाशे वायुः समानवायुराकाशेऽग्निः श्रोत्रेन्द्रियमाकाश उदकं शब्द आकाशे पृथिवी वागिन्द्रियम् । एवमाकाशतत्त्वानि । वायावाकाशं मनो पायौ वायुयानवायुर्वायावमिस्त्विगिन्द्रियं वायावुदकं स्पों वायौ पृथिवी पाणीन्द्रियम् । एवं वायुतत्त्वानि । अग्नावाकाशं बुद्धिरमौ वायुरुदानवायुरमावग्निश्चक्षुरिन्द्रियमनावुदकं रूपमनौ पृथिवी पादे- न्द्रियम् । एवमग्नितत्त्वानि । उदक आकाशं चित्तमुदके वायु. रपानवायुरुदकेऽग्निजिव्हेन्द्रियमुदक उदकं रस उदके पृथिवी गुह्येन्द्रियम् । एतान्युदकपंचतत्त्वानि । पृथिव्यामाकाशमहंकार: पृथिव्यां वायुः प्राणवायुः पृथिव्यामनिर्घाणेन्द्रियं पृथिव्यामुदकं गन्धः पृथिव्यां पृथिवी पायुः । एतानि पंच पृथिवीतत्त्वामि । एवमेतानि पंचविंशतितत्त्वानि । पुर्युष्टकं किं-उच्यते । अन्त: करणपंचकमेकं पुरम् । प्राणादिवायुपंचकं द्वितीयम् । ज्ञानेन्द्रि- यपंचकं तृतीयम् । शब्दादिविषयपंचकं चतुर्थम् । कर्मेन्द्रियपं. चकं पंचमम् । अविद्या षष्ठम् । कामः सप्तमम् । कर्माष्टमम् । इत्येवं पुर्यष्टकम् । सप्तदशकं लिंगं किम्--उच्यते । ज्ञानेन्द्रियाणि पंच कर्मेन्द्रियाणि पंच प्राणादिवायवः पंच मनो बुद्धिश्चेति द्वयम् । एतानि सप्तदश मिलित्वा सप्तदशकं लिंगामित्युच्यते । अथवाकाशादिसूक्ष्मभूतानि पंच ज्ञानेन्द्रियाणि पंच कर्मेन्द्रि- याणि पंच मनो बुद्धिश्चेति । एतदेव सूत्रमिति कथम्- उच्यते । अनेन सूत्रेण सर्वशरीराणि व्याप्याधिष्ठतीति सूत्रमिक त्युच्यते । एतदपंचीकृतपंचमहाभूतकार्यम् । अपंचीकृतपंचम- मुऊपमुनिकृतं ३७ हाभूतानि प्रागुक्तानि तत्कार्याणि च मिलतामि हिरण्यगर्भ इत्यु- ध्यते । तदात्मन एवं सूक्ष्म शरीरं तत्र भवावस्था स्वमावस्था सा कीदशी । उच्यते । बाह्यन्द्रियविषयव्यापार विनैव मनसा बाह्ये. न्द्रियविषयव्यवहार इव प्रतीतिः स्वमवस्था । हिरण्यगर्भसंज्ञक सूक्ष्मशरीरमत्र भवावस्था स्वप्नावस्था च द्वयमभिमन्यमानं जीव- चैतन्यं विष्णुरित्युच्यते । अत्र स्थितिरयं च प्रणवस्य द्वितीयः पादः । एतानि सर्वाणि स्थूलानि विराटशब्दवाच्यानि हिरण्य- गर्भशब्दवाच्यानि सर्वाणि सूक्ष्माणि देहिनं कृत्वैतद्यस्य कारणं भूत्वा सर्व भ्रमयतीति माया । सा न सती नाप्यसती नापि सदसती न भिन्ना नाप्यभिन्ना नापि भिन्नाभिन्ना न निरवयवा न सावयवा नोभयात्मिका । सतीति किमिति नोच्यत इति चेत्- उच्यते । यदि सती न नश्येत् । सतो नाशाभावात् । इयं तु सम्यग्ज्ञानेन नश्यत्यतो न सती । तयसतीति चेन यद्यसती नोपलभ्येत खपुष्पवत् । व्यवन्हियते चेयमतो नात्यन्तमसती नापि सती बाध्यत्वात् । तर्हि सदसती भवत्विति चेन विरुद्धध- र्माणामेकत्रासंभवात् । अतः सदसत्यपि न भवति । भिन्ना किमिति न भवतीति चनात्मनः पृथक् कृत्य दर्शयितुमशक्य. त्वादतो न भिन्ना । नाप्यभिन्ना । आत्माविनाशी माया तु विनश्यति । अतो नात्मनो भिन्ना । भिन्नाभिन्नापि न । विरुद्धध- र्माणामेकत्र वस्तुन्यसंभवात् । अतो न भिन्नाभिन्ना । निरवयवा किमिति न भवतीति चेन्न निरवयवायाः सावयवप्रपंचोत्पत्ते- रभावात् । तर्हि सावयवा भवत्विति चेन्न अनुत्पत्तिमत्त्वादनुवा- ३८ महाभाष्यम् देनानादेशतः सावयवत्वासंभवात् । तद्युभयरूपा संभवस्विति चेन्न विरुद्धधर्माणामेकत्र समवायाभावात् । इत्यनिर्वचनीयमना- चात्मन एतत्कारणमाधिदैविकाध्यात्मिकाधिभौतिकस्थूलसूक्ष्मशरी- रकारणभूतम् । गुणभेदसंभवात् । सर्वास्थूलाविद्यास्य कार्यम् । एतत्कार्य कारणं च मिलितमव्याकृतमुच्यते। एतदात्मनः कारण- शरीरमत्र भवावस्था सुषुप्तिरित्युच्यते । सा कीदृशी, उच्यते । उभयात्मकप्रपंचरूपविपरीतं सर्वप्रतीतीनां कारणमव्याकृतसंज्ञकं कारणशरीरं तत्र भवावस्था चाभिमन्यमान जीवचैतन्यं प्राज्ञ एतत्त्रयं मकारः । अस्याधिदेवतारूपं शबलं चैतन्यमीश्वरः । अत्र लयः । एतत्त्रयं प्रणवस्य तृतीयः पादः । एवं विराड्हिर- ण्यगर्भाव्याकृतसंज्ञकानि स्थूलसूक्ष्मकारणशरीराणि । तत्र भवा जाग्रत्स्वप्नसुषुत्यवस्थाः । तदभिमानिनो विश्वतैजसप्राज्ञाः । एतेषामुत्पत्तिस्थितिलयकारणं ब्रह्माविष्णुरुद्रनामकाः । अकारो- कारमकाराश्चेति सर्वोऽपि कार्यकारणप्रपंचो मायामय एव । ततः शुद्धप्रकाशरूपस्यात्मनोऽज्ञानं वस्तुतो नास्ति । एवं प्रणवसुख- बोधो मायाया अनिर्वचनीयत्वं ची शिशूनां बोधसिध्द्यर्थमनायासेन लिख्यते । मुकुन्दमुनिनेदानी नित्यानित्य विवेचनम् ॥१॥ कथमु- च्यते देहस्तावदनित्यस्तदतिरिक्तश्च नित्योऽस्तीति लोकवेदस्मृति- पुराणानि स्वानुभवश्वात्र प्रमाणम् । लोकः कथं प्रमाणिमिचेद्विवे. किनो लोकास्तावदेवं वदन्ति कंचन सुभगं सुन्दरं श्रीमन्तमवलोक्य १ अत्र लिखित पुस्तके ' श्रीगणेशाय नमः' इत्यादिना मंगलपूर्व कमारम्भः कृतः।

मुकुंदमुनिकृतं - कश्चित्कमपि वदति किंवानेन जन्मनि पूर्वस्मिन्सुकतमुपचितं कि- यत्कालं भगवान्परमेश्वरः परितोषितो येनायमीदृशः सुखमास्ते किंच प्रत्यहमुपचीयमानेनास्मिन्नपि जन्मनि क्रियमाणेन पुण्येन कर्मणा प्रायेण जन्मान्तरेऽप्येतादृशो भविष्यतीति । एवं भूते भवति भविष्यति च काले स्वकृतसुकृतफलमनुभवतानुगतेनात्म- मा भवितव्यम् । वेदाः प्रमाणं कथमिति चेत् उच्यते । ' ज्यो- तिष्ठोमेन स्वर्गकामो यजेत ' इति वेदवाक्यं देहान्तरकालान्तरो- पभोग्यस्वर्गफलसाधनं ज्योतिष्टोमसंज्ञक यागं विदधाति । अतो जन्मनीह ज्योतिष्टोमयागकर्ता देहान्तरे कालान्तरे च स्वर्गादि- फलमनुभवितात्मा नित्य एवेत्यंगीकरणीयम् । स्मृतयः पुराणा- नि चैवंविधानि बहूनि दृश्यन्ते । तस्मादात्मा नित्यः स्वानुभवश्चात्र प्रमाणम् । कथमित्थं-इमं देहं जानानः स्वयं देहो न भवति । एतस्य देहस्य कारणभूताकाशादिपंच महाभूतानि जडत्वादात्मा- नमन्यं न जानन्ति । अतः कारणात्पंचमहाभूतानि तत्कार्याणि ब्रह्माण्डानि तन्मध्यगतानि चतुर्दश भुवनानि ब्रह्मादिस्तम्बपर्य- न्तानि स्थावरजंगमात्मकानि स्थूलशरीराणि जानानः स्वयमेव सत्तामनुभवति । अतः स्वानुभव एवात्र प्रमाणम् । नास्तित्वे किमपि प्रमाणं नास्ति । अपिच यथा घटादीनां सत्तायामसत्ता- यां च जानानः स्वयमेव प्रमाणम् । एवमेव स्वसत्तायां स्वयमेव प्रमाणम् । किं च यदापि स्वस्याससामनुभवति तदापि स्वस्या- सत्ता स्वयं विद्यमान एवानुभवतीति वक्तव्यम् । स्वस्यासत्तापरि- ज्ञानमप्याश्रयं विना न भवति यतोऽतः स्वसत्तामुभवः सिद्धः । एवं ४० महाभाष्यम् प्रविवक्तं जडो न शक्नोतीति चेन स्वयं प्रकाश इत्यंगीकरणीयम् । स्वयं प्रकाशतेऽतः स्वतः सिद्ध एव । नित्यता स्वामुभवसिद्धैव । एवमेव लोकवेदशास्त्रस्वानुभवैरात्मा नित्य एवेति सिद्धम् । आनित्यो देहस्त्वं न भवसि । सत्यमहं देहो न भवामीत्येतावता मम किं जातमिति चेत्-अस्य देहस्य षड् भावविकारा जाति- वर्णाश्रमकुलगोत्रनामरूपस्त्रीपुंनपुंसकस्थूल-हस्वदीर्घश्यामत्वादिध- मांश्च । एते सर्वेऽपि तव न भवन्ति । एवं ज्ञानेन त्वयैव लोका. यतमतं निराकृतं भवति शिष्यः पुनः शंकते । स्वामिनैवमनु. शिष्ठस्थापि मम संसारनिवृत्तिर्दुर्लभा कुतः सत्यमिदं शरीरं न भवामीति । तथाप्येकतमं शरीरमधिष्ठाय तिष्टाम्यतस्तच्छरीरामि- मानिनौ रागद्वेषौ स्तः । अतस्तद्वशेन पुण्यमपुण्यं कर्म कुर्वाण- स्तत्तत्कर्मानुसारेण चतुरधिकाशीतिलक्षयोनिमुखेषु पतित्वा जाय- माने सुखदुःखे चानुभवस्तापत्रयतापितः परिभ्रमाम्येवातः संसारी मम तापयतीति पृष्टः सद्गुरुरुपदिशति । तव स्थूलशरीरमपि मन्यमानस्पैदमहमिति संप्रतीतावुपपत्तौ जातायां तच्छरीरमवक्ले- शानुभवस्तथा सन्नपि वृथैव । तवैवात्रोपपत्तिः शरीरमिदमहं न भवामीति सत्यं, एतग्ज्ञानमेवाहं किमिति न भवामीति चेन्न । एतज्ज्ञानमनित्यं त्वं च नित्यः सर्वमपि ज्ञानाधीनमेव । एतस्मि- मर्थे ज्ञानं त्वय्युत्पद्यते त्वय्येव विनश्यतीति । अस्मिन्नप्यर्थे प्रमाणं किमिति चेत्-उच्यते लोकवेदस्वानुभवाः प्रमाणम् । लोकः प्रमाणं कथमिति चेत्-उच्यते । विषकिलोकवाक्यानुसारेण । नित्यत्वं कथम्-ऐश्वर्ययुक्तस्त्वं निरीक्ष्यास्मान्यदि चित्तेऽनुसंदधासि महाभाष्यम् ४१ तदा जीवामः । त्वं यदि नानुसन्दधासि तदा विनश्यामः । त्वय्यनुसंदधानेऽस्माकं सर्वमस्ति । मयि त्वमपि नानुसंदधासि तदा किमपि नास्ति । तवानुसंधाने वयं स्थिता इति वदतः स्वशरीरस्य तवानुसंधानस्यानित्यतां वदन्ति तव च नित्यताम् । एतदेव विवृणोति । जायमाने जडशरीरे नोत्पद्यते ज्ञानं, ज्ञानं ज्ञानेऽपि नोत्पद्यते । अतः स्थूलशरीरज्ञानाभ्यामाश्रयभूतस्त्वं भिन्न एवेति ज्ञानाश्रयेऽपि ज्ञातुमिच्छति ज्ञानमुत्पद्यते त्वयि ज्ञातुम- निच्छति ज्ञानं विनश्यति यदा तज्ज्ञानं विनश्यति तदाहमपि विनश्यामीति चेन्न । यदि त्वं नित्यो भवसि तदा त्वदन्येनानु. संधात्रा केनचिद्भवितव्यम् । स च नास्ति यतस्त्वं पुरैवैतन्मय बातमिति त्वमेवानुसंदधास्यतोऽनुसन्धाता त्वं नित्यमेवानुसंधान नाम ज्ञानं तच्च ज्ञानं विस्मृत्यानुशिष्टो भूत्वा पुनः स्मरंस्त्वमे. मासि । एवं विस्मरतः स्मरतश्च तव सत्ता तवैव च प्रत्यक्षा तवासत्तायां तु किमपि प्रमाणं नास्ति । एवं विविक्तस्य तक सत्ता लौकिकप्रमाणसिद्धा श्रुतयश्चात्र प्रमाणम् । 'आत्मने मनो जायते । स० इति, मनः पूर्वरूपं वागुसररूपम् इति च 'यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मण करोति' इति । 'सदेव मनस्त्रिवृत्' इति शुकयोगीन्द्रवाक्यं च सर्व मनस एव कार्यम् । तस्य च मनसो ज्ञानरूपस्य सत्ताया- मसत्तायां च साक्षित्वं नित्यमेव । 'सर्वं मनोमयम् ' इत्यत्र भुत्यन्तरमपि । ' मनसैव पश्यति मनसा शृणोति, कामः सं. कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिन्ही( रित्येतत्सर्व . ६ ४२ मुकुंदमुनिकृतं , मन एव ' बृ. इति । एवं वेदः प्रमाणम् । अनुभवश्चात्र प्रमा- णम् । मम तदानीं ज्ञानं जातं न जातमिति च । इदानीं मम मनः स्थिरं वर्तते तदानीं मम मनोऽन्यत्र गतमिति च तस्य सत्तामसत्तां च द्रष्टस्तव सर्वदा सत्ता तवैवानुभवसिद्धा । तवा- सत्तायां तु किमपि प्रमाणं नास्ति । अतस्त्वं नित्य एव । एतानि सर्वाणि ज्ञानधर्मा इति स्वामिन आज्ञापितवन्तः । तज्ज्ञानं जाना- नस्त्वं भवसीति चेत्-तज्ज्ञानं किं जडमजडं वा जडं चेत्सुखदु:- खे न जानीयादनुभवितुं न शक्नुयात् । तईजडं सज्जानात्वनु- भवत्विति चेन्न । तज्ज्ञानमहं वा मत्तो भिन्नं स्वतोऽनुभवति चे. न्ममानुभवो दूरे स्यासहि चैतन्यरूपोऽहमेव ज्ञानं न भवामीति चेन्न तर्हि मम सुखदुःखे कदाचिदपि न हीयेतां विनश्यता ज्ञानेन सह विनश्येयं च । एवं मत्सन्देहः स्वामिभिरपनोदनीय इति शिष्येण विज्ञापितः सन्गुरुराह-तज्ज्ञानं जायमानमुभया- स्मकं भवति जडाजडस्वरूपं कथमित्थं-निरुपाधिकाहंकाररूपेण चिद्रूपं त्वत्तः पृथगविद्यमानं तव निजमप्यभूत्वा चिदाकारा- कारितं चिद्रूपं विना नास्तीति । रज्जुसर्पवच्चिद्विवर्तो भूत्वा तव दृश्यः सन्नेष च प्रथमोऽध्यास उच्यते । कथमित्यम्-निरु- पाधिकस्य रूपस्य जायमानस्याहंकारस्य त्वमेव देह इति तवा- हंकारेण सहाध्यासः । अयमहंकारस्तव स्वरूपमभूत्वापि त्वां विना पृथग्वस्त्वभवन्नपि त्वया सहाध्यासो भूत्वा तच्छरीर- गतसुखदुःखविषयो भूत्वा स्फटिकलौहित्यवदारोपितान्तवृत्ति- बाह्यवृत्त्योपरागो भवति । उपरागश्चान्यदीयधर्मस्यान्यत्र संक्र.

महाभाष्यम् ४३ मेण । यथा दर्पणः स्फटिकश्च जपाकुसुमस्यातसीपुष्पस्य च संनिधानेन रक्तो नीलश्च प्रतीयते । एवं प्रतीयमानः सोपाधिको भूत्वा विषयप्रीत्येदमिव प्रतीयमानो जडत्वादिप्रतीतिमपेक्ष्य विष- यो जायते द्रष्टुंदृश्यदर्शनरूपेण त्वयैव प्रतीयते । नवविधव्यव- हारभाग्ज्ञातृज्ञेयज्ञानकर्तृकारणकर्मभोक्तभोगभोग्यतारूपेण व्यव- हारस्य नवविधत्वम् । एवंविधव्यवहारभारभूत्वा विषयी बुद्धि- सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां गुणानां गुणिरूपश्च भूत्वा चिद्रूपस्य तव स्थूलदेहस्य मध्येऽन्तःकरणरूपेणोत्पद्यते । तप्तायःपिण्डवत् । एतदेव विवृणोति । यथाग्नेर्वस्तुतोऽपि वर्तुलदीर्घवक्रत्वादयो धर्मा न सन्त्ययःपिंडगता अग्नावा- रोप्यन्ते । यथा वा स्वतो दाहकत्वं प्रकाशकत्वं चाग्नि- गलमयःपिण्ड आरोप्यते । एवमविक्रियस्वरूपस्य तव सत्यपि ज्ञातृत्वकर्तृत्वाद्यारोपे जानामीति करोमीति भुंजान इति व्यवहाराः । यथा दर्पणे मुखाभासो दर्पणोऽपि न भवति । दर्पणे जायमानोऽपि न भवति । मुखमपि न भवति मुखव्यतिरेकेण वस्त्वन्तरमपि न भवति दर्पणेन विना स्वयमप्यनुभवन्मुखमात्रमे वावशिष्यते । एवं दर्पणस्थानीय इदंबुद्धिविषयोऽभूत्वा प्रतीयते विषय्यहंबुद्धिरेषापीदंरूपो जडो न भवति । जड उत्पद्यमानापि न भवति तव स्वरूपमपि न भवति त्वां विना पृथग्वस्त्वपि न भवति त्वमेव प्रतीयते विचार्यमाणे दर्पणस्थानीयेदंबुद्धिरप्यानदं- रूपस्त्वमेवेत्याभासो लीयते चैतन्यमानं त्वमेवावशिष्यसे । अतो बुद्धिरनित्यरूपेण त्वयैव प्रतीयते । एवमनित्यस्य ज्ञानस्य पूर्वोक्तं ४४ मुकुंदमुनिकृतं सर्व सुखदुःखादिमित्वं क्रियाभेदेन । यथायाशीर्वाद कियया पुरोहितो लेखनक्रियया लेखको गणनया गणकोऽश्वारोहणकि- ययाश्ववाहक आयुधं गृहीत्वा पद्यां धावनेन पदातिरित्युच्यते। एवमेक एवान्तःकरणविषये संशयात्मकं मनो निश्चयात्मिका बु- द्धिरभिमानरूपोऽहंकारोऽनुसन्धानात्मकं चित्तम् । एवं चतुति. मदन्तःकरणं ज्ञानशक्तिक्रियाशक्तिद्रव्यशक्तिरूपं कृत्वा ज्ञानेन्द्रि यकर्मेन्द्रियप्राणादिवायुसाधनसंपन्नं स्वरूपबोधेन व्याप्तं रविप्रका, शेन नेत्रवधामकसनिधानेन लोहवद्रज्ज्वाश्रयसर्पवत्सात्त्विकराजस- तामसगुणभेदेन साधकसाधनसाध्यरूपं सर्वेषां लिंगशरीराणां सूत्रमित्युच्यते । एतदेव सूक्ष्मशरीरम् । एवं ज्ञानवतस्त्वत्तो भिन्नम्। इन्द्रियाणि बुद्धिवृत्तयः प्राणाश्चैतान्येवात्मेति वेदबाह्यबौद्धादिमतं त्वयैव निराकृतं भवति । यथा निरुपाधिकोऽग्निर्दग्धुं न शक्नोति काष्ठादिकमयःपिण्डं वा यदा दहति तदैव काष्ठादिकसाधनदाह- कत्वं तथैव निरुपाधिकं केनापि प्रकारेण प्रतीयमानस्य तवाह- मिति प्रतीति साधनीकृत्य सकलदृश्यप्रतीतिमपेक्ष्याधिकारस्यापि तव द्रष्टुत्वमिव जायते । तज्ज्ञानमिव भवत् प्रतीयते न तदज्ञानमिव भेदेन प्रतीयमानेषु त्वदीयेषु सुखदुःखादिधर्मेष्वनुभवमार्गेषु मदी- यास्ते धर्मा इति तान्भ्रान्तः संस्त्वय्यारोपयति । वस्तुतोऽतद्रूप- स्य निरुपाधिकस्य तव द्रष्टुत्वादयो धर्मा न सन्त्येव । अतस्त्व. मविकारी च । अतस्त्वां विनाविद्यमानं त्वय्यप्याविद्यमानं तवापरं रूपं सदिव प्रतीयमानं द्रष्टदृष्टिदृश्यं सकलमप्यागमापायसहित- मागमापायरहिते त्वय्येव प्रतीयत इति । त्रिपुटीरूपमप्यनित्यामिति महाभाष्यम् ४५ तवैवानुभवः । तथाहि शरीरगतचक्षुःशूलोदरवेदनादयः केशाः सुषुप्स्यवस्थापन्नस्य ज्ञानरहितस्य तव न प्रतीयते । अतस्ते तव धर्मा न भवन्ति । कथमिव यथायःपिण्डमयोऽग्निरन्येन ताड्यमानः सहशेन गृहीतो दृष्टोऽयःपिण्डे यथा क्रियते तथा भवति नतु तस्मिन्नयःपिण्डे मुक्तेऽप्येवमेवाज्ञानाद्भिन्नस्य तत्त्वत उपाधिरहि- तस्य तज्ज्ञानभवः सकलसंसारक्लेशस्तव नास्ति । अतस्त्वमषि- क्रिय एव । यथाह विश्वरूपाचार्यः ' अविक्रियस्य भोक्तृत्वं स्याद- हबुद्धिविभ्रमात् । नौयानविभ्रमाद्यद्वत्सुमेरुगतिकल्पनम् ' इति । एवमहं विलक्षणत्वेन त्वां जानानेन त्वयैव प्रभाकरभाट्टनैयायि- कादिमतमपि निराकृतं भवति । एवं गुरुणोक्ते शिष्यः पुनः पृच्छति मम ज्ञानविरहः कथं सिध्यति । ज्ञानविरहे सति मम तद्धर्माणामभावः । सुषुप्त्यवस्थायामपि ज्ञानं निःशेषं (न ) निवर्तते संस्काररूपेणावशिष्यते यत्तच्च ज्ञानं कस्मादुत्पद्यत इति पृष्टः सन्गुरुरुपदिशति । तवाज्ञानमू- लक्रमेणैव तज्ज्ञानमुत्पद्यते । तदज्ञानमेवाविद्या सा द्विविधा १ आच्छादिका २ विक्षेपिका चेति । आच्छादिकोच्यते तत्र स्व. रूपं यथा न ज्ञायते तथा वस्तुतोडनावृण्वत्येवावरिकाच्छादिका। विक्षेपिका त्वत्सरूपानभिज्ञत्वं कृतवती त्वय्येव स्थितापि त्वाम- न्यथावभासयतीति विक्षेपिका । तत्सरूपानभिज्ञता मम कथमिति चेन्न । अयं जडो दृश्यमानः सर्वोऽपि स्थूलप्रपंचस्त्वं न भवास जडाजडरूपं च तव वेद्यं महाभूतमहदादिसूक्ष्मभूतं सर्व प्रपंच. जातमपि त्वं न भवसि । एवमुभयरूपप्रपंचोऽप्यहं न भवा- मुकुंदमुनिकृतं मीति जानानेन त्वया कस्त्वमिति पृष्ठे न जानामीत्युत्तरं दात- व्यम् । एतदेवाज्ञानं भावरूपाविद्याच्छादिकेत्युच्यते । आच्छा- दिका नाम शून्येनावृण्वत्येवावरिकेत्युक्तं शंकते । अनावृण्वत्या एवावरकत्वं कथं भावरूपता च कथं मूलाविद्यात्वं कथमिति चेत्-उच्यते । अहमनेन जानामीति ज्ञानाश्रये त्वयि तदज्ञानं तिष्ठतीति तस्याश्रयस्त्वमेव यदा तदज्ञानं न जानासि तस्या- मवस्थायां त्वयि तज्ज्ञानमेव त्वयतिरेकेणान्या कल्पना नास्ति कथमित्थं ज्ञानरूपस्त्वमेव त्वय्यज्ञानं यतो न जानास्यतो ज्ञाना- नाश्रयं यत्तु प्रतीयमानमज्ञानं स्वरूपे त्वयीत्थमनाद्याशनमेव सकलप्रपंचमूलकारणमिति मूलाशनमुच्यते । न जानामीति जा. नानं त्वामावृत्य जडीकरातीति । वस्तुतोऽनावरिका । अशानं जानाने त्वय्येव न जानामीति तदज्ञानं प्रकटीकरोतीत्यावरिका- प्युच्यते । एवमनावृण्वत्येव सत्यावृणोतीति विष्णुमायति चोच्यते। एषाप्यविचारितसिद्धा । विचार्यमाणा तु सा नास्ति । कथं.. उच्यते । तत्त्वस्वरूपं न त्वत्तो ज्ञात्वा विचार्य त्वं ज्ञानमेवेति । त्वद्विषयमाशनं न भवति सूर्यस्यान्धकार इव ज्ञानस्वरूपः स्वत एवाशानं नास्ति । आत्मविषयमाशनं मा भूदितरविषयं भवत्विति चेन्न । एतदाशनमात्मन्यारोप्यते न सहकतामापन्ने शबले त्वयीतरे तत्प्रतीयते । अज्ञानं मम नास्तीति जानानस्य तवाज्ञानसहभाव एव तत्त्वतो विचार्यमाणो न संभवति तन्मूल- मितरादपि नास्तीतीतरविषयमप्यज्ञानं न संभवत्येव । एवं मूला- ज्ञानमाद्यन्तयोरसंभवस्तन्मध्ये प्रतीयमानमपि शून्यमेव । एवम- महाभाष्यम् ४७ विचार्यमाणानादिस्तिष्ठति । एवं गुरुणोक्तः शिष्यः पृच्छति । एवमविचारितसिद्धमूलाज्ञानज्ञानसहिता मयि स्थित्वा मामन्य- रूपेणावभासयतीति विक्षेपिकाविद्येति स्वामिाभिरुक्तम् । मूला- ज्ञानरहिते मयि सा कथमवतिष्ठते कथं मामन्यथारूपेणावभास- यतीति पृष्टे सद्गुरुराह-त्वया दृश्यमानः सर्वोऽपि प्रपंचस्त्वमेव त्वव्यतिरेकेण वस्तुतो नास्ति कुत इतरस्य त्वन्द्यतिरेकेण सत्ता- प्रतीतिर्नास्ति । एवं विधस्य तवाज्ञानमेव मूलाज्ञानं मूलाज्ञानमेव मूलाज्ञानसहभावः । अयमेव संस्कारो भ्रांतिरूपेणावभासयति नामरूपक्रियात्मकस्य सकलस्यापि प्रपंचस्य सत्ताप्रतीतिक्रिया. रूपेण त्वमेव देही भवसि । एवंविधं त्वां न जानामीति । अज्ञा- नतः करोत्यतो भावरूपाज्ञानमपरोक्षमेव सत्परोक्षमिव भवति । शेषाज्ञानमेव विषयाज्ञानं स्वीकृत्य घटं न जानामि पट न जाना- मीत्यज्ञानं त्वय्यारोपयति । प्रमाणमपेक्ष्य द्रष्टासि प्रमेयसंस्कारा- विद्या नाशाभावात् त्वां त्रिपुटीरूपेणान्यथावभासयतीयमेव विक्षे- पिकाविद्या मूलाविद्या चोच्यते । सेयं जन्मजन्मान्तरेषु निषिद्ध- काम्यकर्मवर्जनेन ब्रम्हार्पणबुध्या नित्यनैमित्तिककर्मानुष्ठानेन च सवैतत्कारणब्रम्हरूपेण सात्विकोत्तमभक्तानां निःकामानामन्त:- करणशुद्धौ जातायामखिलोऽपि संसारो मनःक्रियोद्भवश्वाप्य- नित्याशुचिसुखदुःखात्मक इति निर्विद्य विरक्तानां महानु- भवानां श्रीपादपद्मशरणमाश्रित्य तत्कृपया च निश्चित्य ' आत्म- वेदं सर्व, पुरुष एवेदं सर्व, सर्व खल्विदं ब्रम्ह, तज- लानिति शान्त उपासीत, अथ खल ऋतुमयः पुरुषो भवति, ४८ मुकुंदमुनिकृतं यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति , स क्रतुं कुर्वीत प्राणमयं मनोमयं शरीरज्ञानस्वरूपमत्यन्तनिर्मलं ज्ञानस्वरूप- मेवाहुः । तस्मान्न विज्ञानमृतेऽस्ति तद्भाति' इत्यादिश्रुतिस्मृतिवा- च्यार्थपर्यालोचनेन भ्रांतिरूपेण प्रतीयमानं नामरूपक्रियात्मिका- खिलदृश्यसत्ताप्रतीतिक्रियारूपेण त्वमेव देह इति तवैव यथानुभवो भवति तथा बोधितस्य तत्त्वस्य ' सर्वमात्मैवाभूत् ' इति श्रुत्या सर्वस्य संवेद्यरूपेण निर्विषयचैतन्यरूपस्त्वमेवेत्यज्ञानमन्यथारू- पेणावभासयति सर्वापि मूलाविद्या निरन्वयं विनश्यति । एवं च तष ज्ञानं स्याग्ज्ञानस्य च विषयो नास्ति मामहं जानामि जाना. मीति च व्यवहारो नास्तीति त्वं नित्यमुक्त इति योगसांख्यम- खेम स्वानुभवसिद्धं भवति । बुद्ध एषातो मुक्त एवमुच्यते । इति श्रुतिप्रामाण्यात् । एवमविशिष्टेन त्वया सांख्यादिभेदमतानि निरा- कृतानि भवन्ति । अहं यतो ज्ञप्तिरूपोऽतो ममाज्ञानं नास्त्य- तस्तस्याज्ञानस्य निवर्तकं ज्ञानमपि नास्ति तस्माज्ज्ञानानाज्ज्ञानो- द्भवो मोक्षबन्धावपि न स्तो ममातो नित्यमुक्त एवाहं यदि बन्ध- मोक्षौ न स्तस्तयज्ञानं कस्य तदज्ञानोद्भवाखिलसंसारलेशानु- भवन कस्य पुण्यापुण्येनोभयेन च सुखदुःखमुभयं चानुभवंश्च- तुरधिकाशीतिलक्षयोनिमुखेषु जायमानो म्रियमाणश्चाविच्छिन्नं संसारे भ्रमन्केनापि सुकृतकर्मणा ब्राह्मणो जायमानः श्रुतिस्मृति- विहितवर्णाश्रमधर्माननतिक्रम्यानुतिष्ठन्कर्मसाध्यं सर्वमपि फल- मनित्यं जानन्प्रवृत्तिमार्ग विहाय निवृत्तिमार्गमेव कर्मयोगेनेश्वरा- र्पणभावमाषलम्ब्य साधकोत्तमो भक्तया शुद्धान्तःकरणो भूत्वा महाभाष्यम् ४९ नित्यानित्यवस्तुविवेक इहामुत्र फलभोगविरागः शमादिषट् मुमुक्षुत्वं चेति साधनचतुष्टयसंपन्न उत्तमाधिकारी भवन्गुरुश्री. पादपद्ममाश्रित्य तेन गुरुणा तत्त्वमस्यादिमहावाक्यार्थज्ञानं प्रापितः सन्निवृत्ताखिलाज्ञानः संसारान्मुच्यत इति । अस्यार्थस्य प्रतिपादकमखिलमपि वेदान्तवाक्यज्ञानं व्यर्थं भवेत् । अस्प वेदान्तज्ञानस्य का गतिर्मोक्षो न पुरुषार्थ इति च । कथं च प्रत्यक्षसंसारमनुभवतो मम संसारो नास्तीत्येतत्तत्ततो नास्ति । मायारोपितमिति वदसि तस्याप्यारोपयिताहं वान्यो वा मयापि नारोपितं न च निरस्तम् । इतरेणारोपितमिति चेत्--अद्वितीय- स्वरूपस्य ममान्य एव च नास्ति । असत्कथमारोपयेदितीमं संदेहं ममापनयेति पृष्टः सद्गुरुराह-अनुवृत्तिमुखेन पराऽभूत्वाऽ- विधेति देहाहंभावप्रभृति कर्तृत्वाभिमानपर्यन्तो विधिकिंकर इति च तद्विधिकैंकर्य विहाय भगवत्किंकरभावेन विधिमतिक्रम्य प्रत्य- क् प्रवणः सन्नस्मीति भावपर्यन्तया विद्यारूपमत्या मुक्तिसिद्धौ जात इति च ते भावव्यवहाराः सर्वेऽपि परिकल्पिताः । एवं विचारितसिद्धाश्चानादयो लोकसिद्धाः श्रुतिगुरुवाक्यानुभविवे- किनः । अतो विचार्यमाणा मध्ये प्रतीयमाना आद्यन्तयोरसन्तो न सन्त्येव । तैस्तव रूपस्य कोऽपि विकारो नास्तीति तवैवानु. भवसिद्धम् । एवमेव तत्त्वादिविकारः सर्वोऽपि स्वप्नवत्परमार्थों न भवति यदि परमार्थों भवेत्तहि श्रुतिगुरुवाक्याभ्यां प्रबुद्धस्यायं म बाध्यते तदा सफलश्रुतिस्मृतिपुराणानुभवानां भ्रांतिव्यावृत्तिमु- खेन पुरुषार्थसाधकत्वं न घटेत । अतोऽयमविकारस्वन्द्यतिरेके.

मुकुंदमुनिकृतं गाविद्यमानः प्रतीयमानो विचार्यमाणो वस्तुतोऽसस्त्रिकाल- शून्य एव । अतः संप्रतीयमानो मायामय एवेत्यवगच्छ । कथम्- इत्थम्-ज्ञेयरूपेणाप्रतीयमाने ज्ञप्तिमात्ररूपे त्वयि दृश्यमानं सर्व यतो विलीयते । अत आगमापायवियुक्तं सर्धमागमापायरहित- स्त्वमेवावशिष्यसेऽन्यत्सर्व नास्त्येव । अविद्यापि तव यथा निद्रा- दिदोषवशेन सर्वोऽपि स्वमव्यवहारः प्रत्यक्ष एवं परिदृश्यमानः प्रबुद्धं त्वां विहाय मिथ्याभूत एव तथैव तव मायासंज्ञिका निद्रा दोषवशेन त्वमेव नानारूपेण प्रतीयमानः संसारमहास्वमव्यवहार- मनुभवन्निव वर्तमानो महानुभवकृपया यदा प्रबुध्यसे. तदायेऽ वसानेऽप्यसत्ता केवलं मध्य एव प्रतीयमानेन शून्यरूपेण प्रपंचव्यवहारेण तव स्वरूपस्य कोऽपि विकारो नास्त्यतस्त्वं सर्वदाऽविक्रियरूप एव । अतस्तव प्रतीयमानं सर्वमपि प्रपंच- जातमिन्द्रजालमिव गन्धर्वनगरमिव बन्ध्यापुत्र इव गगनकुसु- ममिव शशविषाणमिव मरीचिकाजलमिव शून्यमन्यत्तव सत्तयैव प्रतीयते त्वयतिरेकेण नास्तीति तवैव यथानुभवो भवतीति । तथा महापुरुषा एतान्दृष्टान्तान्प्रदर्य बोधितवन्तः । अस्मिन्ने वार्थे श्रुति स्मृति च प्रदर्शयन्ति । तद्यथा ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्रान्यदेवं स्यात् , द्वावेव ब्रह्मणो रूपे मूर्त चामूर्त च ' इति, ' द्वाविमौ पुरुषौ लोके' इति । 'आत्मानात्मपदार्थों द्वाविति च, यत्रैतत्सदसद्रूपे ' इति च श्रुतिस्मृतिपुराणवाक्यौतिकल्पितरूपं त्वयैव प्रदर्यते निरासं कुर्वन्ति तद्यथा ' यत्र त्वस्य सर्वमात्मैवाभूत् ' इति, ' नेह . १ - महाभाष्यम् ५१ नानास्ति किंचन ' इति, ' यदा भूतपृथग्भावम् ' इति च, न यदिदमन आसीत्' इति च एवमादिभिः श्रुतिस्मृतिपुराण- वाक्यभ्रांत्या मतिविकारः प्रतीयमानस्त्वं न भवसीयतो निर- सनमुखेन परमार्थस्य तत्त्वप्राप्तस्यैव प्रमाणं तवापोह्यांशाभावात् । परिहतस्यैव प्रपंचस्य परिहरणम् । एवं च कृत्वाद्यन्तयोरखण्डै- करसस्त्वमेवावशिष्यसे श्रुतीनां त्वय्येवोपरतिश्च । एतदेवाखि- लश्रुतीनां फलं तत्कथमिति रूप इव प्रतीयमानस्त्वमेवेति संसार- महास्वप्नवत्तस्मिन्मिथ्यात्वं च स्वयंवेद्यरूपेण तवैवानुभवः शिष्य- ते । एतदेव तुरीयमिति रूपता कदाचिदपि तव नास्ति । ता- न्यात्मन्यारोपितवानपि त्वं न भवसि । कथम् , इत्थं मतिरूप- विद्योपाधिकस्त्वमेव स्वसत्तामसत्तां च जानन्मतिरूपमिथ्याभूते- ति तद्विस्मृत्य विस्मर्तुमप्यशक्यं निजरूपं त्वमेवावशिष्यसे । एत- देव तुरीयातीतम् । इदानीं महावाक्यार्थमुखेन बोधः कथ्यते । यमनियमादिसाधनसंपन्नानामधिकारिणामनुग्रहाय । अहिंसा सत्य- मस्तेयं ब्रह्मचर्यापरिग्रहौ, एते पंच यमाः। शौचसंतोषस्वाध्याय- स्वरप्रणिधानानि नियमाः । तत्र महावाक्ये तत्पदं त्वंपदं चेति पदद्वयमस्ति । तत्पदस्य त्वंपदस्य च वाच्यमर्थ लक्ष्य. मर्थ च कथयामः । तत्र तत्पदस्य वाच्योऽर्थः कथ्यते । मायोपाधिकः सकलजगदुत्पत्तिस्थितिलयकारणरूपः सर्वज्ञः भर्वेश्वरः सर्वशक्तिमान्सर्वकामफलप्रदश्च । पारोक्ष्येण सह वर्तमानः : सत्यज्ञानानन्दाद्वितीयचैतन्यं तत्पदस्य च्योऽर्थः । स्वंपदस्य वाच्योऽर्थः कथ्यते । देहेन्द्रियनन:- - वा- मुकुंदमुनिकृतं प्राणाहंकारममकारादियुक्तं प्रत्यक् चैतन्यं त्वंपदस्यार्थः । एवंवि. धयोस्तत्वंपदार्थयोरुभयोरेकत्वज्ञानं नोपपद्यते । कथम् -इत्थम्. आन्तरं वस्तु बाह्यं न भवति बाह्यं वान्तरं न भवति द्वितीयं वस्त्वद्वितीयं न भवत्यद्वितीयमपि द्वितीयं न भवति । अतो विरुद्धयोर्वाच्यार्थयोरेकत्वासंभवाल्लक्ष्यार्थयोरेकत्वमंगीकरणीयम् । लक्ष्यार्थः क इति चेदुच्यते । मायोपाधिको न भवति सकल ज- गदुत्पत्तिस्थितिलयकारणमपि न भवति सर्वज्ञः सर्वेश्वरः सर्वश- क्तिमान भवति सर्वकामप्रदोऽपि न भवति पारोक्ष्येण सह वर्त- मानोऽपि न भवति किन्तु केवलं सत्यज्ञानानन्दाद्वितीयस्वरूपं चैतन्यं तत्पदलक्ष्यार्थः कथ्यते । श्रोत्रत्वचक्षुर्जिव्हाघ्राणसंज्ञक- पंचबुद्धीन्द्रियरहितो वाक्पाणिपादपायूपस्थसंज्ञकपंचकर्मेन्द्रियर. हित: प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनंजयाख्य- दशवायुरहितो मनोबुद्धयहंकारचित्तसंज्ञकान्तःकरणचतुष्टयरहितः शब्दस्पर्शरूपरसगन्धवचनादानगमनमल विसगानन्दसंशयनिश्चया भिमानानुसंधानात्मकचतुर्दशविषयरहितः । अन्नमयप्राणमयमनो. मयविज्ञानमयानन्दमयपंचकोशरहितस्त्वङ्मासास्थिस्नायुमज्जाशुक्र शोणितनामकसप्तधातुरहितो जाग्रत्स्वप्नसुषुप्यवस्थात्रयरहित आ. ध्यात्मिकाधिभौतिकाधिदैविकतापत्रयरहितः सत्त्वरजस्तमोगुणर. हितः पुत्रैषणावितैषणालीकैषणेतीषणात्रयरहितो भूतभविष्यव. र्तमानकालत्रयरहितः कामक्रोधलोभमोहमदमात्सर्यात्मकारिपड्वर्ग- रहितोऽशनापिपासाशोकमोहजरामरणषडूमिरहितोऽस्ति .जायते वर्धते विपरिणमतेऽपक्षीयते विनइयतीति षड्भावविकाररहितः :

महाभाष्यम् सर्वप्राणिहदि स्थितं प्रत्यक्चैतन्यं संपदलक्ष्योऽर्थः । एतस्प्र. स्यक् चैतन्यं सत्यज्ञानानन्ताद्वितीयचैतन्यमेव । एवं वेद आह । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति । पृच्छति-सत्यमित्येकं ब्रह्म, ज्ञानमित्येकं ब्रह्म, अनन्तमित्येकं ब्रह्म, । किमेतावन्ति ब्रह्माणि सन्त्येकमेव वेति पृष्टः सद्गुरुराह-सत्यशब्देनाविनश्वरमुच्यते । ज्ञानशब्देन ज्ञप्तिस्वरूपमुच्यत । अनन्तशब्देनाखण्डमुच्यते । ब्रह्मशब्देन परिपूर्णमुच्यते । एकमेवानन्दाद्वितीयचैतन्यं ब्रह्म स्वमसि । ब्रह्माहमस्म्यहं ब्रह्मास्मीति ज्ञात्वा प्रबुद्धः कृतकृत्यो भवति 'ब्रह्मैव सन्ब्रह्माप्येति विमुक्तश्च विमुच्यते ' इत्यादिश्रुति- भ्यः । एवं मायानिद्राप्रबुद्धः सजीवन्मुक्तः प्रारब्धकर्मजनितफ- लावधि लोकाननुगृहनवतिष्ठते । यतो ' विमुच्यापि त्वचं सर्पो यथा रूपं न मुंचति ॥ प्रध्वस्ताखिलमोहोऽपि लोकान्कार्य तथात्मविद्' इति ॥ १॥ अथ शिष्याणामाज्ञा गुरुपंक्तिकथनं चै- तत् । वेदान्तसारसर्वस्वं पाखण्डी नैव मन्यते । किं जानीयुरिमे पापा हताः स्त्रीयासदुक्तिभिः ॥ १ ॥ पाखण्डानामभक्तानां नृणा- मुत्पथगामिनाम् । एतद्विज्ञानसर्वस्वं मतिमान्न प्रकाशयेत् ॥ २॥ शुद्धानां गुरुभक्तानां श्रद्धालूनां दयावताम् । सुशीलानां सुशि- ध्याणां शास्त्रमेतत्प्रकाशयेत् ॥ ३॥ आत्मज्ञानकमूले भवसलिल. निधौ क्लिश्यमान्मनुष्यान्दृष्ट्वा ज्ञानोपदेशात्सकरुणहृदयाक्रान्ततत्ता- रणेच्छुः । विष्णुर्भूमी युगेऽस्मिन्हरिरिति गदितः प्राप्तमाध्य. न्दिनीयस्वाध्यायप्रोक्तसर्वस्ववितरणजनितख्यातिरग्रेऽवतीर्णः ॥४॥ १ एतदतनो ग्रंथः 'अ' पुस्तके नास्ति ।

५४ मुहंदमुनिकत जानानेन सताप्यनेन तपसा वासधितः शंकरः पूर्णाहुत्यव. सानहोमसमये प्रादुर्बभूव क्षणात् । अप्रेरचिरिवापरः प्रकटितो जानकमूर्तिस्तदा मत्तः किं त्वमभीप्ससीत्यभिदधे तस्याग्रत- स्तस्थिवान् ॥ ५॥ ततस्योपदिदेशसांगमखिलं यत्नेन जिज्ञासित मादं मेदुरयन्नुवास च पुरः स्वान्ते च तत्स्थः क्षणम् । पार्वत्या सहितः शिवः शिववपुस्तस्मिन्नरस्तास्थिते पश्यत्येव सविस्मये सकुतुके क्षिप्रं किलान्तर्दधे ॥ ६॥ वेदान्तप्रतिपाद्यतत्त्वमहसो ज्ञास्वादिनाथाद्धरिः सच्छिष्यानधिकारिणो बहुतरान्संबोध्य तत्त्वं परम् । तन्मध्ये गुणवत्तरं वितमसं श्रीरामनाथो मुनि साम्राज्येड भिषिषेच योगविधिना पादान्वितं योगिनाम् ॥ ७॥ ज्ञाने कस्याधिकारो भवति बहुतरस्वेषु शिष्येषु मध्ये ध्यात्वैवं स्वीयचित्ते सकलगुणनिधि श्रीमुकुन्दं मुनीशम् । निश्चित्यार्थान्वगृहन्नि. खिलमपि तदा ज्ञानसर्वस्वमस्मै सच्छिष्यायोपदिष्टं प्रसरति बहुशः किं च संचीयते च ॥ ८॥ तच्छिष्यत्वमवाप्य सम्यगखिलान्मा. योक्ततत्वार्थविद्वत्वमं कृतवानमन्दमहिमा श्रीमान्मुकुन्दो मुनिः । शिष्येष्वन्येषु सर्वेष्वहमधिककृपापात्रमस्यास्मि जातो । ग्रन्थं मद्बोधसिद्धथै कुरु बहुसुगम बानसर्वस्वसारम् । एवं विज्ञापितः सन्नवनतशिरसा जित्यापलेन धीमान्सद्यः कृत्वा हि तस्मै सक- रुदणदयः श्रीमुकुन्दो मुन्द्रिः ॥ ९॥ ॐतत्सच्छीमत्सकल, वेदान्तार्थब्रह्मावबोधज्ञानसागरश्रीमुकुन्दराजमुनिनिर्मितं . . महा• भाष्यं समाप्तम् ।।. १ अ. वेदान्तमथितार्थ

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Mahaabhaashhyama~ Prathama Grantha

Author
Manmukundamuni
Title
Mahaabhaashhyama~ Prathama Grantha
File name
Mahaabhaashhyama~ Prathama Grantha
Text
OCR done
Citation
1835
Published
2005/11/22
Publisher
Aatmaaraama
Language
Sanskrit
Pages
69
Library
Osmania University
Classification
General Linguistics
DLI number
369299
Barcode
2030020016113.00
Scanning centre
Osmania University
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
Q3g0kHjqNGy
Download PDF

Mahaabhaashhyama~ Prathama Grantha