Ramkrishna Mission Institute Of Culture, Golpark
Swanubhabadarsha
Front matter
No text on this page.
CĦOWKHAMBA SANSKRIT SERIES; А. COLLKCTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 171. 1 स्वानुभवादर्शः मित्परमहसपरिव्राजकाचार्य रायणाश्रमशिष्यमाधवाश्रम- विरचितः। W RMIC LIBRARY स्वकृटीकाविभूषित सीतारामशाखिणा परिशोधित No. 125500 SVÂNUBHAVÂDA Rbox No: WITH A COMMENTART Ble MADHAVASRAMA PUPIL Say Card NARAYANASRAMCess Edited by Sita Ram Sestri Seni Coches FASCICULUS I. Be Card: PUBLISHED AND SOLD BY THE SECRETARY. CHOWKHAMBA SANGKRIT BOOK-DEPOr. BENARES AGENTS, OTTO WARRAS-OWITZ LEIPZIG. PANDITA VYESHTHARAMA MUKUNDAJI BOMBAY: PROBSTHAIN & Co., BOOKSELLERS, LONDON. Printed ba-Igi Krishna Dasa Gupta, AT THE HOYA VILASA PRESS BENARKS. Price Rupee one. 21
AMIC LIBRARY
Acc No.
Class Ne
181.
Date
St: Cara
Clago;
6m, waris
Cliecko
श्रीगणेशाय स्वानुभवादर्शः। नमः ॐकारगम्याय नमः ॐकारसाक्षिणे ॥ नमः ॐकारवाय कृष्णाय परमात्मने ॥१॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्रपरिसमातिपचपममनशिष्टा- परिपालनफलकविशिष्टशिष्टाचारानुमितश्रुतियोधितकर्तव्य- तकस्वेष्टदेवतानमस्कारात्मकं मालमाचरन् प्रकरणप्रतिपायमर्य सरक्षेपेण दर्शयति । यस्मात्परं किमपि नास्ति नमोऽस्तु तस्मै सश्चित्सुखाय विभवे पुरुषोत्तमाय ॥ नो यत्र वागपि मनो न विबोधनाय कृष्णाय पूर्णमहसे यदुनन्दनाय ॥१॥ यस्मादिति ॥ तस्मै कृष्णाय नमोऽस्त्विति सम्बन्धः । - रणागवानामविघातजसुखदुःखात्मकसंसारकर्षणात् कृष्णस्त- स्मै कारवाङ्मनोभिः महीभावोऽस्त्वित्पर्यः । अत एव यदुन- न्दनेतिविशेषणम् । यहूनङ्करोवावीन् अर्जुनादीन् अन्यांध स्वात्मपदारेत नन्दसत्यानन्दयतीति यदुनन्दनः एतेन स्वस्या- पि निरतिवानन्दमाप्त्यर्य श्रीकृष्णाय महीमायः स इति सवितम् । अन्यैर्विशेषणैस्तस्य वास्तवसरूम वर्षपति । तस्मै कसै असामिखिलायाकारपरिणतयायाधिगतातसर्वावया- A २ स्वानुभवादर्शः सकात् सद्रूपेण स्फुरणरूपेण च सर्वानुस्यूतात् स्वप्रकाशपरमा- नन्दचैतन्यघनात् परमार्थसत्यात् स्वमदृशइव, स्वामिकं मायावि- नइव मायिकं, शक्तिशकलावच्छिन्नचैतन्यात् तदज्ञानकल्पितरज- तमिव च परं द्वितीयं किमपि वस्तु परमार्थसत्यं नाऽस्तीत्यर्थः । एतेन विजातीयभेदरहितत्वं दार्शतम् । सजातीयस्वगतभेदरहितत्वं विशेषणान्तरेण दर्शयति । पूर्णमहस इति । पूर्णमखण्डं यथोक्तभेद- रहितं च तन्महश्च तत्स्वरुपमित्यर्थः। पुन स्तत्स्वरूपमाह । सच्चि- त्सुखाय । सच्चिदानन्दायेत्यर्थः । सदेवसौम्येदमग्रआसीद्विज्ञान- मानन्दं ब्रह्मेति श्रुतेः। आनन्दादयः प्रधानस्येति न्यायात् । विभवे व्यापकाय । ब्रह्मैवेदममृतं पुरस्तात् पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण अध चोर्ध्वं च प्रमृतं वीवेदं विश्वं वरिष्ठमिति श्रुतेः, अन्तर्ब- हिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेश्च । व्यापकत्वं ब्रह्मणः तथा च देशपरिच्छेदरहितं ब्रह्मेत्यर्थः । इदमुपलक्षणं का- लवस्तुपरिच्छेदयोः सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । पुरुषोत्त- माय क्षराक्षरकार्यकारणविलक्षणायेत्यर्थः । कार्यकारणतां हि- त्वा पूर्णबोधो ऽवशिष्यत इति श्रुतेः । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । 'अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम इति स्मृतेः ॥ तथा यत्र ब्रह्मणि विषये वाक् मनोऽपि विबोधनाय ज्ञाप- नाय न समर्थमिति शेषः । यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति श्रुतेः । वाङ्मनोभ्यामगोचरामित्यर्थः । ननु यतो वाचो निवर्तन्त इति न तावल्लौकिकं वाक्यं तस्याऽत्राऽप्रसक्तेः । तथा च वैदिकं वचो ब्रह्मणो विनिवृत्तं सद् तथैव स्यादिति चेन् मैव- म् । यथा अशब्दमस्पर्शमरूपमित्यादि वाक्यं यथा वा स्थूलम- नवित्यादि वाक्यं शब्दत्वस्थूलत्वादिनिषेधेन ब्रह्मणि पर्यवस- ३ स्वानुभवादर्शः। मम् अतो न वृथा निषेध्यवचनत्वेन निषेधवचनत्वेनाऽपि न ब्रह्म वाच्यं किन्तु तैर्लक्ष्यते, यथा विषं मुंश्वेत्यत्र पदार्थासङ्गते स्तात्पर्येण शत्रुगृहभोजननिवृत्तिलक्ष्यते, तथा वाङ्मात्रेणाऽपि ब्रम लक्ष्यते नतूच्यते । जात्यादिचतुर्विधशब्दप्रवृत्तिनिमित्ताभा- वात् । श्रुत्यन्तरमपि। यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। यत्र मनसा न मनुते येनाऽहुर्मनो मतमिति । तथा च बह्म वाचा न वाच्यं न मनसा मन्तव्यमिति । अभियुक्तैरप्युक्तम् । यो यः शब्दोयत्कृताओं निरूढ- स्तस्मिन्नर्थे लक्षणा वृत्तिरस्य । ज्ञातव्या स्यात् पण्डितैरेवमेतत् प्रत्यक् पूर्ण ब्रह्म वेदान्तवेद्यामिति ॥ ननु मनसैवेदमाप्तव्यमित्यवधारणस्य का गतिरिति चे- च्छृणु । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिपरमवधारणमिति । ननु मङ्गलस्य ग्रन्थसमाप्तिफलमित्युक्तं तन्न । तथाहि कृतेऽपि मङ्गले आस्तिकग्रन्थादौ समाप्त्यदर्शनात् । अकृतेऽपि मङ्गले नास्तिक- अन्यादौ समाप्तिदर्शनात् । तस्मादन्वयव्यतिरेकाभ्यां समाप्तेर्व्य- भिचारात्, कृतस्य कर्मणः किंचित् फलमवश्यं वाच्यम् , तच्च विघ्नध्वंसरूपमेवाऽस्त्विति चेन् मैवम् । कृतेऽपि मङ्गले यत्र स- माप्त्यभावस्तत्र विघ्नबाहुल्यं बलवत्तरविघ्नो वा बोध्यः । तन्नि- वृत्तिस्तु मङ्गलपाचुर्याद् बलवत्तरमङ्गलाचरणाद् वा भवेत् । अ- कृतेऽपि मङ्गले समाप्तौ जन्मान्तरीयमङ्गलं तत्र कल्प्यते संसार- स्याऽनादित्वात् , तस्मानाऽन्वयन्यतिरेकव्यभिचारः । मङ्गलस्य स्वानुभवादर्शः शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकत्वं तस्मिन् विघ्नविना- शिनी समाप्त्यनुकूला चेति शक्तिद्वयमस्ति । तथा च विघ्नध्वं- सएव फलं नेति, यथा वित्रिदिषन्तियज्ञेनेत्यत्र चित्तशुद्धिविवि- दिषोत्पतिरूपद्वयजननसामर्थ्यमाश्रमकर्मणां तथाऽत्राऽप्यस्तु बा- धकाभावात् । एवमप्रतिपत्त्यन्यथामतिपत्तिविप्रतिपस्यादिनिवृत्ति- रूपाणि शिष्टाचारपरिपालन चेत्यादि मालाचरणस्य फलानि ज्ञेयानि । न च कृष्णो नाम धर्मराजवत् कश्चन महापुरुषो भूचर- त्वादथवा इन्द्रानुजत्वादज्ञातदेवोऽस्तु कदाचिद् देवलोकस्थत्वात् तस्य कथं परब्रह्मतोच्यते इति वाच्यं । महर्षिभिः श्रुतिस्मृतिपर्या- लोचनया ब्रह्मत्वस्य निरुक्तत्वात् । तथा च वचनम् । कृषिभूवाचकः शब्दो णश्च निवृत्तिवाचकः । तयोरैक्यं परं ब्रम कृष्ण इत्यभिधीयत इति ॥ वस्तुतस्तु न देवः पुण्डरीकाक्षो न च देव त्रिलोचनः अकृत्रिममनाद्यन्तं दैवतं परमुच्यते । इतिस्मरणात् । अकृत्रिमं कृष्णदैवतं कृष्णशब्दलक्ष्यं ब्र- झैवेति ॥१॥ अथ द्विविधो धधिकारी कश्चनाऽनेकजन्मसुकृतविपाकाती- अतरपझोऽन्यो मन्दप्रज्ञः । मादृशस्तु मन्दमजस्तयाहेत्वभावात् । तत्र तीव्रप्रज्ञस्य श्लोकन श्लोकान वा ब्रह्मसाक्षात्कारो भवति। तथा चोक्तम् । आत्मानं विन्दते यस्तु सर्वभूतगुहाशयम् । श्लोकेन वा तदन क्षीणं तस्य प्रयोजनमिति ॥ मितप्रज्ञस्य तु द्वितीयस्याऽसम्भावनाविपरीतभावनयोरुद- यान पटिति ब्रमसाक्षात्कारो भवति तादृशं प्रति गुरुशास्त्रवि- स्वानुभवादर्शः। चारो ऽवश्यमपोक्षत इति मनसि निधायाऽऽह । अतिदूरतरं निजस्वरूपं गुरुशास्त्रान्न विचार्यते यदि ॥ निकटं गुरुशास्त्रबोधनात प्रकटं स्यात्स्वतनौ स्वयं हि तव ॥ २ ॥ अतिदरतरमिति निकटं स्वहृदयान्तरवर्ति निजस्वरूपं स्व- स्य ब्रह्मस्वरूपत्वं यदि गुरुशास्त्रान विचार्यते तीतिदरतरं अ- तिदूरतरादप्यतिदूरतरम् । दुरात् सुदूरे तदिहान्तिके चेतिश्नुतेः, दुरस्थश्चान्तिके च तदिति स्मृतेश्च । व्यतिरेकमुकाऽन्वयमाह । गुरु- शास्त्रबोधनात् प्रतिबन्धकाविधानिवृत्तेः स्वतनौ अस्मिन्नेव देहे स्वयं प्रकटमाविर्भवेत् स्वप्रकाशत्वादित्यर्थः । ऐहिकमप्रस्तुतप्रति- बन्धेतदर्शनादिति न्यायात् ॥२॥ उक्तमर्थ दृष्टान्तेन द्रढयति । न हि निर्मथनं विनेन्धनाग्निः परिलभ्यो निकटो ऽपि सन्नपि ॥ गुरुशास्त्रविचारणं विना न हि लभ्यं निजरूपमात्मन। ॥ ३॥ नहीति। भात्मनः प्रतीचो निजरूपं ब्रह्मत्वं तदित्यर्थः। ह. शन्तेनाऽयमर्थः श्रुत्या सूचितः । अथाऽधिविध आचार्यः पूर्व- रूपं अन्तेवास्युत्तररूपं विधासन्धिः प्रवचनं सन्धानमिति शे- पं स्पष्टम् ॥३॥ ननु विचारस्य किं प्रयोजनं चक्षुरादिना तस्माप्तिः स्या- स्वानुभवादः . दित्यत आह । सुमेरुपृष्ठे सरितां तटे वा किं मूर्तिमद्ब्रह्म विलोकनीयम् ॥ त्रिधा परिच्छेदविहीनमेकं विना विचारं सुलभं न तत्स्यात् ॥ ४ ॥ सुमेरुपृष्ठ इति । यदि मूर्तिमब्रह्म स्यात्तर्हि महता प्रयत्नेन मे- रुपृष्टस्यं ब्रह्म चक्षुरादिना विलोकनीयं स्यात् । न चैवं तथा। दिव्यो ह्यमूर्तः पुरुष इति श्रुतेः । किमित्याक्षेपे त्रिधापरिच्छेदशून्यं एक सजातीयविजातीयस्वगतभेदरहितम् । विचारं विना न सुलं सु- खेन लब्धुं न शक्यमित्यर्थः । अतोऽवश्यं विचारः कर्त्तव्य इति भावः॥४॥ यद्यप्यस्य वेदान्तप्रकरणत्वात्तदीयमेवाऽनुबन्धचतुष्टयं त- थाऽपि मन्दप्रज्ञस्याऽप्यधिकारिणो यथोक्ताधिकारं विना वि- चारोऽपि सुदूर एव किमु निजस्वरूपं दूरमिति, तदर्थ यथोक्ता- धिकारिणं दर्शयति ॥ न दोषदृष्टिन विरागलेशो दुःखात्मके कर्मणि तत्फले च ॥ मुमुक्षुता नाऽपि शमादिषटकं तेषां विचारोऽपि सुदूर एव ॥ ५ ॥ नेति। रजः कार्यत्वात् दुःखात्मकत्वं कर्मणः दुःखानुविद्ध- त्वात् तत्फले च । यथा स्वर्गकामो यजेतेत्यत्र स्वर्गकामोऽधि- कारी तस्यार्थी समर्थो विद्वानिति यथाऽधिकारिविशेषणानितथात्र स्वानुभवादर्शः। मुमुक्षोरधिकारिणः। नित्यानित्यविवेक इहामुत्रफलभोगविरागः शमादिषट्कसंपत्तिरित्यादियुक्तत्वरूपाण्यधिकारिविशेषणानि झे. यानिएतादृशविशेषणविशिष्टस्य मंदमज्ञस्यापि मुमुक्षुतायां सत्यां विचारे प्रवृत्तिरन्यथा दुरेत्यर्थः । विषयो जीवनीक्यं शुद्धचैतन्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यात् । सम्बन्धस्तु तदैक्यप्रमेयस्य तत्पतिपादकोपनिषत्ममाणस्य च बोध्यवोधकमावलक्षणः ।प्रयो- जनं तु तदैक्यप्रमेयमताज्ञाननिवृत्तिस्सत्स्वरूपानन्दावाप्तिश्चातरति शोकमात्मविद्रम वेद ब्रह्मैव भवतीत्यादि श्रुतेरिति ॥ ५ ॥ विषयसौन्दर्याद्विचारं परिकुर्वतामपि तत्माप्तिरनेकजन्मार्जि- तपुण्यसंचयं विना दुष्पापेत्याह । वर्षेपलं संपतितं प्रपश्यतां प्राप्तिस्तु तस्याऽस्ति नरस्य कस्यचित् ॥ तथा विचारं परिकुर्वतां नृणां प्रातिः स्वरूपस्य वृषेण कस्यचित् ॥ ६ ॥ वर्षोषलमिति । वृषेण धर्मेणेत्यर्थः । उक्तं च भगवता। मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वत इति ॥ ६ ॥ वृषेण स्वरूपप्राप्तिरित्युक्तं तत्राऽसाधारणं धर्म दर्शयति । हरेर्गुरोभक्तिरिदं द्वयं यत् सुसाधनं यः प्रकरोति नित्यं ॥ ऐक्येन तस्यैव करस्थितास्ति मुक्तिः प्रसादेन हरेर्गुरोश्च ॥ ७॥ । .
स्वानुभवादर्शः हरेरिति । नित्यं नियमेन । अव्यभिचारेणेत्यर्थः । ऐक्येन गुरुदेवतयोरैक्यभावनयेत्यर्थः । एवं भजतानुभयोः प्रसादेन मुक्तिः सुलभेत्यः । तथा च श्रुतिः । यस्य देबे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कयिता अर्थाः प्रकाशन्ते महात्मन इति ।। भक्त्या मामाभिजानाति यावान् यश्चास्मि तत्वतः। ततो मां तत्वतो ज्ञात्वा विशते बदनन्तरम् ॥ तेषां सततयुक्तानां भजतां मीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपायान्तिते ॥ इत्यादिस्मृतिभ्यः। भक्त्यैकयेशं गुरुदेवतात्मेति श्रीभागवतो क्तेश्च ॥ ७॥ ना ऽवेदविन्मनुते तं वृहतमिति वेदेनैवोक्तं तत्र स वेदो- ऽपौरुषेयः स्वतः प्रमाणं चेदं दर्शयति । सर्वज्ञनारायणनिर्मितत्वा- दपौरुषेयः सकलो ऽपि वेदः ।। स्वतः प्रमाणं निरपेक्षितत्वा- न्मानान्तरस्येति सुनिश्चितो ऽर्थः ॥ ८ ॥ सर्वज्ञेति । यः सर्वज्ञः सर्वविदिति श्रुतेः । भगवतः सर्व- ज्ञत्वं तथा, तस्माद्यज्ञात् सर्वत ऋचः सामानि जज्ञिर इति श्रुतेः, • अस्य महतो भूतस्य निश्वसितमेवैतघहग्वेद इत्यादि श्रुतेः, यस्य निश्वसितं वेदा इति स्मृतेः । निश्वसितन्यायेन नारायण- निर्मितत्वं वेदस्य । अत एवापौरुषेयत्वं चतुर्मुखपुरुषाधनिर्मित- त्वमित्यर्थः । चतुर्मुखोऽपि नारायणादेव वेदं पासवानित्याह श्रुतिः।
स्वानुभवादर्शः। यो वै प्रमाणं विदधाति पूर्व यो वै वेदांश्च पहिणोति तस्मै । तं ह देवात्मबुदिमकाशं मुमुक्षु शरणमहं प्रपद्य इति । वेदयत्यधिकारिणः कर्मब्रह्मणी इति वेदः स्वतः, प्रमाणं तच्च स्वप्रकाशनीयार्थ प्रमाणान्तरानपेक्षम्।यथा भिषजा हरितकी भ- क्षयेदित्युक्ते किमत्र प्रमाणमित्याकांक्षायामायुर्वेदवचनमदर्शनेन श्रोता प्रमाणान्तरनिरपेक्ष एव हरितकी भक्षयति ततश्च रोगनि- वृत्तिर्भवतीति सुनिश्चितोऽर्थः स्वानुभवसिद्ध इत्यर्थः। तथा स्व. कामो यतेति वाक्यश्रवणानन्तरं स्वर्गार्थी प्रमाणान्तरनिरपे- क्षतयैव यागे प्रवर्तते इत्यनुभवसिद्धं सर्वलोकप्रसिद्धं च ॥ ८ ॥ ननु स्वतःप्रमाणाद्वेदादेव फलसिद्धौ भवन्त्यां किं वि- चारस्य प्रयोजनमित्यत आह । स्वतः प्रमाणत्वमिदं श्रुतीनाम् विचारसापेक्षतया प्रणश्येत् ॥ अतो विचारस्य फलं प्रकल्प्यम् संदेहविभ्रान्तिविनाशमात्रम् ॥ ९ ॥ स्वतइति । यद्यपि विचारनिरपेक्षतयैव स्वतःप्रमाणवेदा द्रमात्मबुदिः फलं तथापि प्रतिबन्धके सति ततो न फलसिद्धिः अतः प्रतिबन्धकनित्यर्थ विचारो ऽपेक्षितः। तथा च न वेदस्य स्वतःप्रामाण्यभा इत्यर्थः । विचारो नाम तर्को मननात्मकः तेन प्रमेयगता सम्भावना निवर्तते । आत्मतत्वे सहस्रधा श्रुते- ऽपि देहेन्द्रियव्यतिरिक्त आत्मा नेति सम्भाव्यते इतीयमसम्भा- वना तमिवृत्तौ सत्यां सतो निदिध्यासनेन प्रमेयगताविपरीत- भावना निवर्तते । अतो विचारस्य मुख्यं फलं प्रमेयगतासंभा
स्वानुभवादर्शः
वनानिवृत्तिपरम्परया प्रमेयगतविपरीतभावनानिवृत्तिरपि । अत
उक्तं संदेहविभ्रांतिविनाशमात्रमिति ॥९॥
पूर्वोक्तमेव विवृणोति ।
स्त्रोत्पत्तिमात्रे सकलं विचार-
मपेक्षते चोपनिषद्वा मतिः ।।
सोत्पत्तितो मूलतमो निहन्ति
दीपो यथाऽन्यं सहकारिणं विना ॥ १० ॥
स्वोत्पत्तिमात्र इति । उपनिषद्भवा मतिरहं ब्रह्मास्मीत्यपरो-
अपमा, सा स्वोत्पत्तिमात्रे प्रतिबन्धकनिवर्तकं विचारं चकारान्नि-
दिध्यासनमप्यपेक्षते । सोत्पत्तितो मूलतमः मूलाज्ञानं ब्रह्मावरकं
निहन्ति । यथा दीपः स्वोत्पत्तिमात्रे निर्वातत्वाद्यपेक्षते ततश्चोत्पन्नः
सहकारिणं विनैव तमोऽधकारं निहन्ति तद्वदित्यर्थः। निहन्ती-
त्यत्रोपसर्गेण विरम्य व्यापारता नाऽस्तीति बोधितम् । आदौ
विद्योत्पद्यते पश्चादज्ञानं निवर्तते इति । तस्मादेवं नाऽस्ति या वि-
योत्पत्तिः सैवाज्ञाननवृत्तिरिति स्वसाक्षिकमिति भावः ॥१०॥
एवं मननात्मकेन विचारेण प्रमेयगताऽसम्भावना प्रति-
बन्धकीभूता निवर्तत इत्युक्तम् । संपति वादिविमतिपत्तियां
पदार्यविषयणीमसम्भावनां निवर्तयन्पदार्थद्वयगतामसम्भावना
दर्शयति--
पदार्थद्वयं दृक्च दृश्यं ततो ऽन्यत
पदार्थान्तरं नास्ति वेदान्तशास्त्रे ॥
दृशः किं स्वरूपं च दृश्यस्य किंवे-
त्यदोऽत्र द्वयं संविचार्य मुमुक्षोः ॥ ११ ॥
स्वानुभवादर्शः। ११ पदार्षद्वयमिति । येन सर्व विजानातीति श्रुतेः दृग्दृश्याति- रिक्त पदार्थान्तरं नास्ति। अन्यवादिकल्पितानां तत्तत्पदार्थाना- मनयोरन्तर्भावो बोद्धव्या। तथा हि वैशेषिकसप्तपदार्थानां षोड- शषपदार्थेष्वन्तर्भावस्तेषां च वेदान्तकल्पिते दृश्यपदार्थेऽन्तर्भावः । मूलमकृसिरविकृतिर्महदायाः प्रकृतिविकृतयः सप्त षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष इति ॥ पञ्चविंशतिपदार्थमध्ये मूलप्रकृत्यादिचतुर्विंशतिपदार्थानां दृश्येऽन्तर्भावः । सच्चिद्रूपः पुरुषः प्रत्यगात्मन्यन्तर्भूत इति पदा- र्थद्वय एव अन्यवादिकल्पितानामन्तर्भावो झेय इति । तत्र दृशो द्रष्टुः किं स्वरूपं सा कि सद्रूपा सच्चिद्रूपा वा सच्चिदानन्द- रूपा वा पुनश्च सा जीवाद्भिना अभिन्ना वा सगुणा निर्गुणा वेत्याधनेकसंशयनिरासपूर्वकं मुमुक्षुणा स्वरूपं विचार्यमित्यर्थः । तथा श्यं कि स्वरूपं सत्यमसत्यं वेति संशयनिरासोऽपि मुमु- क्षोरपेक्षित एवेत्यर्थः ॥ ११॥ उक्तवैपरीत्यबाधपूर्वक विचारकर्त्तव्यतामाह । यः संशयात्मा स विनश्यतीति श्रीकृष्णवाक्यान्निजसंशयादेः ॥ नाशाय धीस्वास्थ्यफलाय चैष स्वयं हि सम्यक् क्रियते विचारः ॥ १२ ॥ यइति । संशयात्मा विनश्यति सर्वपुरुषार्थभ्रष्टो भवतीति श्रीकृष्णवचनादपुरुषार्थत्वनिरासार्थ विचारेण निश्चयात्मकज्ञाने सति संशयनाशात् धीस्वास्थ्यफलमहं ब्रह्मास्मीति शानं भवती- त्यर्थः । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- १२ स्वानुभवादर्शः सितव्य इति श्रुतावात्मदर्शनमनूध तत्साधनत्वेन 'श्रवणादित्रय- मुपदिष्टम्।तत्र श्रवणस्य गुर्वधीनत्वात् तत्परायत्तत्वम् । मनननि- दिध्यासने तु स्वायत्ते भवतो ऽत उक्तं स्वयंहीति । सम्यक् श्रुत्यविरोधितयेत्यर्थः । श्रुतिमतः तर्को अनुसन्धीयतामित्याचा- योक्तेः अनुपदमेव वक्ष्यमाणत्वादेष इत्युक्तम् ॥ १२॥ नन्वदोत्रद्वयं संविचार्य मुमुक्षोरित्युक्तं तत्र मुमुक्षा नाम मो- क्षकामना सैव न सम्भवति । तथाहि प्रमाणादात्मस्वरूपा मुक्ति- यदि न ज्ञाता तत्र कामनैव न सम्भवति अज्ञाते कामनाविर- हात्, प्रमाणेन ज्ञाता चेत् मुतरां सा न सम्भवति सिद्ध इच्छा- विरहादित्यत आह । निरतिशयसुखं यत्प्रत्यगात्मस्वरूपं निरतिशयसुखं यन्मोक्षरूपं तदेव ॥ निरतिशयसुखार्थ सर्वलोकस्य वाञ्छा भवति च मनसः सा मानमुज्झित्य सर्वम् ॥१३॥ निरतिशयसुखमिति । न इच्छा कस्यापि प्रमाणादुत्पद्यते तस्या मनोधर्मत्वेन स्वत एवोत्पतेः । यञ्चोक्तम् प्रमाणादनाते इच्छैव न, हाते तु मुतरां न सिद्धे इच्छाविरहादिति । तत्रो- च्यो।आत्मनो नित्यापरोसत्वेन सिद्धत्वेऽपि निरतिशयसुखत्वे- नासिद्धत्वात् कामना सम्भवत्येव । सदुक्तं पासिके। न युक्तं पापना मुकौ पुंसां नास्तीति भाषितुम् । देशकालानवच्छिन्नसुखार्थित्वदर्शनादिति ॥ १३ ॥ पूर्वमीमांसफमते सर्ववेदस्य क्रियापरत्वे ते त्यौपनिषदं पु- रुपं पृच्छामीति बाधः प्रामाति तनिरासार्थ तत्माक्रिययैव सर्व- स्वानुभवादर्शः। १३ वेदस्य क्रियापरत्वं दक्षयति । आम्नायसूत्रे सकलं हि वे क्रियापरं जैमिनिराह यत्नात् ॥ न तन्मतं चारु निषेधवाक्ये क्रियापरत्वं न हि तदघटेत ॥ १४ ॥ आम्नायेति । आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तद्भूतानां क्रियात्वेन समन्वय इति सूत्रेणाऽऽम्नायस्य क्रिया- परत्वं सूचितं तन्मतं न चारु न युक्तम् । कुतः । तन्मते विधि- मन्त्रनामधेयनिषेधार्थवादैः पश्चात्मको वेद इति तत्मक्रिया निव- त्यर्थे निषेधवाक्ये क्रियापरत्वं न घटते तयोः स्थितिगतिवत् परस्परं विरोधात् । तथा च सर्वस्य वेदस्य क्रियापरत्वं न युक्त- मित्यर्थः॥१४॥ आनायस्य क्रियापरत्वे क्षणान्तरमप्याह । आत्मस्वरूपा हि विमुक्तिरुक्ताऽ विद्यानिवृत्या ह्युपलक्षिता या ॥ ज्ञानेन लम्या न च कर्मसाध्या ज्ञानं न लभ्यं क्रियया कदापि ॥ १५ ॥ मात्यस्वल्पेति। स एष सम्मसादोऽस्माच्छरीरात् समुत्याय पर ज्योतीरूपं सम्पच स्वेन स्वरूपेणाऽभिनिष्पयते स उत्तमः पुरुष इति श्रुत्याऽऽत्मस्वरूपा मुक्तिरुक्ता । सा च विस्मृतकण्ठ- चामीकरन्यायेनाऽज्ञानव्यवहितत्वाद् वेदान्तविज्ञानेनाऽविद्यानि- वृत्युपलक्षितान कर्मसाध्यान क्रियासाध्या सिद्धत्वात् नाऽतो वेद-
१४
स्वानुभवादः
स्य क्रियापरत्वमित्यर्थः। ननु माऽस्तु मुक्तिः क्रियासाध्या ज्ञानं
तु क्रियासाध्यं स्यादत आह । ज्ञानमिति । ज्ञानमपि कर्तुमक-
नुमन्यथाकमिशक्यत्वान क्रियासाध्यं तस्य प्रमाणप्रमेयाधीन-
वादित्यर्थः ॥ १५ ॥
सर्ववेदस्य क्रियापरत्वे वेदान्तविज्ञानसुनिश्चितार्था इतिश्रु-
तिविरोध दर्शयति ।
वेदान्तविज्ञानसुनिश्वितार्था
इतिश्रुतिर्वष्टि यथार्थभानात् ॥
ब्रह्मैव लोके समवाप्नुवन्ति
क्रियापरत्वं न ततोऽस्ति वेदे ॥ १६ ॥
वेदान्तेति । वेदानां ऋगादीनामन्ताः प्रान्ताः शिरोभागाः
प्रज्ञानं ब्रह्मेत्यादयस्तेषां विज्ञानं पदार्थशोधनपूर्वकं जीवब्रह्म-
क्यरूपतदर्थनिश्चयः तेन सुष्ठु सन्देहादिरहितं यथा स्यात् तथा
निश्चितोऽहं ब्रह्मास्मीतिरूपोऽर्थः परमार्थो यस्सः लोक्यते
प्रकाश्यते जडजातं येनेति लोकस्तस्याऽन्यप्रकाशकत्वासम्भवात्
स्वप्रकाशमित्यर्थः । शेषं स्पष्टम् ॥ १६ ॥
वेदव्यासस्तु वेदान्ताचार्यो वेदस्य काण्डप्रयात्मकत्वं दर्शयँ
स्तस्य विनियोमं दर्शयतीत्याह ।
चेतःशुद्धौ चेतसः स्थैर्यकार्ये
ज्ञानोत्पत्तौ चारु काण्डत्रयं यत् ॥
आम्नायस्याऽनुक्रमाद्वेदवेचा.
वेद व्यासस्त्वेकवाक्यत्वसिध्यै ॥ १७॥
. स्वानुभवादर्शः। १५ चेत इति । एवं विनियोगे श्रुतयः प्रमाणम् । तत्र तमेतं वेदाऽ- नुवचनेन ब्राह्मणा विविदिषति यझेन दानेन तपसा नाशफेनेति श्रुतिः। कर्मकाण्डस्य चित्तशुद्धिद्वारा विविदिषायां विनियोगमाह। एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्रया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति । श्रुतिरुपासनाकाण्डस्य चेतःस्थैर्ये विनियोगं दर्शयति । ततो ज्ञानकाण्डस्थवाक्यानि महावाक्यानि अध्यारोपापवादद्वारा ज्ञानोत्पत्तौ विनियोग दर्शयन्तीति यथायथमूधम् ।। १७ ।। एवं च वेदस्य स्वतःप्रामाण्यं प्रमाध्य तस्य व साक्षा त्परम्परया च ब्रह्मपरता संपदर्य तबलेन हशः किं स्वरूपमेव- मादि विचार आरभ्यते ॥ असङ्गस्य बन्धो न सम्भावनीयो न मोक्षोऽपि मोक्षस्य तत्पूर्वकत्वात् ।। आविद्या हि बन्धो निवृत्तिश्च तस्याः स मोक्षो ऽत्र सर्वस्तदर्थः प्रयत्नः ॥ १८ ॥ असङ्गस्येति । असङ्गो ह्यहं पुरुष इति श्रुतेरनुभूत्या चाs सङ्गस्याऽऽदौ बंध एव न संभवति मोक्षोऽपि न सम्भवति ।कुतः मोक्षस्य तत्पूर्वकत्वाद् बन्धाभावे मोक्षो ऽप्यसास्य न संभवती- त्यर्थः । अत एव श्रुतिः। न निरोधो न चोत्पतिर्न बन्धो न च साधकः । नमुमुक्षुर्न कै मुक्तिरित्येषा परमार्थतेति ॥ तर्हि को बंधः को वा मोक्ष इत्वाकाङ्क्षायामाह । अविधा स्वस्वरूपापरिज्ञानं निश्चयेन बंधस्तस्या निवृत्ति शो मोक्षस्तद.
१६ स्वानुभवादः र्थो महापुरुषार्थत्वात्सतां सर्वोऽपि प्रयनः। अभियुक्तरप्युक्तम् । स्वात्माज्ञानं कारणं बंधनस्य स्वात्मज्ञानात्तमित्तिय मुक्ति- रिति ॥ १८॥ अविद्यारूपस्य बंधस्या ऽनादित्वात्तत्रोपायचिन्तैव नास्ति अविवानिवृत्तिरूपमोक्षस्तूपायसाध्यो ऽत स्तत्रोपायं दर्शयति । अविद्यानिवृत्तिः प्रमाणेन साध्या प्रमाणं च वेदान्तवाक्यानि नाऽन्यत् ।। अविद्यानिवृत्तौ त्वयं ज्योतिरात्मा स्वतः सिद्ध आविर्भवेत्साधकानाम् ॥ १९ ॥ अविद्येति । अनावविद्यायाः निवृत्तिनाशः प्रमाणेन प्रमा- णजन्यज्ञानेनेत्यर्थः । ज्ञानाज्ञानयोर्विरोधादित्यर्थः । तदुक्तम् । अविद्याया अविद्यात्वमिदमेव हि लक्षणम् । मानयोगासहिष्णुत्वमन्यथा वस्तु सा भवेदिति । किं तत्र प्रमाणं येना विद्यानिवृत्तिस्तत्राह । प्रमाणं च वेदान्तवाक्यानि प्रज्ञानं ब्रह्म तत्व मसीत्यादीनि तत्वाऽऽवेद- कानि। लिसंख्याविभेदेऽपि विशेषणविशेप्यता। विभक्तिः पुनरेकैव विशेषणविशेष्ययोः ॥ इति वचनात्प्रमाणं वेदा इति नपुंसकत्वसंख्याभेदेऽपि विशेषणवि. शेष्यतोक्तानिनु प्रत्यक्षादीनामन्येषां प्रमाणानां सत्वात्ममाणं च वेदान्तवाक्यानीति कथमित्यत आहानान्यदिति । अन्यानि प्रमा- णानि व्यावहारिकाणि प्रत्यक्षादीन्यविद्यानिवृत्तौ न समर्थानि तेषां पराग्विषयत्वेन तस्बावेदकस्वाभावादित्यर्थः। तदुक्तं । सर्व स्वानुभवादर्शः। पराग्विषयमेव हि मानजातं वेदावसानवचनानि च वर्जयित्वेति। किंचजहाविषयं मानं स्वप्रमेयस्य कर्मत्वेन बोधकम् । महावाक्यं तु स्वपमेयस्य विनैव कर्मत्वमवबोधयितुं समर्थमतो वेदान्तवाक्या- न्येवाऽविद्यानिवृत्तौ प्रमाणं नान्यदित्यर्थः । तथा च श्रुतिः । पराशि खानि व्यतृणवत् स्वयम्भुवस्तस्मात् पराङः पश्यति नान्तरात्मभिति । पराङ्पराभूतान्यनात्मभूतान् शब्दादीन् पश्य- ति उपलभते उपलब्धानान्तरात्मनान्तरात्मानमिति श्रुत्यर्थः । एतेन वेदान्ता अद्वितीयब्रमणि प्रमाणं न घेति प्रमाणगतास- म्भावनानिवृत्तिरपि बोदव्या । तथा च प्रमाणजन्यज्ञानेना ज्ञानानिवृत्तौ मेघापायेंऽशुमानिव स्वयज्योतिः स्वप्रकाश आस्मा साधकानामधिकारिणामाविर्भवेत् । स्वतःसिद्ध इत्यनेन स्वर्गादिवनाऽऽत्मस्वरूपा मुक्तिर्जन्येति दर्शितम् । विमुक्तश्च विमु- च्यत इतिश्रुतेः ॥ १९॥ सर्वप्रक्रियाग्रन्थेष्वन्तःकरणवृत्यवच्छिन्नं चैतन्यं प्रमाण- मित्युक्तम् । अत्र तु वेदान्तवाक्यानीत्युक्तम् । तथाच ममाण- विषयविरोध आभासते तदर्थं मुख्यौपचारिकभेदात् प्रमाणं द्विविध, मुख्यमौपचारिकं च प्रमाणमिति विविच्य दर्शयति । धीवृत्यवच्छिन्नचितिः प्रमाणम् तत्साधनस्वादितरत्प्रमाणम् ॥ तत्रोपचारात रवल मानशब्दो यथोक्तमेव ॥ २०॥ धीति । अत्रेयं प्रक्रिया । एकमेव चैतन्यमुपातिभेदात सप्तविधम् । शुद्धचैतन्यम्, ईश्वरचैतन्यं, जीवचैतन्यं, प्रमोहचैतन्यं, प्रमाणचैतन्यं, विषयचैतन्यं, फसचैतन्यं चेति । तत्रसर्वोपाधिवि- मुख्यं प्रमाणं तु ३ १८ स्वानुभवादः निर्मुक्तं शुद्धचैतन्यम् , मायोपहितचैतन्यमश्विरचैतन्यम् , अवि- घोपहितचैतन्यं जीवचैतन्यम् , जीवेशावाभासेन करोति माया- चाऽविद्या च स्वयमेव भवतीति तापिनीयश्रुतेः।अन्तःकरणावच्छिवं चैतन्यं प्रमातृचैतन्यम्, अन्तःकरणवृत्यवच्छिन्नं चैतन्यं प्रमाण- चैतन्यम् , विषयावच्छिन्नं चैतन्यं विषयचैतन्यम् , अंतःकरणकृत्यव- च्छिन्नं चैतन्यं विषयचतन्याभिन्न तत्फलचैतन्यमित्युच्यते । तत्र- वृत्तिविषययोर्युगपदेकदेशावस्थानेन तदुपहितयोश्चैतन्ययोरप्य- भेदो भवति । तथाहि । यथा तडागोदकं च्छिद्राभिर्गत्य कुल्या- द्वारेण केदारं प्रविश्य चतुष्कोणाद्याकारेण परिणमते त.द्रिय- विषयसंयोगानंतरमंतःकरणं चक्षुरादिद्वारा विषयदेशं गत्वा तेन विषयेण संयुज्यते, पश्चात्तत्तदाकारेण परिणमते । सोऽयंपरिणामो वृत्तिस्तस्यां वृत्तौ विषयचैतन्यं प्रतिफलति तदा वृत्तिविषययो- युगपद्देशावस्थत्वेन तदुपहितचैतन्यभेदस्याऽप्रयोजकत्वात् । प्रमाणचैतन्य विषयचतन्याभिन्नं भवति सेयं प्रत्यक्षप्रमा । तत्र वृत्या विषयो नाऽस्तीत्यसत्वापादकमावरणं निवर्त्तते, चैतन्येन तु विषयो नाऽऽभातीत्यभानापादकमावरणं निवर्तते । तत्र प्रमय च सावरणमज्ञानं मौढ्यापादकं निवर्त्तते ततो विषयः स्फुर्रा साक्षिणा। अन्तःकरणोपहितं चैतन्यं साक्षीति प्रक्रिया व्यवहारे, नयेयं प्रक्रिया स्वकपोलकल्पितेतिवाच्यम्।श्रुत्युक्तत्वात् । तथाच- श्रुतिः। यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादि । तत्रा ऽविद्यादशायामखण्डचैतन्यमुनाधिनाद्वैतमिव भवति द्वितीय मिव भवति तदा इतरः प्रमाता इतरंविषयं पश्यति जानातिपश्य- तीति क्रियापदं क्रिया चा ऽन्तःकरणवृतिरूपा अन्तःकरणस्य परिणामित्वात् । तथा चोक्तमाचार्यैः । आत्मनः सच्चिदंशश्च बुद्धेत्तिरितिद्वयम् । . - स्वानुभवादः। संयोज्य चाऽविवेकेन जानामाीतिप्रवर्तते ।। आत्मनस्तु क्रिया नाऽस्ति बुद्धे बर्बोधो न जातु चित् । जीवास्वरूपमज्ञाय ज्ञाता द्रष्टेति मुखतीति ।। तथा चाऽन्तःकरणवृत्यवच्छिन्नं चैतन्यं मुख्यं प्रमा- णम् । या वृत्तिरुत्पद्यते सा चैतन्याभासखचितवोत्प- धते । यथा घटादिरुत्पद्यते यः स आकाशव्याप्त एवो- त्पद्यते तथा वृतिरपि । अत. उक्तं धीहत्यवच्छिवं चैतन्य- मिति । तथा च धीवृत्यवच्छिन्नचैतन्यं मुख्यं प्रमाणं, तत्साधन- त्वात् वृत्तिकरणत्वादितरच्चक्षुरादि प्रमाणमौपचारिकमित्यर्थः । तथा च न पूर्वोक्तो विरोधाभासः । अज्ञातज्ञापकत्वरूपं प्रमाणत्व मुभयसाधारणम् । तत्र व्यवहारे यावद्वाधं प्रामाण्यमिति न्याया प्रमाणत्वम्।तेषां वस्तुत अज्ञातज्ञापकत्वाभावात्। ननु घटोऽयं घटो- ऽयमिति धारावाहिकज्ञाने अज्ञातज्ञापकत्वाभावात्तवेदं लक्षणम- व्याप्तमिति चेन्न । धारावाहिकबुद्धिस्थले न ज्ञानभेदः किन्तु यावद्धटस्फुरणं तावद्धटाकारान्तःकरणवृत्तिरेकैव न तु नाना । वृत्तेः स्वविरोधिवृत्त्यन्तरोत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात् । तथा च तत्र प्रतिफलितचैतन्यरूपघटादिज्ञानमपि तत्र तत्काली- नमेकमेवेति ना ऽव्याप्तिः । तस्मादज्ञातज्ञापकत्वं प्रमाणलक्षणं. युक्तम् ॥ २० ॥ अन्तःकरणकृत्यवच्छिन्नचैतन्यरूपप्रमाणजन्यं यद्दत्तिज्ञान बद्तं यत्प्रामाण्यं तत्स्वत एवं गृह्यत इत्याह । प्रामाण्यं यत्तद्गतं तत्स्वतो हि ग्राह्यं नान्यैरेष नो राजमार्गः ॥ अप्रामाण्यं गृह्यते तत्परस्मा- स्वानुभवादशः छेषं ज्ञेयं त्वाकरस्थाहिचारात् ॥ २१ ॥ प्रामाण्यमिति।यथा अनभ्यासदशायांप्रथमोत्पन्नं यजलज्ञानं तत्पमाणमप्रमाणं वेति प्रमाणगतासम्भावना प्रमाणसंशय इत्युच्यते तथा वेदान्ता अद्वितीये ब्रह्मणि प्रमाणं न वेति संशयः स च प्रामाण्यनिश्चयात् निवर्त्तते । तत्र प्रामाण्यनिश्चयस्तु स्वत एव । प्रामाण्यं नाम तद्वति तत्यकारकत्वम् । तस्य स्वतस्त्वनाम याव- स्वाश्रयग्राहकग्राह्यत्वम्।स्वाश्रयो वृत्तिज्ञानं तद्वाहकं साक्षिचैतन्यम् दृष्टे ईष्टारमिति श्रुतेः । तेन तद्गतं वृचिज्ञानगतं प्रामाण्यं स्वत एव गृह्यत इति स्वतःप्रामाण्यं श्रुत्यनुभवमूलात् । अप्रामाण्यं तु परतो गृह्यते।तञ्च तदभाववति तत्मकारकत्वम्।तस्य वृत्तिज्ञानानुपतित्वेन साक्षिणा ग्रहीतुमशक्यत्वात्परत एषामामाण्यं गृह्यते इत्यर्थः । प्रामाण्यस्वतस्त्वपक्षे संशयो दोषवशादुपपद्यत इत्यादिविचा- र आकरतो भाष्यादिग्रन्थतो ज्ञेयः, अत्रविस्तरभयानोच्यत इत्यर्थः । प्रामाण्यस्वतस्त्वप्रक्रिया न स्वकपोलकल्पितेत्याह, एष नो राजमार्ग इति श्रुत्युक्तत्वात् । तत्र यन्त्र मनसा मनुते ये माहुर्मनो मतमिति श्रुतेः । मनः साक्षिभास्यं एवं मनसः सा- क्षिभास्यत्वे सिद्धे । कामः संकल्पो विचिकित्सा श्रद्धा । श्रद्धा धृतिरकृतिधीरताऽधीरेतेति तत्सर्व मन एवेति श्रुतेः । धीश- ब्देन ज्ञानं मनोधर्मस्तदपि साक्षिभास्यं तद्गतं यत् प्रामाण्यं त- दपि साक्षिभास्यमेवंरीत्या प्रामाण्यं स्वत एव गृह्यत इति एष नो ऽस्माकं वेदान्तिनां राजमार्गः तस्करतर्कपराहतो न भवती- त्युक्तामतिदिक् ॥२१॥ अविद्यानिवृत्तिः प्रमाणेन साध्येत्याधुक्तं वदनेन श्लोकेन स्पष्टीक्रियते । ।
स्वानुभवादर्शः। ब्रह्माकारा तत्वमस्यादिवाक्यै- - धीवृत्तिब्रह्मविद्याभिधाना॥ उक्ता वेदे मूलमज्ञानमेषा दग्ध्वाऽऽत्मानं घातयेत्पर्णवह्नौ ॥ २२ ॥ ब्रह्मेति । कारणभूतैस्तत्वमस्यादिमहावाक्यैर्या ब्रह्माका- राधीचिरुत्पद्यते सा ब्रह्मविद्या उक्तति वेद । तयो बेद निहितं गुहायां परमे व्योममिति श्रुतौ । अस्याः श्रुतेरर्थः । तत्सर्व वे. दान्तप्रसिद्धं ब्रह्म यः साधनचतुष्टयसंपमो ऽधिकारी वेद सा- क्षात्करोति निहितं स्थितं तद्वत्युपलभ्यमानत्वात् तत्र निहितो- क्तिः, गुहायां बुद्धौ परमे प्रकृष्टे व्योमन् व्योम्नि हृदयपुण्डरि- कान्तहृदयाकाशेऽत्र वर्तमानयुद्धावित्यर्थः। एषा ब्रह्मविधेति अ- भिधानं नाम यस्याः सा तथा मूलमज्ञानमधिकारिणो ब्रह्मत्वा- वरकमज्ञानमावरणविक्षेपशक्त्यात्मक भावरूपं त्रिगुणं दग्ध्वा प्र- दायाऽऽत्मानमपि स्वां वृत्तिमपि पूर्णवह्नौ अखण्डे ब्रमणि ब्रह्मा- ग्नौ घातयेभाशयेदित्यर्थः । तथा च चरमत्तिक्षये यथा द्विती- यमुखाश्रयदर्पणाभावे मुखमात्रमवशिष्यते तथाऽखण्डब्रह्मा ऽव- शिष्यते । । पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदुच्यते । पूर्णस्य पूर्णमादय पूर्णमेवा ऽवशिष्यते इति ॥ श्रुतेरितिभावः । उक्तं हस्वामलकाचार्यैः । यथादर्पणाभाव आभास हानी मुखं विद्यते कल्पनाहीनमेकम् । तथाधीवियोगे निरांभासको यः स नित्योपलब्धिस्वरूपो ऽहमात्मेति ॥ २२ ॥ 17560 २२ स्वानुभवादः ननु द्विविधमावरणमसत्वापादकमेकमपरमभानापादकम् । तत्राऽऽधं परोक्षज्ञानेन नश्यति द्वितीयमपरोक्षप्रमयैव नश्यति । तदुक्तम् । परोक्षज्ञानतो नश्येदसत्वावृत्तिहेतुता । अपरोक्षधिया नश्येदभानावृत्तिहेतुतेति ॥ एवं स्थितौ वाक्यानाऽपरोक्षज्ञानमुत्पद्यते कुत्रा ऽप्य- दृष्टत्वात् । तथा सति तत्वमस्यादिवाक्यानाऽपरोक्षपमा ता विना अभानापादकावरणनाशाभावात् न ब्रह्माऽहमस्मीत्यपरो- क्षज्ञानमुत्पद्यत इत्यत आह । अथत्तत्वमसीतिवेदवाक्या- दपरोक्षैव मतिर्हि भेदहंत्री ॥ दशमस्त्वमसीति लोकवाक्या- दशमोऽस्मीत्यपरोक्षधीर्यथाऽत्र ॥ २३ ॥ अथेति । अथ चेद् वाक्यानापरोक्षप्रमा जायत इति मन्य- से चेत् तर्हि, दशमस्त्वमसीत्यत्र वाक्यादपरोक्षप्रमा दृष्टा तथा प्रकृतेऽपि तत्वमसीतिमहावाक्यादपरोक्षप्रमोत्पद्यते । तथा चा- भानापादकावरणनाशादहं ब्रह्मास्मीत्यपरोक्षपमा घटत इत्यर्थः । शब्दप्रमाणं तु यत्र विषयः परोक्षस्तत्र परोक्षप्रमामेवोत्पादय- ति । यत्र चाऽपरोक्षो विषयस्तत्रापरोक्षप्रमा जनयति तस्यो- भयसाधारणत्वादिति भावः ॥ २३ ॥ नन्विन्द्रियजन्यं ज्ञानमपरोक्षं न प्रमाणान्तरजन्यं ज्ञानम- परोक्षं दृष्टमतो वेदान्तशास्त्रोक्तमपरोक्षलक्षणमाह- यदनावृतचित्तदात्मताऽदो स्वानुभवादः। २३ ह्यपरोक्षत्वमिह ब्रुवन्ति सन्तः ॥ अत एव जडार्थसंविदेक्या- दपरोक्षं न जडेषु तत्स्वतोऽस्ति ।॥ २४ ॥ यदिति । इह वेदान्तशास्त्रे यत् या अनावृतचिदनावृतसंवि- त्तस्यास्तदात्मता, तदात्मनो भावस्तदात्मता तादात्म्यमिति यावत् । तदपरोक्षत्वं सन्तो वेदान्तनिपुणाचार्याः सुवन्ति नेन्द्रि- यजन्यं ज्ञानमपरोक्षम् । तस्याभावप्रत्यक्षे मनसो ऽनिन्द्रियत्वेन सुखाद्यपरोक्षे च व्यभिचारादिति योजना । अत्रा ऽयमयः । अनावृतसंवित्तादात्म्यमपरोक्षत्वमनावृत्तसंवित्साक्षिचैतन्यमन्तः- करणोपहितं चैतन्यं साक्षी तस्याऽऽवृतत्वे जगदान्ध्यप्रसङ्गः । तादात्म्यं नाम तद्भिन्नत्वे सति तद्भिन्नसत्ताकत्वम्।तथा चदशम- स्त्वमसीत्यत्र सामानाधिकरण्यादशमस्य त्वं पदार्थाभिन्नतया अपरोक्षत्वेन वाक्यादपरोक्षणप्रैव जायते ऽहं दशमोऽस्मीति । ननु न वाक्यादपरोक्षज्ञानं मनसा तत्साक्षात्कार इति चेन्न । सिद्धान्ते मनसोऽनिन्द्रियत्वस्योक्तत्वात् । वृत्युपादानत्वेन करणत्वाऽयो- गाच्च । प्रमाणजन्यापरोक्षज्ञानस्यैव भ्रमनिवर्तकत्वाच । मन- सोऽनिन्द्रियत्वं तु एतस्मा जायते प्राणो मनः सर्वेन्द्रियाणि चेति । श्रुते यम् । सुखादिसाक्षात्कारस्य चाऽप्रमात्वमिष्टमेव तस्य प्रतीतिकत्वात् । एवं तत्वमसीत्यापि तत्पदलक्ष्यस्य ब्रह्मण स्त्वम्पदलक्ष्यसाक्ष्यभिन्नतया अनाहतवित्तादात्म्याभित्या- परोक्षत्वेन शोधितत्वम्पदार्थस्या ऽधिकारिणो मनननिदिध्या- सनसंस्कृतान्तःकरणसहकृतमहावाक्यादहं ब्रह्मास्मीत्यपरोक्षप्रमा जायत इति । अत एवेति । अनावृतसंवित्तादात्म्यमपरोक्षत्वमत स्वानुभवादर्शः एव हेतोरन्तःकरणवृत्यवच्छिनचैतन्यस्येति शेषस्तस्य जडार्थ- संविदैक्यात् । जडार्थाः घटादयः तदवच्छिमा या संविचया सहैक्यादेकलोलीभावात् । अनावृतसंवित्तादात्म्यरूपमपरोक्षत्वं व्यावहारिकं तजडेषु घटादिषु न स्वतो नास्ति जडाजडयोर- भिन्नसत्ताकत्वाभावात् किन्तु घटादयो अविद्यापच्छिमचैतन्ये अविद्याकल्पिता एव भासन्त इत्यर्थः । तेषामधिष्ठानपारोक्ष्येणा ऽपरोक्ष न स्वत इति फलितोऽर्थः ॥ २४ ॥ एतदेव विकृणोति । अधिष्ठानसत्वेन तस्याऽस्ति सत्व. मधिष्ठानभानेन तस्यास्तिभानम् ॥ अतः कल्पितत्वं जडार्थेषु युक्तम् यथा शुक्तिरूप्ये च रंगे च तद्वत् ॥ २५ ॥ अधिष्ठानेति । यथा सादृश्याच्छुक्तिरजतभ्रमस्तथा युक्ती कचिद्रभ्रमोऽपि दृष्टस्तद्वदित्यर्थः । शेषं स्पष्टम् ॥ २५ ।। ननु विषयावच्छिन्नब्रामचैतन्यस्य मृत्यवच्छिन्नप्रमाणचैत- न्यस्य चैंकलोलीभावादनावृतसंवित्तादात्म्यरूपमपरोक्षम्भवति चे तर्हि, ब्रह्मबुद्धिःसम्पनैव भवति । सद्यो मोक्षमसङ्गः सर्वेषा- मित्यत आह। विशेषस्त्वयं तत्वमस्यादिवाक्या- द्विशिष्टत्वहान्या विशुद्धापरोक्ष्यम् ॥ घटायर्थसंविघटाद्यर्थमिश्रा ततो नास्ति तस्यां हि सद्यो विमुक्तिः ॥ २६ ॥ विशेष इति। तत्वमस्यादिवाक्यानागलक्षणया विशेषणांश- ॥
२५ स्वानुभवादर्शः। परित्यागेन त्वम्पदलक्ष्यमात्मनो ऽब्रह्मत्वनिवृत्तौ तत्पदलक्ष्यस्य च परोक्षत्वनिवृत्तौ विशुद्धापरोक्ष्यमन्यानुपरक्तचैतन्यस्यानात- संवित्तादात्म्यरूपमपरोक्षत्वं भवति । यस्य सर्वमात्मैवाऽभूदि- ति श्रुतेः । प्रमाणप्रमेयादिव्यवहारहीनं भवतीत्यर्थः । घटाद्यर्थ- संवित्तु घटाधर्थमिश्रा आविधफजडपदार्थोपरक्ता भवति घट जानामीति प्रतीतेः । प्रमाणप्रमेयस्फुरणातस्य हेतोर्न सद्यो मुक्तिः अन्यानुपरक्तचैतन्यमानस्यैव मोक्षहेतुत्वादित्यर्थः ॥ २६ ॥ ननु जातायामपि ब्रह्मात्मबुद्धौ बाधितमपि द्वैतं भासते एव निर्विशेषमन्यानुपरक्तं चैतन्यं क दृष्टमितिचेत् तत्राह । समाधिकाले न जडं समीक्षते स्वात्मा स्वभूमत्वमुपागतस्तदा ॥ व्युत्थानकाले सकलं बहिः स्थितं प्रबाधितं पश्यति चोक्तरीतितः २७ समाधिकाले इति ॥ असम्मज्ञातसमाधिकाले जहं कल्पितं न पश्यति तदानीं स्वात्मा सर्ववृत्तिनिरोधात् स्वम्भूमत्वं स्वा- भाविक भूमस्वरूपत्वं प्राप्त इत्यर्थः । “यत्र नान्यत् पश्यति ना-, ऽन्यत् शृणोति नान्यद्विजानाति सभूमेति" श्रुतेः । अत एवो- तं सूत्रकृता अपि संराधने प्रत्यक्षानुमानाभ्यामिति । संराधने समाधिकालेऽपि प्रत्यक्षं श्रुतिः, अनुमानं स्मृतिस्ताभ्यामुक्त- त्वात् । निर्विशेषमात्मानं पश्यतीति सूत्रार्थः । तत्र श्रुतिः "मान- प्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान इति"। स्मृतिरपि । यं विनिद्रा जितवासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः इति ।
स्वानुभवादर्भः ध्यानेनाऽत्मनि पश्यन्ति केचिदात्मानमात्मनेति भगवतोक्तश्चे- त्यर्थः।देहनिर्वाहार्थं व्युत्थानकाले प्रकर्षेण बाधितमधिष्ठानसत्वेन तस्याऽस्ति सत्वमित्यायुक्तरीत्या वक्ष्यमाणरीत्या च पश्यती- त्यर्थः ॥ २७॥ उक्तसमाधि लक्षयति ॥ सदपि चित्तमदोऽसदिव स्थितम् भवति यत्र सुसाधनतो नृणाम् ॥ स हि समाधिरितीह सुलक्षितः परमशर्मपदं परमार्थतः ॥ २८ ॥ सदपीति । सुतरां यमनियमाग्रष्टांगसाधनैः सदपि चित्तं सर्ववृत्तिनिरोधादसदिव स्थितं निश्चलं भवति स समाधिरिति इह व्यवहारभूमौ हीति विद्वत्मसिद्धः सुलक्षितः सुष्टु शोभनत्वेन लक्षित उक्तः।तथा च सूत्रम् तत्तदेवार्थमात्रनिर्भासस्वरूपशून्यामिव समाधिरिति । तादृशं चित्तं परमशर्मपदं परमं निरितशयं शर्म सुखं, प्रपद्यते प्राप्यते ऽनेनेति पदं परमार्थतो अकृत्रिममित्यर्थः। समाधिनिधूतमलस्य चेतसो निवेशितस्या ऽऽत्मनि यत्सुखं भवेत् । न तद्विरा वर्णयितुं सुशक्यते स्वयं यदन्तःकरणेन गृह्यत इति श्रुतेः । सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियमिति गीतोक्तेश्च॥२८॥ वक्ष्यमाणरीत्या बाधितं पश्यतीत्युक्तं तदेवानुभवानुवादेन दर्शयति । अघटनघटनापटीयसीयम् २७ स्वानुभवादर्शः। यदुपतिदेववरस्य शक्तिरुच्चैः ॥ क च बत रशना क सर्पभानम् क च रविरर्क इह द्वितीयभानम् ॥ २९ ॥ अघटनेति ॥ इयं समस्तनामरूपात्मकप्रपश्चाकारेण परिणता श्रीकृष्णस्य शक्तिः सामर्थ्यविशेषः । “देवात्मशक्ति स्वगुणैर्निरू- ढामिति"श्रुतेः यदुपतीत्युक्तम्।एतेन तस्याः परतन्त्रत्त्वमुद्धोषितम् । उच्चैः मेरोरिव भगवच्छरणतां विना अनुल्लकनीया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त इति स्मृतेः । तस्याः प्रभावं दर्श- यति । अघटनं केनाऽपि कर्तुमशक्यं तस्य घटना रचना तस्यां पटीयसी कुशलेत्यर्थः । एतेन विवर्त्तवादः प्रदर्शितः । अतत्वि- कोऽन्यथाभावप्रदर्शनात्पटीयस्त्वमेव दर्शयति । बत इति खेदे। रशना रज्जुविशेषः क तस्यामधिष्ठानभूतायां लौकिकसामग्यभावे ऽपिक सर्पस्तस्य भानं च केत्यर्थः । अयम्भावः । पुरोवर्ती- न्द्रियसनिकर्षानन्तरमिदमाकारहत्तौ सत्यां इदन्त्वावच्छिन्न- चैतन्यनिष्ठा रज्जुत्वाकारिका अविद्या सादृश्यदर्शनसमुद्भूत- संस्कारसहकृता सती सर्पाकारेण सर्पज्ञानाकारेण च स्वयंपरि- णम्य स्वपटीयस्त्वं दर्शयतीति।चेत्यपरम् ।गगनस्थोरविरेकः द्वाद- शरव्यादौ द्वितीयविदर्शनं केति। यदुपतिदेववरस्य शक्तिरित्य- नेन भोजयितेश्वरो दर्शितः । क च वत रशनेत्यनेन भोग्यं द- र्शितं । क चरविरेक इत्यादिना भगवत् प्रतिबिम्बो जीवो भोक्ते- ति त्रिविधो भेदभ्रमो भगवच्छक्तिमूलो ऽनिर्वचनीय एवं रीत्या वाधितं पश्यतीत्यर्थः ॥ २९ ॥ पुनश्च स्वानुभवानुवादेन प्रपश्चस्य, बाधितत्वं दर्शयति पाभिः पद्यैः।
२८ स्वानुभवादर्शः व च परमसुखं निजस्वरूपम् क च मम दुःखपरम्पराविलासः ॥ क च मम विभुता क कर्मदैन्यम् क च मम तेन बभूव पाशबन्धः ॥ ३ ॥ क चेति । परमसुखदुःखपरम्पराविलासयोस्तथा विभुता- कर्मदैन्ययोः परस्परात्यन्तविरुद्धयोः सम्बन्धघटना किमन्यन्मा- याया अघटनघटनापटीयस्त्वादितिभावः । बभूवेति पदस्याग्रिम- श्लोकेऽपि सम्बन्धो बोध्यः शेषं स्पष्टम् ॥ ३० ॥ क च मम चितिता क तच्च मौढ्यम् शिव ! शिव ! किं करवाणि तन्न मेऽस्ति ॥ क च मम सुखरूपताऽनुभूतेः क च मम बाह्यपदार्थशर्मवाञ्च्छा ॥ ३१ ॥ केति ॥ चितिता निर्विषयज्ञानस्वरूपता तत्र मौढ्यमज्ञान- केति शिव शिव इति खेदे । तदज्ञानं मम नास्ति रवाविव तमो बोधात्पूर्वमहमन इत्यादि मायया दर्शितं तत्र किमहं करवाणि तस्याः पावल्यादित्यर्थः ॥ ३१ ॥ क्व च बत निरहंकृतिर्ममात्मा क्व च तनुषु प्रजडास्वहंकृतिमें ॥ क्व च मम ममताविहीनतेयम् क्व च ममता गृहपुत्रबान्धबादौ ॥ ३२॥ कचेति । ममाऽऽत्मेति राहोः शिर इतिवत्कल्पनया षष्ठी। :
स्वानुभवादर्शः। २९ तनुष्विति बहुवचनं एकस्यैवाऽऽत्मनो अतीतानागतानकदेहा- भिप्रायं अन्यथा पूर्वानुभूतपदार्थस्मृतिं विना जननीस्तनपानाय मृगशावकादेः प्रवृत्तिर्न स्यात् ॥ ३२ ॥ क्व च मम निरुपाधि रूपमेकं क्व च म उपाधिकृतस्त्वनेकभेदः ॥ क्व च मम सविशेषतानिरासः क्व च म उपाधिकृतं विशेषभानम् ॥ ३३ ॥ कचेति ॥ तत्र को मोहः कः शोक एकत्वमनुपश्यत इति श्रुतेः । निरुधिकमेव रूपंक। एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति ॥ उपाधिकृतो भेदः क । दृष्टमस्पर्शमरूपमव्ययमित्यादिश्रुति- भिः । तथास्थूलमना एवेत्यादिभिश्च सविशेषत्वनिरासः केत्या- दयः श्रुतयो जेयाः॥ ३३ ॥ क्व च ममासुविरागितास्वरूपम् क्वं च मम कामविलासिनीषु चित्तम् ॥ क्व च मम न हि बन्धनं न मोक्षः क्व च मम बन्धनमोक्षणप्रवादः ॥ ३४ ॥ केति ॥ शास्त्रे लोके च प्रकर्षण वादः कथनमित्यर्थः । उभावपि श्लोको स्पष्टाौँ ॥ ३४ ॥ किमेतावतेत्यत आह- अज्ञानमेतत्सकलं व्यलीकम् ३० स्वानुभवादर्शः तजं सुखं दुःखमपि व्यलोकम् ॥ मृगोदकं सर्वमपि व्यलीकम् तज्जास्तरङ्गा अपि ते व्यलीकाः ॥ ३५ ॥ अज्ञानमिति ॥ एतत् सर्वं पूर्वोक्तं दुःखपरम्पराविलासा- दिकमखण्डैकरसे नित्यनिरतिशयानन्दस्वरूपे चिन्मात्राश्रयवि- षयत्रिगुणात्मके भावरूपे आवरणविक्षेपायनेकशक्त्यात्मके, जग- ति जडरूपेणाऽनुगते पुरुषे मौढ्यरूपेणा ऽनुगतमपवर्गपरिपन्थि अहमज्ञइति प्रतीतावध्यस्ततया भासमानत्वायलीकं, तजं स- साधनं मुखं दुःखमपि व्यलीकं, तयोः सत्यत्वे मोक्षप्रवृत्तिरेव न स्यात् । न हि सत्यं निवर्त्तत इति न्यायादित्यर्थः । यथा मृ- गोदकं सर्वमप्यंशांशिभावरहितं व्यलीकं तत्कार्यन्तरङ्गादि- कमपि व्यलोकं तथेदमज्ञानं तत्कार्यं च मृषेत्यर्थः । नन्वज्ञान- स्य भावरूपत्वे किं प्रमाणमितिचेच्छृणु । श्रुतिं तदनुकूला युक्तिं चाऽवधारय । “मायां तु प्रकृति विद्यान् मायिनं तु महेश्वरमिति श्रुतेः। जगत्परिणामोपादानत्वात् प्रकृतिर्नाऽभावरूपा। नह्यभावः परिणमते अतो नाऽभावरूपम्। किञ्च अहमज्ञ इति प्रतीतौ प्रति- योगिभानमन्तरेणैव भासमानत्वात् नाऽभावरूपं, तस्माद् यथा- धर्मविरुद्धो अधर्मो भावरूपो दुःखकारणं तथेदमज्ञानमपि भाव- रूपं दुःखकारणम् । उक्तं च। 1793e जाज्यं जगत्यनुगतं खलु भावरूपम् मौढ्यं च पुंगतमिति प्रतिभाति तद्वत् । जाड्यं च मौढ्यमिति वाऽनुभवप्रसिद्धम् अज्ञानमाहुरपवर्गपिधानदक्षमिति । नन्वज्ञानस्य भावरूपत्वे किं प्रमाणभूतं चेकुति तदनु- स्वानुभवादर्शः। ३१ कूलां युक्तिं च अवधारयेदिति ॥ ३५ ॥ मनु सकार्यमज्ञानं मृषा चेत् तथापि प्रतीयते कथं तस्या- पलापः कर्तुं शक्यइत्यत आह- सामग्रिका यावदिहास्ति भाने प्रभासतां नाम मृषा मृगोदा ॥ प्रारब्धवेगात्सुखदुःखभानम् भूयात्तथा नो न हि कापि हानिः ॥ ३६॥ सामग्रिकेति । यथा मृगोदकमूषरभूमौ मृषात्वेन बहुशः प्रतीतमपि यावत्सामग्रिकासूर्यकिरणादिरूपा तावत्पर्यन्तं भासते तावता न तस्य सत्यत्वं वक्तुं शक्यमेवमधिष्ठानमज्ञानेन, पप- आहेतुभूतमूलाज्ञाननिवृतावपि तत्कार्य सुखदुःखसाक्षात्कारः प्रारब्धरूपसामग्रिवशाद् भासतां नाम न घेतावता नोऽस्माकम- ज्ञानं तत्कार्यप्रपञ्चे सत्यत्वबुद्धिरूपा हानिर्नास्त्येवेत्यर्थः । उक्तं च । उत्खातदंष्ट्रोरगवदविद्या किं करिष्यतीति, न हि त- दपलापं ब्रूमः किन्तु सकार्यमज्ञानं मृषेति म इति ॥ ३६ ॥ भ्रान्त्या कृतानां खलु कर्मणां मया विपाक एवं बहुधाऽनुभूयते ॥ भ्रान्तिनिवृत्तैव तथापि कर्म प्रारब्धमेतन्नहि मुञ्चतीह ॥ ३७॥ . भ्रान्त्येति । भ्रान्तिः सत्कार्य मूलाज्ञानं ततः कामस्ततः कर्माकर्मविकर्मरूपाणि कर्माणि मया कृतानि तेषां विपाको व- हुधा बहुपकारमनुभूयते । कर्मविपाकस्तु पतन्जलिनोक्तः ।
३२ स्वानुभवादर्शः सति मूले तद्विपाको जात्यायु गाः ते हादपरितापफलाः पु- ण्यहेतुत्वादितिसूत्रेण । एवं सति भ्रान्तिनिवृत्तैव तथाऽपीह देहे प्रारब्धं कर्म मां हीति निश्चयेन न मुश्चतीत्यर्थः । ननूपा- दाननाशेऽपि उपादेयं तिष्ठतीति न दृष्टमिति च तबाहुः । ज्ञात्वाप्पसर्प सर्पोत्थं यथा कम्पं न मुञ्चति । विध्वस्ताखिलमोहोऽपि मोहकार्य न मुश्चतीति । यथा वा तार्किकैः समवायिकारणनाशात् कार्यनाशमङ्गी- कुर्वद्भिरपि निरुपादानमेव द्रव्यं क्षणमात्रं तिष्ठतीत्यङ्गीकृतं तद्व- त् । उपादाननाशेपि तदुपादेयमहङ्कारदेहादिनिरुपादानमेव न यावत्प्रारब्धकर्मभोगमनुवर्तते दृष्टत्वात् । न हि दृष्टे ऽनुपपन्नं नामेति न्यायात् । श्रुतिरपि । “तस्य तावदेव चिरं यावन्न विमो- क्ष्येऽथ सम्पत्स्य" इति । अहं ब्रह्मास्मीति चरमसाक्षात्कारानन्त- रमहं ब्रह्म न भवामि न जानामीति प्रत्ययो नास्त्येव यदि परं घटं न जानामीत्यादिप्रत्ययः स्यात् तदुपादानाय संस्कारः कल्प्येत । अज्ञानलेशपदेनापि भाष्यस्थेनाऽयमेव संस्कारो वि- वक्षितः। न हि सावयवमज्ञानम् कियन्नष्टं कियत्तिष्ठतीति वाच्यम्, तस्यानिर्वचनीयत्वात् । तस्माज्जीवन्मुक्तस्य घटं न जानामीत्या- दिप्रत्ययः संस्कारमात्रादेव । उक्तं च सझेपशारीरके ॥ गन्ध- स्था या लेशसंस्कारभाषा विज्ञातव्या भाष्यकारीया तवेति किं बहुना सर्वोऽपि तस्य व्यवहारः संस्कारमात्रादेवेति । तदुक्तं तत्रैव ॥ पश्यामि चित्रमिव सर्वमिदं द्वितीयम् तिष्ठामि निष्कलचिदेकवपुष्यनन्ते ॥ आत्मानमद्वयमनन्तसुखैकरूपम् पश्यामि दग्धरशनामिव च प्रपञ्चमिति ॥
स्वानुभवादर्शः। ३३ तस्माद् भ्रान्तिनिवृत्तैव तथापि कर्म प्रारब्धमेतन हि मुञ्च- तीति साधूक्तमिति ॥ ३७॥ 'कर्म तावन्नाऽऽत्मसमवायि किन्त्वन्यसमवायीत्येवं सति यत् कर्मकर्तृत्वं स्वस्य सापि भ्रान्तिरित्याह । शरीरकर्मेन्द्रियचित्तसाध्य- मारोप्य तच्चात्मनि कर्मजातम् ॥ कर्ताहमस्मीतिविपर्ययोऽयम् चन्द्रे यथा मेघगतिस्तथैव ॥ ३८ ॥ शरीरकर्मेति । शरीरं भोगायतनं कर्मभोगप्रदं श्रोत्रादीनि बाह्यन्द्रियाणि चिन्मयन्तःकरणं तैः साध्यं तनिष्ठमित्यर्थः । यथा मेघनिष्ठां गतिं चन्द्र आरोग्य चन्द्रो धावतीति प्रतीतिस्तथाऽहं कति भ्रान्तिरित्यर्थः ॥ ३८ ॥ आविद्यकं कर्माऽविद्यावतामुपकारकं तैराविधकमिति मत्वा न त्याज्यमित्याह । आविद्यकं यदपि कर्म तथापि सर्वम् कृष्णार्पितं विविदिषां जनयेच्च शुद्धिम् ॥ कांस्यं निषिद्धमपि जन्मफलं समस्तम सन्त्यज्य कर्म नियतं विदधीत मर्त्यः ॥ ३९ ॥ आविद्यकमिति । सर्व लौकिकमलौकिकं वा कर्माऽऽविद्यक यद्यपि तथापि कृष्णार्पितं सत् , यत्करोषि यदश्नासीत्यादि स्मृतेः, चेतःशुद्धिं जनथित्वा विविदिषां जनयेत् । तमेतं वेदा- ऽनुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशके- स्वानुभवादः नेति बृहदारण्यकोक्तेः । नियतस्य तु संन्यासः कर्मणी नोपप- द्यत इति स्मृतेः । तदनुष्ठेयमित्यर्थः । निषिदं न पलाण्डं मक्ष- येदित्यादि तथा श्येनेनाभिवरन्यमेतेति वेदविहितत्वेऽपि आ- भिचारिकं फलदोषेण दुष्टत्वात् त्याज्यमेधेत्यर्थः । काम्यमित्वत्र मतद्वयं तत्राचार्यमते काम्यं माऽसुष्ठेपमेव । वार्तिककारमते तु काम्यमपि कामनां त्यक्त्वा ज्योतिष्टोमादीवराराधनत्वेनाऽनु- ष्ठितं सत् विविदिषां जनयेदेवेति ॥ अन्यथा काम्यकर्ममातिपा- दकश्रुतीनां वैयर्थ्य स्यादित्याकरे विस्तरः ॥ ३९॥ कर्मानुष्ठान चित्तशुद्धिद्वारा विविदिषोत्पादने समर्थमेव न तु ज्ञानसमुच्चयेन तस्यानुष्ठानं तस्य तथाऽसामर्थ्यम् इत्याह- न कर्म विज्ञानसमुच्चयः स्वा- स्कोपमर्दः खलु तत्वबुद्धेः॥ अज्ञाननाशो न हि कर्मणाऽतो ज्ञानेन मुक्तिर्न समुचितेन ॥ ४० ॥ नेति ॥ सत्वबुद्धस्तत्वज्ञामादाविधकानां कर्मणासुपमर्दः स्यात् । यद्वा कर्मानुष्ठामहेतोः क्रियाकारकविभागस्या ऽविद्या- कृतस्य विद्यासामर्थ्यादुपमर्दो वाधः स्यात् । यत्र त्वस्य सर्वमा- स्मैवा ऽभूत् केन कं पश्येदित्यादिना । तथा चोपमर्दितकर्मसमु- चयो मुक्तावनुपयुक्तः । किश्च विज्ञानं तावदज्ञानं विनाश्य मुक्ति- जमनसमर्थ तेजस्तिमिरयोरिष तपोर्विरोधात् । कर्माविषयोर्वि- रोधाभाषामा ज्ञाननाशने तस्य सामर्थ्यमतो न भानसमुच्चयो युक्त इत्यर्थः । तदुक्तमाचार्यैः ॥ अविरोधितया कर्म नाऽविधा विनिवारयेत् ।
स्वानुभवादर्शः। विद्या ऽवियां निहन्त्येव तेजस्तिमिरसङ्करदिति ॥ अन्यत्रा ऽप्युक्तम्- प्रमाणजन्यज्ञानेन विना विधिशतैरपि । रज्जुसादिविभ्रान्तिन कापि विनिवर्तत इति । तस्मात् कर्मणा ज्ञानसमुच्चयोनाऽनुष्ठेयस्तस्याऽन्यथा सि- दत्वादिति ॥ ४०॥ भ्रान्त्या कृतानां कर्मणां पुरुषस्य फलभोक्तृत्वे केन प्रका- रेणेत्यपेक्षायां तदर्शयति- शरीरकर्मेन्द्रियचित्तयोगे धियः सुखाकारतया विकारः ॥ तस्योपलब्धृत्वमदो ऽस्य कर्म फलस्य भोक्तृत्वमितो ऽन्यथा न ॥ ४१ ॥ शरीरेति॥शरीरंभोगायतनं कर्म यज्ञादिः उपासनारूपं च बाह्यानीन्द्रियाणि दश चित्तमन्तःकरणमेतेषाम् । द्वन्दैकत्वम् । इदं पञ्चप्राणादेरुपलक्षणम्।तथा च सप्तदशात्मकं सूक्ष्मशरीरं भोगसा- धनं एतेषां योगे सति धियो बुद्ध धर्मवशात् सुखाकारतया अ- धर्मवशात् दुःखाकारतया च विकारः परिणामः । तस्य परि- णामस्योपलब्धृत्वं इदमनुकूलं प्रतिकूलं ति यत् ज्ञातृत्वं अदः पुरुषस्य कर्मफलभोक्तृत्वमितोऽन्यथा प्रकारान्तरेण नाऽस्ती- त्यर्थः । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण इति श्रुतेः । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यत इतिस्मृतेः ॥ ४१ ॥ स्वप्ने भोगसाधनलक्षण्यं जागरतो दर्शयति- स्वप्ने तु सर्वेन्द्रियदिव्यदेह- - ३६ स्वानुभवादर्भः योगो ऽस्य सर्वः किल वासनात्मा ॥ शेष समानं सुखदुःखभोगो न वस्तुगत्या मयि चित्स्वरूपे ॥ ४२ ॥ स्वमेत्विति ॥ स्वमदेहस्या ऽयोनिजत्वादिव्यदेह इत्युक्त- म् । वासनात्मा संस्कारस्वरूप इति किल श्रूयते । अस्य स- वितो मात्रामुपादायेति श्रुतेः । मात्रां पुष्पपुटस्येव संस्कारः । अयं च जाग्रत्स्वमयोः सुखदुःखभोग आविद्यककर्मनिमित्तोव- स्तुगत्या वस्तुतः मयि चित्स्वरूपे नास्तीति स्वानुभवसिद्धमि- त्यर्थः। शेषमन्तःकरणपरिणामस्तस्योपलब्धृत्वं च समानमे- वेत्यर्थः । इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिरिति स्मृतेः। सुखदुःखे मनोधर्मः। अत उक्तम् । सुखदुःखाकारतया परिणाम इति ॥४२॥ जाग्रत्स्वप्नभोगसाधनवैलक्षण्यं सुपप्त्यवस्थायां दर्शयति- सुषुप्त्यवस्थासुखदुःखभोगो विनापि कर्मा ऽस्य तथा प्रतीतेः ॥ तत्राप्यविद्यागुणवृत्तमेत- निवृत्तिरस्याः परमः पुमर्थः ॥ ४३ ॥ सुषुप्त्यवस्थेति ॥ अहं सुखमस्वाप्सम् । अहं दुश्वम- स्वाप्समिति प्रतीतेः विनापि कर्म निमित्तकारणं कर्म विनापि. सुखदुःखभोगः सुषुप्त्यवस्थायामनुभवसिद्धमित्यर्थः ॥ सुषुप्त्य- वस्था अव्याकृताऽवस्था तस्यां कर्म व्याकृतरूपं नाऽस्त्येवाऽत उक्तं विनापि कर्मेति।अन्यथा जाग्रहशायर्या परामर्शानुपपत्तिः स्यात् । तहि तत्र किंनिमित्तः सुखदुःखभोग इति चेत् तत्राऽऽह । तत्रा- स्वानुभवादर्शः। ३७ ऽपीति । सुषुप्त्यवस्थायामपि अविधागुणाः सत्वरजस्तमास्युपा- दानभूतानि तेषां वृत्तं तन्निमित्तमित्यर्थः।तथा सत्वं मुखाकारत- या परिणमते रजो दुःखाकारतया परिणमते तमो मोहाकारतया परिणमते तेन सुखमस्वाप्सं दुःखमस्वाप्सं मूढोऽहमिति प्रत्ययः । ननु गुणसाम्यावस्थानं तत्रोक्तं विरुध्येतेति चेन्न । तस्य गाढसुषु- प्त्यवस्थाविषयत्वात् । अतो गुणत्रयंरूपाविद्यानिवृत्तिरेव परमपुरु पार्थो येन सर्वावस्थोच्छेद इत्यर्थः । कर्माश्रयस्याऽहङ्कारस्य तत्र लीनत्वाद्विनाऽपि कर्मेत्युक्तम् । ननु सुषुप्तौ यथा सुखमनुभूतं स्मयते । तथा ऽहङ्कारोऽपि तत्राऽनुभूत एव स्मर्यते इति वाच्य- म् । अन्यथा ऽहमस्वाप्समिति परामर्श एव न स्यात् । तथा च । तत्र कर्माश्रयाहङ्कारसत्वेन कथमुक्तं विनाऽपि कर्म मुख: दुःखभोग इति चेन्मैवम् । तत्राऽहङ्कारस्वीकारे पुमान् जाग्रियाद् । जाग्रदयस्थायामेव तस्य प्रतीतेरहं जागर्मीति प्रतीतेर्न सषु- प्तिस्वमयोस्तथा प्रतीत्यभावात् । तर्हि कथमस्वाप्समिति सामानाधिकरण्येन प्रतीतिरितिचेदुच्यते । यथा मुखपति- बिम्बाश्रये दर्पणे जपाकुसुमलोहित्याध्यासे रक्तं मुखमिति सामानाधिकरण्येन प्रतीतिस्तथा ऽहङ्काराश्रयसाक्षिचैतन्यस्य स्मरणाश्रयत्वादहमस्वाप्समिति सामानाधिकरण्येन प्रतीतिरतो न सुषुप्तावहंकारोऽनुभूतःस्मयते । तथा च कर्माश्रयाहंकारं विनवा- ऽहं सुखमस्वाप्सं दुःखमस्वाप्समिति प्रत्यय उपपद्यते तस्य च यथोक्तव्यवस्थैव प्रायति न किंचिदनुपपत्रमिति ॥ ४३ ॥ बुद्धिस्वभावनदुःखस्य प्रारब्धाधीनत्वेन बुद्धमूढयो क्त- त्वं समानं तथापि बुद्धं प्रति विशेषमाह- समानमेतद्धि विमूढबुद्धयो- ३८ सानुभवादर्शः भोक्तस्त्रमस्मिन्खलु संबायोन ॥ विमूढलोकस्य विषादहषों सूज्ञस्य तौ नैव विशेष एषः ॥ ४४ ॥ समानमिति ॥ पदार्थ: स्पछ एव । मत्वा धीरो हर्षशो- को जहातीति श्रुतेः । दुःखेष्वनुद्विग्नमनाः सुखेषु विगृतस्पृह इति स्मृतेश्च । बुदात्मतत्वस्य हर्षविषादौ न स्त इत्यर्थः ॥४४॥ अन्यमपि तं प्रति विशेषमाह- धैर्येण शौर्येण च धीरलोकः संग्रामसोनैव पराङ्मुखः स्यात् ।। तत्वज्ञधीरः सुखदुःखघातैः प्राप्तः प्रतीचो न पराङ्मुखः स्यात् ॥ ४५ ॥ धैर्येणेति । धीरलोको रणधीरलोकस्तत्वज्ञः धीरः आ- धिदैविकाध्यात्मिकाधिभौतिकभेदभिर्विषसंपृक्तानमिव मुख- मिश्रदुःखपातैश्च सुखदुःखामां घाताः दुःसहानुभवा स्तैस्तत्व- प्रत्लान पुनः पुनः तत्वानुस्मृत्या धीरः प्रतीचः स्वप्रकाशपरमा- नन्दयनान् न पराराखो हं मुखी दुःखीति प्रत्ययवान् न भ- वतीत्यर्थः ॥४५॥ आं सुखी दुःखीति प्रत्ययो ऽपि भ्रान्तिरेवेत्याह- बुद्धिस्थदुःखं निजात्मनीद- मारोप्य दुःखीति विपर्ययो मे ॥ आरोपितं तत्सकलं मृषेति. मत्वा निजात्मानमुपाश्नितोऽस्मि ॥ ४ ॥ - ३९ . । स्वानुभवादः। दुद्धिस्थदुःखमिति । मस्तान्ऽवयव्यतिरेकाम्यां नि- विस्य भिमात्मानं स्वप्रकाशपरमानन्दघनमाषियकसुखदुःसाथ- स्पृष्ट पाश्रितोऽसि तत्रैव बुदिसौर्य माप्तोऽस्मरियर्षः ॥४॥ इदानी महावाक्यानुभवसिध्ययं तत्पदशोधनममेकमकार। क्रियते- ज्ञानं समस्तं खलु धर्मिमात्रे भ्रान्त प्रकारे तु विपर्ययः स्यात् ।। अज्ञानतज्जं सकलं प्रकार हित्वानिजात्मानमुपाश्रितोस्मि ॥ ७ ॥ ज्ञानमिति । सर्वज्ञानं धर्मिण्यभ्रान्त्र प्रकारे तु विपर्ययः स्यादिति न्यायात् । पय॑वे सन्माचे वस्तुमि ज्ञान न भ्रान्तं तस्य अधिष्ठानत्वात् । तर्हि कुत्र भ्रान्तमत आह । प्रकारे विपर्ययो भ्रान्तिः सति धर्मिण्यज्ञानं भ्रान्तिरध्यस्तया प्रतीय- मानत्वात् । तथा तज्जं सकलमपि कार्य प्रकाररूपं भ्रान्तिरूपम- ध्यस्ततया प्रतीयमानत्वात् । मिथ्यति हित्वोपेक्ष्य निजात्मानं परमार्थसत्यं धर्मिणमुपाश्रितो ऽस्मि तत्रैष बुद्धिस्थैर्य प्राप्तोस्मी- त्ययः॥४७॥ अध्यस्तत्वमेव दर्शवति- स्वतः प्रकाशादिह धर्मिणोऽन्यो जडः प्रकारः परिभासते हि ॥ तमेव भान्तं ह्यनुभाति सर्व- मित्यादिवेदार्थमिमं ब्रवीति । ४८॥ स्वत इति । एको हिशब्दो मिश्याऽयों ऽन्यः पाद- --- स्वानुभवादर्शः पूरणार्थः ॥ सन्मात्रात् स्वतःप्रकाशाद् धर्मिणः जडः प्रकार: प्र- तिभासते परितो दृश्यते, इह संसारितादशायां स्वतश्चिद्रूपाभा- वाज्जडइत्युक्तम् । अन्यसिद्धिकत्वात् प्रकारकमुक्तम् । अत्रा. ऽर्थे श्रुति प्रमाणयति । तमेव भान्तमनुभाति सर्वं यस्य भासा सर्वमिदं विभाति। अस्याः श्रुतेरर्थः । तमधिष्ठानभूतं भान्तं स्व- प्रकाशमनु पश्चात् सर्व कल्पितमधिष्ठानविलक्षणं मायातकार्य- रूपं भाति भासते भासमानसमये च न स्वतो भाति किन्तु यस्य चैतन्यस्य भासा प्रकाशेन सर्वमिदं विभातीत्यर्थः । अनुभाती- त्यर्थः । अनुभातीत्यनेन प्रकारकत्वमुक्तं यस्य भासा विभाती- त्यनेन जडत्वमुक्तमिति भावः ॥४८॥ एतदेव सदृष्टान्तमाह- जडं न सन्नापि च चित्स्वरूपं. परस्य सत्तास्फुरणे न भाति ॥ अतः प्रकारत्वमुदीरितं तद्- रज्जौ यथालीकभुजङ्गमादेः ॥ ४९ ॥ जडमिति । जडं न सन्नाऽपि च चित्स्वरूपम् । अत्र हेतुमाह । परस्येति । अधिष्ठानस्येत्यर्थः । अधिष्ठानचैतन्यस्व- रूपस्य परब्रह्मण इत्यर्थः । अतो ज्ञानन्तकार्यस्य प्रकारकत्व- मुक्तं श्रुतियुक्तिभ्यामित्यर्थः। तत्र दृष्टान्तमाह । रज्वाविति ॥४९॥ प्रकारोत्पत्तिक्रममाह- अहो हि मायाबलमेतदुच्चै- स्तद्धर्मिण भान्तमपि स्वतस्तम् ॥ आच्छाद्य विक्षिप्य च पञ्चभूत- स्वानुभवादर्शः। कार्य प्रकारं जनयेत्तथा ऽन्यत् ॥ ५० ॥ अहो हीति । अहो इति विस्मये हि निश्चये। माया मूला. ज्ञानं तस्य वलं सामर्थ्यमंतन् महदुच्चैब्रह्मादिभिरप्यनुल्लङ्घनीयम्। किं तदित्याह॥ स्वतो भान्तं स्वप्रकाशधर्मिणमाच्छाद्य अन्धकार इव गर्भागारं, चेत्यपरं, स्वयं विक्षिप्य विक्षेपशक्तित्वं पाप्य पूर्व- पूर्वसंस्कारजीवकर्मप्रयुक्ता सती शब्दस्पर्शरूपरसगन्धात्मकानि आकाशवायुतेजोजलपृथिव्याख्यानि पश्चभूतानि तत्कार्य स्थूल- देहादिरूपं एतं प्रकारं जनयेदुत्पादयेदित्यर्थः । एतदुपलक्षणं महदहङ्कारादीनाम् ॥ तथाऽन्यद्यवहारादिकादन्यदित्यर्थः । प्रातिभासिकं रज्जुसर्यादि रज्ज्ववच्छिन्नचैतन्यमाच्छाद्य तत्र स. पादिकं स्वीयविक्षेपशक्त्या जनयेदित्यर्थः । आगन्तुकदोषजन्यं तदन्यत् व्यावहारिकमिति तल्लक्षणादित्यर्थः। भासिकं पातीति- कमिति पर्यायः ॥॥ ५० ॥ प्रकारस्वरूपमाह- अयं प्रकारः सदसद्विलक्षणः स्त्रीपुतनुभ्यां हि यथा नपुंसकः॥ यहा प्रकारः खलु सद्विलक्षणो दुःखानृतान्तात्मतया प्रतीतितः ॥५१॥ अयमिति । अयमनुभूयमानः प्रकारः सञ्चेद्वक्तव्यस्तर्हि नश्यति । नाऽसतो विद्यते भाव इति स्मृतेः । सद्विलक्षणो अस- चेद् वक्तव्यस्तर्हि प्रतिभाति । न वन्ध्यापुत्रवदसत् । अत उभ- यविलक्षणः तत्र दृष्टान्तः स्पष्टः । तथा च सदसद्विलक्षणो नामाऽनिर्वचनीयप्रकार इति फलितोऽर्थः । असद्विलक्षणमित्युक्ते -- ६ ४२ स्वानुभवादर्शः सत्यतिव्याप्तिः अत उक्तं सद्विलक्षणमिति । तावत्युक्ते ऽसत्य- तिव्याप्तिरत उक्तम् सद्विलक्षणमिति अभ्युपेत्येदमुक्तम् । अस- ति निःस्वरूपेऽतिव्याप्तिशङ्कानवकाशात् । असन्नाम किश्चिदस्ति- चेदसत्वव्याघातो नास्ति चेत् कुत्राऽतिव्याप्तिरित्यस्वरसा. ल्लक्षणान्तरमाह । यद्वेति । सद्विलक्षणत्वमानिर्वचनीयत्वम् । कुतः दुःखानृतान्तात्मतया प्रतीतेः। सत्यज्ञानानन्दानन्तं ब्रह्म तद्विल- क्षणत्वेनाऽनुभूयमानत्वात् सद्विलक्षणत्वमनिर्वचनीयत्वं मायात- कार्यस्येत्यर्थः । ननु तर्हि कथमाचार्योक्तिः। सदसद्भयामनि- र्वचनीयमितिचेत् प्रथमतः शिष्यबुद्धिव्युत्पादनमात्रे तात्पर्यादा- चार्याणामिति । कालत्रयात्राध्यत्वं सत्वं तद्भिन्नमानिर्वचनीयमि- त्यर्थः ॥५१॥ यत् पूर्वमुक्तं सद्धर्मिणं सद् ब्रह्म तद्धर्मिणमाच्छादयतीति तत्र विशेषमाह--- सत्ता स्फुरत्ता परमात्मनो या नाऽऽच्छाद्यते सा ह्युपजीव्यभावात् ॥ आनन्दमाच्छादयतीव माया तन्नाशने तत्वमसीतिवाक्यम् ॥ ५२ ॥ सत्तेति । सच्चिदानन्दं ब्रह्म तत्र सदशं चिदंशं च माया मूलाज्ञानं ना ऽऽच्छादयति। कुतः । स्वस्योपजीव्यभावादुपजी- व्यत्वात् सदंशचिदंशयोः स्वोपजीवकत्वेन । तयोराच्छादने अज्ञानस्यैव सिद्धिर्न स्यात् । अहमज्ञो मामहं न जानामीत्य- ज्ञानसिद्धिसाक्षिणैवा ऽनन्यगतिकत्वात् । प्रमाणैरज्ञानसिद्धिचे द्वाच्या तर्हि तन्निवर्तकं किमपि न स्यात् । तस्मात् केवलसाक्षि- भास्यमज्ञानं स्वोपजीव्यसच्चिदंशौ ना ऽऽकृणुते । किं तर्हि तदाह स्वानुभवादर्शः। आनन्दांशाच्छादननिवृत्तौ तत्वमादिवाक्यं समर्थमित्यध्याहारः । आनन्दमाच्छादयतीव सम्यगविचारितत्वादिवशब्दप्रयोगः । तन्नाशने वाक्यविचारजन्यतत्वज्ञानेना ऽज्ञाननिवृत्तौ स्वप्रका- शानन्दाविर्भावः स्वत एवेत्यर्थः ॥ तदुक्तमाचार्यैः । प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । अद्वयानन्दबोधश्च प्रत्यग्बोधैकलक्षणः ॥ इदमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठत इति ॥ अत उक्तं तन्नाशने तत्चमसीति वाक्यम् ॥ ५२ ॥ अखण्डस्वरूपत्वे ऽप्यंशाच्छादने दृष्टान्तमाह-- यथा हिमांशुः खलु तैजसोऽयं प्रकाशकत्वान्नहि तत्प्रकाशम् ॥ उपाधिराच्छादयतीति दृष्टं तदुष्णतांशः पिहितो ऽनुभूयते ॥ ५३ ॥ अथेति । प्रकाशोष्णत्वं तेजः स्वरूपमखण्डं तत् तेज आ- प्यचन्द्रमण्डले प्रतिफलितं यदा भवति तदा उपाधिः चन्द्र- मण्डलमुपहितस्य तेजसः उष्णत्वमाछादयति न प्रकाशं यथा- तथा अज्ञानं सदंशं चिदंशं ना छादयति किन्तु आनन्दा- शमित्यर्थः ॥ ५३॥ आवरणविक्षेपशक्तिं लक्षयति । तत्मसङ्गाद् विद्यामपि ल. क्षयति-- आविर्भावोत्पादकं यत् स्वरूप.
स्वानुभवादः स्यैषा विद्या यत्तिरोधानमन्या ॥ विद्याविद्ये ते च जीवाश्रिते स्तो नेशस्थे ते तस्य सर्वज्ञतायाः ॥ ५४ ॥ आविर्भावइति । स्वरूपस्य यदाऽऽविर्भावोत्पादकं सा विद्या यत् स्वरूपस्य तिरोधानं सा ऽन्या ऽऽवरणशक्तिरविद्येत्यर्थः । एते च विद्याविद्ये जीवाश्रिते नेशस्थे ते इश्वरनिष्ठे न स्तस्तस्यो- धेः शुद्धसत्वमाधान्येन वक्ष्यमाणस्य विक्षेपशक्त्याख्यमाया- रूपस्य सर्वकल्पनाधिष्ठानत्वेन सर्वानुस्यूतत्वाद् दीपवत् स्वसं- म्बद्धसर्वावभासकत्वेन च सर्वज्ञत्वाद् हेतोरित्यर्थः । जीवोपा- धेरविद्यायाः मलिनसत्वप्राधान्येन च सर्वज्ञत्वमतो विद्याविद्ये द्वे अपि जीवाश्रिते एवेति भावः ॥ ५४ ।। विक्षेपशक्तिं लक्षयति- कार्योत्पादे या समर्थाऽस्ति शक्ति- विष्णो ज्ञेया नाम विक्षपशक्तिः ॥ मानं वेदः प्राह शक्तिद्वयं तत् सवानर्थप्राप्तिमूलं जनानाम् ॥ ५५ ॥ कार्येति ॥ विक्षेपशक्तिः लिङ्गादि ब्रह्माडान्तं जगत् स- जेदित्याचार्योक्तेः । आवरणविक्षेपशक्तिद्वयं न स्वकपोलकल्पितं किन्तु श्रुतिमूलं नाऽतोज़ाऽप्रामाण्यशङ्का कार्येत्यभिप्रायः । तथा च श्रुतिः ॥ नतं विदाथ य इमा जजानान्ययुष्माकमन्तरं बभूव । नीहारेण पाहता जल्प्या घासुतृपं उक्थशासश्चरन्ति ॥ इमाः प्रजाः यो जजान उत्पादयां बभूवेत्यनेन विक्षेपश- ४५ स्वानुभवादर्शः। क्तिरुक्ता । न तं विदाथ इति श्रुतिभागेनाऽऽवरणशक्ति वनि- ठेत्युक्तम् । प्रजाजननसामर्थ्यादीशस्य सर्वज्ञत्वमर्थसिदम् । न पसर्वज्ञो विचित्रं प्रपञ्च रचयेदित्यर्थः ॥५५॥ एवं ज्ञानं समस्तं खलु धर्मिमात्र इत्याचारभ्य कार्योत्पाद इत्यन्तैः श्लोकैमि ब्रह्मैव सत्यं तत्र प्रपश्चः प्रकारीभूतो ऽनिर्व- चनीयत्वादपामाणिक इति तत्पदार्थशोधनमनेन प्रकारेण कृतम् । अधुना प्रकारान्तरेण तदेवोच्यते- भयं द्वितीयाद्भवतीति वेद- स्तथा ऽभयं वै जनकेतिवेदः॥ श्रुत्योर्विरोधे समुपस्थिते हि पूर्वश्रुतेर्बाधमुदीरयामि ॥ ५६ ॥ भयमिति ॥ द्वितीयादै भयं भवतीत्युत्का वृहदारण्यक- श्रुति द्वितीयां अभयं वै जनक माप्तोऽसीति तत्रत्यैव तयोरुभयोः श्रुत्योरितिविरोधः शेषं स्पष्टम् ॥ ५६ ॥ बोधप्रकारमाह त्रिभिः- ब्रह्मैव सर्व जगदित्थमेका ह्यात्मैव सर्व श्रुतिराह चान्या ॥ य एष सर्पस्तव रज्जुरेषा यथा तथा वस्तुनिरूपणं तत् ॥ ५७ ॥ ब्रह्मातिरिक्तं च हि किश्चिदन्य- त्प्रतीयते वाक्याविचारणेन ॥ - स्वानुभवादर्शः तथा ऽनुभूतिश्च समाधिकाले स्वात्मातिरिक्तं न हि भाति किश्चित् ॥ २८॥ ब्रह्मेति ॥ स्पष्टार्थौ श्लोकौ ॥ ५७ ॥ ५८ ॥ प्रतीयते वाक्यार्थविचारेणेत्युक्तम् तत्र वाक्यार्थमाह-- ब्रह्मैवेदमिदं हि वाक्यमुदितं वेदे तदर्थस्त्वयं सामानाधिकरण्यमत्र गदितं बाधो महासूरिभिः ॥ मुख्पार्थानुपपत्तिहेतुकतया गत्यन्तरादर्शनात यः सर्पस्तव रज्जुखण्डमिव तद्वेदान्तवाक्येष्वपि ॥५९॥ ब्रह्मैवेदमित्यादि ॥ ब्रह्मैवेदमिदं सर्वमिति वाक्ये ब्रह्म- पदसर्वपदयोः सामानाधिकरण्यं नामैकविभक्तिकत्वे सति भिन्न- प्रतिनिमित्तानां शब्दानां एकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यं तन्मुख्यार्थानुपपत्तिहेतुकतया जडाजडयोरैक्यायोगान मुख्या- र्थासम्भवात् गत्यन्तरादर्शनाच्च यः सर्पस्तद्रज्जुखण्डमितिवद्धाधे सामानाधिकरण्यं यथा तथा ब्रह्मैवेदमित्यादिवेदान्तवाक्येष्वपी- त्यर्थः । ननु नीलोत्पलमितिवत्सामानाधिकरण्यं मृद्धट इतिवद्वा सामानाधिकरण्यमत्राप्यस्त्वित्यत आह । गत्यन्तरादर्शनादिति । जडाजडयोः सर्वयोः ब्रह्मगुणगुणित्वासम्भवान्न नीलोत्पलमि- तिवत् सामानाधिकरण्यं नाऽपिमृद्धटइतिवद् ब्रह्मणो निरंशत्वेन विकाराभावात् तस्माद् बाधाख्यमेव सामानाधिकरण्यं युक्तमित्य- र्थः । तथा च द्वितीयस्य बाधितत्वात् द्वितीयादै भयं भवतीति- श्रुतेः । परमार्थिकश्रुत्या बाध इति भावः ।। ५९ ॥ एवं श्रुतिप्रमाणेन बाधितत्वमुक्तं तत्राऽनुकूलमनुमानमाह- ॥ - स्वानुभवादर्शः। यदज्ञानतो यत्समुत्पद्यते तद्- मृषा वस्तु तत्ज्ञानतस्तस्य बाधः ।। इति व्याप्तितो ब्रह्मणो ऽन्यत्समस्तं जगद् बाधितं रज्जुसर्येण तुल्यम् ॥ ६ ॥ यदिति ॥ अत्राऽयम्प्रयोगः । विमतं जगद् बाधितमधि- छानादुत्पन्नत्वे सति तद्भानबाध्यत्वात् । यद्यधिष्ठानाज्ञानादुत्प- घते तत्तदधिष्ठानज्ञानाद् बाधितं यथा रज्जुसर्पः। तदुक्तमाचार्यैः। तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्नाशयते ब्रह्म सर्वाधिष्ठानमव्ययम् ॥ ६० ॥ अत्रार्थे स्वानुभवं प्रमाणयति- ब्रह्माज्ञानं स्वाऽनुभूत्या ममाऽऽसीत् तस्माज्जातं दृश्यजातं समस्तम् ॥ ब्रह्मज्ञानात्स्वानुभूत्त्या समस्तं ब्रह्मण्येतद्बाधितं मे विभाति ॥ ६१ ॥ ब्रह्मेति ॥ जीवस्याऽनादित्वान् ममाऽऽसीदित्युक्तम् । तदुक्तं साम्प्रदायिकैः। जीव ईशो विशुद्धा चित्तथा जीवेशयोभिंदा । अविद्या तचिदोर्योगः षडस्माकमनादय इति ॥ ६१॥ ननु जगद् बाधितं मे विभातीत्युक्तम् । तत्र शुक्तिज्ञाने क- ल्पितरजतानवभासवत् जगदनवभास एवाऽस्त्वित्यत आह- उपाधिनाशेन विना न चाऽस्य सोपाधिकत्त्वात्प्रतिभासनाशः ॥
स्वानुभवादर्शः उपाधिनाशः खलु कर्मनाशा. ततो ऽस्य सर्वः प्रतिभासनाशः॥ ६२ ॥ उपाधिनाशेति ॥ विपर्ययो मिथ्याज्ञानं अतास्मिंस्तबु- द्धिरिति यावत् । स च द्विविधः । सोपाधिको निरुपाधिकश्च । तत्र निरुपाधिको द्विविधः । बाह्य आभ्यन्तरश्च तत्र बाह्यः शुक्ताविदं रजतमित्यादि अहमज्ञो ब्रह्म न मानामीत्यादिराभ्यन्तरः । सोपाधिकोऽपि द्विविधः । पूर्ववत् । तत्र लोहितस्फटिक इत्यादि बाह्यः । आकाशादिप्रपञ्चोऽपि बाखः सोपाधिकः कर्माविद्या. कार्यत्वात् । तत्वज्ञानिनोऽपि निवृत्तेऽप्यज्ञाने पारब्धक्षयपर्यन्तं प्रपञ्चस्योपलब्धिदर्शनाच्च कर्तृत्वादिभ्रम आभ्यन्तरः सोपाधिक- इति । एवं स्थितौ प्रवृत्तेः प्रपश्चस्य सोपाधिकत्वेन उपाधिनाशं विना प्रतिभासनाशो न भवति । उपाधिनाशः कस्माद् भवति उपाधिनाशोऽपि कुतो न इत्यत आह। कर्मनाशाद्भोगेन प्रारब्ध- कर्मनाशादुपाधिनाशो भवति ततोऽस्य जीवन्मुक्तस्य बाधितज गत्मतिभासनाश इत्यर्थः । तथा च बाधितं मे विभातीत्युक्तं यु- क्तमेवेतिभावः । साम्प्रदायिकैरप्युक्तम् । शास्त्रेण नश्येत् परमार्थरूपं कार्यक्षम नश्यति चाऽपरोक्षात् । प्रारब्धनाशात् प्रतिभासनाश एवं त्रिधा नश्यति चात्ममाया। इति । लोहितः स्फटिक इत्यादिलौकिकेऽपि भ्रमे स्फटिकस्य प्र- माणान्तरेण शुक्लत्वे ज्ञातेऽपि उपाधैर्जपाकुसुमस्य यावत्सानिध्यं तावल्लौहित्यं भासते सोपाधिकभ्रमत्वात् तद्वत्मकृतेऽपीति भावः ॥ ६२॥ श्रुतार्थापत्तिप्रमाणादपि जगद् बाधितमित्याह-- .
-- स्वानुभवादर्शः। ४९ बाधस्यार्थापत्तितो दृश्यजातम् ब्रह्मण्येतत्कल्पितं कल्पयामः ॥ नाऽयं सर्पो बाध एवं हि लोके वेदे तावन्नेह नानेति बाधः ॥ ६३ ॥ पाधस्येति ॥ नेह नानाऽस्ति किञ्चनेति श्रुतौ बाधः भूयते तथा नेतिनेतीति बाधोऽपि श्रूयते तदन्यथानुपपत्त्या ज- गत्कल्पितमिति कल्पयाम इत्यर्थः ॥ ६३ ।। बाधलक्षणमाह- सोपाधिकं वा निरुपाधिकं वा पूर्व प्रतीतिर्यदिहास्ति तस्य ॥ ज्ञानान्तरासत्त्वतया प्रतीतिः स बाध इत्युक्त इह प्रवीणैः ॥ ६४ ॥ सोपाधिकमिति । यथोक्तरीत्या सोपाधिकं निरुपा- धिकं वा यत्पूर्व प्रतीतं इह व्यवहारभूमौ यदस्ति तस्य प्रमाणज- न्यज्ञानान्तरेण सत्वप्रतीतेर्बाध इह बाधनिरूपणप्रवीणैनिपुणे- बधि इति उक्त इत्यर्थः । तथा च श्रुतिः । तथा विद्वान्नामरूपा- द्विमुक्तः परात्परं पुरुषमुपैति दिव्यमिति । यथोक्तबाधलक्षणं श्रुतिमूलं ज्ञेयं नेदं स्वकपोलकल्पितमिति भावः ॥ ६४ ॥ प्रपञ्चमिथ्यात्वं चेन्न स्वीक्रियते तर्हि प्रपञ्चसत्यवादिनः पूर्वमीमांसकादीन् प्रति बाधकमाह- सत्यं ज्ञानमनंतमेवमनिदानन्दं परं केवलं सच्छुद्धं गुणविक्रियादिरहितं बह्मेति चिन्हं यदा ॥
स्वानुभवादः बुद्ध वेदविदा तदैव विदितो मिथ्याप्रपंचस्वयं सत्यत्वे ह्युभयोन लक्षणमिदं व्यावर्तकाभावतः॥६५॥ सत्यमिति ॥ ब्रह्मणः चिन्हं स्वरूपलक्षणं वेदविदा विदितं तदैव तस्मिन्नेव काले प्रपञ्चो मिध्येति विदित इति सम्बन्धः । इति कथं सदाह । सत्यं कालत्रयबाधाभावोपलक्षित स्वरूपं ज्ञानं ज्ञप्तिस्वरूपं अनन्तं त्रिविधपरिच्छेदशून्यम् । तदुक्तम् । न व्यापित्वादेशतो ऽन्तो नित्यत्वान्ना ऽपि कालतः । न वस्तुतो ऽपि सार्वात्म्यादानन्त्यं ब्रह्मण विधेति ॥ अनिदं तादृगिदं ईदृगिदमिति व्यवहारायोग्यमनिदं तच्च तत् आनन्दं चेति द्वन्दैकवद्भावः । परमुत्कृष्टं अत एव केवल- मेकं सत्सत्तामात्रम् । शुद्धं निर्मलमविद्यामलरहितं अत एव गुणविक्रियादिरहितं गुणाः सत्वरजस्तमासि विक्रिया परिणाम आदिपदात् परिस्पन्द एभीरहितं ब्रह्मेति लक्षणं ज्ञातं तदैव मप- चमिथ्यात्वं सिद्धमित्यर्थः । कथं सिद्धं तदाह । उभयोः ब्रह्म- प्रपञ्चयोः सत्यत्वे ब्रह्मलक्षणस्य व्यावर्तकाभावात् । ब्रह्मल- क्षणमसिद्धं चेस्याच्छ्रुतेरुन्मत्तमलपिता स्यात् । तच्चाऽनिष्ट- मतो लक्षणसिद्ध्यन्यथानुपपत्त्या प्रपश्चमिथ्यात्वं सिध्यतीत्यर्थः। सत्यादिपदैः परमार्थत्वज्ञप्सित्वपूर्णत्वादिषु बोधितेषु सत्स्वर्थात अनृतजडपरिच्छिन्नत्वादिव्यावृत्तिः प्रतीयते पश्चादादों न चोदनार्थ इतिन्यायात् । अस्यार्थः । पश्चार्यादापत्तिममा णादर्थः सिध्यति न स चोदनार्थो न स शब्दार्थ इतिन्या- यार्थः । यथा बध्येन मूषकादिनां दूषितां भूमिमुपलभ्य । तद्विरोधिनो घातकस्य मार्जारादेरभावो ऽर्थादवगम्यते तथा स्वानुभवादर्शः। सत्यादिपदात्पदार्थ परमार्थत्वादिकं प्रतीत्य पूर्वप्रतीतस्य परमा- र्थविरोधिनो ऽसत्यत्वादेरभावो ऽर्थापत्या ज्ञायते । न हि स- त्यादरसत्यादेश्चैकाधिकरणत्वं घटते तेन मानान्तरसिद्धत्वा- दन्यव्यावृत्तिरशब्दार्थेति न्यायाभिप्रायः । तथा चोक्तं वार्तिके। प्रतिपद्य पदार्थ हि विरोधात्तद्विराधिनः । पश्चादभावं जानाति वध्यघातकवत्पदादिति ।। तथा चाऽन्यव्यावर्तकाभावात् सत्यादि ब्रह्मलक्षणं न- न सिद्ध्येदतः प्रपञ्चमिथ्यात्वमवश्यं स्वीकामितिभावः । ब्रह्मणः सत्यज्ञानानन्दाः ब्रह्मणः स्वरूपलक्षणम्।स्वरूपं सद्यावर्तक स्वरू- पलक्षणम्।यथा खंछिद्रं द्रव्या आप इत्यादिस्वरूपलक्षणम् । स्वरू सदितेरभ्यो व्यावर्तकत्वात् ।तथा सत्यज्ञानानन्दाः ब्रह्मणः स्वरू- पलक्षणम्।ननु लक्ष्यलक्षणभावस्य भेदगर्भवाद् ब्रह्मणोऽखण्डक- रसत्वेन कथं सत्यादेर्लक्षणत्वमिति चेन्न । कल्पनीयभेदाभ्युमगमेन तदुक्तम् । आनन्दो विषयोऽनुभवो नित्यत्वं चेति सन्तो धर्माः ब्रह्मणो ऽपृथक्केऽपि पृथगिवाऽवभासन्त इति । न चाऽपृथक्के तेषां पृथत्काळासः किम्पयुक्त इति वाच्यम् । अन्तःकरणध- मोपाऽधिवशात् पृथगवभासोपपत्तेः । तथाहि । बाधाभावविशिष्ट सत्यं वृत्यवच्छिन्नं चैतन्यं ज्ञानमित्यादि वृत्त्यवच्छिन्नं चैतन्यमा- नन्दः यद्वा व्यञ्जकनृत्युपहितं ज्ञानं अनुकूलवृत्युपहितं चैतन्यमा- नन्दः। ततस्तेषां ब्रह्मणश्च वास्तवभेदाभावे ऽप्यौपाधिकभेदसत्वा- लक्ष्यलक्षणभाव उपपद्यते एवं च सत्यं ब्रह्मेत्युक्ते नैय्यायिका. भिमतसत्तासामान्ये ऽतिव्याप्तिः लक्षणस्य ब्रह्मणो जडत्वाप- विश्व अत उक्तं ज्ञानमिति । ज्ञानं ब्रह्मत्युक्ते पराभिमतात्मसमवे- तझाने ऽतिव्याप्तिलक्ष्यस्यं ब्रह्मणो ऽनित्यत्वापुरुषार्थत्वप्रसङ्गाश्च तमिरसनायोक्तमानन्दमिति । न चैवमप्यपुरुषार्थत्वाभावेऽपि ५२ स्वानुभवादर्शः ब्रह्मणोऽनित्यत्वं दुष्परिहरमिति वाच्यं । सत्येतिविशेषणेन तत्प- रिहारसम्भवाद् । आनन्दो ब्रह्मेत्युक्तौ विषयसुखेऽतिव्याप्तिर्लक्ष्य- स्य जडत्वप्रसङ्गश्च तन्निवारणाय ज्ञानमित्युक्तम् । लक्षणाऽनित्यत्व- परिहाराय सत्यमित्युक्तम् । ननु सत्यज्ञानानन्दशब्दानां भिन्ना- र्थत्वेनाऽनन्दादिगुणकं ब्रह्मैव लक्षणवाको न प्रतिपाद्यते ततश्च कथमखण्डैकरसत्वमिति चेन्मैवम् । सत्यं ज्ञानमनन्तं ब्रह्म आन- न्दो ब्रह्मेति व्यजानात् विज्ञानमानन्दं ब्रह्मेत्येवमादिवाक्येषु सत्यज्ञानानन्दादिशब्दानां सामानाधिकरण्येनाऽखण्डकरसानन्द- ब्रह्मबोधकतया गुणगुणिभावकल्पनायां मानाभावात् । न च तेषामेकार्थप्रतिपादकत्वे सत्यादिपदानां पर्यायतापत्तिरिति वा- च्यम् । प्रतिनिमित्तभेदायावृत्तिनिमित्तभेदाच नोक्तदोषावका- शः।पर्यायो नामाऽनेकेषां शब्दानां यत्र प्रवृत्तिनिमित्तमेकमाते पर्या- यशब्दाः। यथा ब्राह्मणविमाधाः शब्दाः पर्यायाः। एकस्यैव शब्द- स्य यत्र प्रवृत्तिनिमित्तभेदस्ते शब्दाः नानार्थाः यथा हरिगोत्र- मुखा इति विवेकः । न चैवमपि लोके वाक्यस्य संसविशि- ष्टान्यतरपतिपादकत्वदर्शनेन कथमखण्डप्रतिपादकत्वमिति चेन्न। घटः सन्द्रव्यं पृथिवी प्रकृष्टप्रकाशचन्द्र इत्यादिवाक्यानां लोके ऽपि लक्षणया अखण्डव्यक्तिमातिपादकत्वदर्शनेन प्रकृतेऽपि तत्स- म्भवात् । तत्र तावद्विशिष्टे शक्तानां पदानामखण्डचैतन्यभागलक्ष- णतया सत्यत्वादीनि पदानि अखण्डैकरसानन्दव्यक्तिं बोधय- न्ति । न चैकपदेन तद्बोधसम्भवे पदान्तरवैयर्थ्यमिति वाच्य- म् । पदस्य स्मारकत्वेन वाक्यस्यैवाऽनुभावकत्वात् पदान्तरसा- र्थक्यम् । अत्र ब्रह्मेति लक्ष्यपदम् । शेषाणि सत्यादीनि लक्षणस- मर्थकानि । एतेषां च पदानां ब्रह्मपदेन प्रत्येकं प्रथम सत्यं ब्रह्म ज्ञानं ब्रह्मा ऽनन्तं ब्रह्माऽऽनन्दं ब्रह्म एवमन्वितानां पथात् सा- स्वानुभवादर्शः। ५३ मानाधिकरण्येन परस्परमपि सम्बन्धसिद्धिः । यथा झणया पिङ्गाक्ष्या गवैकहायन्या सोमं क्रीणातीत्यत्र क्रयवाचिपदानां परस्परमन्वयात् तथाऽत्रापीति बोध्यम् । एवं वेदविदा यथोक्त- मार्गेण यदा ब्रह्मलक्षणं बुद्धं नदैव प्रपञ्चमिथ्यात्वसिद्धिः स- म्पति । अतः परिच्छेदो न विद्यते यस्य तदनन्तं विविधप- रिच्छेदशून्यमित्यर्थः । तदुक्तम् । न व्यापित्वाद् देशतो ऽन्तो नित्यत्वान् नाऽपि कालतः। न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणनिधेति ॥६५॥ तात्त्विको न्यथाभावः परिणामः अतात्त्विको ऽन्यथाभावो विवर्त इति परिणामविवर्तयोः केषांचिल्लक्षणम् । एवं च प्रकृतेः प्रपञ्चे विवर्तलक्षणसद्भावात् प्रपञ्चस्य विवर्त्तत्वं दर्शयति- यथा रज्जुरग्रेऽन्यथा भाति पुंसां यथा वस्त्वविज्ञानतस्तद्वदेव ॥ यथा वस्त्वविज्ञानतो ज्ञप्तिरेषाऽ न्यथा. भाति तस्याविवर्त्तः प्रपंचः ॥ ६६ ॥ तथेति । ज्ञप्तिः चैतन्यं चिद्विवर्तः प्रपञ्च इत्यर्थः ॥ शेष स्पष्टम् ॥ ६६॥ अथ ब्रह्मणो ऽभिन्ननिमित्तोपादानत्वं दर्शयन् प्रपञ्चस्य तद्विवर्त्तत्वं दर्शयति- यतो वा इमानीति वेदोक्तरीत्या जगत्कारणं ब्रह्म कार्य प्रपंचः ॥ लयस्य श्रुतेः कार्यमात्रस्य तस्मि- न्नुपादानता ब्रह्मणो न्यायतश्च ॥ ६७ ॥ - स्वानुभवादर्शः पत्तो वेति । यतो वा इमानि भूतानि जायन्ते येन जा- तानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति तद्विजिज्ञासस्व त- ब्रह्मेति श्रुत्युक्तरीत्या ब्रम जगत्कारणं तत्कार्य प्रपशः । ज. गत्कारणं ब्रह्मेत्युक्तमनेन निमित्तकारणत्वमानं प्रतीयते नोपा- दानत्वमत आह ॥ लयस्य श्रुतेरिति यस्मयन्त्यभिसंविशन्तीति श्रुतिभागेन उपादानकारणत्वमपि सिद्धं न्यायतो युक्तितश्च त- त्सिदमित्यर्थः । उपादानकारणत्वं न हि कुलाले निमित्तका- रणे घटादेर्लयो दृष्टः । तस्माल्लयश्रवणान्यथानुपपत्या ब्रह्मा- ऽभिमनिमित्तोपादानमित्यर्थः ॥ ॥१७॥ ननु ब्रमचेदभिन्ननिमित्तोपादानं तर्हि ब्रह्मणः चिदूपत्वात् ततो जायमानं कार्यमपि चिद्रूपं स्यात् तत्तु न दृश्यते अतो नोपादानकारणत्वमित्यत आह- विलक्षणाद्ब्रह्मण एव कार्य- विलक्षणं जायत एव सर्वम् ॥ स्वप्नप्रपंचे परिदृष्टमेत- दतो विवर्त्तः सकलः प्रपंचः ॥ ६८ ॥ विलक्षणादिति । विलक्षणादेव चिदूपादेव ब्रह्मणो वि. लक्षणमेव जडरूपमेव कार्य जायते । इदं क दृष्टमित्यत आह ।। स्वम इति चिद्रूपाजीव- [वालाग्रशतभागस्य शतधा कल्पितस्य च । जीवो भागः स विज्ञेयः स चाऽऽनन्त्याय कल्पते ॥] -चैतन्याद् विलक्षणात् स्वमप्रपञ्चो गजतुरगादिजहरूपो विलक्षणो विवों दृष्टः तद्वत् भकृते ऽपीत्यर्थः ॥ आत्मनि चैवं विचित्राचैवहीति सूत्रेण भगवतो बादरायणाचार्येण जीवचैत- - - स्वानुभवादर्शः। न्यस्य स्वमभपश्चोपादानत्वमुक्तम् ॥ न च जीवचैतन्यस्य स्व- मप्रपञ्चोपादानत्वे अहं गज इत्यादिप्रतीतिः स्यादिति वाच्यम्। स्वमभ्रमः तावजाग्रत्संस्कारजः श्रुत्यनुभवासद्धः । संस्कारस्तु यादृशो ऽनुभवः तादृश एव। यद्यहं गज इत्यनुभवः स्यात् नईई गज इति संस्कारजन्यः स्वमः स्यान्न तादृशोऽनुभवोना ऽतोऽई गजइति स्वममत्ययः। तस्माद् यथा स्वमप्रपचे जीवचैतन्यविवः तथा विलक्षणवाद्यप्रपश्चाद् विलक्षणो ब्रह्मचैतन्यविवर्त इतिसि- द्धम् । यतो वा इमानि भूतानीति श्रुत्या यज्जगत्कारणत्वमु- तमिदमेव ब्रह्मणः सटस्थलक्षणम् । कादाचिकत्वे सति व्यावर्तकत्वं उपलक्षणमित्युच्यते ॥ यथा काकवन्तो देवद- सगृहाइति देवदत्तगृहलक्षणं तटस्थलक्षणं तटस्थलक्षणं देवदत्तगृहे काकवत्वस्य कादाचित्कत्वं वर्त्तते इतरगृहेभ्यो व्याव. तकत्वं च । सृष्टिस्थितिप्रलयकारणत्वं ब्रह्मणः तटस्थलक्षणम् । सृष्टिस्थितिप्रलवकारणत्वस्य कल्पितत्त्वात् कादाचित्कत्वं सजा- तीयाज्जीवाद् विजातीयादचेतनात् च व्यावर्तकत्त्वात् तटस्थल- क्षणमिदम् । सृष्टिस्थितिप्रलयकारणत्वं ॥ सृष्टिरुत्पत्तिः स्थितिः पालनं कारणे कार्यस्य सूक्ष्मरूपेणावस्थानं लयः लयकारणत्व- मित्युक्ते ब्रह्मण उपादानकारणत्वमेव स्यात् । यत् कार्य यत्र लीयते तत्कार्य मति तस्योपादानत्वनियमात् । निमित्तकार- णमन्यदेव स्यात् । तथा चाऽद्वैतश्रुतिविरोधः स्यात् तदर्थमुक्तम् । स्थितीति । स्थितिलयकारणत्वामित्युक्ते उत्पत्तिकारणदण्डादीव निमित्कारणमन्यदेव स्यात् तथा च पूर्वोक्तदोषः तद्व्यावस्य- र्थमुक्तम् सृष्टीति । सृष्टिस्थितिकारणत्वमित्युक्तेः कुलालादिव- ब्रह्मणो निमित्तकारणत्वमेव स्यादुपादानकारणमन्पदेव स्यात् तथा च सिद्धान्तविरोधः । अत उक्तं लयेति । तदेवं सृष्टिस्थिति- स्वानुभवादर्शः लयकारणत्वमित्युक्त्या ब्रह्मणो ऽभिन्ननिमित्तोपादानत्वं सिध्य- ति ॥ एवं प्रकृतिः च प्रतिज्ञादृष्टान्तानुपरोधादिति सिद्धान्तो न विरुध्यते । तथा च लक्षणस्या ऽयं निष्कर्षः । जगत्कर्तृत्वे सति जगदुपादानत्वं तटस्थलक्षणं ब्रह्मण इति । अत्रापि जगदुपा- दानत्वं तटस्थलक्षणमित्युक्ते मायायामतिव्याप्तिः मायाविशिष्टस्य जगदुपादानतया विशेषणीभूतमायाया अप्युपादानत्वाऽवश्यंभा- वात् कार्यान्वितस्यैव विशेषणत्वात् । मायां तु प्रकृतिं विद्यादि- त्यादिश्रुत्या मायाया उपादानत्वावगमात् च । तत्राऽतिव्याप्ति- वारणाय जगत्कर्तृत्वे सतीत्युक्तम् । लक्षणस्य त्रीणि दूषणानि अव्याप्त्यतिव्याप्त्यसंभवाश्चेति । लक्ष्यैकदेशे लक्षणस्यावर्तन- मन्याप्तिः । अलक्ष्ये लक्षणगमनमातिव्याप्तिः । लक्ष्ये काप्यवर्त- नमसंभवः । ततश्चाऽतिव्याप्तेरपि दूषणत्वविशेषणमर्थवत् । कर्तृत्वं नाम उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्वं तच्च चैतन्यस्यैव सम्भवतीति न मायाया अतोनातिव्याप्तिः। जगत्कर्तृत्वमित्युक्ते- नैयायिकाभिमततटस्थेश्वरेऽति व्याप्तिः तस्य वेदान्तासंगतत्वेना- लक्ष्यत्वात् तव्यावृत्यर्थमुत्तरदलं जगदुपादानत्वमिति । परमा- ग्वादिजगत्समवायिकारणमीश्वरो जगत्कर्तेति जगदुपादानत्व- जगत्कों यायिकैर्भेदाभ्युपगमादस्माभिरभिन्ननिमित्तोपादान- त्वाङ्गीकारान् नातिव्याप्तिः । नन्वेकस्योपादानत्वं च कर्तृत्वं च विरुद्धं लोके तथाऽदर्शनात् न हि घटकर्ता कुलालो घटोपादानं घटोपादानभूतोमृत्पिण्डो वा घटकर्ता किन्तु मृत्पिण्ड उपादानं दृष्ट- विरोधापत्तेः दृष्टपूर्वकत्वाददृष्टकल्पनायाः। ननु वयं न कल्पयामः।। तदैक्षत बहुस्यां प्रजायेयेति श्रुतिरेव बोधयतीति चेन् न । दृष्ट- विरोधे श्रुतेरन्तरसम्भवात् तस्मादभिन्ननिमित्तोपादानत्वम- नुपपममिति प्राप्ते घूमः । तदैक्षत बहुस्यां सो ऽकामयत बहुस्यां स्वानुभवादर्शः। प्रजायेयेत्यादिश्रुत्या तु बहुभवनकामयितृत्वश्रवणाचेतनस्य ब्र- पण एवोपादानत्वं जगत्कर्तृत्वं चाऽवगम्यते । न च तद्बाधितुं युक्त उपक्रमोपसंहारादितात्पर्यलिङ्गरद्वितीये ब्रह्मणि वेदान्त- तात्पर्ये निर्णीते सामान्यतोदृष्टानुमानेन श्रुत्यर्थबाधायोगात् । श्रुतिविरोधे प्रमाणान्तराणामाभासत्वात् । यदपि लोके दर्शना- दुपादाननिमित्तयोर्भेदोऽभ्युपेयत इति।तदसद्।ऊर्णनाभ्यादेरभिन्न- निमित्तोपादानस्य दृष्टत्वात् । यथोर्णनाभिः सृजते गृह्यते चेति श्रुतेः । ऊर्णनाभिः स्वप्राधान्येन निमित्तं सोपाधिप्राधान्येनो- पादानं च । तथा ब्रह्म स्वप्राधान्येन निमित्तं स्वमायोपाधिमाधा- न्येनोपादानम् । तथा च प्रपश्चो मायायाः परिणामो ब्रह्मणो वि- वर्त इति सिद्धम् ॥ ६८॥ किञ्च श्रुतिसिद्धं नामरूपातिरिक्तं प्रपञ्चस्य स्वरूपं नास्ती. त्याह- न नामरूपादपरं स्वरूपम् कार्यप्रपंचस्य हरेविचारात् ॥ मायेन्द्रजालादिभिरस्य तौल्यं प्रतीयते स्वानुभवेन सम्यक् ॥ ६९ ॥ ननामति । हरेरीश्वरस्य कार्यप्रपञ्चस्य विचारे क्रियमा- णे सति नामरूपादपरं स्वरूप न प्रतीयते । न केवलं श्रुति ममा- णमाकिन्तु सम्यगसन्दिग्धाविपर्यस्ततया स्वानुभवेनाऽपि नामरू- पानापरं रूपं प्रतीयत इत्यर्थः । अनेन जीवेना ऽऽत्मना ऽनुम- विश्य नामरूपे व्याकरवाणीति छान्दोग्ये । तदेदं तीव्याक- तमासीत्तन्नामरूपाभ्यामेव व्याक्रीयत इति बृहदारण्यकश्रुतेश्च । तदुक्तमाचार्यैः। ॥
स्वानुभवादः अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगनृपं ततो द्वयमिति । अतो हेतोर्मायेन्द्रनालादि अस्य तौल्यं तुल्यत इत्यर्थः ॥ ६९॥ एवं जगपं नामरूपमात्रमुक्त्वा ब्रह्मस्वरूपमाह- यस्मिन्नदोऽध्यस्ततया विभाति त्यलुप्तदृक् तत्परमार्थवस्तु ॥ अन्तर्बहिर्यच्च सदैकरूपम् नान्तर्बहिर्यस्य ततोऽन्यदातम् ॥ ७॥ यस्मिन्निति । यस्मिन् अदः जगधदा विभाति भासते। तदा अध्यस्ततयैव विभाति न स्वतः सत्तास्फुरणाभ्यामित्यर्थः । अत एवोक्तं वार्तिके। परमार्थमनालिंग्य न दृष्टं वितथं कचित् । अतो ऽयं वितथं सर्व परमार्थैकनिष्ठितमिति ।। यस्मिन्निदं विभाति तत्स्वरूपमाह । हि निश्चयेन अलुप्तहक् न लुप्ता दृक् दृष्टिर्यस्य तदित्यर्थः । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति श्रुतेः । चेत्यपरम् । अन्तर्बहिश्च शरीरान्तर्वाहश्च देहलीदी- पन्यायेन प्रकाशकत्वाद्यदेकरूपमित्यर्थः । अत एव सदा ऽव्य- भिचारिरूपम्।यद्वा सदैकरूपं सर्वस्मिन् काले एकरूपं न परिणा- मीत्यर्थः । यस्य स्वत आकाशस्य वाऽन्तर्बहिश्च विभागोना- ऽस्ति तत् परमार्थवस्तु त्रिकालाबाध्यं ब्रह्म ततो ऽन्यदातबाधि- तमसत्यत्वादित्यर्थः ॥ ७० ॥ अध्यासलज्ञणमाह- परस्मिन्परस्यावभासोऽत्र सद्भिः मृषाधीश्च विश्रान्तिरभ्यासउक्तः॥
५९ स्वानुभवादर्शः। गुडस्तिक्त इत्यादिकऽयं प्रयोज्योऽ हमज्ञो न जानेऽद इत्यादिकेऽपि ॥ ७१ ॥ परस्मिन्निति । परास्मिन् अधिष्ठाने परस्या ऽवभासो मि- भ्याज्ञानमध्यास उक्तः । अध्यासस्यैव मृषाधमिथ्याज्ञानं भ्रा- न्तिरित्यादिपर्याया ज्ञेयाः । लक्ष्ये लक्षणं वर्तयति । गुडस्तिक्त इ- त्यादिना गुडेऽधिष्ठाने तिक्तस्या ऽवभासो मिथ्याज्ञानं तथाऽह मज्ञो मन्दो न जाने । तत्राऽहं अस्मच्छब्दस्याऽवलम्बनतया सा- क्षी चिद्रूपः तस्मिन् अज्ञत्वं मिथ्याज्ञानमध्यासो ज्ञेयः । अज्ञानाव- भासके अनत्वप्रतीतिरयं कारणाध्यासो ऽहमदो घटादिकं न जाने अयं कार्याध्यास एवं योज्य इत्यर्थः ।। ७१ ॥ 'नन्वध्यासो गुडः तिक्त इत्यादिके गुडतिक्तयोः परस्परा- ध्याससत्ता स्वीकार्या ऽन्यथेतरप्रतीतिरेव न स्यात् । तस्मात् प- रस्पराऽध्यासो ऽङ्गीकर्त्तव्य इत्यागतम् । तथा च चैतन्ये प्रपञ्चो ऽध्यस्तः प्रपञ्चे चैतन्यमिति परस्पराध्यासे सम्यकज्ञानेना अध्य- स्तयोनिवृत्तौ शून्यवादः प्राप्तः तत्र समाधानमाह- सत्यानृतात्मं मिथुनं परस्परम अध्यस्तमेतत्प्रतिभाति विभ्रमे ॥ सम्यक् प्रबोधादनृतस्य पीडनात सत्यस्य शेषान्नहि शून्यता द्वयोः ॥ ७२ ॥ सत्येति । अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चक- मिदं सत्याऽनृतात्मकं मिथुनं विभ्रमे भ्रान्तौ परस्पराध्यस्त- मेतद्विभाति । तथा हिं । अस्ति घटो भाति घटः प्रियो घट इ- त्यादिव्यवहारे सत्तास्फुरत्ताप्रियताःघदादयः परस्पराध्यस्तयावि- ६० स्वानुभवादः भान्ति । सत्तायां घटः घटे सत्ता, भाने घटो घटे च भानं, मियतायां घटो घटे च प्रियता । तत्र सत्तास्फूर्ती प्रसिद्ध। प्रियता पनुकूलवे- दनीयता । एवं परस्पराध्यस्ततयैव भान्ति । एकतराध्यासाङ्गी- कारे अपरस्य स्फुरणं न स्यादतः परस्पराध्यासो ऽङ्गीकर्तव्य इत्यर्थः। ननु परस्पराध्यासाङ्गीकारे सम्यक्ज्ञानेनोभयस्य वाधा- छून्यवादः प्रसज्यत इत्यत आह । सम्यागति। अधिष्ठानसम्य- क्ज्ञानेनाऽनृतस्य बाधो योग्यत्वात् । सत्यस्य बाधावधित्वेन बा- धायोग्यत्वात् सत्यस्य शेषात् न शून्यवादः । यद्युभयमनृतं स्यात् तदा शून्यवादो वक्तव्यः। न चैवम् । तथा सति सम्यक्ज्ञानेनाऽनृ- तस्यैव पाधो न सत्यस्य तेन च नशून्यवादइति भावः ॥७२॥ पूर्व नामरूपत्वात् प्रपञ्चस्य मिथ्यात्वमुक्तं तदन्तर्गतक्रियायाः मिथ्यात्वं नोक्तमतः तस्यापि मिथ्यात्वकथनाय सप्तानब्राह्मणो- तमर्थमाह- व्यवहरति जीवो नामरूपक्रियाभिः स परिगणितसप्तान्नेषु मध्ये त्रिभिस्तैः ॥ परिपतति ततोऽधश्चोर्ध्वमायाति तूर्णम भ्रमति च बहु चास्मादिन्द्रजालं किमन्यत् ॥७३॥ व्यवहरतीति । बृहदारण्यके सप्तानब्राह्मणे श्रूयते । यत् सप्तामानि मेधया तपसाऽजनयत्पिता एकमस्य साधारणं द्वे देवानभाजयत्रीण्यात्मने कुरुते पशुभ्य एकं प्रायच्छदिति । तत्र त्रीण्यात्मने कुरुते इत्युक्तं तानि कानीति स्वयमेव ऽनुव्याख्या नेन दर्शयति श्रुतिः 'मनो वाचं प्राणानात्मने कुरुत इति' । अत्र मनः शब्देन रूपमुच्यते वाक्शन्देन वागिन्द्रियं निष्पाचं नाम । माणशब्देन क्रियायाः प्राणसाध्यत्वात् क्रियेत्युच्यत इति ।
ur स्वानुभवादर्शः। एकं ब्रीहियवाघनं सर्वसाधारणं तु तत् । दे दर्शपूर्णमासाख्ये देवानामेष ते मते ॥ क्षीरमेकं पशूनां तन् मनोवामाणरूपकम् । अमत्रयं चिदात्मार्थ तेन व्यवहरत्ययम् ॥ अनेन मनसा रूपप्रपञ्चो ऽत्रोपलक्ष्यते । वागिन्द्रियेण निष्पाचं नाम वागिह कथ्यते ।। पञ्चवृत्त्यात्मकात् प्राणादिह कर्मोपलक्ष्यते । नामरूपक्रिया एवमध्यात्म रूपवार्णितम् । ब्रह्मादि स्थावरान्तं यत् तज्जगत्रयमेव हि ॥ नाम रूपं कर्म चेति नाऽस्ति वस्त्वन्तरं कचित् । एवं सति परिगणितसप्तान्नेषु मध्ये नामरूपक्रियाभि- स्त्रिभिस्तैरनैर्मनादिभि मिथ्याभूतैर्जीवो व्यवहरति । तता नामरूपक्रियानव्यवहारात् पतति । नरक इति शेषः । ऊर्ध्व गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा इति ॥ गीतोक्तेः । तस्मानामरूपक्रियात्मकं जगन्मषेति । तुर्ण चोर्ध्व स्वर्ग चाऽऽयाति चेत्यपरं बहु तिर्यगादिषु योनिषु भ्रमति। अस्मादन्यत्किमिन्द्रजालं व्यलीकत्वादिदमेवेन्द्रजालमि- त्यर्थः सिद्धः ॥७३॥ ननु प्रपञ्चो वारं वारं मृषेत्येवमुद्धोष्यते तत्र कुतो न सर्व- जनस्य मिथ्यात्वबुद्धिरत आह- उपादानचिद् व्याप्तमन्तर्बहिर्वा जडं मायिकं भाति कार्य समस्तम् ॥ मृषात्वेऽपि सत्यत्वधीरज्ञजातेः स्वानुभवादर्शः गुरोः शिक्षितस्यैवमिथ्यात्वसिद्धिः ॥ ७४ ॥ उपादानचिति ॥ जडं मायिक कार्य समस्तमन्तः शरीरे बहिश्च यद्भाति तदुपादानचियाप्तमेव भाति भासते । कार्यकारण व्याप्तमेव भासते मृद्धटादौ तथा दृष्टत्वान्न कारणातिरिक्तं का- र्यम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्त्येव सत्यमिति श्रुतेः। गुरुणैवं शिक्षितत्वाभावान्मूढजातेः प्रपञ्चे सत्यत्वबुद्धिः। गुरोः शिक्षितस्यैव पुंसः प्रपञ्चे मिथ्यात्वसिद्धिनीतः सर्वजन- स्येत्यर्थः ॥ ७४॥ उपादानकार्ययो_लक्ष्यण्यात्सत्यत्वमिथ्यात्वनिर्णयमाह- उपादानचिद्यादृशीतागंवाऽ न्यथाऽन्ते विभाति स्वरूपात्कदापि ।। अतः सत्यता स्याज्जडं कार्यजातम् विभात्येव नानाप्रकारं मृषा तद् ॥ ७५ ॥ उपादानेति ॥ उपादानचैतन्यमेकरसत्वात्कदाप्यन्यथा न भाति । जडं प्रपश्चरूपं कार्यजातं तु त्रिगुणकार्यत्वादनेकरस- त्वान्मृषैव तदित्यर्थः । तदुक्तम् । सकृत्लामित्वरूपाचद्रूपमन्यत्कथञ्चन । नैव प्रपद्यते सत्वं तत्स्यात्कार्यविलक्षणमिति ॥ ७५ ।। अधिष्ठानसम्यक्ज्ञाने सति तद्विवर्तः प्रपञ्चस्तदतिरिक्तो नास्तीति दृष्टान्तपूर्वकमाह- यथा वस्तुविज्ञानतश्चिहिर्वतः प्रपश्चः समस्तोऽपि चितकार्यमेव ।। यथारज्जुसम्यग्दृशा रज्जुमात्रम् - स्वानुभवादर्शः। भुजङ्गादिकल्पं ततोनान्यदस्ति ॥ ७६ ॥ यथेति ॥ कल्पितस्य पृथक्सत्ताविरहेणाधिष्ठानानतिरेका- दधिष्ठानमात्रत्वमित्यर्थः ॥ ७६ ॥ किञ्च- प्रपश्चसप्तत्वनिरूपणेन न ब्रह्मशब्दार्थनिरूपणं स्यात् ॥ इयत्तयान्यस्य जडस्य भानात् बृहत्वमर्थो न घटेत धातोः ॥ ७७ ॥ पप्रश्चेति । बृहत्वाद् बृंहणत्वाद् ब्रह्मेतिशब्दार्थो न घटत- इत्यर्थः । तदुक्तं वार्तिके। अव्यावृत्ताननुगतं वस्तु ब्रह्मति भण्यते । ब्रह्मार्थो दुर्लभोत्र स्याद्वितीये सति वस्तुनीति ॥ ७७।। उपादानसमसत्ताकोऽन्यथाभावः परिणामः उपादानविष- मसत्ताकोऽन्यथाभावो विवर्त इति परिणामविवर्त्तयोः पूर्वाऽपेक्षया लक्षणानन्तरं केचिद्वदन्ति तदपि दर्शयति- समानसत्ताकतयाऽन्यथात्वात् अज्ञानकाय परिणामसंज्ञम् ॥ ब्रह्मान्यसत्ताकतयाऽन्यथात्वात् तत्कार्यजातं हि विवर्त्तसंज्ञम् ।। ७८॥ समानसत्ताकतयेति ॥ तत्कार्यजातं ब्रह्मकार्यजातमि- त्यर्थः । मृद्धटयोरिव मायांतत्कार्ययोरेकसत्ताकत्वात्समानसत्ता- कत्वात्समानसत्ताकत्वमित्यर्थः । ब्रह्मतत्कार्ययोर्विषमसत्ताक.
स्वानुभवादर्शः
त्वादन्यथाभावो विवर्तीब्रह्मसत्ताया आरतत्वाचदहातसत्ताकत्वं
नास्ति किन्तु ज्ञातसत्ताकत्वमेव । अतो ब्रह्मविवर्त्तप्रपञ्च इत्यर्थः।
तुच्छस्याऽयं स्वभावो यावद्भासते तावदेव तस्य सत्ताऽन्यथा
नास्तीतिभावः ॥ ७८ ॥
बेदान्तनये कारणान्न कार्य भिन्नम् । वाचारम्भणं नाम
विकारो नामधेयं मृत्तिकेत्येव सत्यमितिश्रुतेः । ये तु का-
रणात्कार्य भिन्नं वदन्ति तन्मतं न युक्तं दोषदुष्टत्वादित्याह-
ये कारणात्कायमिदं विभिन्नम्
वदन्ति तेषां न मतं विशुद्धम् ॥
ये तन्तवः स्युस्तुलितास्तु तज्ज-
पटे गुरुत्वं द्विगुणं कुतो न ॥ ७९ ॥
येकारणादिति । स्पष्टार्थः ॥ ७९ ॥
यावत्मारब्धद्वैतं प्रपश्यन्नपि प्रजह्यादित्याह-
अधिष्ठनचैतन्यविज्ञानसिद्धौ
प्रपश्यन्नपि द्वैतमेतत्प्रजह्यात् ॥
प्रहाणं तदेवात्र यहाधितत्वा-
दुपेक्षा न पाषणववरहानम् ॥ ८ ॥
अधिष्ठानेति ॥ यावत्यारब्धद्वैतं प्रपश्यन्नपि प्रजयात्
कथं तदित्याह । यद्बाधितत्वात्महत्यविषयत्वेनोपेक्षा तदेवास्य-
प्रहाणमित्यर्थः । तदुक्तमाचार्यैः ।
उपेक्षा नामरूपे द्वे सच्चिदानन्दवस्तुनि ।
समाधि सर्वदा कुर्यादृदये वा ऽथ वा बहिरिति ॥८॥
स्वानुभवादर्शः। ६५ अध्यारोपापवादाभ्यां निष्पपञ्चम्पपञ्च्यते । इति साम्प्रदायिकोक्तरधिष्ठाने भ्रान्त्या प्रतीतस्याऽधिष्ठा- नमात्रशेषत्वमपवाद इत्यपवादलक्षणं लक्ष्ये दर्शयन् तद्बोधेन स्वस्य कृतार्थतां दर्शयति । अधिष्ठानचैतन्यासिंधोलेहर्यः प्रपश्चात्मिकाः कल्पिता भ्रान्तिमात्रात् ॥ अधिष्ठानबोधाद्वयं तन्निरासाद अधिष्ठानमात्रस्य शेषात्कृतार्थाः ॥ ८१ ॥ अधिष्ठानेति । स्पष्टार्थः ॥ ८१ ।। इदानी मिथ्यात्वं लक्षयति- यस्याऽत्यंताभाव एवास्ति यस्मि- स्तस्याऽ ज्ञानात्तत्र यहाति मिथ्या ॥ रजौ सर्पस्तैजसे तत्प्रपञ्चो ब्रह्मण्येवं भाति विश्वं मृषैव ॥ ८२ ॥ यस्येति ॥ स्पष्टार्थः ॥ ८२ ॥ मपञ्चमिथ्यात्वबुद्धिः कुतो न भवतीत्यत्र हेतुमाह- प्रातीतिकं यद्यवहारकाले संबाध्यते प्रायश एवं लोकैः ॥ ब्रह्मात्मबुद्धिं न विना प्रपञ्चः संबाध्यतेऽतोऽत्र यथार्थबुद्धिः ॥ ८३ ॥ मातीतिकमिति ॥ व्यवहारकाले गमनादिव्यवहारकाले -- स्वानुभवादर्शः आगन्तुकदोषजन्यं प्रातीतिक शुक्तिरजतादि सामग्रियशाद्वाध्यत एवं व्यावहारिकः प्रपञ्चो ब्रह्मात्मबुद्धिं ब्रह्मात्मज्ञानं विना न सम्बाध्यते तस्य तदेकनिमय॑त्यात् । सा चाऽनेकजन्मानितपुण्य- सञ्चयं विना न भवत्यतोत्र प्रपचे यथार्थबुद्धिः मूदानापि- त्यर्थः ॥ ८३ ॥ उक्तमर्थ विनिगमयति-- अलं बहुक्तेन बहुप्रकारैः सर्वज्ञनारायणवेदवाक्यम् ॥ वाचारम्भेत्यादि तस्मायलीकम् दृश्यं सत्यं ब्रह्मसिद्धान्त एषः ॥ ८४ ॥ अलामिति ॥ बहुमकारैः बहुत्वेन तर्केणाऽलम्पूर्यता त- कतां तर्कस्याऽनन्तत्वादित्यर्थः । कथं तर्हि सिद्धान्तसिद्धिरत आह सर्वज्ञनारायणानिर्मितवाक्यं 'वाचारम्भणं नाम विकारो. नामधेयं मृत्तिकत्येव सत्यं स्वतः प्रमाणं तस्मादधिष्ठानं ब्रीव सत्यं कल्पितं वश्यं व्यलीकं मिथ्यैवेति सिद्धान्तः। तर्कस्तु माना. नुग्राहकत्वादुपयोक्ष्यते न तु स्वतः प्रमाणमतोऽलमित्यर्थः । एवं च मागुक्तम् । दृशः किं स्वरूपं च दृश्यस्य किं वेत्पदोऽयं सं विचार्य मुमुक्षोरित्युक्तम् । तत्र सूपं ब्रह्म सत्यं दृश्यप्रपश्चो मिध्येतिनिश्चयः । तथा च संशयविरोधिनिश्चयेन पुनः संशया- नुदयः संपन्नः स्वस्येयमेव कृतार्थतेति भावः ॥ ८४ ॥ कृतेऽपि सिद्धान्ते सिंहावलोकितन्यायेन पुनराह- जीवा नियम्या भगवान्नियन्ता तत्प्रेरको भ्रामक एष हृत्स्यः ।।
स्वानुभवादर्शः। ६७ इत्यादि शास्त्रं बहु तावदेव ब्रह्मात्मभानं न हि यावदस्ति ॥ ८५ ॥ जीवेति । यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरोऽयं न पृ. थिवीं वेद पृथिवी यस्य शरीरं पृथिव्या अन्तरोऽयमेभ्यो लो- केभ्यो यमयत्येव तं आत्मान्तयाम्यमृत इत्यादि शास्त्रं ईश्व- रस्यान्तर्यामिणो नियामकत्वे जीवस्य च नियम्यत्वे प्रमाणम् । एष तु होव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उभिनीपत एवासाधु कर्म कारयति तं लोकेभ्यो यमेभ्यो ऽधो निनीपत इ- त्यादि श्रुतेः । स्मृतिश्च । अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेव वेति ॥ कर्तृकारयितृत्वे प्रेर्यप्रेरकत्वे प्रमाणं शास्त्रम् । ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति ।। भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययेत्यादि शास्त्रं भ्राभ्यभ्रामकत्वे प्रमाणम् । सर्वमेतदन्यच्च शास्त्रं तावदेव बहु तावदेव यावदहं ब्रह्मास्मीतिबुद्धिर्नास्ति ताव- त्पर्यन्तमेवेत्यर्थः । उत्पनायां प्रमात्मबुद्धौ भेदबुद्धनिवृत्तत्वा- कः कस्य नियन्ता कः कस्य नियम्यो वा स्यात् । त्वस्य सर्वमात्मैवाभूत् य इदं सर्व भवतीत्यादिश्रुतिभ्य इति भावः । इदं सृष्टिस्थितिपलयप्रवेशवाक्यानामुपलक्षणं एतेषामर्थ- चादकत्वेन स्वार्थे तात्पर्याभावात् । तर्हि किं तानि किमिती- श्वरेण निर्मितानीति चेद् अध्यारोपव्युत्पत्त्यर्थमिति बूम इति । तानि कानि वाक्यानि कथं वा तेषां स्वार्थे तात्पर्याभाव इति चेदुच्यते । “तत्र यतो वा इमानि भूतानि जायन्ते येन जानानि यत्र
"
६८
स्वानुभवादर्शः
यत्प्रयन्त्यभिसंविशन्तीति " सृष्टिस्थितिमलयवाक्यान्येवम-
न्यान्यपि । तत्र सृष्टिर्नाम उत्पत्तिः सा न सम्भवति ।
नाऽसतो विद्यते भाव इति स्मरणात् ।
असत उत्पत्यसम्भवात् तत्र श्रुतितात्पर्य न सम्भवति
स्थितिकालेऽप्यसत्वादेव तन सम्भवति । एवं प्रलयोऽपि न स-
म्भवति तस्योभयाधीनत्वात् । “ आदावन्ते च यत्रास्ति वर्त-
मानेऽपि तत्तयेति " स्मरणात् । “तत्सृष्ट्वा तदेवाऽनुमाविशत्"
स एष इह प्रविष्ट आनखाग्रेभ्य इत्यादि " प्रवेशवाक्यानि ।
सत्र प्रवेशो नाम प्रतिविम्बसिद्धान्तितः स च स्वरूपेण मृषैव ।
अतः प्रवेशवाक्यानामपि स्वार्थे न तात्पर्यमेवमूधम् ॥ ८५ ॥
"इदानीं भयं द्वितीयाद्भवतीति वेद" इत्यादिना श्लोके-
नोक्तं तदुपसंहरति-
एवं श्रुतिन्यायविचारणेन
द्वितीयमेतन्न कुतो भयं स्यात् ॥
अतोऽभयं वै जनकेति वाक्या-
घनीतिहीनं मम तत्स्वरूपम् ॥ ८६ ॥
एवमिति ॥ स्पष्टार्थः ॥ ८६ ॥
कर्रामक मन्यथाकर्तुमीश्वरः कालचक्रपयोक्ता तस्मा-
कालचक्रादपि मे भयं नास्तीति सहेतुकमाह--
यहादशारं किल कालचक्रम्
त्रिणाभि यच्चाप्यजरं परिभ्रमत् ॥
गोपालकृष्णस्य करस्थितं य.
त्स एव कृष्णोऽस्मि कुतो भयं ततः ॥ ८७ ॥
स्वानुभवादर्शः। यदिति ॥ किल इति वेदे श्रूयते द्वादशमासाश्चैत्रादयो यस्याराकोणाः किलास्त्रीणि चातुर्मास्यानि यस्य नाभयः य- चाऽजरं सर्वदैव नूतनमपि च परिभ्रमणभिमेषादिवत्सरान्तस्व- रूपेण परितो भ्रमत्मयोक्तुः श्रीगोपालकृष्णस्य करस्थितं प्रयो- क्तुरधीनं स प्रयोक्ता कृष्णः। कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ इति निरुक्तः । स कृष्णोऽहमविद्यानिवृत्त्याऽस्मि । एवं व सति ततः कालचक्रादतिघोरान्मम कुतो भयं नास्ति भयमित्य- र्थः । मध्यतिरिक्तस्याभावादित्यर्थः ॥ ८७ ॥ भीतिस्वरूपं वदन् तत्कृतोहं बिभेमीति प्रत्ययो भ्रान्ति- रित्याह- भीतिर्मनोवृत्तिरियं द्वितीया- दुत्पद्यते चेतसि तद्विकारः ॥ आरोप्य तामात्मनि निर्भयेऽपि बिभेम्यहं भ्रान्तिरियं मृषैव ॥ ८८ ॥ भीतिरिति ॥ "कामः सङ्कल्पो विचिकित्सा श्रदाऽश्रद्धा धृतिरधृतिर्धाीः एतत्सर्वं मन एवेति" श्रुतेः।मे मनसि भय- मुत्पन्नमिति प्रत्ययाच भीतिर्मनोवृत्तिः । इयं द्वितीयाद्भयहेतोश्चेत- सि उत्पद्यतेऽतो सौ तद्विकारश्चेतःपरिणामो राजसः। एतादृशीं भीति निर्भये प्रत्यगात्मन्यारोप्याऽहं बिभेमीति । भ्रान्तिाअयोद- इतीतिवद् अतस्मिन् तबुद्धिर्मषैवेत्यर्थः । उक्तं च भागवते । "भयं द्वितीयाभिनिवेशतः स्यादिति" ॥ ८८ ॥ एवं तावज्ज्ञानं समस्तं खलु धर्मिमात्र इत्यारभ्य भीतिर्म- स्वानुभवादर्शः नोवृत्तिरित्यन्तैः श्लोकैस्तत्पदार्थशोधनं कृतम् अधुना त्वम्पदा र्थशोधनं वाक्यार्थज्ञानोपयोगितया क्रियते--- नाहं स्थूलं सप्तधातुस्त्ररूपम् विष्टाभाण्डं प्रस्रवग्छिद्रमन्नम् ॥ वादेर्मूलं सर्ववर्णाश्रमाणाम् तादात्म्यं मे तेन नो द्रष्टुभावात् ॥ ८९॥ नाहमिति ॥ अहमस्मत्मत्ययशब्दयोरालम्बनीभूतः - त्यगात्माऽहं पश्चीकृतपञ्चमहाभूतकार्य कर्मजं स्थूलशरीरं न भवामीतिशेषः । अहं शरीरमिति प्रत्ययाभावात्तद्गतस्थूलत्वादि- धर्मेणैव देहाध्यासोऽत उक्तं नाऽहं स्थूलमिति । पञ्चीकरणं त्वा- काशादिपश्चसूक्ष्मभूतानि प्रत्येकं द्विधा विभज्य पुनरपि तत्मा- थमिकान्भागान्प्रत्येकं चतुर्धाविभज्य तेषां भागानां इतरचतुरंशे स्वं स्वं भागं विहाय संयोजनं । एतच्चैश्वरककमित्याकरे विस्तरः। पञ्चीकृतपञ्चमहाभूतकार्यत्वं काष्ठकुड्यादेरप्यस्ति ततोऽतिनिकृष्टं शरीरमित्याह । सप्तधातुस्वरूपं रुधिरमांसमेदःस्नायवस्थिम- जाशुक्रतिसप्तधातुमात्रं विष्ठाभाण्डम् । सर्वानुभवसिद्धमेतत् । प्रकर्षेण लवन्ति छिद्राणि यस्य तत्तथा । तत्रायो द्वे सप्त मुखे । वादेर " अद्यते इति च भूतानि तस्मादनं तदुच्यत" इति श्रुतेः अममममयकोशत्वात् । सर्वे च ते वर्णाश्चाश्रमाश्च तेषां मूलं निदानम् । स्थूलदेहनिवन्धना एव सर्वे वर्णाश्रमधर्माः 'प्रामणो जातो मृत' इतिबामणवर्णत्वदेहस्यैव तथाऽऽश्रमा ब्रमचर्यादयो- 'अष्टमे वर्षे ब्राह्मणमुपनयेदित्यादि" कल्पवचनेभ्यः । अत एवोक्त- म् । इस्तामलकाचार्यैः। नाऽहं मनुष्यो न च देवयक्षो ७१ - स्वानुभवादः। न ब्राह्मणः क्षत्रियवैश्यशूद्रः। न ब्रह्मचारी न गृही वनस्थो- भिक्षुर्न चाऽहं निजबोधरूप इति ॥ आचार्यैरप्युक्तम् , न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि । अनात्माश्रयोहं ममध्यासहानात् तदेकोऽवशिष्टः शिवः केवलोऽहमिति ॥ एवम्भूतेन देहेन मे तादात्म्यं ऐक्यं न, तत्र हेतुमाह । द. ष्टुर्भावाद्रष्दृत्वादित्यर्थः । द्रष्टा दृश्यानिम इति सिद्धम् अतो न स्थूलदेहतादात्म्यं प्रत्यगात्मना सह घटत इति भावः ।। ८९ ॥ एवं षण्डत्वादयोऽपि देहस्यैवेत्याह- नाऽहं षण्ढो नैव योषित्पुमान्वा नाहं बालो नैव वृद्धो युवा वा ॥ देहस्यैतऽध्यासतो भान्ति भावाः प्रत्यक्तले पूर्ण एवाधुनाहम् ॥ ९० ॥ नाहमिति ॥ एतेषां पंढादयो भावाः देहस्यैव देहाव- च्छिन्ने प्रत्यक्षे प्रत्यगात्मनि मूढानामविवेकाध्यासतो भान्ति । विवेकादहं पूर्ण एषाऽधुना विवेककाले ऽस्मीत्यर्थः। पंढादित्वे बीजमाह श्रुतिः “ पितूरेतोऽतिरेकात्पुरुषो मातूरेतोऽतिरे- कात्ती । उभयोजितुल्यत्वानपुंसकं ब्याकलितमनसोऽन्धाः खञ्जाः कुब्जा धामनकाः भवन्त्यन्योन्यवायुपरिपीडितशुक्रवैवि- ध्याद्विविधा तनुः स्यात् तनुयुग्माः प्रजायन्त इति" तपढत्वादयो ऽमरसमयोपादानत्वात् तत्रबालत्वादयः परिणामशक्तिरूपकाल- ७२ स्वानुर्भवादशः -- कृता इति विवेकः ॥ ९ ॥ इदानीं देहेऽहंमतिरप्यविवेकनिबन्धनैवेत्याह- आत्मच्छाया व्याप्तबुद्धेः प्रवेशा- स्थूले देहेऽहंमतिः साऽविवेकात् ॥ सर्वानर्थप्राप्तिबीजं नराणाम् भ्रान्तिश्चैषा साऽधुना मे न चाऽस्ति ॥ ९१ ।। आत्मच्छायेति ॥ आत्मनः प्रतीचः छाया आभासस्तेन व्याता या बुद्धिस्तस्यास्थूले देहे स्थूलभोगार्थ प्रवेशं प्रतिफल नं भवति यदा तदा देहेऽहंमतिरुदेति । जाग्रत्काले सा चाऽवि- वेकाद्विवेकामावादात्मच्छायाव्याप्तधुद्धिनिबन्धनात्तदभावे सुषुप्तौ नैवेत्यविवेकाद्भवति सा देहेऽहंमतिरित्यर्थः। अत एवैषा भ्रान्ति- रतस्मिंस्तबुद्धिः । तदुक्तं "चिच्छायावेशतो भानं धीरित्यादि सा सुखेनैवाऽस्तु किं तयेत्यत आह । सर्वानर्थप्राप्तिबीजं नहीदं देहेऽहङ्कारं विना कोऽपि किश्चित्करोत्यतः तस्या उच्छेदेऽतिय- वो विधेय इति भावः । किमनेन परोपदेशपाण्डित्येनेत्यत आह । सा अविवेकनिबन्धना देहेऽहंमति मम विवेकात् गुरु- शास्त्रप्रसादादधुना तदनुग्रहसमये नास्तीति तस्मात्सर्वानर्थोच्छे. दकदेहाहकारविवेकसिध्यै गुरुशास्त्रप्रसाद एव सम्पादनीय इति- भावः । तस्मात् सर्वानर्थमूलं सा अविवेकनिबन्धना एषा मम विवेकादधुना नास्तीत्यर्थः । उक्तं च । चिच्छायावेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाहंकृतिरूपा स्यादन्तःकरणरूपिणीति ॥ भानं विशेषतो भानमित्यर्थः ॥ ९ ॥ यथा देहेऽहंमतिः भ्रान्तिस्तथा देहे ममत्वप्रतीतिरपि भ्रा-
स्वानुभवादर्शः।
७५
न्तिरवेत्याह-
षष्ठ्यर्थस्याऽसंगतेरत्यसंगे
यस्मादेहे या ममत्वातीतिः ॥
भ्रान्तिश्चैषा साऽविवेकेन सिद्धा
निःसङ्गत्वात्साऽधुना मे न चास्ति ॥ ९२ ॥
षष्ठीति ॥ षष्ठयर्थः सम्बन्धस्तस्याऽसंसर्गेऽतिक्रान्तस-
म्बन्धे । “असङ्गोयहं पुरुष" इतिश्रुतेः । तस्मिन्नात्मनि सर्वथैवा-
ऽसङ्गे ऽसंगतेरमाप्तेरप्येवं सति यस्मात्कारणादेहे या ममत्वबु.
द्धिरसङ्ग आत्मेति विवेकाभावात् सा । एवमविवेकात्स्वसम्बन्ध-
बुद्धिः सा भ्रान्तिः । सा विवेकेन मम निःसङ्गत्वादधुना ना-
स्तीत्यर्थः ।। ९२ ।।
यथा देहे ममत्त्वप्रतीतिर्धान्तिस्तथा स्त्रीपुत्रादिष्वपि ममत्व-
प्रतीति/न्तिरित्याह-
किमपि मोहनशक्त्यधिदैवतं
विरचितं विधिना ह्यबलाभिधम् ॥
रुधिरमांसमयं परमार्थतो
भवति तेन जितं भुवनत्रयम् ॥ ९३॥
मनोमयी मांसमयी विधात्रा
नारी नराणां निगडस्वरूपा ॥
अमुत्र बन्धाय.विनिर्मिताऽऽद्या
स्थादत्र बन्धाय तथा द्वितीया ॥ ९४ ॥
७४ - स्वानुभवादर्शः स्त्रीपुंतनूनां रुधिरादिपंच- भूतात्मकत्वं च समानगेव ॥ देहस्य संस्थानविशेषमात्रम् परसारं मोहकरं न चान्यत् ॥ ९५ ॥ तत्र स्त्रीषु ममत्त्वकरणे महाननर्थ आह श्लोकत्रयेण किम- पीत्यादि इमे त्रयोऽप्यतिरोहितार्थाः श्लोकाः ॥ ९३॥९४॥९५॥ एवं स्त्रीणामनर्थकरत्वं निरूप्य तत्र ममता न कार्येत्याह- एतादृशे ऽर्थे ममता न युक्ता तथा सुतेऽन्यत्र गृहादिकऽपि ॥ परस्यरं कासवशान् ममत्वं मे विदितं विवेकात् ॥ ९६ ॥ एतादृश इति । “आत्मनस्तु कामाय सर्व प्रियं भवतीतिश्रु- तेः" ॥ काममूलैव ममता न वस्तुगत्या कामाभावे कः कस्य ममतास्पदं प्रेमास्पदं चेत्यनुभवसिद्धमित्यर्थः ॥ ९६ ॥ ननु नाऽपुत्रस्य लोकोऽस्तीति,, वचनात् । “पुत्रार्थमृतौ- भार्यामुपयादितिवचनाच" । स्त्रीषु ममता विधेयैव कथं तत्र ममता निषिध्यत इति चेत्तत्राह- वैगुण्यमात्रविषयाः खलु कर्मवंदा इत्थं हरेभगवतो वचनं प्रमाणम् ॥ आदृत्य चानुभवतः परमार्थनिष्ठाः भार्यामृताविति वचः खलु नाद्रियन्ते ॥ ९७ ॥ तच्चाऽधुना ॥
स्वानुभवादर्शः। ७२ चैगुण्येति ॥ त्रैगुण्यविषया वेदा निस्त्रै गुण्यो भवार्जुनेति भगवतो वाक्यं प्रमाणं याथार्थनादृत्य तथा स्वानुभवतश्च वेदानां त्रैगुण्यविषयत्त्वमादृत्य परमार्थनिष्ठाः पुरुपा ऋतौ- भार्यामुपेयादितिवचनं नाद्रियन्ते संसारमूलकत्त्वादित्यर्थः । परमार्थनिष्ठत्त्वं चेत्थं । “तद्ध स्मवैतत्पूर्व विद्वांसः प्रजां न का- मयन्ते किम्पजया करिष्यामो येषां नोऽयमात्मायं लोकइतिश्रुतेः,, संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ॥ प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः । इतिस्मृतेश्च । पुत्रप्राप्तिभिया पुत्रार्थ भार्यायां ममत्त्वं न कु. वतीति ॥ श्रुत्यर्थस्तु येषां नोऽस्माकमयमपरोक्ष आत्मायं लोकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्यामो ऽतो हेतोः पूर्व विद्वांसः प्रजा न कामयन्त इति । स्मृत्यर्थस्तु त्रैगुण्यं सं- सारः स विषयः प्रकाशितव्यो येषां ते कर्मकाण्डबेदाः कर्मप्रति- पादकाः श्रुतय इति । किश्च । “अथ त्रयो वाव लोका मनुष्य- लोकः पितृलोको देवलोक इति । मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको, विद्ययादेवलोको देवलोको वै लोकानां श्रेष्ठतमस्तस्माद्वियां प्रशंसन्तीति श्रुतेः,, ॥ पुत्रेण मनु- ज्यलोकातिरिक्तं फलं नास्तीति निकृष्टफलत्त्वात्पुत्रफलं नाद्रि- यन्ते । श्रुत्यर्थस्तु ॥ वार्तिकसारे । पुत्रेण जय्यो लोको ऽयं पितृलोकस्तु कर्मणा विद्यया देवलोको ऽतो द्वाभ्यां विद्या प्रशस्यते ।। क्रियावाल्लोकहेतुत्वं युज्यते कर्मविद्ययोः । द्रव्यात्मनस्तु पुत्रस्य कथमित्त्युच्यते शृणु ॥ प्रव्रजिष्यन्मरिष्यन्वा पिता कर्त्तव्यमात्मनः । पुत्रे ऽध्ययनयागादि सर्वमप्यर्पयत्यसौ ॥
७६ स्वानुभवादर्शः यागाध्यनकाम्यानि कुर्वन्पुत्रः पितुप॒हे । , वसत्येतावता पुत्रजितोऽयं लोक उच्यते इति । इतराण्यपि श्रूयन्ते । “सो ऽस्या ऽयमात्मा पुण्येभ्यः कर्म- भ्यः प्रतिधीयते अथाऽस्याऽयमितर आत्मा कृतकृत्यो वयोग- सः मैति स इतः प्रयन्नेव पुन जायते तदस्य तृतीयं जन्मेति,, श्रुतेरयमर्थः ॥ अस्य पितुवात्मानौ देही तयोर्मध्य अयमा- स्मा पुत्ररूपो देहः पुण्येभ्यः कर्मभ्यः शास्त्रोक्त निष्पादनार्थ प्रतिधीयते स्वस्य प्रतिनिधित्त्वेन गृहे ऽवस्थाप्यते। ननु किमनेन प्रतिनिधिना स्वयमेव कुतो न करोतीत्यतआह । अथेति। अस्य पितुरितर आत्मा स्थविरो देहः कृतकृत्यः कृतान्येतजन्मप्रयु- तानि सर्वाणि कर्माणि येनाऽसौ कृतकृत्यः लौकिकानां कुटुं- बपोषणादीनां शास्त्रीयाणामग्रिहोत्रादीनां च निष्पादितत्वात्कृ- तकृत्त्यत्वं वयोगतः पयसा पूर्वकर्यसम्पादितेनाऽऽयुषा गतो ही नः प्रैति स इतः प्रयन्नेव पुनर्जायत इत्यर्थः । तस्मादेवं निक- टफलत्वात् पुत्रार्थ स्त्रीषु ममताकरणमनुचितामतिभावः ॥ ९७।। किच- खस्यासत्वात्सर्वतो दुःखदा ये पुत्रा दारागारभृत्यादयो ऽन्ये ॥ तेषु प्रीत्या यो ममत्वाभिमानो भ्रान्तिश्चैषा नास्ति मे सद्विवेकात् ॥ ९८ ॥ स्वस्येति ॥ स्वस्य स्त्रीपुत्रादरित्यर्थः ॥ शेषं स्पष्टम् ॥१८॥ एवं स्थूलदेहादात्मानं विविच्य अधुनालिङ्गदेहादात्मनो विवेकः क्रियते- ना ऽहं सूक्ष्मं सप्तपत्त्यात्मकं य- ७७ स्वानुभवादर्शः। त्स्वप्नस्थानं वासनादेहसंज्ञम् ॥ अस्पाध्यासात्स्थलदेहादिबन्धः साक्ष्यं तन्मे साक्षिणोऽतोऽस्मि भिन्नः ॥ ९९ ॥ नाहमिति ॥ सप्तदशात्मकं पञ्च प्राणा मनो बुद्धिर्दशे- न्द्रियाण्येवं सप्तदशावयवात्मकं स्वमस्थानं वासनादेहसझं अ- स्याऽध्यासात्स्थूलदेहादिवन्धः लिङ्गदेहाध्यासमूलः स्थूलदे- हाध्यासः आदिशब्देन स्थूलविषयाध्यासस्तल्लक्षणो बन्ध एता- दृशलिलं नाहं मम तेनातादात्म्यमित्यर्थः । तत्रहेतुमाह । मे मम लिङ्गदेहसाक्षिणस्तल्लिङ्गं साक्ष्यं भिन्नमतो हेतोरहं तस्मा- द्भिनो विलक्षणमित्यर्थः । अत्र यद्यपि साक्षिसाक्ष्यभावेन सूक्ष्मदेहादात्मा विवेचितस्तथापि तदवयवेषु मूदानासात्मत्वद- र्शनात्तेभ्योऽप्यात्मा विविच्यते ॥ तथाहि । अहमशनायावानई- पिपासावानितिप्राणधर्ममात्मन्यारोप्य प्राण आत्मेति मन्यन्ते तम सुषुप्ते चैतन्याभावात् । प्राणस्येतरस्मिन्काले भृत्यस्वामिनोरिव सङ्कीर्णयोर्न ज्ञायते कस्येदं चैतन्यमिति । सुषुप्ते तु पुनः विज्ञा- नरहितः प्राण उपलभ्यते । करणोपरमाद्विज्ञानाभावः माण- स्येतिचेन्न । स्वामिनि व्याप्रियमाणे करणोपरमाभावो न राज- पुरुषवत् । अत एव न प्राणस्यैतानि करणानि यः स्वापेनो- परतस्तस्यैतानि करणानि । यदाऽसौ बहिर्निर्गम्य करणान्यधि- तिष्ठति तदा सर्वाणि करणानि स्वस्वव्यापारेषु प्रवर्त्तन्ते। यदा- जागृतस्थितिनिमित्तं कर्मोद्भूतं भवति तत्क्षणे सर्वाणि करणानि गृहीत्वा बुध्युपाधिसंपर्कजनितविज्ञानेन स्वमंसुषुप्तं वा गच्छति । एवं स्थानत्रयमनवरतं जीवो गच्छति कर्मनिमित्तं चेदं गमनात गमनं यत्स्वमप्रजागरिते गच्छति पुनः स्थानद्वयनिमित्तकर्मो- ७८ स्वानुभवादः द्भूतश्रमापनयनाय सुषुप्तमपि गच्छति । एवं प्राणस्तत्कर्मवशा- देव शरीरं परिपालयन्वर्त्तते स्वमसुषुप्तयोर्मतभ्रांतिपरिहाराय तस्मात्माणोनाऽऽत्मा । काणो ऽहं बधिरोऽहमितीन्द्रियधर्ममा- त्मन्यारोप्येन्द्रियाण्यात्मेति केचिद्वदन्ति तन्न । तत्र चक्षुरा- त्मा न भवति रूपग्रहणसाधनत्वात् प्रदीपवत् । यथा प्रदीपेन करणेन रूपमुलभते तथा चक्षुःकरणेन रूपमुपलभते । एवमेवे- तराण्यपि करणानि ज्ञेयानि । तथा मनोप्यात्मा न भवति दृश्य त्वात् करणत्वाच्च प्रदीपवदेव । बुद्धिरप्यात्मा न भवति दृश्य- त्वात् करणत्वाच्च पदीपवदेव । तस्मात् सप्तदशाऽ वयवा अपि न प्रत्यगात्मेति ज्ञेयं कर्तुः करणसापेक्षत्वात् । कर्तृकरणयोरे- कत्वं न सम्भवति । अतः । करणभिन्नचिदाभासरूपः कर्ता इत्यपि ज्ञेयम् । ननु सप्तदशावयवं लिङ्गमिति सप्तदशसंख्या न युज्यते इन्द्रियाणां न्यूनाऽधिकत्वश्रवणात् । तथाहि । सप्त प्राणाः भवन्ति तस्मात्सप्तेन्द्रियाणि कचिच्चाष्टौ ग्रहा अष्टावति. ग्रहा इत्यष्टौ ग्रहाः पुरुषपशुबन्धका इन्द्रियाणि रागाद्युत्पादन- द्वारेण इन्द्रियाकर्षका विषया अतिग्रहा इत्यर्थः। “सप्त वै शी. पण्याः प्राणा द्वावांचावित्यत्र" "नव अवांचौ पायूपस्थौ नव वै पुरुषे प्राणा नाभिर्दशमीत्यत्र" "दश वै पुरुषं प्राणाः आत्मै- कादशः अत्रा ऽऽत्मा मन" एवं क चिद्वादश कचिच्च त्रयोदशे- न्द्रियाणि श्रूयन्ते । तथा च न सप्तदशावयवं लिङ्गमिति चेन्न । ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपश्चकमिति दशेन्द्रियाण्येव नाऽधिकानि न न्यूनानीति ज्ञेयम् । शिवगीतायां पद्मपुराणे सप्तदशावयवं लिङ्गमुत्पत्तिक्रमेण स्मर्यते । श्रोत्रत्वक्चर्रसनप्राणानां क्रमेण दिग्वातार्कवरुणाश्विना अधिष्ठातृदेवताः । मनोबुध्यहकार- चित्तानां चन्द्राच्युतचतुर्मुखशङ्कराः । वाक्पाणिपादपायूपस्थानां स्वानुभवादर्शः। ७९ वहीन्द्रोपेन्द्रमृत्युप्रजापतयो ऽधिष्ठातृदेवताः । व्योमादि सात्विकांशेभ्यो जायंते धीन्द्रियाणि तु । व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वा ऽथ तेजसः । चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः । व्योमादीनां समस्तानां सात्विकांशेभ्य एव च । जायते मानसी बुद्धिर्बुद्धिः स्यान्निश्चयात्मिका ॥ वाक्पाणिपादपायपस्थानि कर्मेन्द्रियाणि तु । व्योमादीनां रजोंऽशेभ्यो जायन्ते तान्यनुक्रमात् । समस्तेभ्यो रजोऽशेभ्यः पञ्च प्राणास्ततःपरम् । जायन्ते सप्तदशकमेवं लिङ्गशरीरकमिति । नागकूर्मककलदेवदत्तधनंजयाख्याः पश्चाऽन्ये वायवःसन्ति। नागउद्गिरणकरः। कूर्मउन्मीलनकरः। कुकलः क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकर इति वदन्ति । वेदान्तिनस्तु तेषां पृथक्कल्पनागौरवाच्छुत्यादिप्रमाणाभावाच्च प्राणादिष्वन्तर्भा- वम्बदन्ति । तथा एकमेवान्तःकरणं वृत्तिभेदाचतुर्विधम् । म- नो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयमिति । तत्र मनोबुद्ध्योरहं कारचित्तयोरन्तर्भावं वदन्ति तस्मात्सप्तदशावयवं लिङ्गमिति सि- द्धम् । उदाहृतश्रुतीनां व्यवस्था तु आकरतो ज्ञेया विस्तरभ- यानानोच्यत इति । अत्र नवीना इन्द्रियलक्षणमन्यदेव वदन्ति तच्चेत्थं । मुखदुःखानुकूलसाक्षात्ममितिक्रियान्यतरकरणमतीन्द्रिय मिद्रियम्।आलोकादावतिव्याप्तिवारणायाऽतीन्द्रियमित्युक्तम् । द- शेन्द्रियाणामपि विशेषलक्षणानि तत्र शब्दोपलब्धिसाधनमिन्द्रियं श्रोत्रं, स्पर्शोपलब्धिसाधनमिन्द्रियं त्वक, रूपोपलब्धिसाधनमिन्द्रि- य चक्षुः, रसोपलब्धिसाधनमिन्द्रियं रसनं, गन्धोपलब्धिसाध- नमिन्द्रियं घाणम् , वचनक्रियासाधनामिन्द्रियं वाक् , आदान- स्वानुभवादर्शः - क्रियासाधनमिन्द्रियं पाणी , गमनक्रियासाधनमिन्द्रियम् पादौ , विसर्गसाधनमिन्द्रियं पायुः, मुखक्रियासाधनमि- न्द्रियमुपस्थः । अत्र तेजोमयी वागिति श्रुतः । तैजसी वा- क्पादस्तु नाभस इति केचित् । अन्ये तु शब्दव्यंजकत्वेन श्रोत्र- वदचसो नाभसत्त्वं पादचिकित्सया चक्षुषः स्वास्थ्यदर्शना- चक्षुर्वत्पादस्याऽपि तैजसत्त्वं युक्तमित्याहुः । अनात्मविचारत्वा- दत्राऽत्यन्तं नाभिनिवेष्टव्यमिति दिक् ॥ ९९ ॥ अन्येभ्यो ऽपि मनोधर्मेभ्य आत्मानं विविच्य करतलापि- तबिल्ववदपरोक्षतया तं दर्शयति- अमनस्कतया न मेऽस्ति चिन्ता न च कामो न च धी न भी न लजा ॥ न समाधिविरोधभावना वा यत एते तदहं विभान्ति तेजः ॥ १० ॥ अमनस्कतयति ॥ "कामः सङ्कल्पो विचिकित्सा श्रद्धा- ऽश्रद्धा धृतिरधृति-धीरेतत्सर्वं मन एवेति श्रुतेः । आत्म- धर्मा एते न किन्तु मनसः । तत्र चिन्ताऽऽत्मीययोगक्षेमोपा- यालोचना सा मे नास्ति । तथा कामो ऽभिलाषः। चेत्यपरम् । धीनिश्चयात्मिका । च पुनः भीर्भयम् । तथा लजा प्रसिद्धा । मद्धर्मा न भवन्तीत्यर्थः । अत्र हेतुमाह । अमनस्कतया मनः- साक्षितया तद्भिन्नतयेत्यर्थः । तदेवं निर्विशेषो निर्धर्मक आत्मा कथं लक्षणीय इत्यत आह । यत एते उक्ताश्चित्तादयो धर्माः मनोधर्मिसहिताः विभान्ति प्रकाशन्ते येनैषां सिद्धिर्भवतीत्यर्थः। तत्तेजो ज्योतिरहमात्मेति स्वप्रकाशतयैव लक्षणीय इति भावः । तथा च श्रुतिः।
स्वानुभवादर्शः। यन मनसा मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति " ॥ तथा पातञ्जलसूत्रमपि । “ सदाशाताश्चित्तवृत्तयस्तत्पभोः पुरुषस्याऽपरिणामादिति"। तथा समाधिःसमाधानं विरोधो वैरं विक्षेपो वा भावना ध्येयाकारा वृत्तिरेते ऽन्येपि सर्वेऽपि मनो- धर्माः नाऽऽत्मनः । कस्तात्मेत्यत आह । यत एते उक्ताः प- दार्था भांति येनैषां सिद्धिः भवति स आत्मेत्यर्थः ॥१०० ॥ अस्याऽध्यासात् स्थूलदेहादिबन्ध इत्युक्तं तदत्र स्पष्टतया प्रतिपाद्यते- यथा मणिः स्वाश्रयनीलपीत. द्रव्यादियोगेन विचित्रवर्णः ॥ आत्मा तथा स्वाश्रयलिङ्गकर्म- दोषैरनेकैदुधेव भाति ॥ १.१॥ यथेति । आत्मा चिदाभासरूपो जीवः स्वाश्रयलिङ्गकर्म- दोषैः पुण्यपापरूपैरनेकैः बहुसंख्यैः संसारस्यानादित्वाद्वहुधेव बहुमकारमिव भाति । इवशब्दात् न वस्तुगत्या बहुधा स्वरूपम- स्येत्युक्तम् । तथा च श्रुतिः । तदेव सक्तः सह कर्मणैव लिङ्ग मनो यत्र निषक्तमस्य प्राप्यान्तं कर्मणस्तस्य यत्किह करोत्ययम् तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति नु कामय- मान इति"। अस्या श्रुतेरथः ॥ अस्योद्भूताभिलाषस्य लिङ्गं सप्तदशा- वयवात्मकं मनः प्रधानत्वान्मनः शब्दवाच्यम् । यत्र यस्मि- गन्तव्ये फले निषक्तं निश्चयेन सक्तं भवति तत्र सक्त- ११ ८२ स्वानुभवादर्शः स्तत्फलारम्भकीभूतकर्मणा सह तदेव गन्तव्यं फलमेति । नन्वेतद्भोगानन्तरं कामाभावान्मुक्तो भविष्यतीत्यत आह । अयं फलासक्तः कामी यस्मिन्लोके यत्किञ्चित्करोति तस्य कर्मणो भोगेन अन्तमवसानं प्राप्य तस्माद्भुक्तभोगात्पुनरेत्यागच्छति । अस्मै लोकाय अस्मिन् मनुष्यलोके । कर्मणे कर्मकरणार्थम् । एवं मनो धर्मकामासाधारणकं संसारमुपसंहरतीत्येवं नु कामयमान इत्यर्थः ॥ १०१ ॥ बहुधेवेत्युक्तं तदेव दर्शयति- देवस्तिर्यङ्मय॑संज्ञोऽण्डजादि- योनिः क्लिश्यन्नैव विश्रान्तिरासीत् ॥ लिंगाध्यासायापकस्यापि याता- ऽऽयाते नैते वस्तुतो मे भवन्ति ॥ १०२ ॥ देव इति । देवयोनिः तथा तिर्यग्योनिः मर्त्यसंज्ञो मर्त्यः योनिरण्डजादियोनिरादिशब्देन चतुरशीतियोनिरहमेव क्लिश्य- न् लिङ्गाध्यासादेताशस्य मे मम कदापि न विश्रान्तिरासी- त् । तस्मादेव हेतोापकस्याऽपि गमनाऽगमनायोग्यस्याऽपि यातायाते मे अभूताम् अहो लिङ्गाध्यासस्य सामर्थ्यमेतदिति।व- स्तुतस्तु परमार्थतः स्वस्यासङ्गत्वव्यापकत्वज्ञानादेते मम काल- त्रयेऽपि न भवतां न स्तः। यद्वा एते यातायाते परमार्थतो मेन भवतः। एते निरूपिता नानायोनिसंबन्धा अपि मे वस्तुतो न भ- वन्तीत्यर्थः ॥ १०२॥ ननु लिङ्गस्थकर्मदोषैरेव नानायोनिसंबन्धस्तीनीश्वरवादः प्राप्नोत्यत आह-- कर्माध्यक्षः सर्वलोकाधिवासो . स्वानुभवादः। ह्यतर्यामी नर्तयेत्सूत्रधारः ॥ तस्मात्प्राणी नृत्यते वासनाभि- स्ताभिस्तां तां योनिमायाति मढः ॥ १०३ ।। कर्माध्यक्ष इति । कर्माध्यक्षः कर्मफलदाता सर्वलोका- ऽधिवासो ऽन्तर्यामी सूत्रधार इव पाणिनो नर्तयेत् । तस्मात्मा- णी जीवो वासनाभिः पूर्वसंस्कारैः नृत्यते तादृकर्म करोती- त्यर्थः । " तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेति " श्रुतेः। ताभिः वासनाभिरेव तां तां योनिमायाति प्राप्नोति मूढो ऽवि. द्यावशः॥ यं यं वापि स्मरन्भावन्त्यजत्यन्ते कलेवरम् । तं तं मेवैति कौन्तेय सदा तद्भावभावितः । इति स्मृतेश्चेत्यर्थः । तथाच । कर्माध्यक्षश्रुतेः । अनीश्वर वादोन घटते इत्यर्थः। एतेनापूर्वमेव कर्म मीमांसकमते फलं ददाती- तिमतं परास्तं निर्मूलत्वादिति ध्येयम् ॥ १०३ ॥ प्रसंगान्मरणावस्थादुःखं निरूप्यते । ज्ञानोपयोगिवैराग्यो- त्पत्यर्थम्- देहानिर्यत्सर्वमर्मस्थलभ्यो दुःखं यद्यद्याति देहान्तरं तत् ॥ एवं मृत्योर्मुत्युमाप्नोति जीवः स्वात्माज्ञानाच्छीपते तन्न मेऽस्तु ॥ १०४ ॥ देहादिति ॥ तत्स्वात्माजानकार्यभूतं लिङ्गम् ॥ १०४ ॥ एवं लिङ्गदेहादात्मानं विविच्य कारणदेहाद्वीजभूतादपि स विविच्यते- - स्वानुभवादर्शः न्यग्रोधवीजमिव यत्खलु सर्वबीजम् नो सन्न चोभयमसन्न विरोधहेतोः ।। ज्ञानकनाश्यमखिलावरणस्वभावम् नाहं सदस्मि परमं तमसः परस्तात् ॥ १०५ ॥ न्यग्रोधषीजामति॥यत्खलु निश्चयेन सर्वबीजं सर्वविक्षेपबीज कारणं मूलाऽज्ञानं तदहं न आत्मा तत्साक्षित्वादित्यर्थः । तद्वी- जं न सज्जानैकनाश्यत्वात् । न चाऽसत्प्रतीयमानत्वान्न चोभय- विरोधात् तस्माद्यत्किञ्चिदेतनिखिलं ब्रह्म चैतन्यं तदावरणस्व- भावं तदाश्रयं चेत्यूह्यम्।चैतन्याश्रयविषयमित्यर्थः । तदहं न। त- अहेतु माह । तमसः परस्तात् अज्ञानस्य परस्माद्यत्परमं सत्त- दहमस्मीत्यर्थः । यत्तमसो भासकं तत्कथं तमः स्यात् । भास्य- भासकयोस्क्यायोगादितिभावः ॥ १०५ ।। आदित्यवर्ण तमसः परस्तादिति श्रुत्युक्तम् यत्पत्याखरूपं वत्र वादिविवादैरन्यथाबुद्धौ बीजमाह- अज्ञानधीः प्राणहषीकदेहे प्रत्यक्चिदाभासवशेन वादिनः ।। आत्मत्वबुध्या विवदंति मूढाः प्रत्यक्स्वरूपं न विदन्ति तत्वतः ॥ १०६ ॥ अज्ञानेति॥ हृषीकाणीन्द्रियाणि द्वन्द्वकवद्भावः । उक्तं च । आत्मच्छायं पयोऽशेषं यथा मरकतो मणिः । परीक्षणाय प्रक्षिप्तः कुर्यादात्मा तथैव हि ॥ ज्योतिरात्मा चितिच्छायं प्रथमं कुरुते तमः ।
सवा स्वानुभवादर्शः । ८२ तमोयोगेन धीस्तद्वदीयोगादिन्द्रियं तथा ॥ अक्षयोगात्तया देहमेवमेते चिदात्मवत् । भासन्ते तेष्वतः पुंसां प्रत्यगात्मत्वविभ्रम इति ॥ चादिविप्रतिपत्तयस्त्वेवं पूर्वोचार्यैः विविच्य दर्शिताः । तथा हि । आतिप्राकृताः " स्वात्मावैपुत्र " इत्यादिश्रुतेः स्वस्मि- भिव स्वपुत्रे प्रियत्वदर्शनात्पुत्रे नष्टे पुष्टे वाऽहमेव नष्टः पु. पुष्टश्चेत्यनुभवात्पुत्र आत्मेति वदन्ति । चार्वाकास्तु " एष पुरुषो ऽन्नरसमय इत्यादिश्रुतेः प्रदीप्तगृहात्स्वपुत्रं परि- त्यज्याऽपि स्वस्य निर्गमदर्शनात्स्थूलो ऽहं कृशो ऽहं मित्याद्य- नुभवाच्च स्थुलशरीरमात्मेति वदन्ति । अपरश्चार्वाकः “ते इ प्राणाः प्रजापतिमेत्य युरित्यादि " श्रुतेः इन्द्रिया- णामभावे शरीरचलनाभावात्काणोऽहं बधिरो ऽहमित्यायनु- भवाचेन्द्रियाण्यात्मेति वदति । अपरः चार्वाकः अन्योऽ- न्तरात्मा प्राणमय,, इत्यादिश्रुतेः प्राणाऽभावे इन्द्रि- यचलनायोगादहमशनायावानहं पिपासावानित्यायनुभवाच्च प्राण आत्मेति बदति । अन्यस्तु चार्वाकः " अन्योऽन्तरात्मा मनोमय,, इत्यादि श्रुतेः मनसि सुप्ते माणाऽपानादेरभावा- दहंसङ्कल्पविकल्पवानित्याउनुभवाञ्च मन आत्मेति वदति । बौदस्तु "अन्योऽन्तरात्मा विज्ञानमय" इत्यादि श्रुतेः कर्वभावे करणस्य शत्यभावादहं कर्ताऽहं भोक्तेत्याउनुभवाच्च बुद्धिरा- त्मेति वदति । प्रभाकरतार्किको तु "अन्योऽन्तरात्मा ऽऽनन्द- मय" इत्यादिश्रुतेः बुद्ध्यादीनामझाने लयदर्शनादहमज्ञोऽहं न जानामीत्यनुभवाचाज्ञानमात्मोतवदतः । भाट्टास्तु "प्रज्ञानघन एवानन्दमय" इत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्भावान्मा- महं न जानामीत्यनुभवाच ज्ञानोपहितचैतन्यं ज्ञानाऽज्ञानस्वरूप- - स्वानुभवादर्शः मात्मेति वदन्ति । अपरबौद्धस्तु "असदेवेदमग्रआसीदित्यादि" श्रुतेः सुषुप्ता सर्वाभावादहं सुषुप्तौ नाऽऽसमित्युत्थितस्य स्वाभा- वपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति । एवं च सति तेषू- पाधिषु प्रत्यक्चिदाभासवलेन तं तमुपाधिमात्मबुद्ध्या विवदन्ते । परन्तु तत्वतः प्रत्यकस्वरूपं ब्रह्मेति न विदन्ति न जानन्ति । पण्डितमन्यत्वादित्यर्थः ।। १०६ ॥ क्षुधाधुपद्रवाः सर्वेऽप्युपाधेरेव नात्मन इति सर्वविकाररहित- मात्मानं दर्शयति- असोः क्षुत्पिपासे धियः शोकमोही जरामृत्युरोगाः शरीरस्य जन्म ॥ अवस्थाः सुषुप्त्यादयो या धियस्ताः समस्ता अहं निविकारोऽस्मि शान्तः ॥ १०७ ॥ असोरिति ॥ असोः माणस्य सञ्चारबाहुल्याद्गमनादिश्रमे सति क्षुत्पिपासे माणधौं नात्मन इत्यर्थः । इष्टवस्तुनामप्राप्ती बुद्ध र्याऽ नवस्थितिः स शोक उच्यते । विषयभ्रमो मोहस्ता- वुभावपि वुद्धिर्धर्मो नात्मनइत्यर्थः । जरा शरीरशैथिल्यं, मृत्युः पाणवियोगः, रोगो धातुवैषम्यं एते शरीरस्य धर्माः । एवं च क्षुत्पिपासे शोकमोहौ जरामृत्यू पडूर्मयो बृहदारण्यकोक्ताः उपा- धिकृताः नात्मन इत्यर्थः । क्षुदुपद्रवादन्नभोक्ता प्राणो देहन्द्रि- याणि पुष्णाति ॥ तदुक्तम् ॥ तर्पयत्येष बागादि स्वभुक्तानेन सर्वशः इत्यर्थस्य कुतः सिद्धिरितिचेदुच्यते शृणु ।। भुक्तं त्रिधा भवत्यानं स्थूलमध्यमसूक्ष्मकैः ।।
स्वानुभवादर्शः। भागैः स्थूलो पहिर्याति मध्यमाहेहपोषणम् ॥ अणीयान्मुक्ष्मनाडीस्थो देवताः पोषयत्ययम् ।। दुष्टोन्द्रियैः सुखोत्पत्तिर्या जीवात्मन एव सा ।। ता एव देवताः सप्तदश ज्ञानक्रियात्मकाः॥ सोऽयं सप्तदशग्रामो भोक्तुः करणलक्षण इति । एवमशितानस्य प्रयोजनं देहेन्द्रियपोषणमतोऽहंनिर्विकार एवास्मीत्यर्थः । सुषुप्तयादयः समस्ताः जाग्रत्स्वमसुषुप्तिमूर्छा मरणाख्या अवस्थाः पञ्च धियो बुद्धेः । अहंशब्दमत्ययावलम्बनः प्रत्यगात्मा त्वंपदार्थो निर्विकारः कूटस्थत्वादविक्रियो निस्तरका ब्धिरिव शान्तः परमार्थत इत्यर्थः । कथमवस्थाः बुद्धेः स्तदर्य तल्लक्षणान्युक्तानि आचार्यैः । देवतानुगृहीतैरिन्द्रियैरर्थोप- लब्धिर्जागरितम्, संस्कारजःप्रत्ययः सविषयः स्वमः स्मृतावति- व्याप्तिवारणाय सविषयपदम् । युद्धेः कारणात्मनावस्थानं सुषुप्तिः। हनाड़ीन्द्रियगा बुद्धिनिद्रा, स्वप्रबोधकदित्युक्ते बुद्धरेवाऽव- स्थात्रयम् । देवताऽनुगृहीतैरितिकिमर्थमुक्तमितिचेत् तत्रोच्यते । या अचेतनो रथश्चेतनं सारथिं विना न कार्यक्षमः तथा अचे- तनानीन्द्रियाणि चेतनंदवताऽनुग्रहं विना न स्वार्थग्रहणयोग्या. नीति । यथा रथस्वामिनो रथजसुखदुःखभोक्तृत्वं न सारथेस्त था जीवस्यैव भोक्तृत्वं नेन्द्रियदेवतानामित्याकरे विस्तरः। एतदवस्थात्रयं विस्तरेण अपश्चितं पञ्चीकरणवार्तिके विस्तरम- यानेह प्रपञ्च्यते । मुद्रमहारादिजनितविषादेन विशेषज्ञानोपर- मावस्येयंमूर्छा । इयंमूर्छावस्था भगवता बादरायणेन पृथ- केन निरूपिता। तथा च सूत्रं । "मुग्धेऽर्धसम्पत्तिः परिशेषादिति" अस्यार्थः । न तावत्स्वमजागरिते मूर्छाऽवस्था नापिमरणावस्था प्राणोष्मणोः सत्वात् नापि सुषुप्तिलक्षण्यात् । मुग्धस्य शरीर- । ८७ स्वानुर्भवादशः कम्पो भयङ्करं वदनं निश्चले उन्मालते नेत्रे निश्चलमाणोऽ- वतिष्ठते । नैवं सुषुप्तौ भवति तस्मात्परिशेषादर्धसम्पत्तिर्मुग्धा- वस्थाऽ तिरिक्तैव वक्तव्या । ननु मुग्धे ऽपि बाबान्तःकरणा- नामभावेन सत्संपत्तेः सुषुप्त्यविशेषात् कथमर्धसम्पत्तिरितिचे- त्सत्यं । न हि ब्रह्मणोऽ सम्पत्तिं मुग्धस्य ब्रूमः । किंतु सुषु- प्त्यवस्थायाः ये धर्मा प्रसन्नवदननिमिलितनेत्रत्वमाणोच्छा- सविशेषविज्ञानराहित्यादयस्तत्रविशेषज्ञानराहित्यादिना ऽर्धन धर्मजातेन मुर्छावस्थायाः सम्पन्नत्वादर्धेन मरणाऽवस्थाधर्मजातेन कम्पादिना युक्तत्वादर्धसम्पत्तिमूर्छति युक्तं सूत्रकद्वचनमिति । एतच्छरीरकर्मोपरमेण देहाभिमाननिवृत्या सम्पिण्डितकरणग्रामा- वस्था भाविशरीरपर्यन्तं मरणावस्था । तथा च श्रुतिः । “स यत्राः यमात्माऽवल्यमेत्य संमोहमिवैत्यथैनमेते माणा अभि समायन्ति । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवाऽ न्वक्रामति" । “स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्ततेऽ थारूपज्ञो भवति एकीभवति न पश्यतीत्याहुरेकीभवति नजिघ्र- तीत्याहुरेकीभवतीत्यादि" । श्रुतेरर्थः । स पूर्वोक्तोऽ यमात्मा यत्र यस्मिन्काले जरायुक्तहेतुभिरभिभवे सति अबल्यमिवाऽव- लभावमिव दौर्बल्यमिव नितरामेत्य प्राप्य संमोहमिव संमूढता- मिवैति याति । अथ तदा एनमात्मानं करणस्वामिनं प्राणवा- गादयो ऽभिसमायन्ति । कयं स आत्मा तेजोमात्रावयवाः मीयन्ते ते विषयाः याभिस्तास्तेजोमात्राश्चक्षुरादिकरणानि । समभ्याददानः सम्यक्निःशेषाभिमुखेनाऽऽददान उपसंहरमाणो हृदयमेव हृदयस्यां बुद्धिमेवा ऽन्वक्रामत्यन्वागच्छति बुद्धावेवाऽ भिव्यक्तविज्ञानो भवति । एवं सति किस्यादिति विवक्षायामाह। स चाक्षुषः पुरुष आदित्यांशोभोक्तृत्वकर्मक्षये सति यत्र यस्मिन्का- स्वानुभवादर्शः। ४९ लेप पराङ् विमुखः सन्स्वांशीभूतदेवतारूपं प्रतिपर्यावर्त्तते आसम- न्ताद्भावेन परिवर्त्तते । अथ तदा मुमुर्पुररूपज्ञो भवति रूपं न जानातीत्यर्थः । कुत इत्यत आह । एकीति । आदित्यांश- स्तस्मिन्नेकीभूते सति चक्षुर्लिङ्गात्मना एकीभवति तदा मुमुर्घः पार्श्वस्थं न पश्यतीत्याहुरेवमग्रेपीत्यर्थः । एवं श्रुत्यनुभवमामा- ग्यात्समस्ता अवस्था बुद्धेरित्युक्तम् ॥ १०७ ॥ त्रिविधपरिच्छेदशून्यत्वं श्रुत्या ऽनन्तशब्देनोक्तं तदात्मनो दर्शयति- कालेयत्ता नास्ति मे नित्यताया देशेयत्ता नास्ति मे व्यापकत्वात् ।। सर्वात्मत्वान्नास्ति मे वस्त्वियत्ताऽ नन्तस्तस्मात्को ममाऽन्तस्य वेत्ता ॥ १०८ ॥ कालइति ॥ सर्वदेहेष्वनुस्यूतत्वात्तादृशदेशपरिच्छेदरा. हित्यम् । परिच्छेदस्य मिथ्यात्वादित्यर्थः । नित्यत्वात्कालपरि- च्छेदशून्यत्वमित्यर्थः । त्रिविधपरिच्छेदस्यापि तत्कल्पितत्वेन मिथ्यात्वादितिभावः । कर्मवशात्तत्तदुपाधीनामनःकरणतद्वत्या- दीनामत्यन्तभिन्नत्वात्तदुपाधिकचिदाभासस्यापि जन्मविनाशशा- लित्वात्कालतःपरिच्छेदः तदन्तः करणवृत्तीनां परस्परतादात्म्य- प्रतिषेधेन तदुपाधिकचिदाभासानामपि परस्परतादात्म्यप्रति षेधाद्वस्तुतः परिच्छेदः । एवं च शरीरान्तर्गतत्रिविधपरिच्छेदं ज्ञात्वा यथोक्तरीत्या तनिषेधो शेयः ॥१०८ ॥ द्रष्तृत्वसाक्षित्वरूपविकारराहित्यमात्मनो दर्शयति- द्रष्टा नाऽहं दृश्यमिथ्यात्वहेतो. १२ स्वानुभवादर्शः नाऽहं साक्षी साक्ष्यमिथ्यात्वहेतोः ।। प्रत्यसिध्यै दृश्यतो ऽन्यत्वसिौ. द्रष्टा साक्षी घेति बोधो गुरुभ्यः ॥ १०९ ॥ द्रष्टेति । द्रष्तृत्वं साक्षित्वं च सप्रतियोगिकं भवति प्र. तियोग्यभावे तु नोभयमित्यर्थः । ननु तर्हि गुरुभिः श्रुतिद्वारैव इष्टा साक्षी चेति किमर्थ शिष्यो बोध्यत इत्यत आह । कः प्र- त्यगात्मेति शिष्यैः पृष्टे सति तबोधार्थ बाह्यपदार्थावभासकः स द्रष्टा आत्मेति कथ्यते । यश्चान्तः सुखादिविषयावभासकः स साक्षी आत्मेति गुरुणा बोधिते सति द्रष्टा साक्षी अहमस्मीति प्रत्यक्सिद्धिः भवति।चेत्यपरम् । एवं गुरुबोधादृश्यादन्य आत्मेति सिध्यत्यतो द्रष्टा साक्षी चेति गुरुभ्यो बोधो युक्तः। वस्तुतस्तु न द्रष्टा नापि साक्षी चेत्यर्थः ॥ १०९ ॥ शरीरस्य च जन्मजरादयो धर्मा इत्युक्तं तत्र तावजन्मल- क्षणं दर्शयति- लिङ्गोपाधेरात्मनो यः प्रवेशः पित्रोदेहे जन्म चैतन्नराणाम् ॥ ऐक्याध्यासात्तं विवेकेन हित्वा सम्यग्ज्ञानान्नैव मे जन्मशंका ॥ ११ ॥ लिङ्गोपाधेरिति । लिङ्गदेहोपाधेरात्मनश्च पूर्वोक्तरीत्या विवेकेन चिजडपृथकविवेकेन तमैक्याध्यासं हित्वा ब्रह्माऽह- मस्मीति सम्यक्झानाम जन्मशङ्केत्यर्थः । एवमैतरेयश्रुतौ जन्म श्रू- यते । “पुरुषो ह वा अयमादितो गर्भो भवति यदेतदेतस्तदेत- सर्वेभ्यो ऽभ्यस्तेजः संभूतमात्मन्येवाऽऽत्मानं विभर्ति तयदा - स्वानुभवादः। स्त्रियां सिञ्चत्यथैनं जनयति तदस्य प्रथमं जन्मेति " । तस्मात्पू- वोक्तचिज्जडपृथग्विवेकेन निःसंशयाऽविपर्ययनिश्चयान्मे मम ज- न्मशताऽपि नास्ति कुतो जन्मप्राप्तिरित्यर्थः ॥ ११० ॥ मृतिं लक्षयति- पित्रोमलोद्भुततनोरसूनाम् वियोजनं कर्मवशात्स मृत्युः ॥ आस्तां किमतेन हि साक्षिणो मे मृत्योः परं मृत्युरहं सदस्मि ॥ १११ ॥ पित्रोरिति ॥ यदि देहप्राणयोः मदृश्ययोः वियोजनं जातं तहि साक्षिणो मे ममैतेन किं न किञ्चित्यर्थः । अतस्तद्यथा तथा ऽऽस्ताम् । अहं मृत्योः मृत्युः साक्षी यत्परं उत्पत्यादिरहितं सन्मात्र ब्रह्म तदस्मि अतो मृत्योरपि मृत्युरहमस्मीत्यर्थः ।। १११ ॥ सम्मति प्रमातृत्वरूपविकाररहितस्त्वंपदलक्ष्य आत्मेति प्रतिपाद्यते- प्रत्यक्छायाव्याप्तधीवृत्तियोगो बाह्यार्थानामिन्द्रियैः कर्मतः स्यात् ॥ तस्मिन्काल बाह्यवस्तुप्रमाता तस्मान्नाहं वस्तुतोऽस्मि प्रमाता ॥ ११२ ॥ प्रत्यगिति ॥ भोगप्रदकर्मत इन्द्रियैर्वाधार्थानां घटादीनां प्रत्यक्चिदाभासव्याप्तधीवत्तियोगो यदा भवति तस्मिन्नेव काले अहं प्रमाता तदन्यकाले समाधौ मुषुप्तौ वा जातोऽहं वस्तुतो प्रमाता नैवास्मीत्यर्थः ॥ ११२ ॥ प्रमातृत्वनिबन्धनं कर्तृत्वं भोक्तृत्वं च तदभावे न कर्ता न - ९२ स्वानुभवादः भोक्ता नैवोभयमप्यात्मन इत्याह- काभोक्ताऽहं प्रमात्रैकमूल- स्तस्याभावे नैव कर्त्ता न भोक्ता ॥ कादाचित्कं मय्यसंगे समस्तम् संसाराख्यं भ्रान्तिमूलं न चास्ति ॥ १३ ॥ कर्तेति ॥ प्रमात्तृत्वं कर्तृत्वभोक्तृत्वरूपं यत्संसाराख्यं तत्कादाचित्कं मय्यऽसङ्गे स्वरूपे वस्तुतो नास्तीत्यर्थः । कर्ताह भोक्ताऽहमित्यादिभ्रान्तीनां तत्ममात्तृत्वं मूलं निदानमि- त्यर्थः ॥ ११३॥ नन्वाभासस्यैव प्रमात्रादिरूपेण ब्रह्मत्वात् शुद्धचैतन्यस्य मुक्तत्वाइन्धमोक्षयोर्वैय्यधिकरण्यं तथा च स्वनाशार्थ प्रवृत्त्यनु. पपत्तेश्चेति दोषद्वयं प्राप्तमत आह- एतद्वाराऽऽरोपितश्चाविवेका- संसारोऽयं कर्तृभोक्तृस्वभावः ॥ शुद्धे लत्वे चाऽधुना सद्विवेका- भूमैवाऽहं सर्वसंसारमुक्तः ॥ ११ ॥ एतबारेति ॥ स्वचिदाभासद्वारा शुद्धस्यैव बन्धकल्पना मोक्षकल्पना न स्वत इति भावः । अतएवोक्तमाचार्य:- अमानामानसोपाधेः कर्तृत्वादीनि चात्मनि । अध्यस्यत्यविवेकेन चलनादि यथाऽम्भस इति । याचिर्केपि ॥ "अयमेव हि नोऽनर्थो यत्संसार्यात्मदर्शन" मिति ॥११४॥ शाने स्वाश्रयाऽव्यामोहिनी मायेस्युच्यते । स्वाश्रयव्यामो- ४ स्वानुभवादर्शः। हिन्यविधेत्युच्यते । सा चाऽविद्या यावद्ददविवेको न तावत्पर्य- तमेव स्वाश्रयं जीवं मोहयत्यन्यथा नेत्याह-- यथा स्वाश्रयं मोहयेन्नैव माया विशुद्धं परं ब्रह्म गोपालकृष्णम् ॥ विवेकाद् दृढाच्छास्त्रतः सद्भिरुक्ता तथा स्वाश्रयं मोहयेन्नाऽप्यविद्या ॥ ११५॥ यथेति ॥ यथोक्ताद्विवेकाचिजड़ग्रन्थिरूपस्याऽहंकारस्य निवृत्तत्वाज्जीवो ऽहं कर्ता भोक्तेत्यादिरूपं स्वाश्रयव्यामोहत्वं पूर्ववदविद्याया न सम्भवतीत्यर्थः । अन्ये तु एकस्यैवाऽज्ञान- स्याऽऽधिदैविकी शक्तिर्माया आध्यात्मिकी शक्तिरविद्येति माया- विघयोः शक्तिभेदेन भेदो न स्वरूपेणेत्याहुः ॥ ११५ ॥ अथाऽऽत्मप्रपञ्चयोः स्वरूपविवेकमाह-- ज्ञानं हि यन्निविषयं स आत्मा सगोचरं ज्ञानमिह प्रपंचः ॥ सगोचरज्ञानवतां नराणाम् दुःखं भयं जन्ममृती च नित्यम् ॥ ११६ ॥ ज्ञानमिति ॥ "अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवेति" श्रुतेः । जात्यंतराऽननुविदं बप्तिमात्रं निर्विषयमेकरसं ज्ञानं चैतन्यं स आत्मेत्यर्थः । “यत्र त्वस्य सर्वमात्मैवाऽभूत्त- केन कं पश्येदिति" श्रुतेः । “यत्र हि द्वैतामिव भवति तदि- तर इतरं पश्यतीत्यादि" श्रुतेः । सविषयं ज्ञानं प्रपञ्चः। ईश्व- रोपि सर्वज्ञत्वात्सर्वपदार्थविषयस्फुरणात्मपश्चार्गत एव । ।
९४ स्वानुभवादर्शः छान्दोग्ये । “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्राऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पमि- त्युक्ते" निर्विषयं चैतन्यमात्मा सविषयं ज्ञानरूपं स प्रपञ्च इति प्रतीयते । तत्र सगोचरज्ञानवतां अपश्चिना नराणां दुःखभयादि नित्यं नियमेनेत्यर्थः ॥ ११६ ॥ अतएव- ब्रह्मात्मता मे न हि कृत्रिमाऽस्ति जीवत्वमेतन्मम कृत्रिमं यतः ॥ अकृत्रिमः कृत्रिम एव भाति स्त्रीवेषधारी पुरुषो यथा तथा ॥ ११७॥ स एष इह प्रविष्ट आनखाग्रेभ्य" इत्या- घनेकश्रुतिषु ब्रह्मण एव प्रवेशस्मरणाजीवस्य ब्रह्मत्वमकृत्रिम स्वाभाविक जीवत्वं तु कृत्रिमं स्वस्वरूपादज्ञानादित्यर्थः । - शान्तः स्पष्टः ॥ ११७॥ एवमकृत्रिमं ब्रह्मानन्दं स्वस्वरूपं प्राप्य कृत्रिमसुखैर्विषये. न्द्रियसंयोगसंभवैन किश्चित्प्रयोजनमित्याह- अकृत्रिमानन्दनिजस्वरूपम् विहाय किं कृत्रिमशर्मभिर्मे ॥ सिद्धौदनं पात्रगतं विहाय मूढो ह्यसिद्धाय यतेत तद्वत् ॥ ११८ ॥ अकृत्रिमेति ॥ स्पष्टार्थः ॥ १९८ ॥ कृत्रिमसुखस्याऽऽदौ क्लेशोऽन्तेपि क्लेश इत्याह-- ब्रह्मेति ॥"
स्वानुभवादर्शः। नानाक्लेशैः सोमपानादि कृत्वा स्वर्ग गत्वा कृत्रिमं शर्म भुजन् ॥ स्वर्गे तिष्ठन् प्रत्यहं पुण्यहान्या क्लिश्यन्नेवं मर्त्यलोकं प्रयाति ॥ ११९ ॥ नानालेशैरिति ॥ स्वर्गभोगविशेषभूमिं धूमादिमार्गेण गत्वा प्राप्य तत्र कृत्रिमं विषयेन्द्रियजन्यं सुखं भुजन् वर्तत इत्यर्थः। पुनश्च स्वर्गे तिष्ठन्नपि प्रत्यहं पुण्यहान्या क्लिश्यन् श्रुत्यु- तावरोहणप्रकारेणाऽनुशायी जीवो मर्त्यलोकं प्रयाति । क्षीणे पुण्ये मर्त्यलोकं विशन्तीतिस्मृतेः । श्रुतिस्त्वेवम् । " अथैतमेवाध्वानं पुनर्निवर्त्तते यथेदमा- काशाद्वायुर्वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह ब्रीहियवौषधिब- नस्पतयस्तिला माषा इति जायते इति"। आकाशवाय्वादि- समानो भवतीत्यर्थो बोध्यानत्वाकाश इत्याकरे विस्तरः॥११९॥ एवमाधन्तयोः क्लेशज्ञाने ऽपि न वैराग्यलेश इत्याह-- जाननेवं नास्ति वैराग्यलेशः केयं भ्रान्तीराजसी वृत्तिरुग्रा ॥ आस्तामेतद्रामकृष्णप्रसादा- नित्यानन्दः कृष्ण एवाऽहमस्मि ॥ १२० जाननिति ॥ परदोषगवेषणमास्तां किं ममतेनेति भावः। शेष स्पष्टम् ॥ २० ॥ संसारनिन्दापूर्वकं स्वस्य गुरुप्रसादनपरमानन्दमाप्ति द- यति- -- -
m
स्वानुभवादर्शः
धिक्संसारमिमं न यत्र परमं शर्मास्ति यल्लभ्यते
यद्यत्पश्यति जिघ्रतीह सकलं दुःखेन सम्भिद्यते ।
किं मे तादृशशर्मणाऽथ परमानन्दो गुरोः संस्मृतेः
संप्राप्तोऽस्त्यधुना ह्यसौ श्रुतिगतो मत्तोऽत्र नो विद्यते१२१
धिगिति ।
ये हि संस्पर्शजा भोगा दुःखयोनय एव तइति ।
स्मृतेः । दुःखसम्भिन्ना एवेत्यर्थः । संस्पर्शजा भोगाः क्षु-
द्रानन्दा इत्यर्थः । श्रुतिगतः श्रुतिसंमत इत्यर्थः । अत्राऽस्मिन्
वर्तमानदेहे एवेत्यर्थः । सम्पाप्त इत्युक्त्या स्वर्गादिवत् कर्मफल-
प्राप्तिरिव तस्य प्राप्तिरिति प्राप्ते तं निवारणार्थमाह । मत्तो न
भिद्यते मत्तो चैतन्यघनान भिद्यते अविद्यानिवृत्तरित्यर्थः । तद-
लमित्यापिपाठः । तद्गन्धग्रहणादि अलमत्यर्थदुःखेन सम्भिद्यत
इत्यर्थः ॥ २१ ॥
दुःखेन सम्भिद्यत इत्युक्तं तत्र हेतुमाह-
अकापि सन्कर्तृतां प्राप्य मोहा-
त्कृतं कर्म तस्याऽत्र पाकोऽयमीहक् ॥
इदानीमकर्ताऽऽत्मबोधेन सम्यक्
प्रसादाद् गुराभूममात्रोऽहमस्मि ॥ १२२ ॥
अकर्तेति ॥ “ यद्यत्पश्यति जिघ्रतीह सकलं दुःखेन
सम्भिद्यत" इत्युक्तं तत्र मुखादिमाप्तिस्तु कर्म विना न सम्भ-
वति तत्कर्म परमार्थतोऽकर्ताऽपि मोहात्कृतं तस्याऽत्र संसारे
ईदग्दुःखेन सम्भिमोऽनुभूयते पाकः कर्मविपाक इत्यर्थः । शेषं
स्पष्टम् ॥ २२॥
-- स्वानुभवादः। इदानीमकात्मबोधेनेत्युक्तं तत्र मीतोपनिषत्संमतिमाह-- शरीराद्यधिष्ठानपञ्चप्रकारैः क्रियाहेतुभिर्या क्रिया जायते सा॥ न कर्ता क्रियायाः कदाचिञ्चिदात्मा सुरेशोऽर्जुनायाऽऽह गीतासु कृष्णः ॥ १२३ ॥ शरीरादीति ॥ स्पष्टार्थः ॥ २३ ॥ एवं स्वानुभवेन शास्त्रतथाऽकर्तृत्वं निश्चित्य कालत्रये ऽपि न कर्मकर्ताऽस्मीत्याह-- अकार्ष न कर्त्ता करिष्येऽहमेत- त्रिधा यच्चतुधी च कर्माऽस्ति शास्त्र । विभुत्वादसङ्गत्वहतोर्न कर्म- प्रलेपो ऽपि मे निश्चयः सर्वथैव ॥ १२४ ॥ अकार्षमिति ॥ विमुत्वादसङ्गत्वाञ्च हेतोः कारणादहं न कर्माऽकार्षमिदानीं न कर्ता पुरो ऽपि च न करिष्य इत्यन्वयः। तश्च कर्म कतिविधमित्यपेक्षायामाह । तत्रिधा कायिक वाचिक मानसश्चेति । तदपि प्रत्येकं फर्माऽकर्मविकर्मरूपमेवं विधेत्यर्थः। सात्त्विकं राजसं तामसञ्चेति वा । चतुर्षेति। तथा विहितनिषिद्धा विहिताऽनिषिद्धरूपं चतुर्धेत्यर्थः । यद्वोत्पाघमाप्यसस्कार्यविकार्य- भेदेन चतुर्धापीत्यर्थः। तत्र विहितं सन्ध्योपासनादि निषिद्धं पलाण्डुभक्षणादि अविहितं रागतः प्राप्तं भोजनादि अनि- षिद्धम् शौचादीत्यर्थः ॥ १२४ ॥ एवं प्रसक्ताऽनुप्रसंक्तं समाप्य पुनस्त्वम्पदलक्ष्यमात्मानं दर्शयति-- १३ ३ ९८ स्वानुभवादर्शः जाग्रत्स्वप्नसुषुप्तिकासु यदनुस्यूतं च तसिद्धिकृत चैतन्यं सततं तुरीयममलं तत्प्रत्यभिज्ञाबलात् ॥ प्राप्त ज्योतिरनंतमुत्तमतमं स्वानन्दपूर्ण पदम् वेदान्तैः प्रतिपादितं च गुरुभिस्तन्मे स्वरूपं हरेः॥१२५॥ जाग्रदिति ॥ जाग्रदादितिसृष्ववस्थासु यदनुस्यूतं चैतन्यं तत्मत्यभिज्ञाबलात्माप्तमित्यन्वयः। योऽहं गाढं मूढं अस्वाप्स स्वममद्राक्षं च सोऽहमेवेदानीं जागर्मि इति प्रत्यभिज्ञाप्रमाणव- लाल्लब्धं तत्सततं तुरीयं ज्योतिरनन्तम् नित्यम् उद्गतं तमोऽज्ञा- नं यस्मात् तदुत्तमं तदेव प्रकृष्टमुत्तमतममित्यर्थः। अत एव स्वा- नन्दपूर्ण स्वस्य भूत आनन्दः स्वानन्दः स्वानन्देन पूर्णमखण्डितै- फरसवात् । एतादृशं पदं हरेः हरत्यविद्यातत्कार्यं स्वज्ञानप्र- दानेनेति हरिः तस्य विष्णोः पदं गुरुभिर्वेदान्तैश्च करणीभूतैः प्रतिपादितं तन्मे स्वरूपं मूलरूपमित्यर्थः । भातस्य कस्यचित्पूर्व भासमानस्य साम्प्रतम् । सोऽयमित्यनुसंधानं प्रत्यभिज्ञानमुच्यत इति ॥ प्रत्यभिज्ञानलक्षणम्।न चेदं षट्प्रमाणेष्वनाधिगतत्वान्न प्रमा- णमिति वाच्यम्।तत्र तदंशे स्मरणमिदमंशे प्रत्यक्ष तथाच स्मरणप- त्यक्षोभयात्मकत्वेन प्रत्यक्षान्तरगतस्वात्प्रत्यक्षविशेषो नाऽतो- ऽस्याप्रमाणशङ्का विधेयेति भावः ॥ १२५ ॥ स्वानन्दपूर्णपदमित्युक्तं तत्र पूर्णत्वं दर्शयति- यो व्यष्टपाधौ च समष्टपाधौ समः शुचिः शान्ततमश्चिदंशः ॥ तमेकमादाय जडांशहाना- ॥ - स्वानुभवादर्शः। ९९ च्छिष्टश्चिदंशो मम तत्स्वरूपम् ॥ १२६ ॥ यइति ॥ स्थूलसूक्ष्मकारणरूपाःव्यष्टयः विरामूत्रा व्या- कृताख्याः समष्टय उपाधिविशेषास्तत्र प्रतिफलिताः सम एकर- सवाद्वैषम्यरहितः शान्ततमः निस्तरङ्गसमुद्र इवाक्षोभ्यश्विदश- चैतन्यम् । तमेकस्वभावं तमेवैकरूपं आदाय जहांशा उपाधय- स्तेषां हानाल्लक्षणया त्यागात् शिष्टो यश्चिदंशो ऽखण्डैकरस- स्तत्परमार्थतो मम स्वरूपमित्यर्थः । एवं स्वानन्दपूर्ण मम स्व- रूपमिति भावः १२६॥ ननु जडांशहानमुक्तं तन सम्भवति तस्य सत्यत्वेन युक्त- मश्यक्यत्त्वान्नहि सत्यं निवर्तत इति न्यायादित्याशक्य तेषां कल्पितत्वमाह श्लोकद्वयेन- भूच्छिद्रगोमूत्रभुजङ्गमाना- मनात्मनां रज्जुरसौ पथात्मा ॥ तथा शरीरेन्द्रियमारुताना. मात्माहमेको मयि कल्पितास्ते ॥ १२७॥ भूच्छिद्रेति ॥ अत्रेदमनुमानं सूचितं विबादाध्यासिता विशेषाः स्वानुस्यूते वस्तुनि कल्पिताः प्रत्येकं तदनुविद्धत्वात् । ये येन प्रत्येकमनुविद्धास्ते तत्र परिकल्पिताः । यथा भूच्छिद्रस- मालादण्डधाराबलीवर्दमूत्रादयः स्वानुस्यूते रज्वा इदमंशे तथा च ते तस्मात्तथा एवं पञ्चकोशेष्वपि द्रष्टव्यं स्पष्टोर्थः ॥१२७॥ ये पञ्चकोशाः श्रुतिषु प्रसिद्धा अकोशभाजो ऽपि विभोः परस्य ।। ते पञ्चकोशा मयि कल्पिताःस्यु- - स्तनापुच्छ परम सपरिमः ॥ १॥ यहति । "समा सहयोगारसमय इस्पादिना कि रोषश्रुतावनमयमाणमयमनोमयविज्ञानमयानन्दमयाः पान उक्ताः कोशवदाच्छादकरवात् कोषास्ते मयि कल्पिता स्थापना इस्पायाह । गतो प्रमपुच्छवार्य पञ्चकोशानामाधारभूतं सर्व- कल्पनापिष्ठानं यस्तदहमस्मीत्यतो मयि कल्पिता इत्यर्षः॥१२०॥ अथ सर्वशरीरेण्येक एवाऽऽस्मेति मतिपादयति- ममाऽत्रदेहे सकलार्थभासकम् शान्तं समं ज्योतिरसंगमुत्तमम् ॥ तदेव सर्वत्र तथैव भासकम ज्योतिः स्वयंज्योतिरयं यथा रविः ॥ १२९ ॥ ममाऽप्रेति ।। आत्मनो मध्यमपरिमाणाचे नित्यत्वं न स्यात् अणुत्वे सकलदेहव्याससुखापनुपलब्धिः स्यात् । अ- तो विभुत्वे सर्वत्र द्रष्ट्टकार्यत्वात्सर्वशरीरेल्वेक एवास्मेति भावः । "स वा एष महानजात्मेति" श्रुतेः आत्मनो विभुत्वं द्रष्टव्यम् ॥ १२९॥ उक्तार्षे चोध प्रदर्य समापते- मैकस्य दुःखेन समस्तजीव- दुःसप्रतीतिः परिशंकनीया ॥ उपाधिचितस्थाषिकर्मपाकाद दुःखं तु तस्यैव न देतरेषाम् ॥ १. नैकस्पति अपनी कापि PARINIK IKATRITTER ARTNA
No text on this page.
No text on this page.
No text on this page.