University Of Allahabad
Ishawasyopanishat
Front matter
श्रीः
श्रीमते रामानुजाय नमः
वेदान्तग्रन्थरत्नमालायाः
चतुर्थ रत्नम्
ईशावास्योपनिषत्
इयच
श्रीमनिगमान्तमहादशिकैरनुगृहीतेन भाष्येण
श्रीमत्कूरनारायणमुनिभिः प्रणीतया व्याख्यया
श्रीशैलानन्तपूरुषसिंहासनासीनैः
विद्वच्छीरङ्गाचार्यैः प्रणीतन भाष्येणच
श्रीमत् रमहंसपरिव्राजकाचार्यैः श्रीरङ्गनारायणयतीन्द्रः अनुगृहीतेन अधोनिर्दिष्टने
प्रमाणानामाकरनिर्देशेन च उद्भासिता
श्री. अ. वी. नरसिंहाचाथैः, अन्यैश्च विद्वद्भिः संशोधिता
आर. वङ्कटेश्वरसभाध्यक्षैः आनन्दमुद्रायन्त्रालये मुद्रिताच
विजयतेतराम
1914
No text on this page.
॥श्रीमते रामानुजार्थ नमः। ईशावास्योपनिषत् - - इयं शुक्लयजुर्चेदान्तर्गता अष्टादशमन्त्रामिका । इयं च भाष्यकारैरुदाहृतासु प्रतिष्ठितप्रामा ण्यासु दशसूपनिषत्स्वग्यतमा। यदुच्यते- 'ईशकेनकठप्रश्नमुण्डमाण्डूक्यत्तित्तिरिः । ऐतरेयं च च्छान्दोग्य बृहदारण्यक दश' ॥ इति । अत्र ईशशब्देन ईशावास्योपनिषत् , मुण्डशब्देन मुण्डकोपनिषत् तित्तिरिशब्देन तैत्तिरीयोपनिषञ्च विवक्षिताः। अन्याश्च काम स्वसिद्धान्तध्वान्तस्थिरकुतुकैः कैश्चनोत्पाद्यन्ते । श्रद्धा. जडैस्ता अपि परिगृह्यन्ते । तास च काममस्तु दीर्घमायुः । यतः सम्प्रति न वयमन दीदांसामहे ॥ इयंचोपनिषद्बहुभिर्व्याख्याता । तत्र विशिष्टाद्वैतमतानुसारेण कवितार्किकसिंहसर्वतत्रखतन्त्र- श्रीमद्वेदान्ताचार्यसूरिभिर्विरचितभाष्येण, कूरनारायणमुनिभिः प्रणीतया व्याख्यया, उभयवेदान्त- प्रवर्तकः श्रीशैलानन्तपूरुषसिंहासनासीनैः विद्वच्छीरनाचार्यस्वामिभिः प्रणीतेन भाष्येण च समयोज्यता एकस्यैव विषयस्य सति भाष्यत्रये भवत्युपपादनभेदेन ग्रहणसौकर्यमिति वयमेव किमपि भाष्यमनुपेक्ष्य अत्र समयोजयाम । एवम् इतश्च यथावकाशं यथावेदं च केनायुपनिषदामपि भाष्याणि मुमुद्रयि- षामः । अनेन च शारीरकभाष्यमधिजिगांसमानानामस्तु महत्सौकर्यमिति तेन च श्रीमतः परमपुरुषस्य प्रसादः फलेपहिरस्त्विति प्रार्थयामहे ॥ एतदुपनिषदर्थसङ्ग्रहस्तु-इदंभाष्यकारैः श्रीमद्भिः श्रीशैलानन्तपूरुषसिंहासनासीनैः विद्वच्छी- रङ्गाचार्यैः अष्टादशमन्त्रभाष्यावसाने-~-'अयमनैतदुपनिषदर्थतात्पर्यसङ्ग्रहः' इत्यारभ्य सुस्पष्टमुपपादितः॥ - यथा-- ammam . प्रथममन्त्रेण सर्वेश्वरस्य नियन्तृत्वशेषित्वे जगतो नियाम्यत्वशेषल्वेच तत्तदसाधारणाकारौ ज्ञापयित्वा तद्वलेन मुमुक्षोः स्वसम्बन्धिसर्ववस्तुषु कर्तृत्वममताफलविषयत्रिविधत्यागलक्षणशानविशेषेण संस्करणपूर्वकं तेषु भगवद्भोगान्तर्गततयैव स्वभोगविधानमुखेन वक्ष्यमाणपरविद्याङ्गभूतकर्मयोगापेक्षितो ज्ञानविशेषलक्षणसंस्कारविशेषो दर्शितः । स च ज्ञानविशेषः--भगवानेव स्वनियाभ्यस्वरूपस्थिति- प्रवृत्तिस्वशेषतकरसेनानेनात्मना स्वकीयैश्च देहेन्द्रियान्तःकरणैः स्वकीयैरेव कर्मभिः स्वकीयद्रव्यमय- व भोगैः स्वात्मानं स्वयमेव प्रीत कारयति -इत्येवमादिरूपः ॥ द्वितीयमन्ने च-वक्ष्यमाणपरविद्याङ्गतया यावजीव यथाधिकार कर्मयोगोऽप्यनुष्ठेवतया दर्शितः। कर्मयोगस्यार्वाचीनफलद्वारा बन्धकत्वभ्रमपरिहाराय दर्शितत्यागविशेषलक्षणसंस्कारबलेन अर्वाचीनफलसम्बन्धलक्षणतल्लेपासम्भवोऽपि शापितः ॥ तृतीयमन्त्रे च प्रथमद्वितीयमन्त्रपर्यवसन्नार्थभूतशेषित्वनियन्तृत्वलक्षणपरस्वरूपयाथात्म्यशेष, त्वनियाम्यत्वलक्षणस्वस्वरूपयाथात्म्यैतदुभयज्ञानपूर्वकपरविद्याङ्गकर्मयोगानुष्ठानविरहिणाम् आत्मघ्नत्वे- न निन्दापूर्वकं परविद्यावैधुर्येण क्रमेण महानर्थप्राप्तेरवर्जनीयस्वाभिधानमुखेन दर्शितलक्षणकर्मयोगनि- छाया अतिशीघ्रमेवावश्वसम्पादनीयता दर्शिता ॥ - 11 - चतुर्थादिभिः अष्टमान्तः पञ्चभिर्मन्त्रैः अनेकात्मसु सत्सु तत्रैकस्य पर कथं नियन्तृत्वशेषित्वे । कथं वा अन्येषा सर्वेषां चेतनाचेतनानाम अविशेषेण नियाम्यत्वशेषत्वे ? इत्याशङ्कय परिहारार्थम् अत्र विवक्षितपरविद्यायामनुसन्धानार्थ च परमात्मनोऽघटितघटनासामर्थ्याखिलभूतान्तरात्मत्वादि- कल्याणगुणाश्रयत्वं, तथाविधाकारानुसन्धानफलप्रदर्शनमुखेन तदनुसन्धानावश्यकता च प्रत्यपादि । नवमप्रभृतिरेकादशपर्यन्तैस्त्रिभिमन्त्रैः---मुमुक्षोः कर्मविद्ययोरेकैकमात्रानुष्ठानेऽनर्थपर्यवसाना. वर्जनीयताज्ञापनमुखेन कर्मसहचरिताया एव विद्याया अनुष्ठेयता प्रतिपादिता ।। द्वादशादिभिश्चतुर्दशपर्यन्तौस्त्राभिर्मन्त्रैः -सामान्यतः शरीरप्राप्तिगर्भितपुरुषार्थोद्देशेन वा सा. मान्यतोऽशरीरत्वप्राप्तिगर्मितपुरुषार्थोद्देशेन वा यथोक्तलक्षणविद्यानुष्ठाने प्रथमपक्षे नश्वरप्राकृतभोगै श्वर्यप्राप्तिपर्यवसानेन अनिष्टप्रातः , द्वितीयपक्षे-यावदात्मभाविस्वरूपविरुद्धकैवल्यलक्षणमोक्षप्राप्तिपर्यव. सानेन अनिष्टप्राप्तेश्च अवर्जनीयता, ततः एकविधशरीरनिर्मूलनिवृत्त्यपरविधशरीरप्राप्त्युभयगर्भितपुरु- पार्थोद्देशेन यथोक्तलक्षणविद्यानुष्ठान एव स्वरूपानुगुणपरमपुरुषार्थलक्षणमोक्षप्राप्तिश्च प्रतिपादिता ॥ ततः पञ्चदशादयोऽष्टादशपर्यन्ताश्चत्वारो मन्त्रा:-यथोक्तलक्षणविद्याकरणतयाऽनुसन्धेयाः स्वरूपानुगुणपरमपुरुषार्थलक्षणमोक्षप्रार्थनागर्भा अव्यभिचारेण तथाविधमोक्षप्राप्तिप्रयोजका आवश्य- कोपास्याकारानुसन्धानगर्दा अन्तरादित्यवर्तिपरमपुरुषविषयपरविद्यापराः प्रवृत्ताः-इति'- इति ॥ इदंभाष्यकारैः श्रीमद्भिः विद्वच्छीरङ्गचार्यस्वामिभिरियमुपनिषदामूलचूडमवलोकपदवीमुपल- म्भिता विशुद्धिं परमानुभवतीति विश्वसन्तो वय कृतज्ञाः परश्शत धन्यवादानेम्यो महाहेभ्य उप. हरामः । श्रीमद्भिः श्रीरङ्गनारायणयतीन्द्रास्थानीमलं कुर्वाणैः परमहसपरिव्राजकाचार्यैः साकेतरामानुज- संयमीन्द्ररपि इयं सतृणमवलोकिता क्वचित्क्वचित्प्रमाणानामाकरसंयोजनेन संभाविताचेति कार्त बहुशः प्रकाशयामः । अपि च -एतैर्महाभागैः श्रीभाष्य श्रीभागवतं भगवद्गीतेत्येस्मन्मुद्रितमशेषमेव परया श्रद्धया महता श्रमेण सशोधितम् , आकारसंयोजनेन प्रमाणव्याख्याप्रसादनेन पुस्तकप्रदानेन च सुबहूपकृतमिति चिरान्निगूडं कार्तज्ञमाविष्कुवत इदमेव सुभाषितं सततमावर्तयामो मनसि, यत् 'परोपकाराय सतां हि सम्पदः' इति ।। सर्वज्ञः सर्वसाक्षी सकलतनुभृतां सर्वथा सन्नियन्ता सर्वत्र व्याप्यवर्ती सकलगुणगणैस्सर्वदा सेज्यमानः । स्वामी नः श्रीसहायः सरसिजनयन्नः सर्ववेदैकवेद्यः सर्वाभीष्टप्रदोऽसौ शमयतु दुरितं शर्म वो निर्मिगीताम् ॥ इति, श्री -ति. अ. ति. कुमारतातार्यः, कविभूषणः.
श्रीमते रामानुजाय नमः ईशावास्योपनिषत्. DACH भाष्यत्रयोपेता. ईशावास्यमिदं सर्व यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यविद्धनम् ॥ --- (श्रीमद्वेदान्तदेशिकविरचितमीशावास्योपनिषद्भाष्यम्. - श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी। वेदान्ताचार्यों मे सन्निधत्तां सदा हृदि । येनावास्यमिदं सर्व चेतनाचेतनात्मकम् । विशुद्धसद्गुणोघं तं वासुदेवमुपास्महे ॥ १ ॥ श्रीकूरनारायणीयमीशावास्योपनिषद्भाष्यम् . विश्व व्याप्यं धार्य येन विचित्राश्च शक्तयो यस्य । श्रीरङ्गेशं तमृषि तनुवाक्चित्तैरुपास्महे पुरुषम् ॥ १ ॥ सर्वेशानस्सर्वभूतान्तरात्मा दोषानह सर्वविद्यैकवेद्यः । कर्माराध्यस्साध्यभत्त्येकलभ्यः श्रीमान्च्यतो वाजिनां संहितान्ते ॥ २ ॥ . श्रीवेङ्कटाद्रि श्रीमदनन्तापूरुषाचार्यसिंहासनस्थ श्रीरङ्गाचार्यस्वामिविरचित प्रीशावास्योपनिषद्भाष्यम् । श्रियःकान्ताय नमः ॥ श्रीमते विष्वक्सेनाय नमः ॥ श्रीमते रामानुजाय नमः ॥ श्रीमदनन्तार्यमहागुरवे नमः ॥ श्रीमते वरवरमु नये नमः॥ श्रीमान् वेङ्कटशैलाद्धरिरुद्यन्नोऽद्य दादिवि दीप्रः । दहतु सुदर्शनमहसा सत्पथसञ्चारिवैरि सन्तमसम् ॥ १॥ १. अयमाचार्यः क इति चेत् , केचिद्वदन्ति - 'अ-शमिश्रशिष्यः सुदर्शनशतकादिग्रन्थकर्ता। कश्चिन्मुनिवर: इति । 'नतु की- २ ईशावास्योपनिषत् [मं-१. वे॥सर्वेशानस्सहजमहिमा सर्वभूतान्तरात्मा सर्वान् दोषान् स्वयमतिपतन् सर्वविद्यकवेद्यः । कर्माध्यक्षः कलुषशमनः कोऽपि मुक्तोपभोग्यस्सिद्धोपायः स्फुरति पुरुषो वाजिनां सहितान्ते ॥ ईशावास्यमिदं सर्वमित्यादि यदनूच्यते । शिष्यं प्रति गुरोरेतब्रह्मविद्यानुशासनम् ॥ ३ ॥ संभूतोदाहृतं सर्वे विनियोगपृथक्त्वतः । विद्यार्थे स्यादिति व्यक्तं निबन्धोऽस्य तदन्ततः ॥ ४ ॥ - कू ॥ यस्याचार्यैः कृतं भाष्यं गम्भीर विदुषां मुदे । बालामोदाय तद्भावो यथाभाष्यं प्रकाश्यते ॥ ३ ॥ ईशावास्यानुवाकोऽय वाजिनां सहितान्तगः । शिष्याय गुरुणा यस्मिन्ब्रह्मविद्योपदिश्यते ॥ ४ ॥ कर्मणां संहितोताना विनियोगपृथक्त्वतः । विद्याङ्गतास्ति तवक्त्यै निर्बन्धोऽस्य तदन्ततः ॥ ५ ॥ 'ईशावास्यमिदं सर्वम्' इत्येषोऽनुवाकोऽष्टादशमन्त्रात्मकः । एते च मन्त्राः पुरुषसूक्तो- दितपरमपुरुषतत्स्वरूपतदुपासनप्रपदनतत्प्राप्तिरूपतत्त्वोपायपुरुषार्थानां सङ्ग्रहेण सम्यक्प्रतिपादकत्वा- कर्मसु कल्पसूत्रकृता कात्यायनेन विनियुक्तत्वाच्च उपनिषत्सारभूताः। भगवद्गीतादिभिश्च एतेषा म- त्राणामुपबृंहणं तत्र तत्र परस्तात्प्रदर्शयिष्यते । नन्वेव ब्रह्मकाण्डे बृहदारण्यक एवैषां पाठस्स्यात् , न श्री ॥ श्रीरामानुजयोग्यनन्तगुरुराट्सौम्योपयन्त्रायै- यो वेषैरपुनाजगत्कुलगुरुय॑स्यात्र नो मध्यमः । आस्ताञ्चापि तथा न आधचरमावाम्नायसिन्धुद्वयी- पारप्रापणनाविको फणिपतिस्सोऽयं विधत्तां जयम् ॥ २ ॥ आध्यात्मिक्यां सरण्यां मम हृदयरथं स्वामियन्त्रश्वरूपाः श्रीशश्श्रीभाष्यकारी भुवनगुरुवरो रम्यजामातृयोगी। सजास्सञ्चारयन्तामविषममधुनाऽनुज्झितप्राच्यलेख दुर्मानोद्वत्तवाहो न गमयति यथा दुष्पथं वक्रकर्षी ॥ ३ ॥ वेदान्ताः काननान्ताः कुमतिकृतिमयैः कण्टकैर्दुर्गमार्गा दुस्साधान्तस्स्थबोधास्वयमलिगहनासन्ति घण्टापथैस्तान् । आरामान् वाऽभिरामान् सुकरविहरणान् कर्तुमद्याखिलानां श्रीरङ्ग सान्तरङ्गं कलयतु सफलं प्रोद्यतं श्रीनिवासः ॥ ४ ॥ श्रीशैलानन्तपुरुषगुरुपरिबृढदिव्यसिंहपीठस्थः । ईशावास्योपनिषद्भाष्यं श्रीरङ्गसूरिरातनुते ॥ ५ ॥ काण्वमाध्यन्दिनभेदभिन्नाना वाजसनेयिनां पञ्चाशदध्याय्यात्मकशुक्लयजुर्वेद सहितायामेकोन- पञ्चाशाध्यायपर्यन्ताकर्मकाण्डरूपाद्भागादनन्तरश्चरमो ज्ञानकाण्डरूपोऽयं पञ्चाशोऽध्याय ईशावास्यो- पनिषत्संज्ञो व्याख्यायते ॥ ६ ॥ अयमध्यायः काण्वैरष्टादशमन्त्रात्मको माध्यन्दिनैस्सप्तदशमन्त्रात्म- कश्च पठ्यते ॥ ७ ॥ अयं खल्बध्यायः कर्मकाण्डरूपसंहिताघटकतया पठधमानोऽप्यनत्यमन्त्राणां कर्मसु कल्पसूत्रकारादिभिर्विनियोगादर्शनात्, बहिर्लवनाद्यनुष्ठेयकर्मप्रकाशकानां 'बर्हिर्देवसदनं दामि' MAR मं-१.] भाष्यत्रयोपेता. व॥ तत्र प्रथममचिद्विकाराधिष्ठितस्य स्वतन्त्रात्मभ्रमादिपरिजिहीर्षया सर्वस्य परमपुरुषायत्तस्वरूप- स्थितिप्रवृत्तिमभिप्रेत्याह-ईशा वास्यमिदं सर्व यत्किञ्च जगत्यां जगदिति । इदं-तत्तत्प्रमाण- सिद्धमीश्वरव्यतिरिक्तं चिदचिदात्मकम् , ईशा 'ज्ञाज्ञौ द्वावजावीशनींशो' इत्यादिषु जीवादत्यन्त- कू॥संहिताया,प्रयोजनाभावादिति चेन्न; एतेषु सारभूताना पञ्चमन्त्राणां बृहदारण्यकेऽपि पाठदर्शनात्। 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' 'विद्यां चाविद्यांच यस्तद्वेदोभय सह । आविद्यया मृत्युं तीवा विद्ययाऽमृतमश्नुते' इति अविद्याख्यस्य कर्मविशेषस्य. ब्रह्मविद्यायां विनियुक्तत्वेन संहितायामुदाहृतं कर्मजातं विद्याया अप्यङ्गमिति विशदीकरणार्थमेषां संहितान्तपाठोपपत्तेश्च । अतः कर्मसु विनियुक्तत्वात्पूर्वोक्ततत्त्वोपायप्रयोजनप्रतिपादनपरत्वाचोपनि- षद एवैते मन्त्रा इति सिद्धम् ॥ तत्र तावदाचार्यः, प्रथमं रजस्तमःप्रचुरदेहेन्द्रियादिविशिष्टत्वात् 'ईश्वरोऽहमहं भोगी' इत्यादिश्रीभगवद्गीतोक्तप्रक्रियया 'स्वतन्त्रोऽहं, देवतान्तरपरतन्त्रोऽहम्'इति च भ्राम्यतस्तत्त्वबुभुत्सया चोपसन्नस्य शिष्यस्य स्वतन्त्रात्मभ्रमादिनिवृत्त्यर्थ चिदचिदात्मकस्य कृत्स्नस्य प्रपञ्चस्य परमपुरुषायत्त- स्वरूपस्थितिप्रवृत्तित्वमुपदिशति-ईशावास्यमिति । इदम्-अचिन्त्यविविधविचित्ररचनया ब्रह्मा- दिस्तम्बपर्यन्तक्षेत्रशमिश्रतया च प्रत्यक्षादिप्रमाणसिद्धमित्यर्थः। सर्वम्-ईश्वरव्यतिरिक्त भोग्यभोक्तृ- रूपं सर्वम्। 'ईशा' इति तृतीयैकवचनान्तम्, सर्वनियन्त्रेत्यर्थः, संकोचे मानाभावात् । महापुरुषे- णेति यावत्, 'योऽसावसौ पुरुषः' इति अनुवदिष्यमाणत्वात् । स एव हि सर्वस्येष्टे , तथा च श्रुत्य- श्री॥इत्यादीनामिवानुष्ठयकर्मप्रकाशकत्वलक्षणकर्मविनियोगव्यञ्जकलिङ्गादर्शनेन लिङ्गबलादपि तदसि- ढेः,प्रत्युतात्मयाथात्म्यादिप्रतिपादनमुखेन विद्याविनियोगस्यैवावगमाच ज्ञानकाण्डरूप एव॥८॥न च, यद्ययमध्यायो ज्ञानकाण्डरूपः, तर्हि वाजसनेयिनां ज्ञानकाण्डरूपायां बृहदारण्यकोपनिषदि कुतोऽयं न पठ्यते ? बृहदारण्यकोपनिषदपि वाऽनेनैव सह संहितान्तर्गततया तदन्त एव कुतो न पठयते? अतोऽयं कर्मकाण्डसहितानन्तर्गततया पृथक्पठयमानज्ञानकाण्डभूतबृहदारण्यकोपनिषदनन्तःपातित्वा- त्प्रत्युत कर्मकाण्डरूपसंहितान्तःपातित्वाच्च, कर्मकाण्डशेषभूत एव स्वीकर्तुमुचित इति वाच्यम् अत्र- त्यकतिपयमन्त्राणा बृहदारण्यकोपनिषद्यपि दर्शनेनास्य ज्ञानकाण्डरूपतायाः प्रत्यभिज्ञाप्यमानत्वात्, कर्मकाण्डाज्ज्ञानकाण्डस्य पृथक्पाठ्यत्वेऽपि सङ्ग्रहेण विद्यास्वरूपं प्रदर्श्य कर्मकाण्डविहितकर्मणामात्म- याथात्म्यज्ञानेन त्रिविधत्यागसंस्कृतानामाकारान्तरेण तदङ्गताज्ञापनार्थमेव ज्ञानकाण्डरूपस्याप्येतदध्या- यलक्षणाल्पभागस्य कर्मकाण्डसंहितान्ते पाठोपपत्तेश्च ॥ ९ ॥ एतदध्यायगतमन्ताणा बृहदारण्यकोप- निषदि पष्ठाध्यायचतुर्थब्राह्मणसप्तमाध्यायपञ्चदशब्राह्मणादौ किञ्चिद्भेदेन पाठो दृश्यमानोऽस्या- ध्यायस्य ज्ञानकाण्डरूपत्वं स्पष्टयति ॥ १०॥ अतोऽयमध्यायो ज्ञानकाण्डरूप एव ॥ ११ ॥ प्रथमं बुभुक्ष्वधिकारिककर्मकाण्डप्रतिपन्नकेवलकर्मफलानित्यत्वगतागतपुनःपुनरवर्जनीयसंसार- बन्धसंभवविज्ञाननिर्विण्णहृदयस्य मुमुक्षोरधिकारिणसंसारबन्धनिवृत्त्यनन्तस्थिरफलब्रह्मप्राप्तिहेक्साङ्ग- ब्रह्मविद्यामुपदिदिक्षुर्वेद पुरुषः प्रथमं ब्रह्मविद्यां प्रस्तुत्य तदनु तदङ्गतया विधास्यमानानां कर्मणां संस्कारविशेषभूतं बुद्धिविशेषलक्षणं त्यागमुपदिशति-ईशावास्यमित्यादिना प्रथममन्त्रेण ॥ १२ ॥ अस्य प्रतिपदविवरणम् --इदं प्रत्यक्षादिप्रमाणसिद्धं, सर्व चिदीचदात्मक वस्तुजात स्वेतर- स्कृत्स्नं जगदित्यर्थः, ईशा-ईष्ट इतीद, 'ईश-ऐश्वर्ये' इत्यस्य धातोरदादिगणघटकस्य 'क्विप्च' ३॥२॥७६।। इत्यनुशासनेन कर्तरि स्विबन्तोऽयं शब्दः। तेन-ईशा-सर्वेश्वरेण श्रीमन्नारायणेन, वास्यं ईशावास्योपनिषत् [मं-१. वे॥विलक्षणतया प्रख्यातेन सर्वनियत्रा पुरुषोत्तमेन,वास्य-व्याप्यमित्यर्थः। सर्वाधारे स्वस्मिन् स्वेन वसनीयं वा। स्मयते हि सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततस्स वासुदेवेति विद्वद्भिः परिप- व्यते' इति। जगत्यामिति-लोकान्तराणामुपलक्षणम्। जगत्-स्वरूपतो धर्मतो वा अन्यथात्वं ग च्छत् भोग्यभोक्तृरूपं वस्तुजातम्।अतदात्मकं किञ्चिदपि नास्तीति द्रढयितु--यत्किञ्चेति विशेष्यते। 'इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रज्ञमेव च'इत्युपबृंहितम्। ननु ' रूढियोगमपहरति' इति न्यायादीशोऽत्र रुद्रस्स्यात् , सर्वायुपपदाभावाच्च । मैवं, कारणवि- षयाकाशप्राणादिशब्दवढेरिह बाधितत्वात् , 'एको हवै नारायण आसीन्न ब्रह्मा नेशानः' 'अनप- हतपाप्माहमस्मि नामानि मे धेहि' इत्यादिभिः असर्वकारणत्वेन कर्मवश्यत्वेन च सम्प्रतिपने रुद्रेस- कू॥न्तरं ‘पति विश्वस्यात्मेश्वरम्' इति। तेन वास्य-निवासनीयं, व्याप्यमिति भावः,अनन्याधारत्वात्प- रस्य ब्रह्मणः। यद्वा सर्वांधारे स्वस्मिन्नेव स्वेन वसनीय, सर्व प्रतिष्ठापनीयमित्यर्थः । स्मयतेहि 'सर्व- त्रासौ समस्तं च वसत्यत्रेति वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपठयते' इति। जगत्याम्- उाम्, इद लोकान्तराणामप्युपलक्षणम् । जगत् - अन्यथात्वं गच्छत्। तत्राचिदंशस्य भोग्यत्वाय स्वरूपविकाररूपमन्यथात्वं, चिदंशस्य भोक्तृत्वाय ज्ञानसंकोचविकासादिलक्षणस्वभावविकारेणान्य- थात्वमिति भेदोऽनुसन्धेयः । ईशेनाव्याप्तं किंचिदपि नास्तीति दर्शयितुं यत्किचेति जगद्विशेष्यते । जगत्यादिषु लोकेषु यतिकच भोक्तृभाग्यरूपं जगद्वर्तते, तदिदं सवम्, ईशा वासुदेवेन, वास्य-व्याप्य धार्यचेत्यर्थः । 'इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं वृतिः । वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रसमे- वच' इत्याद्युपबृंहणसहस्रमिहानुसन्धेयम् । 'पृथगात्मानं प्रेरितारंच मत्वा' 'ज्ञाशो द्वावजावीश- नीशौ' छान्दसो ह्रस्वः । ईशानीशावित्यर्थः । नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्' इत्यादिषु प्रसिद्धो जीवेश्वरयोरीशेशितव्यादिलक्षणोऽत्यन्तभेदोऽप्यत्र सिद्धः । ननु 'रूढियोगमपहरति' इति न्यायादीशोऽत्र रुद्रस्स्यात् ; मैवं, 'एको हवै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नामिन सूर्यो न चन्द्रमाः स एकाकी न रमेत' इत्यादिषु अनपहतपाप्माहमस्मि नामानि मे धेहि' इत्यादिषु च भगवत्कार्यत्वेन कर्मवश्यत्वेन च सम्प्रतिपन्ने रुद्रे सर्वव्यापित्वसर्वाधारत्वादेरन्वयासम्भवेन विरुद्धार्थविषयतयैवेह रूढे नत्वात् । एवंच । . श्री॥वसितुम्-आच्छादयितु-वस्त्रादिवत् स्वातिशयाधायकतया धारयितुं योग्य,सर्वेश्वरेण स्वप्रयोजनवि- नियोजनैकयोग्यपरतन्त्रवस्तुभूतमिति यावत् । 'वस आन्छादने' इत्यस्य धातोरदादिगणघटकस्य ऋहलोण्यत् ' ३ ॥ १ ॥ १२४ ।। इत्यनुशासनेन ऋवर्णान्ताद्धलन्ताच धातोर्ण्यत्स्यादित्यर्थकन कर्मणिण्यत्प्रत्ययान्तोऽयं शब्दः । अत्र वसधात्वर्थभूतमाच्छादनं न तिरोधानप्रयोजकव्यापाररूपमप. वारणम् ; अपितु स्वातिशयाधायकतया धारणमेव, ' वस्त्र वस्ते' इत्यादौ वस्त्रधारणस्यैव बोधा. ; वसानमेणाजिनमञ्जनति' ॥ मा ॥ १ ॥६॥ इत्यादिषु वस्तेर्धारणार्थकतयैव प्रयोगात ; तद- र्थपरस्याच्छादनशब्दस्यापीह 'शाटीमाच्छाद्य दुश्छदाम् ॥ रा॥ २ ॥३२ ॥ ३२॥ 'आच्छादितायतदिगम्बरम्' मा ॥ ४ ॥ १९ ॥ आच्छाद्य युष्पपटम् ॥मा॥४॥५२॥ इत्यादिप्रयोगानुरोधेन धारणार्थकत्वाच । तथाचात्र वस्त्रादिवद्धार्यत्ववाचिवास्यशब्देन शेषत्वगर्मितं पारतन्त्रय जगतः प्रतिपादितं भवति । अतः जगत्यां - यथोक्तलक्षणे चेतनाचेतनात्मके जगति, यत्किञ्च- यत्किञ्चित् , जगत् - स्वभोगोपयोग्याकारेण परिणाम गच्छद्वस्तु । इदञ्च द्वितीयान्तं भुञ्जीथाः' इत्यस्य कर्म । यद्वा, ' ईशा वास्यमिदं सर्वम्' इत्येतदेव तत्कर्म ; 'ईशावास्यम् मं-१.] भाष्यत्रयोपेता. . - । वे॥र्वावास्यत्वसाधारत्वादेरसम्भवात् । तद्वत्तया प्रसिद्ध अनवच्छिन्नैश्वर्ये सर्वेश्वरे यौगिकोऽयं शब्दः प्रत्येतव्यः । यद्यपि प्रसिद्धवन्निर्देशाभावादाकाशादिवाक्यवैषम्यम् , तथाप्यन्द्रीन्यायाविरुद्धार्थविषय. तयैव रूढिभङ्गोपपत्तिः । नचात्र सर्वत्वमाधिकारिकमिति न्यायः, सङ्कोचादृष्टेः । प्रवाहेश्वरानेकेश्वरप- क्षौ तु त्रैकालिकसर्वनिर्वाहकेश्वरप्रतिष्ठापकैः प्रमाणगणैः प्रत्यूढौ । अतः पति विश्वस्यात्मेश्वरम्' इत्यादिप्रसिद्धानन्याधीनैश्वर्यः योऽसावसौ पुरुषः' इत्यनुवदिष्यमाणं ब्रह्मेशानजनकतया अनन्ययासि द्धवाक्यनिर्धारितम् ‘एघ सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिषु सर्वान्तर्यामित्वेन प्रख्यातम् । तत एव ‘स ब्रह्मा स शिवः' इत्यादि विभूतिभूताना ब्रह्मशिवेन्द्रादीनां 'विश्वमेवेद पुरुषः' इत्यत्र विश्वस्यैव विशेष्यतयोक्त नारायणमेव सर्वस्य वास्यमीशं वक्तुमुचितमे तद्वाक्यमित्यलमन्यरूढिप्रसङ्गरहितासमस्तपदाध्ययनानभिज्ञाश्रोत्रियचोद्योपालम्भेन । एवं मुमुक्षोरीश्व- रपारतन्त्रथबोधमुत्पाद्य वैराग्यभूषितां वृत्तिमुपदिशति--तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्वि- द्धनमिति । तेन जगता भोग्यताभ्रमविषयेण, त्यक्तेन दोषभूयस्त्वदर्शनात्परित्यक्तेन,उपलक्षितस्सन् भुञ्जीथाः । अप्रतिषिद्धप्रयोगधर्मोपयुक्तदेहधारणमात्रौपयिक भोग्यवर्गमित्यर्थप्रकरणाभ्या सिव्यति । यद्वा सर्वावास्यत्वेन प्रकृत निरतिशयभोग्य वक्ष्यमाणोपायमुरवेन 'भुञ्जीथाः' इति योज्यम्। कस्यापि ब- न्धोरबन्धोर्वा धनं,मा गृधः - माभिकासः। आह च यमः किङ्करं प्रति 'परमसुहृदि' इत्यारभ्य शठ- कू॥जगत्कारणवादिवाक्यगताकाशप्राणादिशब्दन्यायेन “ अजस्सर्वेश्वरस्सिद्धः' इत्यनवच्छिन्नैश्वर्यतया प्रसिद्ध सर्वेश्वरे यौगिक एवायमीट्छब्दः प्रत्येतव्य इति सिद्धम् । एवं मुमुक्षोरीश्वरपारतन्त्र्यबोधमुत्पाद्य वैराग्यभूषिता वृत्तिमुपदिशति-तेन त्यक्तेन भुञ्जीथाः-तेन जगता भोग्यताभ्रमविषयेणेति भावः। त्यक्तेन अल्पास्थिरत्वदुःखमूलत्वदुःखमिश्रत्वदुःखोदकत्वदेहात्माभिमानमूलत्वस्वाभाविकब्रह्मानुभवें विरुद्धत्वरूपा ये विषयदोपास्सप्त, तन्निरूपणपूर्वकं परित्यक्तेन उपलक्षितस्सन् भुञ्जीथाः - भगवदुपा. सनोपयुक्तदेहस्य धारणमात्रौपयिकमन्नपानादिक यागदानहोमार्चनाद्युपयोगिपरिजनपरिच्छदादिक च भोग्यवर्ग भुञ्जीथा इत्यर्थः । यद्वा दोषसप्तकनिरूपणात् त्यक्तेन भोग्याभासेनोपलक्षितस्सन् भुञ्जीथाः, सर्वावासत्वेन प्रकरणे प्राप्त प्रकृतमुक्तदोषप्रतिभट निरतिशयभोग्य वक्ष्यमाणोपायमुखेन भुञ्जीथाः' इति योज्यम् । अत्र च 'भोक्ता भोग्य प्रेरितारं च मत्वा' 'द्वा सुपर्णा सयुजा सखाया समान वृक्षं परि- षस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनभन्नन्यो अभिचाकशीति' 'समाने वृक्षे पुरुषो निममो अनी- शया शोचति मुह्यमानः । जुष्ट यदा पश्यत्यन्यमांशमस्य महिमानमिति वीतशोकः' । - महिमानम् इति - प्राप्नोतीत्यर्थः । छान्दसो गुणाभावः । तदेति प्रतिनिर्देशोऽध्याहार्यः । यदाऽन्यमीशमस्य महिमानं च पश्यति, तदा वीतशोको भवतीत्यन्वयो वा । मागृधः कस्यविद्धनं-कस्यखित् क. श्री॥इति हेतुगर्भविशेषणम्। जगल्या यत्किञ्च जगदस्तिः ईशावास्यमिदं सर्व भुञ्जीथा इत्यन्वयः। त्य- तेन-फलममताकर्तृत्वविषयत्रिविधत्यागलक्षणबुद्धिविशेषसंस्कृतेन तेन - तद्वस्तुना, स्वस्वामिभावस- म्बन्धेनोपलक्षितः त्वम् “इत्थं भूतलक्षणे ॥ २॥ ३ ॥ २१ ॥ इत्यनुशासनेनाल तृतीया । भुखी- थाः भुसः भुज-पालनाभ्यवहारयोः' इति धातो रुधादिगणघटकाद्विधिलिङ् । कस्य वित् स्वभिन्नस्य यस्य कस्य चित्प्रत्यगात्मनस्वस्वामिभावेन सम्बन्धि,धनम्-किमपि वस्तु,मा गृधः मा स्माभिकाङ्ख, गृधु-अभिकाङ्क्षायाम्' इति धातोर्दैवादिकात्कर्तरि छ । 'न माङयोगे' ॥ ६॥ ४॥ ७४ ॥ इत्यनुशासनेनाट्प्रतिषेधः---इति ॥ १३ ॥ अयं भावः-जगदन्तर्गतस्य चेतनाचेतनात्मकस्य कृत्स्नस्य वस्तुनो भगवच्छेपतकरसपरतन्त्र- वस्तुतया भगवद्भोगैकफलकत्वात्तदनन्तर्गतस्य स्वातन्त्रयेण स्वभोगस्य संसारबन्धहत्वन्यथाशानका- , ।
६ ईशावास्योपनिषत् [मं.. . , वामतिरुपयाति योऽर्थतृष्णां पुरुषपशु स वासुदेवभक्तः' इति। इदं च धनाशाप्रहाणं परमात्मेतरक- नविषयवेराग्योपलक्षणम् । स्मयते हि 'परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि' इति ॥ १ ॥ कू।स्यापि बन्धोरबन्धोर्वा धनं मा गृधः - माऽभिकाङ्क्षः; 'गृधु अभिकाङ्क्षायाम् ' इति धातुः। आहच यमः किङ्कर प्रति 'हरति परधनं निहन्ति जन्तून्वदति तथाऽनृतनिष्ठराणि यश्च । न सह- ति परसम्पद विनिन्दा कलुपमतिः कुरुते सतामसाधुः ॥ परमसुहृदि बान्धवे कलत्रे सुततनयापितृ- मातृभृत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां पुरुषपशुर्न स वासुदेवभक्तः' इति । भगवद्गीतासुच 'न काझे विजय कृष्ण ' इत्यादि । इदञ्च धनाशापहाण परमात्मव्यतिरिक्तकृत्स्नविषयवैराग्योप- लश्चणम् । स्मरन्तिहि 'परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि' इति ॥ १॥ श्रीपर्यत्वाञ्च, यत्किञ्चिद्वस्तु मुझे, तत्सर्व,भगवानेव स्वशेषभूतेन मया स्वकीयैरेव देहेन्द्रियान्तःकरणैस्स्व- कीयेनैव कर्मणा स्वकीयैरेव द्रव्यैस्स्वात्मानं स्वयमेव प्रीत कारयतीत्यनुसन्धानेन तत्तत्कर्मकर्तृत्वफलम मताविषयनिविधत्यागपर्यवसन्नबुद्धिविशेषलक्षणसंस्काररूपेण संस्कृत्य भगवद्भोगान्तर्गतस्वभागस्सन्नेव मुख तत्रापि लोकन्यायसिद्धस्वस्वामिभावसम्बन्धेन स्वसम्बन्ध्येव वस्तु तथा भुङ्क्ष ; नतूक्तसम्बन्धे नान्यसम्बन्धि वस्तु, तथा सति रागद्वेषादिमूलसर्वसासारिकबन्धप्रसङ्गस्य दुर्वारत्वात्- इति ॥ १४ ॥ अत्र यत्किञ्चिदपि वस्तु, त्यक्तेन तेन स्वामित्वसम्बन्धेनोपलक्षितस्त्वं भुञ्जीथा इत्यनेन,इत्थं भूत लक्षणतृतीयाबलात् स्वामित्वसम्बन्धेन व्यावर्तकलक्षणतया दर्शितनिविधत्यागलक्षणबुद्धिविशेषसंस्कृ- ततत्तद्वन्तुविशिष्टरसन्नेव तत्तद्वस्तु भुक्षेत्यर्थलाभेन तादृशबुद्धिविशेषरहितेभ्यः परमपुरुषार्थलक्षणमोक्षेत रफलार्थिभ्यस्तनद्वस्त्वस्वामिभ्यश्च परमपुरुषार्थनिष्ठस्य व्यावृत्तिर्विवक्षिता भवति॥१५॥ सर्वस्यापि कर्म- णस्स्वेष्टभूतत्किञ्चिद्भोगार्थतयैव क्रियमाणत्वेन भोगस्येदृशत्रिविधत्यागगर्भत्वावश्यकताविधानेन सर्व- स्य कर्मणस्तदावश्यकत्व विहितं भवति ॥ १६ ॥ परविद्याङ्गभूतकर्मानुष्ठानाङ्गतया मुमुक्षूणामवश्या पक्षितो दर्शितबुद्धिविशेषलक्षणत्यागो भगवता यसकृदभिहितो गीताशास्त्रे 'मयि सर्वाणि कर्मा- णि सन्नयस्या यात्मचेतसा' |॥ ३ ॥ ३० ॥ इति तृतीयाध्याये, 'त्यागो हि पुरुषव्याघ्र त्रिविध. संप्रकीर्तितः । ॥ १८ ॥ ४ ॥ इत्यष्टादशाध्याये । एवं स्थलान्तरेषुच ॥ १७ ॥ त्यागस्य वैविध्यम- पि स्पष्टीकृतं तद्भाध्ये भाष्यकारैः फिल्मम न स्यादिति फलत्यागः, मदीयफलसाधनतया मदी- यमिदं कर्मेति कर्मणि ममतायाः परित्यागः कर्मविषयस्त्यागः, सर्वेश्वरे कर्तृत्वानुसन्धानेनात्मनः क- र्तृतात्यागः कर्तृताविषयस्त्यागः' इति भाषमाणैः ॥ १८ ॥ त्रिविधत्यागलक्षणानुसन्धानप्रकारच, भरद्वाजसंहिताशिरसि न्यासोपदेशे प्रथमाध्याये 'निक्षिप्यात्मानमात्मीयमशेषमखिलात्मनि । क्रिया श्व सकलास्तत्र वर्तन्ते वीतकल्मषाः ॥ ६९ ॥ मन्यन्तेच स्वकीयान्नस्स्वप्रीत्यै स्वोचितां स्वयम् । नाथस्स्वकीयसेवान्तां वृत्ति कारयतीति वै ॥ ७० ॥ इति वचनाभ्यां विस्तरेण । तत्रैव परिशिष्टे प्रथमाध्याये - 'परमात्मा हरिस्स्वामी स्वतोऽहं तस्य किङ्करः । कैङ्कर्यमखिला वृत्तिरित्येष ज्ञानसत्र- हः ॥ ७७ ॥ इति वचनेन सङ्ग्रहेण च दर्शितः ॥ १९ ॥ एतत्संहितोक्तरीत्यनुसारेणैव च भाष्य- कारैरपि गीताभाष्ये तृतीयाध्यायशिश्लोकव्याख्याया 'स्वकीयेनात्मना कर्ता स्वकीयैश्चोपकरणै- स्स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वेश्वरस्सर्वशेषी स्वयमेव स्वकर्माणि कारयतीत्यनुसन्धाय ' इत्य- नेन । अष्टादशाध्याये - त्रयोदशश्लोकावतारिकायां परमपुरुषोहि स्वकीयेन जीवात्मना स्वकीयैश्च करणकलेचरमाणैः स्वलीलाप्रयोजनाय कर्माण्यारभते' इत्यनेन। एवं नित्यग्रन्थे प्रथमतः ' भगवानेव स्तशेषभूतेन मया स्वकीयैश्व कल्याणतमैरौपचारिकसांस्पर्शिकाभ्यवहारिकभोगैरखिलपरिजनपरिच्छ- मं-१.] भाष्यत्रयोपेता. ७ PHरया- -- , ; तत. 3B श्री|दान्वित स्वात्मानं प्रीतं कारयितुमुपक्रमत इत्यनुसन्धाय ' इत्यनेन ; मध्ये 'भगवानेव स्वनिया. म्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्मना स्वकीयैश्च देहेन्द्रियान्तःकरणैग्स्वकीयकल्याणतमद्रव्य मयानौपचारिकसास्पर्शिकाभ्यवहारिकादिसमस्तभोगानतिप्रभूतानतिसमग्रानतिप्रियतमानत्यन्तभक्तिक तानखिलपरिजनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादयितुमुपक्रमत इत्यनुसन्धाय इत्यनेन किञ्चिदुपरिष्टात् 'भगवानेव सर्वं कारयतीति पूर्ववद्ध्यात्वा' इत्यनेन अन्तेच 'भगवानेव' इत्यारभ्य पूर्वोक्तानुपूर्वीकेण स्वयमेव प्रतिपादितान्' इत्यन्तेनच निर्देशेन मुमु सूणां दर्शितत्रिविधत्यागलक्षणानुसन्धानप्रकारोऽसकृद्दर्शितः ॥ २० ॥ अतएवचास्मसैद्धान्तिकाः कर्मसु कचित् , 'भगवानेव' इत्याद्युक्तरीत्या विस्तरेण, क्वचित् कैकयरूपत्वनिर्देशेन संक्षेपेणच यथोक्तलक्षणं त्रिविधत्यागरूपमनुसन्धानविशेषमनुतिष्ठन्ति ॥ २१ ॥ तथाचात्र मन्त्रे 'ईशावास्यम्' इत्यनेन, परविद्यायां परस्मिन्ननुसन्धेय स्वतन्त्रत्वनियन्तृत्वशेपित्वस्वामित्व लक्षणमाकारचतुष्टयं , स्वस्मिन्ननुसन्धेयं परतन्त्रत्वनियाम्यत्वशेषत्वस्वत्वलक्षणमाकारचतुष्टयं , 'तेन त्यक्तेन' इत्यनेन परविद्याङ्गकर्मानुष्ठानाङ्गतया कर्तव्यानुसन्धानविशेषस्वरूपञ्च दर्शितं भवति ॥ २२ ॥ यत्पुनरत्र शाङ्करं व्याख्यान 'जगत्यां-पृथिव्युपलक्षितेषु सर्वेषु लोकेषु यत्किञ्च जगत् द्वैतरूपं नामरूपकर्माख्यं विकारजातम्, अस्ति, इदं सर्वम् अनृतरूपम्, ईशा सुज्ञातेन सत्यरूपेण स्वेनात्मना, वास्यम्-आच्छादनीयम्, व्यपोहनीयमिति यावत्, 'वस-आच्छादने' इतिधातोराच्छादनार्थकत्वादा च्छादनस्य व्यपोहनपर्यवसन्नत्वात् ; यथा चन्दनागर्वादेरुदकादिसंबन्धजक्लेदादिज दौर्गन्ध्यं तत्स्वरू- पनिघर्षणेनाच्छाद्यते खेन पारमार्थिकेन गन्धेन, तद्वदेवेति भावः । इत्थञ्च नामरूपकर्माख्यमनृतं सर्वे विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । पुत्रायेषणात्रयसन्यासलक्षणत्यागस्सिद्भ्यतीति यावत् । ततश्च कर्मसंन्यास एवाधिकारः, न तु कर्मसु । तेन त्यक्तेन - तत्यागेनेत्यर्थः, आत्मानं, भुञ्जीथाः-पालयेथाः, त्यागेन यथोक्तलक्षणेनात्मानं संसारनिवृत्त्या सुरक्षितं कुर्वीथाः, मुक्तो भवसीति यावत्। एवं त्यक्तेषणस्त्वं, कस्यस्विद्धनं मा गृधः-स्वस्य परस्य वा कस्यापि धन मा काङ्क्षीरित्यर्थः । अथवा, कस्यस्विद्धन - कस्य किमस्ति धन - सर्वस्य द्वैतप्रपञ्चस्य मिथ्यात्वात्; अतः, मा गृधः - मा काङ्क्षा कार्षीः, इति ॥ २३ ॥ तदेतत्सर्वं यथावस्थितशब्दार्थव्युत्पत्त्यनवधारणमूलमभराननुगुण स्वमताभिनिवेशबलात्कारकारितस्वैराध्याहारपूरणादिना स्वपरिगृहीतविपरीतार्थपरताप्रसह्यारोपणमात्र- रूपश्चति विमत्सरं विचारप्रवृत्तानां विदुषां सुगमम् ॥ २४ ॥ तथाहि 'वस आच्छादने' इति धात्व- थंभूताच्छादनस्य स्वातिशयाधायकतया धारणरूपतायाः प्रागावेदितत्वेन तिरोधानहेतुव्यापाररूपापवा. रणानात्मकतया व्यपोहनपर्यवसन्नत्वाभावात्, वास्यमित्यस्य व्यपोहनीयमित्यर्थपर्यवसानमाश्रित्य द्वैतप्र- पञ्चनिवृत्तिपरत्ववर्णनं शब्दार्थाव्युत्पत्तिमूलमेव ॥ २५ ॥ एव-'भुञ्जीथाः' इत्यस्य पालयेथा इत्य र्थवर्णनमपि शब्दार्थाव्युत्पत्तिमूलमेव; 'भुजोऽनवने ॥१॥३॥६६॥ इत्यनुशासनेन पालनभिन्नार्थकस्यैव भुजेरात्मनेपदं भवति. नतु पालनार्थकस्येत्यर्थकेन, आत्मनेपदिनो भुजेः पालनार्थकत्वाभावस्यैव प्रति- पन्नत्वात् ॥ २६ ॥ अतएवहि 'ओदनं भुते' इत्यादिप्रयोगेषु पालनभिन्नार्थकस्य भुजेरात्मनेपदम् ; 'पृथिवीं भुनक्ति' इत्यादिप्रयोगेषु पालनार्थकस्य भुजेः परस्मैपदश्च नियतं दृश्यते ॥ २७॥ एवम्, ईशे- त्यस्य विशेषणतया सत्यरूपेण सुज्ञातेनेति पूरणस्य ‘भुञ्जीथाः' इत्यस्यात्मानमिति कर्मपूरणस्य सर्वमिदमित्यस्यानृतमिति विशेषणपूरणस्य च कल्पनम्, ईशेत्यस्य स्वात्मस्वरूपणेत्यर्थवर्णनच स्वमता- मिनिवेशकारितस्वैरितामात्रमित्यनुपादेयमेव शब्दस्वरसविद विदुषाम् ; प्रकरणसन्दर्भादिबलनिर्मा- .
८ ईशावास्योपनिषत् [मं-१, श्री॥सितयारेव पूरणार्थपर्यवसानयोः करणस्य न्याय्यत्वादतथाविधयोस्तयोस्वैर करणस्यायुक्तत्वात्, अ. न्यथातिप्रसङ्गस्य दुरित्वात् प्रकृतस्थले दर्शितपूरणार्थपर्यवसानाकरणे क्षतिलेशस्याप्यनुपलम्भाच॥२८॥ अपि च, ईशेतीश्वरत्वेन निर्दिष्टमात्मानं सत्यरूपत्वेन विशेष्य, तेन सुज्ञातन द्वैतप्रपञ्चनिराकरणपरत्व- वर्णनमपि श्रुतेन सञ्जाघटीति, ईश्वरस्येशितव्यद्वैतप्रपञ्चसापेक्षत्वेन तस्य सत्यरूपत्वे द्वैतप्रपञ्चस्यापि सत्यतासिद्ध्या तेन सुज्ञातेन द्वैतप्रपञ्चनिराकरणायोगात् ॥ २९ ॥ उक्तानुपपत्तिपरिहाराय - ‘ईशा' इत्यस्य स्वात्मस्वरूपेणेत्यर्थस्स्वीक्रियत इत्यपि न सुवचम्, ईश्वरत्वविशिष्टवाचकस्य तस्य केवलस्वात्म- स्वरूपमात्रवाचकताया विना लक्षणामसम्भवात् ॥ ३० ॥ कि बहुना, आत्मस्वरूपेण सुशातेन द्वैतप्र- पञ्चनिराकरणं यदीह विवक्षितमभविष्यत्, तदाऽत्मस्वरूपपरनिर्देशमुपेक्ष्य, ईश्वरत्वविशिष्टपरः 'ईशा' इति निर्देश एव नाकरिष्यतेति तु तत्त्वमवधेयम्॥ ३१॥ एव तेन त्यक्तेन भुञ्चीथाः' इत्यस्य स्वरू- पतस्सर्वकर्मसन्यासलक्षणत्यागपरत्वे, ‘मा गृधः कस्यस्विद्धनम्' इति पुनर्धनग्रहणकाज्ञाप्रतिषेधः पिष्ट पेषणरूपः पौनरूक्तयदोषादसमञ्जसः, सर्वत्यागे विधीयमाने धनग्रहणमात्रस्य पुनः प्रसङ्गलेशाभा- वाच ॥ ३२ ॥ अपिच, शङ्कराभिमतरीत्या स्वरूपतस्सर्वकर्मसंन्यासलक्षणत्यागस्यैव मुमुक्षारावश्यकत- यैतन्मन्त्रप्रतिपाद्यत्वे 'कुर्वन्नेवेह कर्माणि' इति द्वितीयमन्त्रे पुनः कर्मानुष्ठानविधानमत्यन्तासमञ्ज. सम् ॥ ३३ ॥ द्वितीयमन्त्रो बुभुक्षुविषय इति वर्णनमप्यविवेकविलसितमेव, बुभुक्षूणामपेक्षितकर्मा- नुष्ठानप्रक्रिया निरवशेष निरूप्य समापनानन्तरम्मुमुक्ष्वपेक्षितानुष्ठानप्रक्रियाप्रतिपादनैदंपर्यप्रवृत्ते ज्ञान- काण्डलोऽस्मिन् चरमेऽध्याये पुनर्बुभुक्षारनुष्ठानप्रक्रियावर्णनस्य सङ्गतिलेशाभावात् ॥ ३४ ॥ तस्मा- सर्वमिदं शाङ्करं व्याख्याने बलाच्छ्रुतेस्वाभिमानपरिगृहीतार्थपरतया योजनमात्ररूपं शिरस्त्रानुगुण्येन शिरःकर्तनन्यायमेवानुसरीसरीतीति निर्मत्सरास्तत्वबुभुत्सवो विद्वांसो विदाकर्वन्तु ॥ ३५ ॥ यदपि, शङ्करमतानुयायिना वाजसनेयिसंहिताव्याख्यात्रा महीधरेण शाङ्करव्याख्याने क्वचिदंशे किश्चिदवारस्यं मन्वानेन 'यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जीथाः' इत्यंशस्य ' यत्किञ्चेति भिन्नक्रम, क्रिश्च यत् जगत्यां लोकत्रये, जगत् • जङ्गमादिकं, स्वामिसम्बन्धालिङ्गितं भवेत् , सर्वेण, त्यक्तेन त्यक्तस्वस्वामिसम्बन्धेन. भुञ्जीथाः - भोगमनुभवेः' इति व्याख्यानं कृतम् ॥ ३६ ॥ तदप्यसत् , स्वामिसम्बन्धालिङ्गितं भवेदिति स्वैरपूरणात् , 'भुञ्जीथाः' इत्यस्य भोगमनुभवेरि. त्यर्थकरणस्योदक्षरत्वाच ॥ ३७ ॥ 'भुञ्जीथाः' इत्यत्र भोगमात्रस्य लाभेन तदनुभवो हि न केना पि लभ्यते ॥ ३८ ॥ किञ्च भुजेस्सकर्मकत्वेन कर्मसापेक्षतया कर्मतया तदन्वययोग्यस्य 'तेन त्यक्तेन' इत्यस्य करणतयाऽन्वयो न घटते; अन्यथा, अन्ने भुञ्जीथाः' इति स्थाने 'अन्नेन भुञ्जीथाः' इत्यपि प्रयोगापत्तेः ॥ ३९ ॥ एवम् - ईशावास्यमिदं सर्वम्' इत्यंशस्य शङ्करवदेव स्वयमपि परमार्थसत्यरूपस्वात्मस्वरूपयाथात्म्यानुसन्धानेनानृतरूपकृत्लद्वैतप्रपञ्चनिराकरणविधिपरतां व्याख्याय, पश्चात्किञ्चेत्यादिना ममताबुयनास्पदीकृतजङ्गमादिभोगोपकरणेन भोगानुभवविधिपरतया, यकि. ञ्चत्याग्रंशस्य व्याख्यान ह्यसमञ्जसं, द्वैतप्रपञ्चनिराकरणस्य जङ्गमादिवस्तुकरणकभोगानुभवस्यच द्वयो- रेके प्रति विधानासम्भवात् ॥ ४० ॥ किञ्च, ‘मा गृधः कस्यस्विद्धनम्' इत्यस्य 'क्वापि धने क- स्थापि स्वत्वं वस्तुतो नास्ति ; अतस्वीयत्वेन परकीयत्वेन वा लोकसिद्धे सर्वस्मिन्नपि वस्तुनि ममता- बुद्धिं मा कृथाः' इति व्याख्यानात् , पूर्वाशस्य 'ममतालिङ्गिते वस्तुनि सर्वत्र ममताबुद्धि प्रहाय - तेन भोगमनुभवेः' इति व्याख्यानाच, सर्वत्रैव ममता बुद्धि प्रहाय तेनैव भोगानुभवप्रसङ्गेन विपरी- तो महाननर्थोऽपि प्रसज्यते; परकीयेषु वस्तुषु वेन ममताबुद्धिप्रहाणेऽपि परेषा तत्र तद्बुद्धिसत्वेन तत्कृतोपरोधादिर्मूलसवदुःखस्य, तथाविधोपरोधाद्यसत्त्वे च खैर परदारपरद्रव्यापहारादिशास्त्रप्रतिषि- - मं-१.] भाज्यत्रयोपेता. श्रीद्धाकृत्यकरणेऽपि दोषाभावप्रसङ्गस्य चापातात्॥४१॥इतरांशस्य शङ्करवदेवानेनापि व्याख्यानात्त- व्याख्याने प्रागुक्ता दोषास्सर्वेऽप्येतयाख्यानेऽपि तदवस्थाः॥४२॥ अत एतद्याख्यानमप्यसमञ्जसमेव ।। एतेन, 'ईशावास्यम्' इति समस्तपदमाश्रित्य, 'ईशेन रुद्रेण, आवास्यं व्याप्यम्' इ. ति व्याकृत्य, रूढियोगमपहरति' इति न्यायेन योगामुढेबलिष्ठतया रुद्रपरत्वमीशपदस्याश्रित्य रुद्र. स्यैवैतन्मन्त्रप्रतिपाद्यत्वमेतदुपनिषत्प्रतिपाद्यविद्यावेद्यत्वञ्च मन्यमाना अपि निरस्ताः ; अध्येतृपाठस. म्प्रदायविरोधेनात्र समस्तपदस्वीकारासम्भवात्, तृतीयान्तस्य क्विबन्तेशधातुनिष्पन्नेट्छब्दस्य यौगि- कस्यैवात्र पदविभागानुसन्धाय्यध्येतृपाठसम्प्रदायसिद्धतया तस्य योगमात्रेणैश्चर्यविशिष्टवाचकस्य रुद्रे रूढिप्रसङ्गस्यैवाभावात् । तदानीं 'वस - निवासे' इति निवासार्थकवसधातोः 'गृहे वसति' इत्या- दिप्रयोगवशेनाकर्मकताया एव सिद्धतया 'लः कर्मणिच भावेचाकर्मकेभ्यः' ॥ ३ ॥ ४ ।। ६९ ॥ इत्यनुशासनेनाकर्मकेभ्यो धातुभ्यो भावकोंरेव लकारविधानेन तयोरेव कृत्यक्तखलाः॥३॥ ४॥ ७० ॥ इत्यनुशासनेन लकारादेशभूतकृत्यप्रत्ययानां भावकर्मणोरेव विधानेन च तस्माद्धातो: कर्मणि कृत्यप्रत्ययान्तर्गतण्यत्प्रत्ययासम्भवेन भावार्थे तत्सम्भवेऽपि तस्येहानुपकारकत्वेन च वास्यमि- त्यस्यात्र व्याप्यार्थकताया एवासम्भवाच ॥४४॥ यद्यपि, 'आवास्यम्' इति पदच्छेदमाश्रित्य वसतेरा- पूर्वकत्वाश्रयणे 'उपान्वध्यावसः ॥ १॥ ४ ॥ ४८ ॥ इत्यनुशासनेनापर्वकस्य तस्याधारकर्मकतया सकर्मकत्वसम्भवेन तदुपरिकर्मणि ण्यत्प्रत्ययसम्भवेन च, 'आवास्यम्' इत्यस्य व्याप्यार्थकत्वमपि कथ- ञ्चित्सुवचम् ॥ ४५ ॥ तथापि 'वास्यम्' इत्येव पदविभागस्याध्येतृपाठसंप्रदायसिद्धतया तत्राम- श्लेषकल्पनाऽपि न सम्भवति, पाठसम्प्रदायोल्लङ्घने वेदप्रामाण्यस्यैव दुर्लभत्वप्रसङ्गात् , अ विच्छिन्नशिष्टपाउसम्प्रदायस्यैव वेदप्रामाण्यबीजतायास्सर्वसम्प्रतिपन्नत्वाच्च ॥ ४६॥ अस्तुवा समस्त- पदपाठसम्भावनाऽपि क्वचित् ॥ ४७ ॥ तथाऽपि, का नः क्षतिः १ सर्वपरविद्यानां 'यतो वा इ. मानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासख । तद्ब्रह्मेति' तै ॥॥१॥'कारण तु ध्येयः'। अथर्वशिखोप ॥ इत्यादिशास्त्रैनिखिलजगत्कारणभूतब्रह्मविषयत्व- स्यैव सिद्धतया रुद्रस्य तथात्वासम्भवेनैवानेशशब्दस्य तत्परत्वासम्भवात् , उपपदाभावेनासङ्कोचतोऽ- नवधिकैश्वर्यवत्वेन रूपेण योगशक्तिमात्रेण निखिलजगत्कारणभूतनारायणपरताया एव वक्तव्यत्वाच !! ४८॥ यथाहि रूढयाऽन्यपरतया प्रसिद्धानामाकाशप्राणादिशब्दानां प्रकरणप्रतिपन्नजगत्कारणत्वाद्य- नुपपत्त्या रूढयर्थप्रहाणेन योगशक्त्या परब्रह्मपरत्वं स्थापितमाकाशाद्यधिकरणेषु ; तथैवहापि भविष्य- तीति न किञ्चिदवहीनम् ॥ ४९ ॥ जगत्कारणत्वञ्च नारायणसृज्यकोटिप्रविष्टस्य कर्मवश्यस्य रुद्रस्य न सम्भवति, ‘एको हवै नारायण आसीन ब्रह्मा नेशानः' इति महोपनिषदो, 'नारायणामा जाथ- ते। नारायणदुद्रो जायते' इति नारायणोपनिषदों 'अनपहतपाप्मा वा अहमस्मि अविहितनामा। नाम मे धेहि पाप्मनोऽपहत्यै' इति शतपथाष्टमूर्तिब्राह्मणश्रुत्यादिमिश्च रुद्रस्य नारायणसूज्यकोटिप्रविष्टताया। कर्मवश्यताया नारायणस्यैव निखिलजगत्परमकारणतायाश्च प्रतिपन्नत्वात् ॥ ५० ॥ एवम् , 'ईशा- वास्यम्' इत्यत्र विवक्षितसर्वभूतान्तरात्मत्वलक्षणा व्याप्सिरपि तस्य न सम्भवति, 'एष सर्वभूतान्तरा- त्मापहतपाप्मा दिव्यो देव एको नारायणः' सु ॥ ७॥ इत्यादिभुत्या 'सर्बत्रासौ समस्तञ्च क्सत्य- वेति वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपाठयते' ॥ वि ॥ पु॥१॥ २ ॥ १२ ॥ इत्या दिस्मृत्या च नारायणस्यैकस्यैव तस्याः प्रतिपन्नत्वात् ॥५१॥ अपि च, अस्यामेवोपनिषद्युत्तरत्न 'पूष- Animuskaammy- -- " १० [मं.१. ईशावास्योपनिषत् श्री|नेकर्षे' इति मन्त्र कल्याणतमाप्राकृतदिव्यरूपविशिष्टादित्यमण्डलाम्तर्वर्तिपरमपुरुषविषयत्वस्यान विवक्षितपरविद्यायाः प्रतिपन्नत्वात् तादृशपरमपुरुषस्य य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुहिरण्यकेश आप्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यास पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः ॥ छा ॥ १॥ ६॥ ६॥७॥ इति च्छान्दोग्यश्रुत्या पुण्ड- रीकाक्षत्वापहतपाप्मत्वादिभिर्नारायणरूपतायाः स्फुटीकृतत्वाचास्या विद्याया अनपहतपाप्मविरूपाक्षरु- द्रविषयता न कश्चिदपि संभवतीत्यतोऽप्यत्रत्येशशब्दस्य समस्तपदघटकतासंभावनायामपि प्रकर- णविरोधेन रुद्रपरत्वासम्भवान्नारायणपरत्वं दुरपह्नवमेव ॥ ५२ ॥ वस्तुतोऽत्र ‘ईशावास्यम्' इत्यस्य व्याप्तिपरत्वस्वीकारोऽपि नोचितः, उत्तरवाक्यार्थानुपकारकत्वात् ॥ ५३ ॥ तस्माद्यथोक्तरीत्यैव व्या. ख्यानमिहोचितम् ॥ ५४ ॥ अत एव 'स्तुतयेऽनुमतिर्वा ॥ ३ ॥ ४ ॥ १४ ॥ इति स्त्रश्रुतप्रकाशिका- याम् 'ईशावास्यम्' इति - ईट्छब्दस्तृतीयान्तः, ईशा-तेन, वास्य, यद्वा, ईशेन आवास्यम् , ईश्वरप- रतन्त्रमित्यर्थः' इति व्यासार्यैरपि व्याख्यानं कृतम् ॥ ५५ ॥ अत्यन्तपारतन्त्रयस्य खैरविनियोगयोग्य- स्वरूपत्वेन स्वातिशयाधायकतयाऽपि विनियोगप्रयोजकत्वसम्भवाच्छेषत्वगर्भितत्वसम्भवेन, परतन्त्र- शब्देन शेषत्वर्मितमत्यन्तपारतन्त्रयमेवेह विवक्षितम् , प्रागुक्तरीत्या तस्यैव त्यागगर्भितभोगरूपव- क्ष्यमाणवाक्यार्थोपकारकत्वात् ॥ ५६ ॥ अत एव च, त्यागशब्दार्थांनुसन्धानविशेषस्वरूपं प्रदर्शयद्भि- र्भाष्यकारैः 'स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतकरसेनानेनात्मना' इति तादृशमनुसन्धानस्य शेषत्वपारतन्त्रयोभयगर्मितत्वं दर्शितम् ॥ ५७ ॥ वास्यशब्दस्य प्रागुक्तरीत्या 'वस - आच्छादने' इति धातुनिष्पन्नत्वाभिप्रायेणैव परतन्त्रपरता दर्शितश्रुतप्रकाशिकाभिप्रेता; वस्त्रादिक्त्स्वेष्टानुगुण्येन धार्यत्वार्थकत्वे सत्येवात्यन्तपारतन्त्रथलाभात् , 'वस-निवासे' इति धातोरकर्मकत्वेन तदुपरि कर्मणि ण्यत्प्रत्ययासम्भवादिदोषस्य प्रागेवोक्तत्वाच ॥ ५८ ॥ यद्वा 'वस-निवासे' इति धातोरपि ण्यन्ता- कर्मणिण्यत्पत्ययाश्रयणसम्भवेन, वासयितुं - स्खेष्टानुगुण्येन स्थापयितुं - योग्यं वास्यमिति व्युत्पत्त्याऽ. पि वास्यशब्दस्य यथोक्तार्थ एव पर्यवसानं सम्भवतीत्यपि सुवचम् ॥ ५९ ॥ अत्र, ईशेनावास्यमि- ति समस्तपदाभिप्रायेण व्याख्यानमपि संहितास्थमन्त्राणामपि केषाञ्चिच्छास्नास्वपि पाठदर्शनेन तत्र पदविभागाध्ययनस्य पाठसंप्रदायासिद्धतया तत्र प्रकारान्तरेण योजनानामपि दर्शनात् , तद्वदस्यापि मन्त्रस्य क्वचित् पाठसम्भावनायामपि यथोक्तार्थपर एवायम्मन्त्र इत्यभिप्रायेणैव कृतम् न तु तथाविधं पाठं क्वचिदृष्ट्वा तदनुरोधेन कृतम् - तथाविधपाठस्य क्वाप्यनुपलम्भादिति बोध्यम् ।। ६० ॥ एतेन 'सर्वमिदं-तत्तत्प्रमाणसिद्धं सर्वं चिदचिदात्मकं वस्तु, ईशा सर्वनियन्त्रा, पुरुषोत्तमेन, वास्य - व्याप्यमित्यर्थः, सर्वांधारे स्वस्मिन् स्वेन वासनीय वा' इति, 'जगत्यां-सर्वस्मिन्नपि लोके, यत्किञ्च-यत्किञ्चिदस्ति, इदं सर्वमिति पूर्वेण सम्बन्धः' इति, 'भुञ्जीथाः' इत्यत्र-अप्रतिषिद्धयोगधर्मो- पयुक्तदेहधारणमात्रौपयिकभोग्यवर्गमित्यर्थप्रकरणाभ्यां सिध्यति, यद्वा, सर्वावासत्वेन प्रकृतं निरति- शेयभोग्यं वक्ष्यमाणोपायमुखेन भुञ्जीथा इति योज्यम्' इति 'तेन जगता भोग्यताभ्रमविषयेण, त्य- केन - दोषभूयस्त्वदर्शनात्परित्यक्तेन, उपलक्षितस्सन् भुञ्जीथाः' इति च, केषाश्चियाख्यानमप्यनुपप- 'नमिति सिद्धम्,शब्दस्वभावविरोधात् , पूर्वोत्तरवाक्यार्थसङ्गत्यभावात् , स्वरसालापूरणगर्भत्वाच्च ।। ६१॥ निवासार्थकस्य वसतेरकर्मकत्वेन तदुपरिकर्मणि ण्यत्प्रत्ययासम्भवात्तद्धातुनिष्पन्नस्य वास्यमि- त्यस्य व्याप्यार्थकत्वं हि न सम्भवति ॥ ६॥ ण्यन्तात्तस्मात्कर्मणि ण्यत्प्रत्ययाश्रयणेन सम्पायस्य, सर्वांधारे स्वस्मिन् स्वेन वासयितव्यमित्यर्थस्यापि नात्र विवक्षा युक्ता - उत्तरवाक्यार्थानुपकारकत्वात् ॥ ६३ ॥ व्याप्यार्थकत्वस्य कथञ्चिसंपादनेऽपि तस्याप्ययं दोषस्समानः ॥ ६४ ॥ 'भुञ्जीथाः' इत्यत्र दे- .
मं-१.] भाज्यत्रयोपेता. ११ -- , . श्री॥ हधारणमात्रौपयिकान्नपानादिभोग्यवर्गस्य सर्वांवासभूतभिरतिशयभोग्यपरमपुरुषस्य वा कर्मणो वाचकशब्दपूरणं, वक्ष्यमाणोपायेनेति करणवाचकपूरणञ्च गुरुतरं स्वैरै कल्प्यमानं न सहृदयहृदयङ्गमम्, क्लिष्टकल्पनामूलत्वेनास्वारसिकत्वात् , गौरवात् , क्लिष्टकल्पनामन्तरेण पूर्वोक्तरीत्या निर्वाहसम्भवा- च ॥ ६५॥ एवं 'तेन त्यक्तेन' इत्यत्र वैराग्यवशेन स्वरूपतस्त्यागस्यैव विवक्षिततया तथा त्यक्तेन तेन वैशिष्टयरूपतदुपलक्षितत्वस्य त्यागानन्तरमसिद्ध्या तदुपलक्षितस्सन् भुञ्जीथा इति वाक्यार्थानुप पत्तिः ॥ ६६ ॥ नच यदाकदाचिसत्संबन्धित्वरूपं तदुपलक्षितत्वमिह विवक्षितुं शक्यम् ; ' इत्यं भूत- लक्षणे' ॥ २ ॥ ३ ॥ २१ ॥ इत्यनुशाशासनसिद्धतृतीयायास्तत्काले व्यावर्तकधर्मविधया प्रकृत्यर्थरू- पलक्षणवैशिष्टयरूपोपलक्षितस्वैकपरत्वात् , 'अपि भवान् कमण्डलुना छात्रमद्राशीत्' इत्यादित- दुदाहरणस्थलेषु तत्काले प्रकृत्यर्थरूपलक्षणवैशिष्टयरूपलक्षितत्वस्यैवानुभवदर्शनादन्यया तत्काले दर्श- नोपयोगित्वेनापेक्षिताया व्यावृत्तेस्तत्रासिद्धिप्रसङ्गाद्वैशिष्टयपरत्वसम्भवे यदाकदाचित्संबन्धित्वपरत्व- कल्पनाया अस्थारसिकत्वाच ॥ ६७ ॥ तस्माद्यथोक्तरीत्यैव व्याख्यानं स्वीकर्तुं युक्तं प्रामाणिकैः॥६८॥ न चास्मिन् मन्ले तत्तद्वस्तुष्वेव त्यागोऽभिहितो दृश्यते, न कर्मसु । तत्कथं वक्ष्यमाणकर्मानु- ठानाङ्गभूतः कर्मसु त्रिविधत्यागरूपो यथोक्तलक्षणानुसन्धानविशेषोऽनेन मन्त्रेण सिध्यतीति वाच्यं, जीवात्मविशिष्टत्वप्रकारकधीविषयसामान्यविशेष्यकभगवद्विशिष्टत्वप्रकारकनिर्णयस्यैव तेन त्यक्तेन इत्सल त्यजिवावर्थत्वात् , ताशनिर्णयप्रयोज्यप्रागुक्तलक्षणानुसन्धानविशेषविषयत्वरूपफलाश्रयत्वरू- पकर्मत्वस्यैव तदुत्तरक्तप्रत्ययार्थत्याच ; तादृशकर्मत्वाश्रयतत्तवस्तुधिशिष्टकर्तृकतायां तत्तद्वस्तुकर्मकभो- गे विधीयमानाया परम्परया तद्विशेषणभूततादृशनिर्णयेऽपि विधेयत्वसिद्ध्या वक्ष्यमाणकर्मस्वपि ययो- कलक्षणानुसन्धानविशेषसिद्धेर्निष्प्रत्यूहत्वात् ॥ ६९॥ धियो जीवात्मविशिष्टत्वं, स्वभोगसाधनत्वस्वस- म्बन्धित्वोमयसम्बन्धेन ; भगवद्विशिष्टत्वं, खेतरपुरुषव्यापाराप्रयोज्यस्वव्यापारप्रयोज्यस्वभोगसाधन- स्वस्वसम्बन्धित्वोभयसम्बन्धेनेति बोध्यम् ॥ ७० ॥ ताहचनिर्णयस्य दर्शितोभयसम्बन्धेन जीवात्मवि- शिधत्वबुद्धित्यागपर्यवसायित्वात्यागरूपत्वमित्यवसेयम् ॥ ७१ ॥ खेष्टसाधनत्वबुद्धिमन्तरेण कस्मिन्नपि कर्मणि पुरुषस्य प्रवृत्त्यनुदयेन तादृशधीविषयसामान्ये दर्शितनिर्णयसिद्धौ तदधीनदर्शितानुसन्धान- विशेषस्सर्वकर्मस्ववर्जनीयः प्राप्नोत्येवेति च बोध्यम् ॥ ७२ ॥ किञ्च, यथा हि 'मयि सर्वाणि कर्माणि सन्नथस्याध्यात्मचेतसा' इत्यादाभिहितः कर्मसु त्यागः, तत्कर्तृतदुपकरणादिविषयः पर्थवस्यति; त- थैवेहाभिहितो वस्तुषु त्यागोऽपि तत्तद्वस्तुतद्विनियोजनकर्मादिविषयः पर्यवस्थतीति न कश्चिद्दोषः ॥ ७३ ॥ अत एवहि 'मयि सर्वाणि कर्माणि सन्नयस्य' इति श्लोकभाष्ये 'खकीयेनात्मना का स्व- कीयैश्चोपकरणैस्वाराधनकप्रयोजनाय परमपुरुषस्सर्वेश्वरस्सर्वशेषी स्वयमेव स्वकर्माणि कारयति' इति वाक्येन तत्तत्कर्मतत्कर्तृतदुपकरणद्रव्यादिविषयानुसन्धान विशेषरूपमेव कर्मत्यागस्वरूपं विवृतं भाष्य- कारैः ।। ७४ ॥ नहि तत्तद्वस्तुषु परं स्वकीयत्वस्वार्थत्वबुद्धि प्रहाय तद्विनियोजनादिकर्मसु परं ताह- शबुद्धिमनपहायैव तानि स्वोपयोगे विनियुञ्जानास्तद्वस्तुत्यागिनो भवन्ति ॥ ७५ ॥ तस्मारकर्मत्यागा- भिधानस्य कर्मतत्संबन्धिकर्तृद्रव्यादित्यागपरत्ववद्वस्तुत्यागाभिधानस्यापि तत्तद्वरततत्सम्बन्धिकर्मादि- त्यागपरत्वस्यावर्जनीयतयाऽत्राभिधीयमानो वस्तुत्यागः कमलागामार्थान्तरं भवितुमर्हतीति वक्ष्यमाणे मुमुक्षूपयोगिकर्मानुष्ठानेऽजतयापेक्षितो दर्शितत्रिविधत्यागलक्षणानुसन्धानविशेष एव प्रथममन्त्रे दार्श. त इति सिद्धम् ॥ ७६ ॥ इति प्रथममन्त्रव्याख्यानम् ॥ १ ॥ 5 104ww+ news- HAMROra- १. गीता.१.३०॥
१२ [मं-२. ईशावास्योपनिषत् कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ . . वे॥ एवं विदुषः फलसङ्गकर्तृत्वादित्यागयुक्तं नित्यनैमित्तिकरूपं विद्याद्भभूतं कर्म यावज्जीवमनुष्ठे यमित्याह-कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः-इति। ब्रह्मविदोऽपि यावद्विद्यापूर्ति जीव- नमिष्टं भवतीति ज्ञापनाय सन्प्रयोगः । शतमिति च प्रायिकविषयम् । शतं समाः जीवन् अधिका- रानुगुणानि कर्माणि कुर्वीतैव । न कदाचिदपि विद्याङ्गं कर्म परित्यजेदित्यर्थः । अस्य वाक्यस्य फल- साधनभूतस्वतन्त्रकर्मविषयत्वे विशेषहेतुभावस्सूत्रितः--'नाविशेषात् ' इति । अर्थान्तरं च प्रकर- णाविरुद्धम् अनन्तरसूत्रोक्तम् । ' स्तुतयेऽनुमतिर्वा' इति भाष्य--'वाशब्दोऽवधारणार्थः। 'ईशावा- स्यमिदं सर्वम्' इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात्सर्व- कू ॥ एवं विरक्तस्य विदुषः फलसङ्गकर्तृत्वादित्यागयुक्तो ब्रह्मविद्याङ्गभूतः कर्मयोगो यावजीवम- नुष्ठेय इत्याह---कुर्वन्नेवेति । शतं समाः-शतसंवत्सरान् ; प्रायिकवादोऽयम्। कर्माणि-नित्यनैमि- त्तिकानि कुर्वन्नेव, इह-लोके, जिजीविषेत् - जीवितुमिच्छेत् ,ब्रह्मविदोऽपि यावद्विद्यापूर्ति जीवितु- मिच्छा भवतीति प्राप्तत्वाच्छतसङ्ख्याकान्वत्सराञ्जीवन्नित्यनूद्य कर्माणि कुर्वीतैवेति विधिसङ्कामयित. व्यः । यावज्ज्ञानयोगाधिकार कर्मयोगः कर्तव्य इति भावः । कर्मयोगो नाम 'दैवमेवापरे यज्ञम्' श्री||बुभुक्षी गहेतुसुकृतप्रयोजकतमेव मुमुक्षोरपि मोक्षहेतुपरविद्यासहकारितया स्वाधिकाराहेण केन चिदाकारेण कर्मयोगानुष्ठानावश्यकतामभिसन्धाय तदङ्गभूतं त्रिविधत्यागलक्षणानुसन्धानविशेषरूप. माकारं प्रथममन्त्रेऽभिधायाङ्गिभूतं कर्मयोगं स्वाङ्गिभूतपरविद्याया आप्रयाणादनुयाया उपकारकतया यावजीवमनुष्ठेयं प्रतिपादयति 'कुर्वन्नेव' इत्यादि द्वितीयो मन्त्रः ॥ १॥ बुभुक्षूपयोगिनामेवच कर्म- णां केनचिदाकारेण मुमुक्षोरप्यावश्यकता प्रदर्शयितुमेव कर्मकाण्डभूतसंहितान्त एव ज्ञानकाण्डोऽ- प्युपाक्रामि ॥ २ ॥ य एव यज्ञादयो धर्माः केवलाश्रमिणां बुभुक्षूणामपेक्षिताः ; त एव मुमूखुणा. मपि विद्याइतयाऽपेक्षिताः; आकारमात्रेणैव भेदः, न तु कर्मस्वरूपभेद इत्ययमंशः 'सर्वथापि त एवोभयलिङ्गात् ॥ ३॥ ४ ॥ ३४ ॥ इति सूत्रे सूत्रकारेणाऽपि दर्शितः ॥ ३ ॥ अस्य मन्त्रस्य विवरणम्-एवं - पूर्वमन्त्रोक्तप्रकारेण, त्रिविधत्यागलक्षणानुसन्धानपूर्वकमिति यावत् । मुमुक्षुर्भवानपीति शेषः, मुमुक्षुप्रकरणात्, "जिजीविषेत्' इति प्रथमपुरुषनिर्देशानुगुण्यात्,उप- देशप्रकरणानुगुण्यात्र। इह-अस्मिन् विद्यायोनिजन्मनि, कर्माणि - स्ववर्णस्वाश्रमाधिकारानुगुण- तया बुभुक्षु प्रति प्राग्विहितानि सर्वाणि कर्माणि, कुर्वन्नेव-विद्याङ्गतया यथाशक्तयनुतिष्ठन्नेव, शतं समाः - शतं संवत्सरान् , स्वायुरवसानपर्यन्तमिति यावत् । शतोक्तिस्तु 'शतायुः पुरुषः' इति पुरु- पायुषस्य संवत्सरशतपरिमितत्वश्रवणेन प्रायशस्तत्सम्भवाभिप्रायेण कृता।यद्वा, शतशब्दोऽनेकमानपर: अनेकान् संवत्सरानित्यर्थः। विद्यासिद्धिपर्यन्तमिति यावत् । जिजीविषेत् । जीवितुमिच्छेत् , विदु- षोऽपि यावद्विद्यानिष्पत्ति तदङ्गकर्मानुष्ठान जीवनं चैष्टव्यमेव भवतीत्यभिप्रायेण 'कुर्वन्नेव,जिजीविषेत्' इत्युक्तिः बुभुक्षु प्रति विहितानां सर्वेषा कर्मणामविशेषेणानुष्ठाने विदुषोऽपि बुभुक्षोरिव बन्धः । किं न स्यादित्याशङ्कापरिहारायोच्यते-त्वयि नान्यथेतोऽस्ति-इत्यादि। नरे-न रमत इति. नरः - १. ब्रह्मसू. ३.४.१३॥ २. ब्रह्मसू. ३-४-१४॥ ३. गो.४-२५॥ ४.यजु. का. १.५-१-६॥
म-२.] भाध्यत्रयोपेता. वे ॥दा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति। वाक्यशेषश्चैतदेव दर्शयति-- 'एवं त्वयि नान्यथतोऽस्ति न कर्म लिप्यते नरे' इति । त्वयि ब्रह्मविद्यधिकारिणि एवमेवानु- ष्ठेयार्थः, इतोऽन्यथा नास्तीति व्यतिरेकेणोक्तं दृढीकारार्थम् । ननु ब्रह्मविदोऽपि कर्मानुष्ठानभावाद- न्धस्स्यादित्यत्राह-नकर्म लिप्यते नरे--इति। प्रस्तुते ब्रह्मविदि नरे। 'अमिहोत्रादि तु तत्कार्या- यैव तद्दर्शनात् ' इति विनियोगपृथक्त्वन्यायेन कर्म न स्वर्गादिफलहेतुर्भवति । विद्यानुपयुक्तका- म्यानां निषिद्धानां च विरक्तेन विवेकिना न बुद्धिपूर्वोपादानसम्भवः । संभावितानामपि केषांचित् 'नोविरतो दुश्चरितात्' इत्यादिबलात् स्वानुगुणा निष्कृतित्स्यात् । तदधिगमाधिकरणे तु प्रामादि- कानामेवाश्लेषः परविद्यावतामपि स्थापितः । ज्ञानामिदग्धाधिकारो विधिनिषेधानधिकारीति पक्षस्तु न वेदवित्सम्मतः॥२॥ कू॥इत्यादिना विकल्पविहितेषु कर्मयोगावान्तरभेदेष्वेकं यथारुच्यङ्गितया स्वीकृत्यान्यानि नित्यनैमित्ति- कानि तदङ्गतयोपसंहृत्यासङ्गकर्मानुष्ठानविशेषः ; न कदाचिदपि विद्याझं कर्म परित्यजेदित्येवकारा- भिप्रायः । त्वयि - ईश्वरपरतन्त्रात्मस्वरूपतया तदाज्ञापरिपालनरूपकर्मानुष्ठाने अधिकारपूर्तिमतीति भावः। एवम्-एवमेवानुष्ठेयानीत्यर्थः।उक्तमर्थ व्यतिरेकेण स्थिरीकरोति-नान्यथेतोऽस्तीति। इत:- अनुष्ठानात् , अन्यथा-प्रकारान्तरम् अनुष्ठानं नास्तीत्यर्थः । ननु ब्रह्मविदोऽपि कर्मानुष्ठानावश्य- भावे बन्धस्स्यादित्यताह-न कर्म लिप्यते नरे-इति। विद्याविरुद्धेषु कर्मफलेषु न रमत इति-नरः। प्रस्तुते ब्रह्मविदि नरे विद्याङ्गतया क्रियमाणः कर्मयोगो न लिप्यते न स्वर्गादिहेतुर्भवति, अपि तु ज्ञानयोगद्वारा वा साक्षाद्वा प्रथमं परिशुद्धजीवात्मविषयकयोगमुत्पाद्य पश्चाद्भक्तियोगाङ्गभूतं प्रत्यगा- त्मसाक्षात्कारमेवोत्पादयतीति भावः । यत्तु --'कुर्वन्नेवेह कर्माणि' इत्ययं विधिः अविद्वद्विषय एव, न ब्रह्मविद्विषय इति, तस्य विधिनिषेधशास्त्रवश्यत्वाभावात्तस्य ब्रह्मज्ञानामिना अधिकारः प्रणष्ट इति शाङ्करं व्याख्यानं, तत्प्रकरणविरुद्धं, "विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती वा विद्ययाऽमृतमश्नुते' इत्युपरितनविध्यन्तरविरुद्धं चेति न वेदविदो बहुमन्यन्ते ॥ - . . श्री॥तस्मिन्-फलानुरागरहिते, एतत्फलं मम न स्यादित्यभिसन्धिमतीति यावत् । त्वयि, कर्म पूर्वो- क्तेषु कर्मसु किमपि कर्म, न लिप्यते - संश्लेषानुकूलव्यापारवन्न भवति, स्वसत्तामात्रेण मोक्षविरोधि- फलोपधायकसंबन्धविशेषानुकूलव्यापारवन्न भवति। इतः - अस्मात्प्रकारात् , अन्यथा · प्रकारान्तरं मोक्षविरोधिफलोपधायकसम्बन्धविशेषानुकूलव्यापारवत्त्वलक्षण, नास्ति - कदापि न भवतीति॥४॥ प्रागुक्तलक्षणत्रिविधत्यागरूपानुसन्धानपूर्वकं परविद्याइतया कर्माण्यनुतिष्ठतः कदाचिदपि मोक्षविरो- धिफलप्राप्तिलक्षणबन्धप्रसङ्ग एव न सम्भवतीति भावः ॥ ५॥ 'इतोऽन्यथा नास्ति' इत्यभिधानम्, इदं तात्विकमेवन स्तुतिमात्रमिति ज्ञापनाय ॥ ६ ॥ अत एव 'स्तुतयेऽनुमतिवा' ॥ ३ ॥ ४ ॥ १४ ॥ इति सूत्रश्रतप्रकाशिकायामिदं श्रुतिखण्डं 'नरे - न रमत इति नरः • निस्सङ्गः, तस्मिन् । 'इतोऽन्यया नास्ति - नरे त्वयि न. कर्म लिप्यत इतीतोऽन्यथा नास्ति, इदमेव तत्त्वं, न स्तुतिमात्र- मित्यर्थः' इति ब्यासारपि व्याख्यातम् ॥ ७ ॥ दर्शितत्रिविधत्यागलक्षणानुसन्धानविशेषवतां मोक्ष- विरोधिफलासम्भवरूपष्टमुक्तो भगवताऽपि गीताशास्त्रे 'अनिष्टमिष्टं मिश्रश्च त्रिविध कर्मणः फलम् । भक्त्यल्यागिनां प्रेत्य न तु सल्यासिमा क्वचित् ॥ १८ ॥ १२ ॥ इति । 'सर्वकर्मापयपि सदा . Tr १. ब्र-सू....४-१-१६ ॥ २. कटोप. २-२४॥ L ईशावास्योपनिषत् [मं-२. - . श्री।कुर्वाणो मद्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८ ॥ ५६ ॥ इति च ॥८॥ अत्र द्वितीय श्लोकेऽपि 'मद्यपाश्रयः' इत्यस्य मयि सन्न्यस्तकर्तृत्वादिक इत्यर्थकतया यथोक्तलक्षण- त्यागवतस्सर्वाणि कर्माणि कुर्वतोऽपि मोक्षविरोधितत्तत्फलप्रसङ्गमन्तरेणैव मोक्षप्राप्तिरभिहिता ॥९॥ अत्र सर्वशब्देन काम्यकर्मणामपि विवक्षितत्वेन तेषामपि विदुषा दर्शितत्यागलक्षणाभिसन्धिविशेषव- तानुष्ठीयमानानां विद्यामाहात्म्येन विद्योपकारकतयैव पर्यवसानस्य मोक्षविरोधितत्फलप्रसङ्गविरहस्य च सिद्धेश्वेहाभिप्रेततया विद्यास्तुतिरपि विवक्षिता ॥ १०॥ नित्यनैमित्तिककर्मणा कामोपनिबन्ध- मन्तरेण बुभुक्षून मुमुक्षूश्च प्रत्यविशेषेणैव विधानेन विनियोगपृथक्त्वन्यायेनैव तत्तदधिकार्युद्देश्यप्रधा- नफलानुगुण्यसिद्ध्या तद्विरोधिफलप्रसङ्गाभावात् , इह तत्प्रसङ्गसम्भवमाश्रित्य तत्प्रतिषेधदर्शनात् , कामोपनिबन्धपूर्वकं विहिताना - काम्यकर्मणामेव विरोधिफलहेतुत्वस्वभावनैयत्याच, · विद्यामाहात्म्येन तेषामेवेह विरोधिफलहेतुत्वलक्षणलेपकत्वप्रसङ्गपरिहारमुखेन विद्यास्तुतेरिह विवक्षितत्वात् , काम्य- कर्मणामत्राविवक्षितत्वे तदनिर्वाहाच्च, तान्यप्यत्र विवक्षितान्येवेत्यवगम्यते ॥ ११ ॥ तदिद सर्वमभि- प्रेत्यैव पुरुषार्थाधिकरणे 'स्तुतये ऽनुमतिर्वा' ॥ ३ ॥ ४ ॥ १४ ॥ इति सूत्रे सूत्रकारणास्या श्रुतौ विदु- षस्सर्वेषा कर्मणामनुमतिर्विद्यास्तुत्यर्थेत्युक्तम् ॥ १२ ॥ एतेन विद्वद्विषयैवेय श्रुतिः - विदुषोऽपि विद्याङ्गतया यावजीवं कर्मानुष्ठानमावश्यकमेवेति प्रतिपादयति 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः' इति; न त्वविदुष इति सिद्धम् ॥ १३ ॥ यस्तु, पूर्वमन्त्रेणात्मविदो विदुषो विद्यास्वरूपोपदेशः कृतः-आत्मग्रहणाशक्तस्याविदुषः क- माण्युपदिशत्ययम्मन्त्रः, नतु विदुषः, विद्याकर्मणोरत्यन्तविरोधेनैकं प्रत्युभयोर्विधानायोगात् , सूचित चानापि 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः' इत्यनेन जिजीविधुरेव कर्माधिकारीति । विदुषो जीवितेच्छाविरहाच्च नायं मन्त्रो विद्वद्विषय इति शङ्करोक्तमुपनिषद्भाष्ये ॥ १४ ॥ तन्न पूर्वमेकोन- पञ्चाशदध्याय्यात्मककर्मकाण्डेनाविद्वद्विषयवक्तव्यसर्वकर्मनिरूपणानन्तरं प्रवृत्ते ज्ञानकाण्डरूपे विद्वद्वि- षयेऽस्मिन् पञ्चाशाध्याये प्रकरणविरोधेनाविदुषः प्रसङ्गलेशाभावात् , 'सर्वापेक्षा च यज्ञादिश्चतेर- श्ववत् ॥ ३ ॥ ४ ॥ २६ ॥ इत्यधिकरणे 'अमिहोत्रादि तु तत्कायर्यायैव तद्दर्शनात् ॥ ४ ॥ १ ॥ १६॥ इत्यधिकरणे च सूत्रकारेणैव कर्मवत्सु गृहस्थेषु विद्यायाः कर्माङ्गकत्वस्य निर्धारितत्वेन, अस्या. मेवोपनिषद्युत्तरत्र 'विद्याञ्चाविद्याञ्च यस्तद्वेदोमय सह' इत्यत्र विद्याकर्मणोरेकैकानुष्ठानेऽनर्थप्रदर्शन- पूर्वकमुभयोरङ्गाङ्गिभावेन सहानुष्ठेयतायाः स्थापयिष्यमाणत्वेन च विद्याकर्मणोविरोधस्यैवाप्रामाणि- कत्वात् । तत्राप्यन्यथा व्याख्यानस्यासमञ्जसताया वक्ष्यमाणत्वात् , विदुषोऽपि विद्यानिष्पत्तिपर्यन्तं देहधारणस्यावश्यकतया जीवितेच्छाया अप्यविरुद्धत्वेन तावन्मात्रेणास्य मन्त्रस्याविद्वद्विषयताया वक्तु- मशक्यत्वात् , 'नाविशेषात् ॥ ३ ॥ ४ १३ ॥ 'स्तुतयेऽनुमतिवा' ॥ ३ ॥ ४ ॥ १४ ॥, इति सूत्राभ्यामस्य मन्त्रस्य विद्वद्विषयतायास्सूत्रकारेणोक्तत्वेन सूत्रकाराशयविरोधाच ॥ १५ ॥ यदपि 'नाविशेषात्' इति सूत्रस्य 'कुर्वन्नेवेह कर्माणि जिजीविषेत्' इत्येवमादीनि न विद्व- द्विषयाणि - विद्वदविदुषोावर्तकरूपेण निर्देशमन्तरेणाविशेषेणैव कर्मानुष्ठाननियमविधानात् , तस्मा- दविद्वद्विषयाण्येव भवितुमर्हन्तीत्येतदर्थपरतया व्याख्यानं ; 'स्तुतयेऽनुमतिर्वा' इति सूत्रस्य 'यद्यप्यत्र प्रकरणसामाद्विद्वानेव कुर्वन्निति सम्बध्येत ; तथाऽपि, विद्यास्तुतये कर्मानुज्ञानमेतदिति द्रष्टव्यम्' इत्यर्थपरतया व्याख्यानञ्च शारीरकभाष्ये शङ्करेण कृतम् ॥ १६ ॥ तदप्ययुक्तं - पुरुषार्थाधिकरणे विद्याजकात्स्वतन्त्रात्कर्मणः पुरुषार्थों वा? उत विद्यातः पुरुषार्थों वा' इत्येव विप्रतिपत्तेः प्रसक्त + , . ।
मं-२.] भाष्यत्रयोपेता. १७ व्या- श्रीतिष्ठेदेवान कदाचिदपि विद्याझं कर्म परित्यजेदित्यर्थः' इति नियमतः कर्मानुष्ठानविधिपरतामेव व्याख्याय, द्वितीयभागस्य त्वयि ब्रह्मविद्याधिकारिणि, एवमेवानुष्ठेयार्थः; इतोऽन्यथा नास्तीति व्य- तिरेकेणोक्तं दृढीकारार्थे ; ननु ब्रह्मविदोऽपि कर्मानुष्ठानभावाद्वन्धस्स्यारित्यत्नाह–'न कर्म लिप्यते नरे' इति । प्रस्तुतब्रह्मविदि नरे 'अमिहोत्रादि तु तत्कायर्यायैव तद्दर्शनात्' इति विनियोगपृथक्त्व- न्यायेन कर्म न स्वर्गादिफलहेतुर्भवति' इत्यर्थपरतामेव व्याकुर्वद्भिक्यिशेषस्य सूत्रकारभाष्यकारोक्तं विद्यास्तुतये विदुषस्सर्वदा कर्मानुष्ठानानुमतिपरत्वमुपेक्षितम्॥ २९ ॥ तदयुक्त, दर्शितसूत्रयोदयोरप्ये- कविधार्थस्थापनपरताया एव दर्शनेन परस्परविलक्षणपक्षद्वयपरत्वाभावात् । तथा सति वाकारस्य पक्षान्तरपरत्वसम्भवेन तदुपेक्ष्य 'वाशब्दोऽवधारणार्थः' इति भाष्यकारैरवधारणपरतया व्याख्यानाना- वश्यकत्वात् , सूत्रकारमहर्षिकण्ठोक्तश्रुत्यर्थस्यार्वाचीनैः परित्यागायोगात् , तदपरित्यागेऽप्यनिष्ठाभा- वस्य प्रागुपदर्शितत्वात् ; वस्तुतो गार्हस्थ्यादाश्रमान्तरनिष्ठानां विदुषामुक्तकर्मत्यागस्याभिमततायाः 'कामकारेणके' ॥ ३ ॥ ४ ॥ १५॥ इत्युत्तरसूत्रेण प्रतिपन्नतया, सामान्यतो विद्वांसं प्रति नियमत उक्तकर्मानुष्ठाने विधेरसम्भवनानुमतेरेव दर्शितश्रुतिविवक्षितत्वावश्यकत्वाच्च ॥ ३० ॥ दर्शितश्रुतेर्दशि- तरीत्या कर्मानुष्ठानविधिपरत्वासम्भवाभिप्रायणैव च, वाकारस्यावधारणार्थकत्वमाश्रित्य यावजीवं कर्मानुष्ठानानुमतिरेव दर्शितश्रुतिविवक्षिता, न तु तद्विधिरिति भाष्यकारैरपि व्याख्यातम् ॥३१॥ एतदभिप्रायेणैव च श्रुतप्रकाशिकाया व्यासाचैरपि दर्शितश्रुतौ 'नान्यथेतोऽस्ति' इत्यस्य पूर्वभागो- तकर्मानुष्ठानान्यथाभावप्रतिषेधपरतामुपेक्ष्य वाक्यशेषोक्तकर्मलेपाभावान्यथाभावप्रतिषेधपरतया ख्यानं कृतम् ॥ ३२ ॥ एवमर्थस्वाभाव्येन चोद्यं परिदृत्य 'कुर्वन्नेवेह कर्माणि इत्यस्य वाक्यस्यार्थमाह' इति द्वितीयसूत्रावतारिकाभाष्यपर्यालोचने,दर्शितश्रुतौ कर्मपदार्थस्य विद्याङ्गकर्मसाधारणरूपत्वलक्षण- स्वभावज्ञापनेन चोद्यं परिहृत्य वाक्यार्थोऽपि तदनुगुण एव वर्तत इति तं दर्शयति सूत्रकार इत्याशये- नैव द्वितीयसूत्रमवातारयन् भाष्यकृत इत्यवगमेन द्वयोरपि सूत्रयोर्दर्शितश्रुतेरेकविधवाक्यार्थप्रतिपादन- परताया एव प्रतीयमानतया, 'अर्थान्तरञ्च प्रकरणाविरुद्धमनन्तरसूत्रोक्तम्' इत्यभिधानमप्यसङ्गतमेव ।। ३३ ॥ तृतीयसूत्रस्य दर्शितश्रुतेरर्थान्तरपरतया व्याख्यानपरत्वे, श्रुतिमर्थान्तरपरतयापि व्याकरोति सूत्र- कार इत्येव द्वितीयसूत्रमवातारयिष्यन् भाष्यकृतः,व्याख्यास्यश्च वाकारं पक्षान्तरपरतयैव न त्ववधारण- परतयेति तथाभिधानमसम्बद्धमेव ॥ ३४॥ न चाश्रमान्तरनिष्ठस्यामिहोत्रदर्शपूर्णमासादिकर्मस्वनधि- कारेण तादृशकर्मानुष्ठानासम्भवेऽपि विद्यानुग्राहकतया स्वाश्रमान्तरङ्गधर्मरूपकर्मणामनुष्ठानसम्भवेन दर्शितश्रुतेसामान्यतो विद्वांसं प्रति यावजीव नियमतः कर्मानुष्ठानविधिपरत्वं सम्भवत्येवेति कुतोऽ- नुमतिपरत्वं वक्तव्यमिति वाच्यं, पूर्व कर्मकाण्ड आश्रमान्तरकथाया एवाभावेन तत्र गृहस्थाधिकारिक- यशादिकर्मणामेवाभिधानात्तेषामेवेह कर्मशब्देन परामर्शसम्भवेन तदनुष्ठाननिर्बन्धस्य सामान्यतो विद्वांस प्रति विधातुमशक्यतयात्र लिडोऽनुमतिलक्षणामन्त्रणपरताया एव सम्भवात् ॥ ३५ ॥ इत्थमिह पक्षान्तरपरत्वासम्भवं 'विधिर्वा धारणवत् ॥ ३ ॥ ४ ॥ २० ॥ इत्यादिष्विवावधारण- परतयापि वाकारप्रयोगसम्भवञ्चालोच्यैवेह वाकारमवधारणपरतया व्याख्युर्भाष्यकृतः ॥ ३६॥ तस्माद्यथोक्तलक्षणं वेदान्ताचार्यतदनुयायिव्याख्यानमपि सूत्रकारभाष्यकारश्रुतप्रकाशिकाकाराशयवि- रुद्धमनुपपन्नश्चेत्यनुपादेयमेव ॥ ३७॥ ननु 'न कर्म लिप्यते नरे' इति कथमसौ प्रयोगः ? लिम्पतेस्तौदादिकस्य सकर्मकत्वेनाकर्म- कत्वासम्भवादिति चेन्न, सकर्मकाणामपि धातूनां कर्मकर्तर्यक्रर्मकतया प्रयोगसम्भवेन लिम्पतेरिह कर्मकर्तरि प्रयोगस्य विवक्षिततया दोषाभावात्॥३८॥पचिभिद्यादीनां सकर्मकाणामपि कर्मण एव 8 ३ - . ईशावास्योपनिषत् [मं ३. असुर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ ववष्यमाणविद्यायां शीघ्रं प्रवृत्त्यर्थमुक्तप्रकारब्रह्मवेदनविधुरतया वित्तैषणायोगाच्च अन्यथा भवद्भिर्शानानुष्ठानैरात्मघातिनां निरयपातोऽवश्यम्भावीत्याह असुर्याः जनाः इति । कू॥एवं मन्त्रद्वयेन तत्त्वत्रयस्वरूपं विद्याङ्गकर्मानुष्ठानस्वरूपञ्च यथावदुपदिष्टम्।इदानीं येकेचनासुर- प्रकृतयो यथोपदेशं तत्वत्रयमविदित्वान्यथा जानन्ति, कामक्रोधलोभाद्यन्वितास्सन्तश्शास्त्रविधिमु- श्रीकर्तृत्वविवक्षायाम् , 'ओदनः पच्यते, काष्ठं भिद्यते' इत्यादिरकर्मकः प्रयोगो हि दृश्यते॥३९॥ 'कर्मवत्कर्मणा तुल्यक्रियः' ॥ ३ ॥ १ ॥ ८७ ॥ इत्यनुशासनेन कर्तृत्वेन विवक्षितस्यापि कर्मणः क- मैवद्भावे, सार्वधातुके यक्' ॥ ३ ॥ १ ६७ ॥ इत्यनुशासनेन 'धातोर्यक्प्रत्ययस्याद्भावक्रमवाचिनि सार्वधातुके परे', इत्यर्थकन यक्प्रत्यये च, लिम्पतेलिप्यत इति कर्मकर्तरि प्रयोगोऽकर्मकस्संभवति ॥ ४० ॥ नच, यद्धातूपस्थाप्यक्रियायां यस्य क्वचित्कर्मतयान्वयो दृश्यते ; तद्धातूपस्थाप्यक्रियायां तस्यैव क्वचित्कर्तृतया विवक्षायां हि तद्धातोः कर्मकर्तरि प्रयोगो नाम , लिम्पतिक्रियाया सुकृतरूपस्य दुष्कृतरूपस्य वा कर्मणः क्वचिदपि कर्मतयाऽन्वयादर्शनात् , प्रत्युत 'कर्मणा लिप्यते पुरुषः' इत्या. दौ कर्तृतयैवान्वयदर्शनाच कथं तस्य कर्तृताविवक्षायां लिम्पतेः कर्मकर्तरि प्रयोगस्सम्भवतीति वा- च्यम् , महापातकिनस्स्वसंसर्गिषु स्वीयं दुष्कृतं लिम्पन्ति, विद्वासो मुच्यमानाः स्वीयं सुकृतं सुहृत्सु, दुष्कृतं द्विषत्सु च लिम्पन्तीत्यादिप्रयोगेषु लिम्मतिक्रियायां कर्मशब्दवाच्यस्य कर्मतयान्वयदर्शनेनेह तस्य कर्तृताविवक्षायां कर्मकर्तरि प्रयोगसम्भवे क्षतिविरहात्॥ ४१ ॥ संश्लेषानुकूलव्यापारो हि लिम्प त्यर्थः ; संश्लेषश्च फलोपधायकस्सम्बन्धविशेष इति, प्रकृते 'न कर्म लिप्यते नरे त्वयि' इत्यनेन फलाभिसन्धिरहिते त्वयि दर्शितत्रिविधत्यागपूर्वकमनुष्ठीयमान किमपि कर्म मोक्षविरोधिफलो- पधायकवसम्बन्धविशेषानुकूलव्यापाररूपलेपवन भवतीत्यर्थसिध्यति ॥ ४२ ॥ पूर्वमन्त्रोक्तत्या- गानुवादकलेपाभावहेतुगर्भविशेषणत्वाभिप्रायेण च नरशब्दः ' न रमते ' इति व्युत्पत्या व्या- ख्यातश्श्रुतप्रकाशिकायां व्यासायः ॥ ४३ ॥ 'अन्येष्वपि दृश्यते ॥ ३ ॥ २॥ १.१ ॥ इत्यनुशासनेन रमेर्डप्रत्यये 'टे' ॥ ६॥ ४ ॥ १४३ ॥ इत्यनुशासनेन टिलोपे च, र इति सिध्यति; तस्य नशब्देन 'सुपसुपा' इति समासे, नर इति रूप सिभ्यतीति बोध्यम् ॥ ४४ ॥ यद्यपि, 'रिङ् क्षये' इति धात्वन्तरेण नरशब्दस्य क्वचिनिष्पत्तिः कृता दृश्यते, तथापि तद्वदेव रमिधातुनापि निष्पत्तिसम्भवात्प्रकृतोपयोगानुरोधेनेहैतद्धातुनिष्पन्न एव नरशब्दो विवक्षित इति व्यासाशियः॥ ४५ ॥ तथा च प्रथममन्त्रप्रक्रान्ताया उपरिष्टाद्विशदं निरूपयिष्यमाणायाश्च परविद्याया अङ्गतयानु- ष्ठेयः प्रथममन्त्रोक्तत्यागलक्षणानुसन्धानविशेषाङ्गक; कर्मयोगोऽनेन मन्त्रेणाभिहित इति सिद्धम् ॥ ४६ ॥ इति द्वितीयमन्त्रव्याख्यानम् ॥ २॥ प्रथमद्वितोयसूत्रप्रक्रान्तपरविद्यातदङ्गकर्मानुष्ठाननिष्ठाविरहिणामविदुषां तादृशनिष्ठायां द्रुतप्रव- तये तदभावे महानर्थप्रसङ्गः प्रदश्यते -असुर्या नाम इत्यादिना तृतीयेन मन्त्रेण ॥ १. 'सह सुपा' इति सूत्र 'सह' इति 'सुपा' इति न्तेन सह समस्यते' इति योगद्वयस्याप्यर्थः । तत्र च योगद्वय विभज्यते । तत्रोभयत्रापि सुबित्यनुवर्तते । 'सुप्सुगा' इत्ययं 'सुपा' इत्यस्य अर्थानुवादः ॥ तथा च 'सुबन्त समर्थन सह समस्यते । सुबन्त सुब- . - । म-३.] भाष्यत्रयोपेता. वे||असुर्याः-'असुरस्य स्वम्' इतियत् आसुरप्रकृतीनामनुभाव्या इत्यर्थः । नामेति प्रसिद्धौ।ते नरकसं. शिताः भीषणतमाः लोकास्सन्ति । पुनस्तान्विशिनष्टि-अन्धेन तमसावृताः- गाढेनान्धकारेण व्याप्ताः। तान् • आलोकप्रसङ्गरहितान् , ते-स्वात्मघातिनः, प्रेत्य-तदातनदेहादुत्क्रम्य । अभि- गच्छन्ति-कान्येन निरन्तरं प्राप्नुवन्ति, येकेच-देवजातीया मनुष्यजातीया वा तथा ब्राह्मणक्ष- कुत्सृिज्य यज्ञादिकर्म कुर्वन्ति, निषिद्धानि चाचरन्ति, ते सर्वे स्वात्मघातिनः। तेषां निरयपातोऽवश्य- भावीत्युपदिशत्याचार्यः -असुर्या इति। असुराणां स्वभूता अतुर्याः, असुरस्वभावभूता वा, आसुर- प्रकृतीनामेवानुभाव्याः, अन्येषां दैवप्रकृतीनामनुभवितुमशक्या इत्यर्थः । अतिभीषणा इति यावत् । नामेति प्रसिद्धौ । अतिभीषणा नरकसहितास्ते लोकास्सन्तीति सर्वशास्त्रप्रसिद्धमिति भावः । पुन- स्तान् विशिष्टि-अन्धेन तमसावृता इति । अन्धेन · अतिगाढेन, तमसा • अन्धकारेण, आवृताः-व्याप्ताः, तान्-अतिभीषणानालोकप्रसङ्गरहिताश्च लोकानिति भावः। येकेच देवजातीया मनुष्यजातीया वा, तत्रापि ब्रामणा वा क्षत्रियादयो वा, आत्महन:--'असन्नेव स भवति । अस- ब्रह्मेति वेदचेत् ' इत्याम्नातामसत्कल्पता स्वात्मानं नयन्तः, ब्रह्मज्ञानहीनाः काम्यकर्मादिनिष्ठा इत्यर्थः। तथा च बृहदारण्यके 'अनन्दा नाम ते लोका अन्धेन तमसावृताः। तास्ते प्रेत्याभिगच्छन्ति अवि- श्री॥अस्य पदविवरणम्--अन्धेन अन्धयतीत्यन्धम् तेन अतिगादेन, सूर्यालोकप्रसङ्गविरहिणेति यावत् , तमसा - अन्धकारेण, वृताः - व्याप्ताः, असुर्या नाम - असुर्या इति संशया प्रसिद्धाः, नामेति प्रसिद्धौ । 'उगवादिभ्यो यत्' ॥ ५॥ १ ॥१॥ इत्यनुशासनेन, उवर्णान्ताद्वादिभ्यश्च यत्स्यात्प्राक्क्रीतीयेष्वर्थेष्वित्यर्थकेन, 'तस्मै हितम् ॥ ५॥ १॥५॥ इत्यनुशासनसिद्धेऽर्थे, असुरशब्दस्य गवादिगणघटकतया यत्प्रत्यये,असुरेभ्यो हिता असुर्या इति व्युत्पत्त्या, असुरस्य स्वम्॥४॥४॥१२३॥ इत्यनुशासनेनासुरशब्दात् 'अतुरस्य स्वम्' इत्यर्थे यत्प्रत्ययो भवतीत्यर्थंकेन यत्प्रत्यये, असुराणां स्वभूता असुर्या इति व्युत्पत्त्या वा, असुरहितत्वेन, असुरस्वामिकत्वेन वा प्रवृत्तिनिमित्तेनासुर्यसज्ञया प्रसिद्धा इत्यर्थः । अनेन विशेषणद्वयेनासुरेतरेषामतिदुःखदा इति सूचितम् । ते-तत्र तत्र श्रुतिषु प्रसिद्धाः, श्रूयते हि बृहदारण्यकोपनिषदि षष्ठाध्यायचतुर्थब्राह्मणे 'अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ ६ ॥ ११ ॥ इति । कठोपनिषदि प्रथमवल्ल्यामपि 'पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्॥ १॥१॥ ३॥ इति च। अतश्च, असुर्यसशितानामेव लोकानाम्, 'अनन्दा' इत्यपि संज्ञान्तरमस्तीत्य- वगम्यते ; 'अन्धेन तमसा वृताः' इति स्वरूपस्य द्वयोस्तुल्यतादर्शनात्, लोकाः ईदृशा लोकाः केच- न सन्ति, तान्. लोकान्ते प्राणिनः प्रेत्य-मृत्वा, अभिगच्छन्ति-अभिमुखा गच्छन्ति, कदाचि- त्तद्धेतुदुष्कृतप्रसङ्गवशात्तत्प्रात्युन्मुखास्सन्तः प्राप्नुवन्ति, 'अपि गच्छन्ति' इति माध्यन्दिनपाठेऽप्य- यमेवार्थी बोध्यः । अपिधानमित्यादाविवात्राप्यपीत्यस्योपसर्गत्वादुपसर्गाणामनेकार्थत्वसंभवात्पाठद. यैककण्ठयानुरोधाच्च। के ते प्राणिन इत्यत्राह---येकेचेति । येकेच-येकेचि, आत्महन:-आत्मानं घ्नन्ति नाशयन्तीत्यात्महन: पूर्वोक्तलक्षणस्वखरूपपरस्वरूपयाथात्म्याशानविपरीतज्ञानाभ्यामात्मानम् 'असन्नेव स भवति । असब्रह्मेति वेदचेत्' इत्युक्तमसत्कल्पत्वलक्षणं स्वरूपनाश प्रापयन्तः । प्रागुदा- हृतश्रुयन्तरककण्ठयाप्रकरणानुरोधाचाशत्वलक्षणमात्महन्तृत्वमेवेह विवक्षितम् । जनाः-पुनःपुनर्जन- नर्माणसंसरन्तः, सन्ति. ते तानभिगच्छन्तीत्यन्वयः- इति ॥ - %3D mamminenewhman १. तै. आन. ६-१॥
२० ईशावास्योपनिषत् [मं-४. अनेजदेकम्मनसो जवीयो नैनदेवा आप्नुवन् पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति । ४ वे॥त्रियादयो वा आत्महन:- असन्नेव स भवति असब्रह्मेति वेदचेत्' इत्याम्नातामसत्कल्पता स्वात्मा- नं नयन्तः; देहपातमुखेन पातकवर्गोपलक्षणमिदम् । जनाः-जनिमन्तः । संसरन्त इत्यर्थः ॥ ३ ॥ सर्वांवासत्वेन प्रस्तुतमीश्वरतत्त्वं विरुद्धवद भिलापव्यञ्जितेन विचित्रशक्तियोगेन विशदयति- अनेजदेकं मनसो जवीय इति । अनेजत्-अकम्पमानम् , एकं - प्रधानभूतं , स्वानधीनस्वस मानद्वितीयरहित वा, मनसो जवीयः - वेगवत्तरमनसोऽप्यतिशयितजव । नन्विद न जाघटीति द्विांसोऽबुधो जनाः' इति। देहपातमुखेन पातकवर्गस्य चोपलक्षणमिदम् । पातकिनश्च ये जना:- जनिमन्तः, संसरन्त इत्यर्थः । स्वात्मघातिनस्ते सर्वे, प्रेत्य-तदातनदेहादुत्क्रम्य, अभिगच्छन्ति- अभितो गच्छन्ति, सर्वान्पृथिव्यन्तरिक्षस्वर्गरौरवादिसंज्ञितानपि नारकलोकान्निरन्तर गच्छन्तीत्यर्थः॥३॥ एवं तृतीयेन मन्त्रेण विद्यायां शीघ्रप्रवृत्तिसिद्ध्यर्थम् अविदुषामनर्थ उक्तः, अथ आचार्यस्स- वासत्वेन प्रस्तुतस्य परस्य ब्रह्मणोऽनन्तविचित्रशक्तियोग विरुद्धवदभिलापेन व्यञ्जयन्नुपदिशति- अनेजदेकमिति । अनेजत् - 'एज कम्पने,' अकम्पमानम् , एकं - प्रधानतमं, शास्त्रविदुषां स्वाधीनस्व समानाधिकद्वितीयरहितमिति वा, 'न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः । परमसा म्यमापन्ना अपि मुक्ताः ब्रह्माधीना एवेति भावः। मनसो जवीयः - वेगवतो मनसोऽपि जवीयः वेगवत्तरं, प्रकृत्यतिक्रान्तमपि देश क्षणमात्रान्मनस्सङ्कल्पेन गच्छति चेत् ततः पूर्वमेव तत्र गच्छती- श्रीस्वस्वरूपपरस्वरूपयाथात्म्याज्ञानविपरीतज्ञानशालिनो जनास्तदधीनकादाचित्कप्रबलदुष्कृतपरि- पाकवशात्कदाचिद्यथोक्तलक्षणान्महादुःखदान् लोकानप्यवश्यं प्राप्नुयुरेव, अतश्शीघ्रमेव यथक्तल. क्षणनिष्ठां प्राप्य तादृशमहासङ्कटप्राप्तेर्मोचनीय आत्मा विवेकिभिरिति भावः ॥ ३ ॥ अत्र स्वमत- सिद्धाद्वैतज्ञानविधुराणां सर्वेषामसुरशब्दविवक्षितत्वम् , असुर्यलोकशब्दस्य महाक्लिष्टकल्पनया संसार मण्डलान्तर्जन्ममात्ररतां, नामशब्दस्य निरर्थकताञ्चाश्रिय शङ्करकृतं व्याख्यानमसमञ्जसम् ; 'असु- यां नाम ते लोकाः' इति श्रुत्यन्तरप्रसिद्धतयासुर्यसज्ञतया च काश्चिलोकान् पृथग्विभज्य निर्दिश्य, तेषाम् 'अन्धेन तमसा वृताः' इत्यतिसङ्कटरूपताञ्च प्रदयं तत्प्राप्तेः फलत्वेन प्रतिपाद्यमानताया वचो- भङ्गथैवापण्डितपामरमतिस्कुटत्वेनाकारणमेव तत्प्रहाणस्यायुक्तत्वात् ॥ ४ ॥ इत्थमेव विलक्षणज्ञान- निष्ठाया असंपादने महानर्थप्राप्तिस्सामवेदीयतलबकारोपनिषदि द्वितीयखण्डेऽप्युक्ता 'इह चेदवेदी- दथ सत्यमस्ति न चेदिहावेदी-महती विनष्टिः' इति ॥ ५ ॥ विपरीतज्ञानात्सर्वपापप्रसङ्गश्च 'योऽन्य- था सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृत पाप चौरेणात्मापहारिणा' ईत्यादिभिरग्युच्यते ॥ ६ ॥ तथा च यथोक्तलक्षणनिष्ठाविरहे महानर्थप्रसङ्गावर्जनीयताप्रतिपादनमुखेन सा शीघ्रं संपादनीये. त्येवास्य मन्त्रस्य निगलितोऽर्थ इति बोध्यम् ॥ ७ ॥ इति तृतीयमन्त्रव्याख्यानम् ॥ ३ ॥ आत्मनां बहुत्वस्य तत्रैकस्य परं सकलेतरातिशायिशक्तिमत्त्वस्य च प्रतिपादनेन, ईट्छन्दनिर्दि- ष्टपरमात्मनोऽन्येपाञ्च प्राक्प्रस्तुतमीशेशितव्यभावशेषशेषिभावादिक दृढीकर्तुं सर्वेश्वरं सकलेतरेभ्य आत्मभ्यो विशिनष्टि-अनेजदित्यादिना चतुर्थेन मन्त्रेण ॥ १ ॥ अस्य पदविवरणम् एकं पर- मात्मशब्दितमात्मतत्वम् , अनजत् 'एज कम्पने' इति भौवादिकाद्धातोश्शत्रन्तरूपमेजदिति। १. भारते. उद्यो. ४१-३४ ॥ - म मं-४.] भाज्यत्रयोपेता. २१ वेनिष्कम्मत्वं वेगवत्तरत्वचेति, मैव, तात्पर्यवृत्त्या सुघटितत्लात् . सर्वस्य स्वेन नित्यव्याप्तत्वादनेजत्, सर्वदा मनसो गोचरदेशमतिक्रम्य वृत्तेः मनसो जवीय उपचर्यते । एवमुत्तरेष्वपि वाक्येषु भाव्यम् । नैनद्देवा आप्नुवन् पूर्वमर्षत् प्रागेव सर्वान् प्राप्नुवत् देवा हिरण्यगर्भादयो नाप्नुवन् एतावन्तं काल न लेभिरे, विभुत्वेन नित्यप्राप्तमपि कर्मप्रतिबद्धज्ञानाः क्षेत्रज्ञाः विद्याधिगमात्पूर्व स्वबुद्ध्या न प्राप्नुवन्तीति न विरोधः । यथोक्तं छान्दोग्ये 'तद्यथा हिरण्यनिधि निहितमक्षेत्रशा उपर्युपरि स- चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजाः अहरहर्गच्छन्न्य एत ब्रह्मलोक न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति।तद्धावतोऽन्यानत्यति तिष्ठत्-'यः पृथिव्या तिष्ठन्' 'य आत्मनि तिष्ठन्' इत्यादिक्रमेण तत्स- र्वत्र तिष्ठदेव धावतो गरुडादीनग्यत्यति यावद्यावद्धावन्ति जविनस्तावतः परस्तादपि वर्तत इत्यर्थः। यथोच्यते 'वर्षायुतशतेनापि पक्षिराडिव संपतन् । नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः' इति । कू॥ति भावः। निष्कम्यं वेगवत्तरं चेति विरोधप्रतीतिः,परिहारस्तु-विभुत्वाद्वस्तुतोऽनेजत् , तत एव मनसोऽप्यगोचरदेशे सर्वदैव वृत्तेः मनसो जवीय इत्युपचर्यत इति । किञ्च-देवाः · ब्रह्मरुद्राद. योऽपि, पूर्वमर्षत् · प्रागेव मर्वान् देवान्प्राप्नुवदित्यर्थः । एनत् । प्रस्तुतं सर्वावास्य पर ब्रह्म, नाप्नुवन् - एतावन्तं कालं न लेभिर इति भावः । पूर्वमेव प्राप्तं न लेभिर इति विरोधमानं, विभु- तया प्राप्तमपि कर्मसंकुचितज्ञानाः क्षेत्रज्ञा आचार्योपदेशाद्विना स्वबुद्ध्या नाग्नुवन्निति परिहारः । यथोक्तं छान्दोग्ये 'तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्स- वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति । अपि च तद्धा. वतोऽन्यानत्येति तिष्ठत्-- 'य. पृथिव्या तिष्ठन्य आत्मनि तिष्ठन् यस्मर्वेषु भूतेषु तिष्ठन्' इत्या- दिक्रमेण सर्वत्र तिष्ठदेव, तत्-ब्रह्म, धावतोऽन्यान्-गरुडादीनप्यत्येति। तिष्ठतः पुरुषस्य धावद. श्रीएजन भवतीत्यनेजत् । स्वस्थानात्स्वयमचलदेव, मनसः वेगकाष्ठापन्नतया लोके प्रसिद्धान्मनसो. ऽपि, जवीयः - अतिशयेन जववत् वेगवत्तरम् , जववच्छन्दादीयसुनि "विन्मतोलक' ॥ ५ ॥३॥ ६५॥ इत्यनुशासनेन मतुपो लक् । यद्वा 'तरस्वी त्वरितो वेगी प्रजवी जवनो जवः' इति कोशे- न जवशब्दस्यापि वेगवत्पर्यायपाठात्तत एवेयसुनि जवीय इति भवति । चलनरहितस्य कथं जवीय स्त्वमिति चेत्, एकत्रावस्थितम्याल्पकालेऽक्षितकार्यार्थीतिदूरदेशसन्निधानयोग्यतावत्त्वाभिप्रायेणेह परमात्मनो जवीयस्त्वव्यपदेशः। यथाऽन्यत्रापि 'अपाणिपादो जवनो ग्रहीता' ईति; 'आसीनो दूर व्रजति शयानो याति सर्वतः' इति च । एकत्रैककार्यानुगुणाकारेणावस्थितस्यैव सत्यसङ्कल्पस्य विभोः परमात्मनस्स्वरूपतस्सदा सर्वत्र व्याप्तत्वेनातिदूरदेशेऽप्यतिशीघ्रमेव सङ्कल्पमालेण स्वेष्टानुगुणाकारेण स्फुरणसम्भवेन चिन्तिततत्रत्यकार्यानुगुणाकारेण तत्र सन्निधानं हि नानुपपन्नम् , प्रसिद्धञ्च वैकुण्ठ दुग्धाब्धिप्रभृतिस्थानेष्वचञ्चल तिष्ठत एव भगवतस्ततोऽतिविप्रकृष्टस्थले प्रहादचिन्तासमकालमति- क्षिप्रमेव स्तम्भेस्फुरणतस्तद्रक्षणानुगुणाकारेण सन्निधानम् । तथा च मनोजवगतिभ्योऽप्यन्येभ्यस्स वेभ्योऽतिक्षिप्रमेव चिन्ताप्रदेशाचिन्तितप्रदेशे कार्यानुगुणसन्निधानयोग्यतावस्वमेव मनसो जवी - यस्त्वमिह विवक्षितम् । यद्वा---एकाकारेण क्वचित्तिष्ठत एव भगवत आकारान्तरेणातिक्षिप्रमति वेगगमनेनाप्यतिविप्रकृष्टस्थले चिन्तितकाथिसीनधानयोग्यत्वरूपमेव जवीयस्त्वमिह विवक्षितम् । दृश्यते हि भगवतस्तादृशमपि सन्निधान ग्राहग्रस्तगजेन्द्ररक्षणादौ । तथा च चिन्तासमकालमे वातिदूरदेशेऽपि सङ्कल्पमात्रेणातिवेगेन सन्निधानयोग्यतावत्तया प्रसिद्धान्मनसोऽयतिवेगेन ता. , Heame-- १. श्वे. उप. ३.१९ ॥ २ कठो. १.२.२१ ॥
२२ ईशावास्योपनिषत् [मं-४. व॥अन्येषां कचित्तिष्ठतां धावदतिक्रमण, नास्तीति वैचिनी।अन्यदपि किञ्चिदाश्चर्यमित्याह-तस्मि- नपो मातरिश्वा दधातीति । तस्मिन्नवस्थितः अप्रतिबन्धानुगुणकाठिन्यादिरहितोऽपि वायुः अपो बिभर्ति । सर्वाधारभूतेन सर्वेश्वरेण विधृतस्म मातरिश्वा तच्छक्ल्यैव पाथःपयोधरनक्षत्रग्रहतारका दिकं बिभर्तीत्युक्तं भवति । स्मर्यते हि 'द्यौरसचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः। वासुदेवस्य वीर्येण विवृतानि महात्मनः' इति ॥ ४ ॥ - - कृ॥तिक्रमणं न घटत इति विरोधप्रतिभान, जविनो यावद्यावद्धावन्ति तावतस्तावतः परस्तादपि वर्तत इति तात्पर्यादविरोधः। यथोच्यते--'वर्षीयुतशतैर्वापि पश्मिराडिव संपतन् । नैवान्तं कारणस्येयाद्यद्य- पि स्यान्मनोजवः' इति । अन्यदपि किञ्चिदाश्चर्यमित्याह -तस्मिन्नपो मातरिश्वा दधाति तस्मिन् वासुदेवे अवस्थितो मातरिश्वा । अप इत्युपलक्षणम् । पाथःपयोधरग्रहनक्षत्रतारकादिकं बिभ- तीत्यर्थः । धारणानुगुणकाठिन्यरहितोऽपि वायुः पाथःप्रभृतिक बिभतीत्यद्भुतम् । सर्वाधारभूतेन सर्वे- श्वरेण विधृतो वायुः तच्छक्त्यैव बिभर्तीत्यभिप्रायः । 'एष सेतुर्विधरण एषा लोकानामसभेदाय' 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' द्यौस्सचन्द्रार्कनक्षत्र खं दिशो भूमहोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः' इत्यादिषु प्रसिद्धमेतत् ॥ ४ ॥ .. , श्रीशसनिधानयोग्यतावत्परमात्मवस्त्विति पक्षद्वयेऽपि फलितोऽर्थः । जवीयस्त्व विवृणोति नद्देवा इत्यादिना तिष्ठदियन्तेन वाक्यद्वयेन । देवाः-चिन्तासमकालं मनोजवगत्या चिन्तितस्था- नसन्निधानयोग्यतावत्परमयोगिव्यासजामदग्न्यादिभ्यो मनुष्येभ्योऽप्यधिकशक्तिमत्तया प्रसिद्धा ब्रह्माद- योऽपि देवाः ; स्वयं धावन्तोऽपीति शेषः, वक्ष्यमाणवाक्यानुरोधात् । पूर्व - तद्धावनारम्भात्किञ्चि त्पूर्वम्, अर्षत् । गच्छत् , न तु धावत्, 'ऋपि गतौ' इति धातोश्शन तरूपमेतत् । यद्यपि तौदा. दिकोऽयं धातुः ; तथाऽपि च्छान्दसो गुणः । यद्वा धातुपाठे 'बहुलमेतनिदर्शनम्' इत्यस्य 'दश- गणीपाठो बहुलम्' इत्येतदर्थपरत्वमाश्रियापठितलौकिकवैदिकधातूनामपि यथाप्रयोगमेष्टव्यताया अपि स्वीकारात्प्रयोगदर्शनाच भौवादिको प्येवभूतो वैदिकः कः कश्चिद्धातुरस्तीत्यभ्युपगम्यत इति न दोषः । एवमेव माध्यन्दिनपाठे दृश्यमानस्य 'अर्शत्' इति रूपस्यापि 'कशी गतौ' इति भौवादि- कधातुसद्भावमाश्रित्य निर्वाहो बोध्यः । एनत् - पूर्वोक्त परमात्माख्यमेकमात्मवस्तु, नाप्नुवन् - न प्राप्नुवन्ति - प्राप्तुं न शक्नुवन्तीत्यर्थः । 'छन्दसि लुङ्ग लड् लिट' || ३ ॥ ४ ॥ ६ ॥ इत्यनुशा सनेन लडथै लडू । तत् - पूर्वोक्तमेकमात्मवस्नु, धावतः-प्रागेव धावतः, अन्यान् - प्रागुक्तान् ब्रह्मादिदेवान् तिष्ठत् - तद्धावनानन्तर चिर तिष्ठदपि, अत्यति-पश्चात्क्षणेनैव स्ववेगशक्त्याऽतिका मति ॥ तथा चेदमुक्त भवति-आत्मानोऽनन्तास्सन्ति; तत्रैकस्तावदात्मा सकलेतरव्यावृत्तनिरतिशय- वेगशक्तिशाली ; यतः, - इतर आत्मानरस्वदेशात्किञ्चित्पूर्व गच्छन्तमेतं स्वयं पश्चाद्धावन्तोऽपि प्राप्तुमेव न शक्नुवन्ति ; किमुतातिक्रमितुम् , अयं पुनरात्मा स्वदेशात्पूर्वमेव धावतोऽन्यास्तद्गमना- त्पश्चात्स्वयं खदेशे चिरं तिष्ठन्नपि ततः क्षणेनैव खवेगशक्याऽतिक्रम्य गच्छति-इति। अथास्यात्मनो निखिलजगद्धारकत्वशक्तिं तन्मुखेन कारणत्वञ्चाह--तस्मिन्नप इत्यादिना । मातरिश्वा मातरि- अन्तरिक्ष श्वयति गच्छत्तीति मातरिश्वा निरालम्बे नभस्यकत्रावस्थानरहितस्सततगमनशीलस्वयं स्थूल. . १. चुरा. वा ॥
तदन्तरस्य सर्वस्य म-५.] भाष्यत्रयोपेता. २३ तदेजति तदु नैनति तहरे तदन्तिके । तदु सर्वस्यास्य बाह्यतः ॥ ५ वे॥ अनेजदेकं मनसो जवीयः' इत्युक्तमर्थमादरान्मुखान्तरेणानुशास्ति-तदेजति तदु नैजनीति । तत् - व्याप्तं तत्वं पूर्वोक्तप्रकारेण जवीयस्त्वादिना एजति-कम्पते । कम्पत इवेत्यर्थः। तदु नैजति. कू।।अथेदानीमाचार्यः स्वोपदिष्टं विचित्रशक्तित्वमेवादरार्थ मुखान्तरण पुनरनुशास्ति-तदेज तीति । भूयोभूयःप्रवचनं श्रवण च कर्तव्यमिति च पुनरनुशासनस्याभिप्रायः । तथा च शास्त्र 'परी- श्रीगुरुद्रव्यानात्मकतया स्थूलगुरुद्रव्यान्तरधारणशक्तिगन्धसम्भावनानों वायुरपीत्यर्थः। तस्मिन् य. थोक्तलक्षणैकात्मनि, अपः निखिलजगदण्डमण्डलकारणत्वेनादिसृष्टस्थूलगुरुद्रव्यरूपाणि तदाधारत्वेन समन्ततस्तदावरणत्वेन च स्थूलगुरुद्रव्यान्तरावष्टम्भलेशमन्तरेणैवावतिष्ठमानानि कारणोदकानि ; दधाति · धारयति । 'प्रासादशिखरे चैत्रो धज धारयति' इत्यत्र चैत्रः प्रासादशिख रोपष्टब्धस्सन्नेव ध्वजं धारयतीतिवत्, ' तस्मिन्नपो मातरिश्वा दधाति' इत्यत्र परमात्मोपष्ट- ब्धस्सन्नेव मातरिश्वा कारणोदकानि दधातीत्यर्थाऽनेन लभ्यत इति बोध्यम् ॥ २ ॥ स- विवरोदरतया स्वेषु प्लपमानानां निखिल जगदण्डमण्डलानामाधारभूतान्यादिसृष्टानि कारणजला नि स्थूलगुरुद्रव्यान्तरोपष्टम्भमन्तरेण निरालम्बे नभसि केवलपरमात्मशक्त्युपष्टब्धवातोत्तम्भितान्ये - व ह्यवतिष्ठन्ते ॥ ३ ॥ उक्तं हि मनुना जगत्कारणतया स्थूलगुरुद्रव्यान्तरापेक्षया प्रथमसृष्टत्वमपामेव प्रथमाध्याये 'सोऽभिध्याय शरीरात्स्वासिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवा. सृजत् ॥ ८ ॥ तदण्डमभवद्धैम महस्रांशुसमप्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः' । ९॥इति॥४॥ विष्णुपुराणे प्रथमाशे द्वितीयाध्याये तत्क्रमेण विवृद्धं सजलबुद्बुदवत्समम्। भूतेभ्योऽण्डम्म- हाबुद्धे महत्तदुदकेशयम्' ॥ ५५ ॥ इति कारणोदकाधारकत्वमण्डस्योक्तम् ॥ ५ ॥ एवं तत्रैव 'वारि- वह्नयनिलाकाशैस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिमहता तथा ॥ ५९ ॥ इति कार- णजलाद्यावरणावृतत्वमण्डस्यामिहितम् ॥ ६ ॥ तथा च, अनन्तेष्वात्मस्वेक आत्मा स्वेतरसर्वातिशा- यिमहिमा जगत्कारणभूतश्चेति प्रतिपादयताऽनेन मन्त्रेण प्रागीलब्देन निर्दिष्टस्य परमात्मनस्स्वेतरस- नियन्तृत्वादिकमुपपादितं भवति ॥ ७॥ शङ्करकृतमेतद्वयाख्यानमक्षराननुगुणमापण्डितपामराति- स्फुटप्रतीयमानार्थप्रहाणेन स्वमताभिनिवेशमात्रेण बलायथेष्टविपरीतार्थकल्पनेन चासमञ्जसञ्चेति, अन्ये- षां केषाश्चिद्याख्यानमपि शब्दस्वारस्याननुगुणमिति च विलोकयतां विदुषां स्वत एव विशदं भवती. ति तदुपपादनमुपेक्षामहे ग्रन्थगौरवभयात् ॥ ८ ॥ इति चतुर्थमन्त्रव्याख्यानम् ॥ ४ ॥ पुनरपि तस्यैव परमात्मनो विभुत्वादिलक्षणम्महिमान्तरमाह --तदेजतीत्यादिना पञ्चमेन मन्त्रेण ॥ १ ॥ अस्य पदविवरणम् तत् पूर्वोक्तं परमात्मलक्षणमेकमात्मवस्तु, एजति-आश्रितकार्यार्थ तत इतो गमनेन चलत्यपि, तदु - तदेव उकारोऽवधारणार्थः, माध्यन्दिनानान्तु 'तन्नैजति' इत्येव पाठो दृश्यते, नजति · न चलत्यपि। कथमेकस्य विरुद्धधर्मद्वयसम्भव इति चेत् , विग्रहविशिष्टवषेण चलनं स्वरूपतचलनाभावश्च सम्भवतीति न विरोधः। परमात्मस्वरूपस्य विभुत्वेन तस्य चलनं हि न १. १-२॥
२४ ईशावास्योपनिषत् [मं-५, वेतदेव वस्तुवृत्या न कम्पते।तहरे तद्वन्तिके - तद्दरेऽन्तिके च वर्तते।मूढप्रतिबुद्धपुरुषभेदापेक्षया विभोरेव दुगन्तिकवर्तित्वव्यपदेशः । यथाह शौनकः 'पराङ्मखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परम ब्रह्म दूरादरतरे स्थितम् ॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्ते षां विशेयं च तदन्तिके' इति । केचित्पदार्थाः कस्यचिदन्तर्भवन्ति, न बहिः । केचिदहिभवन्ति, नान्तः । तदुभयव्यावृत्तिमाह -तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत इति । तत् सर्व- व्याप्तमुक्तं परं ब्रह्म । अस्य - विचित्रचिदचिद्रपेण प्रमाणसिद्धस्य सर्वस्य वस्तुनः । अन्तर्भवति-अप्र- तिघातादविभक्तदेशं वर्तत इत्यर्थः । तदेव सर्वस्यास्य बहिरपि भवति । परिमितानां पदार्थाना भावदेश इवाभावदेशेऽपि वर्तत इति यावत् । तदेतद्यक्तमुक्त तैत्तिरीये सर्वपरविद्योपास्यविशेष- कू॥क्ष्य लाकान् कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतनातद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समि- पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्' इति । तत्त्वतः - अज्ञानसशयविपर्ययनिरासो यथा भवति तथा,प्रोवाच - प्रकर्षेण यात्-पुनःपुनरुपदिशेदित्यर्थः । अत एव 'तद्विद्धि प्रणिपातेन परि. प्रश्नेन सेवया' इत्यादिभगवतोपदिष्टस्याप्यर्थस्य वैशद्याय तत्त्वदर्शिसकाशात्प्रणिपातादिपुरस्सरं पुन:- पुनश्श्रवणं विहितम् । उपदिष्टाच पुनरनुगीतेत्याहुराचार्याः । तदेजति--तत् - सर्वव्याप्त परं ब्रह्म, एजतीव कम्पत इव, जवीय एवेति यावत्। तदु तदेव,नैजति-वस्तुतस्तु न कम्पते । तद्दरे च, तदे- वान्तिके च वर्तते । असुरदैवप्रकृतिकपूरुषभेदापेक्षया विभोरेव दूरान्तिकवर्तित्वव्यपदेशः । आह च भगवाशौनकः 'पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परम ब्रह्म दूराद्दरतरे स्थितम्॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके' इति । इदमप्येक वैचित्र्यमित्याह-तत्-सर्वव्याप्तं परं ब्रह्म, अस्य सर्वस्य विविधविचित्ररूपतया प्रमाणप्रसिद्धस्य सर्वस्य वस्तुनोऽन्तर्भवति, तदेव पुनस्तदानीमेव सर्वस्य बहिरपि भवतीत्यर्थः । अन्येषां तु गृहान्तवर्तिपुरु- षाणा तदानीमेव न बहिष्ठत्वं सम्भवति , बहिसनाञ्च नान्तर्वर्तित्त्रमितीह वैचित्र्यमिति भावः । यद्यप्यणुषु नान्तर्वर्तिता सम्भवति, तथाप्यप्रतिघातादविभक्तदेशतया वर्तित्वमात्रेणाणुष्वन्तर्वतित्वो- श्री|सम्भवति, तथाऽपि कृष्णो बृन्दावनं गच्छति,मधुरां गमिष्यति' इत्यादिव्यवहाणां विग्रहविशिष्ट- वेषविषयाणां दर्शनेन विशिष्टिवेषेण चलनमपि सम्भवति । यद्वा-आश्रितजनदुःखप्रसङ्गमयनिबन्ध- नं कम्पनं, नियन्त्रन्तरदण्डभयनिबन्धनकम्पनाभावश्च विवक्षित इति न विरोधः । अनेनाश्रितजनप- रमकारुणिकत्वमनन्याधीनत्वञ्चेति गुणद्वयं प्रतिपादितं भवति । तत्, दूरे • अतिविप्रकृष्टदेशेऽप्यस्ति, तदु-तदेव, अन्तिके समीपेऽप्यस्ति , तत्, अस्य सर्वस्य - चिदचिल्लक्षणस्य कृत्स्नस्य वस्तुजा. तस्य,अन्तः अन्तरप्यस्ति; तदु -तदेव, सर्वस्यास्य बाह्यता-बहिःप्रदेशेऽप्यस्ति विभुत्वात्सर्वत्रास्ती. त्यर्थः । 'तरे तद्वन्तिके' इत्यनेन 'पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परमं ब्रह्म दूराद्दरतरे स्थितम्॥१३॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्तेषां विज्ञेयञ्च तद- न्तिके' इति शौनकवचनोक्तं , अनाश्रितजनानां दुर्ग्रहत्वलक्षणा दूरस्थितिः, आश्रितजनानां सुग्रह- त्वलक्षणा समीपस्थितिश्चेत्युभयं वा विवक्षितम् । अनेनच भक्तजनसौलभ्यमभक्तजनदौलभ्यश्चेति १. विष्णुधर्मे. ९९-१४॥ ye २५ AIRMALAM HTA- Imasan - , मं-५.] भाष्यत्रयोपेता. वे॥निर्धारणार्थे सहस्रगीर्षम्' इत्यनुवाके 'यञ्च किञ्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्व व्याय नारायणः स्थितः' इति ॥५॥ कू॥क्तिः। एव बहिर्व्याप्तिरपि अविभुद्रव्यापेक्षयैव, न तु विभुद्रव्यापेक्षयापीति द्रष्टव्यम्। तदिदं वैचित्र्यं तैत्तिरीयकेऽप्युक्तम् 'अन्तबंहिश्च तत्सर्व व्याप्य नारायणः स्थितः' इति ॥ ५ ॥ श्रीगुणद्वय भगवतः प्रतिपादितं भवतीति बोध्यम् ॥ २ ॥ तदेजति' इत्यत्र, एजतीवेतीवकाराध्या- हारगर्भमन्यैः कृतं व्याख्यानमनुपादेय, विभोः परमात्मनस्स्वरूपतश्चलनाश्रयत्वासम्भवेऽपि विशे- षणीभूतविग्रहद्वारा गमनाभिप्रायेण, एजतीतिव्यवहारस्य "कृष्णो मधुरां गच्छति, द्वारका गच्छति' इत्यादिव्यवहारवनिर्वाहसम्भवनेवकाराध्याहारस्यानावश्यकत्वात् ॥ ३॥ यदप्याहुरत्रोत्तरकलाख्याः-अणुद्रव्यविषयेऽन्तर्व्याप्तर्विभुद्रव्यविषये बहिर्व्याप्तेश्च दुर्वचतया. ऽन्ताप्तिवचनमणुद्रव्यविषयेऽप्रतिघातादविभक्तदेशं वर्तमानत्वमात्रविषयम् , बहियाप्तिवचनन्तु विभुभिन्नपरिमितद्रव्यमानविषयम् - इति ॥ ४ ॥ अत्रोच्यते ॥ ५ ॥ इह तावदणुद्रव्यवाचकं पदमेकं, तदितरद्रव्यवाचक पदमन्यदिति पदद्वयं नोपलभ्यते ॥ ६ ॥ यतोऽणुद्रव्यान्वितान्तःपदस्यैकार्थकत्वम् , इतरद्रव्यान्वितान्तःपदस्यान्यार्थक- स्वञ्च सुवच स्यात् ॥ ७॥ किंस्विह 'सर्वस्यास्य' इत्येकमेव पद सर्वद्रव्यवाचकमन्तःपदान्वय्यस्ति॥८॥ अतस्तत्पदप्रतिपाद्यसर्वद्रव्यान्वययोग्यैकविधार्थकताया एवान्तःपदस्य वक्तव्यत्वेनान्तवर्तित्वोक्तेरणु- द्रव्यविषये परम् अप्रतिघातादविभक्तदेशतया वर्तमानत्वाभिप्रायकताया अन्यद्रव्यविषयेऽन्यादृशाभि- प्रायकतायाश्च वर्णनमसम्बद्धमेव ॥ ९ ॥ एवम् अप्रतिघातादविभक्तदेशत या वर्तमानत्वमनवच्छिन्नवृ. त्तिमत्त्वपर्यवसन्नं तत्तद्वस्तुसम्बन्धिसर्वप्रदेशसम्बन्धित्वमेवेति तादृशस्य तस्याणुतद्भिन्नसर्वद्रव्यविषय एव परमात्मनि सम्भवादपि तथा वर्णनमनावश्यकम् ॥ १० ॥ अपि च -अन्तर्वर्तित्वस्योक्तलक्षणा- नवच्छिन्नवृत्तिमत्त्वरूपत्वे सर्वदव्यसर्वप्रदेशसम्बन्धिताया इह वाक्यद्वयप्रतिपादयिपितायाः 'तदन्त- रस्य सर्वस्य' इत्येकवाक्येनैव सिध्या 'तदु सर्वस्यास्य बाह्यतः' इति वाक्यान्तरं निरर्थकमेव स्यात् ॥ ११ ॥ किञ्च तदु सर्वस्यास्य बाह्यतः' इति वाक्यस्य स्वरसतः प्रतीयमानस्वभिन्नसर्वद्रव्यविषयक- स्वभङ्गप्रसङ्गदोषमगणयित्वा विभुभिन्नसर्वद्रव्यविषयकत्वेन सङ्कोच सहमानैः 'तदन्तरस्य सर्वस्य'इति पूर्ववाक्यस्याप्यणुभिन्नमर्वद्रव्यविषयकत्वेन सङ्कोचस्वीकारसम्भवेन 'अन्तः' इत्यस्य यथाश्रुतार्थप्रहाण- स्यैवानावश्यकत्वेन वाक्यान्तरवैयर्थ्यांपादकोऽन्याशार्थः किमर्थे कल्पित इति तु न जानीमः।। १२॥ एवमत्र परमात्मनः स्वभिन्नयावद्दव्येष्वन्तयाप्तहिातेश्च पृथक्पृथक्सर्वशब्दघटितेन वा- क्यद्वयेन स्वरसतः प्रतिपद्यमानत्वात् , श्रौतस्यार्थस्य यथाश्रुत्येव प्रतिपत्तव्यत्वात् , 'न हि वचनविरोधे न्यायः प्रभवति इति न्यायेन प्रस्फुटार्थकवचनविरोधेन न्यायप्रचारायोगाच, कतिपयद्रव्येष्वन्ताः कतिपयद्रव्येषु बहिप्तेश्चासम्भवम्मत्वा श्रुतस्स्वतर्कानुरोधेन स्वैर सङ्को- चकल्पनमप्येतेषामयुक्तमेव ॥ १३ ॥ यच्च किञ्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अ. न्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' इति सम्प्रतिपन्नसमानार्थकनारायणानुवाकगतश्रुत्यन्तर. मपीदृशसङ्कोचकल्पनं निरुणद्धि ॥ १४ ॥ अत्र हि 'तत्सर्वम्' इत्येकशब्दप्रतिपन्नस्यैवार्थस्यान्तर्बहि- ाप्तिकर्मतयाऽन्वयात् 'तत्सर्वम्' इत्यस्य 'यच्च किश्चित्' इत्यादिपूर्ववाक्यप्रतिपन्नसार्थपरामशिनः कतिपयद्रव्यभिन्नद्रव्यविषयकत्वेन सङ्कोचकल्पनासम्भवात् ; तथा सङ्कोचस्वीकारे च कतिपयद्रव्येषु व्यातेरेव परमात्मनोऽसिद्धिप्रसङ्गात् , द्वयोरेतयोश्रुत्योस्सर्वसम्प्रतिपन्नसमानार्थकताव्याहतिप्रसङ्गाच १. ते. ना १०.१ ॥ -Pramin ईशावास्योपनिषत् [मं ५. श्रीदर्शितश्रुतेर्यथोक्तरीत्या सङ्कोचकल्पन नैव सञ्जाघीति॥१५॥ तस्मात्स्वरसतः प्रस्फुटं श्रुतिप्रतिपन स्वभिन्नयावद्दव्येष्वन्तबहियामिमत्त्व परमात्मनोऽस्तीत्येवाभ्युपगन्तव्यमिति प्रागुक्त लक्षणार्थान्तरसङ्को- चादिकल्पनमतेषामनुपपन्नमेव ॥ १६ ॥ 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीर य आत्मानमन्तरो यमयति सत आत्माऽन्तर्याम्यमृतः' इत्यन्तर्यामिब्राह्मणश्रुतिश्वाणुभूते प्रत्यगा- स्मन्यन्तःप्रविश्य नियन्तृतयाऽवस्थित परमात्मानं प्रति शरीरतां प्रतिपादयन्ती परमात्मनोऽणुष्वन्त- याप्त्यसम्भववादमसमञ्जसमतिस्फुटमेवावेदयति॥ १७॥ अत्र हि 'य आत्मनि तिष्ठन्' इति पूर्वमभि- धाय पश्चात् 'आत्मनोऽन्तरः' इति पुनरभिधानं परमात्मनः प्रत्यगात्मनि बहियाप्तिमात्रशङ्काव्युदा. सार्थमित्यापण्डितपामरं प्रस्फुटम् ।। १८ ॥ अत्र परमात्मनः प्रत्यगात्मन्यन्तः प्रविश्य नियन्तृतयाऽव स्थितत्वं प्रतिपाद्य प्रत्यगात्मपरमात्मनोश्शरीरशरीरिभावोपपादनादपि परमात्मनोऽणुभूतप्रत्यगात्मन्य- न्ताप्तिदुरपह्नवा ॥ १९ ॥ न हि बहिरेवावस्थित कञ्चित्प्रति किञ्चिद्दव्य शरीर भवितुमर्हति :--तथा सति बहिरेवावस्थाय नियन्तारं राजानं प्रति राष्ट्रस्यापि शरीरत्वव्यपदेशप्रसङ्गात् ॥ २० ॥ तदिदं सर्वमभिसन्धायोक्तं व्यासायेंरेतां श्रुतिं व्याकुर्वद्भिः 'आत्मनि तिष्ठन्' इत्युक्ते 'वेद्याममिस्तिष्ठति' 'तिले तैल तिति' इतिवहिरवहिरिस्थतिसाधारण्यात्तद्वेशद्यार्थमाह -आत्मनोऽन्तर इति । 'अन्तरो यमयति' इत्यनेन शरीरलक्षणमुक्तम्' इति ॥ २१ ॥ उक्तञ्च ते रेव 'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा' इति श्रुतिं व्याकुर्वद्भिः - 'अन्तःप्रविष्टश्शास्ता' इत्येतत्सर्वात्मगब्दव्याख्यानरूपम् , अनेन शरीरास्मभाव उक्तः,अन्तः प्रविश्य नियाम्यत्वं हि शरीरत्वम्' इति॥२२॥एवं यच्च किञ्चित्' इत्याधु- दाहृतश्रुतिप्रतिपन्नां परमात्मनस्स्वेतरसर्वद्रव्येष्वन्तर्बहिश्च व्याप्तिमुपपादयितुं प्रवृत्तया 'अणोरणीयान्मह. तो महीयान्' ॥ क ॥ २ ॥ २० ॥ तै ॥ ६ ॥ १० ॥ १ ॥ इति श्रुन्या परमात्मनस्वेतरसर्वसूक्ष्म द्रव्यापेक्षया सूक्ष्मतमत्वस्य तदन्तर्व्याप्तिप्रयोजकस्य स्खेतरमहाद्रव्यापेक्षया महत्तमत्वस्य च तदहिया. प्तिप्रयोजकस्य प्रतिपादनमुखेन वेतरेषु सर्वेषु सूक्ष्मेषु महत्सु च द्रव्येष्वन्तर्वहिातियोग्यताया एव प्रतिपादनात्परमात्मनस्स्वेतरेषु सर्वेषु द्रव्येष्वन्तर्बहिर्व्याप्तिनिराबाधैव प्रतिपद्यते ॥ २३ ।। न च निरव- यवेष्वणुद्रव्यभूतेषु प्रत्यगात्मसु कथमन्ताप्तिः परमात्मनस्सम्भवति? - अन्तःप्रवेशप्रयोजकविवराभा- वादिति वाच्यम् , इतरवस्तुप्रवेशप्रयोजकविवराभावेऽपि प्रमाणबलेन परमात्मप्रवेशप्रयोजकविवर- स्वीकारे क्षत्यभावात्।। २४॥ यथा हि दर्पणादिस्वच्छद्रव्येषु पृथिवीजलादीतरवस्तुप्रवेशप्रयोजकविवरा- नङ्गीकारेऽपि सूर्याद्यालोकप्रवेशप्रयोजकविवरम्,अयापिण्डे वस्वन्तरप्रवेशप्रयोजकविवरानङ्गीकारेड- प्यमिप्रवेशप्रयोजकविवरञ्च प्रत्यक्षप्रमाणबलेनाङ्गीक्रियतेः-तथैव प्रत्यगात्मस्वपि प्रमाणबलेन परमात्मप्र वेशप्रयोजकविवरस्वीकारे हि न काचिदस्ति क्षतिः ॥ २५ ॥ न चैतावता प्रत्यगात्मनां छेदभेदा- दिप्रसङ्गः, दर्पणादिद्रव्येष्वालोकादिप्रवेशतश्छेदाधसम्भववदेवोपपत्तेः॥ २६ ॥ तस्मात् सूर्याद्यालोक- स्वव्याप्त्यप्रतिघातेन स्वच्छद्रव्याण्यन्तर्बहिश्च व्याप्यावतिष्ठते । नच तावता तेषां काचिदस्ति चतिरि. ति यथा प्रत्यक्षप्रमाणबलादङ्गीक्रियते ; तथैव परमात्मापि स्वव्याप्त्यप्रतिघातेन प्रत्यगात्मनोऽन्तर्व- हिश्च व्याप्यावतिष्ठते ; न च तावता तेषा नियतादिक्षतिरिति श्रुतिबलादङ्गीक्रियत इति न कश्चिद्दो- षः ॥ २७ ॥ किं बहुना, प्रत्यगात्मना परमात्मव्यातिप्रतिघातकस्वस्वीकारे विभौ परमात्मनि छिद्रक- रणं विना क्वचिदप्यवस्थानस्यैवासम्भवेन ते तस्मिन् प्रतिक्षणं छिद्रं कुर्वन्त एव तिष्ठन्ति ; तत इल- . .. १. शतपथब्राह्मणे, १४.५-३० ॥ २. श्रुतप्रकाशिकायां - महासिद्धान्ते ॥ ३. यजुषि. आरण्यके. ३-११-२०॥ ४. श्रुत. या, महा ॥
मं-५.]
भाध्यत्रयोपेता.
२७
,
श्रीस्सञ्चरति चेत्यभ्युपगमस्यावश्यकतया परमात्मस्वरूपस्य ब्छेदभेदादिप्रसङ्गो हि दुर्निवारस्स्यादि-
त्यवधीयताम्॥२८॥ किञ्च, निरवयवत्वहेतुना प्रत्यगात्मना परमात्मनस्स्वान्तःप्रवेशप्रतिघातकत्वे तेनैव
हेतुना परमात्मनोऽप्यन्येषां स्वान्तःप्रवेशप्रतिघातकताया दुरितया परमात्मनि वाऽन्येषां कथमन्त
रवस्थानसम्भवः ॥ २९ ॥ तस्मात् , यथा मणिदीपादिप्रभाणां बहूनामेकत्र प्रवृत्तानां परस्परब्याप्त्य-
प्रतिघातकतया परस्परान्तःप्रवेशः प्रत्यक्षप्रमाणसिद्धः , यथा च स्वामास्वाप्नपदार्थानामेकत्र प्रसक्ताना
परस्परान्तःप्रवेशो दुरपह्नवः, यथा च कालदिगात्मनां विभुत्वेनाभ्युपगतानां परस्पराप्रतिघातेनैव सर्वत्र
व्याप्ति यायिकादिसिद्धा, यथा चात्यल्पपरिमाणे वटपल्लवशायिनि भगवति निखिलजगदण्डमण्डल-
स्यान्तःस्थितिश्च प्रमाणसिद्धा; तथैव प्रत्यगात्मान्तनियन्तृतया परमात्मनः स्थितिः परमात्मान्तरन्येषा
तदायत्ततयैव स्थितिश्च श्रुत्यादिप्रमाणबलेनैव दुरपह्नवा सिध्यतीति निरवयवत्वमानणान्तरिस्थत्यसम्भ-
ववर्णनमप्रतिष्ठितकेवलकुतर्कमात्रमूलमेवेति न किञ्चिदेतत् ॥ ३० ॥ अथैवमपि विभुद्रव्याणा देश-
परिच्छेदरहितत्वेन तद्वहिर्देशसद्भावस्यैव दुर्वचतया कथ तद्वहिाप्तिः परमात्मनस्सुवचेति चेन्न-'मह.
तो महीयान्' इति श्रुत्या स्वेतरसर्वमहाद्रव्यापेक्षया परमात्मनो महीयस्त्वप्रतिपादनेन तद्विरोधेन क.
स्यापि द्रव्यस्य परमात्मसमानमहत्त्वासिद्धेस्तदपकृष्टमहत्त्वेभ्यो द्रव्येभ्यः परमात्मनो बहियातिसम्भवे
क्षतिविरहात् ॥ ३१ ॥ अत एव गीतासु 'अथवा बहुनतेन कि ज्ञानेन तवार्जुन । विष्टभ्याहमिदं
कृत्स्नमेकाशेन स्थितो जगत् ॥ ४२ ॥ इति दशमाध्यायवचनेन, 'इहैकस्थं जगत्कृत्स्नं पश्याद्य सच-
राचरम् । मम देहे गुडाकेश यच्चान्यद्दष्टमिच्छसि ॥ ७ ॥ तत्रैकस्थं जगस्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥ इत्येकादशाध्यायवचनाम्यां, 'यस्यायुतायुताशाशे
विश्वशक्तिरियं स्थिता । परब्रह्मस्वरूपस्य प्रणमामस्तमव्ययम् ॥ ५३ ॥ इति श्रीविष्णुपुराणप्रथमाश-
नवमाध्यायवचनेन च सचराचरस्य कृत्स्नस्य जगतो भगवत्येकदेश एव परिसमाप्तत्वं प्रस्फुटमेवाभि-
हितम् ॥ ३२ ॥ भगवतोऽपकृष्टपरिमाणानामेव कतिपयद्रव्याणा विभुत्वव्यवहारस्तु भगवदितरकतिप-
यमहाद्रव्यापेक्षयापकृष्टपरिमाणराहित्यमात्रनिबन्धनः ॥ ३३ ॥ अथ किं तावत्तादृशं विभुद्रव्य ?
यहिातिब्रह्मणो न सम्भवतीत्युच्यत इति विवेचयामः ॥ ३४ ॥ न तावदाकाशस्तथा - वेदान्त-
सिद्धान्ते तस्य प्राकृततत्त्वरूपतया महदादिभ्योऽयपकृष्टपरिमाणस्यापरिच्छिन्नत्वशङ्कागन्धानवका-
शात् ॥ ३५ ॥ नापि शुद्धसत्त्वमिश्रसत्त्वद्रव्ये तथा · तयोः परस्परदेशव्यावृत्तत्वात् ॥ ३६॥ नापि
नित्यमुक्तधर्मभूतज्ञानानि तथा - तेषा सङ्कोचविकासशीलतया कदाचित्सङ्कोच्यावस्थापनस्यापि सम्भ-
वेन तद्वहिःप्रदेशस्यापि सूपपादत्वात् ।। ३७ ।। नापि कालस्तथा-सचराचरस्थ कृत्वस्य जगतो भग-
वत्स्वरूपैकदेश एव परिसमासतायाः प्रागुदाहृतप्रमाणसिद्धतया तदन्तःपातिकार्योपयोगितयैव कप्तस्या-
स्य तदहिस्सद्भावे प्रमाणाभावेन परिच्छिन्नताया दुरपह्नवत्वात् ॥ ३८ ॥ किञ्च - 'कालो लीलाविभू-
तावनित्यः, त्रिपाद्विभूतौ नित्यः' इत्यायङ्गीकारदर्शनेन नित्यत्वानित्यत्वयोविरुद्धयो रेकनासम्भवेन पर-
स्परविभिन्नयोयोः कालयोः परस्परदेशव्यावृत्तयोरेव सिद्ध्या तयोः परिच्छिन्नता हि दुरपतवा ॥
३९ ॥ किंबहुना, परमात्मनस्स्वेतरसर्वमहाद्रव्यापेक्षया महीयस्त्वस्य परमात्मैकदेश एव सचराच-
रस्य कृत्सस्य जगतः परिसमाप्ततायाश्च प्रागुदाहृतानन्यथासिद्धप्रमाणसिद्धतया तद्विरोधेन भगवदि-
तरस्य कस्यापि द्रव्यस्य भगवत्समपरिमाणत्वं न सिध्यत्येवेति स्वेतरसर्वद्रव्यापेक्षया परमात्मनो बहि-
यासिरपि सूपपादैव ॥ ४०॥ एवमेव परमात्मनस्स्वेतरसर्वाणुद्रव्यापेक्षयाऽणीयस्त्वस्य प्रत्यगात्मान्त.
वामित्वस्य च प्रागुदाहृतप्रमाणसिद्धतया तस्य प्रत्यगात्मान्तातिरपि दुरपह्नवैव ॥४१॥ नहि खलु
कस्मिंश्चिद्वस्तुनि बहिर्मात्रसंबद्धं किञ्चिद्वस्तु तदन्तर्यामित्वेनानुन्मत्तः कश्चिद्यपदिशेत् ॥ ४२ ॥
ईशावास्योपनिषत् [मं-५. . . श्री॥अथान्तःप्रदेशाभावेऽन्तर्व्याप्ति सुवचा; तत्स्वीकारे च प्रत्यगात्मना सावयवत्वप्रसङ्गः । तत्स्वीकारेचानित्यत्वप्रसङ्गो दुरि इति चेत् ॥ ४३ ॥ इदं चोद्यं परमात्मन्यपि समान , परमात्मन्य प्यन्तःप्रदेशसत्व एव तदन्तरितरेषा वस्तूनां स्थितिस्सुवचा; तत्स्वीकारे च तस्यापि सावयवत्वं प्रस- ज्यते , तत्स्वीकारे चानित्यत्वप्रसङ्गोऽपीति|| ४४ ॥ किंबहुना कृत्स्नप्रसक्त्यधिकरणे ब्रह्मणो निरवय वल्वे बहुभवन कार्यत्वानुपयुक्ताशस्थितिश्च नोपपद्यते ; सावयवत्वे च निरवयवत्वश्रुतिविरोध इति चोद्यं 'श्रुतेस्तु शब्दमूलत्वात् ॥ २ ॥ १॥ २७ ॥ इति सूत्रे श्रुत्या ब्रह्मणो निरवयवत्वस्य तत एव विचित्रसर्गस्यच प्रतिपादनात् , श्रौतस्यार्थस्य यथाश्रुत्येव प्रतिपत्तव्यत्वाच्च, ब्रह्मणश्शब्दैकप्रमाणकत्वेन धर्मिग्राहकप्रमाणेन याहशस्वभाव तत्प्रतिपद्यते , तादृशस्वभावमेव तत्स्वीकर्तव्यमिति न तत्र लोकह- विरोधशङ्कावकाश इति सूत्रकारो यथा पर्यहापीत् ॥ ४५ ॥ तहापि परमात्मप्रत्यगात्मनां निरव- यवत्वनित्यत्वयोः परमात्मनस्स्वेतरसर्वद्रव्यान्तर्बहियाप्ततायाः कृत्स्नस्य जगतः परमात्मान्तरेवावस्थि ततायाश्च श्रुत्यैव प्रतिपादनाच्छ्रुत्यैकसमधिगतस्यार्थस्य यथाश्रुत्येव प्रतिपत्तव्यत्वाञ्च लोकदृष्टन्यायेन न विरोधशङ्कावकाश इति चोद्यपरिहारस्सुकर एच ॥ ४६ ॥ इह विपरीतार्थकरणेन श्रुतेरन्यथानयने च तत्रापि श्रुतेरन्यथानयनं प्रसज्यत इति सूत्रकारोक्तान्याहशसमाधान निरर्थकमेव स्यात् ॥ ४७ ।। स्प- धार्थकश्रुतेरन्यथानयनमसङ्गतमिति सूत्रकारस्तथा समादधाविति चेदिहापि तत्तुल्यं ब्रह्मणरस्वेतरसर्वद्र- व्येष्वविशेषेणान्तर्बहिर्याप्ततायास्समन्ततः प्रस्फुटमेव जोधुष्यमाणत्वात् ॥ ४८ ॥ इदं पुनरत्रावधेयम् - अन्तश्शब्दो हि नानांशमध्यावकाशपरः ॥ १॥ इत्थञ्च परमात्मनो जी वात्मान्तःप्रवेशप्रतिपादकश्रुतिबलाजीवात्मनामणुस्वरूपाणामपि नानांशात्मकत्वं तन्मध्ये परमात्मप्रवेश. योग्यावकाशश्वास्तीत्येवान्युपगन्तव्य - श्रौतस्यार्थस्य यथाश्रुत्येव प्रतिपत्तव्यत्वात्॥ २॥ न च तावता- ऽनित्यत्वापादकसावयवत्वप्रसङ्गः,वस्तुस्वरूपारम्भकानेकाशात्मकत्वस्यैव तथाविधसावयवत्वरूपत्वेना- नादिसिद्धानेकाशात्मकत्वस्य तथात्वासम्भवात्॥३॥ईदृशं विचित्रमनेकांशात्मकत्वमेव लोके क्वाप्यदृष्ट- मपि श्रुतिप्रमाणैकबलादिहाङ्गीक्रियते ॥ ४ ॥ यथा निरवयवस्यैकस्य ब्रह्मणो बहुभवनं, चेतनाचेत- नादिलक्षणविचित्रकार्योपादानत्वं, कार्यत्वानुपयुक्तांशस्थितिः, जातिवादिपक्ष एकस्या एव जातिव्य- केरिख युगपदनेका परिपूर्ण स्थितिश्चेत्येवमादयोशाः श्रुतिप्रामाण्यबलाद्विीचनशक्तियोगसम्भवाच्च सूत्रकारेण कृत्स्नप्रसक्त्यधिकरणे स्थापिताः ॥ ५॥ इत्थञ्च निरवयवत्वेन प्रतिपन्नस्य ब्रह्मणः कार्यत्वा- नुपयुक्ताशान्तरस्वीकारेऽपि प्रमाणप्रतिपन्ननित्यत्वभङ्गभियाऽनादिसिद्धानेकांशात्मकत्व यथा स्वीकृतं ; तथैव प्रत्यगात्मनामपि तत्स्वीकारे भतिविरहेणाणोरणीयसः परमात्मनस्तदन्तातिनिराबाधा॥ ६॥ एवमत्र परमात्मनस्सर्वकार्यबहिर्भूतकार्यत्वानुपयुक्ताशान्तरसद्भावाङ्गीकारेण महतो महीयसस्तस्य वि- म्वपेक्षया बहियाभिरपि निराबाधैव ॥ ७ ॥ न च विभुद्रव्यापक्षया बहिभूताशान्तर सद्भावः प्रमाणाप्र- तिपन्न इति वाच्यं, प्रागुदाहृतगीताविष्णुपुर गणवचनैः कृत्स्नस्य जगतः परमात्मन्यत्यल्पतमैकाश एव पर्याप्तता प्रतिपादयस्तित्सिद्धे१रपह्नवत्वात् ।। ८ ॥ इत्थञ्च परमात्मप्रत्यगात्मना निरवयपत्वव्यवहा रो वस्तुस्वरूपारम्भकानेकाशात्मकत्वाभाव निबन्धनः , साशत्वव्यवहारोऽनादिसिद्धानेकाशात्मकत्वनिब- धन इति न कश्चिद्विरोध इति ॥ ४९ ॥ तस्मादणुद्रव्येष्वन्तयतिर्वि द्रव्येषु बहितिश्च परमात्मनो न सम्भवतीति वादः केवलकुत. कमूलोऽसमञ्जस एवेति सिद्ध भवतीत्यल बहुना ॥ ५० ॥ तथा चानेन मन्त्रद्रयेनेट्छन्दवाच्यस्यैक- स्यात्मनो ब्रह्मणस्स्वेतरसर्वातिशायिशक्तिमत्त्वसर्वान्तर्यामित्वपर्यवसन्नविभुत्वयोः प्रतिपादनाजगतो ब्रह्मात्मकत्वमप्युक्तं भवति ॥ ५१ ॥ इति पञ्चममब्रव्याख्यानम् ॥ ५ ॥ - . -WinnarmaNAAAAAAMKALPNAMADHEAKIA - । यः . , मं-६] भाष्यत्रयोपेता. २९ यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं न ततो विजुगुप्सते ।। वे॥एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम्।अथ तद्विदस्सांप्रतिक प्रयोजनमाह -यस्तु जुगुप्सत इति। ब्रह्मविन्माहात्म्ये विशेषद्योतनाय तुशब्दः। सर्वाणि भूतानि - ब्रह्मादिस्थावरान्तानि। अत्रात्मशब्द स्सङ्कोचकाभावात्प्रकरणादर्थस्वभावाच्च सर्वान्तरात्मविषयः । पथिव्यादिभिधियमाणमपि तन्मुखेन परमात्मन्यवस्थितमित्येवकाराभिप्रायः । अनुपश्यति-- अनुस्यूत विशद निध्यायति । सर्वभूतेषु चात्मानमिति व्याप्तिमात्रपरम् , तस्य तैर्धार्यत्वाभावात् । स इति प्रतिनिर्देशोऽध्याहार्यः । ततो न विजुगुप्सते-ब्रह्मात्मकत्वेनानुदृष्टेषु सर्वेषु स्वात्मभूतिन्यायात्कुतश्चिदपि न विजुगुप्सते । क्व- चिदपि निन्दा न करोतीत्यर्थः ॥ ६ ॥ कू॥एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम् ; अथ सर्व जगबामात्मकमित्यनुसन्दधानस्य प्रयोजनमाह- यस्तु सर्वाणीति तत्त्वज्ञानी, अधिकारिणो माहात्म्यज्ञापनाय तुशब्दः । सर्वाणि भूता- नि-ब्रह्मादिस्थावरान्तानि, आत्मन्येव-परमात्मन्येव,अनुस्य्तं पश्यति-निदिध्यासतीत्यर्थः। पृथिव्या- दिभिर्धियमाणमपि तन्मुखेन परमात्मन्येव स्थितमित्येवकाराभिप्रायः । किञ्च-सर्वभूतेषु चात्मानं-पर- मात्मानं यः पश्यति , इद व्याप्तिमात्रपर, परमपुरुषस्यानन्याधारत्वादिति भावः। यच्छब्दस्य स इति प्रतिनिर्देशोऽध्याहार्यः । सः-उक्ततत्वज्ञानी, ततः-तेषुः सप्तम्यर्थे तसिः । ब्रह्मात्मकतया दृष्टेषु सर्वेषु भूतेष्वित्यर्थः । न विजुगुप्सते-कुतश्चिदपि न बीभत्सते, स्वात्मविभूतिन्यायात् क्वचिदपि निन्दा न करोतीति भावः ॥ ६ ॥ श्रीप्रामनवयेनेट्छब्दवाच्यस्यात्मनस्स्वेतरसर्वातिशायिक्तिमत्त्वसर्वान्तरात्मत्वलक्षणस्वरूपकथ नेन जगतस्सर्वात्मना तन्नियाम्यत्वपर्यवसन्नं तदात्मकत्वमुक्त्वा ब्रह्मविदस्तदनुसन्धानावश्यकत्वज्ञापना. य तदनुसन्धानफलमभ्युदयमयाह षष्ठेन मन्त्रेण ॥ १॥ अस्य पदविवरण, यस्तु-ब्रह्मविन्मुमुक्षुस्तु, अल तुकारेण 'मनुष्याणा सहलेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धाना कश्चिन्मा वेत्ति तस्वतः' ॥ ७ ॥ ३ ॥ इति गीतावचनोक्तरीत्या ज्ञानत्रि- शेषपरिपाकलक्षणवक्ष्यमाणमहिमा कस्यचिदेव सम्भवति ; न तु मनस्येति तादृशमहिमशालिनो दौर्लभ्यं ज्ञाप्यते। सर्वाणि भूतानि - ब्रह्मादीनि स्थावरान्तानि परमात्मव्यतिरिक्तसर्वभूतानि,आत्म- न्येव-पूर्वोक्तदछन्दवान्यपरमात्मलक्षणकात्मन्येव, अनुपश्यनि-अनुसन्धत्ते, तदायतस्थितिका- न्येवानुसन्धत्त इत्यर्थः । तेषा पृथिव्यादिधायित्वेऽपि पृथिव्यादीनामप्याधारपर्यालोचनेऽन्ततः परमा- स्मन एव प्रधानाधारत्वा तदायत्तैव सर्वभूतस्थितिः , नान्यायत्तेत्यंश एवकारेणेह विवक्षितः । किञ्च- सर्वभूतेषु - यथोक्तलक्षणेषु, आत्मानं - यथोक्तलक्षण परमात्मरूपमेकात्मानम्, अनुपश्यति अत्र परमात्मनो नियमनार्थसर्वान्तस्थितिरूपान्तयामित्वमात्रमुच्यते, न तु परमात्मस्थितेस्सर्वभूतायत्तत्व. मुच्यते, अन्योन्याश्रयप्रसङ्गात्प्रमाणान्तरानुरोधाच्च । इदञ्च वैचिब्ध गीताशास्त्रे 'मया ततमिदं मर्व जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९॥ ४ ॥ इत्यनेन, 'भूतभूनच भूतस्थो ममात्मा भूतभावन.'।। ९ ॥ ५ ॥ इत्यनेन च भगवता स्वयमेवोक्तम् । तथा च कृत्स्नं जगत् खान्तनियन्तृतयाऽवस्थितब्रह्मात्मकमिनि योऽनुसन्धत्त इत्यर्थः । स इत्यध्याहार्य - यत्तदोनित्यसम्ब- न्धात् । सातादृशो ब्रह्मवित् , ततः-यथोक्तलक्षणब्रह्मात्मकतयाऽनुसंहिते यत्सर्वभूतेभ्यः, न विजुगुप्सते.----खेदजनकत्वानुसन्धानमूलमनोनिवृत्तिर्जुगुप्सा, तां न भजते, 'भ्रवमपायेऽपादा- Int-Ko-RAJ stakaunee Ram+wal , ३० ईशावास्योपनिषत् [मं-६. श्री॥नम् ॥ १॥ ४ ॥ २४ ॥ इति सूत्रभाष्योदाहृतेन 'जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्' इति वार्तिकेनापादानसज्ञया तत इत्यत्र पञ्चम्यर्थे तसिः ॥ गुपधातोभौंबादिकान्निन्दार्थे 'गुप्ति किन्द्रय- स्सन्' ॥ ३ ॥ १ ॥ ५ ॥ इत्यनुशासनेन 'गुपेनिन्दायाम्' इति वार्तिकानुगृहीतेन सन्। 'गुप्तिज्कि- तमाना अनुदात्तेतः' इति भाष्येऽनुदात्तत्त्वाभिधानादात्मनेपदमिति बोध्यम् ॥ २ ॥ अयमत्र भावः --भूतेषु स्वखेदजनकत्वानुसन्धानेन हि तेभ्यः कश्चिन्निवर्तते तानि द्विषन् ; सर्वभूताना नियन्तृभूतब्रह्मात्मकत्वानुसन्धाने सति स्वखेदजनकतच्चेष्टायास्स्वकर्मानुगुणफलदानाय तदन्तर्यामिनियन्तृपरमात्मायत्तत्वानुसन्धाने सति तेषु स्वखेद जनकत्वानुसन्धाननिवृत्त्या तन्मूला ते. भ्यो मनोनिवृत्तिरूपा जुगुप्सा न जायत इति ॥ ३ ॥ ईदृशजुगुप्सानुदयेन किं प्रयोजनमिति चेत् ? जुगुप्साया सत्या तत्प्रतियोगिषु भूतेषु द्वेषमूलोत्तरोत्तरसंसाराभिवृद्धिप्रसङ्गेन तदनुदये तदभावलक्षणं मुमुक्षोरपेक्षित परमं फलं सिझ्यतीत्याशयः ॥ ४ ॥ तस्माब्रह्मविदो मुमुक्षोः कृत्स्ने जगति ब्रह्मात्मक- स्वानुसन्धानमत्यावश्यकमिति मन्त्रतात्पर्यम् ॥ ५ ॥ अस्मिन्मन्त्रे 'आत्मन्येवानुपश्यति' इत्यत्र, 'आ स्मन्नेवानुपश्यति' इति, 'विजुगुप्सते' इत्यत्र विचिकित्सति' इति च माध्यन्दिनाना पाठः॥ ६॥ तत्पक्षे 'आत्मन्नेव' इत्यत्र सप्तम्याश्छान्दसो लुक् । 'नविचिकित्सति' इत्यस्य न सशेत इत्यर्थः। ततः' इत्यत्र सप्तम्यर्थे तसिरिति बोध्यम् ॥ ७॥ तत्रापि ब्रह्मात्मकत्वेनानुसहितेषु भूतेषु प्रागुक्तहेतुना स्वखेदजन कत्वसंशयं ब्रह्मविन्न प्राप्नोति । ततश्च तेषु द्वेषानुदयेन संसारवृद्धनावकाश इति पूर्वोक्तभाव एव पय- वसानं बोध्यम्।। ८ ॥ 'कित निवासे रोगापनये संशये च' इति धातो वादिकात् 'कितेयाधिपती. कारे निग्रहेऽपनयने नाशने सशयेच' इति वार्तिकानुगृहीतेन पूर्वोक्तानुशासनेन संशयार्थे सन् ॥ ९॥ 'गुप्तिज्कितमाना अनुदात्तेतः' इत्यत्र 'अनुक्रमदर्शनाय कितिः पठितः,न तु अयमनुदात्तेत्' इति कैय- टेन कितेरनुदात्तेचे तात्पर्याभाववर्णनान्नात्रात्मनेपदम् ॥ १० ॥ अनुदात्तत्वनिबन्धनस्यात्मनेपदस्य क्वचिन्तापकवशादनित्यत्वाश्रयणद्वा नेहात्मनेपदम् ॥ ११ ॥ यत्पुनरत्र, आत्मपदस्य अनुसन्धातुर्मुम- क्षोस्स्वात्मस्वरूपपरतामाश्रित्य 'यस्तु परिवाद मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि, आत्मन्येवानुपश्यति - आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु च - तेष्वेव च - आत्मानं- तेषामपि भूताना स्वमात्मानमात्मत्वेन, अनुपश्यति - सः ततः । तस्मादेव दर्शनात् , न विजुगुप्सते. जुगुप्सा धृणा न करोति' इति शङ्करकृतं व्याख्यानम् ॥ १२ ॥ तदसमञ्जसम् , उदक्षरत्वादर्थबाधा- बाघातात्प्रकरणविरोधात् ; न विजुगुप्सत इत्युक्तघृणानिवृत्ति प्रति ततः पूर्वभागप्रतिपाद्यतया विव- क्षितस्यार्थस्य हेतुत्वासम्भवाच्च।। १३॥ यथा हि 'भूतल एव घटं पश्यति इति वाक्येन घटस्य भूतल. वृत्तित्वदर्शनतदितरवृत्तित्वादर्शनैतदुभयविषयकबोध एव जायते ; न तु घटस्य भूतलव्यतिरिक्त- स्वादर्शनविषयकबोधोऽपि ; तथैव-'सर्वाणि भूतान्यात्मन्येवानुपश्यति' इति वाक्येनापि सर्वभूताना- मात्मवृत्तित्वदर्शनतदितरवृत्तित्वादर्शनैतदुभयविषयकबोध एव भवितुमर्हति ; न तु सर्वभूतानामात्म- व्यतिरिक्तत्वदर्शनामावविषयकबोधोऽपीत्यत:-'आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः' इति व्याख्यान- मक्षराननुगुणमेव ॥ १४ ॥ एवं सर्वभूतशब्दस्याव्यक्तादिस्थावरान्तजडपदार्थजातमात्रस्यार्थतया विव- क्षितत्वेन दर्शितव्याख्याने जडाजडयोः परस्परव्यतिरिक्तवादर्शनस्य देहात्मैक्यदर्शनलक्षणविपरीतज्ञा. नपर्यवसन्नस्यैव विविवक्षितत्वलाभेनार्थबाधस्य दुरपह्नवत्वात् , ईदृशविपरीतज्ञानस्य प्रत्युत संसारदुः- खाभिवृद्धिहेतोर्पणानिवृत्तिहेतुत्वासम्भवाचासामञ्जस्यं दुर्वारम् ॥ १५ ॥ एवं 'सर्वभूतेषु चात्मा- नम्' इत्यत्र शरीरस्थानीयसर्वभूतानि प्रति स्वात्मस्वरूपस्यात्मत्वेन दर्शनस्यैव विवक्षिततया सर्वभूतानामात्मनश्च भेददर्शनस्यैव सिद्धेः ; पूर्ववाक्यार्थस्याभेददर्शनपर्यवसायिन एव विव - . -- ३ ७ , मं-७.] भाष्यत्रयोपेता. यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः ।। वे॥पुनरपि सर्वस्य ब्रह्मात्मकत्व सामानाधिकरण्येन द्रढयति। तथानुदर्शनस्य सद्यश्शोकनिवर्तकत्व- माह -यस्मिन् पश्यत इति।यस्मिन्-प्रणिधानसमये।विजानता-स्वतन्त्रपरतन्त्रवस्तुभेद सम्यगुप काएव वैय िकरण्येनोक्तं सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येनापि द्रढयन् तथानुध्यानस्य सद्यश्शोकमोहनिवर्तकत्वमाह -यस्मिन्त्सर्वाणीति। यस्मिन-- प्रणिधानसमये, विजानतः-'ईशा- श्रीक्षितत्वाच्च परस्परव्याघातोऽपि भवति॥१६॥यदि च भूत जातस्यात्मन इह विवक्षितव्यतिरिक्तत्व- दर्शनाभावो न तयोस्स्वरूपैक्यदर्शनपर्यवसायी ; अपि तु अपृथक्सिद्धविशेषणविशेष्यभावनिबन्धनप रस्पराविनाभावलक्षणाभेददर्शनपर्यवसाय्येव विवक्षितः; अतो नात्र व्याघातप्रसङ्ग इति मन्यते ॥ १७ ॥ तदाऽपि, अजडस्यातिनिर्मलस्यात्मनस्मर्वदोषाकरजडवस्तुसंस्गदर्शनस्यैव विवक्षितत्वसिङ्ख्या तस्य प्रत्युतजुगुप्साहेतुताया एव सम्भवेन तन्निवृत्तिहेतुत्वासम्भवाद्वाक्यार्थासङ्गतिर्दुारैव ॥ १८ ॥ स्वस्मिन्नमेव्यसंसर्गदर्शनस्य हि जुगुप्साहेतुता सर्वलोकसाक्षिका दृश्यते ॥ १९ ॥ एवम् - अत्रत्यात्म- शब्दस्य मुमुक्षुचेतनस्वात्मस्वरूपपरतावर्णनमाययुक्त - पूर्व प्रथममन्त्रे, ईशेतीदछब्देनेश्वरत्वेन कञ्चिदा- स्मानं निर्दिश्य तद्भिन्नस्येशितव्यस्य कृत्स्नस्य जगतस्तच्छेषता प्रतिपाद्य, ईश्वरत्वेन निर्दिष्टस्यात्मन- शास्तृत्वरूपेश्वरत्वशालितया तच्छासनातिल वने तदधीनदण्डप्रसङ्गपरिहाराय तदीशितव्यतच्छेषभूत जगदन्तर्गततदितरचेतनसामान्येन तच्छासनानुवर्तिना तदधीनेनैव वर्तितव्यमिति तच्छासनानुवृत्तिप्र- कार 'तेन त्यक्तेन भुञ्जीथाः' इति 'मा गृधः कस्य स्विद्धनम्' इति 'कुर्वन्नेवेह कर्माणि जिजीविषे- च्छत समाः' इति च प्रथम मत्रद्वयेन ज्ञापयित्वा, ईदृशेशेशितव्यशेषशेषिभावज्ञानतदधीनेश्वरशास- नानुवर्तनविरहिणाम्महानर्थप्रसङ्गं तृतीयमन्त्रेण प्रदर्श, ततो बहुष्वात्मसु सत्सु कस्यचिदेकस्यात्मनः परमितरस्सर्वैरनुवर्तनीयशासनत्वं कुत इत्याकाङ्क्षायामीदछन्दनिर्दिष्टस्यात्मनस्सकलेतरात्मातिशायिश क्तिमत्वसर्वजगत्कारणत्वसर्वभूतान्तरात्मत्वलक्षणस्वरूपप्रतिपादनमुखेन नियन्तृनयाऽन्तर्यामिभूतेश्वरा- स्मकत्वं सर्वप्रकारतन्नियाम्यत्वरूपं जगतश्चतुर्थपश्चममन्त्राम्या प्रतिपाद्य,स्वेष्टसाधनतया कृत्स्त्रस्य जगत: पूर्वमन्त्रोक्ताकार।नुसन्धानं मुमुक्षोब्रह्मविद आवश्यकमिति ज्ञापनाय प्रवृत्तत्वादस्य षष्ठमन्त्रस्य-अस्मिन् प्रकरणे ब्रह्मविदो मुमुशोरस्वात्मस्वरूपे सर्वभूतान्तरात्मत्वानुसन्धानस्य प्रसङ्गलेशाभावात् ; ईट्छब्द- निर्दिष्टस्यात्मन एकस्यैव सकलेतरातिशायिशक्तिमत्त्वस्वेतरचेतनाचेतनलक्षणसर्ववस्वन्तरात्मत्वादिप्र तिपादनेनान्यस्यात्मनः कस्यापि तथाविधाकारासम्भवाच॥ २०॥ न च आत्मतत्त्वस्यैकत्वेन तस्यैव स्वस्मिन् परेषु च वर्तमानत्वात्तस्यैवेदछन्दवाच्यात्मरूपत्वाचात्मभेदाभावेन मुमुक्षोर्ब्रह्मविदस्स्वात्म- स्वरूपे सर्वभूतशब्दिताव्यक्तादिस्थावरान्ताचेतनभागान्तर्वतित्वमानलक्षणसर्वभूतान्तरात्मत्वाकारानुस न्धानमिहाभिधीयत इति नात्र विरोध इति वाच्यम् , ईट्छब्देनेश्वरत्वेन कस्यचिदात्मनो निर्देशेना. न्यस्य कृत्स्नस्य जगत ईशितव्यत्वसिद्धेरीशितव्यान्तर्गतेतरात्मनामीदछब्दवाच्यात्मशासनानुवर्तनविधा. नाच पूर्वमात्मभेदस्यैवास्मिन् प्रकरणे सुव्यक्तं प्रतिपादनदर्शनादात्मैक्यप्रतिपादनगन्धानुपलम्भाच॥ २१ ॥ एतेनैतदनुसारिमहीधरादिव्याख्यानमपि निरस्तं वेदितव्यम् ॥ २२ ॥ तस्माद्ययोक्तरीत्यैवार्थों बोथ्यः ॥ २३ ॥ इति षष्ठमन्त्रव्याख्यानम् ॥ ६॥ पूर्वमन्त्रोक्तमेव जगतो ब्रह्मात्मकत्वं तदनुसन्धानफलश्च पुनर्भङ्गयन्तरेण निर्दिश्य दृदीकरोति सप्तमेन मन्त्रण, अनयोरर्थयोस्सकृदभिधानमानेण निश्शकं दुखधरत्वात् ॥ १ ॥ - . ॥
समnpart Namsammanue Far- ईशावास्योपनिषत् [मं-७. वेदिष्टेन मार्गेण शास्त्रेण विविव्य जानतः। आत्मैव सर्वाणि भूतानि अभूत्-परमात्मैव सर्वविशिष्टः प्रतीत इत्यर्थः । 'देवोऽहम्' इत्यादिवल्लोकवेदमर्यादया शरीरात्मभावेन जगद्ब्रह्मसामानाधिकरण्ये सम्भवति बाधोपचारस्वरूपैक्यादिपक्षा बहिष्कार्याः । तत्र तदा, को मोहः - स्वतन्त्रात्मभ्रमादि- लक्षणो मोहो न सम्भवतीत्यर्थः । कश्शोकः-परविभूतिभूते सर्वस्मिन्निर्ममत्वसिद्ध्या पुत्रमरणरा ज्यहरणादावपि न कश्चिच्छोकस्स्यादित्यर्थः । यथाह-अनन्तं बत मे वित्त यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते' इति । एकत्वमनुपश्यतः-सर्वविशिष्टक्यमनुपश्यतः । न ह्ययमेकशब्दः एकव्यतिरिक्ताभाव परः, 'ईशा वास्यमिद सर्वम्' इति ईश्वरव्याप्तत्वेन प्रक्रान्तस्य कू॥वास्यम्' इत्यारभ्य ततो न विजुगुप्सते' इत्येवमन्तेन उपदिष्ट स्वतन्त्रपरतन्त्रवस्तुभेद यथोपदेशं विवि. च्य जानत इत्यर्थः। नन्वेवमत्यन्तभेदाभ्युपगमे सर्वाणि भूतान्यात्मैवाभूत्' इति सामानाधिकरण्यं भज्येते- त्याशङ्कय तन्निर्वाहाय यस्य पृथिवी शरीर' . 'यस्यात्मा शरीरम्'इत्यादिघटकश्रुतिसिद्ध सम्बन्धविशेष माह एकत्वमनुपश्यत इति।आकृतिव्यक्योरिव गुणगुणिनोरिव चात्यन्तभिन्नयोरेव जगब्रह्मणोरेकत्वं विभागानहसम्बन्धविशेष पश्यतः विशदतममनुध्यायत इयर्थः । 'रामसुग्रीवयोरक्यं देव्येवं समजा- यत' इत्यादिष्विव इहाप्येक शब्दस्य सम्बन्धविशेष एवार्थो विवक्षितुं युक्त इति भावः । एवं च सत्याह --सनाणि भूतान्यात्मैवाभूदिति । परमात्मैव सर्वभूतशरीरकः प्रतीतोऽभूदित्यर्थः । तत्र तदा प्रणिधानसमये, को मोहः-स्वतन्त्रात्मभ्रमादिलक्षणो मोहो न सम्भवति । कश्शोका-परमा- श्री|अस्य मन्त्रस्य पदविवरणं-विजानतः शास्त्रतश्शनैशनैस्सर्व तत्त्वं विविच्य जानतः,शास्त्रज- न्यविशुद्धज्ञानपरिपाकविशेषवत इत्यर्थः । मुमुक्षोः, यस्मिन्-दशाविशेषे, आत्मैव-यथोक्तल- भणः परमात्मेव, सर्वाणि - भूतानि • शरीरशरीरिभावरूपापृथक्सिद्धाविशेषणविशेष्यभावलक्षणा विनाभावसम्बन्धन सम्मिलिततया सर्वभूतरूपः। अत्रासन्धिश्छान्दसः। अभूत् निश्चयविषयो भवति, 'छन्दसि लुङ् लडू लिटः॥३॥४॥६॥ इत्यनुशासनेन लडथै लुइ। धात्वर्थसत्ताया निश्चर्यावषयत्वरू- पाया इह विवक्षिततया धातुनाऽयमर्थस्सुलभः । तत्र · तस्मिन् दशाविशेषे, एकत्वं - सर्वभूतैस्सह परमात्मन एकवस्तुत्वं यथोकं सर्वभूतशरीरकत्वमिति यावत्। अनुपश्यतः - सम्यनिध्यायतो मुमु. भोः, मोहः कः - शोकः कः • मोहो वा शोको वा कथं भवति ? न भवत्येवेत्यर्थ इति बोध्यम्।। अत्र मोहः कथंभूतः ? शोको वा कथंभूतः ? सर्वभूतानां परमात्मनश्रेह विवक्षितमेकत्व वा कथंभूतं? तज्ज्ञानेन कथं वा मोहशोकनिवृत्तिर्भवतीति चेदिदमलावधेयम् - मोहोऽन स्वसजातीये- प्वात्मान्तरेषु स्वातन्त्रयेण स्वखेदजनकत्वज्ञानरूपः ॥ १॥ शोकश्चात्र परैस्स्वपरिभवे कृते कथं तूष्णी स्थेयमिति चिन्तया तूष्णीमवस्थानासहिष्णुः परदुःखजननप्रवृत्तिहेतुर्दुःखविशेषः ॥ २ ॥ सर्वभूतानां परमात्मनश्चेह विवक्षतमेकत्वं शरीरशरीरिभावरूपापृथक्सिद्धविशेषणविशेष्यभावलक्षणाविनाभावसम्ब- न्धेन परस्परसम्मिलितैकवस्तुसङ्घातान्तःपातित्वरूपम् ॥ ३ ॥ तच्च सर्वभूतानां नियन्तृतयाऽन्तर्यामि- भूतपरमात्मात्मकत्वरूपमेव ॥ ४ ॥ तसिंश्च निश्चिते परेषु स्वातन्त्रयेण स्वखेदजनकत्वमोहोनिवर्तते 'ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यत्रारूढानि मायया' ॥ गी॥ १८॥ ६१ ॥ इत्युक्तरीत्या नियन्तृतयाऽन्तर्यामिभूतपरमात्मनैव प्रधानभूतेन नियाम्यभूतैरात्मान्तरैस्स्वापरा- धानुगुणफलभोगहेतुरयं दण्डो दाप्यते ; न तु स्वातन्त्रयेण तैरयं क्रियत इति निश्चयात् ॥ ५॥ नि- वृत्ते च तादृशमोहे तदधीनो यथोक्तलक्षणश्शोकोऽपि निवर्तते - अस्मदपराधानुगुणदण्डस्येश्वरेणैव १. भारते. शा. १७-१९॥ २. शतपतमाह्मणे, १४.५.३० ।। ३. रामा. सु. ३५.५१ ॥
मं-७.] भाज्यत्रयोपेता. ३३ वोकस्यचित्केनचिदपि बाधाभावात् , सर्वभेदमिथ्यात्ववेदनावेदनयोः कथञ्चिदपि तादृशैक्योपदेशा- दिप्रवृत्त्ययोगाच्च । न चासौ परस्परविरुद्धानां स्वरूपैक्यप्रतिपादकः, सर्वव्याघातोत्सादने स्वपरमत- विवेकादिविप्लवप्रसङ्गात् । विशिष्टैकत्वविवक्षा तु सर्वप्रमाणानुगुण्याद्भाव्यते । ततोऽपि परमन प्रकृत- सामानाधिकरण्यनिर्वाहानुगुणसम्बन्धविवक्षा प्रयुज्यते । न हि सम्बन्धविशेषविवक्षया 'रामसुग्रीव. योरैक्यम्'इत्यादिष्वेकशब्दः । एतौ च श्लोकौ यद्यपि मुक्तविषयतया नेतुं शक्यौ, तथापि, पूर्वानुगु- ण्यान्नुमुक्षुप्रशसार्थत्वमुचितम् । ततश्च वैशद्यातिशयविवश्वया शास्त्रजन्यज्ञानेन तन्मूलोपासनात्मकज्ञा- नेन दर्शनवाचोयुक्तिः । समाधिविशेषफलभूतस्त्वद्यतनसाक्षात्कार उपायत्वेनाभिहितत्वान्नात्र संशय- नीयः।मोक्षोपायोपदेशपरेषु सर्वेषु वाक्येषु दर्शनशब्द उपासनविषय इति शारीरकभाष्ये प्रत्यपादि॥७॥ कात्मविभूतितयावगते सर्वस्मिन्निर्ममत्वसिळ्या पुत्रमरणराज्यहरणादरपि न कश्चिच्छोकस्स्यादित्यर्थः। यथाह-'अनन्त बत में वित्तं यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीतायां न मे किञ्चित्प्रदह्यते' इति । अत्र केचित् 'सर्वाणि भूतान्यात्मैवाभूत् इति बाधाथै सामानाधिकरण्यं, तथा चात्मैव सर्वाणि भूतानि,आत्मव्यतिरिक्तानि सर्वाणि न सन्तीत्यर्थः,यथा 'चोरः स्थाणुः' इति; 'स्थाणुरेवायं चोरः' इति हि तस्यार्थः। तथेहापीत्याहुः। अन्ये तु 'नरपतिरेव सर्वे लोकाः' इतिवदौपचारिकमिदं सामानाधिक - रण्यं, 'नरपत्यधीनास्सर्वे जनाः' इति हि तत्र निर्वाहः, तद्वदिहापि परमात्माधीनानि सर्वाणि भूतानीति भावं वर्णयन्ति। अपरे तु 'घटशरावादयस्सर्वे मृत्पिण्ड एव' इतिवत् जगह्मणोरेकद्रव्यत्व परिकल्प्यैवेदं सामानाधिकरण्यं निर्वाह्यमित्याचक्षते । सिद्धान्तस्तु-'देवोऽहं मनुष्योऽहम्' इत्यादिवच्छरीरात्मभा- वसम्बन्धेनैव जगद्ब्रह्मसामानाधिकरण्यनिर्वाहे सम्भवति सति बाधोपचारस्वरूपैक्यपक्षा वैदिकैबहि- कार्या:-इति ॥७॥ श्रीकरस्थानीयैरन्यैः कार्यमाणतया न तेषु कश्चिदपराध इति चित्तसमाधिसम्भवात्॥६॥ इत्थं समा- हितचित्तस्य तेषु प्रतिक्रियाकरणप्रवृत्तिरपि निवर्तत इति ॥ ३ ॥ गीताभाष्ये 'निर्वैरस्सर्वभूतेषु' । ११ ॥ ५५ ॥ 'अद्वेष्टा सर्वभूतानाम् ॥ १२ ॥ १३ ॥ इत्यादिवचनव्याख्यानावसरे भाष्यकारैरपी- दृशानुसन्धानेनैव स्वापकारिपरप्रतिक्रियाप्रवृत्तिनिवृत्तिसिद्धिर्मुमुक्षोः प्रतिपादिता॥४॥ यथोक्तं तत्र ख- दुःखस्य स्वापराधनिमित्तत्वानुसन्धानात्सर्वभूतानां परमपुरुषपरतत्रत्वानुसन्धानाच सर्वभूतेषु वैरनिमि- त्ताभावात्तेषु निर्वैरः' इति 'अद्वेष्टा सर्वभूतानां' 'द्विषतामपकुर्वतामपि सर्वेषां भूतानामद्वेष्टा - मद - पराधानुगुणमीश्वरप्रेरितान्येतानि भूतानि द्विषन्त्यपकुर्वन्ति चेत्यनुसन्दधानः' इति च ॥ ५ ॥ सर्वस्य जगत इत्थं ब्रह्मात्मकत्वलक्षणैक्यज्ञानस्येदृशानुसन्धानद्वारा मोहशोकनिवृत्तिलक्षणशान्तिहेतुत्वादेव 'सर्वं खल्विदं ब्रह्म तजलानिति शान्त उपासीत' ॥ छां ॥ ३ ॥ १४॥ १ ॥ इति श्रुतिरपि जगतो ब्रह्मात्मकत्वानुसन्धानस्य शान्तिहेतुत्वमाह ॥ ६॥ शान्तिश्च दर्शितमोहशोकनिवृत्तिरेव ॥ ७ ॥ 'आत्मैव सर्वाणि भूतान्यभूत्' इत्यत्र सामानाधिकरण्यविवक्षितमैक्यं न स्वरूपैक्यरूपं, जडाजडयोस्व- रूपैक्यासम्भवात् ; स्वरूपैक्यस्यैवाभिमतत्वे पूर्वमन्ने सर्वभूतानामात्मवृत्तित्वस्य आत्मनस्सर्वभूतान्त- व्याप्तत्वस्य चाभिधानेन तद्विरोधाच ॥ ८॥ स्वरूपैक्यलक्षणात्यन्ताभेदे सति आधाराधेयभावोऽपि हि न सम्भवति, आत्माश्रयदोषप्रसङ्गात् ॥ ९॥ न हि घटादयः पदार्थास्वस्मिन्नेवावस्थातुं शक्नुव- न्ति ॥ १०॥ अपि तु सर्वाणि भूतान्यन्तः प्रविश्यापृथक्सिद्धाविशेषणविशेष्यभावलक्षणसम्बन्धविशे- षेण तद्विशिष्टस्वरूपमेवैकत्वमिहात्मनो विवक्षितम् ॥ ११॥ तथा सत्येव विशिष्टवेषेणैकत्वस्य स्वरूप- १. रामा. सु. ३५-५२ ॥ २. भारते. शा. १७-१९॥
ईशावास्योपनिषत् [म.७. श्री॥भेदसत्वेनाधाराधेयभावस्य च द्वनोरंशयोमन्त्रद्वयाभिहितयोरुपपत्तिस्सम्भवति॥ १२ ॥ ईदृशैक्येन हेतुना लोकवेदयोस्सामानाधिकरण्यनिर्देशो हि समन्ततः प्रसिद्धः।। १३ ॥ लोके 'देवोऽहम्, मनुष्यो- ऽहम्,स्थूलोऽहम्,कृशोऽहम्' इत्यादिसामानाधिकरण्यनिर्देशेष्वपृथक्सिद्धविशेषणविशेष्यभावसम्बन्धे- न देहविशिष्टत्वनिबन्धनमैक्यमेव निमित्तं दृश्यते, देहात्मनोस्स्वरूपभेदं जानद्भिरपि तथा निर्देशक- रणदर्शनेन तेषां केवलभ्रान्तवाक्यताया दुर्वचत्वात् ।। १४ ॥ वेदेऽपि तैत्तिरीयकोपनिषद्यानन्दव. ल्ल्यां षष्ठानुवाके 'तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुपविश्य । सच्च त्यचाभवत्' इति निर्देशन, प. प्रश्ने नारायणे दशमे नारायणानुवाके यच्च किञ्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायण स्थितः' इति निदशपूर्वक ‘स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्वराद' इति निर्देशेन तत्रव पञ्चाशानुवाके 'येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षञ्च द्याश्च दिशश्चावान्तर- दिशाश्च स वै सर्वमिदं जगत् । स च भूतं स च भव्यम्' इति निर्देशेन चान्तःप्रविश्य व्यालेस्सामा- नाधिकरण्यनिर्देशहेतुताऽवगम्यते ॥ १५ ॥ गीताखेकादशाध्याये सर्वान्तःप्रविष्ट भगवत्स्वरूपं भग- वदत्तदिव्यचक्षुषा यथावत्साक्षात्कृत्य 'सर्व समाप्नोषि ततोऽसि सर्वः ॥ ११॥ ४० ॥ इति वदता. ऽर्जुनेन च परमात्मनस्सर्वजगत्सामानाधिकरण्येन निर्देशस्य सर्वजगदन्तरात्मतयाऽवस्थाननिबन्धनमे- कसङ्घातान्तःपातित्वरूपं विशिष्टवस्त्वैक्यमेव हेतुः ; न तु स्वरूपैक्यमिति प्रस्फुटमेवामिहितम्॥ १६॥ यत्पुनरत्र शाङ्करं व्याख्यानम्--पूर्वमन्त्रोक्तमेवार्थमयम्मन्न आह-विजानतः परमार्थवस्तु विजानतः, यस्मिन् - काले - यथोक्तात्मान वा, आत्मेव, सर्वाणि भूतानि - पूर्वोक्तान्येवाव्यक्तादि. स्थावरान्तभूतानि, अभूत् - संवृत्तः, एकत्वम् - आत्मैकत्वम् , अनुपश्यतः, तत्र-तस्मिन्काले तस्मि- नात्मनि वा, कश्शोकः, को मोहः । अनेन शोकमोहयोरविद्याकार्ययोरसम्भवप्रदर्शनेन सकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति' इति ॥ १७॥ तदसमञ्जसम् , अत्र विवक्षितस्यार्यस्या- नुवर्तमानप्रकरणविरुद्धत्वादप्रामाणिकत्वात् , शब्देन कथञ्चिदप्यलाभात् . विवेचनासहत्वात् , संसा. रात्यन्तोच्छेदहेतुत्वासम्भवाच ॥ १८ ॥ इदं तावदन प्रष्टव्यं ; कस्तावदर्थोऽत्र भवतो विवक्षित इति ॥ १९ ॥ 'आत्मैक एव परमार्थः अन्यत्सम्मिथ्या' इत्येवंरूपेणात्मैकत्वविज्ञानेन ससारनिश्शे- षनिवृत्तिर्भवतीत्ययमेवार्थ इति चेन्न, 'इंशावास्यम्' इत्यारभ्य पूर्वमन्त्रपर्यन्तग्रन्थे, प्रथममीदछब्देनेश्व- रत्वेन कश्चिदात्मानं निर्दिश्य तदितरस्य कृत्स्नस्य चेतनाचेतनात्मकस्य जगतस्तदीशितव्यरूपतां ज्ञापयि- त्वा पश्चात्तदीशितव्यजगदन्तगतस्य चेतनजातस्य तदाज्ञापरिपालननैयत्यञ्च विधाय, ईश्वरत्वेन नि- दिष्टस्यात्मनस्खेतरसर्वचेतनातिशायिशक्तिमत्वञ्च निरूप्य तत एव तस्येश्वरत्यसिद्धिञ्च ज्ञापयति सति, प्रस्फुटमीशेशितव्यभावेन परमात्मनस्तदितरस्य चेतनाचेतनात्मकस्य कृत्स्नस्य जगतश्च सत्यतां भेदञ्च प्रतिपादयताऽनेन प्रकरणेन विरुद्धत्वात्॥ २०॥ न चेदृशोऽर्थः क्वाप्यनन्यथासिद्धेन प्रमाणेन प्रतिप. द्यते ॥ २१॥ न च शब्देन वाऽत्रायमर्थों लभ्यते । 'आत्मैक एव परमार्थः' इति परमार्थशब्दध- टितस्यात्मकपारमार्थ्यप्रतिपादकस्य वा, अन्यत्सर्वम्मिथ्या' इति मिथ्याशब्दघटितस्येतरमिथ्यास्वप्रति- पादकस्य वा वाक्यस्यानानुपलम्भात् ॥ २२ ॥ न च 'आत्मैव सर्वाणि भूतान्यभूत्' इति निर्देशेनैव आत्मन एव सत्यत्वम्, अन्येषां सर्वभूतानाम्मिथ्यात्वश्च लभ्यत इति वाच्यम्:समानाधिकरणपदद्वय- निर्देशेन पदद्वयप्रतिपन्नयोरर्थयोरेक्यस्यैव लाभेन तत्रैकपदप्रतिपन्नार्थस्य सत्यताया अपरपदप्रतिपन्ना-) यस्यासत्यतायाश्च कथञ्चिदप्यलाभात् ; 'मिनप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नथें वृत्तिस्सामाना- १. 'तत्पुरुषसमानाधिकरणः कर्मधारयः॥१॥ कमादाय कैयटे 'मिन्नप्रवृत्तिनिमित्तप्रयुक्तस्थानेकस्य २॥ ४२ ।। अत्र 'समासैकार्थत्वादिति भावप्रती- शब्दस्सैकस्मिन्नर्थे वृत्तिस्सामाधिकरण्य मुच्यते इत्यस्तिता - 4-6.] भाज्यत्रयोपेतां. श्री॥धिकरण्यम्' इति वदद्भिश्शाब्दिकैरपि नानापदप्रतिपन्ना नामैक्यप्रतिपत्ते रेव समानाधिकरणश- ब्दनिर्देशायत्ततायाः प्रतिपादनात् , सामानाधिकरण्यस्य टैक्य एव तात्पर्यमिति सर्वसम्मतमिति समा- नाधिकरणनिर्देशस्य पदद्वयप्रतिपन्नाथयो रैक्य एव तात्पर्यमङ्गीकुर्वाणैर्भवद्भिरपि तत्त्वमसि' इत्यादौ तत्त्वंपदप्रतिपन्नयोरर्थयो क्यप्रतिपादनाङ्गीकारणेह सामानाधिकरण्यस्यान्यार्थपरताकथनायोगाच॥२३॥ एवमत्र 'पूर्वमन्त्रोक्तमर्थमेवायमपि मन्त्र आहे' इति वदद्भिर्भवद्भिः,सर्वभूतानामात्मेतरावृत्तित्वविशि- ष्टात्मवृत्तित्वे,आत्मनस्सर्वभूतवृत्तित्वेच,आधारधेियसर्वपदार्थसत्यतामङ्गीकृत्यैव पूर्वमन्त्रेण प्रतिपाद्यमाने, आत्मन एकस्यैव परमार्थत्वमन्यस्य कृत्स्नस्य मिथ्यात्वञ्च प्रतिपादयत्ययम्मन्त्र इति कथन्नु वा वक्तुं शक्यम्॥२४॥आत्मव्यतिरिक्तानि सर्वभूतानि न पश्यतीति भवदुक्तार्थपरत्वं पूर्वमन्त्रस्य न कथञ्चिदपि सम्भवतीति तु प्रागेवावोचाम॥२५॥न च रज्जुसर्पभ्रमवता स्थाणुचोरभ्रमवता च भ्रमनिवृत्यनन्तरं भ्र- मस्थले सर्पचोराभावज्ञापनतात्पर्येण प्रयुक्तयोः इह रज्जुस्सर्पः, इह स्थाणुश्चौरः' इति वाक्ययोरज्जुस्था- णुसत्यत्वसर्पचोराभावप्रतिपादनपरत्वदर्शनाद्वाधार्थमपि सामानाधिकरण्यमस्ति।तद्वदिदमपि सामाना- धिकरण्यं सर्वभूतानामभावप्रतिपादनमुखेनासत्यतामात्मसत्यताञ्च प्रतिपादयितु क्षमत इति वाच्यम् , नानापदप्रतिपन्नाथेंक्यप्रतिपादकत्वस्यैव सामानाधिकरण्यलक्षणरूपतायाः प्रागेवोक्तत्वात् , सामाना- धिकरण्यनिर्देशेषु सर्वत्र नानापदप्रतिपन्नाथेंक्यप्रतिपत्तेरेव सर्वांनुभवसिद्धत्वाच्च सामानाधिकरण्यस्य बाधार्थकताया अप्रामाणिकत्वात् , दर्शितसामानाधिकरण्यनिर्देशयोरपि तात्पर्यवशेनावधारणगर्भत्वेन, 'इह रज्जुरेव सर्पः, इह स्थाणुरेव चोरः' इत्येवंरूपयोस्सपैचोरशब्दाम्या स्वारसिकलक्षणया सर्पचो- रप्रतीतिविषयपराभ्यां रज्जुस्थाणुरूपाधिष्ठानयोस्सर्पचोरप्रतीतिविषयैक्यप्रतिपत्तेः एवकारबलेनैवेतरव्य- वच्छेदप्रतिपत्तेश्च दर्शनेन सामानाधिकरण्यनिर्देशस्य बाधार्थत्वादर्शनाच ॥ २६ ॥ सामानाधिकर- ण्यस्य बाधार्थत्ववादिन इदं तावत्प्रष्टव्याः,-दर्शितनिर्देशयोस्सर्पचोरशब्दयोः कोऽर्थ:-इति॥२७॥ सर्पत्वचोरवयोर्वा सर्पचोरयोर्वाऽभाववन्तावर्थ इति चेत्॥ २८॥ कि तत्र शक्तिः-उत निरूढलक्षणा॥ २९ ॥ पक्षद्वयमप्यसङ्गतम् , तथा सति 'घटस्सर्पः, पटस्सर्पः, घटश्चोरः, पटश्चोरः' इत्यादेः प्रयो- गस्य सर्वत्रैव स्वरसतस्सम्भवापत्तेः॥ ३० ॥ अस्माकं तु स्थलविशेषेष्वेव पूर्वोत्पन्नभ्रान्त्यनुरोधेन स्वा- रसिकलक्षणाबलेनैव ययोक्तरीत्या 'इह रज्जुस्सर्पः' 'इह स्थाणुश्चोरः' इत्यादिस्वारसिकप्रयोग- सम्भवात् , अन्यत्र तथाविधभ्रान्त्यभावेनैव दर्शितविरुद्धप्रयोगासम्भवाच्च न दोषः ॥ ३१ ॥ त- स्मात्सामानाधिकरण्यस्य बाधार्थत्वमेवाप्रामाणिकम् ॥ ३२॥ अपि च - इह सामानाधिकरण्यस्य बाधार्थत्वस्वीकारेऽपि वा - परमात्मनि सर्वभूतत्वाद्यभावप्रतिपादनमात्रेण सर्वभूतानामेवासद्भावो मिथ्यात्व, परमात्मन एकस्य परं परमार्थत्वम् - इत्येते अंशाः कथमिव प्रतीयेरन् ? ॥ ३३ ॥ न हि रज्ज्वादौ सर्पत्वाद्यभावप्रतीतिमात्रेण सर्पादिपदार्थस्यैव क्वाप्यसद्भावम्मिथ्यात्वं रज्ज्वादिमात्रस्य स- त्यत्वञ्च, 'इह रज्जुस्सपः' 'इह स्थाणुश्चोरः' इत्यादिनिर्देशात्कश्चित्प्रत्येति ॥ ३४ ॥ प्रत्युत पूर्वमन्त्रे सर्वभूतानां परमात्मनि वृत्तरेव प्रतिपन्नतया तद्विरोधेन नास्मिन्मन्ने सामानाधिकरण्यनिर्देशेन तदसत्य- त्वं कश्चित्प्रतीयात् ॥ ३५ ॥ एतेन भवन्मतेऽपि, 'इह रज्जुस्सर्पः' 'इह स्थाणुश्चोरः' इत्यादौ र. ज्ज्वादीनां सर्पादिधीविषयैक्यप्रतीतिरूपशाब्दबोधे सर्पाद्यभावभानाभावेऽप्युदीच्यमानसबोधे वा सर्पाद्यभावभानस्वीकारेण तद्वदेवेहापि 'आत्मैव सर्वाणि भूतान्यभूत्' इति सामानाधिकरण्यनिर्देश- बशादुदीच्यमानसबोधेवाऽऽत्मनि सर्वभूताभावभावन दुरिमिति शङ्काऽपि दूरोत्सारिता । किञ्चि- देशविशेषकालविशेषावच्छेदेन भूताभावज्ञानमात्रेणावेषु देशकाले । तदभावनिश्चयासिङ्ख्या १. छा. उप. ६-८-७ ।। -
ईशावास्योपनिषत्
[मं-८.
स पर्यगाच्छुक्रमकायमवणमस्त्राविर शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूस्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्यः।।८
वे॥पुनरप्येनम् ईशेशितव्यतत्त्ववेदिनं वेदितव्यविशेषबोधनेन च विशिनष्टि-सपर्यगात् समाभ्यः
॥पुनरप्येनमीशेशितव्यतत्त्ववेदिनं वेदितव्येश्वरस्वरूपशोधनेन च विशिषन् ध्यानयोगादिकम-
प्युपदिशति-सपर्यगादिति । सः सर्वभूतान्तरात्मभूतब्रह्मदर्शी, पर्यगात् - पर्यगच्छत् , प्राप्नु-
श्री॥ भवदभिमततन्मिथ्यात्वात्मकपरमार्थत्वयोरसिद्धः,प्रतियोग्यप्रसिद्धावभावप्रतीतेः क्वाप्युदयादर्श-
नेन क्वचित्प्रसिद्धस्यैवान्यत्राभावज्ञानोदयस्य वक्तव्यतया सर्वेषु देशकालेषु कस्यापि वस्तुनोऽभावज्ञान-
स्य क्वाप्युदयासम्भवात; 'इह रज्जुस्सर्पः' 'इह स्थाणुश्चोरः' इत्यादिदृष्टान्तभूतवाक्यादपि पूर्वसञ्जात-
सर्पचोरभ्रमस्थल एव तदभावप्रतीतेरन्यत्र तदभावाप्रतीतेश्च सर्वानुभवसाक्षिकत्वाच ॥ ३६॥ एव-
मात्मन एकत्वज्ञानात्सर्वसंसारबन्धगन्धनिवृत्तिपर्यवसन्नमोहशोकनिवृत्तिसिद्ध्यभिधानमप्यसमञ्जसम् -
क्वचिदपीदृशैकत्वज्ञानमात्रेण दर्शितलक्षणमोहशोकनिवृत्त्यदर्शनेन तस्य तन्निवृत्तिप्रयोजकताया एवा-
सम्भवात् ।। ३७॥ एवं भवदमिमतमात्मन एकत्वं किरूपमिति विवेचयामः ॥ ३८॥ न तावदे-
कत्वसङ्खथारूपं तत् - तस्य सर्वसाधारणत्वेन भवदभिमतवस्त्वन्तरसद्भावव्यावर्तकत्वायोगात्; तज्ज्ञा-
नस्य भवदभिमतमोहशोकनिवृत्तिप्रयोजकत्वसम्भावनागन्धानहत्वाच ॥ ३९॥ नापि द्वैतशून्यत्वरूप
तत्-द्वैतस्य प्रसिद्धौ तदभावस्यात्मन्यसम्भवात् ; अप्रसिद्धौ च प्रतियोग्यप्रसिद्ध्या सुतरामेव तद-
भावासम्भवाच ॥ ४० ॥ न हि खलु क्वचिदप्यप्रसिद्धस्य कस्यचिद्वस्तुनोऽभावं क्वचित्कश्चित्पश्यन्
दृश्यते ॥४१॥ पश्यति च - 'तत्र स्थितमिदं वस्त्विह नास्ति । अत्र स्थितमिद वस्तु तत्र नास्ति'
इत्येव च ॥ ४२ ॥ एवम् 'आत्मन्यात्मैव सर्वाणि भूतान्यभूत्' इति या योजना कृता , सा चात्य-
न्तासम्बद्धा, आत्माश्रयदोषप्रसङ्गेनात्मन आत्माधारवायोगात् ॥ ४३ ॥ तस्मात्सर्वथैवासंबद्धं शाङ्क-
रव्याख्यानमिति सिद्धम् ॥ ४४ ॥ एवं घटशरावादीनाम्मृत्पिण्डस्य चैक्यवजगद्ब्रह्मणोस्स्वरूपैक्यमा-
श्रित्य कैश्चिक्रियमाणस्सामानाधिकरण्यनिर्वाहोऽप्यसमञ्जस एव, विकारादिसर्वदोषरहितत्वेन सर्व-
तश्चतिस्मृत्यादिप्रमाणप्रतिपन्नस्य ब्रह्मणस्सर्वदोषाकरत्वप्रसङ्गात् ॥ ४५ ॥ 'राजेव प्रजाः' इतिवत्,
'आत्मैव सर्वाणि भूतानि' इत्यपि सामानाधिकरण्यनिर्देशस्तादधीन्यमात्रतात्पर्येणौपचारिक इति नि-
वाहोऽप्ययुक्तः, मुख्यवृत्यैव निर्वाहे सम्भवत्युपचाराश्रयणायोगात्॥४६॥सिद्धान्ते तु 'सेयं देवतैक्षत
हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि ॥ ६ ॥ ३ ॥ २ ॥
इति 'सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् ॥ ६ ॥३॥३॥
इति च च्छान्दोग्यश्रुत्या परेण ब्रह्मणा स्वात्मकजीवस्वरूपेणाचित्तत्त्वानुप्रवेशं कृत्वा तत्तद्वस्तूनां नामानि
रूपाणि च करवाणीति सङ्कल्पपूर्वकमचित्तत्त्वविशिष्टजीवविशिष्ट स्वखरूपपर्यन्तसङ्घातात्मकानां तत्त-
स्तूना नामरूपव्याकरणप्रतिपादनात् , प्रागुदाहृतश्रुत्यन्तरैरपि सर्वभूतेषु परमात्मानुप्रवेशस्य तेषां
परमात्मनश्च सामानाधिकरण्यव्यपदेशहेतुताप्रतिपादनाच, सर्वभूतवाचिशब्दानां तद्विशिष्टे शक्तेरेव
सद्भावोपगमेन 'आत्मैव सर्वाणि भूतान्यभूत्' इति सामानाधिकरण्यनिर्देशो मुख्य एव निर्वहति ।।
४७ ॥ नापि च सर्वभूतविशिष्टैक्यस्य ततः प्रतीयमानस्य परमात्मनि बाधः ॥४८॥ तादशैक्यमेव
च 'एकत्वमनुपश्यतः' इत्यत्रैकत्वशब्देनापि विवक्षितम् ॥ ४९ ॥ अतस्सर्वे समञ्जसम् ॥ ५॥
ईति सप्तममन्नव्याख्यानम् ॥७॥
३७ मं...] भाज्यत्रयोपेता. वाइति।सः सर्वभूतान्तरात्मभूतब्रह्मदर्शी,पर्यगात्-प्राप्नुयादित्यर्थः। ब्रह्मविदाप्नोतिपरम्' इति न्याया- समाधिलब्धेनानुभवेन प्राप्तवानिति सिद्धानुवादो वा, अत्र ब्रह्म समश्नुते' इतिवत्।शुक्रम्-अवकाशप्र- दातृरूपम्।अकायं-सर्वशरीरकमपि कर्मशरीररहितम् । अतएव-अव्रणम्-अनाविरञ्च। शुद्धम्- कायादित्यर्थः, 'ब्रह्मविदाप्नोति परम्' इति न्यायात्। यद्वा-समाधिलब्धेनानुभवेन उपलब्धवानिति सिद्धानुवादः। अत्र ब्रह्म समश्नुते' इति वत्। शुक्रम् - अवदातं, स्वप्रकाशरूपमित्यर्थः । अकार्य- सर्वशरीरकमपि कर्मकृतहेयशरीररहितमित्यर्थः । न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्भवा' श्री॥जगद्ब्रह्मणोरीशेशितव्यभावं ब्रह्मणस्सकलजगदन्तरात्मत्वं सकलेतरातिशायिशक्तिमत्वञ्च पूर्वो- तरीत्या नानतो मुमुक्षोः पुनरपि तादृशज्ञानस्य ब्रह्मप्राप्त्यादिलक्षणफलप्रतिपादनेनावश्यकताम् , अन्येषामप्यवश्यानुसन्धेयानां ब्रह्मगतानामाकाराणामनुसन्धानार्थे तानाकोरांश्च दर्शयत्यष्टमेन मन्त्रेण ॥ अस्य पदविवरणम्--सा-पूर्वोक्तलक्षणसर्वभूतान्तरत्वादिपरमात्मप्रत्यगात्माद्याकारपरिज्ञानवा- न्मुमुक्षुः, अपापविद्धं पापैः-सुकृतदुष्कृतलक्षणैः कर्मभिः, विद्धम् - व्याप्त न भवतीति तथोक्तम्, अपहतपाप्मतया कर्मवश्यतागन्धरहितमित्यर्थः । अत एव शुद्धं - सुखदुःखरूपकर्मफलभोगहेतुरहि- तम् , अत एव - अकायं - सर्वशरीरमायशरीरम् , अत्राशरीरत्व - न सामान्यतश्शरीरशून्यत्वं, ना- पि प्राकृतशरीरशून्यत्वं यस्य सर्वाणि भूतानि शरीरं' 'जगत्सर्व शरीरं ते' इत्यादिश्रुतिस्मृतिभिर्ब- मणः प्राकृताप्राकृतसर्वतत्त्वशरीरत्वप्रतिपत्तेः, नापि कर्माधीनशरीरशून्यत्व-कर्माधीनसंसारिशरीरा- णामपि जगदन्तःपातिना दर्शितप्रमाणैरेव ब्रह्मशरीरताप्रतीतेः; अपि तु-स्वप्रयोज्यकर्मफलसुखदुःख- भोगाश्रयत्वसम्बन्धेन शरीरशून्यत्वं,नियमनार्थमन्त प्रविष्टं परं ब्रह्म प्रति प्राकृताप्राकृतसर्वतत्त्वाना शरीररूपत्वेऽपि तदधीनकर्मफलभूतसुखदुःखभोगाश्रयत्वस्य ब्रह्मण्यभावेनैवात्राशरीरत्वनिर्देश इति न विरोधः । अत एव · अवणं - व्रणरहित, व्रणशब्दस्सर्वव्याध्युपलक्षकः, अनापि व्रणरहितत्व - न सम्बन्धान्तरेण-बाधात् ; अपि तु-स्वजन्यदुःखाश्रयत्वसम्बन्धेन व्रणशून्यत्वम् । अस्त्राविरं - सिरा:- 'Bणु-प्रस्रवणे इति धातुना-स्नावयन्ति एकदेशस्थमपि कल्मषं कृत्लशरीरे प्रस्तावयन्तीति व्युत्पत्त्या निष्पन्नस्नावशब्दो नाडीपरः, तैत्तिरीयोपनिषदि शिक्षावल्ल्यां सप्तमानुवाके'चममास स्नावास्थिमजा' इत्यत्र स्नावशब्दस्य नाडीपरतया प्रयोगात् । 'तुन्दादिभ्य इलच' ॥ ५ ॥ २ ॥ ११६ ॥ इति सू- त्रानुसारिणा 'स्वाङ्गाद्विवृद्धौ च' - इति वार्तिकानुशासनेन विवृद्धाः स्लावा अस्मिन् सन्तीति मत्व- थाये लप्रत्यये-रलयोरभेदेन लकारस्थाने रेफे च सति-नाचिरमिति भवति । तन्न भवतीत्यस्लाविर- खप्रसार्यमाणकलुषप्रयोज्यदुःखभोगाश्रयत्वसम्बन्धेन नाडीयुक्तं न भवतीति यावत् । शरीरव्यापिन्यो हि नाडयश्शरीरैकदेशवर्तिनो व्रणादेस्सम्बन्धिदुःखहेतुभूतम्मलं शरीरे प्रदेशान्तरावच्छेदेनापि प्रत्य- गात्मनि सम्बन्धयन्त्यो दुःखं जनयन्ति ; न तु तथा परमात्मान, तद्धेतुकर्माभावादित्यर्थः । अत एव - शुक्र - शुक्लं, रलयोरभेदात् , निष्कलङ्क पर ब्रह्म ; पर्यगात् - परितः प्राप्नोति, सर्वप्राकारणानु- भवति । ब्रह्मविदाप्नोति परम्' इत्युक्तफलनिर्देशोऽयम् । 'छन्दसि लुङ् लङ् लिटः' ॥ ३ ॥ ४ ॥ ६ ॥ इत्यनुशासनेन लडथै लुङ् । एवं - सः - मुमुक्षुब्रमवित् , मनीषी - ययोक्तलक्षणब्रह्मवेदनम - , १. ते. उप. आनन्द, १-१ ॥ २. कठोप, २-६-१४ ।। ३.ते. उप. आनन्द १-१ ।। ४. वाराहे. पु. ७५.४१ । वायुपुराणेच पूर्वखण्डे. ३४-४० ॥ ५. यू. उप. ५.१५॥ ६. श्रीरामायणे. यु. १२०-२७ ॥ ७.ते. उप. आनन्द ॥
, ईशावास्योपनिषत् [मं-८. वे ॥ अनाघ्राताज्ञानादिदोषम् । अपापविद्धम् - अज्ञानादिकार्यकारणभूतपुण्यापुण्यरूपकर्माना- लोढमित्यर्थः । 'न सुकृत न दुष्कृतम्' इत्यारम्य 'सर्वे पाप्मानोऽतो निवर्तन्ते' इति हि निगम्यते । एवमशेषहेयप्रत्यनीकः परमात्मा मुमुक्षोः प्राप्यः प्रापक उपास्यश्च स्यात् । 'सः' इत्युक्तं ब्रह्मविदं स- र्थिदर्शित्वेन विशिनष्टि-कविः कान्तदर्शी । व्यासादिवत्परतत्त्वतद्गुणबोधनानुगुणप्रबन्धनिर्मातेति वार्थः । मनस ईशित्री बुद्धिः मनीषा, तद्वान्-मनीषी । अभ्यासवैराग्याभ्यां निगृहीतान्तःकरण कू।।इति हेयशरीरस्यैवान्यत्र प्रतिषेधदर्शनात् ,न तु दिव्यमङ्गलविग्रहरहितमित्यर्थः। यत्ते रूपं कल्या- णतमं तत्ते पश्यामि' 'य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' 'आदित्यवर्ण तमसः परस्तात्' इत्याद्युपनिषत्प्रसिद्धस्य अप्राकृतदिव्यविग्रहस्येह निषेधायोगादिति भावः । अवणं-कर्मायत्तशरीराभा- वादेवाक्षतम्, अनाविरं-स्नायुः सिरा यस्मिन्विद्यते तत् नाविरं, नाविरं न भवतीत्यस्नाविरम्, शुद्धम् अनाघ्राताज्ञानादिदोषगन्धम् अशनायादिषमिरहितं च, अपापविद्धम्-अज्ञानादेः कार्यभूतैः कारणभूतैश्च पुण्यपापरूपकर्मभिरनालीदमित्यर्थः । 'न शोको न सुकृतं न दुष्कृतम्' इत्यारभ्य 'सर्वे पाप्मानोऽतो निवर्तन्ते' इति पापशब्देनोपसंहारदर्शनात् स्वर्गादिहेतुभूतपुण्यविशेषस्यापीह पापशब्दे. न सङ्ग्रहणमिति भावः। एवमशेषहेयप्रत्यनीक परमात्मानं स विद्वान्पर्यगादिति पूर्वेण सम्बन्धः । एवं. रूपः परमात्मा प्राप्यः प्रापक उपास्यश्च यस्य तं ब्रह्मविदं विशिनष्टि-कविः-व्यासादिवत्परमपुरुष- तत्स्वरूपतद्विभूतितत्कल्याणगुणादिप्रकाशकप्रबन्धरूपाणां निर्मातेत्यर्थः । अथवा कविः-कान्तदर्शी, योगाभ्यासविधुरमनसा दुर्दशें परिशुद्धजीवात्मस्वरूपे अतिविशदाविच्छिन्नधारास्मृतिरूपज्ञानयोगनिष्ठ इत्यर्थः । कर्मयोगस्तु 'कुर्वन्नेवेह कर्माणि' इति श्लोकेन पुरस्तादेवोक्तः। अथ ज्ञानयोगसाध्यं प्रत्य- श्री॥हिना निरतिशयबुद्धिमान, अत एव कवि:- कवयिता,स्वावगततत्त्वार्थानामन्येभ्योऽपि ज्ञापनाय ग्रन्थग्रथनेऽपि कुशलः, अत एव - परिभूः - विपरीतार्थवादिनः परिभवतीति परिभूः, कुमतिवि- रुद्धवादनिरसनकुशलः,अत एव-वयंभूः- स्वयभवतीति स्वयंभूः-स्वयं सत्तावानेव सन्–'असन्नेव स भवति। असद्देति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः॥ ॥२॥६॥१॥इति श्रुत्यु- तपरावरतत्त्वयाथात्म्यज्ञानलक्षणा सत्तां कुमतिविरुद्धवादाविचाल्यामेव स्वयं भजमानस्सन्नित्यर्थः। शा. श्वतीभ्यस्लमाभ्यः-चतुर्थ्यन्तमिदम्। बहुभ्यस्संवत्सरेभ्यः,भाविसुचिरकालोपयोगायेत्यर्थः । अर्थात् परमपुरुषार्थहेतुशास्त्रार्थान्, याथातथ्यतः - यथातथाभाव'-याथातथ्यं,ततः वस्तुतो यथाभूताश्शास्त्रा- थांस्तथात्वेनैव • पारमार्थिकाकारेणैव, न तु कुमतिपरिगृहीतीवपरीताकारेणेति यावत् । व्यदधात्- खकृतग्रन्थैर्लोकेभ्यो विदधाति, ज्ञातव्यत्वेनोपादेयत्वेन च प्रतिपादनलक्षणं विधानमिह विपूर्वकदधा- त्यर्थः । प्रसिद्धो ह्ययमंशो ब्रह्ममीमांसातद्वत्त्यादिग्रन्थकृत्सु भगवद्वादरायणबोधायनादिषु ब्रह्मविदने- सरेषु महात्मसु । अत्रापि पूर्ववल्लडथे लङ्क-इति ॥ २ ॥ तथा च - खोजीवनपरोजीव हेतुतया यथोक्तलक्षणं परावरतत्त्वयाथात्म्यज्ञानं मुमुक्षोर्ब्रह्मविदोऽवश्यमुपादेयमिति भावः ॥ ३ ॥ यद्वा-'सः' इत्यादि प्रथमान्तं सर्वे परमात्मपरं,द्वितीयान्तं सर्व प्रकृतिविनिर्मुक्तपरिशुद्धप्रत्यगात्म. खरूपपरमित्यप्यस्य मन्त्रस्य योजना सम्भवति॥४॥ तदानीं तु-शुद्धं प्रकृतिविनिर्मुक्तम्। भतएव-अपा- पविद्धम्-अर्थः प्राग्वत्: विशेषणान्तराणामपि तथा। शुक्र-निष्कलङ्क प्रत्यगात्मानमपि, कवि:- १.छा. उप. ८-४-१॥ २. ईशावा, १६ ॥ ३. छा.उप. १-६-६ ।। ४. श्वेताच, ३-८॥
4-८.] भाज्यत्रयोपेता. ३९ इत्यर्थः । परितो भवतीति परिभूः-विद्यान्तरवतस्सर्वानतिक्रम्य वर्तते । कामक्रोधलोभादीन दुर्ज- यामरातीनभिभवतीति वा । खयम्भूः-अन्यनिरपेक्षसत्ताकः, नित्यात्मस्वरूपदर्शीति यावत् । या- थातथ्यतोऽर्थान्व्यदधात्-परमपुरुषार्थतदुपायतद्विरोधिप्रभृतीन्सर्वान् पदार्थान् यथावद्विविच्य हृदयेन धृतवान् । शाश्वतीभ्यस्समाभ्यः-यावब्रह्मप्राप्ति सर्वप्रत्यूहशमनार्थमिति भावः । यद्वा- प्रथमान्तञ्च द्वितीयान्तं च पदजातं कमात्परावरात्मविषयतया व्याख्ययम् । तदा 'शुक्रम्' इत्यादिक सर्वोपाधिविनिमुक्तपरिशुद्धजीवपरम् । तमपि च, सः-परमात्मा, पर्यगात् परितो व्याप्य स्थितः । 'कविः' इत्यादिकं सुगमम् । याथातथ्यत इत्यादि। अर्थान् कार्यपदार्थान्, शाश्वतीभ्यस्समाभ्यः-या- वद्विलयमवस्थातुं, याथातथ्यतो व्यदधात् , न पुनरैन्द्रजालिकवत्केवलं प्रकाशितवान् ॥ ८ ॥ कूागास्मसाक्षात्कारहेतुभूतं जीवात्मयोगमाह-मनीषीति। मनस ईशित्री बुद्धिमनीषा, तद्वान्मनीषी, सौन्दर्यसौशील्यादिभगवद्गणानां स्मृत्यभ्यासन अन्यविषयवैराग्येण च निगृहीतान्तःकरण इत्यर्थः तथा च गोयते---'असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन च कौन्तेय वैराग्येण च गृह्य- त' इति । निरतिशयसुखरूपस्वात्मसाक्षात्काराय खात्मनि मनःप्रणिधानक्रियारूपयोगाभ्यासपर इति भावः । परिभूः कामक्रोधादीन् दुर्जयानरातीन्परिभवतीति परिभूः । अनेन विरोधिनिवृत्तिरूपयो- गाङ्गसेवनमुक्तम् । योगाभ्यासफलमाह-खयम्भूः--अन्यनिरपेक्षमत्ताकः, नित्यनिरतिशयसुखरू पतया स्वात्मदर्शीति यावत् । याथातथ्यतोऽर्थान्व्यदधात्-~-यथावद्विविच्य.अर्थान्-प्रणवार्थान् 'तस्य वाचकः प्रणवः'। 'तेजपसदर्यभावनम्' इति सूत्रोक्तान्. व्यदधात्-हृदयेन धृतवानित्यर्थः । अर्थान्-मोक्षतदुपायतद्विरोधिप्रभृतीन्त्सर्वान्पदार्थान् , शाश्वतीभ्यस्समाभ्यः-यावब्रह्मप्राप्तीत्यर्थः । याथातथ्यतः-यथावत् , व्यदधात्-विविच्य हृदयेन धृतवान् , सर्वप्रत्यूहशमनार्यमिति भावः । अथवा-'शुक्रम् इत्यादिद्वितीयान्तपदजातं परिशुद्धजीवपरम्।तमपि स परमात्मा पयंगात्-परितो व्या प्य स्थित हति प्रथमान्तपदजातं परमात्मपर योजनीयम् । तथा हि - कविः-स्वतस्सर्वदर्शी श्रीपाञ्च- रात्रादिप्रणेता वा, मनीषी-मनःप्रभृतीनां जीवकरणानां नियन्ता, परितो भवतीति परिमूः-सर्व- व्यापी, स्वयमेव भवति उद्भवतीति-स्वयम्भूः 'बहुधा विजायते' इत्यादिप्रसिद्धावतारशालीत्यर्थः । अत्र 'कविः' इत्यादिना कल्याणगुणविधानात् छान्दोग्ये 'ऐष आत्माऽपहतपाप्मा विजरो विमृत्युर्वि- शोको विजिघत्सोऽपिपासः इति हेयगुणान्प्रतिषिध्य 'सत्यकामस्सत्यसङ्कल्पः' इति कल्याणगुणविधाना- च'निर्गुण 'निरञ्जनम् इत्यादिसामान्यनिषेधस्य हेयगुणनिषेधपरत्वं सुगमम्।याथातथ्यत इत्यादि- श्रीसर्वज्ञः, मनीषी-मनसैव सर्वपदार्थसङ्कल्पनशीलः,सहकार्यन्तरापेक्षामन्तरेण सङ्कल्पमात्रेण जग- सृष्टयादिनिर्वहणशील इति यावत् ; परिभूः परितो भवतीति परिभूः - समन्ततो व्यातः, सर्वव्यापक इति यावत् । स्वयंभूः - स्वयं भवतीति स्वयंभूः . अकर्मीयत्तस्वेच्छामात्राधीन- लोकरक्षार्थनानावतार इति यावत् । सः-परमात्मा, पर्यगात्-परितो व्याप्नोति, अन्तर्बहिश्च व्या. मातीत्यर्थः । अपि च - शाश्वतीभ्यस्समाभ्यः - अनादिकालादिति यावत् । अर्थान् सर्वान- प्यर्थान् , याथातथ्यत:-'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ॥ तै ॥ ना ॥ ६ ॥१॥ ३८ ॥ इत्यादिश्रुत्युक्तरीत्या पूर्वपूर्वकल्पानुगुण्येनैव, व्यदधात् सृजति-इति विवरण बोध्यम् ॥ ५ ॥ पर- १.गीता. ६-३५॥ ४ ते.आरण्य पुरुषसूक्तम्।। ५. छा.उप.८ १-५॥ २. पातालयोगसूत्रे. १-२८॥ ६. आत्मोपनिषदि । ३. १-२९॥ ७. श्वे, उप. ६-१९ ।।
ततो भूय इव ईशावास्योपनिषत् [मं-९. अन्धं तमः प्रविशन्ति ये विद्यामुपासते । ते तमो य उ विद्यायाँ रताः ॥ एवं विचित्रशक्तिपरमात्मविषया कर्माङ्गिका विद्यामुपदिश्यानन्तरं केवलकर्मावलम्बिनः केवल- विद्यावलम्बिनश्च निन्दन् वर्णाश्रमधर्मानुगृहीतया विद्ययैव निश्श्रेयसावाप्तिमाह---अन्धं तमः प्रवि- शन्ति येऽविद्यामुपासत इत्यादिना । ये-भोगैश्वर्यप्रसक्ताः, अविधां-कर्म,शानविधुरकर्म- मात्रम् । 'अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते' इति हि स्मयते । उपासते-एकान्तमनसो- ऽनुतिष्ठन्तीत्यर्थः । अन्धम् अतिगाढम् । तमः अज्ञानं, त्रिवर्गाभिषङ्गानान्तरीयकं नारकं तमो वा । केवल कर्मनिरतानां दुःखानुवृत्तिमधीयते चावणिकाः 'प्लेवा ह्येते अदृढा यज्ञरूपा अष्टा. दशक्तिमवर येषु कर्म । एतच्छ्रेयो येऽभिनन्दति मूढाः जरामृत्यू ते पुनरेवापि यन्ति' इति । ततो कृ||अर्थान् कार्यपदार्थान् , शाश्वतीभ्यस्समाभ्यः यावद्विलयमवस्थातुं.याथातथ्यतः यथावत् , व्यदधात् -विविच्य-उत्पादितवान् , न पुनरैन्द्रजालिकवत् केवलं प्रकाशितवानिति भावः ॥ ८॥ एवं विचित्रशक्तिकपरमात्मविषयां कर्मयोगाद्यङ्गिका विद्यामुपदिश्य अनन्तरं त्रिभिश्श्लोकः केवलकर्मावलम्बिनः केवलविद्यावलम्बिनश्च पुरुषान्विनिन्दन्वर्णाश्रमधर्मानुगृहीतया विद्ययैव निश्श्रेय- मावाप्तिमाह--अन्धं तमः प्रविशन्तीति । बृहदारण्यके चायं मन्त्रः पठितः। ये-भोगैश्वर्यप्रस- ताः , अविद्यां विद्यान्यां क्रियां केवल कर्मत्यर्थः । विद्याविधुर कर्मेति यावत् । 'अविद्या कर्मसं- शान्या तृतीया शक्तिरिष्यते' इति स्मृतेः । उपासते-एकान्तमनसोऽनुतिष्ठन्ति , ते अन्धं तमः- अतिगाढ तमः अज्ञानमित्यर्थः । त्रिवर्गाभिषङ्गानान्तरीयं नारकं तमो वा। अधीयते चार्वणिका: 'प्लेवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवर येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू श्री|मात्मनः परिशुद्धप्रत्यगात्मस्वपि व्याप्तत्वमनादिकालाद्यथापूर्वमेव सृष्टयादिकर्तृत्वं चास्यां योजना- यामभिहितं भवति ॥ ६ ॥ लकारव्यत्ययस्तु प्राग्वदेव बोध्यः॥ ७ ॥ इत्यष्टममन्नव्याख्यानम्॥८॥ अयं मन्त्रोऽस्यामुपनिषदि काण्वनवममन्त्रतया माध्यन्दिनद्वादशमन्त्रतया च पठयते ॥ १ ॥ इतःप्राचीनेन भागेन कर्मयोगाङ्गिवां यथोक्तलक्षणशानविशेषरूपां परविद्यां परमनिश्श्रेयसलक्षणमो- क्षसाधनमभिधायाङ्गाङ्गिभावेन समुच्चयेनैव कर्मयोगपरविद्ययोरनुष्ठानावश्यकता ज्ञापयितुं प्रत्येक स्वा- तन्व्येण तयोरनुष्ठाने सम्भवद्विपरीतफलमाह नवमेन मन्त्रेण ॥२॥ अस्य पदविवरणम् ये पुरुषाः, अविद्यामु · विद्येतरद्विहितं कर्मैव, अस्मिन् प्रकरणेऽविद्याशब्दो विद्येतरवर्णाश्रमविहितकर्मपर एव, उत्तरत्रैकादशमन्त्रे 'अविद्यया मृत्यु तीवा' इत्यत्रत्याविद्याशब्दसमानविषयविद्याशब्द निर्दिष्टस्य मृत्युतरणोपायताप्रतीतेः, अज्ञानरू- पतच्छब्दार्थस्य तथात्वासम्भवाच्च । उत्तरार्धस्थ उकारोऽत्राप्याकर्षणीयः, उत्तरार्धानुरोधादेकमा- नानुष्ठानस्यैवालापि प्रतिपिपादयिषितत्वात् । स चैवकारार्थकः । न चाविद्याशब्दस्य वि- घेतरविषयत्वे कर्मपरत्वनिर्बन्धो हि न सुवचा, विद्येतरत्वस्य विद्यातिरिक्तसर्वसाधारणत्वा- दिति वाच्यम् ; ना सादृश्यस्यापि बोधेन मनुष्यत्वादिसाहश्येनाब्राह्मणादिशब्दस्य ब्राह्मणभिन्न- क्षत्रियादिमात्रबोधकत्ववदत्राविद्याशब्दस्याप्यदृष्टोपकारकत्वादिसादृश्येन विद्यासहचरितवर्णाश्रमा- . १. वि. पु. ६-७-६१ ।। २. मुण्डको, १-२-७ ।। ३. श्वे. उप. ६.१९ ॥ ४. मु, उप, १-२-७ ॥
म.१०.] भाध्यत्रयोपेता. अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्वयाचचक्षिरे ।। १० AmAISION mutnAmare वे||भूय इव ते तमो य उ विद्यायाँ रताः-कर्ममाननिष्ठप्राग्यादन्धतमसादधिकं तमः स्वाधिकारो- चितकर्मपरित्यागेन विद्यामात्रे रताः प्रविशन्ति । इवशब्दस्तमस इयत्ताया दुर्ग्रहत्व द्योतयति। उकार उत्तरत्रपदेनान्वेतव्यः-'विद्यायमिव रताः' इति ॥ ९॥ किं तर्हि मोक्षसाधनमित्यनाह-अन्यदेवाहुर्विद्यया अन्यदाहुरविद्ययेति । अत्र व्यत्य यानुशासनात्पञ्चम्यर्थे तृतीया; अन्यशब्दानन्वयात् , 'अन्यदेवाहुस्सम्भवात्' इति वक्ष्यमाणसारू- कूाले पुनरेवापि यन्ति' इति। य उ विद्यायां रताः-उकार उत्तरपदेनान्वेतव्यः।ये खाधिकारोचि तकर्मपरित्यागेन विद्यायामेव रताः- ते, ततः - कर्ममात्रनिष्ठप्राप्यान्धतमसात् , भूय इव तमः अधिकमज्ञानं विशन्ति । इवशब्दस्तमस इयत्ताया दुर्ग्रहत्व द्योतयति ॥ ९ ॥ कि तर्हि मोक्षसाधनमित्यत्नाह --अन्यदेवाहुरिति । विद्ययेति पञ्चम्यथें तृतीया, यथाश्रुत- स्वे अन्यशब्दानन्वयात् , 'अन्यदेवा हुस्सम्भवात्' इति वक्ष्यमाणानुसागच्च । तथा-विद्यायाः-कर्म- श्रीआदिकममात्रबोधकल्वसम्भवात्। उपासते पुरुषार्थसाधकतयाऽनुतिष्ठन्ति। विद्यामन्तरेण केवलक मैंव पुरुषार्थसाधकत्वाभिमाननानुतिष्ठन्तीत्यर्थः । अत्र यच्छब्दानुरोधात्तच्छन्दोऽध्याहार्यः । ते-पुरु- षाः, अन्धम् । अन्धयतीत्यन्धम् - अतिगाढमिति यावत् । तमः- 'असुर्या नाम ते लोका अन्धेन तमसा वृताः' इति प्रागुक्तं तमोलोकमेव, प्रविशन्ति - श्रमेण प्राप्नुवन्ति, केवलकर्मणां राजसता. मसप्राकृतैश्वर्यभोगमानहेतुतया क्रमेण तदधीनरजस्तमोगुणाभिवृद्धम्तदधीनायथावज्ञानान्यथाज्ञानमू. लविपरीतकर्मप्रवृत्तेरपि प्रसद्भाच प्रागुक्तरीत्या तादृशलोकप्रातिप्रसङ्गोऽप्यवर्जनीय एवेति भावः । ये पुरुषाः, विद्यायाम - केवलजान एव, रताः-निरताः,कान्येन कर्मयोग त्यक्त्वा ज्ञानयोगमात्र पुरुषार्थसाधकत्वाभिमानेनानुतिष्ठन्तीत्यर्थः । ते. पुरुषाः, ततः केवलकर्मयोगमात्रानुष्ठायिपुरुषेभ्यः, भूय इव-भूय एव अधिकमेव इवकारोऽत्रैवकारार्थकः, निपातानामनेकार्थत्वात् । 'अन्धं तमः प्रविशन्ति' इत्यन्वय इति बोध्यम् ॥ ३ ॥ केवलकर्मानुष्ठायिना नित्यनैमित्तिककर्मग्रहाणाभावेन तदधी. नप्रत्यवायप्रसङ्गाभावाच्छनश्शनैरेव भूयसा कालेन रजम्तमोगुणाभिवृद्धिमूलविपरीतकर्मप्रवृत्तिनिव न्धनपातकप्रसङ्गसम्भवात् , प्रथमत एव कान्येन कर्मप्रहाणपूर्वक केवलविद्यानुयायिना प्राथमिक- पादप्रक्षेपप्रभृत्येवावश्यकर्तव्यनित्यनैमित्तिककर्मप्रहाणनिबन्धनपापपरंपराप्रसङ्गसम्भवाच तेभ्योऽप्ये तेषामचिरेणैव विपरीतफलप्राप्तिरिति भावः ॥ ४ ॥ अन्यदत्र वक्तव्य सर्वमेकादशमन्त्रव्याख्याने व- श्यामः ॥ ५ ॥ इति नवममन्त्रव्याख्यानम् ॥ ९॥ अस्मिन्मन्ने तृतीयान्तयोर्विद्याविद्याशब्दयोः स्थाने पञ्चम्यन्तौतो, 'व्याचचक्षिरे' इति स्थाने 'विचचक्षिरे' इति शब्द च माध्यन्दिनाः पठन्ति॥ १॥ मुमुक्षोः कर्मणा सह विद्याया अङ्गाङ्गिभावे- नानुष्ठानस्यैत्र स्थापनीयतया तथोरैकानुष्ठानानौचित्यप्रतिपादनमन्तरेण तदसम्भवात्तत्र विपरीतफलप्रा. प्तिप्रतिपादनरूपेणैकेन प्रकारेण पूर्वमन्त्रे तदनौचित्यं प्रतिपाद्य पुनरवान्तरफलभेदप्रतिपादनरूपेण प्रकारान्तरेणापि तदनौचित्य प्रतिपादयति दशमेन मन्त्रेण ॥ २॥ अस्य पदविवरणं-विद्यया यथोक्तलक्षणज्ञानरूपपरविद्यया । अन्यदेव-अविद्याशब्दितकर्मयोगसाध्यफलादन्यदेव फलं । 'पू. , 6 upatiaNALISHALADESH - দুয়ানি [मं-१०. वाप्याच्च। केवलकर्मणः कर्मनिरपेक्षविद्यातश्चान्यन्मोक्षसाधनमित्युक्त भवति। आहुः-पूर्वाचार्या इ. ति शेषः । औचित्यादुपनिषद इति वा । पूर्वपूर्वसम्प्रदायसिद्धोऽस्माकमयमर्थ इत्याह-इति शुश्रु- म धीराणां ये नस्तध्याचचक्षिरे-ये-पूर्वाचार्याः, नः प्रणिपातादिभिस्सम्यगुपसन्नानामस्माकम् , तत्-मोक्षसाधनम् , व्याचचक्षिरे-विविच्योपादिक्षन् । तेषा, धोराणां-परमात्मध्यानपराणां; व. चनमित्यध्याहार्यम् । 'नटस्य शृणोति' इतिवद्वा कथञ्चित्पञ्चभ्यर्थे षष्ठी । इति शुश्रुम एवंप्रकार. मौष्म । ब्रह्मविद्याया दुरवगाहल्वेन निश्शेषग्रहणाशक्यत्वाभिप्रायोऽत्र लिडुत्तमः ॥ १० ॥ कृरहितविद्यातः, अन्यत्-मोक्षसाधनमित्या हुः । उपनिषद इति शेषः। अविद्ययेति पूर्ववत्पञ्चम्यर्थे तृतीया । अविद्यातः ब्रह्मज्ञानविधुरकर्मणश्चान्यदेव मोक्षसाधनमित्याहुरुपनिषद इति भावः । पूर्व- पूर्वसम्प्रदायसिद्धोऽर्थोऽयमस्माकमित्याह-इति शुश्रुमेति । ये-पूर्वीचार्या:-ना-प्रणिपातादिभिस्म- म्यगुपसन्नानामस्माकं, तत् - मोक्षसाधन, व्याचचक्षिरे विविच्योपादिशन् , तेषां धाराणां-धीम- ताम्।पञ्चम्यर्थे षष्ठी।तेभ्यो धीरेभ्य इति योजनीयम्, 'नटस्य शृणोति' इति वत्। नटाच्नुणोतोत्यर्थः। 'इति शुश्रुम' एव प्रकारमश्रीष्म-ननु परोक्षएवार्थ लिड्विधानात 'शुश्रुम' इति लिडुत्तमपुरुषो न घटत इति चेत्-मैव, ब्रह्मविद्या या दुग्वगाहत्वेन निश्शेषग्रहणमस्माभिने कृतमित्यभिप्राय कृत्वा लिडुत्त- मस्योपपत्तेरित्याहुः॥ १० ॥ श्री| ब्रह्मविदः' इति शेषः। आहुः वदन्ति। एवम्, अविद्यया- कर्मयोगेन। अन्यदेव-पूर्व एव- कारोऽत्राप्यनुषज्यते । विद्यासाध्यफलादन्यदेव फलम् आहुः । धीराणां - ब्रह्मविदाम् । इति एवं भूतं वचनम् । शुश्रुम - अश्रीष्म । के ते ब्रह्मविदः येभ्य इत्थभूतं वचन श्रुतमित्यत्राह---य इत्यादि । ये ब्रह्मविदोऽस्मदाचार्यभूताः । नः अस्मभ्यं । तत् - विद्याविद्ययोः फलभेदविषयं व. चनम् । व्याचचक्षिरे - उपादिक्षन् । पूर्वपूर्वब्रह्मवित्संप्रदायपरंपराप्राप्तमेवामुमथै विधिवदुपसन्ना वयं यथावदुपासितेभ्यस्स्वाचार्येभ्य एवाश्रीष्म, न तु प्रामाणिकत्वाप्रामाणिकत्वनिश्चयानहसाधारण- लोकमुखात् । अतः परमार्थभूत एवायमिति भावः । 'शुश्रुम - व्याचचक्षिरे' - इत्युभयत्रापि लुङ केवलभूते लिट्,भूतानद्यतनपरोक्षार्थस्येहासम्भवात्। छन्दसि लुङ्ग लड् लिटः' ॥३॥४॥६॥ इत्यनुशास- मेन लुङर्थेऽपि छन्दसि लिङ्भवतीति न विरोध इति बोध्यम् ।। ३ ॥ इदमत्र तात्पर्यम्-अविद्याश- ब्दितस्य कर्मणस्त तदसाधारणफलाभिसन्धिपूर्वकमनुष्ठितस्य तत्तदैहिकामुष्मिकपुत्रपश्चादिम्बर्गादिरूप- प्राकृतभोगैश्वर्यलक्षण फलम्; तत्तदसाधारणफलाभिसन्धिमन्तरेण मुमुक्षुणाऽनुष्ठितस्य तस्य विद्योत्प- त्युपचयविरोधिमृत्युशब्दितपुण्यापुण्यकर्मनिवृत्तिमात्र च फलं; विद्यायास्त्वमृतशब्दितब्रह्मप्राप्तिः फलं, तथाच-विद्यासाध्यफलादविद्यासाध्यफलम्, अविद्यासाध्यफलाद्विद्यासाध्यफलं च परस्परं भिन्न- मेव; तत्र प्रथमफलहेतुभूतस्य कर्मणः केवलस्यानुष्ठानं पूर्वमन्त्रोक्तरीत्या मोक्षविरोधिफलहेतुत्वादन्ततो- उन्धतमसप्राप्तिलक्षणमहानर्थहेतुत्वाञ्च मुमुक्षोरनुपादेयमेघ, द्वितीयफलहेतुभूतस्य कर्मणोऽपि केवल- स्यानुष्ठानं विरोधिनिवृत्तिमात्रहतुत्वाद्विद्याया एव ब्रह्मप्राप्तिहेतुत्वाच्च मुमुक्षोनाभिमतसाधने पर्याप्तं, विद्यायाः केवलाया अनुष्ठानमपि नित्यनैमित्तिककर्माननुष्ठाननिबन्धनप्रत्यवायबलेन विपरीतमहानर्थप्रा- सेर्विद्योत्पत्त्युपचयविरोधिनां पुण्यापुण्यलक्षणानां प्राचीनकर्मणां निवृत्त्यसिद्ध्या विद्यानिष्पत्तरेवासम्भ- वाच मुमुक्षा भिमतसाधनक्षम; तस्मान्मुमुक्षोविद्याविद्ययो रेकमात्रानुष्ठानमयुक्तमेव-इति ॥ ४ ॥ फलाभिसन्धिरहितमनुष्ठितस्यापि कर्मणो ज्ञानविरोधिप्राचीनकर्मनिवृत्तिः फलमिति, विद्याया ब्रह्मप्रा- तिः फलमिति च फलभेद:- अविद्यया मृत्यु तीत्वां विद्ययाऽमृतमश्नुते' इत्युत्तरमन्त्रे व्यक्तीभवि. ष्यति ॥ ५॥ अनान्यपदयोद्वयोरपि परस्परसममित्याहृतविद्याऽविद्यासाध्यफलभेदपरतायावरसत मैं-१०.] भाज्यत्रयोपेता. श्री॥एव लाभेमान्यपदानन्वयहेतुना विद्या विद्याशब्दगततृतीययोश्छान्दसव्यत्ययेनावधिपञ्चम्यर्थपरता- स्वीकारेण केषाञ्चिद्याख्यानमयुक्तमेव ॥ ६ ॥ एवम्-'अन्यदेवा हुस्सभवात्' इति वक्ष्यमाणमन्त्रनिर्दे- गस्येह तृतीयाया अवधिपञ्चम्यर्थपरतास्वीकारगमकत्ववर्णनमप्ययुक्त--तृतीयापञ्चम्योरुभयोरपि हंतु- परतयैव स्वरसतो निर्वाहसम्भवे छान्दसव्यत्ययमाश्रित्य तृतीयाया अवधिपञ्चम्यर्थपरतास्वीकार- स्यानावश्यकत्वात् ॥ ७ ॥ एतेन - माव्यन्दिनपाठेऽत्रापि विद्याऽविद्याशब्दयोः पञ्च . म्यन्तताश्रवणमपि काण्वपाठसिद्धतृतीयाया अवधिपञ्चम्यर्थपरतास्वीकारगमकमित्यपि निरस्तं, तृ- तीयायास्स्वरसत एव तुपरतावीकारे बाधकलेशविरहेण च्छान्दसव्यत्ययकल्पनस्यायुक्तत्वात् ॥ ८ ॥ एवं विद्याञ्चाविद्याञ्च' इत्यायेकादशमन्त्रे विद्याऽविद्यवोरमृतप्राप्तिमृत्युतरण- रूपे द्वे फले निर्दिश्य मुमुक्षोस्तदुभयावश्यकत्वेन तद्धेतूभयानुष्ठानमुपादेयमिति समर्थनात्तदुपष्टम्भकत- यैवास्य मन्त्रस्य प्रवृत्तत्वाञ्च तदैककण्ठ यानुरोधना'यस्य मन्त्रस्य फलभेदप्रतिपादनपरत्वमेव स्वारसिक, न त्वप्रसक्तस्य विद्यमानशब्दालभ्यस्याध्याहारकलभ्यस्य मोक्षसाधनस्य विद्याऽविद्यामिन्नत्वपरत्वमित्य- बहुना ॥ ९॥ नन्वत्र विद्योपदेष्टा पुरुपः कः वेदपुरुप इति चेत्-स कि नित्यसूरिषु कश्चित् ! आहोस्वित्सर्वेश्वर एव? अथवा-ऐहलौकिक एव कश्चित्पुरुषविशेषः ? न तावत्प्रयमद्वितीयपक्षी सम्भवतः - स्वतस्सिद्धसार्वकालिकसार्वज्ययोनित्यसूरिसर्वेश्वरयोः पूर्वाचार्याधीनज्ञानत्वाभावन-'ये न- स्तद्याचचक्षिरे' इत्युक्त्यसङ्गतेः । नापि तृतीयपक्षस्सम्भवति-अर्वाचीनहलौकिकपुरुषोपदेशवचनरूप- त्वे वेदस्यानित्यताप्रसङ्गात् , पौरुषेयत्वनिबन्धन भ्रमप्रमादविप्राल'सामूलत्वसम्भावनाहतया स्वत- सिद्धसुदृढप्रामाण्यविलयप्रसङ्गाचेति चेन्न, नित्यानामेव सता वेदाना स्वाभिप्रायावेदकस्वोपदेशवच- नरूपतया तपोविशेषशालिनश्चिरोपासितसदाचार्यसम्प्रदायप्राप्तसकलार्थस्य लोकरक्षार्थभगवत्कटाक्ष- विशेषनिश्शेषनिषूताज्ञानगन्धस्यैहलौकिकस्यैव पुरुषविशेषस्य मुखादाविर्भावसम्भवात्, तथाविधस्य वेदप्रवचनकर्तृतया वेदाचार्यमानभूतस्य पुरुषविशेषस्य चतुर्मुखादिवत्प्रति कल्पमाव्याधिकारिकपुरु- षरूपत्वात्, वेदाना तादृशपुरुषवचनरूपतया तदभिप्रायस्यैव वेदाभिप्रायरूपतया च माननीयताया अपीश्वरशासनसिद्धतथाविधपुरुषविशेषाधिकारविशेषायत्तत्वाच्च यथोकदोषगधानवकाशात् ॥ १० ॥ तदिदं सर्वमभिप्रेत्येवोक्तं महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाशदधिकत्रिशततमे नारायणीये षोडशे चाध्याये वेदानामपौरुपेयतायास्तदितरशास्त्राणा पौरुषेयतायाश्च प्रतिपादनपरे- 'साङ्खथं योगः पञ्चरात्रं वेदाः पाशुपत तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै । साङ्खय- स्य वक्ता कपिलः परमर्षिस्स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । उमापतिः पशु- पतिश्श्रीकण्ठो ब्रह्मणस्सुतः । उक्तवानिदमव्यग्रो ज्ञान पाशुपत शिवः । अपान्तरतमा नाम वेदा- चार्यस्स उच्यते । पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्वयम् ॥ २२ ॥ इति प्रकरणे-'अपान्तरत- मा नाम वेदाचार्यस्स उच्यते' इति ।। ११ ॥ अत्र सासययोगपाशुपताना कपिलहिरण्यगमाः प्रणे- तार:--पञ्चरात्रस्य तु स्वयं नारायणः प्रणेतेति तेषां पौरुषेयत्व-वेदाना तूपदेष्टत्वेनापान्तरतमा नाम कश्चिदाचार्य एवास्ति, न तु तत्प्रणेता कश्चिदिति वेदानामपौरुषेयत्वावदनायापान्तरतमसो नाम कस्यचित्पुरुषविशेषस्य वेदाचार्यत्वलक्षणाधिकारविशेषमात्रं च हि प्रत्यपादिषाताम्॥ १२ ॥ तस्मात् स एव च वेदपुरुषः,ताहशश्चाधिकारिकः पुरुषश्चतुर्मुखादिवद्भिन्न भिन्नएव च तदातदा प्रतिकल्पभा- वी, तदुपदेशवचनरूपतया तन्मुखाविर्भावमत्रिण च न वेदानामनित्यताप्रसङ्गः, नित्यानामेव सतां तेषां ईशावास्योपनिषत् [मं-११. विद्यां चाविद्यां च यस्मद्वेदोभय सह । अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुते ।। वा अन्यत्' इति सङ्ग्रहेणोक्तं विवृणोति-विद्याश्चाविद्याञ्च यस्तद्वंदोमयँ सहेति । यः-य- थावस्थितोपदंशवान् । विद्या-परमात्मोपासनरूपाम् । अविद्या-तदङ्गभूतकर्मास्मिकाञ्च एतदुभय परस्परविरोधप्रसहितम् । सह बंद-अङ्गाङ्गिनोरनुष्ठेयत्वसाम्यादुमय सह वेदेति अविशेषेण वेद- नीयतोक्तिः, न पुनहयोपादेययाः ज्ञातव्यत्वसाम्यात् । पूर्वमविद्याया निन्दनात्तदौचित्यमिति चेत्- . कू। अन्यत्' इति सामान्येनोक्त मोशसाधन विवृणोति--विद्याश्चाविद्याश्चेति । 'कुर्वन्नेवेह कर्माणि' इति श्लोके कर्मयोगस्य प्रत्यगात्मदर्शनद्वारा परभक्त्युत्पादकत्वमुक्तम् , इह तूत्पन्नभक्तियो- गेन विदुषा पूर्वोक्तकर्भयोगवेप परित्यज्याहरहरनुष्ठीयमानाना नित्यनैमित्तिककर्मणा कल्मषनिबर्हण- द्वारा भक्तियोगोपचायकत्वमुच्यते, सहशब्दस्वारस्यात् । अतो न पुनरुक्तता । यः-यथावस्थितवि- द्योपदेशवान् । विद्या-ब्रह्मोपासनरूपाम् । अविद्या-नदङ्गभूतकर्मात्मिकाञ्च एतदुभयम् । सहवेद - अङ्गाङ्गिभावेन सहानुष्ठेय वेदेत्यर्थः । अल अविद्याशब्दः क्षत्रियविषयकाब्राह्मणशब्दवत् तदन्य- श्री॥तथाऽऽविर्भावसम्भवात् । पौरुषेयत्वाभावेनैव भ्रमप्रमादादिदोषाभावाच नानित्यत्वाप्रामाण्य- प्रसङ्गगन्ध इति न कश्चिद्विरोधः ॥ १३ ॥ इति दशममन्त्रव्याख्यानम् ॥ १० ॥ इमं मन्त्र काण्वा एकादशमन्त्रतया माध्यंदिनाश्चतुर्दशमन्त्रतया च पठन्ति ॥ १ ॥ अस्यामुपनि- षदि प्रथममन्त्रे विद्यालक्षणं परावरतत्वज्ञान सङ्ग्रहेण मुमुक्षोरुपदिश्य ततो द्वितीयमन्ने- 'कुर्वन्नेवेह कर्माणि' इति विद्याङ्गतया कर्मयोगानुष्ठानमायावश्यकमिति सर्वोपतो दर्शयित्वा ततस्तृतीयमन्त्रे प्रथ. मद्वितीयमन्त्रोक्तज्ञानकर्मयोगनिष्ठाविहीनाना विपरीतफलप्राप्तिप्रदर्शनमुखेन तादृशनिष्ठावश्यकताञ्च दर्शयित्वा ततश्चतुर्थप्रभृत्यष्टमपर्यन्तमन्त्रैः प्रथममन्त्रोक्तविद्यालक्षणविज्ञाने परावरतत्वयाथात्म्यानुस- न्धानप्रकार मोहशोकनिवृत्तिलक्षण तदवान्तरफलविशेषञ्च प्रदयं ततो द्वितीयमन्त्रे सङ्ग्रहेणोक्तं वि. द्याङ्गतया कर्मणोऽपि सहानुष्ठानावश्यकत्व सम्यक् स्थापयितुं नवमदशममन्त्रयोः विद्याकर्मणोरेकैक- मात्रानुष्ठान न कर्तुमर्ह, विपरीतफलप्रसङ्गात्, द्वयोरपि फलभेदात्, विद्याकर्मसाध्ययोर्द्वयोरपि फलयो- मुमुशोरपेक्षितत्वेनं कमानानुष्ठाने तदभिमतासिद्धेश्चेत्युक्तम् ॥ २ ॥ अथ को तावन्मुमुक्षोरपेक्षितौ विद्याकर्मसाध्यो फलमेदौ, तत्र किकिं फलं केनकेन साध्यते ? इत्याशङ्का विविच्य तत्प्रतिपादनेन परिहत्य तत एव हेगोविद्याकर्मणास्साहचर्येणाझाङ्गिभावेन चानुष्ठानावश्यकता स्थापयत्येकादशेन मन्त्रे- ण 'विद्याञ्चाविद्याञ्च' इत्यादिना ॥ ३ ॥ अस्य मनस्य पदविचरण-~-य: मुमुक्षुः । विद्याञ्च-यथोक्तविज्ञानविशेषलक्षणां ब्रह्मविद्यां च, अविद्याञ्च-विद्याभिन्नमदृष्टफलोपकारकत्वेन तत्सहशमङ्गतया तत्प्रत्यासन्नं वर्णाश्रमा दिविहित कर्म- योगञ्च तदुमय । सह-परस्परसहचरम् । वेद-जानाति । ज्ञानस्यानुष्ठानफलत्वाज्ज्ञात्वाङ्गाङ्गिभावेन सहानुतिष्ठतीत्यर्थः । कर्मणा फलाभिसन्धिपूर्वकमनुष्ठीयमानानामेव मोक्षविरोधिफलान्तरहेतुत्वेन वि- द्याविरोधसम्भवात् , फलाभिसन्धि परित्यज्यानुष्ठीयमानानां तेषा विज्ञानकहेतुत्वेन विद्याविशेधविर- हाच, फलाभिसन्धि परित्यज्य विद्याविरोधं परिहत्याङ्गाङ्गिभावेन परस्परसाहचर्येणोभयमनुतिष्ठतीति यावत् । स इति शेषः, यत्तदोनित्यसम्बन्धात् । सातादृशो मुमुक्षुः । अबिधया - यथोक्तलक्षणेन - Mugu - PARMANAACAROKAR । - . मं-११.] भाष्यत्रयोपेता. ४५ वेतर्हि विद्याया अपि निन्दिताया हेयद्वयसमुच्चयोक्तिप्रसङ्गः। तथा सत्युत्तरवाक्यमपि विघटते । अ- विद्यया मृत्यु नी विद्ययाऽमृतमश्नुने इति । अयमर्थः-- विद्यागतया चोदितकर्मणा मृ- त्यु शानमङ्कोचस्प मृत्युहेतुं प्राक्तनकर्म । नीा निरवशेषमुलवय । विद्यया-पूर्वोक्तपरमात्मानुद- शंगरूपया। अमृतमश्नुते --'एतदमृतमभयमेतद्ब्रह्म' इत्यादिपु सर्पदोषरहितत्वेन प्रतीत परमात्मान प्राप्नोतीत्यर्थः । अतामृतशब्दस्य मानपरत्वेऽपि न पुनरुक्तिः, 'मृत्यु तीवा' इत्यस्य उपायविरोधि- कात्या विद्याङ्गकर्मविषय इति भावः। अविद्यया विद्याङ्गरूपतया चोदितेन कर्मणा,वृत्यु-विद्योत्य- त्तिप्रतिवन्धकभूत पुण्यपापरूप प्राकन कर्म । गीत-निरक्शेपमुल्ल वय, विद्यया-परमात्मोपासनरूप- या । अमृतमश्नुटे-मोक्षं प्राप्नोनीत्यर्थः । 'तीवी' इत्यत्र उपायविरोधितरणमुच्यते । 'अमृतमश्नु ते' इति तु उपेयज मप्रातिविरोधिभूतेभ्यस्सर्वपापायो मोक्ष इति भेदः । एवञ्च सति 'ईयाज सोऽ- श्री॥कर्मणा। मृत्यु-विद्योत्पत्तिविरोधि पुण्यपापरूपं प्राचीन कभी तीर्वा व्यपोह्य । विद्यया-ब्रह्मवि- द्यालक्षणेन विज्ञानेन । अतं ब्रह्म । अरनुते-प्राप्नोति ---इति ॥ ४ ॥ अत्राविद्याशब्दस्य कर्मपरता • मृत्युशब्दस्य ज्ञानोत्पत्तिविरोधिपुण्यपापरूपप्राचीनकर्मपरता. अमृतशब्दस्य ब्रह्मपरता च श्रीभाष्यकारीव जिज्ञासाधिकरणश्रीभाग्थे भाषिता ॥ ५ ॥ ययोक्त तंत्र- 'अत्राविद्याशब्दाभिहित वर्णाश्रमविहित कर्म , अविद्यया-कर्मणा, मृत्यु-ज्ञानोत्पत्तिविरोधि प्राचीन कर्म, ती|--व्यपोह्य, विद्यया-ज्ञानेन, अमृत ब्रह्म प्रानोतीत्यर्थः । मृत्युतरणोपायतया प्रतीताs- विद्या विद्येतरद्विहित कमैव' इत्यादि ॥ ६ ॥ तथा च-मृत्युशब्दितविद्यानिष्पत्तिविरोधिपुण्यपापरूप- प्राचीनकर्मनिबहणमविद्याशब्दितवर्णाश्रमविहितकर्मफलम् | अमृतशब्दितब्रह्ममाप्तिश्च विद्याफलम् । तत्र प्रथमफलमन्तरेण विद्यानिष्पत्ययोगात् , तदभावे परमपुरुषार्थभूतब्रह्मप्राप्तिलक्षणद्वितीयफ्लासि- द्वेश्च प्रथमफलसाधनभूतवर्णाश्रमविहितकर्मलक्षणाऽविद्या द्वितीयफलसाधनभूतविज्ञानलक्षणा विद्या चेत्युभयोरपि परस्परविरोधप्रसङ्गपरिहारपूर्वकमङ्गाङ्गिभावेन साहचर्येणानुष्ठानम्मुमुक्षौरवश्यापेक्षितमिति भावः ॥ ७॥ -'अपिचेदसि पापेभ्यस्सर्वेभ्यः पापकृत्तमः । सबै ज्ञानप्लवेनैव बूजिन सन्तरिष्यसि ॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानामिस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ न हि ज्ञानेन सदृश पवित्रमिह विद्यते ॥ हात गीताचतुर्माध्यायवचनैनित्यैव सर्वकर्मनिबह णसामर्थ्यावगमात् , 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः ॥ श्वे ॥३॥ इनि श्रुत्यापि ज्ञानस्यैव मृत्युतरणोपाय- ताप्रतिपत्तेश्च, मृत्युतरण कर्मलक्षणाविद्यासाध्य फलम् , ब्रह्मप्रातिस्तु विद्यारााध्य फलमिति विद्यावि- द्ययोर्व्यवस्थितफलभेदकल्पनम् , ततश्च तयोरङ्गाङ्गिभावेन साहचर्येणावश्यानुष्ठेयत्वकथनञ्च कथं सङ्ग च्छत इति वाच्य,विद्यानिष्पत्त्यनन्तरं ब्रह्मप्रातिविरोधिसर्वकर्मणा तया निबर्हणसम्भवेऽपि विद्योत्प. त्तिविरोधिप्राचीनकर्मणा स्वयमनिष्पन्नया तया पूर्वमेव निबर्हणायोगेन तन्निबर्हणस्य दर्शितशास्त्राभि- प्रेतत्वासम्भवात् , तन्निबर्हणपूर्वकविद्यानिष्पत्तेरनभिसहितफलानुष्ठितवर्णाश्रमविहितकर्मयोगाधीनता • याश्शास्त्रेणैव सिद्धत्वाच, ब्रह्मप्रासेर्विद्योत्पत्तिविरोधिप्राचीनकर्मनिबर्हणस्य च विद्याविद्ययोव्यवस्थि- तफलरूपतायाः तत एव हेतोस्तयोस्साहचर्येणानुष्ठेयतायाश्चाभिधाने क्षतिलेशादर्शनात् ॥ ८॥ अत एव - 'न हि ज्ञानेन सदृशं पवित्रमिह विद्यते' इत्युक्त्यनन्तरमेव तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति' इति तादृशं ज्ञानं चिरकालानुष्ठितानभिसंहितफलकर्मयोगाधीनविद्योत्पत्तिविरोधिप्राचीनक. न च १ on *------ www-w-mww------ MRAwarena - १. छा. उप. ४-१५-१ ।। .
४६ ईशावास्योपनिषत् [म-११. वे॥तरणपरत्वातं, 'अमृतमश्नुते' इति प्राप्तिविरोधिनिवृत्तिलाभोक्तेः।अत्र 'अविद्यया मृत्यु प्राप्य स्थि- ताः' इति व्याचक्षाणाः निर्वाध पदवाक्यस्वारस्यमुपणञ्च प्रस्मृत्य स्वाविद्यया स्वयमेव मृत्यु प्राप्य- स्थिताः । एतदेव वाक्यमनुसहित वैष्णवे पुराणे 'इयाज सोऽपि सुबहून्यज्ञाञ् ज्ञानव्यपाश्रयः । ब्रह्म- विद्यामधिष्ठाय तर्तु मृत्युमविद्यमा' इति। इह त्वविद्यागब्दः प्रकरणादौचित्याच्च विद्याङ्गकर्मविषय इ. त्यभापि भाष्यकारैः 'अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म' इति, 'भृत्युतरणोपायतया प्र- तीताऽविद्या विद्येतरद्विहित कमैंव' इति च । विद्या पर्युदस्यन्नयमविद्याशब्दः क्षत्रियादिविषयाब्रा- ह्मणशब्दादिवदासन्नतदनन्तरवृत्तिरङ्गकर्मविषय इति भावः। एव तपो विद्या च विप्रस्य निःश्रेयस- करावुभौ । तपसा कल्मष हन्ति विद्ययाऽमृतमश्नुते' इत्याग्रुपबृहणान्यपि सुसङ्गतानि भवेयुः । ये पुनरिह विद्याकर्माख्यसाधनद्वयसमुच्चयं मृत्युतरणामृतत्वप्राप्तिरूपसायद्वित्व च वर्णयन्ति, तेषा कर्म- ज्ञानयोरङ्गाङ्गिभावं विद्ययैव मृत्युतरणञ्च व्यक्त प्रतिपादयद्भिः श्रुतिस्मृतिसूलगणैर्यथाभाष्यमुत्तर देयम् । विषमसमुच्चयवादेऽपि यथाभागं सन्निपत्योपकारकत्वसम्मवे गत्यन्तरगमनिका नीतिविद्भिर्न सम्मन्यते ॥ कू॥पि सुबहून्यज्ञानू ज्ञानव्यपाश्रयः। ब्रह्मविद्यामधिष्ठाय तर्नु मृत्युमविद्यथा' । ज्ञानव्यपाश्रयः--शास्त्र- श्रवणजन्यब्रह्मज्ञानवान् । स:-जनकोऽपि। ब्रह्मविद्या-निदिध्यासनरूपाम् । अधिष्ठाय-फलत्वेनाश्रित्ये- त्यर्थः । भक्तियोगोत्पत्ति कामयमान इति यावत् । मृत्यु-भक्त्युत्पत्तिविरोधि प्राचीन कर्मजातम्। अविद्यया-अनभिसंहितफलेन विद्याङ्गकर्मणा । ततु व्यपोहितुम्। सुबहून् यज्ञान्-ज्योतिष्टोमादिकान् । इयाज-अकरोदित्यर्थः । 'पाक पपाच' इतिवत् । यथा 'कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः। परमभगवदाराधनरूपाणीत्यनभिसहितस्वर्गादिफलानि कर्माणि कपायस्य उभयविधपापस्य तजन्यरा- गद्वेषादेर्वा पक्तिः विनाशकारणानि । ज्ञानं तु परमागतिः परमगतिसाधनमित्यर्थः । उभयत्रापि करणे कार्योपचारः । कषाये कर्मभिः पवे ततो ज्ञान प्रवर्तते तपो विद्या च विप्रस्य निश्श्रेयस- करावुभौ । तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते' इत्यादीन्युपबृहणशतानि सुसङ्गतानि भवेयुः ।। श्रीमनिबर्हणरूपसंसिद्धिमानेत्र विन्दतीत्यमिहितम्॥९॥ अत एव गीताशास्त्रेऽष्टादशाध्यायान्ते वर्णा- श्रमप्रतिनियतकर्मणा विविच्य प्रतिपादनानन्तरं 'खेखे कर्मण्यभिरतस्संसिद्धिं लभते नरः । स्वकर्मः निरतसिद्धिं यथा विन्दति तच्छृणु' ॥ १८ ॥ ४५ ॥ इत्यादिना ग्रन्थेनानभिसंहितफलानुधितस्वस्व. वर्णाश्रमधर्मलक्षणकर्मयोगस्य विद्योत्पत्तिरूपमर्वाचीनफलं विद्यानिष्यत्तिद्वारा ब्रह्मप्राप्तिलक्षणं परमफ- के च प्रति हेतुत्वं प्रतिपादयता भगवता वासुदेवेनैव विद्याविद्ययोर्यथोक्तलक्षणफलभेदहेतुत्वेनाविद्या- या अपि परमफलप्रयोजकत्वसद्भावेन च हेतुना तयोस्साहचर्येणाङ्गाङ्गिभावेनानुष्ठेयत्वमेव दर्शितम् ॥ १०॥ एवं श्रीविष्णुपुराणेऽपि 'इयाज सोऽपि सुबहून् यज्ञाजू ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय सम्मृत्युमविद्यया ॥ ६ ॥६॥ १२ ॥ इति वचनेनापि साक्षादेतन्मन्त्रोपबृंहणभूतेनायमर्थस्स्पष्टम- भिहितः ॥ ११ ।। अत्र-आगमोत्थब्रह्मज्ञानाश्रयः केशिध्वजो ब्रह्मप्राप्तिहेतुभूता ब्रह्मविद्या प्रीतिरू- पापनदर्शनसमानाकारभवानुस्मृतिशब्दितब्राध्यानधारारूपा साध्यत्वेनोद्दिश्य तसिद्धये तद्विरोधिप्रा- १.वि. पु. ६-६-१२ ।। २. श्रीभाज्ये, १-१-१ ।। लघुसिद्धान्त ।। ३. श्रीमाध्ये, १-१-१ ।। ४. मनु. १२.१०४ ।। ५. भारते. ६. भारते. ७. मनुस्मृतौ. १२-१०४॥
म-११.] भाष्यत्रयोपेता. - श्री॥चीनकर्मलक्षणम्मृत्यु फलाभिसन्धिरहितवर्णाश्रमविहितकर्मयोगलक्षणाविद्यया त बहून् यशानका पींदिति युक्तम् ॥ १२ ॥ एवं-'तपो विद्याच विप्रस्य निश्श्रेयसकर परम् । तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ॥१२ ॥ १०४ ॥ इति मनुवचनेनापि साक्षादेतच्छुत्युपबृहणभूतेनायमर्थ उक्तः॥ १३ ॥ एवं - 'धर्मेण पापमपनुदेति' ॥ ६ ॥ ६३ ॥ इति तैत्तिरीयोपनिषदि षष्ठप्रश्ने नारायणे त्रिष- ष्टितमानुवाकगतश्रुत्यैककण्ठयात् 'अविद्यया मृत्यु तीवा' इत्यत्र मृत्युशब्दो विद्योत्पत्तिविरोधिप्रा चीनसुकृतदुष्कृतरूपद्विविधकर्मपरः, मोक्षविरोधित्वाविशेषणात्रत्यपापशब्दस्योभयपरताया एव विव- क्षितत्वात् ।। १४ || न चैव सति-'कर्मणा पितृलोको विद्यया देवलोकः' ।। बृ ॥ ३ ॥ ५ ॥ १६ ॥ इति बृहदारण्यकश्रुतिविरोधः, कर्मविद्ययोः परस्परविरुद्धफलकत्वावगमादिति वाच्य, तादृशश्रुतौ कमंशब्दस्य फलाभिसन्धिसहितकेवल स्वयप्रधानपुण्यकर्मविषयत्वात् तावला फलाभिसन्धिरहितकर्म- णां परविद्याङ्गतया तदन्तर्भूतानामनुष्ठाने विरोधाभावात्, विनियोगपृथक्त्वेन फलाभिसन्धिसहितक. मणा तद्रहितकर्मणाञ्च फलभेदस्य शास्त्रेणैव सिद्धत्वाच ॥ १५ ॥ यथा हि-'अथ ये यज्ञेन दानेन तपसा लोका जयन्ति ते धूममभिसम्भवन्ति ॥ 5 ॥ ८ ॥ २ ॥ १६ ॥ अथ च इमे ग्राम इष्टा- पूर्ते दत्तमित्युपासते ते धूममभिमम्भवन्ति' ॥ छां ॥ ५ ॥ १० ॥ ३ ॥ इत्यादिश्रुतिभिः - 'विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान दिवि देवभोगान् ॥ गी ॥ ९ ॥ २० ॥ इत्यादिस्मृतिभिश्च कर्मणा नश्वरलोकावाप्त्यादिफले विनियोगो. ऽवगम्यते , तथैव 'तमेत वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाडनाशकेन । बृ॥ ६ ॥ ४ ॥ २२ ।। 'धर्मेण पापमपनुदति ॥ तै ॥ ६ ॥ ६३ ॥ 'यक्ष्यमाणो हवै भगवन्तोऽ. हमस्मि' ॥ छां ॥ ५॥ ११॥ ५ ॥ इत्यादिश्रुतिभिः, भगवता वासुदेवेन गीतायामष्टादशाध्याये- 'त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यशदानतपःकर्म न त्याज्यमिति चापरे॥ १८ ॥ ३ ॥ इति पक्षद्वयमुपक्षिप्य 'यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यशो दान तपश्चैव पावनानि मनीषिणाम् ॥ १८ ॥ ५ ॥ इति मुमुक्षूणामपि विद्याविरोधिपापनिवर्तकत्वरूपपा. वनत्वेन हेतुना कर्मणामनुष्ठेयत्वपक्षस्यैव सिद्धान्ति तत्वात् , तृतीयाध्याये ऽपि 'कर्मणैव हि संसिद्धिमा- स्थिता जनकादयः' ॥ ३ ॥ २० ॥ इति ज्ञान्यग्रेसरजनकादीनां कर्मानुष्ठानप्रदर्शनात् ; चतुर्थाध्याये 'एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम्' ॥ ४ ॥ १५ ॥ इति मुमुक्षूणामेव पूर्वेषामनुष्ठानप्रदर्शनपूर्वक कर्मणोऽवश्यानुष्ठेयत्वविधानात्, 'इयाज सेोऽपि सुब. हून् यज्ञाञ् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तुम्मृत्युमविद्यया' ॥ ६ ॥ ६ ॥ १२ ॥ इति प्रा. गुदाहृतविष्णुपुराणवचनात् एवंजातीयाभ्योऽन्याभ्यो बहुभ्यस्स्मृतिभ्यश्च कर्मणां पापनिवृत्तिज्ञानो. स्पत्यादिफलेऽपि विनियोगोऽवगम्यत इति विनियोगपृथक्त्वेन बुभुक्षोर्मुमुक्षोश्च द्वयोरपि कर्मानुष्ठानं प्राप्तमेव ॥ १६॥ 'एतान्यपितु कर्माणि संङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितम्मतमुत्तमम्॥ १८॥६॥'अनिष्टमिष्टं मिश्रश्च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्नयासिना - क्वचित् ॥ १८ ॥ १२ ॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः । मत्प्रसादादवानोति शाश्वतं पदमव्ययम् ॥ १८ ॥ ५६ ॥ 'चेतसा सर्वकर्माणि मयि सन्नयस्य मत्परः । बुद्धियोगमुपाश्रित्य म- चित्तस्सतत भव' ॥ १८ ॥ ५७ ॥ इत्यादिभिर्वचनैर्गीताशास्त्रे फलाभिसन्धिपूर्वकमनुष्ठितकर्मणामेव वर्गादिफलप्राप्तिः, फलाभिसन्धिरहितमेव त्रिविधत्यागपूर्वकमनुष्ठितकर्मणां मोक्षविरोभितादृशफलरा- . .
ईशावास्योपनिषत् [4-११. antaram श्रीहित्यं,परम्परया विरोधिपापनिवृत्तिनानोत्पत्तिद्वारा ब्रहाप्राप्तावेव पर्यवसान चेति प्रतिपादयता भगव- ता वासुदेवेनैव-बुभुक्षुभिरनुष्ठयानि फलाभिसन्धिसहितकर्माणि, मुमुक्षुभिरनुष्ठेयानि फलाभिसन्धि- विधुत्रिविधत्यागसहितकर्माणि --इति कर्मद्वविध्यमपि सम्यगुपपादितम् ॥ १७ ॥ अतः-'कर्मणा पितृलोकः' इत्यत्र कर्मशब्दः फलाभिसन्धिसहितविद्यानन्तःपातिकर्मविपयः, इहाविद्याशब्दः फलाभिसन्धिविधुरनिविधत्यारासहि विद्यान्तःपातिकमविषय इति न कश्चिद्विरोध गन्धः ॥१८॥ अत्र पितृलोकशब्द:-उपलक्षणविधया वा पितृशब्दविवक्षितकर्मफलानुभवितृलोकत्वेन वा ब्रह्मलोकपर्यन्तसर्वपुण्यलोकात्मकान्तरिक्षलोकमात्रपरः. 'अथ त्रयो वाव लोका मनुष्यलोकः पितृलो को देवलोकः इति' ॥ वृ॥ ३ ॥ ५ ॥ १६ ॥ इत्येतत्प्रकरणथलोकत्रयनिदंगस्य 'त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः' ॥ ७ ॥ ३ ॥ ५ ॥ ४ ॥ इति पूर्वप्रकृ. तलाकत्रयनिदंगसमानविषयत्वात् . इक्षतिकर्माधिकरणे त्रित्वेन लोकनिदाघटकान्तरिक्षलोकशब्द'. स्य चतुर्मुखलोकपर्यन्तोपरितनसर्वपुण्यलोकपरवाया भाष्यकारनिर्णीतत्वाञ्च ॥ १९ ॥ 'विद्यया देवलोकः' इत्यत्र देवलोकशब्दस्तु सर्वपुण्यलोकोनीपरमादाख्यनित्यपूर्यावामभूतभगव- लोकपरः,तटकदेवशब्दस्य यत्र पूर्व साध्यास्मन्ति देवाःयजुरारण्यके॥३॥१२॥७॥इत्युक्तनित्यसूरि- लक्षणदेवपरत्वात् देवलोको व लोकानां श्रेष्ठस्तस्माद्विद्यांप्रशंसन्ति' इत्यत्र प्रकरणविवक्षितदेवलोकस्य स- वलोकश्रेष्ठतायाः,तत्प्राप्तिहेतुविद्यायास्सर्वप्रशस्ततायाश्चाभिधानेन ते तं भुक्त्वा स्वर्गलोक विशालं क्षीणे पुण्ये मत्यलोक विशन्ति' ॥ गी ॥ ९ ॥ २१॥ 'आब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुन' ॥ गी ॥ ८ ॥ १६ ॥ इत्यादिषु निन्द्रमानपुण्यलोकपरत्वासम्भवात् , ईअतिकर्माधिकरणे आवणिकश्रुति- घटकलोकत्रयनिदश ब्रह्मलोकशब्दनिार्देष्टतृतोयलोकस्य परमपुरुषलोकताया निर्णीतत्वेन तत्स्थानी- यत्वात् 'तमेव विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते' इत्यादिनिर्देशवत् 'विद्यया देवलोकः' इति निर्देशस्यापि विद्याया एव परमपद प्राप्ति प्रति प्रधानहेतुत्वाभिप्रायकत्वाच ॥ २० ॥ एतदभिप्रायेणैव चहापि 'विद्ययाऽमृतमश्नुते' इति निदंगः ।। २१ ॥ न चैतावता कर्मयोगस्य वि- द्यां प्रति तद्द्वारा परमपुरुषार्थलक्षणमोक्ष प्रति च न प्रयोजकत्वमिति कथञ्चिदपि वक्तु शक्यं, 'तमतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति बजेन दानेन तपसाऽनाशकेन इत्यादिप्रागुदाहृत श्रुतिस्मृ त्यादिप्रमाणगणविरोधात् 'क्रियावानेष ब्रमविदा वरिएः' ।। मुण्ड॥३॥१॥४॥ यक्ष्यमाणो हवै भगवन्तो. ऽहमस्मि"कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इत्यादिप्रमाणप्रतिपन्नब्रह्मविदाचारविरोधात्', 'सर्वा- पेक्षा च यज्ञादिश्रुतरश्ववत् ।। ३।। ४।। २६ ।। 'सहकारित्वेन च ॥ ३ ॥ ४ ॥ ३३ ॥ इति सू. त्राभ्यां कर्मणां विद्योपकारकत्वसहकारित्वप्रतिपादकब्रह्ममीमांमाकतृभगवद्बादरायणाशयविरोधाच्च ।। २२ ।। इत्थं सर्वत एव कर्मणां ब्रह्मविद्योपकारकत्वसहकारित्वयोः प्रतिपन्नत्वादेवेहापि --'कुर्वन्नेवेह कर्माणि' इत्यादिना विद्यां चाविद्याञ्च' इत्यादिना च ब्रह्मविदमुद्दिश्यैव ब्रह्मविद्याकर्मयोगयोरुभ- योरनुष्ठान विधीयत इति न कश्चिद्विरोधः ॥ २३ ।। एतेन-ब्रह्मविद्याकर्मयोगयोः परस्परविरुद्धफल- कत्वन नयोरुभयोरनुष्ठान ब्रह्मविदो न सम्भवतीत्यभिसन्धाय-'कुर्वन्नेव' इत्यादेः-"विद्यां चाविद्याञ्च' इत्यादेश्चाविद्वदधिकारिपरतया शङ्करतदनुयायिकृत व्याख्यानमसमञ्जसमेव। दर्शितप्रमाणगणैः कर्मणां विद्योपकारकत्वसहकारित्वयोस्सिङ्ख्या ब्रह्मविदः कर्मयोगब्रह्मविद्ययोरनुष्ठानासम्भववादस्यायुक्तत्वात् , अविद्वदधिकारिणं प्रति वक्तव्यं कृत्स्नं कर्मयोग प्रागेव कर्मकाण्डे विविच्याभिधाय तन्निरूपणसमाप- म मं-११.] भाष्यत्रयोपेता. - श्री॥नानन्तरं प्रवृत्ते ज्ञानकाण्डेऽस्मिन् पुनस्सामान्येन तं प्रति कर्मयोगविधानस्य निष्प्रयोजनत्वात् वि. द्वत्प्रकरणमध्येऽविदुषः प्रसङ्गस्यैवासम्बद्धत्वात् , अविद्वदधिकारिण प्रत्यमृतप्रातिप्रयोजकविद्याभिधा- नायोगाश्च ॥ २४ ॥ अन विद्यापरत्वमस्वीकृत्याचीनदेवताज्ञानपरत्वेन- 'अमृतमश्नुते' इत्यस्य ब्रह्म- प्राप्तिपरत्वमस्वीकृत्यावर्वाचीनदेवतात्मभावप्राप्तिपरत्वेन च शङ्करकृतं व्याख्यानमप्यनुपादेयं, साक्षादे तच्छुत्युपबृहणभूतप्रमाणविरुद्धत्वात् , ब्रह्मवित्प्रकरणविरुद्धत्वाच ॥ २५ ॥ 'इयाज सोऽपि सुबहून् यज्ञाञ् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तुम्मृत्युमविद्यया' ॥ ६॥ ६ ॥ १२ ॥ इति विष्णुपु- राणवचनं-'तपो विद्या च विप्रस्य निश्श्रेयसकरं परम् । तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ।। १२ ॥ १०४ ॥ इति मनुवचनं च हि साक्षादेतच्छ्रुत्युपबृंहणभूतम् ॥ २६ ॥ अत्र हि 'ब्रह्मविद्या- मधिष्ठाय' इत्यनेन-'पर निश्श्रेयसकरम्' इत्यनेन च दर्शितश्रुतिगतस्य विद्याशब्दस्य ब्रह्मप्राप्तिलक्षण- परमपुरुषार्थहेतुपरविद्यापरत्वम् 'अमृतमश्नुते' इति शब्दस्य तादृशपुरुषार्थपरत्वं च प्रस्फुटमेव व्या- ख्यातम् ॥ २७॥ प्रसिद्धश्वोपनिषत्सु ब्रह्ममातिलक्षणपरमपुरुषार्थपर एवामृतप्राप्तिनिर्देशो बहुधा ॥ २८ ॥ बृहदारण्यके चतुर्थाध्याये पञ्चमब्राह्मणे प्रथमादिषु चतुर्दशसु खण्डिकासु-'एष त आत्मा- ऽन्तर्याम्यमृतः' इति । एवमन्यत्रापि च बहुलममृतशब्दो ब्रह्मपर एव प्रयुज्यते ॥ २९ ॥ एवं- 'कर्मणा पितृलोकः' इति श्रुतौ विद्याशब्दस्य देवतात्मज्ञानपरत्वमाश्रित्य तदैककण्ठनात्नत्यविद्याश- ब्दस्यापि तत्सरस्ववर्णनमप्यसङ्गतं, तथा सति कर्मविद्ययोः परस्परविरुद्धफलत्वेन समुच्चयासम्भवाभिप्रा. यकस्य तत्र तदश्रवणस्यात्र तत्सम्भवाभिप्रायकस्य तच्छ्वणस्य च सन्दर्भविरुद्धत्वात् ॥ ३० ॥ कर्म- सामान्यस्य ब्रह्मविद्याविरोधित्वाभिमानेनेह विद्याविद्ययोस्समुच्चयश्रवणान्नेयं श्रुतिब्रह्मविद्विषया किन्त्व- विद्वद्विषयैवेत्यभिप्रायेण व्याख्यानमप्यसत्, फलाभिसन्धिसहितस्य कर्मणो मोक्षविरोधितत्तदर्वाचीन- फलहेतुत्वेन ब्रह्मविद्या विरोधित्वसम्भवेऽपि फलाभिसन्धिरहितप्रागुक्तलक्षणत्रिविधत्यागसहितकर्मणां प्रत्युत ब्रह्मविद्यानिष्पत्तिप्रयोजकत्वस्य प्रागुक्तप्रमाणगणसिद्धत्वेन कर्मसामान्यस्य ब्रह्मविद्याविरोधि- ताया असम्भावितत्वात् ॥ ३१ ॥ यदपि - बृहदारण्यकोपनिषदि षष्ठाध्याये 'किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लो. का' । बृ ॥ ६ ॥ ४ ॥ २२ ॥ इति-ब्रह्मविदाङ्गार्हस्थ्यत्यागदर्शनं, श्वेताश्वेतरोपनिषदि 'अत्याश्र- मिभ्यः परम पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ ६ ॥ २१ ॥ इति तुर्याश्रमिषु ब्रह्मविद्योपदेश. दर्शन चोपजीव्य तादृशानामेव विद्याधिकार तेष्वमिहोत्रादिकर्माभावेन कर्मणो विद्यानपेक्षितत्वं च निश्चित्य मुमुक्षोब्रह्मविद्यानिष्ठस्य विद्यासाहचर्येण कर्मणोऽनुष्ठानप्रसङ्गाभावेन विद्याविद्ययोस्समुच्चये- नानुष्ठानविधायिनी 'विद्याञ्चाविद्याञ्च' इत्यादिरियं श्रुतिरविद्वद्विषयैवेत्यभिप्रायकं शाङ्करव्याख्यानम्॥ तदप्यसत्-- सूत्रकारेण 'तमेत वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽना- शकेन' ॥ ॥ ६ ॥ ४ ॥ २२ ॥ इत्यादिश्रुत्या कर्मणां ब्रह्मविद्यासाधनत्वावगमादुपनिषत्सु गृहस्था- नामेव प्रायशो ब्रह्मविद्यानुष्ठानदर्शनाच हेतोः तुर्याश्रमिणां विद्यासाधनकर्माभावेन विद्यानधिकार- मेवाशङ्कय तेषामप्यमिहोत्रादिकर्माभावेऽपि स्वाश्रमानुगुणजपतपःप्रभृतिविद्योपकारककर्मसम्भवमुप- पाद्य कथंचिदेव तेषां विद्याधिकारस्थापनाद्गृहस्थानामेव विद्यायामधिकारस्य मुख्यतयाऽवगमेन तेषां विद्यानधिकारकथायाः कर्मणां विद्यानुपकारकत्वकथायाश्च सुदूरपराहतत्वात् ॥ ३३ ॥ अत एव च श्वेताश्वतरोपनिषदि तपः प्रभावाद्देवप्रसादाच ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसञ्चजुष्टम् ॥ ६ ॥ २१॥ इत्येतन्मन्त्र एव पूर्वार्धे तुर्यान- 7 - ईशावास्योपनिषत् [मं.१२. अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥ १२ वेतदेवमुपास्यं परमात्मतत्त्वं साङ्गतदुपासनरूपं च परमहित परमपुरुषार्थपर्यन्तमुपदिश्यानन्तरं त्रिभिश्श्लोकः प्रतिबन्धनिवृत्तिपरब्रह्मानुभवरूपयोः फलपर्वणोस्समुच्चित्यानुसन्धान विद्याङ्गत्वेनोपादेय कू॥एवं समाधिनिष्पत्तेरनभिसंहितफलनित्यनैमित्तिककर्मसाध्यत्वमुपदिश्यानन्तरं त्रिभिश्श्लोक निषिद्धनिवृत्तिरूपयोगाङ्गसाध्यत्वमाह । तत्र प्रथमं पूर्ववदेकैकमात्रनिष्ठान्विनिन्दति-अन्धं तमः - श्री॥मिणोऽपि श्वेताश्वतरस्याचार्यस्योपासनोपकारकतपःप्रभावशब्दितकर्मसहकारेण तत्सहकृतोपासन- प्रीतभगवत्प्रसादेन च ब्रह्मविद्यानिष्पत्तिप्रतिपादनेन विद्याविद्ययोस्समुच्चयेनानुष्ठानमेव दर्शितम्॥३४॥ एवं तवैवोपरितनमन्त्रे---'वेदान्ते परमं गुह्य पुरा कल्ये प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्राया- शिष्यायवा पुनः' ॥ ६ ॥ २२ ॥ इत्येवंरूपे पुत्राय विद्योपदेशकर्तव्यताप्रतिपादके गृहस्थानामपि प्रत्युत विद्यायामधिकारसद्भाव एव प्रतिपद्यते ॥ ३५ ॥ अत एव च्छान्दोग्योपनिषद्यष्टमप्रपाठके पञ्चदशे खण्डे ब्रह्मविद्योपदेशान्ते गुरोलब्धब्रह्मविद्योपदेशस्याधिकारिण:--- 'कुटुम्बे शुचौ देशे' इ- त्यारम्य स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते' इति यावदायुषं गाईस्थ्य एवं कर्मानुष्ठानेन सहस्थितिरन्तेऽपुनरावृत्तिलक्षणब्रह्मप्राप्तिरूपपरमपुरुषार्थ प्राप्तिश्चाभिहिता ॥ ३६ ॥ इत्थमेव च सूत्रकारेणापि 'कृत्स्वभावात्तु गृहिणोपसंहारः ॥ ३ ॥ ४ ॥ ४७ ॥ इति सूत्रे सर्वेष्वाश्रमिषु विद्यासद्भावादेवात्र गृहस्थाश्रमेणोपसंहारः कृत इत्यस्याश्भुतेरथों विवृतः ॥ ३७॥ तस्मात् ब्रह्मविद्यायामाश्रमान्तनिष्ठानामनधिकारात्तुर्याश्रमनिष्ठानामेवाधिकारात्क मंगां गृहस्थाश्रममात्र विश्रान्तत्वेन तुर्याश्रमनिष्ठानां तदभावाच्च कर्मणां ब्रह्मविद्यानपेक्षितत्वेनेह विद्या- विद्ययोस्सहानुष्ठानप्रतिपादनमविद्वद्विषयमेवेति शाङ्करव्याख्यानमसमञ्जसं श्रुतिविरुद्धं सूत्रकारानभिम- ते चेति सिद्धम् । प्रागुदाहृतप्रमाणैर्विद्यायास्सर्वाश्रमिसाधारण्यस्यैवावगमात् , तुर्याश्रमिणामग्निहोत्रा दिकतिपयकर्मीभावेऽपि जपतपःप्रभृतिस्वाश्रमानुगुणकर्मसद्भावात्तत्सहकारेणैव विद्यासिद्ध्यवगमाच्च विद्मायाः कर्मसाहचर्येणानुष्टेयत्वप्रतिपादने विरोधगन्धाभावात् , विद्वत्प्रकरणमध्येऽविदुषः प्रसङ्गले- शाभावाच ॥ ३८ ॥ तथाच-यथोक्तलक्षण एवार्थोऽस्याश्रुतेस्स्वीकर्तुमुचितो विद्वद्भिः ॥ ३९ ॥ इत्यलमतिविस्तरेण ॥ ४ ॥ इत्येकादशमन्त्रव्याख्यानम् ॥ ११ ॥ इमं सन्नं नवममत्रतया माध्यंदिनाः, द्वादशमन्त्रतया काण्वाश्च पठन्ति ॥ १ ॥ इतः पूर्व प्राप्यपुरुषार्थोपायभूत कर्माङ्गकब्रह्मोपासनरूपविद्यालक्षणं परमहितमभिहितम् ॥२ ॥ इतः परं पुरुषा- नामैश्वर्य कैवल्यभगवत्प्राप्तिलक्षणानां विध्यात् - ब्रह्मविदमैश्वर्यकैवल्याभ्यामर्वाचीनपुरुषार्थाभ्याम- स्थिस्वाल्पत्वदोषदुष्टाभ्यां निवर्त्य भगवत्प्राप्तिलक्षगपरमपुरुषार्थ एव प्रवर्तयितुमितरपुरुषार्थयोर्दोष- ज्ञापनेन, तनिष्ठान्विनिन्छ परमपुरुषार्थप्रयोजकेतर पुरुषार्थव्यावर्तकावान्तरफलान्तरानुसन्धानमपि वि. द्याङ्गतयोपादेयमिति प्रतिपाद्यते द्वादशादिभिस्त्रिभित्रैः ।। ३ ।। अत्र द्वादशस्यास्य मन्त्रस्य पदविवरणम्-ये पुरुपाः, असंभूति-संभूतिसम्भवः तस्या निवृत्तिरसम्भूतिः - विग्रहपरिग्रहनिवृत्तिरिति यावत्-तामसम्भूतिम् - उत्तरार्धस्थ एवकारार्थक उका- स प्रागिवार्थसामर्थ्यादिहापि सम्बध्यते - असम्भूतिमु-एकान्ततो विग्रहपरिग्रहनिवृत्तिमेव । उपासते- तन्मात्रोद्देश्यकोपासननिष्ठा भवन्तीत्यर्थः । ते-पुरुषाः । अन्धं तमः प्रविशन्ति - गाढमज्ञानं , 4 मं-१२.] साष्यत्रयोपेता. ५१ अन्यदेवाहुस्सम्भवादन्यदाहुरसम्भवात् । वे॥मित्युच्यते । तत्र प्रथममेकैकमात्रानुसन्धान निन्दति-अन्धं तमः रता इति। एतमितः ग्रे- त्याभिसम्भवितास्मि' 'धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि' इत्यादिषु ब्रह्मप्राप्तिरूपा सम्भूतिरुक्ता । तां पर्युदस्यनयमसंभूतिशब्दः तदासन्नप्रतिबन्धविनाशमभिधत्ते । 'सम्भूतिं च विना. शञ्च' इत्यपि हि अनन्तरमुच्यते । तेन चात्रासम्भूतिशब्देन सम्भूतेरनुत्पत्तिः विनाशो वा प्रतिपाद्यः। अमृतप्राप्तिहेतुतयोक्तायास्सम्भूतः प्रागभावस्य प्रध्वंसस्य वा मृत्युतरणहेतुत्वेन वक्तुमयुक्तत्वात् । अत्रापि तरतेः प्राप्तिवचनत्वं पूर्ववत्प्रतिक्षेप्यम् ॥ १२ ॥ कु||प्रविशन्तीति। एतमितः प्रेत्याभिसम्भवितास्मि' 'ब्रह्मलोकमभिसम्भवामि' इत्यादिषु प्राप्तिरूपा अनुभूतिः सम्भूतिशब्देनोक्ता । इह तु समाधिरूपा मा सम्भूतिशब्देनोच्यते। असम्भूतिशब्दस्तु समा. धिरूपसम्भूत्यन्यां समाध्यङ्गभूतां निषिद्धनिवृत्तिमाह । 'सब्भूतिं च विनाशञ्च' इत्युत्तरत्र विनाशश- ब्देनासम्भूतेरनुवादात् । तथा च ये-विद्याधिकारिणः असम्भूतिमेव मानदम्भहिंसास्तेयादीनां योग- विरुद्धाना निवृत्तिमेवोपासते-निवृत्तिमात्रनिष्ठा इत्यर्थः । ते 'अन्धं तमः प्रविशन्ति' इति पूर्ववदर्थः । ये पुनस्समाधिरूपसम्भूत्यामेव रताः, ते ततो भूय इव बहुतरमिव तमः प्रविशन्तीत्यर्थः ॥ १२ ॥ - , श्री॥विशन्ति - प्रकृष्टमज्ञानमेव प्राप्ता भवन्तीति यावत् । 'नह वै सशरीरस्य सतः प्रियाप्रिययोरपहति- रस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥छा ॥ ८ ॥ १२ ॥ १॥ इति श्रुत्यनुरोधादनु- भवानुरोधाश्च यावच्छरीरपरिग्रहानुवृत्ति सुखदुःखानुवृत्तिरपरिहार्या,शरीरपरिग्रहानुवृत्तिश्च यावत्प्रकृति- सम्बन्धमपरिहार्यव । अत आत्यन्तिकशरीरपरिग्रहनिवृत्तिरेव मे भवस्वित्यभिसन्धायासम्भूतिमालोद्दे- श्यकोपासननिष्ठा ये भवन्ति तेषां तादृशोपामनेन कैवल्यपुरुषार्थ एव पर्यवसानेन तस्य च नित्य- त्वेन ततः परं कदाचिदपि भगवत्प्राप्तिलक्षणपरमपुरुषार्थानवकाशाच्च तत्प्रतिबन्धकं महदेव तमस्ते प्रामवन्नो भवन्तीति भावः । ये-पुरुषाः, सम्भूत्यामु - शरीरपरिग्रह एव, रताः-उपादेयत्वबु- -पुनःपुनर्भोगोपकरणशरीरपरिग्रहोद्देश्यकोपासनकनिष्ठाः, ते, तत:-असम्भूत्युद्देश्य- कोपासाननिष्ठापेक्षया, भूय इव-अत्यन्तमेव प्रागिवेहापीयकार एवकारार्थकः । 'तमः प्रविशन्ति' इत्यन्वयः । तदीयाज्ञानापेक्षयाऽत्यधिकमज्ञान प्राप्तवन्ती भवन्त्येत इति यावत् । करणकलेबरायुपक- रणामवि भोग एव न सम्भवति,अनुभवानुरोधात् । आनन्दलक्षणो भोग एव च सर्वापेक्षितः, तद- थमेव च सर्वेषां प्रवृत्तिदर्शनात् । निर्दुःखमात्रावस्थानं च नेष्टतमम् । अत आनन्द लक्षणभोगोपक- । रणदेहादिपरिग्रह एव मे भवत्वित्यभिसन्धाथ सम्भूतिमात्रोद्देश्यकोपासननिष्ठा ये भवन्ति, तेषा ता- इशोपासनेन भोगैश्वर्यलक्षणपुरुषार्थ एव पर्यवसानेन तस्य च कैवल्यपुरुषार्थादप्यल्पस्वादस्थिरत्वाद- वर्जनीय पुनःपुनरागन्तुकदुःखमिश्रल्वाद्भगवत्प्राप्तिलक्षणपरमपुरुषार्थप्रतिबन्धकत्वाविशेषाच कैवल्य निष्ठेभ्योऽप्यत्यन्ताधिक तमः प्राप्तवन्तो भवन्त्यत इति भाव इति॥ ४॥ इति द्वादशमन्त्रव्याख्यानम्।। इमं मनं दशममन्नतया माध्यंदिनाः पठन्ति ॥१॥ 'व्याचचक्षिरे' इति स्थाने 'विचचक्षिरे' १. छा. उपः ३-१४-४॥ ३. अभिसम्भवानि' इत्येवसर्वत्र पाठ ॥ - -- २.छा. उप.41 M ५२ ईशावास्योपनिषत् [मं.१३-१४ इति शुश्रुम धीराणां ये नस्तद्वयाचचक्षिरे ॥ १३ सम्भूतिं च विनाशं च यस्तद्वेदोभय सह । विनाशेन मृत्यु तीर्खा सम्भूत्याऽमृतमश्नुते ॥ वे||अन्यदे . स्तद्विचचक्षिरे इति । अत्र तच्छब्दस्समुच्चित्यानुसन्धेयतया वक्ष्यमाणद्वितयं वक्ति ॥ १३ ॥ अत्रापि 'अन्यत्' इत्युक्तं विवृण्वन्विद्याङ्गमुभयानुसन्धानमाह-सम्भूति...सहेति । तस्यैव फलप्रदर्शनेनावश्यकर्तव्यतां स्थापयति-विनाशेन मश्नुते इति । अनुसन्धीयमानेन-विनाशेन प्रतिबन्धमपोह्य, सम्भूत्या-अनुसन्धीयमानया ब्रह्म प्राप्नोति । सम्भूतिविनाशानुसन्धानरूपेऽङ्गे स्तुत्य- कूकिं तर्हि मोक्षसाधममित्यत्राह-अन्यदेवाहुरिति । सम्भवात् - सम्भूतेः, असम्भवात्- असम्भूतेरित्यर्थः । केवलात्सम्भवादसम्भवाच अन्यदेव मोक्षसाधनमित्युपनिषद आहुः । लिडुत्तमः पूर्ववत् । स्पष्टमवशिष्टम् ॥ १३ ॥ 'अन्यत्' इत्युक्तं विवृणोति-सम्भूतिश्चेति । सम्भूतिञ्च-समाधिरूपब्रह्मानुभूतिञ्च, विना- शञ्च-मानदम्भहिंसास्तेयबहिर्मुखेन्द्रियवृत्तिविशेषरूपा ये योगविरोधिनः, तेषा विनाशं वर्जन चेत्ये- तदुभयं यो विद्वान् अङ्गाङ्गिभावेन सह वेद, स विद्वान् विनाशेन निषेव्यमाणेनेति शेषः । वि. श्री॥ इति च ॥ २॥ अस्य त्रयोदशस्य मन्त्रस्य विवरणम्-सम्भवात् प्रागुक्तलक्षण सम्भूत्युद्देश्यकोपा- सनसाध्यविग्रहपरिग्रहलक्षणावान्तरफलात् , अन्यदेव-असम्भूत्युपासनावान्तरफलप्रयोज्यकैवल्यलक्षण- परमफलादन्यदेव भोगैश्वर्यलक्षणं परमं फलम् , आहुः-जायमानं प्रतिपादयन्ति, शास्त्राणीति शेषः । असम्भवात् । प्रागुक्तलक्षणासम्भूत्युद्देश्यकोपासनसाध्यात्यन्तिकविग्रहपरिग्रहनिवृत्तिलक्षणावान्तरफ अन्यदेव-सम्भूत्युपासनावान्तरफलप्रयोज्यभोगैश्वर्यलक्षणपरमफलादन्यदेव केवलात्मानुभवल- क्षणं परमं फलम् , आहुः । धीराणां - विद्वदग्रेसराणाम्, इति । इत्थंभूतं वचनं, शुश्रुम-आक- र्णयामः । इहापि लडथै लिट् प्राग्वत् । ये धीराः अस्मदाचार्याः, न:-अस्माकं, तत् - पृथक्कृतस. म्भूत्यसम्भूत्युपासनपरमफलद्वयम्, व्याचचक्षिरे-व्याख्यातवन्तः । 'विचचक्षिरे' इति पाठेऽप्यय- मेवार्य इति ॥ ३ ॥ तथाच-सम्भूत्यसन्भूत्योरेकैकमात्रोद्देश्यकोपासनकरणे द्वयोरुपासनयोः परस्पर विलक्षणपुरुषार्थद्वयपर्यवसानेन परमपुरुषार्थलक्षणैकपुरुषार्थपर्यवसायित्व न सम्भवति ; अतः पृथगे- कैकावान्तरफलस्य प्राप्यतयाऽनुसन्धानं न कर्तव्यमिति फलितम्॥४॥ इति त्रयोदशमन्त्रव्याख्यानम्।। इमं मन्त्रमेकादशमन्त्रतया माध्यंदिनाः पठन्ति ॥१॥ काण्वास्तु चतुर्दशगन्त्रतया ।। २ ॥ अस्य मन्त्रस्य पदविवरणं-यः पुरुषः, सम्भूतिश्च सम्भूत्युपासनफले विग्रहपरिग्रहञ्च, विनाशच. विग्रहपरिग्रहनिवृत्तिलक्षणामसम्भूत्युपासनफलभूतामसम्भूतिञ्च, तदुभयं, सह-समुच्चयेन, वेद- अवान्तरफलत्वेन प्राप्यतयोपास्ते, स इति शेषः । सः-पुरुषः । विनाशेन असम्भूत्युपासनसिद्धक- मांधीनप्राकृतविग्रहपरिग्रहयोग्यतानिवृत्त्या, मृत्युं-ब्रह्मप्रातितिबन्धकं प्रकृतिसम्बन्धं, तीळ-नि- श्शेषमतिलद्धय । सम्भूस्या-संभूत्युपासनाधीनकर्मानधीनाप्राकृतविग्रहपरिग्रहयोग्यतासिङ्ख्या, अमृ.. तं-परमपुरुषार्थरूपं परं ब्रह्म, अश्नुते-अनुभवति-इति ।। ३ ।। परब्रह्मानुभवस्य तदीयगुणानुभवजनितानवधिकातिशयप्रतिकारिताशेषावस्थोचिताशेषशेषतक: रतिरूपनित्यकैकयप्राप्तिपर्यवसायिनो विग्रहपरिग्रहमन्तरेणासम्भवेन केवलासम्भूतिप्राप्त्युद्देश्यकोपासने लात्, - , ।
मं-१४.] भाष्यत्रयोपेता. वार्थ यथोचितमङ्गिफलनिर्देशः।यद्वा "विनाशेन-मृत्यु तीत्वा' इति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहा- राय विनाशशब्देन मानदम्भादीनां हिंसास्तेयादीनां बहिर्मुखेन्द्रियवृत्तीनां च विनाशो विवक्षितः । अतो विरुद्ध निवृत्तिरूपाङ्गसेवनेन समाधिविरोधिपापमपाकृत्य समाधिनिष्पत्तिरूपब्रह्मसम्भूत्या तदेवा- श्नुते । अत्र सम्भूतिविनाशशब्दाभ्या सृष्टिप्रलयादिविवक्षया मृत्युतरणामृतप्राप्तिरूपफलविभागवच- नस्यौचित्यलवोऽपि नोपलभ्यते ॥ १४ ॥ निष्पन्नया स. -- कूरोधिनिवृत्तिरूपयोगाङ्गसेवनेनेत्यर्थः। मृत्युं समाधिविरोधिपापं तीत्वा अपाकृत्य, म्भूत्या - अमृतम् अश्नुते - प्राप्तिरूपा सम्भूतिमेवाश्नुत इति भावः । अयमेव दम्भादिविनाशो बृहदारण्यके तस्माद्राह्मणः पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत्' इति बाल्यशब्देन विद्याङ्गतया वि- हितः । अत्र सम्भूतिविनाशशब्दाभ्यां सृष्टिप्रलयविवक्षया कार्यहिरण्यगर्भस्य अव्याकृतप्रधानस्य चो. पासनं विधीयत इति शाङ्करव्याख्यानमनुपपन्नं, तथा सति मृत्युतरणामृतत्वप्राप्तिरूपफलवचनानौचि त्यादिति ॥ १४ ॥ श्री॥च सामान्यतोऽशरीरत्वस्यैव सिद्ध्या कैवल्यपुरुषार्थ एव पर्यवसानाद्विग्रहपरिग्रहयोग्यताया एव वि- लयेन तदर्थ सम्भूत्युपासनस्याप्यावश्यकत्वात्, सम्भूत्यसम्भूत्युपासनयोयोरप्यनुष्ठाने च असम्भूत्युपा- सनस्य सम्भूत्युपासनाविरोधाय दुःखहेतुतया प्राक्परिचितकर्माधीनप्राकृतविग्रहपरिग्रहयोग्यताविलय एव पर्यवसानसम्भवात् , सम्भूत्युपासनस्यासम्भूत्युपासनाविरोधाय कर्माधीनप्राक्परिचितदुःखहेतुप्रा- कृतशरीरविलक्षणाप्राकृतदुःखादिदोषगन्धानहदिव्यविग्रहपरिग्रहयोग्यतासिद्धावेव पर्यवसानसम्भवा- चास्थिरत्वाल्पत्वादिदोषसम्भिन्नैश्वर्यकैवल्यपुरुषार्थपर्यवसानमन्तरेण भगवत्प्राप्तिरूपपरमपुरुषार्थलक्षण. मोक्ष एव पर्यवसानं ब्रह्मविदस्सम्भवति; अतस्संभूत्यसंभूत्युभयोद्देश्यकमेवोपासनमावश्यकमिति भावः॥ भगवत्प्राप्तिलक्षणपरमपुरुषार्थरूपपरममोक्षभागिनां कर्मानधीनैच्छिकानेकविग्रहपरिग्रहयोग्यता- ऽस्तीति तु · 'स एकधा भवति त्रिधा भवति पञ्चधा' ॥ छा ॥ ७ ॥ २६ ॥ २ ॥ इत्यादिश्रुति सिद्धम् ।। ५ ।। अत एव च - सूत्रकारेणापि चतुर्थांच्यायचतुर्थपादेऽभावाधिकरणे---मुक्तस्य सङ्क- ल्यमानतश्शरी रेन्द्रियादिपरिग्रहतदभावो भवत इति-कर्मनिमित्तशरीरस्यैव प्रियाप्रियहेतुत्वादि- च्छाधीनशरीरस्य तदभावाच न दुःखगन्धप्रसङ्ग इति ; एवं च सति मुक्तस्य 'आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' ।। छां ॥८॥ १२ ॥ १ ॥ इत्यादिरशरीरत्वप्रतिपादनपरा श्रुतिः कर्मनिमित्तशरीराभाव. परा; 'स एकधा भवति त्रिधा भवति पञ्चधा' ॥ छो॥ ७ ॥ २६ ॥ २॥ इत्यादिस्सशरीरत्वप्र- तिपादनपरा श्रुतिः कर्मानधीनसङ्कल्पमात्राधीनविग्रहपरिग्रहपरा , अतो न परस्परविरोध इति च राधा- न्तितम् ॥ ६ ॥ तस्माद्भगवत्प्राप्तिलक्षणपरममोक्षनिष्ठस्य सम्भूत्यसम्भूत्युभयोद्देश्यकमेवोपासनमावश्यक- मिति श्रुतेरभिप्रायः ॥ ७ ॥ यद्यपि-'तस्य सर्वेषु लोकेषु कामचारो भवति ॥ छ ॥ ७ ॥ २५ ॥ २ ॥ इत्यादिश्रुतिभिः प्राकृतलोकेष्वपि मुक्तानां कामचारप्रतिपादनात्साधारणयोगिमात्रपरकायप्रवे- शादिशक्तेः 'सर्वमाप्नोति सर्वशः' ॥ छां ॥ ७॥ २६ ॥ २॥ इति श्रुतिबलेन तेषामपि दुरपडवत. या कर्माधीनपरकीयप्राकृतशरीरप्रवेशस्यापीच्छया कदाचित्सम्भवेन कर्माधीनप्राकृतशरीरसम्बन्धाभा- वपर्यवसिताप्यसम्भूतिस्तेषां दुरुपपादा ॥ ८॥ तथापि तादृशशरीरसम्बन्धस्य तेषामिच्छामांत्राधीनत- 3B १. वृ. ५-५-२ ॥
५४ ईशावास्योपनिषत् [मं-१४. क श्रीया तत्प्रयोज्यकर्माधीनफलभोगस्य तेपामसम्भवेन स्वप्रयोज्यकाधीनफलभोगाश्रयत्वसम्बन्धेन श रीरसम्बन्धाभावरूपा ह्यसम्भूतिस्तेषां सूपपादैवेति नोक्तानुपपत्तिरित्यवधेयम् ॥ ९ ॥ सिद्धान्ते कपाल, वावस्थायाः प्राक् स्थितघटत्वावस्थानिवृत्तिरूपाया एव तद्धसरूपत्वाङ्गीकारेणातिरिक्तध्वंसाख्यपदार्थ स्यैवानङ्गीकारादसम्भूतेरपि प्राक् स्थितप्राकृतशरीरपरिग्रहरूपसम्भूत्यवस्थानिवृत्तिरूपत्वेन तद्विनाशरू- पत्वादेव विनाशशब्देन तन्निर्देशः ॥ १० ।। यत्पुनरत्र-सम्भूत्यसम्भूत्युपासनयोाकृताव्याकृतलक्षणप्रकृतितत्त्वोपासनपरं शङ्करं व्या- ख्यानम् ॥ ११॥ तदसमञ्जसमू-ईट्छब्दितस्य परस्य ब्रह्मणस्स्वेतरसर्वचेतनाचेतनविलक्षणत्वस- वात्मकत्वादिप्रतिपादनेन सर्वोत्कृष्टत्वं प्रतिपाद्य मुमुक्षोस्तदुपासनमेव कर्तव्यं नान्यस्य' इति प्रतिपाद- नपरतया ब्रह्मविद्यैकपरेऽस्मिन् प्रकरणे मध्ये पूर्वोत्तरग्रन्थसङ्गतिमन्तरेणैव तद्विरुझार्वाचीनफलहेतुव्या- कृताब्याकृतलक्षणप्रकृतितत्त्वोपासनविधानस्य प्रसङ्गलेशाभावात् ।। १२ ॥ किञ्च - अस्मिन् प्रकरणे सम्भूत्यसम्भूत्युपासनयोर्व्यस्तयोः प्रत्येकमनुष्ठितयोरनिष्टफलाभिधानपूर्वकं समुच्चयेन तयोयोरनुष्ठानाव- श्यकता प्रदर्श्य तथानुष्ठाने मृत्युतरणपूर्वकामृतप्राप्तिलक्षणं फलं सिद्ध्यतीत्यभिधीयत इत्यवगम्यते । १३ ॥ इदञ्च शङ्करकृतव्याख्याने सङ्गतं न भवति - यतस्तेन असम्भूत्युपासनस्याव्याकृतप्रकृतितत्त्वो- पासनरूपस्य प्रकृतिलयात्मकममृतशब्दितं फलमिति सम्भूत्युपासनस्य व्याकृतप्रकृतितत्त्वोपासनरूपस्य कार्यब्रह्मोपासनपर्यवसन्नस्याणिमाद्यैश्चय फलमिति तदुभयमप्यमुमुक्षुसंसारिकासितफलविशेषरूपमेवे- ति चाभिधीयते ।। १४ ॥ एवं सति हि प्रत्येक क्रियमाणयोरेतयोरुपासनयोस्तत्तत्संसायंधिकारिका- सितफलविशेषसिद्धिरेव भवतीति तयोः प्रत्येक कृतयोरनिष्टफलावाप्त्यभिधानम्-'अन्धं तमः प्रवि- शन्ति' इत्यादिना कृतं नोपपद्यते ॥ १५ ॥ एवं समुच्चयेन तयोरुभयोरुपासनयोरनुष्ठानविधानमपि न सङ्गच्छते-अणिमाद्यैश्वर्यप्रातिप्रकृतिलयलक्षणयोः फलयोः परस्परविरुद्धत्वेन युगपत्साधनासम्भवात्, प्रत्युत प्रत्येकमेवानुष्ठिताभ्यां ताभ्यामुपासनाभ्यां क्रमेणैव तयोः फलयोस्माधनसम्भवेन तयोरुपासनयोः प्रत्येकानुष्ठानेऽनिष्टफलावाप्त्यभिधानेन निन्दनपूर्वकं समुच्चयेन युगपदनुष्ठान विधानस्योपपत्तिलेशानुप- लम्भाच्च ।। १६ ॥ न च समुच्चयेनानुष्ठितयोस्तयोरुपासनयोरन्यदेव किञ्चिदविरुद्धं फलमुच्यत इति तेनाभिधीयते, येन प्रत्येकानुष्ठाननिन्दापूर्वकं समुच्चयेन द्वयोरुपासनयोर्विधानं कथञ्चिदुपपद्येत ।।१७।। उच्यते च प्रत्युत तेन 'मृत्यु ती| इत्यस्य अणिमाद्यैश्वर्यप्राप्तिलक्षणफलपर्यवसन्नानैश्वर्या धर्मकामादि- लक्षणमृत्युतरणपरत्वम्-'अमृतमश्नुते' इत्या प्रकृतिलयलक्षणफलपरत्वञ्च व्याकुर्वता समुच्चयेनानुष्ठित- योरपि तयोपासनयोः प्रत्येकानुष्ठिततत्साध्यफलद्वयप्राप्तिप्रतिपादनपरत्वमेवास्याश्श्रुतेः ।। १८ ।। तच्चासम्बद्ध-परस्परविरुद्धयोर्द्वयोः फलयोर्युगपत्प्राप्त्यसम्भवात् , क्रमेणैव तत्प्राप्तेर्विवक्षितत्वे च तयो- रुपासनयोः प्रत्येकानुष्ठानदूषणपूर्वक समुच्चयेन युगपदनुष्ठानविधानानुपपत्तेश्च ।। १९ ।। एवम्मुमुक्षुवि- षयपरविद्याप्रकरणेऽस्मिन् - 'मृत्यु तीत्वा' इत्यनेन प्रतिपनस्य मृत्युतरणस्य संसारतरणरूपताम् , 'अमृतमश्नुते' इत्यनेन प्रतिपन्नाया अमृतप्राशर्बसमाप्तिरूपताञ्च स्वरसतः प्रतीयमानां विहाय मध्ये सतिलेशविधुरखुभुक्षुपासनप्रसङ्ग स्वैरं परिकल्प्य तदानुगुण्येन मृत्युतरणामृतप्राप्त्योस्सांसारिकफल- विशेषरूपाणिमाद्यैश्वर्यप्रकृतिलयरूपतावर्णनंचाममासमेव ।। २० ॥ तत्नापि प्रकृतिलयस्यामृतशब्दा- यंतावर्णनं सुतरामसमञ्जसम् , मरणाभावपरामृतशब्देन तद्बोधनासम्भवात्, उपासनविशेषेण प्रकृति- लीनानामपि विनवोपासनविशेष कालवशान्महाप्रलये प्रकृतिनिलीनवदेव पुनःपुनस्सृष्टिषु यावत्मक. तिसम्बन्धं जननमरणाद्यवस्थाया दुरित्वात् ॥ २१॥ एवं--'सम्भूति च विनाशञ्च' इत्यत्र - अस- - म-१४.] भाष्यत्रयोपेता. श्रीगम्भूतेस्सम्भूतिनिवृत्तिरूपायास्मम्भूतिविनाशरूपतासम्भवेन विनाशशब्दप्रतिपाद्यतासम्भवस्य प्रागु- पपादितत्वेन विनाशशब्दप्रतिपाद्यतायामित्थं स्वरसतस्सम्भवन्त्यां प्राकरणिकनिर्देशस्वभावतोऽपि स्व- रसतः प्राप्तायां तदसम्भवम्मत्वा विनाशशब्दस्य विनागधर्मिपरत्वेन सम्भूतिपरतायाः सम्भूतिशब्द- स्य च्छान्दसाकारलोपकल्पनेनासम्भूतिपरतायाश्च प्रकरणस्वरसविरुद्धाया वर्णनमप्यव्युत्पन्नकृत्यमेव ॥ २२ ॥ तस्मात्सर्वथैवासम्बद्धमत्रत्यशाङ्करव्याख्यानम् ॥ २३ ॥ एतेन -अत्र मन्त्रनये मम्भूतिशब्द:- एतमितः प्रेत्याभिसम्भवितास्मि' धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि' हत्यादिष्विव ब्रह्मप्राप्तिपरः ; असम्भूतिशब्दस्तत्स्थाने तत्समानार्थ. परतया प्रयुक्तो विनाशशब्दश्च ब्रह्मप्राप्तिप्रत्यासन्नतत्प्रतिबन्धकविनाशपरः । यद्वा 'विनाशेन मृत्यु तीला' इति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहाराय विनाशशब्देन तत्समानस्थानप्रयुक्तेनासम्भूतिश- ब्देन च मानदम्भादीनां हिसास्तेयादीनां बहिर्मुखेन्द्रियवृत्तीनाञ्च समाधिविरोधिपापहेतूनां विनाशो विवक्षितः, सम्भूतिशब्देन ब्रह्मसमाधिनिष्पत्तिर्विवक्षितेत्यभिप्रायेण वेदान्ताचार्यैस्तदनुयायिमिरन्यैश्च कैश्चित्कृतमपि व्याख्यानमयुक्तमेवेति सिद्धम् , यथोक्तरीत्या सम्भूत्यसम्भूतिशब्दयोर्विग्रहपरिग्रहतन्नि. वृत्तिस्वारसिकयोस्तत्परतयैव निर्वाहे ब्रह्मप्राप्तितत्प्रतिबन्धकविनाशपरतायास्समाधिनिष्पत्तितत्त्रतिब- न्धकविनाशपरतायाश्च महता केशेन बलात्कल्पनस्यानावश्यकत्वात् ॥ २४ ॥ 'अभिसम्भवितासि' 'अभिसम्भवामि' इत्यादिष्वभ्युपसर्गयोगबलात्सकर्मकेण धातुनाऽभिसम्भूतेः प्राप्तिरूपायारस्वरसतो लाभसम्भवेऽपि तद्विधुरेण कर्मवाचिपदसमभिव्याहारविधुरेण च स्वरसतोऽकर्मकेण धातुना प्रतिपद्य- मानायास्सम्भूतेः प्राप्तिरूपता हि न स्वरसतस्सुवचा ॥ २५ ॥ समाधिनिष्पत्तिरूपता तु सुतरामेव न सुवचा ॥ २६ ॥ एवं सम्भूतिशब्दस्य ब्रह्मप्राप्तिपरतायास्समाधिनिष्पत्तिपरताया वा कथञ्चिक्लिष्टक. ल्पनया वर्णनेऽप्यसम्भूतिशब्दस्य सम्भूत्यभावपरनाया एव सम्भवदुक्तिकतया सम्भूतिप्रतिबन्धक- विनाशपरता हि सुतरामेव दुर्वचा॥२॥ एवमसम्भूत्युपासनस्य सभूत्युपासनस्य च तत्तत्प्राप्त्युद्देश्यका नुसन्धानरूपस्य प्रत्येकं करणे-'अन्धं तमः प्रविशन्ति' इत्यादिमन्ने महानर्थप्रतिपादनं चासम्बद्धम् ॥ २८॥न च भवदीयव्याख्यानेऽपि-सम्भूतिशब्दस्याप्राकृतविग्रहपरिग्रहपरताया असम्भूतिशब्दस्य प्राकृत- विग्रहपरिग्रहाभावपरतायाश्च स्वीकारे शब्दाखारसिकतापत्तिर्दुवारा, सम्भूतिशब्दप्रतिपन्नार्थसामान्या- भावस्यैवासम्भूतिशब्देन स्वरसतो बोधसम्भवेन प्राकृतविग्रहपरिग्रहाभावलक्षणविशेषाभावबोधास- म्भवात् ; एवं सम्भूत्यसम्भूत्युपासनयोर्दिव्यविग्रहपरिग्रहप्राकृतविग्रहपरिग्रहाभावफलोद्देश्यकोपासन- 'रूपयोः प्रत्येकानुष्ठाने महानर्थवर्णनानुपपत्तिश्च भवतोऽपि तदवस्यैवेति वाच्यम्; सम्भूत्यसम्भूतिशब्द. योर्विग्रहपरिग्रहतदभावपरतायास्स्वारसिकत्वेनात्र समुच्चये परस्पराविरोधाय सम्भूतिशब्दस्यैकविधवि- ग्रहपरिग्रहपरताम् , असंभूतिशब्दस्यैकविधविग्रहपरिग्रहाभावपरताञ्च स्वीकृत्यास्य मन्त्रस्य समुच्चयेनो भयोपासनपरत्वस्वीकारे स्वारस्यभङ्गाभावात् , 'अजायमानो बहुधा विजायते'-इत्यादिषु समुच्चयेन प्रतियोगितदभात्रोभयप्रतिपादनपरप्रकरणेषु सर्वत्राविरोधाय सामान्यशब्दस्य विशेषपरताय। एव खीकारदर्शनात् , अत्र सम्भूल्यसम्भूत्युपासनयोस्सामान्यतो विग्रहपरिग्रहतदभावोद्देश्यकयोय॑स्तयोः प्रत्येकमनुष्ठान' एव महानर्थप्रतिपादनस्य 'अन्धं तमः प्रविशन्ति' इत्यादिमन्त्रविवक्षितत्वेनानुपपत्तिले- शाभावाच ॥ २९॥ सामान्यतो विग्रहपरिग्रहस्य केवलस्य प्राप्यतयाऽनुसन्धानेऽपि पुनस्संसारप्राप्त्यान, -दिलक्षणमहानर्थः। प्राप्नोति, सामान्यतो विग्रहपरिग्रहाभावस्य केवलस्य प्राप्यतयानुसन्धानेऽपि पश्चाद्याबदात्मभाविमहानर्थरूपकैवल्यपुरुषार्थ · एव प्राप्नोति ; अतः कर्माधीनप्राकृतशरीरलक्षणे कविधविग्रहपरिग्रहाभावस्य कर्मानधीनाप्राकृतशरीरलक्षणेकविधशरीरपरिग्रहस्य च प्राण्यतयाड- १ - - - ५६ ईशावास्योपनिषत् [ मं.१५. हिरण्मयेन पात्रेण सत्यस्यापिहितम्मुखम् । तत्त्वं पूषन्नपाणु सत्यधर्माय दृष्टये ॥ १५ वे॥अथैवं फलपर्यन्तसाङ्गब्रह्मनिष्ठस्यानुसन्धेया मन्त्रा उपदिश्यन्ते । तेषु च पूषादिशब्दास्सर्व- वाच्यं परमात्मानमनुसन्दधतां तत्तद्देवताप्रणाड्या साक्षाद्वा तत्पर्यन्ताः । अत्र हि यमसूर्या दिश- ब्दानामेकविषयत्वं स्वरसावगतं तथा सत्येवोपपद्यते । तत्र प्रथमेन मन्त्रेण पूषशब्दविवक्षितं भगव- न्तं प्रति प्रस्तुता समाधिप्रतिबन्धनिवृत्ति प्रार्थयते-हिरण्मयेन दृष्टये इति। सत्यशब्दोऽत्र जीव- कूाएवमाचार्यस्साङ्गभक्तियोगमुपदिश्य अथ तन्निष्ठस्यानुसन्धेयं मन्त्रद्वयमुपदिशति । तत्र प्रथमेन मन्त्रेण पूषशब्दविवक्षितं भगवन्तं प्रति प्रस्तुता समाधिप्रतिबन्धकनिवृत्तिं प्रार्थयते-हिरण्मयेनेति । श्री|नुसन्धाने कर्माधीनप्रकृतिसम्बन्धलक्षणमृत्युतरणं दिव्यविग्रहपरिग्रहसापेक्षभगवत्प्राप्तिलक्षणपरम पुरुषार्थश्चेत्युभयं सिद्ध्यतीत्येव वेदपुरुषोपदेशस्येहामिमतत्वान्नात्र कश्चिद्विरोधः ॥ ३० ॥ यद्वा • अत्र सम्भूतिशब्दस्य सामान्यतो विग्रहपरिग्रहमात्रपरल्वेऽपि न विरोधः, असम्भूति- शब्दस्य स्वप्रयोज्यकर्मफलभोगाश्रयत्वसम्बन्धेन विग्रहपरिग्रहसामान्याभावपरत्वसम्भवेन कर्माधीनवि- ग्रहपरिग्रहमात्राभावतदनधीनविग्रहपरिग्रहयो रेव सम्भूत्यसम्भूत्युपासनयोस्समुच्चितयोः फलतया पर्य- वसानसम्भवात् , व्यस्तयोस्तयोस्संसारकैवल्ययो रेव पर्यवसानसम्भवाच्च ॥ ३१ ॥ एवं शङ्करमतानुयायिना महीधरेण 'अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते' इत्यादिमत्रत्र. यस्य शङ्करव्याख्याने किञ्चिदतृतिं भजमानेन कृतम् 'असम्भूतिम्' इत्यादेबौद्धादिमतनिन्दापरं व्या- ख्यानं तु सुतरामेवासम्बद्धम् - अस्य प्रकरणस्य प्रत्येक कृतयोस्सम्भूत्यसम्भूत्युपासनयोय॑स्तयोरनर्थ- हेतुतायास्सहकृतयोस्समस्तयोस्तयोरभ्युदयहेतुतायाश्च प्रतिपादने तात्पर्यस्य प्रस्फुटत्वेन 'अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते' इत्यादिमन्त्रे असम्भूत्युपासनस्य 'मृतस्य पुनस्सम्भव एव नास्ति, अतश्शरीरान्त एवास्माकम्मुक्तिः' इत्येवंभूतबौद्धोपासनरूपतायाः-सम्भूत्युपासनरूपतायाः सम्भूत्युपा- सनस्य-कर्मानुष्ठानलेशविधुरकेवलात्मोपासनरूपताया:--'सम्भूतिञ्च विनाशञ्च' इत्यादिमन्त्रे-सम्भूति- शब्दस्य • असम्भूतिशब्दस्थाने तत्पर्यायत्त्वाभिप्रायेण प्रयुक्तस्य विनाशशब्दस्य च क्रमेण परब्रह्मशरी- रपरतायाश्च वर्णनस्य प्रकरणस्वभावानभिज्ञाव्युत्पन्नकृत्यमात्ररूपताया आपण्डितपामरमतिस्फुटत्वात् ॥ ३२ ॥ तथा च शङ्करकृतं तदनुयायिकृतञ्च व्याख्यानं-वेदान्ताचार्यकृतं तदनुयायिकृतञ्च व्याख्या- नं यथोक्तानुपपत्तिस्याश्रुत्यक्षरस्वारस्याननुगुणत्वाचानुपादेयमेवेति सिद्धम् ॥ ३३ ॥ इति चतुर्दशम- अव्याख्यानम् ॥ १४॥ अयं मन्त्रः काण्वैः पञ्चदशमन्त्रतया पठ्यते ॥ १॥ माध्यन्दिनैस्सप्तदशमन्त्रतया । तत्राप्युत्त- रार्धम् --'योऽसावादित्ये पुरुषस्सोऽसावहम् ॥ ओं खं ब्रह्म' इत्येवं रूपं च पठयते ॥ २॥ इतः पूर्वमुपासनस्य स्वरूपं साङ्ग प्रतिपाद्य तस्करणमन्त्रा इत आरभ्याभिधीयन्ते ॥ ३ ॥ पूर्वमन्त्रतः- 'उपा- सते' इति वा, 'वेद' इति वा पदमनुवर्त्य, इति शब्दं कर्तृवाचकब्रह्मोपासकपरशब्दश्च प्रपूर्य 'इत्यु- पासते' इति वा, 'इति वेद' इतिवाऽमीषां मन्त्राणामन्वयो बोध्या, एतेषां मन्त्राणां प्राक्प्रवृत्तोपदेष्टु- पदेशरूपत्वाभावेन प्रकारान्तरेणान्वयासम्भवात् ॥ ४॥ एते हि मन्त्रा उपास्यपरमपुरुषोद्देश्यकोपा- सकंकर्तृकप्रार्थनापराः ॥ ५॥ पञ्चदशमन्त्रस्यास्य पदविवरणं-हिरण्मयेन पात्रेण-हिरण्यविकार- भूततिरोधायकपात्रेण, तद्वत्स्पृहणीयतया स्त्रप्राप्तीच्छारूपरागान्धताहेतृत्वलक्षणसादृश्येन हेतुना प्रक- - मैं-२५.] भाज्यत्रयोपता. वे॥परः । 'सत्यं चानृतञ्च सत्यमभवत्' 'अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम्' इत्यादिषु जीवे ऽपि तत्प्रयोगात् । तस्य मुखम्-अनेकेन्द्रियावयम्भतया मुखवदवस्थित - मनः, हिरण्मयन पात्रेण अपिहितं - रागात्मकतया हिरण्मयसहशेन रजोमयन पात्रेण परमा- स्मविषयवृत्तिप्रतिरोधकेन च्छादितम् । हृदि निहिते परमात्मविषये निरुद्धवृत्तिकमित्यर्थः । रजाक. थनं लमसोऽप्युपलक्षणम् । हिरण्मयशब्देन कर्माधीनभोग्यवर्गप्रदर्शनम् । तत्-जीवस्य मुखस्थानीय मनः, पूषन-आश्रितपोषणस्वभाव, अपावृणु-निरस्तपिधानं कुरु । कस्य हेतोः? सत्यधर्माय कू॥हे पूषन् - आदित्यान्तर्यामिन् , 'य आदित्ये तिष्ठन्' इत्यारभ्य 'य आदित्यमन्तरो यमयति' इति श्रुतेः 'शास्त्रदृष्टया तूपदेशो वामदेववत्' इति न्यायाच्च । यद्वा-पूषन्-आश्रितपोषणस्वभावत्य- थः। 'साक्षादप्यविरोध जैमिनिः' इति सूत्रितत्वात्। सस्यस्य सत्यशब्देना। प्रकृत्यादिवत् स्वरूपवि. काररहितो जीवात्मोच्यते। 'संलगञ्चानृतञ्च सत्यमभवत्' इत्यादिषु जीवेऽपि सत्यशब्दप्रयोगात् । तस्य मुखं - मुखवत् अनेकेन्द्रियावष्टम्भतया मुखसदृशं मन इत्यर्थः। हिरण्मयेन-हिरण्मयसह शेन, कर्मा धीनभोग्यवर्गणेति यावत्। पात्रेण-परमात्मविषयकवृत्तिप्रतिरोधकेन,अपिहितं-छादितं, हृदि निहिते परमात्मविषये निरुद्धवृत्तिकं जातमित्यर्थः। तत्-जीवस्य मुखस्थानीयं मनः, त्वं-हृषीकाणामीशस्त्वम् , श्री॥ त्याद्यपरपर्यायमायामयभोग्यभोगीपकरणभोगस्थानात्मकाचित्तत्वतद्वियुक्तविशुद्धज्ञानानन्दलक्षण- चित्तस्वात्मकवस्तुजातस्य पुरःप्रस्फुटस्फूर्तिकस्य चिदचिच्छरीरकपरमात्मानं प्रति बाह्यावरणदलभूतस्य हिरण्मयपात्रत्वेन निगीर्याध्यवसानमर्यादयाऽयं निर्देशः; यथा-'पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति शिता- इशराः' इत्यादिषु सादृश्यनिमित्तेन नीलोत्पलत्वशरत्वादिना नेत्रदृष्टयादिनिर्देशः । सत्यस्य-परस्य ब्रह्मणस्तव, मुखं - प्राप्तिद्वार, भगवत्प्राप्तिहेतुज्ञानमार्गलक्षणं सद्दर्शनमिति यावत् । अपिहितम्- आच्छादितम् । 'एष तु वा अतिवदति यस्सत्येनाति वदति' || छां ॥ ७ ॥ १६ ॥ २॥ तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति॥ छां ॥ ८ ॥ ३ ॥ ४ ॥ तस्योपनिषत् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ७॥ ४ ॥ १ ॥२०॥ अथ नामधेय सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्'।। बृ ॥४॥ ३ ॥ ६॥ इत्यादिश्रुतिभिस्सत्यशब्दस्य परब्रह्मनामत्वावगमात्,जीवात्म- न्यपि प्रयोगसत्त्वेऽपि ततोऽपि परब्रह्मण्येव मुख्यत्वावगमात् , औचित्यात्, मुख्यातिक्रमस्यान्याय्य- त्वाचावत्यसत्यशब्दः परमात्मपर एव | बाह्यदलभूताचित्तत्त्वचित्तत्त्वनिबन्धनैश्वर्यकैवल्यलक्षणनाना- विधार्वाचीनपुरुषार्थरागाकृष्यमाणचित्तानां लोकानां तादृशावर्वाचीन पुरुषार्थहेत्वसत्यधर्मभूतज्ञानमार्ग- लक्षणासद्दर्शनरागेण सर्वान्तरात्मतत्त्वभूतभगवत्याप्तिलक्षणपरमपुरुषार्थहेतुसत्यधर्मभूतज्ञानमार्गलक्षण- सद्दर्शनप्रवेशप्रसङ्ग एव प्रतिरुद्धावकागो वर्तत इति भावः। प्रसिद्धानि हि भगवत्प्राप्तिहेतुसद्दर्शन- प्रतिरोधीनि बाह्यदर्शनानि बहूनि । भगवत्कटाक्षमन्तरेण बाह्यदर्शनरागनिवृत्तिपूर्वकसद्दर्शनप्रवृत्ते. रसम्भावितत्वेन तदर्थ स एव प्रार्थ्यते । हे पूषन् - आदित्यशरीरकतन्मण्डलान्तर्वर्तिभगवन् । अ. स्या विद्याया अन्तरादित्यविद्याविशेषरूपतया तन्मण्डलान्तर्वर्तिभगवतस्सम्बोधनमिदम् , उत्तरमन्त्र 'व्यूह रश्मीन् समूह तेजः' इत्यादिभिरन्तरादित्यविद्यालिङ्गावगमात् ; माध्यंदिनपाठेऽस्मिन्नेव मन्ने १. ते, आन. ६-३ ॥ ४. बृ सू १-१.३१ ।। ५. न. सू. १-२-२९ ॥ २. वृ. ४-३.६ ॥ , ईशावास्योपनिषत् [म-१६. पूषत्रेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमस्मि ॥ १६ |दृष्टये-सत्यस्य जीवस्य धर्मभूताय पूर्वोक्तब्रह्मानुभवदर्शनायेत्यर्थः ॥ १५ ॥ पुनरपि तया दृष्टया द्रष्टव्य विशिषन् दृष्टया गुणमभ्यर्थयते-पूषन्नेकर्षे पश्यामि इति । एकर्षे--अद्वितीयातीन्द्रियद्रष्टः, यम-सर्वान्तर्यामिन् ,सूर्य-स्वभक्तबुद्धीनां सुष्ठ प्रेरक, प्राजापत्य-प्र- जापतिप्रसूतस्य सर्वस्यान्तर्यामिन्, अविवक्षितप्रत्ययाथों वा प्राजापत्यशब्दः, प्रजानां पते इत्यर्थः । ma - , ॥अपावृणु निरस्ततिरोधानं कुर्वित्यर्थः।तत्कस्य हेतोः तत्राह-सत्यधर्माय सत्यस्य जीवस्य धर्म भूताय दृष्टये । दृष्टिः-दर्शन, त्वदर्शनायेति भावः ॥ १५ ॥ पुनरपि तया दृष्टया द्रष्टव्य विशिंषन् दर्शनं तत्साधनं चाभ्यर्थयते--पूषन्निति। पूषन् • आ- श्रितपोषक । एकश्वासावृषिश्च एकर्षिः - अद्वितीयोऽतीन्द्रियार्थद्रष्टा । 'नान्योऽतोऽस्ति द्रष्टा' इति श्रुतेः । यम-यमयति सर्वानिति यमः, सर्वान्तर्यामिन् । 'यः पृथिवीमन्तरो यमयति...य आस्मानम- । श्री। योऽसावादित्ये पुरुषः' इति स्पष्टमेव श्रवणाञ्च । 'शास्त्रदृष्टया तूपदेशो वामदेववत्' ।। १ ।। १॥३१॥ इति सूत्रोक्तन्यायेन शरीरवाचकानां शरीरिण्यपि शक्तिसद्भावात्सूर्यवाचकपूषशब्दस्यह तच्छरीरकपरमात्मपरत्वमित्यवधेयम् । त्वं सत्यधर्माय दृष्टये-त्वत्प्राप्तिलक्षणपरमपुरुषार्थहेतुभगव- धर्मरूपसद्दर्शनाय, अस्माकं समीचीनदर्शनप्रवृत्तिसिद्धय इति यावत् । तत्-~यथोक्तसद्दर्शनलक्षणं भवत्प्राप्तिद्वारम् , अपावृणु · अपगततिरोधानं कुरु, असद्दर्शनप्रवृत्तिहेतुरागलक्षणं सद्दर्शनावरण दूरीकुर्विति यावदिति बोध्यम् ॥ ६ ॥ भगवत्प्राप्तिविरोधिबाह्यविषयनिवृत्तिभंगवत्प्राप्तिज्ञानमार्गप्रव- त्तिश्चेत्युभयमपि भगवदेकायत्तमित्यत एव तदर्थं भगवानेवात्र प्रार्थ्यते ॥ ७॥ तदुक्तं भगवतैव-- 'दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते' | गी॥ ७ ॥ १४ ॥ इति-'तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते' ।। गी॥ १० ॥ १० ॥ इति च ॥ ८॥ अन्येषां दर्शनानामल्पास्थिरप्रयोजनान्तरेष्वेव परमप्रयोजन- स्वबुद्धिरूपत्वाद्वस्तुतस्तत्र परमप्रयोजनस्वाभावाचासत्यधर्मरूपता; भगवत्प्राप्तेरेव वस्तुतः परमपुरुषार्थ- रूपतया तत्र तथात्वबुद्धिरूपस्य भागवतदर्शनस्यैव सत्यधर्मरूपता; यद्वा दर्शनान्तराणा प्रयोजनान्त- रपर्यवसायिनां भगवत्प्राप्त्यपर्यवसायित्वाद्यसत्यधर्मता; भागवतदर्शनस्यैव- 'सत्यस्य धर्मः' इति व्युत्पत्त्या सत्यशब्दवाच्यभगवत्सम्बन्धितत्प्राप्तिरूपश्रेयस्साधनवाचिसत्यधर्मशब्दवाच्यता चेत्यवधेयम् ॥ ९ ॥ माध्यन्दिनपाठसिद्धैतन्मन्त्रोत्तरार्धविवरणमुत्तरमन्त्रविवरणदशायां करिष्यते ॥ १० ॥ इति पञ्च दशमन्त्रव्याख्यानम् ॥ १५ ॥ 'पूषन्' इत्यादिरयम्मन्त्री माध्यन्दिनपाठे नास्ति॥१॥ काण्वैस्तु षोडशमन्नतथा पठ्यते ॥ २ ॥ परं वेतन्मन्त्रोत्तरार्धांश एव किञ्चिदन्यथारूपः --'हिरण्मयेन इत्यादिपूर्वमन्त्रोत्तरभागतया माध्यन्दिनैः पठयते ॥ ३॥ अयम्मन्न उपास्यपरमपुरुषोद्देश्यकतदीयाप्राकृतदिव्यमङ्गलविग्रहप्रदर्शनप्रार्थनापरः ॥ . ४ ॥ अस्य मन्त्रस्य प्रतिपदविवरण-प्राजापत्य-प्रजापतेः कश्यपादादित्यां सम्भूतापत्यरूप, सूर्य- १.बृ. ५-७-२३ ॥ । २. शतपथ. १४-५-७,३०॥
- मं-१६.] भाष्यत्रयोपेता. वेव्यूह रश्मीर समूह तेजः-स्वस्वरूपप्रकाशनौपयिकान् स्वाग्ररश्मीन् व्यपोह,प्रभात्मकं च तेजस्स- मूहीकुरु । यत्-'आदित्यवर्णम्' इत्यादिप्रसिद्ध सर्वेभ्यः कल्याणेभ्योऽतिशयितकल्याणं शुभाश्रयभूतं ते दिव्यं रूपं तत्पश्यामि । अत्र वर्तमानव्यपदेशः उत्तरवाक्यवत्तात्कालिकानुसन्धानानुवादः। प्रार्थ- नाप्रकरणानुरोधे तु व्यत्ययेन पश्येयमिति लिडर्थोऽत्र ग्राह्य इत्यपुनरुक्तिः । तदा साधारण्यज्ञापनार्थ सदा पश्यामीति वा निरुपाधिकशेषत्वानुगुणोक्तिः । अथान्तरात्मनो ऽहंग्रहणेनानुसन्धानमाह- कू॥न्तरो यमयति' इत्यादिश्रुतेः सूर्य-स्वभक्तबुद्धीना सुष्ठ प्रेरक। प्राजापत्य प्रजापतिः चतुर्मुखः,तस्य सुताः प्राजापत्याः, तेषामन्तर्यामिन् ; यद्वा-प्रजापतिरेव प्राजापत्यः, वैश्वानर इति वत् , विश्वानर एव हि वैश्वानरः ; तथा च प्रजानां पतिरिति व्युत्पत्त्या प्रजापतिर्विष्णुः 'प्रजापतिश्वरति गर्भे अन्तः' इति श्रुतेः । व्यूह रश्मीन-भवदीयदिव्यरूपदर्शनानुपयुक्तान् स्वोग्ररश्मीन्, व्यूह-व्यपोह-विगमयेत्यर्थः । यत्तु दर्शनौपयिक प्रभात्मकं सौम्य तेजः-तत् समूह समूहीकुरु । तत्किमर्थमित्याशङ्कय अर्जुना- दिवद्दष्टुमिच्छामि ते रूपमित्याह -यदिति । 'आदित्यवर्ण तमसः परस्तात्' इत्यादिषु प्रसिद्धमित्य- थः । ते-'आनन्दो ब्रह्म' इति निरतिशयभोग्यस्य तव अतिकल्याणतम सौन्दर्यादिगुणातिशयेन प्रि- यतमं सर्वेभ्यः कल्याणगुणेभ्योऽतिशयितं कल्याणञ्च शुभाश्रयभूतमित्यर्थः । ते-यद्दिव्यं रूपं तत् पश्यामि - पश्येयमिति लिङों ग्राह्यः । लकारव्यत्ययश्छान्दसः । द्रष्टमिच्छामीति भावः । 'अका- यमत्रणम्' 'अशरीरं शरीरेषु' 'अपाणिपादो जवनो ग्रहीता' इत्यादिसामान्यवचनानि, 'अजायमानः' 'अजोऽपि सन्नव्ययात्मा' नै चास्य प्राकृता मूर्तिः' इत्यादिविशेषवचनसिद्धहेयशरीरप्रतिषेधपराणि। ननु ‘यत्ते रूपं कल्याणतम' ' एषोऽन्तरादित्ये हिरण्मयः पुरुषः''ईशावास्यमिदं सर्व पति विश्व- स्यात्मेश्वरं सर्वकर्मा सर्वगन्धः' स्वाभाविकी ज्ञानबलक्रिया च' तस्य हवा एतस्य ब्रह्मणो नाम स- . श्री|सुठु ईरयति प्रेरयतीति सूर्यः,लोकबुद्धिप्रेरकः,तस्य सम्बोधनं,पूषन्-लोकपोषकरव्याख्यदेवतावि- शेषशरीरक, एकः - अद्वितीयातीन्द्रियसर्वार्थयथावस्थितसाक्षात्कारकारिन्, 'यस्सर्वज्ञस्सर्ववित्' इत्युक्तगुणविशिष्टेति यावत् । हे यम - सर्वनियन्तृभूतपरमात्मन् । अत्र प्राजापत्यसूर्यपूषशब्दैर्यम- शब्दार्थसर्व नियन्तुभूतपरमात्मनो विशेषणमस्या विद्याया आदित्यमण्डलान्तर्वर्तिपरमपुरुषविषयत्वेना- न्तरादित्यविद्यारूपत्वज्ञापनार्थे, सूर्यविशेषणयोर्लोकप्रेरकत्वपोषकत्वयोधर्मयोस्तद्विद्यायामुपास्यतदन्तरा- त्मभूतपरमात्मगुणतयाऽनुसन्धानसिद्ध्यर्थञ्च,शरीरवाचकाना शब्दाना शरीरिणि अपर्यवसानवृत्तिमूले- नासत्यसामानाधिकरण्यनिर्देशेन सूर्याख्यदेवताविशेषस्य परमात्मशरीरताया बोध्यमानत्वात्, परमात्म- नाऽन्तः प्रविश्य नियम्यमानस्यैव परमात्मशरीरत्वेन शरीरगतक्रियामुख्यकारणत्वस्यात्मगुणत्ववत्पर- मात्मना सर्वात्मना नियम्यमानतच्छरीरभूतदेवताविशेषगतलोकप्रेरणपोषणमुख्यकारणत्वस्यापि 'य १. श्वे. ३-८॥ २. तै. अम्भस्यनु. १.१॥ . ४.ते. भू. २-१॥ ८. ते, आरण्य, ब्रह्ममे, पु. सू ॥ ९. गीता. ४-६॥ १०. वराहपु. ७५-४२ ॥ ११. छा. १-६-६॥ १२. ते. ना. ११-३॥ १३. छा. ३-१४.४॥ १४. थे. ६.८॥ १५. छा. ८-३-४ ॥ ६. कठ.१.२-२२॥ ७. श्वे. ३.१९॥ .
. ईशावास्योपनिषत् [म.१६. योऽसावसौ पुरुषस्सोऽहमस्मि इति। बीसा अत्यादरव्यञ्जनार्थी। यद्वा योऽसावतीन्द्रियग्रा- ह्यस्सूक्ष्मोऽव्यक्तस्सनातनः । सर्वभूतमयोऽचिन्त्यस्स एष स्वयमुद्बभौ' इत्यादिवाक्यच्छायया यत्तच्छ- ब्दाभ्यामदश्शब्दौ विभज्यान्वेतव्यो; सर्वांतीन्द्रियप्रमाणसिद्धत्वद्योतनाौँ वा । पुरुषा-पूर्णत्वपूर्वस- स्वादिगुणकः आदित्यवर्णविग्रहविशिष्टः सर्ववेदपठितानन्यपरपुरुषसूक्तादिप्रसिद्धो महापुरुषः । सो. ऽहमस्मि-अहशब्दोऽत्र जीवद्वारा गदन्तरात्मपर्यन्तः। अत एवास्मीत्यपि प्रत्यग्रपस्वविशिष्टे पर- मात्मनि विश्राम्यति। 'अस्मद्युत्तमः' इत्येतावदेव हनुशिष्टम् । न पुनरस्मच्छब्दस्य प्रत्यगात्मद्वारा पर- कू।त्यमिति तस्योदिति नाम' इत्यादिमिश्शास्त्रैर्गुणविग्रहादयो ब्रह्मणोऽपि विधीयन्ते; "निर्गुण"निर- अनम्' 'अविकाराय' 'आकायमवणं नेह नानास्ति किञ्चन' 'निष्कलं निष्क्रियम्' अंगोत्रममवर्णम्' अगोत्रमिति-अनामकमित्यर्थः । एवमादिभिश्शास्त्रैः गुणादयः प्रतिषिध्यन्ते । तथा च विधिप्रतिषेध- योर्विरोधादन्यतरबाधोऽवश्यंभावी, तत्र निषेधस्य प्रसक्तिपूर्वकतया पश्चात्प्रवृत्तं प्रतिषेधशास्त्रमप- च्छेदाधिकरणन्यायेन प्रबलम् । अतः प्रतिषेधवलेन गुणादिविधयस्सर्वे बाधिताः । सतश्च अविद्याख्यदोषपरिकल्पिता गुणविग्रहादयो मिथ्याभूता इति , तदिदमनादरणीय, पशुच्छागन- येन उत्सर्गापवादनयेन च विधिनिषेधयोभिन्नविषयत्वोपपादनेन तयोर्विरोधगन्धाभावात् । वि- धीनां प्रतिषेधबाध्यत्वानुपपत्तेः । तदुक्तं वरदाचार्यैस्तत्त्वसारे 'ब्रह्मणो गुणविकारशरीरभेदक- मांडिगोचरविधिप्रतिषेधवाचः । अन्योन्यभिन्न विषया न विरोधगन्धमर्हन्ति तन्न विधयः प्र. तिषेधबाध्याः' इति । अथान्तर्यामिणमहंग्रहेणानुसन्धत्ते-योऽसावसौ पुरुषस्सोऽहमस्मीति । असावसाविति वीप्सा आदरार्थी । यदा-अदश्शब्दौ विभज्य यत्तच्छब्दाभ्यामन्तव्यौ । कथमिति - । श्रीआदित्यमन्तरो यमयति॥ ७ ॥ ५॥ ७ ॥ ९ ॥ 'ईश्वरस्सर्वभूताना हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया' ॥ गी ॥ १८ ॥ ६१॥ इत्यादिश्रुतिस्मृतिबलात्परमात्मगुणत्वसि- धेश्च दर्शितसामानाधिकरण्यनिर्देशेनास्या विद्याया लोकप्रेरणपोषणक्रियामुख्यकारणत्वस्यापि शब्द- व्युत्पत्तिबलार्भिपारतन्त्र्येण परमात्मनि भानसम्भवात् । यमसंज्ञा च दर्शितप्रेरणपोषणक्रियाकारणत्व- लक्षणनियन्तृत्वरूपप्रवृत्तिनिमित्तबलाद्रविमण्डलान्तर्वतिभगवतः 'यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः' ॥ म ॥ स्मृ ॥ ८ ॥ ९२ ॥ इति स्मृतिवच- नेनापि सिद्धा । अत्र हि वैवस्वतशब्द:-विवस्वति भव इति व्युत्पत्त्या सूर्यमण्डलवर्तिभगवत्पर एव, न तु दक्षिणदिक्पतिपरः, 'यस्तवैष हृदि स्थितः' इत्युक्तस्य भगवदसाधारणधर्मस्य सर्वभूतहृदेशव- तित्वस्य तत्रासम्भवात् । रश्मीन्–स्वदधिष्ठानभूतसूर्यमण्डलसम्बन्धिन उग्रकिरणान् समन्ततः प्रसृतान् , व्यूह - क्वचिदेकदेशे पुञ्जीकुरु, तेज:-त्वदीयरूपसम्बन्धि प्रभामण्डलं च समन्ततः प्रसृतं, समूह-क्वचिदेकदेशे पुञ्जीकुरु 'ऊह वितर्के' इत्यस्य धातोरात्मदेपदिनः पुञ्जीकरणार्थकत्वं परस्मैपदं चोपसर्गवशाद्भवति। उपसर्गवशात्प्रहाराहारादिशब्देषु हरणार्थकस्य धातोरिवेहाप्यर्थान्तरमुप- पद्यते। अस्य धातोरात्मनेपदस्य-'उपसर्गादत्मत्यूयोर्वेति वाच्यम्' इति वार्तिकेनोपसर्गपूर्वकत्वदशा- ६. वि. पु. १.२.१ ॥ १. मनु, १-७॥ २. अष्टा. १.४.१०७॥ ३. छा, १.६-७॥ ५. आत्मोपनिषत॥ ५. श्वे. ६.१९॥ ८. कठो. २.१-११॥ ९. श्वे, ६-१९॥ १०.म. १-१-६॥ ११, सरनसारे ३९ ॥
म.१६.] भाध्यत्रयोपेता. ६१ वे॥मात्मतायामुत्तमनिवृत्तिः। एवं तत्त्वमसि' इत्यादिषु असिशब्दो निर्वाह्यः । तत्रापि युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इत्येतावदेवहि स्मयते । न तु युष्मच्छब्दस्य स्वाभिमुखचेतन- द्वारा तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिः । लोके तु 'अहं त्वमस्मि' 'स्वमहमसि' इत्याधुपचारेधू- द्देश्यानुसारेण मध्यमोत्तमयोयवस्था । तद्वदत्रापि व्यवस्थोपपद्यते, उद्देश्यविषययोरेवान युष्मदस्म. च्छब्दयोरुपपदत्वेन सूत्रपदाभिप्रेतत्वात् । भाष्ये तु तत्त्वमसिनिरूपणावसरे 'नात्र किञ्चिदुद्दिश्य किमपि विधीयते' इत्युक्तिरप्राप्ताशनिषेधाभिप्राया व्यक्ता, उपसंहारत्वोपपादनात् । ये पुनः 'तत्त्व- काचेत्-इत्थं योऽसौ पुरुषः, अह सोऽसावस्मीति। यद्यपि पुरुषशब्दः प्रकृतिं पुरुषं चैव विङ्ख्यना- दी उभावपि' 'योगो योगविदा नेता प्रधानपुरुषेश्वर.' इत्यादिषु जीववाचितया प्रसिद्धः, तथापि 'तेनेद पूर्ण पुरुषेण सर्व' 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्व' 'महान् प्रभुबै पुरुषस्सत्त्वस्यैष प्रवर्तकः' इत्यादिश्रुत्या पूर्णत्वपूर्वसत्त्वादिगुणकसर्ववेदपठितपुरुषसूक्तादिप्रसिद्धो महापुरुष एवेह पुरुषशब्देन विवक्षितः । नुनु 'योऽसौ पुरुषस्सोऽसावहमस्मि' इति कथ सामानाधिकरण्यम् , अहं. पदार्थस्य जीवात्मनः परमपुरुषाद्भिन्नत्वादिति चेन्न-अहशब्देनापि अस्मदर्थान्तर्यामिण एवाभिमा- नेन अहं स इति निर्देशस्य सुसङ्गतत्वात्। ननु च अहंशब्दस्य प्रत्यगर्थान्तर्यामिपरत्वे सोऽस्मीत्युत्त- मपुरुषो न घटते, नहि मदन्तर्यामी परमपुरुषोऽस्मीत्यन्वयो युज्यत इति चेत् , उच्यते-मदन्तर्वा- मीत्यादिशब्दान्तरेणोपस्थापिते प्रत्यगर्थान्तर्यामिणि उत्तमपुरुषान्वयासम्भवेऽपि अहमित्यस्मत्पदोष- स्थापिते तस्मिन्नुत्तमपुरुषान्वयो युज्यत एव । तथा हि पाणिनिसूत्रम् 'अस्मद्युत्तमः' इति । प्रत्यगर्थ- बोधकास्मच्छब्दोपपदे उत्तमपुरुषो भवतीत्यर्थः । न पुनरस्मच्छब्दस्य प्रत्यगर्थद्वारा परमात्मपर्यन्तता- श्रीया वैकल्पिकत्वविधानादिह परस्मैपदम्।रविमण्डलरश्मीना रूपप्रभामण्डलस्य च क्वचित्पुञ्जीकरणं किमर्थमित्यत्राह-यत्त इत्यादिना । यत् , कल्याणतमं - सर्वेषु कल्याणेषूत्तभं कल्याण, स्खेतर- सर्वातिशायिमाङ्गल्यपरमशुभाश्रयभूतं, ते-तव, रूपम्-अप्राकृतदिव्यविग्रहः, अस्ति, यदिति-'वे. दाहमेतं पुरुषम्महान्तमादितवर्ण तमसस्तु पारे' ॥ पु || सू ॥ 'यदा पश्यः पश्यते रुक्मवर्ण कतरिमीश पुरुषं ब्रह्मयोनि'। मुं ॥ ३ ॥ १॥ ३ ॥ य एषोऽन्तरादित्य हिरण्मयः पुरुषो दृश्यते हिरण्मयश्मभ. हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यास पुण्डरीकमेवमक्षिणी तस्योदिति नाम स सर्वेभ्यः पाप्मन्य उदितः । उदेति हवै सर्वेभ्यः पाप्मन्यो य एव वेद' ॥ छा ॥ १ ॥ ६ ॥ ६ ॥ ७॥ तस्य हैतस्य पुरुषस्य रूपं यथा माहाराजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथा- ग्न्यर्चिर्यथा पुण्डरीकं । यथा सकृद्विद्युत्त सकृविद्युत्तेवहवा अस्य श्रीभवति य एवं वेद' ॥ 5 ॥ ४ ॥ ३ ॥ ६ ॥ इत्यादिश्रुत्यन्तरप्रसिद्धिरुच्यते । ते, तत्-रूप, पश्यामि-द्रष्टुमिच्छामि, त्वदधिष्ठाना- दित्यरश्मिमण्डलस्याग्रस्यास्मदृष्टिप्रसरणप्रतिबन्धकत्वात्त्वद्रपस्य समन्ततः प्रसृतेन प्रभामण्डलेन दुर्द- शत्वाच्च तदुभयमुपसंहरसि चेत्वद्रूपं साक्षात्कर्तु काङ्क्षामि, तथा कुर्विति प्रार्थनं क्रियते । 'आशंसायां भूतवच ॥ ३ ॥ ३ ॥ १३२ ॥ इत्यनुशासने चकारेणाशसायां भविष्यत्यपि वर्तमानवद्भाव विधा- १. छा. ६-८-७॥ ५. सहस्त्रनामाध्याये॥ २. अष्टा. १.४.१.५ ।। ६. श्वे. ३.९॥ ३. श्रीभाष्ये. १.१.१. अन्ते ।। ७. यजुषि. ते. आरणे. १॥ ४. गीता. १३-१९ ।। ८.वे. ३.१२॥ ९, अष्टा, १-४-१०७॥ , ६२ ईशावास्योपनिषत् [म.१६. वे॥मसि' 'सोऽहमस्मि' इत्यादिषु कार्यकारणोपाध्याकारविधूननेन निर्विशेषस्वरूपैक्यं वाक्यवेद्यमाहुः, तेषाम् असिवदस्मिरपि खण्डकः श्रोतर्यनुसन्धातरि च युष्मदस्मदीहि परित्यक्ते । न ह्यसिना कश्चित्प्रति- बोधनीयः, न च कश्चिदस्मिना विशिष्यानुमन्धेयः। विवूननीयोपाधिविषयव्युत्पत्तिमच्छब्दसन्निधिमा- त्रोपजीवनेन क्वचिन्मध्यमोत्तमसम्पत्तिरिति चेत्--ततो वरमपरित्यक्तप्रवृत्तिनिमित्तमस्माक निर्वहण- मनुसतुम् । सन्मानस्याशिनोऽशद्वयविशिष्टताप्रतिपादनं वदतामपि सन्मात्रविवक्षायामन वाक्ये त्वमहं- भावायोगात् , त्व चाहताविशिष्ट सदिति विशिष्टविवक्षायामपि प्रथमपुरुषोपनिपातप्रसङ्गात् । दृश्य- योश्च युष्मदस्मदर्थयोर्मुत्पिण्डाशे मणिक इव घटशराबाकारयोस्सदशभूतेश्वराकारेऽपि समन्वयायो- कूायामुत्तमनिवृत्तिरिति, अधिक तु प्रविष्ट न तु तद्धानिकरम्' इति न्यायात्।एवं तत्त्वमसि'इत्यादि- प्वपि असीति मध्यमपुरुषो निर्वाह्यः , स्वपदेनाभिमुखचेतनद्वारैव तदन्तर्यामिणोऽभिधानाभ्युपग- मात् । तत्रापि 'युष्मद्यपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इत्येतावदेवहि स्मयते। न तु युष्म- च्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिरपि। ये तु 'तत्त्वमसि' 'सोऽहमस्मि' इत्यादावहत्वमादिशब्दे युष्मदस्मदर्थपरित्यागेन निर्विशेषचिन्मात्रस्वरूपैक्यमेव वाक्यवेद्यमाहुः, ता- नेव तत्वमसि' इत्यादिवाक्येषु असिरिव 'सोऽहमास्मि' इति वाक्यस्थास्मिरपि खण्डयति। श्रोतर्यनुस. धातरि च युष्मदस्मदी हि तैः परित्यक्ते। न हि तेषामसिना कश्चित्प्रतिबोधनीयोऽस्ति,न च कश्चिद- स्मिना विशिष्यानुसन्धेयः । ननु प्रकृते युष्मदस्मदर्थयोरविवक्षायामपि तयोव्युत्पन्नयुष्मदस्मच्छब्दो- पपदमात्रोपजीवनेन अस्मत्पक्षेऽपि क्वचिन्मध्यमोत्तमयोरुपपत्तिरिति चेन्न, ततोऽप्यपरित्यक्तप्रवृत्तिनि- श्री|नादन पश्यामीति लट्प्रयोगः । मद्रपदर्शने तवाधिकार एव कथं 'नाहं वेदैन तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मा यथा । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जु- न । ज्ञातुं द्रष्टु च तस्वेन प्रवेष्टञ्च परन्तप' ॥ गी ॥ अ ॥ ११ ॥ श्लो ॥ ५३ ॥ ५४ ॥ इत्यादिभि. भव्यनन्यभक्तिमत एव हि मद्रपदर्शनेऽधिकारसिद्धः । मय्यनन्यभक्तिश्च सर्वात्मना मन्नियाम्यत्वरू- पमदधीनभावपर्यसन्नमद्दास्यैकरूपा । तद्रहितस्य कथं तवाधिकार इत्यत्राह-योऽसावित्यादिना । असावलौ~-अत्यन्तमद्विप्रकृष्टादित्यमण्डलान्तर्वर्ती, पुरुषः-'य एषोऽन्तरादित्य हिरण्मयः पुरु. षो दृश्यते' इत्यायुक्तलक्षणः, यः, त्वमसि, अहं, सातादृशपुरुषरूपस्त्वमेव, अस्मि, त्वदात्म. क एवास्मीत्यर्थः । अत्र जीवपरयोश्शरीरशरीरिभावमूलेन सामानाधिकरण्यनिर्देशेन शरीरशरीरिभाव. प्रतीत्या स्वस्य परमात्मशरीरभावज्ञापनमुखेन सर्वात्मना तन्नियाम्यत्वरूपतदधीनत्वप्रदर्शनेन तादृशभग- बद्रपदर्शनाधिकार एव ज्ञापितो भवति । यद्यपि-~-'यस्य सर्वाणि भूतानि शरीरम् ॥ ॥ ५॥७॥ १५ ॥ इत्यादिभिस्सर्वेषामेव चिदचिद्वस्तूना परमात्मशरीरत्वं तुल्यं, तथापि-तादृशवस्तुस्वरूपस्थि- सेस्सर्वसाधारण्येऽपि तदभ्युपगमपूर्वकतदनुगुणवर्तनं हि न सर्वसाधारणम् । तादृशवर्तनमेवचात्रामी. त्यनेन विवक्षितम् । तदेवच तद्दर्शनाधिकारप्रयोजकमितरव्यावृत्तमिह दर्शितम् - ईदृशमेव च वर्तन- मविवादशब्देन मनुनापि दर्शित-'यमो वैवखतो राजा यस्तवैष हदि स्थितः । तेन चेदविवादस्ते मा गङ्गाम्मा कुरून् गमः' । म नु॥ ८॥ ९२ ॥ इत्यत्र तादृशमेव च वर्तनं भक्त्यादिलक्षणपरवि- अापरमकाष्ठापीत्यत एव भगवद्रूपदर्शने स्वस्याधिकारो दर्शितो भवतीति भाव इति ॥ ५॥ एतेन . १. छ.६. अष्टा.१-४-१०५ ।।
में-१६.] भाध्यत्रयोपेता. वेगात् त्वमहमर्थयोस्सत्ताद्याकारस्य नित्यप्रतिपन्नतया विशेषतोऽनिर्देश्यत्वादननुसन्धेयत्वाच न कथ- ञ्चिदपि 'तत्त्वमसि' 'सोऽहमस्मि' इत्यादेनिहिश्शक्यः। दृष्टिविधिस्तु मोक्षार्थविद्यासु वेदान्तवादिना नाङ्गीक्रियते । यद्यप्यत्र 'त्व राजासि' 'अहं राजास्मि' इत्यादिवत्तादधीन्याद्यपचारविवक्षया मध्य- मोत्तमयोस्सामञ्जस्य, तथापि लोकवेदयोश्चेतनपर्यन्तदेवमनुष्यादिव्यवहारन्यायेन जातिगुणशब्दगति. कू॥मित्तकस्य अस्माकं निर्वहणस्यैवानुसतुमुचितत्वात्।अपरे त्वाहु योऽसावसौ पुरुषस्सोऽहमस्मि' इत्य. त्र पुरुषशब्देन परमपुरुषो न विवक्षणीयः, तथा सति अस्मीत्युत्तमस्य 'पुरुषः' इत्याख्यायाः सोऽहम्' इति च सामानाधिकरण्यस्य क्लेशेन निर्वाह्यत्वात् । ततो वरमत्र पुरुषशब्दस्य परिशुद्धजीवात्मपरत्वमा- श्रयितुम् । एवञ्च सति यःपुरुषो मुक्तदशाभाब्याकारः परिशुद्धजीवात्मा सोऽहमस्मीत्यन्वयादुत्तमस्य 'पुरुषः' इत्याख्यायास्सामानाधिकरण्यम्यचातिस्वरसो निर्वाह इति । नायं पक्षस्साधुः · तथा भवत्वेव- मिह निर्वहणं, तथापि 'तत्त्वमसि' इत्यत्र तत्पदस्य त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इत्यादिषु त्वंपदस्य च परदेवतावाचकत्वेन त्वदुक्तनिर्वाहस्य तत्राभावादकामेनापि तत्रास्मदुक्तनि- श्री॥तव प्रसादात्तव रूप पश्यामि,किञ्च-अहं न त्वां भृत्यवद्याचे योऽसावादित्यमण्डलस्थो व्याहृत्यव- यवः पुरुषः, स एवाहमस्मि' इत्युपासकस्य स्वस्मिन् सूर्यादिशब्दाभिलपनीयपुरुषस्वरूपैक्यानुसन्धान- परं शङ्करकृतं व्याख्यानमसमञ्जसमेवेति सिद्धं--तव प्रसादात्त्वद्रपं पश्यामीत्यनुसन्धत उपासकस्य स्व- स्मिन्नपास्यस्वरूपैक्यानुसन्धानायोगात्. प्रमादस्य सेव्यसेवकभावलक्षणभेदमापेक्षत्वात्, परविद्याप्रक- रणे सूर्यशब्दाभिलपनीयदेवताविशेषरूपदर्शनयाचनस्य तदर्थमनपेक्षिततदैक्यानुसन्धानस्यचाप्रसक्त . स्वादनुपयुक्तत्वाच ॥ ६ ॥ किञ्च–'यत्ते कल्याणतम रूपं - तत्ते पश्यामि' इति प्रसिद्धवदामधी- यमानस्य कल्याणतमरूपस्य-'यएषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते॥ छ॥ १ ॥ ६ ॥६॥ इत्या- दिश्रुत्यन्तरप्रसिद्धपरमात्मदिव्यरूपतायाः प्रत्यभिज्ञायमानत्वेन तादृशरूपस्य पुरुषस्य सूर्याख्यदेवतावि. शेषरूपत्ववर्णनमपि न साधु-दर्शितश्रुत्यन्तरस्य-~'अन्तस्तद्धर्मोपदेशात् ॥ शा ॥ १॥ १॥ २१ ॥ इत्यधिकरणे स्वासाधारणदिव्यरूपविशिष्टपरमात्मलक्षणपरमपुरुषपरतायास्तस्य पुरुषस्य सूर्याख्यदेवता- विशेषव्यावृत्तधर्मविशेषनिर्देशप्रत्यक्षतद्भेदनिर्देशादिभिर्हतभिस्सूत्रकारेणैव स्थापितत्वात् ।। ७॥ अत्र प्रत्यगात्मपरस्याहशब्दस्य परमपुरुषपरस्य पुरुषशब्दस्य च सामानाधिकरण्यनिर्देशस्तयोश्शरीरशरीरि भावनिबन्धनः ॥ ८॥ न तु स्वरूपैक्यनिबन्धनः ।। ९॥ ततश्च-~-'अहं स पुरुषोऽस्मि' इत्यनेन सामानाधिकरण्यनिर्देशेन खस्मिन् परमपुरुषशरीरभूतत्वप्रतिसन्धानपरेण भक्तिपर्यवसन्नस्य शरीरवत्स- त्मिना तदधीनवृत्तिकत्वस्य ज्ञापनसिद्ध्या भगवद्दिव्यरूपदर्शने स्वस्याधिकारो ज्ञापितो भवति।।१०।। ननु कथमत्राहंपदपुरुषपदयोस्सामानाधिकरण्यं सम्भवति-तत्पदप्रयोज्यविषयतानिरूपित- तादात्म्यनिष्ठसंसर्गतानिरूपितशाब्दबोधीयविपताप्रयोजकत्वस्यैव तत्पदेनैतत्पदस्य सामानाधिकरण्यरू- पत्वात्, सम्प्रति पुरुषपदार्थस्यास्मीतिधात्वयं एवान्वयेनाहंपदार्थेऽन्वयस्यैवाभावात् १ एवम्-अस्ते- धर्धातोराधेयत्वमर्थः, 'भूतले घटोऽस्ति' इत्यादौ घटादिषु भूतलादिनिरूपिताधेयताया एव बोधदर्शनात् - २ - इत्यञ्च — अहं स पुरुषोऽस्मि' इत्यत्रासधात्वर्थाधेयतायां पुरुषपदार्थस्य परमात्मन आधयतासम्बन्धेन तद्विशेषणपुरुषत्वस्य अवच्छेद्यतासम्बन्धेन चान्वये पुरुषत्वाव- च्छिन्नपरमात्मनिष्ठाधेयतावानहम् ' इत्येव बोधसम्मवेन वाक्यस्य बाधितार्थकस्वप्रसङ्गो दुर्वारः, . १. 'जाबालाः' इति शरमाण्ये. ३-३-३७ ।।
- . ६४ ईशावास्योपनिषत् [म-१६. लाभात्तदुपेक्षानन्वेवं पुरुषाख्यस्वेटरात्मसामानाधिकरण्यक्लेशं परित्यज्य योऽसावसौ पुरुषस्सोऽह- मस्मि' इति परिशुद्धस्वरूपमात्रानुसन्धानपरमिदं वाक्यमस्तु ; मैव, 'सत्त्वमसि' 'वं वा अहमस्मि' इत्यादिषु तदनुपपत्तेः, अत्रापि तत्समानन्यायतया तथैवानुसन्धानस्यौचित्यात् । 'ब्रह्मात्मकोऽहमस्मि' इति परविद्याङ्गभूतस्वात्मानुसन्धानपरत्वेऽपि तच्छब्देन तादधीन्यादिकं लक्षणीयं स्यात् ॥ १६ ॥ कार्वाहस्य समाश्रयणे तत्समानन्यायतयाऽत्रापि तस्यैवानुसर्तुमुचितत्वादिति। स्यादेतत्। 'त्वं वा अह- मस्मि भगवो देवते अहं वै त्वमसि' इत्यत्र कथं पुरुषव्यवस्था, त्वमहंपदयोरुभयोरपि श्रवणात् । उद्देश्यविषयकमेव युष्मदादिपदम् उपपदत्वेन पाणिनिसूत्राभिमतं, तथाचोद्देश्यसमर्पकोपपदवशा- देवाच मध्यमोत्तमयोर्व्यवस्था सिद्ध्यतीति चेत् -अस्त्वेवमिह समाधानं, तथापि 'तत्त्वमसि' इत्यत्र पुरुषव्यवस्था न घटते, तत्र त्वंपदयोगवत्तरपदयोगस्यापि सत्वात् । तथा चासीतिवदस्तीति प्रथमपुरु पस्यापि प्रसङ्गः, न ह्यत्रापि त्वंपदमुद्देश्यसमर्पक, येन त्वंपदमेव पुरुषनिमित्तं न तत्पदमपीति व्यव- स्था स्यात् । तथा च तत्त्वमसिनिरूपाणावसरे भाष्यं 'नात्र किञ्चिदुद्दिश्य किमपि विधीयते' इति । श्री॥पुरषत्वावच्छिन्नपरमात्मनिष्ठाधेयताया अहपदार्थप्रत्यगात्मनि बाधात् ३ - इति चेन्न पुरुषपदस्यान पुरुषात्मकपरत्वेन पुरुषात्मकत्वरूपपुरुषपदार्थतावच्छेधकधर्मावच्छिन्नप्रत्यगात्मनिष्ठा- धेयताया एवासधात्वर्थतया तस्याः प्रत्यगात्मनि बाधप्रसङ्गाभावात् , परब्रह्मान्तर्यामिकत्वरूप - पुरुषात्मकत्वस्य प्रत्यगात्मन्येव सम्भवात् , दर्शिताधेयताभानबलेनात्र पुरुषपदार्थब्रह्मात्मकत्व - विशिष्टस्यापि धर्मिपारतन्त्रयेण तादात्म्यसम्बन्धेनाहंपदार्थे भाननैयत्येनाहंपदेन पुरुषपदस्य यथोक्तलक्ष- णसामानाधिकरण्यसम्भवे क्षतिलेशाभावाच ॥ ११ ॥ ययोरशरीरशरीरिभावोऽस्ति, तयोरशरीरवा- चकानां शरीरिबोधकत्वमिव शरीरिवाचकानां शरीरबोधकत्वमप्यत्येव, शरीरशरीरिभावलक्षणापृथ- क्सिमिहिनेतीह पुरुषशब्दस्य ब्रह्मात्मकत्वेन प्रत्यगात्मपरत्वमव्याहतम् ॥ १२ ॥ अत एव श्रीवि- ष्णुपुराणे 'ज्ञान विशुद्धं विमलञ्च नित्यमशेषलोभादिनिरस्तसङ्गम् । एक सदैक परमः परेशस्स वासु- देवो न यतोऽन्यदस्ति ॥ २ ॥ १२ ॥ ४३ ॥ इति श्लोके विशुद्धप्रत्यगात्मस्वरूपवाचिज्ञानपदस्य वासुदेवपदेन एकस्समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ २ ॥ १६ ॥ २३ ॥ इति श्लोके चेतनाचेतनवाचिशब्दानां परमात्मवाचिशब्दैश्च सामानाधिकरण्यव्यपदेशः कृतो यथोक्तनीत्यैव ॥ १३ ॥ अत्र प्रथम श्लोकं व्या- कुर्वद्भिर्भाष्यकारैर्जिज्ञासाधिकरणभाष्ये 'तञ्च वासुदेवशरीरमिति तदात्मकम् , अतदात्मकस्य कस्य- चिदप्यभावात्' इति ज्ञानशब्द वाच्यमात्मस्वरूप तच्छब्देन परामृश्य तस्य वासुदेवशरीरतया वासुदे. वात्मकत्वोपपादनेन ज्ञानपदार्थप्रत्यगात्मस्वरूपनिष्ठविशेष्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नवासुदेवा- स्मकत्वावच्छिन्नप्रकारताशालिबोधजनकत्वं दर्शयित्वा - 'ज्ञान वासुदेवः' इति शब्दयोस्सामानाधि. करण्यमुपपादितम् ॥ १४ ॥ एवमेव श्रीविष्णुचित्तार्यैरप्येतदनुसारिभिरत्र व्याख्यानं कृतम् ॥ १५ ॥ उदाहृतद्वितीय श्लोकेऽपि यदिहास्ति किश्चित्तत्समस्तम् • एकोऽच्युत एव - तदात्मकमित्यर्थ इति ध्याकुर्वद्भिस्तैस्तद्रीत्यैव सामानाधिकरण्यमुपपादितं चेतनाचेतनरूपसर्वद्रव्यवाचिसमस्तपदेन भगवद्वा- चिनोऽच्युतपदस्य ॥ १६ ॥ एवं-'ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यस्समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य'॥२॥१२॥३८॥ इति श्लोकेऽपि ज्योतिरादि- शब्दानां भगवद्वाचिशब्देन सामानाधिकरण्यनिर्देशो भगवद्वाचिशब्दस्य भगवदात्मकपरत्वाभिप्रा.. १. 'जावाला:' इति शङ्करभाष्ये, ३.३.३७ ॥
मं-१६.] भाष्यत्रयोपेता. ६५ कू॥तस्मात् 'तत्त्वमसि' इतिवत् तत्त्वमस्तीति प्रयोगोऽपि दुनिवार इति। अत्रोच्यते 'तत्त्वमसि' इत्य- त्रापि त्वंपदार्थ उद्देश्य एव। ततश्वोद्देश्यविषयकयुष्मत्पदवशात्तत्र मध्यम एवेति न प्रथमपुरुषप्रसङ्गः। नन्वेवं भाष्यविरोध इति चेन्न-भाष्यस्य विधेयांशमात्रनिषेधपरतयोद्देश्यांशनिषेधकत्वाभावात् । तथा हि न येवं भाष्याभिप्रायः, नात्र किञ्चिदुद्दिश्यते, न च किञ्चिद्विधीयत इत्यपि। तवं भाष्याभिप्राये त्वपदेन किञ्चिदुद्दिश्यत एव, किंतूद्दिष्टेन किञ्चिद्विधीयत इति कथमिदमवगम्यत इति चेन्न , प्राप्त स्यैवोपसंहारकत्वोपपादकभाष्येणैव विधेयांश एव निषिध्यते इत्यभिप्रायस्य व्यक्तत्वात् । अन्योऽप्या- ह-त्वं राजासि' 'अह राजास्मि' इत्यादिवत्तादधीन्याधुपचारविवक्षया 'तत्त्वमसि' 'सोऽहमस्मि' इत्यादिषु मध्यमोत्तमसामानाधिकरण्यानां सामञ्जस्यमिति, तदप्युपेक्षणीयमेव । लोकवेदयोश्चेतनपर्य- न्तदेवमनुष्यादिव्यवहारबलेन जातिगुणशब्दवन्मुख्यवृत्त्यैव निर्वाहसम्भवे उपचारकल्पनस्यान्याय्यत्वा. दित्यलं विस्तरेण ॥ १६ ॥ - श्री॥येणैव कृतः ॥ १७॥ उक्तं हि जिज्ञासाधिकरणश्रीभाष्ये पुराणघट्टे- 'तदिदं शरीरात्मभावायत्तं तादात्म्य सामानाधिकरण्येन व्यपदिश्यते-ज्योतींषि विष्णुरिति। अनात्यात्मकं नास्त्यात्मक च जग- दन्तर्गत वस्तु विष्णोः कायतया विष्ण्वात्मकम्' इत्युक्त्याऽतत्यविष्णुपदस्य विष्ण्वात्मकपरत्वं भाष्य- कारः॥ १८ ॥ एवं-'सर्वत्र प्रसिद्धोपदेशात्' ॥ १ ॥२॥१॥ इति सूत्रभाष्ये---'सर्व खल्विदं ब्रह्म' इति श्रुतौ ब्रह्मपदस्य ब्रह्मात्मकपरत्वमाश्रित भाष्यकारैरित्यवगम्यते ॥ १९ ॥ एवं-'क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत' ॥ १३ ॥ २ ॥ इति गीताश्लोकभाष्ये-'देवमनुष्यादिक्षेत्रेषु वेदि- तृत्वैकाकार क्षेत्रज्ञ च,मां विद्धि-मदात्मकं विद्धि'इति व्याकुर्वन्द्रिर्भाष्यकारेश्शरीरशरीग्भिावनिबन्धन- सामानाधिकरण्यनिर्देशस्थलेषु शरीरिभूतब्रह्मवाचकशब्दानां ब्रह्मात्मकपरतयापि मामानाधिकरण्यनि- देशनिर्वाहस्सम्भवतीति दर्शितम्॥२०॥ न च नामरूपव्याकरणश्रुत्या शरीरवाचकानां शब्दानामपर्य- वसानवृत्या शरीरिबोधकतासिझ्या शरीरभूतचेतनाचेतनवाचिशब्दानां तच्छरीरकपरमात्मपर्यन्तबो- धकतासिद्धावपि शरीरिभूतपरमात्मवाचिंशब्दाना तदात्मकचेतनाचेतनपर्यन्तबोधकत्वासिंद्धरिह परमा- त्मवाचिनः पुरषशब्दस्य परमपुरुषात्मकत्वेन प्रत्यगात्मपरत्वं विना लक्षणां न सम्भवति, लक्षणा. कल्पनं चायुक्तं- 'तत्त्वमसि' इत्यादौ त्वंपदस्येवात्राप्यहंपदस्य प्रत्यगात्मवाचिनस्तच्छरीरकपरमा- स्मपरतासम्भवेन मुख्यवृत्त्यैव सामानाधिकरण्यनिर्वाहसम्भवादिति वाच्यम् , 'अनेन जीवेनात्मनाs- नुप्रविश्य नामरूपे व्याकरवाणि' ॥छां ॥ ६ ॥ ३ ॥ २ ॥ इत्यादिनामरूपव्याकरणश्रुत्या 'अनुप्रवि- श्य' इत्यनुप्रवेशस्य नामरूपव्याकरणप्रयोजकतां प्रदय तहलेनैव तत्तन्नाम्नां शक्तिव्यवस्थापनदर्शनेन तत्र यया युक्त्या चेतनाचेतनशब्दानां परमात्मवाचकता सिद्ध्यति, तयैव युक्त्या परमात्मवाचिशब्दानां तदात्मकत्वेन तच्छरीरवाचकताया अपि सिद्धेस्तदपह्नवायोगात् ॥ २१ ॥ इदमत्रावधेयम् - इयं श्रतिलोकव्युत्पत्तिसिद्धतत्तत्पदार्थवाचकताकशब्दानां परमात्मपर्यन्तवा- चितां कथं प्रतिपादयतीति तावद्विवेचनीयं १ तत्तच्छन्दवाच्येषु पदार्थेष्वपृथक्सिद्धतया परमात्मनस्सं- बद्धत्वात्पृथक्सिङ्ख्यनईसम्बन्धविशेषेण तत्तत्पदार्थविशिष्टेऽपि तत्तन्नाम्नां शक्तिरिति युक्त्यैव परमात्मप- यन्तवाचिता तत्तन्नाम्नां प्रतिपादितेत्यवगम्यते-२-एवमेवच परमात्मवाचिशब्दानामपि तत्तत्पदार्थानां परमात्मन्यपृथक्सिद्धतया सम्बद्धत्वादेव पृथक्सिद्ध्यन सम्बन्धविशेषेण तद्विशिष्टवाचकतापि तयैव श्रुत्या सिद्ध्यतीति न तदपहवः कर्तुं शक्यः-३ तदपृथक्सिद्धतया वर्तमानत्वमेव च तद्वाचकवाच्यत्वे १.छा. उप. ६-८७ ।। 9 ६६ ईशावास्योपनिषत् [म-१६. श्री॥तन्त्रमिति॥ २२॥ चेतनाचेतनानुप्रर्वशेन तदपृथक्सिद्धतया वर्तमानत्वेन यथा चेतनाचेतनवाचक- शब्दवाच्यत्वं परमात्मनस्सम्भवति, तथैव परमात्मापृथक्मिद्धतया वर्तमानत्वेन परमात्मवाचकशब्दवा- च्यत्व चेतनाचेतनयोरपि सम्भवतीत्यभिप्रायेणैव च भाष्यकारैरपि प्रागुदाहृतस्थलेषु भगवद्वाचक- शब्दानां तदात्मकत्वेन चेतनाचेतनपरता भाषिता॥२३॥ क्षेत्रशं चापि मा विद्धि' ॥गी ॥ १३॥ २॥ इति श्लोकगीताभाष्ये । चेतनाचेतनवाचिसमानाधिकरणतया प्रयुक्तस्य मामितिपरमात्मवाचिशब्दस्य 'मां विद्धि मदात्मक विद्धि' इति भगवदात्मकवाचितां व्याख्याय तदुपष्टम्भकतया 'यथा क्षेत्रं क्षेत्रवि- शेषणतैकस्वभावतया तदपृथक्सिद्धेस्तत्सामानाधिकरण्येनैव निर्देश्य, तथा क्षेत्र क्षेत्रञ्च मद्विशेषणते- कस्वभावतया मदपृथक्सिद्धेमत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि' इति भाषमाणैर्भाष्यकारैः-तद- पृथक्सिद्धतया वर्तमानत्वमानमेव तद्वाचकवाच्यत्वे तत्रं, न तु तद्विशेष्यतया वर्तमानत्वमपीति स्पष्ट - मेव दर्शित भवति , अन्यथा इह मामित्यस्य मदात्मकत्वेन चेतनाचेतनवाचकत्वोपष्टम्भकतायास्त- द्रन्थस्यासिद्धेः ॥ २४ ॥ तदेतत्सर्व-नामरूपव्याकरणश्रुतिबलेन सिद्ध्यति वाच्यवाचकभावे--- नाम्नां लोकव्युत्पत्तिसिद्धस्वार्थविशिष्टत्वरूपशक्यतावच्छेदकशरी रेऽपृथस्थितिप्रयोजकसम्बन्धविशेष एव स्वार्थवैशिष्टयघटकतया प्रविष्टः-न तु तत्र विशेष्यभावनियामकत्वमपि सम्बन्धे निवेश्य, प्रयो- जनाभावाद्गौरवाद्विपरीतानां बहूनां स्वारसिकप्रयोगाणाम्मुख्यस्वानिर्वाहप्रसङ्गात्, सम्भवति मुख्यतया निगाहे तदुपेक्षणायोगाच । इत्थञ्च चेतनाचेतनवाचिशब्दानां शरीरितासम्बन्धेन तद्विशिष्टपरमात्म- वाचितावत्परमात्मवाचिशब्दानामपि शरीरतासम्बन्धेन तद्विशिष्टचेतनवाचित्वमपि सम्भवति, शरीर- शरीरिभावसम्बन्धस्य चेतनाचेतनयोः परमात्मनश्चापृथकस्थितिनियामकतया तेषां परस्परापृथक्सि- द्धताया अव्याहतत्वात् । तस्माचेतनाचेतनवाचिशब्दाना परमात्मवाचिशब्दानाञ्च परमात्मविशेष्यक बोधजनकसामानाधिकरण्यनिर्देशवञ्चेतनाचेतनविशेष्यकबोधजनकसामानाधिकरण्यदिशोऽपि मुख्य एवेत्यभिप्रायेणैव कृतमिति स्पष्टमेवावगम्यते ॥ २५ ॥ इत्थञ्च--- 'नद्यस्समुद्रान्तःप्रविष्टास्समुद्र एव भवन्ति'-'पल्लवपुष्पफलशाखादिकं सर्व वृक्ष एव' इत्यादयस्वारसिकनिर्देशा अपि मुख्यतयैव नि व्यूंढा भवन्ति ॥ २६ ॥ न च शरीरवाचकानां शरीरिवाचकत्वाभिप्रायकबहुतरनिर्देशदर्शनेन भा ष्यकृता-शरीरवाचकशब्दानां शरीरिण्येव शक्तिः, शरीरिवाचकानां तु शरीरबोधकतया क्वाचिके निर्देशो गौण इत्येवाभिप्राय इति वाच्य,तनतत्र भाष्यकृतां शरीरवाचकशब्दानां शरीरिवाचकत्वव वर्णनस्यापि शरीरशरीरिमावस्थलेऽपृथसिद्धिनैयत्येन तद्बलेनैव तेषां तद्वाचकत्वसम्भवाभिप्रायकत्वेन शरीरवाचकशब्दानामेव शरीरिवाचकत्वमित्यभिप्रायकत्वासम्भवात्; अन्यथा-'रसोऽहमप्सु कौन्ते य' | गी॥ ७ ॥ ८ ॥ 'पुण्यो गन्धः पृथिव्याञ्च' । गी॥ ७ ॥ १ ॥ इत्यादिसामानाधिकरण्यनि- र्देशानामनिर्वाहप्रसङ्गाच्च ॥ २७ ॥ तत्र हि रसगन्धादिषु द्रव्यत्वघटितशरीरत्वाभावेन तद्वाचकरस- गन्धादिशब्दानामुक्तरीत्याश्रयणे परमात्मवाचिशब्देन सामानाधिकरण्यं दुरुपपादम् ॥ २८ ॥ अल- पक्षे तु स्वाश्रयापृथक्सिद्धरपि तत्रापृथकूस्थितिप्रयोजकत्वेन तत्सम्बन्धेन रसादिविशिष्टत्वेन परमात्म- जोधकत्वसम्भवेन- रसोऽस्मि' 'गन्धोऽस्मि' इत्यादिसामानाधिकरण्यं सूपपादम् ॥ २९ ॥ तस्मा दिह 'अहं स पुरुषोऽस्मि' इत्यहपदार्थप्रत्यगात्मविशेष्यकपुरुषपदार्थपरमपुरुषात्मकत्वावच्छिन्नप्रका- रकबोधपरसामानाधिकरण्यनिर्देशोऽपि मुख्य एव सम्भवति ॥ ३० ॥ अथ-'अहं स पुरुषोऽस्मि' इत्यत्र पुरुषपदस्य परमपुरुषात्मकपरत्वे तदेकदेशभूतपरमपुरुषे तत्पदार्थान्वयो न सम्भवति, ‘पदार्थः पदार्थेनान्वति, न तु पदार्थकदशेन' इति व्युत्पत्तिविरोभात् , म-१६.] भाज्यत्रयोपेता. , श्रीपरमपुरुषात्मकेऽपि तदन्वयो न सम्भवति,तत्पदार्थादित्ममण्डलान्तर्वति परमपुरुषाभेदस्य प्रत्यगा- त्मनि बाधादिति चेन्न, 'चैत्रस्य गुरुः गृहस्य पतिः' इत्यादौ गुरुत्वपतित्वादिपदार्थंकदेशे षष्ठयन्तपूर्व- पदार्थचैत्रादिनिरूपितत्वान्वयदर्शनेन तादृशस्थलेष्विव 'गौरश्चैत्रो जानाति' 'अयं ब्राह्मण आनेयो विद्वान्' इत्यादिषु चैत्रब्राह्मणादिपदार्थशरीरविशेषावच्छिन्नात्मैकदेशशरीरे गौरात्रेयादिपदार्थान्वयद- शनेन तादृशस्थलेष्वपि दर्शितव्युत्पत्तेस्सङ्कोचावश्यकत्वेनात्र पुरुषपदार्थंकदेशपरमपुरुषे तत्पदार्थान्वय- स्वीकारे बाधकाभावात् ॥ ३१ ॥ दर्शितव्युत्पत्तेःशब्दान्तरप्रयोज्यप्रकारतानिरूपितविशेष्यतासम्बन्धे- न शाब्दबोधं प्रति शब्दान्तरप्रयोज्योपस्थितेमुख्यविशेष्यतासम्बन्धेन हेतुत्वमित्येतत्परतया तत्त्र प्रका रताभिन्नत्वरूपमुख्यत्वघटकप्रकारताया ससम्बन्धिकपदाप्रयोज्यत्वापृथक्सिद्धिसम्बन्धानवच्छिन्नत्वयो- निवेशे हि नोक्तद्विविधस्थलेष्वनुपपत्तिः, 'चैत्रस्य गुरुः' 'गृहस्य पतिः' इत्यादौ गुरुपत्यादीना ससम्ब- धिकपदत्वेन तत्प्रयोज्यगुरुत्वपतित्वादिनिष्ठप्रकारताया तादृशपदाप्रयोज्यप्रकारताभिन्नत्वानपायात् , 'गौरश्चनो जानाति' 'अय ब्राह्मण आत्रेयो विद्वान्' इत्यादौ चैत्रब्राह्मणपदप्रयोज्यशरीरविशेषवि- शिष्टप्रत्यगात्मरूपतदर्थैकदेशशरीरनिष्ठप्रकारताया अपृथक्सिद्धिसम्बन्धावच्छिन्नत्वेन तदनवच्छिन्नप्र- कारताभिन्नत्वानपायाच मुख्यविशेष्यतारूपत्वानपायेन तादृशविशेष्यतासम्बन्धेन गुरुत्वपतित्वशरी- रादिषु शब्दान्तरप्रयोज्योपस्थितेर्जागरूकत्वात् ॥ ३२ ॥ इत्थं चात्रापि पुरुषशब्दार्थपरमपुरुषविशि- टघटकपरमपुरुषे तादृशविशेष्यतासम्बन्धेन पुरुषशब्दप्रयोज्योपस्थितेस्सत्वेन तत्र तत्पदार्थान्वये न काचिदपि क्षतिरुपलभ्यते ॥ ३३ ॥ वस्तुतस्तु शीरवाचकाना शरीरिणि वृत्तेः शरीरिवाचकाना श- रीरे वृत्तेश्च प्रागुपदर्शितशरीरशरीरिभावापन्नाथद्वयपरशब्दसामानाधिकरण्यनिर्देशाद्यनुरोधेन ततया ताशवृत्तिज्ञानपूर्वकमेव तादृशस्थलेषु शाब्दबोधजननात् , शरीरिवाचकशब्दाना तदात्मकविषयक- वृत्तिज्ञानस्य तेषा शरीरिभूततत्तत्पदार्थवाचकत्वरूपवृत्तिज्ञानपूर्वकतायाः शरीरवाचकगब्दाना तच्छरी. रकविषयकवृत्तिज्ञानस्य तेषा शरीरभूततत्तत्पदार्थवाचकल्वरूपवृत्तिज्ञानपूर्वकतायाश्च नियतल्वेन तन्त्र प्राथमिकवृत्तिज्ञानाधीनपदार्थोपस्थित्योश्शरीरिभूतेषु शरीरभूतेषु च तत्तत्पदार्थेषु मुख्य विशेष्यतासम्ब- न्धेन नियमेन सत्वात्तत्र पदार्थान्तरान्वयस्वीकारे नानुपपत्तिगन्धः ॥ ३४ ॥ अत एव ---'गभोरायां नद्या घोषः' इत्यादौ नदीशब्दार्थनदीती रैकदेशनद्या गभीरपदार्यान्वयबोधोऽपि सङ्गच्छते, तत्र शक्त्यधीननद्यपस्थितिपूर्वकमेव लक्षणाधीननदीतीरोपस्थितेर्जननाच्छन्त्यधीननयुपस्थितेस्तत्र कारणत्व- सम्भवात् ॥ ३५ ॥ इत्थञ्च प्रकृतस्थले पुरुषपदजन्यपरमात्मोपस्थितेस्तन्मूलकतत्पदजन्यतदात्मकोप- स्थितेश्च द्वयोरपि जननात्तत्र प्रथमोपस्थितिबलेन पुरुषशब्दाथैकदेशपरमात्मनि स इति पदप्रतिपन्ना- र्थान्वयबोधजनेन न कश्चिाद्वरोधः ॥ ३६॥ अथवा चिदचिद्वाचिशब्दार्थविशेष्यकपरमात्मवाचिशब्दार्थप्रकारकबोधपरसामानाधिकरण्य- निर्देशस्थलेषु परमात्मवाचिशब्दाना भगवदात्मके शक्त्यस्वीकारेऽपि तदर्थपरमात्मन एव तादात्म्य. सम्बन्धेन चेतनाचेतनयोरन्वयस्वीकारेणापि सामानाधिकरण्यव्यपदेशनिर्वाहः संभवति । तादात्म्य- निष्ठसंसर्गतानिरूपितविषयताप्रयोजकत्वस्यैव सामानाधिकरण्यरूपत्वात् , भगवदात्मकत्वरूपतत्तादा- त्म्यस्य चेतनाचेतनयोरनपायाच॥ ३७॥ इत्थञ्च प्रागुदाहृतेषु स्थलविशेषेषु परमात्मपरशब्दाना तदा- त्मकपरतया भाष्यकारकृतव्याख्यान तादात्म्यसम्बन्धेन परमात्मप्रकारकबोधजनकत्वाभिप्रायकं बो. ध्यम् ॥ ३८ ॥ इत्थं चैकदेशान्वयप्रयुक्तानुपपत्तिशङ्कागन्धस्यैव नायकाशः ॥ ३९॥ न च-नील- मुत्पलम्' इत्यादौ स्वरूपैक्यलक्षणतादात्म्यस्यैव नीलपदार्थोत्पलपदार्थयोस्संसर्गतया भानदर्शनेन त.
६८ ईशावास्योपनिषत् मिं-१६. श्री।स्यैव सासानाधिकरण्यव्यपदेशनियामकता युक्ता तत्कथं तादात्म्यशब्दसाधारण्यमात्रेण तदन्तर्या- मिकत्वरूपतादात्म्यस्यापि तत्सामानाधिकरण्यव्यपदेशनियामकत्व सुवचमिति वाच्यं ,तदन्तर्यामिकत्व. रूपतादात्म्यस्यापि प्रयोगानुरोधेन सिध्यन्त्यास्सामानाधिकरण्यव्यपदेशनियामकताया दुरपह्नवत्वात् ।। ४० ॥ तैत्तिरीयोपनिषदि नारायणे-'विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति' ॥ ११ ॥ इति 'येन स- र्वमिदं प्रोतं पृथिवीचान्तरिक्षं च द्योश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदं जगत् स च भूतं स ' ॥५०॥ इति च श्रुत्या-'सर्वगत्वादनन्तस्य स एवाहमवस्थितः' || वि ॥ १ ॥ १९ ॥ ८५ ॥ इति स्मृत्याच तदन्तर्यामिकत्वरूपतादात्म्यस्यापि सामानाधिकरण्यव्यपदेशनियामकताज्ञापन- पूर्वकं चिदचिद्वाचिपदार्थविशेष्यकपरमात्मवाचिपदार्थप्रकारकबोधपरसामानाधिकरण्यनिर्देशो हि कृ. तो दृश्यते ॥ ४१ ॥ किञ्च-श्रीविष्णुपुराणे प्रागुदाहृते-~'ज्ञानं विशुद्धम् ।। २ ॥ १२ ॥ ४३ ।। इत्यादिश्लोके 'एकस्समस्तम्' ।। २ ।। १६ ।। २३ ।। इति श्लोकेच चिदचिद्वाचिपदार्थविशेष्यक- परमात्मवाचिपदार्थप्रकारकबोधपरसामानाधिकरण्यनिर्देशस्य चिदचितीभगवदन्तर्यामिकत्वलक्षणत- सादात्म्यम्मूलमिति स्पष्टमेवावगम्यते ॥ ४२ ॥ अत्र प्रथमश्लोके ज्ञानशब्दवाच्यप्रत्यगात्मस्वरूपवि- शेष्यकवासुदेवशन्दार्थप्रकारकबोधपरतया---'ज्ञानं स वासुदेवः' इति सामानाधिकरण्यनिर्देशं कृत्वा 'न यतोऽन्यदस्ति' इत्यनेन-जगति भगवदन्तर्यामिकत्वलक्षणतदभेदरूपं तत्तादात्म्यमेव तत्र हेतुरिति हि दर्शितम्।।४३।। द्वितीयश्लोकेऽपि तच्छन्दवाच्यचिदचिद्रपकृत्स्नजगद्विशेष्यकाच्युतपदार्थप्रका- रकबोधपरतया 'तदच्युतः' इति सामानाधिकरण्यनिर्देश कृत्वा 'नास्ति परं ततोऽन्यत्' इत्यनेन जगति यथोक्तलक्षणं तादात्म्यमेव तत्र हेतुरिति दर्शितम् ।। ४४ ॥ तादात्म्बाभेदैक्यादिशब्दाना पर्यायत्वात्तच्छन्दनिर्देश्यसम्बन्धनिष्ठसंसर्गतानिरूपितविषयीप्रयोजकत्वमेव सामानाधिकरण्यं शब्दा- नामिति हि तदभिप्रायोऽवगम्यते ॥ ४५ ॥ अनाभिधीयमानो जगतो ब्रह्माभेदो न स्वरूपतो भेदा. भावरूपः, जगद्ब्रह्मणोस्स्वरूपतो भेदस्यान्यत्र सुप्रतिष्ठापितत्वात् , स्वरूपतो जडाजडयोरभेदस्यात्यन्त- मेवासम्भावितत्वाच्च ।। ४६ || ब्रह्मेतरवस्तुमानप्रतिषेधपरोऽयं 'न यतोऽन्यदस्ति' इति निर्देश इ. त्यपि न शङ्कवं,भेदेन निर्दिष्टयोर्जीवात्मपरमात्मनोः प्राक्कृतसामानाधिकरण्यनिर्देशनिर्वाहानौपयिक- स्वेन तथाविधप्रतिषेधस्येहोपयोगाभावात् , ब्रह्मेतरस्य वस्तुनः प्रसिद्धत्वे तत्प्रतिषेधायोगात् , अप्र. सिद्धत्वेच प्रतियोग्यप्रसिद्ध्या सुतरामेव तत्प्रतिषेधायोगाश्च तथाविधप्रतिषेधस्य प्रमाणभूतशास्त्रवेद्यता. या एवासम्भवाच ॥ ४७ ॥ अपितु-स्वरूपतो वासुदेवभिन्न किमपि द्रव्यमपृथक्सिद्धिलक्षणतादा- त्म्यसम्बन्धावच्छिन्नवासुदेवनिष्ठप्रतियोगिताकभेदवन्नास्तीति तादृशभेदाभावरूपवासुदेवतादात्म्यमे- वेह सामानाधिकरण्यनिर्देशनिर्वाहकतयोऽभिधीयते ।। ४८ ॥ अयमर्थश्च दर्शितद्वितीयश्लोके 'तद. च्युतो नास्ति परं ततोऽन्यत्' इत्यत्र स्पष्टमेवावगम्यते, अन 'परमन्यत्' इति द्वयोः पदयोस्सत्वेन परमित्यस्य स्वरूपतोऽच्युतभिन्नवस्तुपरत्वात् अन्यदित्यस्यापृथक्सिद्धिलक्षणतादात्म्यसम्बन्धावच्छिन्ना. च्युतनिष्ठप्रतियोगिताकभेदवत्परत्वाच्च ।। ४९ ।। अतस्तदैकार्थेन प्रथम-लोकेऽपि यथोक्तलक्षणभेदप्र तिषेधएव-'स वासुदेवो न यतोऽन्यदस्ति' इत्यनेन विवक्षितः ।। ५० ।। ताहशभेदश्च ब्रह्मणि रूपादिगुणेषुच प्रसिद्ध एवेति ब्रह्मेतरचिदचिदात्मकद्रव्येषु तत्प्रतिषेध उपपन्न एव ।। ५१ ॥ तथा- चात्र सामानाधिकरण्यनिर्देशनिर्वाहोपयिकतया दर्शितभेदाभावस्य प्रदर्शनाद्दर्शितभेदाभावपर्यवसन दर्शिततादात्म्यमपि सामानाधिकरण्यनिर्देशनिर्वाहकमेव ॥ १२ ॥ न च स्वरूपतो भिन्नयोरीहशा- भेदव्यपदेशो लाक्षणिक एव न मुख्य इति वाच्यम्, अहिकुण्डलाधिकरणतृतीयसूत्रभाष्ये 'जीवव- मं-१६.] भाज्यत्रयोपेता. ६९ श्रीदपृथक्सिद्धविशेषणत्वेनाचिद्वस्तुनो ब्रह्माशत्वं, विशिष्टवस्त्वैकदेशत्वेनाभेदव्यवहारो मुख्यः, विशेष- णविशेष्ययोरस्वरूपस्वभावभेदेन भेदव्यवहारो मुख्यः' इत्यपृथक्सिद्ध विशेषणे स्वरूपैक्यलक्षणतादात्म्य. सम्बन्धावच्छिन्नविशेष्यनिष्ठप्रतियोगिताकाभावरूपविशेष्यभेदव्यवहारस्य-अपृथक्सिद्धिलक्षणतादात्म्य - सम्बन्धावच्छिन्नविशेष्यनिष्ठप्रतियोगिताकामावरूपविशेष्यभेदाभावव्यवहारस्य च द्वयोर्मुख्यतायास्स्पष्ट- मेव भाषितत्वात्।।५३।। एव जिज्ञासाधिकरणभाष्ये भेदतनिषेधश्रुत्यविरोधसमर्थनघट्टे'कृत्स्नस्य जग- तो ब्रह्मकार्यतया तदन्तर्यामिकतयाच तदात्मकत्वेनैक्यात्तत्प्रत्यनीकनानात्वं प्रतिषिध्यते' इत्युक्त्या, तदपृथक्सिद्धिलक्षण तदात्मकत्वमायेकत्वरूपमिति तथाविधैकत्वाभावोऽपि तद्वस्तुप्रतियोगिकभेदरूप इति च स्पष्टमुपदर्शितम् ।। ५४ ॥ एवं तत्रैव पुराणघट्टे 'तदिदं शरीरात्मभावायत्तं तादात्म्य सा- मानाधिकरण्येन व्यपदिश्यते ज्योतींषि विष्णुरिति । अत्रास्त्यात्मक नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकम्' इत्युक्त्या दर्शिततादात्म्यस्यापि सामानाधिकरण्यव्यपदेशनिर्वाह- कत्वमभिहितम् ॥ ५५ ॥ एवमशाधिकरणेऽपि जीवस्य ब्रह्मांशत्वसाधने तद्भिन्नत्वतदैक्यनिर्देशयो- हेतुतयाऽभिधानात् , तद्भाष्ये तदैक्यनिर्देशस्य 'तत्त्वमसि' 'अयमात्मा ब्रह्म' इत्यादिनिर्देशरूपत्वा- भिधानात्, एवमुभयव्यपदेशमुख्यत्वसिद्धये 'जीवोऽयं ब्रह्मणोऽशः' इत्यभ्युपगन्तव्य इत्युक्तेश्च ब्रह्मा. त्मकत्वरूपतदेक्यस्यापि स्वरूपैक्यवसामानाधिकरण्यनिर्देशनिर्वाहकत्व सम्भवतीति ताशसामाना- धिकरण्यनिर्देशस्यापि मुख्यत्वमेवेति च दर्शितम्॥५६॥ एव 'तमः परे देव एकीभवति' इति श्रुत्या 'एको घटः' 'एकः पटः' इत्यादिव्यवहारैश्च पृथक्सिङ्ख्यनहसम्बन्धविशेषस्याप्यकत्वरूपताया अवग- मात् , तदैक्यस्यैव तत्सामानाधिकरण्यनिर्देशप्रयोजकत्वाच्च तत्स्वरूपैक्यवत्तदात्मकत्वरूपतदैक्यस्या- पि तत्सामानाधिकरण्यनिर्देशनिर्वाहकत्वं दुरपह्नवम् ॥ ५७ ॥ जडाजडयोस्स्वरूपैक्यासम्भवेन 'तमः परे देव एकी भवति' इत्यत्न अनेकावयवसङ्घातात्मकघटपटादिषु स्वरूपैक्या सम्भवेन ‘एको घटः' 'एकः पटः' इत्यादिषु च पृथक्सिद्ध्यनहसम्बन्धविशेष एव ोकशब्देन प्रतिपाद्यते ॥ ५८ ॥ इत्य- ञ्च ---प्रागुदाहृतविष्णुपुराणश्लोकेषु --'ज्ञान स वासदेवः' 'तदच्युतः' 'ज्योतींषि विष्णुर्भुवनानि वि- ष्णुः' इत्यादिस्थलेषु 'सर्व खल्विदं ब्रह्म' ॥ छां ॥ ३ ॥ १४ ॥ १ ॥ 'ब्रह्माच नारायणः । शिवश्व नारायणः । शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः। कालश्च नारायणः। दिशश्च नारायणः' ना उ। २ । इत्यादिश्रौतनिर्देशस्थलेषुच ज्ञानादिशब्दवाच्यचेतनाचेतननिष्ठविशेष्यतानिरूपितवासु- देवादिशब्दवाच्यपरमात्मनिष्ठस्वान्तर्यामिकत्वलक्षणतादात्म्यसम्बन्धावच्छिन्नप्रकारताशालिबोधपरत यैव सामानाधिकरण्यनिर्देशो निर्वोढुमुचितः, तत्रत्यपदसन्दर्भाणा चेतनाचेतनविशेष्यकबोधजनन एव स्वारसिकत्वात्॥ ५९ ॥ 'अहं स पुरुषोऽस्मि इति प्रकृतस्थलेतु-असधात्वांधेयतायां स्वनिरूपिता पृथक्सिङ्ख्यवच्छिन्नत्वसम्बन्धेन पुरुषपदार्थपरमात्मनोऽन्वयेऽपि तथाविधाधेयताश्रयत्वस्याहंपदायें प्र. त्यगात्मनि भानबलेन धर्मिपारतन्त्रयेण पुरुषपदार्थपरमात्मनोऽपि स्वनिरूपितापृथक्सिद्धिलक्षणता. दात्म्यसम्बन्धेन तत्र भाननैयत्येन अहंपदपुरुषपदयोस्सामानाधिकरण्यं सम्भवतीति बोध्यम् ॥ ६ ॥ अत एव-'अविभागेन दृष्टत्वात् ॥ शा ॥ ४॥ ४ ॥ ४ ॥ इत्यधिकरणभाष्ये-'किमय पर ज्यो. तिरुपसम्पन्नस्सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतमनुभवति, उत तत्पका- रतया तदविभक्तम् इति विशयमुपदर्यसिद्धान्ते, 'अतोऽविभांगेन'अहं ब्रह्मास्मि' इत्येवानुभवति' इति निर्दिशता भाष्यकृताप्यपदार्थप्रन्यगात्मनिष्ठविशेष्यतानिरूपिताविभागशन्दितापृथक्सिद्धिलक्षणता दात्म्यसम्बन्धावंच्छिन्नब्रह्मपदार्थपरमात्मनिष्ठप्रकारताशालिबोधपरत्वम्- 'अहं ब्रह्मास्मि' इति निर्देश , . ७ ७० ईशावास्योपनिषत् [म-१६. श्रीस्योपदर्शितम्॥६॥अत्र प्रत्यगात्मनि ब्रह्माविभागस्य धर्मिपारतन्त्रयेण भानाभिप्रायेणैवेत्थमुक्तम् , अन्यथा ब्रह्मपदार्थस्यासधात्वर्थ एवान्वयेन ब्रह्माविभागस्य प्रकारविधयावा संसर्गविधयावा प्रत्यगात्म- नि भानासम्भवात् ॥ ६२ ॥ अत्राहंपदार्थब्रह्मपदार्थयोरविभागेनानुभवपरतायः 'अह ब्रह्मास्मि' इति सामानाधिकरण्यनिर्देशस्याभिधानेन स्वरूपाभेदलक्षणतादात्म्यवादविभागशब्दितशरीरशरीरिभावल- क्षणतादात्म्यस्यापि सामानाधिकरण्यनिर्वाहकत्वं भाष्यकारैस्स्पष्टमभिहितं भवति॥ ६३ ॥ न च भि नप्रवृत्तिनिमित्ताना शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्' इति शाब्दिकोक्तसामानाधिकरण्यं स्वप्रयोज्यविषयतासंबन्धेन शब्दानामर्थलक्षणकाधिकरणवृत्तित्वरूपं ह्यवगम्यते 'अहं स पुरुषोऽस्मि' इत्यत्र पुरुषपदार्थस्य परमात्मनः स्वान्तर्यामिकत्वलक्षणतादात्म्यसम्बन्धेनाहंपदार्थे जीवात्मन्यन्वयवी- कारेऽयहपदपुरुषपदयोस्तादृशं सामानाधिकरण्य कथ सम्भवति? तत्प्रयोज्यविशेष्यताप्रकारतयोरेका. धिकरणनिष्ठत्वाभावादिति वाच्य; दर्शितसामानाधिकरण्य लक्षणे स्वप्रयोज्यविषयतानिरूपितसंसर्गता- वत्त्वसम्बन्धेन समानविभक्त्यर्थैकत्वरूपैकार्थवृत्तित्वस्य स्वप्रयोज्यविषयतानिरूपितत्वसम्बन्धेनैकत्वनि- संसर्गतालक्षणैक्राधिकरणवृत्तित्वपर्यवसन्नस्यैवान्ततस्सामानाधिकरण्यशब्देन विवक्षणीयत्वात् , स्वा. न्तर्यामिकत्वादिलक्षणतादात्म्यादिपृथक्सिद्ध्यनहसम्बन्धविशेषाणा सर्वेषामेवैकत्वरूपताया दर्शितत्वा- यात्राइंपदपुरुषपदयोर्यथोक्तलक्षणसामानाधिकरण्यस्याव्याहतत्वात् , अन्यादृशसामानाधिकरण्यस्याने. कदोषसम्भवेनेह विवक्षणासम्भवाच ।। ६४ ॥ तथाहि-स्वप्रयोज्यविषयतासम्बन्धेनार्थलक्षणैकाधिकरणवृत्तित्व तावन्नेह विवक्षितुं शक्यं 'सम्प- लेन चैत्रेणानाहूतोऽपि मैत्रस्तस्य प्रीतिसम्पादनाय सततं तस्यानुपदं गच्छति' इत्यत्र तृतीयान्तसम्पन्नप. दचैत्रपदयोपश्यन्ततत्पदस्यच सामानाधिकरण्यव्यवहारप्रसङ्गात्॥ ६॥ एव स्वनिरूपितत्वस्वसामाना धिकरण्योभयसम्बन्धेन तच्छब्दप्रयोज्यविषयताविशिष्टविषयताप्रयोजकत्वमेतच्छब्दस्य तच्छन्देन सा- मानाधिकरण्यमिति पर्यवसानकरणेऽपि 'घटामाव घटाभावः' 'सर्वस्मिनभिधेये प्रमेयत्वम्' इत्या- दिष्वतिप्रसङ्गः, 'शङ्ख पीतं जानाति' इत्यादावप्रसङ्गश्च भवतः, प्रथमस्थले धर्मिपारतन्त्रयेणाधेयतास- म्बन्धेन घटाभावस्य घटाभावे प्रकारतया भानेन द्वितीयस्थलेऽभिधेयपदार्थस्य प्रमेयत्वपदार्थे तथा भानेनच सप्तम्यन्तप्रथमान्तपदप्रयोज्यप्रकारताविशेष्यतयोरेकनिष्ठत्वनिरूप्यनिरूपकभावोमयसत्त्वात् तृतीयस्थले शङ्खपदपीतपदप्रयोज्यविषयतयोरेकनिष्ठत्वासम्भवाच ॥ ६६ ॥ तस्माद्यथोक्तरीत्यैव सामा नाधिकरण्यलक्षणपर्यवसानं कार्यमिति न कश्चिद्दोषः ॥ ६७ ॥ नचैवमपि, 'शङ्ख पीतं जानाति' इत्यत्र शङ्खपीतशब्दयोस्सामानाधिकरण्यलक्षणस्याप्रसङ्गो दुर्वारः, तत्र पीतपदार्थस्य धर्मिपारतन्त्रयेण तादात्म्येन शङ्खपदार्थे भाने वाक्यस्याप्रामाण्यप्रसङ्गेन तथाभानासम्भवादिति वाच्यम् ; स्वरूपैक्यल- क्षणतादात्म्येन तस्य तत्र तथाभानासम्भवेऽपि तथाविधतादात्म्यसम्बन्धावच्छिन्नप्रकारतानिरूपक- सावच्छिन्ननिरूपकताकविशेष्यतावत्त्वसम्बन्धेन तथाभानसम्भवात्तादृशविशेष्यतापत्त्वसम्बन्धस्याप्येक- स्वादिरूपत्वानपायाच ॥ ६८ ॥ एकत्वतादात्म्याभेदादिशब्दाना पर्यायत्वात्पृथक्सिङ्ग्यनहसम्बन्ध- विशेषाणां सर्वेषामप्यभेदरूपताया दर्शितत्वाच समानाधिकरणवाक्यस्थले नामार्थयोरभेद एव सं- सर्ग इति व्युत्पत्तेरपि न विरोधः ॥ ६९ ॥ एतेन-~~-अपृथक्सिद्धरभेदातिरिक्तत्वेऽपि समानाधिकर णवाक्यस्थले तत्सम्बन्धेन नामार्थयोरन्वयं स्वीकृत्य मुख्यत्वनिवीहे. 'अनिर्माणवकः' इत्यादि सर्वसम्प्र- तिपन्नगौणव्यवहाराणामपि मुख्यत्वापत्तिर्दुर्वारा ; तत्रापि सादृश्यसम्बन्धेन नामार्थयोरन्वयस्वीकारस- *भवादिति शङ्कापि दूरोत्सारिता ; अपृथक्सिद्धेरभेदरूपतासम्भवात् , भेदगर्भस्य सादृश्यस्य तथा- , ܚ ॥ - ७२ ईशावास्योपनिषत् [म.१६. . -- श्री॥सम्भवाभिप्रायेणवा सर्वविधकर्मसशावद्विषयत्ववदेकशब्दप्रवृत्तिनिमित्तानां नानाविधत्वेऽप्यावृ. श्यावा एकशब्दप्रवृत्तिनिमित्तत्वेन कोडीकारेणवा सामानाधिकरण्यलक्षणेऽपि तादात्म्यादिशब्दाभिल. प्यसर्वविधैकल्वपदार्थप्रवेशसम्भवेन क्षत्यभावात्।।८२ ॥ नचेदृशरीत्यैव तत्त्वमस्यादिसामानाधिकरण्य- निर्देश निर्वाहसम्भवे किमर्थं शरीवाचकानां शरीरिणि शक्तिस्वीकार्या, किमर्थ वा तत्साधनप्रयासो भाष्यकारैर्बहुधा कृत इति वाच्य, ब्रह्मचेतनाचेतनवाचकशब्दानां सामानाधिकरण्यस्य तादृशशक्ति विनव निर्वाहसम्भवेऽपि 'अहम्मनुरभवं सूर्यश्च' ॥ ६ ॥ ३ ॥ ४ ॥ १० ॥ 'अहं सर्वम् ॥ वि॥ १॥ १९ ॥ ८५ ॥ इत्यादीनां परस्परविभिन्नचेतनाचेतनवाचिशब्दसामानाधिकरण्यनिर्देशानां 'त. तेज ऐक्षत' 'ता आप ऐक्षन्त' 'तं पृथिव्यब्रवीत्' इत्यादिनिर्देशानां देवतिय॑मनुष्यादिशब्दै श्चेतन- निर्देशानाञ्च निर्वाहासम्भवेन शरीरवाचकशब्दानां शरीरिणि शक्तेरावश्यकत्वात् ।। ८३ ॥ अत्र प्रथ- मनिर्देशेषु परस्पर विभिन्नयोश्चेतनाचेतनयोश्शरीरशरीरिभावस्य स्वरूपाभेदस्य वा विरहात्तद्वाचिनो- शब्दयोस्तत्तचेतनाचेतनशरीरकपरमात्मपरत्वमाश्रित्यैव सामानाधिकरण्यं निर्वाह्यम् ॥ ८४ ॥ द्विती- यतृतीयनिर्देशेषु स्वयं विशेष्यपरतयैव निर्दिष्टानां तेजआदिशब्दाना देवादिशब्दानां च तथाविधश- क्तिमन्तरेण निर्वाहो न सम्भवति ॥ ८५ ॥ एवं नामरूपव्याकरण श्रुतिवलेन सिध्यन्त्याश्शरीरवाचका- नां शरीरिणि शक्तेर्न कथञ्चिदप्यपह्नवः कर्तुं शक्यः ॥ ८६ ॥ नचैवं प्रमाणबलात्प्रयोगप्राचुर्यबला- बावर्जनीयतयाऽवश्यमङ्गीकर्तव्ययाऽनन्यथासिद्धया शरीरवाचकाना शरीरिणि शक्त्यैवात्रापि निर्वा- हस्सम्भवति, अहंशब्दस्य स्वात्मशरीरकपरमात्मपरत्वं पुरुषशब्दस्य यथाश्रुतपरत्वञ्चाश्रित्य स्वरूपा- भेदलक्षणक्यसम्बन्धेनैव पुरुषशब्दार्थस्याहंशब्दार्थेऽन्वयस्वीकारसम्भवात् ; कृतश्चेदृश एव निर्वाह- स्तत्त्वमस्यादिवाक्येषु भाष्यकाररसकृत् ; एवं सति किमर्थमिह पुरुषशब्दस्य परमपुरुषात्मके शक्तिवा स्वार्थकेवलपरमात्मनस्स्वान्तर्यामिकत्वलक्षणतादात्म्यसम्बन्धेनाहंपदार्थे जीवात्मन्यन्वयबोधौपयिकश - किंवा स्वीकृत्य प्रकारान्तरेण बोधवर्णनप्रयासादरणमिति वाच्यम्, स्वात्मनस्सर्वप्रकारपरमात्मनिया- म्यत्वस्यैकान्तिकात्यन्तिकभक्तत्वपर्यवसायिनो भगवद्दिव्यमङ्गलविग्रहदर्शनाधिकारप्रयोजकतया प्रा. धान्येन विधेयतया ज्ञापनस्येहाभिमतत्वेनाहंपदस्य जीवशरीरकपरमात्मपरत्वस्वीकारे विशेष्यतावच्छे- दकतयैव तद्भानसिद्ध्या तथाविधतद्भानस्य प्राधान्येन विधेयतया यथोक्तलक्षणाधिकारप्रयोजकतया तज्ज्ञापनरूपत्वासिद्धेः, स्वात्मशरीरकपरमात्मन्यादित्यमण्डलान्तर्वर्तिविलक्षणदिव्यविग्रहादिविशिष्टपुर षविशेषाभिन्नत्वस्यैव प्राधान्येन विधेयतया भानेन तस्य यथोक्तलक्षणाधिकाराप्रयोजकतया तज्ज्ञापनस्य प्रकृतानुपकारकत्वाचाहंपदस्य केवलजीवात्मपरत्वमाश्रित्य तद्विशेष्यक्रसर्वप्रकारपरमात्मनियाम्यत्वविधे. यकानुसन्धानपर्यवसायिनस्वाधिकारज्ञापनोपकारक बोधस्यैवेहाश्रयीयत्वेन तदर्थमुक्तप्रयासादरणस्या- वश्यकत्वात्॥ ८७॥ चिदचिद्विशेष्यकसर्वप्रकारपरमात्मनियाम्यत्वविधेयकबोधस्यावश्यकत्वमभिसन्धाय चिदचिद्वाचकशब्दस्य परमात्मपर्यन्तवाचित्वस्वीकारे तादृशबोधानिर्वाहाभिप्रायेणैवच प्रागुदाहृतेषु केषुचित् स्थलविशेषेषु चिदचिद्वाचिशब्दानां केवलचेतनाचेतनवाचित्वं भगवद्वाचिशब्दाना भगव. दात्मकपरत्वञ्चाश्रित्य सामानाधिकरण्योपपादनं भाष्यकारैः कृतम् ॥ ८८ ॥ 'तत्त्वमसि' इत्यत्राप्युक्त. रीत्या त्वंपदस्य केवलजीवात्मपरत्वमाश्रित्यैव निर्वाहसम्भवेऽपि तत्प्रकरणे पूर्वमेकविज्ञानेन सर्वविज्ञान प्रतिज्ञाय तदुपपादनाय कार्यकारणयोरैक्यं सास्यैव बहुभवनसङ्कल्पपूर्वकं परस्यैव ब्रह्मणो बहुभावञ्चा- भिधाय तदीयबहुभावोपपादनाय स्वात्मविशिष्टप्रत्यगात्मनाऽचिदन्तःप्रवेशपूर्वकं परेण ब्रह्मणा स्वाम न एव सर्वनामरूपकरणश्चाभिधाय तदुपपादनस्यैव भुत्या प्रक्रान्तत्वादुपसंहारस्य तदानुगुण्यसिद्धये स्वंशब्दस्य जीवशरीरकपरमात्मपरत्वमाश्रित्य सामानाधिकरण्योपपादनं भाष्यकारैः कृतम् ॥ ८९ ॥ -- मं.१६.] भाध्यत्रयोपता. श्री॥त्वशब्दस्य जीवात्ममालपरत्वं स्वीकृत्यतत्पदस्य ब्रह्मात्मकपरत्वं स्वीकृत्यवा ब्रह्ममात्रपरत्वमाश्रित्य यथोक्तलक्षणतादात्म्यसम्बन्धेन तत्पदार्थब्रह्मणस्त्वंपदार्थेऽन्वयं स्वोकृत्यवा सामानाधिकरण्योपपादने घुपक्रमानुगुण्यमुपसंहारस्य न सम्भवति, कार्यकारणयोस्स्वरूपैक्येन कारणविज्ञानेन कार्यविज्ञानसम्म - वमभिप्रेत्यैव तदनुगुणदृष्टान्तप्रदर्शनपूर्वक कारणभूतैकब्रह्मविज्ञानेन तत्कार्यकृत्स्नवस्तुविज्ञानस्यैव प्रति- पिपादयिषितत्वेन कार्यरूपत्वं पदार्थस्य तत्पदार्थब्रह्मरूपकारणस्वरूपंक्यप्रतिपादन विना तदसिद्धेः,जी- वमात्रस्य त्वंपदार्थत्वे तस्य ब्रह्मस्वरूपैक्याभावेन तत्त्वंपदार्थयोरिह स्वरूपैक्यप्रतिपादनायोगाच्च ॥९॥ तदिदं सर्वमभिप्रेत्योक्तं जिज्ञासाधिकरणभाष्ये सङ्ग्रहेण सिद्धान्तोपन्यासघटे भाष्यकारः-'एवं सर्वा. वस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रपेणावस्थित इतीममथै ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थञ्च जगत्स एवेत्याहु:--'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' 'तदक्षत बहु स्यां प्रजाययेति तत्तेजोऽसृजत' ॥ छां ॥ ६ ॥ २ ॥ ३ ॥ इत्यारभ्य 'सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः । ऐतदात्म्यमिदं सर्व तत्सत्यं स आ. स्मा तत्वमसि श्वेतकेतो' ॥ छां ॥ ६॥ ८॥७॥ इति ॥ ९१ ॥ अत्र हि भाष्ये कार्यावस्थकारणा वस्थजगद्रपेणावस्थितपरमपुरुषपरतामस्याः श्रुतेरभिदधानैर्भाष्यकारैरुपक्रमानुगुण्याय कार्यावस्थाचिद्वि- शिष्टचिच्छरीरकब्रह्मपरत्वमेव त्वंपदस्य वक्तव्यमिति स्फुटीकृतम् ॥ १२॥ तथाच 'तत्त्वमसि' इति श्रुतौ तत्रत्यप्रकरणानुगुण्येन त्वंपदस्याचिद्विशिष्टजीवशरीरकपरमात्मपरत्वेऽपि प्रकृतस्थले- 'अहं' स पुरुषोऽस्मि' इत्यत्राहंपदस्य जीवात्ममात्रपरत्वमेव स्वीकृत्य पुरुषपदस्य परमपुरुषात्मकपरत्वंवा यथो- तलक्षणतादात्म्यसम्बन्धेन पुरुषपदार्थपरमात्मनस्तत्रान्वयंवाऽऽश्रित्यैव निर्वाहः कार्यः, तथा सत्येष यथोक्तलक्षणवाधिकार विशेषज्ञापनसिद्धेरिति बोध्यम् ॥ ९३ ॥ एतेन अहंशब्दोऽनजीवद्वारा परमात्मपर्यन्त इत्यहंशब्दस्य परमात्मपर्यन्तपरत्वाभिधानं, तथा- स्वास्वीकारे 'ब्रह्मात्मकोऽहमस्मि' इति परविद्याङ्गभूतस्वात्मानुसन्धानपरत्वेऽपि तच्छब्देन तादधी- न्यादिकं लक्षणीयं स्यादित्यभिधानञ्च वेदान्ताचार्यतदनुयायिनामयुक्तमेवेति सिद्धम् , अहंशब्दस्य जीवशरीरकपरमात्मपरत्वाश्रयणे प्रकरणविवक्षितार्थस्य प्राधान्येन विधेयतया बोधनासिद्धेः प्रागुपद- शितत्वात् , स्वस्मिन् परमात्मशरीरभावस्य सर्वप्रकारपरमात्मनियाम्यत्वादिलक्षणविवक्षितार्थरूपस्य पुरुषशब्देन ब्रह्मात्मकपरेण यथोक्तरीत्या शक्त्यैव बोधनसिद्धेस्तत्र लक्षणाविरहस्यच प्रागुपपादित- स्वात् , तत्र लक्षणामसङ्गाभिधानस्य गीताभाष्यतात्पर्यचन्द्रिकायां-क्षेत्रशं चापि मां विद्धि' इत्यत्र 'माम्' इत्यस्य मदात्मकमित्यर्थपरत्वमाश्रित्य भाष्यकारैर्व्याख्यातस्य सामानाधिकरण्यनिर्देशस्य मुख्यता- प्रतिपादकस्वोक्तेरेव विरुद्धत्वाच॥ ९४ ॥ अत्रत्यपुरुषशब्दो न स्वात्मरूपजीवपरो भवितुमर्हति, विप्र- कृष्टवाच्यदश्शब्देन सूर्यमण्डलान्तर्वर्तिपुरुषपरामर्शात्, 'हिरण्मयेन' इत्यादिमन्त्रे माध्यन्दिनपाठे 'योऽसावादित्ये पुरुषस्सोऽसावहम्' इति सूर्यमण्डलान्तर्वर्तिपुरुषपरतायाः स्पष्टत्वेन तदैककण्ठयनात्रा- पि तादृशपुरुषपरताया दुरित्वाञ्च ॥ ९५ ॥ नाप्यांदित्यसूर्यादिशब्दाभिलप्यजीवविशेषपरः, 'यत्ते रूपं कल्याणतमं तत्ते पश्यामि इत्यनेन- 'यएषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुर्हि- रण्यकेश आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदितिनाम । स एष सर्वेभ्यः पाप्मम्य उदितः ॥ छां ॥ १ ॥६॥ ६॥ ७ ॥ इति श्रुत्युक्तविलक्षणरूपवत्त्वज्ञापनेन ताशरूपवत्पुरुषविशेषरतायाः प्रत्यभिज्ञाप्यमानत्वात् , बादशरूपवत्पुरुषस्य च पुण्डरीकाक्षत्वापद - IO [म १७. ईशावस्योपनिषत् वायुरनिलममृतमथेदं भस्मान्त शरीरम् । ओं क्रतो स्मर कृत स्मर तो स्मर कृत स्मर ॥ अनन्तरं तु परिशुद्धास्मस्वरूपमुच्यते -वायुरनिलममृतम्- इति।विद्याकर्मानुसारेण तत्रतत्र गन्तृत्वातायुगनिलयनरहितत्वात् क्वचिदपि व्यवस्थितत्वाभावाच्चा अनिलम्।अमृत---म्रियमाणेऽपि देहसन्ताने स्वयममृतम् । इदं विजरत्वादीनामप्युपलक्षणम्, परिशुद्ध जीवविषये प्रजापतिवाक्ये 'विजरो विमृत्युर्विशोकः' इत्यादिसहपाठात् । अत्र 'वायुश्चान्तरिक्षं चैतदमृतम्' इत्यादिपरामाद्वाय्वादि. कू ॥ एवं परावरतत्वविवेकपरमनिश्श्रेयससाधनभूतसाङ्गभक्तियोगं तन्निष्ठस्यानुसन्धेयमन्त्रद्वय चो. पदिश्य इदानी भक्तियोगे ज्ञानशक्त्यादिशून्यतया शरणागतिमवलम्बमानानां तदनुष्ठानमन्त्राबुपदिश- ति । यद्य'यागमे आचार्यैरिमौ शरणागतिमन्त्राविति रहस्यत्वात् कण्ठरवेण नाभिहितौ ; तथापि प्रा- शानामर्थसामर्थ्याद्यथा तत्परत्वावगमस्सुशकः, तथा तयोर श्लोकयोरर्थवर्णनं कृतम् । अभाषिचेस्थमन्ते 'व्यक्ताव्यक्ते वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादत् । वैश्वामित्रो विश्वमित्रं व्यतानीद्विद्व- छात्रप्रीतये वेङ्कटेशः' इति । अत्र 'विद्वच्छानप्रीतये' इत्यनेन स्वप्रबन्धस्य निगूढाभिप्रायत्वं व्य- ञ्जितम् । एवमाचार्याभिप्रायविषयत्वाच्छरणागतिपरतया मन्त्रदयं व्याख्यास्यते । तत्र 'वायुरनिलम्' । श्री|तपाप्मत्वादिधर्मैः परम पुरुषरूपतायास्पष्टत्वात् , 'अन्तस्तद्धर्मोपदेशात् ॥ १॥१॥ २१ ॥इत्य- धिकरणे सूत्रकारण तस्य जगत्कारणपरब्रह्मलक्षणपरमपुरुषरूपतायाः स्थापितत्वात् , 'हिरण्मयेन' इ- त्यादिमन्ने माध्यन्दिनपाठे ‘ओं खं ब्रह्म' इति वाक्यशेषेणैतत्प्रकरणविवक्षितादित्यमण्डलान्तर्वर्तिपुरु- षस्याकाशवत्सर्वव्यापिप्रणववाच्यपरब्रह्मरूपतायास्स्पष्टमेव श्रवणेन तदैककण्ठयेनापि तसिद्धेर्दुवारत्वा- छ ।। ९६ ।। अतोऽत्रत्यपुरुषशब्दः परमपुरुषपर एव ॥ ९७ ॥ तस्माद्यीक्तरीत्या 'अहं स पुरुषो- ऽसि' इत्यत्राहपदस्य केवलजीवात्मपरस्वमेवाश्रित्य पुरुषपदस्य. पुरुषात्मकपरत्वं दर्शितलक्षणतादा- स्यविशेषरूपैकत्वसम्बन्धेन पुरुषपदार्थपरमात्मनोऽहंपदार्थप्रत्यगात्मन्यन्वयंवा स्वीकृत्याहंपदार्थप्रत्यगा- स्मविशेष्यकस्य सर्वप्रकारपरमात्मनियाम्यत्वादिलक्षणशरीरत्वविधेयकस्य तत्सम्बन्धेन परामात्मविधेय- कस्यवा बोधस्यैव कल्याणतमदिव्यरूपसाक्षात्काराधिकारज्ञापनपर्यवसायिनस्स्वीकार आवश्यक इत्यलं विस्तरेण ॥ ९८ ॥ इति षोडशमन्त्रव्याख्यानम् ॥ १६ ॥ अयम्मन्त्रः काण्वस्सप्तदशमन्नतया पठयते ॥ १॥ माध्यन्दिनैस्तु पञ्चदशमन्त्रतया । उत्तराधे 'ओं तो मर क्लिबे स्मर कृत सर' इति भेदेनच पठ्यते ॥ २॥ अथोपासकस्वोपासनस्य स्वरू- पाननुगुणैश्वर्यकैवल्यलक्षणक्षुद्रपुरुषार्थान्तरपर्यवसानप्रसङ्गपरिजहीर्षया तत्परिहरणीयत्वविज्ञापनपूर्वक स्वरूपानुगुणगुणानुभवककार्यलक्षणभगवत्प्राप्तिरूपपरमपुरुषार्थप्रदान प्रार्थयते द्वाभ्याम्मन्त्राभ्यां वोपास्यं परमपुरुषम् ॥ ३ ॥ तत्राप्यैश्वर्यपुरुषार्थपर्यवसानेऽपि तस्य नश्वरतया पश्चादपि भगवत्प्राप्तिलक्षणपर- मपुरुषार्थसम्पादनयोग्यताया अविलयात् , कैवल्यपुरुषार्थपर्यवसानेतु तस्य नित्यतया पश्चात्ताशयोग्य- ताया एव विलयाच्चैश्वर्यपुरुषार्थपर्यवसानादपि कैवल्यपुरुषार्थपर्यवसानस्यातिफरतामभिसन्धाय प्रथम- मेव तत्परिहारं प्रार्थयते -वायुरित्यादिना मत्रेण ॥ ४ ॥ अत एव हि भट्टनाथदिव्यसूरिणा स्वमब- न्धप्रथमश्रीसूक्ते चतुर्थगाथायां कैवल्यार्थिनामीहशदुर्गत्यतिशयानुसन्धानेनैवैश्वर्यार्थिभ्यः पूर्वमाह्वान हितोपदेशाय कृतमत्रगम्यते ॥ ५ ॥ अत एवच श्रीपराङ्कुशदिव्यसारिणापि श्रीमुखसूक्ताख्यस्वभनन्ध- मं.१७.] भाध्यत्रयोपता. ७५ ॥शब्दाना भूतद्वितीयविषयत्वं न शङ्कनीयम् , पूर्वापराभ्यामसङ्गतेः । यद्यप्यमीषा परमात्मविषयत्वं विशिष्टवृत्त्या योगतो वा युज्यते, तथापि वरमिह नश्वरस्य देहस्यानन्तर वचनात्तद्यावृत्तप्रत्यगात्म. परत्व , प्राणविषयत्वेऽ'यत्र मन्दं प्रयोजनम् । श्वेताश्वतरीयाश्च भोग्यभोक्तृनियन्तॄणा विवेचने भो- क्तृशब्दविवचिनप्रत्यगात्मानमभृतशब्देनामनन्ति क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव - ।।इति प्रथमश्लोकः पूर्वखण्डसमानार्थकः। अमे नय' इत्यादिश्वापरलोक उत्तरखण्डसमानार्थकः।त- थाच 'प्राग्यस्य ब्रह्मणो रूप प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राप्तस्तथा प्राप्तिविरोधि च' इ. त्येवमाद्याः पूर्वोत्तरवण्डयोविंशोधिता ये पदार्थाः, ये च वाक्यार्थभेदाः, ते सर्वेऽपीह पूर्वोत्तरयोः श्लोकयोरनुसन्धेयाः । 'सर्वोपायविनिर्मुक्तं क्षेत्र ब्रह्मणि न्यसेत् । एतज्ज्ञान च योगश्च शेषोऽन्यो ग्रन्थविस्तरः' इत्यादिशास्त्रैः प्रोक्षणादिभिस्समिदादिकमिव परिशुद्धस्वरूपयाथात्म्यज्ञानेन संस्कृत्यै- वात्मविस्समर्पणीयमित्युक्तत्वादिहापि शरीरेन्द्रियादिभ्यो विविक्तं स्वात्मानं प्रथमं विशोध्य ब्रह्मणि समयं स्वाधिकारानुगुणमर्थयते-वायुरिति । 'भोक्ता भोग्यं प्रेरितारञ्च मत्वा' इत्यादिश्रुत्यन्तरप्रसि- श्रीप्रथमकाण्डद्वितीयश्रीमुखसूक्ते पञ्चमगाथाया प्रकृतिप्रत्यासत्तिनिवृत्तौ प्राप्त एव भवति मोक्षं चेतनः। तावन्मात्रापेक्षाया तस्य कैवल्यपुरुषार्थ एव पर्यवसानं भवति । तत्प्रसङ्ग निर्धूय स्वरूपानुगुणपरमपुरु- पार्थप्रेप्सायान्तु प्रथममेव तदेकयोग्यतया स्वात्मानं निवेद्य भगवन्तं प्रपद्येत इत्युक्तम् ॥६॥अत्र कैव- त्यपुरुषार्थपर्यवसानात्प्रागेव स्वापेक्षानिवेदनपूर्वकं भगवत्प्रपदनकर्तव्यताभिधान कैवल्यपुरुषार्थस्य नित्यत्वेन पश्चात्परमपुरुषार्थप्राप्तियोग्यताविलयसम्भवाभिप्रायेणेति स्पष्टम् ॥ ७॥ यद्यपि प्रारद्वादशे मन्ने कैवल्यार्थपेक्षया संभूत्युपासकत्वेनाभिहितैश्वर्यार्थिना भूयोन्धतमसप्रवेशाभिधानेनापकृष्टत्वमेव प्रतिपन्नम्, तथापि कैवल्यपुरुषार्थादल्पत्वास्थिरत्वाभ्यामैश्वर्यपुरुषार्थस्यापकृष्टत्वाभिप्रायेण तदुक्तम् ; इह तु कैवल्यपुरुषार्थस्य नित्यत्वेनैश्वर्यपुरुषार्यापेक्षया भगवत्प्राप्तिलक्षणपरमपुरुषार्थप्रतिबन्धकताति- शयन क्रौर्य विवक्षितमिति न विरोध इत्यवधेयम् ॥ ८॥ - अस मन्त्रस्य पदविवरणं-वायु:-प्राणवायुसहचारी प्रत्यगात्मा-'प्राणो वा आशाया भूयान्॥ छां ॥ ७ ॥ १५ ॥ १ ॥ "प्राणा वै सत्यम् ॥ 5 ॥ ४ ॥ ३॥ ६॥ इत्यादिषु प्राणशब्देनेवात्रापि वायुशब्देन प्राणवायुसहचरितः प्रत्यगात्मैव विवक्षितः । यद्वा वा गतिगन्धैनयोः' इति गत्यर्थकवा- तिधातुनित्पन्नोऽयं वायुशब्दः वाति गच्छतीति वायुरिति व्युत्पत्त्या विद्याकर्मानुसारेण तत्रतत्र गन्तृ- स्वरूपेण प्रवृत्तिनिमित्तेन प्रत्यगात्मपरः, न तु भूतद्वितीयपरः। आनिलं-न विद्यते - इला यस्य तत् अनिलम् , इला पृथिवी 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ॥ छां ॥५॥ ८॥ ३ ॥ ९॥ २॥ हत्यल यथाऽप्छब्द एवापृथक्सिद्धतया भूतान्तरसम्मिश्रत्वेऽपि जलभागभूयस्तया जलवाचकनिर्देश्य- भूतसूक्ष्मपञ्चकपरः - तथैवात्रेलाशब्दोऽपि अपृथक्सिद्धतया भूतान्तरसंमिश्रस्वेऽपि पार्थिवभागभूयस्त या पृथिवीवाचकनिर्देश्यभूतसूक्ष्मपञ्चकपरः । तथाचोज्झितशरीरमित्यर्थः । यद्वा प्रागुक्तरीत्या वायु- शब्दवत् 'इल स्वप्नक्षेपणयोः' इति निद्रार्थकेलतिधातुनिष्पन्न इलाशब्दोऽपि-इलन्ति स्वपन्त्यत्रेति व्यु. स्पत्या यौगिकस्सन् प्रत्यगात्ममोहकारणत्वरूपेण प्रवृत्तिनिमित्तेन प्रकृतिपर एव 'अनीशया शोचति मुह्यमानः' ॥ ९ ॥ ३ ॥१॥ २ ॥ 'अजो टेको जुषमाणोऽनुशेते ॥ ॥६॥ १० ॥ ५ ॥ श्वे ॥४ ॥ ५॥ इत्यादिश्रुतिभिः प्रत्यगात्मव्यामोहकारणत्व प्रकृतेः प्रसिद्धम् । तथाचोज्झितप्रकृतिसम्बन्धमि- .."
७६ ईशावस्योपनिषत् [म-१७. वे॥एकः' इति, 'क्षरं त्वविद्या हमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः' इति च। एवं प्रत्य- गात्मस्वरूपस्य 'न जायते म्रियते वा विपश्चित्' इत्यादिप्रसिद्धममृतत्वमभिधाय क्षेत्रज्ञशरीरस्य मृत. त्वमवश्यं भावीत्याह---अथेदं भस्मान्तं शरीरमिति । प्रकृतादर्थादर्थान्तरविवक्षयात्राथशब्दः । आत्मोत्क्रमणानन्तर्यार्थों वा । कर्मवश्यकान्यपरो वा । तथा च स्मयते 'गङ्गायां सिकत्ताधारा यथा काश्चिदचिदीश्वरतत्वक्रम इहापि द्रष्टव्यः।वायु:--विद्याकर्मानुगुणभगवत्सङ्कल्पवशेन तत्रतत्र गन्तृ- त्वाद्वायुः । अनेन जीवस्यागुपरिमाणत्व परमात्माधीनत्वं च सिद्ध्यति । 'वा गतिगन्धनयोः' इति धातुः।निलयनरहितत्वात्वचिदपि व्यवस्थितत्वाभावाच अनिलम्।अमृतं-म्रियमाणेऽपि देहसन्तानेस्व- यममृतं खरूपतो धर्मतश्चाविनाशीत्यर्थः । 'अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा' 'न वि- ज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते' न विद्यते उच्छित्तिः विनाशो यस्य सः अनुच्छितिः नित्य इत्यर्थः । अनुच्छित्तिर्धर्मो यस्यासावनुच्छित्तिधर्मेति पुनर्बहुव्रीहिः । नित्यज्ञानवानिति भावः । आहुश्च यामुना- चार्याः -'तदेवं चित्खभावस्य पुसः स्वाभाविकी चितिः । तत्तत्पदार्थसंसर्गात्तत्तद्वित्तित्वमश्नुते' इति । इदममृतस्वमपहतपापत्वादीनामप्युपलक्षणम् , परिशुद्धजीवविषये प्रजापतिवाक्ये 'य आत्मा. पहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः' इति पाठात् । 'अनि- लममृतम्' इति पदद्वयमपि पुल्लिङ्गत्वेन विपरिणेयम् ,वायुरिति पुल्लिङ्गत्वेनोपक्रमात् । अत्र 'मयुश्चा- श्रीत्यर्थः सर्वथा विद्याबलानिश्वोषनिवृत्तप्रकृतिसम्बन्धमिति यावत्।अत एव अमृतं-मृतं न भव- तीत्यमृतम् । यद्वा मृतशब्दो भावक्तप्रत्ययान्तः ; मृत मरणम् , तद्रहितं । मरणवाचिमृतशब्दोऽत्र तत्सहचरितपाप्मजराशोकादिसर्वविकारोपलक्षकः , 'य आत्मापहतपाप्मा विनरो विमृत्युर्विशीको विजिघत्मोऽपिपासः॥छा ॥८॥७॥ १॥इति प्रजापतिवाक्ये प्रकृतिसम्बन्धनिबन्धनपाप्मादिसर्व- दोषविनिर्मुक्ततायाएव प्रतिपन्नत्वात्। तथा च प्रकृतिसम्बद्धः प्रत्यगात्मा विद्यामाहात्म्यानिश्शेषनिवृ. तप्रकृतिसम्बन्ध ततएव हेतोस्तदधीनमरणादिसर्वविकाररहित विशुद्धं वस्तु, भवतीति नात्र संशय इत्यर्थः । प्रकृतिविनिर्मुक्तविशुद्धप्रत्यगात्मस्वरूपस्य स्त्रीत्वपुंस्त्वादिालङ्गव्यपदेशानहवस्तुत्वाभिप्रायेण 'सामान्ये नपुंसकम्' इत्यनुशासनानुरोधेन नपुंसकलिङ्गशब्देन निर्देशः । मथ:- इत्थं विद्याबला- दात्मनोनिवृत्तप्रकृतिसम्बन्धशुद्धभावप्राप्त्यनन्तरम्।इदं-प्राकृत शरीराभस्मान्तं भस्मैवान्तो यस्य तथा- भूतं भवति, निश्शेषं विनष्टं भवति । न पुनरित ऊर्ध्वमस्यात्मनोऽभिमतकार्यकरणोपयोगितया प्राकृ- तशरीरानुवृत्तिस्संभावितेति यावत् । इत्यमिह प्राकृतशरीरस्य निश्शेषनिवृत्त्या पुनस्तदनुवृत्तेरसम्भा- विततया भगवते निवेदनं स्वशेषवृत्युपकारकतया पुनरप्राकृतदिव्यशरीरप्रदेयताज्ञापनार्थम् ।हे तो- स्वप्रयोजकस्वाश्रयापृथक्सिद्धिसम्बन्धेन मदीयोपासनरूपक्रतुविशिष्ट भगवन् । मया क्रियमाणस्य भ- बदुपासनलक्षणक्रतोरपि स्वयमेव निवर्तनशील । इदं चानुसन्धानमुपासने स्वकर्तृकत्वादित्यागरूप भगवति कृतज्ञतानुसन्धानरूपं चेति बोध्यम् । 'एष एव साधु कर्म कारयति तं यमेन्यो लोकेभ्य उभिनीषति ॥ कौ ॥ ३९ ॥ तेषा सततयुक्ताना भजता प्रीतिपूर्वकम् । ददामि बुद्धियोगं त येन मामुपयान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ गी॥ १० ॥ १०॥ ११॥ इति श्रुतिस्मृतिभ्या स्वाश्रिताना स्वप्राप्तथर्थस्खोपासनलक्षणक्रतोभंगवता खयमेव निर्यमानत्वं हि स्पष्टमभिधीयते । 'अह ऋतुरंह यज्ञः ॥ गी॥ ९ ॥ १६॥ इति वद- प्रापि ऋतुशब्देनोक्तसम्वन्धेन ऋतुविशिष्टत्वेन भगवतो निर्देशः । अयं च निर्देशः सोऽहमप्तु ७७ - में-१७.] भाज्यत्रयोपेता. वे॥वर्षति वासवे शक्या गणयितु लोके न व्यतीताः पितामहाः' इति, 'ब्रह्मादिषु प्रलीनेषु' इत्यादि च । इदमिति विशेषणम् ईश्वरशरीरत्वेन नित्यत्वेनच प्रमाणसिद्धाना व्यवच्छेदार्थ । भस्मान्तमि- ति सस्कारमात्रव्यञ्जकम् । कीटान्तत्वादेरन्यत्र प्रसिद्धस्योपलक्षण वा । शरीरशब्दे व्युत्पत्तिनिमित्ता- नुसारे विशरणस्वभावत्व गम्यते । 'एवं भोक्ता भोग्यं प्रेरितारञ्च मत्वा' इति क्रमेण चिदचिद्विवेक- E कूआन्तरिक्षञ्च एतदमृतम्' इत्यादिकं परामृश्य वाय्वादिशब्दाना भूतद्वितीयविषयकत्वं नाशङ्कनीय,पू- वापराभ्याममङ्गतेः , नापि विशिष्टवृत्त्या वायुगतपरमात्मविषयत्वमाशङ्कनीय, नश्वरस्य देहस्य अन- न्तरवचनेन न तद्यावृत्तप्रत्यगात्मपरत्वस्यैव न्याय्यत्वात् । 'क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः' । खभोग्यतया प्रधान हरतीति हरः-जीव इत्यर्थः । 'क्षर त्वविद्या ह्यमृतं तु विद्या विद्या- विद्ये ईशते यस्तु सोऽन्यः' इति श्वेताश्वतरीये भोग्यभोक्तृनियन्तृणा विवेचने अमृतशब्देन प्रत्यगा- स्मनोऽभिसन्धानदर्शनाच्च अनाप्यमृतशब्दो जीवात्मपर इत्येव युक्तम् । एवं प्रत्यगात्मस्वरूपस्य 'न जायते म्रियते वा विपश्चित्' इत्यादिप्रसिद्धममृतत्वमभिधाय क्षेत्रस्य शरीरस्य मृतत्वमवश्यम्भावी- त्याह--अथेदं भस्मान्तं शरीरमिति । प्रकृतादादर्थान्तरविवक्षयात्राथशब्दः, जीवात्मोत्क्रम- णानन्तथिको वा ; यद्वा कायपरः । स्मर्यतेच 'ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे । एकस्तिष्ठति विश्वात्मा स तु नारायणोऽव्ययः' इति । भस्मशब्दो दाहाख्यसंस्कारपरः । स खननादेरप्युपलक्षकः। श्रीकौन्तेय' ।। गी ॥ ७॥ ८॥ 'पुण्यो गन्धः पृथिव्याञ्च'। गी ।। ७ ।। ९ ।।इत्यादिषु रसग- धादिशब्दैर्भगवतो निर्देशवन्मुख्य एव । तत्र सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारत्वा- सर्वप्रकारः परमपुरुष एवावस्थित इति सःशब्दैस्तस्याभिधानम्मुख्यमित्याशयेनहि - 'रसोऽहमप्सु कौन्तेय' इत्यादिना सर्वैश्शब्दैर्भगवतस्सामानाधिकरण्यनिर्देशः प्रवृत्तः । न च 'यस्य चेतनस्य यद्द- व्यं सर्वात्मना नियन्तुं धारयितुं च शक्यं तत्तस्य शरीरम्' इति शरीरलक्षणस्य द्रव्यत्वघटिततया रसग- न्धादीनामद्रव्यत्वेन भगवन्त प्रति शरीरत्वासम्भवाच्छरीरवाचकाना शरीरिवाचकत्वन्यायेनेह वृत्त्य. सम्भवेन कथं तद्वाचिना भगवत्परतया निर्देशो मुख्य इति वाच्य, शरीरवाचकानामपि शब्दाना श- रीरिपरतायां शरीरशरीरिभावस्यापि शरीरशरीरिणोरपृथस्थितिप्रयोजकसम्बन्धे विशेषणविशेष्यभाव- रूपतयैव नियामकतया ताद्रप्येण नियामकत्वाभावेनापृथस्थितिप्रयोजकसम्बन्धेन साक्षाद्वा परम्परया वा विशेषणविशेष्यभावस्थले सर्वलेव तादृशविशेषणविशेष्यभावस्य विशेषणवाचकानां ताशसम्बन्धे- न तद्विशिष्टवाचकतानियामकताया दुरपह्नवतायाः प्रागुक्ततया रसगन्धादीनामद्रव्याणामपि तथाविधे- न स्वप्रयोजकस्वाश्रयापृथक्सिद्धिसम्बन्धेन भगवति विशेषणताया अव्याहतत्वेन तद्वाचकानामपि द- र्शितसम्बन्धेन तद्विशिष्टत्वेन भगवत्परतायास्तस्या मुख्यतायाश्च दुरित्वात्। 'यः पृथिव्या तिष्ठन् पृथि- व्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्य. मृतः । बृ ॥ ५ ॥ ७ ॥ ३ ॥ इत्याद्यन्तर्यामिब्राह्मणादिसिद्धभगवच्छरीरभावाना पृथिव्यबा- दीना तच्छरीरभावो ह्यपृथक्रास्थितिप्रयोजकतदीयसम्बन्धविशेषायत्तस्वसत्तास्वभावकत्वरूपः, दर्शितप्र- माणबलसिद्धे प्रागुक्तशरीरलक्षणे तन्नियाम्यत्वस्य तदीयसम्बन्धविशेषायत्तस्वस्वभावकत्वरूपतायास्त- द्वार्थत्वस्य तदीयसम्बन्धविशेषाधीनस्वसत्ताकत्वरूपतायाश्चाभिमतत्वात् । इत्थं च पृथिवीजलादि- गतगन्धरसादिखभावविशेषाणामपि पृथिवीजला दिषु शरीरितया भगवतोऽवस्थाननिबन्धनतासिद्धे. स्वाभयद्वारा परम्परयाऽपृथकूस्थितिप्रयोजकसम्बन्धेनैव भगवति सम्बद्धत्वाच तद्वाचिनां गन्धरसा- , ईशावस्योपनिषत् [म-१७. वामुक्त्वा प्रेरितारं प्रकृतं महापुरुषं प्रणवेनोपादत्ते-ओमितियथा आमनन्त्याथर्वणाः यःपुनरेत त्रि- मात्रेण ओमियतेनैवाक्षरेण परमपुरुषममिन्यायीत' इति। उक्त च योगानुशासने 'क्लेशकर्मविपाकाश. येरपरामृष्टः पुरुषविशेष ईश्वरस्स पूर्वेषामपि गुरुः कालेगानवच्छेदात्' 'तस्य वाचकः प्रणवः' इति । आह च सर्वशः---'ओमित्येवं सद। विप्राः पठध्व च्यात केशवम्' इति । खयञ्चागायत् 'ओमित्ये. काक्षर ब्रह्म व्याहरन्मामनुस्मरन्' इति । एवं सर्वत्र द्रष्टव्यम् । अथ ऋतुरूपिण भगवन्तं ज्ञानयज्ञ- काअथवा 'फलेबरं विक्रिभिभमभशितम्' इत्यन्यत्र प्रसिद्धक्रिम्यन्तत्वादेरुपलक्षको भस्मान्तशब्दः । त्यागे कृते कन्यादभक्षित शरीर विट्सशित भवति, खनने क्रिमसज्ञित, दाहे भस्मसज्ञितमिति भा- वः । ननु केधुचिच्छरीरेषु प्रत्यक्ष एव विनाशो दृष्टः ; अविनष्टेष्वप्यन्येषु अनुमानाद्विनाशित्व सुनि- श्चितम् ; अन्यथा शत्रन्प्रांत शस्त्रादिक न प्रयुज्येत ; स्वयमपि शत्रप्रयुक्त शस्त्रशरादिक न निवारयेत्। एवं सम्प्रतिपन्नस्य भस्मान्ततादेरिहोपदेशे किं प्रयोजनमिति चेत्-उच्यते, आत्मशरीरयोरमृतत्वमृ. तत्वरूपविरुद्धधर्मप्रदर्शनेन भेदसमर्थन तावदेक प्रयोजनम् ; अपथ्यपरिहाररसायनसेवादिभिः किं नियत्व सम्भवेदिति सन्देहापाकरणं द्वितीय, स्वदेहेऽपि वैराग्यजनन तृतीय, विनाशहेतौ सत्यवश्य नश्यतीतिवत् भगवदुपासनादिभिरत्यन्तविनाशस्यापि सम्भावनाद्योतन चतुर्थं ; शीघ्र मोक्षोपाये प्रव- तितव्यमिति स्वरासञ्जनन पञ्चमम् । एवमुक्तान्यनुक्तानिच प्रयोजनान्तराणि द्वितीयाध्यायतात्पर्यंच- श्री॥दिशब्दाना स्वप्रयोजकस्वाश्रयापृथक्सिद्धिसम्बन्धेन गन्धरसादिविशिष्टत्वेन भगवत्परता सम्भवति। अत एव च पृथिव्या पुण्यगन्धोऽस्मि' 'अप्सु रसोऽस्मि' इत्यादिभिः तत्रतत्र गन्धरसादिनिर्वाहकतयाs. न्तःप्रविश्य स्थितोऽसीत्येव बोधो विवक्षितः । न तु रसादिस्वरूपैक्यबोधः, तस्य परमात्मनि बाधि- तत्वात्। ईदृशी च भगवत्परता गन्धरसादिशब्दाना यथा मुख्या-तथैव ऋत्वादिशब्दस्यापीति नात्रो. पचारप्रसङ्गः । अयोपासकः परविद्यासु समन्ततः प्रसिद्ध करणतया प्रणवानुसन्धान पुरस्कृत्य स्वाभीष्ट विवृणोति-ओमित्यादिना । 'सर्वे वेदा यत्पदमामनन्ति तपासि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तते पद सङ्ग्रहेण ब्रवीम्योभित्येतद्वै तत्॥१५॥एतञ्चेवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्। एतब्येवाक्षर ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ एतदालम्बन श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ क ॥ २ ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्ष- रेण पर पुरुषमभिध्याथीत' ।। प्र ॥ ५ ॥ ५ ।। तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजर- ममृतमभय परं चेति' ।। प्र ।। ५ ।। ७ ।। इत्यादिषु श्रतिधु परविद्यालम्बनतथा प्रणवस्योपादेयत्वं सर्वतः प्रसिद्धम् । ओ सर्वप्रमाणमूलभूतमोङ्कारम्। स्मर-अनुसन्धेहि। ओमित्येतदत्र प्रणवस्वरूपपरम् । अव्ययत्वेन 'अव्ययादाप्सुपः' ।। २ ॥ ४ ।। ८२ ।। इत्यनुशासनेन वा 'सुपा सुलक्' ॥७॥१॥ ३९ ॥ इत्यायनुशासनेन वाऽत्र विभक्तिलोपो द्रष्टव्यः । सर्वप्रमाणमूलप्रमाणसार्वभौमप्रणवप्रतिपन्न सर्वजीवात्मनामनादि स्वतसिद्ध त्वदनन्याहशेषत्वलक्षण स्वरूपनिरूपकधर्म सम्यगनुसन्धत्स्वेति या- वत् । ततश्च 'नाकिञ्चित्कुर्वतश्शेषत्वम्' इति न्याथेन कैकर्यलक्षणकिञ्चित्कारमन्तरेण शेषत्वासिद्धेः वि. प्रहपरिग्रहमन्तरा कैकयोसिद्धेश्च शेषत्वसरक्षणार्थ यावदात्मभाविसर्वदेशसर्वकालसर्वावस्थोचिताशेष- कैकयोंपकरणविग्रहपारग्रहयोग्यतागर्भपरमपुरुषार्थलक्षणमोक्षएव पर्यवसानं मे प्रसादय यावदात्मभाव्य. नशरीरित्वगर्भकैवल्यलक्षणमोझे पर्यवसान मा कथा इति स्वाभीष्टनिवेदनं फलितम् । ननु ओङ्कारमा .
मं-१७.] भाष्यत्रयोपेता. वे॥गोचरमभिमुखीकुर्वस्तदनुग्रहं याचते-क्रतो स्मर कृतं स्मरेति।कतो-ऋत्वात्मकायथाह 'अह ऋतुरहं यज्ञः' इति । 'यथा ऋतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति' 'स क्रतुं कुर्वीत' 'एव ऋतुई' इत्यादिष्विवानापि प्रकरणादेव ऋतुशब्द उपासनपरो वा । तद्गोचरेतु भगवति तच्छब्द उप- चारात् । स्मर सानुग्रहया बुद्ध्या विषयीकुरु, 'स्नेहपूर्णेन मनसा यन्न स्मरसि केशव' इतिवत् । उ. तञ्च भगवता 'स्थिते मनसि' इत्यारभ्य 'ततस्तं नियमाणं तु काष्ठपाषाणसन्निभम् । अहं स्मरामि . - कू॥न्द्रिकायां द्रष्टव्यानि।एवं 'भोक्ता भोग्यं प्रेरितारं च मन्त्रा' इति क्रमेण चिदचिद्विवेकमुक्त्वा प्रेरि- तार प्राकृत महापुरुषं प्रणवेनोपादत्ते-ओमिति । यथामनन्त्यावणाः 'यः पुनरेतं त्रिमात्रेणोमि- त्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत' इति । उक्तञ्च योगानुशासने क्लेशकर्मविपाकाशयग्परामृष्टः पुरुषविशेष ईश्वरस्सर्वेषामपि गुरुः कालेनानवच्छेदात्' 'तस्य वाचकः प्रणवः' इति । आहच सर्वज्ञः 'ओमित्येव सदा विप्राः पठचं ध्यात केशवम्' इति । स्वयञ्चागायत् 'ओमित्येकाक्षर ब्रह्म व्याहर- मामनुस्मरन्' इति । एवं सर्वत्र द्रष्टव्यम् । अथवा शरीरमात्मानं च विविच्य विविक्तमात्मानमका. रखाच्ये परमपुरुषे समर्पयति-ओमिति । प्रणवस्य आत्मसमर्पणपरत्वम् 'ओमित्यात्मानं युञ्जीत' 'प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तलक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरबत्तन्मयो भवेत्' इत्यादिषु प्र. सिद्धम् । अथ ऋतुरूपिण भगवन्तं ज्ञानयज्ञगोचरमभिमुखीकुर्वस्तदनुग्रहं याचते-क्रतो स्मर। तो-ज्योतिष्टोमादिक्रियात्मक, यथाह 'अहं ऋतुरहं यज्ञः' इति। यज्ञः पञ्चमहायज्ञा इत्यर्थः । अथ. वा क्रतो-भक्तिस्वरूप, 'यथाऋतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति' 'स ऋतुं कुर्वीत' एवं. " श्रीरणमात्रेण कथमेकान्ततो भवदभीष्टलाभो भविष्यति तस्य केवलं परमात्मस्वरूपपरताया अपि स- स्वात् कैवल्यार्युपासनसाधारणत्वाच्च।श्रूयते हि प्रणवकरणकोपासननिष्ठस्यसंसारनिवृत्तिमात्रलक्षणकैव. ल्यमोक्षपर्यवसानं नारायणोपनिषदि 'प्रत्यगानन्द ब्रहापुरुपं प्रणवस्वरूपम् । अकार उकार मकार इति । तानेकधा समभरत्तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मससारबन्धनात्' इति । उत्तर- न प्रणवगर्भिताष्टाक्षरमन्त्रोपासननिष्ठस्य वैकुण्ठलोकावाप्तिरूपपरमपुरुषार्थप्राप्तः पृथगेव श्रवणादत्र केवलप्रणवोपासननिष्ठस्य कैवल्यमोक्ष एव विवक्षित इति हि स्पष्टम् । अत एव च गीतायामपि 'ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमा गतिम् ॥ गी॥ ८॥ १३ ॥ इति कैवल्यमोक्षप्रेसोरपि प्रणवकरणकब्रह्मोपासननिष्ठत्वमभिहितं । 'क्लेशकर्मविपाकाशयै रपरामृष्टः पुरुषविशेष ईश्वरः ॥ १ ॥ २४ ॥ स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १॥२६॥ तस्य वाचकः प्रणवः ॥ १ ॥ २७॥ इति योगानुशासनेनापि प्रणवस्याखण्डस्य केवल सर्वेश्वरवा- चकत्वमवगम्यते । विधीयते च योगानुशासने कैवल्यमोक्षमेव प्रतिपाद्य तनिष्ठस्यैव प्रणवजपाद्युपा- सननिष्ठता ॥ अतो नैकान्ततः प्रणवस्य स्मर्तव्यताज्ञापनमात्रेणोपासकस्य परमपुरुषार्थभूतकैर्यलक्षण- मोक्षनिष्ठत्वं सुगममित्याशङ्कायामाह-कृतं स्मरेति।अत्र कृतमित्यस्य कर्तृतया मयेति तृतीयान्त सन्द- भबलेनोपतिष्ठते । अनुषज्यते च ओमित्येतदपि ।मया कृतमोमित्येतत् स्मर-यमर्थमनुसन्धायोपासनक- रणतया प्रणवस्यानुसन्धानम्मया क्रियते, तमर्थमनुसन्धाय मदभीष्टं प्रसादयेत्यर्थः । प्रणवस्य भगव दनन्याहशेषत्वप्रतिपादकत्वप्रकारस्तु मूलमन्त्रार्थपरग्रन्थेषु स्पष्टएवेति तत्रैव सोऽवगन्तव्यः । इहैतन्म. अकरणकोपासननिष्ठस्याधिकारिणः प्रागुक्तद्वादशत्रयोदशचतुर्दशमन्त्रैलब्धपुरुषार्थतत्वोपदेशस्य परम-
८०
ईशावस्योपनिषत्
[म-१८.
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मञ्जहुराणमेनो भूयिष्ठां तं नमउक्ति विधेम ।। १८
मद्भक्त नयामि परमां गतिम्' इतिासर्वदा सर्व साक्षात्कुर्वतः स्मर्तृत्ववचनमिह पूर्वकृतप्रत्ययेक्षणा-
भिप्रायम् । कृतं स्मरेत्यत्रापि तथैव विवक्षा । मस्कृतं यत्किञ्चिदनुकूलमनुसन्धाय कृतज्ञत्व मां
रक्षेति भावः । एतावदन्त वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुर्विति वा । स्मरन्ति हि
'जायमान हि पुरुषम्' इत्यादि । स्वयम याह --'तेषां सततयुक्तानाम्' इत्यादि । 'क्रतो स्मर कृत
स्मर' इत्यावृत्तिरुक्ताय त्वरातिशयात् ॥ १७ ॥
.
कूकितुरहम्'इत्यादिषु क्रतुशब्दस्य भक्तियोगेऽपि प्रयोगदर्शनात् भक्तियोगगोचरे भगवति तच्छन्द
उपचारादित्याचायाः । रक्षकस्य भक्तियोगस्थाने निवेशन ऋतो इति सम्बोधनेन विवक्षितमिति भा.
वः । स्मर-सानुग्रहया बुद्ध्या विषयीकुरु, 'स्नेहपूर्णेन मनसा किं न स्मरसि केशव' इतिवत् । उ.
क्तञ्च भगवता स्थित मनसि' इत्यारभ्य 'ततस्तं नियमाणं तु काष्ठपाषाणसन्निभम् । अह स्मरामि म-
द्भक्तं नयामि परमां गतिम्' इति । अत्र 'स्मरामि' 'नयामि' इति पदद्वयस्य 'ऋतो स्मर' 'अमे नय'
इति प्रार्थनाद्वयापेक्षया प्रतिवचनत्वावगमद्वारा वराहचरम श्लोकद्वयं 'वायुरनिलममृतम्'इत्यादिमन्त्रद्व-
योपंबृहणमिति भावः । कृतं स्मर-मत्कृतं यत्किञ्चिदानुकूल्यमनुसन्धाय कृतज्ञत्वं मां रक्षेतिवा,
एतावदन्तं त्वत्कृतमानुकूल्य प्रतिसन्धाय त्वमेव शेष रणं कुर्विति वा भावः । स्मरन्ति हि 'जायमान
हि पुरुषम्' इत्यादि । उकाथै स्वातिशयात् 'क्रतो स्मर कृत स्मर' इत्यावृत्तिः॥ १७ ॥
,
श्रीपुरुषार्थेकनिष्ठतासम्भवादस्य मन्त्रस्य यथोक्तरीत्यैवार्थोवक्तुमुचित इत्यनुसन्धेयम्।आवृत्तिस्त्वादरा
था । माध्यन्दिनाठे 'क्लिये' इत्यस्य अधाष्टीयत्यर्थः । धाष्टय हि परवश्यताप्रहाणेन स्वातन्त्रयेण व.
तनं । तद्धि कैवल्यनिष्ठस्यास्ति, भगवच्छेषवृत्तिमन्तरेण स्वात्मभोगैकपरायणत्वात्तस्या तथा च -कैव
ल्यपुरुषार्थपर्यवसाननिबन्धनधाष्टर्थपरिहाराय ओंकारं स्मरेत्यर्थः ।अन्यत्सर्वं पूर्ववत् । 'क्लीव अधाष्टथे'
इति धातोभावे किपि रूपमिदम् । अत्र वर्णवैरूप्यं तु च्छान्दसमिति बोध्यमिति ॥९॥ यत्पुनरत्र
मन्त्रे 'वायुरनिलममृतम्' इत्यस्य प्रतिपद्यतामित्यध्याहृतपदघटितस्य मरणसमये प्राणस्य कारणवायौ
लयप्रार्थनापरतया व्याख्यानं, लिङ्ग चेदं जानकर्मसंस्कृतमुकामस्विति वाक्यस्य लिङ्गशरीरोत्क्रमणप्रा-
थनापरस्याथ्याहारकरणम् 'अथेदं भस्मान्त शरीरम्, इत्यस्य भूयादित्यध्याहृतपदघटितस्य मरणानन्तर
स्थूलशरीरस्य भस्मान्तत्वापत्तिमार्थनारतया व्याख्यानं,स्मरेत्यस्मिन्पदे प्रथम समुत्थितकर्माकाङ्काया य-
थाहमध्याहृतपदेन परिहाराश्रयणं च शङ्करेण कृतम्॥१०॥तत्सर्वमसमञ्जसमेव - यथोक्तरीत्या स्वरसत-
एव निवौहे स्वैरम् अप्रापनावश्यकबहुलाध्याहार कल्पनाया अयुक्तत्वात् ,मरणसमये प्राणस्य कारण-
वायुलयः,लिङ्गशरीरोत्क्रमण मरणानन्तरस्थूलशरीरस्य भस्मान्तत्वापत्तिश्चेत्येतेषामंशानां प्रार्थनामन्तरे-
गैव सर्वाधिकारिसाधारण्येन स्वतः प्राप्नुवतां प्रार्थनाया आवश्यकतालेशानुपलम्भाच॥ ११ ॥ तस्मा-
द्यथोक्तरीत्यैत्र व्याख्यानमस्य मन्त्रस्य युक्तमिति विवेकिनो विद्वांस एव विदांकुर्वन्तु ॥ १२ ॥ इति
सप्तदशमन्त्रव्याख्यानम् ॥ १७ ॥
मं-१८] भाज्यत्रयोपेता. ८१ वे||पुनरप्यमिशब्दवाच्यं भगवन्तं स्वापेक्षितं प्रापयेत्याह-अमे नय सुपथा राये अस्मान्विश्वानिदेव वयु- नानि विद्वान्।युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम-इति॥ अग्ने अग्निशरीरक, यस्या- निश्शरीरम्' इत्यन्तर्यामिब्राह्मणम् साक्षादप्याविरोध जैमिनिः' इति न्यायात्.अग्रनयनादिगुणयुक्तेतिवा। कू | पुनरप्यमिशब्दवाच्य भगवन्त प्रति इष्टप्राप्तिमनिष्टनिवृत्तिं च प्रार्थयते -अग्ने नयेति । बृहदारण्यकेच सप्तमाध्याये 'यदा वै पुरुषोऽस्माल्लोकात्प्रेति स वायुम् ' इत्यादिना अर्चिरादिक पन्थानमुपदिश्य पश्चादध्यायावसाने 'हिरण्मयेन पात्रेणे' इत्याद्या एते चत्वारो मन्त्राः क्रमेण पठिताः। अग्ने-अग्निशरीरक, 'यस्यामिश्शरीरम् ' इत्यन्तर्यामिश्राह्मणं । यद्वा 'साक्षादप्यविरोधं जैमिनिः' इति न्यायेन अग्र नयतीत्यमिः अग्रनयनादिगुणयुक्त । नय-प्रवर्तयेत्यर्थः। सुपथा-शोभनमार्गेण श्री।। 'अमे नय' इत्ययम्मन्त्रः काण्रष्टादशमन्त्रतया पठयते॥१॥ माध्यन्दिनैस्तु षोडशमन्त्रतया ॥२॥अथ यदि स्वाभीष्टोपकरणविग्रहपरिग्रहादरणं न जहासि,तर्हि भोगैश्वर्यलक्षणं पुरुषार्थमेवाश्रयस्थ, तत्राप्यस्मत्परिचर्योपयोगिविग्रहपरिग्रहस्य तेनास्मत्परिचर्याकरणस्य ततस्त्वदीयशेषत्वस्वरूपाभ्रंशस्य च सम्भवादित्याशङ्कापरिहाराय प्रवृत्तोऽयम्मन्नः ॥ ३॥ अस्य मन्त्रस्य पदविवरण-हे अग्ने-अग्निशीर क, स्वरूपसत्तास्वभावप्रयोजकापृथक्सिद्धिसम्बन्धेनामिविशिष्ट भगवन्निति यावत् । शरीरशरीरिमावस्य दर्शितसम्बन्धविशेष एव पर्यवसानात्प्रागुक्तरीत्या शरीरवाचकानां शब्दानां शरीरिपरत्वसम्भवाश्चात्रा. मिशब्दोऽमिशरीरकभगवत्परः।अमिरपि हि भगवतश्शरीरभूत एव योऽसौ तिष्ठन्नमेरन्तरो यममिर्न वेद यस्याग्निश्शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥ ६ ॥ ५ ॥ ७॥ ५ ॥ इत्यन्तर्यामि- ब्राह्मणात्। अनामिशरीरकभगवतस्सम्बोधनमर्चिरादिमार्गेऽमेः प्रथमातिवाहिकत्वेन तच्चोदनेन तद्द्वा. रा तेन मार्गेण स्वनयनविज्ञापनार्थम्। अस्मान्-स्वसम्बन्धिनामपि ग्रहणाशयेन बहुवचनम्। सुपथा. शोभनश्चासौ पन्थाश्च सुपन्थाः तेन अपुनरावृत्तिलक्षणेनाचिरादिमागेंण।शोभनत्वमत्रापुनरावृत्तिलक्ष- णत्वमेव। तेन पुनरावृत्तिलक्षणधूमादिमार्गव्यावृत्तिः। न पूजनात्॥५॥ ४ ॥ ६९ ॥इत्यनुशासनेनात्र समासान्तकार्यनिवृत्तिः । राये-परमप्राग्यभूताय परमपुरुषलक्षणाय धनाय । भगवत्प्राप्तिलक्षणपरमपुरु षार्थरूपमुक्तैश्वर्यायेति यावत् ।स्वरूपयाथात्म्यविदा परमपुरुष एव हि परमं धनं 'धनम्मदीयं तव पाद- पङ्कज' 'यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने' इत्यादिभिस्त. स्यैव तद्धनत्वावगमात् । अपि च -अचिरादिमार्गेण प्रापणीयैश्वर्यस्य भगवत्प्राप्तिलक्षणपरमैश्वर्या- दन्यत्वं हि न सम्भवति-भोगैश्वर्यस्य धूमादिमार्गेणैव प्रापणीयत्वात्कैवल्यस्यैश्वर्यरूपताया एवा. सम्भवाच्च । परिशेषादर्चिरादिमार्गप्रापणीयं धन भगवत्प्राप्तिलक्षणं परमपुरुषार्थरूपं मुक्तैश्वर्यमेव पर्यवस्यति। राये अस्मान्'इत्यसन्धिश्छान्दसः।नय देशविशेषे गमय। भोगैश्वर्यलक्षणे कैवल्यलक्षणे वा पुरुषार्थे पर्यवसान मा कृथा इति यावत्। 'सुपथा' इत्यचिरादिमार्गग्रहणेन प्राकृतविषयानुभवलक्षणभोगै- श्वर्यव्यावृत्तेः धनपर्यायरैशब्देन कैवल्यव्यावृत्तिः धनशब्दस्य भोक्तृखरूपातिरिक्तभोग्यभोगोप- * करणविषयपरत्वात् - कैवल्ये स्वात्मस्वरूपस्यैव परमप्राप्यत्वाच्च । हे देव-लीलाविभूतौ क्रीडालक्षण- लीलानुभवरसिका तादृशरसानुभवकौतुकेन त्वया प्रणीतमायायास्त्वयैव निवर्तनीयायास्त्वदन्येव निव- तयितुमशक्यत्वेन तन्निवर्तनाय त्वामेव प्रार्थये । दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते'ागी॥७॥१४॥इति स्वयैव ह्यक्तमिति भावः विश्वानि वयुनानि सर्ववि- II ८२ ईशावस्योपनिषत् [म १८. वे॥नय--प्रवर्तयेत्यर्थः।सुपथा--शोभनेन मार्गेण। प्रतिषेधस्पर्शरहितेनोपायेने ति यावत् । राये- विद्यार्थशरीरसरक्षणत्वदर्चनाद्यनुगुणाय धनाया विद्यार्थप्रकरणानुगुण्यात् 'अतस्करकरग्राह्यमराजकवशं- पद । अदायादविभागार्ह धनमार्जय सुस्थिरं' 'बत मे वित्तम्' इत्यादिषूक्तमलौकिकं धनमिह वि- कू॥प्रतिषेधस्पर्शरहितेन याजनाध्यापनाद्यपायेनेति यावत्। राये-विद्यार्थशरीरसंरक्षणत्वदर्चनानुगुणाय धनायय॑थः । अयवा 'अतस्करग्राह्यमराजकवशंवदम् । अदायादविभागार्ह धनमार्जय सुस्थिरम् ' 'अनन्त बत मे वित्तम्' इत्यादिपूक्तमलौकिकधनमिह विवक्षितं , विद्याप्रकरणानुगुण्यात् । एक एव मन्त्रः प्रकरणादिभिर्विशेषितस्तत्तदनुगुणमर्थ बोधयतीति सम्यन्यायविद इत्याचार्याः । यद्वा - अग्ने नय-प्रापयेत्यर्थः। सुपथा- अर्चिरादिपथेन, बृहदारण्यकपाठेऽर्चिगदिपथस्य बुद्धिस्थत्वात् , 'अ- चिरहस्सितपक्षानुदगयनाब्दौ च मारुतार्केन्दून् । अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकाना हुः' इत्य- भियुक्तसङ्गहीतेन मार्गेणेति भावः । अचिरादिमागविवक्षाग्याचार्याभिप्रेतैव । राये इत्यत्र ब्रह्मणः प्राप्यत्वोपवर्णनात् ब्रह्मैवहि सुस्थिरमनन्तमलौकिकं च धनम् । अत एव तत्रतत्रैवमुच्यते 'धनं मदीय श्री॥धान्युपासनलक्षणानि विज्ञानानि माया वयुनंज्ञानम्' इति हि नैघण्डकाः।विद्वान् जानस्त्वमेव।सर्वा- धिकारिगतान् सर्वानुपासनभेदान् जानंस्त्वमेवेति यावत्।एतद्विशेषणाभिधान खोपासनोद्देश्याशस्यापि भगवताशाततयातद्विरोधिनिबर्हणद्वारा तत्प्रापणार्थम्। अस्मान्' इत्येतदिहाप्यनुषज्यते।अस्मान्जुहुराणं प्रसह्य हरत्।भवत्प्राप्तिलक्षणपरमपुरुषार्थादन्यत्र भोगैश्वर्यादिक्षुद्रपुरुषार्थे चापलजननेन प्रसह्याकर्षदित्य थएनःगुणमयत्वदीयमायामयं पापम्।अस्मत् अस्मत्सकाशात्ायुयाधि-वियोजय 'यु-मिश्रणामिश्रण- यो.' इत्यनुशासनोक्तामिश्रणस्य विभागरूपत्वात् । भोगैश्वर्यादिक्षुद्रपुरुषार्थप्रापकमस्मदाभिमतविरोधि- भूतं गुणमयत्वदीयमायामयं पापं दूरीकृत्य भवत्प्राप्तिलक्षणं परमपुरुषार्थ त्वमेव प्रापयेति भावः । कुत एष निर्बन्धः क्रियते? भोगैश्वर्यलक्षणपुरुषार्थप्राप्तावपि मच्छेषवृत्त्यनुष्ठानं हि सम्भवति । अत एव च 'दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दो चरणो ते मरणेऽपि चिन्तयामि' इत्याद्युक्तरीत्या महात्मभिरपि भोगैश्वर्यालये स्थितिमनिरन्धानरेव मत्परि. चांप्रार्थनं क्रियमाणं दृश्यत इत्यत्राह भूयिष्ठामित्यादि।भूयिष्ठां भूयसी कालापरिच्छिन्ना यावदा- स्मभाविनीमित्यर्थः ते-तुभ्य,नमउक्ति-नमश्शब्दानुसन्धान,तदुपलक्षितासर्वावस्थोचिताशेषशेषवृत्ति रूपां परिचर्यामिति यावत् । 'ये च मुक्ता भवन्ताह नरा भरतसत्तम । तेषां लक्षणमेतद्धि यच्छेतद्वी- पवासिनाम् ' ॥भा ॥ शा ॥ ३३६ ॥ १४ ॥ इत्यभिधानपूर्वकं 'कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः' || भा ॥ शां ॥ ३३७ ॥ ४० ॥ इत्युक्तथा नमश्शब्दानुसन्धानपूर्वकयावदात्मभाविसर्व विधपरिचयॆवहि मुक्तैश्वर्यरूपाऽभिहिता। विधेम-विदध्याम । 'विध विधाने' इति तौदादिकाद्विधतेः प्रार्थनायां लिङ् । यावदात्मभाविसर्वावस्थोचिताशेषशेषवृत्तिलक्षणकैङ्कर्यरूपं परमपुरुषार्थमेव यतो वयं प्रार्थयामहे - ततस्तद्विरोधिसत्वरजस्तमोगुणद्रव्यमयत्वदीयमायान्वयं निश्शेषं निवर्तय। सति तु दर्शित- गुणमयमायान्वये सत्त्वोद्रेककाले कदाचित्त्वदीयपरिचर्यान्वयसम्भवेऽपि रजस्तमोभ्यां स्वोद्रेककाले तन्निरोधेन तद्विच्छेदस्य दुरित्वाद्भयसा कालेन शनैश्शनरधोगतिप्रारपि सम्भावितत्वाच निश्शेष- तन्निवर्तनपूर्वकं भवत्परिचर्यालक्षणपरमपुरुषार्थमेव प्रापय । केषाश्चिदत्रैव भवत्परिचर्याप्रार्थनमप्यन्या- दृशपरिचर्यायासहसा दुर्लभत्वाभिप्रायेण सम्प्रतीदृश्यपि परिचर्या लब्धा चेदरमित्याशयेनैवेति भावः।
मं.१८.] भाष्यत्रयोपेता. ८३ वे॥ वक्षितम् । एक एव मन्त्रः प्रकरणादिभिर्विशेपितस्तत्तदनुगुणमर्थ विवक्षतीति सम्यइन्यायविदः । अस्मान् - त्वदनन्यभावान् अनन्यगतीश्चाविश्वानि देव वयुनानि विद्वान्-देव अस्मदपेक्षित प्रदानानुरूपविचित्रक्रीडायुक्त । 'माया वयुन ज्ञानम्' इति नैघण्टु काः । अतो ज्ञानमुखेन उपायवि - -- कू। तव पादपङ्कज' 'यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतः"दुरीश्वरद्वारबहिर्वितर्दिकादुरासिकायै रचितोऽयमञ्जलिः' यदञ्जनाभ निरपायमस्ति मे धनञ्जयस्यन्दनभूषण धनं' 'न मे पित्रार्जितं द्रव्यं न मया किञ्चिदार्जितम् । अस्ति मे हस्तिशैलाग्रे वस्तु पैतामह धनम् ' इति । अत्रचैव शावरं व्याख्यानं 'सुपथा शोभनमार्गेण, सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थ, विपण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन, अतो याचे त्वा पुनःपुनर्गमनागमनवर्जितेन शोभनेन पथा नयेति' इति । राये हिर- ण्यनिधिसरूपाय पुरुषाय, त्वत्प्राप्तये इति भावः । अस्मान्–अनन्यप्रयोजनाननन्यगतीश्चेत्यर्थः । अपित्वनुबन्धिजनानपीति बहुवचनस्या भिप्रायः। देव-- अस्मदपेक्षितप्रदानानुगुण- विचित्रजगत्स्पृष्टिस्थितिसंहारान्तःप्रवेशनियमनस्वाश्रितविमोचनादिरूपविलक्षणक्रीडायुक्त । 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदाश्च अहिणोति तस्मै । त ह देवमात्मबुद्धिप्रसादं मुमुक्षुर्वै शरणमह प्रपद्ये' इति मन्त्रेऽपि देवशब्दस्यैवमेवाभिप्रायः । वयुनशब्दो ज्ञानवाची, 'माया वयुनं शानम्' इति नैघ. न केवल माम् , . ' श्रीयद्वा-यदि मायान्वयं न निवर्तयसि तदा तवापि दुर्भरं कार्य करिष्याम इत्याशयेनोच्यने-भूयिष्ठा- मित्यादि।भूयिष्ठां-भूयसी,भूरिभाररूपतया तवापि दुर्भरा ते नमउक्तिमेव,विधेम-तवापरिहार्यमहाक- प्ररूपा नमइत्युक्तिमेव करिष्याम इति यावत् । 'अञ्जलिः परमा मुद्रा क्षिप्र देवप्रसादिनी' इत्येवं भरद्वाजसंहितोक्तलक्षणं हि भवदीयं शील ; तदुपरि नमइत्यस्याप्यभिधानं तव दुर्भरो भारः किल भविष्यति। 'शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीक्षाक्ष रक्ष मा शरणागता' 'हा कृष्ण द्वारकावास क्वासि यादवनन्दन । इमामवस्था संप्राप्तामनाथा किमुपेक्षसे' इत्यनन्यशरणत्वा- कारलक्षणनम शब्दार्थानुसन्धानपूर्वकद्रौपदीकृतरक्षणप्रार्थना-'गोविन्देति यदाक्रन्दकृष्णा मां दूर- वासिन । ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ' नातिस्वस्थमना ययौ इत्यादिभिस्तवापि दुर्भरभाररूपा बभूवेति हि विज्ञायते । अतस्त्वदीयस्वभावपर्यालोचनयापि नमउक्त्यनुसन्धानेन त्वत्क्लेशनात्प्रागेव द्रुतमस्मदमिमत समर्थयेति भावः । यद्यप्यस्य मन्त्रस्य तत्रतत्नामिकर्मसु तदुपस्थाने विनियोगदर्शनात्तदनुगुण एवार्थों वर्णनीयः तथापि परविद्याप्रकरणानुगुण्येना- नायमेवाओं न्याय्यः , एकस्यैव मन्त्रस्य • सैन्धवमानय इति वाक्यस्येव नानार्थकतायाः स्थलभेदेनार्थभेदेन विनियोगभेदस्य च सम्भवेन विरोधाभावादित्यवधेयम् । 'यु-मिश्रणा - मिश्रणयोः' इति यौतिरयमदादिगणघटको धातुः । तस्मादपि बहुलं छन्दसि ॥२॥ ४॥७६ ।। इत्यनुशासनेन-छन्दसि विषये बहुलं शपः श्लुर्भवति, यत्रोक्तं तत्र न भवति, अन्यत्रापि च भवति-इत्यर्थकन लोटि सिपि शनः इलुभवति । ततः श्लौ' ॥ ६॥ १ ॥ १० ॥इत्यनुशासनेन .धातोविंचने |' सेद्यपिञ्च' ॥ ३ ॥ ४ ॥ ८७ ॥ इत्यनुशासनेन सेह्यादेशे 'वा छन्दसि' ॥३॥ ४ ॥ ८८ ॥ इत्यनुशासनेन तदापत्वस्य वैकल्पिकत्वेन ङित्त्वाप्राप्तौ 'आडितश्च ॥ ६ ॥ ४ ॥ १०३ ॥ इत्यनुशासनेन हेयादेशे तस्य ङित्त्वाभावेन - सार्वधातुकार्धधातुकयोः' ॥ ७ ॥ ३ ॥८४ ॥ इत्यनुशासनेन गुणे च सति युयोधीति रूप भवतीति बोध्यम् । 'प्रसाहरणे ' इति . . , - , ८४ ईशावस्योपनिषत् [म.१८. ॥शेषा इह वयुनशब्देन विवक्षिताः । सर्वान् ---तत्तदधिकारानुगुणान् चतुर्विधपुरुषार्थोपायान् यथावत् विद्वान् त्वमविदुषोऽस्मान् नेतुमहसीति भावः । युयोध्यस्मज्जुहुराण-बन्धनात्मकतया अचिन्त्यप्रकारकौटिल्यवत्तयावा बाधमानमित्यर्थः । एन:-अकृत्यकरणकृत्याकरणादिरूपं त्वदनुभ- काण्टुकोक्तेः।अनतु लक्षणया ज्ञातव्योपायपरः।विश्वानि वयुनानि–सर्वानपि तत्तदधिकारानुगुण- चतुर्विधपुरुषार्थोपायान्यथावद्विद्वांस्त्वमविदुषोऽस्मान्नेतुमर्हसीति भावः। यो वै वेदांश्च प्रहिणोति तस्मै' इति मन्त्रपदानामप्येतदेव हृदयम् । 'मुमुक्षु शरणमहं प्रपद्ये' इति मन्त्रगतमुमुक्षुपदं विवृण्वन्नाह- युयोध्यस्मज्जुहुराणमेन इति। 'हृ-कौटिल्ये'। जुहुराणं-कुटिल बन्धनात्मकमित्यर्थः । यद्वा-अ- चिन्त्यप्रकारकौटिल्यतया बाधमानमिति भावः । अनेन विशेषणेन अतितीवः शोकवेगो द्योत्यते । एन:--अकृत्यकरणकृत्याकरणादिरूप त्वदुपासनोत्पत्तिप्रतिबन्धकमित्यर्थः । त्वत्प्राप्तिप्रतिबन्धकमिति- वा । एन इत्येकवचनं जात्यभिप्रायकं । वस्तुतस्तु 'कियदिदं निवर्त्यमेनः? निवर्तकानुरूप हि न भ. वति; नहि सर्वशक्तेस्तवेदमनुरूपं लक्ष्य; नापि नमउक्तेः ; भूय सी हि सा' इत्येकवचनस्याभिप्रायः । अस्मत्-अस्मत्तः, युयोधि-पृथक्कुरु, विनाशयेति भावः । यद्वा- पृथक्कुरु, एतावदेव याचे स्वा, जुहुराणमेनोऽस्मत्तः प्रथमं वियोजयेति, तत्पश्चाद्यथामनोरथ विनाशयसि चेद्विनाशय, पुरुषा- न्तरे सङ्कामयसि चेत्सङ्कामय, नास्ति तत्रास्माकं निर्बन्ध इति भावः । भूयिष्ठाम्---अनन्यगति स्वादिगुणैरावृत्तितश्च भूयसी, नमउक्तिं, ते-अवाप्तसमस्तकामतया निरुपाधिकसर्वस्वामितयाच . श्री ।। जुहोत्यादिगणघटकस्य धातोः परस्मैपदिनोऽपि 'व्यत्ययो बहुलम् ॥३॥१॥८५॥ इत्यनुशासनेन छान्दसपदव्यत्ययेनात्मनेपदलडादेशतकारे अस्मिन् सूते 'बहुलम्' इति विभज्य- 'छन्दसि विषये सर्वे विधयो भवन्ति' इति भाष्ये व्याख्यानेन 'बहुलं छन्दसि' ॥ ७ ॥ १॥ १०३ ॥ इत्यनुशासने बहु- लग्रहणबलेन च ऋदन्तधात्लङ्गं प्रति तत्सूत्रविहितोकारादेशस्य ऋदन्तधात्वङ्गस्यापि स्वीकारे ऋका- रस्य रपरोकारादेशे पातोद्विवचनाम्यासवर्णलोपविकारेषु लडादशतकारस्य शानचि च कृतेषु जुहुराण. मिति रूपं भवति। यद्वा हुर्छा कौटिल्ये'-इति भौवादिकधातोः परस्मैपदिनोऽपि प्रागुक्तानुशासनबलेन छान्दसपदव्यत्ययेनात्मनेपदलडादेशतकारे 'बहुल छन्दसि' ॥ २ ॥ ४ ॥ ७६ ॥ इत्यनुशाशनेन प्रागु. दाहतेन शपः श्लौ जाते ततो धातोविंचने 'हलादिश्शेषः' ॥ ७ ॥ ४॥ ६० ॥ इत्यनुशासनेना- भ्यासरेफछच्कारयोर्लोपे 'कुहोश्चुः॥७॥ ४ ॥ ६२॥ इत्यनुशासनेनाभ्यासहकारस्य जकारे रालोपः' ॥६॥ ४ ॥ २१ ॥ इत्यनुशासनेन छकारलोपे लडादेशतकारस्य शानचि च कृते जुहुराणमितिरूप भवति । धात्वर्थकौटिल्यं च वञ्चकत्वं। तथा च अस्मान् जुहुराणं वञ्चयत् परमप्राप्यभगवत्स्वरूपं ति- रोधाय क्षुद्रप्राप्यान्तरभोग्यताबुद्धिजननेन तत्र प्रवर्तयदित्यर्थो बोध्यः। यद्वा 'हुच्छेस्सनो लुक्छलोपश्च' ॥ उ॥२॥९० ॥ इत्युणादिद्वितीयपादसूत्रेण हुछेर्धातोः कर्तरि वर्तमानेऽथें आनच्प्रत्ययो भवति सन्प्रत्ययस्य लुक्छलोपश्च इत्यर्थकेन हुछेर्धातोरानचि कृते कृतसन्प्रत्ययतदधीनद्विवचनस्य तस्य धातो- सनश्छस्य च लोपे जुहुराणमिति रूपं भवति। तदा जुहुराणं सदा वञ्चयितुमुद्यमित्यर्थोऽवसेयः सर्व- धाप्यस्मदपकारकरणकोद्यतमिति पर्यवसन्नोऽर्थः, धात्वर्थकुटिलत्वस्य भाववक्रीकरणरूपक्रौर्ये पर्यवसा- नात्। 'जुहुराणश्चन्द्रमाः' इतितु आकारवक्रीकरणाभिप्रायेण प्रयोगइति बोध्यम्।इहकोटिल्यमपसरणमिति मैत्रेयपक्षे धातोरकर्मकत्वमभिमतभावञ्चकत्वं कौटिल्यमिति पक्षे सकर्मकत्वमिति भेदोऽवसेयः अपसरं- , मं-१८.] भाष्यत्रयोपेता. वे ॥ मन्जुवादिप्रतिबन्धकम्,अस्मत्तो युयोधि-पृथक्करु, विनाशयेत्यर्थः। भूयष्ठां ने नमउक्तिं विधेम-'अनन्यगतिः' इत्यादिगुणैरावृत्तितश्च भूयसी नमउक्तिं ते विदध्महे।व्यत्ययोहि बहुलमनुशिष्टः। नमउक्तरनुवृत्ति वा नाथ प्रति नाथते । ‘नम इत्येववादिनः' इति हि मुक्त लक्षणा अपि पुरुषाः मोक्ष- कू॥ नमउक्त्यन्यनिरपेक्षाय ते,विधेम -विदध्महे,व्यत्ययो बहुलमनुशिष्टः ।नमउक्तेरमनुवृत्तिं वा नाथ प्रति नाथते । 'नम इत्येव वादिनः इति हि मुक्तानामपि लक्षण मोक्षधर्मे श्रुतम् । मानसकायिकयोन- मसोरभावेऽपि नमश्शब्दमालेण त्व प्रसन्नो भवितुमर्हसीत्युक्तिशब्दाभिप्रायः । हे अग्ने देव विश्वानि वयुनानि विद्वान् त्वं जुहुराणमेनोऽस्मत्तो युयोधि, सुपथाऽस्मात्राये नय, वय ते भूयिष्ठां नमउक्तिं विधेमेत्यन्वयः । नित्याञ्जलिपुटा हृष्टा नमउक्तिं विधेमेत्यर्थः । नमइत्येववादिनो भावामेति भावः ॥ १८॥ एवमस्मिन्ननुवाके आदितो मन्त्राष्टकस्य चेतनाचेतनरूपमपरतत्त्वद्वयं कर्मयोगज्ञानयोग- रूप व्यवहितोपायद्वयंच प्रधानप्रतिपाद्यम् ; उपरितनाष्टकस्य तु परतत्त्वपरमपुरुषविषयकं भक्तियोगरूप साक्षात्साधनम्, अवशिष्टमन्त्रद्वयस्य सर्वफलसाधन प्रपदनं प्रधानप्रतिपाद्यम् । एवं च श्रीभगवद्गीता- ध्यायेषु प्रथमषट्कं प्रथमाष्टकस्योबबृंहणं , द्वितीयषट्रक द्वितीयाष्टकस्य, तृतीयषटकमवशिष्टमन्त्रद्विक- श्रीगमनं वक्रगममनामाते पर्यवसन्नम्, अन्यथाऽपसरणस्य कौटिल्यशब्दबोध्यत्वासम्भवात् । तदा जुहुराणश्चन्द्रमाः' इत्यत्र विक्षेपवशाद्वक्रगन्ताचन्द्रमा इत्यर्थोऽवसेयः। 'जुहुराणमेनः' इत्यत्र तु जुहुराणम् अनादिकालाद्वक्रमेवगच्छत्-अपकारं कुर्वदेव गच्छत् न तु तं विना तूष्णीमजु गच्छदित्यर्थः । इदानीं त्वस्मानित्यस्य नानुषङ्ग आवश्यक इति ॥ ४ ॥ अयमतदुपनिषदर्थतात्पर्यसङ्ग्रहः--प्रथममन्ने सर्वेश्वरस्य नियन्तृत्वशेषित्वे जगतो नियाम्यत्वशेष- त्वे च तत्तदसाधारणाकारौ ज्ञापयित्वा तद्बलेन मुमुश्लोस्वसम्बन्धिसर्ववस्तुषु कर्तृत्वममताफलविषयात्र- विधत्यागलक्षणज्ञानविशेषेण संस्करणपूर्वकं तेषु भगवद्भोगान्तर्गततयैव स्वभोगविधानमुखेन वक्ष्यमा णपरविद्यायभूतकर्मयोगापेक्षितो ज्ञानविशेषलक्षणसंस्कारविशेषो दर्शितः ॥१ ॥ - स च ज्ञानविशेषः भगवानेव खनियाम्यस्वरूपस्थितिपत्तिस्वशेषतैकरसेनानेनात्मना स्वकीयैश्च देहेन्द्रियान्तःकरणैः स्व- कीवैव कर्मभिस्स्वकीयद्रव्यमथैरेव च भोगैः स्वात्मान स्वयमेव प्रीतं कारयति' इत्येवमादिरूपः - २ - द्वितीयमन्त्रे च वक्ष्यमाणपरविद्याङ्गतया यावजीवं यथाधिकारं कर्मयोगोऽप्यनुष्ठेयतया दर्शितः - ३ कर्मयोगस्यार्वाचीनफलद्वारा बन्धकत्वभ्रमपरिहाराय दर्शितत्यागविशेषलक्षणसंस्कारबलेना चीनफल- सम्बन्धलक्षणतल्लेपासम्भवोऽपि ज्ञापितः ४ - तृतीयमन्त्रे च प्रथमद्वितीयमन्त्रपर्यवसन्नार्थभूतशेषित्वनिय- न्तृत्वलक्षणपरस्वरूपयाथात्म्यशेषत्वनियाम्यत्वलक्षणस्वस्वरूपयाथात्म्यैतदुभयज्ञानपूर्वकपरविद्याङ्गक मैं - योगानुष्ठानविरहिणामात्मन्नत्वेन निन्दापूर्वक परविद्यावैधुर्येण क्रमेण महानर्थप्रातेरवर्जनीयत्वाभिधान- मुखेन दर्शितलक्षणकर्मयोगनिष्ठाया अतिशीघ्रमेवावश्यसम्पादनीयता दर्शिता - ५ - चतुर्थादिभिरष्ट- मान्तैः पञ्चभिमन्त्रैः अनेकात्मसु सत्सु तत्रैकस्य परं कथं नियन्तृत्वशेषित्वे कथ वाऽन्येषा सर्वेषा चेत- नाचेतनानामविशेषेण नियाम्यत्वशेषत्वे? इत्याशङ्कापरिहारार्थमंत्र विवक्षितपरविद्यायामनुसन्धानार्थे च परमात्मनोऽघटितघटनासामर्थ्याखिलभूतान्तरात्मत्वादिकल्याणगुणाश्रयत्वं तथाविधाकारानुसन्धानफ- लप्रदर्शनमुखेन तदनुसन्धानावश्यकता च प्रत्यपादि' - ६ - नवमप्रभृतिमिरेकादशपर्यन्तस्त्रिभिमन्त्रैर्मु. मुश्चोः कर्मविनयोरेकैकमात्रानुष्ठानेऽनर्थपर्यवसानावर्जनीयताज्ञापनमुखेन कर्मसहचरिताया एव विद्याथा
ईशावस्योपनिषत्
[म-१८
वेधर्म प्रतिपादिताः। मानसकायिकयोर्नमसोरभावेऽपि नमश्शब्दमात्रेण प्रसत्तुमर्हतीत्युक्तिशब्दाभिः
प्रायः । एवं परतत्त्वतद्विभूतियोगतदुपासनतद्विशेषान् सङ्गह्य सहितेयं सम्पूर्यत ॥ १८ ॥
व्यक्ताव्यक्ते वाजिना सहितान्ते व्याख्यामित्थ वाजिवक्त्रप्रसादात् ।
वैश्वामित्रो विश्वमित्र व्यतानीद्विद्वच्छात्रप्रीतये वेङ्कटेशः ॥ १ ॥
अभेदं भोक्तृणामथच भविनामेव परतां तथा भेदाभेदं जिनसुगतनीति च जगति ।
असम्पाद्या मुक्ति भवभयमलीकं च पठतामसावीशेत्यादिर्न कथमनुवाकः प्रतिभटः॥ २॥
हरिःओम्
इति कवितार्किसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्ककटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु
ईशावस्योपनिषद्भाष्यम् .
कवितार्किकसिहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
कू॥स्योपबृहणम् ।तृतीयषट्कहि प्रथममध्यमषट्काभ्यामुक्ततत्त्वीपायपुरुषार्थविशदीकरणपूर्वक शरणाग-
तिविधिप्रधानम्। तत्र चरमश्लोकस्य पूर्वार्ध 'वायुरनिलममृतम्' इति मन्त्रोक्तानुष्ठान विधायकम्। उत्त-
रार्धन्तु 'युयोध्यस्मज्जुहुराणमेनः' इति प्रार्थयमानानां प्रार्थनापूरणसङ्कल्पपूर्वकं शोकप्रतिक्षेपकमिति
चरमश्लोकोऽप्यस्य मन्त्राद्विकस्योपबृंहणमेवेति सिद्धम् । एवं परतत्त्वतद्विभूतियोगतदुपासनतत्प्रपदनत-
त्फलविशेषान् समय संहितेयं समपूर्यत ॥
वेदान्तगुरुपादाब्जध्याननिर्मलचेतसा ।
वाजिवेदान्तसारार्थः श्रीवत्साङ्केन दर्शितः ॥
यदिह रहस्य विवृतं यद्वा न्यून वचोऽधिकं यच्च ।
कृपया तदिदं सर्व देवः क्षमते तथा महान्तोऽपि ॥
इति श्रीमत्सर्वतोभयवेदान्ताचार्यस्य परमहसपरिव्राजकाचार्यस्य
श्रीवत्साङ्कश्रीमन्नारायणमुनीन्द्रस्य कृतिषु
ईशावास्यप्रकाशिका ॥
श्री॥अनुष्ठेयता प्रतिपादिता ७ द्वादशादिभिश्चतुर्दशपर्यन्तस्त्रिभिर्मन्त्रैः सामान्यतश्शरीरप्रातिगर्भितपुरु.
षार्थोद्देशेन वा सामान्यतोऽशरीरत्वप्राप्तिगर्भितपुरुषार्थोद्देशेन वा यथोक्तलक्षणविद्यानुष्ठाने प्रथम-
पक्षे नश्वरप्राकृतभोगैश्वर्यप्राप्तिपर्यवसानेनानिष्टप्राप्तेः द्वितीयपक्षे यावदात्मभाविस्वरूपविरुद्धकैवल्यल-
क्षणमोक्षप्राप्तिपर्यवसानेनानिष्टप्रासश्चावर्जनीयता, ततः एकविधशरीरनिर्मूलनिवृत्त्यपरविधशरीरप्राप्त्यु-
भयगर्मितपुरुषार्थोद्देशेन यथोक्तलक्षणविद्यानुष्ठान एव स्वरूपानुगुणपरमपुरुषार्थलक्षणमोक्षप्राप्तिश्च
प्रतिपादिता - ८ - ततः पञ्चदशादयोऽष्टादशपर्यन्ताश्चत्वारो मन्त्रा यथोक्तलक्षणविद्याकरणतयाऽनु-
सन्धेयारस्वरूपानुगुणपरमपुरषार्थलक्षणमोक्षप्रार्थनागर्भा अव्यभिचारेण तथाविधमोक्षप्राप्तिप्रयोजका
आवश्यकोपास्याकारानुसन्धानगर्भा अन्तरादित्यवर्तिपरमपुरुषविषयपरविद्यापराः प्रवृत्ता इति ॥ ५ ॥
तथाचास्यामुपनिषदि कर्मयोगानिकयैवानुष्ठितया परविद्यया मोक्षप्रातः प्रतिपादनेन 'कर्मयोग-
निरपेक्षचैव परविद्यया मोक्षप्राप्तिः प्रत्युत कर्मयोगस्य विरोधित्वमेव' इति वदन्तः कुदृष्टयः परास्ता
इति वेदितव्यम् ॥ ६॥
मं-१८.]
भाष्यत्रयोपेता.
श्री।।यस्पुनरत्नाह शङ्कर:--'अस्यामुपनिषदि विद्ययाऽमृतमश्नुते' इत्येकादशमन्त्रे सम्भूत्या
मृतमश्नुते'--इति चतुर्दशमन्त्रे च 'अमृतमश्नुते' इत्युक्ति मृतशब्दगुख्यार्थमोक्षविषया -१. अपि
तु देवतात्मभावलक्षणार्वाचीनपुरुषार्थविषयैव- २ पारलौकिकैश्वर्यरूपस्यास्याप्यहिकैश्वर्यापेक्षयोत्कृष्ट-
त्वेन तदपेक्षया मोक्षरूपत्वेन निर्देशाईतयोपचारतोऽमृतशब्दबोध्यता सम्भवत्येव- ३ •एवमत्र विद्या-
शब्दो न मुख्यपरविद्यारूपपरमात्मविद्यापरः - ४ अपित्वर्वाचीनदेवताज्ञानरूपोपासनपर एव, अविद्या
साहचर्येणानुष्ठेयतयाऽभिधीशमानविद्यार्परत्वावगमात् , मुख्यपरविद्याया अविद्यासाहचर्येणानुष्ठेयत्वा-
सम्भवाच्च - ५ - अत एव चेशविद्यासाध्यपुरुषार्थपरतयाऽवगम्यमानस्यामृतशब्दस्यापि साक्षान्मोक्ष-
परत्व न कथञ्चिदपि वक्तुं शक्यमित्यर्वाचीनपुरुषार्थपरत्वमाश्रितम् - ६ न च-"विद्यां चाविद्या
च यस्तद्वेदोभय सह । अविद्यया मृत्यु तीवा विद्ययाऽमृतमश्नुते' इति श्रुत्यैवात्रामृतोपायत्वेन
विद्यायाः मृत्युतरणोपायत्वेनाविद्यायाश्च प्रतिपाद्यमानत्वेन तयोरविरोधस्यैव स्फुट प्रतीयमानतया तर्केण
कथं तयोर्विरोधस्सुवच इति वाच्यम्, कठवड्युपनिषदि द्वितीयवछ्या 'दूरमेते विपरीते विषूची अवि-
द्या या च विद्येति ज्ञाता' ॥ ४ ॥ इति श्रुत्यैव विद्याविद्मयोः परस्परविरुद्धतायाः प्रस्फुटं श्रूयमाण
स्वात् -७ द्वयोश्चत्योरविरोधस्य न्यायेनैव समर्थनीयतया न्यायसञ्चारे कृते मुख्यपरविद्याया अविद्या.
याश्च स्वरूपतः फलतश्च विरोधस्य दुरपह्नवत्वेनात्र विद्याशब्दोऽर्वाचीनविद्यापरः, अमृतशब्दश्चावा-
चीनफलपर इत्येव स्वीकर्तुं शक्यं, तयोरेवाविरोधसम्भवात् • ८ - विद्याविद्ययोर्हि तेजस्तिमिरयोरिव
स्वरूपत एव विरोधः . ९ - अतः प्रकाशवति तिमिरस्येव विद्यावत्यविद्याया उदयस्यैव नावकाश
इति न तयोस्साहचर्यसम्भवः - १० - अविद्यया हि प्रवृत्तिधर्मेण विद्याफलमोक्षविरोध्यवर्वाचीनस्वर्गा-
दिफलं सचिनोति पुरुष इति फलतोऽपि विद्या विद्ययोर्विरोधो दुर्वारः ११ एवमत्र श्रूयमाणविद्या-
शब्दस्य मुख्यपरविद्यापरत्वे तनिष्ठस्यात्रैव ब्रह्मप्राप्तिसम्भवेन तदर्थ क्वचिद्गमनस्यैवानावश्यकत्वेनो-
तरत्र श्रूयमाणाया अचिरादिमार्गेण देशान्तरनयनयाचनाया अनुपपत्तेरपि यथोक्तरीत्याऽर्वाचीनदेव
तोपासनरूपविद्यापरत्वमेव स्वीकार्यम्' इति ॥ ७ ॥
तदेतत्सर्वं दर्शितप्रकरणस्थविद्याविद्यादिशब्दार्थस्वरूपौपनिषदप्रकरणसन्दर्भासन्द दिसम्य •
गपरामर्शमूलमविवेचितमरमणीयमेवेति विवेकिनां विदुषामनुपादेयमेव॥ ८॥ तथा हि-अस्यामुपनिषदि
चतुर्थपञ्चमषष्ठसप्तमाष्टममन्त्रेषु मुख्या परविद्यैवोपदिश्यत इति,तृतीयमन्त्रे मुख्यपरविद्यारहिता अविद्वां-
स एव निन्द्यन्त इति च निर्विवादं त्वयैवा धुपगतम्॥९॥इत्थ प्रकरणप्रस्तुता मुख्यां परविद्या नवमदश
मैकादशमन्त्रेषु श्रूयमाणविद्याशब्दो नाभिधत्ते, किं तु तृतीयमन्त्रनिन्दिताविद्वन्निष्ठारूपां सम्प्रति प्रघा.
ननिरूपणीयत्वेनाप्रस्तुतामपरविद्यामेवाभिधत्ते,मुख्यपरविद्यापरतया तद्रहितनिन्दापरतया च प्रागुप-
दर्शितमन्नव्यतिरिक्तग्रन्थशेषः कृत्नोऽप्यपरविद्यानिष्ठपर एवेति कथन ह्यविवेकविलसितमेवेत्यतिमुग्ध-
जनानामपि सुगमम् मुख्यपरविद्योपदेशापरविद्यानिष्ठाविद्वन्निन्दयोः क्रियमाणयोरपरविद्याया उपादेय-
तायास्तत्प्रकरण एव कथनस्यौचित्यलेशाभावात्, पुरस्तादुपरिष्टाच्च परविद्यायां प्रस्तूयमानायां क्रिय.
माणायां च तद्रहितनिन्दायां मध्ये द्वितीयमन्त्रस्याविद्वद्विषयत्वकल्पनाया अयन्तमेवासङ्गतत्वाच ॥१०॥
किं च-यमधिकारिणमुद्दिश्य प्रथमत उपदेशप्रवृत्तेयमुपनिषत् , तमेवोद्दिश्य ग्रन्थशेषस्यापि तदपे-
क्षितार्थप्रदर्शनपरताया एवावश्यकतया मध्येऽधिकार्यन्तरप्रस्तावस्यैवानवकाशेन मध्ये मध्ये क्वचि-
क्वचिदविद्वनिष्ठोपदेशपरत्वकल्पनं हि न कथञ्चिदपि सञ्जाघटीति ॥ ११ ॥
८८ ईशावस्योपनिषत् [मं-१८. श्री॥ अथात्राविद्यागब्दार्थः क इति तावद्विचारयामः॥१२॥न तावदशानम्, 'अविद्यया मृत्यु तीवा' इतिमृत्युतरणोपायत्वेन श्रूयमाणाया अविद्याया मृत्युप्राप्तिहेतुभूताज्ञानरूपत्वासम्भवात् ॥ १३ ॥ कि तु विद्येतरद्वर्णाश्रमविहित कर्मैव ॥ १४ ॥ मृत्युशब्दश्चात्र ज्ञानोत्पत्तिप्रतिबन्धकप्राचीनपुण्यपाप- लक्षणकर्मवाची ॥ १५ ।। तन्निवृत्तिहेतुत्वं च वर्णाश्रमविहितकर्मयोगस्य सम्भवति, धर्मेण पापमप- नुदति ॥ तै ॥ ना ॥ ६ ॥ ५० ॥ इति श्रुतेः 'कषायपक्तिः कर्मणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्व ततो ज्ञान प्रवर्तते ॥ इति स्मृतेः 'यज्ञो दान तपश्चैव पावनानि मनीषिणाम् ॥गी॥ १८ ॥ ५ ॥ इति भगवद्वचनाच्च ॥ १६ ॥ तथा चात्राविद्यागब्दार्थस्य वर्णाश्रमविहिनकर्मजानस्य विद्योत्पत्तिविरोधिपुण्यपापलक्षणप्राचीनकमनिबर्हणमुखेन विद्योत्पत्तिहेतुताया एवावगमेन कथमन वि. धाविद्ययाविरोधकथावकागः ॥ १७ ॥ अत्राविद्याशब्दार्थभूत वर्णाश्रमविहितं कर्मजात फलकर्तृत्व' ममताविषयनिविधत्यागपूर्वकमनुष्ठितमेव विवक्षितं, तादृशस्यैव तस्य विरोधिनिबर्हणद्वारा विद्योत्पत्ति- हेतुत्वात्॥ १८ ॥ अत एव युक्तं भगवता 'त्यागो हि पुरुषव्याघ्र त्रिविधस्सम्प्रकीर्तितः । यज्ञदान- तपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दान तपश्चैव पावनानि मनीषिणाम् । एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति में पार्थ निश्चितम्मतमुत्तमम्' | गी॥ १८ ॥ ॥ इति 'स्वे स्वे कर्मण्याभरतस्ससिद्धि लभंत नरः । स्वकर्मनिरतम्सिद्धिं यथा विन्दति तच्छृणु । यतः प्रवृ. तिभूताना येन सर्वमिद ततं । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः' ॥ गी ॥ १८ ॥ ४६ ।। इति च ॥१९॥ अत्र 'मङ्ग त्वक्त्वा फलानि च'इत्यनेन स्वकर्मणा तमभ्यय' इत्यनेनचार्वाचीनफलादि- विषयत्यागपूर्वकं भगवदाराधनरूपतयाऽनुष्ठितस्यैव स्वस्ववर्णाश्रमविहितकर्मजातस्य विरोधिपापनिबह- णमुखन विद्योत्पत्तिहेतुत्वमवगम्यते स्पष्टम् ॥ २० ॥ इत्थं त्यागवशेनार्वाचीनफलान्तरप्रसङ्गस्यैव नि. रुद्धतया फलतोऽपि नात्र विवक्षिताविद्याया विद्यया सह विरोधप्रसङ्गावकाशः॥ २१ ॥ तदिदमेवा- भिसन्धायोक्तमस्यामप्युपनिषदि-'कुर्वन्नेवेह कर्माणि' इत्यादिद्वितीयमन्त्रे ॥ २२॥ अत्राविद्या- शब्दितवर्णाश्रमविहितधर्मानेव कर्मशब्देन निर्दिष्टान्प्रथममन्त्रोक्तत्यागपुरस्सरं विद्याङ्गतयानुतिष्ठतः फ- लतो न विद्यया सह विरोधप्रसङ्गः, त्यागयलेना चीनविरोधिफलसम्बन्धलक्षणकर्मलेपासम्मवादिति यभिप्रेतम् ॥ २३ ॥ न चैवं सति -कठवायुपनिषदि द्वितीयवछयां 'द्रमेते विपरीते विषूची अविद्या या च विधेति ज्ञाता' ॥ २ ॥ ४ ॥ इति विद्याविद्ययोर्विरोधः कथमुच्यत इति वाच्यं १ मोक्षाख्य. फलभोगार्थीनुसन्धानरूपविद्यातदितरपशुपुत्रस्वर्गाद्यैहिकामुष्मिकार्वाचीनफलभोगार्थानुसन्धानरूपा विद्ययोरेवे तत्र विद्याविद्याशब्दविवक्षितत्वेनानुपपत्त्यभावात्, तयोरत्यन्तविरोधस्य सर्वसम्प्रतिपन्नत्वाञ्च ॥ २४ ॥ विद्याविद्याशब्दितयोस्तयोरेव तत्रात्यन्तविरोधोऽभिधीयत इति च तत्र पूर्वोत्तरभागयोः शब्दत एव सुस्पष्टम्॥ २५ ॥ अतो न शब्दैक्यमात्रेण तत्रात्र च विद्याविद्याशब्दयोरेकार्थकत्वमा श्रित्य ज्ञानकर्मणोविरोधस्सुवचः ॥ २६ ॥ अस्तु वा तत्राप्यविद्याशब्दः कर्मपरः ॥ २७ ॥ तथापि पशुपुत्रस्वर्गाद्यैहिकामुष्मिकफलभोगहेतुकाम्यकर्मविषय एव तत्रत्याविद्याशब्द इति तु दुरपह्नवं,दर्शि तार्वाचीनफलकामनाया एव तत्प्रकरणे निन्द्यमानत्वस्य प्रस्फुटत्वात् ॥ २८॥ दर्शितार्वाचीनफलका- मिनः काम्यकर्मनिष्ठा एव च सर्वतो निन्द्यन्ते ॥ २९ ॥ यथोक्तं भगवता 'यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादारताः पार्थ नान्यदस्तीति वादिनः। कामात्मानस्वर्गपरा जन्मकर्मफल- प्रदाम् । क्रियाविशेषबहुला भोगैश्वर्यगति प्रति । भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसा । व्यवसाया- मिका बुद्धिस्समाधौ न विधीयते' ॥ गी॥ २ ॥ ४४ ॥ इति - विद्या मां सोमपाः पूतपापा .
मं.१८ भाष्यत्रयोपता , . श्री॥यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमनन्ति दिव्यान् दिवि देवभोगान्॥ते तं भुक्त्वा स्वर्गलोक विशालं क्षीणे पुण्ये मर्त्यलोक विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं काम- कामा लभन्ते' । गी॥ ९ ॥ २१॥ इति च ॥३०॥ अत्राचीनफलकामनायास्तदर्थ क्रियमा- णकर्मणां चैव फलतो विद्याविरोधोऽभिधीयत इति स्पष्टम् ॥३१॥न च सर्वेषामेव कर्मणां यत्किञ्चि. दर्वाचीनफलहेतुतायाश्शास्त्रेषु समन्तततो दर्शनात्त तुतया शास्त्रचोदितानां कर्मणां तदभिसन्धिम. न्तरेणानुष्ठितानामपि तत्फलसंयोगोऽवर्जनीय एव । अतः कर्मणां विद्याविरोधोऽपि दुष्परिहर एवेति कान्येन कर्मणां त्याग एव विद्यानिष्ठानामावश्यक इत्येव दर्शितशास्त्राणां तात्पर्यमिति वाच्य गीतास्वष्टादशाध्याये 'त्याज्य दोषवदित्येके कर्म प्राहुर्मनीषिणः । यशदानतपःकर्म न त्याज्यमिति चापरे । निश्चय शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधस्सम्प्रकीर्तितः । यज्ञ- दानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दान तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्मा. णि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितम्मतमुत्तमं ॥ नियतस्य तु सन्नयासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७॥ इति ॥ 'अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फल । भवत्यत्यागिना प्रेत्य न तु सन्नयासिना क्वचित् ॥ १२ ॥ इति । 'स्वेस्वे कर्मण्यभिरतस्ससिद्धि लभते नरः ॥ स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु । यतः प्रवृ. त्तिर्भूतानां येन सर्वमिदं ततं । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' ॥ ४६ ॥ इति ॥ 'सर्वक- मीण्यपि सदा कुर्वाणो मद्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वत पदमव्ययम् ॥ ५६ ॥ इति च वदता भगवता वासुदेवेन -'वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ गी॥ १५ ॥१५॥इति स्वस्वरूपयाथात्म्यमपि स्वयमेवाभिदधता कर्मणां कात्स्वर्थेन त्याज्यत्वात्याज्यत्वविषयवादि- विप्रतिपत्तिं प्रदय त्रिविधत्यागपूर्वकं कर्माणि कर्तव्यानीत्येव निश्चितम्मम मतमिति स्वयं सिद्धान्तं कृत्वा तेषां विद्याविरोधिपापनिवृत्तिपूर्वकं विद्योत्पादनमुखेन परमसिद्धिप्रयोजकतायाः त्यागफलेन मोक्षविरोध्यर्वाचीनफलान्तराप्रयोजकतायाश्च स्पष्टमेव प्रतिपादनेन शास्त्राणां ब्रह्मविद्यानिष्ठस्य का- निर्येन कर्मत्याग एव तात्पर्यकल्पनस्याविवेकमूलताया अतिस्फुटत्वात् ॥ ३२ ॥ इत्थं चात्राविद्या- शब्दविवक्षितकर्मणः प्रत्युत परविद्यात्यन्तोपकारकतया तद्विरोधगन्धानुपलम्भेन विद्याशब्दः परवि- द्यापर एव भवितुमर्हतीति सिद्धम् ॥ ३३ ॥ न च मुख्यपरविद्यानिष्ठस्यात्रैव ब्रह्मप्राप्तिश्रवणेन क्व- चिद्गमनानावश्यकतयोत्तरत्नाचिरादिमार्गेण क्वचिद्देशविशेषे नयनप्रार्थनादर्शनेनात्रत्यविद्याशब्दो न मुख्यपरविद्यापरो भवितुमर्हतीति वाच्यम् , निश्शेषाविद्यानिवृत्तिमन्तरेण मुक्तरसम्भाविततायाः तदर्थ सर्वेषामेव परविद्यानिष्ठानामचिरादिमार्गेण देशविशेषगमनावश्यकतायाश्च सूत्रकाराशयानुरोधे नैव श्रीभाष्यकारैःश्रीभाष्यादौ निर्धारितत्वात् आसृत्युपक्रमाधिकरणे विदुष उत्क्रान्त्यभावकथाया अत्रैव निश्शेषाविद्यानिवृत्तिगर्भब्रह्मप्राप्तिकथायाश्च दूरोत्सारितत्वाचावत्यविद्याशब्दस्य मुख्यपरविद्या. परत्वे क्षतिलेशायोगात् ॥ ३४ ॥ . अथ का सा मुख्या परविद्या? या कर्मानुष्ठानं न सहते तेजस्तिमिरमिवेति भवन्तोऽभिमन्यन्त इति पृच्छामः ॥ ३५ ॥ ब्रह्माद्वैतमिति द्वैताभावविशिष्टब्रह्मविषयकविज्ञानमेव मुख्या परविद्या, सा चाद्वैतविषयकत्वादेव द्वैतानुसन्धानगर्भ कर्मानुष्ठानं न सहत इति चेत् ॥ ३६ ।। तदेवासम्बद्धम् , क्वचित्प्रसिद्धस्यैवार्थस्य क्वचिदभावप्रतीतेस्सर्वलोकसाक्षिकतया ब्रह्मेतरस्य वस्तुनः क्वचित् प्रति- पत्तिस्वीकारे ब्रह्मणि द्वैतप्रतीतेरपरिहार्यत्वेन तदभावप्रतीतेरयोगात् तदवीकारे च क्वचिदप्यप्रति-
२०
ईशावस्योपनिषत्
[मं-१८.
-
.
.
श्री॥पन्नस्य द्वैतस्य ब्रह्मण्यभावप्रतीतेस्सुतरामेवासम्भवाच ॥ ३७ ।। न हि खलु शशस्य शृङ्ग क्वाप्य.
प्रसिद्धमिति जानननुन्मत्तः कश्चिदपि पुरुषः इह शशशृङ्ग नास्ति' इति प्रत्येति, व्यवहारति वा॥३८॥
तस्मात् , ब्रह्माद्वैतमिति ज्ञान नानुन्मत्तस्य कस्यचिदनाहार्यं क्वचित्कदाचित्सम्भवितुमर्हति ॥ ३९ ॥
न तद्विज्ञान परविद्यारूप वा भवितुमर्हति ॥ ४० ॥ अथ तत्त्वमस्यादिवाक्यार्थज्ञानरूप निर्विशेषब्रह्म-
स्वरूपमात्रविषयकं निर्विकल्पकविज्ञानमेव मुख्यपरविद्यारूपम् ; तच्च कर्मज्ञानानुष्ठानादिकं न सहत
इति चेत् ॥ ४१ ॥ तदप्यसम्बद्धम् -तत्वमस्यादिसमानाधिकरणवाक्याद्विशेष्यविशेषणवाचकपद-
द्वयप्रतिपन्नयोविभिन्नप्रवृत्तिनिमित्तविशिष्टयोरर्थयोरैक्यबोधनस्यैव सम्भवेनेदृशनिर्विकल्पकबोधस्य लो-
कव्युत्पनिविरोधेन कदाप्यसम्भवात्तदसम्भवस्य सोपपत्तिक श्रीभाष्यादिषु निर्धारितत्वात् तदुदयस्वी
कारेऽपि वा यत्किञ्चिदेकवस्तुस्वरूपमात्रविषयकनिर्विकल्पकज्ञानस्य वस्त्वन्तरविषयकज्ञानादिविरोधि-
त्वासम्भवेन तस्य कर्मादिज्ञानंतदनुष्ठानादिविरोधित्वासम्भवाच ॥ ४२ ॥ उपगच्छन्ति हि प्रत्युत
गोत्वादिविषयकनिर्विकल्पकज्ञान गवादिविशिष्टज्ञानहेतु तान्त्रिकाः ॥ ४३ ॥ तस्मात्परविद्यायाः
कर्मानुष्ठानासहिष्णुत्वबलेनात्रत्यविद्याशब्दस्यााचीनदेवताविज्ञानपरत्ववर्णनमुपनिषत्तत्त्वार्थापरिज्ञानमू -
लकोलाहल एवेति सिद्धम् ॥ ४४ ॥ उपनिषत्स्वरूपपर्यालोचने तु प्रथमतः परविद्योपदेशमेवोप-
ऋम्य तदङ्गतयैव द्वितीयमन्त्रे ---'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः इत्यादिना यावज्जीव
कर्मानुष्ठानमवश्यं कर्तव्यं विधाय ततो विद्याकर्मणोरेकैकमात्रानुष्ठानेचानिष्टावाप्तिमप्यभिधाय तत एव
हेतोरुभयोरेवाऽऽप्रयाण सहानुष्ठेयत्वं 'विद्या चाविद्या च यस्तद्वेदोमयं सह' इत्यनेनाभिधीयत इति
स्पष्टमेव विज्ञायते ॥ ४५ ॥ अनेकमन्त्रेषु ब्रह्मणोऽनेकेषा कल्याणगुणानामसकृवर्णनेन विद्यापि ताह-
शकल्याणगुणविशिष्टब्रह्मासकृदनुसन्धानरूपा यावत्पुरुषार्थप्राप्त्यनुदिनमनुवर्तनीयैवचाभिमताऽवग-
भ्यते, न तु कादाचित्कवाक्यार्थज्ञानमात्ररूपेत्यपि स्पष्टम् ॥ ४६ ॥ तदिद सर्वमभिसन्धायैव हि
'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति 'विद्यां चाविद्यां च यस्तद्वदोय सह' इति
चेयमुपनिषदुद्धोषयति ॥ ४७ ॥ तस्मादङ्गाङ्गिभावेनाविद्याशब्दितं वर्णाश्रमादिधर्मलक्षणं विद्योदयो-
पचयहेतुभूतं कर्म अनेककल्याणगुणविशिष्टब्रह्मासकृदनुसन्धानलक्षणविद्याचेत्युभयं यावदायुषंयथाधि-
कारमहरहरनुष्ठेयमित्येवोपनिषदभिमतमिति सिद्धम् ॥ ४८ ॥ अत एव च सूत्रकारेण भगवता बाद-
रायणेनापि 'आवृत्तिरसकृदुपदेशात् ' ॥ ४ ॥ १ ॥ १॥ अप्रयाणात्तत्रापि हि दृष्टम्
॥ ४ ॥ १ ॥ १२ ॥ इति सूत्राभ्यां विद्यास्वरूपस्यासकृदनुसन्धानरूपत्वमाप्रयाणादहरहरनुवर्तनी.
यत्वं चाभिहितम् ॥ ४९॥ 'अमिहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ' ॥ ४ ॥ १ ॥ १६॥ .
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ' ॥३॥ ४ ॥ २६ ॥ 'सहकारित्वेन च' ॥ ३ ॥४॥३३॥
इति सूत्रवर्णाश्रमादिधर्मलक्षणकर्मणां विद्योदयहेतुत्वमहरहरभ्यासाधेयातिशयाया विद्याया अनुन-
हार्थमाप्रयाणादनुष्ठेयत्वरूपं तत्सहकारित्वं च प्रस्फुटमेव दर्शितम् ॥ ४९॥ तस्मादेतद्विरुद्धवादो
वादिना यथावस्थितशास्त्रार्यानवबोधमूलकोलाहल एवेति सिद्धमित्यलं बहुना ॥ ५० ॥
.
-
ईशावास्येत्युपनिषदिय वाजिनां संहितान्त-
स्साझा वर्णाश्रमनिगदितैः कर्मभिब्रह्मविद्याम् ।
आतन्वन्तादनदिनविनिष्पादनीयाम्मुमुक्षोः
कैवल्येच्छामपि विजहतः प्राह कैवर्यदां च ॥ ५१ ॥
मं-१८.] भाष्यत्रयोपेता. व्याख्यानव्यक्तसारामुपनिषदमिमां खरमास्वादयन्तोऽ- मन्दानन्दा भवेयुस्सकलसुमनसो वर्जयित्वा कुदृष्टीन् । सारासारानभिज्ञानित करटगणानिम्बवृत्तीन्विहाय ज्ञातास्वादा वमन्तागमफलभरितामाम्रवन्या पिकाघौः ॥ ५२ ॥ भिन्नत्व पारमार्थं द्वयमपि जगतो नेष्यते यैः परस्मा त्तेषां कण्ठेगडुस्सन् ऋकचति हृदये चापि वेदान्त एषः । यो ब्रह्म प्राह चेशं तदितरदाखिल चापि तस्येशितव्य प्रव्रते भोग्यभोगोपकरणविधया शेषभावैकशीलम् ॥ ५३॥ a आध्यात्मिक्यां सरण्या मम हृदयरथं स्वामियन्वश्वरूपाः श्रीशः श्रीभाष्यकारो भुवनगुरुवरो रम्यजामातृयोगी । सजास्सञ्चारयन्तो व्यदधत दृढसङ्घट्टितप्राच्यलेखा निर्बाधां पद्धति ता विहरणरसिका निर्विशङ्क श्रयन्ताम् ॥ ५४ ॥ ब्रह्मायुरुत्तरार्धे श्रीश्वेतवराहकल्प आयेऽस्मिन् । वैवस्वताख्यसप्तममन्वन्तरगे चतुर्युगे चलति ॥ ५५ ॥ अष्टाविंशे च कलौ वसुगगनव्योमबाणसङ्खयायाः । परिपूरणे पराभववर्षे ऽर्के मिथुनभाजि नवमदिने || ५६ ॥ श्रीमद्वेङ्कटशैलश्रीमदनन्तार्यसिंहपीठस्थः । ईशावास्योपनिषद्भाष्यं श्रीरङ्गसूरिरातनुत ।। ५७ ।। इत्यष्टादशमन्त्रव्याख्यानम् ॥ १८ ॥ ॥ ईशावास्योपनिषद्भाष्यं समाप्तम् ॥