S.P College, Srinagar
Shri Vedantasiddhanta Sangraha
Front matter
Pratap
College
TO THE READER
KINDLY use this book very carefully.
If the book is disfigured, marked or written
on while in your possession the
the book will
have to be replaced by a new copy or
paid for. In case the book be a volume of
a set of which single volume is not available
the price of the whole set will be realised.
3 EGBG
Sri
SRINAGAR
LIBRARY
Class No
Book No.
Accession No.
No text on this page.
No text on this page.
12 312 84 28 1912. January. THB 360 CHOWKHAMBA SANSKRIT SERIES; A COLLEOTTON OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 169. वेदान्तसिद्धान्तसंग्रहः। Registered According to Act XXV of 1867. ( ALL RIGHTS RESERVED. ) श्रुतिसिद्धान्तापरनामकः। श्रीब्रह्मचारिवनमालिमिश्रविरचितः । दैताद्वैतदर्शनानुगतः। तदर्शनीयतात्पर्य्यकतत्कृतपद्यकदम्बव्याख्यानरूपः श्रीयुत- कान्यकुब्ज कवीन्द्रवर-दुःखभञ्जनशर्मतनूजनुषा- साहित्यसाङ्खयोगाद्यनेकशास्त्रध्यापकेन- देवीप्रसादशर्माकविना संशोधितः। VEDÂNTASIDDHÂNTASANGRAHA, WITH A COMMENTARY ŜRI BRAHMACH Â RI BANAMÂLI MISRA, Edited by Devi Prasad Sarma Kavi, BY PASCICULUS I. PUBLISHED AND SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT BOOK-DEPOT. BENARES. .AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAMA MUKUNDAJI BOMBAY: PROBSTHAIN & Co., BOOKSELLERS, LONDON. Printed by Jai Krishna Dasa Gupta, AT THE VIDYA VILASA PRESS BENARES. Price Rupee one. INS! RS, Srinagar, INT, GHULAM !! DRS & PUBLTS 31286 Recei rost Class श्री आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽकितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबकः-१६९ " D १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकःस्तवको मुद्रयित्वा प्रकाश्यते। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरण धर्म- शास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै- देयं वार्षिकमग्रिम मूल्यम्-मुद्राः ७ आणकाः ८ ५ अन्यैर्देयं प्रतिस्तवकम् ६ प्रापणव्ययः पृथग् नास्ति । ७ साम्प्रतं मुद्यमाणा ग्रन्थाः- मुद्रिताः स्तबकाः (१) संस्काररत्नमाला । गोपीनाथभट्टकृता (संस्कारः) २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (व्याकरणम् ) १० (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया १० व्याख्यया सहितम् । सम्पूर्णम् । (४) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैतदर्शनप्र- करणम् । श्रीमल्लोकाचार्यप्रणीतम् । श्रीनारायण (वेदान्त)२ तीर्थ विरचित भादृभाषा प्रकाशसहितम् । सं० (१) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) १ (६) भादृचिन्तामणिः । महामहोपाध्याय- श्रीगागाभट्ट विरचितः। तर्कपादः । (मीमांसा) २ Estereno Sri Norwap i serisini | Srinagar श्रीहयग्रीवाय नमः। ब्रह्मचारिश्रीवनमालिमिश्ररचितः श्रुतिसिद्धान्तापरनामा वेदान्तसिद्धान्तसंग्रह दैताबैतदर्शनानुगतः तदर्शनीयतात्पर्य्यकतत्कृतपद्यकदम्बव्याख्या- नरूपः। श्रीगणेशाय नमः॥ गोप्या बद्ध उलूखले निजवशो ध्यायन्न नीति निजा- मिच्छन् रक्षकमात्मनश्चपलग् बन्धं विमोक्तुं द्रुमौ ॥ योऽभाजीदृषिभाषितं प्रविदधद्ब्रह्मादिभिः केवलं- चित्तेनैव विशोधितेन विदितोऽव्यानन्दसूनुः स नः ॥१॥ श्रीमद्भाष्यकृतो वन्दे टीकाकृतस्तथा सतः । तदुच्छिष्टं हि संगृह्णन् गच्छेयं पूज्यतां सताम् ॥ २॥ संग्रहेणोदिता येऽर्थाः कारिकाभिः सतां मुदे । वैशयं क्रियते तेषां सुवोधाय हि कौतुकात् ॥ ३॥ नत्वा श्रीगुरुपादाजं क्रियते वनमालिना । सन्तोषाय मुकुन्दस्य श्रुतिसिद्धान्तसंग्रहः ॥ ४॥ अथ निर्विघ्नग्रन्थसमाप्तिकामनया कृतं विशिष्टेष्टदेवतास्मरण- रूपमङ्गलं शिष्यशिक्षायै ग्रन्थादौ निवध्नाति श्रीरचलोरसि भाति यदीये गीर्वदने प्रचकास्त्यनवद्या। ब्रह्मशिवेन्द्रमनोभिरगम्यो वाजिमुखोऽवतु नः स हि विष्णुः॥१॥ श्रीरिति । अचला चापल्यादिदोषरहिता सती सदैव भाति, ब्रह्मा- दिभिर्ध्यायमाना सती देदीप्यते । गीभरती अनवद्या प्रमादादिदोष- , २ प्रथमोऽध्यायः । हीना स्वाभाविक्येव चकास्ति । प्रसादं विना ब्रह्मादिमनोभिरप्य- गम्यः विष्णुर्देशतः कालतो गुणतश्च परिच्छेदशून्यः ॥ १॥ ग्रन्थाधिकारिणमाह- अथ शमादिसंपन्नो माधवे भक्तिमान्सुधीः । इह चामुत्र भोगेषु विरक्तो गुरुभक्तिमान् ॥ २ ॥ अथेति । अथ स्वोचितनिष्कामकर्मणाऽन्तःकरणशुद्ध्यनन्तरं शमा- दियुतः शान्तो दान्तस्तितिक्षुरुपरतः समाहितो भूत्वाऽत्मन्येवात्मा- नं पश्येत् । आत्मनि मनसि आत्मानं हरिम् । माधवे भक्तिमान् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्वैव कथिता ह्याः प्रकाशन्ते महात्मन इति श्रुतेः। शब्दस्पर्शरूपरसादिभोगेषु एतल्लोकस्वर्गलोकादिभवेषु विरक्तः । तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते परीक्ष्य कर्मचितान् लोकान् ब्राह्मणो निर्वेदमायायादितिश्नुतेः॥२॥ नित्यानित्यविवेकी च मुमुक्षुर्भवपाशतः । जिज्ञासुः परमे तत्त्वे द्विजः शीलमहार्णवः ॥ ३ ॥ स्वरूपतो गुणतो देहतश्च नित्यो हरिरनित्यमन्यादति विवेकवान् भवपाशतः जन्ममरणादिरूपसंसारबन्धान्मोक्तुकामः परमे तत्त्वे जिज्ञासुः, द्विजः जातगर्भाधानादिसंस्कारः, शीलं विकर्मणि लज्जा तत्समुद्रः, विप्रं प्राप्य स्वाभीष्टं पृष्टवानित्यग्रिमेणान्वयः ॥ ३॥ गुरोर्लक्षणानि निर्दिशति । शमदमादिसंपन्नं वेदवेदाङ्गपारगम् । परसंशयच्छेत्तारं साक्षात्कृतेन्दिरापतिम् ।। ४ ॥ शमेति।शमेत्यादिना प्रमादादिराहित्यं, वेदेत्यादिना परबोधनसा- मर्थ्य, साक्षादित्यादिना शिष्यस्य ब्रह्मापरोक्ष्यसम्पादनसामर्थ्य, सूचितम् ॥ ४॥ परोपकारसर्वस्वं दयाकृतचेतसम् । सुमुखं सुभगं दक्षं विप्रं विविक्तसविनम् ॥ ५ ॥ परोपकारः सर्वस्वं धनं यस्यानेन विप्रलम्भकत्वादिदोषा था- ३ श्रुतिसिद्धान्तसंग्रहे रिताः। तत्र हेतुर्दयेति । सुमुखं प्रसन्नवदनं दक्षं संस्कृतभाषादिना शिप्यान् बोधयितुं प्रवीणं विविक्तसविनमव्यासक्तम् ॥५॥ एकान्ते च स्थितं प्राप्य प्रणिपत्य धियां निधिम् । स्वाभीष्टं पृष्टवान् धीरः सर्वभूतहिते रतम् ॥ ६ ॥ एकान्ते मोक्षमार्गानधिकारिजनशून्ये । स्वाभीष्टं मोक्षोपायम् ६ शिष्य उवाच कथं दुःखं मुखं च स्यात्कथं तद्द्यवर्जनम् किं पापं त्वथ पुण्यं च कुतस्तेषां समुद्भवः ॥ ७ ॥ दुःखादिकं वक्ष्यमाणम् ॥ ७॥ दुःखहेतूनाह- गुरुरुवाच दुःखदेन्द्रियभोगेषु संसक्तिर्गर्द्धनं धने । देहगेहादिसंसक्तिरहंममेतिबुद्धितः ॥ ८ ॥ दुःखदेति । ऐहिकामुष्मिकैन्द्रियिकभोगेष्वासक्तिः,देहगेहादावहं- ममतिबुद्धितो या संसक्तिः साच संसाररूपदुःखदा भवति । गर्द्धनं- सृष्णा तथा ॥८॥ तदर्थमेव स्पष्टयति- विदधाति रतिं यत्र यत्रानात्मनि मन्दधीः । व्यथयेद्धि तदेवेमं हृदये शूलमर्पितम् ॥९॥ विदधातीति । अनात्मनि स्वरूपपरेशाभ्यामुपदेष्टुश्च भिन्ने राति प्रीति, तदेव वस्तु इमं नरं हृदयेऽर्पितं शूलं यथा तथा व्यथयेत् । यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ यावतः कुरुते जन्तुः सम्वन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कव इति स्मृतेः ॥ ९ ॥ अथ सुखहेतून्निरूपयति-
20
प्रथमोऽध्यायः ।
अनिच्छा सर्वभोगेषु निःस्पृहत्वं धनादिषु ।
अहंममेतियुद्धेश्वाभावो देहगृहादिषु ।। १० ॥
अनिच्छेति स्पष्टम् ॥ १० ॥
सर्वानात्मस्वनासङ्गः सुखबीजं तदुच्यते ।
सर्वदुःखसुखानां हि पापं पुण्यं च कारणम् ॥ ११ ॥
अनासङ्गोऽनासक्तिः ॥ ११ ।।
पपमाह-
पापं वेदनिषिद्धं यद् विहिताकरणं तथा ।
विपरीतमनुष्ठानं सकामं कर्म चैव हि ॥ १२ ॥
पापमिति । वेदनिषिद्धं कलाभक्षणादिकं, विहितस्य सन्ध्या-
वन्दनादेरकरणं, विपरीतं ब्राह्मणादेर्विहितं प्रतिग्रहादिकं क्षत्रिया-
दिनाऽनुष्ठितं हि निश्चयेन पापं च पुनः सकामं कर्म पापमेव तज्ज-
नितफलभोगावसाने पर्यायेण दुःखस्यावर्जनीयत्वात् ॥ १२ ॥
पुण्यमाह-
विपरीतमितः पुण्यं यद्यत्स्याद्वरितोषकम् ।
हरितुष्टिः परं पुण्यं पापं तद्वर्जनं पुनः ॥ १३ ॥
विपरीतमिति । इत उक्ताद्विपतिं यद्यल्लौकिकं वैदिकं चानि-
षिद्धंभगवदर्पितं सद्धरितोषक तत्पुण्यमेव परं पुण्यं मोक्षाख्योत्कृष्ट-
फलहेतुत्वात् तद्वर्जनं हरितोषककर्माननुष्ठानम् ॥ १३ ॥
तयोर्वीजं हरेः शक्तिीवं प्रत्याणोति सा ।
जैवं पूर्णसुखं विष्णोधर्मान्स्वरूपमेव च ॥ १४ ॥
तयोः पुण्यपापयोर्वीजं प्रयोजिका हरेरधीनत्वात्तच्छक्तिरित्युच्यते
नेत्रयुक्ताङ्गुलिर्नेत्रं प्रति सूर्यमिव, जीवं प्रति विष्णोः स्वयोग्याशेष-
धर्मास्तत्स्वरूपं च जीवस्य पूर्णानन्दं मोक्षमाविर्भावणीयञ्चावृणोति,
अनाद्यविद्यया देहादावहमित्यादिधीस्ततः कर्मादौ ममेतिधीस्तत-
स्तत्फलभोगाय देहान्तरावातिस्ततः पुनःपुनर्देहान्तरमिति घटी-
यन्त्रवन्नीचोच्चयोनिषु परिभ्रमणमिति भावः ॥ १४ ॥
श्रुतिसिद्धान्तसंग्रहे
अविद्यायाः स्वरूपनिर्देशपूर्वकमनर्थहेतुतां प्रपञ्चयति प्रतिजी-
वमिति प्रयोदशभिः ।
प्रतिजीवं विभिन्ना स्यात्सत्या च भावरूपिणी ।
अतस्मिंस्तद्धियो हेतुर्निदानं जीवसंसृतौ ॥ १५ ॥
श्रवणमननादिजन्येन नियमादृष्टसहकृतेन भगवदापरोक्ष्येण
प्रसादद्वारकेण निवर्त्यत्वात्सत्या न हि मिथ्याभूतशुक्तिरूप्यादि-
निवृत्तौ शानभिन्नं नियमाष्टादिकमपेश्यते । अतस्मिन्ननात्मनि
देहादौ तद्धिय आत्मत्वधियो हेतुः वक्ष्यमाणसंसृतौ निदानं
प्रयोजिका । अत्रायं विवेकः, द्वे अविद्ये एकया जीवं प्रतीश्वर-
स्तद्धर्माश्चाब्रियन्ते,ऽन्ययाजीवपूर्णानन्द आच्छाद्यते,ईश्वरापरोक्ष्येण
प्रथमाया निवृत्तिस्ततो भगवन्महाप्रसादेन द्वितीयाया निवृत्तिः वि-
मुक्तश्च मुच्यत इति हविद्याद्वित्वे मानम् ॥ १५ ॥
सा सूते देहगेहादावहममेतिदुर्ग्रहम् ।
स्वातन्त्र्यज्ञानमाधत्ते जीवे परमदुःखदम् ॥ १६ ॥
सूते जनयति दुर्ग्रहं दुरभिमानमाधत्ते सम्पादयति अहं स्व-
तन्त्रः कर्तेति ज्ञानात्कर्मतत्फलसम्बन्धस्ततस्तद्भोगायोश्चनीचयो-
निप्राप्तिरिति स्वातन्त्र्यशानं परमदुःखहेतुः, हरिप्रेरणया देहादी क-
मोत्पचिर्नाहं स्वतन्त्रः कर्ता नमदीयं कर्म तत्फलं तथेति ज्ञानेनान्तः-
करणशुद्धिज्ञानभगवदापरोक्ष्यप्रसादस्ततो मुक्तिरिति भावः ॥ १६ ॥
सत्यायाः प्रकृतेः कार्य यदन्तःकरणादिकम् ।
तत्रोत्पन्नसुखादीनां चित्सम्बन्धार्जिका मता ॥ १७ ॥
चिति जीवे दुःखादिसम्बन्धसम्पादिका ॥ १७ ॥
तत्र दृष्टान्तमाह-
क्षेत्रोत्पन्नधनेन स्यात्पुरुषो धनवान भूः।
यथा वृक्षजदण्डेन पुमान् दण्डी भवेन सः॥ १८ ॥
क्षेत्रेति । यथा क्षेत्रजधनेन क्षेत्रं धनीति वृक्षदण्डेन च वृक्षो द-
ण्डीति च न व्यवहियते किं तु पुमानेव तथा व्यवहियते ॥ १८ ॥
प्रथमोऽध्यायः ।
दान्तिकमाह-
एवं बुद्धिजदुःखाद्यैः संसृष्टश्च भवेत्पुमान् ।
संसारी दुःखसंसर्गाज ज्ञानानन्दोऽपि सन्स्वतः॥ १९ ॥
एवमिति । स्वतः स्वभावाज शानानन्दस्वरूपोऽपि जीवोऽवि-
घासहकृतस्वामित्वादिसम्बन्धेन बुद्ध्युत्पन्नदुःखादिभिः संसृष्टः
सन् संसारी दुःखसंसर्गीति व्यवहियते ॥ १९ ॥
अनाद्यविद्यया देहे स्वीयत्वधीस्ततो भवेत् ।
क्रियमाणे विकर्मादौ हरिप्रेरणया तथा ॥ २०॥
अविद्यया देहेन्द्रियादौ स्वीयत्वधीस्ततो धीतोऽन्तर्यामिप्रेर-
णया क्रियमाणेषु कर्मसु तथैव स्वीयत्वधीस्ततः संसरणम् ॥ २० ॥
अविद्यासम्बन्धादेव जीवस्य संमृति स्फुटयति सम्बन्धइति
द्वाभ्याम् ।
सम्बन्धोऽस्याविद्यया स्वामितादि-
दुःखादेः स्यात्तां विना नास्ति जीवे ।
नातो मुक्ता ईश्वरा भुञ्जते त-
जीवन्मुक्ता भुञ्जते लेशतो वै ॥ २१ ॥
जीवस्यानन्दघनस्य यतोऽविद्यया विलक्षणस्वस्वामित्वादिः
सम्बन्धो भोगनियामको भवत्यतो
मुक्ता
अविद्यागन्धरहितास्तद्-
दुःखं न भुञ्जते तथेशोपि न भुङ्क्ते जीवन्मुक्तानामविद्यालेशसद्भा-
वाल्लेशतो भुञ्जते स्वप्नादुत्थितः क्षणं स्वाप्निकदुःस्वमिव वै प्रसिद्धो
जनकवशिष्टादीनां प्राकृतसुखस्य दुःखस्य च भोगस्ते हि जीव-
न्मुक्ताः सुप्रसिद्धाः ॥ २१ ॥
भोक्तुं तत्फलमागच्छेदधमोत्तममध्यमाः ।
पराधीनो नरो योनीरपूर्वा इव चानिशम् ॥ २२ ॥
तेषणं कर्मणां फलानि भोक्तुमधमादियोनीरागच्छेत् प्राप्नुयादेव
पराधीनः कर्मतन्त्रः पर्यायेण तज्जातीया योनयो वहुवारं प्राप्ता-
अविद्यया विस्मरणशालित्वादपूर्वा इव ताः प्रामोति अनिशमाप्रलय-
म्, आमुक्ति च निरन्तरं योनिषु भ्रमति ॥ २२ ॥
७ श्रुतिसिद्धान्तसंग्रह नन्वन्तःकरणोत्पन्नदुःखादिना कथं जीवोदुःखीभवेदित्यत आह- पुत्रवान्धवमित्रादेर्दुःखित्वे दुःखिता स्फुटा । दृश्यते कुधियां लोके तथा जीवस्य भोजनम् ॥ २३ ॥ पुत्रेति। यथा पुत्रादिवभिनिवेशात्तद्दुःखादिना पित्रादेर्दुःखित्वं स्फुटं दृश्यते तथाऽन्तःकरणादावविद्यया संपादितसम्बन्धेन जीव- स्यान्तःकरणोत्पन्नदुःस्वादिभोगः ॥ २३ ॥ यथा दुर्जनसंसर्गात्साधुर्दुर्जनां व्रजेत् । दुष्टपुत्रस्य संवन्धात्पिता दुष्टो भवेद्यथा ॥ २४ ॥ स्पष्टम् ॥ २४॥ द्रवत्वं बग्निसंयोगात्ताम्रादौ जायते यथा । मादकद्रव्यसंबन्धाद् मत्तता जायते यथा ॥ २५ ॥ स्पष्टम् ॥ २५॥ अस्वाभाविक एषां धन्यथा भावो न च स्वतः । तथाऽविद्याऽऽदिसंबन्धाद्वास्तवी जीवसंमृतिः ॥ २६ ॥ संसृतिर्जन्ममरणादिलक्षणा,ऽविद्याऽऽदिसम्बन्धात्पूर्णानन्दघन- स्यापि जीवस्य भवति न तां विना ॥ २६ ॥ विष्णुभक्तिवैमुख्यमेव मुख्यं संसृतिवीजमित्याशयेनाह- आर्द्रा विष्णौ भक्तिवैमुख्यदृष्टयाऽ- जाऽविद्या भूरस्य सूतेऽभिमानम् । देहादिष्वस्माद्भवेद् दुःखदुःख- पूर्णानन्दस्यापि जीवस्य सत्यम् ॥ २७ ॥ आईति। अजानाधाविद्याभूमिहरिभक्तिवैमुख्यरूपमेघेन सिक्का सती अस्य देहादिष्वहंममेतिदुरभिमानं सूते जनयति, अस्मादभिमा- नाद् आनन्दस्वरूपस्यापि जीवस्य सत्यमेव दुःखाद् दुःखं नीचोच्च- योनिप्राप्तिः तत्रत्यदुःखानुभवरूपं संसरणं भवति न तु जपापुष्प- लौहित्यं स्फटिक इवान्तःकरणनिष्ठं जीवे दुःखादिकमारोपितं तथा
८
प्रथमोऽध्यायः ।
सति जोवे दुःखित्वादिवोधकागमस्याप्रामाण्यापत्तेः ॥ २७ ॥
सकामं सुकर्म कुर्वतां संसृतिमाह-
विष्ण्वनर्पितकर्मा ना सकामकर्मकृत्तथा ।
गच्छत्यूर्वं यथायोग्यं तत्कर्मफलभुक्तये ।। २८ ॥
विष्ण्विति । विष्णावनर्पितानि कर्माणि येन स यथा सकामकर्म
कृत्वा पुमान् स्वकर्मानुसारेणोल महर्लोकादिकं प्रति गच्छति ॥२८॥
ननु स्वर्गादिभोगस्य पुरुषार्थत्वात्तदर्थमेव कर्म कार्य, किं हरिभ-
क्तया तत्राह-
नाममात्रं सुखं तत्र दुःखप्राचुर्यमेव तु ।
स्पर्दाऽसूयादिमात्सर्य स्यात्तुल्यातिशयादिषु ॥ २९ ॥
नामेति । स्पर्धा परोत्कर्षासहिष्णुत्वम् असूया गुणेषु दोषा-
विष्करणं मात्सर्यादयोऽत्यन्तदुःखहेतवः तुल्यादिविषयका जाय-
न्ते ॥ २९ ॥
कामक्रोधादिसम्पर्कः शोकमोहभयादिव ।
एवं दुःखसमूहेन पीडितः सुखलेशभाक् ॥ ३० ॥
स्पष्टम् ॥३०॥
ततः पातमाह--
अनुभूय सुखाभासं तत्रैन्द्रियिकमादरात् ।
तदन्ते पातितोऽनिच्छन् सुकृतस्य समापनात् ॥ ३१ ॥
अनुभूयेति । स्पष्टम् ॥ ३१ ॥
वेपमानः पतत्यर्वाङ् देवसञ्चालितः कुधीः ।
धूममधं ततो मेघमौषधीमन्नमेव च ॥ ३२ ॥
आकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रम्भवत्यभ्रं
भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षतीति दिव स्थाणून् गच्छति
स्थाणुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति च
श्रुतेः ॥ ३२॥
श्रुतिसिद्धान्तसंग्रह पराधीनोऽन्नमार्गेण पितरं प्रविशेततः । रेतोरूपेण गर्भे चाविशेद्दीनोऽवशान्नरः ॥ ३३ ॥ स्पष्टम् ॥ ३३॥ तत्र जन्मसहस्राणां स्मरणं जायते स्फुटम् । अतिदुःखी ततो दीनोऽधोमुखो हि शुचार्पितः ॥ ३४ ॥ प्रथमान्तानामर्वाङ्मुखश्चलेदित्यनेनान्वयः। तत्र गर्भे, ततः स्मरणादतिदुःस्त्रो शुचा शोकेनार्पितोव्याप्तः॥३४॥ चिन्तयन् स्वकृतं कर्म भयात्सञ्जातवेपथुः । सपज्ञो ह्येव विद्भोक्ता कृमिदंशनपीडितः ॥ ३५॥ सूकरादीनां विस्मरणशालित्वाद्विड्भक्षणे न दुःखमेतस्य स्मृति- शालित्वादतिदुःखमिति भावः ॥ ३५ ॥ मातृभुक्तोष्णतिक्तायैः सर्वाङ्गपीडितोऽवशात् । गर्भे स्वल्पावकाशे हि परितो जालसंवृतः ॥ ३६॥ स्पष्टम् ॥ ३६॥ चेष्टां कर्तुं न सामर्थ्य केवलोच्छ्वासचेष्टनः । नारकी शासनां स्मृत्वा भवेद् दुःखेन विहलः ॥ ३७॥ स्पष्टम् ॥ ३७॥ संस्मरमपि गोविन्दं न शक्तस्तस्य सेवने । सङ्कटान्मामितो नाथ दयासिन्धो विमोचय ॥ ३८ ॥ स्पष्टम् ॥ ३८ ॥ त्वामेवाराधयिष्यामि करिष्ये तव शासनम् । यतो मे पुनरेवं न भवेत् क्लेशपरम्परा ॥ ३९ ॥ यतस्तवाराधनात् ॥ ३९ ॥ सामर्थ्य नास्ति मे नाथात्र तवाराधने विभो । त्वत्कृतं ह्युपकारं न विस्मरिष्याम्यतः परम् ॥ ४० ॥ । २ १० प्रथमोऽध्यायः । स्पष्टम् ॥ ४०॥ एवं स प्रलपन्नातॊ हरिणा कालशक्तिना। प्रेरितेन हि वातेन प्रक्षिप्तोर्वाङ्मुखश्चलेत् ॥ ४१ ॥ प्रसूतिवातेन ॥४१॥ योनिद्वारं ततः प्राप्तः सनसर्वाङ्गविह्वलः । भुङ्क्ते तत्र व्यथा दीनः कोटिश्चिकदंशजाम् ॥ ४२॥ तत्र योनिद्वारे, सन्नानि पीडितानि सर्वाङ्गाणि यस्य ॥ ४२ ॥ अतिसूक्ष्मात्ततः मूच्या अग्रात्सूत्रमिवान्धधीः । योनिद्वारात्ततो भूमौ पातितो दैवतन्त्रतः ॥ ४३ ॥ ततस्तदनन्तरमतिसूक्ष्मात्सूच्यग्रात्सूत्रमिव ततो योनिद्वारा भूमौ पातितः, दैवमदृष्टं तदधीनः ॥ ४३ ॥ मूञ्छितो घटिकामानं लब्धसंज्ञः स्मरन्नथ । नानायोनिदकर्माणि कृतान्येवात्मना पुरा ॥ ४४ ॥ आत्मनैव स्वेनैव कृतानि ॥४४॥ आवृतोऽथ हरेः शक्त्या माययाऽहंममेति हि । जातदुष्टमतिर्मूढो सकृद्रौति स्वदिष्टभुक् ॥ ४५ ॥ रौति रुदिति, दिष्टं कर्मफलं तद्भुक् ॥ ४५ ॥ क चित् क्षुत्पीडितो रौत्यजीर्णादित्युच्यते जनैः । कफेन व्यथितः कापि पित्तकोपेन सांप्रतम् ॥ ४६ ॥ सांप्रतमधुना ॥ ४६ ॥ एवं नानाव्यथाजालैर्बाल्ये संपीडितोऽवशः । कौमारेऽपि तथा मूढः क्रीडनासक्तमानसः ॥ ४७ ॥ स्पष्टम् ॥४७॥ पौगण्डे शिक्षितो वृत्तौ पठनादौ निर्बलात् । यौवने कामतर्षाद्यैः शोकमोहभयादिभिः ॥
श्रुतिसिद्धान्तसंग्रहे ११ क्रोधेामत्सरायेश्च कुटुम्बैः पीडितो भृशम् ॥ ४८ ॥ स्पष्टम् ॥४८॥ - दारुणान्येव कर्माणि पापिष्ठः कुरुतेऽनिशम् । देवविप्रातिथीन् वाचाऽपि नाराधयति क चित् ॥ ४९ ॥ स्पटम् ॥४९॥ वार्द्धक्ये जरया ग्रस्तः सर्वाङ्गोद्भूतवेपथुः । पुरुषार्थोज्झितो मूढस्त्यक्तो बान्धवज्ञातिभिः ॥ ५० ॥ स्पष्टम् ॥५०॥ ग्रास भक्षयति श्वेव पतितो द्वारि मूढधीः । कफेनाबद्धकण्ठोऽपि देहं त्यक्तुं न चेच्छति ॥ ५१ ॥ आवद्धोऽवरुद्धः कण्ठो यस्य ॥५१॥ मनोराज्यासमाप्तौ हि यमदूताः समागताः । वध्यतां वध्यता पापी ब्रुवन्तो घोरदर्शनाः ॥ ५२ ।। स्पष्टम् ॥५२॥ पाशर्वद्धो नृशंसैस्तैस्ताड्यते मुद्गरैर्भृशम् । त्यक्तुं नोत्सहते देहं त्याज्यते तैः स निर्दयैः ॥ ५३ ॥ यं देहं त्यक्तुं नेच्छति, स तैस्त्याज्यते ॥५३ ॥ पाशैर्वध्वा ततो नीतस्ताड्यमानः पथि भ्रमन् । श्रान्तः क्षुत्तृट्परीतोऽसौ हन्यमानो दयोझितैः ॥ ५४ ॥ स्पष्टम् ॥ ५४॥ पतन्नुत्थापितो दीनो मुहर्तेनापितः पुरीम् । यमराजेन यत्पृष्टं स्वीकरोत्येव तद्भयात् ॥ ५५ ॥ आपितः प्रापितः॥ ५५॥ यमराजेन दत्ताहर्दयालेशोजझितैः यमैः ।
१२ प्रथमोऽध्यायः । विपाकं कर्मणां भोक्तुं नीतः संयमनस्थलम् ॥ ५६ ॥ स्पष्टम् ॥ ५६॥ सन्तप्तां वालुकाभूमिं प्राप्य सूर्यकरैर्भृशम् । तापितो दुःखदुःखी सन् भुङ्क्ते कर्मफलं शुचा ॥ ५७ ॥ शुचा शोकेन युक्तः सन् भुङ्क्ते ॥ ५७ ॥ कुम्भीपाकं सूचिकाद्वारमुग्रं खद्गाकारं रौरवं गृध्ररूपम् । तामिस्रादीन् घोररूपानुपेत्य भुङ्क्ते दुःखं दीनचेता ह्यजस्रम्॥५८॥ सूच्यग्रवद् द्वारं यस्य खगवदाकारो यस्यासिषत्रनामकं गृध्र- रूपं कुठाराकारचञ्चुभिध्राप्तमजस्रं निरन्तरं यावत्पापसमाप्ति भुङ्क्ते ।। ५८॥ भोगावसाने हि ततो नियुक्तो वृक्षादिकृम्यादिसरीसृपादीन् । ग्राम्यान्वनस्थांव पशू नुपेत्य भुङ्क्ते विपाकं निजकर्मणां सः ॥५९॥ मानुष्यं क्रमतः प्राप्तो यवनादिकुयोनिषु । पापं कृत्वा पुनर्गछेत्तादृशीमेव यातनाम् ॥ ६० ॥ ग्राम्यान् सूकरादीन् वनस्थान् सृगालादीन् ॥ ५९ ॥ ६० ॥ स्वधर्माचरणं तत्र निषिद्धस्य च वर्जनम् । कुर्याचेत् क्रमतो याति शूद्रत्वं वैश्यतां सुधीः ॥ ६१ ॥ तत्र यवनचाण्डालादियोनिषु हिंसास्तेयाद्यधर्म विहाय स्वोचि- तकटक्रियादिना जीविकां कुर्वन् तदेहान्ते शुद्रत्वं याति तत्र निषिद्धं- विहाय त्रिवर्णसेवादिना जीविकां कुर्वन् तदेहान्ते वैश्यतामेति॥६॥ क्षत्रियो विप्रतामेति ऋपिब्रह्मर्षितां ततः । पापकर्ता सकामो वा तमेवानर्थमाप्नुयात् ॥ ६२ ॥ भ्रमति ह्यनिशं मूढो घटीयन्त्रमिवावशः । अतः काम्यं निषिद्धं च दुःखवीजं त्यजेद् बुधः ॥ ६३ ॥ इति श्रीवनमालिविरचिते वेदान्तसिद्धान्तसंग्रहे श्रुतिसिद्धान्तसंग्रहे १३ जीवसंमृतिवर्णननामा प्रथमोऽध्यायः । वैश्यो निषिद्धं वर्जयन् स्वधर्मानुष्ठाता देहान्ते क्षत्रियो भवति, स निषिद्धं वर्जयन्स्वधर्मानुष्ठाता देहान्ते विप्रतां याति, विप्रो निषिद्धं- वर्जयन् स्वधर्मानुष्ठाता क्रमादृषित्वं महर्षित्वं याति, चेद् यदि पाप- कृत् सकामकर्मकृच्च भवेत् तर्हि ततो वर्णादाश्रमाच्च च्युतस्तमेव- प्रागुक्तमेवानर्थ प्राप्नुयात् ॥ ६३ ॥ इति प्रथमोऽध्यायः। शिष्य उवाच । कथं दुःखनिवृत्तिः स्यात्सुखं केनाप्नुयान्नरः । सुखं वा कीदृशं विद्वन् ब्रूहि मे तद्दयानिधे ॥१॥ दुःखनिवृत्त्युपापं सुखस्वरूपं तत्प्रात्प्युपापं च ब्रूहीत्यर्थः ॥ १॥ दुःखनिवृत्त्युपायमाह गुरुरुवाच । अविद्याया निवृत्तौ ह्यशेषदुःखनिवर्त्तनम् । सा स्यादीशप्रसादाद्धि स्वसुखं पूर्णलक्षणम् ॥ २ ॥ अविद्याया इति । साऽविद्याया निवृत्तिः ईश्वरमहाप्रसादाद्भवति ततस्तन्निवृत्त्यनन्तरं स्वीयं पूर्णसुखमाविर्भवति ॥२॥ शिष्य उवाच । प्रसादः केन जायेत स्वरूपं तस्य कीदृशम् । तस्य जन्म कथं वा स्यात्सुखजन्म कथं ततः॥३॥ केन हेतुना तत्स्वरूपम् । तस्य प्रसादस्य जन्म । ततः प्रसा- दात्सुखजन्म कयम् ॥ ३॥ प्रथमं निष्कामभगवदर्पितकर्माऽनुष्ठानमथान्तःकरणशुद्धिरथ ब्रह्म- जिज्ञासाऽथेहामुत्रभोगविरागपूर्वक गुरूपसदनमथ श्रवणमनननिदि- ध्यासनान्यथ ब्रह्मापरोक्ष्यं ततो महाप्रसादस्ततोऽविद्यानिवृत्तिरिति क्रमं वक्तुं प्रथमभूमिकामाह १४ प्रथमोऽध्यायः। गुरुरुवाच । प्राप्तो वै भारत खण्डं स्वधर्म ह्याचरन् बुधः । सेवते कर्मणा स्वेन निष्कामेन जनार्दनम् ॥ ४ ॥ प्राप्त इति । भारतं खण्डं आर्यावर्त्तादिकर्मभूमिम् ॥ ४ ॥ कर्मालेपाय तदनुष्ठानप्रकारमाह कर्मकारयितेशोऽतो मम कर्म न विद्यते । एवंवुद्ध्या कृतात्पुण्याज्जायते चित्तशोधनम् ॥ ५ ॥ कर्मेति। यतोऽन्तर्यामीश्वरः कर्मकारयिता तस्येदं कर्म न ममेति- धिया कृतेन कर्मणा चित्तशुद्धिर्भवति ॥ ५ ॥ ततः परमवैराग्योत्पत्तिमाह यथाऽङ्गारे प्रमादाद्धि पतितं चरणं पुनः। उत्थाप्य स्पष्टुमिच्छेन्न तं पादेनातिदुःखदम् ॥ ६ ॥ पतितमगारं पुनः स्प्रष्टुं नेच्छति ॥ ६॥ भुक्त्वा वान्तं यथाऽन्नं हि सुमिष्टम्पायसादिकम् । पुनर्भोक्तुं न वाञ्छन्ति महाक्षुधाऽर्दिता अपि ॥ ७॥ अर्दिताः पीडिताः ॥ ७ ॥ एवमैन्द्रियिक भोगं चेहामुत्रसमुद्भवम् । नेच्छेदोक्तुं विरागः स उत्तमः सुखसाधनम् ॥ ८ ॥ सुखस्य मोक्षस्य साधनम् ॥ ८॥ उक्तवैराग्ये हेतुमाह विषये दोषदृष्टिर्हि कर्मणा हरितोषणम् । मोक्षसाधनवैराग्यंभवेद्धतुरिदं द्वयम् ॥ ९॥ विषयइति । स्वोचितनिष्कामकर्मणा । पुंश्चल्यापऽहृतं चित्तं को नु मोचयितुं क्षमः । आत्मारामेश्वरमृते भगवन्तमधोक्षजमिति- श्रुतिसिद्धान्तसंग्रह १५ स्मृत्या विषयेभ्यो निर्वेदो भगवत्कृपयैव भवतीति स्पष्टमुकम्॥९॥ कीर्तनश्रवणायां हि विधातुं नवधा हरेः । भक्तिं सोऽथ गुरुं गच्छेत् श्रोत्रियं हि समित्करः॥१०॥ अथ वैराग्यानन्तरं श्रवणादिनवधाभक्तिशिक्षार्थ श्रवणमनननि- दिध्यासनार्थ च समित्पाणिः सन् श्रोत्रियं गुरुमभिगच्छति “स गुरु- मेवाभिगच्छेच्छ्रोत्रियं समित्पाणि"रिति श्रुतेः ॥ १० ॥ श्रवणं मननं कुर्यानिदिध्यासनमुत्तमम् । वाक्यार्थग्रहणं वक्राद् गुरोर्यत्सा श्रुतिर्मता ॥ ११ ॥ तद्विषयस्य हरेरुत्तमत्वादुत्तमं श्रुतिः श्रवणम् ॥ ११ ॥ मननं युक्तिभिश्चिन्ता श्रुतार्थस्य पुनः पुनः । श्रुतचिन्तितमेये स्यानिदिध्यासनमुत्तमम् ॥ १२ ॥ चिन्ता चिन्तनं, श्रुतं च चिन्तितं च यन्मेयन्तस्मिन् ॥ १२ ॥ अन्यार्थाविषयः पूरो ब्रह्माकारधियां सदा । निदिध्यासनशब्दार्थो जायते सुधियां हि सः ॥ १३ ॥ प्राक्श्रुतमतसदनन्तगुणविशिष्टभगवदाकारपरोक्षशानानां पूरः प्रवाहो निदिध्यासनं शोधितचित्तानां पुंसां हि जायते ॥ १३ ॥ श्रवणं मननं चाङ्गं निदिध्यासा प्रधानकम् । अश्रुते ह्यमते मेये न निदिध्यासनं भवेत् ॥ १४ ॥ हि यतोऽश्रुते युक्तिभिरनिश्चिते चार्थे निदिध्यासनस्मरणं ध्याना- धपरपर्यापं न भवत्यतः श्रवणमनने अङ्गे निदिध्यासनं प्रधानम्॥१४॥ ब्रह्माकारापरोक्ष्याणां श्रवणमनने विना । सम्भवः कापि नास्तीति तयोरङ्गत्वमीरितम् ॥ १५ ॥ एतदेव स्पष्टयति, ब्रह्मति । आपरोक्ष्याणां निश्चयरूपाणाम् । ई- रितं कथितम् ॥ १५॥ श्रवणायैर्विशुद्ध हि मानसे स्वेच्छया हरिः। -
१६
प्रथमोऽध्यायः ।
सम्प्रसन्नोऽपरोक्षः सन् भवेद्वन्धापनोदकृत् ॥ १६ ॥
कृपया प्रसन्नोऽपरोक्षश्च सन् बन्धं नाशयति अव्यक्तस्वभावोऽपि
कृपयाऽऽविर्भूय बन्धं नाशयतीत्यर्थः। आपरोक्ष्यं यद्यपि युद्धादौ दैत्या-
दीनामप्यस्ति तथापि तत्र प्रसादाभावान्न तेषां मुक्तिः श्रीकृष्णादि-
रूपं पश्यतां तदानींतनानां प्रीतिद्वेषादिहीनानां स्वयोग्याशेषगुणा-
परोक्ष्याभावान्न मुक्तिरिति तत्त्वम् ॥ १६ ॥
नन्धव्यक्तस्वभावस्य हरेः कथमापरोक्ष्यमतआह ।
आपरोक्ष्यं परोक्षस्य दृष्टं देवादिकस्य हि ।
गान्धर्वाभ्यासतो दृष्टं स्फुटं षड्जादिकस्य तत् ॥ १७ ॥
आपरोक्ष्यमिति । उपासनादिना देवादीनामापरोक्ष्यं गान्धर्वशा-
स्त्राभ्यासेन षड्जादीनामापरोक्ष्यमिव भवति ॥ १७ ॥
आपरोक्ष्यं मनोवृत्तिः स्वरूपात्मकमेव च ।
स्वरूपं मोक्ष एवास्ति जन्यज्ञानस्य वर्जनात् ॥ १८ ॥
मोक्षे स्वरूपभूतमेव शानमन्तःकरणाभावेन जन्यज्ञानासम्भ-
वात् ॥ १८॥
प्रागभावस्य यो भावो मानसस्यापरोक्ष्यतः ।
ब्रह्मगोचरकस्य हि सम्बन्धस्य विधायकः ॥ १९ ॥
ब्रह्मगोचरस्य वेदान्तवासितमनस्युत्पन्नस्यापरोक्ष्यस्य यः प्राग
भावस्तस्याभावो ध्वंसो ज्ञानतद्ध्वंसान्यतररूपो शानब्रह्मणोः सम्ब-
न्धः संसारदशायां नास्ति वेदान्तश्रवणादिवासितमनोजन्यापरो-
क्ष्योत्तरं च जायते ॥ १९ ॥
स्वपूर्णानन्दसम्बन्धः स्वावरकस्य शून्यता ।
संवृतिः प्रतिघातो हि सम्बन्धस्यार्थसंविदोः ॥ २० ॥
नित्यज्ञानरूपस्य जीवस्य पूर्णानन्दावरकाविद्याविशेषस्य शु-
न्यता नाशः सम्बन्धः, हरिप्रसादजन्याविद्याध्वंसोत्तरं स्वपूर्णान-
न्दो जीवेनानुभूयते, ततः प्रागीषदानन्दएवानुभूयते अर्थज्ञानयोः
सम्बन्धस्य प्रतिघातएव संवृतिरानन्दावरणम् ॥ २० ॥
श्रुतिसिद्धान्तसंग्रह १७ एतदेव स्पष्टयति प्रसादेनेश्वरीयेणाविद्याया भञ्जनं ततः। सुखं पूर्ण सैव मुक्तिरिहोच्यते ॥ २१ ॥ प्रसादेनेति । ततोऽविद्याभङ्गाद् निःशेषाविद्यानिवृत्तिपूर्वकस्व- पूर्णानन्दाविर्भाव एव मुक्तिः ॥ २१ ॥ नन्वीश्वरप्रसादस्य तदिच्छादिरूपस्य नित्यत्वात्सदैव मुक्तिः आविर्भूतं स्यात्तबाह नित्यस्यापीशप्रसादस्य जीवे सम्बन्धः सञ्जायते शुद्धभावे । ब्रह्मज्ञानप्रागभावस्य नाशोऽविद्याध्वंसः स्यात्ततः खल्वशेषम्॥२२॥ नित्यस्येति । शुद्धः कामनादिदोषरहितो भावो हरौ प्रेमल- क्षणो यस्य तस्मिन् हरिप्रसादसम्बन्धो जायते स वेदान्तश्रवणा- दिवासितचित्तोत्पन्नस्वयोग्याशेषविशेषविशिष्टभगवदापरोस्यरूपः खलु निश्चयेन, ततो जीवसम्बद्धप्रसादादशेषाविद्याध्वंसरूपो मोक्षः स्यात् ॥ २२॥ श्रवणादिभिरीशस्यानुष्ठितैश्चिरमादरात् । आपरोक्ष्यं भवेत्पुंसां स्वाधिकारानुसारतः ॥ २३॥ आदरेण पहुकालमनुष्ठितैः श्रवणादिभिः स्वापरोस्ययोग्याशेष- गुणविशिष्टेश्वरस्यापरोक्ष्यं भवति ॥ २३ ॥ हरेः सर्वगुणानामापरोक्ष्यं तु कस्यापि नास्तीति कैमुत्येनाह साकल्येन गुणान्स्वीयान जानाति हरिय॑तः । सञ्जानीयुः कुतोऽन्ये तांस्तथाऽसर्वविदो जनाः ॥ २४ ॥ साकल्येनेति।यतः सर्वशोऽपीशः स्वीयगुणसाकल्यं न जानात्यतः कुतोऽन्ये असर्वशा जना ज़ानीयुः साकल्यस्येयत्ताया हरिगुणेवस- त्वादतो न सार्वश्यहानिः, न हि खपुष्पमजानतोऽशेषज्ञत्वहानिः ॥२४॥ यावन्तो यस्य योग्याः स्युः तावज्ज्ञानात्स मुच्यते । आचार्यश्रवणादीनां प्राप्तिस्तस्य हि तादृशी ॥ २५ ॥ . ३ १८ प्रथमोऽध्यायः । ते हरिगुणा यावन्तो यदपरोक्षयोग्यास्तज्ज्ञानात्स मुच्यते, ताट- शक्षाने हेतूनां गुदीनान्तस्य पुंसः प्राप्तिः ॥ २५ ॥ ननु दृष्ट्वैव तंमुच्यत इति श्रुत्या ब्रह्मज्ञानस्यैव मोचकत्वोक्तःप्रसा- दस्य कथं मोचकत्वमतआह ज्ञानादेव भवेद् विष्णोः प्रसादो मुक्तिकारणम् । महानन्योऽन्यतोऽपि स्यात् मुक्त्यन्यार्थप्रदायकः ॥ २६ ॥ ज्ञानादिति । मोक्षहेतुमहाप्रसादो शानादेव, अन्योऽवान्तरप्र- सादोऽन्यतः कर्मादितोऽपि स्याद् मुक्त्यन्यपुमर्थस्य हेतुः तथा च दण्डेनैव घटः शङ्खः पाण्डुर पवेतिवदयोगव्यवच्छेदार्थक एवकारः न त्वन्ययोगव्यवच्छेदार्थकःव्रीहिभिर्यजेतेत्यत्र पुरोडाशद्वारा ब्राहीणा- मिव प्रसादद्वारा ज्ञानस्य मोक्षकारणत्वोपपत्तिः व्यापारेण व्यापा- रिणोऽन्यथासिद्धरसम्भवात् ॥ २६ ॥ "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष घृणुते तेन लभ्य” इति प्रसादस्य मोक्षहेतुत्वबोधिकां श्रुतिमुदाहरति अयमात्मा न लभ्यो ह्यध्ययनादिभिरीश्वरः। स्वीकरोति यमेवैष तेनैव प्राप्यते विभुः ॥ २७ ॥ मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् । स्वप्रसादस्य हेतुत्वं विमुक्ताववदद्धरिः॥ २८ ॥ अयामिति । मदीयोऽयं मां प्राप्नोत्विति स्वीकरोति ॥ २७ ॥ २८ ॥ तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद् ब्रह्मतरोरनन्तानिःश्रेयसम्पकफलं प्रयायात्॥२९॥ एवं विक्षातो भगवाननादिः पुरुषोत्तमः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ इति च श्रीवैष्णवे प्रसादस्य हेतुत्वमुक्तम् ॥ २९ ॥ नन्वेकस्यैवेच्छादिरूपस्य प्रसादस्य कथमवान्तरप्रसादत्वादि- भेदस्तत्राह वैचित्र्यात्साधनादीनां स्यात्सम्बन्धविचित्रता ।
१९ श्रुतिसिद्धान्तसंग्रहे एकस्यापि प्रसादस्य वैचित्र्यं व्यपदिश्यते ॥ ३० ॥ वैचित्र्यादिति । श्रवणादिसाधनवैचित्र्याजीवे प्रसादसम्बन्धवै- चित्र्यम्, अतः सम्वन्धवैचित्र्यादेकस्यापि प्रसादस्य वैचित्र्यमुपप- घते ॥ ३०॥ गुणतः कालतो देशतोऽपरिच्छिन्नता हरेः। तदुपासनया ज्ञानाद्धरेः प्रसन्नता हि या ॥ ३१ ॥ गुणतोऽपरिच्छिन्नत्वमसंख्यातालौकिकगुणपूर्णत्वं, कालापरि- च्छिन्नता प्रागभावध्वंसाप्रतियोगिस्वरूपदेहादिकत्वं, देशापरिच्छि- नत्वं सर्वदेशव्यापकत्वं, तस्य हरिनिष्ठानन्त्यस्योपासनया या हरेः प्रसन्नता ततो भवेदित्युत्तरेणान्वयः ॥ ३१ ॥ ततः सद्यः क्रमात्स्याद्वार्चिरायध्वनि गच्छताम् । विरजादिमपारं हि गतानां शुद्धचेतसाम् ॥ ३२ ॥ अर्चिरादिमार्गेण गच्छतां स्वभावतः सदा शुद्ध हरौ चेतांसिये. षां तेषामशेषेणाविद्याया ध्वंसः सद्य इत्युत्तरेणान्वयः ॥ ३२ ॥ श्रीवैकुण्ठादिलोकस्थं पश्यतां श्रीहरिं मुदा । अविद्याया अशेषेण ध्वंसो योग्यतया स्फुटम् ॥ ३३ ॥ मुदा पश्यताम् । स्वयोग्यतया स्फुटं पूर्णानन्दलाभइत्युत्तरेणा- न्वयः । आदिना श्वेतद्वीपानन्तासनादिपरिग्रहः ॥ ३३ ॥ स्वपूर्णानन्दलामो हि स्वेच्छया विग्रहस्तथा । क्रीडन्ति स्वेच्छया तत्रान्यत्रापि व्यापके हरौ ॥ ३४ ॥ तत्र लोकेऽन्यत्रापि जले मत्स्या श्व व्यापकेऽपरोक्षीभूते हरावेव परमानन्दतुष्टाः सन्तः स्वेच्छया विग्रहं गृहीत्वा तं विनैव स्वरूपसा- मयेनैव वाऽऽनन्दोद्रेकात् क्रीडन्ति न त्वप्राप्तसुखप्राप्तये तेषां जन्य- सुखाभावात् ॥ ३४॥ सरिदब्धितडाकादेः पूर्णत्वं निजमानतः। यथैवं विष्णुजीवानां पूर्णत्वेन हि तुल्यता ॥ ३५ ॥ + २० प्रथमोऽध्यायः । सरिदादीनां यथा स्वपरिमाणानुसारेण सर्वेषां पूर्णत्वम्, एवं ब्रह्मजीवयोर्जीवानां च परस्परं तारतम्येऽपि स्वयोग्यतानुसारेण पूर्णत्वेन तुल्यत्वम् ॥ ३५ ॥ तेषां क्रीडा हरिसेवा चानन्दोद्रेकादेव न तु सुखप्राप्तय इत्याह क्रीडा सेवा तथा विष्णोर्यत्रैषामुच्यते श्रुतौ । आनन्दोद्रेकतः सर्व न त्वानन्दविवृद्धये ॥ ३६ ॥ कीडेति।प्रसिद्धाहि बालोम्मत्तादीनामानन्दोद्रेकतः क्रीडा॥३६॥ आनन्दोद्रेकतो विष्णोर्यथा सृष्टयादिचेष्टनम् । तथा मुक्तचिता क्रीडा न त्वानन्दविवृद्धये ॥ ३७ ॥ मुक्तचितां मुक्तजीवानाम् ॥ ३७ ॥ सदृष्टान्तं तेषां पूर्णत्वमाह यथा पूर्णे जलैः कुम्भे न जलान्तरमिष्यते । तथाऽऽनन्देन पूर्णानां न सुखान्तरवाच्छनम् ॥ ३८ ॥ यथेति । पूर्ण कुम्भं पूरयितुं पुम्भिर्जलान्तरं नेष्यते यथा, तथा स्वयोग्यतानुसारात्पूर्णैर्मुक्तैः सुखान्तरं न वाञ्छ्यते ॥ ३८ ॥ व्यापकः सर्वभूतानां यद्यपीश्वर इष्यते । आपरोक्ष्यं तदीयं हि योग्यानामिह जायते ॥ ३९ ॥ आपरोक्ष्ययोग्यानां भक्तानां स्वयोग्याशेषविशेषविशिष्टब्रह्माप- रोक्ष्यमिहैवास्ति ॥ ३९ ॥ तथाऽपि श्रोतवाक्यानां स्वारस्याद् गतिरिष्यते । अत्राप्राप्तस्य नो लब्धुं प्राप्तो हरिरिहैव तैः ॥ ४० ॥ मुक्तानां गमनयोधकश्रुत्यनुसारादेव तेषां गमनं न विहाप्राप्त पुरुषार्थप्राप्तये सर्वव्यापकहरिप्राप्तेरत्रैव संभवात् ॥ ४० ॥ चिदत्रैव चित् क्षीरजलोदधौ के चिद्वै सत्यलोकादावन्तरिक्षे हि के चन ॥ ४१ ॥ के मुच्यन्ते के श्रुतिमिद्धान्तसंग्रहे २१ एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षत् क्रीडन् रममाण इति गमनश्रु- तेः, तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना इत्यादिस्मृतेः, तस्य प्राणा नोक्रामन्ति इहैव लीयन्त इत्यगमनश्रुत्या सहाविरोधमधि- कारिभेदेनोपपादयति के चिदत्रै मुच्यन्ते नोक्रामान्ति कदाचन । अत्रैव च स्थितिस्तेषामन्तरिक्षे तु के चन । के चित्स्वर्गे महलोंके जने तपसि के चन । के चित्सत्ये महाज्ञानाद् गच्छन्ति क्षीरसागरम् । तत्रापि क्रमयोगेन शानाधिक्यात्समीपगाः। सालोक्यं च स्वरूपत्वं सामीप्यं योग एव च । रमामारभ्य सर्वत्र यावत्सु क्षीरसागरम् । पुरुषोऽनन्तशयनः श्रीमानारायणाभिधः । मानुषा वर्णभेदेन तथैवाश्रमभेदतः। क्षित्यां मनुष्या गन्धर्वा देवाश्चापि तिरश्चराः । आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः । रुद्रो ब्रह्मोति क्रमशस्तेषु चैवोत्तमोत्तमाः । नित्यानन्देन भोगेन ज्ञानेश्वर्यगुणेषु च । सर्वे शतगुणोद्रिकाः पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चापरैस्ते तु सर्वपूज्यश्चतुर्मुखः । त्रिजगद्यापतिस्तेषां पूर्ववत्समुदीरिता। स पुनः परमात्मानं प्रविश्य च बहिर्गतः। चिद्रूपान्प्राकृतांश्चापि विना भोगांश्च काश्चन । भुखते मुक्तिरेवैषां विस्पष्टा समुदाहृतेति । पशरात्रादिस्मृतावयमर्थः स्पष्टः।मानुपादिस्वरूपाःस्वयोग्यतया पूर्णा गुरुशिष्यादिव्यवस्थया मुक्तास्तिष्ठन्ति प्राकृतान् भोगान् विना कांश्चिदलौकिकान् भोगान् भुञ्जते ॥ ४१ ।। संकल्पादेव तच्छुतेः, यदि पितृलोककामो भवति सङ्कल्पादेवा- स्य पितरः समुपतिष्ठन्ते तस्य सर्वेषु लोकेषु कामचारो भवतीति श्रुतिस्त्राभ्यां मुकानां भोगाः सङ्कल्पमात्रेण भवन्तीति प्रतिपादिमर्थ- संगृहाति
२२
प्रथमोऽध्यायः ।
संकल्पादेव भुञ्जाना भोगांस्तेऽलौकिकांश्चितः ।
प्राप्य देहं ततः स्वेन रूपेणैवाथवा चितः॥४२॥
सङ्कल्पादिति । ते मुक्ता अलौकिकांश्चितश्चिद्रूपान् भोगान्
ततः सङ्कल्पादेव स्वरूपभिन्नं देहं प्राप्य स्वेनैव चिता चिद्रूपेण
वा भुञ्जते स एकधा भवति द्विद्या त्रिधा भवतीति श्रुतेन हि देह-
विना द्विधादिभवनं न सम्भवति, अशरीरो वाव तदा भवत्य-
शरीरं वाव सन्तं तु प्रियाप्रिये न स्पृशत इति श्रुतेः ॥४२॥
पापाभावो ह्यशेषेण सुकृतस्य परे हरौ ।
विनाशोऽनर्पितस्यैवास्त्यर्पितस्याक्षयं फलम् ॥ ४३ ॥
हरावनर्पितस्यैव सुकृतस्य नाशः “अनन्वागतं पुण्येनानन्वागतं-
पापेने"त्यादिश्रुत्या वोध्यते स य आत्मानमेव लोकमुपास्ते तदाऽस्य
कर्म क्षीयत इतिश्रुतेः ॥ ४३ ॥
ब्रह्मज्ञानादघस्यैव नाशादिर्हरिणोदितः ।
पापस्यैव विनाशोक्तिर्वेदे स्पष्टं हि वर्त्तते ॥ ४४ ॥
तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशादिति हि
सूत्रम् । ब्रह्माधिगमे पूर्वाधविनाशे उतरस्यासम्बन्ध इति तदर्थः ।
तद्यथा पद्मपलाशआपो न श्लिष्यन्ते एवं विदि पापं कर्म न मिल.
प्यते, तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः
प्रदूयन्ते इतिश्रुत्या पापस्यैव नाश उक्तः । ज्ञानाग्निः सर्वकर्माणि
भस्मसात्कुरुतेऽर्जुनेत्यादिवाक्यानामुक्तश्रुतिसूत्रानुसारात्सकामसु-
कृतदुष्कृतनाशपरत्वं व्याख्येयं,नाभुक्तं क्षीयते कर्म कल्पकोटिशतै-
रपीति तु प्रारब्धकर्माभिप्रायम्, प्रारब्धस्य भोगेनैव नाशो न
शानादिना ॥४४॥
भुव्यन्तरिक्षस्वर्गवैकुण्ठादिषु ये मुक्ता विहरन्ति ते स्वयोग्यतया
सर्वे पूर्णानन्दा एवेत्याह
पूर्णानन्दाः सदा सर्वे स्वाधिकारानुसारतः ।
मोक्षदाता परेशो हि सर्वत्र व्यापको विभुः ॥ ४५ ॥
श्रुतिसिद्धान्तसंग्रह २३ पूर्णेति । तेषां लोकान्तरगमनं नाप्राप्तप्राप्तार्थमविद्यानिवृत्त्यर्थ वा किन्तु तेषां तथैवाधिकार इत्याह मोक्षति ॥ ४५ ॥ एतदेव स्पष्टयति तथैवोपासितस्तेन साक्षात्कृतस्तथा हरिः । तथा मोक्षप्रदाता स्यात्स्वयोग्यताऽपि तादृशी ॥ ४६ ।। तथेति । तथैव तत्तल्लोकस्थः तत्तद्गुणविशिष्ट उपासितः सा- क्षात्कृतस्तथैव तेषां योग्यतानुसारान्मुक्तिं प्रयच्छति हरिः॥४६॥ स्वान्तःस्थाया हरेर्मूर्तेरापरोक्ष्यं विमुक्तये । अपेक्ष्यं तद्विना मुक्तिर्न सर्वेषां सतां क चित् ॥ ४७ ॥ स्वान्तःस्थिताया भगवन्मूर्तेरापरोक्ष्यं मुक्तये सर्वेषां सताम- धिकारिणामपेक्ष्यते तद्विना रूपान्तरापरोक्ष्येऽपि न कस्यापि मुक्तिः अत एवावताररूपाणि पश्यतामपि केषाञ्चित्तदनुक्तिः । अवताररूपो- पासकानामपि स्वान्तस्थतया आपरोक्ष्यादेव मुक्तिः । आत्मन्येवा- त्मानं पश्यदिति श्रुतेः॥ ४७ ।। स्थानभेदेन सद्योमोक्षक्रममोक्षावाह अन्तःस्थस्य हरेनिं व्यापकत्वेन मुक्तिदम् । सद्योऽन्यथा क्रमात्तद्दमीषद्विलम्बतो नृणाम् ॥ ४८ ॥ अन्तरिति । अन्तःस्थस्य व्यापकत्वेन ज्ञानं सद्यो मुक्तिदम् अन्यथा परिच्छिन्नतया शानं क्रमात्तई मुक्तिदं तदपीषद्विलम्वेन । यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवतीति श्रुतेः । कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । सर्वकार्याणां प्रलये स्वाध्यक्षेण स्वामिना चतुर्मुखेण सह, अतश्चतुर्मुखात्परंगच्छति।सो- ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ब्रह्माणमभिप्राप्य यदै- तद्विलीयतेऽथ सह व्रह्मणा परमभिगच्छतीति श्रुत्याभिधानादित्यर्थ- कात् सह युगपद् ब्रह्मणा ब्रह्मणो मुक्तिकाले स्वयोग्यान्सर्वान्कामान- खत इत्यर्थः। ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरम् । परस्यान्ते परात्मानं प्रविशन्ति परं पदमिति स्मृतश्च २४ प्रथमोऽध्यायः । एतस्माच्छरीरभेदात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणा- भिनिप्पद्यत इति देहत्यागाव्यवहितोत्तरमोक्षोक्तः सद्योमोक्षोऽपि सिद्धः चितिमात्रेण तदात्मकत्वादित्यौडुलामिरिति सूत्रात् । सर्व- घाव तदा चित्परित्यज्य चिन्मात्र एष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षत इति श्रुतेश्च केषाञ्चिन् मुक्तानां स्व- रुपभिन्नदेहाभावेऽपि स्वरूपेणैवानन्दानुभवलक्षणो भोगः, प्रागुक्तरी- त्या केषाञ्चित्सङ्कल्पादेव स्वरूपभिन्नदेहोपि न तु देहाधीन एव तेषां भोगस्तद्भागस्य स्वरूपानन्दत्वात् ॥ ४८ ॥ अर्चिरादिगतिं यान्ति ये के चित्साधवो नराः। नावर्त्तन्ते पुनर्मर्ये लोके सिद्धिं परां गताः॥ ४९ ॥ न स पुनरावर्त्तते न स पुनरावर्त्तते तयोर्ध्वमायन्नमृतत्वमति ते प्रतिपद्यमाना इमं मानवमावर्त्त नावर्त्तन्त इत्यादिश्रुतेः तेऽचिरभि- सम्भवन्त्यर्चिषोऽहरह आर्यमाणपक्षमापूर्यमाणः पक्षाद्यान् बहुदड़े- ति मासांस्तन्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याश्चन्द्र- मसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतद् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तनावर्तन्त इति श्रुतेः ॥ ४९ ॥ स्मृतिमप्युदाहरति अग्नियोंतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥५०॥ अग्निरिति । तत्र तस्मिन् मार्गे प्रयाताःप्राप्ता ब्रह्मविदो जना ब्रह्म गच्छन्ति, उत्तरायणाभिमानिनो देवास्तेन मार्गण शानिनं नयन्ति न तु शानिनः कालनियमः ॥ ५१ ॥ धूममार्गगतानां तु पुनरावर्त्तनं पुनः । सकामाश्च घटीयन्त्रमिव भ्रमिः पुनः पुनः ॥ ५२॥ तेधूममभिसम्भवन्ति धूमाद्रात्रिरात्रेरपरपक्षमपरपक्षाद्यान् षड् द- क्षिणमेति मासांस्तानेतैः संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं- पितृलोकादाकाशमाकाशाश्चन्द्रमसं चन्द्रमस औषधं सोमो राजा श्रुतिसिद्धान्तसंग्रह २५ तहेवानामन्नं तं देवा भक्षयन्ति तस्मिन्यावत्सम्पातमुषित्वाऽथैतमेवा- ध्वान पुनर्निवर्त्तत इति श्रुतेः॥ ५१ ॥ उक्तार्थे स्मृतिमुदाहरति धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्चते ॥ ५२ ॥ धूमइति। दक्षिणायनाभिमानिनो देवास्तादृशाधिकारिणं तन्मार्ग- नयन्ति न तु कालनियमः॥५२॥ सिंहावलोकनेनाह परिच्छिन्नतया ये तमुपास्यैव विजानते । अपरोक्षतया विष्णुं स्वीययोग्यतया नराः ॥ ५३ ।। परिच्छिन्नति स्पष्टम् ॥ ५३॥ तत्मसादेन गच्छन्ति क्रमान्मुक्तिं नरोत्तमाः। अविद्याध्वंसपूर्वा हि स्वपूर्णानन्दलक्षणाम् ।। ५४ ॥ आविर्भूतस्वपूर्णानन्दरूपामित्यर्थः ॥ ५४॥ मुक्तिक्रममाह इन्द्रलोकादिकं प्राप्य भुक्त्वा चैन्द्रियिकं सुखम् । महर्लोकं जनं प्राप्तस्तपः सत्यं ततो बुधः ॥ ५५ ।। इन्द्रेति स्पष्टम् ॥ ५५॥ तत्र चाराधयन् भक्त्या परया माधवं सुधीः सदानन्दाप्लुतस्तिष्ठेद् दुःखलेशविवर्जितः ॥ ५६ ॥ परया सर्वोत्तमत्वधीपूर्वकाविच्छिन्नप्रेमप्रवाहरूपया ॥ ५६ ॥ ब्रह्मणो मुक्तिकाले स्यान्मुक्तो विष्णुप्रसादतः । मोचने शक्तता नास्ति सेवकानां हरेक चित् ॥ ५७ ॥ यद्यपि हरेः स्वसेवकानामत्रैव सद्य एव मोचने सामर्थ्यमस्ति, तथापि तेषां योग्यता तदनुसारिसाधनानि तदनुसारेणैव क्षानं ततः ४ २६ प्रथमोऽध्यायः । यथायोग्यं सद्यः क्रमेण वा मोचयतीति ॥ ५७ ॥ सर्वसाधारणमुक्तेः स्वरूपमाह । स्वरूपेण स्थितिर्मुक्तिरज्ञानध्वंसपूर्वकम् । सा समा सर्वमुक्तानां सद्यः क्रमेण गच्छताम् ॥ ५८ ॥ स्वरूपेणेति । निःशेषाविद्यानिवृत्तिपूर्वकं स्वयोग्यतया पूर्णा- नन्दावाप्तिः सर्वेषां साधारणीत्यर्थः ॥५८॥ मुक्तानां स्वयोग्यताऽनुसारेण चतुर्विधमुक्तिप्राप्तिरित्याह चातुर्विध्यं विमुक्तेः स्यात्पुंसां योग्यतया सताम् । समीपत्वं च सारूप्यं सलोकत्वं हरेः सदा ॥ ५९ ॥ चातुर्विध्यमिति।सतां जीवानां यथा सारूप्यादिमुक्तेोग्यता तथैव तां मुक्तिं तान्प्रापयति हरिरित्यर्थः।सारूप्यं चतुर्भुजादिसमानरूपवत्वं- तच हरिप्रसादेन स्वयोग्यमुक्तिप्राप्त्युत्तरं तल्लोकाबहिःस्थितानामपि सम्भवति । सालोक्यं च भगवल्लोकावस्थानम् । तचासमानुरूपा- णामपि तल्लोकस्थानां शुकसारिकादीनां योषितां च सम्भवति । हरेः सदेति सर्वत्रान्वयः । हरेापकत्वेऽपि समीपत्वादिकं रूपवि- शेषमादाय ॥ ५९॥ सायुज्यं च हरेः सर्वाः स्युरनावृत्तिलक्षणाः। सायुज्यं लीनता विष्णोर्विग्रहे स्वाधिकारतः ॥ ६ ॥ अनावृत्तिर्लक्षणं स्वरूपं यासां ताः । सायुज्यस्वरूपमा । सायु- ज्यमिति ।। ६०॥ वृक्ष लीनाः खगा भिन्ने वने लीना मृगास्तथा । एवं मुक्ता हरोभिन्ना रमन्ते तत्र मोदतः ॥ ६१ ॥ यथा खगमृगादीनां वृक्षादिषुसंश्लेषविशेषएव लयो न त्वैक्यम् । एवं मुक्तानां केषां चित् संश्लेष एव सायुज्यं न त्वैक्यम् । अन्यथा वृक्षादिभ्यः खगादीनामिव हरौ लीनानां मुक्तानां ततो निर्गमनं न स्यात् । प्रसिद्धा हि हरो लीनानां शिशुपालादीनां ततो निर्गतिः । सह युनक्तीति सयुक् सयुजो भावः सायुज्यामिति व्युत्पत्तेः। यहेवा- श्रुतिसिद्धान्तसंग्रहे २७ नामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छति अग्नेर्वायोरादित्यस्य सायुज्यं गच्छतीत्यादिश्रुतिषु सायुज्यशब्दस्य सम्बन्धविशेषे प्रसि- खेः। न त्वत्र सायुज्यशब्दस्यक्यपरत्वशङ्का, न हि मुक्तेः प्राग् जीवानां जीवान्तरेग्वैक्यस्याद्वयवादिनोऽपि संमतिः । अतएवान्तरं ब्रह्मविदो विदित्वा लीनाब्रह्माण तत्परा योनिमुक्ता इति श्रुतिर्व्याख्याता ॥६१।। एकत्र लीनानां निर्गमनप्रतिपादकमोक्षधर्ममुदाहरति तस्माच्चापि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः । ततो मुक्ता मनो भूत्वा ते प्रद्युम्नतनौ स्थिताः ॥ ६२ ॥ तस्मादिति । तस्मात्पूर्वप्रक्रान्तादादित्यान्निर्गताः अनिरुद्धरूपे- भगवत्यहङ्कारनियामके। ततोऽनिरुद्धान्मुक्ताः प्रद्युम्नरूपे मनोनियाम- केस्थिताः॥ ६२॥ प्रद्युम्नाचापि निर्मुक्ता जीवं संकर्षणं ततः । ततस्वैगुण्यहीनास्ते परमात्मानमअसा । एकान्तभावोपगता वासुदेवं विशन्ति ते ।। ६३ ।। प्रद्युम्नान्निर्मुक्ता जीवयतीति जीवस्तं प्रकृतिनियामकं सङ्कर्षणरूपं हरि प्राप्ताः ततः सङ्कर्षणान्निर्मुक्तास्त्रगुण्यहीनास्तुर्यरूपं वासुदेवं विशन्ति । अतःप्रवेशः संश्लेष एव ॥ ६३ ॥ वासुदेवः स विज्ञेयः परमात्मा सनातनः । ज्ञेयः स एव राजेन्द्र जीवः संकर्षणः प्रभुः ॥ ६४ ॥ जीवयतीति सर्वचेष्टकः॥ ६४ ॥ संकर्षणाच्च प्रद्युम्नो मनोभूतः स्वयं प्रभुः । प्रद्युम्नादनिरुद्धोऽभूत्सोऽहंकारः स ईश्वरः ॥ ६५ ॥ तत्रैवानिरुद्धादीनामीश्वरत्वं स्पष्टमुक्तम् । तत्र लीनानां च ततो- निर्गमनं स्पष्टम् । अभिन्नस्यापि हरेनियम्यभेदेनावध्यवधिमत्त्वादि- व्यवहारोपपत्तिः॥६५॥ प्रकृतं मुक्तानां विहारं पुनर्वर्णयति विहरन्ति सदा तत्र जले मीना यथासुखम् ।
२८ प्रथमोऽध्यायः । लयः श्लेषविशेषो हि न स्वरूपैकता क चित् ॥ ६६ ॥ विहरन्तीति । स तत्र पर्येति जक्षत् क्रीडन् समानइतिश्रुतेः । विहारोपदेशादिति सूत्राश्च ॥ ६६ ॥ आनन्दोद्रेकादेव स्वेच्छया तेषां विहार इत्याह आनन्दोद्रेकतो नित्यं रमन्ते हि यथारुचि । स्वच्छन्दं बहिरागत्य विहरन्ति निजेच्छया ॥ ६७ ॥ आनन्दहति । बहिर्हरेरुदात् ॥ ६७ ॥ न सृष्टौ ते हि मुज्यन्ते नश्यन्ति प्रलये न हि । उदरे सावकाशास्ते हरेः क्रीडन्ति निर्भयाः॥ ६८ ॥ स्पष्टम् ॥ ६८॥ उक्तार्थे स्मृतिमुदाहरति इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ ६९ ॥ इदमिति । चतुर्मुखादिसर्गे नोत्पद्यन्ते न नूतनदेहं लभन्ते तत्प्रलये न व्यथन्ति न प्राणादिवियोगरूपं मृत्युमनुभवन्ति ॥ ६९ ॥ मुक्तानां सर्वेषां सदा परोक्षीभूतहरिप्राप्तिरावश्यकीत्यर्थे मोक्षध- मवाक्यमुदाहरति पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः । सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥ ७० ॥ भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम् । भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥ ७१ ॥ भगवन्तमिति ॥ ७० ॥ ७१ ।। ज्ञात्वाऽऽत्मस्थं हरिं चैव न निवर्तन्ति तेऽव्ययाः । प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्यम् ॥ ७२ ॥ स्थानं श्रीवैकुण्ठाख्यम् । अक्षरमवस्थान्तरप्राप्तिपरिणामादिक्षर-
श्रुतिसिद्धान्तसंग्रहे
२९
णशून्यमत एवाव्ययं नाशशून्यं प्राप्य पुनः संसारे नावर्तन्ते ॥ ७२ ॥
ये च मुक्ता भवन्तीह नरा भरतसत्तम ।
तेषां लक्षणमेतद्यच्छेतद्वीपनिवासिनाम् ॥ ७३ ॥
इह मर्त्यलोकादौ ये मुक्ता भवन्ति तेषां यथा प्रसिद्धानां श्वेत-
द्वीपनिवासिनां लक्षणं तथैव भवतीत्यर्थः॥ ७३ ॥
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ।
अनिन्द्रिया अनाहारा अनिस्यन्दाः सुगन्धिनः ॥७४ ॥
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः ।
तत्र पुरुषाः सर्वे हि पञ्चेन्द्रियविवर्जिताः ॥७५ ॥
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोतमे ।
अर्चयन्ति सदा देवं तैः सार्द्ध रमते च सः ॥ ७६ ॥
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ।
कृताञ्जलिपुटा हृष्टा नमइत्येववादिनः ॥ ७७ ॥
दृष्टान्तीकृतानां श्वेतद्वीपस्थानां लक्षणानां ज्ञानेन मुक्तानां ज्ञानं-
भवतीत्याशयेन श्वेतद्वीपनिवासिनां लक्षणान्याह
तत्रेति ॥ ७४॥७५ ॥ ७६ ॥ ७७ ॥
तत्तोषाय हरिः साई रमते तैः कृपानिधिः।
ते प्राप्तानन्दसंदोहाः प्रीतिमन्तः परस्परम् ॥ ७८ ॥
अर्चयन्ति हरि नित्यमानन्दोद्रेकतः परे ।
नाप्राप्तप्राप्तये किंचित् तेषां पूर्णत्वतः सदा ॥ ७९ ॥
तेषां तोषाय पूर्णकामोऽपि कृपानिधिः तैः सार्द्ध रमते॥७८॥७९॥
स्वभावाद्धरितन्त्रास्ते स्वभावेन परस्परम् ।
तारतम्ययुतं तेषां स्वरूपं विद्यते सदा ॥ ८० ।।
हरेरधीनत्वं परस्परनियम्यनियामकत्वादिकं च स्वाभाविकमेव
तेषां प्रागविद्यावृतं हरिप्रसादान्मुक्तावाविर्भवति ॥ ८ ॥
३० प्रथमोऽध्यायः। गुर्वादिपारतन्त्र्यं तेषां दुःखदं न भवतीत्याह ईशगुर्वादिवश्यत्वं न तेषां दुःखदं क चित् । स्वभावस्तद्यतस्तेषां परमानन्दरूपिणाम् ॥ ८१ ॥ ईशेति । तद् गुर्वादिपारतन्त्र्यम् ॥ ८१ ॥ तदेव स्पष्टयति क्रीडतां स्वस्वभावेन दुःखं लोके न दृश्यते । गुर्वायुत्कर्षमालोक्य साधूना दृश्यते सुखम् ॥ ८२॥ क्रीडतामिति ॥ ८२॥ सैषाऽऽनन्दस्य मीमांसेत्यादयः श्रुतयः स्फुटम् । तारतम्यं विमुक्तानामानन्दानां वदन्ति हि ॥ ८३ ॥ सैषाऽऽनन्दस्य मीमांसा भवति तोषे शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्येत्यारभ्य ब्रह्मानन्दपर्यन्तं गन्धर्वर्षिदेवादीनां प्रत्येकं पूर्वापेक्षयोत्तरस्मिन् शत- गुणितानन्दाधिक्यवोधिका तैत्तिरीयश्रुतिः, अथ ये शतं कर्मदेवा- नामानन्दाः स एक आजानदेवानामानन्दः यश्च श्रोत्रियोऽवृजिनोऽका- महतइत्यादिवाजसनेयश्रुतिः, अक्षण्वन्तः कर्णवन्तः सखायो मनो- जवेवसमा बभूवुरित्यायैतरेयश्रुतिस्तारतम्यं स्फुटं वदति । नच सांसारिकानन्दस्य विषयेन्द्रिययोगजस्य तारतम्यं श्रुतिराहेति वाच्यम् । संसारिणि गन्धर्वादौ तैत्तिरीयोक्ताकामहतत्वस्य वाजस- नेयोक्तयोरवृजिनत्वाकामहतत्वयोश्चायोगात् । अकामहतत्वं हि का- मकृतोपद्रवाभावो, न त्वकामत्वं हेतशब्दवैयापत्तेः । स च स. त्यकामस्य मुक्तस्यैव, सोऽश्नुते सर्वान्कामान् कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीत्यादिश्रुतेः। अवृजिमत्वमप्यदुःखत्व- मपापत्वंवा। उभयमपिमुक्तस्यैव जीवन्मुक्तस्य च प्रारब्धपापतत्कार्य- दुःखयोः सत्त्वात् । श्रोत्रियत्वं च मुक्तस्यैव मुख्यप्राप्तश्रुतिफलत्वात्। श्रोत्रियाः प्राप्तमोक्षिणः त एव चाप्तकामत्वात्तथा कामहता इति भार- तोक्तेः। प्रकृतमनुष्यगन्धर्वादिपरत्वे श्रोत्रियस्य चेत्यत्र यश्च श्रोत्रिय- इत्यत्र चैकवचनं समुघयार्थश्चशब्दश्चायुक्तः । न हि सम्भवति वसि- श्रुतिसिद्धान्तसंग्रहे ३१ ठो ब्रह्मनिष्ठोऽरुन्धतीपतिश्च तथेति । अप्रकृतसंसारिपरत्वे तु बाधः। किश्च प्रकृतश्रोत्रियः सर्वत्राप्येकश्चेन्मानुषादिभ्यः साधारणशतगु- णितमनुष्यगन्धर्वाद्यनकानन्दा एकस्मिन्विरुद्धाः। भिन्नश्चेदकामहत- स्वादेरकरूपतया श्रुतस्याव्यवस्थापकत्वादानन्दव्यवस्था न स्यात् । तद्यथेह पेशस्कारी पेशसो मात्रानुपादायान्यं नवतरं रूपं तनुते एव- मेवायमात्मेदं शरीरं निहत्याविद्यां गमायत्वाऽन्यं नवतरं कल्याणरूपं. कुरुते । पिध्यं वा गान्धर्व वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां- भूतानामिति श्रुतौ लिङ्गशरीराविद्यानिवृत्त्युत्तरं पितृत्वादिकमुक्तम्८३ प्रागुक्तापि मुक्तानामैच्छिकविग्रहप्राप्तिरानेडनार्थ पुनस्तत्र मो. क्षधर्ममुदाहरति प्रकृति चाष्यतिक्रम्य गच्छन्त्यात्मानमव्ययम् । परे नारायणात्मानं निर्द्वन्दं प्रकृतेः परम् ॥ ८४ ॥ प्रकृतिमिति ॥ ८४॥ इन्द्रियाण्यनुबध्नन्ति स्वदेहं योगिनो नृपम् । करणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः । स जिघ्रति यथान्यायैः स्पर्शान् स्पृशति च प्रभो ॥ ८५ ॥ मुक्तस्यैच्छिकानीन्द्रियाणि तादृशं स्वदेहम् अनुबध्नन्ति प्राप्नु- वन्ति तानीन्द्रियाण्यात्मनो मुक्तस्य लीलयैव करणानि न त्वां- तभोगप्राप्तये मुक्तानां पूर्णत्वात् ॥ ८५ ॥ स्वरूपभिन्नैच्छिकविग्रहसत्वेऽपि दुःखलेशसम्भावना नास्ती. त्याह अविद्याकामकर्मादेस्तथाऽन्तःकरणादितः । तदाऽभावेन दुःखादिस्तेषां नो विद्यते क चित् ॥ ८६ ॥ अविद्येति। तदा मोक्षे अविद्यारन्तःकरणादेर्दुःखहेतोरभावेन८६ नेास्यादिसंक्लेशो नेच्छानन्दोपलब्धये । सर्वत्रालमतिस्तेषां प्रागेवासीद्विलौकिके ॥ ८७॥ प्राकृतभोगेषु मुक्तेः प्रागासीत् ॥ ८७ ॥ -
३२
प्रथमोऽध्यायः ।
ये के चित् पुनरावृत्ताः प्रदृश्यन्ते जयादयः।
न तेषां परमा मुक्तिर्लिङ्गविध्वंसलक्षणा ।। ८८ ॥
स्पष्टम् ॥ ८८॥
परमां मुक्तिं गतानां न पुनरावृत्तिरित्यर्थे स्मृतिमुदाहरति
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धि परमां गताः ॥ ८९ ॥
मामिति । संसिद्धिमविद्यालिङ्गदेहध्वंसलक्षणाम् ॥ ८९ ॥
जयादीनां स्वप्रारब्धकर्मफलभोगायैव न तु केवलभगवदिच्छया,
परमाप्तस्य स्वसेवकानिटेच्छाया असम्भवात्, कर्मनिरपेक्षतयैव
तथाकरणे हरेवंषम्यापत्तेश्चेत्याशयेनाह
स्वीयकर्मफलं भोक्तुं तेषामावर्त्तनं पुनः।
ते जीवन्मुक्तिमापन्ना भोगान्ते परमां गताः ॥९॥
स्वीयति । प्रागजीवन्मुक्तिमापन्नाः ॥ ९० ॥
के चिदैच्छिकदेहास्ते के चिच्चिद्रूपविग्रहाः
स्वरूपेणैव गृह्णन्ति पूर्णानन्दाः सदानघाः ॥ ९१ ॥
स्पष्टम् ॥ ९१॥
जीवन्मुक्तिमाह
अविद्याया विनाशेऽपि पूर्णानन्दोपलम्भेन ।
प्रारब्धं कर्म भोक्तुं स्याद्विलम्बो देहसंस्थितेः ॥ ९२ ॥
अविद्येत्यादिना । अविद्यानाशेऽपि प्रारब्धकर्मभोगाय देहस्थि-
तितएव पूर्णानन्दोपलम्भने तदनुभवे विलम्बस्तस्य तावदेव चिरं
यावन्नविमोक्ष्ये ऽथ सम्पत्स्य इतिश्रुतेः । विमोक्ष्ये विमोक्ष्यते सम्प-
त्स्य सम्पत्स्यते ॥ ९२ ॥
सोच्यते जीवतां मुक्तिस्तत्क्षये परमा भवेत् ।
भोगादेव क्षयः तेषां प्रारब्धकर्मणां नृणाम् ॥ ९३ ॥
श्रुतिसिद्धान्तसंग्रह ३३ नाभुक्तं क्षीयते कर्म कोटिकल्पशतैरपीत्यादिश्रुत्या प्रारब्धकर्मणां भोगादेव क्षय उक्तः तेषां प्रारब्धकर्मणां क्षये परमामुक्तिर्भवेत् ॥२३॥ सञ्चितक्रियमाणानां प्रारब्धेतरकर्मणाम् । आपरोक्ष्यारे शो निर्लेपश्च ततः परम् ॥ ९४ ॥ ततः परं करिष्यमाणानां निर्लेपोऽसंश्लेषः ॥ ९४ ॥ मायिनां मते जीवन्मुक्तिनसम्भवतीत्याह ।। कर्मदेहेन्द्रियादीनामविद्याकार्यतामते । नाविद्याया विनाशे हि स्थितियुक्ता कथश्चन ॥ ९५ ॥ अविद्योपादानक-मविद्याधीनं च ब्रह्मभिन्नं सर्वमिति मते ब्रह्मज्ञा नेनाशाननाशे तत्कार्याणां देहेन्द्रियादीनामवस्थानासम्भवेन जी- वन्मुक्तिर्न युक्ता, न हि तन्तुनाशे पटस्थितियुक्ता न चाऽविद्यालेशो- वर्तते लेशस्याविद्यारूपत्वेऽवस्थानासम्भवात् न हि ज्ञानं किञ्चि. दानं निवर्तयति किञ्चिन्नात युक्तम्, न वाऽशाने विद्यमाने जी. वन्मुक्तिः सम्भवति, प्रथमब्रह्मज्ञानेनाऽनिवृत्तस्य मुक्तविरोधिनो ले- शाख्याज्ञानस्योत्तरक्षानेन पूर्वज्ञानानधिकविषयकेण निवृत्त्यसम्भवेन परममुक्तावप्यनुवृत्यापत्तेः । लेशस्याज्ञानभिन्नत्वे तदधीनस्य तन्निवृ. ताववस्थानाऽसम्भवात् देहाद्यनुपादानभूतस्याऽशानभिन्नस्याऽव. स्थितेराकिश्चित्करत्वाच ॥ ९५॥ सुखित्वमेव पुरुषार्थ न सुखरूपत्वमित्याह- पुरुषार्थ सुखित्वं हि न त्वानन्दस्वरूपता । स्यामहं सुखवानित्येवेच्छन्ति पामरा अपि ॥ ९६ ॥ स्यादिच्छैव पुमर्थत्वे प्रमाणं नेतरत् क चित् । लौकिकानां हि सा ग्राह्या न शास्त्रेण नियन्त्रिता ॥ ९७ ॥ पुरुषार्थमिति । अहं सुखी स्यामित्येवेच्छन्ति न त्वहं सुखरूपः स्यामिति ॥ ९६ ॥ ९७॥ वैपरीत्येवाधकमाह। अन्यथाऽत्मविनाशो वा सुखनाशो भवेन्नृणाम् । बौद्धतार्किकशास्त्रेणार्थितः सिद्धः स्वतः सदा ॥ ९८ ॥ ६
३४
प्रथमोऽध्यायः ।
अन्यथेति । अन्यथा पुमर्थस्य पामरेच्छाधनियम्यत्वे, बौद्धा-
गमसिद्ध आत्मनाशः पुमर्थस्तार्किकागमसिद्धः सुखनाशः पुमर्थः
स्वतः सदा सर्वेषामर्थितः पुरुषार्थः स्यात् ॥ ९८ ॥
ननु स्वरूपानन्दानुभवः सुषुप्त्यादावप्यस्ति मुक्तौ कोविशेषस्तत्राह
अविद्याया हि संकोचात् कामकादिवर्जनात् ।
समाधौ च सुषुप्तौ चेषदानन्दप्रकाशनम् ॥ ९९ ॥
अविद्यायाइति । सुषप्त्यादौ निःशेषाविद्यानिवृत्तिपूर्वकं पूर्णा-
नन्दाविर्भावो नास्तीति भावः ।। ९९ ॥
अभिव्यक्तं भवेद्विष्णोः प्रसादात्ततोऽवान्तरात् ।
किञ्चिदानन्दरूपत्वमन्यदाऽप्यनुभूयते ॥१०० ॥
विष्णोरवान्तरप्रसादादन्यदा मुक्तिभिन्नकालेऽपि किञ्चिदानन्द-
रूपत्वमभिव्यक्तं भवति ततस्तथैवानुभूयते ॥ १० ॥
जिनाभिमतं मोक्षं दूषयितुमनुवदति ।
केपां चिद्भोगतः केषां तत्त्वज्ञानेन कर्मणाम् ।
क्षयाजने मते मोक्षो भवेद्देहाख्यपञ्जरात् ॥ १०१॥
केपामिति । केषाञ्चित्कर्मणां भोगात्केषाञ्चित्तु तत्वज्ञानेन
क्षयाद्धेतोः पाक्षणः पञ्जरादिवाऽऽत्मनां देहान्मोक्षोभंवेत् देहावस्था-
नस्य कर्महेतुकत्वात् देहतुल्यपरिमाणस्य ततो मिन्नतया क्षणिकत्वे-
न सन्तानतोऽनादित्वेनाऽऽत्मनो ज्ञानं तत्वज्ञानं सद् असत् सदस-
दात्मकं सदसद्विलक्षणं सत्त्वे सति सद्विलक्षणम्, असत्वे सत्यस-
द्विलक्षणं सदसदात्मकत्वे सति सदसदात्मकविलक्षणमिति सप्त-
प्रकारानियततया विश्वस्य शानं तत्वज्ञानं मोक्षहेतुः ॥ १०१ ॥
ततः कथं वर्तते तत्राह
पञ्जरोन्मुक्तपक्षीव सोऽलोकाकाशगोचरः।
नित्यमूर्द्ध व्रजत्येव चरमदेहसंमितः ॥ १०२ ॥
पञ्जरेति । यथा पञ्जराद्विमुक्तः पक्षी ऊर्ब बजत्येवं मुक्तो व्रजती-
ति अलोकाकाशो गोचरो यस्य सः ॥ १०२॥
३५ श्रुतिसिद्धान्तसंग्रहे . जिनमतं दूषयति अर्द्ध गमनमानं चेन्मुक्तिर्वीनां न सा कुतः । देहसंमितजीवस्य कथं मुक्तिर्विकारिणः ॥ १०३ ॥ ऊर्द्धमिति । यार्चगमनमात्र मुक्तिस्तदा पक्षिणां गृध्रादीनां सा किं न स्यात् यदि निरन्तरमूर्द्धगमनं तच्च नास्ति पक्षिणां तदा निरन्तरगमनेन क्लेशापत्त्या मोक्षस्याऽपुमर्थत्वापत्तेः। अलो- काकाशप्राप्तिमात्रमपि न पुमर्थः सुखदुःखाभावाभ्यामन्यत्वात् । सुखं दुःखाभावश्च लोके हि पुरुषार्थ नश्वरदेहपरिमाणतुल्यपरिमा- णकस्य विकारिणोनित्यरूपमोक्षभाक्त्वाऽनुपपत्तेश्च ॥ १०३ ।। नन्वस्त्वनित्यस्यापि नित्यमोक्षान्वयित्वं कोदोषस्तत्राह ताशस्याऽपि मुक्तिश्चेद्देहस्यैव कुतो न सा । देहान्यत्वे प्रमाणं वै नाऽऽत्मनो हि विकारिणः ॥१०४॥ ताशस्यापीति । तादृशस्य नश्वरस्यापि जीवस्यैव मुक्तिश्चेद्दे- हस्यैव सा किं न स्यात् । विकारिण आत्मनोदेहान्यत्वे प्रमाणं नास्ति दुःखहानिसुखप्राप्त्यभावे च मुक्तेर्नाममात्रमेवेति भावः ॥ १०४ ॥ देहाधीनपरिमाणस्य नो भवेत् स्थितिस्तं विना कदा चित् । लौकिकदेहस्य तत्र सत्वे स्यात्संसाराविशेषता ते ॥१०५॥ देहाधीन परिमाणकस्याऽऽत्मनस्तं देहं विना कदाचित्कथञ्चिदप्य- वस्थानं न युक्तं लौकिकस्य देहस्य तत्र मुक्तौ सत्बे ते तव मते मो- क्षस्य संसाराविशेषापत्तिः ॥ १०५॥ ननु परमाप्तेन सुगतेनोक्तोमोक्ष आद्रियतां तत्राह । बुद्धवाक्यमपि नोपादेयं दैत्यानां मोहायैव हि तत् । प्रसिद्धं हि पुराणादिषु तस्माद् व्यामोहनमेव प्रयोजनम् १०६ । बुद्धति।अद्धा साक्षात् व्यामोहनमेव प्रयोजनं तदवतारस्य पुरा- णादिषु प्रसिद्धां भ्रमप्रमादकरणापाटवविप्रलिप्सादिहीनो हि विव- क्षुराप्तः करणापाटवाद्यभाववतोपि वुद्धस्य विप्रलम्भकत्वान्नाऽऽप्तत्व- म् । न च हरेः परमाप्तत्वेन कथं व्याभोहकत्वं तेषां योग्यताया. ।
प्रथमोऽध्यायः । अदृष्टानां तादृशत्वात्तदनुसारेण व्यामोहकत्वेप्याप्तत्वोपपत्तेः॥ ततः कलौ सम्प्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धोनाम्ना जिनसुतः कीकटेषु भविष्यतीति स्मृतेः ॥ अतस्तदुक्तो मोक्षो हेय एव ॥ १०६ ॥ वुद्धोक्तिमात्रमनुपादेयमिति सामान्यतोदूषितं विशेषतोदूषयितुं चतुर्विधमनुवदति । चतुर्धा तन्मतं व्यक्तं शून्यं विज्ञानमेककम् । अनुमेयं बहिस्तत्वं प्रत्यक्षं कस्य चिन्मते ।। १०७ ॥ चतुर्धेति । माध्यमिको योगाचारो वैभाषिकः सौत्रा- न्तिकश्च चत्वारः सुगतशिष्याः । तत्र सांवृतं विश्वं शून्यस्य विवर्त्तः।परमार्थतः शून्यमेवेत्याचं मतम् । पटादयो ज्ञानस्यैवाकाराः- शानभिन्नं वस्तु नास्तीति द्वितीयम् । वाह्यवस्त्वस्ति परं तु न प्रत्य- क्षं किन्त्वनुमेयमेवेति तृतीयम् । वाह्यं प्रत्यक्षं वस्त्वस्तीति चतुर्थम् । स्थूलोवयवोनास्ति परमाणुपुञ्जमेव घटादिकमित्युभयोः सममिति सुगतस्य मतं शिष्यभेदेन चतुर्विधं व्यक्तं प्रकटितम् ॥ १०७ ॥ वेदविरोधित्वं वस्तुमात्रस्य क्षणिकत्वं जगतो मिथ्यात्वादिकं सर्व समम् । तत्र शून्यवादिनोऽतितामसाः प्रमितवस्तुमात्रस्याऽप- लापात् ॥ ततो विज्ञानवादिनो ज्यायांसो वाह्यवस्त्वनङ्गीकारेऽपि विज्ञानस्य सत्यत्वाभ्युपगमात् ततो वैभाषिको वाह्यवस्त्वङ्गीकारात् ततः सौ- त्रान्तिको वाह्यार्थ स्वीकृत्य तस्य यथायथं प्रत्यक्षादिगम्यत्वाभ्युपग- मादित्यतो महामल्लभंगन्यायेन शून्यवाद्यभिमतमोक्षमादौ दूषयि- तुमनुवदति । तत्र शून्यं वदन्त्येके निःशङ्कं मायिनो यथा । आत्मात्मीयादिकं किंचिन्न मुक्ताववशिष्यते ॥ १०८ ॥ तत्रेति । तत्र तेष्वेके यथा मायिनो मोक्षमाचक्षते तथैव शून्य- मेवावशिष्यते आत्मा ज्ञानमात्मीयं ज्ञेयम् । यद्वा आत्मा तदीयाश्च ये प्रामाणिका धर्मा झानसुखादयस्तेऽपि नावशिष्यन्त इति मोक्षं वद. न्ति । तत्रेयान् विशेषः । वेदप्रामाण्यानभ्युपगमानिःशङ्कास्ते ।
Srimante
३७
श्रुतिमिद्धान्तसंग्रह
मायिनस्तु वेदः प्रमाणमित्यभिमानात् परमं साम्यमुपैति सोऽश्नुते
सर्वान्कामानित्यादिवेदाच्छङ्कमानास्तमन्यथा व्याख्याय स्वाभिमतं
+ मोक्षं प्रतिपादयन्ति ॥ १०८ ॥
मायिवच्छून्यवादिनोऽपिद्विविधाः एकजीववादिनोऽनेकजीववा-
दिनश्च । एकजीववादोमुख्यसिद्धान्तोद्वितीयस्तु मन्दबुधवरोहाया-
वतारितस्तत्राऽऽधमनुवदति ।
तस्य संवृतितो भेदश्चेतनाचेतनात्मना ।
दृश्यते संवृतेर्वसे स्यानिर्विशेषशून्यता ॥ १०९ ॥
तस्यैकस्यैवात्मनः संवृतितोऽज्ञानतश्चेतनाचेतनात्मना शानझे-
यात्मना भेदोदृश्यते संवृत्त्यवच्छिन्नं शून्यं घटाद्यात्मनाविवर्त्तत इत्य.
र्थः सर्व शून्यमिति भावनाप्रकर्षजन्यतत्वज्ञानेन संवृतेर्नाशे सतिशू-
न्यमेवावशिष्यते।कार्यनाशस्य कारणरूपत्वात् । स एव मोक्षः॥१०९।।
शून्यस्य निर्विशेषत्वं वक्तुं स्वरूपमाह ।
न सत्त्वं नैव चासत्त्वं शून्यस्यास्ति विशेषकम् ।
न सुखत्वं न दुःखत्वं वास्तवं तस्य किञ्चन ।। ११० ॥
नेति । सत्वं परसामान्यादिकमसत्त्वमभावप्रतियोगित्वादिकं वि-
शेषकमन्यस्माद्भेदकं नास्ति चकाराद्यावोऽप्यन्यो नास्ति । अनु-
फूलवेदनीयत्वरूपं सुखरूपत्वं प्रतिकूलवेदनीयत्वरूपं दुःखरूपत्वं च
तस्य वास्तवं किमपि नास्ति ॥ ११० ॥
निर्विशेष स्वयं भातं निर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवार्जितम् ॥ १११ ॥
इतरल्यावर्तकविशेषहीनं सर्वमानावेद्यत्वरूपस्वप्रकाशं निर्लपं-
धर्माधर्मसुखदुःखादिरहितमजरं च तदमरं चासंवाधं द्वितीयवस्तू-
पमर्दशून्यमद्वितीयमित्यर्थः । नानासंवृतिवर्जितं नानासंवृतिकार्यैः
सुखदुःखादिभिर्वर्जितं शून्यं मोक्ष इत्यर्थः ॥ १११॥
अशेषदोषनिर्मुक्तं मनोवाचामगोचरः।
इत्थं मुक्तिरसद्भिर्हि कथ्यते मायिशून्यगैः ॥ ११२ ॥
३८ प्रथमोऽध्यायः । अशेषैर्दुःखादिदोषैर्निर्मुक्तम् । स्वयम्भातमित्यस्य विवरणं मनो- वाचामगोचर इति असद्भिः शुन्यवादिभिर्मायावादिवदित्येवं मुक्तिः कथ्यते । मायिमतेऽपि सत्त्वासत्वसुखत्वदुःखत्वज्ञानत्वाज्ञानत्वभा- वत्वाभावत्वाद्यखिलधर्महीनमानावेद्यत्वरूपस्वप्रकाशाद्वितीयब्रह्म- स्वरूपावस्थानं मुक्तिः । नन्ववेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् अनन्याधीनापरोक्षत्वं वा ब्रह्मणः स्नप्रकाशत्वं तश्च न शून्यस्योति कथं मायिशून्यवादिनोरविशेष इति चेन्न । आपरोक्ष्यं हि स्वेनैव स्व- विषयकमन्यानिष्ठं स्वविषयकं वा । नाद्यः स्वविषयताया मायिनाऽन- ङ्गीकारात् । अङ्गीकारे च ब्रह्मणश्चिद्विषयत्वरूपदृश्यत्वापत्त्या मिथ्या, त्वापत्तेः विषयत्वविषयित्वादिनैव सविशेषत्वापत्तेश्च । न द्वितीयः मोक्षेऽन्याभावेनान्यविषयकापरोक्ष्यासम्भवात् स्वविषयकतायामुक्त- दोषात् । निर्विषयकापरोक्षस्वरूपमितिनामकरणस्य शून्येऽपि संभ- वात् शून्यं तत्वतो गीयते यैस्ते शून्यगा मायिनश्च शून्यगाश्च तैः॥११२॥ नन्वज्ञानाभावोपलक्षितं शून्यमेव तत्वमिति कुतस्तत्राह । संवृत्या दूषितं शून्यं संमृतिः कथ्यतेऽधमैः । तमाशाच्छून्यमेवाहुर्विमुक्तिं तामसा जनाः ॥ ११३ ॥ संवृत्येति।संवृत्या दूपितं शून्यमेव जगदाकारेण विवर्त्तमानम् संस- तिः संसारावस्था। अतः संवृतिनाशाच्छ्न्यावशेष एव मोक्षः कथ्य- ते। अत्रेदं तत्वम् । शुन्यं तत्वतो निर्विशेषमेकमेव तस्य परमसूक्ष्मस्य वाङ्मनसातीतस्य स्वप्रकाशस्याऽऽवरणविक्षेपाद्यनकशक्तिमत्या मू- लसंवृत्त्या कर्तृत्वभोक्तृत्वशक्तिमदहङ्कारोपाधिवशात् किञ्चित्स्थू- लताजायते ततः स द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते ततो मनोवचनगोचरत्वेन सलेपत्वं रागादिदोषसंसर्गश्च ततो देहेन्द्रि- यान्तःकरणविषयसम्वन्धे स्थूलतरता भवति ततोऽहङ्कारवतो दुः- खादिमत्वे स्थूलतमत्वमित्येवं संवृत्त्या तत्कार्यत्वात् संवृतिसंशकैर- हङ्कारादिभिश्च संवलितं शून्यमेव संसारः । भावनाप्रकर्षादिना नि. मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विनष्टे तदुपलक्षितशून्यमेव संसारः । भावनाप्रकर्षादिना निर्मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विनष्टे तदुपलक्षितशून्यमेव मोक्षइति ॥ ११३ ॥ अनेकजीवमतमनुवदति ।
३९
श्रुतिसिद्धान्तसंग्रहे
के चित्संवृतिसम्पर्काच्छ्न्यमाहुरनेकधा ।
अवच्छिन्नं महाशून्यं नानापुद्गलशब्दितम् ॥ ११४ ॥
केचिदिति । संवृतेरविद्यायाः सम्बन्धादनेकप्रकारं नानाजी-
घभावापनमाहुरनेकजीववादिनः । संवृत्त्यवच्छिन्नं महाशुन्यं नाना-
पुद्गलशब्दितं कर्तृत्वभोक्तृत्वादिगुणविशिष्टं शून्यं नानाजीवश-
ब्दितं भवति ॥ ११४॥
शुन्यैकरसताज्ञानाद्यस्य संवृतिभञ्जनम् ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥ ११५ ॥
सर्वस्य शून्यैकरसत्वज्ञानाद्यस्यैव संवृतिनिवृत्तिः स पुद्गल-
त्वात्कर्तृभोक्तृत्वादिरूपाग्निर्मुक्तोमहाशून्यत्वं प्रामोतीत्यर्थः॥ ११५ ॥
संवृत्या यस्त्ववच्छिन्नो दुःखादिभुग्भवेदलम् ।
एकत्वानेकते तुल्ये मायिसौगतयोश्चिताम् ॥ ११६ ॥
यः संवृत्त्यावच्छिन्न आत्मा पुद्गलभावेनालमत्यर्थ परमार्थधि-
यैवानुभवति । चितामेकत्वानेकत्वे मायिशून्यवादिनोस्तुल्ये ॥ ११६॥
ब्रह्मशून्याविद्यासंवृत्त्यादिशब्दमात्रभेदेऽपि नार्थभेदइत्याह ।
मायासंवृतिनाम्नैका ऽविद्योच्यतेऽविशेषतः।
शून्यं ब्रह्मेति पर्यायौ निर्विशेषत्वतः स्फुटम् ॥ ११७ ॥
मायेति । निर्विशेषयोनिर्विशेषस्य ब्रह्मणः शून्यस्य च परस्परं
भेदासम्भवात् ११७ ॥
ननु
सत्यं शानमनन्तं ब्रह्मेत्यादिश्रुतिभिब्रह्मणि सत्यत्वज्ञानत्वा-
द्यनन्तधर्मविधानात्कथं तस्य शून्याभेदशङ्केति तत्राह
नास्त्यखण्डनये किंचित्सच्चिदानन्दतादिकम् ।
व्यावृत्तिमात्रबोधस्तु विद्यते शून्यवादिनः ॥ ११८ ॥
नास्तीति।संसर्गागोचरप्रमाजनकत्वरूपमखण्डार्थकत्वं वेदानामङ्गी-
कुर्वतोमायिनो मते सत्यत्वज्ञानत्वादयो धर्मा वेदेन नबोध्यन्ते, अस-
जडपरिच्छिन्नादिव्यावृत्तिबोधस्तु अपोहवादिनः सौगतस्याऽपि॥११८॥
४० प्रथमोऽध्यायः । अनृतादेरपोहं तु स्वरूपमेव मन्यते । निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः॥ ११९ ।। अनृतादिव्यावृत्तिमपि ब्रह्मस्वरूपमेव मन्यते माया कथं ततः शून्याद्भेदसिद्धिः ब्रह्मशून्ययोः सविशेषत्वे निर्विशेषत्वहानिनिर्वि- शेषत्वे च कथं तयोर्भेदः॥ ११९ ॥ ननु मायी वेदस्य प्रामाण्यमङ्गीकरोति न सौगतोऽतस्तन्मतयोः कथं साम्यं तत्राह। अप्रामाण्यं श्रुतेस्तुल्यं संमतं फलतो द्वयोः । अतत्त्वावेदकं यस्मात्प्रमाणं तेन कथ्यते ॥ १२० ॥ अप्रामाण्योति । वेदादेरप्रामाण्यं द्वयोर्मायिसौगतयोस्तुल्यम् । यस्मात्तेन मायिना ब्रह्मभिन्नमिथ्याप्रपञ्चविषयकं यत्तदेव प्रमाण- मिति फलतः कथ्यते तात्विकत्वेनाभिमतस्य ब्रह्मणः स्वप्रकाशत्वे- न सर्वप्रमाणाऽवेद्यत्वाङ्गीकारात् ॥ १२० ॥ ननु प्रपञ्चस्य व्यावहारिकत्वात्तद्विषयकशानं प्रमा मायिमते सौगतमते तथा नास्तीति भेदस्तत्राह । अतत्वावेदकत्वश्चाप्रामाण्यं संमतं सताम् । दीर्घभ्रान्तिकरं मानं चेत्स्यादताविकं तथा ॥ १२१ ॥ अतत्वेति । यद्यस्मादतत्त्ववेदकत्वमेवाप्रामाण्यं सतां मतम् । अतो ब्रह्मान्यविषयकज्ञानमप्रमा ब्रह्मत्ववेद्यमित्यप्रामाण्यं श्रुतेः दीर्घभ्रमजनकंप्रमाणं चेदतात्विकमतत्वावेदकमपि तादृशं प्रमाणं स्यात् ॥ १२१॥ तस्योदाहरणमाह । रज्ज्जुसादिविज्ञानादप्यधिका ह्यमानता । दीर्घभ्रान्तिनिदानत्वात् स्याच्छुते मायिनां मते ॥१२२॥ रज्ज्विति । रज्जुसर्पज्ञानजनकानाधिक्येन वेदस्याप्रामाण्यं स्यात् बहुकालपर्यन्तम्रान्तिजनकत्वात् ॥ १२२ ॥ चंद्राल्पतामहेतोर्नभोनल्यमतेस्तथा ४१ श्रुतिसिद्धान्तसंग्रहे भवेत्मामाण्यमेवोचैर्यथा वेदस्य मायिनः ॥ १२३ ।। बहुकालभ्रान्तिजनकत्वेन साम्यम् ॥ १२३ ॥ नि:दत्वं हि शून्यस्य तेनाऽप्यङ्गीकृतं सदा । सत्त्वासत्त्वादिधर्माणामभावो छुभयोः समः ॥ १२४ ॥ ननु ब्रह्मज्ञानेतराबाध्यत्वरूपव्यावहारिकसत्वं जगति हायिना स्वीकृतमिति न तन्मते श्रुत्यप्रामाण्यमिति चेन्न । व्यावहारिकामिति याध्यस्यैव नामान्तरत्वात् । तादृशसत्त्वस्य जगति बौद्धनाऽपि स्वी- कारेण तस्याऽसत्ख्यातिवादित्वाऽनुपपत्तेः । द्वे सत्त्वे समुपाश्रित्य वौद्धानां धर्मदेशना। लोके संवृतसत्यत्वं सत्त्वं च परमार्थत इति तदीयोक्तेः ।। १२४॥ न हि सपतियोगित्वं शून्यत्वं तेन चेष्यते । न दुःखादिविरोधित्वादन्या ह्यानन्दता भवेत् ॥ १२५ ॥ यदि शून्यस्य सप्रतियोगिकत्वमभावरूपत्वं स्यात्तर्हि स्यादता- दृशाब्रह्मणो भेदः न च तदस्ति यदि ब्रह्मणो दुःखादिविरोधित्वरू- पाऽऽनन्दादिरूपता स्यात्तर्हि स्यादतादृशाच्छून्याद्भेदः न च तद- स्ति सर्वाधिष्ठानस्य ब्रह्मणो दुःखाद्यविरोधित्वात् ।। १२५ ॥ पारिभाषिकचित्त्वं हि तुल्यं स्याब्रह्मशून्ययोः ।। धर्माः केपि न सन्त्येव को विशेषस्ततस्तयोः ।। १२६ ।। अज्ञानाऽविरोधिनोब्रह्मशुन्ययोर्ज्ञानत्वं पारिभाषिकमुभयोः समम् भेदकाः धर्माः कुत्राऽपि न सन्त्येवाऽतस्तयो ब्रह्मशून्ययोः को विशेषः ॥ १२६ ॥ अनूदितं शून्यवाद्यभिमतमोक्षं दूषयति । आत्माऽभावे पुमर्थः कः स इष्टस्याऽवधिर्यतः ॥ यदि नाऽऽत्माऽवधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥१२॥ आत्मेति। मोक्षः कः किंसवन्धी आत्मनाशरूपो मोक्षः किमात्म- नः फलमनात्मनो वा नाऽद्यातस्याऽभावात् । न हि फलिनोऽसत्त्वे ६ ४२ द्वितीयोऽध्यायः । फलमुपपद्यते । नाऽन्त्यः । आत्मनाशेऽनात्मनो ऽप्यभावात् । भावे वा ऽनात्मनस्तेनोपकारा ऽभावेनाप्पुमर्थत्वात् सर्व ह्यात्माऽर्थतयेष्टं भवति तस्यैवाऽभावे किं कस्यष्टम् द्विविधो लोके पुमर्थोऽनिष्टनिवृ- त्तिरिटाऽवाप्तिश्चेति तच सर्वमात्माऽवधिकमेव तन्नाशे तूभयोरप्य- सम्भवः । ननु दुःखाऽऽत्यन्तिकनिवृत्तिः पुमर्थः सा च कारणनि- वृत्त्यैव स्यात् कारणं च तस्याऽऽत्मैवाऽधर्माऽर्जनात् अतः स्यादे- वाऽऽत्मनाशः पुर्मथ इति चेन्न जागर एव दुःखादयो न सुषुप्त्यादावि- त्यन्वयव्यतिरेकाभ्यामात्ममात्रस्याऽकारणत्वात् किन्तु देहेन्द्रियवि- पयवेदनादेरपि तत्र हेतुत्वात् ज्ञानभोगाभ्यां कर्मनाशे मिर्वीजस्य देहाद्यसम्भवेन दुःखाऽभावेनाऽऽत्मनाशस्याऽनुचितत्वात् । किश्चा- ऽऽत्मनिष्टतयैव हि दुःखाऽभावः पुमर्थोऽन्यथा घटादिनिष्ठदुःखाऽभा- घोऽपि पुमर्थः स्यात् अतो दुःखहेतूनामात्मभिन्नानामेव मोक्षेनिवृ. त्तिर्नाऽऽत्मनोऽऽपीत्युपेयम अन्यथाघटशून्यताऽपि मोक्षः स्यात्तथा च साधनवैयर्थ्यम् ॥ १२७ ॥ घटशून्यताऽऽत्मशून्ययोर्विशेषाऽङ्गीकारे शून्यस्य निर्विशेषत्वहा- निः स्यात् कल्पितविशेषाणां तु निर्विशेषतायामेव पर्यवसानमि- त्याशयेनाऽऽह । कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ।। दृश्यमाने विशेषेऽपि यदि स्यादविशेषता ॥ १२८ ॥ कल्पितत्वादिति । मायिनोऽप्यात्मशून्यतैव पर्यवस्यति न च सुखस्वरूपाऽऽत्माऽवस्थानं मोक्षे मोक्षे मायिनोऽस्तीति केनचिदननुभूतस्याऽपि सुखत्वं सुखाद्यननुभावतुश्चाऽऽत्मत्वं हि परिभाषामात्रं वौद्धनाऽपि तथा परिभाषां कर्तुं शक्यत्वात् यदि वि शेषे दृश्यमानेऽप्यविशेषता शून्यस्य तदा विशेषाऽङ्गीकारो व्यर्थ इत्यर्थः ॥ १२८ ॥ शून्यस्य ब्रह्मणश्चाऽपि स्वीक्रियते वृथा तदा ॥ घटादिशुन्यतायाश्चाऽन्ते निर्विशेषता भवेत् ॥ १२९ ॥ यदि शून्यस्य ब्रह्मणश्च कल्पितो विशेषोऽङ्गीक्रियतेऽतो म घटशून्यतायाः पुमर्थत्वं तदाऽन्ते परमार्थावस्थायां घटशून्यताऽऽत्म- वाच्यम्
श्रुतिसिद्धान्तसंग्रहे
४३
शून्यतयोरैक्येन घटशून्यतायाः पुमर्थत्वं दुर्वारम् ॥ १२९ ॥
न मोक्षो विमतो यस्माददेहतो ऽसुखत्वतः ॥
यथा घटादिशून्यत्वं पुमर्थो न भवेत् कचित् १३० ॥
विमतो ब्रह्मभावः शून्यभावो वा न मोक्षः अदेहत्वात्सुखाऽभावा-
त्सुख दुःखाऽभावाऽननुभवाञ्च,घटादिशून्यत्वं यथा ॥ १३० ॥
शून्यब्रह्मत्वयोः प्राप्तौ मानं किंचिन्न विद्यते ।।
पुरुषार्थो हि लोकेऽस्ति दुःखाऽभावयुतं सुखम् ॥ १३१ ॥
दुःखाऽभावसहितं सुखमेव पुमर्थो लोके दृश्यते न सुखदुःखाऽ-
भावाऽनात्मकशून्यब्रह्मभावाऽऽपत्तिर्मुक्तिरप्रामाणिकत्वादित्यर्थः॥१३१॥
नन्वशरीरं वाव सन्तं न प्रियाऽप्रिये स्पृशत इति श्रुत्या मोक्षे
देहाऽभाववोधनात्कथं मोक्षे देहसद्भावस्तत्राऽऽह
मुक्तस्याऽदेहतावाक्यं प्राकृतदेहवारकम् ।
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडनिति श्रुतिः ॥ १३२ ॥
मुक्तस्येति।स तत्र पर्येति जक्षन् क्रीडन् रममाण इति श्रुत्या मोक्षे
भोगवोधनात्तदानी देहाऽभाववाक्यं प्राकृतदेहाऽभावपरम् ॥ १३२ ।।
शून्यब्रह्मणोर्दुःखादिभिन्नत्वे निर्भेदत्वमतहानिरभिन्नत्वे त्वपुमर्थ-
त्वं स्यादित्याह ।
दुःखादितो भिदायां स्यान्निभेदत्वमतक्षतिः ।
ततोऽभेदे पुमर्थत्वं भवेद्धि ब्रह्मशून्ययोः ॥ १३३ ॥
दुःखादित इति । ततो दुःखाद्यभेदात् ॥ १३३ ॥
भेदो घटादिशून्यत्वे द्यात्मशून्यत्वतो यदि ।
स्यान् निर्भेदत्वहानिर्नोचेन्मोक्षो घटशून्यता ॥ १३४ ॥
घटशून्यताऽपि मोक्षः स्यात् ॥ १३४ ॥
भज्ञातस्य पुमर्थत्वं दृष्टं काऽपि न वस्तुनः ।
मोक्षे नाऽस्ति हि विज्ञानं मायिसौगतयोमते ॥ १३५ ॥
४४
द्वितीयोऽध्यायः ।
अनुभवगोचर एव सुखं दुःखाऽभावो वा पुमर्थः मोक्षे तद्विषयक
विज्ञानं चोभयोर्मतेनाऽस्ति यतस्तैर्ब्रह्मशून्ययोः स्वाऽविषयत्वमन्या.
शवषयत्वं चाऽङ्गीकृतं मायिना ब्रह्मणःसुखरूपत्वस्य परिभाषितत्वेऽपि
फलतोऽसुखरूपत्वमेव । न ह्यननुभूतसुखरूपत्वे निर्विषयज्ञानरूपत्वे
वा मानमस्ति ॥ १३५ ॥
मानाऽवेद्यत्वरूपस्वप्रकाशत्ववास्तवभेदशून्यत्ववास्तवधर्मशून्य-
त्वलब्धव्यलब्धभावशून्यत्वाऽसङ्गत्वनिर्लेपत्वादीनां ब्रह्मशून्ययोरुभा-
भ्यामङ्गीकारेणाऽर्थतोऽभेदेऽपि वाक्यसन्दर्भरचनमात्रेण भेदः। स तु
न दर्शनभेदसम्पादक इत्याह ।
मेयतो न विशेषोऽस्ति मायिसौगतयोर्मते ।
भङ्गीमात्रभिदा तु स्यादेकस्मिन्नपि दर्शने ॥ १३६ ॥
मेयत इति ॥ १३६ ॥
विज्ञानवाद्यभिमतमोक्षं दूपयितुमनुवदति
स्वप्रकाशं निराकारं विषयाऽसङ्गि केवलम् ।।
अद्वितीयं हि चिन्मात्रं यत्तन्मोक्ष इतीतरे ॥ १३७ ॥
स्वप्रकाशमिति। स्वप्रकाशं मानाऽवेद्यं निराकारं नीलपीताद्याका.
रशून्यं निर्विषयकम् । तन्मते विज्ञानाऽतिरिक्तं यद्यपि द्वितीयं कदापि
नाऽस्ति तथापि संसारदशायां नीलपीतादिरूप आकारो द्वितीयः
सोऽपि मोक्षे नाऽस्तीत्यद्वितीयं क्षणिक प्रवाह तो नित्यं विज्ञानस्व-
रूपमात्रं मोक्ष इति विज्ञानवादिनः ॥ १३७ ॥
तान् दूषयति
तादृशस्याऽधुना सत्त्वे साधनं निष्फलं भवेत् ॥
कालान्तरे ऽस्तितायां स्यात्कालेनाद्वैतभञ्जनम् ॥१३८॥
ताशर येति । तादृशो मोक्षोऽधुनाऽस्ति चेत्साधनवैयर्थ्य काला-
न्तरभावी चेत्तेन कालेनैवाऽद्वैतभङ्गः ॥ १३८ ॥
ननु तन्नथे विज्ञानाऽतिरिक्तकालो नाऽस्तीति कुतोऽद्वैतभङ्गस्तत्राऽऽह
कालाऽभावे व्यवस्था ते व्याहता वन्धमोक्षयोः ॥
विशेषाऽभावरूपेण विशेषेण मतक्षतिः ॥ १३९ ॥
श्रुतिमिदान्तसंग्रडे ४५ कालाभाव इति । कालाऽनङ्गीकारे इदानी मोक्षो नाऽस्ति दशान्तरे भ. विष्यतीति व्यवस्थायाः कालघटिताया भङ्गः स्यात् । विशेषाऽभाव- स्यैव विशेषत्वेन निर्विशेषाऽद्वितीयविज्ञानं मोक्ष इति मतहानिः सुखदुःस्वाऽभावाभ्यां भिन्नस्य पुमर्थत्वाऽसम्भवेन मोक्षो न युक्त एवेति भावः ॥ १३९ ॥ सौत्रान्तिकवैभाषिकाभिमतं मोक्षं दूषयितुमनुवदति । ज्ञानं स्वरसतो भङ्गि नित्यं संतानतो भवेत् ।। अनादिवासनायत्तोऽर्थेसंवन्धो हि संमृतिः ॥ १४० ॥ ज्ञानमितिज्ञानमेवाऽऽत्मा तच शानं स्वभावेनैव भड्डरम् अतएव क्षणिकं तस्य संतानस्तु नित्यः तस्याऽनादिवासनावशात् यो विष- योपरक्तस्योत्पादःस संसारः भावनाप्रकर्षवशेन वासनायामुत्सन्नायां विषयोपप्लवं विना शुद्धस्यैवोदयः स मोक्षः इत्युभयोस्तुल्यम् । तत्र सौत्रान्तिकनये संसारे ज्ञानं साकारं मोक्षेनिराकारमिति विशेषःचा- सनाऽऽयत्तो वासनाऽधीनोवाह्यविषयसम्वन्धः संसारइत्यर्थः॥१४०।। भावनोपचयाचस्याऽर्थसंवन्धविवर्जनम् ।। विषयोपप्लवाऽभावो मुक्तिः स्यादन्त्ययोर्मते ॥ १४१ ॥ तस्य शानस्य विषयसंवन्धवर्जनं विषयोपप्लवाऽभावोऽन्त्ययोः सौत्रान्तिकवैभाषिकयोर्मते मुक्तिः स्यादित्यर्थः ॥ १४१ ॥ दूषयति । ज्ञानस्य पुरुषार्थत्वं स्वतो न दृष्टं कुत्रचित् ।। दुःखज्ञानं पुमर्थः स्यानिर्विषयं न तद्भवेत् ॥ १४२ ॥ झानस्येति । क्वाऽपि शानस्य सुखदुःखाऽभावभिन्नस्य न पुरुषा- र्थत्वम् अन्यथा दुःखादिविषयकशानमपि पुमर्थः स्यादित्यर्थः ॥१४२॥ सांख्यादीन्निराकरोति । मुखदुःखादिराहित्यं मोक्षे वदन्ति केचन ।। तन्न युक्तं यतो वेदो ब्रूते मुक्तौ सुखज्ञताम् ॥ १४३ ॥ सुखेति । सांख्यवैशेषिकतार्किकादयो मोक्षे सुखदुःखज्ञानेच्छा- ४६ द्वितीयोऽध्यायः । प्रयत्नादीनामुच्छेदमेव वदन्ति तेऽपि घेदविरुद्धभाषिणः । सो ऽश्नुते सर्वान्कामान् , रसो वै सः रसं धेवाऽयंलम्ध्वाऽऽनन्दी भव- ति, जक्षन् क्रीडन् रममाण इत्यादिश्रुतिभिः । सुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र नचैवाऽयं स्थितश्चलति तत्त्वतः ॥ यं लब्ध्वा चाऽपरं लाभं मन्यते नाऽधिकं तत इत्यादिस्मृतिभिश्च सुखाऽनुभवस्यैव तदानामुक्तत्वात् ॥ १४३ ॥ नन्वशरीरं वाव सन्तं न प्रियाऽप्रिये स्पृशत इति मुक्तस्य प्रियाऽ प्रिययोराहित्यमित्यत आह । प्राकृतप्रियहार्निहि प्रियाऽस्पृष्टिरितीर्यते ।। अप्रियं प्रतिकूलं तत्प्रणश्यति त्वशेषतः ॥ १४४ ॥ प्राकृतेति । उक्तश्रुत्यनुरोधात् प्राकृतस्पवाऽस्पृष्टि श ईर्यते कथ्यते अप्रियं त्वशेषतो नश्यति ॥ १४४॥ नन्वप्रियस्याऽपि प्राकृतस्यैव नाशः स्यात्तत्राऽऽह । नाऽस्त्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।। प्रियं स्वरूपमेवाऽस्य वलानन्दादिवाक्यतः ॥ १४५ ॥ नास्तीति । सतो मोक्षाऽधिकारिणो जीवस्य यथाऽप्राकृतमान- न्दरूपत्वं तथाऽप्राकृतमप्रियत्वं यदि स्यात्तदा तद्वलात्प्राकृतस्यैवा- ऽप्रियस्य नाश इति कल्प्येत । वलमानन्द ओजश्च सहो शानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोरितिभुत्या प्रियं जी- यस्य स्वरूपमुक्तं विभोर्व्यापकस्य हरेः परमात्मप्रसादात्तद्यज्य. त इत्यर्थः ॥ १४५ ॥ अतः स्वप्रियनाशाय को यतेत हि बुद्धिमान् । प्रेत्यसंज्ञा नाऽस्तीति मुक्ताऽझेयत्वमुच्यते ॥ १४६ ।। स्वंच तत्प्रियं च स्वस्य प्रियं वा यत्तनाशाय न प्रेत्यशाऽस्ती. ति श्रुतिर्हि मुक्ता अमुक्तैर्न झायन्त इत्येव वोधयति न तु मुक्तानां शानाऽभावं प्रेत्य मरणामन्तरमिति श्रौतोऽर्थः प्रकरणवशान्मरणवि.
श्रुतिसिद्धान्तसंग्रहे ४७ शेषमोक्षाऽनन्तरमिति व्याख्येयम् शानं मुक्तसंवन्धि प्रतिषिद्धमानं तत्कर्मकमेव नतु तत्कर्तृकं क्रीडनवोधकश्रुतिविरोधाऽऽपत्तेः सर्व- - थैवाऽशेयत्वेऽसत्त्वापत्तिरित्यमुक्ताऽशेयत्वं कल्प्यते। अमुक्तानामस्म- दादीनामपरोक्षज्ञानं निषिद्धं तेषां नारदादिभिरपरोक्षतयाऽस्मदा- दिभिः शास्त्रेण शायमानत्वात् ॥ १४६ ॥ ननु तत्कर्तृकशानस्याऽप्यभावः किन्नस्यात्तत्राऽऽह । धर्माऽनुच्छित्तिमेवाऽऽह यतो मुक्तौ स्फुटं श्रुतिः ।। आशयाऽस्य विनाशं हि मैत्रेय्या मुह्यमानया ॥ १४७ ॥ धर्मेति । नोच्छित्तिर्येषां ते ऽनुच्छित्तयो धर्मा यस्य सः अयमा- त्माऽनुच्छित्तिधर्मेति श्रुतिः ॥ १४७ ॥ ननु नोच्छित्तिरनुच्छित्तिः स धर्मो यस्येति किं न स्यादित्या- शङ्ख्या ऽऽदितो वाक्यं व्याख्याति । भवानित्युक्तवत्या हि नाऽई मोहं वदामि ते ॥ इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपाऽनाशमुक्तवान् ॥१४॥ भवानिति । विज्ञानघनएवैतेभ्यो भूतेभ्यः स उत्थाय तान्येवा- ऽनुविनश्यति न प्रेत्यसंज्ञाऽस्तीति विज्ञानघनमूर्तिरयमात्माऽत्र दिर- पि चरमे जन्मनि एतेभ्यो भूतेभ्य सर त्थाय भूताऽऽ मकशरीरोत्प- त्तिनिमित्तव्यवहारभाग्भूत्वा पुनस्तानि भूतान्येवाऽनुविनश्यति तन्ना- शनिमित्तमेव विनाशव्यवहारभाग्भवति ततः प्रेत्य मोज्ञाऽनन्तरं मु- क्तस्य संशा नाऽस्तीत्यविशदं वाक्यं मुक्तस्य ज्ञाननाशंमत्वा मैत्रेय्या- ऽत्रैव भवान् मोहान्तमपीपददिति वाक्येन मां प्रति भवान्यदाह मुक्तो- न जानातीति तन्मोहकमेवत्युक्तवत्या चोदित इतिशेषः न वा अहं मोहं क्वीमीति प्रतिज्ञाय अविनाशी अरे अयमात्मेत्युक्तवान् ॥१४८।। आरमनाशो मोक्ष इत्याशङ्कामपाकृत्य विशेषगुणोच्छित्तिर्मोक्ष- इति वैशेषिकादिमतनिरासायाऽनुच्छित्तिधर्मेत्युक्तमित्याशयेनाऽऽह। धर्मानाहाऽप्यनुच्छिन्नास्तार्किकैर्हि निवारितान् ॥ मात्रासंसर्गमायाह तथा श्रुत्यन्तरं स्फुटम् ।। १४९ ॥ धानितिान विशेषगुणोच्छेदो मोक्षः किंतु निरतिशयसुखाऽनुभव
४८
द्वितीयोऽध्यायः ।
एव । मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गमुपभोगरूपम् ।
मात्रासंसर्गस्त्वस्य भवतीति श्रुतिराह ॥ १४९ ॥
ये निर्विशेषाऽद्वितीयाऽऽत्मावस्थानं मोक्ष इति सौगतैकदेशिनो
पदन्ति तन्मते दर्शनाऽभावेऽनिष्टं प्रसञ्जयति यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाऽभूत् तत्केन कं पश्ये-
दित्याशयेनाह।
यत्रेति हि गिरोऽनिष्टं दर्शनादेरभावकम् ॥
पोधयन्ति द्वितीयस्याऽभावेऽद्वैतमते स्फुटम् ॥ १५० ॥
यति । दर्शनस्पर्शनादेरभावमेवाऽनिष्टप्रसङ्गं वोधयन्त्यद्वै-
तमते ॥ १५०॥
येनेदमखिलं वेद विज्ञातारं स्वमेव च ।।
केन तं तत् विजानीयादित्यनिष्टप्रसञ्जनम् ॥ १५१ ॥
येनेदमखिलं वेद तं केन विजानीयात् विज्ञातारं च केन विजा-
नीयादिति श्रुति व्याख्याति मुक्तौ द्वितीयमात्रस्याऽभावे येनाऽन्तर्या-
मिणाऽखिलं वेदतं विशातारं स्वं च केन करणेन विजानीयात् न के-
नाऽपीत्यर्थः तथेश्वरज्ञानाऽभावः स्वज्ञानाऽभावश्चाऽनिष्टोऽत्र प्रस-
ज्यते म तु वस्तुतस्तत्प्रतिपादनमिति भावः ॥ १५१ ॥
नन्वीश्वरस्याऽशेयत्वमिष्टमेव यतो वाचो निवर्तन्त इति श्रुते-
रित्यत आह ।
अज्ञेयत्वे हरेः स्याद्धि शास्त्रस्याऽऽरम्भणं वृथा।
तज्ज्ञानायैव वेदानां श्रवणादिर्विधीयते १५२ ॥
अशेयत्वइति । हरेः सर्वथाऽशेयत्वे शास्त्राऽऽरम्भोव्यर्थःस्यात् ।
यतः श्रवणमननादिकं तज्शानार्थमेव । वचनाऽगम्यत्वं तु साकल्या.
दिना ।। १५२॥
ननु जीवस्य मुक्तौ स्वविषयत्वं विरुद्धं तत्राऽऽह ।
जीवस्याऽप्यापरोक्ष्यं हि न विरुद्धं स्वगोचरम् ॥
माआनामीत्यहं जीवेऽनुभवोऽस्ति स्फुटं सदा ॥ १५३ ॥
श्रुतिसिद्धान्तसंग्रहे ४१ तु जीवस्येति । स्वं गोचरो यस्य तत् ॥ १५३ ॥ कर्तृकर्मविरोधश्च न नित्याऽनुभवे कचित् ॥ स्वकर्मत्वं निरावा, नित्येशज्ञानवद्भवेत् ॥ १५४ ।। चाक्षुषाद्यपरोक्षस्य विषयसन्निकर्षजन्यत्वेन स्वस्मिन्स्वसंनि- कर्षाऽभावेन स्वविषयकत्वाऽभावेऽपि नित्यशाने तदोषाऽसंभवेन नित्येशज्ञानवत्स्वविषयकत्वं सूपपन्नम् ॥ १५४ ॥ मुखादिधर्महानौ मुक्तेः किं स्यात्प्रयोजनम् ॥ यद्यर्थो दुःखहानिः स्यादनर्थः मुखनाशनम् ।। १५५ ॥ सुखमेव लोके पुमर्थः मोक्षे तदनङ्गीकारे मुक्तेः किं प्रयोजनं न च दुःखनाशः प्रयोजनं तदपेक्षया सुखनाशस्याऽत्यन्ताऽनिष्टत्वेन सुत- रामपुमर्थत्वं स्यात् ॥ १५५ ॥ तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥ प्रामोति हि महादुःखं सुखलेशाऽऽप्तये जनः ॥ १५६ ।। तयोर्दुःखनाशसुखयामध्ये दुःखहानादिष्टात्सुखनाशोऽधिकोऽनि- - टो भवेत् । अनो महादुःखं प्राप्याऽपि सुखलेशाऽवाप्तये यतते ॥१५६॥ यतते सुखहानौ कः प्रयतेत विमुक्तये ।। आत्मसुखविनाशादै विभीतो लौकिको जनः ॥ १५७ ॥ लोके सुखनाशार्थ कःयतते न कोपीत्यर्थः सुखहानौ स्वीकृतायां विमुक्तये कः प्रयतेत सुखनाशाद्भगीतो जनो महादुःखमाप्नोति ॥१५७॥ महादुःखकरं घोरं पापं कुर्वन्ति पण्डिताः ॥ मुखलेशाऽऽप्तये केचिदगम्यगमनादिकम् ॥ १५८ ॥ केचित्पण्डिताः धर्माधर्मादिस्वरूपशा अतिविवेकिनोऽपि सुख- लेशप्राप्तये महानरकाविदुःखजनकमगम्यागमनादिकं जानन्तोऽपि सुखरागात्कुर्वन्तीत्यर्थः॥ १५८ ॥ विमतो दुःखयुग्यस्माचेतनः सन्मुखोज्झितः ।। प्रतिपन्नो यथा चैत्रो दुःखं मुक्तौ न किं भवेत् ॥१५९ ॥ विमतः साङ्ख्याघभिमतो मुक्तो दुःस्त्रवान् सुप्तप्रलीनमूढभिन्नचे. तनत्वाश्चैत्रादिवत् नारकादिवश सुषुप्तौ प्रलये मछायांच व्यभिचा- ५० द्वितीयोऽध्यायः। रवारणाय क्रमेण विशेषणानि ॥ १५९ ॥ सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ॥ मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतम्बुधैः ।। १६० ।। उक्तानुमानाच्छ्त्याशुक्तितश्च सुखभाव एव मुक्तिः अतो बुधै- रेतन्मुक्तौ सुखाऽभावमतं न ग्राह्यमेव ॥ १६० ॥ श्रुतिपुराणान्युदाहरति । सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।। निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥ परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ १६१ ।। सइति । सः अनानन्दाद्विमुक्तः आनन्दी भवतीति श्रुतिः यत्रेत्ये- कादशस्कन्धे भगवद्वचनम्, निर्गुणे प्राकृतगुणशून्ये कामः स्पृहा- ऽवसीयते नश्यति ॥ १६१ ॥ न विष्णुसदृशो देवो न मोक्षसदृशं सुखम् ।। न वेदसदृशं वाक्यं वर्ण ॐकारसंमितः ॥ १६२ ॥ थोङ्कारसशो मन्त्रो नाऽस्तीत्यर्थः ॥ १२ ॥ यत्राऽऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते ।। कामस्य यत्राऽऽप्ताः कामास्तत्र माममृतं कृधि ॥ १६३ ॥ "सोऽश्नुते सर्वान्कामान्स ह ब्रह्मणा विपश्चिता" परं ज्योतिरुप- संपद्य स्वेन रूपेणाऽभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति, जक्षन् क्रीडन् रममाण इत्याद्याः श्रुतयोऽपि शेयाः ॥ १६३ ॥ प्रन्थमध्ये स्वेष्टदेवं प्रणमति । यदीयाघ्रथब्जसच्छायासंश्रिता मुक्तिगा जनाः ॥ रमन्ते निर्भया नित्यं वन्दे तं हयकंधरम् ॥ १६४ ॥ इति श्रीवेदान्तसिद्धान्तसङ्ग्रहे वनमालिविरचिते सोपायमुक्तिवर्णन नाम द्वितीयोऽध्यायः । यदीयेति ॥ १६४॥ इति मोक्षवर्णनं नाम द्वितीयोध्यायः।
श्रुतिसिद्धान्तसंग्रहे
५१
जीवेशयोः स्वरूपे परेशाऽऽराधनं च पृच्छति ।
शिष्य उवाच
को जीवः कीदृशो वा स्यात्कथं तिष्ठति सर्वदा ॥
को वेशः कीदृशो वा स्यात् किं तदाराधनं प्रभो ॥ १॥
क इति । कः किंस्वरूपः कीदृशः किंधर्मको जीवो देहादिनो
भिन्नो ऽभिन्नो वा ऽणुर्महान् मध्यमपरिमाणः परेशादभिन्नो भिन्नो
वेत्यादिः प्रश्नार्थः। कः किंस्वरूपः कीदृशः किंधर्मकः परिमितगुणो
ऽपरिमितगुणो नित्यविग्रहोऽनित्यविग्रहो वेत्यादिः प्रश्नार्थः॥ १ ॥
तत्राऽऽदौ देहादितो भिन्नतया जीवस्वरूपं निरूपयति ।
गुरुरुवाच ।
अहंप्रत्ययवेद्योऽयं भिन्नो देहद्वयात्सदा ॥
सुखदुःखादिभोक्ता च जीवः सङ्गीयते वुधैः ॥ २ ॥
अहमिति ॥ स्थूलसूक्ष्मदेहद्वयात्सदा भिन्नः । सुखादिभोमप्रका-
, रस्तु प्रागभिहितः ॥२॥
देहाऽऽत्मभेदाऽनुभवमाह ।
पितृनन्वभवं वाल्ये यौवने योषितस्तथा ।।
पुत्रादीन धुना वृद्धः स्वमे व्याघ्रशरीरकः ।।
आसं योऽहमिदानी चाऽस्मि मनुष्यशरीरकः ॥ ३ ॥
पितृनिति।वाल्याद्यवस्थाभेदभिन्नेऽपि देहे आत्मस्वरूपस्याऽनुग-
तस्यैकस्यैवाऽनुभवात् स्वप्नादिस्थाऽननुगतदेहगताऽनुगताऽत्मा-
ऽनुभवाच आत्मनो देहानेदसिद्धिः॥३
उत्पन्नश्चेष्टते वालः स्तनपानादिकर्मणि ।
पशूनामपि तत्राऽस्ति हीष्टसाधनतामतिः ॥४॥
उत्पत्तिकाल एव स्तनपानादिकमणि चेष्टते प्रवर्तते ऽतस्तत्र त.
दानी पशूनामपीएसाधनताधारस्ति ॥ ४ ॥
५२ तृतीयोऽध्यायः। प्रवृत्ती हेतुता तस्याः साऽनुमारूपिणी भवेत् ॥ तहेतुाप्तिधी न स्याद्विना देहाऽन्तरस्मृतिम् ॥ ५ ॥ प्रवृत्तिहेतुरिष्टसाधनता ऽनुमा ऽनुमितिः तस्या हेतुाप्तिधीर्द- हाऽन्तरस्मृति विना न सम्भवति ॥५॥ देहाऽन्तरस्मृतौ चाऽननुगतदेहेष्वनुगताऽऽत्माऽनुसन्धानात्त- योर्भेदसिद्धिरित्याशयेनाऽऽह । अनुस्यूतं यथा मूत्रं मणिष्वेकं पृथक् ततः ।। नानादेहाऽनुवृत्तोऽयं जीवस्ततो भवेत्पृथक् ॥ ६॥ यथाऽनेकमणिषु प्रोतं सूत्रमेकं तद्वन्नानादेहानुगत आत्मैकः ॥६॥ प्राणेभ्य आत्मनो भेदमाह । प्राणेषु चेष्टमानेषु मुप्तौ मोहे चितो लये। चैतन्यं दृश्यते नैव शरीरेन्द्रियसंग्रहे ॥ ७ ॥ प्राणष्विति । सुपुप्तो मूर्छायां च प्राणेषु चेष्टमानेषु सत्सु चितो. जीवस्य नाडीस्थभगवद्रूपे लये सति शरीरेन्द्रियादिसङ्घाते चैतन्य न दृश्यते ऽतः प्राणेभ्यो जीवो भिन्नः । अनयैव युक्त्या देहस्थरु- धिरादिधातुभ्योऽपि भेदः सिद्धः ॥ ७ ॥ येन दृष्टं पुरा रूपं रसो गन्धादिकं पृथक् । तन्नाशेऽप्यहमद्राक्षं रूपं नेत्रेण तदिने ॥ ८ ॥ चक्षुरादिभिदा जीवेऽनुभवेन प्रसाधिता संस्काराद्याश्रयो जीवो भिन्नः सदेन्द्रियादितः ॥९॥ येन चक्षुरादिना पुरा रूपादिकमनुभूतं तस्य नाशेऽप्यन्धादीनां तहिने रूपमहमद्राक्षमिति स्मरणादिन्द्रियेभ्योऽप्यात्मा भिन्नः॥८॥९॥ करणं चित्तबुद्ध्यायं कर्तृता तस्य नोचिता ॥ दृष्टः कतरो लोके कारकः करणादितः ॥ १०॥ मनोबुद्धिचित्ताऽहङ्काराणां करणत्वात्ततोऽपिफर्ताऽऽत्मा भिन्नः। ० श्रुतिसिद्धान्तसंग्रहे ५३ कर्तृकरणयोéदस्योत्सर्गसिद्धत्वात् ॥ १० ॥ लिङ्गदेहात्सुसिद्धोऽपि भेदो रीत्याऽनया स्फुटम् ।। उक्ताभिन्नत्वतस्तस्य शास्त्रेगापि स साध्यते ॥ ११ ॥ तस्य लिङ्गदेहस्योकैरिन्द्रियमनोवुद्ध्यादिभिः सहाऽभिन्नत्वात् ततो भेदसिधै। यद्यपि जीवे लिङ्गदेहाद्भेदः सिद्ध्यति तथापि स लिङ्गदेहभेदः शास्त्रेणाऽपि साध्यते ॥ ११ ॥ तत्र मोक्षधर्मवाक्यमुदाहरति । महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् ।। अमृतान्नाऽपरं किंचित्ता काष्ठा सा परा गतिः ॥ १२ ॥ महान् महत्तत्वम् । परं सूक्ष्मम् । अव्यक्त प्रधानम् । परं सूक्ष्मम् । परतः परं सार्वविभक्तिकस्तसिः। अमृतम् । आत्मस्वरूपम् । अमृता- त्परं सूक्ष्म नाऽस्ति । गम्यते प्राप्यत इति गतिः पूर्णाऽऽनन्दाऽऽत्मत त्वम् ॥ १२॥ अहं वेद्य आत्मैव सुषुप्त्यैतत्मवृत्तितः ।। विरोधः श्रुतिवाक्यैः स्यान्न प्रेमाऽऽस्पदताऽन्यथा ॥ १३ ॥ अन्यथाऽहमर्थस्याऽनात्मत्वस्वीकारे"माममृतं कृधिज्योतिरहं वि- रजा विपाप्मा भूयासमिति"श्रुत्याऽहमर्थस्याऽमृतत्वमुक्तम् तथाऽना त्मनो न सम्भवति “कस्मिन्नहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मि- न्वा प्रतिष्ठिते प्रतिष्ठास्यामि" " स प्राणमसृजत हन्ताऽहमिमा- स्तिस्रो देवता अनेनजीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी. त्यादि"श्रुत्या जगत्कारणेऽहन्त्वमुक्तं तदात्मानमेवावेदाऽहंब्रह्मास्मी- त्यवधारणेन शुद्धाऽऽत्मनोऽहन्त्वमुक्तम् । मत्तः परतरं नाऽन्यत् मत्तः सर्व प्रवर्तते । अहमात्मा गुडाकेश। ते प्राप्नुवन्ति मामेव । ततो मां तत्वतो शात्वा विशते तदनन्तरम्। मामेकं शरणं व्रजेत्यादिस्मृत्याहमर्थस्य परब्रह्मत्वमुक्तं सुषु- प्त्यर्थमहमर्थस्य प्रवृत्तिदर्शनात्तस्याऽऽत्मत्वसिद्धिः किश्वाऽहमर्थस्या-
५४
तृतीयोऽध्यायः।
ऽनात्मत्वे त्वन्नये तस्य नाशाऽऽपत्त्या बौखमतप्रवेशः परमप्रेमाऽऽस्प-
दाऽहमर्थनाशस्य तद्भिन्नब्रह्मशून्यादिकृतनामकावस्थानस्य च युवयो.
स्तुल्यत्वात् नाहमर्थभिन्ने निरुपधिप्रेमाऽऽस्पदत्वं काऽप्यनुभूयते ।
निरुपधिप्रेमाऽऽस्पद एवात्मा स त्वहमर्थ एव तनाशो बौद्धमत इव
त्वन्मतेऽप्यस्ति ॥ १३॥
बाधकान्तरमप्याह
सुखमस्वाप्समित्येषं स्मरणं न भवेत् कचित् ॥
सुषुप्तौ मनसोऽभावात् कृतहानादिकं भवेत् ॥ १४ ॥
सुखमिति । सुषुप्ताषन्तःकरणस्य तन्मते नाशेन तद्घटिताऽहम-
थस्य तदानीमभावेन जाग्रत्यहमर्थाधिकरणकस्मृत्यनुपपत्तिः अनु-
भवस्मरणयोः सामानाधिकरण्यानयमात् ॥ १४ ॥
ननु गौरोऽहामत्यत्र देहनिष्ठगौरत्वस्याऽहमर्थ इवात्मानष्ठप्रेमाss-
स्पदत्वादिकमहमर्थ आरोप्यते ऽतः सुप्तौ प्रवृत्त्याधुपपत्तिस्तत्राऽऽह
कार्यादिधीर्भवेद्गौणी कृष्णं वस्त्रमिति स्फुटम् ॥
मम देह इति ज्ञानसत्वे नैकत्वधीभवेत् ॥ १५ ॥
अहमिति । अहं गौरोऽहं कृश इत्यादि काचित्कं ज्ञानं कर्दम-
लिप्ते वस्त्रे कृष्णमितिवदौपचारिकमेव मम देह इत्यादिभेदक्षाने वि.
चमाने ऽभेदारोगसम्भवात् । तथाच दृष्टान्ताऽसिद्धिः । आरोप्य-
साऽऽदिगतभीषणत्वादेरज्ज्वादाविवाऽहमर्थगता प्रेमाऽऽस्पदत्व-
स्यैवाऽऽत्मनि भानाऽऽपत्तेः । १५ ॥
ब्राह्मणोऽहं मनुष्योऽहमिति ज्ञानं प्रमैव नः ।।
देहभेदयुतात्मैव ब्राह्मणादिर्भवेषतः ॥ १६ ॥
देहभेदेन देहविशेषेण युक्त आत्मा ब्राह्मणादिपदवाच्यः देहनाशे
तद्योगस्य पदप्रवृत्तिनिमित्सस्याऽभावानात्मनि ब्राह्मणादिपदवा-
व्यत्वम्।
ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेप्यते
कृच्छ्राय तपसे चेह प्रेत्याऽनन्तसुखाय चेति स्मृत्या देहभि-
अस्यैव देहविशिएस्याऽऽत्मनो ग्राझणपदवाच्यत्वोक्तेः ॥ १६ ॥
५५ ॥ श्रुतिसिद्धान्तसंग्रहे कार्यानुकूल कृतिमत्त्वादिरूपकर्तृत्वमन्तःकरणोत्पन्नमप्यविद्यास- हकृतस्वामित्वादिसम्बन्धेन वास्तवं जीवे पर्समानं तस्यैव सुखदुः- सादिरूपफलदत्वमित्याशयेनाह वास्तवी कर्तृता तस्य स्याद्भोक्तृत्वं यतस्तथा । अन्यथा व्यर्थता हि स्याद्विधानमतिषेधयोः ॥ १७ ॥ पास्तवीति । यतः कर्तृता तस्य तथा पास्तवमेव भोक्तृत्वं तस्य जीवस्य भवेत् । अन्यथा जीवस्य वास्तवकर्तृत्वाऽनङ्गीकारे विधि- निषेधशास्त्रयोर्वैयर्थ्य स्यात् । "कर्ता शास्त्रार्थवत्वादिति” सत्रेण विधिनिषेधशास्त्रयोरर्थवत्त्वाऽन्यथाऽनुपपत्या जीवस्य व्यवस्था- पितम् ॥ १७॥ जीवस्य वास्तवकर्तृत्वे स्मृतिमुदाहरति । यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥ पत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ॥ १८ ॥ यदनिषिद्धं लौकिकं वैदिकं वा कर्म करोषि तन्ममार्पणं कुरु एवं कर्मणो मदर्पणे कृते स्वर्गनरकादिफलदैः कर्मवन्धमैःप्रवाहाऽना- दिभूतैर्मोत्यसे। नहि मिथ्याभूतकर्तृत्वस्य स्वाऽगि ततो मोक्षः फल- मिति सर्वक्षेन परमाप्तेन वक्तुं युक्तम् ॥ १८ ॥ ननु जपाकुसुमनिष्ठलौहित्यं स्फटिकावाऽन्तःकरणनिष्ठकर्तृत्वं जीवे आरोप्यते तत्राऽऽह मोक्षो यस्य भवेत्तस्यैव न्याय्या कर्तृता सताम् ॥ यः कर्ता स भवेद्भोक्तति प्रथा लोकशास्त्रयोः॥ १९ ॥ मोक्षइति । अन्तःकरणनिष्ठकर्तृत्वादेरारोपो न शुक्तौ रूप्यस्येव निरुपाधिकः तद्धतोः सादृश्यज्ञानस्याऽभावात् । सादृश्यज्ञानस्य तत्र हेतुत्वाऽनङ्गीकारेऽधिष्ठानधियोऽप्यहेतुत्वाऽऽपत्तेः । उपाधिनि- घृत्ति विनापि सहानमात्रेण निवृत्त्यापत्तेश्च । नाऽपि सोपाधिकः लौहित्यस्य स्फटिककुसुमयोरिव जीवाऽन्तःकरण्योरुभयार्युगपदुप- लम्भाऽपत्तेः॥ १९॥ ।
तृतीयोऽध्यायः । क्वचिजीवस्याऽकर्तृत्वोक्तिरस्वातन्त्र्याऽभिप्रायेणेत्याह अकर्तृत्वागिरस्तस्य स्युः स्वातन्त्र्यनिषेधिकाः ॥ पराधीनतया कर्तुरप्यस्त्येव हि कर्तृता ॥ २० ॥ अकर्तृत्वेति । पराधीनप्रभौ अप्रभुरितिवत्पराधीनकर्तरि अक- र्तृपदप्रयोगोपपत्तेः ॥ २० ॥ यदि स्यात्पुरुषःकर्ता शक्तात्मा श्रेयसि ध्रुवम् ॥ आरम्भास्तस्य सिद्ध्येयुर्न च जातु पराभवेत् ॥ २१ ॥ यदीति । शक्तात्मा स्वतन्त्रः सन् कर्ता स्यात्तर्हि तस्य सर्वे था- रम्भाः सिचेयुः सफलाः स्युः स पुमान् जातु कदाचिदपि कुतश्चिन्न पराभवेत् ॥ २१ ॥ स्वातन्त्र्याऽभावेनाऽकर्तृत्ववोधकमोक्षधर्मवाक्यमुदाहरति नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ॥ स्वातन्त्र्यं वार्यते जीवे चेष्टामात्रेऽनया गिरा ॥ २२ ॥ ॥ २२॥ एतदेव स्पष्टयति ब्रह्मण्याधाय कर्माणि समं त्यक्त्वा करोति यः॥ लिप्यते न स पापेन पद्मपत्रमिवाऽम्भसा ॥ २३ ॥ ब्रह्मणीति। हरिरवाऽन्तःस्थः कर्म कारयति नाऽहं स्वतन्त्रः कर्म- कति ब्रह्मणि हरौ कर्माणि निधाय हरेरेवेदं कर्म न ममाऽनेन स एव प्रीयतामिति सनत्यागेन पापेन कर्मरूपयाऽनाधविद्यया न लि- प्यते ॥ २३॥ पराधीनमपि जीवस्य कर्तृत्वं सार्वदिकमेव मुक्तावपि तस्य सत्त्वादित्याह विहारश्रवणान्मुक्तो कर्तृत्वस्य हि सत्यता ॥ फर्तृत्वं द्विविधं प्रोक्तं स्वरूपं वाह्यमेव च ॥ २४ ॥ विहारेति । स तत्र पर्येति जझन् क्रीडन् रममाण इति विहारश्रव.
श्रुतिसिद्धान्तसंग्रडे ५७ णात् स्वरूपनिष्ठं कर्तृत्वं स्वाभाविकं प्रागविद्यावृतं मुक्तावाविर्भू- तम् ॥ २४॥ वाहमेवाऽऽह वाह्यं स्यात्कृतिमत्त्वादि तच्चाऽन्तःकरणोद्भवम् ॥ स्वस्वामित्वादिसंवन्धैर्जीवे तिष्ठति वास्तवम् ॥ २५ ॥ वाह्यमिति । अन्तःकरणोत्पन्नं कृतिमत्त्वरूपकर्तृत्वमविद्यासहक- तस्वामित्वादिसम्बन्धेन सत्यमेव जीवे वर्त्तते ॥ २५ ॥ आविद्यासहकृतत्वस्य व्यावृत्तिमाह यद्यपीश्वर एवाऽस्ति मुख्यं तत्स्वामिता सदा ।। तथाऽप्यत्र न संबन्धाऽऽधायिका ह्यज्ञता कचित् ।। २६ ॥ यद्यपीति। तस्य दुःखादिसंसारस्य स्वामित्वं मुख्यं परमेश्वरेऽस्ति तत्संवन्धघटकाऽविद्याया अत्रेश्वरेऽभावात् नेश्वरे संवन्धः ॥ २६ ॥ एतदेव स्पष्टयति साऽज्ञाना स्वामिता हि स्यात् संबन्धो वाह्यतःकृतेः ।। आत्मरूपं हि कर्तुत्वं मुक्तावाविर्भवेन् नृणाम् ।। २७ ।। साज्ञानति वाह्यतो वाह्याया अज्ञानेन सह व. र्तमाना साक्षाना स्वामिता स्वरूपभूतं कर्तृत्वं तु जीवस्य मुक्तावेवा- ऽऽविर्भवति ॥ २७॥ बन्धकाले कचित्मोक्तं तस्याऽकर्तृत्त्वचिन्तनम् ॥ तत्स्वातन्त्र्यनिवृत्त्यर्थमभिमाननिवृत्तये ॥ २८ ॥ कचित्पुराणादौ स्वातन्त्र्यनिवृत्त्यर्थ तस्य जीवस्याऽकर्तृत्वाच- न्तनमुक्कं तदपि देहगेहादावहं ममेत्यभिमाननिवृत्त्यर्थमुक्तम् ॥ २८ ॥ सजीवानां हि पञ्चानां कर्तृत्वं प्राह माधवः ॥ केवलस्यैव जीवस्य तन्न्यवारयदीश्वरः ॥ २९ ॥ जीवसाहतानां पश्चानां कर्तृत्वं विधाय केवलस्य जीवस्य कर्तृत्वं निषिद्धम् ॥ २९॥ ८ ५८ तृतीयोऽध्यायः । भगवद्वचनमुदाहरति । पश्चैतानि महावाहो कारणानि निबोध मे ॥ साङ्खये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ ३० ॥ पञ्चेति । म मत्तः पञ्चैतानि कारणानि निबोध शृणु सेश्वरसां- ख्ये कृतान्त वेदान्ते कथितानि ॥ ३० ॥ तान्येवाऽऽह । अधिष्ठानं तथा कती करणं च पृथग्विधम् ।। विविधाश्च पृथक्चेष्टा दैवं चैवाऽत्र पञ्चमम् ॥ ३१ ॥ अधिष्ठानमिति । अधिष्ठानमिन्द्रियाद्याश्रयो देहः। कर्ता जीवः । करणमिन्द्रियवृन्दं पृथग्विधं ज्ञानेन्द्रियकर्मेन्द्रियादिभेदेन नानाप्र- कारम् । विविधा नानाप्रकाराः पृथगसङ्कीर्णाश्चेष्टाः प्राणापानव्यानो- दानसमानादयः। दैवम् । सर्वः परमेश्वरः।यथा चत्वारोऽन्ये क्रियायां हेतवस्तथा जीवोऽपि न तु केवलो जीव एव कर्तेति भावः ॥ ३१ ॥ शरीरवाङ्मनोभिर्यत्कर्म प्राऽऽरभते नरः॥ न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ ३२॥ शरीरादिना न्याय्यं विहितं विपरीतमविहितं निषिद्धं च यत्कर्म प्रारभते तत्रोक्ताः पश्चैव हेतवो न केवलो जीव इत्यर्थः॥ ३२ ॥ केवलं स्वस्यैव कर्तृत्वाभिमानं निन्दति । तत्रैवं सति कर्तारमात्मानं केवलं तु यः॥ पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ ३३ ॥ तत्रेति । एवं पञ्चानामेव कारणत्वे सति आत्मानं स्वं केवलं कर्तारं नोक्तहेत्वन्तरसहितं स गुरूपदेशेनाऽसंस्कृतबुद्धित्वात् दुर्म- तिः सम्यक् न पश्यति हेत्वन्तरं विहायाऽऽत्मन एव कर्तृत्वं जाना- तीति भावः ॥३३॥ जीवानां वास्तवं प्रतिदेहं भेदमाह । प्रतिदेहं स भिन्नः स्याद्भोगसांकर्यवर्जनात् ॥ भेदस्यौपाधिकत्वं हि श्रुतियुक्त्यादिवाधितम् ॥ ३४ ॥ ॥
श्रुतिसिद्धान्तसंग्रहे ५९ प्रतीति । सर्वदेहेषु जीवैक्ये स्वर्गनरकवन्धमोक्षगुरुशिष्यादि- व्यवस्थाभङ्गः स्यात् देहेन्द्रियान्तःकरणाद्युपाथिभेदेऽपि कायव्यूहै योगिनः सर्वदेहेषु भोगः सुप्रसिद्धः । “शारीरश्चोभये ऽपि हि भेदे- नैनमधीयत" इति सूत्रेण शारीरो जीवोऽन्तर्यामी न भवति किंतु ततो वस्तुतो भिन्नो हि यत उभये काण्वा माध्यन्दिनाश्चन शारी- रमन्तर्यामिणः सकाशात् “यो विज्ञाने तिष्ठन् विज्ञानं यं न वेद य आत्मनि तिष्ठन्नात्मा यं न वेदेत्यादिना" भेदेनैवाऽधीयत इत्यर्थके न विरोधः । विज्ञानात्मशब्दौ जीववाचकौ ॥ ३४॥ मोक्षहेतोगुर्वायुपदेशादेर्मिथ्यात्वे मोक्षोऽपि मिथ्या स्यादित्याह गुरुशिष्यादिभावादि स्यात् स्वामवन्मृषा तव ।। तदा मोक्षो भवन्मिथ्या स्वाममोक्षो यथा मृषा ॥ ३५ ॥ गुर्विति । स्वाप्निकश्रवणमनननिदिध्यासनब्रह्मापरोक्षजन्यमुक्तिः यथा स्वाप्नी मिथ्या तथा मिथ्याभूतगुरुश्रवणमनननिदिध्यासनसा- क्षात्कारहेतुकमोक्षोऽपि मिथ्या स्यात् मोक्षस्य मिथ्यात्वानीकारे बौद्धमतप्रवेशः स्पष्ट एव ॥ ३५ ॥ भेदस्यौपाधिकत्वे दोषमाह । उपाधेरेकदेशेन संवन्धे स्यात् सदेशता ।। कृत्स्नेनैव हि संबन्धे न स्याद्भेदकता कचित् ॥ ३६॥ उपाधेश्चैतन्यैकदेशसंबन्धे चैतन्यस्य सदेशत्वं स्यात् कृत्स्न- चित्सम्बन्धे उपाधैर्भेदकता न स्यात् ।। ३६ ॥ आगमविरोधमाह। अतीतानां च हानं हि मोक्षस्य वोधिका श्रुतिः ॥ व्यर्था स्याद्वन्धमोक्षादिव्यवस्थायाश्च भञ्जनम् ॥ ३७॥ अतीतेति । “यथा यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षी णां तथा मनुष्याणाम्" "अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भु- कभोगामजोऽन्यः" "नित्यो नित्यानां चेतनश्चेतनाना"मिति श्रुतीनाम् वहवो झानतपसा पूता मद्भावमागताः ॥ इदं शानमुपाश्रित्य मम साधर्म्यमागताः ।।
६० तृतीयोऽध्यायः। ये च मुक्ता भवन्तीह नरा भरतसत्तम ॥ तेषां लक्षणमेतद्यच्छ्वेतद्वीपनिवासिनाम् । ततस्वैगुण्यहीनास्ते परमात्मानमञ्जसा ॥ विशन्ति विप्रप्रवराः सांख्या भागवतैः सहेत्यादिस्मृतीनां वहूनां मुक्तिं वदन्तीनां वैयापत्तेः ॥ ३७॥ जीवानामणुपरिमाणं निरूपयति । सच्चिदानन्दरूपास्ते परिमाणेन चाऽणवः ॥ तदुक्रान्त्यादिवाक्यानामन्यथा स्याद्विरोधिता ॥ ३८ ॥ सदिति । “अणुह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च" "वालाग्रशतमागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञयः स चाऽऽनन्त्याय कल्पते । इत्यादिश्रुतेः । सोऽस्माच्छरीरादुक्रम्याऽमुंलोकमभिगच्छति अमुष्मादिमं लोकमागच्छती"त्यादिश्रुतिभिः तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । इत्यादिस्मृतिभिश्च गमनमुक्तं तच्च विभोर्न संभवति म- ध्यमपरिमाणत्वे त्वनित्यत्वापत्तिरित जीवस्याऽणुत्वसिद्धिः । च गमनादिश्रुतिर्बुद्धिविषया । "नाकस्य पृष्ठे सुकृते तेऽनु भूत्वा इमं लोकं हीनतरं वा विशन्ति ते अशुभमनुभूयाऽवतन्त इत्यादिश्रुतौ गतेः सुखदुःखाद्यनुभवरूपसंसारसामानाधिकरण्यो- क्तेः, न च दुःखानुभवरूपसंसारो वुद्धेः मोक्षस्य चैतन्यधर्मत्वेन तत्रैव संसारौचित्यात् अन्यथा वन्धमोक्षयो।यधिकरण्यापत्तेः “स एतान् ब्रह्म गमयती"त्यादिश्रुती तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः। इत्यादिस्मृतौ च मुक्तिसामानाधिकरण्योक्तेश्च "तेन प्रद्योतेनैष आत्मा निष्कामती"त्यात्मनिष्ठत्वश्रुतेश्च न च वुद्ध्युपाधिकमात्मनि गमनं " तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवाऽयं शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जद्यातीति" स्वाभाविकगत्या- श्रयशकटदृष्टान्तोक्तेः “स न उदक्रामन्मीलित इवाऽश्नन्पिवन्नास्ते वे- त्यादि"श्रुतौ मनसः उक्रमणेऽप्यात्मनस्तदभावश्रवणाश्च "तदा वि- द्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यमित्यादिश्रुतौ” ना- न " श्रुतिमिद्धान्तसंग्रहे ६१ मरूपविमोक्षोत्तरमपि गतिश्रवणाच "परं ज्योतिरूपसंपद्य स्वेन रूपे. णाभिनिष्पद्यते" "स तत्र पति जक्षन् क्रीडन् रममाण" इत्या- दिश्रुतौ स्वरूपाविर्भावरूपपरममोक्षेपि गत्युक्तेश्च ॥ ३८ ॥ ननु जीवस्याऽणुत्वे युगपत्सर्वाङ्गगतदुःखाद्यनुभवो न स्यादित्या- शङ्कय तस्य देहैकदेशस्थत्वेऽपि तदीयज्ञानादिगुणस्य देहव्यापकत्वा झुक्तो युगपत्सर्वाङ्गेषु दुःखानुभव इत्याह । एकदेशस्थदीपस्य प्रभा स्याद्यापिनी यथा ॥ तथा जीवगुणव्याप्तिस्ततः सर्वाङ्गभोजनम् ॥ ३९ ॥ एकेति । यथा गृहैकदेशस्थदीपस्य प्रभा गृहन्यापिनी तथा देहैकदेशस्थजीवस्य ज्ञानादिगुणो व्यापकस्ततो दुःखादिभोग इत्यर्थः ॥ ३९॥ गुणिन एकदेशस्थत्वेऽपि गुणस्य व्याप्तिः संभवतीत्यत्र दृष्टान्ता- न्तरमाह। यथा चन्दनविन्दुर्हि देहैकदेशसंस्थितः ॥ विधत्ते शैत्यमङ्गेषु तथा जीवस्य भोजनम् ॥ ४० ॥ यथेति । देहेकदेशपतितश्चन्दनविन्दुः सर्वाङ्गेषु शैत्यं करोति यथा तथा देहैकदेशस्थस्य जीवस्य गुणो देहव्याप्तः ॥ ४० ॥ अवच्छेदकमयादि क्षेत्रं बुद्धिरुदीरिता ॥ दुःखादीनां भवेद्भोक्ता स्वामितादितया नरः ॥ ४१ ॥ दुःखादीनामुत्पत्तौ हस्तपादादिकमवच्छेदकं जलूकावत्संकोचवि काशशीलमन्तःकरणं क्षेत्रम् अविद्यासहकृतस्वामित्वादिसंवन्धेन जीवगतदुःखादिकं जीवेनाऽनुभूयते । यथा क्षेत्रे कुसूले च मम धन- महं धनीति क्षेत्रकुसूलाधवच्छेदेन स्वामित्वसंवन्धेन पुरुषे वर्त्तते तथा संकोचविकाशशालिन्यन्तःकरणे हस्तपादाद्यवच्छेदनोत्पन्नो दुःखाद्यनुभवः स्वामित्वादिसंबन्धेन जीवे सूपपन्न एव ॥ ४१ ॥ ननु देशान्तरीयस्य चैत्रभोगसाधनाङरादेश्चैत्रादृष्टजन्यत्वमा- वश्यकं कार्य प्रत्यदृष्टस्य हेतुत्वात् यदडरादिर्यदीयभोगहेतुः स त- दीयादृष्टजन्य इति नियमात् असन्निकृष्टस्याऽजनकत्वेन सबन्धो वा- ६२ तृतीयोऽध्यायः । च्य आत्मनिष्ठादृष्टस्याऽङरादौ साक्षात् संवन्धासंभवेनाऽऽत्मद्वारकः स्वाश्रयसंयोगो वाच्यः स चाऽऽत्मनो व्यापकत्व एवोपपद्यते अणो- शान्तरीयाङरादौ संयोगाभावादित्याशङ्कामपाकरोति । श्रुत्यायेन स्फुटं तेषामणुत्वं प्रतिपादितम् ॥ तनिष्ठादृष्टसंवन्धो दूरस्थेनाऽङ्कुरादिना ॥ ४२ ॥ श्रुत्यायेनेति। श्रुत्यादिना तेषां जीवानामणुत्वं स्फुटं प्रतिपादितं दूरस्थेनाऽङ्करादिना तस्य जीवमिष्ठादृष्टस्य संवन्धः कल्प्यते ॥ ४२ ॥ विप्रकृष्टानामपि संबन्धमुदाहरति । यथा दूरस्थवाच्येन पदानां विषयेण च ॥ ज्ञानेच्छाभावनादीनां सम्बन्धो जायते तथा ॥ ४३ ॥ यथेति । वाच्यवाचकज्ञानज्ञेयेच्छेष्यमाणादीनां विप्रकृष्टानामपि सबन्धस्तथाऽदृष्टाङ्करयोः संवन्धः ॥ ४३ ॥ आत्मद्वारकसम्बन्धो व्यापकत्वनये सदा ॥ सर्वेषामात्मनामस्ति विद्यते न नियामकम् ॥ एतस्याऽदृष्टजन्यं स्यादिदं नाऽन्यस्य भुक्तये ॥ ४४ ॥ आत्मनो व्यापकत्वनये आत्मद्वारकसंबन्धः सर्वेषामात्मनामदृष्टा- नामङ्कुरादौ सयन्धोऽस्ति चैत्रभोगसाधनमेवेदं न मैत्रस्येति निया- मकं न विद्यते चैत्रादृष्टजन्यमिति चैत्रभोगसाधनं न मैत्रादृष्टजन्यं- न वा तद्भोगसाधनमिति नियामकं नाऽस्तीत्यर्थः किञ्च चैत्रभोगहेतु- शब्दस्याऽपिचैत्रादृष्टजन्यत्वं वाच्यं तच्च विभुद्वयसंयोगासम्भवात्स्वा श्रयसंयोगादन्यः संवन्धस्तयाऽप्यावश्यकः ॥ ४४ ॥ सर्वगत्ववचो ह्येषां श्रूयते यत्कचित् स्फुटम् ॥ तत्सर्वत्रैव कालादौ सर्वयोनिषु वै क्रमात् ॥ ४५ ॥ सर्वत्र काले सर्वासु योनिषु चाऽणूनामप्यात्मनां क्रमाद्मनं व्रत इत्युत्तरेणाऽन्वयः॥ ४५ ॥ गतिं ब्रूते सदैतेषां न तु व्यापकतामणोः ॥ कायब्यूहोऽपि केषां चित् तथा सामर्थ्यशालिनाम् ॥४६॥ वै तत् श्रुतिसिद्धान्तसंग्रहे ६३ अणोरणुत्वेनाऽऽगमादिसिद्धस्य व्यापकतांन ने सामर्थ्यविशेष- वतां केषां चिद्योगिनां कायव्युह उपपद्यते तदीयान्तःकरणस्य ता वहेहेषु वैपुल्यस्याऽन्तःकरणभेदे तु तावदन्तःकरणस्वामित्वस्य तत्र सम्भवात् अविद्यासहकृतस्वामित्वादिकमेव भोगनियामकः सम्ब- न्धः स नानाऽन्तःकरणनिरूपितो योगिन्यस्तीति तत्त्वम् ॥ ४६ ॥ सामर्थ्य विद्यते तेषामावृतं तदविद्यया ॥ आविर्भूतं भवेद्विष्णोः प्रसादात्सुधियां क्वचित् ॥ ४७॥ तेषां तादृशसामर्थ्यमाविद्ययाऽऽवृतं सर्वदैवाऽस्ति तच्छ्रीहरेः प्रसादादाविर्भवतीत्यर्थः ॥ ४७ ॥ अणोरपि युगपद्विप्रकृष्टानेकदेहगतसुखदुःखाद्यनुभवं प्रागुक्तं स्पष्टयति। वैपुल्यं प्राप्नुयाञ्चित्तं क्षेत्रं सुखदुःखयोः ॥ तत्रोत्पन्नसुखादीनां सम्बन्धोऽस्ति हि चेतने ॥ ४८ ॥ वैपुल्यमिति । यावन्तो देहास्तत्पर्याप्तमन्तःकरणं प्राप्नोति तत्त. देहावच्छेदेनाऽन्तःकरणे जातं दुःखादिकं स्वामित्वादिसम्बन्धेन जीवे विद्यमानं यावदविद्यं तेनाऽनुभूयते । अन्तःकरणस्य प्रतिदेहं भेदेऽपि तावदन्तःकरणानामविद्यासहितस्वामित्वं योगिनोऽस्तीति तत्सम्बन्धेन सूपपन्नो भोगः ॥ ४८ ॥ ननु जीव एव दुःस्वादि सम्भवतीत्यत आह । न ह्यस्माकं नये जीवः क्षेत्रं दुखादितो भवेत् ॥ स स्वाम्येव परं भोक्ता स्वामी स्याद्धनवान्यथा ॥ ४९॥ नहीति । यतोऽस्माकमौपनिषदानामारम्भवादं समवायं चाग्न- ङ्गीकुर्वतां प्रकृतिपरिणामवादिनां नये दुःखादितो दुःखादेः क्षेत्र जीवो न भवति किन्तु स्वास्येव स परं केवलं भोक्ता । यथा क्षेत्रो. त्पन्नधनेन पुमान् धनवाँस्तद्वत् । अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते, इत्याद्यागमेन जीवस्य निर्विकारत्वं सिद्धं तच्च परिणामि- त्वविरुद्धम् ।
६४ तृतीयोऽध्यायः । जाग्रत्स्वप्नःसुषुप्तं च गुणतो वुद्धिवृत्तयः। तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ इत्याद्यागमेन जायदादीनामन्तःकरणोपादेयत्वोक्तेः॥ ४९ ॥ जागरावस्थामाह। देहादीन् प्राप्य भुङ्क्ते ना शब्दादीन्विषयान्बुधः ॥ पुण्यपापादिकर्माणि जागरे कुरुते तथा ॥ ५० ॥ देहादीनिति । देहेन्द्रियप्राणान्तःकरणानि प्राप्य ना पुमान् पुण्य- पापफलं शब्दस्पर्शरूपरसगन्धादिकं भुङ्क्ते तथा तादृशानि पुण्य- पापरूपाणि कर्माणि कुरुते ॥ ५० ॥ स्वप्नावस्थामाह। समनस्केन्द्रियैः सूक्ष्मैः संयुक्तो रमते तथा ॥ स्वप्ने वासनयोत्पन्नान् संगृह्णन् विषयान्पुमान् ॥५१॥ सेति । मनोयुक्तसूक्ष्मेन्द्रियैर्वासनयोत्पन्नान् शब्दादीन्विषयानि- ष्टानिष्टान् गृहन्सन् तथा जाग्रद्वदेव रमते ॥५१॥ पुण्यपापाधिकारो न भोग एव हि केवलः ॥ तदा नाऽतः कृतब्रह्महननादेः फलं भजेत् ॥ ५२ ॥ तदा स्वप्नावस्थायां पुण्यपापाधिकारो नाऽस्त्येव किन्तु प्राची- नकर्मफलभोग एव नाऽतस्तदानी कृतपुण्यपापफलभोगः । केषाश्चि. द्रेतःस्खलननिमित्तकप्रायश्चित्तं तु वाचनिकम् ॥ ५२ ॥ ननु स्वानानां पदार्थानां मिथ्यात्वान्नार्थक्रियाकारित्वंतत्राऽऽह। स्वाप्निकानां न वस्तुनां सर्वेषां हि मृषात्मता ॥ केषां चित्स्यात्तदानीं चेद्येषामविपर्ययः ॥ ५३ ॥ स्वाप्निकानामिति।स्वाप्नवस्तूनां सर्वेषां मिथ्यात्वं नाऽस्त्येव केषां- चित्तदानीं लब्धमन्त्रादीनां फलसंवादित्वात् फलसंवादिनां सत्य- त्वनियमात् । केषाञ्चिन्मिथ्यात्वं स्यात् येषामर्थस्य विपर्ययो वाधः । यथा स्वप्ने जागरणं स्वशिरश्छेदो हिमालयादौ समुद्रारोहणादिकम् मिथ्याभूतमेव स्वप्ने परेशेनोत्पादितान् गजरथतुरगादीन्सत्यानेव- श्रुतिसिद्धान्तसंग्रहे ६५ तादृशदहोन्द्रयादिसाधनैः जीवोऽनुभवति तत्रत्यदेहादिकं सत्यमे वाऽष्टवशात्प्राप्यते भोगावसाने च त्यज्यते अतश्चक्षुषा रूपं प- श्यामि श्रवणेन शब्दं शृणोमीति चाक्षुषाद्यनुभवः सूपपन्नः । साक्षि- णो योग्यास्तेनैवाऽनुभूयन्ते स्वाप्तानां गजादीनामुपादानं वासना सूक्ष्मा ईश्वरेच्छयाऽभिव्यक्तानां तासान्तदुपादेयानां च तद्भहण- योग्येन्द्रियैर्ग्रहणमिति विवेकः ॥ ५३ ॥ सुषुप्त्यवस्थामाह । भ्रमणेन परिश्रान्तः सुप्तिं गच्छति निष्क्रियः॥ नाडीस्थाच्युतरूपेण प्राज्ञेनाऽऽलिङ्गितः सुखम् ॥ ५४ ॥ भ्रमणेनोताजागरस्वप्नयोः परिभ्रमणेन श्रान्तो जीवः श्रमापनोदाय सुषुप्तिं प्राप्य तत्र नाडीस्थाच्युतस्य हरेरूपेण मूर्त्याऽऽलिङ्गितः सन् निष्क्रियः स्वरूपसुखमनुभवति। यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा परिकृत्य श्रान्तः संहत्य पक्षान् सल्लापर्वा ध्रियते यथा प्रियया सम्परिग्वतो न वाह्यं वेद नाऽन्तरमेवमेवाऽयं पुरुषः प्राज्ञेनाऽऽत्मना सम्परिवतो न वाह्यं नाऽन्तरमित्यादि"श्रुतेः । वाह्यं रूपादिकम् आन्तरं दुःखादिकं स्वरूपसुखभिन्नं न किञ्चिदेत्यर्थः ।। ५४ ॥ ननु स्वरूपसुखस्याविद्यावृतत्वाद्वैषयिकसुखस्य तदानी साम- ग्यभावाकिंसुखानुभवस्तदाह । आविर्भूतं हरेर्योगादविद्याया विरामतः ॥ स्वरूपेणैव गृहातीन्द्रियाणां वर्जनात्तदा ॥ ५५ ॥ आविरिति । हरेर्मूर्तेोगादविद्याया विरामतिरोभावे सत्या- विर्भूतं स्वरूपसुखं स्वरूपेणैव गृह्णातीत्यर्थः । सुप्तौ स्वरूपप्लु खमेवाऽनुभूयते न तु विषयोत्थं " न वाह्य वेद नाऽन्तरमिति श्रुतेः । न च सौषुप्तिकानुभवस्य नित्यत्वात्तज्जन्यसंस्कारास- म्भवेन कथं जागरे सुखमस्वाप्समिति स्मृतिरिति वाच्यम् । विषयानुभवसम्बन्धनाशस्यैव संस्कारहेतुत्वात् ज्ञानस्वरूपसुखयो- नित्यत्वेऽपि विषयताख्यतत्सम्वन्धप्रयोजकनाडीस्थभगवन्मूर्तिसम्ब- न्धस्य जागरादावभावाविषयतानाशसम्भवात् नच स्वरूपानुभव- स्याऽन्तःकरणासम्बलत्वात्कथं तत्र संस्कारस्मरणयोः सम्भवः सम- ९ तृतीयोऽध्यायः। वायस्याऽनङ्गीकारेण फलवलकल्प्यो हि स्वरूपानुभवसम्बन्धोऽवि. द्यासहकृतस्वामित्वादिरूपोऽन्तःकरणेऽप्यस्ति अत एवाऽतीतसु- ख दुःखादीनां स्मृतिरपि सूपपन्नेति विवेकः ॥५५॥ मूर्च्छीमाह । हरिसंश्लेषराहित्यात्सुखलेशो न विद्यते ॥ मायां दुःखसम्भूतिस्तन्मुखे न सुखं कियत् ।। ५६ ॥ हरीति । मूच्छायां हरिमूर्तिसंश्लेषराहित्यात्तस्या मुखे आरम्भे दुःखसम्भवः न सुखं कियत्किञ्चिदपि ॥५६॥ योगावस्थामाह। योगः प्रोक्तो द्विधा तज्ज्ञैः पुरुषार्थस्य साधनम् ।। सम्प्रज्ञाताभिधो ह्यको ऽसम्प्रज्ञाताभिधोऽपरः ॥ ५७ ॥ योग इति। सम्प्रशातासम्प्रज्ञातभेदेन द्विधा पुरुषार्थचतुष्टयसाधनं तज्जानन्तीति तज्ज्ञाः शेषादयस्तैः ॥ ५७॥ सम्प्रज्ञातासम्प्रज्ञातयोः स्वरूपमाह । सम्प्रज्ञातसमाधौ हि चित्तादिविद्यते नृणाम् ॥ तत्राऽऽनन्दस्य सम्भूति वो भोक्ता भवेत् तदा ॥ ५८ ॥ सम्प्रज्ञातेति। ध्येयाकारांचत्तवृत्तयः ताभिर्येयं विषयीकरोति । जन्यसुखमप्यनुभवति ध्यानमेव ध्येयाकारनिर्भासंप्रत्ययात्मकेन स्व- रूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्यु- च्यत इति योगोक्तेः॥ ५८ ॥ असम्प्रज्ञातसमाधिमाह । असम्प्रज्ञातयोगे तु चित्तादिः प्रलयं व्रजेत् ॥ आविर्भूतस्वरूपेण ज्ञानेनाऽनुभवेन्नरः ॥ ५९ ॥ असम्प्रज्ञातेति । असम्प्रज्ञातसमाधौ चित्तादेर्लयो जायते हरिप्र- सादादाविर्भूतस्वरूपज्ञानेनैव स्वयोग्याशेषहरिनिष्ठा धर्मास्तराख्यं युक्तं हरिं स्वकं स्वीयं पूर्णसुखं चाऽनुभवोदित्यन्वयः ॥ ५९ ॥ नन्वविद्यावरणस्य सत्वात् कथं तथाऽनुभवस्तत्राऽऽह ।
श्रुतिसिद्धान्तसंग्रहे ६७ स्वयोग्याशेषधर्माढ्यं हरिं पूर्णसुखं स्वकम् ।। अविद्यायाश्च सङ्कोचानाशाद्वाऽत्यन्ततस्तदा ॥ ६० ॥ अविद्यायाइति । मुक्तियोग्यस्याऽविद्याया नाशोऽन्याशस्य सङ्कोचोऽतः स्वरूपानन्दानुभवः सुपपन्नः ॥ ६० ॥ उक्तार्थे स्मृतिमुदाहरति । यत्रोपरमते चित्तं निरुद्धं योगसेवया ॥ यत्र चैवाऽऽत्मनाऽऽत्मानं पश्यन्नामानि तुष्यति ॥ ६१ ॥ यत्रेति । यत्राऽवस्थाविशेषेऽसम्प्रज्ञाते योगसेवया योगाभ्यासेन निरुद्धं सच्चित्तम् उपरमते लीयते तत्र चित्तोपरमे सति आत्मना स्वरूपेणाऽऽत्मानं स्वरूपानन्दं पश्यन्नपरोक्षीकुर्वन् तुष्यति ॥ ६१ ॥ नन्वसम्प्रज्ञातसमाधौ न सुखोपलम्भः किन्तु दुःखाभाव एव तस्यैव पुरुषार्थत्वादित्यत आह सुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियम् ।। वेत्ति यत्र नचैवाऽयं स्थितश्चलति तत्त्वतः ॥ ६२॥ सुखमिति । आत्यन्तिकं निरतिशयं यत्तदाश्चर्यरूपं बुद्ध्या- ऽऽविर्भूतस्वरूपज्ञानेनैव ग्राह्यम् अतीन्द्रियं हरिप्रसादहीनचित्ता- ऽगम्यं तत्प्रसादयुत एव पुमान् स्वरूपज्ञानेन वेत्त्यनुभवति अयं यत्र स्थितोऽनेकान्तरायैस्तत्त्वतो न चलति सुखमेव पुमर्थ न तु दुःखाभावमात्रं तस्याऽऽत्मनाशेनाकी सम्भवात् बौद्धाभि- मतमोक्षस्याऽपि पुमर्थत्वापत्तेः “रसो वै स रसं लब्ध्वाऽऽनन्दी भव- तीति श्रुत्या" रसपदार्थस्य सुखस्याऽवाप्त्युक्तेः ॥ ६२ ॥ एतदेव स्पष्टयति यं लब्ध्वा चाऽपरं लाभं मन्यते नाऽधिकं ततः ॥ यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥ ६३ ॥ यमिति । यं सुखविशेषं लब्ध्वा ततोऽधिकं पुरुषार्थ न मन्यते यस्मिन् पूर्णानन्दे स्थित आप्लुतो गुरुणाऽपि प्रारब्ध- दुःखेन ततो न विचाल्यते यद्यपि योगिनां मते ऽसम्प्रज्ञातसमाधौ ६८ तृतीयोऽध्यायः । दुःखाभाव एव न सुखानुभवस्तन्मते आत्मनो ज्ञानानन्दरूपत्वाभावात् तथाऽप्यौपनिषदैर्वादरायणीयैस्तन्मतस्य तदंशे उपेक्षणीयत्वात्।"स तत्र पर्येति जक्षन् क्रीडन् रममाण" इति"विहारोपदेशादिति" श्रुतिसू- त्राभ्यां मोक्षेऽपिविहारोक्तेः “योऽयं विज्ञानघनः""विज्ञानमानन्दं ब्रह्मे". त्यादि श्रुत्याऽऽत्मनां ज्ञानानन्दरूपत्वोक्तेः ईश्वरस्य ज्ञानानन्दरूपत्वो- क्त्यैव तत्सदृशजीवस्याऽपि तत्सिद्धेः। अत्र सम्प्रज्ञातसमाधौ चित्त- वृत्तिभिर्ययरूपं स्वस्वरूपं च विषयीकरोति तदतिरिक्तविषायिकाणां योगविरुद्धानाम् वृत्तीनामेव निरोधः । योगश्चित्तवृत्तिनिरोध इति सूत्रं योगविरोधिचित्तवृत्तिनिरोध इति व्याख्येयम् असम्प्रज्ञातसमाधौ तु चित्तवृत्तिमात्रस्य लयः । सूत्रं वृत्तिमात्राभावपरं मुख्यार्थमेव ।आ- विर्भूतस्वरूपज्ञानेन ध्येयं परेशं स्वरूपानन्दं चाऽनुभवतीति तत्त्वम्६३ स्थूलदेहादिकं हेतुः सर्वत्राऽमुक्तिगे सुखे । न चाऽतः प्रलये भोगो जीवानां जायते कचित् ॥ ६४ ॥ मुक्तिव्यतिरिक्तकाले जीवसुखाद्यनुभवं प्रति स्थूलदेहेन्द्रियादिकं हे- तुरतः प्रलये क्वचित् किमपि सुखादिकं नाऽनुभूयते मुक्तौ तु स्वरूपे- णैवाऽऽनन्दमनुभवतीति तत्त्वम् ॥ ६४ ॥ जीवपदार्थमाह अल्पशक्तिरसार्वज्यं पारतन्त्र्यं सदैव हि ॥ एतज्जीवत्वमीशत्वं विपरीतमितो मतम् ॥ ६५ ॥ अल्पेति । इतो जीवलक्षणाद्विपरीतं पूर्णानन्तशक्तिमत्वादि- रूपम् ॥ ६५ ॥ अध्यायान्ते स्वेष्टदेवं नमस्करोति यस्याऽविद्याख्यशक्त्या हि पूर्णानन्दातिश्चिताम् ॥ सर्ववस्तुनियन्तारं वन्दे श्रीहयकन्धरम् ॥ ६६ ॥ इति श्रीवनमालिविरचिते वेदान्तसिद्धान्तसंग्रहे जीव- स्वरूपवर्णनं नाम तृतीयोऽध्यायः । यस्येति । चितां जीवानाम् ॥ ६६ ॥ इति तृतीयोऽध्यायः।
श्रुतिसिद्धान्तसंग्रहे
६९
अलौकिकस्य वस्तुनो लक्षणं विना शानं न संभवतीत्यसाधार-
णलक्षणपूर्वकं स्वेष्टदेवं स्मरति ।
गुरुरुवाच ।
यतो भूतानि जायन्ते येन जीवन्ति सर्वदा ॥
लीयन्ते यत्र
सर्वाणि हयग्रीवोऽस्तु मे गतिः ॥१॥
यत इति । “यतो वा इमानि भूतानि जायन्ते येन जातानि जी-
वन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति" श्रुत्या वि-
श्वोदयादिकर्तृत्वमेवाऽसाधारणं लक्षणमुक्तम् ॥१॥
ननु विश्वसृष्टौ कालादृष्टप्रकृत्यादेरपि हेतुत्वात्कथमीशस्यैव
तदसाधारणलक्षणमत आह ।
स्वाधीनसत्तं समुपेत्य कालं जीवान् प्रधानं घटयन् स्वतन्त्रः।।
विश्वोदयादीनि करोति तथ्य सत्यैरनन्तैर्हि गुणैरुपेतः।।२।।
स्वाधीनेति । यथा स्वयं गन्तुं समर्थोऽपि लीलया यष्टिमा-
ददानो न सामर्थ्यहीनो भवति तथा सकलनिरपेक्षतया जग-
सर्जनादौ शक्तोऽपि लीलयैव स्वाधीनसत्ताककालाइष्टप्रकृ-
त्यादिकमाददानो नाऽसमर्थो भवति घटयन्प्रेरयन् तथ्यं यथा स्या-
त् तथा करोति नत्वैन्द्रजालिकवन्मिथ्यावस्तु प्रदर्य प्रतारयति स-
त्यैत्रिकालावाधितदोषासहकृतैरुपेतो यतः स्वतन्त्रः लोके यः स्वत-
न्त्रः समर्थः प्रेक्षावान् स स्वेष्टसर्वोपेतो भवति ॥२॥
उक्तार्थ वैष्णवमुदाहरति ।
प्रकृति पुरुषं चाऽपि प्रविश्याऽऽत्मेच्छया हरिः॥
क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥३॥
प्रकृतिमिति । व्यया सविकारा प्रकृतिरव्ययो निर्विकारो जीव-
स्तौ अन्तर्यामितया प्रविश्य क्षोभयामास परस्परं संयोज्य कार्यो-
न्मुखौ कृतवानित्यर्थः।
यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रासंयोगात्तद्विद्धि भरतर्षभ
इति स्मृत्या विश्वसृष्टौ जीवप्रकृतिसंयोगस्य हेतुत्वोकेः ॥ ३॥
७० चतुर्थोऽध्यायः। नन्धीश्वरेच्छादीनामपि नित्यत्वात्सदा सृष्ट्याद्यापत्तिरित्याशङ्कां वैष्णवेन परिहरति । द्विपरार्द्धात्मकः कालः कथितो हि मया तव ॥ तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते ॥४॥ द्विपराद्धेति । अहर्दिनम् ॥ ४॥ व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चाऽन्या तत्प्रमाणा महामुने ॥५॥ व्यक्ते महदादिस्थूले प्रकृतौ प्रधाने पुरुषे हरौ प्रकृतौ लीनायां सत्यां तत्र स्थिते काले दिवसादन्या तत्प्रमाणा द्विपरार्धात्मिका वि- ब्णोनिशा ॥५॥ ननु विष्णोरप्यहोरात्रादिनाऽऽयुःपरिच्छेदः स्यात्तत्राऽऽह । नैवाऽहस्तस्य मैत्रेय न निशा परमात्मनः ॥ उपचारस्तथाऽप्येष तस्य परं द्विजोच्यते ॥ ६ ॥ नैवेति । तस्याऽचिन्त्यशक्तः परमस्वतन्त्रस्याऽहोरात्रादिकं नाऽस्ति परं चतुर्मुखायुस्तदभावयोस्तदहोरात्रादिकमुपचर्यते । । एकैवेच्छा सृष्टिकालयुक्ता सिसृक्षा प्रलयकालयुक्ता च जिहीर्षा भवति “वैषम्यनैघृण्येन सापेक्षत्वादिति” सूत्रेण “पुण्येन पुण्यं लोकं नयति पापेन पापमिति" श्रुत्या च विषमसृष्टिनिमित्त- कवैषम्यदोषनिरासाय जीवादृष्टापेक्षाया ईश्वरस्योक्तत्वात् नच “स एव साधु कर्म कारयीत्यादिश्रुत्या"विषमकर्मकारयितृत्वं तस्यैवो- क्तमिति वैषम्यतादवस्थ्यामिति वाच्यम् पूर्वपूर्वकर्मापेक्षयोत्तरोत्तर- कर्मकारयितृत्वादवैषम्योपपत्तेः कर्मणां च प्रवाहानादित्वात् न च स्वातन्त्र्यहानिः लीलयाऽदृष्टाद्यङ्गीकारेऽपि स्वातन्त्र्योपपत्तेः॥६॥ ननु चतुर्मुखः स्रष्टा रुद्रश्च नाशकः कथमेक एव हरिस्त्रयाणां कर्तेति तत्राऽऽह । सदोपगीतो निगमैश्च सर्वैरचिन्त्यशक्तिर्गुणसागरो ऽसौ ॥ सदोज्झितावद्य उदारकीर्तिः श्रियः पतिर्विश्वसृजां हि कर्ता॥७॥ सदेति। "असौ हरिः नारायण एवाऽग्र आसीन्न ब्रह्मा न शङ्करः"
श्रुतिसिद्धान्तसंग्रहे
७१
“यो ब्रह्माणं विद्धाति” “यस्य व्यक्षात् शूलपाणिरजायत" इत्यादि
निगमैर्हि प्रसिद्धं चतुर्मुखादिकर्तृत्वेनोपगीतो न तु कस्मिंश्चित्कल्पे
हारेर्जगत्कर्ता कस्मिाश्चचतुर्मुखादिरिति पर्यायेण च पुनः सर्वैर्निगमैरु-
पगीतो वाच्य इति यतो गुणसागरः सर्वशब्दप्रवृत्तिनिमित्तधर्मवा-
नतः सर्वशब्दवाच्यः। “सर्वे वेदा यत्पदमामनन्ति" "नामानि सर्वाणि
यमाविशन्ती"त्यादिश्रुतेः।
वेदैश्च सर्वैरहमेव वेद्यः।
इत्यादिस्मृतेश्च ।
नन्वेकस्य कथं विचित्रसृष्टिकर्तृत्वं तत्राऽऽह अचिन्त्यशक्ति-
रिति । " अचिन्त्यशक्तिः पुरुष" इत्यादिश्रुतेः "आत्मनि चैवं
विचित्राश्च हीति" सूत्राश्च । ननु विश्वकर्तृत्वे परिश्रमादि-
दोषः स्यात्तत्राह । सदोज्झितावद्य इति। अवधैः दोषैः सदोज्झितो-
ऽस्पृष्टःजगत्स्रष्ट्टत्वं चाऽऽनन्दोद्रेकालीलयव “कोह्येवाऽन्यात्कःप्रा.
ण्याद्यदेष आकाश आनन्दो न स्यादित्यादिश्रुतेः" आकाशः परमात्मा
याद्रिकानन्दो न स्यात् तदा विश्वप्राणनादिकं कः कुर्यादित्यर्थः
उदारा वदान्या कीर्तिर्यस्य अतः श्रियः पतिः कीर्तिमन्तमेव हि सा
वृणुते ननु मरीच्यादीनां स्रष्टा ब्रह्मा प्रसिद्ध इति कथं सर्वस्रष्टा हरि-
स्तत्राऽऽह विश्वसृजामिति तत्राऽपि चतुर्मुखाद्यन्तर्गतः कार्यमा
प्रति
मुख्यः
कर्ता ॥७॥
चतुर्मुखादिरूपेण हरिरेव सर्गादिकर्तेत्याह ।
प्रजाः ससर्ज भगवान् ब्रह्मा नारायणात्मकः॥
नारायणः परो ऽचिन्त्यः परेषामपि स प्रभुः ॥ ८ ॥
प्रजा इति । नारायण आत्माऽन्तर्यामी यस्य ॥ ८॥
ब्रह्माऽन्तर्यामी हरिब्रह्मेत्याह ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ।।
सर्गस्थितिविनाशांस्तु भगवान्मधुसूदनः ॥
तैस्तैरूपैरचिन्त्यात्मा करोत्यव्याहतान् विभुः ॥९॥
जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः॥
ब्रह्मा भूत्वाऽस्य जगतो विसृष्टौ सम्पवर्त्तते ॥ १० ॥
७२
चतुर्थोऽध्यायः ।
सृष्टं च पात्यनुयुगं यावत् कल्पविकल्पना ॥
सत्त्वभुग्भगवान् विष्णुरप्रमेयपराक्रमः ॥ ११ ॥
ब्रह्मोति ॥९॥ १० ॥ ११ ॥
समोद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः ॥
मैत्रेयाऽखिलभूतानि भक्षयत्यतिभीषणः ॥ १२ ॥
रुद्ररूपी रुद्राऽन्तर्यामी ॥ १२ ॥
भारतमुदाहरति ।
बुद्धिमनोमहद्वायुस्तेजोऽम्भः ख मही च या ॥
चतुर्विधं च यद्भूतं सर्व कृष्णे प्रतिष्ठितम् ॥ १३ ॥
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ॥
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥ १४ ॥
बुद्धिरिति ॥ १३ ॥ १४ ॥
ननु रुद्रादेरपि क्वचित्पुराणादौ जगत्कर्तृत्वमुक्तमिति तस्याऽपी.
शत्वं स्यादिति चेत् यत्र सामान्यतः प्रश्नो विशेषेणोत्तरं तत्रैव सर्वे
श्वरत्वनिर्णयःक्वाचित्कं पौराणिकवाक्यं शिवादिस्तावकमित्याशयेन
सामान्यप्रश्नविशेषोत्तराभ्यां हरेः सर्वोत्तमत्वं प्रतिपादयन्महाभार-
समुदाहरति ।
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ॥
य इच्छोत्सद्धिमास्थातुं देवतां का यजेत सः॥ १५ ॥
कुतो यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् ॥
विधिना केन जुहुयादेवं पित्र्यं तथैव च ॥ १६ ॥
गृहस्थ इति ॥ १५ ॥ १६॥
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ॥
स्वर्गतश्चैव किं कुर्यात् येन न च्यवते दिवः ॥ १७ ॥
स्वः स्वर्गे गतः किं कुर्याधेन ततो न पतेत् ॥ १७ ॥
श्रुतिसिद्धान्तसंग्रहे ७३ दैवतानां च को देवः पितॄणां च पिता तथा ॥ तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥ १८ ॥ युधिष्ठिरेण सामान्यतः सर्वेश्वरः पृष्टः ॥ १८ ॥ नारायणीयाख्यानेन विशेषेण सर्वोत्तमतया हरि निर्धारयति । सिद्धा घेते महाभागाः पुरा ह्येकान्तिनोऽभवन् । तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ।। १९ ॥ सिद्धा इति । भगवता मुक्तप्राप्यत्वं स्वस्योक्तम् ॥ १९ ॥ न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च ॥ न घेयश्चैव गन्धेन रसेन च विवर्जितः ॥ २० ॥ हरेः सर्वेन्द्रियागम्यत्वेनौपनिषदत्वं धोतितम् ॥ २० ॥ सत्त्वं रज स्तमश्चैव न गुणास्तं भजन्ति वै ॥ यश्च सर्वगतः साक्षी लोकस्याऽऽत्मेति कथ्यते ॥ २१ ॥ प्राकृतगुणास्पृष्टत्वेन तस्य नैर्गुण्यं प्रतिपादितम् ॥ २१ ॥ पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ।। यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः ॥ २२ ॥ ज्ञानकगम्यत्वमुक्तप्राप्यत्वादिकमसाधारणमीश्वरलक्षणमुक्तम्॥२२॥ नाम्ना तं निर्दिशति । स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥ न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत ॥ २३ ॥ स इति । पेटकोऽन्तर्यामी जीवयतीति जीवः संकर्षणो हरिः ॥२३॥ स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥ तस्मात्मसूतो यः कर्चा कारणं कार्यमेव च ॥ २४ ॥ परितः सम्यक् स्यातः कथितः शेषो जगत्प्रलये ऽप्यविकततया. ऽवशिष्टः स संकर्षण एव मनोनियामकः प्रधुम्नरूपोऽवततार तस्मा- प्रद्युम्नात्कार्यकारणमियामको ऽनिरुद्धरूपो हरिरषततार ॥ २४ ॥ १०
७४
ततस्तस्मै
चतुर्थोऽध्यायः।
तस्मात्सर्वं सम्भवति जगत्स्थावरजङ्गमम् ।।
सोऽनिरुद्धः स ईशानो व्यक्तः सर्वेषु कर्मसु ॥ २५ ॥
तस्मादनिरुद्धरूपाद्धरेः सर्वकर्मस्वभिव्यक्तः प्रकटः ॥२५॥
अवतारावतारिणोरभेदमाह
यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः ॥
ज्ञेयः स एव राजेन्द्र जीवः संकर्षणः प्रभुः ॥ २६॥
सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते ।।
प्रद्युम्नाचाऽनिरुद्धः स ईश्वरः प्रभुरव्ययः ॥ २७ ॥
ललाटाचैव मे रुद्रो देवः क्रोधाद्विनिःसृतः ॥
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम् ॥ २८ ॥
वरान्प्रीतो दद्यामहमनुत्तमान् ॥
त्वत्कृतां च मर्यादा नाऽतिक्रमिष्यति कश्चन ॥ २९ ॥
त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि ॥
विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥ ३० ॥
य इति ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३०॥
प्रादुर्भावं गतश्चाऽहं सुरकार्येषु नित्यदा ।।
अनुशास्यस्त्वया ब्रह्मनियोज्यश्च सुतो यथा ॥ ३१ ॥
एतांश्चान्यांश्च रुचिरान् ब्रह्मणे ऽमिततेजसे ॥
अहं दत्वा वरान्पीतो वै नित्तिपरोऽभवम् ॥ ३२ ॥
अनुशास्यः शिक्षणीयः नियोज्यः प्रवर्तनीयः ॥ ३१ ॥ ३२॥
अस्मन्मूर्तिश्चतुर्थी या सा. ऽसृजच्छेषमव्ययम् ।
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥ ३३ ॥
चतुर्थी वासुदेवाख्या ॥ ३३ ॥
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः ॥ ३४ ॥
श्रुतिसिद्धान्तसंग्रहे हरेः सर्गः प्राच्यामिन्दुरिवाऽऽविर्भाव एव । नारदं प्रति स्वस्य सर्वोत्तमत्वं स्पष्टमुक्तम् ॥ ३४ ॥ अनिरुद्धरूपाद्धविश्वसृष्टिमाह । अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः । ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥ ३५ ॥ प्रसादात्मादुरभवत्पद्म पद्मनिभेक्षणात् । ब्रह्मा समभवत्तस्मात्स तस्यैव प्रसादजः ॥ ३६ ॥ अह्नः क्षये ललाटाच्च मुतो देवस्य वै तदा । क्रोधाविष्टस्य सअज्ञे रुद्रः संहारकारकः ॥ ३७ ॥ अनिरुद्ध इति ॥ ३५॥ ३६ ।। ३७ ।। एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ । तदादशितपन्थानौ सृष्टिसंहारकारको । निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ॥ ३८ ॥ एवं ब्रह्मरुद्रादिजनकत्वं हरेः स्पष्टमुक्तम् ॥ ३८ ॥ तथा रुद्रं प्रति ब्रह्मोक्तिः। अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे । त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥ ३९ ॥ मया च सार्द्ध वरदं विबुधैश्च महर्षिभिः । प्रसादयाऽऽशु लोकानां शान्तिर्भवतु मा चिरम् ॥ ४० ॥ ॥४९॥४०॥ ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् । प्रसादयामास ततो देवं नारायणं प्रभुम् ॥ ४१ ।। अहो नारायणं तेजो दुर्दर्श द्विजसत्तम । यत्राऽऽविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः॥ ४२ ॥ कस्मिंश्चिनिमित्ते हरिहरयोयुद्धे प्रवृत्ते ब्रह्मणा ऽऽगत्य हरेरैश्वर्य
चतुर्थोऽध्यायः।
रुद्राय वोधितं रुद्रस्तु तद्विज्ञाय क्रोधं विहाय हरि प्रसादयामासत्य
र्थः॥४१॥४२॥
सात्विकस्यैव हरेराराधने प्रवृत्तिर्नेतरस्यति प्रतिपादायतुमाह ।
एवं बहुविधं धर्म प्रतिदैनिषवितम् ।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रतस्थिताः॥४३ ॥
एवमिति । अवैष्णवेषु नानावतेषु स्थिता वैष्णवेभ्योऽन्ये केचन
विप्राः प्रतिबुद्धर्नारदादिभिर्निषेवितमपि वैष्णवं धर्म न कुर्वन्ति
कथमिति जनमेजयस्य प्रश्नः॥४३॥
उत्तरमाह वैशम्पायनः।
तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः ।
सात्त्विकी राजसी चैव तामसी चैव भारत ॥ ४४ ॥
तिन इति ॥४४॥
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोदह ।
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः॥४५॥
देहबन्धेषु देहसम्बन्धेषु यः सात्त्विकः पुरुषः स श्रेष्ठः मोक्षाय
निश्चितो भवेत् ॥ ४५ ॥
अत्राऽपि स विजानाति पुरुषं ब्रह्मवित्तमम् ।
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥ ४६ ॥
पुरुषं सर्वान्तर्यामिणं ब्रह्मवित्तमं सर्वदाऽकुण्ठितस्वरूपक्षानं हरि-
म् अत्र मादिदेहेऽपि यः सर्वोत्तमतया प्रीतिपूर्वकं जानाति स
सात्त्विकः स्मृतः नारायणः परः प्राप्यो यत्र स तथा मोक्षः ॥४६ ॥
नारायणपरायणस्यैव मोक्ष इत्युक्ता हरिमायामोहितानां हरौ भ-
तिर्न भवतीत्याह ।
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।
यथैव त्वं तथैवाऽन्ये भवन्तीह विमोहिताः ॥ ४७ ।।
य एष नारायणाराधनरूपः पञ्चरात्रायुक्तः हरिप्रसादहीनानां
दुश्च रोऽनुष्ठातुमशक्यः ॥ ४७ ॥
श्रुतिसिद्धान्तसंग्रह तदनुगृहीतानां झेयं भगवद्भयमाह । कृष्ण एव हि लोकानां भावनो मोहनस्तथा । संहारकारकश्चैव कारणं च विशां पते ॥ ४८ ॥ कृष्ण इतिभावनः उत्पादकः मोहनो विद्यानियामकः इति विश्वो- • दयादिकर्तृत्वेन हरि तदनुगृहीताः सात्त्विका एव जानन्तीति भावः॥४८॥ एवं स्थलान्तरेऽपि सामान्यतःप्रश्नानन्तरं विशिष्योत्तरेण हरि- रेव सर्वोत्तमतयोदित इत्याह । वहवः पुरुषा ब्रह्मन्नुताऽहो एक एव तु । को ह्यत्र पुरुषः श्रेष्ठः का वा योनिरिहोच्यते ॥ ४९ ॥ वहव इति । जनमेजयेन सामान्यतः सर्वोत्तमः पुरुषः पृष्टः॥४९॥ ब्रह्मरुद्रसंवादेन सर्वोत्तमतया हरि निर्धारयितुमारभते । वहूना पुरुषाणां च यथैका योनिरुच्यते । तथा तं पुरुषं चैव व्याख्यास्यामि गुणाधिकम् ।। ५० ॥ बहूनामिति ॥५०॥ एकदा रुद्रः क्षीरोदमध्यस्थे. वैजयन्तपर्वते समाधिस्थं ब्रह्माणं प्राप्य नमस्कृत्य तेनाभिनन्दितः सन्नुवाच । वहवः पुरुषा ब्रह्मस्त्वया सृष्टाः स्वयम्भुवा । सूज्यन्ते चाऽपरे ब्रह्मन् स कः पुरुषो विराट् ॥५१॥ कोऽसौ हि चिन्त्यते ब्रह्मस्त्वयैकः पुरुषोत्तमः । एतं हि संशयं ब्रूहि महत्कौतूहलं हि मे ॥ ५२ ।। वहव इति ॥ ५१ ॥ ५२॥ पृटो ब्रह्मा चोवाच । वहवः पुरुषाः पुत्र ये त्वया समुदाहृताः । एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्युत ॥ ५३ ॥ शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः । Sri Pratat Caldogno तं Arary वै Accession ७८ चतुर्थोऽध्यायः। भक्षयश्चाऽप्रमेयश्च सर्वगश्च निरुच्यते ॥ ५४॥ वहव इति । सर्वपुरुषातिक्रान्तं यथा स्यात्तथा द्रष्टव्यम् । एव- मन्यपुरुषसाधारणं न द्रष्टव्यम् ॥ ५३॥ ॥ ५४॥ न हिशक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम । स गुणैनिर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ ५५ ॥ तत्प्रसादं विना तदर्शनं दुर्लभमित्यर्थः निर्गुणैः प्राकृतगुणासं- स्पृष्टैरलौकिकैर्गुणैर्विश्वः पूर्णः स्नेहसन्ततियुतज्ञानेन दृश्यः स्मृतः । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । शातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपेति स्मृत्या कथितम् ॥ ५५॥ एवं हि परमात्मानं के चिदिच्छन्ति पण्डिताः । एकात्मानं तथात्मानमपरे ज्ञानचिन्तकाः ॥ ५६ ॥ के चित्पण्डिता एकात्मानमेव परमात्मानं सर्वोत्तमतयेच्छन्ति मु. क्तावपि जीवानां तत्साम्यं नेच्छन्तीत्यर्थः अपरेशानचिन्तका यथा परमात्मा तथाऽन्मानं जीवमपि मुक्ताविच्छन्ति "निरञ्जनः परमं साम्यमुपैतीति" श्रुतेः ॥ ५६ ॥ परमात्मनो नामाऽऽह । तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः । स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः॥ ५७ ॥ न लिप्यते फलैश्चाऽपि पद्मपत्रामवाऽम्भसा । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ॥ ५८ ॥ ऋग्वेदे स यजुर्वेदे तथैवाऽथर्वसामसु । पुराणे सोपनिषदे तथैव ज्यौतिषेऽर्जुन ॥ ५९ ॥ तत्रेत्यादिना। विश्वोदयादिकर्मफलैर्न लिप्यते कर्मात्मा कर्मण्यह कर्तेत्यभिमानी जीवः मोक्षवन्धैर्युज्यते इत्यर्थः हरेनिगुणत्वं तु प्राकृतगुणशून्यत्वम् । सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः
श्रुतिसिद्धान्तसंग्रहे
७९
इति वैष्णवोक्तः ॥ ५७ ।। ५८ ॥ ५९ ॥
सांख्ये च योगशास्त्रे च आयुर्वेद तथैव च ।
वहूनि मम नामानि कीर्त्तितानि महर्षिभिः ॥ ६० ॥
सन्ध्यभाव आर्षः।भारते सर्वशब्दवाच्यत्वं हरे स्पष्टमुक्तम्॥६०॥
उपक्रमोपसंहारादिलितादादीनां तात्पर्य हरावेवेति भारतवा-
क्येन निर्धारयति।
वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ ११ ॥
वेद इति । सर्वोत्तमतया गीयते इत्यर्थः॥ ६१ ॥
यत्त श्रीकृष्णेनाऽवतारान्तरेण च रुद्रादिः पूज्यते तत्तु पृथ्वादा-
विव तत्र जीवविशेष स्वांशावेशाभिप्रायेण, शिवादेः कचिन्नारायणा.
भदोक्तिरपि तदभिप्राया । पुत्रादीनि फलानि कामयमानान् जनान्
रुद्रादिपूजायां प्रवर्तयितुं च कचित्पूज्यते इत्येतदर्थकभगवद्वचनान्यु-
दाहरति।
अमात्मा हि लोकानां विश्वानां पाण्डुनन्दन ।
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् ॥ ६२॥
अहमिति । विश्वानां सर्वेषामात्माऽन्तर्यामी आत्मानं रुद्रान्त
र्यामिणं रुद्रान्तःस्थमदंशावतारं वा पूजयामि ॥ ६२ ।।
लोकशिक्षार्थ पूजयामीत्याह ।
मया कृतं प्रमाणं हि लोकः समनुवर्त्तते ।
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ॥ ६३ ॥
मयेति । रुद्रादयो देवाः पूज्या इति प्रमाणं मया कृतं तत्कथं
निर्वहेत् यदि रुद्रादिर्मया न पूज्यतेति रुद्रादिर्मया पूज्यते यथा
नारदादयो विप्राः पूज्यन्त इत्यर्थः ॥ ६३ ।।
स्वोत्तमस्याऽभावात्तबुझ्या ऽहं कं चिन्न भजामीत्याह ।
न हि विष्णुः प्रणमति कस्मै चिद् विबुधाय च ।
अत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ॥ ६४ ॥
चतुर्थोऽध्यायः । सब्रह्मकाः सरुद्राश्च सेन्द्रा देवा महर्षिभिः । अचयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥ ६५ ॥ भविष्यतां वर्त्तताश्च भूतानां चैव भारत । सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥ ६६ ।। नहीति । आत्मानं स्वांशावतारम् ॥ ६४ ॥६५॥ ६६ ॥ युधिष्ठिरेण रुद्रस्य माहात्म्य विशिष्य पृष्टं पुत्रकामेन श्रीकृष्णेन रुद्र आराधित इति तदाराध्यत्वरूपं रुद्राङ्गेषु सर्वदेवानामवस्थाना- दिकं च सकामानामुपासनादााय वार्णतम् एवं क्वचित्पुराणादौ रुद्रादेः सर्वेश्वरत्ववर्णनं तदपि तदुपासकांस्तत्र प्रवर्त्तायतुं स्त- वनमेव न तु वस्तुतत्त्वं तथा साधारण्येन प्रवृत्ते महाभारते पञ्च- मवेदे सामान्यतः प्रश्नस्य विशेषेण रुद्रादिसर्वेश्वरत्वप्रतिपादकं प्रतिवचनं नाऽस्त्येव हरेस्तथा प्रतिपादकं भारतमसकृदुदाहृतं पुनरप्युदाहरति । किमकं दैवतं लोके किं वाऽप्यकं परायणम् । प्राप्नुयुर्मानवाः शुभम् ॥ ६७॥ को धर्मः सर्वधर्माणाम्भवतः परमो मतः । किञ्जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६८ ॥ किमिति । दैवतं जगदाराध्यम् । एकं मुख्यं परमुत्कृष्टमयनमा- स्तुवन्तः कं कमर्चन्तः श्रयः ॥६७॥ ६८॥ सामान्यतः प्रभस्य विशेषेण विष्णुं निर्धारयन्नुत्तरमाह । जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः॥ ६९ ॥ तमेव चार्चयनित्यं भक्त्या पुरुषमव्ययम् । ध्यायंस्तुवन्नमस्यश्च यजमानस्तमेव च ॥ ७० ॥ जगदिति ॥ ६९ ॥ ७० ॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
श्रुतिसिद्धान्तसंग्रह ८१ लोकाध्यक्ष सुराध्यक्ष धर्माध्यक्ष कृताकृतम् ॥ ७१ ॥ न आदिनिधने यस्य तम् ॥ ७१ ।। जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् । योगो ज्ञान तथा साख्यं विद्या शिल्पादिकर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनात् ॥ ७२ ॥ विश्वोदयादिकर्तृत्वेन हरेरेव सर्वोत्तमत्वं व्यवस्थापितम् ॥७२॥ मत्तः परतरं नाऽन्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७३ ।। भगवता स्वोत्तमत्वं स्पष्टं निषिद्धम् ॥ ७३ ॥ सर्वप्राणिहृदयनिष्ठतया नियामकत्वरूपान्तर्यामित्वं हरेरेवेत्यर्थे स्मृतिमुदाहरति । सर्वस्य चाऽहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाऽहम् ॥७४|| सर्वस्येति।स्मृतिरतीतस्याऽनुसंधानं ज्ञानम् अनुभवोऽपोहनं शाना- भावो मत्तः सकाशादेव मम कार्यमानं प्रति जनकत्वात् वेदैश्चेत्यनेन सर्वशब्दवाच्यत्वं समन्वयाध्यायप्रतिपाद्यं हरेरेव सिद्धं वेदानामन्तः फलं तत्कृत्स एव वेदविदित्यनेन तस्याऽऽप्तत्वं सिद्धम्॥ ७४ ॥ आप्तत्वमेव स्पष्टयति । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ७९ ॥ भोक्तारमिति । भोक्तारं भक्तार्पितोपहारस्वीकर्तारं पालक वा महेश्वरमित्यनेन भ्रमप्रमादकरणापाटवादिदोषा निराकृताः सु. हृदामित्यनेन विप्रलिप्साद्यभावो निरुपध्युपकारकत्वं च सिद्धम् । एतादृशानन्तगुणविशिष्टस्य हरेनिं मोक्षहेतुरित्यपि सिद्धम् ॥७५॥ "शास्त्रयोनित्वादिति” सूत्रण "तं त्वौपनिषदं पुरुषं पृछामीति" श्रुत्या चेश्वरस्य शास्त्रैकगम्यत्वमुक्तं शास्त्रं च वेदस्तदुपवृहकं पञ्च- रात्रादिकं चाऽतः पञ्चरात्राापवृंहितवेदेनैवेश्वरो झयो न तु पाशुपत- ११
८२
चतुर्थोऽध्यायः ।
तामसपुराणाद्युपबंहितेनेत्याशयेन पञ्चरात्रस्य प्रमाणश्रेष्ठत्वप्रतिपा-
दकं भारतमुदाहरति ।
सांख्यं योगः पाशुपतं वेदारण्यकमेव च ॥
ज्ञानान्येतानि भिन्नानि उताऽहो नेति चोच्यताम् ॥७६ ॥
सांख्यमिति । वेदारण्यकं पञ्चरात्रं भिन्नानि विरुद्धानि उताऽवि
रुद्धानि ॥ ७६ ॥
एतेषां परस्परविरोधमाह ।
सांख्यं योगः पाशुपतं वेदारण्यकमेव च ॥
ज्ञानान्येतानि भिन्नानि नाऽत्र कार्या विचारणा ॥७७॥
सांख्यमिति । ज्ञायते यैस्तानि ज्ञानसाधनानि शास्त्राणि भि-
नानि विरुद्धानि ॥ ७७॥
अन्योन्यं विरोधमुत्वा पञ्चरात्रस्य श्रेष्ठत्वमाह ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ॥ ७८ ॥
पञ्चरात्रस्येति । एतेषु प्रागुक्तेषु शास्त्रेषु एतत्पञ्चरात्रं विशिष्यते
श्रेष्ठं भवति यतोऽत्याप्तो नारायणोऽस्य वक्ता चतुर्मुखादयश्च श्रो.
तारः ॥ ७८॥
पञ्चरात्रोपवृंहितवेदोक्तमार्गेणेश्वरमाराधयन्तो मुक्ता भवन्ती-
त्याशयेनाऽऽह ।
पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ ७९ ॥
पञ्चरात्रेति । पञ्चरात्रवेदितारो मुख्याः श्रेष्ठाः यतो यथाक्रमपर:
मोक्षमार्गे यः क्रमस्तत्परायणास्त एव न तु पाशुपतादयः एका-
न्तभावः पञ्चरात्रोक्तरीत्या भक्तिस्तत्पराः ॥ ७९ ॥
पञ्चरात्रस्य वेदात्मकत्वमाह ।
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
सांख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥ ८०॥
श्रुतिसिद्धान्तसंग्रह ८३ इदमिति। चतुर्वेदैः समन्वितं तदर्थप्रतिपादकत्वात् पञ्चरात्रसं. शकं सांख्यादिकं तत एवोद्भूतं तत्र कारणात्मना वर्तत इत्यर्थः कृतान्तो वेदान्तः उत्तरमीमांसा तत एवाऽर्थ ज्ञात्वा सांख्यादीनि सच्छास्त्राणि मुनिभिः कृतानीति भावः ॥ ८० ॥ मानवादिस्मृतयोऽपि पञ्चरात्रमूलिका इत्याह । अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम् ।। वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ॥ ८१ ॥ अस्मादिति । समितं मिलितं प्रमाणतायां तुल्यं च ॥ ८१ ।। उकमर्थ संगृह्याऽऽह अग्रइत्यादिना लोकान् शिक्षयितुमित्यन्नेन । अग्रे नारायणो ह्यासीन ब्रह्मा न च शङ्करः । ब्रह्मा प्रजायते विष्णोः प्रातिसर्ग शिवस्तथा ॥ ८२ ।। अग्रे सृष्टेः पुरा ब्रह्मा नाऽसात्कि तु हरिरेवाऽऽसीत् विष्णोः सकाशाब्रह्मा शिवश्च प्रतिसर्ग जायते " नारायणाब्रह्मा जायते नारायणादुद्रो जायते "इति श्रुतेः ॥ ८२ ॥ सात्त्विकेष्ठ पुराणेषु भारत वेदे रामायणादौ सृष्टिप्रकरणे ब्रह्माश- वादीनामिव श्रीविष्णोरुत्पत्तिोंक्तेति नित्यविग्रहोऽयम् । अवतारस्तु नित्यविग्रहस्याऽविर्भाव एव न च नृतनदेहलाभोऽतो निरतिशय- श्वर्य तस्येत्याशयेनाऽऽह । न विष्णोः काऽपि जन्मोक्तिः पुराणे सात्त्विके तथा । भारते पञ्चमे वेदे सृष्टिप्रकरणे क चित् ।। ८३ ।। नेति । देवक्यादावाविर्भावस्तु प्राच्यामिन्दोरिव नाऽपकर्ष- हेतुः॥ ८३॥ यत्त्वौपमन्यवाख्याने भारते श्रीकृष्णेन पुत्रार्थ रुद्र आराधित- स्तत्र रुद्राङ्गेभ्यो विष्णुसहितानामुत्पचिवर्णनं तत्तूपासनादाढाय स- कामांस्तत्र प्रवर्तयितुं च विशेषेण प्रश्नोत्तराभ्यां स्तुतिरूपतया त- दैश्वर्यवर्णनं कृतं न तु सामान्यप्रश्नविशेषोत्तराभ्यां विष्णोरिव शि- वादेरैश्वर्य भारतादौ वाऽपि वर्णितं क्वचिसामसपुराणादौ तद्वर्णन तदुपासनार्थ लोकव्यामोहनाय चेत्याशयेनाऽऽह ।
८४
चतुर्थोऽध्यायः ।
यत्र सामान्यतः प्रश्नः स्याद्विशेषत उत्तरम् ।
तेन सर्वेश्वरत्वस्य निःशङ्कं निर्णयो भवेत् ॥ ८४ ॥
न तूपासनादाढ्यार्थ यत्पृष्टं तस्य चोत्तरात् ।
यथोपमन्यवाख्याने प्रश्नोत्तरप्रवर्त्तनम् ॥ ८५ ।।
यत्रेति ॥ ८४ ॥॥ ८५॥
विष्णुविषयको तथोत्तरौ प्रागुदाहृतौ स्त इत्याह ।
विष्णौ सामान्यतः प्रश्ने विशेषतस्तथोत्तरम् ।
विद्यते भारते नाऽस्ति रुद्रादिविषये क चित् ।। ८६ ॥
विष्णाविति ॥ ८६॥
उपक्रमादिलिङ्गैर्महातात्पर्यतो हरि ज्ञापयन्ति वेदा इत्याशये-
नाऽऽह ।
ज्ञापयन्ति हरिं वेदा लिङ्गैरुपक्रमादभिः ।
भारतोपकृताः सर्वे पश्चरात्रोपटंहिताः ॥ ८७ ॥
ज्ञापयन्तीति ॥ ८७ ॥
पञ्चरात्रस्य मानेषु श्रेष्ठ्यमुक्तं हि भारते ।
नारायणकृतत्वाद्धि तद्विषयत्वतस्तथा ॥ ८८ ॥
नारायणेनाऽत्याप्तेन कृतत्वात् सत्यानन्तगुणस्य तस्यैव प्रतिपा-
दकत्वाश्च श्रेष्ठथं पञ्चरात्रस्य नारायणीयाख्यानेनोक्तम् ॥ ८८ ॥
कुत्र चिदवतारे हरिणा रुद्रादिपूजनं लोकशिक्षार्थमित्याह ।
लोकान् शिक्षयितुं विष्णुरवतारेषु कुत्रचित् ।
आराधयति रुद्रादीन् सदाऽऽप्तकाम एव सन् ॥ ८९ ॥
लोकानिति ॥ ८९ ॥
हरिभिन्नानां सर्वेषामुत्पत्तिः सा विधेत्याह ।
स्वरूपदेहधर्माणामुत्पत्तिस्त्रिविधा मता।
लाभो विशेषरूपस्य तुरीयोत्पत्तिरीयते ॥ ९० ॥
स्वरूपति ॥९०॥
श्रुतिमिद्धान्तसंग्रहे ८५ त्रैविध्यं निरूपपति। महदादेः स्वरूपस्य चितो देहस्य सम्भवः । आनुपूर्व्यादिधर्मस्य लाभः शब्दादिकस्य हि ॥ ९१ ॥ महदिति । महदादेर्जडस्य स्वरूपेणैवोत्पत्तिः चितो वद्धजीवस्य देहलाभ एवोत्पत्तिः नित्यस्य वर्णात्मकशब्दस्याऽऽनुपूर्व्यादिधर्म लाभ एवोत्पत्तिः पराधीनत्वं सर्वत्र विवक्षितं तेन मुक्तानां स्वेच्छया देहलाभेऽपि न तन्निवन्धनोत्पत्तिः ॥९१ ॥ मुक्तसाधारणीमुत्पत्तिमाह । मुक्तानां निजरूपस्य लाभो भगवदिच्छया । प्रकृत्यायभिमानादेर्लाभः श्रियस्तथोच्यते ॥ ९२ ॥ मुक्तानामिति । प्रागनाद्यविद्यावृतपूर्णानन्दलाभः एवं पराधीन- विशेषावाप्तिरूपोत्पत्तिर्मुक्तानां सृष्टिकाले प्रकृत्याद्यभिमानित्वरूपप- राधीनविशेषावाप्तिरूपोत्पत्तिः श्रियः॥९२ ॥ पारतन्त्र्यम्परं ज्ञेयं निदानं वस्तुसम्भवे । विनाशोऽपि चतुर्धा स्याद्वस्तूनामच्युतेच्छया ॥ ९३ ।। वस्तूनां सम्भवे कथितोत्पत्तौ पारतन्त्र्यं परेशाधीनत्वं परं केव- लं कारणम् । वस्तूनामच्युतस्य हरेरिच्छया विनाशोऽपि चतुर्विधः।य- द्यपि जडस्य स्वरूपेण नाशो वद्धजीवानां देहनाशो रमायाः प्रलये प्र कृत्याधभिमानत्यागरूपो नाशःसंभवति मुक्तजीवानामाविर्भूतपूर्णान- न्दस्य वियोगाभावान्नाशो न सम्भवति तथापि मुक्ताः स्वेच्छया प्राप्त विग्रहं वाहलीलां च स्वेच्छयैवाऽनायासेन विहाय परानन्दानुभवा- प्लुताः सन्तो भगवदुदरे स्वच्छन्दाः सावकाशास्तिष्ठन्तीति भवति तेषामपि वाह्यलीलादित्यागरूपो विनाशः पराधीनत्वं चतुर्थो नाशः सर्वसाधारणः ॥१३॥ अध्यायान्ते स्वेष्टदेवं नमस्करोति ॥ श्रीब्रह्मेशसुरेशाद्या यस्याऽऽज्ञां शिरसा सदा ।
८६ चतुर्थोऽध्यायः । वहन्ति प्रयता वन्दे श्रीहयकन्धरं हि तम् ॥ ९४ ।। इति श्रीवेदान्तसिद्धान्तसंग्रहे वनमालिविरचिते हरिसर्वो- त्तमत्ववर्णनं नाम चतुर्थोऽध्यायः । श्रीति । श्रीरमा ब्रह्मा चतुर्मुखः ईशो रुद्रः सुरेशः शक्रः आदिप- दान्मुनिगन्धर्वमनुष्यदानवदैत्ययक्षराक्षसाःप्रयताः सावधानाः ॥१४॥ इति चतुर्थोऽध्यायः॥
श्रुतिसिद्धान्तसंग्रहे प्राक् पृष्टं हरेरद्भुतमहिमानं लब्धावसरो वर्णयति ॥ अध्यायादौ स्वेष्टं स्मरति ॥ गुरुरुवाच । कुतर्कास्पृष्टधामा ऽसावचिन्त्यानन्तशक्तिमान् । जयति श्रीहयग्रीवो भक्तानुग्रहतत्परः ॥१॥ "तर्काप्रतिष्ठानादिति"न्यायेनवेदाननुकूलतकरस्पृष्टं धाम स्वरूपं लोकवैभवादिकं यस्य तत्र हेतुरचिन्त्येति "विचित्रशक्तिःपुरुषः पुरा- ण" इति श्रुतेः "आत्मनि चैवं विचित्राश्च हीति"सूत्रात् भक्तानुग्रहे तत्परः उद्युक्तः॥१॥ स्वप्रत्यक्षयोग्याशेषविशेषविशिष्टस्य हरेरापरोक्ष्यं मोक्षेतु “तर- ति शोकमात्मविदित्यादि" श्रुतेः "ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमिति स्मृतेश्च " तं स्वौपनिषदं पुरुषं पृच्छामीति" श्रुतिसिद्धास्ती न्द्रियस्वरूपस्य हरेनिं लक्षणज्ञानाधीनमिति तल्लक्षणं वक्तव्यं तंञ्च"जम्माद्यस्य यत" इति सूत्रेणाऽस्य विश्वस्य जन्म प्राणं नाशश्च यतो हरेरेव तानि प्रत्येकं लक्षणत्रयं कृतम् “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशम्तीति श्रुतेः" तद्व- र्णितं, प्राक्सूत्रस्थादिपगृहीतलक्षणान्तरमाह ॥ बन्धस्य मोक्षस्य तथाऽज्ञताया ज्ञानस्य कर्ता नियतेश्च विष्णुः । ध्येयः सदाऽतो भवतापतप्त ज्ञेयश्च मुक्तः मुखविग्रहो ऽसौ ॥२॥ बन्धस्योति। बन्धस्याऽनादेरपि तत्सङ्कल्पाधीनत्वात्तं प्रति क्षेम- साधारणी कारणता ऽस्त्येव लोके यो बन्धकः स एव मोचयितुं क्ष- मो दृष्ट इति "तेषामहं समुद्धर्ते"त्यागमोक्तमोचकत्वाऽन्यथानुपपस्या बन्धकत्वं सिद्धम्। अनत्वं शानाभावः सोऽपाशात् “मत्तः स्मृतिर्ज्ञान- मपोहनश्चेति स्मृतेः" अपोहनं नाशः तत्त्वज्ञानमपि तत एव "ददामि बुद्धियोगन्तमिति"स्मृतेः वन्धमोक्षयोः परस्परविरुद्धस्वभावस्या:- ८८ पञ्चमोऽध्यायः । " श्रुत्या हरेः स. शाननिष्ठावरणस्वभावस्य ज्ञाननिष्ठाऽज्ञाननिवर्तनस्वभावस्यचाऽन्ये- षां वस्तूनां स्वभावस्य च या नियतिनियमनं तस्याः कर्त्तत्यर्थः तथा च सूत्रेणाऽष्टौ स्वरूपलक्षणानीति सिद्धम् ॥ २ ॥ विविधविचित्रसत्यविश्वोदयादिकर्तृत्वमानन्दोद्रेकादेव हरेरि- त्याशयेन तस्य निर्दुष्टानन्दरूपत्वमाह । सच्चिदानन्दरूपोऽसौ तद्गुणकस्तथा विभुः। तस्य गुणाद्यभेदेऽपि विशेषो वर्त्तते सदा ॥ ३ ॥ सदिति । " सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्मति सच्चिदानन्दरूपत्वोक्तेः " आनन्दं ब्रह्मणो विद्वान् यः सर्वज्ञ ” इत्यादिना तस्य तद्धर्मकत्वोक्तेश्च । नन्वेवं "ध- मन्पृिथक्पश्यंस्तानेवाऽभिधावतीति श्रुत्या गुणानां धर्मिपार्थ- क्यनिषेधात्कथं धर्मा हरेरभिन्नाश्चेद्धर्मधर्मिभावहानिः त्यं ज्ञानमनन्तं ब्रह्मे"त्यादीनां पर्यायतापत्तिश्चेत्यत आहातस्य गुणा- द्यभेदेऽपीति।भेदाभावेऽपि भेदप्रतिनिधिर्विशेषोऽनक्रियते तेन धर्म- धर्मिभावाऽपर्यायत्वाद्युपपत्तिः ॥ ३ ॥ तदेवाह । भेदप्रतिनिधिः स स्यात् व्यवहारस्य साधकः । के चिद्भदं हि वाच्छन्ति गुणिगुणादिवस्तुनः ॥ ४ ॥ भेदति । विशेषो गुणिगुणयोरभेदेऽपि भेदाभावेऽपि भेदकार्य- स्य धर्मधर्मिव्यवहारस्या ऽपर्यायत्वादेश्च निर्वाहकः मायिनामपि विशेषाङ्गीकार आवश्यकः अन्यथा"विज्ञानमानन्दं ब्रह्म""सत्यं ज्ञान- मनन्तं ब्रह्मे"त्यादौ पर्यायता स्यात् भ्रमाधिष्ठानत्वादिना चैतन्यस्य सदाभानेऽपितदभिन्नानन्दस्यदानीमप्रकाशानुपपत्तिश्च ज्ञानानन्दयो- रेकतरपरिशेषे च मोक्षे आनन्दप्रकाशो न स्यात् । न च कल्पितसत्य त्वादिविशिष्टस्य वाच्यत्वादपर्यायत्वाद्युपपत्तिः लक्ष्यं त्वखण्डं ब्रह्मेति वाच्यम्।गङ्गापदलक्ष्यतीरस्याऽगङ्गात्ववत्सत्यादिपदलक्ष्यस्या ऽस- त्यत्वाऽज्ञानत्वपरिच्छिन्नत्वाऽब्रह्मत्वापत्तेः न च जहदजहल्लक्षणायां नाऽसत्यत्वाद्यापत्तिः वाच्यात्सत्यादेरधिकस्याऽर्थस्य लाक्षणिकबोधे ऽभाने लक्षणावयापत्तेः नहि वाच्य एवाऽर्थे पदस्य लक्षणा दृष्टा युक्ता श्रुतिसिद्धान्तसंग्रह ८९ वा । तत्त्वमसीत्यत्र शोधितात्तत्पदार्थात् वाक्यार्थस्यैक्यस्य न ता- वत्तन्मते भेदो भेदाभेदौ वैक्यस्य मिथ्यात्वाद्यापत्तेः तत्र विशेषो न चेत् कथं स्वप्रकाशचैतन्यप्रकाशेऽप्यैक्यस्याऽप्रकाशः चित्प्रकाशस्य भेदभ्रमाविरोधित्वेऽपितदभिन्नत्यप्रकाशस्य तद्विराधः चितो निरपे- क्षत्वेऽप्यैक्यस्य सापेक्षत्वादिकम्।समवायः संवन्धः सत्तासती भेदो भिन्नः अन्त्यविशेषो व्यावृत्तः कालः सदाऽस्ति देशः सर्वत्रत्यवा- धितव्यवहारार्थ विशेषोऽङ्गीकार्यःप्रमेयत्वं प्रमेयं घटाभावो घटोना- ऽस्तीत्यादावभेदेऽपि धर्मधर्मिभावाधाराधेयभावादर्विशेषानङ्गीकारे ऽनुपपत्तेः स च विशेषो वस्त्वभिन्नः स्वनिर्वाहकश्चेति नाऽनवस्था तस्य तथात्वं धर्मिग्राहकमानसिद्धं यत्र भेदाभावो भेद- कार्य च प्रमितं तत्रैव विशेषः कल्प्यत इति न प्रमितभेदघटपटेश- जीवादिषु विशेषमादाय भेदत्यागः नहि सोमलताभावे तत्प्रति- निधिः पूतीक इति स तल्लाभेऽपि । मतान्तरमाह । केचिदिति । नच गुणगुणिनार्भेदेऽनवस्थादोपः प्रामाणिकानवस्थाया अदो- षत्वात्त्वचित्स्वनिर्वाहकत्वाद्वा नच ब्रह्मणो ज्ञानादिधर्मकत्वे जडत्वाद्यापत्तिः झानादिस्वरूपत्वस्याऽप्यभ्युपगमात् ज्ञानादिद्वयवैयर्थ्य प्रमाणेन प्रयोजनमुखानिरीक्षणात् नच स्वरूप धर्मयोझनादिरूपत्वे भेदानुपपत्तिः दण्डी पुरुष इत्यत्र दण्डपुरुपयो पार्थिवयोर्दण्डत्वपुरुषत्वाभ्यां यथा भेदस्तथा स्वरूपधर्मयोझनान- न्दादिरूपयोर्द्रव्यत्वगुणत्वाभ्यां हि भेदः न चोक्तश्रुतिविरोधः तया ब्रह्मगुणानां यावद्रव्यभावित्वप्रतिपादनात् ब्रह्मगुणविषयकानि- त्यत्वज्ञानस्यैव निन्दितत्वात् द्रव्ये विद्यमानेऽपि पाकादिना रूपादयो गुणा नश्यन्ति न तथा हरौ विद्यमाने तद्गुणा ज्ञानादयो नश्यन्ती- त्यर्थे श्रुतेस्तात्पर्यम् ॥ ४ ॥ हरिज्ञानेच्छादीनां नित्यत्वेऽपिनसदा सृष्टिस्तत्कालस्य सहका- रिणः सदाऽभावादित्याह । स्वेच्छया स प्रविश्याऽऽदौ प्रधानं पुरुष तथा । क्षोभयत्यागते काले जीवादृष्टमुपेत्य च ॥ ५ ॥ स्वेति । सृष्टिकाले आगते सति हरिः स्वेच्छया प्रधान पुरुषं चाऽऽदौ प्रथमं प्रविश्य द्वौ क्षोभयति विषमसृष्टिकर्तृत्वेन १२ न च ९० पञ्चमोऽध्यायः प्रसक्तवैषम्यनिरासायाऽऽह । जीवेति । विस्तृतं चैतत्प्राक् ॥ ५ ॥ सृष्टिक्रममाह। महदादीनि तत्त्वानि सर्वशः सृजतीश्वरः। पविश्याऽनेकधा रूपैः स्यात्सर्वेषां नियामकः॥ ६ ॥ महदिति।सर्वशः सर्वाणि आदौ प्रधानान्महत्तत्त्वं ततो ऽहङ्कारः स त्रिविधः सात्विको राजसस्तामसश्च सात्विकान्मन इन्द्रिया- धिष्ठातृदेवाश्च राजसाद् वुद्धीन्द्रियाणि चित्तस्य मनस्यन्तर्भावः तामसाद् भूततन्मात्रा इयं प्रक्रिया पुराणादौ स्पष्टा ईश्वरः अघट- नघटनापटीयस्सामर्थ्यः ननु जडानां कथं प्रवृत्तिस्तत्राऽऽह । अन्त- र्यामिवहुरूपैरन्तः प्रविश्य सर्वेषां नियामकः प्रवर्तकः स्यात् ॥ ६ ॥ ननु विरुद्धानामग्निजलादीनां कथं परस्परं मेलनं तत्राऽऽह । मेलयित्वा ततस्तानि सृजत्यण्डं दयानिधिः । ब्रह्मादीन्स्तम्बपर्यन्तान् सृजति प्राणिनस्ततः ॥ ७ ॥ मेलयित्वेति । ततः प्रवेशानन्तरं तानि विरुद्धान्यपि स्वसाम- •धानेनाऽविरोधं सम्पाद्य मेलयित्वाऽण्डं ब्रह्माण्डं सृजति दया- निधिः सन्नेव न तु सप्रयोजनः ततो ऽनन्तरं ब्रह्मरुद्रादीन्स्तम्वपर्य- तान्प्राणिनः सृजति ॥ ७ ॥ एकधा वहुधा चैव दृश्यते जलचन्द्रवदिति श्रुतिं व्याख्याति ॥ एकथा मूलरूपेणाऽन्तर्यामी वहुधा हरिः । वहुधेति श्रुतावुक्तोऽवतारादितया तथा ॥ ८ ॥ एकधति । यथाऽऽकाशे चन्द्र एको जलेऽनेकधा दृश्यते । तथा मूलरूपेणैकोऽपि हरिरचिन्त्यशक्त्याऽन्तर्यामिरूपै रामकृष्णाद्यवतार- रूपैश्च वहुधा श्रुत्यादिना प्रतीयते ॥ ८॥ एतदेव स्पष्टयति ॥ तत्तत्कार्येष्वचिन्त्यात्मा ऽऽविर्भूतोऽन्तर्नियामकः । वहुभवनं हि तस्योक्तमिदंचाऽविकारिणः ॥९॥ तदिति। तत्तन्महदादिपृथिव्यन्तेष्वचिन्त्यात्मा नियामकः आवि- श्रुतिसिद्धान्तसंग्रहे ९१ भवति । "एकोऽहं वहु स्यामिति" श्रुत्युक्तं बहुभवनमिदमेवाऽन्तर्या- मिरूपेणाऽविकारिणः ॥९॥ "सोऽकामयत वहु स्यां प्रजायेय स तपो ऽतप्यत स तप- स्तप्त्वा इदं सर्वमसृजत तत्सृष्ट्वा तदेवाऽनुप्राविशत्तदाऽनुप्रविश्य सञ्चाऽसच्चाऽभवदिति” श्रुत्यर्थमाह । सदादिभवनं तस्याऽन्तर्यामिरूपतोऽन्यथा । प्रवेशः कार्यजातेषु सृष्टुथत्तरं कथं हरेः ॥ १० ॥ सदादीति । सदादीनां स्थूलसूक्ष्माणां वस्तूनां नियामकरू- पैराविर्भावः सदादिभवनम् । अन्यथा यथाश्रुतसदादिभावाङ्गीकारे क्वाप्रत्ययान्तसृजतिनोक्तं पूर्वकाले सजनं तदुत्तरं प्रवेशस्तदुत्तरं सदादिभवनमिति श्रुत्यर्थो वाधितः स्यात् नहि मृदादेर्घटायुत्पत्त्य- नन्तरं घटादौ प्रवेशः ॥ १० ॥ अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजन्तीमिति श्रुत्यु- तप्रकृतिरुपादानं हरिः कर्त्तव सन्निमित्तकारणं नोपादानमित्यर्थक स्मृतिमुदाहरति । निमित्तमात्रमेवाऽसौ सृज्यानां सर्गकर्माण । मया ऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।। ११ ॥ निमित्तमात्रमिति । एवकारेणोपादानत्वव्यवच्छेदः सृज्यानां का. र्याणाम् अध्यक्षेण स्वामिना ॥ ११ ॥ मम योनिमहद् ब्रह्म तस्मिन्गर्भ दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ १२ ॥ महद्वस्तु प्रधानाख्यं कार्यमात्रस्य योनिरुपादानकारणं मम मधी नं तस्मिन्नीक्षणाख्यं गर्भ दधामि मृदो घटादेरिव ततः सर्वभूतानाङ्का- र्याणां सम्भवः ॥ १२॥ "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं- प्रत्यस्तं यन्तीति "ब्रह्मण्येव सृष्टिलयोक्त्या तस्योपादानत्वमित्याश- कां निराकरोति । सृष्टि शश्च जालानापूर्णनाभेनिमित्ततः ।
९२
पञ्चमोऽध्यायः ।
तस्यानाशे ऽन्यथा तेषां स्थितिः कथं भवेच्चिरम् ॥ १३ ॥
सृष्टिरिति । जालानां लयादिनिमित्ततः निमित्तहेतौ लूतायां
दृष्टः अन्यथा तस्या उपादानत्वाङ्गीकारे लूताया नाशेऽन्यत्र गमने
तेषां जालानां चिरं दीर्घकालस्थितिः कथं स्यात् नहि तन्त्वादिवि-
नाशे पटादिस्थितिदृष्टा। केषाञ्चिन्नये तन्तुनाशेऽपि विनश्यदवस्थस्य
पटस्य क्षणमवस्थानमतश्चिरमिति ॥ १३ ॥
भेदाभेदौ हि सिद्धान्ते कार्यकारणयोमतौ ।
स्या दे गुरुताधिक्यमभेदे कार्यनिह्नवः ॥ १४ ॥
कार्यकारणयोर्मेंदे कपालादिगुरुत्वमेकमन्यच्च घटादेरिति तुला.
रोपणे द्विगुणं स्यात् अभेदे जलाद्याहरणादिकार्यस्याऽपह्नवः स्यात् ।
घटादिजनककारककलापवैयापत्तेश्च नच भेदाभेदी विरुद्धौ
एकरूपेण तयोर्विरोधेऽपि भिन्नरूपेण तयोरविरोधात् मृत्त्वादिना-
ह्यभेदः भेदस्तु घटत्वकपालत्वादिना महत्त्वाहङ्कारत्वमृत्पिण्डत्व-
घटत्वाद्याः प्रकृतिनिष्ठा धर्मा अवस्थापदवाच्याः कारणविशेषेण द-
ण्डादिना घटत्वाद्यभिव्यक्तिः पिण्डत्वानभिव्यक्तिरेव घटाद्युत्पत्तिः
मुद्गरादिना घटत्वाद्यनभिव्यक्तिरेव घटादिनाश इति ॥ १४ ॥
भूतग्रामः स एवाऽयं भूत्वा भूत्वा प्रलीयते ।
राव्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १५ ॥
स एव पूर्वकल्पीयःकारणात्मना स्थितःभूत्वा भूत्वा रात्र्यागमे
प्रलीयतेऽहरागमे प्रभवति प्रजापतेः रात्र्यहः शब्दो प्रलयसृष्टि-
कालपरौ ॥ १५ ॥
ब्रह्मणो विश्वोपादानत्वे तदभिन्नत्वापत्त्या जडत्वाद्यापत्त्या कर्तृ-
त्वानुपपत्तिरित्याशयेनाऽऽह ।
उपादानत्वकर्तृत्वे लोके विरोधिनी मते ।
नाऽतो द्रव्यं प्रतीशस्योपादानता भवेत् कचित् ।। १६ ।।
उपादानेति । चेतनस्य द्रव्योपादानत्वे कर्तृत्वं न स्यात् मृदादि-
वत् । आत्मघटसंयोगं प्रत्यात्मनः समवायिकारणत्वमतेऽपि न द्रव्यं
प्रीत तत्त्वम् ॥ १६ ॥
श्रुतिमिद्धान्तसंग्रहे ९३ विकारित्वं तथात्वे स्यान्मृदादिवञ्चितः कचित् । पारिभाषिकमेव स्यादुपादानत्वमन्यथा ॥ १७ ॥ विकारित्वमिति । तथात्वे चेतनस्योपादानत्वे विकारित्वं स्यात् अन्यथा विकारं विनाऽप्युपादानत्वाङ्गीकारे पारिभाषिकमेवोपा- दानत्वमनुपादानतायामेव पर्यवस्येत् यत्तु शून्यस्य विव? विश्व- मितिमाध्यमिकमतमाश्रित्य अतात्त्विकोऽन्यथाभावरूपो विवर्ती वि- श्वं ब्रह्मण इति विवाधिष्ठानरूपमुपादानत्वं तस्य सिद्धमिति नवी- नाः प्रलपन्ति तदप्यनेनैव निरस्तम् नहि शुक्तीरूप्यस्योपादानं मृद्वा घटस्याऽधिष्टानमिति व्यवहियते । रूप्यं प्रति शुक्तरिव ब्रह्म- णो जगत्कर्तृत्वानुपपत्तेश्च ॥ १७ ॥ ब्रह्मण उपादानत्वे वाधकमुक्त्वा साधकाभावमाह । प्रत्याख्यातं फणीन्द्रेण प्रकृतेः सूत्रणं स्फुटम् । अपाये ध्रुवमित्येतत्सूत्रं संज्ञाविधायकम् ॥ १८ ॥ प्रत्याख्यातमिति । “जनिकर्नुः प्रकृतिरिति” सूत्रमपादानसं- झाविधायकं तच्च फणीन्द्रेण महाभाष्यकृता प्रत्याख्यातं 'ध्रुवमपाये ऽपादानमिति "सूत्रेणैवाऽपादानसंज्ञासिद्धः।अपाये विश्लेषे यद्धृव- मवधिभूतं ततः पञ्चमीति विश्लेषावधावेव सर्वत्र पञ्चमी वृत्तौ पु. त्रात्प्रमोदो जायत इत्यनुपादाने पञ्चमीदर्शनात्प्रकृतिपदं हेतुमात्रप- रमित्युक्तम् । न्यासेऽपीदमेवाऽश्रित्याऽसति प्रकृतिग्रहणे उपादानस्यै वाऽपादानसंज्ञा स्यात् प्रत्यासत्तेः नेतरस्य प्रकृतिग्रहणात्कारणमात्र- स्य भवतीति प्रकृतिपदमनुपादानेऽप्यपादानसंज्ञासिद्धयर्थमित्युक्तम् मृदो घटो जायत इत्यत्रापिवौद्धो विश्लेषोऽस्त्येवं न काऽप्युपादाना- र्थिका पञ्चमी यतो वा इमानि भूतानि जायन्ते आकाशादेव समुत्पद्य न्ते इत्यादौ विश्लेषावधावेव पञ्चमीति ॥ १८ ॥ तदात्मानमेवाऽकरोदिति श्रुतिं व्याख्याति । आत्मनः करणं विष्णोराविर्भावो न चोदयः । निर्विकारगिरी कोपोन्यथाऽनीश्वरता तथा ॥ १९ ॥ आत्मन इति । तत्तत्कार्यनियामकरूपैराविर्भाव एवाऽऽत्मनः ९४ पञ्चमोऽध्यायः । स्वस्य करणम् । अन्यथा महदादिरूपेणाऽऽत्मनः करणे निर्विकारश्रु- तिविरोधः स्यात् जगन्निरीश्वरं च स्यात् ॥ १९ ॥ आविर्भावस्वरूपां हि स्वयोनिं पार्थसारथिः। यादृशीमुक्तवानीशस्तादृशी प्रकृते जनिः ॥ २० ॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यह" मित्याविर्भावलक्षणां स्वस्य जनिं पार्थसारथिरक्तवान् प्रकृते "तदात्मानमेवाऽकरोदिति” श्रुतौ तादृश्येव जनिन तु महदादिरूपेण भवनमित्यर्थः ॥ २०॥ "एकोऽहंबहु स्या"मित्यन्तर्यामितयैव बहुभवनमित्याह । अन्तर्यामितया स्वस्य बहुभवनमिच्छता । सृज्यन्ते वहवो भावाः सत्यसङ्कल्पशालिना ॥ २१ ॥ अन्तरिति । अन्तर्यामितया स्वस्य बहुभावं सङ्कल्प्य महदादयः सृज्यन्त इत्यर्थः ॥ २१॥ ननु स्वस्याऽनन्तरूपैर्वहुभावं सङ्कल्प्य इदं सर्वमसृजतेति जग- त्सर्जनानुपपत्तिस्तत्राऽऽह । गुरुत्वं स्वस्य सङ्कल्प्य शिष्यसम्पादनं गुरोः । यथा तथा विरोधो न सङ्कल्पस्य कचिद्विभोः ॥ २२ ॥ गुरुत्वमिति । नियामकरूपैर्वहुभावस्य नियम्यसापेक्षत्वान्नियम्यं सृष्टा नियामकरूपैः प्रवेशोपपत्तेः यथा गुरुत्वसङ्कल्पेन शिष्यसर्जनं न विरुद्ध शिष्यसर्जनस्य गुरुत्वोपपादकत्वेन तत्सङ्कल्पविषयत्वात्त- था विश्वसर्जनस्य स्वीयानन्तरूपोपपादकत्वेन तस्याऽपिस्वीयानन्त- रूपसङ्कल्पविषयत्वेन सङ्कल्पसर्जनयोर्वैयधिकरण्याभावात् ॥ २२ ॥ तात्पर्यनिर्णये वीजैरुपक्रमादिलिङ्गकैः । सिद्ध्येत्समन्वयो विष्णावार्षवाचां गुणालये ॥ २३ ॥ तात्पर्येति । समन्वयाधिकरणोक्तरीत्योपक्रमादिलिङ्गैः शब्दता. त्पर्यनिर्णायकैरार्षवाचां वेदानां विष्णावेव सम्यगन्वयो मुख्यवृत्त्या श्रुतिसिद्धान्तसंग्रह ९५ सिद्धयतीति सत्यानन्तगुणार्चिविष्णुर्मुमुक्षूणां ध्येयो शेयश्च सि- द्धयति । उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गन्तात्पर्यनिर्णय- इत्यत्रोपक्रमोपसंहारयोरैकरूप्यमेकं लिङ्गमिति न लिङ्गानां स- तत्वम् ॥२३॥ ननु भवेद्ब्रह्मणि सर्वशब्दानां मुख्यवृत्त्या समन्वयो यदि वाच्यं स्यात्तदेव तु न सम्भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति श्रुत्या तस्य वाच्यत्वनिषेधादित्याशङ्कयाऽऽह ।। अवाच्यत्वं परेशस्य साकल्यादद्भुतत्वतः। अवाच्यपदवाच्यत्वावाच्यत्वाभ्यां दृढं भवेत् ॥ २४ ॥ अवाच्यत्वमिति । साकल्याद्भुतत्वाच्चेशस्याऽवाच्यत्वम् । अवाच्यपदेन वाच्यं चेत्तेनैव वाच्यता नो चे त्तदन्यशब्दैः सुतरां वाच्यता ॥२४॥ माता वन्ध्या तथा मूकोऽहमिति स्यात् विरोधिता । वैयर्थ्य ब्रह्मवाक्यानां वाच्यार्थशून्यता भवेत् ॥ २५ ॥ मातोति।मम माता वन्ध्याऽहं मूक इत्यादिकं यथा व्याहतं तथा यतो वाच इत्यत्र यच्छब्देन वाच्यत्वे सर्वशब्दावाच्यत्वव्याहतिः । तदवाच्यत्वे ब्रह्मण औपनिषदस्य तदुद्दिश्य वाच्यत्वाभावविधानास- म्भवेन व्याहतिः " सत्यं शानमनन्तं ब्रह्मे" त्यादिवाक्यानां वैयर्थ्य स्यात् न हि वाच्यार्थशून्यं वाक्यं पदं वा क्वचित्सार्थक दृष्टं युक्तं वा ॥ २५॥ ननु शक्यार्थाभावेपि लक्षणया ब्रह्मवाक्यानांसार्थक्यं तत्राऽह वाच्यार्थोज्झितशब्दानां लक्षणापि न युज्यते । ब्रह्मादिपदलक्ष्यस्याऽब्रह्मत्वादिकमापतेत् ॥ २६ ॥ वाच्यार्थहीनानां शक्यसम्बन्धादिरूपलक्षणा न संभवति निर- र्थक पदघटितवाक्यं च निरर्थकं स्यात् ॥ २६ ॥ ब्रह्मादिपदलक्ष्यस्याऽब्रह्मत्वादी दृष्टान्तः ।
९६ पञ्चमोऽध्यायः । “ अगङ्गादि यथा तीरं गङ्गादिपदलक्षितम् । अशक्यार्थागृहीतौ स्याल्लक्षणा हि वृथा गिराम् ॥ २७ ॥ अमलादीति । यथा गङ्गादिपदलक्षितं तीरादिकं गङ्गादिभिन्नं भवति । तथा सत्यादिपदलक्षितं ब्रह्माऽसजडपरिच्छिन्नाब्रह्मादिकं स्यात् । ननु जहल्लक्षणायां भवेद्गङ्गादिपदलक्ष्यस्याऽगङ्गात्वादिकं प्रकृते तु जहदजहल्लक्षणाङ्गीकारान्नाऽसत्यत्वाद्यापत्तिरित्यत आह । अशक्येति। लक्षणाजन्यवोधे शक्यादधिकस्याऽर्थस्याऽगृहीतावभाने लक्षणावैयर्थ्य नहि घटपदस्य घट एव लक्षणा काकेभ्यो दधि र- क्ष्यतामित्यत्र ध्युपघातकत्वेन लक्षणाऽपि काकत्वत्यागेन व्यक्तेर्ला- भे भवति जहदजहत्स्वार्था, तत्र यथा दध्युपघातकत्वन मार्जारा- दिव्यक्तिः भासते तथा लक्षणासार्थक्यायाऽब्रह्मासत्यत्वाद्यंशभा- नाऽऽवश्यकम् ॥ २७॥ यदूर्ध्व गार्गि दिवा याक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यश्चेत्याचक्षते तदेतदक्षरं गार्गि ब्राह्म- णा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घमलोहितमच्छायमतमोऽवा- बनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्रा. णमसुखमनामाऽगोत्रमनन्तरमवाह्यं न तदश्नाति किं च नेति" श्रुतिम् यदक्षरं वेदविदो वदन्ति परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् आहुस्त्वामृषयः सर्वे देवर्षि रदस्तथेत्यादि- स्मृति चाऽक्षरस्य परब्रह्मणो वाच्यत्वं बोधयन्ती संगृह्णाति। वाच्यत्वमक्षरस्याऽऽहुः श्रुतयः स्मृतयस्तथा । प्राकृतानां निषेधोऽत्र स्थौल्यादीनां हि कथ्यते ॥ अन्यथा प्रतिषिद्धं स्यात्सुखरूपत्वमात्मनः ॥ २८ ॥ वाच्यत्वमिति । प्राकृतवस्तुस्वभावानामेव स्थूलत्वादीनामक्षरे निषेधः अन्यथा यथाश्रुतनिषेधाङ्गीकारे असुखमित्यनेन सुखरूपता. या निषेधः स्यात् ॥ २८ ॥ ईक्षत्यधिकृतौ विष्णोरवाच्यत्वं निराकृतम् ।
९७ श्रुतिसिद्धान्तसंग्रहे श्रीवादरायणेनाद्धा तद्गुणानन्त्यलिप्सया ॥ २९ ॥ तस्य श्रीहरेर्गुणानामानन्स्यस्य लिप्सया वाच्यत्वमीक्षत्यधिक रणे " ईक्षते शब्दमिति" ब्रह्म शब्दावाच्यं न ईक्षतेः स तस्माजी. वघनात्परात्परं पुरि शयं पुरुषमीक्षत इति तद्विषयकेक्षणश्रवणात् । इक्षणं त्वौपनिषदस्य शब्देनैव तच ब्रह्मणः सर्वशब्दावाच्यत्वे ऽनु- पपर्ण स्यादिति हि तदधिकरणार्थः॥ २९ ॥ ननु विशिष्टं वाच्यं शुद्धं लक्ष्यन्तत्राऽऽह दर्शनं ह्यात्मनः प्रोक्तं तज्ज्ञानादेव मोचनम् । तत्र हेयनिषेधाच्च वाच्यत्वं शुद्धचिद्गतम् ॥ ३० ॥ दर्शनमिति । “आत्मा वा रे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः'ब्रह्मविद्रह्मैव भवति तरतिशोकमात्मवित्" "यदापश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनि तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैतीति" श्रुतिभिः शुद्ध महाविभूत्याल्ये परे ब्रह्मणि शन्दिते । मैत्रेय भगवच्छब्दः सर्वकारणकारणम्- इत्यादिस्मृत्या च शुद्धस्यैव शेयत्वमुक्तम् । नाशुद्धज्ञानात् मो. क्षो भवेत् अतःशुधमेव ब्रह्म मुमुक्षुझेयं ध्येयं वाच्यं चेति सिद्धम् ३० चतुर्विधगिरां विष्णौ समन्वयः प्रकीर्यते । आद्याध्यायेन वृत्त्या हि मुख्यया हरिणा स्फुटम् ॥ ३१ ।। चतुरिति । हरिणा श्रीव्यासेनाऽऽद्येन समन्वयाध्यायेन मुल्यया वृत्त्या चतुर्विधशब्दानां विष्णौ समन्वयः प्रकीर्त्यते ॥ ३१॥ चातुर्विध्यमाह । तत्राऽन्यत्रोभयत्रैव चाऽन्यत्रैव प्रसिद्धकाः । विष्ण्वानन्दमयाधारबोधकायारवाःस्मृताः ॥ ३२ ॥ तत्रेति।तत्र हरौ प्रसिद्धा विष्णुनारायणादयस्तेषां सुप्रसिद्धत्वात्स- मन्वये यत्नो नापेक्षितःअन्यत्र प्रसिद्धा अन्नमयप्राणमयमनोमयविज्ञा- नमयानन्दमयाद्या रुद्रन्द्रादिदेवताःप्राणाकाशज्योतिर्गायच्याचाच सर्व- गतत्वसर्वभक्षकत्वगुहाप्रविष्टत्वाऽऽदित्यादिस्थत्वार्यन्तामित्वरश्य १३
९८
पञ्चमोऽध्यायः।
त्वादिगुणकत्वादिबोधकाश्चाऽन्यत्रप्रसिद्धाः धुभवाद्यायतनत्वभूमत्वा
क्षरत्वादिवोधका उभयत्र प्रसिद्धाः प्रधानादेोतिष्टोमादिकर्मणां च
याचकाः प्रकृतिशून्यवद्धाःसदाद्याः अन्यत्रैव प्रसिद्धानां समन्वयस्य
चतुर्मुख एवोपासकोऽन्येषां समन्वयस्य यथायोग्यं सर्वे चिन्तकाः॥३२॥
अन्यत्र प्रसिद्धानां लक्षणमाह ।
येषां ब्रह्मण्यप्रसिद्धिः प्रसिद्धिश्चाऽन्यवस्तुषु ।
विरोधिन्यौ हि तेऽन्यत्र प्रसिद्धाः कथिता इह ॥ ३३ ॥
येषामिति । अन्नमयादीनां मयङन्तानां निर्विकारे ब्रह्मणि लोकतोऽ
प्रसिद्धिः सविकारे वस्त्वन्तरे प्रसिद्धिश्च हरौ समन्वयस्य विरो-
धिनीति तेऽन्यत्र प्रसिद्धाः ॥ ३३ ॥
येषां प्रसिद्धिरन्यत्र केवलैव विरोधिनी ।
समन्वयस्योभयत्र प्रसिद्धास्ते प्रकीर्तिताः ॥ ३४ ॥
" शुभ्वाद्यायतनत्वादियोधका रुद्रो वा व लोकाधारः प्राणाना.
प्रन्धिरसि रुद्रः भूतञ्च भवञ्च भविप्यञ्चेत्याचक्षते आकाश एव तदोतं
वायुनावै गौतमसूत्रेणा ऽयञ्च लोकापरश्च लोकःसर्वाणि च भूतानि संह
ब्धानीत्याद्याः समाख्यानादिना ऽन्यत्र प्रसिद्धाः लोकाश्च लोकिनश्च
विष्णावेवौताश्च प्रोताश्चेत्याद्याः" श्रुतयः
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव
इत्याद्याः स्मृतयश्च विष्णो हुभ्वाद्यायतनत्ववोधिकाः प्र.
सिद्धाः ॥ ३४ ॥
येषामुक्तद्वयं ब्रह्मपरत्वस्याऽत्यशक्यता ।
इति तिस्रो विरोधिन्यस्तेऽन्यत्रैव प्रसिद्धकाः ॥ ३५ ॥
येषां शब्दानां ब्रह्मान्यत्र लोकात् श्रुत्या च प्रसिद्धिर्ब्रह्मणि चा-
ऽत्यप्रसिद्धिः समन्वयविरोधिनी ते ऽन्यचैव प्रसिद्धाः प्रधानवुद्ध्या-
दयः॥३५॥
सङ्केपेण समन्वयप्रकारं वक्तुमन्नमयादीनान्तावत्तमाह।
अन्नमयः स एवाऽस्ति तथा प्राणमयो हरिः।
मनोमयोऽपि सर्वेशो हि विज्ञानमयस्तथा ॥ ३६ ॥
श्रुतिसिद्धान्तसंग्रहे ११ अन्नमय इति ॥ स हरिरेवाऽन्नमयादिरूपः ॥ ३६ ।। अनमयादीनां ब्रह्मत्वे हेतुमाह । स आनन्दमयोऽप्यस्ति ब्रह्मशब्दप्रयोगतः । मुक्तप्राप्यत्वमन्नादेरेवं हि सूपपद्यते ॥ ३७ ॥ स इत्यादिना। येऽनं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते आनन्दं ब्रह्मणो विद्वान् विज्ञानं ब्रह्म चेद्वदेत्याद्यन्नमयादिविषयतया ब्रह्मश- ब्दसमभिव्याहारादन्नमयादयो ब्रह्मैव, न चाऽन्नं ब्रह्मेत्यन्नादीनां ब्रह्मश- ब्दसमाभिव्याहारादस्तु ब्रह्मत्वं अन्नमयादीनां च तदभावात्कथंतत्त्व- मितिवाच्यम् । यथाहि ज्योतिष्टोमाधिकारे वसन्त वसन्ते ज्योति- षा यजेतेत्यत्र ज्योतिःपदमेव ज्योतिटोमाभ्यासकालपरं तथाऽन्न- मयाद्यधिकारे पठितमभ्यस्यमानं ब्रह्मविधानपरं तथा चैतदन्नमय- मात्मानमुपसंक्रम्येत्यन्नमयादेर्मुक्तप्राप्यत्वादन्नमयादिकं लक्ष्यत इ. त्यर्थः "आनन्दमयोऽभ्यासादिति” सूत्रे चाऽऽनन्दमयपदमन्नमयायुप- लक्षकं स यश्चाऽयं पुरुषे यश्चाऽसावादित्ये स एकः स य एवंवित् अ- स्माल्लोकात्प्रेत्य एतमन्नमयमात्मानमुपसंक्रम्य एतं प्राणमयमात्मा- नमुपसंक्रम्य एतं मनोमयमात्मानमुपसंक्रम्य एतं विज्ञानमयमात्मा- नमुपसंक्रम्य एतमानन्दमयमात्मानमुमसंक्रम्य इमाल्लोकान् कामरू- प्यनुसंचरन् एतत्साम गायन्नास्त इति ब्रह्मविदोऽन्नमयादिप्राप्तिरपा ब्रह्मत्वे सूपपन्ना भवेत् न हि ब्रह्मविदो ऽब्रह्मप्राप्तिर्युक्ता ।। ३७ ॥ ननु विकारार्थकमयडन्तैः कथं ब्रह्म वाच्यं तत्रयोगरूयोरभा- वाचेत्यत आह । प्राचुर्ये मयडत्राऽस्ति न विकागर्थकः कचित् । अन्नत्वमुपजीव्यत्वाद्भक्षयितृत्वतो हरेः ॥ ३८ ॥ प्राचुर्य इति । प्राचुर्य एवाऽत्रमयट न विकारेऽन्यथा वह्वच्का- भ्यां विज्ञानानन्दप्रातिपदिकाभ्यां विकारार्थकमयडनुपपत्तेः “मय- वैतयोर्भाषायामिति " लोक एव विकारार्थकमयड्विधानात् "घचश्छन्दसी"त्यनेन घच्कादेव विकारार्थकमयविधानात् । ततोऽर्थान्तर मयडङ्गीकारे वैरूप्यापत्तेः "अद्यतेऽत्ति च भूतानि तस्मादन्नमित्युच्यते” इति श्रुत्या सर्व १०० पञ्चमोऽध्यायः। भूतोपजीव्यत्वरूपाद्यत्वं सर्वभूतसंहर्तृत्वरूपातृत्वमीश्वरलिगमनम- यस्योक्तम् ॥ ३८॥ प्राणत्वं चेष्टकत्वेन ज्ञानत्वं बोधरूपतः । परमानन्दरूपत्वादानन्दत्वं हरेः परम् ॥ ३९ ॥ परमितिसर्वत्राऽन्वयि,प्राणयति चेष्टयतीति सर्वचेष्टकत्वलक्षण- प्राणयितृत्वप्राचुर्य हरावेव । शानानन्दप्राचुर्यभूयस्त्वलक्षणं तत्रैव ३९ ननु यथा ब्राह्मणमयो ग्राम इत्यादौ ब्राह्मणानां प्राचुर्यप्रतियोगि- नो ऽल्पा अब्राह्मणा अपि लभ्यन्ते तथाऽऽनन्दप्राचुर्यप्रतियोग्यनान- न्दस्याऽपि प्रसङ्ग इत्यत आह सजातीयप्रकाशाद्धि प्रचुरत्वविवक्षया । प्रकाशः प्रचुरः सूर्य इति व्यवहृतियथा ।। जीवसुखाद्यपेक्ष्यैव सुखादिप्रचुरो हरिः ॥ ४० ॥ सजातीयेति । यथा सजातीयव्यधिकरणचन्द्रादिनिष्ठप्रकाशा. प्राचुर्याभिप्रायेण प्रकाशमयः सूर्य इति व्यवहियते न तु सूर्यनिष्ठा- न्धकारापेक्षया तस्य तत्राऽसत्वात् तथा सजातीयव्याधिकरणजीव- निष्ठानन्दापेक्षया ब्रह्मण्यानन्दप्राचुर्य न तु तनिष्ठानानन्दापेक्षया तस्य तत्राऽसत्वादित्यर्थः॥ ४० ॥ ननु पञ्चानां ब्रह्मत्वे सकृत्प्रश्नोत्तरेणैव तस्य शातत्वादधीहि भ- गवो ब्रह्मति पुनः प्रश्नोत्तरवैयर्थ्य स्यादत आह अन्नत्वादिगुणान् ध्यातुं साक्षात्कर्तुं पुनः पुनः । पञ्च वारं गुरुः पृष्टो दत्तन्तेन तथोत्तरम् ॥ ४१ ॥ अन्नत्वादीति । भृगुणाऽधीहि भगवो ब्रह्मेति गुरुवरुणः पृष्टः अनं ब्रह्मेति व्यजानादिति गुरुरुत्तरितवान् तद्रूपमन्नत्वादिगुणविशिएं ध्यात्वा साक्षात्कृत्य प्राणमयादिरूपाणां तद्गुणविशिष्टानां ज्ञानार्थ पुनश्चतुर्धारं गुरुः पृष्टस्तेन तथैवोत्तरं च दत्तम् अतो यत्किञ्चिद्गु. णविशिष्टहरिस्वरूपक्षानस्याऽऽद्योपदेशेनवोत्पत्तावपि गुणान्तराव- गत्यर्थ पुनः पुनः प्रश्नोत्तरयोः सार्थक्यम् ॥ ४१ ॥ ननु "तस्माद्वाएतस्मादन्नमयादन्योऽन्तर आत्मा प्राणमयःतस्मा.
२ ५ २ (1) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) (८) ब्रह्मसूत्रभाष्यम्-वादरायणप्रणीत- वेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान- (वेदान्तः) भिक्षुकृत व्याख्यानम् । सम्पूर्णम् । (१) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ (१०)सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ (वेदान्तः) १ श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् (१३)न्यायमकरन्दः । श्रीमदानन्द्वोधभट्टा- रकाचार्यसंगृहीतः। आचार्यचित्सुख- (वेदान्तः)४ मुनिविरचितव्याख्योपेतः (१२)विभक्त्यर्थनिर्णयःन्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूपः म० म० (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (१३)विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । सं० ( मीमांसा) (१४)न्यायसुधा ( तन्त्रवार्तिकटीका ) भट्ट- (मीमांसा ) १६ सोमेश्वरविरचिता। (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता। ( वेदान्तः)२ श्रीक्षेमराजविरचितवृत्तिसमेता। (१६) मीमांसावालप्रकाशः (जैमिनीयद्वादशा- अध्यायार्थसंग्रहः ) श्रीभट्टनारायणात्मज (मीमांसा )२ भट्टशङ्करविरचितः। (१०) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो- पाध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसा- सारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीत- स्तत्कृतव्याख्यासमलङ्कृतश्च । (वेदान्त)३ (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायधीकर्का- चार्यविरचितभाष्यसहितम् । १३ (२०)ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः ) (२१) श्रीहर्पप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण- विरचितया खण्डनफकिकाविभजनाख्यया व्या-(वेदान्तः) १३ ख्यया ( विद्यासागरी)ति प्रसिद्धया समेतम्। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता । (२३)श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया- ऽवतरणिकया च सहितम् । १ २ २ २ १ ९ ५ २ २४ ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथभट्टकृता ( वेदान्त ) २५ क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचितानि अनुमानजागदीश्याः प्रत्य- सानुमानगादाधर्याः प्रत्यक्षानुमानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शन्र- शक्तिप्रकाशिकायाः कुसुमाजलेश्च क्रोडपत्राणि । ( न्यायः) २६ ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धान्तसेतुकाऽभिधटीकासहिनीदेवाचार्यप्र- गीतसिद्धान्तजाह्ववीयुतम् २० षड्दर्शनसमुच्चयः । बौद्धनैयायिककापिलजेनवैशेषिकजैमिनीयदर्शन संक्षेपः । मणिभद्रकृत- टीकया सहितः । हरिभद्रमरिकृतः। २८ शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः । प्रमेयरत्नावश्च २९ अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदोधित्याजागदीशी टीका । १३ वीरामनोदयः। महामहोपाध्यायश्रीमित्रमिअविरचितः परिभाषा सस्कारप्रकाशात्मकः। ३१ वीरामित्रोदयः । महामहोपाध्ययश्रीमित्रमिविरचितः आहकप्रकाशः ३२ स्मृतिसारोद्धारः विद्वद्वराविश्वम्भरत्रिपाठिसंकलितः। ३३ वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्तमाचार्यकृता । प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितः • ३५ वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसाभाष्यं श्रीनिम्बार्काचार्यविरचितम् । ३६ योगदर्शनम् । परमहंसपरिव्राजकाचार्य-नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रिका-समा- ख्यया संचालितम् । ३. वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्यश्रीरामानन्दसरस्वती स्वामिकृत ब्रह्माऽमृतवर्षिणी समाख्य व्याख्यासंवलितम् । ३८ विश्वप्रकाशः । कोशः । विद्वद्रर श्रीमहेश्वरसुरिविरचितः । ३९ भीसुबोधिनी । श्रीवलभाचार्यविनिर्मिता । श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलनाथदीचि तविरचित टिप्पणीसहिता । वीरमित्रोदयः । महामहोपाध्यायश्रीमिन्नामिविरचितः पुजाप्रकाशः। ५ वेदान्तसिद्धान्तसंग्रहः । अतिसिद्धान्तापरनामकः । श्रीब्रह्मचारिवनमालिमित्रविरचितः। दैता- दैतदर्शनानुगतः । हरिदास गुप्ता, पत्त्रादिप्रेषणस्थानम् चौखम्बा, बनारस, सिटी. ४ M २ २ ३ १ --
No text on this page.