Sanmati Library, Jaipur
सिद्धांतसिद्धापगा
Front matter
No text on this page.
सिद्धान्तसिद्धापगा.
হাঃনাছিমানিলাদিনেল
মমানেন।
সমিনা মনিলা ঃ গ ৪
নিন। বঙ্গ খানা না থাকা
মা : বvিeণঃ। নন ণিৰ সাগৰ
: শঠি।
বিনয়
महश्रीवलमदशा,
রি, মনে
গুয়ানতানাথা-
গাহিনা,
নি, ৎ
मूल्यमानकपकम्।
No text on this page.
सिद्धान्तसिद्धापगा.
शुद्धाद्वैतपुष्टिमार्गसिद्धान्तपण्डितेन
भट्टश्रीवलभद्रशर्मकविकाव्यरत्नाकरण
प्रणीता।
मोहमयीवतिनि
निर्णयसागरयन्त्रालये मुद्रिता,
प्रणेत्राच
शुद्धाद्वैतसिद्धान्तकार्यालया-
प्रकाशिता.
संवत् १९६९.
मूल्यमानकपदम्।
विशेषतो द्रष्टव्यम् . अतीतः किल सार्थो वत्सरो मुद्रायन्नमारोपितायाः सिद्धापगाया। किन्तु दैवादेकत्र स्थितिमलभमानः प्रकाशयितुमेतामतिपातितोऽसामिः कालः । ततश्च बहुभिरेव पुनः पुनः पर्यन्वयोजिप्महि महाभागैः किमे- तत्कृत एतत्कथमेतञ्चेत्यादि । किम्पुनः प्रतिपद्यतां प्रतिवचनमत्राऽस्माभिरिति यत्सत्यं विपीदामः । व्यतिकरप्वेवंविधेषु क्षमाभ्यर्थनमेव परमा प्रतिक्रियेति च प्रतिपद्यमाना भावप्नीमः पाणी। सुलभप्रमादा हि जन्तव इत्यक्षरपथकानां प्रमादादुताहो असाकमन- वधानात्सन्दृश्यमानाभ्युतयः पण्डितानां चेतसि न भावान्तरमुपजनयेयुः। मुद्रणसंरम्भेण च मात्रानुस्वारविसर्गाणां विपरिलोप इतस्ततोभावश्च सुलभः । प्रवन्धस्याऽस्य पुनर्मुद्रणाधिकाराः प्रणेतायतन्ते । Published by Bhatta Shri Balabhadra-Sharma Shuddhadyaita Siddhanta-karyalaya, Bada mandir, Bhuleshwar, Bombay. Printed by R. Y. Shedge at the "Nirnaya-sagar' Press, 23, Kolbhat Lane, Bombay.
श्रीशःशरणम्. विवक्षितं ह्यनुक्तमनुतापं जनयति ! अस्ति किल दक्षिणापथे विपश्चिदपश्चिमम्मन्यः कोऽप्यनन्ताचार्य- नामा रामानुजो यः काञ्चीमधिवसन्मञ्जमापिणी नाम साप्ताहिकी संस्कृ. तसंवादपत्रिका प्रकाशमुपनयति । तत एव च सुदुर्लभसौभाग्यभाज- नमिति, निरवधिधिपणावधीरितविबुधोपाध्याय इति, वाङ्मयमहाम्भोनिधि- स्वैरविहारसाहसिक इति, सर्वातिशायिसमुच्छ्योन्मिपदशेपोत्कर्ष इति, सुधासूतिरिव लोकोत्सवोदयश्चण्डमरीचिरिव दुष्प्रर्पप्रतापः पारावार इव दुस्तरतमो हंस इव च विदितविवेकवैदग्ध्य इति चाऽभिमन्यते य आत्मानम् । एप च वैक्रमविंशशतकस्य सप्तपष्टितमे वत्सरे कुतोऽपि सलिलनिधिविलोललहरीलीलाहल्लीसकोल्लासितलास्योत्सवां मोहमयीं नग- रीमनुप्राप । इह च श्रीमद्भगवद्वदनवैश्वानरश्रीमदाचार्य्यचरणान्ववाय- दुग्धोदधिसुधादीधितीनां महाराजोपपदपरिचर्यमाणपादपीठानामाचा- Oणान्तांस्तानदृष्टश्रुतपूर्वानभ्युच्छ्यानवलोकयन्नीर्ष्याभ्यसूयासुलभेन प्र- द्वेषकृशानुना तथा प्रचक्रमेऽयमभिसन्तापयितुं यथा क्षणमपि न किल नाऽस्य चक्थे हृदयेन । न चैतच्चित्रम् । यथाऽऽहुरभियुक्ता:-'परसम्प- दुत्को हि हीनसम्पदं दुःखाकरोती' ति । अत्रैव चाऽवसरे यथाकथाच प्रसिद्धिमात्मानमारोपयितुमसङ्गीतकं नृत्यता निसर्गपुरोमागिना पडक्षरपरिचयपर्य्यवसितपड्दर्शनपरिश्रमेण सकलसत्सम्प्रदायप्रद्वेपपातकोपार्जनप्रयासपरिहतव्यापारान्तरेण विशेष- तश्च श्रुतिसीमन्तिनीसङ्गीतरसास्वादैकबद्धादराञ्छुद्धाद्वैतपुष्टिमार्गपथिका- २ परमभगवदीयान् कपायिताक्षिकोणं कटाक्षयता कलहैकवल्लमेन श्रीमता माधवतीर्थकर्मन्दिना कापि पुस्तिका प्रकाशमुपनिन्ये यत्र तेन तप्तमुद्रा- पक्षपातिनः परिजिहीर्पता विशिष्टातिभिरितरैश्च समाचर्यमाणस्य तप्ता- युधधारणस्य सकलाधिकारिसाधारणतां वा नित्यतां वा निरस्यन्नू_पु- ण्ड्मार्तण्डस्य समुदधारि कोप्यंशः । ततश्चाऽस्य करतलमुपनमन्त्यैव तया सर्पिर्धारयेव प्रववृधे प्रद्वेपवैश्वानरो येन प्रतिपत्तिमूढ एवाऽयमभिसम्पेदे । अपरिहार्यचैतत् । यथा प्राहुरभियुक्ताः-'ज्वलति चलितेन्धनोऽग्निरिति। ततश्च प्रवृत्त एवाऽयमकस्मात्तैस्तैर्दुरुक्तैः शुद्धाद्वतिनः प्रत्यवस्थातुम् । यत्सत्यमसदृशमिदं मानुष्यस्य, विपरीतं श्रद्धाया, अननुरूपं पाण्डित्यस्य, प्रतिकूलश्च स्वसिद्धान्तपक्षपातस्य, यदात्मनो मतमविक्षिपन्नाऽपवा- यंते न वा प्रतिवध्यत इति । यदुच्यते-'यो यत्राऽनुरक्तः स तदन्य- तिरस्कारेण तदेव बहु मन्यत' इति । किन्तु सर्वथाऽप्यपरिहार्यों विवेक इत्यपुनरुक्तिसव्यपेक्षम् । यदाह कविप्रवरः श्रीमान् राजशेखरः- 'अविमृश्यकारिता हि पुंसः परं परिभवस्थानमिति । केन पुनः श्र- द्धीयतामेतत् । प्रद्वेषाभिभूतो हि नैव क्षमते पर्यवस्थापयितुमात्मानमिति । यदि तु नैषोऽभ्यभविष्यत प्रद्वेषेण न खलु तर्हि परस्परेभ्यो द्रुह्यद्भिरुपचीयमाने कलहसाम्राज्ये तेन च प्रत्यहमधोधः प्रविशति भा- रते वर्षे मतावष्टम्भेन प्रत्यवस्थानमभद्रमिति, सर्वत्राऽपि सम्प्रदायेषु प्रथमत एव स्वसिद्धान्तोपन्नाः प्रबन्धा अप्रतिहतप्रचारा इत्यसमञ्जसो मन्युरिति, सम्प्रति प्रतिमतोपमर्दधिया विरचितानां प्रवन्धानां परिहारस्य नाऽन्याय्य- वेऽपि संख्यातिगेषु प्राक्तनेषु तेषु प्रद्वेपसाहसं विचारमोहं प्रतिभासयतीति, नायं प्रत्यग्र ऊर्ध्वपुण्ड्मार्तण्ड इति तन्निवर्हणप्रवृत्तिः केवलकलहोदकेंति, प्रवृत्तोऽपि समर्थयितुमात्मनोऽभिमतं प्रभवेयं न वेति, शुद्धाद्वैतिभिः सह मयैष विग्रहं ग्राहयितुमेवैवं कर्मन्दी व्यवस्यत्यन्यथा तमिममंशमनु- द्धरताऽपि शक्यमेतेन स्वमनोनुरूपं चेष्टितुमित्यलं विगृह्येति, मुखे निष्ठी- व्यन्तमनपवार्य निरपराधिषु शौर्योपसर्पणं जुगुप्सास्पदमिति च किमपि न ३ . व्यवेक्ष्यत् । तनैतदद्भुतमावद्धः परिकर एतेन निष्ठुराण्येवाऽभिभापितु- मिति । अभियुञ्जते चाऽभियुक्ताः । यदाहुः-'अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिता' इति । यथा चैतत्तथा मञ्जमापिण्याः पष्ठाष्टमनवमत्रयोविंशेष्वङ्केषु सुविस्पष्टमिति व्यापार्यतामभितस्तत्र जि- ज्ञासुभिरात्मनश्चक्षुः। तावताऽपि दुर्व्यवसितेन नायमभितुतोयेत्यन्ततः शुद्धाद्वैतसिद्धा- न्तेनैव प्रत्यवस्थेयमित्यास्थितमतिश्चतुर्विशे तदके 'शुद्धाद्वैतमतं वल्लभमतं वे' ति शीर्पकं लेखमेकं. प्राकाशयत् । प्रेरिरच्चैनं तत्तेभ्य उद्दिश्य कति- पयेभ्य आचार्येभ्यश्च तदनुगामिभ्यश्च । यदा चैप नः करतलमुपनतस्तत्रैव दिनेऽस्माभिर्मद्रपुर प्रास्थीयते- त्यवसरानुपलम्भानाऽनुवाचयितुमपारि । तत्र लब्धावसरैरनुवाच्यमान- स्तु प्राचीकशदात्मनः प्रद्वेपपूर्णताञ्च पौरोभाग्यमात्रप्रवृत्तिताञ्च पाण्डि- त्यसौरभसम्पर्कशून्यताञ्च समुत्तालशिखालबालवचःसब्रह्मचारिताश्चेति तादृशासदृशकोलाहलेन समुन्मिपदीपद्रोपैरपि कामप्यन्यादृशीमुपहास- शालिनी पद्धति प्रतिपेदुपोऽस्य चेष्टितकेन समुन्मीलन्मन्दस्मितैरननु- रूपेह नः प्रवृत्तिरित्युपेक्षितोऽयमस्माभिः । युक्तञ्चैतत् । यदाहु:-'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीरा' इति–'सर्वगुणातिशायिनी खल्वियं क्षान्तिरिति- 'अन्योन्यमाहात्म्यविदोरन्यैरविदितात्मनोः । विभ्राजते विरोधोऽपी' ति- 'विरूपाः खलु जना निजमुखदोपं निर्मलेष्वपि दर्पणेपु समर्पयन्तीति- 'न खलु वधिराणां कुतूहलमातनोति कोकिलालाप' इति-'किं नु खलु दुर्दुरा व्याहरन्तीति देवः पृथिवीं वार्पतुं स्मरती' ति–'किंमहोरगविसर्पि- विक्रमो राजिलेषु गरुडः प्रवर्त्तत' इति च । अतियत्सु च कतिपयेषु दिवसेषु सहधर्मिण्या च तनयया च सह तीर्थान्यासेवितुमात्तादरैः प्रास्थायि श्रीश्रीरङ्गं नाम वैष्णवं धामाऽ- 'स्माभिः । यत्र यथाविधि श्रीमती कावेरीमवगाह्य विप्लोषितवृजिलजालै- - g रन्वभावि श्रीश्रीरङ्गराजपादसरोरुहसौरभ्यं यदाप्याययदपि सर्वाणीन्द्रि- याणि क्षणमपि नातिवर्तत आसेचनकताम् । ततश्च काञ्चीमधिगम्य तीर्थविधिमनुतिष्ठद्भिश्चराचरप्रपञ्चोदश्चापचय- चतुरस्य भगवत: श्रीवरदराजस्य पादपङ्केरुहपरागपांसुना पाण्डुरित आत्मनो मूर्धा । तदैव च बलवदुत्कण्ठितं नश्चेतः प्रेक्षेमहि कानपि तावदिहत्यान्पण्डितप्रवरान्सङ्ग्रहीमहि च कियतोऽपि श्रीमद्रामानुजा- चाय्रारचितान्प्रबन्धानिति । ततश्च प्रथमतोऽनन्ताचार्य्यस्यैव प्रावेशि सदनमस्माभिः । तत्र च तदनुसन्धानपरैर्देशान्तरमेष सम्प्रत्यधितिष्ठतीति प्रतिवचनमर्पयन् साक्षात्कृतः कोऽप्यण्णङ्गराचार्य्यनामा जनो यस्तस्य तनयो वा भ्राता वा यः कोऽप्यन्यो वा सम्बन्धेति नाऽद्यत्वे यथाव- स्मर्य्यते । शुद्धाद्वैतपुष्टिमार्गानुगता एत इत्याकलयता चोपस्थापिताऽनेन सैवं प्रद्वेषमूलिका दुश्चेष्टितचर्चा यत्र कलहभिया विवादमनाचरन्तस्तथा निरस्तातिथिसत्कारश्च सुदूरोदस्तविनयश्च विगलितविवेकञ्च सन्दीपनाक्ष- रचाऽभ्यधायिष्महि यथा महानेव समजन्यतदहेषु क्षान्तिनिर्बन्धमाद- धत्यात्मन्युपक्रोशः, प्रादुरासीच चेतसि निर्वेदः पिशुनेषु मार्दवं पराभ- वभूमिरिति, समुपारोहाच स्मृतिपथं कविकुलगुरोः श्रीमतः कालिदासस्य वचनं-'विवक्षितं ह्यनुक्तमनुतापजनयती' ति। इदञ्चाऽपि नश्चित्ते समुद्गतमहो नः प्रमोहो यदुत स्वातिदेशेन सर्वत्र बुद्धिः । न हि न विमुह्यन्ति कपटपटुभिः पिशुनैः प्रतारयितुमपार्य- माणेषु प्रगल्भेष्वप्रत्युत्पन्नमतयः । यत्सत्यमननुभूतशास्त्रसौगन्धिकग- न्धञ्च प्रवृद्धप्ररोषकृशानुशातितसकलमनीषिमर्यादञ्चैते चेष्टन्ते, तथापि न किल न व्यामुह्येयुरनभ्यस्तपाण्डित्यप्रभाणि मनुजानां मनांस्यतेन । तदिह सर्वथाऽपि नाऽतिचरितव्य आत्मनोऽधिकार इति । तत एव च प्रत्यज्ञायि निर्दिष्टनामधेयो लेखः खण्डयितुमस्माभिर्येनाऽमुष्य निवन्धु- विनियेत दर्पश्च व्युत्पत्तिविरहश्च बलवत्तरः प्रद्वेषश्च. यथा नाऽन्यथा .
बुद्ध्यरत्नारिमृष्टप्रताः । न चतहसमजतम् । यदाहः-'बार्हस्पत्य सवै नाऽत्र साधुर्व दुर्जनरितः । दुम्क्त िनमामानं यः समाधातुर्मीश्वरः। न तथा तप्यते विदः पुमान्वाणः मुमर्मगैः । यथा तुदन्ति मर्मस्या हसतां परुषव' इति । ततश्च काञ्चीतः प्रस्थाय श्रीशेषदालतजशिखरशिरोगालमतमणि- शेग्वरप्रियो भगवतः श्रीश्रीनिवासस्य चरणनलिनमिथुनमानोज्ञकमधु- धोरणी विलोचनप्रसूतिभ्यां भूयो भूय आकण्ठमप्यविरमदमिलापाति- शयमापीय यथागतं मद्रपुरं प्रतिनिवृत्तरपक्रान्तमस्माभिरात्मनः प्रतिज्ञा पूरयितुम् । किन्तु तेतैरशस्योदाहारः समभिहारेणाऽभिपतद्भिः प्रतिबन्धः प्रसहा व्यापारान्तरपारतत्र्यमापादिप्महीयहो प्रार्थितार्थसिद्धीनां विन- निम्नत्वम् । नत्रापि श्रीमदाचार्य्यचरणपादप्लवमुपाश्रिन्य निस्तीर्णवाऽस्माभिः प्रतिज्ञास्त्रोतस्विनीति मनोरथानामुपरि प्रवर्तामहे । तत्र च पुरत उप- स्थाप्यमानयं-सिद्धान्तसिद्धापगैव प्रमाणमित्यलं विस्तरेणेति शिवम् । शुद्वितसिद्धान्तकायालयः, यटामन्दिर, भूलेश्वर, बंबई. विनीतवशंवदो- भश्रीवलभद्रशर्मा, कविः, काव्यरत्नाकरश्च.
श्रीसुवोधिनी!!! विदितमेवैतत्सकलस्य श्रीमदाचार्यचरणपादारविन्दमकरन्दलिहः सुरसर्गस्य यत्किल सर्वोद्धारप्रयत्नात्मनो भगवतः श्रीपुरुषोत्तमस्य निदेशत्रिदशशैवलिनी शि. रसा स्वीकृत्य तज्ज्ञानावतारेण श्रीमत्कृष्णद्वैपायनपरमाचार्येण श्रीमद्भागवतं नाम सर्वसन्देहनिरासकं किमपि शास्त्रं प्रादुर्भावयाम्बभूव इति । एतच भगव- दनुग्रहकसंवेद्यमित्येकान्ततो दुरवयोधमिति भगवद्वदनवैश्वानरैः श्रीमदाचार्यचरणैः श्रीसुबोधिनी नाम कापि तयाख्या विरचयाचके । एषा च तत्तद्भगवदभिमत- सिद्धान्तोद्भासनभासुरा श्रीश्रीकृष्णपदपाथोजप्रसमरामन्दमाध्वीकधारासम्पाता- नुप्रासस्पृहणीयतमा प्रतिमतमत्तमातझावलेपविलोपपारीन्द्रसप्रभा विविधवादो. पवनविहारव्यसनिविद्वद्वरेण्यसमर्पितकुतूहला चेति नैतदंशतोऽप्यतिशयोकि स्पृ. शति । न किल काव्यानामिव साधारण्येषा व्याख्या न वा टीकान्तरानुकारिणी किन्तु विलक्षणतमेति नेह संशयलेशोऽपि । एषा हि भाष्यसब्रह्मचारिणी भाष्यमेव वा श्रीमद्भागवतानुशासनस्य । इयमपि च कलिकुकूलदग्धधियां दुरववोधा च दुरूहविशेषा चेति परमकारुणिकैः श्रीप्रभुचरणैटिप्पण्या श्रीवल्लभगोखामिभि- लेखोयेन महता प्रवन्धेन श्रीपुरुषोत्तमपादैः प्रकाशेन श्रीवालकृष्णभोजनया तैस्तैरन्यैः पण्डितप्रकाण्डैस्तत्तद्विप्रकीर्णाशार्थापनपरैः परस्सहस्रैः प्रबन्धैश्च समसे- व्यतेसहो अनिगम्यगहनानि श्रीमदाचार्यचरणवचनानि । एष च सर्वोऽपि प्रन्यसमुदयः साम्प्रदायिकानां विद्याव्यासझविपरिलोपाद्विद्यासंरक्षण एकान्ततो वैमुख्याच सम्प्रति सुदुर्लभतमों विलीनप्राय एव वेयहो कष्टम् ।श्रीसुबोधिन्यपि च तेषु वेषु कतिषुचित्पीठेषु गिरिकाभिनिंगीर्यमाणा मत्कुणैर्मालिन्यमुपयाप्यमाना कीटैच कक्लीक्रियमाणा शीर्णशीर्णैरावेष्टनैः कथञ्चिदाच्छादितशरीरा कष्टपष्ट- मेवाऽतिवाहयति दिवसान् प्रायेण । तमिमं सम्प्रदायोपलवमालक्ष्य विषण्णः श्री. श्रीगोकुलनाथगोखामिवरणैर्यथोपलम्भ ग्रन्थमुद्रणं प्रतिज्ञातवद्भिरारब्धमिदानी भश्रीवलभद्रशर्मकविकाव्यरत्नाकरसाहायकेन श्रीसुबोधिनी सम्मुद्रयितुम् । अनतिचिरादेव च तत्प्रथमस्कन्धः प्रकाश्येत । तत्त्वर्य्यतां कृतार्थयितुमात्मानं दैवसर्गेणेति भूयो भूयोऽभ्यर्थयामहे । इति शम् । कार्यकती.
-- सिद्धान्तसिद्धापगा. -opepe- तत्सृष्टिरियतिसंहतीति यदिदं कृत्स्नं, विकारः पुनः यांचारम्भण एव, नाम विहतीनियन्ट यस्याऽऽस्मनः । नाना यन्न तदक्षरं, विकृतयो रूपे च यस्य क्षरे दुग्धां श्रीपतिनाम काममिह नम्तद्वेदवेद्यं महः ॥ १ ॥ श्रीमहलभदिव्यदेशिकपदप्राचीप्रतीतोदयै- रासेदुः शरणं न यस्तदशो दु_दिनो वायसाः । राकाकामुक सि तानि कुशलक्ष्मापालमौलिप्रभा- श्रेणीभिस्ततमांसि निर्जिततमास्यचीपि पुष्णन्तु नः ॥२॥ श्रीमद्धेदव्यासविष्णुस्वामिमतपुण्डरीकमण्डलमण्ड- नमार्तण्डश्रीमदल्लभाचार्यभगवत्पादीये शुद्धाद्वैतमते ब- ह्मणोऽविकृतपरिणामवादमुताहोस्विद्भङ्गयन्तरेण कृत्स्नमपि तन्मतं कटाक्षयता श्रीमता विशिष्टाद्वैतसिद्धान्तिना मनुभाषि- णीसंस्कृतसंवादपत्रिकासम्पादकेन प्रथमत एव सम्भृत- निर्भरसंरम्भगम्भीरसम्भ्रमया सरण्या सङ्ग्रथितः कोऽपि 'शुद्धा- द्वैतमतं-वल्लभमतं वे' ति शीर्षकः शङ्कानिवन्धः सह समा- विदिदृक्षया जातु प्रकाशमुपानीयतेति तदनुरोधमवन्ध्यं विधित्सवः प्रस्तुमः प्रक्रममिमम् । २ तत्रादितस्तावत्स्वेन परिजिहीर्घ्यमाणं शुद्धाद्वैतमतम- स्तीत्यादिना मन्यन्त इत्यन्तेन लेखेनाऽनूध, तत्र च खमता- २ विसंवादितया अत्रेदं वक्तव्यमित्यादिना प्रदर्शनाचेत्यन्तेन कञ्चिदंशमविमतमभ्युपगम्य, शुद्धाद्वैतसैद्धान्तिकेषु तत्तदाकरनि- बन्धेषु सुदृढशास्त्रोक्तियुक्तिभिः प्रपञ्चितमपि ब्रह्मणो जगद्रूपेण परिणामित्वेऽप्यविकारित्वं तथापीत्यादिना सत्युन्मत्तप्र- लपितत्वापत्तरित्यन्तेन न क्षमते सोऽयम् । ३ तत्र ब्रूमः । अहो नु खलु भोः ! प्रत्यक्षपक्षपातिता पण्डितपारीन्द्रस्य भवतो, यदुत सर्वप्रमाणमौलिमालतीमालां श्रुतिमपि प्रत्यक्षप्रमाणातीतमर्थमुपपादयन्तीं नाऽभ्युत्सहते सो- दुम् । प्रत्युताऽऽपत्तिप्रदर्शनापदेशेन प्रमत्तामेव तामेतां व्यप- दिशति । तदेष सुदुर्निरसो भवता खोक्तिमक्येकगम्यो वेद- स्याऽप्रामाण्यवादः । मिथ्या च भवतो विशिष्टाद्वैतसि- द्धान्तिताभिमानः । न किल जात्वपि ते बभूवांसो भवन्तो भविष्यन्तश्च तथा प्रतिपेदिरे प्रतिपद्यन्ते प्रतिपत्स्यन्ते चेति । नच श्रुतेस्तदविरुद्धत्वविरुद्धत्वाभ्यां प्रामाण्याप्रामाण्यव्यवस्थिति कुत्राप्युपलभामहे । अन्यथा ज्योतिष्टोमादिमिः स्वर्गाद्यदृष्टभाव- नायास्तदविरुद्धत्वस्याऽशक्यसाधनत्वात्तादृशपुरुषार्थाऽपूर्वविधीनां प्रमत्तप्रलापताप्रसङ्गः सुदुष्परिहरः । अलौकिकार्थस्यैव श्रुतिप्रति- पाद्यत्वात् । तस्य च तदविषयत्वात् । अन्यथा निर्विशेषत्व- प्रसङ्गात् । किञ्च । प्रत्यक्षनिर्विशेषमर्थ प्रतिपादयति वेदे कोऽयं डिण्डिमाडम्बरस्तप्रामाण्यवादिनां 'प्रमाणं परमं श्रुति' रिति । तमन्तराऽपि तद्योग्यतामनुज्झतामर्थानामववोधसम्भवात्। कृत्वस्यापि च वेदस्याऽनुवादार्थवादत्वप्रसङ्गात् । भ्रमविप्रलि- प्सादीनामसद्भावादिति चेदृकुटीप्रभातम् । अभ्युपगमेऽपि ३ च न तद्विन्द्वत्वव्याहतिः । अन्यथा पुनः प्रतिपादितो निर्विशे- पत्तपनङ्गः। किन्छ । प्रत्यक्षन्तावल्लौकिकं विवक्षितमुनाहो अलौकिकम् ? नायः । वदस्य मात्रयाऽपि तद्रविरुद्धार्यप्रतिपादकत्वं पुरुषदो- यासद्भावम्य वक्तुमशक्यत्वात् । न द्वितीयः । तत्राऽप्यकान्ततस्त- दसद्भावस्य सम्मवदुक्तिकलासम्मवात् । इतरथा स्मृत्यविकरण- विरोधाधिकरणादीनामुपेक्ष्यत्त्रग्रसङ्गात् । विपर्ययेण च तदधि- करणप्रणयनापत्तेः । श्रीमत्कृष्णद्वैपायनादीनाम्च भ्रमविप्र- लिप्मादिमिरसद्भिरपि विप्रलिप्तत्वापत्तेः । अन्यथा त्वस्मदमि- प्रताप्रतिपिद्धसिद्धेश्च । ऊर्ध्वत्रोतसां योगिनां ज्ञानम्वेवाग्लौकि- कपदाभिलप्यत्वात् । तत्रापि प्रायेणाऽगमगम्यार्थानां विष- यीकारायल्युत विपर्ययाच । किञ्च । इष्टप्रात्यनिष्टपरिहारयो- लौकिकोपायावेदकलादेव सर्वमतसम्मता वेदस्य वेदता । बदाहुः-प्रत्यक्षेणाऽनुमित्या वा यस्तृपायो न बुध्यते । पनं विदन्ति वेदेन तस्मादस्य वेदते ति । ततश्वाहुः श्रीमदाचार्यपादाः-'अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेदयुक्त्या वा प्रसा- दात्परमात्मन' इति । ५ इदमुक्तं भवति-धर्मश्च ब्रह्म चेत्युभयं वेदार्थः । ग्रमेय- त्रात् । धर्मब्रह्मप्रतिपादकापौरुषेयनित्यनिर्दुष्टशब्दराशेरेव वेदपद- व्यपदेशात् । उमयश्चैतल्लौकिकप्रत्यक्षातीतम् । तत्र प्रथमस्य तथावं पूर्वतत्रीयस्वरूपलक्षणाधिकरणैस्तत्तच्छौतस्मातवचनै- रितरतश्च सुप्रतिपन्नपूर्वम् । परस्य पुनः सिद्धपूर्वमप्यनुपर्द ते सेत्स्यति । एष तु प्रज्ञापराधो भवतस्तादृशालौकिकापौरुपेय- नित्यनिर्दुष्टस्य शब्दराशेर्वेदस्य यत्किमप्यपदिश्य यदप्रामाण्यो- प्रेक्षणं नाम । वयं पुनः श्रीमदाचार्यचरणपरिचरणप्र- वणतया नांशतोऽपि वैदिकभागवतैरभ्युपेयमिदं त्रूमः । श्रीमदाचार्यपादाश्च प्राहुः-'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणन्तचतुष्टयम् । उत्तरं पूर्वसन्देहवारकं परिकी- र्तितम् । अविरुद्धं तु यत्त्वस्य प्रमाणं तच्च नान्यथा। एतद्विरुद्धं यत्सर्वं न तन्मानं कथञ्चने' त्यादि । वेदाश्च- ब्रह्मणः प्राकृतातिरिक्तनित्यनिर्दुष्टवेदैकवेद्यत्वमावेदयन्ति । प्रति- धन्ति च तदितरप्रमाणसंवेद्यत्वम् । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' । 'तन्त्वौपनिषदं पुरुषं पृ. च्छामी' ति । 'न चक्षुषा पश्यति कश्चनैनम् । न चक्षुषा गृह्यते नापि वाचा । यतो वाचो निवर्तन्त' इति च । श्रीकृष्णवाक्यञ्च भगवतः प्राकृतप्रमाणप्रतिपत्त- व्यतां परिहरति । 'न च मां शक्यसे द्रष्टुमनेनैव खच- क्षुषा । दिव्यं दामि ते चक्षुः पश्य मे योगमैश्वर- मि' ति । नचाऽऽगमैकसंवेद्यत्वेन विरोधः । 'यमेवैष वृणुते तेन लभ्य इति श्रुतेः । वरणञ्च प्रसादजन्यम् । तदेवाऽऽह भगवान्-'मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शित- मात्मयोगादिति । वस्तुतस्तु-'मुह्यन्ति यत्सूरयः। तत्र मुह्यन्ति सूरयः शब्दब्रह्म सुदुर्बोध' मित्यादिवचः प्रपंचै- स्तत्ताघ्यालौकिकार्थस्य सुदुर्बोधत्वात्तदेकसंवेद्यत्वस्याऽपि भगव- दनुग्रहकसाघनत्वम् । इत्यस्या हृदयं लोके नान्यो मवेद कश्चने ति श्रीमद्भागवतभगवद्वाक्यात् । तत एव प्राहुः श्री- मदाचार्यपादाः-वा प्रसादात्परमात्मन' इति । एतच्च व्याचक्रुः श्रीमत्पुरुपोतमाः-परमात्मप्रसादो मुख्य साधनम् । अन्यथा-तेपां प्रकृतिवैचित्र्याचित्रा वाचः स्रवन्ति ही त्यादिन्यायेनाऽन्यदेव वुद्ध्येतेति' इति । तेन-'न वेदयज्ञाध्ययनैर्न दानेन च क्रियाभिन तपो- भिरुत्रैः। एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुपवीरे' त्यादेन 'सर्व वेदा यत्पदमामनन्ति । वेदैश्च सर्वैरहमेव वेद्य' इत्यादिश्रुतिस्मृतिविरोधः । प्रथमत एव तत्र खप्रसत्तेर्भगवता प्रकटीकारात्त्वदन्येनेत्यस्य मत्प्रसादाननुगृहीतेने- त्यर्थात् । तथाच तत्तच्छास्त्रीयपदार्थानां तत्तदाचार्यप्रसादैकस- प्रतिपत्तव्यत्वेऽपि न यथा तत्तदेकप्रतिपाद्यत्वसंवेद्यत्वव्याहति- स्तथेहापि न किश्चित्क्षतिविक्षुभितम् । विशेषः पुनः सर्वशक्तिमतो निरङ्कुशैश्वर्य्यशालिनः सत्यसङ्कल्पस्य भगवतो निरतिशयानुग्रहा- देवेति नाऽनुपपत्त्युपप्लुतं किमपि । ६ तत्र भवान् कृष्णद्वैपायनपरमाचार्योऽप्येनमेवाऽर्थमुप- सूत्रयति-'जन्माद्यस्य यतः शास्त्रयोनित्वादिति । अर्थ- स्तु वेदप्रतिपाद्यकारणत्वादिति । योगं विभजमानानामन्यथा चा- ऽर्थापयतां मते दोषास्तु भाष्यप्रकाशाभ्यां सुलभावगमा इति नेह प्रस्तुतेतरविस्तरः प्रस्तूयते । द्वितीयस्य प्रथमे च तमिममेवाऽर्थ सूत्रेणोपष्टनाति-'श्रुतेस्तु शब्दमूलत्वादिति । एतदर्था- नुरोधि श्रीमद्रामानुजमाष्यन्तु पुरत उपन्यसिष्यामः । श्री- oor मद्वैयासिकी समाधिभापाऽपि प्रतिपित्सितमेवाऽर्थमुपवर्णयति- 'नमो नमस्तेऽस्त्वपभाय सात्वतां विदूरकाष्टाय. मुहुः कुयोगिनामि' ति । योगजप्रत्यक्षविपयत्वव्यासेधपक्षे तु कैमुतिकलभ्यो लौकिकप्रत्यक्षतापरिहारः । एष एव च पक्षो ज्या- यान् । जन्माघधिकरणभाष्यप्रकाशे-नापि योगिप्रत्यक्ष'- मित्यादि वदद्भिः श्रीमत्पुरुषोत्तमैस्तथैवाऽभ्युपगतत्वात् ।। कुयोगिता पुनरननुगृहीतत्वात्सूपपादा। अन्यथा विदूरकाष्ठता- योगात् । तत एव पष्ठस्यैकादशे-'न योगसिद्धीरपुनर्भवं । समञ्जस त्वा विरय्य कास' इत्युक्त्वा 'अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिह- क्षते त्वा मिति भगवद्दिदृक्षां प्रकाशयन्योगसिद्धरपि तदर्शन- सांधनत्वाभावमवसाययति वृत्रः । 'सुदुर्दर्शमिदं रूपं दृष्ट- वानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शन- काविण' इति भगवद्वचनेन च कैमुतिकैकगम्यः स एवाऽर्थः स्फोय॑ते । अन्यथा पुनः स्वारस्यभङ्गादपरनतिप्रयोजनवापातः सुदुष्परिहरः । नच योग्यन्तरं तदर्थः । विनिगमनाविरहात् । प्रत्युत प्रपञ्चितैकवाक्यतया तदर्थस्य तदनुगृहीतत्वात् । यच्च- 'एतद्धि दुर्लभतरं लोके जन्म यदीदृश' मित्यस्य- 'इमल्पीयसी योगसिद्धिं गतस्य मृतस्य फलं, यदि प्रथमां योगसिद्धिं गतो म्रियते त्यजतिं वा योग श्वेतहीपे जायते भगवत्सालोक्यं वा याति, यदि ततोऽप्यधिकां योगसिद्धिं गतो म्रियते विष्णुपार्षदो भवति, यदि ततोऽप्यधिकां द्वारपालो भवति, यदि ततोऽप्यधिकां भगवतोऽङ्गसंवाहको भवति, यदि ततोऽप्यधिकां मन्त्रिस्थानीयः पृथगैश्वर्ययुक्तो भवति, यदि पूर्णी योगसिद्धिं गतो म्रियते भगव- त्सायुज्यं गतो मुक्तः परमैश्वर्ययुक्तो भवति' इति वैष्णवेषु योगशास्त्रेषु मर्यादा । तदेतत्सर्वमिह सूचितं भग- वता- 'अथवा योगिनाम्, इत्यादिने' ति यादवप्रका- शव्याख्यानं, नापि तद्यथोक्ताभ्युपगमेऽपि व्याकुप्यति । सिद्धयोगसिद्धीनामपि तादृशफलोपलम्भस्य प्राकृतप्रतीकपरित्या- गनान्तरीयकत्वस्य ततः स्फुटत्वात् । तत्रापि तत्प्रसादस्य साधनत्वात् । अनुजिघृक्षाभावाविनाभावे तत्सिद्धेरव्यतिरेकव्य- भिचारित्वात् । इतरथा-'एप ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपती' त्यादिश्रुतिव्याकोपा- पत्तेः । नच दर्शनकाश्त्विमन्यतोऽप्युपपद्यत इति वाच्यम् । श्रीमद्रामानुजाचार्यादिविरोधप्रसङ्गात् । तथाच तद्भा- प्यम्-'अस्य रूपस्य देवा अपि नित्यं दर्शनकातिणः नतु दृष्टवन्त' इति । इदञ्च व्याचकार निगमान्तदेशिक:- 'नित्यमित्यस्य पदार्थैकदेशदर्शनान्वयस्यागतिकस्या- ऽऽश्रयणमनुचितमित्यभिप्रेत्याऽऽकासाया नित्यत्वं द- र्शनाभावमवगमयतीत्याशयेनाऽऽह-न तु दृष्टवन्त' इति । वस्तुतस्तूभयस्य वेदार्थस्य लौकिकेतरशब्दातिरिक्तलौकिकालौ- किकोभयप्रमाणसंवेद्यतायाः पूर्वोत्तरतत्रयोस्तत्तदधिकरणेषु परिहत- त्वाच्छास्कसमधिगम्यमेव नित्यनिर्दुष्टाद्भुताचिन्त्याजयंनिरङ्कुश- ८ - निरतिशयैश्वर्यशक्तिमत्सर्वशं ब्रह्म । युज्यते चैतत् । न किल- 'विश्वतश्चक्षुरुत विश्वतो मुखः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वतः पाणिपादन्तत्सर्व- तोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति । अनेकवाहदरवक्रनेत्र' मित्यादिश्रुतिस्मृतिसह- स्रोपश्लोक्यमानमचिन्त्याद्भुतमहिमानं परमात्मानमीशते केऽपि तदन्यथाप्रक्रियया विज्ञातुमिति । ७ किञ्च । योऽयं भवान्वेदस्य प्रत्यक्षविरुद्धार्थप्रतिपाद- कत्वे प्रमत्तप्रलपितत्वापत्ति प्रतिपद्यते, यच्च ब्रह्मणः सर्वज्ञत्वसर्व- शक्तत्वपरिणामित्वादि, यच्चाऽचिद्वृत्तिपरिणामित्वस्य परम्परया तद्वृत्तित्वेऽपि प्रोक्षणावहननादिदृष्टान्तेन ब्रह्मणि मुख्यत्वमाचष्टे, न किल न तेन वदन् व्यान्यते । लोके हि न कोऽपि दृष्टः श्रुतो वा सर्वज्ञः सर्वशक्तो जगदाकारेण वा परिणमन् । नापि लोकतोऽवगतं प्रोक्षणावहननादीनां केनापि यज्ञशेष- त्वम् । तदेष प्रत्यर्थिनः परासिसिषया प्रहरतो मुग्धस्य कण्ठे कुठारः । कृतमतिप्रसङ्गेन । इदम्पुनरविप्रतिषिद्धं सिद्धम् यदुत निखिलप्रमाणातिरिक्तदिव्यापौरुषेयनित्यनिर्दुष्टशब्दप्रमाणकं नि- त्यनिर्दुष्टाद्भुताचिन्त्यनिरङ्कुशनिरतिशयैश्वर्य्यशालि निखिलकल्याणा- नन्तगुणगणमपरिच्छिन्नखाभाविकानन्तविचित्रशक्तिमत्सर्वज्ञं स- चिदानन्दं ब्रह्मति इति । ८ एतदुक्तं भवति-'आत्मा वा इदमेक एवान आ- सीत्, नान्यत्किञ्चन मिषत्, स ईक्षत लोकान्नु सृजा इति, स इमाँल्लोकानसृजत । प्रजापतिवा एकोऽग्रेड- ९ तिष्टत्, स नाऽरमतैकः, स आत्मानमभिध्यात्वा वह्वीः प्रजा असृजत । सोऽकामयत वहुस्यां प्रजा- येयेति । स तपोऽतप्यत, स तपस्तत्वा इदए सर्व- मसृजत । आत्मैवेदमग्र आसीत्पुरुषविधः सोऽनु- वीक्ष्य नान्यदात्मनोऽपश्यत्, स वै नैव रेमे, तस्मा- देकाकी न रमते, स द्वितीयमैच्छत्, स हैतावा- नासः । सदेव सौम्येद्मग्र आसीदेकमेवाद्वितीयम्, तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजोऽसृजत । ईक्ष- ते शब्दम् । कामाच नाऽनुमानापेक्षा । अभिध्यो- पदेशाच्च । लोकवत्तु लीलाकैवल्यम् । यथा क्रीडोप- स्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ अंशांशास्ते देव- मरीच्यादय एते ब्रह्मेन्द्राया देवगणा रुद्रपुरोगाः। क्रीडाभाण्डं विश्वमिदं यस्य विभूमंस्तस्मै नित्यं नाथ नमस्ते करवाम ॥ क्रीडार्थमात्मन इदं त्रिज- गत्कृतन्ते स्वाम्यन्तु तत्र कुधियः पर ईश कुर्युः । कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्व- द्वरोपितकर्तृवादा' इत्याघेकवाक्यतापन्नश्रुतिसूत्रश्रीभागव- तवचनानि-'यतोवा इमानि भूतानि जायन्ते । तस्मादा एतस्मादाकाशः सम्भूतः । कर्तारमीशं पुरुषं ब्रह्म- योनिम् । स आत्मानं खयमकुरुत । आत्मकृतेः परिणामात् । अहं सर्वस्य प्रभव' इत्यादीनि च श्रुतिसूत्रस्मृतिवचनानि तादृशस्याऽपरिच्छिन्नखाभाविकानन्तवि- ? १० चित्रशक्तिमतः सर्वज्ञस्य ब्रह्मणो रिरसैकप्रयोजना निमित्तताञ्चो- पादानताञ्च कर्तृताश्च जगदात्मना परिणामिताञ्च श्रावयन्ति । ९ अभ्युपेयते चैतत्कृत्लमपि तत्तैरेव वचोभिः श्रीमद्रामा- नुजाचार्यैः स्वयञ्च प्रथमतः यद्यपि सर्वज्ञमित्यादिना मृद्धटादिदृष्टान्तप्रदर्शनाचेत्यन्तेन लेखेन भवता । तत्र ताव- दिदं पृच्छामः-यदुत केवलस्य ब्रह्मणो निमित्तत्वादि निखिलमपि लोकदृष्टप्रक्रिययोपपद्यत आहो नेति ? किन्तावत्प्रतिपत्तव्यम् ? नेति । कुतः? तादृशश्रुत्युदाहरणस्य प्रमत्तचेष्टितत्वापत्तेः । खोक्तिवाधापातात् । स्वाचार्यविद्वेपित्वप्रसङ्गाच्च । किञ्च । यदि- दमुपपद्यते तत्किल केवलया लोकदृष्टप्रक्रिययोताहो तयैव वेद- दृष्टाविरोधिन्या? न पूर्वः । जगदुपादानतायास्तदात्मना परिणा- मितायाश्च ब्रह्मणि प्रमाणान्तरानवसेयत्वात् । तादृशश्रुत्युदाहर- णस्य विशेषतोऽशिष्यत्वप्रसङ्गाच । तत उत्तरो व्याख्यातः । यु- क्तञ्चेदम् । अतीन्द्रियेऽर्थे वेदाविरोधिन्यास्तस्या अनुपेक्ष्यत्वाभ्य- नुज्ञानात् । यदाहुः-श्रीमद्रामानुजाचार्या विलक्षणत्वाधि- करणभाष्ये 'अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम् । तदुपबृंहणायैव तर्क उपादेयः । तथाचाऽऽह-आर्षे धर्मोपदेशश्च वेदशास्त्राविरोधिना । यस्तणाऽनुस- न्धत्ते स धर्म वेद नेतर इति । वेदाख्यशास्त्राविरोः धिनेत्यर्थ' इति । तदिदं मुग्धस्य मनस्तोषमात्रफलम्-यदाहुः- 'वेदशास्त्राविरोधिने'ति। वस्तुतस्तु तादृशोऽपि तदुपबृंहणोऽपि तर्को न तादृशोऽर्थस्य प्रामाण्यदायमापादयति । किन्तु बोधसौ. लभ्यमेव सम्पादयति । तद्वेदैकदृष्टप्रक्रिययेत्येव सुवचम् । अनैव- ११ मभ्युपगमे तु प्राचामपौरुपेयीनामापीणाञ्च वाचां व्याकोपः सुटु- असहः । तथाहि-क्षीरवत्केवलं कर्तारमाहोखिदधिश्रयणातञ्च- नादिवन्निमित्तमप्यनपेक्ष्य ब्रह्मणो दधिभाववजगद्भावस्य लोक- दृष्टप्रक्रिययोपपत्तावपि यथा क्षीरस्य तथाभावे देशकालाद्यपेक्षा न तथा ब्रह्मण इत्येप न शक्यतेऽर्थस्तथोपपादयितुम् । केवलन्तु 'सदेव सौम्येदमग्र आसीत्। सोऽनुवीक्ष्य नान्यदात्म- नोऽपश्यत् । आत्मन्येवाऽऽत्मनाऽऽत्मानं सृजे हन्म्य- नुपालये। स पप आद्यः पुरुषः कल्पे कल्पे सृजत्यजः। आत्मन्येवाऽऽत्मनाऽऽत्मानं संयच्छति च पाति च । आत्मनि चैवं विचित्राश्च हि' इत्यादिभिः श्रुतिस्मृ- तिसूत्रैः सोऽयमुपपाद्यते । न तावता तदर्थप्रामाण्यं श्लथीभवति । अन्यथा तु तत्तद्वचनानामप्रामाण्यलक्षणो व्याकोपस्तादृशः प्रसजेत् । श्रोताग्रपदतात्पर्य्यन्तु विद्वन्मण्डनसुवर्णसूत्रादिषु सुव्यक्तमिति नेह वृथाऽनूयते । तथाच सुसिद्धमेतत्-यत्तावल्लोकदृष्ट- प्रक्रियया नोपपद्यते ब्रह्मणो जगदभिन्ननिमित्तोपादानकर्तृत्वं तदा- मना परिणामिलञ्च । प्रत्युत वेदैकदृष्टप्रक्रिययैवेति । १० इत्यञ्च नित्यनिर्दुष्टाछुताचिन्त्यनिरङ्कशनिरतिशयैश्वर्यशा- लिनो निरस्तसाम्यातिशयस्वाभाविकानन्तविचित्रशक्तिमतो ब्रह्मणः खाभिन्ननिमित्तोपादानजगदात्मना प्रत्यादिष्टदेशकालाद्यपेक्षस्य प- रिणामस्य समस्तस्खेतरविजातीयतया प्राकृतेतरधर्मलादप्रत्या- दिष्टदेशकालाद्यपेक्षाणां प्राकृतपरिणामानां विकारित्वप्रयोजकता- नियमाझीकारेऽपि न विकारित्वाधायकवं सम्भवटुक्तिकम् । अन्यथा परमाप्ततमस्य वेदस्य भ्रमाद्ययोगात्परिणामिलवद्विका- १२ रित्वमपि ब्रह्मणस्तेनोपपादनीयम् । न तूपपादयति । न च नि- मित्तमिह प-लोचयन्तोऽप्यसम्भवादन्यत्किमप्युपलभामहे । स- म्भवद्धि प्रतिपिध्यते नाऽसम्भवदिति नापि तत्प्रतिधति । न किल सिकतासु तिलस्नेहासद्भावमुपवर्णयितुं कमप्यायस्यन्तं सा- क्षात्कुर्मः । नन्वप्राकृते ब्रह्मण्यसम्भवन्तोऽपि स्थौल्यादयः प्राकृत- धर्माः किं प्रतिषिध्यन्ते-'अस्थूलमनण्वहस्त्र' मिति? सत्यं अतिपिध्यन्ते । प्राकृतमतीनां साजात्यावगाहिनी ब्रह्मकिरूपतानि- श्चयवञ्चितां बुद्धिमभिपततां तेषां तदिदंरूपतानिश्चायनाय खरू- पलक्षणवाक्यैः प्रतिपेद्धव्यत्वात् । तत्प्रवृत्तेस्तादर्थ्यात् । अन्य- थाऽऽपार्थ्यप्रसङ्गात् । सकृदवधारिततत्तथाखरूपाणाञ्च न तत्र कुतोऽप्यर्थे विचिकित्सापारवश्यमुपपद्यते । तत एव तदात्मान, खयमकुरुतेति श्रुतिस्तत्र विकारित्वापत्तिसंशयासम्भवमाशय्य परिणाममात्रं प्रतिपादयति । कर्तृत्वकर्मत्वयोर्विरुद्धधर्मयोश्चैका- धिकरण्यप्रतिपादनमुखेन ब्रह्मणोऽप्राकृतत्वं प्रकाशयन्ती तदेवो- पष्टभाति । यत्त्वात्मकृतिसूत्रे श्रीमद्रामानुजभाष्यम्-'अवि- भक्तनामरूप आत्मा कर्ता, स एव विभक्तनामरूपः कार्यमिति कर्तृत्वकर्मत्वयोन विरोध' इति । तन्न वि- मर्शसहम् । तदात्मशब्दयोरभिन्नार्थपर्य्यवसायित्वादेकस्यैव कर्तृ- त्वकर्मत्वावगमात् । न च तादृशनामरूपवैशिष्टयेन भेदः शक्य- कल्पनः । ताशार्थपर्य्यवसायिस्ववाचिन आत्मशब्दस्य प्रयोगायो- यात् । नच बिम्बादशैं पश्याम्यात्मानमिति प्रतीयमानयोरेकस्य दृश्य- त्वद्रष्टुत्वयोर्विरोधमाशङ्कय यथा बिम्वप्रतिविम्बपुरुषयोर्भेदाश्रय- णेऽप्यात्मशब्दप्रयोगस्तथेहाऽप्योङ्कारे न दोष इति वाच्यम् ।
। १३ दान्तिकस्य जगतम्तद्भिन्नत्वापत्त्या कण्ठे कुठारपातात् । तद- नन्यत्वायधिकरणभाष्ये श्रीमद्रामानुजाचाबैंगनो ब्रह्मानन्यत्व- स्वैव स्वीकारात् । सर्वविज्ञानवचनव्याकोपप्रसङ्गात् । दृष्टान्तेऽपि भेदस्याऽनैकान्तिकत्वाच । अन्यथा परप्रतिविम्यं पश्यतोऽपि तथाऽनुव्यवसायप्रसङ्गात् । नापि भेदाभेदः सुकरप्रतिपत्तिः । घट्टकुटीप्रभातापातात् । स्वमतव्याकोपविप्लवप्रसङ्गात्र । तत्कृतं भेदकल्पनया । युज्यते चेदम् । इह यथाकयाच भेदोत्तम्भनेन सिद्धेऽप्यविरोधे 'सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यदि' ति श्रुतिलब्धयोदृश्यत्वद्रष्टत्वयोविरुद्धधर्मयोयणि सामानाधिकरण्य- स्थाऽप्रत्याख्येयतया बलवत्तस्याप्राकृततां प्रतिपद्यैव विरोधस्य परिहर्त्तव्यत्वात् । ११ तदेवं, वक्ष्यमाणप्रकारेण च तादृशस्य देशकालाद्यपेक्षा- शून्यस्य परिणामस्य विकारानाधायकत्वे प्रतिष्ठितेऽपि, मा ता- वत्प्रभूवन्ननाघातनिगमागमसौगन्धिकगन्धानामपरिचिताचिन्त्यार्थ- मीमांसामर्यादानामर्वाचीनविकल्पविचारकुतर्कप्रमाणाभासशास्त्रक- लिलान्तःकरणदुरवग्रहवादिनामवधीरितबुद्धिशुद्धीनां जातुचिद- चिन्त्यार्थविप्लवप्रधानफला वादग्रसराः शुद्धास्तिककुलप्रसूतीनां व्यामोहायेत्यभिप्रयन्ती श्रुतिर्जगदात्मना ब्रह्मपरिणाममानाय तद- व्यवहितं तादृशमनन्यशक्यं परिणमतो ब्रह्मणः सर्वसामर्थ्यमश्लथं सूचयितुमप्राकृतत्वं श्रावयति । 'तस्मात्तत्सुकृतमुच्यत इति' इति । यदाहुः श्रीमदाचार्यपादाः प्रतिज्ञादृष्टान्तानुपरोधा- धिकरण आत्मकृतेः परिणामादिति सूत्रे-'सुकृतत्ववचना- चाऽलौकिकत्वम्' इति ।
१२ अलं पल्लवमालम्ब्य । तैत्तिरीये 'सोऽकामयते' त्युप- कम्य 'तस्मात्तत्सुकृतमुच्यत इति इत्युपसंहृतं सर्गप्रकरणं कृत्वमपि ब्रह्मणः प्राकृतेतरपरमैश्वर्यापर्यवसायि । तथाहि-'इदर सर्वमसृजते' ति श्रुत्या 'नास्त्यन्तो विस्तरस्य म' इति विस्तरानन्त्यादुद्देशतः सङ्कीर्तनानहलादिदमा निर्दिष्टं सिमृक्षितं निखिलमपि तत्तत्प्रातिखिकनामरूपं वस्तुजातं 'बहु स्या' मिति बहुभवनद्वारा विषयीकुर्वाणा 'सोऽकामयते' ति श्रूयमाणा ब्रह्मणः कामना, खस्या ज्ञानपूर्वकत्वनियमादन्यथा तत्तदर्थविषयीकारायो गात्वसम्बन्धिनः सर्वत्रत्वसूचनात्तदितरसर्वज्ञाभावादन्यत्राऽस- म्भवात्तत्तत्सृष्टपदार्थसार्थस्य तत्तदुद्देशेनाऽशक्यसङ्कीर्तनत्वेऽपि त- दितरतद्वैलक्षण्यायाऽव्यभिचरितफलत्वं प्रदर्शयितुं 'तदनुम- विश्य । सच त्यच्चाऽभव' दित्यादिना सङ्गृह्य बहुभवनवचना- खानपदार्थवत्तत्तदर्थानामसत्यत्वनिरासापदेशेन 'यदिदं किञ्च । तत्सत्यमित्याचक्षत' इति विशिष्य सत्यत्वसमर्थनाचाप्रा- कृतो धर्मः । तथाच श्रुत्यन्तरम्-'सत्यकामः सत्यसङ्कल्प- इति । १३ जगदैकरूप्यनिरवयवत्वव्याहतिवैषम्यनैपुण्यादिदोषाणां व्युदासाय 'स तपोऽतप्यत । स तपस्तत्वेति सर्व स्याऽऽलोचनपुरस्सरत्वप्रदर्शनादवाणिभणितं स्फुटीभवत्तत्तद्दोपप्र- सक्तिप्रतिवन्धकस्खाभाविकाद्भुताचिन्त्यानन्तशक्तिमत्त्वञ्चाऽप्राकृतो- धर्मः । तथाच श्रुत्यन्तरम्-'यः सर्वज्ञः सर्वशक्ति' रिति । तत्तत्रतिनियतनामरूपपदार्थसमष्टिरूपजगदात्मना परिणामेऽपि ब्रह्मणो निरवयवत्वव्याघाताभावादविकारित्वं ततो गम्यमानं वि- १५ रुद्धधर्माश्रयत्वञ्चाऽप्राकृतो धर्मः । तादृशाम्राकृतधर्माश्रयस्याऽऽस- कामस्याऽपि तस्योदाहृतश्रुत्यन्तरैकवाक्यतया प्राकृतपृथ्वीपरि- बृढानामिव लीलेकफलेन तादृशाभिनिवेशेन स्थिरीभवन्नित्यनि?- टाछुताचिन्त्यनिरतिशयनिरङ्कुशेश्वर्यशालिवमप्यताकृतो धर्मः । १४ इत्यञ्च विश्रुतश्रुतिसीमन्तिनीसरस्वतीसंस्तुतस्य ब्रह्मण- स्तत्ताडगपरिच्छिन्नाचिन्त्याद्भुताऽप्राकृतधर्मवत्त्वस्य विशदविसृत्वर- निस्तुलयशश्शब्दाभिलप्यत्वात्तत्प्रतिपादकस्य श्लोकस्य-'तदप्येष श्लोको भवतीति सावतरणम्-'असद्धा इद्मग्र आसी- त्ततो वै सदजायत।स आत्मान" स्वयमकुरुत तस्मा- त्तत्सुकृतमुच्यत इति' इति सत्तानिदर्शनात्ताशार्थप्रामा- ण्याय प्रमाणतयोदाहरणात्तर्कानालम्वितकेन ताशप्रमाणप्रतिपत्त्या च तत्ताहगचिन्त्यार्थानां नित्यनिर्दुष्टापौरुषेयशब्दप्रमाणकत्वप्रति- वोधनाच तस्य तत्तथासिद्धं परिणामित्वेऽप्यविकारिलं विरुद्धधर्मा- अयत्वञ्च सिद्धमव्याहृतमव्याहतञ्च व्याहतवादावसरम् । १५ स्थाने चैतत् । तादृशदिव्यापौरुपेयनित्यनिर्दुष्टशिष्टतमश- ब्दसिद्धस्याऽचिन्त्यार्थस्य तत्तत्तार्किककोविदाग्रेसरोक्तिसिद्धयत्वा- मासतासुप्रतिपन्ननित्यानन्तदोपविपमूर्छिताभिर्युक्तिभिः सर्वथाऽप्य- सम्भवदन्यथाभावत्वात् । शास्त्रञ्च तदनादरणीयतामनुशास्ति- 'नेपा तर्केण मतिरापनेया। तर्काप्रतिष्ठानादप्यन्यथा- उनुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः। तर्कोऽप्रतिष्ठः स्मृतयो विभिन्नाः । अचिन्त्याः खलु ये भावा न तांस्तर्केण योजये दिति । १६ युज्यते चैतत् । यदाहुः श्रीमद्भारतमार्तण्डमहत्यिाद्य- १६ नेककीर्तिपदपदावलीविलासिनीसंवाहितपादा भदृश्रीगोवर्द्धन (गद्गुलालजी) वेदान्तभाचार्य्यपादाः-'यद्धाहक य- त्प्रमाणं तेन निश्चिते तस्मिन्न केवलयुक्त्या तद्ध- मस्य तत्वरूपस्य वा बाधः कर्तुं शक्यः । यथा रूपर- हितेष्वाकाशादिषु स्पर्शाभावेन स्पर्शवत्सु पृथिव्या- दिषु रूपसत्त्वेन च वायौ स्पर्शवत्त्वे रूपराहित्यं तद्रा- हित्ये स्पर्शवत्वं वा न स्यादित्यशक्यशङ्कम् । मतभेदात्प्रत्यक्षेणाऽनुमानेन वा तत्र तथात्वस्य निश्चया' दिति । १७ तत एव विद्वन्मण्डनसमाप्तौ मायावादिव्याजेन लोकदृष्टप्र- क्रियावादिनोऽधिक्षिपन्तः श्रीमत्प्रभुचरणाः प्राहुः-तस्माद्- स्माभिरेवोक्तपद्धत्या श्रुतिसिद्धया । ज्ञात्वा ब्रह्म- खरूपन्तत्प्रास्त्यै तद्भजताऽखिलाः । येषां लौकिकमेव मानमधिकं वेदादितोऽलौकिकात्तत्पादानुगतस्तदर्थ इति च प्रच्छन्नबौद्धास्तु ते । येषां तद्विपरीततैव वि- दुषां केषाश्चिदन्तर्गता तेषामेव मुदेऽस्तु मत्कृतिरिय गोपीशसंसेविनाम् । वरीवर्ति श्रद्धा श्रुतिषु यदि वा व्यासवचने तदा विद्वांसोऽस्मद्विरचितमिदं मण्ड- नवरम् । यथोक्तं कण्ठे वा शुकवथवाऽर्थश्च हृदये मुदा कृत्वाऽऽयत्तं धुनुत रिपुपक्षाभिधतम' इति । इति । १८ एष निष्कर्षः-'न खलु लोके साक्षात्परिणमन्नविकृतः कोपि पदार्थों दृष्टः । दृश्यते च परिणमतां विकारित्वं लोक' इति मवत्पाणितूलिकाशिल्पावगतेन साहचर्यनियमेन प्राप्ता-'ब्रह्म विकारि।परिणामित्वात् । मृत्पिण्डवदि त्येषा प्रत्या- देश्या तावदनुमितिः। तथाहि-परिणामस्तावदिह लिङ्गम् । लिङ्ग- बञ्च व्याप्तिवैशिष्टये सति पक्षधर्मत्वम् । व्याप्तिश्च हेतोरव्यभिचरित- साध्यसामानाधिकरण्यम् । तथाच परिणामस्य मृत्पिण्डादावव्यभिच- रितं विकारसामानाधिकरण्यं दृष्टवतो, ब्रह्मणि तच्छूवणात्तत्स्मरतश्च सुलभा विकारित्वानुमितिरित्येतदभिप्रेतं भवतः । एनदुपरिष्टात्परी- क्षिष्यामहे । इदम्पुनघूमः-निरक्षरक्षोभमेतदभ्युपगमेऽपि लोकदृष्ट- प्रक्रियापक्षपातस्तावद्भवतः परिहीयत इति । घटादौ परिणामस्येव विकारस्याऽपि चाक्षुषत्वात्तयोरभिन्नप्रमाणावसेयताया लोकदृष्ट- त्वात् । इह च शब्दावसितेन परिणामेन विकारमनुमिन्वता तद्वि- रुद्धप्रक्रियाया उपाश्रयणात् । वह्निधूमयोर्महानसादौ भिन्नाभि- नप्रमाणावसेयत्वन्तु शक्याभ्युपगमम् । लोकदृष्टत्वात् । अदृष्ट- चरन्तु लोके परिणामविकारयोरेवं भिन्नाभिन्नप्रमाणावसेयत्वम् । तथाच तदङ्गीकुर्वतः सुदुर्निरस एव लोकविरोधः । १९ ननु जातो घट इत्युपशृण्वता तयोरपि भिन्नप्रमाणेन ग्रहणान्न लोकेऽपि तादृशो नियम इति चेत् ? नन्विदं शरपुरुषीयं सम्पन्नम् । अनुज्झितचक्षुरादिप्रमाणप्रतिपत्तियोग्यताकस्य परि- णामस्य शब्दानुभवविपयत्वे विकारस्याऽनुमितिविषयत्वेन तयोर्मि- नाभिन्नप्रमाणावसेयतासिद्धिसत्त्वेऽपि निरस्तसमस्तप्रमाणप्रतिपत्ति- योग्यताकस्य शब्दानुभवमात्रविषयस्य ब्रह्मणः परिणामस्य प्रत्युत लोकविरुद्धत्वसिद्धेः । तदितोऽपि तादृशः पक्षपातः सुदुर्निवाद एवेत्युभयतमाशा रज्जुः । श्रुतिसिद्धमर्थं न लोकविरोधो वापत इति चेत् ? ननु तर्हि तथासिद्धमेव परिणामित्वेऽप्यविकारित्वं सि. २ १८ ब्रह्मण्यम्युपगच्छत्सु शुद्धाद्वैतसिद्धान्तिपु कुतः शिरसि शूलमु- कोपयति भवतो लोकविरोधः? तदलं दुर्व्यवसितेन । २० वस्तुतस्तु-चक्षुरादिग्राह्यस्य परिणामस्य सम्भवति माना- न्तरावसेयले यथा मानान्तरावसेयत्वं विकारस्य, तथेहाऽपि शब्द- मात्रग्राह्यस्य परिणामस्य सम्भवति मानान्तरावसेयत्वे काममङ्गी- क्रियतां विकारस्याऽनुमानावसेयत्वम् । किन्तु तदसम्भवे तथाऽ- ङ्गीकारः प्रसञ्जयत्येव सुदुष्परिहरं लोकविरोधम् । तदयमर्थशून्य एव प्रकृते नियमव्यभिचार इत्यपाणिपिहितम् । नच शब्दानुभव- विषयीभूते परिणाम विकारस्याऽनुमितिविषयताया लोकदृष्टत्वा- त्तावन्मात्रमादृत्याऽनुमिन्वतो मे न लोकविरोध इति वाच्यम् । विनिगमनाविरहात् । अस्माकन्तु भवदभ्युपगता लोकदृष्टप्रक्रि- यैवाऽस्तु मानम् । तदेय सर्वथाऽपि नाऽपजहाति भवन्तं खेह- संवर्द्धितो लोकविरोध इत्यलमायासेन । २१ अथवा तुष्यतु भवान् । अन्यतश्च प्रसजन्ति भूयांसो दोषाः । तथाहि-तत्तादृशजगदात्मना ब्रह्मणः परि- णामो न विकारच्याप्यः । परिणामत्वव्याप्यजाति- मत्त्वे सति शब्दानुभवमात्रविषयत्वात्।प्रत्यादिष्टदे- शकालाद्यपेक्षत्वात् । तस्य तद्वृत्तित्वेऽपि तत्तादृशा- द्भुतानन्ताप्राकृतधर्माश्रयतायास्तत्र श्रुत्योपदेशात् । यदेवन्तदेवम् । तस्यैवेच्छापरिणामवत् । यत्नवन्तन्नै- वम् । पृथुवुघ्नोदाद्यात्मना मृदादिपरिणामवत् । यदेवन्तदेवम् । व्योमवत् । यन्नैवन्तन्नैवम् । पूर्ववत् । यदेवन्तदेवम् । मायामत्स्यविडम्बनवत् । यत्नवन्त- नैवम् । इतरवदित्यनुमितेस्तत्परिणामस्य विकारव्याप्यत्वा- भाववत्ताया दुरपन्हवत्वाट्याप्स्यविशिष्टस्य तस्य लिङ्गत्वायोगस्तत एव स्फुटं व्याप्यत्वासिद्धत्वं कालात्ययापदिएवं सत्प्रतिपक्षत्व- वेति । तथाचाऽसम्भवदुदयत्वादकिञ्चित्करत्वाच सर्वयाऽपि सेयं प्रत्यादेश्या। २२ व्याप्तिञ्च न गृह्णीमः । यश्च व्याप्तिसंवेदनभूमिः पिण्डो दृष्टान्तितो, यत्किञ्चिद्वा दृष्टान्त्येत, व्यामोहवेल्लितमेव ननु तत् । न हि तत्तत्प्रतिनियतनामरूपपदार्थसमष्टिरूपजगदात्मानं निरुक्तं वा परिणामं केवलमपि कुत्रचिदुपलभामहे । किम्पुनरव्यभिचरितवि- कारसहचरितम् । २३ अयमाशयः-परिणामिनः सर्वज्ञत्वाघभ्युपगमेन प्राकृततां परिहरतः परिणामस्याप्राकृतता तावद्भवतोऽप्यभिमता । 'यद्यपि सर्वज्ञं सर्वशक्तं ब्रह्म जगद्रपेण परिणमत इति युक्त' मित्यादितः वयं वचनात् । अन्यथा सर्वज्ञसर्वशक्तपदयोरापार्थक्यप्रसङ्गात् । तथाच तदनुरोधादुत्तरत्राऽपि लिङ्गस्य परिणामस्याऽप्राकृतता स्वय- मवाग्व्यापारमभिव्यक्ता । तस्य पक्षधर्मत्वेऽपि व्याप्तिवैशिष्टयं ननु भवता प्रतिपादितव्यम् । अन्यथाऽनुमापकत्वासम्भवात् । प्राकृतञ्च परिणाम विकारेणाऽव्यभिचरितसाहचर्य्य पश्यामस्तत्तन्मृत्पिण्डादि- पदार्थेषु न पुनरेनम् । यदि कुतोऽपि तत्राऽन्वभविष्यत सर्वज्ञता च सर्वशक्तिमत्ता च, तीनेनापि ननु समभविष्यत । तदेकहेतुक- त्वादेतस्य । न तु सा तत्राऽनुभूयते । तत्स नाऽयम् । तथाच न व्याप्तिग्रहः । नचाऽन्यत्र परिणामेषु विकारव्याप्यतायाः सत्त्वा- दिहाऽपि तत्सत्ता मन्तव्येति राजनिदेशः । अन्यत्र सत्ताया इतरत्र २० सत्त्वाहेतुत्वात् । न हि दन्तिनो मिथुनसृष्टा इत्यभ्रमातङ्गोऽपि मिथुनसृष्टः शक्यते केनापि वक्तुम् । ननु शक्यत एव वक्तुम् । यदि तस्य तथात्वं प्रमाणसिद्धम् । नच ब्रह्मणस्तथा परिणामस्य प्रत्युत विकारव्याप्यत्वाभाववत्ता प्रमाणसिद्धेति वाच्यम् । परि- णामत्वव्याप्यजातिमत्त्वेन विकारव्याप्यत्वसाधकेन सत्प्रतिपक्षादिति चेत् ? मैवम् । प्रयोजकाभावात् । अस्माकम्पुनस्तथाले सति शब्दानुभवमात्रविषयत्वादेरेवाऽनुकूलतर्कलात् । २४ किञ्च । विकारस्य प्राकृतधर्मत्वादखिलप्राकृतप्रत्यनीके त- त्तादृशाद्भुतानन्ताप्राकृतधर्माश्रये ब्रह्मणि तत्तादृशजगदात्मना साक्षा- परिणामेन तत्सिद्धेस्तदप्राकृतत्वमङ्ग इत्यनुमिन्वतो ननु भवतो मनोगतम् । अन्यथा तस्साऽदोषत्वात्तथा सायासं साधयतः कि- म्फलाकाङ्क्षाया अनुपशमात्प्रमत्तपदामिलप्यत्वापत्तेः । यस्य कस्या- पि तदितरस्य तत्तत्प्रतिनियतनामरूपपदार्थसमष्टिरूपजगदात्मना परिणन्तुमशक्यत्वे, ब्रह्मणश्च शक्यत्वे, किन्निमित्ताकाङ्क्षामपनेतुं सर्वज्ञसर्वशक्तपदाभ्यां विशेषितत्वादप्राकृतत्वञ्च तस्य भवता प्रथ- मतः खीकृतम् । तथाच सर्वज्ञत्वसर्वशक्तिमत्त्वयोस्तादृशाचिन्त्यप- रिणामहेतुत्ववत्तद्विकारच्याप्यत्वाभाववत्ताहेतुत्वस्याप्यभ्युपगन्तव्य- त्वं सुदुष्प्रतिरोधस् । नच तयोस्तन्मात्रहेतुत्वं शक्याश्रयम् । मानाभावात् । प्रतिषेधति च तत्र प्राकृतधर्माञ्चकृतिः-'अस्थूलम- नविति । अन्यथा-'यः सर्वज्ञः सर्वशक्ति' रिति श्रुतिश्च व्याकुप्येत । परिणमतो ब्रह्मणो विकारित्वापत्तौ तत्प्रतिबन्धकश- त्यभावसिद्धेः सर्वेति विशेषणस्य सुदुरुद्धरवैयर्थ्यात् । तथाच ब्रह्मणस्तत्तादृशजगदात्मना परिणामस्य विकारव्याप्यत्वाभाववत्त्व- २१ मवश्यमभ्युपेयम् । तन्न व्याप्तिग्रहः । ततश्च सुदुष्प्रतिरोध एतस्याः प्रत्यादेशः। तादृशखलेखानादरेण सम्भवन्व्यतिरेकव्याप्तिग्रहश्च तत एव दुष्टः प्रत्यादिष्टश्च । इति । २५ नच खबुद्धिवैयाकुली मामित्थं निरग्राहयदित्यन्तनिर्वत्त- व्यम् । तथा खयमनभिवदताऽपि, ब्रह्मणि परिणाममभ्युपगम्य दूपयता पुरुषेण तत्तादृशाचिन्त्यस्य तस्य निर्हेतुकत्वे साधारण्याकु- तोभावप्रश्नप्रसङ्गस्य सुदुष्प्रतिपेधतापत्तैस्तद्धेतुतया सर्वज्ञत्वसर्वश- क्तिमत्त्वयोरशब्दमभ्युपगन्तव्यत्वात् । यस्तु न स्वयं किञ्चिदम्यु- पगच्छति, केवलन्तु परमतसिद्धं परिणाममात्रमापाततः सिद्धं प्र- तिपद्य दूषणमाचष्टे, नूनमविदितवादयाथात्म्यतयोपेक्ष्यः स निर्मि- नमर्यादः । तावन्मात्रस्य तथा प्रतिपत्तौ मानाभावात् । यद्धि यन्मतसिद्धं येनाऽभ्युपगम्य दूषणं प्रसिसञ्जयिष्यते, तेन तन्मत- सिद्धं तत्खरूपमपि ननु साभिनिवेशमवयोध्यम् । अनैवकारे पुनरनाकर्णितकेन किमप्यवद्धमाक्रन्दति तत्र पिशुनत्वं प्रतारकत्वं पुरोभागित्वं प्रमत्तत्वं प्रेक्षावटुपेक्ष्यत्वञ्च युगपत्सुदृढं प्रसजेत । तथाच तत्र प्रश्नस्याऽनवसरपराहतत्वसिद्धेः प्रसजद्वाह्यत्वमुपेक्ष्य तत्तादृशनित्यनिर्दुष्टशिष्टतमशब्दानुशिष्टस्य तस्यैवाऽनभ्युपगमे ताह- श्या अनुमितेरनवसरपराहतत्वसिद्धेश्वेत्युभयतोऽपि मतस्याऽस्मा- कमनाकुलत्वं सुस्थिरम् । २६ कृत्स्लमप्येतदविमर्शमधुरम् । लोकदृष्टप्रक्रियामविमृश्य मधुरामभिमन्यमानं तत एव दुर्ग्रहगृहीतां तामपरिहरन्तं भवन्तम- नुरुध्यैव तादृशानुमानस्य स्वीकारात् । वस्तुतस्तु-प्रायस्तत्तादृश- नित्यनिर्दुष्टशिष्टतमशब्दसिद्धानामेवाऽर्थानां साध्यसाधनत्वात्तादृशा- २२ मेव च तेषां पक्षसाध्यत्वादनुमानस्याऽपि तदुपजीव्यत्वसिद्धस्त- सिद्धानामर्थानां निखिलप्रमाणातिरिक्तदिव्यापौरुषेयनित्यनिर्दुष्टश- ब्दप्रमाणावसितत्वं प्रक्रियान्तरस्य च वोधसौलभ्यमात्रपर्य्यवसित- त्वमित्येव सुव्यवस्थम् । एतेन तत्र हेतुभूतेषु तत्सिद्धेषु तत्तद, प्रत्यवस्थानावसरः परिहृतः । यदि पुनर्लोकप्रक्रियामात्रेण भवति स्मानविकारित्वसाधनं पर्य्यनुयुझे, ननु तर्हि वयमपि तादृशासति । याश्रयणेन तत्तादृशजगदात्मना परिणामस्य ब्रह्मणि साधनं पर्य्यनुयुख्महे । अतथासिद्धश्च न विकारलिङ्गं स सम्भवति के ताकि कारवत्तस्याऽप्यसिद्धत्वात्साध्यसमत्वेन दुष्टत्वात् । यदाह साक्षाः-अ. सिद्धः साध्यतुल्यत्वाद्धेतुः साध्यसमो भवेत् भवत इति । तथाच सर्वथाप्येषा प्रत्यादेश्या सिद्धा। इति । कि २७ अभ्युपगमसिद्धान्तेन प्रपञ्चितमिदम् । वस्तुतस्त्वस्या र्णिताया गन्धर्वगीतेवैवर्य्यशंसनमपरिचितपरिणामविकारयाथामाय- डिम्भमण्डलमण्डलीताण्डवस्य च डिण्डिमताडितकमेतद्यदुत भवत- स्तथानुमानम् । अवधारिततदुभययाथात्म्येन प्राकृतस्यापि परि- णामस्य, काचित्क्या अपि विकारेण सहचरिततायाः सम्भवदु- क्तिकत्वाभावात् । तथाहि-मृत्प्रभृतीनां दुग्धप्रभृतीनाञ्च द्रव्याणां पृथुबुध्नोदरत्वादेरम्लत्वघनत्वादेश्च परिणामाद्विकारं नाम न कि- ञ्चिदितरदुपलभामहे । षडेव च विकारा भगवता वायायणिना परिगण्यन्ते । यदि पुनरस्त्यादिवत्स्वतत्रं विकारो नाम कि- श्चिदभविष्यत्किन्तर्हि स तावत एव तान्पयंगणयिष्यत् । तत्र 'जायत' इत्याख्याता तावदुत्पत्तिरेव चाज्यं परिणामः । 'मृत्परिणमत' इति तत्तत्पृथुबुनोदरत्वाद्यात्मना मृदः कारणद्र- जान २३ व्यस्याऽवस्यारूपोत्पत्तेराश्रयताया एवं प्रत्ययात् । तथाच य एप परिणामः स एव कामन्तत्र विकारेप्वन्यतमत्वाद- भिलप्यतां विकारपदेन, न तु ततः किचिदिन्नन्तत्र दृश्यते यदुत विकार इत्याख्यायताम् । तदेकमेव तत्रोपलभ्यत इत्यनायास- निया॑सि । भवितव्यन्तु साहचर्यमातिष्ठमानेनोभयेनाप्युपलभ्य- मानेन । नहि स्त्रं स्वेन किमपि सहचर्य्यते, खेन वा खं साध्यते। नहि पाणिः पाणिना सहचर्य्यते, पाणिना वा पाणिः साध्यते । यदि सिद्धमिदंवृत्ति पाणिलं किन्तर्हि सिसाधयिपितम् ? वाघश्च सिद्धसाधनञ्च प्रसजतः । यदि पुनरसिद्धन्तत् ? खरूपासिद्धिश्च साध्यसमत्वञ्चेति । वस्तुतः पुनर्वैत एवेदमपि संघटते । तथाच क्वाचित्कस्यापि साध्येन तत्साहचर्य्यस्याऽसम्मवात्तथाभूतमेव तत्। २८ नच द्वयत्वाभावात्परिणाम एव ब्रह्मणि विकार इति वा- च्यम् । वृश्चिकभिया विद्रुतस्य विपविषमाशीविपवदनममिनिवि- शमानस्याऽनुक्रियापातात् । नन्वङ्ग तत्कृतमपह्नवपाण्डित्यप्रका- शेन । भवतैव ननु तयोर्दयता साहचर्य्यावगमकवाक्येन खामि- मता प्रकाशितेति । नच न तद्वाक्यं साहचर्य्यमवगमयतीति वक्तव्यम् । लोकनिदर्शनस्याऽनौपयिकत्वप्रसङ्गात् । तथापि ब्रह्मणो जगद्रूपेण परिणामाङ्गीकारेऽपि विकारित्वं यथा नापद्येते लादेः-'यथा च ब्रह्मणोजगद्रूपेण परि- णामाङ्गीकारेऽपि न विकृतत्वापत्ति' रित्यादेश्च स्खलेखस्य दत्ततिलाञ्जलित्वापाताच । नच सर्वमपि तथातात्पर्यकमिदम् । लोकनिदर्शनम्पुनः श्रुतिसिद्धमर्थमुपष्टम्भितुमिति शक्यवचनम् । इत्यं विवक्षायान्तयोः प्रकाशमद्वयताया एव प्रतिपाद्यत्वात् । तथा २४ प्रतिपादने वाधकाभावात् । वस्तुतः पुनर्विकारापत्तिभयात्स्वसि- द्धान्ते, विशेष्यभूतेश्वरस्वरूपे साक्षात्परिणाममनभिप्रयता, विशे- षणभूताचिदंशे च तमभ्युपगम्य सद्वारकस्याऽपि तस्य परम्परया ब्रह्मवृत्तित्वं, प्रोक्षणावहननादिदृष्टान्तेन मुख्यत्वयाऽकुण्ठकण्ठक्र- ममङ्गीकुर्वता, तयोरद्वयत्वे, शिरोवेष्टनेन प्राणायामायासमनुभव- ताऽपि भवता ननु तदेवापादितं यदुत परत्राऽऽपिपादयिपि- तम् । तथाच-'यत्रोभयोः समो दोषो न तत्रैकश्योद्यो भवतीति न्यायात्तादृशञ्चोद्यमप्यनवसरपराहतम् । प्रतिज्ञाहा- निश्च । प्रतिजानीते हि भवान्यदुत तत्तादृशजगदात्मना ब्रह्मणि परिणामेऽभ्युपगतेऽपि न विशिष्टाद्वैते तस्य विकृतत्वापत्तिरिति । २९ एष पुनः सिद्धान्तः-ग्राह्यत्वाग्राह्यत्वाभ्यां विकारो द्वेषा । परिणतस्याऽनुदितपुनःकारणभावप्रतिरोधिधर्मान्तरत्वं ग्रा- ह्यत्वम् । कारणात्कार्य्यस्य भेदानापादकत्वमिति यावत् । तद्भि- बञ्चाग्राह्यत्वम् । यश्च ग्राह्यो विकारः स परिणाम इत्यभिलप्यते। यश्चाग्राह्यः स विकार इति । तस्यैव तात्त्विकत्वात् । ततश्च प्राञ्चः प्राहुः-'अन्यथाभावः परिणामः । तात्त्विको- न्यथाभावश्च विकार' इति । पूर्वत्रातात्त्विकपदानुपादानन्तु मिथ्यावादिनां विवर्त्तलक्षणतो विलक्षणतोपदर्शनाय । तत्पदन्तत्रा- ऽभिनिवेशयतान्तेषां कार्य्यत्वबुद्धेरवास्तवत्वे तात्पर्य्यात् । प्रपञ्च- सत्यत्ववादिनामस्माकम्पुनस्तथा तदभावात् । वस्तुतस्तु तदभिनि- वेशेऽपि न किञ्चित्क्षीयते । अतात्त्विकत्वं ग्राह्यत्वच्चेत्यनान्तराभ्यु- पगमात् । अग्राह्यविकारे परिणामपदप्रयोगस्तु द्रव्यान्यथाभावमा- त्राभिप्रायेण ।
૨૫ ३० ग्राह्यश्च विकारस्तत्तादृशजगदात्मना परिणते ब्रह्मणि । यथा-घटकटककटाहादिरूपेण परिणतेषु मृत्सुवर्णकृष्णायसप्रभृ- तिपु । वटाद्यवस्थेषु मृदादिषु पुनः कारणमावप्रतिरोधिधर्मान्तरा- नुदयात् । तत एवोपमर्दिता घटादयः पदार्थाः पुनः कारणभाव- मापद्यमानाः साक्षाक्रियन्ते । तत्तव्यार्थिना च सर्वोऽपि तत्त- द्विकारोऽविशेषात्स्वीक्रियते । व्यपेतव्यामोहं वीक्ष्यते किल विपुल- सुवर्णार्थी पण्यवीथिकासु कटकरुचकस्वस्तिकादीनि निर्विशेष गृहान इति । अभेदश्च कार्यकारणयोः प्रतीयते-'सुवर्ण स्व- स्तिक' मिति । दन्नि पुनःप विकारः । तथावस्ये पयसि पुनः- कारणभावप्रतिरोधियनत्वाम्लत्वादिधर्मान्तरोदयात् । तत एव दपि न पुनटुंग्यलायमानं दृश्यते । नच दुग्धार्थिना जातु गृह्यमा- णन्दधि विलोक्यते । नापि तयोरभेदः प्रतीयते-'दुग्धं दधी' ति । तयाच तत्र विकारपदामिलप्योऽग्राह्य एव विकारः। तत एव तत्रभवान् श्रीकृष्णद्वैपायनपरमाचार्य्यः प्रतिज्ञादृष्टान्ता- नुपरोधाधिकरणचतुर्यसूत्रे परिणामपदममिन्यवीविशत् । अन्यथा सर्वसन्देहनिरसिसिपुः स ग्राह्यविकारपदमेव प्रयुख्यात् । ३१ इत्यं प्रमासम्भवेऽपि प्रयोगसामान्यमानं विदुषां सुलभ- अमवैमवानां प्रमं निरसितुं ग्राह्यो विकारस्तावदविकृतपरिणाम इसमिलप्यते, तद्भिन्नश्च विकृतपरिणाम इत्युच्यते । यदाहुर्वेदा- न्तचिन्तामणौ भनीगोवर्द्धनवेदान्तभट्टाचार्यपादाः- 'विकृताविकृतत्वाभ्यां परिणामो द्विधा मतः । वि- कृतं सत्परिणमत्कारणं कार्यरूपतः । न पुनः कार- णात्मत्वं विकृतः सोऽभिधीयते । दुग्धाद्दधि यथा २६ जातं पुनर्दुग्धं न जायते । कार्यात्मना परिणमैत्का- रणन्त्वविकारि सत् । पुनः कारणरूपत्वमेपोऽविकृत उच्यते । नानाभूपादिरूपेण रजतं परिणामि हि। मध्ये तदेव चान्तेऽपि तत्पुनः स्याद्विलापने । असो वेदान्तसिद्धान्तः शुद्धान्तःकरणप्रियः । परिणामो यविकृतः साक्षाच्छूत्यादिसम्मत' इति । ३२ ननु कयन्तर्हि पाणिं परिष्कर्तुं वलयमभिलष्यतः सुवर्ण- शकलच पश्यतो 'नेदं वलयं सुवर्णमेतदिति भेदमुजीवयन्तो बुद्धिशब्दान्तरादयः । काणादाश्च तमेनमातिष्ठन्त इति चेत् ? अत्राहुस्तदनन्यत्वसूत्रेण भेदवादनिराकरणमातिष्ठमानानां मायावा- दनिराकरणस्य च प्रासङ्गिकत्वं प्रतिपद्यमानानां श्रीमद्रामानुजा- चार्याणां भास्कराचार्याणाञ्च मतं दूषयतां श्रीमदाचा- यंपादानां तत्सूत्रीय माननिदर्शनपर भाष्यमुद्भासयन्तः श्रीम- त्पुरुषोत्तमाः काणादैर्हि भेदवादोजीवनं, विलक्षण- बुद्धिबोध्यत्वशन्दभेदकार्यभेदकालभेदाऽऽकारभेदो- त्पत्तिविनाशप्रतीतिसंख्याभेदैः कारकव्यापारवैय- र्थ्यांपादनेन च केवलैस्तकैः क्रियते।तच विलक्षणबुद्धि- बोध्यत्वादीनां पञ्चानामेकस्मिन्नपि पुरुषे बालयुवस्थ- विरादिशादर्शनेनाऽभेदसाधकतया साधारणीक- रणादुत्पत्तिविनाशयोश्च वृद्ध्यादिवद्भावाऽवस्थान्तर- त्वाभ्युपगमेन, बहवस्तन्तव एकः पट इति संख्या- भेदखाऽपि समुदायस्य कारणत्वाङ्गीकारात्तद्भावेन तदनङ्गीकारे च कारणगुणानां कार्यगुणारम्भकत्वा- २७ कार्ये वहुत्वापत्त्या, द्रव्यगतावस्थानां कारकव्या- पारजन्यतया कारकव्यापारवैयर्थ्यनिरासेन च तक- रेव दूष्यते । अतस्तत्र केवलतर्कमूलत्वम् । तच्च सू- त्रकृता तर्काप्रतिष्ठानकथनादेव निराकृतमिति तदेव मानमतो न तन्निरासे तदाशयः । किन्तु मिथ्या- वादनिरास एवाऽऽशय इत्यर्थ' इति । ३३ 'तदक्षत बहुस्यां प्रजायेयेती' त्यादिवक्ष्यमाण- श्रुतिसिद्धष्टेः प्रतिज्ञादृष्टान्तानुपरोधानुरोधादुदाहृतश्रुत्यन्तरैकवा- क्यतया च ब्रह्माभिन्ननिमित्तोपादानस्य जगतः कार्य्यस्य, कारण- ब्रह्मात्मना विज्ञानस्याऽभिसन्धानात्-'सदेव सोम्येद' मित्या- दिश्रुतिसिद्धस्य प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्य सौलभ्यफला दृष्टान्तश्रुतयश्च तादृशः कार्य्यस्य कारणानन्यत्वन्तात्पर्य्ययन्ति । तथाहि-यथा सोम्यैकेन मृत्पिण्डेन सर्व सन्मयं वि- ज्ञातस्यादाचाऽऽरम्भणं विकारो नामधेयं मृत्तिके- येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्व लो- हमयं विज्ञात स्याहाचाऽऽरम्भणं विकारो नामधेयं लोहमित्येव सत्यम् । यथा सोम्यैकेन नखनिकृन्तनेन सर्व कार्णायसं विज्ञातस्यादाचाऽऽरम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्य' मिति । ३४ अर्थस्तावत्-हे सोम्य ! यथा एकेन केवलेन, मृत्पिण्डेन कारणेन, विज्ञातेन, सर्वमशेषं, मृन्मयं मृत्कार्य, विज्ञातं स्यात् । प्रपञ्चितप्रक्रियया कार्य्यस्य कारणानन्यत्वान्मृ- पिण्डात्मनेति यावत् । पृथुतुनोदरत्वादियत्तदवस्थान्तरेऽपि तस्य २८ P मृत्पिण्डवानपायात् । अन्यथा शरीरादिषु-'एकान्तविध्वं- सिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेष्वि' स्यादिपिण्डत्वव्यवहारानुपपादप्रसङ्गात् । उपपादयितुन्तावदाह- वाचाऽऽरम्भणं विकार इति । पाणी विशोधयितुकामेन, मृदमाहरेति नियुक्तेन नियोज्येन घटादावुपस्थापिते, घटोऽयं न मृदिति विकारः पृथुबुनोदरत्वादियत्तदवस्थादर्शनप्रयुक्तकारणत्व- प्रतिषेधरूपः खरूपच्यावो, वाचा वाङ्मात्रेण, आरम्भणमा- रभ्यत इत्यर्थः। ३५ 'मुखनासिकावचन' इत्यादिवद्वाहुलकात्कर्मणि ल्युट् । परिणामपदामिलप्यविकारात्मनां पृथुबुनोदरत्वादियत्तदवस्थानां, तदधिष्ठानभूतस्य मृत्पिण्डस्याऽनुदितपुनःकारणभावप्रतिरोधिध- मन्तिरत्वा दानापादकत्वात् । न पुनर्विकारपदामिलप्यविकारा- त्मनो घनत्वाम्लत्वाद्यवस्थायास्तदधिष्ठानभूतस्य दुग्धस्योदितपुनः कारणभावप्रतिरोधिधर्मान्तरत्वादभेदानापादकत्वात्-दध्येतन दु- ग्धमिति खरूपच्याववदिति भावः । ३६ किञ्च-यथा सुप्त उत्थित उपविष्टो वा पुरुषः-सुप्तोऽयं न पुरुष इति न प्रतिषिध्यते । व्यवहियते तु केवलन्तत्ताखवस्थासु प्रतीयमानासु सुप्त इत्यादिभिः पदैः । तथेहाऽपि पृथुबुनोदरवा- घासु तत्वाखवस्थासु प्रतीयमानासु तदाश्रयस्य नाऽतद्भावः । किन्तु तत्तैर्घटादिभिः पदैर्व्यवहारमात्रम् । अवस्थाः पुनरवस्थाभ्यो मिधन्ते । यथा खाप उपवेशात् । तथाच-यदि सुप्तोऽयं नोपविष्ट इत्यवस्थावद्धटोऽयं न मृदित्यवस्थामात्रं प्रतिषिध्यते ? न किञ्चि- तीनुपपत्तिग्रस्तम् । यदि तु काणादवादमुपजीव्य तत्तदवस्था- वतो मृत्पिण्डत्वं प्रतिषिध्यते ? न तर्हि न वाङ्मात्रेण । ?
२९. ३७ तदेव विस्पष्टयितुमाह-नामधेयमिति । तत्तदवस्थस्य तत्तद्वयवहारानुरोधेन मृत्पिण्डस्यैव घटादि नामधेयमित्यर्थः । तथाच नामरूपव्याकरणावसरे तत्तदवस्थया स्थितस्य कारणस्य मृत्पिण्डस्य तत्तदर्थक्रियासिद्धये तत्तेन नामधेयेन व्यवह्रियमाण- त्वादभिन्नमेव कारणात्कार्य्यम् । न पुनः खेन रूपेण कारणाद्भि- नम् । तदाह-मृत्तिकेत्येव सत्यमिति । इतिशब्दोऽत्र हेतौ प्रकारे वा । तथाच मृन्मयं मृत्तिका, मृदभिन्नम् । इति हे- तोरेव सत्यम् । कारणरूपेणैव वा सत्यमित्यर्थः । शिष्टं स्पष्टमिति । ३८ वैवर्तिककैवर्तकवादिविक्षोभस्तदितरो विशेषश्च तदनन्यत्व- सूत्रप्रतिज्ञादृष्टान्तानुपरोधाधिकरणभाष्यतत्याकाशाभ्यां सहस्राक्ष- पूर्वभागतृतीयश्लोकव्याख्यानिदर्शितवाचारम्भणश्रुतिविरोधपरिहार- प्राप्तावसरया भश्रीगोवर्द्धनवेदान्तभट्टाचार्यपादविर- चितया मारुतशतया च सुलभावगम इति तदुभयमपि तत एवाऽवसेयम् । अवसरोपहतिभयात्तु नेह तत्प्रपञ्चामहे । तथाच नित्यनिर्दुष्टशिष्टतमशब्देनाऽनुशिष्ट उपपन्नश्च कार्यकारणयोरयम- भेदः कुतोऽपि नाऽन्यथयितुं शक्यः काणादकोविदैरित्यन- भिभवभयम् । ३९ भेदाभेदवाश्चैतावता निरस्तावसरो वेदितव्यः । तथाहि-भास्कराचार्यास्तावदाहुः-अस्त्वभेदः । भेदोऽपि पु- नरभ्युपेयः । अतिप्रसङ्गात् । तयोरात्यन्तिके ह्यभेदे मृत्पिण्डोऽपि घटत्वादिना व्यवह्रियेत, नीरञ्च तत आह्रियेत, घटत्वादिजातय- श्व तेन प्रियेरन् । न पुनरेवं वीक्षामहे । तदनात्यन्तिकोऽयमभेदः ।
नापि भेद एवाऽऽत्यन्तिक आस्थातुं शक्यः । एकविज्ञानेन सर्व- विज्ञानप्रतिज्ञाया उपरोधप्रसङ्गात् । दृष्टान्तवैयाकुल्यापाताच । तदास्थेयो भेदाभेदवाद इति । तदहृदयङ्गमम् । तथाहि-न मे- दाभदवादः शक्य आदर्तुम् । पृथुबुनोदराद्यात्मना भेदाकारणा- मनाऽभिसंहितज्ञानस्याऽयोगात् । पृथुबुधोदरादेम॒त्पिण्डतो भिन्न- त्वात् । अथ तथा ज्ञानस्य नाऽयोगः ? न तर्हि पृथुबुनोदरादे- भिन्नत्वमपि । तदभेद एव केवल आस्थीयताम् । कृतं भेदेन । नचाऽभेदस्याऽऽत्यन्तिकवे व्यवहारः सङ्घीयत ? अवस्थाभेदादेव तदुपपत्तेः । तत्तादृश एवैष भेदाभेदवाद इति दिक् । ४० इदं निर्गलितम्-उदाहृतश्रुत्यनुरोधात्तासाञ्च तथार्थताया 'यस्तु यस्याऽऽदिरन्तश्च स वै मध्यञ्च तस्य तत् । विकारो व्यवहारार्थ यथा तैजसपार्थिवा' इति पार्थिव- पदेन मृत्पिण्डं, तैजसपदेन च लोहमणिनखनिकृन्तनद्वितयं सम- यता श्रीमद्भागवतैकादशस्कन्धवाक्येन निर्णयात्कार्यकारणयोर- भेदस्य सुदुर्व्यासेषतासिद्धेः कार्य्यस्य जगतः कारणब्रह्मात्मनाऽभि- संहितस्य ज्ञानस्य सौलभ्याय च दृष्टान्तश्रुतिभिस्तदैदमोप- हणैः-'त्वय्यन आसीत्त्वयि मध्य आसीत्त्वय्यन्त आ- सीदिदमात्मतन्ने । त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्लेव परः परस्मात् । यथा सुवर्ण सुकृतं पुरस्तात्पश्चाच सर्वस्य हिरण्मयस्य । मध्ये तदेव व्य- वहार्यमाणं नानाऽपदेशैरहमस्य तद्वत् । यथा हि- रण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्म- सु। एवं वचोभिर्भगवानघोक्षजो व्याख्यायते लो- ३१ किकवैदिकैर्जनै रिति श्रीमद्भागवताऽष्टमैकादशद्वादशस्कन्धवा- क्यैश्च भेदानापादकपरिणामपदामिलप्यविकारवतां मृत्पिण्डादीनां दृष्टान्तानां निदर्शनात्-सच्चिदानन्दसम्भूतञ्जगदेतन्मदा- त्मकम् । इति सर्वात्मदृष्ट्यर्थं सर्वस्याऽऽह विभूतिता' मिति तत्त्वदीपिकोपक्रमकारिकया प्रयोजनस्य व्युत्पादनात्तदर्थं समभिव्याहारेण विभूतिविस्तरं प्रवक्ष्यतस्तस्य तादर्थ्यमादितः स्फु- रयितु यद्यस्माजायते यत्र लीयते यद्रूपेणाऽवतिष्ठते तत्तदभिन्न मिति नियममन्तरभिप्रेत्य-अहमादिश्च मध्यञ्च भूतानामन्त एव चेति भगवतो वचनेन-तदनन्यत्वमा- रम्भणशब्दादिभ्य' इति प्रतिज्ञादृष्टान्तानुपरोधाधिकरणमुपष्ट- म्भितुं प्रवृत्तेन सूत्रेण च नियिमानेन जगतो ब्रह्मानन्यत्वेन च तत्स्फोरणात्तेषाञ्च बुद्धिसाम्यद्वारा ज्ञानसौलभ्यैकफलत्वनियमान्मू- त्पिण्डादीना पृथुबुध्नोदरत्वादितत्तत्वपूर्वावस्थान्यथाभाववत्प्रत्युत ब्रह्मणः पूर्वावस्थान्यथाभावो वलादभ्युपगन्तव्य इति । ४१ अन्यथा सर्वोपजीव्यत्वादलवती-तदात्मान स्व- यमकुरुते'ति-तत्तेजोऽमृजतेति च श्रुतिरित्येवजातीयक श्रुत्यन्तरञ्च व्याकुप्येत । यदाहुः-'आत्मकृतेः परिणामा'- दिति सूत्रे श्रीमदाचार्यपादाः-'पूर्वावस्थान्यथाभावस्तु कार्यश्रुत्यनुरोधादशीकर्तव्य' इति । इदञ्च श्रीमत्पुरु- षोत्तमाः प्रकाशयाम्बभूवुः-'पूर्वेत्यादि । तथाच द्धि- दुग्धन्यायेन स्वरूपस्य गन्धादिगुणानाञ्चाऽन्यथाभाव एवात्राऽग्राह्यविकारत्वेनाऽभिप्रेयते । न तु सं- ख्यान्यथाभावोऽपि तथात्वेनेति कार्यश्रुत्यनुरोधा- ३२ दङ्गीक्रियते । अत एव वेदस्तुतौ-'न हि विकृति त्यजन्ति कनकस्य तदात्मतया वकृत्तमनुप्रविष्टमि- दमात्मतयाऽवसित' मिति प्रायविकारस्याऽदुष्टत्व- मुक्तमिति नायन्दोष इत्यर्थ' इति । एतेन संख्यान्यथामा- वेनाऽपि तत्सहचरिततासम्भवो निरस्तो वेदितव्यः । ४२ तथाच परिणामपदामिलप्यविकारमुपवर्णयन्त्या श्रुत्यैवा:- र्थतस्तस्य विकारपदाभिलप्यविकारवत्त्वं निराकृतं, ग्राह्यस्य च विका- रस्याऽदुष्टत्वमादितः प्रपञ्चितेन सर्गस्य प्राकृतेतरपरमैश्वर्य्यपर्यवसा- यित्वेन प्रत्युत महामहिममहनीयतावहत्वञ्च समनुमतमित्यतिरोहि- तम् । अनाकुलश्चैतत् । 'सर्वे वेदा यत्पदनामनन्ति । व- न्दिनस्तत्पराक्रमै' रिति श्रुतिश्रीमद्भागवतवचनाभ्यां, श्रुत्या तद्गुणानामेवोपवर्णनीयत्वात्परमाप्ततमायाश्च तस्या भ्रमाद्ययोगा- नित्यनिर्दोषपूर्णगुणविग्रहे च ब्रह्मणि दोषाणामसम्भवात् । ४३ इतश्चैतत्सुसिद्धम्-तैत्तिरीये श्रूयते-'असदा इदमग्र आसीत्ततो वै सदजायते' ति । अर्थः पुनः-इदम् खबुद्धि- स्थागत् । न तु परिदृश्यमानम् । वोध्यस्य शिष्यस्याऽभावादस्य केवलश्रुतिवाक्यत्वात् । अग्रे । वै निश्चयेन । असत् भाववि- कारात्मकसत्ताशून्यम् । ब्रह्मेति यावत् । कलशकरकादिष्वनमि- व्यक्तेषु मृत्पिण्डवत् दनि चाऽनुभूते दुग्धवदिति भावः । अभि- व्यक्तेः प्राक् श्रौतसत्कार्यवादिभिः कारणात्मनैव कार्य्यसत्तायाः खीकारात्। आसीत्। ततःअनन्तरम् । यद्वा-उपादानादात्मनः वै निश्चयेन । इदम्पदमनुकृष्यते । सत् व्याकृतनामरूपं सत् । अजायत अभिव्यक्तमिति । तदन्यवहितञ्च पठ्यते-तदा- त्मान५ खयमकुरुत तस्मात्तत्सुकृतमुच्यत इती' ति ।
३३ . ४४ तदयं विमर्शः-श्रुतिर्यदि सत्कार्य्यवादमभिप्रेयान्न पुनस्त- दविकारित्वमपि, सत्पदमात्रमुपादाय तर्हि विरमेत् । न ह्यसंतः सदभिव्यज्यते । श्रूयते च 'कुतस्तु खलु सोम्यैव स्या दिति होवाच. कथमसंतः सजायते'ति । युक्तयश्च तदनु- कूला भवन्ति-'असदकरणादुपादानग्रहणात्सर्वसम्भ- वाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्य मिति । सत्ता चाऽऽनायते-'सदेव सोम्येद्मग्र आसीदि' ति। श्रुत्युपष्टब्धा युक्तयश्चाऽनाभास्याः। तथाच ताव- तैव सत्कार्य्यवादस्य सौस्थिर्य्यम् । कुतस्तु सा पुनराह-तदात्मा- नमित्यादि ? यद्यभिन्ननिमित्तोपादानकर्तृतां ब्रह्मण उपवर्णयितुम् ? कुतस्तर्हि-'तद्वै स्वयं सदकुरुते' त्येवं न पठेत् ? एवमपि तस्या उपवर्णयितुं शक्यत्वात् । खेतरानपेक्षतायाः खयम्पदार्थत्वाद्ब्रह्मा त्मना तत्सत्तायाश्च स्वीकारादात्मपदानौपयिकत्वात् । ४५ तदिदं तात्पर्य्यम्-यत्सदभिव्यक्तं, किन्तढुग्धादधिवद्विकृतं सत् १ मैवमित्याह-तदित्यादि । तत् तादृशमुपादानं ब्रह्म कर्तृ स्वयम् निरस्तसाम्यातिशयस्वाभाविकानन्तविचित्रशक्तिशालितया कञन्तरमुपादानान्तरमुपकरणान्तरञ्चाऽनपेक्ष्येत्यर्थः । आत्मा- नम् उपादानं क्रियाश्रयञ्च स्वमेव । क्रियागोचरं कर्मेति यावत् । अकुरुत कृतवत् । कलशकरकादीनामभिव्यक्त्यनभिव्यक्तिसाधा- रणकारणात्मताकत्वात्कलशं करोतीत्येवमादिव्यवहारेऽपि तस्य मृत्पिण्डनामधेयत्वादतद्भावाद्यथा तानभिव्यचन् कुलालो मृत्पिण्ड- न्तथेत्यर्थः । तथाचाऽविकृतमभिव्यक्तमिति ४६ यदि तुपूर्वावस्थान्यथाभावात्मनः परिणामपदामिलप्यस्य सि० ०३ ३४ ग्राह्यस्य विकारस्य नाऽदुष्टत्वम् ? कुतस्तमिव्यक्तिरविकृतेति ग- म्येत १ तथाच तददुष्टत्वं सिद्धसाक्षाच्छ्रुत्यनुगृहीतताकम् । महा- महिममहनीयतावहत्वञ्च तस्य तावता व्यक्तम् । ४७ ततश्चाऽऽह-तमादित्यादि । खेतरसमस्तसाहायकनै- रपेक्ष्यमात्रावलम्वना पुनर्न तथोक्तिः । लोकेऽपि कार्य्यस्य विलु- सावधत्व एव निरुपकरणस्य तत्प्रादुष्कर्तु पुण्यप्रशस्तेः । तथाच ब्रह्मणस्तादृशः परिणामपदाभिलप्यस्य ग्राह्यस्य विकारस्यादुष्टत्वं ततश्च विकारपदाभिलप्यविकारवत्ताराहित्यं ततश्च तस्य महामहि- ममहनीयतावहत्वञ्चेति सुसिद्धमेतत् । ४८ तदर्थः पुनः तस्मात् परिणामस्य दोषशून्यत्वात् । तत् परिणामि ब्रह्म । सुकृतम् सुछु प्रशस्य, कृतं कर्म, यस्य तादृशमित्यर्थः । अप्राकृतमिति यावत् । उच्यते परिभाष्यते सङ्केत्यत इति यावत् । मया श्रुत्येति शेषः । तथाच निरस्तस- मस्तदोषाया आप्ततमाया मम विपर्यायाधसम्भवात्परिणामस्य महामहिममहनीयतावहत्वं सङ्केतस्य च सौचित्यमित्यनिरसनीय- मिति भावः । इति । ४९ विशेषः पुनः-'असदिति चेन्न प्रतिषेधमान- त्वात् । असव्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशे- षात् । युक्तेः शन्दान्तराचे' ति सूत्रत्रयमाष्यप्रकाशाशयवि- मर्शेन-'यदै तत्सुकृतम् । रसो वै सः। रस ह्येवाऽयं लब्ध्वाऽऽनन्दी भवति ।को ह्येवाऽन्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात् । एष ह्येवाऽऽनन्द- याति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽ- ३५ निलयनभयं प्रतिष्ठां विन्दनं । अथ मोऽभयं गतो भवनी' त्यादितदव्यवहितश्रुनितात्पर्य्यपालोचनेन च सुबोध इत्यलमिदम्पलवितन । ५० प्रदर्शितमभेदनियममन्तर युगेत्य-'म्बस्तिकमिदं मु- वर्ण' मितियसरिदृश्यमानं सर्व मन्यन्येन प्रत्यभिजानन्तश्छन्दो- गाच शाण्डिल्यविधायां ग्रामोपासनमागनन्ति-'सर्व ग्बल्विदं ब्रम नजलानिति शान्त उपासीत'ति । परिणामस्य दोपशून्यताविरह पुनः-'दधीदं दुग्ध' मितिवत्सर्वस्य तथा प्र- लभिज्ञानं नोपपद्यत । तथाच तस्य परिणामित्वमविकारिलं तस्य र दोपशून्यत्वमिति श्रुतिसिद्धम् । प्रत्यभिज्ञया सर्वस्य तमला- न्वेन ममलं प्रतिज्ञायोपासनस्याऽऽमननात्तस्य महामहिममह- नीयतावहत्तम स्पष्टम् । ५१ यदि तु तत्तत्प्रतिनियतनामरूपपदार्थसमष्टिरूपजगदा- गना न तदविकृतं व्रण पर्यणस्यन्न तर्हि सर्व प्रगति प्रत्यभ्य- ज्ञास्यत । तदभावे च न तत्तथोपासिप्यत । तथाच तेन सिद्धान्तः- करणशुद्धेम्पासकस्य-'अथ खलु तुमयः पुरुपो, यथा ऋतुरम्मिलोके पुरुपो भवनि, ततः प्रेत्य भवती' त्यव्यवहितश्रुतगुपासनानुरूपफलभाक्त्वं सर्वात्मकभावो नो- पापत्स्यत । नापि-'स ऋतुं कुर्वीते' त्युपदिष्टस्य ऋतोरधिकारः फलम्ब प्रावर्तिष्यत । नैव च तत्तत्फलोपलिप्सां विद्वांसोऽभिन्य- वेक्ष्यन्तेति । ५२ श्रुत्यर्थप्रभृतिविस्तरस्तु समन्वयाध्यायद्वितीयपादप्रथमा- धिकरणभाष्यप्रकाशपर्य्यालोकसुगमः सहस्राक्षपूर्वभागद्वितीयश्लोक- ३६ व्याख्याप्रपञ्चितशुद्धाद्वैतपदार्थासङ्गतिनिरासप्रस्तुतावसरभदृश्री- गोवर्द्धनवेदान्तभट्टाचार्यपादविरचितमारुतशक्तिसुयोधश्चे- ति तत एव जिज्ञासितव्यः । विस्तरादिशङ्कया तु न सोऽयमिह प्रस्तूयते । ५३ इत्थमिह-इदं सर्वं यदयमात्मे याद्या वृहदारण्य- कादिश्रुतय-'एतां विभूति योगश्च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः। अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते । इति मत्त्वा भजन्ते मां बुधा भावसमन्विताः। मञ्चित्ता मद्त- प्राणा वोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च । तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगन्तं येन मामुपयान्ति ते। तेषामेवाऽनुकम्पार्थमहमज्ञानजं तमः । नाश- याम्यात्मभावस्थो ज्ञानदीपेन भाखते' त्याद्याः स्मृतय- श्वानुसन्धातव्याः। ५४ ततश्च कण्ठरवेणाऽपि प्रतिष्ठापयन्ति प्रस्थानानि परि- णामिनस्तस्याऽविकारित्वम् । तथाहि-श्रुतयस्तावत्-'अविनाशी वा अरेऽयमात्माऽच्छित्तिधर्मा । निष्कलं निष्कियं शान्तं निरवद्यं निरञ्जनम् । यत्तद्देश्यमंग्राह्यमगोत्र- मवर्णमचक्षुःश्रोत्रं तद्पाणिपादम् । नित्यं विमुं सर्वगतं सुसूक्ष्मन्तव्ययं यद्भूतयोनि परिपश्यन्ति धीराः । ब्रह्मैवेद्ममृतं पुरस्ताद्ब्रह्म पश्चाब्रह्म दक्षिण- तश्चोत्तरेण । अधश्चोर्ध्वञ्च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ट मिति । गीता तावत्-'अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादि- मव्ययम् । त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निदानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सना- तनस्त्वं पुरुषो मतो म' इति । उत्तरतत्रं तावत्-'विकाराव- ति च तथाहि स्थितिमाहे' ति । समाधिभाषा तावत्-'य- सिविरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविध- शक्तय आनुपूर्व्यात् ।तद्ब्रह्म विश्वभवमेकमनन्तमाद्य- मानन्दमात्रमविकारमहम्प्रपद्ये । त्वं ब्रह्म पूर्णममृतं विगुणं विशोकमानन्दमात्रमविकारमनन्यदन्यत् । विश्वस्य हेतुरुदयस्थितिसंयमानामात्मेश्वरश्च तदपे- क्षतयाऽनपेक्षः । तथापि भूमन्महिमाऽगुणस्य ते विवोद्धुमहत्यमलान्तरात्मभिः । अविक्रियात्स्वानुभ- वादरूपतो ह्यनन्ययोध्यात्मतया नचाऽन्यथेति । इति । ५५ इतश्चैप सिद्धान्तः स्थमानमुपश्लेष्यते । तथाहि-त्रेधा तावत्कार्य्यम् । जडजीवान्तर्याम्यात्मना भेदात् । स च जडत्वानित्यत्वादिना जडानां नित्यत्वचेतनत्वादिना जीवानां प्रकटसच्चिदानन्दरूपतायामपि परिच्छिन्नत्वप्रतिनियतकार्यकर्तृ- वादिना च हेतुनाऽन्तर्यामिणां परस्परनिरूपितः । ५६ तदेष संशयः समुत्सेधतियदि तावद्रुपन्यस्तैस्तैस्तैः श्रुतिसूत्रस्मृतिप्रभृतिभिः प्रमाणैरुपपादितः कार्यकारणयोरभेदः सिद्धान्तः कथन्तर्हि तेषां परस्परं भेद उपपद्यताम् । तत्त्वतश्वाऽयं ३८ दृश्यते । व्यापकञ्च ब्रह्मेति सिद्धान्तः । व्यापकत्वञ्च देशतश्च काल- तश्च वस्तुतश्चाऽपरिच्छिन्नत्वम् । वस्तुतश्च तत्र परिच्छेदः प्रसजति ।। परस्परं भेदात्तेषां कारणादतिरेकात् । तथाच भेदोऽपि स्फुटः प्रसजन् । तदभावे परिच्छेदाप्रसक्तेः । त्रेधा चाऽयम् । सजाती- यादित्रिविधवस्तुनिरूपितत्वात् । जडजीवान्तर्यामिणां यथाक्रम विजातीयतायाः सजातीयतायाः स्वगतत्वस्य च तैस्तैहेतुभिः स्पष्टत्वात् । 'यथा सुदीप्तात्पावकादिस्फुलिङ्गासहस्रशः प्रभवन्ते सरूपा' इति मुण्डकश्श्रुतिसमर्पितसरूपपदेन जीवस्य तथा स्वीकारात् । तथाचोपन्यस्तानां श्रुतिसूत्रस्मृतीनामुपप्लवः । अद्वैतसिद्धान्तमङ्गप्रसङ्गश्च । तत्कतरो भेदाभेदयोः सिद्धान्त इति? . ५७ तत्र प्रतिविधास्यामः । कठाः पठन्ति-'यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमामोति य इह नानेव पश्यती' ति । इयं व्याक्रिया-यदेव धर्मजातम् । 'सत्यं ज्ञानमनन्तं ब्रह्म । सत्यं विज्ञानमानन्दं ब्रह्मे-' त्यादिवरूपलक्षणश्रुतिभिः सत्यत्वादितत्तद्धर्मविशिष्टार्थाभिधायि- सत्यादिपदैर्लक्षितस्वरूपस्य सच्चिदानन्दस्य ब्रह्मणः सचिदानन्दात्म- कास्तिभातिप्रियत्वधर्मवत्त्वात्तेषाञ्च प्रकाशाश्रयाधिकरणे-प्रकाश- स्याऽऽश्रयाणां सूर्यप्रभृतीनां प्रकाशेन पृथक स्थित्य- भावान्नित्यसहचारित्ववत्प्रकाशस्याऽप्ययुतसिद्धत्वा- सूर्याधविनाभूतत्वस्याऽर्थतः सिद्धेः प्रकाशाश्रयतु- ल्यतया भगवविभक्तत्वस्याऽऽदर्तव्यतासाधनात्ता- दृशानि, कङ्कणकिङ्किणीप्रभृतिषु सुवर्णसत्तावत्तत्तत्पदार्थेषु तत्तत्पुरु- *-- पप्रतीतिसाक्षितया ब्रह्मणः सदादिरूपेण वृत्तिमवगमयन्ति तान्य- स्तित्वादीनीति यावत् । इह जडजीवान्ताम्यात्मना त्रिविवे कार्ये जगतीलधः । विद्यत इति शेषः । अयोगं व्यवच्छिन्दन्विशे- पणसङ्गत एवकारः साकल्यपर्यवसायी । ५८ वितं विस्पष्टयितुमाहुः-तदित्यादि । तत् तादृशानि धर्माणीति यावत् । अमुत्र समवायिनि ब्रह्मणि । ब्रह्मणा:- वितं प्रपञ्चे ब्रह्मविषयकप्रतीतिसावनतया सत्तावदित्यर्थः । येन हि यदन्वीयते प्रत्याय्यते तेन तेस्तैमरात्मनि तत् । कङ्कण- किङ्किणीकुण्डलानि हि सुवर्णेनाऽन्वीयन्ते प्रत्याय्यते तैनिकपो- पलारोहिलादिमिर्धमरात्मनि सुवर्णम् । तथाच तत्तत्पदार्थेषु तत्तत्पुरुषप्रतीतिविपयाणां सदादिरूपेण ब्रह्मसमन्वयमवगमयता- मस्तित्वादिधर्माणामुभयत्र सत्त्वाजडजीवान्तर्यामिणामनतिरे- काकार्यकारणोभयनिरूपितः पारस्परिको मेदः सिद्धप्रसक्तिशून्य- ताकः । गन्धवत्त्वप्रभृतिभिर्धर्मरात्मनि पृथिव्याः प्रत्यायनात्तदन- तिरिक्तासु तत्तासु वीरुत्सु पृथिवीनिरूपितमेदवत्तस्याञ्च तन्नि- रूपितभेदवदिति भावः । वीरुदियं न पृथिवीति भेदानु- पपत्त्यैव तत्र तन्निरूपितभेदानापत्तेः । पृथिवीत्वेन तदनतिरेकात् । इत्यञ्च-नेपा वीरुत् पृथिवीय मिति न मेदः किन्तु बुद्धि- शब्दान्तरादिमात्रम् । तचोभयस्मिन्नपि मते न भेदसाधनसमर्थ- मित्युपपादितम् । किञ्च । समन्वयः समवायस्तादाम्यञ्चेत्सनर्यान्त- रम् । तादात्म्यञ्च भेदसहिष्णुरमेदः । तथाचाऽनागन्तुकरूपेण. तत्तासां वीरुषां पृथिव्यनतिरेकेऽप्यंशवजन्यत्वाद्यागन्तुकरूपेण कारणाझेदः । स च नाऽभेदं व्याहन्तीति न किञ्चिदनुपपत्तिपूति ।
४० विकारस्य वागारब्धत्वञ्च प्रागुपदर्शितम् । यश्च त्रयाणामपि तेषां. परस्परं भेदः स तु सुवर्णसमवायित्वेन तदनन्यानामपि कङ्कण-- किङ्किणीकुण्डलानां भेदवटुपपत्स्यते । अवस्थाभेदात् । तथाच सचिदानन्दातिरिक्तस्य वस्तुनः सद्भावशून्यत्वात्फलिते ब्रह्मा- द्वैत परिच्छेदोऽपि स्वयं प्रत्युदस्तः । तदभेद एव सिद्धान्तः । यदाहुस्तत्त्वदीपे श्रीमदाचार्यपादाः-सच्चिदानन्दरूपन्तु ब्रह्म व्यापकमव्ययम् । सर्वशक्ति स्वतन्त्रञ्च सर्वज्ञ गुणवर्जितम् । सजातीयविजातीयस्वगतदैतवर्जित- मि' ति । ५९ विपर्यायवचनं तत्तेपामर्थानां वैजात्यादिपरीक्षकप्रयोजनम् । संथाच समन्वयानङ्गीकारेऽपि प्रकृतेरन्वयस्याऽप्रत्याख्येयतया वि- शेषतोऽनववोधे सम्भाव्यमानप्रसक्तिकानान्तद्धर्माणां न ब्रह्मणि सद्भावः । तथा विवक्षाया अभावात् । तदिदं विवृण्वन्ति- यमुनेत्यादि । यत् अस्तित्वादिधर्मजातम् । अमुत्र समवा- यिनि ब्रह्मणि । वर्त्तत इति शेषः । तत् । इह तादृशे प्रपञ्चे । अनु अनुवृत्तमित्यर्थः । कङ्कणकिङ्किणीकुण्डलेषु सुवर्णसमवेत- निकषोपलारोहित्वादिधर्मवदिति भावः । ६० नन्वेवमभेदाभ्युपगमे प्रपञ्चस्य दुष्टत्वादिप्रतीत्या निखि-. लंप्राकृतप्रत्यनीके निरस्तसमस्तावद्ये नित्यानन्तकल्याणगुणगण- क्षीरकलशोदधौ ब्रह्मणि दोषप्रसङ्गः' इत्यत आहुः-मृत्योरि- त्यादि । य इहेत्यादि । नानात्वं द्विविधम् । तत्त्वतो भेदा- भावेऽपि भेदः प्रथमम् । तत्त्वतो भेदो द्वितीयम् । तत्राऽऽदिम कङ्गणकिङ्किणीकुण्डलेषु । द्वितीयञ्च घटपटप्रभृतिषु । आदिमञ्च ४१ वेदान्तेषु सिद्धान्तः । उपन्यस्तश्रुतिसूत्राद्यनुरोधात् । तथाच-यः अनाघातवेदान्तविकचारविन्दमकरन्दगन्धस्तादृशदोपप्रसङ्गपङ्गुन- तिभोपप्लुतः, इह प्रपञ्चे, ब्रह्मणि, उभयो, नानेव तत्त्वतो भेदं, पश्यति ज्ञानविषयतामापादयति, सः तादृशभेदद्रष्टा, मृत्योः देवताविशपात्, मृत्युं मरणं, आमोति अधिगच्छति, संसरती- त्यर्थः । 'बहु स्यां प्रजायेये त्यत्र बहुस्सामित्येतदाकारेणैव नानासृष्टिसिद्धौ प्रजायेयेत्याकारान्तरवचनस वैयर्थ्यप्रसक्तेरु- चनीचादिमावेनाऽऽविर्भावस्य स्वीकारात्तत्र क्रीडैकप्रयोजनता- दृशबुद्धयुद्भावस्याऽभ्युपेयत्वादिति भावः । ६१ युक्तञ्चैतत् । 'खे खेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेप नि- श्चयः । शुद्धयशुद्धी विधीयेते समानेष्वपि वस्तुषु । द्रव्यस्य विचिकित्साथै गुणदोपौ शुभाशुभौ । धर्मार्थ व्यवहारार्थ यात्रार्थमिति चाऽनघ । दर्शितोऽयं म- याऽऽचारो धर्ममुद्रहतां धुरम् । देशकालादिभावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थ हि कर्मणामि' त्यादिश्रीमद्भागवतैकादशस्कन्धवचनैस्तथाऽवसा- यात् । तत एव च न ब्रह्मविदः क्वचिदपि कुत्सितत्वं प्रतियन्ति । यदाह-शुनि चैव श्वपाके च पण्डिताः समदर्शिन' इति । समाधिभापायाञ्चोच्यते-किं वर्णितेन पहुना लक्षणं गुणदो- पयोः। गुणदोषदृशिर्दोपो गुणस्तूभयवर्जित' इति । त- दिदमाहुः प्रतिज्ञादृष्टान्तानुपरोधाधिकरणभाष्यप्रकाशे श्रीमत्पु- रुषोत्तमाः-'कुत्सितत्वादिभानन्तु दोषदृशामेव न ।
४२ ब्रह्मविदाम् । यथा स्वाङ्गे पुरुषस्य । प्रसिद्धन्तदृषभ- देवादिष्विति । तथाच तदनन्यस्य प्रपञ्चस्स दुष्टत्वप्रतीतावपि निखिलप्राकृतप्रत्यनीकस्य नित्यानन्तकल्याणगुणगणक्षीरकलशोदधे- ब्रह्मणो निरस्तसमस्तावद्यता निरुपप्लवलावण्यलोलकल्लोला । इति । ६२ ननु प्रियत्वस्याऽऽत्मधर्मत्वात्प्रपञ्चस्य च तदभिन्नता- सिद्धान्तान्मृदनतिरिक्तेषु कलशकरकप्रभृतिष्वविशेषाद्गन्धवत्त्वादिप्र- तीत्येव सर्वत्र प्रियत्वप्रतीत्या भवितव्यम् । प्रतीयते तु देशतश्च कालतश्च तत्तत्र परिच्छेदात् । कस्यचित्कुत्रचित्कदाचित्रिय- त्वानुभवात् । तथाहि-नैदाघेषु दिनेषु प्रचण्डमार्तण्डमरीचिनि- चयनिचुलितस्य धर्मघस्मरो धनसारघुरणालेपः प्रीयते, हैमन्तिकेषु च वासरेषु तुषारसीकरसम्पृक्तसिचयाञ्चलसंवृतशरीरस्य दुस्तर- तमशीतशातनः सङ्कुलः कुङ्कुमपङ्कः । नैदाघेष्वपि दिवसेषु च शीतज्वरेण रुग्णशय्यामधिशायितस्य घनसारघुसृणालेपो न प्रीयते, प्रत्युत हैमन्तिकेष्वहस्सु प्रीयमाणस्तादृशः कुङ्कुमपक एव । एवं कुङ्कुमपङ्कोऽपि प्रियविप्रयोगविधूनितधैर्यकणायाः पथिकका- मिन्या हैमन्तिकेष्वपि दिवसेषु न प्रीयते, प्रत्युत स एव नैदाघेषु घनेषु प्रीयमाणो घनसारघुसृणालेप इति । तथाच नापवर्तते ब्रह्मणि सुलभप्रसङ्गः परिच्छेद इति चेत् ?. ६३ नैतदेवम् । घनसारघुसृणालेपादीनां प्राकृतप्रीतिविष- यत्वात् । प्राकृती च प्रीतिन वास्तवी परमाज्ञानिकी । प्रद- र्शितस्य परिच्छेदस्यैव तत्र प्रतिभूत्वात् । तथाचौपाधिकी सा । न हि नैसर्गिकी देशेन च कालेन च शक्या परिच्छेत्तुम् । न हि घनसार घुसृणालेपः कुत्रचन- शरीरे जातुचिच्च स्वरूपतः ४३ प्रच्यवते, कुत्रचिच्च शरीरे जातुचिच्च स्वरूपमुपनमति । कस्यचिद्वा ततः प्रच्यवते, कस्यचिच्च तदुपनमति । एवमितरदपि । तथाच- 'सौमित्रे ननु सेव्यतान्तरुतलञ्चण्डांशुरुज्जृम्भते च- ण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलती- ति प्रणयिनीविप्रयोगपरिपाटीमाटीकमानस्य लीलातनोभंगवतो रघु- पतेरमृतमरीचौ चण्डकिरणप्रतीतेरिव तथा परिच्छिन्नायास्तैस्तै- रथैः सविषयायाः प्रीतेरपि नैसर्गिकत्वस्य सुदुरभ्युपगमत्वादौपा- विकत्वमपरिहार्यम् । एतेन तत्तेपु तादृशं नियत्वमप्यौपाधिक व्याख्यातम् । ६४ मैत्रेयीत्राह्मणे च तदौपाधिकत्वं सिद्धयति । तथाहि । 'मैत्रेयीति होवाचे' त्यादिना गार्हस्थ्यात्पारिवाज्यमुपयास्य- न्याज्ञवल्क्यः खां पाणिगृहीती मैत्रेयीन्तत्र तदनुमति द्वितीयया कात्यायन्या पल्या द्रव्यविभागेन तद्विच्छेदश्चाऽभ्यर्थ-सा हो- वाचे'सादिना ससागरपरिखपृथिवीपूर्तिपर्याप्तेन द्वितीयस्या वि- भज्य लब्धेन वित्तेन स्वामृतत्वसम्भावनामनुयुक्तस्तदसाध्यत्वाद्वि- तेन तत्सम्भावनां प्रतिपिध्य-सा होवाच मैत्रेयी येनाऽहं नामृता स्या' मित्यादिना तदसाधनेन तेन तदितरकिञ्चित्साध्य- शून्यत्वात्स्वस्या अनुपयोगं प्रतिपाद्य तया तत्साधनोपदेशं पृष्टः- 'स होवाचे त्यादिना ताम्प्रतिपूज्य तदिष्टसाधनं व्याख्यास्य- नादितः सावधानां विधातुं निदिध्यासनमादिशति । ६५ ततश्च व्याचष्टे-'न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु ४४ कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवती त्यादि । ६६ एपा व्याख्या-अरे मैत्रेयि । वै प्रतीतमेतल्लोक इत्यर्थः । किन्तत् ? इत्यत आह-पत्युः कामायेत्यादि । पत्युः खस्येति यावत् । कामाय प्रयोजनाय । पतिः । भाव्या इत्याल्लभ्यते । प्रियः प्रीतिविषयः । न भवति । यत्पति प्री- तिविषयतामुपयापयति भार्या न तत्पतिसुखसाधनमित्यर्थः । किन्तर्हि तत् ? इत्यत आह-आत्मनस्त्वित्यादि । आत्मै- कसुखसाधनन्तदित्यर्थः। तुरेवकारवचनः। शिष्टमतिरोहितार्थम् । ६७ तथाच-प्रेमास्पदस्य शिशोः क्रीडनकेषु तत्सुखसाधन- त्वाद्धेतोः पितृप्रभृतिप्रीतेरौपाधिकत्ववन्निस्तुलनेहसदनस्याऽऽत्मनः सुखसाधनत्वाद्धेतोः पतिप्रभृतिषु जायमानाया भार्याप्रमृति- प्रीतेरप्यवास्तवत्वम् । सहेतुकत्वात् । अनैवम्भावे यदृच्छया तिरो- हिते तस्मिन्नपत्यान्तरनिरासवत्तत्क्रीडनकनिरासः स्वमुद्वेजयतां प- तिप्रभृतीनां भा-प्रभृतिभिः परित्यागश्च नोपपद्येत । आत्मवि- षयायाः पुनर्न तस्यास्तथात्वम् । निर्हेतुकत्वात् । तथाच निरुप- धिप्रेमास्सदमात्मैव न किञ्चन तदितरत् । इत्थञ्च स एव द्रष्टव्यो न पुनरौपाधिकप्रणयपात्राणि पतिप्रभृतीनीति । ६८ तदिदं विवुवूqाचष्टे-'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो, मैत्रेय्यात्मनि वा अरे दृष्टे श्रुते मते विज्ञाते सर्वमिदं विदितमिति । - ४५ ६९ इयं विवृतिः-निश्चयवचनं वाअव्ययं विशेष्यसङ्गतैव- कारार्थपर्यवसायि । तथाच निरुपधिभावभाजनमात्मैव न लौ- पाधिकप्रणयपात्रं किञ्चिदन्यत् । द्रष्टव्यः । दर्शनं चाक्षुपन्त- द्विषयतामापादयितव्य इत्यर्थः । न पुनर्ज्ञानं तत् । ज्ञानप्रसा- देन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्याय- मान' इति श्रुतौ भत्त्या त्वनन्यया शक्य अहमेवं- विधोर्जुन । ज्ञातुं द्रष्टुश्च तत्त्वेन प्रवेष्टुश्च परन्तपे' ति स्मृतौ च ज्ञानदर्शनयोभैदेन निरूपणात् । किन्तत्साधनम् ? इत्यत आह-श्रोतव्य इति । सहकारिणी आह-मन्तव्य- इत्यादि । मन्तव्य इति । अधिकारानुरोधेन श्रवणादापा- ततो ज्ञाने बाधसम्भावनानास्कन्दितत्वाय युक्तिभिरनुमानरूपा- भिरनुचिन्तनस्याऽऽवश्यकत्वात्तद्विधेयमित्यर्थः । निदिध्यासि- तव्य इति । चित्तस्य निरन्तराऽऽयततदेकतानता सम्पाद्येत्यर्थः । एते च श्रवणाङ्गम् । यदाहुर्द्वितीयाधिकरणे श्रीमदाचार्य- पादाः-'मनननिदिध्यासनयोः श्रवणाङ्गत्वमि' ति । त- थाच तत्साधनं श्रवणं, तच मनननिदिध्यासनाभ्यामुपकार्य्यमि- त्यभिप्रायः । अन्यथा मननस्य वैधत्वेन प्रामाण्यप्रसक्तौ प्रमाण- स्याऽनधिगतार्थगन्तृत्वनियमो भज्येत, ब्रह्मणः केवलोपनिषद्वे- यता विप्लवेत, बृहदारण्यकतृतीयाध्यायषष्ठब्राह्मणञ्च व्याकुप्येत । ७० तस्मिन्ब्राह्मणे-'यदि सर्वमप्खोतञ्च प्रोतञ्च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेत्यादिष्वनुमानविधया प्रवर्तितेषु प्रश्नेषु-'वायो गार्गी' त्यादिना प्रत्युत्तीर्णया वाचव्या गार्या-'कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताचे ति पुनः प्रवर्तिते प्रश्ने-'स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा ब्यपतदनतिप्रश्न्यां वै देवता- मतिपृच्छसि गार्गि मातिमाक्षीरिती' ति याज्ञवल्क्येन प्रतिषेधात्तदतिक्रमे शिरःपातदोपकीर्तनाच । आत्मनो दे- वतायाः स्वप्रश्न आगमिकः । गााः पुनरानुमानिकत्वात्तम- तिक्रान्त इत्यतिप्रश्नः । स यस्याः सा वासवादिरतिप्रश्न्या देवता । आत्मदेवता न तयेत्यनतिप्रश्न्या । तां केवलागमगम्या- मिति तत्राऽऽर्थात् । ७१ ननु दर्शनविषयतामापादितेनाऽऽत्मना किम्फलम् ? इत्यत आह-मैत्रेय्यात्मनीत्यादि । अपञ्चितया दिशा कार्य्यस्य कारणानन्यत्वात्सर्वत्राऽऽत्माभेदबुद्ध्या तत्स्फूतौं सर्वात्मभावसि- द्धरमृतत्वसम्पत्फलमित्यर्थः । सर्वात्मभावः सर्वस्मिन्नात्मत्वेनाऽऽ मनः प्रीतिः। सा च तत्र निरुपधिरित्युक्तम् । तथाच विद्व- शायां परिच्छेदाप्रियत्वयोर्बाधादाज्ञानिकी सहेतुकत्वादौपाधिकी च धनसारघुसणालेपप्रभृतिषु प्रीतिरित्येतदपास्तप्रत्यूहप्रतिपत्तिकम् । तदिदमाहुः समन्वयसूत्रे श्रीमदाचार्यपादाः-'अज्ञानात्प- रिच्छेदाप्रियत्वे । ज्ञानेन बाधदर्शनादि ति । ७२ नन्वेवं देहे भवन्त्या आत्मबुद्धेः प्रमावप्रसङ्गः । नचे- ष्टापत्तिः । यस्याऽऽत्मबुद्धिः कुणपे विधातुक' इत्यादिना श्रीमद्भागवतादौ तस्या निन्दितत्वाभ्यनुज्ञानादिति चेत् १ अत्राहुः समस्तसिद्धान्तसारसर्वखविदो लालूभट्टोपनामानः श्रीमन्तो बालकृष्णभट्टा:-'अजातन्ब्रह्मज्ञानस्य देहं विकारवत्त्वेन पश्यतो मायामोहवशाजाताया देहा- ४७ त्मवुद्धेरेव सर्वशास्त्रेषु निन्दा । सर्वत्र ब्रह्मत्वेन पश्यतः खदेहेऽपि तथा भानाद्भवन्त्यात्मबुद्धिः प्रमा- रूपैव । तथाह भगवान्भाष्यकारः प्रकृतिश्चेत्यत्र- देहांत्मबुद्धिस्तु सत्यां विकार बुद्धौ दोष इतीति । तथाच-देहाभिन्नत्वेनाऽऽत्मावगाहिनी धीरप्रमा, आत्माभिन्नत्वेन देहावगाहिनी च प्रमेति व्यवस्थितौ तथा बुद्धिर्न दोप इति सिद्धान्तः । ७३ इदश्च ब्राह्मणं ब्रह्मपरम् । 'न वा अरे पत्युः कामायें त्यादिना पतिप्रभृतिषु प्रीतेरौपाधिकत्वेनाऽऽत्मनि च निरुपधि- कत्वेन तदपेक्षया तस्याऽव्याजवल्लभतावोधनादुपक्रमे जीवस प्रकृतत्वादस्य तत्प्रकरणताप्रतिमानेऽपि तस्य प्रियत्वेन प्रकृततया खरूपेण प्रकृतत्वाभावादवच्छेदकचिन्तायां सर्वत्र ब्रह्मसमन्वयेन जीवेऽपि तत्सद्भावात्तत्समन्वयेनैव तस्यापि प्रियत्वस्य स्वीकार्य- त्वादात्मन्येव निरुपधिभावभाजनतापर्यवसायात्तत्परतायाः सम्भ- वदभ्युपगमत्वाभावात् । असुखत्वादीनां तत्खरूपत्वादात्मनश्च सुखस्वरूपत्वात्प्रियत्वस्य च तदेकधर्मवाजीवस्य च तत्वरूप- ताप्रतिपेधात् । उपपत्तेरुपक्रमप्रभृतिभ्यो बलिष्ठत्वात् । यदाम- नन्ति-'यो वै भूमा तत्सुखं नाऽल्पे सुखमस्ती' ति । ७४ स्यादेतत् । अथापि पामरै र्यादिमिर्दैहातिरेकेण तस्या- ऽशक्यप्रत्ययत्वात्प्रतीतौ तत्र तत्प्रीतिः प्रतिपादिता नोपपद्यते । तत्रात्मपदेन देह एव चेदभिलप्यते, सिद्धान्तभङ्गः । पति- प्रभृतिषु च तन्यायेन तादृशतदधिष्ठानताखीकारः प्रसन्जेत ? नैष दोषः । अहमभिमानविषयत्वेनाऽऽत्मतया देहस्याऽभिमतत्वात् ।
४ पतिप्रभृतीनाञ्च ममत्वविषयत्वात् । यत्पुनर्देहातिरिक्तस्याऽऽत्मनः केचित्सत्तां नाभ्युपयन्ति तेपामपि ननु न देहवत्पुत्रकलत्रादीनि प्रीयन्ते । देहोऽपि च जातु चिन्ममत्वविषयो न पूर्वानुभूत- देहवसीयते । प्राणश्चेदात्मा तदापि न देहस्तद्वत्तीयते । तथाच निरुपधिभावभाजनमात्मैव नान्यत्किञ्चनेत्यविवादावसरम् । देहात्मवुद्धेरप्रमात्वमित्यन्यदेतत् । ७५ स्थाने च सर्वमप्येतत् । यत्-'ब्रह्मन् परोद्भवे कृष्ण इयान्प्रेमा कथम्भवेत् । योऽभूतपूर्वः स्तोकेषु खोद्भः वेष्वपि कथ्यता मिति परीक्षिता पृष्टः श्रीशुक उवाच- 'सर्वेषामपि भूतानां नृप खात्मैव वल्लभः । इतरेऽ पत्यवित्ताद्यास्तबल्लभतयैव हि । तद्राजेन्द्र यथा लेहः ख़खकात्मनि देहिनाम् । न तथा ममतालम्बिपुत्रः वित्तगृहादिषु । देहात्मवादिनां पुंसामपि राजन्यस- त्तम । यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् । देहोऽपि ममताभाक् चेत्तीसौ नात्मवत्प्रियः । यजी- यंत्यपि देहेऽस्मिञ्जीविताशा बलीयसी । तस्मात्मिा यतमः स्वात्मा सर्वेषामपि देहिनाम् । तदर्थमेव सक लक्षगदेतचराचरम् । कृष्णमेनमवेहि त्वमात्मानम- खिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाऽऽभाति मायया । वस्तुतो जानतामत्र कृष्णं स्थास्लु चरिष्णु च । भगवद्रूपमखिलं नान्यदस्त्विह किश्चन । सर्वे षामपि वस्तूनां भावार्थों भवति स्थितः । तस्याऽपि भगवान्कृष्णः किमतवस्तु रूप्यतामिति ।
४९. ७६ तैत्तिरीये च तदेतत्सिद्ध्यति । तथाहि-'आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चनेत्युपक्रमे श्रवणानन्तरं, कुतो न विमे- ति तापोत्पादकयोः साध्वकरणपापकरणयोः सत्त्वादित्याकाङ्क्षायाम्- 'एतह वा वन तपति । किमह साधु नाऽकरवं किमहं पापमकरवमिती ति विद्वदुद्देशेन तयोस्तापानुत्पादक- त्ववचने कुत एतदेवमित्याकाङ्क्षायाम्-'स य एवं विद्वानेते आत्मान स्पृणुत' इत्यात्मवानुसन्धौ परिच्छेदाप्रियत्वयो- र्वाधान्निरूपधिप्रीतिप्रसरेण भयाभाव उपपाद्यमानः श्रूयते । प्राकृ- तिक्याः प्रीतेर्वास्तवत्वे तु न तयोर्वाधायोगात्सोऽयं शक्य उप- पादयितुम् । तथाच न दर्पणार्पणप्रार्थि तदोपाधिकत्वमिति । ७७ नानात्वम्पुनर्न प्राकृतम् । इदं कारणम् । इदं का- यंम् । एप कलशः । इदं करक' मित्यादिविलक्षणप्रतीति- मात्रशेपस्य तत्तदवस्थान्तरलक्षणागन्तुकरूपहेतुकस्य भेदस्य-'बहु स्या मित्यैच्छिकत्वात् । सर्गस्य रिरंसाप्रयोज्यत्वाद्रमणस्य च वैलक्षण्याभावेऽनुपपत्तेः । तथाच-सर्वं खल्विदं ब्रह्म । इदं सर्व यदयमात्मा । वासुदेवः सर्व' मित्याचा आत्माभेदेन सर्वावगाहिन्यः श्रुतिस्मृतयो नोपप्लवन्ते । विलक्षणप्रतीतिमात्रशेप- वाच सह्यस्य तस्य वस्तुभेदापर्यवसायित्वान्न शुद्धाद्वैत सिद्धान्त- सिद्धसिन्धुर आलानं लभते । सर्वपदोपादानेन नानात्वस्योपस- निघृक्षितत्वात् । अन्यथेदम्पदोपादाने तदुपादानस्य विचेय- प्रयोजनत्वापातात् । कुतः १. सर्वत्वानुपपत्तेः । कथन्तर्हि-सर्वा पृथिवी' ति. प्रत्ययः ? तत्तत्प्रदेशावगाहनात्तत्तदवच्छेदेन नाना- त्वात् । अन्यथा-'घटमानये' ति प्रेरितस्य प्रयोज्यस्य सर्व वा किञ्चिद्वेति पिपृच्छिषासम्भवात् । सि०४ ७८ अत्रैतदवधेयम्-यद्यपि कारणमेव कार्य्यन्तथापि न त- त्वावस्थं कार्य्यत्वेन व्यवह्रियते । अनभिव्यक्तकार्यताकत्वात् । अभिव्यञ्जकतत्तदवस्थान्तरलक्षणागन्तुकरूपाभिसम्बद्धन्वेव कार्य- त्वेन व्यवहार्यम्भवति । तच्च प्रागभिव्यक्तेः कारणात्मनैव सत्तावदि- त्युक्तम् । समवायश्च विशिष्टबुद्धिनियामकः सम्बन्धोऽवश्यमभ्यु- पेयः । सम्बन्धिद्वयनिर्वय॑त्वनियमाच्च तस्य भेदश्चाऽभ्युपेयः । स च तत्तदवस्थान्तरलक्षणागन्तुकरूपहेतुकोऽपि भगवदिच्छामात्र- तत्रः । प्रागभिव्यक्तेः कार्य्यस्य कारणात्मना सत्ताखीकारात् । तथाच तत्तदवस्थान्तरलक्षणागन्तुकरूपेण यदेव भगवदिच्छया तार- शविलक्षणप्रतीतिमात्राय भिद्यते तदेवाऽभिव्यञ्जकेन कारकव्यापारेण व्यवहार्य्यमभिसम्पाद्यते न पुनरितरदपि । श्रुत्यन्तरश्च भवति-'स द्वितीयमैच्छदिति। ७९ उत्पत्तिः परिणामश्चेत्यनन्तरमित्युक्तम् । अभिव्यक्तिश्च नार्थान्तरम् । ध्वंसश्च तिरोभावसहकृता कार्यस्थितिप्रतिकूला:- वस्थेत्यन्यत्र विस्तरः । तथाच. सर्वेऽप्युत्पत्त्यादयो भावविकारा- स्तादृशमेदवत्येवाऽवसरं लभन्ते न तु कारणेऽपि । तत एव- 'दाविमौ पुरुषो लोके क्षरश्वाऽक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरु- षस्त्वन्यः परमात्मेत्युदाहृत' इत्याधिभौतिकाध्यात्मिका- धिदैविकानां क्षराक्षरपुरुषोत्तमानामैच्छिकं भेदमभ्युपयन्ती गीता ब्रह्मणस्त्रिरूपतामाह,-'अव्यक्ताव्यक्तयः सर्वाः प्रभवन्त्य- हरागमे ।.राज्यागमे प्रलीयन्ते तत्रैवाऽव्यक्तसंज्ञके । भूतग्रामः स एवाऽयं भूत्वा भूत्वाप्रलीयते। रात्र्याग- ५१ मेऽवशः पार्थ प्रभवत्यहरागमे । परस्तस्मात्तु भावोs- न्यो व्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु. नश्यत्सुन विनश्यति।अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं ममें ति तदनन्यत्वेऽपि सर्वभूतानामेव चोत्पत्तिप्रलयावाह.। श्रूयते च तथाऽक्षरात्सम्भवतीह विश्वम् । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति- यत्प्रयन्त्यभिसंविशन्ती' ति । वस्तुतस्तु शुद्धेऽस्माकं ब्रह्म- वादे ब्रह्मव्यतिरिक्तस्य प्रमेयस्याऽभावात्तदभेदेनोत्पत्त्यादिप्रतिस: धानस्याऽऽवश्यकत्वे नास्येव किमपि प्रसजदवसरमवद्यम् । यदाहुस्तत्त्वदीपे श्रीमदाचार्यपादाः-'प्रमेयं हरिरेवैक सगुणो निर्गुणश्च सः । गुणाः कार्य तथा धर्मः क्रियोत्पत्त्यादयश्च स' इति । ८० एतेन-'कारणमेव चेत्काय कि कारकव्यापार- साध्यं स्यात् । सत्यपि कार्ये कार्योपयोगितया कारकव्यापारेण भवितव्यं चेत् ? सर्वदा कारकव्या, पारेण नोपरन्तव्यम्। सर्वस्य सर्वदा सत्त्वेन नित्या- नित्यविभागश्च न स्यात् । अथ कार्य सदेव पूर्वमन- भिव्यक्तंकारकव्यापारेणाऽभिव्यज्यते।अतः कारक: व्यापारार्थवत्त्वं नित्यानित्यविभागश्चोच्यते। तदसत्। अभिव्यक्तेरभिव्यक्त्यन्तरापेक्षत्वेऽनवस्थानादनपेक्ष; त्वे कायस्य नित्योपलब्धिप्रसङ्गात्तदुत्पत्त्यभ्युपगमे चाऽसत्कार्यवादप्रसङ्गात् । किञ्च । कारकव्यापार- ५२ स्थाऽभिव्यञ्चकत्वे घटाथन कारकव्यापारेण कर- कादेरप्यभिव्यक्तिः प्रसज्यते । सम्प्रतिपन्नाभि- व्याकभावेषु दीपादिष्वभिव्यङ्ग्यविशेषनियमादर्श- नात् । न हि घटार्थमारोपितः प्रदीपः करकादीन्ना:- भिव्यनक्ति । अतोऽसतः कार्य्यस्योत्पत्तिहेतुत्वेनैव कारकव्यापारार्थवत्व' मिति, कार्यकारणयोरभेदे कार्यस्य कारणात्मकतया खस्सात्वस्योत्पत्तेरसम्भ- वात्स्वस्मिंश्च स्वस्य प्रध्वंसाऽघटनादुत्पन्नं कायं प्रध्वस्तं कलशकरकप्रभृतीति व्यवहारानुपपाद' इत्येप च काणा- दकलकलो निराकृतो वेदितव्यः । ८१ यदपि श्रीमद्रामानुजाचार्या-अभिव्यक्तिः प्रद- र्शितदोषसंसृष्टेति न तामभ्युपगच्छन्ति, सत एव चोत्पत्त्यभ्युप- गमाय गरीयांसमायासमाश्रयन्ते, तदप्यविकखरवैदुष्यवन्धुर- मित्युपेक्ष्यम् । ऋजुणा मार्गेण सिद्ध्यतोऽर्थस्य वक्रेण साधना- योगात् । कथं वक्रिमा ? प्रत्युतं प्रसजतान्दोषाणां दुष्परिहर- त्वात् । प्रतिबन्दित्वे हि युक्तीनामनुत्तरभूतत्वात् । विप्रतिषि- द्धञ्चाऽभिधानम् । यत्-'द्रव्यस्योत्तरोत्तरसंस्थानयोगः पूर्वपूर्वसंस्थानसंस्थितस्य विनाशःखावस्थस्य तूत्पत्ति'- रित्युत्पत्तिविनाशयाथात्म्यं व्युत्पाद्य-संस्थानस्याऽसत उत्प- त्तावसत्कार्यवादप्रसङ्ग इत्याक्षेपे तुल्यदोषशरीरं प्रतिवन्दि- मुदाहृत्य-अस्माकं त्ववस्थानां पृथक्प्रतिपत्तिकार्ययो- गानहत्वावस्थावत एवोत्पत्त्यादिकं सर्वमिति निर- वद्यम् । कपालत्वचूर्णत्वपिण्डत्वावस्थापहाणेन घट- त्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था तत्प्रहा- नकत्वावस्था चेति न कश्चिद्विरोध' इत्युच्यते । द्रव्यस्य तत्तदवस्थतायाः कारकच्यापारायत्तत्वस्याऽभ्यनुज्ञानात्तदेकहेतुको- दयविलयत्वे च,-'घटेनोदकमाहरेत्यादिवाक्पूर्वकोदकाहर- णादिव्यवहारस्य तत्साध्यत्वे च, संस्थानापरपर्य्यायाणामवस्थानां पृथक्प्रतिपत्तिकार्ययोगानहत्ववचनस्य विप्रतिषिद्धत्वात् । तथाच याथात्म्यस्याऽपि तथात्वम् । पृथक्प्रतिपत्तिकार्ययोगानहत्वा- ग्रहे विप्रतिषेधात् । अनेन 'कपालत्वचूर्णत्वपिण्डत्वा- वस्थाप्रहाणेने त्यादि वाक्यञ्च विप्रतिपिद्धं व्याख्यातम् । अथ स्वाश्रयमतिहाय स्थित्ययोगात्पृथक्प्रतिपत्तिकार्ययोगानहत्व- मित्युच्यते, यथा मिथ्यावादिभिस्तदनन्यत्वमिति नाऽभेद उपेयते किन्तु भेदो व्यासिध्यते ? तदपेशलम् । प्रतिज्ञादृष्टान्तो- परोषस्य प्रसङ्गात् । स्वाश्रयमतिहाय स्थित्ययोगेऽपि द्रव्यतः कारणभूतादवस्थानां पृथक्त्वात् । कार्य्यत्वधियस्तत्साध्यत्वात् । तथाच महतो भाष्यभागस्य विप्रतिपिद्धत्वम् । भिन्नाभिन्नाश्चे- दवस्था अभ्युपेयन्ते ? तर्हि नोत्पत्तिर्घटते । तदियं बलवती विप्रतिपिद्धता । अस्मन्मतप्रवेशश्च । अभ्युपेयते हि शुद्धब्रह्म- वादिभिरवस्थानां भिन्नाभिन्नत्वम् । द्रव्यान्तरस्याऽनुपलब्धेरभेदः परस्परं भेदादभिव्यक्त्युत्तरकाले दर्शनाच भेद इति । एतदेव चै- तासामागन्तुकत्वम् । न पुनरसतः सत्तेति दिक् । यथा च सरलः पन्थास्तथोपपादितं प्रागस्माभिः । इतरे च दोषाः सुपरिहराः! तत्कृतं विस्तरेण ।
८२ इतश्च नेशते काणादाः कार्यस्य द्रप्यान्तरत्वं सिद्धान्त- यितुम् । तथाच तत्प्रयोगः-'काय कारणाद्भिद्यते । उत्प- त्तिविनाशव्यवहारात्। यन्नैवं तन्नैवम् । तन्तुवदिति । गोष्ठीगुडभङ्गः पुनरयमुच्यते । सत्प्रतिपक्षितत्वात् । तयाच प्रयुक्ष्महे-'न कारणात्कार्य भिद्यते। सामानाधिकरण्य- प्रतीतेः । यच्च भिद्यते न तत्र सामानाधिकरण्यप्रत्यय- मुपलभामहे । न हि परस्परं भिद्यमाने तुरगेच क्रमे- लके च सामानाधिकरण्यं प्रतीयते । विकृतिग्रहणाच । यदि पुनर्विकृतयो भिद्येरन्न तास्तर्हि कारणवुद्ध्या गृह्ये- रन् । न हि भिद्यमानस्तुरगःक्रमेलकवुद्ध्या गृह्यमाणः साक्षात्क्रियते । न चैतत्तथा । तस्मान्न तथेति । ८३ सामानाधिकरण्यप्रतीतिरिह सारूप्यादिसम्पर्कशून्या वि- वक्षिता । तेन-तानेव शाटकानाच्छादयामो ये मथुरा- याम् । तानेव शालीन्मुझमहे ये मगधेषु । तदेवेदं भवतः कार्षापणं यन्मथुरायां गृहीत' मित्यादौ न व्य- भिचारः । नन्वयाऽप्यवच्छेदकावच्छेदेन कार्यस्य तदनन्यत्वप्रति- पित्सायां पक्षतावच्छेदकसामानाधिकरण्येन हेत्वभावाद्धागासि- द्विरिति चेत् ? नैतदेवम् । शुद्धब्रह्मवादिनामविकृतपरिणामपुर- स्कारेण प्रपञ्चतदनन्यत्वप्रतिपत्त्येकप्रयोजने श्रवणैकशेषे खार्थ प्रयोगे दुस्तर्ककलेवरस्य दोषस्याऽप्रयोजकत्वात् । परार्थे च श्रुति- सिद्धस तादृशः परिणामस्य तत्पुरस्कारेण तदनन्यत्वस्य च, वोध- सौकर्यहेतुतया निदर्यमानेषु श्रुतिसिद्धेषु दृष्टान्तेषु प्रत्युत कणभ- क्षमिक्षोदरम्भरीणामुन्मिषति दुस्तर्ककर्कशे प्रतिभावैभवे, तत्सत्प्रति- ५५ पक्षितत्वाय प्रदर्यमाने प्रयोगे, कार्यकारणपदाभ्यां कटकहाट- कादिविवक्षाया अनायाससिद्धत्वात् । उभयत्र वा कार्यकारण- पदयोः प्रपञ्चतत्कारणब्रह्मप्रतीतीच्छयोचारितत्वात् । अवान्तरयो- स्तयोरभेदाभिनिवेशे तु सांख्यतत्त्वकौमुद्याद्युपदर्शितानि अ- योगान्तराणि मानम् । नच पूर्वतो विरोधः । तस्य सामानाधि- करण्यधीमात्रप्रतिवन्धकत्वात् । ८४ नच प्रयोजकमपेक्षितव्यम् । श्रुत्युपष्टब्धत्वात् । न हि शतमपि श्रुतिविद्विष्टानि लिङ्गानि श्रुत्युपष्टब्धस्य सत्प्रतिपक्षितत्वाय प्रभवन्ति । समवलत्वाभावात् । वस्तुतस्तूत्पत्तिविनाशव्यवहारस्य सव्यभिचारेणाऽभिचरितत्वात्प्रत्युत सत्प्रतिपक्षितत्वसम्पत्तये खलु प्रयस्य । तथाच प्रयोगः-'कार्य न कारणाद्भिद्यते । उत्प- त्तिविनाशव्यवहारात् । यच्च यतो भिद्यते न तस्य तत्रोत्पत्तिविनाशौ प्रतीयते । न हि करकाद्भिद्यमान: करभस्ततश्च भिद्यमानं करकं तत उत्पद्यमानञ्च तत्रैव प्रलीयमानञ्च प्रतीयते । नचेदं तथा । तस्मान्न तथे ति। ८५ सिद्धान्ते तु प्रमाणान्तरानवसेयमर्थमनुसन्दधतां श्रुतिमात्र- शरणत्वान्न किश्चिदेतत् । ततश्च श्रीकृष्णद्वैपायनपरमा- चार्यः शब्दतस्तदनन्यत्वं ब्रूते तत एव च सत्कार्यवाद स्थिरयति । यदाह-तदनन्यत्वमारम्भणशब्दादिभ्य इति। 'युक्तेः शब्दान्तराचे' ति च । युज्यते चैतत् । तत एव तु नैष तोप्रतिष्ठानकथनादन्यत्र सामिनिवेशो दृश्यते ।
५६ ८६ श्रीमद्रामानुजाचार्यास्तु-क्रियानिरोधादिभिरष्टा- भिहेतुभिः कारणात्कार्य्यस्य द्रव्यान्तरत्वमुपपादयतः काणादको- विदान हेतूनां साधारण्यादिसम्पादनेनाऽभेदसायकतया तकरेव प्रतिवनन्ति । तदनन्यत्वं सूत्रश्च-'तस्मात्परमकारणाद्र- ह्मणः अनन्यत्वं जगतः आरम्भणशब्दादिभ्यस्तदु- पपादयद्भ्योऽवगम्यते । आरम्भणशब्द आदिर्यपां वाक्यानां तान्यारम्भणशब्दादीनी' ति च व्याचक्षाणा- स्तदाकाङ्क्षायाम्-'वाचाऽऽरम्भणं विकारो नामधेय- मिति-सदेव सोम्येदमन' इति-'अनेन जीवेनाऽऽत्मने- ति-सन्मूलाः सोम्येमाः सर्वाः प्रजा' इति-ऐतदा- त्म्यमिदं सर्व' मिति तान्युदाहरन्ति । अन्यानि चैवजातीय- कान्यत्र तान्यभिप्रयन्ति । वाचारम्भणवाक्यञ्च व्याकर्तुमवतार- यन्तः-अत्र काणादवादेन कारणात्कार्य्यस्य द्रव्यान्त- रत्वमाशङ्कय लोकप्रतीत्यैव कारणात्कार्यस्याऽनन्य- तामुपपादयति-वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति' इत्याहुः !!! ८७ वदतो व्याघातस्तावदिह स्फुटः । वैदुष्याभिनिवेशवि- जृम्भितञ्चैतत् । एकविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते-'कथन्नु -भगवः स आदेशो भवतीति श्वेतकेतुचोदितेनोद्दालकेन तदोघंसौकाय लोकप्रतीत्युपदर्शनेऽपि तत्र भवता श्रीकृष्ण- द्वैपायनपरमाचार्येण शब्दत्वेनैव दृष्टान्तादीनां हेतुत्वेनोप- न्यासात् । प्रमाणान्तरानवगम्यमर्थ प्रतिपित्सूनां शब्दैकशरणताया अनायासेन प्रतिपत्तये शब्दत्वसाधारण्येऽपि-'आरम्भणवा- क्यादिभ्य' इत्यनुक्त्वा परमाचार्येण-'आरम्भणशब्दा- दिभ्य' इति कथनात् । अन्यथा प्रतीतेहेतुतयोपन्यासे वाधाभा- वात् । वस्तुतस्त्वारम्भणशब्द आदिउँपां शब्दानामित्येष एव विग्रहोऽपि प्रतिष्ठते । आरम्भणशब्दस्य वाक्यानामनादित्वात् । 'यथा सोम्यैकेन मृत्पिण्डेने त्यादीनामखण्डानामेव वाक्य- त्वात् । वाक्याघटकत्वे सत्यादित्वविवक्षायान्तु सुतरां प्रकटं शब्दस्य हेतुत्वम् । तथाच सूत्रकृदाशयविरोधः । मुख्यस्यैव च हेतोोंकप्रतीत्या तदनन्यत्वोपपादकत्वे-सदेव सोम्येदमग्र आसीदि त्युपरिष्टाच्छब्देन तदुपपादनस्य तादृशशब्दमात्रश्रद्धा- लुपरितोपैकफलत्वप्रसक्तिः । तथाच भगवतो वेदस्य प्रामाण्य- विप्लवप्रसङ्गः । प्रागुपदर्शितश्रुतिसूत्रस्मृतिविरोधश्च सुदुष्प्रति- रोध । अन्यथा चेत् ? मुख्यस्यापि हेतोगौणत्वम् । तच्च- 'प्रकृतिश्चे' ति सूत्रमुपष्टम्भितुं सूत्रमिदं प्रणयतस्तत्र भवतः पर- माचार्यस्याऽभिमतमित्यशक्यवचनम् । वस्तुतस्तु-'इति' शब्दनामधेय' पदयोरपि सनिघृक्षितत्वात्तथा विग्रहः श्रेया- निति दिक् । ८८ तदेवमनभ्यस्ताभिभवभयसम्भ्रमः सिद्धस्तावदभेदः । परिहृतञ्च तच्चोयं यदुत योगं विभज्य-'परिणामा' दिति सूत्रं व्याकर्तुमवतारयद्भिः श्रीमद्रामानुजाचार्यैः 'सत्यं ज्ञान- मनन्तं ब्रह्म । आनन्दो ब्रह्म । अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघित्सोऽपिपासः । निष्कलं निष्क्रियं शान्तं निरवा निरञ्जनम् । स वा एष महानज आत्माऽजरोऽमर इति स्वभावतो निरस्त- समस्तचेतनाचेतनवर्तिदोपगन्धस्य निरतिशयज्ञाना- नन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्था- स्पदचिदचिन्मिश्रप्रपञ्चरूपेणाऽऽत्मनो बहुभवनसङ्क- ल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत' इत्युपक्षिप्तम् । सिद्धान्ते तदनुसारसम्भवात्प्रतितत्रानुरोधित्वेऽप्यनुपेक्ष्यत्वात् । समाधिभापोपबृंहितात्मजायेयेत्याकारान्तरात् । तदुपयाख्यान- रूपात्प्राकृतप्रीतेरवास्तवत्वव्यवस्थापनात् । तत्रैव तादृशात्साध्वसा- ध्वकरणकरणद्वारा तापोत्पादकयोः पुण्यपापयोरात्मत्वेन विद्वदर्श- नस्य श्रावणाच । एवमन्यतोऽपि । ८९ एतदुक्तं भवति-प्रपञ्चान्तःपाते हि दोपा वास्तवाः स्युः । वस्तुत्वात्तस्य । महानेव भेदः पुनः प्रपञ्चसंसारयोः । प्रथ- मस्य ब्रह्मोपादानकत्वं मायाकरणकत्वमुत्तरस्य च निरुपादानक- त्वमविद्याकरणकत्वमिति । अविद्या च-'ऋतेऽर्थ यत्प्रतीयेते- त्यत्र द्वितीये सिद्धा-'खरूपाज्ञानमेकं ही ति तत्त्वदीपप्रति- पन्नान्तःकरणाध्यासादिपञ्चपर्वा विद्याविपरीता सम्पत् । सा च क्रीडापयिको ब्रह्मणः शक्तिविशेषः । स वै नैव रेम' इति श्रुतेः प्रपश्चात्मनाऽऽविर्भावस्य क्रीडार्थत्वात्तत्र वैचित्र्यस्याऽऽव- श्यकत्वात्तया जीवस्य संसार इति । संसारो नाम ताशतच्छक्ति- करणको जन्ममरणादिपरम्पराजनकः-'कृशोऽहं, पुष्टोऽहं, काणोऽहं, सुलोचनोऽहं, क्षुधितस्तृतो जानामी' त्यां- दिहादिधर्माध्यासः । ये चाऽमी दोषा न संसारतस्तेऽतिरिच्यन्ते। अहन्त्वममत्वात्मकत्वात् । मिथ्या चाऽयमभिमत्यात्मकत्वादि- त्यरसाधनसापेक्षम् । यदाह-यथा मनोरथधियो विषया- नुभयो मृपा । स्वमदृष्टाश्च दाशाह तथा संसार आ- त्मन' इति । ततश्च न कश्चन व्रश्चनमुपयाति नित्यनिर्दुष्टाद्भुता- चिन्त्यनिरङ्कुशनिरतिशयैश्चर्यशालिनो निरस्तसाम्यातिशयखामा- विकानन्तविचित्रशक्तिमतो निखिलकल्याणगुणगणक्षीरकलशोदधे- रानन्दनिधेः सर्वज्ञस्य ब्रह्मणः संसरतां जीवानां प्रतीत्या महिमा किन्तु तैस्तैर्मनसाऽप्याकलयितुमशक्यैः शक्त्युन्मेपैः प्रत्युतोपची- यत एवेत्यपाणिन्धमो नः पन्थाः । चोद्यान्तरं पुनः-'अर्थ ह्यवि- द्यमानेऽपि संमृतिनं निवर्त्तत' इत्यादिवचनसुबोधिनीच्च तद्व्याख्याश्च परमार्थतः परिशीलयता यत्सत्यमीपत्प्रतिविधानमिति । ९० तत एव सात्वताः प्राहुः-'पश्चात्मकः स भग- यान्दिपडात्मकोऽभूत्पञ्चदयीशतसहस्रपरामितश्च । एका समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्ण- गुणकोऽपि बहपमोऽभूत् । निर्दोषपूर्णगुणविग्रह आ- त्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः । आनन्द- मात्रकरपादमुखोदरादिः सर्वत्र च त्रिविधभेदविव- जिताऽऽत्मे ति। पञ्चात्मक इत्यादि । अपिः सर्वत्र समुच्च- यार्थोऽत्यन्तविरुद्धत्वेऽप्यविरोधवोधनाय । स्यादेतत् । अथ कथ- न्तन्मन्तव्यम् ? इत्यत आहुः-निर्दोषेत्यादि । तथाच मूल- रूपस्यैवंविधत्वाद्विभूतिरूपस्याऽपि तथात्वमेव मन्तव्यमिति सा- रार्थः । एवञ्चाऽऽत्मविपयिकायाः कृतेरेव समस्तविप्रतिपत्तिप्रत्यू- हत्वेऽपि तथाऽन्यथा प्रतिपन्नाः श्रीमद्रामानुजाचार्या न खल न सशङ्कमानाः । अखिलशक्तिधृतस्तस्य स्वरूपाविपरीतान- वद्यास्पदप्रपञ्चरूपेण कृतेरभ्युपगमाच न विकारपदाभिलप्यस्त- ६० त्परिणामः किन्त्वविकृत एवेत्युत्तुङ्गगिरिशृङ्गानारोहसुनिरूपम् । तथा सत्यविद्यापिशाचावेशविवर्त एवाऽयं भवतः प्रज्ञापराधो यदुत शुद्धाद्वैतसिद्धान्ताभ्यसूयेत्यप्रार्थितप्रदीपप्रकाशम् । ९१ एतच्चोपसंख्यानम्-श्रीमत्कृष्णद्वैपायनपरमाचा- यस्तावत्समन्वयाविरोधाभ्यां कार्य्यस्य कारणानन्यत्वादि व्य- वस्थाप्य सर्वत्र वेदान्तेष्वेकमेव ब्रह्म प्रतिपाद्यमिति निर्णीय, साधनाध्यायप्रथमचरणेन मोक्षान्तरङ्गसाधनज्ञानभक्तिसम्पत्तये: धिकारिणो योग्यं देहं निरूप्य, द्वितीयस्य-'मुग्धेऽर्धसम्पत्तिः परिशेषा' दित्यन्तैर्दशभिः सूत्रैः पञ्चाग्निसाधितदेहयुक्तस्य भगवज्ज्ञानरहितस्य ज्ञानाधिकारितां च विनिश्चित्य, ज्ञानाधिका- रिविचारोत्तरं ज्ञानविषयनिर्धारो युक्त इति तदर्थमवसरसङ्गत्या विवक्षितज्ञानविषयस्य ब्रह्मणः पादशेषेणाऽग्रिमेण च पादेन स्वरूप विचारयन्ब्रह्मधर्मविरोधं परिजहे । तत्र स्वरूपाविरुद्धान्परस्पर- विरोधेन प्रतीयमानान्धर्मानग्रिमेण चरणेन विचारयिष्यन्पादशेपेण जडजीवधर्मत्वेन प्रतीतान्विचारयति । संशयस्तु-किमुभयलिङ्ग- मन्यतरलिङ्गंवा ब्रह्मेति । बोध्यन्ते हि ब्रह्मणि क्वचिजडजीवधर्माः प्रतिपिध्यन्ते च क्वचित् । यथा-'सर्वकर्मा सर्वकामः सर्व- गन्धः सर्वरस' इति । अस्थूलमनण्वहस्त्र' मिति । ९२ तत्राऽऽह पूर्वपक्षी-निर्विशेषलिङ्गं ब्रह्मेति । नच जड- जीवधर्मा एव नैते भवन्तीति प्रकरणावरुद्धत्वादास्थ्यम् । उच्चा- वचकर्मत्रादीनां तयोरेव प्रत्यक्षतः प्रतीयमानत्वात् । नच लौकि- कप्रमाणापेक्षया श्रुतेः प्रावल्यादन्यथाप्रतीतिरेपेत्यभ्युपेयम् । अति- प्रसङ्गात् । जीववैलक्षण्यं धनुशास्यते-'नेतरोऽनुपपत्ते' रि- सादि । तथा सति जीवसालक्षण्यं दुर्वारमियपरिहार्यः शास्त्र- विरोधः । अशक्यवचनाश्च कारणे कार्यविशेषधर्माः। व्यवहारमङ्गो हि तदानीं दुष्परिहर इति । नच कारणधर्माणां कार्येऽनुवृत्ति- नियमान्नैतदेवम् । वैलक्षण्यवचनविरोधात् । श्रूयते हि-'अस्थू- लमनण्वहर' मित्यादि । एवञ्च धर्मविधिरुपासनार्थलेनोप- पन्नगतिक इति प्रयोजनान्तरशून्यः प्रतिपेधः खरूपयोधनमात्र- फलक इति प्राप्तकालमिति । ९३ अत्र-'न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । न भेदादिति चेन्न प्रत्येकमतद्वचनात् । अपि चैवमेक' इति सूत्रत्रितयेन केपाश्चिदेकदेशिनां मतमनूध दूप- यित्वा-'अरूपवदेव हि तत्प्रधानत्वात् । प्रकाशवचाऽ- वैयर्थ्यात् । आह च तन्मात्रम् । दर्शयति चाऽयो अपि स्मय॑ते । अत एव चोपमा सूर्यकादिवदि'- ति पञ्चभिः सूत्रैः परस्यैकदेशिनो मतेन विरोधपरिहारं च प्रदर्य सिद्धान्तेन विरोधं परिनिहीपन्नादित एकदेशिनम्-'अम्बुवग्र- हणात्तु न तथात्व' मित्येकेन सूत्रेण परिहृत्य स्खमतमाह-वृ- द्विहासभाक्त्वमन्तवादुभयसामञ्जस्थादेव' मिति । 'महानवकाशोऽल्पोऽवकाश' इति लौकिकस्य-'यथाऽव- काशं दश चमसानि' ति वैदिकस्य च व्यवहारस्य वस्तुधर्म- विरुद्धत्वेऽप्याकाशस्य करकाधन्तर्भावाद्विभुत्वाल्पत्वयोरैकाधिकर- ग्येन प्रामाणिकादरणीयत्ववद्ब्रह्मणोऽप्युपाध्यन्तर्भावात्तदभिव्य- यसर्वकर्मादिधर्मवत्त्वमित्यर्थः । न चौपाधिकत्वप्रसक्तिः । जपा- कुसुमलौहित्यवदन्यधर्मत्वेन श्रुत्या प्रत्यायितत्वाभावात् ।
६२ ९४ नन्वेवमुपाधिसम्बन्धेनाऽभिव्यज्यमानत्वे नैमित्तिकत्वादा- गन्तुकत्वमेव धृतद्रवत्ववदित्यस्खाभाविकत्वे सृष्टेः प्राग्ब्रह्मणो निर्विशेषत्वापातस्ततश्च-'सोऽकामयते' यादेः पीडाप्रसङ्ग इत्यत आह-दर्शनाचे' ति । इहोभयसामञ्जस्यादेवमिति पद- द्वितयं पूर्वतः सूत्रादनुवर्तते । चकारो बुद्धिस्थं समुचिनोति । तथाच तत्तत्केवलब्रह्मवोधकश्रुतिषु तत्तद्धर्मदर्शनात्प्रत्यक्षतोऽपि भानात्स्मृतौ च विरुद्धसर्वधर्माश्रयतायाः सिद्धत्वाद्ब्रह्म एवं यथा प्रतीयते तादृशम् । तथैवोभयसामञ्जस्यात् । प्रतीयन्ते हि ब्रह्मणि सर्वे विरुद्धधर्माः। यथा श्रुतिषु-'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् । आसीनो दूरं व्रजति शयानो याति सर्वतः। तदात्मान खयमकुरुते- त्येकस्याऽव्यक्तरूपस्याऽनन्तरूपत्वमासीनस्य दूरगमनं शयानस्य सर्वतो यानमद्वितीयस्य च कर्तृत्वकर्मत्वादीनि । प्रत्यक्षत उलू- खलबन्धनादौ ब्रह्मणः प्रसिद्ध विरुद्धधर्माश्रयत्वम् । भगवती श्रीयशोदा बहूनि दामानि सन्दधत्यपि न भगवन्तं बन्धुमपारय- खरूपञ्च प्रादेशमात्रमेयमध्यमेवाऽपश्यदिति । एवं सति विस्म- यसामञ्जस्यात् । मृद्भक्षणप्रसङ्गे च सुविस्पष्टमेव तथात्वम् । 'एवं विदिततत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन्मायां पुत्रलेहमयीं विभु' रिति तत्रोक्तेः । स्मृ- तेश्च तावन्मिथिलागमने सिद्धमेतत् । स्मयंते किल तत्र श्रुत- देवजनकयोरेककालावच्छेदेन समनि प्रवेशादिकम् । तत्र प्रत्यक्ष: श्रुतिसिद्धे प्रत्यक्षसिद्धे स्मृतिसिद्धे च ब्रह्मणो विरुद्धधर्माश्रयत्वेऽ नुपपत्तेप्रमत्तेन वक्तुमशक्यत्वाद्वस्तुस्वभावानुरोधेन दर्शनस्वेच्छा ६३ नुग्रहादिहेतुकत्वनिर्वन्धेन च तादृशनिश्चयस्य प्रामाणिकत्वेऽव- गन्तव्ये सर्वकर्मत्वादीनां नैमित्तिकत्वेनाऽऽगन्तुकत्वोत्प्रेक्षणम- प्रयोजकमित्यर्थः । ९५ स्यादेतत् । निदर्शितदर्शनस्य खेच्छाव्यवहार्येऽवतीर्णे प्रपञ्चसलक्षण एव प्रतीयमानैकधर्मविरुद्धधर्मान्तरविपयत्वात्तु नेद- मस्थूलादिश्रुतिसिद्धयावद्धर्मानाश्रयताके प्रपञ्चविलक्षणे ज्ञानाकारे तद्विपरीतधर्माश्रयत्वमुपपादयितुमलकर्मीणं किमुत विरुद्धसर्वधर्मा- धारत्वम् । तथा सति कथं तत्र धर्मविधिनिषेधयोरविरोधः प्रती- यताम् ? तत्राऽऽह-'प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय' इति । ९६ मा स्म तावदशीलितश्रुतिरहस्य ! विरोधमुत्प्रेक्षिष्ठाः । श्रान्तिरेपा यदुताऽस्थूलादिश्रुत्या यावद्धर्मानाश्रयत्वं ब्रह्मणः प्रति- पद्यसे । यत्किल सोम्य ! प्रतीतमेव प्रतीपेध्यं नाऽप्रतीतम् । अयो- गात् । तत्राऽपि न श्रुतिप्रतीतम् । विप्लवापत्तेः । तथाच निर्विशेषब्रह्म- समर्पकत्वेनाऽभिमता श्रुतिः प्रातीतिकप्राकृतधर्ममात्राभावं ब्रह्मण्याह न पुनः सर्वकर्मादिसविशेषश्रुतिसमर्पितसर्वकर्मत्वाद्याजानिकापा- कृतधर्माभावमपीत्यप्राचीरपरीतम् । अनिदृष्टमतयः पुनर्नामसाम्येन भ्रान्ता आशामोदकचर्वणासुखमाशीलयन्तु । तदेतदुक्तम्-'प्रकृ- तैतावत्त्वं हि प्रतिषेधती' ति । प्रकृते गार्ग्युपक्रान्ते प्रपञ्चे गार्गीप्रश्ने वा,, यदेतावत् प्रतीयमानयावत्प्राकृतपदार्थास्तद्धर्मानेव निषेधतीत्यर्थः ।
. ९७.युक्तञ्चैतत् । न हि यद्यत्र यदा येन प्रतिषिध्यते तत्तत्र तदैव तेन विधातुं शक्यम् । विशिष्य च निरुपप्लवप्रामाण्यया श्रीमत्या श्रुत्या । दृश्यते तु सा तथा विदधती । तथाहि-यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे' ति श्रुतिः पूर्वा- न ज्ञानकरणाप्राप्तिप्रतिपादनापदेशेन ज्ञान प्रतिषेधति । 'आ- नन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने त्युत्तरार्द्धन विदुषः कुतश्विद्भयराहित्यमाचक्षाणा च तद्विधत्ते । अस्थूलादि- श्रुतौ च-'अवागमन' इति-'अमुख' मिति च प्रशासनसा- धनव्यासेधमुखेन प्रशासनं प्रतिषिध्यमानमपि-"एतस्यैव प्रशा- सने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत' इत्यादिना विधीयमानमनावृतम् । तत्रैव च स्थौल्यादिसर्वधर्माभावव्यपदेश- मपदिश्य ब्रह्मणो वेद्यत्वमपोह्यते तत्रैव पुनरवसरे-य एतद्वि- दित्वाऽस्माल्लोकात्प्रेति स ब्राह्मण' इति तद्विधीयते । एवं-'न तनोति कञ्चनेति तत्रैव व्याप्तिासिध्यते । सैव च-'आकाश ओतश्च प्रोतश्चे' ति प्रतिपाद्यते । तथाच नि- विशेषत्वमपि तीघटिष्यत यदि श्रुतिधर्मानपोथैव न्यवर्तिष्यत । निवर्तते पुनस्तान्भूयो विधाय । तस्मात्प्रातीतिकान्प्राकृतान्धर्मा- ञ्छ्रुतिः परिहरति तांस्तानप्राकृतान्खरूपधर्माश्च विधत्त इति युक्तेयं व्यवस्थितिः । एवञ्चोपाख्यानान्तरश्रुतयोऽपि तादृश एव धर्मान्वि- दधत्यो नाऽस्थूलादिवाक्येभ्यो विरुध्यन्त इति न कश्चन विरोधो नचोभयप्रामाण्यसम्पातो न वा निर्विशेषत्वनिबन्धनास्तास्ता उ- प्रेक्षा अवसरमासादयन्ति । तदिदं समाहृतम्-ततो ब्रवीति च भूय' इति । विस्तरः पुनर्विद्वन्मण्डनादाववसेयः ।..
९८ एवं वस्तुखभावतो विरुद्ध सर्वधर्माश्रयत्वमाश्रित्य, ताह- स्वभावलं वस्तुनोऽनभ्युपयतःप्राकृताप्राकृतविमागरूपया युक्त्या च निर्णयमुपचित्य, शब्दवलोपाश्रितेनैकेनाऽधिकरणेन विरोधे व्युदस्तेऽपि, कैश्चनर्पिमिरर्थवलेन विचारस्याऽभ्युपयनात्खसिद्धान्ते तस्याग्नावश्यकत्वेऽपि निर्विशेषत्वे तत्पक्षपातो मां प्रसाहीत्स- विशेषश्रुतिपीडाप्रसञ्जक इति तदवलम्व्य विरोधापविवदिपया द्विसूत्रमधिकरणान्तरमारचयन्नेकेन सूत्रेण पूर्वपक्षयति-तव्य- क्तमाह ही ति। ९९ 'न चक्षुषा गृह्यते नाऽपि वाचा । कश्चिद्वीरः प्रत्यगात्मानमैक्षत् । सर्वे वेदा यत्पमामनन्ति । अ- प्राप्य मनसा सह । मनसैवैतदाप्तव्यम् । अस्पर्शम- गन्धमरसम् । सर्वरूपः सर्वगन्धः सर्वरसः। अपाणि- पाद् इत्यादि । विश्वतश्चक्षुरित्यादि । निर्गुणश्च । यः सर्वज्ञः सर्वशक्ति' रित्येतत्प्रभृतिविप्रतिषिद्धश्रुतिदर्शनाद्विमर्श:- किम्प्रतिपत्तव्यमिति । नन्वनवसरपराहतो विमर्शः । विप्रतिपेषस्यै- वाऽभावात् ? सत्यम् । विरोधोत्थानं तु नाऽपवर्त्तते। शब्दसं- शयसैव प्राङ्गिासात् । तथा सत्युभयीनां प्रामाण्यस्याऽपराहतत्वा- दुभयविषं ब्रह्मेति प्राप्नोति । तदसत् । वस्तुनो द्वैरूप्यासम्भवात् । १०० स्यादेतत् । अयापि प्रमाणान्तरमनुरुध्याऽन्यतरासांस्वार्थ प्रामाण्यं शेषाणाञ्चोपचरितार्थत्वमिति युक्तम् ? एवमेतत् । निर्णयः पुनर्विमष्टव्यः। न तावत्सविशेषश्रुतीनां स्वार्थे प्रामाण्यं शक्याश्रयम् । अनुभवविरोधात् । न किल केनापि चक्षुपा मनसा वा ब्रह्म साक्षात्कृतमस्ति । यदि सर्वरूप ब्रह्म भवेत्सर्व एव तत्साक्षा- कर्तुं शक्नुयुः । तथाच सर्वधर्मवत्त्वेन ब्रह्म समर्पयन्स उपचरि- सि०५ तार्थाः शेषांश्च श्रुतयो खार्थे प्रमाणमित्ययत्नगम्यम् । तदेतदुप- संहृतम्-'तदव्यक्त' मित्यादिना । हि श्रुतिप्रत्यक्षाभ्यां हेतुभ्यां 'श्रुतिराह ततस्तदव्यक्तमित्यर्थः । श्रुतिस्तावत्-'नेति नेत्यात्मा अग्राह्यो न.हि गृह्यत' इति । प्रत्यक्षन्तावत्-न हि. गृ- ह्यत' इत्यनुभवसाक्षिक प्रमाणम् । १०१ सिद्धान्तयति-'अपि संराधने प्रत्यक्षानुमाना- भ्या' मिति । मैवममनीषिन्नन्यथा मंस्थाः । न किल स मान्धम- तिवर्तते य एवमाह । दृश्यते हि समीच्या सेवया परितुष्टं ब्रह्म । तथा सत्यप्रयोजकः केवलानुभवविरोधः। निर्वलत्वेऽपि लौकिक- तया केवलस्य प्रत्यक्षादेः साधनवलसिद्धस्य तस्याऽलौकिक त्वेन प्राबल्यात् । श्रूयते हि-'श्रद्धाभक्तिध्यानयोगाद- वेही ति । 'यमेवैष वृणुते तेन लभ्य' इति च । स्मर्य्यतेऽ- पिं च भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुञ्च तत्त्वेन प्रवेष्टुश्च परन्तपेति । १०२ अत्र प्रथमं वाक्यं कैवल्योपनिषदि श्रूयते । एतत्साध- नेन जानीहीत्याश्वलायनः परमेष्ठिनाज्ञोपदिष्टः । ब्रह्म च ज्ञान- गोचरः सर्वदेवतादिमयं शिवाकारं निराकारञ्च तत्रोपदिष्टम् । द्वितीयञ्च काठके च - मुण्डके . च पठ्यते । तत्र प्रथमे- आसीनो दूर ब्रज़ती' ति अशरीर शरीरेष्विति च तत्पूर्वतः श्रूयते । तथाच निष्प्रतिरोधस्तत्रापि साकारनिराकारत्व- योलामः । इतरत्राऽपि विरुद्धसर्वधर्माधार:ब्रह्म प्रस्तुत्य तत्पाठात्- 'तनु वा मिति वचनाचःसाकारत्वलामः इति तदुभयलाभो विस्पष्टः शेष.व्यक्तम् ।
६७ १०३ एवञ्चोभयविधमपि रूपं दृश्यत इति.श्रुतिस्मृत्युक्त- संराधकीयप्रत्यक्षानुरोधेन निर्णये विचारिते साकारञ्च निराकारञ्च ब्रह्म फलति न पुनरव्यक्तमात्रमिति तथा पूर्वपक्षः सर्वथाऽपि मूर्खत्वप्रयोजक इति नाऽत्र सन्देहावसरः । तदिदमुपपादितम्- 'अपि संराधन' इत्यादिना । यद्वा । 'ततस्तु तं पश्यते निष्कलं ध्यायमानः । अनेकवाहदरवक्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूप' मिति साक्षात्कारांदनुमितेश्च प्रत्य- क्षानुमानाभ्यां वा ब्रह्मणस्तथा निश्चयाकेवलाव्यक्तपक्ष उपेक्ष्य इत्यर्थः । अनुमापका हि ध्रुवादयः सिद्धाः । १०४ एवं लौकिकालौकिकप्रत्यक्षविषयादर्थवभावादविरोध व्यवस्थाप्य साधनानां ज्ञानार्थतोक्त्या ब्रह्मणश्च दुयत्वश्रुत्या संराधकप्रत्यक्षेण ब्रह्मस्वभावावधारणे संशयादौपनिपदस्य ब्रह्मणः श्रुत्यवगतस्वरूपवलेनैवोभयरूपवत्त्वं द्रढयितुमुपोद्धातसङ्गत्या त्रि- सूत्रमधिकरणान्तरमारभमाण एकेन सिद्धान्तं वक्ष्यन्द्वाभ्यां भक्त- प्रत्यक्षेण न निर्णयः श्रुत्याऽपि नेत्येतत्पूर्वपक्षद्वयं क्रमश आह्- 'प्रकाशादिवच्चाऽवशेष्यं प्रकाशश्च कर्मण्यभ्यासात् । अतोऽनन्तेन तथा हि लिङ्ग मिति । १०५ न तावत्संराधकप्रत्यक्षनिर्वन्धेन वाक्यानां विप्रतिषेधः प्रतिपेढुं शक्यः । निर्णयो हि वस्तुशक्तेरनुरोधमपेक्षते न श्रुति-. प्रत्यक्षयोः । अन्यथा प्रकाशजलसुवर्णप्रभृतीनां प्रतिवन्धकामा- वान्नानाविधत्वाभ्युपगमापातो दुर्निवारः । सुप्रतीता हि सूर्यचन्द्र- मणिप्रकाशे च हिमतप्तकुण्डादिजले. चोष्णशीतानुभवरूपाः स्पर्शा नानाविधाः । सुवर्णे च वर्णभेदा न विशिष्य वर्णनीयाः । तथाच यथा न तत्र सर्वेषां तेजस्त्वादिस्वभावहानिभयात्स्वाभाविकत्वं ६८ - शक्याश्रयन्तथा ब्रह्मणोऽप्यवैशेष्यमनासञ्जितशृङ्खलम् । प्रसि- ब्यति हि सर्वत्र ब्रह्मणो निर्विशेषत्वम् । श्रूयते च- 'नेति नेत्यात्मा अग्राह्यो न हि गृह्यत' इत्यादि । तदिदमुक्तम्- 'प्रकाशादिवचाऽवैशेष्य मिति । १०६ नन्वेवं संराधकीयस्तथा साक्षात्कारस्तादृशी श्रुतिश्च व्याकुप्येताम् ? मैवम् । तपःप्रणिधानादिषु यथा तत्कामस्तथा ब्रह्मणः प्रकाशात् । प्रतिभक्तं प्रतिकर्म चाऽऽविर्भावात् । तथाच यदि ब्रह्म न बहून्वारानाविरभविष्यदभ्युपागमिष्यताऽपि तदा तस्य तद्रूपत्वम् । न चैवमस्ति । प्रकाशश्च तावता कृतकप्रकाश- वन्न स्वाभाविकः । असार्वदिकत्वात् । तथाच न संराधकीयसा- क्षात्कारेण ब्रह्मखभावः शक्यावधारणः । तदेतदुपकल्पितम्- 'प्रकाशश्च कर्मण्यभ्यासादि ति । चकारः प्रकाशाभावा- न्यथाप्रकाशयोः सङ्ग्राहकः । १०७ इत्थञ्च-निमित्तभेदव्यतिरेकेणैकस्य वस्तुनः प्रतिक्षण- मन्याशवायोगादावृत्तेस्तैस्तै रूपैर्ब्रह्मण: आविर्भाव इति फलति । संराधकीयः कामश्च क्वचिन्निमित्तं प्रतीतम् । निमित्तभेदेन च जा- यमानं न वस्त्विति शक्यामिलापम् । किन्तर्हि ? विग्रह इत्येव । युज्यते चाऽयमर्थः । यदाह समाधिभाषा- 'यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्रपुः प्रणयसे सदनुग्रहाये -ति । तथाच तत्तद्वाक्येषु शरीरविशिष्टं ब्रह्मोपक्रम्य पठितानां तत्त- धर्माणां शरीरधर्मत्वस्य तदभिव्यङ्गयागन्तुकधर्मत्वस्य वा स्वीका- र्यत्वेन-'अपागादग्नेरग्नित्व मितिवत्कार्य्यत्वमेव न वस्तुत्वम् । अनागन्तुकानारोपितत्वरूपत्वात्तस्य । ततश्च श्रुत्याऽपि तथा निर्णयामावात्सर्वागोचरो ब्रह्मत्येवं प्राप्नोति । तदिदं संगृहीतम्- 'अतोऽनन्तेने' सादिना। १०८ सिद्धान्तमाह-'उभयव्यपदेशात्वहिकुण्डल- वदि' ति । तुः पक्षं व्यावर्त्तयति । न तावदेवं केवलया युक्त्या लोकदृष्टान्तेन च निर्णयः शक्यक्रियः । विचारशास्त्रस्याऽस्य वैयर्थ्यप्रसक्तेः । श्रुत्यैव ब्रह्मस्वरूपज्ञानं प्रमितिरूपं न लौकिकैः प्रमाणैायैर्वत्येप एवेह दर्शनान्तराद्विशेषः । उपचारमपचर्या श्रौततात्पर्य्यज्ञापनस्य प्रवृत्तिनिमित्तत्वात् । तच्च जन्माधिकरण एव शास्त्रयोनित्ववचनान्नितिपूर्वम् । अतः श्रुति विना खरूपस्य तच्छक्तेश्वाऽनवयोधात्कः प्रकारो येन स्वरूपशक्त्या निर्णय इत्यर्थः । १०९ ननु केवलया स्वरूपशक्त्या निर्णयं नाऽऽचक्ष्महे किन्तु श्रुत्युपष्टब्धयेति चेत् ? तत्राऽऽह-उभयव्यपदेशात् । उभयोर्विरुद्धधर्मयोर्व्यपदेशस्तस्मात् । यत्र तावदस्थूलादिश्रुतौ निर्गुणत्वेन ब्रह्मणो व्यपदेशस्तत्र-'आकाश ओतश्च प्रोतश्चे' ति कार्यगुणजनकानन्तगुणवत्त्वमपि तस्य बोध्यते । यत्र चं शा- रीरब्राह्मणे-'स एष नेति नेत्यात्मे त्याधुच्यते तत्र-स वा अयमात्मा सर्वस्य वशी सर्वस्येशान' इत्यादि पू- र्वतः-'स वा एप महानज आत्म साधन्ततश्च पठ्यते । श्वेताश्वतरे च-साक्षी चेता केवलो निर्गुणश्चे' ति श्रव- णोत्तरम्-‘एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोती' यादि श्रूयते । एतास्वेवंविधाखन्यासु च श्रुतिपु निर्गुणत्वेनाऽनन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यप- देशात् । तथाच धर्मनिपेपमुखेन यथा निर्विशेषश्रुतयस्तथा धर्म- विधिमुखेन सविशेषश्रुतयोऽपि ब्रह्मस्वरूपं निरूपयन्तीति कासा- ७ चिदुपजीव्यत्वमन्तरङ्गत्वमितरासामुपजीवकत्वं बहिरङ्गत्वमिति नि- र्णयस्याऽशक्योक्तिकत्वादुमयीमा तुल्यबलत्वेनोभयरूपमेव · ब्र- झेत्यर्थः। ११० स्यादेतत् । अनुपपत्तिः पुनः प्रवर्तते उभयलिङ्गत्वे प्रकाशवलक्षण्यायोग इति । प्रकाशते हि तस्य तथाऽन्यस्य चेत- रथा ब्रह्म ? तत आह-अहिकुण्डलवत् । यथा सर्पः खसा- मर्थ्यात्सरलः कुण्डलश्च खरूपतः संस्तथा तथा प्रकाशते ब्रह्माऽप्य- नाकलनीयशक्ति तथा स्वरूपत उभयलिङ्गं तथा तथा विलक्षण- माविरस्ति । विषम उपन्यासः । कालभेदेन स्वेच्छया सर्पस्य तथा प्रकाशः संराधकेच्छया त्वेकस्मिन्क्षणे ब्रह्मण इति ? मैवम् । संरा- धकस्य तादृशेच्छोत्पत्तौ तादृशतादृशफलदित्सायाः प्रयोजकत्वात् । १११ वस्तुतस्तु-नेदं बाधितम् । श्रुत्येकसमधिगम्यत्वात् । कल्पनाशास्त्र एव तु तथैतदनेककल्पनागौरवञ्च । नच शास्त्रानारम्भ- प्रसङ्गः । तथा साधनार्थत्वात् । अत्रैव सूरिन्यामोहाच्छास्त्रान्तर- प्रवृत्तेविरुद्धशास्त्रसम्भेदजन्यदोषनिवारणस्याऽऽवश्यकत्वात् । अ- नुपपन्नमिति.हि नः क सम्प्रत्ययो न यत्प्रमाणेनोपलभ्यते । न चेदं तथा । श्रुतदृष्टत्वात् । तत्कृतं युक्त्या । ११२ विरुद्धशास्त्रसम्भेदेन व्यामुह्यतस्तु समाधातुं श्रीम- कृष्णद्वैपायनपरमाचार्येण युक्तिरुपाश्रितेत्यत्रापि दृष्टान्ते ऋजुकुण्डलभावो नैककालावच्छेदेनेति युक्त्यन्तरमाहुः श्रीम- दाचार्यपादाः-'लोकेऽपि शरीरान्तःकरणादीनि परस्परविरुद्धयामारकत्वादीनि विषयभेदेनैकस्मि- न्क्षणे प्रतीयन्त' इति । तथाच शरीरादीनां विषयभेदेन तथा- त्ववत्संराधकमेदेन ब्रह्मणोऽपि प्रकाशवैलक्षण्यमित्यर्थः । तेन- ७१. 'तत्तदपुः प्रणयस' इति न निर्माणं किन्तु तचक्षुर्मनोगोचर- त्वसम्पादनमित्यरसनास्पन्दसुबोधम् । अपूर्वञ्च नैतत् । 'श्रुतेस्तु: शब्दमूलत्वात् । सर्वोपेता च तद्दर्शनात् । लोकवत्तु लीलाकैवल्य' मित्यादिषु प्रतिपादितस्याऽर्थस्येदं निगमनमिति । ११३ तथाच वस्तुखभावमादाय विरुद्ध सर्वधर्माश्रयत्वं युक्ति मवलम्ब्य प्राकृतधर्मानाश्रयत्वमप्राकृतनिखिलधर्माधारत्वं तादृश- प्रमाणविषयमर्थखभावं स्वीकृत्य च वस्तुशक्तिमाश्रित्य च विरुद्ध- सर्वरूपत्वमिति शब्दवलार्थवलाभ्यां ब्रह्मणस्त्रेधा निर्णयात्परिणामे चाऽभेदे च सत्यपि सर्वकर्मत्वादितदभाववदनन्तरूपत्वैकत्वा- व्यक्तत्ववदासीनत्वादिदूरव्रजनादिवदद्वितीयत्वकर्तृत्वकर्मत्वादिव- नादेशमात्रमेयमध्यत्वबन्धाभावादिवञ्चैवं प्राकृतप्रशासनाद्यभावव- त्तथैव च निराकारत्वसाकारत्ववदहिकुण्डलवच्छरीरादिवच वि- कारित्वकुत्सितत्वाधभाव इत्यनभिग्राह्यश्चाउमिनीततमश्च श्रीम- दाचार्य्यपादसूक्तामृतोदाभिषेकनिरस्ताभिसन्तापसाध्वसो नः सिद्धान्त इत्यकलुपाक्षरम् । खरूपतस्तथा सति प्रकाशवैलक्षण्ये दृष्टान्ताविति कश्चित्प्रति कथञ्चिदन्यं प्रत्यन्यथेतरं प्रति च सुत- रामन्यथा. प्रकाश. इत्यलमलीकशझ्या । यथा चैतत्तथा प्रथ- मस्य पञ्चमे-'इदं हि विश्वं भगवानिवेतर' इत्यत्र सुवो- धिन्यां सिद्धम् । तथाच श्रुसेकसंवेद्यस्वरूपस्य परस्य ब्रह्मणस्तथा श्रुतिसूत्रसिद्धाया विरुद्ध सर्वधर्माश्रयताया भूषणत्वमनभिषवशुभ- मित्यनुत्प्रेक्ष्यप्रामाण्यपातायाः श्रुतेर्वा तदेकनिदेशदत्तहृदयानां शुद्धाद्वैतसिद्धान्तिनां वा नोन्मत्तालापित्वापत्तिः किन्तर्हि २. सर्वथाऽन्यथावुद्धस्य भवत एवेति नांऽशतोऽपि भवदीयो लेख: प्रमत्तालापतामतिवर्तते । ११४ विशिष्टाद्वैतिनश्च न विप्रलपन्ति । यदाह निग- मान्तदेशिक:-'नम्यस्य नमतः क्षुद्रान् वरदस्य वरा- र्थिनः । पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते। नटवभूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः । पुंसामन- न्यभावानां पुष्णासि रसमद्भुतम् । निराधारनिज- स्थेनो निरुपाधिकशेषिणः । निरपेक्षनियन्तुस्ते नि- स्समाभ्यधिका गुणाः । अकर्तुमखिलं कर्तुमन्यथा कर्तुमप्यलम् । सङ्कल्पसचिवः कालः शक्तिलेशः स तावकः । बदन्तथा भावयतां मुकुन्दमयत्नविच्छे- दिनि कर्मवन्धे। तपस्विनी तत्क्रतुनीतिराद्या सब्रीड- मारण्यकथासु तस्थाविति । ११५ श्रीमद्रामानुजाचार्याश्च न किल नाऽमुमर्थमनु- मन्यन्ते । द्वितीयस्य प्रथमे नवमाधिकरणस्य प्रथमसूत्रेण निरवय- वस्य ब्रह्मणो जगदुपादानतायां कृतस्य तस्य जगदाकारणोपयो- गप्रसक्त्या तत्परिजिहीर्षया सावयवत्वखीकारे निरवयत्ववादिनां शब्दानां व्याकोपापत्या चिदचिद्वस्तुशरीरकस्य ब्रह्मणः कार्य- कारणावस्थत्वाभ्युपगमेऽपि चिदचिदंशयोरिव शरीय॑शस्याऽपि कार्यत्वाभ्युपगमादुक्तदोषस्य दुरपनेयतया न ब्रह्मणः कारणत्वमुपप- द्यत इति पूर्वपक्षे श्रुतेस्त्वित्यादि समाधिसूत्रं व्याकुर्वन्तो य- दाहुः 'तुशन्द उक्तदोषं व्यावर्तयति । नैवमसामन- स्यम् । कुतः ? श्रुतेः। श्रुतिस्तावन्निरवयवत्वं ब्रह्म- ७३ णस्ततो विचित्रसर्गश्चाऽऽह । श्रौतेऽर्थे यथाश्रुति प्र- तिपत्तव्यमित्यर्थः । ननु च श्रुतिरप्यग्निना सिञ्चे- दितिवत्परस्परान्वयायोग्यमर्थ प्रतिपादयितुं न स- मर्था? अत आह-शब्दमूलत्वादिति । शब्दैकपमा णकत्वेन सकलेतरवस्तुविसजातीयत्वादस्याऽर्थस्य विचित्रशक्तियोगो न विरुध्यत इति न सामान्यतो . दृष्टं साधनं दूषणं वा अर्हति ब्रह्मे' ति । इममेव चाऽर्थ प्रकारविशेषेण तदव्यवहितोत्तरेषु चतुर्पु सूत्रेषु प्रतिपद्यन्ते । ११६ प्रकृतिश्चेत्यादिसूत्रेऽप्येकस्यैव निमित्ततायाश्चोपादा- नतायाश्च कार्य्यस्यैककारकनिष्पाद्यतायाश्च लोकविद्विष्टत्वादहिना सिञ्चेदितिवद्वेदान्तवाक्यानामेकत एवोत्पत्ति प्रतिपादयितुमसाम-- र्थ्यमित्याशङ्कायामाहुः-'अनोच्यते । सकलेतरविलक्ष- णस्य परस्य ब्रह्मणः सर्वशक्ते सर्वज्ञस्यैकस्यैव सर्व मुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठात- त्वायोगादधिष्ठातुः कुलालादेर्विचिन्त्रपरिणामशक्ति- विरहादसत्यसङ्कल्पतया च तथा दर्शननियमः। अतो ब्रह्मैव जगतो निमित्तमुपादानश्चे' ति । तदव्यव- हितोत्तरपाठायामभिध्येत्यादित्रिसूत्र्याचैतदेवोपपादयन्ति । ११७ वेदान्तदीपेऽपि च-सर्वधर्मोपपत्तेश्चे' ति सूत्रव्या- क्रियायामाहुः-प्रधानपरमाण्वादिष्वनुपपन्नानां खपक्ष- दोषादित्यादिषूक्तानां सर्वेषां धर्माणां कारणत्वोप- पादकानां ब्रह्मण्युपपत्तेश्च ब्रह्मैव कारणम् । प्रधान- परमाण्वादीनां परिमितशक्तिकत्वाल्लोकदृष्टवस्तुस- ७४ जातीयत्वाचाऽनुपपत्तयः सहस्रशः सन्ति । ब्रह्मणः शास्त्रैकसमधिगम्यतया सकलेतरविसजातीयत्वे- नाचिन्त्यशक्तित्वात्सर्वशक्तित्वश्रुतेश्च सर्वमुपपन्न- मित्यर्थ' इति । ११८ यत्त्वमिध्येत्यादित्रिसूत्र्यामात्मकृतिसूत्रे कर्तृत्वकर्मत्वयो- रन्यथा परिहतो विरोधस्तत्प्रमोहमाहात्म्यम् । सर्वशक्तिकत्वेन सर्वोपपत्या व्यवस्थायामनिवृत्तायामन्यथा परिहारे हेत्वाकाङ्क्षायाः सर्वथाऽप्यनुपशमात् । तथा सति श्रुतेर्वा सूत्रस्य वा खारस्य- स्थाऽसम्भवात् । न चाऽप्यसामञ्जस्यम् । निमित्तत्वोपादानत्वयो- काधिकरण्यस्याऽपि तत्प्रसङ्गात् । नाऽपि च बुद्धिवैशधाद- र्शनार्थः । प्रत्युत तद्विरहसिद्धेः । अथ वादिवदनविमुद्रणफलः ? निमित्तत्वोपादनत्वयोः सामानाधिकरण्य एव प्रथमतस्तेन प्रत्य- वस्थेयमिति नैतद्वचनं वञ्चनमतिहाय कस्मैचन तिष्ठेत । एवमवि- कल्पितोऽपि यथा नाऽयमात्मानं स्थिरयितुं पारयति तथा वर्णिकां पुनरुदाहाम॑ । ११९ यदपि ब्रह्मणो विरुद्धसर्वधर्माश्रयत्वमेवमसंसृष्टसङ्कोच- मभ्युपयन्तोऽपि भोक्रापत्त्यधिकरणे-'मृत्सुवर्णादिवब्रह्मख- रूपपरिणामस्तु नैवाऽभ्युपगम्यते । अविकारत्वनि- दोषत्वादिश्रुते' रित्याहुस्तदपि मदपिहितमतिमूलकम् । व्या- घातानुपपत्तेः । दृष्टान्ते च न खरूपपरिणामः । तथा सति कल- शकुण्डलयोर्न मृत्सुवर्णे प्रतिसन्धीयेयाताम् । तथा प्रतिसन्धा- यिन्यः श्रुतयश्च प्रामाण्यविप्लवं सहेरन् । व्याघातप्राघुणिकश्च न पावरकमान्तं परिहरेत्. । यदाहुर्वाचारम्भणवाक्यं व्याकुर्वाणा:-
৩৫
।
'अतो घटायपि मृत्तिकेत्येव सत्यं मृत्तिकाद्रव्यमि-
येव सत्यम् । प्रमाणेनोपलभ्यत इत्यर्थ' इति । विशिष्ट-
विशेषणसद्वारकोऽपि न खरूपपरिणामः । चिदचित्प्रतिसन्धाना-
नुपपत्तेः । न शेव दनि प्रमूढोऽपि दुग्धं प्रतिसन्धत्ते ।
१२० केवलस्तु सर्वत्र तेष्वन्यथाभावः । सोऽपि स एव चेत् ?
विशेपानुपपादप्रसङ्गः । अपरिहार्य्याश्च प्रदर्शिता आपत्तयः । अथ
तात्त्विकत्वातात्त्विकत्वाभ्यां सोऽयमुपपद्यते ? न स तर्हि सः ।
न च न खलु नैप दोष इत्यास्थातव्यम् । प्रमाणविप्लवात् । कण्ठे
कुठारपातश्च । अभ्युपयन्ति हि ते शरीय॑शस्याऽपि कार्य्यत्वम् ।
अन्यथाभाव एव च तत् । अथ न तत्र संस्थानान्तरयोगः १
सत्यम् । खरूपाप्रतियोगित्वात्त्ववैशेष्यं नाऽतिवर्तामहे । तथाच
तादृशश्रुतिसाध्वसनिराससाहसग्रस्तुतावसरं तत्त्वत्रयाकाण्डताण्डव-
ममार्मिकमधुरम् । श्रुतिश्च-'सदेव सोम्येदमन आसीदि'
ति केवलं ब्रहौव प्रकृत्य सृष्टिमाहेति दिक् ।
१२१ शेपस्त्वनतिप्रयोजनपरिहारश्च कृतपूर्वविचारश्चेत्युपे-
क्ष्यते । तत्त्वदीपप्रकाशांऽऽवरणभङ्गप्राभलनमारुतशक्त्यादिमिस्त्व-
भिनिवेशनिहार इत्यनभिहार्यवैभवभूयिष्ठा नः श्रीः ।
संसक्ताङ्गुलिहस्तया ललितया मध्ये गृहीतः शनै-
गुहत्याऽपि च राधया करयुगं वर्णोदकैरादितः
सोऽयं कोऽपि कपोलयोररुणितः कीर्णाञ्जनश्चक्षुपो.
होलाकाकरमर्थितस्तरणिमोन्मेपश्चिरं दृश्यताम् ॥१॥
यौचित्यविचारचारचरिताः सस्पक्षपातयता नालीकप्रथमानुरागरसिका हंसाः प्रशंसाजुपः। सावर्ता प्रतिकूलमूलकपणमातप्रकामोच्छ्या सिदि सेयमभीप्सितां निविशता सिद्धान्तसिद्धापगा ॥२॥ श्रीमदाचार्यचरणाः शरणागतवत्सलाः । अङ्गीकुर्वन्तु कृपया कृतिमेतां समर्पिताम् ॥ ३॥ इति श्रीमदुपनिषत्सीमन्तिनीसीमन्तसिन्दूरसिन्दूरितश्रीश्रीकृष्णपादारविन्द- मकरन्दासवास्वादसमर्पणप्रतिक्षणसक्षणकरणारणापामामिलापोद्वेलदैव- जनसम्मर्दसम्मृष्टमणिकेयूरकोटिसुकृतिक्षोणीपतिमुकुटमणिप्रभा- प्ररोहसमभ्यर्चितश्रीमदाचार्यपादचरणनखचन्द्र- चन्द्रिकाम्भःशिलोन्छलिप्साव्यग्रेण शुद्धाद्वैतपुष्टिमार्गसिद्धान्त- पण्डितेन श्रीकृष्णदासप्रभृतिक्षितिपति- प्रकाण्डग्रासप्रष्टप्रतिष्ठत्रिगृहोपाल्य- भश्रीदेवकीनन्दनशर्मतनु- जन्मना भद्दश्रीवलभद्रशर्म- कविकाव्यरत्नाकरण प्रणीता सिद्धान्तसिद्धापगा सम्पूर्णा- इसे और पढ़ लीजिये. स्वागतानराजेबर महाराज श्रीमान् परम जॉर्ड के भारत में पहाग नहोत्सव में इस काव्य की रचना हुई है । इसके ठेखक पन्दित भी बदनद्रशम्मा कवि कायरमाकर है। जो हिन्दी के आरावक इस कविता को पद चुके हैं उन सा कुछ भी कहने की आवश्यकता नहीं है । पर जो इसके परिचय ने ममी ना धित हैं, उन लनुरोप है कि वे इसे एक बार अवश्य पढें । हमारे परिचित महिल-सबियों का कथन है वि दिशी के राज्याभिषेक के अवसर पर यह काच सर्वोच्च और भाव-पूर्ण हुआ है । अन्युदय का कपन है लि-"दइने कविने सत्राटको सूर्य दुल्य साबित करने में अपनी प्रतिमा का अच्छा परिचय दिया है । हिन्दी प्रेमी इसे पढ़ कर अबदर ही प्रसन्न होंगे। बिना मूल दिनीनं । पोस्टेज ।। माघ आना। कलि-कलह देश में कलह के नन्टिन अधिकार का यह खाता चित्रह कविता अत्यन्त नरल और मयुर है । पद्य-संन्ट्या हीन भी अधिक है। प्रलेक पद के प्रत्येक पाद में नये नये नुहाविर हैं। इसे इच्छा हो तो बाय बाहय, या हिन्दी भाषा के अवयव लिन पुष्ट है, इसका जगमगाता एक उदाहर। जिन माया ने लडाई' इन तीन अक्षरों में कही जानवान बात के कहने के लिय संकटो मुहाबिरे हों, मन्त्री साहपूर्णता में क्या संदेह ? नापा योटबाल की, चन्द नीषा, वर्णन चनुन्टा ने भरपूर, देश की दया का मचा हाल, नुहाविरोत्री मरमार, हास्य वार करणाका नगम, लेखक वही कायरमाकरजी, बहिये, इनमें अधिक और क्या होना चाहिये? पुस्तक बी छपी नहीं, छरंगी । मूल्य चार छः आने से अधिक नहीं। इतने पर भी जो आप अपनी नही टोली नहीं करेंग नीयन हो चुका ? पुष्टिमार्गीय-यात्रार्य-परम्परा-जिन्हे दक्ष परम्परा में संदेह है, जो नारदमाड पं. गट्टलालजी लिसी न किसी रूप में विद्रुप कर पन्डित- विद्रोह के पातक पहने पंचना चाहते हैं, या जिन्हें दमड़ी भर अकल नहीं पर घमंड का और छोर नहीं, उन काले कलावत्तुओंकी बडबडाहट का हा कल्या जबाब । इसके टाइटल पेजपर छपे हुए-देखते हैं कि वोग क्या जवाब देते हैं । कुछ भी कहते हैं या नुह पै नकाब देते हैं। इस फिकरे को pho पढ कर अभी तक लोगो ने कुढने के सिवा और कुछ भी नहीं कर पाया। सच तो यह है कि इसकी दलीलें वकील और एटलाओं के दांत खट्टे करती । वे भी इन्हे सुन कर दांतोंके तले अंगुलियां दवाते हैं । फिर विचारे किसी एक ए मे फे मे की तौ वात ही क्या ? लेखक वे ही काव्यरत्नाकरजी । विना मूल्य वितीर्ण । पोस्टेज ॥ आध आना। प्रशस्तित्रितयम्-तमाखू, चुरुट ( वीडी) और मदिरा, इन तीन चीजों की प्रशस्ति । कविता की भाषा संस्कृत । लेखक-काव्यरत्नाकरजी। पुस्तक कैसी बनी है, कविता की मधुरता कैसी है, इन प्रश्नों के हल करने का हमे अधिकार नही । मालिन अपने वेर कभी खट्टे नही बताती । एक वार चाख लो । फिर जैसी आपको इच्छा हो, हम बुरी भली सब सुनने को हाजिर मूल्य पोस्टेज के साथ आना। विद्याप्रमाव-विषय नाम से स्पष्ट है । हिन्दी में संस्कृत के प्रमाणों से परिपूर्ण एक उत्तम व्याख्यान । मूल्य पाव आना । पोस्टेज ॥ आध आना। शतरंज-सरोज-अव अधीर न होईये, पुस्तक छप रही है। शतरंजके खिलाडियों का एक सच्चा दिल बहलाव, और साथ ही इल्म को अच्छी मदत पहुचाने वाला एक अच्छा उस्ताद, बस यह एक ही पुस्तक है। लेखक-पं. भश्रीदेवकीनन्दन शर्मा । मूल्य एक 3 रुपये से कम न होगा। पोस्टेज जुदा। शुद्धाद्वैत-दर्शन !!! श्रीवालकृष्ण-संस्कृत-पाठशाला के अध्यापक पं० रमानाथ शास्त्रीजी इसके रचयिता है । पुस्तक हिन्दी मे लिखा गया है। जिन्हे शुद्धाद्वैत के ज्ञान की उत्कट इच्छा है उन्हे इस पुस्तक को अवश्य पढना चाहिये । सारांश-पुस्तक अत्युत्तम है । मूल्य [ आने । पोस्टेज अलग । पता-शुद्धाद्वैतसिद्धान्तकार्यालय, वडा मंदिर, भूलेश्वर, कार्यकर्ता. में वंबई.