Library
Kut't'aakaarishiromand-i
Front matter
UNIVERSAL
LIBRARY
OU_184430
LIBRARY
UNIVERSAL
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः १२५ स्वोपज्ञया महालक्ष्मीमुक्तावल्याख्यव्याख्यया संवलितः श्रीदेवराजविरचितः कुट्टाकारशिरोमाणः। सोऽयम आपटेकुलोत्पन्नेन दत्तात्रेयमनुना बलवन्तरायण आनन्दाश्रमस्थपण्डितानां साहाय्येन मंशोधितः । - सच रावबहादुर इत्युपपदधारिभिः गंगाधर बापूराव काळे जे. पी. इत्यतः पुण्याख्यपचने श्रीमन् 'महादेव चिमणाजी आपटे' इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणालये आयसाक्षरेर्मुद्रयित्वा प्रकाशितः। शालिवाहनशकाब्दाः १८६६। ख्रिस्ताब्दाः १९४४। ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकताः )। मूल्यमाणकनषकम् (८९)।
No text on this page.
कुदटाकारशिरोमणः परिचयः । । तथाच भो भभिज्ञमणय भानन्दाश्रमप्रकाशित शास्त्रीयमन्थकुसुमामोदामाणमण- यिमो ज्योतिर्विद्वरा गाणितिकधौरेयाश्च किंचिदिहावधत्त । महालक्ष्मीमुक्तावली- संवलितं कुट्टाकारशिरोमाणनामानमपूर्वग्रन्थं पण्डितशिरोमणीनां श्रीमता इस्ते समर्पयितुं नितान्तं प्रमोदते नः स्वान्तम् । उत्सहते च गणकामणीनां मरुतविषये जिज्ञातोत्पत्यर्थ ग्रन्थशिरोमणि कुट्टाकारं परिचाययितुम् । अतस्तत्स्वरूपं संक्षेपतः प्रकाश्यते- छेदनार्थात्कुट्टयातोनिष्पन्नः कुट्टशन्दो लीलावत्यादौ प्रसिदं कुट. कशन्दावचोभ्यं भाज्यभाजकादिगणनं यत्र तादृशं गणितविशेषं ब्रूते। 'भाग्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् । इत्युक्तत्वात् । आकार- शन्दः स्वरुपवचनः कुट्टस्य गणितविशेषस्य आकारः स्वरूपपदर्शको ग्रन्थः कुट्टाकारः । स च शिरोमणिरिवेत्युपामतसमासेन कुटाकारशिरोमणिरिति प्रकृतग्रन्थस्य नामधेयं संपन्नम् । तदुक्तमेतद्मन्धा- भ्यातफलं पदर्शयता देवगजेनैद मुले-कुटाकाशिरोमणिमिममभ्यसति न पो मनसा । तरणः प्रसादतोऽय सहमा तान्त्रिकशिगेमणिर्भवति ॥ इति । तस्यैनम्प कुदृशब्दवाच्यस्य गणितविशेषस्य सायकुटाकारो निरनकुटाकारः संश्लिष्टकट्टाकारो मिश्रश्रेढीमिश्रकुटाकारश्चेत्येवं स्थूलतोऽत्र चत्वारो भेदा दृग्गो- चरी भवन्ति । वारकुट्टाकारवेलाकुट्टाकारौ तु निरमकुट्टाकारस्यैवावान्तरभेदी । संश्लिष्टकुट्टाकारस्त्रिपकारक इति मूल एव स्पष्टम् । प्ररुतग्रन्थनिर्मात्रा देवराजे- नात्र परिच्छेदत्रयं प्रकल्प्य यस्मिन् परिच्छेदे यस्य यस्य कुट्टाकारस्य लक्षणोदा- हरणोपपत्तिसहितं विवेचनं कृतमस्ति तस्य तस्य परिच्छेदस्य तनत्कुटाकारनाम- घटितमभिधेयं प्रदत्तमित्यालक्ष्यते । यथा प्रथमपरिच्छेदे साग्रकुटाकारस्य विवृ. तस्वात् ' सागपरिच्छेदः प्रथमः । इति । अस्मिन् परिच्छेदे दाविंशतिरायाः संपदृश्यन्ते । एवं निरग्रपरिच्छेदो द्वितीयः । अत्र निराकुट्टाकारादेः संश्लिष्ट- कुटाकारस्य च त्रिपकारस्य वर्णनादार्याणानकोना नवतिः संलक्ष्यते । तृतीये मिश्रश्रेढीमिश्रकुटाकारपरिच्छेदे चैकोनविंशतिसंख्याका आर्याः प्रणी- ताः सन्ति । एवं ग्रन्थरचना संपादिताऽस्ति । ग्रन्थान्तरे तु वल्लिकाकुट्टा- कारः स्थिरकुट्टाकारश्चेत्यपरौ द्वौ भेदो लक्ष्येते । तयोर्मध्ये वल्लिकाकुट्टाकारस्य विचारो वृद्धार्यभटस्य साक्षाच्छिष्यण भास्करण वेदाब्धियुगमिते (४ ४ ४)शक- समये निर्मिते महाभास्करीयादिग्रन्थे विस्तर शो वर्तते । सोऽसौ महास्करीय- मन्थोऽपि सटीकोऽचिरेणेव कालेन प्रकाश्येताऽऽनन्दाश्रमसंस्थया । भरतखण्डेऽस्मिन ब्राह्म आर्यः सौर इत्येवं त्रयः प्रामुख्येण ज्योतिष- सिद्धान्तमन्थाः सन्ति । येषां मध्ये कस्मिन्दशे कः सिद्धान्त आदरणीय इत्ये- तत्पदर्शितमग्रिमश्लोके- गोदावरीविन्ध्यनगान्तराले श्रीब्रह्मपक्षागणिनं विधेयम् । गोदावरीदक्षिण आर्यपक्षो विन्ध्याचलादुनरतो हि सौरः ॥ इति । तथाऽऽर्यभटाचार्यण भनेत्राब्धि(४२१)मिते शकसमये लिखित आर्य. भटीयान्धे गणितपादे(३२-३३)श्लोकयोः कुटकनामा विषयोऽयं त्रोटकेन कथितः। परं त्वनेन देवराजेनात्र निरुक्तकुट्टाकारभेदा नियमपरिवद्धया गणितशास्त्रीयपद्धत्या सविस्तरं वर्णिताः । अथ च ते ते प्रभाः कथमुपपाद- नीयास्तदपि मूलप्रमाणं धृत्वा नियमबद्धां रीतिमनुसत्य प्रदर्शितम् । तत्तत्क- टाकारविषयकगणितपक्रियाया मध्यमाद्यधिकारिणामपि यथावदर्थबोधो भूया- दित्यनुसंधाय स्वनैव स्वग्रन्थोपरि महालक्ष्मीमुक्तावली नाम व्याख्या व्यरचि । अतो नवानवानेकाकरोत्पादनेन बुद्धिमुल्लासयन्तं प्रकृतं ग्रन्थाशरामाणं कुट्टा- कारं वारं वारं समभिवाच्य प्राचीनानां गणितशास्त्रतत्त्वविदामाचार्याणां सैद्धा- न्तिकी सरलां सरसां सुखावबाधां च सुव्यवस्थितनियमानयन्त्रितां गणितप्र- क्रियापस्थापनचातुरीमास्वादयन्त्वधुनातना अर्वाचीनगणितरीत्यभिज्ञा अपि गणकोत्सा विद्वांस इत्यभ्यर्थये । स एष निरुक्तः कुट्टाकाराशरोमाणिर्नैव स्वतन्त्रा ग्रन्थः, अपि त्वार्य- भटाचार्यप्रणीतं कुट्टाकारविषयकं द्वात्रिंशत्रयस्त्रिंशश्लोकात्मकं यत्सूत्रयुगलं तस्य व्याख्यानविशेष एवेत्यवगन्तव्यम् । तदुक्तं स्वेनैव स्वग्रन्थे मूल एव- आचार्यिभटोदितकुट्टाकारार्थसूत्रायुगलस्प । कुटाकारशिरोमणिनामा व्याख्याविशेष एवैषः ॥ इति । अथैष प्ररुतग्रन्थपणेता देवराजाऽत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिदान्तबल्लभ इति प्रसिद्धापरनान्नः श्रीवरदराजाचार्यस्य तनय इति ग्रन्थ- समाप्तो तदुल्लेखादवसीयते । परं त्वनेनायं कुट्टाकारग्रन्थः कदा निरमायोति विशेषतो ज्ञातुं यद्यपि न शक्यं तथाऽपि द्वितीयपरिच्छेदे शेषे लीललावती- गतानां निरकुट्टाकारविषयाणां कतीनांचन श्लोकानामुद्धृतत्वात्सिद्धान्तशिरो- मणिकाराद् भास्कराचार्यादनन्तरं नाम शा० (१०७२)समये प्रकृतग्रन्थः पादु- रासीदिति निश्चयेनानुमातुं न कियानपि कश्चिदपि प्रतिबन्ध इत्यवधेयम् । तस्यास्य सटीककुटाकारगिरोमणः संशोधने पुस्तकद्वयं सहायभूतमभूत् । तत्रैकमादावन्ते च भूयसांऽशेन वुटितम् । द्वितीयं समग्रमप्यतीव स्थूलतः शुद्धियुतम् । तदेतत्पुस्तकद्वयं भाण्डारकरपाच्यविद्यामन्दिराधिकृतैः 'गोडे । इत्युपाहप्राध्यापकैर्महीशरनगरात्तञ्जावरनगर।च्च महता प्रयासेन नागों लिप्यां प्रतिच्छायाकृतं संपाद्य मुद्रणार्थं प्रदत्तमिति तेषामविस्मरणार्हाः खलपरुतीः शिरसा बहामि । तदेवमतिपौढविषयस्यान्यत्र क्वाप्यमद्वितस्य कुटाकाराशरोमणिग्रन्थस्य संशोधने प्रथमत एवं प्रवृत्तस्य कै. पितृचरणप्रसादलब्धणाचीनगणितशाख- रीतिदृष्टेरपि मम तीदृशबुद्धिप्रागल्भ्याभावाद्यावदपेक्षितसाधनसामग्यभावाच्च पदे पदे च्युतयः संभवेयुः । तासामावेदनेन मामनुगृह्णन्तु परोपकारनिरता ग्राहकमहाशया इति प्रार्थयते- पुण्यपत्तनम् । श०१८६६ ० १८६६ आपटेइत्युपादत्तात्रेय सूनुर्बलवन्तरायः । (आनन्दाश्रमव्यवस्थापकः)। का०शु०९ बुधवासरः।
प्रथमावृत्तौ पुस्तकानि (२५०)।
ॐ तत्सद्ब्रह्मणे नमः। श्रीदेवराजविराचितः ( स्वोपज्ञया महालक्ष्क्षीमुक्तावल्याख्यव्याख्यया संवलितः ) कुट्टाकाराशरोमाणिः । नत्वा श्रीरमणं गुरूनपि मया प्रोक्तो मुद धीमता- माचार्यार्यभटोक्तकुट्टयुगलीव्याख्याविशेषोऽमु(स)कः । कुट्टाकाराशरोमणिः स्फुटपदैरड्वेन्श्च सांकेतिकै- वाक्यैरप्यनुयोगवृत्तसहियाख्यायते विस्तरात् ॥ अथायं देवराजः पारिप्सितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्तये प्रचयगमनाय चाऽऽद्यया गीत्या स्वाभिमतदेवतामणिपातं कृत्वा ग्रन्थारम्भं पतिजानीत- नत्वा रमाधरण्यौ वरदार्यसुतेन देवराजेन । आर्यभटाचार्यकृतः कट्टाकारः प्रकाश्यंत स्पष्टम् ॥ १ ॥ रमाधरण्यौ लक्ष्मीभूमिदेव्यो । नत्वा प्रणिपन्य । वरदाय सुतेन देवराजेना- विकुलतिलकस्य सिद्धान्तबल्लभ इति प्रसिद्धापरनाम्नः श्रीवरदार्थस्य तनयेन देवराजेन । देवराज इति ग्रन्थकर्तुरभिधानम् । अनेनाऽऽयभटाचार्यकृत आर्यभट- विरचितः कुट्टाकारः साग्रनिरग्ररूपेण द्विविधः खण्डनात्मको गणितविशेषः । कुट्ट च्छेदनभर्सनयोः (पा. धा. च. उभ. सट ) । कुट्यने छिद्यते खण्ड्यतेऽनेनेति करणे[ *वञ् ] । टाप्नत्ययः । अनाऽऽकारशब्दः अतः कुद्यास्वरूपः कुटाकार इति । स्पष्टं व्यक्त प्रकाश्यते पज्यने । अस्य ग्रन्थस्य कुट्टाकारशिरोमाणरिति नाम विज्ञा. यते । एतद अन्धोपसंहारगीन्यां — कुट्टाकारशिरोमणिमिममभ्यस्यति ' इति वच- नदर्शना । अब च तन्नामकरणमिति ज्ञातत्वादत्तग्रन्थार्थावबोधेनाऽऽचार्य- मटमणीतक कारसत्रयुगलस्याप्यर्थः सम्यग्य ती भविष्यतीति तस्यायं ब्या- ख्याविशेपो भतीत्युसपन्नम् ॥ 1 ॥ अथ कुट्टाका रस्य वैविध्यं तदुक्तकम चाऽऽययाऽऽह- कुट्टाका भवतः मायनिरयाविहाऽऽदितः साअम् । संक्षिप्य दर्शयित्वा ततो निरग्रः प्रदीत व्यक्तम् ॥ २॥ कुट्टाकागै सामनिरनौ भवतः । इह सायकट्टाकानिर प्रकुट्टाकारयोर्मध्य *करणताधिकरणयोश्च( पा. सू. ३। ३ । ११७) । स्वरूपवचनः । .
महालक्ष्मीमुक्तावलीसहितः- आदितः प्रथमतः सायं सायकुट्टाकारं संक्षिप्य समस्य दीयत्वा । उक्त्वे- त्यर्थः। ततः सायकथनानन्तरं निरयो निराकुट्टाकारो व्यक्तं स्फुटं मदर्यते । उज्यत इति यावत् ॥ २॥ अथात्र के सिद्धान्तमवलम्ब्य भागहारभाज्योक्तिरिति न ज्ञायत इति तज्ज्ञानार्थमार्ययाऽऽह- अत्र हरभाज्यराशी भास्करसिद्धान्तमार्गमवलम्य । उच्यते दैवज्ञैरार्यभटीये च तौ समारोप्यौ ॥३॥ अह ग्रन्थे हरभाज्यराशी हरराशिश्चतुर्युगसंबन्धिरविमासचान्द्रदिनसा बनदिवसादिः। भाज्यराशिश्चतुर्युगसंबन्ध्यधिमासावमदिनग्रहभगणादिः। तो भास्करसिद्धान्तमार्ग श्रीसूर्यसिद्धान्तस्य पन्थानमवलम्ब्योच्येते तो पूर्वोक्ती हरभाज्यराशी देवज्यौतिषकैरार्यभटीये चाऽऽर्यभटसिद्धान्तेऽपि समारोप्यो । अथ श्रीसूर्यसिद्धान्ताश्रयणेन यद्यदुच्यते तत्र चाऽऽर्यभटसिद्धान्ताश्रयणे चोभयमित्यर्थः ॥ ३॥ अथाऽऽर्यया साग्रविषयं प्रश्नं स्पष्टयति- उद्दिष्टहारकद्वयसंभक्तविभाज्यराशिशेषाभ्याम् । यः सपदि भाज्यराशिं कथयति भूमौ स सानविद्भवति ॥ ४ ॥ उद्दिष्टहारकद्वयसंभक्तविभाज्यराशिशेषाभ्यामिति । विभक्तव्यो रा- शिविभाज्यराशिः । हारकयोयं हारकद्वयम् । उद्दिष्टं च तद्धारकद्वयं चोद्दिष्ट- हारकद्वयम् । तेषु संभक्त उद्दिष्टहारकट्यसंभक्तः । उद्दिष्टहारकद्वयसं- भक्तश्चायं विभाज्यराशिश्चोद्दिष्टहारकद्वयसंभक्तविभाज्यराशिः शेषौ तथोक्तो ताभ्यामुद्दिष्टाभ्यां भाज्यराशि भाज्यराशिं यः सपदि कथयति स भूमौ सायविद्भवति । अवेदं प्रश्नस्वरूपं-पस्मिन्कस्मिंश्चिद्भाज्य- राशावुद्दिष्टाभ्यां भिन्नसंख्याभ्यां याभ्यां काभ्यां भागहाराभ्यां पृथक्पृथग्वि- भके ये शिष्येते ताभ्यामतुल्यसंख्याभ्यां कथिताभ्यां भाज्यराशिः सद्योऽन्वे- पणीय इति । एतदुपलक्षणम् । एकस्मिन्नेव भाज्यराशौ पृथक्पृथग्बहुभिरुद्धि- दिविधर्भागहरविभक्त शेषाभ्यां विलक्षणाभ्यामुक्ताभ्यां भाज्यराशिरन्वेष्टव्य इत्येवमादौ प्रश्ने( नौ ) । अत्र भागहाराणां भक्त शेषसाम्यवैषम्यवशादैवि- ध्यम् । एतच्चोत्तरत्र व्यक्ती भविष्यति ॥ ४ ॥ तस्प कुट्ठाकाराशरोमाणिः। अधोक्तपमानार्थमार्यामाह-- अधिकायायायुगमाचार्यभटविरचितं साने। आरोप्य तत्र जातैः कर्मकदम्बैः प्रसाधयेद्भाज्यम् ॥५॥ आचार्यभटविरचितमधिकायाद्यार्या युगं साय आरोप्य तत्र जातेः कर्म- कदर्भाज्यं प्रसाधयेत् ॥ ५ ॥ अवैतदार्यभटाचार्यपणीत कुट्टाकारयुग्मविषयमधिकारादिसूत्रदयम् -- *अधिकायभागहारं छिन्द्यादूनाग्रभागहारेण । शेषपरस्परभक्त मतिगुणमयान्तरे क्षिप्तम् ॥ ६ ॥ अध उपरि गुणितमन्ययुगूनामच्छेदभाजिते शेषम् । अधिकाग्रच्छेदगुणं द्विच्छेदायमधिकारयुतम् ॥ ७ ॥ इति । एतत्सूत्रद्वयं प्रश्नभङ्गार्थ सायमधिकृत्य व्याख्यायते । अधिकाग्रभागहा- रमिति । अवाग्रशन्दः शेषवचनः । सायकोटिरितिवत् । अधिकमग्रं यस्म सोषिकामः। भागहारो भाजकः । अधिकायश्चासौ भागहारश्चाधिका- अभागहारः । येन भाज्यराशौ भक्त शेषमन्यस्माच्छेषादधिकसंख्यं भवति सोऽधिकामभागहार इत्यर्थः । ऊनाग्रभागहारेणोनमितरस्माच्छेषाचीन- ममं शेषं यस्य स ऊनामः । ऊनाग्रश्चासौ भागहारश्च स तथोक्तः । तेन च्छिन्द्यादिभजेत् । एतच्च सति संभवे कर्तव्यम् । अधिकाग्रभागहारमूना- प्रभागहारेण च्छिन्द्यादिति पृथग्वाक्यकरणादन लब्धेन प्रयोजनं नास्तीति शाप्यते । अथ शेषपरस्परभक्तम् । भक्तं भजनम् । भावे निष्ठा । अत्र कार्यमिति पदमध्याहार्यम् । शेषयोः परस्परभजनं कार्यम् । एतदुक्तं भवति । ऊनाममा- गहारेणाधिकामभागहारे हते यच्छिष्यते तेनोनागभागहारं विभजेत् । तत्र ( आर्यभटीय ( शा. ४२१ ) गणितपादे श्लो० ३२-३३)। तथा-बामस्फुटसिद्धान्ते ( शा० ५५० ) कुटटकाध्याये श्लो० ३-५ पृ०२९४ । महाधीराचार्य कृतगणितसारसंग्रह (शा० ७७५ ) वल्लिकाकुट्टीकारे श्लो० ११५ ॥ पृ० ८०) । लघुआर्यभटीये ( शा० ८७५ ) कुटकाध्याये इलो०३ पृ०२२४ । सिद्धान्तशिरोमणिकार( १०७२ )भास्कराचार्यकृते कुटकविवरणे श्लो० ५१ पृ० ५९ ।
४ महालक्ष्मीमुक्तावलीमहितः- लब्धं फलस्वेन कुत्रचित्स्थापयेत । ततस्तच्छेषणाधिकाग्रभागहारं शेष विभ- जेत् । लब्धं पूर्व स्थापितस्य फलस्याधः स्थापयेत् । ततस्तच्छेषेणोनाग्रभाग- हारशेष विभजेत् । लब्धं पूर्वनिहितयाः फलयोरधो निदध्यात् । एवं तावत्कु- ांद्यावरफलपङ्क्तिः समा भवति । शेषावप्यल्पाविति । अथ मतिगुणं मत्या गुणितं कार्यम् । एतदुक्तं भवनि । परस्परभक्त शेषयोर्यद्यल्पमुपरि स्थितं तद्यथासंख्यमग्रा- न्तरेण क्षिप्तं चाधः 'स्थितनान्येन भक्तं शुध्यति । सा मतिः। तथाऽल्पमुपरि स्थितं परस्परभक्तशेष गुणितं कामिति । अवैतदनुसंधेयम् । पूर्वमुपर्यधोभावेन निहितानां समपतीनां फलानामधो मतिसंशं गुणमपि स्थापयेदिति । एतच्च मति गुणमित्यस्पार्थान्तराङ्गीकरणेन सिध्यति । तद्यथा-मतिगुणं गुणो गुणकारः। गुणकारस्तु गुणको गुणो वर्धक इत्यपि ' इति सिद्धान्तदर्पणकारो गोविन्द- भट्टयज्वा । मतिरेव गुणो मति गुणः । मत्याख्यो गुण इत्यर्थः। तं स्थाप- योदति । नन्वत्र स्थापयेदिति नोक्तं तत्कथम् । एवमत्रोच्यते । मतिगुणमिति कर्मणः श्रवणादव सकर्मक किंचिक्रियापदमिति विज्ञाप्यते । तत्र स्थापये- दित्यनवद्यम् । अग्रान्तरे । अअयोरन्तरमयान्तरम् । उद्दिष्टाभ्यां भागहारा- भ्यां भाज्यराशौ पृथक्पृथग्विभक्ते ये शिष्यते तयोविवरमिति यावत् । तस्मि- निक्षिप्तं निहितं कार्यम् । अत्र मनिगुणितं प्रकृतम् । तस्मान्मतिगुणितमत्रा- ग्रान्तरे निधेयमिति । अवैतदनुसंधेयम् । यदत्र मतिगुणितमयान्तरे क्षिप्तं च तत्स्वाध:स्थितेनान्येन विभज्य लब्धं फलं मतेरधस्तान्निध्यादिति । एतच मतिगुणमित्यादिना सूचितं सूत्रकृतत्यवगन्तव्यम् । अध उपरि गुणितम् । अत्र अधःशब्देनोपर्यधोभावेन विन्यस्तषु समतिषु फलपदेषु मत्यादिकमुपान्त्यमुच्यते । उपरिशब्देनोपान्त्यस्योर्ध्वपशिस्थम् । गुण शब्देन गुणत्वम् । तस्मादुपान्त्यस्य तदुपरि फलस्य चान्योन्य गुणनं कार्यम् । एतदुक्तं भवति । मत्यादिकेनोपा- न्त्येन तदुपरि फलं गुण येदिति । ननु चात्र मुख्यवृत्त्या सर्वाधि:स्थितस्यान्त्यस्य फलस्य वाचकोऽधःशब्दः कथमुपान्त्यमाह । अत्रोच्यने । अन्त्ययुगित्यस्य विषयाभावात् । अन्त्ययुगृपान्येन गुणितं तदुपरिफलमत्र पकृतम् । तदन्त्येन युक्त कार्यम् । एवं तावत्कार्यं याववावेव राशी भवतः । राशिद्वयमात्रे त्वधउपरिगुणितमित्येतन प्रवर्तने । तस्मादत्राधोराशिना प्रयोजनं नास्तीति स त्याज्यः । नारच्छेदभाजिते । छेदो भागहारः । “भागहारो हरो हारो हारकश्छेदभाजको " इति गोविन्दभट्टसोमसुत । अत्रोपरिराशि: परतः ।
कुट्टाकारशिरोमाणिः।
प
तस्मिन्सति संभवे पूर्वोक्तेनोनाप्रभागहारेण भक्ते सति शेषं यच्छिष्टं तत् ।
अत्रैतदनुसंधेयम् । यत्रोनाग्रच्छेदभाजिते शेषमित्यत्र शेषं नास्ति तबोनापच्छे.
दमा निधेयमिति । अधिकारच्छेदगुणम् । पूर्वोक्तनाधिकाग्रभागहारण
गुणितम् । अधिकाग्रयुतम् । अत्राप्यनशब्दः शेषवचनः । अधिकं चैतदयं
चाधिकाग्रम् । तेन युक्तं द्विच्छेदायम् । इहाप्यनशब्दः शेषवचनः । द्वौ छेदौ
विच्छेदौ । अत्राष्टादशपुराणानामितिवचन इव संख्यावाचिना द्विशब्देन च्छेदौ
विशेष्येते इति विशेषण समासः । तयोरग्रे विच्छेदौ यस्य स्त इति मत्वर्थी-
योऽच्यत्ययः। विच्छेदानवद्भाज्यराश्यन्तरं भवतीत्यर्थः । अयं भाज्यराशिः
प्रथमः । अत उत्तरेषामपरिमितानां भाज्यराशीनामानयनपकारः प्रदर्यते । त-
यथा-अधिकाग्रभागहार मित्येतदादिनोनाग्रच्छेदभाजिते शेषमित्यन्तेन गाण-
तेन यन्निष्पद्यते तदध्रुवम् । तत्रैकगुणितमूनाग्रभागहारं निक्षिप्पाधिकाप्रभागहा.
रेण गुणयित्वा तत्राधिकाग्रं युज्यात् । ततस्तादृशः कश्चिद्भाज्यराशि-
भवति । ध्रुवे द्विगुणितमूनाग्रभागहारं दत्त्वा तदधिकाग्रभागहारेण [ हत्वा ]
ताधिकाग्रं निदध्यात् । ततस्तदपरः कश्चित्तादृशो भाज्यराशिभवति । एवं
त्र्यादिषु गुणितमूनाय[ भाग हारं ध्रुवे निक्षिप्योक्तप्रक्रियया भाज्यराशि-
सहसमानयेत् । अथात्र कंषुचित्पश्नविशेषेषु मत्यन्तराण्यङ्गीकृत्योक्तध्रुवाणि
रुत्वा तदशेनाप्युक्तपक्रिययाऽपरिमितान् भाज्यराशीनानयेत् । अत्रेदमनुसं-
धेयम् । अ(य)बोनाग्रभागहारेणाधिकाग्रभागहारः शुध्यति तत्राधिकामयुक्तोऽ-
धिकाराभागहारः प्रथमो भाज्यराशिर्भवति । तत्रैकादीष्टसंख्यागणितोऽप्रभा-
गहारः स्वाग्रयुक्तस्तदनन्तरादिस्तदुत्तरी भाज्यराशिर्भवतीति । इहैतदप्यनुसंधे-
यम् । शेषपरस्परभक्तमित्यत्र एत्र फलपतिरेका भवति तदा शेषयोरप्येकः
शुध्यति । यत्र च फलपङ्की द्वे भवतस्तदा शेषयोश्चैकः शुध्यति । तत्रोभयात्र
प्रथमत एव प्रत्यासन्नां मति कल्पयित्वा तयाऽधिकाग्रभागहारं हत्वा तत्रा-
धिकमग्रमर्पयेत् । एवं कृते प्रथमो
भाज्यराशिभवति । अत्र प्रथमत
एव कल्पितां प्रत्यासन्नां मतिमेकादीष्टसंख्यागुणितोनाग्रभागहारयुक्तां कृत्वाऽ-
धिकाग्रभागहारेण हत्वा तत्राधिकमयं च दत्त्वा तदपरान् भाज्यशीनानयेत् ।
अवापि केषुचित्मश्नविशेषेषु प्रथमत एव मत्यन्तराण्युररीकृत्य तदशादनन्तरो-
कपक्रिययाऽन्यानपि भाज्यराशीनानयेदिति । एतानि सर्वाणि परे विशेषाश्च.
कमेणोदाहरणमुखेन स्पष्टी क्रियन्ते ॥ ६ ॥ ७ ॥
महालक्ष्मीमुक्तावलीसहित:- उमेशक:-अष्टादशभिरेकायो यो भवेद्राशिरुतः। एकोनत्रिंशता चाऽऽतः सप्ताग्रस्तं सुधीर्वद ॥१॥(c)। अत्राधिकाग्रभागहार एकोनविंशत् (२९) । अस्मिन्नूनाग्रभागहारेणाटाइशकेन (१८)च्छिन्ने शिष्टराश्योरुपरिगशिरेकादशसंख्यः(११)। अधोराशिरष्टादशत- स्पः(१८)। एता वुपर्यधोभावेन स्थापितौ ११ । अथोपरिराशिनैकादशकेन १८॥ (११) स्वाधोराशावष्टादशके(१८) विभक्ते लब्धमेकम (१) । ततस्तध्ठेपेण सप्लकेन(७) स्वोपरिराशावेकादशके(११) भक्ते लब्धमेकम(१) । इदं पूर्वफल- स्थाधो निहितम् । तच्छेषेण चतुष्केण(४) स्वाधोराशौ सप्तके(७) विभ- के लब्धमेकम(१) । इदं पूर्वफलयोरधो दत्तम् १, १, १, । ततस्तच्छेषेण त्रिकेण(३) स्वोपरिराशौ चतुष्के (४) विभक्त लब्धमेकम् (१) । एतत्पूर्वफला- नामधो विन्यस्तम् १, १, १, १,। इत्थं चतसः फलपतयः । शेषयोरुपयेक (२)अधस्त्रीणि १, ३ । अग्रान्तरं षट्कम् (६) । अत्र युग्माः फलपतयः । शेषावपि लघुलत्ताविति मतिः कल्प्यते । अयं रूपात्मक उपरिराशिः कया संख्यया गुणितः षट्कामतेनायान्तरेण युक्तश्च स्वाधाराशिना त्रिकेण शुध्य- तीति लब्धा पत्यासन्ना मतिस्त्रिसंख्याका(३) । एषा चतुर्णा पूर्वेषां फलानामयो निहिता १, १, १, १, ३ । अथोपरिराशौ मतिगुणितेऽयान्तरेण च युक्त नवक(९) जातम् । अस्मिन्स्वाधोराशिना त्रिकेण(३) हृते लन्धं वयम्(३)। एतन्मतेरधस्तादत्तम् १, १, १, १, ३, ३ । एषा फलवल्लीत्युच्यते । अथै- तेषु समतिष्पान्त्येन मतिसंज्ञकेन विकेण गुणेन गुणिते रूपात्मके तदुपरिफलेड- न्त्येन विकेण च युक्ते षट्कं (६) जातम् । ततः शिष्टेषु पञ्चसु पदेषुपान्त्येन पटकेन गुणिते रूपात्मके तदुपरिफलेऽन्त्येन मतिसंज्ञकेन विकेण च युक्ते नवकं (९) जातम् । ततः शिष्टेषु चतुष्पान्त्येन नवकेन गुणिते रूपात्मके तदुपरिफ- लेऽन्त्येन पटकेन च युक्ते पञ्चदशकं(१५) जातम् । ततः शिष्टेषु त्रिकपूपा- न्त्येन पश्चदशकेन गुणिते रूपात्मके तदुपरिफलेऽन्त्येन नवकेन युक्ते चतुविश- ति:(२४) जाता । एवं वल्ल्युपसंहारः कृतः । अथाव पदवयाभावादधउपरिगु- णितमन्त्ययुगित्येतन पवर्तत इत्यत्राधोराशि: प्रमृष्टः । अथ चतुर्विंशति- १ क. शिरप्रकृतः ।
९
-
कुट्टाकारशिरोमाणः ।
(२४) संख्याकोपरिराशावूनाग्रच्छेदेनाष्टादशकेन(१८) भक्ते षट्क(६) शि-
ध्यते । अस्मिन्नधिकाग्रच्छेदेनकोनाशता(२९) गणिताधिकाग्रेण सप्तकेन(७)
च युक्त एकाशीत्युत्तरं शतम्(१८१)। अयं द्विच्छेदारः प्रथमो भाज्यराशिः।
अयमष्टादशामि(१८)विभक्त एकाग्र एकोनविंशता२९सप्तायः७ । अथान्येऽपि
भाज्यराशय उदाहियन्ते । अत्रोनायभक्तशेष षट्कम्६ । अस्मिन्नेकगुणितोनाम-
भागहारेणाष्टादशकेन १८युक्ते चतुर्विंशति २४र्जाता। अस्यामधिकारच्छेदेनको-
नविंशताः ९गुणि तायामधिकाग्रेण सप्तकेन७ च युक्तायां व्यधिकं शतसप्तकं
७०३ जातम् । अयं चावान्या भाज्यराशिः । अथोनाग्रच्छेदभक्तशेषे६
द्विगुणेनोनामच्छेदन ३६युक्त ४२अधिकारच्छेदं२९गुणायित्वा तत्राधिकायं स-
शकण्युक्तं पञ्चविंशत्युत्तर शतद्वयाधिक सहसां १२२५जातम् । अयं चापरो भा-
ज्यराशिः। एतौ चानन्तरी भाज्यराशी अष्टादशभिः १८ एकायौ। एकोनत्रि-
शता२९सप्तायौ । एवंप्रकारेण भाज्यराशिसहरूमानेतव्यम् ॥ ८ ॥
अथ प्रश्नविशेष उदाहियते । उद्देशक:-
आकृत्यै(२२)कादशाना(११) ये सप्ताया(७) मनुभि(१४)हताः।
आसन्ना राशयोऽष्टौ तानाचक्ष्व मतिमद्वर ॥२॥९॥
अत्र पूर्वोक्त प्रक्रियया रूपात्मिकायाः प्रथमाया मतेराश्रयणेनाऽऽनीताः
प्रथमतृतीयपश्चमा विषमा भाज्यराशयः क्रमेण लिख्यन्ते । तत्र प्रथमः सप्त-
सप्तति( ७७ )संख्यः । तृतीयः पश्चाशीत्युत्तरशतवय( ३८५ )संख्यः ।
पञ्चमः सप्लोनशतसप्तक(६९३)संख्यः। सप्तमः सैकसहस(१००१)संख्यः ।
अत्र द्वितीयादिसमभाज्यराशयः प्रथममत्यवलम्बनेन सेत्स्यन्तीति तदनन्तरां
चतुष्टयात्मिका मतिमवलम्ब्य पूर्वोक्त प्रक्रिययाऽऽनीतो द्वितीयो भाज्यराशिरेक-
त्रिंशदुत्तरशतद्वय( २३१ )संख्यः । चतुर्थ एकोनचत्वारिंशदार्षिकपञ्चशत-
( ५३९ )संख्यः ।
षष्ठः सप्तचत्वारिंशदुत्तरशताष्ट( ८४७ )संख्यः ।
अष्टमः पश्चपश्चाशदुत्तरैकादशशत( ११५५ )संख्यः । एवमेतेऽष्टापि
राशयो द्वाविंशत्या ( २२) विभक्ता एकादश (११) शेषा भवन्ति ।
चतुर्दशभिः सप्त शेषाः । एवमेवंविधप्रश्नविषये भाज्यराशय आनेतव्याः ॥९॥
अथ यत्रोनाप्रभागहारेणाधिकाग्रभागहारः शुध्यति तत्रोदाहियते । उद्देशक:-
यस्यग्रः सप्तभिर्भक्तः सप्तत्या दशकाग्रकः ।
जानासि यदि तं राशिं वहि सांवत्सरामणीः ॥ ३॥ १० ॥
महालक्ष्मीमुक्तावलीसहितः- अबोनाप्रभागहारेण सप्तकेनाधिकायभागहारः सप्ततिसंख्यः शुध्यति । तस्मादव सप्ततिसंख्याकेऽधिकाग्रभागहारेऽधिकाग्रेण दशकेन युक्तेऽशीति- (८० )र्जाता । अयमत्र प्रथमो भाज्यराशिः। अयं सप्तभिर्भक्तस्ययो भवति । सप्तत्या दशकायः। अथ द्विगुणेऽधिकाग्रभागहारे ( १४० )। अधिकाग्रेण (१०) युक्ते पञ्चाशदुत्तरशतं ( १५० ) जातम् । अयमत्र द्वितीयो भाज्यराशिः । एवं भाज्यराशिसहस्रमानेतव्यम् ॥ १० ॥ अथ शेषपरस्परभक्तमित्यत्र फलपङ्क्तिरेका भवति । तदा शेषयोरप्येकः शुध्यति । तबोदाहियते । उद्देशक:- यो दिम्भि( १०)विहतस्यत्रो रूपाप्रखिभिरुद्धृतः । तं राशिं शीघ्रमाचक्ष्व वेत्सि चेद्गणकोत्तम ॥ ४ ॥ ११ ॥ अत्रोनागभागहारेण त्रिकेणाधिकाग्रभागहारे दशके हत उपरिराशिरे- कसंख्यः । अधोराशिस्त्रि( ३ )संख्यः । अत्रोपरिराशिनाऽधाराशि: शुध्यति। फलपतिरप्येका भवति । अतोऽत्राऽऽदावेव मतिःकल्प्यते । अयं रूपात्मक उपरिराशिः केन गुणितोऽग्रान्तरेण द्विके( २ )न च युक्तः स्वाधोराशिना विकेण शुध्यतीति लब्धा प्रत्यासन्ना मती रूपात्मिका ( १ )। अनया गुणि- तेऽधिकायभागहारे दशकसंख्ये (१०) अधिकागेण विकेण ( ३ ) च युक्त त्रयोदशकं ( १३ ) जातम् । अयमत्र प्रथमो भाज्यराशिः। अयं दश- भिस्यमा विभिरेकायः । अथात्र रूपात्मिकायां मतावेकगुणोनाग्रभागहारे विके दत्ते चतुष्क ( ४ ) जातम् । अस्मिन्नधिकाग्रभागहारेण दशकेन गुणि- तेऽधिकाग्रेण विकेण च युक्ते त्रिचत्वारिंश(. ४३ )ज्जाता । अयमत्र द्वितीयो भाज्यराशिः । एष च दशभिस्त्र्यमः। त्रिभिरकामः। एवं भाज्यस- हसमानेयन् ॥ ११ ॥ अथात्र प्रश्नविशेष उदाहियते । उद्देशक:- ये राशयोऽष्टभक्ताश्चेच्चतुरमा भवन्त्यपि । अष्टाग्रा द्वादशाप्ताश्चेत्तेष्वाद्यांश्चतुरो वद ॥ ५॥ १२ ॥ अत्राऽऽदावेव कल्पितायां रूपात्मिकायां मत्यामधिकायभागहारेण दाद- शकेन गुणितायामधिकाग्रेणाष्टकेन युतायां विंशति(२०)ोता । अयं प्रथमो भाज्यः । अथ द्वितीयया रूपत्रयात्मिकया मत्या पूर्ववदानीतो द्वितीयो १ स्य. त्रिकेणकामः ।
अथ यत्र " शेषपरस्परभक्तम् .. कुट्टाकाराशेरोमाणः। भाज्यश्चतुश्चत्वारिंश( ४४ )त्संख्यः। अथ तृतीयया रूपपश्वकरूपया मत्या पूर्ववदानीतस्तृतीयो भाज्यराशिरष्टषष्टि( ६८ )संख्यः । अथ चतुर्था रूप- सप्तकरूपया मत्या पूर्ववदानीतश्चतुर्थो भाज्यगशिनिवति( ९२ )संख्यः । एवमेते चत्वारो भाज्यराशयोऽष्टाभिश्चतुरमा द्वादशभिरष्टाग्राः ॥ १२ ॥ " इत्यत्र फलपङ्की द्वे भवतस्तदा शेष- योरप्येकः शुध्यति । तत्रोदाहियते- उद्देशक:-अष्टाभिश्चतुरग्रो यो व्यग्रोऽष्टादशभिर्हतः। क्षिप्रमाख्याहि तं राशि साग्रे यद्यस्ति संस्तवः ॥ १३ ॥ अबोनापच्छेदेनाष्टादशकेनाधिकाग्रच्छेदोऽष्टसंख्यश्छेत्तुं न शक्यते । तस्मादत्र यथास्थितयोरेवानयोः परस्परभजनं कार्यमित्युपरिराशिनाऽष्टकेनाधी- राशावष्टादशके विहते द्वयं शिष्यने । तेनाष्टसंख्यः स्वोपरिराशिः शु. ध्यति । फलपङ्की च द्वे भवतः । तदवाऽऽदावेव प्रत्यासन्नां मतिं कल्पयित्वा पूर्ववदानीतः प्रथमो भाज्यराशिपिंशति( २० )संख्यः । अयमष्टभिश्चतुरयः । अष्टादशभिव्य॑यः । एवमेवंविधा भाज्याः साध्याः ॥ १३ ॥ अथ द्विविधबहुभागहारबद्भाज्यराशिपनविषय उदाहियते- उद्देशक:-प्रकृतेस्तिसाभ( ३)भक्तो यो राशिः स्याद्विशेषतः । चतुर्दशाग्रः संस्कृत्या(२४)तिसृभिस्तं वदाऽऽशु मे ॥७॥१४॥ एषां द्विविधानां षण्णां हराणां सकाशादपवयं हरौ द्वौ द्वा । तद- धमपवर्तकेन संगुणयेदित्युक्तप्रक्रियया पूर्वमूनाग्रच्छेदोऽधिकाग्छेदश्चाऽऽनी. यते । तद्यथा कविंशतेविंशतेश्चापवर्तकाभावादनयोराहतिः पक्षरसाणव. ( ४६२ )संख्या। अथास्यास्त्रयोविंशतेरप्यपवर्तकाभावादनयोः संघर्गः पर- क्षितर्कदिक्( १०६२६ )संख्यः । अत्रायमूनाग्रच्छेदः । अथ चतुाशते: पञ्चविंशतेश्चापवर्तका वादनयोराहतिः पूर्ण खनक( ६०० सरपा । अथास्याः षड्विंशतेश्चापवर्तको वि( २ )संख्यः । अनेनापतितयोरेतयो- बंधः खात्राङ्कराम( ३९०० )संख्यः । अयमपवर्तकेन द्विकेन गुणितः पूर्णाभ्रवसमनि( ७८०० )संख्यः । अवायमधिकाग्रच्छेदः । अथैवमाग- १ क. स्थाप्याः । २ ख. धकः । ३ क, “दस्याऽऽ । ४ क. संसर्गः । ५ ख. निख.। - २ महालक्ष्मीमुक्तावलीसहित:- वाभ्यामाभ्यामूनागच्छेदाधिकागच्छेदाभ्यां द्वादशसंख्याकेनामान्तरेण च पूर्व- बदधिकामभागहारामित्येवमादिना नीतः पञ्चमो भाज्यराशिनुबेदमुनिरुवराम- रषि( १२३४७४ १४ )संख्यः । अयमेकविंशत्या द्वाविंशत्या त्रयोविंशत्या पविभको यमः । चतुर्विशत्या पञ्चविंशत्या षड्विंशत्या च चतुर्दशायः। अवाप्येवंविधा भाज्यराशयः पूर्ववदानेयाः ॥१४॥ अथ प्रश्नान्तरमुदाहियते- उद्देशक:-नवत्या सैकयैकायो यो विंशत्या निरग्रकः । द्रुतमाचक्ष्व दैवज्ञ तं राशि मम पृच्छतः ॥ ८ ॥ १५ ॥ अत्रैकनवतिसंख्येनाधिकाग्रच्छेदेन विंशतिसंख्येनोनाग्रच्छेदेन रूपात्म- केनाग्रान्तरेण च प्राग्वदानीत आद्यो भाज्यराशि वाष्ट( ८२० )संख्यः। अयमेकनवत्या रूपायः, विंशत्या अन्यायः । अतोऽन्येऽप्येवंविधा भाज्यरा- शयः पूर्ववदानेयाः । १५॥ अथ भिन्नबहुभागहारभिन्नवह्वयसायाकुट्टाकारविषयमायोदयमाह- * भिमबहुभागहार कुट्टाकारे विभिन्न बहने । हरयोदयोयोर्यों भाज्यः सोऽयं भवेद्धरस्तस्य ॥ हरयोः संवर्गः स्यादेवं कार्य पुनः पुनस्तावत् । यावद्विभाजको दौ भवतो भाज्योऽत्र पूर्ववत्साभ्यः ॥ अस्पार्थ उदाहरणेन व्यक्ती भविष्यति- देशक:-सप्तादिभित्रिमिभक्ते यस्मिरूपशराब्धयः । शेषाः क्रमाद्भवेयस्तं राशिमाचक्ष्व तान्त्रिक ।९।।३।। -- *लीलावतीमन्थे कचिदेते श्लोका दृश्यन्ते । ते च प्रकृतोपयुक्तत्वादोधियन्ते- हारे विभिन्ने गुणके च भिन्ने स्यादाघराशेर्गुणकस्तु साध्य' । द्वितीयभाज्यघ्नतदाद्यजो गुणः क्षेपो भवेत्क्षेपयुतो द्वितीये ॥ द्वितीयभाज्यघ्नतदायहारो भाज्यो भवेत्तत्र हरो हरः स्यात् । एवं प्रकल्प्यापि च कुट्टकेऽथ जातो गुणश्चाऽऽयहरण निधनः ॥ गुणो भवेदायगुणेन युक्तो हरघ्नहारोऽत्र हरः प्रदिष्टः । अथ तृतीयेऽपि तथैव कुर्यादेवं बहूनामपि साधयेत्तु ॥ १ ख. अत्रा।
- कुढाकारशिरोमणिः। १ अत्र क्रमादिमे हारीः ७, ८, ९ । अगाणीमान १,५,४, एवाधाभ्यां हराम्पामग्रान्तरेण चोक्तवदानीतो भाज्यराशिरेकोनविंशत्संख्यः (२९) । अयं तामिभको रूपायः (१)। अष्टभिः पश्चायः (५)। अथायमेव भाज्यस्तृतीयेन तह कर्मणि कर्तव्ये ' हरयाईयोईयोर्यो भाज्यः सोऽयं भवेत् । इत्ययं भवति । अध्यायस्य च्छेदयोर्वधः 'तस्य हरयोः संवर्गो हरः स्यात् । इति छेदो भवति । स चात्र षट्पश्चाशत्संख्यः( ५६ ) । अस्यायमेकोनविंशत्संख्यम् ( २९ ) । भाज्यराशिस्तृतीयच्छेदोनदश( ९ )संख्यः। अस्यायं वेद- ( ४ )संख्यम् । अग्रान्तरं पश्चविंशति( २५ )संख्यम् । अथाऽऽद्या- भ्यां छेदाभ्यामनेनामान्तरेण चोक्तवदानीतलिच्छेदामो भाज्यराशिः पञ्चाशीति- ( ८५ )संख्यः । अयं सप्तभिर्भक्त एकाग्रः (१)। अष्टभिः पञ्चायः (५)। नवभिश्चतुरयः ( ४ ) । एवमेवंविधानविषये भाज्यगशय आने- तन्याः॥१६॥ अधात्रैव प्रश्नविशेष उदाहियते- उद्देशक:-को राशिः कैहरीभिर्भक्तो भिन्नावशेषकः । स एवात्रैक्ययुक्तश्चेत्तैहरैरेव शुध्यति ॥ १० ॥ १७ ॥ अवाऽऽदौ स्वेच्छयां प्राणि कल्पयित्वा तदशावक्ष्यमाणकारेण तेषां तेषां छेदानुत्पाद्यानन्तरपदर्शिवभिन्नबहुभागहारभिन्नवह्वमभाज्यराश्यानयन- प्रकारेण भाज्यराशिमानयेत् । अवेष्टायवशात्तच्छेदानयनार्थमिदमभियुक्तपणीत सूत्रम् अपाणीष्टानि स्युस्तद्योगोऽयान्वितः पृथक्छेदाः । अप्रैक्पयुवे भाज्ये वियुते त्वक्यममोनम् ॥ अस्पार्थः-अग्राणि शेषाणीष्टानि स्युः । अभिमेवानि कल्प्यानि भवेयुः। वद्योगोऽगयोगः पृथगणान्वितः पृथक्पृथक्तदायुतः सन् छेदास्तत्तदगव- न्तरछेदाः स्युः । अप्रेक्ययुते भाज्ये भाज्यराशौ तत्तच्छेदानां निरमदानाथ- मागयोगेन युक्त सत्येतद्वेदितव्यम् । वियुते तु भाज्यराशौ तत्तच्छेदानां निर- भदानार्थमग्रयोगेन हीने सति पुनः ' अगैक्यममोनम् ' अग्रयोगः पृथक्पृथक बनदयवियुतः संस्तत्तदग्रवन्तरछेदाः स्युः । उदाहरणम्- अत्र कल्पितान्यप्राणीमानि त्रीणि ( ३ ) । चत्वारि ( ४ )। पत्र .
- महालक्ष्मीमुक्तावलीसहितः- ( ५ )। एषां योगो रवि( १२ )संख्यः । एष वेधा निहितः १२, १२, १२ । एषु पूर्ववत्कल्पितेष्वग्रेषु ३-४-५ क्षिप्तेषु जाताश्छेदाः पञ्चदश ( १५ ) । षोडा ( १६ ) सप्तदश ( १७ )। एषां कमेणापाणि पूर्व- लिखिनान्येव ३-४.५। एमिश्छेदैरतरत्रैश्चानन्तरपदार्शवभिन्नबहुभागहारभिन्न- बरःभाज्यराश्यानयनप्रकारेणाऽऽनीतो भाज्यराशिर्वसुरसपूर्णान्धिः (४०६८)। एष पञ्चदशभिर्भक्तस्ययः ( ३ ) । षोडशभिश्चतुरग्रः ( ४ )। सप्तदशभिः पश्चामः ( ५ ) । अथायमेव भाज्यराशिरग्रैक्येन द्वादशकेन( १२) युक्त- वेदोभश्छेदैनिरग्राश्च भवति । एवमेवंविधा भाज्यराशयः साध्याः ॥१७॥ अोमैक्यहीनं भाज्यानयनमुदाहियते- उद्देशक:-को राशिः कैर्हनिर्भक्तो भिन्नावशेषकः। स एवागैक्यहीनश्चेत्तहरैरेव शुध्यति ॥११॥१८॥ अत्र पूर्ववत्पथमं स्वेच्छयाऽआणि परिकल्प्य तद्वशात् 'वियुते त्वक्प- मनोनम् । इत्युक्तमकारेण तेषां छेदानुत्पाद्य भिन्नबहुहारभिन्नबह्वग्रभाज्यान- यनप्रकारेण भाज्यमानयेत् । अव पूर्ववत्कल्पितान्यप्राणीमानि पञ्च ( ५) सप्त (७) नव (९)। एषां योगश्चन्द्रकर( २१ )संख्यः । अयं विधा निहितः २१-२१-२१ । एभ्य एष्वग्रेषु ५-७-९ त्यक्तेषु जाताश्छेदाः पोडश ( १६ ) चतुर्दश ( १४ ) द्वादश ( १२ )। एषां कमेणामाण्य- नन्तरमदर्शितान्येव ५-७-९ । एभिरगैरेतैच्छेदैश्च भिन्नबहुभागहारभिन्नवत- प्रभाज्यराश्यानयनप्रकारेणाऽऽनीतो भाज्यराशिः शररसरामेन्दु( १३६५ )- संख्यः । अयं षोडशभिः पञ्चायः । चतुर्दशभिः सप्तामः । द्वादशभिवामः ५-४-९। अयमेव भाज्यराशिरग्रयोगेन कुपक्ष( २१ )संख्येन हीनशे- देभिश्छेदैनिरयो भवति । एवमेवंप्रकारा भाज्यराशय आनेतव्याः । नन्वन्त- रयोः प्रश्नयोः स एवग्रिक्ययुक्तश्चेनैहरैरेव शुध्यति , ' स एवाक्यहीन. अनहरैरेव शुध्यति । इति च निरयता प्रतीयते । तदनुपपन्नमनयोः सायाधि- कारे कथनम् । सत्यम् । ' को राशिः कैहरौर्भिन्नेर्भक्तो भिन्नावशेषकः । इति सायताऽपि दृश्यत इति युक्तमुक्तम् । अथ कक्ष्याकुट्टाकारः प्रदर्यते । तबाऽऽदो कक्ष्याग्रहानयनं ज्ञातव्यम् । अतस्तदुच्यते- १ स्व. प्रेक्यादीनां भा।
कुट्टाकारशिरोमाणिः । १३ । *खव्योमवत्रयख सागरषट्कनागव्योमाष्टशन्ययमरूपनगाष्टचन्द्राः (१८. ७१२०८०८६४०००००० ) इति भगवता सूर्येणोपदिष्टयाऽऽकाशकक्ष्यया गुणिते स्वेष्टदिनगणे सहलाहनेन ग्रहकक्ष्याभूदिनसंवर्गेण विभक्ते लन्धं भगणादि ग्रहो भवेत् । शेषं कक्ष्यायम् । इष्टदिनानां स्वकक्ष्यागुणाकारः सहसगुणो ग्रहक- क्ष्याभूदिनसंवर्गो भागहारः। एतावपवर्तिताविष्टदिनानां गुणहरौ भवतः। एतस्ति- पक्षेऽपवर्तितयाऽऽकाशकक्ष्यया निहते स्वाभिमतदिनगणेऽपवर्तितेन तहसनिहतम- हकक्ष्याभूदिनाभ्यासेन विहने लब्धं भगणादिग्रहः । शेष कक्ष्यायम् । अथवा खकक्ष्याभूदिनयोरपवर्तितयोर्यरखकक्ष्यातो लब्धं तदिष्टदिनानां गुणः। यत्तु भदिनतो लन्धं तेन सहलगुणितेन गुणिता ग्रहकक्ष्या तेषां भागहारः। अस्मि- पक्षे पुनरिष्टदिनगणेऽपवर्तितया खकक्ष्यया गुणिते सहलगुणिवेनापवर्तितभूदि- नेन गुणितया ग्राहकक्ष्यया विभक्ते लब्धं भगणादिमध्यग्रहः । शेषं कक्ष्यायम् । एवं विभिः प्रकारैः कक्ष्याग्रहानयनं कक्ष्यायं चोक्तम् । एष्वन्तिमप्रकारे यत्के- क्ष्यामं तदेवोद्दिश्यते । अस्य भागहारः सहस्रनेनापवर्तितभूदिनेन गुणिता ग्रह- कक्ष्या । उद्देशकः- कक्ष्या सवितुः खखाक्षिशिखरिक्षमाक्ष्यद्रिचन्दाकृति- व्यर्थाध्यब्धिरसाभ्रतर्ककरभूसंख्यं १२६.. ६४४५२२२१७२१७२०० मृगाङ्कस्य तु । लक्षमाभ्रकरार्थवाणनवकव्यष्टेशनागवंगा ७६८११८२९५५२०००००० द्व्यग्रं. भाज्यमहर्गणं च भगणान्यातानरवीन्दोर्वद ॥ १८ ॥ न्यासः-रवेः कक्ष्यायमिदम् (१२६०६४४५२२२१७२१७२००) बदमत्राधिकागम् । अथ स्व( ख )कक्ष्याभूदिनयोः ‘विभजेद्धारविभाज्यौ । इति परस्परभक्तपोः शेषं वेद( ४ )संख्यम् । एष स्व( ख )कक्ष्याभूदिनपो- रपवर्तकः । अनेनापवर्तिता खकक्ष्या प्रयुतधनृपद्व्यभ्रदिखायादिरसान्धि- (४६७८०२०२१६०००००० )संख्या । अपवर्तितं भूदिनमचलार्थकता- गदिवेदान्धिनवपावक( ३९४४७९४५७ )संख्यम् । एतत्सहलगुणितम् ( ३९४४७९४५७००० ) । अधानपवर्तितायां खकक्ष्यायां सहस्रधैर्यु- *( सूर्यसिद्धान्ते भूगोलाध्याये श्लो० ९० ) १४ महालक्ष्मीमुक्तावलीसहितः- गग्रहभगणेविभक्तायां योजनामिका प्रहकक्ष्या भवतीति लन्या रविकक्ष्या दादशपोजनषष्टयंशसहितखखतिथिरामानिवेद( ४३३१५००-संख्या एषा पूर्वलिखित सहसाहताऽपवर्तितभूदिनाभ्यस्ता व्योमाञशकनवविश्वनवाटतक- वेदाष्टशैलगजषड्वसुखाद्रिचन्द्र( १७०८६८७८४६८९१३९१४०० )सं- रूपा । अयमत्राधिकाग्रभागहारः । चन्द्रस्य कक्ष्यायमिदम् (७६८११८२- ९५५२००.००० ) । एतदिहोना प्रागुक्तकमलब्धयेव । चन्द्रकक्ष्या खत्रयान्धिादिदहन( ३२४००० )संख्या । एषा सहलमाऽपवर्तितभूदिन- गुणिता प्रयुतघ्नाष्टषट्खाग्धिवेदाग्नीशाष्टाघ( गा )( १२७८ १३३४- ४०६८०००००० )संख्या । अयमत्रोनाग्रभागहारः । अग्रान्तरं खखाक्ष्य- त्पष्टिदीपुरसवव्यङ्कतद्विरामाष्टत्रिगजेश( ११८३८३२६९२६६५२१७. २०० )संख्यम् । अौतेऽधिकाग्रभागहारोनाग्रभागहाराणान्तरराशयोऽपवर्तनं प्रयच्छन्तीत्यपवर्त्य पदयन्ते । अत्रापवर्तकः पूर्णाभ्रतारूतिखाग्नितर्कव्योमा- प्रचन्द्रगिरि( ७१००६३०२२६०० )संख्यः । अनेनापतितोऽधिकाग- भागहारो नवाष्टविषट्खसिद्ध( २४०६३८९ )संख्यः । अपवर्तितोनाम- भागहारोऽप्पयुतगुणधति( १८०००० )संख्यः । अपवर्तिताग्रान्तरं दयाकतिमुनिरसनप( १६६७२२२ )संख्यम् । एभिराधिकापच्छेद्गुणमित्पे- तदन्तेन कर्मकदम्बेन जातो राशिव सुमनिगिरिरविगजाब्धि( ४८१२७७८ ) संख्यः । अयमत्र केनापयर्वकेन गुणितोअधिकामयुक्तश्चार्बुदाहताष्टिविनखखाटा- द्विरससिन्धु (४६७८०२०२१६०००००००० .)संख्यः। अयं द्विच्छेदायो भाज्यराशिः । अस्मिन्नपवर्तितखकक्ष्यया गुणेन विभक्ते लब्धो राशिः सहस- ( १००० )संख्यः । एष स्वेष्टदिनगणः। अथ विच्छेदाने भाज्यराशावन- पवर्तितेनापिकायभागहारेण विच्छेदेन ह(ह )ते लन्धौ गतौ रविभगणौ दौ ( २ ) । शिष्टमुद्दिष्टरविकक्ष्यायतुल्यम् । अथ विच्छेदागे भाज्यराशाववानपवर्तितोनाप्रभागहारेण चन्द्रच्छेदेन विहते गवाश्चन्द्रभगणाः षट्त्रिंशत् ( ३६)। शेषमुद्दिष्टरविकक्ष्याग्रसमम् । एवं द्वयोः कक्ष्याययोरुद्दिष्टयोः सतोरानयप्रकारः । बहूनां कक्ष्यायेद्दिष्टेषु भिन्नवहुभागहाराभिनवप्रयोः कुट्टाकारानयनप्रकारेण भाज्यराश्यहर्गणगत- लब्ध ..
कुट्टाकाराशरोमाणः । १५ भगणाः साध्याः । एवं सूर्यसिद्धान्तमार्गमवलम्ब्य कक्ष्याकुट्टाकारानयनं प्रदर्शितम् । आर्यभटीयानुसारेण कक्ष्याकुट्टाकारानयने तु विशेषः । अब सूर्यसिद्धान्तानयनमार्गेणैतदानयने यत्र यत्रा सहसगुणनमुक्तं तत्तदिह न कर्त- व्यम् । अन्या सर्वाऽपि प्रक्रिया समाना ॥ १८ ॥ अथ खिलविशेषानुपपन्नमश्न उदाह्रियते-उद्देशक:- योऽष्टाभिनंवभिः षभिर्दशभिश्चतुरमकः । याद्यैश्चतुर्भिरेकायस्तं राशि व्याहराअसा ॥२३॥१९॥ अत्र षभिरष्टभिवा यो राशिश्चतुरयो भवति स कथं चतुर्भिाभ्यां वा तपामो भवतीत्यालोच्य प्रश्नोऽयमनुपपन्न इति ब्रूयात् । एवमन्येऽप्यनुपपन्नाः प्रभा बोधव्याः॥ १९ ॥ अथ खिलविषय उदाहियते-उद्देशकः- द्विचत्वारिंशता व्ययः षड्विंशत्यैक शेषकः। यो राशिस्तं द्रुतं ब्रूहि साग्रं वेद भवान्यदि ॥२४॥२०॥ अत्र पूर्वबदागतानि प्रत्येकं रूपात्मकान्युपर्यधोभावेन निहितानि फलानि १,१,१,१। शेषयोरुपरिराशिर्लोचन( २ )संख्यः । अधोराशिर्वेद- (४)संख्यः। अब मतिः कल्पयितुं न शक्यते । तस्मादिह भाज्यराशिः खिल इति वक्तव्यम् । यत्र च्छेदयोरपवर्तकोऽस्ति सोऽमान्तरस्य तु नास्ति तत्र भाज्यराशेः खिलत्वं दृष्टव्यम् । यत्रैषां त्रयाणामपि सदृशोऽपवर्तकोऽस्ति तदभावो वाग्वाखिलत्वं द्रष्टव्यम् । एवं सामविषयेऽधिकामादिसूत्रयुगं पति- पत्तणां बुद्धिव्यामोहो मा भदित्येकयैव च रीत्या व्याख्यातम् । अथैतदेवान किंचिद्विकल्प्य व्याक्रियते-पूर्व शेषपरस्परभक्त मतिगुणमयान्तरे क्षिप्तम् । इत्यत्र फलपङ्क्त्यां समायां सत्याममान्तरं समं कृत्वा मतिं कल्पयित्वा तथाऽल्पमुपरिराशिं गुणयित्वा तच्चानान्तरे क्षिप्त्वा तदधोराशिना हत्वा लब्धं समपङ्क्तीनां फलानामधो निहिताया मतेरधस्तानिध्यादित्युक्तम् । इदानीं तत्र विषमायां फलपङ्गयामयान्तरमृणं कृत्वा मति परिकल्प्य तयाs- ल्पमधोराशि संगुण्य तस्मादग्रान्तरं विशोध्य तदुपरिराशिना विभज्य लब्धं विषमपतीनां फलानां मध्ये दत्ताया मतेरधः स्थापयेदित्युच्यते । अन्यत्सर्व पूर्ववत् । एवं कृतेऽपि पूर्वप्रदर्शितमखिलमुदाहरणजातं प्रायशः सेत्स्यत्येव ।
१६ महालक्ष्मीमुक्तावलीसहितः- अस्मिन्पक्षे 'अमान्तरे। इत्यन्तं विभक्तिविपरिणामो दृष्टव्यः । अमान्तर- गेति । छन्दोवत्सूत्राणि भवन्तीत्युक्तत्वाच्छन्दसि हि विभक्तिविपरिणामः प्रसिद्धः । क्षिप्तमित्येतदवहीनमित्यस्योपलक्षणम्। तस्मादप्रान्तरेणोनमिति सिदं भवति । तथैव वास्तु पाठः। उनायभागहारं छिन्द्यादधिकाग्रभागहारेण । शेषपरस्परभक्त मतिगुणमयान्तरे क्षिप्तम् ॥ अधउपरिगुणितमत्ययुगाधकाग्रच्छेदभाजिते शेषम् । ऊनायच्छेदगुणं विच्छेदाय विहीनशेषयुतम् ॥ इति । अस्मिन्पाठे यदा समायां फलपङ्कयां पतिकल्पनेष्टा तदाऽमान्तरमृणं रुत्वा मति कल्पयेत् । यदा विषमायां तस्यां मविकल्पनाऽभिमता तदाऽमान्तरं धनं कृत्वा मर्ति कल्पयेत् । एवमधिकामादिसूत्रयुगलं सायमधिरुत्य विस्तरेण व्याख्यानम् ॥ २०॥ अथैतत्सूत्रयुगलस्य विषयमार्यया दर्शयति- अवशेषविषमभावे शेषस्यैकस्य शन्यतायां च । अवतरति सूत्रयुगलकमिदमन्यत्र तु निगद्यते कर्म ॥९॥२३॥ इदं सूत्रयुगलकमवशेषविषमभावकस्य शेषस्य शून्यतायां चावतरति । अन्यत्र तु कर्म निगद्यते । यत्राययोरुभयोर्वहूनां वाऽभावः समत्वं वा तत्र कर्मोच्यत इत्यर्थः । सूत्रायुगल कमित्या स्वार्थ कमत्ययः ॥ २१ ॥ तदिदं कर्माऽऽययाऽऽह- शेषाभावे हारावपवर्त्यामू परस्परं हत्वा । अपवर्तकेन गुणयेच्छेषसमत्वे तु शेषमपि युज्यात् ।।१०॥२२॥ अस्पास्तूदाहरणमेव व्याख्यानम् ॥ २२ ॥ इवि श्रीदेवराजविरचिते कुट्टाकारशिरोमणी साप्रप- रिच्छेदः प्रथमः ॥ १ ॥ T- ON अथ द्वितीयः परिच्छेदः। उद्देशकः-धाधैर्दशकपर्यन्तों राशिः शून्यशेषकः। तं राशिमभिधेहि द्राक् तान्त्रिकग्रामणीर्मम ॥ २५ ॥२६॥ युनान । १.
कुट्टाकारांशरोमणिः। .. अत्र द्व्यादिषु नवसु च्छेदेषु द्विसंख्याकस्यास्य त्रिसंख्यस्य द्वितीयस्य चापवर्तकाभावादनयोः संवर्गः षट्(६)संख्यः । अयमादितो द्वयोश्छेद- योनिरग्रा भाज्यराशिः । अथास्य च चतुःसंख्याकस्य तृतीयस्य चापवर्तको द्वि( २ )संख्यः । अनेनापवर्तितयोः क्रमात् त्रिद्विसंख्याकया( ३, २) रेतयोर्वधोऽपि षट् (६)संख्यः । अयमपवर्तकेन द्विकेन गुणितः सूर्य(१२) संख्यः । अयमादितस्त्रयाणां निर या भाज्यः । अथास्य च पञ्चसंख्यस्य चतुर्थस्य चापवर्तकाभावादनयोतिः षष्टि (६०)संख्यः । अयं चतुणों निरम्रो भाज्यः । अथास्य च षट्संख्यस्य पञ्चमस्य चापवर्तकः षट्(६) संख्यः अनेनापवर्तितयाः क्रमाद्दर्शक(१०-१)संख्ययोरेतयारभ्यासी दशक( १० ) संख्यः । अयमपवर्तकेन पट्कन गुणितः षष्टि(६०) संख्यः । अयमादितः पश्चानां छेदानां निरयो भाज्यराशिः। अथास्य च सप्तसंख्यस्य षष्ठस्य चापवर्तकाभावादनयविधी नखवद(४२०)संख्यः । अयं षण्णां निरा भाज्यः । अथास्य चाष्ट संख्यस्य सप्तमस्य चापवर्तक- श्चतुः( ४ )संख्यः । अनेनापवर्तिनयोरेतयोरभ्यासा दिङ्नेत्र ( २१० ). संख्यः । अयमपवर्तकंन चतुष्केण गुणितः खाब्धिगज(८४०)संख्यः । अयं सप्तानां भेदानां निरयो भाज्यः । अथास्य च नवसंख्याकस्य चाष्टमस्य चापवर्तकस्त्रि(३) संख्यः । अनेनापवर्तितयोरेनयोः संवर्गश्च खाब्धिगजसंख्यः (८४० ) । अयमपवर्तकेन त्रिकंण गुणितो नखतत्त्व(२५२० )संख्यः । अयमष्टानां हाराणां निरयो भाज्यराशिः । अथास्य च दशसंख्यस्य नवमस्य भागहारस्य चापवर्तको दशक( १०)संख्यः । अनेनापवर्तितयारेतयार- भ्यासः पक्षतत्त्व(२.५२)संख्यः । अयमपवर्तकेन दशकेन निहतः पूर्वव- लखतत्त्व(२५२०)संख्यः । अयं द्विपूर्वाणां दशपर्यन्तानां नवानां भाग- हाराणां निरग्रः प्रत्यासम्नो भाज्यराशिः ॥ २३ ॥ अथ शेषसाम्यविषय उद्देशक:- व्यायैर्दशकपर्यन्तैनवाभि जकैहतः। यो भवेद्राशिरेकाग्रस्तमाचक्ष्वाविलम्बितम् ॥ २४ ॥ अब पूर्ववदानीतो नखतत्त्व( २५२० )संख्यो भाज्यराशिरेकेनामेण युक्तः (२५२१)मत्यासन्नो भाज्यराशिः । एवमनेन न्यायेन सूर्यन्दुजीव- भौमशनैश्वराणां बुध गुशीनोच्चयोश्चन्द्रोच्चपातयोश्च द्वियुगाद्यानयनं कर्त 3 १८ महालक्ष्मीमुक्तावलीमहितः- व्यम् । उदाहरणं तु ग्रन्थविस्तरभयान्न प्रदर्श्यते । अत्र च-पूर्वण पूर्वेण गतेन युक्तं स्थानं विनाऽन्त्यं प्रवदन्ति संख्याः । इच्छाविकल्पैः कमशोऽभिनीय नीचे निवृत्तिः पुनरन्यनीतिः( २३ ) ॥ वृहत्संहितायामध्याये( ७६ ) श्लोकः ( २२ ) वराहमिहिरः । इत्याचार्योक्तमकारणैषामेकयुगविषयाः प्रभा नव( ९)। वियुगविषयाः पति( ३६ )। त्रियुगविषयाश्चतुरशीतिः (८४) । चतुर्युगविषया रसनेत्रचन्द्र( १२६ )संख्याः । पञ्चायुगविषयाच तापन्तः ( १२६ )। षड्युगविषयाश्चतुरशीतिः ( ८४ ) । सप्तयुगविषयाः पत्रिंशत् ( ३६ ) । अष्टयुगविषया नव ( ९)। नवयुगविषयः प्रश्न एकः (१)। एवं संभ्य रुवाण (५११)संख्याः प्रश्नाः संभवन्ति । अत्र रविचन्द्रभौमजीवशनैश्चराणां बुधकाव्यशीघोच्चयोश्चन्द्रोच्चपातयोश्च युगैः शून्यायो राशिर्वसुद्वयष्टादिरूपाडूसप्तादितिथि( १५७७९१७८२८ )- संख्याः। आर्यभटीये तु व्योमशन्यशरादीन्दुरन्धाट्यदिशरेन्दु(१५७७९, ७५०८)संख्यः । एवं सामकुट्टाकारो दर्शितः ॥ २४ ॥ इत्यषिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तबल्लभ इति पसिद्धापर- नानः श्रीवरदराजाचार्यस्य तनयेन देवराजेन विरचितायां कुट्टाकारशिरोमणिटीकायां महालक्ष्मीमुक्तावल्यां सायपरिच्छेदः प्रथमः ॥ १ ॥ अथ निरमपरिच्छेदो द्वितीयो व्याख्यायते । तत्रादौ निरयविषय मनमार्यया प्रकटयति- हारकभाज्यक्षेपैरुद्दिष्टैर्गणफले य आख्याति । स निरमविदां श्रेष्ठो देवज्ञानां महीतले भवति ॥ १॥ य उद्दिष्टभागहारकभाज्यक्षेपैर्गुणफले आख्याति स महीतले निरनविदा देवज्ञानां मध्ये श्रेष्ठो भवति । तत्रेदं प्रश्नशरीरम्--उद्दिष्टोऽयं भाज्यराशिः केन गुणकारेण गणितः, उद्दिष्टेनानेन संख्यान्तरेण वियुक्तः संयुक्तो वा उद्दिष्टेनानेन भागहारण विभक्तः शुध्येत्तादृशः को वाऽत्र गुणकारः किं. पा फलमिति । एतच्चोचरत्रोदाहरणेन व्यक्ती भविष्यति ॥ १ ॥ अथ तत्पश्नभङ्गायाऽऽर्यामाह- कुट्टक सूत्रद्वितयं संयोज्य निरग्रकुट्टपद्धत्याम् । तत्रत्यैः कर्मचर्विद्वान् विदधीत गुणकफले ॥ २ ॥ १९. मुगाका । १ स. गुणाका । - कुढाकाराशरोमाणः। १९ अत्र विदच्छम्देन तान्त्रिक उच्यते । कुट्टकसूत्रहितयं पूर्वलिखित कुट्टाकारयुग्मविषयमार्यभटीपस्थमधिकामाचार्यासूत्रयुगलं निरमकुट्टपडत्या निरमकुट्टाकारमार्गे संयोज्य सम्पग्योजयित्वा तवत्यैनिरकुट्टाकारग- णितसंबन्धिभिः कर्मचयैः कर्मसमूहैर्गुणकफले गुणकश्च फलं च गुणकफले ते अत्र विदधीत कुर्यात् । अब यद्यपि सर्व सूत्रद्वयं नोपयुज्यते तथापि पार्या- तदनादृत्य कुट्टकसूत्रादितयमित्युक्तमित्यवगन्तव्यम् ॥ २ ॥ अधाधिकामादिसूत्र पस्तुतपश्नभङ्गार्थं निरयमधिकृत्य व्याक्रियते । अ- धिकाग्रभागहारम् । अत्रापशब्देन संख्याऽभिधीयते । भागहारशन्देन चात्र भागहारभाज्यराश्योः परस्परं भाजकत्वातौ दावपि गृह्यते । अत्र ग्रहैकत्वर- देकत्वमविवक्षितम् । अतोऽयमर्थः संपन्नः । अधिकसंख्याको हरभाज्यराशी इति । उनाग्रभागहारेण च्छिन्धात् । अवाप्यग्रशन्दः संख्यावचनः । ऊनसं. रुपेन भागहारेण विभजेत् । अपवर्तकेन संभवे सत्यपवर्तयेदित्यर्थः । अथा कथमपवर्तको ज्ञायते तदानपनमन्यत्रोक्तम्- विभजेत हरविभाज्यौ परस्परं यावदेति संशद्धिम् । एकस्थयोस्तदपरश्लेदो हरभाज्ययोर्भवति ॥ इति । अत्र च्छेदशब्दोऽपवर्तकपर्यायः । इह येनापवर्तकेन हरमाज्यावपवयेते तेन ऋणात्मकस्य वा धनात्मकस्य वा क्षेपस्यापर्वर्तनमप्यर्थसिद्धमिति न कण्डो- तम् । यत्र हरभाज्ययोरपपर्तनमप्यस्ति क्षेपस्य तु ननास्ति तदाहरणं खिलं विद्यात् । उक्तं च- "भाज्यहरपक्षेपान् सदृशच्छेदेन संभवे छिन्यात् । स चेद्विभाज्यहरयोश्छेदो न क्षेपकस्य च खिलं तत् ॥ इति । एवमुदाहरणस्याऽऽदो सम्पाखिलत्वं विज्ञायापवर्तनस्य संभषे सति हर- भाज्यक्षेपानपवर्तयेत् । अत्रेदमनुसंधेयम् । अपवर्तनेऽपनपवर्तनेऽपि भाज्ये भाजकादूनेऽधिकेऽप्यविशेषेण सर्वदा भाज्यराशेरधो भाजकराशि विन्प- सेदिति । शेषपरस्परभक्तं मतिगुणमित्येतद्वयमपि भाज्ये भागहारादने सति पूर्ववत् । आधिके तु विषमायां फलपटो सत्यामस्य मतिः कल्प्या । अत्रापि मतिकल्पनायामेवमालापः । अयमुपरिराशि: केन गुणित उद्दिष्टेन संख्याविशे- पेण युक्तो वियुक्तो वाऽनेन स्वाधोराशिना शुध्यतीति । अमान्तरे क्षिप्तम् । अवाप्यमशन्दः संख्यावचनः । अन्तरशन्दो विशेषवचन: । (न] विवरवचनः ।
२० महालक्ष्मीमुक्तावलीसहितः- अत्र मति गणितं प्रकरणं तदुद्दिष्टे धनात्मके रूपात्मके संख्याविशेष क्षितं का. यम् । एतदुपलक्षणम् । तदृणक्षेपेण शोध्यमित्यस्य(ः) । अधउपरिगणितम- न्त्ययुगिति वल्ल्युपसंहारः पूर्ववत् । ऊनाग्रच्छेदभाजिते शेषम् । अत्राप्पयश- देन संख्योच्यते । छेदशन्देन पूर्ववद् हरभाज्यावभिधीयते । शेषस्य चैकत्व- मविवक्षितम् । संभवे सत्यूनसंख्याभ्यामपवर्तिताभ्यां हरभाज्याभ्यां क्रमादुप- यधोराश्योविभक्तयोः शेषे कुट्टाकारफले भवतः । अन्धिष्यमाणः प्रत्यास- न्नो गुणकारस्तत्र फलं च लब्धं भवतीत्यर्थः । अत्र भाज्ये भागहारादपिके सति त्वपवार्तताभ्यां हरभाज्याभ्यां कमादधउपरिराश्योविभक्तयोः शेषे गुणफले भवतः । अधिकारच्छेदगुणमित्याद्यत्र नोपयुज्यते ॥ २ ॥ अत्रायं संग्रहश्लोकः- कुटाकारे निरग्रे समधिकवपुषि च्छेदतो भाज्यराशी लब्धे यग्मे मतिः स्यादपरि फलमधो वर्धकः स्याद्विहीने । युग्मे लब्धे मतिः स्यादपरि तु गुणकोऽधः फलं स्यादृढेन च्छेदेनाऽऽप्ते गणेऽस्मिन्गुणक इह फले भाज्यभक्ते फलं स्यात् ॥३॥ अस्यार्थ:-निरग्रकुट्टाकारे भाज्यराशौ भागहाराधिके सति तत्र शेष- परस्परभक्तमिति लब्धानां फलानां पङ्गो विषमायां सत्यां मतिः कल्प्या । तदा तत्र वल्ल्युपसंहार कृतेऽधोरागिर्गुणः । उपरिराशिः फलम् । अथ भाज्ये छेदादूने सति तत्र फलपङ्कयां समायां मतिः कल्प्या । तदोपरिराशिर्गुणः । अधोराशिः फलम् । अत्रोभयत्र सति संभवे गुणेऽपवर्तितेन हारेण विभक्ते शेषो गुणः फले चापवर्तितेन भाज्येन विभके शेषं फलं भवतीति । इदं सर्व- मुद्दाहरणेन व्यक्ती भविष्यनि । अबदमनुसंधेयम् । भाज्ये भागहारादूनेऽधिके च यत्र शेषपरस्परभक्तमित्यत्र फलपङक्तिरेका भवति तदा शेषयोश्चैकः अध्यति । भाज्ये भागहाराने सत्यव शेषपरस्परभक्तमित्या फलपङ्क्ती द्वे भवतः । तदा शेषयोरप्येकः शुध्यति । तत्रोभयत्राऽऽदावेव प्रत्यासनां मति कल्पयित्वा तया भाज्यं गुणयित्वा स्वाधःस्थन च्छदेन विभजेत् । लन्ध फलं भवति । मतिरव गुणः ॥ ३॥ १ ख. बद्धकः।
कुट्टाकारशिरोमाणिः । २९ अथ खिलविषय उदाहियते- उद्देशक:-खाध्यमयो हताः केन युताः पञ्चभिराहताः। पूर्णार्थमार्गणैः शुद्धाः शीघ्रं गुणफले वद ॥ ४ ॥ अत्र भाज्यः खवेदराम( ३४० संख्यः । छेदोऽत्र लभूतशर- ( ५५० )संख्यः । धनक्षेपः शर( ५ )संख्यः । एषु भाज्यमाणकयोः परस्परभक्तयोः शेषो दिक्(१०)संख्यः । अयमनयोहरभाज्ययोरपवर्तकः । क्षेप- स्त्वनेन भक्तो न शुध्यति । तस्माददिष्टोदाहरणं खिलमिति वक्तव्यम् ॥४॥ अब भाज्ये भागहाराद्ने तत्रैवानपवर्तनविषय उदाहियते-उद्देशक:- चन्द्रेशाः (१११) केन गुणिता रूप(१)युक्ता द्विखामिभिः(३०२) भक्ताः शद्धा गुणफले ब्रूहि तूर्ण निरगवित् ॥ ५ ॥ अत्रापवर्तनं नास्ति । भाग्योऽपि भाजकाद्धीनः । अतस्तत्रोक्तप्रक्रिय- याऽऽनीतः प्रन्यासन्नो गुणः गधृति( १८५ )संख्यः । तवाऽऽगतं फलं गजतर्क( ६८ )संख्यम् । अथैवमागत पारनयोर्गुणफलयोः क्रमादेकदिव्या- दिसंख्यागुणिना हरभाज्यो क्षिप्त्या गुणफलसहसमानयेत् । तद्यथा-पूर्वमागवे शरधृति ( १८५ )संख्य गुणके रूपगुणे द्विखामि( ३०२)संख्ये भाजके क्षिप्ते मुनिव सुकृत ( ४८७ )संख्याको गुणो भवति । एवं पूर्वमागते गजतर्क( ६८ )संख्ये फले रूपगुणे चन्दरुद्र ( १११ )संख्ये भाज्ये दत्ते नवात्यष्टि( १७९ )संख्यमन्यत्फलं भवति । एवमन्यान्यपि गुणफला- न्यानयत् ॥ ५ ॥ अथाव क्षेपमृणं परिकल्प्योदाहियते- उद्देशकः-चन्द्रेशाः केन गुणिता रूपहीना द्विखाग्निभिः । भक्ताः शुद्धा गुणफल ब्रूहि तूर्ण निरगवित् ॥ ६॥ अत्रोक्तबहानीनो गुणा मुनिरुद्र ( ११७ ) संख्यः । फलं रामवेद- ( ४३ )संख्यम् । अधानयोगुणफलपोः कमादेकद्विव्यादीष्टसंख्यागुणिती हरभाज्यौ क्षिप्त्वा गुणफलसहरूामानयेन् ।॥ ६ ॥ अथावापवर्तनविषय उदाह्रियते-उद्देशक:- खाध्यग्नयो ( ३४० ) हताः केन युता दशभि(१०)राहताः । पूर्णार्थमार्गणैः( ५५० ) शुद्धाः शीघं गुणफले वदा॥७॥ अत्र भाज्यभाजकयोः परस्परभक्तयोः शेषो दिक्( १० संख्यः ।
२२ महालक्ष्मीमुक्तावलीसहितः- अपमत्रापवर्तकः । अनेन हरभाज्यक्षेपानपवयोक्तबदानीतो गुणः मरुति(२१)- संख्पः ।। फलं त्रयोदशसंख्यम् । अथानयोः क्रमादिष्टसंख्यागणितावपवर्तितो हरभाज्यो क्षिप्त्वा गुणफल शतमानयेत् ।। ७ ।। अथान क्षेपमृणं कल्पयित्वोदाहियते- उद्देशक:-खाध्यनयो हताः केन हीना दशभिराहताः। पूर्णार्यभार्गणैः शुद्धाः शीघ्रं गुणफले वद ॥ ८ ॥ अत्रोक्तवदानीतो गुणो वेदानि( ३४ )संख्यः । फलं प्रकृतिसंख्यम् (२१)। अथानयोः क्रमादिष्ट गुणावपवर्तितौ हरभाज्यौ दत्त्वा गुणफल- शतमानयत् ॥ ८॥ अथ भाज्ये भाजकादधिके तत्राप्यनपवर्तनविषय उदाहियते- उद्देशक:-द्विखामयो ३०२हताः केन रूपयुक्ता हरेन्दुभिः (१११)। भक्ताः शुद्धा गुणफले ब्रूहि तूर्ण निरपवित् ॥ ९ ॥ अवोक्तप्रक्रिययाऽऽनीतो गुणो रामवेदसंख्यः( ४३ ) । फलं मुनिरुद- ( ११७ )संख्यम् । अथैतयोः क्रमादिष्टगुणौ हरभाज्यौ क्षिप्त्वा गुणफल- शतमानपेत् ॥ ९॥ अथाव क्षेपमृणं परिकल्प्योदाहियते- उद्देशक:-द्विखामयो हताः केन रूपहीना हरेन्दुभिः । भक्ताः शुद्धा गुणफले ब्रूहि तूर्ण निरगवित् ॥ १० ॥ अत्राऽऽगतो गुणो गजतर्क( ६८ )संख्यः। फलं शरधृति( १८५). संख्यम् । अथानयोः क्रमादिष्टगुणी हरभाज्यौ क्षिप्त्वा गुणफलसहसमान- येत् ॥ १०॥ अथावापवर्तनविषय उदाहियते- उद्देशकः-वार्थेषवो(५५०)हताः केन युता दशभि(१०)राहताः । खवेदपुष्करैः(३४०) शुद्धाः शीघ्र गुणफले वद ॥११॥ अत्राऽऽगतो गुणः प्रकृति( २१ )संख्यः । फलं कृतामि( ३४ )सं- रूपम् । अथानयोः क्रमादिष्टगुणावपवर्तितौ हरभाज्यौ क्षिप्त्वा गुणफलसहला- मानयेत् ॥ १० ॥ अथात्र क्षेपमृणं कल्पयित्वोदाहियते- - कुट्ठाकाराशरोमाणः। उद्देशकः-खार्थेपयो हताः केन हीना दशभिराहताः। खवेदपुष्करैः शुद्धाः शीघ्र गुणफले वद ॥ १२ ॥ अवाऽऽगतो गुणो रामभू( १३ )संख्यः । फलं परुति( २१ )- संख्यम् । अथानयोः कमादिष्टगुणापतिती हरभाज्यौ दत्त्वा गुणफलतहसमा- नयेत् ॥ १२॥ अथात्र वैराशिकमार्गः पदयते- उद्देशकः- खार्थेषवो हताः केन हीना दशभिराहताः। खवेदपुष्करैः शद्धाः शीघ्रं गुणफले वद ॥ १३ ॥ अत्रापवर्तको दशक( १० )संख्यः । अनेनापतितो भाज्यराशिः पश्चपाश( ५५ )। संख्यः । भाजकश्चतुस्त्रिंश( ३४ )त्संख्यः । ऋणक्षेपः पञ्च( ५)संख्यः । एभिरधिकाग्रभागहारमिन्येवमादिनाऽऽनीतो गुण एक- विंश(३१)संख्यः । फलं पञ्चाशा (५०) संख्यम् । एते गुणफले वैराशिके- नापि सिध्यतः । तद्यथा-खार्थषवो हताः केन हीना दशभिराहताः। खवे- दपुष्करैः शुद्धा इत्यत्रोदाहरणेऽनन्तरोक्तोदाहरणे चापवयं दृढीकृतौ हर- भाज्यौ समानौ ऋणरूपावपवर्त्य दृढीलतौ क्षेपौ तु कमादनयो रूप भूत५ संख्यौ । अत्रोदाहरणद्वयेऽपि दृढयोहरभाज्ययोम्याभावात्रैराशिकम- वतरति । यदि रूप ( १ )संख्येन दृढन क्षयक्षेपेण क्रमाद् दिख(कु) १२. मरुति २१ संख्ये गुण फल लब्धे पश्वसंख्येन ५ दृढनानेन क्षयक्षेपेण कियतीत्येवं त्रैराशिकन लब्धो गुणः पञ्चषष्टि( ६५ )संख्यः। फलं पश्चोत्तरशत( १०५)संख्यम् । एतयोः क्रमादृढाभ्यां चतुस्त्रिंशत् (३४)- पश्चपश्चाश ( ५५)संख्याभ्यां विभक्तयोः शिष्टे गुणफले एकत्रिंशत्(३१) पश्चपश्चाश( ५० )संख्थे । एवमत्र त्रैराशिकेनाऽऽनीतयोगुणफलयोरधिका- गादिसूबानीतयोश्च वैषम्यं नास्ति । एवं धनक्षेपविषयेऽनपवर्तनविषये च वैराशिकसराणिरुन्नेया । अदमनुसंधेयम् । अयं त्रैराशिकमार्गो भाज्ये माग- हारादूनेअधिके वाऽपवर्तनविषयेऽनपवर्तनविषये वा सर्वदा समान इति । एवं निराविषये तावदिदमधिकारादिसूत्रयुग प्रतिपत्तॄणां बुद्धिक्षोभो भा भूदि- त्येकयैष रीत्या व्याकृतम् । अथैतदेवात्र किंचिदिकल्प्य व्याख्यायते । पूर्व १ ख. “माछोक ( १३) ।
महालक्ष्मीमुक्तावलासहितः- . यत्रोदाहरणे भाज्यो भागहारादूनसंख्यस्तत्र 'शेषपरस्परभक्तं मति गुणमयान्तर- . क्षिप्तम्' इत्यत्र फलपङ्कयां समायां सत्यां मतिः कल्प्या। मतिगुणितोपरिराशि- रुद्दिष्टक्षेपण च यथास्वसंस्कृतः स्वाधीराशिना विभजनीय इत्युक्तम् । इदानीं तत्फलपसन्यां विषमायां मतिः कल्पनीया। मतिगुणितोऽल्पोऽधोराशिरुद्दिष्टेन क्षेपेणापि वाम स्वसंस्कृतस्वोपरिराशिना विभजनीय इत्युच्यने । यत्र चोदाह- . रणे भाज्या भागहारादधिकस्तत्र फलपकन्यां विषमायां मतिः कल्पयितव्या । मतिनिहतोऽल्प उपरिराशिरुद्दिष्टेन क्षेपेण च यथास्वसंस्कृतः स्वाधोराशिना विभाज्य इति पूर्वमुक्तम् । इदानीं त्वत्र फलपतौ समायां मतिः कल्प्या । मतिगुणितोऽल्पोऽधोराशिरुद्दिष्टेन क्षेपेण च वामं संस्कृतः स्वोयराशिना हरणीय इत्युच्यते । अन्यत्सर्वं पूर्ववत् । एवं कृतऽपि पूर्वपदार्शतमखिलमुदा- हरणजातं प्रायशः सिध्यत्येव । एवमधिकाग्रादिमूत्रद्वयं निरग्रामधिकृत्य समा- सतो व्याख्यातम् ॥ १३ ॥ अथ संश्लिष्टकुट्टाकारास्त्रयः । तषु यत्रको भागहारस्तग्राणि च भिन्नरूपाणि भिन्नरूपा भाज्याश्चद्दिश्यन्त स प्रथम:- अत्रौद्देशक:-रुद्रा विश्वे १३सायकाः५शैलवेदाः४७ कनाभ्यस्तावर्जितास्ते क्रमण । रूपपरीशैः ११ सप्तभिः७ शीतभासा धृत्या १८भक्ताः शद्धिमाप्ता वदेस्तम् ॥ १४ ॥ अत्र पूर्ववदानीतो गुणः पञ्चसंख्यः ॥ १४ ॥ अथ यत्रैको भाज्यो भिन्नरूपा भागहारास्तदग्राणि च तादृशान्युद्दिश्यन्ते स द्वितीयः- अत्रोद्देशक:-केनाभ्यस्ता रामबाणाश्चतुर्धा ५३-५३-५३-५३ वेदै ४ रकै १२ सिवै १४ रक्षि १०२ दिग्भिः । हीना भूपैः १६ खार्णवैः ४० षट्कतकैः ६६ सेशै ११०भक्ताः शुद्धिमाता गुणः कः ॥ १५ ॥ भत्र पूर्ववदानीतो गुणो वेद( ४ )संख्यः ॥ १५॥ अथ यत्र भाज्या भागहाराश्च भिन्नात्मकास्तादृशानि तदमाणि चोदि ने सीध:-अत्रोवेशक:- कुट्टाकाराशरामाणः। २५ चन्द्रामराः३३१शरशिवा ११५मुनिरामसूर्याः १२३५ केनाऽऽहताः शिखिसुरै३३नव९भिनिवेदैः ४३ । हीना रसानिमनुभी १४३६रविभि१२गंजशः११८ शद्धाः क्रमेण वद तं गणमाशु विद्वन ॥ १६ ॥ अवत्यो गुणस्तूत्तरत्र प्रदर्शयिष्यंत ॥ १६ ॥ एषु पथमद्वितीयाः संश्लिष्ट कुट्टाकारयारकस्य योऽधिकायादिसत्र- लन्धो गुणः स सर्वेषां समान इति न तयोः किंचिदपि वक्तव्यमस्ति । अतस्तो विहाय तृतीयविषय आर्य आह- भिन्नहरभाज्यकुटुं सर्वेषां पूर्ववदगुणाः माध्याः । भाज्योऽल्पगुणहरः स्याद्धागऽन्यहरा गुणान्तरमृणाग्रम् ॥१७॥ तज्जगुणभाज्यघातः साल्पगुणः स्फुटगुणोऽस्य हरघातः। हर इह ताभ्यां परगुणहाराभ्यां गुणक उक्तवत्साध्यः ॥ १८॥ अनयोरर्थस्तूदाहरण मुखेन व्यक्ती भविष्यति । अवत्यः प्रश्नश्लोकः पू- मेव लिखितः । एतच्छ्लोके या भाज्याः । तेषां क्रमाद् भागहाराश्च त्रयः। ऋणरूपाण्यप्राणि च क्रमेण त्रीणि। एषु पथमा भाज्यश्चन्द्रामर(३३१)संख्यः। अस्य च्छेदो रसाग्निमनु(१४३६)संख्यः । अत्र ऋणायं शिखि सुर(३३३)सं- ख्यम् । एभिः पूर्ववदानीतः प्रथमा गुण स्यष्टाक्षि(२.३)संख्यः । अथ द्वि- तीयो भाज्यः शरशिव(११५) संख्यः । अस्य च्छेदो रवि(१२)संख्यः । अत्र ऋणाग्रं नव( ९ )संख्यम् । एभिः पूर्ववदानीता गुणास्त्रि(३)संख्यः । अथ तृतीयो भाज्यो मुनिरामसूर्य(१२३७)संख्यः। अस्थ हारा गजे श( ११८)संख्यः। इह ऋणाग्रं त्रिवेद(४३)संख्यम् । एभिः पूर्ववदानीतो गुणः सप्तरस(६७)संख्यः। अथ प्रथमद्वितीययो ज्यराश्योः साधारणा गुण आनीयते । प्रथमग- णस्यष्टाक्षि (२८३)संख्यः । द्वितीयगुणस्त्रि(३)संख्यः । अत्र द्वितीयगुणस्याल्प- त्वाद्भाज्येऽल्पगुणहरत्वं स्यादित्यल्पगुण उत्पाद्यमाने यश्छेदः सोऽत्र भाज्यो भवेदिति । द्वितीयगुण उत्पाद्यमाने यश्छेदः सोऽत्र भाज्यो भवेत् । स च रवि(१२)संख्यः। हाराऽन्यहरः' इत्यधिक गुण उत्पाद्यमान यश्छेदः स भाजको भवेदित्यत्राधिक प्रथमगुण उत्पाद्यमाने यश्छेदः स भाजको भवेत् । सच सामिम १४३६)में टपः । गुआमला मृणायामति प्रथयो २१ महालक्ष्मी मुक्तावलीसहितः- गुणयोर्विवरमृणक्षेपो भवेत् । स च खाष्टाक्षि(२८०)संख्यः । एवमागतै ज्य- भाजकक्षेपैनिरपकुट्टाकारप्रक्रिपया यो गुण उत्पादितो भवति स तज्जगुणः । स चाव त्रिमनु(१४३)संख्यः। तस्य पूर्वपदर्शितभाज्यस्य च रवि(१२)संख्यस्य संवर्गो नृपात्यष्टि(१७१६)संख्यः । एषोऽत्र तज्जगुणभाज्यघातः । असौ 'सा- रूपगुणः' इत्यत्रत्येन त्रिसंख्येनाल्पेन गुणेन युक्तश्छिद्ररूपमुनीन्दु(१७१९)संख्यः। एष प्रथमद्वितीययोर्माज्यराश्योः साधारणो गुण:। अयमेवात्र स्फुटगुण उच्यते । अथ तृतीयभाज्यस्य पूर्वभाज्ययोश्चानन्तरोक्तमकारेण साधारण गुणे साध्ये स्फु- टगुण एव गुणः । अस्य हर इति स्फुटगुणस्य प्रथमच्छेदयोः संवर्गच्छेदो भ- वेदित्यत्र प्रथमच्छेदस्य रवि(१२)संख्यस्य रसाग्निमनु(१४३६)संख्यस्य द्विती- यच्छेदस्य च घातो रव्यत्यष्टि(१७२३२)संख्यः । असौ छेदः । अथाभ्यां गुण च्छेदाभ्यां चेह ताभ्यां परगुणहाराभ्यां गुणक उक्तवत्साध्य इति त्रयाणां भाज्यानां साधारणो गुणः साध्यते । अत्र स्फुटगुणात्तृतीयो गुणोऽल्पः । अतोऽत्र गजेश(११८)संख्यः। तृतीयच्छेदो भाज्यः। स्फुटगुणस्य रदद्व्यत्यष्टि- (१७२३२)संख्यश्छेदो भाजकः । स्फुटगुणस्य च्छिद्ररूपमुनीन्दु(१७१९) संख्यस्य सप्तरस(६७)संख्यस्य तृतीयगुणस्य च विशेषा व्यर्थनृप(१६५२) संख्यः । एष क्षयक्षेपः । एभिर्भाज्यभाजकक्षयक्षेपनिरयकप्रकारेणाऽऽनीतस्तज- गुणः शक(१४)संख्यः । अस्य च मजेश(११८)संख्यस्य भाजकस्य च वधो व्यर्थाष्टि(१६५२)संख्यः। अयमत्राल्पेन सप्तरस(६७)संख्येन तृतीयगुणेन युतः पूर्ववच्छिद्ररूपमुनीन्दु(१७१९)संख्यः । अयमत्र स्फुटगुणः । अयमेवात्र त्रयाणां भाज्यराशीनां साधारणो गुणः । एवमेवंविधप्रश्भेष गुणाः साध्याः ॥ १७॥ १८ ॥ अथ पूर्वोकनिरग्रन्यायेन चतुर्युगसंबन्धिनोऽधिमासावमदिवसग्रहभगणा- दीभाज्यराशीन्कल्पयित्वा चतुर्युगसंबन्धिनः सूर्यमासचान्द्रवासरभूमिसावनदि- वसादीन्भागहारांश्च परिकल्प्याधिकावमभागादिशेषानपि क्षयक्षेपान्परिकल्प्य तत्र कुट्टाकारफलमन्यान्कॉश्चन विशेषानपि दर्शयिष्यन्नादावधिमासशे- पावलम्बनेन प्रश्नवयमार्यया प्रकटयति- अधिकाग्रनिधिमासान्रविमासान्दिनगणांश्च यो ब्रूते । सलिलनिधिमेखलायां स भवति सांवत्सरामणीभूमा ॥१९॥ १ ख. "पादधि ।
- कुट्टाकारशिरोमाणः। स्पष्टार्थेयमार्या ॥ १९॥ अथैतत्पस्तुतपश्नत्रयभङ्गार्थमात्रियमाह- सिद्धहृतमधिक शेष द्वेधा विन्यस्य खाद्रिषट्कनखैः । नवखेषुव्यदिरसैहत्वा नन्दाष्टवह्नितर्करसैः ॥ २० ॥ खचतुष्काङ्गकुपक्षैः क्रमेण विभजेत्फले पृथग्भवतः । शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति ॥२१ ।। तद्योगं युगदिवसैहत्वा विभजेत शीतकरमासैः । लब्धं फलं सरूपं शेषे सति तद्भवेदिवसवृन्दम् ॥ २२ ।। चतुर्विंशति( २४ भक्तमुद्दिष्टमधिकमास शेषमुपर्यधोभावेन द्विधा स्थापयित्वा तदुपर्यधोराशी खादिषट्कनखैः ( २०६७० ) नवखेषुव्यदि- रसैश्च ( ६७२५०९ ) क्रमादत्वा नन्दाष्टवह्नितकरसैः (६६३८९) खचतुष्काङ्गकुपक्षैश्च ( २१६०००० ) सति संभवे क्रमेण विभजेत् । अत्र लब्धाभ्यां प्रयोजनं नास्ति । इह शेषो कमाद्गताधिमासा गतरविमासाश्च भवन्ति । अत्र गताधिमासवृन्दं फले सति रविमासचयः कुट्टाकाराख्यो गुणः । अथ गताधिमासगतरविमासयोगं वसुव्यष्टादिरूपाङ्क-सप्तादितिथि- ( १५७७९ १७८२८ )संख्यैश्चतुर्युगदिनैहत्वा रसत्रिगुणरामाग्निवेदपुष्करसा- यकैः ( ५३४३३३३६ ) चतुर्युगचन्द्रमासैविभजेत् । अत्र फलं लब्धं फलं चान्द्रमासशेषे विद्यमाने तस्य भागहारार्धादूनाधिकमनपेक्ष्य सर्वदा रूप( 1 ). युक्त कार्यम् । तद्दीन्तावधिकानां गतानां चान्द्राणां मासानामनुपातसिद्धः सावनदिनसमूहः स्यात् ॥ २० ॥ २१ ॥ २२ ॥ उद्देशकः-सूर्याद्रिनन्दविधुराममहीधरसंख्यो दृष्टो मयाऽत्र मतिमनधिमासशेषः । अस्मादिमानधिकमासचयान्विवस्व- न्मासांश्च तद्युतिभवानि वदेरहानि ॥ २३ ॥ अत्राधिमासशेषोऽयं ( ७३१९७१२ )। अयं सिद्ध( २४ )हतः सा- एतानवेदामाग्नि( ३०४९८८ )संख्यः । अयमुपर्यधोभावेन ( ३०४९- ८८ । ३०४९८८ ) द्विधा विन्यस्तः । अत्रोपरिराशिः खादिषट्कनखेः (२०६७०) गुणितः खरसातिधृतिदिक्कतखाग्निषट(६३०४ १० १९६०) १ ख. भ्यां फलाभ्यां प्र।
महालक्ष्मीमुक्तावलीसहितः-
संख्यः। अस्मिन्नन्दाष्टवह्नितकरसैः ( ६६३८९ ) विभक्ते शेषः सप्ताष्टा-
टि( १६८७ )संख्यः । अयं गताधिमास चयः । अथाधोराशिनवखेषुव्य-
हिरसैः ( ६७२५०९. ) गुणितः पक्षाङ्कगष्टाब्धिमुनिभूगिरिदिगिषुनख(२०५.
१०७१७४८९२ )संख्यः । अस्मि-खचतुष्काङ्क(ग )कुपक्षैः ( २१६-
० ० ) विभक्ते शेषो व्यङ्काष्टाब्धीषु( ५४८९२ )संख्यः । अयं गत-
रविमासनिवहः । अथ गताधिमासगनरविमासयोगो नवाद्रीषुरसेषु(५६५७९)-
संख्यः । अयं गतचान्द्रमाससम्हः । एष चतुर्युगभूमिसावनदिनैगुणितः सूर्या-
न्धिखाङ्कादिरविवादितारागष्ट( ८९२७७० १२७९ ० ४ १२ )संख्यः ।
अस्मिन्चतुर्युगचान्द्रमासौर्वभक्त लब्धं रुद्राष्टाभ्रायष्टि १६७०८११ संख्यम् ।
भत्र शेषोऽष्टितानवेदाग्निव्यद्रि७२३४९१६संख्यः। अब शेषोऽस्तीति लन्धं
रूपयुक्तं सूर्याष्टखादयष्टि १६७०८१२ संख्यम् । एतद्गतानां दर्शान्तावधिकानां
चान्द्राणां मासानां त्रैराशिकसिद्धं भसावनदिनवृन्दं भवति ॥ २३ ॥
अथाऽऽर्यया क्षयदिन शेषावलम्बनेन कांश्चित्प्रश्नान् स्फुटयति-
अवमानादिष्टदिनं विनेष्टदिवमैग्रहांस्तग्राणि ।
अधिमामानपि यातान्यो वक्ति म एव दैवज्ञः ॥२४॥
अत्र चत्वारः प्रश्नाः। एतेष्ववमायादिष्टदिनं यो वक्ति स एव दैवज्ञ इति प्रथमः।
अवेष्टदिनमिति जात्येकवचनम् । अवमदिन शेषादानीतैरिष्टदिवसङ्ग्रहास्तच्छेषग-
वाधिकमासाश्च विज्ञेयाः । अतोऽवमायाज्ज्ञातेरिष्टदिवसैविनाऽवमायादेव ग्रहान्
यो वदति स एव दैवज्ञ इति द्वितीयः । अत्र ग्रहगन्देन भगणाद्या वाञ्छिता-
न्ताः सचन्द्रोच्चपाता बधशुकशीघोच्चमहिना मध्यग्रहा उच्यन्ते । अथावमा-
यादागतैरिष्टदिवसैविनाऽवमायादेव ग्रहशेषान् यो वक्ति स एव दैवज्ञ
इति तृतीयः । अथावमायावगरिष्टदिवसैविनाऽवमायादेव यातानधिमासान्
यो वक्ति स एव दैवज्ञ इति चतुर्थः । अत्र प्रश्नचतुष्टयेऽपि देवज्ञशन्देन कुट्टा-
कारज्ञ उच्यते । एवमुत्तरत्रापि द्रष्टव्यम् ॥ २४ ॥
अथैषां प्रश्नानां भङ्गार्थमायर्यापञ्चकमाह-
अवमानं वदहृतं चन्द्राग्निगुणेषुनन्दनागघ्नम् ।
रामरसेपुखपर्वतनेत्राङ्गहृतं गतावमं शेषम् ॥ २५ ॥
कुट्टाकारशिरोमाणः।
वेदहृतं क्षयशेष मुनिषगुणकृतिविलोचनाद्रिशरैः ।
निहतं नखाभ्रखेषुस्वराम्बराकाशवेदसंभक्तम् ॥ २६ ॥
शेष गतावमोनं तद्विद्यादिष्टदिवसमंघातम् ।
गतमवमं कुदिनहृतं क्षयाग्रयुक्तं भचक्रसंगुणितम् ॥ २७ ॥
कुदिनहतावमभक्तं फलं भचकादिको भवति खेटः ।
शेषं युगावमहृतं तच्छेषं मंभवेत्फलं लब्धम् ॥ २८ ॥
वर्णसुरेभावगुणैर्यातान्यवमानि ताडयित्वाऽथ ।
गुणषट्पञ्चखशैलाद्विरसैलब्धा गताधिमासाः स्युः ॥ २९ ॥
उद्दिष्टमवमशेषं वेद( ४ )हतं ततश्चन्द्राग्निगुणेषुनन्दनागैः (८९५३३१)
हतं रामरसेषुखपर्वतनेत्राङ्गैः ( ६२७०५६३ ) हतं कार्यम् । अत्र शेष
गतावमदिनं भवति । एतत्फलं भवति । अथोद्दिष्टमवमाग्रं वेद( ४ )हतं ततो
मुनिष गुणकतिविलोचनाद्रिशरैः ( ५७२२०३६७ ) निहतं नखानखेषु-
स्वराम्बराकाशवदैः ( ४००७५० ०२०) संभक्त कार्यम् । अत्र शेषं गत-
चान्द्रदिन भवति । कुट्टाकाराख्यो गुणोऽप्येतदेव । एतद्गतावमदिनोनं कार्यम् ।
अत्र यच्छेषं तदिष्टदिवससंचयं जानीयात् । अथातीतमवमार्दनं युगभूमिसावन-
गुणितं तत उद्दिष्टोनावमदिन शेषेण युक्तं जिज्ञासितस्य ग्रहस्य युगभगणैः
संगुणितं युगभूसावनगणितैयुगावमदिनक्तं कार्यम् । अत्र लब्धं फलं भगणा-
दिजिज्ञासितो मध्यग्रहो भवति । अत्र यच्छेषं तांगावमदिनहतं कार्यम् ।
अत्र लब्धं फलं तच्छेषं भवति । एतदुक्तं भवति । मध्यग्रहो भगणरूपश्चे-
तदा लब्धं भगण शेष भवति । सराश्यन्तश्चनद्राशिशेषम् । सभागान्तश्चेत्
तद्भागशेषम् । सलिप्तान्तश्चेत्कलाशेषम् । सविकलान्तश्चेत्ताद्विकलाशे
भवतीति । अथ गतावमदिनानि वर्ण सुरेभाङ्कगुणैः ( ३९८३३४ ) हत्वा
गुणषट्पश्चखशैलतिर सैः ( ६२७०५६३ ) हरेत् । अत्र लन्धा गताधिमासा
भवन्ति । अत्र शेष भागहारार्धादधिकेऽप्यर्थोत्तरत्वेन रूपक्षेपो न कार्यः।
नन्वत्रावमाग्रेणैव गताधिमासानयन कर्तव्ये गतावमदिनस्तदानयनं प्रदर्शितम् ।
कथमेतदवोच्यते-अवमायादेवाऽऽनीतैर्गतैरवमैंर्गताधिमासेष्वानीतेष्वपि पारम्पर्ये-
णावमायादेव गताधिमासानयनमित्यदोषः ॥२५॥२६॥२७॥२८॥२९॥
महालक्ष्मीमुक्तावलासहितः-
उद्देशक:-पूर्णाभ्रतकनयनेषुनवार्थनाग-
रामेन्दुसंख्यमवमाग्रमतो दिनानि ।
एतविनाऽम्बरचरान्भगणादिशेपान
याताधिमासनिवहं तु वदाऽऽशु विद्वन् ॥ ३० ।।
अत्रायमवमदिनशेषः ( १३८५९५२६०० ) । अस्मादुक्तवदानी-
तान्यभीष्टदिनानि सूर्याष्टखाद्याष्टि( १६७०८१२ )संख्यानि । एभिरिष्टदि-
नैविनोद्दिष्टेनैव क्षयाग्रेणोक्तवदानीतो भगणात्मको रविमध्यो वर्णाद्रीपुरुत
(४५७४ )संख्यः । भगणशेषो वसुद्व्यङ्गान्ध्यषडीशार्थ( ५११६९४६
२८ )संख्यः । एवं राश्यन्तादयो रविमध्यास्तत्तच्छेषाश्चन्द्रादपस्तत्तच्छेषा
अप्यानेयाः । अथात्रोक्तवदानीता गताधिमासाः सप्ताष्टाष्टि (१६८७)-
संख्याः।
अवोदितो गणनकर्मलघुत्वहेतो वासराहतयुगक्षयवासरोधः ।
षट्पश्चतर्कवसुनागकुशैलनन्दतत्त्वाग्न्यगादिगिरिवाणनवाग्मि(३९५७७७-
३२५९७१८८६५६ )संख्यः ॥ ३० ॥
अथाऽऽयया कौचित्पनी दर्शयति-
ग्रहमध्यैक्याद्भादेर्वितत्परान्ताद्दिनानि यो वदति।
तन्मध्यानि च तस्मात्पृथक्पृथग्दिनचयं विना स सुधीः ॥३१॥
भादेराश्यादेर्वितत्परान्तात्तत्पराणां षष्टयंशो विनत्परा । तदन्ताद्
अहम पक्यादुद्दिष्टग्रहमध्यमसंयोगादिनानीष्टभूवासराणि यो वदति स सुधी-
रित्येकः पश्नः । दिनचयं विना ग्रहमध्यैक्यादानीतमिष्टदिनसमूहं विना ।
तस्माद् ग्रहमभ्येक्यादेव । तन्मध्यानि च । अत्र द्वित्वमविवक्षितम्। तेन संयुक्तयो-
ग्रहयोर्मध्यमौ संयुक्तानां ग्रहाणां मध्यमानपि पृथक्पृथग्यो वदति स सुधीरि-
त्यपरः प्रश्नः । अत्र ग्रहमध्यैक्यानयनं प्रदर्श्यते । इष्टग्रहयोरिष्टग्रहाणां वा
युगभगणान्योजयित्वा वैरिष्टदिनानि हत्वा युगभूदिनैरेव विभजेत् । अत्र लब्धा
भगणास्तानपास्य शेषं द्वादशादिभिर्हत्वा युगभदिनैरेव विभजेत् । अत्र
लन्धा राश्यादयो भवन्ति । एवं वितत्परान्तं कुर्यात् । अब वितत्पराशेषे युगभू-
दिनार्धादधिके सत्य!त्तरत्वेन वितत्परास्वेकां वितत्परां निक्षिपेत् । एवं कते
ग्रहमध्यैक्यं भवति । एवमागतग्रहमध्यैक्यावम्बलनेनैवात्र प्रश्नयमिति
मन्तव्यम्॥ ३१॥
कुट्टाकारशिरोमाणः। अर्थतत्पनद्वयङ्गनाथमात्रियमाह- ग्रहमध्यमसंयोगं वितत्परहित्य दृढदिनैहत्वा । नियुतहतपडिपुरसरसवेदेभिजेत्फलं क्षयक्षेपः ॥ ३२ ॥ तदृढभगणैक्यदिननिरग्रमार्गेण गुणफले कुर्यात् । तत्रिगुणो दिननिकरः फलं ग्रहाणां गतानि चकाणि ॥३॥ मध्यैक्यं चक्रयुतं तत्तद्भगणैः पृथक् पृथग्हत्वा । तद्भगणैक्येन भजेत्तत्तन्मध्यं फलं सपर्यायम् ॥ ३४ ॥ अत्राऽऽदौ दृढदिनदृढभगणैक्ययोः स्वरूपं दर्शयति । उद्दिष्टग्रहयोरुद्दि- टयहाणां वा युगगणान् संयोज्य तेषां युगभूदिनानामप्यपवर्तकोऽस्ति चेत्तेन संयुक्तानुद्दिष्टग्रहभगणान्युगभूदिनानि चापवर्तयेत् । एवमपवर्तितानि युगदिनान्यत्र दृढदिनानि । एवमपवर्तितमिष्टग्रहयोरिष्टग्रहाणां वा युगभगणैक्यं दृढभगणै- क्यम् । अपवर्तको नास्ति चेयुगदिनान्येव दृढदिनानि । उद्दिष्टग्रहयुगभगणयोग एव दृढभगणैक्यमिति । अथोद्दिष्टग्रहभगणैक्यं वितत्परीकृत्य तान् दृढदि- नैहत्वा चक्रवितत्पराभिः ( ४६६५६००००० ) विभजेत् । अब शेषे चक्रवितत्परार्धादधिके सत्य!त्तरत्वेन रूपं फले क्षिपेत् । एवमानीतं फल- मत्र ऋणक्षेपः । दृढभगणयोगो भाज्यराशिः । दृढदिनचयो भाजकः । एभि- रुक्तवद्गुणफले आनयेत् । अत्र गुण इष्टदिनसमूहः । फलं तु संयुक्तग्रहगत- भगणाः । अथ गतभगणयुक्तं ग्रहमध्यैक्यं संयुक्तषु ग्रहेष्वेकस्य युगभगणैः पृथक् पृथग्गुणयित्वा संयुक्त मह युगभगणै क्येन विभजेत् । लब्धं सपर्याय तन्मध्यं भवति । संयुक्तग्रहेषु यस्य यस्य युगभगणैर्गुणितं तस्य तस्य भगणादि- मध्यं भवतीत्यर्थः । अत्र पक्रिया सम्यक् प्रदर्शितेति नोद्दिश्यते । एवमुत्तरवापि पत्र यत्र प्रक्रिया सम्यक्पदर्शयिष्यते तत्र तत्र नोद्दिश्यत इति मन्तव्यम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ अथाऽऽर्यया ग्रहविकलाशेषावलम्बनेन कश्चिनानुयोगानाह- विकलाशेषादिवसान मध्यं दिवसैविनाऽन्यतच्छेषात् । अवमदिनैस्तच्छेषावधिमासांश्च ब्रवीति यः स कृती ॥३५॥ अत्र सप्त प्रश्नाः । एषु विकलाशेषादिवसान्यो ब्रवीति स कृतीति पथमः । विकलाशेषादेव विकलाशेषवन्मध्यं यो वक्तीति द्वितीयः । विकलामादानीत.
३२ महालक्ष्मीमुक्तावलीसहितः- रिष्टदिवसैविना विकलायादेवान्यग्रहमध्यान्यो वदतीति तृतीयः । विकलांग्रे- णाऽऽनीतरिष्टदिनविना विकलाग्रेणैवान्यग्रहविकलाशेषान्यो वदतीति चतुर्थः । विकलामादागतैरभीष्टदिनविना विकलाग्रादेव गतावमादिनानि यः कथयतीति पश्चमः । विलिप्ताशेषादवगतानि दिनानि विना विलिताशेषादेवावमादिनशेष यो वदतीति षष्ठः। विलिप्तायाजातेभ्योऽभीष्टदिनेभ्यो विना विलिप्तिकायादेव गताधिमासान् यो ब्रूते स कृतीति सप्तमः ॥ ३५ ॥ अथैतेष्वाद्ययोः प्रश्नयोर्भङ्गा) गुणफले प्रदर्शयिष्यन्नादौ तदुक्त- क्रममार्ययाऽऽह- अथ गुणफल क्रमेण प्रतिखटमिहकयाऽऽर्ययोच्यते । दिनकरबधकाव्यानां साधारणमेव ते निगद्यते ॥३६॥ एतदुक्तं भवति । चन्द्राङ्गारक बुध बृहस्पति शनैश्चराणां बुधकाव्यशीघो- वयोश्चन्द्रोच्चपातयोश्च प्रत्येकमेकार्यया गुणफले क्रमेण उच्यते । रविबुधभार्ग- वाणां तु साधारणप्रेवैकयाऽऽर्यया गुणफले क्रमेणोच्यते इति ॥ ३६ ॥ रविभृगुविदां नवाम्बरशैलाश्यत्यष्टिनयनशरचन्द्राः। गिरिपूर्णवेदवह्नयगशरकृतरामाङ्कनन्दरामशराः ॥ ३७ ॥ सूर्यकाव्यबुधानां गुणः ( १५२१७२७०९ )। एषां फलं ( ५३- ९९३४५७३४०७ ) ॥ ३७॥ चन्द्रस्य दन्तिसिन्धुरनन्दाकाशाङ्गबहानभूमिरसाः । भूयुगनवककृतानलखशरर्तुवियच्छशाङ्कनन्दकराः॥ ३८ ॥ चन्द्रस्य गुणः ( ६१३६०९८८ )। अस्य फलं ( २९१०६५० ३४९४ ) ॥ ३८ ॥ धरणीसुतस्य नखतिचन्द्रार्थशरयक्षपानाथाः । स्वरवियदधिगुणार्थद्विकृताद्रिक्ष्माधराङ्गवलियमाः॥३९॥ भौमस्य गुणः ( १२५५११८२० ) फलं ( २३६७७४२५३४०७ ) ॥ ३९ ॥ विच्छीघ्रस्य वियद्रसगुणनन्दकृताभ्रचन्द्रशरपक्षाः । ऋषिखाब्धिगुणहयाचलभूताब्ध्यर्थाष्टरन्धतर्कगुणाः ॥४०॥ बुधशीघ्रोच्चस्य गुणः ( २५१०४९३६० )। अस्य फलं ( ३६- ९८५४५७७३४७)|| ४ ॥ . .
कुट्टाकाराशेरोमाणः। सुरपूजितस्य गुणरसबाणाक्षिनवामिबाहुरजनीशाः । तुरगवियदन्धिपुष्कररन्ध्राकाशाष्टगगनमुनिरामाः । ११॥ गुरोर्गुणः ( १२३९२५६३ ) । फलं (३७०८०९३४.७) ॥१॥ सितशीघ्रस्य युगाष्टकमुनिवसुरसनयनकुञ्जरेशानाः। हयशून्यमनुशराभ्रद्वयसिन्धमृगाङ्कन्दरगजताः॥ ४२ ॥ शुकशीघोच्चस्य गुणः ( ११८२६८७८४)। अस्य फलं (६८२- १४२०५१४०७) ॥ ४२ ॥ सौरस्य रन्ध्रसप्तकवर्णाष्टकवह्निखाभवायुसखाः । शैलाभ्रसिन्धभूधरमनिखरमन्दुरसकृष्णवमानः॥४३॥ शनैश्चरस्य गुणः ( ३००३८ ४७९ ) । फलं ( ३६१६०७७१.७) ॥४३॥ चन्द्रोच्चस्य रसग्रहरसवसुशरशिखिमहीधराडूभुवः । गिरिगगनसागरग्रहगजमार्गणतर्कलोकरन्ध्रनगाः॥४४॥ चन्द्रोच्चस्यानिशन्याश्वीति ( सूर्य सि० अ० १ श्लोक ३३ ) पागनु- सारेण गुणः (१९७३५८६९६ )। अस्य फलं (७९१४६५८९४०७ ) १ ॥ ४४ ॥ राहोर्नवतिथिभूभृद्राणाकाशाद्रिविष्णुपदरामाः । अचलाम्बरार्णवस्वररूपाद्रिनवर्तुभूतमार्थाः ॥ ४५ ॥ वामं पातस्य वस्वनीति । (सूर्यसि ० अ० १ श्लोक ३३) पाठानुरोधेन राहो. गुणः (३०७.५७१५९)। अस्य फलं ( ५८५६९ ११७४०७) ॥१५॥ अथैवं दर्शितै गुणकटौरिष्टदिनविकलाग्रहानयनमाभ्यामाह- गुणनिहतं विकलाग्रं कुर्दिनभिजेद्यत्र परिशिष्टम् । पारावारैविभजेत्तत्फलमिष्टं भवेदिवसवृन्दम् ॥ ४६ ॥ विकलाशेषं स्वफलैहत्वा विकलीकतैहरेच्चकैः। अवशेषमपि समुद्रभिजेल्लब्धं विलिप्तिकाखेटः॥४७॥ गुणनिहतं विकलाशेष भूदिनभिजेत् । अत्र लब्धेन नास्ति प्रयोजनम् । अत्र परिशिष्टं यत्तत्पारावारैविभजेत् । अथ विकलाशेषमेव स्वफतेहत्या विकलीकृतैर्विकलागवद्ग्रहभगणैर्विभजेत् । अत्रापि( लब्बेन प्रयोजन १क. लैत्विा ।
- ३४ महालक्ष्मीमुक्तावलीसहित:- नास्ति । अनावशेषमपि समुदैविभजेत् । अत्र लब्धं विलिप्तारूपो मध्यग्रहो भवेत् ॥ ४६ ॥ ४७॥ अथैवमागताभिर्गहविकलाभिस्तद्विकलाशेषेण चान्यग्रहमध्यतच्छेषक्षयदि- नतच्छेषाधिमासानामानयनप्रकारमार्याचतुष्टयेनाऽऽह- अहविकला [ युग ]दिनहता विकलाप्रयुता कवं भवेत्तत्तु । जिज्ञासितस्य भगणैः संताड्य ज्ञातमण्डलैहत्वा ॥ ४८ ॥ लग्धं कुदिनविभजेत्फलमिह जिज्ञासितो ग्रहो भवति । शेष तद्विकलागं भवत्यथ प्राक्प्रदर्शितध्रुवकम् ॥ ४९ ॥ हत्या युगावमदिनैर्विभजेद्विकलीकृतैः खचरचकैः। लब्धे भूदिवसाप्ने फलशेषौ स्तः क्षयाहतच्छेषौ ॥ ५० ॥ रुपमधिमासह त्वा विभजेत्खचरस्य भगणविकलाभिः । लब्धं फलं कुदिवसैविभजल्लब्धं भवेयुरधिमासाः ॥ ५१ ॥ ग्रहविकला युगदिनाहता उद्दिष्टविकलाशेषयुक्ताश्च कार्याः। एवं कते तद्भवं भवति । तत्तु ज्ञातुमिष्टस्य ग्रहस्य युगभगणैः संगुण्योद्दिष्टविकलान- वग्राहयुगभगणैर्ह ( है )त्वा तत्र लब्धं च भूदिनैविभजेत् । अवाऽऽगतं फलं जिज्ञासितो मध्यग्रहो भवति । शेषं तद्विकलाशेषं भवति । अथ पूर्वोक्तध्रुवं युगावमदिनैर्हत्वा विलिप्तीकृतैरुद्दिष्टशेषवद्ग्रहयुगभगविभजेत् । अत्र लब्धे भूदिवसाप्ते सति फलशेषौ क्रमाद्तावमदिनतच्छेषौ भवतः । अथ एवं युगाधिमासैहत्वोद्दिष्टविकलायतो ग्रहस्य युगभगणविकलाभिहरेत् । अब लब्धं फलं च युगभूदिनैहरेत् । अत्राऽऽगतं फलं गताधिमासाः स्युः ॥४८॥ ४९ ॥ : उद्देशकः-विलिप्तामात्पूष्णः षडिपुनवखाष्टीभगगन- क्षमासंख्यादस्मात्त्वरितमभिधत्स्वेष्टदिवसान । विनैभिभीस्वन्तं विधुमपि तदगं क्षयदिनं ततश्चैतच्छेषं वद तदधिमासानपि गतान् ॥ ५२ ॥ खेविकलाशवामिदं ( १०८१६०९५६) अस्मादुक्तपदानीवा दिवसा: स्याष्टखादयष्टि( १६७०८ १२ )संख्याः । एभिर्विना रविविकलाग्रादे- पोपकारेणाऽऽनौतो विकलारविस्त्रिभाविधिव्यव्यङ्केषु( ५९२८३२४- कुटाकाराशरोमाणः। - २७३ )संख्यः । विकलाचन्द्रः सप्तेन्दुद्विरसाध्यगान्धितत्त्वाकादि(७९२५- ४७४६२१७ )संख्यः । चन्द्रविकलाशेषः संकृत्यग्नितिथिस्तषड्वेदादि(७४- ४१५३२४)संख्यः। क्षयदिवसा गजार्थेषुषडाक्ष(२६५५८)संख्याः । अव• मायं खानाङ्गाब्धीषुनन्दार्थाष्टलोक(१४८५९५४६००)संख्यम् । अधिमासाः सप्ताष्टाष्टि(१६८७)संख्याः । एतत्सर्वं रविविकलायादेवोक्तवदानीतम् ॥५२॥ अथ भगणादिशेषैरिष्टदिनग्रहोपायमार्ययाऽऽह- भगणग्रहभागलिप्ताशेषं मगणाग्रमेव रचयित्वा । तेन दिनग्रहविकलाः कुर्याद्भगणादिखचरांश्चाऽऽभिः॥५३॥ उद्दिष्टभगणादिशेष विकलाशेषं कृत्वा तेनोक्तमार्गेणेष्टदिनानि ग्रहविकला. शाऽऽनयेत् । अथाऽऽभिर्महविकलाभिर्युक्त्या भगणग्रहादींश्च कुर्यात् ॥ ५३ अथ स्वस्वविकलाग्राग्रहाणां साधारणं विकलामध्यानयनं सार्ध- याऽऽर्ययाऽऽह- मिन्धहते विकला खत्रयरसरन्ध्रभास्करैभक्ते । यच्छेषं तद्धत्वा शैलाकाशाम्बुधिस्वराग्निकरः ॥ ५४ ॥ खखखतुनन्दसर्यविभजेच्छेषं ग्रहो विलिप्तारमा । सिन्धु( ४ )हते विकलाग्रे खत्रयरसरन्ध्रभास्करै १२९६००० )- भके सति तच्छेषं शैलाकाशाम्बुधिस्वराग्निकरै( २३७४०७ )हत्वा खख- खर्तुनन्दसूर्यै( १२९६००० )विभजेत् । लब्धेन प्रयोजनं नास्ति । शेषं विकलात्मको मध्यग्रहो भवति । अत्रेदमनुसंधेयम् । यस्य विकलामायदेवमा- नीतं मध्यं तत्तस्यैवेति ॥ ५४ ॥ अथाऽऽर्यया धनक्षेपविषयप्रश्नमाह- यो वेददिवसखेटौ विकलाशेषोनयगदिनौधेन । भारतवर्षे सोस्मिन्भजति धनक्षेपमार्गवेदित्वम् ॥ ५५ ॥ विकलाशेषोनयुगदिनौषेन दिवसरखेटौ यो वेद सोऽस्मिन्भारतवर्षे धन- क्षेपमार्गवदित्वं भजति ॥ ५५ ॥ अथैतत्पश्नभङ्गार्थमार्याद्वयं सार्धमाह- निजनिजगुणफलराशी निजनिजहढदिवसभाज्यराशिभ्याम् ॥५६॥ -
महालक्ष्मीमुक्तावलीसहितः-
नह्यादिहावशेषौ खचराणां गुणफले क्रमाद्भवतः ।
ताभ्यां जलनिधिभक्तौ विमौविकाग्रोन युगदिनस्तोमौ॥५७॥
हत्या विभजेदृढदिनभाज्याभ्यामत्र ये च परिशिष्टे ।
तत्राऽऽदिमं दिन स्यादपरं खेटो विमौर्विकारूपः ॥ ५८ ॥
भव युगदिनचतुर्थांशः सर्वेषां दृढदिवसः । स्वस्वविकलीकृतयुगभग-
गचतुर्थांशः स्वस्वभाज्यराशिः। एवंविधाभ्यां निजनिजदृढदिवसभाज्यराशिभ्यां
कमात्पूको निजनिजगुणफलराशी जह्यात् । इहावशेषौ कमात्खचराणां
निजनिजगुणफले भवतः । ताभ्यां कमाज्जलनिधि( ४ )भक्तौ द्वावुद्दिष्टौ
विमोर्विकामोनयुगदिनस्तोमो हत्वा निजनिजदृढभाज्याभ्यां क्रमाद्विभजेत् ।
भत्र लन्याभ्यां प्रयोजनं नास्ति । अत्र च परिशिष्ट स्तस्तत्राऽऽदिमं दिनं
स्वात् । अपरं विमौर्विकारूपः खेटः स्यात् । विमौर्विका विकला ॥ ५६ ॥
५७ ॥ ५८ ॥
अथ स्वस्वविकलाशेषोनयगदिनैः सर्वेषां साधारणं विकलाग्रहानयनप-
कारं सार्धयाऽऽर्ययाऽऽह-
अथवा बारिधि(४)भक्तास्वस्वविलिप्ताग्रहोनयुगदिवसान।
रामाकभूतवसशरदिग्भिः(१०५८५९३ )संताड्य चक्रविक-
लाभिः( १२९६०० ) ॥ ५९ ॥
विभजेत तत्र शेषा भवन्ति खचरा विलिप्तिकात्मानः ।
सष्टोऽर्थः । अत्रानन्तरोक्त प्रकारद्वयेऽपि धनक्षेपत्वादिकलाग्रह एका
रिकलापिका भवेत् ॥ ५९ ॥
अथाऽऽर्यया विकलाग्रहाश्रयणे दिनविकलाशेषविषयौ प्रभावाह-
विकलाग्रहाहिनौघं विकलाशेषं च यो भणति शीघ्रम् ॥६०॥
चतुरुदधिमेखलायां चतुरमनीपो भवत्यसो भूमौ ।
स्पार्थेयमार्या ॥ ६० ॥
अथैतत्पश्नभङ्गार्थमध्यर्धामा माह-
प्रहविकलाः कुदिनहता भगणविलिप्ताहृता दिनं लन्धम् ॥६॥
कुट्टाकारशिरोमणिः । शेषेऽत्र सति तु लब्धं सैकं कार्य ततो दिवसवृन्दम् । शेपोनभागहारो विकलाशेषो भवेद्रेहेऽप्यस्य ॥ ६२ ।। भूदिनहता ग्रहविकला विकलीकृतग्रहयुगभगण हताः कार्याः । अत्र शेषाभावे लब्धमेवेष्टं दिनं भवति । शेषे सति तु लब्धं सेकं कार्यम् । ततः स्वेष्टदिवसवृन्दं भवति । अत्र शेषाभाषे विकलाशेषा नास्ति । शेष सति तु शेषोनं विकलीकृतग्रहयुगपर्यायवृन्दं विकलाग्रं भवेत् । अत्र शेषाभावः का- दाचित्कः ॥ ६१ . ६२ ॥ अथाऽऽर्ययकस्यैव ग्रहस्यैकदिनजातभगणराशिभागकलाविकलाशेषयो- गादिष्टदिनानि यो वेत्ति स एव कुट्टाकारं वदेत्याह- चक्रसदनांशलिप्ताविलिप्तिकाप्रैक्यतोऽभिमतदिवसान् । यो जानाति स भूम्यां कुट्टाकारं म एव जानीते ॥ ६३ ॥ अवतारिकया गतार्थेयम् ।। ६३ ।। अथैतत्पश्नभङ्गाय सार्धामा माह- अत्राप्रैक्ये कुदिनैर्विहृते शेषं भवेत्क्षयक्षेपः । । ज्यव्यङ्काद्रिकुविश्वगुणितं ग्रहचक्रमस्य भाज्यं स्यात्॥१४॥ कुदिनच्छेदस्त्वेतैगुणक कर्यादसावभीष्टदिनम् । अत्रोद्दिष्टे भागादिशेषयोगे सति संभवे क्षितिदिनैविभक्ते सति पाच्छ- प्यते तदत्र कणक्षेपः स्यात् । नो चंद्भगणादिषयोग एवात्र ऋणक्षेपः स्यात् । व्यव्यङ्काद्रिकुविश्वै( १३१७९७३ )र्गुणितानि ग्रहयुगचक्राण्यत्र भाज्यराशिभवेत् । क्षितिदिनानीह भाजकः स्यात् । एतस्तु पूर्वोक्तमार्गेण गुण- मानयेत् । एवमागतोऽयं गुण एवेष्टदिनानि स्युः । अत्र वारकुट्टाकारो द्वि- विधः । अवोद्दिष्ट भगणादिशेषावलम्बननैकः । उद्दिष्टग्रहावलम्बनेनापरः । एवं वेलाकुट्टाकारोऽपि वेदितव्यः। अत्र यावृद्दिष्टग्रहाश्रयणेन बारवेलाकुट्टा- कारौ ताबुत्तरत्र प्रदर्शयिष्यते । अत्र तूद्दिष्टभागाद्यप्राश्रयेणाऽऽनीयमानी यौ वारवेलाकुट्टाकारौ तो कमेण पर्यते । वारकुट्टाकारगवभगण शेषावलम्बे- नाद्देशकः-देवेन्द्रार्चितवारपूर्तिसमये राजीवबन्धोरभू- च्चकायं नियुताहताष्टककरक्ष्माभन्मही(१७२८०००००)संमितम् । भूयोऽप्येतदभूत्सितेन्दुकुजविद्वारावसाने समं तत्कालान्वद वारकुट्टकविधौ यद्यस्ति ते संस्तवः ॥ ६४ ॥ १ख. °द्रग्रहेन्द्रस्य ।
महालक्ष्मीमुक्तावलीमहितः- अथैतदादिभमभङ्गायाऽऽांसप्तकमाह- खचराणां युगभगणा भाज्यो राशिर्भवेत्तदानीं तु ॥ १५ ॥ भगणागे एहिष्टे तद्भगणागं भवेहणक्षेपः। भवनीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु ॥ ६६ ॥ भवनागे तूद्दिष्टे तद्भवनायं भवेदणक्षेपः । भागाने तूद्दिष्टे तद्भागागं भवेदृणक्षेपः ॥ ६७ ॥ भागीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । लिप्ताग्रे तूद्दिष्टे तल्लिप्तागं भवेदृणक्षेपः ॥ ६८ ॥ लिप्तीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । विकलागे तूद्दिष्ट तद्विकलागं भवेदृणक्षेपः ॥ ६९ ॥ विकलीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । युगभूसावनदिवसान्येवं स्याद्भाजकोऽत्र सर्वत्र ॥ ७० ॥ एभिभीजकभाज्यक्षेपर्यो भवति वर्धकः सोऽत्र । आदिमकालस्तस्मिन्दृढदिवसान्बुद्धिसंगणान्युक्त्वा ॥ ७१ ॥ अभिहितवारांस्तांस्तान्कालानन्यांश्च साधयेत्प्राज्ञः। भगण शेष उद्दिष्ट सति तदुद्दिष्टं भगणशेष क्षयक्षेपः स्यात् । तदा पुन- ग्रहाणां चतुर्युगभगाणा भाज्यराशिः स्यात् । अत्र हि शब्दो हेतौ । यस्मादुद्दि- भगणशेषमृणक्षेपो भवति तस्माद्ग्रहयुगभगणा भाज्यराशिः स्यादिति । राशिशेष उद्दिष्टे सति तदुद्दिष्टं राशि शेषमृणक्षेपः स्यात् । तदानीं तु द्वादश- ( १२ )गुणितयुगभगणा भाज्यः स्यात् । भागशेष उद्दिष्टे तु तदुद्दिष्टं भागशेषमृणक्षेपः स्यात् । तदानीं तु षष्टयुत्तरशतत्रया( ३६० )हता युग- भगणा भाज्यः स्यात् । कलाशेष उद्दिष्टे तु तद्दिष्टं कलाशेष मृणक्षेपः स्यात् । तदानीं तु खखषड्धन ( २१६८० )निहना युगभगणा भाज्य: स्यात् । विकलाशेष उद्दिष्टे सति तदुद्दिष्टं विकलाशेषणक्षेपः स्यात् । तदानीं तु खत्रयत्वाकां( १२९६००० )भ्यस्ता ग्रहचतुर्युगभगणा भाज्यराशिः स्यात् । अत्र सर्वत्र चतुर्युगभूदिनान्येव भागहारो भवेत् । एवं प्रदर्शितैरते - ज्यभाजकक्षेपैः पूर्वोकप्रकारेण यो गुणो भवति स इहोद्देशकश्लोकपथमक- थितवारानान्तः प्रथमकालः स्यात् । अथ तस्मिन्नाद्यकाले मतिगुणितान्हढ- कुट्टाकारशिरोमणिः। ३९ दिवसान् निक्षिप्योद्देशकश्लोकान्तरोतवारान्तान्तानन्यान् कालानपि कुट्टकग- णितज्ञः साधयेत् । एतदुक्तं भवति । दृढदिनेषु सप्तहतेषु याच्छिष्यते तदवल- म्बनेन दृढदिवसानां कियतीभिरावृत्तिभिरुद्दिष्टवाराः समायान्तीत्यालोच्य तावतीभिरावृत्तिभिर्गुणितान्दृढदिवसान् गुणयित्वोद्देशकश्लोकान्तरोक्तवाराव- सानानन्याकालानपि साधयेत् । अत्र फलं तदुद्दिष्टभगणादिशेषवशाद्यथा- क्रमं ग्रहभुक्तभगणादिभिर्भवति । न्यासः-अत्रोद्देशक श्लोकस्थो रविभगणशेषोऽ- यम्( १७२८००००० ) । अयमत्र ऋणक्षेपः । रवियुगभगणाः खचतुष्कर- दार्णवाः ( ४३२०००० ) भाज्यराशिः । युगभूदिवसाः 'वसुयष्टादि- रूपाडूसप्तादितिथयः ( १५७७९१७८२८ ) भाज्यराशिः। एभिर्भाग्य- भाजकक्षेपैः पूर्ववदानीतो गुणः खाब्धि( ४ ० )संख्यः । अयमेवोद्देशकश्लोक- प्रथमोक्तगुरुवारान्तान्तः सृष्टयादिर्दिनगणः । एष पथमकालः । अस्मिन्नेक- गुणे सप्तेष्वन्ध्यवाद्रिकृताब्यङ्काग्नि( ३९४४७९४५७ )संख्ये हलदिने दत्ते सप्ताङ्कनमध्यङ्कद्विवेदाधिग्रहाग्नि( ३९४४७९४९७ ) सरूपः । शुक्रवासरावसानः सृष्टयादिर्दिनगणः । एष द्वितीयकालः । अथ पूर्वमागते गुणे ४० चतुर्गुण दृढदिन क्षिप्ते वसुरसाष्टाद्रीन्द्वङ्काद्रिमुनितिथि( १५७७९- १७८६८ )संख्यश्चन्द्रवारान्तान्तः सृष्टयादिदिनगणः । अयं तृतीयकालः । अथ गुणे ४० पञ्चगुणदृढदिने क्षिप्ते तत्त्वत्र्ययङ्काग्निद्व्ययतिधति( १९. ७२३९७३२५ )संख्यः कुजवारान्तान्तः सृष्टयादिदिनप्रजः । एष चतु- र्थकालः । अथ गुणे षड्गुण दृढदिने क्षिप्ते द्विवसुशैलरसादिवसुरसर्तुत्रिदि ( २३६६८७६७८२ )संख्यः ) । बुधवारान्तान्तः सृष्टयादिदिनवजः। एष पश्चमकालः। एवमेतेषु पश्चकालेषु यथास्वभगणेति ( सूर्यसि० अ० १ श्लो० ५३ ) सूर्यसिद्धान्तोक्तप्रकारेणाऽऽनीतं रविभगणशेष नियुताहताष्टकर- माभन्मही( १७२८००००० )समितं भवति । एवं सूर्यस्य राश्यादिशे- पैरन्यषां भगणादिषारकुट्टाकारः कर्तव्यः। अथ वारकुट्टाकावेलाकुट्टा- कारयोः को वा विशेषः । उच्यते । वारान्तकालजानतं ग्रहं वा ग्रहमगणा- विशेषं वाऽवलम्ब्य वारकुट्टाकारः प्रवर्तते । वारान्तकालादन्यकालजनितं ग्रह वा भगणादिशेषं वाऽवलम्ब्य वेलाकुट्टाकारः प्रवर्तत इति । अथ वेलाकुट्टा- कारः पदय॑ते । सत्राऽऽदो वेलायां ग्रहभगणादिशेषाणि ज्ञातव्यानीति तदा- मयनयुच्यते । भागानुबन्धजातौ रूपगुणच्छे दगुणस्वांशयुतष्टदिन नत्रस्येन .. ४० महालक्ष्मीमुक्तावलीसहित:- च्छेदेन गुणयित्वा तदंशयुक्तं कृत्वा तच्च ग्रहयुगभगणैः संगुण्य तवत्यच्छेद- निहतैर्युगभूदिनैविभजेत् । लब्धं भगणा भवन्ति । तस्मिन्द्वादशादिगुणिते पूर्व- वद्विभक्ते च लब्धं राश्यादयः । शेषं राश्यादिशेषम् । उदाहरणम् । अत्र कल्पितस्वच्छेदांशसहितोऽभीष्टो दिनगणः १३५२,१।२ । अत्रोपरिपङ्कि- स्थो रूपगुणः स चात्र द्वीषुविश्व( १३५२ )संख्यः । मध्यमपति- स्थोंऽशः । स पुनरिह रूप( १ )मितः । अधःपङ्क्तिस्थश्छेदः । स पुनरत्र द्विकरमितः । अथ रूपगुणे ( १३५२ ) तत्रत्येन च्छेदन ( २) गुणिते ( २७०४ ) तत्रत्यनांशेन च ( १) युक्त जातो राशिः पश्चाप्रभ( २७. ०५ )समितः । अस्मिन्बुधयुगभगणैः खचतुष्करदार्णवै ( ४३२००००) गुणिते( ११६८५६००००१) तत्रत्यच्छेदेन द्विकेन (२) गुतियुगभूदिमः षड्वाणरसार्थाग्न्यष्टेषुतिथ्यग्नि( ३१५५८३५६५६ )संख्यैर्विभक्त लब्धा भगणास्त्रयः । शेषं दन्तखाग्न्यङ्कखाप्टेन्दुविवि ( २२१८०९३०३२)- संख्यम् । तदेव बुधस्य भगणाग्रम् । एतस्मिन्द्वादशादिगुणिते पूर्ववाद्विभक्त च लब्धं राश्यादयो भवन्ति । शेषं राश्यादिशष भवति ॥६५॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ अत्र यद्भगण शेषं तदधुनोद्दिश्यते- लङ्कनमध्याहनकाले हिमकिरणतनूजन्मना मण्डलायं दन्ताभ्राग्न्यङ्कखाष्टक्षितिनयनभुजासंख्यमासीदमुष्मात् । पर्यायानस्य यातानभिमतदिवसव्यूहमंशेन युक्तं वेलाकुट्टोपदेशो बलवदवगतश्चेत्त्वया ब्रूहि शीघ्रम् ॥७२।। अर्थतत्मनभङ्गाय सार्धमार्याद्वयमाह- वेलाकुट्टाकार छेदाभ्यस्तः कुवासरश्छेदः । प्रक्षेपभाज्यराशी पुनरस्मिन्वारकुढ़वद्भवतः ।। ७३ ॥ एभिः संपाद्यते यो फलगुणको तयोः फलं त्वत्र । उद्दिष्टशेषवशतो गतभगणादि वेदिह गुणस्तु ॥ ७४ ॥ छेदहतो दिवसगणः शिष्टं तच्छेदयागिनोऽशाः स्युः। अस्मिन् बेलाकुट्टाकारे मण्डलादिशषानयने भागानुबन्धजाती रूपगुण छेदसंगणः साश, - A कुट्टाकाराशेगेमाणः। इत्यत्र यश्छेदस्तेन गुणिता युगभूदिवसा भाजको भवति । वारकुट- टाकारे भगणादिशेषेषु क्षिप्तेषु सत्सु तत्र यो क्षेपभाज्यावुक्तौ तावत्रापि समा- नौ । एतैीजकक्षेपभाज्या फलगुणावुत्पद्येते तयोः फलं त्विह भगण शेष उद्दिष्टे सति ग्रहभुक्तभगणा भवन्ति । राशिशेष तूद्दिष्टे तत्फलं ग्रहभुक्तराशयः । भागशेष पुनरुद्दिष्टे तत्पुनर्ग्रहभक्तभागाः । लिप्ताग्रे पुनरुद्दिष्ट तन ग्रहमुक्त (कि)- लिप्ताः। विलिप्ताग्रे तूद्दिष्टे सति तकलं ग्रहभुक्त(क्ति)विलिप्ता भवन्ति । अब यो गुणस्तस्मिंस्तु भगणाद्यपानयने भागानुवन्धजानावित्यत्र यश्छदस्तेन विहते सति लब्धमिष्टदिनानि भवन्ति । शिष्टं तच्छेदसंबन्धिनाऽशा भवेयुः । उदाहरणम्-ध- स्याद्दिष्टं भगणशेषमिदम(२२१८०९३०३२)। अयमृगक्षेपः। अब भगण शेषा- द्दिष्टत्वाद्बुधस्य युगभगणा इमे(४ ३२००००)भाज्यराशिः । इह चक्रशेषा- नयंन भागानुबन्धजातावित्यत्र च्छेदा द्वि(२)समितः । अतो द्विगुणिता भूदि- वसा एते ( ३१५५८३५६५६ ) भाजकगशिः । एवमतेः क्षेपभाज्यभाजकै; पूर्ववदानीतं फलं त्रि( ३ )संमितम् । एतबुवभुक्तभगणाः । गुणः पञ्चा- भ्रभ( २७०५ )समितः । एतस्मिरित्वह चक्र शंषानयन भागानुबन्धजाता- वित्यत्र द्वि(२)संमिनेन च्छदेन विभक्त लब्धं वीषुर्विश्व( १३५२ )संख्य जातम् । एतदभीष्टदिनगणः । शिष्टं तच्छेद (२)संबन्ध्यं शो रूप(१)मितों जातः । एवं च्छदांशसहिना दिनगणोऽयं १३५२।१।२। इत्थं वारद्वयंशे कुट्टाकारः पदार्शतः । एवमनेन न्यायन वारत्र्यंशवारचतुरंशवारपञ्चांशवार- षडंशादिषु कुट्टाकारी योज्यः ॥ ७३ ॥ ७४ ॥ अथ वारषष्टयंशे लिप्ता शेषाश्रयण नाद्देशकः- लिमायामर्धरात्रात्प्रभृति विघटिका मप्तशत्यां गतायां सैकायां खाभ्रतकत्रिगुणकृतशराष्टाभ्रशैलैकनागाः । लिप्तागं मूर्यमूनाः ममभवदमुना वामगनशयुक्तान लितान्तं मर्यमन कथय विघटिका कुट्टवेदिन्ममाऽऽशु ॥७॥ अत्रेदं शनैश्चरस्य कलाशेषम् ( ८१७०८५४३३६०० )। अय- मृणक्षेपः । तस्य युगभगणा भुजङ्गषट्पश्चरसवेदनिशाकराः ( १४६५६८ ) (सूर्यसि० अ०१२लो ०३२) भाज्यराशिः । वारस्य खवषड़रामांशो (३६०.) विनाडीतिखखषड्रामगुणिता युगदिवसा इम ( ५६८०५०४१८०८००) भाजकराशिः। एभिः क्षेपभाज्य भाजः पूर्ववदानीतो गुणो भूरवाङ्कगनिवर ४२ महालक्ष्मीमुक्तावलीसहितः- वाकति(२२५०७९०१)संख्यः । अस्मिन्ववषड्रामैविभक्त लब्धमभीष्टदि- नगणो दीषुद्विषट्(६२५२)संख्यः । शिष्टा विनाडिकाः सैकसप्तशत ७०१। ३६०० संख्यः। एवं सच्छेदांशसहितोऽभीष्टदिनगुणः ६२५२ । ७०१ । ३६० ० । फलं कृतवेदार्थाक(१२५४४)संख्यम् । एतत्कालात्मकं सौरमध्यम् । अथानुकलासु क्रमादनुपानादारोपितासु षडाशयः(६)। एकोनत्रिंशद्भागा(२९)- श्वतमः ( ४ ) कलाश्च । एवमिदं राश्यादिकलान्तं सौरमध्यम् ॥ ७५ ॥ अथ ग्रहाश्रयणेन वारवेलाकुट्टाकारानयने पथमतो ग्रहस्य भगणादिशेष ज्ञातव्यम् । अतस्तदुद्दिष्टग्रहानुगुण्येन धीमताऽप्यूसमित्यार्ययाऽऽह- खचरावलम्बकुटे परिवर्ताद्यग्रमादितो ज्ञेयम् । तत्परिवर्ताद्ययं सुधियोह्यं कथितखेचरेन्द्रवशात् ॥ ७६ ॥ अत्र परिवाद्ययमूसमित्येनत्परिवद्यिग्रणानन्तरं तदशावेलाबारकुट्टा- कारावप्यूपावित्यस्योपलक्षणम् । अवायव्हेन सिद्धार्थः । वारकुट्टा कारे भगणात्मके ग्रह उद्दिष्ट सति ग्रहस्योद्दिष्टान् भगणांश्चतुर्युगदिनैर्गुणयित्वा तस्य चतुर्युगभगणैविभज्य लब्धं कुत्रचिनिधाय शेषं तस्य चतुर्युगभगणेभ्यस्त्यजेत् । ततस्तच्छेषं भवति । अत्रैवमागतं भगण अषं क्षयक्षेपः । ग्रहस्य चतुर्युगभगणा भाज्यराशिः। चतुर्युगदिनानि भाजकगशिः। एभिः पूर्ववद्गुणफले कुर्यात् । तयो- गुणोऽभीष्टदिनगणी भवति । फलं ग्रहभुक्तभगणा भवन्ति । अथ परिवर्नादौ रा- श्यन्ते ग्रह उद्दिष्टे तं ग्रहं राशीकृत्य भूदिनैः संगुण्य राशीकृतस्तस्य युगपरिवर्ते- रिछत्त्वा फलं क्वचित्स्थापयित्वाऽवश स्वभागहाराजह्यात् । तच्छे तु राशेिषम् । अब राशिशेषमृप्क्षेपः । राशीलता युगपरिवर्ता भाज्यः । भूदिनानि भाजकः । एतैः प्रागुक्तवद्गुणफले कुर्यात् । तत्र गुणोऽभीष्टदिनगणः । फलं तु गतराशि- गणः । अथ चक्रादौ भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य क्षितिवा रैस्ताइयित्व भागीकृतैस्तस्य युगचकैर्व्यवच्छिद्याऽऽप्तं कुत्रचिदिन्यस्य शिष्ट स्वहारका- छोधयेत् । तच्छेषं तु भागशेषम् । अत्र भागशेषमृणक्षेपः । भागीकृतग्रहस्य युगभगणा भाज्यः । क्षितिवासरा भाजकः । एभिरुक्तवद्गुणफले कुर्यात् । तयोर्गुणोऽभीष्टदिवसचयः । इह फलं तु गतभागगणः । अथ पर्यायादौ कलान्ते मह उदिष्टे तं कलीकृत्य भूदिवसः संताडय कलीकृतस्तस्य युगपर्यायैर्भक्त्वा १ . नरेन्द्र ।
कुट्टाकारशिरोमाणिः । ४३ .. लम्ब कचिहत्त्वाऽवशिष्टं स्वच्छेदाच्छोधयेत् । तच्छेषं तु कलाशेषम् । अब कलाशेषमृणक्षेपः । कलीकृतास्तस्य युगपर्याया भाज्यः । भूदिवसा भाजकः । एतेः प्रागुक्तवद्गुणफले विदध्यात् । तयोर्गुणोऽभीष्टदिवससमूहः । अब फलं तु गतकलासमूहः। अथ पर्यायादौ विलिप्तान्ते ग्रह उद्दिष्टे विलिप्तीकृत्य भूसावनैवर्धयित्वा विलिप्तीकतैस्तस्य युगपर्यायः पविभज्य लब्ध फलमन्यत्र कुत्रचित्पालयित्वा शिष्टं स्वभाजकात्संशोधयेत् । तच्छेषं तु विक- लाशेषम् । इह विकलाशेषमणक्षेपः। विलिप्तीकृतग्रहस्य युगपर्याया भाज्यः। भूसावनदिनानि भाजकः । एभिः पूर्वोक्तमार्गेण गुणफले कुर्यात् । हर गुणोऽभिमतवासरनिवहः । फलं तु ग्रहभुक्तविकलावृन्दम् । अत्र सर्वत्र यद्य- त्फलं तत्तत्तत्र तत्र शेषाभावेऽभीष्टदिनानि भवन्ति । तत्र तत्र शेषे सति सैकं तत्तत्फलमभीष्टदिनानि भवन्ति । अथ ग्रहस्य राशिस्थानमात्र उद्दिष्टे पुनरुद्दिष्टांस्तस्य राशीन दृढदिनैः संवर्ध्य द्वादशभि( १२)विभजेत् । अत्र लब्धं भगण शेषम् । अथ राश्यादी भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य दृढदिनैहत्वा खाङ्गगामिभिः( ३६० )विभजेत् । लब्धं भागशेषम् । अथ रा- श्यादी कलान्ते ग्रह उद्दिष्टे तं कलीकृत्य दृढदिनैहत्वा खखनुपनेः ( २१६०० ) हरेत् । लब्धं भगण शेषम् । अथ राश्यादौ विलिप्तान्ते यह उद्दिष्टे तं विलिप्तीकृत्य दृढदिनैहत्वा खाभ्राङ्गाङ्कगः ( १२९६०० ) विमजेत् । इहापि लब्धं भगण शेषम् । अत्र सर्वत्र भगणशेषमृणक्षेपः । ग्रहस्य दृढभगणा भाज्यः । दृढदिवसा भाजकः । एभिर्गुणफले कुर्यात् । तयोर्गुणोऽभिप्रेतदिनवजः । फलं गतभगणाः । अत्र सर्वत्रः दिवसाश्चतुर्युगभग- णाश्चापवर्तिताः क्रमाद् दृढदिवसा दृढभगणाश्च भवन्ति । अथ ग्रहस्य भाग- स्थानमात्र उद्दिष्टे तानुद्दिष्टान् भागान् दृढदिनैहत्वा त्रिंशता विभजेत् । लन्ध राशिशेषम् । अथ भागादौ लिप्तास्थानाने या उद्दिष्ट तं लिप्तीकृत्य दृढ- दिनहत्वा खाधाष्टभूभि( १८०० )विभजेत् । लब्धं राशिशेषम् । अथ भागादौ विलिप्तान्ने ग्रह उद्दिष्ट तं विलिप्तीकृत्य दृढवासरैर्हत्वा खखानाष्ट- दिग्भि( १०८००० )विभजेन् । लब्धं राशिशेषम् । अत्र सर्वत्र राशिशेषमृणक्षेपः । राशिशेषदृढमण्डला भाज्यः । दृढवासरा भाजकः । १ ख. शिभृता ।
: महालक्ष्मीमुक्तावलीसहितः- तैर्गुणफले कुर्यात् । तयोर्गुणो वाञ्छितदिनौषः। फलं गतराशिगणः । वत्र सर्वत्र चतुर्युगदिवसा राशीकृताश्चतुर्युगभगणाश्चापवर्तिताः क्रमाद् दृढदिवसा राशीस्ता दृढमण्ड लाश्च भवन्ति ॥ ७६ ॥ अथ राश्यादिलिप्तान्तग्रहालयवारकुटाकारावलम्बनेनोद्देशक:- चापे भागा विंशतिलिमिक द्व आमीत्मरमध्यमं मौम्यवारे । भूगोऽप्येतज्जीववार कदा स्याब्रूयाः कालौ तौ गतान् पर्ययांश्च॥७७ अत्रेदं राश्यादिकलान्तं गुरोमध्यं (८२०।२)। एतत्कलीकृतं व्यभ्रषट्- कतिथि( १५६०२ )संख्यं जातम् । एतवत्यैः सप्तेष्वन्ध्यङ्कगद्रिकृता- पहनाग्निभि( ३९४४७९४५७ )दृढदिननिहतं चक्रकलाभि(२१६००). विभक्तं चात्तिरयोगेन सह षडाग्न्यष्टाग्न्यङ्काब्यष्टद्वि(२८४९३८३५६)- संख्यं जातम् । अयमिह ऋणक्षेपः । गुराश्चतुर्युगभगण चतुर्थाशमिता अत्रत्या रते९१.५५दृढभगणा भाज्यराशिः। इह पूर्वोकान्येतानि (३९४ ४७९४५७) दृढदिनानि भाजकगशिः। एतैः पूर्ववदानीतो गु गस्त्रिद्विखाष्टानीन्द्रनत्त्व(२५- १४३८०२३ संख्यः । अयं मृष्ट्यादिरिष्टदिनगणः । अयमेव बुधवारान्तान्त:- प्रथमकालः अत्र फलं सप्तत्रिखाष्टार्थ(५८०३७)संख्यम् । एनदेवात्र गुरुभक्तभग- गाः। अथैकदिनदृढयुक्तः प्रथमकाल एव गुरुवारान्तावसानः सृष्टयादिद्वितीयः कालः। स च खाष्टाब्ध्यद्रीन्द्वकाब्धिषट्(६४५९१७४८०)संख्यः। अस्मि- काले गुरोर्गतभगणाद्व्यङ्कवाङ्कन्द्राः( १४९०९२) । एवं ग्रहाश्रयवारकुट- टाकारः प्रदर्शितः । अनया [रीत्या] ग्रहाश्रयवेलाकुट्टाकारोऽप्युनेयः । अत्र नौ ग्रहाश्रयेण वारवेलाकुट्टाकारी तो कदाचिद्भवतः । कदाचिदव्यभिचरतः । तस्मात्तावसमीचीनौ ॥ ७७ ॥ अथ मर्याब्दावसानचन्द्रादिष्टग्रहगश्यादिमध्याद्गतावत्सरांश्चन्द्रादीष्ट- बगतभगणादींश्च यो वदति स निरग्रकुट्टाकारे प्रवीण इत्येकं प्रश्नमार्यया सष्टयति- मर्यादपूर्तिकाले चन्द्रादीष्टग्रहं ममालोक्य । अर्केष्टयातभगणानाचष्ट यः म दक्षिणः कुटे ॥ ७८ ॥ अवतारिकया गतार्थेयम् ॥७८॥ अथैतत्पश्नभञ्जनाय साधीमा माह- दिनकरभगणाश्छेदश्चन्द्रादीष्टग्रहस्य चकाणि । - कुट्टाकारशिरोमणिः । ४५ .. .. भाज्यक्षेपस्तूह्यो ग्रहमध्यमसिद्धिवासनां दृष्ट्वा ॥७९॥ तैर्जनिते गुणकातीये चार्काब्दा गतेष्टभगणाश्च । अत्र क्षेपोत्पादनं विनाऽन्योऽर्थः सुबोधः । अतस्तदेव पदश्यते । ग्रहस्य गशिस्थानमात्र उद्दिष्टे सत्यद्दिष्टान् राशीन् युगराविभगणैः खचतुष्करदाणयैः ( ४३२००७ . ) संगुण्य द्वादभिर्विभज्य लब्धं भगण शेषात्मकः क्षयक्षेपः ( १२.६००० ) । अथ राश्यादी भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य पूर्वव- रसंगुण्य चक्रभागै( ३६० )विभज्य लब्धमृणक्षेपः । अथ राश्यादौ विक- लान्ते ग्रह उद्दिष्ट तं विकलीकृय चके[ वि ]कलाभि(१२९६०००)- विभज्य लब्धमृणक्षेपः ॥ ७९ ॥ अब रात्रिस्थानमात्रचन्द्रमध्यावलम्बनेनाद्देशकः- मर्याब्दपूतौ मृगलाञ्छनस्य भपञ्चकं दृष्टमतोऽरुणान्दान् । यातानथेन्दर्भिगणांश्च तूर्णमाख्यातु कुट्टे कुशलो भवांश्चेत् ।।८०॥ अत्र भाज्यश्चतुर्युगभगणाः । भाजको रविभगणाः । अत्रोक्त प्रक्रियानीतो नियुताहतधृति( १८००००० )संख्योऽयमृणक्षेपः एभिरानीताः सूर्यान्दाः खत्रयतिथि( १५००० )संख्याः । चन्द्रगतभगणा रदेष्वधनख ( २००- ५३२ )संख्याः ॥ ८ ॥ अथ फलज्ञातगुणानयनमार्ययाऽऽह- लब्धे भाजकगणित वारक्षेपण संस्कृते भक्त । भाज्यन लभ्यत यनद्गुणकारी भवेदिति ज्ञेयम् ॥ ८१ ॥ अस्यास्त्वर्थ उदाहरणेन व्यज्यते । निरनविषय पूर्वलिखितोद्देशकश्लो- कोऽयम- चन्द्र शाः (१११) केन गुणिता रूप(१)युक्ता द्विखामिभिः(३०२)। भक्ताः शुद्धा गुणफले ब्रूहि तर्ण निर गावित् ।। अत्र कुटाकारगणितसिद्ध गुणफले शरधृति (१८५)गजतक(६८) संख्ये । एवमागताल्लब्धाद्गुणानयनार्थमियमार्या । लब्धामिद ( ६८ )मेतदनेन भाजकेन ( ३०२ ) गुणितं ( २०५३६ ) इदमनेन धनक्षेपेण १ धनर्ण- वैपररीत्येन संस्कृतम् (२०५३५)। एनदनेन ( १११ ) भाजकेन विभज्य लब्धम् ( १८५) । इदं कुट्टाकारगणितसिद्धगुणकारतुल्यमेव ॥ ८१ ॥ १ क. "क्रकलाभि (२१६००) वि । १ 20 महालक्ष्मीमुक्तावलीसहितः- अथाऽऽयया विकलाशेषाद्विकलाद्यानयनमुध्यत इति प्रतिजानीते- विकलाशेषाद्विकलाः कलाः कलागं लवाग्रं च । - भानि तदगं भगणाममपि यथा स्युस्तदुच्यते कर्म ॥२॥ अथ पतिज्ञातमर्थमार्याचतुष्टयेन सार्धेनाऽऽह- विश्वनाद्विकलायात्खसिद्धभक्तावशेषवेदांशे । षष्टेस्त्यक्ते विकलास्तद्युगादिवसाह(ह)तिः सविकलागा ॥८॥ खाङ्गैहतात्कलाग्रं तद्वेदांशात्रिचन्द्रसंगणितातू । खरसविहृतावशेषे खरसेभ्यः शोधिते कलाशेषम् ॥ ८४॥ तयुगदिवसाभ्यामः सकलायः षष्टिभाजितोऽशागम् । विश्वहततयुगांशात्वगुणाप्ताच्छेषहीनहारोंऽशाः॥ ८५ ॥ तद्भदिनसंवर्गः सांगायः खामिभिर्हतो भागम् । तत्तुर्याशाप्त शेषे हारोच्चशोधिते भानि ॥ ८६ ॥ तद्भमिसावनवधः सह शेषोऽहतो भगणशेषः । प्रयोदश(१३)गुणिताद्विकलाशेषाच्चत्वारिंशदाधिकशतद्वयेन ( २४० ) भक्कायोऽवशेषस्तस्य यश्चतुर्थी शस्तस्मिन्षष्टे(६०)स्त्यक्ते यच्छिष्यते तद्वि- कला भवन्ति । अथ तासां गतदिनानां च योऽभ्यासः स विकलाशे- पयुक्तः षष्टया( ६० )भक्तश्च कार्यः । अत्र यल्लभ्यते तद्विकलाशेष भवति । अथ तस्य चतुर्थीशात्त्रयोदशगुणितात्षष्ट्या भक्ताद्यदवशिष्यते तस्मिन षष्टयास्त्यक्ते योऽवशेषः स लिप्ता भवन्ति । अथ तासां युगदिनाना- मपि यो वधः स लिताशेषयुक्तषष्टया भक्तश्च कार्यः। लब्धं भागशेषं भवति । तस्य चतुर्थांशात्रयोदशगुणात्रिंशा( ३० )द्भक्ताद्यच्छिष्ट तस्मि- स्त्रिंशतस्त्यक्ते शेषो भागा भवन्ति । अथ शेषाणां युगभूदिनानां चाभ्यासः सभागशेषस्त्रिंशद्भक्तश्च कार्यः । लब्धं राशिशेषं भवति । अथ राशिशेषच. तुर्थांशे द्वादशभक्त यः शेषस्तस्मिन् द्वादशभ्यस्त्यते यच्छिष्यते तद्राशयो भवन्ति । अथावशेषाणां भूदिनानां च यः संवर्गः स राशिशेषयुक्तो द्वाद- शभिर्विभक्तश्च कार्यः । लब्धं भगण शेषं भवति । ननु विकलाशेषाद्दिवसानि- त्यादिना पूर्वोक्तेन सर्वमेतत्सिद्धं तत्किमनेन सिद्धसाधनेन । सत्यम् । तत्र कुट्टाकारगणितमत्र विपरीतगणितमित्यदोषः ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५॥८६॥ अथ ..
कुट्टाकारशिरांमाणः। ४७ पूर्व विकलाशेषादिवसानित्येवमादिना ज्ञातग्रहविकलामाज्जिज्ञासितम- हभगणादिशेषानयनमुक्तम् । इदानी प्रकारान्तरेण तदेव विवक्षुस्तद्विषयमनुयो- गमार्यया स्पष्टयति- पूर्व विकलाशेषायादन्यस्येष्टभगणशेषादीन् । अविलम्बितं भणति यः कुट्टकंविदां सिन्धुरः स भवेत् ॥८॥ स्पष्टोऽर्थः ॥ ८७॥ अथैतत्पश्चभजनायाऽऽयदिपमाह- कथितविकलावशेषस्थिरगुणगुणितष्वभीष्टचकेषु । भक्तेषु भूमिदिवसैर्यः शेषस्तद्गुणोक्तविकलाग्रे ॥ ८८ ॥ क्षितिदिनभक्त शेषे वेदहृतेऽभष्टिखचरभगणाग्रम् । राश्यादिशेषगणने चैवं रव्यादि ( १२३६०२१६०.. १२९६००० )गणितपरिवतैः ॥ ८९ ॥ इति श्रीदेवराजविरचिते कुट्टाकारशिरोमणी निरमपरिच्छेदो द्वितीयः ॥ २॥ : उद्दिष्टस्य ग्रहविकलाशेषस्य यः स्थिरगुणः पूर्व रविभृगविदां नवाम्बरे- त्येवमादिना पठितस्तेन गुणितेष्वभीष्टग्रहयुगभगणेषु यः शेषस्तद्गुणितोद्दिष्ट- विकलावशेषस्थिरगुण गुणितेषु जिज्ञासितस्य द्वादशगुणितयुगचकेषु भूदिनभक्तेषु यः शिष्यते तेन गुणिते तूद्दिष्टविकलाशेषे भूदिनभक्ते यच्छिष्टं तद्वेदविहतं जिज्ञासितस्य राशिशेषं भवति । अनया दिशा भागादिशेषाश्चाऽऽनेयाः ॥८८॥ ८९ ॥ अथ संप्रदायाविच्छेदार्थ भास्कराचार्यकृतलीलावतीगतानि सोदाहरणानि निराकुट्टकसूत्राणि कतिचिल्लिख्यन्ते- भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् । येन च्छिन्नौ भाज्यहारौं न तेन क्षेपश्चैतदुष्टमुद्दिष्टपेव ॥ परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्तनं सः । स्वेनापवर्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञको स्तः ॥ १ स्व. एग्य शिलिमायाद । २ रू. कवेदी म मिल्धुरशनाया । ३. त्रि;
महालक्ष्मामुक्तावलीसहित:- मिथो भजेत्तौ दृढभाज्यहारौ यावद्विभाज्ये भवतीह रूपम् । फलान्यधोऽधस्तधो निवेश्यः क्षेपस्तदन्ते खमुपान्तिमेन ॥ स्वोर्चे हतेऽन्त्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशियुग्मम् । ऊो विभाज्येन दृढन तष्टः फलं गुणः स्यादधरो हरेण ॥ एवं तदेवात्र यदा समास्ताः स्युलब्धयश्चेद्विषमास्तदानीम् । यदागतौ लब्धिगुणौ विशाध्यौ स्वतक्षणाच्छेषमितौ तु तौ । श्रीभास्करीयलीलावत्यां कुट्टकाध्याये श्लो० १-५॥ इति करणमूत्राणि पश्च ॥ एषामर्थः-संभवे सति कुटकार्थमादौ कनाप्यपवर्तितेन भाज्या भाजकः क्षेपकश्चापवर्तनीयः । येनापवर्तकेन भाज्यभाजको विभक्तौ तेन विभक्तः क्षेपो न शुध्येच्चेत्तदुष्टमुद्दिष्टमव । खिलमित्यर्थः । ययोः परस्परभक्तयोर्यच्छेषं तत्तयोरपवर्तकं स्यात् । यो भाज्यभाजको स्वनापवर्तकंन भक्तो तौ दृढसंज्ञौ भवेताम् । एतदुपलक्षणम् । भाज्यभाजकयोर्योऽपवर्तकस्ताद्विभक्तः क्षेपोऽपि दृढसंज्ञ इति । तो दृढभाज्यभाजको परस्परं तावद्विभजेद्यावद्विभाज्ये रूपं भवति । अत्र विभाज्यशब्देन भाज्यभाजकयोः परस्परभजनात्तावुभा- वप्यभिधीयते । परस्परभजने क्रियमाणे यानि फलानि लभ्यन्ते तान्य- धोऽधो निधेयानि । तेषामधो दृढक्षेपस्तथा निधेयः । अन्ते खं निधेयम् । क्षेप- स्पाधः शून्यं निधयमित्यर्थः । उपान्तिमेन 'स्वोर्ध्व हतेऽन्त्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशियुग्ममिति ' वल्ल्युपसंहार उच्यते । प्राक्पष्टार्थ- मभिहितः । ऊर्ध्वराशिदृढेन भाज्येन तनूरुतः फलं भवेत् । अधोराशिदृढ- भाजकेन गुणः स्यात् । एवं पङ्क्तौ समायां वदितव्यम् । विषमायां तु तस्या- भवमागतौ लब्धिगुणौ क्रमादृढभाज्यभाजकाभ्यां विशोध्य सिद्धष्टौ लब्धिगुणौ भवत इति ज्ञेयम् । अत्र कुट्टाकार निरये समधिकवपुषीत्यादिनियमो नास्ति ॥ १ ॥२ ॥ ३ ॥ ४ ॥ ५॥ उद्देशकः-एकविंशतियुतं शतद्वयं यद्गुणं गणक पश्चषष्टियुक। पश्चवर्जितशतद्वयोद्धृतं शद्धिमेति गुणकं वदाऽऽश तम् ॥९॥ श्रीभास्करीयलीलावत्यां कुट्टकाध्याये- १ क. प्य शिष्टौल। .. mmunoment
:
कुट्टाकाराशरोमाणेः।
न्यासः-भाज्यः २२१ । हारः १९५ । क्षेपः ६५ । भान्यभाजकयोः
परस्परभक्तयोः शेष १३ । अनेनापवर्तिता दृढसंज्ञा भाज्यभाजकक्षेपाः कमे-
णेमे १७-१५-५ । परस्परभजनार्थमुपर्यधोभावेन विन्यस्तौ भाज्यभाजको
१७ । १५ । अनयोः परस्परभक्तयोलब्धे क्रमेणोपर्यधोभावेन निहिते ।।
७) अनयोरधः क्षेपो दत्तः ११७५। एषामधः शून्यं निक्षिप्तम् १७५०।
अथ वल्ल्युपसंहारे कृते जातौ राशी ४०।३५। इमौ दृढभाज्यभाजकाभ्यां
१७१५ तष्टौ जातौ लब्धिगुणौ ६।५ । अत्रापि त्रैराशिकमार्गः पूर्ववद्यो-
ज्यः । नन्वेवं मतिकल्पनायासमन्तरेण कुट्टकगणिते विद्यमाने किमर्थमार्य-
भटाचार्यादिभिर्मतिकल्पनाऽङ्गीलता । अवोच्यते । साये तावदवश्यं मतिकल्प-
नया भवितव्यम् । अतः साग्रनिरग्रयोदयारपि साऽस्त्वित्यङ्गीलतेत्यदोषः॥९॥
इत्यविकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्त वल्लभ इति प्रसिद्धापरनानः
श्रीवरदराजाचार्यस्य तनयन दवराजेन विचितायां कुट्टाका राशिरामाण-
टीकायां महालक्ष्मीमुक्कावल्यां निरमारिच्छेदा विनीयः ।।
अथ मिश्रश्रेढीमिश्रकुट्टा कारपरिच्छेदस्तृतीयः ।
अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदो व्याख्यायते । अस्मिन्परिच्छेद
पश्नवदनेषु यथासंभवमुपकरणानां वर्गवर्गमूल घनघनमूल संकाललाचीनवनवर्ग-
चितिघनघनचितिघनश्रेढीफलानामानयनविधिरार्यभटीय गणितसार दृष्टव्यः ।
इह तु ग्रन्थविस्तरभयान्न प्रदर्श्यने ।
अत्राऽऽदावार्यया पश्नत्रयं व्यञ्जयति--
अथ संकलितघनक्यारनपदयोगाच्च वर्गधनयोगात ।
विकलावशेषजातादिनमभ्यूह्यं विवेकिना पुंसा ॥ १ ॥
अत्र पदशब्देन विकला शेषो (शेषरूपी) गच्छ उच्यते । विकलावशेष-
जाताद्वर्गधनयोगाच्च विवेकिना पुंसा दिनमप्यूह्यम् । अत्र यद्यपि संकलिता-
दियोगो मुख्यवृत्त्या विकलावशेषजातो न भवनि तथापि योगिनां तज्जान-
त्वमवलम्ब्य तथोक्तम् ।। १ ॥
एषां भङ्गार्थमार्यामाह-
कथितमिह यद्यदैक्यं तस्मिंस्तस्मिंश्च विहितघनमूले ।
पूर्णतया घनमूलं यद्यतत्तदिलिप्तिकाशेषम् ॥ २ ॥
महालक्ष्मीमुक्तावलीसहित:-
इह यद्यदैक्यं कथितं तस्मिंस्तस्मिंश्च विहितघनमूले सति पूर्णतया यद्य-
घनमूलं तत्तदन विलिप्तिकाशेषं भवेत् । विलिप्तिकाशेषाज्जातादिष्टदिनानयनं
पागेवोक्तम् । अतस्तदव न वक्तव्यम् ॥ २ ॥
अथ प्रश्नान्तरमार्ययाऽऽह-
घनचितिघनवगैक्याद्विपूर्वलिप्तागसंभवादिवसान् ।
सद्यः समीक्षते यः स वेद(एव)गणितानि वेद वसुमत्याम् ॥३॥
यो विपूर्वलिप्ताग्रसंभवाचनचितिघनवगोरक्यादिवसान् सद्यः समी-
क्षते स एव वसुमत्यां गणितानि वेद । विपूर्वं लिप्ता विलिप्ताः॥ ३ ॥
एतत्पनभङ्गार्थमा-माह-
धनचितिधनवगैक्ये कृतवर्गपदेऽत्र यो भवेच्छेषः।
एतस्य वर्गमूलं यत्तद्विकलावशेषः स्यात् ॥ ४ ॥
स्पष्टोऽथः ॥ ४ ॥
अथाऽऽर्यया प्रश्नान्तरमाह-
लिप्ताषष्टयंशाग्रे जातात्संकलितघनचितिघनैक्यात् ।
यो भवति चितिघनोऽस्माद्या दिननिवहं वदत्यसौ धीमान॥५॥
--
-
अर्थतत्पश्नभङ्गार्थमा-माह-
पइगुणितानुद्दिष्टात्पूर्ण घनमूलमिह च यत्तस्मात् ।
वर्गभवं मूलं यत्तस्माद्विघ्नात्पदं विलिप्तागम् ॥ ६ ॥
इह षड्गुणितादुद्दिष्टाद् यत्पूर्ण घनमूलं तस्माद्वर्गभवं मूलं विलिप्तायं
भवति ॥६॥
अथाऽऽर्यया प्रश्नान्तरं व्यनक्ति-
पदकृतिसंकलितैक्याल्लिप्ताषष्टयंशशेषसंजातात् ।
इष्टदिनानां निवहः शक्यं सुधिया सुखेन विज्ञातुम् ॥ ७ ॥
अत्र पद शब्दो गच्छवचनः । लिप्ताषष्टयंशशषजातात्पदतिसंकलि-
तानां समासादिष्टदिननिवहः मुधिया सुखेन विज्ञातुं शक्यम् । शक्यमित्य-
व्ययम् । शक्यमरविन्दसुराभिरिति कालिदासः॥ ७ ॥
अथैतत्पश्नभङ्गार्थमार्यामाह-
कृतिपदसंकलितैक्ये संकलितं स्यात्कृशानुभिभक्त ।
संकलिते नयनह ते विहितपदे शेषमात्रविकलागम् ॥ ८ ॥
- - कुट्टाकारशिरोमणिः। हनिर्वर्गः । पदं गच्छः । संकलितं प्रसिद्धम् । ऐक्यं योगः । विकला- शेषभवानां कृतिपदसंकलितानामैक्ये कृशानुभि( ३ )भक्ते सति लब्धं संकलितं स्यात् । अथैवमागते संकलिते नयनहते विहितवर्गमूले च सत्यत्र शेषं विकलाग्रं भवति ॥ ८ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- योऽम्बरचरेन्द्र लितापूर्णरसांशावशेषजातेन । वर्गचितिघनेन दिनं विद्याद्विद्याविशेषवानेषः ॥ ९॥ लिप्तापूर्णरसांशा विलिप्ताः । शिष्टं स्पष्टम् ॥ ९ ॥ अथैतत्पश्नभङ्गार्थमार्यामाह- त्रिगृणार्गचितिघनाद्यत्पूर्णत्वेन धनपदं भवति । तग्रहविकलाशेषं भवतीति विपश्चिता विनिर्देश्यम् ॥१०॥ त्रिगुणाद्विकलाग्रभावाद्वर्गचितिघनाद्यत् पूर्णत्वेन घनमूलं भवति तद्ग्रह - विकलाशेषं भवतीति विपश्चिता विनिर्देश्यम् ॥ १० ॥ अथाऽऽर्यया प्रश्नान्तरमाह- धनवर्गवर्गचितिधनमंकलितममासतः समुद्दिष्टात् । खचरविलिप्ताग्रभवात्कथमपि गदितुं दिनं बुधैः शक्यम्॥११॥ समासा योगः । खचरविलिप्तानवशात् समुद्दिष्टाद् घनवर्गवर्गचितिधन- संकलितसमासतो बुधैर्दिनं कथमपि कथयितुं शक्यम् ॥ ११ ॥ अथैतत्पश्नभङ्गार्थमा माह- अत्रादिष्ट राशौ सागरभक्त फलं भवति यत्तत् । वर्गचितिघनस्त्वमुना विकलायं साधयेद्बुधः प्राग्वत्॥१२॥ अबोद्दिष्टे राशौ सागरैश्चतुर्भिक्ते यत्कलं भवति तद्विकलाग्रजातो वर्ग- चितिघनः । अमुना बुधः प्राग्वद्विकलाग्रं साधयेत् ॥ १२ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- कृतिघनसंकलितैक्यात्वचरविलिप्तावशेषसंभूतात् । वासरचयं वदेद्यो वागीशो भवति भूतले स पुमान् ॥१३॥ स्पष्टोऽर्थः ॥ १३ ॥ अथैतत्मश्नभङ्गार्थमा-माह- कृतिघनसंकलितैक्ये वह्निहृते भवति वर्गसंकलितम् । तस्माद्गगनचराणां प्राग्वद्विकलावशेषमानेयम् ॥ १४ ॥ - - - - महालक्ष्मीमुक्तावलीसहित:- वर्गसंकलितं वर्गचितिधनम् । शिष्टं स्पष्टम् ॥ १४ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- विकलाशेषेष्टांशश्रेढ्यां विकलावशेषभक्तायाम यत्तेनांशमुखाभ्यामुत्तरतश्चेष्टदिनचयो वाच्यः ॥ १५ ॥ *इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखमध्यम् । इष्टगुणितमिष्टधनम् । इत्यार्यभटीयसूत्रानीतमिष्टधनमत्र श्रेढीशब्देनोच्यते । विकलाशेषस्य रूपांश- व्यंशव्यंशादीष्टांशजाता श्रेढी विकलाशेषेष्टांशश्रेढी । तस्यां विकलावशे- षभक्तायां शुद्धायां सत्यां यत्फलं भवति तेनांशादियोत्तरैश्च कथितैरिष्टदिन- निचयो वाच्यः ॥ १५ ॥ अथैतत्पश्नभजनायाऽऽर्यामाह- अंशहते फलराशौ विमुखे चोत्तरहते हंत द्वाभ्याम् । रूपयुतऽशकगुणित यत्स्यादिकलाग्रमेव तद्भवति ॥१६॥ उद्दिष्टे फलराशावुद्दिष्टे नांशेन गुणितेन तदुद्दिष्टेन मुखेन हीने तदुद्दिष्टेनो- त्तरेण भक्ते ततो द्वाभ्यां( २ ) गुणिते ततो रूप(१)सहिते पुनश्चांश ( शे )गुणिते यत्स्यात्तद्विकलायं भवति । व्यक्त्यर्थमेतदुदाहरणेन प्रदर्श्यते । अत्र ग्रहस्य कल्पितो विकला शेषः शत ( १०० )संख्यः । अस्य चतुर्थांशः पञ्चविंशति- (२५)संख्यः । इदमिष्टम् । अत्र प्रथमं श्रेढीफलमानीयते । इष्टम् (२५) । एतब्येकम् । चतुर्विंशति( २४ )संख्यम् । एतद्दलितं द्वादश( १२ )संख्यम् । इदमत्र कल्पितेनोत्तरेण त्रिकेण गुणितं षट्विंश ( ३६ )त्संख्यम् । एतत्क- ल्पितेन मुखेन चतुष्टयेन( ४ )युक्तं चत्वारिंश ( ४० )त्संख्यम् । इदं मध्यध- नम् । एतदुद्दिष्टेन पञ्चविंशति( २५ )संख्येनांशेन गुणितं सहस्र( १००० ०) संख्यं जातम् । इदमत्र विकलाशेषेष्टांशश्रेढी । इयं विकलाशेषेण शत- ( १०० )संख्येन भक्ता शुध्यति । अत्र फलं दश( १० )संख्यम् । अस्मि- श्वांशे मुखे चोत्तरे च कथिते सति विकलाग्रमानेतुं शक्यम् । तस्मात्कथितैरे- भिश्चतुभिर्विकलायमानीयते । इह फलराशिर्दश ( १० )संख्यः । अयमंशन चतुष्टयेन( ४ ) गुणि तश्चत्वारिंश(४०)संख्यः । अयं मुखेन चतुष्टयेन( ४ ) हीनः षट्त्रिंश ( ३६ )त्संख्यः । अयमुत्तरेण त्रिकेण( ३ ) भक्तो द्वादश- ( १२ )संख्यः । एष द्वाभ्यां गुणितश्चतुर्विशति( २४ )संख्यः। अयं रूपेण ( १ )सहितः पञ्चविंशति ( २५ )संख्यः । अयं पुनरप्यंशेन चतुष्टयेन( ४ गुणितः शत( १०० )संख्यः । एष ग्रहस्य विकलाशेषः ॥ १६ ॥ ( * आयभटीये गणितपाई क १९) ४ कुट्टाकाशिरामाणः। अथाऽऽर्ययोपसंहरति- दिङ्मात्रेण मयाऽस्मिन्कुट्टाकारः प्रदर्शिता ग्रन्थे । शेषोऽखिला विशेषा भाष्यादौ दृश्यतां विपश्चिद्भिः॥१७॥ भाष्यमार्यभटीयविषयं भास्कराचार्यविरचितम् । आदिशब्देन भट्टब्रह्म- गुप्तविरचितब्रह्मसिद्धान्तादिरभिधीयते । शिष्टं सुबोधम् ॥ १७ ॥ अथैष ग्रन्थो न स्वतन्त्रः, किंत्वार्यभटाचार्यप्रणीतकुट्टाकारविषयसूत्रयु- ग्मस्य कुट्टाकारशिरोमणिनामधेयो व्याख्यानविशेष एंवत्यार्ययाऽऽह- आचार्यभटोदितकुट्टाकारार्थमृत्रयुगलस्य । कुट्टाकारशिरोमणिनामा व्याख्याविशेष एवैषः ॥१८॥ इयमवतारिकया विवृतार्था ॥ १८ ॥ अर्थमं ग्रन्थमभ्यस्यतां फलं दयितुमार्यामाह- कुटाकारशिरोमणिमिममभ्यस्थति दृढन यो मनसा । तरणः प्रसादनाऽयं महमा तान्त्रिकशिरोमणिर्भवति ॥१९॥ इति श्रीदेवराजविरचित कुटाकारशिरोमणी मिश्रीमिश्रकुटा- कारपरिच्छेदस्तृतीयः ॥ ३॥ इम कुटकारशिरोमणि दृढेनाव्यापृतेन मनसा योऽभ्यस्यति संशीलयांत स तरणेरादित्यस्य प्रसादतः सहसा तान्त्रिकशिरोमणिर्भवति । तान्त्रिको ज्ञात- सिद्धान्तः ॥ १९॥ सवर्ण सूत्रकलिता समवृत्ताऽतुला नवा । समर्पिता महालक्ष्म्य टीका मुक्तावली मया ॥ इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति पसिद्धापरनान्न: श्रीवरदराजाचार्यस्य तनयन देवगजेन विरचितायां कुट्टाकारशिरोमणि टीकायां महालक्ष्मीमुक्तावल्यां मिश्री मिश्रकट्टा कारपरिच्छदस्तृतीयः ॥३॥ समाप्ता चेयं महालक्ष्मीमुक्तावली नाम कुटाकारशिरोमणिटीका । m-
No text on this page.
No text on this page.
No text on this page.
No text on this page.