University Library,gurukul Kangri Vishwavidyalaya
विक्रमार्क चरित्रम
Front matter
P
S
A
गुरुकुल-प्रन्यानि
mitte
kapil
संशोधित पञ्चतन्त्रकम
द्वितीयो भागः
अरुकन. संस्कृत पाठ्य-पुस्तक मालामा
धतुर्थम्पुरतका
।
Aama
madpurm.
ब
गरुकरस्थपण्डितः संशोधितम् ।
क
साधिधार सुरदिन।
গম দ্বান্দি
सम्बत् १६७१
--
काजी गुरुहुल भर भी नयनान्द पy rian RATE
स
とるみ प्रो३म् प्रस्तावना पञ्चतन्त्रमिदं किल संस्कृतसाहित्यस्य समुज्ज्वलतमं भूषणम् । न केवलं भारते बर्षे, न केवलं देववाणिरसिव पु, अपितु सर्वत्रापि भू- मण्डले प्रत्य ग्रन्थस्य महती प्रतिष्टा बरीवर्ति । धापि जगतःपियो- पदेशसाधनेषु ग्रन्थेषु प्रथममस्य स्थानम् । न चास्येयं कीर्ति नवीना; ख्रिष्टसंवत्सरारम्भादपि पूर्वमस्य भारतीयगजमण्डले समादरः श्रू- यते । षष्ठयां ख्रिष्टशतायाखुस्रो अनुशेरवाँइत्याख्यस्यसमेनियन- नृपतेरावयाऽयं ग्रन्थः पहलवीभाषायामनूदितोऽभूत् । अष्टमशताब्द्यां च तत्वैव पुनरारव्यभाषाया मनुवादः संजात इत्युपलभ्यते । इत्ये पश्चिरकालात्संसारविदितमिदं पञ्चतन्त्रक मधापि ताशमेवादरल भते, यादृशं रचनाकाले लेभे। भाषाऽत्यरुचिरा मधुरा सरला च । न तत्र प्रसिद्धपदानां समावेशो, नापि च समासवाहुल्यम् । बालैरपि प्रोटैरपि चा- त्याध्ययनं विधातुं शक्यम् । कथाः सर्वा अपि मनोहारिस्य उपदे- शपदाश्चयद्यपि तेषु पात्राणि प्रायः पशुपतिकीटादिभ्य एव सं. गृहीतानि, तथापि तेन पुस्तकस्योपयोगितायाः परिवृद्धिरेव- जाता न तयः । भाषाया माधुर्य, विषयस्य चोपयोगिसमस्य ग्रन्थस्य माचीनत्वे प्रबलम्प्रमाणमस्ति । मध्यकालनिर्मितेषु ग्र- विक्रमाचरित्रम् । द्वितीयः ': पाठः। अत्रान्तरे सुरनगरे रम्भोर्वश्योर्नसननैपुणे विवादः सम- जायत । तयोरन्तरमवगन्तुममरेषु कोऽपि न शशाक । एकदा सिंहासनासीनं देवं वासवं नारदो वभाण 'देव, धरातले विक्रमो नाम राजा जागर्ति । स सकलकलाभिज्ञः, विशेषतः संगीतविद्याविचक्षणः । स एव एतयोविवादनिर्णयं कर्तुं प्रभ- वेत्' इति । तच्छ्रुत्वा महेन्द्रो विक्रममानेतुं मातलिं प्रेषयामास । विक्रमोऽपि मातलिसमानीतं रथमारुह्य, सहैव वेतालेन सुधर्मा प्रविश्य, वासवेन संमानितः समुचितमासनमध्यास्त । तदानीं रम्भोर्वश्योर्नृतं प्रावर्तत । राजा तूर्वशी प्रशशंस । पाकशासनस्तु परं संतुष्य, मणिमयमतिमनोहरं सिंहासनमेकमस्मै प्रादात् । त- स्मिन्सिहासने द्वात्रिंशत्सालभञ्जिकाः सन्ति । तासां शिरसि पदं निधाय तदध्यासितव्यम् । राजा तु महेन्द्रमापुग्छय तदा- सनं गृहीत्वा निजं नगरमगमत् ।। तृतीयः पाठः। तदनन्तरमेकदा शुभे मुहूर्ते विक्रमार्को ब्राह्मणाशीर्वाद- पूर्वकं तत्सिंहासनमारुह्या राज्यमकरोत् । एवं महान्कालो गतः । तत एकदा प्रतिष्ठानगरे कस्यांचित्कन्यकायां शालिवाहनो नाम बालः समजायत । तदानीमुज्जयिनी परितो भूकम्पादीनि दुनिमित्तानि दृष्टानि । ततो विक्रमादित्यो दैवज्ञानाड्य भूकम्पादिफलं पप्रच्छ । दैवजा ऊचुः- 'भो देव, यदयं भूकम्पः विक्रमाचरित्रम् । ३ संध्याकाले जातः, ततो राज्ञोऽनिष्टं सूचयति ।' इति । तदा- कर्ण्य राजा अब्रवीत्- “भो दैवज्ञाः, पुरा परमेश्वरः संतोषितो मामाह- 'भो राजन् , प्रसन्नोऽस्मि । विना अमरत्वं याचस्व इति । ततोऽहम्वोचम्- 'सार्धद्विहायन्यां कन्यायामुत्पन्नात्पु- प्रान्मम मरणं भवतु' इति । तच्छ्रुत्वा देवः तथेत्यनुजग्राह इति । तदाकर्ण्य · सहि तादृशः पुत्रो भविष्यति' इति दैवज्ञैर- रप्युक्तम् ॥ चतुर्थः पाठः। राजाऽपि 'हा दैवसृष्टिरचिन्त्या । तादृशः कस्मिन्देशे कथमुत्पनो भविष्यति' इति व्याकुलचित्तो वेतालमाहूय एत- सर्व तस्मै निवेधाब्रवीत् - 'भो यक्ष, पृथिवीं परिभ्रम । एवं- विधः पुत्रः कस्मिन्देशे कुत्र नगरे समुत्पन्न इति ज्ञात्वा झटिति समागच्छ' इति । वेतालोऽपि 'महान्यसादः' इति निर्गत्य, सागरवेलावलयितां सगिरिकाननां वसुंधरा पर्यटन , प्रतिष्ठा- नगरं प्रविश्य, कुत्रापि कुम्भकारगृहे कंचिन्माणवकं कांचित्क- न्यकां च क्रीडन्तौ दृष्ट्वाऽपृच्छत्- 'को युवाम् !' इति । कन्या 'अयं मम पुत्रः' इति प्रत्याह । वेतालः 'कस्ते पिता!' इति पुनरपृच्छत् । कन्या तु कंचन ब्राह्मणमदर्शयत् । ततो ब्राह्मण- मनाक्षीत् । ब्राह्मणः 'इयं मम कन्या, अस्याः पुत्रोऽयं बालः' इति प्रतिजगाद । तच्छ्रुत्वा परं विस्मयं गतो वेतालो ब्राह्मणं पुनरब्रवीत्- 'भो ब्राह्मण, कथमेतत् ' इति । सोऽब्रवीत् - - १ विक्रमाचरित्रम् । 'देवानां चरित्रं मानवानामगोचरः । अस्याः रूपलावण्याति- शयमोहितः शेषो नागेन्द्रोऽनया संगतः । तस्मादस्यां जातः पुत्रोऽयं शालिवाहननामा' इति । तदाकर्ण्य वेतालः सत्वरमु- जयिनीमागत्य विक्रमादित्याय सर्वमपि वृत्तान्तमकथयत् ।। - पञ्चमः पाठः । राजापि खडमादाय प्रतिष्ठानगरं प्रविश्य, यावत्खडं शालिवाहने चिक्षेप तावत्तेन स्वयमेव हतः । ततो मन्त्रिषु 'राजायमपुत्रः। किंवा कर्तव्यम्' इति विचारयत्सु भट्टिः पाह- विचार्यताम् । आसां राजमहिषीणां कापि गर्भिणी स्यात्' इति । ततो विचार्यमाणे, कापि सप्तमासगर्भा समदृश्यत तदा सर्वे मन्त्रिणो मिलित्वा, गर्भस्याभिषेकं कृत्वा, स्वयं रा- ज्यं पर्यपालयन् । तदिन्द्रदत्तं सिंहासनं यदैव शून्यमासीत् , तदा मध्येसमं काप्यशरीरिणी वागुदभूत्- 'भो मन्त्रिणः, अ- स्मिन्सिंहासने समुपवेष्टुं विक्रमार्कसदृशो राजा कोऽपि नास्ति। तस्मादिदं मुक्षेत्र निक्षिप्यताम्' इति । तनिशम्य मन्त्रिणः कुत्रापि पवित्रे क्षेत्रे तत्सिंहासनं भूम्यन्तर्निक्षिप्य, तत्क्षेत्रं याव- नालचणकसमृद्धं कस्मैचिह्राह्मणाय ददुः । ब्राह्मणोऽपि यत्र सिंहासनं निक्षिप्तम् , तदुचस्थानमिति पक्षिणामुत्थापनार्थ तदु- परि मञ्च निक्षिप्य तत्रोपविश्य पक्षिणः समुत्थापयमवर्तत ।।
विक्रमार्कचरित्रम् । ५ षष्ठः पाठः । सतः कदाचिद्भोजराजः ससैन्यो मृगयार्थमटन् , राजकु- मारैः समेतः, तत्क्षेत्रसमीपे यावदाजगाम, तावन्मञ्चोपरि स्थि- तो ब्राह्मणः प्राह- 'भो राजन् , एतत्क्षेत्रं फलितमस्ति । ससै- न्येन समागत्य तत्रभवता यथेच्छं भुज्यताम् । अश्वेभ्यश्चणका- दयो दीयन्ताम् । अद्य मम जीवितं सफलमासीत् , यतो भवा- न्ममातिथिर्जातः । ईदृशस्त्वतिथिः कदापि न संदृश्यते' इति । तच्छ्रुत्वा राजा ससैन्यः क्षेत्रमध्यं प्रविवेश । ततो ब्राह्मणः प- क्ष्युत्थापनाय मञ्चादवरुह्य क्षेत्रमध्ये प्रविष्टं राजानं दृष्ट्वा भीतो- ऽभणत्- 'राजन् , किमेवमधर्मः क्रियते ! । ब्राह्मणक्षेत्रमिदं विनाश्यते । यद्यन्यैरधर्मः क्रियेत, तदा राजे निवेदनीयम् । त्वमेवान्याय्मं कर्तुं प्रवृत्तः । इदानी को वा त्वां निवारयिष्य- ति । भवान्सर्वशास्त्राभिज्ञः कथं ब्राह्मणद्रव्यं विनाशयति इति । ततो यावदाजा तत्क्षेत्राहिः सपरिवारो निर्जगाम, तावत्पक्षि- णः समुत्थाप्य पुनर्मचारूढो ब्राह्मणः प्राह - किमिति गच्छसि । इदं क्षेत्रं साधु परिणतं दृश्यते । यावनाला- श्रणकांश्च भक्षयन्तु तव परिवाराः । पश्य उर्वारुकफलानि स- न्ति । यथेष्टं भुज्यन्ताम्' इति । पुनर्ब्राह्मणवचनमाकर्ण्य सपरि- वारो राजा यावत्क्षेत्रमध्यं प्रविवेश, तावन्मश्चादवरुप पुनस्त- यैव निषेधाक्षराण्यभणत् ।। 'भो राजन्, Sandamruareeme विक्रमार्कचरित्रम् । सप्तमः पाठः । ततो राजा स्वमनसि विचारयति स्म- 'अहो ब्राह्मणां यदा मञ्चमारोहति, तदास्य चेतसि दातव्यमिति बुद्धिरुत्प- घते । यदावतरति, तदा दीना बुद्धिमत्पद्यते । अहं मञ्चमा- रुह्य पश्येयम् ' इति यावन्मञ्चमारुरोह, तावद्भोजराजस्य चेत- स्येवं बुद्धिरुदभूत् --- ' ननु विश्वस्यातिः परिहर्तव्या। सर्व- स्यापि लोकस्य दारिधं निवारणीयम् । दुष्टा दण्डनीयाः । शिष्टाः परिपालनीयाः । प्रजा धर्मण रक्षणीयाः । किं बहुना अस्मिन्समये यदि कोपि मम शरीरमपि प्रार्थयते, तर्हि तदपि दद्याम् ' इति । ततो राजा परमानन्दपूर्णहृदयः पुनरपि वि- चारयति स्म- 'एतत्क्षेत्रस्य माहात्म्यमेवंविधां बुद्धिमुत्पादय- ति । कथमेतत् ज्ञायताम् ' इति । ततो ब्राह्मणमायापुच्छत्- 'भो ब्राह्मण, तवैतत्क्षेत्रे कियान् लाभो भवति ! ' इति । ब्राह्मणः- 'भो राजन् , भवान्सकलाभिज्ञः। अविदितं भवतः किमपि नास्ति । तद्भवानेव समालोचयतु'इति प्रत्यवदत् । ततो राजा ब्राह्मणमनेकधनधान्यादिना संभाव्य क्षेत्रं वशीकृत्य म- वस्याघश्वखान । तत्र पुरुषमात्रे गर्ने शिलैका मुमनोहराश्यत। तच्छिलाधःप्रदेशे कापि चन्द्रकान्तशिला दृष्टा । ततो नानावि- धरनखचितं द्वात्रिंशत्सालभञ्जिकासमलंकृतमतिरमणीयं सिंहा- सनमेकमहश्यत । ततो भोजः परमानन्दपूर्णहृदयः सिंहासनं नगरं नेतुं यावदुश्चलयामास, तावदतिगरिष्ठमासनं नोच्चचाल ॥ MURARH विक्रमाचरित्रम् । अष्टमः पाठः। ततो राजा 'कुतः सिंहासनं नोच्चलति' इति मन्त्रिण- मपृच्छत् । मन्त्री तु 'राजन् , दिव्यमेतदासनं बलिपूजादिकं विना नोच्चलेत्' इति प्रत्यवदत् । तच्छ्रुत्वा राजा ब्राह्मणाना- कार्य सर्वमपि संविधानं कारितवान् । ततस्तत्सिहासनं लघु भूत्वा स्वयमेवोधचाल । तदालोक्य राजा मन्त्रिणमुवाच- योऽनर्थ निवारयति, असाध्यमर्थ च साधयति, स एव मन्त्री' इति । ततो मन्त्री प्रत्यब्रवीत्- 'मन्त्रिणा स्वामिहितमेव कार्य कर्तव्यम् । अन्यञ्च, मन्त्रिणा विना राज्यम् , ज्ञानं निना वैरा- ग्यम् , खलानां मैत्री, निर्धनस्याटोपः, सेवफस्य कोपः, इत्ये- सत्सर्व निष्फलम् । अपरं च, राज्ञा महतामर्चनं कार्यम् । आ- सानां बुद्धिाह्या । देवब्राह्मणाः परिपालनीयाः । न्यायमार्गे वर्तितव्यम् । अपि च, राजन् , ये राजगुणाः, ते सर्वे त्वयि वि- धन्ते । अतस्त्वं सकलराजराजोत्तमः । मन्त्रिणाप्येवं गुणगरि- छैन भवितव्यम् । स्वामिकार्यार्थमुद्यमः, पापाद्भयम् , प्रजानां हितम् , परिवाराणां संयोजनम् , राज्ञश्चित्तवृत्त्यनुसरणम् , अ- पायकार्याद्राजनिवारणम् , इत्यादयो ये मन्त्रिगुणाः, तैयुक्तः कुलक्रमागतः कामन्दकचाणक्यधौम्यशुक्रवाचस्पत्यादिनीति- शास्त्राभिज्ञो मन्त्रिपदयोग्यो भवति । पुरा किल नन्दभूपालो मन्त्रिणा बहुश्रुतेन ब्रह्महत्याया निवारितः' इति ।। masumama-RAYN विक्रमाचरित्रम् । नवमः पाठः । भोजः- कथमेतत् ! इति पप्रच्छ । सोऽब्रवीस्- विशालायां नन्दो नाम राजा महाशौर्यसंपन्नोऽभूत् । स निजबलेन प्रत्यार्थिनृपालान्स्वपादपयोपजीविनो विधाय, एक- छत्रेण राज्यमकरोत् । तस्य च बहुश्रुतो नाम मन्त्री । भानुमती नाम महिषी । जयपालो नाम तनयः । तस्य राज्ञो महिष्यां भानुमत्यामतीव प्रीतिरासीत् । सिंहासनेऽपि सहैव तया समु- पविशेत् । निमेषमपि तया विना न तिष्ठेत् । एकदा मन्त्री स्व- मनस्यचिन्तयत्- 'अयं राजा निर्लज्जो मध्येसमं सिंहासने स्त्रियमुपवेशयति । तदा सर्वे जनास्ता पश्यन्ति । अनुचितमयं न जानाति । किं क्रियताम्' इति । तत एकदावसरं प्राप्य रा- जानमब्रवीत्- 'देव, विज्ञाप्यमस्ति' इति । राजा 'किं तत् ! कथ्यताम्' इत्याह । मन्त्री 'यदेषा भानुमती सिंहासने सहो- पविशति, तदतीवानुचितम् । ' असूर्यपश्या राजदाराः' इति हि संप्रदायः। अत्र नानाजनाः समागत्य तां पश्यन्ति । अत इत: परं नैवं युक्तं कर्तुम्' इति विज्ञापयामास । ततो राजा 'भानु मत्यनालोकनं क्षणमपि न सहे । तदुपायं निरूपय' इत्याह । मन्त्री ‘आलेख्यगतां तां पश्यतु देवः' इत्युपायमुपादिशत् ।। , दशमः पाठः। अनन्तरं राजा तद्वचनं समुचितं मत्वा चित्रकारमाझ्य, 'भानुमतीरूपं चित्रे निवेशय' इत्यादिदेश । स तु तस्या रूपं विक्रमार्कचरित्रम् । साक्षादालोक्य पबिनीलक्षणयुक्तां तो चित्रे विलिलेख । रा- जापि चित्रलिखितां प्रियां दृष्ट्वा प्रष्टस्तस्मै पारितोषिकं ददौ । अनन्तरमेकदा राजगुरुः शारदानन्दश्चित्रपटे निवेशितां भानु- मती दृष्ट्वा चित्रकारमभाणीत् --- 'भानुमत्याः सर्वमपि रूपमत्र लिखितम् । परं त्वेकं विस्मृतं त्वया' इति । चित्रकारः ‘भोः स्वामिन् , तत्किम् ? कथय' इति सविनयमपृच्छत् । ततः शा- रदानन्दः 'तस्या वामसक्थिस्थले तिलसदृशं लक्ष्मास्ति । त- न लिखितम्' इत्याह । राजा तु गुरोर्वचनं श्रुत्वा तद्वचनं तथ्य ज्ञात्वा स्वमनस्यचिन्तयत् - 'कथमनेनास्था लक्ष्म ज्ञातम् । नूनमनया सहास्य स्नेहो विद्यते' इति । एवं विचार्य मन्त्रिण- माय मर्वमकथयत् । मन्त्रिणापि तस्मिन्समये तञ्चित्तानुगुणं भणितम् ।। अनन्तरं रामा ‘मन्त्रिन , यदि मम प्रियोऽसि, ती मुं शारदानन्दं मारय' इत्यादिक्षत् ।। एकादशः पाठः। सचिवोऽपि तथेति प्रतिज्ञाय, जनानां पुरतः शारदानन्दं दृढं बद्धा वध्यस्थानमनयत् । तदा गुरुः श्लोकमकमपठत्- वने रणे शत्रुजलामिमध्ये महार्णवे पर्वतमस्तकेवा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥२॥ तच्छ्रुत्वा मन्त्री स्वमनस्यचिन्तयत् -- 'अहो, एनत्सत्यं वा मि- ध्या वा। किमर्थं प्राह्मणवधः क्रियते । अतीवांयुक्तमिदम्' इति । Panand 2 १० विक्रमार्कचरित्रम् । अनन्तरं शारदानन्दं गूढं स्वभवनं नीत्वा भूगृहे निक्षिप्य, राज- संनिधिमागत्य, 'देव, अनुष्ठितो भवदादेशः' इत्यवादीत् । राजापि 'साधु कृतम्' इति प्रशशंस । तत एकदा जयपालो नाम राजकुमारः, आखेटार्थ वनाय निर्जगाम । तदा अकाल- वृष्ट्यादीनि दुनिमित्तानि वभूवुः । तस्मिन्समये मन्त्रिपुत्रो बु- द्धिसागरो दुनिमित्तानि निरूप्य शतशा निवारयामास । एवं बहुधा निवारयन्तं बुद्धिसागरमनादृत्य जयपालः खडव्याघ्रश- रभमृगसमाकुलं महदरण्यं प्रविश्य यावत्पश्चाददर्श, तावत्सर्वो- ऽपि सैन्यवर्गो नगरमार्गे लग्नो दृष्टः । स्वयमेकाकी संवृत्तस्तु- रगमात्रसहायः, पुरः सरोवरमेकमद्राक्षीत् । तत्रावादवतीर्य वृक्ष- शाखायामश्वं निबध्य जलयवगाध शान्तपिपासस्ताच्छायायां विशश्राम ॥ दादशः पाठः। तदानीमतिभयंकरः कश्चिव्याघ्रः समापतत् । तं दृष्ट्वाच- श्छिन्नबन्धो यथागतमधावत् । राजकुमारोऽपि भयादेपमानाङ्ग: शाखामालम्ब्य द्रुममारुरोह । तत्र च पूर्वारूढं भल्लूकं दृष्ट्रा अत्यन्तभीतं राजकुमारं भल्लूकः ससान्त्वमब्रवीत् - 'भो राजकुमार, मा भैषीः । अद्य मां शरणं गतस्त्वर । अतस्तवाह किमनिष्ठं करिष्यामि । मयि विश्वस्य, व्याघ्रादपि त्वया न भेतव्यम्' इति । ततो राजकुमारः समयमिदमभाणीत्- 'भो ऋक्षराज, अहं त्वां शरणं गतः । विशेषतो भीतश्च । महत्पुण्यं शरणागतरक्षणेन ते भवेत् । उक्तं च- ?
विक्रमार्क चरित्रम् ।
११
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ।।३।।
इति ।' ततो भल्लूकेन विश्वासितो राजपुत्रः । अत्रान्तरे व्या-
घोऽपि वृक्षमूलमाजगाम । सूर्यश्वास्तमगात् । ततो मृगयाप-
रिश्रान्तो राजकुमारो निद्रापरवशो भल्लूकेनामारोपितः सुखं
सुष्वाप । तदवलोक्य व्याघ्रो भल्लूकमवादीत- 'भो ऋक्ष,
अयं मनुष्यो नगरनिवासी, अस्मानेव हन्तुं वनमागतः । अतः
शत्रुभूतमेनं कथमके न्यवेशयः । अयं त्वयोपकृतोऽप्यपकारमेव
ते करिष्यति । तस्मादमुमधः पातय' इति । तच्छ्रुत्वा भल्लूकः
पाह- 'अयं यादृशः कीदृशो वा भवतु । परं मां शरणं गतः ।
अतोऽमुं न पातयेयम् ।' इति ॥
त्रयोदशः पाठः।
अत्रान्तरे मुप्तोत्थितं राजकुमारं भल्लूकः प्राह - भी,
राजकुमार, अहं निद्रां गमिष्यामि । त्वमत्राप्रमत्तस्तिष्ट' इति ।
राजकुमारः 'तथा भवतु' इत्याह । ततो भल्लूको राजपुत्रस
मीपे निद्रामवाप । तदा व्याघ्रः प्राह - 'राजकुमार, त्वमस्मि-
विश्वासं मा कुरु । यतोऽयं भर कश्चश्चलचिनो दृश्यते, ततो
ऽस्य प्रसादोऽपि भयंकरः । तथा चोच्यते--
क्षणे तुष्टाः क्षणे रुष्टा वितुष्टाश्च क्षणान्तरे ।
अव्यवस्थितचित्तानां प्रसादोऽपि भयंकरः ॥४॥
विक्रमार्क चरित्रम् । . इति । किं च त्वां मत्ता रक्षित्वा स्वयं हन्तुमिच्छति । अतस्त्वमेन. पधः पाराय । अहमेनं भक्षयित्वा गमिष्यामि । त्वमपि निज- नगरं गन्तुमर्हसि ' इति । तदाकर्ण्य राजपुत्रो जयपालो याव- दनमधः पातयितुमारेभे, तावद्भल्लूको वृक्षारपतन्नपि शाखान्त- रमाललम्बे । तं दृष्ट्वा राजपुत्रो विफलप्रयत्नो विभाय । सदा भल्लूकः ‘भोः पापिष्ठ, किमर्थ विभेषि? यत्पुरार्जितं कर्म, तत्फलं त्वया भोक्तव्यम् । अतस्त्वं 'ससेमिरा' इति वदपि- शाचो भूत्वा प्रतिवनं परिभ्रम' इति शशाप । ततः प्रभातमा- सीत् । व्याघ्रस्तु निरगात् । भल्लूकोऽपि यथेच्छं जगाम । राजकुमारोऽपि 'ससेमिरा' इति वदन्पिशाचो भूत्वा वनेषु प- रिबभ्राम । ततोऽस्य तुरंगमो नगरमगमत् । तत्र राजपुत्ररहि- तमश्वं दृष्ट्वा. जना राज्ञे समाचख्युः।। चतुर्दशः पाठः। ततो राजा मन्त्रिणः समाय भणति स्म- 'भो मन्त्रि- णः, मृगयार्थ कुमार निगच्छति, महदुनिमित्तमासीस्किल । त- थापि मत्तस्तदुल्लय वनं गतः । तस्य फलं सद्य एव समुपन- तम् । तदारूढोऽश्वः शून्यः समागतः । ततस्तन्मार्गणाय वन प्रति गमिष्यामि' इति । ततस्तेऽप्यङ्गीचक्रुः । ततो राजा म- त्रिभिः परिवारेण च सह, कुमारो येन मार्गेण गतः, तेनैव मार्गेण वनं प्राविशत् । तता वनमध्ये परिभ्रमन्तम् ‘ससेमिरा' इति वदन्तं पिशाचभूतं सुतं दृष्ट्वा राजा महाशोकसागरनिममः, विक्रमाके चरित्रम् । समादाय स्वनगरमागमत् । आगत्य च तदुन्मादशमनाय बड्- विधीकारयामास । केनापि कुमारः स्वस्थो न बभूव । त. स्मिन्समये राजा मन्त्रिणं बहुश्रुतमभाणी- ‘अस्मिन्समये शारदानन्दस्तिष्ठेयदि, क्षणमात्रेण चिकित्सां कुर्यात् । स मया वृथैव मारितः । पुरुषेण यत्कार्य कियते, तद्विचार्यैव कर्तव्यम् । भवतु । तत्कर्मायत्तमभूत् । किमनेन गतचिन्तनेन । इदानीं म- हान्प्रयत्रः कर्तव्यः' इति । मन्त्री ‘कथं कर्तव्यः' इत्यपृच्छत् । राजाब्रवीत्- 'यः कोऽपि कुमारस्य यदि चिकित्सां करिष्यति, तस्मै अर्धराज्यं दास्यामि । सर्वानन्यांचाभीष्टान्दास्यामीत्यभि- तो नगरमुद्दोषय' इति । ततो मन्त्री तथैव विधाय, स्वभवनमा- गत्य शारदानन्दाय मर्व निवेदयामास । तत्सर्व श्रुत्वा शार. दानन्दः “बहुश्रुत, 'मम गृहे कापि कन्या वर्तते । यधेनं - श्येत् , कमप्युपायं कुर्यात्' इति राज्ञे निवेदय" इत्यवादीत् । स- छुन्वा मन्त्री राज्ञे तन्निवेदयामास ।। पञ्चदशः पाठः। ततो राजा सपुत्रः सपरिवारो मन्त्रिगृहमागत्योपविवेश । राजपुत्रोऽपि 'ससेमिरा' इति वदन्नुपविष्टः । तदाकर्ण्य यब- निकान्तर्वर्ती शारदानन्दः 'भो राजपुत्र.' इत्यामन्त्रयत । तदा भूयोऽपि 'ससेमिरा इति वदन्तं राजतनयमुदिश्यैवं पद्यं पपाठ- सद्भावं प्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तानां हनने किं नु पौरुषम् ॥५॥ ।
१४ विक्रमार्क चरित्रम् । - तत्पर्य श्रुत्वा राजपुत्रश्चतुर्णा वर्णानामादिमं वर्ण परित्यज्य 'सेमिरा' इत्यवदत् । पुनश्च शारदानन्दो द्वितीयं पद्यमपठत्- सेतुं दृष्ट्वा समुद्रस्य गङ्गासागरसंगमम् । ब्रह्महत्या प्रमुच्यत मित्रद्रोहो न मुच्यते ॥६॥ इति । तत्पधं श्रुत्वा राजपुत्रो वर्णद्वयं परित्यज्य 'मिरा' इत्यु- तवान् । ततः शारदानन्दस्तृतीयं पधमपठत्- मित्रद्रोही कृतघ्रश्च यश्च विश्वासघातकः । त्रयस्ते नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥७॥ इति । ततो वर्णत्रयं परित्यज्य 'रा' इत्यब्रवीत् । तच्छ्रुत्वा शारदानन्दचतुर्थ पथमपाठीत् -- राजन भोस्तव पुत्रस्य यदि कल्याणमिच्छसि । दानं देहि द्विजातिभ्यो वर्णानां ब्राह्मणो गुरुः ॥८॥ 4 षोडशः पाठः । ततो राजपुत्रः स्वस्थमना: सावधानश्च पितुर्भल्लूक- चान्तं सर्वमकथयत् । तत्समाकर्ण्य राजा शारदानन्दमपृच्छन्- ग्रामे वससि कल्याणि विपिनं नैव गच्छसि । ऋक्षव्याघ्रमनुष्याणां कथं जानासि भाषितम् ॥९॥ इति। तच्छ्रुत्वा शारदानन्दः प्रत्यवादीत- विक्रमार्फचरित्रम् । १९ देवाद्विजप्रसादेन वाणी जिहां ममाश्रिता । तेनाहमभिजानामि भानुमत्या यथाङ्कितम् ॥१०॥ तच्छ्रुत्वा राजा महाश्चर्यभारतमना यावत् यवनिकामाच- कर्ष, तावच्छारदानन्दः साक्षाददृश्यत । ततः सपुत्रो राजा तं प्रणनाम । तदा मन्त्रिणा राज्ञे पूर्ववृत्तान्तः कथितः । अनन्तरं राजा मन्त्रिणं प्रत्युवाच- 'तव संसर्गेणाहमकीर्तेनिवृत्तोऽस्मि। अतस्त्वादृशेन सत्पुरुषेण सङ्गो विधेयः । तथा च वदन्ति- वारयति वर्तमानामापदमागामिनी च सत्सङ्गः । तृष्णांच हरति पीतं गङ्गाया दुर्गतिंच सद्योऽम्भः।। इति । एवं बहुधा मन्त्रिणं स्तुत्वा वस्त्रादिना संभाव्य राजा राज्यमकरोत् । इति मन्त्री भोजराजं प्रति कथां कथयित्वा पुनरब्रवीत् 'योराजा मन्त्रिवाक्यं शृणोति, सदीर्घायुः सुखी च भवति इति। ands ॥ पूर्वपीठिका समाप्ता ॥ सप्तदशः पाठः। ततो भोजराजो मन्त्रिणं संभाव्य, तत्सिंहासनं पुरं नी- स्वा, तत्र सहस्रमणिस्तम्भं मण्डपं कारयित्वा तस्मिन् सुमुहूर्ते सिंहासनं प्रतिष्ठाप्य, दिव्यौषधियुक्कैः पुण्यतीर्थोदकैर्मन्त्रपूर्वक द्विजैरभिषेचितः, पुरन्ध्रीभि राजितः, कविभिर्विपैराशीर्भिर विक्रमाचरित्रम् । । भिनन्दितः, वन्दिभिः प्रशंसितः, चातुर्वण्य दानमानाभ्यां - मान्य, दीनान्धबधिरकुनादिभ्यो बनि धनानि दत्वा छत्र- चामराङ्कितो यावसिंहासनसालभञ्जिकामस्तके पदपमं निधा- यारोदुमाजगाम, तावत्सालभञ्जिका मनुष्यवाचा राजानमत्र- वीत्- 'भो महीपाल, तव विक्रमस्येव शौर्यौदार्यसाहसादयो यदि विद्यन्ते, तदास्मिन्सिंहासने समुपवेष्टुमर्हसि ' इति । राजा तु ममाप्यौदार्यादिकमन्यूनमस्ति' इति प्रत्यवदत् । तच्छ्रुत्वा सालभञ्जिका भणति स्म- 'राजन्, एतदेव तवानुचितम् , यदात्मनात्मानं प्रशंससि । यः स्वगुणान्परदोषान्वा कीर्तयति, स केवलं दुर्जनः । सजनस्तु न तथा वक्ति । उक्तं हि--- स्वगुणानिव परदोषान्वक्तुं शक्नोति दुर्जनो लोके । स्वगुणान्परदोषान्वाकदापिनहिवक्तिसजनःसत्यम् । इत्थं सालभञ्जिकयोक्तं निशम्य विस्मितो भोजराजस्ताम- वदत् -- 'सत्यमुक्तं त्वया । यः स्वगुणान्कीर्तयति, स मूर्खः । मया यत्स्वगुणाः कीर्तिताः, तदनुचितमेव । तिष्ठत्वेतत् । यस्यै- तसिहासनं तस्यौदार्यादिकं कथय । श्रोतुं वाञ्छति मे श्री- त्रम् ' । सालभञ्जिकाभणत् भो राजन् , एतत्सिंहासन देवस्य विक्रमार्कस्य । स संतुष्टः कोटिशोऽर्थिने प्रयच्छेत् । किमेवंविधमौदार्य त्वयि विद्यते ? ' इति । इदं च वचनं श्रुत्वा भोजराजस्तूष्णीं प्रत्यावर्तत ।। ॥ प्रथममुपाख्यानम् ॥ - विक्रमाकचरित्रम् । + - अष्टादशः पाठः। भूयोऽप्येकदा भोजराजः शुभे मुहूर्ते यावद्विक्रमार्कसिंहा- सनमारोदुमाजगाम, तावद्वितीयसोपानस्था सालभञ्जिकाभ- णत्- ‘भोजराज, विक्रमार्कस्यौदार्यादिकं यदि त्वयि विद्यते, तदास्मिन् सिंहासने समुपविश' इति । राजा पाह- साल- भञ्जिके, कथय तस्यौदायाँदिकम् ' इति । ततः सा तद्वृत्तान्तं वक्तुमारंभे- विक्रमादित्यो राज्यं कुर्वन्नेकदा चारानाहूयाब्रवीत्- 'सर्वतः पृथिवीं परिभ्रमत । यत्र यत्र कौतुकप्रदं तीर्थ देवा- यतनमन्यानि वा तथाविधानि विलोकयथ, तन्मम निवेदयत' इति । चारास्तु 'यदाज्ञापयति देवः' इति निष्क्रान्ताः । अथै- कदा देशान्तरं परिभ्रम्यागतः कश्चितो राजानं प्रणम्य व्य- जिज्ञपत् - देव, चित्रकूटपर्वतनिकटे मनोहरः कश्चिदेवाल- योऽस्ति । तत्र च पर्वतेऽत्युग्राच्छिवराद्विमला कापि जलधारा पतति । तत्र स्नानमात्रेण महापातकादीन्यपि नश्यन्ति । किंच, यस्तु पापीयांस्तत्र स्नानमाचरति, तस्याङ्गादतीव कलुषमुदकं निःसरति । तेन स पूतो भवति । अन्यच्च, तत्र कश्चिद्राह्मणो महति होमकुण्डे प्रतिदिनं जुहोति । न जाने- तस्य कति वत्सरा गता इति । प्रतिदिनं कुण्डादहिः प्रेरितं भस्म पर्वता- कारं दृश्यते । स केनापि न भाषते । एवमतिचित्रं स्थानमद्रा- क्षीदयं जनः ' इति ।। Ramgaramewar * १८ विक्रमार्कचरित्रम् । तथापि - एकोनविंशः पाठः। तच्छ्रुत्वा राजा स्वयमेकाकी तेन सह तं गिरिं गत्वा पर- मानन्दं प्राप्य 'अहो पवित्रमिदं स्थानम् । पश्यत एव मे मनो विमलं भवति ' इति ब्रुवंस्तत्र निझरे स्नात्वा देवतां प्रणम्य, यत्र ब्राह्मणो होमं करोनि, तत्र गत्वा समत् । ब्राह्मणः 'जु तो में वर्षशतमभूत् । तथापि देवता : १५ जानवत्' इति पाह । तच्छ्रुत्वा राजा स्वयं देवतां स्मृत्वा जुहाव वता प्रसादं न विदधे । अनन्तरमिष्टसाहसो राजा स्वशीर्ष- मुत्कृत्य जुहोमीति पर्यालोच्य यानत्कण्ठे खडं निचिशेप, ताव- देवता कृपाणं गृहीत्वाप्रवीत् -- 'भोः साहसिन् , प्रसन्नास्मि । वरं वृणीष्व' इति । राजापृच्छत्- 'अयं ब्राह्मणश्चिरादतिनि- यमेन जुहोति । कुतोऽस्य ममेव प्रसादं न कृतवती?' इति । ततो देवता पाह- 'भो राजन् , अयं चिराद तिष्ठत्येव । परमस्य चेतः स्वस्थं न बभूव । चञ्चलचित्तस्य तपः फलाय न कल्पते । ततो राजा पाह 'यदि मम प्रसन्ना भगवती, त- यस्य ब्राह्मणस्य मनोरथं पूरय' इति । देवी जगाद- 'भो विक्रम, महाद्रुम इव स्वदेहश्रममविगणय्य परेषां श्रमं परिहर- सि । उक्तं च-- छायामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे । फलन्ति च परार्थेषु नात्महेतोर्महाद्रुमाः ॥१३॥ इति।' एवं राजानं स्तुत्वा ब्राह्मणस्य मनोरथमापूर्यान्तरधात् ।
विक्रमाकैचरित्रम् । १९ be ततो राजा स्वनगरमगमत्" इतीमा कथां कथयित्वा सालभाञ्जिका भोजमनवीन्- 'त्वमेतदासनमारोदमभिलपसि । विक्रमार्कगुणास्तु त्वयि न दृश्यन्ते' इति । तदाकर्ण्य राजा नूष्णीं बभूव ।। || द्वितीयमुपाख्यानम् ।। ameremon- विंशः पाठः । पुनरपि भोजे कदाचित्सिंहासनमारोहमागते तृतीया सालभञ्जिकावदत् - 'भो राजन् , एतसिंहासनं तेनाध्यासि- तव्यम् , यस्मिन्विक्रमस्यौदार्य विद्यते' इति । भोजः प्राह-- 'सालभञ्जिकै, तस्यौदार्यवृत्तान्तं ब्रूहि ' इति । सालभाञ्जिका- वदत्- 'राजन् , साहसेन दीनरक्षणेन धैर्येणातिथिमनोरथपू- रणेन च न कोऽपि भूमण्डले विक्रममतिशेते । एवं सकलगुणा धिवासो विक्रमः सकलमपि महीमण्डलं पालयनेकदा स्वमन स्यचिन्तयत्- 'अनित्योऽयं संसारः । कदा कस्य किं भवि- प्यतीति न ज्ञायते । अतः समुपार्जितं द्रव्यं दानभोगाभ्यांस फलं कर्तव्यम् । उक्तं च- दातव्यं भोक्तव्यं सति विभवे संग्रहो न कर्तव्यः। पश्यह मधुकराणां संचितमर्थ हरन्ति लोकेऽन्ये।१४।
विक्रमार्कचरित्रम् । इत्येवं विचार्य सर्वस्वदक्षिणं कमपि यझं कर्तुमुषाक्रमत । ततः शिल्पिभिरतिमनोहरं यज्ञायतनं कारयामास । ब्राह्मणाः, सर्वे राजानः, बान्धवाश्च समाजग्मुः । तत्रान्तरे राजा समुद्राहा- नाय कंचन ब्राह्मणं प्रेषयामास । सोऽपि समुद्रतीरं गत्वा 'भगवन् रवाकर, विक्रमार्को यज्ञं करिष्यति । तेन प्रेषितोऽहं त्वदाहा- नार्थ समागतोऽस्मि' इति ब्रुवन् , जलमध्ये पुष्पाञ्जलिं निक्षिप्य क्षणं तस्थौ । तदा कश्चिन्महातेजाः समागत्यावदत्- 'त्वं किल विक्रमेणास्मानाह्वातुं प्रेषितः । तेन कृता संभावना अस्मान्धा- सैव । किं तु मम नायमवसरः समागन्तुम् । अमूल्यानि रत्नानि चत्वारि उपहरिष्यामि । प्रयच्छ तस्मै । तेषां माहात्म्यं शृणु- एषां प्रथम रत्नं , यद्धनादि वस्तु स्मयते, तददाति । द्वितीयं भक्ष्यभोज्यादिकममृतकल्पमुत्पादयति । तृतीयं हस्त्यश्वरथपदा- तियुक्तं बलं जनयति । चतुर्थं दिव्यं वस्त्राभरणादिकं प्रसूते। एवमभिधाय रत्नानि दत्त्वा समुद्रोऽन्तरधात् । तदनन्तरं ब्राह्म- णस्तानि गृहीत्वा चिरादुजयिनीमगमत् ।। एकविंशः पाठः। अत्रान्तरे यज्ञं समाप्य राजा अवभृथस्नानं विधाय स- वान्लोकान्परिपूर्णमनोरथानकरोत् । ब्राह्मणोऽपि राजानमवलो- क्य मणीनां गुणानकथयत् । राजा 'ब्राह्मण, यज्ञदक्षिणाकाल- मतिलय समागतोऽसि । सर्वस्वमर्थिसात्कृतम् । अतस्त्नमे- तेषां रत्नानां यदेकं तुभ्यं रोचते , तद्गृहाण' इत्यवादीत् । प्रा- विक्रमार्क चरित्रम् । ५ २१ ह्मणः 'महाराज, अहं गृहिणीं पुत्रं तुषां च पृष्ट्वा सर्वेभ्यो य- होचते तगृहामि' इत्यवदत् । राजा तथा कुरु ' इत्याह । ब्रा- मणोऽपि स्वभवनमागत्य तद्वृत्तान्तं तेषामकथयत् । तन्निशम्य पुत्रोऽभ्यभाषत- 'यद्रनं चतुरङ्गं बलं ददाति, तद्रहीष्यामः । तेन हि राज्यमायाति' इति । पिता जगाद- 'प्राज्ञो राज्य नापेक्षेत । राज्यापेक्षयैव हि युधिष्ठिरादयो महदुःखमन्वभूवन् । अतो यस्माद्धनादिकं लभ्यते, तद्गृह्नीमः । तेन तु सर्वमपि लभ्यते । उक्तं च- न तदस्ति जगत्यस्मिन्यदर्थेन न सिध्यति । अतोऽस्मिन्भुवने धीमान्धनमेकं प्रसाधयेत् ॥१५॥ ततो भार्याब्रवीत 'यद्रत्नं पडूसोपेतं चतुर्विधमन्नं प्र- सूते, तगृहीतव्यम् । यतः सर्वेषां पाणिनामन्त्रमेव जीवधारणम्। स्नुषा तु 'यद्रनं वस्त्राभरणादिकं प्रसूते, तद्राह्यम्' इत्याह । एवं परस्परं चतुर्णा विवादः समजायत । ततो ब्राह्मणो राज्ञः समीपमागत्य विवादं न्यवेदयत् । राजापि तच्छ्रुत्वा मणाय चत्वार्यपि रत्नानि ददौ । इति कथा कथयित्वा सालभलिका भोजमब्रवीत्- त्वय्येवंविधमौदार्य विद्यते चेत्, अस्मिन्सिहासने समुप- विश' इति । तच्छुत्वा राजा नूष्णीं बभूव ।। ॥ तृतीयमुपाख्यानम् ॥ तस्मै ब्रा- .
२२ विक्रमार्कचरित्रम् । ne द्वाविंशः पाठः। भूयोऽप्येकदा सिंहासनमारोहमागच्छति भोजे, तुरीया सालभञ्जिका भणति स्म यदि त्वमौदार्यण विक्रमार्क- मनुसरेः, तीदं सिंहासनमारोह ' इति । राजा 'ब्रूहि मे त- स्यौदार्यवृत्तान्तम् ' इत्यपृच्छत् । ततः सालभञ्जिका कथयितु- मारेभे- विक्रमादित्ये राज्यं विभ्रति सति, उज्जयिन्यां कोऽपि ब्राह्मणः सकलविद्याविचक्षणः सकलगुणालंकृतश्च परं पुत्रहीन: समभवत् । तमेकदा तत्प्रेयसी जगाद- भोःप्राणनाथ, पुत्रंवि- ना गृहस्थस्य गतिर्नास्तीति श्रुनिस्मृतिपुराणविदः समामनन्ति । अपुत्रस्य गतिर्नास्ति स्वगों नैव च नैव च । तस्मात्पुनमुखं दृष्ट्वा भवेत्पश्चात्तु तापसः ॥१६।। इति ।' तदाकर्ण्य भूसुरः- 'प्रिये, सत्यमवादीः । किं तु पर- मेश्वरप्रसाद विना संततिर्न लभ्यते ।अतो भवानीवल्लभमाराध- यामः' इत्युक्त्वा परमेश्वराराधनाय तपः कर्तुमारभत । अथै- कदा रात्रौ स्वमे वृषभारूढः परमेश्वरः प्रत्यक्षीभूयावदत्- 'वत्स, प्रदोषव्रतमाचर । तेन तव पुत्री भविष्यति' इति । ब्राह्मणस्तु प्रबुध्य ससंभ्रममुत्थाय स्वमवृत्तान्त वृद्धेभ्यो निवे- दयामास । ते च यथार्थोऽयं स्वमः । अस्मिन्बतेऽनुष्ठित स- र्वथा तव पुत्रो भविष्यति' इति जगदुः । ततो ब्राह्मणस्तेषां वचनं मनसिकृत्य, मार्गशीर्ष शुक्लत्रयोदश्यां मन्दवासरे कल्यो- Note- विक्रमार्कचरित्रम् । weres क्तप्रकारेण प्रदोषव्रतमन्वतिष्ठत् । परमेश्वरश्च प्रसन्नो भूत्वा पुनमस्मै प्रायच्छत् ॥ त्रयोविंशः पाठः। तदनन्तरं ब्राह्मणस्तस्य जातकर्म विधाय द्वादशे दिवसे देवदत्त इति नाम चकार । अवशिष्टान्यन्नप्राशनचौलोपनयना- दीनि कर्माण्यपि यथाकालमन्वतिष्ठत् । वेदान्साङ्गानध्यापया- मास । ततः षोडशे वर्षे गोदानादिकं विधाय, सुरूपां बुद्धि- शीललक्षणसंपना कामपि कन्यकां विवाह्य, स्वयं तीर्थयात्रा कर्तकामः पुत्राय धुद्धिमेवमुपदिदेश --- 'वत्स, अतिकष्टां दशां प्राप्तोऽपि स्वधर्माचारौ न परित्यज । परैः सह विवादं मा कार्षीः । सर्वभूतेषु दयां कुरु । परमेश्वर भक्तिं विधेहि । पर- स्त्रियो मा विलोकय । बलवद्भिर्विरोध मा कुरु । सज्जनानाश्रय । दुर्जनान्परिहर । स्त्रीभ्यो गुह्यं मा वद' इति । एवमन्याश्व नी- तीरुपदिश्य स्वयं वाराणसी जगाम । ततो देवदत्तः पितुरुपदेश पालयंस्तत्रैव नगर सुखमुवास । अथैकदा समिधः समाहर्तु महदरण्यं प्रविश्य यावत्समिधाश्चिच्छेद, नावद्विक्रमो मृगयार्थ विपिनमवगाह्य महान्तमकं सूकरमनुधावंस्तत्रागत्य देवदत्तं दृष्ट्वा पुरमार्गमजानन्पपच्छ । तेन पृष्टो देवदत्तः स्वयमले गच्छन्रा- जान नगरमनयत् । अनन्तरं राजा देवदत्तं बहुधा संमान्य कु- त्रापि राजकार्य न्ययुत । एवं महान्कालः समतिचक्राम । अ- थैकदा राजा तं मध्येसभमत्रादीत् - 'कथमहं त्वत्कृतादुपका- विक्रमार्कचरित्रम् । रादुत्तीर्णो भविष्यामि । यन्मां महतोऽरण्यानगरमनयः' इति । ब्राह्मणस्तु राज्ञो वचनं श्रुत्वा स्वमनसि विचारयति स्म- 'कि- मयं राजा मामेवं वदति । र्फि नामाहमुपाकरवम् । किमेतत्स- त्यमुत मिथ्या ? । अस्य तत्वं बोधेयम्' इति । तत एकस्मि- न्दिवसे राजकुमारमपहत्य स्वमन्दिरे संगोप्य तस्य कण्ठभूषण- मेकं स्वभृत्यहस्ते दत्त्वा विपण्या विक्रेतुं औषयत् । अस्मिन्नव- सरे राजकुमारः केनाप्यपहतो मारितश्चेति राजमन्दिरे महा- कोलाहलः समभवत् ॥ . चतुर्विशः पाठः। राजापि पुत्रमार्गणाय सर्वत्राधिकारिणः प्राहिणात् । ते च सवर्तः परिभ्रमन्तो विपणिमध्ये दैवादाभरणहस्तं देव. दत्तभृत्यमपश्यन् । ततस्तदाभरणं राजकुमारस्येति ज्ञात्वा ते बद्धा राजसमीपं निन्युः । राजापि तं दृष्ट्वोवाच- 'रे भृत्य, कथमेतदाभरणं तव हस्ते समागतम् ? ' इति । भृत्यः प्राह अहं देवदत्तस्य भृत्यः। विपणिमध्ये एतदाभरणं विक्रीय धनमानयेति प्रेषितोऽस्मि' इति । ततो राजा देवदत्तमाहूय एतदाभरणं कस्ते ददौ ? इति । देवदत्तः प्रत्य- भाषत- 'अहमेव धनुलोलुपस्तव कुमारं हत्वा भूषणानि गृहीत्वा तेषामिदमेकमाभरणं विक्रेतुमदाम् । इदानीं यनुभ्यं रोचते, तत्कुरु । मम माकनकर्मवशादेवं बुद्धिमत्पना' इति । तदाकर्ण्य राजा किमपि प्रतिकर्तुं न शशाक । सदा सभ्यः पप्रच्छ- - विक्रमार्कचरित्रम् । २५ कश्चिदाह- 'अहो सर्वधर्मशास्त्रवेदितायं कथमीशे कर्मणि बुद्धिमकरोत्' इति । अपरः कश्चिदुवाच- ' स्वकर्मणा प्रेरि- तस्यैवं बुद्धिरजायत । किमत्र चित्रम् ?' इति । इतरे केचन राजानमब्रुवन् - 'देव, यदयं बालघाती सुवर्णस्तेयी च, ततः खादिरेण शूलेन हन्तव्यः' इति । तदा मन्त्रिणः प्राहुः- 'इमं तिलशः खण्डयित्वैतन्मांसेन गृध्रेभ्यो बलिर्दातव्यः' इति । तेषां वचनं श्रुत्वा राजा जगाद- 'भोः सखायः, अयं मामा- श्रितः, पुरमार्गप्रदर्शनादुपकारी च । अतोऽस्मिन्गुणदोषचिन्ता न कर्तव्या। उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।१७। अथ देवदत्तमवलोक्य 'सखे, किंचिदपि भयं चेतसि मा कार्षीः मम पुत्रो बलीयसा पुराकृतेन कर्मणा हतः । किं नाम त्वया कृतम् । अन्यञ्च, महत्थरण्ये पतितं मां नगरमनैषीः किल । अतः प्रत्युपकारसहस्रैरपि न तावकमृणमपनेतुं प्रभवा- मि' इति समाश्वास्य तं वस्त्राभरणादिना संभाव्य विससर्ज । देवदत्तस्तु परमानन्दभरितस्तं कुमारं स्वगृहादानीय तद्गोपन- कारणमप्यभिधाय , राज्ञे ददौ । ततो राजा परं संसुष्य देवदत्तं भूयोऽपि बहुधा संमान्य प्रेषयामास । सोऽपि राज्ञा संमानितः परं विस्मयमापनो राज्ञः कृतज्ञनामौदार्यादिकं च प्रशंसन्स्वगृहमयासीत् । इति कयां सालभञ्जिकाकथिनामाकर्ण्य, भोजस्तूष्णीं निर्मगाम ।। . 4
विक्रमार्क चरित्रम् ।
।
.
पञ्चविंशः : पाठः॥
पुनरपि भोजे समागत्य सिंहासनसोपाने पदं विन्यस्यति,
पञ्चमी सालभञ्जिका निवार्य गिरमेवं व्याजहार-
"विक्रमे महीं पालयति सत्येकदा कश्चिद्रनवाणिक् स-
मागत्यानमेकं रत्नं राजहस्ते समर्पितवान् । राजा दीप्यमानं
तदादाय, तस्मै भूरि द्रव्यं दत्वा ‘भोः सार्थवाह, किमीशम-
न्यदस्ति ?' इत्यपृच्छत् । वणिक् 'देव, नात्र किमप्यास्ति ।
ग्रामे तु दश विद्यन्ते । यद्यपेक्षा देवस्य, तर्हि प्रेपयिष्यामि
इत्युवाच । अनन्तरं राजा तेषामेकैकस्य चतुःसहस्रं सुवर्णानि
मूल्यं निर्णीय तावन्ति धनानि दत्त्वा सहैव तेन चतुरमेकं भू-
त्यं प्राहिणोत् । अष्टभिर्दिवसैरत्रागन्तव्यम्' इनि चादिदेश ।
सोऽपि 'यदाज्ञापयति देवः' इति तदाज्ञां शिरसि कृत्वा झ-
टिति निर्जगाम । रत्नानि गृहीत्वा समागच्छति च तस्मिन् , मध्ये
मार्ग महती वृष्टिः समभवत् । तया चोभयकृलंकषा नघेका प्र
वहति स्म । स तदुत्तरं तीरं गन्तुमशक्नुवन् , नाविकमाझ्याव-
दत्- 'नाविक, रनहारं मामिमां नदीमुत्तारय' इति । नाविकः
प्राह- 'अये पथिक, एपा नदी वेलामतिक्रम्य प्रवहति ।
कथमुत्तार्यताम् । किं च, महानात्तरणं बुद्धिमता वर्जनीयम् ।
तथा चाहु:-
महानदीप्रतरणं महापुरुषनिग्रहम् ।
महाजनविरोधं च दूरतः परिवर्जयेत् ॥१८॥
विक्रमार्क चरित्रम् । mard भृत्यः 'अये कर्णधार, यदुनं स्वया तत्सत्यमेव । त- थापि यद्यहमद्यैव रत्नैः सह देवस्य पादमूलं न गच्छेयम् , न दाज्ञाभाद्राजा मां निग्रहीप्यति । अतोऽवश्यमिदानी मामुता रयितुमर्हसि ' इत्यवदत् । ' तर्हि पञ्च रनानि यदि मह्यं दास्ग सि, त्वामुत्तारयिष्यामि' इति नाविको जगाद । ततो भृत्यस्त स्मै पञ्च रत्नानि दत्वा, नदीमत्तीर्य, राजसमीपमागत्य, सवि नयं प्रणम्य, पञ्च रत्नानि तस्मै ददौ । तदा राजानवीत- 'कुत्रावशिष्टानि पञ्च रत्नानि ? " इति । भृत्यः सर्वमपि वृत्तान्तं यथावदभिधाय "एतदाकर्ण्य, देवः प्रमाणम्' इति व्याहृत्य विरराम । राजा तु तद्वचनं श्रुत्वा परं संतुष्टोऽवशिष्टान्यपि रत्नानि तस्मै प्रादात् । भृत्यश्च परमानन्दभरितः स्वगृहमगात् इति कथा कथयित्वा सालभजिका भोजमाह- 'यो वंविधमौदार्य त्वयि विद्यते, तदोपविश' इति । नदाकी भो अस्तूष्णी न्यवर्तत ॥ ॥ पञ्चममुपाख्यानम् ॥ पइविंशः पाठः । भूयोऽप्येकदा शुभे मुहूर्ते सिंहासनमध्यामित भोजराज समागते, अन्या पाञ्चालिका निवार्य अभणत्- विक्रमादित्यो राज्यं परिपालयन् एकदा वसन्तोत्सव सकलान्तःपुरवधूसमेतो विहारार्थमुद्यानमगमत् । तत्र च पुष्पा- पचयेन मन्दगमनेन स्नैरसलापेन पिकादिकृजितश्रवणेन च २८ विक्रमाकेचरित्रम् । कालं कमपि अतिवाहयामास । तत्र च कभन ब्रह्मचारी कुत्र- चित्तरूमूले तपस्यन् चिराय वर्तते स्म । स च एवं विलासि- नीभिः सह विहारसुखमनुभवन्तं राजानमवलोक्य स्वमनस्य- चिन्तयत्- 'अहो चिराय तपश्चरता मया वृथैव भूयान्कालो गमितः । स्वमेऽपि किंचित्मुखं नानुभूतम् । यावजीवं कष्टम- नुभूय, तपः कुर्वतो नरस्य मरणानन्तरं परलोके शाश्वतं सुख- मिति मूर्खाणामेषा विचारणा । अतो मया इतः प्रभृति संसार- सुखमेव सेवनीयम् । सांप्रतं च वदान्यो विक्रमार्क इह समाग- तः। तमुपसत्य प्रार्थयिष्ये' इति । एवं समालोच्य विक्रमार्क- समीपं गत्वा, 'महाराज, अहमत्रैवोपवने जगदम्बिकापरिच- यो कुर्वन्वसामि । अहं तु ब्रह्मचारी । पूर्वेार्निशायां जगदम्बि- का सुमसभा भूत्वा स्त्रमे 'भो वत्स प्रसन्नास्मि ते । अल- मितस्तपस्यया । इतः प्रभृति गृहस्थाश्रम स्वीकृस्य संसारसुख- मनुभवन् कालं नेतुमर्हसि । श्वः पातश्च विक्रमार्को नियतमत्रा- गमिष्यति । तमुपमृत्य वृत्तान्तमिमं कथय । स ते मनोरथं पूर- यिष्यति । तस्योपकारेण गृहस्थो भूत्वा पुत्रमुत्पाद्य पश्चान्मोक्षे मनः कुरु । अन्यथा तव सुगतिर्न भविष्यति ॥ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः॥१९॥ इत्युक्त्वा मां तदानीमेव तिरोषभूव । ततोऽहं माबुध्ये । सर्वमिदं श्रुत्वा भवान् प्रमाणम्' इत्यभिधाय विरराम ।।
विक्रमाचरित्रम् । तञ्च ब्रह्मचारिणो मिथ्यावचनमनुनिशम्य मंधावी वि. क्रमार्कः, 'कथमेतदुपपद्यते तपस्यन्तं ब्रह्मचारिणं जगदम्बिका बलादेवं प्रवर्तयतीति न कदाचिदपि घटते । नूनमयमेव चपल- चित्तस्तपसो प्रश्यन्नस्मानेवमभिदधाति । यथा तथा वा भवतु । सर्वथा विपस्यास्य समीहितं मया संपादनीयम्' इति निश्चित्य तत्रैव पत्तनमेकं निर्माप्य, तत्रैव तं ब्रह्मचारिणं प्रतिष्ठाप्य, तस्मै शतं कुमारिकाः पञ्चशतं तुरगान् चतुःसहस्रं भटांश्च समर्पया. मास । सोऽपि ब्रह्मचारी पूर्णमनोरथः संतुष्टान्तरङ्गः सहस्रशो विक्रमार्कमाशीभिरभिनन्ध, तदाज्ञानुसारेण ताः शतं कुमारिका यथाविधि परिणीय गार्हस्थ्यमाश्रित्य तदुचितानि कर्माण्याच- रन् सुखेन कालं यापयामास"। इति कथा कथयित्वा सालभञ्जिका अवदत्- 'ययेवं- विधमौदार्य स्वयि विधते, तर्हि सिंहासनामिदमारुह्यताम्'इति । भोजस्तु श्रुत्वा तादृशमौदार्यातिशयमात्मन्यपश्यन् , तिनिवहते ॥ मौनेन प्र. rememe- ॥ षष्ठमुपाख्यानम् ॥ सप्तत्रिंशः : पाठः । पुनरपि कदाचिद्भोजः शुभे मुहूर्ते समुचितसंनाहः सिं- हासनमारोढं यावदुपचक्रमे, तावदन्या सालभञ्जिकावदत्- “भो राजन् , विक्रमे राज्यं कुर्वति, लोके दुर्जनः कोऽपि ना- सीत् । सर्वे जनाः सदाचारसंपन्नाः । ब्राह्मणा वेदशास्त्राभ्या- है ३० विक्रमाचरित्रम् । ३ - - सादिस्वधर्मचर्यापराः पदकर्मनिरताश्च बभूवुः । सर्वेषामपि व र्णानां पापाद्भयम् , प्राणिषु दया, परमेश्वरे भक्तिः, देहे निर्म- मता, नित्यानित्यवस्तुविचारः, हृदये चौदार्यमभूत् । एवं सर्वो- ऽपि लोकः पावनान्तःकरणोराज्ञः प्रसादात्मुखनावर्तन । तदा च तत्र नगरे धनदो नाम कश्चिदूरुजः समभूत् । तस्य संपदा मर्यादा नास्ति । यानि वस्तूनि भुवने सुदुर्लभानि, तानि सत्र सुलभानि । एवं सकलसंपत्समाश्रितस्य तस्यैवं बुद्धिरुदभूत्- 'हन्त असारोऽयं संसारः । सर्वमपि वस्तुजातमनित्यम् । अतः संसारिणां धर्म एव शरणम् । ततः समपार्जितं द्रव्यं स- पात्रेभ्यो दातव्यम्' इति । एवं बहुधा विचार्य श्रोत्रियानाहूय सर्वमेव निजधनं तेषु विनियुज्य, पवित्रान्तःकरणः पुनरपि वि- चारयति स्म- 'अहो मयैतदनुष्ठितं दानव्रतादिकं तदा सफलं भवेत् , यदा द्वारवती गत्वा कृष्णं द्रक्ष्यामि' इति । ततः समुद्र- नीरं गत्वा, कंचन नाविकमाहूय समुचितं वेतनं निर्णीय भि- शुकयोगिनो वैदेशिकानावमारोप्य स्वयं चावरुह्य तैः सह धर्म- मेदुरास्तास्नाः कथाः कथयन् , यावदागच्छत् । तावन्समुद्रमध्ये समुदीर्णः कश्चित्पर्वतस्तेन दृष्टः । तत्र महानेको देवालयोऽह- श्यत । धनदस्तु देवालयं गत्वा भुवनेश्वरीं नमस्कृत्य, तस्या वामभागे छिन्नमस्तकं स्त्रीपुरुषयुगलं दृष्ट्वा पुरःस्थितभित्तिभागे लिखितान्यक्षराणि पपाठ- 'यदा कोऽपि परोपकारी परमैश्व- र्यसंपन्नो द्वात्रिंशल्लक्षणोपेतः स्वकण्ठरुधिरण भुवनेश्वरी प्रीण- यिष्यति, तदेदं स्त्रीपुरुष युगलं सजीवं भविष्यति' इति । एवं विक्रमाचरित्रम् । पठित्वा सविस्मयो धनदः पुनरपि नावमारुह्य द्वारवती गन्वा, श्रीकृष्णं स्तुत्वा, यद्यदपूर्व वस्तु समानीतम् , तत्सर्व समय, तत्र दिनत्रयमूषित्वा, ततो निर्गत्य, कतिपयैर्दिनैर्निजनगरमा जगाम । आगत्य च सर्वान्बान्धवान्कृष्णप्रसादेन संभाव्य कि- मप्यपूर्व वस्तु गृहीत्वा प्रभाते विक्रमार्क द्रष्टुं जगाम । गत्वा च सविनयं कृष्णप्रसादं दत्त्वा तदादिष्टमासनमध्यास्त । ततो राना पृष्टः, समुद्रमध्यदृष्टं भुवनेश्वरीदेवालयवृत्तान्तमवादीन् । तच्छु त्वा समुपजातकुतूहलो राजा तेन सार्ध प्राप तदपूर्व स्थानम् । तत्र च देवतावामभागे पतितं कबन्धयुगलमपश्यत् । अपाठीच तान्यक्षराणि । तदनन्तरं राजा भुवनेश्वरी स्तुत्या स्वखड्गं कोशादाप्य यावत्कण्ठे चकार, तावत्कवन्धयुगलं सशिर सनीवं च समभून् । देवतापि राज्ञो हस्तस्थितं खड़गमाकृष्या ब्रवीत्- 'भो राजन , प्रसन्नास्मि । वरं वृणीष्व ' इति । राजा अभ्यधात् भो देवि, यदि प्रसन्नासि, तद्यस्य मिशुनस्य राज्यं देहि' इति । ततो देवी तथेति तस्य मिथुनस्य राज्यम- दात् । राजापि धनदेन सह निजनगरमाजगाम इति कथां सालभञ्जिकानिगदितां श्रुत्वा भीजा निवते ॥ जी Ramne " अष्टाविंशः पाठः। भूयोऽपि भोजराजे यथापूर्वमागच्छति, पाश्चालिकाल्या निषिध्य जगाद- विक्रमे राज्यं कुर्वति सत्येकदा चारा भूमण्डलं परिभ्रम्य राज्ञः सकाशमागत्य राज्ञा पृष्टा व्यजिज्ञापन - "देव, , विक्रमाचरित्रम् । काश्मीरदेशे महाद्रव्यसंपमः कश्चिदणिगस्ति । स च धर्मनिरतेन चेतसा पञ्चक्रोशविस्तारं तटाकमेकमखनन् । तन्मध्ये किंचिद्धि- लमदृश्यत । तत्र च देवो नारायणः शयानो दृष्टः । तस्य चाय- तनं कारयामास । परमुदकं न लेभे । ततो जलोद्मनिमित्तं व- रुणमृद्दिश्य ब्राह्मणैर्जपमकारयत् । सोऽपि वृथा बभूव । ततः खिनमानसे वणिजि तटाकतीरे समुपविश्य 'अहो नैकेना- प्युपायेन जलं लभ्यते । वृथा मे श्रमो जातः' इति चिन्तयति, काप्यमानुषी वागधिगगनमेवमश्रूयत - 'भो वणिक्पुत्र, कि- मर्थ चिन्ताच्याकुलोऽसि । महाराजलक्षणयुक्तस्य पुरुषस्य कण्ठरक्तेन यदा तटाकं सिञ्चसि, तदा विमलमृदकमाविर्भवि- ष्यति, नान्यथा' इति । तदाकर्ण्य स वणिक तटाकतीरे मह- दनसत्रमकल्पयत् । तत्र च भोक्तुं स्वदेशवासिनो विदेशवासि- नश्च समायान्ति । तदा च तत्र स्थिता वणिमादेशकारिणो भृ- त्यास्तेषां पुर एवं वदन्ति- 'यः कोऽपि स्वकण्ठरुधिरेण त- टाकं सिञ्चति, तस्य शतभारं सुवर्ण दीयते' इति । तद्वचः स- र्वेऽपि शृण्वन्ति । परं तु न कोऽपि तत्साहसमगीकरोति । एवं- विधं महच्चित्रं दृष्टम्' इति । तच्छ्रुत्वा विक्रमः स्वयं तत्र गत्वा बिलशायिनं देवं प्रणम्यातिमनोहरमतिविशालं च तटाकं दृष्ट्वा स्वमनस्यचिन्तयत्-- यदि मम कण्ठरक्तेनैनं तटाकं सिश्वामि, तहीदं जलैः संपूर्ण भवेत् । अनेन च सकललोकानामुपकारो भविष्यति । इदं तु मम शरीरं वर्षशतमपि स्थित्वा पवाद्विनाश- मेव यास्यति । अतः सकललोकोपकारायेदं शरीरमवश्यमिदानी विक्रमार्क चरित्रम् । मयोपयोक्तव्यम्' इति । एवं विचिन्त्य, यावत्कण्ठे खड़गमक रोत , सावत्स भगवान्खड्गमाक्षिप्य जगाद- 'वीर, सवाई प्रसन्नोऽस्मि । अलमनन साहसेन । वरं वृणीष्व ' इति । राजा- वदत् - 'देव, यदि मम प्रसमोऽसि, तीमं तटाकं जलन परिपूरय' इति । देवः पाह- 'भो राजन् , त्वमस्मात्स्थाना- भिर्गस्य तटाकतीरं प्राप्य यावत्परायत्य पश्यसि, तावजलैः परिपूर्णस्तटाको भविष्यति' इति । ततो राजा ससंभ्रमं तटा- फतीरमारोह । सरश्च जलैः परिपूर्णमदृश्यत । अनन्तरं पर- मानन्दभरितेन वणिजा स्तूयमानो राजा तेन समर्पितं शनभाग सुवर्ण कस्मैचिद्विवाहार्थिने दरिद्राय ब्राह्मणाय दस्या म्वनगर मगमत् ॥ इति सालभञ्जिकोक्ता कथां श्रुत्वा भोजराजः स्वम्मि- स्तादशगुणानपश्यंस्तृष्णी न्यवर्तम ।। ॥ अष्टममुपाख्यानम् ॥ एकोनत्रिंशः पाठः। भूयोऽपि भोजमहीपाले सकौतुकसंभ्रममागच्छति. नवमी सालभञ्जिका सहासमिदमभाषत-- ‘भूषाल, सिंहासनमारो ससंभ्रमोऽसि । दुर्लभं ते विक्रमार्कगतं साहसौदायर्यादिकम् । तद्विरमास्मात्समुथपात् । श्रूयताम्- विक्रमाचरित्रम् । 'विक्रमे राज्यं कुर्वति, भट्टिः प्रधानमन्त्री । उपमन्त्री गोविन्दः । चन्द्रः सेनापतिः । तस्य पुत्रः कमलाकरो नाम । सतु प्रतिदिनमाकण्ठं भुञ्जानो वस्त्रभूषणतामूलादिना शरीरम- लंकृत्य विषयसुखमनुभवमासीत् । एकदा दुर्वृत्तं तं मुतमाहूग पिता जगाद- 'भोः कमलाकर, स्वकर्मवशादयमात्मा नाना- मातिषु जन्म प्राप्नोति । कदाचित्सत्कर्मवशान्मनुष्यजाति प्रवि- शति । तत्रापि ब्राह्मणकुलं जन्म महता पुण्यन लभ्यते । तल्ल- मध्वापि त्वं दुर्वृत्तासे । सर्वदा बहिरेव संचरसि । भोजन- काले परं भवनमागच्छसि । अनुचितमिदं न जानासि । किं च तवायं विद्याभ्यासकालः । इदानी विद्यां नाभ्यस्यसि, तीस- रत्र तब महान् परिवादो भविष्यति । तथा चोच्यते- येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके क्षितिभारभूता मनुष्यरूपाः पशवश्वरन्ति ॥२०॥ इति । अन्यच्च, वरा यावदहं जीवामि, तावत्या विद्याभ्यस- नीया । अन्यदा तु सा तव दुष्प्रापैव । अभ्यस्ता तु सा कल्प- लतेव सर्व साधयेत् । तथा च श्रूयते-- मातेव रक्षति पितेव हिते नियुक्ते कान्तेव चाभिरमयत्यपनीय खेदम् । कीर्ति च दिक्षु वितनोति तनोति वित्तं किंवा न साधयति कल्पलतेव विद्या ।। इनि'।
विक्रमाकचरित्रम् । त्रिंशः : पाठः। एवं पितृवचनं श्रुन्वा पश्चात्तापपीडितः कमलाकरः 'यदाई सर्वज्ञो भविष्यामि, तदैव पितमुखं द्रक्ष्यामि'इति प्रतिज्ञाय काश्मी रदेशं गत्वा तत्र चन्द्रमौलिभट्टनामानभूपाध्यायमुपसृत्य सविनयं प्रणम्य 'भोः स्वामिन् , मोऽहं भवनः सकाशाद्विद्याभ्यामं कर्तुमागतोऽस्मि । प्रसीद । यथाहममितको भवेयं तथा माम- ध्यापयितुमर्हसि ' इति वदन पुनः पुनरवन्दत । उपाध्यायोऽये वमङ्गीचकार । कमलाकरश्च गुरुं शुश्रूषमाणः पपाठ । एवमन- मादं शुश्रूषया विद्यामभ्यस्यतस्तस्य महान्कालोऽतिचक्राम । तत एकदोपाध्यायस्तस्योपरि कृपातरनितान्तरङ्गः सिद्धमार- स्वतमन्त्रमुपदिदेश । तेन चोपदेशेन सर्वज्ञो भुत्वा कमलाकरः कृनार्थमात्मानं मत्वा सप्रदक्षिणप्रणाममुपाध्यायस्यानुज्ञा गृही स्वा पितृदर्शनलालसः स्वनगरं प्रत्यागच्छन्मार्गवशात्काञ्ची- नगरमगमत् तत्र चानन्यसाधारणरूपसंपन्ना नरमोहिनी नाम कानिद्वनिनासीत् । यः पुनरनया सह नल्पे निद्रामनुभ वेत् , तस्य रुधिरं विन्ध्याचलनिवासी कश्चिद्राक्षमा निरवशेष पीत्वा तं मारयेत् । कमलाकरोऽप्येतदाश्चर्य तत्र श्रुत्वा निज नगरमाजगाम । आगतं च कुमारमपितझं ज्ञात्वा जनकः पर मनन्द । परेद्यवि पुष कमलाकरः पित्रा सह राजानं द्रष्टुं गत्वा विक्रमायाशिषमवदत् । आस्थाय च समुचितमागनम् , भात्मनः कलावैदग्ध्यमदर्शयत् । कथाप्रसङ्गेन व कात्रीनगरे श्रुतं तद- दुवमाचचक्षे । अनन्तरं विक्रमार्कः महैव तेन काश्चीनगरमाग- নিমসি त्य नरमोहिन्या गृहं प्रविवेश । सापि तो राजाणोपचारेण बोषयित्वा सविनयपेनं राजानं व्यजिज्ञपत्- देव धन्यास्मि। पवित्रमभूदिदं भवनम् , यतो भवतवरणकमलधूलिभूषितमभूत्।' इनि । रामा ततस्तया दत्ता ताम्बूलवीटिका जग्राह । इत्थं रात्री प्रथमः प्रहरोऽनीयाय । नरमोहिनी तु मुष्वाप । द्वितीये पहरे राक्षसः समागत्य नरमोहिनीमेकाकिनी मश्चे मुसां दृष्ट्वा निर्ज- गाम । तदा राना तं केशे गृहीत्वा कृपाणेन कण्ठमच्छिनत् । नदा जानेन कोलाहलेन नरमोहिनी प्रबुध्य हतं राक्षसं विलो- क्य परं संतुष्टा, 'देव, भवत्प्रसादादहं निर्भया जातास्मि । इतः प्रभृति यदाज्ञापयति भवान् , तदाचरितुमहमायत्तास्मि इति राजानं विज्ञापयामास । राजा 'यदि मयोक्तं करिष्यसि, नर्धमुं कमलाकरं भजस्व' इत्याह । ततः सा नरमोहिनी कम- लाकरमभजन् । विक्रमोऽप्युजयिनीमाजगाम " । इनि सालभञ्जिकोक्ता कथां श्रुत्वा भोजम्तृष्णी न्यतत् ।। ।। नवममुपाख्यानम् ॥ एकत्रिंशः पाठः। भूयोऽपि कदाचिद्भोजभूपालो यावासिंहासनमारुरुक्षत् , नाक्दपरा पाश्चालिका निषिध्य 'भो राजन् , विक्रमस्येवौदा- दियो गुणा यदि त्वयि विद्यन्ते, तदास्मिन्नासने समुपविश' इत्याह । तनो राजनि 'कथय तस्यौदार्यादिवृत्तान्तम्' इति पच्छति, पाश्चालिका पाह विक्रमार्क चरित्रम् । 'भो राजन् , श्रूयताम्- विक्रम सिंहासनमिदमास्थाय विश्वभरी पालयति, योगी कश्चिदुज्जयिनी प्रत्यागच्छत् । स च घेदवेदाङ्गादिसकलशास्त्रविचक्षणः । किंबहुना । तत्सदृशो ना- न्योऽस्ति भूतले । एकदा विक्रमस्तस्य प्रसिद्धिं निशम्य तमा- हातुं पुरोहितं त्रिविक्रमं प्रेषयामास । स च तदन्तिकं गत्वा नमस्कृत्याब्रवीत्- 'भोः स्वामिन् , राजा विक्रमो भवन्तं दृष्ट- मिच्छति । तदागच्छतु भवान्' इति । योगी पाह- 'राज- दर्शनेन किमस्माकमास्ति प्रयोजनम् ? पश्य- भुञ्जीमहि वयं भिक्षामाशा वासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥२२॥ पुरोहितस्तदाकर्ण्य राजसमीपमागत्य न्यवेदयत् । सतो रा- जा स्वयमेव तत्संदर्शनार्थमागत्य प्रणम्य, तदाशयोपविष्टः, तेन सह नानाविधाः कथा: कुर्वन् , सुचिरमतिष्ठत् । तदा योगी पाह- 'यदि त्वं साधयितुं प्रभवसि, तर्हि मन्त्रमेकमुपदिशामि। अ{ मन्त्रं वर्षमेकं ब्रह्मचर्येण जप्त्वा दूर्वाकुरैर्दोमं विधेहि । ततः पूर्णाहुतिसमये होमकुण्डात्कश्चित्पुरुषः फलहस्तो निर्गत्य फलं दास्यति । नदुपभुज्य जरामरणवर्जितो भविष्यसि' इत्यु- क्त्वा राज्ञे मन्त्रमेकमुपदिश्य स मुनिर्यथेच्छं जगाम । राजा- प्युज्जयिनी समया हायनमेकं ब्रह्मचर्येण मन्त्र जप्त्वा दूर्वादलै- हुत्वा पूर्णाहुतिमकरोत् । तदा होमकुण्डात्कश्चित्पुरुषो निर्गत्य निध्यमेकं फलं राझे ददौ । राजापि तत्फलं गृहीत्वा कुतकुन्यः विक्रमार्कचरित्रन् । १ यावत् राजवीभ्यां समागच्छत् , तावत् कुष्ठव्याधिना विशीर्ण- सर्वावयवः कश्चन ब्राह्मणः, राजन् , राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् । राजा पिता व माता च राजा चार्तिहरो गुरुः ।। इति वदन्ति । अतोऽनेन व्याधिना विशीणं ममैतच्छरीरं यथा निरामयं सदनुष्ठानयोग्यं भवेत् , तथा विधातुमईसि इति कृपणमभणत् । ततो राजा तम्मै तत्फलं ददौ । नतो ब्राह्मणः परमतुष्यत् । राजा स्वभवनं जगाम । इति कथा दशमसालभञ्जिकोक्तां श्रुत्वा भोजस्तूष्णीं बभूव ।। , || दशममपाख्यानम् ।। द्वात्रिंशः पाठः। पुनरपि भोजराजः सिंहासने समुपवेष्टुं यावदाजगाम, तावदन्या पाश्चालिका निवार्य राजानमब्रवीत्। "विक्रमे राज्यं कुर्वति सति, भूमण्डले दुर्जनः, पिशुन:, तस्करः, पापकर्मा वा न कोऽप्यासीत् । स सर्वान्प्रत्यर्थिभूभुजः स्वपादपोपजीविनो विधाय राज्यमकरोत् । एकदा मन्त्रिघु राज्यभारं निधाय स्वयं योगिवेषेण देशान्तरं प्रति निर्जगाम। निर्गत्य च यत्र स्वचित्तस्य सुखमभूत् , तत्र कतिचिहिनान्य- तिष्ठत् । यत्र चाश्चर्य दृष्टम् । तत्रापि कचित्कालभनयत् । एवं पर्यटनस्तस्यैकदा कुत्रापि महारण्ये सूर्योऽस्नं जगाम । ततश्च विकमार्क चरित्रम् । JAR meen त्माह किंचन वृक्षमूलमाश्रित्योपविष्टः । तस्योपरि वृद्धश्चिरजीवी नाम कश्चित्पक्षिराजस्तस्थौ । तस्य पुत्राः पौत्राश्च पातर्देशान्तरंगत्वा स्वोदरमापूर्य सायं प्रत्येकमेकैकं फलं गृहीत्वा तस्मै चिरजी- विने प्रतिदिनं दिशन्तः मुखमूषुः । तस्यां च रात्रौ चिरजीवी सुखोपविष्टः सन् पक्षिणाऽपृच्छत् - 'भोः पुत्राः, परितः पर्य- टन्तो यूयं किमद्भुतमपश्यत' इति । नत्र पटुचनुनाम कश्चि- 'नाहं किमप्यद्भुनमद्राक्षम् । अपि तु परेधवि मम म- हहुःखं भविष्यति । अस्त्युत्तरदशे शैवालको नाम पर्वतः । तत्समीपे पलाशनगरं नामाग्रहाराऽस्ति । तत्र च पर्वते कश्चि- द्राक्षसः प्रतिदिनं नगरमार्गागनान जनान्बलात्पर्वतं नीत्वा भ. क्षयन्नामीत् । एकदा तु जनाः ‘भा राक्षस, यथेच्छं त्वं संमु- वागतान् पुरुषान् मा भक्षय । वयं तुभ्यमेकं पुरुषं प्रतिदिन- माहारार्थ दास्यामः' इत्यभ्ययाचन्त । सोऽप्येतदङ्गीचकार । अनन्तरं महाजनाः प्रतिदिनं गृहक्रमेणेकं पुरुषं तस्मै प्रायच्छन। एवं महाननिचक्राम कालः । अद्य मम पूर्वजन्मनिमित्तभृतस्य ब्राह्मणस्य बलिवासरः संप्राप्तः । तस्य त्वेक एव पुत्रः । यदि तं दद्यात् , तदा संततिविच्छेदो भवेत् । यद्यात्मानमेव प्रयच्छ ति, नदा भार्यात्यन्तद्धा विधवा भवेत् । वैधव्यं पुनर्महदःख- मबलानाम् । तदेतदुःखं मयि संक्रामति' इति ॥ त्रयस्त्रिंशः पाठः । तस्य वचनं श्रुत्वा तत्रान्ये पतङ्गा निजगदुः-- ‘सखे, स्वजनदुःखेन तब दुःखं युकामेव । तथा च श्रूयने ---- विक्रमाचरित्रम्। क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा स्वेऽखिलाः क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः। गन्तुं पावकमुद्गतं तदभवदृष्ट्वा स्वमित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी।। इति । एवं पक्षिणां संलापं श्रुत्वा विक्रमस्तं पर्वतमयासीत् । सत्र च वध्याशिला निरीक्ष्य तत्समीपस्थितसरांवरे स्नात्वा वध्याशिलायामुपविवेश । तत्रान्तरे राक्षसोऽपि समागत्य मह- तिवदनमासीनं राजानं दृष्ट्वा विस्मितः पप्रच्छ--- 'भो महा- सत्व, को भवान् ! कुतः समागतः? यः पुनर शिलायांमु विशति, स मामदृष्ट्वैव भयान्त्रियेत । त्वं पुनर्महाधैर्यसंपन्नः स्मे- राननोदृश्यसे । अन्यच, यस्य मरणकालः संनिधत्ते, स ग्लानि भजते । त्वं पुनरधिको कान्ति प्राप्य हससि' इति । राजा सखे, तब किमनन विचारेण मया परार्थमेव शरीरं दीयते । तदात्म- ना समीहितं कुरु' इत्यवदत् । निशाचरस्तु राज्ञः सौजन्यमा- लोक्य 'भो महापुरुष, यतः परार्थ शरीरं प्रयच्छसि, ततस्तवैष जीवितं श्लाध्यम् । अथवा भवादृशां परोपकारिणा नैतचित्रम् । , १ . उक्तंच किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः । न हि स्वदहशैत्यार्थ जायन्ते चन्दनद्रुमाः॥२५॥ इति । अतो वयस्य, तबाहं तुष्टोऽस्मि । वरं वृणीष्व ' इत्य: अचीत् । राजा- 'यदि प्रसन्नोऽसि, तईयप्रभृति मनुष्यभक्षणं विक्रमार्कचरित्रम् । परित्यज । अत्रत्यान्विप्रान्परित्रायस्व । आत्मानमिव तान्पश्य' इल्याह । तच्छुत्वा सोऽपि राक्षसस्तदाप्रभृति प्राणिवधं परि- तत्याज । राजापि कृतार्थो भूसुरान्प्रणम्य तैरभिनन्दितः स्व- नगरमगमत् "। इतीमां कां सालभञ्जिकाकथितामाकर्ण्य अंपायनत- वदनी भोजो निजान्तःपुरमयासीत् ।। ॥ एकादशमुपाख्यानम् ॥ चतुस्त्रिंशः पाठः । भूयोऽप्येकदा भोजे सिंहासनमारोढुमायाति, अपरा सालभञ्जिका जगाद "विक्रमे राज्यं कुर्वति, तस्य नगरे भद्रसेनो नाम व. णिगासीत् । तस्य पुरंदरो नाम पुत्रोऽभूत् । तस्य भद्रसेनस्य संपदां परिच्छेदो नादृश्यत । परंतु व्ययशीलो नासीत् । तत- श्चिराद्भद्रसेने मृते, पुरंदरः पितुः सर्वस्वं प्राप्य कालोचितं त्याग कर्तुमारभत । अथैवंविधमेनं धनदो नाम सुहृदभाषत- 'सखे पुरंदर, वणिक्पुत्रो भूत्वापि क्षत्रियकुमार इव व्ययं क- रोषि । एतद्वणिक्कुलसंभवस्य तव नोचितम् । वणिक्पुत्रेणैका- किनापि संपन्नेनापि द्रव्यसंग्रहः कर्तव्यः । वराटिकाया अपि व्ययो न कर्तव्यः । उपार्जितं द्रव्यं कस्यांचिदापदि उपकुर्यात्' इति । एतत् धनदवचनं श्रुत्वा पुरंदरः प्राह- 'सखे धनद, 6 विक्रमार्क चरित्रम् । समुपार्जितं वितं कस्यांचिदापधुपयोगाय भवतीति यो वदति, स विचारशून्यः । यदा त्वापदः समायान्ति, तदोपार्जितं धन मपि नश्यति । अतो विवेकिना पुरुषेणोचितो व्ययः कार्य एव' इति । एतच्छ्रुत्वा निरुत्तरीभूतो पनदस्तूष्णीमासीत् । ततः पुरंदरः पैतृक सर्वमपि स्वं सत्पात्रेभ्यो विनियुक्तवान् । ततो वित्तहीनं पुरंदरं बन्धुमित्रादयो न मानयन्ति स्म । तेन सह गो- ष्ठीमपि नाकुर्वत । तदा पुरंदरः स्त्रमनस्यचिन्तयत् - 'यावत् हस्ते धनमासीत् , तावदेव सर्वे मित्रादयो मामसेवन्त । इदानीं मया सह गोष्ठीमपि न कुर्वन्ति । नीतिरियं सत्या ' यस्यार्थस्त- स्य मित्राणि' इति । एवं विचिन्त्य निर्विण्ण:- दारिद्रयाय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । सर्व पश्यामि देवेश न मां पश्यति कश्चन ।। इति वदन् , स्वनगराभिर्गत्य देशादेशमटन् , हिमाचलसमी- पस्थं नगरमेकमगमत् । तत्र रात्रौ कस्यचिहस्य बहिर्वेदिका. यां सुष्वाप । अर्धरात्रसमये च नातिदूरस्थवेणुवनमध्ये रुदत्याः कस्याश्चिदबलाया हाहाकारं श्रुत्वा 'किमेतत्' इति पुरंदरे दत्तकणे सति · भो महामनाः, मां परित्रायध्वम् । एष कोऽपि राक्षसो मां मारयनि' इति वर्णावलिरश्रृयत । पञ्चत्रिंशः पाठः । ततः प्रभानसमये सविस्मयं पुरंदरस्तनगरवासिनी जनान् 'फिमेनन्' इत्यपृच्छत् । ततः 'अत्र वेणुवनमध्ये प्रतिदिन विक्रमार्क चरित्र रात्रौ रोदनध्वनिः श्रूयते । परं तु कोऽपि भयान निर्गच्छति, न विचारयति च इति अवद्भिर्जनैर्निवेदितवृत्तान्तः पुरंदरस्तनो निष्क्रम्य स्वच्छया कंचित्कालं पर्यटन , स्वनगरमागत्य राजा- नपद्राक्षीत् । वेणुवनवृत्तान्तं चाकथयत् । अनन्तरं राजा तेन सह तन्नगरमवगाह, निशीथे मध्येवनमाक्रन्दध्वनिमाकर्ण्य, कृ. पाणपाणिः स्वयमेक एव तदरण्यं विवेश । तत्र चातिकरुणं रुदतीमनाथां मानुषीं पीडयन्तमेकं राक्षसमपश्यत् । अब्रवीच- 'रे पापिष्ठ, स्त्रियमनाथां किमेवं मारयसि ?' इति । राक्षस: प्रत्याह- 'तब किमनेन विचारेण । यथागनमपसर । अन्यथा त्वमपि वृधैव मरिष्यसि' इति । तन उभयोर्विवादो महानभूत् । ततो राजा कृपाणमुत्कृत्य राक्षसं जघान । हने च तस्मिश्छि- बमूल इव महीरुहे निपतिते, प्रहटा सा वनिता ससंभ्रमं स- मागत्य, राज्ञः पादयोर्निपत्य वभाण- 'स्वामिन् , तव प्रसा. दान्मम शापावसानमभूत् । महतो दुःखसागरादुद्धृतास्मि'इति । ततो राजा ' का त्वम् ! कुतस्त्वामेष पापीयानपीडयत् । किय- साच कालेनैवंविधामवस्थामनुभवासि?' इत्यपृच्छत् । वनिता 'देव, विज्ञापयामि । अस्मिनगरे महाधनसंपन्नः कश्चिद्राह्मणोऽ भूत् । तस्य भार्याहम् । व्यभिचारिणी । मम तस्मिन्धीतिले- शोऽपि नासीत् । तस्य तु मयि महाननुरागोऽवर्तन । स च या- वजीवं दुःखमनुभूय देहावसानसमये मायशपत्- 'अयि दुरा- चारे, त्वमेव मम मृत्योर्मूलमसि । यदेवं मम मनोरथं विनथमका- धीः, अनुभव नदधप्रभृति तत्फलम् । वेणुवनवासी कश्चिद्राक्ष- विक्रमार्कचरित्रम् । सः अतिभयंकररूपो रात्रौ त्वामनिच्छन्तीमपि बलात्मानिदिनं पीडयिष्यति' इति । एवं शप्तया मया सपादपतनमभियाचितः, 'यदा कश्चिन्महापुरुषः समागत्य तं राक्षसं मारयिष्यति, सदा तव शापावसानं भविष्यति ' इत्युक्त्वा तनुं तत्याज । दैवाद- घ भवताहं शापामोचिता । अद्य मम प्राणा निर्गमिष्यन्ति । मम नवघटपरिमितं सुवर्णमस्ति । त्वं तद्गृहाण' इति । एवं वि- ज्ञाप्य धनस्थानं राज्ञे निवेद्य सा प्राणांस्तत्याज । राजा च त- द्धनं पुरंदरायं वणिजे समर्प्य तेन सहोजयिनीमवाप । इति सालभजिकया कथितां कथां श्रुत्वा भोजस्तूष्णींन्धवर्तिष्ट । ॥ द्वादशमुपाख्यानम् ॥ घात्रिंशः पाठः। पुनरपि सिंहासनसमारुरुक्षया समागतं भोजभूपतिं प्रति- मापरा जगाद-- "प्रथमं विक्रमगुणानाकर्णय । ततो यदि रो- चते, तस्मिन्समुपविश । एकदा विक्रमार्को मन्त्रिषु राज्यभारं निधाय, स्वयं भूमिकान्तरतिरोहितः पृथिवीपर्यटनाय निश्चक्रा- म। निष्क्रम्य च प्रतिनगरं त्रीणि त्रीणि दिवसानि नयनगर- मेकमगमत् । तमगरसमीपस्थितनदीतटे देवालये सर्वेऽपि महा- जनाः कस्मादपि पौराणिकात्पुराणं शृण्वन्तीति निशम्य, नयाँ देवालयं गत्वा, देवं नमस्कृत्य, महाजनसमीपे स्वय- मुपविश्य, पुराणश्लोकमेकमशृणोत्- स्नात्वा, , विक्रमार्कचरित्रम । श्रूयतां धर्मसर्वस्वं यदुक्तं शास्त्रकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥२७॥ एवं पुराणश्रवणसमये, कश्चिद्राह्मणः पत्न्या सह नदी- मुत्तितीपुर्नदीमवगाह्य महापूरेण नीयमानो हाहाकारं कुर्वभदी- तटे पुराणश्रवणतत्परान्महाजनानुद्दिश्यैवमवादी- 'भो भो महाजनाः, त्रायध्वं त्रायध्वम् । वृद्धः सपत्नीको ब्राह्मणोऽई नदीप्रवाहे मुहुर्मुहुर्निमजनेष जीवितं त्यजामि । यः कोऽपि सच्चाधिको धार्मिको मम सभार्यस्य प्राणान् रक्षतु' इति । एवं प्रार्थयमानस्य तस्य दीनध्वनि श्रुत्वा सर्वेऽपि जनाः सदयम- पश्यन् । न कोऽपि तस्याभयं दातुं प्रवभूव । प्रवाहात्तं कूलमा- नेतुं कोऽपि न शशाक ॥ सप्तविंशः पाठः। ततो विक्रमो राजा ‘मा भैषीः' इति धीरमुधुष्य नदी- मध्यं प्रविश्य पन्या सह तं ब्राह्मणं महापूरादाकृष्य तटमा- निनाय । राजन् , तस्य कियानानन्दः स्यादिति भवानेव वि- चारयतु । ततो ब्राह्मणोऽपि स्वस्थः सन् , राजानमवदत्- ममैतच्छरीरं पुरा पितृभ्यामजनिष्ट । तत्प्रथम जन्म । ततोऽस्य गायत्र्या द्वितीयं जन्म । इदानीं भवतस्तृतीयं जन्म प्राप्तम् । अतः प्राणदानान्महोपकारिणस्तवाहं किमुपक- रिष्यामि । यदि विरमामि, मम जीवितं मुधैव स्यात् । अतो यथाशक्त्युपकरोमि । प्रतिगृहाण । गोदावर्युदकमध्ये द्वादश 'भो महापुरुष, ४६ विक्रमार्फचरित्रम् । वर्षाणि नामत्रयमन्त्रमजपम् । तत्पुण्यं तुभ्यं दीयते । अन्यच्च कुच्छचान्द्रायणादिना संपादितं मुकृतमस्ति । नदपि गृहाण' इत्युक्त्वा राज्ञे तत्समग्रं पुण्यं समाशिषं प्रयुज्य, पत्न्या सह ब्रामणो निजस्थानं जगाम । अस्मिन्नेव समये भीषणः कोऽपि ब्रह्मराक्षसो राजसमीपमाजगाम । ब्राह्मणाः संभ्रान्तास्तमप- श्यन् । राजापि तं दृष्ट्वापृच्छत् - ' भी महापुरुष, कस्त्वं कुतः समागच्छसि' ? इति । राक्षसः ‘अहमत्रैव नगरे दुष्पतिग्रह- जीवी दुर्याचनापरश्च कश्चिद्राह्मण आसम् । तदा विद्यागा- दृद्धानदूषयम् । तत्पापवशादस्मिनश्वत्थपादपे ब्रह्मराक्षसो भू- त्वा नियुतं वर्षाणि तिष्ठामि । अद्य भवतारुभयोर्गोष्ठीमाकर्ण्य समागतोऽस्मि । यता निर्चिशेषं सर्वेषामुपकरोषि, तन्ममा युप- कर्तुमर्हसि' इति । राजा- किं वाञ्छसि । राक्षसः , 'इदानी ब्राह्मणेन यत्पुण्यं तुभ्यं दत्तं तन्मह्यं दीयताम् । तेन पुण्येनाह- मस्मादपादुत्तीर्णो भविष्यामि' इति तत्पुण्यमयाचत । राजा तदानीमेव तत्पुण्यं निर्विशङ्क ददौ । सोऽपि तेन पुण्येन तस्मा- स्पापजन्मनो मुक्तो दिव्यरूपधरः सन् , राजानं प्रशस्य दिवं जगाम । राजापि नत्रत्यान्महाजनानापृच्छय स्वनगरमगमत्" । इति सालभञ्जिका कथां कथयामास । भोमोऽपि ना. भारण्य विफलमनोरथो जगाम ।। ? - ।। त्रयोदशमपाख्यानम् ॥
विक्रमाचरित्रम् । अष्टत्रिंशः पाठः। भूयोऽपि कदाचन भोजे सिंहासनमागेढमभिलपति, पाश्चालिकापरा व्याजहार- वामन इव वृक्षाग्रस्थितं फलं सिंहासनमिदमधिगन्तु मभिलषसि । आकर्णय विक्रमस्यौदार्यम् । एकदा विक्रमा राजा पृथिव्यां कस्मिन्स्थाने किमाश्चर्यमस्ति? का वार्ता कि तीर्थम् ! को वा देवतावासोऽस्ति? इनि विलोकयितुं तपस्विवे- पण परिभ्रमनगरमेकमगमत् । तत्समीपे तपोवनमेकमदृश्यत । तस्मिन्नेका नदी प्रवहति स्म । तत्र जगदम्बिकाया महान्मासा- दोऽभूत् । गजापि तत्र नदीजले स्नात्वा देवतां सप्रदक्षिणं प्र- णम्य ततो निर्जगाम । तत्रान्तरेऽवधूनवासा नाम कश्चिद्योगी तत्रागत्य कृतमणामं राजानमन्वयुत- 'कुत आगता भवान! । राजा 'अध्वनीनोऽहं कोऽपि तीर्थयात्राशीलः' इत्याह । योगी न त्वं विक्रमार्कः ? एकदा त्वामुज्जयिन्यामपश्यम् । अतोऽहं वो जानामि । किमर्थमागतोऽसि ' इत्यपृच्छत् । राजाब्रवीत्-- 'स्वामिन् , पृथ्वीपर्यटने महत्युत्कण्ठा समभृत् । तेन हि सर्व- माश्चर्य विलोक्यते । भवादृशानां महतां संदर्शनमपि भविष्यति' इति । अवधूतवासा अपृच्छत् -- 'राजन् , तत्तादृशं राज्यं परित्यज्य कथं देशान्तरं परिभ्रमसि' इति । अहं सर्वमपि राज्यभारं मत्रिहस्ते निधाय समागच्छम् ' इति राजा प्रत्यब वीत् । अवधूतवासाः 'अये त्वया नीतिशास्त्रविरोधः क्रियते। राज्यं स्ववशंवदमभूदिति नापेक्षणीयम् । स्वायत्तमपि पुनः म " " विक्रमार्कचरित्रम् भगवन् , दृढं कर्तव्यम्' इति । तच्छ्रुत्वा राजा बमाण सर्वमेतत्पौरुषं निरर्थकम् । दैवमेव सर्वस्य मूलम् । सुदृढेऽपि राज्ये, सत्यामपि साधनसमृद्धौ, संपनेऽपि पौरुषे, दैववैमुख्या- भरः परिभूयते । तथा च बदन्ति नीतिषिदः अरक्षितं तिष्ठति दैवरक्षित सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥२८॥ इति । " एवं राज्ञो वचनं श्रुन्या पहष्टो योगी तस्मै काश्मीरलि- गमेकं दत्त्वाभाषत-- 'भो राजन् , एतत्काश्मीरलिङ्गं चिन्ताम- णिरिव चिन्तितानि वस्तूनि ददाति । तस्मादेतत्साधु पूजय' इति । राजा शाहम्' इत्युक्त्वा तं प्रणम्य सल्लिङ्गमादायाम- च्छन् नगरमार्गे कंचन ब्राह्मणमपश्यत् । स च राजानमुद्दिश्य, 'राजन् , मम मुचिराभ्यर्चितं शिवलिङ्ग केनाप्यपहतम् । त्रि- चतुराणि दिवसानि अहमुपक्सामि । अनाराध्य लिङ्गं न भु- जीय । यदीदं लिङ्ग ददासि, तर्हि कृतार्थो भविष्यामि' इत्या- चख्यौ । तच्छ्रुत्वा राजा तल्लिङ्गं तस्मै दत्त्वा निजनगर जगामा" इति सालभचिकया कथितां कथामाकण्य राजा भोजः 'ना- हमिदं सिंहासनं समारोदुमहामि' इति मन्वानोन्यवर्तिष्ट । ।। चतुर्दशमुपाख्यानम् ॥
विक्रमार्कचरित्रम् । एकोनचत्वारिंशः पाठः । अथैकदा यथापूर्व सिंहासनमारोदुमागते धराधिनाथ, पञ्चदशी पाश्चालिका विहस्य राजानमभाणीत् 'कथमिव भूयोऽपि समागतोऽसि । अद्यापि समाकर्णय तस्य विक्रमस्य औदार्य महाधैर्य च । विक्रमे राज्यं कुर्वति सति, तस्य वसुमित्रो नाम कश्चित्पुरोहित आसीत् । सोऽत्यन्तरूपवान् स- कलकलाभिज्ञो राज्ञोऽत्यन्तप्रियतमः परोपकारी सर्वलोकप्रियो महाधनसंपन्नश्च । तस्य चैवविधस्य चेतसि कदाचिदेवं बुद्धिर- भूत्-'उपार्जितानां पापानां गङ्गास्नानाहते क्षयो नास्ति। उक्तं च- अमिं प्राप्य यथा सद्यस्तूलराशिविनश्यति । तथा गडावगाहेन सर्वपापं विनश्यति ॥२९॥ एवं विचार्य वाराणसी जगाम। तत्र गङ्गायां यथाविधि स्नात्वा विश्वेश्वरं माधवं च प्रणम्याभ्यर्च्य, स्वनगराभिमुखमा- गच्छन्मध्येमार्गमेकं नगरमगमत् । तत्र च नगरे शापदग्या मु. राङ्गना काचिद्राज्यमकरोत् । तस्याः पतिर्नासीत् । लत्र लक्ष्मी- नारायणस्य महान्प्रासादोऽदृश्यत । तस्य च गोपुराग्रे चिरात्तप्त महति लोहकटाहे तैलं संतप्यते स्म । तत्र नियुक्ताः पुरुषाः वैदेशिकान् जनानेवं ब्रुवन्तोऽवर्तन्त-- 'यः कोऽपि सत्त्वाधि- कः पुरुषोऽस्मिन्कटाहे निपतेत् , तस्येयं मन्मथसंजीविनी ना माप्सराः कण्ठे मालां समर्पयिष्यति' इति । वसुमित्रोऽपि तं - विक्रमार्क चरित्रम् । वृत्तान्तं श्रुत्वा तत्सर्व दृष्ट्वा स्वनगरमाजगाम । आगत्य च स- वैबन्धुभिः सह प्रभाते राजमन्दिरं गत्वा राजानं दृष्ट्वा राक्षे ग. मोदकं विश्वेश्वरप्रसादं च ददौ । ततो राज्ञा देशान्तरे किंकि- मद्भुतमद्राक्षीः' इति पृष्टो बमुमित्रः सुराङ्गनातप्ततैलवृत्तान्तम- कथयत् । अनन्तरं राजा तेन सह तत्स्थानं गत्वा तत्र नयां कृताभिषेको लक्ष्मीनारायणं नमस्कृत्य तसतैलमध्ये पपात । तत्रत्या जना महान्तं कोलाहलमकुर्वन् । राज्ञः शरीरं मांसपि- डाकारमभूत् । तच्छ्रुत्वा मन्मथसंजीविनी पीयूषमानीय मांस- पिण्डमभिषिषेच । ततो राजा दिव्यरूपधरः कुमारः संवृत्तः । मतो मन्मथसंजीविनी कुसुममालां महीपतेः कण्ठे निवेशयित- माजगाम । लदा राजा 'भद्रे मदीयासि । मामकं छन्दमनुव- तस्व । अमुं मम पुरोहितं कृणीष्व' इत्यादिशत् । सा च ' महा- प्रसादः' इत्युक्त्वा पुरोहितकण्ठे कुसुममालामाक्षिपत् । राजा पि तयोविवाहं कारयित्वा तं वमुमित्रं तत्रैव राज्येऽभिषिच्य निजनगरमगमत् । इति कथां कथयित्वा सालभञ्जिका 'किमाकार्णतं विक्रम स्यौदार्य धैर्य च!' इति भोजममाक्षीत् । सोऽपि तूष्णीभूतम्तस्थौ। ॥ पश्चदशमुपाख्यानम् ॥ चत्वारिंशः पाठः। भूयोऽपि कदाचित्ससंभ्रममागच्छन्तं भोजमपरा साल भतिका बभाण- A
विक्रमार्क चरित्रम् ।
'राजन् , उपसंहर संभ्रमम् । तिष्ठ । सर्वमप्याकर्णय
विक्रमस्य वदान्यभावम् । पश्चाधदि रोचते, तदोपविश । राजा
विक्रमः कदादिग्विजयाथै कृतसंनाहो निर्गत्य, पूर्वदक्षिणपश्चि-
मोत्तरा दिशो विदिशश्च परिभ्रम्य, सर्वानपि नृपतीन्स्वपाद-
पद्मसमाक्रान्तान्विधाय, तैः समर्पिता रथगजाश्चादीपदाः स्वी
कृत्योजयिनी समागत्य यावत्प्रवेष्टुमाग्भन, तावत्प्रधानभूनी
दैवज्ञः प्राह- 'देव, चत्वारो दिवसा नाहन्ति पुरप्रवेशम्' इति ।
तच्छ्रुत्वा राजा 'नगराहिल्याने निवासं परिकल्पय ' इति
सचिवमादिदेश । सुमन्त्रनामा स च सचिवः ससंभ्रमं समुचितं
निवासं कारयामास । तत्रान्तरे ऋतुर्वसन्तोऽपि शनैरुद्यानं
सिषेचे । वकुलशाखिनो मुकुलिताः । माकन्दाः कुमुमिताः ।
मन्दानिलाःप्रचलिताः। इतस्ततो भ्रमराश्च माकन्दमकरन्दमत्ता-
भिर्धमरीभिः सह झंकारमकुर्वन् । सर्वा अपि लताः कुसुम
पिता अशोभन्त । इत्थं वसन्तवैभवेनातिमनोहरे तस्मिन्नुपवने
विक्रमादित्यः कनिचन दिवसान्सुखेन यापयन्नवर्तत । तस्मिन्न-
वसरे कश्चिद्राह्मणः कांचन कन्यकां गृहीत्वा राजसमीपमागत्य,
कल्याणदायि भवतोऽस्तु पिनाकपाणेः
पाणिग्रहे भुजगकंकणभीषितायाः।
संभ्रान्तदृष्टि सहसैव नमः शिवाये-
त्योंक्तिलजितनतं मुखमम्बिकायाः ॥३०॥
५२ विक्रमाचरित्रम् । इत्याशिषं प्रयुज्य राज्ञा निर्दिष्टां ब्रसीमास्थाय 'राजन् , किं- चिद्विज्ञापनीयमस्ति'इति विक्रममवादीत् । सोऽपि निःश नि- वेद्यताम्' इत्याह । ब्राह्मणः 'अहं नदीवर्धमाननगरनिवासी । ममाष्टौ पुत्राः समजायन्त । कन्यका पुनः कापि नाजनि । ततः मभार्योऽहं .जगदम्बिकायाः पुरतः ‘अम्ब, यदि तवानुग्रहा- मम काचित्कन्यका जायेत, तदा त्वन्नाम तस्या विधायः तां नत्तुलितेन सुवर्णेन सह कस्मैचिच्चतुर्वेदविदे वराय दास्यामि' इति संकल्पितवान् । ततः कतिपयैरेव दिवसैस्तस्याः प्रसादा- देषा कन्या जाता । अयं चास्याः पाणिग्रहणसमयः । अतोऽ नया तुलितं सुवर्ण दातुं त्वत्तोऽन्यो नास्तीति मत्वा तवान्ति- कमहमागमम् । तन्ममेमं मनोरथं परिपूरयतु भवान्' इति नि- वेदयामास । ततो राजा भाण्डागारिकमाहूय एतस्मै ब्राह्म- णायैतत्कन्यापरिमितं सुवर्ण देहि' इत्यादिदेश । कोशाध्यक्षा- ऽपि 'महान्प्रसादः' इत्युक्त्वा तस्मै विप्राय तावत्काञ्चनं ददौ। ब्राह्मणोऽप्यतिसंतुष्टः सन् , कन्यया सह जगाम । ततो राजापि शुभ मुहूर्ने पुरं प्रविवेश ।" इति पाश्चालिकोदीरितां कथां निशम्य भोजस्तूष्णीं निर्जगाम ।। ।। षोडशमुपाख्यानम् ॥ + GLOSSARY. This follows text order. Bv V. RAMAKRISTINA SASTRI.B.A.L.T. देवज्ञ Old ago १ hilo प्रवीण Skilful. आपृच्छय taking leavo. अनुज Younger brother. a.strologor. भुवनेश्वरी A goldeos. सार्धद्विहायनी Livo anda जरा half years old girl. चातुर्वण्यम् The fult !' earles व्याकुल confounded. विरत freed front. सागरवेला Seashore. वसुंधरा Earth. माणवक boy सुरनगर leaves. अगोचरः beyond ou l'ralge 113 खड़ word. नैपुण Skill 19 (Tamil) Choalu. विवाद Disputes (Tabril) Kadalai. अन्तर Difference. उत्थापन causing to leave. वासव ludra. all olevated shed in a field for watchen. बभाण Spoke. जागति Is awaho (minus) met hunting, विचक्षण IVive. क्षत्र field. सुधर्मा उर्वारुकफलानि ('amil ) the Council Di (rods. Kakkuri. मणिमय Sel with gems. लाभ peolit. द्वात्रिंशत् thirts - two. चखान सालभलिका doll. पुरुषमात्र taull ashlutil dug 17p.
। PM farmar Ujjain. अङ्क सक्थि thigh. गत hollow. सरस् lake. उचलयामास muved. branch. गरिष्ठ hoa viest पिपासा thist. बलि oblation समापतत् came unexpec- संविधान tedly. arrangeinent. खल rogue. दुम tree. आटोप prile. भल्लूक be सान्त्व coutilintion. प्रत्यर्थि enemy. Sun Pap. असूर्यपश्य not seeing the यादृशः कीदृशा वा who cver. आलेख्य be. picture. प्रमत्त Cuttitnes. तथ्य truth. मत्ता froin 10. sign. प्रभात morning. सचिव minister. समाचख्युः told. वध्यस्थान A place for execu- समुपनत happened. tion. मार्गण caich. मिथ्या false. उन्माद insanity. भवन house. चिकित्सा treatment. कर्मायत्त भूगृह underground cell. dependent un tate. आदेश connnand. एकदा उद्योषग oncc. prolaire. आखेट hunting. यवनिका curtain. दुनिमित्त bal oilm आमन्त्रयत Called. वर्ण letior, व्याघ्र tiger. आचकप तुरग horse. drew. .
[3] ponessione. 11 TO.. संसर्ग companionship. उत्कृत्य having torn off संभाव्य haring rewardod कृपाण sword पुरन्ध्री matron. स्वस्थ calma frefa with waving lights fra poor. as a mark of weal. अतिथि guest. afet panogyrist. अतिशेते surpasses. बधिर deaf. भोग enjoyment. hump-backed. सर्वस्व the whole of man's औदार्य liberality, साहस diariny. उपाक्रमत comnuenced. कोटिशः शिल्पि architect. प्रत्यावर्तत went back. यज्ञायतन place of snerifice भूयोऽपि oneo again. समाजग्मुः arrived (they ) Spv. विक्षिप्य having placed कौतुक curiosity. संभावना reward. जलधारा mountain torrent. अवसर moment. पातक pin. मूल्य cost. कलुष dirty. उपहरिष्यामि I shall gire as पूत parified. present. होमकुण्ड a lole in the प्रयच्छ give. ground for sacrificial अमृतकल्प like nectar. fire पदाति infantry. वत्सर year. अन्तरधात् disappeared. प्रेरित अगमत् went. fhrown out. निर्झर अवभृथ trenni a purifying bath शीर्ष Wat the end of a sacrifice, hearl.
d [4] मध्येसभम् मिथ्या मणि gem. वाराणसी Benares. अर्थिसात्कृत plared at the gate lived. disposal of the Istick used for the needy. sacrod fire, रोचते is pleasing. महत् + अरण्यम् - अरण्यानी गृहिणी wife. big forest. स्नुषा daughter-in-law. मृगया hunti . युधिष्ठिर Dharmaputra सूकर . षड्स the sir tastos कटु, अनयत ld. अम्ल, मधुर, लवण, तिक्त, in the midst of कपाय. the council. तुरीया fourth न्ययुक्त upited. आरेभे began false, हीन devoid of मन्दिर house. श्रुतिस्मृति veilas & Dharma servant. Sastras facror bazar. Haraft Parvathi विक्रेतुम् to soll. प्रदोष nightfall लोलुप destrous संभ्रम haste, hurry अदाम् I gave. मनसिकृत्य minding. प्राक्तन ancient मन्दवासर Saturday. प्रतिकर्तु to remedy चौल shaving ceremoney स्तयी thief गोदान the ceremoney of तिलशः bits tonsure. TET eagle शील character. त्ररण dobt गुर secret. विस्मय wonder [5] wont कृतज्ञता gratitude रुधिर blood अयासीत् कुतूहल enthusiasm सार्थवाह morchant कबन्ध headless trunk चतुर clover खङ्ग Sword प्राहिणोत् sent. #T3Tsheath कूलंकषा lashing against- आकृष्य lrawing out the banks मिथुन couple नाविक boatsman farargat returned पथिक traveller बटत is possiblo कर्णधार sailor यथाविधि according to SAIOTH responsible rulos विरराम censed परिणीय having married पुष्पापचय collecting मौन silence flowers संगाह preparation e doing penance निर्ममता indifference वृथा vain पावन pure भूयान् much ऊरुज Vaisya शाश्वत eternal 912 worthy person वदान्य generous श्रोत्रिय proficient in the परिचर्या Vedas qara: previous day तपस्या penaute भिक्षुक beggar to-morrow प्रात: morning वैदेशिक a foreigner तिरो बभूव disappeared मेदुर full of प्राबुध्ये (1) woke up मस्तक head मेधावी vory intolligent fafat wall sorvice वेतन salury व:
[6] (aro-W0172 to otp Safarst respectfully told hair aforati merchant आयत्ता ready क्रोश two inilca आजकक्षत् wished to ascend बिल a cavity in the carth विश्वभरा Barth गगन sky आद्वानुम् to call चिन्ताव्याकुल द्रष्टुमिच्छति--दिक्षते wishes अन्नसत्र à feeding hente आक्षिप्य Hoiang दुर्गाकुर-('url) Sath Lyo0 परावृत्य turning सनया ad. har दुर्वृत्त wickel परिवाद scandal fram srattered दुष्प्रापा unobtainable आमय disease अमित unlimited fara intr-bearer शुश्रूषमाण serving उदर oily लालस desirious of 34: (welt (choy) वनिता परितः rond about orcat having drunk संतति progeny परेद्यवि the next day faTaT widow कथाप्रसङ्ग in the course of #mafà approar her conversation पतन अद्भुत wonder वध्यशिला tho stone of धूलि dust execution ताम्बूलवीटिका a botelsoroll प्रहर | Jama in e. a peritik ग्लानि fatigno of 3 hours परिच्छेद womnan स्मर sniiling measnre मश्च cat व्यय xpenny सम्व couragu उपार्जित ent! Aryan संपन्न full of wealth वराटिका a cowrio प्रबभूव was capable कूल bank उत्तर reply कृच्छचान्द्रायण kinds of पैतृक " portwrunner as the (' epintion दुष्प्रतिग्रह l'ecojving bad गोष्ठी seri gifts बहिर्वेदिका the attt hit ! 'al नियुत milt(011 वेणु 110 प्रासाद mansion वर्णावलि ; ( id ! अध्वनीन turaller उत्कण्ठा in srdent desire आक्रन्दध्वनि ! hue ut. !! १. 14 e परिभूयते is ridlucuedd अतिकरुणम very pit लोहकदाह an iron frying pan उत्कृष्य 10 11 पीयूष lectar Hata killed WIL पापीयान् ॥ ort cit. -11'. . मृत्यु death वदान्य १. 11beral person वितथ a present समारुरुक्षा 110 16 tet nd मकरन्द honey प्रतिमा doll THT soat of a sigo भूमिकान्तर dit gund तुलित weighed निश्चक्राम पाणिग्रहण marriage freig desireitts as como भाण्डागारिक treasnrer ing गापुर tower रे son fello! उपसंहर stop vavin Fout 151 browary
Translation of the Slokas.
1. I bow to that Goddess of Spoech, the
oxalted of the exalted, the divine-creepor-like
bestower of all good on the desirous,
2. In the woods or in the battle, in the
midst of the foos, fire or water, on the big ocean
or the sumınits of mountains, the virtues of the
previous birth shield il man whether sleepy or
out of senses or even if in straits.
3.
On one side lie all the sacrifices with.
their entire good gifts, but on the other side lies
(equally worthy) the protecting of a terrified soul.
4. Ploased in a muoment and irritated in
a moment and bereft of plcasure in a trice, even
the favour of such unstable-ininded persons is
causative of fear,
5. What slirewdness lies there in decoin
ving them who are good-natured? What Valour
behoves him who kills the slumberer on his lap?
6. On seeing the Setu (Rameswaram bridge)
and the confluence of the Ganges with the ocean
one is purged of the sin of Bralımiumurder but
never of the sin of trcachery towards a friend.
%
}
9
7. A traitor to a friend, an ungrateful
person and a violator of faith Thesc tbree fall
in hell so long as the sun and the moon exist.
8. Oh, King, if you desire weal to your
son give gifts unto the twice-born, (for) of all the
castes the Brahmin is the lord.
0. Thou livest in the village, never to the
woods thou goest; still how dost thou know of the
language of the hear and the tiger and man ?
10. Sarasyathi resides in my tongue by the
blessing of the Gods and the Brahmans. Hence
dó I understand this as I did the sign of
Bhanumati.
11. One company of the good rescues one.
from difficnties present and future. The water of
the Ganges not only alleviates present thirst but
wards off ovon tbe hell.
12. In this world the vile are as capable
of boasting of their own merits as of decrying
others'defects. But the noble certainly do no
speak of either their own merits or others' dram
backs.
13, The big trees give shade unto another
but themselves stand in the sun; Yield fruit for
others' use, never for their own sake.
14. Whilo wealth lasts, it must be given and he enjoyed, but its storing-up is to be avoided Look at the bees whose stored-up treasure is robbed away by another. 15. In this world, what is there that is pot obtainable by money? Hence, here, the shrewd man shonld amass only wealth. 16. The sonless person has no happy go. never never to heaven. Therefore after lookmg at the face of the son alone one should choose to do peuance. 17. What ieri lies tliero in kindnt towards the beneficent ? Noble, he is regarded who is kind towards his foes 18. Crossing of big rivers, the over-powering of a great inan, and the eninity of a great multitude. These three are to be shanned at a distance. 19. Clearing oneself of the three debts alone, one should set his mind on Liberation. He that yearns for Liberation, withont ridding himself talls low 20. They are really beasts in human forms and burdens of the Earth, who have neither education, nor penance, nor charity, nor character nor good manners, nor virtue.
21. Protects like a mother, guides in the good (path) like a father, pleases like a consort driving all fatigue, spreads glory in all directions, increases wealth and what else does not knowledge, like the divine creeper, accomplish ? 22. We live by beggary, our costumes are the directions, we lie down on bare Earth, what need have we of these masters i 23. The king is the relation to relationluss, the eye to the eyeless. He is both father and mother and the exerconsoling master. 24. All the qualities of milk are given to water mixed with it. Looking at the heating of the milk, the water sacrifices itself in fire. Seeing the difficulty of his freind the milk himself rises to fall in fire, but calms down only with water. Snch indeed is friendship with the good. pr 25. What wonder is there that the good are bent on philanthropy ? The Sandal troes are not born for cooling their own trunks. 26. Let bows be ito yon, Poverty. I have become a sage by your favour. Oh Lord of Lords now I see everything, but none sees me. 21. Let the Summum bonum of all Dharma (laid down) by the many Sastras be listened to:
19 Philanthropy makes for virtne and harming others for vic. 2. What is loft unprotected (by man ) stands protected by Fato, while, even if wellprotected (by man) it perishes, if against Fate. Even It left adritt in the forests it survives, while even if welloared for at home it perishes. 29. Even as bales of cotton are destroyed by a touch of fire, so are all the sins of man by a bath in the (holy) Ganges. 30. May the face of Mother Parvati who, at the time of her marriage Panigrahana) afraid of the serpent bangle of Lord Siva, shrieked with a look of terror Namas Siva' bit ceasing in the middle, hung her head in bashfulness (for that was her lord's name ) -- may th:t face bring all prosperity to von. Glossary Printed at Sti Komalamba Press,Kumbakonam.
No text on this page.