Scl

The Phakkika Saralartha

Pandith_ramacharitra_tripathi

PDF Proofread

Front matter

No text on this page.

THE
HARIDAS SANSKRIT SERIES
21
Voca
EIFERTETE. UTC givea starii ia Egutin:-
फक्किका-सरलार्थः
व्याकरणाचार्य पण्डित सदाशिवशास्त्रिणा विरचितया प्रभानान्या टिप्पण्या संवलितः
THE
PHAKKIKĀ SARALARTHA
w
By
VYĀKARAŅĀCHARYA
PANDIT RAMCHARITRA TRIPATHÌ
with Prabbā notes by
Pandit Sadasiva Sastri yosh
PUBLISHED BY
JAYA KRISHNA DÂS HARIDÂS GUPTA
The Choukhamba Sanskrit Series Office,
Vidya Vilas Press, Banaras
5 th Edition ]
1950
[ Price 1/-
All Rights Reserved by the Publishers.

श्रीगुरुर्विजयतेतराम् ॥ भूमिका । श्रीमत्यस्मिन्निखिले जगतीतले वेदाङ्गाग्रगतमतिसारवत्तरं विजितसकलशब्द- तन्नं निखिलजगन्मण्डनायमानगीर्वाणवाणीभूषणं पाणिनीयव्याकरणं वरीवर्तीति न तिरोहितं विदुषाम् । परब्ध करालकलिकालवशान्मन्दैमन्दमतिभिर्मन्दभाग्यरुपद्रुतैर्द्विजातिभिरति- सारवत्त या तस्मात् सकलसारो दुर्धर इति परमकारुणिकैस्तत्रभवद्भिविद्वद्वराग्रणीभिः श्रीमत्पतञ्जलिमुनिप्रभृतिभिरधावध्यने के निबन्धा निबद्धाः, येन च समेषां सम्य. लाभः स्यात् । प्रवलन्ति चेदानीं सर्वत्र पाणिनीयव्याकरणबोधोपकारकाः सिद्धान्तकौमुदी- मनोरमाशेखरादिग्रन्थाः । परञ्चातिक्लिष्टेभ्यस्तेभ्यो ग्रन्थेभ्यो बालानां न सम्यग् लाभः, अतिविस्तृ- तत्वाचन तेषां परीक्षोपयोगी लामः फक्किकाम्याख्या अपि बह्वयः सजाताः, ता. सामपि शेखरादिग्रन्थसंस्कृतसंवलिततयाऽन्तेवासिनां हृदयगतो यथार्थतत्वावबोधो न जायत इति वशंवदेन मयाऽयम्फविकासरलार्थो विरचितः । नाहं किल ताहग बुद्धिमान् येन चैतादृशकार्य सम्पादयेयम् । किन्स्वत्र तत्र भवतां भवतां काशीस्थराजकीयसंस्कृतपाठशालाध्यापकानां व्याकरणकर्णधाराणां श्री १०८ व्याकरणाचार्य-देवनारायणनिवेदिनां गुरुचरणानां, तथा च गोयनकामहा- विद्यालयप्रधानाध्यापकानां श्री १०८ व्याकरणाचार्य-रामयशस्त्रिपाठिनां गुरुचरणाना- चायप्रसादः । येन च मयाऽयमन्थो भवतां दृष्टिपथं नीतः। अत्र किल परीक्षार्थिनां विद्यार्थिनाम् अस्सप्रयासेन झटिति कौमुदीस्थफवि कानां बोधः परीक्षालामश्च स्यादिति मम निश्चयः किमधिप्रशंसया । अस्यावलोकनेन विद्वांसो विद्यार्थिनश्च मामलङ्करिष्यन्तीति श्रीविश्वनाथचर- णान् विदुषो विद्यार्थिगणाश्च प्रार्थये । .

भूमिका। २ अस्य ग्रन्थस्य पुनर्मुद्रणेऽपि सर्वाऽधिकारः काशीस्थविद्याविलासनामकमुन्द्र- णालयाध्यक्ष-गोलोकवासि श्रेष्टिवर-बाबूहरिदासगुप्तात्मज-श्रीजयकृष्णदासमहोदयाय मयाऽदायि, तं च तेषां कनायान् भ्राता विद्याविलासमुद्रणालयोपाध्यक्षः श्रीष्टि- कृष्णदासमहोदयः परप्रेम्णोररीकृत्य संशोधकपटुश्रीसदाशिवशास्त्रिद्वारा टिप्पणी- परिष्करणपूर्वक संशोधितवान् । अन्न वयं संशोधकमहोदयानां श्रीसदाशिवशास्त्रिणामुपकारान् स्मारं स्मार श्रीजयकृष्णदासमहोदयान् श्रीकृष्णदासमहोदयांश्च धन्यवादरमिनन्दयामः । ग्रन्थे नैसर्गिकमनुष्यदोषवशाधा काचिदशुद्धिः स्यात्तां हंसक्षीरन्यायेन परिशोध. यन्तु विद्वज्जना इत्यहं मुहुर्मुहुः प्रार्थये । mom विद्वज्जनकृपाभिलाषी- रामचरित्रद्विवेदी साहित्यव्याकरणाचार्यः। निवेदनम् । फक्किकासरलार्थः परिष्करणपूर्वक संशोधनार्थ श्रीकृष्णदासश्रेष्टिमहोदयेन मयि समर्षितः। तेषां प्रार्थनातिशयेन वशंवदेन मया प्रमानाग्नी टिप्पणी विरचिता। सा विद्यार्थिनां परमोपकाराय भवेदिति मन्यते। विदुषामनुचर- जोशीत्युपाहसदाशिवशर्मा फक्किासरलार्थस्य विषयसूची । विषयः संज्ञाप्रकरणे মুক্তা हलन्त्यम् आदिरन्त्येनेति प्रत्याहारेष्विा न ग्रहणम् हस्वग्रहणमतन्त्रमिति नाज्झलो अत्राण परेण णकारेण एदेतोरोदौतोश्चेति स्वरसन्यौ वान्त इत्यत्रेति तनिमित्तस्यैवेति किम् कानि सन्ति कृष्णद्धि अर्थवग्रहणे अचि किम् ऋति सवर्ण अतीति निवृत्तम् १२ पृ० विषयः चाद्विसर्गः १ विसर्गसन्धौ मातुः कृपा चतुष्कपाल: कस्कादिषु सर्पिष्कुण्डिका २ स्वादिसन्धौ ३ अप्लुतादिति किम् अशि किम् अजर्घाः अजन्तपुंल्लिङ्गे समासग्रहणम् ड्या ग्रहणं किम् रुत्वविसौ रामः सम्बुद्ध्याक्षिप्तस्य ५ एग्रहणम् पदव्यवायेऽपि ६ प्रत्यये किम् ६ बहुवचने किम् ६ झलि किम् जश्वं वावसाने ४ १३ १३ १३ १४ वत् किम् रामकृष्णावमू आसाते मात् किम् ७ वश्वस्यासिद्धत्वात् अर्थग्रहणं किम् हलसन्धी टोः किम् स्थानप्रयत्नाम्यामिति नाम्यते सँस्कर्ता ख्यामादेशे न उभयशब्दस्य एतच्च भाष्यविरुद्धम् निर्जरसौ यूष्णः प्रभृतिग्रहणं प्रकारार्थम् 24 यूकिं मात्रे १ प्रथमहल किम् द्विपर्यन्तानां किम् विषयसूची। २ विषयः औत्वप्रतिषेधः १७ | हलन्तस्त्रीलिङ्ग विमलदिवी हलन्तनपुंसकलिङ्गे २५ विषयः सुसखिना दुर्धियः हे भानो अजन्तस्त्रीलिङ्गे असंयुक्ता ये डल. यद्यपि जरसादेशस्य अतिस्त्रिय पदान्तरं विनापि अजन्तनपुंसकलिङ्गे नलुमताङ्गस्यानित्यत्वात् हलन्तपुंल्लिङ्गे उपदेशे किम् एकाचः अनड़वान् णत्वं द्वित्वं चतुर्णाम् अकसहितस्यापि २७ २८ दीर्घाहाः वेभिदि गबाचु स्वाम्पि स्त्रीप्रत्यये पञ्चाजी शूद्रा अतिसुत्वरी टावृचि कटुका अस्त्रैषा अनुपसर्जनात् वक्ष्यमाणा चौरी विभाषा सपूर्वस्य वृषलस्य पत्नीति व्यस्ते २९ २० घृनव्नः मधवा अष्टौ द्विपर्यन्तानामित्येव त्वं स्त्री मपर्यन्तस्य किम् यूयम् २२ नागी स्थूला ३१ भ्यसो भ्यम् भाविनः सुटः उतः किं ? शुचिः २३ ब्राह्मणी अद्वम् आकृतिग्रहणा २३ / विभक्त्यर्थ प्रातिपदिकार्थः २४ द्रोणो व्रीहिः २ ३३ समस्यमाने अमुसुय उगिदचामिति नुम्विसर्जनीय० पुंसोऽसुङ् CAN २४ २५ कर्तुः किम् ३ विषयसूची। विषयः पयसा ओदनं भुक्ते अर्थनिबन्धना गतिबुद्धीति दशेश्व येषां देशकालादिमित्रम् पापेऽमिनिवेशः जपमनुप्रावर्षत् सर्पिषोऽपि स्याद गङ्गायां घोषः अन्यकर्तृकः चैत्रात्पूर्वः भवात्प्रकृति बहियोगे पञ्चमी ज्ञोऽविदर्थस्य कृतपूर्वी कटम् ४८ पृ० विषयः ३४ समासाश्रये हृल्लेखः गर्भभगिनो तद्धिते आदिधृद्धिः तस्येदमिति ३७ कृतसन्धेः प्रथमात् किम् एको गोत्रे ३८ एको गोत्र क्षत्रियसमानशब्दात् ३९ चातुरर्थिके सिद्धे यस्येति ३६ | द्विरुक्तप्रक्रियायाम् एकैकस्मै दलद्वये भ्वादी लकाराः प्रदर्श्यन्ते हलादिः शेषः येन नाव्यवधानम् भवतात् डिवोक्तः चिकीर्ध्यात् भवेयुः प्रत्यये किम् ? ववश्व ४३ एकाचः किम् शसि दद्योः ऊखतुः ४४ कृसू० सर्वोऽयं कारक० ४८ यस्मादधिकम् अव्ययीभावे भूतपूर्व अधिहरि विभाषा तत्पुषे प्राप्तजीविका व्याघ्री दीर्घाती अष्टागवम् बहुधीही कल्याणी पञ्चमा: सपत्नीशब्दः ५१ ६२ ५३. विप्रतिषिद्ध किम् विषयसूची। विषयः संज्ञायाः कार्यकालस्वात् अथ कथमुदयति M घस्लु अदने स्यन्तस्यति मत्स्योदकेऽनुष्यन्देते प्रविघाटयिता विव्यथे कथं विज्ञापना भतृषु स्वामी तु न कमीति श्रेजे सस्वरिव प्रणिमयते परिष्कण्णः वित्र्याय अदादौ विचक्षणः प्रथयन् युयात् अभीयात् अध्ययै अयं सर्वधातुकमात्र ददरिद्रौ जुहोत्यादौ विषयः ५४ तनादौ सुटकात्पूर्वः संस्क्रियात् ५६ यादौ अबान्धाम् एषिता এই বাহু चिन्त इति औननत् कंसमजीतत् ण्यन्तप्रक्रियायाम ण्याकृतिनिर्देशात् मा भवानिदिधत् औब्जिजत् कथं तर्हि विस्मापयन् ऐयियत् निवृत्तप्रेषणात् सनन्तप्रक्रियायाम् एषिषिषति उणुनर्विषति रिरिषति उचिच्छिषति यङलुगन्तप्रक्रियायाम् ६० बोभवीति यकारवकारान्तानां या नामधातुप्रक्रियायाम् ६१ अवगल्भाञ्चक्र उपसर्गसमानाकारम् धृद्धौ सत्यां टिलोपः दिवादी अश्विक्षत् धुतादिपाठात् तुदादौ विव्यच तृम्फति मङ्का विषयसूची। ७१ ७७ विषयः स्वादयति शावयति तिराययति कण्ड्वादो द्विधा कण्ड्वादयः आत्मनेपदप्रक्रिया कथं तर्हि आजम्ने दर्शयते भवः परस्मैपदप्रक्रियायाम् अनुकरोति भावकर्मप्रक्रियोयाम् शामिता कर्मकतेप्रक्रियायाम् पच्यते ओदनेन तपस्तपःकर्मकस्यैव लकारार्थप्रक्रियायाम् विषयः याहि याहि ७१ पूर्वकृदन्ते अचो यत् इ चेति हस्वः सु० कथं भार्या वधूः न क्वादेः ७२ लोटा बाधा मा भूत कथं लोध्रदुमं सानुमतः० पृष्टः दत्तः यायावर ७३ उत्तरकृदन्ते अर्थग्रहणमस्तिनैव. चः कः इति वक्तव्ये कथं तर्हि अतिसुलभम् अन्तरङ्गानपि विधीन मूलकोपदंशं भुङ्क्ते ७७ ७८ ७४ ७४ ८. वसन् ददर्श इति फक्किकासरलार्थस्य विषयसूची समाप्ता । सर्वविध पुस्तकप्राप्तिस्थानम्- जयकृष्णदास-हरिदास गुप्ता, चौखम्बा संस्कृत पुस्तकालय, बनारस।

फकिकासरलार्थः प्रभानामक-टिप्पण्याऽलङ्कृतः। सदा शोभनन्नौमि पादारविन्द, गणेशस्य मातुः पितुश्चापि दिव्यम् । अथारभ्यते पङ्क्तिमालासमृद्धि- यया छात्रबुद्धिर्विलासन्तनोतु ॥ अथ संज्ञाप्रकरणम् । लणसूत्रेऽकारश्च(१)। अस्यां पङ्क्तौ मानञ्च-ऋकारलकारयोः सवर्णसंज्ञायाम् "उरणपरः” इत्यनेन लुकारस्थानेऽपि रपरः स्यादिति विचारे "तुल्यास्य"सूत्रस्थलकारस्य 'लपरत्वं वक्ष्यामि' इति भाष्यम् । तथाहि-'वच्यामि' इति पदस्य व्याख्यास्यामीत्यर्थः कैयटेन(२)विहितः । तथाच लणसूत्रघटकलकारस्याकारस्येत्संज्ञाकरणेन रप्रत्याहारनिर्माणेन "उरणपरः" इति सूत्रस्यान्तरतम्यादकारस्थाने अण रपरः लकारस्थानेऽण् च लपरो भवतीत्यर्थद्वयेन न काप्यनुपपत्तिरिति, अकारस्येसंज्ञायामुक्तभाष्यम्प्रमाणम्भवतीति भावः ॥३॥ हलन्त्यम् । ननु अष्टाध्याय्यामेकमेव "हलन्त्यम्” इति सूत्रं पाणिनिना पठितं तस्कथं कौमुधा (१) अकारश्चेति । इत इत्यनुषज्यते । तच्च एकवचनतया विपरिणम्यते । “लण" सत्रे लकारात्परोऽकारश्च इत्संज्ञको ज्ञेयः इत्यर्थः। (२) कैयटेनेति । कैयटमतेनेदं प्रत्याहार' रूपव्याख्यानम् । नव्यास्तु तन्न स्वीकुर्वन्ति । “रदाभ्याम्" इत्यादिस्थले दोषात् । किन्तु वचनमेवाङ्गीकुर्वन्ति, "उरण रपरः" इत्यत्र उः स्थाने योऽण स रपरो भवति "लपरत्वं वक्ष्यामि" इत्यस्य वार्तिकरूपेण लकारस्य स्थाने योऽण् स लपरश्च भवतीत्यर्थः । ..

२ प्रभालङ्कृतफक्किकासरलार्थ- तदाबृत्तिरिति चेन्न, "न विभक्तौ तुस्मा" इत्यादिसूत्राणां साफल्याय "हलन्त्यम्" इति सूत्रस्योपदेशेऽन्त्यं हल् इत् स्यादित्यर्थोऽवश्यं वाध्यः। तथाच "आदिरन्त्येन सहेता" इति सूत्रार्थ विना "हलन्त्यम्" इति सूत्रार्थो न स्यात् । “हलन्त्यम्” इति सूत्रार्थं विना च "आदिरन्त्येन सहेता” इति सूत्रार्थो न स्यादिति द्वयोः परस्परापेक्ष- त्वेनान्योन्याश्रयदोषात् । “हलन्त्यम्” इति सूत्रस्य उपदेशेऽन्त्य हलिस्यादित्यर्था- सिद्धेः । तस्मात्तस्सूत्रावृत्या(१)एकस्य हलसूत्रात्यमित्स्यादित्यर्थो भवति, द्विती- ग्रस्य च, उपदेशेऽस्य हलित्यादिस्यों भवतीति न काप्यनुपपत्तिरिति ॥१॥ आदिरन्त्येन इति । अयम्भावः-(२)“प्रत्याहारेऽनुबन्धानां कथमज्' इत्यादिभाष्ये प्रत्याहारशब्देन वर्णसमाम्नायः कथितः। तथाच-"अइउण" इत्यादौ इत्संज्ञकानां ग्रहणाभावेऽपि अन्यन्नेत्संज्ञकानां वर्णानां ग्रहणे सति (६)अनुनासिकेत्यादौ यणाधापत्तिरिति प्रत्याहारशब्देन 'अच् अक् हल्' इत्यादय "आदिरन्त्येन" इति सूत्रेण संकेतिता गृह्यन्ते । तथाच-अजादिप्रत्याहारेषु इत्संज्ञकवर्णानां ग्रहणं न भवतीति न कश्चिद्दोषः॥३॥ प्रत्या(४)हारेष्वितां न ग्रहणम् । रलयोमध्ये टकारस्यापि विद्यमानत्वेन रलयोः संज्ञा स्यादिति वक्तुन्न युक्तम् , अपि तु र ट लानां बोधेका स्यादित्येव कथनं युक्तमित्याशयेनाह-प्रत्याहारेष्विता. मिति । अनुनासिकपदे ककाररूपाच्त्वमाश्रित्य यणादेशाभावेन प्रत्याहारेषु इत्संज्ञ- कानां वर्णानां ग्रहणन्न भवतीति बोध्यते ॥४॥ हस्वग्रहणमत(५)न्त्रमिति । अयम्भावः-"तस्यादित उदात्तमर्धहस्वम्” इति सूत्रे ह्रस्वग्रहणस्य "उपेयिवान्" इत्यादिसूत्रे उपोपसर्गवद्विवक्षा न भवतीति ह्रस्वदीर्घप्लुतेषु सर्वनवादावर्धमुदात्त (१) आवृत्येति । ननु तन्त्रैकशेषयोरन्यतरेणापि कार्य स्यादिति चेदत्रोच्यते-एक- शेषस्तु भाष्ये प्रत्याख्यातः। तन्त्रेणोच्चारणं भवति, बोद्धस्तु आवृत्यैव बोधः इत्यादयः। उपदेशे इति । उपदिश्यते अनेन इति उपदेशः। करणे धञ्इति भावः । तच्च शास्त्रमेव तदेवं सङगृह्यते--"धातुसूत्रगणोणादि वाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः ॥' इति । (२) प्रत्याहार इति । 'प्रत्याहारेऽनुबन्धानां कथमज्यहणेषु न" इति कात्यायनवात्तिके इत्यर्थः । (३) अनुनासिकेत्यादाविति । आदिना "तृषिमृषिकृषः" "एकः पूर्व" इत्यादि सङ्ग्रहो बोध्यः॥ (४)प्रत्याहारेति । प्रत्याहियन्ते संक्षिप्यन्ते वर्णा यत्र स प्रत्याहारः। (५)तन्त्रमिति । स्वशास्त्रसङ्केतितरूपेणाबोधनमित्यर्थः 1 संज्ञाप्रकरणम् । ३ ७ १ भवति शेषमर्धवानुदात्तं भवति । अन्यथा दीर्घस्य यत्र स्वरितसंज्ञा स्यात्तत्रानुदार स्यात् , हृस्वप्लुतयोस्तु स्वरितसंज्ञायामर्धमुदात्तं न भवतीति प्राचः। नव्यास्तु-अर्धहस्वशब्दोऽर्धमात्रायां रूढ़ इति हस्बदीर्घादिषु सर्वत्रैवादौ अर्ध- माना उदातो भवति, शेषभागस्त्वनुदात्तो भवतीति वदन्ति । अथ च हस्वपदस्यैक- मात्रारूपार्थो न विवक्षितः किन्वर्धमात्रारूपार्थ एव विवक्षितोऽस्तोति नवीनमते हस्वग्रहणमतन्त्रमिति ग्रन्थस्यासङ्गतिरपि न भवतीति तरवम् ॥ ६ ॥ नाज्झला(१)विति । ननु "तुल्यास्यप्रयत्नं सवर्णम्" इति सूत्रेणाकारहकारयोः सवर्णसंज्ञायां सत्या विश्वपाभिरित्यत्र "होढः” इति ढत्वं कथं न स्यादिति चेच, "नाझलौ” इति निषेधात् । न च पञ्चधामहावाक्येन "नाज्झलो" सूत्रविषये "अणुदित्" सूत्राप्रवृत्त्या "नाज्झलौ” इति सूत्रेण ह्रस्वाकारस्यैव सवर्णसंज्ञा निषिद्धा भवतीति वाच्यम् । "नाज्झलौ” इत्यत्र दीर्धाकारस्यापि प्रश्लिष्टत्वात् । प्रश्लेषे मानञ्च "कालसमय- बेला तुमुन्” इति सूत्रम् । अन्यथा तत्र षत्वापत्तिर्दुर्वारा स्यात् । पञ्चधामहावाक्यञ्च वर्णानामुपदेशस्तावत् , उपदेशोत्तरकालेसंज्ञा, इत्संज्ञो- त्तरकाला प्रत्याहारसिद्धिः, तदुत्तरकाला सवर्णसंज्ञा, तदुत्तरं "नाझलौ” इति निषे- धः, तदुत्तरं ग्राहकताशक्तिरेतेन सर्वेण समुदितेनान्यत्र सवर्णानां ग्रहणं भवति, न स्वस्मिनापि स्वाङ्गे इति । न च प्लुताकारप्रश्लेषाभावात् 'हे यियासो' इत्यादौ षत्वं दुर स्यादिति वाच्यम् ? प्रयत्नभेदेन "नाउझलौ” इत्यस्य प्रत्याख्यानात् । प्रत्याख्यानपचे सूत्रार- म्भपते च यदा फलैक्यं भवति तदा प्रत्याख्यानं युक्तम्भवति, अथ च यदा पक्षद्वये फलभेदस्तदा प्रत्याख्यानं युक्तन भवतीति, प्रत्याख्यानपते सर्वेषामकाराणां सवर्ण- संज्ञा न भवति, अथ च सूत्रारम्भपक्षे हस्वदीर्घयोयोरेव सावर्ण्यनिषेधो भवतीति प्रत्याख्यानपरकभाष्यासङ्गत्या सूत्रारम्भपक्षेऽपि सर्वेषामकाराणां सवर्णसंज्ञा न भव- तीति भावः ॥६॥ (१) नामलाविति । ननु अच्च हल व अज्झलौ इति चेन्न। "कालसमयवेलासु" इतिनिर्देशाद् आकारस्यापि प्रश्लेषात् । अत्र तर्हि त्रयाणामितरेतरद्वन्द्वे बहुबचनापत्तिः । समाहारे तु एकत्वापत्तिः। यदि आकारस्य अचश्च समाहारस्तदनन्तरमितरेतरयोगः, तदा "द्वन्द्वान्चुदषहान्तात्समाहारे" इत्यनेन टनापत्तिः । यदि 'अच् च हल च' इति समाहारे आकारेण साकमितरेतरयोगस्तदा प्राकारस्य अचश्च सावर्ण्य न स्यात् अत आह मूले-भा- कारेण सहित इति।

प्रभालतफक्किकासरलार्थे- अत्राण परेण णकारेण । अत्र मानञ्च-"उत्” इति सूत्रे तका(१)रोच्चारणम् , पूर्वेण णकारेण अणप्रत्या. हारे तु ऋकारस्याणप्रत्याहारे पाठामावेन दीर्घऋकारादेरप्रसक्तौ तकारोपादान व्यर्थ- मेव, तदेव न्यथं सत् 'अणुदित्' सूत्रेऽणप्रत्याहारः परणकारेणेति बोधयति । तका- रोपादानाभावे तु ''अणुदित्" सूत्रप्रवृत्या दीर्घऋकारोऽपि स्यादिति । स्वांशे चरितार्थम् ॥७॥ एदै(२)तोरोदौताश्चेति। ननु "तुल्यास्यसूत्रेण एकारैकारयोः, ओकारौकारयोश्च सवर्णसंज्ञा कथा स्यात् ? इति चेन्न । “ऐऔच" इति सूत्रारम्भसामर्थ्यात् । न च सूत्राभावे "एचोऽयवायावः” इत्यत्र प्रत्याहारासिद्धिरिति वाच्यम्, एङो. ऽयवायाव' इति न्यासात् । एवं “नयवाभ्याम्” इति सूत्रे ऐचः स्थाने ऐऔ, इसि स्वरूपेणैव पाट्याविति भावः ॥८॥ इति संज्ञाप्रकरणम् । अथ स्वरसन्धिः। वान्त इत्यत्रेति। ननु गन्यं नाव्यमित्यादौ पदत्वेन "लोपः शाकल्यस्य" इति सूत्रेण वकारस्य लोपः कथन्नेति चेन्न, 'वान्त' इत्यत्र वकारप्रश्लेषेण श्रूयमाणवकारादेशविधानात् । अथ च यदि पदत्वबाधकेन भश्वेन गव्यमित्यादौ लोपाप्रसक्तिस्तदा गन्यूतिरित्यादौ वका- रलोपाभावार्थ "गोयूतौ छन्दस्युपसंख्यानम्” इति वार्तिके छकारात्पूर्व वकार (३)- प्रश्लेषो बोध्यः। तथा च तत्सामर्थ्यात्तत्र वलोपाभाव इति ॥४॥ तन्निमित्तस्येवेति किम् । अयम्भावः-यत्र यादिप्रत्ययनिमित्तको धातोरेच भवति, तत्रैव वान्तादेशो भवति । ओयते इत्यत्र तु 'वेज धातोः कर्मणि लटि यकि सम्प्रसारणे व कृते आङा सहैकादेशो जातः । ततश्च यादिप्रत्ययनिमित्तक एच् नास्ति, किन्तु गुणनिमित्तकः ।। अतोऽत्र वान्तादेशवारणाय तन्निमित्तस्यैवेति कर्तव्यम् । (१)तकारोच्चारणमिति । इदं प्रमाणं न मनोरमम् , लकारग्रहणेन चारितार्यात् । तहि अत्र भाष्यकाराणां व्याख्यानमेव शरणमिति बोध्यम् । (२) एतैदोरिति । प्रयत्न. भेदेनापि एतयोः सावण्य नास्तीति शेयम् । प्रयत्नभेदश्च "तुल्यास्य" सूत्र शेखरे स्पष्टः । () वकारप्रश्लेष इति । गब्यूतिरिति अत्र वकारप्रश्लेषस्य न फलम् । छन्दसि सर्वविधीनां व्यवस्थितत्वात् । अध्वपरिमाणेऽपि संज्ञाशब्दोऽयम् । तत्र संज्ञात्वभज्ञापत्ते वलोपः इति भावः स्वरसन्धिः। के(१)षाञ्चिन्मते धातूपसर्गयोः कार्य बहिरङ्गं भवति, इति वान्तादेशे कर्तव्ये गुणोऽसिद्ध एवेति औयतेत्यत्र वान्तादेशवारणार्थ नियमभूतसूत्रं कर्तव्यम् ॥ १० ॥ कानि सन्ति। ननु कानि(२)सन्ति कौस्त इत्यादौ "अचः परस्मिन्” इति सूत्रेण स्थानिवद्भा- चादकाररूपान्त्वमाश्रित्य यणावादेशौ कथन भवतः? इति चेन्न, यणादिरूपपदचर- मावयवकार्ये कर्तव्ये "न पदान्त" सूत्रेण स्थानिवद्भावनिषेधात् ॥ ११ ॥ कृष्णार्द्धिः। अयम्भाव:-अकारवृत्तिकण्ठस्थानजन्यत्वरूपधर्मस्याकाररूपे गुणे विद्यमानत्वेऽपि ऋकारवृत्तिमूर्धस्थानजन्यत्वरूपधर्मस्य क्वापि न गुणेऽविद्यमानत्वात् ऋकारस्थाने सर्वेषां गुणशब्दवाच्यानामकारादीनां प्रसक्ती "उरण रपरः" इति शास्त्रसहकारेण ऋकार- स्थाने जायमानोऽकारो (३) रपरः सन्नेव प्रवर्तते, इति वाक्याथै जाते पूर्व अर् रूपे सिद्धे कण्ठस्थानजन्यत्वरूपधर्मस्य मूर्धास्थानजन्यस्वरूपधर्मस्य च अकारऋकाररूप- स्थानिनि अरूपादेशे च विद्यमानतया "स्थानेऽन्तरतमः" इति परिभाषया आन्तव्य सुलभमिति कृष्णद्धिरित्यत्रारादेशः सिद्धः । रूपे भेदास्तु मूले स्फुटाः ॥ १२ ॥ अर्थ(४ वदग्रहणे । ननु प्रोढवानित्यत्र "प्रादूहो” इति वार्तिकेन वृद्धिः कथन्नेति चेन्न, अर्थवद्ग्रहणे नानर्थकस्य' इति परिभाषया निषेधात् । परिभाषायाम्मानञ्च, "वश्व" इति सूत्रे राजे पृथग्भ्राजिग्रहणम् । यदि सार्थकानर्थकयोयोरपि शास्त्रे ग्रहणम्भवति, तदा भ्राज- घटकस्यापि राजपदस्य राजग्रहणेन ग्रहणं स्यादेवेति प्राजशब्दोच्चारणं व्यर्थमेवेति भावः॥१३॥ अचि(५)किम् । ननु अजग्रहणानुवर्तनाभावेऽपि 'कुमारी शेते' इत्यत्र "नाज्झलौ” इत्य- (१) नाजानन्तर्ये बहिष्ट वप्रक्ल प्तिः" इति परिभाषया निषेधान्नात्रान्तरङ्गबहिरङ्गभाव इत्या- शये नाह-केषामिति । (२) कानि सन्तीति । वाक्यसंस्कारपक्षे इदं ज्ञेयम् । पदसंस्कार पक्षे पूर्ववत्वेन दृष्टत्वाभावान्न तत्प्रसक्तिरिति भावः । (३) रपर इति । अत्र र प्रत्यहारो विवक्षितः। ततश्च रेफशिरस्कः लकारशिरस्कश्च प्रवर्तत इति लभ्यत इति भावः। (४) अर्थवग्रहगे इति । "स्वं रूपं शब्दस्याशब्दसंज्ञा, इत्येतत्सूत्रमूलकैवेति भावः । स्पष्टन्चेदं शेखरमनोरमयो- रिति । (५) अचि किमिति । पूर्व वर्णानामुपदेश इत्यादिभाष्योक्तरीत्या 'तुल्यास्यप्रयत्नं सवर्णम्" "नाउझलौ" इत्येताभ्यां प्राक ग्रहणकशास्त्रस्यासिद्ध या "नाज्झलौ' इत्यस्य वाक्या- र्थबोधावसरे अच्पदेन वर्ण समाम्नायस्थानां हस्वानामेव ग्रहणात्तेषामेव सवर्णसंज्ञानिषेधेन दीर्घाणां हलभिः सावयं स्यादेवेत्याशयेनाह-कुमारी शेते इति । , , ६ प्रमालङ्कृतफक्किकासरलार्थे- नेन ईकारशकारयोः सावर्ण्यनिषेधान्न दीर्घापत्तिरिति चेन्न । “अणुदित्" सूत्र स्य पञ्चधामहावाक्योत्तरमेव प्रवृच्या हस्वकारेण दीर्घकारस्याबोधादन निषे. धाप्रवृत्तेः, तस्मादीर्घनिवृत्यर्थम्" अकः सवर्णे दीर्घः" इति सूत्रे अचपदानुवृत्तिः कर्त- व्यवेति ॥ १४॥ ऋति()सवर्ण। अयम्भावः-एतद्वार्तिकद्वयविधेयऋकारयो रेफौ द्वौ लकारौ च स्तः, इत्यत्र भाष्यम्प्रमाणम् । तथाहि-ऋकारद्वयस्थाने रेफयवत्तासाम्येन रेफद्वयविशिष्टऋका. रस्य सिद्धिः। विवृतस्वरूपसाम्येन च दीर्घकारस्य सिद्धिः । अथ च ऋकारलकारयोः स्थाने लकारवत्तासाम्येन लकाराविशिष्टहोल्लकार इति रूपस्य सिद्धिः । लकारद्वयश्चात्र ऋकारे हलद्वयवस्वरूपलाहचर्येण बोध्यम् । लुकारस्या दीर्घाभावेन विवृतत्वरूपसाम्येन रेफवत्तारूपसाम्येन च होतृकार इतिरूपस्य सिद्धि. रिति "अकः सवर्णे दीर्घः" इत्यनेनैव रूपद्वयसिद्धौ "ऋति सवर्ण ऋ वा" इत्यादि. वार्तिकद्वयं भाष्ये प्रत्याख्यातम् । एवञ्च वार्तिकाभावे रेफद्वयवत्त्वं सिद्धमिति बार्तिक- सत्तायामपि रेफद्वयवत्वं सिद्धम्भवति । इत्थञ्चाभितोऽभागेऽपि भाष्यमेव मानम् । भाष्यन्तु विस्तारभयान्न लिख्यते । इमौ ऋकारलकारौ ईषत्स्पृष्टप्रयत्नवन्तौ स्तः । अन्यथा "अकः सवणे दीर्घः" इत्य. नेनैव दीर्घ विघृतस्वरूपप्रयतनं सिद्धम्भवति ॥ १५ ॥ अतीति निवृत्तम् । अत्र मानश्च-पूर्वस्मिन्नेव सूत्रे विभाषाग्रहणं निवृत्तमिति । "प्लुतप्रगृह्या अचि नि- त्यम्” इति सूत्रस्थं भाष्यमेव। तथाहि-"द्वन्द्वे च" इति सूत्रारम्भसामर्थ्यादेव नित्य- मवङादेशो भविष्यतीति, "अवङ् स्फोटायनस्य" इति सूत्रेण पाक्षिकावळादेशाभावा. थम् “इन्द्रे च” इति सूत्रे नित्यग्रहणन्न कर्तव्यमिति भावः । यदि "अवङ् स्फोटायन- स्य" इति सूत्रस्थाकारे परे प्रधृत्तिः स्यात्तर्हि गवेन्द्र इत्यादौ अकाराभावेन कथं विक- स्पादेशस्याशङ्का समुत्पन्ना भवति ॥ १६ ॥ वत् किम् । यदि "अप्लुतवदुपस्थिते” इति । सूत्रे वत्ग्रहण क्रियते, तदा हे अग्नि ३ इति, इत्यादौ प्लुतसंज्ञा प्रगृह्यसंज्ञा च भवति । तथा च प्रगृह्यसंज्ञाफलं प्रकृतिभावः, प्लुतसंज्ञाफलञ्च तदुच्चारणम् । एवञ्च प्लुतोच्चारणं न सिध्येत् । कृते (१) सवर्णे इति । "ऋति क वा" "लुति ल वा" इत्येव बार्तिकद्वयम् । अत्र "अकः सवणे दीर्घः" इत्यस्मात्सूत्रात् 'सवणे' इत्यनुवर्तते इति बोध्यम् । " .

हवारसन्धिः। . तु वग्रहणे प्लुतकार्य न भवति, उच्चारणं तु प्लुतस्य भवत्येवेति भावः ॥ १७ ॥ रामकृष्णावमू आलाते । स्त्रीलिङ्गे नपुंसलिङ्गे च "ईदूदेद् द्विवचनं प्रगृह्यम्” इति सूत्रदृष्टया मुश्वस्या सिद्धत्वेन 'अदे' इति रूपे जाते पूर्वसूत्रेणैव प्रगृह्यसंज्ञा सिद्धा भवतीति रामकृष्णौ पदस्योच्चारण पुंल्लिङ्गनिर्देशार्थम् । तथा च-तन्त्र मुत्वस्यासित्वेऽपि अदाविति रूपं भवति, न तु अदे इति । एवञ्च नास्ति पूर्वसूत्रप्रवृत्तिरिति तसिधे "अदसो मात्" इति सूत्रे उकारानुवृत्तिरपि कर्तव्या ॥ १८॥ मात् किम् । माद्ग्रहणभावे 'सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परि- भाषया "ईत् उत् एत्" इति सूत्रादीकारादीनां त्रयमाणामनुवृत्तिः स्थादिति अमु. केऽत्रेत्यत्रापि प्रगृह्यसंज्ञा स्यादिति तन्निवारणार्थम् "अदसो मात्” इति सूत्रे माग्रहणम् । कृते तु माद्ग्रहणे मकारात्परस्य एकारस्थासम्भवादेकारानुवृत्ति - यातीति भावः ॥ १९॥ वत्त्वस्यासिद्धत्वात् । वकारस्यासिद्धत्वेन हल्परस्वाभावात किम्युक्तमित्यत्र नानुस्वारः, असिद्धार्थ मेवेदं वस्वविधायकं शास्त्रं त्रिपाद्यामाचार्यण पव्यते, "निपात एकाजनाङ्” इति सूत्र- विहितप्रकृतिभावबाधनमेव यदि सूत्रस्य प्रयोजनमस्ति, तदा "इको यणचित्र इत्य- नन्तरं "मय उसो वा" इत्येवाचार्योऽपठिष्यत् , यणश्चानुवृत्तिमकरिष्यत् , तथाss- चार्येण न कृतमिति तत्फलमसिद्धमेवेति भावः॥ २०॥ अर्थग्रहणं किम् । अयम्भावः-अर्थग्रहणाभावेऽपि ईदूदंशे सप्तमीविशेषणस्वेन प्रत्ययोशे च तदादि. विशेषणवेन तदन्तविधिद्वयसत्वेन, ईदूदन्तं यत्सप्तम्यन्तं तदादि, तस्प्रगृह्यसंज्ञं स्या.. दित्यर्थेनैवेष्टसिद्धिः, अर्थग्रहणं व्यर्थमेव "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति निषेधस्तु न । 'ईदूतौ सप्तमी प्रगृह्यम्' 'अदसा 'एचद्विवचन मित्येव सूत्रयितव्ये गुरुभूतन्यासकरणसामर्थ्यात् । ययी पपीत्यादौ परादिवद्भावेन सप्तमीवमादाय सूत्रसाफल्येऽपि ऊकारांशेऽसम्भवाच्च। तदेवार्थग्रहणं व्यर्थ सत् सप्तम्यर्यमाने पर्यवसन्नमित्याद्यर्थज्ञापनार्थम् । तश्वञ्च सप्तम्यर्थनिरूपितशक्तिपर्याप्ताधिकरण- स्वम् । गौरी अधिश्रित इत्यादौ 'यः शिष्यते स लुप्यमानार्थाभिधायी' इति न्यायेन सप्तम्यर्थमात्रे पर्यवसन्नत्वमस्त्येवेति तत्र प्रगृह्यसंज्ञा सिद्धा भवति । वाप्यश्व इत्यादौ च समासे समुदाये शक्तिस्वीकारेण सप्तम्यर्थमात्रे पर्यवसन्नत्वा- ७ ८ SUREMED प्रभालङ्कृतफक्किासरलार्थे- भावान्न प्रगृह्यत्वप्राप्तिरित्याशयेनाह-अर्थग्रहणं किमिति। वाप्यश्व इति समु. दायेन वाप्यधिकरणकाश्व इत्यर्थोऽभिधीयते न तु केवलस्य वापीशब्दस्य वाप्यधिक रणमित्येवार्थो भवति, किन्तु अधिकरणादधिकस्याश्वरूपस्याप्यर्थस्याभिधानम्भ- वति वापीशब्देन इति वापीशब्दः सप्तम्यर्थमाने नहि समातिं लभत इति ॥२१॥ इति स्वरसन्धिः । अथ हल्लन्धिः। दो (किम् । ननु "तोषि"इति निर्देशेन "क्वचिदेकदेशोऽप्यनुवर्तत" इति परिभाषया "टुना इति सूत्रात् 'टु' मात्रस्यानुवृत्तौ पदान्तादृवर्गापरस्येत्याघार्थेनैवेष्टसिद्धिरिति टोग्र- हणं व्यर्थमेव तदेव व्यर्थं सदुक्तपरिभाषाया अनित्यत्वं ज्ञापयति । तथा च- टोहणाभावे सन्नियोगशिष्टानामिति परिभाषया ष्टुरिति समुदायस्यानुवृत्तौ पदा- ताभ्यां षकारटवर्गाभ्यां परस्येत्याधर्थे सपिष्टममित्यत्रापि ष्टुत्वनिषेधः स्यादिति तद्वारणाय टोग्रहण कार्यमिति ॥ २२॥ स्थानप्रयत्नाभ्यामिति । भाष्यकृता "स्थानेऽन्तरतम उरण रपर" इति संहितापाठे 'स्थानेऽन्तरतमे इति सप्तम्यन्तपाठः, अहोस्वित् 'स्थानेऽन्तरतमः' इति प्रथमान्तपाठः, इति शङ्कि- तम् । अनन्तरञ्च सप्तम्यन्तपाठे यत्र स्थानिनि स्थानप्रयत्नद्वय रूपसाम्यं स्यात्तत्रैवा- नुनासिका स्यात् । तथा च षण्मुखः' इत्यादौ स्पृष्टप्रयत्नस्य मूर्धस्थानजन्यत्वस्य च णकाररूपादेशे डकाररूपस्थानिनि च विद्यमानतया "यरो(२)ऽनुनासिकेऽनुनासिको वा" इति सूत्रं प्रवर्तते, 'चतुर्मुख' इत्यत्र'तु प्रयत्नाभावान्नानुनासिकप्रवृत्तिरित्याश- येनाह-स्थान प्रयत्नाभ्यामिति । परञ्च, "इको यणचि” इत्यादिसूत्रविषये मात्राद्वयन्यूनकालिकत्वे सति तालु- (.)टोः किमति । ननु सपिष्टममित्यत्र षकारस्य पदान्तत्वाज्जरत्वे धकारानुवृत्तावपि पदान्ते टवर्गस्यैव लाभः इति चेन्न । "ह्रस्वात्तादौ तद्धिते" इति सूत्रविहितषत्वस्यासिद्धत्वा- जवाभावात्पदान्ते न टवर्गः किन्तु षकार इति तत्र दोषादिति भावः। (२) यरोऽनुना- सिक इति । ननु 'मदोदयाः ककुद्मन्तः' इत्यत्र ककुदो दकारस्य पदान्तत्वात "प्रत्यये भाषायाम्" इत्यनेनानुनासिके "न्मन्तः" इति भवितव्यं कथं ककुदमन्तः इति । अत्रोच्यते- यवादिगणे दकारस्य निपातनानानुनासिकः इति । अथवा "तसौ मत्वर्थे" इत्यस्मिन्सूत्रे संहि- तापाठे दकारस्यापि प्रश्लेषेण दान्ततान्तसान्तस्य भसंज्ञा। तेन प्रकृते भसंज्ञया पदसंज्ञाया बाधान्न दोष इति भावः। , .. " हलसन्धिः। स्थानजन्यस्वरूपधर्मस्य यकाररूपादेशे ह्रस्वकाररूपस्थानिनि च सत्वात् दध्यनेत्या. दौ हस्वस्थान एव यणादेशः स्याञ्च तु सुद्धथुपास्य इत्यादौ । इत्थञ्च सप्तम्यन्तपाठमनादृत्य प्रथमान्तपाठः सिद्धान्तितः। प्रथमान्तपाठे च ईषस्पृष्टप्रयलस्य णकारेऽलम्भवान्मूर्धस्थानजन्यत्वरूपधर्मो गृह्यते । ततश्च मूर्ध- स्थानजन्यत्वरूपधर्मस्य रेफे कारेऽपि च सस्वादनुनासिकस्य प्राप्तिरिति "अनुस्वा- रस्य यथि परसवर्णः" इति सूत्रात्सवर्णपदमनुवयं पदान्तस्य सरोऽनुनालिके परे सवर्णानुनासिकः स्यादिति सूत्रार्थ "रेकोष्मणां सवर्णा न सन्ति" इति भाग्येण रेफस्य लावण्याभावाण्णत्वाभावः ।। २३॥ गम्यते। ननु "नश्चापदान्तस्य झलि” इति सूने मकारानुकर्षणार्थकचकारेणापदान्तस्य मस्यानुस्वारश्चेहि झल्येवेति नियमादेव गम्यत इत्यत्रानुस्वारो न भविष्यतीति चेन्न । यत्र यत्र शुद्धनियमस्तत्र तत्र विपरीतनियमः, एवञ्च झलि परतोऽनुस्वारश्चे. त्तर्हि, अपदान्तस्यैव मस्येति हरिं वन्दे इति मूल एवानुस्वारापत्तेः। एवञ्च "उभि च पदे" इत्यतः पदानुवृत्तिः कार्या ॥ २४ ॥ संस्स्कर्ता। अयम्भावः-सम्-स्कर्ता, इति दशायां "समः सुटि" इति रुत्वे "अत्रानुनासिकः पूर्वस्य तु वा” इत्यनुनासिके "अनुनासिकात्परोऽनुस्वारः" इत्यनुस्वारे विसर्ग (१) "संपुंकानां सो वक्तव्यः" इति सत्वे विसकारकरूपद्वयम् । “समो वा लोपमेके” इति भाष्येण मकारस्य लोपे लोपस्यापि रुपकरणस्थत्वेनानुनासिकानुस्वारयोः कृतयोः -सतोरेकसकाररूपद्वयम् । हिसकाररूपदये अनुस्वारस्याकारोपरि पाठेनाचत्वात् "अ. नचि च" इति सकारस्य द्वित्वे त्रिसकारकरूपद्वयम् । एवञ्चानुस्वारघटितत्रीणि रूपा. णि, अनुनासिकघटितत्रीणि रूपाणि चेति सिद्धम् । तत्रानुनासिकयुक्तानां ब्रयाणां "शरः खयः” इति ककारस्य द्वित्वे षट्पाणि अनुस्वारवता त्रयाणाम् अनुस्वारस्य शप्रत्याहारे पाठेन शस्याहारश्च यर प्रत्याहारेऽन्तर्गत इति “अनचि च” इति अ. नुस्वारस्य द्वित्वे वार्तिकेन ककारस्य च द्वित्वे द्वादशरूपाणि संकलनयाष्टादशरूपाणि । तेषु "अचो रहाभ्याम्" इति तकारस्य द्वित्वे “यणो मयो द्वे वाच्ये" इति पुनस्तका- रस्य द्वित्वे चतुष्पञ्चाशरूपाणि । “अणोऽप्रगृह्यस्यानुनासिकः" इति प्रगृह्यस्वेऽष्टो- त्तरशतं रूपाणि ॥ २५॥ (१)सम्पुंकानामिति । सम् , पुम् , कान् एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः । अनेन वार्तिकेन अत्र विसर्गस्य नित्यमेव सत्त्वम् । अन्यथा “वा शरि" इति स्यादिति भावः। .

१ १० प्रभालङ्कृतफक्किकासरलार्थे- ख्यामादेशे न। अयम्भावः-चधातोल्युट्प्रत्यये "चक्षिङः ख्या' इति ख्यामादेशे ख्यान- मिति रूपं सिद्धम् । तथाच-"चक्षिकः ख्या" सूत्रे भाष्ये 'शादिरयमादेशः इत्युक्तम् । एवञ्च ख्याजादेशो न भवति, किन्तु वशानादेशो भवति शस्य यो वा” इति वार्तिकज्ञासिद्ध(१)काण्डे पठितम् । तथाच-शकारस्थाने यो हि जातो यकारः स अन्यस्मिन् कार्य कर्तव्येऽसिद्धो भवति । एवञ्च "पुमः खय्यम्परे" इति रुत्वे कर्तव्ये यकारस्यासिद्धत्वेन शकार एवोपलभ्यते, ततश्च शकारस्याम्प्रत्याहारे पाठाभावेन अम्परकखयप्रत्याहारपरत्वाभावात् "पुमः खय्यम्परे” इति सूत्रप्राप्तिरेव नास्तीति "ख्यानादेशे न" इति वचनमपूर्व न, किन्तु फलितमेव । तथा च रुस्वाभावे सकारस्य लोपे पुख्यानमिति सिद्धम् ॥ २६ ॥ चाद् विसर्गः। "कुप्वोः कपो च? इति सूत्रं यत्र यत्र प्रवर्तते तत्र तत्र सर्वत्रैव "विसर्जनी- यस्य सः” इति सूत्रं प्रवर्तते । “शपरे विसर्जनीयः” इति सूत्रन्तु "कुप्वोः" इति सूत्रविषये सर्वत्र न प्रवर्तते, इति "येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति" इति न्यायेन “विसर्जनीयस्य सः” इति सूत्रस्यैव बाधकं “कुप्वोः” इति सूत्रम्भवति । न तु "शपरे विसर्जनीयः” इति सूत्रस्य । एवञ्च वासः चौममित्यादी विसर्ग इति ॥२७॥ इति हल्लन्धिः। अथ विसर्गसन्धिः मातुः कृपा। अयमाशयः-"इदुदुपधस्य चाप्रत्ययस्य" इति सूत्रेण भ्रातुष्पुत्रः इत्यत्राफि षस्वसिद्धौ धातुष्पुत्रशब्दस्य कस्कादिषु पाठो निष्फलः । तदेव व्यर्थ सत् एका(२)देश- शास्त्रनिमित्तकस्य विसर्गस्य षत्वन्न भवतीति ज्ञापयति । तेन मातुः कृपेस्यत्र षत्वा- भावः सिध्यति । न च "पत्वतुकोरसिद्धः" इति सूत्रेणैकादेशशास्त्रस्यासिद्धत्वात्कस्का- दिषु भ्रातुष्पुत्रशब्दस्य पाठः सफल इति वाच्यम्। पदान्तपदाद्योरेवैकादेशशास्त्रस्या- सिद्धत्वात् ॥ २८॥ (१)असिद्धकाण्डे इति। "पूर्वत्रासिद्धम्" इत्यसिद्धकाण्डे-"रषाभ्यां नो णः समानपदे" इति पत्वविध्यनन्तरम् "खुशात्रः शस्य यो वा" इति पठितमिति भावः।। (३) एकादेशेति । एकादेशशास्त्रसम्पन्नरेफस्थानिकत्वेन विसर्गस्य एकादेशशास्त्रनिमि- त्तकत्वमिति भावः।

स्वादिलन्धिः। (१) चतुष्कपालः । "सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्" इति परिभाषया सुजन्ताभ्यां द्वित्रिशब्दाभ्यां साहचर्यात्सुजन्तस्यैव चतुःशब्दस्यापि ग्रहणम्भविष्यतीति चतुष्का- पाल इत्यत्र सुजन्तत्वाभावाद् विकल्पषत्वाप्राप्तौ कृत्वोऽर्थग्रहणं व्यर्थम् । तदेव व्यर्थ सत् साहचार्य सर्वत्र नियामकन्न भवतीति बोधयति । तेन "दीधीवेवीटाम्" इति सुन्ने दीधीवेवी, इति धातुयसाहवर्येऽपि इट गताविति धातोर्ग्रहणन्न भवति किन्तु आगमस्यैवेटो ग्रहणं भवतीति फलम्बोध्यम् ॥ २९ ॥ कस्कादिषु सपिंकुपिड का। ननु "नित्यं समासेऽनुत्तरपदस्थस्य” इति सूत्रेण सर्पिष्कुण्डिकेत्यत्रापि षत्वसिद्धी कस्कादिषु तस्य पाठो व्यर्थ एवेति चेश्च । असमासे व्यपेक्षाविरहेऽपि 'मानय सर्पि- एकुण्डिका तिष्ठति, इत्यादौ षत्वार्थ सर्पिष्कुण्डिका शब्दपाठस्य(२) सफलत्वात् व्यपेक्षायां नित्यार्थत्वाच्च(३)। न च कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽव्यपेक्षायां चरितार्थ इति व्यपेक्षायां क- स्कादिषु सर्विष्कुण्डिकाशब्दपाठस्यासिद्धत्वेन "इसुसोः सामथ्य" इत्यनेन विकल्प एव स्यादिति वाच्यम् । प्रत्ययरूपो यो विसर्गो न भवतीत्याद्यर्थनात्र प्रत्ययरूपवि. सर्गस्याभावेन व्यपेक्षाविरहे "इदुदुपधस्य" इति सूत्रस्यैव प्राप्तः। प्रत्ययसम्बन्धि- भिन्नविसर्गस्येत्यादिसिद्धान्तार्थे तु अत्र विसर्गस्य प्रत्ययसम्बन्धित्वेन व्यपेक्षाविरहे "इदुदुपधस्य" इति सूत्राप्रवृत्तौ कस्कादिषु सर्पिष्कुण्डिकाशब्दपाठस्य तन्त्र चारिता- येन व्यपेक्षायां विकल्पमत्वं भवस्येव ॥ ३०॥ इति विसर्गसन्धिः । अथ स्वादिसन्धिः। अप्लुतादिति किम् ? अयम्भावः-अप्लुतादिति विशेषणाभावे 'एहि(8) सुस्रोत ३ अन्न स्नाहि' इति (१) चतुष्कपाल इति । चतुर्पु कपालेषु संस्कृतः पुरोडाशः 'चतुष्कपालः' अत्र 'संस्कृतं म्भक्षाः" इत्यण "द्विगो गनपत्ये" इति लुक् । (२) सफलत्वादिति । तत्र असमानत्वात् "नित्यं समासेऽनुत्तरपदस्थस्य" इति न भवति, सामर्थ्याभावाच्च "इसुसोरसामर्थे” इति न भवतीति भावः। (३) नित्यार्थत्वाच्चेति । तत्र "इसुसोः सामर्थे" इति विकल्पप्राप्तौ नि. त्यघत्वार्थं कस्कादिषु पाठ इति भावः ॥ (४) एहीति । सुस्रोतस् शब्दः कस्यचित्संज्ञा । सम्बुद्धेः "हलङयाउभ्य" इति लोपः, ''दूराद्धृते च" इति टेः प्लुतः, सस्य रुः । सुस्रोतस् अत्रेति प्लुतात्परस्य रोः उत्वनिवृत्तये अम्लुतादिति पदमित्यर्थः ।।

१२ प्रभालङ्कृतक्किकासरलार्थ- प्रयोगो प्लुताकारास्परस्य रुत्वस्योत्वं स्यादिति तन्निवारणार्थ तत्कर्तव्यम् । न चा- प्लुतादिति विशेषणाऽभावेऽपि अत ग्रहणेन ह्रस्वाकार एवं गृह्यते इति नात्रोत्वं स्या- दिति वाच्यम् । प्लुतस्यासिद्धत्वेनातः परत्वात् । अप्लुतादिति कृते तु तत्सामर्था- नासिद्धत्वम् । यदि प्लुतोऽसिद्धः स्यात्तदाऽसर्वत्रैवाप्लुताकार एवोपलभ्येतेति, अप्लु- तादिति विशेषणमेव व्यर्थ स्यात् । एवञ्च तपरकरणं दीर्घाकारात्परस्य रुत्वस्योत्ववा- रणेन चरितार्थमिति तपरकरणसामर्थ्यानात्रोत्वमिति न शङ्कनीयम् ॥३१॥ अशि किम् । ननु देवार इति दशायां "भो भगो” इति सूत्रेण यत्वे "खरवसानयोः" इति सूत्रेण विसर्गे च प्राप्ते विसर्गविधायकशास्त्रदृष्टया यत्वविधायकसूत्रस्यासिद्धत्वेन विसर्ग एव भविष्यतीति किम् अशिग्रहणेनेति चेन्न। विसगै कृतेऽपि स्थानिवद्भावेन विसगै स्वमानीय पुनरपि यत्वापत्तेः । न च "अनल्विधौ” इति निषेधात्स्थानिवद्भाव एवं न भविष्यतीति वाच्यम् ? ढत्वधर्मस्याल्मात्रवृत्तित्वाभावात् ॥ ३२॥ अ(१) जर्घा ननु 'दलोपे' इति सप्तमीनिर्देशात् "तस्मिन्" इति परिभाषया पूर्वाशोपस्थित्या पुनर् रमत इत्यादौ पूर्वस्यैव दीर्घो भविष्यतीति किं पूर्वग्रहणेनेति चेन्न, पूर्वग्रहणा. भावे "अलुगुत्तरपदे” इति सूत्रादुत्तरपदानुवृत्या नीरक्तं दूरक्तमित्यादिसमालस्थान एव दी? भविष्यतीति पुना रमते लीढ इत्यादौ दीर्धासिद्धः। तस्मात्पूर्वग्रहणं कर्तः व्यम् , कृते तु पूर्वग्रहणे तत्मामादुत्तरपदानुवृत्तौ समासेऽसमासे च सर्वत्रैव दीर्घः सिध्यतीति भावः ॥ ३३ ॥ इति स्वादिसन्धिः । अथाजन्तपुल्लिङ्गाः। समासग्रहणं किम् । अयम्भाव:-"प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इति परि. भाषया राजन् उस पुरुष सु इति समुदायघटकराजन् उस इत्यस्य पुरुष सु इत्यस्य च प्रत्ययान्ततदादित्वेऽपि राजन् ङस् पुरुष सु, इति समुदायस्य प्रत्ययान्ततदादि- भिन्नत्वात् "अर्थवत्" इति सूत्रेणैव प्रातिपदिकसंज्ञासिद्धौ समासग्रहणं व्यर्थ सत् यत्र समुदाये पूर्वो भागः पदं तस्य समुदायस्य प्रातिपदिकसंज्ञा चेत्तहि समासस्यै- वेति नियमयति। तेन गामानयेति वाक्यस्य प्रातिपदिकसंज्ञा न भवतीति फलम् । (१) अजर्घा इति । अयमत्र सङ्ग्रहः-"गृधेयंलोपे लङि सेरिलोपे हलङ्यादिलोपे रपरे गुणे च । भष्भावजश्त्वे च रुरेफरत्वे ढलोपदी च भवेदजर्घाः ॥” इति अजन्तपुंल्लिङ्गाः। न चैवं जन्मवानित्यत्रापि प्रातिपदिकसंज्ञा न स्यादिति वाच्यम्, उत्तरस्तु प्रत्ययो (१)नेति निवेशात् ॥३४॥ ज्याग्रहणं किम् । अयम्भावः-रमा गौरीत्यादौ "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" इति परिभाषया प्रातिपदिकत्वधर्मस्थानयनेन प्रातिपदिकादित्यनेनैवेष्टसिद्धौ ड्याब- ग्रहणं व्यर्थं सत् ङयावन्तादेव तद्धितोत्पत्तिर्यथा स्थादित्यर्थं बोधयति । अन्यथा स्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमश उपस्थिती, आर्यशब्दात् पूर्व कप्रत्यये तत-- ष्टापि, आकारस्थानिकाकारस्याभावेन "प्रत्ययस्थात्" इति नित्यमित्वे आर्यिका, इत्येकमेव रूपं स्यात् । ड्याग्रहणे कृते तु तत्सामर्थ्यात्पूर्व टापि ततः कप्रत्यये: "केऽणः" इति ह्रस्वे आकारस्थानिकस्याकारस्य सत्त्वेन, "उदीचामातः स्थाने यक पूर्वायाः" इति वैकल्पिक इस्वे, आर्यकेत्यपि सिध्यतीति फलम्बोध्यम् ॥ ३९ ॥ रुत्वविसगौ रामः। ननु "स्थानिवत्" इति "उपदेशेऽजनुनासिक इत्" इत्यनयोः सूत्रयोः दृष्टया "ससजुषो ” इति शास्त्रस्यासिद्धत्वेन रेफपदान्तत्वाभावास्कथं विसर्ग इति चेन्न। "न मुने” इति सूत्रे ने इति पदं पृथक् कृत्य कचित् त्रिपाद्या असिद्धवन भवतीति समाधानादिति ॥ ३६॥ सम्वुद्ध्याक्षिप्तस्य । अयम्भावः-"येन विना यदनुपपनन्तत्तेनामिप्यत" इति न्यायात् सम्बुद्ध्याक्षि. तस्याङ्गस्य सम्बुद्धिपदार्थेऽन्वये सति, अङ्गास्परा या सम्बुद्धिस्तदवयवो हल्लुप्यते स च हल् एहस्वाभ्यां परीभूतश्चेत् , इत्यर्थाङ्गीकारे हे कतरदित्यत्र तकारस्य लोपा- पत्तिस्तद्वारणाय, अङ्गात्परा या सम्बुद्धिस्तदवयवो हल्लुप्यते सा च सम्बुद्धिरेव स्वाभ्यां परीभूता चेदित्यर्थाङ्गीकारे हे कुल इत्यन्न एकदेश विकृतन्यायेन लान्तभाग- स्याङ्गत्वे, परादिवद्भावेन सम्बुद्धित्वे जाते सति ह्रस्वात्परा सम्बुद्धिर्नास्ति, इति मलोपो न स्यादिति कचिदन्येनाक्षिप्तस्यापि पदार्थस्या(२)न्यत्र पदार्थेऽन्वयो भव- तीति भावः ॥ ३७॥ (१) प्रत्ययो नेति । नचैवमर्थस्वीकारे अयम् , इयान् , इत्यादौ दोष इति वाच्यम् ? उत्तरस्तु तत्प्रकृतिकप्रत्ययो नेति निवेशेनादोषात् । (२) अन्यन्न पदार्थ इति । सम्बुद्ध्या- क्षिप्तस्याङ्गस्य एड्हस्वाभ्यां विशेषणात्-एङन्तात् हस्वान्ताच्चङ्गाद्धाल्लुप्यते सम्बुद्धे श्चेत् अय- मर्थः सम्पन्नः । तथाच-प्रकृते 'कतरत्' इत्यत्र यदङ्ग तन्न हस्वान्तं यद्भस्वान्तं तन्नाङ्गम् । कुल. मित्यत्र पूर्वान्तवद्भावेन अङ्गत्वमानीय हस्वान्ताङ्गात्परस्य सम्बुद्ध्यवयवस्य मस्य लोपः इतिभावः।

प्रभालङ्कृतफकिकासरलार्थ- व्यर्थ स्यात् । - एजहणम् । अयम्भावः-हे विष्णो इत्यादौ परत्वाचित्यत्वाब (१) "हस्वस्य गुणः” इति गुणे कृते हस्वात्परत्वन्न वर्तते इति हस्वग्रहणेन न सिध्यतीति एङ्ग्रहणं कर्त्तव्यम् । अथ चैङसर्वत्रैव सम्बुद्धिसन्निपातेनैव जायमानत्वादेब्रहणसामर्थ्यादेव सन्नि- पातपरिभाषाऽत्र न प्रवर्तते। यदि सन्निपातपरिभाषा प्रवर्तत तदा एब्रहणमेव अथ च "गुणात्सम्बुद्धेः” इत्येव वक्तव्ये एहरवग्रहणसामर्थ्याच्च सन्निपातपरि- भाषा नात्र प्रवर्तते । अत एव हे लघिम इत्यादौ लोपः सिध्यति । अन्यथा तत्रापि. सन्निपातपरिभाषया सम्बुद्धिसन्निपातेन जायमानो ह्रस्वः सम्बुद्धिविघातको न स्यादिति ॥३८॥ पदव्यवायेऽपि । अयम्भावः-अङ्ग्रहणेनैवाऽऽडोऽपि ग्रहणे सिद्धे आग्रहणं व्यर्थ सत् “पदव्यवा- येऽपि" इति निषेधं बाधितुम् । तेन 'पर्याणद्धम्' इत्यत्रारूपपदव्यवधाने साप "उपसर्गादसमासेऽपि णोपदेशस्य" इति सूत्रेण णत्वं सिद्धं भवति । अन्यथा तेन निषेधेन णत्वं न स्यात् । नुम् ग्रहणेन चानुस्वारो लक्ष्यते, तच्च न कर्तव्यम् । यतः- 'अयोगवाहानामट्सूपसंख्यातत्वेनानुस्वारस्यापि अचत्वात् ॥ ३९ ॥ प्रत्यये किम् । प्रत्ययग्रहणाभावे देवदत्त ओदनमपाक्षीरित्यत्र देवदत्तोत्तरसुप्रत्ययमवलम्ब्य देव. दत्त ओदनमपाक्षीदिति समुदायस्याङ्गसंज्ञायां देवत्तापूर्वमपि अडागमापत्तिरिति प्रत्यये इति पदं कर्त्तव्यम् । कृते च प्रत्ययग्रहणे सु प्रत्यये परतः देवदत्तस्यैवाङ्गसंज्ञा स्यादिति भावः ॥४॥ बहुवचने किम् । अयम्भावः-बहुवचनग्रहणाभावेऽपि "स्वौजस्" इति स्थाने "ौं जस्” इति न्यासेन रामर, इति दशायां रेफस्य झलप्रत्याहारे पाठाभावेनैवप्रवृत्तिरित्याह- रामस्येति । "टाङसिङसामिनास्याः" इति न्यासेन तु रामस्येत्यत्रापि दोषाभावे रामाभ्यामित्यत्र दूषणं बोध्यम् ॥ ४॥ झलि किम् । अयम्भावः-"उतो वृद्धिलुंकि हलि” इति सूत्राद्धलीति पदमनुवत्यं रामाणामि- स्यत्र हलपरत्वेऽपि “सन्निपातपरिभाषया" एएवन स्यादिति झल् ग्रहणं व्यर्थमेव, (१)निस्यत्वाच्चेति । चकारेण अनवकाशत्वरूपापवादस्यापि सङग्रहो बोध्यः । - अजन्तपुल्लिङ्गाः। तदेव व्यथं सत् एश्वे कर्तव्ये सचिपातपरिभाषा न प्रवर्तते, इति ज्ञापयति । एवञ्च लग्रहणाभावे रामाणामित्यत्र एवं स्थादेदेति स्वांशे झल् ग्रह चरितार्थम् । फलञ्च सर्वेषामित्यत्र एश्वसिद्धिः । अन्यथाऽदन्तसन्निपातेन जायमानः सुट अदन्तस्य बिधा- तको न स्यादिति भावः ॥ ४२ ॥ जश्त्वं वावसाने। जश्त्वं बाधित्वा "वावसाने" इत्यनेन चत्वं तदभावे जश्त्वे च रूपयसिद्धिः । अवसाने चत्वं जश्त्वस्य बाधकं भवति। यतस्तदप्राप्तियोग्येऽचारितार्थविशिष्टस्य कृते चारितार्यस्य सस्वात् । विस्तरस्तु शेखरटिप्पणे द्रष्टव्यः॥४३॥ सर्वे । ननु यथा “अर्वणस्त्रसावनः" इति सूत्रेण "नानुबन्धकृतमनेकालत्वम् इति परिभाषया नकारस्यैवादेशो भवति । तथैवात्रापि शकारस्येत्संज्ञायामुक्तपरिभाषया अनेकालस्वाभावेन शित्वासर्वादेश इति वक्तुमुचितमिति चेन, सति सर्वादेशे स्थानि. बद्भावेन प्रत्ययत्वमादाय इत्संज्ञाया प्रवृत्तः । यावत् सम्पूर्णस्य स्थाने आदेशो न भवति तावत् प्रत्ययत्वाभावेनेसंज्ञेव न स्यादिति भावः ॥४४॥ उभय शब्दस्या अयम्भावः सर्वतद्धितान्तस्याव्ययसंज्ञानिराखाय "तद्धितश्चाऽसर्व विभक्तिः इति सूत्रे कृतस्य परिगणनस्य फलम् पचतिरूपं पतिकल्पमित्यत्राव्ययसंज्ञाया अ. भाव इति हरदत्तमते, उभयशब्दस्य द्विवचनाभावो न सिध्यति, कैयटस्तु परिगणन- फलभपहाय उभयोमणिः उभये देवमनुष्या इति भाष्योदाहरणेन 'उभयोऽन्यत्र इति वार्तिकेन च उभयशब्दस्य द्विवचनाभावः सिध्यतीति वदति ॥ ४५ ॥ एतच्च भाष्याविरुद्धम् । अयमाशयः-सन्निपातपरिभाषाया अनित्यत्वे "टाङसिङसामिनास्याः" इति सूत्रे इकारोचारणम् आकारोच्चारणम् 'अतो भिस ऐस्” इति सूत्रे ऐकारोच्चार- णम्, इति त्रितयम्प्रमाणमस्ति तस्सवं भाष्यकृता प्रत्याख्यातमिति वृत्तिकारोक्तम- प्रमाणमिति ॥ ४६॥ निर्जरसी अयम्भाव:-'प (१)दाङ्गाधिकारे तस्य च तदन्तस्य च' इति परिभाषया "जराया (१)पदेति । पदाधिकारे अङ्गाधिकारे च यस्य यत् विहितं तत् तस्य तदन्तस्य च भव- तीत्यर्थः । जरसादेशश्चायमङ्गाधिकारस्थत्वाज्जराशब्दस्य तदन्तस्य च भवतीति भावः ।

१ प्रभालङ्कृतफक्किकासरलार्थ- जरस्" इति सूत्रेण निर्जरसमुदायस्य जरसादेशे प्राप्ते 'निर्दिश्यमानस्यादेशा भव. न्ति" अनेकाशित्सर्वस्य” इति परिभाषाभ्यां जराशब्दस्यादेशो भवति । नन्वेवमपि निर्जरघटकजराशब्दो न वर्तते, किन्तु जरशब्दो वर्तते तत्कथं जरसा. देश इति न शङ्कनीयम्।यतः-'ए(१)कदेशविकृतमनन्यवत्' इति परिभाषया निर्वाहात्। यूष्णः। अयमाशयः--"अचः परस्मिन्" इति सूत्रे, अचः पूर्वत्वेन दृष्टात्परस्य विधावपि स्थानिवद्भावो भवतीति पञ्चमीसमाले अकारस्य स्थानिवद्भावेन "रषाभ्याम्" इति सूत्राप्रवृत्या "अटकुप्वाइति सूत्रेण णत्वम्भवति 'पूर्वत्रासिद्धीथे न स्थानिवत्' इति निषेधस्तु णत्वे कर्तव्ये न भवतीति भावः॥४८॥ प्रभृतिग्रहणं प्रकारार्थम् । अयमाशयः-"पहनु” इति सूत्रे प्रभृतिपदस्य प्रकारोऽर्थः। प्रकारो भेदसाह- श्यम् । सादृश्यज्चात्र (२)सुप्वधर्मेण गृह्यते । तथाच-यत्र सुप्त्वं स्यात्तत्रादेशा भवन्ति । एवञ्च दोष शब्दस्य नपुंसकलिड्ने औङः श्यादेशे दोषनादेशो भवति । ततश्च 'ककुद्दोषणी' इति भाष्योदाहरणं सङ्गतम्भवति । एवमेव 'पदंघ्रिश्चरण” इत्यादौ सुविभक्तौ पादशब्दस्य पदादेशः॥ ४ ॥ (३)'यू' किं माने। अयम्भाव-यूग्रहणाभावेऽदन्तशब्दे, इनादेशादिना बाधात् घिसंज्ञाफलस्य ना. भावादेःप्रवृत्तिन भविष्यति । ऋदन्तशब्दे च "ऋतो डिसर्वनामस्थानयोः" इति सूत्रे डिग्रहणेन ङिरसुऋदन्तस्य गुणश्चेत्तर्हि, डावेवेति नियमेन गुणादिन भविष्यतीति यूग्रहणफलं परिच्छेतृवाचकमातृशब्दे नाभावाभाव इति ॥ ५० ॥ प्रथमहल् किम् ननु संयोगान्तस्य लोप” इति सूत्रेण सकारस्य लोपे राजेत्यादि पदानां सिद्धौ किं हलग्रहणेनेति चेन्न, "न लोपः प्रातिपदिकान्तस्य” इति सूत्रेण नलोपे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वेन प्रातिपदिकान्तनकारस्याभावानलोपानापत्तेरिति ॥५॥ (१) एकदेशेति । 'छिन्नेऽपि पुच्छे श्वा श्वैव भवति, न अश्वः न च गर्दभः इति न्या. यादिति भावः । ( २ ) सुप्वधर्मेणेति । सुप्त्वं प्रत्ययस्योपलक्षणं बोध्यम् । तेन 'आसन्यम्' इत्यस्य तद्धितयत्प्रत्यये पर आस्य शब्दस्यासन्नादेशे सति रूपसिद्धम् । सुप्त्वेन सादृश्ये तु न स्यादिति भावः ।। (३) "ननु किति ह्रस्वश्च" इत्यतोऽनुवृत्तेन ह्रस्वग्रहणे नैव समीहितरूपो- पपत्तौ प्रकृतसूत्रेयूग्रहणमनावश्यकमेवेत्यत आइ-यू किमिति ।

, अजन्तपुंलिङ्गाः। (१)द्विषन्तानां किम् ? अयम्भाव:-"त्यदादीनामः" इति सूत्रे त्यच्छब्दादारभ्य सर्वेषाम् शब्दानी प्रहणे भवच्छब्देऽपि "त्यदादीनामः" इति सूत्रेण तकारस्याकारे नलोपादिकार्ये च कृते भवा, इति रूपमनिष्ट स्यानतु भवानिति, भवच्छब्दस्य त्यच्छब्दात्या पाठे कृते भवानिति रूपसिद्धेऽपि “त्यदादीनां मिथः सहोक्तौ” इति वार्तिके भवदादीनां मिथः इति पाठेनोक्तवार्तिकेन स च भवश्चेिति विग्रहे तच्छब्दस्यैव, एकशेषे भवन्ता- विति रूपासिद्धिरिति द्विशब्दपर्यन्तमेव त्यदादिग्राहमिति भावः । सुसखिना। अयम्भाव:-"शेषो व्यसखि" इति सूत्रे असखीतिपदस्य वर्णसंज्ञापचे सखिभि- चावयवी याविदुतौ तयोधिसंज्ञेत्यर्थः । तथाचात्र सुसखिशब्दस्य सखिभिवत्वेन तद. वयवस्येकारस्थ घिसंज्ञायां नादेशे च सुसखिनेति सिद्धम् ॥ सखिभिन्नं यदिकारान्त- मुकारान्तं च तस्य घिसंज्ञेति तदन्तपक्षेऽपि सुसखिशब्दे घिसंज्ञा प्राप्तिः । नवीनास्त्विस्थं वदन्ति-पिण्डग्रः इत्यत्र दीर्घवारणार्थं यथा "अत्वसन्तस्य चा. धातोः" इतिसूत्रे धातुपदस्य तदवयवे लक्षणया धात्ववयवभिन्चासन्तस्येत्याधों भवति । तथाऽत्रापि सखिशब्दस्य सख्यवयवे लक्षणया सख्यवयवभिन्नयोरिदुतोरिति, सख्यवयवभिन्नो य इवर्ण उवर्णश्च तदन्तं घिसंज्ञं स्यादिति चार्थों भवति । तथाचाने- कारस्य सख्यवयवत्वेन पक्षद्वयेऽपि घिसंज्ञा दुर्लभा ॥ १३ ॥ दुर्धियः । ननु दुरित्यस्य ध्या धातुयोगे "गतिश्च" इति सूत्रेण गतिवाद् "गतिकारकेतरण इति वार्तिकाप्रवृत्या यण कथन्न स्यादिति चेन्न । “यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः" इति वचनात् । दुःशब्दार्थस्य दुष्टस्वस्य स्थाधात्वर्थेऽन्वयेन ध्याधात्वर्थेऽन्वयाभावेन गतिस्वाभावात् , वृश्चिकभिय इत्यत्रापि वृश्चिकस्य भी, वृश्चिकभीरिति सम्बन्धसामान्यषष्ठया समासेन कारकस्वाभावात्, "गतिकारका इति वार्तिकप्रवृत्या यणोऽभाव इति भावः ॥ १४ ॥ हे मानो। अयम्भावः-यदि सम्बुद्धिविषये मोकारस्यौत्वं स्यात्तर्हि सम्बुद्धिविषये सर्वत्र ओकाराभावेन "सम्बुद्धौ शाकल्यस्येतावनार्षे” इति सूत्रमेव व्यर्थं स्यात् । तदेव न्यथं सत् सम्बुद्धौ ओकारस्यौवन्न भवतीति ज्ञापयति, एवञ्च जस् विभको गुणे कृते, औत्वं स्यादित्यभिप्रेत्याह-हे भानव इति ॥ ५५ ॥ इत्यजन्तपुंल्लिङ्गाः। (१) ननु युष्मदस्मदोविषये विशेषविहितः आत्वयत्वलो पर्बाधेन कादेशविधानेन च तत्र दोषाभावात् द्विपर्यन्तग्रहणं व्यर्थमित्यत आह-द्विपर्यन्तानामिति । .

१८ प्रभालङ्कृतफकिकासरलार्थ- अथाजन्तस्त्रीलिङ्गाः। असंयुक्ता ये डलकास्तद्वताम् । अयम्भावः-भाष्यकृता "अम्बाथ द्वयक्षरं यदि" इति वचनेन द्वयचकस्यैवा. र्थस्य हस्वो भविष्यतीति हे अम्बाडे इत्यादिप्रयोगेषु ह्रस्वो न स्यादिति "डलकवतां प्रतिषेधो वक्तव्य" इति वार्तिकं प्रत्याख्यातम् । तथा च-वार्तिकाभावे 'हे अक्का इत्यादिप्रयोगे हस्वो भवति । वार्तिकसत्ता- यान्तु हस्वो न भवतीति फलभेदानिरासाय वार्तिकसत्वेऽपि "असंयुक्ता ये डलकास्त. वृतां प्रतिषेधो वक्तव्यः” इत्यर्थोऽवश्यं कार्यः। इस्थञ्च मूले "असंयुक्ता ये डलकास्त. द्वता प्रतिषेधो वक्तव्यः” इति फलितमाह ग्रन्थकारः ॥५६॥ यद्यपि जरसादेशस्थ । अयम्भावः-जरसावित्यादौ जरसादेशस्य स्थानिवद्भावेनाबन्तत्वमाश्रिस्य "औ- आप” इत्यादिमूलोक्ताः पञ्चापि (१) कार्याणि प्राप्नुवन्ति । परञ्च "अनल्विधौ” इति निषेधेन स्थानिवद्भावाभावेनाबन्तत्वाभावान्न भवन्ति । नचाबन्तत्वधर्मस्याल्मात्रवृत्तित्वाभावेन "अनलविधौ' इति निषेधो न स्या- दिति वाच्यम् । “औङ आप” इत्यादिसूत्रेण आकारस्य प्रश्लेषेण आकाररूपो य आप तदन्तात्परस्य औङः शी स्यादित्याद्यर्थात् । तथाच-आकाररूपत्वधर्मः स्था- निवद्भावेन नद्यायास्यतीति पञ्चापि कार्याणि न भवन्ति । इस्थञ्च "हल्याभ्यः” इति सूत्रे डी ई आ आप् इति प्रश्लेषण निष्कौशाम्बि. रतिखटव इत्यादौ आकाररूपत्वधर्मस्थानयनं न स्यादिति सुलोपस्य प्रसङ्ग एव ना. स्तीति तदर्थं सूत्रे दीर्घग्रहणं न कर्त्तव्यमिति परमलाधवम् । नचाकाररूपो य आप तदन्तमित्याधर्थेऽपि अतिखटवायेत्यत्र श्रूयमाणाऽकारः स्थानिवद्भावेनाप्त्वञ्चाश्रित्य याट् स्यादिति वाच्यम् । आबन्ततदाधभित्रं यदङ्ग ततः परस्य याट् स्यादित्यर्थात् । एवञ्चान यत् रूट्वा इति आबन्ततदादि न च तदङ्गमस्ति, यच्चाङ्गं वर्तते अति. खट्वेति न च तत् आबन्ततदादीति या प्रवृत्तिः। न च स्त्रीप्रत्यये “प्रत्ययग्रहणे यस्मात्स विहित" इत्यादिपरिभाषा निषिध्यते इति तदादिनियमाभावेन आबन्तं यदङ्गमित्याधर्थ एव स्यादिति। अतिखट्वेस्यत्राबन्त- मङ्ग वर्तते इति याट स्यादिति वाच्यम् । “अनुपसर्जनस्त्रीप्रत्यये तदादिनियमाभा- वात्" अत्र तूपसर्जनस्त्रीप्रत्ययो वर्तते ॥ १७ ॥ (१) पञ्चापीति "औङ आपः" "आङिचाप: "याडापः" "हस्वनधापः" "डेराम्" इति पन्चेति भावः॥

अजन्तनपुंसकलिङ्गाः । अतिस्त्रियै। "डिति ह्रस्वश्व" इति सूत्रस्य इयवस्थानौ स्त्रीशब्दमिन्नौ नित्यस्त्रीलिङ्गी 'ईदूतौ” इति, ह्रस्वौ च इवोवर्णी स्त्रियां वा नदी संज्ञा स्तः इति चार्यद्वयं भवति । प्रथमार्थे च "यूस्न्याख्यो” इति सूत्रम्, 'इयङवस्थानावस्त्री" इति चानुवर्तते ततश्च यत्र दीर्घकारान्तः स्त्रीशब्दो भवति तत्रैव अस्त्रीति निषेधः प्रवर्तते। एवञ्चान हस्वान्तत्वेन निषेधो न भवतीति भावः ॥१८॥ पदान्तरं विनापि । अयम्भावः-वृत्तिकारमते ये शब्दाः स्त्रीति पदं विनापि स्त्रीलिङ्गं वक्तं सम. स्तेिषां शब्दानां स्त्रीलिङ्गवद्रूपं स्यात् । यथा--प्रकृष्टं ध्यायतीति विग्रहे प्रधीश- ब्दस्य लक्ष्मीशब्दवद्रूपं स्यात् । यतः श्रीभगवतो ध्याने स्त्रीपुरुषयोद्धयोरप्या- ज्ञया प्रधीः स्त्रीति विशेष्यविशेषणभावं विनापि प्रधीशब्दः स्त्रीलिङ्गं वक्तं स. मर्थ इति नित्यस्त्रीत्वं तस्य कैयटमते तु ये शब्दा नपुंसकलिङ्ग पुंल्लिङ्गञ्च न वदेयुस्तेषामेव शब्दानां नित्यस्त्रीत्वं भवति, एवञ्च प्रधीः पुरुषः अधि कुलमित्याद्यर्थन अधीशब्दस्य नित्यस्त्रीत्वाभावेन लक्ष्मीशब्दवद्रूपन्न स्यादति भावः ॥ ५९ ॥ इत्यजन्तस्त्रीलिङ्गाः। अथाजन्तनपुंसकलिङ्गाः। (१) न लुमताङ्गस्यानित्यत्त्वात् । अयम्भाव:-"इकोऽचि विभक्तौ” इति सूत्रेणाजादिविभक्तौ हलादिविभक्तौ च सर्वत्रैव नुमि सति, अजादिषु नुम इष्टत्वात् हलादिषु च "स्वादिष्वसर्वनामस्थाने" इति सूत्रेण पदसंज्ञायाम "नलोपः प्रातिपदिकान्तस्य" इति नलोपे वारिभ्यामित्या- दिप्रयोगे नास्ति किमपि दूषणमिति अज्ग्रहणं व्यर्थ सत् "न लुमताङ्गस्य" इति सूत्रस्यानिस्यत्वं ज्ञापयति । एवञ्च "प्रत्ययलोपे प्रत्ययलक्षणम्” इति सूत्रेण सम्बुद्धौ सुविभक्तित्वाश्रयणेन नुमि, "न डिसम्बुद्धयो” इति नलोपनिषेधे हे वारिन्नित्यनिष्टं रूपं स्यादिति स्वांशे चरितार्थम् । फलञ्चात्रैव हे वारे इत्यत्र "हस्वस्य गुणः" इति गुणरूपम् ॥ ६०॥ इत्यजन्तनपुंसकलिङ्गाः । ( १ ) ननु वारिंशब्दात्सम्बुद्धधकवचने सौ परे तस्य “एउह्रस्वारसम्बुद्धेः” इत्यनेन लोपे तस्य प्रत्ययलक्षणेन "ह्रस्वस्थ गुणः” प्राप्तः तस्थ "न लुमताङ्गस्य" इति निषेधे हे वारि इत्येव भवेत् , न तु हे वारे इति । तथा च हे पो हे त्रपु इति भाष्योदाहरणस्थासङ्गत्थापत्तिरति पाह-न लुमतेति।

२० प्रभालङ्कृतफकिकासरलार्थ- , अथ हलन्तपुंल्लिङ्गाः । उपदेशे किम् । अयम्भावः-"दादेर्धातोघ” इति सूत्रस्य दादिधातोर्हस्य घः स्थादित्यर्थे, अधो- गित्यत्र 'दुह ल्' इति दशायां लावस्थायामडिति भाष्यसिद्धान्तेनाटि कृते दादित्वा. भावेन घस्वन स्यात् । दामलिह्यतीति दामलिडित्यत्र च दादिधातुत्वेन घत्वं स्या- दिति अव्याप्त्यतिव्याप्तिदोषपरिहाराय दादिसूत्रे दादिपदस्यावृत्तिः कार्या ॥६॥ एकाचः। अयम्भाव-"एकाचो बशो भष झपन्तस्य स्वोः" इति सूत्रे “सम्भवति सा. मानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वम्” इति न्यायेन “एकाचः” इति धातोरेव विशेषणं भवितुमर्हति । तथाच-गर्धप गर्धब् इत्यादौ धातोरेकाचत्वाभावेन भष् भावो न स्यादिति लक्ष्यानुरोधेन क्वचिद् वैयधिकरण्येनान्वयो भवति । ततश्च धातो. रवयवो य एकाच झपन्तस्तदवयवस्येत्यादिसूत्रार्थेनोक्तप्रयोगे भषभावसिद्धिः। धु. गित्यादौ धातुरेवैकाच् न तु तदवयव इति व्यपदेशिवद्भावेनैकाच्वमाश्रित्य भषः भावसिद्धिः॥ २॥ अनड्वान् । अयम्भावः-"सावनडुहः” इति सूत्रे "आच्छीनद्योम्" इत्यत आदिति पदमः नुवर्तते । ततश्वावर्णात्परानदुशब्दस्य नुम् स्यात्सौ परे इति सूत्रार्थो भवति । एवञ्च "चतुरनदुहोरामुदात्तः” इति सूत्रविहितस्यामः सर्वनामस्थानविषयो भवति "साव. नडुहः” इतिविहितस्य नुमस्तु सुरेव विषय इति विशेषविहितेनापि नुमा आमो बाधो न भवति । यत आदित्यधिकारात् । यदि नुमा आम्बाधा स्यात्तदा "आत्" अधिकार एव व्यर्थः स्यादिति उपजीव्यविरोध: स्यात् । एवं रीत्या अमा च नुम् न बाध्यते । नुम्विधिसामर्थ्याइत्वं न । संयोगान्तलोपस्यासिद्धत्वान्चलोपो न । तत- श्रोतप्रयोगसिद्धिः॥ ३३॥ णत्वं द्वित्वं चतुर्णाम् । ननु पूर्वत्रासिद्धीयमद्विस्वे' इति परिभाषया द्वित्वे कर्त्तव्ये "पूर्वत्रासिद्धम्। इति सूत्राप्रघृश्या परत्वात् द्वित्वे ततो णस्वमित्येव लेख्यमिति चेन्न । “पूर्वत्रासिद्धीयम द्वित्वे” इति परिभाषया द्वित्वे कर्तव्ये, अन्यदसिद्धं न भवति । द्वित्वं यदि परं स्यात- दासिद्धं स्यादेवेत्यर्थेन द्वित्वस्यासिद्धत्वात् णत्वं द्वित्वमिति मूलस्य युक्तत्वात् ॥ ६४ ॥ अकच्महितस्यापि। ननु 'इमः' इति न्यासेऽपि किमशब्दस्य के प्राक पाठकरणेन "त्यदादीनामा , हलन्तपुंलिङ्गाः । इति सम्पूर्णसूत्रानुवृत्या 'त्यदादीनामिनः ' स्यादित्यर्थेन का इत्यादि प्रयोगसिद्धौ ककारोपादानं व्यर्थमिति चेन्न। ककारोपादानस्याकसहितस्य विधानार्थत्वात् । न. चोक्तन्यासे "अलोऽन्त्यस्य” इति सूत्रेण मकारस्यवादेशः स्यादिति वाच्यम् ? 'नान. थंकेऽलो(१)न्त्यविधिः' इति निषेधात् ॥६५॥ राजः । ननु स्थानिवद्भावेन लुप्ताकारस्थानयनेन जकारनकारयोर्मध्ये व्यवधानात् श्चुत्वन्न स्थादिति चेन्न । “पूर्वत्रासिद्धीये न स्थानिवत्" इति स्थानिवद्भावनिषेधात् । “वाह ऊठ्” इति सूत्रज्ञापिताया "असिद्धं बहिरङ्गमन्तरोइति परिभाषाया दृष्टया श्चु. स्वविधायकशास्त्रस्यासिद्धत्वेनान्तरङ्गशास्त्रस्यैवाभावेन "असिद्धं बहिरङ्गमन्तरङ्गे" इति परिभाषयापि अल्लोपो नासिद्ध इति भावः ॥ ६६ ॥ वृत्रघ्नः । अयमाशयः-'वृतघ्न' इत्यादि प्रयोगेषु णत्ववारणाय "कुव्यवाये हादेशेषु प्रति- धो वक्तव्यः” इति वार्तिककारेण वार्तिकं पठितम् । भाष्यकारस्तु धुवघ्नः, सुना, प्राधानि एषु प्रयोगेषु णत्ववारणाय 'अत्पूर्वस्य' इति योगविभागस्य, अकारपूर्वस्यैव हन्तेर्णत्वम्भवतीत्यर्थं कृत्वा वार्तिकं प्रत्याचख्यौ। एवञ्च महर्षिद्वयविरोधान्माधव- कथितं वैकल्पिकणस्वमन्याय्यमिति ॥ ६७ ॥ मघवा। "वन्नुतन्" इति सूत्रेण मह धातोः कनि प्रत्यये हकारस्य चकारे अवुगागमे च कृते मघवा इति रूपं सिध्यति । मघशब्दान्मतुपि "अत्वसन्तस्य चाधातोः" इति दीर्धे नुमादिकार्ये च कृते मघवानिति रूपं सिद्धम्भवति । एवञ्च रूपद्वयसिद्धौ "मघवा बहुलम्" इति सूत्रं प्रत्याख्यातमाकरे । तथा चारम्भप्रत्याख्यानयोः फलैक्याय बहु- लग्रहणेन दीर्चे कर्तव्ये संयोगान्तलोपो नासिद्ध इत्येव कल्पना कार्या । बहुलग्रहण. सामर्थ्येन नलोपे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वन्न भवतीति कल्पना यदि स्यात् , तदा प्रत्याख्यानपक्षे मघवानिति रूपम्भवति, सूत्रारम्भे तु मधव इति रूपम्भवतीति फलभेदः समापततीति मूलोक्तमेव युक्तमिति भावः ॥ ६८ ॥ अष्टौ । अयम्भाव-एकमात्रालाघवेन 'अष्टभ्यः' इत्येव वक्तव्ये 'अष्टाभ्य' इति दीर्घोच्चा- रणं क्वचिदजादावपि "अष्टन आ विभक्तौ” इति सूत्रविहितमात्वम्भवतीति ज्ञापय- (१)नानर्थकेति । “नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे" इयं परिभाषा अनर्थ के 'इमः' इत्यत्र न प्रवर्तते इति भावः।

२२ प्रभालतफक्किकासरलार्थे- । - स्त्री। ति । तेन जस्शसोरपि विषये आत्वं सिध्यति, "अष्टनो दीर्घात्" इति सूत्रे दीर्घग्रह- णेन "अष्टन आ" इति विहितमात्वं विकल्पेन भवतीत्यपि सिद्धम् । अन्यथा सर्व त्रैव दीर्घाकारस्यैव सम्भवात्तत्सूत्रे दीर्घग्रहणं व्यर्थमेव स्यादिति ॥ ६ ॥ द्विपर्यन्तानामित्येव । अयम्भाव:-"तदोसः सावनन्त्ययो" इति सूत्रे त्यदादीनां(१) द्विपर्यन्त एवं गृह्यते इति युष्मदशब्दस्य स्यदादिबहिर्भूतत्वेन त्वमित्यत्र तकारस्य सत्वं न भवति । न च "वाही सौ” इति सूत्रे तकारोच्चारणसामर्थ्यादेवात्र सत्वं न स्यादिति वाच्यम् । अतित्वमित्यत्र गौणे तकारोच्चारणस्य सफलत्वात् । तत्र चात्वसत्वे न भवतः, यतः सर्वेषां नामवाचकः सर्वनामेत्यन्वर्थसंज्ञाबलेन यत्र सर्वादीनां प्राधान्य स्यात्तत्रैव सर्वनामसंज्ञा भवति । गौणे च सर्वादीनां प्रधानता न विद्यते इति सर्व नामसंज्ञा न भवति । एवञ्च सर्वनामसंज्ञानिमित्तकं सर्वाधिन्तर्गणकार्यञ्च प्रधानताया- मेव न तु गौणे ॥ ७० ॥ त्वं ननु त्वं स्त्रीत्यत्र "वाही सौ” इति त्वादेशे "शेषे लोप" इति लोपे "डे प्रथमयो- रम्" इत्यमादेशे च त्व अम् , अह अम् इति दशायाम् 'असिद्धं बहिरङ्गमनतरङ्ग इति परिभाषया परमपि अमि पूर्वरूपं बाधित्वा टाप् स्यादिति चेन्न । 'अलिङ्गे युष्मदस्मदी' इति वचनेन तयोः स्त्रीवाभावात् । “शेषे लोप" इति सूत्रे शेषे इति षष्ठयथै सप्तमी ततश्च शेषस्य 'अद' इत्यस्य लोप इत्यर्थे त्व अदु इति स्थिते "अतो गुणे" इति पररूपे कृते परादिवद्भावेन अद्भागमादाय तस्यादभागस्य लोपेऽदन्तत्वाभावा- देव न टाप्स्यादित्यपि बोध्यम् ॥ ७१ ॥ मपर्यन्तस्य किम् । अयम्भावः-"ओकारसकारभकरादौ सुपि सर्वनाम्नः टेः प्रागकच अन्यत्र तु सुबन्तस्य टे प्रागकच्” इति वार्तिकेन पूर्व युवामिति संसाध्य आमः पूर्वम् "अव्ययसर्वनाम्नामकच् प्राक् टे” इति सूत्रेणाकजादेशे युवका- मित्यत्र दोषाभावेन व्या म्येति दूषणं दत्तम् “योऽचि" इति सूत्रस्थाने "अच्ये" इति न्यासेन अजादिविभक्ती एत्वं स्यादित्यर्थेऽलोऽन्त्यपरिभाषया स्वादेशोत्तरम् अकारस्य एस्वे अयादेशे च कृते स्वयेति रूपसिद्धौ युवकाभ्यामित्यत्र दूषणं बोध्यम् ॥७२॥ (१) द्विपर्यन्त एवेति । "त्यदादीनाम:" इत्यत्र पठितं "द्विपर्यन्तानामेवेष्यते” इति वातिक "तदोस्सःसावनन्स्ययोः" इत्यत्राप्यनुवर्तत इति भावः ।

हलन्तपुंल्लिङ्गाः । २३ यूयम्। अत्र "शेषे लोपः" इति सूत्रे शेषे इति सप्तमी तत्र पले अन्त्यस्य लोपो भवती- त्यथें यूयशब्दस्यादन्तत्वात् शीभावः प्राप्तः "अङ्गकार्ये कृते पुनर्माणकार्यम्" इति न भवति । टिलोपपक्षे तु "के प्रथमयोरम्” इति सूत्रे मकारान्तरं प्रश्लिष्य मान्त एवा. देशो भवतीति व्याख्यानान्न भवतीति भावः ॥७३॥ १ भ्यसो भ्यम् । क अय(१)म्भावः-"भ्यसो भ्यम्” इति सूत्रे भ्यम् , अभ्यमिति द्विधा पदच्छेद स्तन भ्यम् इति पदच्छेदे "शेषे लोपः" इति सूत्रस्यान्त्यलोपपक्षे एव युष्मभ्यं सि- ध्यति । अभ्यमिति पदच्छेदे तु “शेषेलोपः इत्यस्य अद्भागलोपपदे एव युष्मभ्यमिति सिध्यति । अयमेव पदच्छेदद्वये भेदः ॥७४ ॥ (२) भाविनः मुटः। अयम्भावः-आकमादेशात्पूर्व “योऽचि” इति सूत्रप्रवृपया यत्वनिमित्तविभक्ति- त्वेन "शेषे लोपः” इति सूत्रस्य प्रवृत्यभावेनादन्तत्वाभावात् सुटोऽप्रवृत्तौ 'साम' इति सकारनिर्देशोऽऽनुपपन्नः सन् आकमि कृतेऽदन्तत्वेन प्राप्तस्य सुटो निवृत्तिं करोति । अम्येव सामवस्य मिथ्यारोपेण सामः स्थाने आकमि कृते स्थानिवद्भावेन सान्त्व- मेवानीयते, न तु आम्स्वमिति स्थानिवद्भावेन आम आनयनासम्भवात् सुट् स्वय- मेव निवर्तते ॥ ७॥ (३) समस्यमाने । अयम्भावः- "युवावौ द्विवचने" "वमावेकवचने” इति सूत्रे द्विवचनैकवचनयो- रर्थपरस्वव्याख्याने फलं दर्शयति-समस्यमाने द्वेकवेत्यादिना। तथा च-यत्र समासे लौकिकविग्रहवाक्ये युष्मदस्मद्शब्दौ द्वित्वस्य वाचकौस्ता तत्र सु जस् ङे ङस् इति चतस्त्रः विभक्तीः विहाय सर्वत्रैव युवावौ स्याताम् । (१) ननु अत्र अभ्यम् इति पदच्छेदः, उत भ्यम् इति पदच्छेदः इति चेत् ? विनिगम- नाविरहात् उभयोरपि ग्रहणे न दोषः इति प्रकृतसूत्रे भाष्येऽप्युक्तम् । उभयपक्षे सङ्गतिमाह- अयम्भाव इति । (२) भाविनः सुडिति । न च "आमो डाकमिति न्यासेन सिद्धौ व्यर्थो. ऽयम्प्रयास इति वाच्यम् । पाणिन्युच्चारितन्यासस्यैव पुण्यजनकत्वेन तथा न्यासस्यायुक्तत्वा- दिति भावः। (३) समस्यमाने इति । तत्र प्रथमश्लोके चेदित्यनन्तरमपीत्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी एकत्ववाचिनी तदा समासार्थः अन्यसंख्यश्चेदपि 'युवावो' 'त्वमौ' अपि स्त: इत्यन्वयो मूले अभ्युपेयः । , .

. प्रमालकृतफकिकासरलार्थ- यत्र च लौकिकविप्रहवाक्ये युष्मदस्मदशन्दौ एकरवरूपार्यस्य वाचकौ स्तः। तत्र पूर्ववत्सर्वत्र त्वमौ स्याताम् । अथ च यत्र समासे युष्मदस्मशब्दो बहुस्वरूपार्थस्य वाचको तत्र युवावौ त्वमौ च न स्तः। इत्थञ्च त्वां मां वाऽतिक्रान्त इति विग्रहे सर्वत्र त्वमौ भविष्यतः। युवामावां वाऽतिक्रान्त इति विग्रहे सर्वत्र युवावौ भविष्यतः। युष्मान् अस्मान् वाऽतिक्रान्त इति विग्रहे च युवावौ त्वमौ च न भविष्यतः। द्विवचनैकवचनयोः प्रत्ययपरत्वे तु समस्तपदादेकवचने त्वमौ स्याताम् । द्विवचने च युवावौ स्यातामिति रूपेषु महान् भेदो भविष्यति । तस्मादर्थपरत्वमेव न्याय्यम् ॥ ७६ ॥ अमुमुयङ्। अयम्भावः-यथा “कृपो रो ला" इति सूत्रेण रेफस्य ऋकारावयवरेफसशस्य च लत्वं भवति । तथैव "अदसोऽसेः" इति सूत्रेण दकारद्वयस्य मकारः अकाररेफयोश्चो- कारो भवतीति पक्षे अमुमुयङ् इति रूपम् । “अलोऽन्त्यस्येति सूत्रेणेकारस्योत्वं प्रा. प्नोति, दकारोऽचारणाच्च रेफस्योत्वं प्राप्नोतीति, दकारोपादानसामथ्यन रेफस्यैवोत्वं स्यादिति "अन्त्यबाधेऽन्त्यसदेशस्य" इति परिभाषया परस्यैव मकारे उकारे च कृते 'अदमुया इति रूपम् , असेरिति निर्देशेन यत्र सकारस्याकारो भवति, तत्रैव मुत्वं भवतीति पक्षेऽत्र मुत्वाप्राप्तिरिति अदद्रयङ इति रूपम्भवति ॥७७ ॥ (१) उगिदचामिति । अयम्भावः--अन्चुधातोरपि उगित्वेन उगिदित्यंशेनैव नुमः सिद्धौ, अञ्चुग्रहणं व्यर्थ सत् धातोश्चेदुगिरकार्य तर्हि अचुधातोरेवेति नियमयति । तेन स्लत् ध्वत् इत्यादौ नुम् न भवति। इत्थं च अन्चुधात्वतिरिक्तानां धातूनां नुमोऽभावसिद्धौ अधातुग्रहणं गोमानित्यस्य वर्तमानकालेऽधातुत्वाभावेऽपि पूर्वकालिकाधातुस्वमादाय नुम् स्यादित्यर्थस्थावबोधनार्थम् ॥ ७८ ॥ नुमविसर्जनीय। अयम्भावः-नुमि सति सर्वत्रैव नकारस्यानुस्वारे नुम्पदस्य लक्षणया नुमस्था- निकानुस्वारस्य व्यवधानेऽपि षत्वं भवतीत्यर्थो भवति । तेन सुहृत् सु इत्यत्र नुमः सरवेऽपि षस्वन्न भवति । सु इत्यत्रापि मकारस्थानिकानुस्वारस्य सत्वात्षवं न । इत्थञ्चानुस्वारस्य शरप्रत्याहारे पाठेऽवि शहणेनानुस्वारस्य व्यर्थता न भवति यतोऽत्र विलक्षणानुस्वारो गृह्यते ॥ ७९ ॥ (१) ननु "उगिदचाम्" इति सूत्रे अधातोः इत्यस्य सत्त्वेन धातोर्नुमोऽप्रात्या क्यजन्ता. दिगोमच्छब्दस्य धातुस्वाभावेन तुम्न स्यादित्यत आह- उगिदचामिति ।

-- असको हलन्तनपुंसकलिङ्गाः। पुंसोऽसुङ । अयम्भावः-बहुपुंसीत्यत्र "विभक्तौ लिङ्गविशिष्टाग्रहणम्” इति परिभाषया डीप विशिष्टस्य पुंस्शब्दत्वाभावेनासुङादेशाप्रवृत्तौ प्रत्ययस्थोगिस्वेनैव तत्र ङीसिद्धिरिति तेनैवोगित्वेन नुमपि स्यादिति नुमर्थमसुङादेशस्योकारस्येत्संज्ञा न कर्त्तव्या ॥८॥ औत्वप्रतिषेधः । अयम्भाव:-चत्र "औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वञ्च" इति बार्तिकं लगति तत्रौत्वप्रतिषेधः, उत्वं चेति कार्यद्वयं भवतीति असुकः सिध्यति । इत्यत्र “अदस औ सुलोपश्च” इति औकारादेशे वार्तिकविहितमुत्वमपि न भवति ॥ ८१॥ इति हलन्तपुंल्लिङ्गः । अथ हलन्तस्त्रीलिङ्गाः। विमलदिवी। ननु यथा राजपुरुष इत्यत्र पूर्वपदस्य अन्तर्वतिनी विभक्तिमाश्रित्य पदसंज्ञायां नलोपो भवति, तथाऽत्रापि "प्रत्ययलक्षणम्" इति सूत्रेण दिव इत्यस्य पदसंज्ञायां सस्यां "दिव उत्” इति उत्वं स्यादिति चेन्न । “उत्तरपदत्वे चापदादिविधौ प्रतिषेध" इति वार्तिकेन प्रत्ययलक्षणनिषेधात्। वार्तिकाथस्तु उत्तरस्य-उत्तरपदस्य, पदत्वे पदसं. ज्ञायां पदप्रयुक्त कार्ये च कर्तव्ये प्रत्ययलक्षणं न भवतीति उत्तरपदस्याधाचरस्य कार्य फर्तव्ये प्रत्ययलक्षणं भवत्येवेति। तथा च दधना सेचौ दधिसेचौ इत्यत्र सकारस्य "सात्पदायोः" इति सूत्रेण षत्वनिषेधे कर्तव्ये प्रत्ययलक्षणेन सेच इत्यस्य पदत्वमस्स्ये. व, चकारस्य ककारे कर्तव्ये तु पदत्वनास्तीति भावः ॥४२॥ इति हलन्तस्त्रीलिङ्गाः । अथ हलन्तनपुंसकलिङ्गाः। अहः। अयम्भावः-अहन् सु इति दशायां सुलोपे "नलोपः प्रातिपदिकान्तस्य" इति सू. ब्रदृष्टया "रोऽसुपि” इति सूत्रस्यासिद्धत्वेन नलोपे प्राप्ते ()"अहन्" इति सूत्रस्या- धृत्तिं कृत्वा एकेन सूत्रेण अहन्शब्दो यादृशो वर्तते तादृशो वर्ततानाम, न तु विकृति प्राप्नुयादित्यों बोध्यते । द्वितीयसूत्रेण च 'अहन्' इत्यस्य सः स्यात्पदान्ते । एवञ्च (१)"अहन् इति सूत्रस्यावृत्तिमिति। अत्र प्रमाणं "रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्" इति वार्तिकमेव । अन्यथा नलोपे अकारस्य रेफादेशेनैव सिद्धौ वार्तिकमिदं व्यर्थं स्यादिति भावः।

प्रभालङ्कृतफक्किकासरलार्थ- नलोपाभावे रुत्वे च कृते, अहः इति रूपं सिद्धम् । अहोभ्यामित्यत्र च नलोपसूत्र- दृष्टया अहन इत्यस्यासिद्धत्वे नलोपे प्राप्ते पूर्वोत्तरीत्या सर्व कार्य सिध्यति । आ- वृत्तौ मानञ्च "रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्” इति वार्तिकमेव । अन्यथा नलोपे अहो रूपमित्यादौ हकारघटकाकारस्य रेफादेशे रुत्वादेशे वा नास्ति वैलक्षण्यम् , अकारभावेन "हशि च” इति सूज्ञास्याप्रवृत्तः ॥३॥ दीर्घाहाः। ननु दीर्धाहन् सु इति दशायाँ "हल्ङयादि"सूत्रेण सुलोपे प्रत्ययलक्षणेन 'अ- सुपिः इति निषेधात् "रोऽसुपि" इति सूत्रस्याप्रवृत्तावपि "अहन्" इत्यनेन रुत्वं कथं न स्यादिति चेत् , न । "सर्वनामस्थाने चासम्बुद्धौ” इति सूत्रदृष्टयातस्यासिद्धत्वात् । एवं चात्र दीर्घः सिध्यति ॥ ८४ ॥ बेभिदि। ननु (१)बेभिद् शि इति दशायां झलन्तत्वेन "नपुंसकस्य झलचः" इति नुम् कथन स्यादिति चेत् , न । अल्लोपस्य स्थानिवत्वात् स्थानिभूतादचः पूर्वस्य कार्य कर्तव्ये स्थानिवद्भावो भवति । न तु अजन्तस्य कार्य कर्तव्ये, इति अजन्तलक्षणोऽपि नुम् न भवतीति भावः॥८॥ गवाक्षु। अयम्भावः- गत्यर्थे नलोपे गवाच इति दशायाम् "चोः कु" इति ककारे, ककारस्य "झलां जशोऽन्ते” इति गकारे, गकारस्य "खरि च" इति ककारे, षत्वादि. काय च कृते उक्तरूपसिद्धिः। अन च "चयो द्वितीयाः शरि" इति वार्तिकेन ककारस्य खकारे कृते गवाखूषु गोअखषु गोखषु इति त्रीणि रूपाणि वर्धिष्यन्ते इति न शङ्कनीयम् । चत्वस्या(१) सिद्धत्वात् । पूजायान्तु नलोपाभावे "णोः कुक' इति कुकि कुकोऽसिद्धत्वेन जश्त्वाभावे "चयो द्वितीया” इति वार्तिकेन ककारस्य खकारे कृते गवाषु १, गौअङ्ख्षु २, गोषु ३, इति ब्रीणि रूपाणि वर्धन्त (३)एवेति तत्वम् ॥ ८६ ॥ (१) बेभिदिति । बेभिद्यतेः किपि अल्लापे यलोपे च बेमिद् इति रूपमिति भावः । (२) असिद्धत्वादिति । "चयो द्वितीयाः” इति शास्त्रदृश्या चत्वशास्त्रस्यासिद्धत्वात ककारो नास्त्येवेति भावः । (३) वर्धन्त एवेति। न चैवं सति 'नवाधिकशतं मतम्' इति विरोधः शङ्कथः । 'नवा- धिकशतं मतम्' इति सूत्रकारस्थ मतमित्यर्थात् ।

स्त्रीप्रत्यया। २७ स्वाम्पि। (१)अयम्भावः-(२)लक्षणप्रतिपदोक्तपरिभाषया नित्यात्परादपि नुमः पूर्वम् "अ. पतृन्” इति दीर्धे पञ्चान्नुमि स्वाम्पीति सिद्धम् । यदि च प्रतिपदोक्तं कुत्रचिच. रितार्थन्न स्यात् , तदा लक्षणप्रतिपदोक्तपरिभाषाविषयो भवतीति पक्षे आप इत्यन "अस्तृन्" इति सूत्रस्य सफलत्वेन परिभाषाविषयाभावात्पूर्व नुमि, उपधाया अमा वेन दीर्घाभावे स्वाम्पीति रूपम् ॥ ८७ ॥ इति हलन्तनपुंसकलिङ्गाः । अथ स्त्रीप्रत्ययाः । (३) पश्चाजी। अयम्भावः-'प्रत्ययः 'परश्च' इति निर्देशेन प्रत्ययविधौ पञ्चम्या युक्तत्वेन "अ. जाधतष्टाप्" इति सूत्रेऽजाद्यतः इति पदस्य पञ्चम्यन्तत्वे "प्रातिपदिकात्" इत्य. धिकारात् प्रातिपदिकादित्यस्य पञ्चम्यन्तत्वेन 'अजाद्यतः' इत्यस्य च पञ्चम्यन्त. स्वेन द्वयोरेकविभक्तित्वेन विशेष्यविशेषणभावसत्वात् “येन विधिस्तदन्नस्था' इति सूत्रेण तदन्तविधौ, अजाद्यन्तात् प्रातिपदिकात् टाप स्यात् स्त्रीत्वे द्योत्ये इत्यर्थेन पञ्चाजीत्यत्रापि टाबापत्तिः। "समासप्रत्ययविधौ प्रतिषेधः" इति तदन्तविधिनि- षेधस्तु न शक्यः । “अमहत्पूर्वग्रहणेन" अनुपसर्जनाधिकारेण च स्त्रीप्रत्यये तदन्तः विधिज्ञापकात् । इत्थश्चोक्तदोषवारणाय 'अजायतः' इति पदं सूत्रे षष्ठवन्तमेव, तथा सति प्रातिप- दिकादित्यस्य पञ्चम्यन्तत्वेन अजायत इत्यस्य च षष्ठयन्तत्वेन द्वयोर्विशेणणविशेष्य- भावाभावेन तदन्तविथ्यभावात् , अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये प्रातिपदिकाहाप स्यादित्यर्थं पञ्चाजीति समासपदे पञ्चाजशब्दसमुदायवाच्यं स्त्रीत्वं वर्तते, न तु अजमानशब्दवाच्यं स्त्रीत्वमिति नास्ति काचिदनुपपत्तिरिति भावः ॥८॥ शुद्रा। "शूद्रा चामहत्पूर्वा जातिः" इति सूत्रस्य(४)शूद्रशब्दः 'टापं लभते जातिश्चेद (१) ननु शोभनम् आप: यस्मिन् सरसि इति विग्रहे स्वप शब्दाजसि प्राप्तयोर्नुम्दीर्घ. योर्मध्ये किर्तव्यमिति शङ्कायामाह-अयम्भाव इति । (२) लक्षणप्रतिपदोक्तेति । 'लक्षण प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति पूर्ण परिभाषा । (३) पञ्चाजीति । पञ्चा- नामजानां समाहारः "अदन्तोत्तरपदो द्विगुः स्त्रियामिष्टः” इति "द्विगो:" इत्यनेन कीपि तत्सिद्धिरिति भावः। (४) शूद्रशब्द इति । अत्र शूद्री च इत्येको योगः । अमहत्पूर्वा जातिः इत्यपरो योगः । इतरत्र पूर्वयोगे जातेरित्यनुकर्षादाह । ..

प्रभालङ्कृतक्किकासरलाथै- R- वाच्या इत्येकोर्थः, महत्पूर्वः शूद्रशब्दः टापं न लभते जातिश्चेद् वाच्येति द्वितीयोऽर्थः। हत्थञ्च शूद्रवजातिविशिष्टेति विग्रहे शूद्रशब्दाहापि दीर्घ शूद्रेति सिध्यति । महा- शूद्रीत्यत्र महत्पूर्वकत्वेन टापोऽभावे "पुंयोग" इति डीषि सति तसिद्धिः ॥ ८ ॥ (१) अतिसुत्वरी। अयम्भावः-सुधातोः क्वनिप्प्रत्यये "उत्सृष्टानुबन्धग्रहणे सामान्यग्रहणम्" इति परिभाषया "वनो र च” इति सूत्रे कनिपो ग्रहणेन तेन सूत्रेण डीपि रान्तादेशे च कृते उक्तप्रयोगसिद्धिः । "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ब्रहणम्" इति परिभाषया प्रत्ययान्ततदादिरूपार्थस्य लाभो भवति, ततश्च प्रत्ययान्ततदादिविशे- षणं, प्रातिपदिकञ्च विशेष्यमिति "येन विधिस्तदन्तस्य” इति सूत्रेण पुनस्तदन्तवि. धौ प्रत्ययान्ततदाधन्तरूपं यत्प्रातिपदिकमित्यर्थस्य लाभः। इत्थञ्च"वनो र च" इति सूत्रस्य वन्नन्तान्तात्पातितदिकात् डीप, रश्चान्तादेश इत्यर्थो भवति । प्रत्ययान्ततदादि सुन्वनिति तदन्तप्रातिपदिकम् अतिसुत्वन् इति । ततश्चोक्तप्रयोगे डीप रान्तादेशश्च सिद्धः ॥ ९० ॥ टाबृचि । अयम्भावः-"पादोऽन्यतरस्याम्" इति सूत्रेण प्राप्तस्य डीप इदं सूत्रमपवाद इति प्राचीना वदन्ति । नवीनास्तु एवं वदन्ति-यथा-"शेषाद् विभाषा” इति सूत्राभावपक्षे “पादस्य लोपोऽहस्त्यादिभ्यः” इत्यादिसूत्राणां यथा सावकाशत्वमुक्तम् , तथा "टाबृचि" इति सूत्रस्यापि “पादोऽन्यतरस्याम्" इति सूत्रस्य वैकल्पिकत्वेन तदभावपक्षे साव- काशत्वमेव युक्तम् । इत्थञ्चास्य पूर्वसूत्रस्यापवादत्वक्ष । परञ्च प्राचीनमतमेव ज्यायः। तथाहि-अप- वादशब्दो बाधकपरः । “पादोऽन्यतरस्याम्” इतिसूत्राभावपक्षे "टाबृचि” इति सूत्रं चरितार्थम् , ऋगतिरिक्तार्थे “पादोऽन्यतरस्याम्” इति सूत्रं चरितार्थम् । ऋगर्थे तु द्वयोः प्राप्तौ परत्वात् (१) "टाबृचि" इति टावेवेति परत्वमूलकं बाधकत्वमुक्तम्॥६॥ (१) अतिसुत्वरीति । 'घुञ् अभिषवे' इत्यस्माद्धातोः "सुयजो निप्' 'हस्वस्य पिति कृति तुक्" इति तुकि सुत्वञ् शब्दः । सुत्वानमतिकान्ता इति विग्रहे “अत्यादयः कान्ताद्यर्थे द्वितीयया" इति समासे सुब्लुकि ङीपि नकारस्य रत्वे अतिसुत्वरीति रूपम् । (२) टा. चीति । थापप्रातिपदिकात्" इति सूत्रे भाष्ये तु पादशब्दसमानार्थक पदशब्दमवष्टभ्य इदं सूत्रं प्रत्याख्यातम् । न च ऋचि वाच्यायां द्विपदी द्विपात् इति प्रयोगव्यावृत्तये एतत्सूत्रमिति वाच्यम् । एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्यापीष्टत्वादिति भावः॥ .

स्त्रीप्रत्यया। अयम्भाव:-"प्रत्ययस्थास्कात्" इति सूत्रे पूर्वस्येत्यस्याभावे "तस्मादित्युत्तर- स्य' इति परिभाषया अव्यवहितपरस्येत्यंशस्योपस्थितौ प्रत्ययस्थककाराव्यवहि. तपरस्याकारस्येवं स्यादित्यथै कटुकेत्यत्रेवापत्तिः । कटुक आ इति दशायाम "अक: सवणे दीर्घ न शंक्यः । "वर्णादाङ्ग बलीयः” इति परिभाषया सूत्रत्यापवादलाच सवर्णदीर्घाप्रवृत्तेः । कृते तु पूर्वग्रहणे तत्सामर्थ्यापरिभाषायाः पूर्वम् अप्रत्तौ पूर्वस्या- कारस्येत्यादिसूत्रार्थों भवति, ततश्च नास्ति दोषः ॥ १२ ॥ লঞ্জ। अयम्भावः-यत्र भस्त्राशब्दोऽनुपसर्जनं वर्तते तत्र तु "अभाषितपुंस्का" इत्य- नेनेश्वं सिध्यति । उपसर्जने तु अनेनेत्वम्, अनेषोत्यादौ इत्वं न भवति। यतो न सु एतद् सु इति दशायाम् "अन्तरङ्गानपि विधीन्” इति परिभाषया त्यदादित्वात् प्राक् सुपो लुकि ततस्त्यदादित्वे समासरूपप्रातिपदिकाहापि समासश्च सुब्बिशिष्टस्य जात इति समासघटकसुपः पर एवायं टाप । असुपः इति प्रतिषेधात् । इह सूने "उ. दीचामातः स्थाने" इति सूत्रादातः स्थाने इत्यनुवर्तते तच्च स्वशब्दाकारस्य विशेषणं भवति । द्वेषयोस्तु सर्वनामत्वेन टेः प्रागकचि कृते ककारात्पूर्व ह्रस्वाकारस्य विद्यमा- नत्वेन आतः स्थानेऽकारस्यासम्भवात् । भस्त्रादीनां सर्वत्रैवातः स्थानिन एवाकारस्य सम्भवेन व्यभिचाराभावात् । स्वशब्दस्तु यत्रात्मीयरूपार्थस्य वाचकस्तत्रैव स्त्रीलिङ्गे वर्तते तथाऽचानुपसर्जनवाचित्वेऽकचि सति अकारस्थानेऽकाराभावेनोदाहरणं न भ- वति, किन्तु यत्रोपसर्जनवाची स्यात्तत्र सर्वनामत्वाभावेन कप्रत्यये कृते उदाहरणं स. म्भवति । तथा च स्वस्या निष्क्रान्तेति विग्रहे उपसर्जनहस्वे टापि आज्ञाता निःस्वा निःस्विका निःस्वकेति रूपद्वयं सिद्धम् । आत्मीये स्विकेति नित्यमित्वम्। 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इति कोशः ॥ ९३ ॥ अनुपसर्जनात् । अयम्भावः-अस्य सूत्रस्योपसर्जने ङीबादीनां निवृत्तिः फलम् । तच्च तदन्त- विधि विना न सम्भवतीति इदं सूत्रं व्यथ(१) सत् स्त्रीप्रत्यये तदन्तविधिं ज्ञापयति । (१) व्यर्थमिति । नतु बहवः कुरुवराः यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अति- नदा, इत्यादिषु उपसजनेषु कुरुचरनदादिशब्देभ्यः “टिड्ढाणम्' इत्यादिना विधीयमानानां डिबादिप्रत्ययानां प्रसक्तिरेव नास्ति । "समासप्रत्ययविधौ” इति प्रतिषेधात् । तस्मादनुपसन जनाधिकारो व्यर्थ एवेति भावः । तदेव व्यर्थ सज्ज्ञापयतीति मूले स्पष्टम् ।

३० प्रभालङ्कृतफक्किकासरलार्थ- तथाच बहुकुरुचरा(१)शब्दे यद्धि कुरुचरेति टित् न तदनुपसर्जनमिति कीपाऽभावः सूत्रस्य फलम्भवति। न च "श्रुतानुमितयोः श्रुतसम्बन्धो बलीयान्” इतिन्यायेन स्त्रियामिति टिदादी- नामेव विशेषणम् । तथा च-स्त्रियां विद्यमानं यत् टिहादि, तदन्तान्डीबित्यर्थे कुरु- चरशब्दस्य स्त्रियामभावेन ङीविधायकसूत्रस्य प्राप्तिरेव नेति वाच्यम् । प्राधान्या- सूत्रारसमसामर्थ्याच्च "स्त्रियाम्" इत्यस्य प्रातिपदिकविशेणत्वात् । अन्यथा पुन रपि सूत्रं व्यथं स्यात् । न च प्राधान्यात् "अनुपसर्जनात्" इति प्रातिपदिकविशेषणं स्यात्तथा च बहुकुरु- चरेति प्रातिपदिकमनुपसर्जनमेवेति डीप स्यादेवेति वाच्यम् । सूत्रारम्भसामर्थ्यन अनुपसर्जनादित्यस्य गृह्यमाणविशेषणत्वात् । एवञ्चानुपसर्जनं यत् टिदादितदन्तमिति मूलार्थः सम्पद्यते ॥९४॥ (२) वक्ष्यमाणा। ननु "न ल्यपि” इति सूत्रारम्भसामर्थन अनुबन्धकार्य कर्तव्येऽनल्विधाविति निषेधाभावेन स्थानिवस्वात् टिस्वधर्ममवलम्ब्य वक्ष्यमाणेत्यत्र ङीपकथन स्यादिति चेत् न । याऽसुटो डिवेन लाश्रयमनुबन्धकार्यम् आदेशानां न भवतीति निषेधात् । न च "पिच्च डिन ङिच्च पिन" इति भाष्येण यासुटो डिवं तत्र सार्थकमिति वाच्यम् । “हलः श्नः शानज्झौ” इति सूत्रे शानचः शिवेन कचिदनुबन्धकार्येऽपि "अनल्विधौ” इति निषेधो भवतीति ज्ञापनात् । एवञ्चान स्थानिवद्भावो न भवतीति शीपोऽप्रवृत्तिरिति भावः ॥ ९५ ॥ चौरी। चुरा शोलमस्या इति विग्रहे "शीलं छत्रादिभ्यो णः” इति णप्रत्यये, वृद्धौ आका- रलोपे "ताच्छीलिकेणेऽपि" इति वचनात् डीपि चौरीति सिध्यति । उक्तवचने प्रमा- णञ्च “कार्मस्ताच्छील्ये” इति सूत्रम् । अन्यथा शीलार्थेऽणप्रत्यये प्रकृतिभावविधा. यकस्य 'अन् ' इति सूत्रस्याप्रवृत्तौ "नस्तद्धिते" इति सूत्रेणैव टिलोपे सिद्ध टिलोप. निपातनाथं "कामस्ताच्छील्ये” इति सूत्रं व्यर्थमेवेति भावः ॥ ९६ ॥ (१) बहुकुरुचेरेति । बहवः कुरु चराः यस्यामति विग्रहः । बहुव्रीहिर यमन्यपदार्थप्र. धानः। ततश्च टितः प्रत्ययस्य उपसर्जनत्वान्न ङोप । अनुपसर्जनस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वार इति भावः। (२) वयमाणेति । बच्धातोटि तत्स्थान शानचि "स्यता- सो" इति स्यै कुत्वषत्वे "पाने मुक्" इति मुगागमे सति निष्पन्नं वक्ष्यमाण इत्यत्र स्थानि- वद्भावेन टिल्वमुगित्वमानीय ङीपि प्राप्ते तन्निवारणायोच्यते-नन्वित्यादिना।

स्त्रीप्रत्ययाः। . विभाषा सपूर्वस्य। अयम्भावः-सहशब्दो विद्यमानवाची पूर्वशब्दश्चावयववाचीति(१) केवलपतिश. दस्य विद्यमानावयवत्वं न सम्भवतीति पतिशब्देन तदन्तं गृह्यते । अत एव पतिश- ज्दान्तस्य गृह्यमाणत्वेन "अनुपसर्जनात्" इति पूर्वोक्तरीत्या पतिशब्दान्तस्यैव विशे. षणम् । तेन दृढपत्नीत्यादौ बहुव्रीहिसमासेऽपि सूत्रप्रवृत्तिः । “अनुपर्जनात्" इति चोत्तरार्थमनुवर्तते, तस्य चात्रापि सम्बन्धः। बहवो घृषलपतयो यस्या इति विग्रहे नादेशवारणार्थमन्त्रापि अनुपसर्जनाधिकारफलम् ॥ ९७ ॥ वृषलस्य पत्नीति व्यस्ते । अयम्भावा-वृषलस्य यज्ञेऽधिकाराभावेन "पस्युनो यज्ञसंयोगे” इति सूत्राप- धृत्तिः, समासाभावेन विद्यमानपूर्वत्वाभावात् "विभाषा सपूर्वस्य' इत्यस्यात्र प्रथ- त्तिरिति न शङ्कनीयम् । पत्नीव पत्नीति समाधानात् । यथा-पाणिगृहीतीभार्यायां यज्ञाधिकारस्तथैव लक्षणया अस्या अपि यज्ञाधि- कारः कल्पनीय इति “पत्यु! यज्ञ" इति सूत्रेण सिद्धिः ॥ १८ ॥ (२) नागी स्थूला। अयम्भावः-याशं स्थौल्यं गजे वर्तते तादृशमेव स्थौल्यं यदि भार्यायां विद्युत तदा स्थौल्यगुणस्य योगात्सम्बन्धा तोगंजवाचीनागशब्दः स्त्रियां प्रयुज्यते । एवञ्च स्थूलगुणविशिष्टा भार्या नागीति कथ्यते । अयमेव च नागीशब्द उदाहरणम्भवति । अथ च सर्पविषये यादृशं दैव्यं वर्तते तादृशं दैव्यं यदि कस्याञ्चित् भार्यायां स्यात्तदा ताशस्य दैव्यंगुणस्य सम्बन्धात्सवाचको नागशब्दो भार्यायां प्रयुज्यते। ततश्च नागा भार्या इति प्रत्युदाहरणं भवति ॥ १९ ॥ उत्तः किम् ? शुचिः । अयम्भाव:-"वोतो गुणवचनात्" इति सूत्र उत इति पदाभावेऽपि अत इत्यस्य सम्बन्धेनाकारान्तादेव ङीष् इति शुचिशब्देऽकारान्तत्वाभावेन ङीष् न स्यादिति न शङ्कनीयम् । “खरुसंयोगोपधान" इति वार्तिकवयात् । यधुक्तसूत्रस्याकारान्ते प्रवृत्तिस्तदा खशब्दे प्रवृत्त्यभावेन निषेधार्थकं वार्तिकमेव (१) अवयवधाचीति । न तु दिक्कालान्यतरावच्छिन्नाचीति भावः । विद्यमानः पूर्वा- वयवो यस्मिन्प्रातिपदिके तस्य प्रातिपदिकस्यावयवो यः पतिशम्दस्तस्य नकारादेशे इत्यर्थः । (२) नागीति । ननु गजवाचकनागशब्दस्य जातिवचनत्वेन "जातेरस्त्रीविषयादयोपधात्" इत्येव डोषि सिद्ध व्यर्थमेवान सूत्रे तद्ग्रहणमित्याशङ्कथ समाधत्त-गजवाची नागशब्द: स्थौल्यगुणयोगादन्यत्र प्रयुक्त प्रत्युदाहरणमिति ।

प्रभालङ्कृतफक्किकासरलार्थे- व्यर्थम् । न च "कृदिकारादक्तिनः” इत्यनेन डोषि शुचिः, शुचीति रूपवयं सिद्ध स्यादिति वाच्यम् । उणादीनामव्युत्पन्नत्वात् । वस्तुतस्तु "कृदिकारात्" इति डीपि शुचीति रूपसिद्धौ शुक्लेति प्रत्युदाहरणं बोध्यम् । “खरुसंयोगोपधान" इति निषेधे तु पीतेति प्रत्युदाहरणं ज्ञेयम् । 'संयोगो- पधान्न' इति निषेधस्तु खरुसाहचर्यादुकारान्ते एवेति व्याख्याने तु शुक्लाऽपि प्रत्यु- दाहरणम् ॥१०॥ ब्रह्माणी। अयम्भाव:-"इन्द्रवरुणभव" इति सूत्रे ब्रह्मनशब्दस्य पाठाभावात् डीपः, आनुगागमस्थ चाभावेन ब्रह्माणीति शब्दश्च न सेत्स्यतीत्यभिप्रेत्याह-कथं ब्रह्मा- णीति । ब्रह्माणमानयति जीवयतीति विग्रहे कर्मणि उपपदे "कर्मण्यण” इति सूत्रेण अणप्रत्ययेऽणन्तत्वात् ङोपि सति नलोपादिकाय च कृते ब्रह्माणीति सिद्धम् ॥ १०१ ॥ अद्रवम् । अयम्भावः-"स्वाङ्गाच्चोपसर्जनात्" इति सूत्रे यदि स्वं तदङ्गच्चेति यौगिक स्वाङ्गं गृह्येत, तदा 'सुमुखा शाला' इत्यत्रापि स्यात्', यतो द्वाररूपमुखस्य शाला- झत्वात् । सुकेशी रथ्या इत्यत्र च न स्यात् केशस्य रथ्याङ्गत्वाभावात् । अतः स्वाङ्गस्य लक्षणान्तरं क्रियते-'अदम्मूर्तिमत्' इत्यादि । सुस्वेदेत्यत्र द्रवयुक्तत्वेन डीपोऽभा. वः । सुज्ञानेत्यत्र मूर्तत्वाभावेन ङीषोऽभावः । सुमुखा शालेत्यत्र मुखस्य प्राणिस्थ- स्वाभावेन ङीषोऽभावः । सुशोफेस्यत्र शोफस्य विकारजत्वेन ङीषोऽभावः। सुकेशी रथ्येत्यत्र केशस्य प्राणिनि इष्टत्वेन साम्प्रतं प्राणिनि अविद्यमानत्वेऽपि डीष भवति । सुस्तनी प्रतिमेत्यत्र यथा स्त्रीरूपप्राणिनि स्तनौ विद्येते, तथा प्रतिमायामपि तौ विद्यते इति ङीष भवति तस्मिन् न तिष्ठतीत्यतत्स्थम् , परञ्च तत्र नाम प्राणिनि दृष्ट स्यात् । तेन तज्जातीयेनावयवेन प्राणी यथा सम्बद्धस्तथा तदङ्ग यदि युतं सम्बद्धं स्यात्तदपि स्वाङ्गपदेन गृह्यते, अन्यत् स्पष्टम् ॥ १०२ ॥ आकृतिग्रहणा। अयम्भाव-ईदृशाकारो गौरीत्युपदिष्टे पुच्छलाङ्गलादिः आकृतिदर्शनेन गवा- दिषु जातियते, तदा झनु(१)गतेति अनुगतमेकाकारेण प्रतीतं यत् संस्थानमवयव- सनिवेशस्तेन व्यङ्गया या सा जातिरित्यर्थः। तथा च-नद्यादीनां जलसमीपदेशो यत्र यत्र वर्तते तत्र तत्र तट इति बुद्धिर्जायते इति तटशब्दादपि जातिलक्षणो कोष भवति । परन्चैतल्लक्षणं वृषलत्वादीनां जाति- (१) अनुगतेति । सर्वासु घटादितत्तद्यक्तिषु एकरूपतत्तदाकारव्यङ्गषेति भावः । म विभवत्याः। ०० o वे साधकं न भवति यतः हस्ताद्यवयवसशिवेशो यथा ब्राह्मणादीनां वर्तते, तथा शूद्र- स्यापि वर्तते इति आकृत्या ग्रहणं न भवतीति 'लिङ्गानां च न सर्वभाक' इति लक्ष- गान्तरं क्रियते । एकस्यां ब्राह्मणादिव्यक्ती एकवार कथनादुपदेशात् द्वित्तीयव्यक्ती कथनं विनापि जातेानं सुलभं भवतीति वृषलीत्यादौ ङोप भवति । औपगवादिशब्दाः सर्वलिङ्गे वर्तन्ते, अथ च हस्तायवयवोऽपि नास्तीलि उक्त लक्षणद्वथेन न सिध्यतीति तृतीयलक्षणं क्रियते 'गोत्रच(१) चरणैः सह इति ॥१०३॥ इति स्त्रीप्रत्ययाः। अथ विभक्त्यर्थाः प्रातिपदिकार्थः । अयम्भावः-जातिव्यक्तिलिङ्गानीति त्रीणि प्रातिपदिकार्य इति पक्षे प्रातिपदि कार्थेनव लिङ्गस्यापि ग्रहणे सिद्धे लिङ्गग्रहणं व्यर्थं सत् (२)नियतोपस्थितिकः प्राति- पदिकार्थः इति विलक्षणप्रातिपदिकार्थ बोधयति । तदर्थश्च यस्मिन् प्रातिपदिके उच्चारिते सति यस्यार्थस्य नियमेन भानं भवति स प्रातिपदिकार्थः इति । कृष्ण इत्यादौ पुंस्त्वविशिष्टवसुदेवापत्यरूपार्थस्य नियमेन बोधो भवतीति तत्र प्रथमा सिध्यति ।। १०४॥ द्रोणो व्रीहिः। अयम्भावः-द्रोणशब्दात् ब्रीहिशब्दाच्च प्रातिपदिकार्थे प्रथमायां योरपि प्राति. पदिकार्थत्वेन नामार्थयोरभेदातिरिक्तः सम्बन्धोऽव्युत्पन्न इति सिद्धान्तेन नीलो घट इत्यादौ यथा नीलामियो घट इति शाब्दबोधो भवति, तथवात्रापि द्रोणाभिन्नो व्रीहिरियह निष्टशाब्दबोधः स्यात् ; तन्निरासाय द्रोणशब्दात्परिमाणार्थे प्रथमा । एवञ्च द्रोण इत्यस्य परिमाणार्थत्वेन ब्रीहेश्व प्रातिपदिकार्थत्वेन, 'नामार्थयो।' इति सिद्धान्तस्याविषयेणानिष्टशाब्दबोधो न भवति; किन्तु द्रोणशब्दस्य विशेष परिमाणार्थत्वेन प्रत्ययस्य च सामान्यपरिमाणार्थत्वेन सामान्यविशेषयोरभेदान्वय इति, परिमाणस्य परिच्छेदकभावेन परिमेयेऽन्वय इति च सिद्धान्त हवेन द्रोणरूपं (१) गोत्रञ्चेति । गोत्रशब्देन अपत्यं विवक्षितम् , नतु पौत्रप्रभृति पारिभाषिकम् , व्याख्यानात् । अत एव अनन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो डीबिति 'अनुपसर्ज. नात्' इति सूत्रस्थभाष्य सङ्गच्छते। नागेशस्तु पारिभाषिकमेव गोत्रमिह स्वीकरोतीति दिक। (२) ननु स्वार्थद्रव्यलिङ्गसंख्याकारकेति - पन्चविधः प्रातिपदिकार्थ इति पक्षे स्वार्थद्रव्य- लिङ्गेति त्रिविधप्रातिपदिकार्थक्षे च कृष्णादिशब्द लिङ्गस्यापि प्रातिपदिकार्थत्वाल्लिङ्गग्रहणं व्यर्थमित्यत--आह-नियतोपस्थितिक इति।"

प्रभालकृतफक्किकासरलार्थ- यत्परिमाणं तत्परिच्छिन्नो ब्रीहिरिति शाब्दबोधो भवति । तदुक्तं मूले-द्रोण रूपमिति ॥ १०५॥ (१) एका अयम्भावः-एकशब्दस्य एकस्वरूपसंख्या एवार्थ इति अनन्वितार्थकविभक्त्य- पेक्षयाऽनुवादकविभक्तरेव न्याय्यत्वमिति वचनेन एकशब्दादेकवचनमेव युक्तमिति । एकत्वरूपार्थस्यैकशब्दः सुप्रत्ययश्च वाचक इति "उक्तार्थानामप्रयोगः” इति न्यायेन सुप्रत्ययस्याप्राप्तिरिति तसिद्धये सूत्रे वचनग्रहणम् । तत्सामर्थ्याच्चान 'उतार्था- नामप्रयोगः' इति न्यायो न लगतीति सुविभक्तिसिद्धिर्भवति । एवं दाविल्यादा- वपि बोध्यम् ॥ १०६ ॥ कर्तुः किम् । अयम्भावः-कर्तृग्रहणाभावेऽपि, कारकवृत्तिव्यापारप्रयोज्यफलाश्रयत्वप्रकारिका या इच्छा तादृशेच्छोद्देश्यताश्रयः कर्मेति सूत्रार्थन देवदत्तो हरिं भजतीत्यादौ कार. कम् देवदत्त इति तवृत्तिव्यापारो भजनानुकूलरूपस्तत्प्रयोज्यं फलं प्रसन्नतारूपं तदाश्रयत्वप्रकारिकेन्छा हरिमंनिष्ठव्यापारजन्यप्रीत्यायो भवतु इत्याकारिका तादृशेच्छोद्देश्यताश्रयो हरिरिति तत्र कर्मत्वसिद्धावपि माषेष्वश्वं बध्नातीत्यत्र माषाणामपि कर्मस्वप्रसक्तिरिति कर्तृग्रहणं कृतम् । कृते च कर्तृग्रहणे माषाणां कर्म- त्वन प्राप्नोति । कारकपदेन कर्तृकारकस्य ग्रहणे (२)नास्ति माषाणां कर्मस्वापत्तिः, अपितु कारकपदेन कर्मकारकस्य ग्रहणे पूर्वोक्तप्रयोगे दोषः। तथाहि-कारकम् अश्व- इति तद्धृत्तिव्यापारो गलबिलाधासंयोगानुकूलरूपस्तत्प्रयोज्यं फलं गलबिलाधःसंयो. गरूपं तदाश्रयत्वप्रकारिकेच्छा माषा गलबिलाधासंयोगवन्तो भवन्त्वेतादृशेच्छा. तदुद्देश्यताश्रया माषा इति तत्र कर्मत्वं दुर्वारम् ॥ १०७ ॥ पयसा ओदनं भुते। अयम्भावः-तमब्घटितसूत्रमेव किमर्थम् ? तत्स्थाने कत्तुरुद्देश्यं कर्मेति सूत्रं कर्तव्यम् । तथाच-कर्तुर्यदुद्देश्यं तत्र कर्मसंज्ञा स्यादिस्यर्थेन हरि भजतीत्यत्र (१) एकेति । ननु पञ्चकं प्रातिपदिकार्थः इति स्वीकारे संख्याया अपि प्रातिपदिकार्थत्वा त्तत्रैवैकादिशब्देभ्योऽपि प्रथमासिद्धौ सत्रे वचनग्रहणं व्यर्थमिति चेत्, न । 'उक्तार्थानामप्र- योगः' इति न्यायविरोधेनकादिशब्देभ्यः प्रातिपदिकार्थे प्रथमाऽप्राप्त्या तदर्थमिह वचनग्रहण- स्यावश्यकत्वादित्याशयेनाह-मूले-वचनं संख्येति । (२) कर्तृकारकस्य ग्रहणे इति । तेन कर्तृवृत्तिव्यापारप्रयोज्यफलाश्रयत्वेनेच्छोद्देश्यत्वं कर्मत्वमित्यर्थः च-प्रकृते माषेषु अश्वं बध्नातीत्यत्र अश्वनिष्ठो यो व्यापारः स कर्तृवृत्तिनास्तीति तदर्थ कर्तृग्रहणमावश्यकमिति भावः। सम्पन्न: तथा विभक्त्यर्थाः। ३५ हरिः फलाश्रयत्वेनोद्देश्यमस्तीति तन्त्र कर्मसंज्ञा सिद्धा भवति । अथ च कृतमोज- नस्य पुरुषस्य पयोलोभेन पुनरपि भोजने प्रवृत्तौ सत्याम् पयसा ओदनं सुलते, इति प्रत्युदाहरणेऽपि लोभाद्धेतोः पयसोऽप्युद्देश्यत्वेन तन कर्मसंज्ञा दुर्निवारा तहोषनिवारणार्थञ्च "कर्तु (१)रीप्सित" इत्यादिसून कर्त्तव्यम् । इत्थञ्च भोजन- समये पयसोऽभावेन कर्ता देवदत्तस्तवृत्तिव्यापारो गलबिलाधःसंयोगानुकूलरूपस्त- प्रयोज्यं फलं गलविलाधासंयोगरूपं तदाश्रयत्वप्रकारिकेच्छा ओहुनो गलबिलाव:- संयोगवान् भवतु इत्याकारिका न तु पयो गलबिलाधःसंयोगवद् भवतु इत्याका- रिका, एतादृशेच्छोदेश्यताश्रय ओदनो न तु पयः, इति ओदनस्यैव कर्मसंज्ञा भवति जतु पयसः॥१८॥ (२) अर्थनिबन्धना। अत्र प्रमाणञ्च-"अहमपीदमचोधं चोधे” इति भाष्यमेव । अन्यथा चुद्धातोर्दुहा- दिषु पाठाभावेनाहं चोधे इति गौणे कर्मणि प्रत्ययो दुर्लभः स्यात् ॥ १०९ ॥ गतिबुद्धि इति । अयम्भावः-ण्यन्ते उत्तरदेशसंयोगानुकूलव्यापारानुकूलच्यापार इत्याद्यथै णिज- थनिरूपितकर्मत्वं गम्धात्वर्थनिरूपितकर्तृत्वञ्च प्राप्तमिति परत्वात्कर्तृसंज्ञैव भवति । प्रथमव्यापाराश्रयत्वेन कर्तृसंज्ञा द्वितीयव्यापारप्रयोज्यफलाश्रयत्वेन कर्मसंज्ञा च प्रा. प्रेति । अन्तरङ्गाऽपि कर्तृसंज्ञा अथ च यावत् गमयति देवदत्तं यज्ञदत्त इत्यादौ देव- दत्तस्य कर्तृसंज्ञा न जायते, तावत् हेतुसंज्ञैव न स्यात्, यतः कर्तृप्रयोजकस्य हेतुसंज्ञा भवति, अथ च हेतुसंज्ञां विना णिजपि न स्यादिति। कर्मसम्ज्ञायामुपजीव्यापि कर्तृसंज्ञा । एवञ्चोक्तहेतुमिदवदत्तस्य कर्तृसंज्ञैव सिद्धा भवतीति "गति बुद्धिा इत्यादि- सूत्रं विभ्यर्थमिति मनोरमाकारादीनां मतम् । परञ्च प्रयोजकव्यापारे शब्दतः प्राधान्यमथ चान्यानधीनत्वलक्षणार्थप्राधान्यञ्च वर्तते, इति 'प्रधानकार्य सर्वतो बलवत्' इति न्यायेन प्रधानाश्रयकर्मसंज्ञैव देवदत्तस्य सिद्धयति कर्तुरित्यनेनैव कर्मत्वे सिद्ध "गति" इत्यादिसूत्रं णिजथंच्यापारप्रयोज्यफ. लाश्रयस्य कर्मसंज्ञा चेत्तर्हि गायाधर्थानामेव कर्तुरिति नियमयति । तेन पाचयति देवदत्तेन इत्यादौ कर्मसंज्ञा न भवतीति फलमिति भाष्यकारादीनां मतम् । अथ च यथा लोके प्रधानम्प्रति सर्वेऽन्तरङ्गादयो मनुष्या विफलीभवन्ति, तथैवा- (१) कतुरीप्सितेत्यादि । तस्य चायमर्थः-प्रकृतधातूपात्तकर्तृवृत्तिव्यापारप्रयोज्यफ- लाश्रयत्वेनेच्छोद्देश्यत्वम् । (२) अर्थनिबन्धनेति । 'अकथितञ्च" इत्यनेन या संज्ञा सा अर्थनिबन्धना अर्थनिमित्तका, नतु स्वरूपाश्रया-स्वरूपनिमित्तकेत्यर्थः इति भावः। .

प्रभालङ्कृतफलिकासरलार्थ- वाप्यन्तरङ्गादयो हेतवो निकला इति कर्मत्वापेक्षया कर्तसंज्ञा दुर्बलेति तस्वम् । उदाहरणानि तु बूले स्फुटानि ॥ ११ ॥ दोश्च। अयम्भाव:-"गति" इत्यादिसूत्रे सामान्य ज्ञानं गृह्यते, विशेषज्ञानचेति दृश- धातोश्चाक्षुषज्ञानमर्थो भवतीति चाक्षुषज्ञानस्यापि अहणे भक्ता हरिं पश्यन्ति श्रीहरिः प्रेरयतीति श्रीहरिभक्कान् हरि दर्शयतीत्यादौ "गति" इत्यादिसूत्रेणैव कर्मत्वे सिद्धे "दृशेश्च" इति व्यर्थमेव । तदेव व्यर्थ सत् (१) सामान्यज्ञानार्था ये धातवस्तेषां "गति" इत्यादि सूत्रे ग्रहणं भवति, न तु विशेषज्ञानार्थानामिति ज्ञापयति। तेन चातु. षज्ञानार्थं "शेश्व" इति स्वांशे चरितार्थम् । फलञ्च स्मारयति ब्रापयतीत्यादौ विशेष ज्ञानार्थकधातुयोगे नवगणीकर्तुः कर्मस्वाभावः ॥ १११ ॥ येषां देशकालादिभिन्नम् । अयम्भावः-ज्यन्ते उत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापार इत्यादि धात्व. र्थेन ग्रामदेवदत्तयोरुभयोरपि "कर्तुरीप्सित" इत्यनेनैव कर्मसंज्ञासिद्धौ "गति" इत्या- दिसून व्यर्थं सत् नियमार्थम् , नियमश्व-नियमस्य सजातीयापेक्षत्वेन सकर्मकाणां धातूनां णिजर्थव्यापारप्रयोज्यफलाश्रयस्य कर्मसंज्ञा चेत्तदा गत्याद्यर्थानामेवेति । एवञ्चाकर्मकाणां धातूनां "कत्तु” इत्यनेनैव कर्मसंज्ञासिद्धौ अकर्मग्रहणं व्यर्थं सत् 'येषां देशकालादिभिन्नम्' इत्याद्यर्थमेव बोधयति । तथा च-मासमासयति देवदत्तमि- स्यादौ कर्मसंज्ञा भवति, पाचयति देवदत्तेनेत्यादौ तु न ॥ ११२ ॥ पापेऽभिनिवेशः। अयम्भाव:-"परिक्रयणे सम्प्रदानमन्यतरस्याम्" इति सूत्रादन्यतरस्यां ग्रहण- मनु(२)वयं व्यवस्थितविभाषाश्रयणञ्च कृत्वा वचिदाधारस्य कर्मसंज्ञा न भवतीति पापेऽभिनिवेश इत्यत्र कर्मस्वाभावः। प्रमाणञ्च-"एण्वर्थेष्वभिनिविष्टानाम्" इति भाष्यम् । केचित्तूक्तभाष्यप्रयोगेण यत्राभिनिविश् इत्यानुपूव्यां विकारो न भवति तत्रैव (१) सामान्यज्ञानार्था इति । 'विद्-ज्ञाने, ज्ञा-अवबोधने, इत्यादीनामेव ग्रहणं, नतु ज्ञानविशेषवाचिनामिति भावः । (२) अनुवत्यति । ननु परिक्रयणे सम्प्रदानमन्यतरस्याम्" "आधारोऽधिकरणम्" "अधिशीस्थासां कर्म" "अभिनिविशश्च” इति सूत्रक्रमः। तत्र "अभिनिविशश्च" इत्यत्र कथमन्यतरस्यां ग्रहणानुवृत्तिः । "आधारोऽधिकरणम्" अधिशीङ स्थासां कर्म" इत्यत्र च तदनुवर्तनाभावात् । इति चेत्र मण्डुकप्लुत्या तदनुवृत्तिः स्वीकार्या। मण्डुका: यथा मध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तदिति भावः । " विभक्त्यर्थाः। कर्मसंज्ञा भवति, पापेऽभिनिवेश इत्यानेकारल्यौ काररूपविकारो जात इति तन्ना कर्म संहा न स्यादित्यनुकृत्यादिक्लेशो वृथैवेति बदन्तिः ॥ १३ ॥ (१) जपमालुमावर्षत् अथम्भाव:-"अनुलक्षणे” इत्यनेन कर्मप्रवचनीयसंज्ञायां "कर्मप्रवचनीययुक्ते द्वितीया” इति द्वितीयायां जपमनु इति वाक्यघटकजपमित्यस्य सिद्धिः । सम्बन्धश्चात्र लक्ष्यलक्षणभावः। लक्षणस्वच-ज्ञानजनकज्ञानविषयत्वम् । लक्ष्यास्त्रञ्च ज्ञानजन्यज्ञानविषयत्वम् । ज्ञानं वर्षणज्ञानं तज्जनकं ज्ञानं जपज्ञान तषियता जपे । ज्ञानं जपज्ञानं तज्जन्यं ज्ञानं वर्षणज्ञानं तद्विषयता वर्षणे इति लक्षणसमन्वयः। अथ छ यदैव ब्राह्मणद्वारा जपो जातस्तदैव देवकर्तृकं वर्षणमपि जातमिति वर्षणे जपो हेतुर्भवति । तथाच-"हेतौ" इति परत्वात् तृतीयया माव्यमिति न शङ्कनीयम् । यतः "लक्षणेत्यम्" इत्यादिना संज्ञाविधाने सिद्ध पुनः संज्ञाविधानसामर्थ्यात् । नच विजातीयया संज्ञया तृतीयाया विभक्तोधिः कतुं न शक्य इति वाच्यम् । संज्ञाविधानबोधितद्वितीयाविधानसामर्थादित्यर्थात् ॥ ११४ ॥ सर्पिषोऽपि स्यात् । अयम्भावः -स्यादिति सम्भावनायां लिङ् अपिशब्दस्य कर्तृदौलभ्यप्रयुक्तदौल. भ्यत्वसम्बन्धेन स्यारिक्रयया सह सम्बन्धः । अप्रयुज्यमानबिन्दुरूपपदार्थम् अपिश- दो द्योतयतीति बिन्दुना योगे सर्पिष इत्यवयवावयविभावसम्बन्धे षष्ठी। 'कर्मप्रव- चनीयद्योत्यसम्बन्धप्रतियोगित्वं कर्मप्रवचनीययुक्तत्वम्' इति लक्षणेन सम्बन्धस्य प्रतियोगी बिन्दुरेव न तु सपिरिति सर्पिष् शब्दात् द्वितीया न ॥ १९ ॥ गङ्गायां घोषः। अयम्भावः-कारकाधिकारात् करणमिति, क्रियते येनेति ल्युडन्तमहासंज्ञया च साधकार्थे लब्धे साधकग्रहणमेव साधकतमार्थम्भविष्यतीति तमबग्रहणं व्यर्थ सत् "अस्मिन् कारकप्रकरणे शब्दसामर्थ्यगम्यार्थो नाश्रीयत' इति ज्ञापयति । एवञ्च तमब ग्रहणाभावेऽतिशयरूपार्थलाभो न स्यादिति तमब्महणं स्वांशे चरितार्थम् । फलञ्च गङ्गायां घोष इति गौणाधारे सप्तम्याः सिद्धिः । अन्यथा अधिक्रियते स्थाप्यते यत्रेति ल्युडन्तव्युत्पत्यैवाधारपदार्थे सिद्धे आधारपदं व्यर्थ सत् सर्वावयवव्याप्तौ यस्य आधा- स्तत्रैवाधिकरणसंज्ञा स्यादिति लाभार्थ स्यात् । एवञ्चतिलेषु तैलमित्यादावेव सप्तमी स्यात् ॥ ११६॥ (१) जपमनुप्रावर्षदिति । जपात्मकहेतुशानजन्यज्ञानविषयो वर्षणमिति बोधः ।

, . प्रमालकृतफक्किकासरलार्थे- (१) अन्यकतकः। अयम्भावः-अन्योनाम अभिलष्यतिकर्म तत्कर्ता यस्य स अन्यकर्तृक एवंभूतोऽभि- लाखो रुचधात्वर्थः रुचधातुयोगे भक्तिपदं कर्तृ भवति, अभिपूर्वकलषधातुयोगे तु भक्ति- पदं कर्म भवतीति स्थूलताया भेदो भवति । सूक्ष्मरूपेण भेदस्तु यत्किञ्चिशिष्ठप्रीतिज. नका प्रीतिव्यधिकरणो यो व्यापारस्तदाश्रयो रोचतेः कर्ता । अथ च यत्किञ्चिविष्टप्री- त्यनुकूल: प्रीतिसमानाधिकरणो यो व्यापारस्तदाश्रयोऽभिलण्यतेः कतैति ॥ ११७॥ चैत्रात्पूर्वः फाल्गुनः । अयम्भावः--दिशि(१) दृष्टः शब्दो दिक्शब्दः इति दिकशब्दस्य व्याख्यायां यः शब्दः कदाचित् दिशाया वाचकः स्यात्प्रयोगकाले दिशाया वाचको भवेन व भवे. तथापि तद्योगे पञ्चमी भवत्येव । तथाच-चैत्रात्पूर्वः फाल्गुन इत्यादौ पूर्वशब्दः का- लस्य वाचको वर्तते न तु दिशायाः, परश्च तद्योगे चैत्रादिति पञ्चमी सिद्धा। अथ चान्चूत्तरपदस्य(३) प्राक् प्रत्यक् इत्यादेरपि दिशावाचकत्वाहिशब्दत्वेनैव तद्योगे पञ्चम्यां सिद्धायां पुनरचूत्तरपदग्रहणं “षष्टयतसर्थप्रत्ययेन" इति सूत्रविहित. षष्ठया बाधनार्थम् । तथाच प्राक् प्रत्यक इत्यादौ "दिकशब्देभ्यः” इत्यादिसूत्र- विहितस्यास्तातिप्रत्ययस्य अन्चेर्लुक् इति लुकि तद्योगे षष्ठी न भवति, किन्तु पञ्चम्येव ॥ ११८॥ भवात्प्रभृति । अयम्भावा--"अपादाने पञ्चमी” इति सूत्रे भाज्यध्वनितेन(४) "प्रभृत्यर्थयोगे पञ्चमी' इति वचनेन भवादित्यत्र पञ्चमी सिद्धयति । एव(१)मारभ्येत्यादियोगेऽपि पञ्चमी सिद्धा भवति।अवस्यशेखरादिग्रन्थो महान् क्लिष्टः इति तल्लेखो न कृतः ॥११॥ (१) ननु अभिलषते रुचधातुसमानार्थकतया हरये रोचते भक्तिरित्यत्रैव हरिभक्तिम- भिलष्यतीत्यत्राप्यर्थग्रहणसामर्थ्यात्परामपि कर्मसंज्ञां बाधित्वा सम्प्रदानसंशा कुतो नेत्याशं. क्याह-अन्यकर्तृक इति । (२) दिशि इष्ट इति। रूढ्या दिगविशेषवाचकाः पूर्वोदय एव गृह्यन्ते । नतु ऐन्द्री कौवेरीत्यादय इति भावः । (३) अञ्चूत्तरपदस्येति । अनुधातुः उत्तरपदं यस्य सः अचूत्तरपदः प्रागादिदिक्शब्दः न तु 'सध्यड्' इत्यादिशब्दोऽपि; दिक. शब्दसाहचर्या तु सध्यङ् देवदत्तेन इत्यत्र न पञ्चमीति भावः । (४)प्रभृत्यर्थयोगे इति । प्रभृतिशब्दाभावेऽपि तुदर्थ सत्तय। पञ्चमीभवतीत्यपि शेयम्, यथा--कार्तिक्याः आग्रहा- यणीमासे इत्यत्र । (५) आरभ्येति । प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी ज्ञेया । अन्यथा आरभ्येति क्रियापेक्षया "उपपदविभक्तेः कारकविभक्तिबलीयसी" इति परिभाषयां द्वितीया स्यादिति भावः।

विभक्त्यर्थाः। ३६ बाहियोगे पञ्चमी। अयम्भावः-वर्जनार्थयोरपपर्योः कर्मप्रवचनीयसंज्ञायां तयोोंगे “पञ्चम्यपाङपरि- मिःइति सूत्रेण पञ्चभ्येव भविष्यतीति तयोः साहयेणाञ्चत्तरपदयोगेऽपि पञ्चम्या एव सिद्धत्वेन पञ्चम्यन्तेन समासे सिद्धे "अपपरिबहि" इति सूत्रे पञ्चमीपदं व्यर्थ सत् बहियोगे पञ्चमी भवतीति ज्ञापयति । तेन (१) प्रामाहिरिति सिद्धम् ।। १२०॥ ज्ञोऽविदर्थस्य । अयम्भाव:-"ज्ञोऽविदर्थस्य करणे” इत्याधष्टसूत्रीविषये शेषत्वेन विवक्षिते “षष्ठी शेषे” इति सूत्रेणैव षष्ठयां सिद्धायामष्टसूत्री व्यर्था सती अष्टसूच्या या या षष्ठी वि. धीयते सा सा षष्ट्येव स्याच तु कैश्चिद् ज्ञानादिभिः सुबन्तैः सह तस्याः समास इति ज्ञापयति । तेन सर्पिषो ज्ञानमित्याद्यसमस्तान्युदाहाराणि साधूनि भवन्ति । अतः 'प्रतिपदविधाना षष्टो न समस्यते इति वार्तिकमपि फलितम् ॥ १२१ ।। कृतपूर्वी कटम् । अयम्भावः-क्रियाजनकत्वं कारकत्वमिति सिद्धान्तेन "कर्तृकर्मणोः कृति" इति सूत्रे कर्तृकर्मभ्यां कारकाभ्यां क्रियाया आक्षेपो भवति । क्रिया च धातुवाच्या धातो. श्व तिङः कृतश्चेति द्विधा प्रत्ययाः, तत्र तिड्योगे 'न लोक' इति कर्मणि षष्ठया निषे. धेन कृयोगे एवं कर्मणि षष्ठी भविष्यतीति कृति ग्रहणं व्यर्थमेव । तदेव व्यर्थ सत् यत्र कृदन्तमात्रशक्तिमहप्रयोज्यक्रियानिरूपितं कर्मत्वं तत्रैव कर्मणि षष्ठी स्यात् । यत्र तु तद्धितान्तप्रयोज्यक्रियानिरूपितं कर्मवं स्यात्तत्र मा भूदिति ज्ञापयति । एवञ्च ओद- नस्य पाचक इत्यादौ कृदन्तमात्रप्रयोज्यक्रियानिरूपितं कर्मत्वं विद्यते इति तन्त्र षष्ठी सियति कृतपूर्वी कटमित्यत्र तु तद्धितान्तप्रयोज्यक्रियानिरूपितं कर्मत्वमिति षष्ठी न भवति । केवलस्य कृतेति पदस्य योगे कर्मण उक्तत्वेन कृदन्तमात्रप्रयोज्यक्रियानिरू- पितं कर्मत्वच सम्भवतीति सारांशः॥ १२२॥ (२) सर्वोऽयंकारक। अयम्भावः-प्राचीनमते यत्र "कर्तृकर्मणोः कृति" इति षष्ठी प्राता भवति तत्रैव "न लोकाव्यय" इति सूत्रेण षष्टयाः प्रतिषेधो भवति । यत्र तु शेषविवक्षया षष्ठी जा- यते, तत्र निषेधो न भवतीति ब्राह्मणस्य कुर्वन्नित्यादौ षष्ठी सिध्यति । (१) ग्रामावहिरिति । ननु तहिं कथं 'करस्य करमो बहिः' इत्यत्र षष्ठी इति चेद् "ज्ञापकसिद्धं न सर्वत्र" इति परिभाषया षष्ठयपि साधु इति बोधनादिति भावः। (२) सर्वो- ऽयमिति । 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति न्यायादिति भावः ।

प्रमालऋतफकिकासरलार्थे- परन्चैवं सति नपुंसके भावे तस्य योगे “षष्ठ्या उपसंख्यानम्" छात्रस्य हसित- मिति भाष्योक्तं वार्तिकमसङ्गतं भवति । यतः शेपत्वेन विवक्षिते “षष्ठी शेषे इति सूत्रेणैव छात्रस्य हसितमित्यत्र षष्टयाः सिद्धौ वार्तिकविधान व्यर्थमेव । अथ च भोपस्वविवक्षया वार्तिकप्रत्याख्याने तु कातिरिक्तविषये शेषत्वविवढा न भवतीति ज्ञाप्यते। अन्यथा वार्तिकसत्तायां तस्य योगे षष्ठी जायते, प्रत्याख्याने तु सर्वयोगे षष्टी जायते इति प्रत्याख्यानं सङ्गतं भवतीति नव्याः ॥१२३ ॥ যালুম্বিন্ধ। अयम्भाव:-"ईश्वरवचनम्" इत्यत्रेश्वरशब्दो भावप्रधानः। तथाचेश्वरत्वमु. च्यते इति विग्रहः । यस्येति षष्ट्याश्च निरूपितत्वं निष्ठस्वन्चार्थः । एवञ्च यनिरूपि. तमीश्वरत्वमुच्यते तद्वाचकात्सप्तमी । अथ च यनिष्ठमीश्वरत्वमुच्यते, तद्वाचकात्सप्तमीत्यर्थद्वयं जायते । तथा च यनिरूपितमीश्वरत्वमुच्यते इति व्याख्याने भुशब्दात्सप्तमी सिध्यति । यनिष्ठमीश्वर स्वमुच्यते इति व्याख्याने तु रामशब्दात्सप्तमी। तथाचाधि(१)भुवि रामः, (२) अ. धिरामेभुरिति प्रयोगद्वयं सिद्धम् ॥ १२४ ॥ इति विभक्त्यर्थाः । अथाव्ययीभावः। भूतपूर्वः । (३) अयम्भावः-समासविधायक 'सुपसुपा” इति शास्त्रे प्रथमया विभक्त्या भूतपूर्वयोद्धयोरपि बोधितत्वेन पर्यायतो द्वयोरपि पूर्वनिपातापत्तिरिति “भूतपूर्वे च. स्ट्" इति निर्देशेन भूतशब्दस्य पूर्वनिपातो भवति । अन्यथा लौकिकोपसर्जनत्वसमानाधिकरणशास्त्रीयोपसर्जनत्वस्य पूर्वशब्दे एव सत्त्वेन तस्यैव पूर्वनिपातः स्यादिति सारांशः ॥ १२५ ॥ अधिहरि। अयम्भावः-अधि' इत्यव्ययस्याधिकरणवाचकत्वेन "उक्तार्थानामप्रयोग इति (१) अधिभुवि राम इति । अधिः ईश्वरपर्यायः। सम्बन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । (२) अधिरामे भूरिति । अत्र अधिशब्दः स्वशब्दपर्यायः । सम्बन्धस्स. प्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः। अत्र स्वामिवाचकात्सप्तमी। (३) पूर्व भूत इति ।विग्रहे "सुपा" इत्यनेन समासे समासत्वात्प्रातिपदिकसंज्ञायाम् "सुपो धातुप्रातिपदिकयोः" इत्यनेन प्रातिपदिकावयवस्य सुपो लुकि सति अनयोः भूतपूर्वशब्दयोर्मध्ये कस्य पूर्वनिपात इति शङ्का- यामाह-अयम्भाव इति ।

तत्पुरुषः। न्यायेन्द्र डिविभक्तरप्राप्तिरिति विभक्त्यार्थसमासविधानसाम(१)दिन डिविभक्ति- सिद्धिर्भवति । यस्मिन् विभक्त्यर्थे समासो विवक्षितस्तदर्थवाचकविभक्त्या यत्सुबन्तं तेनैव सहाव्ययस्य समासो भवतीति अन्यसुबन्तेन अध्यव्ययस्य समासो न स्या- दिति सारांशः ॥ १२६ ॥ (३) विभाषा अयम्भाव:-"विभाषा" इति सूत्रारम्भसामर्थेन यथा “विनाषा' इति सूत्रात् पूर्वेषां समासानां नित्यसमासत्वम्भवति तथैव "सुप सुपा" इति विहितलमासस्या- पि नित्यसमासत्वं न शक्यम् । “सुप् सुपा” इति सूत्रेणैव समासे सिद्धे “अव्ययम्" इत्यादिभिः पुनः समासविधानात् । नव व्ययम्" इत्यादिना समासविधानं "प्रथमानिर्दिष्ट समास उपसर्जनम्" इति सूत्रेणाव्ययस्योपसर्जनसंज्ञाविधानाथं सफलमिति वाच्यम् । यथा “प्रथमानि- दिष्टं समास उपसर्जनम्" इति सूत्रे समासे इति पदस्थ लक्षणया समासविधायक शास्त्रे "प्रथमानिर्दिष्टम्" इत्याधर्थेनाव्ययस्योपसर्जनसंज्ञासिद्धः। "सुप्सुपा” इति विहितसमासस्य "अव्ययम्" इत्यादिनाऽव्ययीभावसम्ज्ञाविधानेनैवोपसर्जनसज्ञासि- दौ "अव्ययम्" इत्यादिना समासविधानं व्यर्थमेवेति सारांशः॥ १२७ ॥ इत्यव्ययीभावः। SADSOMEnews IPL अथ तत्पुरुषः । (३) प्राप्तजीविका । जीविको प्राप्ता या स्त्री सा प्राप्तजीविका, अत्र "प्राप्तापन्ने च द्वितीयया" इति सूत्रेण समासे प्राप्तापदस्य दीर्घाकारस्य ह्रस्वाकारे च कृते प्रयोगः सिध्यति । अन्य (१) सामर्थ्यादिति । वचनसामर्थ्यादिति तस्याथः। सुपेत्यनुवयं सुबन्तैनात्र समास- विधिसामर्थात् सप्तमी स्यादेवेति भावः । न च "अनभिहिते" इति सूत्रे भाष्ये तिकृत्तद्धित' इति परिगणनादधिनोक्तत्वेऽपि सप्तमी न स्यादेवेति वचनसामर्थ्यात्सप्तमीकल्पनमयुक्तमिति - वाच्यम् । तस्य भाष्ये प्रत्याख्यातत्वात् । (२) "विभाषा" इति । ननु एकार्थीभावे समा- सस्य व्यपेक्षायां वाक्यस्य च सिद्धौ ‘विभाषा' इति व्यर्थमिति चेत् , नो लक्षणकचक्षुष्कान्प्रति क एका भावो नित्यः, क पाक्षिकः, क न भवति इति बोधनार्थ तस्यावश्यकत्वात् । (३) प्राप्तजीविकेति । जीविका प्राप्ता इति विग्रहे प्राप्तजीविकः "प्राप्तापन्ने च द्वितीयया" अत्रत्यस्य चकारस्य' समुच्चयार्थत्वात्। "द्वितीयाश्रिता" इत्यनेन पक्षे जीविकाप्राप्तः इत्यपि भवतीति बोध्यम् । .

. प्रभालङ्कृतफक्किकासरलार्थे- था कर्मधारयसमासाभावेन "पुंवत्कर्मधारय" इति सूत्राप्रवृत्या प्राप्तपदे हस्वाकारो दुर्लभ इति सूत्रे (१)ऽकारोऽपि प्रश्लिष्टः ॥ १२८ ॥ व्याघ्री। अयम्भाव:-"उपपदमतिका इति सूत्रे "सुबामन्त्रिते पराङ्गवत्स्वरे" इति सूत्रा. सुबिति प्रथमान्तपदं "सह सुपा" इति सूत्रात् सुपेति तृतीयान्तञ्च पदमनुवर्तते। ततश्चोपपदं सुबन्तं सुबन्तेन सह समाससंज्ञकं भवति इत्यर्थे तिङन्तेन सह समासे निषिद्धेऽतिग्रहणं व्यर्थ सत् सुपेति तृतीयान्तं पदं नानुवर्तते इति ज्ञापयति । एवञ्च "कुगतिप्रादयः” इति सूत्रे गतिग्रहणं पृथक्कृत्य तत्रातिङ्ग्रहणस्थापकर्षः गेन गतिसंज्ञकोऽतिङन्तेन सह समाससंज्ञको भवतीत्यर्थेन तत्रापि सुपेति तृतीयान्त- पदस्य नानुवृत्तिः । इत्यञ्च "गतिकारकोपपदानाम्" इत्यादि परिभाषा सिद्धा भवति । फलञ्च व्याघ्री. स्यादौ लीसिद्धिः। अन्यथा गतीत्यादीनां सुबन्तेन समाले तु व्याघ्री(२) इत्यादौ स्वार्थव्यलिङ्ग सङ्ख्याकारकाणां क्रमश उपस्थित्या सुपः प्राक्लिङ्गबोधकटापः प्रवृत्तौ व्याघ्री. इत्यस्य जातित्त्वाभावेनादन्तत्वाभावेन च "जातेरस्त्री" इति सूत्रेण ङीषः प्रवृत्तिर्न स्यात् ॥ १२६ ॥ दीर्घाही। दीर्घाणि अहानि यस्यामिति विग्रहे बहुव्रीहिसमासे "ऋन्नेभ्यो ङीप" इति डीपि “अल्लोपोऽनः" इति अकारलोपे "तुभ्नादिषु च” इति णत्वनिषेधे दीर्घाही (१) अकारोऽपीति । "प्राप्तापन्ने च द्वितायया" अत्र अकारः प्रश्लेष्टव्यः, स च प्राप्ता आपन्ना अनयोरन्ते विधेय इति भावः। (२) व्याघ्रीत्यादाविति । श्रादिपदेन अश्वक्रीती कच्छपी ज्ञेया। तथाहि-व्याजिवतीति व्याघ्री "पातश्चोपसर्गे" इति कः श्राङो प्रशब्देन उपपदसमासः। स यदि प्रशब्दस्य सुबन्ततामपेक्षेत, तर्हि सुबुत्पत्तये सङ्ख्याद्यपेक्ष्य ततः प्रागेव लिङ्गयोग इति लिङ्गनिमित्तेन टापा भाव्यम् । न तु ङीषः। घमात्रस्य जातित्वाभा- वात् । ततो प्राशब्देन समासे अदन्तस्वाभावाज्जातिलक्षणो ऊषा न स्यादिति भावः । कारक- स्योदाहरणम्-'अश्वक्रीती' इति । अश्वेन क्रीता "कर्तृ करणे कृता बहुलम्" इति समासे "की- तात्करणपूर्वात्" इति डीब। सुबन्तेन समासे तु पूर्वोक्तदिशा टापा भाव्यं तदन्तरमदन्तत्वा. भावात् "क्रीतात्करणपूर्वात्" इति ङीष् न स्यादिति भावः । कच्छपीति । कच्छेन पिवतीति कच्छपी। अत्र "सुपि" इति योगविभागाकः । इहापि समासस्य सुबन्ततापेक्षायां टावेव स्या- न तु ङीष् । ततः समासे अदन्तत्वाभावान्न ङीष् इति ज्ञेयम्। केचित्तु-व्यात्री इति गतिसमास- स्थोदाहरणमा तदपि युक्तमेव । .

बहुव्रीहिः। पदं सिद्धयति । नचान "अहोऽदन्तात्" इति सूत्रेऽह इति पदमदन्ताहन शब्दस्यानु- करणम् । ततश्च यत्राहन शब्दोऽदन्तः स्यात्तत्रैव "अहोऽदन्तात्” इति सूत्रेण णत्वं स्यात् । एवञ्च दीर्घाहीत्यनादन्तत्वाभावेन णत्वाप्राप्या 'तुम्नादिषु' दीर्घाहीशब्द- पाठो निष्फल इति वाच्यम् । “अहोऽदन्तात्" इति सूत्राप्रवृत्तावपि "प्रातिपदि. कान्त" इति सूत्रेण प्राप्तस्य णस्वस्य वारणार्थ क्षुम्नादिषु दीर्घाहीशब्दपाठ(१)स्याव- श्यकत्वात् ॥ १३०॥ २) अष्टागवम् । अष्टौ गावो यत्रेति विग्रहे बहुव्रीहिसमासे "अचप्रत्यन्व" इति सूत्रेऽजिति यो- गविभागेनचाचप्रत्यये "गवि च युक्ते” इस्यात्वे अष्टागवमिति रूपं सिध्यति । अष्टानां गवां समाहारोऽष्टगवम् । अष्टगवमस्त्यस्मिन्निति विग्रह 'अर्श आदिभ्योऽच" इति अच्प्रत्यये कृते युक्तार्थो गम्यते। ततश्च “गवि च युक्ते” इत्यात्वे अष्टागवमिति सिध्यति । इस्थञ्च अष्टागवमिति पदस्य द्विधा साधनप्रकार इति सारांशः ॥१३॥ इति तत्पुरुषः। अथ बहुव्रीहिः। कल्याणीपञ्चमाः। कल्याणी पञ्चमी यासां रात्रीणामिति विग्रह (३)उद्भूतावयवभेदविवक्षया पञ्च- मीशब्दः प्रधानम् । पूरणप्रत्ययान्तश्चेति "अप्पूरणीप्रियादिषु" इति पुंवद्भावप्रति- षेधे "अप्पूरणीप्रमाण्यो" इत्यपि ईकारलोपे च प्रयोगः सिध्यति। कल्याणपञ्चमी- कपक्षे तु तिरोहितावयवभेदविवक्षया पञ्चमीपदार्थः प्रधानं न भवतीति पुंवनाव- प्रतिषेधोऽप्रत्ययश्च न भवति । उद्भूतावयवभेदविवक्षायां समासघटकतया या. वन्ति पदानि सन्ति तेषां सर्वेषामर्थः प्रधानं भवति । तिरोहितावयवभेदविवक्षा- यान्तु समासघटकपदानामर्थः प्रधानं न भवति; किन्तु अन्यपदार्थ एव प्रधान भव- तीति सारांशः ॥ १३२॥ (१) पाठस्यावश्यकत्वेति । अयम्भाव:-"प्रातिपदिकान्तनुम्बिभक्तिषु च” इति णत्व- वारणार्थमावश्यकं क्षुम्नादिगणे पाठः। एवञ्च "अहोऽदन्तात्" इत्यनेन प्राप्तमपि णत्वं शुभ्ना- दित्वान्न भविष्यतीति तदर्थम् अदन्तानुकरणक्लेशो न कर्तव्य इति भावः। (२) नन्वत्र समाहारे कृते टचो लामः स्यात्परञ्च युक्तार्थस्य लाभो न स्यात् । बहुव्रीहौ तु युक्तार्थों लब्धः स्यात्परं टचोऽभावः स्यादित्याशयेनाह-अष्टागवमिति । (३) उद्भूतावयवेति । उद्भ- तावयवभेदस्य रात्रिसमूहस्य प्रधानत्वेन यथा प्रथमाद्या रात्रयः समासामिधेयः, एवं पञ्चम्य--- पोति वतिपदार्थस्यान्यपदार्थऽनुप्रवेशात्प्राधान्यमिति भावः। " এভসুলফিকাবার্থ-- मपत्नीशब्दः । अयम्भाव:-सपत्नीशब्दः प्रकारत्रयेण सिध्यति । तथापि शत्रुवाचकसपत्नश. ब्दात् शारिवादित्वाद् ङोनि सत्येकः । समानः पतिर्यस्या इति विग्रहे "नित्यं सपल्यादिषु इति नकारे ङीपि च कृते नित्यस्त्रीलिङ्गो द्वितीयः । समानः पतिर्नाम रनको यस्या इति विग्रहे भाषितपुंस्कस्तृतीयः। तथा च-शिवादिगणे प्रथमाद्वितीययोरूढिाब्दयोरेव ग्रहणेनागप्रत्यये सापत्नः इति रूपं सिध्यति । भापितपुंस्कात्सपत्नीशब्दात्तु “दिल्यादित्य इति ण्यप्रत्यये. "मस्याढे तद्धिते” इति पुंवन्नावे इकारलोपे च कृते सापत्य इति रूपं सिध्यति । यदा कस्यचित्प्रभोः स्त्रीपुरुषौ द्वादपि किङ्करौ स्तः तदा सपतिशब्दः स्त्रीपुरुपयो. ईयोरपि वाचक इति भाषितपुस्कत्वं तस्येति सारांशः ॥ १३६ ॥ इति बहुव्रीहिः । naSanerun (१) विप्रतिषिद्धं किम् । अयम्भावः-नन्दकश्च पाञ्चजन्यश्चेति विग्रहे इतरेतरयोगे सति नन्दकपाञ्चज न्यौ इति रूपं भवति । पाक्षिकसमाहारे सति नन्दकपाञ्चजन्यमिति रूपम्भवति । त. था च रूपद्वयसिद्धिः । विप्रतिषिद्धग्रहणस्य फलं यदि विरुद्धार्थाः शब्दाः स्युस्तदा गु- णवाचकानां शब्दानामेव पाक्षिकसमाहारद्वन्छो भवति । द्रव्यवाचकानान्तु इतरेतर योग एव भवति । 'शीतोष्णे उदके स्तः, अत्रोदकशब्दस्य द्रव्यवाचकत्वेनेतरेतरयोग एव भवति । अथ च यदि विरुद्धार्थाः शब्दा न स्युस्तदा द्रव्यवाचकानामपि शब्दानां याक्षिकसमाहारद्वन्द्वो भवति । एवञ्च नन्दकपाञ्चजन्ययोर्विरोधाभावेनेतरेतरयोगः समाहारश्चेत्युभयमपि भवतीति सारांशः ॥ १३ ॥ इति द्वन्द्वः । 00 अथ समासाश्रयः। हल्लेख अयम्भावः-अप्रत्ययेन प्रत्ययग्रहणे यस्मात्स विहित इत्यादिपरिभाषया प्रत्य- यान्ततदादीत्यंशोपस्थितौ केवलप्रत्ययस्थले व्यपदेशिवद्भावेन अणप्रत्ययान्ततदादि- त्वं लेखशब्दे चाणप्रत्ययान्तवं वर्तत एवेति स्थलद्वये हृदादेशे सिद्ध लेखग्रहणं व्यर्थ सत् "उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नास्ति' इति परिभाषां ज्ञापयति । (१) विप्रतिषिद्धमिति । विप्रतिषेधो विरोधः सहानवस्थानलक्षणः। अधिकरणं द्रव्यम अद्रन्यवाचि विरुद्धार्थकं च यदनकं सुबन्तं तदवयवको द्वन्दः विभाषेकवद्भावक. इत्यर्थः ।

तद्धितेवपत्याधिकार लेखेतिपदं घनन्तलेखशब्दबोधनार्थमिति न शंक्यम् । अणप्र(१)त्ययसाहचर्येणाणन्त- लेखस्यैव ग्रहणात् ॥ १३ ॥ गर्गमणिनी। अयम्भाव:-"प्रातिपदिकान्त" इति पदस्योत्तरपदं यत् प्रातिपदिकं तस्यान्ताव- यवो यो नकारस्तस्य णत्वं भवतीत्यर्थो भवति । तथा च गर्गभगिनीति सालस्थले उत्तरपदं प्रातिपदिकं भगिनी इति तस्यान्तावयव ईकारो न तु नकाश इति तन जाय न भवति । इत्थञ्च नुम् ग्रहणमपि सफलं भवति । अन्यथा प्रातिपदिकस्यान्तावयको यो नकारस्तस्य णत्वं स्यादिति सामान्यार्थे तु व्रीहिवापाणीति प्रयोगे व्रीहिवापेक्षित प्रातिपदिकस्यान्तावयवो नकारोऽस्त्येवेति प्रातिपदिकान्तेत्यशेलैव गत्वसिद्धौ नुमो निष्फलत्वं स्पष्टोत्र । उत्तरपदं यदित्याद्यर्थे तु बीहिवापेति समुदायस्यान्तावको जुन भवति, न तु वापेति उत्तरपदस्यान्तावयव इति तदर्थ जुम् ग्रहणं कर्तव्यम् ।। १३६ ॥ इति समासाश्रयः। अथ तद्धितेष्वपत्याधिकारः। (२)आदिवृद्धिः। अयम्भावः-एकलच्ये एककालावच्छेदेन कार्यद्वयस्यासम्भवरूपं विप्रतिषेधसूत्र- प्रवृत्ती निमित्तं तच्चान नास्ति, यतः एकलच्ये आदिवृद्धौ अन्त्यवृद्धौ छ सरयां नहि कश्चिद् विरोधः। एवमेकत्र लक्ष्ये आदिवृद्धौ उपधावृद्धौ च सत्यां नास्ति विरोध इति विप्रतिषेधसूत्राप्रवृत्ती परत्वमूलकबाधो न सम्भवति । एवमादिवृद्धौ सत्याम नत्योपधावृद्धयोः सत्योः आदिवृद्धेश्च प्रसङ्ग इति नित्यत्वमूलकोऽपि बाधो न । अथ च सर्ववृद्धीनां प्रकृतिप्रत्ययोभयसापेक्षत्वेनान्तरङ्गत्वमूलकबाधासम्भवः । वृद्धित्रयस्य साफल्येनापवादमूलकबाधासम्भवश्चेति किम्मूलिकाऽदि. वृद्धिर्बाधिकेति सन्देहे अनुशतकादिगणे पुष्करसच्छब्दस्य पाठो बाधकत्वे मूलम् , अन्यथा "तद्धितेष्वचादिः” इति सूत्रेणादिवृद्धौ “अत उपधाया” इत्यनेनोपधावृद्धीच सत्यां पौष्करसादिशब्दस्य सिद्धौ तद्गणे पुष्करलच्छब्दपाठ उभयपदवृद्धयों निष्फल एव ॥ १३७ ॥ (१) अण्प्रत्ययसाहचर्येणेति । 'सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्' इति परिभाषयेति भावः । (२) ननु उपगु अ इति स्थितौ गुणादेशस्य पित्रव्यादौ सावकाशत्वात् "ओर्गुणः” इत्येतं बाधित्वा परत्वात् "अचो मिणति" इति वृद्धिप्रसङ्गः । गुणे च कृतेऽवादेशे च 'अत उपधाया) इति वृद्धिप्रसङ्गश्च स्यादित्यत आह-आदिवृद्धिरिति। अन्यन्त्र प्रभालतफक्किकासरलार्थे- तस्येदामिति । अयम्भावः-(1)"तस्येदम्" इति सूत्रेण औपगवादिप्रयोगेऽणः सिद्धौ "तस्या. ‘पत्यम्” इति सूत्रं व्यर्थमेव । न च "अत इ" सूत्रेऽपत्यपदानुवृत्यर्थ सूत्रं सफल लमिति वाच्यम् । “तस्यापत्यमत इज" इत्येकयोगे कर्तव्ये योगविभागस्य व्यर्थत्वात् । स एव योगविभागो व्यर्थः सन् भानवादिप्रयोगे "तस्येदम्" इत्यस्य बाधकं यत् "वृद्धाच्छः” इति सूत्रं तद्बाधनार्थो भवति । "तस्येदं" "वृद्धाच्छ।” इति सूत्रयस्य अपत्यादिव्यतिरिक्तार्थे एव प्रवृत्तिरिति सूत्रद्वयस्यापत्याथें प्रवृत्तिरेव न भविष्यतीति न शङ्कयम् । यावत् "तस्यापस्यमत इस इत्येकयोगो वर्तते तावददन्तशब्दसम्बद्धापत्यरूपार्थस्योपयुक्तत्वेऽपि अन्यशब्दसम्बद्धापत्या- र्थस्य शेषत्वात् , उपयुक्तादन्यः शेष इति लक्षणात् । सति योगविभागे सर्वशब्द. सम्बद्धापत्यरूपार्थस्योक्तत्वेन शेषत्वाभावात् । “तस्येदम्” “वृद्धाच्छः" इति सूत्रद्वयं स्वत एव न प्रवर्तते इति सारांशः ॥ १३८ ।। (२)कृतसन्धेः। "समर्थानां प्रथमावा" इति सूत्रे समर्थपदेन परिनिष्ठितस्य (३) ग्रहणात् सूस्थि. तस्यापत्यमिति विग्रहे सु उस्थित इति पदद्वयेन सह सन्धौ इन्प्रत्यये च कृते सौस्थि. तिरिति रूपं सिध्यति। अन्यथा विनाशोन्मुखेन सुघटकोकारेण सह दीर्घाभावात्सुघट. कोकारस्य वृद्धौ सावुस्थितिरित्यनिष्टं स्यात् ॥ १३९ ॥ प्रथमात् किम् । "समर्थानां प्रथमाद्वा" इति सूत्रतोऽधिकृतस्य प्रथमादिति पदस्य प्रत्ययविधा- यकसूत्रेषु प्रथमोच्चारितारसुबन्तादपत्याद्यर्थेषु प्रत्ययाः स्युरित्यर्थो भवति । तथा च उपगोरपत्यमिति विग्रहे प्रत्ययविधायके "तस्यापत्यम्” इति सूत्रे तस्येति षष्ठयन्तं पदं प्रथमोच्चारितमिति षष्ठयन्तादेव उपगुशब्दात्प्रत्ययो भवति । एवञ्चोपगुरपत्यम- स्येति विग्रहे प्रथमान्तादुपगुशब्दात्प्रत्ययो न भवतीति फलं सिद्धम् ॥ १४० ॥ एको गोत्रे। अयम्भावः-उपगोर्गोत्रापत्यमिति विग्रहे "तस्यापत्यम्" इति सूत्रेणाणप्रत्यये (१) ननु अपत्यसमूहविकारादीनामिदमर्थेऽन्तर्भावाद् "तस्येदम्" इत्यनेनैवाणः सिद्धौ किमर्थं "तस्यापत्यम्" इत्याशयम्प्रकटयति-"तस्येदम्" इत्यादिना। (२) ननु अन्तरङ्ग- स्वात् सन्धौ कृत एव प्रत्ययोत्पत्तिरिति "समर्थानां प्रथमाद्वा" इति सूत्रे समर्थग्रहणं व्यर्थ- मित्याशयेनाह-कृतसन्धेरिति । (३) परिनिष्ठितस्येति । समर्थशब्दः शक्तपर्यायः, शक्त स्वच-अर्थप्रतिपादकस्वम् । तच्च परिनिष्ठितस्यैव सम्भवतीति भावः ।

तद्धितेष्वपत्याधिकारः। औपगवादिप्रयोगसिद्धौ "एको गोत्रे” इति सूत्रं (१)गोत्राधिकारे एक एवापत्या- र्थकप्रत्ययः स्यादिति नियमयति । इत्थश्च-आत्मजस्तनयः सूनुः सुतः पुत्रः नियां स्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ॥ १ ॥ इति कोशप्रामाण्येन 'पौत्रं लालयतः पितामहस्योत्सङ्ग बालकं हटवा अयं बालका कस्यापत्यमिति कश्चित् पृच्छति । अयं बालको मदीयपुत्रस्यापत्यमिति पितामह उ. त्तरं ददातीति लोकयुक्त्या च "अपत्यं पितुरेव स्यात्” इति पक्ष, उपगुशब्दादात्र- त्यये पौत्रादिरूपेष्टार्थस्यासिद्ध्या पौत्रार्थस्य वाचकः कश्चित्प्रत्ययो वक्तव्यः। एवं प्रपौत्ररूपार्थस्यापि वाचकः कश्चित्प्रत्ययो वक्तव्यः । एवञ्चोपगुशन्दात् शततमेऽपत्य- वेन विवक्षिते एकोनशतानिष्टप्रत्ययानां वारणं भवतीति फलम् । अपत्यं पौत्रप्रभृ. तिबन्” इति सूत्रस्वारस्येन न पतन्ति पितरो नरके येन तदपत्यमिति व्युत्पत्या अपत्यशब्देन सर्वे पुत्रपौत्रादयो गृह्यन्ते इति अपत्यशब्देन पितुः सम्बन्धः स्यात् । पितामहादीनामपि सम्बन्धो भवतीति मुख्यपक्षे उपगुशब्दादणप्रत्यये पौत्रादिरूपे- ष्टार्थस्य सिद्धावपि तृतीये वाच्ये इश् स्यात् । चतुर्थे वाच्ये फगिति रीत्या शततमे ऽपत्यत्वेन विवक्षिते उपगुशब्दादण् प्रत्यये औपगवशब्दः शततमापत्यार्थस्य वाचकः । उपगुशब्दश्च मूलप्रकृतिरिति प्रकृतिद्वयमिष्टं मध्येच इमादिघटिताष्टनवत्यनिष्टप्रकृतयो न भवन्तीति फलम् । उपगोस्तृतीयं यद्यपत्यत्वेन विवक्षितं तदा उपगोरपत्यमिति विग्रहे औपगवशब्दः उपगोः पौत्रस्य वाचकः। अथ च यदि द्वितीयमपत्यत्वेन विव. क्षितम्, तदा उपगोः पुत्रस्य वाचकः । एवं रीत्या एक एवौपगवशब्दः सर्वेषामपत्यानां वाचक इति मुख्यपक्षेऽन्यप्रत्ययानां प्रयोजनं नास्ति । परञ्च औप- गवशब्दो यदि पौत्रस्य वाचकस्तदा उपगोरपत्यं भवति उपगुपुत्रस्याप्यपत्यं भवति । एवञ्च औपगवस्यापत्यमिति विग्रहे औपगवशब्दादिनपि स्यात् । तथाच इघटि- तप्रयोगः स्यात् औपगवशब्दप्रयोगश्च स्यादितीजादिघटितप्रकृतीनां प्रयोगो माभू- दिति सारांशः ॥ १४१ ॥ एको गोत्रे उपगोर्गोत्रापत्यमिति विग्रहे "तस्यापत्यम्” इति सूत्रेणाणप्रत्यये औपगवप्रयो- गस्य सिद्धौ "एको गोत्रे" इदं सूत्रं गोत्राधिकारे एक एवापत्यार्थंकप्रत्ययः स्यादिति नियमयति । इत्थञ्चापत्यं पितुरेव भवतीति पते, एकोनशतानिष्टप्रत्ययानां वारणं भव- तीति फलम् । न पतन्ति पितरो नरके येन तदपत्यमिति भाष्यसिद्धान्तपक्षे पुत्र- (१) ननु एकस्मिन् गोत्रे युगपद् अनेकप्रत्ययानाम्प्रसक्तरित्याशङ्कय सूत्रारम्भफलं प्रद- शयति-गोत्राधिकारे इति । औपवगवशब्दः . प्रभालकृतफक्किकासरलार्थ- पौत्रादयः सर्वेऽपत्यशब्देन गृह्यन्ते इत्यपत्यं पितुर्भवति, पितामहादीनामपि भवती त्यणप्रत्ययेनेष्टगोत्ररूपाथै सिद्धेऽपि उपगुशब्दाच्छततम अपत्यार्थेऽभिधातुमिष्टे सति अष्टनवत्यनिष्टप्रत्ययानां निरोधो भवतीति फलम् । (१)प्रथमपने इष्टसिद्धिर्नियमश्चे- ति कार्यद्वयं सूत्रस्य फलम् । सिद्धान्तपक्षे तु केवलनियमसिद्धिरिति सारांशः ॥१४२॥ क्षत्रियलमानशब्दात् । तेषां राजा तद्राजस्तद्राजमाचष्टे तद्राजयति तद्वाजयतीति तद्राजस्तत्तदेशस्य राज्ञो वाचकः इत्यन्वर्थतद्राज इति सज्ञासामर्थेन यो हि शब्दो देशस्य वाचकः क्षत्रि- यरूपार्थस्य चवाचकस्तस्मात् शब्दात् , तस्य नाम षष्ठयन्तात् समर्थात् अपत्येोऽथे यथा प्रत्यया भवन्ति, तथा राजन्यप्यर्थे प्रत्ययाः स्युः । एवञ्च पञ्चालानां राजा पञ्चालल्या पत्यं वेत्यर्थद्वयेऽपि पाञ्चाल इति रूपं सिद्धयति ॥१४३॥ इति तद्धितेष्वपत्याधिकारः। अथ चातुरार्थिकम् । (२)लिडे यस्येति । अयं भाव:--"वामदेवाड्ड्यड्डयौ” इति सूत्रेण ययतोः प्रत्यययोः कृतयोः सतोः "यस्य" इति सूत्रेणाकारलोपे वामदेव्यमिति प्रयोगे सिद्धे प्रत्ययवये डकारोपादान (३)निरनुबन्धकग्रहणे नसानुबन्धकग्रहणम्"इति “एकानुबन्धकग्रहणे न द्वयनुबन्धक- स्य" इति च परिभाषाद्वयं ज्ञापयति । इत्थञ्च "ययतोश्चातदर्थे। इति सूत्रे यदिति. प्रत्ययद्वयेन ड्यत्ड्येतिप्रत्ययद्यस्य इणाभावेन अवामदेव्यमितिप्रयोगे उदात्तस्व- राभावः सिध्यतीति फलम् ॥ १४४॥ इति चातुरार्थिकम् । अथ द्विरुक्तप्रक्रिया । एकैकस्मै । "विभाषा दिकसमासे बहुव्रीहौ” इत्यतो बहुव्रीहिग्रहणेऽनुवर्तमाने "न बहुव्रीही" इत्यत्र पुनर्बहुव्रीहिग्रहणं यत्र मुख्यबहुव्रीहिसमालश्चिकीर्षितो मवति तत्रैव सर्वनाम: संज्ञा न स्यादिति निषेधति। एवञ्चान "एक बहुव्रीहिवत्" इति सूत्रेण बहुव्रीहिस- मासे यत् कार्यम्भवति तत् कार्य्यमत्रापि स्यादिति आरोपयति । तेनात्र बहुव्रीहि- (१) प्रथमपक्षे इति । प्रथमपक्षे प्रत्ययमालाव्यावृत्तिः । द्वितीयपक्षे सघूनसंख्येभ्यो- ऽनिष्टोत्पत्तिनिवृत्तिरितिभावः। (२) परिभाषाद्वयसिद्धमर्थमाह-सिद्धे यस्यत्यादिना । (३) निरनुबन्धेति । "पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन" इत्यत्र तव्यग्रहणेन तथ्यतो ग्रहणं न इति "निरनुबन्धक" इति परिभाषायाः फलम्बोध्यम् । एवं द्वितीयपरि- भाषायाः अङा चडो ग्रहणं नेति । -- स्वादयः। ०० समासाभावात् सर्वनामसंज्ञायामुक्तप्रयोगसिद्धिः । सूत्रप्रत्याख्याने सर्वनामसंज्ञायां विवाद एवं नास्ति । सूत्रसत्तायामपि 'एक बहुव्रीहिरत्" इति सूत्रेण (१) बहुव्रीहिस- मासारोपो भवति, न तु बहुव्रीहिसमासो भवतीति सन्देहाभाव इति सारांशः ॥१४॥ (२) दलद्वय। स्त्रीलिङ्ग पदये टाबभावो भवति । नपुंसकलिङ्गे च स्वमोः स्थानेश्डादेशस्य विरहोऽभावो भवति। अन्यपदैः सहान्यादिशब्दानां समासे सति लोः सुविभक्तरे- लुक् च भवतीत्येतत् कार्यत्रयं, बाहुलकात् बहुलग्रहणात् सिद्धं भवति । स्त्रीलिङ्गेऽन्यो. ऽन्यमित्यादौ पदद्वये टाप भवति। नपुंसकलिंगेऽन्योऽन्यमित्यादौ अडादेशो न भवति। अन्योऽन्यसंसक्तमित्यादिसमासस्थले पूर्वपदघटकसोलुंक्च न भवति । 'अन्योऽन्यसं- श्रयं वेतत्' इति भाष्यमुक्तव्याख्याने प्रमाणम् । इति द्विरुक्तप्रक्रिया ॥ १४ ॥ अथ स्वादयः । लकाराः प्रदश्यन्ते । (३) ननु छात्राः दश लकारान् पश्यन्ति पाणिनिःप्रेरयति इति दशायां "दृशेश्व" इति वचनेन प्रयोज्यकर्तुः कर्मसंज्ञायां कर्मद्वये सति 'प्रयोज्यक(४)मण्यन्येषाम इति नियमेन छात्ररूपकर्मणि लकारे पाणिनिना छात्रा दश लकारान् दय॑न्ते इत्येव भवि. तुमर्हतीति चेन्न । "अभिवादिहशोरात्मनेपदे वेति वाच्यम्" इति वार्तिकेन प्रयोज्य. कर्तुः विकल्पेन कर्मसंज्ञा भवति । यत्र पते कर्मसंज्ञा न भवति, तत्र पक्षे प्रयोज्यक- तरि तृतीया। मुख्यकर्मणि लकारे छात्रैर्दश लकाराः प्रदर्श्यन्ते इति प्रयोगस्य साधू- पपन्नत्वात् ॥ १४६॥ "हलादिः अयम्भाव:-अभ्यासस्यादिहल शिष्यतेऽन्ये हलो लुप्यन्ते इति सूत्रार्थे पपाचे- त्यादौ अभ्यासस्यादिहलू वर्तते तत्रान्यहलो लोपो भवति । आट आटतुरित्यादौ तु अभ्यासस्यायक्षरो हल नास्ति तत्र कथं हल्लोपः, तदर्थं यत्नः कर्तव्यः । कोऽसौ यत्नः "हस्वोऽहलादिः शेष" इति संहितापाठे, अभ्यासस्य ह्रस्वो भवतु । ततोऽभ्या- सोऽहल् भवतु हलहितो भवतु ततोऽभ्यासस्यादिः शिष्यत्, अभ्यासस्याचक्षरो (१) बहुव्रीहिसमासारोप इति । तेन सुब्लोपपुंवद्भावौ सिध्यतः इति भावः। (२) दलद्वय इति । स्त्रीलिङ्गेषु अन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्डयोरितिभावः। (३) 'दश लकाराः प्रदयन्ते इति भट्टोजीदीक्षितप्रयोगं साधयति-नन्वित्यादिना । (४) प्रयोज्यकर्मण्येति । 'गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्म- काणां निजेच्छया । प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः। शेषः"।

, प्रभालतफकिकासरलार्थ- वर्ततां नाम इति वाक्यार्थत्रयेणाजादिधातुष्वपि अभ्यासोऽहल भवतु इति वाक्याथन न काप्यनुपपत्तिः। 'येन हाव्यवधानम् अयम्मावः-कौमुदीकारो गुणवृद्धिविधायकशास्त्रे ."इको गुण वृद्धी" इति परि- भाषया इपदोपस्थित्या "सार्वधातुकार्धधानुकयोः (१)इक पदार्थ पुगन्तलघूपधयो- श्वाङ्गेऽन्वयं कृत्वा "तस्मिन्निति निर्दिष्टे पूर्वस्य" इति परिभाषाबललब्धाव्यवहितां- शोपस्थानात्पुगन्तं लघूपधञ्च यदङ्गं तदवयवो या सार्वधातुकार्धधातुकाव्यवहित इक तस्य गुणः स्थादित्यर्थे सर्वत्रैव सार्वधातुकार्धधातुकविषये, अर्धमात्रिकव्यञ्जनस्य व्यवधानेन कुत्रापि स्थले "पुगन्तलपवस्य च" इति सूत्रप्रवृत्तिर्न स्यादिति तस्सामर्थेन "येन नाव्यवधानं तेन व्यवहितेऽपि सूत्रं प्रवर्तते" इति वचनमव तारयति । तेन भिनत्तीत्यत्र गुणाभावः फल सिद्धम् । भाज्यकृता तु लञ्ची चासौ उपधा चेति कर्मधारयसमासं कृत्वा पुगन्तलघूपधयो- रिक्षपदार्थे "सार्वधातुकार्धधातुभयो।” अङ्गपदार्थ उस्थिताकांक्षतया, तयोश्वाङ्गपदार्थ अन्वयं विधाय सार्वधातुकार्धधातुकाव्यवहितं यदङ्ग तवयवो यः पुगन्तलघूपधरूपः इक् तस्य गुणः स्यादिति सूत्रार्थ विधाय भवित् आ इत्यत्र सार्वधातुकाव्यवहितलघू. पध रूपेका सस्वाद् गुणप्राप्तिः । भिनत्तीत्यादौ च सार्वधातुकाव्यवहिताङ्गावयवलधूप- धरूपेशोऽभावानास्ति गुगप्रवृत्तिरिति "येन नायवधानम्" इति वचनं प्रत्याख्या- तमेव । भिनत्तीत्यादौ सार्वधातुकाव्यवहिताङ्गावयवो यो लघूपधरूपोऽकारः स इग नास्ति, यश्च तादृशः इक स लधूपवरूपो नास्तीति सारांशः। भवतात् । ननु "विच" इति सूत्रम् "अनेकाशित्सर्वस्य" इति सूत्रस्यापवादो वर्तते । तथाचानान्त्यस्यैवादेशः स्यादिति चेन्न । “अन सौ” इत्यादाविव यत्र डिग्रहणं केवलमन्स्यादेशार्थमेवाचार्येण पठितं तत्रैव "ङिच्च" इति सूत्रमपवादो भवति । अत्र तु डकारोपादानस्य रुतात् युतात् इत्यादौ गुणनिषेधः, उष्टात् इत्यादौ च सम्प्रसार- णमित्यादिफलं वर्तते, इति ङित्वदर्शनेन मन्दं प्रवृत्तस्य "ङिच्च" इति सूत्रस्य परेण "अनेकाशित्सर्वस्य” इत्यनेन बाधात् । यद्यपि उत्सर्गापवादविषये परत्वमूलकं बाधकं न हि दृष्टम् , तथाप्यत्रोत्सर्गाप- वादयोरपि समबलत्वम् । (१) इपदार्थेति । सावधातुकार्धधातुकाव्यवहितपूर्वत्वविशिष्टयुगन्तलघु पधावयको य एक् तस्य गुणो भवतीति दीक्षितमतेऽर्थः । 1 वादयः। - जिन्योक्त। अयम्भाव:-"न ल्यपि” इति सूत्रेणाऽनुबन्धकार्ये कर्तव्ये “अनल्विधौ” इति निषेधो न प्रवर्तते इति ज्ञापितेन स्थानिवद्भावात् (१)लिङवृत्तिडिस्वधर्मस्यानयनेन डिस्वप्रयुक्त कार्ये सिद्धे “यासुड” इत्यादि सूत्रे डिग्रहणं व्यर्थमेव । तदेव व्यर्थ सत् 'कचिदनुबन्धकार्येऽप्यनल्विधौ इति निषेधः प्रवर्तते' इति ज्ञापयति । तेन वक्ष्यमा त्यत्र डीपोऽभावः सिद्ध इति फलम् । न च भाष्ये "पिञ्च डिन्न डिच्च पिन' इति व्याख्यानादौपदेशिकेन तिवादि. त्तिपित्वेन आरोपितो लिङ्चुत्तिडित्वधर्मो बाध्यते इति सूत्रे डिग्रहणं सफलमिति वाच्यम् ? पूर्ववत्स्थानिवस्वेन (२)शिवधर्मस्व आन यनेन सिद्धौ व्यर्थीभूतेन शान घटककारेण पूर्वार्थस्य ज्ञापितत्वात् । चिकोयात् । अयम्भावः-"अतो येय” इति सूत्रे सार्वधातुकपदाननुवृत्तौ "मध्ये ये पठिता अपवादास्ते पूर्वान् विधीन् बाधन्ते नोत्तरान्" इति न्यायात् "अतो येय" इति सूत्रम् "अतो लोप" इत्यस्यैव बाधकं भवेत् , नतु "अतो दी| यजि" इति सूत्रस्य । ततश्च चिकीर्ष्यादित्यत्रेयादेशापत्तिः, भवेदित्यत्र च परत्वाद् "अतो दीर्घा यजि" इति सूत्रेण दीर्घापत्तिरिति दोषद्वयपरिहारार्थ सार्वधातुकपदानुवृत्तिः कार्या इति सारांशः। भवेयुः। परत्वान्नित्य(३)त्वाच्च "उस्यपदान्तात्" इति सूत्रं बाधित्वा "अतो येयः" इति सूत्रेणेयादेशो भवतु इति प्राचीना वदन्ति । वस्तुतस्तु सार्वधातुकसंज्ञानिषेधपक्षस्य "उस्यपदान्तात्" इति सूत्रस्यान्तरङ्गत्वेन पररूपमेव युक्तस्यादिति विचारे "अतो येयः” इति सूत्रस्य सार्वधातुकावयवस्य यास इत्यस्येयादेशः स्यादिति व्याख्या कार्या । तथाचायमियादेशस्सलोपस्यापवादः स्यात्। एवञ्च भव यास् उस् इति दशायां सकारान्तत्वेन "उस्य पदान्तात्" इति सूत्रा- प्रवृत्तौ इयादेशे भवेयुरिति सिद्धम् 'अतो यास् इथः इति सूत्रे सकारस्य रुत्वयत्व लोपे सति गुणे कर्तव्ये यत्वविधायकशास्त्रस्यासिद्धत्वं तु सौत्रत्वान भवति । (१) लिङवृत्तीति । 'अवयवेऽचरितार्थ लिङ्ग समुदायोपकारकं भवति' इति न्याया- दिति भावः । (२) शिवधर्मस्येति । "हलः श्नः शानज्झौ" अत्रस्थस्येति भावः । (३) नित्यत्वाच्चेति । ननु कृते पररूपे चेदियादेशस्य प्राप्तिः तदा अस्य नित्यत्वं सैव तु कथं इतिचेद् । एकादेशस्य पूर्वान्तत्वेन ग्रहणादिति भावः।

५२ प्रभालतफक्किकासरलार्थे--- (१) प्रत्यये किम् ? चवच । अयमाशया-प्रश्वधातोलिटि तिपि गलादेशे द्वित्वादिकार्येक्ष कृते वनश्चेति रूप सिध्यति । "उरत्" इति सूत्रेऽङ्गस्याधिकारो वर्तते । ततश्चाङ्गावयवाभ्यासऋणस्या- स्यात्प्रत्यये परे इति सूत्रार्थो भवति । एवञ्चात्वादेशः परनिमित्तको भवतीति वका. रस्थ सम्प्रसारणे कर्तव्ये "अचः परस्मिन् पूर्व विधौ” इति सूत्रेण ऋकारवृत्तिसम्प्रसा. रणस्वमकारे आनीय "न सम्प्रसारणे सम्प्रसारणम्” इति सूत्रेण वकारस्य सम्प्रसारणं न भवति । यद्यङ्गेन प्रत्ययस्यापो न स्यातदा "अचः परस्मिन्" इति सूत्राप्रवृश्या वकारस्य सम्प्रसारणं स्यादेव । एकाचः किम् । अयम्भावः-देहलीदीपकन्यायेनोपदेशपदार्थस्यैकाच-अनुदात्तेत्युभयपदाथै अन्वये सति पिपक्षति बिभित्सतीत्यादौ वर्तमानकालेऽनेकाच्वेऽपि इनिषेधः पूर्वान्वयस्य, कर्तुं गन्तुमित्यादौ सम्प्रति निस्वरेणोदात्तत्वेऽपि इनिषेधोऽनुदात्तान्वयस्य च फलमिति कार्यद्वयसिद्धिः। कौमुदीकाराः उपदेशेऽनुदात्ताः सर्वे धातव एकाच एवेति "उपदेशेऽनुदात्तात्" इत्यनेनैवेष्टसिद्धौ ‘अच' इत्यन्न पञ्चमोविभक्तिबोध्यस्यैक(२)त्वस्य विवक्षया अज्वि. शिष्टेऽचपदस्य लक्षणया च एकाविशिष्टार्थकमच्पदं ब्यर्थमेव । तदेव व्यर्थ सत् , "श्तिपाशपा" इत्यादिकारिकायां ज्ञापकमिति वदन्ति। एकग्रहणं तु उपदेशमात्रे य एका ततः परस्येट न स्यादिति बोधनार्थम् । ततश्च हन् धातोरेकावेऽपि वधादे. शेऽनेकोचत्वादिग्निषेधो न भवतीति फलम् । उपदेशेऽनुदात्ता एकाच एवेति पूर्वोत्तयुक्त्या लक्ष्यसिद्धौ लक्षणया एकाज्याचक स्य अचपदस्य सामर्थ्येनोपदेशत्वावच्छेदेन सकलोपदेशे, इति यावत् एकाच ततः पर- स्येपन स्यादित्यर्थे बोधिते सति अवधीदित्यनेपिनषेधाभावे सिद्धे एकग्रहणं व्यर्थं सदुक्तकारिकायां ज्ञापकमित्यपरेषां मतम् । शसि दद्योः। अयम्भाव:--"अत एकहलमध्येऽनादेशादेलिंटि" इति सूत्रेऽनादेशादेरिति पदे आदेश आदौ यस्य स आदेशादिः न आदेशादिरनादेशादिस्तस्येति समासे जाते आदेशपदेन योऽहि वैरूप्यस्य रूपान्तरस्य, सम्पादक:-कारकः स एव प्रायः । यथा (१) प्रत्यये किमिति । अङ्गेन प्रत्ययाक्षेपः किमर्थमिति प्रश्नाशयः इति भावः । (२) एकत्वस्येति । न च "अर्धं नपुंसकम्" "आकडारादेका संज्ञा" इति सूत्रद्वयस्थनपुंसकग्रह- काग्रहणाभ्यां ज्ञापितस्य "सूत्रे लिङ्गवचनमतन्त्रम्" इत्यस्य सत्वात् कथमुक्तप्रकारोपपत्ति- रिति वाच्यम् । साक्षादुपदेशग्रहणेन चरितार्थत्वसम्भवे परम्परोपदेशाङ्गी कारे बीजाभावात् ।

स्वादयः। " जगादेत्यत्र गकारस्य जकारादेशो भवति । तत्र गकारस्यान्यत्रूपं जायते । तथा च दधधात्वादी दकारस्य दकाररूपादेशे जातेऽपि एस्वाभ्यासलोपौ भवत एव । प्रमाण- खात्र "न शसददवादिगुणानाम्” इति सूत्रे एत्वप्रतिषेधार्थ शसिदद्योः पाठः । अन्या- था आदेशपदेन यदि सामान्यादेशस्थ ग्रहणं स्यात्तदा शसिदद्योरपि "अभ्यासे चर्च" इतिसूत्रेण शकारस्य शकाररूपादेशो दकारस्य च दकाररूपादेशो भवत्येवेति तत्रैव- विधायकसूत्राप्रवृत्तौ निषेधकशास्त्रे तयोः पाठो निष्फल एव । ऊखतुः। अयमाशयः-आर्धधातुकाव्यवहिताङ्गावयव इक इत्याकारसम्बन्धेन जायमानो गुणादेशो गुरुमत्वेन इगार्धधातुकयोमध्ये पतिष्यतः आप्रत्ययस्य निमित्तं न स्या- दित्याह-सचि१)पातपरिभाषयेति । हलो लोपे उ उख इति स्थितेऽङ्गाधिकारित्वात् “वार्णादाङ्ग बलीयः" इति परि- भाषया “पर्जन्यवल्लक्षणप्रवृत्तिर्भवति" इतियुक्तया पूर्व ह्रस्वो भवति ततो दीर्घः । दीर्धे च कृते "लक्ष्ये लक्षणं सकृदेव प्रवर्तते” इति न्यायात्पूर्वान्तवद्भावेनैकादेशे प्राप्तो हस्वो न भवति । परत्वाच्चेत्यस्यायमाशयः -"अकः सवर्ण दीर्घः" इति सूत्रस्य पर- स्वाचाम परकालेन प्रवृत्तत्वात् । तथा च "हलादिः शेष" इति सूत्रात्पूर्व हस्वस्ततः खलोपस्ततो दीर्घः। एवञ्चैकस्मिन् काले हस्वदीर्घयोः प्रवृत्यभावेन "वार्णादाङ्गम्” इति परिभाषाया विषय एव नास्तीति दीर्धे कृते "लक्ष्ये लक्षणम्" इति न्यायाध्रस्वाभावः। "कृमृभृवृ"। "कृसभृ" एषां त्रयाणामनुदात्तत्वात् “एकाच उपदेशेऽनुदात्तात्” इत्यनेन धृन उदात्तत्वात् "श्रयकः किति" इत्यनेन थलोऽकित्वात् "श्रयुकः किति" इत्यस्याप्र. वृत्या "ववर्थ इति वेदे निर्देशाच सर्वत्रैवेनिषेधरूपकायें सिद्धे चतुर्णा ग्रहणं व्य- थमेव । तदेव व्यर्थ सत् "एकाच उपदेशेऽनुदात्तात्" इति प्रकृत्याश्रयेण "श्रयुक: ति" इति प्रत्ययाश्रयेण च लिटीनिषेधश्चेत्तर्हि कादिभ्यश्चतुभ्यं एवेति नियमयति । वृनस्तु वेदे एवेति च । तेनान्येषां धातूनां लिटीण, लोके ववरिथ इति च फलायं सिध्यति । स्स्वादीनां चतुर्णा ग्रहणं तु विधिस्वसम्भावनया भारद्वाजमतेन ऋदन्ता- तिरिक्तस्त्वादीनां थलीडागमः प्राप्नोति तनिषेधार्थम् । वमादिषु क्रादिनियमेन प्रा. (१) सन्निपातेति । "सन्निपातलक्षणो विधिरनिमित्तं तद्विधातस्य" इति परिभाषास्व- रूपम् । आमि सति लिटपरत्वं धातोर्न सिध्येदिति भावः, अन्ये तु "इजादेः" इति सूत्रे गुरुमान् इति नित्ययोगे मतुप् ततश्च नित्यं यो गुरुमान् 'एध वृद्धौ, इत्यादिस्तत्रैव स्यात् , इति नात्र आम्प्रसक्तिरित्याहुः ।। कि प्रभालतफक्षिकासरलार्थे- सस्येडागमस्थ निषेधार्थञ्चेति विध्यर्थमेव । इत्थश्च क्रादिनियमात् क्राद्यन्येषां धातूना लिटीट्प्राप्तौ अजन्तानाम् "अचस्ता- स्वस्थस्थनिटो नित्यम्" इत्यनेन अकारवताचोपदेशे अत्यत" इत्यनेन थलीनिषेधे सिद्धे "ऋतो भारद्वाजस्य" इति सूत्रं व्यर्थं सत् अजन्तानामकारक्ताञ्च थलीनिषेध श्वेत्तहि ऋवन्तानामेवेति सामान्यापेक्षया नियामकम् । तेन थलि ऋदन्तादन्येषां धातूनां भारद्वाजमतेनेटि, अन्येषामाचार्याणां मते इडावे च पेचिथ पपस्थ विवयिथ विवेथेत्यादिस्थलेषु द्वे द्वे रूपे सिध्यमः। न च भारद्वाजनियमेन स्स्वादीनामपि थलीट् स्यादिति वाच्यम् । “अनन्तरस्था विधिर्वा भवति प्रतिषेधो वा” इति परिभाषया "अचस्तास्वत्थल्यनिटो नित्यम्” 'उपदेशेऽस्वतः” इति सूत्रद्वयेन प्राप्तल्यैवेनिषेधस्य भारद्वाजनियमस्य निवर्तक स्वात् । क्रादिनियमेन स्वादिग्रहणम् “अचस्तास्वत्" इति "उपदेशेऽत्वतः" इति सूत्रद्वयञ्चेनिषेधार्थं वर्तते । तथाच-यथा भारद्वाजनियसेन ऋदन्तातिरिक्तधातुषु सूत्रद्वयं न प्रवर्तते, तथैव स्वादिग्रहणमपि न प्रवर्ततामिति न शङ्कनीयम् 'अनन्तर स्या इति न्यायादिति सारांशः। प्रकृयाश्रयत्वञ्च अव्यवहितोत्तरत्वसम्बन्धानवच्छिन्नधातुत्वावच्छिन्नधातुनिष्ठप्रका. रतानिरूपितविशेष्यताप्रयोजकप्रत्ययघटितशास्त्रत्वम् । तद्भिनत्वं प्रत्ययाश्रयत्वम् इस्था "एकाच उपदेशेऽनुदात्तात्" इति सूत्रस्य उपदेशे एकाचो विहितस्याधंधा. तुकस्येपनेत्यर्थः । "श्रयुकः किति" इत्यस्य च श्रिज एकाच उगन्ताच परयोगिकितो. रिनेत्यर्थः। तथाचाव्यवहितोत्तरत्वेत्याद्यर्थः "एकाच" सूत्राथै घटते "श्रूयुकः किति" इत्यत्र च न घटते इति ध्येयम् । संज्ञायाः कार्यकाल अयमाशय:-"यथोद्देशं संज्ञापरिभाषम्" "कार्यकालं संज्ञापरिभाषम्" इति पक्षद्वयं वर्तते । तत्र कार्यकालपक्षाश्रयेणायं ग्रन्थस्तन च पक्षे यदा कार्य तदा संज्ञेति सिद्वान्तेन सम्वद्रावविषये दीविषये च अङ्गसंज्ञा अभ्याससंज्ञा च भविष्यति । तथा च वे इत्यनेनोचारणे इति कृदन्तपदमध्याहियते, तद्योगे "कर्तृकर्मणोः कृति" इति सूत्रेण अङ्गस्येति कर्मणि (१) षष्ठी ततश्चाङ्गाभ्यासपदयोर्विधेयेन सहैकवाक्यतया अङ्ग- कर्मकं यद्विरुच्चारणं तस्य पूर्वो भागोऽभ्याससंज्ञकः स्यात् । तस्य च सन्वद्भावो भवतु इत्यर्थे जाते सति यत्र धातावङ्गद्विरुच्यते तत्रैव दीर्घसन्वद्भावौ स्यातामिस्य- भिप्रेत्याह-संज्ञाया इत्यादि । (१) कर्मणि षष्ठीति । अङ्गस्येति षष्ठयाः कारकविभक्तित्वसम्भवे तदुपेक्ष्य शेषषष्ठोक- ल्पनाया अन्याय्यत्वादिति भावः । कार्यकालत्वात् ।

स्वादयः। परञ्च माधवमते चकात्यर्थापयतीत्यादावङ्गत्या द्विस्वाभावेन "पूर्वोभ्यास" इत्यादिशास्त्राणामप्रवृत्या आर्तीथपदित्यादिप्रयोगाणां सिद्धि (१) स्यादिति यथो दशपक्षो मान्यः । तन्न पक्षे च संज्ञाशास्त्राणां विधिशास्त्रे एकवाक्यता न भवतीति अङ्गसंज्ञानिमित्तभित्यादि। चपरे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्यसनीव कार्य स्यादिति च भूलोक्तार्थद्वयेन सर्वे प्रयोगाः सिध्यन्तीत्याह-(२)वस्तुत इत्यादि । णिप्रत्ययो यदि लघुनोत्यस्य विशेषणं भवति तदा चपरे जो यल्लघु तस्परो योऽ. गावयवोऽभ्यासस्तस्य सनीव कार्य स्यादित्यर्थो भवति । ततश्च चकासधाता णिप्र. स्ययाव्यवहितं लघु न वर्तते । इति दीर्घसन्वद्भावी न भवतः । अथ च यदि जिप्रत्ययोऽङ्गस्य विशेषणं भवति, तदा चपरे णौ यदङ्ग तदवयवो योऽभ्यालो लघुपरस्तस्य सनीवकार्य स्यादित्यर्थो भवति । एवञ्च चकासधातौ णिप्रत्ययाव्यवहितमङ्ग वर्तते। इति दीर्घसन्वद्भावौ भवत एव। कमुधारवादौ णिप्रत्यये परतोऽग्लोपो न विद्यते इति अचीकमत इत्यादौ सन्बद्भावो भवति । एतदर्थमेव णिप्रत्यये परतो यच्चग्लोपो न स्यात्तदैव सन्वभावो भवतु मुनिना कृतः। अथ कथमुदयति । ननु अयधातुरात्मनेपदे पठित इति शानच् प्रत्ययस्यैव युक्तत्वेनोदयतीति शतृ- प्रत्ययान्तप्रयोगः कथमिति चेन्न । कटीत्यत्र प्रश्लिष्टस्य ई धातोःप्रयोगत्वात् । अथवा चक्षिङ् धातौ इकाररूपानुदात्तस्वरेणैवात्मनेपदे सिद्धे ङकारोपादानं व्यथं सत् "अनुदात्तेत्वनिमित्तकमात्मनेपदमनित्यं भवति" इति बोधयति । तेनो (३)तप्रयोगस्य साधुत्वम्। घस्ल अदने। अयमाशयः-ययस्य धातोः सर्वत्र प्रयोगः स्यात्तदा लिट्लकारेऽपि प्रयोगः स्या. दिति पाक्षिकघस्लादेशविधानार्थं "लिट्यन्यतरस्याम्" इति सूत्रमेव व्यर्थं स्यात् । एवञ्च यत्र किमपि लिङ्ग सूत्रादिवचनं वा प्रमाणं भवेत्तत्रवास्य धातोः प्रयोगः स्यात् । तथाच भ्वादौ पाठः शब्विषये प्रयोगो भवतीति बोधयति । लकारोपादान- मङि प्रयोग बोधयति । अनिट्कारिकासु पाठो वलाधार्धधातुके प्रयोगं बोधयति । "सृघस्यदः क्मरच्” इति सूत्रं क्मरचप्रत्ययविषये प्रयोगो भवतीति बोधयति । (१) सिद्धिनस्यादिति । माधवमते 'आतेथपत् , अचचकासत् , औM नवम् , इत्येव भवतीति भावः। (२) अर्थाधिकारपक्षस्यैवाभ्यहितत्वात् , वृत्यादिषु तदेव स्वीकृतत्वाच्चेत्य- भिप्रेत्याह-वस्तुत इत्यादिना। (३) उक्तप्रयोगस्येति । फलम्-'स्फायन्' इत्यत्र अनु- दात्तत्वलक्षणात्मनेपदस्याभाव इति ध्येयम् ।

प्रभालकृतफक्किकासरलाथै- स्यन्तम्यति । "वृद्भ्यः स्यसनोः” इति सूत्रेण परस्मैपदे कृते सति "न वृद्भ्यश्चतुर्म्यः" इति सूत्रे चतुर्ग्रहणसामर्थेन अन्तरङ्गमपि(१) "स्वरतिसूति" इत्यादि सूत्रं न प्रवर्तते इतीनिषेधे(२)तस्प्रयोगसिद्धिः। मत्स्योदकेऽनुष्यन्देते। "अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु" इति सूत्रेप्राणिषु इति पदस्य प्राणिभि. नेषु कर्तृषु सत्तु षत्वं स्यादित्यर्थे मत्स्योदके इति समुदाये प्राणिभिन्नत्वं वर्तते एवेति षत्वं सिद्धयति । (३) प्रसज्यप्रतिषेधे तु प्राणिषु कर्तृषु षत्वं न स्यादित्यर्थेऽप- प्त्यिा प्राणिनि मत्स्यस्यापि कर्तृत्वं वर्तते इति षत्वं दुर्लभं स्यादिति भावः । प्रविघाटपिता । ननु “घटादयो मितः” इति वचनेन मिसंज्ञायां प्रविघाटयिता(४)इत्यादि प्र. योगा असंगता एवेति चेन्न । चुरादौ पठितस्य 'घट संवाते' इति धातोः प्रयोगात् । नच चौरादिकस्यैव घट संवाते इति धातोश्चेष्टारूपविशेषार्थे मित्वार्थमनुवाद इति वाच्यम् । “नान्येऽमितोऽहेतौ” इति वचनेन ज्ञपादिभ्योऽन्येषां चुरादिपठि. तानां धातूनां मित्वाभावात् । एवञ्च घट चेष्टायामिति स्वतन्त्रोऽन्यधातुरिति सारांशः। विव्यथे। अयमाशयः-'सत्यपि सम्भवे बाधनं भवति इति वचनेन वलोपविषये "हलादिः शेषा इति(५)बाधित्वा "व्यथो लिटि" इति सूत्रेण सम्प्रसारणे थकारस्य "हलादिः शेषः” इति लोपे "न सम्प्रसारणे सम्प्रसारणम्” इति निषेधे च कृते विव्यथे इति रूपं सिध्यति । न च "अभ्यासविकारे बाध्यबाधकभावो नास्ति' इति वचनेन 'हलादिः शेषाप- वादः' इति ग्रन्थासङ्गतिरिति वाच्यम्। "लिघ्यभ्यासस्योभयेषाम्" इति सूत्रे उभयेषां ग्रहणसामर्थ्येन अभ्यासलोपविषये उक्तवचनाप्रवृत्तेः। (१) अन्तरङ्गमपीति । सकारादिविशेषापेक्षत्वादात्मनेपदनिमित्तत्वाभावनिमित्तत्वाच्च निषेधस्य बहिरङ्गत्वमिति भावः। (२) तत्प्रयोगसिद्धिरिति । “न वृद्भयश्चतुभ्यः' इत्यत्र चतुर्यः इति व्यर्थम् । प्रयोगसिद्धिस्तु "निषेधाश्च बलीयांसः" इति न्यायेनान्तरङ्गाणामपि बाधसिद्धेरिति बोध्यम् । (३)प्रसज्यप्रतिषेध इति । असमर्थसमासवाक्य भेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेतः इति भावः। (४) इत्यादीति । श्रादिना कमलवनोद्धाटनं कुरुते इति बोध्यम् । (५) बाधित्वेति । 'सम्प्रसारणं तदाश्रयञ्च कार्य बलवत्' इति वचना. दिति भावः।

स्वादयः। कथं विज्ञानाभतूंषु ननु "मारणतोषणनिशामनेषु ज्ञा" इति वचनेन मित्संज्ञायां "मितां ह्रस्व” इति इस्वे विज्ञापना इत्यादिप्रयोगा दुर्लभा एवेति चेन्न । निशामनं चाक्षुषज्ञानमिति वदतो माधवस्य मतेऽत्र चातुषज्ञानरूपार्थस्याभावेन मित्वाभावात् । ज्ञापनमात्रे मित्वमितिमते, अत्र ज्ञापनरूपार्थस्य सत्वेन मित्संज्ञाया अबसर इति 'ज्ञा नियोगे? चौरादिकस्योक्तरूपम् । चुरादौ च ज्ञपादिभ्योऽन्ये मितो नेति मिरवाभावः । निशा- नेविति पाठे तु अन तीक्ष्णकरणरूपार्थस्याभावेन सन्देहाभावः । स्वामी तु "न कमीति” । अयम्साव: - स्वामी "न कम्यमिचमाम्" इति सूत्रात् "शमो दर्शने" इत्यादिसू. नये नम्पदस्थानुवृत्तिं न करोतीति स्वामिमते आयामयतीति उदाहरणे आयम- यतीति स्यात् । यमयतीति प्रत्युदाहरणे यामयति ब्राह्मणानिति स्यात् । एवमव. खादयति परिस्खादयतीत्युदाहरणे अवस्खदयति परिस्खदयतीति स्यात् । प्रत्युदा- हरणे च प्रस्खादयतीति स्यात् । एवञ्च पर्यवसितं नियमयन्निति प्रयोगः साधुरेव । नजपदानुवृत्तौ तु यमोऽपरिवे- पणे "स्खदिरवपरिभ्याञ्च” इति सूत्रद्वये उदाहरणं प्रत्युदाहरणञ्च मूलोक्तम्बोध्यम् । यदि "शमो दर्शने" इत्यादिसूत्रत्रये नम्पदानुवृत्तिरिष्टा नाभविष्यत्तदा "नकमि" इत्यादिसूत्रात्प्रागेव सूत्रत्रयस्य पाठमकरिष्यत् । तस्मात् स्वामिमतं न शोभनम् । भ्रेजे। अयं भाव:-"फणाश्च सप्तानाम्” इति सूत्रेण एत्वाभ्यासलोपार्थ भ्राज्धातोः फणादौ पाठः । पूर्व पाठस्तु "वश्वादि” सूत्रेण प्राप्तस्य षत्वस्य निषेधार्थः। तत्र हि राजधातुः फणादिलभ्यते तत्साहचर्यात् भ्राजधातुरपि फणादिरेव ग्राह्य इति पूर्वप. ठितभ्राजधातुविषये षत्वाभावः (१)सिध्यति । सस्वरिख । अयमाशय:-"आर्धधातुकस्येड्वलादेः इत्यादिविधिशास्त्रेभ्यः प्राक् “नेड्वशि कृति" "श्रयुकः किति" इत्यादिसूत्राणां प्रकरणमाचार्येण कृतमिति तत्सामर्थेन पर- मपि "स्वरति” इत्यादिसूत्रं बाधित्वा "श्रयुकः किति" इति निषेधः प्राप्तस्तमपि बा. धित्वा क्रादिनियमान्निस्यमिट् भवति । प्रणिमयते । अयम्भावः-प्रणिदयते प्रणिधयतीत्यादिप्रयोगे णत्वसिद्धयर्थ "नेगंद" इत्यादिसूत्रे (१) षत्वाभाव इति । 'सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्' इति परिमा. षयेति भावः। .

प्रभालङ्कृतफकिकासरलार्थ- . .. "घुमा” इत्यस्य स्थाने(१)घुप्रकृतिमाङिति पठनीयम्, घुश्च प्रकृतिश्च माङ्चेति हुन्छः तन्त्र प्रकृतिश्च सामीप्यात् घुमाडोह्या तथा च घोर्या प्रकृतिमांश्च या प्रकृति- स्तस्यां परायां सस्था नेर्नस्य गत्वं स्थादित्यर्थे दारूपा धारूपा च घोः प्रकृतिः मेङ माङ् च माङः प्रकृतिरित्युभयत्रापि या सिद्धम्भवति । বাঘ : ननु णत्वे कर्तव्ये पदवयाश्रितत्वेन बहिरङ्गतथा “परेश्च" इति सूत्रस्थासिद्धला. स्कथमत्र णत्वमिति चेन्न । पूर्व धातुरुपसर्गेण युज्यते, ततः साधनेनेति भाज्यवचनात् धातूपसर्गयोर्यकार्य तस्यान्तरङ्गत्वात् पूर्व धातोः साधनेन सम्बन्धो भवति तत- श्रोपसर्गेणेति मते तु पूर्वोक्तरीत्या पत्वस्यासिद्धत्वाण्णवमत्र दुर्लभम् । विव्याध । अयमाशयः-"लिटयभ्यासस्योभयेषाम्" इति सूत्रे उभयेषां ग्रहणसामर्थ्येन वच्यादीनां ग्रह्यादीनाञ्चाभ्यासस्य सम्प्रसारणमेव स्यात् । अन्यत् यत्प्राप्नोति तन्न- स्यादित्यर्थावबोधनेन परमपि "हलादिः शेषः” इति सूत्रं बाधित्वा "लिट्यभ्यास स्योभयेषाम्” इति सूत्रेण यकारस्य सम्प्रसारणे उक्तरूपसिद्धिः । इति भ्वादयः । अथादादयः। विचक्षणः प्रथयन् । अयमाशयः-चक्षिा व्यक्तायां वाचि धातौ इकारोऽनुदात्तस्तस्य फलञ्च "अनुदा तेतश्च हलादेः” इति सूत्रेण युचप्रत्ययसिद्धिः । ततश्च विचक्षण इति प्रयोगः सिद्ध्य. ति, नुम् तु न भवति । यतो यन्न धातौ इकारोऽन्तावयवो भवति तत्रैव "इदितो नुम् धातोः" इत्यनेन नुम् भवतीति(२)व्याख्यानात् । इत्यञ्चकारस्यानुदात्तत्वात् "अनु- दात्तडित आत्मनेपदम्" इत्यनेनानुदात्तत्त्वनिमित्तके आत्मनेपदे सिद्ध उकारोपा. दानं व्यर्थमेव । तदेव व्यर्थ सत् "अनुदात्तत्वलक्षणप्रयुक्तमात्मनेपदमनिस्यम्" इति ज्ञापयति । तेन स्फायन्निति प्रयोगे शतृप्रत्ययसिद्धिरिति कौमुदीकाराः । नवीनास्तु सति डकारे चक्षिधातुरन्त्येदित् न भवतीति नुमनिषेधार्थ डकारो- पादानं सफलमिति ज्ञापकत्वाभावेन स्फायन्नित्यादिप्रयोगा असाधव एवेति वदन्ति । (१) ननु "नेर्गदनद" इति कथमिह णत्वं स्यात् । शिद्विषये भावाभावेन भारूपत्वा- भावात् । अशिद्विषये कृतास्वेऽपि अस्मिन् णत्वं दुर्लभमेव । 'लक्षणप्रतिपदोक्त' परिभाषया ला. क्षणिकस्यास्य ग्रहणं न भवेत् । इति चेत्-समाधीयते-घुप्रकृतिमाङित्यादिना । (१) ज्या.. ख्यानादिति । व्याख्थानञ्च "इदितो नुम् धातोः" इत्यत्र इच्चासौ इच्चेति कर्मधारयसमासेन धातोविशेषणम् । तेन इदिदन्तस्य धातोर्नुम् भवतीति भावः ।

अदादयः । (१) युयात् । नन्दन हलादिपिस्वेन "उतो वृद्धिलुकि हति" इति सूत्रेण वृद्धिः कथन्नेति चेन्न ! "पिच्च डिन डिच्च पिन" इति भाष्यवचनेन विशेषनिहितेन डिवेन पिरवस्य बाधात् । पित्वं सर्वलकारेषु तिष्ठति । डिवं तु लिङ्लकारे श्वेति सारोशः अभीयात् । ननु पूर्वान्तवद्भावेनोपसर्गत्वं परादिवद्भावेन च धातुत्वं वर्तत एवेति "एतेलि. कि इति सूत्रेण हस्वः कथन्नेति क्षेत्र । "उभयत आश्रयणे नान्तादिवत्" इति वचन नेन निषेधात्। अध्यय। अयमाशयः- पूर्व धातुः साधनेन युज्यते' इति मते गुणे अयादेशे च कृते यण भवति ततश्चोत्तप्रयोगस्य सिद्धिः । 'पूर्व धातुरुप सर्गेण युज्यते' इतिमते तु धातूपस- गयोरेव कार्य पूर्व स्यादिति अन्तरङ्गत्वात्प्राप्तो दी? "गेरध्ययने वृत्तम्" इति सूत्रे अध्ययने इति पदनिर्देशान भवति । यदि पूर्व दीर्घः स्यात्तदोक्तप्रयोगनिर्देशोऽनुप- पन्नः स्यात्। अयं सार्वधातुकमात्रविषयः । अयम्भाव:-"सस्थानत्वं नमः ख्यात्रे” इति वार्तिकप्रत्याख्यानपरकमाष्यप्रामा. ण्येन ख्याधातुप्रयोगः सार्वधातुकविषये एव भवति, नत्वार्धधातुकविषये । तथाहि- ख्याधातोस्तृच्प्रत्यये ख्यात्र इति पदं सिध्यति । अथ च चक्षिका ख्याजादेशे तृच प्रत्यये ख्याने इति पदं सिध्यति । तथाचोक्तप्रकारद्वयेन सिद्धे ख्याने इति प्रयोगे वार्तिकसत्वे जिह्वामूलीयो न भवति । प्रत्याख्यानपक्षे च(२)यकारस्यासिद्धतया शान इत्याकार- कादेशे शपरत्वेन "शपरे विसर्जनीयः" इति सूत्रेण जिह्वामूलीयस्य निषेधो भवति । ख्याधातुप्रयोगे तु शरस्वाभावेन "शपरे विसर्जनीयः” इति सूत्राप्रपृच्या जिह्वा. मूलीयस्य निषेधो न भवतीति आरम्भप्रत्याख्यानयोः फलभेदः समायाति । फल भेदे च प्रत्याख्यानं शोभनं न भवतीति तादृशमाष्यासङ्गस्या ख्याधातोः प्रयोगः सार्वधातुके एवेति ज्ञायते। (१) युयादिति । अत्र केचित् 'युयात्' 'स्तुयात्' इत्यादौ "ङिच्च पिन पिच्च किन्न" इति भाष्यं नाश्रयन्ति । किन्तु "संज्ञापूर्वको विधिरनित्यः' इति परिभाषया समाधान कुर्वन्ति । अन्यथा "उतो वृद्धिलकि हलि" इत्यत्र "उत औत्" इत्येव वदेदिति भावः । (२) यकारस्यासिद्धतयेति । पादिकं "शस्य यो वा" इति सूत्रविहितत्वादिति भावः । woman दे० प्रभालङ्कृतफक्किकासरला!--- वार्तिकार्थस्तु "नमः ख्याने" इति प्रयोगे सस्थानत्वं नाम जिह्वामूलीयः स च न भवतीति "शस्य यो वा” इति वचनेन यो हि यकारः कृतः स सर्वस्मिन्नपि कार्य कर्तव्येऽसिद्धो भवतीति जिह्वामूलीये कर्तव्ये यकारस्यासिद्धत्वादुक्तप्रकारेग जिह्वामू लीयस्य निषेधे तदर्थं वार्तिकं निष्फलमेवेति प्रत्याख्यानप्रकारः । ददरिद्रौ। अयम्भावः-अक्षरसमाम्नाये (1)ओकारस्य प्राथम्येन "आत औ णल" इत्येव सिद्ध आकारविधानं दरिद्राधातौ श्रवणार्थम् । एवञ्च पक्षे आम् न भवतीत्यपि सिद्धम् । अन्यथाऽनेकास्वादामि सति फलाभावात्पुनरपि औकारविधानं व्यर्थमेव । यत्तु आर्धधातुकविवक्षायामाकारलोपे आदन्तत्वाभावादौ न स्यादिति केषा. चिन्मतम् । तन्न । औकारविधानेन "साम्प्रतिकाभावे भूतपूर्वगतिराश्रीयते” इत्यः थस्य बोधितत्वात् । स्वांशे त्रिफलीभूतमौकारविधानं सर्वत्रार्धधातुकविवक्षाया. मेवाकारलोप: स्यात् । णलि तु औकारादेशोत्तरमाकारलोप इति बोधयतीति सा. रांशः । इत्यदादयः। अथ जुहोत्यादयः। धा धातोः तसि शपः "जुहोत्यादिभ्यः श्लुः" इति श्ल्यादेशे "श्लो” इति द्वित्त्वे "श्नाभ्यस्तयोः” इत्यकारलोपे “दधस्तथोश्च” इति दकारस्य धकारे चत्वे च कृते रूपं सिध्यति । नचान "अचः परस्मिन् पूर्वविधौ” इति सूत्रेणाकारस्य स्थानिवदा- वेन झपन्तस्वाभावाद् भवभावो न स्यादिति वाच्यम् । सूत्रारम्भसामर्थेनाऽकार- लोपस्य स्थानिवत्वनिषेधात् । सिद्धान्ते तु "पूर्वत्रासिद्धे न स्थानिवत्" इति परि- भाषया त्रिपादीस्थे भभावे कर्तव्ये सपादसप्ताध्यायीस्थाकारलोपस्य-स्थानिवश्व- निषेधात् । परिभाषारूपयुक्त्या कार्यनिर्वाहे सति वचनारम्भाश्रयणन्निष्फलमिति तस्वम् । इति जुहोत्यादयः। अथ दिवादयः। आश्लिक्षत् । अयम्भावः-अत्र पुषादित्वादङि प्राप्ते-"निरवकाशो विधिरपवादः" इति वच- नेनापवादत्वात् "श्लिषः” इति सूत्रेण क्सः । (१) ओकारस्येति । यद्यपि प्रोऔकारयोः द्विमात्रत्वेन विशेषो नास्ति । तथापि ओ- कारस्य विवृततरत्वेन प्रयत्नलापवादित्यपि बोध्यम् ।

तुदादयः। न च "चिण भावकर्मणोः" इति सूत्रेण प्रालस्य चिणोऽपि “श्लिषः” इति सूत्रेण बाधः स्यादिति वाच्यम् । “पुरस्तादपवाद न्यायेन पुषाधङ एव बाधकत्वात्। एव "विष" इति सूत्रेणाऽऽलिङ्गनरूपधात्वर्थे असे सिद्ध 'आलिङ्गने” इति योगविभागेन विष्धातोरालिङ्गनेऽर्थ एव क्सो नान्यत्रेति नियम्यते ! तथा च-यदि "शल इगुष- धादनिटः क्सः” इति सूत्रविहितस्य क्सस्य "आलिङ्गने” इत्यनेन नियमो न स्यात्तदा पुनरपि योगविभागो व्यर्थ एव । व्यर्थः सन् “शल" इत्यादिसूत्रविहितस्यापि क्लस्य नियमं करोति । ततश्चानालिङ्गने समझिवजतु काष्ठांमत्यनाङ्। कर्मणि प्रत्यय चिण सिध्यति ॥ द्युतादिपाठात् ! अयनाशय-स्वादौ द्युतादिगणे पाठेनैव अमिदत् अमेदिष्टेति रूपदयसिद्धी दिवादिगणे पाठोऽमेदीदिति रूपनिवारणार्थः । इत्थञ्च गणद्वये पाठेन यदि रूपयलि. दिरेवेष्टा तदा धुतादिभ्यः पृथगात्मनेपदिपु भ्वादौ पाठेनामेदिष्टेति रूपम् , पुषादौ दिवादिगणे पाठेन च अमिददिति रूपं च सिद्धम्भवतीति धुतादिगणे पाठो निष्फलः । इति दिवादयः। अथ तुदादयः। विव्यच । अयम्भाव:-"व्यचेः कुटादित्वमनसि" इति वार्तिकं यत्रास्मिन्नः अस्सहशः कृद. न्तीयप्रत्ययः स्यात्तत्रैव(१) लगति । तेन उद्विचितुरित्यादिकृदन्तस्थले कुटादित्वेन्द्र "गाङ्कुटादिभ्योऽणिन्डित्” इति ङित्वेन “अहिज्याव्ययि” इत्यादिना सम्प्रसारणं सिध्यति । विव्यचेत्यत्र तु तिङन्तत्वेन णित्वाभावपक्षे वार्तिकाप्रवृत्या सम्प्रसारणामा- वः । अन्यथा तत्रापि सम्प्रसारण स्यादेव । सादृश्यञ्च कृदन्तत्वेन ग्राह्यम् । तृम्फति । अयम्भाव:-"शे तृम्फादीनाम्" इति वार्तिके आदिशब्दः प्रकाररूपार्थस्य वाच का। तथा तृम्फसहशाना धातूनां नुम् स्यादित्यर्थो भवति । 'सादृश्यञ्च नकारयुक्त- स्वेन । एवञ्च नकाररहिततृफादिधातुषु नुम्न भवतीति फलम् मता। अयमाशयः-"मस्जेरन्स्यात्पूर्वो नुम्वाच्या" इति वचनेन "मस्जिनशोझलि" इति (१) तत्रैवेति । यथा 'अब्राह्मणमानय' इत्युक्तो ब्राह्मणभिन्नं ब्राह्मणसदृशं कञ्चन नरमा- नीय कृती भवति । नतु लोहकाष्ठादिकम् । इदमेव पर्युदासस्वरूपम् । तद्वदत्रापि बोध्यम् ।

অন্যান্য কাঙ্কিাশা- सूत्रेण(१)जकारात्पूर्व नुभि सकारः संयोगादिर्भवति। मकारघटकाकारात्परे नुमि तु सकारस्य संयोगादित्वाभावेन सलोपो न स्यादिति ॥ इति तुदादयः॥ अथ तनादयः । सुटकात्पूर्वः। अगमाशयः-धातोः संयोगः पूर्वमुपसण (२) भवति । ततश्च तलिमित्तक कार्य तुड् भवति, ततश्च स्कृशब्दस्य द्वित्वं, ततः "पूर्वाः खश इति सलोपः। इस्थमा सञ्चस्करतुरित्यादिरूपे लिट्टे "सु (१) दशात्पूर्वः” इति सूत्रं विफलमिति भाछ- .. ७ काराशयः। मस्क्रियात् । अयम्भावः-"गुणोऽतिसंयोगायोः” इति सूत्रे नित्यं ग्रहणस्यानुवर्तनात् , यः सर्वदा संयोगादिः स्यात्तस्य गुणः स्यादिति सूत्रार्थीभवति । ततश्च कृधातुः सुटि सति संयोगादिः, तदभावेऽसंयोगादिरिति गुणामाः। एवञ्च संस्कृषीष्टेत्यादौ उच्चारणाव- स्थायां यः संयोगादिर्धातुर्भवति तस्यैवेडितीडभावो बोध्यः । इति लनादयः । ormance 16 अथ क्रयादयः। अबान्धाम् । नचात्र "एकाचो वशो मधु पन्तस्य स्त्रो" इति भषभावः स्यादिति वाच्यम् । "पूर्वनासिद्धम्” इति शास्त्रेण मनावविधायकस्यासिद्धत्वेन सिलोपासकारा- भावात् । नच प्रत्ययलक्षणेन पुनरपि भष्माव इति वाच्यम् । “प्रत्ययलोप" इति सूत्रम्प्रति (e) सिजलोपस्यासिद्धत्वात् । (१)जकारात्पूर्वमिति । यद्यपि अकारात् परत्र नुमि सत्यपि इदं सिध्यति । तथापि छन्त्यापूर्वी नुम् इत्यस्योदाहरणं-'मग्नः' इत्यादौ नलोपः। अन्यथा उपधावाभावान्नस्य लोपो न स्यादिति भावः। (२) उपसर्गेणेति । अत्र भाष्यं-पूर्व धातूपसर्गेणेति कृत्वा धातू- पसर्गयोः कार्यमन्तरङ्गम् , इति । (३) "सुटकात्पूर्व इति"। चिन्त्यमिदम् । अत्रायम्भा- ध्याशयः-'मुट्' इत्येवाधिकृतमस्तु, "कात्पूर्वः" इति “अडभ्यासव्यवायेऽपि” इति मास्तु इत्येव- भाष्ये विफलमित्याशयः ॥ (8) "सिज्लोपस्यासिद्धत्वादिति । प्रत्ययलक्षणसूत्रं विध्यर्थम्। "एकाचः" इति सूत्रे वसाहचर्यात्सादिप्रत्यय एव गृह्यते इति मतेनेदम् । यदा विदं सूत्र नियमाथै स्थानिवत्सूत्रदृष्टया च त्रिपादी नासिद्धा, तदा अल्बिधित्वान्न स्थानिवस्वमिति बोध्यम् ।

खुरादयः। एधिता। नचात्र "तीषसह" इति सूत्रेण विकल्पेनेट् स्यादिति वाच्यम् । अकारविशिष्टस. हधातु (१) साहचर्ये णाकारयुक्तस्यैवेषेर्ग्रहणात् । “हरेस्तकारे (२) श्यन्प्रत्ययात्प्रति- षेधः” इतिवार्तिकबलेन यत्र श्यन्प्रत्ययः स्यात्तत्रैवेषेः पाक्षिकस्येटोऽभावः स्यात् । एवञ्चानेड्विकल्पेन रूपद्वयं निर्बाधमेव । इति यादयः । अथ चुरादयः। चिन्त इति । अयमाशयः-चिन्त इति पाठे कर्तव्ये इदिकरणं णिच (३) विकल्पेन भवतीति ज्ञापयति । एवञ्च चिन्तति चिचिन्तेत्यादिणिरहितप्रयोगसिद्धिः फलम्भवति । णि- जभावपक्षे चिन्त्यात् चिन्स्यते इत्यादौ नकारस्योपधावेन “अनिदिताम्" इति प्रातो नलोपो न भवतीति स्वांशे चरितार्थञ्च । चुरादिपठितेभ्यः सर्वेभ्यो धातुभ्यः, पाक्षिको णिज भवतीति सामान्येनेदं ज्ञापकमिति केपाञ्चिन्मतम् । अत एव जगाण जगणतु- रित्यादिवृत्त्युदाहरणं सङ्गतम्भवति । परञ्च सामान्येन ज्ञापनपने "आषाद्वा" इति वचनस्य वैययं भवतीति (४) विशेषापेक्षं ज्ञापकम् । यत्रि धातौ तु इकारामावेऽपि णिचाऽभावयने यन्त्र्यते इत्यादौ तकारस्योपधात्वेन नलोपस्य प्राप्तिरेव नास्तीति इकारोच्चारणं स्वाशे सफलतां न लभते इति तस्य ज्ञापकस्वन युक्तम् । चिन्त्यादि- त्यादौ प्राप्तनलीपस्य निषेधार्थमिकारोच्चारणं विध्यर्थमेवास्त्विति न शङ्कयम् । नलोपे कर्तव्ये णिलोपरच स्थानिवद्भावेन नकारस्योपधात्वाभावात् । औननत् । अयमाशयः-यियविषति पिपविषते इति प्रयोगद्वये इटि सति "द्विवंचनेऽचि" इति निषेधेन पूर्व द्वित्वेऽभ्यासेऽकाराभावेनेत्वं दुर्लभं स्यादिति तत्रेकारलाभार्थम् 'ओः पययोः' इत्येव सूत्रयितव्ये वर्गप्रत्याहारजकारग्रहणं व्यर्थीभूय 'णिचि अच आ. देशो न स्याद् द्वित्वे कर्तव्ये' इति ज्ञापयति । तेन औननत्' इति रूपसिद्धिः फलम् । (१)साहचर्येणेति । यद्यपि 'बह घुह चक्यर्थः' इति दिवादिरपि सहि वर्तते तथापि सहेति शपा निर्देशात् भौवादिकेनैव सहिना 'सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्' इति परिभाषया साहचर्यं ग्राह्यमिति भावः। (२)श्यन्प्रत्ययादिति । श्यन्प्रत्ययवतः इस्तकारे परे इड्विकल्पप्रतिषेधः इति वार्तिकार्थः । तथा च देवादिकाद्विकल्पो नेति फलितम् । (३) णिच् विकल्पेनेति । 'सर्वेऽपि चुरादयो विकल्पेन णिचं लभन्ते' इति सामान्यापेक्षयेति भावः। (४) विशेषापेक्षमिति । असंयोगोपधेकारान्तरूपधातोर्विकल्पेन णिच् इत्या- कारकमिति भावः।

६४ प्रभालङ्कृतफक्किकासरलार्थ - अन्यथा प्रथममकारलोपे ततो निशब्दस्य द्वित्वे औनिनदिति रूपापत्तिः । अबी- भवदित्यादौ परिनिष्ठिते रूपे, औननदित्यत्र च साधनदशायां द्वित्वस्योत्तरखण्डेऽका- रलाभेन ज्ञापकस्य सजातीयापेक्षत्वाचन द्विरुक्तावुत्तरखण्डेऽवर्णो लभ्यते तत्रैव परि- भाषा लगति । इत्थञ्चाचिकीर्तदिति रूपं सिद्धम्भवति । अन्यथा तत्रापि परिभाषा- प्रधृत्तौ पूर्व कृत् शब्दस्य द्वित्वे उक्तरूपासिद्धिः । परिभाषाया अप्रवृत्तौ सु पूर्वम् "उपधायाश्च” इति सूत्रेणेरवे ततो द्वित्वादौ उक्तरूपसिद्धिः सुलभा । अपुस्फरदिति रूपसिध्यर्थ णिचीति निमित्तसप्तमी मान्या, परसप्तमीस्वीकारे तु चिस्फुरोणो” इत्यात्वं णिजव्यवहितकार्यत्र भवतीति परिभाषाया अप्रवृत्तौ पूर्वमा- वे उक्तरूपन सिध्यतीति ।। १८९ ॥ कंसमजीघनत् । अयमाशयः-कंसवधमाचष्टे इति विग्रहे कंसवधप्रातिपदिकात् "प्रातिपदिकाद्धा. स्वर्थे बहुलमिष्ठवच्च" इति वार्तिकेन णिचि "आख्यानात्" इत्यादिना कृतोऽपप्रत्य. यस्य लुकि वधप्रकृतेर्हनरूपेण परिवर्तने प्रकृतिवत् द्वितीयान्ते कारके च कृते कसंघा. तयतीति रूपं सिध्यति । नचान लुकि कंसशब्दात्प्रागट कंसशब्दस्य द्वित्वं कुत्वतत्वाभावश्च शक्यः । "प्रकृतिवच्च" इति चकारस्य भिन्नक्रमपाठेन सर्वेषां सिद्धस्यात् । तथाहि-कंसवध- शब्दाद्विहितो णिच् इति “यस्मात्" इति सूत्रबलेन कसविशिष्टस्यैवाङ्गसंज्ञा स्यात् । सत्याञ्चाङ्गसंज्ञायां कंसशब्दात्प्रागट कंसशब्दस्य द्वित्वञ्च स्यात् । तथा च "धातोः स्वरूपग्रहणे" इति परिभाषया कुत्वतत्वेऽपि न स्याताम् । ततश्च सर्वेषां निवारणार्थ वार्तिके 'प्रकृतिवच्च' इति चकार: कारकाग्रे पाठयः । इत्थञ्च यादृशं द्वितीयान्तं कारक कंसमिति हन्धातोः पृथगासीत् , तदत्रापि कंसमिति द्वितीयान्तं कारकं हनधातोः पृथग भवतु । यादृशं कार्यञ्च कुस्वतत्वादि ह- नधातोर्भवति एतदप्यत्र भवतु। एवञ्च हन्धातोरेव सर्व कार्य स्यादिति सारांशः। यत्र सूत्रे धातोर्नामोच्चारणं भवति तेन सूत्रेण धातोर्विहिते प्रत्यये एव कार्य भवतीति परिभाषार्थः । अत्र प्रातिपदिकात्प्रत्ययो विहितो न तु धातोः ॥३९०॥ इति चुरादयः । अथ ण्यन्तप्रक्रिया । ण्या(१)कृतिनिर्देशात्। अयमाशय:-णि(२)च्वावच्छिन्नसकलणिच्प्रत्यये परे यत्राग्लोपिनो धातवः स्यु. (१) ण्याकृतीति । "ते प्राग्धातोः" इत्यादौ गत्याकृतिनिर्देशवदिति भावः । (२)णि. च्त्वावच्छिन्नेति । परे तु जातेस्रहणमत्र न सहन्ते । जातेः पौर्वापर्याभावेन हस्वसन्वद्भाव- विधायके चपरे पौ इति विशेषणासङ्गतेरिति बोध्यम् ।

ण्यन्त प्रक्रिया। स्तत्रैव "नाग्लोपि” इत्यादिना उपधाह्रस्वनिषेधः सन्वदावनिषेधश्च भवति। तेन चोरिधातोः हेतुमण्णिचि एकस्मिन् णिचपरे एकस्य णिच्प्रत्ययस्य लोपेऽपि उपधाहस्यो दीर्घश्च सिध्यति । इत्थञ्च यत्र णिप्रत्यये परे णिप्रत्ययादन्यस्याको लोपस्तत्रैव निषेध. विषयक सर्व कार्यम्भवति । अत्र तु णिप्रत्ययस्यैव लोप इति सारांशः ॥ ११ ॥ मा भवानिदिधत अयम्भावः-उपधाहरवे द्वित्वादिकार्ये च कृते उत्तरूपस्य सिद्धिः। नचात्र "असि- द्धं बहिरङ्गमन्तरङ्गे” इति परिभाषया (१)द्वित्वमेव पूर्व स्यादिति बाधाम् । ओणे. दित्करणेन बहिरङ्गस्याप्युपधाहस्वस्य प्राबल्बबोधनात् । यदि द्विस्वमेव पूर्व स्यात्तदा आणिधातालुंड चलि निकास्य द्वित्वे "णौ. चङयुपधाया” इति हस्वे कर्तव्ये चपरको थोणिस्तदन्यवहितमङ्ग 'ओ' इति तस्यो पधाया दीर्घाभावेन ह्रस्वाप्राप्त्या हस्वनिषेधार्थम् ओण धातो कारोपादान व्यर्थमेव । तदेव व्यर्थ सत् 'उपधाकार्य द्वित्वात्प्रबलम्' इति बोधयति ॥ १९२ ॥ औब्जिजत् । अयं धातुरुपदेशे 'उद्ज आर्जवे इत्याचार्येण पटितस्तेन "नन्द्रा" इति निषेधाजि शब्दस्य द्वित्वे "भुजबुब्जो” इति सूत्रे उब्जेतिनिर्देशेन निपातनाहकारस्य बकारे णिलोपे च कृते उत्तरूपं सिध्यति । यदि निपातनकृतबकारस्सदा तिष्ठेत्तदा दकारो. चारणं व्यर्थमेव स्यादिति तत्सामर्थ्याद्विरवानन्तरमेव बकारः ॥ १९३ ॥ कथं तर्हि(२)विस्मापयन् । अयमाशयः-अन्न मनुष्यवाचेतिकरणेनैव राज्ञो विस्मय इति सिंहरूपप्रयोजका. द्विस्मयाभावेन "नित्यं स्मयतेः"सूत्राप्रवृत्तौ आत्वाभावेन पुग् न स्यात् । अथ च यदि प्रयोजकाद्विस्मयः स्वीक्रियते तदा "भीस्म्योहेतुभये" इत्यात्मनेपद मपि स्यात् । तथाच शतृप्रत्यययुक्त रूपमनुपपन्नं भवतीति सन्देहावसरे विस्मायय- नित्येव पाठ इति (३) साम्प्रदायिकाः। अथवा राजा विस्मयते मनुष्यवाक प्रेरयतीति मनुष्यवाक राजानं विस्मापयते इति, तां मनुष्यवाचं सिहः प्रेरयतीति सिंहः तया राजानं विस्मापयन्निति ण्यन्ता. पणौ मनुष्यवाकरूपप्रयोजकाद्विस्मयो विद्यत इत्यावा(४)दिकार्य सुलभम् ॥ १६४ ॥ (१) द्वित्वमेवेति । अन्तरङ्गत्वादिति भावः। (२) विस्मापयनिति । प्रात्वं कृत- मात्मनेपदञ्च नेत्यत्र बीजाभावः इति प्रश्नः। (३)साम्प्रदायिका इति । उभौ तालव्यय- कारावेवेति न दोषः इत्युत्तरम् । (४) आत्वादीति। आदिना शतृप्रत्ययस्य सङ्ग्रहो बोध्यः ।

প্রালজুনদন্ধিাবলাখ- ऐयियत् । अयमाशया-(१) ईय॑तेस्तृतीयस्येति वक्तव्यम्” इति वार्तिकेन तृतीयव्यअनस्य तृतीयैकाचश्च द्वित्वं भवति । ततश्च तृतीयव्यञ्जनस्य द्वित्वपक्षे व्यञ्जनापेक्षया तृती- यच्यञ्जनं यकारस्तसहितस्य यि इत्येकाचो द्विखे णिलोपे च कृते रूप(२)सिध्यति । तृतीयैकाचा द्वित्वपक्षेत्र तृतीयेकाचोऽभावेन वार्तिकाप्रवृत्तौ "अजादेर्द्वितीयस्य" इति ज्यशब्दस्य द्विवे यलोपादौ च कृते ऐर्षिष्यदितिरूपम् । एवञ्च ऐध्धियदिति रूपसिद्धयर्धवार्तिकम् । ऐयिष्यदिति तु "अजादेद्धितीयस्य" इत्यनेनैव सिद्धमिति सारांशः ॥ १९५ ॥ (३) निवृत्तप्रेषणात्। अयम्भावः-शयनादुत्थितं स्वभर्तारं प्रियाः प्रार्थयन्ते । वयस्याः प्रेरयन्तीति वयस्याः प्रियाभिः प्रार्थयन्तीति दशायां संख्याच्यापारत्यागे याशोऽर्थः शुद्धार्थ. धातोभवति । तादृशोऽर्थो प्यन्ते सत्यपि भवति । इत्थञ्च प्रिया यौवनेन लज्जा वि. हाय स्वस्वभर्तारं पुनरागमनाय स्वयमेव प्रार्थयन्तीति वाक्यार्थो भवति । स्वार्थ णिचि तु आत्मनेपदिनोऽर्थधातोः प्रार्थयन्ते इत्येव रूपं स्यान्न तु प्रार्थयन्तीति सा- रांशः॥ १९६॥ इति ण्यन्तप्रक्रिया॥ अथ सन्नन्तप्रक्रिया । एषिषिषति । नचात्र नित्यत्वाद्गुणात्वं द्वित्वं स्यादिति वाच्यम् । ओणधातौ ऋकारोच्चार- णेन 'उपधाकार्य हि द्वित्वात्प्रबलम्, इति (४)सामान्यतो बाधितत्वात् ॥ १७ ॥ ऊर्जुनविषति । नन्वत्र परत्वात् “सार्वधातुकार्धधातुकयोः” इति गुणेऽवादेशे च कृतेऽभ्यासे उ. कारस्य श्रवण स्यादिति चेन्न । “द्विवंचनेऽचि" इति सूत्रेग गुण()निषेधात् । न. (१) ईयतेरिति । ईमंतिप्रकृतिप्रत्ययान्तधातोरित्यर्थः । स च ण्यन्तः सन्नन्तञ्च विनि- गमनाविरहाद्वोध्य इति भावः। (२) रूपमिति । 'ऐयियत्' इति रूपमिति भावः । (३)निवृत्तप्रेषणादिति । "निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजु च्यते” यस्माद्धात: प्रेषणा निवृत्ता तस्माद्धातोः प्रकृतसम्बन्ध्यर्थे णिच् भवतीति भावः। (४) सामान्यत इति । "यदयमोणिमृदितं करोति तज्ज्ञापयति-"द्विवंचनाद्धस्वत्वं बलीयः" इति भाष्यं सामान्यतो ज्ञापके प्रमाणमिति भावः । (५) गुणनिषेधादिति । "द्विवंचनेऽचि" इति सूत्रेण स्थानि- रूपस्यातिदेशेन नोशब्दे नवशब्दे वा नुशब्दबुध्या कार्यप्रवृत्या, आदेशस्य गुणस्य निषेधेन वा अभ्यासे उकारश्रवणोपपत्तेरिति भावः।

६ यङलुगन्तप्रक्रिया। चात्र "सन्योः" इति सूत्रेण सन्नन्तस्य द्वित्वं प्रति कार्यित्वादिटो निमित्तत्वं न स्यादिति वाच्यम् । इहेटो द्वित्वरूपकार्यत्वाभावेन निमित्तत्वात् । अत्र "सन्यको इति सूत्रेण प्रथमतः सन्नन्तसमुदायस्य द्विस्वरूपकार्य प्राप्तं भवति, परञ्च "अजादे- द्वितीयस्य" इति सूत्रबलेन नुशब्दस्यैव द्वित्वरूपकार्यम्भवति न विदः । इत्थञ्च "कार्यमनुभवन् हि कार्यो निमित्ततया नाश्रीयते” इति परिभाषाया अवसर एवं नास्तीति सारांशः। यत्र कार्यमनुभवन् कार्थी वर्तते तत्रैव कार्थी निमित्तत्वेन न स्वीक्रियते इति परिभा- पार्थः । अत्र 'यदागमाः' इति परिभाषया इड्रूपसन् द्वित्वान्ननुभवति ॥१९८॥ अरिरिषति। अयमाशयः-अत्र गुणे "अजादेर्द्वितीयस्य" इति सूत्रबलेन(१)रिसशब्दस्य द्वित्वे सलोपे प्रयोगः सिध्यति । नचात्र "द्विवंचनेऽचि” इति निषेधाद्वित्वे कर्तव्ये गुणादेशो न स्यादिति वाच्यम् ? इटो द्वित्वेन 'कार्यमनुभवन्' इत्यादिपरिभाषया तस्य निमि- त्तत्वायोगात् । अत्रेट एवं द्वित्वं भवतीति कार्यित्वं वर्तते तस्य, इति इटो निमित्तत्वे- नाश्रयणं भवतीति "द्विवंचनेचि" इति सूत्रन्न प्रवर्तत" इति सारांशः ॥ १९९॥ उचिच्छिषति । अयमाशय:-(२) द्वित्वविषये "पूर्वत्रासिद्धीयमद्वित्वे” इति परिभाषयाऽसिद्धत्वं न वर्तते इति च्छशब्दस्य द्विस्वे छकारलोपे प्रयोगः सिध्यति । न चात्र "निमित्तापाये नैमित्तिकस्याप्यपायः" इति परिभाषया छलोपे सति तुकोऽपि निवृत्तिः स्यादिति वाच्यम् । "आख्यानात्" इत्यादिवार्तिके प्रकृतिप्रत्यापत्तिवरनेन "च्छ्वोः शूडनुना- सिके च" इति सूत्रे तुग्विशिष्टछकारपाठेन च परिभाषाया अनित्यत्वज्ञापनात् । यदि परिभाषायाः प्रधृत्तिः सर्वत्र स्यात्तदा छकारस्य शकारे कृते तुको निवृत्तिः परिभाषयैव स्यादिति सूत्रे तुरग्रहणं व्यर्थमेव। तदेव व्यर्थसदुतपरिभाषाया अनित्यस्खे प्रमाणं भवतीति सारांशः॥२०॥ इति सन्नन्तप्रक्रिया ॥ अथ यङलुगन्तप्रक्रिया । बोभवीति । अयम्भावः-नन्वत्र प्रत्ययलक्षणेन डित्वधममानीय “अनुदासहित आत्मनेप- (१) रिस् शब्दस्येति । क्र धाताः सनि तस्य इटि धातोगुणे च कृते अरिस् इति स्थिते "अजादेद्वितीयस्य” इति सूत्रेण रिस् शब्दस्य द्वित्वमिति भावः। (२) द्वित्वविषय इति । उच्छ धातोः सनि इटि च कृते "प्रजोदेद्वितीयस्य" इत्यनेन द्वित्वे कर्तव्य शकते-इचुत्वस्यासि. द्वत्वात् चछाभ्यां सहितस्यैटो द्वित्वं कथमिति । समाधीयते-'पूर्वत्रा सिद्धीयमद्वित्वे' इत्यनेन द्वित्वभिन्ने कार्ये कर्तव्ये पूर्वदृष्टया परासिद्धत्वं द्वित्वे कर्तव्ये तु श्चुत्वं सिद्धमेवेति भावः । . :

प्रमालङ्कफविककासरलाथै- , ७ . , दम्” इति सूत्रेणात्मने लथं न स्यादिति चेदा (१)डित्वस्य प्रत्ययाप्रत्ययोभयवृत्ति स्वेन प्रत्ययलक्षणसूत्राप्रवृत्तेः। यो हि धरः लेबलग्रत्यये तिष्ठति तस्यैव धर्मस्य प्रस्थाय- लक्षणेनानयनं भवति यश्च धर्मः प्रत्यये पते, अथ च धातुजपि वर्तते तस्य धर्म स्यानयनं न भवति । डिमधर्मश्च यादिप्रत्ययेषु वर्तते, अथच शीडादिधातुवपि वर्तते, इति तस्य धर्मस्थानयनं न भवतीति सारांशः। अत एव शोभना हषदः यस्मिन् प्रासादे इति विग्रहे प्रत्ययलक्षणेनालन्तत्वमादाय "अत्वलन्तस्य" इति दीघोऽपि न भवतीति । असन्तस्वस्योभयेष्वपि विद्यमानत्वात् । "भूसुपोस्तिङि" इति गुणनिषेधे सिद्धे “बोभूतु” इति गुणाभावनिपालले छन्द- स्येव गुणनिषेधो भवतीति नियम करोति । एवञ्च यदि भाषायां यङलुक न स्यातदा नियमस्य किमपि फलमेव नास्तीनि यङ्लुक भाषायामपि सिद्धो भवति । न च द्वित्वे बोभू इति समुदाय भूधातोरभावेन "भूसुबोस्लिङि" इति सूत्राप्राप्ती गुणामाको निपा. तनीय एवेति वाच्यम् । षष्टाध्यायीस्थ सूत्रेण यद्वित्वं भवति तत्पुनरपि(२)तस्यैबो- स्वारणं भवति, न तु नवीनस्य द्वितीयस्य सूशब्दस्य विषयगो द्वचनं पाष्टम् इति सिद्धान्तात् ॥२०१॥ यकारवकारान्तानां यङ्लुङ्गनास्ति । अयम्भाव:-"च्छवोः” इति सूने कितिग्रहणमनुवर्तते नवेति विचारे भाष्यकृता यदि क्षितिग्रहणमनुवर्तते तदा प्रष्ट.() प्रष्टुमित्यादौ "च्छवोः” इति सूत्राप्रवृत्ती षत्वार्थं "ब्र" इति सूत्रे छकारग्रहण कर्तव्यं । अथ च यदि नानुवर्तते तदा पूर्वोक्त- सूत्रेण छकारस्य शकारे शान्तत्वादेव षत्वसिद्ध्या "वश्व" इति सूत्रे छकारग्रहणं न कर्तव्यं भवतीत्येतावानेव विशेष इत्यभिहितम् ।। इत्थञ्च यदि वान्तधातुभ्यो यङ्लुक् भवति तदा दिवु धातोर्यलुकि इडभावपक्ष किति ग्रहणानुवृत्तौ ऊठोऽभावे देदेति देदेषीतिरूपम् । अथ च यदि तितिग्रहणस्य ना- नुवृत्तिस्तदा उठि देद्योति देद्योषीतिरूपम् । एवं यान्तानामपि प्रयोगे भेदो बोध्यः । ततश्च प्रयोगेष्वपि भेदो वर्तते इति 'एतावानेव विशेष' इति भाष्यनियमो निष्फलो भवतीति तस्मात् भाष्यनियमाद् "यकारवकारान्तानाम्' इत्यादिवचनं निस्सृतम् । परञ्चैतघालुनिवर्तनं वान्तांशे यत्र “छ्वोः" इत्यूल भवति तद्विषयकम् । “ज्वर- स्वर"इत्यादिसूत्रेण यत्रोठ भवति तत्र यङलुग भवत्येवेति युक्तम्। माधवादीनां सम्म- (.)डित्वस्येति । न चायमनुबन्धनिर्देशः इति शङ्कथम् । शितपानिर्देशादिसाहच. येण यदीयानुबन्धनिर्देशस्तत्प्रकृतिकयङ्लगन्ते तस्याप्रवृत्तिरित्यर्थस्य स्वीकारादिति भावः । (२) तस्यैवोच्चारणमिति । 'प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणम्' इति परिभाषयेति भावः।(३) प्रष्टेत्यादाविति । न च प्राङ् इत्यत्र सोलों पे षत्वार्थ छग्रहणमावश्यकमिति वाच्यम् । किब निमित्तशादेशस्य दुर्वारत्वात् । विचोऽसार्वत्रिकत्वाच्चेति भावः।

- नामधातुप्रक्रिया। लञ्च । “ळ वो इतिसूत्रे भाष्यकारेण विचारः कृतस्तत्रैव च ऊटि कृतेऽकृते वा फल. अदो भवतीति तरखूनविषयके ऊन्येव यङलुक नेति लाशः ॥ २०२॥ इति यङलुगन्तप्रक्रिया अथ नामधातुप्रक्रिया । अवगल्भाञ्चके । नचात्र विष्प्रत्ययसभियोगेनाच्प्रत्ययस्यानुनासिकत्वादिनिपातनाद् गल्लादिघट- काकारस्य लोपेऽनेकाच्वाभावेन आम् न स्यादिति वाच्यम् । 'साम्प्रतिकाभावे भूत. पूर्वगतिराश्रियत' इति परिभाषया आम्प्रत्ययस्य सिद्धत्वात् । उक्तवचने प्रमाणञ्च "आचाहेऽवगत्मा इत्यादिवार्तिकमेव । नचाचारेऽर्थे ऽवगल्भते इत्यादावात्मनेपदार्थ शातिक सार्थकमिति वाच्यम् ! "धातूनामनेकार्थः” इतिवचनेन प्रत्ययरहिताल्मा. दिधातोरप्याचारेऽथै शक्तिप्रदर्शनादबगल्भते इत्यादी (1)तङः सिद्धत्वात्। वार्तिके वोपसर्गविशिष्टपाठसामर्थन केवलगल्भाविधातोः उपसर्गान्तरविशिष्टाच्च गल्भा- दिधात क्याडेव भवतीति माध(२)वादयः । परञ्च व्यक्किपोनास्ति विवादो द्वयामपि आध्यम् । किन्तु अवोपसर्गरहि- तेभ्यो गल्मादिभ्यः किषि पति परस्मैपदमेव स्याबस्वात्मनेपदमित्येव वक्तुं युक्तम् । वार्तिकस्य मुख्यप्रयोजनं प्रयोगे आम्प्रत्ययस्य सिद्धिः । आत्मनेपदं तु बौण फल- मितितत्वम् ॥ २०३ ॥ उपसर्गसमानाकारम् । अयमाशया-युद्धे योऽयं ग्रामशब्द इति व्याख्यानेन केवलनामशब्दस्य युद्धे श- क्यभावात्सनामशब्दस्य लाभात् "तत्करोति इत्यादिना णिचि समामयते इत्या- दिसिद्धौ चुरादौ 'संङ्माम युद्धे, इति संविशिष्टग्रामशब्दो व्यथाभूय "उप(३)वर्गसमा- नाकारम्" इत्यादिवचनं ज्ञापयति । तेन स्वमनायतेत्यादौ खुपसर्गस्य पृथक्करणं फलं भवति । अथ च ज्ञापकस्य सजातीयापेक्षत्वेन यत्रोपसर्गस्य सम्पूर्णरूपेण स्थितिस्त- (१)तङ सिद्धत्वादिति । सर्वप्रातिपदिकेभ्यः" इति वार्तिकेन प्रातिपदिकमात्रात् कि विधीयते इति अवगल्भादपि अनेन किपि सिद्ध तत्सन्नियोगेनानुदात्तत्वानुनासिकत्व मात्र- मच्प्रत्ययस्य "प्राचारे अवगल्भ" इत्यवगल्भादिषु प्रतिज्ञायते । लाघवादन्यत्र तु गल्भप्रगल्भा- दिप्रातिपदिकेषु किपि परस्मैपदमेव भवति न तु तङिति भावः। (२) माधवादय इति । तेषामाशयस्तु “आचारे अत्रगल्भ' इत्यत्र सुप इत्यनुवर्तते । तथाच-केवलोपतगांन्तरवि- शिष्टादवगल्मादिसुबन्तालयडेव न तु विविति । (३) उपसगैति। 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक क्रियते' इति वचनमत्र समानाका रमिति क्रियायोगाभावादुपसर्गों नेत्यभिप्रायेणेति भावः । .

प्रभालतफलिकासरलार्थ- चैव पृथक्करणं भवति, यत्र तु गुणादेशेनोपसर्गस्यापहरणं भवति तत्र पृथक्करणन्न भवति । ततश्च ओढ इवाचर्येति विग्रहे आङः पृथक्करणाभावेनाव्ययपूर्वपदत्वाभा- वाल्ल्यप् न भवतीति फलम् । ज्ञापकस्य विशेषापेक्षत्वे-'उस्योमावाटः प्रतिषेधो वक्तव्यः” इति वार्तिकं तत्प्रत्याख्यानपरकम् "आटश्च" इति सूत्रे चकारग्रहणश्च प्रमा- पम् । अन्यथा-औढीयदित्यादौ धातुसंज्ञायां कर्त्तव्यायामाङः पृथक्करणेन-ओ- माङो श्व" इति सूत्राप्रवृत्तो वार्तिकं व्यर्थमेव । एवञ्च पररूपादिकार्याप्रवृत्तौ पुनई- द्धिविधानाथं चकारग्रहणमपि व्यर्थम् । "आटच" इति सूत्रे चकारग्रहणम् "अटश्च" इति वृद्धिविषये यथात् कार्य प्राप्नोति तत्तत्सव निवारयतीति चकारग्रहणेनैव पररू- पन्न स्यादित वार्तिकं निष्प्रयोजनमिति वार्तिकं प्रत्याख्यातं भगवता ॥ २०४ ॥ वृद्धौ सत्या हिलोपः। अयमाशयः-"वृद्धोपो बलायान्” इति भाष्यवचनात्पूर्व टिलोपे अग्लोपित्वा- होघसम्बद्रावयोरभावात् 'अजहलत् , अचकलत्' इति रूपद्वयसिद्धी "हलिकल्योरद- न्तस्वनिपातनं व्यर्थमेव, तदेव व्यर्थीभूय वृद्धौ सत्यां टिलोपो भवतीति वचनं ज्ञाप यति । इत्थञ्च स्वाशे चरितार्थ फलञ्च-अपीपटत् अपपटदितिरूपयसिद्धिः, पूक्ति- भाज्यवचनेन पूर्व टिलोपस्ततो वृद्धिरिति पक्षः सिद्धो भवति । हलिकल्योरदन्तव- निपातनेन च पूर्व वृद्धिस्ततष्टिलोप इति पक्षः सिद्धो भवति । एवञ्च प्रमाणहयेन मतदथं सिद्धम्भवतीति पूर्वोक्तरूपद्वयस्थापि सिद्धिरिति सारांशः ॥२.५ ॥ स्वादयति। "मपर्यन्तस्य" इत्यधिकारात् "प्रत्ययोत्तरपदयोश्च” इति सूत्रेण त्वादेशेऽन्त(१) रङ्गत्वात्पूर्वम् “अतो गुणे" इति पररूपे ततः "प्रकृत्येकाच्" इतिटिलोपनिषेधे घृद्धी च सत्या(२)तसिद्धिः। नच "प्रकृत्यैकाच्" इति सूत्रस्योदाहरणं वार्तिककारेण प्रेष्ठः प्रेयानीति दत्तम् । तच्चोदाहरणं भाष्यकारेण टिलोपे कर्तव्ये "असिद्धवदन्नाभात्" इति सूत्रेण प्रादेशस्यासिद्धत्त्वात् , प्रादेशेऽकारोच्चारणसामर्थ्यावति हेतुछयेन साधि. तम् । एवञ्च "प्रकृत्येकाच्" इति सूत्र भाष्ये प्रत्याख्यातमिति वाच्यम् । प्रेष्टेत्या- दिप्रयोगोऽन्यथा सिद्धो न तु "प्रकृत्यैकाच" इति सूत्रस्य मुख्योदाहरणमित्येव तद्भाष्याशयात् । मुख्योदाहरणं तु स्वादयतीस्यादयः। वार्तिककारोक्तादाहरणं त्व- न्यथासिद्ध भवतीत्येव भाष्यतात्पर्य नतु तत्सूत्रमेव न कर्तव्यमिति तत्प्रत्याख्थाने तात्पर्यमिति भावः ॥ २०६ ।। (१)अन्तरङ्गत्वादिति । न च “वार्णादाज बलीयः" इति टिलोपस्य व प्रवृत्तिरुचितेति वाच्यम् । व्याअयत्वात्। (२) तत्सिद्धिरिति । वादयति सिद्धिरिति भावः। परंतु वापयति, 'मापयति' इत्येबाहुः । वार्णपरिभाषा व्याश्रयेऽपि 'इयाय' इत्यादौ प्रवर्तते, तस्या अनित्यत्वे दृढतरमानाभावः इति भावः ।

कण्डवादयः। . शावयति। अयम्सावः-श्वा नमाचष्टे इति विग्रहे "नस्तद्धिते" इति टिलोपे (१)सम्प्रसारणे वृद्धौ सत्यां च तसिद्धिः । नचान "प्रकृत्येकाच्" इति प्रकृतिभावे टिलोपो न स्या- दिति वाच्यम् । “येन (२) नाप्राप्तन्यायेन" "टेः" इत्यस्यैव बाधकत्वात् । यत्र यत्र "प्रकृत्यैकाद” इति सूत्रं प्रवर्तते तत्र तत्र "नस्तद्धिते” इति सूत्रं न प्रवर्तते। ":" इति सूत्रं तु-यत्र यत्र "प्रकृत्येकाच्" इति प्रवर्तते, तत्र तत्र सर्वत्रैव प्रवर्तते, इति टे" इत्यस्यैव बाधकं सूत्रम् । प्रेष्ठेत्यादौ "प्रकृत्यैकाच" इति सूत्रविषये "नस्तद्धि- ते" इति न प्रवर्तते "टेः" इति सूत्रन्तु प्रवर्तत एवेति तत्वम् । इष्टनि यद्यत् सूत्रं प्रव. तते तस्यैव तस्यैव सूत्रस्यातिदेशो भवति । इत्थञ्च ब्रह्मिष्ट इत्यादौ परत्वात् "2" इत्यनेनैव टिलोपः सिद्धो भवतीति "नस्तद्धिते” इति सूत्रस्य तत्राप्रवृत्तिः । तथा च "नस्तद्धिते” इति सूत्राप्रवृत्तौ शुनयतीत्येवरूपं भवतीति केषाञ्चिन्मतम् ॥ २०७ ॥ तिराययति । तिर्यञ्चमाचष्टे इति विग्रहे णिचि टिलोपे तिर्यादेशे वृद्धौ च सत्यां तसिद्धिः । नचान टिलोपेनाचधातुत्त्वाभावात्कथं तिर्यादेश इति वाच्यम् । “असिद्धं बहिरङ्गम. तरङ्गे" इति परिभाषया तिर्यादेशे कर्तव्ये टिलोपस्यासिद्धत्वेन अन्चधातुत्वसत्वात् । न च तिर्यादेशे कृते पुनष्टिलोप: स्यादिति वाच्यम् । यथाऽपाचितरामित्यत्र "असि. वदत्राभात्" इति सूत्रेण प्रथमतलोपस्यासिद्धत्वेन तरब्घटकतकारस्य पुनश् "चि. णो लुक्” इति सूत्रेण लुङ् न भवति । तथाऽत्रापि प्रथमटिलोपरयासिद्धत्वेन भूयष्टि. लोपाभावात् । (३)अथवा "अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्" इति परिभाषया टिलोपा- भावो बोध्यः ॥ २०८॥ इति नामधातुप्रक्रिया। अथ कण्ड्वादयः। द्विधा कण्डवादयः । अयम्भाव: 'कण्डूज गाविघर्षणे, इति धाती कण्डु इति ह्रस्वान्त एवं पठित- व्यः । तथाच-''अकृत्सार्वधातुकयोः" इति दीधै कण्डूयते इति रूपसिद्धया दीर्धा- तपाठो ज्ञापयति-"कण्ड्वादयः प्रातिपदिकाः” इति । अथ च यदि कण्ड्वादयः प्रातिपदिकास्तदा "कण्ड्वादिभ्यो यग्" इति सूने (१) सम्प्रसारण इति । नचात्र टिलो पे सति अन्नन्तत्वाभावात् 'श्वयुवमघोनामत द्धिते' इत्यनेन कथं सम्प्रसारणमिति वाच्यम् । स्थानिवद्भावात् “असिद्धवदत्रामात्" इत्यनेनासिद्धत्वा- द्वा टिलोपेऽपि अनन्तत्व लाभादिति बोध्यम् । (२) येननेति । "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा” इति न्यायेनेति केचित् । (३)अथवेति । चिणोलुङ्ग्यायस्यानित्यत्वादाह ।

७२ সাভকাদিক্ষার্থ- .. ककारोपादानं व्यर्थमेव तदेव व्यर्थ सत् (१)काड्वादयो धातवः' इति ज्ञापयति । इत्थञ्च कण्डवादीनां धातुत्वं प्रातिपदिकत्वचेत्युभयं सिद्धम्भवति । तेन विपि कृते धातुसादुवङि कण्डदौ कण्डव इति, प्रातिपदिकच्चे तु यणि कण्ड्वो कण्ड्व इति च द्विविधरूपसिद्धिः फलम् । कक्षारोपादानस्य गुणनिषेधः फलम् । गुणश्चार्धधातुक- स्वमाश्रिय प्राप्स्यति । अन्न तु यकः प्रातिपदिकेभ्यो विहितत्वेनार्धधातुकत्वात् "सार्वधातुकार्धधातुकयोः" इतिसूत्राप्रवृत्तो गुणनिषेधार्थ किकरणं विफ लमिति सा- शंशः॥२०६॥ इति कण्ड्वादयः। अथात्मनेपदप्रक्रिया । कथं तर्हि आजध्ने विषमविलोचनस्य वक्षः । अयम्भावः-भागवृत्तिमतेऽसाधुरेवायं प्रयोगः । अथ च महतामुक्तौ दोषारोप- जन्न कार्यमिति शिष्टाचारेण विषमदिलोचनस्य वक्षः प्राप्य आजध्ने इति रघूत्तमं प्राप्य मा आहध्वमिति च (२)व्याख्यानेन हन् धातोरकर्मकत्वात्प्रयोगः साधुः । न च प्राप्येत्यध्याहारे श्वसुराज्जितीतिवत्रापि कर्मणि पञ्चम्या भाव्यमिति वाच्य- म् । ल्यबन्तं धिनैव यन्त्र ल्यबन्तार्थप्रतीतिस्तत्रैव "ल्यब्लोपे कर्मण्यधिकरणे च" इति वचनस्य प्रवृत्तत्वात् । अत्र तु ल्यबन्तं विना ल्यबन्तार्थभानं न भवति प्रत्युत मार- णमेव प्रतिभातीति तस्याविषयत्वमिति सारांशः । अथवा वक्षो भेत्तम रघूत्तमं भेत्तुमिति तुमुन्नन्ताध्याहारेण प्रयोगद्वयस्य साधु- त्वम्। यथा लोके मल्लोऽतिहर्षात्स्वस्यैव वक्षस्ताडयति तथा विषमबिलोचनस्य. समीपमेत्य स्वकीयमेव वक्षः आजम्ने, आस्फालयान्चक्रे इति व्याख्यानेनापि आज- ने इति प्रयोगस्य साधुस्वम् ॥ २२० । दर्शयते भवः। अयम्भावः-पश्यति भव इति द्वितीयकक्षायां या क्रियोच्यते सैव क्रिया दर्शयते भव इति चतुर्थकक्षायामुच्यते । एवञ्च क्रियासाम्यात् प्रथमकक्षायां भवरूपकर्मणः कर्तृ राच्चात्मनेपदं सिद्धम्भवति । एवं कर्तृस्थक्रियायामारोहयते हस्तीत्यत्रापि बो. ध्यम् । अथवा पश्यन्ति भवमारोहन्ति हस्तिनमित्ति प्रथमकक्षायामेव कर्मणः हेतु. स्वारोपाणिचि दर्शयति भवः आरोहयति हस्तीति । ततश्च णिजर्थव्यापारस्य अध्या. रापितकर्तृव्यापारस्य च त्यागेन दर्शयते भव इति तृतीयकक्षायामेव तङ् भवति । (१) कण्डवादयो धातव इति । धातोर काच" इति सूत्राद्धातोरित्यनुवर्तनादपि कण्डवादे तुत्वं बोध्यम् । अनुमीयते चात्र-कण्डवादयः-स्वादिपठिताः, धाटप्रकृतिककार्यों द्देश्यत्वात् । (२) व्याख्यानेनेति । अध्याहाररूपेणेति भावः । 'वाक्ये वाक्य कदेश प्रयोगः इति न्यायेन प्राप्य इत्यस्याध्याहार इति भावः । .

भावकर्मप्रक्रिया! नद भवरूपकर्मणः कर्तृत्वाद् दर्शयति भवो भक्तानिति द्वितोयकक्षायां कथं तङ् न स्यादिति वाच्यम् । अध्यारोपितकदृष्यापारण साम्येऽपि णिजर्थव्यापारस्याधि- क्येन समानाश्रयस्वाभावात् । तृतीयकत्तायां तु धातूपातव्यापारस्य जिजर्थव्यापारस्य च त्यागेन समानक्रियत्वात्तक सिद्धः । न च तृतीयकक्षायामपि चाक्षुषज्ञानविषयीक. रणरूपव्यापारयुक्तायाः पश्यन्ति भवं भक्ता इति प्रथमकक्षास्थक्रियाया अपेक्षया न्यूनता स्यादिति वाच्यम् । एवकारेणाधिकांशस्यैव निस्सारितत्वात् । नववीक्रि- याऽपेक्षया ण्यन्तक्रियायामाधिक्यन्न स्यान्न्यूनतायां लत्यामसत्यां वा न कापि हानि- रिति सारोशः ॥ २१॥ इत्यात्मनेपदप्रक्रिया। अथ परस्मैपदप्रक्रिया । अनुकरोति । न च कर्मकर्तरि "अनुपराभ्यां कृमः" इति सूत्रेण परस्मैपदं स्यादिति वाच्यम् । कार्यातिदेशपक्षे "कर्मवकर्मणा तुल्यक्रियः" इति सूत्रेणात्मनेपदं विधीयते । ततश्च परेण "कर्मवत्कर्मणा तुल्यक्रियः" इति सूत्रेणास्य सूत्रस्य बाधेन परस्मैपदासिद्धः। शासातिदेशपक्षेऽपि 'कर्तरि कर्मव्यतिहारे" इत्यतः "शेषारकर्तरि परस्मैपदम्" इत्य- तश्च कर्तृग्रहणद्वयमनुवर्ण मुख्यकर्तर्येव परस्मैपद भवति, न तु गौणकर्तरि इति पर- स्मैपदाभावः। (१) शास्त्रातिदेशपने "अनुपराभ्यां कृजः” इति सूत्रेण "भावकर्मणो" इति सूत्रस्यैव बाधे परस्मैपदं दुर्धारम् ॥ २१२ ॥ इति पदव्यवस्था । अथ भावकर्मप्रक्रिया। शामिता। नचानामन्तवान्मित्संज्ञायां "मितां हस्वः” इति हद एवं विकल्प्यतां कि दीर्घग्रहणगौरवेणेति वाच्यम् । यन्ताण्णौ हस्तविकल्पे कर्तव्ये मिचो लोपस्य स्थानिवद्धावेनोपधायां मकारस्य विद्यमानत्वाद्धस्वविकल्पासिद्धेः । दीर्घविकल्पे तु "न पदान्त" इति स्त्रेण दीर्धे कर्तव्ये स्थानिबहावस्य निषेधादीर्घः सिध्यति । भाष्यकृता तु "पूर्वत्रासिद्धे न स्थानिवत्" इति वचनमाश्रित्य "न पदान्त" इति सूने द्विर्वचनादिग्रहण "चिण्णमुलो” इति सूत्रे दीर्घग्रहणञ्च प्रत्याख्यातम् । नेच दीर्घग्रहणे प्रत्याख्याते कथितदोषस्य निवारणन्न स्यादिति वाच्यम् । गेर्जातित्व- निर्देशेन दोषस्य गतत्वात । लोपस्य स्थानिवद्भावे जातेऽपि पूर्वस्मिन् णिचि परे उपधायां दीर्घत्वं वर्तत एवेतिभाष्यकाराशयः। परञ्च सति दीघंग्रहगे यङन्ताक्षि- (१)शास्त्रातिदेशपक्षे 'कर्मवत्कर्मणा'-इत्यनेनात्मनेपदं न विधीयते किन्तु तद्विधायक "भावकर्मणोः" इति शास्त्र मतिदिश्यते इत्यत आह-शास्त्रातिदेशपक्ष इति ।

७४ प्रभालतफक्किकासरलार्थे- चादिटि शंशामितत्यत्र दीपों भवति, प्रत्याख्याने तु यडोऽल्लोपस्य स्थानिवत्वेन दी| न स्यादिति फलभेदः समायाति। अथवारम्भप्रत्याख्यानयोः फलैक्ये प्रत्या. ख्यानं शोभनं भवतीति शंशामितेति प्रयोगसिद्धयर्थ (१) दीर्घग्रहणं कर्त्तव्यमेव ॥२१३॥ इति भावकर्मप्रक्रिया। अथ कर्मकर्तृप्रक्रिया । पच्यते ओदनेन । ननु देवदत्त ओदनं पचति पचतो देवदत्तस्यौदनेन स्वयमेव पच्यते इत्यत्र भावे लकारे कर्तुरनभिहितरवेन "कर्मवत्क्रमणा” इत्यतिदेशादनभिहिते कर्मणि द्वितीया स्यादिति चेन्न । मूलोकपथा (क)लकाराच्यस्यैव कर्तुः कर्मवद्भावात् । भावे लकारे तु लकारवाच्यो भावो वर्तते नतु कति कर्मवद्भावाभावान्न द्वितीया । यगात्मने. पदञ्च "भावकर्मणोः" "सार्वधातुके यक” इति सूत्राभ्यां सिद्धम् । न च 'पच्यते ओ. दनो, भियतेकाष्ठम्' इत्यादौ लकारवाच्यः कर्ता वर्तत इति कर्मवद्भावात्कर्मणि यद्यत्कार्यं भवति तत्तत्कर्मकर्तर्यपि स्यादिति तव्यादिप्रत्ययोऽपि स्यादिति वाच्यम् लकारवाच्यो यः कर्त्ता तस्य लान्तकार्य एवं कर्मवद्भावात् , लान्तस्य कार्यञ्च यगा- त्मनेपदादि । अत एव भेत्तव्यं कुसूलेन स्वयमेवेच्यत्र कुसूलरूपकर्मकर्तरि तव्यप्रत्यः यो न, किन्तु भावे एव । इत्थञ्च भिद्यते कुसूल इत्यादौ च द्वितीयापि न भवति । कर्माण लकारे भिद् ल् इति दशायां यद्यत्कार्यं भवति तत्तत्कर्मकर्त्तर्यपि स्यात् , कुसू- लरूपकर्म तु लान्तभागाद् भिन्नमस्तीति कृत्यप्रययस्तत्र दुर्लभः ॥ २१४ ।। तपस्तपःकर्मकस्यैव । अयम्भाव-उपवासादिरूपतपस्तापसं तपति दुःखीकरोतीत्यर्थः । एवञ्च तापस. स्थ कर्मस्वे तपधातोर्युःखजननमर्थः । तापसः स्वयमेव तप्यतेऽर्थात्तप अर्जयतीति ता. पसस्य कर्तृत्वे तपेरर्जनरूपार्थस्तथाच कर्मस्था क्रिया दुःखजननरूपा कर्तृस्था क्रिया तु अर्जनरूपेति क्रियाभेदारसकर्मकत्वाच्चाप्राप्ते कर्मवगावे "तपस्तपाकर्मकस्य" इति सूत्रं विध्यर्थम् । एवकारस्तु व्यर्थ एवेति वृत्यनुसारिणो वदन्ति । (.) दीर्घग्रहण कर्तव्यमिति । तेन अहिडि अहोडि इति सिद्धम्भवति । तथाहि-हेड- अनादरे घटादिः, "मिता हस्व' इति हस्वे कर्तव्ये एव इक् , अत्र हिडयति। अत्र चिण्मुलो: कृतयोः ह्रस्वे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्घ तु अहिडि अहीडि इति भवतीति भावः। (२) लकारवाच्यस्यैवेति । "व्यत्ययो बहुलं लियाशिष्य” इति द्वि- लकाराल इत्यनुवृत्तरतार्थलाभ इति भावः । .

... पूर्वकृदन्तकृत्यप्रक्रिया । वस्तु(१)तस्तु कर्मत्वकर्तृत्वरूपावस्थाद्वयेऽपि तापस उपवासादिजन्यकृशतादि रूपशरीरसन्तापमनुभूय पुण्यविशेषमर्जयतीति कर्मस्था क्रिया कर्तृस्था क्रिया च समानेति कर्मवदावे प्राप्ते 'सकर्मकाणां कर्मवद्भावश्चेत्तर्हि तपेरेव' इति नियमाथ- सूत्रम् । इत्थञ्च 'सकर्मकाणां प्रतिषेधो वक्तव्यः' इत वार्तिकमपि न कर्तव्यं भवति । एवञ्च नियमेनैव एवकारे लब्रे सूत्र एवकारग्रहणं व्यर्थं सत् तपधातोपि कर्मवद्धा वश्चेत्तर्हि तपाकर्मकस्यैवेति द्वितीनियमं करोति । तेन सुवर्णमुत्तपतीत्यादौ कर्मव. ब्रावो न भवतीति फलम् ॥ २१॥ इति कर्मकर्तृप्रक्रिया। अथ लकारार्थप्रक्रिया । वमन् ददर्श । अयमाश :--दर्शति भूतकालिकक्रिमादर्शनेन तद्योगे वसन्नित्यत्र भूतकाले लट भवति । एवं भवितेति भविष्यकालिकक्रियायोगे सोमयाजीत्यत्रापि भविष्यदर्थे णिनिः । अन्यथा “करगे यजः" इत्यनेन भूतार्थे विहितो णिनिभविष्यदर्थे दुर्लभः स्यात् । नच वसन् इति वर्तमानक्रियादर्शनेन ददर्शति वर्तमाने लडेव स्यादिति वा च्यम् । तिवाच्यक्रियायाः प्राधा(१)न्येन गुणभूत क्रियायामेव विपर्ययात् ॥२१६॥ याहि(३) याहि । अतिशयेन पुनः पुनर्वा यातीति-याहि याहीति याति । अतशयेन पुनःपुनर्वा यातः इति-याहि याहीत यातः । अतिशयेन पुनःपुनर्वा यान्तीति-याहि याहीति यान्ति । अतिशयेन पुनः पुनर्वा यासीति-याहि याहीति यासि । अतिशयेन पुनः पुनर्वा याथः इति-याहि याहीति याथः। अतिशयेन पुनः पुनर्वा याथेति-याहि या. हीति याथ । यात यातेति वा याथ । अतिशयेन पुनः पुनर्वा यामीति-याहि याहीति यामि । अतिशयेन पुन पुनर्वाः यावः इति-याहि याहीति यावः। अतिशयेन पुनः पुनर्वा यामः इति-याहि याहीति यामः । एवमात्मनेपदेष्वपि ध्वविषये ज्ञेयम् ॥२१७॥ इति लकारार्थप्रक्रिया। अथ पूर्वकृदन्तकृत्यप्रक्रिया। अचो यत । अयम्भाव:-हलन्तेभ्यो पयत्प्रत्ययस्य विशिष्य विधानं भवतीति विशेष विहि (१) वस्तुतस्त्विति । पूर्वोक्तंऽरुचिबीजं तु कक्षादयेऽपि कर्मकर्तृवृत्तिक्रियायास्तुल्य. त्वमिति भावः । (२)प्राधान्येनेति । प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीत. मिति भावः । (३)याहि याहीति । "क्रियासमभिहारे द्वे वाच्ये" इत्यनेनात्र द्वित्वं को. ध्यम् । पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थ इति भावः।

- प्रभालङ्कृतफक्किकासरलार्थे- - . सत्वेन ग्यत्प्रत्ययो यत्मत्ययस्थापवादो भविष्यतीति, अर्थादेवाजन्तेभ्यो धातुभ्योऽच प्रत्ययः स्यादितिचूत्रेऽज्ग्रहणं न कर्त्तव्यम् । एवाग्रहणे(१)प्रत्याशते यद्ग्र. हणमपि "तव्यत्तव्यानीयरः' इति सूत्रे एव कर्तव्यम् । नचाज्यहणाभावे "वास- रूपोऽस्त्रिया” इति परिभाश्या प्रयत्प्रत्ययाभावपक्षे हलन्नेभ्योऽपि धातुभ्यो यत्प्रत्ययश्लङ्गः स्यादिति वाच्यम् । “नानुबन्धकृतमसारूप्यम्” इति परिभा ज्या ज्यद्यतो सरूपत्वात । द्वयोः प्रत्यययोः समानरूपत्वेन "वाऽसरूप" इति सूत्राप्रवृ. त्तिरिति सारांशः ॥ २१८॥ इचेति हम्बः सुपाठः अबसाशय:-भाष्यकृता एकमात्रालाघवेन दीर्वोच्चारणं प्रत्याख्यातम् । न च हस्वपाठे "पत्वतुकोरसिद्धः” इति सूत्रेणैज्ञादेशस्यासिद्धत्वात्तुकः प्राप्तिरिति वाच्यम् पदा(२)न्तपदाको स्थाने व एकादेशस्तस्यैवासिद्धत्वात्। अत्र तु एकस्मिन्नेव पदे आदेशः। एनञ्च दोच्चारणम् इह इति इकारद्वयाश्लेग परत्वात्प्राप्तस्य 'ये विभाषा” इत्यात्वस्य बाधनार्थमिति भाग्यविरुद्ध कल्पना व्यर्था । यतः कापा सह विधीयानस्यत्वस्यान्तरङ्गत्वेन प्रकारादी प्रत्यये परे विधीयमानस्याऽत्वस्य बहिर- गत्वात् । परत्वस्यायुतत्वात् ॥ २१९ ।। कथं स्पायर्यावधूः । ननु "भृशोऽसंज्ञाया” इति सूने भार्याः क्षत्रिया इति पुंलिङ्गे संज्ञायां क्यपोs. भावं कुर्वसच्चरितार्थमिति स्त्रीलिङ्गे संज्ञायां न प्रवर्तिप्यते इति भावधूरित्यत्र "संज्ञायां समजनिषत्" इत्यादिना क्यपा भाव्यमिति चेन्न। 'एकानुबन्धकग्रहणे नयनुबन्धकस्य' इति परिभाषया दुभ धारणपोषणयोरित्यस्मात्यादिपठितदी. र्धान्ताद् स भरणे इत्यस्माद् वा पयत्प्रत्ययस्य सिद्धत्वात् । "संज्ञायां समज" इत्या- दिसूत्रे हस्वान्तभृग्धातोः पान दीर्घान्तभृधातुविषये तस्त्राप्रवृत्तिः । दुभृधातो अनुबन्धद्वयं वर्तते, भृधातौचैकानुबन्धो वर्तते, इति डुभृज धातुविषयेऽपि तत्सू. वाप्रवृत्तिः ॥ २२०॥ नकादेः । अयमाशयः-बार्तिककारः "चजोः" इति सूत्रे निष्ठायां ये धातवोऽनिटो भवन्ति तेषामेव कुत्वं भवतीति व्याख्याय "न कादेः” इति सूत्रं प्रत्याचख्यो । ततश्च (१)प्रत्याख्याते इति । ननु अजग्रहणसत्त्व दित्स्यम्' 'धित्स्यम्' इत्यादौ यति सन्नि- पातपरिभाषया "प्रतो लोप:" न प्राप्नोति । तदकरणे तु प्राप्नोतीति फल भेदः इति चेन्न । सन्निपातपरिभाषाया अनित्यत्वात् । (२) पदान्तपदाद्योरिति । अन्यथा वृक्ष छत्र मिल्यत्र डावाद्गुणस्यासिद्धतया 'छेच" इति ह्रस्वाश्रयो नित्यस्तुक् स्यात् । इष्यते तु “दीर्घात्पदान्ता. द्वा" इति वैकल्पिक इति भावः।

पूर्वकृदन्तकृत्य प्रक्रिया। १ गर्जितर्जिप्रकृतीनां निष्टाविषये सेटत्वात्युत्पन्न भवति अनुसुप्रभृतीनां तु उदित्वेन्द्र "उदितो वा” इति सूत्रेण स्वायां देट्थात् “यस्य विभाषा" इति सूत्रेण निधाविषय इडागमो न भवतीति "चजो" इत्यनेन कुवं भवति । इत्थच "नकादेः” इति सूत्रसत्तायां ग्रुचुप्रभृतीनां धादनां कुत्वन्न भवति, सूत्रा- भावे तु कुत्वं प्राप्नोतीति द्वयोमते प्रयोगेषु प्राप्तमपि वैलक्षण्यं “यथोत्तर(१)मुनीनां प्रामाण्यम्” इतिवचनेन स्वीकर्तव्यः । एवञ्च वार्तिकमतमेव ज्याय इति सारांशः॥२ ११॥ लोदा बायो(२)माभूत् । अयमाशयः- वाऽसरूपोऽस्त्रियाम् इति परिभाषयालोट कृत्यसंज्ञकप्रत्ययश्च पर्या. येण भविष्यतीति "प्रैषादि"सूत्रे कृत्यग्रहण(३)स्याधिकारादूचं "वाऽसरूपोऽ ऽस्त्रिया इति सूत्रं वचिन्न प्रवर्तते इति ज्ञापयति । एवञ्च क्तल्युट्तुसुन्खलाषु मिथो बाध्यबा. धकमावो न भवतीति वचनं सिद्धम् । तेन हसितं हसनमिति सावे विहितयोः क्तल्युट: प्रत्यययोर्विषये "भावे" इति सूत्रेण धजप्रत्ययो न भवति । अथ च ईषत्पान इति ख- लर्थे खल्प्रत्ययश्च न भवतीति फलम्बोध्यम् । लाघवात् “शकि लिङ्च" इतिसूत्रे च कारग्रहणेनैव पूर्वोक्तज्ञापनसम्भवे प्रैषादिसूत्रे कृत्यग्रहणन्न कार्यमिति सारांशः ॥२२२॥ कथं लोध्रद्रुम सानुमतः प्रफुल्लम् । ननु "अनुपसर्गात्फुल्लक्षीब इत्यादिनोपसर्गाभावे निष्ठाऽवयवतकारस्य लरकं निपात्यते। अन्न तूपसर्गसत्वेन लत्वनिपातनं दुर्लभमितिचेन्न । 'फुल्ल-विकसने धातोः पचायचि सति रूपस्य सिद्धत्वात् । नचैवं सत्युपसर्गे फुल्लधातोः रूपसिद्धी सूत्र व्यर्थमेवेति वाच्यम् । उपसर्गाभावे फुल्ताधनिष्टवारणेन सूत्रस्य सफलत्वात् । इत्यथं । च फुल्लवानितिरूपसिध्यर्थञ्च "अनुपसर्गात्फुल्लक्षीब” इत्यादिसूत्रमाव- श्यकमिति सारांशः॥ २२३॥ " . . अयम्भावः-षेरादित्वात् "आदितश्च" इत्यनेन शसुधातोश्चोदित्वात् “यस्य विभाषा" इत्यनेन सूत्रेणेनिषेधे सिद्ध "सृषिशसी वैयात्ये" इदं सूत्रमविनये एवैती अनिटौ स्तः इति नियमयति । एवञ्चान्यार्थे इटि सति धर्षितः विशसित इति रूप- द्वयसिद्धिः फलम् । नच षेर्भावादिकमणोरर्थयोः प्रत्यये "विभाषा भावादिकमणो (१) यथोत्तरमिति । 'यथोत्तरम्' इति वार्तिकस्य सूत्रदूषणाय प्रवृत्तवाद्भाष्यकृता च वार्तिकमते 'शोकः' इत्यस्यासिद्धिमाशङ्कय सूत्रमतेऽपि ण्यति कुत्ववारणाय नियमार्थमावश्यकेन शुचेपनि इति वचनेन समाधानाद्वार्तिकमतस्यैवाभ्यनुज्ञानाच्चेति भावः। (२) लोटा बा. ध इति । लोटस्तत्र विशिष्य विधानादिह प्राप्तो बाधो नेत्यर्थः। (३) स्त्र्यधिकारादिति । अत्र 'स्च्यधिकारादूर्ध्वम्' इति अस्त्रियादित्यस्यार्थः । ज्ञाप्यांशस्तु-'वाऽसरूपविधिः कचिन्न' इत्येवेति भावः।

प्रभालतफकिकासरलार्थे- इत्यनेन पाक्षिके इटि प्राप्ते तनिषेधार्थ विध्यर्थमेवास्तु इतिवाच्यम् । (१)वैयात्ये- ऽथे भावादिकर्मणोध्षेविधानाभावात् । एवञ्च नियमार्थमेवेति काशिकाकारमतम् ॥ राषिघाती आकारग्रहगस्थ फलाभावादकरणेन “आदितश्व” इति सूत्राप्रवृत्तौ इटः प्रासौ सत्यां तनिषेधार्थ सूत्रं विध्यर्थमेवेति(१)हरदत्तमतम् । इत्थञ्च वैयारयेऽर्थे इड्रहितप्रयोगोऽन्यत्राथें चेटसहितप्रयोगः सिद्धः । तथाच-काशिकाकारहरदत्तयोमते फलं तुल्यम्भवति। माधवस्तु पाणिनिना आकारग्रहणं कृतमिति भावादिकर्मणोः प्रत्यये जाते विभाषा भावादिकर्मणोः” इति प्राप्तस्येटो निषेधार्थ सूत्रं विध्यर्थमेवेति वदति। तथाच-वैयास्येऽर्थे धृष्टमित्येकं रू- पम् । अन्यत्रार्थे च सृष्टम् , धर्षितमितिरूपद्वयं सिद्धम् । अयमेव पक्षो ज्यायान् । वैयात्ये भावादिकर्मणोः षेः क्तप्रत्ययो न भवतीत्यत्र प्रमाणाभावात् ॥ २२४ ॥ नच दत् इति तान्तादेशपक्षे विदत्तमित्यादौ "दस्ति" इति सूत्रेणोपसर्गस्य दीर्घः स्यादिति वाच्यम् । (३) तकारादौ प्रत्यये परे तद्विधानात् । अत्र तु दकारादिप्र. त्ययः । एवं ददिति दान्तादेशे दध् इति धान्तादेशे वा न काप्यनुपपत्तिः। नच दान्तादेशे "रदाभ्याम्” इति नत्वं धान्तपने च "शषस्तथो?ऽध” इति तकारस्य धत्वञ्च स्यादिति वाच्यम् । (४)सन्निपातपरिभाषाविरोधाद्धाततकारयोस्सम्बन्धेन जायमानो ददादेशो दधादेशो वा तयोः सम्बन्धविघातके नवे धत्वे च कर्तव्ये कारणं न भवतीति सारांशः। यदा प्रादय उपसर्गाः सन्ति तदा “अच उपसर्गात्त इति तादेशे प्रत्तोऽवत्त इत्या- दिप्रयोगाः सिध्यन्ति । अथच यदा प्रादग्य उपसर्गप्रतिरूपकाः सन्ति तदा प्रदत्तमवद. समित्यादिप्रयोगाः सिध्यन्तीति अवदत्तमित्यादिवचनं निस्सूतमिति तस्वम् ॥ २२५ ॥ यायावरः। यायायत इति विग्रहे “यश्च यङ” इति वरचि "अतो लोप" इत्यकारलोपे "लो- पो व्योर्वलि" इति यलोपे रूपं सिद्धम् । नचात्राल्लोपस्य स्थानिद्भावेन वल्परस्वा. भावाद् यलोपो न स्यादिति वाच्यम् । “न पदान्तद्विवंचनवरेयलोप इत्यादिना स्था. निवत्वनिषेधात् । एवमेव अल्लोपस्य स्थानिवत्वेनार्धधातुकरवमाश्रित्य "आतो लोप- (१) वैयात्य इति । विरुद्धो यातः वियातः- प्रविनोतः, तस्य भावो वयात्यमिति ॥ (२) हरदत्त इति । अवयात्ये भावादिकमणोरनभिधानात् , वैयात्ये च नियमाभावादित्व. फलं चिन्त्यमिति भावः। (३)तकारादाविति । “यस्मिन् विधिस्तदादावल ग्रहणे" इति न्यायादयमेवार्थो युक्तः, नतु तान्ते ददादाविति भावः । (४) सन्निपातेति। तादि निमि- चीकृत्यविहितो यो दान्तायादेशः, स तकारविघातकनत्वादिविधेनिमित्तं न भवतीति भावः ।

उत्तरकृदन्तप्रक्रिया। ७६ इटि च” इत्याकारलोपोऽपि न शङ्कयः “वरे लुप्तं न(१)स्थानिवत्" इति निषेधात्र२६ इति पूर्वकृदन्त प्रक्रिया। अथोत्तरकृदन्तप्रक्रिया। अर्थग्रहणमस्तिनै (२)सम्बध्यते । अयम्भावः-अर्थग्रहणस्य सन्निधौ अस्तिग्रहणं वर्तते इति प्रत्यासत्तिन्यायेन तत्रैव तस्यान्वयो युक्तः। लोकयुक्त्या सिद्धमिदम् । तथाहि-यथा कस्मिंश्चिदध्या- पनादेः स्थाने रिक्ते सति तल्लब्धं दूरस्थाः समीपस्थाश्च सर्वे पुरुषाः प्रयतन्ते, परञ्चा- ततो गत्वा निकटवर्तिनः पुरुषा एव तत्स्थानं लभन्ते। तथैव यद्यर्थग्रहणस्य अस्ति- ना सह सम्बन्धे जाते आकाङ्क्षा निवृत्ता भवति, तदा अन्यपदार्थे तदन्वयप्रयासो व्यर्थः । योग्यतादिविरहात्तत्स्थानं समीपस्थान लभन्त इत्यन्यदेतत् ॥ २२७ ॥ चः कः इति वक्तव्ये । अयम्भावः "निवासचितिशरीर” इत्यादि सूत्रे चः कः इत्येव वक्तव्ये आदिग्रह; णमादिभूतस्यैव चकारस्य ककारः स्यादिति बोधनार्थम् । तेन यङलुकि गोमयानां निकेचाय इत्यत्रादिचकारस्यैव कुत्वं भवति नतूत्तरस्येति ॥ २२८ ॥ कथं तर्हि अतिसुलभम् । अयम्भाव:-अतिसुलममित्यादावुपसर्गद्वयसत्वेन "न सुदुाम्” इतिसूत्रा- प्रवृत्तौ "उपसर्गास्खल्धोः" इति सूत्रेण नुम् न शङ्कयः । स्वत्योः कर्मप्रवचनीयसंज्ञा. सरवेनोपसर्गस्वाभावात् "उपसर्गाखल्धजोः" इति सूत्राप्रवृत्तेः। यदा(३)अतेः कर्म- प्रवचनीयसंज्ञा भवति, तदा 'सु'इस्येकोपसर्गत्वेन "सुदुाम्” इति सूत्रेण नुमो नि. षेधः । अथ च यदा सोः()कर्मप्रवचनीयसंज्ञा भवति, तदोपसर्गापरस्वाभावेन "उप- सर्गास्खल्धजोः" इति सूत्राप्रवृत्तिरित्युभयथाऽपि नुमोऽभावः सिद्धः । एवञ्चभियोः कर्मप्रवचनीयसंज्ञा भवति ॥ २२९ ॥ अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् । ननु “अदो जग्धियतिकिति" इति सूत्रे त्यग्रहणाभावेऽपि प्रपूर्वकाद्धातोः क्वाप्रत्यये कृते "समासेऽनपूर्व क्वो ल्यप्" इति सूत्रेग ल्यवादेशे "अदो जग्धिः" इत्यादिना जाध्यादेशे च प्राप्ते "असिद्धं बहिरङ्गमन्तरङ्गे" इति परिभाषया जाध्या- (१) स्थानिवदिति । अत एव ज्ञापकाल्लुप्ताकारस्य द्वित्वम् । तेन यातिरित्यादौ- यङ- न्तात् तिनि अातो लोपसिद्धिः । (२) अस्तिनैवेति । मूल कारण अनन्तरत्वादित्युक्तम् । तत्र प्रमाणञ्च-अस्ति इत्यस्य घिसंज्ञकत्वेन पूर्वनिपाते प्राप्ते तदकरण मून कव्याख्या नमिति भावः । (३) अतेरिति । "अतिरतिक्रमणे च" इत्यनेनेति भावः । (४) सोरिति । "सुः पूनायाम् इत्यनेनेति भावः। .

ভৰান্ধা- । देशेनैव भाव्यमिति "अहो जग्धिः' इत्यादिपूने त्यग्रहणं व्यर्थसेवेति । अ. न्तरङ्गानपि विधीन् बहिरङ्गो ल्यबु बाधते” इति परिमापाज्ञापनेन व्यग्रहास्या सफलत्वात् । तेन प्रधायेत्यादी(१)हित्वदत्वात्वेत्यादिकार्याणि ल्याब्वषये न भय. न्तीति फलम्बोध्यम् ॥ २३० ।। मूलकोपदंश भुते। अयमाशयः-ननु मूलकेनोपदंशं भुन्त इति विग्रहे ल्यबन्तसकर्मकदंशधातुयोग मूलकस्य शब्दतः कर्मस्वाभावेन मूलकोपदंशयोः लम्बन्धाभावेन सामाभावात् "उपदंशस्तृतीयायामू" इत्यनेन णमुल् प्रत्ययः "तृतीयाप्रभृतीन्यन्यतरस्याम्" इति समासश्चात्र दुर्लभ इति चेन्न । किमुपदृश्य भुङले इति कर्मणोऽपेक्षायाम्मूलकमुपद- श्य भुक्त इत्यर्थेन समायाति कर्मत्वं मूलकस्येति मूलकस्य दंशधातुना सहार्थसम्ब. न्धस्य सत्वात् । यदि तृतीयायाः शब्दत एवान्वये प्रत्यय इष्यते, तर्हि करणे हनः इतिवत् 'उपदेशः करणे' इत्येव ब्रूयात् । इत्थञ्च तृतीयाग्रहणसामर्थेन आर्थलम्बन्ध एवानेष्टः। शब्दतस्तु मूलक भुजिक्रियाम्पति करणमेव।।२३१॥ इति उत्तरकृदन्तप्रक्रिया ॥ श्रीविश्वनाथचरणयोः समर्पणमस्तु । नमामीश्वरं शङ्करं महदेहं सदा शङ्करं भक्तिभाजां भवाब्धौ । कृपातो मुहुस्तस्य यातः समाप्तिं मनोहाइयन् भावभव्याकृतीनाम्॥ १॥ यो देवदेवत्रिपुरारिसंज्ञां लब्ध्वापि दैत्याछतशो जुगोप। तं शान्तचित्त क्षणमेव शान्ता निषेव्य मुक्ताः किमतीव चित्रम् ॥२॥ गतो माधवो माधवो नागतः किं करोमीति काचिद्विषादं जगाम । घृतो रागरज्वाश्रितः पक्षिराज झटित्यागतोऽसौ शिवं व करोतु ॥३॥ श्रीमतो देवपूर्वस्य नारायणपरस्य च । तथा श्रीरामयशसः आशासे पादपङ्कजम् ॥ ४॥ आजमगति नाम्नास्तिमण्डलं सुखभाजनम्। तस्यान्तरगतो ग्रामो धाहरेति समृद्धिमान तत्र विन्ध्येश्वरीदत्तस्यात्मजो जातवान् किल ।नानारामचरित्रेति पदव्या च त्रिवेदिना। भूषितो भूषयघिपरागं विदुषां सदा । चरणे विश्वनाथस्य प्रीति वान्छसि सस्पृहम समाप्तोयं ग्रन्थः। (१)हित्वत्वेति । 'विधाय' इत्यत्र "दधातेर्हिः" इति हित्वन्न । 'प्रदाय' इत्यत्र "दोदरोः" इति दत्वन्न । 'प्रखन्य' अत्र 'जनसनखन" इत्यावन्न । 'प्रस्थाय' अत्र 'ध- तिस्थति' इतोत्वन्न । 'प्रक्रम्य' इत्यत्र "क्रमश्च विव" इति दी? न । 'आपछया प्रदीन्य अत्र छकारवकारयोः “छ्वोः" इति शूठौ न । इडभावस्योदाहरणं तु प्रखन्य प्रदीव्येत्या- येवेति भावः।

No text on this page.

मध्यमा चारों खण्ड के परीक्षोपयोगी-रूपलेखनप्रकार- पतिलेखनप्रकार आदि परिशिष्ट विभूषित- सिद्धान्तकौमुदी-बालमनोरमा इस संस्करण में-सिद्धान्तकौमुदी के जिन २ विषयों की व्याख्या बालमनोरमा टीका में स्पष्टतया प्रतिपादन किया है उन्हीं विषयों को तत्त्वबोधिनी आदि टीकात्रों में पिष्ट-पेषण मात्र किया है। इसलिये हमारे योग्य विद्वान सम्पादक ने अन्य सभी टीकाओं की समालोचना कर जो कुछ अंश जटिल एवं प्राच्य-नव्य मत से विवादग्रस्त परीक्षो. पयोगी अवशिष्ट थे ग्रन्थ के अन्त में प्रयोगसाधन-पंक्तिप्रकाशनशैली के रूप में दिखा दिये हैं जिससे “एक पन्थ दो काज” अर्थात् परीक्षा के लेखनशैलो का ज्ञान भी विद्यार्थी जान जांयगे ओर केवल कण्ठस्थ करने पर परोक्षा-महार्णव को भी अनायास से पार करेंगे तथा व्यर्थ अन्य अन्य टीकात्रों के कष्ट से इस विकट परिस्थिति में अर्थभार से बच जायगे। द्वितीय संस्करण । मूल्य कारकान्त प्रथम भाग समासादि द्विरुक्तान्त द्वि० भाग ३) म्वाद्यादि चुरायन्त तृ० भाग ३ भयन्तादि समाप्त्यन्त च० भाग ५) पूर्वार्द्ध ६) उत्तरार्द्ध ८) सम्पूर्ण १४) मध्यसिद्धान्तकौमुदी 'सुधा 'इन्दुमती' संस्कृत-हिन्दी टीका विभूषित इसकी सुधा' संस्कृत टीका में प्रत्येक प्रयोग तथा धातुरूपों की परीक्षोपयोगी साधनिका तथा सूत्रार्थोकी अति सरल व्याव्या की गई है । इस टीका का अध्ययन करने से परीक्षार्थियों को प्रश्नोत्तरी' की भी आवश्यकता नहीं पड़ेगी। सभी प्रयोगों की व्याख्या प्रश्नोत्तरलेखन के रूप में ही की गयी है। इसकी 'इन्दुमती' नामक हिन्दी टीका टीकाके साथ ही साथ 'नोट' देकर संस्कृत व्याकरण का भी सरल रूपसे ज्ञान कराया गया है जो आज तक किसी भी संस्करण में प्रकाशित नहीं हुआ था । 'हाथ कंगन को आरसी क्या' अक्टूबर सन् १९५० के प्रथम दिवस पर यह संस्करण आपको प्राप्त हो जायगा । प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस ।

No text on this page.

The Phakkika Saralartha

Author
Pandith_ramacharitra_tripathi
Other authors
Ccl
Title
The Phakkika Saralartha
File name
The Phakkika Saralartha
Text
OCR done
Citation
1950
Publisher
Chowkhamba_sanskrith_series_office
Language
Sanskrit
Pages
92
Library
Scl
DLI number
326612
Barcode
2020010008735.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
QoREkc0xj7p
Download PDF

The Phakkika Saralartha