University Library,gurukul Kangri Vishwavidyalaya

मनोनुरञ्जननाटकम्

Shaastrii Kulajenaananta · 2005/07/25

PDF Proofread

Front matter

THE
PRINCESS OF WALES
SARASVATI BHAVANA TEXTS
Edited by
Dr. Mangal Deva Shastri,
M. A., D. Phil. (Oxon.)
CiHECKLD 1
Initial
THE
Manonuranjana Nataka
Published by
The Superintendent, Printing and Stationery,
United Provinces, Allahabad
1938

Printed by-P. N. DUTT
at the Eureka Printing Works, God howlia,
Benares City.

आपदेवसुतानन्तदेवविरचितं
मनोऽनुरञ्जननाटकम्
काशिकराजकीयपाठशालीयपुराणेतिहासाध्यापकेन
व्याकरणाचार्यमीमांसातीर्थफड़केकुलजेनानन्तशास्त्रिणा संशोधितम् ।
Edited with Introduction by
Ananta Shastri Phadake Vyakaranacharya,
Professor, Sanskrit College, Benares.

FOREWORD The present volume embodies the text of a Drama on Bhakti, written by a descendant of Ekanatha, the wellkuown Bhakta-saint of Maharastra. In the colophons as well as in the introductroy portion (page 3, lines 18-22) of the drama, the author describes himself as the son of one Apadeva. According to the Introductory stanzas of the Smrti-kaustubha, a work undoubtedly written by Ananta-deva II, there flourished two Ananta-deras and two Āpadevas in the line of Ekanatha as follows : एकनाथ मापदेव । । अनन्तदेवा प्रापदेव II (न्यायप्रकाशकर्ता ) ..... भनन्तदेव II ( स्मृतिकौस्तुभादिग्रन्थकर्ता). 1 आसीद् गोदावरीतीरे वेदवेदिसमन्वितः । श्रीकृष्णभक्तिमानेक एकनाथाभिधो द्विजः ॥ तत्सुतस्तद्गुणैर्युक्तः सर्वशास्त्रार्थतत्त्वविद् । आपदेवोऽभवदेवात् प्राप यः सकलान् मनून् । मीमांसानयकोविदो मधुरिपोः सेवासु नित्योद्यतः विद्यादानविभावितोत्तमयशा आसीत्तदीयात्मजः।

( 2 ) Of these two Ananta-devas, our author, I think, represents the first one. The description मधुरिपोः सेवासु नित्योयतः, occurring in the beginning of the Smrti-kaustubha, would apply much better to him than to the second one. Moreover, the present editor has shown me a MS. of another Bhakti-drama also, which is named Sri-Krsna-bhakticandrika and which also, in its colophon, is similarly ascribed to Ananta-deva, the son of Apadeva. The latter drama aims at propounding the superiority of the doctrine of Bhakti to those of the Saivas, the Tarkikas, and the Vedantins etc. I think the words : येनावादि च वादिनां श्रुतिशिरःसिद्धान्ततत्वं मुदे of the Smrti-kaustubha obviously refer to this drama. It is more than probable that the author of both these Dramas on Bhakti is the same and he is the first Ananta-dova. For the same reason I am inclined to think that the author of the Bhakti-nirnaya (Vo). 72 of the same series) also is the same Anantadera. The importance of the Drama primarily lies in its association with the family which produced well-known यस्यानन्तगुणैरनन्त इति सन्नामार्थवत्तां गत येनावादि च वादिनां श्रुतिशिरःसिद्धान्ततत्त्वं मुदे । न्यायप्रकाशकर्ता निरवधिविद्यामृतप्रदः सततम् । मीमांसाद्वयनयवित् तनयस्तस्यापदेवोऽभूत् ॥ तस्यात्मजं वैदिकशास्त्रविज्ञं सन्तोऽसकृत्प्राहुरनन्तदेवम् । etc.

( 3 ) authors and which had descended from the well-known saint Ekanatha, and also in the fact that the author, besides himself being a devotee of Sri-Krsna, had also inherited the tradition of Bhakti of his grand-father. The edition is based on two Devanagari MSS. which the editor secured from a Nopalese friend. The necessary details of the first MS. are as follows: Folios :-1-16, 16--20 (20+21), 22-61, 63--64; size :-8:5" x 4"; lines :-8 per page; letters :33 per line. Its last colophon runs as follows : (sic)-sla A19. देवसूनुनानंतदेवेन विरचिते मनोननाभिधाने हरिभक्तिनाटके पचमोंकः ॥ लिखितं तुलसिकएथ कासिवासि ॥राम ॥ The details of the second MS. are as follows: Folios : -1-8, 15 - 20,22-31; size:--10:5" x 4.5" ; lines ;-12 per page; letters : -42 per line. The MS. comes abruptly to an end in the beginning of the fifth Act. Both the MSS., besides being incomplete (the first MS. is wanting in fol. No. 62 which corresponds to a portion of Act V), are full of mistakes of various kinds. It was not an easy task, therefore, to bring out an edition of the work on the basis of such an unsatisfactory material. But as there was no likelihood of getting better MS. material for the work, the editor was fully justified in

( 4 )
undertaking its edition. He has laboured hard in restoring,
as far as possible, the original text, though at places
finding himself helpless and anxious to have a readable
text he has had to depend more on his imagination than
on the unintelligible readings of the MSS. For all this
he deserves thanks of Sanskrit scholars.
Sarasvati Bhavana,
Benares.
1-5-1938.
M. D. SHASTRI,
Principal,
Sanskrit College, Benares.
OS

श्रीः। किञ्चित्प्रास्ताविकम् । अथेदं संमुद्रय संप्रकाश्यते मनोऽनुरञ्जनसंज्ञकं नाटकरत्नम् । अस्य प्रणेता देवकुलोत्पन्न आपदेवसुतोऽनन्तदेवः। इदं च नाटकमिन्द्र- पूजनं वार्षिकं सपरित्याज्य श्रीकृष्णचन्द्रेण पूर्णावतारिणा श्रीनन्दादि- गोपादिभिः कारितं गोवर्धनपूजनादितो रासलीलान्तं विषयमुद्दिश्य प्रवृत्तम् । अत्र च प्रकृतेन ग्रन्थकारेण स्वीयभक्तिरसपरिल्पुतचेतसः स्वीयविलक्षणस्यातिगम्भीरस्य पाण्डित्यस्य च प्रदर्शनं कृतम् । अस्य नाटकस्य श्रोतारो जडा अपि भक्तिरसपरिल्पुतचित्ता भवन्तीत्युक्तावपि नात्युक्तिकथनदोषस्य भीतिः। अस्य नाटकसंप्राप्तेः प्रकारः कारणं चावश्यश्रोतव्यं संजातं निवेद्यते । एकदा पूर्व श्रीसत्यार्जवादिगुणयुतैर्भक्तप्रवरैः श्रेष्ठिवरैः श्रीगोरी- शङ्करगोयनकामहोदयैः स्वविपुलधनव्ययेन संस्थापिते काशिकराज- कीयपाठशालास्थपुराणेतिहासपदे कस्य कीदृशस्य नियुक्तिः संजातेति जिज्ञासुभिस्तत्स्थाने नियुक्तोऽहं केनचिनिमित्तेनाहूतः । तदा च गोप्यो व्यभिचारवत्य इत्यादिभागवतस्थं सन्दर्भ कठस्थं कथयितृभिः श्रीश्रेष्ठि- महोदयैस्तद्वयाख्याने प्रेरितः । यथाशक्ति संजाते व्याख्याने संतुष्टेषु श्रेष्ठिप्रवरेष्वनन्तरं मे मनसि विचारः सजात एनं विषयमुद्दिश्य विशिष्टो विचारो निबन्धरूपेण विरचय्य प्रकाशनीय इति, तथा कस्यचित्प्राचीनस्य भक्तप्रवरपण्डितस्य रासलीलाविषये प्रामाणिको निबन्धो विद्यते न वा ? यदि स्यात्तर्हि तत्प्रकाशनमेव सर्वापेक्षया वरमिति । एवं निबन्धं लिख- ( २ ) तापि मया प्राचीननिबन्धान्वेषणे प्रयतमानेन नेपालदेशेऽनन्तदेवकृतंना- टकं मनोऽनुरञ्जनसंज्ञकमेतद्विषयं मुद्दिश्य विरचितं विद्यत इत्याप्तमुखा. संश्रुतम् । तदनन्तरं तन्महता कष्टेनानेकदानेकविरं विफलप्रयत्नेनापि मया भक्तप्रवरस्य पण्डितवरस्य नेपालदेशाभिजातस्याप्ततमस्य श्रीपद्म- नाभकेसरिणः पुस्तकसंग्रहतो लब्धम । दृष्ट्वा च तदानेकहर्षपूरितचेतसा मया नाटकस्यास्य प्रकाशने संकल्पः कृतः । अस्तु । अयं प्रकृतग्रन्थकर्तानन्तदेव आपदेवसुत: प्रथमो द्वितीयो वेतिविषये न निश्चयेन किमपि वक्तुं शक्यते । यतः प्रसिद्ध देवकुलेऽनन्तदेव- द्वयस्यापदेवद्वयस्य चोपलब्धेः । ग्रन्थकारस्तु स्वस्य गुरुत्रयमस्तीति लिखति(१)। आपदेवो रामतीर्थो नारायणभट्ट इति । तत्रापदेवस्तु तस्य पितैव । रामतीर्थस्तु मधुसूदनसरस्वतीसमकालीनः कृष्णतीर्थशिष्यः संक्षेपशारीरक-उपदेशसाहस्री-वेदान्तसारप्रभृतिग्रन्थटीकाकर्ता प्रसिद्ध एव(२) । नारायणभट्टस्तु प्रसिद्धो भट्टकुलोत्पन्नस्त्रिस्थलीसेतुप्रभृतिग्रन्थ- कर्तान्यो वेति संदिग्धमेव । श्रीमधुसूदनसरस्वत्यस्तु श्रीगोस्वामितुलसी- दाससमकालीना एव । यतः, आनन्दकानने कश्चिन्जङ्गमस्तुलसीतरुः । कवितामञ्जरी यस्य रामभ्रमरभूषिता ।। इति श्रीमधुसूदनसरस्वतीविरचितं गोस्वामिविषयकं पद्यमस्तीति तद्विष- येऽभियुक्तोक्तिर्जागति सर्वत्र । एवं च गोस्वामिनःसुनिश्चितो वैक्रमसप्त- दशशतकप्रारम्भकाल एव श्रीमधुसूदनसरस्वतीसमकालीनानामनन्तदेव- गुरूणां रामतीर्थानां समायाति । तदनुसत्यानन्तदेवस्य च स एव कालः पर्यवस्यति । एवं च प्रथमानन्तदेवस्यायं ग्रन्थः संभवति । किंच 'ग्रन्थ- १ गुरव इति वक्तव्यम् । एकस्तावस्पितैवेत्यादिकं पृष्ठे ३ द्रष्टव्यम् । २ अच्युतमासिकस्य तृतीयवर्षस्य चतुर्थाकस्य ११५ पृष्ठं द्रष्टव्यम् ।

( ३ ) स्थप्रथमपृष्ठे लेखकेन संवत् ९६६ ? ( १९६६ ) ज्येष्ठवद्यपश्चमी धनका' इत्यादिलिखितमुपलभ्यते । तेनापि निश्चेतुं शक्यते प्रथमानन्तदेवस्यायं ग्रन्थ इति । तद्विषय एव श्रीस्मृतिकौस्तुभे द्वितीयानन्तदेवेन 'मीमांसा- नयकोविदो मधुरिपोः सेवासु नित्योद्यतः' इत्युक्तमिति प्रतिभाति । अस्तु । विशेषतो विद्वद्वरैरत्रत्यं तत्वमालोचनीयम् । नेपालदेशतः संप्राप्तमेतन्मुद्राणाधारभूतं ग्रन्थद्वयम् । तत्रोभयमपि बहुत्र खण्डितमेव । परन्तुभयग्रन्थसाहाय्येनैकं स्थलं त्यक्त्वा ग्रन्थः प्रायः पूर्णः संजातः । तत्रैकं पुस्तकं ग्रन्थाधारतया स्वीकृत्रमेकपत्रख- ण्डितं पञ्चाङ्कमितम् । द्वितीयं तु बहुत्र स्थाने खण्डितमङ्कचतुष्टयमितम् । खण्डितप्रकारश्च प्रथमाङ्कस्थान्तिमभागतः प्रायो द्वितीयाङ्कसमाप्तिपर्यन्तं, तथा चतुर्थाके मध्य एकपत्रपरिमितं खण्डितं सर्वत्र प्रायोऽशुद्धं च । एतत्पुस्तक देवकुलगृहस्थितमेव यतो ग्रन्थमुखपृष्ठे 'इदं पुस्तकं बाबाजी- देवात्मजजगन्नाथदेवस्य' इति लिखितमुपलभ्यते। आधारभूतं पुस्तकं ६४ पत्रपरिमितं प्रतिपत्रं ३६ अक्षरयुताष्टपङ्क्तिपरिमितं च । पुस्तकं तु बहुत्र स्थले प्रायोऽशुद्धिभूयिष्ठं नेपालि-वङ्ग-देवनागरीप्रभृतिलिपीप्राची- नाक्षरभूयिष्ठं मध्ये मध्येचानेकाक्षररहितं च । तत्र श्लोकादिसवेस्थले- ऽनेकाक्षरयुते स्थले त्रुटितवैपरीत्यस्थिताक्षराधारेणानुकूलमक्षरसङ्घप्रकल्प्य महता कष्टेन संयोज्यानेकदानेकवारं च समालोच्य कथंचिद् ग्रन्थः संपूरितः । अत्र प्रथमतो ग्रन्थान्वेषणे निमित्तभूतानां श्रेष्ठिप्रवरभक्तवरश्री- गौरीशङ्करगोयनकामहोदयानां तथा ग्रन्थप्रदातॄणां पद्मनाभकेशरिणां प्र. न्थप्राप्तयनन्तरं तत्प्रकाशने नियोजयतां श्रीमहामहोपाध्यायश्रीप्रिन्सिपल- गोपीनाथकविराजमहोदयानां तथैतत्कार्ये प्रोत्साहयता प्रिन्सिपलडॉ. श्रीमङ्गलदेवशास्त्रिमहोदयानामुपकारभारं संप्रकाश्य येषां कटाक्षक्षेपा-

( ४ )
त्पदास्पदमपि चलितुं न समर्थो मानवस्तेषां काशीपुरपालकानां दयां
संविभाव्याशुद्धिशोधनपत्राधारेण ग्रन्थं संशोध्य सफलयन्तु मामकीनं
परिश्रममिति हंसव्रतधरान् गुणैकपक्षं कक्षीकुर्वाणान् विद्वद्वरान् सं.
प्रार्थयते-
गवर्नमेंटसंस्कृतकालेज,
वैशाखवद्यामावास्यायां संवत् १९९५,
काशी.
विद्वद्वशंवदः--
अनन्तशास्त्री फडके
व्याकरणाचार्यो मीमांसातीर्थश्च ।

श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीमदापदेवचरणारविन्दाय नमः । मनोऽनुरञ्जनं नाटकम् । प्रथमोऽकः। कालिन्दीपुलिने सुगन्धिपवने मन्दारमूले लस- नीलेन्दीवरसुन्दरः कटितटप्रद्योतिपीताम्बरः । कोऽपि श्रीमुखमारुतेन मुरलीमालापयन्मजुलं लोलाक्षीरभिरञ्जर्यान्वजयते कञ्जस्फुरल्लोचनः ॥११॥ अपि च, यस्यामी विधिवासवादिविबुधावासेषु विस्फूर्जिताः संतोषाश्चलवीचयो नृपसुखान्येतान्यथो बुबुदाः। अन्ये पुत्रकलत्रमित्रविषयाः सौख्योदया बिन्दवः सोऽयं पूर्णसुखार्णवो विजयते नीलाम्बुदः श्यामलः ॥२॥ (नायन्ते) सूत्रधारः-अलमलम् । अद्य खलु नानाश्रुतिस्मृतिपुराणा- दिवचनशतैरप्यवचनीयेन चतुर्मुखशतमखप्रमुखसुरैरपि सततमारा- धनीयेन सनकसनातनसनन्दनादिभिरतिकृतार्थैरप्यनुचिन्तनीयेन त्रिभुवनपरिमोहनप्रकृतिकमनीयेन श्रीनारायणेनान्तर्यामिणा प्रेरितो- ऽस्मि । यदुत हरिभक्तिरसप्रधानं कमपि निबन्धं सदनुबन्धिनं साधुषु विशदमभिनीय प्रदर्शयेति । ( दिलु चक्षुः प्रसार्य सानन्दम् ) अहो !

- २ मनोऽनुरञ्जननाटके- यत्नशतैरप्यलभ्योः समागता एव सभ्याः । उपविष्टा एव चैतेऽस्मत्कला- वलोकनसमुत्सुकैरितरलोकैः साकम् । तदस्मदीयः संतोष एवा- मीषामुद्देश्यः । यतः-- न विदन्ति परस्य भिन्नता स्वयमप्याकलयन्ति खिन्नताम् । सुखसन्ततये च सन्ततं प्रयतन्ते कृपणेषु साधवः ॥३॥ तदिमे कृपणानस्माननुगृहन्ति । (प्रविश्य) नटः-किमिदमकाण्डे कृपणतावलम्बनम् ।तथाहि । कदापि नैव स्वपदाञ्चलन्तो ये साधवो धैर्यमहामहीधाः । तन्मस्तकान्दोलनशक्तिभाजो भवादृशाः किं कृपणा भवन्ति ॥४॥ सूत्रधारः-अलमलं विवक्षितमेवोद्यताम् । नट:-(सविनयम्) विवक्षितमेतदेव यदावाभ्यामिह सभ्यानुरञ्जनं विधेयं तत्केन साधनेनेति । सूत्रधारः-अये न जानासि। श्रृणु । अधुनानन्तकविना मधुना तुलनास्पदम् । अन्वबन्धि निबन्धोऽयं हरिभक्त्यनुबन्धिना ॥५॥ नट:-(श्लोकं पठन्) अये उपक्रम एव मधुसंमितः प्रक्रम्यते । सूत्रधारः-कः संशयः। स्वभावरमणीयानां स्पृहणीय उपक्रमः । यथा रतिसमारम्भे कान्तावदनचुम्बनम ॥६॥ *उच्यताम् ३ प्रथमोऽङ्कः। नटः-(पुनः पुनरुच्चैर्हसन् तदेव ) यथा रतिसमारम्भे कान्तावदनचुम्बनम् । सूत्रधारः-अलमलं न वेत्स्सि महत्सभाप्रवेशसन्निवेशम् । महत्समाजे हसितं दधानोऽ- नुरागवृद्धथा बत भूरिवारम् जन: समायाति किलापमानं नायाति भूयः स सभासु धाम ॥७॥ नट:---(सविनयम्) अये किनामकमिदं निबन्धनम् । सूत्रधारः -अत्रैव श्लोके चतुर्षु चरणेषु प्रथममन्त्यमितिक्रमण मिलिताक्षरैर्दत्तमस्योत्तरम् । नटः-अहो विदितं मनोऽनुरञ्जनं नाम निबन्धनम् । फलमप्येतन्नि- बन्धनं मनोऽनुरञ्जनं भवति । सूत्रधारः-एतन्निबन्धनहेतुभूतमस्य कवेरनन्तदेवाभिधस्य ज्ञानमपि मनोऽनुरञ्जनम् । यः पूर्वोत्तरमीमांसापरिशीलनशीलवान । तदीयाध्यापनेनैव समयं खलु नीतवान् ।।८।। नटः-अस्य महाभागस्य किशो गुरुः स्यात् । सूत्रधारः-गुरव इति वक्तव्यम् । एकस्तावत्पितैव । यस्यापदेव इति नाम न कस्य कर्णे विद्याचयस्य हृदि कस्य न काक्षितं स्यात् । शीलं च यस्य मनसैव तमालनीलं संसेवतः प्रथितमप्रतिमं पृथिव्याम् ॥९॥ अपरस्तु, श्रीरामचन्द्रचरणार्चनपक्वचित्तः श्रीरामनामसततस्मरणैकनिष्ठः ।

४ मनोऽनुरजननाटके श्रीरामचन्द्र इव धैर्यधुरीणबुद्धिः श्रीरामतीर्थ इति यो जगति प्रसिद्धः ॥१०॥ नट:-अस्य किल जगद्ग रोमहान दर्शनाभ्यासः श्रूयते, पुनरपि परमेश्वरनामनिष्ठत्वम् । अहो महदाश्चर्यम् । सूत्रधारः-किमाश्चर्य किमलभ्यं भावति प्रसन्न श्रोनिकेतने । पश्य, सच्छास्त्रं निखिलं पयोम्बुधिरयं तस्याथ दैनंदिना- भ्यासो मन्दरपर्वतो नयचयैरालोचनं मन्थनम् । तत्र श्री हरिनाम शुद्धममृतं श्रान्तेष्वनन्येष्वपि श्रीकान्तस्य कृपावशेन तु मुखे केशांचिदेवाञ्चति ॥११॥ नट:-प्रकृतम्। सूत्रधारः--अन्योऽपि भट्टनारायणः । यस्य खलु इया सरोजासनमादधाना स्थिता बुधानां मुखपङ्कजेषु नारायणस्यैव तु संश्रयेण सद्यः कृतार्थत्वमवाप वाणी ॥१२॥ नट:-प्रस्तुतम् । किमत्र निरूप्यते । सूत्रधारः-श्रीकृष्णकीतिरेव । अत एवैतनिबन्धनं मनोऽनुरञ्जनम् । यतः, सितमणिकुसुमौघद्योतमानोरुकान्तिः सपदि परिहरन्ती सर्वलोकस्य खेदम् यदुकुलपतिकीर्तिश्चन्द्रिकायाश्च मूर्ति- जगति सुरसरिद्वा कस्य न स्यात्सुखाय ॥१३॥ नट:-(मस्तकमान्दोलयन्) अये ! किं रागिणामपि तत्र सुखम् । सूत्रधारः-कः संशयः । पश्य अपि भवविषयेषु व्यग्रतामाश्रयन्तो यदुनृपतिगुणेषु प्रीतिमन्तो भवन्ति ।

प्रथमोऽङ्कः। तरुकुसुमरसाना वेदितारोऽपि भृक्षाः प्रविधति सहसैव प्रेम पक्केरुहेषु ॥१४॥ अपि च, संप्रति संसृतिभाजा श्रमहननमजानतां तु विदितचरम् । कमलारमणगुणानां वर्णनमाकर्णनं वापि ॥१५॥ नटः-किमनेन कविना हरेः किल गुणवर्णनं क्रियते । सूत्रधारः-न जानासि । पुण्येन कोऽपि गणनानिपुणो धरण्याः रेणून दिवश्चलगणान् गणयेत् कदाचित् । पुण्यैरपीशकृपयापि चतुर्मुखोऽपि श्रीकान्तवीर्यगणनां तु कदापि नेयात् ।।१६।। किंच, श्रीकृष्णनाथगुणजातमशेषमेतत् ब्रूयात्कथं कविकुल खलु खर्वबुद्धि । प्रत्याननं द्विरसनोऽपि सहस्त्रबक्त्रोऽ- प्यत्र प्रभुन हि बभूव कदापि शेषः ॥१७॥ नटः- यदुपतेः कतिपयगुणवर्णनेन किं स्यात् । सूत्रधारः-किं न स्यात् । पश्य, शौरेरधिगुणलेशैः कविजननिलया विशोभते वाणी। द्वित्रैरपि शशिकिरणै- विकसनि पङ्केरुहश्रेणी ॥१८॥ नटः-किमिति तर्हि यदुपतिमेव सर्वे न निरूपयन्ति । केचित्खलु कवयः कल्पितार्थप्रबन्धैरेवातिविततवाग्व्ययं विदधति । सूत्रधारः-शृणु

w
मनोऽनुरञ्जननाटके--
सुदीर्घसंसारपथप्रपन्ना
चिरेण खिन्ना खलु वाकवीनाम् ।
पुण्येन पूर्णामृतदीधिकायां
विश्राम्यति श्रीपतिवर्णनायाम् ॥१९॥
किंवा,
कविता लक्षणसहिता
यदुपतिरहिता न शोभते वाणी।
सुन्दरतनुरपि रमणी
न भवति दृश्या विना कान्तम् ॥२०॥
अपिच, मृषात्मगुणकल्पने गुणिनि दोषसंजल्पने
परस्य परिपीडने भृशमनीयतायुर्व्ययम् ।
अतः परमपि क्षणं न यदि यादवाधीशितुः
कथंचन कथा श्रयत्यहह जन्म सर्व वृथा ॥२१॥
नटः--भ्रान्तिरेव सर्वपुरुषाणां यदमी सुखार्थतयैव सर्व कालं कलयन्ति
न तु तल्लभन्ते । यतः
अत्यन्तानर्थबाधायां संसृतौ हि कुतः सुखम् ।
प्रदीप्ताङ्गारशय्यायां सुसुप्तमिव देहिनाम् ॥२२॥
सभ्याः-(स्वगतम्) अहो परमार्थगर्भा एवानयोर्वाचः । यद्वयं संसृति-
निर्वृतिकामाः । संप्रति सर्व यदुपत्यनुबन्धिनिबधनं श्रोष्यामः ।
सूत्रधारः-(अकाशे दक्षिणत: कर्ण दरवा)
कलमिह किल गायनेति दिश्यो द्विरेफः । (पुन: सम्यतः कणं दत्वा)
सुरसदनविहारी गीतकृत्कोकिलोऽयम् । (सानन्दम्)
प्रविलससुभुजौ स्तो नारदस्तुम्बरुश्च
त्रिभुवनसुखहेतू गीतविद्यैकसेतू ॥२३॥

प्रथमोऽङ्कः। (पुनरपि सानन्दमवलोक्य) अहो सपक्षावेव पक्षीभूतौ । तदलमावाभ्या- मितोऽपसर्तव्यम्। अति महति समागते सभायां प्रभवति नाल्पजनस्य सुप्रसङ्गः। उदयति दिवि तिग्मरश्मिबिम्बे विलसति नेतरतेजसः प्रकाशः ॥२४॥ (इति निष्क्रान्सी) इति प्रस्तावना।

मनोऽनुरजननाटके- नारदः-(प्रविश्य वीणारयन् कण्ठं पता सह संवादपन्) जलधरगतनीलस्तेयशीलं शरीरं तडिदमलविलासस्तेयशीलं च वासः। विमलकमललीलास्तेयशीले च नेत्रे स्वयमपि नवनीतस्तेयशीलः प्रभुनः ॥२५॥ (ततस्तुम्बरू प्रविश्व) तुम्बरः-अहो गोविन्ददेवस्यादिपार्षदो नारदोऽयम् । यदुपतिमतिमञ्जुरीति गायन सततमसौ भुवनेषु धन्य एकः। अविदितभववेदनः स्वयं य- स्तृणमिव मुक्तिमवैति सर्वदैव ॥२६॥ (किंचिदप्रत उपसृत्य गीतध्वनि श्रुत्वा समानविषयतया किंचिदुत्पनमत्सरः) अहो अयमत्रापि गायति । (पुनर्विवेक कृत्वा) अलमलं मत्सरेण । यस्य दैवमनुकूलमीयते तस्य किंचिदपि नैव हीयते। केवलं स्वकृतमत्सराग्निना स्वमनस्तनुरियं च दह्यते ॥२७॥ किंच, सकलसंसृतिदुःखनिवारणं सपदि चोत्कटनिवृतिकारणम् । मधुविनाशनकीर्तिमुत्तमा बत विना पशुमत्र भजेन कः ॥२८॥ नारदः-समवलोक्य श्रोकारं प्लावयन्) नमो ३ नमः । तुम्बरु:-(प्रणम्य) तदेव कृष्णसुगीतं गीयताम् । *यहि प्रथमोऽङ्कः। नारद: -(श्रीकृष्णालीवास्मरणात्प्रेम भरेण) जलधरगतनीलस्तेयशील शरीरं तडिदमलविलासस्तेयशील च वासः। विमलललितलीलास्तेशीयले च नेत्रे स्वयमपि नवनीतस्तेयशीलः प्रभुनः ।। २९ ॥ तुम्बरु:-कथमहो प्रभोःस्तेयशीलत्वं सभायामुद्भाव्यते। किं च स्वल्पो जनस्तेयविधि विधत्ते न तस्य निन्दा कतमोऽपि धत्ते कथं चकार ब्रजबल्लवीनां दध्यादिचौर्य महतो महीयान् ॥ ३०॥ नारदः-(परिहासेन ) सोऽयमणोरप्यणीयानित्युचितमेव किं न स्यात । वस्तुतस्तु, स्तेयं यपूर्णकामानां दूषणं परिगण्यते । सदेव पूर्णकामस्य भूषणं न तु दूषणम् ॥३१॥ अपि च, अन्यत्र दोष एव क्वचिद्गुणतामापद्यते । यदपि जगति चौर्य देहिनां निन्दनाय स्फुरति यदुपतेस्तत्सज्जनानन्दनाय । अतिशयकठिनत्वं दूषणायैव काव्ये भवति तु वनिताना भूषणाय म्तने तत् ॥३२॥ तुम्बरु:-एवमेव । नारद:--प्रन्यदपि श्रोतव्यम् । नेदं सकलजनसाधारणं स्तेयं यत्सभायां नोद्भाव्यते, किंत्वतीवाद्भुतलीलासंकलितम् । तुम्बरु-कथं कथम् । स्मरणप्रेम। २ १० मनोऽनुरजननाटके- नारदः-प्रविशति सदनेषु श्रीपतिःस्तेयहतोः भवति सपदि शीर्ण: शृङ्खलागाढबन्धः । निहितमपि च गव्यं भूरिगाढान्धकारे विशदयति शिशूनां स्वप्रकाशेन शौरिः ॥३३॥ किंच, उपर्युपरिनिर्मिता भुवनसन्ततिर्विस्तृता यदाश्रिततया सदाढतया समुन्मीलति । स एष पिठरादिभिः कथमपि क्रमेणोच्चकैः कृता विरचना कथं श्रयति शिक्यगव्यग्रहे ॥३४॥ तुम्बरु:-लघुकर्मसमारम्भे लघुरेव समाश्रयः । तदनेनापि देवेन लघुतैव समाश्रिता ॥ ३५ ॥ अहो तावन्नारदो रुद्रविष्णवादिपरम्परोपरिस्थितम्य नन्दनन्दनस्य चरणस्मरणप्रसृमरेण प्रेमभरेण स्खलदानन्दजलपुलकितनिखिलतनुः क्षणमवस्थितो मदीयोक्तस्वनानुसंधानावधानविकलश्चास्ति । अहोऽस्य भाग्यवतो भगवति प्रीतिः। यतः- श्रीनन्दनन्दनपदस्मरणानुबन्धः कस्याप्युदञ्चति न कृत्स्नमहाजनस्य । भृङ्गस्य पङ्कजपरागरसानुषङ्गो नो कोकिलस्य न च केकिकुलस्य लोके ॥३६॥ नारदः (प्रमृज्य नेत्रे) दुग्धं मे नवनीतमेव बहु मे दध्युत्तमं देहि मे पूर्व सर्वसख्यिभ्य इत्यपि जनैः प्रत्येकशः प्रार्थितः । पीठाचूर्वपरंपरोपरिगतो रेमे सरोजेक्षणः शिक्येभ्यः सखिकाक्षितानि फलयन्नानाभुजः कौतुकी ॥३७॥ तुम्बरु:-अन्यदप्यद्भुतमेतस्य श्रुतम् । यदा किल यदुकुलकलिका- विकासनैकभानुरयमुदयमासादयति स्म । तदा -

प्रथमोऽङ्कः।
उत्पन्नः सह भूषणैः समनयज्योतिष्ट्रमन्धन्तमो
बन्धः किं च कपाटशृङ्खलमयः सद्यो विशीर्णः स्वयम् ।
नन्दः स्वालयमानयञ्च तमिमं पूर्णे निशीथागमे
संपूर्णी यमुना ततार चरणाम्भोजेन शूराङ्गजः ॥ ३८ ॥
नारदः-उत्तरार्द्ध नातीवाद्भुतम् । यतः
तमिममेव समाकलयन पिता
स यमुनां विततार न तद् बहु ।
यदनुचिन्तनवान् वरो जन-
स्तरति संसृतिसंज्ञकमर्णवम् ॥३९।।
अस्य किल यदुकुलजलधिजन्मनः श्रीकृष्णचन्द्रमसः प्रविततैव
चरित्रचन्द्रिका । तथाहि,
साधुचित्तकुमुदैकरञ्जिका दोषचक्रपरिभोगञ्जिका ।
सर्वसंसृतितमोऽतिवर्तिका भाति माधवचरित्रचन्द्रिका ॥४०॥
तुम्बरु:-अधुनानुभूतं मया।
यद्वार्तयैव निखिलार्तिविनाशपूर्व
चेतो बिभर्ति मधुसागरवर्तिसौख्यम् ।
एतादृशो न हि नरेषु न चासुरेषु
नैवामरेषु च समस्ति कुतोऽपरेषु ॥४१ ।।
तस्मादमुष्मादाधिक्यं तु दुरापास्तम् ।
(नेपथ्ये)
आः कोऽयं जल्पति । अस्मत्स्वामिशतमखनियोज्यकुलप्रसूत-
नन्दनन्दनस्य सप्तहायनस्य का चेयमलीका प्रशंसा।
नारदः--तुम्बरो! श्रूयतां दुर्जनप्रलपितम् ।
सतो स्वाभाविकोत्कर्षेष्वसहिष्णुत्वदूषिताः ।
मिथ्या निजस्वभावेन वाग्विलापान वितन्यते ॥४२॥

मनोऽनुरजननाटके-
तदिह दुर्जनप्रसङ्गे न स्थेयम् ।
( इति निष्क्रान्ती)
(ततः प्रविशति बन्दिद्वयं वाग्विलासो मनोविलासच)
वाग्विलासः–यस्याज्ञया जलदमण्डलमेतदुवी
वृष्ट्वा
विभावयति सस्यसमृद्धिगुर्वीम् ।
सोऽयं समस्तजनजीवनहेतुभूतो
वत्री न कस्य धरणीनिलयस्य पूज्यः॥४३॥
अपि च, यं वेदविद्यासु बहुप्रवीणाः
स्तुवन्ति शंसन्ति यजन्ति यज्ञे ।
गन्धर्वविद्याधरचारणाद्या
गायन्ति सोऽयं जगतां नियन्ता ॥४४॥
मनोपिलास:-अये पाकशासनगुणप्रकाशनमाचरसि, नन्दन-
वनकुसुमनिचयमपि च शिरसि करे च निवहसि, तन्नूनं सुरसदनादा-
गच्छसि ।
वाग्विलासः-यथा वदसि ।
मनोविलासः-अहो ? अपूर्वता नन्दनवनकुसुमनिचयस्य ।
इयममुष्य मनोरमता परि-
स्फुरति कापि धरातलदुर्मिला।
यदवलोकनकामनयागतं
नयनमञ्चति नैव पुनः पराक् ॥ ४५ ॥
किं च, एतैः प्रसूनैः प्रगृहीतचित्ता
दिव्या द्विरेफावलिरेति सेयम् ।
संगीतमुच्चैः स्वरमुन्नयन्ती
मनोहरन्ती पथि कोकिलानाम् ॥ ४६॥

प्रथमोऽकः। वाग्विलासः-अये सर्वोऽयं पुण्यविलासः । तथा हि, ते पारिजाततरवः कुसुमानि तानि ते वायवः सुखमया विमला स्थली सा। ते चोर्वशीप्रमुखपद्ममुखीविलासाः सर्व सखे चरितभूरिमखेन लभ्यम् ॥ ४७ ॥ किं च, नानाधनार्जनकृतो रचयन्ति दाना- न्युच्चावचानि विचरन्ति तपासि निस्वाः । ते यान्ति नन्दनवने सुरसुन्दरीणा- मुत्पातिचञ्चलगञ्चलगोचरत्वम् ॥ ४८ ॥ मनोविलासः-प्रास्तामपूर्वत्ववार्तेयम् । वृत्तान्तस्तत्रत्यः कथ्यताम् वाग्विलासः-नाम्ना क्वाप्यमरावतीति नगरी सौवर्णहा शुभा तस्यां कापि सभा स्फुरन्मणिमयस्तम्भैरलं भास्वरा। साकं नाकनिवासिभिर्मुनिजनैः प्रीत्योर्वशीनिर्मितं नृत्य तत्र सहस्रनेत्रकमलैरालोचयत्पाकभृत् ॥ ४९ ॥ मनोविलासः-तस्ततः । वाग्विलासः-एवं गते कियति काले स भगवान पुरुहूतः स्वमनसि प्रादुर्भूतकार्यविशेषः सभायामेव दूरत श्रासीन विधिनामानं देवदूत- मवलोकितवान् । ऐन्द्री तदा सहस्रनयनी कमनीय शीला यैवोर्वशीललितवक्रवशीकृतासीत् । सेयं पपात सहसैव तु देवदूते भृङ्गावली विमखपद्मगतेव चूते ॥५०॥ मनोविलासः--ततस्ततः । वाग्विलासः--दूतं समुत्थाय विधाय पाण्यो-

मनोऽनुरजननाटके-
रन्योन्यसंबन्धनमाशु मूर्ध्नि ।
आशेति यावत्पदमात्रमूचे
तावत्सहस्त्राक्ष उवाच वाचम् ।। ५१ ॥
गन्तव्यं नन्दनिलये वक्तव्यं मेऽनुशासनम् ।
यष्टव्यं मां समुद्दिश्य द्रष्टव्य फलमुत्तमम् ॥ ५२ ॥
मनोविलासः--ततस्ततः ।
वाग्विलासः--स च तदानीमेव प्रस्थितो वयं च नन्दसंदर्शनकामु-
काः, सोऽयमस्माभिः सह क्षण चलित्वा क्षणमस्मदग्रेसर इव चलित्वा
स्वामिकार्यगौरवेण चलित एव, न पुनई ग्गोचरीभूतः । (कर्ण दत्त्वा)
अये, दुन्दुभिध्वनिः श्रूयते, अन्विष्यता किमनुबन्ध्यमिति ।
मनोविलासः--(ईषदपमृत्य पुनरेत्य) क्षत्तैवायमतिनिकटमुपागतः ।
श्रोतव्यमेतत् ।
( ततः प्रविश्य सत्ता)
इह खलु सकलभूतलवर्तिगोपालचक्रचूडामणिः श्रीनन्दराजःसुर-
राजमाराधयिता । तदत्र वीथयःसंमाय॑न्ता, लेपनभूमयः संलिप्यन्ता,
ध्वजाः पताकाश्चोत्थाप्यन्ता, तोरणस्रजःसंबन्ध्यताम् ।
वाग्विलासः-(मनोविलासं प्रति) अये, देवदूतमुखेन शतमखनि-
योगः श्रीनन्दराजकर्णपथमवतीर्णः ।
सता सर्वः समुद्योगः फलेनैवावधार्यते ।
यथैव सुखभोगेन प्राचीनः पुण्यसंचयः । ५३ ॥
( नेपथ्याभिमुखमवलोक्य सानन्दम् । ) सिद्धं नः समीहितम् ।
कृताभ्यङ्गस्नानः परिहितनवक्षौमक्सनः
समुन्मीलन्नानाविधमणिलसद्भूषणधरः ।
परानन्दद्योतिस्फुटविमलतुन्दः सुरुचिरः
सवायेनो (१) वृन्दारकवर इवायाति पुरतः ॥१४॥

१५
प्रथमोऽङ्कः।
तदेतत्कर्तृ कोऽस्मत्स्वामिसमुत्सव एकतः स्थित्वा द्रष्टव्यः ।
(इति निष्क्रान्ती
विष्कम्भकः।
(ततः प्रविशति यथानिर्दिष्टो नन्दःसह ब्राह्मणैः सह गोपालैः । )
गोपाला:--आर्य, यमुनापुलिनमेव देवतायजनमध्यवसितम्।
इह हि विपुलपादपावलिरेव श्रीमन्मखसमुत्सुकया दूरतः समागताना
परिश्रमापहाराय साहाय्यकमाचरिष्यति । तथा हि,
तटभुवि यमुनायाः पुष्कला पादपालि-
विलसति खलु सद्यः पान्थविश्रान्तिहेतुः ।
सुललितमलिगीतं यत्र वायुश्च शीतः
फलमपि
बहु
शस्तं तत्र खेदः कुतस्त्यः ॥ ५५ ॥
किं च, अयं गोवर्धनगिरिपि ।
विपुलतालतमालकदम्बकै-
बकुलबल्वजचन्दनचम्पकैः ।
ज्ञपयति श्रममेष विशेषतः
सपदि लोचनगोचरतां गतः ॥ ५६ ॥
नन्दः-- सानन्दमवलोक्य स्वगतम् ) ।
एषा मण्डपरचना कर्षति नयनानि सर्वलोकानाम् ।
अतिशयललिता कृतिरिह विलसति नवयौवनेव स्त्री ॥ ५७ ॥
अपि च, एते गोरसकुम्भा एते रम्भासपल्लवाः स्तम्भाः ।
विलसतु यज्ञारम्भः संप्रति सम्भारसंचये मिलते ॥ ५ ॥

मनोऽनुरजगनाटके- (ब्राह्मणान्प्रति प्रकाशम्) पुरुहूतो यथा मन्त्रैः समाहूतो ममाध्वरे । समायाति तथा कार्य किमशक्यं तपस्विनाम ॥ ५९॥ ब्राह्मणाः--(पुरतो विरचितम्याकोशाम्जलि ) राजन अमृताशोऽपि देवेशः स्वयमेव समेष्यति । अमृतादपि यत्स्वादु यद्धि स्निग्धं प्रदीयते ॥ ६०॥ गोपाला:-(परस्परम्)। ब्रजपतिमखोत्सवजनितचित्तोत्सवारम्भाः समागता ब्रजाङ्गनाः करकलितकनकभाजनावस्थितदीपावलिभिधरा- जनाविधिं नन्दराजस्य विधाय तत्र तत्र व्याप्रियन्ते । तत्र-- सौवर्णरत्नमयचञ्चलकुण्डलाना व्यालोलहारचपलमण्डलमण्डनानाम् । एणीदृशा तडिदुदश्चितगौरभासा- मासा विभाति ललितानि गतागतानि ॥६१॥ । ब्राह्मणा:-( नेपथ्याभिमुखमवलोक्य परस्परम् ।) अहो ? इन्द्रनील- लतिकेयमालक्ष्यते । ( चैतन्यमभिलषय ) इन्द्रनीललतिकेव शोभना भृनपुरजरचना विराजते । चित्रमत्र जननेत्रपङ्कज- श्रेणिरेव मुहुरेति संमुखी ।। ६२ ॥ (पुनर्विमृश्य ) नेयं भृगपुञ्जरचना । यतः-. यः खलु निखिलजनानामिन्द्रियनिचयो निसर्गतः खिन्नः। स परानन्दपयोधौ खेलनमनुसंदधात्यधुना ॥ ६३ ॥ (पुनरपि विमृश्य ) । अहो ? विदितं श्रीकृष्णोऽयं समायाति । बध्वैव लावण्यगुणेन गाढ चषि लोकस्य बलाद्धि कर्षन् ।

प्रथमोऽङ्कः। आकर्णविस्तीर्णदृशा च भूय- स्तेष्वेव पीयूषमिवाभिवर्षन् ॥ ६४ ॥ किं च, संपूर्णलावण्यकलाधरोऽय विराजते सर्वजनेष्वपूर्वः। अयं तु संयाति लयं जनानां यस्योदये खेदमयः पयोधिः ॥६५॥ (तत: विशति श्रीकृष्णः सह गोपकुमारैः, गोपकुमाराः श्रीदामप्रभृतयो नृत्यन्तो गायन्तश्च करतालिकाभिः मिथः ।) इह हि नन्दनन्दनेन तनुविलुप्तचन्दनेन । मुक्तसर्वबन्धनेन जितममर्त्यवन्दनेन ॥ ६६ ॥ (एकत्र स्थिता वाग्विलासप्रभृतयो मिथ: ) वाग्विलासः-अहो पितापुत्रयोविरुद्धशीलत्वं, यन्नन्दोऽममा- राधनमीहते, नन्दनन्दनोऽयममर्त्यवन्दनीयत्वेनोपन्यस्यते । अतः सम्य- गिवान न लक्ष्यते । भवतु पश्यामस्तावत् । गोपकुमारा:-(पुनः) सकलचित्तरञ्जनेन निखिलदुःखभञ्जनेन । कालियस्य गजनेन, वस्तुतो निरञ्जनेन ।। ६७ ।। ब्राह्मणाः---(मिथः साश्चर्यम् ) कथममी बालकाः नन्दनन्दनस्य निरञ्जनत्वं जानीयुः । ( तेषु-) अपरे—सोऽयं भगवद्गुणवर्णनमहिमा । यत् ३

१८
मनोऽनुरञ्जननाटके-
एको गुणः श्रीरमणस्य गीतः
परं गुणं ज्ञापयति क्षणेन ।
यथा पदार्थः खलु पूर्वपूर्वः
परम्परं स्मारयतीह यज्ञे ॥ ६८ ॥
अत एवास्य कवेः काव्यकलाविकास इव हरिगुणवर्णने प्रवृत्तस्य
तन्महिमैव तादृशो वाचः परिस्फुरति, उदाहरन्ति चाभाणकम्, गच्छत्पि-
पीलिकापङ्क्तिः समुद्रमपि गछति ।
गोपकुमारा:-(पुनः )
पूतनाविशोषणेन
दानवेषु रोषणेन ।
गोकुलैकभूषणेन
जितमपास्तदूषणेन ॥ ६९ ॥
नन्दः-(स्वगतम् ) कथमनेन गोपकुमारगीतोत्सवेनास्मदीयो
यज्ञोत्सवो भिन्नविषयो बाध्यते । तथाहि । यज्ञनिमित्तकः सर्वोऽयं स्त्री-
पुरुषसमाजः।
स्वस्वव्यापृतिविरतिं दधाति गीताय पूतनारातेः ।
न चलति न वदति किमपि स्मरति च नैवापि कर्त्तव्यम् ॥ ७० ॥
तदेतानविदितास्मदीयवृत्तान्तान ज्ञापयामः । (इत्यग्रत उपसत्य
श्रीकृष्णं प्रति ) अये, विधिनामकदेवदूतमुखेन पुरुहूतः स्वयज्ञविषये-
ऽस्मानाज्ञापयति । स हि देवदेवो वृष्टिं वितन्वन् सकलगोकुलजनजी-
वनहेतुर्वृन्दावनवृद्धिसाधनहेतुः । तस्मादमुष्य यजनमस्माभिरनुष्ठीयते ।
श्रीदामा-( श्रीकृष्णाग्रेसरो भूत्वा ) किमिदमकाण्डे परवश्यताव-
लम्बनम् । शृणु,
को वेह देवदूतः प्रभुरप्येतस्य कश्च पुरुहूतः ।
तदृश्यतावलम्बे कोऽपि न नन्द प्रकर्षस्ते ॥ ७१ ॥

प्रथमोऽङ्कः।
नन्दः-मास्तु प्रकर्षस्तथापि महान्तोऽल्पैः सेव्या एव ।
श्रीदामा-वृन्दावनं नन्दनतोऽपि रम्यं
गोष्ठं च नः स्वर्गपदाद्वरिष्ठम् ।
किं देवराजाय च नन्दराज
त्वयाल्पता स्वात्मनि कल्पितासौ ॥ ७२ ।।
किं च, यमुनाजलसंमिलिते कालियहालाहलेऽतिसंमिलिते।
अस्मन्जीवनहेतुः किं पुरुहूतस्त्वया विहितः ।। ७३ ।।
अपि च, वृन्दावनतरुवृन्देऽप्यतिशयकिसलयफलादिसंबन्धे ।
शौरेरेव तु हेतुः सन्ततपीयूषवर्षणी दृगसौ ॥७४ ॥
नन्दः-सत्यम् । अस्माकमभ्युदयहेतुरमुष्य शौरेः संबन्ध एव,
बहुधा विदितं तदेतत् ।
वृद्धः-परन्तु
विदधीत सुराधिराजो गोष्ठ-
प्रणाशमिति चेतसि भाति शङ्का ।। ७५ ॥
(पुनः श्रीदामा सामर्षम् )
इन्द्रो विधास्यति यदा ब्रजनाशबुद्धिं
सद्यो ऽवहास्यति तदा स्वपदाधिपत्यम् ।
सोऽयं पतिष्यति बकीबकधेनुकाना
पक्तौ भविष्यति च मङ्गलमेव गोष्ठे ।। ७६ ।।
श्रीकृष्णः-( प्रहस्य )
शुभाशुभं पूर्वकृतं हि पुंसा
कर्मैव तत्तत्सुखदुःखहेतुः।
कर्मानुसारेण च सौख्यभोक्ता
किं तत्र शक्रेण समर्थितेन ॥ ७७॥

२० मनोऽनुरञ्जननाटके- नन्द:--(सपश्चातापम् ) अहो निरर्थकोऽयमुद्योगः, वृथा च संभृताः संभाराः। श्रीकृष्णः-किमिनि निरर्थकत्वम् , एतैरेव संभारैर्ब्राह्मणाः पूजनीयाः। इन्द्रादयोऽपि यन्मन्त्रैरवशा वश्यतां गताः । भृत्या इव समायान्ति पुनन्ति यदाज्ञया ॥ ७८ ॥ ब्राह्मणाः--( स्वगतम् ) अहोऽस्माकं करद्वयेऽपि लड्डुकम् । यद्वा श्रात्विज्यक्लेशाभावेन तत्फलभागित्वेन चायमेव पक्षः साधीयान् । श्रीकृष्ण:-(पुनरपि ) यष्टुः करात्पतति पावकवक्त्रमध्ये गव्याहुतिस्तदनु सूर्यमुपैति सेयम् । तत्रापवृष्टिपरिणाममुपैति तस्माद् गावः समस्तजनजीवनहेतुभूताः ॥ ७९ ॥ विशेषतो गोकुलवर्तिनाम् । तथा हि आसां प्रसादाद् घृतमिश्रितानि निपीय भूयांसि पयांसि नित्यम् । पीयूषमेते गणयन्ति सर्वे गण्डूषवार्ता खलु गोकुलस्था ॥ ८०॥ तस्मादस्माकमभिप्रेतमेतत् । यदुत ब्राह्मणा गावो गोब्राह्मणाश्रयो गोवर्धनगिरिश्च पूजनीय इति । नन्द:-( सानन्दं मस्तकमान्दोलयन् श्रीकृष्णं प्रति) अस्माकमुपजीव्या हि विप्रा गावो गिरिः सदा। तान्विहायान्यपूजायामुपजीव्यविरोधिता ।। ८१ ॥ तदलं विलम्बेन । विप्राः प्रथमत आकारणीयाः ।

ततः ॥८४॥ प्रथमोऽङ्कः। २१ श्रीकृष्ण:--एके तावदत्रैव तिष्ठन्ति यज्ञार्थमाहूताः । अपरे पुनरेते यज्ञावलोकनकामुकास्त्वरया समायान्ति। पश्य, स्वाभाविकतनुभासा रविसकाशाः स्फुरन्त्यमी विप्राः। उज्वलतिलकविलेपनशोभिशरीरास्तपोधीराः॥२॥ ( तत:प्रविश्य यमुनाकूलद्वयनिवासिनः शतशो ब्राह्मणाः।) नन्दराजन् चिरं जीव राजीवदललोचन । अर्थिनामर्थितासारैर्दारिद्रयभयमोचन ॥८३ ॥ नन्दः-(शिरसि करो संयोजयन् )। आवामसर्वकामाना नोद्देश्यं किंचिदिष्यते । अस्मदभ्युदयायैव भवदागमनं ब्राह्मणाः--(नानाविधवसनालङ्कारचन्दनादिभिःपरिपूजिताःसानन्दम्।) श्रीनन्द गोपनृप नन्द यशो लभस्व नैताशस्त्रिजगति स्फुरति द्वितीयः। अस्मत्प्रदत्तहविषा बत वृत्तिभाज इन्द्रादयो भगवतोऽनुचराः स्फुटं स्युः ॥ ५ ॥ अपि च, अहो भवतां भाग्यम् । यतः यत्पादपद्मनखवर्तिसुखस्य नेन्द्रः कोट्यंशमप्यनुभवत्यखिलायुषापि । गोविन्द एष भवतामभिनन्दनार्थ- मानन्दसिन्धुरपि विन्दति शेषभावम् ।। ८६ ॥ नन्दः-( स्वगतम् ) कथममी श्रीदामवाक्यार्थमवध्वनयन्ति । (प्रकाशम् ) अतिश्यति मलसंततिमुज्वलसंपत्सुखस्य सुभूमिः । युष्मचरणनिषेवणविलसितमेवेदमस्माकम् ॥ ७ ॥ (श्रीकृष्णं प्रति) संपन्नं ब्राह्मणपूजनम् । गावःसमायान्तु ।

२२ - मनोऽनुरजननाटके- श्रीकृष्णः-यथा वदसि । ( ब्राह्मणाः परस्परम् ) कथमन्यदासप्तो. ऽन्यदेवानुतिष्ठति । तथाहि । तिष्ठन्नेव पीताम्बरःपरमसुन्दरलोलनेत्रो वेत्राश्रयेण समधिष्ठितवामगात्रः। वक्त्रारविन्दपवनेन सुगन्धिरन्ध्रा- मापूरयत्ययमहो मुरली मुरारिः ॥ ८ ॥ कि च, मुररिपुमुरलीयं सुन्दराकारकल्पां सपदि परिगृहीता योजिता चाधरेण । मुखकमलमरुद्भिः कोमलैः पूर्यमाणा निभृतममृतवृष्टिं सर्वतः संविधत्ते ॥ ९ ॥ बल्लववल्लभाः-(स्वगतं य॑मिव ) सत्यं, अमृतं वर्षति । किं तु मुरवैरिण इयं मुरली, अधरस्थामृतस्यौघं प्रतिगृह्य प्रमुश्चति । न हि मुखे स्थिरा सेयं तस्याहृतये दिवं गता ॥ ९०॥ ब्राह्मणाः-(पुनः ) अहो ज्ञातम् । श्रीमुरारिमुरलीसमुद्भवा मञ्जुला गतिरिहातिराति । पक्षिणामथ गवां नतभ्रुवा दीर्घरज्जुरिव चित्तबन्धिनी ॥ ९१ ॥ किंच, मुरारिमुरलीरवः सकललोककर्णोत्सवः प्रविश्व हृदयाम्बुजे सृजति पूर्णसौख्यार्णवम् । मनोऽत्र ननु खेलनं कलयितुं महत्वं दधा- त्यथास्य परमाणुता स्फुरति वासवीये पदे ।। ९२ ॥

प्रथमोऽङ्कः । २३ वाग्विलासादयः-कथं पुनः पुनर्ब्राह्मणानां वचसि वासवाप- कर्षवासनैव समुल्लसति । ब्राह्मणाः--(भायातीगा: समालख्य ) अहो? विदितं सोऽयं मुरलीरवो भगवता गवामानयनाय प्रयुक्तः । यः खलु तृणं चरन्तीनाम्- समुत्सव इवोदये सपदि सौख्यभासं वने स व्यनाशयदासु सुधारस इवासुधासंगतिम् (?)। स दण्ड इव चोद्यत: प्रविदधे परावर्तनं गुणादित इवातनोद्धरिसमोपमा कर्षणम् (?) ॥ ९३ ॥ नन्दः--(स्वगतम् ) मुरारिमुरलीगीतिर्यष्टिरीतिमिहाञ्चति । यया संनोदनादेता गावो धावन्ति काननात् ॥ ९४ ॥ आश्चर्यम् । ककुद्ग्रीवाः स्तब्धकर्णाः शुक्लवर्णाः समुत्सुकाः । उद्बाष्पा उलसत्पुच्छा गावो धावन्ति माधवम् ॥ ९५ ॥ ब्राह्मणाः-(परस्परम् । ) महदाश्चर्यम् । पिबन्त इव चक्षुर्भिलिहन्त इव जिह्वया । गोविन्दमेता विन्दन्ति न स्मरन्त्यपि वत्सकान् ॥ ९६ ॥ नन्द:-( सानन्दं यथावत्पूजयित्वा बाह्मणान्प्रति) साधनं साधनं लोके यच्छेयः श्रेय एव तत् । श्रेयस्तत्साधनं चैव गोधनचानुभूयते ॥ ९७ ॥ तथा हि, न केवलं सौख्यशरीरभूतेः स्वलॊकसिद्धेश्च निदानभूतम् । इहापि संसेवनमेतदासा दुग्धादिसौख्यान्वितमेव पुंसाम ।। ९८ ॥ ब्राह्मणा:-(स्वगतम्) मनोऽनुरञ्जननाटके- गीतकृत्या समाहूताः प्रीत्या स्फारं प्रधाविताः । रीत्या सम्यग् व्यवस्यन्ति गावो नन्दस्य पूजिताः ॥ ९९ ॥ (पुनःस्वगतम्) गोवर्धनोऽयमधुनैव समर्चनीयः सम्मर्द एष तु गवामवर्जनीयः । यन्नन्दनन्दनमनोज्ञमुखारविन्द- संदर्शनप्रियमिदं ननु धेनुवृन्दम् ॥ १०० ॥ ( तावन्नन्दो गोपान् प्रति ) गोवर्धनो गिरिरयं परिपूजनीयो गावः स्थलानि कलयन्तु लसत्तृणानि । यत्सुभ्रुवां ब्रजभुवां व्रजबालकानां नैवान्यथा भवति सौख्यकरः प्रचारः ॥ १०१ ॥ गोपा:-अद्धा। मिथ:) ब्राह्मणा: गोपैः प्रचण्डतरदण्डधरैश्च हस्तै- र्नानानिनादरचनैरपि नीयमानः । श्रीशौरिसन्निधिसमुत्थसुखाय भूयो भूयः पराङ्मुखतयाभिसरन्ति गावः ॥ १०२ ।। तथा, गावः स्थलान्तरमितः खलु नीयमाना- कन्या इव स्ववरपक्षमतीव खिन्नाः । स्वं बन्धुवर्गमिव नन्दतनूजमेनं यान्त्यः पुनः पुनरमूरवलोकयन्ति ॥ १०३ ॥ नन्दः-(श्रीकृष्णं प्रति ) अधुना गोवर्धनपूजनम् । श्रीकृष्ण:-अद्धा सिद्धा एव संभाराः ।

२५ प्रथमोऽङ्कः। किं चन्दनैश्चन्दनमण्डितस्य पुष्पैश्च किं पुष्पितपादपस्य । शैलत्वमस्याथ फलोपहारै- रमुष्य किं वा फलितद्रुमस्य ॥ १०४ ॥ ब्राह्मणा:-.तथापि भक्तिप्रिया देवाः । पश्य, पद्मालया लालितपादपद्मो नारायणः पूर्णसुखार्णवोऽपि । पत्रेण पुष्पेण फलेन वापि प्रसीदति प्रीतिसमर्पितेन ॥ १८५॥ ( नन्दो गोवर्धन पूजयति, ते एव मिथः) वाद्यध्वनिर्विपुलघोषविशेषरम्यो प्राप्तं च मङ्गलमतः खलु गायकानाम् । आनन्द एव भवति व्रजसुन्दरीणा मेवं विवाह इव भाति समुत्सवोऽयम् ॥ १०६ ॥ अस्यैवोत्सवस्य प्रतिबिम्बमिवोत्सवान्तरम् । वाद्यध्वनिप्रतिरवो गिरिकन्दरासु गीतं च कोकिलकुलस्य कलं विभाति । गोवर्धनादिशिखरे हरिणाङ्गनाना- मानन्द एव समुदञ्चति मानसेषु ॥ १०७॥ वाग्विलासादयः--(मिथः) फलित एव गोपकुमाराणां मनोरथः । येषां वचसा व्रजपतिना सुरपतिमवज्ञाय शिलोच्चय एवोच्चस्तराम- र्चितः। तथाहि, ध्वजाः पताकाः प्रतिपादपायं तदन्तरालेषु च तोरणानि । ४

मनोऽनुरञ्जननाटके-
मखध्वजश्चन्दनपुष्पमाला-
परिष्कृतो भाति च शैलमूनि ॥ १०८ ।।
अपि च, कुङ्कुमकेसरपकैः सिक्तः सर्वत्र सानुषु श्रीमान् ।
विलसति पुष्कलपरिमलकुसुमसमूहैः समर्चितः शैलः ॥ १०९ ॥
ब्राह्मणा:-(पर्वतमवलोक्य मिथः । )
विशालनयनः कोऽयं तमालसदृशद्युतिः ।
श्रीकृष्ण इव सर्वाङ्गसुन्दरः कनकाम्बरः॥ ११० ॥
तथा, नन्देन भक्तिरसपूर्वकमर्पितानि
गन्धेन किं च दिवि दैवतदुर्लभानि ।
अनानि भूरिमधुराणि मनोहराणि
भुङ्क्ते क एष भगवानिव भव्यभूपः ॥ १११ ॥
(पुनरपि कर्ण दत्वा ) शैलः स्वयं प्रसन्नोऽस्मि वरदोऽस्मीति भाषते ।
नूनं गोवर्धनगिरिभगवान भविता स्वयम् ॥११२॥
(प्रामणेषु-) एक:-योष गोवर्द्धन एव साक्षात्
कृष्णेन सादृश्यमनुष्य कस्मात् ।
(तेज्वेव-) निपुण:--सदैव गोविन्दपदारविन्द-
सम्बन्ध एवात्र निबन्धनं स्यात् ॥ ११३ ॥
प्रतिनिपुण:-कृष्णेन सदृशः कृष्ण एव । यतः,
चिन्तिता कृष्णता चास्य चेतःसंतापशातिनी।
एतस्य रूपलालित्यरीतिर्नान्यत्र दृश्यते ॥११४॥
किंच, सर्वश्रमापहरणाय पदारविन्दं
सौख्यैकसिन्धुजननाय मुखारविन्दम् ।
कस्यापरस्य कमलारमणं विहाय
देहातिर्मदनकोटिपराभवाय ॥ ११५ ॥

. प्रथमोऽङ्कः । तदेतत् त्रयं गोवर्धनवर्त्यनुभूयते, अपि च चापल्यं तु, आकर्णविस्तीर्णदशा च तूर्ण संपूर्णसौख्यार्णवमातनोति । तस्मात, तमालनीलः कमनीयशीलः सोऽयं हरिः संप्रति संप्रतीमः ॥ ११६ ॥ किंत्वसौ जन्मान्तरीयाधमर्ण इव नानाप्रकारैर्नन्दस्यर्ण परिहरति । तथाहि, पुत्रो भूत्वा रिपून हत्वा रक्षित्वा गोधनानि च। अधुना तु, गोवर्धनगिरि त्वा नन्दमानन्दयत्यसौ ॥ ११७ ॥ तथा, स्वयं प्रशमिनो विदुर्न च तपस्विनो योगिनो न वेत्ति च चतुर्मुखप्रमुखदेवतानां गणः । स एष सुखहेतवे सकलगोकुलस्थायिनां विभुर्जयति कर्मकृद्भवति दैवतं चाधुना ॥ ११८ ॥ नन्दादयः-(पूजनं समाप्य मिथः ) अहो भुक्तममृतं देवताहृदय- काठिन्यरूपेण परिणमते । यदमी कतिधा स्ताविता अपि नामास्मान्प्रति प्रशिक्षितवन्तः । एष तु शिलोच्चयोऽपि कृपयातिकोमल एव । यतः, अद्यार्चितः पर्वतसार्वभौम एष प्रसादं भृशमाससाद । ( सामर्षम् ) अतः परं वंशपरंपराया- मस्माकमय॑स्त्वयमेव नेन्द्रः ॥ ११९ ।। (इति गिरिं प्रणम्य निष्कान्ताः) वाग्विलासादयः-तमिमं वृत्तान्तं वृत्रान्तकं प्रति निवेदयिष्यामः । (इति निष्कान्ताः) इति श्रीमदापदेवसनुनानन्तदेवेन विनिर्मिते मनोऽनुरूजनाभिधे हरिभक्तिनाटक इन्द्रमखमलो नाम प्रथमोऽङ्कः।

अथ द्वितीयोऽङ्कः।
(ततः क्रोधावेशेम रक्कोपलवनसशसहस्रनयनः प्रविशति पाकशासनः
सह मातलिना )।
पाकशासनः-गोपानुद्दिश्याकूर्चीपरि करकमलं परिचालयतु
मातले।
यज्ञैः सदा संभृतमुख्यकल्पै-
रेतेऽस्मदाराधनमेव चक्रुः।
दधीनि दुग्धानि घृतानि भुक्त्वा
भुक्त्वा गवा संप्रति किं तु मत्ताः ॥ १॥
अत एतेषां मदपरिहाराय पश्य किं विधेयम ।
मातलि:--देव ! त्रैलोक्यराज्यपदधीप्रतिबन्धकेषु
वृत्रासुरप्रभृतिदानवपुङ्गवेषु ।
क्षिप्तं यदभ्युदयकारि बभूव व
युक्तं तदेव किमु गोपजने प्रहर्तुम् ॥२॥
तथाहि, रणभुवि यो हि भटाना प्रचरति कठिनेषु कण्ठनालेषु ।
सोऽयं क्वापि कृपाणः प्रयुज्यते किं मखच्छेदे ॥ ३॥
पाकशासन:-अनेन खलु भवद्वचनेन गोपाना दुःपरिहरो मद-
हेतुः स्मारितः, यस्य नखच्छेदे कृपाणसहस्रमपि न प्रभवति । अपिच,
रणभुवि दितिजभटानामतिशयकठिनेषु कण्ठनालेषु ।
प्रचलति यन्नखधारा तत्परिहाराय को यत्नः॥४॥

२६ -श्रूयताम् । येन हि द्वितीयोऽङ्कः। मातलि:-( स्वगतम् ) कथमेतस्य चिन्ताप्रादुर्भावः, शनैः शनै- नयनकमलेषु रक्तिमा च प्रसरति । ( प्रकाशम् ) कोऽसौ कथ्यताम् । पाकशासन: कण्ठाश्लेषवशात क्षणादिह तृणावर्तः क्षयं प्रापितः नागः खेलनलीलयैव सहसा नाशं समासादितः। धृत्वा चञ्चुपुटे तृणमिव बको द्वेधा विदीर्णस्त्वयं तेनामी मदहेतुना न गणयन्त्यस्मान् ब्रजस्थायिनः ॥ ५॥ मातलिः-विदितं नन्दनन्दनो गोपाना मदहेतुः। तर्हि तत्र वज्रमेव प्रयुज्यताम्। पाकशासनः यद्यपि प्रयुज्यते तथापि फलेन न युज्यते । यतः, यद्यस्मदीयमुद्योगमेष विद्याद्विचक्षणः । अनर्थोऽस्माकं सुमहान् कदाचिद्भविता खलु ॥ ६ ॥ मातलि:-अहो सप्तहायनादप्यनर्थसंभावना। पाकशासनः-केयं हायनगणना । न स्मरस्यधुनैवोक्तम् । कण्ठा- श्लेषवशात् क्षणादिह तृणावर्तः क्षयं प्रपित इत्यादि । अपि स्तन्यमेव पिबता हतामुना पूतना सपदि बालघातिनी। स्वल्पकोमललसत्पदा स्पृशन् स्पृष्टमेव शकटं विपर्यगात ॥७॥ यस्मिन् समागच्छति कौतुकेन त्यक्ता सुरैः स्वर्गपुरी भयेन । अघासुरः सोऽयमनेन नीतो यमालयं बालकलीलयैव ॥८॥ च, किं च, मनोऽनुरजननाटके- अन्यच्च, अतिव गगनस्पृशौ विशदशौभिशाखाशतौ वनस्पतिधुरंधरौ विपुलपल्लवाडम्बरौ त्रिवर्षशिशुना सता शिशुजनैः समं खेलता ह्यनेन यमलार्जुनौ सपदि लीलयोन्मूलितौ ॥९॥ किमुत सप्तहायनादनर्थसंभावना, तस्मादलमनेन सन्धिग्रहेण । मातलि:-तत्किमधुना क्रोधोपसंहारः। पाकशासन:-नहि नहि किन्त्वेतस्मिन् विषये खलस्वभावानुस- रणमेव शरणम । यथा क्रोधो हृदि स्फुरति भाति बहिः प्रसादो वाक्यं सुधारससमं विषमं च चेतः । कार्य परस्परपराभवनं प्रयत्नात् धार्य च सख्यममुनेति खलस्वभावः ॥ १० ॥ मातलि:-तत्किमिदानीमनुचितकारम्भः शोभते देवेन्द्रस्य । पाकशासनः—कार्यानुरोधः किं न कुर्यात् । पश्य, कार्यानुरोधेन बुधोत्तमाना- मशिष्टकर्मण्यपि भाति वृत्तिः । विनापराधं रघुनायकस्य कुतोऽन्यथा वालिवधे प्रवृत्तिः॥ ११ ॥ मातलिः-(स्वगतम् । ) अहो पुत्रपक्षपातः। यदयं रघुनायकेऽ- नुचितकारित्वमारोपयति । यतः- भ्रातुर्जायाहरणाद्राज्यापहरणात्तथा च कुपितेन । उचितो रघुकुलपतिना रचितो ननु वालिनो दण्डः ॥ १२ ॥ पाकशासन:-श्रीवामनेन च विरोचननन्दनस्य भूर्याचिता निजपदत्रयमेव पूर्णम् ।

३
द्वितीयोऽङ्कः।
पश्चात्प्रतिग्रहविधौ दधता महत्वं
सर्वस्वमेव सहसा प्रहितं तदस्य ॥ १३ ॥
तत्र यदि यथायाचितमेव पदत्रयं प्रतिगृह्यतामिति बलिरवक्षत्,
तर्हि प्रभविष्णुरपि विष्णुरेतस्य किमकरिष्यत् । किन्त्वतिधार्मिकस्य
तस्य वश्चनमेव कृतं विष्णुनापि । तत्रापि कार्यानुरोध एव मूलम् ।
मालतिः-(पुन: स्वगतम् ) अहो कृतघ्नोऽयम् । यदस्य कृते
विष्णोरयमुद्योगः, तमेव च निन्दति, न च वस्तुतो वञ्चनम् । तथाहि,
एतावता ननु विरोचनसूनुचित्त-
वृत्तेः परीक्षणमकारि मुरारिणेह ।
नोचेत्कथं हरिः सुसलराज्यपदं प्रदाय
तद्वारपालपदमथासममाललम्बे ॥१४॥
पाकशासनः-जामदग्न्यमुनिना मनस्विना
हैहयाधिपकृतापराधतः ।
सर्वभूवलयवर्तिभूभुजां
संयुधापि बहुधा वधा मुधा ॥ १५ ॥
एतदत्यन्तमनुचितम । किमुत कार्यानुरोधेऽस्माकम् ।
मातलि:-( पुनः स्वगतम् ) एतदप्ययुक्तमेव ।
यद्भूपतीनां दुरितस्थितानां
चक्रे विनाशानविनाशिरामः ।
अपारभूभारनिवारणाय
तत्केवलं कारुणिकस्य कृत्यम् ॥ १६ ॥
किं तु, अतीवदुश्लिष्टमतिप्रविष्टः
स्वयं तथान्यानपि मन्यतेऽयम् ।
स्वमानसारेण सदैव दुष्टो
जगद्विजानाति हि दुष्टमेव ॥ १७ ॥

-
३२
मनोऽनुरअननाटके-
तदेतेषां भावप्रकाशेन तुभ्येदयम् । तदलमनेन, प्रकृतमेव प्रष्टव्यम् ।
(प्रकाशम् ) देव कथं कथय खलस्वभावानुसारेण गोपनन्दनपराभव-
वस्याचरणम् ।
पाकशासनः
-वयमत्र कर्तार इति न कस्यापि ज्ञापनीम् । आज्ञा-
पनीयाश्चेकान्ते मेघाः । ते चाकालवृष्टिव्याजेन सकलं गोकुलं व्याकु-
लयिष्यन्ति, समार्था हि ते ।
यद्भूतलं सकलसस्यसमृद्धियुक्तं
यत्पादपाश्च विलसन्ति फलैः प्रसूनैः।
आप्यायनं च भुवि सर्वजनस्य यद्वा
सर्वत्र तत्र जलदावलिरेव मूलम् ॥ १८ ॥
किं च, अन्योन्यं मिलितेषु सिन्धुषु जले लीने महीमण्डले
भारस्यापगतौ भुजङ्गमपतौ पर्यङ्कतामागते ।
सर्वाद्यः पुरुषोत्तमः कमलया साकं चिरं यत्सुखं
शेते तत्र निदानमादिमममी मेघा महावृष्टयः ॥ १९ ॥
तद् गछ मेघानाज्ञापय ।
मातलि:-श्रद्धा।
पाकशासन:-अहमपि तैरतिवृष्टथा व्याकुलं क्रियमाणं गोकुलं
मेघान्तरितो विलोकयिष्यामि ।
( इति निष्क्रान्तौ )
(ततः प्रविशति नन्दराज: प्रातर्यमुनाकूले, अनुपदं विद्याविनोदो बन्दी च)
विद्याविनोदः-दिष्टथा वर्द्धसे नन्द, यत्समृद्धिसंपन्नस्य स्नानादि-
धर्माचरणं निष्पद्यते, इह चिरं तदस्त्वित्युचितमेव वक्तुम्, तथापि,
नन्द गोविन्दसविधे परमानन्दभागिनः ।
चिरं तदस्तु वचनं समुद्रस्येव सिञ्चनम् ॥ २० ॥

द्वितीयोऽङ्कः। ३३ नन्दराजः--(सस्मित प्राचीमवलोक्य) अज उदित एवं भगवान् गभस्तिमान । प्रारुण्यं कलयन् तमांसि दलयन पद्मानि चोन्मूलयन फुल्लं कैरवकाननं मुकुलयन कोकान्मियो मेलयन् । नक्षत्राणि च तेजसा विकलयन् कान्ताहढाश्लेषणं यूनामेष शनैः शनै शिथिलयन् सूर्यः समुन्मीलति ॥ २१ ॥ विद्याविनोदः-साधु साधु । अस्मदीयं श्रोतव्यम् । गाढान्धकारमदवारणपुङ्गवेन ज्योतिर्जलं सकलमेव निपीतमेतत् । तत्सीकरा बहुतराः करपुष्करण प्रोत्सारितास्तु परितः प्रसरन्ति ताराः ॥ २२ ॥ तस्यैतस्य, अन्धकारमदवारणस्य वै दुर्जनस्य परिनिग्रहेण च । पूर्वपूर्वतदरिग्रहादसौ केसरीव बहिरुपैति भास्करः ॥ २३ ॥ अपि च, क्षणं सन्ध्यामुपास्यैवं सहस्रकिरणः स्वयम् । अगम्यमपि योगीव परव्योमावगाहते ॥ २४ ॥ नन्दराजः--(अन्त:करणे स्मृत्वा ) बन्दिराज ! पश्य, कियानुपरि समागतो भास्वान्, तदधुना चेतश्चिन्तया व्याप्यते । विद्याविनोदः-किमिति किमिति । नन्दराजः-एतावता कालेन प्रत्यहं गावो वनभुवं प्रविश्य तृणानि चरित्वा पानीयं च पीत्वा सुखेन पादपच्छायासु विश्रम्यन्ति । अद्य तु, अद्यापि गावो नायान्ति न च गोपकुमारकाः । न च गोकुललोकैकवर्धनः फणिमर्दनः ॥ २५ ॥ ५ - ३४ मनोऽनुरञ्जननाटके- असौ कदाचिद्विलम्बेतापि, तथाहि, पागच्छन्नथ काननं प्रति मुदा गोपाङ्गनाभिर्यदा श्रीकृष्णः परिदृश्यते पथि तदा ताभ्यः कुतो निर्गमः । तथाहि, ताम्बूलैः कुसुमैः फलैः किसलयैः कौतूहलैः पेशलै- र्वार्ताभिश्च बिलम्बमेव गमयन्त्येतं समन्ताद्यतः ॥ २६ ॥ तथापि, गोपकुमारैरानीयमाना धेनवः पुरतः समायान्त्येव, तद्गच्छ धेनूना समाचारं झटित्यानय । विद्याविनोदः--(गत्वा पुनरेत्य) आनन्दः(१) परिपूर्ण एव परितः- नन्दराज:-नायान्ति गावः कुतः-१ विद्याविनोदः-गोपालाः खलु गोकुलेश विवशाः खिन्नाः समस्ता अपि। नन्दराजः-दैत्यःकोऽपि समागतो प्रजभुवम्-? विद्याविनोदः-नैवम- नन्दराजः-कुतः खिन्नता गोपानां वद-? विद्याविनोद:-दोहनात- नन्दराज -कथमिदम-? विद्याविनोदः-दुग्धं प्रवृत्तं गवाम् ॥ २७ ॥ नन्दराजः-किमेतदुच्यते। विद्याविनोदा-यदस्ति तदुच्यते, श्रूयताम् , एकैकामिह गां दुहन्ति शतशः पर्यायशो बल्लवाः एकैकश्च शतं खलु घटान दुग्धाथ दोग्धि श्रमात् । (१) उक्तिप्रत्युक्तियुत:लोकोऽयम् । - द्वितीयोऽङ्कः। ३५ पूर्ण पूर्णमथो नयन्ति कलर्श गोपाङ्गनाः सत्वरा इत्थं दुग्धविवृद्धितः समभवत् पर्याकुलं गोकुलम् ।। २८ ।। नन्दराजः-( सहर्षम् ) विद्याविनोदः किमेतद्बीजं विजानासि । विद्याविनोदः--कथं नाविदितं विद्याविनोदस्य। नन्दराज:--तदुच्यताम् । विद्याविनोदः-सौन्दर्यसिन्धुरिह पङ्कजपद्मनेत्रः पाणिद्वयेन पुरतः श्रितरत्नवेत्रः। मध्ये गा स्फुरति नीरदनीलकान्तिः दुग्धानि वृद्धिमत एव भृशं प्रयान्ति ॥ २९ ॥ नन्दराज:--युक्तमुक्तं स हि गवामतिवल्लभः । तथाहि, न वत्सेऽपि गवां प्रेम न चापि परिचारके। न स्वीयेषु स्वाङ्गेषु यथा बकनिषूदने ।। ३० ॥ किं च, स हि प्राणोऽनावरणीयोऽपि धेनूनाम् । देश विनैव नियतं समयं विनैव वत्सं विनैव पदबन्धविधि विनैव । कण्डूयनानि च विना खलु योऽपि कोऽपि दुग्धानि दोग्धि यदि सन्निधिरस्ति शौरेः ॥ ३१ ॥ (पुनः स्वगतम् ) कृष्णस्य कञ्जदलमजुललोचनस्य संदर्शनेन खलु संकटमोचनस्य । लावण्यतः सपदि मन्मथमोचनस्य तत्कि न यजगति विस्मयमादधाति ॥ ३२ ॥ (प्रकाशम् ) ततस्ततः। विद्याविनोदः--स --स बनवानामथ बल्लवीनां श्रमं समीक्ष्याशु यापयोधिः ।

मनोऽनुरञ्जननाटके- क्षणाद् विदूरेऽपसरन्मुरारि- विरामयामास पांसि तासाम् ॥ ३३ ॥ (तिर्यगवलोक्य ) पश्य पश्य । अयं समारुण्यमनोरमाभ्यां पद्भ्यां कृताम्भोजपराभवाभ्याम् । कन्दर्पकोटिप्रतिमाङ्गशीलः सोऽयं समायाति तमालनीलः ॥ ३४॥ नन्दराजः-(सोत्साहं ष्वा) वयस्या अप्यमुष्यामी समायान्ति गर्वा गणैः । किं तु गोवर्द्धनगिरेःपन्थानं कथमाश्रिताः ॥३५॥ विद्याविनोदः-नानाविधवनगमने शिशवः सर्वे विवादमापन्नाः । स्वरसप्रीतिसमेताः श्रीपतिमेकं तु पप्रच्छुः ॥३६।। नन्दराजः-ततस्ततः। विद्याविनोदः-दोहावसानसमयेऽथ गवां प्रयाणे सर्वऽपि गोपशिशवस्तव नन्दनेन । गोवर्धनक्षितिभृतोऽन्तिकमद्य गन्तुं संबोधिताः स्वमुरलीरवलीलयैव ॥ ३७ ॥ नन्दराजः-अथ गोवर्धनाद्रिगमने किमस्याशयं विजानासि । विद्याविनोदः-विजानामि, एवं किल पिङ्गलः पठितवान्, वृष्टिं करिष्यति पराममराधिराजः क्लिष्ट भविष्यति च गोकुलमद्य कृत्स्नम् । किं त्वेक एव कमलोपमलोचनोऽयं गोवर्धनेन सुखयिष्यति साधनेन ॥ ३८ ॥ तदयमतिनिकटवर्तिवनान्यपहाय गोवर्द्धनगिरिमनुसरनिममेषारायं विशदयति।

द्वितीयोऽङ्कः। नन्दराज:-( सभयम् ) कुपितः खलु पुरुहूतः पूजनलोपादसत्कृतः समया। विद्याविनोदः-किमत्र भयं, पिङ्गलवचनानुसारिणा पूजित एष नगेशो भवतः सुखसाधनं भविता । नन्दराज:-न जानासि । अशुभानि भवन्त्येव सूचने शकुनादिना। शुभानि सूचितान्येव भवन्ति न भवन्ति वा ॥ ३९ ॥ तद्गच्छ कुसुमनिचयमवचिनु, गृहे गत्वा प्रातःकालिकभगवत्पूजनं करिष्यामस्तावत् । ( इति निष्कान्ती) इति श्रीमदापदेवसूनुनानन्तदेवेन विरचिते मनोऽनुररुजनाभिधाने हरिभक्तिनाटके द्वितीयोऽङ्कः ।

तृतीयोऽङ्कः। ( सतः प्रविशतो भित्रदेशी भिक्षुकतापसी) भिक्षुकः-तपस्विन्नेतावन्तं कालं भवतालङ्कृतः कतमो देशः । (परितो निपतविन्दुजलं जटामण्डलं तदीयमवलोक्य ) आर्य, यत्स्वधुनीविमलवारि विलोलविची- विस्तारि यच सकलश्रमहारि पुंसाम । तत्रावगाहनमकारि किमद्य सद्यो दोषापहारि भवता ननु तापसेन ॥ १ ॥ तापस:-( सोच्छवासम् ) न स्वधुनी नयनयोर्विषयोऽपि सत्र संभावना तदवगाहनगोचरा का । घृष्ट्या पुरन्दरविनिर्मितया परंतु प्रच्याविता वयमिह ब्रजवर्तिसौख्यात् ॥ २ ॥ भिक्षुकः-ऋष्टं कष्टम्, द्वयं सुःदुखं भवतः, पृष्ट्युपद्रवो ब्रजवर्ति- सौख्यप्रच्यवोऽपि । तदेकं पृच्छामि तावत् कीदृग् ब्रजवर्तिसौख्यम् । तापस:-(मुच्छवस्य ) किं वक्तव्यम् । अतीव मृदुला भुवः फलितपुष्पिताः पादपाः जलान्यतिशयामलान्यतिसुगन्धयो वायवः । पयोदधिघृतप्लुतं सततमेव भोज्यं नृणां न कस्य जगति स्पृहा भवति गोकुलस्य स्थितौ ॥३॥ च, समस्तजनतामनोगतविषादपायोनिधि विशोषयति केवलः सपदि कृष्णवंशीरवः । अपि च, ३६ तृतीयोऽङ्कः। सुखं शतमखादिभिः सततमेव यत्प्राय॑ते तदेव खलु गोकुले पशुभिरञ्जसा भुज्यते ॥ ४ ॥ किंबहुना १ यत्सार्वभौमविषये च सुरालये च पद्मासनस्य निलयेऽपि हि यद्विभाति । सौख्यं तदेव यदुदेवपदारविन्द- संदर्शिनां लुठति पादतलेषु गोष्ठे ॥५॥ तापसानां सपाफलं च प्रत्यक्षमनुभूयते । तथाहि, नवाम्बुधरनीलिमस्फुरदलौकिकाङ्गद्युति- स्तडिद्विमलपीतिमाम्बरनितम्बसंशोभितः । मनोभवमनोरमःसुखमयः सरोजेक्षणः क्षणं क्षणमहो महासुकृतिभिः समालोक्यते ॥६॥ भिक्षुकः-अहो षत महतः सौख्यात्प्रच्युतोऽसि, परं त्वेकं पृच्छयते। किमिति भवता गोकुल एव कचिदवस्थाय वृष्टयोपद्रवः स्वात्मना न परिहतः । तापस:--अन्यादृशी खल्वेषा वृष्टिः । भिक्षुकः-कथं कथम् । तापस:-श्रोतव्यम। उद्भूताः परितो दिगन्तमरुतो भूमीरुहाणां मुहुः शाखान्दोलपूर्वकं विदधिरे निर्मूलन पादतः । नष्टं पक्षिकुलं च धूलिभिरथ भ्रष्टं च तेजो रवेः क्लिष्टं काननवर्ति गोधनमथ व्यामोहमेवागमत् ॥७॥ संपूर्ण धरणीतलं च गगनं चेदं रवेमण्डलं मग्न धूलिमये महाजलनिधौ केनापि नादृश्यत ।

" मनोऽनुरखममाटके- अन्धे सन्तमसे सबन्धुजनतानालोकनेनाभव- न्मातर्मातुलतातभामभगिनीत्याक्रोशकोलाहलः ॥ ८॥ भिक्षुकः-ततस्ततः । तापस:--प्रात्यन्तिकं प्रधावन्तो जीमूता नीलकान्तयः । कुअरा इव पाथोदाः पताका इव विद्युतः ॥९॥ ततश्च, विद्युल्लताना समुचितेषु तथा धनानामतिगर्जितेषु । वृष्टिर्यथासीद्विपुला जलाना तथा न कुत्रापि कदापि दृष्टा ॥१०॥ भिक्षुकः--ततस्ततः। तापसः--स्फाराभिर्वषधाराभिर्जाता जलमयी मही। ततो बहूनां प्रलयारम्भसंभावनाऽभवत् ॥ ११ ॥ भिक्षुकः--आर्य तादृशे समये गोकुलवर्तिनां वृतान्तं ज्ञातुमिच्छामि तापस:-अहो ! दुःखान्तरं स्मारयसि, किं वक्तव्यम् । वृष्टया सन्ततया विनष्टशिबिरान् ध्वान्ताखिलोपस्करान शीतस्यातिशयेन वेपथुयुतान्प्रत्यारोमानितान् । नन्दादीन हहेतिदीनवचनान प्रम्लानपद्माननान् क्लिश्यबालकवत्सवृद्धवनितान् कः शक्नुयाद्वीक्षितुम् ॥१२॥ इदमप्यपरमस्माकं तत्रानवस्थाने निदानम् । धेनूनामथ वत्सानां शिशूनां च मृगीदृशाम् । आक्रन्दनरवाः केन श्रोतुं शक्या मनस्विना ॥ १३ ॥ भिक्षुकः-ततस्ततः। तापस:-अतिवृद्धा गोपागनाः ।

तृतीयोऽङ्कः।
चन्द्रिकाविशदशोभिकुन्तलाः
शीलतश्चपलकर्णकुण्डलाः।
वृष्टिभिश्च परिपीडिता भृशं
प्रोचुरेत्य ननु नन्दसुदरीम् ॥१४॥
भिक्षुकः-किं किमूचुः।
तापस:-इदमूचुः । अये नन्दसुन्दरि
एते मिलन्ति पुरुषाः परुषस्वभावा
यत्किचिदेव रचयन्ति विदन्ति नैव ।
सिखं त्यजन्ति कुलधर्ममतो भजन्ति
सद्यः सुखेतरफलानि किलेदृशानि ॥ १५ ॥
अत उपयाचितकं विधीयताम् ।
भिक्षुकः-ततः किमुक्तवती यशोदा।
तापसः-इदमुक्तवती । आर्या श्राक्षेति चुलुकोदकं गृहीत्वा
शकोऽत्र तुष्यतु विनश्यतु वृष्टिरेषा
लोकोऽस्तु मङ्गलगतः सकलः सुखेन ।
उदिश्य तं कुलिशहस्तमतिप्रशस्तान्
न्मेषादिमांसलपशूनथ मारयिष्ये ॥ १६ ॥
भिक्षुकः-ततः किमुपशमः कश्चिद् वृष्टेः ।
तापसः-रेणोपशमवार्ता, उत्तरोत्तरं वृद्धिरेव पृष्टः ।
भिक्षुकः-अहो उपयाचितकमप्यप्रमाणीकवम् ।
वापस:-प्रतिकूले नृणां काले किं कुर्यादुपयाचिवम् ।
अविप्रदीसदहने यथैव चुलुकोदकम् ॥ १७ ॥

-ततस्ततः । मनोऽनुरजननाटके- किंच, यधुपयाचितमेतत्फलति जनानामभीप्सिते काले । तर्हि, कः स्यात् त्रिजगतिरङ्कः स्यात्कस्य लोकस्य चातङ्कः ॥ १८ ॥ भिक्षुकः- तापस:-गोकुलमेवं व्याकुलमवश्यमालोक्य निर्गता एव । मुकुलीभवति सरोजे सपदि चलन्त्येव रोलम्बाः ॥ १९ ॥ अधुना तु, स्मारं स्मारं गोकुलस्यापचारं वारं वारं खिद्यते मानसं नः । किं वा कुर्मः कुत्र वाथ प्रयाम: को वागन्ता को भवेत्खेदहन्ता ॥ २०॥ ( सावनेपथ्ये) विमलकोमलपाणितले गिरिं विपुलमाकलयन्नथ लीलया । सकलगोकुलवल्लभ एव यः सकलमेव जुगोप स गोकुलम् ॥ २१ ॥ तापस:- कोऽयं शुभवार्तामृतेन सिञ्चन्नस्मच्चेतःसन्तापमुत्सार- यति । (निपुणतरमवलोक्य ) अहो विदितं, सोऽयं गोकुलनिवासिनन्द- नन्दनप्रसादासादितपरमवैभवः सदानन्दः, तदेनं सविवरणं समाचार पृच्छामि । ( इत्यग्रत उपसृत्य) श्रये सदानन्द त्वदाननशरच्चन्द्रनिर्यद्वचनचन्द्रिका । सन्तोषयति सर्वेषां चेतःकुमुदमण्डलीम् ॥ २२ ॥ सदानन्दः-नमस्तापसेभ्यः । तापस:--चिरं नन्द (इल्यभिनन्ध ) सदानन्द सकलगोकुल- व्याकुलता त्वस्माभिरनुभूव । ततः किं वृत्तं कथं वृत्तं वदेवत् मोतुमिच्छामा।

तृतीयोऽङ्कः।
सदानन्द:-श्रूयतां सततवृष्टिभिरुपप्लुतगोकुलमवलोक्य नन्दा-
दयो मिथो मन्त्रणामारेभिरे । ( तेषु-)
एक: --यः सर्वदा सुरपतिः परिपाति गोष्ठं
सोऽयं तु संप्रति भृशं प्रतिकूल एव ।
कं वा वयं सुनिपुणं शरणं ब्रजेम
यो वारयेदिममुपद्रवमस्मदीयम् ॥ २३ ॥
( तेषु-) अन्ये--अमरेन्द्रस्य य: स्थाने नगेन्द्रः परिपूजितः ।
शरणं तत्र यास्यामो गोवर्धनमतन्द्रिताः ॥ २४ ॥
स हि पूजनावसरे,
इन्दीवरदलश्यामः कामादपि च सुन्दरः।
भूत्वा, वरदोऽस्मि प्रसन्नोऽस्मीत्यागत्य योऽब्रवीत्स्वयम् ॥ २५ ॥
तदयमेव वरः प्रार्थनीयः, यदीन्द्रकृतोपद्रवेभ्यो रक्षणम् ।
( भय-) अपरः--सत्यं वरः प्रार्थनीयः, किंतु
अधुना प्रार्थना कार्यतायामाविर्भवेन्न वा।
अविर्भूतोऽप्यसौ वृष्टेर्गोप्तुं नःशक्नुयान्न वा ।। २६ ।।
एवं च सति।
एकः क्लृप्तो हेतुरन्यश्च कल्प्यः
प्राहुर्यायान्पूर्व एवेति सर्वे।
तस्मादस्मद्लेशनाशैकशीलः
श्रीकृष्णोऽयं जायतां नः शरण्यः । २७॥
अपि च, संप्रार्थितः सपदि सर्वमिदं सुदुःखं
संनाशयेग्निजजनस्य किमत्र चित्रम् ।
अप्रार्थितोऽपि हि बकीवकधेनुकादी-
न्सद्यो ध्यनाशयदशेषजनावनाय ॥ २० ॥

- मनोऽनुरजननाटके- इतरे--गोवर्धनस्यैव सुसन्निधाने धेनुःप्रणिन्ये तृणचारणाय । पूर्व तु तत्रैव चलन्तु पश्चात् यः कोऽपि नः पातु हरिगिरिर्वा ॥ २९ ॥ समुच्चयो वा को विरोध इति सर्वे गोवर्धनं प्रति चलिताः। ततस्ततः। -- तापस:- सदानदः--समुच्चयपक्ष एव, किंतु हरिः प्रधानं गिरिर्गुण इत्याव- देयन् सानन्दम्, हरिरथ परिपीड्यमानमेनं जनमवलोक्य भृशं दयापयोधिः । अतिशयमृदुलेन मेघनीलः करकमलेन महीधरं दधार ॥ ३०॥ भिक्षुक:--अहो ! सप्तसंवत्सरो बालः कालादपि महाबलः । यत्सौकुमार्यनिलयः क करः क महीधरः ॥ ३१ ॥ तापस:-सदानन्द करकमलेनेत्येकवचनं प्रयुज्यते, उद्धरणं तु महागिरेभ्यां कराभ्यां भवेत् । सदानन्दः-नहि नहि करकमलमपि दूरं विप्रकर्षणोक्तम् । किंतु, वेत्रेण दक्षिणकरे कलितेन मूले भूमौ धृतेन विलसन्नति सुन्दराङ्गः । वामैकहस्तकृतमुष्टिकनिष्टिकायाः प्रोद्यन्नखेन गिरिमुद्यतवान्सुखेन ॥ ३२॥ तापस:- जतस्ततः। - - तृतीयोऽङ्कः। सदानन्दः-येनैवोद्धृतावानेनं तेनैव धृतवानयम् । सप्तसंवत्सरो बालः सुमहान् स महागिरिः ॥ ३३ ॥ अपिच, उद्धृतः सपदि पूतनारिणा सर्वतःसकलखेदहारिणा। कृत्स्नगोपजनमस्तकोपरि- च्छत्रवत्परिधृतः स भूधरः ॥ ३४ ॥ तापस: तदा गोकुलजनानां कः समाचारः । सदानन्दः–ते हि गिरिवरसमुद्धरणसमुद्भवे महति भूविवर मुरा- रिवचसैव सस्त्रीवृद्धकुमारं सधेनुवत्सं च प्रविश्य, अनाचरितभोजनाद्यखिललौकिकप्रक्रिया घनादपि च जीवनात्स्वरसपूतनारिप्रियाः । अनाकलितलोचनाम्बुजनिमेषमालोकयं- स्तदाननमुदाननाः सपशुगोपगोपाङ्गनाः॥ ३५ ॥ किंच, सरोजसमलोचनं सरलनासिकं सुस्मितं सितांशुपरिमण्डलं श्रुतिसमुल्लसत्कुण्डलम् । तदाननमुदाननाः समवलोकयन्तो जना- स्तदा सुखपयोनिधावतिनिमग्नभावं दधुः ॥ ३६ ॥ तापस:--ततस्ततः। सदानन्दः-गोवर्द्धनोद्धरणश्रीमूर्तिस्मरणरसिकान्तःकरणतया क्षणं व्यग्रतामनुभूय तपस्विन तस्मिन्समये परो वृत्तान्तः प्रक्रान्तः । तापसः सदानन्द:--श्रीमत एतस्य केऽपि वयस्याः, क सौकुमार्य वहनं क चाद्रे- बल्यं वयः काध्यवसाय एषः । -कः कः।

४६ - वयस्या मनोऽनुरजननाटके म ज्ञायते किं कुरते कथं वा इति ते सचिन्ता इव भूत्वा, तथापि साहाय्यकमस्य कुर्मः ॥ ३७ ॥ इत्याख्याय युगपदेव केचित्करैरथ परे तु शिरोभिरन्ये स्कन्धे गिरिं परिकलय्य हरिं समेयुः। श्रिकान्त श्रान्तोऽसि चिरकालं गिरवरधारणेन, तदधुना विश्रान्तिमेव समुदश्च विमुञ्च शैल- मस्माभिरेष सकलैः सबलं धृतोऽस्ति ॥ ३८ ॥ तापस:-ततस्ततः। सदानन्द: -अथापरे अन्तरेणावस्थाय सेय॑म्, भवद्भिरस्य साहाय्यं किमेताशि कर्मणि । नक्षत्रैरिव पूर्णेन्दोरन्धकारनिवारणे ॥ ३९ ॥ अपिच, यदा यशोदापरिदृष्टमेष त्रैलोक्यमन्तर्वदने दधार। तदापि साहाय्यकमस्य किं वा भवद्भिरेवाचरितं वयस्याः॥ ४० ॥ तापस:--तदा किमुक्तो वा भगवान् । सदानन्दः-न किमपि किं तु, इति खलु निखिलनिवासः सखिजनवचनं निशम्य गोपीशः। करकलिताम्बर एव स्मितमातेने दयाजलधिः॥४१॥ तापसः -ततस्ततः। सदानन्द: -एवं सप्तापि दिनानि तिष्ठन् दयोदधिर्दीनजनेषु देवः।

४७ तृतीयोऽङ्कः। स्ववक्त्रलावण्यविलोकनेन स्वं लोकमप्याययति स्म सर्वम् ॥ ४२ ॥ किंच, तदा, तद्वक्त्रमेकं लोकानां चकर्ष नयनावलिम् । सरोजमिव रोलम्बश्रेणी स्वरसरागिणीम् ।। ४३ ॥ अथवा, निमीलनोन्मीलनशीलमब्ज- मब्धिक्षयालम्बि शशाङ्कबिम्बम् । किमस्ति तद्वस्तु महीतलेऽस्मिन् यदाननेनास्य तुलापदं स्यात् ॥ ४४ ॥ तत्रापि, तेषां सन्तोषसन्दोहः शौरेः केवलया दृशा । सम्पूर्णमपि लावण्यमन्यथा सिद्धिमन्वभूत् ॥ ४५ ॥ तथाहि, अन्नं विना ते सलिलं विना च सर्वेऽपि सप्तापि दिनानि तस्थुः। तत्रैव पीयूषमिवावहन्ती गोपालबालस्य हगेव मूलम् ॥ ४६ ।। भिक्षुकः-अहो भगवदृशः सौम्यता सुखकरी। तापस: -अस्य एव वक्त्रं तापविनाशकारि च । तथाहि, शैलेऽस्मिन् घनवृष्टिपीडितजनत्राणाय पाणौ धृते यासीत्सप्तदिनानि गोकुलजनानन्दाय गोविन्ददृक् । सा चेदश्चति किंचिदेव कुटिला सत्ता समालम्बतां क्वेदं भूमितलं क चापि सलिलं कुत्रानलः कानिलः ॥ ४७ ॥ सदानन्दः-प्रास्ताम्, तमिमं गोकुलवृत्तान्तं मथुरानगरवर्तिसुट्ट- बने निवेदयिष्यामि।

मनोऽनुरजगनाटके-
तापसः-अहमपि तत्रैव नित्यं सन्निहितो हरिरिति कियन्तं कालं
तपसा परिकलयिष्यामि ।
भिक्षुकः-अहमपि त्वत्परिचर्यया स्थास्यामि
(इति निष्कान्ताः सर्वे)
इति श्रीमदापदेवसूनुनानन्तदेवेन विरचिते मनोऽनुरञ्जनाभिधाने
हरिभक्तिनाटके तृतीयोऽङ्कः समाप्तः ।

अथ चतुर्थोऽङ्कः। (ततः प्रविशति शक्रः कामधेनुश्च) शक्रः-(प्रणम्य ) मातः किमिति गोकुलसमीपमागम्यते । कामधेनुः-परमप्रेमपाथोधि मनोभवमनोरमम् श्रीनन्दनन्दनं द्रष्टुं कस्य न स्यान्मनोरथः ॥१॥ शक्रः-धन्यासि तनुविन्यासशालिनं यदुनायकम् । या द्रक्षसि विना लेशमधुना मधुनाशनम् ॥ २॥ कामधेनुः-शक्र भवतापि गोकुलसमीपमागम्यते, कात्र क्लेश- "संभावना। शक्रः -सत्यं समीपमागम्यते, तथापि भयेन व्यवधीयते । कामधेनु:-किमत्र भयम् । -अस्य देवस्य सामर्थ्यमनालोच्यैव केवलम् । अकारि विपुला वृष्टिरस्माभिर्गोकुलोपरि ॥३॥ करपकेरुहेणैव गिरिमुद्धृत्य लीलया। पूतनारातिना त्रातं सकलं गोकुलं तदा ॥४॥ मखासङ्गसमुद्भूतप्रभूतक्रोधधार्यहम् । यत्कृतं ब्रजनाशाय तम्रो नाशाय जायते ॥५॥ कामधेनुः-अहो महानविवेकः। यदेतादृशमनर्थमुत्पाद्य पुनस्त- संमुखमेव गम्यते, त्यज्यते च सुकृतभोज्यं स्वाराज्यं तत्, अधुनापि परावृत्य गन्तव्यं वचसा मम । तत्स्थानेऽथ निजस्थाने स्थातव्यं यत्र कुत्र वा ॥६॥ परंतु,

५०
मनोऽनुरञ्जगनाटके-
शक्रः-विरोधमेतेन समं विधाय
स्थातुं न शक्यं स्वपदेऽपि देवि ।
सिंह परिक्षोभ्य गजो निजेऽपि
स्थाने वने किं कुशलं समेयात् ॥ ७ ॥
तस्मादेतच्चरणसरोजयोः शरणमवगन्तव्यमित्ययमेको भयनिर्माकोपाय
इति गोकुलमागम्यते ।
कामधेनुः-एवं तर्हि साम्राज्यमेव ।
शक्रः-भयशङ्काकलवस्तु न मुञ्चति ।
कामधेनु:-सर्वथापि न भेतव्यं मन्तव्यं वचनं मम ।
गन्तव्यं शरणं शौरेः स्थातव्यं स्वपदे सुखम् ॥ ८ ॥
प्रसिद्धं ह्येतत् ।
यथा हि यदुनाथांग बल्लन्यः शरणं गताः ।
न रमापि न च ब्रह्मा न वोमारमणस्तथा ॥९॥
तदेहि । ( उभौ किंचिदनेऽभिसरतः ।
शक्र:-(पुरतोऽवलोक्य स्वगतम्)
अतीव श्लाघनीयाय सहस्रनयनी मम ।
यत्पश्यति घनश्याम कामादपि मनोरमम् ॥ १०॥
कामधेनु:-( गोविन्ददर्शनानन्दमनुभूय स्वगतम् )
एतैरहो सकलगोकुलवासिलोकैः
पुण्यानि कानि विहितानि न तानि विद्मः ।
नक्तं दिवापि च मनस्यपि चक्षुषोश्च
येषां पुरः स्फुरति पङ्कजप नेत्रः ॥ ११ ॥

चतुर्थोऽङ्कः। शक्र:-(प्रकाशम् ) अये ऽपत्रपयति । वृष्टिविनष्टा तपनः प्रसनो जातं प्रशस्तं च नमः समस्तम् । इत्थं मुरारेर्वचसैव सर्वे गोपा बहिर्यान्ति गिरीन्द्रगति ॥ १२ ॥ अन्यब, करकमलधृतेऽस्मिन् सर्वथैषां शरीरे न विपुलजलवृष्टेबिन्दुरेकोऽपि लमः। स्वस्थाने, अपि च पुनरनेन स्थापितस्याधुनाद्रे- रणुरपि न तु सन्धिदृश्यते पश्य चित्रम् ॥ १३ ॥ कामधेनु:-विचित्रमेवास्य चरित्रं न ज्ञायते । तथाहि, कथमुधृतवान् शैलं कथं च धृतवानयम अव्यक्तसन्धिरचनं कथं च निदधे पुनः॥ १४ ॥ शक्र:-(हस्तेन परिदर्शयन् ) पश्य पश्य, बालकानामस्मिन्प्रेमाति- शयम्। स्वपदे क्षितिभृति निहिते सखिनिचयः पाणिपङ्कजं शौरः। धृत्वा धृत्वा पश्यति विस्फोटाशङ्कितः सपदि ॥१५॥ एतस्यापि चैतेषु प्रेमातिशयं पश्य । भान्तोऽसि कानयन क्षणमास्व कुर्मः संवाहन तव तनौ पिब तोयमेतत् । इत्थं वयस्यवचनैः श्रमवर्जितोऽपि सन्तोषमेषु वितनोनि तदेव कुर्वन् ॥ १६ ॥ कामधेनु:-यशोदा पश्य । आनन्दजातजलबिन्दुपरिप्लुताक्षी स्नेहस्तुतस्तनपयाप्लुतकञ्चुकी च ।

५२ मनोऽनुरजननाटके- धावन्त्युपेत्य परिरभ्य न तेन माति लोकत्रयेऽपि सुदती सुतसंभ्रमेण ॥ १७ ॥ शक्र:--अहो महाभाग्यं भाति, प्रांशुरसौ सप्तवर्षशिशुम्- उपानीय मुदा नन्दःसदानन्दमयं हरिम् ॥ बाहुभ्यां परिरभ्यामुमुपधावति मुहुर्मुहुः ॥ १८ ॥ कामधेनु:-शक श्रुतं त्वयेतरजनवचनम् । शक्र:--न श्रुतम् । यतः, सौन्दर्यसिन्धुगोविन्दसंदर्शनमुपेयुषाम् । चक्षुषामेव साचिव्यं चेतः सांप्रतमञ्चति ॥ १९ ॥ तदुच्यताम् कामधेनुः--भूयताम्, यत्कमलदलादप्यतिशयकोमलं करकमलं, ते- नाधुना सप्तदिनानि गोवर्द्धनाद्रिभृतः, तत्कि पूर्वपूजितो गिरिवर एव कोमलतामालम्बतैव, किं वा गुरुतरशकविपरिवर्तनवत्तेन चरणतले- नैव गिरिवरधारणाय करतलेनापि काठिन्यमवलम्बितम् , तन्न जानीम इति । शक्र:-मातः किमेतयोः पक्षयोस्तत्वम् । कामधेनुः-पूर्वपक्षः पूर्वपक्ष एव, अकृत्स्नत्वात् । उत्तर एवोत्तरः, तत्रैकत्र क्रमोऽन्यत्र प्रतिसंधीयते । क्लुप्तं चातिकोमलस्यापि चरण- कमलस्य शकटपरिवर्तने काठिन्यम् । किं च विरुद्धमपि काठिन्यं कोमलत्वं च सदैव यदुनन्दने । तेजस्त्वं शीतलत्वं च यथैव शशिमण्डले ॥ २० ॥ तथाहि, यस्पर्शमात्रेण सुरारिगाने संजायते वज्रशताभिघावः ।

५३ चतुर्थोऽङ्कः। एतादृशं काठिन्यम् , कोमलत्वं तु गोपीजनस्तं कठिनस्तनाभ्यां न गाढमालिङ्गति शङ्कितः सन् ॥ २१ ॥ शक्रः-प्रबुद्धवयस्यान् पश्य पश्य एकश्छत्रं चामारं कोऽपि धत्ते कृष्णस्याग्रे नृत्यमन्यो विधत्ते। स्वच्छादर्श दर्शयन् कोऽपि गोपः प्रेम्णा देवं सेवते पूतनारिम् ॥ २२ ॥ तथा, वपुषि लिम्पति कोऽपि चन्दनं कुसुमदामभिरर्चयत्यमुम्। सुरभिपुष्पविनिर्मितनिर्मलं व्यजनमारुतमातनुते परः ॥ २३ ॥ कामधेनु:-अनेकजन्मान्तरसंचयानां पुण्योच्चयानां परिपाक एषः । यत्प्रीतिपूर्व परमात्मनोऽपि संसेवनं साधु मुदाचरन्ति ॥ २४ ॥ यतः, विद्या भवेदिह भवेदपि भूरिलक्ष्मीः त्रैलोक्यराज्यमपि किं गणयेत्कदाचित् । अजन्मनामविनिर्मितपुण्यपुञ्जमन्तरेण, संसारिणां सपदि खेदविनाशनं तु संसेवनं मुररिपोर्न भवेत्कदापि ॥ २५ ॥ शक्रः-मातराश्चर्यम्। सौवर्णभूषणविभूषितरम्यरूपाः क्षौमाम्बराश्चलपयोधरकुण्डलाश्च ।

-
मनोऽनुरजननाटके-
पाणिस्फुरत्कनकभाजनरत्नदीपा
गोपालनास्त्वरितमत्र कुतो मिलन्ति ॥ २६ ॥
अपिच, अनेकपुण्योचययाचिताय
श्रीकृष्णसानिध्यसुखाय सर्वाः ।
धावन्ति वेगेन परस्परस्य
पुरःपुरः पङ्कजप नेत्राः ॥ २७ ॥
( पुनःसादरमवलोक्य)
प्रादुर्भवत्यथ महानिह दुन्दुभीना
नादो मृदङ्गपणवानकगोमुखानाम ।
किं चायमञ्चति मनोज्ञतमः पुरस्ता-
न्माधुर्यसिन्धुरिव घेणुरवः शिशूनाम ॥ २८ ॥
प्रये, समुत्सवोऽयं गोकुलजनस्य दृश्यते ।
कामधेनु:-उचितमेवैतत् , यदमी प्रलयकालीनाया इव विपुला-
या जलवृष्टीविताः । वस्तुतस्तु,
भुक्तं न सप्तापि दिनानि किंचिद्-
नो वा वनान्ते निपीतमस्ति च ।
सर्वाय चाधस्तु गिरेर्मुरारि-
मुखारविन्दश्रियमेव धते ॥२९॥
तदस्माकं मूर्तिमद्रस इतिप्रतिपन्नाः सर्वेऽपि गोकुलजनाः श्रीकृष्णप्रेम्णि
समुत्सवमासते।
शक्रः-मातः सत्यमेतत् , पश्य पश्य ।
शुभासने विजयते गरुडासनेऽयं
मोपीजनोऽपि परितो मुदितो विभाति ।
किंच, मुक्तान धृतान किरति शौरिशिखाप्रदेशे
नीराजयत्यपि सुरनमयैः प्रदीपैः ॥ ३०॥

चतुर्थोऽङ्कः। कामधेनु:--गोपीजनस्याशीःप्रयोगोऽपि दृश्यते । एतादृशं ननु गोकुलवर्तिलोकं त्रायस्व संततममुं समुपद्रवेभ्यः । गोविन्दराज तव चारुमुखारविन्द- दृष्टिं न जातु विजहातु विलोचनं नः ॥ ३१ ॥ शक्रः-एके गायन्ति गोविन्दमन्ये नृन्त्यन्त्यथापरे पुनः पुनः प्रसूनानि किरन्ति कमलाधरे ॥ ३२॥ (कणं दत्वा स्वगतम् ) किमिदममृतमेव अच्युतं देवलोकात्- (विमृश्य ) नहि नहि, इह रुचिरधिकारने वस्तुतोऽमर्त्य भोगात् । (पुनर्विमृश्य ) विदितमथ मयेदं माधवःसाधु वेणुं कणयति भुवनानां साधयन संसुखानि ॥ ३३ ॥ (पुन:सानन्दम् ) सर्वोत्सवेषु परमोत्सव एष एव । सद्यः समुल्लसति सौख्यसुधासमुद्रः। गोपीषु गोववलयेषु च गोपिनं यो यन्मङ्घमजुमुरलीरवमातनोति ॥ ३४ ॥ (कामधेनुं प्रति प्रकाशम् ) सर्वोत्तमेति प्रथितापि कामं सुधामुधाभावमुपागतैव। यत्संप्रति श्रीपतिनिर्मितेयं विभाति गीतिर्नवमञ्जुरीतिः॥ ३५ ॥ कामधेनुः शक्र एवमेव, अन्यच्च .

- मनोऽनुरअननाटके- हृदयमिह कृतार्थ चिन्तनेनैव पूर्व नयनमपि कृतार्थ दर्शनेनैव शौरः। मधुरमधुरमेतद्वेणुगीतं निशम्य श्रवणमपि कृतार्थश्रेणिसौख्यं दधाति ॥ ३६ ॥ शक्रः - अये समुत्सवपरम्परैव परिदृश्यते, कथमस्माकमेतनमस्का- रावसरः ।। कामधेनुः-अपमृता एवैते गोपालाः, पश्य, सहैव गोभिः सह गोपिकाभिः सहैव बालैः सह वत्सजालैः । पुनःपुनर्मङ्गलमूर्तिमेनं विलोकयन्तो ब्रजमाब्रजन्ति ॥ ३७॥ -कथमयं स्वयं न गच्छति । कामधेनु:--सर्वशशिरोमणिः खल्वयम् , अस्मत्समाधानमकृत्वा कथं गच्छेत् । तदेहि देवदेवस्य दृष्टिपथमवतरावः । शक:--सापराधानामस्माकमकस्मात्प्रभुदृष्टिपथावतरणे क्रोधावि- र्भावः संभावितः, तदप्रेऽभिसर, अस्मदीयं शरणागतत्वमस्मिनिवेदय । कामधेनुः--तथा। ( इति किञ्चिदप्रेऽभिसृत्य श्रीकृष्णमवलोक्य सानन्द स्वगतम्) संसाराव्हयकालियो द्वयधिया हालाहलज्वालया मबुद्धिं यमुनां विनाशमधुना नेतुं सयत्नं चरन् । दूरेणैव दरेण धावनमरे संसेव्यतामादरा- दत्रोदश्चति दुष्टदर्पदमनो धीमोहिदामोदरः ॥ ३८ ॥ अथवा, भक्तिहेतुतया तिष्ठतु भवान् । किन्तु, संसारसागर महाविकलत्वहेतून रागादिकान समुपसंहर दुस्तरङ्गान् ।

चतुर्थोऽङ्कः । नो चेदगस्तिचुलकोदकता बताध श्रीकृष्णकोपवशतो भवतो भवित्री ॥ ३९ ॥ श्रीकृष्ण:---( तावत् प्रविश्य स्वगतम् ) यशसा सुरभिः सेयं सुरभिः परिदृश्यते । सेविता सर्वकामानां पूरणी दुःखहारिणी ॥ ४० ॥ . कामधेनुः- ( उच्चैः ) तमालश्यामलरुचिं वृन्दावनविहारिणम् । नमामि परमानन्दं पूर्णचन्द्रमलौकिकम् ॥४१॥ श्रीकृष्ण:--(सस्मितम्) आशिषानन्दनीये मयि किमिदं नमामीति । कामधेनु:-नन्दनन्दनोऽपि पुराणपुराणस्त्वं वन्दनीयोऽसि । तथा वन्दनीयोऽसि सर्वेषां नन्दनीयोऽसि चाशिषा। प्राशास्यमेव हि शुभं वस्तुनि प्रेमसद्मनि ॥ ४२ ॥ श्रीकृष्ण:-देवि प्रसिद्धमेतद्धि यवृद्धानां मनस्विनाम् । येषु केष्वपि तोकेषु लोके प्रेम प्रजायते ॥ ४३ ॥ कामधेनु:--(परिहासेन) सत्यं वालेषु वृद्धानां प्रेमातीव प्रजायते । लीलयैव यतो बालाः कलयन्ति करे गिरिम् ॥४४॥ श्रीकृष्ण:-( सस्मितम् ) मातरीप्सितविषय आज्ञा प्रदीयताम् । कामधेनुः-आस्तां तावदस्मदभीप्सितं प्रथमत एतवधारणीयं शरणागताय पुरुहूतायाभयं दीयताम् । श्रीकृष्णः-मदीयाभयदानस्य हेतुभूतमिदं द्वयम् । भवदीयं वचो वापि शरणागतताथ वा ॥ ४५ ॥ शक्रः-(निःशकमग्रत उपसृत्य स्वगतम् ) नेत्रालि गोपालशरीरशोभा-

५८
मनोऽनुरजननाटके-
पथं प्रपन्नासि न यासि पारम् ।
प्रत्यङ्गम,
अगम्यलावण्यमहागिरीणा-
मारोहणैरप्यवरोहणैश्च ॥ ४६ ॥
किञ्च,
श्रीनन्दनन्दनमनोज्ञमुखारविन्द-
संदर्शनं विशदमश्चतु मे कथंचित् ।
इत्थं सहस्रनयनावलि मानसं तु
पर्याकुलं समभवन्मम सर्वकालम् ॥ ४७ ॥
(पुन: किंचिदप्रत उपसृत्य )
सत्यं सहस्रनयनानि कविप्रवीणै-
यूयं सरोरुहतुलास्वधिरोपितानि ।
हष्टे तु निर्मलमुरारिमुखारविन्दे
युक्तं मधुव्रततुलास्वधिरोहणं वः ॥ ४ ॥
(पुनः स्वगतम् ) अपूर्वैव कथमवस्था प्रादुर्भवति । तथाहि,
संपूर्णापि तनुर्विभाति पुलकैरेखाकिता चक्षुषा
श्रेणी किंच गलत्प्रमोदसलिलव्याकीर्णपक्ष्मद्वया।
श्रीगोविन्दपदारविन्दविलसत्सौन्दर्यसंदर्शने
चित्तं चञ्चलमप्युदञ्चति चिदानन्दाम्बुधावेव तु ॥४९॥
( पुनरग्रत उपसृत्य भुवि सष्टाङ्गं प्रणम्य करकमलेन प्रमोदाच परिमार्जयन् श्री-
कृष्णं प्रति)
महाराज, यज्जीवनं यदपि देहगतं क्षमत्वं
यच्चेन्द्रियेषु सकलेष्वपि पुष्कलत्वम् ।
सत्संपदा सह ददाति य एष चिसे
न स्मर्यते तदयमेव ढोऽपराधः ॥५०॥

५६
चतुर्थोऽङ्कः।
प्रत्युत, उपकर्तरि यत्तस्मिन्नपकर्तुं प्रवर्तनम्
सर्वेषामपराधानामपराधो महानयम् ॥५१॥
यद्वा नायमपराधः किं तु मूढतैव । यतः,
यः सर्वदा सकलसिन्धुसमप्रमोदः
खेदो न तस्य खलु यत्नसहस्रतोऽपि ।
मध्याह्नवर्तिनि महौजसि सूर्यबिम्बे-
प्रादुर्भवेत्किमु तमःकलुष कदापि ।। ५२ ।।
श्रीकृष्णः-किमिति मूढता, गोकुलजजनस्तु खेदयितुं शक्य एव,
शक्रः-अशक्य एव यतः,
तुद्रा अपि प्रभुजना निजसेवकानां
नान्याहितं परिभवं सहसा सहन्ते ।
लोकत्रयाधिपतिरेव दयासमेतः
किं वा सहेत परिखेदनमात्मवर्गे ॥५३॥
प्रत्यक्षमेव चात्र प्रमाणम । तथाहि,
शौरे शिलाजलवृष्टिनिवारणाय
स्वीयस्य गोकुलजनस्य भवानिदानीम्
कारुण्यतः कमलकोमलपाणिनैव
गोवर्धनं सततसप्तदिनं दधार ॥ ५४ ॥
परन्तु श्रीभगवन् परिचयेनैकमुच्यते, यदि गोवर्द्धनमुद्धृत्य गोपजनाः
रक्षिताः किं तावता,
त्वदीयपदसेवने ननु यदीयकालो गत-
स्तदीयपरिपालनं किमु कृपालुतामावहत ।
किंतु,
इयं तव कृपालुता यदपराधिनां माहशा-
महो शुभदृशा मुहुः सुखमतीव संतन्यते ॥५५॥

६० मनोऽनुरञ्जननाटके- कामधेनु:-( शक्रं प्रति ) शतमप्यपराधानां सहस्रमपि वा वृतम् । शरणागतलोकस्य नालोचयति केशवः ।। ५६ ।। ( श्रीकृष्णं प्रति ) अहो सुकृतसंततिः सकलगोकुलस्थायिनां परिस्फुरति निर्मला विविधजन्मभिर्निर्मिता । क सत्तम चतुर्मुखप्रमुखदेवतासेविता क चापि पशुपालनप्रभृतिकर्मसु प्रेष्यता ॥५७ ॥ श्रीकृष्ण:-( सस्मितम् ) मातराज्ञाप्यताम । कामधेनु:--न काप्याज्ञा, भवदभिषेकाभिलाष एव मनसि परि- स्फुरति । श्रीकृष्ण:--( सस्मितम्) सप्ताहं गिरिवहनश्रमापहर्तुं तवाभिलाषोऽयम् । जानामि कामधेनो मयि भवति स्निग्धचित्तेति ॥५८ ।। कामधेनुः यस्य, ब्रह्माण्डभाण्डशतकोटिनिबद्धभाराः प्रत्येकरोमकुहराः परितः स्फुरन्ति । तस्य श्रमः कथमिवाद्रिधृतौ तथापि दिव्योत्सवो भवतु गोपकृतोत्सवान्ते ।। ५९ ।। श्रीकृष्ण:--किमशक्यं कामधेनोः, यतः वितरन्ति कल्पतरवः सर्वे मिलिताः फलानि यावन्ति । तावन्त्येका वितरसि शिरसि विजयसे वदान्यानाम ।। ६०॥ कामधेनु:-सर्वेयं तवैव शक्तिः । तथाहि, अद्भुता त्वद्गता शक्तिरस्मत्सु प्रतिभासते। प्रकाशशक्तिरग्निस्था दीपादिस्थापि दृश्यते ॥ ६१ ॥ तदाज्ञा दीयतामभिषेकमारभे। श्रीकृष्ण:-यथा मनसि ।

चतुर्थोऽङ्कः। ६१ ( नेपथ्ये) आकारावायुमिह भावय किं च वायो वह्नि प्रदीपय हुताशन तापयामः। तैलं प्रकल्पय सुगन्धि धरे मुरारे- रभ्यञ्जनं भगवतो भविताधुनैव ।। ६२ ॥ किंच, सर्वे देवाः सर्वगन्धर्वसङ्घाः सर्वा नद्यः सिद्धयश्चापि सर्वाः। कर्तु सद्यः श्रीरमाकान्तसेवा- मत्रायान्तु प्रीतिमेव प्रयान्तु ॥ ६३॥ शक्रः-कोऽयं सर्वभूतानां कृतार्थतामापादयन्नुच्चैरावेदयते । ( ऊर्ध्वग्रीवमवलोक्य ) अहो विदितं कामधेनोरेष संकल्पो मूर्तिमान् । (प्रविशति संकल्पः, भृत्यवरप्रणिपत्य) संकल्प:--मातरत्र भवत्याः संसिद्धमेव मनोगतम । पश्य, इह खलु सशरीराः सर्वसौन्दर्यपूराः स्वरसजगदधीशाराधनैकाभिलाषाः । निखिलजलधिपाथःपूर्णसौवर्णकुम्भान् शिरसि परिवहन्त्यः सिद्धयः प्रस्फुरन्ति ॥ ६४ ॥ (प्रविश्य सिद्धयो बद्धाञ्जलयो निधाय कुम्भान् ) सिद्धयः-मातरेता वयमाज्ञां करवामहै। कामधेनुः-सुगन्धिभिस्तैलैर्भवतीभिरभ्यञ्जनीयो भगवान् । सिद्धयः-( सोत्फुल्लम् ) स्निग्धा च शुभगन्धा च तनुरेषा स्वभावतः । तथापि स्वसुखायैव तस्याभ्यङ्गो विधीयते ॥ ५ ॥ शक्र:-(स्वगतम् ) अहो भाग्यं सिद्धीनाम् । यत एताः, ६२ मनोऽनुरजननाटके- एका शिरस्यथ परा हृदये परे तु बाहौ परा कटितटेऽप्यपरा तु पृष्ठे। ऊरुद्वयेऽप्यथ परे पदयोरथान्ये अभ्यञ्जनं विदधते बकभञ्जनस्य ।। ६६ ॥ अपिच, अभ्यञ्जनं सकलगोकुलरञ्जनस्य प्रत्यङ्गसङ्गपुलकाङ्कितपाणिपनाः। प्राचीनपुण्यनिचयैननु सिद्धयोऽमूः कल्पान्तजीवितफलान्यधुना लभन्ते ॥ ६७ ॥ ( कामधेनु प्रति ) मातः चित्रं त्वेतत् । चिरकालं मुरारातेरभ्यङ्गेऽपि यदङ्गानाः । न श्राम्यन्ति समुत्फुल्लसरोरुहसमाननाः ॥ ६८ ॥ कामधेनुः -न विज्ञातमेतासामश्रमबीजम् । क्षणेन यस्य स्मरणेन नश्ये- दशेषसंसारपरिश्रमोऽयम् । श्रानन्दसंदोहमयस्य सिन्धोः सेवा कथं च श्रमसाधनं स्यात् ॥ ६९॥ शक्रः पुनरन्या अन्यास्तारगेव भगवदभ्यञ्जनं विधतीविलोक्प स्वगतम्) भगवत्सेविनामाशु मत्सरो विनिवर्तते । अन्यथा कथमन्यासामन्यासामत्र संक्रमः ॥ ७० ॥ संकल्प:-देवि, सोऽयं सकलसंसारसारासारविचारवित् । नारदः सर्वसंगीतपारगः प्रतिभासते ॥ ७१ ॥ (पाणिना वीणां विरणयन् प्रविशति नारदः सह तुम्बरुणा, प्रणम्य पुरोवर्तिनी कामधेनुम् ) नारदः-मात: आज्ञा दीयताम् ।

चतुर्थोऽङ्कः।
कामधेनु:-गोविन्दसेवनं विधीयताम् ।
नारदः-कंसारिसंसेवनमस्मदिष्ट
तदेव यदेवि ददासि मिष्टम् ।
तगोधनस्वामिनि कामधेनु-
रित्यर्थयुक्तं तव नाम युक्तम् ॥ ७२ ॥
(सिद्धीरुद्वीश्य स्वगतम् )
चेतसि चिन्तितमेतत स्त्रीपतिरूपं मुहुः सुखायैव ।
तस्याभ्यञ्जनकरणे सुखमिह कीडग्मृगाक्षीणाम् ॥ ७३ ।।
प्रसिद्ध होतत्, अतिप्रियपदार्थानां चिन्तनं सुखसाधनम् ।
चिन्तनादर्शनं भूयः स्पर्शनं दर्शनादपि ॥ ७४ ।।
( श्रीकृष्णं प्रणम्म पुनः स्वगतम् )
नैतत्स्वरूपं वचसोऽनुरूपं
गुणेषु कर्मस्वपि नास्ति संख्या।
अतोऽस्य नामानि मनोहराणि
गायामि मायामनुजस्य विष्णोः ॥ ५ ॥
तुम्बरु:-पुलिनप्रथितनितम्बा:कमलायतचारुलोचना विमलाः ।
गङ्गाद्या इव नन्द्यो रम्याकृतमित्वमाः कतमाः ॥७६॥
नारदः-प्रभेदमबुध्वा दृष्टान्तदान्तिकभावोऽयम् ।
तथाहि, एता हि वपुषोपेताः स्वायै सकलेशितुः ।
गङ्गाद्य एव सरितः स्फुरन्ति परितः स्वयम् ॥ ७७ ॥
संकल्प:-देवि, भागीरथीप्रभृतयः सरितः समस्ताः
श्रीकृष्णसेवनसुखेष्वनुषक्तचित्ताः ।
स्वैः स्वैर्जलैर्जगदीशतुरस्य शौरेः
स्नानाय सत्वरमिमाः समये समेताः ॥७॥

६४ मनोऽनुरजगनाटके- नद्यः-(प्रविश्य ) मातः आज्ञा त्वदीया सुखसिन्धुमूर्ते- रमुष्य सेवा किमतोऽधिकं नः । (सिद्धीरुद्वीचय ) अभ्यञ्जनादस्य निरञ्जनस्य परन्तु नेच्छन्ति विरन्तुमेताः ॥ ७९ ॥ स्नपनसामग्री तु सर्वा सिद्धैव । कामधेनु:-अधुना विलम्बो न विद्यते, यतः तैलेरभ्यज्य गोविन्दं सिद्धयो ऽतिसुगन्धिभिः । अत्यन्तमृदुभिश्चूर्णैः कुर्वन्त्युद्वर्त्तनं हरेः ॥ ८० ॥ तुम्बरु:-(नारदं प्रति ) दृश्यतां सिद्धयः । प्रत्यङ्गमभ्यङ्गविधि विधाय सेवासु सद्यो गलिताधिकाराः । प्रम्लानपङ्केरुहतुल्यवक्त्रा- स्तिष्ठन्ति शौरेः परितोऽविदूरे ॥ ८१ ॥ नारदः-एवमेव वर्तते। परमात्मप्रियाभ्योऽस्य परिचर्यैव रोचते । तदभावे क्षणोऽप्येकस्तेषां युगशतायते ॥ २ ॥ तुम्बरु:- -पुनर्विपर्ययो दृश्यताम् । मुरारिवक्त्रं किल पुष्कलेन्दु- ईगस्य शुद्धामृतरश्मिरेव । आसा मुखानि स्फुटकरवाणि प्रमोदमेवाभिवहन्त्यनेन ॥ ३ ॥ नारद:--परमकृपालु: खल्वयम्, तथाहि, कृपामृदुलता परिस्फुरति कापि गोपीपते- स्तनोति सुखमेव यन्निजजनेषु सर्वात्मना ।

६५ चतुर्थोऽङ्कः। स्मितेन विशदेन वा विपुलवेणुनादेन वा विचित्रशिशुलीलया ललितशीलया वा दशा ॥ ४ ॥ तुम्बःरु--( दुन्दुभिमुखवाथनिनादं श्रुत्वा ) अत्राप्यस्य भगवतोऽभि- षेको दृश्यताम् । रूपेणातिविशोभिताः शुभतरक्षौमाम्बरस्फूर्जिता नानाभूषणभूषिता यदुपतेः सेवासु चोत्कण्ठिताः । गङ्गाद्याः सरितः समेत्य सलिलैः स्वैः स्वैर्महानिर्मलैः सौवर्णैः कलशैरमुष्य दर्धात प्रीत्याऽभिषेकोत्सबम् ॥५॥ किंच, नानास्वर्णकटाहपूर्णसलिलैरन्त्यतसन्तापितैः शीताम्भःशबलैः सबाष्पलतिकाजालैरतीवोज्वलैः । ता एताः कनकाभिजातकलशैः कृष्णाभिषेकोत्सव रत्नालंकृतपाणिकङ्कणरणत्कारैः समातन्वते ॥८६॥ अपिच, पाथोभिः परिपूरयन्ति कलशानेकाः पराः पूरितान् पाणिष्वाकलयन्ति मूनि च हरेस्तान् रेचयन्तीतराः। रिक्तांस्तानथ पूरयन्ति च परा इत्थं तदाराधने पौनःपुन्यदशाऽतिसंभ्रमवशादासा भृशं भासते ॥२७॥ नारदः--सत्यमेतत् । किंतु, एतासामतिपीतिमा करतलेष्वासां च यो रक्तिमा हस्तन्यस्तसरत्नहेमकलशेऽष्वास्ते च यश्चित्रिमा। तेभ्यो निःसरदम्भसा प्रविलसन् धारासु यः शुक्तिमा तानेतास्त्वकृतार्थता प्रणयति श्रीमानयं नीलिमा ॥८॥ तुन्बरु:-एवमेव देवर्षे । स्वभावविमलं वस्तु स्वस्मादुत्तमवस्तुनि । . विनियुक्तं विशोभेत रमेव परमेश्वरे ॥८९॥ or

-
तथाहि,
मनोऽनुरजगनाटके-
संकल्प:-(पूर्वतोऽवलोक्य ) देवि कथमस्मिन् दिव्योत्सवेऽविनि-
युक्तव मानुषी संचरति ।
कर्णावतंसीकृतपुष्पगुच्छा
मयूरपिच्छातितकेशपाशा।
सेयं समागच्छति कापि गोपी
परंतु, लावण्यमेतन कदापि दृष्टम् ॥९०॥
कामधेनु:-गोपालना चेत्कथमद्भुतश्री-
दिव्याङ्गना चेत्कथमेष वेषः।
अस्येव चास्या अपि दुर्विभाव्यं
विभाति भव्यं किमपीह रूपम् ॥ ९१ ।।
(अन्तरष्टयावलोक्य संकल्पं प्रति ) अङ्ग,
वैकुण्ठभूपाल इति प्रसिद्धः
स एष गोपालकुलं प्रविष्टः ।
तं सेवितुं संप्रति संविधत्ते
गोपीविलासान्कमलासनेयम् ॥ ९२ ॥
प्रसिद्धं ह्येतत्, देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी।
विष्णोदेहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ ९३ ॥
नारदः--तुम्बरो रमेव परमेश्वरे' इतिभवदुपक्षिप्तमेव संवृतं पश्य,
अभिषेकोत्सवप्रान्ने कान्तेयं मधुविद्विषः ।
नमस्कृत्य, ददाति परिधानीयं सुन्दरं पीतमम्बरम् ॥ ९४ ॥
श्रयमपि, प्रादत्ते कमलाहस्तात परिधत्ते च तत्स्वयम् ।
धत्ते स तडिदम्भोदविडम्बितं मुदान्वितम् ॥ ९५ ॥
तुम्बहा-भूषणैश्चन्दनालेपैः प्रसूतैरपि गोपतिम् ।
अष्टौ परिचरन्त्येनं पनाया: परिचारिकाः ॥ ९६ ॥

६७ चतुर्थोऽङ्कः। नारद:--एता अणिमाद्या महासिद्धयः । तुम्बर:-दिव्या सभा सपदि भाति समस्तरत्न- श्रेणीभिरत्र विमलद्युतिभिर्मनोज्ञा । तत्र, सिहासनं कनकरत्नविनिर्मित च सद्यः कृतार्थयति सोऽयमिदं मुकुन्दः ॥ ९७ ॥ किंच, रत्नस्फुरद्विमलदण्डसमन्वितेन हस्ते धृतेन सितभास्वरचामरण । पार्षस्थितैव कमला कमलायताक्षं संसेवते वितनुते च मुदं मुरारेः॥९८ ॥ ( तावस्कामधेनुः कृष्णसमीपमेत्य सर्वतः परिश्रित ष्वा) कामधेनुः--भगवन, दुग्धं दुग्धपयोनिधेघृतपयोराशे तं चाहृतं किंचैतन्मम दुग्धमस्ति घृतमप्येतन्मदीयं विभो । विस्तीर्णेचरसाम्बुराशिलहरी संसङ्गिनीत्वस्य या साकं शर्करया महामधुरया गोपीश तत्पीयताम् ॥९९॥ श्रीकृष्ण:--(सस्मितम्) प्रसिद्धमेतद्यसस्निग्धदुग्धं सघृतशर्करम् । पाययन्ति कृताभ्यङ्गान् बालकान्मातरः स्वयम् ॥१०॥ ( तत:प्रथमतो दुग्धाम्बुधेदुग्धं निपीय ) मातः परिचितमेतत्दस्माकं तत्र निवसताम् । (अथापरं निपीय) अहो अत्यपूर्वमेतत, अथवा कामधेनुप्रसादे किमपूर्वम् । कामधेनु:--यदियं त्रिजगन्नाथपादयोः परिचारिका । निर्वर्णयसि सैषा तु भक्तवत्सलता तव ॥ १०१ ॥ (स्वादूदकेनाम्बुधिजलेनाचमनं प्रदाय, प्रतिमृदुलक्रमुकफलसकलनिचय- सहितं प्रविलसदेलाफललवङ्गकर्पूरादिपरिमलद्रव्ययुतं केतककुसुमवासनासमन्वि- तखदिरसारसमेत सौवर्णवर्णताम्बूलवहीदलकदम्बकं भगवते प्रदाप) मनोऽनुरजननाटके- सन्मुखामोदसंबन्धमेतद्गोविन्द विन्दतु । कथमन्यथा, वक्त्रामोदश्रियो मूलं ताम्बूलं जगतो भवेत् ॥ १०२ !! (तिरस्करणीरपसार्य ) कः कोऽत्र । संकल्प:-आज्ञा प्रदीयताम । कामधेनुः-(सक्रोधम् ) कथमद्यापि विलम्बन्ते ब्रह्मादयः । संकल्पः--(सविनयम्) अन्त:सेवां दधत्याहि भवत्या जगदीशितुः । आयाता एव न ज्ञाता मातब्रह्मादयः सुराः ॥१०॥ ( नेपथ्याभिमुखमवलोक्य ) सेयं सरस्वती दृश्यते, सकलसुजनानां नेत्रपङ्क्तीहरन्ती वपुषि परिवहन्ती वर्णमन्त्यतगौरम् । इह तरुरहितेव स्वर्णवल्ली मनोज्ञा तडिदिव घनशून्या भारती भासते ऽसौ ॥ १०४॥ (प्रविश्य सरस्वती, प्रणम्य कामधेनुम् ) सरस्वती-श्रीगोविन्दपदारविन्दपरमप्रेमानुबन्धव्रताः ब्रह्माद्याः समुपागता दिवि पदस्तिष्ठन्ति सोत्कण्ठिताः । यद्याज्ञा भवति प्रभोभगवतः सान्निध्यमासाद्यते सेवन्तां निजजन्मनः सभलतां कामं लभन्ताममी॥१०५।। कामधेनु:-(श्रीकृष्णं प्रति ) प्रणमति सरस्वती सेवनाय । सरस्वती -भगवन् ब्रह्मादयः सुराः श्रीमतो दर्शनमाकाक्षन्ति । ( ततो भगवतो भूविलसितेनैव ब्रह्मायाकारणानुशामवाप्यापसृत्य करपल्लवे- नाकारणाभिनयपूर्वकम् ) भो भो विरचिप्रमुखा पायान्तु आयान्तु । इह हि, सिंहासनेऽस्ति भगवान् रमया समेत- स्तत्राधुनैव भवतामभवत्प्रसङ्गः । - चतुर्थोऽङ्कः। नाशङ्कनीय इह वेत्रभृतां प्रहारो जानन्ति गोकुलपतेः खलु तेऽभ्यनुज्ञाम् ॥ १०६ ।। ( पुन:परावृत्य ) श्रीभगवन् एष चतुराननो हंसादवतीर्य- विसृज्य निजवाहनं स्वजनेषु पद्मासन- श्चतुर्मुकुटमण्डितः प्रथितशुभ्रकूर्चान्वितः । भवन्मुखविलोकनप्रभवमोदपाथःप्लुतः स्फुरनयनपङ्कजः पतति दण्डवद्भूतले ॥ १०७ ॥ ब्रह्मा-(प्रविश्य ) श्रीभगवन्, अवाप्तसर्वकामस्य करवाम किमु प्रभो । तथापि सेवामेवात्र भवतः प्रार्थयामहे ॥ १०८ ॥ सरस्वती-एष भगवान महेशः स्ववाहनादवतरति । यस्य खलु, वह्निर्ललाटविषयेऽथ जटासु तोयं सौधी कला च मुकुटे गरलं च कण्ठे। नित्यं विरोधिषु विरोधनिरासहेतुः सेवार्थमञ्चति स संप्रति पार्वतीशः ॥ १०९ ॥ किंच, त्वं पूर्णकामस्तव चापि भक्ताः संपूर्णकामा इति सुप्रसिद्धम् । तथापि, त्वत्पादपङ्केरुहसेवनैक- सुखं तु भक्तेष्वधिकं विभाति ॥ ११० ॥ (तं दृष्ट्वा ) हरिरिति हर इति भवता भेदं गमिता स्वरूपचिन्मुर्तिः। स्वपदसरोरुहसेवनसुखमिव संभोक्तुकामेन ॥१११॥ महेशः-(प्रविश्य ) नैवावयोः स्वल्पतमोऽपि भेदः तदेतदुबोधयतीह वेदः। तथापि लावण्यविशेष एव विलोकनायैव तनोति काङ्क्षाम् ॥ ११२ ।।

मनोऽनुरञ्जननाटके-
सरस्वती-भगवन्नेत इन्द्राग्नियमवरुणादयः ।
कृत्वा धरानिपतनैरभिवन्दनानि
स्थित्वाचरन्ति पुरतोऽञ्जलिबन्धनानि ।
बध्वा भववरणसंनिधिसौख्यसिन्धु
स्वस्वाधिकारपदवीं तृणवद्विदन्ति ॥ ११३ ॥
इन्द्रादयः-(प्रविश्य ) अस्तु स्वर्गसुखं देव कदापि न तदस्तु वा।
सर्वदा त्वत्पदाम्भोजरजःसंसर्गितास्तु नः ॥११४॥
सरस्वती-(पुनः ) श्रीभगवन
वेदा मुदा स्वीकृतमूर्तिभेदा-
स्तोतुं समायान्ति भवन्तमेते।
सौन्दर्यसन्दर्शनसाभिलाषाः
सर्वे च सिद्धाः सनकादयोऽमी ॥ ११५ ॥
वेदा:--(प्रविश्य ) त्वद्भक्तिलभ्यसुखसिन्धुषु संदिहाना-
श्चित्तेषु नश्वरसुखान्यनुसंदधानाः ।
देहेषु बुबुदसमेषु वृथाभिमानाः
काल नयन्ति विफलं विगताभिमानाः ॥ ११६ ।।
अपिच,
प्रटन्तु
तीर्थानि
पठन्तु चास्मान्
कुर्वन्तु यागान् कलयन्तु योगान् ।
तमालनीले त्वयि वा सलीले
रति विना नैव गतिं प्रतीमः ॥ ११७ ।।
सनकादयः--(प्रविश्य ) न वेदविद्या न च यज्ञविद्या
न ब्रह्मविद्या न च मोक्षलक्ष्मीः ।
सुखाय लोकस्य तथा यथाहि
त्वत्पादपङ्केरुहभक्तिरका ॥ ११८ ॥

चतुर्थोऽः।
सरस्वती-( उपसृत्य कामधेनुम् ) मातः पश्य,
यन्मूनि सर्षप इव प्रतिभाति पृथ्वी
सोऽयं समेत्य पदयोः प्रणिपत्य शौरेः।
पश्चादुपेत्य हरिमूर्धनि रबचित्रं
धत्ते फणावलयमुज्वलमातपत्रम् ॥ ११९ ॥
अपिच, ब्रह्माण्डखण्डमिह चञ्चुपुटेन धृत्वा
नीत्वा सुदूरमथ भेत्तुमिदं समर्थः ।
सोऽयं समेत्य गरुडः प्रणिपत्य धत्ते
बद्धाञ्जलिर्विनयमेव हरेः पुरस्तात् ॥ १२० ॥
कामधेनुः-सरस्वती सर्वोऽयं सुरसमाजः संवृत्तः। संमदवशात्तु
नारदतुम्बरू गायन्तावन्तरितौ तावेतावप्रतः कर्तव्यो, एतद्गीतप्रियोऽहि
भगवान् ।
सरस्वती-तथा, (इप्युपसत्य तावाहूप ) मातस्तावेतौ।
(प्रविश्योभौ प्रणम्य वीणां समंजसीकृत्यातिमधुरसमकण्ठम् )
श्रिया सेवितं सर्वदा गोपराज
तनौ कोटिकन्दर्पलावण्यमाजम्
कृपासागरं चारुपलेल्हाक्षं
मनोवान्छितार्थप्रदं कल्पवृक्षम् ॥ १२१ ॥
जगबीजभूतस्फुरद्मविलासं
चिदानन्दसन्दोहशुद्धावभासं
घनश्यामलं कोमलाङ्ग भजामः
श्रुतिन्यायतः संसृति संत्यजामः ॥ १२२ ॥
ब्रह्मादयः-( मिथः मारवतुम्बरू उहिरण )
गायन्तौ भगवन्तं सुखमयमन्तः सदैव नन्दन्तौ ।
तावेतावतिधन्यौ नैतत्सदृशौ जगत्यन्यौ ॥ १२३ ॥

मनोऽनुरञ्जननाटके- अपि च, धन्यास्त एव पुरुषास्त्रिजगन्ति येषामनन्तगीतेन । गच्छति सकलः समयो न तु विषयोपस्थितिः कापि ॥१२४॥ सरस्वती-(आकाशे दृष्ट्वा ) स्फुरन्ति परितः कथं वियति हेमवल्लीचयाः कथं च ननु काञ्चनीनलिनपङ्क्तिरप्यञ्चति । स्फुरन्मधुकरावलीविलसितानि संतन्वते नभोवलयनीलतामपि च सर्वतः पुष्कलाम् ॥१२५॥ (सादरमवलोक्य ) अहो विदितम् । ताः एताः सुरसुन्दर्यः सैषा च वदनावली। दृग्विलासास्तु परितस्तासामेव स्फुरन्त्यमी ॥ १२६ ॥ (कामधेनुं प्रति ) अये, उर्वशीप्रमुखा एता भगवत्परिचर्यायै नमसोऽवत- रन्ति । पक्ष, यतः, एता अप्सरसः समेत्य तरसा कृष्णे लभल्लालसा दूरादेव विनिर्मितप्रणतयो नृत्यं समातन्वते । मूर्छन्मन्मथतः क्षणं प्रथमतः प्रविन्नवक्त्राम्बुजा- स्वेतास्वप्रतिभेव किं तु कमलाकान्तावलोकादभूत ॥ १२७ ॥ कामधेनुः--सरस्वति स्वरसत एव दुस्तरा कथमप्रतिभा निस्तीर्णा । मनस्विनोऽप्यप्रतिभा सभायां कुतोऽपि हेतोरुदयं समेता। सर्वानवद्यामपि शास्त्रविद्या सद्यो विलीनामिव संतनोति ॥ १२८ ॥ सरस्वती-कथं न जानाति भगवती, किंतु मदुक्ति कामयसे । तदे- तत्प्रब्रवीमि । लावण्यैकनिकेतनं भगवतो रूपं विलोक्यैव ता मूर्छन्मन्मथतः च्युतप्रतिभताहेतोः क्षणं लज्जिताः। अनन्तरं श्रीमन्नारदमहामुनिसंगत्या समवगतभागवतनाममाहात्म्या झटित्येव, ७३ चतुर्थोऽङ्कः। गोविन्देतिपदं ततो हृदि समावत्यैव नृत्यं दधु- स्तन्नामस्मरणे हि कामकलुषं नैवाभिभूत्यै भवेत् ॥१२९॥ कामधेनु:--एवमेव, भगवनामनिष्ठानां न कामस्यापि संभवः । पीयूषमेव पिषता नैव व्याधेरुपद्रवः ॥ १३० ॥ सरस्वती-मातर्धन्या एता यतः सर्वात्मना भगवदाराधनार्थ- मेव यतन्ते । तथाहि, नृत्यानुषक्तवपुषा परितोषयन्ति गायन्ति किंच वचसा मधुरस्वरेण । नाम स्मरन्ति मनसा शिरसा नमन्ति पश्यन्ति पुष्कलशा च मनोऽभिरामम् ॥ १३१ ।। कामधेनु:-~एवमेव । सरस्वती-मातः, वीणानां ध्वनिरुत्तमः श्रुतिसुखं गीतं सुस्पैरिदं नृत्यं पेशलमुर्वशीप्रभृतिकस्वर्गाङ्गनानिर्मितम् । देवानां च समाज एष सुमहार सर्वाश्च संसिद्धयः प्रत्यक्षास्तदिहोत्सवे विजयते किं किन्न लोकोत्तरम्॥१३२॥ कामधेनु:-सत्यं, भवति लोकोत्तरम् । परंतु, गीतेन किं बत सरस्वति मजुनापि नृत्येन वा मधुरवाधरवेण वा किम् । सधः समस्तजनखेदविनाशनं संकीर्तनं न यदि तत्र पवित्रकीतः॥ १३३ ॥ मिलन्तु सकला देवा विस्फुरन्तु च सिद्धयः । परं तु परमानन्दो गोविन्देनैव केवलम् ॥ १३४ ॥ तस्मादस्मन्मनोऽनुरखनमनेनैव । पश्य, अस्मन्मनोनयनरञ्जनहेतुभूतं तु अपि च, ७४ मनोऽनुरञ्जननाटके- कृष्णस्य किं किमतिकारुणिकस्य वर्ण्यम् । यः केवलं सुमुरलीरवलीलयैव विश्वानि रञ्जयति कञ्जविशालनेत्रः॥ १३५ ॥ सरस्वती-संसेवनमण्यस्य मनोऽनुरञ्जनम् । तथाहि, निर्दुष्टमस्तु चरितं विपुला च विद्या हृद्यं यशोऽस्तु भृशमस्तु च कर्मनिष्ठा । एतानि किंतु विकलानि भवन्ति तेषां संसेवनं भवति कंसरिपोर्न येषाम् ॥ १३६ ॥ अपि च, अस्य भगवतः संसेवने मुक्तिरप्यनायासेन तदुक्तमनेनैव कविना ग्रन्थान्तरे, या दानिनां च मनां च तपस्विनां च सन्यासिनां च सततं हृदि कातितैव । श्रीकान्तसवनसुखेन समुद्धताना दौसीभवत्यहह सा सहसा विमुक्तिः ॥ १३७ ॥ तस्मादधुना, स्वं लोकं नैव यास्यामः स्थास्यामः किं तु गोकुले । समयं स्वं च नेष्यामो घनश्यामोपसर्पणे ॥ १३८ ॥ कामधेनुः-सरस्वति सम्यगुक्तमिदं भवेद् ब्रह्मादीनां मनसि, अस्माकं च, किं तु गोकुलनिवासिभ्यो नास्ति निस्तारः । पश्य, गोपालबालसहखेलरतिः सुराणां सेवां न वाञ्छति घनद्युतिरेष देवः । गोपाङ्गनाप्रियनमस्यसुराङ्गनानां लास्येऽपि चास्य परितुष्यति नान्तरात्मा ॥ १३९ ॥ सरस्वती-( नेपथ्याभिमुखमवलोक्य ) मातः कोऽयं विलक्षणः स- मायाति । .

७५ चतुर्थोऽङ्कः । कामधेनुः--(विलोक्य ) अये, अस्मदुक्तमेकं संवृत्तम, सोऽयं गोकुलनिवासिना दूत एनं नेतुमायातीति लक्ष्यते । दूतः-(प्रविश्य प्रणम्य भगवन्तम् ) अधुना भगवन्नन्दः कृतसर्वाह्निकक्रियः । प्रतीक्षमाणस्त्वामास्ते देव्या सह यशोदया ॥ १४० ॥ ( तदाकर्ण्य श्रीभगवान् सर्वान् प्रति ) श्रीभगवान्--देवाः सेवा समापन्ना संपन्ना नः सुखोन्नतिः । स्वस्वाधिकारकार्याणि संप्रधार्याण्यतःपरम ॥ १४१ ॥ ( सर्वे ब्रह्मादयः शिरसाधिप्रणम्य गलदश्रु सगद्गदकण्ठम् ) ब्रह्मादयः-आज्ञा तवैषा न विलङ्घनीया न शक्नुमः स्थातुमतः कथञ्चित् । त्वत्पादसानिध्यसुखप्रसक्ताः शक्ताश्च न स्वानि पदानि गन्तुम् ॥ १४२ ॥ श्रीभगवान्-( तदवस्थामवेत्य ) देवाः न कर्तव्येयं कातरता । अस्मत्संबन्धिसांनिध्यमस्ति सर्वत्र सर्वदा। अस्मासु प्रेमयुक्तेषु युष्मासु तु विशेषतः ॥ १४३ ।। ब्रह्मादयः--अस्ति सर्वत्र सान्निध्यं सदा सर्वगतस्य ते । भक्तेषु प्रेमयुक्तेषु तदस्मासु विशेषतः ॥ १४४ ॥ तदेतद् ज्ञायत एवातश्च नास्माकं कापि कातरता, किंतु भगवतैव परस्पर- विरुद्धं क्रियते । तथाहि, ददासि वचसानुज्ञा स्वर्लोकगमनाय नः । अस्मानेव च बध्नासि लावण्यप्रमुखैर्गुणैः ॥ १४५ ।। कामधेनुः-- तावच्छत्रप्रणोदिता) श्रीभगवान एष विबुधाधिराजः स्वापराधाननुसंदधानः प्रस्थानेऽवस्थाने च शङ्कमानः करुणया संभाव्य- ताम्।

*. मनोऽनुरजननाटके- श्रीभगवान---इन्द्रस्य नापराधोऽयमुपकारः स केवलम् । अन्यथा कथमेतावानुत्सवः संप्रवर्तताम् ॥ १४६ ॥ अपिच, जगतामुपकाराय शक्रस्यैतद्विचेष्टितम् इमं साद्यन्तवृत्तान्तं कः श्रुत्वा न सुखीभवेत् ॥ १४७ ॥ ( शक्रं प्रति ) ब्रह्मादयः प्रतीक्षन्ते शक्र शैघ्रयेण गम्यताम् । स्वाराज्यं भुज्यतां तत्र दया दीनेषु तन्यताम् ॥ १४८ ॥ एतदेवास्मदनुग्रहपात्रत्वबीजम् । शक्रः-शिरस्याज्ञा। ( इति शक्रेण प्रस्थिते, कामधेनुः पृष्ठतः स्थित्वाम्नलिं च बध्वा सगद्गद्- विगलदश्रुधारम् ) कामधेनु:-श्रीभगवन्, यदुवर भवदाज्ञालङ्घने कः समर्थ- स्तदमरनिचयोऽयं प्रस्थितः सर्व एव । इह तव पदसेवामेव देवेश कुयों सततमिति तु चेतःकाक्षितं पूर्यतां मे ॥ १४९ ॥ ( इति चरणयोः प्रणताया मस्तके हस्तकमलं दवा) भगवान्-देवि न चिन्ता कुरु । शृणु वचनमिदं मे गम्यतां कामधेनो सकलसुरसमाजोऽप्यन्यथात्रैव तिष्ठेत् । किं त्वद्यप्रभृति, तव हृदयसरोजे गोबजे वा समा मे स्थितिरिति कुरु सेवा स्वस्थलावस्थितैव ।। १५० ॥ त्वामप्येते प्रतीक्षन्ने सशक्रा ब्रह्मादयः । (ततः सवृन्दारकैः सरस्वतीप्रमुखैः स्त्रीजनैः सह प्रस्थितायां कामधेनौ) लक्ष्मी:-( भगवन्तम् ) स्थास्यामि काममिह गूढतया स्फुटं वा यास्यामि नैव तु भवन्तमृते कदापि । खीणां हि भर्तुगृहं पितृगृहं वा, तदहं त्वां विना चतुर्थोऽङ्कः ७७ वैकुण्ठधाम तव वा पितुरम्बुराशे- वेश्मापि वा न मम विश्रममातनोति ॥ १५१ ॥ ( स्वगतम ) तदहमन्यतो गन्तुमेव न शक्नोमि, अयं तु अन्यत्रासक्त- चित्तोऽतो मम गूढतयैवावस्थानमुचितम् । ( रासक्रीडामभिप्रेत्य ) आगामिनीषु रजनीषु शशिप्रभासु गोपीषु गोकुलसमीपवनस्थलीषु । भृङ्गीषु वेणुकलगीतिषु तावकीषु स्थित्वा भवन्निकटवृत्तिसुखानि भोक्ष्ये ॥ १५२ ।। श्रीभगवान्-(विदिताशय: सन् सस्मितम्) किमित्येवं विप्रकर्ष ब्रूषे । गूढा वस ममैव त्वमन्तह दयवेश्मनि । अथवा तिष्ठ विस्पष्टमुपर्येव ममोरसि ॥ १५३ ॥ अपिच, कालत्रयेऽपि कमले त्वमेव दयिता मम । इतरत्र रताद्यत्वं निर्वाहायैव केवलम् ॥ १५४ ॥ ( अस्य वक्षस्थलप्रिया भगवतो विकल्पोक्तिमसहमाना ) लक्ष्मीः-गोपालान् प्रति गूढत्वमस्तु वक्षस्थलेऽपि मे । न त्वां प्रति मदुक्तं हि तत्सर्वज्ञशिरोमणे ॥ १५५ ॥ (पुरतः प्रचलिता ब्रह्मादयः परस्परम् ) अतः परं हरेः संकीर्तनेन श्रवणेन वा सान्निध्यसुखं लब्धव्यम् । यतः, अनन्तकविनिर्मितं विविधपाबन्धान्वित मनोहरकथायुतं सकलदोषदूरीकृतम् । यदास्य गुणवर्णनं वचसि कर्णयोर्वा नृणां तदा सपदि सन्निधावयमुपैति लक्ष्मीपतिः ॥ १५६ ॥ (इति प्रणम्य निष्क्रान्ताः सर्वे, श्रीकृष्णोऽपि यथादूतागतं लक्ष्मीवल्लभो निष्कान्तः) इति श्रीमदापदेवसूनुनानन्तदेवेन विरचिते मनोऽनुरजनाभिधाने हरिभक्तिनाटके चतुर्थोऽङ्कः समाप्तः ।

अथ पञ्चमोऽङ्कः।
( ततः प्रविश्य गोपकुमारिका: परस्परम् )
सत्यः-अनिकमनीय एष यमुनापुलिनप्रदेशः । यदत्रैव पूजासा-
धनानि स्वस्वपरिधानानि च निधाय स्नास्यामः। तदनु गौरीचरण-
कमलपरिचरणमप्यत्रैव विधास्यामः ।
( तावत्कमलदलविलोचन: श्रीदामसमेतस्ताभिरनभिलक्षित एव दूरतः प्रविश्य)
श्रीकृष्ण:--श्रीदामन् पश्य पश्य, किमेताः संचरन्ति ।
श्रीदामा--(तिर्यग्रीवमवलोक्य ) देव परस्पराभिमुखा यमुना-
सलिलमवगाहन्ते।
( शनैः शनैः धरणितलविनिहितचरणकमलप्रचारमनभिव्यक्तकनककिङ्किणी.
प्रमुखभूषणरणत्कारं वञ्चितकुमारिकानयनदृष्टिसंचारं च समेत्य तत्कालमेवासां
परिधानवासांस्यपहृत्य ससखिनिकटवर्तितरुवरशाखामवरुह्य )
श्रीकृष्णः--श्रीदामन् पश्य, कालिन्दीजलविस्फुरदिन्दीवरदलपरि-
मलपरिग्रहपर्याकुलमधुकरकुलविरचितमधुरस्वरेण समं स्वकीयकोमल-
कण्ठरवेण समुञ्चलदुत्तुङ्गतरङ्गेष्वपि निश्चलतरुजलचरविहङ्गेषु सभा-
जनेष्विव शृण्वत्सु सकलगोकुलकन्यकाः शीतलेष्वपि जलेष्वनुद्विना
एवाकण्ठमना तद्गुणगीतमेव गायन्ति ।
श्रीदामा--किमाश्चर्यमनुद्विग्ना एव गायन्तीति ।
विहिते तव गुणगीते किं परलोके न तद्विजानीमः ।
अनुभवसिद्धमिदं नः सपदि विषादं विदूरयति ॥ १ ॥

पञ्चमोऽङ्कः। ७६ श्रीकृष्ण:-श्रीदामन पश्य, आपाततः समतयैव समुल्लसन्ति पङ्केरुहाणि सुदृशां च विलोचनानि । आकर्णविस्तृतिविशेषवशादतीव शोभा परं तु समुदश्चति लोचनेषु ॥२॥ अपिच, सामान्यमेव समवैति सरोरुहेषु रोलम्बराजिरपसर्पति यत्ततोऽसौ। जानाति किं तु वदनेषु विशेषमासा तत्रेव वाञ्चति यतः करवारितापि ॥ ३ ॥ श्रीदामा-आकण्ठमग्नललनावदनावलीय- माभाति पश्य यमुनाजलसङ्गमेन । श्रीकृष्ण तावकशरीरसमाश्रयेण त्वद्भूषणावलिरियं ललितैव हैमी ॥ ४ ॥ ( गीतेरुच्चस्वरं समाकलयन्तीनां सलिलादुद्गतस्तनमण्डलीमालोक्य ) एतासां, हृदयकमलपङ्क्तिलब्धुकामा भवन्तं बहिरिह कुचकाशच्छद्मना निर्गतैषा। तव तु गतिमलभ्यामेव विज्ञाय शौरे वहति वदननैल्यं खेदखिन्नेव मन्ये ॥ ५ ॥ (तावद्रोपकुमारिकाः गीतावसाने स्वस्ववसनस्थानेषु वसमान्यनवलोक्य शुभिताः) गोपकुमारिका:-कः कोऽत्र विद्यते नष्टः । य इत्थमरुणोदयवेलायां यसनान्यपहरति । रे रे दुष्ट न जानासि किं गोकुलवासिलोकपरिपाल- नैकसमुद्योगं श्रीकृष्णम् । ( पुनः स्वमध्ये ) भो भो सख्यः यात यात । श्रीकृष्णं प्रति निवेदयत । स चाधुनैव समेत्य दुष्टस्यास्य तस्करस्य सद्यः शिक्षा दत्त्वास्मदीयवसनान्यानीय दास्यति ।

८०. -- मनोऽनुरजगनाटके- श्रीकृष्णः-( श्रुत्वा ) भोः सरसिजनयनाः भवदीयमिमं वृत्तान्त ज्ञात्वायमहमागतोऽस्मि । वदन्तु कुत्र तस्करः, यस्य शिक्षा दत्त्वा वसनान्यानेष्ये। गोपकुमारिकाः-(परस्परम् ) कोऽत्र, कृष्ण एव ब्रूते। वचनव- निस्तु उर्ध्वायां दिश्युपलभ्यते। (इत्युदानमा: पादपोपरि तमेव त्रिभुवनकम- नीयं समवलोक्य सहसा जातसाध्वसाः प्रमुदितमानसाच विस्मृत्यवसनवार्ताः ) सख्यः सोऽयमस्मत्कृतगौरीसमाराधनफलभूतः संप्रति संनिकृष्यते। तत्रा- परःका, अस्मद्वसनापहर्ताप्यमेव भवेत् । प्रसिद्धं घेतस्य दध्यादिचौर्यम्, । इतराः सख्यः कथमेतस्य दोष एव गृह्यते न तु गुणः । तथाहि, चौर्य करोति सहसैव गृहेषु येषा येषां सकृत्सकृदसौ सरसीरुहाक्षः । ते ते भृशं स्वगृह एव सुराधिराज- सौख्यानि संप्रति समाकलयन्ति सर्वे ॥६॥ अन्याः-तिष्ठन्त्वन्या वार्ताः, पश्यन्तु तावत्किमयं करोतीति । श्रीकृष्णः-किमिति विलम्बः क्रियते कथ्यता चौरः । कुमारिका:-यः खलु न कथंचिदपि शेयः स कथं कथ्यते गिरा। चौरस्तस्माद्भवानेव ( इत्योक्ती) श्रीकृष्णः-किमेता मामेव वाङ्मनसागोचरं चौरं निर्दिशन्ति । शृणोमि तावत् किमग्रे वदन्तीति । कुमारिकाः-तमन्वेषयतु द्रुतम् ॥ ६ ॥ श्रीकृष्ण:-एषोऽयमन्विष्यते । (श्रीदामानं प्रति नयनकमलप्रान्तेन प्रतारण सूच्यन् ) १ पञ्चमोऽङ्कः। श्रीदामन गच्छ गच्छ शीघ्र चोरमन्वेषय कुतो गत इति । दामा-तथा । ( इत्यपगते तस्मिन् कुमारिकाः प्रति ) श्रीकृष्णः-भो भोः सरसिजनयना एकं तावच्छोतव्यं यदेत- वतीभिर्विवसनाभिरेव यमुनासलिलावगाहनमाचरितम, तस्येदं कर्मणः फलं यद्वसनापगमो व्यसनाधिगमश्च कुमारिकाः-(सचकितम् ) किं व्यसनम् ? श्रीकृष्णः-इदमेव तस्, यद्गौरीसमाराधनवैकल्यं ततश्च फला- प्रतिलम्भः। कुमारिका:-(सखेदं परस्परम् ) मासमात्रमस्माभिरेवमेवाचरितम्, किमतः पर विधेयम् । ( किन्चित्संप्रधार्य श्रीकृष्णं प्रति) भगवन् भवन्तमेव शरणमागच्छामो गौरीसमाराधनवैगुण्यसमाधान चपृच्छामः। श्रीकृष्ण:--अस्मच्छरणगमनमपि भो यदि यथाविधि क्रियते तर्हि त्रितयमपि संपद्यते । वसनाधिगमः कर्मणो वैगुण्यसमाधानं सम- भिलषितप्रतिलम्भश्च । कुमारिका:-कोऽसौ विधिरुच्यताम् , कृत एवेति ज्ञायताम् । श्रीकृष्णः-यतो भवतीभिर्गौरीसमाराधनवदस्मच्छरणागमनमपि विगुणमेव कर्तव्यम् । कुमारिकाः-(किंचिद्विचार्य ) नैतद् वक्तव्यं त्वया । श्रीकृष्णः-पित्रोःशपथःक्रियते परमप्रेमास्पदभवतीनामपि । अत उक्तः प्रयोजनं विद्यत एव । कुमारिकाः-(परस्परम् ) अवश्यं कर्तव्यो विधिः, अन्यथा मासमात्रक्लेशाचरणं वृथैव स्यात् । (कृष्णं प्रति ) उच्यतां विधिः ।

मनोऽनुरञ्जगनाटके-
श्रीकृष्णः-श्रोतव्यम्, मस्तके हस्तकमलयुगलाञ्जलिबन्धनैरुप-
समेत्यास्मदीयपदाम्भोजप्रतिः संविधीयताम् ।
कुमारिका:--परस्परम् ) कथमेतद्विवसनमस्माभिरनुष्ठातुं शक्यते ।
काचित्कुमारिका--यद्येतद्वचनमकृत्वा स्थीयते, पूर्वोक्तं त्रितयमपि
न निष्पद्यते, अग्रे च महती लज्जा। यद्वसनानि हारयित्वा यमुना-
सलिले कुमारिका ननास्तिष्ठन्तीति सर्वे जनाः श्रोष्यन्ति । गोपकुमाराश्च
द्रष्टुमागमिष्यन्ति तस्माल्लजां विहाय तदुक्तमेव कर्तव्यम् । त्यजेदेक
कुलस्यार्थ इतिन्यायात् ।
श्रीकृष्णः--कथमहो कृत्वापि शपथं पुनर्विचारः क्रियते कुमा-
रिकाः।
कुमारिकाः-को वा विचारः, परन्तु पादपोपरिस्थितस्य कथं
पादपङ्केरुहप्रणतिः शक्यते कर्तुम ।
श्रीकृष्णः-एषोऽवतरामि । ( इत्यवतीर्णे तस्मिन् कुमारिकाः तदु-
पदिष्टविधिना यावत्सलिलादुत्तीर्णास्तावल्कुचकलशाच्छादनं यथा भवति तथा
वृक्षतो निपतितानि स्वस्ववसनानि सपदि परिधाय )
कुमारिकाः-( स्वगतम् )
संदृश्यते क्षितिरुहोपरि नैव कोऽपि
यः संत्यजेद्वसनवृन्दमिदं यथास्वम ।
तस्मात, संतोषरूपमुपसर्पणमस्य शौरेः
संपादयेत्सपदि वाछितमन्तरिक्षात ॥ ७ ॥
(पुनरपि स्वगतम् ) निन्दत्वसौ सकलगोकुलवासिलोको
दोपं पितृप्रमुखबन्धुजनोऽप्युदीरताम् ।
सद्यःश्रमापहरणं मुरवैरिणोऽस्य
संसेवनं सुखकरं न परित्यजामः ॥ ८ ॥

पञ्चमोऽङ्कः।
८३
( ततः सानन्दं शिरस्स्वजलिवन्धं विधाय गोविन्दचरगयोःप्रयतासु तासु,
चोरान्वेषणाय प्रेषितः सुदामा प्रविश्य )
सुदामा-(स्वगतम् ) अहो समाप्तं कौतुकम, यदेताः परिहित-
स्वस्ववसनाः श्रीपतिसमीपेऽवतिष्ठन्ते । कथं च लज्जयावनतवदनकम-
लैरल काङ्कितपुलकितकपोलफलकैः सकटाक्षरेव पुण्डरीकाक्षमवलोकयन्ति।
न तु परिपूजयन्ति गौरीचरणकमलम् ।
(पुनर्विमृश्य) आः कथं पूजयन्तु । यतः
श्रानन्दसिन्धौ ब्रजवासिबन्धौ
सान्निध्यमासाद्य यदूद्वहस्य ।
कुत्रास्महे वा किमु कुर्महे वा
नैतद्विजानम्ति विलोलनेत्राः ॥९॥
अपिच, नवयुवतिसमाज: कृष्णलावण्यसंज्ञं
नयनकमलपत्रैः सीधु पीत्वा मनोज्ञम ।।
कुचकलशवियुक्तं मुक्तनीविप्रबन्धं
वसनमपि न वेद स्वस्वमन्यत्कुतोऽनु ॥ १० ॥
(श्रीकृष्णं प्रति प्रकाशम् ) श्रीकृष्ण
अन्विष्ट एव बहुधा पृष्टश्च कतिधा जने।
अव्यक्तगतिरेवायं कुमार्यम्बरतस्करः ॥ ११ ॥
श्रीकृष्णः-( स्वरूपवर्णनं
श्रुरवा सस्मितम् ) श्रीदामन् प्रासां स्व-
स्ववासास्यधिगतानि किमधुना तस्करेण । तद्गोकुलं प्रति गच्छावः ।
(इति प्रचलिते ऽस्मिन् )
कुमारिकाः-(स्वगतम् ) कथमस्मानद्याप्युपेक्षते। (प्रकाशम् )
श्रीकृष्ण
नन्दराजकुमारस्य परिपालयतः सदा।
अनन्विष्यैव किं चोरमुचितं गमनं तव ॥ १२ ॥

मनोऽनुरजननाटके (ति सकम्पकरपोल्हेवाचले परिगृहीतः) श्रीकृष्ण:-किमर्थ मम सम्बन्धी धार्यते वसनाश्चलः । मुच्यता मुच्यता तञ्च चौरमन्वेषयामि वः ॥ १३ ॥ कुमारिका:-क्षणं गोकुल प्रतिगच्छसि, क्षणं च तस्करमन्वेषयसि। तदेवमपि विश्वसनीयस्त्वम्, कथं मोचनीयः। (श्रीदामानं प्रति ) ललितैरतिकूटभाषितै- श्वपलैश्चापि कटाक्षवीक्षितैः। सहसा कथमेष माधवो युवतीभिर्वशमेव नीयते ॥ १४ ।। यतः। हरिरपि वदनेषु लोचनेषु स्तनकलशेषु च लोलया दशा वा। स्फुटमभिरतिमाशु भासयन्स्ताः हरति मनांसि मुहुर्विलासिनीनाम ॥ १५ ॥ श्रीकृष्ण:-सख्यः तत्वमुच्यते । अथ मुश्चतु मुश्चतु मदीयं वसनाञ्चलम । लोकस्तु यमुनायां हि मानार्थ प्रति गच्छति ॥ १६ ॥ (ततस्तासामुभयतो म्याकुलतामवलोक्य सदयं स्वगतम् ) किमेतासा विधेयम् , ( तत्संप्रधार्य ) सख्यो गेहं व्रजन्तु न भयं मनो विषादम् । कुमारिकाः--(स्वगतम्) अयमुपदेशचतुरः, कथं हालाहल गिलाम, अमृतं च कुर्वन् कथं कर्ण दशति । श्रीकृष्णः-वेणुध्वनिर्निशि निशम्य मनोऽभिरम्य वृन्दावने समभियातु ममान्तिकं तु । कुमारिका:-अस्मान प्रतारयसि किं सरसीरुहाक्षः

२५
पञ्चमोऽङ्कः।
श्रीकृष्णः-सख्यः स एष शपथः क्रियते स्वपित्रोः ॥ १७ ॥
(तच्छुत्वा परित: समायातं जनं च समवलोक्य वसनाञ्चलं विमुच्य सोच्छासम्)
कुमारिका:-श्रीकृष्ण गच्छतु भवान् कुशलोऽस्तु पन्थाः ।
(ततः प्रस्थिते श्रीकृष्णे)
अस्मल्ललाटलिखितं तु कुतोऽन्यथा स्यात् ।
श्रीकृष्ण:--(स्वगतम् ) कथमद्याप्यविश्वास एतासाम्, तदाश्वास-
यामि । ( इति पुनः परावृत्य )
एतावन्ति दिनानि कानयनाः क्लेशेन संवर्धितो
युष्माभिर्यमुनातटे सुविपुलः पुण्याह्वयः पादपः ।
मत्सङ्कतवचःप्रफुल्लकुसुमैःसंपूजितः सांप्रतं
सोऽद्य श्वः फलितो भविष्यति कथं तत्रापि संदिद्यते ॥१८॥
(इत्याश्वास्य सख्या सह निष्क्रान्तः, ता अपि प्रसादविषादाभ्यां निकान्ताः )
( ततः सायं प्रविशति श्रीकृष्णः सुनन्दश्च)
सुनन्दः-श्रीकृष्ण कथमस्मिन्विषमविषमे काले वनभुवं प्रति
प्रस्थीयते । पश्य,
वनं प्रति गतो जनः प्रविशति स्वकीयं गृहं
समस्तविहगावली समुपसर्पति स्वालयम् ।
ब्रजन्त्यपि च गोधन ब्रजभुवं प्रति श्रीपते-
दिनान्तसमये कथं चलसि काननान्ते हरिः ॥ १९ ॥
अपिच मित्र, मित्रस्य कष्टः समयो विभाति
प्रयाति यात्राभ्युदयं शशाङ्कः ।
काले किलास्मिन् व्रजवल्लभस्य
नैवोचितं ते गमनं वनान्ते ॥२०॥

-
८६
मनोऽनुरञ्जननाटके-
श्रीकृष्णः-( सस्मितम् ) सुनन्द अस्ति किश्चिदभिलषितम् ।
सुनन्दः--(स्वगतम् ) कथं न निर्दिशति, विशेषतः प्रायो गोपाङ्गनाः
समभिलषन्ति । यतः तासामस्य च सांप्रतं परस्परं प्रेमोपलभ्यते। तथाहि,
गोपालैः सह गोकुलं प्रति यदा गोविन्द एष ब्रजात्
पानीयानयनच्छलेन यमुनापर्यन्तमायान्त्यमूः ।
अन्योन्यस्य तु तत्र वक्त्रकमलव्यालोकने मानसो
भावो हास्यमिषेण सर्पति बहिर्बिम्बाधरेषु स्फुटम् ॥ २१ ॥
अन्यदपि,
अन्योन्यकाममिलितानि विलोकितानि
तत्र स्मितानि रचयन्मुखसंगितानि ।
मार्ग समीपमपि वक्रगतानि किञ्च
प्रेमाणमेव गमयन्ति परस्परस्य ॥ २२ ॥
( पुनः स्वगतम् ) अथैतासां सोऽयं वृन्दावने गाः समन्वेषयति । तासामे-
वमस्यापि च प्रेम तासूपलभ्यते । तथाहि,
वेणुस्वरेण भृशमेष मनोहरेण
लोकोत्तरेण वपुषापि च सुन्दरेण ।
पीयूषतोऽप्यधिकबाष्पविशोभिदृष्ट्या
ता एव रञ्जयति मजुलनामभिश्च ॥ २३ ॥
तथा, स एष यमुनातटेन वितनोति वेणुस्वनं
समाह्वयति मञ्जुलध्वनिभिरामधेनूर्वने ।
तथापि बहुदूरतस्त्वरितमेत्य गावो हरेः
स्फुरन्मुखनिरीक्षणे परिहरन्ति भूरिश्रमम् ॥ २४ ॥
सदयमेव प्रष्टव्यः किमभिलषसीति । अथवा किं प्रश्नेन फलत एव
ज्ञातव्यम् । (इस्यने श्रीकृष्णेन समभिसृत्य चन्द्रोदयं दृष्ट्वा श्रीकृष्णं प्रति)
यस्या विरहकालेऽसौ विधुरासीद्धतप्रभः ।
यामिनी तामथाभ्येति कामिनीमिव वल्लभः ॥ २५ ॥

पञ्चमोऽङ्कः । अपिच, फुल्लत्वं गमितानि तिग्मरुचिना पद्मानि संमीलय- नैवाथो मिलितानि तानि कुमुदान्युत्फुल्लतामानयन् । तत्संतप्तमनेन तद्धि रचयन् संशीलितं चन्द्रमा मन्ये मत्सरमातनोति रविणा पूर्व परे भाविनः ॥२६॥ किञ्च, तालप्रमाणपरिशीलनकृन्मयूखै रात्रि तनोति दिनतोऽप्यधिकाभिरम्याम् । तेन ववल्लभसमागमनाय सद्यः प्रोत्साहमेव जनयत्यपि मानिनीनाम् ॥ २७ ॥ श्रीकृष्णः-उल्लसत्कुमुदसंप्रकाशिनी यामिनी स्फुरति चन्द्रमोगमे । सुप्रसन्नवदनावभासिनी कामिनीव निजवल्लभागमे ॥ २८ ॥ किश्व, शीतांशुकान्तकरसंगमतो विचित्रं प्रौढाङ्गना मुदमतीव दधाति पश्य । यतः, सेयं स्फुरत्कमलकाशसुपुष्पहासा भाति प्रसूनकलिकाकलशावभासा ॥ २९ ॥ सुनन्द:-श्रीकृष्ण इह सुरतरुरेष पश्य पश्य सकलवनद्रुममौलिरत्नभूतः। अभिनवकुसुमैर्विशोभमानः स्फुरति हि दिव्यषडङ्घिसेव्यमानः ॥३०॥ अपिच, स एष विबुधद्रुमो विविधदिव्यपक्षिस्वनैः समाह्वयति कोमलैरमृतपेशलैस्त्वामिह । स यद्यपि च सर्वदा सकलवाञ्छितार्थप्रद- स्तथापि नवसन्निधिं सुखनिधिं समाकाक्षति ॥ ३१ ॥ , मनोऽनुरञ्जननाटके- - श्रीकृष्ण:--( सस्मितम् ) समाह्वयति चेद् गन्तव्यमावाभ्याम् । (इति सह सल्या कल्पतरुमूलेऽवस्थाय ) सुनन्द कथमधुना दिव्यपक्षिनिनादो न श्रूयते । सुनन्दः- मत्वा संप्रति तत्तदिन्द्रियसुखे तुच्छत्वमात्यन्तिकं धृत्वालोच्य सुसौख्य एव महतीं प्रीति विहङ्गावली । नीलेन्दीवरसुन्दरं तव वपुः प्रद्योतिपीताम्बरं चेतोरञ्जनमार्तिभञ्जनमिदं दृष्ट्वैव तिष्ठत्यसौ ॥ ३२ ॥ श्रीकृष्णः उपन्यस्तया विहङ्गवार्तया स्मारितताहगवस्थागोपीजनः। (विभङ्गललितमवस्थाय वेणुञ्च पाणितलाभ्यामादाय तद्विवराणि कोमलतमाङ्गुलिदलैः स्पृशन् ) सुनन्द अस्मत्सखिषु त्वमत्यन्तान्तरङ्गः सखा, तेनातिगोप्यपि किंचिदुच्यते यदि क्रियते । सुनन्दः--कथं न क्रियते । पश्य स्मृतः श्रुतो वा परिकीर्तितो वा दृष्टोऽपि यः कष्टशतानि हन्ति । तस्यैव वाक्यं न विनिष्क्रियेत कृतघ्नता कास्ति परा ततोऽपि ।। ३३ ।। श्रीकृष्णः--श्रूयतां तर्हि । अद्य प्रभातसमये सुगोपकुमारिकासु सततमस्मधरणपरिचरणकामुकासु प्रतिश्रुतमस्माभिः। यद्भवतीभिश्च- न्द्राभ्युदये वृन्दावने समागन्तव्यमिति । तास्तु नाद्यापि दृश्यन्ते । तगच्छ तासां समाचारं गृहाण । सुनन्द:--तथा ( इति प्रस्थित: क्रमेण वर्धमान कृष्णवेणुगीतं निशम्य मध्यमार्ग स्वगतम्) पश्चमोऽकः। वेणुस्वनोऽस्य परिकर्षति पृष्ठतो मां (पुनरवधाय) चित्रं मयैव सह गच्छति गोष्ठमेषः । (पुनरप्यवधार्य) शीघ्र प्रयाति पुरतोऽपि तेन मन्ये दीपाय दैत्यरिपुणा प्रहितः प्रियासु ॥ ३४ ॥ (ततः शीघ्र गोकुलं प्रति गरवा स्वतः परितक्ष गोपसमाचारं गृहीत्वैव श्री. कृष्णं प्रत्यागत्य) शौरे सत्वरमेष गोकुलभुवं गत्वा भवद्वादितो वृत्तान्तं प्रतिसअपप्रवदनाकर्णेषु चावेदयन् । आनन्दप्रचयेन बन्धुषु भृशं व्यग्रत्वमापादयं- सा एताश्च समानयन विजयते वेणुध्वनि तवत ॥३५॥ श्रीकृष्णः-तत्कि गोपकुमारिकाः समायान्ति । सुनन्दः-किमुच्यते गोपकुमारिका इति । उक्त खलु प्रतिसमपद्म- वदना इति। श्रीकृष्ण:-किं तत्सर्वाः समायान्ति । सुनन्दः-अथ किम् । शृणु, भुञ्जानाः कति बन्धुवर्गसहितं नेत्राम्बुजे कजलं युञ्जानाः कति नैजवल्लभरताः संसेवमानाः कति । बिभ्राणाः कति भूषणानि च तनौ तल्पेषु साक सुतै- निद्राणाः कति सेवनाय भवतो धावन्ति गोपाङ्गनाः ॥३६॥ श्रीकृष्ण:--(स्वगतम्) सहसा संपरित्यज्य सर्वस्वीयेषु सौहृदम् । सन्यासिन इवायान्ति कामिन्यो मामनुव्रताः ॥ ३७ ।। अथवा कथमेवातिलब्धमेवासु साधकावस्थसन्यासिसामान्यमुपन्यस्यते। यतः, एता गायन्ति मामेव ध्यायन्ति च सदैव माम् । मामेव प्रेमसंपृक्ताः प्रेक्षन्ते च प्रतीक्षणम् ॥ ३८॥ १२ मनोऽनुरञ्जननाटके- सुनन्दः--(आयातीः समवलोक्य ) श्रीकृष्ण महोत्साहसमाज- मासां पश्य, बन्धूनप्यवतो हठाद्विदधति त्यागं गृहाणां निशि स्नेहादाशु बहिर्वजन्ति विपिनं चैताः समायान्त्यमः । किं त्वत्पदपङ्कजाधिगतये सोत्कण्ठमणीशो धावन्त्यो गणयन्ति न स्तनयुगश्रेणीगतं गौरवम् ॥ ३९ ॥ श्रीकृष्ण:-(स्वगतम् ) अहो अस्मत्सान्निध्यकामुका एता गोकुल- स्त्रियः शताधिकाः परिदृश्यन्ते । (प्रकाशम् ) सुनन्द कामिनीकदम्बकं कीहक दृश्यते पश्य । सुनन्दः-उल्लसन्मुखसरोजराजितं कुन्तलभ्रमरपुञ्जरञ्जितम् । भाति चारुकुचकोशशोभितं कामिनीकनकपद्मिनीवनम् ॥४०॥ श्रीकृष्ण:-जङ्गमं पद्मिनीवनमिति वक्तव्यम् । सुनन्दः-एवमेव । ( स्वगतम् ) अतः परमत्रावस्थानमनुचितम् । (प्रकाशम् ) श्रीकृष्ण गम्यते। अन्यथा वृद्धौ पितरौ रात्रौ कुत्र गत इति मां विना चिन्ताक्रान्तौ भवेताम् । श्रीकृष्णः-(सस्मितम् ) गम्यताम् । (ततः प्रस्थिते तस्मिनाकाशे प्रविशतो नारदतुम्बरू) तुम्बर:-महामुने कथं पुनः पुनरत्रागम्यते । नारदः-श्रीगोविन्दमुखारविन्दजमरुत्सौगन्ध्यसंवर्धिना पीयूषादपि पेशलेन मुरलीगीतस्वनेनामुना । स्वर्लोकस्थितयोऽप्यमूर्युवतयोऽप्येता व्रजेऽवस्थिता धृत्वा कर्णपुटे यदीयगुरुतां कृत्यं किमातन्वते ॥४१॥ भवता कुतः समागम्यते ।

पञ्चमोऽङ्कः। तुम्बरु --अस्य भगवतश्चतुर्दशभुवनरचनाकौतुकावल्यवलोकन- कामुकेन मया सप्तसु पातालेषु गतम्, तत्र चतुर्दशसुरसदनादप्यभिनव- रचनावलोकनादानन्दमनुभूय ततोऽप्यधस्ताद्गतम्, तत्र चतुर्दशभुवन- भारविधारकफणिकुलचक्रवतिफणिमण्डलमणिगणप्रभया निरस्तसमस्त- सन्तमसे यदनुभूतं तदुच्यते । गोपीपतेर्विततवेणुरवं निशम्य शेषो निमज्य सहसा सुखसिन्धुमध्ये । तत्रोच्छलद्विपुलवीचिषु तच्छिरस्था पातालपक्तिरखिलापि च संपपात ॥ ४२ ॥ नारदः--अहो त्रिभुवनसुखहेतुभूतं भगवतो गीतम् । तुम्बरु:--महामुने कथमत्रैवाकाशे निगूढ इव तिष्ठसि । नागच्छसि भगवन्तं नमस्कतुम् । नारदः-अस्मन्नमस्कारस्यावसरो न विद्यते । पश्य ब्रजसुन्दरीणां वदनेषु च लोचनेषु चापि स्तनकोशेषु च लोलदृष्टिरेषः। परितः परिवेष्टितः प्रियाभि- भगवान् सुधृतेन्दिराक्रियाभिः ॥ ४३ ॥ तुम्बरु:-अहो एकेनैव कथमेताः सकलगोकुलवासिन्यः कामिन्यो वशीक्रियन्ते। नारदः केवलमेता एव ? । पश्य पश्य (हत्याकाश एवं प्रदेशान्तरे हस्तेन प्रदर्शयन् ) निशम्यैतद्गीतं सुरपतिरथोऽश्वाच चलितो विमानश्रेणीभिः सपदि वशमेत्येह तरसा। समालोक्यैवामुं कमलनयनं स्वर्गललना लभन्तेऽमूः सर्वाः सपदि परमानन्दविषयम् ॥ ४४ ॥ -

१२
मनोऽनुरजननाटके-
तुम्बरु:-( साश्चर्यम् ) कथमेता निकटवर्तिनोऽप्यस्मान पश्यन्ति ।
नारदः-अहमत्र मन्ये ।
स्वर्लोकसौख्याभिरुचिं विहाय
मनः स्वमेकाग्रमथो विधाय
स्वर्गाङ्गनाभिनयनारविन्दैः
संपूज्यते संप्रति गोपिनाथः ॥ ४५ ॥
तदेता अस्य लावण्यसिन्धोः सान्निध्यसौख्यं गोपाङ्गनाभिरनुभूयमानं
कामयन्ते ।
तुम्बरु:-अहो भाग्यं गोपागनानाम्, यतो यद्देवाङ्गनाभिर्न लभ्यते
तदेताभिर्भुज्यते ।
नारदः-कियवर्णनीयं भाग्यम् । पश्य,
यत्प्रीतये शतमुखप्रमुखामराणां
नाद्यापि कार्यसफलो भवति प्रयत्नः।
सोऽयं स्वयं ब्रजविलासिनिवासिनीना-
मानन्दनार्थमुत सजनता तनोति ॥ ४६ ॥
तथाहि, वेगेनाध्वनि धावनश्रमजुषामेणीशा श्रीमता
रूपेनैव तु केवलेन कुरुते विश्रान्तिमात्यन्तिकी।
स्वीकुर्यादयमत्र नः किमु निराकुर्यादितीमं मन:-
सन्देहं च पराकरोति चपलैरालोकितैः श्रीपतिः ॥ ४७ ॥
तुम्बरु:-अहो विचित्रम्।
गोपाङ्गनानां च सुराङ्गनाना-
मसंख्यचतुर्भमरावलीयम् ।
आनन्दमाविन्दति सावकाश-
मेकत्र गोविन्दमुखारविन्दे ॥४८॥

१३ पञ्चमोऽका। अथवा, एतत्पङ्कजमित्यनेककविभिर्वक्त्रं समुत्प्रेक्षित सौन्दर्यस्य तु सिन्धुरेव तदिदं प्रत्यक्षमुवीक्ष्यते । यत्रामूर्वनदेवताब्रजवधूस्वर्गाङ्गना दृश्यतां सर्वा एव विसर्गवृत्तिशफरीवृत्तं समातन्वते ॥ ४९ ॥ ( तावत्प्रविशति सर्वासां पृष्ठतो राधा, परितोजनाभिरावेष्टित श्रीकृष्णं दृष्ट्वा) राधा-(स्वगतं सोच्छवासम् ) चन्द्रः शात्रवमाततान कुसुमैर्बाणत्वमाविष्कृतं पङ्कः कुकुमकेसरस्य च मरुद्धालाहलं केवलम् । एतावन्ति दिनानि कञ्जनयनं श्रीकृष्णमेनं विना कालः स्वल्पतमोऽपि कल्पतुलनामेवाललम्बे मम ॥५०॥ अहो कष्टमधुनापि । आकारिताहमेकेन वेणुगीतेन केवलम् । मध्य एताः समागत्य वैरिकृत्यं वितन्वते ॥५१॥ आश्चर्यम्, चेतः कुटिलमेतासां दशश्च कुटिलाः स्फुटम् । तेन ताभिहषीकेशं वशीकुर्वन्त्यमूः कथम ॥ ५२ ॥ यद्वा एतेनैवातिधूर्तेन वयमिव एता अपि संकेतपूर्वमाकारिता भविष्यन्ति । अत एवायमेतास्वनुरागपूर्वकं व्यवहरति । तथाहि, काश्चिन्नन्दयति स्मितेन लघुना भ्र मण्डलोजृम्भितै- रेवान्याः कुचकोशयोनिजहशोलौंल्येन चोन्माद्यति । किं चायं किमपि च्छलं विरचयन् गच्छन् समीपे शनैः कस्याश्चिद्वसनाचलं चपलयन रोमाश्चमेवाचति ।।५।। तदधुना किं कर्तव्यम् ( विमृश्य स्वगतम् ) चेतः स्वकीयचपलत्वमपोह्य दुरं स्थैर्य दधातु सरसीरहलोचनेऽस्मिन् । सोऽयं स्वतीव चपलस्त्विदमश्चतीह - मनोऽनुरञ्जननाटके. नैव स्थिरस्य चपलस्य च सख्यमस्ति ॥५४॥ अतः परावृत्य गन्तव्यम् । (तदप्यशक्यं मरवा) गेहं नैव सुखाय नापि च सुहृद्वर्गोऽस्ति चित्तानुगो नैवैतौ चरणौ च संप्रति परावृत्ति विधातुं क्षमौ । व्यालीभिहरिचन्दनं तु परितः संवेष्टितं किं मयि व्यर्थैव प्रतिकूलतात्र भवता धातः समातन्यते ॥ ५५ ॥ ( इति तत्रैवोपविष्टायां राधायां सद्विदिस्वा) श्रीभगवान्-(स्वगतम्) किमत्र कर्तव्यं यदि राधायाः समाधानाय गम्यत एतासामाान्तकी खिन्नता प्रादुर्भवेत् । यदि न गम्यते जलज, नयना जीवनमेव जह्यात् । तदुभयतः संकटे सकलजनसिद्धं समकाल- सान्निध्यमेव शरणम् । (इति सर्वाः प्रियतमा असंत्यज्यैव तस्याः समीपमुप. गच्छन् दूरतस्तां दृष्ट्वा ) अहो मां विना संबिभ्रती करतलेन कपोलमेकं नेत्राम्बुजे च दधती गलदश्रुबिन्दून् । भूयश्च निश्वसितमेव समुत्सृजन्ती राधा दधाति बत खेदमतीव चित्ते ॥५६॥ (ततो राधा विकसितसरसिजसशप्रसन्नवदनं मदनविमोहन वपुषः समीपे समागतं समवलोक्य) राधा-(स्वगतम्) जहिहि जहिहि सद्यश्चित्त चिन्ताभितापं नयनकमलयुग्म स्वीकुरुष्व प्रमोदम् । उदयति मधुशत्रोर्वक्त्रराकाशशाङ्कः सपदि सकलशोकध्वान्तविध्वंसनाय ॥ ५७ ॥ श्रीकृष्ण:-(अधोवदनमधोहिं चावास्थिताया व मुखकमलमुखमस्य)

६५
पञ्चमोऽङ्कः ।
त्वामेव कल्पवृक्षस्य मूले जलरहेक्षणे चिरं प्रतीक्षमाणस्य किमुपेक्षा
युज्यते ( हस्ते धृत्वा ।
उत्तिष्ठ वामनयने कुरुष्व वचनं मम ।
गच्छ वः कल्पवृक्षस्य मूले विमलमारुते ॥ ५८ ॥
राधा--(सक्रोधम् ) गच्छ त्वमेव रमणीयतमे प्रदेशे।
तत्रापि मम कथय किम्वस्ति विशेषकार्यम् ।। ५९ ॥
श्रीकृष्ण:-राधे त्वां विना न गमिष्यामि ।
राधा-(सव्यङ्ग्यम् ) एकां परित्यज्य सरोजनेत्र
बहीर्भज त्वमसि नीतिषु संप्रवीणः ॥ ६० ॥
श्रीकृष्ण:--सत्यं प्रधानस्यानुरोधेन त्यज्यन्ते बहवो गुणाः ।
मम प्रधानभूता त्वं गुणीभूताः परा मताः ॥ ६१ ॥
किंच, बह्वीषु गोपकन्यासु वल्लभासि त्वमेव मे ।
सर्वास्वपि च तारासु शशाङ्कस्येव रोहिणी ॥ ६२ ॥
किंतु बहुजनसाध्यरासक्रीडाकौतुके कामुकस्याभिप्रेतं साधयितुं
त्वमर्हसीति कथमेतस्मिन् समागते गोपीमण्डलेऽस्मिन् समये स्थीयते ।
नारद:-तुम्बरो जानासि ।
राधा समाधानविधिं मुरारे-
नैवात्र जानन्ति सरोजनेत्राः।
एतस्य वासामनुरञ्जनानि
लीलाविलासानि च सा न वेत्ति ॥ ६३ ॥
( उपसप्यांकाशे कणं दवा ) तुम्बरो ! अन्विष्यतां कोऽयं ध्वनिः ।
तुम्बरु:--( उपरि गत्वा पुनरावृत्य )
श्रीगोविन्दप्रियं कर्तुं सुराधीशस्याज्ञया भृशम् ।
दिवि देवैश्च सुदिव्यः कृतोऽयं दुन्दुभिध्वनिः ॥ ६४ ॥

- मनोऽनुरजननाटके- नारदः-किमुद्दिष्टम। तुम्बरु:-श्रूयताम्। सद्यः समस्तसुरसौख्यनिदानभूताः स्वर्वायवः सुरभयः सपदि प्रयान्तु । पुष्पाणि नन्दनवनाहनवो नयन्तु श्रीनन्दनन्दनमनःपरितोषणाय ॥ ६५ ॥ तदेवं तदधुनात्र फलितं दृश्यते । परंतु, नास्य स्वभावसुरभिष्वपि मारुतेषु दिव्येषु नैव कुसुमेषु न तद्वनेषु चित्तं समुल्लसति संप्रति किन्त्वमीषा गौराङ्गवल्गुषु विलोलविलोकितेषु ॥ ६६ ।। तुम्बरु:-महामुने पश्य पश्य । कर्णिकेव कमलस्य मध्यतोऽ- वस्थितो जलजवल्गुलोचनः । यत्र बद्धपरिमण्डलाकृति- ओजते ब्रजवधूकदम्बकम् ॥ ६७ ॥ नारदः-परंतु, परितः श्रीहरिमण्डलस्थिता युवतीनां शतशोऽपि पजूक्तयः । इदमाश्चर्यमथापि माधवे न विदन्ति व्यवधानमण्वपि ॥ ६८ ॥ अपिच, कोटिकन्दर्पलावण्यो मनोनयनरञ्जनः । पश्यत्यभिमुखो भूत्वा कृत्ला युगपदङ्गनाः ॥ ६९ ॥ सुम्बर:-अथास्य रासक्रीडाकौतुकमवलोक्यताम् ।

पञ्चमोऽङ्कः। १७ नवाम्बुधरसुन्दरः कनकपीतपूर्णाम्बरः सरोजसमलोचनः श्रमसमुहनिर्मोचनः । स एष परितः स्थितो ब्रजविलासिनीभिः समं मनोज्ञमभिनृत्यति त्रिभुवनाभिरम्याकृतिः ॥ ७० ॥ किंच, गायन्ति गायति तथा हसिते हसन्ति नृत्यन्ति नृत्यति हरौ सरसीरुहाक्षाः । जानाम्यनेन सरसीरुहलोचनेन तादात्म्यमेव गमिता दयिताः स्वकीयम् ॥ ७१ ॥ ( गोपीगीते कर्ण स्था) महामुने आश्चर्यम् , एतासां गीतचातुर्यमतिमाधुर्यसंकुलम् । परमानन्दरूपस्य गोविन्दस्य च यत्प्रियम् ॥ ७२ ॥ नैतावता गीतोत्कर्षो विज्ञायते । यतः, नश्वरमतितालं तनोति गीतं रमापतिप्रीतिम् । एतच्चरणसरोजे यदि हृदि भक्तिः समुल्लति ॥ ७३ ॥ नारदः-किंतु, परिशीलितसंगीतदर्शनाभ्यां चतुर्दशभुवनेष्वप्रति- हतगमानाभ्यामावाभ्यां न ज्ञातपूर्वमेतादृशं गीतम् । तुम्बरु:-कथमनुपासितचरणानामनधीतसंगीसदर्शनानां गोपाङ्ग- नानामेतत्संभाव्यते। नारदः-अत्र भवति श्रीभगवतः परिचर्यैव कायवाङ्मनःपूर्वक- माचरिता विविधगुणप्रसवहेतुः । पश्य, अनुपासितगुरुचरणा असदाचरणा अपीह गोपीशाः । सकृदपि चित्ते धृत्वा भवन्ति भव्या गुणप्रामैः ॥७४ ॥ आस्वामियं प्रसक्तानुप्नसक्तिः, नृत्यमप्यमूषां भवत्यपूर्वम् । तथाहि, १३

मनोऽनुरञ्जननाटके
चपलकुन्तलबन्धविगलत्कुसुमवृन्दमतिशयपरिमलमिलदलिकुलकृत-
व्याकुलविलोलविलोचनमतिचञ्चलहेमकुण्डलकिरणचञ्चलतयातिमनोह-
रं कटितटविराजन्मणिमयकाश्चनकाञ्चीगुणनिकटनियोजितकिङ्किणीगु.
णकरचरणविभूषणझणत्कारनिनादेन च चित्ते चमत्कारकारणमेतं नृत्यम् ।
नृत्ये समुल्लसति बल्लववल्लभानां
गोविन्दसन्निधिसुखेन समुद्धतानाम् ।
दृष्ट्वोर्वशी किल वशीकृतशक्रचिन्ता
नृत्याभिमानमतुलं शिथिलं करोति ॥ ७५ ॥
तुम्बरो, धन्या एताः । पश्य,
पश्यन्ति वामनयनाः कमनीयमेनं
नृत्यन्ति चाभिमुखमस्य मनोरमस्य ।
नन्दन्ति कृष्णकृतमजुविलोकनेन
विदन्ति नान्यदथ किंचन पूतनारेः ॥ ७६ ॥
तुम्बरु:--पश्य पश्य कमलनयनोऽयम,
अत्यन्तकमनीयं हि नृत्यन्तमबलाजनम् ।
अवलोक्य रसाविष्टो नैव संप्रति नृत्यति ।। ७७ ॥
कणे किंचन गूढमेव दितुं प्रक्रम्य रम्याकृति
कामुत्फुल्लकपोलगोलफलके चुम्बत्यकस्मादसौ ।
तत्कालं कुटिल वाऽनृजुमुखा स्मेराननाम्भोरुहं
सा संतर्जयते दृशैव तु भृशं पद्मालयेयं रुषा ॥ ७८ ॥
अषि यान्यस्याः,
नृत्यन्त्या ब्रजवासिसुन्दरशः कर्णावतंसीकृत-
प्रोन्मीलकमलोद्गतेन रजसा पर्याकुलं लोचनम् ।
उन्मील्य स्वयमेव पाणिकमलद्वन्द्वेन घृन्दावन-
स्वामी नन्दति स्वक्त्रसुरभिश्वासानिलैः शीतलैः ॥७९॥

पञ्चमोऽङ्कः । . .६६ किं चान्यस्याः, हारस्याथ परिच्युतस्य सुदृशो नृत्येऽमुना बन्धन- व्याजेनैव कराम्बुजं कुचयुगे व्यापारमापादितम । सद्यः साप्यपसार्य कञ्जनयनं रोमाञ्चिता पाणिना माल्यैरेव निहन्ति पद्मवदना वक्षस्थलस्योपरि ॥८॥ नारदः-(गोपीवावर्तनपरासु मुहुर्मुहुरावर्तनपरमवलोक्य हरिम् )। गोपीनामङ्गभूतानामेतासामनुरोधतः । भजते मुहुरावत्ति प्रधानश्चापि माधवः ॥ ८१ ॥ तुम्बरु:--अन्यस्याः सरसिजनयनायाः स्वीयसान्निध्यसौख्य- प्रमुदितहृदयाया नर्तनेऽनुव्रतायाः। सपदि गलितबन्धं केशपाशं रमेशो निजकरकमलाभ्यामेष बध्नाति यत्नात् ॥ ८२ ॥ नारदः-आश्चर्यम्, यद्वशीकरणकामुका रमा नृत्तमाभवति तत्र कर्हि चित् । सोऽयमद्य तरुणीभिरञ्जसा सद्य एव तु वशीकृतो हरिः ॥ ८ ॥ तुम्बरु: --अन्यस्याः, प्रीत्या विलोक्य तु विलोलविलोचनाया व्यालोलमेष कुचमण्डलमम्बुजाक्षः। वक्षस्थकौस्तुभमणिं प्रविधाय पृष्ठे नृत्यक्षणेऽपि परिरम्भणमातनोति ॥८४ ॥ कस्याश्चिदंसे भुजमादधाति दधाति कांचिचिबुके करेण ।

१०० मनोऽनुरञ्जननाटके- नृत्यश्रमस्वेदकणावभासि- मुखाम्बुजे चुम्बति काचिदेकाम ॥८५ ॥ नारदः-सोऽयमेतावन्तं कालं प्रत्येकं तल्लीलाविलासैर्व्यवधानम- प्रदर्शयन्नेव गोपीजनानुरञ्जनं कृतवान् । इदानी तु सर्वाभिमुख्यमवलम्ब्य स एष मध्ये भाति स्वयं विकचपङ्कजकर्णिकावत् । गोपीषु पद्मदलवत्परितः स्थितासु प्रत्येकशोऽपि च परिस्फुरति प्रियासु ॥ ८६ ॥ तुम्बर:-मध्ये स्थितः सकलगोकुलकामिनीनां वक्त्राणि पश्यति न तृप्यति तावतासौ। प्रत्येकशो यदुपतिः परितः स्थिताना पार्श्वस्थितिं च समुदञ्चति मूर्तिभेदैः ॥८७ । भुजयुगलगृहीतकण्ठपार्श्व- द्वयललनावदनावलोकनाय । निभृतमुभयतोऽपि भूरि वारं चलयति वक्त्रसरोरुहं मुरारिः ॥ ८८ ॥ अपिच, उभयपार्श्वगतस्य रमापते- मृदुविलोलकपोलयुगस्पृशा। निजकपोलयुगेन मृगेक्षणा पुलकिता तु न विन्दति विच्युतिम् ॥ ८९ ॥ ( अय भगवानेवं नानाविधमदनलीलाविलासैवजविलसिनीमनुरम्भयन्सी रात्रिं गमयन् प्राचीमवलोक्य गोपीः प्रति ) किंच, इतः परं ग्रन्थद्वयेऽप्येकपत्रपरिमितो ग्रन्थस्त्रुटितः ।

पञ्चमोऽङ्कः।
प्राचीदिगभ्युदितमञ्चति शोणिमानं
विच्छायातमितवती खलु चन्द्ररेखा।
( तासामुभयतो व्याकुलतामवलोक्य )
सूर्योऽभ्युदेष्यति गमिष्यति शीघ्रमेव
रात्रिः समेष्यति लसिध्यति चन्द्रिकैषा ॥ ९०॥
युष्मत्कदम्बकमिहैष्यति वेणुगीते
रासोत्सवोऽपि च भविष्यति सोऽयमेव ॥ ९१ ॥
(इति हर्षविषादाभ्यां प्रस्थितासु गोपीपु नारदतुम्बरू सहामरवधूभिः समु-
पसर्य नमस्कृत्य तिष्ठतः, भगवानप्येतयोः स्वसंदर्शनानुरागं जाननपि सस्मितम् )
श्रीभगवान् -कुत्रागम्यते ?
नारदः-वाराहवामनमुखा बहवोऽवताराः
सन्त्येव संमृतिमहार्णवकर्णधाराः ।
श्रीनन्दनन्दन तवैव पदारविन्द-
संबन्धमिच्छति मनस्तु कुतोऽपि हेतोः ॥ ९२ ॥
अतिमहान्तोऽप्येवं प्रार्थयन्ति,
को बा जपः किमु तपः कतमच दानं
किं तीर्थपानमथ कश्च सुरोऽर्चनीयः ।
यन्नन्दनन्दननिरञ्जनसौख्यसिन्धु-
पादारविन्दमिह लोचनगोचरः स्यात् ॥ ९३ ॥
तस्मानामाभिरप्येतत्संदर्शनानन्दकामनयात्रैव स्थीयते।
श्रीभगवान्--अनुग्रह एवास्ति । परंतु त्रिभुवनवर्तिजनानां
विविधवासनाभिरभिभूयमानमानसाना तत्तत्कर्मभिर्निरुद्धास्वस्मत्पदवी-
ध्वभिधीयमाननामभिरुपकारायास्मद्गुणकर्मनामसंकीर्तनसंप्रदायः प्रव.
य॑ताम्।
नारदः--यदिदं तव कारुण्यं यदुवर यद्वा विभाति लावण्यम् ।
न हि दिवि भुबि पाताले ऽभूद्भवति भविष्यति च काले ॥१४॥

. मनोऽनुरजगनाटके- परंतु कारुण्यलावण्ययोर्महाविरोधः । । भगवान् कथं कथम् । - नारदः-श्रूयताम् । कारुण्यमेतदखिलेऽपि जने त्वदीयं सद्योऽपसारयति यष्टिरिवोद्यतास्मान् । लावण्यमद्भुतमिदं तु मनोरमं ते बध्नाति रज्जुरिव पादसरोजमूले ॥ ९५ ॥ श्रीभगवान्— सस्मितम् ) अस्मत्संदर्शनानन्दः समुल्लसति चेतसि । ॥ ९६॥ यतास्वपि देवाङ्गनास्वेतदेव वक्तव्यम् । नारद:--स्वामिवचनसमन्वितं कारुण्यमेव बलीयोऽत आज्ञा । ( इति नमस्कृत्य निष्क्रान्ताः सर्वे, भगवानपि दोहनसमयमनुसंधाय निष्क्रान्तः) अस्त्यनन्तकविना विनिर्मितं- श्रीपतेर्गुणगणैरलंकृतम्। साधुसंसदि मनोऽनुरञ्जनं नाम नाटकमिदं प्रवर्त्तताम् ॥ ९७ ॥ शास्त्राणां परिशीलनैभृशमहो शिष्येषु चाध्यापनै- ख्यात्युद्देशकृतैर्बभूव तु महाकृत्याभिमानं मनः । पुण्यैरेव तु संप्रति प्रतिपदं गोविन्दतत्तद्गुण-, श्लाघ्यं सौख्यपयोधिवीचिनिचयेष्वानन्दमाविन्दति ॥९॥ साहित्यसंगीतकलास्वभिज्ञो जनः प्रमोदेन तथा तु किंचित् ।

पञ्चमोऽकः। १०३ तथापि गोविन्दकथारसज्ञा यथा कथंचित्सुखिनो भवन्तु ॥ ९९ ॥ केऽपि प्रशंसन्तु हसन्तु केचित न मे प्रसादो न च मे विषादः । परंतु गोविन्दपदारविन्दप्रियाः प्रमोदन्तु निबधनेऽस्मिन् ॥ १०० ॥ इत्येषा वाङ्मयी पूजा श्रीमगोपालपादयोः । अर्पिता तेन मे देवः प्रीयतां भगवानसौ॥१०१॥ इति श्रीमदापदेवसूनुनानन्तदेवेन विरचिते मनोऽनुरअनाभिधाने हरिभक्तिनाटके पञ्चमोऽङ्कः समाप्तः । समाप्तमिदं नाटकम् । Hoper न

No text on this page.

अशुद्धिशोधनम् । अशुद्धम् । शुद्धम् । पाक्तिः । पृष्टम् । स्तेषां तासां दीर्षि ३ अशुद्धम् । शुद्धम् । पक्तिः । पृष्टम् । कुलं १३ ५ दीधि ३ ६ नव विमख विमुख २२ १३ नध्यता ध्यन्ता रोऽय रोऽयं ३ मूदनि ततद मूनि १४ ६७ ६८ दस्ति २२. देति ध्वा सानि न्वित माना- माना: २४ - ७५ सांनि न्वित दुष्प २८ ६ णमिव प्रपि न्धिन णानिव प्रापि न्धिविन मना प्यमे यमन्वि मप्नाः प्ययमे वि यान्तु ३० २२ यातु ३३ तवा गच्छ गछ ३२ मुच्छ ३८ ८५ वह मरं मारं नत्यपि वति नैव ति वत्ति र्थतोऽध १७ य चाध यो द्व त्यपि वर्ति णैव बसति १५ वृत्ति यता २ पनैः यद्व २ यात ष्टा नयो नन्यो १ ८ इत्यशुद्धिशोधनपत्रम् ।

No text on this page.

मनोनुरञ्जननाटकम्

Author
Shaastrii Kulajenaananta
Title
Manonuranj-jananaatakam
File name
मनोनुरञ्जननाटकम्
Text
OCR done
Citation
1938
Published
2005/07/25
Publisher
D Supriitendenta, Printinga End-da Steshanarii, Yunaaiiteda Provinsisa, Alaahabaad
Language
Sanskrit
Pages
117
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477300
Barcode
99999990173143.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
QtP4zh5lwA9
Download PDF

मनोनुरञ्जननाटकम्