Bharatiya Vidya Bhavan Library, Mumbai

The Vagbhatalamkara Of Vagbhata

Javaji,tukaram · 2012/08

PDF Proofread

Front matter

19959
KAVYAMÂLÂ, 48.
S N...
BULVA
ho
THE
LIBRARY
VÄGBHATÂLAMKÂRA
or
VÂGBHATA
WITH THE COMMENTARY OF SIMHADEVAGANI,
EDITED BY
PANDIT SIVADATTA
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSINATH PANDURANG PARAB
PRINTED AND PUBLISHED
BY
TUKÂRÂM JAVAJÎ,
PROPRIETOP OF JAVAJU DÂvais NIRXATA SAGAR" PRESS
BOMBAY
1895
Price s Anna

(Irgetroud a crow979 to od XII n 1807.) i All rights started in the publisher ) 19957 NIBYA काव्यमाला. ४८. BHA BE SNimim- श्रीवाग्भटप्रणीतो BRARY वाग्भटालंकारः। सिंहदेवगणिविरचितया टीकया समेतः। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरवोपापाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधित.। SULA VAGISIM सच मुम्बय्यां निर्णयसागरास्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १८९५ (अस्य अन्धस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) 000- मूल्यं रूप्यकार्धः।

VIDYA काव्यमाला S.No......... LIBRARY श्रीवाग्भटप्रणीतः वाग्भटालंकारः। सिंहदेवगणिविरचितया टीकया समेतः । प्रथमः परिच्छेदः। श्रीवर्धमानजिनपतिरनन्तविज्ञानसततिर्जयति । यद्गी प्रदीपफलिमा कलिकालतमः शम नयति ॥ १. अस्यैव वाग्भटस्य 'याहड' इति प्राकृत नामान्तरमस्ति. यतोऽत्रैव प्रन्थे- 'यभहसुत्तिसपुडमुत्तिअमणिणो पहासमूह व्च । सिरियाहह ति तणो आसि युहो तस्स सोमस्स ॥' [ब्रह्माण्डशुक्तिसपुटमौक्तिामणे प्रभासमूह इव । श्रीयाहह इति तनय आसी. दुधस्तस्य सोमस्य ॥] इति सकरालकारोदाहरणस्य तस्य सोमस्य वाहडनाना तनय आसीत्। भूितस्य सोमस्य । ब्रह्माण्डशुक्तिसपुटमौक्तिकमणेः । क इव । प्रभासमूह इव । विविशि- टस्तनयः । युधो विद्वान् । एतद्वन्यकारेण स्वनामसहित सकरालारस्योदाहरण भणि- तम्' इति जिनवर्धनसूरिव्याख्यातः पितुः 'सोम' इति, स्वस्य 'वाह' इति नाम प्रतीयते. 'इदानीं मन्यसार इदमलमारकालस्यापनाय वाग्भटाभिधस्य महाकवेमहा- मान्यस्य तमाम गायबैकया निदर्शयति' इति सिंहदेवगणिव्याख्यातो महामवित्वं महामा- त्यस्त च. 'अणहिल्लपाटकपुरमवनिपतिः कर्णदेवनृपसूनुः । श्रीकलशनामधेय. परी च रमानि जगतीह ॥' इति समुघयालकारोदाहरणतो नगरी राजा चावर्णि. 'कर्णदेवनृपसूनुः श्रीजयसिंहः' इति सर्ने व्याख्यातारः. एव च 'अशास्ति याहडो नाम धनवान्धामिकाप्रणीः । गुरुपादान्प्रणम्याय च विज्ञापनामती ॥ आदिश्यतामतिमार्ण कृत्यं यत्र धन व्यये । प्रभुराहालये जैने द्रव्यस्य सफ्लो व्ययः । आदेशानन्तर तेनाका- यंत श्रीजिनालयः । हेमादिघवलस्तुहो दीप्यकुम्ममहामणिः । श्रीमाता वर्धमानस्थायीमर- द्विम्पमुत्तमम् । यत्तेजसा जिताश्चन्द्र....."कान्तमणिप्रमा: । दशके साटस. तती विक्रमातः । वत्सराणा व्यतिप्रान्ते श्रीमुनिचन्द्रसूरयः । आराधनाविधिश्रेष्ठ कृत्वा प्रायोपवेशनम् । शमपीसकोलगतास्ते निदिन ययु ॥ युग्मम् ॥ वरसो तत्र धेफेन पूर्ण धीदेररिभिः । श्रीवीरस्य प्रतिष्टां स याडोमारयन्मुदा ॥' इति प्रभा- चन्द्रमुनीन्दविरचितमाभाविकचरितो वाग्भटर सत्ता ११७९ मिमग्रसरे २ काव्यमाला। ग वाग्मटकीन्दरचिताशतिसूमागि किमपि विणोमि । मुग्धजनपोपहेतोः स्वस्य स्मृतिजननी च ॥ यह शिष्टाः कचिदिष्टे यस्तुनि प्रवर्तमानाः अमीटदेवतानमस्कारपूर्वकमेर प्रवर्तन्ते' इति शिशसमयपरिपाटनाय, तपा 'योति यहुविनानि भवन्ति महतामपि । अप्रेयसि मत्तानो कापि यान्ति विनायकाः ॥' इति वचनान्मा मुदस्य शास्त्रस्य काव्यानि स- म्यग्ज्ञानोपदेशकल्या श्रेयोभूताय फोऽपि विघ्न इति विघ्नोपशान्तये च शास्त्रारम्भेऽमीटदे- बतानमस्कार महाकविः धीवाग्मटः प्रकटयति- श्रियं दिशतु को देवः श्रीनाभेयनिनः सदा । मोक्षमार्ग सतां ब्रूते यदागमपदावली ॥ १ ॥ (1123 A. D.) स्फुटं पतीयते. 'अणहिल्लपुरं प्राप माप: प्राप्तजयोदयः । महो. सवप्रवेशस्य गजारूटसुरेन्द्रवत् । वाग्भटस्य विहारं स ददृशे दृप्रसायनम् । अन्येद्यु- ग्भटामात्यं धर्मात्यन्तिकवासनः । अपृच्छदाईताधारोपदेष्टारं गुरुं नृपः । श्रीमद्वा. ग्भटदेवोऽपि जीर्णोद्धारमकारयत् । शिखीन्दुरवि(१२१३)वर्षे च ध्वजारोपं व्यधा- पयत् ॥' इत्यप्रिमप्राभाविकचरित्रतो वाग्मटस्य सत्ता १२१३ विक्रमसंवत्सरे (1157 A.D.) प्रतीयते. वणितस्य जयसिंहमहीपतेः सत्तापि १०९३-११४३ निस्तान्दैष्विति हेमाचार्यप्रणीत ह्याश्रयकाव्यस्य 'इण्डियन् आण्टिफेरी'चतुर्थपुस्तफस्यमाषान्तरतो. ऽवगम्यते. जुलियस्-एग्जिलि (Julius Eggeling, Ph. D.)-पण्डितस्व Catalogue of Sanskrit Nauuscripts in the Library of thc India Office' नानि सूचीप पाग्भटरलंकारप्रकरणे 'जयसिइनरपतेः सत्ता १०९३-११५४ लिस्तान्देषु' इति लेस्सनपण्डितोक्तिमनुवदति. "वारभटालंकारकर्ता वाग्मटो नेमिकुमारस्य पुत्रः (Vagbhata, son of Nernikumarn and Mahadevi or Wasundhari) इति वाग्मटालंकारप्रकरणे वदन् जुलियस्-एजि. लिङ्ग पण्डितस्तु प्रागुपदशितसकरोदाहरणगायानवलोकनभ्रान्त एव. नेमिकुमारस्य पुत्रः काव्यानुशासनप्रणेता याग्भटस्वस्माद्वाग्भटादन्य एन. यतः काव्यानुशासनग्रन्थे गुणप्रकरणे 'इति दण्डि-वामन वाग्भटादिप्रणीता दश गुणाः । वयं तु माधुर्योजःप्र. सादलक्षणांक्षीनेव गुणान्मन्यामहे । शेपास्तेधेवान्तर्भवन्ति इति लेततः स्फुटमेव वाग्भटा- लैकारकाव्यानुशासनप्रणेत्रो दः प्रतीयते. अप्पासंग्रह अष्टाङ्गहृदयसंहितामणेता पाग्भटरतु सिंहगुप्तसूनुः नेमिनिर्वाणकर्तुर्वाग्भटस्य निर्णयस्तन्यभूमिकातोऽवसेयः. २. अस्य वाग्भटालंकारस्य-(१) जिनवर्धनसूरिविरचिता, (२) सिंहदेवगणिप्रणीता, (३) सैमसगणिरचिता, (४) अनन्तभमुतगणेशरचिता, १५) राजहंसोपायरिता, इति पर व्याख्यास्तु समुपलब्धाः. तत्र जिनवर्धनस्रािवितव्याख्यासहितपुस्तकं जय- पुरराजगुरुभत्रिीनारायणपर्वणीकरः, सिंहदेवगपिप्रणीतव्याश्यासहितपुस्तकं (क-चिहित) रामनारायणस्नुमोहनलालैः, (ख-चिहित) उक्तटोकायुक्त पुस्तकमेव पण्डितवरज्येष्टारामश- मभिः प्रहितमिति तेषामुपकार महान्तमाः १ परिच्छेदः] वाग्भटालंकारः। ३ - त्रियमिति । श्रीनाभेयजिनो वः धियं दिशतु इति संटर्घटना । नाभरपत्य नामेयः । इतो- ऽनिनः' इत्येयणाश्रिया युक्तो नाभेयः श्रीनामेयः । 'मयूरव्यंसकादयः' इति मध्यमपदलोपी समासः । श्रीनाभेयवासी जिनथेति कर्मधारयः । दीन्यति दिव्यकेवलहानत्रिया दीप्यत इति देवः । एतेन भगवतो ज्ञानातिशयः सूचर्याचक्रे । श्रीनाभेय इत्यत्र श्रिया अटमहा. प्रातिहार्यादिलक्ष्म्या युक्तत्वप्रतिपादनेन प्रभोः पूजातिशयः प्रत्यपादि । जयति रागद्वेषादि- रिपन्परामवतीति जिनः । अनेन परमेश्वरस्यापायापगमातिशयो ज्ञापितः । मोक्षमार्गमि- त्यादिनोत्तरान पुनः स्वामिनो वचनातिशयः ख्यापितः । एवं चत्वारोऽप्यतिशयाः प्र. शाप्यन्ते स्म । 'यत्तदोनित्यसबन्यः' इत्युक्तेः स इति गम्यते । ततश्च स श्रीनाभयजिनो वो युष्माक श्रिय कल्याणलक्ष्मी ददातिति भावः । स क इत्याह-यस्य भगवत भागम- पदानां सिद्धान्तवचनानामावली श्रेणिः सर्ता विदुषामुत्तमानां मोक्षस्य मार्ग सम्यप्रनत्र. याराधनरूपं व्रते प्रवीति । प्रकाशयतीत्यर्थः । अथान्यस्यापि कस्यचिदागमस्यागनस्य पदानि पादप्रतिविम्बानि तेषां परिदृष्टा सती सतो पन्थान प्रकटयतीत्युक्तिलेशः । तथा शास्त्रादी त्रिविधानो देवतानां स्तुतिः सभवति-समुचितायाः, इष्टायाः, समुचितेष्टायाश्चेति । तत्र समुचिताया देवतायाः स्तुतिर्यथा नीतिशास्त्रारम्भे राजादेः, कामशास्त्रारम्भे स्मरादैः । इष्टायाः स्तुतिर्यया रघुकाव्ये शिवगौर्योः । समुचितेष्टायाः स्तुतियथा श्रीयोगशास्त्रारम्भ महावीरयोगिनायस्येति । अत्र पुनः शास्त्रारम्भे श्रीनाभेयनमस्कारेणामीटदेवतास्तुति प्र- चक्रे वाग्भटः । अथदा त्रियोऽ2महापातिहार्यादिलक्ष्म्या इनः स्वामी श्रीनः । “त्रिभीक भये । भीयते इति भेयम् । 'भावे य एचातः' इति यः । भयमित्यर्थः । न विद्यते भेर्य ससारभ्रमोद्भवं मयं यस्य सोऽभेयः । जिनः श्रुतकेवल्यपि भग्यते, तस्यापि प्रायो रा. गादिजयात् । तन्निरासार्थममेयश्चासौ जिनवाभेयजिन इति । एवविधश्च सामान्यकैवल्यपि लभ्यते, तस्य भवभ्रमभयामावात् । तन्निराकरणार्थे श्रीनश्वासावभैयजिनश्च श्रीनामेयजिनः इति । एवंविधधाईव मवतीति सामान्येनाईतो नमस्कारः कृतो भवति ॥ यद्वा काव्यशास्त्रस्य सर्वेपामपि साधारणोपयोगिलाद्वैष्णवमतेनापि नमस्कारस्य लेशतो व्याख्या । यया-श्रीविष्णुपत्नी । नाभेरुत्पनलाब्रह्मापि नाभेयः कथ्यते । “विष्णोनाभि- स्थकमले विश्वकर्तुनिवासः' इति लोकोक्तेः । तथा चाहुः—'नाभिमपनमः-' इत्यादि सभामानि । जिनो विष्णुः । 'पीताम्बरो मार्जजिनी कुमोदकः' इति चिन्तामणिवचनात् । ततच श्रीध माभेयश्च श्रीनाभेयो ताभ्यामुपलक्षितो जिनः श्रीनाभेयजिनः स श्रिय दिशतु । पाशब्दोऽध्ययमवधारणे पूरणे वा । किविशिष्टः । उदेवः 'उरीश्वरः' इत्येकाक्षरनाममा- लावचनात्--3: शभुः स एव पूज्यलाद्देवो यस्य स तथा । तदुक्तम्-'ब्रह्माच्युताभ्य- चितपाइपनो न पूज्यते कि मनु गिरीशः' इति ॥ ननु नमस्तारस्य विघ्नविधाते कथं सामर्थम् । उच्यते-नमस्कारेण पुण्यमुपजायते, पुण्येन विनाः प्रतिहन्यन्त इति। यत्रापि च नमस्कारमन्तरेणापि निर्विवा शास्त्रपरिसमाप्ति- ईशते, तत्रापि मानसिक प्रणिधानरूपोऽय घटत एवति सालो नमस्कारव्यापारः । इति प्रथमपद्यार्थः॥ - ४ काव्यमाला किच--- 'महलं पाभिधेयं च संयन्धध प्रयोजनम् । चत्वारि फयनीयानि शास्त्रस्य धुरि धीमता ।' तत्र महसमभिहित नमस्कारवचनेन । अमिधेर्य चात्र शाले सम्यकाव्यस्वरूपम् । संयन्धवास्य वाच्यवाचकभावादिः । तथाहि-एतच्छालं वावरम्, सम्यकाव्यस्वरूपं वाच्यम् । उपायोपेयमावो वान संपन्यः । वचनरूपापमं हीदं शास्त्रमुपायः। तत्परिशान चौऐयमिति ॥ प्रयोजन त्वनन्तर शिष्याणां शास्त्रार्थपरिज्ञानम् । परम्परं तु सम्पकाविल. रब्धिस्पा कीतिप्रभृति । आचार्यस्य त्वनन्तरं प्रयोजन शिष्यानुप्रहः । परम्परं तु त. देव । ऐहिकमिदमुक्तम्, पारप्रकं तु परम्परप्रयोजनमुभषेपामपि निःश्रेयसावातिरिति । अतो यदुच्यते केनचित्-'नारब्धव्यमिदं शास्त्रमभिधेयादिरहितत्वाकाकदन्तपरीक्षा- वत्' इति, तन किंचित् , उक्तयुक्त्याभिधेयादिदर्शनात् । अमुमेवार्थ समर्थयितुं वक्ष्यमा- णार्थपरिच्छेदमामोद्देशगर्भ काव्यफलमाह- साधुशब्दार्थसंदर्भ गुणालंकारभूपितम् । स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥२॥ अत्र प्रस्तावादिभ्यः कर्ता गम्यते । ततः शिष्यः काव्यं कवेः कर्म काव्यम् । पति- राजान्ताधण्' इति यणि प्रत्यये साथः । कुर्वीत विदधीत । कस्यै । कीर्तये यासे । इति फलानिर्देशः । अत एव 'कुर्वीत' इत्यत्र फलवकर्तर्यात्मनेपदविधानम् । काव्यं किंविशि- एम् । साधुशब्दार्थसंदर्भ वक्ष्यमाणेनानर्थकत्वादिना दोषेण रहितः शब्दः साधुः । अर्थस्तु वक्ष्यमाणेन देशविरुद्धवादिना दोषेण विमुक्तः साधुर्भवति । ततश्च साधू निर्दोषौ शब्दार्थों यस्मिन्संदर्भ स साधुशब्दार्थः संदर्भो रचना यत्र तत्तथा । साधुशब्दार्थयोः संदर्भो यत्रेति विभई फुर्वन्ति । तत्र समासप्राप्तिरुत्सूत्रा ।। यद्वा-शब्दार्ययोः संदर्भः शब्दार्थसंदर्भ: साधुः शब्दार्थसंदर्भो यति विग्रहः कार्यः ॥ साधुशब्दार्थ-' इत्यनेन च शब्दार्षप्रतिपा- दको द्वितीयः परिच्छेदः सूचितः ॥ तथा--गुणा औदार्यादयः, अलंकाराय शान्दाधिन- वक्रोयत्यादयः, आर्थास्तु जात्युपमादयः, तैर्भूषितम् । अलंकृतमित्यर्थः । अनेन च तीयो गुणपरिच्छेदः, चतुर्थश्थालंकारपरिच्छेदः सूचितः । तथा-फुटाः कान्यानुकूरलेन प्र- कटा या रीतयो गोहीयाद्याः पदरचनाविशेषाः, रताप महारादयो वक्ष्यमाणाः, तैरुपेतम- न्वितम् । अनेन चतुर्थपरिच्छेदे रीविप्रतिपादन झापितम्, पश्चमय रसपरिच्छेदः सूचितः । प्रथमः पुनरय शिक्षापरिच्छेदः काव्यस्य धानेकगुणत्वेऽपि कोतरेव महणे प्राधान्यख्यापना- धम् । यावता हि कवित्वं धर्म, व्यवहारपरिभान, अशिवोपशमन, सहृदयानां चाहार्द करोति । इदमेव प काविल फान्तासमितमतं कान्तेव सरसतापादनेनाभिमुखीकृत्य 'रा- मादिवर्तितव्यं न रावणादिवत्' इत्युपदे च विधत्ते इति । तदुक्तं काव्यप्रकाश राजा- (नक]धीमम्मटकवीन्द्रेण-'काय यशसेऽर्थकृते व्यवहार विदे शिवतरक्षतये । सयापर- नियंतये कान्तासमिततयोपदेशयुजे ।' त्रिविधं हि शास्त्रम् । यथा-प्रभुसंमित शब्द १ परिच्छेदः] वाग्भटालंकारः। ५ प्रधानं वेदादि । सुहृत्संमितमर्थतात्पर्यवत्पुराणादि । कान्तासंमित चोक्तलक्षणं विशिष्टका. व्यादि । इति । एतद्विपरीतं काव्यं विपरीतफलमेव स्यादिति व्यतिरेकार्थः। अथ कवित्वस्योत्पत्तये सामग्रीमुपदिशग्नाह- प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् । भृशोत्पत्तिकृदम्यास इत्याद्यकविसंकथा ॥ ३ ॥ 'सर्वे हि वाक्य सावधारणमामनन्ति' इति न्यायात् प्रतिभैव तस्य काव्यस्य कारणं हेतुर्भवति । नवनवबोधप्रकारशालिनी बुद्धिः प्रतिभा। 'युद्धिर्नवनवोन्मेषशालिनी प्रतिभा मता' इति वचनात् । ननु यदि प्रतिभैव काव्योत्पत्तीज तदा व्युत्पत्तिः किं करोति । उ. च्यते-तस्य काव्यस्य प्रतिभया जन्यमानस्य व्युत्पत्तिर्भूपणमलकारी भवतीत्यर्थः । अ. भ्यासस्तु पुनःपुनस्तदासेवनलक्षणस्तस्य काव्यस भृशमुत्पत्तिं करोति भृशोत्पत्तिकृद्ध- वति । अभ्यसने हि सतः स्थैर्यादेर्योगाग्निविलम्बकाव्योत्पत्तेः । एवं प्रतिभाव्युत्पत्त्यभ्या- सानां त्रयाणामपि स्वस्वविषयः । पार्थक्येन प्रदर्शितः । इति पूर्वोक्तप्रकारा पुराणकवीना संकथोपदेशः॥ अथ अन्धकारः प्रतिभा व्याख्यातुमाह--- प्रसन्नपदनव्यार्थयुक्त्युबोधविधायिनी । स्फुरन्ती सत्कवेबुद्धिः प्रतिभा सर्वतोमुखी ॥ ४ ॥ प्रसन्नान्यलिटानि यानि पदानि । तथा--नव्याभिनवा यार्थयुक्तिः । ततः-प्रसन्नप. दानि च नव्यार्थयुक्तिश्च प्रसन्नपदनव्यार्थयुक्त यस्तासामुद्बोध उल्लासस्त विदधातीत्येवंशीला स्फुरन्ती अस्खलद्रूपा सर्वतो मुर्ख यस्याः सा तथा । सर्वव्यापिनी सर्वाङ्गीणा चेन्यर्थः । एवविधीत्तमकवेधुद्धिः प्रतिभा प्रोच्यते ॥ अथ व्युत्पत्तिं व्याचिख्यासुराह- शब्दधर्मार्थकामादिशास्त्रेप्वाम्नायपूर्विका । प्रतिपत्तिरसामान्या व्युत्पत्तिरभिधीयते ॥ ५॥ शास्त्रशब्दस्य प्रत्येकं सवन्यात्-शब्दशास्त्र व्याकरणम्, धर्मशास्त्रमागमः, अर्थशास्त्र चाणक्यप्रणीतो राजनीतिप्रन्यः, कामशानं को(कुको)कवात्स्यायनादिग्रन्थः । आदिश- ब्दाच्छन्दोलंकाराभिधानचिन्तामणिगजाश्वरत्नपरीक्षादिशात्राणि बौद्धादिदर्शनाभिधायक- शाखाणि च गृह्यते । अत्र 'शब्द-' इत्यादिद्वन्द्वे कृते शब्दधर्मार्थकामा भादो येषा ते शवधर्मार्थकामादयस्तेषां शास्त्राणीति समासविधिः । एतेषु सर्वेपु --आम्नायः पूर्वो यस्याः सानायपूर्वा स्वाधिककप्रत्यये आम्नायपूर्षिका। गुरुपारम्पर्यम्लेत्यर्थः । असामान्या नि:सा- मान्या प्रतिपत्तिः परिज्ञान विशेयो व्युत्पत्तिः प्रोच्यते । शब्दशालेऽप्रवीणो हि काव्ये कि- यापदविन्यासे नि:सशयो न भवति । धर्मशास्त्रादिपरिज्ञानरहितश्च तत्तत्प्रवन्धेषु धर्मार्थका- ममोक्षादिकार्यजातमुदाहर्तुमरातः कयं कविर्भवतीति ॥ ।

काव्यमाला। अथाभ्यासमाह-- अनारतं गुरूपान्ते यः काव्ये रचनादरः । तमम्यासं विदुस्तस्य क्रमः कोऽप्युपदिश्यते ॥६॥ निरन्तरं गुरुपार्श्वे यः काव्यविषये रचनाया आदरो भवति, कवयत्तमभ्यासं विदु- निश्चितखेन जानन्ति। एतेन-यः कदाचिदेकवारमध्यभ्यसनमात्रमभ्यासः, सोऽभ्यास एवं न भवति इति ज्ञापितम् । तस्य पूर्वोक्तस्याभ्यासस्य कोऽपि फियन्मानः । न समझ. इति भावः। ऋमः प्रकार उपदिश्यते । तमेवाह--- विभ्रत्या बन्धचारुत्वं पदावल्यार्थशून्यया । वशीकुर्वीत काव्याय च्छन्दांसि निखिलान्यपि ॥ ७ ॥ काव्याय काव्यं निष्पादयितुं शिष्यः सर्वाण्यपि उन्दोसि सालिनीमालिनीप्रमृतीनि वशीकुर्वीत अवशान्यपि वशानि फुर्यात् । कया । पदानामावली प्रेपिस्तया । किवि. शिटया । अर्थशून्यया । अभिधेयरहितयापीत्यर्थः । तथा-बन्धस्य संदर्भस्य चायव मृदुपद्धतियोगेन मनोशल विभ्रत्या धारयन्त्या । यादृशो हि प्रथममभ्यासस्तादशी पुरः कार्यनिष्पत्तिरिति विशिष्टकाव्याधिभिरभ्यासोऽपि सुललितपदशय्यामाधुर्यविशिष्ट एव वि. धेयः ।। अत्र चोदाहरणमुच्यते- 'देवश्रेणी फीतिविस्फूतिरेणी धर्माधर्मप्राप्तये धर्ममारः। विश्वाधान मन्यमानः समान मावोहा रोहिणीवप्रदीपा ।' इति शालिन्यभ्यासोऽर्थसंबन्धन्ययापि शब्दश्रेण्या । एवं सर्शण्यपि घान्दापि सार्थ- कनिरर्थकैवी शब्दसंपन्धैरभ्यसनीयानीति ॥ भय पन्धचारुत्वमेव कथं भवतीत्याह- पश्चाद्गुरुत्वं संयोगाद्विप्सर्गाणामलोपनम् । विसंधिवर्जनं चेति पन्धचारुत्वहेतवः ॥८॥ संयोगवशात्पाश्चात्यवर्णस्य गुरुत्वं कार्यम् । एवं हि पन्धस्य दार्य भवति । तपा- विसर्गलोपो न कार्यः। यतो विसर्गाणामवस्थानेन काव्य भोजोगुण उपजायते । तथा- विशब्दो विरूपत्वेऽभावे च वर्तते । यथा-~-विस्तरोऽयं गायनः, विमदो मुनिरयम्' इति घ । ततोऽत्रापि विरूपः संधिविसंधिः । यद्वान संधिविसंधिरिति । विरूपसंधेररांधेष पर्जने कार्यम् । एवंप्रकार अन्येऽप्युष्टुत्वष्ट्रादिक्लिटपदवर्जनादयो बन्धवारतस्य हेतवो भवन्तीति प्रकारार्थ इतिशब्दः सूचयति । अत्रोदाहरणं यथा- 'निधीय यस्य क्षितिरक्षिणः को तथाद्रियन्ते म युधाः सुधामपि । मल: सितच्छत्रितकीतिमण्डल: स राशिरासीन्महसो महोज्ज्वलः ॥' इदमुद्दाहरणमन्वये उक्तम् ।

परिच्छेदः] वाग्भटालंकारः। ७ व्यतिरके तु प्रन्यकार एयोदाहरति- शिते कृपाणे विधृते त्वया घोरे रणे कृते । बधीश क्षितिपा भीत्या वन एव गता जवात् ॥९॥ नृणामधीशो बधीश: सबोधने हे नधीश नरेन्द्र, त्वया शिते तीक्ष्णे खड्ने धारिते सति। अत एव रणे समामे घोरे रौद्रे त्वया कृते सति क्षितिपाः प्रस्तावाच्छनवो नृपा भयेन बने कानने एवं गताः । न क्षणमपि युद्धे स्थिता इति भावः । जवाद्वेगात् । अनेन साति- शय भय व्यज्यते । अत्र 'विधृते त्वया' इत्यादी सयोगवशात्पूर्वस्य गुरुत्वं नास्ति, किंतु सहज विभक्तिकृतम् । 'बधीश' इत्यत्र विरूपसधि', 'क्षितिपा भीत्या' इत्यन विसर्गाणा लोपोऽस्ति । एवमेभिपिरस्मिन्बन्धे शैथिल्यादिप्राप्तेर्नास्ति पन्धचारुलम् । अतो विशिष्ट- काव्याधिभिरभ्यासोऽपि वन्धचारतेऽप्येतयैव पदावल्या कार्य इति स्थितम् ।। अथार्थविशेष विनापि पद्यबन्धाभ्यासमाह- अनुल्लसन्त्यां नव्यार्थयुक्तावभिनवत्वतः । अर्थसंकलनातत्त्वमम्यस्येत्संकथास्वपि ॥ १० ॥ शिष्यः कविरथसंकलनातत्वमर्थस्याभिधेयस्य सकटनातत्व संघटनारहस्य पद्यबन्धवि- घिलक्षण सकथास्वपि परस्पराला रेष्वप्यभ्यस्येत् । कस्या सन्यामित्याह-नव्यार्थयुक्ता- वभिनवायामर्थयुक्तावनुलसन्त्यावस्फुरन्त्यामित्यर्थः ॥ नव्यार्थयुक्तेरनुलासः कुत इत्याह- अमिनवत्वतः कवनवीनस्वादित्यर्थः । अनोदाहरति । यथा--- आगम्यतां सखे गाढमालिङ्गयात्र निपीद च । सदिष्टं यन्निनभ्रातृजायया तन्निवेदय ॥ ११ ॥ यथेति दृष्टान्तोपदर्शनार्थः । हे मित्र, त्वयागम्यताम् । तथा—प्रस्तावान्मामालिङ्गया- रेप कलात्र स्थाने त्वं निपीदोपविश । 'आलिङ्गान' इति पाठे तु–ससे, ल मामालिन् । ममालिङ्गन कुर्वित्यर्थः । तथा—यनिजभ्रातुमल्लक्षणस्य जायया । अथवा निजया भ्रातजा- यया।सदिष्टमस्ति । स्वनातूजायया यः सदेशो मम ज्ञापितोऽस्तीत्यर्थः । ननु कय भ्रातजा- यया' इति विध्यति । यतोऽत्र योनिसबन्धसद्भावात् 'ऋतो विद्यायोनिसबन्धे' इति सूत्रण पम्पलुप्प्राप्तः 'भातुर्जायया' इत्यत्प्समासः प्राप्नोति 'मातु ध्वसा' इत्यादिवत् ।उच्यते-- भातेव भ्राता वयस्य इत्यर्थः । ततय भ्रातशब्दस्य मित्रार्थलादत्र योनिसबन्धामावादलुप्स- माससामाप्तिः। तथाच वक्तारो भवन्ति-'ममानेन सह भ्रातृत्वमस्ति'। सखित्तमित्यर्थः ।। मनु यदि नव्यार्थयुक्तिोलसति, तदा परवाव्यार्थमादाय किमित्यभ्यासो न विधीयते इत्याराज्ञापनोदार्थमाह- परार्थचन्धायश्च स्यादम्यासो वाच्यसंगतौ । सन श्रेयान्यतोऽनेन कवेर्भवति तस्करः ॥ १२ ॥ 1. 'उक्त च-परस्य काव्य स्तमिति ताणो विज्ञायते शरिह कागचौरः । विलोक्य काव्यमाला चशब्दोऽत्र पुनरर्थे । यः पुनरभ्यासः परेपी कवीनां गृहीतस्यार्थस पन्धाद्भवेत् । अ. भ्यासः किंविषय इत्याह-वाच्यसंगतो याच्यस्यार्थस्य संगती । संघटनागामित्यर्थः । अत्र विषयसप्तमी शेया । अर्थसंवन्धविषये योऽभ्यासो भवतीति भावः । सोऽभ्यासः श्रेयान्प्र. शस्यो न भवति ।यस्माद्धेतोरनेन परार्थवन्धेन । अथवा---परावधानियमाणेनार्यविषया- भ्यासेन कविः काव्यकता तस्कर इव तस्करतुल्यो भवति ॥ 'वाच्यसंगती' इति प्रति- पादनाच्छब्दसंगतिविषयोऽग्यासः परतोऽपि गृहीतो न स्टैन्य सूचयतीति तथा परार्थवन्ध. प्रसक्तः कविः सुखममो नामिनवार्थोत्पत्तये हिश्यते । ततश्च परापितवर्णविशेषवर्णना- यामशक्तः सपहास्यः स्यात् । कीर्त्यर्थे च काव्यविधान विपरीतफलमेर भवेदिति ॥ समस्यायो पुनः परार्थग्रहणं न विरुद्धम् । विशेषतस्तथा वैदुध्यातिशयदर्शनादिति तथैव चाह- परकाव्यग्रहोऽपि स्यात्समस्यायां गुणः कवेः । अर्थ तदर्थानुगतं नवं हि रचयत्यसौ ॥ १३ ॥ समस्यायो परकाव्यप्रदोऽपि विशिष्टयुद्धिप्रकाशलक्षणगुणहेतुत्वाद्गुणः स्यात् कवेः का. व्यकरित्यर्थः । अत्र परकाव्यग्रहणेन परकाव्यस्यैको वा द्वौ वा त्रयो वा पादा प्रायाः, न तु संपूर्ण काव्यम् । परकाव्यग्रहणस्य गुणले हेतुमाह-हि यस्माद्धेतोरसी समस्यापू- रकः कविस्तस्य परकाव्यस्य योऽर्थस्तस्यानुगतमनुयायिनमनुकूलमर्थमधुतपूर्वे नव निजप्रति. भाप्रागल्भ्येनाभिनव रचयति । एवं च समस्यापूरणे परकाच्यार्थमपि निजनिर्मलबुद्धिम- लोत्पादिताभिनवान योजयन्क विधमत्कारकारको भवतीति । समस्यौदाहरणं यथा-- फेनाप्येकपादोऽपित:--'कजलं जयति कुखुमोपमम्' इति । एतदर्थसंगत्यर्थ पादत्रयं नवं विधेयम् । यथा-- 'जानती भगवता भवं हतं पार्वती निजपतिभ्रमाद्रुपा । रक्तमक्षि विदधे रुचास्य तत्कजलं अयति कुडुमोपमम् ॥' स्वमिदम् ॥ शापित पादत्रयं कुमारसंभवस्य पक्पृथप्रसं यथा---'चकार मेना बि. रहातुराङ्गी', 'प्रवालसम्याशयनं शरीरम्', 'हिमालयो नाम नगाधिराजः' इति । तुर्यपादेन पूरणे तु-- 'चकार मेना विरहातुराही प्रवालशय्याशयनं शरीरम् । हिमालयो नाम नगाधिराजस्तव प्रतापज्वलनावगाल ।।. इटादि स्वयं शेयर माणिक्यमयोग्यहस्ते प्रत्येति को नाम यदेतदस्य ॥ इति जिनवर्धनसूरिप्रणीतल्याष्टया संवादान्तरमयुक्तम्. १. 'विगणना' क. २. 'थार रुतं' क; 'पृधप्रसले स. , १ परिच्छेद.] वाग्भटालकार। अथ काव्यनिमित्तमर्थोत्पत्तये सामग्रीमाह-- मन प्रप्सत्तिः प्रतिमा प्रात कालोऽभियोगिता। अनेकशास्त्रदर्शित्वमित्यर्थालोकहेतव ॥ १४ ॥ सकलाधिविगमनान्मनस प्रसन्नता। 'बुद्धिर्नवनवोन्मेषशाठिनी प्रतिभामता'। प्रात का- रस्योपलक्षण सादपररानादिवेलापि ज्ञेया। तत्र हि मन्दमेधसोऽपि मेधा प्रसीदति । अभि. योग उद्यमोऽस्यास्तीति । इन् । तद्भावोऽभियोगिता । नानाशास्त्रदर्शनशीलत्व च । अन समुच्चयार्थश्चशब्दोऽनुक्तोऽपि गम्यते । यथा-'अहरहर्नयमानो गामश्व पुरुष पशुम् । वैवस्वतो न तप्यति सुराया इव दुर्मदी ॥ इति । पूर्वोक्ता अर्थालोक्स्यार्थप्रकाशस्य हे. तवो भवन्ति ।। किंच-- वर्ण्यवस्तुपरीवार दृष्ट्वा बनविशेषणै । वाक्यैर्वाशुकविर्भूयादुत्तरार्धोपमादिभि । अथ समुत्पनस्यार्थस्य निवेशनविषये शिक्षामाह- समाप्तमिव पूर्वार्धं कुर्यादर्थप्रकाशनम् । तत्पुरुपबहुव्रीही न मिथ प्रत्ययावहौ ॥ १५ ॥ कविरथस्य प्रकाशन पूर्वार्ध काव्यस्य समाप्तमिव समाप्तप्राय विदध्यात् । न तु समाप्त- मेव । उत्तरार्धे तूपमार्थान्तरन्यासादिप्रकारैरर्थपूरण कार्यमित्युक्तपूर्वम् ॥ पुन शिक्षा. न्तरमाह-कुर्यादिति त्रियानुवर्तते । तत्पुरुषश्च बहुव्रीहिश्च मिथ प्रत्ययमावहत इति मिथ प्रत्ययावही तो परस्परप्रतीतिकारको न कुर्यादित्यर्थ ॥ यथा-'वृत्रशत्रु' इत्युक्त- वृत्र शनुर्यस्येति पहुनीही सत्यपि वृत्रश्चासौ शत्रुश्चेति तत्पुरुषभ्रान्ति स्यात् । एव 'वीर- पुरुष' इत्युक्ते-वीरश्चासौ पुरुषश्चेति तत्पुरुष सत्यपि वीरा पुरुषा यत्र ग्राम इति यहु- व्रीहिप्रतीति स्यात् । एवं न कार्यम् ॥ ननु 'वृत्रश्वासौ शत्रुश्च' इत्यत्र 'वीरश्चासौ पुरु- पश्च' इन्यत्र च कर्मधारयसद्भावात्तत्पुरुषभ्रान्तिरयुक्ता प्रोक्ता, इति चेत् , मैवम् । कर्म- धारयसशाधिकारे तत्पुरुपसज्ञाया अपि शाब्दिकै प्रतिपादनात् । तत कर्मधारय तत्पु- रुपसहचर एवेति तत्पुरुषभ्रान्तिरता ॥ 'अनुष्टभि सनी नाद्यात्' इति वचनानिपिद्धो न गणपात 'तत्पुरुषबहुधीही' इत्यत्र न विरुद्ध स्यात्, अस्य शिक्षाशास्त्रत्वादिहेतुभि । १ अयोर कास्वपि टीरासुन व्यायात केवल प्रकृतीशयामेव लभ्यते स-पुस्तके तु मूले टीराया चोपरभ्यते परतु व्याख्यास्य नोपलभ्यते परतु प्रकृतव्या स्थायामेव 'समाप्तमिव पूवार्धे-' इति वक्ष्यमाणोकव्याख्याया 'उत्तरार्धे तूपमार्थान्तर- न्यासादिनरर्थपूरण कार्यमित्युक्तपूर्वम्' इति रेखेनास्य पद्यस्योक्तत्व प्रतीयते तच्चो तलं मुले टीकाया वेति सदिग्धम् - काव्यमाला। - पुनः शिक्षान्तरमाद- एकस्यैवाभिधेयस्य समास व्यासमेव च । अभ्यस्येत्कर्तुमाधानं निःशेपालंक्रियासु च ॥ १६ ॥ कविः एकस्यैव एकस्याप्यभिधेयस्यार्थस्य समास लघुनि च्छन्दसि संक्षेप च्यासमेत्र च विस्वरमपि च कर्तु विधातुमभ्यस्येच्छिक्षयेत् । लघुच्छन्दसार्थस्य संक्षेपं कर्तुमभ्यस्ये- त् । प्रौदच्छन्दसार्यस्य विस्तरमपि कर्तुमभ्यस्येत् । तथा । कविरभ्यस्येत् । किं फतम् । आधान कर्तु अर्यस्य स्थापना कर्तुम् । कासु । निशेपालंक्रियासु सालंकारेषु । अयं भावः-सर्वेष्वप्यलंकारेघूपमादिप्वेकस्याप्यर्थस्य स्थापना कर्तुं चाभ्यस्येदित्यर्थः ॥ प्रौदस्या- धेस्य लघुच्छन्दसा समासो यथा- 'दकाध्वनिप्रतिध्वानमुसरास्वद्रिपून्मपात् । लीयमानाभिकुलेषु वारयन्तीव पर्वताः ॥' अस्यैवास्य व्यासो यथा- 'यापारम्भमयानकानफशतस्वानप्रतिध्वानिनः स्वस्योच्छेदपराभवागमममी संभाव्य शाकुलाः । प्रासावेशवशाहसन्तमधुना त्वरिराजनज दूरादेव निराकरिणव इव स्वामिविभान्त्यद्रयः ॥' अथवा- 'ज्योत्स्ना गहा परब्रह्म दुग्धधारा सुधाम्युधिः । हारामापि न रोधन्ते रोचते यदि ते यशः ।' अर्थ समासः । अस्येव व्यासो यथा- 'ज्यौरमा निग्धा न, नो वा दरति हरशिरोरहिणी हत्तालिन ध्यानन्दमा रम्यं न भवति, मधुरा नाप्यसौ दुग्धधारा । मुग्धा दुग्धाम्युधे! विलसति लहरी हारिणी या न हारा: प्रसमाः स्वर्गणरमणचणाः कीर्तयत्वदीयाः ।।' सेवा नि:शेषालंकारप्वाधानविषयेऽभ्यासो यधा --'मुखमस्याः सुन्दरम्' इत्येता- पमानोऽयों 'मुखकमलं गुन्दरम्' इति रूप आधीयते, 'असा मुखे पट्पदावलिः फमलयुल्ला निपतति' इति ध्रान्तिमदलंकारे, 'अस्या मुसे घटिते विधामा चन्दः किमर्थ निप्पादित हत्यापे 'सभेतस्या मुरामथवा पद्मम्' इति संशयालंकारे, दम मुख फितु कमलम्' इस्पाती, 'अनसंकृति मुभगमस्या: नियो मुसम्' इति विभायनायाम्, 'अस्या युक्ता बदन कान्तिभिनिराहते विलासमरनतमोमरे न स्मरति प्रदीप परिजनः' इन्यतिशये । एवमन्येवगलकारेणु स एवार्थोऽभ्यसनीयः ।।

१ परिच्छेदः
वाग्भटालंकारः।
अथ काव्यकर्तृणां विशेष ज्ञापयति-
स्यादनन्तिपादान्तेऽप्यशैथिल्ये लघुर्गुरुः ।
पादादौ न च वक्तव्याश्चादयः प्रायशो बुधैः ॥ १७ ॥
अर्धस्यान्तः अन्तिः, पादस्यान्तः पादान्तः, अन्तिश्चासी पादान्तश्च अर्धान्तपा-
दान्तः, न अन्तिपादान्तोऽनर्धान्तपादान्तः । अथवा । अनर्धान्तवासौ पादान्तश्चेति
समासविधिः । आतां तावत् । यत् अर्धान्तपादान्ते अर्धान्तरूपे पादान्ते लाव! गुरु-
भवति । किंतु अनर्धान्तपादप्रान्तेऽपि लघुर्वर्णो गुरुर्भवति । कस्मिन्सति । अर्शथिल्ये
सति। शिथिलस्य भावः शैथिल्यम्, न शैथिल्यमशैथिल्यम्,तस्मिन्यन्धस्य दृढवे सतीत्यर्थः।
'तुभ्य नमत्रिभुवनातिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय ।
तुभ्य नमखिजगतः परमेश्वराय तुभ्यं नमो जिन मदोदधिशोषणाय ॥'
एवंविधेषु वसन्ततिलकेन्द्रवज्रादिपु छन्दःसु पन्धस्य दृढत्वे सति प्रथमतृतीयपादान्ते.
ऽपि लघुर्गुरुः स्यात् । न पुनर्मालिनीप्रभृतिपु, यन्धशैथिल्यप्तभवात् । तथा बुधैः पाद-
स्यादी चादयो न वाच्याः । यथा--'च नौमि नेमि सुविधि सुपार्थम्' इत्यादि । प्रायो-
प्रहणात्-रे-धिक्-हा-फिं-न-आ:-प्रभृतयो न दुष्टाः । यथा-
'२ राक्षसाः कपयत क स रावणो यो रल रवीन्दुकुलयोरपहृत्य नरः ।'
'या चिन्तयामि सतत मयि सा विरक्ता साप्यन्यमिच्छति जन स जनोऽन्यसक्तः।
अस्मत्कृते च परितुष्यति काचिदन्या धिक्तां च तं च मदन च इमां च मां च ॥'
'आः सर्वतः स्फुरति करवमाः पियन्ति ज्योत्स्रो कपायमधुरामधुना चकोराः ।
जातोऽथ सैप चरमाचलचूलचुम्बी पढ़ेसहप्रकरजागरणप्रदीपः ॥'
अन्यत्स्वयमप्यूहनीयम् ।।
अथ कविसमयं शिक्षयितुमाह-
भुवनानि निबध्नीयात्रीणि सप्त चतुर्दश ।
अप्यश्यां सिता कीर्तिमकीर्ति च ततोऽन्यथा ॥ १८ ॥
फविविश्वानि काव्ये त्रीणि नियधीयात् । स्वर्गमयंपाताललोकभेदात् । अथवा सप्त ।
यथा--(१) भूर्लोक-(२) भुवलोंक-(३)स्वर्लोक-(४)महर्लोक-(५) जनलोक-(६) तपो.
रोक-(७) सन्यलोक इति । यद्वा चतुर्दश । यथा-सप्त पूर्वाग्येव । (८) तल (8) वितल
(१०) गुतलं (११) नितलं (१२) तलातल (१३) रसातलं (१४) पातालमिति ।
मतान्तरेण भुवनान्येकविंशतिरपि ॥ तथा--ययपि शबवादयो गुणा मतिमय्याश्रया-
सथापि कीर्तिमदृयामपि अमर्तामपि श्वेता नियधीयात् । अदृश्यामप्यतीति ततः येत.
कीर्तेरन्यथा भपरप्रसारामनिता कृष्णामित्यर्थः । निषधीयात् ।।
वारणं शुभ्रमिन्द्रस्य चतुरः सप्त चाम्वुधीन् ।
चतसः कीर्तयेद्वाष्टौ दश वा ककुभः कचित् ॥ १९ ॥

१२ काव्यमाला। यद्यपि हस्तिनां वर्णः कृष्णस्तथापि मुरेन्द्रस गजें सुधं पीतयेत् ॥ तमामे- स्तुरबाणां लोहितवर्णः, सूर्यतुरहाणां नीलवर्णः, इन्द्रनुरङ्गस्य कहारो वर्णः, सयमू- हनीयः । भम्युधीन वर्णयेत् । कति । चतुःसंख्यान् । पूर्वपश्चिमदक्षिणोत्तरभेदात् । (१) लवण-(२) क्षीर-(३) दधि-(१)आग्य.(५) सुरा-(६)-(७) स्वादुवारिसमुद्ररूपान् लोकप्रसिद्धान् ॥ तथा ककुभो दिशः कीर्तयेत् । काति । चतसः । अथवाटी । यद्वा दश। न सर्वशापि दश किंतु क्वचिरस्थाने काव्योपयोगिनि पूर्वपश्चिमदक्षिणोत्तरभेदायतम्रो दिशः । चत्तसणां विदिशा प्रक्षेपादष्ट । अदिगधोदिक्मक्षेपादशापि दिशः । अनो. दाहरणानि तेषु तेषु स्थानेषु स्वयं यानि ।। पुनः शिक्षामाह- यमकश्लेपचित्रेषु चक्योर्डलयोन मित् । मानुस्वारविसर्गौ च चित्रमझाय संमतौ ॥ २० ॥ यमकालंकारे लेपालंकारे चित्रालंकार यकारवकारयान भित् न भेदो भवति । पुनः कयोः । ढकारलकारयोः । तथा-~अनुस्वारश्च विसर्गश्च विपस्स हारबन्धच्छर बधादिरूपस्य भहाय विघाताय न संमती कथितावित्यर्थः ।। अथ क्रमेणोदाहरणानि- तित्र] यमके पश्योर्डलपौरभेदो यथा-- शङ्कमानैर्महीपाल कारागारविडम्बनम् । त्वरिभिः सपत्नीकैः श्रितं बहुविडम्मनम् ॥ २१ ॥ हे महीपाल क्षितिपाल, स्ववैरिभिर्वनं चितम् । किंविशिष्टम् । यहूनि विडानि पिलानि सीदेविवराणि यत्र तत् । सह पबीभिर्वर्तन्त इति सपत्नीकास्तैः । किं कुर्वाणः । शन्ते इति शङ्कमानास्तैः । कि कर्म । तप कारारूपे आगारे विदम्पनं गुप्तियहकदर्धनामसर्थः । कारा पासावागारं चेति कर्मधारयः । अन लोके यमकालंकृते विडम्बन रहु विलम्पन- मिति यवयोर्डिलयोथाभेदः।। श्रेषेपवयोरभेदो यथा- त्वया दयाइँण विमो रिपूणां न केवलं संयमिती न बालाः । तत्कामिनीभिश्च वियोगिनीभिर्मुहुर्महीपातविधूसराङ्गाः ॥ २२ ॥ हे स्वामिन, रिपूणां पाला: शिशवो न केवलं त्वया न संयमिता: न केवल त्वया न पद्धाः । धन्दीकृता इत्यर्थः । किंतु तेषां रिपूर्णां कामिनीभिरपि माला न संयमिताः । अत्र वाला: केशा न यद्धा इत्यर्थः । त्वया दयाइँण सता न संयमिताः, तत्कामिनीभिश्च वियोगि- नीमिः सतीमिर्न बद्धा इति । पाला: शिशवो वालाश्च केशः । किविशिष्टाः । मर्महीपा- तविधसरामाः । महुरिवारं मखां यातेन पतनेन विधूसरं विशेषेण लिमिश्रितं अहं येषां ते तथा । अब पालवालशब्दयोवयोरेक्यम् ॥

१ परिच्छेदः] वाग्भटालंकारः। ३ - लये उलयोरैक्यं यथा- देव युष्मद्यशोराशि स्तोतुमेनं जडात्मकम् । उत्कण्ठयति मां भक्तिरिन्दुलेखेव सागरम् ॥ २३ ॥ हे देव राजन् । अनेकार्थनाममालायां देवशब्दो राजार्थोऽप्यस्ति । युष्माकं यशसा राशि स्तोतु वर्णयितुं त्वदीया भक्तिर्मामुत्कण्ठयति उत्सुक करोति । एनं इमं प्रत्यक्ष माम् । किविशिष्टम् । जड आत्मा यस्य स जडात्मा जडात्मैव जडात्मकः । स्वार्थे का प्रत्ययः । का इव । यथा इन्दोर्जेपा सागरमुत्कण्ठयति उल्लसितं करोति । सागरमपि किंभ- तम् । जहात्मक जलं नीरं आत्मा स्वरूपं यस्य स जलात्मकस्त तथा । अत्र जडजल- शब्दयोर्डलयोरैक्यम् ॥ अथ चित्रे डलयोरैक्य यथा-- चन्द्रेडितं चटुलितस्वरधीतसाररत्नासनं रभसकल्पितशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ॥२४॥ अह देवं पश्यामीति संटङ्कः । चन्द्रेण सकलज्योतिश्चक्रस्वामिना ईडितः स्तुतस्तम् । पुनः किभूतम् । चटुलितस्वरधीतसाररत्नासनम् । स्वशब्दोऽव्ययमस्ति । स्व. स्वर्गेऽधीतो विख्यातः । मेरुरित्यर्थः । तस्य सारं रत्नमय आसन पाण्डुकम्बलादिशिलास्थितम् । चट- लितं चञ्चलीकृतं स्वरधीतस्य मेरुशैलस साररत्नासन येन स तम् । श्रीवीरेण मेरोः क- म्पनात् आसनमपि कम्पते इति । अथवा । स्वः स्वर्गेण स्वर्गवासिदेवजनेन अधीत पठित व्यावणित सारं बलं यस्य स स्वरधीतसार इन्द्र इत्यर्थः । चटुलित कम्पितं स्वरधीतसार- स्पेन्द्रस्य रत्नासन येन स तम् । परमेश्वरस्य कल्याणेषु इन्द्राणा सिंहासनानि कम्पन्त इति । रभसेन वेगेन कल्पितं छिन्न शोकजात असमाधिसमूहो येन स तम् । पुनः कथभूतम् । पापान्येव तिमिराणि पापतिमिराणि तेषा क्षय करोतीति पापतिमिरक्षयकारः पापतिमिर- क्षयकारः कायो देहो यस्य स तम् । अल्पेतरं च तत् अमलं चाल्पतरामल अल्पेतरामल च तत्तपश्च तस्मै अल्पेतरामलतपसे कचलोप कचाना केशाना लोपोऽपनयन लोचयति दर्श- यतीति अल्पेतरामलतपःकचलोपलोचस्तम् । अत्र चन्द्रहितषटुलितशब्दयोडलयोर- क्यम् । इदं काव्यं हारमालिख्य वाचनीयम् ॥ चित्रे यवयोरैक्यं यथा- प्रचण्डवल निःकाम प्रकाशितमहागम । भावतत्त्वनिधे देव भालमत्राद्भुता तव ॥ २५ ॥ प्रचण्डमुत्कर्ट पलं वीर्य यस्य स सयोध्यः । निर्गतः कामारकन्दर्षानिष्कामस्तस्यामन्त्रः गम् । निपामेत्यत्र 'निर्दुहिराविःप्रादुश्चतुराम्' इत्यनेन सूत्रेण निशब्दस्य रेफः पो भ. वति, परमन चिनार्थ याहुलकात्यो न कृतः । तेन विसर्ग एव नि:कामेति । महाशासा- वागमध प्रकाशितो महागमो येन स सरोध्यः । भावोऽभिप्रायश्चित्तमित्यर्थः । तस्य त. 1 काव्यमाला। लानि भावतत्वानि अन्तरगतत्वानि मानादीनि तेषां निधिरिव निधिस्तस्यामवणम् । हे देव, तब भा प्रमालमतिशयेन अन विवप्रयेऽपि अद्भुता आधर्यकारिणी । अस्ति- क्रियानुक्तापि गम्यते 'यवान्यक्रियापदं न श्रूयते तत्रास्तिभवन्तीपरः प्रयुज्यते' इति वृद्धवचनप्रामाण्यात् । अत्र भावपलयोरवयोरिफ्यम् । तच छत्रस्थापनायां स्वयं झेयम् ।। तथा--'चन्द्रडितम्' इत्यत्रानुस्वारेण चित्रमही न । 'नि:काम-' इत्यत्र विसर्गाभ्यां न चित्रमः ।। 'भवकाननमत्तम मनमायातमःप्रम । विनयावां स्तुबे वीर विनतत्रिदशेश्वर ।' इदमपि छत्रकाव्यं क्वचिदृश्यते । अथ पूर्वोक्तमेवार्थमुपसंहरमाह- अधीत्य शास्त्राण्यमियोगयोगादभ्यासवश्यार्थपदप्रपञ्चः । तं तं विदित्वा समयं कवीनां मनःप्रसत्तौ कवितां विदध्यात् ॥२६॥ अभियोगस्योद्यमस्य योगात् शाखाणि धर्मशास्त्रकामशास्त्रार्थशास्त्रशब्दशाननीतिशास्त्र. वैद्य शास्त्रज्योतिःशास्त्रालंकारशास्त्रप्रभृतीन्यध्ययनपूर्वमधीत्य अर्याय पदानि च अर्थप- दानि तेषां प्रपञ्चः अभ्यासेन वयो वशक्ती अर्थपदप्रपश्चः शब्दार्थप्रपञ्चो यस्य स तं तं प्रसिद्ध पूर्वकविप्रयुक्तं कवीनां समय कावसिद्धान्तं ज्ञात्वा ततो मनसचित्तस्य प्रसत्ती :- समले सतीत्यर्थः । कवेः कर्म कवित्वं तां विदध्यात्कुर्यात् ॥ इति वाग्भटालंकारव्याख्यायां सिंहदेवगणिकृतायां प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः। अथ काव्यशरीरं दर्शयन्नाह- संस्कृतं प्राकृतं तस्यापभ्रंशो भूतमापितम् । इति भापाश्चतस्रोऽपि यान्ति काव्यस्य कायताम् ॥ १ ॥ तस्य पूर्वप्रस्तुतस्य काव्यस्य एताश्चतस्रोऽपि भाषाः कायतां शरीरत्वं प्राप्नुवन्ति । चतस्रोऽपि भाषाः काव्यस्य शरीरप्राया इत्यर्थः ।। अथ भाषाचतुष्टयं स्पश्यति- संस्कृतं स्वर्गिणां भाषा शब्दशास्त्रेषु निश्चिता । प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा ॥ २ ॥ देवानां भाषा संस्कृतं भवति । किविशिष्ट । शब्दशास्त्रेणु व्याकरणेषु निश्चिता स. गग्व्युत्पत्या निर्णीता प्रकृतेः संस्कृतादागतं प्राकृतं अनेकदा अनेकप्रकारर्भवति ।

२ परिच्छेद] वाग्भटालंकारः । । तज च तत्तुल्य च देश्य च तजतत्तुल्यदेश्यानि तानि आदौ यस्य तत्तथा । तस्मात्सस्कृता- जायते स्म तजम् । यथा- 'सिरिसिद्धराअ सच साहसरसिक त्ति कित्तण तुज्झ । कहमण्णहा मण मह पडन्तमअणत्यमकमसि ।' हे श्रीसिद्धराज जयसिंहदेव, तव साहसरसिक इति कीर्तन सत्यमस्ति तत्तथा । अन्यथा कथ मनो मम आक्रामसि । मन किभूतम् । पतन्ति मदनास्त्राणि स्मरवाणा यत्र तत् । अत्र सस्कृतशब्दा एव प्राकृतीभूता इति तजम् ।तेन सस्कृतेन तुल्य समसस्कृतमित्यर्थ । उदाहरण यथा--'ससारदावानर दाहनीरम्-' इत्यादिस्तुतय । अत्र प्राकृतेऽपि स- स्कृतशब्दा नान्यथा भवन्तीति ॥ देशे भव देश्यम् । यथा- 'सत्तावीसोअणकरपसरो जाव अज वि न होइ । पडिहत्यविम्बगहवइवअणे ता वज्ज उज्जाणम् ॥' अन सत्तावीसजोअणशब्दो देश्यश्चन्द्रार्थे, तस्य फिरणप्रसरो यावत् अद्यापि न भवति । पडिहत्थशब्दोऽपि देश्य सपूर्णार्थ । गहवइशब्दो देश्यश्चन्द्रार्थ । ततो हे सपूर्णमण्डल- चद्रवदने तावत्त्व उद्यान बजेति । आदिशब्देन शौरसेनी भाषा मागधी च गृह्यते । शौरसेनीमागध्यो प्राकृतादल्प एव भेद । शौरसेनी यया-इदानींशब्दे इरोप -'ज दाणी दुवो अहयम्' । तदशब्दस्य ताता पहि'। एवशब्दस्य य्येव-इह य्येव' । ननुशब्दस्य णम्-'ण भणामि तुमम्' । अम्महेशब्दो हर्षे–'अम्महे, एसो वलहो जणो' । विदूषकादीना हर्षे ही ही भो इति शब्दा-'ही ही भो, एस नरु जम्पई' इत्यादि । मागधीमापाया अकारान्तस्य सौ एर्भवति–'एस वल्हे' । तथा अहशब्दस्य हंगे भवति–'हगे अगदा तिष्टतेस्तकारस्य चकार -'चि तुमम्' । तथा रेपस्य ल , णकारस्य च न । यथा तरुणस्याने 'तलुन' इति, रुक्षस्थाने 'लुक्ख' इत्यादि । एवमनन प्रकारेणानेकधा प्राकृतं ज्ञेयम् ॥ अपभ्रशभाषामाह- अपभ्रशस्तु यच्छुद्ध तत्तद्देशेषु भाषितम् । अपभ्रश पुनर्भवति । स इति स्वयं गम्यते । यत्तेषु तेषु कर्णाटपश्चालादिषु शुद्ध अपरभापाभिरमिश्रित भाषित सोऽपभ्रशो भरतीत्यय । इह क्वचिदभूतोऽपि रफो भवति । यथा-'चारुह तुहु अइमां हि अउदीसह सव्व पट तु । पहि मा कइअह आविसद अा के रनु कन्तु ॥' पैशाचीमाह- यद्भुतेरुच्यते किंचित्तद्भौतिकमिति स्मृतम् ॥ ३ ॥ यत्किचिद्भूत पिशाचैरुच्यते जल्प्यते तद्भीतिर पैशामिमिति करितम् । भूताना - काव्यमाला मिदं भौतिकम् । अन दकारस्य तः । यथा-'मानेवं तवं नमह' मारदेवं दे नमत । यूयमित्यर्थः । हृदयस्य यकार: पकारो भवति । यथा--'हि तप पारस्य सः । यथा 'लुद्दो रोग इत्यर्थ इत्यादि । अथ वाध्ययस्य द्विमकारचमाह-~ छन्दोनिवद्धमच्छन्द इति तद्वाड्मयं द्विधा । पद्यमाद्यं तदन्यच्च गचं मिश्रं च तद्यम् ॥४॥ तत्प्रसिद्ध वाचा विकारो घामयं द्विधा द्विप्रकारं भवति । एक मामागणपन्याच्या न्दसा निपद्धम् । अपरं चाच्छन्दश्छन्दोरहितम् । आयं छन्दोनिबद्धं पद्यं कथ्यते । तद- न्यत् ततोऽन्यच्छन्दोविहीन गद्यं कथ्यते । तयोर्द्वयं तयं छन्दोनिवद्धाहन्दसौयं मित्रं कथ्यते । गद्यपद्यरूपम् । तच्च चम्पूरिति मित्रम् । 'गद्यपद्यमयी चम्पूः' इति वचनात् । मिथं च नाटकादिषु चम्पूमन्येषु च भवति ॥ काव्ये दोपपरिहारार्थमाह- अदुष्टमेव तत्कीत्यै स्वर्गसोपानपतये । परिहार्यानतो दोषांस्तानेवादौ प्रचक्ष्महे ॥ ५ ॥ तत्काव्यमदुष्टमेव दोपरहितमेव कीर्तिनिमित्तं भवति । किविशिष्टाय की । स. गस्य स्वर्गरूपस्य आवासस्य सोपानपतिरिव स्वर्गसोपानपहिस्तस्यै । यथा सोपानपदया उच्चस्तरे प्रासादे आरुह्यते कीर्तिरूपसोपानश्रेण्या कवयः काव्यकरणेन स्वर्गलक्षणतुङ्गमा- सादमारोहन्ति । कविकीतः स्वर्गेऽपि विस्तीर्यमाणत्वात् । अतः कारणात्परिहार्यान्दोपा- प्रसिद्धानादौ धुरि प्रचक्ष्महे कथयामो वयम् ॥ तन काव्ये दोपविविधा भवन्ति । पददोपा वाक्यदोपा वाक्यार्थदशेपाश्च तत्र प्रथम पदविषयानष्टी दोपानाह- अनर्थकं श्रुतिकटु व्याहतार्थमलक्षणम् । स्वसंकेतप्रकृतार्थमप्रसिद्धमसंमतम् ॥ ६॥ ग्राम्यं यच्च प्रजायेत पदं तन्न प्रयुज्यते । क्वचिदिष्टा च विद्वद्भिरेषामप्यपदोपता ॥ ७॥ (युग्मम्) म विद्यतेऽर्थः प्रयोजनं यस्य तदनर्थकम् । निष्प्रयोजनमित्यर्थः । श्रुती श्रवणे कटु श्रुति- कटु यत् वये कर्कशमिन्यर्थः । व्याहतो विरुद्धोऽयों यस्य तझाहतार्थे विरुद्धार्थमित्यर्थः । न विद्यते लक्षणे शब्दशानव्युत्पत्तिर्यस्य तत्तथा । व्याकरणदीनमित्यर्थः । स्वसंकेतेनैव न परसकेतन प्रकल्पितोऽ| यस्य तत्तया । स्वाभिप्रायकल्पितमित्यर्थः । शास्त्रे क्वचित्प्रोक्त. मपि यन प्रसिद्धं विख्यातं तत् अप्रसिद्धम् । असंमतं नामिमतमित्यर्थः । प्रामे प्रत्यन्त- पुरे भवं माम्यं प्रामीणजनवचमतुल्यमित्यर्थः । एवंविधं यत्पदं प्रजायेत प्रादुर्भवेत् त- २ परिच्छेदः). वाग्भटालंकारः। स्पद शब्दरूपं न प्रयुज्यते, काव्येषु ताशस्य पदस्य दुष्टत्वात् । अत्रापवादमाह- क्वचिदिष्टा चेन्यादि । चित्तचिदनुवादोपहासार्थेषु विद्वद्भिः पूर्वाचायेंरेषामपि पूर्वोक्त- दुष्टपदानामपि अपदोपता निर्दोषता इष्टा प्रतिपादितेन्यर्थः । यया- 'मुख चन्द्रप्रिय धत्ते श्वेतदमधुकराङ्कुरः। अत्र हास्यरसोद्देशे प्राम्यवं गुणता गतम् ॥' हास्यरसावतारादिहेतवे प्राम्यादिपदान्यपि गुणाय भवन्तीति भावः ॥ तन प्रथममनर्यफमाह- प्रस्तुतेऽनुपयुक्तं यत्तदनर्थकमुच्यते । यथा विनायकं वन्दे लम्बोदरमहं हि तु ॥ ८ ॥ प्रस्तुते प्रारब्धेऽथै यदनुपयुक्तं नोपयुक्त अनुपयोगि भवति तत्पदमनर्थकमुच्यते । उदाहरणमाह-यथेति । यथाशब्दो दृष्टान्तोपन्यासार्थः । अन लम्बोदरपद हि तु इति च सर्वमनर्थकम् । यतः यत्स्वरूपमानवाचक पादपूरणमान च यत् तइयमपि अनर्थक ज्ञेयम् । लम्बोदरपद हि स्वरूपमात्रवाचकम् । हितुपदे तु पादपूरणमात्रार्यके। अतोऽनर्थकानि तथा वन्दे इत्यत्र वर्तमानाया एकवचनस्य प्रयोगादहमित्यपि स्वय लभ्यते । अतोऽहमिति पद- मपि पुनरुतत्यादनर्थक शेयम् । प्रयोजन विवक्षायां तु अहमिविपदं प्रयुक्तं नानकमिति । अन शिष्य आह–'ननु लम्बोदरपद गणेशार्थप्रतिपादक ततः कथमनर्थकम् । न च वाच्यं विनायकादेनेवोक्तार्थत्वात् पुनरुत्तदोप: स्यादिति। पुनरुक्तदोपरयात्रानिषिद्धत्वात् । अन उच्यते-पुनरक्तदोपा अनर्थकदोपेऽन्तर्भवन्ति । ये तु पुनरुक्तदोषान्थनियन्ति, तेऽपि पदार्यप्रतिपत्ती जाताया पदान्तरप्रयोगमनुपयोगिन मन्यन्त एव । न चेह प्रस्तुते वन्दे इन्पर्षे लम्बोदरपदं कचिदुत्कर्ष पुष्णाति । तेन पुनरुत्तदोषोऽनर्यस्दोपेऽन्तर्भव- तीति सिद्धम् । यत्तु वक्ता यमयादिवशात् पद द्विनिर्वा प्रयुहे, तत्र नाय दोषः । तेन विना हि कर्य हर्षमयादिप्रतीतिः स्यात् । तदुक्त श्रीआवश्यके- 'सहायशाण तवो स हेसु उवएसुगुराइवयाणेसु । सत गुणकित्तणेसु अन हुन्ति पुनरुत्तदोसाओ ।' 'जयजय यवरजिष्णो विष्णोरवतार भूप जयसिह । अतिसदसहस्तव्यातदुरवीर मुग्नेऽस्मिन् ॥' अप्र जयजयादं विना हो न गम्यते । हस्तान्दयोस्तु पुनक्कामासत्वमे । मिमाया भये यया भहिरहिः । एत वीप्सानुपादादिष्यपि द्रव्यम् । निराक्षरमत्यन्तं युधैः श्रुतिकटु स्मृतम् । एकाममनसा मन्ये सद्य निर्मिता यथा ॥९॥ 1. एपा तुरीपरणे सुटायां, पादत्रयेऽस्फुटाया. - यगा- ३ काव्यमाला। विद्वद्भिर्भृशं कठोरक्षराणि यत्र तत्पदं 'श्रुतिकटु' इति पठितम् । उदाहरणमाह- एकेति । यथाब्दो निर्देशनोपदर्शनार्यः । इयं युवती सष्टा विधामा घटिता । किंभूः तेन । एकानं सावधानं मनो यस स एकाप्रमनास्तेन । मन्ये इति वितर्के । एवंविधा- अतरूपस्यान्यथानुपपत्तरिति । अत्र स्रष्टा इति कठोरम् ।। व्याहतार्थमाह- व्याहतार्थ यदिष्टार्थवाधकार्यान्तराभयम् । रतस्त्वमेव भूपाल भूतलोपकृतो यथा ॥ १० ॥ तत्पदं व्याहतार्थ भवति, यदभीष्टार्थस्य यायकं अर्थान्तरमन्यार्थमाभयति । एकस्मा- दीदन्योऽर्थः अर्थान्तरं इष्टार्थयाधकं च तदनन्तरं च दृष्टार्थसाधकार्यान्तरं आश्रयों यस्पेति समासविधिः । उदाहरणे यथा-भूतलस्योपकृतिरुपकारस्तस्यां त्वं रतः आसक्तक इतीष्टोऽर्थः । तस्य पाधकं भूतानां प्राणिनां लोपकरणे रतस्त्वमित्येवंविधमर्थान्तरमाथ- यति भूतलोपकृतिशब्दः ॥ अयालक्षणं लक्षयति- शब्दशास्त्रविरुद्ध यत्तदलक्षणमुच्यते । मानिनीमानदलनो यथेन्दुविनयल्यसौ ॥ ११ ॥ पत्पदं शब्दाना शास्त्रेण व्याकरणेन विरुद्धं तदलक्षणं कथ्यते । उदाहरतियधेत्युदा- हरणार्थम् । मानवतीनां तरुणीनां मानस्याईकारस्य दलयतीति दलनो विदारकः इन्दु- खन्दो विजयति विशेषेण जयति । चन्द्रोदये मन्मथोन्मादेन पतिषु साहंकारा अपि युवतयो मान मुश्चन्तीति । अघ्र 'परावेजें: इति सूत्रेणात्मनेपदप्राप्तिर्विजयतीति परस्मैपदं दुष्टम् । विजयते इत्येव सत्यम् । स्वसंकेतप्रकृतार्यमाह- स्वसंकेतप्रकृतार्थ नेयार्थान्तरवाचकम् । यथा विभाति शैलोऽयं पुप्पितैर्वानरध्वनैः ॥ १२ ॥ नीयत इति नेयं प्राथं न तु गम्यम् । नेयं च तदर्थान्तरं च नेयान्तिरं तस्य वाचक पदं स्वसंकेतममृतार्थे भवतीत्यर्थः । उदाहरति-यथेति । अत्र वानरध्वजैरिति फकुमा- ख्यैरर्जुनयरित्यर्थः । वानरध्वजराब्देनार्जुननामा पाण्डवः कथ्यते तस्य कपिध्वजत्वात् । मनु अर्जुननाम्ना सादृश्येन फकुमरक्षास्तेन वानरध्वजपद नेयार्थम् । वानरध्वजशब्देन हि ककुभवृक्षा न कथ्यन्ते, ततः स्वसंकेतप्रताध वानरध्वजपदम् । यत्तु समस्तफदि. संकेतनं तत्र न दोषः । या रपाइशदश्चक्रनानि पक्षिणि, द्विरेफरन्दो भ्रमरे । द्विपसन्दः काके।

२ परिच्छेदः] वाग्भटालंकारः। अथाप्रसिद्धमाह- यस्य नास्ति प्रसिद्धिस्तदप्रसिद्धं विदुर्यथा । राजेन्द्र भवतः कीर्तिश्चतुरो हन्ति वारिधीन् ॥ १३ ॥ यस्य पदस्य प्रसिद्धि. कविरूद्धिर्नास्ति तदप्रसिद्ध विदुः तथाले न जानन्ति । धातू- नामनेकार्थत्वात्स्थयन्ति वा । उदाहरण यथा-हे भूपेन्द्र तव कीर्तिश्चतु सख्यान पूर्व- पश्चिमदक्षिणोत्तरान् समुद्रात् हन्ति गच्छति भ्राम्यतीति भाव ।अन 'हन हिसागत्यो।' इति धातुपाठे गत्यर्थ. पठितोऽपि हन्तिधातुर्न कविपरम्पराया प्रसिद्ध । प्रयोनजविशेषे तु गत्यर्थप्रयोगोऽप्यदुष्ट एव । यथा विशेषे शेषादिषु ।। असमतमाह- शक्तमप्यर्थमाख्यातुं यन्न सर्वन समतम् । असमतं तमोम्भोज क्षालयन्त्यशवो रवे. ॥ १४ ॥ यत्पदमर्थमारयातुमभिधेय वक्तु शक्तमपि समर्थमपि सर्वत्र महाकविशास्त्रेषु न समत कवीना नाभिमत तदसमत कथ्यते । यत्तदोनित्यसवन्धत्वात् तच्छब्दस्य स्वय गम्यमान. त्वात् । अयोदाहरणमाह-रवेः सूर्यस्याशव किरणास्तम एवाम्भोज कर्दमस्त तमो- म्भोज ध्वान्तरूपमम्भोज कदम क्षालयन्तीत्यर्थ । अत्राम्भोजशब्दोऽम्भसो जातोऽम्भोज इति व्युत्पत्या कर्दम वाचयितु समर्थोऽपि कमलादन्यत्र कवीना न समत क्मले एव तस्य रूदत्तात् ॥ तथा–प्रपूर्व स्मृधातुर्विस्मरणार्थे एव प्रसिद्धो न तु प्रकृष्टस्मरणार्थे । तथा चोक्त नेपधराव्ये- 'नाक्षराणि पठता किमपाठि प्रस्मृत किमथवा पठितोऽपि । इत्यपिचयसशयदोलाखेलन खलु घसार नकार ॥' -पूर्व स्थाधातुर्गमनार्थे प्रसिद्धो न तु प्रकृष्टस्यानार्थे । यया-'असी नगर प्रति प्रस्थितः' । गत इत्यर्थ । तथा आपूर्वो वहति करणे, न तु समन्ताद्वहने । यया-'सद्विद्या विस्मयावहा' । विस्मयकरीत्यर्थः । एवं कविसमतमेव पद प्रयोज्य काव्ये नान्यत् ॥ अथ प्राम्यमाह- यद्यनानुचितं तद्धि तन ग्राम्यं स्मृतं यथा । छादयित्वा सुरान्पुप्पेः पुरो धान्यं सिपाम्यहम् ॥ १५ ॥ यदिति । यत्पद यत्र देशेऽनुचित वत्तमयोग्य भवति हि निश्चित तत्पदं तय देश प्राम्य स्मृतं पपिमिस्तदश्लील कवितमित्यर्थ । यथेत्युदाहरणार्पम् । अदं पुष्पैः सुरानभ्य- र्य पलि दीरयामीलेवं वक्तु योग्यं भवति । अब तु भह देवान्पुष्परादायित्वामे धान्य क्षिामीति मामागलोक्तुत्यवचन प्रोक्तं तत्ताइस पद प्राभ्यं शेयमिति । तया-त्री- तथा- "काव्यमाला। डाजुगुप्ता अमलप्रीतिकरा ये शब्दास्तेऽपि समानुचितत्वानम्या एव । श्रीडातुर्यथा---' 'साधनं सुमहद्यस्स-' इत्यत्र साधनशब्दः पुंश्चिदेऽपि शवयेत । जगुप्सावाचको यथा-- 'वायुः प्रसरति' । वायुशब्दोऽपानपवनशङ्काकारी । अमालप्रतीतिकरो यथा--'संस्थिती- ऽयम् । संस्थितशब्दोऽत्र मृवार्थशङ्काकारी । तथा--- 'अतिपेलवमतिपरिमितवणे लघुतरमुदाहरति शण्ठः । परमार्थतः सहृदयं वहति पुनः कालकूटघटितमिव ।।' अन पेलवशब्दोऽसभ्यत्वाशम्य एव । याभ्यांसाभिरित्यादयस्तु क्वचिद्देशेऽसभ्यत्वा. भाम्याः न तु सर्वत्र । भगवतीभगिनीशवलिङ्गप्रभृतयस्तु लोफेऽविरुद्धत्वाददुष्टाः । उक्तं च--- 'लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः। प्रतिलोकव्यवहारसदृशौ पालपण्डिती ॥' इति । क्वचिदेपामध्यनकादीनामपदोपता। 'ववयस्यास्मि दादासी सतवाहं ससर्वदा। ततमानय मन्दोक्तिमेनामध्येत्ययं शुकः।' वकारादयोऽनर्थका अलक्षणाश्च तथाप्यत्रानुकरणार्थत्वात्तेषां न दोषः । युगपरस्तुतिनिन्दयोर्वाच्ययोर्व्याहतार्थमपि न दुष्टम् । यथा- 'रतस्त्वमेव भूपाल भूतलोपकृती सदा । अत एव यश: स्वैरं तवापूर्वाध कीर्तयः ।' स्वैरं स्वेच्छाचारी मन्दं च । अपूर्वा अद्भुता अकारपूर्वाध अकीर्तय इत्यर्थः । महेलिकायर्या स्वसंकेतप्रकृतार्थमपि न दुष्टम् । यथा- 'अवलो इजण सामलय अणं ६ धाम दारओ जाओ। रवितणय मण्डलीकय इत्विपसूर्ण कुरंगयि ।' अब रवितनयः कर्णस्तछन्दवाच्यः । संप्रत्यष्टी वाश्यदोषान्ममेणाह-~ पदात्मकत्वाद्वाक्यस्य तद्दोपाः सन्ति तत्र हि । अपदस्थास्तु ये वाक्ये दोषांस्तान्बूमहेऽधुना ॥ १६ ॥ उत्ताः पददोषाः । यस्मिन्वाक्ये सदोषं पदं प्रयुज्यते तद्वाक्यमपि सदोषपदयोगारस- दोषमेवेत्याह-तदोषाः पदगतदोषाः अनर्थकादिका: हि निश्चितं तत्र वाक्ये सन्ति । वास्यस्य पदात्मकत्वात्पदरूपत्वात् । सदोषपदनिष्पमं वाक्यमपि सदोषम् । निदोषैः यदैवाक्यमपि निदोयम् । यथा- 'राजेन्द्र भवतः कीर्तिचतुरो हन्ति वारिथीन् ।'

२ परिच्छेद.] वाग्भटालंकारः। इत्यत्र हन्तीति सदोषक्रियया समग्रदोष वाक्य सदोष जातम् । एतावता ये पददोषा भवन्ति, ये अपदस्था वाक्यदोषा', ये पदे न सन्ति कितु वाक्ये सन्ति, तानधुना वच्म ॥ खण्डितं व्यस्तसबद्धमसमितमपक्रमम् । छन्दोरीतियतिभ्रष्टं दुष्टं वाक्यमसक्रियम् ॥ १७ ॥ एवविधं वाक्य दुष्ट सदोपम् । छन्दोभ्रष्ट रीतिभ्रष्ट यतिभ्रष्टम् ॥ अथानुक्रमेण सर्वानाह- वाक्यान्तरप्रवेशेन विच्छिन्न खण्डितं मतम् । यथा पातु सदा स्वामी यमिन्द्रः स्तौति वो जिनः ॥ १८ ।। यद्वाक्य वचनान्तरन्यासेन विच्छिन्न त्रुटित तत् खण्डितम् । जिन स्वामी को यु- ध्मान्पातु इति वाक्य यमिन्द्र. स्तौतीति वाक्यान्तरेण विच्छिन्नत्वात्खण्डितम् ॥ सबन्धिपददूरत्वे व्यस्तसबन्धमुच्यते । यथाद्यः सपदं ज्ञाता देयात्तत्वानि वोऽहताम् ॥ १९ ॥ एकस्मिनेव वाक्ये समन्धिपदादूरत्वे सति यस्य पदस्य यत्पद सन्धि तत्तत्रैव यो- ज्यम् । तदूरत्वे सति व्यस्तसयन्धमुच्यते। यथानार्हतामायस्तत्वानि ज्ञाता व सपद देया. दितिसमन्धिपदाना यहरे स्थापन तत् व्यस्तसयन्ध ज्ञेयम् ।। शब्दार्थों यत्र न तुलाविधृताविव समितौ । तंदसमितमित्याहुर्वाक्य वाक्यविदो यथा ॥ २० ॥ यत्र पन्धे शब्दायी तुलाविधृताविव न समिती । यथा तुलाविधृतौ द्रव्यो द्वयो पा- यो न मत , तदा समिती । यत्र शब्दा पहवोऽर्थोऽल्पः, वाक्यविदस्तद्वाक्यमसमि. तमाहु॥ उदाहरणमाह- मानसौक पतद्यानदेवासनविलोचनः । तमोरिपुविपक्षारिप्रिया दिशतु वो जिन २१ ॥ मानसे औको गृह यस्य पतत, पक्षिण स मानसौरः पतन् हस, स एव यान यस्य स घासी देवश्व मानसौर पतद्यानदेवो ब्रह्मा तस्यासन कमल तद्वत्तत्सदृशे विशिष्टे लो- चने यस्य स जिनो वो युष्मान तमोरिपुविपक्षारिप्रिया दिशतु । तमोरिपु सूर्यस्तस्य विपक्षी राहुस्तस्यारिविष्णुस्तस्य मिया रक्ष्मीस्ता दद्यात् । अन शब्दयाहुल्येऽर्थस्तोक्त्व- मेव दोष ॥ 'अप्पक्खर महत्व एवं न दोषः । शन्दाल्पलेऽर्थे बहुलता गुणाय भवति । १.'मसमत' स.२ 'समती' स.

काव्यमाला २२ अपक्रम भवेद्यत्र प्रसिद्धक्रमलचनम् । यथा भुक्त्वा कृतस्नानो गुरून्देवांश्च वन्दते ॥ २२ ॥ यत्र वास्ये प्रसिद्धक्रमलानं भवेत् तदपक्रममुच्यते । अपगतः फ्रमो यस्मात्तदपक्रम मुच्यते। तथादौ सानं ततो देववन्दनं ततो गुरुनमस्करणं ततो भोजनमित्यादिक्रमोऽत्र ममः। छन्दःशास्त्रविरुद्धं यच्छन्दोभ्रष्टं हि तद्यथा । स जयतु जिनपतिः परब्रह्ममहानिधिः ॥ २३ ॥ यद्वाक्यं छन्दःशास्त्रविरुद्धं तच्छन्दोभ्रष्टं कथ्यते । तद्यथेत्युदाहरणे स जिनप. विर्जयतु विजयतां परब्रह्मणो महानिधानं स जयतु इत्यत्र छन्दोमङ्गः । आयादक्ष- रानगणस्य पतनादनुष्टुन्टक्षणं नास्ति । तया चोक्तम्-'वकं नाद्यानसी स्याताम्' इ. त्यादि । अधिकारस्तु तत्र वृत्तरलाकरछन्दति विलोकनीय इति ॥ रीतिभ्रष्टमनिर्वाहो यत्र रीतेर्भवेद्यथा । जिनो जयति स श्रीमानिन्द्राद्यमरवन्दितः ॥ २४ ॥ एवं पाली रीतिः समासा........ पदान्तविरतिप्रोकं यतिभ्रष्टमिदं यथा । नमस्तस्मै जिनस्वामिने सदा नेमयेऽहते ॥ २५ ॥ यद्वाक्यं पदान्तविरत्या पदमध्ये विरतियतिस्तया प्रोक्तं तद्यतिभ्रष्टं कथ्यते । पदान्ते सर्वत्र विरतिः कार्या न तु पदमध्ये पदमध्यविरतिमोक्तं तत् यतिभ्रटमुच्यते । यतिविरती एकार्यो । 'नमस्तस्मै जिनस्वामि' इत्यत्र वर्णपूर्णत्वात्पदान्तर्यतिः कृता । 'ने' इत्यक्षरं चतुर्थपादे पतितम् । नैवं भवेत् । भवेच वापि, संध्यादिविशेषभावात् ।। सक्रियापदहीनं यत्तदसत्क्रियमुच्यते । यथा सरस्वती पुष्पैः श्रीखण्डेघुसणैः स्तवैः ॥ २६ ॥ असती क्रिया यत्र वाक्ये तरिक्रयापदविहीनमसत्क्रियमुच्यते । यथाई सरस्वती पुष्पै । रंचयामि श्रीखण्डैघुसणैर्विलिम्पामि स्तवैः स्तौमीत्यादिक्रियाणामभावादसस्क्रियत्वम् । तथा न विद्यते सती मालार्था क्रिया यत्रेत्यन्वयार्थाश्रयणादमङ्गलार्थक्रियाहीनत्वे क. चिन्न दोषः । यथा- १. पुस्तकद्वयेऽपि समान इयानेव पाठ:. 'अत्र प्रथमपादेऽसमस्तपदरवादी रीतिः, द्वितीयपदे भूयःसमासवत्त्वाद्रौदीया रीतिः' इति जिनवर्धनसूरिव्याख्या.

२ परिच्छेदः] वाग्भटालंकारः। २३ 'मा भुजगास्तरविण्यो मृगेन्द्राः क्रूरदन्तिनः । भवन्त वरस संप्राप्त पन्धानः सन्तु ते शिवा ॥ अत्र हे वत्स भुजमा मा दाक्षुः, तरङ्गिण्यो मा नैपुः, मृगेन्दा मा दाघुः, घरदन्तिनो दुष्टगजाः पथि वा मा भैरसुरित्याद्यमङ्गलार्थक्रियाहीनत्वेनापि न दोपः । यदि प्रान्ते 'हे वत्स ते तव पन्थानः शिवाः सन्तु कल्याणा भवन्तु' इति मगलार्थनिया प्रयुक्ता । कि. यागुप्तेषु पुनरसस्क्रियामासत्वमेव, गुप्तायाः क्रियायाः सद्भावात् । यया- 'राजेन्द्र करवालोऽय कीर्तिपण्याइनारतः। भुजंगन्यक्तमूर्तिस्ते द्विपल्लोहितकुटुमैः ॥' इत्यत्र भुजगतीति रियापदं नटप्रायम् ।। उत्ता अद्यापि वाक्यदोपाः । अथ वास्यस्यार्थदोपानाह--- देशकालागमावस्या द्रव्यादिपु विरोधिनम् । वाक्येप्वथै न बनीयाद्विशिष्ट कारणं विना ॥ २७ ॥ वाक्यार्यविदः पुरुषा वाक्येषु देशविरोधिनोऽर्थोस्तथा कालविरोधिन आगमविरोधिनी. अस्थाविरोधिन आदिशब्दालोकपिरोधिनोऽप्यर्थान् विशिष्ट कारण विना न रचयेगुः ।। सर्वेशमुदाहरणान्येफस्मिन्काव्ये प्रददर्यन्ते- प्रवेशे चैत्रस्य स्फुटकुटजरानीस्मितदिशि प्रचण्डे मार्तण्डे हिमकणसमानोप्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं मदेनान्धं विध्यन्त्यसमशरपातैः प्रशमिनः ॥ २८ ॥ यथा प्रशामिनः क्षमापराधैत्रस्य चैत्रमासस्य प्रवेश मार्तण्टे सूर्य प्रय? सति मरमरति मकस्थतीसरोवरे जरीडायात पानीयत्रीदार्थमागत मदेनान्ध याति. पल पलभसमूह असमारपातविषमयापमहाविध्यन्ति । किंभूते प्रमोशे । सुट- उदनराजीस्मितदिशि स्फुटाः प्रमटाः फुटजास्तेषां राजी श्रेलिया स्मिता निवा दिसो यत्र प्रवेश । विभूते मार्तण्डे । हिमाणममानमूमणां महौ यस्य म सस्मिन् । तया विरोधमाद-वांगाले गुटमा भान्ति, न यसन्ते शशी पारविरदम्।मारे दिमा तरता इति द्रव्यापदम् । मसरति जरपीडा हरि देशविरुद्धम् । पालदिपानी मदान्यतेत्यास्थापिसक्षम् । प्रागिनो नियन्ती गागमापरदम् ॥ पत्र तु विशिष्ट पारणं तपन दोषः। यथा- तरिनारीनयनागारमिनरेन्द्र निलिम्पतिभिः । सराशि सावगलामागिन्गुरमादल मरम्परि - 1. पीयुमिरि पो मोर काव्यमाला । २४ इत्यादि अदोपः । एवं सर्वत्र भावीयम् ।। इति दोपविपनिकैरकलङ्कितमुज्ज्वलं सदा विबुधैः । कविहृदयसागरोत्थितममृतमिवाखाद्यते काव्यम् ॥ २९ ॥ विबुधैः सदा कविहृदयसागरोत्थितममृतं देवरासायते इत्युक्तिलेशः ॥ इति याग्भटालंकारटीकायां सिंहदेवगणिकृतायां द्वितीयः परिच्छेदः। तृतीयः परिच्छेदः। अदोपावपि शब्दार्थी प्रशस्येते न यैर्विना । तानिदानी यथाशक्ति बमोऽभिव्यक्तये गुणान् ॥ १ ॥ औदार्य समता कान्तिरर्थव्यक्तिः प्रसन्नता । समाधिः श्लेप ओजोऽथ माधुर्य सुकुमारता ॥ २ ॥ दोषरहितावपि शब्दार्थों यैर्गुणविना न प्रशस्पते । इदानी तान् गुणान्यथाशक्ति श- क्तिमनतिकम्य यथा भवति तथा अभिव्यक्तये स्पटतानिमित्तं वदामः । कवितस्यौदार्या. दयो दश वक्ष्यमाणा गुणा भवन्ति । नामान्यपि दशानो सुगमानि । तथा अभिव्यक्तये इत्पन तादर्थे चतुर्थी तेन यद्यपि दोषाणामभावो गुणान्साधयति तथापि कति ते गुणाः किनामानः किंस्वरूपा इत्यभिव्यक्तिर्न स्यात् । अतोऽभिव्यक्तिनिमित्तं वदामः ॥ प्रत्येक सोदाहरणार्यानाह- पदानामर्थचारुत्वप्रत्यायकपदान्तरैः । मिलितानां यदाधानं तदौदार्य स्मृतं यथा ॥३॥ यदर्थवारत्वप्रत्यायकपदान्तमिलितानामर्थरम्यत्वोत्पादकापरपदैः संयोजितानां पदा.. नामाधान करणं तदौदार्य स्मृतम् ।। उदाहरणमाई- गन्धेभविभाजितधाम लक्ष्मीलीलाम्बुजच्छत्रमपास्य राज्यम् । क्रीडागिरौ रैवतके तपांसि श्रीनेमिनाथोऽत्र चिरं चकार ॥ ४ ॥ श्रीनेमिनाथोऽत्र क्रीडागिरी रैवतके चिरं तपोति चकार । राज्यमपास्य त्यहा । कर्य- भूतं राज्यम् । गन्धेभैर्गन्धहस्तिभिर्विभ्राजितं शोभित धाम गेहं यस्मिस्तत् । लक्ष्मीली- लाम्बुजं लीलाकमलं यादृग्भवति एवंविधं छत्र यस्मिनराज्ये तलक्ष्मीलीलाम्युजरछनम् । . - ३ परिच्छेद वाग्मटालंकारः। अमकमलगिरिशब्दाना गन्धलीलाक्रीडापदमिलिताना सतामर्थरम्यत्वोत्पादकत्वाददा. र्यम् । इमस्मरगिरिशब्दाना केवलाना तादृशी न शोभा यादृशी गन्धलीलाक्रीडा पदा- न्तरै सयोजिताना भवति । एतदौदार्यमुच्यते । समता कान्ति चैकश्लोफेनाद- बन्धस्य यदवैषम्यं समता सोच्यते बुधैः । यदुज्ज्वलत्व तस्यैव सा कान्तिरुदिता यथा ॥ ५ ॥ बन्धस्य यदवेपम्यमविपमता सुकुमारता सा समता मता । तस्यैव पन्धस्य यदुज्ज्व- लत्व निर्मलता सा कान्तिरुच्यते ॥ उदाहरणमाह- कुचकलशविसारिस्फारलावण्यधारा- नुवदति यदङ्गासगिनी हारवल्लिः । असदृशमहिमान तामनन्योपमेया कथय कथमह ते चेतसि व्यञ्जयामि ॥ ६ ॥ सा कीदृशी विद्यते इति केनापि कोऽपि पृष्ट सनुवाच-भो , कथय । अह ता ते तव चेतसि कथ व्यञ्जयामि कथ प्रकटीकरोमि । अनन्योपमेया अन्याभिर्नोपमीयते इत्यनन्यौपमेया ताम् । सर्वोत्तमरूपामित्यर्थ । असदृशमहिमान सर्वोत्कृष्टमाहात्म्याम् । यदनासहिनी हारवल्लि यस्या अगलना हारलता कुचक्लशविसारिस्फारलावण्यधा रामनुवदत्यनुकरोति । कुचरलशाभ्या स्तनकुम्भाभ्या विसारिणी प्रसरणशीरा स्मारी- दारा रावण्यधारा तामनुस्रोति । एवविधरूपा ता कथ व्याख्यानयित्वा ते चेतसि प्रक्टयामि । अनोत्कटपदाभावादुत्तमपदाभावाच समपन्धत्वात् समता कथिता । एष समतागणो द्वितीय ॥ फलैः क्लप्ताहारः प्रथममपि निर्गत्य सदना- दनासक्तः सौख्ये क्वचिदपि पुरा जन्मनि कृती। तपस्यन्नधान्तं ननु वनभुवि श्रीफलदलै- रखण्डै खण्डेन्दोश्चिरमकृत पादार्चनमसौ ॥ ७ ॥ कस्यापि धनिनो वर्णनमेतत् । असावनिर्दिष्टनामा कृती पुरा जन्मनि पूर्वभवे चि. कुत्रापि ननु निश्चित वनमुवि काननम्मी श्रीफरदौषिल्वदले खण्डेन्दोर्हरस्य पादार्च नमकृत चकार । कथमतोऽसौ । सदनाद्नेहानिर्गस्य प्रथममपि फले कृप्ताहारो रचितभो. जन' । अत एव-सौरयेऽनासक्त । अश्रान्तमखेद यथा भवति तथा तपस्यन् तप कुर्वन् । तत्तोऽनेनेदृशी लक्ष्मी प्राप्ता। अत्र विसधिरूपसधिविसर्गरोपप्रभृतिबन्धाग्ला- निकारणामावादोज्ज्वल्य वतीयो गुण ॥

२६ काव्यमाला। यदक्षेयत्वमर्थस्य सार्थव्यक्तिः स्मृता यथा । त्वत्सैन्यरजसा सूर्ये लुप्ते रात्रिरभूद्दिवा ॥ ८ ॥ यदर्थस्यायलं तत्तच्छन्दयत्तया साक्षादर्थप्रतिपादनेन बलात्काराद प्राप्यत्वं अर्यस्य मुसेन गम्यलम् । अल्पयन्धेनापि तादृशाः शब्दाः प्रयुज्यन्ते यादृशः साक्षादयों लभ्यते सा अर्थव्यक्तिईया । हे नरेन्द्र, खरसन्यरजमा सूर्य सुप्ठे दिवसे रात्रिरभूत् । अब राप्रेहेतुः सूर्यलोपः सूर्यलोपस्य हेतु रजः रजसो हेतु: सैन्यमित्यर्थस्य सुखटभ्यत्वादहेयत्वम् ॥ व्यतिरेकमाह-यनार्यस्य शेयता तत्र दोषः । यथा- चतुरङ्गे भवत्सैन्ये प्रसर्पति दिशः क्रमात् । नरेन्द्र बहुलध्वान्ता दिवाप्याविरभूनिशा ॥९॥ अन रानहेतुः सूर्यलोपः सूर्यटोपस्य हेत् रजः रजसो हेतुः सन्यमित्यादिहतोरमावाद. र्थस्य शेयत्वम् । एवं सदोषता(याम्) । चतुर्थ एष गुणः ॥ झटित्यापैकत्वं यत्प्रसत्तिः सोच्यते वुधैः । कल्पदुम इवाभाति वाञ्छितार्थप्रदो जिनः ॥ १०॥ यत् झटिति शीघ्रमर्थापकत्वं सा प्रसत्तिरुच्यते । यया कल्पद्रुमादिपदानामुचारण- मारेणेवार्थापकत्वात्प्रसत्तिरुच्यते । एप पञ्चमो गुणः ।। स समाधिर्यदन्यस्य गुणोऽन्यत्र निवेश्यते । यथाश्रुभिररिस्त्रीणां राज्ञः पल्लवितं यशः ॥ ११ ॥ यदन्यस्य पदार्थस्य गुणोऽन्यपदार्थे निवेश्यते स्थाप्यते स समाधिगुणः । यथारित्री- णामभूभी राज्ञो यशः पल्लवितमित्यत्र पल्लवगुणो वृक्षसंवन्धी स यशस्यारोपितः । एष स. माधिगुणः षष्ठः ॥ अथ श्लेजोगुणद्वयमेकश्लोकेनवाह- श्लेपो यत्र पदानि स्युः स्यूतानीव परस्परम् ओजः समासभूयस्त्वं तद्गद्येप्वतिसुन्दरम् ॥ १२ ॥ पृथग्भूतान्यपि पदानि यत्र स्यूतानविकोणिमोतानीव समस्तानीव परस्परं भवन्ति सगुणः । यत्समासभ्यस्त्वं समासप्राचुर्य भवति स ओजो गुणः । तत्समासभ्यस्त्वं गयेषु गद्यवन्धेष्वतिसुन्दरं भवति ।। श्लेषोदाहरणमाह-- मुदा यस्योद्गीतं सह सहचरीभिर्वनचरै- मुहुः श्रुत्वा हेलोद्धृतधरणिभारं भुनवलम् ।

३ परिच्छेद ] वाग्भटालकार । दरोद्गच्छदर्भावरनिकरदम्भात्पुलकिता- श्चमत्कारोद्रेक कुलशिखरिणस्तेऽपि दधिरे ॥ १३ ॥ तेऽपि कुल शिखरिण कुलाचला यस्य राज्ञो भुजबल सह सहचरीभि सह पनाभिर्वनचरै मिरैर्मुहुरिवार मुदा हर्षेणोद्गीत व्यारयात श्रुत्वा चमत्कारादेक चमत्कारवाहुल्य दधिरे । कथभूता पवता । दरोगच्छदर्भाकुरनिश्रदम्भात्पुर पिता । ईषदुत्पद्यमानकशाकुरस- मूहमिपादोमाञ्चिता । एप शेषगुण सप्तमो भवति ॥ अथ गद्यय धेन ओजागुणमाह- समराजिरस्फुरदरिनरेशकरिनिकरशिर सरससिन्दूरपूरपरिचयेनेवारु- णितकरतलो देव ॥ १४ ॥ हे देव, खारुणितमरतलो रक्तीकतहस्ततलो विभाति । उत्प्रेक्षते-समराजिरे समा माहणे स्फुरन्तो येऽरिनरेशाना करिनिरा हस्तिसमूहास्तेपा शिर सरससिन्दूरपूर स्तस्य परिचयेनवाणित करतल ॥ अब माधुर्यसौकुमार्यगुणागाह- सरसार्थपदत्व यत्त-माधुर्यमुदाहृतम् । अनिष्ठुराक्षरत्व यत्सौकुमार्यमिद यथा ॥ १५ ॥ यत्सरसार्थपदत्व तदिद माधुर्य कथितम् । अर्थाश्च पदानि चार्थपदानि रससहितान्य पदानि यत्र तद्भाव । अथवा सरसार्थानि पदानि तद्भाव सरसाथपदत्वम् । उदाहरणमाह फणमणिकिरणालीस्यूतचञ्चन्निचोल कुचक्लशनिधानस्येव रक्षाधिकारी । उरसि विशदहारस्फारतामुजिहान किमिति करसरोजे कुण्डली कुण्डलिन्या ॥ १६ ॥ किमितीति वितर्के । किमय कुण्डठिन्या पद्मावत्या करसरोजे करस्म कुण्डली सर्प कुचकलशनिधानस्य रक्षाधिकारीवास्ति । अयनाप निधानस्य सर्पो रक्षा क रोति । अनापि स्तनकुम्भा एव निधानानि तदक्षार्तास्ति । पणमणीना फिरणाल्या स्यूतो निपद्धधश्चन्दीप्यमानो निरोर क्चुको यस्य सर्पस्य स । उरति विशदहारतां प्रामुवन् । तत्तु यता दधान इत्यर्थ ।। सौकुमार्यमाहादाहरण चाह- प्रतापदीपाजनराजिरेव देव त्वदीय करवाल एप । नो चेदनेन द्विपता मुखानि श्यामायमानानि कथ कृतानि ॥ १७ ॥ . निधीना'.

काव्यमाला।
हे देव, एप त्वदीयः करवायः प्रतापदीपाजनराजिरेव वर्तते । प्रताप एव दीपो दीप्य.
मानतात्तस्य प्रतापदीपस्य खगोऽजनराजिरजनप्रेपिरतिकृष्णसारखगस्य । यो पू.
क्ति न स्यादनेन सहन द्विषतां मुखानि शामायमानानि श्याममावमाचरन्ति कर्य
कृतानि । अनानिठुरसमाप्तवत्यारसीकुमार्यम् ॥
गुणैरमीभिः परितोऽनुविद्धं मुक्ताफलानामिव दाम रम्यम् ।
देवी सरस्वत्यपि कण्ठपीठे करोत्यलंकारतया कवित्वम् ।। १८॥
इति वाग्भटालंकारे हतीयः परिच्छेदः ।
अमीभिरौदार्यादिभिर्गुणैः परितः समन्ततोऽनुविद्धं व्याप्तं कवित्वं देवी सरस्वत्यपि
अलंकारतया करोति मुक्ताफलानां दामेव । यथा मुक्ताफलानां मालालंकारतया कण्ठपोटे
योपया क्रियते सा परितो गुणैरनुविद्धा माति तथा कवित्वमलेकारतया कण्डपीठे क्रियते ।
अतोऽलंकारावसरस्ततस्तानेव नामतः प्राह ॥
इति वाग्भटालंकारटीकायां सिंहदेवगणिकृतायो तृतीयः परिच्छेदः ।
चतुर्थः परिच्छेदः ।
दोपैमुक्तं गुणैर्युक्तमपि येनोज्झितं वचः ।
स्त्रीरूपमिव नो भाति तं ब्रुवेऽलंकियोञ्चयम् ॥ १
येनालंकियोचयेनालंकारसमुदायेनोज्झितं त्यक्तं वचो नो भाति । यथा वीरूपमले-
क्रियोच्चयं विना नो भाति । काव्यविषये चित्रवक्रोक्त्यादयोऽलंकाराः । स्त्रीरूपविषये-
ऽलंकाराः कटककेयूरतिलकादयः ॥
विधादयोऽलंक्रिया अलंकारा द्विविधाः-शब्दालंकारा अर्थालंकाराय। ततः प्रथम
शब्दालंकारांस्ततोऽर्थालंकारान्प्राड्डाममात्रतः पश्चाद्विस्तरतः सोदाहरणानाह~~
चित्रं वक्रोचयनुप्रासौ यमकं ध्वन्यलंक्रियाः।
अर्थालंकृतयो जातिरुपमा रूपकं तथा ॥ २ ॥
प्रतिवस्तूपमा भ्रान्तिमानाक्षेपोऽथ संशयः ।
दृष्टान्तव्यतिरेको वापश्रुतिस्तुल्ययोगिता ॥ ३ ॥
उत्प्रेक्षार्थान्तरन्यासः समासोक्तिविभावना ।
दीपकातिशयो हेतुः पर्यायोक्तिः समाहितम् ॥ ४ ॥
परावृत्तिर्यथासंख्यं विषमः स सहोक्तिकः ।
विरोधोऽवसरः सारं स पश्च समुच्चयः ॥ ५ ॥

४ परिच्छेदः] वाग्भटालंकार । २९ अप्रस्तुतप्रशंसा स्यादेकावल्यनुमापि च । परिसख्या तथा प्रश्नोत्तरं सकर एव च ॥ ६ ॥ प्रागमीषा नामानि प्रत्येकमाह--चित्रमित्यादिश्लोकपश्चकेन । तथा चित्रादयश्चत्वारो- ऽपि ध्वन्यलगारा अवगन्तव्या. । अर्थालझारा जात्युपमारूपकादय ॥ अथ चित्रादीनामलकाराणा सोदाहरणानि लक्षणान्याह- यत्राशसधितद्रूपैरक्षरैर्यस्तुकल्पना । सत्या प्रसत्तौ तच्चित्र तच्चित्र चित्रकृच यत् ॥ ७ ॥ यत्र बन्धे वस्तुकल्पना पदार्थघटना अगसघितद्रूपैरक्षरैर्भवति । वस्तुन' कमलछत्रचामरपन्धादेर्घटना वस्तुनोऽङ्गाना ये सधयस्तेषु तद्रूपाणि तान्येवाक्षराणि व- स्तुकमलबन्धच्छत्रबन्धादितदद्गानि कमलामानि दलादीनि । छत्राङ्गानि दण्डपटिका. दीनि । तेषामगाना ये सधयस्तत्र सदृशाक्षराणि कार्याणीत्यर्थः । तच्चित्रमुच्यते । यच चित्रकृदाश्चर्यकारि दुष्करत्वेन कविप्रज्ञातिशयख्यापन भवति एकस्वरादिकमेकव्य- अनादिक वा तदपि चित्रमुच्यते । परमपि यथाचित्र प्रसत्तौ सन्या प्रसत्तेरेव काव्यै विधेयम् । अप्रसत्तेस्तु काव्य को नाम चित्रकाविन भवेत् । चित्रमाकारगतिस्वर- व्यजनभेदाच्चतुर्विध भवति । आकारचित्र पद्मच्छत्रचामरस्वस्तिकस्लशहरमुसलादि- बन्धैरनेकधा । गति चक्र गोमूत्रिकातुरगगजपदादिभिर्भवति । स्वरेण स्वराभ्या स्वरै- वा चिन स्वरचित्रम् । स्वरत्रय यावञ्चित्रकस्य दुष्करत्व सभवति । स्वरनयादूर्व किं चित्रम् । तथा मात्राच्युतरविन्दुच्युतकावपि स्वरचितभेद । तथा व्यञ्जनचित्र एकव्यानद्विव्यअनत्रिव्यञ्जनचतुर्व्यअनबन्धम् यावद्यञ्जनचित्रम्, न तत्पर सुकरत्वात् । अक्षरच्युतक व्यञ्जनचिनभेद ॥ आकारचित्रमाह- जनस्य नयनस्थानध्वान एनश्छिनत्त्विनः । पुनः पुनर्जिन. पीन नध्वानधन स नः ॥ ८॥ स जिन इन स्वामी नोऽस्मारमेन पाप पुन पुनश्नित्तु । किंभूतो जिन । जनस्य नयनस्थानध्वान । जनस्य लोकस्य नयनस्थाने ध्वानो ध्वनिर्यस्य स तथा । जिनध्वनिना आगमरूपेण नयननैव जन परोक पश्यतीत्यर्थ । तथा पीन स्फारतर शानध्वाने एवं धन यस्य स तथा । पोहशदल कमल गोमूत्रिकाचित्रम् ॥ एकस्वरचित्रमाह--- गणनरगणवरकरतरचरण परपद शरणगजनपथकथक।

काव्यमाला। अमदन गतमद गजकरयमल शममय जय भयधनवनदहन ॥ ९॥ हे गणनरगणवरकरतरचरण । गणा ऋषयो नरा मनुष्याच क्रियासु देवादयः । गण- नराणां गणाः समूहास्तेषां वरस्य कल्याणस्य करतरी प्रकृष्टं कल्याणकरो चरणौ यस स तत्संयोधनम् । तथा परं पदं यस्य सः । हे शरणगजनपथकथक हे शरणागत. लोकमार्गनिर्देशक । हे अमदन निष्काम । हे गतमद निर्मद । हे गजकरयमल ग. जकरो हस्तिशुण्डादण्हस्तकरयमलं यस्य सः । एककरशब्दस्य लोपः । हे शम. मय । हे भयधनवनदहन । भयमेव घनं वनं पानीयं तस्य दहन इव दहनस्तत्सं. बोधनम् । अत्र मणिगुणनिकर छन्दः । चित्रत्वादन्ते गुरूणाममावोऽपीह न दोपाय । एकस्वरचित्रम् ॥ मात्राच्युतकमपि स्वरचित्रम् । अतस्तदेवाह- मूलस्पितिमधः कुर्वन्पात्रैर्जुष्टो गताक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः॥ १० ॥ स दासीसुतो विटः पधि न्यायमार्गे तिष्ठतः कस्य कुलीनस्य सेव्यः स्यात् । न कस्यापीत्यर्थः । कीदृशः । मूलस्थिति मूलकुलाचारमधः कुर्वन् । तथा गताक्षरैः पात्र- र्जुष्टः । अथ विटशब्दस्य दूरहितस्यार्थभेदः । स इति प्रसिद्धो वटः पधिकस्य पा- न्यस्य तिष्ठतो निवर्तमानगतेः कुलीनस्य तदधोभूमावुपविष्टस्येत्यर्थः । सेव्यः स्यात् । पान्यस्य गच्छतोऽनुपविष्टस्य कथं वरः सेव्यः स्यात् । ततस्तिष्ठतः फुलीनस्येति वि- शेषणद्वयस्य साफल्यं जातम् । कीदृशो वटः । मूलानां जटानामधः स्थिति फुर्वन् । तथा-गताक्षरैः पत्रिर्जटः । एवं गतमासमन्ताक्षरं क्षरणं येभ्यतर्गताक्षः पात्रैः पर्जुष्टः। विटपदादिकारमात्राच्युतकं वट इति ।। तथा पिन्दुच्यतकमपि स्वरचित्रम् । तदाह-- धर्माधर्मविदः साधुपक्षपातसमुद्यताः । गुरूणां वञ्चने निष्ठा नरके यान्ति दुःखिताम् ॥ ११ ॥ एवंविधा नरा नरके दुःखितां यान्ति दुःखभावं प्राप्नुवन्ति । धर्ममेवाधर्म कृत्वा विदन्तीति धर्माधर्मविदः । साधुपक्षः सतां पक्षस्तस्स पाते पतने नाशने समुद्यताः । गुरूणां पूज्यानां वश्चने निष्टा आहताः । अथ पश्चन शब्दाद्विन्दुच्युतावान्यत्वम् । तथा हे नरोत्तम, गुरूणां पित्रादीनां वचने निदेशे निष्ठास्तत्पराः के दु:खितां यान्ति। न 1. 'गतम्' 'आ' इत्यक्षरं येभ्यस्तादृशः पात्रः (पौरिति यावत्) इत्यर्थः । इति जिनवर्धनसूरिः. - .

४ परिच्छेद]
वाग्भटालकार ।
-
केऽपात्यर्थ । कीदृशा । धर्माधर्मविद पुण्यपापव्यक्तिशातार । साधना य पक्षपात
पक्षस्वीकारस्तन समुद्यता आसत्ता । वंचनपदाद्वि दुच्युतक वचन इति ॥
ककाकुकङ्ककेकाङ्ककेकिकोकैककु कक ।
अकुकौक काककाकऋकाकुकुककाङ्ककु ॥ १२ ॥
ककाकु इत्येष श्लोक एक-यजनो नेमिनिर्वाणमहाकाव्ये राजीमतीपरित्यागाधि-
कारे समुद्रवर्णनरूपो ज्ञेय । तथा कक समुद्रो वर्तते । केन जलेनोपलक्षित को
वायुर्यत्र स कक । यद्वा केन वायुना प्रेरित क जल यन स कक । अथवा कमेव क
मात्मा यस्य स कक । समुद्र कीदृश । ककाकुकककेका केकिकोकैककु' । क सुख
यया भवति काकुनियेषा ते कमाव 1 अथवा केन सुखेन जलेन वा काकवी ध्व-
निविशेषा येषा ते ककाकव । ककाकवच ते काश्च कड़ा जलपक्षिण । तथा केका
केकारवोऽकश्चिद्ध येषां ते केकाङ्का केकिनो मयूरा । तथा कोकाश्चक्रवाका । कथं मिथो
मेलक । ककाकुकड़ा' ककाङ्ककेकिन कोका एवैका अद्वितीया कुमियस्य स तथा ।
तथा-अकुकीक काककाक । कव कुत्सिता न क्योऽक्व शोमना कौकसो जल
यासिन काका । शोमनजलवायसा इत्यर्थ । तेषां समूह काक काकमेव काककम् ।
स्वार्थे क । तस्य अका माता य समुद्र स एव पालकत्वा माता । तथा-काकु
कुककाङ्ककु । ऋचो वेदवाक्यानि तेषा काकवो वक्रोक्त यस्तासा कुक उच्चारक को
बना सोऽङ्के उत्सङ्गे यस्यासौ अर्थादेव विष्णुस्तस्य कु. स्थान समुद्र । जलशयनत्या.
दस्येति ॥
तथैकव्यानच्युतक्मपि व्यन्जनचित्र ततस्तदेवाह-
कुर्वन्दिवाकराश्लेप दधचरणडम्बरम् ।
देव यौप्माकसेनाया करेणु प्रसरत्यसौ ॥ १३ ॥
हे देव, यौष्माफसेनाया असौ वरेणुर्गज प्रसरति । कीदृश । दिवा आकाशेन सह
करानेष कुर्वन् । तथा चरणडम्बर दधत् । पक्षे वर्णच्युतकत्वात्ककारलोपे असी रेणु
प्रसरति । कीदृश । दिवारेण सूर्येण सहालेय कुर्वन् सूर्य यावद्गच्छनित्यर्थ । च समु.
धये । रणसम्परं समामडम्पर दधत् । फरेणुपदात्ककारच्युतकम् ॥
प्रस्तुतादपर वाच्यमुपादायोत्तरप्रद ।
भङ्गश्लेपमुखेनाह यत्र वक्रोक्तिरेव सा ॥ १४ ॥
यत्र पधे उत्तरप्रद पुमा प्रस्तुतादादपर वाच्यमर्थमुपादाय भालेपपदेन वाइ वदति
सा वोक्तिरेव ॥
मापदोदाहरणमाह-
नाय मयूरो नृत्यति तुरगाननवक्षस कुतो नृत्यम् ।
ननु कथयामि कलापिनमिह सुखलापी प्रिये कोऽस्ति ॥ १५ ॥

काव्यमाला। प्रस्तुतो मयूरः केकी । यत्रोकी तु तुरहावदनी मयुः किनरस्तस्योरो वक्षस्तन्यति भर्वोत्तम् । तुरगाननस्य वक्षसो नृत्यं कुतः । हे नाथ, अहं पलापिनं कथयामि इति पन्योक्तः इह कलापी मुखवत्ता । पिये, कोऽस्ति मद्गपदं प्रस्तुतसदस्य खण्डना यथा । मयूरस्य कलापिनो वा ॥ शेषपदस्योदाहरणमाइ~~ भर्तुः पार्वति नाम कीर्तय न चेत्त्वां ताडयिष्याम्यहं क्रीडाजेन शिवेति सत्यमनवे किं ते शृगालः पतिः। नो स्थाणुः किमु कीलको नहि पशुस्वामी नु गोठा गवां दोलाखेलनकर्मणीति विजयागौयोंगिरः पान्तु वः ॥ १६ ॥ खेलनकर्मणि क्रीडाकर्मणि इत्येवंभूता विजयागीयोगिरो वो युप्मान्पान्तु । विजया गौरी पृच्छति-~हे पार्वति, भर्तुर्नाम कीर्तय कथय नो चेदनेन फ्रीडाफमलेन त्वां ताह- विध्याम्यहम् । पार्वत्योक्तम्-स्फुट प्रकटमिदमेतन्मे पतिः शिवः । विजयोवाच-तव पतिः गालः । नो नो सखि, मे एतिः स्थाणुः । कि कीलकस्तव मः । नहि नहि भगिनि, मम पतिः पशुस्वामी । तव पतिः किं गवां गोप्ता पशुपतिः पशुपालो गोपालकः । इत्याचा विजयागौर्योदोलाखेलनकर्मणि वाचः पान्तु । प्रस्तुतादर्थाच्छिवादपर गालादिक- मर्थमादाय श्लेषेण विजया गौरी प्रति वदति । इत्येपा शेषपदवक्रोक्तिः । अनुप्रासमाह-- तुल्यश्रुत्यक्षरावृत्तिरनुप्रासः स्फुरद्गुणः । अतत्पदः स्याच्छेकानां लाटानां तत्पदश्च सः॥ १७ ॥ तुल्या समाना श्रुतिः श्रवणे येषामक्षराणां तानि तुल्यश्रुत्यक्षराणि तेपामावृत्तिः पुनः पुनरुपादानमनुप्रासः कथ्यते । कीदृशः । स्फुरद्गुणः स्फुरन्तोऽपाधिता औदार्यादयो गुणा येन स तथा : सोऽनुप्रासो द्विधा ठेकानुप्रासो लाटानुप्रासचा छेका विदग्धाः छेकजन- वालमत्वाच्छेकानुप्रासः । लाटजनवमत्वालाटानुप्रासः । तथा ठेकानामनुप्रासोऽतत्पदः। तान्येव पदानि यत्र स तत्पदः । न तत्पदोऽतत्पदः । अन्येरन्यः पदैरुत्पन इत्यर्थः । लाटानां तत्पदस्तस्तैरेव पदैनिएन इत्यर्थः ।। छेकानुपासोदाहरणमाह- अलं कलशृङ्गार करप्रसरहेलया। चन्द्र चण्डीशनिर्माल्यमति न स्पर्शमहति ॥ १८ ॥ काचिद्विरहिणी चन्द्रमसं प्रत्याह-है कलङ्गार, करप्रसरहेलया अलं पूर्यताम् । हे चन्द्र, त्वं चण्डीशनिर्माल्यमाप स्पर्श नाईसि निर्माल्यस्पर्शी न युज्यते स. ताम् । अत्रालं कलइशारकरमसरचन्द्रचण्डीशेत्यायतलदैछ कानुप्रास इति ।।

४ परिच्छेदः]] वाग्मटालंकारः। ३३ रणे रणविदो हत्वा दानवान्दानवद्विपा । नीतिनिष्ठेन भूपाल भूरियं भूस्त्वया कृता ॥ १९ ॥ हे भूपाल, दानवद्विषा वासुदेवेन रणे समामे रणविद सग्रामनिपुणान्दानवान्हत्वा इय भूर्भू कृता । त्वया नीतिनिष्ठेन न्यायनिपुणेन सता इय भू— कृता, इद पुर पुरमय जातम्, तथेय भूर्भू कृता । अन रणे रणविदः, दानवान्दानवद्विषा, भूरिय भूरित्यादितत्पदत्वेनैवानुप्रोसफरणालाटानुप्रास ॥ त्वं प्रिया चेच्चकोराक्षि स्वर्गलोकसुखेन किम् । त्वं प्रिया यदि न स्यान्मे स्वर्गलोकसुखेन किम् ॥ २० ॥ हे चोराक्षि, यदि त्व मम प्रिया जाता तदा स्वर्गलोकसुखेन नाकलोकसुखेन मम किम् । यदि च व प्रिया न स्या मम तथापि ला विना स्वर्गलोकसुखेन किं मम । अन द्वितीयचतुर्थपादेन लाटानुप्रासो भवति ॥ अन कठोरता लाटानुप्रासेऽपि दोपाय । तदाह- एकनपाने स्वकलत्रवन नेत्रामृतं विम्बितमीक्षमाणः । पश्चात्पपौ सीधुरस पुरस्तान्ममाद कश्चिद्यदुभूमिपाल ॥ २१ ॥ कश्चियनुभूमिपाल एकत्रपात्रे एकस्मिन्मदिराकलोलके स्वकलत्रवत्र विम्पितमी- क्षमाण पुरस्तात्मथम ममाद । पश्चात्सीपुरस मदिरारस पपौ । अन्यो मद्य पीत्वा पश्चान्माद्यति । असौ (प्राग्) ममाद । अन बहुतरवर्णावृत्तौ सौकुमार्यपाधा । एवमन्ये- पामपि गुणाना पाधा अनुप्रासरसिकेन कविना रक्ष्या ॥ स्यात्पादपदवर्णानामावृत्तिः सयुता युता । यमक मिन्नवाच्यानामादिमध्यान्तगोचरम् ॥ २२ ॥ पादो वृत्तचतुर्थो भाग. । पद विभक्त्यन्तम् । वर्णोऽक्षरम् । अमीषा भि. भवाच्यानो भिमानामावृत्ति पुन पुनर्वर्णनं यमक स्यात् । सा आत्तिद्विधा-सयुता अयुता च । सयुता अन्तराले अपरपदरहिता । अयुता अन्तरालपदसहिता । तथा सयु. तारती तयमक निधा-अदिमध्यान्तगोचरम् आदिगोचरमादियमकम्, मध्यगोचर मध्ययमाम्, अन्तगोचरमन्तयमझम् । अयुतावृत्ती वन्यथापि च्यात्या । आदि- मध्यगोचरम् मध्यान्तगोचरम् । फाक्षिगोलकन्यायेन मध्यशब्द उमयनापि सबध्यते । तथा मध्यस्यान्तोऽर्थात्पद्यात एवोच्यते । तेनायन्तगोचर यमक स्यादिति सिद्धम् । आ- त्तिर्यथाशक्ति नियते । तेन शोरान्तगामिन्यप्यावृत्ति सभवति । निषेधाभावेनकासार चतुपर मदायमामुच्यते, इत्यपि सिद्धम् ॥ १. 'एतेषु सर्वेषु पूर्वोक्ता सम्पा तुल्यानामेव वर्षानामावृत्तिरत्ता, सप्रति कि- रिनेदेऽपि तुत्यश्रुतिसादनुमास स्यादिनी दर्शयति' इत्यस्तरणिशं जिनवर्धनसूरिराह । अधयमक्माह- काव्यमाला। संयुतारती पादयमकमाह- दयां चक्रे दयांचके। सतां तस्माद्भवान्वितम् ॥ २३ ॥ हे राजन्, यस्माद्धेतोमवान् दयां च करणां चकार तस्मात्कारणाभवान् सर्ता साधूनां वित दयांचत्र दत्तवान् । बीटा छन्दछन्दहामणी । मध्यपादियमकमाह- यशस्ते समुद्रान्सदारोरगारेः। सदा रोरगारेः समानानकान्तः ॥ २४ ॥ तथा हे राजन्, सत् शोभनं ते यशः समुदानार गतम् । कीशोरगारेर्गरुडस्य । समानाकान्तः । स्वर्णवर्णस्येन्ययः । सदा रोरगारेः सदा सर्वदा रोरगा दारियं गता अरयो यस्य तस्य रोरगारेः । 'रोरं दारिशमुच्यते । सोमराजी छन्दः । पादान्तयमकमाह- द्विपामुद्धतानां निर्हसि त्वमिन्द्रः । मुदं मो धराणामुदम्मोधराणाम् ॥ २५ ॥ भो राजन, इन्दो धराणां पर्वतानाम् मुदं हर्षे इन्ति । कीदृशानाम् ।उदम्भोधराणाम् । तदुपरि अम्भोधरा मेघा येषां तेषाम् । त्वं च बद्धतानां द्विषो मुदं निहसि । स्वमिदच समानी पलेनेत्यर्थः । छन्दस्तदेव ॥ अधादिमध्यगोचरं मध्यान्तगोचरं यमकमेकत्तेनाह- विभातिरामा परमा रणस्य विभाति रामा परमारणस्य । सदैव तेऽनोनित राजमान सदैवतेनोनितरानमान ॥ २६ ॥ पादद्वयेनादिमध्ययमकम् । अप्रेतनपादद्वयेन मध्यान्तयमकम् । हे अजोजित अजो वासुदेवस्तद्वदलिष्ठ हे राजमान शोममान हे नृप, सदैवतेजोनितराजमान सदैवं कर्मसहितं यत्तेजस्तेनाजितो राजसु भूपेषु मानो महत्त्व येन स तथा तत्संयोधनम् । ते तव रणस्य विभा विभाति । कीशी । अतिकान्तो रामो दाशरथिर्यया सा । रामा रम्या परमा प्र- कृष्टा । कीदृशस्य । परमारणस्य शत्रुधातकस्य । अयायुतावृत्तावादिमध्यगोचरं यमकमाह- सारं गवयसांनिध्यराजि काननमग्रतः। सारङ्गवयसां निध्यदारुणं शिखरे गिरेः ॥ २७ ॥ है प्रिय, अग्रतो गिरेः शिखरे सारङ्गवयसां मृगपक्षिणां कानन पश्य । की- ४ परिच्छेदः) वाग्भटालंकारः। दृशम् । निध्यदारुण निधिभिरदारुणमभीकम् । तथा सारं प्रधानम् । तथा गवयसानिध्ये- नारण्यराण्डनिकटवेन राजि शोममानम् ।। अमरनगरस्मेराक्षीणा प्रपञ्चयति स्फुर. सुरतरुचये कुर्वाणाना वलक्षम रंहसम् । इह सह सुरैरायान्तीना नरेश नगेऽन्वहं सुरतरुचये कुर्वाणाना वलक्षमरं हसम् ॥ २८ ॥ हे वरक्षम् , नरेश, इह नगेऽन्वह नित्य सुरतरुचये सुरभगणे वाणाना वृक्षाणा कु. भूमिरमरनगरस्मेराक्षीणा देवाहनाना रहस वेग प्रपञ्चयति । रम्या वाणाः, अतो देव्यो वेगेन पीडायै मायान्तीत्यर्थः । कीदृशीनाम् । स्फुररसुरतरुचये सुरतसुखनिमित्त सुरैः सहायान्तीनाम् । तथारमत्यर्थे वलक्ष धवल इस हास्य कुर्वाणानाम् । अत्र पर्वते कुर्भूमिः शोमते ।। अपाचन्तयमकमाह- आसन्नदेवा न रराज राजिरुचैस्तटानामियमत्र नागौ । फ्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजि ॥ २९ ॥ अपादावियं तटानां राजि श्रेणिर्न [न] रराज । अपि तु रराजैव । कीदृशी । आसन- देया समीपस्यसुरा । तयोधैर्गुवौं । यत्र यहां तटराजी नदे हदे दिगन्तनागा दिग्गजाः माहात सन् क्रीडाकारिणोऽभवन् । कीदृशे। वानरराजराजि वानरराजा मुख्यवान- रास्तै राजतीन्यवंशीटो वानरराजराट् तस्मिन्वानरराजराजि ॥ गोरावसानगास्तिर्महायमंझम्, तदाह- रम्भारामा कुरवककमलारं मारामा कुरवककमला। रम्भा रामाकुरवक कमलारम्मारामाकुरबककमला ॥ ३० ॥ अन पर्वते पुभूमिः शोमते इति संपन्यः । कीदृशी भूमि । रम्भारामा रम्मामि' पदलोमिमिया आरामा यम्पों सा तथा । अवारमला अयक परहित क पानीय म. रने पारयतीत्यया कमरा । तया अरमत्यर्थं मारा मा भैक्षरा ईपदामा कर्युरेत्यर्थ । तपा-रपामटारम्भा पुरसमा वृक्षविशेषाः पमहानि पनानि तेपामारम्मा उत्पत्तयो यसा मा पुरपस्यमरम्भा । तया रामा रम्या । अयया-कुरपकामलारम्मारामा पुरपायमलानागारम्भेगोद्रमेन भामामा मनोज्ञ 1 भर क न विद्यते कुत्सितो रानो यस्य सोऽपुरव, अरव एवाररवा शेरावा यः । हे अफरवक हे कोम. रधान । नेमे सपोधननाम तत् । पुन कीहशी पु। मलारम्मारामा, कमर रश्मा रम्मा भमरम. ता एप रामा त्रियो यस्यां सा। गिरि भूमी रामा श्रीहार्य- 1. दितीयश्तीपदस्पपदसमासो न करिसप्रदायविद्धः पयगन्धिगद्य वा स्यात्, काव्यमाला। मायान्ति । अमकमलारम्मा एव रामा शेयाः । तथा अफरवकमला, फरिसनं राजन्त इति पुरा न पुरा अकुराः शोममाना वका पक्षविशेषाः फमला हरिणविशेषांय यस्यां सा भकुरवसम्मला ! रम्भारामेत्यत्र लोक द्वितीयकृतीयपदपोरन्तरा न पतिः । इदं सं- शयाय यदि पुनर्महायमकताकविना कृतम्, तथापि विलोक्यम् । रम्भासुरवत्यिस्य विशेषवती अयरिः । हे अकुरवाफमल, अत्र पर्वते फुभूमिः शोभते । अकुत्सितः शोमनी रखो यस्याधिदानन्दादिशब्दवाच्यत्वात् । एवंविधा कस्य सुखस्य कमला यस्य नेमेः संयोधनम् । रम्भारामा तव । तया-आरम्मारामा अर्थः पथावत् । तथा फुभूमि. रवककमला । तथा रम्भारामा रम्मा एव रामा यस्यां सा रम्भारामा । तथा अकुरवरु फमला । एवं व्याख्याने पदद्वयस्यान्तरं भवति । 'म्भी न्ली गः स्याद्रमरविलसितम्' इदानी तेनैव प्रकारेण पदयमकोदाहरणानि । तर संयुतायती आदिपदयमकमाह- हारीतहारी ततमेप धत्ते सेवालसेवालसहंसमम्मः । जम्बाल वालमलं दधानं मन्दारमन्दारववायुरद्रिः॥ ३१॥ एपोऽदिखतं विस्तीर्णमम्मो पत्ते । कीदृशोऽदिः । हारीतहारी, हारीताः पक्षिणहारी मनोहरः । तथा मन्दारमन्दारखवायुः, मन्दारेषु कल्पवृक्षेषु म. न्दारवो मन्दशब्दो वायुर्यत्र सः । सुरभिवायुरदावस्तीत्यर्थः । कीदृशम् । सेवालसेवालस- हंसम, सेवालसेवायामलसा राजहंसा यनाम्भसि तत्तथा । अलमत्यर्थे पालं नूतनं जम्मा- लज कमलं दधानम् ॥ नेमिविशालनयनो नयनोदितश्री. रभ्रान्तबुद्धिविभवो विभवोऽय भूयः । प्राप्तस्तदाजनगरान्नगरानि तत्र सूतेन चारु जगदे जगदेकनाथः ॥ ३२ ॥ स्तेन सारधिना जगदेकनायो नेमिवार यया भवति तथा जगदे । की. दृशः । नयनोदितधी: नयेन न्यायेनोदिता प्रेरिता श्रीर्यस्य सः न्यायाधिकशोभ इत्यर्थः । तथा अप्रान्तः सत्यो पुद्धिरूपो विभवो यस्य स तथा । विगतो भवो यस्य स तथा । तदाजनगरात् नारायणपुरात्तत्र नगराजि गिरीश्वरे रैवतके प्राप्तः ।। अन्तयमकमाह-- यदुपान्तिकेषु सरलाः सरला यदनूचलन्ति हरिणा हरिणा। तदिदं विभाति कमलं कमलं मदमेत्य यत्र परमाप रमा ।। ३३ ॥ यदुपान्तिकेषु यस्य जलस्योपान्तिकेयु पार्थेषु सरला अवका: सरला देव- १. 'भ्यो वारंवारम्' इति जिनवर्धनरिः.

मध्ययमकमाह-- १ परिच्छेदः] वाग्मटालंकार। ३७ दारवो वर्तन्ते । यजलमनुलक्षीकृत्य हरिणा मृगा हरिणा वायुना सहोचलन्ति । अरम. त्यर्थं तदिद क जल विभाति । यत्र जले रमा लक्ष्मी कमलमेत्य पर प्रधान मदमाप ॥ आदियमकमाइ- कान्तारभूमौ पिककामिनीना का तारवाचं क्षमते स सोढुम् । कान्ता रतेशेऽध्वनि वर्तमाने का तारविन्दस्य मधो प्रवेशे ॥ ३४ ॥ कान्ता भार्या रतेशे भर्तरि अध्वनि पथि वर्तमान विदेशस्थे सतीत्यर्थ । मधोर्वसन्तस्य प्रवेशे वान्तारभूमौ पिककामिनीना का तारवाच विस्तारिणी वाणी सोटु क्षमते स्म । अपि तु कामपि न क्षमते स्म । कीदृशस्य मधो । कान्तारविन्दस्य कमनायपद्मस्य ॥ चकार साहस युद्धे धृतोल्लासा हस च या । दैन्य त्वा साह सप्राप्ता द्विषा सोत्साह सततिः ॥ ३५ ॥ हे सोत्साह हे सोद्यम हे श्रीनेमे, या द्विषा सतति शत्रूणा श्रेणियुद्धे साहस चकार । धृतोल्लासा च सती हस हास्य चकार । अपरान्प्राप्येत्यध्याहार्यम् । सा द्विषा सतति त्वा सप्राप्ता सती दैन्य चकारेत्यर्थ । अथवा दैन्य समाप्ता सती त्वामाह । त्वदग्रतो दीनवा. क्यान्यभाषिष्टेत्यर्थ ॥ गिरा श्रूयते कोकिला कोविदार यतस्तद्वनं विस्फुरत्कोविदारम् । मुनीना वसत्यन लोको विदार न च व्याधचक्र कृतौको विदारम् ॥ ३६ ॥ गिरा विषये वचनकोमलताविषये अरमत्यर्थ कोविदा पण्डिता । यतो यस्मात्कारणा कोकिलाश्रूयते तत्तस्मादेतद्वन वर्तते । कीदृशम् । विस्फुरत्काविदार विस्फुरन्तो झलझ लायमाना कोविदारा काञ्चनारक्षा येन तत् । अन वने मुनीना लोको मुनिजनो वि दार विगतकटने यथा भवति तथा वसति । दाररहितो मुनिजनस्तपस वसतीत्यर्थः । अन वने व्याधचक्रमाखेटकृत्समूह कृतीको विहितगेह न वर्तते । कीदृशम् ।विदार वीन्पक्षिणो इणाति दास्यतीति विदारम् । यत' कोकिला श्रूयते तत एतद्वन किमपि वर्तते इति शोऽपि स्यापि कययामासेत्युत्तिलेश ॥ भत पादद्वयेऽपि आदिमध्यमध्यान्तयमकान्युदाहियन्ते- सिन्धुरोचितलताग्रसलकीसिन्धुरोचितमुपेत्य किन्नरे । कन्दराजितमदस्तट गिरे कन्दराजितगृहनि गीयते ॥ ३७ ॥ किमगिरेरद शिखरमुपेन्य गीयते । वीदर्श शिखरम् । विधुरोचितलताग्रसल्लकीवि न्धुरोचित सिन्धुराणा गजानामुचिता योग्या रतामा समस्यथ ताभिर्युता सिन्धवा नय. स्तामी रोचित शोभितम् । तथा-पन्दराजित बन्दै शोभितम् । तथा कन्दराजितगृ ६नि कन्दराभिर्जिता गृहशोमा येन रिसरेण तत् । इई पादद्वये आदियमा कवितम् ॥ अन्तयमकमाह- काव्यमाला। पादद्वयमध्ययमकं यथा- वसन्सरोगोऽत्र जनो न कश्चित्परं सरोगो यदि राजहंसः । गीतं कलं को न करोति सिद्धः शैले कलङ्कोज्झितकाननेऽस्मिन् ॥३८॥ अत्र शैले पर्वते कलोज्झितकानने निदोषे वने वसन् सन् जनो लोकः कश्चिम स. रोगो न सन्याधिः । परं यदि सरोगः सरोवरमतो राजहंस इत्ययः । अत्र शैले कः सिद्धः किमरः कलं मनोझं गीतं न करोति । अपितु सर्वोऽपि करोतीत्यर्थः । पादद्वयान्त्ययमकं यथा- जहुर्वसन्ते सरसी न धारणा बभुः पिकानां मधुरा नवारणाः । रसं च का मोहनकोविदार कं विलोकयन्ती बकुलान्विदारकम् ॥३९॥ वारणा गजेन्द्रा वसन्तमासे सरसी महासरोवरं न जहुर्नात्याशुः । पिकानां कोकि- लानां नवा मधुरा रणाः शब्दा वसन्ते चभुः । का च स्त्री मोहनकोविदा सुरतपण्डिता एकुलान्वृक्षविशेषान्विलोकयन्ती सती के रसं नार । अपि तु सर्वमपि रस मासैव । कर्य विदारकं निपुत्रं यया भवति तथा । निप्पुवायाः संमोगक्षमत्वात् ।। आद्यन्तयमकं यथा- वरणाः प्रसूननिकरावरणा मलिनां वहन्ति पटलीमलिनाम् । तरवः सदात्र शिखिनातरवः सरसश्च भाति निकटे सरसः ॥ ४०॥ अत्र गिरी सदा वरणास्तरवो परणा वृक्षविशेषा अलिनो भ्रमराणां मलिनो नीला पटली शि वहन्ति । कीदृशाः । प्रसूननिकरावरणाः प्रसून निकरा एव पुष्पसमूहा एवा- चरणमाछादनं येषां ते तथा । अनादी शिखिजातरवो मयूरजातध्वनिश्च सरसो निकटे तटाकस्यान्तिके सरसो मधुरो भाति । द्वितीयपादचतुर्थपादान्तयमकमाह- यथा यथा द्विजितस्य विभवः स्यान्महत्तमः । तथा तथास्य जायेत स्पर्धयेव महत्तमः ॥ ४१ ॥ द्विजिह्वस्य दुर्जनस्य यथा यथा विभवः स्यादनं भवेत् । कीडशो विमयः। प्रकृष्टो म. हान् महत्तमः । पहुतर इत्यर्थः । तथा तथास्य दुर्जनस्य महत् धन तमः पापं स्पर्धयेव संयुतासंयुतायत्ती यमकमाइ-- दास्पति दास्यतिकोपादास्यति सति कर्कराशापम् । भवति भवति हनों मव तिमितस्तेन वटुक त्वम् ॥ ४२ ॥ हे वटुक, भवति स्वयि आसमन्ताकर्करानस्यति क्षिपति सतिदासी अतिकोपारछाई दास्यति । हि यस्मात्कारणादनयों भवति । ततस्त्वं तिमितो भव स्थिरी भव चापलं जायेत ॥ मा कृथाः॥

४ परिच्छेदः] वाग्भटालंकारः। कुलं तिमिभयादव करेणूनां न दीव्यति । न दीव्यति करेणूनां प्राणिनां गणनापि का ॥ ४३ ॥ अन नदीसमीपे करेणूनां कुलं तिमिभयान्मत्स्यभयान दीव्यति न क्रीडति । अणूना सूक्ष्मानां प्राणिनां गणनापि का । इदानी वर्णावृत्तिरुदाहियते- गङ्गाम्बुधवलाङ्गामो मुमुक्षुध्यानतत्परः । पापार्तिहरणायास्तु स सज्ञानो जिनः सताम् ॥ ४४ ॥ गगाजलवद्धवला अगस्यामा कान्तिर्यस्य स तथा । मुमुक्षूणां ध्यानस्य गोवरः । अत्र पादे पादे आदी वर्णद्वयद्वयसादृश्यावर्णयमकमुच्यते ॥ असयुतावृत्तौ वर्णयमकमाह-- जगदात्मकीर्तिशुभं जनयन्नुद्दामधामदोःपरिधः । जयति प्रतापपूपा जयसिंहः क्षाभृदधिनाथः ॥ १५ ॥ उद्दामावनिवारौ घाम तेजस्तद्युक्ती भुजरूपी परिधौ यस्य सः । अधिको नाथोऽधि- नाथः । अत्र प्रतिपदं जग्रहणादयुतारत्तो यमकम् । वीवृत्तिः पूर्ववतेंदा द्रष्टव्याः ।। संयुतासंयुसात्तिर्यथा- मामाकारयते रामा सा सा मुदितमानसा । या या मदारुणच्छाया नानाहेलामयानना ॥ ४६ ॥ सासारामा मामाकारयते आह्वयति । या या मदारुणच्छाया मदेनारुणा आरक्ता छाया शोभा यस्याः सा मदारुणच्छाया । या या मुदितमानसा हृष्टवित्ता च । तथा नानाहेला- मया नाना नानाविधमनेकप्रकारं हेलामयं लीलामयमाननं यस्याः सा । अन मामा सासा इत्यादि सयुतायमकम् । पदान्ते च मासेत्याद्ययुतायमकम् । समाप्ताश्चत्वारोऽपि शब्दालंकाराः ।। अधार्धालकारा उच्यन्ते- स्वभावोक्तिः पदार्थस्य सक्रियस्याक्रियस्य वा । जातिविशेषतो रम्या हीनत्रस्ताभकादिपु ॥ ४७ ॥ पदार्थस्य सक्रियस्य क्रियासहितस्य अक्रियस्य वा क्रियारहितस्य वा स्वभावोत्तिर्यासा जा. तिरुच्यते। हीनत्रस्ताभकादिषु स्वभावोक्तिः सहजकयनं विशेषतः सा जातिरुच्यते । हीनो दीननस्तोमीतः, अर्भका सालका, इत्यादिपु स्वमायोक्तिविशेषतो रम्या जातिः। कोऽर्थः। यस्य पदार्थस्य यादृशः स्वभावस्तस्यैव स्वमावस्य यत्कथनं सा जातिरवगन्तव्या ।हीने हीनस्वभाववर्णनम्, प्रस्ते प्रस्तलक्षणम् । अर्भकादिषु तान्येव रक्षणानि वर्ण्यन्ते । न तु उपमापलंपारणार्यापत्याद्यानयन क्रियते सा जातिरिति ।

काव्यमाला। उदाहरणमाह- बविलीबहुलकान्तिरुचो विचित्र- भूर्जत्वचा रचितचारुदुकूललीलाः ।। गुलाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शवयः ॥ ४८ ॥ खैलगतयः सविलासगतयः शपयोऽत्र वने सहेलं सलीलं रोलन्ति दीव्यन्ति । यहीव- लीभिर्मयूरपिच्छश्रेणिभिर्यहुला महीया कान्तिस्तया रोचन्ते यास्तास्तथा । शेषं सुगमम् । अन शपरीणां हीनत्वाद्धीनाभरणादिवर्णना । स क्रियोदाहरणमिदम् । सेलन्तीति किया। अक्रियोदाहरणमाद-- आरत्तनित्तधोरणि भीसणवअणुकरो कुरङ्गच्छि । उल्लसिअवीसभुअवणविणिवेसो दसमुहो एसो ॥ १९ ॥ [आरक्तनेत्रश्रेणि भीषणवदनोत्को कुरदाक्षि । उल्लसितविंशतिभुजवनविनिवेशो दशमुख एषः हे कुरङ्गाक्षि, एष दशमुखी रावणः । कीदृशः । आरक्तनेत्रणि भीषणवदनोत्करः उसितविंशतिभुजवनविनिवेशः उहसितं विंशतिभुजा एव वने काननं तस्य विनिवेशः स्थानम् । अगापि यादृशो रावणस्तावदेवोक्तत्वात्स्वभावोक्तिः । एपा जातिः । प्रस्ते इदमदाहृतम् । यथा [व]- 'यमालोक्य स्वप्ने करकटितनिशिफल भयाट्टागुमिदाः कृतनिजयलाहा न विधयः । भुजामध्यादुद्धः किमिदमिति दाररमिहिताः कति ब्रीडामौनव्रतमिह न भेजः क्षितिभुजः ॥' अर्मके यथा- 'शिक्षया प्रणमन्युद्धात्तदाशिपमन्धरन् । निजच्छायासमाशिष्टं धावन्क्रीडति पालकः ॥" आदिशब्दान्मत्तकुपितादिष्वेवमुदाहार्यम् । संप्रत्युपमामाह--- उपमानेन सादृश्यमुपमेयस्य यत्र सा | प्रत्ययाव्ययतुल्यार्थसमासैरुपमा मता ॥ ५० ॥ यत्रोपमेयस्य मुख्यवस्तुनोपमानेन दृष्टान्तेन साह समानता । सादृश्यं द्विधा-- अभिधीयमान प्रतीयमानं च । सा प्रत्ययाव्ययतुल्यार्थसमासर्वक्ष्यमाणैरूपमोक्ता विशे. पानुपादानात् ॥

४ परिच्छेदः) वाग्भटालंकारः। तमाभिधीयमानसादृश्ये उदाहरणमाह- गत्या विभ्रममन्दया प्रतिपदं या राजहंसायते । यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत्सदैवाननम् । यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तां कुन्दाहदती त्यनलिनपती राजीमती पातु वः ॥ ५१ ।। या राजीमती विभ्रममन्दया गया प्रतिपदं राजहंस इवाचरति राजहंसायते । अत्र प्रययनोपमा 1 यस्या आनन पूर्णमृगाइमण्डलमिव श्रीमत् । श्रीलक्ष्मीः शोमा वा । अत्रे- वशब्देनाव्ययेनोपमा । यस्सा राजीमत्या नेत्रद्वयं श्रिया नीलोत्पलान्यनुफरोति । अधानुकरो. तिक्रियातुल्यार्थवाचिका ततस्तुल्यार्थेनोपमा एपा । कुन्दानर्हति कुन्दाहों दन्ता यस्यां सा तांकुन्दाहदतीम् ।कुन्दसमानरदनामित्यर्थः । अत्र बहुव्रीहिसमासेनोपमा ।अत्र प्रत्ययाव्यय- तुल्यार्थभेदैश्चतुर्भेदोपमायां गत्यादिसादृश्यमभिधीयमानमस्ति । नास्ति गम्य बलात्कारेण किमपि । राजहंसायते गत्या, नेत्रयुगलमनुकरोति भिया, इत्यादिकारणानि सर्वाणि काव्यमध्ये एवाभिहितानि सन्तीतीदमभिधीयमानमुच्यते । यत्र कारणानि काव्यमध्ये नोक्तानि, किंतु स्वयमेवानुमानेन ज्ञायन्ते तःप्रतीयमानमुच्यते । प्रतीयमानोदाहरणं यथा-~- चन्द्रवद्वदनं तस्या नेत्रे नीलोत्पले इव । पक्वबिम्ब हसत्योष्ठः पुष्पधन्वधनुर्बुवौ ॥ ५२ ॥ यस्या राजीमत्या बदन चन्द्रवत् । नेत्रे नीलोत्पले इस वर्तते । ओष्ठः पक्वबिम्ब इसति । यस्या ध्रुवी पुष्पधन्वधनः पुष्पधन्वा कामदेवस्तस्य धनुः । अत्र तावत्केन गणेन मुखं चन्द्रवत्स गुणो नोक्तः । ओष्ठः पकविम्ब केन हसति स गुणः स्वमत्या पवतार्यः । अत एव तत्प्रतीयमानमुच्यते । अत्र चतुर्यु प्रत्ययाव्ययतुल्यार्थसमासोपमाः कमात् ज्ञेयाः । इत्यादि सर्वत्रावगन्तव्यम् । मअमरिअमाणसस्स वि णिचं दोसाअरस्स ससिण व । तुह विरहे तीइ मुहं संकुइअं सुहअ कुमुझं च ॥ १३ ॥ मिदभरितमानसस्यापि नित्य दोषाकरस्य शशिन इव । तब विरहे तस्यां मुख संकुचितं सुभग कुमुद च ।।] हे सुभग, तव विरहे तस्या मुखं संकुचितम् । यधा-शशिनो विरहे कुमुदं सको मोति। कीदृशस्य दोषाकरस्य । उभयौविशेषणमेतत् 1 यथा-मदभारतमानस शाय। चन्द्रपक्षे-मृगभरितमानसस्यापि । मानसमा मध्य शेयम् । शशिन इवेति द्रव्योपमा । कुमुदं संकुचितमिति लियोपमा । ६ ४२ काव्यमाला। - अन्योन्योपमारंकारमाह-- तं.णमह वीराअं जिणिन्दमुद्दलिअदिढभरकसाअम् । जस्स 'मणं व सरीरं मणं सरीरं व सुपसन्नम् ॥ ५४ । [तं नमत वीतरागं जिनेन्द्रमुद्दलितदृढताकपायम् । .., यस्य मन इव शरीरं मनः शरीरमिव सुपसन्नम् ॥] तं वीतरागं जिनेन्द्रं नमत । स्वण्डितद्धतरकपायम् । यस्य मन इव शरीरमिव मनः सुप्रसन्नम् ॥ क्रियाभेदानामन्योपमालंकारो यथा- ये देव भवतः पादौ भवत्पादाविवाश्रिताः। ते लभन्तेऽद्भुतां भव्याः श्रियं त एव शाश्वतीम् ॥ १. है देव, ये भव्या भवत्पादावेव भवत्पादाविवाश्रिताः । यथा भवत्पादाश्रिताः । यथा हे राजन् , यथा त्वं सेव्यसै तथा त्वां सेविष्ये ये मवत्पादाविव मवतः पादावाश्रितास्ते भव्यास्त एवाद्भुतां श्रियं लभर उपमेयप्रचुरोपमालंकारमाह- आलोकनं च वचनं च निगृहनं च यासां स्मरन्नमृतवत्सरसं कृशस्त्वम् । तासां किमङ्ग पिशितास्रपुरीपपानं गात्रं विचिन्त्य सुदृशां न निराकुलोऽसि। हे सखे, यासो स्त्रीणामालोकनं वचनं च निगृहनमालिङ्गन वा कृशो जातः । है सखे, अन कोमलामन्त्रणे । तासां सुदृशां पिशिर रुधिरामेध्यस्थानं गानं देहं विचिन्त्य किन निराकुलोऽसि न सम, उपमानप्रचुरोपमालंकारमाह- कलेव चन्द्रस्य कलङ्कमुक्ता मुक्तावलीवोरुगुणप्रपई, जगत्रयस्याभिमतं ददाना जैनेश्वरी कल्पलतेव मूर्ति जैनेश्वरी मूर्तिचन्द्रस्य कलेव कठमुक्ता मुक्तावलीवोरुगुणप्रपन्ना तेव जगत्रयस्याभिमतं ददाना ॥ अयोपमालंकारपणान्याह- विमिन्नलिङ्गवचनां नातिहीनाधिकां च ताम् । निवघ्नन्ति बुधाः कापि लिङ्गभेदं तु मेनिरे । ५८ विभिन्नलिङ्गां विभिन्नवचनां घोपमा न निम्नन्ति । तथा अतिकी हो धको घोपमा न निवन्ति । विशेषमाद-युधाः कापि लिङ्ग ४ परिच्छेदः वाग्भटालंकारः। उदाहरणमाह- हिममिव कीर्तिवला चन्द्रकलेवातिनिर्मला वाचः । ध्वावस्येव च दाक्ष्यं नम इव वक्षश्च ते विपुलम् ॥ १९ ॥ है सुभग, तव कीर्तिहिममिव धवलेयत्र कीर्तेः स्त्रीलिङ्गत्वम् ,हिममिवेति नपुंसकम् । अत उपमानोपमेययोलिंगभेदः । तव वाघचन्दकलेवातिनिर्मलाः । वाच इत्यत्र पहुवचनम्, चन्द्रकलेत्यत्रैकवचनम्, अतो वचनभेदः । तव दाक्ष्यं दक्षता वाढत्येव वर्तते । हीनोपमैपा । तव वक्षो नभ इव विपुलम् । अधिकोपमैपा । अमी उपमादोषा कविना चिन्तनीयाः॥ शुनीयं गृहदेवीव प्रत्यक्षा प्रतिभासते। खद्योत इव सर्वत्र प्रतापश्च विराजते ॥ ६ ॥ इयं शुनी गृहदेवीवेत्यत्राधिकोपमा । तब प्रतापः खद्योत इवेत्यत्र हीनोपमा च सदोश । हिममिव कीर्तिर्धवलेल्यत्र क्रियारहितोपमा सदोषा । शुनीय गृहदेवीवेत्यत्र हीनाधिकोपमा सदोषा॥ अथ हीनविशेषणैरुपमेयोपमामुपमानोपमामाह- सफेनपिण्डः प्रौढोमिरब्धिः शा व शसभृत् । चोतन्मदः करी वर्षन्विधुत्वानिव वारिदः ॥ ६१ ।। अधिः समुद्रः शाही विष्णुरिव वर्तते । शड्डभृदुभयोर्विशेषणमेतल्लगति । परं सफेन- पिण्डः प्रौढोमिरिति विशेषणद्वयं समुदे लगति न तु विष्णौ । अत उपमेयविशेषणानि सर्वाण्युपमाने न लगन्ति ततः सदोषमेतत् इत्यं न कार्यम् । श्चोतन्मदः करी गजो वर्ष- न्वारिद इव वर्तत इत्यत्र विद्युत्वानिति विशेषणमुपमेये करिणि न लगति, किं तु वारिदे उपमानरूपे लगतीत्यतः सदोषमेवमपि न कार्यम् ॥ क्वापि लिइभेदं च मेनिरे कवय इत्याह- मुखं चन्द्रमिवालोक्य देवाहादकरं तव । कुमुदन्ति मुदाक्षीणि क्षीणमिथ्यात्वसपदाम् ॥ १२ ॥ हे देव जिन, क्षीणमिथ्यात्वसपदामीणि मुदा तब मुख चन्द्रमिवाहादकरमालोक्य कुमुदन्तीत्येवं निन्दापि ॥ अथ समासमध्यस्थोपमेयोपमालिङ्गभेदमाह- निजजीवितेशकरनाग्रकृतक्षतपड्डयः शुशुभिरे सुरते । कुपितसरप्रहितबाणगणवणनर्जरा इस सरोजद्दशः ॥ १३ ॥ सरोजदृशः स्त्रियः सुरते निजजीवितेशकरजाप्रकृतक्षतपतयः कुपितस्मरप्रहितवाण- गणवणजर्जरा इव शमिरे । सरोजा इत्यत्र सरोजशब्दो नपुंसको दृश इति त्रीलिक एवं न दोषाय॥

काव्यमाला।
अप रूपके लिइभेदं दर्शयति-
हस्तामविन्यस्तकपोलदेशा मिथो मिलत्कङ्कणकुण्डलोः ।
सिपेच नेत्रसवदश्रुवारा दो कन्दली काचिदवश्यनाथा ॥ १४ ॥
काचिदवशनाथा नायिका दो:कन्दली मुनादण्डलता नेप्रसवदयुवारा लोचननिर्गच्छ-
दक्षुजलेन सिपैच । कीदृशी हस्ताने विन्यस्तः कपोलदेशो यया सा । तपा-मियो गि.
लन्ती कणकुण्डलयोः श्रीर्यस्याः सा । रूपन्न लिङ्गभेदो दोकदलीमिति दोरिति
पुलिनशब्दः कन्दलीशद वीलिहोऽगन्तव्यः । रूपसलक्षणान्यप्रतः ॥
अथ प्रतिवस्तूपमायां वक्ष्यमाणायां रिङ्गभेदं दर्शयति-
बहुवीरेऽप्यसावेको यदुवंशेऽद्भुतोऽभवत् ।
कि केतक्यां दलानि स्युः सुरभीप्यखिलान्यपि ।। ६५ ॥'
पहुवीरेऽपि यदुवंशेऽसावेको नेमीश्वरोऽद्भुतोऽभवत् । यतश्यो निखिलान्यपि दलानि
किं सुरभीणि भवन्ति । अत्र फेतश्यामिति विभेदः । समाप्त उपमालंकारः ॥
अथ रूपकालंकार उच्यते--
रूपकं यत्र साधादर्थयोरभिदा भवेत् ।
समस्तं वासमस्तं वा खण्डं वाखण्डमेव वा ॥१६॥
यत्र द्वोरर्थयोः साधासादृश्यादभिदा अभेदो भवति तद्पकालंकारो भवति । त-
दूपकं चतुर्धा--समस्तं समस्यन्त(मानम्) असमस्तमसमस्सन्त(मानम्) खण्ड वा । यद्रुपकं
विशेषणेशु खण्डे जायते, तरखण्डभेव । अखण्डमेव वस्तु रूपके अवतार्यते तदखण्डम् ॥
अप ययाक्रममुदाहरणानि ज्ञेयानि । समस्यन्त(मान) रूपमाह-
कीणीन्धकारालकशालमाना निबद्धतारास्थिमणिः कुतोऽपि ।
निशापिशाची व्यचरद्दधाना महन्त्युलूकध्वनिफेत्कृतानि ॥६७ ॥
निशापिशाची निशैव पिशाची निशापिशाची महान्ति उल्कध्वनिफेकतानि धाना
कुतोऽपि व्यचरत् वितस्तार । उल्कध्वनय एव फेरकृतानि उलूकाध्वनिफेरकृतानि ।
कीशी सा। कोणे विक्षिप्तमन्धकार तदेवालकाः फुटिलकेशातः सालमांना शोभमाना।
तथा--निषद्धास्तारा एवास्थिमणयो यया सा तथा । अत्र निशापिशाची उल्कध्वनय एव
फेत्कृतानि कार्यान्धकारमेवालकास्तारा एवास्थिमगर इत्यर्थयोयोरभेदाम्पक समास-
करणारसमस्यन्त(मान)म् । तथा--निशा पिशाचीव उलूकध्वनयः फेरकतानीवेत्यादी-
वशब्देनापि सादृश्यमेवे ॥
असमस्तं पृथग्विभत्तया शेयम् । यपा-
संसार एप कूपः सलिलानि विपत्तिजन्मदुःखानि ।
इह धर्म एव रज्जुस्तस्मादुद्धरति निर्मग्नान् ॥ १८ ॥

४ परिच्छेदः] .
वाग्मटालंकारः।
एष संसारः कूपः । विपत्तिजन्मदुःखानि सलिलानि । एव रज्जुस्तस्मात्संसार-
कूपानिर्ममान्प्राणिन उद्धरति । अत्र पृथक् पृथक् विभक्तिभावादसमस्तो रूपकालंकारः॥
एतत्समस्तासमस्तमुमयमपि द्विधा खण्डमखण्डं च । तदेवाह-
अधरं मुखेन नयनेन रुचिं सुरभित्वमालमिव नासिकया ।
नववर्णिनीयदनचन्द्रमसस्तरुणा रसेन युगपन्निपपुः ॥ ६९ ॥
तरुणा नववर्णिनीवदनचन्द्रमसो नवरमणीमुखचन्द्रस्य रसेन युगपन्मुखेनाघरं निपपुः ।
नयनेन रुचिं निपपुः । नासिकया सुरभित्वं निपपुः । उत्प्रेक्षते-आब्जमिव । यथा मा.
सिकया आज सुरभित्व निपीयत इत्यर्थः । अत्र वदनचन्द्रमसौ मुखेनाधर नयनेन रुचि-
मित्यादिखण्डकरणात्खण्डरूपकमिदम् । आब्जमिवेति । पद्मिनी स्त्री कमलगन्धा भवत्येव।।
अखण्डमाह-
ज्योत्स्नया धवलीकुर्वन्नुर्वी सकुलपर्वताम् ।
निशाविलासकमलमुदेति म निशाकरः ॥ ७० ॥
निशाकर उदेति स्म । कीदृशः । ज्योत्स्नया सकुलपर्वतां कुलाचलसहितामुर्वी पृथ्वा
धवलीकुर्वन् । तथा-निशाया विलासकमलम् । अखण्ड एव चन्द्रो निशाया विलास-
कमल स्यादतोऽखण्डं रूपकमेतत् । समाप्ता रूपकालंकाराः॥
अथ प्रतिवस्तूपमालकारमाह-
अनुपात्ताविवादीनां वस्तुनः प्रतिवस्तुना ।
यत्र प्रतीयते साम्यं प्रतिवस्तूपमा तु सा ॥ ७१ ॥
इवादीनां शब्दानामनुपात्ती अकथने यन वस्तुनः प्रतिवस्तुना साम्य समता प्रतीयते
सा प्रतिवस्तूपमा ज्ञेया ॥
बहुवीरेऽप्यसावेको यदुवंशेऽद्भुतोऽभवत् ॥ ७२ ॥
यथा बहुवीरेत्यत्र स्वयमेवावतार्यम् । उक्तः प्रतिवस्तूपमालंकारः॥
अप भ्रान्तिमन्तमलकारमाह--
वस्तुन्यन्यत्र कुत्रापि तत्तुल्यस्यान्यवस्तुनः ।
निश्चयो यत्र जायेत भ्रान्तिमान्स स्मृतो यथा ॥ ७३ ॥
यत्र तुल्याराग्यवस्तुनो ज्यान कुत्रापि दस्तुनि. निश्चयो जायते, निश्चयः संभवति स
भ्रान्तिमानलंकारः कथितोऽलकारवेदिभिः॥
उदाहरणमाह-
हेमकमलं ति वअणे णअणे णीलुप्पलं ति पसयच्छि।
कुसुमं ति तुज्झ हसिए णिवडइभमराणं रिञ्छोली ॥ ७४ ॥

काव्यमाला। (हेमकमल मिति वदने नयने नीलोपटमिति प्रपनाक्षि । पुसुममिति तब हगिते निराति प्रमाणां गिः ॥ देप्रयताक्षि, प्रमराणो श्रेणिस्तर बदनेस हेमामलमिति धान्यानिपततिस्तव नयने इदं नीलोत्पलमिति धान्या निपतति । तय सिते इई फुसुममिति भान्सा निपतति । भत्र प्रान्तिमदलंकारे अन्यक्रियादीपक शेयम् । उक्तो भ्रान्तिमदलंकारः॥ अपाक्षेपाटंकारस्यावसास्ततस्तस्य लक्षणमाह- उतिर्यत्र प्रतीतिर्वा प्रतिपेयस्य नायते । आचक्षते तमाक्षेपालंकारं विबुधा यथा ।। ७५ ।। योक्तिरपवा प्रतीतिः प्रतिपयस्य जायते। विशुपास्तमाक्षेपालंकारमारक्षते वान्ति। यत्युदाहरणे। इन्द्रेण किं यदि स कर्णनरेन्द्रसुनु- रैरावणेन किमहो यदि तदिपेन्द्रः । दम्मोलिनाप्यलमलं यदि तत्प्रतापः स्वर्गोऽप्ययं ननु मुघा यदि तत्पुरी सा || ७६ ॥ यदि स कर्णनरेन्दसूनुर्जयसिंहदेवो राजाम्सदा इन्द्रेण किम् । यदि तस्य द्विपेन्द्रः पटगजेन्द्रो दृश्यते तदा ऐरावणेन किम् । यदि तत्य प्रतापोऽलमत्यर्धे तपति दम्मोलिना वशालं पूर्यताम् । यदि सा तत्पुरी ठेभे तदा स्वर्गोऽप्ययं मुधा । एतदुदाहरणमुक्तिवि. पयम् । उक्तिः साक्षादर्थप्रकाशनम् । अत्र यदि कर्णनरेन्द्रसूनुस्तदेन्द्रेण किमित्यादि साक्षा- दप्रकाशनं सर्वमप्यस्ति । प्रतीतावायोदाहरणं विधा-विधिपूर्वको निधो निषेधपूर्वी विधिध । प्राविधिपूर्वनिषेधे उदाहरणं यथा-- यस्यास्ति नरककोडनिवासे रसिक मनः । सोऽस्तु हिंसानृतस्तेयतत्परः सुतरां जनः ॥७७ ॥ यस्य जनस्य मनो नरककोडनिवासे रतिकं भवति । 'मोड उत्सन उच्यते । स जनः सुतरामत्यर्थे हिंसानृतस्तेयतत्परोऽस्तु भवतात् । अन तावत्प्रतीतिः कथम् । अब यो नरके गन्ता स हिंसादिकं करोलिति विधिमालोक्यैतावता हिंसादि केनापि न कर्तव्यमिति प्र- तीयमानो निषेधोऽस्ति, परं साक्षात्पाश्चात्यवान दृश्यमानोऽस्त्यर्थोऽत •एषा विधिपूर्व- फनिषेधारिमका प्रतीतिरवगन्तव्या ॥ अप नियेषपूर्वकवियों प्रतीतिरुच्यते-- इच्छन्ति जे ण कित्तिं कुणन्ति करुणं खणं पि जे नेव्व । ते धणनक्स ब गरा दिन्ति धणं मरणसमए वि ॥ ७८॥ इच्छन्ति ये न फीति कुर्वन्ति करुणां क्षणमपि ये नैव । ते धनयक्षा इस नरा ददति धन मरणसमयेऽपि ॥]

४ परिच्छेदः] वाग्भटालंकारः। ४७ ये कीति नैच्छन्ति । ये च क्षणमपि करुणां नैव कुर्वन्ति । ते कि मरणसमयेऽपि धनयक्षा इव धनं ददतीत्यर्थः । एतावता कीर्तिमभिलपद्भिः करुणां च कुर्वद्भिर्धनमवसरे देयमित्यर्थः । अत्र निषेधपूर्वको विधिरवगन्तव्यः । देयमिति प्रतीयमानोऽर्थश्चातोऽत्रापि प्रतीतिर्घटते । एषा अवचरिः स्वमत्या कल्पितास्ति । वृत्तौ तु न किमपि विद्यते तथा ॥ संशयालंकारमाह- इदमेतदिदं वेति साम्याहृद्धिर्हि संशयः । हेतुभिर्निश्चयः सोऽपि निश्चयान्तः स्मृतो यथा ॥ ७९ ॥ साम्यात्समानमवात् । एतदिदं वेत्येवं युद्धिहि निश्चित संशयालकार उच्यते । यदा तु संशयं मुक्त्वा एभिनिश्चयो जातः सोऽपि निश्चयान्तः सथ्यालकार उच्यते । संशयनि- ययालकार इत्यर्थः ॥ उदाहरणमाह- कि केशपाशः प्रतिपक्षलक्ष्म्याः किं वा प्रतापानलधूम एपः । दृष्ट्वा भवत्पाणिगतं कृपाणमेवं कवीनां मतयः स्फुरन्ति ।। ८० ॥ हे जयसिंहदेव राजन्, भवत्पाणिगत कृपाणं दृष्ट्वा कवीनां मतय एव स्फुरन्ति । एवं संशयं विदधतीत्यर्थः । फिमेष प्रतिपक्षलक्ष्म्याः केशपाशो न तु खः । अथवा किमेष प्रतापानलघूमः । केशपाशोऽपि कृष्णः धूमोऽपि कृष्ण. खगोऽपि कृष्णः । अतः संशयालकारः॥ संशयनिश्चयालगरोदाहरणमाह- इन्द्रः स एप यदि किं न सहस्रमक्ष्णां लक्ष्मीपतिर्यदि कथं न चतुर्भुनोऽसौ । आः स्यन्दनध्वजधृतोद्भुरताम्रचूडः श्रीकर्णदेवनृपसूनुरयं रणाग्रे ॥ ८१ ॥ स एप यदि इन्द्र इति संशयः । तहिं अक्षणां नेत्राणां सहस्र नास्ति तदान भवतीन्द्र इति निश्चयः । यदि लक्ष्मीपतिस्तदा कथं नासौ चतुर्भुजः । आः ज्ञातम्-अय रणाने कर्णदेवनृपसूनुर्जयसिंहदेवः । पीदृशः । स्यन्दनस्य रथस्य ध्वजे धृत उद्धर उत्क- टस्ताम्रचूहः कुछुटो येन स तथा ॥ समाप्तः संशयालमारः संशयनिधयालंकारय ॥ अप दृष्टान्तालंकारमाइ- अन्वयख्यापनं यत्र क्रियया स्वतदर्थयोः । दृष्टान्तं तमिति प्राहुरलंकारं मनीषिणः ॥ ८२ ॥ * काव्यमाला। यत्र क्रियया स्वतदर्थयोः सार्यतर्ययोरन्वयख्यापनं क्रियते 1 अन्वयः परस्परं योग्यगुणसंपन्धस्तस्य यापन कपनं विधीयते तं दृशान्तमलंकारमिति मनीषिणों घुधाः प्राहुः॥ उदाहरणमाह- पतितानां संसर्ग त्यजन्ति दूरेण निर्मला गुणिनः । इति कथयआरतीनां हारः परिहरति कुचयुगलम् ॥ ८३ ॥ हारो गुणी निर्मलच जरतीनां वृद्धस्त्रीणां कुचयुगलमिति कथयन्पारिहरति । निर्मला गुणिनः पतितानां संसर्गे ट्रेण त्यजन्ति । यथा ये ये गुणिनो निर्मलाच ते ते पतितसंसर्ग स्पजन्ति तथा हार इत्येषोऽन्वयव्याप्त्या दृशन्तः । अन्वयख्यापनं च सादृश्यमिति च पर कयोः स्वार्थतदर्थयोरित्यर्थः ॥ व्यतिरेकमाह- केनचिद्यत्र धर्मेण द्वयोः संसिद्धसाम्ययोः ।. भवत्येकतराधिक्यं व्यतिरेकः स उच्यते ।। ८४ ॥ अत्र दूयोः संसिद्धसाभ्ययोः संसिद्ध साम्यं समानता ययोस्ती तयोः संसिद्धसाम्ययोः केनचिद्धर्मेण केनचिद्गुणेनैकतराधिक्यं एकतरस्याधिकता भवति स व्यतिरेकालंकारः। उदाहरणमाह- अस्त्वस्तु पौरुपगुणाज्जयसिंहदेव- पृथ्वीपतेर्मंगपतेश्च समानभावः । कि त्वेकतः प्रतिभटाः समरं विहाय सद्यो विशन्ति वनमन्यमशङ्कमानाः ।। ८५॥ जयसिहदेवपृथ्वीपते गपतेच पौरुषगुणात्सगानभावोऽस्त्वस्तु । एकतो जयसिंहदेवा. समरं त्यक्त्वा प्रतिभटा वैरिणः सद्यो वनं विशन्ति । अन्ये सिंहमशङ्कमानाः । एतावता सिंहमयादपि राज्ञो भीरधिका तत एकतराधिक्यम् ।। अपहुतिमाह- नैतदेतदिदं वेतदित्यपसवपूर्वकम् । उच्यते यत्र सादृश्यादपगुतिरियं यथा ॥ ८६ ॥ यत्र सादृश्यात्समानभावामेतद्वि निचितमिदमेतदिति भावपूर्वकमपलपनपूर्वक , मुच्यते । इयमपतिरवगन्तव्या ॥ उदाहरणमाह- नैतनिशायां शितसूच्यभेद्यमन्धीकृतालोकनमन्धकारम् । निशागमप्रस्थितपञ्चचाणसेनासमुत्थापित एप रेणुः ॥ ७॥ अत्राधिकारस्यापहवं विधाय रेणुस्थापना एषा अपहतिः ॥

४ परिच्छेदः) वाग्भटालंकारः। ४९ तुल्ययोगितालंकारमाह--- उपमेयं समीकर्तुमुपमानेन योज्यते । तुल्यैककालक्रियया यत्र सा तुल्ययोगिता ॥ ८८ ॥ यत्र तुल्यैककालक्रिययौपमानेन सहोपमेयं समीकर्तु योज्यते सा तुल्ययोगिता भवति । तुल्या समाना एककालिकी क्रिया तुल्यैककालक्रिया तया करणभूतया ॥ उदाहरणमाह- तमसा लुप्यमानानां लोकेऽसिन्साधुवम॑नाम् । प्रकाशनाय प्रभुता भानोस्तव च दृश्यते ।। ८९ ॥ हे जिन, तमसा पापेन पक्षेऽन्धकारेण लुप्यमानानां साधुवर्मनां प्रकाशनाय प्रभुता तवास्ति । अथवा भानोरस्ति । अत्रोपमेय जिनः । उपमानं भानुः उपमेयमुपमानेन समीकृत दृश्यते । क्रिया द्वयोरपि तुल्या एककालिकी च । अत्र कर्मण्युक्ते वर्तमान- कालोऽस्ति ॥ उत्प्रेक्षालंकारमाह- कल्पना काचिदौचित्याद्यत्रार्थस्य सतोऽन्यथा । योतितेवादिभिः शब्दैरुत्प्रेक्षा सा स्मृता यथा ॥९० ॥ यत्र सतो विद्यमानस्यार्थस्यौचित्याद्योग्यत्वादन्या काचिदिवादिभिः शब्दयोतिता कल्पना रचिता सा उत्प्रेक्षा स्मृता ॥ यथेत्युदाहरणमाह - नमस्तले किचिदिव प्रविष्टाश्चकाशिरे चन्द्ररुचिप्ररोहाः। जगद्गलित्वा हसतः प्रमोदाद्दन्ता इव ध्वान्तनिशाचरस्य ॥ ९१ ॥ चन्द्ररुचिपरोहाश्चन्द्रकिरणाकुराः । नमस्तले किंचिदिवाल्पमात्रं यथा भवति प्रविष्टा रेजिरे नवोदयत्वात् । उत्प्रेक्षते-प्रमोदाज्जगद्गलित्वा हसतो हास्यं कुर्वतो वान्तनि- शाचरस्यान्धकाररक्षसो दन्ता इव । इवादिभिः शब्दरत्रादिशब्दाद्यथा राके ध्रुवं मन्ये नूनं माय इत्यादयो प्राह्याः । यथा-'जाने शङ्के ध्रुव मन्ये यथा खलु यतैव वा । नन्वि. वापीति तु प्राज्ञा उत्प्रेक्षारूपकं विदुः ।' अर्थान्तरन्यासालंकारमाह- उक्तसिध्यर्थमन्यान्यासो व्याप्तिपुरःसरः । कथ्यतेऽर्थान्तरन्यासः श्लिष्टोऽश्लिष्टश्च स द्विधा ।। ९२ ॥ यत्र उक्तसिद्धयर्थ व्याप्ति पुरस्सरोऽन्यान्यासो विधीयते सोऽर्यान्तरन्यासः कथ्यते। सद्विधा-लिटवालिटः । श्लेषसहितः लेपरहितः ।।

काव्यमाला।
शोणत्वमक्षणामसितासमासां गिरां प्रचारस्त्वपरप्रकारः।
बभूव पानान्मधुनो वधूनामचिन्तनीयो हि मुरानुमावः ॥ १३ ॥
यधूना मधुनी गयस्य पानादसिताञ्जमाता नीलोत्पलमासामणों नेत्राणां शोणले
रक्तता यभूव । तु पुनागरी प्रचारो परप्रकारो बभूव । विपरीतो जात इत्यर्थः । पत्र
मद्यपानाक्षेत्राणां रक्तरसमुक्तं तस्सोक्तस्य सिद्धयर्थ स्थापनार्थ पुनरर्यान्तरन्यास: । सुरा-
नुभावो हि निश्चितमचिन्तनीयः । सुरा देवा मदिरा वा । तया केनापि पृष्टं मधाना-
परतत्वं कि जायेत ! तथा अचिन्तनीयो हि सुरानुमाव इत्यर्थान्तरन्यासेन रक्तत्व-
सिद्धिः । एप शिटार्थान्तरन्यासालंकारः॥
अभिटमाह-
शुण्डादण्डैः कम्पिताः फुजराणां पुप्पोत्सर्ग पादपाश्चारु चक्रुः ।
स्तव्याकाराः किं प्रयच्छन्ति किंचित्क्रान्ता यावन्नोद्धतिशङ्कम् ॥९॥
पादपा वृक्षाः कुञ्जराणां शुण्डादण्डः कम्पिताः सन्तधारु पुष्पोत्सर्ग चक्रुः । स्त्रन्या-
कारा उद्धतरवीतशवं निःशई यया भवति यावन क्रान्तास्तावकिचित्प्रयच्छन्ति किम् ।
भत्र प्राक्तनपदद्वयोक्तसाप्रेतनपदद्वयनान्यान्यासरूपेण चिद्धिः कथिता ।।
समासोक्तिमाद-
उच्यते वक्तुमिष्टस्य प्रतीतिजनने क्षमम् ।
सधर्म यवं वस्त्वन्यत्समासोक्तिरियं यया ॥ ९ ॥
वतु मिष्टस्य मगितुमारपसार्थस्य प्रतीतिजनने क्षमं प्रतीतरुत्पादसमय सधर्म सह-
शमन्यद्वस्तु यत्रोच्यते, इयं समासोक्तिभवति ॥
उदाहरणमाह-
मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु ।
धनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ९६ ॥
हे मधुकर, शोकं मा कुरु । फरीरदुमस्य कुसुमेणु विचर इति वक्तु मिष्टोऽर्थः । अस्य
प्रतीतिजनने क्षमं महशमन्यद्वस्तु इदं नु वितर्के कथं सा मालती मिलति । एतावता
मालवी नास्ति करीरकुसुमधु शोकाभावेन है भ्रमर विचर । अत्र द्वयोरपि सादृश्यं पुष्प-
त्वात् । विभेदत्वादन्यत्वम् । कीदृशी मालती । धनतुहिनपातेन दलिता ज्वलिता ।
यदि सा मालवी धनतुहिनपातदाटता जाता तदा कि मिलति ।
विमावनालक्षणमाद--
विना कारणसंझावं यत्र कार्यस्य दर्शनम् ।
नैसर्गिकगुणोत्कर्षभावनात्सा यिभावना ॥ ९ ॥

४ परिच्छेदः]
वाग्मटालंकारः।
19957
यत्र कारणसद्भाव विना नैसर्गिकगुणोत्कर्षभावनात्कार्यस दर्शन दृश्यवे सा विभा-
वना मता॥
उदाहरणम्-
अनध्ययनविद्वासो निर्देव्यपरमेश्वराः ।
अनलंकारसुभगाः पान्तु युप्माञ्जिनेश्वराः ॥ ९८ ॥
अन विद्वत्ता कार्ये कारण वध्ययनम् । कार्ये कारण विनापि सहजगुणेनैव जातम् ।
एवं पादद्वयेऽपि भावनीयम् । उत्तो विभावनालमाः ॥
दीपकलक्षणमाह-
आदिमध्यान्तवत्यैकपदार्थनार्थसगतिः ।
वाक्यस्य यत्र जायेत तदुक्त दीपकं यथा ।। ९९ ।।
यत्रादिमध्यान्तवत्यैकपदार्थेन क्रियारूपेण वा वाक्यार्थसगतिर्जायेत तद्दीपकमुक्तम् ॥
उदाहरणान्याह-
जगुस्तव दिवि स्वामिन्गन्धर्वाः पावनं यशः ।
किन्नराश्च कुलाद्रीणा कन्दरेपु मुहुर्मुदा ॥ १० ॥
हे स्वामिन्, दिव्याकाशे गन्धर्वास्तव पावन यशो जगु । किन्नरा कुराचलकन्दरेषु
भगु । मुदा हर्षेण मुहुर्वारवारम् । अनाप्यपदार्थेन जगुरितिरूपेण वाक्यार्धसगतिर्जाता ।।
एवं मध्यान्तयोरपि । सर्वत्र यथा-
विराजन्ति तमिस्राणि द्योतन्ते दिवि तारका.।
विभान्ति कुमुदश्रेण्य. शोभन्ते निशि दीपकाः ॥ १०१ ॥
अन पृथक् पृथक् क्रियातिरेक एर पदार्थ एक एवार्थो नार्थभेद । निशीसेतता-
रक दीपकम् ॥
अतिशयाल कारमाह-
वस्तुनो वक्तुमुत्कर्षमसभाव्य यदुच्यते ।
वदन्त्यतिशयाख्यं तमलकार बुधा यथा ॥ १०२ ।।
यद्वस्तुन उत्कर्षे वत्तुमसभाव्यमुच्यते सोऽतिशयालमार
उदाहरति-
त्वदारितारितरुणीश्वसितानिलेन
समूर्छितोर्मिषु महोदधिषु क्षितीश। 19957
अन्तलठगिरिपरस्परसह-
घोरास्वैर्मुररिपोरपयाति निद्रा ॥ १०३ ॥

५२ काव्यमाला। है क्षितीश, खदारितारितरुणीश्वसितानिलेन श्वासवायुना महोदधिषु समुद्रेषु सम छित्तोमिपूत्पन्नकल्लोलेषु सत्सु अन्तमध्ये लुठन्तो घोलन्तो वरन्तो गिरयस्तेषां परस्पर शृङ्गसगस्तस्य घोरारवेर्मुरारेनिंद्रा अपयाति । अन रिपुत्रीणां वासानिलस्याविशयवर्ण- मादतिशयालंकारः।। यदि योगेऽतिशयालंकारमाह- एकदण्डानि सप्त स्युर्यदि च्छत्राणि पर्वते । तदोपमीयते पार्श्वमूनि सप्तफणः फणी ॥ १०४ ॥ यदि पर्वते पर्वतशिरसि एकदण्डानि सप्त वाणि भवन्ति । तदा सप्तफणः फणी पार्श्वभूमि उपमीयते । अत्र फणिनोऽतिशय उक्तः । एको दण्डो येषु तान्येकदादानि ।। हेत्वलंकारमाह- त्पादयतः किंचिदर्थ कर्तुः प्रकाश्यते । तद्योग्यतायुक्तिरसौ हेतुरुक्तो बुधैर्यथा ॥ १०५ ॥ कर्तुः पुरुषस्य किंचिदर्थमुत्पादयतो यत्र तयोग्यतायुक्तिस्तस्यार्थस्य योग्यतायुक्तिः प्रकाश्यते स हेतुरलंकारः॥ उदाहरति- जुव्वणसमउम्मत्तो तत्ता विरहेण कुणइ पाहस । कण्डभन्तरघोलिरमहुरसरं वालिआ गीअम् ॥ १०६॥ यौवनसमयोन्मत्ता तता विरहेण करोति नाथस्य । कण्ठाभ्यन्तरघोलितमधुरस्वरं वालिका गीतम् ॥] पालिका यौवनसमयोन्मता सती नाथस्य मर्तुविरहेण तप्तर सती कण्ठाभ्यन्तरघोल- न्मधुरस्वरं गीतं करोति । कण्ठाभ्यन्तर एव घोलते गीतं लज्जा पहिर्न प्रकटतीत्यर्थः । भत्र कर्तुः कंचिदर्थमुत्पादयत इति कर्तरूपया पालिकाया गीतमिति उत्पादितोऽयत्तस्य योग्यता युक्तिः । नापस्य विहः । यौवनसमयोन्मत्ता घ गीतस्य हेतु: कारणमेतदिति गाथार्थः॥ विससोअरो मिअङ्को कअन्तमासाइ आगओ पवणो । जाइपलासो सिहरी पहिए मारन्ति ते दाणिम् ।। १०७ ॥ विश्तोदरो मृगाः कृतान्तदिशशत भागतः पवनः । जातिपलाश: शिखरी पधिकान्मारयन्त्येत इदानीम् ॥ भृशाहो विषसोदरः । चन्द्रविषयोरेकत्रोपप्रत्वात् । कृतान्तदिश आरत: पवनः । शिखरी वृक्षो जातिपलाशा, एते त्रयोऽपि पथिकानिहानी मारयन्ति । अन्न मरणस्य है- तुरमी। एको विपसोदरः, अन्यो यमाशानिवासी । भपरस्तु पलाश: पक्षे वृक्षः ।

४ परिच्छेदः]
वाग्भटालंकारः।
.
पर्यायोक्तिलक्षणमाह---
अतत्परतया यत्र जल्प(ल्ल्य)मानेन वस्तुना ।
विवक्षितं प्रतीयेत पर्यायोक्तिरियं यथा ॥ १०८ ॥
पर्यायेणान्यवचनेन वचनमुक्तिः पर्यायोक्तिः । यत्र विवक्षित वक्त मिष्ट अतत्परतया न
विवक्षितपरतया जल्प(ल्प्य)मानेन वस्तुनार्थेन प्रतीयेत इयं पर्यायोक्तिः ॥
पर्यायोक्तिमुदाहरति-
स्वत्सैन्यवाहनिवहस्य महाहवेषु
द्वेषः प्रभो रिपुपुरन्ध्रिजनस्य चासीत् ।
एकः खुरैर्वहुलरेणुततिं चकार
तां संजहार पुनरश्नुजलैर्यदन्यः ॥ १०९ ।।
हे प्रभो, रणेषु वत्सैन्यवाहनिवहस्य रिपुपुरन्ध्रिजनस्य च द्वेष आसीत् । एको वाह-
समूहः पुरैर्यटुलरेणुतति चकार । भन्यो योपाजनो यत्पुनरध्रुजलैस्ता रेणुतति सनहार ।
अत्र विवक्षितोऽर्थों द्वेष ।अस्य जल्प(लप्य)मानेनान रेणुना अधुजलेन च प्रतीतिनं विक-
क्षितपरतया यतो भवता रिपवो मारिता इन्येतयेन प्रतीयेत सा अतारा ।।
समाहित लक्षयति-
कारणान्तरसंपत्तिर्देवादारम्भ एव हि ।
यत्र कार्यस्य जायेत तज्जायेत समाहितम् ॥ ११ ॥
यत्र कार्यस्यारम्भे एव देवाकारणान्तरसपत्तिर्जायेत तत्समाहित जायेत ॥
उदाहरति-
मनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् ।
तावन्नवाम्मोधरधीरनादप्रबोधितः सौधशिखी चुकून ॥ १११ ॥
यावन्मनस्विनी निशायां वल्लभवेश्म गन्तुमुत्कण्ठिताभूत् । तावनवाम्मोधरधारनाद-
प्रयोधितः सीपशिखी गृहक्रीडामयरथुकूज के चकार । शान्तराहे गमन कार्यारम्भः
पुनस्तत्प्रेरकः शिखिशब्दः कारणान्तरसपत्तिः ॥
परिवृत्ति लक्षयति-
परिवर्तनमन सदृशासदृशेन वा।
जायतेऽर्थस्य यत्रासौ परिवृत्तिर्मता यथा ॥ ११२ ॥
यत्रार्थस्य सदशेनासहशेन वा अर्थेन परिवर्तन परिवतों जायते असी परिवृत्तिमता।
यत्युदाहरणे ॥
अन्तर्गतव्यालफणामणीनां प्रभामिरुद्भासितभूषु भर्तः।
स्फुरत्मदीपानि गृहाणि मुक्त्वा गुहामु शेते त्वदरातिवर्गः ॥ ११३ ॥

काव्यमाला। हे भतः, स्वदरातिर्गतव वैरिसम्हः स्फुरत्प्रदीशनि गृहामि मुक्त्वा गुदासु शेते । फीदृशीषु गुहासु । अन्तर्गतत्र्यालफणामणीना मध्यस्यसर्पकणामणीनां प्रभाभिद्रागि. तभूमि दीप्तभूमिपु॥ अत्रासदशार्थेनार्धस्य परावर्तमाह-- दत्त्वा प्रहारं रिपुपार्थिवानां जग्राह यः संयति जीवितव्यम् । शृङ्गारमङ्गी च तदङ्गनानामादाय दुःखानि ददौ सदैव ॥११४ ॥ प्रहारं दत्वा जीवितव्यं जमाह । अत्र दत्तः प्रहारः, गृहीतं च जीवितव्यम्, गृहीता हारमही, दत्तं च तासो दुःखम्, इत्यसदृशेनार्थेनार्यस्य परावर्ती शनितः ॥ यथासंख्य लक्षयति- यत्रोकानां पदार्थानामर्थाः संबन्धिनः पुनः । क्रमेण तेन वध्यन्ते तद्यथासंख्यमुच्यते ॥ ११५ ॥ यत्रोक्तानां पदार्यानां संयन्धिनोऽर्थाः पुनस्तेन क्रमेण पध्यन्ते योग्यन्ते तद् यथास. स्यमुच्यते ॥ उदाहरति- भूदु जलतिकाम्यां शोणिमानं दधत्या चरणकमलभासा घारुणा चाननेन । विसकिसलयपद्मान्यात्तलक्ष्मीणि मंन्ये विरहविपदि वैरात्तन्वते तापमङ्गे ॥ ११६ ॥ अहमेव मन्ये-~-मृदुजलतिकाभ्यां शेरिमानं दधत्या रक्तत्वं रिश्त्या चरणकमल- भासा चारुणा घाननेन यथाक्रम पिसकिरालयपमानि आत्तलक्ष्मीणि कृतानि । अत एवं तानि वैरादो तापं विरहविपदि तन्वते । विरहिणीवर्णनमेतत् । एष ययासं- ख्यालेकारः॥ सहोक्ति लक्षयति-~- वस्तुनो यत्र संवन्धमनौचित्येन केनचित् । असंभाव्यं वदेद्वक्ता तमाहुर्विपमं यथा ॥ ११७ ॥ यत्र केनचिदनौषियनानवसरतया वस्तुनः पदार्थस्य संपन्धममाव्यं वक्ता पदेव, फत्यस्तै विषमालंकारमाहुः । यथोदाहरणार्थः ।। केदं तव थपुर्वत्से कदलीगर्भकोमलम् । काय रागीमति केशदायी व्रतपरिग्रहः ॥ ११८॥ हे वो, राजीमति फदलीगर्भकोमलं तव वपुः कामे च प्लेशदायी प्रतपरिमदः । the ४ परिच्छेदः वाग्भटालंकारः। ५५ अत्र सुकोमलस्य तव वपुषो दीक्षानुचिता। दीक्षा सबन्धः । तथासमाव्यं कथं वदासि प्रहीष्यामि दीक्षामिति । विषमालकारोऽयम् ॥ सदोक्ति लक्षयति- सहोक्तिः सा भवेद्यत्र कार्यकारणयोः सह । समुत्पत्तिकथा हेतोर्वक्तुं तजन्मशक्तताम् ॥ ११९ ॥ यन हेतोः कारणस्य तज्जन्मशक्तता कार्योत्पत्तिशक्ततां वक्तु कार्यकारणयोः सह समुत्पत्तिस्या समकालमुत्पादनवार्ता भवति सा सहोक्तिर्मवेत् ॥ उदाहरति-- आदत्ते सह यशसा नमयति साधै मदेन संग्रामे । सह विद्विषां श्रियासो कोदण्डं कर्पति श्रीमान् ॥ १२० ॥ असी श्रीमान्वीर कोदण्डं धनुर्विद्विपा मदेन सह नमयति । विद्विषा श्रिया लक्ष्म्या शोमया वा सह कोदण्ड कति । अन यश आदत्त इति कार्यम् । कोदण्डग्रहण तु य. शोग्रहणकारणम् । कारणस्य कोदण्डस्य तज्जन्मनि कार्योत्पत्ती यशोप्रहणरूपायो शक्ति- नास्ति । एव सर्वत्र योजना स्वमन्या कर्तव्येति ॥ भय विरोधलक्षणमाह- आपाते हि विरुद्धत्वं यत्र वाक्ये न तत्त्वतः । शब्दार्थकृतमाभाति स विरोधः स्मृतो यथा ॥ १२१ ॥ यत्र वाक्ये आपाते आरम्भे शब्दार्थकृत विरुद्धव आभाति पर तत्वतो नामावि स . विरोध स्मृत ॥ उदाहरणमाह- दुर्वारवाणनिवेहेन सुवर्मणापि लोकोत्तरान्वयभुवापि च धीवरेण । प्रत्यर्थिषु प्रतिरणं स्खलितेषु तेन संज्ञामवाप्य युयुधे पुनरेव जिष्णुः ॥ १२२ ॥ कोऽपि जिष्णुर्जयनशीलस्तैन केनचित्पुरुषेण प्रत्यार्थपु वरिषु प्रतिरण स्खलितेषु रण रणप्रति स्वहितेषु समक्षा ऐन युगुषो युद्ध पाए । शीटसोन तेन । सुनर्मशापि दुरियाणनिवहेन । पारवाणः क्वच उच्यते । वापि कवच एव । सुष्टु वर्म यस्य स सु. वर्मा। दुष्टो वारवाणनिवद क्वचसमूहो यस्य स दुर्वारवाणनिवहः । यः सुवर्मा स दु. वरियाणनिवह क्थ भाति इति विरोध दर्शयित्वा न तत्वत इत्याह-दुर्वारवाणनित. १. 'रिमोन' इति जिनवर्धनसमत पाठः.

काव्यमाला। हेन दुर्वारो वाणनिवहो यस्य स तेन । एतेन तत्र ...............। लोकोत्तरान्वय- भुपि धीवरेण । यो लोकोत्तरान्वयःस कथं धीवराधीवरो मतिप्रधान इत्यर्थः । एप शब्दकतोऽपि विरोधालंकारः ॥ अथार्थकृतं विरोधमाइ~ येनाकान्तं सिंहासनमरिभूभृच्छिरांसि विनतानि । क्षिप्ता युधि शरपतिः कीर्तिर्याता दिगन्तेयु ॥ १२३ ॥ येन राज्ञा आक्रान्त सिंहासनम् । विनतान्यरिभूपालशिरांति 1 महो विरोधः 'माका. न्तमन्यत् विनतमन्यत् । तथा-क्षिप्ता युधि शरपतिः, दिगन्तेषु कीतिर्याता ।। समाप्तो द्विधापि विरोधालंकारः। अथावसरलक्षणमाह- यत्रार्थान्तरमुत्कृष्टं संभवत्युपलक्षणम् । प्रस्तुतार्थस्य स प्रोक्तो बुधैरवसरो यथा ॥ १२४ ॥ यत्र प्रस्तुतार्थस्योत्कृष्टमर्थान्तरमुपलक्षणे चिहं संभवति युधैः सोऽवतरालंकारः प्रोक्तः॥ अयावसरोदाहरणमाह- स एप निश्चयानन्दः स्वच्छन्दतमविक्रमः । येन नक्तंचरः सोऽपि युद्धे बर्बरको जितः ॥ १२५॥ स एष निधयानन्दो येन सोऽपि पर्यरको राक्षसो युद्ध जितः ॥ अथ सारटक्षणमाह- यन्त्र निर्धारितात्सारात्सारं सारं ततस्ततः । निर्धार्यते यथाशक्ति तत्सारमिति कथ्यते ॥ १२६॥ यत्र निर्धारितासारासतस्ततः सारं सारं निर्धार्यते । यथाशक्ति यषाशत्तया(1) स सारालंकारः॥ सारमुदाहरति- 'संसारे सानुप्यं सारं मानुष्यके च कोलीन्यम् । कौलीन्ये धमित्वं धमित्वे चापि सदयत्वम् ॥ १२७ ।। अप लेपलक्षणमाह- पदैतैरेव भिन्नैर्वा वाक्यं वत्येकमेव हि । अनेकमर्थं यत्रासौ श्लेप इत्युच्यते यथा ॥ १२८ ॥ यकमेव वाश्यं तव पदमिनवा पदैरनेकमर्थ वक्ति असौ नेपालंकार उच्यते ।। .

४ परिच्छेदः] वाग्मटालंकारः। आनन्दमुल्लासयतः समन्तात्करैरसंतापकरैः प्रजानाम् । यस्योदये सोममवाप्य राज्ञो जमाह वेलां किल सिन्धुनाथः ॥ १२९॥ यस्य राज्ञो नृपस्योदये क्षोममवाप्य किलेति श्रूयते । सिन्धुनाथः सिन्धुदेशाधिपो वेलामालिच्छेदादिकां जमाह । तदाज्ञा गृहीतवानित्यर्थः । कीदृशस्य ।असंतापकरैः करैः प्रजानां समन्तादानन्दमुल्लासयतो वर्धयतः । अथ लेपः-यस्य राज्ञश्चन्द्रस्योदये क्षोमम- वाप्य सिन्धुनायः समुद्रो वेलां मर्यादां जप्राह । शीतकरैः करैः किरणर्लोकानां सम. न्तात् हर्पमुत्पादयतः। एप श्लेपालंकारः ।। कुर्वन्कुवलयोल्लासं रम्याम्भोजश्रियं हरन् । रेजे राजापि तच्चित्रं निशान्ते कान्तिमत्तया ॥ १३० ॥ चित्र यो राजा चन्द्रो निशान्ते प्रभाते कान्तिमत्तया कान्तिमत्वेन रराज । कुवलयोल्लास भूवलयोलासं कुर्वन् रम्यां शोभना भाजश्रिय भोजराजलक्ष्मी हरन, ट्रान् । एप भिन्न- पदः श्लेषालंकारः ॥ अत्युत्कृष्टसमुच्चयालंकारमाह- एकत्र यत्र वस्तूनामनेकेषां निबन्धनम् । अत्युत्कृष्टापकृष्टानां तं वदन्ति समुच्चयम् ॥ १३१॥ यत्र कवित्वे अनेकेषामत्युत्कष्टानामत्युत्तमानां अत्यपकष्टानामविमध्यमानो वा वस्तूना पदार्थानामेकत्र निपन्धन गुम्फनं प्रन्यनं योजनमित्येकार्याः । तं समुच्चय वदन्ति । (अत्युकृष्टसमुच्चयोदाहरणमाह-) अणहिलपाटकं पुरमवनिपतिः कर्णदेवनृपसूनुः । श्रीकलशनामधेयः करी च रत्नानि जगतीह ।। १३२ ।। सर्वोत्तममणहिलपाटक पुरम्।तस्मिन्नवनियतिः कर्णदेवनृपसूनुः श्रीजयसिंहदेवः सोऽपि सर्वोत्तमो भालेषु । तस्य श्रीकलशनामधेयः करी गजः । एतानीह जगति त्रीणि एलानि ॥ अत्यपकृष्टालंकारमाह-~ ग्रामे वासो नायको निर्विवेकः कौटिल्यानामेकपात्रं कलत्रम् । नित्यं रोगः पारवश्यं च पुंसामेतत्सर्व जीवतामेव मृत्युः ॥ १३३ ।। सुगमम् । भावना स्वयमेव विचारणीया । एषोऽयपकृष्टसमुचयालंकारः ।। (अयाप्रस्तुतप्रशसामाह- प्रशंसा क्रियते यत्रामस्तुतस्यापि वस्तुनः । अप्रस्तुतमशंसा तामाहुः कृतधियो यथा ॥ १३ ॥ १. अन 'अत्युत्कृष्ट' इति पदं वृथैव पवितम्. २. "विशेपणीया' क. ८ 'काव्यमाला। यत्राप्रस्तुतस्यापि वस्तुनः प्रशंसा क्रियते कृतधियस्तामप्रस्तुतप्रशंसामाहुः । (अप्रस्तुतप्रशंसोदाहरणमाह--) सैर विहरति बैरं शेते वैरं च जल्पति । भिक्षुरेकः सुखी लोके रानचोरभयोज्झितः ॥ १३५ ॥ कोऽपि दुःखी चिन्तातः सन् यति संतोषसारं दृष्ट्वमुवाच (अन तेन दुःखिना भिक्षु- प्रशंसा तावस्मारब्धा । कोऽपि नास्ति परं दुःखदग्ध एवं विधारयामास इति अप्रस्तुत- प्रशंसा ज्ञेया ॥ (अथैकावलीलक्षणमाह-) पूर्वपूर्थिवैशिष्ट्यनिष्ठानामुत्तरोत्तरम् ।। अर्थानां या विरचना बुधैरेकावली मता ॥ १३६ ॥ पूर्वपूर्वार्धवैशिष्टयनिष्टानां पाश्चात्याविशिष्टतायां तत्पराणामर्थानो या रचना उत्तरो- तरं सा एकावली मता कथिता ॥ (एकावल्युदाहरणमाह-) देशः समृद्धनगरो नगराणि च सप्त भूमिनिलयानि । निलयाः सलीलललना ललनाश्चात्यन्तकमनीयाः ॥ १३७ ॥ देशः समृद्धनगर इत्यायुदाहरणम् ॥ (अथानुमानलक्षणमाह- प्रत्यक्षालिङ्गतो यत्र कालत्रितयवर्तिनः । लिङ्गिनो भवति ज्ञानमनुमानं तदुच्यते ॥ १३८ ।। यत्र प्रत्यक्षालितः कालत्रितयवतिनो लिहिनो ज्ञानं भवति तदनुमानमुच्यते । यथा-धूमो लिई लिट्टी चाहिः । लिङ्गस्य धूमस्य दर्शनालिझी अमिरनुमीयते । अनया रीत्या सर्वत्र शावन्यम् । एतदनुमानं भवति ॥ (अनुमानौदाहरणमाइ~ नूनं नद्यस्तदाभूवन्नभिषेकाम्भसा विभोः । अन्यथा कथमेतासु जनः स्नानेन शुध्यति ॥ १३९ ॥ नूनं विभोजनस्याभिषेकामता नपस्तपापन् । अन्यथा एतातु नदीपु जनः मानेर फर्य शुध्यति । नदीनानेन शुद्धितिलिई लिङ्गी च विभोरभिषेकाम्भसा तदानुवमिति । एपोऽतीतानुमानालंकारः॥. जम्भमित्ककुभि ज्योतिर्यया शुभं विजृम्भते । उदेप्यति तथा मन्ये खलः सखि निशाकरः ॥ १४० ॥ 4 ४ परिच्छेदः] वाग्भटालंकारः। जम्भभिदिन्द्रस्तस्य ककुर दिक् पूर्वा तस्यां ज्योतिस्तेजो यया शुभ्र श्वेतं विजृम्भते । अहमेवं मन्ये । है सखि, खलः संतापकारी निशाकर उदेष्यतीत्येतद्विरहिण्या सख्युरग्रे उक्तम् । एष भविष्यानुमानालकारः ॥ मुखप्रमाबाधितकान्तिरस्या दोषाकरः किङ्करतां बिमति । तल्लोचनश्रीहति सापराधान्यजानि नो चेत्किमयं क्षणोति ॥ १४१ ॥ दोपाकरश्चन्द्रोऽस्या नायिकायाः किङ्करतां विभति कर्मकरतां याति । कीदृशः।मुख- प्रभाषाधितकान्तिः । नो धैयदि नैवम् अयं चन्द्रस्तलोचनश्रीहति सापराधानि तासां लो- चनशोभाहरणेन सापराधानि कमलानि कि क्षणोति सकोचयति । अन्योऽपि सेवको नि. जाधिपतेरपराधकारिणमन्यं शक्तौ सत्यां न सहत इत्यर्थः । एष वर्तमानानुमानालं. कारो ज्ञातव्यः॥ (अप परिसंख्यामाह-) यत्र साधारणं किंचिदेकत्र प्रतिपाद्यते । अन्यत्र तन्निवृत्त्यै सा परिसंख्योच्यते यथा ॥ १४२ ॥ यत्र कवित्वे किंचिरसाधारण वस्तु एकत्रान्यत्र तन्नित्यै प्रतिपाद्यते । यद्वस्तु एकत्र एकस्मिन्स्थाने भवति अन्यन तन्निवृत्तिर्भवति सा परिसंख्या समुच्यते ॥ (परिसंख्योदाहरति-) यत्र वायुः परं चौरः पौरसौरभसंपदाम् । युवानश्च कृतक्रोधादेव विम्युर्वधूजनात् ॥ १४३ ॥ यत्र पुरे वायुः परं केवलं पौरसौरमसंपदां चौरः । अन्यत्र चौरिका नास्ति । यत्र युवानः कृतरोपाथूजनाद्विभ्युः । नान्यत्र भयं कस्यापीत्यर्थः ॥ (अथ प्रश्नोत्तरालंकार सकरोदाहरणं चाइ-) प्रश्ने यत्रोत्तरं व्यकं गूढं वाप्यथवोमयम् । प्रश्नोत्तर तथोक्तानां संसर्गः संकर विदुः ॥ १४४ ॥ या प्रश्ने उत्तरं व्यक्त गर्द वापि । अपवा उभयं व्यक्तगूढात्मकम् एतत् प्रश्नोत्तर शेयम् । यत्र योक्तानां शब्दार्यानामलंकाराणामुक्तानामेकत्र एकद्वयादिसंसर्गो भगन स सकरालंकार॥ प्रश्नोत्तरोदाहरणमाइ- असिन्नपारसंसारसागरे मजतां सताम् । कि समालम्बनं साधो रागद्वेषपरिक्षयः ॥ ११ ॥ हे साधो, अस्मिनपारसंसारसागरे निममता समालम्पन किमिति प्रश्ने व्यक्तमुत्तरम्- रागद्वेषपरिक्षयः । एष व्यक्तपभोत्तरालंकारः॥

"काव्यमाला। क वसन्ति श्रियो नित्यं भूभृतां वद कोविद । असावतिशयः कोऽपि यदुक्तमपि नोह्यते ॥ १४६॥ हे कोविद, वद भूभृतां राजा श्रियो नित्यं क वसन्ति । असौ अतिमायः कोऽपि यत् दत्तमपि न ज्ञायते । असो खड्ग-इत्युत्तरम् । एप गुद प्रश्नोत्तरालंकारः। किमै श्लाध्यमाख्याति पक्षिणं कः कुतो यशः। गरुडः कीदृशो नित्यं दानवारिविराजितः ॥ १४७ ॥ ऐभं साध्यं किम्, दानवारि मदजटम् । पक्षिणं क आख्याति, विपक्षी । यशः कुतो मवति, आजितः संप्रामात् । गरुडो नित्यं कीडग्भवति, दानवारिविराजितो दानवारिर्वासुदेवस्तेन विराजितः शोभितः । अत्र प्राग्गूढवात्पथात्मकटत्वाद्दव्यक्तप्र• नोत्तरालंकार, इदानीं अन्धकार इदमलंकारकर्टखख्याफ्नाय वाग्मटाभिघस्य महाकवेर्महामात्यस्य तमाम गाथयैकया निदर्शयति- बम्भण्डसुत्तिसंपुडमुक्तिअमणिणो पहासमूह व्व । सिरिवाहडत्ति तणओ आप्ति बुहो तस्स सोमस्स || १४८ ॥ [ब्रह्माण्डशुक्तिसंपुटमौक्तिकमणेः प्रभासमूह छ । श्रीवाहह इति तनय आसीदुधस्तस्य सोमस्य ॥ तस्याप्यत्र गाथायामनिर्दिष्टस्य श्रीवाग्मटः श्रीवाहा इति तनय आसीत् । कीदृशः। सूरोऽपि, युधः । विरोधालंकारोऽध समवगन्तव्यः । उत्प्रेक्षते-ब्रह्माशुक्तिसंपुटमौक्ति- कमणेः प्रमासमद इव तथा ॥ द्वारलोकेयु येऽलंकारा यथानामानः कथितास्ते सर्वे व्याख्याताः । अन्येषु अन्येष्यन्ये पहवोऽलंकाराः धूयन्ते, तेऽत्र नोका इत्याह- अचमत्कारिता वा स्यादुक्तान्तर्भाव एव च । अलंक्रियाणामन्यासामनिबन्धे निबन्धनम् ॥ १४९ ॥ अन्यासामलंक्रियाणामनिपन्यने अभगने निमन्धन कारणम् । अवमत्कारिता स्यात् । उक्तभ्योऽन्येषां मध्ये न कोऽपि ताश्चमत्कारः । चमत्कार विना क- १. 'तस्य सोमस्य घाइह पति नाना तनय आसीत्' इति जिनवर्धनसूरिः, 'तस्य सोमस्य घाइड इति तनय आसीत्' इति क्षेमहंसगणिः, 'प्रमाण्डशक्तिसंपुटमौक्तिकमणे- रित्यत्र रूपकम्, प्रमासमूह इवेत्युत्प्रेक्षा, युक्तोऽयमस्तस्य सोमस्य चन्द्रस्य पुपोजगजी भवतीति शेषालंकारः, धीवाहर इत्यादि शेष जातिः । इति चतुर्णा योगे संकरः' इति जिनयनसरिः ४ परिच्छेदः] वाग्भटालंकारः। धनप्रयास एव स्यान फल किमपि । अथवा उफान्तर्भाव एव। अनुक्ता उक्तान्तरन्तव- न्तीत्यर्थः। अथ रीतिद्वारमाह- द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथासंख्यगौडीया ॥ १० ॥ द्वे एव रीती गौडीया वैदर्भी चेति सान्तरे । एका भूयःसमासा स्यादसमस्तपदापरा ॥ १५१ ।। अन द्वे एव रीती भवतः । गौडीया वैदर्भी चेति । यतस्ते द्वे सान्तरे अन्तरसहित पृषक्षक्लक्षणे । तदर्शयति-एका गोडीया यहुसमासा स्यात् । द्वितीया वैदी भ- समस्तपदा अल्पसमाया भवेत् ॥ (अथ गौडीयोदाहरणमाह-) दर्पोत्पाटिततुङ्गपर्वतशतग्रावप्रपाताहति- यूराक्रन्ददतुच्छकच्छपकुलकेकारघोरीकृतः । विश्वं वर्वरवध्यमानपयसः शिप्रापगायाः स्फुर- नाक्रामत्ययमक्रमेण बहुलः कल्लोलकोलाहलः ॥ १५२ ।। अय शिप्रापगायाः शिप्रानद्या बहुलः कलोलकोलाहलो विधमक्रमेणाकामति । की- दृशः । दर्पोत्याटित तुझपर्वतशतप्रावप्रपातस्य आहत्या आहनने न ध यथा भवति त. थाक्रन्दन्ते यानि भतुच्छकच्छपकुलानि तेषां केद्वारशब्दैोरीकृतः । कीदृश्या नद्याः । वरवध्यमानपयतः पर्वरो राक्षप्तः कोऽपि, अन्यो वा कोऽपि महान् , तेन वध्यमान पपो यस्यास्तस्याः । एषा यहुसमासा गौडीया रीतिः ॥ (अथ वैदर्भामुदाहरति-) विप्राः प्रकृत्यैव भवन्ति लोला लोकोक्तिरेपा न मृपा कदाचित् । पञ्चम्ब्यमाना मधुद्विजेशः श्लिप्यत्ययं कैरविणी करागैः ॥ १५३ ॥ यद्यस्मारकारणादिजेशो विप्रश्चन्द्रो वा मधुपैर्मद्यपैर्धमय चुम्ब्यमानां कैरविणी कु. मुदिनी करानः लिष्यति । नेपालकारः । एपा द्वितीया वैदर्भी रीतिः । उपसंहारमाह- अर्थेन येनातिचमत्करोति प्रायः कवित्वं कृतिनां मनासु । अलंक्रियात्वेन स एव तस्मिन्नम्यूह्यतां हन्त दिशानयैव ।। १५४ ॥ १. अयं श्लोकः क्षेमहंसगणि-जिनवर्धनसूरिविरचितम्याख्ययोर्नोपलभ्यते.२-४.'सिप्रा' फ.निनवर्घनश्च काव्यमाला। कृतिनां मनःसु येनार्थेन कवित्वमतिवमत्करोति अविचमत्कारमुत्पादयति । हन्त इति विचारे । स एवार्थस्तस्मिन्कवित्वेऽनयैव पूर्वोक्तदिशाक्रियात्वनालंकारत्वेनाभ्यूया विचार्यताम् ॥ समाप्ता रीतयः॥ इति वाग्भटालंकारटीकायां चतुर्थः परिच्छेदः । पञ्चमः परिच्छेदः। 'स्फुटरीतिरसोपेतम्' इति (रीतयो व्याख्याताः । अधुना) रसानाह--- साधुपाकेऽप्यनास्वाधं भोज्यं निलवणं यथा । तथैव नीरसं काव्यमिति बमो रसानिह ॥ १॥. यथा साधुपाकेऽपि भोज्यं निर्लवर्ण लवणरहितमनास्वायं भवति, तथा काव्यमपि नीरसं रसरहितमनास्वायं भवति । इत्येतस्मात्कारणादसान्यूमः ॥ विभावैरनुभावश्च सात्त्विकैर्व्यभिचारिभिः । आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥२॥ शृङ्गारवीरकरुणाहास्याद्भुतभयानकाः । रौद्रवीभत्सशान्ताश्च नवैते निश्चिता बुधैः ॥ ३ ॥ एते नव रसाः नारादयः । नवानां रसानामेकैकः स्थायीभावः पृथक्पृथक् । ते धामी- रतिहाँसश्च शोकश्च क्रोधोत्साहभयं तथा । जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ४ ॥ अमी क्रमेण नव स्थायिनो भावाः । झारहास्यकरुणारोदवीरभयानकीमत्साद्भुत. शान्ताः क्रमेण नव रसा शेयाः ॥ विशेषेणे भावयन्त्युत्पादयन्ति रसमिति विभावाः खी. घसन्तोद्यानादयः उत्पत्तिकारणानि । एभ्यः मारोत्पत्तिरित्यर्थः । विभावो रसकारणम् । १. क्षेमइंसगणिस्त्वयं श्लोकः-'यथा--मारहास्यकरुणादिधीरभयानकाः । बीम- सातशान्ताच' इति क्रमेणैव पपाठ. २. 'शान्ताश्चेति नवरसाः क्रमेण याः' ख. ३. 'अव स्थायिभावलक्षणमाइ-इत्यधिकमादर्शद्वयेऽपिः क्षेमहंसगणिस्तु 'इतिहाँसथ- इति श्लोकम् एते जुगुप्सा(रत्या)दयः स्थायिभावाः प्रकीर्तिताः' इति व्याख्याय 'निर्वे. दग्लानिशहाच्या तपासूधामपनमा मालपप कैच विनता मोहः स्मृतितिः । ब्रीडा चपलता हर्ष आवेगो जाता तथा । गर्यो विषाद औत्सुक्य निद्रापस्मार एव च ॥ सुमिः प्रयोधोऽमर्पश्चाप्यवहित्यमोमतारमतियाधिस्तयोन्मादस्तथा मरणमेवध ॥ त्रास• चैव वितर्कश्च विज्ञेया व्यभिचारिणः । प्रयस्त्रिंशदमी भावाः समाख्याता: स्वनामतः ॥ • स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरमशोऽथ वेपथुः । वर्ण्यमश्रुमलया इत्यो साविका गुणाः । इत्येताश्लोकानधिकाव्याचल्यो.

परिच्छेदः) वाग्भटालंकारः। तथा-अनुभूयते लक्ष्यते रस एमिरित्यनुभावाः कम्पस्वेदमुखविकारनेत्रोल्लासादयः । रसोत्पत्तौ सत्या पश्चाये मावा जायन्ते तेऽनुभावा ज्ञेयाः।तथा साविकभावाः स्तम्भस्वे. दरोमाश्चाक्ष्योऽष्टी समवगन्तव्याः । तथा व्यभिचारिणः सहचारिणो मावा धृतिस्मृतिम- त्यादयः । एभिर्विभावैरनुभावैः सात्विकैय॑मिचारिभिरुत्कर्षमारोप्यमाणः स्थायीमावो रसः स्यात् । स्थायीभावः शृङ्गारादिरसरूपेण भवति । पूर्वोक्ताः स्थायिनो भावा रत्यादयो विभावादिभिर्व्यत्तीकृताः सन्तो रसाः महारादयो नवापि भवन्तीत्यर्थः ॥ हारस्वरूपमाह- जायापत्योमिथो रत्यां वृत्तिः शृङ्गार उच्यते । संयोगो विप्रयोगश्चेत्येप तु द्विविधो मतः ॥ ५॥ जायापत्योः कलत्रभर्ने रत्या प्रीत्यां मियो वृत्तिः परस्परवर्णनं भृङ्गार उच्यते । एप हारो द्विविधो मतः । कथम् । सयोगो विप्रयोगश्च । सयुक्तयोर्दम्पत्योः सभो(यो)गा- त्मकः शृङ्गारः । वियुक्तयोस्तु विप्रलम्भात्मकः शृङ्गारः ॥ तौ तयोर्भवतो वाच्यौ बुधैर्युक्तवियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेप द्विधा मतः ॥ ६ ॥ तो संयोगविप्रलम्भी तयोर्जायापत्योः क्रमायुक्तवियुक्तयोर्बुधैर्वाच्यौ भवतः । पुनरेप हाररसो द्विधा मतः । प्रच्छन्नश्च प्रकाशश्च । विशेषमप्रतो ज्ञापयिष्यामः ॥ अथ शृङ्गाररसनायकमाह- रूपसौभाग्यसंपन्नः कुलीनः कुशलो युवा । अनुद्धतः सूनृतगीः ख्यातो नेतात्र सद्गुणः ॥ ७ ॥ अन शृङ्गारे नेता नायकः कथितः । कीदृशः । रूपसौभाग्ययुक्तः। रूपशब्देन लावण्यम् । कुलीनः सुकुलोद्भवः । कुशलः सकलकलाकोविदः । युवा यौवने वर्तमानः । अनुद्धतः सौम्याकृतिक्रियः । सूनृतगीः सत्यवाक् । सद्गुणः । अयं च विबुधैरुक्तोऽनुकूलो दक्षिणः शठः । धृष्टश्चेति चतुर्धा स्यान्नायिका स्याचतुर्विधा ॥ ८ ॥ अयं च नायको विद्युधैश्चतुर्धा उक्तः । अनुकूलो दक्षिणः शठो धृष्टश्चेति । अस ना- यकस्य नायिका चतुर्विधा स्यात् ।। अथानुकूलादीनां लक्षणान्याह---अनुकूललक्षणं प्रागाह- नीलीरागोऽनुकूलः स्यादनन्यरमणीरतः । दक्षिणश्चान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम् ॥ ९॥ नीलीरागोऽनुकुलो भवति । यथा--नीली गुली तस्या रागो नौत्तरति । सोऽनुकूटो नायकः परं सोऽन्यरमणीरतो न स्यात् । अन्यस्या चित्तं यस्य सोऽन्यनित्तः स दक्षिणो * - काव्यमाला। शृङ्गाररसं तत्संन्धि चान्यदपि सर्वमुक्ता वीरादीनसानाह- (तम वीरमाह-- उत्साहात्मा मवेद्वीरस्त्रिधा धर्माजिदानतः । नायकोऽत्र भवेत्सर्वेः श्लाध्यैरधिगतो गुणैः ॥ २१ ॥ वीरो रस उत्साहात्मा भवति । स त्रिधा-धर्माजिदानतः । धर्मवीरः संग्रामवीरो दानवीर इति । अत्र वीरसे सर्वैः श्लाघनीयगुणैरधिगतो नायको भवति । (करुणमाह--) शोकोत्यः करुणो ज्ञेयस्तत्र भूपातरोदने । वैवर्ण्यमोहनिर्वेदप्रलापाथूणि कीर्तयेत् ॥ २२ ॥ करुणो नाम रसः शोकोत्यः शोकात्मको ज्ञातव्यः । तत्र रसे भूपातरोदने वैवर्ण्य- मोहनिर्वेदमलापाणि कीर्तयेत् । भूपातो भूमौ लुठनं तथा रोदनम् , वैवर्ण्य विवर्ण- भावः, मोहो मोव्यम्, निर्वेदो विषादः, प्रलापः प्रकृष्टं लपनम् , अाणि अश्रुपातः । करुणारस एते भवन्ति भावाः । अतोऽत्र रसे एते भावा वर्ण्यन्ते ।। (हास्यमाह-) हासमूलः समाख्यातो हास्यनामा रसो वुधैः । चेष्टाङ्गवेपवैकृत्याद्वाच्यो हास्यस्य चोद्भवः ॥ २३ ॥ हास्यनामा रसो बुधासमूला समाख्यातः । तस हास्यरसस्य संभव उत्पत्तिष्टा- वेषवैकृत्याद्भवति ॥ अयोत्तममध्यमाधमभेदेन हास्यरसस्वरूपमाह-- कपोलाक्षिकृतोल्लासमोठे तिष्ठन्स उत्तमः । मध्यमानां विदीर्णास्यः सोऽवराणां सशब्दकः ।। २४ ।। कपोलाक्षिकृतोल्लासमोठे तिष्ठनोष्ठमात्राथयश्च भवति स उत्तमः । मध्यमान विदी गास्यः प्रस्ताननो भवति । स च हास्यासोऽवराणो नीचान सशब्दको महाशब्दसहि. तो भवति ॥ (अद्भुतमाह-) विसयात्माद्भुतो ज्ञेयः स चासंभाव्यवस्तुनः । दर्शनाच्छ्वणाद्वापि प्राणिनामुपजायते ॥ २५ ॥ अस्तुत सो मिपाशाभिवाः । स न प्राणिनामसंभागवतनो हानामा वणाद्वा समुपजायते । एतेनास्य द्विधोत्पत्तिरभिहिता ॥ अस्व रसस्य विभायादीन्दर्शयति- तत्र नेत्रविकासः स्यात्पुलक: स्वेद एव च । निःस्पन्दनेत्रता साधुसाधुवागद्गदा च गी: ॥ २६ ॥ , ५ परिच्छेदः] वाग्भटालंकारः। *. तत्राद्भुतरसे जाते नेत्रयोर्विकासः स्यात् । रोमाञ्चस्वेदौ भवतः । निःसन्दनेत्रता भवति नेत्राणि निःस्पन्दानि भवन्ति । साधुसाधुवाग्भवति । गीर्गददा च स्यात् ॥ (भयानकमाह- भयानको भवेद्भीतिप्रकृतिक़रवस्तुनः । स च प्रायेण वनिता नीचबालेषु शस्यते ॥ २७ ॥ भयानको रसो घोरवस्तुदर्शनाद्भवेत् । भीतिप्रकृतिर्भयस्वभावः । स भयानको रसः प्रायेण स्त्रीपु नीचेषु पालेषु प्रशस्यते । भयरसो व्यावर्ण्यमानो नूनमेतेष्वेव शोभते नान्य. पास्य दीप्तिः । इदानीमस्य विभावादीन्दर्शयति- दिगालोकास्यशोपाङ्गकम्पगद्गदसंभ्रमाः । त्रासवैवर्ण्यमोहाश्च वर्ण्यन्ते विबुधैरिह ॥ २८ ॥ अस्माद्भयानकादेते पदार्या उत्पद्यन्ते। अतोऽत्र रसे एते व्यावर्ण्यन्ते । एते के । दि- गालोको दिग्दर्शनम्, मुखशोषः, शरीरकम्पः, गद्दा वाणी, सभ्रमः, तथा त्रासः, वैवये विवर्णभावः, मोहो मूढता । सर्वत्र मुह्यति भयेन । हामी वर्ण्यन्ते युधैर्भावाः ।। (रौदरसमाह--) क्रोधात्मको भवेद्रौद्रः क्रोधश्चारिपराभवात् । भीष्मवृत्तिर्भवेदुग्रः सामर्पस्तत्र नायकः ॥ २९ ॥ खासाघातस्वशंसास्त्रोत्क्षेपभ्रकुटयस्तथा । अत्रारातिजनाक्षेपोद्वेलनं चोपवर्ण्यते ॥ ३० ॥ रौद्ररसः क्रोधात्मको मवति । क्रोधश्चारिपराजयाद्भवति । अरिकृतपराजयात्क्रोधः । यदा योऽरिणा पराजीयते तदा तस्य क्रोधो जायत इत्यर्थः । तथा रौद्रे भीष्मत्तिरुपः सा. मों नरो नायको भवेत् ॥ (वीमरसमाह-) बीभत्सः स्याज्जुगुप्सातः सोऽहृद्यश्रवणे क्षणात् । निष्ठीवनास्यभङ्गादि स्यादन महतां न च ॥ ३१॥ पीभत्सो रसो जुगुप्साभावप्रभवः स्यात् । विभावादीनस्योदिशति स चाहृयश्रव- माद् विरूपपदार्याकर्णनात् विरूपवस्तुनो दर्शनाच । निष्ठीवनमकुरिसतास्यमादि स्यात् सद्भावसपन्नः स्यात् । परं महतामुत्तमाना निष्ठीवनादयो भावा न प्रयोक्तव्याः । १. 'अत्र रोदे स्वस्कन्धाहतिः स्वस्य श्लाघा शस्त्रक्षेपण भुकुटयोऽनुभावाः । उपल• क्षणात्-नेनरागदन्तोष्ठग्रहणरुधिराकर्षणादीन्यपि भवन्ति । तथा विपक्षपक्षाक्षेपो दलन. रिमर्दनम् । उपलक्षणादाघमवेगामर्षाद्यपि च व्यभिचारितयोपवर्ण्यन्ते ॥' इति जिनव. घनसूरिरिमं शोक व्याचल्या.

काव्यमाला। (शान्तमाह- सम्याज्ञानसमुत्थानः शान्तो निःस्पृहनायकः । . रागद्वेषपरित्यागात्सम्यम्ज्ञानस्य चोद्भवः ॥ ३२ ॥ शान्तो रसः सम्यग्ज्ञानसमुत्थानो भवति । अस्य शान्तरसस्य निःस्पृहो नायको भवति । शान्तरसवानि:स्पृहो भवति । स शान्तरसो रागद्वेषपरित्यागात्सम्यग्ज्ञानस्य. संभव उत्पत्तिकारणम् ॥ दोपैरुज्झितमाश्रितं गुणगणैश्वेतश्चमत्कारिणं नानालंकृतिमिः परीतमभितो रीत्या स्फुरन्त्या सताम् । तैस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कवि- स्रष्टारो घटयन्तु काव्यपुरुपं सारस्वताध्यायिनः ॥ ३३ ॥ सारस्वताध्यापिनः कविसशार आकल्पकालं कल्पकालं यावत् काव्यपुरुषं घटयन्तु घरयन्तु । कीदृक् । विशेषणानि सुगमानि ।। लाटी हास्यरसे प्रयोगनिपुणे रीतिः प्रबन्धे कृता पावाली करुणा भयानकरसे शान्ते रसे मागधी । गौडी वीररसे च रौद्रजरसे वच्छोमदेशोद्भवा पीभत्साद्भुतयोविंदर्भविपया हारभूते रसे ॥ द्वित्रिपदा पाञ्चाली लाटीया पञ्चसप्त वा यावत् । शब्दाः समासवन्तो मवति यथाशक्ति गौडीया ॥ प्रथमपदा वत्सोमी त्रिपदसमा च मागधी भवति । उभयोरपि वैदर्भी मुहुर्मुहुर्भाषणं कुरुते ।। समाप्तेयं श्रीवाग्भटालंकारटीका। lq7

The Vagbhatalamkara Of Vagbhata

Author
Javaji,tukaram
Title
The Vagbhatalamkara Of Vagbhata
File name
The Vagbhatalamkara Of Vagbhata
Text
OCR done
Citation
1895
Published
2012/08
Publisher
Mumbai.,nirnay Sagar Press
Language
Sanskrit
Pages
69
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
405902
Barcode
99999990292927.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
QzNjhdyfJTX
Download PDF

The Vagbhatalamkara Of Vagbhata