Scl
Yajna Tattva Prakasa
Front matter
PRINTED AT THE MADRAS LAW JOURNAL PRESS, MADRAS 4.
॥ श्रीः॥
॥ ओं नमश्शिवाभ्याम् ॥
॥ओं नमस्सरस्वत्यै।
यज्ञतत्त्वप्रकाश
महामहोपाध्याय, शास्त्ररत्नाकर, पण्डितसार्वभौम, मीमांसाकेसरि,
श्रीचिन्नस्वामिशास्त्रिमहोदयैः वेदविशारदैः
श्रीकलिकाताविश्वविद्यालये संस्कृताध्यापकपदमधितिष्ठद्भिः
विरचितः
वेदाचार्यः, साहित्याचार्यः, साहित्यशिरोमणिः, वेदतीर्थः,
वेदान्तशास्त्री, मीमांसाशास्त्री, M.A., इत्याशुपाधिधारिणा
काशीहिन्दूविश्वविद्यालयीयसंस्कृतमहाविद्यालये
वेदसाहित्यमीमांसाध्यापकेन
पं. रामनाथदीक्षितेन
सम्पादितः
अस्य सर्वेऽधिकाराः ग्रन्थका स्वहस्ते रक्षिताः
मद्रास् ला जर्नल् प्रेस्
२०१. वैक्रमाब्दः, शकान्दः १८७५
ई. १९५३
TO Dr. SARVEPALLI RADHAKRISHNAN WITH AFFECTIONATE REGARDS विद्वद्धृन्दसमहणीयानेजवामाधुर्यसन्तर्पित- क्षोणीमण्डलमण्डिताय विदुषामय पदं बिभ्रते । नीत्या दैत्यगुरुं धिया च धिषणं न्यक्कुर्वते योगिने राधाकृष्णमहार्हते कृतिमिमां श्रद्धागरिम्णाऽपये ॥ अ. चिन्नस्वामिशास्त्री.
No text on this page.
॥ श्रीः ॥ प्राकथनम् भगवतः परमेशितुः भगवत्या देव्याः सर्वमङ्गलायाश्च असीमया कृपया यज्ञतत्त्वप्रकाशाख्योऽयं ग्रन्थः पूर्णतामगात् । कलिकाताविश्व- विद्यालयेऽत्र संस्कृतविभागे तत्तद्विभागानुसारेण अध्येयत्वेन निर्णीतानां केपाञ्चन याज्ञिकपदार्थानां स्वरूपविवेचने इदन्तया ग्रन्थस्य कस्यचिद- निर्देशात् तन्मूलकम् अध्येतृभिः अनुभूयमानं क्लेशविशेष परिहतुकामस्य मम ग्रन्थस्याम्य विलेखने प्रवृत्तिरुदभूत् । तत्र यज्ञस्वरूपविधिविवरणादौ यजुर्वेद एव प्राधान्यमावहतीति सुविदितमेव । विषयेऽत्र सतीष्वपि यजुर्वेदान्तर्गतास्वेव बह्रीषु शान्यासु तैत्तिरीयशाखैव तत्स्वरूपनिरूपणे सामञ्यं विभर्ति । इयमेव तैत्तिरीयशाखा तद्वेदीयशाखान्तरापेक्षया प्राचीनतमा च । एतदनन्तरमेव तद्वेदीया अन्याः शाग्याः प्रवृत्ताः । सत्यबसरे साध्विदं विस्तरशो निरूप्येत । अतः अत्र निरूपितानां सर्वेषां ऋतूनां यथावत् स्वरूपविवेचनाय प्राधान्येन सैव शाखा आश्रयणीया अभवत् । तदनु- सारिणी आपस्तम्बीयं श्रौतसूत्रं बौधायनीयं च विशेषतया आश्रयणीये अभूताम् । अतः प्राधान्येन ग्रन्थाविमाववलम्ब्य अन्यांश्च तत्तद्वेदीयान् श्रौतसूत्रग्रन्थान् , पद्धतीश्च तास्ता यथायोगं परिशील्य, अन्थोऽयं लिखितः। प्राचीनकालपु वेदाः तदनुसर्पिणः श्रौतसूत्रग्रन्थाश्च भारतीयानामस्माकं निधयः श्रेयोमार्गप्रदर्शकाश्च आसन् । तदुदितान्येव च कर्माणि उच्चावचानि यथावदनुष्ठाय आस्माकीनाः पूर्वतनाः पुरुषाः पारलौकिकीमैहलोकिकी च सुखसमृद्धिं लभमाना आसन्निति तैस्तरैतिहासिकैः ग्रन्थरत्नैः अवगच्छामो वयम् ॥ कालेन च वैदिक मार्गेऽस्मिन् दुरवबोधतया बहुकृच्छ्रसाध्यतया च शनैः शनैः शिथिलतामुपगते विद्यान्तरेषु गाढतरमवगाहमाना अपि . विषय- मिममुपेक्षन्ते स्म ज्ञातारोऽपि । तेनैव च हेतुना उपेक्षाविषयतां प्राप्तोऽयं श्रौतो विषय इदानीं क्रमशः कियती दुरवस्थामनुभवतीति न वर्णनीयं विवेचनशीलानाम् । अतः आस्माकीनेयं चिरन्तनी रत्नप्रभा यथा न आत्यन्तिकं लोपमियात् तथा अस्माभिर्यतितव्यम् । अत एव च मयाप्यत्र किञ्चिदिव यतितम् ॥ 11. B । एतादृशे समये कलिकाताविश्वविद्यालय:-य: भारतीयप्राचीनसभ्य- तापरिरक्षणे प्राथम्यमावहति-विषयमिमम् अध्येयकोटी निवेशयतीति स सर्वथा श्लाघनीय इत्यत्र नास्ति विशयलेशोऽपि । विषयस्वरूपमात्रनिरूपण- प्रवणेन मया तत्तच्छौतसूत्रस्वरूपनिर्देशादिकं न कृतम् । साधारण्येन परं तत्तत्स्थलनिर्देशः कृतः अष्टिप्पण्यां तत्र तत्र । अध्येतृणाम् उपकारमेव विशेषतो मनसिकृत्य तदनुसारेणैव अन्थोऽयमारचित इति तु विज्ञा विजानीयुरेवेति नात्र अधिकं वक्तुमुत्सहे । अतो विद्वद्वराः विशेषेण च विद्यार्थिनः प्रथमिमं यथावदुपयुज्य प्रयत्नं मदीयं सफलयेयुरिति सुदृढं विश्वसिमि ॥ स्थलेषु बहुषु समुत्पन्नान् संशयान् दूरीकृत्य पदार्थयाथाय तदा तदा विवेचित्तवतां श्रोतविद्यायां भारतदेशे इदानी प्रथमगणनीयानां त्रिश्रौत- भास्करादिविविधोपाधिविभूषितानां नलिच्चेरि - श्रीरामनाथश्रौतिमहोदयानां शतश उपकारान् प्रशंसामि कृतज्ञतापूर्वकम् ॥ अमूल्यमतिगभीरमात्मीयमाशयमेतग्रन्थविषयकमाविष्कृत्य प्रन्थमिम पाठकानां पुरः कृतवद्धयः कलिकाताविश्वविद्यालये संस्कृतविभागीय- प्रधानाध्यापकपदं (Asutosh Professor) अलङ्कुर्वद्यः विद्वत्कुलमूर्धाभि- षिक्तेभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहुशो धन्यवादान् हार्दिकान् वितरामि ।। इति कलिकाता विदुषां वशंवदः १५-७-२५१ अ. चिन्नस्वामिशास्त्री. } ॥ विषयसूची॥ प्रथमभागे विषयः पृष्ठम् विषयः पृष्ठम् २२ २३ २४ प्रयाजा: २६ " २८ २९ ३० ३१ ३३ मङ्गलाचरणम् १ | आज्यग्रहणम् अग्न्याधेयम् वेदिस्तरणं पात्रसादनं च गार्हपत्याधानम् ५ सामिधेनीकर्म दक्षिणाग्न्याधानम् आहवनीयाधानम् ६ प्रधानयागानुष्ठानम् सभ्यावसथ्ययोरन्योराधानम् स्विष्टकृद्यागः पवमानेष्टयः ७ | इलाभक्षणादि आधानपवमानेष्टीनामङ्गाङ्गिभावः ऋत्विग्दक्षिणा,अनूयाजाश्च आधानौपयिकानि द्रव्याणि पन्नीसंयाजादिकम् पात्राणि च ८ याजमानम् अग्निहोत्रम् ९ दर्शयागे विशेषाः अग्निहोत्रे उदितानुदितहोमिभेदः १० | वत्सापाकरणम् तदनुष्ठानप्रकार: शुक्लप्रतिपदिनकृत्यम् अग्निहोत्रनाम्नि मतभेदः १२ दार्शपौर्णमासिकानि अग्न्युपस्थानं लेपभक्षश्च द्रव्याणि पात्राणि च अग्निहोने की १३ पिण्डपितृयज्ञः अमिहोत्रप्रशंसा पिण्डपितृयज्ञोपयिकानि अग्निसमारोपणादि १४ द्रव्याणि पात्राणि च विषयविवेचनम् १५ निरूढ पशुबन्धः दर्शपूर्णमासी १६ अग्निप्रणयनम् यागानुष्ठानकालः १८ | पात्रसादनादि पौर्णमासीदिनकृत्यम् १९ पशुसंज्ञपनवपाहोमादि कृष्णप्रतिपदिनकृत्यम् २० | हृदयाघङ्गयागः हविनिर्वापः अनूयाजानुष्ठानम् अवहननपेषणे २१ पशुयागोपयुक्तानि द्रव्याणि पात्राणि च वेदिनिर्माणम् , चातुर्मास्यानि आज्यग्रहणादिकं च २२ वैश्वदेवपर्व ३४ ३६ ३७ ३८ " ४२ ४३ हविःश्रपणम् ४५ xii वरुणप्रघासपर्व 3 ง " ८१ " विषयः पृष्ठम् विषयः पृष्ठम् ४७ | व्यम्बकहवींषि साकमेधपर्व ४९ शुनासीरीयपर्व महाहवींषि साकमेधान्तर्गतानि) चातुर्मास्यानुष्ठाने विशेषाः महापितृयज्ञः ५० | आग्रयणेष्टिः ५३ द्वितीयभागे सोमयागनिरूपणम् ५५ आर्भवपवमानाय सोमयागेऽधिकारी प्रसर्पणं चमसप्रचारश्च नाम्नि प्रवृत्तिनिमित्तम् ५७ सौम्यचरुः सोमयागे प्रथमदिनकृत्यम् ५८ | हारियोजनग्रहप्रचारः द्वितीयदिनकृत्यम् ६१ अवभृथेष्टिः सोमक्रयः उक्थ्यसंस्था द्वितीया ८२ प्रवर्यः ६२ | पांडशिसंस्था तृतीया ८३ प्रवर्दीसम्भाराः ६३ अतिरात्रसंस्था चतुर्थी प्रवानुष्ठानम् अत्यग्निष्टोमसंस्था पञ्चमी ८५ उपसत् ६५ वाजपेयसंस्था षष्ठी तृतीयदिनकृत्यम् अप्तोर्यामसंस्था सप्तमी ८६ चतुर्थदिनकृत्यम् ६६ | स्तोत्राणां शस्त्राणां च पञ्चमदिन(सुत्यादिन)कृत्यम् ६७ महामिपवः ६८ स्तोमविवरणम् ; विष्टुतिप्रकारश्च ९१ ऐन्द्रवायवादिग्रहाः चयनम् ९७ प्रसर्पणम् ६९ उखासम्मरणम् ९८ धाराग्रहप्रचारः वायव्यपशुयागः ९९ शुक्रामन्थिग्रह्मचारः ७० उख्यामिनिष्पादनधारणादि १०० चमसदेवताः ७१ गाईपत्यचितिमानादि चमसभक्षणम गार्हपत्यचितरुपरि शस्त्रपाठप्रतिगरादि उख्याग्निस्थापनम् १०२ नाराशंसहोमः ७३ चयनस्थलकर्षणादि १०३ उक्थ्यग्रहप्रचार: ७४ प्रथमचितेरुपधानम् १०४ माध्यन्दिनं सवनम् शतरुद्रीयहोमः "दक्षिणादानम् ७५ चितेरुपर्यग्निस्थापनादि दिक्षिणाविभागः ७६ वसोर्धाराहोमः, मरुत्वतीयमहप्रचारः यजमानाभिषेकश्व १०६ तृतीयसवनम् ७४ | धिष्ण्योपधानम् स्तोमसङ्ख्या " ७७ xiii " विषयः दवसुवां हवींषि सौमिकव्यापाराः सौत्रामणीयागः राजसूयः अश्वमेधः अश्वमेधस्य सर्वयज्ञश्रेष्ठता पुरुषमेघः सर्वमेधः तृतीयभागे पृष्ठम् विषयः Yb १०७ | सवनिरूपणम १२२ द्वादशाहक्रतुः १२५ द्वादशाहे संस्थास्तोमपृष्ठसाम- १०८ निरूपणी पट्टिका ग्रहाग्रता ११५ गवामयनम् १२८ षडहस्वरूपनिरूपणम् १२९ १२१ | महाव्रतनिरूपणम १३१ APPENDIX i वेदीनां चित्राणि 1. दार्शपौर्णमासिकी वेदिः 5. पशुयागीया वेदिः 2. चातुर्मास्यवेदिः 6. सोमयागार्थी वेदिः 3. एकादशकपालोपधानप्रकार: 7. सुपणेचिते: २,४. प्रस्तारी अष्टाकपालोपधानप्रकार: 8. सुपर्णचिते: १,३,५. प्रतारा: 4. प्रकारान्तरं तयोरेव
No text on this page.
॥ श्रीः ॥ ॥ श्रीगणेशाय नमः ॥ - ॥ यज्ञतत्त्वप्रकाशः ॥ महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः ॥ प्रथमो भागः ॥ चयञ्चन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितो गङ्गोत्तुङ्ग तरङ्गभङ्गानिवदक्लिद्यकपर्दोज्ज्वलः । कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलन कुर्वन्छ्रेय इहादधातु जगतां क्षेमकरश्शङ्करः ॥ १ ॥ जगत्स्थित्युद्भवलया यत्प्रसादादनेकधा । तं नौमि परमात्मनं यज्ञेशं यज्ञरूपिणम् ॥ २ ॥ यज्ञानां प्रक्रिया ह्येषा हासिमानमुपागता । उद्धर्तुमेनां यत्नोऽयं प्रीणन्तु सुधियोऽमुना ॥ ३ ॥ अग्न्याधेयम् एवं तावत् सर्वेषां श्रौतकर्मणाम् उत्पत्तिविकासादिनिरूपणद्वारा सामान्यस्वरूपं निरूपितं किञ्चित् सामान्यकाण्डे । इदमिदानी विशेषतस्तेषामेव विविच्य अवगमनाय प्रयत्यते । तत्र तावद्वेदोदितानि सर्वाण्यपि श्रौतकर्माणि कृतदारेण आहिताग्निना अनुष्ठेयानीति शास्त्रसिद्धान्तः । आहिताग्निस्तु विधिवत् श्रुतिविहितमाधानं योऽनुतिष्ठति स एव भवति । अतस्तदेव पूर्व निरूप्यते ॥ आधानं त्रिविधम्-होमपूर्वाधानम् , इष्टिपूर्वाधानम् , सोमपूर्वा- धानं चेति । तत्र, अग्निहोत्रारम्भं करिष्यन् ततः पूर्व यदाधानं करोति २ यज्ञतत्त्वप्रकाशे तद्धोमपूर्वाधानम् । दर्शपूर्णमासेटयारम्भात् पूर्व कियमाणमिष्टिपूर्वा- धानम् । सोमयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । तदित्यम्- यियक्षमाणः पुरुषो वसन्त (कस्मिंश्चित् यथोदितनक्षत्रादियुते) काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव सायमग्निहोत्रमारमेत । तदिनप्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं जुह्वदासीत । तदिदं होमपूर्वाधानम् ॥ आधानानुष्ठानानन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रास्तादिदोषा- दूषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदनन्तरदशैं दर्शेष्टिं चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं सामग्रीसम्पदं च अवाप्य सोमादीननुतिष्ठेद्यागान् । अथ वा वसन्ते कस्मिंश्चिहिने शुभे आधानं कृत्वा तत्समनन्तरदिन एव सोमयागाय यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेऽस्मिन् सोमयागं परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । अनन्तरपूर्णिमायां पूर्णमासेष्टिमित्यादि । त्रयाणाममीपां पक्षाणां स्वेच्छया विकल्पः परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम् , न त्वनुष्ठाने ॥ तत्र यदहरनीनाधास्यमानः स्यात् तत्पूर्वदिने कृतपापानुगुण- प्रायश्चित्तो निष्कल्मषीभूय," आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्य क्रियो भार्यया सह आधानार्थ सङ्कल्प कुर्यात् । आधानस्य फलमग्नीनां गार्हपत्य-आहवनीय- दक्षिणामीनां त्रयाणां, सभ्य-आवसथ्यसहितानां पञ्चानां वा सिद्धिरेव । अतः आधानं न कस्यचित् कर्मणोऽङ्गभूतम् , किं तु स्वतन्त्रमेव कर्म ।। आधानस्य ब्राह्मणकर्तृकस्य वसन्तर्तुरेव कालो विहितः श्रतो- " वसन्ते ब्राह्मणोऽग्मीनादधीत" इति ।। ख. होमः आमिहोत्रहोमः । ततः पूर्वमेव क्रियमाणमाधानं होमपूर्वाधानम् । अतश्च आधानानन्तरमेव अग्निहोत्रारम्भे होमपूर्वाधानम् । आधानानन्तरमेव दर्शपूर्ण- मासेष्टयारम्भे इष्टिपूर्वाधानम् । आधानानन्तरमेव सोमयागसङ्कल्पे सोमपूर्वाधानमिति सिद्धम् ॥ ग. मङ्गलकार्येषु क्रियमाणं श्राद्धम् आभ्युदयिकमित्युच्यते । अभ्युदयसम्बन्धि आभ्युदपिकमिति ॥
३ आधाननिरूपणम् तत्र आदौ आधानार्थ यजमानेन सङ्कल्पं कृत्वा ऋत्विग्वरणे कृते, अध्वर्युः शमीवृक्षस्योपरि यः प्ररूढोऽश्वत्थवृक्षः तस्मादेकां छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी ते युगपदेव आधानदेशं प्रत्याहरेत् । पूर्वसम्पादिते वा ते तत्र आहरेत् । ते च चतुरङ्गुलोन्नते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातपशुष्के भवतो बौधायनमतात् । चतुर्विंशत्यगुले इति कात्यायनपक्षः । तयोरेका अधरारणिः; अपरोत्तरारणिरित्युच्यते । ततः सप्त पार्थिवाः सम्भारा आहवनीयादिषु कुण्डेषु क्षेपणाय आनीय स्थापनीयाः । ते यथा-- १. सिकताः २. ऊषाः ३. आखुकरीषम् ४. वल्मीकनपा ५. सूदः ६. वराहविहतम् ७. शर्कराः ८. हिरण्यम् । एवं वार्ताः (वृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा १. अश्वत्थकाष्ठम् २. उदुम्बरकाष्ठम् ३. पलाशकाष्ठम् ४. शमीकाष्ठम् ५. विकङ्कतकाष्ठम् ६, अशनिहतवृक्षशकलम् ७. पद्मपत्रम् । एवमेतान् पार्थिवान् वानस्पत्यांश्च सम्भारान् तस्मात् तस्मात् स्थानात् वृक्षाच आहृत्य, एकस्मिन् पात्रे प्रज्ञातान् तान्निध्यात् ।। तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यतरस्मिन् दक्षिणाग्नेः स्थानम् । आहवनीयाग्नेः पुरतः सम्याग्नेः । तस्य पुरतः आवसथ्यस्य ॥ ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्तनादि च, लात्वा क्षौमे वस्त्रे (दुकूलद्वयं) परिदध्यात् । एवं यजमानपत्न्यपि क्षौरं ऊपर भूमिगता मृत् ऊपा । मृषिकोत्कीर्णा मृत् आग्वुकरीपम् । वल्मीकस्योपरिभागे स्थिता मृत् वल्मीकवपा | अशोष्यस्य जलशयस्य मृत् सूदः। वराहेण स्वमुखोत्कीर्णा मृत् वराहविहतम् । क्षुद्रपाषाणा: शर्करा: 'शुक्कान्कल्' इति द्राविडभाषायाम् । एवं एते वस्तुविशेपाः सम्भारा इत्युच्यन्ते ॥ ख. इदानींतनास्तु याशिकाः स्थानाभावाद्यसौकर्यण एकस्मिन्नेव अपवरके त्रयाणां पञ्चानां वा अग्नीना कुण्डान् निर्माय तत्र तान स्थापयन्ति । १. See. आप. श्री. ५. १. २. See. बौ. श्री. २. ६. २.
यज्ञतत्त्यप्रकाशे विना नखनिकृन्तनादिकं परं कारयित्वा स्नात्वा क्षौममेव वस्त्रं परिदधीत । ततोऽध्वर्युरपराले यजमानस्यौपासनानेर पृथक्कृत्य, तं गार्हपत्याने पश्चान्निधाय, प्रज्वाल्य कब्रह्मौदनपाकार्थ · तण्डुलान्निरुप्यख त्रैहेयान् , तानप्रक्षाल्यैव चतुश्शराव"परिमितान् जलपूर्णे महति पात्रे प्रक्षिप्य पचेत् । यथा भक्तेषु तण्डुलांशोऽल्पोऽवशिष्येत तथा पक्तव्यम् । ततः पक्कमन्नमुद्वास्य' ततो दा गृहीत्या तस्मिन्नेवाग्नौ जुहुयात् । ततोऽवशिष्टमोदनं चतुर्धा विभज्य पिण्डं कृत्वा चतुर्यः ऋत्विग्भ्योऽ- ध्वादिभ्यो (अध्वर्यु-होतृ-ब्रह्म-आग्नीधेभ्यः) दद्यात् । पात्रे च किश्चिदवशेषयेत् ॥ ततोऽध्वर्युः स्वीयं भागं सव्यहस्ते दक्षिणहस्तेन पात्रस्थेऽन्ने आल्यं प्रस्राव्य, तदन्नं तिसभिः फलवतीभिः अश्वत्थ समिद्भिरालोड्य, आलोडनसमये लग्नेनाऽन्नेन साकमेव ताः समिधः तस्मिन्नेवाऽग्नौ निदध्यात् । तत ऋत्विजो ब्राह्मणाः स्वस्वान्नं भुञ्जीरन् । इदं च समिदाधानं यस्मिन्नहनि अग्रे आधानं चिकीर्षति तत एकस्मात् वत्सरात् पूर्व, द्वादशाहात् बहात् यहात् पूर्व वा, पूर्वस्मिन्नेव वा दिने कर्तव्यम् । ततो यजमानस्तस्यां रात्रौ व्रतग्रहणं (नियमरवीकारं) कृत्वा वीणावेणु- वादनादिभिः जागरणं कुर्यात् । तमग्निमिन्धनादिप्रक्षेपेण सर्वां रात्रि प्रज्वाल्य रक्षेत् । ततः प्रातरुपःकाल एव तस्मिन्ननावरणी पूर्वसम्भृते प्रतप्य, तमग्निं शमयित्वा, यजमानहस्तेऽरणी प्रयच्छेत् । यजमानस्ते प्रतिगृह्य, अभिमन्य यावन्मथनारम्भं स्वहस्त एव धारयन्नासीत । ततः अध्वर्युर्गार्हपत्यायतनस्योद्धननावोक्षणादि कृत्वा, पूर्वस्थापिताः सिकता गृहीत्वा ताः समशो द्वेधा विभज्य, एकम पुन<धा विमज्य, एकं भाग गार्हपत्यायतने, एकं च. दक्षिणाग्न्यातने क. ब्राह्मणानामृत्विजां भोजनाय यः पक्क ओदनः स ब्रह्मौदनः ।। ख. प्रभूतमानीतेभ्यस्तण्डुलेभ्यः प्रकृतापेक्षितांस्तण्डुलान् पृथक् गृहीत्वा तेषां पात्रान्तरे स्थापनम् ॥ शराव: 'तस्तरी' इति हिन्दीभाषायाम् ।। घ. अमेबहिनिस्सार्य स्थापनमुद्वासनम् । ग. ३. See आप. श्री. ५. ५. ८-११. See आप. श्री. ५. ८. २-५. ५. ९.४.५.
आधाननिरूपणम् १ प्रक्षिपेत् । अवशिष्टमधं त्रेधा विभज्य, आहवनीय-सभ्य- आवसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । अस्मिन् पक्षे तस्यास्य आहवनीय एव निवपनं कार्यम् ॥ गार्हपत्याधानम् अनेनैव प्रकारेणेतरानपि पार्थिवान् सम्भारान् विभज्य, तेषु तेष्वायतनेषु निदध्यात् । एवं सप्त पार्थिवान् सम्भारान् आयतनेषु न्युप्य, तदुपरि तेनैव प्रकारेण सप्त वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि हिरण्यं निवपेत् । ततः पूर्व शमितस्याग्नेः भस्म अपोह्य, तदुपरि अरणी निक्षिप्य, तत्समीपे श्वेतमश्वमेकं बद्ध्वा, अरणी मन्येत् । ततोऽग्नावुत्पन्ने सति यजमानो वरमध्वर्यवे दद्यात् । ततोऽध्वर्यु- मथनजातमग्निं करीपकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागा- वस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव गार्हपया- धानम् । ततो ब्रह्मा सामगानं कुर्यात् , न वा ।। दक्षिणाग्न्याधानम् ततः सूर्यस्य अर्धोदयसमये गार्हपत्यं प्रज्वाल्य, तत्र अश्वत्थकाष्ठा- न्याधाय, प्रदीप्तानि तान्यंशतो गृहीत्वा, सिकताभिरुपसङ्गृह्य, उपर्युद्धृत्य हस्तेन धारयन्नध्वर्युस्तिष्ठेत्" । तदा आनीध्रो लौकिकमग्निं यतः यत्र यत्र सामान्यतो वरो देयत्वेन विहितस्तत्र सर्वत्र गोरेव अभिप्रेता । गामेका दयादिति यावत् । गवागावे तन्मूल्यं निकपरिमाणं सुवर्ण वा देयम् ।। ख. गार्हपत्यागेरायतनं । आहवनीयस्य चतुरश्रम् दक्षिणामेरर्धचन्द्राकृति । गार्हपत्यायतनमध्यात् प्राच्या दिशि पण्णवत्यङ्गुलमिताया भूमावाहवनीयमध्यं स्यात् । केचित् गार्हपत्याहवनीययोरन्तरालगताया एव वेदे- स्तावन्मानमिच्छन्ति । गार्हपत्यायतनस्य आमेय्या दिशि तत्संलमप्रायमेव दक्षिणाने- रायतनं भवति ॥ ग. आहवनीयाधानार्थ प्रज्वालिता। गार्हपत्याग्नेः कश्चित् भागमादाय पाने कस्मिंश्चिन्निधाय साग्नि तत् पात्रं स्वहस्ते गृहीत्वा तत्रैव तिष्ठत्यध्वयों आग्नीधी दक्षिणामिमादध्यात् इत्यापस्तम्बः ।। Ste. आप. श्री. ५. १३. ८. क. वृनाकारम् श्री. ५. १७, १८. बौधा. श्री. २. १६. १. See, आप. कात्या. ४.८, ९.
६ यज्ञतत्त्वप्रकाशे कुतश्चिदानीय, गार्हपत्याद्वा गृहीत्वा मथित्वा वा दक्षिणाग्न्यायतने सम्भाराणां पूर्वनिहितानामुपरि निदध्यात् । इदमेव दक्षिणाग्न्याधानम् । अत्राहवनीयस्योपयुद्धरणकाले ब्रह्मा वामदेव्यं साम गायेत् , न वा ॥ आहवनीयाधानम् ततोऽध्वर्युप्रभृतयः ऋत्विजः कञ्चन अश्वं पूर्व चालयन्तः, आहवनीयदेशं प्रति प्राञ्चो गच्छेयुः । तेषां दक्षिणभागे ब्रह्मा रथचक्र त्रिवारं परिवर्तयेत् । अश्व आहवनीयायतनस्य प्राग्भागे तिष्ठेत् । तेन प्रत्यङ्मुखेन आहवनीयसम्भारान् आक्रमयेत् । ततो ब्रह्मणि साम गायति सति आहवनीयायतनस्य पुरस्तात् प्रत्यङ्मुखस्तिष्ठन्नेव अध्वर्युराहवनीयमादध्यात् । एवं विष्वग्निष्वाहितेषु आज्यहोमेन काष्ठैश्वानीन् वर्धयेयुः ॥ सभ्यावसथ्ययोरग्न्योराधानम् ततो लौकिकानिनाव अरणिमथिताग्निना वा सभ्याग्निमावसथ्याग्निं च आदध्यात्तदाधानपक्षे । ततोऽश्वत्थवृक्षीयास्तिस्रस्तिस्रः समिधः शमीवृक्षीयाश्च तिरस्ता एकैकस्मिन्नग्नावादध्यात् । ततो मन्त्रवर्ज- मग्निहोत्रं जुहुयात् । ततः पूर्णाहुनिहोमः । स चाज्यद्रव्येणैव । ततो यजमान आहिताननीनुपतिष्ठेत । ततोऽवयवे यजमानो वरं दद्यात् । ततः प्रायश्चित्तहोमाः । ततो यजमानः सङ्कल्पकरणपूर्वकमाहिताग्निनियमान् धारयेत् । एतावदग्न्याधेयस्य प्रधानकर्म । अतः परमनुष्ठेयान्याग्नेये- टयादीनि अङ्गान्युच्यन्ते । तत्र प्रथममाग्नेयेष्टिराधानानन्तरमेव कर्तव्या । तत्र अग्निर्देवता । अष्टाकपालः पुरोडाशो द्रव्यम् । सा च पौर्णमास- गताग्नेयेष्टिवत् कार्या॥ आहवनीयमाधाय तत्समनन्तरमध्वर्युरेव दक्षिणानिमादध्यादिति कात्या- यनः ॥ क. आहवनीयायतनस्य पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽश्वः यथा तदाहवनीयस्थानमुल्लध्य तत्पश्चिममागे आगच्छेत् तथा यतेत ।। ख. अरणिमथितानिनव सभ्य-आवसथ्यावादध्यादिति कात्यायनः (See. का. श्री. ४. ९. १८.) यत्र च्छात्रा अध्याप्यन्ते शास्त्रार्थविचारादिकं वा क्रियते सा सभा । तत्र सभ्यामेराधानम् ।।
आधाननिरूपणम् पवमानेष्टयः तदनन्तरं पवमानेष्टयः । तास्तिस्रः । तत्र प्रथमाया अग्निः पवमानो देवता । द्वितीयस्या अग्निः पावकः । तृतीयस्या अग्निः शुचिः । सर्वत्र अष्टाकपालः पुरोडाशो द्रव्यम् । ता एता आधानदिन एव समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात् व्यहे, व्यहे चतुरहे, अर्धमासे, मासे, मासद्वये संवत्सरे वा कर्तुं शक्यन्ते । परममीषां कालानां विकल्पः । यस्मिन् दिन एताः पवमानेष्टयः क्रियेरन् तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । आधानात् कालान्तरे आधानात् कालान्तरे पवमानेष्टीनामुत्कर्षे अग्निहोत्रस्याप्युत्कर्षः । (कालान्तरेऽनुष्ठानम् ) । आधानपवमानेष्टीनामङ्गाङ्गिभावः पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाःख साङ्गस्यैव कर्मणः फलजनकत्वात् पवमानेष्टीनामनुष्ठानानन्तरमेवाग्मीनां सिद्धेः तदनन्तरमेव अग्निहोत्रारम्भः । केचित्तु न आधानपवमानेष्टीना- मङ्गाङ्गिभावः । परमावानवत् पवमानेष्टीनामपि स्वत एवाहवनीयादि- सम्पादकत्वम् । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे पवमानेष्टीविना आहवनीयाघनिष्पत्तेः पवमानेष्टीरनुष्ठायैव तदनन्तर- मग्निहोत्रारम्भः कर्तव्यः । अस्य सायमेव आरम्भः । सायं. प्रातरनुष्ठी- यमानं प्रयोगद्वयं मिलित्वक कर्म भवति । सायंहोमस्य अनिदेवता- कत्वादेव अस्य कर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति सम्पन्नमिति मीमां- । तन्मते सकाः ॥ इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि विलिख्यन्ते- क. अत्र प्रथमाया एवेष्टेरग्निः पवमानो देवता, नेतरयोः । तथापि तिसृणामपि पवमानेष्टित्वेन व्यवहारो याशिकसम्प्रदाये प्रसिद्धः ।। आधानप्रकरणे पाठात् फलाश्रवणाच्च आधानाङ्गं पवमानेष्टय इति मीमांसावार्तिककारः । 'यदाहवनीये जुह्वति' इति स्वतन्त्रविधिना पवमानेष्टीना- मग्न्यङ्गत्वविधानात् आधानवत् तासामध्यमिसम्पादकत्वमेवेति मीमांसाभाष्यकारः । See. पू. मी. ३. १. १२. १. See. पू. मी. १. ४. ४.
८ यज्ञतत्वप्रकाश आधानौपयिकानि द्रव्याणि पात्राणि च अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ मन्थिप्रमन्थिनौ । तदर्थमेव । अष्टौ पार्थिवास्सम्भाराः-(मृत्सम्बद्धाः) (१) सिकताः। (५) शर्कराः (क्षुद्रपापाणाः) । (२) ऊपरमृत् । (६) वल्मीकमृत् । (३) मूषिकोत्खाता मृत् । (७) शूकर(वराह) मुखोत्खाता मृत्। (४) अशोष्य जलाशय मृत् । (८) हिरण्यम् । अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ॥ सप्त वृक्षसम्बन्धिनः सम्भाराः- (१) अश्वत्थकाष्ठशकलानि । (५) पलाशवृक्षकाठशकलानि । (२) औदुम्बरकाष्ठशकलानि । (६) विकङ्कतवृक्षशकलानि । (३) शमीवृक्षकाठशकलानि । (७) पद्मपत्राणि च । (४) अशनिहतवृक्षकाष्ठशकलानि । शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् ) दुकूलवस्त्राणि (तयोरेव परिधानार्थम् ) ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः (ब्राझौदनिकानावाधानार्थम् ) ॥ अश्वत्थवृक्षीयाः समिधो नव (गार्हपत्यादिषु विष्वप्यमिपु शमीमय्यः समिधो द्वादश तदा तदा निक्षेपणार्थमेव वैककत्यः समिधस्तिस्रः विध्यनुरोधेन) पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् ) शरावा: (तत्तदग्निप्रणयनार्थम्) दर्वी पैत्तली ताम्र मयी वा (ब्रह्मौदनोद्धरणार्थम् ) घृतं गव्यं माहिषं वा (होमाभिधारणाद्यर्थम्) क. अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः सोऽशनिहतो वृक्षः॥ १. See. आप. श्री. ५. १. २. बौधा. २. १२.
अग्निहोत्रनिरूपणम् ९ वत्सतयः तिस्रः (अध्वर्यवे दानाय) यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम् ) अश्वः (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् ) अजः (आयतनसमीपे बन्धनार्थम् ) दक्षिणार्थं च । सिकताः (अग्निभिः सह ग्रहणार्थम् ) (उपयमनार्थम्) रथचकम् (आवर्तनार्थम्) गौः (विदेवनार्थम् ) आवानार्थदक्षिणाद्रव्याणि-(१) द्वादश गावः (२) अजः (३) पूर्णपात्रम् (४) वासः (५) मिथुनौ गावौ (स्त्रीपुंसरूपौ) नवीनो रथः (७) वहनसमर्थोऽश्वः (८) अनड्वान् ।। चत्वार ऋत्विजः--अध्वर्युः, ब्रह्मा, होता, आमीध्रश्च ।। एवं पवमानेष्टयादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्त्या- वश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमहन्तीति तत्रैव प्रदश्यन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तव्यम् ।। ॥ इत्यग्न्याधानं समाप्तम् ॥ अग्निहोत्रम् एवं पूर्वोक्तप्रकारेण कृताधानः त्रैवर्णिकः आहिताग्निपदवाच्यो भवति । तस्यैव सपत्नीकस्य श्रौतकर्मस्वधिकारः । तानि च ौतकर्माणि वेदेषु परस्सहस्राणि विहितानि । तेषां नामतो निर्देशस्त्वन्ते चिकीयते । इदानीं तेषामेव केषांचित् स्वरूपं विलिख्यते । तेषु कर्मसु अग्निहोत्रमेव प्रथमपातीति तस्यैव स्वरूपं विवियते । तच पुरुषेण त्रैवर्णिकेन वत्सभावमतिक्रान्ताः निवृत्तस्तन्यपानाः वत्सतर्यः । पात्रे अमेरधः पार्श्वेषु च सिकतानां स्थापनमुपयमनम् । पुनः पुनरश्वस्य दक्षिणभागे रथचक्रस्य भ्रामणम् । घ. अष्टाविंशत्युत्तरशतसङ्ख्याकमुष्टिपरिमितं ब्रीहियवादिधान्यं पूर्ण पात्रमित्युच्यते । अकृतविवाहस्य श्रौतेषु कर्मस्वधिकारो नास्ति । मृतपत्नीकस्य स्वमिहोत्रदर्शपूर्णमासयोरधिकारो भवतीति रुद्रदत्तः प्रसाधयति । परमपत्नीकस्य अमिहोत्रानुष्ठानं शिष्टसम्प्रदाये नास्ति । क. ख. 2 यज्ञतत्त्वप्रकाशे , अवश्यकर्तव्येषु नित्यकर्मसु परिगणितं स्मृतिकारैः । अत एव तत् यावजीवमनुष्ठेयम् । दर्शपूर्णमासोक्तः कालविकल्पः-जराजीर्णो वा विरमेत् , विंशतिं वा वर्षाणि अविच्छेदेन अनुष्ठाय ततः परित्यजेत् इत्यादि त्र प्रसरति । तस्य च सायमुपक्रमः (आरम्भः), प्रातरपवर्ग: (समातिः) । एवं च सायं प्रातरिति कालद्यानुष्ठानादेकं कर्म निष्पन्नं भवति । तत्र सायङ्काले यदा सूर्यरश्मयः भूभागं परित्यज्य वृक्षाग्र एव प्रकाशमाना दृश्यन्ते तदा सायंहोमाः; प्रातःकाले च प्राच्यां दिशि यदा रश्मय आविर्भूता भवन्ति तदा च प्रात)मा अनुष्ठेयाः ॥ अग्निहोत्रे उदितानुदितहोमिभेदः तत्र उदितहोमिनः केचित् । केचिदनुदितहोमिनः । तेषु बह्वचाः कातीयाः छन्दोगाश्च अनुदितहोमिनः । कठास्तैत्तिरीया मैत्रायणीयाश्च उदितहोमिनः । अग्निप्रणयन परं सर्वेषामुदयास्तगययोः पूर्वमेव । उदया- दस्तमयाच पूर्वमेव गार्हपत्यादग्निमुद्धृत्य कुण्डेषु स्थापयित्वा प्रज्वलयेत् । ततोऽनुदय उदये वा स्वसूत्रानुसारमग्निहोत्रमनुतिष्ठेत् ॥ तदनुष्ठानप्रकारः तत्र सायमग्निहोत्रार्थ सङ्कल्प्य उपवेषेण गार्हपत्यादग्निं ज्वलन्त- मुद्धृत्य, तं दक्षिणाने रायतने तूष्णीं स्थापयित्वा, पुनरपि गार्हपत्यादग्नि- मुद्धृत्य तं मन्त्रेण आहवनीये स्थापयेत् । ततो यजमान इध्मकाष्ठानि स्वयमाहृतानि त्रिष्वप्यनिषु क्रमेण निदध्यात् । ततोऽग्नीन् गन्धपुष्पादि- भिरलङ्कृत्य, उदगग्रैः प्रागौश्च दर्भः (कुशैः) परिस्तीर्य, या यजमानस्य आग्निहोत्री गौः तां विहारस्य" दक्षिणत आनीय अवस्थाप्य, सूर्यास्ता- दनन्तरं तां दुग्ध्वा दुग्धं पयः श्रपणार्थायां कुम्म्यां निनीय, आहवनीय- गाईपत्यदक्षिणाग्नीन् क्रमेण जलेन परिषिच्य, गार्हपत्यादारभ्य आहवनीय- पर्यन्तम् अविच्छिन्नामुदकधारां वेद्यां प्रत्राव्य, गार्हपत्याग्नेः कांश्चन क. सूर्योदयादनन्तरं यच्छाखिनोऽमिहोत्र कर्तव्यतया विहितं स उदितहोमी। ततः पूर्वं तत् कुर्वाणा अनुदितहोमिनः । यस्याः पयो दुग्ध्वा अमिहोत्रं क्रियते सा आमिहोत्री गौः। ग. विहारो यज्ञानुष्ठानस्थानम् । . १. आप. श्री. ६. ३. ८-१४. बौ. . ३. ४. का. श्री. ४.१४. १.
अग्निहोत्रनिरूपणम् ११ अङ्गारान् पृथक्कृत्य तदायतनाबहिः वायव्यकोणे तान्निक्षिप्य, तदुपरि अग्निहोत्रार्थपयःपूर्णा कुम्भी निक्षिप्य, तत् पयः श्रपयेत् । यस्मिन् पात्रे दोहनं कृतं तत् पात्रं प्रक्षाल्य, तजलं पात्रस्थदुग्धमिश्रम् अन्यद्वा शुद्धजलं स्रुव आनीय, तत् कुम्भ्यां प्रतिषिच्य त्रिः पर्यग्नि कृत्वाख गवर्मकरणेन प्रागुद्वास्य, त्रिभूमौ तत् प्रतिष्ठाप्य, पूर्व गार्हपत्यादुद्धृतानङ्गारान् पुनस्तस्मिन्नेव प्रतिक्षिप्य, स्रवमग्निहोत्रहवणीं च गृहीत्वा ते आहवनीये प्रतितप्य, सम्मृश्य, कुम्भीतः पयो गृहीत्वा, अग्निहोत्रहवण्यां क्षिपेत् । एवं चतुर्वारं क्षेप्तव्यम् । तत् हविरुन्नयनमित्युच्यते । उन्नीतं तत् पयः गाईपत्यस्य पश्चिमभागे स्थापयित्वा गार्हपत्ये स्वं हस्तं प्रताप्य, तेन तत् पयः सम्मृश्य, प्रादेशमात्री पलाशसमिधम् एकां, द्वे, तिस्रो वा अग्निहोत्र- हवण्या उपरि धारयन् गार्हपत्यस्योपरिभागेन ता आहवनीयसमीपे नयन् , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः समिधः (एकां, द्वे, तिस्रो वा यथापूर्व गृहीताः) आहवनीय आधाय, अग्निहोत्रहवणीस्थ पय आहवनीये जुहुयात् । सा अग्निहोत्रस्य प्रथमा आहुतिः । सा अग्निदेवत्या ॥ ततः स्रगग्रात् पयोलेपं हस्तेन गृहीत्वा भूमौ निमृज्य, अग्निहोत्र- हवणी भूमौ निक्षिप्य, गार्हपत्यं समीक्ष्य, पुनस्तां गृहीत्वा द्वितीयामाहुति जुहुयात् । सा प्रजापतिदेवताका । एवं प्रातरप्याहुतिद्वयं होतव्यम् । तत्र प्रथमा सूर्यदेवत्या । द्वितीया प्रजापतिदेवताका । इमाश्चतस्र आहुतयः अग्निहोत्रे प्रधानभूताः । अमूषां चतसृणामाहुतीनां मध्ये सायंकालीन- प्रथमाहुतेरग्निदेवत्यत्वात् तदादायैव सर्वासामाहुतीनामग्निहोत्रनामत्वं छत्रिन्यायेन च । इदं च आपस्तम्बादियाजुर्वैदिकमतेन ।। क. वर्तुलपुष्करी दाकारः स्रवः । कुम्भ्या उपर्यङ्गारैः परितो भ्रामणं पर्यमिकरणम् । अमिसमीपे उद्वासितां कुम्भी भूमौ निक्षिप्य, तथैव प्राग्देशं -प्रति करेत् । तदाकर्षमागः कृष्णवर्णो भवति । स व्यापारी वर्मकरणमित्युच्यते । घ. नवागुलिपरिमाणः प्रादेशः । यया अग्निहोत्रं हूयते सा जुहाकारा अग्निहोत्रहवणी । च. बहूनां मध्ये एकस्यापि तद्विशिष्टत्वे सति तदादाय सर्वेषु तत्सम्बद्धषु तच्छब्दप्रयोगः छत्रिन्यायः । (See. पू. मी. १. ४. १९.) Sce. आप, श्री. ६. १३. १-९. ख. .
१२ यज्ञतत्त्वप्रकाशे अग्निहोत्रनाम्नि मतभेदः बचानां तु उपरि वक्ष्यमाणाः-गार्हपत्ये चतस्रः, दक्षिणाग्नौ चतन इत्यष्टौ, एवं प्रातरष्टौ इत्येवं षोडश । पूर्वोक्ताश्चतस्र इति मिलित्वा विशतेरप्याहुतीनाम् अग्निहोत्रशब्दवाच्यत्वम् । मीमांसकसम्प्रदायोऽपीमं पक्षं परिपुष्णाति । होमकालेऽग्निहोत्रहवणीस्थं पयो न सर्व होतव्यम् । किन्तु भक्षार्थ किञ्चित्तत्रैव अवशेषयेत् । ततः पूर्ववल्लेपं गृहीत्वा वेदिभूमौ निमृजेत् । तत् पितृदेवताकम् । ततोऽग्निहोत्रहवणीं भूमौ निक्षिप्य स्रवं गृहीत्वा तं पयसा प्रपूर्य तेन गार्हपत्ये चतस्त्र आहुतीः दक्षिणाग्नौ च तावतीराहुतीर्जुहुयात् । तत्र अग्निः गृहपतिः देवता आदितश्चतसृणामाहु- तीनाम् । अग्निर्गृहपतिः, रविपतिः, पुष्टिपतिः, कामः, अन्नायो वा विकल्पेन । एवमग्निरदाभ्यः परिषद्यो दाक्षिणाग्निकानां प्रथमातृतीया: चतुर्थीनामाहुतीनां देवता । अग्निरन्नपतिर्द्वितीयस्या इति वेदितव्यम् ॥ अग्न्युपस्थानं लेपभक्षश्च एवं होमान् हुत्वा, अग्नीन परिषिच्य, आहवनीयस्य दक्षिण- भागेऽवस्थाय, अग्नीनुपतिष्ठेत । ततो वेदिमध्येऽग्निहोत्रवणीं निधाय, लेप होमावशिष्टं भक्षयित्वा, आचम्य, द्विः स्रचं निर्लिय, हस्तं प्रक्षाल्य आचम्य, ततो जलेन तां पूरयित्वा तयैव आचम्य, अग्निहोत्रहवणीं दर्भः संशोध्य प्रक्षालयेत् । ततः पुनस्तां पूरयित्वा तजलं चतसृष्वपि दिक्षु हस्तेन व्युत्सिञ्चेत् तस्यै तस्यै देवतायै (विभज्योर्ध्व सेचनं व्युत्सेचनम्) । तत्र सर्पाः, सीः पिपीलिकाः, सर्पतरजनाः, सर्पदेवजनाश्च क्रमेण देवताः । पुनश्च तां पूरयित्वा आहवनीयस्य पश्चात् तदेकदेशं खनिनीय, शेष पल्या अञ्जलौ निनयेत् । पुनस्तां जलेन पूरयित्वा सप्तर्षिभ्य उदग्देशे तजलं निनयेत् । ततः प्रत्यावृत्य अग्नीन् प्रज्वलयेत् । ततोऽग्नीन् पूर्ववत् परिषिच्य "अनाज्ञातादिमन्त्रत्रयं जपित्वा, अग्निहोत्रस्थाल्यां क. निलेहनं नाम पात्रगतस्य पयसो जिह्वाग्रेण पात्रस्पृष्टेन चूषणम् । तच्च कलियुगे निषिद्धमिति नेदानीं याशिकैरनुष्ठीयते । ख. निनयनं क्षारणम् । ग. अनाशातपदघटितमन्त्रादिकं मन्त्रत्रयं तच्छब्देन व्यवहियते । See. आप. श्री. ६. १३. ९, also. आश्व. श्री. २. २. : - १.
अग्निहोत्रप्रशंसा १३ तृणमङ्क्त्वा, तदाहवनीये प्रहृत्य, अग्निहोत्रस्थाली प्रक्षाल्य, हविरुन्न- नयनदेशे तज्जलं निनयेत् । ततो यजमानो वेद्यां हस्तं प्रसार्य, तस्मिन्नप आसिच्य ताः स्वशिरस्यानयेत् । एतदन्तमग्निहोत्राख्यं कर्मोच्यते ।। अग्निहोत्रे कर्ता इदमग्निहोत्रं सायंप्रातःकालयोः यजमानः स्वयमेव जुहुयात् । यदि न शक्यते तर्हि पुत्रादिभिः ऋत्विजा वा कारयेत् । पर्वणि तु (पौर्णमास्याम् अमावास्यायां वा) कयजमान एव जुहुयात् , नान्यैवियेत् । तत्र नित्यद्रव्यं पयः, दधि, यवागूश्च । एतेषामेव फलार्थतयाप्यनुष्ठानम् । तत्र पशुकामः स्वर्गकामो वा पयसा जुहुयात् । इन्द्रियकामो दना, यवाग्वा ग्रामकामः, ओदनेन अन्नकामः, तण्डुलैरोजस्कामो बलकामो वा । तेजस्कामो घृतेन इति काम्यानि द्रव्याणि ।। अग्निहोत्रप्रशंसा इदं च अग्निहोत्रं गृहस्थेनैव सभार्येण सता अवश्यमनुष्ठेयम् । कस्यामप्यवस्थायामग्निहोत्ररहितेन न स्थातव्यं त्रैवर्णिकेन । दीनो धनी वा सर्वोऽपीदमनुतिष्ठेत् यावत् जीवति । सत्स्वप्यतिमहत्सु. बहुवर्ष- बहुव्ययसाध्येषु क्रतुषु अग्निहोत्रस्य वेदेषु पुराणेषु तदनुयायिषु च ग्रन्थेषु यावती प्रशंसा दृश्यते सा न अन्यस्य कस्यापि तोः । अग्निहोत्र- मननुष्ठाय नान्यः क्रतुरनुष्ठातुं शक्यते । तत्र विवाहानन्तरं जातपुत्र- कृष्णकेशत्वोपलक्षिते वयसि वर्तमानेन त्रैवर्णिकेन पुरुषेण सपत्नीकेन अग्न्याधेयं कर्तव्यमित्युक्तं प्राक् । एवमाहितानां गार्हपत्यदक्षिणाग्न्या- हवनीयरूपाणां त्रयाणामग्नीनां मध्ये गार्हपत्योऽग्निरविच्छेदेन यावजीवं क. तत्रामावास्यायां रात्रौ यवाग्वा अग्निहोत्रं कर्तव्यम् , नान्यैव्यैः । तण्डुलैः शिथिलपक्का यवागूः इति कर्कः । विरळद्रवा सेत्यपरे । । - See. आप. श्री. ६. १५. १. का, श्री. ४, १५, १२-२५ । पयो· यवागूरिति धूर्तस्वामी । अत्यन्तद्रवरूपेण पकास्तण्डुला एव यवागूरिति सम्प्रदायः । सान्नाय्ययाजिन एव अयं यवागूनियमः । तस्य आतञ्चनार्थ तदपेक्षणात् । See. also, आश्व. श्री. २. ३, १.
यज्ञतत्त्वप्रकाशे । । धार्यः । इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादुधृत्य स्वस्वायतने स्थाप्यते । यदर्थ मुद्धृतौ तौ तत्कर्मसमाप्त्यनन्तरं तथैव परित्यज्यते । तो तत्रैव शान्तौ भवतः । पुनः कर्मकाले तौ नवीनतया गार्हपत्यात् प्रणीय स्वस्वकुण्डे स्थापयित्वा कर्मकरणम् । सायं प्रातश्च होमकाले, रात्रौ च यजमानस्तत्पनी वा, अग्न्यगारेऽवश्यं वर्तेत, न अन्यत्र गच्छेत् । अन्यतरेण गृहेऽवश्यं स्थातव्यम् । द्वयोरपि बहिनामान्तरगमनावश्यकतायां सहैव अग्निभिः गच्छेताम् ॥ अग्निसमारोपणादि. तत्र यजमानोऽग्नीनरण्योरात्मनि वा समारोप्य पत्न्या आन्वारब्ध एव गच्छन्मौनेन । गन्तव्यदेशं प्राप्य, पूर्व समारोपितानग्नीन् मन्त्रेणोपावरोहयेत्” । तत्र आत्मसमारोपणे गन्तव्यदेशप्राप्त्यनन्तरं लौकिकमग्नि शिष्टवैदिकगृहादाहृत्य तस्मिन्नात्मसमारोपितमग्नि मन्त्रेणोपा- वरोहयेत् । अरणिसमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान एव स्वहस्त आदाय गच्छेत् । गत्वा तत्र अरणी मथित्वा तत उत्पन्नेऽग्नौ उपावरोहणं कुर्यात् । गृह एव अग्नि परित्यज्य, पत्नीयजमानयोरुभयोरपि बहिर्गमनेऽग्निविनाशो भवेत् । तदा पुनरग्निमत्त्वसिद्धये पुनराधानमेव क. अत्र धारण नाम----गार्हपत्यकुण्डेऽन्तः करीषपिण्डं निक्षिप्य तदुपरि गार्हपत्याग्निं प्रज्वलय्य, पिण्डे तं सङ्क्रमयेत् । तत्र सङ्क्रान्तोऽमियथा सर्वदा तिष्ठेत् तथा रक्षणमेव । न तु तस्य सर्वदा प्रज्वालनम् । एवमेव (गतश्रियः) लब्धधनस्य, ग्रामनेतुः, राजन्यस्य च त्रयाणां पञ्चानां वा अमीनामजस्ररक्षणम् । होमकाले तु कुण्डान्तःस्थान् तान् करीबपिण्डान् सानीन् बहिरुद्धृत्य, पुनस्तत्तत्कुण्डानामन्तः करीषपिण्डान्तराणि निक्षिप्य, तांस्तुपैः भस्मना वा आच्छाद्य, तदुपरि पूर्वाद्धृतान् तांस्तानमीनवस्थाप्य प्रज्वलय्य तत्र जुहुयादित्येव याशिकसंप्रदायः । ख. समारोपणं नाम - गार्हपत्यकुण्डगतस्य अमेररण्योगरोहणार्थ मन्त्रेण प्रार्थना । तथा आरूढत्वेन मनसा चिन्तनं च । ग. उपावरोहणं नाम - लौकिके, अरणिमथिते वा अनौ मन्त्रेण अवतारणम् , तथा चिन्तनं च। घ. अग्निविनाशो नाम - अमिनिष्ठाहवनीयत्वाद्यदृष्टधर्मविनाशः । न तु स्वरूपनाशः । तत्स्वरूपस्य तथैव अवस्थितेः । पुनस्तादृशादृष्टोत्पादनार्थमेव च पुनराधानानुष्ठानम्।
१५ विषयविवेचनम् कार्यम् । पुनराधानं तु आधानापेक्ष या किञ्चित् विलक्षणं कर्म । तत्र प्रथमाधानोक्तानि कानिचन कर्माणि न अनुष्ठातव्यानि । तावन्मात्रणेव अग्निसिद्धिः ॥ ॥ इत्यग्निहोत्रप्रकरणम् ॥ विषयविवेचनम् अत्र केचन विषया विविच्यन्ते सम्भावित संशयविनिवृत्तये । विधिवदुपनीतस्त्रैवर्णिको माणवकः, गुरुगृहे ब्रह्मचर्येण वसन् साङ्गं वेदं, वेदौ, वेदान् वा यथानियमं गुरोरधीत्य, स्वगृहं प्रत्यावृत्तः, कुलशीलादि- सम्पन्नां काञ्चन कन्यामुद्हेत् । यस्मिन्नग्नौ वैवाहिकहोमाः क्रियन्ते, सोऽग्निः ततः प्रभृत्येव संरक्षणीयः । स गृह्याग्निरित्युच्यते । तदर्थम् आधानकर्तव्यता नास्ति तैत्तिरीयच्छन्दोगबबचानाम् । वाजसनेयिनां तु तदर्थमपि स्माताधानाख्यं किञ्चन कर्म विहितं तद्गृह्यसूत्रे । स च यावजीवं धारणीयः । तस्मिन्नेव अग्नौ गृह्योक्तानि कर्माण्यनुष्ठयानि । समुचित कालं प्राप्य, आहिताग्नित्वसिद्धये श्रौताधानं कर्तव्यम् । तेन च अग्नित्रयस्य, अग्निपञ्चकस्य वा सिद्धिः । स च कालः प्रायेण पञ्चविंशतिवर्षवयस्कत्वरूपो निीतो याज्ञिकैर्धर्मशास्त्रकारैश्च । विवाहितेनै- कैकेनापि त्रैवर्णिकेन अग्न्याधानमनुष्ठेयम् । अन्यथा अनाहिताग्नितारूपो दोष एनमृच्छेत् । तत्र स्वपितुरनाहिताग्नित्वे स्वस्य अधिकारो नास्ति । अतः पितुराधानं कारयित्वा ततः स्वयं कुर्वीत । एवमेव ज्येष्ठमातुरपि । परं ज्येष्ठमातुरनाहिताग्नेराधानकरणेऽनिच्छायां, ततोऽनुमतिं लब्ध्वा कनीयान् स्वयमाधानेऽधिकुर्यात् । अतश्च जीवतः पितुराहिताग्नित्वे सत्येव पुत्रा अग्निमादधीरन् । तन्मरणानन्तरं वा आदधीरन् । जीवतो भ्रातुरनाहिताग्नेरनुज्ञां लब्ध्वा तन्मरणानन्तरं वा स्वयमाधानं कुर्युः । एवं सोमयागानुष्ठानेऽप्ययमेव न्यायोऽनुसरणीयः ॥ . Sec. आप. श्री. ५.२६., बौधा. श्री. ३. १., कात्या. श्री.४.११. २. उपरि लिखितान् विषयानधिकृत्य कैश्चित् कचित् अन्यथा अन्यथा लिखितम् । तदवलोकनेन सुधियां कदाचित् विषयेष्वेषु मा प्रसाङ्क्षीदन्यथाभाव इत्येतदर्थमिमे विषया उपरितना विवेचिताः । प्रायेणैवंविधान् विषयान् साम्प्रदायिका एव साधु विवेचयितुं प्रभवन्तीति किमत्र अधिक वक्तव्यम् ।
१६ यज्ञतत्त्वग्रकाशे , तत्र एकस्मिन् गृहे पिता पूर्वं ततश्च भ्रातरो बहवोऽपि ज्येष्ठक्रमेण अग्न्याधानं कर्तुं प्रभवन्ति । अत एव एकस्मिन्नेव गृहे बह्वयोऽप्यग्नि- शालाः पितापुत्रीयाः, भ्रात्रीयाश्चैककाले भवितुमर्हन्ति । परं सर्वेऽपि स्वाहितेष्वेव अग्निषु जुहुयुः, यजेरंश्च । परकीयेषु तेषु तु तत्तत्विक्त्वेन होतुं यष्टुं वा प्रभवेयुः, न यजमानत्वेन । परकीयेऽग्नौ परेण स्वकर्मानु- ष्ठाने, न केवलं कर्मजन्यादृष्टासिद्धिः अग्नीनामपि नाशो भवेत् । स्मात वैश्वदेवं परमेकस्मिन् पाके भुञ्जानानामनेकेषामपि पितृपुत्रादीनामेकमेव भवेत् । तस्य भोक्ष्यमाणान्नसंस्कारकत्वेन, एकेनैव वैश्वदेवेन भाण्डस्थस्य समग्रस्याप्यन्नस्य संस्कारजननात् ।। दायविभागस्तु पितुरूज़ भ्रातॄणां परस्परं भवति । यदि तु जीवन्नेव पिता पुत्राणां स्वस्य च विभागमिच्छति तदा पित्रा सह विभागो भवितुमर्हत्येव । तदा पृथक्पाकोऽपि भवति । अतश्च जीवति साग्नौ पितरि, सति वा, असति वा दायविभागे सदाराणां पुत्राणामाधानाग्नि- होत्रादिषु श्रौतकर्मस्वधिकारोऽस्त्येवेति शास्त्रमर्यादा ॥ ॥ इति साधारणा विषयाः ॥ दर्शपूर्णमासौ उक्तोऽग्निहोत्रानुष्ठानप्रकारः ॥ अथेदानी दर्शपूर्णमासयोः स्वरूपं, तदनुष्ठानप्रकारश्च अनवगततत्स्व- रूपाणां सुखावबोधाय सङ्गृह्य विलिख्यते । कृताधानस्य दारवतः त्रैवर्णिकस्य तत्र अधिकारः, न अकृतदारस्य, न वा मृतपत्नीकस्य । प्रत्येक दिनद्वयानुष्ठेयमिदं कर्म । पौर्णमास्यां प्रातरारभ्य प्रतिपदि पूर्वाले समापनीयम् । एवममावास्यायां प्रातरारभ्य तदनन्तरप्रतिपदि पूर्वाले समापनीयम् । तत्र 'यदहरेवैनं श्रद्धोपनमेत् अथ आदधीत, अर्थ यजेत' इति वचनात् उत्पन्न श्रद्धः पुरुषो यस्मिन् कस्मिंश्चिद्वसन्ततौं विधिवदग्नी- नाधाय, आधानदिन एव पवमानेष्टीरनुष्ठाय तदिन एव सायमग्निहोत्र- मारभेत । आरम्य च प्रतिदिनं सायं प्रातश्चाग्निहोत्रं *जुह्वत् , समनन्तर- भाविन्यां पौर्णमास्यां मलमासशुकास्तादिदोषरहितायाम् , अन्वारम्भणीये- क. अयं च होमपूर्वाधानपक्षः । इष्टिपूर्वाधानपक्षे तु आधानानन्तरं पौर्णमास्यामदुष्टायामिष्टयारम्भ एव कर्तव्य इति पूर्व निरूपितम् ।
१७ दर्शपूर्णमासनिरूपणम् टयनुष्ठानपूर्वकं दर्शपूर्णमासावारभेत । आरभ्य पूर्व तस्मिन् पर्वणि पौर्णमासं यागमनुतिष्ठेत् , अनन्तस्मिन् दशैं दर्शयागम् । उभयत्रापि चत्वार ऋत्विजः- अध्वर्युः, ब्रह्मा, होता, आग्नीध्रश्च । एतेपात्र समप्राधान्यमेव । न सोमयागवदुचनीचभावः ॥ पौर्णमास्यां त्रीणि प्रधानानि--अग्निदेवताकः पुगेडाशद्रव्यको यागः प्रथमः । विष्णुप्रजापत्यग्नीपोमान्यतमदेवताकः उपांशुयाजाख्यो द्वितीयः । अग्नीपोमदेवताकः पुरोडाशद्रव्यको यागस्तृतीयः । अन्ये ये तत्प्र- करणपठिता याहोमादयः ते सर्वे तदङ्गभूताः । प्रवानस्य फलोत्पादन- योग्यताजनार्थमेव अङ्गानामनुष्ठानम् । एवममावास्यायां प्रधानत्रयम् आग्नयः पुगेडाशयाग, ऐन्द्रो दवियागः, ऐन्द्र एव च पयोयाग इति । अत्रापि प्रयाजादयोऽङ्गभूता अनुष्ठीयन्ते । ते च यद्यपि एकैकरयाङ्गभूता इति त्रयाणां कृते निरनुष्ठेयाः पूर्णिमायाम् , त्रिश्च दश इत्यापतति, तथापि एककालानुष्ठीयमानानामनेकेपामपि प्रवानानामङ्गानि सकृदेव अनुष्ठेया- नीति पूर्वतन्त्र निर्धारित न्यायमनुसृत्य पूर्णिमायां त्रितयोद्देशेन सकृत् दर्शे च त्रितयोद्देशेन सकृदनुष्टीयन्ते ।। तेषु केचन यागपदवाच्याः। केचन होमपदाभिधेयाः। तत्र ये यागास्ते तिष्ठतैव होतव्याः। ये हामास्त उपविष्टन होतव्याः । अन्यानि चाङ्गानि यथासम्भवमनुष्ठेयानि । एवं, यागश्चेत् 'वौषट्' इति वषट्कारमुक्त्वा अग्नौ हविः प्रक्षेप्तव्यम् । होमश्चत् 'स्वाहा'कारमुक्त्वा तदिति विवेकः । तत्र 'यजति'शब्देन विहितो यागः । 'जुहोति'शब्देन विहितो होम इति बोध्यम् । तौ दर्शपूर्णमासौ द्विविधौ-नित्यौ काम्यौ चेति । प्रतिदर्श प्रतिपौर्णमासं च यावजीवं पुरुपेण अनुष्ठीयमानत्वात् , अननुष्ठाने प्रत्यवा- योत्पत्तिकथनाच नित्यत्वम् । तत्तत्फलमुद्दिश्य अनुष्ठानविधानाञ्च काम्यत्वम् । तत्र नित्यौ यावत्पर्यजीवति पुरुपस्तावत्पर्यन्तमविच्छेदेन पर्वस्वनुष्ठेयौ । क. पर्वद्वयानुष्ठेयप्रपीदमेकं कर्म, यथा सायंकाले प्रात.काले च कृतं होमसमुदायद्वयं मिलित्वा एकममिहोत्राख्यं कर्म भवति, तद्वत् । ख. त्रिंशद्वर्षपर्यन्तमविच्छेदेन दर्शपूर्णमासान् अनुष्ठाय ततः परित्यागः । दाक्षायणयाजिनस्तु पञ्चदशैव वर्षाण्यनुष्ठेयानि । वृद्धावस्थायां वा त्यागो नित्ययोरपि इत्यादय: पक्षा उक्ताः सूत्रग्रन्थेषु । । See. कात्या. १.२.६. 3 १८ यज्ञतत्त्वप्रकाशे काम्यौ च यदा फलेच्छा उदेति तदा विहिताविगीतकाले सकृदनुष्ठेयौ । पुनस्तस्यैव फलस्य तजन्यफलान्तरस्य वा अपेक्षायां सत्यां पुनरनुष्ठानम् तत्र पुरोडाशस्य साक्षात्प्रदेयभूतस्य प्रकृतिभूतं द्रव्यं व्रीहयो यवा वा । व्रीहीणां यवानां च विकल्पः । परं तु दर्शपूर्णमासयोरारम्भकाले ब्रीहयो यवा वा स्वेच्छया ग्राह्याः । अनन्तरं द्वितीयादिप्रयोगे प्रथमप्रयोगगृहीते- नैव द्रव्येण यात्रजीवमनुष्ठान कार्यम् । तयोः दर्शपूर्णमासयोः न केवलं स्वर्गमात्रार्थत्वम् , अमिलपितसर्वफलार्थत्वं च शास्त्रेण अवबोध्यते ॥ यागानुष्ठानकालः पर्वप्रतिपदोस्सन्धिः प्रधानानुष्ठानस्य मुख्यः कालः । स यदि कदाचिदपराहे रात्रौ वा आपतेत् तदा तदनुष्ठानस्य निषेधात् द्वितीयदिन एव प्रातः प्रधानानुष्ठानम् । तदनुरोधेन तत्पूर्वदिन एन कर्मण आरम्भः । दर्शपूर्णमासावेव तदितरासामिष्टीनां प्रकृतिभूतौ सामान्यतः । पशुयाग- प्रकृतिभूताग्नीषोमीयपशुयागस्य च । विशेपास्तु द्रव्यदेवतादिसादृश्या- दवगन्तव्याः । तत्र अध्वर्युणा यागकाले पठनीया मन्त्राः यजुर्वेदे आम्नाताः । ते चोपांशु चातुस्वर्येण पठनीयाः । होत्रा पठनीया मन्त्रा ऋग्वेदीयाःख । ते च याज्यापुरोनुवाक्यापादिरूपा ऐकस्वर्थेणोचैश्च पठनीयाः । तदतिरिक्ताश्च केचित् पादयो यथासम्भवमुपांशुस्वरादिना । प्रैषा आध्वर्यवा अत्युचरेत्र, परसम्बोधनार्थत्वात् इति स्वरूपविवरण दर्शपूर्णमासयोः ॥ क, यागीयं द्रव्यम् , तदीया देवता, तदीयः काल इत्यादीना यत्र द्रव्यान्तरादिभिः सह विकल उक्तः, तत्र प्रथमानुष्ठाने वैकल्पिकद्रव्येषु यत्किञ्चित् ग्रहीतव्यम् । तत्र स्वेच्छैच नियामिका । द्वितीयानुष्ठाने तु पूर्वप्रयोगगृहीतमेव ग्राह्यम् , नान्यत् । See. पू . मी. १२, ३. ६. ख. याज्यापुगेनुवाक्यारूपा मन्त्रा इष्टिपशुचातुर्मास्योपयोगिनो यजुर्वेदेऽपि पठिताः; ऋग्वेदेऽपि । एवं सूत्रकारोऽपि भगवानापस्तम्बश्चातुर्मास्यान्तभागस्य क्षेत्रमागमपि पपाठ । व्याख्यातारोऽपि अनुक्तमन्यतस्तं जगृहुः । एवं चातुर्मास्यान्त- भागस्य याजुषोत्रम् , आर्चिकहौत्रमिति द्विधा प्रचलति । तत्र आपस्तम्बीया बौधायनीयाश्च, आदित एव आचिकमेव होत्रमनुतिष्ठन्ति । कठमैत्रायणीयास्तु चातुर्मास्यान्तेषु कर्मसु याजुषं तदुपरि आर्चिकं च होत्रमनुतिष्ठन्ति । १. See. आप. औ. २४. ३. ३२-४५.
- दर्शपूर्णमासनिरूपणम् पौर्णमासीदिनकृत्यम् अथ तयोरनुष्ठानप्रकारः सामान्यतो निरूप्यते । तत्र पौर्णमास्यां यजमानः प्रातर्विहितनित्यक्रियः प्रातरग्निहोत्रं हुत्वा आहवनीयदक्षिणाग्नी अग्निहोत्रानुष्ठानार्थ प्रज्वालिती कुण्डाभ्यां निष्कास्य, पुनर्गार्हपत्यात् तावग्नी दर्शपूर्णमासाथ प्रणीय, प्रज्वलय्य त्रिध्वप्यग्निष्वन्वाधानं कुर्यात् । प्रणयनं नाम गार्हपत्यकुण्डादग्निसुद्धृय *कुण्डान्तरे स्थापनम् । अन्वाधानं नाम अग्निपु काष्ठानां यज्ञियानां समन्त्रकमाधानम् । आधान- मत्र निक्षेपणमात्रमग्नेः प्रदीपनार्थम् । ततो यजमानो खवपनं कुर्यात् । ततः स्नानाद्यनन्तरं प्राचीमुदीची वा दिशं गत्वा करिष्यमाणयज्ञार्थान् कुशान् दर्भान् वा समन्त्रकलवनाद्यनुष्टानपूर्वकमाहृत्य गार्हपत्यगृहे आहवनीयगृहे वा उपरि छदिरादौ निदध्यात् । कुशमुष्टयोऽयुग्मसङ्ख्याकाः (त्रयः, पञ्च, सप्त, नव इत्ययुग्मसङ्ख्या) परिमिता आनेतव्याः। तत्र प्रथमो मुष्टिः प्रस्तर इत्युच्यते । तैः सह वेद्यास्तरणार्थी अपि दी आनेतव्याः । तदानीमेव चेमकाष्ठान्यप्ये कविंशतिराद्रीणि शुष्काणि वा त्वग्युत्तान्याहव्यानि । तत्र पञ्च दश सामिधेन्यर्थम् । तिस्रः परिध्यर्थे । द्वे आधारसमिधौ । एका अनुयाजार्थी समिदिति विभागः । एतावत्पर्यन्तं पौर्णमासीदिनकृत्यम् । रात्रौ यजमानः स्वयमेव अग्निहोत्रमनुष्ठाय, "आरण्यकधान्यानि भुक्त्वा गार्हपत्यगृहे, आहवनीयगृहे वा भूमौ शयीत । जागरणं कुर्याद्वा ।। क. कुण्डानां पञ्चभूसस्कारान् कृत्वैव अग्निस्थापनमिति देवयाज्ञिकप्रभृतयः पद्धतिकाराः । ते च संस्काराः-कुण्डस्य परिसमूहनम , गोमयेनोपलेपनम् , प्रागुदगायताना तिसृणा तिसृणा रेखाणां करणम् , कुण्डात् पासूनामुद्धरणम् , प्रोक्षणमिति । ख. वपनामदं कृताकृतं मन्यन्ते बहवो याशिकाः । ग. ग्राम्येभ्य उपवसति, आरण्यानश्नाति, न तस्य सायमनीयात् येन प्रातर्यक्ष्यमाणरस्यात् (आप. श्री. ४. ३. १०) इति वचनात् यजातीयेन हविषा यक्ष्यति तजातीयं हविः पूर्वदिने नाश्नीयात् । मापमासे च सर्वथा वर्जयेत् । ग्राम्या ओपधयश्च-तिलाः, मापाः, ब्रीहयः, यवाः, प्रियङ्गवः, अणवः, गोधूमा इति सप्त ग्राम्या ओषधयः । वेणुतण्डुलाः, श्यामाकाः, न्वारा:, अरण्यतिलाः, अरण्यगोधूमाः, अरण्यमर्कटकाः, कुलुत्या इति सप्तारण्याः । See. आप. श्री. १६. १९. १३, १४, ध. खट्वादीनामुपरि शयनं निषिध्यते । न तु भूमेरुपर्यास्तरणमपि । .
२० यन्नत त्वप्रकाशे . - , , कृष्णप्रतिपदिनकृत्यम श्वोभूते प्रातरुत्थाय नैलकं कर्म कृषा कृताग्निहोत्रः कर्म आरभेत । तत्र पौर्णमास्यां सूर्योदयाद नन्तरं कर्मारम्भः । अमावास्यायां तूदयात् प्रागिति विशेषः । एवं करिभ्य, अध्वर्युः हरतावबनिज्य, आस्तराणार्थमानीतलपाख्रीस्तृणविशदिवालीथ, बाहवनीयम्य दक्षिण- भागे ब्रह्मयजमानयोरामने परिकलामेत् । तत आइवनी यग्योत्तरतो निकटदेशे कुशानास्तीर्य, तदुपरि यज्ञाहीणि पानाणि अघोविलानि (अधोमुखानि) स्थापयेत् । तानि च -सा, जुहूः, उपभृत् , धा, वेदः, पात्री, आज्य. स्थाली, प्राशिवहरणम् , इडापात्रम् , प्रणीताप्रणयनम् इति दहा । एवं गाईपयाग्नेसत्तरतो दीन् प्रसार्य तदुगरि पूर्ववदेव अधोमुखानि पात्राणि स्थापयेत् । तानि च–स्फयः, कपालान्येकविंशतिः, अग्निहोत्रहवणी, शूर्पम् , कृष्णाजिनम् , शम्या, उलूखलम् , मुसलम् , दृपत् , उपला इति दश । एतेषां पात्राणामुत्तरदेश *योक्त्रम् , मदन्ती, मेक्षणम् , वदामाणि, अन्वाहायस्थाली, अश्मा, उपवेपः, पिष्टलेपपात्रम् , फलीकरणपात्रम् इति एतानि स्थापयेत् ॥ ततोऽध्वर्युर्वेद्या उत्तरत उपविश्य, ब्रह्माणं वृणुयात् । वृतो ब्रह्मा वेदेर्दक्षिणदेशं गला आहवनीयस्य दक्षिणत उगविशेत् । ब्रह्मणः पश्चाद्भागे वेदेर्दक्षिणत एव यजमान उपविशेत् । ततोऽध्वर्युः गार्हपत्या- ग्नेरुत्तरदेश उपविश्य चमसाख्यं चतुष्कोणं दारवं पात्रं जलेन पूरयित्वा, तदाहवनीयस्योत्तरदेशं प्रति नीत्वा, तत्रैव दर्भाणामुपरि स्थापयेत् । तदेतत् अपां प्रणयनमित्युच्यते । हविर्निर्वापः ततोऽग्निहोत्रहवीं शूर्व च हस्ते गृहीत्वा ते आहवनीये प्रतितप्य, वेदेस्त्तरत आनीय पूर्वमेव अवस्थापितस्य व्रीहिभिः यवैर्वा पूर्णस्य शकटस्य समीपं गत्वा, शकटमारुह्य धान्यस्योपरि प्रसारितमाच्छादन- यजमानपत्न्याः कट्या बन्धनाय मुअतृणनिर्मिता रज्जुर्योक्त्रम् । तप्ता आपो मदन्त्यः । पिष्टाना जलेन सह मिश्रणायोपयोक्तव्यं काष्ठनिर्मितं पात्रं मेश्रणम् । वेदो दर्भमुष्टिविशेषः । ततः परिवासितानि तदग्राणि वेदाग्राणि । ऋत्विम्भ्यो दक्षिणारूपेण देय ओदनः अन्वाहार्यः । तत्पाकार्थी स्थाली अन्याहायस्थाली । पिष्टसयवनकाले पाच्यां संलगः पिष्टांश पिष्टलेपः । तद्रक्षणाथै पात्रं पिष्टलेपपात्रम् , द्वितीयावहननकाले निस्सृताः सूक्ष्मास्तण्डुलत्यच: पलीकरणानि । तदर्थ पात्रम् । क.
दर्शपूर्णमासनिरूपणम् २१ मपसार्य, धान्यगतं तृणादिकमपास्य, दक्षिणहस्तेन शकटस्थान् व्रीहीन यवान् वा मुष्टिना गृहीत्वा, यागीयतत्तद्देवतानामनिर्देशपूर्वकं तानग्निहोत्र- हवण्यां निक्षिप्य, अग्निहोत्रहवणीतः शूर्पे प्रक्षिपेत् । एवं वारचतुष्टयं कर्तव्यम् । तदिदं शकटस्थहविपः मुष्टिना पृथक् पात्रे करणं हविर्निर्वाप इत्युच्यते । एवमेकस्यै देवतायै हविनिरूप्य पुनर्देवतान्तरार्थं तथैव निर्वपेत् । तत्र पौर्णमास्यां प्रथम नग्नये निर्वापः, ततोऽग्नीपोमाभ्यामिति ध्येयम् । निवर्धापकाले पात्रीतो बहिःपतितान् ब्रीह्यादीनभिमन्य हस्तगतं शूर्प सहविष्कम् आहवनीयसमीपे स्थापयेत् । ततस्तान संस्कृताभिः प्रोक्षणीसंज्ञकाभिरद्भिः त्रिः प्रोक्षेत् । प्रोक्षणकालेऽपि निर्वापवत् तत्तद्देवता- नाम निर्दिशेत् । ततः पूर्व स्थापितानि न्यश्चि पात्राणि पर्यावृत्य, ऊर्ध्वमुखानि कृत्वा पवित्रयुक्तेन पाणिना तानि त्रिः प्रोक्षेत् ।। अवहननपेपणे ततः कृष्णाजिनं गृहीत्वा, उत्करे निरवधूय, तत्रैव तदास्तीर्य तदनुत्गृजन् तदुपर्युलूम्बलं प्रतिष्ठाप्य तत्र निरुतं हविरेकी कृत्य आवपेत् । ततो मुसलमादायावहननं कुर्वन्नधयुः अबहनने सहायार्थम् अन्यं कंचन पुरुषं यजमानपत्नी वा आहूय तेन तया वा साकमवहन्याद्धविः । अवहतां- स्तण्डुलान् तुपेभ्यः फलीकुर्यात् । फलीकरणं नाम तुषविमोकार्थं सकृदवहतानां तण्डुलानामुपरिगतकणापाकरणाय पुनरवहननम् । ततः कृष्णाजिनमास्तीर्य तदुपरि शम्यां निधाय, तदुपरि च दृपदमत्याधाय, तत्र सुप्रक्षालितान् तण्डुलान् निक्षिप्य, उपलया तान् पिंष्यात् । पिष्टानि चूर्णानि कृष्णाजिने प्रस्कन्दयेत् । ततो हविः (पुरोडाश)श्रपणार्थ गार्हपत्यस्य आहवनीयस्य वा पश्चिमदेशे कपालान्युपदधाति । आग्नेयस्य पुरोडाशस्याष्टौ । अग्नीषोमी- यस्यैकादश कपालानि । तदुपधानप्रकारश्च अन्ते चित्ररूपेण दर्शितः ।। हविःश्रपणम् एवमुपधाय कपालानि तदुपरि वेदाख्येन दर्भमुष्टिना अङ्गारान- ध्यूह्य पिष्टसंयवनार्थमपां सन्तापनं कृत्वा, प्रक्षालितायां पायां तण्डुलानामुज्ज्वलीकरणायेदं द्वितीयमवहननम् । अत्र, आमपिष्टानामेवोष्ण जलेन संयोजनम् , ततः पिण्डं कृत्वा कपालो- परि निधाय श्रपणं च सूत्रकारैरुक्तम् , तथापि सोकर्याय पिष्टानि प्रथमं भर्जयित्वा, ततस्तानि उष्णजलेन संयोज्य, पिण्ई कुर्वन्ति याज्ञिकाः । क.
यज्ञतत्त्वप्रकाशे पिष्टान्यारोप्य संयौति । संयुत्य च पिण्डद्वयं कृत्वा, एकमग्नये, एकमग्नी- षोमाभ्यां च निर्दिश्य, तत्तदर्थं गार्हपत्यरय आहवनीयस्य वा पश्चादुप- हितानां कपालानागुपरि तं तं पिण्डं निधाय, उल्मुकैः पुरोडाशौ प्रतितप्य, ज्वलद्भिर्द और भितः प्रज्वलय्य, सुपक्कौ ती कुर्वन भस्मना आच्छादयेत् । तावेव पुरोडाशौ । ततस्संयवनोपयुक्तां पात्री प्रक्षाल्य, तज्जलं वेद्यां कृतासु तिसृषु रेखासु निनयेत् । तत्र एकतः, द्वित', त्रित इति क्रमेण देवताः ।। वेदिनिर्माणम् , आज्यग्रहणादिकं च ततः स्फ्यमादाय, तेन वेदिनिर्माणार्थी भूमि खात्या, तबत्यं तृणादिकमपास्य, उकरे क्षिप्वा, उत्करतः शुद्वान् पांसूनादाय, वेद्यामोप्य वेदि निर्मायात् । तस्याः स्वरूपमन्ते दर्शितम् । ततस्तां यज्ञार्थ परिगृह्य, प्रोक्षण्याद्यासादनाथ प्रैपमग्नीधे दवा, आदवनीयस्योत्तरत इध्मं दर्भाश्च सादयित्वा दर्णी ह्वादिपात्राणि सम्मृज्यात् । तत्र स्रवं, जुहूं, उपभृतं, ध्रुवां, प्राशिवहरणं च प्रतितप्य कमेण वेदाप्रैस्सम्मृज्य, पुनः प्रतितप्य, प्रोक्ष्य, वेद्यां दर्भाणामुपरि सादयित्वा, वेदाग्राणि पावसम्माज- नोपयुक्तानि अग्नौ प्रहरेत् । तत आग्नीध्रो योक्त्रण पत्नी खसन्नह्यति । ततस्सा गार्हपत्याग्नि देवपत्नीश्वोपस्थाय तद्देशादपक्रम्य, किञ्चिदिव दक्षिणत उदङ्मुखी उपविशेत् । ततोऽध्वर्युः सर्पिर्धान्याः तत्र पूर्व स्थापिताया आज्यं गृहीत्वा, आज्यस्थाली प्रपूर्य तां दक्षिणाग्नौ गार्हपत्ये च क्रमशोऽधिश्रित्य, पत्न्या हस्ते दद्यात् । सा तदाज्यं निमीलिताक्षी सत्येव पूर्वमवलोक्य, ततो यथावदीक्षित्वा वेद्यां निक्षिपेत् ।। आज्यग्रहणम् ततोऽध्वर्युर्यजमानश्च तथैव आज्यमवेक्षेयाताम् । तत आज्य- स्थाल्या आज्यं त्रवेण गृहीत्वा जुह्वादीनां पूरणम् । तदेव आज्यग्रहण- मित्युच्यते । तदित्यम्-प्रथमं जुहूमाज्यस्थाल्या विलेन समं गृहीत्वा जुह्वां स्रवेण आज्यस्थालीता वारचतुष्टयमाज्यं क्षिपेत् । एवमुपभृत्यष्ट- वारम् । ध्रुवायां वारचतुष्टयम् । एवमाज्येन ताः नचः पूरयित्वा अन्तर्वेदि हविस्समीपे स्थापयेत् । ततः प्रोक्षणार्थ सम्भृता अपः (प्रोक्षणीः) क. संयवनं जलेन मिश्रीकरणम् । ख, कन्यां बन्धनम् ।
दर्शपूर्णमासनिरूपणम अभिमन्य ब्रह्माणमामन्त्र्य (पृष्ट्वा) ततो लब्धानुज्ञः इध्मं विस्रस्य ताभिरद्भिः तं त्रिः प्रोक्ष्य अन्तर्वेद्यासादितान् दर्भानपि त्रिः प्रोक्ष्य वदिं च त्रिः प्रोक्षेत् । प्रोक्षणीशेपं वेदेर्दक्षिणस्याः श्रोणेः उत्तरश्रोणिपर्यन्तं सन्ततधारया स्रावयेत् । तत्र पितरो देवता ॥ वेदिस्तरणम् , पात्रसादनं च ततो दर्भमुष्टीनां सहबद्धानां ग्रन्धि विस्रस्य ततः प्रस्तराख्यं प्रथम मुष्टिमादाय तं यजमानाय प्रयच्छेत् । यजमानो ब्रह्मणे प्रयच्छेत् । ब्रह्मा प्रस्तरं धारयेत् । अथ वा यजमान एव धारयन्नासीत । ततो द#ः वेदेः पश्चिमभागमारभ्य आहवनीयस्य पश्चिमभागं यावत् त्रिभिः पञ्चभिवी धातुभिः वेदिं स्तृणुयात् । यथा वेदे भागो न दृश्येत तथा स्तरितव्यम् । तत अध्वर्युः ब्रह्मणो हस्तात् प्रस्तरमादाय प्रस्तरपाणिरेव सन परिधीनाह- वनीयस्य खपश्चिम-दक्षिण-उत्तरभागेपु कमशः परिदध्यात् । ततः आहवनीयमभिमन्न्य प्रज्वलय्य आधारसमिधी गृहीत्वा समिद्धस्तः मध्यम परिधि स्पृष्ट्वा त रानिधी अग्नेमध्य अग्रि स्थापयेत् । ततो वेदेरास्तीर्ण- बर्हिष उपरि तिरश्वीनावुत्तराग्री द्वौ दौं (विधृतिसंज्ञकौ) निधाय तदुपरि प्रागग्रं प्रस्तरं विस्रस्य स्तृणुयात् । तदुपरि च मन्त्रेण जुहूमुपभृतं ध्रुवां स्रवमाज्यस्थाली च सादयेत् । ततः सादितानि पात्राण्यभिमन्त्र्य पुरोडा- शयोरुपयध्यूढानगारानपोह्य तावनिमन्त्र्य आज्यस्थालीस्थमाज्यं स्रवेण गृहीत्वा समन्त्रकमाग्नेयं पुरोडाशं तूष्णीं चाग्नीषोमीयमभिधार्य पाच्या- मुपस्तीर्य' तत्र पुरोडाशौ स्थापयित्वा अभिधारयेत् । तच संस्कार- त्वात् पुरोडाशयऽपि पृथक्कार्यम् । ततः व्रीहिमयं समन्त्रकं यवमयश्चेत्तं तूष्णीं पुरोडाशद्वयं पान्यां स्थापयेत् । स्रवेण आज्यस्पृष्टेन कपालानि प्रमृज्य तेनैव पुरोडाशावजीत । ततस्तावभिमृश्य वेद्यन्तान् परिस्तीर्य होतुरुपवेश- नार्थ वेदेवायव्य कोणे स्थानं परिकल्प्य सामिधेनीभ्यः प्रतिपद्येत ॥ धातवः शलाकाः । त्रिवारमावृत्तामिदर्भशलाकाभिर्वेदि स्तृणुयादित्यर्थः । पश्चिमभागे उदगमः दक्षिणोत्तरभागयोः प्रागग्रौ चेति तिसृषु दिक्ष परिधयो भवेयुः । पात्र्यां स्रवेण घृतक्षेपणमुपस्तरणम् । पुरोडाशस्योपरि सवेणैव घृतस्य क्षारणमभिधारणम् । इमे चोपस्तरणाभिधारणे सर्वेष्वेव चरुपुरोडाशादिषु कठिनद्रव्येषु हविष्षु कर्तव्ये । क.
२४ यज्ञतत्त्वप्रकाशे सामिधेनीकर्म तत्र प्रथमं होतारं संप्रेष्य खोपवेशनाथ कल्पित आसन उपविष्टेन होत्रा सामिधनीसंज्ञकानामृचा पाठे क्रियमाणे अध्वर्युराहवनीयपश्चिमदेशे प्राङ्मुख आसीन इध्मकाष्ठान्याहवनीये अभ्यादध्यात। होत्रा पठ्यमानाया ऋचः अन्ते प्रणवोच्चारणकाल एव समिधामाधनं कर्तव्यम् । तत्र ब्राह्मणे सामिधेनीसंज्ञका ऋच एकादशैव आशाताः । तासां प्रथमाया अन्तिमायाश्च त्रिनिरावृत्त्या पञ्चदशसङ्ख्या संपादनीया। तत्र उपान्तिमाम् ऋचमन्तिमां वा होत्रा पठ्यमानां श्रुत्वा अध्वर्युः स्वहस्तस्थितासु समित्सु अनूयाजार्थीको समिधमवशेष्यावशिष्टानीमकाष्ठान्याहवनीये सहैवाभ्याधाय वेदेनाग्नि त्रिीजयित्वा प्रज्वलय्य स्रवेण ध्रुवात आज्यमादाय वेदेनोपयम्य आसीन एवोत्तरपरिधिसन्धिमारभ्याक्षणया अविच्छिन्नामाज्यधारा स्रावयेत् । तत्र प्रजापतिर्देवता । तं च मनसैव ध्यायेत् । न वाचोचारयेत् । एवं यत्र यत्र प्रजापतेर्देवतात्वं तत्र मनसैव तस्य ध्यानम् । न वाचा तस्योचारणम् । ततोऽध्वर्युराज्यस्थाल्या आज्यं गृहीत्वा तेन ध्रुवां पूरयित्वा अग्नेः परिधीनां च संमार्गकरणाय अग्नीधे प्रैयं दत्त्वा तेन तेपां संमागें स्फ्येन क्रियमाणे दक्षिणेन हस्तेन जुहूं सव्येनोपभृतं चादाय दक्षिणपादं पूर्व कृत्वा वेदिमतिलध्य दक्षिणदेशमागत्य आहवनीयस्य दक्षिणत क. . आहवनीयामेर्वायव्यकोणादारभ्य आग्नेयकोणपर्यन्तमग्नेरूवं संतताम् (अविच्छिन्नाम् ) आज्यधारा स्रवेण स्रावयेत् । अय प्रथमाघार इत्युच्यते । एव निर्ऋतिकोणादारभ्य ईशानकोणपर्यन्तं तथैव स्रावयेत् । अयं द्वितीयाघार उच्यते । एवमक्ष्णया करणमेव आपस्तम्बाचार्यमतम् तैत्तिरीयश्रुतिश्च तै. सं. २. ५. ११. ४. 1 See. आप. श्री. सू. १. १४. १. । तौ प्राञ्चावेव कर्तव्याविति केचित् । ख. कदाचित् वाड्मनसयोः देवेभ्यो हव्यवहनविषये परस्परं कलहः समजनि । ते उभे अपि निर्णयाय प्रजापतिसमीपमगच्छताम् । प्रजापतिरुभयोर्विवादं श्रुत्वा निर्णयमकरोत्-यस्मान्मनसा चिन्तितमेव वाचा वक्तुं शक्यते तस्मान्मन एव श्रेष्ठम् । वाक् तु मनसो दूतीत्वमेवाईति--इति । तच्छ्रुत्वा क्रुद्धा वाक् तमशपत्–'हे प्रजापते ! यस्मात्त्वं मद्विरुद्धं निर्णयमदाः अतो नेतः परं त्वां वाचा मन्त्रमुच्चार्य जुदोतु इति । अत एव प्रजापतिदेवताके कर्मणि वाचा मन्त्रं नोच्चारयन्ति, कि तु मनसैव प्रजापति ध्यायन्तः तस्मै जुह्वतीति श्रुति: See. । तै. सं. २. ५. ११. ४. एतच्छ्रुतिबलादेव प्रजापतेर्मन्त्राभाव उक्तः सर्वैरपि सूत्रकारैः । .
दर्शपूर्णमासनिरूपणम् २५ उदङ्मुखस्तिष्ठन् दक्षिणपरिधिसन्धिमारभ्य ईशानदिक्पर्यन्तं संततामाज्य- धारां पूर्ववत् सावयेत् । अयं द्वितीय आधारः । अत्रेन्द्रो देवता ॥ प्रयाजा: एवमाघारद्वय मनुष्ठाय जुहूमुपभृतं च परस्परमसंस्पर्शयन्नेव हस्ते धृत्वा यथागतं वेदे रुत्तरभागं प्रतिनिवृत्य, जुह्वा ध्रुवां द्वित्रिवा समज्य, ध्रुवाया आज्यमादाय जुहूं, जुह्वा आज्यमादाय ध्रुवां चाभिवार्य ध्रुवां प्रत्यभिधार्य वेदिमध्ये ते स्थापयित्वोदग्गत्वा ब्रह्माणमामन्त्र्य प्रवरकथनाय आश्रावणं कुर्यात्-'आश्रावय' इति । तत आग्नीध्रेण 'अस्तु श्रौपट्' इति प्रत्याश्राविते अध्वर्यु)तुरायं ब्रूयात्- 'मार्गव वैतहव्य' इत्यादि । ततो होत्रा यशावदनुष्ठीयमानेषु स्वकर्मसु 'घृतवतीमध्वर्यो सूचमास्यस्व' इति यदा मन्त्रैकदेशः पठ्यते तदा अध्वर्युर्जुहपभृतावादाय वेदेर्दक्षिणदेश गत्वा, आश्राव्य आग्नीध्रेण प्रत्याश्रावणे कृते प्रयाजार्थं होतारं प्रति 'समिधो यज' इत्यादिप्रैष दद्यात् । तत्र पञ्च प्रयाजाः । प्रतिप्रयाजस् आश्रावण - प्रत्यात्रावण - प्रैपदान - याज्यापाठा भवन्ति । याज्याया अन्ते वषट्कार उक्ते आहवनीये होमा भवन्ति । तत्र आश्रावणमध्वर्युकर्तृकम् । प्रत्याश्रावणमाग्नीध्रकर्तृकम् । याज्यावषट्कारपाठो होतृकर्तृक इति विवेकः । 'आश्रावय' इत्याश्रावणम्। 'अस्तु श्रौषट्' इति प्रत्याश्रावणम् । 'यज" इति श्रेषः । 'ये यजामहे' इत्यारभ्य निर्दिष्टमन्त्रपाठो याज्यापाठः । वौषट्' इति वषट्कारः । आश्रावणप्रत्याश्रावणे अध्वर्युणा आग्नीधेण च तिष्ठद्भयामेव कर्तव्ये । यजतिचोदनाचोदितेषु स्थलेषु होमाश्च । एवं जुहूस्थेन आज्येन त्रीन् प्रयाजान् हुत्वा चतुर्थप्रयाजार्थमौपभृतस्याज्या जुह्वां समानीय तेन चतुर्थपञ्चमौ प्रयाजाविष्ट्वा जुह्वां किंचिदाज्यमवशेष्य तेन वेद्यामासादितौ पुरोडाशौ अभिघारयेत् । एवमेव सर्वत्र क. होतृप्रवरे ये मन्त्रद्रष्टारः प्रवराध्यायपठिताः त्रयः ऋषयः तेषामत्र नामग्रहणं वत्यन्तशब्देन-'भृगुवद्वीतहव्यवत् सवेदोवत्' इति, 'भार्गव वैतहव्यसावेदस' इत्यादि वा । एतदव आयवरणमित्युच्यते । ख, समित् , तनूनपात् , इट, बर्हिः, स्वाहाकार इति पञ्चाना प्रयाजानां नामानि । देवता अपि ता एव चतुर्णाम् । पञ्चमस्य परं तेषु तेषु कर्मसु यक्ष्यमाणाः प्रधानदेवताः स्विष्टकृदाज्यभागप्रयाजानूयाजदेवता एव । तत्र 'समिधो यज' इति प्रथमः प्रैषः। 'यज' इत्येवेतरे चत्वारः प्रैषाः। कात्या. श्री. १. २. ५, ६, ७. , ग. घ. Sec. 4 २६ यज्ञतत्त्वप्रकाशे प्रयाजाज्यशेषेण यागीयप्रधानहवींव्यभिधारयेत् । ततः यथेतं प्रति- निवृत्यायतने जुहूपभृतावासाय ध्रुवातः चुरण आज्यमादाय तेन प्रस्तरमकत्वा आज्यभागार्थ हो। प्रैपं दत्त्वा तेन याज्यापुरोनु- वाक्ययोरुक्तयोः सत्योः आहवनीयाग्नरुत्तरार्धपूर्वार्धे अग्निदेवतायै पूर्वमाज्यभागं दक्षिणार्धपूर्वाध सोमदेवतायै अपरं च आज्यमार्ग जुहुयात् । तत्र सुवेण वाया आज्यमादायकां दोपनि तार्थी व्रातपतीष्टिस्थानीयाम् आज्याहुतिमाहवनीये हुवा हस्तौ प्रक्षाल्य प्रधानयागाननुतिष्ठेत् ॥ - प्रधानयागानुष्ठानम् तत्र आज्येन जुह्वामुपस्तीर्य आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठ- पर्वमानं तिर्यक्तया प्रथममवदाय ततः पूर्वार्धात् अनूचीनतया द्वितीयवारमवदाय जुह्वां क्षिप्त्वोपर्यभिधार्य, वेदिगतं शिष्टं पुरोडाशं प्रत्यमिधार्य होने औषक दद्यात् । ततस्तेन पुरोनुवाक्यायामनूक्तायाम- ध्वर्युर्वेदेर्दक्षिणदेशं गत्वा आश्रावणप्रत्याश्रावणे कृत्वा होतुर्वपट्कारान्ते हविरग्नौ जुहुयात् । तत्र वषट्कारोच्चारणकाले जुहूगतमाज्यं पूर्व किञ्चिदग्नौ स्रावयित्वा ततः पुरोडाशखण्डं जुद्वैव अग्नौ प्रक्षिप्य तदुपरि जुह्वामवशिष्टमाज्यमवश्च्योतयेत् । एवमेव सर्वत्र चरुपुरोडा- शादिष्वाहुतिक्रमः । ततः प्रत्याक्रम्य ध्रुवाया वार चतुष्टयं स्रवेण आज्यं गृहीत्वा जुहूमापूर्य वेदेर्दक्षिणभागे आहवनीयस्य दक्षिणत उदङ्- मुखस्तिष्ठन् द्वितीयमुपांशुयाजनामकं यागमनुतिष्ठेत् । तत्र आज्यं द्रव्यम् । विष्ण्वादयोख देवताः । तत्र याज्यापुरोनुवाक्ययोरुपांश्वेव पाठः । पुनरुत्तरतो गत्वा जुहूमभिधार्य अग्नीषोमीयपुरोडाशादाग्नेयपुरोडाश- वदवदाय दक्षिणातिकम्याग्नीषोमदेवताकं प्रैषादिकं सर्वमनुष्ठाय पुरोडाशखण्डमग्नीषोमाभ्यां जुहुयात् । अत्र एतावन्तः प्रधानयागाः ।। क. 'अमयेऽनुब्रूहि' इति पुरोनुवाक्याप्रेपः । 'अग्निं यज' इति याज्याप्रैपः । विष्णुः प्रजापतिः अग्नीषो मौ च देवतात्वे विकल्प्यन्ते । उपाशुयाजोड- यमापस्तम्बीयानां पौर्णमास्यामेव यष्टव्यः । बहुचबौधायनीयकातीयानां तु सोऽयममावास्यायामपि भवति तत्तत्सूत्रानुसारेण । See कात्या. श्री. सू. ३. ३. २४. आश्व. श्री. सू. ९. ३.१२. ख.
दर्शपूर्णमासनिरूपणम् अत्र सर्वत्र यजमानः अग्नौ तत्तद्धविषः प्रक्षेपसमये मनसा तत्तद्देवतायै तत्तद्रव्यंका त्यजन् तदवबोधकं शब्दराशिं च 'अग्नय इदं न मम' 'इदमग्नये न मम' इत्यादिकं वा वाचोचारयेत् । ततोऽध्वर्युः प्रत्याक्रम्य वेदेरुत्तरतः उपविश्य सुवेण पार्वणं होमं जुहुयात् । तत्र पूर्णमासो देवता । अनन्तरं तत्रैवोपविष्टः सन नारिष्ठसंज्ञकान होमान् सवणैव जुहुयात् ॥ स्विष्टकृयागः ततः स्विष्टकृयागः । तदर्थ जुह्वामुपस्तीय पूर्व हुतावशिष्टयोयोः पुरोडाशयोरुत्तरार्धात् सकृत्सकृदवदाय हात्रे पं दत्त्वा अध्वर्युदक्षिणाति- क्रम्य आश्रावणाद्यनन्तरमग्नये स्विष्टकृते जुहुयात् । होमोऽयमना- वुत्तरार्धपूर्वार्धे कर्तव्यः । ततो यथेतं प्रत्याक्रम्य जुह्वामप आनीयान्त:- परिधि निनयेत् ॥ इडाभक्षणादि ततः प्राशित्र'हरणपात्रमुपस्तीर्य हुतावशिष्टयोः पुरोडाशयोमस्तकं भक्त्वा तस्माद्यवमानं व्रीहिप्रमाणमात्रं वा भागमवदाय तं सपात्रं ब्रह्मणे प्रयच्छेत् । स तं हस्तद्वयेन परिगृह्य वेदि गध्ये आस्तरणतृणान्यपोह्य तत्र सादयित्वा सादितं तमभिवीक्ष्याङ्गुष्ठानामिकाभ्यामङ्गुलिभ्यां तं भागमादाय दन्तरसंस्पर्शयन् भक्षयति । तत आचम्येन्द्रियाणि संमृशति । प्राशिवपात्रं प्रक्षाल्य पराचीनं निनयति । तत इडापात्रमव- दायोपस्तीर्य सर्वेश्यो हवियों दक्षिणभागादिडामवदाय तां पात्रे निक्षिप्य द्विरभिधाय हो। प्रयच्छेत् । ततो होतुर्दक्षिणत आसीनः साज्येन अत्र त्यागो नाम तपु तेषु द्रव्येषु स्वसम्बन्धनिवृत्निपूर्वक देवतासम्बन्धापादक: मानसव्यापारः । तदवबोधकः शन्दश्च 'इदममये न मम' इत्यादिः कातीयानाम् । 'अनय इद न मम' इतीतरेपाम् । ख. प्रधान यागानन्तरं स्विष्टकृयागात्पूर्व क्रियमाणः पार्वण होमः नारिष्ठ. होमाश्च तैत्तिरीयाणामेव भवन्ति, नान्यशाखिनाम् । शाखान्तरे तद्विध्यदर्शनात् तन्मन्त्रपाठाभावाच । 'अमये स्विष्टकृतेऽनुब्रूहि अमि रिवष्टकृतं यज' इति प्रैषस्वरूपम् । घ. ब्रह्मणे भक्षणार्थ दीयमानस्य हविर्मागस्य कस्यचित् प्राशित्रहरणमिति क. ग. संज्ञा।
२८ यज्ञतत्त्वप्रकाशे स्रवाग्रेण होतुः तर्जन्यङ्गुलिपर्वणी अभ्यज्य प्रथमम् इडामादाय होतुर्हस्ते निक्षिपेत् । द्वितीयं होता स्वयमेवायद्य स्वहस्ते निक्षिपेत् । ततो लेपादिडापात्रस्थात्तदभिधार्य होत्रा इडोपाहाने कृते पात्रस्थाया इडायाः किञ्चित्किञ्चिदवदाय होत्रे, ब्रह्मणे, अग्नीधे, यजमानाय च भागशो दत्त्वा तैरसह अध्वर्युरिडां भक्षयेत् । तत आचम्यान्तर्वेदि मार्जयित्वा आग्नेयं पुरोडाशं गृहीत्वा तं वेद्यां दर्भवासाद्य चतुर्धा विभज्य इदं ब्रह्मणः, इदं होतुः, इदमध्वर्याः, इदमग्नीध इति यजमानेन विभक्तव्यादेशे कृतेऽध्वर्युराग्नीध्रस्य भागं द्विरुपस्तरणेन द्विरवदानेन द्विरभिधारणेन च पडवत्तमानीध्रहस्त एव संपादयेत् । ततः सर्वे ऋस्विजः स्वं स्वं भागं भक्षयेयुः ॥ ऋविग्दक्षिणा अनूयाजाश्च तत्र ऋत्विग्दक्षिणार्थ दक्षिणाग्नौ पुरुषचतुष्टयभोजनपर्याप्त व्रीहितण्डुलैरोदनंब पक्रवोद्वास्य वेद्यामासाद्योत्तरभागे अवस्थितानृविजः दक्षिणत आगमनाय यजमानेन संप्रेषणे कृते तथा आगतेभ्यस्तेभ्यः अन्वाहार्याख्यं तमोदनं यथाभागं विभज्य दत्त्वा पुनस्तानुत्तरतः प्रैषपूर्वकं प्रहिणुयाद्यजमानः । ततो हविश्शेषानुद्वास्य अग्निपरिधि- संमार्गायाग्नीधे प्रैषं दत्त्वा अनूयाजार्थं ब्रह्माणमामन्त्रयेत । तेनानुज्ञातः अग्नीत् पूर्वमनूयाजार्थमवशेपितामेको समिधमाहवनीय आघायाग्नीन् परिधींश्च सकृत् सकृत् संमृज्येध्मसन्नहनोपयुक्तां तृणमयी रज्जुमद्भिः संमृज्य अग्नौ प्रास्येत् । तत उपभृत्यनूयाजार्थं पूर्वमवशेषितमाज्यं जुह्वामानीय जुहूपभृतावादाय दक्षिणातिकम्योदङ्मुखः प्रयाजवत् प्रैषादिपु कृतेषु इद चतुधाकरणमामयपुगडाशस्यव, नाग्नीपोमीयादेः । विकृतिप्वपि आग्नेययागविकृतिभूतयागसम्बन्धिन एव तस्य तत् ; नान्यविकृतिविति । यज्ञेषु सर्वत्र हवि.शेपभक्षणं पुंसामेव दरीदृश्यते । न यजमानपन्या अपि स्त्रिया: कुत्रापि । सत्यपि कर्मसु तस्याः सहाधिकारे हविर्भक्षणेऽधिकाराभावे हेतुं नाभ्यूहितुं शक्नुमः । तस्मिन्नेव काले दक्षिणाग्नौ अन्वाहार्यस्य पाकारम्भोऽभिमतः आपस्तम्बस्य महः । See आप. श्री. ३. ३. १२. कात्यायनस्तु पूर्वमेव पाकारम्भ कृत्वा पक्कस्यौदनस्याग्नेरुद्वासनं परमिदानीमभिप्रति । See कात्या. श्री. सू. ३. ४. २७-२९ क.
२९ दर्शपूर्णमासनिरूपणम् त्रीननू याजान् वषट्कृते जुहुयात् । तत्र याज्याया आदौ " ये यजामहे" इति न वक्तव्यम् । केवलं याज्यां पठित्वा तदन्ते वषट्कुर्यादिति विशेषः । ततः प्रत्याक्रम्य आयतने जुहूपभृतौ सादयित्वा ते व्यूहेत् । व्यूहनं विविधं संचालनम् । ततः प्रस्तरमुपाधाय आज्यलिप्तेषु पात्रेषु तमज्यात् । तत्र जुबामग्रम् , उपभृति मध्यं, ध्रुवायां मूलं च प्रस्तर- स्याङ्ग्यात् । एवं निरङ्क्त्वा ततस्तृणमेकमपादाय पृथनिक्षिप्य दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा प्रस्तरमूलं जुह्वां प्रतिष्ठाप्य आश्रावणादिषु कृतेषु होतारं प्रति सूक्तवाकपठनाय औषंख दत्त्वा तेन सूक्तवाकानुवाके पठ्यमाने प्रस्तरमाहवनीये प्रहरेत् । प्रहरणं प्रक्षेपणम् । ततः पूर्वमपातं तृणमग्नौ प्रक्षिप्य तन्निर्दिश्य "शंयुवाकाय होत्रे प्रैपं दत्त्वा तेन तस्मिन्ननूच्यमाने आहवनीये परिधीन् प्रहृत्य संस्रावसंज्ञक होमं कुर्यात् । अत्रैव ऋत्विजः पूर्व तेभ्यो दत्तान् पुरोडाशादि हविश्शेषं भक्षयेयुः ।। पत्नीसंयाजादिकम् ततः अध्वर्युर्जुहूपभृत्वगतानाज्यलेपानुष्णेन वारिणा प्रक्षाल्य पात्राणि तान्यादाय गार्हपत्याग्नेः समीपं गच्छेत् । वेदं होता, स्फ्यमाज्यस्थालीमुदकमण्डलु चाध्वर्युः गृहीत्वा तत्रैव गच्छेताम् । ततो गार्हपत्यस्य पश्चिमदेशे दक्षिणतोऽध्वर्युरुत्तराभिमुखः उत्तरत आग्नीध्रो दक्षिणाभिमुखो मध्ये होता पूर्वाभिमुखश्चेत्येवं प्रकारेणोप- विश्याच्चैरुपांशुस्वरेण वा आज्यद्रव्येण पत्नीसंयाजाख्यान् कांश्चन होमान् कुर्युः । तत्र प्रैषाश्रावणप्रत्याश्रावणेषु पूर्ववदेव कृतेषु अध्वर्युर्गार्हपत्यस्योत्तरार्धे जुहुयात् । तत्र सोमः, त्वष्टा, देवपत्न्यः, राका, सिनीवाली, कुहू', अग्निगृहपतिरिति देवताः । तत्र राकादीनां तिसृणां होमा नित्याः काम्याश्च । इतरेषां नित्या एव । तत्र सर्वत्रोद्देश- तत्र देवं बर्हिः, देवो नराशस:, देवोऽग्निः स्विष्टकृत् इति क्रमेण त्रयाणामनूयाजानां देवताः । "इपिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि" इति सूक्तवाकप्रैषः । "स्वगा दैव्या होतृभ्यः स्वस्तिमानुषेभ्यः शंयुवाकाय शंयोब्रूहि" इति शंयुवाकप्रैषः । क.
यज्ञतत्त्वप्रकाशे त्यागो यजमानेन पत्न्या चेत्युभाश्यां कर्तव्यः । एवं तानुमन्त्रणमपि । ततः पुरोडाशादौ कृतेडाहानमक्षणादिवदाज्येडायामपि सर्वं कुर्यात् । ततः स्रवेण संपलीयहोमः । ततो दक्षिणाग्नाविधमणप्रत्रश्चनान्याधाय जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा तत्र फलीकरणानोप्य" तेन जुहुयात् । ततः पूर्वगृहीत आज्ये पिटलपान् प्रक्षिप्य तेन होमचतुष्टयं कुर्यात् । ततो होतरि वेदं विलस्य तदीयतृणैर्वेदिं पश्चिमत आरभ्य प्राचीन यावदाहवनीयं समग्रां स्तृण्वाने सति पत्नी स्वकटितः योक्त्रं विमुच्य स्वाञ्जलौ स्थापयेत् । तदा तस्या अअलौ जुहगतमुदकमध्वर्युरासिञ्चेत् । सा तदुकं भूमौ विस्राव्याट्टैण हस्तेन स्वमुखं विमृज्योत्तिष्ठेत् । एतावत्पर्यन्तं पत्नीकर्म ॥ होतात स्तरणावशिष्टानि वेदितृणानि भूमी भूमौ निधाय आहवनीये स्रवेण हुत्वा संस्थाजपाख्येन मन्त्रेणोपस्थाय निस्सरेत् । एतदन्तं होतुः कर्म । ततोऽध्वर्युराहवनीयसमीपं गत्वा जुह्वा त्रवेण वा बह्वीः प्रायश्चित्ताहुतीर्जुहोति । तदन्ते ध्रुवाया आज्यं गृहीत्वा समिष्टयजुःसंज्ञकं होमत्रयं कुर्यात् । तन्मध्य एव वेद्यामास्तीर्णानि सर्वाणि बहीष्यादाय आहवनीये प्रक्षिपेत् । ततो वेदिमध्ये प्रणीता अप आसाद्योत्करे उपवेषं निरस्य कपालानि पुरोडाशश्रपणार्थ- मुपहितानि पृथक्कृत्य सङ्ख्यायोद्वासयेत् । एतावदाध्वर्यवं कर्म ॥ याजमानम् यजमानस्तु यज्ञसंकल्पप्रभृति ब्रह्मचर्यादीन् नियमान् धारयेत् । दक्षिणार्थ द्रव्यं प्रकल्पयेत् । प्रधानकर्मणः फलस् । यद्यङ्गेष्वपि फलेच्छा अत्र आदित आरभ्य आन्तं प्रधानहोमवङ्गहोमेषु चाध्वर्युणा सत्तद्धोमानुष्ठानसमनन्तरमेव यजमानेन पठनीयतया केचन मन्त्रा विहिताः । ते अनुमन्त्रणमन्त्रा इत्युच्यन्ते । यथा-~-अग्नेरहं देवयज्ययानादो भूयासम् , सोमस्याहं देवयज्यया पशुमान् भूयासमिति । ख. येभ्यः पलाशादिकाष्ठेभ्यः इध्मकाष्ठानि च्छिन्नानि अग्रतः तेषामधस्तना भागा इध्मप्रवचनानीत्युच्यन्ते । ग. तण्डुलानां द्वितीयावहननकाले तेभ्यो निस्सृताः अतिसूक्ष्माः त्वचः फलीकरणानीत्युच्यन्ते । पिष्टलपफलीकरणयोश्चतुर्ग्रहीते आज्ये विकल्पेन प्रक्षेपमि- च्छति देवयाज्ञिकः । अत्र विश्वे देवा देवता। घ. पिष्टानां संयवनकाले योऽश: पात्रे लिप्तः स पिष्टलेपः । क. , दर्शपूर्णमासनिरूपणम् तर्हि यत्र यत्र यादृशं फलं निर्दिष्टं तस्य तस्य कामना, आत्मगामि फलबोधकमन्त्राणां पठनं, संकल्पात् पूर्वमेव क्षुरकर्म, सर्वेष्वपि कर्मसु द्रव्यत्यागयुक्तेपु तत्तद्देवताभ्यो गनसा तत्तद्रव्यस्य त्यागः, यत्र यजमानं वाचयति तेषां सर्वेषां मन्त्राणां पठनं, यदा यदा अध्वर्या- दिभिः प्रैषो दीयते तदनुरोधेनानुष्ठानं, क्वचित् यज्ञियानां हविषां विध्यनुरोधेनाभिमर्शनम् , अनुमन्त्रणमन्त्राणां सर्वेषां पाठः, तत्तद्धवि- भक्षणम् इत्यादिकं कृत्वा अन्ते यज्ञविमोकं कुर्यात् । इष्टिपश्चादौ अन्ते गोमतीजपं यज्ञसंचमे इति मन्त्रं जपित्वा यज्ञं विसृजेत् इत्येतदन्तं याजमानम् ॥ ।। इति पौर्णमास यागः ॥ अथ दर्शयागे विशेषाः तत्र आग्नेयपुरोडाशयागः ऐन्द्रो दधिद्रव्यको यागः ऐन्द्र एव च पयोद्रव्यको याग इति यागत्रयमित्युक्तम् । तत्र दधि पयश्च वक्ष्यमाणेन विधिना पृथक् पृथक् संपाद्य यागकाले उभौ संमेल्य सकृदेव द्वयोर्यागः क्रियते । अत एव दधिपयसोर्मिलितयोः सान्नाव्यमिति संज्ञा याज्ञिकानाम् । तद्र्व्यको यागः सान्नाय्ययागः । तत्र आग्नेयो यागः पौर्णमास्यां यथा कृतः तथैव सः तदङ्गानि च अमावास्यायामनुष्ठीयेरन् । आग्नेययागस्वरूपं तु पौर्णमासप्रकरणे सम्यगुक्तं तत एव अवगन्तव्यम् । सान्नाय्यसम्बन्धिनो ये विषयाः ते तदनुष्ठान- प्रकारश्च परमत्र निरूप्यन्ते ॥ वत्सापाकरणम् अमावास्यायां प्रातः कृतस्नानसन्ध्यादिनित्यक्रियः प्रातरग्निहोत्रं हुत्वा तानग्नीन् परित्यज्य (कुण्डेभ्यो बहिनिष्कास्य) पुनः गार्हपत्यात् क. श्रुतौ दधियागस्वरूपं पोयागस्वरूपं च पृथक् पृथगेव विहितम् । परं तयोरेकदेवताकत्वात् दधि पयश्च मेलयित्वा सकृदेवानुष्ठानं शास्त्रकारविहितम् । सूत्रकारैश्च तदेवानुमोदितम् । तस्माद्दधिपयोयागयोः सहानुष्ठानेऽपि गणनायां द्वित्वमेव । अतो दर्श त्रयो यागा इत्येव शास्त्रकारा: । सोमयाजिन एव च सान्नाय्ययागानुष्ठानेऽधिकार इत्येकं मतम् । तदा असोमयाजिना (हविर्याजिना) तयोः स्थाने ऐन्द्राग्नः पुरोडाशद्रव्यको यागः कर्तव्यतया विहितः । हविर्याजिनोऽपि सान्नाय्येऽधिकारोऽस्तीत्यपरम् ।
३२ यज्ञतत्त्वप्रकाशे .. .. तूष्णीमग्नीन् प्रणीय पौर्णमासवत् तेष्वन्वाधानं कृत्वा वत्सापाकरणार्थ शाखाहरणं कुर्यात् । तत्र विहारात् (यज्ञानुष्ठानस्थानात् ) प्राची गत्वा शमीवृक्षस्य पलाशवृक्षस्य वा बहुपर्णी बह्ववान्तरशाखामाहृत्यत शाखां तया शाखया स्वगृहस्थितान् पड्गोवत्सान् स्वमातृभ्यः पृथक् कृत्य गाः चरणाय गोचरं प्रदेश वनं वा प्रेषयेत् । तां च शाखामग्न्यगारे सुरक्षितामुपरि स्थापयेत् । ततो दर्भाहरणं कुर्यात् । तत्प्रकारः पौर्णमासयागवत् । ततोऽपराले पिण्डपितृयज्ञोऽनुष्ठेयः । स चाग्रे वक्ष्यते । सायंकाले यथासुखं चरित्वा गृहमागतासु गोपु यजमानः स्वयमेव सायमग्निहोत्रं कुर्यात् । तच्च यवाग्वैव कर्तव्यम् ; न दध्यादिना । अग्निहोत्रावशिष्टां यवागू दध्यातञ्चनार्थमवस्थापयेत् । ततोऽध्वर्युरग्नीन् परिस्तीर्य "सान्नाय्यपात्राणि प्रक्षाल्य आहवनीयस्योत्तरतः आस्तृतेषु दर्भेषु तान्यधोमुखानि प्रयुज्य अग्निहोत्रहवण्यां जलमुत्पूय पात्राण्युपरिमुखानि कृत्वा, उत्पूतेन जलेन तानि प्रोक्ष्य दोहनकुम्भी शाखापवित्रं पयःपणकुम्भीमुपवेषं चाहवनीये निष्टप्य आहवनी- यादङ्गारान् किंचिदिव बहिः कृत्वा तदुपरि श्रपणकुम्भीमधिश्रित्य तां परितः प्रताप्य तत्रैव स्थापयित्वा वाग्यतः यथाविधि यजमानस्य तिस्रो गाः दुग्ध्वा तत्पयः कुम्भ्यां (श्रपणार्थीयां) निनयेत् । ततो वाग्विसर्जनं कुर्वन् तिस्रः ततोऽप्यधिका वा (यद्यधिका गावो यजमानगृहे दोहनयोग्याः स्युः) गाः मन्त्रं विना दुग्ध्वा तदपि दुग्धं प्रतक्षायां तस्यामेव कुम्भ्यां प्रक्षिप्य तत्पयः सुशृतं कुर्याद- स्वस्वमात्रा सहावस्थितानां गोवत्सानां स्वमातृभ्यो वियोज्य पृथगवस्थापनं वत्सापाकरणम । ख. इदं च शाखाहरणं यज्ञारम्भदिनात् पूर्वदिने द्वित्रेभ्यो दिनेभ्यः पूर्व वा तूष्णीं कृत्वा शाखां गृहेऽवस्थापयन्ति । कर्मानुष्ठानदिने तत्काले मन्त्रपाठमात्रं कुर्वन्ति । तावतैव च कर्मसिद्धिं मन्यन्ते याशिकाः । क. ग, एतेषां पात्राणां विवरणमन्ते कृतम् । तदवलोकनीयम् । घ. दोहनमिदमध्वर्युरेव कुर्यात् । अथ वा अन्यः कश्चिद्ह्यात् । शूद्रस्तु परं सर्वथा न दुह्यादिति श्रुतिः, सोऽपि दुह्यादिति सूत्रकाराः आपस्तम्बादयः See आप. श्री. सू. १. १२. १५. शूद्रं पर्युदस्यति कात्यायनः See कात्या. श्री. सू. ४. २. २२.
दर्शपूर्णमासनिरूपणम् विष्यन्दयन् । शृते पयसि कुम्भी प्रान्देशे उदग्देशे वोद्वास्य किञ्चिदि- वापगतोष्ण्यायां तस्यां लौकिकं खदध्यासिच्यायस्पात्रेण दारुपात्रेण वा कुम्भ्याः मुखं पिधाय तामुपरि शिक्ये निदध्यात् । तदिदमातञ्चन- मित्युच्यते । ततो यजमानः कटाद्यास्तृतायां भूमौ शयीत जागृयाद्वा । एतावदमावास्यादिनकृत्यम् ॥ शुक्लप्रतिपदिनकृत्यम् शोभूते सूर्योदयात्यागेवोत्थाय कृतस्नानादिरध्वर्युः कारभेत । पूर्वदिनवद्वत्सापाकरणम् । पात्रसंसादनकाले दोहनोपयुक्तानि पात्राणि प्रयुज्यात् । पुरोडाशश्रपणाय कपालोपधानानन्तरं सायंदोहवत्प्रातदोह कुर्यात् । हविःपर्यग्निकरणकाले सायं दोहस्य दनोऽपि पर्यनिकरणम् । हविरभिमर्शनकाले दोहयोरप्यभिमर्शनम् । हविरासादनकाले पुरोडाश- स्योत्तरतो दोहयोरासादनम् । अभिधारणकाले पुरोडाशाभिधारणानन्तरं दधिपयसोरभिधारणम् । प्रधानयागकाल आग्नेयेन पुरोडाशयागेनेट्वा जुह्वामुपस्तीर्य सायं दोहाद्दश्नः स्रवेण द्विरवदाय ततः प्रातोहात्पयसः स्रवेणैव जुह्वामेव दना सहैव द्विरवदाय (एतद्वा विपरीतम् ) उपर्य- भिघार्य आश्रावणप्रत्याश्रावणादि इन्द्राय महेन्द्राय वा कृत्वा क. ख. कुम्भीगनं पय: तापकाले तापाधिक्येन बहिरागत्य यथा न पतेत् तथाकरणमविष्यन्दनम् । तथा कुर्वन् । अत्र दना सह (सायमग्निहोत्रावशिष्टा यवागूः दुग्धे प्रक्षेपणीया) व्रीहयः पूतीकाः (सोमसदृशा लताः) बदरीफलानि पलाशकाष्ठत्वचश्च विकल्प्यन्ते । बौधायनः परं दध्व आतञ्चनं विदधाति । नान्यद्रव्येण । अत्रापि दर्भाहरण- वद्याशिकाः लौकिकमेव दधि पयश्च पूर्वमेव आहृत्य कर्मानुष्ठानकाले तदङ्गभूतमन्त्र- पाठमात्रं कुर्वते । एवं ब्रीह्यवहननतण्डुलपेषणादावपि पूर्वसिद्धेष्वेव मन्त्रपाठमात्रं कुर्वन्ति । तत्र च प्रमाणतया सांप्रदायिकं श्लोकमुदाहरन्ति । छिन्ने पिष्टे तथा लूने सान्नाय्ये मात्तिके तथा । पश्चान्मन्त्राः प्रयोक्तच्या मन्त्रा यज्ञार्थसाधकाः ॥ इति ॥ १. अभिमर्शनं याजमानम् । एवमेव स्वकाले प्राप्तं तत्तदनुमन्त्रणम्- त्यागमन्त्रपठनान्वारम्भहुतानुमन्त्रणध्याने डाभक्षणयजमानभागप्राशनजपविष्णुक्रमणोप स्थानादिकं सर्व तत्तत्काले यजमानो यथावदनुतिष्ठेत् । पल्यास्तु सर्वत्र सहभाव एव ।
यज्ञतत्त्वप्रकाश (सोमयाजिनः संवत्सरं यावदिन्द्रो देवता, तत ऊर्ध्वं महेन्द्रो देवता) वषट्कारान्ते जुहुयात् । द्वयोर्द्रव्ययोर्दधिपयसोः संमिश्रितन्वात सकृदेव होम उद्देशत्यागश्च ॥ ततः पार्वणहोमोऽमावास्यादेवताकः । ततः स्विष्टकृयागकाले तदर्थं दधिपयसोरपि सकृत्सकृदवदानम् । इडावदानकाले पुरोडाशावदा- नानन्तरं दधिपयसोरप्यवदानम् । सूक्तवाकमन्त्रपठनकाले 'अग्निरिदं हविरजुषत' इत्यनन्तरम् 'महेन्द्र इदं हविरजुपत' इति 'इन्द्र इदं हविरजुपत' इति वा होत्रा प्रयोक्तव्यम् । प्रस्तरस्याग्नी प्रहरणकाले पलाशशाखया सह प्रहरणम् ॥ एतावन्त एवामावास्यायां विशेषाः । अन्यत्सर्व पौर्णमासी- वदनुष्ठेयमिति वेदितव्यम् ॥ दर्शश्च पूर्णमासश्च यस्य रूपं परात्मनः । तं वन्दे यज्ञतपसां भोक्तारमपराजितम् ।। ॥ इति दर्शपूर्णमासौ॥ - , यज्ञियपात्राणां द्रव्याणां च दार्शपौर्णमासिकानां स्वरूपं लक्षणं चोच्यते सुखावबोधाय- १. सुत्रः-खादिरः, अङ्गुष्ठपर्ववृत्तगर्तः, पर्वार्धखातः, अरनि- परिमाणः । २. स्फयः-खादिरः खड्गाकृतिः, अरनिमात्रः । ३. जुहूः- मूलदण्डा त्वक्तोबिला, हंसमुख सदृशैकप्रणालिकायुता प्रादेशार्धपुष्करा तावत्खाता, पलाशकाष्ठनिर्मिता। उपभृत्--मूलदण्डा त्वक्तोविला हंसमुखसदृशैकप्रणालिकायुता प्रादेशार्धपुष्करा तावत्खाता, अश्वत्थकाष्ठनिर्मिता । ध्रुवा-वक्तोबिला हंसमुखसशैकप्रणालिकायुता प्रादेशार्ध- पुष्करा विककृतवृक्षनिर्मिता। ६. अग्निहोत्रहषणी- त्वत्तोबिला, इंसमुखसदृशैकप्रणालिकायुता प्रादेशार्धपुष्करा तावत्खाता वैकङ्कती।
यज्ञपात्राणि
७. अग्निहोत्र वः -- स्रववत् हंसमुखसदृशैकप्रणालिकायुतो वैकङ्कतः ।
उलूग्वलम्-अर्थलक्षणं वरणकाष्ठनिर्मितम् ।
मुसलम्-अर्थलक्षणं वरणकाष्ठनिर्मितम् ।
खादिरं मुसलं कार्य पालाशः स्यादुलूखलः ।
यद्वाभौ वारणौ कार्यों तदभावेऽन्यवृक्षजौ ॥
१०. कूर्चः- --बाहुमात्रः पीठाकारः ।
११. इडापात्री--अरनिमात्री चतुरङ्गुलदण्डा मध्यसङ्ग्रहीता, न वा,
चतुरङ्गुलपरिणाहवती।
१२. पुरोडाशपात्री-प्रादेशमात्री समचतुरश्रा षडङ्गुलवृत्तखातवती ।
१३. शम्या--बाहुमात्री पद्मकोशवत् पृथुतीक्ष्णाग्रमुखा (गदावत्) ।
१४. उपवेषः-प्रादेशमात्रः पलाशशाखातः कृत्तः ।
१५. प्राशित्रहरणम्-गोकर्णाकृति ।
१६. शूर्पम्--वैणवं यथेच्छपरिमाणम् ।
१७. चमसः-व्यगुलदण्डः चतुरङ्गुलोच्छ्रायः षडङ्गुलविस्तारः
प्रादेशमात्रो वरणकाष्ठनिर्मितः । (अप्प्रणयनार्थः) ।
१८. योक्त्रम् --मुञ्जनिर्मितम् (पल्याः कट्यां बन्धनार्थम्) ।
१९. मदन्तीपात्रम्--पितलमयम् , संयवनार्थानामपामुष्णीकरणाय ।
२०. मेक्षणम्-~वरणवृक्षनिर्मितं पिष्टसंयवनार्थमरनिमात्रम् ।
२१. अन्वाहार्यस्थाली--पुरुषचतुष्टयभोजनपर्याप्तान्नपचनयोग्य तानं
पैत्तलं वा पाकपात्रम् ।
२२. पिटलेपपात्रम्-वरणवृक्षनिर्मितम् ।
२३. फलीकरणपात्रम्-~-वरणवृक्षनिर्मितं प्रादेशमात्रम् ।
२४. शकटः-लौकिकशकटाकार एवार्थलक्षणः ।
२५. कपालानि- एकोनविंशतिः स्फुटितभाण्डावयवभूतानि वर्तुलानि,
चतुरश्रार्धचतुरश्राणि वा।
२६. इन्मकाष्ठानि-यज्ञियवृक्षकाष्ठानि चानीन्धनार्थम् ।
२७. कुशा:-वेद्यास्तरणपवित्रकरणपरिस्तरणार्थाः ।
२८. अवयुब्रह्मयजमानानामासनानि दर्भमयानि दारवाणि वा।
३६ ३ ६ यज्ञतत्त्वप्रकाशे २९. ब्रीहयो यवा वा---पुरोडशप्रकृतिभृताः । ३०. आज्यम्---गव्यं माहिपम् , आज वा। ३१. यवागू:--अग्निहोत्रार्थी आतञ्चनार्थी च । ३२. कृष्णाजिनम्-उलूखलस्याधस्तादास्तरणाय । सान्नाय्यपात्राणि-- १. कुम्भी--मृन्मयी पयश्श्रपणार्थी अर्थलक्षणा । २. दोहनपात्रम्-अर्थलक्षणं दारुमयम् । ३. अभिधानी---गोबन्धनी रज्जुः अर्थलक्षणा । ४. निदाने--दोहनकाले गोपादबन्धनार्थी वत्सबन्धनार्थी च रज्जू । ५. पिधानपात्रम्-कुम्भीमुखपिधानार्थम् अयसा निर्मितमर्थलक्षणम् । ६. शिक्यम्--मुखतृणनिर्मितमर्थलक्षणम् दधिपात्रनिक्षेपणार्थम् । ७. यजमानभागदधिपयोनिक्षेपणार्थे यज्ञियवृक्षनिर्मिते द्वे पारे । पलाशशाखा-वत्सापाकरणार्थी शमीशाखा वा तदर्थी। ॥ इति दार्शपौर्णमासिकानि द्रव्याणि पात्राणि च ॥ ८. पिण्डपितृयज्ञः पिण्डपितृयज्ञ इदानीं निरूप्यते--स च आहिताग्निना अमा- वास्यायामपराह्णात् परं सायङ्कालेऽनुष्ठेयः । स दर्शाङ्गमिति कात्यायनः । न दर्शाङ्गं स्वतन्त्रमिदममावास्याकालेऽनुष्ठेयं कर्मति कर्मेति जैमिनिः (पू. मी. ४. ४. ८.) । अनङ्गत्वमेव तु युक्तम् । अन्यथा दर्शविकृति- ध्वतिदेशेन प्राप्तिः केन वार्यंत ॥ तदनुष्ठानप्रकार इत्थम्--अमावास्यायां सायङ्काले सङ्कल्पः । ततस्समूलं बर्हिराहृत्य परिस्तरणार्थान् कुशान् सकृच्छित्त्वा दक्षिणार्मि परिस्तीर्य तदक्षिणतो दर्भानास्तीर्य तदुपरि पिण्डपितृयज्ञोपयुक्तानि पात्राणि सादयित्वा प्रोक्ष्य दक्षिणतो व्रीहिमच्छकटमवस्थाप्य ततो १. पिण्डयुक्तः पितृयज्ञ इति विग्रहः । अत्र होमानन्तरं पितॄनुद्दिश्य पिण्डदानविधानात् तत्त्वम् ।
पिण्डपितृयज्ञः व्रीहीन् पितृभ्यो निरूप्य दक्षिणाग्नेः पश्चिमतः कृष्णाजिनमास्तीर्य तदुपर्युलूखलं प्रतिष्ठाप्य निरुतान् व्रीहीन् तत्र आवपेत् । ततो यजमानपत्नी तानवहत्य सकृत्फलीकृत्य सकृत्प्रक्षाल्य दक्षिणानौ पचेत् । भक्तपु यथा तण्डुलांशः किश्चिदिवावशिष्टो भवेत् तथा पाकः कार्यः । ततो दक्षिणाग्नराग्नेयकोणे स्फयेन रेखामाग्नेयाभिमुखी कृत्वा तां सकृदाच्छिन्नैस्तृणैरास्तीर्य पक्कमन्नमभिघार्य तस्यां वेद्यामासाद्य ततो मेक्षणेन जुहूस्थानीयेन हविरवदाय सशेपं दक्षिणाग्नौ जुहुयात् । तत्र सोमः पितृपीतो देवता । तं शेष पात्रान्तरे स्थापयित्वा पूर्ववत्पुन- मैक्षणेन अवदाय दक्षिणाग्नावेव सशेपं जुहुयात् । अत्र यमोऽङ्गिरस्वान् पितृमान् देवता । ततश्शेषद्वयमेकीकृत्य मेक्षणेऽवधाय जुहुयात् । तस्विष्टकृत्स्थानीयं भवति । तत्र अग्निः कव्यवाहनो देवता । एतदन्तमाध्वर्यवम् ॥ इतः परं याजमानं कर्म । अथ यजमानः प्राचीनावीती दक्षिणाग्नेरेकमुल्मुकं धूमविशिष्टं सव्यहस्ते गृहीत्वा आग्नेयकोणे सकृदुल्लिख्य अवोक्ष्य उल्लिखितान्तस्थले तमुल्मुकं निक्षिप्य उल्लेखस्थाने त्रीनुदकाञ्जलीन् पितृपितामहप्रपितामहेभ्यो दत्त्वा तदुपरि त्रीन पिण्डान् तेभ्य एव दत्त्वा मन्त्रेण पित्रादीन् त्रीनुपस्थाय स्थालीस्थं शेपमवघ्राय पुनः पूर्ववन्मार्जयित्वा, अञ्जनाभ्यञ्जनवासांसि पित्रादीनां कृते पिण्डस्योपरि दत्त्वा पितृनुपस्थाय स्वस्थानं गमयित्वा मध्यम पिण्डं स्वपत्न्यै प्रजाकामायै भक्षणाय दत्त्वा स्वयमप्येकं पिण्डं भक्षयित्वा अवशिष्टान् पाने निक्षिप्य कुशानग्नौ प्रक्षिप्य उल्मुकमपि दक्षिणानावेव पुनः प्रत्यस्य पात्राणि प्रोक्ष्य गृह्णीयात् ।। ॥ इति पिण्डपितृयज्ञः॥ पिण्डपितृयज्ञोपयिकानि द्रव्याणि पात्राणि च १. व्रीहयश्चर्वीः । २. उदकं श्रपणाद्यर्थम् । ३. आज्यं होमाद्यर्थम् । तिनः समिधः । ५. सकृदाच्छिन्नाः कुशाः ।
यत्रतत्त्वप्रकाशे .-...- ६. शय्या (कशिपु)। ७. उपबहणम् । ८. अञ्जनम् (अक्ष्णोः)। ९. अभ्यञ्जनार्थ तैलग् । १०. उदकुम्भः। ११. परिहितवारासो दशा, अजलोम वा। (शय्यादीनि षट् पिण्डोपरि पितृभ्यो देयानि ।) १२. स्फयः रेखाकरणाद्यर्थम् । १३. स्थाली हविःपाकार्था । १४. मेक्षणं होमाद्यर्थ दर्वीस्थानीयम् । १५. कृष्णाजिनं भूमावास्तरणार्थम् । १६. उलूखलम् । अवहननार्थम् । १७. मुसलम् १८. आज्यस्थाली आज्यग्रहणार्था । १९. मृन्मयं पात्रं हविनिर्वापार्थम् । २०. शूर्प परापवनार्थम् । २१. शकटः हविराहरणार्थः । निरूढपशुबन्धः अथ निरूढपशुबन्धः । अयं पशुयागः आहिताग्निना प्रतिसंवत्सरं कार्यः । तत्र सकृत् , द्विर्वा, षड्वारं वा । यदि सकृत् , वर्षतौ ; यदि द्विः, उत्तरायणदक्षिणायनयोरारम्भे; यदि पट्कृत्वः ऋतावृतौ । तत्राप्यमावा- स्यायां पूर्णिमायां वा अनुष्ठानम् । पशुयागस्यास्य निरूढपशुबन्ध इति संज्ञा याज्ञिकानाम् । आहिताग्निस्सन् संवत्सरे सकृदवश्यमिमं यागमनुतिष्ठेत् । अन्यथा प्रत्यवायी स्यात् । यावजीवं चैवमनुष्ठानम् । अस्य ब्राह्मणग्रन्थेषु कुत्रापि स्वातन्येण प्रयोगविधानं न दृश्यते ॥ सर्वेषां पशुयागानां प्रकृतिभूतोऽग्नीषोमीयः पशुयागः । स सोमयागाङ्गभूतस्तदङ्गमध्ये पठितः । तत्रैव च सर्वेषां पश्वङ्गानाम् मानानमस्ति । तत एव च धर्मा (अङ्गानि) निरूढपशुबन्धेऽस्मि. नतिदेष्टव्याः । शास्त्रकाराणामाशयोऽप्येवमेव । परं सर्वेऽपि श्रौत- : अविशेषेणेममेव पशुयागं साङ्गं निरूपयन्ति । एतस्मादेव निरुढगशुबन्धः चानीपोमीये धर्मानतिदिशन्ति । तव च कारणम्-हविर्यज्ञत्वेनास्य सोमाङ्गभूताजीगोगीयपनोः पूर्वगनुष्ठेयतया पूर्वानुष्ठेय एव सर्वाङ्गसाहित्येन निरूपणीय इति । तदनुसारणैवास्माभिरपि साङ्गोपाङ्गोऽयमेव निरूप्यते ।। अत्र पशुः छागः । सोऽपि न साक्षात् । किं तु वपाहृदयाद्य- ङ्गद्वारैव । देवता इन्द्राग्नी, सूर्यः, प्रजापतिवी । पट् ऋत्विजः--अध्वर्युः, प्रतिप्रस्थाता, होता, मैलावरुणः, (प्रशास्ता) ब्रह्मा, अग्नीच । तल प्रतिप्रस्थाता अध्वर्योरनन्तरम्तत्सहायभृतः । मैत्रावरुणो होतुः । इष्टिषु होमकाले पठनीयाः पुगेनु वाक्या याज्याश्च होत्रा एकेनैव पठ्येरन् । पशुयागे तु पुगेनुवाक्या मैत्रावरणेन वक्तव्याः । तदर्थमेव तत्र तस्य वरणम् । याज्यास्तु होत्रा । प्रेषा अपि मैत्रावरुणेनैव । अग्रे सोमयागादौ अस्मिन्नेव कार्य नियुज्यते सः ॥ पशुयागमारभमाणा आदावाग्नावैष्णवेप्टिमिटितन्त्रेणानुष्ठाय तत आहवनीये यूपातिसंजकाोकामाहुति हुत्वा यत्र यूपा) वृक्षोऽस्ति तत्र अवयुब्रह्मयजमानाः तक्षा च गच्छेयुः । गत्वा च साक्षादेव भूसम्बद्धं बहुपण सुपिरादिदोपरहितं । पलाशखदिरविल्वरोहित कानामन्यतमं वृक्षं तक्ष्णा छेदयित्वा स्वयं वा छित्त्वा छेदनस्थाने भूमिष्ठवृक्षखण्डे स्थाण्याहुति हुत्वा यावत्परिमाण ऊर्ध्वबाहुर्यजमानो भवति तावत्परिमाणमवशेष्य, अवशिष्टनुपरिभागं छित्त्वा प्रास्येत् । स वृक्ष- खण्डो यूपशब्दाभिधेयो भवति । तं यज्ञभूमिदेशमानीय मूलतोऽरनिमात्र- मुत्सृज्य तदुपर्यग्रपर्यन्तं तक्षकिद्वारा तष्ट्वा अष्टकोणयुतं तं कुर्यात् । तक्षणे प्रथमपातिनं शकलं स्वर्वथं गृह्णीयात् । छेदनकाले प्रथमपाती शकल एव स्वर्वर्थ इति कात्यायनः । यूपस्य अग्रभागे चपालं परिधापयेत् । तत्र यूपाग्रं तक्षणेन तनूकृत्योपरि ब्यङ्गुलं यथा अवलोक्यते तथा परिशिष्य चपालः परिधापनीयः । ततो वेदिनिर्माण कुर्यात् । तस्याः स्वरूपमन्ते प्रदर्शितम् ॥ तत्र १. यूपमुद्दिश्य गमिष्यता होतव्येति यूपाहुतिः । २. वटावान्तरजातीयो वृक्षः । ३. चतुर्विशत्यङ्गुलोऽरनिः । ४. पशोरञ्जनार्थः स्वरुः ।
यज्ञतत्त्वप्रकाशे अग्निप्रणयनम् वेद्याः पूर्वस्यां दिशि उत्तरवेदि विमाय तन्मध्ये नाभिं करोति । तत्रैवाग्निः स्थाप्यते । ततस्सम्भारान् तन्मध्ये न्युष्य वेदिम् उत्तरवेदि च प्रोक्ष्य आहवनीयादुत्तरवेद्यर्थमग्निं प्रणयेत् । तदित्यम्-आहवनीये भूयिष्ठं काष्ठं निक्षिप्य प्रज्वलय्य ज्वलन्तमग्निं वालुकापूर्णे कस्मिंश्चित्पात्रे गृहीत्वा अध्वर्युरुत्तरवेदिदेशं गत्वा (अध्वर्युप्रेषितेन होत्रा प्रणयनार्थास्वृक्षु पठ्यमानासु) तत्रोत्तरवेदिमध्यगताया नाभेरुपरि सम्भाराणामुपरि अग्नि निक्षिप्य पात्रगतसिकता अपि अग्नरुत्तरभागे न्युप्य द्वादशगृहीतेन आज्येन जुह्वा पूर्णाहुति जुहुयात् । अतः परमुत्तरवेदिगतोऽग्निरेव आहवनीयपदवाच्यो भवति । अत आहवनीये कर्तव्यानि कर्माण्यस्मिन्नेवाग्नौ क्रियेरन् । यतोऽस्य प्रणयनं कृतं स गार्हपत्यो भवति । अर्थात्पूर्वीहवनीयो गार्हपत्यशब्दवाच्य इतः परं भवति । अतो गार्हपत्ये विहितानि कर्माण्यत्रैव कर्तव्यानि ॥ पात्रासादनादि ततः कुशसमिदाद्याहरणमरण्यादेः । इध्मकाष्ठानि त्रयोविंशति- सङ्ख्याकानि । काशाः प्रस्तरार्थाः । विधृत्यर्थे द्वे इक्षुशलाके । तत अग्न्योरुत्तरतः पाशुकपात्राणि अधोबिलानि प्रयोक्तव्यानि । तानि च- १. ९. छुरिका २. अग्निहोत्रहवणी १०. कुम्भी ३. वसाहोमहवनी ११. प्लक्षशाखा ४. जुहूद्वयम् १२. वपाश्रपणीद्वयम् ५. उपमृद्वयम् १३. औदुम्बरो दण्डः ६. पृषदाज्यधानी १४. रशनाद्वयम् ७. आज्यस्थालीद्वयम् १५. सुवश्च । ८. हृदयशूलाख्यं कण्टकम् पात्राणाममीषां दर्शपूर्णमासवत्प्रोक्षणादिकं कृत्वा प्रयाजानूया- जाद्यर्थ जुह्वादिषु पात्रेषु आज्यं पृषदायं च गृहीत्वा आज्यपूर्णानि पात्राणि वेद्यामासाद्य यूपनिखननार्थमवटं कुर्यात् । फ्यः १. दध्ना संमिश्रितमाज्यं पृषदाज्यम् ।
पाशुकपात्रासादनादि ४१ अवटखातस्तथा भवेत् यथा यूपस्याधोभागोऽरनिपरिमाण आच्छा- घेत । तस्मिन्नवटे यूपं पूर्वनिर्मितं निखाय आज्येनाङ्कत्वा चपालमप्याज्या- क्तमेव परिधाप्य कुशनिर्मितया त्रिसरया रज्ज्वा आवेष्टय यागीयं काणत्वादिदोषरहितम् उत्पन्नदन्तं पुमांसं पशुं (अजं) स्नापयित्वा तं यूपसमीपमानीय यागीयदेवताया उद्दिष्टायै उपाकुर्यात् । उपाकरणं नाम देवतामुद्दिश्य पशोरुस्पर्शनपूर्वकं निर्देशः 'अग्नये त्वा (इन्द्राग्निम्यां त्वा) जुष्टमुपाकरोमि' इत्यादिः । तच्च हस्ते कुशद्वयं प्लक्षशाखां च निक्षिप्य कर्तव्यम् । अत्र यूपाजनोच्छ्यणपरिव्याणेषु क्रियमाणेषु पूर्व हो। प्रैषं दत्त्वा तेन तत्तत्संबन्धिनीवृक्ष अनूच्यमानास्वेव अध्वर्युस्तानि तानि कर्माणि कुर्यात् । कर्मस्वेषु क्रियमाणेषु यजमानो यूपं स्पृशन्नेव तत्समीपे तिष्ठेत् । ततोऽध्वयोंः औषं श्रुत्वा होतरि अग्निमन्थनीया ऋचोऽनुब्रुवति सति अध्वर्युररणीतः अग्निं मथित्वा तमग्निमाहवनीये प्रक्षिप्य रशनया पशुं यूपे बनीयात् । अत्र अग्निमन्थनं मथितस्याग्नेराहवनीये प्रक्षेपश्च केवलादृष्टार्थः । होमाद्यर्थाग्नेः पूर्वमेव सत्त्वात् प्रयोजनान्तरादर्शनाच । ततस्तं पशुमद्भिः प्रोक्षणीभिः प्रोक्ष्य आज्यलिप्तेन स्रवेण समज्य तत्रैव पशौ बद्धे तिष्ठति प्रयाजान् यजेत् । इष्टिषु प्रयाजानूयाजानां पुरोऽनुवाक्याः प्रैषा वा न सन्ति । केवलं याज्या एव । ताश्च होत्रैव पठनीयाः । पशुषु तु प्रैषास्सन्ति । ते सर्वाश्च पुरोऽनुवाक्या मैवावरुणाख्येनविजा पठनीयाः । स तिष्ठन् औदुम्बरं दण्डं ललाटसम्मितं यजमानदत्तं धारयन्नेव प्रैषादीन् पठेत् । पशुयागे चैकादश प्रयाजाः। तत्रास्मिन् समये दश प्रयाजाः, वपोद्धरणानन्तरमेकश्च प्रयाजा अनुष्ठेयाः । तेषु देवताः- (१) समिधः (२) तनूनपात् नराशंसो वा (३) इड (७) दैव्यौ होतारौ (८) तिस्रो देव्यः (९) त्वष्टा (१०) वनस्पतिः (११) स्वाहाकृत्यश्च क्रमेण । द्रव्यमाज्यम् ॥ (४) बर्हिः (५) द्वारो देव्यः (६) दैव्यौ उपासानक्ता 6 ४२ यज्ञतत्त्वप्रकाशे पशुसंज्ञपनवपाहोमादि ततः पर्यग्नि कृत्वा आग्नीध्रः होत्रा अध्रिगुप्रैषाख्येषु मन्त्रेषूच्य- मानेषु. आहवनीयादुल्मुकमादाय पूर्व गच्छेत् । तस्य पश्चाच्छमिता पशुं. नयेत् । एवमुभयोरपि शामित्रदेशं गतयोः आग्नीध्रस्तत्रोल्मुकं निधाय प्रत्यावर्तेत । शमिता त्वावृते देशे पशुं प्रत्यशिरसमुदीचीनपादं निपात्य संज्ञपयेत् । ततस्संज्ञप्तहोमं प्रायश्चित्तहोमांश्च हुत्वा वपाश्रपण्यावदाय, अध्वर्युर्यजमानानुगतः पशुसमीपं गत्वा पश्चङ्गानि जलेन आप्याय्य पशोरुदरं दक्षिणपार्थे विशस्य (विदार्य) अन्तरामाशयमाच्छाद्य स्थितां श्वेतरक्तामति- मृदुलां तनीयसी त्वक्सदृशीं वपामुत्कृत्य तां वपाश्रपण्यामेकस्यां प्रसार्य, अन्यया आच्छाद्य यजमानेन अन्वारब्धोऽध्वर्युराहवनीय समीपमागत्य प्रतिप्रस्थात्रे वपायुते वपाश्रपण्यौ दद्यात् । ततस्स वपामलोहिनी सुशृतां अपयित्वा वेद्यां पूर्वोपस्थापितप्लक्षशाखाया उपरि तामासाद्य अवशिष्टमे- कादशं प्रयाजमनुष्ठाय, आज्यभागौ चेष्टा वपामादाय उपस्तृतायां जुह्वामखण्डितां तां निक्षिप्य, अभिघार्य, हिरण्यशकलानि प्रास्य, आश्रा. वणादिषु कृतेषु वपां समग्रामेवाध्वर्युराहवनीये जहुयात् । इन्द्राग्नी, सूर्यः, प्रजापतिर्वा विकल्पेन देवता इत्युक्तम् । ततो वपाश्रपण्योरा- हवनीये प्रक्षेपः कार्यः । ततस्सर्वेषामृत्विजां पत्नीयजमानयोश्च चावाले हस्तप्रक्षालनम् ॥ ततस्तदेवताकमेवैकं पशुपुरोडाशयागं कुर्यात् । तदनुष्ठानं पौर्णमासीगताग्नीषोमीयपुराडाशवदेव । पुरोडाशसंघन्धिहविर्निवापकाल एव पशोईदयादीन्यान्युत्कृत्य शामित्रेऽग्नौ पूर्वसजिते मृदाण्डे पचेत् । पाककाले हविषामसाङ्कर्याय चिह्नं कृत्वैव पाकः कर्तव्यः । तानि चाङ्गानि- क. अयमपि प्रयाज आज्येनेव कार्यः । वपयेति कथनं श्रममूलकमेव । १. आहवनीयाज्ज्वलन्तमङ्गारमादाय तस्य पशोस्समन्तात् भ्रामणम् । २. घातमन्तरा प्राणसरोधनादिना प्राणवियोजनं संज्ञपनम् । ३. हृदयं परं शूलपोतं कृत्वा साक्षादेवाग्नौ तापयित्वा इतराणि भाण्डे । पचेत् । .
हृदयाघङ्गयागः ४३ (१) हृदयम् (२) जिह्वा (३) वक्षः (४) यकृत् (कालखण्डाख्यं मृदुतरं मांसम्) (५.६) वृक्यौ (पार्थस्थौ पिण्डौ) (७) सव्यं बाहुमूलम् (८-९) पार्थद्वयम् (१०) दक्षिणा श्रोणिः (११) गुदस्य तृतीयोऽशः ॥ इति । तेषां पाको यदा प्रचलति तदा ऋत्विजः पशुपुरोडाशयाग- मनुतिष्ठेयुः । तदीयामिडां पुरोडाशरूपां प्रतिप्रस्थातृवर्ज सर्व ऋतिजो यजमानसहिता भक्षयेयुश्च ॥ हृदयाघङ्गयागः तदनन्तरं पाकभाण्डात् पक्वान्यङ्गान्युद्धृत्य स्वधितिना (छुरिकया) च्छित्त्वा, अवंदाय, जुह्वां निक्षिप्य, आश्रावणादिषु कृतेषु आहवनीये जुहुयात् । अत्र हविषां जुहामवदानकाल एव पशुरसे यूमाख्ये मेदो निधाय तेन जुहू भृतोः हवि पूर्णयोः मुखमाच्छादयेत् । तदैव प्रतिप्रस्थाता प्रधानयागीययाज्याया अर्धर्चपाठकाले वसाहोमहवन्यां गृहीतां वैसामाह. वनीये जुहुयात् । तदनन्तरमेव हृदयाघाहुतिरिति बोध्यम् । हृदायादी- न्येकादशाङ्गानि जुहूस्थानि सकृदेव होतव्यानि ।। ततो दर्शवत् नारिष्ठहोमान् हुत्वा पृषदाज्यस्थाल्यां पृषदाज्यं गृहीत्वा वनस्पतये (देवताविशेषाय) हुत्वा स्विष्टकृदयं पूर्वमेवोपभृत्यवदाय स्थापितान्यङ्गानि जुह्वां कृत्वा प्रैषाश्रावणाधनन्तरं स्विष्टकृतेऽग्नये हुत्वा इडां यथावदवदाय सर्व ऋविजस्सयजमाना भक्षयेयुः ।। १. तस्मिन्नेव काले स्विष्टकृदर्थमवदायोपभृति निक्षिपेत् । २. जीर्णपटसदृशं हृदयवेष्टनं भेदः । ३. पाकमाण्डे स्थितस्स्नेहात्मको रसो वसा ।
४४ यज्ञतत्त्वप्रकाश अनूयाजाघनुष्ठानम् ततोऽनूयाजा एकादश अनुष्ठेयाः । तेषाम्- १. देवं बर्हिः ७. तिस्रो देव्यः २. देव्यो द्वारः ८. देवो नराशंसः ३. देव्यौ उषासानक्ता ९. देवो वनस्पतिः ४. देव्यौ जोष्ट्यौ १०. देवं बर्हिः ५. देव्यौ ऊर्जाहुत्यौ ११. देवो अग्निः स्विष्टकृत् ६. दैव्यौ होतारौ इति क्रमेण देवताः। पृषदाज्यं द्रव्यम् । अनूयाजानुष्ठानकाले प्रतिप्रस्थाता गुदकाण्डस्य तृतीयमंशं पूर्वमवशेषितमेकादशधा च्छित्त्वा शामित्रादग्निमादाय उत्तरस्यां वैदिश्रोण्यां स्थापयित्वा तस्मिन्नेकैकं गुदकाण्डखण्डं हस्तेन जुहुयात् । ततो यागार्थ पूर्वविशस्तस्य पशोः पुच्छमसिना च्छित्त्वा आदाय तेन पत्नी संयाजाननुतिष्ठेत् । तत्र प्राकृत्य एव देवताः । ततः प्रकृतितोऽति- दिष्टानामैष्टिकानां यथासम्भवमनुष्ठानमङ्गानाम् । ततो यजमानो यूपमुपस्थाय संस्थाजपं कृत्वा कर्म समापयेत् । पशुयागोऽयं दार्शिकपयोयागविकृति- भूतः । अतो धर्मान् तदीयानेव गृह्णीयात् ॥ ॥ इति पशुयागो निरूढपशुबन्धाख्यः ॥ पशुयागोपयुक्तानि द्रव्याणि पात्राणि च- १. एकादश कपालानि आमावैष्णवेष्टयर्थम् । २. प्रोक्षणार्थाश्च ब्रीहयो यवा वा आमावैष्णवेष्टयर्थम् । ३. स्वधितिः (क्षुरः) यूपच्छेदनार्थः । ४. यूपः पशुबन्धनार्थः । ५. चषालः यूपायपरिधापनार्थः । ६. स्वरुः पश्वानार्थः। ७. रशनाद्वयं पशुबन्धनाथ यूपपरिव्याणार्थं च । ८. ऐष्टिकानि सर्वाणि पात्राणि । तत्र द्वे द्वे जुहूपभृतौ । ९. कुम्भी पश्वङ्गपचनार्थी।
वैश्वदेवपर्व १०. वपाश्रपण्यौ द्वे वपापाकार्थे । ११. पृषदाज्यधानी अनूयाजार्थपृषदाज्यधारणार्थम् । १२. वसाहवनी वसाहोमार्थम् । १३. हृदयशूलं (कण्टकः) हृदयपाकार्थम् । १४. सिकताः उपयमनार्थाः । १५. अरणी अग्निमन्थनार्थे । १६. प्लक्षशाखा वेदेराच्छादनार्थी पशूपाकरणार्थी च । १७. मैत्रावरुणदण्डः औदुम्बरः मैत्रावरुणस्य धारणार्थः । १८. अम्रिः यूपावटखननार्था । १९. मन्थिप्रमन्थिरजवः अग्निमन्थनार्थाः । २०. पशुः तत्र तत्र विहितश्छागादिः, आज्यं च यागार्थम् । चातुर्मास्यानि अथ चातुर्मास्यानि निरूप्यन्ते । तानि द्विविधानि-स्वतन्त्राणि राजसूयान्तर्गतानि च । राजसूयमनुतिष्ठता क्षत्रियणैव राज्ञा राजसूय- प्रयोगमध्य एवानुष्ठेयानि राजसूयान्तर्गतानि । न ब्राह्मणवैश्ययोस्तत्राधि- कारः । स्वतन्त्रेषु तेषु त्रैवर्णिकानामधिकारः । तानि चामिहोत्रदर्शपूर्णमास- वन्नित्यानि प्रतिसंवत्सरमनुष्ठेयानि ।। तत्र चत्वारि पर्वाणि-वैश्वदेवः, वरुणप्रघासाः, साकमेधाः, शुनशीरीयश्चेति । अत्र पर्वसु पौर्णमासीष्वनुष्ठेयत्वात् पर्वशब्देन ते यागा उच्यन्ते । इष्टिरूपेष्वत्र चत्वार एव ऋत्विजः । वरुणप्रघासेषु परं प्रति. प्रस्थाता एकोऽधिकः ॥ वैश्वदेवपर्व तत्र फाल्गुन्यां चैत्र्यां वा पूर्णिमायां वैश्वदेवपर्वणोऽनुष्ठानम् । फाल्गुन्यामेवेति कात्यायनः । तदनुष्ठास्यन् ततः पूर्वस्यां चतुर्दश्या- मन्वारम्भणीयेष्टिं तत्स्थानापन्नां वैश्वानरपार्जन्येष्टिं वा अनुतिष्ठेत् ॥ इष्टिरियं कर्तुः कर्मारम्भयोग्यतासंपादिका । द्वादशकपालः पुरोडाशः चरुश्च द्रव्यम् । वैश्वानरः पर्जन्यश्च देवते । तामिष्टिकल्पेन अनुष्ठाय श्वोभूते वैश्वदेवपर्वानुष्ठानम् । तत्राष्टौ यागाः-आग्नेयः, सौम्यः, सावित्रः, सारस्वतः, पौष्णः, मारुतः, वैश्वदेवः, द्यावापृथिव्य इति ।
४६ यज्ञतत्त्वप्रकाशे तत्र अष्टाकपालः पुरोडाशः, चरुः, द्वादशकपालः पुरोडाशः, चरुः, पिष्टकचरु , सप्तकपालः पुरोडाशः, आमिक्षा, एककपालः पुराडाश इति क्रमेण द्रव्याणि । अग्निः, सोमः, सविता, सरस्वती, पूषा, मरुतः, विश्वे देवाः, द्यावापृथिव्यौ इति च क्रमेण देवताः ।। तत्र आमिक्षोत्पादनार्थ पर्वणः पूर्वस्मिन् दिनेऽन्वारम्भेष्टयनन्तरं सानाय्यवत् प्रातर्वत्सापाकरणादिकं सायंदोहनादिकमनुष्ठाय लौकिकेन दधना तत्पय आतच्य निदध्यात् । चतुर्दश्यामेव, कुशसमिदाहरणादिकं कुर्यात् । ततः पूर्णिमायां प्रातरग्निहोत्रं हुवा दार्शिकेन प्रातर्दोहधर्मेण गा दुध्वा, दुग्धं पय आहवनीये श्रयित्वा अतितप्यमाने पयसि तस्मिन् पूर्वदिनसम्भृतं प्रभूतं दध्यासिञ्चेत् । तद्विधा संवर्तते-घनीभूतं द्रवीभूतं च । तत्र यद्धनीभूतं कठिनद्रव्यं सा आमिक्षा । यत् द्रवीभूतं तत् वाजिनम् । ततः पुरोडाशार्थ चर्वर्थं च ब्रीहीन् तत्तद्देवतायै निरुप्य सहैव अवहत्य पुरोडाशीयांश्चवर्थाश्च तण्डुलान् पृथक्कृत्य पुरोडाशीयान् पिष्वा पिष्टः दर्शपूर्णमासवत् पुरोडाशान्निष्पादयेत् । भिन्नभिन्नपात्रेषु चरूंश्च अपयेत् । ततः प्रयाजार्थं जुह्वादिषु पानेष्वाज्यं गृहीत्वा अनूयाजार्थ पात्रान्तरे आज्यं दधि च सहैव गृह्णीयात् । तत्पृपदाज्यमित्युच्यते । अत्र नव प्रयाजाः । नव अनूयाजाः । एवम् , एककपाल पुरोडाशमपि तदर्थ सम्भृते आशयस्थाल्याख्ये पात्रे निक्षिप्य तत्पात्रं घृतेनापूरयेत् । यथा पुरोडाशस्य मस्तकः परं दृश्येत अन्योंऽशो घृतमन्नो भवेत्तथा पूरणीयम् । ततः प्रयाजाघाराज्यभागाधनन्तरम् आश्रावणादिषु कृतेषु आग्नेयादियागान् कुर्यात् । अत्र यागेभ्यः पूर्व तदर्थं पक्केषु वेद्यामासादितेषु पशुयाग इव अग्नि मथित्वा आहवनीये निक्षिपेत् । अनन्तरं प्रयाजाः । ततः प्रधानयागा इति बोध्यम् । प्रधानेषु देवताः पूर्वमुक्ताः । तत्र आग्नेयादीनां हविषामवदान- क्रमेण होमः । एककपालस्य पुरोडाशस्य तु न अवदानादिकम् । किंतु यथा पात्रे स्थितस्तथैवापर्यावर्तयन् तदर्थनिर्मितशिक्येन सहैव तं गृहीत्वाग्नौ प्रक्षिोत् । पात्रस्थमाज्यं च अवश्च्योतयेत् । ततः चतुर्मिः मधुः, माधवः, शुकः, शुचिः इत्येवंरूपैः मासनामभिः एककपालपुरोडाश- ममित आज्येन जुहुयात् । ततः स्विष्टकृदिडामक्षणानूयाजादिषु परिधि- प्रहरणान्तेषु प्रकृतिवदनुष्ठिनेषु कर्मसु वाजिनपात्रं गृहीत्वा ततो वाजिन- मुपरितः जुह्वां तथा स्रावयेत् यथा वाजिनं जुहूतो बहिर्हिष उपरि वरुणप्रघासपर्व विष्यन्देत् । ततस्तत् वाजिसंज्ञिकाभ्यो देवताभ्यो हुत्वा शेषभक्षणं ऋत्विजः सोमवत् उपाह्वानादिकं कृत्वा कुर्युः । अन्ये चेष्टिधर्मा यथावदत्र अनुष्ठेयाः । इष्टयन्ते वपनं यजमानस्य । ॥ इति वैश्वदेवपर्वसमाप्तिः ॥ वरुणप्रघासपर्व १. आग्नेयः २. ५. पौष्णः अथ द्वितीयं वरुणप्रघासपर्व । वैश्वदेवानुष्ठानानन्तरं मासचतुष्टय- मतिवाह्य, आषाढ्यां श्रावण्यां वा पूर्णिमायां वरुणप्रघासानुष्ठानं कुर्यात् । आषाढ्यामेवेति कात्यायनः । तत्र- ६. ऐन्द्राग्नः सौम्यः ७. मारुतः ३. सावित्रः ८. वारुणः ४. सारस्वतः ९. कायः इति नव यागाः । उत्तरतो दक्षिणतश्चेति वेदिद्वयम् । गार्हपत्यो दक्षिणाग्निश्चैक एव । आहवनीयौ परं द्वौ तत्तद्वेद्यग्रभागयोः । दक्षिणस्यां वेदो सप्तमो यागः प्रति- प्रस्थात्र अनुष्ठीयते । अन्ये सर्वे यागा उत्तरस्यां वेद्यामध्वर्युणा कर्तव्याः । अङ्गानि तूभयत्र अनुष्ठातव्यानि प्रयाजादीनि । उत्तरस्यां समन्त्रकाणि, दक्षिणस्याममन्त्रकाणीति विशेषः । अतोऽत्र वरुणप्रघासेषु दक्षिणविहारार्थ प्रतिप्रस्थाता एकोऽधिक ऋत्विक् । तदर्थं पात्राण्यपि जुह्वादीनि पृथक् निर्मातव्यानि । तानि सुवर्णनिर्मितानि शमीकाष्ठनिर्मितानि वा भवेयुः । आमिक्षार्थ वैश्वदेवपर्ववत् पूर्वस्मिन् दिन एव सायंदोहधर्मानुष्ठानपूर्वक दध्न आतञ्चनं कर्तव्यम् । यदि सद्यस्काला वरुणप्रघासा भवेयुः तदा पूर्णिमायाः प्रातरेव सर्वोऽपि व्यापारो भवेत् । लौकिकेन दधना आमिक्षो- त्पादनम् । तत्र वेदिनिर्माणकाले दक्षिणत उत्तरतश्चेति गार्हपत्यस्याग्रे वेदिद्वयं निर्मायोत्तरस्यां वेद्याम् अन्तरे वोत्तरवेदि तन्मध्ये नामि च निर्माय गार्हपत्यादग्नि प्रणीयोभयत्र वेद्योरग्निद्वयं निदध्यात् । तत्रोत्तरत्राध्वर्युः दक्षिणतः प्रतिप्रस्थाता च सर्वं कुर्याताम् । ततश्वरुपुरोडाशार्थं व्रीहीन् निरुप्य अवघातादिकं कृत्वा चर्वर्थान् पुरोडाशार्थाश्च तान् पृथक्कृत्य पेषणश्रपणादिकं यावदध्वर्युः कुर्यात् ॥
४८ यज्ञतत्त्वप्रकाशे तस्मिन्नेव समये प्रतिप्रस्थाता करम्भपात्रार्थ यवान् निरुप्य अतप्तानेव तानवहत्य पिष्वा पिष्टानि पत्नीहस्ते दद्यात् । सा तानि जलेन संयुत्य गृहकर्मोपयुक्तपात्रसदृशानि अल्पकायानि पात्राणि कुर्यात् । तानि च सङ्ख्यया यजमानगृहगतजनसङ्ख्याया एकाधिकानि भवेयुः । तेषु च शमीपत्रमिश्राणि खजूरफलानि निक्षिप्य रूपै तानि स्थापयेत् । तदानीमेव तैरेव पिष्टैः मेषमध्वर्युः, मेषी प्रतिप्रस्थाता च कुर्याताम् । मेषौ स्थाल्यां पचेयुः । ततः पूर्वोत्पादितायाम् उत्तरामिक्षायां मेषं दक्षिणा- मिक्षायां मेषीं चावधाय शमीपत्रकरीराणि प्रास्य तौ वेद्योर्निक्षिपेत् ॥ ते तत उभावपि अध्वर्युप्रतिप्रस्थातारौ पृथक् पृथगग्नि मथित्वा आहवनीययोः प्रक्षिपतः । ततोऽध्वर्युः यजमानपत्नी पृच्छति-पत्नि! कति जाराः' इति । यदि जाराः स्युः तदा सा तान्नामा निर्दिशेत् । यदि निर्दिशेत् तदा सा व्यभिचारदोषान्मुक्ता भवेत् । यदि सतो न निर्दिशेत् तदा आत्मबन्धुभिः पतिपुत्रादिभिर्वियुक्ता भवेत् । ततः शूर्प करम्भपात्रपूर्णमादय यजमानः पत्नी च दक्षिणविहारगतस्याग्नेः पूर्वदेशं गत्वा पश्चिमाभिमुखौ तिष्ठन्तौ शू शिरसि निधाय तथैव जुहुनः शूर्पण जुहूस्थानीयेन । ततः शूर्पमन्यत्र त्यजेताम् । ततोऽध्वर्युराग्नेयादीनन्द्राग्नपर्यन्तान् यागानव- दानप्रेषणाश्रावणाधनुष्ठानपूर्वकं यथावदनुष्ठाय विरमेत् । ततः प्रतिप्रस्थाता मेषीसहितामिक्षायागम् अवदानाद्यनुष्ठाय दैक्षिणेऽग्नौ कुर्यात् । अथैव. मेवाध्वर्युरुत्तरस्मिन्नग्नौ मेषयुतामिक्षयागं कुर्यात् । ततोऽन्तिमं कदेवताकं यागमेककपालधर्मेणानुतिष्ठेत् । तत्र-अग्निः, सोमः, सविता, सरस्वती, पूषा, इन्द्राग्नी, मरुतः, वरुणः, क इति क्रमेण देवताः। ततः कायपुरोडा- शममितो मासनामभिश्चतुर्भिः नम; नभस्यः, इषः, ऊज इत्येवंरूपैः हुत्वा स्विष्टकृदिडाभक्षणानूयाजादिकं यथावदनुष्ठाय वाजिनेज्यामपि विधाय, अन्तेऽवभृथेष्टिं क्वचिजले कृत्वा तत्रैवावभृथस्नानं कुर्यात् । अत्रावभृथस्य सङ्कुचितं रूपम्, विस्तृतं सोमयाग एवेति तत्रैव स विशेषतो निरूप्यते । ततोऽवभृथादेत्य यजमानः प्रकृतीष्टिं कृत्वा वैश्वदेववत् वपनं कारयेत् । नियमांश्च धारयेत् ॥ ॥ इति वरुणप्रघासाः ॥ १. दक्षिणभागस्थिताया वेद्या अग्रभागस्थ आहवनीयोऽग्निरत्राभिप्रेतः ।
४९ चातुर्मास्यनिरूपणम् साकमेधपर्व अथ तृतीयं साकमेधपर्व । दिनद्वयानुष्ठेयमिदम् । चत्वारि कर्माण्यत्र-अनीकवत्यादय इष्टयः, महाहवींषि, पितृयज्ञः, त्र्यम्बकहवीं- पीति । तत्र कार्तिक्यां मार्गशीष्या वा चतुर्दश्यां शुक्लायां प्रातरग्निहोत्रं हुत्वा सङ्कल्प्य तदैव अनीकवतीष्टिः । अष्टाकपालः पुरोडाशो द्रव्यम् । अग्निरनीकवान् देवता । तत्र सूर्योदयात् पूर्व कर्मारभ्य सूर्योदयकाल एव यथा हविर्निपिस्सम्भवेत् तथानुष्ठेयम् । ततो मध्यन्दिने सान्तपनीष्टिः । तत्र चरुर्द्रव्यम् । मरुतस्सान्तपना देवताः। तस्मिन्नेव दिने सायं गृहमेधीयेष्टिः । तत्र दुग्धपक्कश्वरुर्द्रव्यम् । स यजमानस्य यावत्यो गावः सन्ति सर्वास्ता दुग्ध्वा सर्वस्मिंस्तस्मिन् पयसि पक्को गृहजनपर्याप्तौदनरूपो भवेत् । मरुतो गृहमेधिनो देवताः। न अत्र आघारप्रयाजानूयाजसामिधेनीप्रभृतीनामङ्गाना- मनुष्ठानम् । केवलमाज्यभागौ हविस्संपादननान्तरीयकाण्यवघातादीनि कर्माणि स्विष्टकृयागं चानुतिष्ठेत् । हुतावशिष्टमोदनं यजमानस्य गृहिणः सर्वे समेत्य भक्षयेयुः । भोजनमिदं चतुर्दश्यां रात्रौ भवति । ततो द्वितीयदिन उषसः प्रादुर्भावसमये उत्थाय स्नात्वा यजमानगृहस्थमृषभ तन्नाम सङ्कीर्त्य आह्वयेत् । तच्छ्रुत्वा तस्मिन् प्रतिशब्दायमाने सति पौर्णदाख्यं होममग्निहोत्रहोमात्पूर्वमनुष्ठाय क्रीडिनेष्टिं कुर्यात् । सा द्वितीयदिनसूर्योदयकालेऽनुष्ठेया । तत्र सप्तकपालः पुरोडाशो द्रव्यम् । मरुतः क्रीडिनो देवताः । मरुतः स्वतवत्यो वा । अन्यत्सर्वं यथावत् ॥ महाहवींषि (साकमेधान्तर्गतानि) ततो महाहवींषि । तत्राष्टौ यागाः । आग्नेयादिपञ्चकं वैश्वदेववत् । तत ऐन्द्राग्नः, ऐन्द्रः, वैश्वकर्मणश्चेति त्रयः । देवता आग्नेयादिषु पञ्चसु वैश्वदेववत् । तत इन्द्राग्नी, इन्द्रः, विश्वकर्मा च । द्रव्याणि स्पष्टानि । अत्रापि वरुणप्रघासवत् वेदिमध्ये प्राग्देशे उत्तरवेदि कृत्वा गार्हपत्यादग्नि प्रणीय आहवनीयकरणम् , अग्नि मथित्वा आहवनीये प्रक्षेपश्च भवति । तत आघाराज्यभागप्रयाजानिष्ट्वा, अष्टानां प्रधानानामनुष्ठानं स्विष्टकृदि- आपस्तम्बिना बोधायनीयानामेव च गार्हपत्यात् प्रणयनमत्र विहितम् । अन्यशाखीयानां पशुबन्धवदाहवनीयादेव प्रणयनं विहितम् । एवमेव वरुणप्रघास- पर्वण्यपि उत्तरस्यां वेद्यामग्निप्रणयनं बोध्यम् । १. 7 यज्ञतत्त्वप्रकाशे डाभक्षणानूयाजादिकरणं च वैश्वदेववदेव । वैश्वकर्मणस्यैककपालस्यानुष्ठान- काले मार्गशीर्षादिफाल्गुनान्तानि सह', सहस्यः, तपः, तपस्य इत्येवं- रूपाणि मासनामानि तमभिजुहुयात् । एतावता महाहविस्समाप्तिः ।। महापितृयज्ञः तदानीमेव महापितृयज्ञ आरब्धव्यः । अयं च पूर्वनिरूपितात् दर्शकालानुष्ठेयपिण्डपितृयज्ञात भिन्नः । अयं साकमेधपर्वान्तर्गतः । अस्य वेदिरन्यप्रकारैव । साप्युपरिष्टान्निकृष्टा । तां निर्माय दक्षिणाग्नेरग्निं गृहीत्वा तं वेदिमध्ये स्थापयित्वा तत्रैव आहवनीयकर्तव्यानि सर्वकर्माणि कुर्यात् पितृयज्ञसंबन्धीनि । पितृयज्ञे च हविस्त्रयम्-पटकपालः पुरोडाशः, धानाः (भ्रष्टयवाः), मृतवत्साया गोः पयसा मिश्रितानि भर्जितयवचूर्णानि चेति । सोमः पितृमान् , पितरो बर्हिषदः, पितरोऽग्निष्वात्ता इति क्रमेण देवताः। एतेषां हविषां निष्पादनार्थ यवान्निरुप्य, अवहत्य, फलीकृत्य, धानार्थान् मन्थार्थांश्च यवान् पृथग्विभज्य अवशिष्टान् पिष्वा दक्षिणानिसमीपे षण्णां कपालानामुपरि पुरोडाशं श्रपयेत् ॥ पृथक्कृतान् यवान् मर्जयित्वा, अध धानार्थम् अवशिष्य अर्ध पिष्ट्वा मन्थं कुर्यात् । मृतवत्साया गोः पयसि यवचूर्णानि प्रक्षिप्य इक्षुकाण्डेन मथित्वा मन्थं सम्पादयेत् । ततो वेद्यां सर्वाणि हवींष्यासाद्य तद्दक्षिणतः कशिपूपबहपाञ्जनाभ्यञ्जनोदकुम्भान् पिण्डपितृयज्ञवदासाद्य चतुर्थप्रयाजवर्ज चतुरः प्रयाजानिष्ठा प्राचीना- वीतिनः परिश्रितां वेदिं परिक्रम्य प्रधानहविर्यः सकृत्सकृदवदाय तत्तद्देवतायै आश्रावणादिकमनुष्ठाय हविः त्यजेयुः । अत्र “आ स्वधा" इत्याश्रावणम् । “अस्तु स्वधा" इति प्रत्याश्रावणम् । “सोमं पितृमन्तं यज" इति श्रेषः। “ये यजामहे" इति स्थाने "ये स्वधामहे" इति “वौ३ षट्" इति स्थाने "स्व३ धा नमः" इति च पठेत् । अत्र द्वे द्वे पुरोऽनुवाक्ये, एकैका च याज्या भवन्ति । अग्निः कव्यवाहनः स्विष्टकद्देवता । प्रधानयागेऽपि द्रव्याणां सकृत्सकृदेव अवदानम् । शेषभक्षणं केवलमवघ्राणरूपमेव । ततो यजमानः वेदि त्रिः अप्रदक्षिणं परिषिच्य हविश्शेषेण पिण्डवयं कृत्वा, वेद्याः पूर्वपश्चिमदक्षिणकोणेषु पितृपितामहप्रपितामहेभ्यः तान् पिण्डान् ततः १. काशप्वादयः पिण्डपितृयशे व्याख्याताः । See Page २६, under पात्राणि ।
शुनासीरीयपर्व निधाय, उत्तरस्मिन् वेदिकोणे हस्तलिप्तं निमृज्य, पितृन् , गार्हपत्यं चोपस्थाय शय्योपबहणवस्त्राञ्जनादीनि पूर्वोपकल्पितानि पितृभ्यो यथावत् दत्त्वा प्राचीनावीतानि विस्रस्य यज्ञोपवीतानि कृत्वा पूर्ववैपरीत्येन वेदि परिक्रम्य परिश्रयणप्रपास्य प्रथमवर्जितावनूयाजौ द्वाविष्ट्वा निवीतं कृत्वा सूक्तवाकादि सर्व समापयेयुः समिष्टयजु.पत्नीसंयाजवर्जम् । एतावता पितृयज्ञसमाप्तिः ॥ त्र्यम्बकहवींषि अथ त्र्यम्बकहवींषि । तत्र यजमानगृहावस्थितस्त्रीपुरुषसङ्ख्यापेक्षया एकाधिकसङ्ख्याकान् एककपालान् पुरोडाशान् तूष्णीमेव अपयित्वा तान् मूते कृता दक्षिणा मेरेकमङ्गारमादाय मूतगतैः पुरोडाशैः उल्मुकेन (अङ्गारेण) सह ईशानदिशं गत्वा तत्रैकं पुरोडाशं मूषिकोत्खातपांसुषु प्रक्षिप्य ततः चतुष्पथं गत्वा तत्र तमङ्गार निधाय संवर्ध्य सर्वेभ्यः पुरोडाशेभ्यः सकृत्सकृदवदाय रुद्राय हुत्वा तमग्निं त्रिः परिक्रम्य हुतावशिष्टान् पुरोडाशानूर्ध्वमाकाशे उत्क्षिप्य पततस्तान् गृहीत्वा यजमान- हस्ते दत्तांस्तान् पुनर्मूते निक्षिप्य बद्ध्वा शुष्के कस्यचिवृक्षस्य स्थाणा- वाचनीयात् । क्वचिद्वल्मीकच्छिद्रे वा निधानम् । ततः परितो मूतमवस्राव्य प्रत्यावृत्त्यानवेक्षमाणा गृहमागच्छेयुः । आगत्य च अदितिदेवताकं यागं घृतश्रपितचरुणा कुर्यात् ॥ ॥ समाप्तं साकमेधपर्ष ॥ शुनासीरीयपर्व ततः शुनासीरीयं पर्व । साकमेधसमाप्त्यनन्तरं द्वयोः त्रिषु चतुर्यु वा दिनेषु मासे वाप्यतोते शुनासीरीयानुष्ठानं कर्तव्यम् । चतुर्पु वा मासेष्वतीतेषु फाल्गुन्यामेव कुर्यात् । तत्र आग्नेयादयः पञ्च वैश्वदेव- वद्यागाः । तत ऐन्द्रामः, वैश्वदेवः, शुनासीरीयः, वायव्यः, सौर्यश्चेत्यधिकाः पञ्च । तेषु इन्द्रामी, विश्वे देवाः, इन्द्रः शुनासीरः, वायुः, सूर्यश्च देवताः । द्रव्याणि पुरोडाशः, चरुः, पयश्च । चर्वाद्यर्थं पूर्ववदेव निर्वापरोक्षणा- वघातपेषणश्रपणादयः । पयसः कृते वत्सापाकरणदोहनादिकं प्रातर्दोह- वदेव । नव प्रयाजाः नव चानूयाजाः । अन्यत्सर्व पर्वान्तरवदेव । पर ५२ यज्ञतत्त्वप्रकाशे नात्र मासनामभिर्होमः चैत्रान्तर्गतैः । किं तु संसांख्येन अधिकमासनाना एककपालमभिजुहुयात् । इन्द्र एव शुनासीरपदवाच्य इत्यापस्तम्बादयः । कात्यायनस्तु, शुन इन्द्रः, सीरः वायुः, इति व्याख्याय शुनासीरीयं द्विदेवताकमिति कथयति । वरुणप्रघासपर्वण्येव अवभृथः ; न पर्वान्तरेषु । अग्निप्रणयनमुत्तरवेदिश्च मध्यमयोर्वरुणप्रघाससाकमेधयोरेव ; न आद्यन्तयोः। केचित् चतुर्वपि पर्वस्वग्निप्रणयनं कुर्वन्ति । अरणिमन्थनम् , मथितस्य च आहवनीये प्रक्षेपः पर्वचतुष्टयेऽप्यस्ति ।। चातुर्मास्यानुष्ठाने विशेषाः नित्यानामपि चातुर्मास्यानां पक्षद्वयमस्ति -उत्सर्गपक्षः, अनुत्सर्ग- पक्षश्चेति । सकृत्कृत्वोपरम उत्सर्गपक्षः । प्रथमप्रयोग परिसमाप्य पुनस्तान्यारभ्य पूर्ववदनुष्ठानं पञ्च संवत्सरं यावत् ततोऽप्यधिकं वेति सोऽयमनुत्सर्गपक्षः । सोमेन यक्ष्यमाण उत्सर्गपक्षमेव आश्रयेत् ॥ इमानि चातुर्मास्यानि त्रिप्रकाराणि भवन्ति-ऐष्टिकानि, पाशुकानि, सौमिकानि चेति । इदानीं निरूपितान्यैष्टिकानि । पाशुकानि पशुद्रव्य- काणि । देवतास्तु ता एव । तेषामनुष्ठानं परं पशुयागविधानेन । एवं सौमिकेषु सोमरस एव द्रव्यम् । देवतास्तु ता एव । सोमयागविधिना च दीक्षोपसत्प्रवाद्यनुष्ठानपूर्वकमनुष्ठेयानि ।। तत्र ऐष्टिकेषु संवत्सरानुष्ठानपक्षेण सह पञ्चाहानुष्ठानपक्ष एक- दिनानुष्ठानपक्षश्व बौधायनादिभिरुक्तः। स यथा-प्रथमदिने वैश्वदेवपर्व द्वितीयदिने वरुणप्रघासपर्व । तृतीयचतुर्थदिनयोः द्वयोः साकमेधपर्व । पञ्चमदिने शुनासीरीयमिति । अयं पञ्चाहःपक्षः । चत्वार्यप्येतानि पर्वाण्येकस्मिन्नेव दिने यदा अनुष्ठीयन्ते स एकाहपक्षः । तत्राति तान्येव हवींषि । ता एव च देवताः । परं तु सर्वेषां प्रधानानां पौर्णमासी- कालानुष्ठेयत्वात् तत्तदङ्गानां सम्भवतां तन्त्रेण अनुष्ठानम् । असम्भवतां त्वावृत्तिः । अङ्गानां परस्परविरोधे वारुगाघासिकान्येव तान्यनुष्ठेयानि ॥ पाशुकचातुर्मास्येषु नैकैकस्य प्रधानहविषः स्थाने एकैकं पशुद्रव्यम् , किं वेकैकस्मिन् पर्वण्यकैकः । तत्र वैश्वदेवपर्वणि विश्वदेवदेवताक एकः पशुः । वरुणप्रघासे वरुणदेवताक एकः। साकमेधे महेन्द्रदेवताक एकः पशुः। शुनासीरीये शुनासीरदेवताक एकः । इतपणि हवींषि तेषु तेषु पर्वसु आग्रयणेष्टिः तानि तान्येव । तत्र पशुयागं पर्वणोऽन्ते आदौ वा पृथक् साङ्गमनुष्ठाय ततस्समानतन्त्रेणेष्टीनाम् अनुष्ठानमित्येकः पक्षः । पशुतन्त्रमध्य एवेष्टीना- मप्येकतन्त्रेण अनुष्ठानमित्यपरः पक्षः । अस्मिन् पक्षे पश्चङ्गानामेवैकादश- प्रयाजादीनामनुष्ठानम् , नैष्टिकाङ्गानां नवप्रयाजादीनाम् ।। सौमिकचातुर्मास्येषु वैश्वदेवपर्वस्थाने अग्निष्टोमसंस्थाकस्सोमयागः। वरुणप्रघासपर्व दिनद्वयानुष्ठेयम् । तत्र प्रथमदिनेऽग्निष्टोमसंस्थाक उक्थ्य- संस्थाको वा सोमयागः । द्वितीयदिने उक्थ्यसंस्थाकः । साकमेधपर्व दिनत्रयानुष्ठेयम् । तत्र प्रथममहरग्निष्टोमसंस्थाकम् । द्वितीयदिने उक्थ्य- संस्थस्सोमयागः । तृतीयदिनेऽतिरात्रसंस्थाकः । शुनासीरीये पर्वणि ज्योतिष्टोम इति विवेकः । सप्तसु दिनेषु सवनीयपशुयागा अप्यङ्गतया अनुष्ठेयाः । तेषु-विश्वे देवाः, वरुणः, मरुतः, अग्नि, इन्द्राग्नी, ऐकाद- शिनदेवताः, वायुरिति क्रमेण देवताः । एकैकस्य पर्वणस्समाप्ताववभृथेष्टिः प्रथक् पृथगिति ॥ ॥ इति चातुर्मास्यानि ॥ आग्रयणेष्टिः अथाग्रयणेष्टिरुच्यते-सा च कालद्वये शरहतौ वसन्तौ चानुष्ठेया। तावेव नवान्नोत्पत्तिकालाविति कृत्वा कालद्वयेऽपि नवान्नोत्पत्तावेवेय- मनुष्ठेया । अत एव "नवान्नेष्टिः" इत्यस्याः संज्ञा । एवं च शरदि व्रीहिकाले व्रीहिभिनवैः वसन्ते यवै वैश्व अनुष्ठेया । नवैः श्यामाकैरपि यष्टव्यत्वेनेयं विहिता । ते च वर्षासूत्पद्यन्ते । अतश्च वर्षासु श्यामाकैनवैः शरदि च नवीहिभिः, वसन्ते नवैर्यवैश्च कर्तव्या । ब्रीह्या- ग्रयणश्यामाकाग्रयणयोस्समानतन्त्रेणाप्यनुष्ठानं सूत्रकारैरुक्तम् । तथानुष्ठाने बीयत्पत्त्यनन्तरं शरद्येव सा अनुष्ठेयेति बोध्यम् । तत्राप्यमायां पूर्णिमायां वा । पुण्यनक्षत्रादयोऽपि सूत्रान्तरेषूक्ताः । तत्र शरधनुष्ठेये व्रीह्याग्रयणे चत्वारि हवींषि-पुरोडाशोऽष्टाकपालः पुराणै हिभिः कृतः, पुरोडाशो द्वादशकपालो नवव्रीहीणाम् , चरुनवत्रीहीणामेव, द्यावापृथिव्य एक- कपालो नववीहीणामेव । अत्र-अग्निः, इन्द्राग्नी, विश्वे देवाः, धावा- पृथिव्यौ इति क्रमेण देवताः । श्यामाकाग्रयणस्य सहानुष्ठानपक्षे श्यामाकाः नवाः द्व्यम् । तैश्वरुनिष्पाधः । सोमो देवता । पृथगनुष्ठानपक्षे
यज्ञतत्त्वप्रकाशे
वर्षौ केवलेन नवश्यामाकनिष्पादितचरुणा यजेत । सोम एव देवता ।
एवं वसन्ते यवाग्रयणं कर्तव्यम् । तत्र पुराणानां यवानामुपयोगो नास्ति ।
ऐन्द्रामवैश्वदेवद्यावापृथिवीयरूपाणि त्रीण्येव नवयवनिष्पादितानि हवींषि ।
इयन्तो विशेषाः । अन्यत्सर्वं प्रकृतिवत् । साक्षात्प्रतिनिधिरूपेण वा
आग्रयणं कृत्वैव नवान्नमश्नीयादाहिताग्निः ।।
॥ इत्याग्रयणेष्टिः ॥
इति महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-श्रीचिन्नास्वामिशास्त्रि-
विरचिते यज्ञतत्त्वप्रकाशे हविर्यज्ञनिरूपणाख्यः
प्रथमो भागः ॥
.
॥ श्रीः ॥ ॥ श्रीगणेशाय नमः ।। ॥ यज्ञतत्त्वप्रकाशः ॥ महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः सोमयज्ञनिरूपणरूपो ॥ द्वितीयो भागः ॥ सोमयागनिरूपणम् इदमिदानी सोमयागस्वरूपं निरूपयितुमारभ्यते । सोमयागः चतुष्प्रकारः--एकाहः, अहीनः, सायस्कः, सत्रं चेति । एका, तिस्रः, चतस्रः, द्वादश, अपरिमिता वा दीक्षाः सोमयागे भवन्ति । एकस्मिन् दिने कर्तव्यतया विहिता नियमा यथावदनुष्ठिना एका दीक्षा । ततो यावद्वारं दिनान्तरेष्वभ्यस्तास्तावत्सङ्ख्याका दीक्षा भवन्ति । ततो दिनत्रये, षट्सु, द्वादशसु वा दिनेषु उपसदोऽनुष्ठेयाः । तत्र एकाहज्योतिष्टोमादौ तिस्रः, चयने षट् , अहीनादौ द्वादशोपसद इति विवेकः । तत्र दीक्षोपसदा- मनेकदिनानुष्ठेयत्वेऽपि एकस्मिन्नेव दिने सोमयागानुष्ठानं यत्र स एकाहः। सोमयागस्य द्विवादिषु दिनेषु पुनः पुनरावृत्य अनुष्ठानं यत्र सोऽहीनः । तत्र द्विरात्रप्रभृति दशरात्रपर्यन्ता अहीनाः । एकादशद्वादशरात्रावुभावहीन- सत्रोभयात्मकौ । द्वादशरात्रस्यैव उभयात्मकता केचिदभिप्रयन्ति । त्रयोदशरात्रप्रभृतयः सहस्त्रसंवत्सरपर्यन्ताः सोमयागाः सत्राण्युच्यन्ते । एकस्मिन्नेव दिने सङ्कल्पप्रभृयवभृथान्तमनुष्ठानं यस्य स सायस्क इत्युच्यते ॥ सत्राण्यपि द्विविधानि-रात्रिसत्राणि अयनसत्राणि चेति । तत्र द्वादशरात्रप्रभृति शतरात्रपर्यन्तानि रात्रिसत्राणि । ततः प्रभृत्ययनसत्राणि इति सामान्यस्वरूपम् । इदानीं सर्वसोमयागप्रकृतिभूतस्य अग्निष्टोमाख्यस्यैका- हस्य सर्वसोमयागेभ्यः पूर्वमनुष्ठेयस्य अनुष्ठानप्रकारः संक्षेपतो निरूप्यते । तस्य आरम्भे पक्षद्वयम्-यस्य अनाहिताग्नेः सोमयागानुष्ठाने तीवेच्छोदिता ५६ यज्ञतत्त्वप्रकाशे स वसन्ततौं सोमयागोचितं कालं निर्धार्य ततः पूर्वस्यां सप्तम्यामष्टम्यां दशम्यां वा दीक्षापक्षानुसारेण सङ्कल्प्य अग्न्याधानार्थम् , अग्न्याधान- विधिना अग्नीनाधाय समनन्तरमेव सोमयागार्थ सङ्कल्प्य तं यथावदनुतिष्ठेत् इत्येकः पक्षः । न अत्र पक्षे आधानोक्तकालापेक्षा । अथ वा आधानार्थ विहित काले यथावदग्नीनाधाय, ततोऽग्निहोत्रदर्शपूर्णमासपशुचातुर्मास्या- दीन् यागान् यथाकालमनुतिष्ठन् , लब्धायां सामग्रीसम्पत्तौ वसन्ततौं सोमयागमनुतिष्ठेत् इत्यपरः पक्षः । द्वावपि सूत्राद्यक्तौ याज्ञिकैरङ्गीकृतौ च । अतो यथेष्टं तौ परिग्राह्यौ । तत्र पक्षायेऽपि सोमयागानुष्ठाने न कोऽपि विशेषः ॥ सोमयागेऽधिकारी तत्र यो नाम कूश्माण्डैः पवित्रेष्टयादिभिः जौः पुण्यतीर्थस्नाना- दिभिर्वा पावनैः कर्मभिरात्मानं शोधयतिस्म, निर्वैरश्च भवति भूतेषु स एवं सोमयागानुष्ठानेऽधिकारी भवति । तत्रापि यस्य पिता पितामहो वा सोमयागं नान्वतिष्ठताम् , सोऽनहस्सोमयागानुष्ठाने त्रिपुरुषसोमपान- विच्छेदीति कृत्वा । एवं यस्य पिता पितामहो वा न वेदाध्यायी, न वा हविर्यज्ञान् श्रौतानन्वतिष्ठत् स दुर्ब्राह्मण इति सोऽपि न सोमयागेऽधि- करोति । अतस्तादृशदोषद्वयापनुत्तये ऐन्द्राग्नपशुयागम् , आश्चिनपशुयागं च अनुष्ठाय ततस्सोमयागमनुतिष्ठेत् । तत्र आत्मना सह त्रिपुरुषसोमपानाभावे ऐन्द्रामपशुयागोऽनुष्ठेय इति कात्यायनमतम् । आत्मानं मुक्त्वा पूर्वेषां त्रयाणाम् आनुपूर्येण तथात्वे स इत्यापस्तम्बीयाः । एवं वेद्याः वेदस्य च त्रिपुरुषविच्छेद एव आश्विनः पशुः । तत्रोभयमप्यनुष्ठेयमित्यापस्तम्बीयाः। अन्यतरस्यैव अनुष्ठानमिति कातीयाः ।। पशुयागद्वयमिदं सोमयागात् पूर्वमेव अनुष्ठाय, तेन च आत्मानं परिशोध्य, ततस्सोमार्थ सङ्कल्पेत इत्येकः पक्षः । अथ वा सोममध्य एव चतुर्थदिनेऽनुष्ठीयमानेन अग्नीषोमीयेण पशुयागेन सह तन्त्रेण अनुष्ठानमि- त्यपरः । पृथगनुष्ठानपक्षे सोमयागारम्भात् पूर्वतनपर्वण्येव पशुयागानु. ष्ठानमिति वेदितव्यम् ॥ १. तैत्तिरीयारण्यके पठिताः “यद्देवा देवहेडनम् " (तै. आ. २. २.) इत्यादयो मन्त्राः कुश्माण्डाः । तैः क्रियमाणा होमा अपि कुश्माण्डा इत्युच्यन्ते ॥
सोमयागनिरूपणम् नाम्नि प्रवृत्तिनिमित्तम् अत्र बहूनामिष्टिपशूनां सत्यप्यनुष्टाने तेषामङ्गत्वात् सोमद्रव्यक- यागस्यैव प्राधान्यात् “सोमयागः" इति व्यवहारः। अग्निष्टोमाख्येन साना समाप्यमानत्वाच “अग्निष्टोमः" इति प्रकृतयागो व्यवहियते । सोमयागो हि ऋग्यजुस्सामवेदोक्तैः त्रिप्रकारैः अङ्गकलापैः संवलितोऽनुष्ठीयते । तत्र यजुर्वेदनैव समधिकतमान्यङ्गानि प्रायो यज्ञशरीराभिनिर्वर्तकाणि विधीयन्ते। ऋग्वेदेन विविधयाज्यापुरोनुवाक्याशस्त्र पुरोरुगादीनि । सामवेदेन च गानविशिष्टैमन्त्रैः क्रियमाणानि यागसम्बन्धिदेवतास्तोत्राणि । तानि च प्रतिसोमयागं बहून्यनुष्ठयतया विधीयन्ते । अग्निष्टोमाख्ये सर्वयागप्रकृति- भूतेऽस्मिन् सोमयागे द्वादश स्तोत्राणि । तान्युपरिष्टावक्ष्यन्ते । तत्र अग्निष्टोमाख्यमन्तिमं स्तोत्रम् । न ततः परं स्तोत्रमस्ति स्तवनीयमस्मिन् यज्ञे । अतोऽग्निष्टोमाख्येन स्तोत्रेण समाप्यमानत्वादयं क्रतुः “अग्निष्टोम- संस्थाकः” इति “अग्निष्टोमः" इति च व्यवहियते । एवमग्रेऽपि सोमयागानां नामानि तत्तत्समाप्तिगतस्तोत्रवशेनैव भवन्ति । यथा उक्थ्यः, अतिरान इत्यादीनि । अनुष्ठातृनामभिः, द्रष्टुनामभिश्च केचित् कचित् व्यवहारं भजन्त उपरितनेषु तुषु । यथा--अङ्गिरसां द्विरात्रम् , जनकसप्तरात्रम् , कुण्डपायिनामयनम् इत्यादि ।। , सोऽयं सोमयागो नित्यः प्रतिवसन्तं त्रैवर्णिकेन आहितामिना पूर्वोक्ताधिकारिविशेषणयुक्तेन सपत्नीकेन अवश्यानुष्ठेयः । अकरणे प्रत्यवायो भवति । नित्यस्य सतोऽस्य काम्यत्वमपि तत्तत्फलसाधनत्वेन श्रूयते वेदेषु सर्वत्र, श्रौतसूत्रेषु च । अत्र द्रव्यं काचिल्ला । तां विक्रेतुस्सकाशात् गवादिद्रव्येण मूल्यभूनेन क्रीत्वा अश्मनः उपरि निक्षिप्य अश्मभिरेव कुट्टयित्वा, रसं निष्कास्य तं तत्तदेवताभ्यो हुवा हुतशेषं यजमानसहिता ऋत्विजो भक्षयेयुः । नेयं सर्वत्र सुलभा । कचिदेव तु पवित्रतमे पर्वतादौ । हिमवति, महेन्द्रे, सह्यपर्वते, श्रीपर्वते, देवगिरी, विन्ध्ये, पारियात्रे, सिन्धु- सोमो लताविशेष:- श्यामलाम्ला च निष्पर्णा क्षीरिणी त्वचि मांसला ॥ श्लेष्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥ (इति वैद्यके) See. आप. श्री. १०. २. १: २. Co ५८ यज्ञतत्त्वप्रकाशे .. नदस्य कूलेषु, वितस्ताया नद्या उत्तरभागे स्थितेषु महापर्व तेषु, अन्येषु चैत्र- विधेषु पुण्यस्थलेष्वेवास्या उत्पत्तिः श्रूयते ; विशेषतो मूजवदाख्ये गिरौ च । परमिदानी नेयं भारतदेशे उपलभ्यते सर्वथा । प्रायेण जानन्यपि न तस्याः स्वरूपम् । तस्याः स्थाने पूतीकाख्यां काञ्चित् तत्सशी (क्रियता- चन अंशेन) लतामादाय तयैव सोमयागमनुतिष्ठन्त्यनुष्ठातारः । निरतिशयोऽस्य सोमस्य महिमोपवर्ण्यने वेदेषु, पुराणेषु च । पीतो मनुष्याणामपूर्वमायुर्घलं पुष्टिं मेघां सर्वातिशायिनीमात्मशक्तिं च विवर्धय- तीति, नवीनमेव किमपि जन्म समुत्पादयतीति चायुर्वेदादावु ष्यते । नास्ति देवानामिन्द्रस्य चेतोऽपि प्रियतम वस्तु त्रिलोक्यामिति श्रौतो वादः । दैवेन अमृतेनापि साकममुमुपमिमते महाभारतादयो ग्रन्थाः । अस्तु । प्रकृतमनुसरामः ॥ सोमयागे प्रथमदिनकृत्यम् सोमयागभिममनुष्ठास्यन् सपत्नीको यजमानो वासन्त्याः पूर्णिमायाः पूर्वस्याम् अष्टभ्यां (दीक्षाचतुष्टयपक्षे) नवम्याम् (दीक्षात्रयपक्षे) एकादश्यां (एकदीक्षापक्षे) वा सोमयागसङ्कल्पं करिष्यमाणः ततः पूर्व पर्याप्ते समये सोमप्रवाक वृत्वा तं तत्तदृस्विग्भ्यः प्रेषयेत् । स तानवाप्य यज्ञेश्वरशर्मणः सोमो भविष्यति, तत्रभवता आविज्यं कर्तव्यम्', 'हौत्रं कर्तव्यम्' इत्यादि कथयेत् । स च ऋत्विक् तत्र आविज्यं चिकीर्षन् आधानादिषु पूर्वानुष्ठितेषु कर्मसु “अस्य के ऋत्विजः ? के वा याजकाः ? कञ्चित्कल्याण्यो दक्षिणाः १" इति पृच्छेत् । समुचितमुत्तरं तस्मादवाप्य, स्वीकृत्य आविज्य- करणं यजमानगृहमागेतषु तेषु तान् यजमानो मधुपर्कदानेन यथावदर्च- यित्वा ये यत्र कुशलाः तस्मिन् तस्मिन् कर्मणि तान् वृणुयात् । 'अध्वर्यु त्वां वृणे', 'होतारं त्वां वृणे' इत्यादिः वरणप्रकारः । मधुपर्ककाले वनालङ्काराभरणादिभिः ते समर्चनीयाः । ते च चत्वारो गणाः । एकैकस्मिन् गणे चत्वारः, इत्याहत्य ते षोडश भवन्ति ॥ क. सोमयागं करिष्यता यजमानेन ऋत्विजां वरणार्थे तत्तत्समीपं यः प्रेष्यते स सोमप्रवाकः । सोमं प्रकर्षेण वक्ति ऋत्विग्भ्य इति । १. See. आप. श्री. १०. १. २, ३. ॥
सोमयागनिरूपणम् यथा- १. अवगुणः २.ब्रह्मगणः ३. होतृगणः ४. उद्गातृगणः १ अध्वर्युः। १ ब्रह्मा! १ होता। १ उद्गाता। २ प्रतिप्रस्थाता। २ ब्राह्मणाच्छंसी। २ मैत्रावरुणः। २ प्रस्तोता । ३ नेष्टा । ३ आग्नीध्रः। ३ अच्छावाकः। ३ प्रतिहता । ४ उन्नेता। ४ पोता। ४ ग्रावस्तुत् । ४ सुब्रह्मण्यः । एतदतिरिक्तं सदस्यनामकमृविज सप्तदशं कथयन्ति केचन सूत्रकाराः । एवमृविजो वृत्वा कर्मणो निर्विघ्नपरिसमाप्तये देवता उपस्थाय, गार्हपत्याग्निमरण्योः समारोप्य, तमग्निं शमयित्वा अरणी यज्ञसामग्रीश्च गृहीत्वा, गृहात् सोमयागार्थ पूर्वनिर्णीतं स्थानं सपत्नीको गत्वा, तत्र अरणी मथित्वा, पूर्व निर्मिते गार्हपत्यायतने मथनोत्पन्नमग्निं प्रतिष्ठापयेत् । ततोऽवयुराहवनीयं प्रणीय, तत्र संभारयजुस्संज्ञकान (एक) चतुर्विशतिसङ्ख्याकान् होमान् हुत्वा, तमग्निं विसृज्य, पुनर्गार्हपत्यात् प्रणीय, सप्तहोतृसंज्ञकं होमं कृत्वा, तमप्युत्सृज्य, पुनः तत एवाहवनीय- दक्षिणानी विहृत्य तत्र दीक्षणीयेष्टिं कुर्यात् । तत्र एकादशकपालः पुरोडाशो द्रव्यम् । अग्नाविष्णू देवता । पुरोडाशस्तु हिपिष्टैरे निष्पायः । तां परिसमाप्य तत्र प्राचीनवंशसंशिका विमितसंज्ञिकां वा शालां निर्माय तस्योत्तरभागे बहिरावृतदेशे यजमानो वपनं कारयित्वा स्थावरास्वप्सु तीर्थे स्नात्वा अध्वर्युणा दत्ते दुकूले वस्त्र परिदध्यात् । एवं यजमानपल्या अ केशवर्ज वपननखनिकृन्तनस्तानवस्त्रपरिधानानि भवन्ति । अत्र पन्या वपने विकल्पं केचिदिच्छन्ति । नखनिकृन्तनादिकं तु भवत्येव । ततो जायापती प्राग्वंशमण्डप एव स्वाभिरुचितं शास्त्रानिषिद्धं वस्त्वन्ना- दिकं भुञ्जीयाताम् । तत उभावपि स्वाङ्गानि नवनीतेन अतुलिम्पतः । अञ्जाते च स्वे अञ्जनेनाक्षिणी । ततोऽध्वर्युः दीक्षाहुतीः षट् हुत्वा शालाया उपरि आच्छादनधारणवंशा यस्मात् प्रागया एव, तत इयं क. संज्ञा। See. आप. श्री. १०. १. १०. २. See. कात्या श्री. ७. १. १४-१८. ३. See. कात्या. श्री. ७. २. १९.
६० यज्ञतत्त्वप्रकाशे यजमानाय कृष्णाजिनदयं दद्यात् । स तत् परिगृह्य, आहवनीयसमीपं गत्वा भूमौ तदास्तीर्य तदुपरि कटिप्रदेशेन आरुह्य, उपविश्य, मेखलां मुअतृणनिर्मिताम् अध्वर्युदत्तां कठ्यां बद्ध्वा, कृष्णमृगस्य शृङ्गं शरीरकण्डूयनार्थम् , उदुम्बरवृक्षीयं स्वसमपरिमाणमूर्ध्वतायां दण्डं च यजमानो गृहीत्वा धारयन्नासीत । यदा स्वाङ्गेषु कचित् कण्डूति येत तदा कृष्णमृगशृङ्गेणैव कण्डूयेत, न नखेन । एवं यजमानपत्न्याः शिरसि इपीकानिर्मितं जालं, कट्यां मुञ्जनिर्मितं योक्त्रं च बनीयात् । ततो यजमानो मुष्टिबन्धनं कुर्यात् । तत्र द्वयोर्हस्तयोः कनिष्ठिकातो यावदगु. ष्ठम् अगुलीर्मोटयेत् । ततो हस्तद्वयेऽपि कनिष्ठिकानामिके विसृजेत् । विसर्गस्तु व्रतग्रहणानन्तरमने कर्तव्यः । मुष्टिकरणानन्तरम् अध्वर्युर्यजमान दीक्षितं देवेभ्यो मनुष्येभ्यश्च आवेदयेत्-अदीक्षिष्ट अयं ब्राह्मणाऽमुकशर्मा अमुकस्य पुत्र इत्यादि । अत्र पितृपितामहप्रपितामहानां मातृपितामही- प्रपितामहीनां च नामानि वक्तव्यानि । एवं त्रिरुपांशु त्रिरुचैश्चावेदने अध्वर्युणा कृते यजमानो वानियमनं कृत्वा रात्रौ नक्षत्रोदयपर्यन्तं तथैवासीत । नक्षत्रोदयानन्तरं व्रतकरणप्रेषेणैव (व्रतं कृणुत) वाचं विसृजन् अध्वर्युणा पयसि दत्ते तत् पिबेत् । पत्न्यपि चैवं कुर्यात् । एवमेव प्रतिदिनमहनि रात्रौ च पय एव पिबेतां यजमानः पत्नी च । यदि पयो न लभ्यते पयसैव वा प्राणधारणं दुष्करं मन्याते तदा दधि, उदुम्बरफलानि, धानाः, सैक्तून् , ओदनमात्र वा भुञ्जीयाताम् ॥ ततो यज्ञोपयोगिद्रव्याजनाय याचकान् प्रेषयेत् । याच्नेयं धनिकस्यापि नित्या । आगतानि द्रव्याणि तत्तन्मन्त्रेण गृह्णीयात् । एतावता प्रथमदिनकृत्यं समाप्यते । यजमानस्तस्यां रात्री जागरण कुर्यात् । व्याकरणसंस्कृतैरेव शब्दैर्व्यवहरेत् , न लौकिकीं वाचं वदेत् । असच्छू नै सम्भाषेत । नास्य नाम कश्चित् ब्रूयात् । सुत्यादिने क. कृष्णवों हरिण: कृष्णमृगः । तस्य शृङ्गं विषाणम् । ख. पत्नीयजमानयोः पानार्थे पयःप्रदानमेव व्रतकरणमित्युच्यते । . २. See. आप. श्री. १०.८. ११-१६. See. १०. १६, १७, कण्डिके ; allso. तै. आरण्यक. २. आप. श्री. १०. १८. ४-७. बौधा. श्री. ६. ८. का. श्री, ५. ५.२,३.
सोमयागनिरूपणम् दक्षिणादानात् पूर्व न कृष्णविषाणं विसृजेत् । न दन्तान् दर्शयेत् । नोचैई सेत् । नानृतं वदेत् । न मांसमश्नीयात् । न स्त्रिय पेयात् । नोपरि खट्वादौ शयीत । न सन्ध्ययोः प्राग्वंशावहिर्गच्छेत् । यावद्दीक्षपग्निहोत्रदर्श- पूर्णमासादीनि श्रौतकर्माण्यपि नानुतिष्ठेत् । न अन्यस्मै किश्चिद्दद्यात् । दीक्षाव्यञ्जकानि कृष्णाजिनादीनि सर्वदा धारयेत् ।। ॥ एतावत् प्रथमदिनकृत्यम् ॥ द्वितीयदिनकृत्यम् ततो द्वितीयस्मिन् दिने आवश्यकं कर्म कृत्वा प्रातरेव प्रायणीयेष्टि कुर्यात् । तत्र पञ्च देवताः । पथ्या स्वस्तिः प्रथमा । अग्निद्वितीयः । सोमस्तृतीयः । सविता चतुर्थः । अदितिः पञ्चमी । तत्र पथ्यादीनां चतुर्णामाज्यं द्रव्यम् । अदितेरोदनः । आहवनीयेऽनौ तमोदनं पक्त्वा आहवनीय एव पूर्वादिषु चतसृष्वपि दिक्षु पथ्यादिभ्यः क्रमेण आज्यं हुत्वा मध्ये अदित्या ओदनं जुहुयात् । यस्मिन्नोदनः पक्क तत् पात्रमप्रक्षाल्यैव क्वचित् स्थापयेत् । तथैवोदयनीयेष्टिहविःपाकाथ तदुपयुखीत ॥ सोमक्रयः ततस्सोमक्रयः । तदर्थ यया गवा सोमं क्रेतुमिच्छति यजमानः तां सोमशकटसमीपं नीत्वा अवस्थाप्य, कुत्सितेन ब्राह्मणेन शूद्रेण वा शकटेऽवधाय आनीतं सोमं विचित्य अङ्गुलीभिर्यावदपेक्षं सोमं विमाय तं क्षौमवस्त्रे निक्षिप्य सोमविक्रयिणो हस्ते दत्त्वा तम् “सोमविक्रयिन् कय्यस्ते सोमः ?" इति पृष्ट्वा तेन 'क्रय्यः' इत्युक्ते क्रमेण तं दशभिर्द्रव्यैः क्रीणाति । तानि च- १. गौरेकहायनी अनज्ञान् शकटवाही २. हिरण्यम् ३. अजा ९. वत्सतरी ४-५. धेनुस्सवत्सा १०. वासः ६. ऋषमः इति दश। क. सोममध्यपतितानि तृणादीन्यपाकृत्य सोमस्य संशोधन विचयनम् । ख. सद्योऽतिकान्तबालभावः ऋषभो वत्सतरः । ७. वत्सतरः .१. See, आप. श्रा.१०.२५. बाधा. श्री.६.१५. कात्या. श्री. ७.८.
यज्ञतत्त्वप्रकाशे तत्र प्रथमक्रमे "गवा ते क्रीणानि" इत्यध्वर्युणोक्ते सोमविक्रयी "भूयो वा अतस्सोमो राजा अर्हति" इति प्रतिब्रूयात् । ततोऽध्वर्युः "हिरण्येन क्रीणानि" इत्यादि । एवं दशमद्रव्यपर्यन्तं प्रश्नपतिवचने भवतः। दशमद्रव्येण क्रये कृते न ततो भूयस आशंसनम् । विक्रीतं सोममध्वर्यु- हस्ते दत्वा क्रय द्रव्याण्यादाय सोमविक्रयी गच्छेत् । गच्छन्तं तं न विलोकयेत् । अत्र क्रयार्थ दत्तस्य हिरण्यस्य पुनर्ग्रहणम् , अन्यया गवा एकहायन्या निष्क्रयणं च सूत्रकारा आमनन्ति । ततः क्रीतं सोमं यजमानः स्वस्य दक्षिणस्मिन्नूगवासाद्य हस्ताभ्यां निगृह्य आसीत । ततस्तमादायोत्थाय हविर्धानशकटसमीपमानीय, तत्र तं निक्षिप्य, शकटेऽनड्डाहौ नियुज्य, ताभ्यां शकटं वाहयित्वा प्राग्वंशस्य अग्रतः यज्ञबाटमानाय्य सोमहविनशकटस्य दक्षिणं बलीवर्दै मोचयित्वा, सव्यमविमोच्चैव, आतिथ्येष्टिं कुर्यात् । तत्र विष्णुर्दैवता । नवकपालः पुरोडाशो द्रव्यम् । इष्टिरियं सोमस्य राज्ञ आतिथ्यस्थानीया । हविकृदाह्वानकाल एव द्वितीयस्य अनडुहो विमोचनं शकटात् । तदैव च सोमं राजानं शकटादवरोप्य, पूर्वसन्जितायाम् , आहवनीयसमीपेऽवस्था- पितायां राजासन्यां तमवस्थापयेत् । ततः इष्टिं तां परिसमाप्य परस्परमवैराय ऋत्विजो यजमानश्च पात्रस्थापिताज्यं स्पृष्ट्वा प्रतिज्ञा कुर्युः । तत् तानूनप्तनित्युच्यते । ततः प्रवर्यानुष्ठानम् ॥ प्रवर्यः प्रवर्य इति कर्मणो नामधेयम् । स च सोमयागाङ्गभूत एव । परं तैत्तिरीयसंहितायां ब्राह्मणे वा नास्य मन्त्रा ब्राह्मणानि वा आम्नायन्ते । तैत्तिरीयारण्यके परं चतुर्थपञ्चमयोः प्रश्नयोः क्रमेण मन्त्रा विधयश्चानाताः। काण्वमाध्यन्दिनयोः संहितयोः पत्रिंशादिषु त्रिवध्यायेषु मन्त्राः तच्छतपथयोः षोडशे त्रयोदशे च काण्डे विधयश्च यथाक्रममामाताः । एवं मैत्रायण्यादिष्वपि शाखासु स्वतन्त्रतयैव प्रवर्ग्यविधिमन्त्राः पठिताः । सूत्रकारा अपि प्रवर्यविधि सौमिकप्रयोगेऽनन्तर्भाव्यैव स्वतन्त्रतस्तं पठन्ति, तथापि सर्वे तस्य सोमयागाङ्गत्वमभिप्रयन्ति कचित् प्रयोग- राजा सोमः, तत्स्थापनाय या आसन्दी सा राजासन्दी। १. See. आर. श्री. १५. कात्या. श्री. २६. बोधा. श्री. ९.
सोमयागनिरूपणम् ६३ विशेषे विकल्पयन्तः । अनुष्ठातारः परं नियमेन सोमयागमध्य एवं अनुतिष्ठन्ति । अतोऽत्रैव तत्स्वरूपमपि निरूप्यते । तदपेक्षितानि पात्राणि साधनानि च पूर्वमेव सम्पादनीयानि ॥ प्रवर्यसम्भाराः तत्र प्रथमतो महावीराख्यपात्र निर्माणं कर्तव्यम् तत्प्रकारश्चेत्थम्- कस्यांचिदमावास्यायां पूर्णिमायां वा अभ्रिम् , अश्वं, कृष्णाजिनं, सवत्सामजां च गृहीत्वा यत्र महावीराय रयुक्ता मृदस्ति प्राच्यां दिशि तत्र गत्वा मृदं खात्वा, कृष्णाजिने न्युप्य, अश्वेन अवघ्राप्य, मृद उपरि आज पयो दुग्ध्वा, तां मृदं बहुभिराहार्य विहारस्योत्तरतोऽवस्थाप्य, तस्यां वराहोत्खातां मृदं, वल्मीकमृदं, पूनीकान् , अजलोमानि, कृष्णाजिन- लोमानि, अन्यानि च दृढीकरणार्थानि वस्तूनि संयोज्य पिष्ट्वा, उष्णजलेन संमिश्य, संयुत्य, तया मृदा त्रीन् महावीरान् कुर्यात् । ते च प्रादेश- मात्रो ः मध्ये स्थलत्रयसंगृहीताः, स्थलायोन्नताः उपरिबिलाः स्युः । एवं तयैव मृदा अवशिष्टया हस्त्योष्ठाकारे द्वे दोहनपात्रे, आज्यस्थालीम , अश्वौ द्वौ, रोहिणपुरोडाशार्थ द्वे कपाले च निर्मीय, तानि च सूक्ष्मवस्त्रादिभिः लक्षणीकृत्य, गार्हपत्यस्य, पुरस्तादवटं खात्वा, तानि तवेष्टकावत् पचेत् । पाका) अग्निं कुशैः मुअतृणैश्च आदीपयेत् । पक्केषु तेषु शफाभ्यां महावीरानुदास्य, भूयसा अजापयसा तान् प्रोक्षेत् । येनोज्ज्वला भवेयुर्महा- वीराः । इम एव प्रवर्यसंभाराः मार्तिकाः । वानस्पत्यास्तु उदुम्बरकाष्ठः कारयितव्याः । ते च-सम्राडासन्दी मौञ्जीभिस्स्यूता रज्जुभिः । द्वे सुचौ गर्तवत्यौ । द्वे चागते । द्वौ शफौ महावीरग्रहणाौँ । धृटी अङ्गार- निरूहणार्थे । काष्ठे । मेथी गोबन्धनार्थी । त्रयशङ्कयो वत्सबन्धनार्थाः । व्यजनानि त्रीणि कृष्णाजिननिर्मितानि । द्वौ रुक्मौ वर्तुलाकरौ । एको राजतः, एकस्सौवर्णः । अभिधानी गोवन्धनार्थी (रज्जुः) निदाने गोः पादबन्धनार्थे (रज्जू) । विशाखदामानि वत्सबन्धनार्थानि (रजव एव) । प्रभूतानि मुजतृणानि च ॥ प्रवर्यानुष्ठानम् एवं सम्भारान् संभृत्य स्वकाले प्रवर्यमारभमाणोऽध्वर्युः ब्रह्मणा अनुज्ञातः रौहिणपुरोडाशनिष्पादनाय आनधिमाज्ञाप्य वेदेर्दक्षिणतो दक्षिण- . ६४ यज्ञतत्वप्रकाशे द्वारसमीपे गवादिबन्धनार्थ चतुरश्शकून् निहन्यात् । ततो वालुकाभिः गाईपत्यस्योत्तरतः स्थण्डिलमेकं कल्पयित्वा गार्हपत्ये मुन्नप्रलवानादीप्य ततो जातं दीप्तमग्नि स्थण्डिलोपरि निक्षिप्य तस्मिन्नग्नौ महावीरं स्थापयित्वा तमाज्येन अभिपूर्य सौवर्णेन रुक्मेण तन्मुखं पिधाय, तमग्निं कृष्णाजिन- व्यजनेन वीजयित्वा, समिद्वेऽग्नौ महावीरमाज्येन पूरयित्वा, पुनः रुक्मेण तेन मुखं पिधाय पूर्ववत् व्यजनेन वीजयित्वा (वीजयितारः- अध्वर्युः, प्रतिप्रस्थाता, आग्नीध्रश्च) प्रज्वलितेऽग्नौ रुक्ममपादाय, अग्नि परीत्य व्यजनानि प्रतिस्थातृवारा सम्राडासन्धामासाद्य महावीरमवे- क्षमाणा आसीरन् । ततोऽध्वर्युः पूर्वनिखातेषु शङ्कुषु गां, गोवत्सम् , अजां, तद्वत्सं च बद्ध्वा गां दुह्यात् । प्रतिप्रस्थाता च अजाम् । उभावपि दुग्धं पय आग्नीध्रहस्ते दद्याताम् । स च पयसी पृथक् पृथगानीय प्राग्वंशं प्रविशेत् । ततः पूर्वमेव प्रविष्टोऽध्वर्युः गोपयः अजापयश्च गृहीत्वा महावीरे क्रमेण प्रक्षिपेत् । तदानीमुत्थितमध्माणमनुमन्त्रयेत् । तदिदं तप्ते घृते पयःप्रक्षेपणं प्रवृञ्जनमित्युच्यते । अत एव तत्सम्बन्धात् कर्मणोऽस्य प्रवर्य इति नाम सम्पन्नम् ॥ ततः प्रतिप्रस्थातरि दक्षिणं रौहिणपुरोडाशम् अगीयां जुह्वां स्थापितं तयैव आहवनीये जुह्वति, अध्वर्युः आश्रावणप्रत्याश्रावणादि कृत्वा महावीरस्थं पयोमिश्रितं घृतमाहवनीये जुहुयात् । 'धर्म:' इत्यपि तस्य संज्ञा । तदीयपयो यस्या दुग्धं सा गौः 'धर्मधुक्' इति व्यवहियते । धर्मस्य अश्विनौ, इन्द्रश्व देवते । अवशिष्टेन स्विष्टकृतं हुत्वा, ततः उन्नीकृतेन दना आहवनीयस्योपरि अध्वर्युणा ध्रियमाणस्य महावीरस्य पूरणे प्रतिप्रस्थात्रा कृते तदपि किञ्चिदिव हुत्वा, शेषमन्तर्वेदि निवाय, पूर्वस्मिन् खरे महावीरं प्रतिष्ठाप्य, अत्र प्रति- प्रस्थात्रा उत्तरस्य रौहिणपुरोडाशस्य होमे कृते अध्वर्युः षट् शकलहोमान् कृत्वा अग्निहोत्रं हुत्वा, होतृब्रह्माग्नीध्रयजमानस्सह शेषभक्षणं कुर्यात् । ततो महावीरादीनां प्रवग्यसंमाराणां सम्राडासन्यां स्थापनम् । अयं प्रातः- प्रवग्यः । एवमेव साय प्रवर्यः । छिन्नस्य यज्ञशिरसः सन्धानार्थ प्रवयी- नुष्ठानमिति श्रौती (वैदिकी) कथा । सा चेत्यम्-पूर्व कदाचिदेवा क. सम्राटशब्देन महावीर उच्यत । तत्स्थापनार्था आसन्दी सम्राडासन्दी.। १. ते. आ. ४. १.
सोमयागनिरूपणम् ६५ : विष्णुना सह मिलित्वा कुरुक्षेत्रे कञ्चन सत्रविशेषमन्वतिष्ठन् । तजनितं यशो विष्णुमेव अवाप, नान्यान् सुरान् । तदसहमाना देवास्तमुपारुन्धत । ततस्सोऽन्यत्र अपक्रामन् तैरनुद्रुतस्वशरीरात् धनुरिपुं च सृष्ट्वा तेन तान् व्यदधुमारभत । ततो भीतान् दूरत एव अवस्थितान् देवानवलोक्य विस्मयमानः स स्वचुबुकस्याधोभागे धनुषः कोटिमेकामवष्टभ्य कोट्यन्तरं भूमाववधाय दिशो विलोकयन्नासीत् । तदा इन्द्रेण प्रार्थितास्ततो लब्धवराश्च वम्रयः तद्धनुपो ज्यां भूमिष्ठकोटिगतामच्छिन्दन् । ततो वेगादुत्पतत् धनुषः कोट्यन्तरं भगवतो विष्णोः शिरः कण्ठात् उत्पाट्य, उपर्याकाशे प्रास्यत् । ततोऽपगतशिरा विष्णुः संवृत्तः । विष्णोरेव यज्ञरूपत्वात् यज्ञस्य शिरश्छिन्नमित्यवगतं सर्वैः । ततश्छिन्नशिरसा अशिरस्केण यज्ञेन अनुष्ठितेन किमपि फलमनाप्नुवाना देवाः छिन्नं तच्छिरः प्रतिसन्धातुं प्रार्थयन्त अश्विनौ । तौ वरमवृणीताम्--'सोमयागेऽद्य यावदभागिनावावां स्वः, यद्यावयोरपि यागेष्वितः परं हविर्भागो दीयेत, तदा आवां शिर एतद्यज्ञस्य प्रतिसन्द- धावहै' इति । 'तथा' इत्यभ्युपगतवत्सु देवेषु तौ तच्छिरः प्रतिसमधत्ताम् । तदिदं यज्ञशिरःप्रतिसन्धानरूपमेव प्रवर्ग्यकर्म । महावीरस्तु यज्ञशिरो- रूप इति ॥ उपसत् एवं प्रातःप्रवर्ग्यमनुष्ठाय, ततः प्रातरुपसदनुष्ठेया । सा अपूर्वा काचिदिष्टिः । तत्र अग्निः, सोमः, विष्णुः इति प्रधानदेवताः । सर्वत्र आज्यं द्रव्यम् । प्रायेणोपांशुयाजवत् प्रयोगः । प्रधानाहुत्यनन्तरं प्रथमोप- सद्धोमः । एवं प्रातःप्रवर्योपसदावनुष्ठाय, सुब्रह्मण्याबानं कृत्वा विरामः । ततोऽपराले (सायंकालीने) आपराह्निक्यौ प्रवग्र्योपसदौ, सुब्रह्मण्याह्वानं च । एवं दिनत्रयं (द्वितीयतृतीयचतुर्थदिवसेषु) सायं- प्रातरनुष्ठेयम् । तेन अग्निष्टोमे षड्वारं प्रवग्र्योपसदोरनुष्ठानं सिध्यति ॥ तृतीयदिनकृत्यम् द्वितीयोपसदिने (दीक्षातस्तृतीयदिवसे) प्रातःप्रवग्यॊपसदावतु- ष्ठाय, महावेदेर्निर्माणं कर्तव्यम् । सा च प्राचीनवंशमण्डपात् पुरतः क. उपदीकाः श्वेतपिपीलिकाः। See. आप. श्री. ११. ३. १३-४. ७. बौधा, भौ.६, २१. कात्या. श्री. ८. २. १४-३६. 9 यज्ञतत्त्वप्रकाशे । षट् पदानि परित्यज्य ततो निर्मातव्या । प्रापश्चात् द्विसप्ततिपदायामा दक्षिणोत्तरतः षष्टिपदविस्तारा च भवति । श्रोणिभागे, अंसभागे च अष्टा. चत्वारिंशच । विशेषविवरणं त्वेतदन्ते कृतम् । एवं समग्रां वेदिं विमाय प्रातः ततो यजमानस्य व्रतकरणम् (पयःपानम्) सायं सायाह्निकीभ्यां प्रवग्र्योपसद्भयां प्रचर्य *सुब्रह्मण्यामाहूय व्रतं कृत्वा विरमणम् । एतावत् तृतीयदिनकृत्यम् ॥ चतुर्थदिनकृत्यम् तृतीयोपसहिने दीक्षातश्चतुर्थदिने प्रातरेव द्वयाभ्यां प्रवर्योपसद्भयां प्रचर्य प्रवर्दीमुद्वास्य, उत्तरवेद्या प्रवर्यपात्राणि प्रक्षिप्य, अग्नीषोमीयस्य पशोस्तन्त्रमारभेत । यदि दुर्ब्राह्मणो यदि वा त्रिपुरुषविच्छिन्नसोमपानः स्यात् तदा ऐन्द्राग्नाश्विनपशुभ्यां सह तन्त्रेण अग्नीषोमीयं पशुयाग- मनुतिष्ठेत् । अन्यथा एकमेव तम् । अतस्तदर्थमाहवनीये इध्मकाष्ठान्या- धाय ज्वलन्ति तान्यादाय, आसन्दीस्थं सोममपि सहैवादाय, निरूढपशु- यागवत् महावेधन्तर्गतायां निहितसम्भारायाम् उत्तरवेद्यां तमग्नि प्रणयेत् । तन्मध्ये स्थापयेत् । ततः प्रभृति यज्ञसमाप्तिं यावत् स एव आहवनीयः। यतः स प्रणीतः स गार्हपत्य इतः परं भवेत् । यो गार्हपत्यः स इतः परं प्राजहितसंज्ञकः। आनीतं सोमं दक्षिणहविर्धानमण्डपस्थहविर्धानशकटे स्थापयेत् । एवमग्नि प्रणीय चावालस्थान पासूनादाय तैर्धिष्ण्यानुपवपेत् । ततः अग्नीषोमीयपशोस्तन्त्रानुष्ठानपक्षे त्रयाणां वपायागपर्यन्तमनुष्ठाय, सुब्रह्मण्येन सुब्रह्मण्याह्वाने कृते, सोमाभिषवाय, अभिषुतरसवर्धनाय च तडागादितो वसतीवरीसंज्ञकं जलं घटे गृहीत्वा तं जलपूर्ण घटम् अध्वर्युः शालामुखीयमपरेण स्थापयेत् । ततो मध्यन्दिने पशुपुरोडाशयागं, सायाह्ने हृदयादिपश्वङ्गयागं चानुष्ठाय पत्नीसंयाजान्तान्यङ्गानि कृत्वा पशुयागं समापयेत् । ततो रात्रावध्वर्युः घटं वसतीवरीपूर्ण स्कन्धेन आदाय वेदेः परितो यथाविधि हरन् पुनस्तत्रैव निक्षिपेत् । तदा प्रतिप्रस्थाता श्वोऽपेक्षितामिक्षार्थं वत्सापाकरणादि दर्शवत् कृत्वा दध्यातञ्च्यात् । अत्र सुब्रह्मण्याशब्देन इन्द्र उच्यते । तस्य सुत्यादिवसे तदुद्देशेन त्यक्ष्यमाणस्य सोमरसस्य पानार्थमाह्वानं सुब्रह्मण्याहानम् । तच्च द्वितीयदिनप्रभृति सायंप्रात:प्रवर्योपसदनुष्ठानानन्तरम् उद्गातृगणान्तिमेन ऋत्विजा कर्तव्यम् । तत्कर्तृत्वात्तस्य सुब्रह्मण्य इति संज्ञा । अतः प्रभृति नाम सुब्रह्मण्याडानम्- अमुकशर्मा यजत इत्यादि । क.
सोमयागनिरूपणम् - . दधिग्रहाद्यर्थमपि दधि सम्पादनीयम् । ततस्सवनीयहविरथ बहिराहरणादि कृत्वा विरमणम् । रात्रौ यजमानस्य जागरणं पत्न्याश्च । एतावत् चतुर्थदिनकृत्यम् ॥ पञ्चमदिनकृत्यम्-सुत्यादिनम् तस्यामेव रात्रावपरभागे महारावे वा सर्व ऋत्विजः प्रबुध्य स्नात्वा सोमामिषवसम्बन्धीनि कर्माण्यारभेरन् । तत्र प्रथमं तानि तानि पात्राणि ग्रहचमसादीनि तत्तत्स्थानेषु योजयेदध्वर्युः । ततः पक्षिणां प्रबोधात् पूर्वमेव प्रातरनुवाकाख्यं शस्त्रं होता आरभेत । तदैव च प्रतिप्रस्थात्रा सवनीयहविषां निर्वापः कार्यः । तानि च--धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्या इति पञ्च । तेषाम् , इन्द्रो हरिवान् , इन्द्रः पूषण्वान् , सरस्वती भारती, इन्द्रः, मित्रावरुणौ इति क्रमेण देवताः । सरस्वत्यादीनां त्रयाणामिव हरिपूष्णोरपि स्वातन्त्र्येण देवतात्वमिच्छति कात्यायनः । ततो दधिग्रहप्रचारःख । स चेस्थम् -उदुम्बरवृक्षनिर्मिते उलूखलाकारे चतुष्कोणे पात्रे पूर्वदिनसम्पादितं दधि प्रजापतिदेवतायै गृहीत्वा तस्या एवं जुहुयात् । अतो दधिग्रहे दधि द्रव्यम् , प्रजापतिर्देवता । ततोऽदाभ्यग्रहः । ग्रहं (पात्र) लौकिकेन पयसा दना वा प्रपूर्य पूर्वमुपना रक्षितानां सोमलतावयवानां मध्यात् अंशुत्रयं प्रवृह्य तान् ग्रहोपरि स्थापयित्वा ग्रहं पञ्चकृत्वस्सप्तकृत्वो वा आधूय तं ततो जुहुयात् । अत्र सोमो देवता ।। ततोऽशुग्रहः । तत्र एकग्रहपर्याप्तं सोमं गृहीत्वा पाषाणोपरि निक्षिप्य वसतीवरीभिरद्भिः संसिच्य, अभिषुत्य ग्रावभिः, तस्मिन्नेव अदाभ्यग्रहपात्रे गृहीत्वा जुहुयात् । प्रजापतिर्देवता । अश्वदाम्यग्रहयो- रेकमेव पात्रम् । ततस्तत्पात्रेण सह सदः प्रविश्य तत्र ततसोमरसं भक्षयित्वा पात्रं खरे सादयेत् ॥ क. भ्रष्टयवा धानाः । आज्यमिश्रिता यवसक्तवः करम्भः । लाजाः परिवापः । पयस्या आमिक्षा । ख. दध्यदाभ्यांशुग्रहाः कात्यायनीयानां न विहिताः । See. कात्या. श्री. ९. १. १. २. आप, औ. १२. १. १. also बौधा. श्री. ७. १. ३. आश्व. श्री. ४, १३. ६, ७.
૬૮ यज्ञतत्वप्रकाशे ख. तत उपांशुग्रहः । तत्र क्रीतं, वस्त्र उपनद्य स्थापितं सोममवमुच्य सर्व गृहीत्वा, द्विधा विभज्य प्रातस्सवनाथ भूयांसं माध्यन्दिनसवनाय अल्पीयांसं चतं कृत्वा, प्रातस्सवनार्थात् सोमात् एकग्रहपर्याप्तं सोमं गृहीत्वा होतृचमसेऽवधाय, वसतीवरीजलेन आसिच्य ग्रावभिः पिष्ट्वा रसं निष्पीड्य तमनलिना गृहीत्वा अध्वर्युरुपांशुपाने आनयेत् । एवं वारत्रयं कृत्वा रसपूर्ण ग्रहमादाय यथावज्जुहुयात् । अयमधाराग्रहः । प्राणोऽत्र देवता। इतः सर्वे अन्तर्यामप्रभृतयो ध्रुवान्ता धाराग्रहाः । धारातो ग्रहीतव्याः । तदर्थमृत्विग्भिस्सोमामिषवः कर्तव्यः । सोऽयं महाभिषव उच्यते ॥ महाभिषवः तत्र अभिषवस्थानेऽध्वर्युगणगतास्सर्वे उपविशेयुः । तत्र पुरस्ता- दध्वर्युरुपविशेत् प्रत्यङ्मुखः । दक्षिणतः प्रतिप्रस्थातोदङ्मुखः । पश्चाद्धोता प्रामुखः । उत्तरत उन्नेता दक्षिणामुखः । एवमभिषवार्थ ग्राव्णस्समन्ता- दुपविश्य, तदुपरि सोमं निक्षिप्य, वसतीवरीजलमासिच्य पिष्ट्वा दक्षिण- हस्तेनाभिषुणुयुः । एवं वारत्रयं कृत्वा, पिष्टान् सोमांशून्क आधवनीये मृत्पात्रे निक्षिप्य, प्रपीड्य, रसं निष्कास्य, तं पात्रान्तरे कृत्वा, प्राव्णां पुरतः प्रक्षिपेयुः । तेषां तत् घास(भक्ष)स्थानीयं भवति । ततस्सोमक्रयकाले सुरक्ष्यस्थापितैरजलोमभिः प्रादेशमात्री नाभिं कृत्वा (गोवत्सनाभिवत्) पवित्राख्यस्य सोमशोधकस्य वस्त्रखण्डस्य मध्ये तामवालम्ब्य, तत् वासःखण्डं सनाभिं द्रोणकलशाख्यस्य पात्रस्योपरि वितत्य धारयेयुरुगातारः । तदोन्नेता आधवनीयादुदचनेन सोमरसं गृहीत्वा होतृचमसे निनयेत् यथा द्रोणकलशोपरि वितते पवित्राख्ये वस्त्रखण्डे रसः पतेत् । ततस्त्रवन्त्या धाराया अध्वर्युरन्तर्यामपाले अन्तयाँमसंज्ञकं ग्रहं गृहीत्वा सशेषं हुत्वा, सशेषमेव आग्रयणस्थाल्यां सम्पातमवनीय, सशेष ग्रहं खरे सादयेत् । इन्द्रो देवता । दधिग्रहाधन्तर्यामान्तानां ग्रहाणां ग्रहणानन्तरमेव होमः । नैन्द्रवायवादिवत् गृहीत्वा खरे सादनम् ॥ ऐन्द्रवायवादिग्रहाः ततः परं पूर्वोक्तप्रकारेणैव ऐन्द्रवायवं धारातो गृहीत्वा पवित्रदशया ग्रहस्य बहिर्मागं प्रमृज्य खरे सादयेत् । एवं मैत्रावरुणं, शुक्र, मन्थिनं, क. खण्डिता: सोमलताः प्रादेशमात्रा अंशव उच्यन्ते । ख. गृहीतसारो नीरसस्तृणांश ऋजीपमित्युच्यते ।
सोमयागनिरूपणम ६९ आग्रयणं, त्रीनतिग्राह्यान् (आग्नेयं, ऐन्द्र, सौर्य) उक्थ्यं, ध्रुवं चेति यथा- क्रमं गृहीत्वा खरे सादयेत् । ध्रुवग्रहग्रहणानन्तरं धारां विरमयेत् । ततो हविर्धानमण्डपात् बहिष्पवमानस्तोत्रकरणाय पञ्च ऋत्विजः परस्परं समन्वारब्धाः प्रसयुः ॥ प्रसर्पणम् तत्र प्रथमोऽध्वर्युः, ततः प्रस्तोता, ततः प्रतिहा, तत उद्गाता, ततो ब्रह्मा, ततो यजमानः इत्येवं क्रमेणैकस्य पृष्ठतः, अपरस्तदीयं कच्छं धृत्वा गच्छेत् । एवमेव इमे चात्वालदेशं गत्वा तत्रोपविष्टा अनन्तरं कच्छं पूर्वगृहीतं विसृजेयुः । मध्ये विसर्गे प्रायश्चित्तं विहितम् । तत्र गत्वा उद्गाता, प्रस्तोता, प्रतिहर्ता इति त्रयः सामवेदीया ऋत्विजः बहिष्पव- मानेन स्तुवीरन् । अध्वर्वादयस्तत्रोपविष्टा भवेयुः । तदिदं बहिष्पवमान- स्तोत्रं पापशोधकत्वात् पावनम् । अनेनैव शोधितावश्विनौ यज्ञाविभूताम् । समाप्ते स्तोत्रे आग्नीभ्रेण धिष्ण्येषु प्रज्वालितेषु अध्वर्युराश्विनं ग्रह द्रोणकलशाद्गृहीत्वा खरे सादयेत् । ततः सवनीयपशोरुपाकरणादि वपायागान्तं कृत्वा प्रातस्सवनाय अध्वर्युब्रह्मयजमानसदस्याः सदः प्रविश्य . तत्रस्था एव ग्रहचमसादिकानि पात्रााणि द्रव्याणि चोपतिष्ठेरन् । ततो ब्रह्मा यजमानश्च सर्वाणि तानि तैस्तैमन्त्रैरुपस्थाय, उत्तरेण हविर्धानं गत्वा पूर्वया द्वारा सदः प्रविश्य स्वस्वस्थान उपविशेताम् । उपवेशनमिष्टया- दिवदेव । ततः सवनीयहविषां प्रचारः" ।। धाराग्रहप्रचारः तत्कर्म स्विष्टकृदन्तमनुष्ठाय, अध्वर्युरेन्द्रवायवमैत्रावरुणाधिनान् त्रीन् ग्रहान् प्रचरेत् । तत्राध्वर्युणा होमार्थमैन्द्रवायवे गृहीते प्रतिप्रस्थाता आदित्यपात्रे द्रोणकलशादैन्द्रवायवप्रतिनिग्राह्यं गृहीत्वा तेनैव सह हुत्वा परस्पररसनिषेचनानन्तरं आदित्यस्थाल्यां सम्पातमवनयेत् । अध्वर्युः स्वं पात्रं होने दद्यात् । एवमेवोत्तरयोर्ग्रहयोरनुष्ठानम् , आदित्यस्थाल्यां सम्पातावनयनं च । तत उन्नेता, अध्वर्युणा प्रेषितः क. ध्रुवग्रहस्य तृतीयसवन एव विनियोगः । न पूर्वयोः सवनयोः । ख. सवनीयहवींषि ६७ पृष्ठ उक्तानि । प्रचारः साङ्गानुष्ठानम्। ए ग.
यज्ञतत्वप्रकाशे अच्छावाकचमसं वर्जयित्वा अन्यान् नव चमसान् , सदस्यपक्षे दश चमसान् प्रपूरयेत् । तत्र परिप्लवया द्रोणकलशात् सोमरसमास्राव्य ततः पूतभृन्नाम्नः कलशात् सोमरसमादाय चमसान् प्रपूर्य, पुनद्रोणकलशात् गृहीत्वा चमसेष्वास्रावयेत् । प्रथमस्रावणमुपस्तरणस्थानीयम् , द्वितीयमभि- धारणस्थानीयम् । एवमेव सर्वेषामुन्नयनं (पूरणं) कर्तव्यम् ॥ शुकामन्थिग्रहप्रचारः एवं चमसेषून्नीतेषु, अध्वर्युः शुक्रपात्रं, प्रतिप्रस्थाता च मन्थिपात्रमादाय ससोमरस हविधानमण्डपस्य पूर्वद्वारि परस्पराभिमुखौ तिष्ठन्तौ स्वं स्वं ग्रहं अरनिं वा परस्परं संधाय यावन्तो मन्त्रास्तावत्कृत्वः, आहवनीयस्य पुरतो गत्वा पश्चिमाभिमुखौ ग्रहहोमार्थ सो भवेताम् । तस्मिन्नेव काले नव चमसाध्वर्यवः तं तं चमसमादाय आहवनीयदेशं गत्वा, प्राङ्मुखा होमार्थमुद्यता भवेयुः । तत आश्रावणप्रत्याश्रावणाद्य- नन्तरमध्वर्युणा औषे दत्ते होतृब्रह्मोद्भातृयजमानानां, सदस्यपक्षे तस्य च ये चमसाध्वर्यवस्ते होत्रा वषटकारे अनुवषट्कारे च कृते तं तं चमसं द्विर्तुत्वा अध्वर्युणा प्रेषिताः सदः प्रतिभक्षार्थं चमसान् हरेयुः । अवशिष्टा मैत्रावरुणब्राह्मणाच्छंसिपोतृनष्ट्राग्नीध्राणां ये चमसाध्वर्यवः ते होतुः प्रथमवषटकार एव सकृद्धत्वा प्रत्यावृत्य पुनद्रोणकलशादेव स्वं स्वं चमसमापूर्य, आहवनीयं प्रति होमार्थ नयेयुः । होतुः प्रथमवषट्कार एव अध्वर्युप्रतिप्रस्थातारौ स्वं स्वं ग्रहं जुहुयाताम् । शुक्रामन्थिग्रहयोश्च- मसानां प्रथमहुतानां च परमात्मरूपी इन्द्रो देवता । अनुवषट्कारेषु सर्वत्राग्निरेव स्विष्टकृदेवता । ततोऽध्वर्युः सशेषं शुक्रपात्रमायतने सादयेत् । प्रतिप्रस्थाता तु मन्थिनः संस्रावहोमम् , आहवनीयस्योत्तरभागाद्गृहीत्वा बहिस्स्थापितेऽङ्गारे जुहुयात् । तस्य रुद्रो देवता । पूर्व चमसमापूर्य आहवनीयदेशं प्रति गतेषु चमसाध्वर्युषु मध्ये मैत्रावरुणचमसाध्वर्युः स्वं चमसमध्वर्युहस्ते दद्यात् । स मैत्रावरुणं प्रेषयेत् । आश्रावणाधनन्तरं १. होता, २. ब्रह्मा, ३. उद्गाता, ४. यजमानः, ५. मैत्रावरुणः, ६. ब्राह्मणाच्छंसी, ७. पोता, ८. नेष्टा, ९. आगीघ्रः, एतेषां नवानामृस्विजा नव चमसाः। ख. शुक्रग्रहप्रभृत्येव आश्रावणादि । शुक्रग्रहे पुरोऽनुवाक्या नास्ति । केवलं याज्यैव । एवं शस्त्रवत्सु केवलं याज्यैव न पुरोऽनुवाक्येति शेयम् । क.
सोमयागनिरूपणम् याज्यायां तेन पठितायाम् अध्वर्युस्तं चमसं जुहुयात् । तत्र मित्रावरुणौ देवता । एवमेवोत्तरेषां चमसानां तस्मात्तस्माचमसाध्वर्योर्ग्रहणम् , तेन तेनर्विजा याज्यादौ पठितेऽध्वर्युणा होमश्चेत्यवगन्तव्यम् । चमसदेवताः तत्र ब्राह्मणाच्छंसिचमसे इन्द्रः, पोत्रीये मरुतः, नेष्ट्रीये त्वष्टा, आनीधीये चाग्निरिति देवताः । अनुवषट्कारहोमश्च सर्वत्रास्ति । तत्रामिः स्विष्टकृदेवता ॥ चमसभक्षणम् एवमध्वर्युः चमसान् हुत्वा तं तं चमसं तस्मै तस्मै चमसाध्वर्यवे प्रयच्छति । ते भक्षार्थं तान् सदः प्रति नयेयुः । तत्र ये यत्र भक्षणाधि- कारिणः ते परस्परमाज्ञाप्य भक्षयेयुःक (पिबेयुः) सर्वत्र वषट्कर्ता प्रथम भक्षयेत् । भक्षणोपयुक्तानां पात्राणां मार्जालीये प्रक्षालनं कर्तव्यम् । ततः ऋत्विजः पाशुकान पौरोडाशिकांश्च हविश्शेषान् आनीध्रीये भक्षयेयुः । ततश्चमसान् अपूर्य आयतने सादयेयुः । अत्र चमसेषु ग्रहेषु वा भक्षणेऽधिकारः अधोनिर्दिष्टकारणैः भवति- १ यो यत्र वषट्करोति । २ यो वा होममभिषवं चेत्युभौ करोति । ३ यन्नाना चमसो व्यवयिते । यजमानपन्यास्तु न कस्यापि हविषो भक्षणम् । ततोऽच्छावाक- चमसाध्वर्युः तदीयं चमसम् इतरचमसवदेव आपूर्व अध्वर्यवे दद्यात् । स च आश्रावणादिकं यथावदनुष्ठाय तं चमसं हुत्वा सशेषं भक्षणाय अच्छावाकाय दद्यात् । स त्वध्वर्युमनुज्ञाप्य भक्षयेत् । न तेन सह अध्वर्युभक्षयेत् ॥ ततः पात्रमापूर्य आसाद्य खऋतुग्रहप्रचारमारभेत । तत्रोमयतोमुखं पात्रद्वयं भवति । अध्वर्युप्रतिप्रस्थातारौ कर्तारौ । ताभ्यामेव पर्यायेण । क. नात्र यजमानस्य भक्षणम् । ख. वसन्तादयः ऋतवो यत्र देवताः त ऋतुग्रहाः । १. आप. श्री. १२. २६, ८. बौघा, औ. ७, १६, कात्या. औ. ९.१३.१-२७. , ७२ यज्ञतत्त्वप्रकाशे होमाः कार्याः । तत्र प्रथमम् अध्वर्युप्रतिप्रस्थातारौ प्रथमद्वितीयग्रही युगपद्गृह्णीयाताम् । परिप्लवया द्रोणकलशादध्वर्युः पात्रान्तरेण तस्मादेव प्रतिप्रस्थाता । एवं गृहीत्वा निष्क्रम्य हविर्धानमण्डपस्य द्वार्येव तिष्ठेत् प्रतिप्रस्थाता । अध्वर्युराहवनीयदेशं गत्वा आश्रावणादिपूर्वकं सशेषं हुत्वा तत्रैव (पूर्वशेषविशिष्ट एव पात्रे) ग्रहान्तरं ग्रहीतुं यदा मण्डपद्वार्यागच्छति तदा प्रतिप्रस्थाता निर्गत्य आहवनीयं गत्वा आश्रावणादिपूर्वकं स्वं ग्रह सशेषं जुहुयात् । एवं स यदा मण्डपान्तः प्रविविक्षति तदा अध्वर्युस्सग्रहो निष्कामेद्धोमकरणाय । एवमेकस्य निष्क्रमणकालेऽन्यस्य प्रवेशः, तत्प्रवेशकालेऽन्यस्य निष्क्रमणम् , एवं रीत्या ग्रहणहोमा अनुष्ठेयाः । अन्तिमयोस्तु ग्रहयोः सहैव ग्रहणम् । गृहीत्वा, उभावपि निष्क्रम्य, मण्डपस्य द्वारि तिष्ठेताम् । ततः अध्वर्युराहवनीयदेशं गत्वा यथा- वज्जुहुयात् । ततः प्रतिप्रस्थाता गत्वा तथैव कुर्यात् । अत्र द्वादश ऋतुग्रहाः । द्वे एव तु पात्रे । ताभ्यामेव पर्यायेण ग्रहणम् । तत्र- १ इन्द्रः, मधु, ७ द्रविणोदाः, इषः, २ मरुतः, माधवः, ८ द्रविणोदाः, ऊर्जः, ३ त्वष्टा, शुक्रः, ९ द्रविणोदाः, सहः, ४ अग्निः, शुचिः, १० द्रविणोदाः, सहस्यः ५ इन्द्रः, नमः, ११ अश्विनौ, तपः, ६ मित्रावरुणौ, नभस्यः, १२ अग्निहपतिः, तपस्यः इति क्रमेण देवताः । एकैकस्य द्वे द्वे देवते । ततो भक्षणम् । तदध्वर्यु- प्रतिप्रस्थात्रोयोरेव होत्रकैस्सह । भक्षिताः ग्रहाः चमसाश्च सर्वे अप्रक्षालिता एव पुनस्सोमरसेन पूरणीयाः । अत्र भक्षणात्पूर्व होमानन्तर- मध्वर्युः स्वपात्रस्थसोमस्य कश्चिदंशं प्रतिप्रस्थातृपात्रे स्रावयेत् । एवं प्रतिप्रस्थाता अध्वर्युपाने स्रावयेत् । ततोऽध्वर्युस्तस्मिन्नेव पात्रे सरसे ऐन्द्राग्नं ग्रहं गृहीत्वा खरे सादयेत् । अनन्तरं प्रतिप्रस्थाता स्वपात्रस्थं सोमं भक्षणार्थ नयेत् । तदनन्तरमेव भक्षः । भक्षितं पात्रं प्रक्षाल्य तद्धस्त, आदाय, अध्वर्युः शस्त्रप्रतिगरार्थ सदो मण्टपद्वारं गत्वा तत्र तिष्ठेत् ॥ शस्त्रपाठप्रतिगरादि तदानीं होता स्वषिष्ण्यस्य समीपे पश्चात् प्राङ्मुख उपविष्ट आज्याख्यं शममारमेत । होत्रा शख्ने पठयमानेऽध्वर्युः प्रतिगरं पठेत् ।
सोमयागनिरूपणम् ३ तत्र शस्त्रारम्भे- "अध्वयों शोसावो३म्" इति होत्रीच्यमाने "शोंसामोद इव" इति प्रतिगरं ब्रूयात् । तत्तदृचोऽन्ते यदा सप्लु प्रणवमुच्चारयति होता तदा “ओं मो३थामाद इव'' इति प्रतिणीयात् । यदाऽर्धर्चेऽवस्यति होता तदा “ओथामाइ इव" इति प्रतिगरं यात् । शस्त्रसमाप्तौ “ओ३म्" इत्येव प्रतिगृणीयाध्वर्युः ! होता यदा यदा शस्त्राणि पठति तदा तदा तस्य प्रोत्साहनार्थम् अवयों: विशिष्ट- शब्दोच्चारणं प्रतिगर इत्युच्यते । सः "ओथामोद इव" इत्यादि द्रष्टव्यः । तत्र बहिष्पवमाने पूर्व स्तुते एव आज्यादिशस्त्राणीदानी पठनीयानि । तत्र प्रथममाज्यशस्त्रम् ॥ नाराशंसहोमः होत्रा आज्यशस्ने समापिते सत्यध्वर्युः पूर्वगृहीतस्थापितमैन्द्रामग्रह हस्तेनादद्यात् । तस्मिन्नेव चमसाध्वर्यवश्वमसानाद दीरन् । ततोऽध्वर्यु- राश्रावणादि कृत्वा होत्रा याज्यान्ते वषट्कार उक्त ग्रहमनी साशेपं जुहुयात् । तदा चमसाध्वर्यकः स्वांश्चमसान् प्रकम्पयेयुः यथा पात्र- (चमस)स्थसोमबिन्दुराहवनीये पतेत् । तत्र ग्रहहोमे इन्द्राग्नी देवता । चमसेषु ऊमाः पितरो देवता । ततो ग्रहस्य चमसानां च सशेषाणां यथावद्भक्षणम् । पुनरप्याप्यायनं खरे सादनं च । इदानीमेषां चासानां "नाराशंस"संज्ञा । अत्र चमसानां होमकाले आहवनीयस्योपरि कम्पनमात्रम् , न तु यथावद्धोमः । ततो वैश्वदेवाख्यं ग्रहं शुक्रग्रहोपयुक्त पाने गृहीत्वा प्रथमाज्यस्तोत्रार्थम् उद्गातृगणं प्रेरयेत् । तेन स्तोत्रे समापिते शस्त्रपाठार्थ होतारं प्रेष्य तत्पुरस्तात्तिष्ठन् प्रतिगरं पठेत् । तदिदं “प्रउगशस्त्रम्" इत्युच्यते । तत्समाप्तौ पूर्ववत् ग्रहस्य होमः । चमसानामनुकम्पनमाहवनीयस्योपरि । एतेषामपि नाराशंससंज्ञा । अत्र ग्रहे विश्वे देवा देवताः । चमसेषु ऊमाः पितरः । ततो ग्रहचमसानां भक्षणम् । पूर्व चमसास्सावशेषा एव भक्षयितव्याः । इदानीं निरवशेष- तयेति विशेषः ॥ १. चत्वार्याज्यशस्त्राणि, एक प्रउगशस्त्रमिति पञ्च शस्त्राणि माध्यन्दिनसबने । तत्र प्रथमस्याज्यशस्त्रस्य प्रउगशस्त्रस्य च कर्ता होता । द्वितीयादीनां त्रयाणामाज्य- शस्त्राणां मैत्रावरुणः, ब्राह्मणाच्छंसी, अच्छावाक इति क्रमेण कर्तारः (शंसितारः) इति विवेकः । । 10 यज्ञतत्त्वप्रकाशे . उक्थ्यग्रहप्रचारः ततस्तान् प्रक्षाल्य खरे स्थापयित्वां उक्थ्यस्थालीतस्तृतीयं भागमुक्थ्यपात्रे गृहीत्वा खरे सादयित्वा चमसांश्च पूरयित्वा द्वितीया- ज्यस्तोत्रकरणायोगातृगणं प्रेरयेत् । तेन स्तुते स्तोत्रे, मैत्रावरुणं शस्त्रार्थ प्रेष्य तेन शस्त्रे पठ्यमाने पूर्ववत्प्रतिगीर्य शस्त्रे समाप्ते पूर्ववदेव होम, सर्वभक्षणं, प्रक्षालनं, खरे सादनं च कर्तव्यम् । अयमुक्थ्यप्रथमपर्यायः । ततः पूर्ववदेवोक्थ्यस्थालीतस्तृतीयांशस्य ग्रहणम् , उक्थ्यपाने चमसानां पूरणम् , तृतीयाज्यस्तोत्राय प्रवर्तनमुद्भातृगणस्य, तत्समाप्तौ शस्त्रार्थ ब्राह्मणा- च्छंसिनः प्रेरणम् , तत्प्रतिगरः, ततो होमः, भक्षणं च ग्रहचमसानाम् , प्रक्षालितानां खरे सादनं चेति । अयं द्वितीयः पर्याय उक्थ्यस्य । अत्र ग्रहस्य चमसानां च मित्रावरुणौ देवता । एवमेव तृतीयपयायोऽपि । तृतीयपर्याये उक्थ्यस्थालीतस्सर्वस्यापि निरवशेषस्य सोमरसस्य ग्रहणमिति विशेषः । अत्रेन्द्राग्नी देवता । शस्त्रकर्ता अच्छावाकः । अनयोद्धितीयतृतीय- पर्याययोः ग्रहग्रहणशस्त्रप्रतिगरग्रहहोमेषु कर्ता प्रतिप्रस्थाता । भक्षणान्ते सवनसंस्थाहुति हुत्वा आरम्भकाले येन मार्गेण विहारं प्रविष्टास्तेनैव ऋत्विजो बहिर्निर्गच्छेयुः ॥ ॥ एतावता प्रातस्सवनं समाप्तम् ।। अथ माध्यन्दिनं सवनम् कतत्र भगवति भास्वति नमसो मध्यं गते विहारं प्रविश्य माध्यन्दिनसवनकर्म आरभेरन् सयजमाना ऋत्विजः । तत्र प्रथमं महा- भिषवः । सोमस्य बन्धनं विस्रस्य, बन्धनवस्त्रं ग्रावस्तुते दत्त्वा, महा- भिषवमारमेरन् । तं प्रातस्सवनवदेवविजो दिगुपदेशनादिपूर्वकं यथा- वत्कुयुः । अभिषवे समाते प्रातस्सवनवदेव सवनीयहविर्निर्वापादिक- क. आदौ लोकद्वारसानो गानं कर्तव्यम् । तच्च यजमानेनामीध्रीयानि- समीपे तस्मिन्नेव च होमः कर्तव्यः । See. आप. औ. १२. २८. ११. बौधा. औ. ७. का. श्री. १. १४. ८. See. आप. श्री. १३. १. बौधा. श्री. ८. १. कात्या. औ. १० १. १. २.
सोमयागनिरूपणम् मामिक्षातद्वयापारवर्ज कृत्वा सोमरसग्रहणोपयोगिव्यापारेऽभिषुतसोमपावन- पूर्वकधारास्रावणादावारब्धे तस्या धाराया अध्वर्युः ग्रहान् गृह्णीयात् । अत्रैन्द्रवायवादयो द्विदेवत्यग्रहा न विद्यन्ते । एवमृतुग्रहा द्वादश दधिग्रहाश्च नानुष्ठेयाः । शुक्रः, मन्थी, आग्रयणः, उक्थ्यास्त्रयः, मरुत्वतीयौक इत्येतावन्त एव ग्रहाः । ते च धाराया ग्राह्याः । ग्रहणा- सादनादिव्यापारेष्वनुष्ठितेषु अध्वर्युः, प्रस्तोता, प्रतिहता, उदाता, ब्रह्मा, यजमान इति क्रमशः पूर्वपूर्वस्य परः परः कच्छं धृत्वा बहिष्पवमानवदेव माध्यन्दिनपवमानस्तोत्र करणाय सदोनामकं मण्डपं प्रसयुः । सर्वेषु प्रसर्पकेषूपविष्टेष्वेव कच्छविसर्जनं कर्तव्यम् । ततो माध्यन्दिनपवमान- स्तोत्रकरणाय अध्वर्युरुदातृगणं प्रेरयेत् । समासे स्तोत्रे दधिधर्मयागः, तद्धविर्भक्षणं च । ततस्सवनीयहविषां प्रचार इडाभक्षणान्तः । तदनन्तरं चमसानामुन्नयनं कर्तव्यम् । अनाच्छावाकचमसमप्यन्ते खउन्नयेहशमतया । प्रातस्सवने पूर्व नवैव चमसा आसन् । अत्र स्वयमधिको दशम इति ज्ञेयम् । पूरितानां तेषां शुक्रामन्थिभ्यां ग्रहाभ्यां सह प्रातस्सवनवदेव प्रचारो भक्षणान्तः । पात्रसादनं च । सवनीयहविषामपि तदैव भक्षणं तत्सम्बन्धिनामृविजाम् ॥ दक्षिणादानम् तत ऋत्विग्भ्यो दक्षिणादानम् । या दक्षिणा सङ्कल्पकाले सङ्कल्पिता तां दद्यात् । सा च-गावः, अश्वः, अश्वतरः, गर्दभाः, अजाः, अवयः, तिलमाषव्रीहियवाः-इत्येवंरूपा । तत्र गावः द्वादशोत्तरं शतं (११२) देयाः । एकोऽश्वः, गर्दभाजावयः त्रयस्त्रयः व्रीह्यादीनामेकैक- द्रव्यस्य प्रस्थत्रयम् इति परिमाणं सङ्ख्या च निर्णीते शास्त्रे । सत्यां क. तत्र द्वौ मरुत्वतीयग्रहौ । अध्वर्योरेकः, प्रतिप्रस्थातुरेकः । द्वावपि स्व स्वं ग्रहं क्रमेण धारातो गृहीत्वा आयतने सादयेताम् । प्रातस्सवने प्रथमतश्चमसोन्नयनकाले नव चमसाः । शुक्रामन्थिग्रह- चमसप्रचारानन्तरमच्छावाकचमसश्च प्रचारित: । अत्र दशापि सहैवेति बोध्यम् । १. See. आप. औ. १३. ५, ६. १-१३. बौधा, श्री. ८.५ का, श्री. १०. २. ८-३६.
यज्ञनत्त्वप्रकाशे शक्तौ गजवासोहिरण्यादीनामपि दक्षिणात्वेन दानमुक्तम् । अशक्ती शतं गावः ततो न्यूना वा त्रितयपर्यन्तं वा अन्तत उक्तम् । ता विभज्य देयाः ॥ दक्षिणाविभागः विभागश्चेत्थम्-देयत्वेन प्रतिज्ञातां समयां दक्षिणां प्रथमतः समशश्चतुर्धा विभज्य एकैकस्मा ऋत्विग्गणायैकैकं भागं कल्पयेत् । तमपि भागं समाख्यानुसारेण विभज्य तेभ्यो दद्यात् । तद्यथा- यदि सगमा दक्षिणा सहस्रं रूप्यकाणि तदा तानि चतुर्धा विभज्य एकैकस्य गणस्य सार्धद्विशतं कल्पयेत् । तं पञ्चविंशतिधा कृत्वा अवयवे द्वादशांशान् , तदनन्तराय प्रतिप्रस्थाने पडशान् , तदनन्तराय नेष्ट्रे चतुरोंऽशान , तदनन्तराय उन्नेत्रे त्रीनंशांश्च दद्यात् । एवं च प्रथमस्यविजो यहीयते तदर्थं द्वितीयस्य, प्रथमतृतीयांशोऽनन्तरस्य तृतीयस्य, प्रथम- चतुर्थांशः तदनन्तरस्य चतुर्थस्येति फलितम् । एवमेव गणान्तरेऽपि विभागः ॥ . . तदिदं स्पष्टीक्रियते-कनोस्समग्रदक्षिणा सहस्रम् । तत्रैकस्य गणस्य सा द्विशतम् । तस्य पञ्चविंशतिधा विभागे कृते एकैकस्य भागस्य दश रूप्यकाणि । तत्र द्वादश भागाः विंशत्युत्तरं शतमध्वर्यवे देयाः । षड्भागाः पष्टिः प्रतिप्रस्थात्रे दातव्या' । चत्वारो भागाः नेष्ट्रे चत्वारिंशद्दयाः । त्रयो भागास्त्रिंशत् उन्नेत्रे । एवमेव त्रिष्वप्यन्येषु गणेषु दानम् ॥ अध्वर्युगणः रू. ब्रह्मगणः रू. होतृगणः, रू. उद्गातृगणः रू. अध्वर्युः १२० ब्रह्मा १२० होता १२० उद्गाता १२० प्रतिप्रस्थाता ६० ब्राह्मणाच्छंसी ६० मैत्रावरुणः ६० प्रस्तोता ६० नेष्टा ४० आग्नीघ्रः ४० अच्छावाकः ४० प्रतिहर्ता ४० उन्नेता ३० पोता ३० सुब्रह्मण्यः ३० मिलित्वा-२५० २५० २५० २५० एवं सहस्रम् १०००॥ ३० ग्रावस्तुत् ७७ ७ सोमयागनिरूपणम् एतदतिरिक्ततया यजमानः स्वान्यङ्गान्यपि चक्षुःश्रोत्रमनः- प्रभृतीनि वाचैव दत्त्वा ततस्तत्तदुचितमूल्यार्पणेन तानि पुनः प्राप्नुयात् । ततश्चमसाध्वर्युभ्यः, कस्मैचिदत्रिगोत्रोत्पन्नाय, सदसि स्थितेभ्यो दक्षिणा- हेभ्यो द्रष्टुभ्यश्च यथाशक्ति दक्षिणां दद्यात् । गवादीनां साक्षादेव दाने तान्यविभज्यैवविजः पूर्व प्रतिगृह्य वेदेरुत्तरभागं नीत्वा तत्र यथोचित - मूल्यद्वारा विभजेरन् ॥ मरुत्वतीयग्रहप्रचारः ततो दीक्षासमये गृहीतं कृष्णविषाणं यजमानश्वात्वाले प्रास्येत् । ततोऽध्वर्युराग्नीध्रीयेऽग्नौ वैश्वकर्मणाख्यान् पञ्च होमान् जुहुयात् । ततोऽध्वर्युः प्रतिप्रस्थाता च पूर्व गृहीतासादितौ मरुत्वतीयग्रहावादाय, प्रैषादिकं कृत्वा आहवनीये हुत्वा परस्परं स्वस्वपात्रस्थं सोमरसं विक्षारयेताम् । तस्य भक्षणमकृत्वैवाध्वर्युः स्वपात्रे तृतीय मरुत्वतीयं गृहीत्वा तमायतने यदा आसादयति तदा प्रतिप्रस्थाता स्वपात्रं भक्षणाय नयेत् । ततो द्वाविमौ भक्षयेताम् । ततश्च मरुत्वतीयशस्त्रार्थ होतारं प्रेष्य तेन तस्मिन्छस्यमानेऽध्वयुः पात्रेणैव सह प्रतिगृणीयात् । शस्त्रे परि- समातेऽध्वर्युः मरुत्वतीयं तृतीयं ग्रहमादाय चमसाध्वर्यवश्च चमसानादाय आहवनीयं गत्वा आश्रावणादौ कृते ग्रहं चमसांश्च जुहुयादनुकम्पयेयुश्च यथाक्रमम् । यथा सोमबिन्दवः आहवनीये पतेयुस्तथा प्रकम्पन कर्तव्यम् । यतो होमस्थानीयं तत् । तत्र ग्रहे देवता इन्द्रो मरुत्वान् । चमसेषु ऊर्वाः पितरः । चमसा इम इदानीं नाराशंसा इत्युच्यन्ते । ततो ग्रहचमसानां भक्षः । ततश्चमसेषु पुनरापूर्य आयतने स्थापितेष्वध्वर्यु- यस्मिन् पात्रे शुक्रग्रहो गृहीतस्तस्मिन् पात्रे माहेन्द्र ग्रहं गृहीत्वा खरे सादयित्वा माहेन्द्रसंज्ञकस्य प्रथमपृष्ठस्तोत्रस्य प्रैषमुद्गातृभ्यो दद्यात् । तैः स्तोत्रे समापिते निष्केवल्यशस्त्रार्थ होने औषं दत्त्वा होत्रा शस्त्रे पठ्यमाने प्रतिगरं गृणंस्तिष्ठेत् । समाते शस्त्रे मरुत्वतीयग्रहवन्माहेन्द्रग्रहस्य होमः । चमसानां तदीयचमसवदेवानुप्रकम्पनम् । तस्मिन्नेव समयेऽतिग्राह्य- संज्ञकानां ग्रहाणामपि होमः कर्तव्यः । तत्र आग्नेयं प्रतिप्रस्थाता, ऐन्द्र अत्र पुरोऽनुवाक्या अस्ति । क. १. २. आप. श्री. १३. ६.१-७. आप. औ. १३. ८. १-१०, यज्ञतत्त्वप्रकाशे १ नेष्टा, सौर्यमुन्नेता च गृहीत्वा माहेन्द्रग्रहमनुजुहुयुः । ग्रहे महेन्द्रो देवता। चमसेषु ऊर्वाः पितरः । अतिग्राह्येपु अग्निः, इन्द्रः, सूर्यश्च क्रमेण देवताः। ततः पूर्ववद्भक्षणम् । खरे पात्राणां सादनं च । ततस्त्रय उक्थ्यविग्रहाः । तेषां प्रातस्सवनवदेव अनुष्ठानम् । तत्र सप्तदशस्तोमकानि त्रीणि पृष्ठस्तोत्राणि । तत्तत्पृष्ठसमाप्त्यनन्तरं मैत्रावरुणः प्रथमे, ब्राह्मणाच्छंसी द्वितीये, अच्छावाकस्तृतीये च स्वं स्वं शस्त्रं शंसेयुः । पूर्व माहेन्द्रग्रहकाले एक पृष्ठस्तोत्रम् । आहत्य चत्वारि पृष्ठस्तोत्राणि । माध्यन्दिनपवमानमेक- मिति पञ्च स्तोत्राणि माध्यन्दिनसवने । एवं मरुत्वतीय निष्केवल्यमिति शस्त्रदयं होतुः, मैत्रावरुणादीनां त्रीणि इति शस्त्राण्यपि पञ्च । उक्थ्याना- मिन्द्रो देवता । ततः सवनसमाप्तिहामं कृत्वा सर्वविजो बहिर्निगच्छेयुः ।। ॥ समाप्तं माध्यन्दिनसवनम् ॥ अथ तृतीयसवनम् माध्यन्दिनसवनसमाप्यनन्तरं किंचिद्विरम्य सवनमिदमारभेरन् । अस्य “तृतीयसवनम्" इत्येव संज्ञा; न तु सायंसवनमिति । तृतीय- सवनमारभमाणास्सर्वे ऋत्विजो विहारं प्रविश्य स्वं स्वं कर्म कर्तुमुद्यता मवेयुः । तदा प्रथमं लोकद्वारसामोत्तरवेदिसमीपे गातव्यं यजमानेन । तद्गत एवानौ होमश्च कर्तव्यस्तेन । ततस्तत्र प्रथममादित्यग्रहो ग्रहीतव्यः । तत्र प्रातस्सवने ऐन्द्रवायवमैत्रावरुणाश्विनग्रहाणां होमानन्तरं तत्तद्ग्रहेष्व- वशेषितस्य सोमरसस्य आदित्यस्थाल्यां सम्पातावनयनेन यो रसः स्थापितः, तस्मादादित्यपात्रेण आदित्यग्रहं गृहीत्वा तत्रोपांशुसवनाख्यं ग्रावाणं प्रक्षिप्य तेन तं रसमालोड्य तत्र दधि पयो वा किंचित्प्रक्षिप्य ग्रावाणमुक्षिप्य खरे पात्रमसादयित्वैव, आश्रावणप्रत्याश्रावणादौ निष्पन्ने तं जुहुयादादित्यग्रहम् । आदित्याः देवता । ततः प्रातस्सवनवन्महाभिषवः कर्तव्यः । तत्र सवनद्वयेऽभिषुतस्य सोमस्य य आत्तसारः तृणांशः तमेवामिषुणुयुः । अभिषुत्य पवित्रीकरणकाले मथितं दपि तत्रासिच्य, मेलयित्वा, पूतभृत्यवनीय, पवित्रीकृत्य तस्मादाग्रयणं गृहीत्वा आयतने सादयित्वा धारां विरमयेत् ॥ क. गायत्री धुलोकात् भूलोकं प्रति सोमलतामाहरत् । आनयनसमये सा सोमं त्रिधा विभज्य, द्वाभ्यां पद्भयां द्वौ भागौ भागमेकं मुखेन च गृहीत्वा १. आप. औ. १३. ९. १. बौधा, श्री. ८. ९. कात्या. श्री.१९. ४. ९.
सोमयागनिरूपणम् ७९ आर्भवपवमानाय प्रसर्पणम् चमसप्रचारश्व ततो माध्यन्दिनपवमानवत आर्भवपवमानस्तोत्रार्थ यजमानसहिताः पञ्चविजः प्रसयुस्सदः प्रति समन्वारब्धाः । ततस्सदसि उद्गातृभिराभव पवमानाख्ये स्तोत्रे सप्तदशस्तोमयुते स्तुते धिष्ण्यान प्रज्वलय्य, सवनीय- पशोर्हृदयाघवदानादीडाभक्षणान्तं कृत्वा, सवनीयहवींषि प्रचर्य, चमसानां प्रचारः कर्तव्यः । तत्र चमसाध्वर्युभिः चमसेपून्नीतेषु स्वयमध्वर्युः होतृचमसं गृहीत्वा इतरांश्चमसान् चमसाध्वर्युभिः ग्राहयित्वा आहवनीय- देशं गत्वा आश्रावणाद्यनन्तरं होत्रा याज्यायां पठितायां चमसाध्वर्युभिः सह सकृद्धुत्वा होत्रकाणां मैत्रावरुण-ब्राह्मणाच्छंसि-पोत-नेष्ट- अच्छावाक-आनीध्राणां चमसाध्वऍन् चमसानां पुनरुन्नयनाय प्रस्थाप्य, अनुवषद्कारकाले स्वयं होतृचमसं, ब्रह्मोद्भातृयजमानचमसान् चमसाध्वर्यु- द्वारा च हुत्वा, तांश्चमसान् भक्षणार्थ सदः प्रापय्य, उन्नयनाथ गतेषु चमसेषून्नीय आनीतेषु तान् क्रमशोऽध्वयुरेव आश्रावणाद्यनन्तरं जुहुयात् । तत्र याज्यां होत्रका एव स्वे स्वे चमसे पठेयुः । ततो भक्षणम् । पुनः अपूरणं चमसानामायतने सादनं च । ततो हविश्शेपात् पुरोडाशात् किञ्चिद्गृहीत्वा चमसिनः स्वे स्वे चमसे स्वस्वपितृपितामहप्रपिता- महानुद्दिश्य प्रक्षिप्य तान् मन्त्रेणोपतिष्ठेरन् । ततः प्रातस्सवनेऽन्तर्यामग्रहार्थमुपयुक्तेन पात्रेण आग्रयणात् सावित्रं ग्रहं गृहीत्वा आयतनेऽसादयित्वैव आश्रावणादि कृत्वा जुहुयात् । अन सविता देवता । ततस्तस्मिन्नेव सशेषे पात्रे पूतभृतः वैश्वदेवाख्यं ग्रहं गृहीत्वा आयतने सादयित्वा होतुश्शस्त्रपाठार्थं प्रैषमध्वर्युर्दत्त्वा स्वयं प्रतिगृणन् शस्त्रसमाप्तौ वैश्वदेवग्रहमादाय आश्रावणाधनन्तरं जुहुयात् । तदानीं चमसाध्वर्यवश्चमसान् प्रकम्पयेयुः । ते नाराशंसाः । अत्र ग्रहे विश्वे देवाः देवता । चमसेषु काव्याः पितरः । ततो भक्षणम् ।। अत्र चमसानां सर्वभक्षणम् ॥ आनीतवती । मध्यमार्ग मुखस्थलताया रसमचूपत् । तेन स नीरसस्सञ्जातः । अत एव अद्यापि तृतीयसवने गृहीतरसश्शुष्क एव सोम उपयुज्यते इति कथा । See. तै.सं. ६. १. ६. ४, ऐत.ना. ५. २. १३. २-३. शत.बा. ३.२.३. १. १. अत्र पुरोऽनुवाक्या अस्ति ।
यज्ञतत्वप्रकाशे सौम्यचरुः ततः सौम्यंचरुयागः । अनवस्रावितः तण्डुलपक्क ओदनः “चरु" इत्युच्यते। तं यागमिष्टिकल्पेनानुष्ठाय तत उपांशुपात्रेण प्रातस्सवनोपयुक्तेन पानीवताख्यं ग्रहम् आग्रयणस्थालीतो गृहीत्वा अनासाद्यैव आश्रावणाधनन्तरं जुहुयात् । अत्र अग्निः पत्नीवान देवता । ततस्तदीयभक्षणे निर्वर्तिते आधवनीयपात्रस्थं सर्वं सोमरसं पूतभृत्युत्पूर ततस्सर्वांश्चमसांश्चमसाध्वर्यु- मिरुनाय्य यज्ञायज्ञियाख्यमग्निष्टोमस्तोत्रमन्तिमम् उद्गातृभिः प्रारम्भयेत् । स्तोत्रमिदमेकविंशस्तोमकम् । स्तोत्रस्तवनकाले सर्व तत्सम्बन्धिनः स्वं शिरोऽवकुण्ठयेयुः । स्तोत्रे समाप्ते होता आग्निमारुताख्यमन्तिमं शस्त्रं शंसेत् । अध्वर्युः प्रतिगिरेत् । शस्त्रस्यान्तिमायामृचि शस्यमानायां प्रतिप्रस्थाता प्रातस्सवने चरमगृहीतं ध्रुवग्रहं होतृचमसेऽवनयेत् । ततो होतृचमसमध्वर्युः अन्यांश्चमसांश्चमसाध्वर्यवश्व आदाय यथावज्जुहुयुः । अत्र अग्निवैश्वानरो मरुतश्च देवताः । ततस्तेषां भक्षणम् । तदनन्तरमव-. शिष्टपाशुककर्मणामनुष्ठानं परिधिप्रहरणान्तम् । अत्र अध्वर्युविरमेत् ॥ हारियोजनग्रहप्रचारः तते उन्नेता आग्रयणपात्रस्थं सर्व सोमरस द्रोणकलशेन गृहीत्या सादनमकृत्वैव यवधानाभिस्संमिश्य पात्रं शिरसि निक्षिप्य आश्रावणादौ कृते शिरस्त एव जुहुयात् । ततः सर्वं ऋत्विजो हारियोजनं भक्षयेयुः । ततश्चमसिनः स्वं स्वं चमसमवजिलेयुः । तदेवात्र भक्षणम् , न तु पूर्ववत् प्रत्यक्षभक्षणम् । ततश्चमसिनामानीधीये दधिद्रप्सभक्षणम् । ततः ऋत्विजः पूर्वप्रतिज्ञातं परस्परसख्यं विसृजेयुः । ततः पत्नीसंयाजसमिष्ट- यजुर्होमादिकं सवनीयहविरङ्गकलापं परिसमाप्य प्रायश्चित्तहोमान् हुत्वा सवनसमाप्तिहोमं कुर्यात् । ततो यजमानस्य विष्णुक्रमणादि ।। ॥ एतावता तृतीयसवनं समाप्तम् ॥ क. दधिद्रप्सो दनोऽत्यल्पोऽशः । दधि च लौकिकमाषणादितो ग्राह्यम् । १. आप. श्री. १३. १३. १४-२२. आप. औ. १३. १७. १-९. १८. १-५. बौ. ८. १६. २.
सोमयागनिरूपणम् त अथ अवभृथेष्टिः ततः सोमयागोपयुक्तानि सर्वाणि पात्राण्यादाय (ऐष्टिकपात्राणि विहाय) औदुम्बयाँ कराजासन्यां निक्षिप्य तामादाय ऋजी च गृहीत्वा सपत्नीको यजमानस्सर्वे च ऋत्विजो यत्रावभृथेष्टिं करिष्यन्ति तज्जलसमीपं गच्छेयुः । तत्रेष्टिद्रव्यम् एककपालपुरोडाशं यज्ञशालानावेव सजीकृत्य- गृहीत्वा गच्छेयुः । गमनात्पूर्व तदङ्गतया आहवनीये काश्चन होमान् हुत्वा मध्येमागं गमनमन्त्र जपन्तः साम गायन्तः अवभृथाह जलं प्राप्नुयुः । तत्र जल एव अवभृथेष्टिं कुर्युः । तत्र अग्नीवरुणौ आज्यभाग- देवते । बर्हिःप्रयाजवर्जिताः चत्वारः प्रयाजाः । एवं द्वावनूयाजौ। वरुणः पुरोडाशदेवता । सर्वे होमा जल एव ।। तत वऋजीपं प्रोक्ष्य तत् जले प्रक्षिप्य प्रचरण्या निमजय्य सोमलिप्तानि सर्वाणि पात्राणि जले प्रक्षिप्य दीक्षाकाले धृतानि योक्त्र- मेखलावस्त्रजालकृष्णाजिनानि जले प्रविध्य तत्रैव जले यजमानः पत्नी च स्नायाताम् । तदा परस्परं पृष्ठशोधनं कुरुताम् । तदा सर्वेऽप्यत्विजः सहैव स्नायुः । तदा अवभृथस्नानार्थमागतानां सर्वेषां शिरसि यजमानोऽ. अलिना जलमुरिक्षपेत् । ततस्ते पलानं कुर्युः इति सम्प्रदायः ॥ तत उन्नेत्रा यजमानादिषु जलादुत्तारितेषु नूतनमहतं वासः परिदधीयातां यजमानः पत्नी च । ततो यजमान आदित्यमुपस्थाय क. यागार्थ क्रीतस्सोमो यागात् पूर्व यत्र स्थापित आसीत् , सा राजासन्दी. See. Page 62 निप्पीड्य गृहीतरसं निस्सारं सोममित्यर्थः । अभिपवग्रहणहोमादिकाले. येषु येषु पात्रेषु सोमरसलेपोऽभवत् , तानि सर्वाणि पात्राणि । ख. . , घ. अवभृथस्नानमिदम् अतीव पुण्यप्रदं सर्वेषां व्याध्यादिनिवर्तकं चेति शिष्टाः । १-१०, २०. २१. १. See.. आप. औ. कात्या. श्री. १०. ८. १७-१०-९-४, 11 ८२ यज्ञतत्त्वप्रकाशे ८ पुनर्देवयजनमागत्य शालामुखीयेऽग्नावेव उदयनीयेष्टिमनुतिष्ठेत् । मा प्रायणीयेष्टिबदेव । परं प्रायणीयेप्ट्यां या याज्याः ता उदयनीयायां पुरोऽनुवाक्याः । याश्च तत्र पुरोऽनुवाक्यास्ता अत्र याज्याः । देवतास्तु ता एव । द्रव्याण्यपि तान्येव । किं च प्रायणीयार्थ गम्मिन पात्र चरुः पक्कः तदप्रक्षाल्यैव पूर्व स्थापितम् । तत्रैवोदयनीयार्थं चरुं पचेत् । इत्येतावान् विशेषः । तत आनुवन्ध्यपशुयागः । तत्र गौर्वन्ध्या पशुवेन विहिता । परं कलौं गोवधो निषिद्ध इति कृन्वा तद्विवल्पतया बह्वच- ब्राह्मणे विहित आमिक्षायाग एपेदानीमनुष्ठीयते । स इष्टिरूप इति कृत्या दर्शान्तर्गतेन्द्रयागवदनुष्ठेयः । मित्रावरुणो देवता । आमिक्षासम्पादन- प्रकारः चातुर्मास्येषु प्रथम पर्वण्युक्तः। तामिडान्तां समग्रां वा परिसमाप्य यजमानो वेदेर्दक्षिण मागे केशश्मश्रुनखलोमानि वापयित्वा स्नात्वा देविकासंज्ञका:-धाता, अनुमतिः, राका, सिनीवाली, कुहूः इति पञ्च देवताः इष्टिकल्पनाज्येनेष्ट्वा, प्रथमगार्हपत्यमरण्योस्समारोप्य, गृहमागत्य, अरणी मथित्वा, अग्नीन विहृत्य तलोदवसानीयाख्यामिष्टिम् अधकपाल- पुरोडाशद्रव्यकाम् , तत्स्थाने विष्णुदेवताकामेकामाहुतिं वा कृत्वा अनन्तरं रात्रावप्यग्निहोत्रमारभ्य सायमग्निहोतं कुर्यात् । उदिते प्रातरग्नि- होत्रमनुतिष्ठेत् । आगामिन्यां पूर्णिमायां दर्शपूर्णमासावारभेत यदि सोमपूर्वाधानी स्यात् । एवं समाप्तस्सोमयागोऽग्निष्टोगसंस्थः प्रथमः ।। उक्थ्यसंस्था द्वितीया उक्थ्यसंस्थाको यदि स्यात् क्रतुः, तत्र प्रातस्सवनमाध्यन्दिन- सवनयोन विशेषोऽस्ति कश्चन । आदौ सङ्कल्पे सवनीयपशौ परं कियांश्चन विशेषः । 'उक्थ्येन यक्ष्ये' इति सङ्कल्पः । सवनीयपशुद्धितीयः ऐन्द्राम आग्नेयेन सह । सोमक्रयणकालेऽधिकस्सोम उन्मातव्यः । विशेषेणानेन सह प्रकृतिवन्माध्यन्दिनसवनान्तं यावदनुष्ठीय तृतीयसवनारम्भे चमसगण- त्रयपर्याप्तम् ऋजीपमभिषुत्य सोमरसं सम्पादयेत् । तत्र प्रकृतिवद्धारां सावयित्वा तृतीयसवनीयाग्रयणहोमोत्तरकालं धाराया एव त्रीनुक्थ्यग्रहान् क. समग्रानुष्ठानपक्षे वाजिनयागोऽपि वैश्वदेवपर्ववत्कर्तव्यः । इडान्तपक्षे न । १. तै. सं. ६. १. ५. ६. शत, ब्रा. ४. ४. २.
सोमयागविकृतिनिरूपणम् गृहीत्वा आयतने साइयेत् । ततोऽग्निष्टोमसंस्थावदेव क्रमेण कर्माण्यनुतिष्ठन् , अग्निष्टोमरतोत्रम्वन्धिचमसगणप्रचारानन्तरम् उक्थ्यग्रहप्रचारं कुर्यात् ॥ तत्रादौ चमसोन्नयनाथ चममा साध्वयून् प्रेष्य, तेषु चमसानापूर्या- गतेषु, अध्वर्युः उक्थ्यस्तोत्रार्थम् उद्गातून प्रेष्य तैर्यथावत्स्तुत्वा स्तोत्रे परिसमापिते मैत्रावरुणं शस्त्रशंसनार्थमभ्यर्थ्य, स्वयं च प्रतिगीर्य, तेन शस्त्रे समापिते चमसहस्तैश्चम साध्वर्युभिस्सह प्रथममुक्थ्यग्रहमादाय आहवनीयं गत्वा आश्रावणादिपूर्वकं हुवा भक्षयेत् । ततो द्वितीयतृतीयावपि उक्थ्यग्रहावेवमेव चमसैस्सह प्रचरेत् । तत्र त्रिष्वपि पर्यायेपु स्तोतार उद्गातारस्त एव । शस्त्रेषु परं प्रथमे पर्याये मैत्रावरुणः, द्वितीये ब्राह्मणा- च्छंसी, तृतीयेऽच्छावाकश्च शमितारो भवेयुः। प्रथमे उक्थ्यग्रहे इन्द्रावरुणौ, द्वितीये इन्द्रावृहस्पती, तृतीये इन्द्राविष्णू च देवताः । एवं चोक्थ्यक्रतोः त्रीण्युक्थ्यस्तोत्रााणे त्रीणि च शस्त्राण्यधिकानि । तानि चान्ते योजनीयानी- त्येतावान् विशेषः । अन्यत्सर्वं प्रकृतिवत् ।। । पोडशिसंस्था तृतीया यदि स्यात् षोडशिसंस्थाकः क्रतुः तदा प्रातस्सवने सर्वधारा- ग्रहाणामन्ते चारश्रे ऊर्ध्वपात्र षोडश्याख्यं ग्रहं गृहीत्वा खरे आसादयेत् । पशुपत्र मेपस्तृतीय ऐन्द्रः पूर्वाभ्यामाग्ने पैन्द्रानाभ्यां सह । तृतीयसवने उक्थ्यग्रहचमसप्रचाराननगरं पोडश्यांश्चमसानुन्नीय सूर्यस्यार्धास्तसमये षोडशिस्तोत्रमारम्भययुः । स्तोत्रे समाप्ते शस्त्रम् । ततस्तद्ग्रहचमस- प्रचारः । अवशिष्टानि कार्याणि प्रकृतिवत् । उक्थ्यपर्यन्तं पञ्चदश स्तोत्राणि शस्त्राणि चे युक्तम् । अत्राधिकमकं शस्त्रं स्तोत्रं च वर्धते । तच्च षोडशम् । तत्सम्बन्धादग्रह. पोडशी । तत्सम्बन्धाच क्रतुरपि पोडशीति व्यवहियते । श्रुतावेवमेव निर्वचनमुक्तम् ॥ अतिरातसंस्था चतुर्थी अतिरात्रसंस्थाके कतौ सोमक्रयकाले वहुलं सोमं क्रीत्वा मित्वा च स्थापयेत् । पूर्वाक्तैः (पोडशिन्युक्तैः) पशुभिस्त्रिभिस्सह मेषी चतुर्थी सरस्वतीदेवताका । तृतीयसवनीयाभिषवकाल एव तत्पर्याप्तमृजीपमभिषुत्य See. तै. सं. ६.६.११.६ २. तै. स. ६. ६. ११. १. १.
यज्ञतत्वप्रकाशे पृतभृति रसमापूर्य स्थापयेत् । षोडशिग्रहप्रचारानन्तरं होतृचमसमुख्यान दशापि चमसान् उन्नीय प्रथमे रात्रिस्तोत्रपर्याये प्रथम स्तोत्रं स्तावयेत् । समाते तस्मिन् होता प्रथमपर्याये प्रथमं शस्त्रं पठेत् । तत्समाप्तावध्वर्युः होतृचमसं चमसाध्वर्यवश्च अन्यांश्चमसानादाय आहवनीये हुत्वा भक्षक्रमेण भक्षयेयुः । अत्र वषट्कर्ता होता ॥ ततो मैत्रावरुणचमसं प्रथमं कृत्वा चमसानुन्नाय्य द्वितीये स्तोत्रे स्तुते, मैत्रावरुणेन शस्त्रे शस्तेऽध्वर्वादयः पूर्ववधुत्वा भक्षयेयुः । तदिदं गणद्वयमध्वर्युः कुर्यात् । अनन्तरं गणद्वयं प्रतिप्रस्थातृकर्तृकम् । अध्वर्युणा यत्कर्तव्यं तत्प्रतिप्रस्थाता कुर्यात् । अत्र ब्राह्मणाच्छंसिचमसं मुख्यं कृत्वा प्रचारः । यस्य चमसो मुख्यो भवति स एव तत्र वपटकर्ता । अयं प्रथमः पर्यायः । एवमेव पर्यायद्वयं पुनरावर्तयेयुः । एवमेकस्मिन् पर्याये चत्वारि स्तोत्राणि तावन्ति शस्त्राणि चेति त्रिष्वपि पर्यायेषु मिलित्वा द्वादश स्तोत्राणि शस्त्राणि च भवन्ति । इम एव त्रयो रात्रिपर्याया इत्युच्यन्ते । रात्रावेव स्तूयमानत्वादेषां रात्रिस्तोत्राणीति संज्ञा । तेषां पर्यायो रात्रिपर्याय इति । घोडशिग्रहानन्तरं ग्रहो नास्ति, किं तु चमसा एव । अत्र सर्वेषां चमसगणानामिन्द्र एव देवता ॥ एवं पर्यायेषु समाप्तेषु प्रतिप्रस्थाता अश्विदेवताकं द्विकपालं पुरोडाशं ब्रीद्यानयनप्रोक्षणावहननपेषणादिपूर्वकं श्रपयित्वा वेद्यामासाद- येत् । ततोऽध्वर्युहातृचमसमुख्यांश्चमसानुन्नीय सन्धिस्तोत्रमारम्भयेत् । समाप्ते तस्मिन् होता आश्विनशस्त्रं प्रारमेत । तत्सूर्योदयानन्तरमेव समापयति । ततः पूर्व शस्त्रसमाप्तौ याः काश्चियः शंसन्नेव सूर्योदयं प्रतीक्षेत । उदित एव सूर्ये शस्त्रस्यान्तिमामृचं पठेत् । उदयानन्तरं समाप्ते शस्त्रे, अध्वर्युर्योतृचमसं चमसाध्वर्यवश्वान्यांश्चमसान् गृहीत्वा आश्रावणाधनन्तरं जुहुयुः । अस्मिन्नेव समये प्रतिप्रस्थाता पूर्वसंपादित- माश्चिनपुरोडाशं जुहुयात् । अत्र सर्वेषां चमसानां पुरोडाशस्य च अश्विनी देवता । समग्रस्यैव पुरोडाशस्य होमो न अवदानादि कृत्वेति विशेषः । ततश्चमसभक्षणम् । अत्र होता वषट्कर्ता । अवशिष्टं प्रकृतिवत्समाप्य अवभृथं कुर्यात् । सर्वत्र अवभृथानन्तरम् उदयनीयेष्टिः, अनूपन्ध्यास्थाने मैत्रावरुण्यामिक्षा, उदवसानीया च प्रकृतिवदेवेति ॥
सोमयागविकृतिनिरूपणम एवं चतसृणां सोमसंस्थानां स्वरूपम् । तच्च संक्षेपेण निरूपितम् । एताम्य एव चतसृभ्यस्सोमसंस्थाभ्यो ग्रहचमसस्तोत्राणामावापोद्वापादिना अन्यास्तिस्रस्संस्थाः प्रसूताः । ताश्च अत्यग्निष्टोम-वाजपेय अप्तोर्यामनाना व्यवहारं अजन्ते ॥ अत्यग्निष्टोमसंस्था पञ्चमी तत्र, अग्निष्टोमस्तोत्रानन्तरम् उक्थ्यस्तोत्राणि त्रीण्यकृत्वा षोडशि- स्तोत्रशस्त्रादिप्रचारो यत्र क्रियते सा अत्यग्निष्टोमसंस्थेत्युच्यते । एवं च अग्निष्टोम एवं तदुत्तरं षोडशिग्रहचमसस्तोत्रादीनामनुष्ठाने सा अग्निष्टोम- मस्थैव संस्थान्तरं भजत इति फलितम् । अत्यग्निष्टोमसंस्थायामस्यां क्षत्रिय एवाधिकारी न ब्राह्मणवैश्याविति केचित् ब्रुवते । परमाश्वलायना- दिभिः त्रैवर्णिककर्तृ संस्थामध्येऽस्या अपि पाठात् तयोरप्यत्राधिकार मन्वाना याज्ञिकास्तथैवानुतिष्ठन्ति ॥ वाजपेयसंस्था षष्ठी वाजपेयसंस्थायां प्रातर्माध्यन्दिनसक्ने अग्निष्टोमवदेव । तृतीय - सबनेऽपि षोडशिग्रहस्तोत्रान्तं षोडशिवदेव । तदनन्तरं वाजपेयसंज्ञकमेकं स्तोत्रम् । एकश्चमसगणो होतृचमसमुख्यः । स्तोत्रं च सप्तदशस्तोमकम् । शस्त्रं होतुरेव । अयं संस्थान्तर्गतः संस्थाखेव गण्यते । अतस्संस्थावाजपेय इत्यपि व्यवहारोऽस्य । नायमापस्तम्बबोधायनादिभिर्विहितः न वा याजुषीपु शाखासु विधानमस्य दृश्यते । ताण्ड्यबामणे छन्दोगसूत्रे च अयमेव विहित इति कृत्वा केचिद्याज्ञिका अनुतिष्ठन्ति । तैत्तिरीयाद्युक्तो वाजपेय इतो भिन्नः । तत्र सप्तदश दीक्षाः, तित्र उपसदः एका सुत्या । सप्तदश प्राजापत्याः सवनीयपशवः । सप्तदशारनियूपः । तं सप्तदशभि- वासोभिर्वेष्टयेत । सप्तदश सोमग्रहाः प्रजापतिदेवताकाः । तथा सुराग्रहा अपि सप्तदश । इदानीं याज्ञिकाः सुराग्रहस्थाने पयोमहाननुतिष्ठन्ति । सुत्यादिने सर्व ऋत्विजो हिरण्यमाला धारयेयुः । ऋत्विग्भ्यः सप्तदश सप्तदश रथाश्वगजराकटदासीदासनिष्कगोऽजाविदुन्दुभीनां दक्षिणावेन दद्यः । सवनीयपशुकाले प्राजापत्यैस्सह ऋतुपर्नपि पञ्चोपाकृत्य पर्यग्नि- करणान्तं कृत्वा प्रथमतश्चतुरः क्रतुपशूनुपाकृत्य वपान्तं कृत्वा विरम्य ब्रह्मसामकालेऽवशिष्टैः पशुभिः प्रचरेत् । ततः सप्तदशशरावपरिमित- ८६ यज्ञतत्त्वप्रकाशे . नैवारचलं निरूप्य तेन प्रचरेत् । सर्वमन्यत्प्रकृतिवत् । एप आप्ता वाजपेयः । इसोऽप्यन्यः कुरुवाजपेयः कश्चिदस्ति । तस्याङ्गेषु बह्वस्ति वैलझण्यम् । तत्सूत्रादितोऽवगन्तव्यम् ॥ ॥ इति वाजपेयः॥ अप्तोर्यामसंस्था सप्तमी अतिरात्रसंस्थावत् रात्रिस्तोत्राणि सान्धस्तोत्रं च यथावदनुष्ठाय तदनन्तरं चत्वारि स्तोत्राणि अधिकतया यत्रानुष्ठीयते सा अप्तोर्यामसंस्था । अप्तोर्यामशब्दव्युत्पतिः श्रुतावेवं वर्णिता-पुरा कदाचित् प्रजापतिः पशूनसृजत् । सृष्टास्ते ततोऽपगताः । ताननेन ऋतुना आप्नोत् । यस्मा- दाप्नोत् तस्मादप्तोर्यामत्वमिति । अतोः प्रात: यामो यज्ञः अप्तोर्याम इति । एवं च सन्धिस्तोत्रान्तम् एकोनत्रिंशतं स्तोत्राण्यनुष्ठाय तदनन्तरं चत्वारि स्तोत्राणि तदर्थं चत्वारश्चमसगणा अप्यनुष्ठेयाः । तेष्यतिरात्रवदेव प्रथमद्वितीयगणगोरध्वर्युः तृतीय चतुर्थयोः प्रतिप्रस्थाता च कर्तारौ । इयमतोर्यामसंस्थेत्युच्यते ॥ एवं सप्तानां सोमसंस्थानां स्वरूपाणि संक्षिप्तानि । विस्तरस्तु ब्राह्मणेभ्योऽवगन्तव्यः श्रौतसूत्रादिभ्यश्च । अत्र सप्तस्वपि संस्थासु स्तोत्र शस्त्रादीनां स्तोमसङ्घयाविशेषादीनां सम्प्रतिपत्तये तानि नीचैः प्रदान्ते । तत्तदृग्साध्यस्तुतिगतसङ्खयाविशेषः त्रिवृत्पञ्चदशादिः स्तोमशब्दव्यवहारभाक् । अग्निष्टोमादिष्वनुऐयानां स्तोत्राणां शस्त्राणां च स्तोमसङ्खयादिकं सुखावबोधाय पट्टिकारूपण प्रदर्यते- १. अग्निष्टोमे- प्रातःसवने सङ्ख्या म्तोत्रनाम स्तोमः शस्त्रनाम १ बहिष्पवमानस्तोत्रम् त्रिवृत् १ आज्यशस्त्रम् होता २ आज्य स्तोत्रम् पञ्चदश २ प्रउगशस्त्रम् होता ২ হাঙ্ক मैत्रावरुणः ४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी ५ अच्छावाकशस्त्रम्, अच्छावाकः शस्त्रकर्ता ३ ४ " " .
सोमयागविकृतिनिरूपणम् माध्यन्दिनसक्ने सङ्ख्या स्तोत्रनाम म्तोमः शस्त्रनाम शस्त्रकर्ता ६ माध्यन्दिनपवमानम् पञ्चदश ६ मरुत्वतीयशस्त्रम् होता ७ पृष्ठस्तोत्रम् सप्तदश ७ निष्कैवल्य शस्त्रम् होता ८ मैत्रावरुणशस्त्रम् मैत्रावरुणः ९ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी १० ,,१० अच्छावाकशस्त्रम् अच्छावाका ८ " or तृतीयसबने ११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् १२ अग्निष्टोमस्तोत्रम् एकविंशतिः १२ आनिमारुत शस्त्रम् होता होता आहत्य अग्निष्टोमे द्वादश स्तोत्राणि, द्वादश शस्त्राणि, चत्वारः स्तोमाः । सर्वत्र स्तोत्रेषु प्रस्तोता उद्गाता प्रतिहां च स्तोतारः । शस्त्रेषु परं कर्तृभेदः ॥ २. उक्थ्ये- ५ प्रातस्सवन-अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । ५ माध्यन्दिनसबने-अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । १० तृतीयसवने ११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् होता १२ अग्निष्टोमस्तोत्रम् एकविंशतिः १२ आग्निमारुतशस्त्रम् होता १३ उक्थ्यस्तोत्रम् १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः १४ १४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी १५ १५ अच्छावाकशस्त्रम् आहत्योक्थ्यक्ती पञ्चदश स्तोत्राणि शस्त्राणि च स्तोमाश्चत्वारः। " अच्छावाक:
यज्ञतत्वप्रकाशे ३. षोडशिकतो- ५ प्रातस्सवने-अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । ५ माध्यन्दिनसवने --- अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । १० सङ्ख्या स्तोत्रनाम शस्त्रकर्ता होता तृतीयसबने स्तोमः शस्त्रनाम ११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् १२ अग्निष्टोमस्तोत्रम् एकविंशः १२ आनिमारुत शस्त्रम् होता १३ उक्थ्यस्तोत्रम् १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः १४ १४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी १५ १५ अच्छावाकशस्त्रम् अच्छावाकः १६ षोडशिस्तोत्रम् १६ षोडशिशस्त्रम् होता " स्तोत्राणि षोडश शस्त्राणि आहत्य षोडशिक्रतौ षोडश चत्वारश्च स्तोमाः । अतिरात्रे-- प्रातस्सवने-अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । ५ माध्यन्दिनसवने-आमिष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । १० तृतीयसवने ११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् १२ अग्निष्टोमस्तोत्रम् एकविंशः १२ आनिमारुतशस्त्रम् होता १३ उक्थ्यस्तोत्रम् १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः १४ १४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी १५ १५ अच्छावाकशस्त्रम् अच्छावाकः १६ षोडशिस्तोत्रम् १६ षोडशिशस्त्रम् होता होता " " सोमयागविकृतिनिरूपणम् ८९ " " प्रथमे रात्रिपर्याये सङ्ख्या स्तोत्रनाम स्तोपसं० शस्त्रनाम হঙ্কনী १७ प्रथमं रात्रिस्तोत्रम् पञ्चदश १७ प्रथमं रात्रिशस्त्रम् होता १८ द्वितीयं रात्रिस्तोत्रम् १८ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः १९ तृतीयं रात्रिस्तोत्रम् १९ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी २० चतुर्थं रात्रिस्तोत्रम् २० चतुर्थ रात्रिशस्त्रम् अच्छावाकः द्वितीये पर्याये २१ प्रथमं रात्रिस्तोत्रम् पञ्चदश २१ प्रथमं रात्रिशस्त्रम् होता २२ द्वितीयं रात्रिस्तोत्रम् २२ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः २३ तृतीयं रात्रिस्तोत्रम् २३ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी २४ चतुर्थ रात्रिस्तोत्रम् २४ चतुर्थं रात्रिशस्त्रम् अच्छावाकः तृतीये पर्याये २५ प्रथमं रात्रिस्तोत्रम् पञ्चदश २५ प्रथमं रात्रिशस्त्रम् होता २६ द्वितीयं रात्रिस्तोत्रम् , २६ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः २७ तृतीयं रात्रिस्तोत्रम् २७ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी २८ चतुर्थ रात्रिस्तोत्रम् २८ चतुर्थ रात्रिशस्त्रम् अच्छावाकः २९ सन्धिस्तोत्रम् त्रिवृत् २९ आश्विनशस्त्रम् होता आहत्य अतिरात्रे ऊनत्रिंशत्स्तोत्राणि तावन्येव च शस्त्राणि चत्वारः स्तोमाः। ५ अप्तोर्यामक्रती- प्रातस्सवने १ बहिष्पवमानस्तोत्रम् त्रिवृत् १ आज्यशस्त्रम् होता २ आज्यस्तोत्रम् पञ्चदश २ प्रउगशस्त्रम् होता ३ मैत्रावरुणशस्त्रम् मैत्रावरुणः ४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी ५ अच्छावाकशस्त्रम् आच्छावाका ३ ४ " " R 12 यज्ञतत्त्वप्रकाशे माध्यन्दिनसतने सङ्ख्या स्तोत्रनाम स्तोमसं० शस्त्रनाम शस्त्रकर्ता ६ माध्यन्दिनपवमानस्तोत्रम्- सप्तदश ६ मरुततीयशस्त्रम् होता ७ होतुः पृष्ठस्तोत्रम् एकविंशः ७ निष्केवल्यशस्त्रम् होता ८ मैत्रावरुणपृष्ठस्तोत्रम् चतुर्विंशः८ मैत्रावरुणशस्त्रम् मैत्रावरुणः ९ ब्रह्मपृष्ठस्तोत्रम् चतुश्चत्वारिंशः ९ वालणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी १० अच्छावाकपृष्ठस्तोत्रम्-- अष्टाचत्वारिंशः १० अच्छावाकशस्त्रम् अच्छावाक: तृतीयसवने ११ आर्भवपत्रमानस्तोत्रम् त्रिणवः ११ वैश्वदेवशस्त्रम् होता १२ उक्थ्यस्तोत्रम् त्रयस्त्रिंशः १२ आनिमारुतशस्त्रम् होता १३ त्रिणवः १३ मैत्रावरुणशस्त्रम् भैत्रावरुणः १४ एकविंशः १४ ब्राह्मणाच्छसिशस्त्रम् ब्राह्मणाच्छंसी १५ सप्तदश १५ अच्छावाकशस्त्रम् अच्छावाकः १६ षोडशिस्तोत्रम् एकविंशः १६ पोडशिशस्त्रम् प्रथमे पर्याये १७ प्रथमं रात्रिस्तोत्रम् पञ्चदश १७ प्रथमं रात्रिशस्त्रम् होता १८ द्वितीयं रात्रिस्तोत्रम् , १८ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः १९ तृतीयं रात्रिस्तोत्रम् १९ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी २० चतुर्थ रात्रिस्तोत्रम् २० चतुर्थ रात्रिशस्त्रम् अच्छावाकः द्वितीये पर्याये २१ प्रथमं रात्रिस्तोत्रम् पञ्चदश २१ प्रथमं रात्रिशस्त्रम् होता २२ द्वितीयं रात्रिस्तोत्रम् २२ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः २३ तृतीयं रात्रिस्तोत्रम् २३ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी २४ चतुर्थ रात्रिस्तोत्रम् २४ चतुर्थ रात्रिशस्त्रम् अच्छावाकः होता सोमयागविकृतिनिरूपणम् शस्त्रनाम तृतीये पर्याये सङ्खधा स्तोत्रनाम स्तोमसं० शस्त्रकर्ता २५ प्रथमं रात्रिस्तोत्रम् पञ्चदश २५ प्रथमं रात्रिशनन् होता २६ द्वितीयं रात्रिस्तोत्रम् २६ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः २७ तृतीयं रात्रिस्तोत्रम् २७ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी २८ चतुर्थ रात्रिस्तोत्रम् २८ चतुर्थं रात्रिशस्त्रम् अच्छावाकः २९ सन्धिस्तोत्रम् त्रिवृत् २९ आश्विनशस्त्रम् होता ३० अप्तोर्यामस्तोत्रम् प्रथम ३० प्रथमाप्तोर्यामशस्त्रम् होता ३१ द्वितीयं पञ्चदश ३१ द्वितीयाप्तोर्यामशस्त्रम् मैत्रावरुणः ३२ तृतीयं सप्तदश ३२ तृतीयाप्तोर्यामशस्त्रम् ब्राह्मणाच्छंसी ३३ चतुर्थ एकविंशः ३३ चतुर्थीप्तोर्यामशस्त्रम् अच्छावाकः आहत्य लयस्त्रिंशत्स्तोत्राणि, तावन्ति शस्त्राणि, नव च स्तोमा इति । एवं ज्योतिष्टामाख्यस्य सोमयागस्य स्तोत्रशस्त्रगतसङ्खयादीनि यथावत् प्रदर्शितानि ॥ स्तोमविवरणम् , विधुतिप्रकारश्च एवं संवत्सरसत्रान्तेषु तेषु तेषु सोमयागेषु सामवेदीयैरुगात्रादि- मिऋत्विग्भिः क्रियमाणानां स्तोत्राणां सङ्ख्या तदीयस्तोमाश्चोक्ताः । तत्र तत्तद्देवताभ्यस्तेषु तेषु ग्रहचमसादिषु पात्रेषु सोमरसे गृहीते तत्तद्देवता उद्दिश्य गानयुक्तैर्मन्त्रैः सदोनामकमण्डप औदुम्बर्याख्यस्थूणासमीपे उपावेष्टैरुगातृप्रस्तोतृपतिहर्तृनामकैर्ऋविग्भिः क्रियमाणाः स्तुतिविशेषा एव स्तोत्रपदेनोच्यन्ते । स्तोत्रगतावृत्तिविशेष एव स्तोमपदाभिधेयः । तिस वृक्षु एकं साम गीयते । तत् तासु यावत्कृत्व आवर्त्यते तावत्सङ्ख्या- कस्तोमो भवति । ते च स्तोमाः-त्रिवृत् , पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंश , चतुर्विशः, चतुश्चत्वारिंशः, अष्टाचत्वारिंशः इति नवप्रकाराः । इमे एव प्रकारास्तत्तत्क्रतुषु कचिदभ्यस्ताः कचि- चानभ्यस्ताः क्रियन्ते तत्तद्विधिमनुस्य । त्रिवृत् इति.नवसङ्खयोच्यते । त्रिणव इति सप्तविंशतिः । अन्यत् यथाश्रुतमेव ॥ .... ...3 ९२ यात स्वप्रकाशे इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिग्भिस्सम्पा- दनीया । तद्यथा-माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् । तच पञ्चदश- स्तोमकम् । सा च सङ्खया तिसृणामृचांपर्यायत्रयगानेन सम्पादनीया। तत्र प्रथमे पर्याये-प्रथमामृचं त्रिः, द्वितीयां सकृत् , तृतीयां च सकृत् । एवं प्रथमपर्याये पश्चवारमावृत्तिर्जाता । द्वितीय पर्याये-प्रथमा सकृत् , द्वितीयां त्रिः, तृतीयां सकृच्च गायेत् । एवं द्वितीये पञ्चवारमावृत्तिः । तृतीये पर्याये—प्रथमा सकृत् , द्वितीयां सकृत् , तृतीयां त्रिः । एवं पञ्चवारम् । मिलित्वा पञ्चदशसङ्ख्या सम्पन्ना । गानगतप्रकारविशेषो विद्युतिरित्युच्यते । एकैकस्मिन्नपि स्तामेऽनेका विष्टुतय इति मिलित्वा अष्टाविंशतिसङ्ख्याका विष्णुतयस्सन्ति । गानकाले च गणनार्य कुशानिक्षेपः कार्यः । तत्रोद्गाता सदोनामकमण्डामध्ये निखानामौदुम्बरी वस्त्रप्रवेष्टिता- मपाश्रित्योत्तराभिमुख उपविशेत् । तस्य दक्षिणभागे (उद्गातुः पूर्वस्यां दिशि) प्रस्तोता पश्चिमाभिमुख उपविशेत् । वामभागे (उद्गातुः पश्चिमायां दिशि) प्रतिहा पूर्वाभिमुख उपविशेत् । एवं तैरुपविष्टाने कियमाणे प्रस्तोता (उद्गातुरनन्तर ऋत्विक् ) सानो गानमारभमाणः आरम्भकाले पूर्वोक्ताः कुशा एकैकस्यामावृत्तौ, एकैकशो भूमौ निक्षिपेत् । तीक्ष्णाग्रः प्रादेशमात्रः उदुम्बरवृक्षीयः एकत्र तष्टो लघुकायः काष्ठविशेषोऽत्र कुशाशब्देनोच्यते । ताश्च तासु तासु विष्ठातेषु विभिन्नप्रकारेण निक्षेपणीयाः । ते च प्रकारविशेषा अधस्तन्या पट्टिकया स्पष्टीभविष्यन्ति । तत्र त्रिवृत्स्तोमे न विशेषोऽस्तीति न कुशानिक्षेपः क्रियते ॥ २ पञ्चदशस्तोमस्य तिस्रो विष्टुतयः । तत्र- प्रथमा विष्टुतिः- प्र. पर्यायः द्वि. पर्यायः तृ. पर्यायः तृतीया ऋक् द्वितीया ऋक् | || प्रथमा ऋक सोमयागविकृतिनिरूपणम् ९३ द्वितीया विष्टुतिः- प्र. प. द्वि. प. तु. प. तृतीया ऋक् द्वितीया , - प्रथमा " | - तृतीया विष्टुतिः- प्र. प. द्वि. प. तृ. पं. तृतीया ऋक् द्वितीया " । III प्रथमा " ३ सप्तदशस्तोमस्य सप्त विष्टुतयः तत्र प्रथमा- - प्र. प. द्वि. प. तृ. प. तृतीया ऋक् द्वितीया प्रथमा " ४ एकविंशस्तोमस्य चतस्रो विष्टुतयः तत्र प्रथमा- द्वि. प. तृ. प. तृतीया ऋक् द्वितीया S प्रथमा "
९४
. . । यतत्वप्रकाश
५ त्रिणवस्तोमस्य (२७) द्वे विष्टुती
तत्र प्रथमा-
प्र. प. द्वि. प.
तृतीया ऋक्
तृ. प.
द्वितीया
S
प्रथमा "
--
६ त्रयस्त्रिंशस्तोमस्य पश्च विष्टुतयः
तत्र प्रथमा-
प्र. प.
द्वि. प.
तृतीया ऋक्
तृ. प.
द्वितीया "
11
प्रथमा
७ चतुर्विशस्तोमस्यैका विष्टुतिः
तत्र प्रथमा-
प्र. प. द्वि. प.
तृतीया ऋक्
तृ. प.
द्वितीया
11
प्रथमा
सोमयागविकृतिनिरूपणम्
-
८ चतुश्चत्वारिंशस्तोमस्य तिस्रो विष्टुतयः
तत्र प्रथमा विष्टुतिः-
द्वि. प.
तृ. प.
-
प्र. प.
तृतीया ऋक्
द्वितीया
प्रथमा
९ अष्टाचत्वारिंशस्तोमस्य हे विष्टुती
तत्र प्रथमा विद्युतिः-
द्वि. प.
प्र. प.
तृ. प.
T
तृतीया ऋक्
द्वितीया "
प्रथमा "
অঙ্কনসন্ধায় एवं पञ्चदशाधष्टाचत्वारिंशान्तानां स्तोमानामष्टानामनेकप्रकारासु विष्टुतिषु प्राथमिकी विष्टुतिरेकैका स्वरूपेणोल्लिखिता । इतरासां स्वरूपमस्मत्कृतताण्ड्यमहाब्राह्मण भूमिकातोऽवगन्तव्यम् । ग्रन्थगौरव- भयात्तु नोलिखितमत्र । अत्र सर्वत्र तत्तत्स्तोत्रारम्भे प्रस्तोता स्वस्य पुरतः उदगग्राः पश्चिमापवर्गाः कुशा निक्षिपेत् गणनार्थम् । तत्र प्रथमे पर्याये प्रथमाया ऋचस्तत्तत्सङ्ख्याकाः कुशाः तिरश्चीना निक्षेपणीयाः । द्वितीयस्या अनूचीनाः । तृतीयस्याः पुनस्तिरश्चीनाः । एवमेव द्वितीय- तृतीययोरपि पर्याययोरिति बोध्यम् । अत्र कुशाशब्दः आकारान्तस्त्रीलिङ्गः। अयमेव च स्तोमानां गणनाप्रकारो ज्योतिष्टोमादिषु सहस्रसंवत्सरान्तेषु सर्वेष्वपि सोमयागेवित्यवगन्तव्यम् । सङ्घयाया अविस्मरणाय अयं प्रकार आहतः॥ इति महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-श्रीचिन्नस्वामिशास्त्रि- विरचिते यज्ञतत्त्वप्रकाशे सोमयागादिनिरूपणाख्यः द्वितीयो भागः ॥
|| श्रीः॥ ॥ श्रीगणेशाय नमः ॥ ॥ यज्ञतत्त्वप्रकाशः ॥ महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः चयनादिनिरूपणरूपः ॥ तृतीयो भागः ॥ चयनम् अथेदानीमग्निचयनं निरूप्यते । पशुयागेषु सोमयागेषु योत्तरवेदिरुक्ता तत्रैव आहवनीयं निवाय सर्वे होमाः कर्तव्या इत्ययमेकः पक्षः । तस्या एसोपरि स्थण्डिलविशेष कञ्चन निर्माय तदुपर्याहवनीयमवस्थाप्य तत्र होमा इत्यपरः पक्षः । तत्र ताशस्थण्डिलनिर्माणप्रकारः 'चयनम्' इति, निर्मित, स्थण्डिलम् , 'चितिः' इति च व्यवहियते वैदिकसम्प्रदाये । सा चितिर्रि- विधा-क्षुद्रचितिः, महाग्निचितिश्चेति । शर्कराख्यैः क्षुद्रपाषाणैः शतो- पशतसङ्ख्याकैः निर्मीयमाणा अल्पाकारा क्षुद्रचितिः । बृहतीभिस्सहस्त्र- सङ्ख्याकामिरिष्टकाभि षड्विवाभिरखण्डिताभिस्तत्तदाकारतया निर्मीयमाणः स्थण्डिलविशेषो महानिचितिः । तत्र क्षुद्रचितयः षट् । तासां विषयो मन्त्राश्च तैत्तिरीयारण्यके तैत्तिरीयब्राह्मणान्तर्गते काठमाख्ये भाग एव च दृश्यन्ते । नान्यते । तासां विनियोग प्रायेण निरूढपशुयागादौ एव याज्ञिकाः १. षोडशी, अध्या, पाद्या, पक्ष्या, पशमध्या, पक्षाश्या इति षड्विधा इष्टकाः । गार्हपत्यवितरिष्टका एतदपेशया विभिन्न प्रकारा एव भवेयुः । २. चित्युपयुक्ता मन्त्राः ब्राह्मणानि च प्रायण आध्यात्मिकभावपूर्णानीत्य- स्माभिः सप्रमाणमुपपादितं यज्ञतत्त्वालोके । क्षुद्रचितिषु तु बाहुल्येन तन्मयतैवोपलभ्यते । संहिताब्राह्मणभागापेक्षया आरण्यकभागोऽध्यात्मविद्यापबंहित इति स्पष्टमेव । अत एव ब्राह्मणोपनिषदः सर्वा अपि आरण्यकान्तगता एवाधीयन्ते । अतश्च शानकर्मोमयसवलना- स्मिकीनां क्षुद्रचितीनाम् आरण्यकेषु आम्नानं न कदापि दोषाय कल्पते । अतस्तासां प्रामाण्यविषयेऽनुष्ठानविषये वा न कियानपि न्यूनाधिकभावः साहितिकचयनापेक्षया । 13 ९८ यज्ञतत्त्वप्रकाशे कुर्वन्ति । ताश्च एकदिनसाध्या एव । तत्साधनभूतानां क्षुद्रपापाणाना- मल्पत्वेन तैमेरुपरि स्थण्डिलनिर्माणस्य अशक्यतया उत्तरवेदि- मध्येऽवटं कृत्वा तत्रैव तानुपधाय तदुपयेव आहवनीयमुपधाय यजेत । महाग्निचितयस्तु भूमे पथैव क्रियन्ते । ताश्च कादशविधातेत्तिरीय उक्ताः । तासामेव च प्रमाणविवर्धननैकोतरशतविधत्वं वाजसनेयिशाखायामुक्तम , आपस्तम्बादिभिर्निरूपितं च । परं तासु सासु नचितिरेव सुपर्णचित्यपर- नामधेया प्राथम्यं प्राधान्यं च आवहति । अतः सैव याज्ञिकैर्यथायथ- मनुष्ठीयते सति सामग्रीसमधाने । अन्यास्तु नाममात्राव शिष्टाः । यथा- वदनगमोऽपि न तासां सुलभः । तैत्तिरीये शाखान्तरेषु च श्येनचिति- मधिकृयैव प्रवृत्ता मन्या ब्राह्मणानि च । सा श्येनचितिराकाशे पक्षी प्रसार्य डयमानपक्ष्याकृतिश्चीयते । तत्र पञ्च प्रस्ताराः । एकैकस्मिन् प्रस्तारे शतद्वयमिष्टकानाम् । पञ्चसु प्रस्तारेपु मिलित्वा सहस्रमिष्टका भवन्ति । स्वरूपमस्या अन्ते पृथक चित्ररूपेण प्रदर्शितम् । अत्र सर्वेष्वपि प्रस्तारेषु नैकरूप्येणेष्टकानामुपधानम् किंतु प्रथमतृतीयपश्यमेष्वेकरूपतया, द्वितीयचतुर्थयारेकरूपतया । तथा सत्येव प्रस्ताराणां परस्परं संलग्नता स्यात् । इयमाहवनीयनिधानार्थी चितिः । एवमेव गार्हपत्यार्थमपि चितिः सम्पादनीया । सापि प्रथमानुष्ठाने पञ्चप्रस्ताव । परमिष्टकानामेकरूपतत्र तत्र । दीर्घचतुरश्राकारा च सा, न पक्षिरूगा । एवं पञ्चभिः प्रस्तारैनिर्मिता चितिर्जानुदनप्रमाणा स्यात् । त्रिंशदगुलं जानुदन्नप्रमाणमिति सूत्रकाराः । तस्य पञ्चमोऽशः इष्ट कानामुत्सेधः । एवं च षडङ्गुलोन्नता एका इष्टका भवति । तिर्यक्षमा गानि इष्टकाचित्र एव तत्तदिष्टकास्वरूप- निटे उल्लिखितानि । एवं सामान्यतः चयनसम्बन्धिनो विषयाः कथिताः। तदनुष्ठानप्रकारः सङ्खपतोऽथ निरूप्यते ॥ चयने उखासम्भरणम् यस्मिन् वसन्तेऽग्नि चेष्यमाणो भवति ततो वत्सरात् पूर्वम् अमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुवा चयनाथ सकलं . कुर्यात्-साग्निचित्येन ज्योतिष्टोमेन सर्वपृष्ठ-सर्वस्तोम-अप्तोर्यामादिना वा यक्ष्य इति । ततः प्रकृत्यग्निष्टोमादिवत् सोमप्रवाकवरण-मधुपर्कदानादि- देवयजनयाचनान्तं कृत्वा, गाईप यादग्नि गृहीत्वा आहवनीयाद्यायतने निक्षिप्य प्रज्वलय्य देवेभ्यः अग्नये सवित्रे च कांचन होमान् हुवा चयननिरूपणम् . खनित्रम् , अश्वरशनां, गर्दभरशनां च गृहीत्वा ताभ्यामश्वं गर्दभं च बवा, कृष्णाजिनं पुष्करपणे मुअतृणनिर्मितां रज्जु, कमण्डलु सवं जुहूं हिरण्यं च गृहीत्वा, अश्वं पुरतो गमयन्त अध्वर्युब्रह्मयजमानाः तत्पश्चात् गर्दभसहिता उवानिर्माणयोग्या यत्र मृदस्ति तत्र गत्वा तत्र वल्मीकमुद्धत्य तमुपस्थाय मृत्खननस्थानमश्वेन आक्रमय्य, अश्वपादनिक्षेपस्थले हिरण्यं निधाय हुवा मृत्खनमध्या त्रिः परिलिख्य तं देशं खात्वा, तत उद्गतां मृदं पुष्करपणे विष्टय, मृत्खनस्योत्तरभागे कृष्णाजिनमास्तीर्य तत्र पद्मपत्रमुत्तानं वितत्य तत्र मृदं सम्भृय मृदमभिमृश्य मृत्खनऽप आनीय, तन्मृदन्तरेण अभिपूर्य समृदं कृष्णाजिनमादाय मौज्या रज्ज्वोपना, हृत्वा गर्दभस्य पृष्ठ आधाय, अश्वरशनां गर्दभरशनां च गृहीत्वा पूर्ववत् अग्रेऽश्वं गमयन्तः स्वरमाणाः प्रत्यागत्य विहारस्योत्तरभागे परिश्रिते स्थाने बदामेव मृदं पुष्पफलवीयोषधीषु निक्षिप्य, बन्धनं विस्रस्य, तत्र मृदि उखादृढी- करणार्थानि स्फुटिनघटादिशकलानि, वेण्यङ्गारान , व्रीहितुपान् , पलाशकषायं, शर्कराः, पिष्टाः, कृष्णाजिनाजसोमानि, अन्यानि च तादृशानि वस्तूनि सम्मेल्य, स्थापयेयुः । ततो यजमानस्तां मृदम् अध्वर्यवे दद्यात् । ततोऽवयुः स्वयमेवोखां निर्मायात् । सा च चतुरश्रा परिमण्डला वा प्रादेशमात्रोर्ध्वप्रमाणा, अनिमात्रतिर्यप्रमाणा, बिलस्य अधस्तात् द्वयङ्गुल परिमिते दशेरास्त्रावती द्विचतुष्पदम्तनान्त्रिता च कार्या। ततस्तामुत्तरतः सिकनासु प्रतिष्ठाप्य, मित्राय विनिवेद्य, तस्या एव मृदः अषाढाख्यामेकां चतुरश्रां रेखात्रय युनामिष्टका निर्माय, गार्हपत्यादग्निं गृहीत्वा तमश्वशकता प्रदीप्य तेनोखां धूपयित्वा तमग्निं विसृज्य, अग्रेण गार्हपत्यमवट खात्वा, तत्रोखापाकाहा॑णि वस्तूनि प्रक्षिप्य, तदुपर्युवाम- वधाय, तया सहापाढाख्यामपीटकां निक्षिप्य, पाकसाधनैर्व तुभिः प्रच्छाद्य, गार्हपत्यादमिनाहृत्य, तदुपर्यभ्यावाय, ते तथा पक्त्वा यथा लोहिते भवतः, उदास्य, अजापयसोखां सिक्त्वा श्लक्ष्णीकृत्य, उखाम- षाढष्टकां च सुरक्षितं निक्षिोत् ।। चयने वायव्यपशुयागः तदनन्तरं वायुदेवनाकं पशुयागमनन्तरपूर्णिमायाम् अनन्तरामा- वास्यायां वा निरूढाशुबन्धयागवत् चयनाङ्गतया अनुतिष्ठेत् । अत १८० यज्ञतत्त्वप्रकाशे वायुर्नियुत्वान् देवता । पशुपुरोडाशे तु प्रजापतिर्देवतेति विशेषः । पशोः शिरश्छित्त्वा मृदा प्रलिप्य सुरक्षितं निदध्यात् । अस्येप्टकोपवाने उपयोगो भविष्यति । ततोऽग्निष्टोमवत् प्रवर्यसम्भरणं कुर्यात् । तच्च पर्वण्येव भवति । तदानीमेव चयनौपयिका इष्टका निर्माय अग्निं मथित्वा तेन ताः पचेत् । यथा ताः कृष्णा वक्रा अतिपक्का अपक्का वा न भवेयुः, यथा च लोहितवर्णा एव स्युः तथा पक्तव्याः । ततो दीक्षारम्भः । तत्र दीक्षाविषये दिनत्रयप्रभृति संवत्सरपर्यन्ता बहवः पक्षाः श्रुताः । दिनत्रयदीक्षापक्षे वासन्त्यां शुक्लपष्ठयां दीक्षारम्भः कर्तव्यः । पक्षान्तरेषु यथा वासन्त्यां पूर्णिमायां सुत्या स्यात् तथा आरम्भः कार्यों दीक्षायाः ॥ उख्याग्निनिष्पादनधारणादि यस्मिन् दिने दीक्षारम्भ चिकीर्पति तस्मिन् दिने प्रातरग्निहोत्रं कृत्वा, नान्दीश्राद्धं यागादीनां द्रव्यविभागनिर्देशं च कृत्वा गृह एव दीक्षणीयेष्टिं कुर्यात् । सा च त्रिहविष्का-अग्नये वैश्वानराय द्वादश- कपालः पुरोडाशः, अग्नाविष्णुभ्यामेकादशकपालः पुरोडाशः, अदित्यै चरुश्चेति । पत्नीसंयाजान्तां तामनुष्ठाय, ततः सोमयागवत् प्राग्वंशनिर्मा- णादिकं मुष्टिकरणावधिक क्रियाकलापमनुष्ठाय, मुअतृणैः शणतृणैर्वो- खामापूर्य, तामाहवनीयम्योपर्यविश्रित्य परितोऽङ्गारः प्रदीपयेत् । उखामध्ये सुखदायानि च वस्तून्याज्येन अक्त्वा प्रक्षिपेत् । यथा तप्ताया उखाया अन्तःस्थानि वस्तूनि स्वयं दोरन् तथा तांतापयेत् । अन्तःस्थे तृगेष्वति- तसेषु तत्र अग्निरुत्पद्यते । स उख्योऽग्मिरित्युच्यते । उख्ये जाते आहवनीय- मग्निमुपशमय्य, उख्येऽग्नौ वैककृती शमीमयीं च समिधावाधाय, ज्वलन्तं ' तमग्निमुपस्थाय, पुनरौदुम्बराश्वत्थादिभिः काष्ठेरग्निमादीप्य मुअतृणनिर्मिते हस्तषट्कपरिमितदैर्घायुते शिक्ये साग्निम् उखामवधाय सुवर्णनिर्मित हस्ततलपरिमितमेकविंशतिनिधियुतं वर्तुलाकार रुक्म यजमानस्य कण्ठेऽध्वर्युरवमुञ्चेत् । ततो यजमानः शिक्यपाशमपि कण्ठेऽवमुच्य, तदुपरि कृष्णाजिनं स्कन्धयोर्निधाय, उख्यमादायोत्थाय, उख्यं नाभेरुपरि धारयमाणः चतुरो विष्णुक्रमान् प्राचः कामेत् । प्राङ्मुखः सन् चत्वारि पदान्यग्रतो गच्छेत् । तदेव विष्णुक्रमणमित्युच्यते । १. सर्वत्र पशुयागेषु पश्वङ्गभूता एव देवताः पुरोडाशाङ्गभूताः प्रायेण भवन्ति । अत्र तु न तथा । पशुदेवता वायुः, पुरोडाशदेवता प्रजापतिः ।
चयननिरूपणम् ततः प्रदक्षिणं पर्यावृत्य रुक्मं कृष्णाजिनं चोन्मुच्य निधाय शिक्यपाश- मुन्मुच्य, पूर्वसजितायामोदुम्बर्यामासन्यां प्रादेशमात्रपादायां मौजविता- नायां मृदा लितायामुख्यं सादयित्वोपस्थाय, पुनः काष्ठैरुपसमिन्धीत । ततो मुष्टीकरणादिसौमिकपदार्थान् सनीहारप्रेषणान्तान् कृत्वा जाग्रत् तां रात्रिनतिवाहयेत् । श्वोभूने प्रातरुत्थाय सोमपरिवेषणान्ते कर्मणि कृते यजमान उख्यमनिमुपतिष्ठेत । ततो मध्यन्दिने मध्यरात्रे च व्रतग्रहणा- दिकं प्रकृतिवदेव । एवं यावद्दीक्षं पूर्वे द्युर्विष्णुक्रमणम् , उत्तरेयुरग्न्यु- पस्थानं च पर्यायेण कुर्वन्नासीत । यदहर्दीक्षासमाप्तिः तदहर्विष्णुक्रमण- मुख्योपस्थानं चत्यु भयं कृत्वा उख्यमुद्यम्य शकटेऽवस्थाप्य, गार्हपत्य- दक्षिणाग्नी अपि साक्षादेव शकटेऽवस्थाप्य स्वयमपि सपत्नीकः शकट- मारुह्य देवयजनस्थानं प्रति प्रयायात् । प्राप्य देवयजनं गाईपयं दक्षिणाग्निं च स्वम्वायतने निधाय, गार्हपत्यस्य पुरत उख्यं निषाय, तत्रौदुम्बरी समिधमादधाति ॥ गार्हपत्यचितिमानादि ततो गार्हपत्यस्थण्डिलचयनाथ हस्तचतुष्टयपरिमितां भूमि प्रोक्षणोद्धननादिभिः संस्कृत्य तं देशमेकविंशत्या शर्कराभिः (क्षुद्रपाषाणैः) परिश्रित्य, परिश्रितदेशे प्रागायता एकविंशतिमिष्टकाः प्रथमप्रस्तारे उपदध्यात् । द्वितीयप्रस्तारे तद्वयत्यासेन तावतीरेवेष्टका 'उदगायता उपदध्यात् । प्रथमप्रस्तारे प्रागायतास्तिस्रो रीतयः । एकैकस्यां रीती सप्तेष्टकाः । द्वितीयप्रस्तारे उदगायता इष्टकाः सप्त रीतयः । एकैकस्यां रीतौ तिस्र इष्टकाः । एवं प्रथमतृतीयपञ्चमेषु प्रस्तारेषु प्रागायता इष्टकाः, द्वितीयचतुर्थयोः प्रस्तारयोरुदगायताश्चेष्टका उपदध्यात् । एकैकस्मिन् प्रस्तारे एकविंशतिरिष्टका इत्याहत्य पञ्चस्वपि प्रस्तारेषु पञ्चोत्तरं शतमिष्टका भवन्ति गार्हपत्यचितौ । इष्ट काश्च दैर्ये द्वात्रिंशाअलभिताः विस्तारे पादोनचतुर्दशाङ्गुलमिताश्च भवन्ति । (३२४१३१) । एतासामुपधान- रीतिस्तु प्रतिकृतौ द्रष्टव्या। तत्रैकैकं प्रस्तारमुपधाय चावालदेशादादी अत्रैव अमेवयजनं प्रति साक्षादाहरणम् । अन्यत्र तु अरण्यादि- समारोपणेनैव । २. प्रथमतो गार्हपत्यस्य चयनम् । तत आहवनीयस्य । दक्षिणामः स्थाण्डिलं नास्ति । १.
१०२ यज्ञतत्वप्रकाशे मृदं सिकनां वा आहृत्य अहितस्य प्रस्तारम्योपरि निवपेदालिम्पेद्रा सन्धीनामदर्शनाय । एवं सर्वप्रस्तारेषु पांसुनिवापः कार्यः । सेयं गार्हपत्यचितिः ॥ गाई पत्यचितेपरि उख्याग्निस्थापनम् एवं गार्हपत्यचितिमुपधाय, तदुपरि उखागतमग्निं सर्वमपि सन्निनपति वर्धयति च तं काष्ठशकलैः । ततस्तं मन्त्रैरुपस्थाय, रिक्तामुखां दधिमधु- सिकतादिभिरापूर्य, तां शिक्यादपाकृत्य, शिक्यं, रुक्मसूत्रं, आसन्दी, तुषपक्काः कृष्णास्तिस्र इष्टकाश्चादाय, नैन्यां दिशि गत्वा, क्वचितरप्रदेशे शिक्यं निधाय, शिक्यपाशस्योपरि ताः कृष्णास्तिस्र इष्टका दक्षिणापवर्गा निधाय, शिक्यजालन ताः प्रच्छाद्य, तामां दक्षिणतो रुक्मसूत्रमासन्दीं च निधाय, ते अभिमन्व्योपस्थाय, पुनस्तत् सर्वमप्रतीक्ष्यैव देवयजनमागत्य शुद्धयर्थ मार्जनं कृत्वा , गाईपत्यमुपतिष्ठेरनव्वयुनायजमानाः । अनन्तरं प्रकृतिवत् प्रायणीयेष्टिं कृत्वा, सौमिकी महावेदि विमाय, सोमं क्रीत्वा, आतिथ्यष्टिं कृत्वा, उत्तरवेदेपरि इष्टकोपधानार्थ वेणुदण्डेन मानं कुर्यात् । प्रमारितपक्षद्वयपक्षिसदृशः स्थण्डिलस्याकार इत्युक्तम् । स्थण्डिले च आत्मा, दक्षिणः पक्षः, उतरः पक्षः, पुच्छं, शिर इति पञ्च भागाः । तत्र आत्मा मध्यस्थानम् । दक्षिणोत्तरभागयोः पक्षद्वयम् । पुरतश्शिरः, पश्चात् पुच्छमिति भागसन्निवेशः । तत्र आत्मा चतसृष्वपि दिक्षु पुरुषैकप्रमाणः (१२० अङ्गुलमितः)। पक्षौ च दक्षिणोत्तरतः प्रत्येक किञ्चिःधिकसुरुषद्वयप्रमाणकः (२४४६ अं) । पुच्छं च सान्तरालं सपाद- पुरुषप्रमाणम् (१५० अं) । शिरः सग्रीवं पुरुषकप्रमाणम् । एवंरीत्या दक्षिणोत्तरतः पञ्चदशाङ्गुलाधिकपुरुषपश्चकप्रमाणा (६१५ अं) पूर्व- पश्चिमतः सपादपुरुषत्रयप्रमाणा (३९० अं) उत्सेधत स्त्रिंशदाला च आहवनीयचितिरिति सिध्यति । इदं च सार्धसतविधमित्युच्यते । एवं गाईपत्यचितिः षण्णवत्यालायामविस्तारा जानुदनोत्सेधा भवति प्रमाणमिदं गार्हपत्याहवनीयचित्यो र्यजमानस्य प्रथमचयन एव भवति । द्वितीयावृत्तौ गार्हपत्यचितेह्रासः, आहवनीयचितवृद्धिश्च भवतः । तौ यथा-द्वितीयचयने गार्हपत्यचितेः त्रयः प्रस्ताराः, त्रिषष्टि(६३)- रिष्टका एव च भवेयुः । तृतीयचयने एक एक प्रस्तारो भवदिष्टका चैक विशतिः । आहवनीयचितेस्तु-द्वितीयचयने द्विषहस्रमिष्टका दश प्रस्ताराः चयननिरूपणम् १०३ नामिमितोत्सेधश्च भवेयुः । तृीय चयने त्रिषहस्रमिष्टकाः पञ्चदश प्रस्ताराः, आस्यदनात्सेधश्चेति विशेषः । नैकविध चयनमतोऽधिकं कुर्यात् । विधान्तरागि वनुष्ठातुं शक्यन्ते । न तासां स्वरूपाण्यत्र विवृतानि ।। चयनस्थलकर्षणादि एवमाहवनीयचितियोग्यं स्थलमुत्तरवेद्या उपयैव विमाय, अवयु- ब्रह्मयजमानास्तत् स्थानमधिष्ठाय, लाङ्गलमेकं, पड्वा द्वादश वा बलीवाश्च आनाय्य, लाङ्गले बलीवर्दान् षट् द्वादश वा बद्ध्वा तेन लाङ्गलेन तत् स्थलं कृष्ट्वा (अध्वर्युरेव कृषेत् , नान्येन कर्षयेत् ) बलीवतन्मुच्य, तान् अवर्यवे दत्त्वा, कृष्टासु सीतापद्धतिषु जलमासिच्य द्वादशसु सीतापथेषु ओषधीग्रामोद्भवा वपेत् । ताश्च-तिलाः, माषाः, वीय, यवाः, प्रियङ्गवः, अगवः, गोधूमाः । यासां ग्रामीणैः पुरुषैः ग्रामेष्वेवो- सादनं (कृषीवलैः) क्रियते ताः सप्त ग्राम्या ओपरयः । एवमकृष्टे स्थले पूर्ववदुदकमासिच्य आरण्या ओषधीः सप्त तत्र वपेत् । ताश्च-वेणवः, श्यामाकाः, नीवाराः, अरण्यतिलाः, अरण्यगोधूताः, मर्कटकाः, अरण्य- मुद्गाः (गार्मुनाः) इति सप्त । धान्यानामेषां भूमिकर्षणादिकमन्तरा अकृष्टायामेव भूमावुसत्तिः । अतो धान्यानीमान्य ऋष्टपच्यानीत्युच्यन्ते । अत एव अत्राप्यकृष्ट एव स्थल एतेषां वपनमुक्तम् । कर्षणकालेऽग्नि- चयनार्थात् क्षेत्रात् चनसृष्वपि दिक्षु ये लोष्टा बहिर्भूतास्तानग्निक्षेत्र एव प्रत्यस्य, धान्यवापनस्थानं हस्तेन अभिमृश्य, तदुपर्युत्तरवेदेरुपवापं कृत्वा तदुपरि सिकताः न्युप्य, चयनीयं तत् स्थ नं शर्कराभिः (क्षुद्रपाषाणैः) परिश्रित्य मध्यस्थाः सिकताः समीकुर्यात् । एतावत्पर्यन्तं कृत्वा, अनन्तरं प्रकृनाविव पत्नीयजमानयोः व्रतप्रदान, तानूनप्त्राज्यस्पर्शनं, सोमाप्यायनं, द्यावापृथिवीनमस्कारादिकं च यथावत् कृत्वा, प्रबग्र्योपसदावनुतिष्ठेत् प्रकृति प्रदेव । पूर्व प्रवर्यानुष्ठानं तत उपसानुष्ठानम् । एतच्च वैधरीत्यनापि कर्तुं शक्यत इति ज्योतिष्टोम एवोक्तम् । उपसदोऽन्ते सुब्रह्मण्याह्वानमपि प्रकृतिवदेव ॥ १. वेदिमध्य पात्रविशेषस्थास्तिस्य घृतस्य सज्ञा तानूनप्त्रमिति । महस्विजा यजमानस्य च यावत्क्रतुसमाप्ति परस्परं स्नेहाय, तत्स्पर्शन विहितं प्रकृती । तदेव अत्राभिसंहितम् ।
१०४ यज्ञतत्त्वप्रकाशे प्रथमचितेरुपधानम् तत उत्तरवेदेपरि विमिते स्थले चयनमारभेत । तत्र अध्ययुश्चयन- कर्ता भवेत् , यजमान एव वा स्वहस्तेन चयनं कुर्यादिति पक्षद्वयम् । चयनं चेष्टका यथासौकर्य खण्डयित्वा चितेर्यथाभिलपितमाकारो न कदापि सम्पादनीयः । षट्प्रकाराभिरिष्टकाभिस्तत्तत्स्थलोपधानयोग्यतया निर्मिताभिरखण्डितामिः चितेराकारसम्पादनम् । इष्टकानां पट् प्रकाराः पूर्व निर्दिष्टाः, प्रदर्शयिष्यन्ते च प्रतिकृतिचित्रे । आकाशे पक्षी प्रसार्य डयमानस्य पक्षिणो यादृशं स्वरूपं तादृशमेव स्वरूपं चयनेन भूमौ निष्पादयेत् । तदपि न पक्ष्यन्तरसदृशम् । किं तु श्येनसुपर्णसरूसमेवेत्यादि बोध्यम् ।। एवं चेष्यन् प्राग्वंशमण्डपस्य अग्रे आनहुहे चर्मणि प्रथम- चित्यर्था इष्टकाः स्थापयित्वा, अयुब्रह्मयजमानाः अश्वमग्रतः कृत्वा, चितिस्थलं गत्वा स्थलमध्ये दर्भस्तम्ब निखाय, तमश्वेन आक्रमय्य, अश्वपादनिक्षेपस्थाने पद्मपत्रमुत्तानमुपधाय, तदुपरि रुक्ममुपधाय, तस्मिन् सुवर्णनिर्मितं पुरुषमुपरिमुखं प्राक्शिरसम् उपधाय, तमभिमन्त्र्य, तस्य दक्षिणत आज्यपूर्णा कार्मर्यमयीं जुहूं, तस्य उत्तरतो दधिपूर्णामौदुम्बरी च तामुपधाय, ते उपस्थाय, इष्टकामेकामविदुषा (मूर्खण) ब्राह्मणेन चितिमध्य उपधापयीत । ततस्तेन यजमानाद्गृहीत्वा दत्तं वरमध्वर्युः प्रतिगृह्णीयात् । ततः परं प्रथमदिनानुष्ठितवायव्यपशोः शिरसः, कूर्मस्य जीवतः, उलूखलस्य सौंषधिपूर्णस्य, मुसलस्य चोरधान च कृत्वा ततो यथाक्रममिष्टकोपधानेन प्रथमचिति सम्पादयेत् । तत्र क्रमादयः सूत्रतोऽवगन्तव्याः । एवं प्रथमचितिं समाप्य, आपराहि- कीम्यां प्रवग्र्योपसद्भयां प्रचर्य सुब्रह्मण्याह्वानान्तं कृत्वा विरमेत् । रात्री यजमानस्य व्रतग्रहणम् । एवं दीक्षात्रयपक्षे दीक्षातोऽनन्तरस्मिन् (चतुर्थे) दिने चयनमारभ्य, एकैकस्मिन् दिने एकैका चितिरिति आदितश्चतुर्थादिषु नवमान्तेषु षट्सु दिनेषु पञ्च चितय उपधीयन्ते । अत्र चयने षड्पसदः । कण्ठस्य अधस्तात् पाटलवर्णः उपरिष्टात् श्वेतः पक्षिविशेषः सुपर्णपद. वाच्यः । खगोऽयं मत्स्याशी बहुलमनूपदेशेष्वेव वसति । न धन्वसु शुष्केषु वा प्रदेशेषु । गरुडपदाभिधेयोऽयं भगवतो विष्णोहिनमिति मत्वा यत्र कुत्रापि दृष्ट्वैवैनं मणमन्ति तद्देशस्था जनाः । तदर्शनं च कल्याणकरं मन्वते । श्येनस्तु प्रसिद्ध एव । २. वर्तुलाकार (सर्यसदृश) सुवर्णखण्डं रुक्ममित्युच्यते । . . १.
चयननिरूपणम् एकल्या उपसदो दिनद्वयेऽनुष्ठानमावृत्त्या । पञ्चम्या उपसदो दिने मध्याह्ने सावशेषां पञ्चमी चितिमुपधाय चितेरवरुह्य यजमानाय माध्याह्निकं व्रतं प्रदाय आपराजिकीभ्यां प्रवग्र्योपसद्भयां प्रचर्य विरमेत् । रात्रौ यजमान- बतदानादि यथावत् । अथ श्वोभूते षष्ठया उपसदो दिने (आदितो नवमे दिवसे) प्रातः पौर्वाहिकीम्यां प्रवर्योपसद्भयां प्रचर्य, अवशिष्टां पञ्चमी चितिमुपधाय, तदानीमेव आपराणिकीभ्यां प्रवग्र्योपसद्भयां प्रचर्य सुब्रह्मण्याह्वानान्तं कृत्वा, चितं स्थण्डिलमभिमृश्य, आज्येन हिरण्य- शकलसहस्रेण च तत् प्रतिदिशं प्रोक्षेत् ।। शतरुद्रीयहोमः ततः चितेरुत्तरस्य पक्षस्य वायव्य कोणस्थिताया इष्टकाया उपरि अजाक्षीरेण मृगीक्षीरेण वा अर्कपत्रेण अध्वर्युर्जुहुयात् ।। तस्या इष्टकायाः समीपे लौकिकीभिरिष्टकाभिः पीठं कृत्वा तदुपर्यध्वर्युस्तिष्ठन् शतरुद्रीयं (रुद्राध्याय) पठन् अविच्छिन्नया धारया जुहुयात् । यथा धाराया विच्छेदो न भवति तथा अन्योऽजाहीरपणे स्रावयेत् । शतरुद्रीयस्य तृतीयांश- पाठं यावत् अर्कपर्ण जानुदन्ने धारयेत् । उपरितनतृतीयांशं यावत् नाभिदन्न, अन्तिमांशं यावदास्यदन्ने धारयन् जुहुयात् । सर्वत्र रुद्रा एव देवताः । ततस्तमपणं यत्र पशवो न सञ्चरेयुस्तस्मिन् देशे निरस्येत् । ततो यजमानश्चतसृष्वपि दिक्षु रुद्रमुपतिष्ठते । अनन्तरमध्वर्युरुदकुम्भमादाय स्थण्डिलं त्रिः परिपिञ्चेत् । ततो दीर्वस्य वंशस्याग्रभागे वेतसशाखाम् , अवकां (शैवालं), मण्डूकं च सहैव बद्ध्वा चितेरुपरि विकर्षेत् । ततः पृष्ठाख्यैः सामभिरध्वर्युः यजमानः प्रस्तोता वा चितिमुपतिष्ठेत । एतदन्तं चयनकर्म ॥ चितेरुपर्यग्निस्थापनादि ततः प्रवर्यमुद्रास्य शालामुखीयेऽग्नौ (प्रकृताहवनीये) काश्चन होमान् हुत्वा अध्वर्युः चितिमारुह्य उत्तरवेदिवत् व्याघारणादिकं कृत्वा, दना मधुमिश्रितेन, आज्येन वा चितिं प्रोक्ष्य यजमानेन सहावरुह्य, नात्र होमार्थमनिस्थापनादिकम् । इष्टकाया उपर्येव धारया क्षीरस्य १. प्रावणम् । २. व्याघारणं घृतस्य क्षारणम् । 14 . यज्ञतत्त्वप्रकाशे कृष्णमृगचर्मनिर्मिते उपानहावुमे अप्युन्मुच्य, अध्वर्युः वैश्वकर्मणसंज्ञका: पोडश आहुतीर्तुत्वा औदुम्बरीस्तिस्रः समिधो धृताक्ता आहवनीय आधाय पशुबन्धवदग्निं प्रणयति । तच्चैवम्-आहवनीये काष्ठान्याधाय ततो ज्वलन्तमग्निं कचित् पात्रे गृहीत्वा सिकताभिरुपयम्य, आग्नीध्रीयं यावद्गत्वा, कंचन श्वेतवर्णमश्मानमाग्नीध्रीये निधाय, ततः चितेः पुच्छ- समीपं गत्वा हस्तस्थितमग्निं प्रतिप्रस्थातृहस्ते दत्त्वा, स्वयमध्वर्युश्चितिमा- रुह्य स्वयमातृण्णाख्याया इष्टकाया उपरि पाशुकान् सम्भारान् न्युप्य, तदुपर्यग्निं प्रतिप्रस्थातृहस्तात् गृहीतं प्रतिष्ठापयेत् । अतः परमयमेव चित्योऽग्निराहवनीयो भवति । यतोऽयं प्रणीतः स गार्हपत्यः । पुराणगार्हपत्यः प्राजिहितसंज्ञकः । ततस्तत्रैव अनावाहवनीये कांश्चन होमान् पूर्णाहुतिं च हुत्वा, ततो वैश्वानरेप्टिमुपक्रम्य तदनुष्ठानमध्ये तद्धमैः साकं सप्तभ्यो मरुद्गणेभ्यो हविर्निर्वापादिकं कृत्वा वैश्वानरयागानन्तरं सप्तानां मरुद्गणानां यागान् कृत्वा तदीयं तन्त्रं परिसमाप्य, ततो वसोर्धारां जुहुयात् ॥ वसोर्धाराहोमः, यजमानाभिषेकश्च तदित्थम्-उदुम्बरवृक्षनिर्मितां हस्तचतुष्टयदैर्ध्याम् , अल्पदण्डां पश्चिमभागे गर्तवती दीर्घबिलां जुहूं निर्माय, तामधस्तात् आर्द्रया मृदा विलिप्य घृतेन पूरयित्वा तेन तस्मिन्ननौ जुहुयात् ; यथा आरम्भप्रभृति समाप्तिपर्यन्तं मध्ये धारा न विच्छिद्येत तथा अन्यः कश्चित् जुह्वां घृतं पूरयस्तिष्ठेत् । अवसितायां वसोर्धारायां जुह्वां यदाज्यमवशिष्यते तस्मिन्नन्नं पक्त्वा (लौकिकेऽसौ पाकः) तेन अध्वर्युब्रह्मोद्भातृहोतॄन् महविजो भोजयित्वा भुक्तवद्भयस्तेभ्यः चतस्रो धेनूवरत्वेन दत्त्वा सप्तभिग्राम्याभिः सप्तभिश्च आरण्याभिः पूर्वोक्ताभिरोषधिभिर्यवागूः पृथक् पक्त्वा ताभिः पृथक् पृथग्धुत्वा हुतशिष्टानां यवागूनामशं पात्रान्तरे किञ्चित् किञ्चिदिव अवस्त्राव्य, चितेः दक्षिणपक्षसमीपे औदुम्बरीमासन्दी प्रतिष्ठाप्य, तदुपरि कृष्णाजिनमास्तीय, तत्र यजमानमुपवेश्य तं तेन यवागूशेषेण अभिषिश्चेत् । ततो राष्ट्रभृद्धोमान् अन्यांश्च कांश्चन होमान् हुत्वा सौमिकं कर्म आरभेत। १. पुरुषैर्न कृतम् , किं तु स्वयमेव यत्र च्छिद्रमुत्पन्नं सा स्वयमातृष्णा । २. पशुयागेऽन्यायतने प्रक्षेतव्यतया श्रुताः सम्भाराः पाशुकाः ।
चयननिरूपणम् १०७ तत उपरवाख्यान् चतुरोऽवटान् दक्षिणहविर्धानमण्डपस्य पश्चिमभागे उपरिभिन्नानन्तःसम्मिन्नान् अग्निष्टोमवदेव खात्वा ततो धिष्ण्यांश्चिनुयात् ॥ धिष्ण्योपधानम् तत्र आग्नीध्रीये धिष्ण्येऽष्टाविष्टकाः अश्मना पूर्वनिक्षिप्तेन सह नव, द्वादश होत्रीय धिष्ण्ये, एकादश ब्राह्मणाच्छंसीये, पण्मार्जालीये, अन्येषु प्रशास्त्रीयनेष्ट्रीयाच्छावाकीयपोत्रीयेषु विष्ण्येषु अष्टावष्टौ चोपदध्यात् । एवं ब्रह्मसदनेऽष्टौ । चात्वालशामित्र-अवभृथस्थानेष्वप्यष्टावष्टावुपधाय सर्वेषां पुरीषेण (मृदा) आच्छादनं कुर्यात् । तत अग्नीषोमीयपशुयागतन्त्र- मारभेत ॥ देवसुवां हवींषि ततोऽग्नीषोमीयवपायागानन्तरं तदीयपशुपुरोडाशकाले अष्टौ देव- सुवां हवींषि निर्वपेत् । तानि च-अग्नये गृहपतये पुरोडाशार्थ कृष्णाः बीहयः । सोमाय वनस्पतये चर्वर्थाः श्यामाकाः । सवित्रे सत्यप्रसवाय आशवो व्रीहयः। रुद्राय पशुपतये चर्वर्थाः गवीधुकाः । बृहस्पतये वाचस्पतये चर्थी नीवाराः । इन्द्राय ज्येष्ठाय पुरोडाशार्थी ब्रीहयः । मित्राय सत्याय चर्वर्थाः आम्बा व्रीहयः । वरुणाय धर्मपतये चर्वर्था यवा इति । तानि पशुपुरोडाशेनैव सह अनुष्ठाय वसतीवरीग्रहणादिकं कृत्वा पशुयागं समाप्य, रात्रौ यजमानस्य व्रतदानादिकं कृत्वा विरमेत् ।। सौमिकव्यापारः ततः प्रकृतिवत् महाराने प्रबुध्य सौमिकव्यापारमारभेत । तत्र यदा होता प्रातरनुवाकशस्त्रमारभेत ततः पूर्वमेव अध्वर्युः कैश्चिन्मन्त्रै- रग्नियोगं कुर्यात् । ततो होता प्रातरनुवाकं यथावत् पठेत् । सौमिक- व्यापारांश्च क्रमशः कुर्वन् यत्संस्थाकं क्रतुमनुष्ठातुमिच्छति यजमानः, तदनुसारेण कर्माण्यध्वर्युः कुति । ततोऽवभृथेष्टिमवभृथस्नानान्ताम् , अनूबन्ध्यास्थानिकीमाहुतिं च कृत्वा पूर्वकृताग्निविमोकं कृत्वा दश आकूतिहोमान् हुत्वा कर्म अवशिष्टं समापयेत् । ततो यजमानोऽग्निमाप्ति- संज्ञकैर्मन्त्रैरुपस्थाय प्राजिहितमग्निमरण्योः समारोप्य, गृहं गत्वोदवसानी- यादिकं यथोक्तमनुतिष्ठेत् । आगामिनि पर्वणि सौत्रामण्याख्येन पशुयागेन यजेत । ततोऽपरेधुमैत्रावरुण्या चामिक्षया । एतावता समाप्तमग्नि- 1 १०८ यज्ञतत्त्वप्रकाशे चयनम् । परिसमाप्ते यज्ञे यजमानो नियमानिमान् धारयेत्-~-संवत्सरं यावत् गुरोरपि प्रत्युत्थानं न कर्तव्यम् । सत्यां वृष्टौ न धावेत् । तृतीयचयनं कृत्वा न स्त्रियमुपेयात् इत्येव । अन्ये च सोमसुतो नियमा भवन्त्येव ।। सौतामणीयागः सौत्रामणी नाम पशुयागः । स द्विविधः प्रोक्तम्तैत्तिरीये बौधायना- पस्तम्बादिभिश्च-चरकसौत्रागणी कौकिलसौतामणी चेति । तत्र चरकसौलामणी स्वतन्त्रा, चयनाङ्गभूता च । अस्यां त्रयः पशवः- अजो धूम्रवर्णोऽश्विदेवताकः । मेपः सरस्वतीदेवताकः । मेष एव चेन्द्रदेवताकः। निरूढपशुबन्धकल्पेन सयाणां सहैव अनुष्ठानम् । अल वपायागानन्तरं सुराग्रहग्रहणं यद्यपि ब्राह्मणश्रौतसूत्रादावुक्तं तथापि तस्य कलौ निषिद्धत्वात् तद्विकल्पतया आपस्तम्बादिभिः पयोग्रहाणां विधानात् तैरेव यागोऽनु- ष्ठीयते । तत्र त्रयो ग्रहाः । पशुयागीया देवता एव अत्रापि देवताः । तैर्तुत्वा पितृनुपस्थाय पशुपुरोडाशयागमनुतिष्ठेत् । त्रयः पुरोडाशाः । इन्द्रः, सविता, वरुण इति क्रमेण तत्र देवताः । ततोऽङ्गयागाधनुष्ठानपूर्वकं सौत्रामणी समाप्य, वारुणेनैककपालेन अवभृथेष्टिं कृत्वा स्नात्वा अग्नीन् समारोप्य गृहमागच्छेत् । इयं चरकसौत्रामणी । कौकिलसौत्रामण्याम्- ऐन्द्रः, आश्विनः, सारस्वतः, ऐन्द्रः, ऐन्द्रो वायोधसश्चति पञ्च पशव इतीयान् विशेषः । इति सौलामणीस्वरूपम् ॥ H4 राजसूयः अतः परं राजसूयाख्यं ऋतुं निरूपयामः । ऋतुरयं राज्येऽमि- षिक्तेन राज्यधुरं वहता क्षत्रियेणाऽनुष्ठेयः । अयं च प्राचीनसमये तादृशैरेव राजभिः विशेषतः सूर्यवंशीयैः सोमवंशीयैश्चाऽनुष्ठित इति ज्ञायते । महाभारते च युधिष्ठिरेणानुष्ठितो राजसूगयागसाधु वर्णितोऽस्ति । तदनन्तरकालिकाश्च राजानो तं बहवोऽन्वतिष्ठन्निति पुराणेभ्यः शिला- लेखादिभ्यश्च प्रमाणेभ्योऽवगच्छामो वयम् । अयं च बह्वीनामिष्टीनां द्वयोः पशुयागयोः समानां दर्विहोमानां षण्णां च सोमयागानां समुदायरूपः । १. आप. श्री. सू. १८-८-१., कात्या. श्री. सू , १५-१-१. राजा सूयते अभिषूयते सोमो यागार्थमत्रेति व्युत्पत्ती राजसूयशब्दस्य ।
राजसूयः अतोऽत्र इष्टिपशुतोमयागानां समप्राधान्यमेव ; नेतरेतराङ्गभावः । पशु- यागाजभूता इष्टयः, सोमयागाङ्गभूता इष्टयः, पशुयागाश्च प्रकृतितोऽति- देशमा यथावदनुष्ठेश एव । तेषां परं तत्तदङ्गत्वमप्रतिहतं वर्तन एव ॥ किचिदधिकैकवत्सरसाध्योऽयं क्रतुः । अत्र पट् सोमयागाः, द्वौ पशुपागौ । एसोनत्रिंशदुत्तरशतमिष्टयः (१२९) सप्त दींहोमाश्चानुष्ठेयाः। यज्ञस्याऽस्य फाल्गुनशुक्लप्रतिपदि आरम्भः कर्तव्यः । ततो वर्षमेकं चातुर्मास्यानुष्ठानम् । तानि चातुर्मास्यनिरूपणप्रकरणोक्तरीत्याऽनुष्ठे- यानि । ततः पवित्रादीनां घण्णां सोमयागानां क्रमेणानुष्ठानम् । अत्र यागशिष्टस्य सोमस्य भक्षणे विकल्पः । अवश्यं स भक्षयितव्य एवेति यो नियमो ब्राह्मणस्य सोऽस्य नास्ति । यदि तु सोमभक्षणेच्छा, तदा पूर्व यागार्थ सोमायणकाल एव न्यग्रोववृक्षस्यावरोधान् तदङ्कुराशि वा सोमवदेव क्रीत्वा सर्वांश्च सौमिकव्यापारान् तत्राऽनुष्ठाय, ततस्तानि पिष्ट्वा दना सोल्य, तेन यजमानचनसमापूर्य होमकाले इतरैः सोमचमसैः सह हुत्वा होमावशिष्टं तमेव न्यग्रोधावगेवरसं राजानं यजमानं पाययेत् । अध्वर्वा- दयस्तु ऋत्विजः स्वस्वग्रहचमसस्थं सोमरसमेव भक्षयेयुः । यजमानस्य तु राज्ञो ग्रहेषु भक्षणं नास्ति । एवं सर्वेष्वपि सोमयज्ञेषु राज्ञो भक्षणं फलचमसस्यैव, न सोमस्य । राजन्यकर्तृकेऽपि यागेऽस्मिन् ब्राह्मणा एवविजः । तेषां तु सोमभक्षणं भवत्येव । इति सामान्यविषयाः । विशेषास्तु-चैव्याः पौर्णमास्याः पूर्वस्मिन् दिवसे पवित्राख्यसोमयागार्थ दीक्षां कुर्वीत । दिनत्रये दीक्षाः । दिनत्रये चोपसदः । सप्तमदिने सुत्या । अग्निष्टोमसंस्थाकोऽयं ऋतुः । सहस्रमत्र गावो दक्षिणाः सप्तसु दिवसेषु क्रतुमिमं परिसमाप्य, अष्टमदिनप्रभृति अनुमत्यादीनष्टौ यागान् एकैकस्मिन् दिने एकैकरूपेण अनुतिष्ठेत् ॥ ज ते च यथा-१, अनुमत्यै पुरोडाशोऽष्टाकपालः २. आदित्यश्वरः ३. आग्नावैष्णव एकादशकपालः ४. अग्नीषोमीय एकादशकपालः ५. ऐन्द्र एकादशकपालः ६. आग्नेयोऽष्टाकपालः ऐन्द्रं दधि न्यग्रोधस्य वटवृक्षरय अवरोधाः शाखाभ्योऽवाङ्मुखतया प्ररोहन्तो मूलविशेषाः । २. See. ऐ. ब्रा. Ch. 13.
११० यज्ञतत्त्वप्रकाशे ७. ऐन्द्रानो द्वादशकपालः, वैश्वदेवश्चरुः, सौम्यः श्यामाकश्वरः ८. सरस्वत्यै सरस्वते च चरुः । इत्यष्टौ यागाः । ततस्तदनन्तर- दिनप्रभृति संवत्सरपर्यन्तं चातुर्मास्यपशुभिर्यजेत ॥ तत:-१. आग्नेयोऽष्टाकपालः २. रौद्रो गावीधुकश्वरः ३. ऐन्द्रं दधि ४. यवमयो वारुणश्चरुः इति हविश्चतुष्टयविशिष्टेन इन्द्रतुरीयाख्येन यागेनेष्ट्वा, तस्यामेव निशायां पञ्चेमसंज्ञकं कर्म कुर्यात् । ततः सूर्योदयात् पूर्वम् अपामार्गहोमान् कुर्यात् । अपां समीपादपामार्गाख्यानि तृणविशेषबीजान्यानीय, तानि चूर्णयित्वा, दक्षिणानेरेकमुल्मुकं गृहीत्वा स्वतस्सिद्धं गरुस्थलं गत्वा, तत्र तमग्निं प्रतिष्ठाप्य प्रज्वाल्थ्य, पर्णमयेन सुवेण अपामार्गचूर्णानि तस्मिन्ननौ जुहुयात् । ततस्तमग्निमुपस्थाय, प्रत्यावृत्य पुनस्तं देशमनवेक्षमाणो यज्ञस्थलमागत्य अग्निहोत्रं हुत्वा पञ्च देविकाहवींषि निरुप्य तैर्यजेत ॥ तानि च-१. धात्रे पुरोडाशो द्वादशकपालः २. अनुमत्यै चरुः ३. राकायै चरुः ४. सिनीवाल्यै चरुः. ५. कुकै चरुः इत्येवरूपाणि । कर्मपञ्च क्रमपीदम् एकस्मिन्नेव दिने एकप्रयोगेण समान- तन्त्रेणाऽनुष्ठेयम् । तस्य च एका गौरेको वृषभश्च दक्षिणा । ततो हविस्त्रय- विशिष्टानि त्रीणि कर्माणि । अर्थात् हविस्त्रयविशिष्ट एकस्समुदायः । स एकं कर्मेत्युच्यते । एवं समुदायत्रयं त्रीणि कर्माणि । तत्र आग्नावैष्णव एकादशकपालपुरोडाशद्रव्यकः ऐन्द्रावैष्णवः तादृशः, वैष्णवत्रिकपालः इत्येकः समुदायः । एकमिदं कर्म । अग्नीषोमीय एकादशकपालपुरोडाश- द्रव्यका, इन्द्रासोमीयः सः, सौम्यश्वरुः इत्ययमेकः समुदायः । एकमिदं कर्म । सोमापौष्णश्वरुः, ऐन्द्रापौष्णश्चरुः, पौष्णश्वरुः त्रितयमेकं कर्म । एतदनन्तरम् एकहविष्का एका इष्टिः । सा च वैश्वानरद्वादशकपाल. रूपा । ततो वारुणो यवमयश्वरः । इति मिलित्वा षट् कर्माणि एकदिन- कर्तव्यानि । ततो द्वादशेष्टयः; एकैकस्मिन् दिने एकैकेति द्वादशसु दिवसेषु द्वादशेष्टयो विहिताः ॥ ताश्च-१. वार्हस्पत्यश्चरुः २. ऐन्द्र एकादशकपालः पुरोडाशः ३. आदित्यश्वरुः ४. नैर्ऋतश्वरुः ५. आग्नेयोऽष्टाकपालः पुरोडाशः ६. वारुणो दशकपालः पुरोडाशः ७. मारुतः सप्तकपालः पुरोडाशः राजसूयः ८. सावित्रो द्वादशकपालः पुरोडाशः ९. आश्विनो द्विकपालः पुरोडाशः १०. पौष्णश्वरुः ११. रौद्रोऽरण्यगोधूमसम्पाद्यश्वरुः इत्येवरूपाः । एतदतिरिक्तश्चरुरेकश्चतुर्थतया तैत्तिरीयब्राह्मणे विहितः- भगाय चरुरिति । द्वादशापीमानि “रनिनां हवींषि" इत्युच्यन्ते । यागा इमे न स्वगृहेऽनुष्ठेयाः । किन्तु ब्रह्मादीनां द्वादशानां गृहं गत्वा तत्रै- वाऽनुष्ठेयाः । तत्र प्रातः स्वगृहेऽग्निमरण्यादिषु समारोप्य तत्तद्गृहं गत्वा तत्र मथित्वाऽरणी, अग्निमुत्पाद्य, आहवनीयादिषु कुण्डेषु तं प्रतिष्ठाप्य यजेत । एवं प्रतिदिनम् एकैकेष्टिरिति द्वादशसु दिवसेषु द्वादशेष्टयः कर्तव्याः। ततः परं स्वगृह एव इन्द्राय सुत्राम्णे पुरोडाशः, इन्द्राया होमुच एकादशकपाल इतीष्टिद्वयमनुष्ठाय, तदनन्तरस्मिन् दिवसे अभिषेचनीया- ख्याय सोमयागाय यजमानो दीक्षेत । तत्र दीक्षणीयेष्टिमैत्राबार्हस्पत्या भवति । तत्र विशेषः- श्वेतां श्वेतवत्सां गाम् आम्रफलरसलेपितायां हतौ दुह्यात् । तत्रैवाऽऽतञ्चनमन्तरेण तत् पयो यदा दधि सम्पद्यते तत् स्वयं मूर्तमित्युच्यते । तदा तत्र बदरफलादिकं प्रक्षिपेत् । तदा स्वयमेव तत् पात्रात् बहिः प्रवहेत् । तत् स्वयंमथितमित्युच्यते । तत्र खण्डितैस्तण्डुलै- श्वरं पक्त्वा तेन बृहस्पतये यागं कुर्यात् । अखण्डितैस्तु तैः आज्ये चरूं सम्पाद्य तेन मित्रं यजेत । नात्र चरूं मृद्भाण्डे पचेत् । किन्तु वाय्वभिघातादिना स्वयमेव भनपतितेन अश्वत्थवृक्षायेण काष्ठेन निर्मिते चतुष्कोणयुते पात्रे चरुः पक्तव्यः । इध्मकाष्ठान्यपि न वृक्षाच्छेतव्यानि । किन्तु स्वयमेव पतितानि यानि स्युः तानि ग्रहीतव्यानि । एवं कुशा अपि स्वयं पतिता एव ग्राह्याः । वेदिरपि स्वयं निष्पन्नैव भवेत् । एवं पृथक् पृथक् हविषी सम्पाद्य, यागकाले प्रथमं बार्हस्पत्यहविषेष्ट्वा अनन्तरं मैत्रेण यजेत । स्विष्टकृयागस्तूभयोरेक एव । शतपथब्राह्मणे तु यथोक्तेन प्रकारेण हविस्सम्पादनं पृथक् कृत्वा अनन्तरं ते द्वे अपि हविषी एकीकृल मित्रबृहस्पती उद्दिश्य एकीकृतेन हविषा तेन होम उक्तः । एवं दीक्षणीयेष्टिं परिसमाप्य अभिषेचनीयाख्यसोमयागाय दीक्षयित्वा यावदनीषोमीयपशुयागमनुतिष्ठेत् प्रकृतिवत् । अत्राऽभिषेचनीयस्य दीक्षादिनानि तथा अभिवर्धयेत् यथा तस्य संवत्सरस्य दशसु रात्रिषु । See. मा. श. ना. ५.२.६.६-८. .
११२ यज्ञतत्यप्रकाश अवशिष्टासु दशपेयस्य प्रधानहविरनुष्ठानं भवेत् । तत्र सोमक्रयकाले अभिषेचनीयाय दशपेयाय चाऽग्रेऽनुष्ठास्यमानाय सहैव सोमकयं कुर्यात् । तत्राऽधं दशपेयायाऽवशेष्य, यजमानपुरोहितस्य गृहेऽवस्थाप्य अर्धेन यागं कुर्यात् । अभिपेचनीयगताग्नीपोमीयपशुपुरोडाशयागसमाप्यनन्तरम् अष्टौ देवसुवां हवींषि निर्वपेत् ॥ तानि च-१. अग्नये गृहपतये पुरोडाशोऽष्टाकपालः २. सोमाय वनस्पतये श्यामाकश्वरुः ३. सवित्रे सत्यप्रसवाय पुरोडाशो द्वादशकपालः ४. रुद्राय पशुपतये गावीधुकः (अरण्य- गोधूमकृतः) चरुः ५. बृहस्पतये वाचस्पतये नैवारश्वरः ६. इन्द्राय ज्येष्ठाय पुरोडाश एकादशकपालः ७. मित्राय सत्याय चरुः ८. वरुणाय धर्मपतये यवमयश्चरुः इति । एतेऽष्टौ यागा अनुष्ठेया इति यावत् ॥ तत्र प्रधानयागानुष्ठानानन्तरं स्विष्टकृयागात्पूर्व ब्रह्मा यजमानस्य राज्ञो हस्तं गृहीत्वा तद्राज्यस्थाभ्यः प्रजाभ्यो राजन्यवैश्यादिभ्यो राजानं निवेदयेत् एष वो भरता राजा इति । तस्य पित्रादि- नामान्यपि कथयत्-अमुष्य पुत्रः इत्यादि । ततो यजमानो राजा विष्णुक्रमादीन् इष्टाविव कामेत् । ततो माहेन्द्रस्तोत्रात्पूर्वतनानि कर्माणि यथावदनुष्ठाय माध्यन्दिनसवनीयानां हविषां मारुतस्यैक- विंशतिकपालपुरोडाशस्य च निर्वापं कृत्वा तानि यथावदनुतिष्ठेत् ॥ ततो राज्ञस्तस्याभिषेकार्थ तत्तत्स्थानेभ्यो जलमाहरेदध्वर्युः । तद्यथा-समुद्रात् , पुंनदात् , वहन्तीभ्योऽद्भयः स्थावराम्य इत्यादि । तच्च षोडशभ्यः स्थानेभ्यः तावत्प्रकारमानयेत् । तत्र दनः, पयसः, धृतस्य, मधुनश्च गृह्णीयात् । आनीय वैतसे चतुष्कोणे बृहति पात्रे निनीय, मैत्रावरुणधिष्ण्यस्य अग्रे स्थापयेत् । ततस्ता अपः पालाशे औदुम्बरे आश्वत्थे नैयग्रोधे च पात्रे व्यानयेत् । ततो राजानं ताप्य, पाण्डरं वासः, उष्णीषं च परिधापयेत् । धृताक्तः कम्बलः ताप्यम् इत्युच्यते । ततः तं दर्मपुञ्जीलैः पवयित्वा, दधि, उदुम्बरफलानि, बालतृणानि च आशयित्वा, तं जनेम्यो निवेद्य-'अयं वो भरता राजा' इति, धनुस्तस्मै प्रदाय, बाणांस्त्रीन् दत्त्वा आहवनीयस्य अग्रभागे शार्दूल- चर्म आस्तीर्य तस्मिन् शतसुवर्णपरिमितं हिरण्यं निधाय, तस्मिन् राजसूयः ११३ । राजानमुपवेश्य पार्थसंज्ञकान षड्ढोमान् हुत्वा ऊर्ध्वबाहुं तिष्ठन्तं तं सामवेदीयैः ऋत्विग्भिः माहेन्द्रस्तोत्रगानं यदा क्रियते, तदाऽध्वर्युः पालाशेन पात्रण पूर्वभागे पश्चिमाभिमुखस्तिष्ठन्नभिषिञ्चेत् । औदुम्बरपानेण दक्षिणभागे उत्तराभिमुखस्तिष्ठन् ब्रह्मा, पश्चाद्भागे पूर्वाभिमुख- स्तिष्ठन् होता, उत्तरभागे दक्षिणाभिमुखस्तिष्ठन्तुद्गाता चाभिषिञ्चेयुः । एवमनभिषिक्तक्षत्रियः, वैश्यः, कश्चित् मित्रभूतश्चाभिषिञ्चेयुः ।। ततः नववस्त्रपरिवानपूर्वकं षट पार्थहोमाननुष्ठाय, रथं कञ्चिदानीय तत्र राजानमारोहयेत् । रथस्तु अश्वत्रययुक्तो भवेत् । पार्थस्यवर्तिनी च सारथी भवेताम् । तस्य समीपे पुरतः सधनू राजन्योऽवस्थितो भवेत् । तस्मै इन् प्रास्य तं जित्वा धनुः पत्न्यै प्रदाय पादयोः वराहचर्मनिर्मिने उपानही धृत्वा रथादवरुह्य सौवर्णान् मणीन् कण्ठे प्रतिमुच्य रथविमोचनीयसंज्ञकान् होमान् हुत्वा आहवनीयस्याग्रभागे चतुरश्रां वेदि निर्माय, तस्यां स्वादिरकाष्ठनिर्मितां आसन्दी प्रतिष्ठाप्य, तस्यां चर्मपटमारतीय, तदुपरि यजमान उपविशेत् । तस्य परितः ऋत्विजः ग्रामीणा वैश्याश्चोपविशेयुः । पुरस्तात् अध्वर्युः, दक्षिणभागे ब्रह्मा, पश्चाद्धोता, उत्तरभाग उद्गाता चोपविशेयुः । उपविष्टान् तान् प्रति राजा 'हे अध्वर्यो ! त्वं ब्रह्मासि, ब्राह्मणोऽसि, त्वं सवितासि' इत्येवं ब्रूयात् । स तु ' हे राजन् ! त्वमेव ब्राह्मणोऽसि, ब्राह्मणधर्मान् परिपालयन् अस्माननुष्ठापयसि' इत्यादि प्रतियात् । एवं क्रमेण चतुर्भिः ऋत्विग्भिः राज्ञि स्तुते सति, ततो ब्रह्मा स्फ्यं यजमानहस्ते दद्यात् । स परम्परया अक्षावापहस्तं यदा गच्छति तदा तेन स कितवः, तत्रोद्धननादिना भूमि समीकृत्य, तत्र सुवर्णमयान् अक्षान् शताधिकान् प्रास्य, तेभ्यः पञ्च गृहीत्वां, 'अयं समग्राया भुवो राजाऽभवत्' इत्यभिप्रायेण तस्मै दद्यात् । ततो राजा मङ्गलशब्दस्तानाह्वयेत् । ततो हिरण्मये राज्ञा दत्ते आसने उपविशन् होता शुनश्शेपकथां श्रावयेत् । सा च कथा ऐतरेयब्राह्मणे सप्तमपञ्चिकायां तृतीयाध्याये वर्णिता । तया सह तत्सम्बन्धिनीः ऋचोऽपि परश्शताः ऋक्संहितागताः परस्सहस्रा वा होता शंसेत् । तादृश एवाऽऽसने उपविष्टोऽध्वर्युः तं प्रतिगृणीयात् । राजा च शृण्वन्नासीत । कथान्ते तत्तदासनं तस्मै तस्मै दत्त्वा अभिषेचनीयदीक्षासमये, पल्या धृतं रुक्म चाऽध्वर्यवे प्रदाय, मारुतैककपालेष्टिम् आमिक्षायागं च वैश्वदेवमनुष्ठाय, 15 यज्ञतत्त्वप्रकाश अयमत्र अवशिष्टमाहेन्द्रयागं परिसमाप्य, अवभृथदेशं गत्वा अवभृथेष्टिं विधाय, स्नात्वा, सपरिवारो गृहमागच्छेत् । एतावता अभिपंचनीयस्समासः । ततः वोभूते संसृपां हवींषि दशसंख्याकान्यनुतिष्ठेत् ॥ तानि-१. आग्नेयोऽष्टाकपालः पुरोडाशः २. सारस्वतश्चरुः ३. सावित्रो द्वादशकपालः पुरोडाशः ४. पौष्णश्वरुः ५. बार्हस्पत्यश्वरुः ६. ऐन्द्र एकादशकपालः ७. वारुणो दशकपालः ८. सौम्य श्वसः ९. त्वाष्ट्रोऽष्टाकपालः १०. वैष्णवत्रिकपालः पुरोडाश इति दश । क्रमः-दशानां संसृपां हविषां गध्ये सप्त हवींषि प्रतिदिनं क्रमेणैकैकं कृत्वा सप्तमे सप्तम्यामिष्टावतीतायाम् अपराले दशपेयाय सङ्कल्पं कृत्वा सद्य एव द्वादशपुण्डरीकस्रप्रतिमोकलक्षणां दीक्षां कुर्यात् । तदानीमेव प्रथमामुपसदं कृत्वा तदन्ते संस्पामष्टमं हविर्निवपेत् । अष्टमे दिने उपसदन्ते संमृपां नवमं हविः निरूप्य, नवमे दिवसे तृतीयोपसदन्ते संसृपां दशमं हविनिरूप्य, तस्मिन्नेवाऽहनि अग्नीषोमीयपशुप्रचारं कुर्यात् । दशमेऽहनि सोमोऽभिपूयते । अभिपवकाले अभिषेचनीययागसमये एतदर्थ क्रीत्वा स्थापितं सोमस्यामभिषुणुयुः । ततो ग्रहचमसादिपात्रसंसादनकाले प्राकृतेभ्यो दशभ्यश्चमसेभ्योऽधिकान् दश चमसान् सादयेत् । तानितरचमसपूरणकाले पूरयेत् । चमसहोमकाले एकैकं चमसं दश दश ब्राह्मणा इति शतं ब्राह्मणास्तत्राऽवस्थिता भवेयुः । ते च ब्राह्मणाः दशपुरुषं यावदविच्छिन्नसोमपातृकुलोत्पन्ना भवेयुः । चमसान् हुत्वा होमानन्तरं भक्षणार्थम् अध्वादिषु सभामण्डपं गच्छत्सु इमेऽपि शतं ब्राह्मणास्ताननुगच्छन्तस्सदः प्राप्य तेषु स्वं स्वं चमसं भक्षयत्सु इमे स्वस्वचमसस्थं सोमरसं दशसंख्यया पिबेयुः । अत एव च कारणात् अस्य क्रतोदशपेय इति संज्ञा सम्पन्ना ॥ अत्र दक्षिणायामस्ति विशेषः । स चेत्थम्-अध्वर्यवे सुवर्णमयौ दर्पणौ । उद्गाने हिरण्मयी माला । वर्तुलं स्वर्णाभरणं होने । प्रस्तोत्रे प्रतिहत चाऽश्वः। ब्रह्मणे बालगर्मिण्यो दश गावः। मैत्रावरुणाय वन्ध्या गौः। बावणा- च्छंसिने बलीवर्दः । नेष्ट्रे पोत्रे च धौतवस्त्रम् । अच्छावाकाय यवपूर्ण स्थूल- शकटम् । अग्नीधेऽनोवहनसमर्थ ऋषभ इति देयाः । सर्वमन्यत् प्रकृतिवत् । एवं दशपेयाख्यं सोमयागं परिसमाप्य, तदुत्तरभाविन्यां वैशाख्यां पूर्णिमायां केशवपनीयाख्यसोमयागार्थ दीक्षेत । अभिषेचनीयाख्यं सोमयागमनुष्ठाय अश्वमेधः ११५ ततः पशुयागद्वयं कुर्यात् । संवत्सरपर्यन्तं केशानां वपनं न कारयितव्यम् । तदेतत् व्रतं भवति । अतस्तद्विसर्जनार्थ कश्चन सोमयागः कार्यः । स एव केशवानीय इत्युच्यते । सोऽतिरात्रसंस्थाको भवेत् । तत्र स्तोत्रेष्वयं विशेषः-प्रातस्सवने सर्वाण्यपि स्तोत्राणि एकविंशस्तोमकानि । माध्यन्दिने सर्वाणि स्तोत्राणि सप्तदश स्तोमकानि । तृतीयसवने अग्निष्टोमवत् द्वादश स्तोत्राणि । तत उक्थ्यस्तोत्राणि त्रीणि । षोडशिस्तोत्रमेकम् । रात्रिपर्यायाणि स्तोत्राणि द्वादश [ सर्वाण्यपि इमानि स्तोत्राणि पञ्चदशस्तोमकानि कार्याणि । अतिरात्रस्तोत्रानन्तरं पूर्वदिवसरात्रिशेष उत्तरदिवसस्योषःकाले यज्ञसमाप्ति- सम्पादकमेकं चरमं स्तोत्रं तृतीयपर्यायस्यान्ते रथन्तरसाना गातव्यम् । तत् सन्धिस्तोत्रमित्युच्यते । तत् त्रिवृत्स्तोमयुक्त कार्यम् । एवं च अस्मिन् कतौ स्तोमानाम् एकविंशादारभ्य त्रिवृत्पर्यन्तमवरोहणक्रमेण निवेशोऽवगन्तव्यः ।। इतः परं व्युष्टिद्विरात्रः, क्षत्रस्य धृतिरिति सोमयागद्वयमवशिष्टम् । तत्र व्युष्टिद्विराचे प्रथमदिनमग्निष्टोमसंस्थाकम् । द्वितीयमहरतिरात्र- संस्थाकम् । पूर्णिमायां प्रथममहरनुष्ठेयम् । तदनन्तरकृष्णाष्टम्यां उत्तरमहः । सर्वमन्यत् तत्तत्प्रकृतिवत् । ततः क्षत्रस्य धृतिः । सोऽग्निष्टोमसंस्थाकः । त्रिवृत्पञ्चदशसप्तदशरूपैः त्रिभिरेव च स्तोमैर्युतः । सर्वमत्राऽन्यत् यथाप्रकृति । एतावता समाप्तो राजसूयक्रतुः । राजसूयं परिसमाप्य सौत्रामण्या यजेत । तदनुष्ठानप्रकारः पूर्वमेवोक्तः ॥ . अश्वमेधः अथेदानीमश्वमेघाख्यमहायागस्य स्वरूपं निरूपयामः । यो नामै- कच्छत्राधिपतिः सार्वभौमः, अर्थात्-समग्रस्य भूमण्डलस्य शासिता, यस्य वशेऽन्ये सामन्ता राजानो वर्तन्ते तेनैवायमनुष्ठेयो यज्ञः । न साधारणक्षत्रियस्य ब्राह्मणवैश्ययोवा तत्र अधिकारः । अयं मुख्यः कल्पः । असार्वभौमस्याप्यत्राऽधिकारं गौणतया मन्यन्ते सूत्रकाराः आपस्तम्ब- प्रभृतयः । कात्यायनस्तु राजसामान्याधिकारिक राजसूयवदिमं यज्ञं कथयति । अतः 'राजयज्ञः' इत्यप्यस्य व्यपदेशं पश्यामो ग्रन्थेषु । श्रौतकर्ममध्ये यागोऽयं प्रधानतममलभत स्थानम् । यद्यप्ययं सोमयागः तथापि अत्र सवनीयपशुरश्वः, स च महोपकारकेषु परिगणित इति कृत्वा तस्यैव नाना यागोऽयं 'अश्वमेधः' इति व्यवहारं भजते । सर्व- यज्ञनत्वप्रकाशे . फलप्रदोऽयं ऋतुः । ब्रह्महत्यादिमहापातकनाशकः । नैतादृशं कर्मान्तर- मस्ति श्रेष्ठनम श्रुतिस्मृतिपुराणादिपु इत्युक्तं सर्वत्र । ब्रह्महत्यादीनि महापातकानि कृत्वा यस्तदपनोदकं श्रुतिस्मृत्यादिविहितं न शकोति प्रायश्चित्तमनुष्ठातुं सोऽवभृथ आश्वमेधिक स्नात्वा तस्मान्महापापाद्विमुक्तो भवेत् । राज्ञस्तु सर्वलाभप्रदः, सर्वराजजयचिह्नमृतोऽयमिति "सर्व- स्याप्त्य, सर्वस्य जित्यै, सर्वमेव तेनाप्नोति, सर्व जयति" इति श्रुतेरुद्धोतः ॥ यागम्यास्याङ्गभूता बहवो ग्राम्या आरण्याच पशवः । तेवश्व एष प्रथमः प्रधानभूतश्च । सोऽपि न साधारणः । किन्तु-यश्शरीर पूर्व भागे कृष्णवर्णः, पश्चार्धे श्वेतः, ललाटे शकटाकारपुण्डयुतः गभीराकृतिश्च भवितुमर्हति । किं च पूर्वमसकृत् पायितसोमरसाभ्यां मातापितृभ्यामश्वाभ्यां जातः जातमात्र एव जलान्तरपानात् पूर्व पायितसोमरसो योऽश्वः तं यथावत् वर्धयित्वा रक्षेत् । सति समये तेनैव यागं कुर्यात् । तत्र कस्यां- चिददुष्टायां चैव्यां पौर्णमास्यां सांग्रहणी नामेष्टिं कृत्वा, तदनन्तरवैशाख्यां प्रजापतिदेवताकं पशुयागमनुष्ठाय, अनन्तरामावास्यायाम् ऋत्विज आहूय, अमावास्येष्टिगनुष्ठाय यत्राश्वमेधयागः कर्तव्यतया निर्धारितः स्थानं तद्गत्वा, वपनं कारयित्वा, अहतं नूनं वासः परिधाय तत् दिनं समग्रं मौनव्रतं धारयन्नासीत । मध्ये प्राप्तं सायंप्रातःकालिकमग्निहोत्रं तु मन्त्रेण कुर्षीत । ततो द्वितीयेऽहनि प्रातरुदयं यन्तमादित्यं मन्त्रैरुपस्थाय, प्राग्वंशाख्यं यज्ञमण्डपं प्रविश्य, एकादश पूर्णाहुतीः अन्याश्च काश्चनाहुतीः यजमानो जुहुयात् । ततः चतसभ्यो दिग्भ्य आहृतासु अप्सु ब्रह्मौदनं पक्त्वा तत् महविग्भ्यः अध्वर्युब्रह्महोत्रुद्भातृभ्यो दत्त्वा तेन तानाशयित्वा समुचिते काले यागार्थ सङ्कल्प्य, तं यज्ञियाश्चमानीय, तेन सह चतुरक्षं श्वानं च आनीय तडागहृदादिमहाजले तावुभौ प्रवेश्य नीत्वा, यत्र शुनः पादा भूमि न स्पृशन्ति तत्र सैकेण ? मुसलेन तं श्वानं हत्वा तमश्वस्य पादानाम- धस्तात् प्रास्येत् । तत्रैव स्थितमश्वं चतसृषु दिक्षु अश्वस्य परितोऽवस्थिता महविजो राजपुरुषान्विताः प्रोक्षेयुः । प्रोक्षणप्रकारश्चेत्थ म्-~-अश्वस्य १. मातापितृभ्यामपि उत्पच्यनन्तरमेव कृतमोमपानाग्यां भाव्यमिति सूत्रकारः | See. आप. श्री. सू. २०-२-११. २. सैध्रको महासारो वृक्षविशेष: See मायणमान्य on तै. ना. ३.८.४. १, अश्वमेधः ११७ पूर्वदेशे राजपुत्रशतेन परिवृतोऽध्वर्युः प्रोक्षेत् । राजपुत्राः ये अभिषिक्त- क्षत्रियाणां पुत्राः स्वयमनभिषिक्ता राज्याश्चि तेषां शतेन सह प्रोक्षणं विहितम् । क्षत्रियाः सन्तोऽपि ये राज्यानींः शूराश्च तैः सहितो ब्रह्मा अश्वस्थ दक्षिण भाणे उत्तगभिमुखस्तिष्ठन् अश्वं प्रोक्षेत् । सारथीनां ग्रामनेतृणां मिलितानां शतेन ब्रह्मा अश्वस्य पश्चिमभागे प्राङ्मुखस्तिष्ठन् प्रोक्षेदश्वम् । क्षत्तृणां काशाभिकारिणां च मिलितानां शतेन सहोद्गाता उत्तरस्यां दिशि दक्षिणाभिमुखस्तिष्ठन् प्रोक्षेत् । प्रोक्षणकाले भूमौ पतितान जलबिन्दूनभि- मन्त्रयेत् ॥ ततोऽध्य युरेक एव सर्वदेवतासम्बन्धितया तमश्वं चतुर्दु दिग्वि- भागे उपरिष्टाच्च प्रोक्ष्य, अश्वमुत्सृजेत् भूपरिभ्रमणार्थम् । तेन अश्वेन सह तद्रक्षणार्थ चतुश्शता इषुधन्विनो वीरपुरुषा गच्छेयुः । स यावद्भूमि यथेष्टं परिभ्रम्य एकस्मिन् वर्षे आगच्छेत् तावत् ते तं रक्षेयुः । यदि कश्चिद्राज्ञः शत्रुरश्चं स्पर्धया मध्येपथं गृह्णीयात् तदा रक्षिणस्तेन सह युवा व पसरनियेयुः । यदि न शक्यते, पुनः पूर्ववत् तादृशमेव अश्वमेकमानीय पुनः प्राक्ष्य रक्षिभिः सह विसृजेत् । यावदश्वः पुनः स्वस्थानं न परावर्तते तावद्यागो नानुष्ठातुं शक्यते । अतोऽयमश्वमेधो महाधनिनाऽपि सता नानतिबलेन अनुष्ठातुं शक्यते । किन्तु यस्सर्वान् स्वबलेनाऽभिभवितुं शक्नोति तेनैवायमनुष्ठेयः । श्रिया, यशसा, जयेन च य आत्मनः श्रेष्ठ्यं प्रेप्सति, स एवात्र अधिकारीति श्रुतयः स्मृतयश्च । एवं शतमश्वमेधान् यो राजा यथावर नुतिष्ठति स देवानां राजा 'इन्द्रः' भवतीति पुराणान्युद्धोपयन्ति ।। स यावत् परिभ्रम्य पुनः स्वस्थानमागच्छति तावत् यजमानः प्रतिदिन विष्णुक्रमणसंज्ञकान् कांचन होमान् कुर्वन् सायं प्रातश्च वीणागाथिनौ ब्राह्मणराजन्यावाहूय ताभ्यां स्वापदानं गापयेत् । तत्र प्रातः (दिवा) ब्राह्मणः राज्ञा कृतं दानयज्ञादिपुण्यकर्म वीणायां गायेत् । रात्रौ राजन्य- स्तदीयशौर्यवीर्यबलपराक्रमादिकं गायेत् वीणायामेव । तदुभयं शृण्वन्नासीत राजा। ततो हिरण्मय आसन आसीनो होत्रा शस्यमानं पारिप्लवं शृणुयात् ।। एवं प्रतिदिनं यावद्वत्सरं कुर्वन् यज्ञियाश्वस्य प्रत्यागमनं प्रतीक्षमाण आसीत । तत्र अश्वभ्रमणकाले विविधा विचित्रतमाश्च होमा आहवनीयाधग्निषु मध्येपथम् अश्वपदनिक्षेपस्थलादौ च कर्तव्यतया विहिताः । एवमश्चाङ्गानि ।
११८ यज्ञतत्वप्रकाशे मुखदन्तहनूरुपादादीनि गमन-धावन-क्रन्दन-हेपण-शयना-वधाण-प्रभृ- तीन्यश्व चरितानि च देवतीकृत्य तेभ्यो होमाः कर्तव्याः ॥ अत्र सुत्यात्रयमित्युक्तम् । तत्र प्रथमदिनकर्तव्यायां सुत्यायां न कोऽपि विशेषोऽनुष्ठाने । द्वितीयदिने प्रातस्सवने बहिष्पवमानस्तोत्रार्थ गत्वा तत्रोद्गातारम् उद्दीथाख्यद्वितीय भक्तिगातारं निवार्य तस्य स्थाने अश्वमेव प्रकृतमुद्गीथाय दृणुयात् । तस्य समीपे बडवाः स्त्रीरूपा अश्वाः स्थापयेत् । ता दृष्ट्वा स यशियोऽश्वः यं शब्दं कुर्यात् स एव उद्गीथः । ततस्तस्मिन्नेव दिने प्रातस्सायनिकग्रहग्रहणाधनन्तरमश्वप्रभृतीनां पशूनां यागोऽनुष्ठेयः॥ तत्र यूपा एकविंशतिसंख्याका भवेयुः । ते वेदरुत्तरकोणादारभ्य दक्षिणकोणपर्यन्तं निखातव्याः । तत्र आहवनीयाग्नेः साक्षात् पूर्वभागे यो निखातव्यः स मध्यमः । स च राज्जुदालवृक्षनिर्मित एकविंशत्यरनिपरिमाणो भवेत् । स एवाग्निष्ठशब्देनोच्यते । तत्रैवाश्चो नियोक्तव्यः । तस्य यूपस्य दक्षिणोत्तरयोः द्वयोः पार्श्वयोः पौतुद्रव (देवदारु) वृक्षनिर्मिती द्वौ यूपौ भवतः । तदनन्तराः उत्तरभागे त्रयः दक्षिणभागे च त्रयः इत्याहत्य षट् बिल्ववृक्षनिर्मिता यूपा भवन्ति । तदनन्तराः एकस्मिन् भागे त्रयः इति कृत्वा द्वयोः पार्श्वयोः पट् खादिरा भवन्ति । तेषामप्यनन्तरं एकैकस्य भागस्य त्रयः इति पट् पलाशवृक्षनिर्मिता भवन्ति । एवमाहत्य एकविंशतियूपा निखातव्याः । ततोऽश्वशरीरं समन्ततो रशनया आवेष्ट्य, तस्यां तत्स्थानस्थितायां रज्ज्वां बन्धनीयाः तूपरादयः पशवस्त्रयोदश । तेऽवाङ्गे बध्यमानत्वात् पर्यङ्ग्या इत्युच्यन्ते । तद्वन्धनप्रकारश्चेत्थम्-१. अश्वस्य ललाटे आग्नेयम् । २. तस्य पश्चाद्भागे पौष्णम् । ३. अश्वस्योपरिभागे ऐन्द्रापौष्णम् । ४. बाह्वोः दक्षिणोत्तरयोः आग्नेयौ कृष्णग्रीवौ । ५. वाष्ट्रौ सक्थ्योः (ऊर्वोः) । ६. बार्हस्पत्यौ श्वेतपृष्ठौ पार्छ । ७. श्वेतवर्णोदरयुक्तं धातृदेवताकम- श्वस्य अधोभागे । ८. श्वेतमजं पुच्छे । ९. सूर्यदेवताकं कृष्णवर्णम दक्षिणपार्थे । १०. यमदेवता कृष्णवर्णं वामपार्छ । विचित्रोऽयं प्रकारो नान्येषु यागेषु दृश्यते । अश्वमेधे सुपर्णचिति निर्माय तदुपर्यग्निं प्रतिष्ठा. १. चतुर्विशतिरगुलयोऽरनि: एवमेकावशत्यरलिपरिमितः ५.४ अङ्गुलिपरिमितो भवेदृर्वतायाम् । अन्ये यूपा: पञ्चारत्नयः ।
अश्वमेधः आरण्याः पशवः । अन्न प्यापि यागोऽनुष्ठातुं शक्यते । एकविंशतिसंख्याकेषु यूपेषु नियोज्य- मानानां पशूनाम् आहत्य संख्या नवत्युत्तरं शतत्रयम् (३९०) । एते ग्राम्याः पशव उच्यन्ते प्रामेष्वेव वसन्तीति । तत्तधूपान्तरालेषु धारयितव्याः आरण्याः पशवः । अरण्यमात्रवासिनस्त आरण्या उच्यन्ते । संख्येयं पशूनां तैत्तिरीयशाखानुसारेण । माध्यन्दिनशाखानुसारेण तु एकोनपश्चाश- दुत्तरशतत्रयं (३४९) ग्राम्याः पशवः । षष्टयत्तरं शतत्रयं (३६०) पशवः । अन ग्राम्या: पशवः तत्तद्गुणाकृतिविशिष्टा अजा एवोपदिष्टा बहुलतया । जात्यन्तरस्याति कचिदत्यल्पशो विधानमस्ति । ते यूपेष्वेव बन्धनीयाः । आरण्येषु पशुषु सिंहगजव्याघ्र- श्वापदादयः, नैके च पक्षिविशेषाः, मीनमण्डूकसरीसृपादयश्च संगृहीताः । ते च तैस्तैः शाकुनिकैर्मंगयुभिश्च जालवागुरादिभिर्दाहयित्वा यूपान्तरा- लेष्ववस्थाप्याः । सर्वेषु पशुषु तिष्ठत्सु प्रत्येकं तेषामुपाकरणपर्यग्निकरणे कृत्वा, आरण्यान् ततोऽपसार्य अरण्यं नीत्वा सिंहव्याघ्रादीन् तत्रोत्सृजे- दुपायेन । ग्राम्याणां पशूनां तु संज्ञपनादि सर्वं पाशुकं कर्मानुष्ठाय तदनन्तरमेव तद्दिनीयसमिकव्यापारानुष्ठानं कर्तव्यम् ॥ तत्र, अश्वसंज्ञपनार्थ घृताक्तं कम्बलं भूमौ प्रथममास्तीर्य, तदुपरि चर्ममयमाच्छादनपटमास्तीर्य तदुपरि सुवर्णफलकमास्तीर्य तदुपर्यश्वं प्राशिरसम् उदीच्यपादं शाययित्वा संज्ञपयेत् । संज्ञपनं प्राणर्वियोजनम् । ततः राज्ञः पन्यः महिषी, वावाता, परिवृत्ती इति तिस्रोऽपि अश्वं परियन्ति । ततो महिषी मृतस्याश्वस्य पार्थे शयाना तं गर्हेतु ग्राम्यैर्वचनैः । अनन्तरं तस्य विशसनं कृत्वा चन्द्राख्यं मेद उद्धरेत् , यतोऽश्वस्य वपा न विद्यते । ततः तूपरगोमृगयोपे उद्धृत्य तत् त्रयमपि श्रपयित्वा प्रजापतये आश्रावणप्रत्याश्रावणे कृत्वा तद्धविस्त्रयमपि युगपत् प्रजापतये जुहुयात् । ततोऽश्वलोहितं स्विष्टक्रदर्थ क्वचित् पात्रे निक्षिप्य, प्रजापतिदेवताकान् षड्ढोमान् हुत्वा, यजमान व्याघ्रचर्मणि सिंहचर्मणि वा उपवेश्य ऋषभस्य चर्मणि यजमानस्योपरि धार्यमाणे सति यजमानशिरसि सुवर्ण शतकृष्णलमितं निक्षिप्य यजमान- मभिषिञ्चेत् । ततो यजमानो मुखं विमृज्य, अध्वर्युणा प्राजापत्यासु षट्सु आहुतिषु क्रियमाणासु विष्णुकमान् कामेत् । ततो वैतसे कटे अश्वं निपात्य प्राक्शिरसं तदङ्गान्यवद्येत् । एवमश्वस्य पुरोमागे पश्चिम शिरसं तूपरं पश्चाद्भागे यज्ञतत्त्वप्रकाशे १२० प्राशिरसं गोमृगं च शाययित्वा तत्तदङ्गानाग वदानं कुर्यात् । अश्वस्य दक्षिणतः प्लक्षशाखा वितत्य तत्रेतरान् पशून् शाययित्वा हृदयाघङ्गाना मुद्धरणं कृत्वा वेद्यामासाद्य, अश्वतूपरगोमृगाणां निरवशेष होमं कृत्वा यत्र ते शायितास्तमपि कटमग्नौ प्रक्षिपेत् । तत आहवनीये आज्येन शरीर- होमान् हुत्वा, अश्वस्य लोहितेन स्विष्टकृतं हुत्वा, गोमृगस्य कण्ठेन अश्वशफेन अयस्मयेन कमण्डलुगा च क्रमश आहुतित्रयं त्वा ततो यथाप्रकृति पत्नीसंयाजान्तमनुष्ठाय तदहविरमयेत् ॥ तदनन्तरदिवसे सर्वस्तोममतिरात्रसंस्थाकं सोमयागगनुतिष्ठेत् । इदं तृतीयं सुत्यादिनम् । तस्मिन् दिने सौमिकान व्यापारान यथा. प्रकृत्यनुष्ठाय सवनीयपशूपाकरणकाले एकादश पशून् प्राजापत्यान वैश्वदेवान् वा पशुयागान् अन्ते प्राजापत्यमेकं पशुयागं च कृत्वा ततो यथाप्रकृति कर्तव्यानि सर्वाणि कमीग्यनुष्ठाय, अवभृथेष्टचनुष्ठानपूर्वक- मवभृथस्नानं विधाय, अत्रिगोत्रोद्भवं, क्लेशरहितमस्तकं, सर्वदा स्वेदनशीलं, श्वेतकुष्ठं पिङ्गलवर्णाक्षियुत कंचन पुरुषमानीय तस्य शिरसि होमविशेष- त्रयमनुष्ठाय तस्मै शतं सुवर्णानि अनोयुक्तानि दत्त्वा ग्रामं गच्छेत् । ग्रामीणा अपि पुरुषाः सहैव गच्छेयुः । ततस्त्रैधातवीयेष्टिमुदवसानीयास्थाने कृत्वा तदनन्तरम् ऋतुपशुभिः संवत्सरं यावद्यजेत । तत्तदृतावनुष्ठेयतया ये विहिताः पशवस्ते ऋतुपशव उच्यन्ते । समाप्तोऽश्वमेधः ॥ अश्वमेधस्य सर्वयज्ञश्रेष्ठता अयं चाऽतिबृहन् क्रियासमूहः । अतिकुशलैः कण्ठाग्रविल- सत्पद्धतिभिः ऋत्विग्भिरेवाऽनुष्ठापयितुं शक्यते । न सामान्यप्रज्ञैः । यतोऽस्य प्रयोगोऽत्यन्तं जटिलः प्रकृतावपरिचितपदार्थशतसंकुलश्च । किंचास्याऽनुष्ठानमनेकशतवत्सरेभ्यः पूर्वमेव विलुप्तम् । यतस्ता दृशा अधिकारिणो बहोः कालात् पूर्वमेव विलोपं गताः । परं वैक्रमीयसंवत्सर- त्रयोदशचतुर्दशशतकपर्यन्तं भारतीय राजभिर्यथाकथंचिदनुष्ठित असीदिति वयमितिहासमुखादवगच्छामः । परमतिप्राचीनात् वैदिककालादारभ्याऽस्म- देशे प्रसिद्धिं गतोऽयं यागः, आस्माकीनरेव चेदम्प्रथमतया ज्ञात इति श्रुतिपरामर्शनावगम्यते । सति चैवं एतद्विषयकं परिज्ञानमस्माकं भारतीयानां पाश्चात्यदेशादधिगतम् । ग्रीप्रभृतिषु पाश्चात्यदेशेषु अतिप्राचीनादारभ्य समयात्, प्रथेयम्:-अश्वस्य हविष्वसम्पादनेन देवताभ्यो दानमित्यादिका- १२१ , पुरुषमेधः प्रसरं गता आसीत् । अनन्तरं भारतदेशीयैस्सा शिक्षिता तेभ्य एव इति यत् केचन पाश्चात्याः पण्डिताः कथयन्ति तत् सर्वथा वस्तुयाथार्थ्यांपलाप- मात्रम् । यतस्सर्वेयं वैदिकी परिपाटिरास्माकीनैव अस्मदुपज्ञैव च देशान्तरीयाभ्यस्ताभ्योऽतिप्राचीना, अनि तोत्पत्तिकाला इत्यत्र नास्ति संशयस्य कियानप्यवकाशः। अस्मत्त एव च प्रथममरब्-देशीयैः शिक्षिता, ततो ईजिप्ट-देशीयैः, ततो रोमकैः, तेभ्यश्चाङ्गलैः । एवमास्माकीना सभ्यता देशान्तरं गता । आङ्गलास्सभ्यतामिमां रोम्-देशादेवाशिक्षन्त इति कृत्वा ते तमेव देशमस्याः परमं मूलं मन्वते । तदिदं तेषामुपरिप्लवन- मात्रम् । परं तेष्वपि केचित् तत्त्वविमर्शकाः तत्त्वं नापलपितुमीहन्ते । अस्तु, नात्र दूरतरं गन्तुमभिलषामो विस्तराद्भीताः । अतोऽश्वमेधयागः अनादिकालिको वैदिकानां कर्मणां मध्ये प्राधान्यं परमं गतः सार्वभौम- कर्तृको महापुण्यप्रद इति सिद्धम् ।। पुरुषमेधः एवं पुरुषमेधोऽपि वेदेषु विहितो दृश्यते । पुरुषमेधोऽपि अश्वमेधवत् सोमयाग एव । स पञ्चसुत्यात्मकः पञ्चाहः अहीनः क्रतुः । अत्र श्रवणमात्रेणैवं प्रतीयते-यथा अश्वमेधे अश्वस्य संज्ञपनविशसनादिकं कृत्वा यागः क्रियते तदीयाङ्गैः, एवमत्रापीति । कथयन्यपि लिखन्त्यपि च केचनैवं तत्र । परं वस्तुगत्यां नैव तथा । पुरुषाणां चोदितानां तत्तद्देवतायै यथाविधि उपाकृत्य तत उत्सर्ग एव ; न विशसनादिकम् , वपादीना- मुद्धरणम् , अग्नौ प्रक्षेपणात्मको होमो वा । तैत्तिरीयवाजसनेयब्राह्मणयोरेषां विधिकदम्बकं दृश्यते । तत्र पुरुषपशवः द्वथूनं द्विशतं (१९८) विहिताः तत्तद्देवतोद्देशेन । अजा अपि तैस्सह विधानमुपगताः । अजानामेव यूपेषु बन्धनसंज्ञपनविशसनवपोद्धरणादयो व्यापारा अनुष्ठेयतयोक्ताः । पुरुष- पशूनां तत्तद्देवताभ्य उपाकरणानन्तरं तान् नारायणात्मना ध्यात्वा तथैवोत्सृजेत् (जीवतामेव परित्यागः कार्यः) । तेषां परमपुरुषात्मना ध्यानसमय एव पुरुषसूक्तमन्त्राः पठनीयाः । तदर्थमेव प्राधान्येन सूक्तमिदं प्रवृत्तम् । अतश्च हिंसायाः पुरुषमेधे अवसर एव नास्ति । सत्यामेवं वस्तुस्थितौ यत् कैश्चिदेवमुच्यते-वैदिकसभ्यतायां पूर्वकाले पुरुषमेधोऽपि प्रथित आसीदिति, तत् पुरुषमेधशब्दश्रवणमात्रेण सजातप्रमाणां पुरुषाणां तेषां स्वमनीषाविलासमात्रम् ; न तु तात्त्विकी स्थितिरिति विचारयामः । 16 १२२ यज्ञतत्त्वप्रकाशे ? कुतः ? कस्यामपि शाखायां क्वचिदपि वा श्रौतसूत्रे पुरुषमधे पुरुषस्य हिंसाया अश्रवणात् । किन्तु सर्वेषु वेदेषु श्रौतसूत्रेषु च तान् पुरुपपशूनकत्र सङ्घीकृत्य, उपाकृत्य, भगवन्नारायणरूपेण ध्यात्वा तथैव तानुत्सृज्य, त्यक्तरागद्वेषः स्वीयं सर्वमपि स्वं तस्मिन् यज्ञे दक्षिणात्वेन ऋत्विग्भ्यो ब्राह्मणेभ्यश्च दत्त्वा अरण्यमुपेयात् इत्येव विधिदृश्यते । अतः पुरुपाणाम- नियेषु पदार्थेषु वैराग्योत्पादनायैव अयमेतावान् परिकर इत्येव प्रतीयते ।। यत्तु ऐतरेय ब्राह्मणगतं शुनश्शेपोपाख्यानं पुरुषमेधे प्रमाणतया प्रदर्शयन्ति, न तदपि युक्तम् । तत्र हिंसाया अविधानात् । जीवत एवं शुनश्शेपस्य परित्यागोक्तेः । तत्र कारणकथने या कापि भङ्गी समाश्रिता भवतु, फलतो जीवत उत्सर्गस्यैव विधानम् । अतः पुरुषमेधे पुरुषाणां पर्यग्निकरणानन्तरमुत्सर्ग एव शास्त्रसम्मत इति फलति । एवं पुरुषानु- त्सृज्य, अजैर्यथावत् पाशुकं कर्माऽनुष्ठाय तत्संवलितान् सौमिकानपि व्यापारान् तदुक्तसंस्थानुसारेण यथाविध्यनुष्ठाय उदवसानीयया समापयेत् ॥ सर्वमेधः एवं सर्वमेधाख्यः क्रतुरपि सोमयागविशेष एव । तत्र दश सुत्याः, द्वादश दीक्षाः, द्वादश उपसदः । एवं चतुस्त्रिंशदिनसाध्योऽयं क्रतुः । इष्टकाभिस्सम्पादितायाश्चितरुपरि आहवनीयाग्निस्थापन कृत्वा कर्तव्यः । सुत्यासु पञ्चमी सुत्या आश्वमेधिकमध्यमसुत्सावदनुष्ठेया । षष्ठी सुत्या पौरुषमेधिकमध्यमसुत्यावत् । षष्ठयां सुत्यायां पुरुषान् पर्यग्नि- करणान्ते सर्वानुत्सृज्य अजादिभिः पशुभिः यागा अनुष्ठेयाः । सप्तम्यां सुत्यायां परिशुद्धानि आर्यभोजनयोग्यानि सर्वाणि ब्रीह्यादीन्यन्नान्यानीय, यथावत् पक्खा आहवनीये जुहुयात् । ओषधीः वृक्षांश्च आनीय, अल्पशो- ऽल्पशस्तान् खण्डयित्वा आहवनीये जुहुयादिति विशेषः । अत्राऽपि कर्मणि मनुष्याणां संज्ञपनादिकं किमपि न विहितम् । किं तु उपाकरणान्त उत्सर्ग एव । अतः पुरुषमेधसर्वमेधयोः मनुष्यस्य मारणविशसनादिकमस्तीति कयनं सर्वथा भ्रममूलकमेव ।। सवनिरूपणम् एतदतिरिक्ताः सवा नाम केचन एकाहविशेषाः सोमयागाः तैत्तिरीयतामणे विहिताः । एकदिनसाध्यास्त इति कृत्वा ते एकाहपद- " , तत्रैव यागः मवनिरूपणम् १२३ व्यपदेशभाजो भवन्ति । ते च १. बृहस्पतिसवः २. वैश्यसवः ३. ब्राह्मणसवः ४. सोग सवः ५. पृथिसवः ६. गोसवः ७. ओदनसवः ८. मरुत्स्तोमः (पञ्चशारदीयः) ९. अग्निष्टुत् १०. इन्द्रस्तुत् ११. अप्तोर्यामः १२. विधन इति द्वादश । सूयते ईश्वरत्वेन (यजमानः) अभिषिच्यत एविति सवाः इति आचार्यसायणः । तेषामनुष्ठाने विशेषाः परमत्र लिख्यन्ते ॥ तेपु प्रथमो बृहस्पतिसवः-तत्र सर्वे स्तोमाः त्रिष्वपि सवनेषु त्रिवृतः (नवसङ्ख्याकाः)। अग्निष्टोमसंस्थाकत्वं पृष्ठस्तोते रथन्तरसामैव च तत्र नियमेन भवति । न ज्योतिष्टोमवत् बृहद्रथन्तरयोर्विकल्पः । तत्र परिस्रजी होता भवति । यस्य शिरसि लगाकारेण परित एव केशास्सन्ति, न तु मध्ये, स परिस्रजी(म्वलतिः) इति सायणः । स च होता सन्ध्याकालवर्णसदृश- रक्तवर्णः पुनः पुनरतिवेगेन चक्षुरुन्मीलननिमीलनयुक्तः वेदत्रये सम्यग्ज्ञानवांश्च भवेत् । अस्मिन् यागे त्रयस्त्रिंशत्(३३)गावः दक्षिणात्वेन ऋत्विग्भ्यो देयाः । ताः समशो विभज्य एकैकस्मिन् सवने एकादश (११) इति कृत्वा त्रिष्वपि सवनेषु दद्यात् । यागसमाप्त्यनन्तरं यजमानं कृष्णाजिने उपवेश्य, तमृत्विजो जलेन प्रथमं तत आज्येन चाभिषिञ्चेयुः । सर्वमन्यत् प्रकृतिसोगयागवत् ॥ द्वितीयो वैश्यसवः तत्र १. आग्नेयोऽष्टाकपालः पुरोडाशः २. पोष्णश्चरुः ३ सावित्रोऽष्टाकपालः पुरोडाशः ४. त्वष्टदेवताकोऽष्टा. कपालः पुरोडाशः ५. वारुणोऽष्टाकपालः पुरोडाशः ६. द्वादशकपालो वैश्वदेवः सः ७. एकादशकपालो मारुतः स इति सप्त हवींषि । ततः श्वेतवर्णः चतुर्वषः स्त्रीपशुरेक इति अष्टौ यागीयद्रव्याणि । अन्तिमस्य पशुयागस्य प्रधानहोमानन्तरं स्विष्टकृयागात् पूर्व तत्र वृषभचर्म आस्तीर्य, तत्र यजमानमुपवेश्य, दना तमभिषिञ्चेत् इति विशेषः । सर्वमन्यत् प्रकृतिवत् ॥ तृतीयो ब्राह्मणसवः-तत्र १. आग्नेयोऽष्टाकपालः पुरोडाशः २. सौम्य एकादकपालः पुरोडाशः ३. सावित्रोऽष्टाकपालः पुरोडाशः ४. बार्हस्पत्योऽष्टाकपालः पुरोडाशः ५. अग्नीषोमीय एकादशकपालः पुरोडाशः ६, मारस्वतोऽष्टाकपालः पुरोडाशः ७. वारुणोऽष्टाकपालः १२४ यज्ञतत्त्वप्रकाशे पुरोडाशः ८. द्यावापृथिव्य एककपालः पुरोडाशः इत्यष्टौ पुरोडाशद्रव्यका यागाः । इष्टयादिसमाप्त्यनन्तरं कृष्णाजिनमास्तीर्य तस्मिन् यजमान. मुपवेश्य घृतेन अभिषिञ्चेत् । अत्रैतावन्तो विशेषाः । सर्वमन्यत् यथा- प्रकृति ॥ चतुर्थः सोमसवः-अत्र सोमयागानुष्ठानं नास्ति । किन्तु राजसूये ये सप्त सोमयागाः पवित्रादयोऽनुष्ठयतयोक्ताः, तान् सर्वान् सोमयागान् वर्जयित्वा अन्ये अनुमत्यादिसौत्रामणीयागान्ताः सर्वेऽपि यागा इष्टिपशु- यागात्मका अनुष्ठेयाः ॥ पञ्चमः पृथिसवः--अत्र राजसूयोक्तानि-सोमयागाः, पशुबन्धः, चातुर्मास्यानि इत्येतानि वर्जयित्वा अन्यत्सर्वमनुमत्यादिकं सौत्रामण्यन्त- कर्मजातमनुष्ठेयम् ॥ षष्ठो गोसवः-अन सवनत्रयगतेषु सर्वेष्वपि स्तोत्रेषु पत्रिंशस्तोमाः । उक्थ्यसंस्था । पृष्ठस्तोत्रे बृहत्साम । पवमानस्तोत्रेषु (बहिष्पवमानमाध्यन्दिनपवमानार्भवपवमानाख्येषु)त्रिष्वपि कण्वरथन्तराख्यं साम गातव्यम् । अयुतसङ्ख्याका गाः अत्र दक्षिणाः । यज्ञान्ते अचिरदुग्धेन क्षीरेण अत्र यजमानस्य अभिषेकः कार्यः ।। सप्तम ओदनसवः-सुत्यादिने सूर्योदयात्पूर्वमोदनं पक्त्वा, उदित आदिये तेनौदनेन आहवनीयाग्नौ आहुतिचतुष्टयं हुत्वा ततः आज्ये, पयसि, दधनि, जले च पृथक् पृथक् पात्रावस्थापिते सक्तून प्रक्षिप्य, आलोड्य, तत्तन्मन्थान् कृत्वा, तान् यजमानाय भक्षार्थ प्रयच्छेदध्वर्युः । ततो यजमानहस्ते हिरण्यं बद्ध्वा तैरेव भक्षणावशिष्टैर्मन्थैः परस्पर संसृष्टैः यजमानमभिषिञ्चेत् । आज्यादीनि द्रव्याणि सक्तुमिः संमिश्रितानि मन्था इत्युच्यन्ते । अत्र साक्षादवभृथो नास्ति । किन्तु तत्स्थाने दर्भपुञ्जीलोद्धृतेन जलेन यजमानस्य प्रोक्षणमेव । ततोऽग्रेऽवस्थापितं यजमानो रथमारोहेत् । अत्रापि सर्वमन्यत् यथाप्रकृति ॥ अष्टमो मरुत्स्तोमः पञ्चशारदीयः-पशुयागसंवलितोऽयं सोमयागः । अयं पञ्चभिर्वत्सरैरनुष्ठेयः । अत एवास्य पञ्चशारदीय इति व्यवहारः । परं न सर्वाण्यपि दिनान्यमिव्याप्य अस्यानुष्ठानम् । किन्तु चातुर्मास्यवत् तत्तत्पादिकालेष्वेव । अयं चात्रानुष्ठानप्रकारः--प्रथमवत्सरे सङ्कल्पं कृत्वा द्वादशाहनिरूपणम् १२५ सप्तदशसंख्याकान् पञ्चवर्षीयानल्पकायान् पुंस्पशून् तावत्संख्याकान् अस्पृष्टगर्भान् वर्षत्रयवयस्कान् स्त्रीपशृंश्च आनीय सहैवोभयानपि उपाकृत्य, प्रोक्ष्य, पुंपशूनुत्सृज्य, स्त्रीपशूनालभेरन् । एवं द्वितीयवर्षेऽपि पूर्वोत्सृष्टान् पुंपशून् , अन्यांश्च स्त्रीपशूनानीय पूर्ववत् पुंपशून् पर्यग्निकरणान्ते उत्सृज्य स्त्रीपशूनालभेरन् । एवं तृतीयचतुर्थवर्षयोरपि पुंपशवः पुराणाः नूनाश्च स्त्रीपशव आनेयाः । पूर्ववदेव च तेषामनुष्ठानप्रकारः । एवं पञ्चसु वर्षेषु पशुयागानेव अनुष्ठाय षष्ठे वर्षे शरहतौ कार्तिकमासे पञ्चसु दिवसेषु पञ्च सोमयागा अनुष्ठेयाः । तत्र ये पशवः पूर्वेषु वर्षेषु परित्यक्ताः तानानीय, प्रथमे दिने वयः, द्वितीये दिने त्रयः, एवं तृतीयचतुर्थयोरपि त्रयस्त्रयः, पञ्चमे पञ्च इति सप्तदशानामपि पशूनां सवनीयपशुत्वेन अनुष्ठान कर्तव्यम् । तत्र पुंपशूपनाम् इन्द्रो मरुतश्च देवताः; स्त्रीपशूनां केवलमरुतः। पञ्चमे वर्षे पञ्चरानाय सोमयागाय दीक्षयित्वा पञ्च संस्थाः क्रमशः एकैकस्मिन् दिनेऽनुष्ठेयाः । तत्र प्रथमदिने त्रिवृत्स्तोमः सर्वेष्वपि स्तोत्रेषु । ततो द्वितीयादिषु दिवसेषु पञ्चदशः, सप्तदशः, पञ्चदशः, सप्तदश इति स्तोमाः । अग्निष्टोमः, उक्थ्यः, उक्थ्यः, उक्थ्यः, अतिरात्रः इति क्रमेण संस्था भवन्ति । अत्र पशुयागानामङ्गत्वं सोमयागानां च प्राधान्यं भवति । अतः सोमयागा एवैते ॥ एवमग्रिनुदिन्द्रस्तुदोर्यामविघनाख्याश्चत्वार एकाहाः तैत्तिरीय- ब्राह्मणायुक्ताः । तत्र विघने-त्रिवृत्पञ्चदशयोः स्थाने द्वादशस्तोमः सप्तविंशकविंशयोः स्थाने चतुर्विशस्स्तोमश्च कर्तव्यौ । अन्यत् सर्वमत्र यथाप्रकृति । अप्तोर्यामस्तोत्रादिगतविशेषस्तु पूर्वमेव अभिहितः संस्थानिरूपणप्रस्तावे । इत्येकाहनिरूपणम् ॥ द्वादशाहक्रतुः अथेदानी द्वादशाहकतोः स्वरूपं निरूप्यते । द्वादशाहो द्विविधः- अहीनात्मकः सत्रात्मकश्चेति । अहीनलक्षणस्य सत्रलक्षणस्य च सत्त्वात् । तथा हि-एकादियजमानकता, यजिधातुना विधानम् , दक्षिणाविधिः इत्यादीनि अहीनलक्षणानि । बहुकर्तृकत्वम् , आसते, उपयन्ति, आसीरन् , उपेयुः इत्यासोपायिचोदनाचोदितत्वम् , सत्ररूपेण संस्तवः, उभयतोऽति- रात्रत्वम् इत्यादीनि सत्रलक्षणानि । तदुभयान्यप्यत्र दृश्यन्ते । अतोऽय- १२६ यजनवप्रकाशे मुभयात्मकः । एकाहानामग्निष्टोमो यथा प्रकृतिभूतः एवमहीनानां सत्राणां चायं प्रकृतिभूतः संवत्सरादाक्तनानाम् । तदुपरितनानां तु तेपां गवामयनं प्रकृतिभूतम् ।। अत्र द्वादशाहे द्वादश दिनानि दीक्षाः । ततो द्वादशसु दिवरोपूर्ण सदामनुष्ठानम् । अन्तिमोपमदिने आरम्भतश्चतुविशे दिने उपसदनुष्ठाना- नन्तरम् अग्नीषोमीयपशुयागानुष्ठानम् । तस्मिन्नेव दिने महाराचे नुवा सोमाभिषवार्थक्रियाकलापानुष्ठानम् , श्वोभूते बहिष्पवमानादिः तृतीय- सवनसमाप्त्यन्तो व्यापारः, पुनर्यथावद्राली अमिषवक्रियानुबद्धकर्मकलाप इत्यादिद्वादशदिनपर्यन्तावर्तनीअक्रियाजातरूपाः द्वादश सुत्याः ।। एवं षट्त्रिंशदिनानुष्ठेयोऽयं द्वादशाहाख्यः क्रतुः । सर्वान्त एवावभृथेष्टिः, नैकैकसुत्यासमाप्तौ । तत्र द्वादशानामप्यतां संस्थाविशेपाः विशेषेण विहिताः। ते यथा-प्रथमदिनमतिरात्रसंस्थाकम् । द्वितीयमग्निष्टोम- संस्थाकम् । तत्र बहिष्पवमानायेषु द्वादशसु स्तोत्रेषु विवृदेव स्तोमः । तृतीयदिनमुक्थ्यसंस्थाकं पञ्चदशस्तोमकम् । चतुर्थदिनमुक्थ्यसंस्थाकं सप्तदशस्तोमकम् । पञ्चमदिनं षोडशिसंस्थाकमेकविंशस्तोमकम् । षष्ठदिनमुक्थ्यसंस्थाकं त्रिणव(सप्तविंशति)स्तोमकम् । सप्तमदिनमप्यु- क्थ्यसंस्थाकं त्रयस्त्रिंशस्तोमकम् । अष्टममहरुक्थ्यसंस्थाकं चतुर्विंश- स्तोमकम् । नवममहरुक्थ्यसंस्थाकं चतुश्चत्वारिंशस्तोमकम् । दशममहरग्नि- ष्टोमसंस्थाकं चतुर्विंशस्तोमकमितरेषु स्तोत्रेषु, अग्निष्टोमस्तोत्रे परं त्रयस्त्रिं- शस्तोमकम् । एकादशदिनमग्निष्टोमसंस्थाकमष्टाचत्वारिंशस्तोमकम् द्वादशमहरतिरात्रसंस्थाकम् । दशमदिनस्यातिरात्रसंस्थाकत्वं क्वचिच्छ्रुतम् । एवं रथन्तरम् , रथन्तरम् , बृहत् , वैरूपम् , वैराजम् , शाकरम् , रैवतम् , रथन्तरम् , बृहत् , रथन्तरम् , बृहत् , रथन्तरमिति क्रमेण होतुः पृष्ठे सामानि । अत्र स्थन्तर-बृहत् वैरूप वैराज-शाकर-रैवताख्यानां पण्णां सानां पृष्ठसामानीति व्यवहारः । द्वादशाहेऽस्मिन् द्वितीयादिसप्तमान्तानि दिनानि पृथगेकसङ्घीकृत्य तस्य च सङ्घस्य “पडहः” इति संज्ञा कृता श्रुत्यैव । तत्र षडहे पूर्वोक्तानि सामानि क्रमश एकैकस्मिन् दिने एकैकतया पृष्ठस्तोत्रे (होतुः पृष्ठे) गीयन्ते स्तोत्रसम्पादकतया । अत एवास्य षडहस्य "पृष्ठयः षडहः" इति संज्ञा । अत्र उक्त एव विषयः पट्टिकारूपेण प्रदयते- द्वादशाहनिरूपणम् (ब्यूट)हादशाहे संस्थास्तोमपृष्ठसामनिरूपणी पट्टिका- अहः संस्था स्तोमः अग्रता साम प्रथममहः अतिरात्रसंस्था त्रिवृदादयः ऐन्द्रवायवाग्रता रथन्तरम् पृष्ठयषडहः द्वितीयमहः अग्निष्टोमसंस्था लिवृत् रथन्तरम् तृतीयमहः उक्थ्यसंस्था पञ्चदशः शुक्राग्रता बृहत चतुर्थमहः उक्थ्यसंस्था सप्तदशः आग्रयणाग्रता वैरूपम् पञ्चममहः पोडशिसंस्था एकविंशः वैराजम् पष्ठमहः उक्थ्यसंस्था त्रिणवः(२७) ऐन्द्रवायवाग्रता शाकरम् सप्तममहः त्रयस्त्रिंशः शुक्राग्रता रैवतम् अष्टममहः चतुर्विशः रथन्तरम् नवममहः चतुश्चत्वारिंशः आग्रयणाग्रता बृहत् दशममहः अग्निष्टोमः,अतिरात्रः,चतुर्विशः ऐन्द्रवायवाग्रता रथन्तरम् " उक्थ्यो पा एकादशमहः अग्निष्टोमसंस्था अष्टाचत्वारिंशः बृहत् द्वादशमहः अतिरात्रसंस्था त्रिवृदादयः रथन्तरम् पत्र द्वादशाहे प्रथमस्य अह्नः 'प्रायणीयम्' इति चरमस्य 'उदयनीयम्' इति च संज्ञा । आरम्भसमाप्तिसम्बद्धे इति तदर्थः । दशममहः 'अविवाक्यम्' इत्युच्यते । अनुष्ठानकालेऽत्र सम्भवन्तो दोषा न वक्तव्या इति तदर्थ इति व्याख्यातारः । अतः स्तोत्रानुसारेण शस्त्राणामपि वृद्धिविशेपादयो भवन्ति । एवं पदार्थान्तरेष्वपि सन्त्यनुष्ठाने प्रकृत्य- पेक्षया बहूनि वैलक्षण्यानि, न तान्यत्रोल्लिखितानि ग्रन्थगौरवमिया ॥ ग्रहाग्रता सत्रेषु काचिद्ग्रहाग्रता विहिता । तस्याः स्वरूपं वित्रियते किञ्चिदिव । सुत्यादिवसेपु प्रातस्सवनादिषु विष्वपि सवनेषु ग्रहाः गृह्यन्ते हुयन्ते च । तत्र प्रातस्सवने बहुषु ग्रहेषु धारातो गृह्यमाणेषु यस्य ग्रहस्य प्रथभं ग्रहणं-~-यां देवतामुद्दिश्य पात्रे सोमरसः प्रथमं गृह्यते तनिष्ठा अग्रता (प्राथम्यम् ) । यथा-इन्द्रवायू उद्दिश्य प्रथमं पात्रे सोमरसग्रहणे स ऐन्द्रवायवो ग्रहः प्रथमं गृहीत इति ग्रहाणामैन्द्रवायव- १२८ यज्ञतत्त्वप्रकाशे ग्रहाग्रत्वम् । एवं शुक्राग्रता आग्रयणाग्रता इत्यादि बोध्यम् । तत्र व्यूढद्वादशाहे अहस्सु अग्रताः पट्टिकायां प्रदर्शिताः । समूढाख्यः कश्चित द्वादशाहोऽस्ति । तत्र प्रथमदशमद्वादशेष्वहस्सु ग्रहाणामैन्द्रवायवाग्रता । द्वितीयादिष्वहस्सु पूर्वोक्ताहर्वर्जितेपु क्रमेण ग्रहाणामैन्द्रवायवाग्रता, शुक्राग्रता, आग्रयणाग्रता, एतासामव च पुनरिद्वयमावृत्तिः । अर्थात् द्वादशाहद्वितीय दिने प्रातस्सवने ग्रहग्रहणकाले आदावन्द्रवायवग्रहं गृहीत्वा ततोऽन्ये ग्रहा ग्रहीतव्याः । तृतीयदिने शुक्रग्रहं प्रथमं गृहीत्वा ततोऽन्ये ग्रहा इत्यादि । इयमेव 'न्यनीका' इति याजिकैय॑वहियते । सेयं व्यनीका द्वादशाहादिपूपरितनेष्वेव ऋतुषु प्रवर्तते । अग्रता तु ज्योतिष्टोमेऽपि काम्यतया (तत्तत्फलोद्देशेन अनुष्ठेयतया) विधीयते ॥ गवामयनम् अथ गवामयनाख्यं संवत्सरसत्रं निरूप्यते । क्रतुरयम् एकोत्तर- षष्टयधिकशतत्रयदिनसाध्यः (३६१) । स त्रिधा विभक्तः-~-पूर्वपक्षः विषुवान् उत्तरपक्ष इति । तत्र अशीत्यधिकशतदिनसाध्यं (१८०) पूर्व पक्षः । अर्थात् तावत्सङ्ख्याकाः सुत्याः । तदनन्तरमेकमहः यस्य विषुवानिति संज्ञा । ततोऽशीत्युत्तरशतदिन (१८०)साध्यम् उत्तरं पक्षः (तावत्सङ्ख्याकाः) । समुदितस्यास्य गवामयनमिति संज्ञा । अर्थवादे क्रतुरयं गोभिरनुष्ठित इति प्रशंसार्थमुक्तत्वात् गवामयनमिति नामास्य सम्पन्नम् ॥ तत्रैवमहाक्लप्तिः- दिनसङ्ख्या प्रथमदिनं प्रायणीयसंज्ञकमतिरात्रसंस्थाकम् द्वितीयदिनं चतुर्विंशस्तोमकमुक्थ्यसंस्थाकम् ततोऽभिप्लवाख्यषडहस्य चतुर्वारमावृत्तिः ६:४-२४ ततः पृष्ठयषडहः सकृत ६ अयं एको मासः प्रथममासः ३० एवमेव चत्वारोऽभिप्लवाः षडहाः ४४६-२४ एक: पृष्ठधषडहः ६ द्वितीयो मासः ३० एवं तृतीयो मासः , चतुर्थों मासः ३० पञ्चमो मासः ३० त्रयोऽमिप्लवाः षडहाः ३४६% m m mov . १८ गवामयननिरूपणम् १६९ ur १ ३ १ - mr ६ १ १ एकः पृष्ठ चषडहः ततोऽभिजित्संज्ञकम् एकमहः स्वरसामसंज्ञकानि त्रीण्यहानि सर्व मिलित्वा १८० ततो विपुवाख्यं मध्यममेकमहः (अस्य चेतरापेक्षया सर्वोत्तमत्वमुक्तं श्रुतौ) तत उत्तरं पक्षः- पूर्वपक्षस्युक्ताहां वैपरीत्येनानुष्ठानम् । तच्च यथा- प्रथमतः त्रयः स्वरसामान: ततो विश्वजित्संज्ञकमेकमहः एक: पृष्ठयः पडहः प्रयोऽभिप्लवाः षडहाः ६४३= १८ महाव्रताख्यमेकमहः (उपान्त्यदिनेऽनुष्ठेयम् ) अतिरात्रसंस्थाकमेकमहः (अन्त्यदिनेऽनुष्ठेयम्) एवं सप्तमो मासः अष्टमे मासि एकः पृष्ठयः पडहः । चत्वारोऽभिप्लवाः (मिलित्वा) ३० एवमेव नवमो मासः ३० दशमो मासः ३० एकादशो मासः ३० द्वादशे मासि-त्रयोऽभिप्लवाः षडहाः १८ गोप्टोमः, आयुष्टोमश्च २ द्वादशाहस्य दशाहानि १० सर्व मिलित्वा १८० एवमेकषष्ट चधिकशतत्रयदिनसाध्यं गवामयनाख्यं संवत्सरसत्रम् । तदन्तर्गतौ पडही द्विप्रकारौ । तथा हि वेदे सोमयागसमूहविशेषाः षडहास्त्रिविधा निरूपिताः- षडहस्वरूपनिरूपणम् " १. पृष्ठयः षडहः, २. अभिप्लवः षडहः, ३. अभ्यासायः षडह इति । 17 १३० यज्ञनत्वप्रकाश " " तत्र द्वादशाहान्तर्गतत्वेन पृष्ठ यः पडहो निरूपितः । तत्र च- रथन्तरादीनां षण्णां साम्नां क्रमेण पटप दिनेषु होतृपृष्ठाङ्गतया गानम् । अभिप्लवषडहे तु रथन्तरम् , बृहत् , रथन्तरम् , वृहत् , रथन्तरम् बृहत् इत्येवंरूपेण गानम् । पृष्ठ यप हे त्रिवृत् , पञ्चदशः, सदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंश इति क्रमेण (तोमाः सर्वेपु स्तोत्रेषु । अभिप्लवषडहे एवं स्तोमक्लप्तिः- प्रथमेऽहनि अग्निष्टोमवत् रथन्तरपृष्ठम् । द्वितीयदिने गोष्टोमे प्रातस्सवने -बहिष्पवमाने पञ्चदशस्तोमः आज्येपु निवृत् माध्यन्दिनसवने-माध्यन्दिनपवमाने सप्तदशः पृष्ठस्तोत्रे बृहत् तृतीयसवने-- आर्भवपवमाने-एकविंशः अग्निष्टोमस्तोत्रे एकविंशः उक्थ्यरतोत्रेषु गोष्टोमस्योक्थ्यसंस्थाकत्वादत्रैव समाप्तिः । तृतीयमहरायुष्टोमसंज्ञकम् । तदप्युक्थ्यसंस्थाकम् । तत्र प्रातस्सवने-बहिष्पवमानस्तोत्रे त्रिवृत् स्तोमः आज्यस्तोत्रेषु पञ्चदशः माध्यन्दिनसवने-माध्यन्दिनपवमानस्तोत्रे सप्तदशः पृष्ठस्तोत्रेषु बृहत् तृतीयसवने सर्वेषु एकविंशः स्तोमः । चतुर्थमहः पुनर्गोष्टोमात्मकम् उक्थ्यसंस्थाकम् । पञ्चममहः आयुष्टोमाख्यं रथन्तरपृष्ठकम् उक्थ्यसंस्थाकम् । पष्ठमहः पुनज्योतिष्टोमाख्यं बृहत्पृष्ठम् अनिष्टोमसंस्थम् । अयमभिप्लवषडहः ।। इतोऽन्यः अभ्यासङ्गयः षडहः । तत्र स्तोमक्लतिरेवम्- प्रथमेऽहि-प्रातस्सवने त्रिवृत्स्तोमः अग्निष्टोमसंस्था माध्यन्दिनसवने तृतीयसवने पञ्चदशः महाव्रतनिरूपणम् " " " द्वितीयेऽह्नि-प्रातर सबने पञ्चदशः उक्थ्यसंस्था माध्यन्दिनसक्ने तृतीयसवने सप्तदशः तृतीयेऽह्नि-प्रातस्सक्ने माध्यन्दिनसबने तृतीयसपने एकविंशः चतुर्थेऽति-प्रातस्सवने माध्यन्दिनसक्ने तृतीयसवने त्रिणवः पञ्चमेऽह्नि-प्रास्सबने अतिरात्रसंस्था माध्यन्दिनसपने तृतीयसवने त्रयस्त्रिंशः षष्ठेऽहनि प्रकृत्यातेरात्रापेक्षया भिन्नातिरात्रसंस्था । अयमभ्यासङ्गयः षडहः । पूर्वमहर्यन स्तोमेन समापितं तेनैव स्तोमेनाहरन्तरस्योपक्रमो- ऽभ्यासङ्गः । तद्युक्तोऽभ्यासङ्गय इति । एवं त्रिविधा एव षडहाः प्रायेण श्रुतावुदीरिताः ।। महाव्रतनिरूपणम् इतः परं महाव्रताख्याहनिरूपणं क्रियते । इदमुपान्त्यदिनेऽनुष्ठेय- मित्युक्तम् । अस्यापि संवत्सरसत्रे विषुवदहर्वत् मुख्यत्वमस्ति । अत एव तद्वदत्रापि बहवो विशेपा विहिताः । इदं च पञ्चविंशस्तोमकम् । अनेकविशेपयुक्तत्वादेवास्य महाव्रतत्वम् । स्तोत्रकाले उद्गाता औदुम्बरी- मासन्दीगारुह्योपविश्य तत्र गायेत् । सा च आसन्दी प्रादेशमात्रोन्नता भवेत् । होता डोलामारुह्य तत्रापविश्य शस्त्रं शंसेन्निष्केवल्याख्यम् । तदा अध्वर्युः फलक उपविश्यौदुम्बरे प्रतिगरं कुर्यात् । मैत्रावरुणादयो बृसीविशेषानधितिष्ठेयुः । कश्चिबाह्मणः सत्रिणः स्तुवीत । कश्चिच्च शूद्रस्तान् निन्देत् । एवं वेद्याः सर्वेष्वपि कोणेषु दुन्दुभीन् वादयेयुः । आग्नीध्रमण्टपस्य पश्चिमभागेऽवट कृत्वा चर्मणा समाच्छादयेत् । सोऽयं भूमिदुन्दुभिरित्युच्यते । तं वादयेयुः । प्रेक्षकाः सर्वेऽपि संस्कृतामसंस्कृतां च वाचं वदेयुः । राजपुरुषा रथारूढा धनुर्धरा देवयजनं परितो १३२ यज्ञतत्त्वप्रकाशे गच्छेयुः । मार्जालीयसमीपेऽष्टौ दासकुगार्य उदकुम्भान् गृहीत्वा परिन येयुः । एवं यजमानपन्यो वीणाविशेपैरुगातुरुपगानं कुर्युः । ततः तन्त्रीशतयुक्तां महावीणां वादयेयुः शङ्खांश्च । तत्र मुखवीणाः काण्डवीणाश्च वाघेरन् । एते अन्ये च केचन विशेपा महाव्रते सन्ति । अन्यदितराहवत् ॥ इदमेव संवत्सरसत्रमितरेपामित उत्तरेषां सत्राणां प्रकृतिभूतम् । विशेषाः परं ये केचित् तत्र तत्र विहितास्ते च श्रौतसूत्रादितो विशेषजिज्ञासुमिरवगन्तव्याः ॥ इति महामहोपाध्याय-शाबरत्नाकर-पण्डितसार्वभीम-श्रीचिन्नस्वामिशाखि- विरचिते यज्ञतत्त्वप्रकाशे अग्निचयनादिनिरूपणाख्यः तृतीयो भागः एवं अग्न्याधेयमारभ्य गवामयनाख्यसंवत्सरसत्रान्ता याज्ञिकी प्रक्रिया आपस्तम्बश्रौतसूत्रं तैत्तिरीयसंहितां च प्राधान्येनावलम्ब्य निरूपिता । परमियं पदार्थज्ञानायैवोपयुज्येत । अनुष्ठातृमिस्तु श्रौतसूत्र- ग्रन्थाः पद्धतयश्च अनुष्ठानार्थमाश्रयणीयाः ॥ ऋषीषुलोकवसुधा (१३५७) मिते वङ्गीयवत्सरे । सानाधिकद्विसाहले (२००७) वैक्रमे विकृताह्वये ॥ वर्षे कार्तिकराकायां प्रगे भार्गववासरे । नगर्या कलिकातायां ग्रन्थोऽयं पूर्णतामगात् ॥ रघुनाथान्नपूर्णाभ्यां जातेन विदुषां कुले । श्रीवेङ्कटोपपदकसुब्रह्मण्याग्रजन्मना । श्रौतसूत्रब्राह्मणादिग्रन्थानालोड्य सर्वशः । कृतोऽयं ग्रन्थसन्दर्भो भवतात् सुधियां मुदे ॥ यस्याः प्रसादवशतः कृतिरेषा व्यरच्यत । तस्या एनां जगन्मातुः पदद्वन्द्वेऽर्पयाम्यहम् ।। इति वेदवेदाङ्गपारदृश्ववैदिकसार्वभौमवाधूलवंशाम्बुधिसद्रन-श्रीरघुनाथ- सूरितनुजन्मना श्रीमदन्नपूर्णागर्भसम्भूतेन, महामहोपाध्याय, शास्त्ररत्नाकर, पण्डितसार्वभौम, वेदविशारदादिविविधोपाधिविभूषितेन श्रीचिन्नस्वामि- शास्त्र्यपरनाना वेङ्कटसुब्रह्मण्येन विरचितो यज्ञतत्त्वप्रकाशः समाप्तः ॥
APPENDIX सोमलताया महिमा तदुतात्तिस्थानानि च सुश्रुतसंहितायां वैद्यग्रन्थे चिकित्साप्रकरणे हिमवत्यर्बुदे सह्ये महेन्द्र मलये तथा । श्रीर्वते देवगिरौ गिरौ देवसहे तथा ॥ १ ॥ पारियात्रे च विन्ध्ये च देवसुन्दे हदे तथा । उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ॥ २ ॥ पञ्च तेषामघो मध्ये सिन्धुनामा महानदः । हयवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ॥३॥ तस्योद्देशेषु चाप्यस्ति मुखवानंशुमानपि । काश्मीरेषु सरो दिव्यं नाना क्षुद्रकमानसम् ॥ ४ ॥ गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्करस्तथा । अत्र सन्यपरे चापि सोमाः सोमसनप्रभाः ॥ ५ ॥ (सुश्रुतसंहिता, चिकित्साप्रकरणम् , अ. २९) सोममहिमा सोमपानफलं च ओपधीनां पति सोममुपयुज्य विचक्षणः । दश वर्षसहस्राणि नवां धारयते तनुम् ॥ ६ ॥ नाग्निन तोयं न विपं न शस्त्रं नास्त्रमेव च । तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि ॥ ७ ॥ भद्राणां षष्टिवर्षाणां प्रसूतानामनेकधा । कुञ्जराणां सहस्रस्य बलं समधिगच्छति ॥ ८॥ क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि । यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ॥ ९ ॥ साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः । चरत्यमोघसंकल्पो देववच्चाखिलं जगत् ॥ १० ॥ कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः । प्रह्लाद इति भूतानां मनांसि स महाद्युतिः । ११ (सुश्रुतसंहिता, चिकित्सा० अ, २६) APPENDIX सोमलतास्वरूप तवृद्धिहींसश्च श्यामलाम्ला च निष्पन्ना क्षीरिणी त्वचि मांसला । श्लेष्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥ १२ ॥ सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता ॥ (भावप्रकाशे) सोमाही गुल्मवल्ली च यजवल्ली द्विजप्रिया । सोमवल्ली कटुः शीना मधुरा पित्तदाहकृत् ॥ १३ ॥ कृष्णा विशोषशमनी पावनी यज्ञसाधनी । सर्वपामेव सोमानां पत्राणि दश पञ्च च ॥ १४ ॥ तानि शुक्ले च कृष्ण च जायन्त निपतन्ति च । एकैकं जायते पत्रं सोमस्याहरहस्तदा ।। १५ ।। शुक्लस्य पञ्चदश्यां तु भवेत् पञ्चदशच्छदः । शीर्यते पत्रमेक दिवसे दिवसे पुनः ॥ १६ ॥ कृष्णपक्षक्षये चापि लता भवति केवला । (सुश्रुतसंहिता, चिकित्सा० अ. २९)
1
अमिहोत्रस्य दर्शपूर्णमासादीष्टीनां च वेदिः ।
उत्तरा दिक
थानीधाधानम्
हो स्थानम्
उत्कर:
-
अध्वर्युम्यानम्
अन्तःपानः
गाईपत्यामिः
आहवनीयः
२४
अकुलानि
पश्चिमा दिक्
वेदिः
पूर्वा दिक
अकुलानि
यजमानस्योपवेशनस्थानम्
पनीरधानम्
प्राण उपवेशस्थानम्
दक्षिणामिः
१९ ॥ अ
दक्षिणा दिक
No text on this page.
2
चातुर्मास्यान्तर्गतवारुणप्रघासिकवेदिः(अत्र वेदिद्वयम् )
उत्तरा दिक्
आमीस्थानम्
होतु: स्थानमा
अध्वयों स्थानम
गाईपत्यामिः
उतग
वेदिः
| आइयनीयः
अकुलानि
उत्तरदिन
पश्चिमा दिक्
दक्षिणाभिः
पूर्वी दिक्
दक्षिणा
वेदिः
आहवनीयः
o
उत्तरवेषिः
पजमानापनशनस्थानम
बाण उपवेशस्थानम्
दक्षिणा दिक
No text on this page.
१
एकादशकपालोपधानप्रकारः
उत्तरा दिक्
१०
२
पश्चिमा दिक
पूर्वा दिक्
११
दक्षिणा दिक्
अष्टाकपालोपधानप्रकारः
उत्तरा दिक्
2
पश्चिमा दिक
.
पूर्वी दिक्
दक्षिणा दिक्
No text on this page.
4
अन्य एकादशकपालोपधानप्रकारः
उत्तरा दिक
06
पश्चिमा दिक
M
पूर्वी दिक
6
दक्षिणा दिक
अन्योऽष्टाकपालोपधानप्रकार:
उत्तरा दिक्
6
२
पश्चिमा दिक
पूर्वा दिक
5
6
दाक्षिणा दिन
No text on this page.
पूर्वा दिक् चात्वालम यूगावटः ब्रह्मस्थान शामित्रम् . आहव- नाथः यजमानस्थानम . आग्नीघ्रस्था. अध्वर्युस्था. पाशुकी उत्तरवेदिः होतृस्थानम् मैत्रावरूण. . प्रथमाह- व यः स्वतन्त्रपशुयागवेदिः उत्तरा दिक दक्षिणा दिक् दक्षिणाग्निः गाह- पत्यः पश्चिमा दिक्
No text on this page.
No text on this page.
सुपर्ण(श्येन)चितेः द्वितीयचतुर्थप्रस्तारयोः स्वरूपम्
पूर्वा दिक्
उत्तरा दिक्
पश्चिमा दिक्
No text on this page.
सुपर्ण(श्येन)चितेः प्रथमः, तृतीयः, पञ्चमश्च प्रस्तारः
पूर्वा दिक्
उत्तरा दिक
दक्षिणा दिक्
पश्चिमा दिक्
No text on this page.