Bharatiya Vidya Bhavan Library, Mumbai

Om Sankhyasutravaidik Vrati

Hariprasad · 2012/08

PDF Proofread

Front matter

(२) सांख्यदर्शनमूत्रवृत्तौ। पुरुषमात्राभिलाषगोचरतया परमपुरुषार्थ इति । तथाच-पुरुषमानाभि- लापगोचरदुःखात्यन्तनिवृत्तिलक्षणपरमपुरुषार्थसाधनस्य प्रकृतिपुरुषविवेकम- त्ययस्योपदेशपरम् । “अथेत्यादि,"पुरुषार्थ इत्यन्तं षडध्यायात्मकं शास्त्रमतदारब्धमिति सूत्रार्थों निष्पन्नः । यद्यपि सांख्यानां दुःखादि सर्व बुद्धरेवानपुरुपस्यात्मनः।तस्य कूटस्थ नित्यत्वेन दुःखादिपरिणामानभ्युपगमात् । तथापि दुःखादिमत्या बुद्धेःसनिघा नाव पुरुषस्यात्मनः तत्र प्रतिबिम्बिततया बुरेव वा तत्र प्रतिविम्बिततया दुःखादिच्छायापत्ती विवेकग्रहाभावेन सूर्ये बिम्बे जलकम्पादिवदौपाधिक पुरुषेऽपि दुःखादिसर्वमस्त्पेव, तेन तदत्यन्तनिवृत्तिः परमपुरुषार्थ इत्युपपद्यते। निवृत्तिश्चात्र न ध्वंसः । सांख्यानांसत्कार्यवादित्वेनाभावपदार्थानङ्गीकाराद, फिन्त्वतीतानागतावस्थयोरेव तेषां ध्वंसमागभावस्थानितयाऽतीतावस्थैव ! तस्याश्चात्यन्तत्वं तदुःखानागतावस्थयाऽसहधृत्तित्वमिति । तत्र चातीतं दुःखं स्वयमेवातीतावस्थां यातम् । वर्तमानञ्च भोगारूढतया क्षणान्तरे स्वयमेव यास्यति । परिशेपादनागतं दुःखमेवातीतावस्थां यापनीयम् । तद्यथोन समानतन्त्रेऽपि । यो. पा. २ सू. १६ । 'हेयंदुःखम- नागतम्' इति । तस्य चात्मनि पुरुषेऽविवेकमूलकतया विवेकमत्यय एव सम्यगुच्छेदोपायो नान्यः कश्चनति तदुपदेशाय शाखारम्भ इति भावः, तत्रात्मानं शरीरंमनश्चाधिकृत्य प्रवृत्तं व्याध्यागुत्थं कामक्रोधायुत्पश्च दुःखमाध्यात्मिकम् । भूतानि-पाणिनो व्याघचौरादीनाधिकृत्य प्रवृत्तं दुःखमाधिभौतिकम् । देवान् विद्युदनिवारवादीनधिकृत्य प्रवृत्तं दाहायुत्थं दुःखमाधिदैविकम्।यद्यप्यतत्सर्वं दुःखं मानसमेव, तथापि मनोमानगन्य- त्वामन्यत्वाभ्यां विशेष इति विवेकः ॥ १ ॥ नतु भवतु त्रिविघदुःसात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः, तथापि सा दृष्टो. पायादव सेत्स्यति । कृतं बहायाससाध्येन शास्त्रीयोपायन विवेकमत्ययेन । तबाह- प्रथमोऽध्यायः । "न दृष्टात्तत्सिद्धिनिवृत्तेऽप्यनुवृत्तिदर्शनात्" ॥२॥ दृष्टाव-लोकसिद्धादीपधाद्युपायात् तसिद्धिः तस्यास्त्रिविधदुःखात्य- न्तनिवृत्तेः सिद्धिः निप्पत्तिर्न-न भवति । कुतः ? निवृत्तपि लोकसिद्धो- पायेन कथञ्चिनिवृत्तेऽपि दुःसेऽनुवृत्तिदर्शनात कालान्तरे पुनस्तदनुवृत्तिदर्श- नादित्यर्थः। नात्यन्तनिवृत्तं पुनरनुवर्तते । तस्मान तेन तदत्यन्तनिवृत्तिरिति भावः ॥ २॥ नन्वेवन्तर्हि दृष्टोपायनन्यायास्तदुःखनिवृत्ते।कसिद्धं पुरुषार्थत्वं न स्यात् । तत्राह- "प्रात्यहिकक्षुत्पतीकारवत्तत्प्रतीकारचे नात्पुरु- पार्थत्वम्" ॥३॥ दृष्टादित्यनुवर्तते । प्रात्यहिकात्मतीकारवत'उपसर्गस्य घनि' इति वा दीर्घः । मतीकारो निवृत्तिमा न त्वत्यन्तनिवृत्तिः । मात्यहिकः- प्रत्यहं जायमानो यःक्षुत्पतीकारः भोजनादितः क्षुत. बुभुक्षायाः मतीकार: निवृत्तिमात्रं तद्वत-तस्य यथा पुरुषार्थत्वं, तथा 'यदा दुःख तदा तत्मतिक- तव्यम्' इतिन्यायेन दृष्टात् दृष्टोपायतोऽपि तत्मतीकारचेष्टनात-तस्याध्या- त्मिकादिदुःखस्य यः प्रतीकार-निवृत्तिमात्रं, तस्य चेष्टनात अन्वेषणात् कथञ्चिनायमानायास्तदुःखनिवृत्तेः पुरुषार्थत्वं-पुरुषार्थत्वमाचं न त्वत्यन्त- पुरुषार्थत्वमित्यर्थः ॥ ३ ॥ ननु तथापि पुरुषार्थोऽसौ दृष्टोपायनन्यो दुःसमतीकारः पुरुषैरुपादेयः किन्नस्यादित्याशंस्य पुरुपैरुपादेयोऽपि निपुणे«य एवेत्याह- "सर्वासंभवात् संभवेपि सत्तासंभवाद्धेयः प्रमाण- कुशलः ॥४॥ दृष्टादित्यनुवर्तते। दृष्टाव दृष्टोपायादेकस्मिन् कस्मॅिश्चित्प्रतिकृतेऽपि दुःसे १ अष्टा० अ० ६ पा० ३ सू० १२२ ।

+%3D सांख्यदर्शनसूत्रवृत्तौ। सर्वासंभवात्सर्वेषामाध्यात्मिकादीनां तेषां मतीकारासंभवाव । संभवापि3 कथञ्चित्काकतालीयन्यायेनस्यूलरूपतया तत्प्रतीकारसंभवेऽपि सत्तासंभवात्= सूक्ष्मरूपाणांतेषां सत्तायाः संभवात-अवश्यंभावाद् हेयः सर्वसाधारणवत् परमपुरुषार्थत्वयुझ्या नोपादेयो दृष्टापायनन्यो दुःखमतीकारःप्रमाणकुशले: निपुणरित्यर्थः ॥ ४॥ हेयत्वे हेत्वन्तरमाह- " उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः" ॥५॥ हेयः प्रमाणकुशलरित्यनुवर्तते । मोक्षस्य शास्त्रीयोपायनन्यस्य दुःखात्य- न्तनिवृत्तिलक्षणस्य कैवल्यस्योत्कर्षादपि दृष्टोपायमन्यदुःखमतीकारापेक्षयो- स्कृष्टयादपि हेयः स ममाणकुशलरिति पूर्ववत् । ननु मोक्षोत्कर्षे किं मानम् । तत्राह-सर्वोत्कर्षश्रुतेः 'अशरीरं वाव सन्तं न प्रिया- प्रिये स्पृशतः। 'एषास्य परमागतिरेपास्य परमा संपत्' इति सर्वस्माद दृष्टोपायनाडुःखपतीकारान्माक्षस्योत्कृष्ट्यश्रुतरित्यर्थः ॥ ५ ॥ ननु माभूट्ट दृष्टोपायाद् दुःखात्यन्तनिवृत्तिः । अदृष्टोपायात्तु वैदि- ककर्मणःस्यात् । तत्राह- " अविशेषश्चोभयोः" ॥६॥ एवार्थश्चः । उभयोः द्वयोर्दृष्टादृष्टयोलौकिकवैदिकोपाययोरविशेषश्च दु:- खात्यन्तनिवृत्त्यसाधकतायामावशेष एव=विशेषो नास्त्येव-तौल्यमेवेत्यर्थः । यथा दृष्टोपायस्योषधादेर्नदुःखात्यन्तनिवृत्तिसाधकत्वम् । तथाऽदृष्टो- पायस्यापि केवलयज्ञादेवैदिककर्मण इति भावः ॥ ६ ॥ ननु दुःखात्यन्तनिवृत्तेक्षित्वादुःखयोग एव बन्धो वक्तव्यः, सच- स्वाभाविकश्चत् कथं दृष्टादृष्टोपायवच्छास्त्रीयोपायेन विवेकमत्ययेनापि निव- १ छान्दो०प्रपा०८ खं१२-१.१२ वृहदा०अ०६वा०३-३२.

प्रथमोऽध्यायः। (५) ततेत्याशस्य बन्धस्य तस्य विवकमत्ययनिवर्त्यत्वसपत्त्यर्थमविवेकमात्रमयो- ज्यत्व व्यवस्थापयिष्यन्नाद तावत्स्वाभाविकले दोषमाह- "न स्वभावतो यद्धस्य मोक्षसाधनोपदेशविधि:||७|| पुरुषस्य स्वभावतो बन्योन सभवतीति मतिज्ञाशेष । कुतो न सभवति । यत स्वभावतो बदस्य-स्वरूपतो दु खयोगवत पुरुषस्य मोक्षसाधनोपदशे- विधि, मोक्षाय दु खात्यन्तनिवृत्तिलक्षणाय कैवल्याय साधनोपदेशम्य- शास्त्रेण कृतस्य तदुपायोपदेशस्य विधि विधान करणम् अनुष्ठान न-न घटते इत्यर्थ ॥ यस्मिन् सति कारणान्तरविलम्बादिलम्बो यस्याभिव्यक्ती न भवति, तस्य तत्स्वाभाविक यथामेरोष्ण्यमिति भाष्यकारः॥७॥ ननु कस्मादनुष्ठान न घटते । मा वा घटतामनुष्ठान किन्तेन । तत्राह- "स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्" ८॥ स्वभावस्य स्वरूपस्यानपायित्वात्-यावद्व्यभावित्वेनाग्न्योष्ण्यवद्- निवर्यत्वादिति पूर्वत्र हेतु । शास्त्रोपदेशस्यानुष्ठानाभावे दूषणम् 'अननु- प्ठानलक्षणमप्रामाण्यम्' अननुष्ठान-तदुपदेशाननुवर्तन तदिहिताकरणमि- ति यावद् लक्षण-ज्ञापफ् यस्य ताहगमामाण्यम् अप्रमाणत्व शास्त्रस्य तम्य म्यादित्यर्थः ॥ ८॥ नन्वेवं तर्हि शास्त्रबादेवानुष्ठानमस्तु । तमाह- "नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः" ॥ ९ ॥ अगायो अशक्याय-साधयितुमस्याय शास्त्रीयस्य तनुपायोपदेशस्य विधि =अनुशान न-न सभवति । कुत ? यत उपदिष्टेऽपि शास्त्रेगोपदिष्टेऽप्यशक्यस्योपायेऽनुपदेश =स तम्य शास्त्रस्योप- देशोऽनुपदेश एव-उपदेशाभास एव भवतीत्यर्थ । असभवार्थप्रतिपादनादिति भावः ॥ ९ ॥ देशस्य% सांख्यदर्शनसूयवृत्ती। अत्र स्वाभानिरापापनादिमतमागंकने । "शुक्लपटयद योजषञ्चेत्" ॥ १० ॥ ननु शुरु.पटयव यथा गुरुपरस्य रागेश स्वाभाविकं गोल्यं चीनवव= यथा वा चीनस्य बहिना स्वाभाविरं तत्तदंपुरजननसामध्यमपैति, तथा पुरुषम्यापि स्वाभाविको बन्धः शापीयोपायनापप्यति न कमिदोष इनि दित्यर्थः ॥१०॥ समायत्त । "शतयुद्भवानुद्भवाभ्यां नाशक्योपदेशः" ॥ ११ ॥ नागायोपेदाः उनोदाहरणाभ्यामप्पशायोपदेशो न भवति । फुतः ? शनयुदवानुभवाभ्याम् उत्तनोन प्रतिवन्धान न दत्तच्छनेरुद्भवानुभ- वाभ्यां गर्वनोत्पादापायव्यवहारयोरभ्युपगमादित्यर्थः । . तथाच शुलपटचीनयोरपि रागेण वद्विना चमतिरन्धान गोल्पांकुरश- तयारनुभव एव जायते नात्यन्तापायः। रजस्य व्यापारण योगिनः मंकल्पन नातनकेन पुना रनपटभृष्टवानयोम्तयोः गोरल्यांकुरगनयोराविभावस्योप- लम्पः । तस्मानास्तिकुत्रापि स्वाभाविकस्यापायः गायनिदर्शन इति न पुरुषस्य स्वाभाविको बन्ध इति फलितम् ॥ ११ ॥ ननु मास्तु पुरुषस्य स्वभावतो बन्धः। कालवादिनो मे कालतो निमि- त्तादविष्यति, तत्राह- "नकालयोगतोव्यापिनोनित्यस्य सर्वसंपन्धात्॥१२॥ निमित्तं तसिलर्थः । पुरुषस्य बन्ध इति प्रकरणलाभः । न-नापि कालयोगतः कालसंवन्धनिमित्तकः पुरुषस्य वन्धः । कुतः ? व्यापिनः= सर्वपदार्थसयोगिनो नित्यस्य-सततस्य खदभ्युपगतकाटपदार्थस्य सर्वस- बन्धात्सर्वतः सर्वदा मुक्तामुनसर्वपुरुषसंयोगादित्यर्थः । बन्धकस्य कालस्य मुक्तामुक्तसर्वपुरुषसंवन्धाविशेषादमुनस्येव मुक्तस्यापि बन्धापत्तरिति भावः।

प्रथमोऽध्यायः। सांख्यानां तु क्षणात्मकः कालो नित्यः तदन्यः सर्वोऽप्यनित्य इत्यग्रे विस्पष्टम् । अत्र च प्रकरणे कालदेशकर्मादीनां निमित्तत्वसामान्यं नापलप्यते । श्रुतिस्मृतियुक्तिभिः सिद्धत्वात् । किन्तु यनैमित्तिकत्वं पाकजरूपादिवन्निमि- तमन्यत्वं तदेव प्रतिषिध्यते । पुरुषेवन्धस्योपाधिकत्वाभ्युपगमात्' इति भाष्यकृतः ॥ १२॥ एतेनैव हेतुना दिग्योगतोऽपि पुस्पस्य बन्धं निराचष्टे । न देशयोगतोऽप्यस्मात् "॥ १३ ॥ देशयोगतोऽपि-दिक्संबन्धनिमित्तकोऽपि न पुरुषस्य बन्धो न । कुतः ? अस्मात-व्यापिनो नित्यस्य सर्वसंबन्धादित्यर्थः । कालवद् दिशोऽपि मुक्तामुक्तसर्वपुरुषसंबन्धविशेषादमुक्तस्येव मुक्त- स्यापि बन्धापत्तेरिति भावः ॥ १३ ॥ नन्वस्तु तयवस्थातो बन्धस्तवाह- नावस्थातो देहधर्मत्वात्तस्याः" ॥ १४ ॥ अपिरनुवर्तते । नाप्यवस्थातः बाल्यकोमारयौवनादिलक्षणावस्थातः पुरुषस्य बन्धः । कुतः ? तस्याः अवस्थाया देहधर्मत्वात् आत्मातिरि- तस्यानात्मनो देहस्य धर्मत्वादित्यर्थः ॥ १४ ॥ ननु देहधर्मत्वेऽपि पुरुषस्यात्मनो धर्मः किं न स्यात्, तत्राह- "असगोऽयं पुरुष इति" ॥ १५ ॥ इतिशब्दो हेतुमाह । यतोऽसंगः-न विद्यते संगः केनापि कथमपि विकारहेतुसंबन्धविशेषो यस्य, स तथाय-अत्यगात्मा पुरुष इति अतोऽव. स्थाया देहमानधर्मत्वमेव न पुरुषधर्मत्वमित्यर्थः । अन्यथा देहवत्पुरुषस्यापि परिणामिता स्यादिति भावः ॥ १५ ॥ ननु मा भूत् कलादियोगतः पुरुषस्य बन्धः । कर्मणाभविष्यति, तत्राह- .

(८) साख्यदर्शनसूत्रवृत्ती। "न कर्मणाऽन्यधर्मत्वादतिप्रसक्तेश्च" ॥ १६ ॥ नम्नापि कर्मणा=विहितन वा निपिन वा फर्मणा पुरुषस्य कधः। कुतः? अन्यधर्मत्वात्-कर्मणस्तस्य पुरुषातिरितदेहादिधर्मत्वात् । अन्यधर्मणान्यस्य बन्धांगीकारेऽतिमसनेश्व-अन्यत्वाविशेषादमुक्तस्येव मुक्तस्यापि बन्धापत्तेचे- त्यर्थः ॥ १६ ॥ दूपणान्तरमाह- "विचित्रभोगानुपपत्तिरन्यधर्मत्वे" ॥ १७॥ अपिरनुवर्तते । अन्यधर्मत्वे-वन्धकस्य कर्मणः पुरुषातिरिक्तदेहादिधर्म- त्वेऽपि पुरुषबन्धहेतुतायामभ्युपगतायां विचित्रभोगानुपपत्तिः अनुभूयमानस्य विचित्रस्य-मिथों विलक्षणस्य भोगस्प-पुरुषाणां मुखदुःखानुभवात्मकस्य भोगम्यानुपपत्तिः अव्यवस्थितिः संगतिर्न स्यादित्यर्थः । न ह्यनादिसंसारे केनापि सुखहेतु कर्म वा दुःसहेतु कर्म वा न कृतम् । अन्यधर्मेणान्यत्र कार्यननने तु नियमाभावात् सर्वे सुसिनो वा दुःसिनो वा मादुःप्युरिति भावः ॥ १७॥ नन्वस्तु तर्हि साक्षात्मकृतिनिमित्ततः पुरुषस्य बन्ध इत्याशंक्य नेत्याह-- "प्रकृतिनिवन्धनाचेन्न, तस्या अपि पारतन्त्र्यम् ॥१८॥ ननु प्रकृतिनिबन्धनाचेत-साक्षात्मकृतिनिमित्ताच्चत्पुरुषस्य वन्ध इति न । कुतः? यतस्तस्या अपि प्रकृतेरपि बन्धकतायां पारतन्त्र्यम् अविवेककृतसं- योगविशेषपराधीनत्वमस्तीत्यर्थः । नहि प्रकृतिरन्तरेणाविवेककृतसंयोगविशेष कस्यापि साक्षात संबन्ध- सामान्याबन्धिका भवति । भवेच्छेत् । तदा तस्या व्यापकतया सामान्यतः सर्वपुरुषसंबन्धाविशेषान्मुनस्यापि बन्धः स्यादिति भावः ॥ १८ ॥ ननु स्वभावतो वा निमित्ततो वा पुरुषस्य पन्धो नास्ति चेत्तर्हि कम्मात्तस्य बन्धस्तवाह-

प्रथमोऽध्यायः।
"न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगाहते"१९
नित्यत्वं कूटम्थनित्यत्वम् । शुद्धत्व-गुणासगित्वम् । बुद्धत्व-अलुप्त-
चिद्रूपत्वम् । मुनस्वभावत्वं मुनशीलत्वम् । न नित्यगुदबुद्धमुत्तस्वभावस्प
पुरुषस्यात्मनस्तद्योग बन्ययोग बन्ध इति यावत् तद्योगादृते अविवे-
ककृतमकृतिसयोगविशेष विना सभवतीत्यर्थः ।
अविवेककृत प्रकृतिपुरुषसयोगो बन्धहेतुरिति परमायः । तथा चोत्त
समानतन्त्रेऽपि । यो० पा० २ सू० १७ ॥
दृष्टदृश्यसंयोगो हेयहेतुः' इति । प्रकृतिपुरुषसयोगस्य च
बन्धकस्याविवेककृतत्वमग्रे पञ्चपञ्चाशत्तमे सूत्रे वक्ष्यते । तस्मादविवेककृत
एव बुद्धिसत्वोपाधिक पुपम्य बन्धो न स्वभावसिद्धो न वा निमित्तजन्य
इति भाव ॥१९॥
ननु नास्माभि प्रत्यादिवाह्य वस्त्वन्यदभ्युपगम्यत येनाविवेककृतत-
त्सयोगविशेपादोपाधिकः पुरुषम्य बन्धः स्यात् । किन्तु चित्तापरपर्याय क्षणि-
कविज्ञानमेवादितीय पारमार्थिवमात्मतत्वम्।तस्य च ससारलक्षण सवाऽपि
बन्ध सात्तिकः । सवृत्तिरवस्तुभूताऽनिर्वचनीयाऽविद्या तन्मात्रविलसित
इति यावदिति बौद्धभेदेषु योगाचाराभिमत बन्धकारणन्तावनिराकुरुते ।
"नाविद्यातोऽप्यवस्तुनावन्धायोगात्" ॥ २० ॥
अपि शब्दः पूर्वोतकालाद्यपेक्षया । तद्योग इत्यनुवर्तते । अविद्यातोs-
पि= वदभ्युपगतसवृत्तितोऽपि पुरुषस्य तद्योग अन्धयोगो नन सभवति ।
कुत ? अबस्तुना=अवस्तुभूतया-मिन्याभूतयाऽनिर्वचनीयया त्वदभ्युपगत-
याऽविद्यया पुरुषस्य बन्धायोगाव-स्वामरज्ज्वेव वन्धानौचित्यादित्यर्थ ।
इदमत्र बोध्यम् । यद्यपि वैदिकदर्शनेषु सारख्ययोगन्यायवैशेषिक-
पूर्वोत्तरमीमामाम्वपि बन्धहेतुतयाऽस्त्यविद्याभ्युपगम । तथापि सा नेदृशी।
यथा सोगतरभ्युपगम्यते । किन्तु तद्विलक्षणा चित्तधर्माऽपि वासनारूपणा-
नादिमियाजानलक्षणाऽविवेकापरप-यैव, इति ॥ २० ॥

(१०) सांख्यदर्शनस्त्रवृत्तौ। ननु नाविद्या सर्वथाऽवस्तु । येन तया बन्धनं न म्यात् । तनाह- “वस्तुत्वे सिद्धान्तहानिः" ॥२१॥ वस्तुत्वे अविद्याया वस्तुत्वे सिद्धान्तहानिः सिद्धान्तस्य-स्वाभ्युपग- तस्य तदनृतत्वस्य हानिः-हानं स्यादित्यर्थः ॥ २१ ॥ दूषणान्तरमाह- "विजातीयद्वैतापत्तिश्च" ॥ २२ ॥ वस्तुत्वे इत्यनुवर्तते । अविद्याया वस्तुत्वे विनातीयद्वैतापत्तिश्र स्यादि- त्यर्थः । सन्तानान्तःपातिव्यतीनामानन्त्यात्सनातीयंदतमिप्यत एवेत्या- शयेन विनातीयदतमिति विशेषणमिति भाष्यकृतः ॥ २२ ॥ शंकते- "विरुद्धोभयरूपा चेत् ॥ ॥ २३ ॥ ननु नाविद्याऽवस्तुभूता। नापि वस्तुभुता । किन्तु विरुद्धोभयरूपान वस्तु, नावस्तु-वस्त्ववस्तुविलक्षणेति यावत् । वस्त्ववस्तूमयरूपा वेति चेोदित्यर्थः॥२६॥ निराचष्टे- "न तापदार्थाप्रतीतेः" ॥ २४ ॥ न यदुक्तं तन्न । कुतः ? तादृकपदार्थामतीतेः जगति तादृशो वस्त्वव स्तुविलक्षणवस्त्ववस्तूभयरूपस्य पदार्थस्याप्रतीतेः अमसिद्धरित्यर्थः॥२४॥ पुनराशंकते। "न वयं षट्पदार्थवादिनो वैशेषिकादिवत्" ॥ २५ ॥ ननु न वयम् अद्वैतिनोबौद्धा वैशेषिकादिवत् नैयायिक आदिपदार्थः। कणभक्षाक्षचरणा इव पदपदार्थवादिनः-उपलक्षणश्चतत् पटपोडशनियत- पदार्थवदनशीलाः । तेनामतीतोऽपि मिथ्याभूतोऽविद्यालक्षणस्तादृकपदा- योऽभ्युपेतव्य इत्यर्थः ॥ २५ ॥ परिहराते ।

प्रथमोऽध्यायः। (११)
“अनियतत्वेऽपि नायौक्तिकसंग्रहोऽन्यथाचालोन्मत्ता--
दिसमत्वम्" ॥२६॥
अनियतत्वेऽपि वैशेषिकादिवत्पदार्थनियमाभावेऽपि नायौक्तिकस्य युक्ति
मसहमानस्य लोकामसिद्धवस्त्ववस्तुविलक्षणवस्त्ववस्तूभयात्मकस्य कस्य
चित्पदार्थस्य संग्रहः-स्वीकारो भवढचनमात्रादर्हति भवितुम् । अन्यथा
अयोक्तिकस्यापिसंग्रहे बालोन्मत्तादिसमत्वं व्युत्पत्तिशुन्यो बाल:
उन्मत्तो विभ्रान्तः । तदादितुल्यत्वं सवहीतुः स्यादित्यर्थः ।
तथा च लोकाप्रसिद्धमिथ्याभूताविद्यायाः संग्रहासंभवान तया पुरुष
स्यात्मनोदुःखयोगलक्षणो बन्धः शस्यसंभव इति भावः ।
एतेन शांकरं मतमप्यपास्तं वेदितव्यम् । तत्रापि योगाचारवदनिर्वचनी
याविद्यया पुरुषम्य बन्धो विद्यया च मोक्ष इत्यभ्युपगमात् ॥ २६ ॥
ननु वाह्यं विषयनातमपलपतो योगाचारस्य तादृशाविद्यया क्षणिक-
विज्ञानात्मनः पुरुषस्य बन्धो माभूत् । अनादिविषयवासनानिमित्ततो भवि-
ध्यति । परमाणुपुनात्मनो वाह्यविषयजातस्यावयोः सौत्रान्तिकवेभाषिकयो-
रङ्गीकारात, तत्राह-
"नानादिविषयोपरागनिमित्ततोऽप्यस्य" ॥ २७ ॥
अस्य-क्षणिकविज्ञानात्मनःपुरुषस्यानादिविषयोपरागनिमित्ततोऽपि
भवाहरूपेणानादियों विषयोपराग, उपरस्य बाह्यविषयस्य वासनालक्षणः
सम्बन्धविशेषः । तनिमित्ततोऽपि तनिमित्तकोऽपि न-बन्धो नेत्यर्थः ।
मोक्षहेतोर्भावनापचयस्य स्थिरकाश्रयाभावेन विशेषानाधायकतया
वासनोच्छेदकत्वानुपपत्तो विगतविषयाकारोपप्लवविशुद्धविनानसन्तानोदयल-
क्षणमोक्षानुपपत्तेरितिभावः ॥ २७ ॥
किञ्च-
"न बाद्याभ्यन्तरयोरुपरध्योपरञ्जकमायोपि, देश-
व्यवधानात, घुघ्नस्थपाटलिपुत्रस्थयोरिव ॥ २८ ॥

(१२) सांख्यदर्शनसूत्रवृत्तौ। वाह्याम्पन्तरयो:-तिपयविज्ञानयोरपरश्योपरन्नम्भावोऽपि-परस्परसुपर- अकत्यमुपरन्यत्वमपि न-न घटते । फुतः । देशन्यवधानाव=मध्ये शरीरम्पदेशेन व्यवधानात् । तदाहरणम्-सुमस्थपाटलिपुत्रस्थयारिव- यथा मुनस्थपाटलिपुत्रस्थयोःपुप्पस्फटिकयोदंगव्यवधानान परस्सरमुपरभ्यो परअकभावो घटत इत्यर्थः । यया हि वैदिकरात्मातिरित चित्तं तदयतिरिनाच ज्ञानेन्द्रियपश्च जीवात्मनि पुरंदे विषपसमर्पणायाभ्युपगम्पते । न तथा बौद्धरभ्युपेयते । येन वैदिकानामिव परम्परयाऽप्यात्मनि विषयोपरागःसंभवेत् । ते हि क्षणिक- मेव चित्तमात्मा । तम्यैव क्षणिकं विज्ञानं, क्षणिका च बुद्धिरिति नामान्त- रम् । ज्ञानेन्द्रियपश्चकच नगोलकव्यतिरिक्त विषयसमर्पकमित्यभ्युपयन्ति । तस्मात्तेशं समर्पकान्तराभावनात्यन्तव्यवहितयोदहाभ्यन्तरवाह्यदेशस्थयो- चित्तनेत्तयोः परसरमुपरथ्योपरअभावोऽपि नोपपद्यत इति भावः॥२८॥ ननु क्षणिकमपि विज्ञानात्मा चित्तं न देहाभ्यन्तरमेव । किन्तु बहिरन्तःसर्वतः पूर्णमिति न विषयोपरागानुपपत्तिस्तवाह- "द्वयोरेकदेशलब्धोपरागान व्यवस्था" ॥ २९ ॥ एवन्तर्हि क्षणिकविजानवादिनस्ते दयोः बद्धमुक्तात्मनारुभयोरविशेषेणे- कदेशलब्धोपरागात् भावधानो निर्देशः । एकस्मिन् विषयदेशे टन्धो विषयोपरागो याभ्याम, तयोर्भावस्तत्त्वम्, तस्मान व्यवस्था बन्धमोक्षव्यव- स्था नस्यादित्यर्थः ॥ २९ ॥ अदृटतो व्यवस्थां चौदयति । "अदृष्टवशाच्चेत् ॥ ३० ॥ ननु बद्धमुक्तात्मनाविषयसंयोगसाम्येऽपि यस्यादृष्टमस्ति, तस्यैवादृष्ट- वशादिषयोपरागलाभोनान्यस्य मुक्तस्यादृष्टाभावादिति न वन्धमोक्षाव्यवस्थेति चेदित्यर्थः ॥ ३० ॥ भङ्गयन्तरेण दूषयनि ।

प्रथमोऽध्यायः। (१३) "न द्वयोरेककालायोगादुपकार्पोपकारकभावः॥३१॥ तथापि बौदस्य ते चित्तस्यात्मनः क्षणिकत्वाभ्युपगमाद्वयो.-अदृष्टस्य कर्तृभातचित्तात्मनोरेककालापागात-समानकालकत्वाभावानोपकार्योपकार कभाव.-न कर्तृचित्तनिष्ठादृष्टेन भोत्तचित्तनिष्ठो विषयोपरागलक्षण उपकारः सभवतीत्यर्थः ॥ ३१ ॥ एककालायोगेऽप्युपकार्योपकारकभाव शङ्कते। "पुत्रकर्मवदितिचेत्" ॥ ३२ ॥ ननु यथा पितृनिष्ठेन गर्भाधानादिना कर्मणा तनिकालकस्य पुत्रस्य सस्कारलक्षण उपकारो भवति, तथाऽत्रापि कर्तृनिष्ठादृष्टेन भातृनिष्ठो विपयोपरागलक्षण उपकारः सेत्स्यतीति चेदित्यर्थः । पुनकर्मवत् तदसमा- नकालकपितृतपुत्रसस्कारकर्मवदित्यक्षरार्थः ॥ १२ ॥ दृष्टान्तासिझ्या परिहरति । "न, अस्ति हि तत्र स्थिर एकात्मा, यो गर्भाधाना. दिना संस्क्रियते" ।। ३३ ।। नभ्यद्भवतोक्त, तद्युत्त न । कुतः हि यस्मात् । तत्र येषा वैदिकाना- मुदाहरण, तेषां सिद्धान्ते । य.न्यो जीवात्मा । गर्भाधानादिना-गर्भ- पात्रशोधनपूर्वकगर्भनिपेको गर्भाधान, गर्भः शुद्धतयाऽऽधीयतेऽनेनेति तदव्यु- पत्ते। तदादी यस्य सस्कारकर्मणस्तेन सस्क्रियते सतोऽर्थस्य गुणान्तराधान सम्कारस्तात्तो विधीयते । सोऽस्ति-विद्यते स्थिरः स्थास्तुरेकात्मा-एको जीवात्मा पुरुष इत्यर्थः । भवसिद्धान्तेच स तथा नास्तीत्युदाहरणासिद्धिः । तदसिद्ध्याचादृष्टस्या- व्यवस्थापकत्वेन बन्धमोक्षव्यवस्थानुपपत्ती तदवस्थैव विषयोपरागनिमित्ततो- ऽप्यस्य बन्धानुपपत्तिरिति भावः ॥ ३३ ॥ अथ बन्धविषय बौद्धमत निराकृत्य 'ग्रामगच्छन्' इति न्यायेन विशेष- तस्तन्मत निरानिकीपुर्वभाषिकन्तावत्पुनरत्यापयति ।

(१४) सांख्यदर्शनसूत्रवृत्ती। "स्थिरकार्यासिद्धेः क्षाणिकत्वम्" ।। ३४॥ ननु स्थिरकार्यासिद्धः स्थिरस्य स्थायिनः कार्यस्य एकस्यापि भाव- कार्य्यस्यासिद्धेः अनुपरधरुदाहरणाभावान कस्यापि भावपदार्थस्य स्थिर- त्वम् । किन्तु यत्सद तव क्षणिकं ' यथा दीपशिखा, सच्चे भावनातमिति भावमात्रस्य क्षणिकत्वं-स्त्रोत्पत्तिक्षणमात्रावस्थायित्वं स्वोत्पत्यव्यवहितो- त्तरक्षणवृत्तिध्वंसप्रतियोगित्वमित्यर्थः ॥ ३१ ।। दूषयति- "न प्रत्यभिज्ञाबाधात् ॥ ३५ ॥ क्षणिकत्वमित्यनुवर्तते। न-कस्यापि भावपदार्थस्य क्षाणिकत्वर । कुतः? प्रत्यभिज्ञावाधाव-यंदेवाहमदाक्षं तदेवाहं स्पृशामीति प्रत्यभिज्ञया घटपटा- दिसर्ववस्तुपु वदावनुष्णत्वाभाववत् क्षणिकत्वाभावस्य निश्रयादित्यर्थः३५॥ ननु मत्यभिज्ञेयं सादृश्यमवलम्बताम् , को दोषस्तत्राह- "श्रुतिन्यायविरोधाञ्च" ॥ ३६ ॥ नेति पदमनुवर्तते। सदेवसोम्येदमन आसीत्' इत्यादिश्रुतिः । 'कथमसतः सजायेत' इत्यादिश्रोतन्यायः ।' असदकरणात्' इत्यादिस्मार्तन्यायो वा । ताभ्यामसत्त्वपतिपेन भावमात्रस्य सत्त्वमतिपा- दुकाभ्यां विरोधाच-क्षणिकत्वानुमानस्य बाधाच न प्रत्यभिज्ञेयं सादृश्याव- लम्बिनीभवितुमर्हतीत्यर्थः। अथवा दूषणान्तरमाह-'श्रुतिन्यायविरोधाञ्च' । हेवन्त- रापेक्षया चः । न क्षणिकत्वमिति पदद्वयमनुवर्तते । पूर्वोतश्रुतिन्यायविरो- धाचन क्षणिकत्वं कस्यापि भावस्येत्यर्थः ॥ ३६ ॥ नतु श्रुतिन्यायाभ्यां भावमात्रस्य सत्त्वमवगम्यते, नाक्षणिकत्वम् तच्चास्माकमनुकूलमेव, न प्रतिकूलम् । यत्सत् तत् क्षणिकं यथा दीपशिखा । सन्चेदं भावनातमिति प्रयुक्तत्वाद, तत्राह- ,१ छां०प्रपा०६-खं०२-११२ छाप्रपा० ६-खं०२-१ । ३ स०का०९ प्रथमोऽध्यायः। "दृष्टान्तासिद्धेश्च" ॥ ३७ ॥ न क्षणिकत्वमिति पदयमनुवर्तते । दृष्टान्ते दीपशिखादी क्षणिकत्वा- सिद्धेश्च न क्षणिकत्व कस्याप्यमनुमातुं शायमित्यर्थः । दीपशिखादी हि सूक्ष्मानेकक्षणानाकरटनमानेण क्षणिकत्वभ्रमो न परमार्थनस्तथात्वमिति भाव ॥ ३७ ॥ किश्च क्षणिकत्ववादे कार्यकारणभावोऽपि न सभवतीत्याह- "गुगपजायमानयोर्न कार्यकारणभावः" ॥ ३८॥ युगपन्जायमानोर्वा कमिकयोर्वा कार्यकारणभावो वक्तव्यः । तत्र युगपन्जायमानयोर्मुद्घटयोः सव्येतरविषाणयोरिव न कार्यकारणभावः शक्यसभव इत्यर्थः । कारणस्य कार्यनियतपूर्ववृत्तित्वनियमादिति भावः ॥ ३८॥ अथ कमिकयोरिति चेत् तत्राह- "पूर्वापाये उत्तरायोगात् " ॥ ३९ ॥ न कार्यकारणभाव इत्यनुवर्तते । कमिकयोरपि कार्यकारणभावो न सभवति । कुत ? पूर्वापाये-पूर्व कारण, तदपायवेलायामुत्तरायोगाव-उत्त- रस्य कार्य्यस्योत्पत्तेरनौचित्त्यादित्यर्थ । नहि मृदपाये घट उत्पद्यते । कार्य्यस्योपादानकारणानुगततयैवानुभ- वादिति भावः ॥ ३९ ॥ किञ्च- तद्भावे तदयोगादुभयव्यभिचारादपि न "॥४०॥ कार्यकारणभाव इत्यनुवर्तते । भावमात्रस्य क्षणिक्तया तदावे-तयोः पूर्वोत्तरयोः कारणकार्ययोभवि-सत्वे । तदयोगात्-तयोरुत्तरपूर्वयो कार्य- कारणपोरयोगाद-असत्काटुझ्यव्यभिचारादपि भयोरन्वयव्यतिरेक्यो का-- यकारणभावनियामकयोयभिचारादपि । न कार्यकारणभावो नेत्यर्थः ।

(१६) सांख्यदर्शनसूत्रवृत्ती।
अन्वयव्यतिरेकव्यभिनारस्पेव कार्यकारणभावविघटप.त्वादिति
भावः ॥ ४० ॥
ननु निमित्तकारणस्येवोपादानकारणस्यापि पूर्वभावमात्रेणेव कारणत्व-
मस्तु किं तस्य कायंकाले सत्वेन, तत्राह--
" पूर्वभावमाये न नियमः " ॥४१॥
पूर्वभावमाने उपादानकारणस्य कार्यापेक्षया पूर्वभावमात्रेऽभ्युपगम्य-
माने न नियमः इदमेवोपादानकारणं नेदामिति नियमो न स्यादित्यर्थः ।
निमित्तकारणस्यापि पूर्वभावाविशेषादिति भावः ॥ ४१ ॥
योगाचारमतं निरस्यति।
न विज्ञानमात्रं वाह्यप्रतीतेः" ॥१२॥
विज्ञानमात्र=विज्ञानमेव । नतत्त्वं न । कुतः ? याह्यमतीतः-वि-
ज्ञानवद् वाह्यार्थानामपि मतीतरित्यर्थः ॥ ४२ ॥
ननु स्वाममतीतिरिवास्तु वाह्यमतीतिस्तत्राह-
" तदभावे तदभावाच्छून्यन्ताह " ॥ ४३ ॥
तर्हि बाह्यार्थाभावे शून्यं शून्यमेव प्रसज्येत । कुतः ? तदभावे-तस्य
बाह्यार्थस्याभावे । तदभावान-विज्ञानस्याप्यभावादित्यर्थः ।
नास्ति निविषयं किमपि विज्ञानम् । स्वमेऽप्यर्थानामभ्युपगमादिति
भावः ॥ ४३ ॥
शून्यबादिनमुत्थापयाते ।
"शून्यं तत्वं, भावो विनश्यति, वस्तुधर्मत्वाद्वि-
नाशस्य"॥४४॥
अस्तु तर्हि शून्यं तत्त्वं शून्यमेवेक तत्वम् । कुतः ? यतो भावो विनश्य-
ति-यो यो भावः स सर्वो विनश्यत्येव । कस्मात् ! विनाशस्य वस्तुधर्म-
त्वात्-वस्तुनोभावमात्रस्य धर्मत्वात्-स्वभावत्वादित्यर्थः ।
स्वभावस्तु निरनियोज्य इति भावः ॥ १४ ॥

प्रथमोऽध्यायः (१७) प्रत्याह- "अपवादमात्रमबुद्धानाम्" ॥ ४५ ॥ अबुद्धानाम् अज्ञातशास्त्रतत्त्वानां शून्यवादिनां माध्यमिकानामपवादमात्र- 'यो यो भावः स सर्वो विनश्यत्येव' इत्यपवादमात्रम् अपवादो मिथ्याम- वादस्तन्मात्रमित्यर्थः। निरवयवभावानां विनाशासंभवादिति भावः ॥ ४५ ॥ किन्तर्हि विधेयं ? तत्राह- उभयपक्षसमानक्षेमत्वादयमपि"॥ ४६ ॥ उभयपक्षसमानक्षेमत्वाम् सौत्रान्तिकवैभाषिकयोर्दयोःक्षणिकबाह्याधस्ता वदेकः पक्षः । तदिनस्य च तृतीयस्य योगाचारस्य क्षणिकविज्ञान- मात्रं द्वितीयः पक्षः । तदेतदुभाभ्यां पक्षाभ्यां समान:-तुल्यः क्षेम: रक्षणम्-तत्तनिरासकहेतुमिनिरसनकोटी व्यवस्थापनं यस्य पक्षस्य । स तथा । तस्य भावस्तत्त्वं तस्माद-तुल्यनिरसनहेतुकत्वादयमपि माध्यमि- कानां तुरीयः शून्यपक्षोऽपि तदुभयपक्षवत्पारत्याज्य इत्यर्थः । नहि सर्व शून्यमित्यभ्युपगमे यदेवाहमद्राक्षं, नदेवाहम्' इत्यादिप्रत्यक्ष प्रत्यभिज्ञा " पटोऽयं पटोऽयमित्यादिप्रत्यक्षाभिज्ञा वा कश्चिदुपपद्यते । तस्मात्तदनुपपत्तिरेव क्षणिकबाह्यविज्ञानपक्षयोरिष तनिरासे हेतुः । तन्नि रस्यत्वाच्च तदुभयरदयमपि परिहेय इति भावः ॥ ४६ ॥ ननु नायं परित्याज्यः दुःसनिवृत्तितत्साधनयोरेकरूपत्वात् तत्राह- अपुरुषार्थत्वमुभयथा "॥४७॥ अपिरनुवर्तते । शून्यस्यति विपरिणम्यान्वयः । उभयथाषि-मकारदये- नाप्यपुरुषार्थत्वं शून्यस्य पुरुषार्थत्वं न संभवतीत्यर्थः । आत्मनः शून्यभावो दुःखनिवृत्तिरूपतया तत्साधनरूपतया वा " (१८) सांख्यदर्शनसूबवृत्तौ। पुरुषार्थो नोपपद्यते । सर्वधाऽनिष्टत्वात् । तस्मापरित्याग्य एवायं पक्ष इति भावः॥४७॥ ननु क्षणिकबाह्यार्थविज्ञानमात्रशून्यानां बौदपक्षाणामयुक्तत्वान्माभ- तदभ्युपगतविषयोपरागादितः पुरुषस्प पन्धो, गतिविशेषात्स तस्य भवि- ध्यति तत्राह- न गतिविशेषात् ॥ ४८ ॥ पुरुषस्य वन्ध इति प्रकरणलाभः । न गतिविशेषाद-दिव्यादिव्यशरीर• भवेशादि लक्षणाद्गतिभेदात्पुरुषस्य बन्धो नेत्यर्थः ॥ १८ ॥ अत्र हेतुमाह- " निष्क्रियस्य तदसम्भवात् "॥ ४९ ॥ निष्क्रियस्य कियापरिणामरहितस्यतदसंभवाद=गत्यसंभवादित्यर्थः॥४९॥ ननु पुरुषस्यमध्यमपरिमाणत्वमभ्युपगम्यते, न तेन तदसम्भवः, तबाह- "मूर्तत्वाघटादिवत्समानधर्मापत्तावपसिद्धान्तः॥५०॥ घटादिवत्स्यथा घटादेमूर्तत्वात् मध्यमपरिमाणत्वासावयवत्वादिधर्म वत्वं, तथा पुरुषस्यापिमूर्तत्वात्समानधर्मापत्ती-घटादितुल्यसावयवत्वादि- धर्ममाप्ती सत्यामपसिद्धान्तः सिद्धान्तस्य-स्वाभ्युपगतस्य पुरुषनित्यत्व- स्यापगतिः-हानिः स्यादित्यर्थः ॥ ५० ॥ नतु निष्क्रियश्चेत् पुरुषः, तदा तस्य गतिमतिपादिका श्रुति स्तवापि कथमुपपद्येत, तत्राह "गतिश्रुतिरप्युपाधियोगादाकाशवत् "॥५१॥ त्वर्थोऽपि, पुरुषस्येति मारणलाभः गतिश्रुतिरपि- "पुण्येन पुण्यं लोकं नयति, पापेन पापम्' इत्यादिकागतिश्रुतिस्तूपाधियोगा- १ प्रश्नो ०२-७॥

प्रथमोऽध्यायः। (१९) बुद्धिसत्वलक्षणोपाधिसम्बन्धाद पुरुषस्यगमनागमनप्रतिपादकतयोपपद्यते, तत्रोदाहरणमाकाशवम्यधानिष्कियस्याफाशस्यघटोदश्चनाद्यपाधिसम्ब- न्धात्तमनेनगमनं तदागमनेनचागमनमित्यर्थः । तत्राकाशविभु, पुरु- पश्चारित्युदाहरणादाहरणिकयोधर्म्यम् निष्क्रियत्वश्चतयोःसाधर्म्यम्,उपा- धिगमनागमनाभ्यामुपधेयगमनागमनमात्रे चोदाहरणमिति विवेकः ॥५२॥ नन्वस्तु तर्हि फर्मजन्याहटेन बन्धः, तत्राह- न कर्मणाप्यतद्धर्मत्वात् " ॥५२॥ कर्मणापि कार्य कारणोपचारः। कर्मनन्यादृष्टेनापि न-पुरुषस्य बन्धो न । कुतः ? अतद्धमत्वात अदृष्टस्य तमत्वाभावादित्यर्थः । पूर्व विहितनिषिव्यापाररूपेण कर्मणा बन्धो निराकृतः । अत्र तु तजन्यादृष्टेनेत्याधिक विभागादपोनरुत्यमिति भाष्यम् ॥ ५२ ॥ नन्वन्यधर्मेणाप्यन्यस्य बन्धः स्यात्, तत्राह- " अतिप्रसक्तिरन्यधर्मत्वे" ॥५३॥ अन्यधर्मत्वे-बन्धतत्कारणयोन्निधर्मत्वेऽतिमसक्तिः मुक्तस्यापिबन्धाप त्तिरित्यर्थः ॥ ५३॥ नन्यस्त्वदृष्टं पुरुषस्यैव धर्मः को विरोधः? तबाह- निर्गुणादिश्रुतिविरोधश्चेति " ॥५४॥ इति शब्दो बन्धकारणपरीक्षासमाप्तिमाह । अदृष्टस्य पुरुषधर्मत्वे'असं- गोह्ययं पुरुषः' इति गुणसङ्गमतिषेधेन निर्गुणतादिमतिपादकश्रुतिविरोध एव स्यादित्यर्थः। भाष्यकृतस्तु-'साक्षी चेता केवलो निर्गुणश्च । इत्यादिश्रु- तिविरोधश्चेत्यर्थः इत्याहुः । तन्न युक्तम् । उक्तश्रुतेरीश्वरविषयत्वावानि- गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः' इत्यग्रिमसूत्रविरोधाच ॥५४॥ २०अ०६ मा०३-१५१२ श्वेताश्च० अ०६ म० ११। ३ सां० अ. ६० १० “

(२०) सांख्यदर्शनसूत्रवृत्तौ।
ननु योऽयमेकोनविंशसूत्रे प्रकृतियोगः पुरुषस्य बन्धहेतू रादान्तितः
सोऽपि न संगच्छते।कालादियोगवत्तस्यापि मुक्तबद्धयोः समानत्वादातवाह-
"तद्योगोऽप्यविवेकान समानत्वम् " ॥ ५५ ॥
पुरुषस्यति संवन्धः । तद्योगोऽपि-तच्छन्दः प्रकृतिमाह । पुरुषस्य मक
तियोगोप्यविवेकात्=निमित्तत्वं पञ्चम्यर्थः । अगृहीतासंसर्गकं प्रकृतिपुरुषोः
भयविषयकं वृद्धिवृत्त्यात्मकं विपर्ययज्ञानमविवेकः अविद्यास्थलाभिषिक्त-
सत्त्वपुरुषानन्यतामत्यय इति यावत । तस्मात् तनिमित्तक इति यावत् ।
अतो न समानत्वं प्रकृतिसंयोगस्य मुक्तवद्धयोः कालादियोगवत्ल्पत्वं
नेत्यर्थः ।
मुक्तानामविवेकाभावादिति भावः ।
यथा च बुद्धिधर्मोऽप्यनादिस्यमविवेकस्तथाग्रे विस्पष्ठयिप्यते ॥५५॥
नन्वविवेकस्यास्योच्छेदः कथं स्यात्, येन मोक्षो भवेत्, तत्राह-
"नियतकारणात्तच्छित्तिन्तिवत् ॥५६॥
नियतकारणात् -नियतम् अविवेकनाशकतया शुक्तिरूप्यादिभूमौनिश्चित
यत्कारण विवेकप्रत्ययलक्षणं कारणं तस्मात्तदुच्छित्तिः तस्याविवेकस्यो-
च्छित्तिः उच्छेदः हानमिति यावत् । तत्रोदाहरणं ध्वान्तवन-यथा ध्वान्त
स्य–तमसा नियतकारणादालोकादुच्छित्तिरित्यर्थः ।
तदुक्तं योगशस्त्रेऽपि । स० पा० ० २६ । 'विवेकख्यातिर-
विप्लवा हानोपाय इतिगविवेकेनाविवेकनिवृत्तौ तन्निबन्धनः प्रकृ.
तिपुरुषसंयोगविशेषोऽपि निवर्तते । तनिवृत्तौ च तत्मयुक्तदुःखात्यन्तनि-
वृत्तिलक्षणो मोक्ष इति द्रष्टव्यम् ॥ ५६ ॥
ननुभकृतिपुरुषविवेकेनमकृतिपुरुषाधिवेकोच्छेदेऽप्यन्याविवेकानुच्छेदाव
कथं मोक्षः स्यात ? तत्राह-
"प्रधानाविवेकादन्याविवेकस्य तद्धाने हानम्॥५७॥

. - प्रथमोऽध्यायः। (०१) भधानाविवेकारमधानस्य मूलमकृतरविवेकाव-पूर्वोकरक्षणादविवेका- सुषेऽन्याविवेकस्य-कार्य्यभूतमहत्तत्वाद्यविवेकस्य राभव इति शेष । अतस्तद्धाने नस्य प्रधानाविवेकस्य हाने सम्यगुच्छेदे हानम्-अन्याविवेक- स्याप्युच्छेद इत्यर्थ । कारणनाशे कार्य्यनाशस्यावश्यकत्वान्न मोक्षानुपपत्तिरिति भाव ॥५७॥ ननु विवेकनत्ययेन मोक्षाभ्युपगमे बन्धादेवश्य बनन्यतया पुरुषस्य नित्यशुद्धबुद्धमुतस्वभावत्व न स्यात्, तत्राह- "वाइमात्रं न तु तत्वं, चित्तस्थितेः" ॥ ५८॥ माइमात्र-मोक्षान्त सर्व बन्धादिक पुम्पे वाइमात्र स्फरिके रोहित्यत्र डाचारम्भणमात्र, नतु तत्व-पुष्पेगैहित्यवद्धास्तवम् । कुत ? चित्तम्थित पुप्पेरोहित्यवत्सवमा बन्धादीना चित्त एवावस्थानादित्यर्थ । तथा च चित्तस्थितानामेव पन्धमोक्षविवेकाविवेकसुखदु समभृतीना तत्सनिधानासुझपे प्रतिभासो न तु स्वत इति न तस्य नित्यशुद्धबुद्धमुत्त- स्वभावत्वहानिरिति भाव ॥ ५८ ॥ नतु क्न्धादीना पुरुष वाइमात्रत्वे श्रवणता मननतो वा बाधो भविष्यति। कि श्रुतिस्मृत्यो साक्षात्कारपर्यन्तेन मातहतुविवेकम ययोपदेशेन ? तबाह-- "युक्तितोऽपि न बाध्यते दिड्ढवदपरोक्षाहते"५९॥ वाइमानमित्यनुवर्तते । वाइमात्रमपि पुरुषस्य बन्धादिक सर्वमपरा- क्षाहते-विवकसाक्षात्कार विना युक्तितोऽपि न बाध्यते श्रवणतो न बाध्यत इति किमुक्तव्यम् ? युतितोऽपि युक्तिर्मनन ततोऽपि न बाध्यते न निव- य॑ते । तसोदाहरण दिइमढवत्-यथा दिइमूटस्य पुरुषस्य वाइमात्रमपि दिविपरीत्य दिवसाक्षात्कार विना श्रवणमननाभ्या न वाध्यते, तथेत्यर्थ । अपरोक्षभ्रमणापरोक्षविशेषदर्शनस्पैव विरोधादिति भाव ॥ ५९॥ ननु येभ्य प्रकृत्यादिभ्य पुरुषस्य विवरुमत्ययो मक्षिकसाधनमुपदि- श्यते । तात्मिाद्ध कथ स्पात् । तबाह- (२२) सांख्यदर्शनसूत्रवृत्ती। "अचाक्षुषाणामतुमानेन बोधोधूमादिभिरिव वद्वेः"१६०॥ अचाक्षुषाणां स्थूलभूतानि, तत्कार्यभूता देहादयश्च चाक्षुपा एव । न तत्साधनापेक्षा । ये चाचाक्षुपाः चक्षुषा ग्रहणायोग्याः अपत्यक्षा इति यावत् । तेषामनुमानेन अनुमानप्रमाणेन योधः-सिद्धिर्भवतीति शेषः । तत्रोदाहरणं धूमादिभिरिव बढ़ेः यथा धूमादिभिर्ननितेनानुमानेन वह्नः सिद्धिरित्यर्थः ॥ ६॥ ननु किं तदनुमानं येनाचाक्षुषाणां बोध इत्याशंश्य सामान्यतो दृष्टं कार्यलिङ्गकानुमानं तत्र प्रदर्शयितुं पूर्वन्तावत्मकृत्यादीनां तेषां मियः कार्यकारणभावमाह- "सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः १ प्रकृतेर्म- हान् १ महतोऽहङ्कारः १अहङ्कारात्पञ्चतन्मात्राण्युभयमि- न्द्रियं १६ तन्मात्रेभ्यः स्थूलभृतानि ५ पुरुषः १ इति पञ्चविंशतिर्गणः" ॥ ६१॥ सत्त्वरजस्तमाँसि दम्याणि । नतु गुणाः । संयोगविभागलपत्वचलत्वगुरु- वादिधर्मकत्वात् । गुणशब्दप्रयोगस्तु तत्र रज्जुसाम्यात्पुरुषबन्धनहेतुतयो- पचारिकः । तेषां त्रयाणां या साम्यावस्था अन्यूनानतिरिक्तावस्था न्यूना- धिकभावेनासंहितावस्था, सा प्रकृतिः प्रधानम् । वस्तुतस्त्वकार्य्यवस्थो- पलक्षितं गुणसामान्यं प्रकृतिः । यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशमसं- गादिति । महान् महत्तत्वं बुद्धितत्त्वमिति यावत् । अहङ्कारः अभिमान- त्तिको बुद्धितत्त्वावस्थाभेदः । शब्दस्पर्शरूपरसगन्धाः पश्च तन्मात्राणि । बाह्यमाभ्यन्तरश्चेन्द्रियमुभयमिन्दियम् । तत्रोत्रत्वक्चक्षुर्निवाघाणाख्यानि। वाक्पाणिपादपायूपस्थाख्यानि च ज्ञानकर्मेन्द्रियाणि दश बाह्यमिन्द्रियम् । मनश्चैकमाभ्यन्तरमिन्द्रियम् ।व्योमानिलज्योतिरुदकभूमयः पञ्च स्थूलभूता- नि । सर्वत्रात्रोपादाने पश्चमी । तदुपरिटाइराद्यत इतिपदं शेषणीयम् ।

प्रथमोऽध्यायः। (२३) पुरुषोऽत्र जीवेश्वरोभयपरः । स तु न कस्य चित्कार्य नापि कारणम् । तस्येह ग्रहणं सांख्याभ्युपगततत्त्वसंग्व्यापरिपूर्णार्थम् । इति इत्येव पश्च- विशतिः पश्चविशतिसाव्याको गणः तत्त्वव्यूहः कापिलानामित्यर्थः । गुणकर्मसामान्यादयो वैशेषिकोत्ताः शक्तिसादृश्यादयो मीमांसकोताच नातिरिक्ता पदार्थाः। फितु धर्मधर्म्यभेदादत्रैवान्तर्भताः। दिकाली चाकाशमेव। 'दिकालावाकाशादिभ्यः' इत्यागामिसूत्रात् । अभावस्तु धर्मि- स्वरूप एवाभ्युपगम्यते नार्थान्तरमिति न काचन न्यूनता । तत्र प्रकृतित्वश्च तत्त्वान्तरोपादानलमित्यव्यवसेयम् ॥ ६१ ॥ नन्वस्त्वेव मकृत्यादीनां कार्यकारणभाव । तथापि कस्मात्का-- कस्य कारणस्यानुमानेन बोधस्तत्राह- " स्थूलात्पश्चतन्मात्रस्य ।। ६२ ।। अनुमानेन चोध इत्यनुवर्तते । स्थूलात् बाह्येन्द्रिययाह्यगुणवत्व, शान्तयोरमूढम्पत्य वा स्थूलत्वम् । तदाश्रयात्पृथिव्यादिम्थूलभूतपश्काका- र्य्यात् पश्चतन्मात्रम्यगन्धादिपञ्चतन्मात्रस्यतत्कारणस्यानुमानेन यत्कार्य, तत्कारणपूर्वमिति व्यातिमता सामान्यतादृष्टानुमानेन बोध सिद्धि- रित्यर्थः॥ ६२॥ बाह्याभ्यन्तराभ्यां तैश्चाइड्कारस्य" ॥३६ ॥ अनुमानेन बोध इत्यनुवर्तते । वाह्याभ्यन्तराभ्यां मनआदिजानक्मेन्द्रि- याभ्यां पायाभ्याम् । तेश्च स्थूलभूतकारणैः शब्दादिपश्चतन्मात्रै कार्य- रहङ्कारस्य-कारणभूताहवारमतेरनुमानेन बोध इति पूर्ववत् ॥ ६३ ॥ "तेनान्तःकरणस्य"॥६४ ॥ अनुमानेन बोध इत्यनुवर्तते । तेन-अहङ्कारण कार्यणान्त करणम्य% महत्तत्वारयायाः कारणभूताया बुद्धरनुमानेन बोध इाते पूर्ववत् । इदमनबोध्यम । यद्ययन्तःकरण मनोटिचिलमहङ्कार हात चतुष्ट- यम्, तथापि बुद्धिसत्त्वावस्थाविशेषत्वान्न तत्परमार्थतो बुद्धिसत्त्वव्यतिरिक्तम् , (२४) सांख्यदर्शनसूत्रवृत्ती। बुद्धिसत्वमेव हि तत्तदवस्थाविशेषमापनं तत्तवाम्नाव्यपदिश्यते । यदा संकल्प. यति तदा मनः । यदाऽध्यवत्यति तदा बुद्धिः । यदा चिन्तयति तदा चित्तम् । यदाऽहंकरोति तदाऽहंकार इत्यभिधीयते । अवस्थाऽवस्थावतोश्च भेदाभेदाभ्युपगमाचतुष्टयत्वे सत्यप्युक्तमन्तःकरणं बुद्धिारति ॥ ६४ ॥ "ततः प्रकृतेः" ॥६५॥ अनुमानेन बोध इत्यनुवर्तते । ततः अन्तःकरणात्कार्यात्मकृतेः-सर्व- कारणभूताया मूलप्रकृतेरनुमानेन वोध इति पूर्ववत् ॥ ६५ ॥ ननु प्रकृत्यन्तानां तत्त्वानां मिथः कार्यकारणभावादनुमानेन सिद्धि- रस्तु । कार्यकारणभावशून्यः पुरुषो जीवः पुनःकथं सिध्येत् ? तत्राह- "संहतपरार्थत्वात्पुरुषस्य"॥६६॥ अनुमानेन बोध इत्यनुवर्तते । संहतपरार्थत्वात् संहतानां परस्परमिलि तानांप्रकृतितत्कार्याणां परार्थत्वात् स्वेतरभोगापवर्गप्रयोजनकत्वं परार्थत्वमा तस्मातपरमयोजनकत्वात्सुरुषस्य-प्रकृत्यादिभ्यः परस्य भातुः पुरुषस्यानु- मानेन ये ये संहताः पदार्थास्ते संवं शय्यासनादिवत्परार्थाः संहतश्च मकृतितत्कार्यमिति सामान्यतोदृष्टानुमानेन वाधः सिद्धिरित्यर्थः । संहननमारम्भकसंयोगः ।स चावयवावयव्यभेदात्मकृतिकार्य्यसाधारणः। तथा च संहतानां प्रकृतितकार्याणामिति भाष्यम् ।। ६६ ॥ ननु महदादिवन्मूलपकृतेरपि किश्चिन्मूलान्तरं सिध्येत्, तबाह- "मूलेमूलाभावादमूलं मूलम्" ॥ ६७॥ मूलं महदादित्रयोविशतितत्वानां मूलकारणं मधानं-प्रकृतिरमूलं - मूलान्तरवय॑म् । कुतः? मूले–मूलकारणे तस्मिन् मूलाभावात् मूलस्य प्रकृत्यन्तरस्याभ्युपगमाभावादित्यर्थः ॥ ६७ ॥ ननु हेतुना सिद्धी किमभ्युपगमाभावेन ? तत्राह-

प्रथमोऽध्यायः। (२५)
"पारम्पय्यऽप्येकत्र परिनिष्ठेति संज्ञामात्रम् ॥ ॥ ६८ ॥
पारम्पयेऽपिम्मकृते प्रकृत्यन्तरम् । तस्यापि प्रकृत्यन्तरमित्येव प्रक-
तिपारम्पर्ये सिद्धेऽप्येकत्र-अन्ततोगत्वा यस्मिन् कस्मिंश्चिदेकस्मिन् म.
त्यन्तरे परिनिष्ठा-पर्यवसान बत्तव्यम् । अन्यथाऽनवस्थापत्ते । यत्र व
परिनिष्ठा, सैवास्माक मूलमकृतिरिति अतः सज्ञामान-विवादास्पद केव-
छमिहावयोनीममात्र स्यादित्यर्थ ॥ ६८ ॥
ननु कुत एतव ' तत्राह-
समानः प्रकृतेर्द्वयोः ॥६९॥
यत इति शेषः । यता यो वादिप्रतिवादिनोराश्यो प्रकृत-मलका-
रणस्य समान =अभ्युपगमस्तुल्य इत्यर्थ ॥ ६९ ॥
नन्देव प्रकृतिपुरुषादीनामनुमानत सिद्धी सुक्रोऽय विवेकप्रत्यय
शास्त्रश्रवणादव संवेषा किं न स्यात ? तबाह-
अधिकारिविद्यान नियमः॥ ७० ॥
अधिकारविद्यात् मन्दमध्यमोत्तमभेदेनाधिकारिणा त्रिप्रकारत्वाननि-
पम -शास्त्रश्रवणमात्रेण सवेषा दृढविवेकमत्ययोदयनियमो नेत्यर्थ ।।७०॥
ननु 'प्रकृतेर्महान् ' इत्येवाधिकषष्टितमसूनण प्रकृत्यादीना कार्य
कारणभाव एव प्रतिपादितो नतु क्रम इति भ्रमसभवात्कि तत्राद्य कार्य
किञ्च तदनन्तरामिति कथ विज्ञेय । तत्राह-
महदाख्यमाद्यकार्य तन्मनः ॥ ७१ ॥
महदाख्य-महत्तत्वनामकमाद्य कार्य-अकृत प्रथम कार्य विज्ञातव्यम्
तन्मन -तदेव च महदाख्य तत्व मननवृत्तिकत्वान्मन =मननमत्र निश्चय
स्तदत्तिक बुद्धिसत्त्वमित्यर्थ ॥ ७१ ॥
चरमोऽहजारः
चरम महत्तत्त्वानन्तरस्तत्कार्यभेदोऽहकार:अहवृत्तिफस्तत्त्वविशेष इ.
त्यर्थ ॥ ७० ॥
“
॥ ७२ ॥

(२६) सांख्यदर्शनसूनवृत्तो। "तत्कार्यत्वमुत्तरेपाम् ॥ ७३ ॥ तत्काय॑त्वम् अहंकारकार्यत्वमुत्तरेषाम् एकादशेन्द्रियपञ्चतन्मात्राणा- मित्यर्थः। पञ्चतन्मात्रकार्यत्वं भूतानामित्यपि द्रष्टव्यम् ।। ७३ ॥ नन्वेवं चेत् कार्यकारणभावक्रमः, तदा मकृतिहेतुकं सर्वमिति कथ- मुपपद्येत ! तत्राह- "आयहेतुता तद्वारा पारम्पयेऽप्यणुवत् "॥ ७४॥ पारम्पर्येऽपि साक्षादहेतुत्वेऽपि तद्वारा-महदादिद्वाराऽऽद्यहेतुता-आ- यस्य मूलकारणस्य प्रधानस्य हेतुता सर्व कारणताऽस्त्येव । तत्र निदर्श नमणवत्-यथा वैनाशिकसमयेऽणूनां परमाणूनां व्यणुकादिद्वारा सर्वत्र सवातेषु हेतुतेत्यर्थः ॥ ७४ ॥ ननु प्रकृतिपुरुषयोरुभयोर्नित्यत्वेन निखिलकार्यपूर्वभावित्वसाम्येऽपिक- यं प्रकृतिरेष जगतः कारणं न पुरुषः तत्राह- पूर्वमावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः ॥७५ ।। दयोः पुम्मकृत्योरुभयोःपूर्वभावित्वे अपिरनुवर्तते निखिलकार्यपूर्वभा- 'वित्वसाम्मेऽप्येकतरस्य द्वयोरेकस्य पुरुषस्य हाने अपरिणामित्वेन कारण- त्वासंभवेऽन्यतरयोगः अन्यतरस्य पुरुषभिनस्य प्रघानस्पैव कारणतायोग इत्यर्थः ॥ ७५ ॥ ननु प्रकृतिव्यतिरिक्त किश्चिदेकं परिच्छिन्नं जगतःकारणं कल्प्यता, किंकल्पितया महत्या प्रकृत्या, तत्राह- "परिच्छिन्नं न सर्वोपादानम्" ।। ७६॥ पारच्छिन्नं यदेकदेशि, तत्सर्वोपादानंयत्किञ्चिदुपादानं भवदपि मह- दादिसर्ववस्त्वात्मकजगदुपादानकारणं नन संभवति । परिच्छिन्नत्वान्मृदा दिवदिति शेष इत्यर्थः ॥ ७६ ॥ वा हेत्वन्तरमाह- प्रथमोऽध्यायः। (२७) "तदुत्पत्तिश्रुतेश्च" ॥ ७७॥ पूर्वसूत्रमनुवर्तते 'तेद्धदंतमुव्याकृतमासीत्तन्नामरूपाभ्या- मेव व्याक्रियत इत्यादिना प्रकृतेः सकाशात्तव्यतिरिक्तस्य सर्वस्य तस्य प- रिच्छिन्नस्योत्पत्तिश्रवणाचन परिच्छिन्नं सर्वोपादान संभवतीत्यर्थः ॥७७॥ नन्यस्तु तीभाव एव जगतः कारणमपरिच्छिन्नत्वात् , तत्राह- "नावस्तुनी वस्तुसिद्धिः" ॥७८ ॥ अवस्तुनः अभावाद वस्तुसिद्धिा वस्तुनः=भावस्य सिद्धिः-उत्पत्तिर्न न संभवतीत्यर्थः । कार्यकारणयोः सारूप्यस्यैव लोके दर्शनादिति भावः ॥ ७८ ॥ ननु तत्कायं जगदपि शुक्तिरनतादिवदवरत्वेवास्तु, तबाह- "अबाधाददुष्टकारणजन्यत्वाञ्च नावस्तुत्वम्" ॥७९ ।। अबाधात्-शुक्तिरजतादिवद वाधाभावाददुष्टकारणनन्यत्वाच्च-शंखपीति- मादिवढुष्ट कारणनन्यत्वाभावाच नावस्तुत्वं जगतोऽवस्तुल नेत्यर्थः॥७९॥ नन्वेवश्चेत्तदाऽवानुनस्तस्माद वस्तुभूतमेव जगदुत्पद्यतां, तबाह- "भावे तद्योगेन तत्सिद्धिरभाव तदभावात्कुतस्तरां तत्सिद्धिः" ॥ ८॥ भावे कारणस्य भावरूपत्वे तद्योगेन-तम्य भावरूपकारणस्य सबन्धेन तत्सिादिः २: तस्य भावरूपकार्य्यस्य सिद्धिः-उत्पत्तिः संभवति । सतोःमबन्धो- पपत्तरिति शेषः । अभावे कारणस्याभावरूपले पुनस्तदभावात्-तद्यो- गासंभवात्कुतस्तरां तसिद्धिः तम्य भावरूपकार्य्यस्य जगतः सिद्धिः- उत्पत्तिः संभवेदित्यर्थः ॥ ८॥ नन्यस्तु तर्हि कमव जगतः कारणम् । आवश्यत्वात्, तत्राह- "न कर्मण उपादानत्वायोगात् ।। ८१॥ १० अ १ प्रा. ४-७॥ .

(२८) सास्पदर्शनस्त्रवृत्ती। तत्सिद्धिरित्यनुवर्तते । न कर्मणः अष्टात् तरिसादिः जगदुत्पत्तिः संभवति । पुनः ? उपादानत्यायोगात् कर्मको निमित्तवेऽप्युपादानत्वानी- चित्त्यादित्यर्थः ॥ ८१ ॥ ननु कर्मणो निमित्तले माशोऽपि तेनैव सेत्स्यति किं परिणामित्वापरि- णामित्वरार्थत्वापरार्थत्वादिना पुम्मकृत्योर्विवेकपदर्शनेन? तबाह- "नानुश्रविकादपि तसिद्धिः साध्यत्वेनावृत्तियोगा- दपुरुषार्थत्वम्" ॥ ८२॥ कर्मण इत्यनुवर्तते । हातकर्मणो न तत्सिद्धिरिति किमुवनव्यम् । आनुश्रविकादपि गपागदनुश्रूयत इत्यनुश्रवा वेदस्तद्विहितं यागादि- कं कर्मानुश्रषिक, तस्मादपि कर्मणो न तसिद्धिः तम्य दुःसात्यन्तनिवृ- तिलक्षणम्य मोक्षस्य सिद्धिः निप्पत्ति । कुनः ? यतः साध्यत्वेन-मोक्षस्य कर्मसाव्यत्वेनावृत्तियोगात् तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकाक्षीयते । "क्षीणे पुण्ये मयलोकं विशन्ति" इति पुनरावृत्तिसंबन्धावश्यंभावादपुरुषार्थत्वं पुरुषार्थत्वं न संगच्छत इत्यर्थः । पूर्व कर्मणा बन्धो निराकृतः सम्पति मोक्ष इत्यपानरुत्यम् ॥ ८२ ॥ नन्वये पश्चागिविद्यारूपेणोपासनाख्यकर्मणा मोक्षसुखभोगाय ब्रह्मलोकान् गतानामपुनरावृत्तिश्रुतिः कथमुपपद्येत, तबाह- "तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः ।। ८३ ।। अनावृत्तिश्रुतिः तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति, तेषां न पुनरावृत्तिः' इति श्रुतिस्तव ने ब्रह्मलोकेषु प्राप्तविवेकस्य- प्राप्तो विवेको येन, तस्य विषयत्वं पश्यर्थस्तद्विषयैव मन्तव्या । नान्यविपये- त्यर्थः ।। ८३ ॥ १ डा० पाठ ८ खं०१-६१ २ गो०-०९-शोक २२ । ३ बृहदा०अ०८ मा०२-१५॥

- प्रथमोऽध्यायः। (२९) ननु विन्तर्हि कर्मण फल, तत्राह- "दुःखादुःखं जलाभिषेकवनजाड्यविमोकः ॥ ८४ ॥ कर्मण इति पूर्वमूत्रादनुप यते । दृष्टानुश्रविकाट हिसाबहुराकर्मण पुरुपस्याधिकारिणो टु खाडु ख-टु समनुटु ख-दुखधारेवति यावत् फ्ल भवति, न जाइयविमोक जाइयमविवेकम्तस्यात्यन्तनिवृत्तिविमोक फ्ल नेति शेष । तत्रोदाहरण जलाभिषकवाव्यथा जाड्यातस्य पुरुषस्य जलाभिपराकर्मणोटु खाद्दु ख पल भवति न जाडयविमोक इत्यर्थ ।। ८४॥ ननु काम्यस्य कर्मणे दु खादु ख फ्लमस्तु । निष्कामस्य तु तस्य श्रुतिस्मृतिभ्या माक्षपरकल्वसिद्धी तथा पल कथ स्यात् तत्राह- "करम्येकाम्यापि, साध्यत्वाविशेषात्" ॥ ८५ ॥ काम्येभ्यथा काम्ये कर्मणि दु सादु ग्प फलम् । तथाऽकाम्यऽपि निष्कामर्मण्यपि चाव्यम् । कुत । साध्यत्वाविशेषात-कर्मसाध्यत्वस्यो- भयत्रापितुल्यमादित्यर्थ । निकामकर्मण फल हि न साक्षान्माक्ष । तस्य 'तमे विदि- त्वातिमृत्युमेति । इति श्रुत्या ज्ञानमात्रैकपल्तानिश्चयात् । किन्तु 'तमेतं ब्राह्मणाविविदिषन्ति यज्ञेन दानेन कर्मणाऽनाश- केन' इति श्रुतेरन्त करणशुद्धिद्वारा माक्षहेतुसत्वपुरुषान्यताप्रत्यय । स च त्रिगुणात्मकमतिसत्वकार्य्यतया दु समव । न सुखमिति भाव । यस्तु निष्कामरमणि श्रुतिस्मृत्यो. साक्षान्मोक्षसाधनत्वपवाद । स च ग्राममार्ग दर्शयितरि ग्राम दर्शयतीतिवदौपचारिको न मुरय इति द्रष्टव्यम् ।। ८५॥ नन्वेवं भवता मोक्षाऽपि दु समेव म्याद ,साध्यत्वाविशपाद तबाह- "निजमुक्तस्य बन्धध्वंसमानं परं न समानत्वम्॥८६|| १०अ०३ म०८।२०अ०६ ग्रा० ४ ० २२ । .

(३०) सांख्यदर्शनसूत्रवृत्तौ। निनमुनस्य=निनेन आत्मीयनर्विवकमत्ययेन मुक्तस्य-मुक्तिंभानः पुरुषस्य यत्परम् आत्यन्तिकं बधध्वंसमात्रम् अविवेकनाशैनतत्कृतदुःसयोगलक्षण- वन्धस्य निवृत्तिमात्रं तदेव विक्रमत्ययस्य फलामिति शेषः । तस्मान समा- नत्वं-तस्यकर्मफल तुल्यत्वं नेत्यर्थः । अतीतावस्थालक्षणस्पध्वंसस्याविनाशितया पुनर्बन्धाभवेनादुःसत्वादि- तिभावः ॥ ८६ ॥ नवस्तु प्रकृतिपुरुपयोविवेकमत्यय एवं साक्षान्मोक्षस्योपायः । तथापि प्रमाणोपदेशाभावे तत्सिद्धिः कथं स्यात् ? तबाह "द्वयोरेकतरस्यवाऽप्यसनिकृष्टार्थपरिच्छित्तिःप्रमा, तत्साधकतमं यत् तत्रिविधं प्रमाणम्" ।। ८७ ।। दयोः बुद्धिपुरुषयोरुभयोरेकतरस्यवापि तयोरेकस्य बुद्धिसत्त्वस्यैव वा पुरुषस्येव वा येयमसनिकृष्टार्थपरिच्छित्तिः असनिकृष्टस्य-अमातर्यारोहोऽन सनिकपः । तदहितस्य-पूर्वमनधिगतस्येति यावत् । अर्थस्य सामान्यविशे- पात्मनो घटपटयदिभेदभिन्नस्य विषयनातस्य परिच्छित्तिः स्वनिष्टतयावधारणं, सा प्रमा ममितिः यथार्थानुभूतिः फलमिति यावत् । तत्साधकतमंयत्= तस्याःफलरूपममाया यदतिगयेन साधकम् असाधारणकारणमिति यावत् । तत्ममाणं-प्रमाणसामान्यम् । तच्चास्माकं सांख्यानां मत्यक्षानुमानशब्दभेदात विविध-त्रिपकारमित्यर्थः । तत्र यदि प्रमारूपं फलं बुद्धिनिष्ठमिप्यते।तदा प्रमात्रीबुद्धिः,तदुपहितः पुरुषः साक्षी, घटोऽयंपटोऽयमित्याद्याकारा बुद्धिवृत्तिःममा, चक्षुरादयः प्रमाणम् । यदा तु पुरुषनिष्ठं तदिभ्यते, तदा बुद्धौ प्रतिविम्बितः पुरुषः प्रमाता । शास्त्रे तनिष्ठस्यैव पुरुषनिष्ठत्वव्यपदेशात् । स एव बिम्बलक्षणः साक्षी । घटमहं जानामि, पटमहं जानामोत्याद्याकारः परेरनुव्यवसायनाम्ना परिभा- षितस्तत्तदिषयोपरतबुद्धिवृत्तिविषयो बोधः ममा । घटोऽयं पटोऽयमित्या- प्रथमोऽध्यायः। (३१) दिबुद्धिवृत्तिः प्रमाण मुख्यम् । चक्षुरादिकं तु गौणम् । यदा तूभयनिष्ठ तदा यथायथं तदुभयमिति विवेकः । इदमत्र बोध्यम् । यद्यप्पत्राचार्यैः प्रमाविकल्पः सूत्रितः । तथापि पौरुषेयबोध एव फलं प्रमेति मुख्यः सिद्धान्तः । पुरुषार्थ करणानां प्रवृत्ते वक्ष्यमाणत्वात् । तत्र पौरुषेयबोधोऽपि न पुरुषस्य काचन वृत्तिः, न वा बुद्धिवृत्तिजन्यः कश्चन धर्मः, परिणामित्वमङ्गात् । किन्तु बुद्धो प्रतिविम्बि तस्तत्तदर्थीकारया बुद्धिवृत्त्या तदाकारतामापद्यमानस्तदुभयावभासकश्चेतनः पुरुष एवेति वाचस्पतिमिश्राः । तत्तदिषयोपरत्तबुद्धिवृत्तिमतिविवोपहिता केवला चितिरेवेति भाष्यकृतः । पौरुषेय इत्याधाराधेयभावश्चोभयत्रापि समारोपित एव न मुख्य इति ॥ ८७ ॥ ननु त्रिविध प्रमाणमिति नोपपद्यते । ममाणाधिक्यस्यापि सिद्धत्वात् । तत्राह- "तत्सिद्धौ सर्वसिद्धेर्नाधिक्यसिद्धिः" ॥ ८८॥ तसिद्धो-तस्य त्रिविधप्रमाणस्य सर्वार्थसाधकत्वसिद्धौ सर्वसिद्धः सर्वेषां पतिवादिभिरभ्युपगतानामुपमानादीनामपि तेष्वेवान्तर्भावसिद्धर्नाधिक्यसि- दिः ममाणाधिक्यस्य सिदिन भवतीत्यर्थः । अन्तर्भावस्तु साख्यतत्त्वकौमुद्यां विस्पष्टः ॥ ८८ ॥ ननु मत्यक्षममाणस्य कि लक्षण ? तत्राह- "यत्सम्बद्धं सत्तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षम्"॥८९|| सम्बद्ध सत्-इन्द्रियसग्निकर्षदारा विषयसम्बदं भवत् तदाकाराल्लोस- विषयाकारधारि यत्-पटोऽयं पटोऽयमित्येवमादियविज्ञान-बुद्धिवृत्यात्मक ज्ञान तत्मत्यक्ष प्रत्यक्षममाणमित्यर्थः ॥ ८९ ॥ ननु योगिप्रत्यक्षेऽव्याप्तिः । तत्मत्यक्षस्यातीतानागतव्यवहितनिमकृष्टव- स्तुविषयत्वेन विषयेन्द्रियसत्रिकर्षद्वारा सबद्धवस्त्वाकारत्वाभावात्. तत्राह- " योगिनामवाघप्रत्यक्षत्वान्न दोषः" ॥ ९०॥ योगिना योगनधर्मवता पुरुषाणामवाह्यमक्षत्वाद न विद्यते बाह्य-वाले (३२) सांख्यदर्शनसूत्रवृनौ। न्द्रियमयोज्य-विषयेन्दियसत्रिकर्षप्रयोग्यमिति यावत् मत्यक्षं येषां, ते तया, तेषां भावस्तत्वं, तस्मात् इन्द्रियकत्रिकर्षामयोग्यवाह्यविषयप्रत्यक्षत्वान दोषः-तत्सत्यक्षेऽव्याप्तिलक्षणो दोषो नेत्यर्थः । इन्द्रियसंनिकर्षप्रयोज्यवाह्यविषयमत्यक्षस्यैवात्र लक्ष्यत्वेन योनिमत्य- क्षस्यालक्ष्यत्वादिति भावः ॥ ९ ॥ अथवा भवतु तदपि लक्ष्यमेवेत्याह- लीनवस्तुलधातिशयसंबन्धाद्वाऽदोषः ॥९॥ लनिवस्तुषु अतोतानागतव्यवहितविप्रकृष्टवस्तुविषयेषु लब्धातिशयसं- बन्धादा योगमभावेन लब्धोऽतिशयो येन योगीन्द्रियेण तत्संबन्धस्य सदा- बादाऽदोषः उक्ताव्याप्तिलक्षणो दोषो नेत्यर्थः ॥ ९१॥ नन्वस्मदीश्वरमत्यक्षेऽव्याप्तिः । तस्य जन्यत्वेऽपीन्द्रियसन्निकर्षामयो ज्यत्वाभ्युपगमादिति जैनमाशयनिराचष्टे- ईश्वरासिद्धेः" ॥ ९२॥ अदोष इत्यनुवर्तते । यस्पेश्वरस्य भवता प्रत्यक्षमुदाहियते । तस्यैवा- सिद्धरदोषः उक्ताव्याप्तिलक्षणो दोपो नेत्यर्थः ॥ ९२ ॥ ननु कस्मात्र तत्सिदिः । तत्राह- "मुक्तवद्धयोरन्यतराभावान्न तसिद्धिः" ॥ ९३ ।। साधितोऽपीश्वरः पुरुषविशेष एव वक्तव्यः । स च मुक्तबद्धयोरन्यतरः स्पात् । तस्य च मुक्तबद्धयोरन्यतरस्येश्वरत्वासंभवान्न तत्सिद्धिरित्यर्थः॥९३।। ननु कस्मादसंभवः ? तबाह- उभयथाप्यसत्करत्वम् ॥ ९४॥ यत इति शेषः । यतो मुक्तो वा स्यादवद्धो वा स्यादुभयथापि प्रकारद्वयेनापि तस्यासत्करत्वं सतः विद्यमानस्यास्य जगतः करत्वम् उत्पा दकत्वं न संभवतीत्यर्थः । मुक्तस्य प्रयोजनाभावाद बदस्य च सामर्थ्या भावादुत्पादकत्वासम्भवः । तदसम्भवे च तदसम्भव इति भावः ॥ ९४ प्रथमोऽध्यायः। ननु जगजन्मानभ्युपगमादेवमीश्वरोमासैसीव, अस्मदागमविहित तत्म शंसापासान्यथानुपपत्या सेत्स्यति, तत्राह- "मुक्तात्मनः प्रशंसोपासासिद्धस्य वा ९५ ।। चार्योवाकारः । मुक्तात्मनः मवदागमेषु तु मुक्ति प्राप्तस्य जीवात्मनः मशंसा=निःसत्वादिसाम्यादीश्चररूपतयास्तुतिः, सिद्धस्यवा-तपःमभावा- सिदिङ्गतस्य जीवविशेषस्य चोपासा-मोक्षमाणानाहितार्थमुपास्तिर्विद्यते, न भगवतो विश्वभर्तरीश्वरस्येत्यर्थः ॥ नहि भवदागमास्तावजगतापति मीश्वरं प्रशंसन्ति, तदुपासनश्च विदधति, येन तदन्यथानुपपत्त्याकश्चिदीश्वरः सिध्येत् । अपिच मुकात्मनः प्रशसा सिद्धस्यचोपासां विदधते । तत्रच मुक्तात्मनोऽसङ्गत्वेन ज्ञानासम्भवाव, सिद्धस्य च शरीरित्वेन तन्ज्ञानस्ये न्द्रयसानिकर्षप्रयोज्यत्वावश्यभावानतत्मायक्षेऽव्याप्तिलक्षणः कश्चिदाषःसम्भ बतीतिभावः ॥ ९५ ॥ ननु तवापि सांख्यस्य नित्यशुद्धबुद्धमुक्तस्वरूपत्वेनेश्वरस्य प्रकृतिपुरु. पाधिष्ठातृत्वं नोपपपद्यते, तबाह- "तत्सन्निधानादधिष्ठातृत्वमणिवत्" ॥ ९६ ॥ साख्यानामस्माकन्तु तत्सनिधानाव-प्रकृतिपुरुषाभ्या सन्निधानतत्सन्नि धान,तस्मादगवत परमेश्वरस्याधिष्ठातृत्व-प्रकृतिपुरुषनियन्तृत्व-जगदचना- येतिपुरुषप्रेरकत्वमुपपद्यते. मणिवत्-यथाऽयस्कान्तमणेः शल्यनिष्कर्ष- णाय सन्निधिमात्रेणलोहरकत्वमित्यर्थः। यद्यपि क्लेशकर्मविपाकाशयरपराम टत्वानित्यशुद्धबुद्धमुक्तस्वरूपः परमात्मा,तथापि स ज्ञानक्रियाशक्तिकोऽप्य- भ्युपगभ्यते, ज्ञानक्रियाशक्तिश्च तस्य सर्वथा साम्यातिशयविनिर्मुक्ता न जातु ज्ञानान्तरेण क्रियान्तरेण च केनचिदतिशय्यते । अतोऽस्यसनिधिमात्रेण प्रकृ- तिपुरुषाविधातृत्वमपि नानुपपन्न भवति । सविधानश्चानेश्वरस्य प्रकृतिपुरुषा भ्यांसाक्षासम्बन्धविशेषः, सच न सयोगो नापि समवायोऽपिच स्वस्वामि- भावःमकृतिपुरुषयोस्तवस्वस्वाव, ईश्वरस्य च स्वामित्वात् । सचापि वाह्या (३४) सांख्यदर्शनसूत्रवृत्तौ। नामिव नागन्तुकः किन्तु सदातन एव मन्यते, अतएव च स सदैवेश्वरः सदेव मुक्त इति वैदिकानामचलोराद्धान्तः । अतस्तस्य नित्यशुद्धबुद्ध- मुक्तस्वरूपत्वेऽपिनिखिलशक्तिसम्पन्नत्वात् प्रकृतिपुरुषाधिष्ठातृत्वे न कश्चिदो- षइति भावः ॥ ९६ ॥ नतु चेतनत्वाविशेषानीवानामिवेश्वरस्यापि सङ्कल्पादिदारवाधिष्ठातृत्वं किं न स्यात् ! कृतं सनिधिमात्रेण, तत्राह- विशेषकार्येप्वपि जीवानाम् ॥ ९७ ॥ मिनकमोऽपिः । तत्सविधानादधिष्ठातृत्वमित्यनुवर्तते । जीवानामपि3 बुदिप्रतिबिम्बिताहङ्कारविशिष्टचेतनानामपि विशेषकार्येषु आहारविहारादि लक्षणेषु कार्यभेदेषु तत्सन्निधानाद-बुदिसत्रिधिमात्रादुयधिष्ठातृत्वं न सङ्कल्लादिनेत्यर्थः ॥ ९७ ॥ ननु सन्निधिमात्रेण चेदीश्वरस्याधिष्ठातृत्वं,न सङ्कल्पादिना, तदा सर्गा- रम्भे जीवानां वेदवाक्यापिदेशः कथं स्यात् ? तबाह- " सिद्धरूपबोवृत्वाद्वाक्यार्थोपदेशः" ॥ ९८ ।। सिद्धरूपबोद्धृत्वाद-सिद्ध निखिलशक्तिसम्पन्न रूप-स्वरूपं यस्य, स सिद्धरूपः परमात्मा,तस्य बोद्धृत्वाव सन्निधिमात्रेणवोधकत्वाद, बोधोज्ञानं, तत्मदातृत्वादितियावद् वाक्यार्थोपदेशः अन्यादिमहर्षिदारा वेदवाक्यार्थी- नुशासनं सम्भवतीत्यर्थः ॥ ९८ ॥ ननु पुरुषमात्रस्य चेत्सन्निधिमात्रेणाधिष्ठातृत्वं गौणं, तदा सङ्कल्पा दिद्वारकं मुख्य कस्य ? तत्राह- अन्तः करणस्य तदुज्ज्वलितत्वाल्लोहवद- धिष्ठातृत्वम् " ॥९९ ॥ लोहवस् यथा स्वसनिहितेनज्वलनशक्तिवह्निना लोहपिण्डस्योज्ज्वलितत्वं भवति,तथाऽन्तःकरणस्य वृद्धिसत्त्वस्य तदुज्ज्वलितत्वादतेन स्वसन्निहिते प्रथमोऽध्यायः। " चेतनशक्तिपुरषेणोज्वलितत्वा-चेतनायमानत्वादधिष्ठातृवं-संकल्पाद्याश्र- यत्वसंभवात्तद्वारकं मुख्यमधिष्ठातृत्व-नियन्तृत्वमित्यर्थः ॥ ९९ ॥ एवं विस्तरेण प्रत्यक्ष लक्षितम् । क्रमप्राप्तमनुमान लक्षयति । "प्रतिबन्धशः प्रतिबद्धज्ञानमनुमानम्" ॥ १०॥ प्रतिबन्धदृशम्मतिबन्धो व्याप्तिस्तदिशिष्टो हेतुरत्र लक्ष्यते। तं पक्षधर्म- तया पदयतीति मतिबन्धहका तस्य-व्याप्तिविशिष्टपक्षधर्मताजानवतः सिपा- धयियोनीवस्य यत्मतिबद्धज्ञान प्रतिबद्धस्य-निरूपकत्वेन मतिबन्धाश्रयस्य साधनीयधर्मस्य ज्ञान-पक्षनिष्ठतया जायमानं बुदिवृत्त्यात्मकं जानं, तद- नुमानम अनुमानप्रमाणमित्यर्थः । अत्र फलमनुमितिः पौरुषेयो बोध इति पूर्ववत् ॥ १०० ॥ शब्दं लक्षयति- "आप्तोपदेशः शब्दः ॥१०१॥ आप्तोपदेशः उपदिश्यतेऽनेनेत्युपदेशः वाक्यम् । अर्थाव्यभिचारित्वमा- मिस्तया वर्तत इत्यातः । आप्तश्रासावुपदेशश्चेत्याप्तोपदेशः वेदवाक्यम् । तननितं बुद्धिवृत्यात्मकं वाश्यार्थज्ञानं शब्द: शब्दप्रमाणमित्यर्थः । अवापि फलं पौरुषेयो बोधः शाब्दी ममेति पूर्ववद्रष्टव्यम् ॥१०॥ यदर्थोऽयं प्रमाणोपदेशस्तत्स्वयमाह-- "उभयसिद्धिःप्रमाणात्तदुपदेशः" ।। १०२ ।। यतोऽत इति पूरणीयम् । यत उभयसिद्धिा उभयोः प्रकृतिपुरुपयोः सिद्धिः मिथो विवेकेन ज्ञाप्तिः प्रमाणात्-उक्तलक्षणात्ममाणादेव भवति । अतस्तदुपदेश:-प्रमाणानुशासनमित्यर्थः ॥ १०२ ॥ ननूक्तप्रमाणानां मध्ये कस्मात्ममाणात्तदुभयसिद्धिर्भवति? तबाह- "सामन्यतो दृष्टादुभयसिद्धिः॥ १०३ ॥ पूर्ववच्छेषवत्सामान्यताहष्टश्चेति त्रिविधमनुमानम् । अन्वयमात्रव्याप्तिकं पूर्ववत् । व्यतिरेकमावव्यामिक शेषवत् । सामान्यतोदृष्टान्वयव्यतिरेकव्या- - (३६) सांख्यदर्शनसूत्रवृत्ती। प्तिकं सामान्यतोदृष्टम् । तत्रोभयसिद्धिः प्रकृतिपुरुषोभयसिद्धिः सामान्यतो-. दृष्टात् सामान्यतो दृष्टसंज्ञकादनुमानादित्यर्थः ॥ १०३ ॥ नन्विष्टानिष्टविषयः प्रमाणननितो वोधः पौरुषेयो न संगच्छते । तस्य बुद्धिवृत्त्यात्मकत्वेन पुरुषनिष्ठत्वाभावाद, तबाह- "चिदवसानो भोगः ॥ १०४ ॥ भोगः इष्टानिष्टविषयानुभवलक्षणो भोगश्चिदवसानः-चिति-पुरुषेऽवसा- नं-पर्यवसाने यस्य स तथेत्यर्थः । यद्यपि विषयानुभवलक्षणो भोगो बुद्धिवृत्त्यात्मकः, तथापि नासो बुद्धौ- पर्यवस्यति । तस्या जहत्वेन भोक्तृशक्तिहीनत्वात् । पुरुषस्त्वकर्तापि चतनत्वान भोक्तृशक्तिहीनः । तस्मात्तस्य तत्तदिपयोपरक्तबुद्धिवृत्तिमतिवि- म्बिते पुरुपे पर्यवसानमिति भावः ॥ १०४ ॥ ननु चिदवसानो भोग इत्ययुक्तम् । लोके कर्तुरेख क्रियाफलोपभोगदर्श- नाव, तत्राह- "अकर्तुरपि फलोपभोगोऽन्नाद्यवत्" ॥ १०५॥ अकर्तुरपि कर्माकर्तुरपि पुरुषस्य स्वामिनः फलोपभोगः युद्धिकर्तृक- कियाफलोपभोग उपपद्यते । अन्नाद्यवत्-दिगादित्वाद्यद । यथाऽन्यकृतामा- दरुपभोगस्तत्स्वामिनो नृपतेरित्यर्थः । अदनीयमाद्य, तच्च तदन्नश्च अन्नाचं तदिति माधवाचार्यः ॥ १०५ ॥ नन्वेवं शास्त्रफलं प्रयोक्तरि' इति शास्त्रं व्याकुप्यत, तत्राह- "अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः" ॥१०६।। स्वाभिमतपक्षान्तरसूचनार्थं वा शब्दः । अविषकाद्वा-प्रकृतिपुरुपयो- विवेकग्रहाभावादा तत्सिद्देः कर्तृभूताया बुद्धेरुपरागात्पुरुषस्य कर्तृत्वसिद्धेः कर्तुः-कर्तुरेव फलावगमः-क्रियाफलोपभोगो नान्यस्येत्यर्थः । १०६ ॥ १ पूर्वमी० अ० ३ पा० ७ सूत्र १८.

प्रथमोऽध्यायः। (३७) । नन्वेवं भोकृत्वं तस्य वास्तवं प्रसक्तं, तथाचानिक्षिपसगस्तत्राह- "नोभयश्च तत्त्वाख्याने" ॥ १०७॥ तत्त्वास्याने प्रकृतिपुरुषयोःस्वरूपं तत्त्वं, तस्याख्याने साक्षात्कारे जाते नोभयश्च कर्तृत्वभोक्तृत्वोभयमपि नावतिष्ठते इत्यर्थः । कर्तृत्वस्येव तत्समकक्षभोक्तृत्वस्याप्योपाधिकत्वाभ्युपगमादितिभावः१०७॥ ननु यत्मत्यक्षण नोपलभ्यते तत्रास्त्येव, कुतः ?सामान्यतो दृष्टात्तदुभय- सिद्धिः, तत्राह- "विपयोऽविषयोऽप्यतिदूरादेहानोपादाना- भ्यामिन्द्रियस्य"॥ १०८ ॥ चोऽनुवृत्तिःपूर्वसूत्रात् । भिन्नक्रमोऽपिः । हानं घातः । उपादान-विमो- हकरविषयान्तरोपादानं मनोऽनवस्थानमिति यावत् । न मत्यक्षणानुपलब्धे- रर्थस्याभावः साधयितुं शक्यते । यतोऽतिदूरादेः भावनधानो निर्देशः । अतिदूरत्वादेदीपात् । आदिपदेन 'अतिसामीप्यसौम्यव्यवधानाभिभवस- मानाभिहाराणां सङ्ग्रहः' । हानोपादानाभ्याश्चेन्द्रियस्य-चक्षुरादीन्द्रियस्य घातानवम्थानाभ्याश्च विषयोऽपि-प्रत्यक्षस्य विषयोऽप्यविषयो भवती- त्यर्थः ॥ १०८॥ ननु कम्मात्पुनरेतेषु दोषेषु प्रकृतिपुरुपयोः प्रत्यक्षणानुपलब्धिम्तबाह-- "सौक्ष्म्यात्तदनुपलब्धिः" ॥ १०९॥ सौम्यात्-निरवयवद्रव्यत्वं सौक्ष्म्यं, तस्मात्तदनुपलब्धिः तयोः मक- तिपुरुषयोरनुपलब्धिः-प्रत्यक्षत्वाभाव इत्यर्थः ।। १०९ ॥ नन्वभावादेव तदनुपलब्धिः किं न स्यात्कृतं तत्र सोक्षम्यकल्पनया तत्राह- "कार्य्यदर्शनात्तदुपलब्धे ॥११॥ कार्यदर्शना=महदादिभूतान्तकार्यस्य दर्शनात् । तत्कारणतया तब्दो- (३८) सांख्यदर्शनसूत्रवृत्ती। तृतयां च तदुपलब्धेः-तयोः प्रकृतिपुरुषयोरनुमित भाव इत्यर्थः॥११०॥ : ननु कार्यदर्शनात्कारणमात्रं गम्यते न प्रकृतिरिति शंकरो । "वादिविप्रतिपत्तस्तदसिद्धिरिति चेत् ॥ १११॥ वादिविमतिपत्तेः वादनां-जगत्कारणतया शून्यब्रह्मपरमाणुवदनशीला- नां सौगताद्वैतिचार्वाकाणां विमतिपत्तः कारणगोचरविरुद्धमतिपत्तेस्तदसि- दि:-तस्याः प्रकृतेन सिद्धिरिति चेदित्यर्थः ॥ १११ ॥ अभ्युपेत्य पारिहरति । "तथाप्येकतरदृष्टयाऽन्यतरसिद्ध पलाप:" ॥११२ ।। तथापि-प्रकृती वादिनां विप्रतिपत्तावप्येकतरदृष्टया कार्यकारणयोरे- कस्य कार्यस्य दृष्ट्या दर्शनेनान्यतरसिद्धः तयोरन्यस्य नित्यकारणस्य सिद्धेः अनुमिते पलापः-न तदपन्हवः संभवतीत्यर्थः ॥ ११२ ॥ . ननु न कारणमपलप्यते । किन्तु प्रकृतिस्तत्राह- "विविधविरोधापत्तेश्च"॥ ११३।। नापलाप इत्यनुवर्तते । 'अंजामेकाम् ' इत्येकः श्रुतिविरोधः । 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः' इति स्मृतिवि- रोधी द्वितीयः । यादृशं कार्य्य तादृशं कारणम् । कार्यश्च त्रिगुणात्मकम् । तस्मात्तत्कारणमपि तथेति न्यायविरोधस्तृतीय इत्येतस्य त्रिविधविरो- धस्यापत्तेः पानेअ नापलापः-न कारणभृतायाः प्रकृतेरपलापःसंभवतीत्यर्थः । विविधो गुणः सत्वरजस्तमांसि, तदिरोधः-तच्छून्यं जगद्भवेत्, न चैवं दृश्यत इत्यनिम्द्धः ॥ ११३ ॥ ननु तदा हि कार्याधारतया नित्या प्रकृतिः सिध्येत, चेदुत्पत्तेः माक कार्य सद्भवेत्ान चोत्पत्तेः मागस्ति कार्य सत् । असदुत्पादाभ्युगमात,तत्राह-- "नासदुत्पादो नृशृङ्गवत्" ।। ११४ ।। १० अ०४मं० ५। २ गोता अ० ३ श्लो० २७ । .

प्रथमोऽध्यायः। (३९) नासदुत्पादः कारणव्यापारात्मागसतः कार्यस्य कारणव्यापारणोत्पादो न संभवति, नृशृङ्गवत्यथाऽसतो नृशृङ्गस्य कारणव्यापारणोत्पादो नेत्यर्थः ॥ ११४ ॥ ननु कस्मान संभवति ? तबाह- "उपादाननियमात्" ॥ ११५ ॥ उपादनस्य-उपादानकारणस्य नियमात्-घटं प्रति मृद इब ज्ञान प्रति चिट इव प्रतिकार्य नियमादित्यर्थः । चेदसत्पद्येत तदा प्रतिकारण कार्यमानासत्त्वतात्यातन्नियमो न स्यादिति भावः ॥ ११५॥ किश्च । "सर्वत्र सर्वदा सर्वासंभवात्" ।। ११६ ।। नासदुसाद इत्यनुवर्तते । सर्वत्र-सर्वस्मिन् कारणे सर्वदा-सस्मिन् काले सर्वासभवात्सर्वस्य कार्य्यस्योत्पादामभवानासदुत्पादः सभवतीत्यर्थः । असदुत्पादे चासत्वाविशेपासव सर्वदा सर्व संभवेदिति भावः।११६॥ किश्च। "शक्तस्य शक्यकरणात्" ॥ ११७ ॥ नासदुत्पाद इत्यनुवर्तते । शक्तस्य-कारणे कार्यानागतावस्थाऽत्र शक्तिः। तदाश्रयस्य कारणस्य, शस्यारणात् शक्यस्य-तादृक्शनिविषयम्य कार्य्यस्य करणात् उत्पादनान्नामदुसाद इत्यर्थः । असतः कार्यस्य कारणशक्तिविषयत्वायोगादेति भावः ॥ ११७॥ किश्च । "कारणभावाञ्च ॥ १८॥ नासदुत्पाद इत्यनुवर्तते । कार्यस्येति शेषः । तत्साधकमवहेतुसमुच्चये चः । कारणभावाच भावोत्रात्मा । कारणस्य भावोभावो यस्य, तत्तथा! तस्माच कारणात्मकत्वाच्च कार्य्यस्य नासदुत्पाद इत्यर्थः ।

(४०) सांख्यदर्शनसूघयत्ती। . कार्य हि फारणात्मकं दृष्टम् । यया मृकाप्य पयदि महात्माम् । तन्नुकाप्य वा पगदि तन्मात्माम् । मारणा दण्डादिकारणम्यापारात्मा- पसदिति तदात्मक कार्यमपि तदा मदन, नामुन् । सदगारस्यायोगादिति भावः । “ कार्यस्प फारणात्मना भेदाभावेऽपि कापामना कारणादेद इति भेदाभेदाभ्युगमाकार्यकारणभावोपपत्तिरित्यपि द्रष्टव्यम् ॥ ११८ ॥ शइते । न भावे भावयोगश्चेद" ॥ ११९॥ ननु भावे कारणव्यापारात्मागपि विद्यमाने भावात्मके फायें भावयो- गभेत् कारणान्यापारणोत्पत्तिसंबन्धभेत्तदा फार्पस्पोत्सादानुत्पादावस्थायां विशेषाभावात्तनिवन्धनी तदिपयो व्यवहाराव्यवहारो नन स्याता- मित्यर्थः ।। ११९ ॥ परिहरति । "नाऽभिव्यक्तिनियन्धनो व्यवहाराव्यवहारो"॥१२०॥ न=सांख्यानामस्माकं फाय॑स्योलादानुत्पादनिरन्धनो तदिपयो तदुत्पत्तिव्यवहाराव्यवहारी न, किं लभिव्यक्तिनियन्धनो-तदभिव्यक्तयन- भिव्यनिनिमित्तको व्यवहाराव्यहारो कारणव्यापारेण कार्याभिव्यको तद्- त्पत्तिव्यवहारस्तदनभिव्यक्ती च तदुत्पत्तित्र्यवहाराभाव इत्यर्थः । अभिव्यक्तिश्चात्र फाप्यस्य वर्तमानावस्थेव । तेन कारणव्यापारात्मा तस्यावस्थान्तरेण सत्त्वेऽपि न कश्रिदोष इति निभेयम् ॥ १२० ॥ नवं कार्यस्यानादिभावमापाशो न स्यात्, तबाह- "नाशः कारणलयः ॥ १२१ ॥ सत्कार्यवादिना नः कार्यस्प नाशो न घंसः, फिन्तु नाशः कारण- लयः-निमित्तयोगादतीतावस्या प्राप्तस्य तस्य कारणेऽविभागेन संश्लेष इत्यर्थः ॥ १२१ ॥ . - प्रथमोऽध्यायः। (११) ननु तथाप्यसत्सादभिया काय्यांभिव्यत्तेरप्यभिव्यतिरेव वतव्या । तस्याच पुनरभिव्यतिरन्येत्यनरस्थादोषस्तत्राह- "पारम्पर्यतोऽन्वेषणा बीजाइकुरवत् " ॥ १२२ ॥ अदोष इत्यग्रिममूत्रादनुकृप्यते । पारम्पयंत = अनागतावस्थस्य कार्य- स्य कारणव्यापारेणाभिव्यक्ति तस्या पुनरभिव्यक्तिस्तस्या पुनरिति परम्प- राभावतोऽन्वेपणा अभिव्यक्तेर्गवेषणा। चीनाडरवत् बीनादकुरोऽखराबी- जमिति बीजामृरयो पारम्पर्यतोऽन्वेषणावन्मन्तव्या । न ततो विलक्षणे- त्यदोष =पामाणिकत्वादनवस्थालक्षणो दोषो नेत्यर्थ ॥ १०२ ॥ ननु कार्याभिव्यनः कथञ्चित्मामाणिकत्वेऽपि तदभिव्यक्तिपरपराया- स्तथात्वाभावाद् बीनाङ्कुरवदित्यनुपपन्न, तबाह- उत्पत्तिवद्वाऽदोषः" ॥ १२३ ॥ समाधानान्तरपरा वा । यथा भवतामसत्कार्यवादिना कार्योत्पत्ते- स्त्पत्तिरनवस्थाभिया कार्योत्पत्तिरूपैव । न ततोऽतिरित्ता । तथाऽस्माक सत्कार्यवादिनासाख्यानामपि कार्याभिव्यक्तेरभिव्यक्ति कार्याभिव्यत्तिरू- पेव । न ततो व्यतिरित्ता। तेनोत्पत्तिवत् भवदभ्युपगतकार्योत्पत्तिवददोष अस्मभ्युपगतकार्याभिव्यनावप्यनवस्थादोषो नेत्यर्थ ॥ १०३ ।। नन भवतूत्पत्ते पाक्कार्य सत् । सिध्यतु च तदाधारतया नित्या मकृतिः । तथापि कार्यमेतत्कारणश्चैतदिति विवेकज्ञान कथ स्यादुभयोरे- क्यादित्यागत्य तदुपयुक्त साधर्म्यवेधर्म्यप्रकरणमारभमाण पूर्वन्तावन्मह- दादिभूतानन्यनस्य कार्यस्य साधर्म्यमाह- "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्" ॥ १२४ ।। यहि-लीनमर्थ गमयति, लय वा गच्छतीति लिग-महदादिभूतान्त कार्थनात व्यनम् । तद् हेतुमत् हेतु कारण, स विद्यते यस्य, तत्तथा- कारणवत् । अनित्यम् अध्रुवनाशशीलमिति यावत् । अव्यापि सर्व परि- " (४२) सांख्यदर्शनसूत्रवृत्ती। णामिनं व्या शीलं यस्य न । तत् । सक्रियपरिम्पन्दः किया तत्सहि- तम् । अनेक माना । आश्रित-माधारमित्यर्थः । यल्लिङ्गं तदनुमत्त्वादिधर्मकमिति भावः ॥ १२४ ॥ ननु हेतुमत्वादिकं साधम्यं महदादियाय॑म्य निरूप्यमाणं नसङ्गच्छता हेतुभूतायाः प्रकृतस्ततोऽतिरकेणासिद्धेस्तवाह- आनस्यादभेदतो वा गुणसामान्यादेस्तसिद्धिः प्रधानव्यपदेशाद्वा" ॥ १२५ ॥ प्रमाणभेदप्रदर्शनार्थं वा द्वयम् । लिङ्गस्यान्वयव्यतिरेकशालित्यमान- स्यम् । मुसदुःसमोहलक्षणः साधारणो गुणो गुणसामान्यम । आदिना परिणामशीलत्वसंग्रहः । तदभेदः कार्यमानेऽन्वयः । तथान-विमतं कायं सुखदुःरामोहात्मकप्रकृतिपूर्वकम् । तदन्वितत्वात् । योनान्वीयते, तत्तत्मकतिपूर्वकम् । यथा मृदन्वितं घटादि मृत्मकृतिपूर्वकं, तथानेदम् । तस्मात्तथा' इत्येवमानास्यात् अन्वयव्यतिरेकशालिनोगुणसामान्यादेरभेदतो वा-मुसदुःखमोहादिसाधारणगुणान्वयटक्षणलिङ्गता वा, प्रधानन्यपदेशादा मीयत-लीयते कार्यनातमस्मिन्नितिप्रधानशब्देन शाखे व्यवहारादा तसिद्धिः-का-तिरफेण प्रकृतिसिद्धिरित्यर्थः ॥ १२५ ॥ कार्यमात्रस्य व्यनस्य साधर्म्यमुक्त्वा कार्यकारणयोर्यक्ताव्यनयो- रुभयोः साधर्म्यमाह- " त्रिगुणाचेतनत्वादिद्वयोः" ॥ १२६ ॥ आदिशब्देनाविवेकित्वविषयत्वसमानत्वप्रसवधर्मित्वानां सङ्ग्रहः । त्रि- गुणत्वं त्रीणि सत्वरजस्तमांसि गुणाः कारणतया स्वरूपतया च संति ययोस्ते तथा, तयोर्भावस्तत्त्वं गुणत्रयवत्वम् । अचेतनत्वं चैतनभिन्नलम् । अविवेकित्वं संभूयकारित्वम् । विषयत्व ग्राह्यत्वम् । समानत्वं सर्वपुरु- षसाधारणत्वम् । प्रसवधर्मित्वं सरूपावरूपपरिणामशाळेत्यम् । दयोः कार्यकारणयोर्व्यक्ताव्यक्तयोःसाधयमित्यर्थः ॥ १२६ ।।

प्रथमोऽध्यायः। ननु गुणानामपि मिथः साधर्म्य वैधर्म्यश्च वक्तव्यम् । अन्यथा तेषा त्रित्वानुपपत्तेरित्याशंस्य पूर्व वैध माह- "प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योऽन्य वैधर्म्यम्" ॥ १२७ ॥ भीतिः =सुखम् । अभीति:-दुःखम् । विषादा-मोहस्तदाये. तदादि- भिरमाधारणमर्गुणानां सत्त्वरजस्तमसामन्योऽन्यं परस्पर वैधय॑-विरु- धमत्वमित्यर्थः। तव मसादलापवाभिप्वङ्ग प्रीति तितिक्षा सन्तोपावमार्दवहीश्रद्धाक्षमा- नुकम्पा ज्ञानादिरूपनानाभेद सत्त्वम् । दुःखशोकटेपद्रोहमत्सरनिन्दा परा- भवादिरूपनानाभेद रजः । मोहभयविपलम्भ नास्तिस्यकौटिल्यकार्पण्याना- नादिरूपनानाभेद तम इति विवेकः ॥ १७ ॥ वैधर्म्य मदर्य साधर्म्यवैधयें दे पदर्शयति । "लघ्वादिधर्मःसाधय वैधय॑श्च गुणानाम्" ॥ १२८॥ गुणानां सत्वरजस्तमसां लघ्वादिधर्मः भावमधानो निर्देशः । लघुत्व- चलत्वगुरुत्वपुरुषार्थत्वान्योऽन्याभिभववृत्तित्वादिभिधर्मः साधर्म्य वैधय॑श्च- पुरुषार्थत्वादिभिः साधर्म्य, लघुत्वादिभिश्च वैधर्म्यमित्यर्थः ॥ १२८ ॥ ननु महदादेर्निरूप्यमाणं हेतुमत्त्वादिक साधयं न सभवति । तस्य कार्यत्वासिद्धस्तत्राह- "उभयान्यत्वात्कार्यत्वं महदादेर्घटादिवत" ॥१२९॥ महदादेरुभयान्यत्वात्-मतिपुरुषोभयभिन्नत्वात्वार्यत्वजन्यत्मनुमे यम् । तत्रोदाहरणं घटादिवत् यथा घटादेः प्रकृतिपुरुषान्यत्वात्कार्य- खमित्यर्थः । तदुभयान्यत्वश्च भोग्यत्वाविनाशित्वादिति बोध्यम् ॥ १२९ ॥ हेत्वन्तरमाह- "परिमाणात् "॥ १३० ।।

(४४) सांख्यदर्शनमूबत्तो। कार्यलं महदादपंटादिवदित्यनुवर्तते । परिमाणा-परिमितवाद= परिच्छिन्नत्वान्महदादपयदिवसायंवमित्पर्यः ॥ १३० ॥ तृतीयं हनुमाइ- समन्वयात्" ।। १३२॥ फारणगुणानां फाय समानरूपतयाऽन्वयः समन्वयः । तस्मादिद्वान्म- हदादेः कापतमित्यर्थः ॥ १३१ ॥ चतुर्थ हेतुमाह- "शक्तितश्चेति" ॥ १३२ ॥ इतिशब्दः कार्य्यवसाधकहेतूनां समाप्तिमाह । शनिनभ सातिशयश- तिमत्वाच महदादेः काप्पत्वं पटादिवदित्यपः । शक्तितश्च करणतअत्यर्थः । पुरुषस्य यत्करणं, तकार्य चक्षुरादिव- दिति भावः । इतिभाष्यम् ॥ १३२ ॥ ननु मास्तु तस्य कार्येवं को दोपस्तत्राह- तद्धाने प्रकृतिः पुरुषो वा"॥ १३३ ॥ तदान कार्यत्वाभावे प्रकृतिः पुरुषो वा-महदादिकं प्रकृतिवा स्यात्पु- रुषो वा स्यादित्यर्थः । तयोरेवापतार्यत्वात् । तच्च नेष्टंभोग्यत्वाविनाशित्वादितिभावः॥१३॥ नन्वकार्य सदपि तदुभयभित्रमेव किश्चित्सेत्स्यति । तबाह- "तयोरन्यत्वे तुच्छत्वम्"॥ १३४ ॥ तयोः पञ्चम्य षष्ठी । मकृतिपुरुषाभ्यामन्यत्वे-भिवत्वे तुच्छत्त-शश- शृङ्गादिवत् तुच्छत्वमेव स्यादित्यर्थः । तद्भिन्नाकार्यस्य तुच्छखदर्शनादिति भावः ।। १३४ ॥ तदेवं महदादेः कार्य्यवं मसाध्य तेन कारणानुमानेऽनुक्तं विशेषमाह- "कार्याकारणानुमानं तत्साहित्यात " ॥ १३५॥ कार्यात महत्तत्वादेः कारणानुमान मतेरनुमानं तत्साहित्यात्-

प्रथमोऽध्यायः।
(४५)
कार्य्यसाहित्य कारणे वैशिष्ट्य तस्माद्भवति । नतु ताटस्थ्यादित्यर्थ ।
कार्यकारणयोरभेदाभ्युपगमादिति भाव ॥ १३५ ॥
यादृश कारण तदाह-
"अव्यक्तं त्रिगुणाल्लिङ्गात् "॥ १३६ ।।
त्रिगुणाद-त्रिगुणात्मकाव लिजात्-महदादेर्व्यत्तात्कारण प्रकृतिरव्यक्त-
सूक्ष्मतरमित्यर्थ ॥ १३६ ॥
नन्वव्यत्त चेत्तर्हि नास्त्यव । तत्राह-
तत्कायंतस्तत्सिद्ध पलापः"॥ १३७ ।।
तत्कायंत =तम्य कारणस्प पाते कार्य महत्तत्वादिकम् । तस्मात्त-
सिद्ध तस्य कारणस्य मतेरनुमित पलाप न तदपर्व सभवती-
त्यर्थ ॥ १३७ ॥
नन्वेव जगत कारण प्रकृति साध्यताम् । तत्काय्यापलब्धे । पुरुषसा-
धनन्तु कथ स्यात् । तत्राह-
"सामान्येन विवादाभावाद्धर्मवन्न साधनम्" ॥१३८॥
विशेपन पुरपे विवादेऽपि सामान्येन सामान्यतो विवादाभावान साधन
तस्य प्रकृतिवत्साधन नापेक्षित । धर्मवत् यथा धम विशेषनो विवादेऽपि
सामान्यतो विवादाभावात्तत्साधनानपेक्षेत्यर्थ ॥ १३८ ॥
नतु सामान्यत सिद्धेऽपि पुरुषे शरीरादिमकृत्यन्तेषु तत्त्वेषु कोसा
पुस्प किम्वरूपश्चेति निनासा न निवर्तते विशेषतो निरूपणाभावादित्याशस्य
तस्य विशेषतो निरूपणार्थ पूर्व तामच्छरीरादिव्यतिरिक्तख मतिनानीते ।
शरीरादिव्यतिरिक्तः पुमान्" ॥ १३९ ॥
आदिशब्द महत्यन्ततत्वमात्रपर । शरीरादिव्यतिरिक्त शरीरादिभ्यो
भिन पुमान्-पुरुष इत्यर्थ ॥ १३९ ।।
प्रतिनाया हेतुमाह--
सहतपरार्थत्वात् " ॥ १४०॥

(४६) सांख्यदर्शनसूत्रवृत्तौ। 'सहेतपरार्थत्वात्पुरुषस्य ' इति पूर्वमुक्तोऽपि हेतुः प्रसंगादिह पुनरुक्त इत्यदोषः । हेतुवर्गसंकलनार्थ पुनरुक्तिरिति भाप्यम् । शरी- रादि प्रकृत्यन्तं संहतम् । तत्साध्यो भोगापवर्गों परार्थों । तच्छालित्वा- दित्यर्थः ॥ १४० ॥ द्वितीयहेतुमाह- त्रिगुणादिविपर्ययात्॥१४१ ।। आदिपद्मचेतनत्वादिसंग्रहार्थम् । मकृतितत्कार्य त्रिगुणमचेतमविवेकि ! तटैपरीत्यादित्यर्थः ॥ १४१ ॥ तृतीयहेतुमाह- " अधिष्ठानाच्चति" ॥ १४२॥ पुरुषातिरिक्तत्वसाधकहेतुपरिसमाप्तिपरमितिपदम् । अधिष्ठातृत्वाच्चेत्यर्थः। यथा रथस्याधिष्ठाता पुरुषस्तयतिरिक्तः । तथा शरीराद्यधिष्ठाता पुरुषोऽपि तदधिष्ठेयेभ्यः शरीरादिप्रकृत्यन्तेभ्यस्तत्त्वेभ्यो व्यतिरित्तो मनसि घर्त्तव्यः । जडस्याधिष्ठातृत्वायोगादिति भावः । इदमत्र बोध्यम् । यद्यपीश्वरःप्रकृतराधिष्टाता। नजीवः । तथापि तस्य तदधिष्ठातृत्वोक्तिीक्तृत्वाददृष्टाभिमायेण वा । बुद्धिसत्त्वाधिष्टातृत्वात्कार्यका- रणयोरभेदाभिमायण वा द्रष्टव्या। तेन न कश्चिद्दोष इति ॥ १४२ ॥ ननु हेतुरस्तु । मास्तु साध्यमित्याशंस्य दाभ्यामनुकूलं तर्कमाह- "भोत्कृभावात् " ॥ १४३ शरीरादिव्यतिरिक्तःपुमानित्यनुवर्तते । पुमान् शरीरादिव्यतिरिक्तो भोक्तृत्वादित्यर्थः । चेच्छरीरादिव्यतिरिक्तो न भवेत् । किन्तु । तदन्यतम एव स्यात्, तदा भोक्तापि न स्यात् । अत एव चेतनोऽपि न स्यात् । शरीरादेनंडत्वेन भोकृत्वासंभवादिति भावः । १सारय अ० १ सूत्र ६६ । 4 प्रथमोऽध्यायः। (४७) एतेन साध्याभावे प्रथमद्वितीयहेतू अपि न स्यातामित्यनिष्टमापादितं वेदितव्यम् ॥ १४३ ॥ द्वितीयं तर्कमाह- "कैवल्यार्थ प्रवृत्तेश्व" ॥ १४ ॥ अधिष्ठानाभावः कैवल्य-मोक्ष इति यावत् । तदर्थ मवर्तनाच्चेत्यर्थः । चेत्पुमान् शरीरादिव्यतिरिनो न भवेत् । किन्तु तदन्यतम एव स्याद । तदा कैवल्यार्थ न प्रवर्तेत । चतनस्यैवाधिष्ठान कुर्वतः परिश्रान्त- चित्तस्य केवलीभावाय प्रवृत्तिदर्शनात । शरीरादेश्च तदयोगेन कैवत्यास- भवादिति भावः। एतेन साध्याभावे तृतीयहनुरपि न म्यादित्यनिष्टमापादित द्रष्ट- व्यम् ॥ १४४ ॥ ननु तथापि विस्वरूप पुरुषस्तत्राह- " जडप्रकाशायोगात्प्रकाशः" ॥ १४५ ॥ शरीरादिव्यतिरिनः पुमानिति सम्बध्यते । स च प्रकाश' अमाकृत- प्रकाशात्मक' ज्ञानस्वरूप इति यावत् । कुत.? जइप्रकाशायोगात्माकृत प्रकाशो जडप्रकाश । तस्यात्मवायोगादित्यर्थः । एतेन बुद्धिसत्त्वमात्मेति मत निराकृत वेदितव्यम् ॥ १४५ ॥ ननु प्रकाशम्वरूपत्वेऽपि तेजोवद्धर्मधर्मिभाव किन्न स्यात्, तबाह- निर्गुणत्वान्न चिद्धर्मा" ॥ १४६ ॥ निर्गुणत्वात=गुणानाश्रयत्वान चिद्धर्माजनानधर्मा पुमानित्यर्थ १४६॥ नन्बहमुपलभे जानाम्यहमिति धर्मधर्मिभावस्य प्रत्यक्षत्वाचिद्धर्मा पुमान् किन भवेत्, तत्राह- "श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षवाधात् ॥१४॥ श्रुत्या='असगोह्ययं पुरुषः' इत्यादि श्रुत्या सिद्धस्य-सिद्धि १० अ० ६ मा० ३ ० १५ ।

(४८) सांख्यदर्शनमूत्रवृत्तौ । गतस्य निर्गुणत्वस्य नापलाप.=नापदवः संभवति । तत्सत्यक्षबाधात्= तत्मत्यक्षस्य गौरोहमिति प्रत्यक्षबच्छुत्यैव वाधनादित्यर्थः ॥ १४७ ॥ ननु युक्तिपधानमेतच्छात्रं न श्रुतिप्रधानम् । तेन पुरुषस्य मकाशरूप- त्वाभावे को दोषः तत्राह- "सुपुत्याद्यसाक्षित्वम्" ॥ १४८॥ आदिपदार्थः स्वमः । प्रकाशरूपत्वाभावे पुरुषस्य सुरस्यादिसाक्षिलं- नस्यादित्यर्थः ॥ १४८॥ तदेवं पुरुषस्य प्रकाशरूपत्वमुपपाद्य वहुत्वमुपपादयति । "जन्मादिव्यवस्थातः पुरुपब हुत्वम्" ॥ १४९ ।। जन्मादिव्यवस्थातः कश्चिन्नातः कश्चिन्मृतः कश्चिद्धद्धः कश्चिन्मुक्त इत्या- दिव्यवस्थाऽन्यथानुपपत्तितः पुरुषबहुत्वं नानापुरुष इत्यर्थः ॥ १४९॥ ननु पुरुपत्येऽप्युपाधिभेदान्नन्मादिव्यवस्था संभवति । तत्राह- " उपाधिभेदेऽप्यकस्य नानांयोग आकाशस्येव घटादिभिः ॥ १५०॥ आकाशस्येव घयादेभिः यौकस्यैवाकाशस्य नानोपाधिभूतादिभियो- गस्तथरुस्यैव पुरुषस्य नानायोगः नानाभूतैरुपाधिभिः संस्-धो वनान्यः । तथा चोपाधिभेदेऽपि तत्तदुपाधिनानात्वेऽप्युपधेयभेदाभावान जन्मादिव्यव- स्था संभव इत्यर्थः ॥ १५० ॥ ननु स्वतचैतन्यस्यैश्येऽपि तत्तदुपाधिविशिष्टस्य तस्य भेदाद्यवस्था- सेत्स्यति तत्राह- "उपाधिभिद्यते न तु तद्वान् ॥ १५१ ॥ तत्राप्युपाधिर्भिद्यते-उपाधिरैव नाना । नतु तद्वान् नैवोपाधिमान् विशिष्ट इत्यर्थः। विशिष्टस्य वस्तुतो भेदाभ्युपगमे तु नानात्मवाद एवाभ्युरगतः स्यादिति भावः ॥ १५१ ॥ .

प्रथमोऽध्यायः। किञ्च । "एवमेकत्वेन परिवर्तमानस्यन विरुद्ध- धर्माध्यासः"॥१५२॥ अपिरनुवर्तते । एवं यथा जन्मादिव्यवस्थाऽनुपपत्तिरेवमेकत्वेन सर्वोपाधिष्वेकरूपत्वेन परिवर्तमानस्य-सर्वतो विद्यमानस्य पुरुषस्य युगप- विरुद्धधर्माध्यासोऽपि-विरुद्धानां सुखदुःखादिधर्माणां सुख्यहं दुःख्या- मित्यादिरूपसम्बन्धोऽपि न-नोपपद्यत इत्यर्थः ॥ १५२ ॥ ननु सुखदुःखादयोऽपि तत्तदुपाधिधर्मा एवाभ्युपगम्यन्ते । तेन तेषां पुरुष समारोपादेककालावच्छेदेनापि व्यवस्था सेत्स्यति, तबाह- "अन्यधर्मत्वेऽपि नारोपात तत्सिद्धिरेकत्वात् ॥१५३।। अन्यधर्मत्वेऽपि सुखदुःखादीनां तत्तदुपाधिधर्मत्वेऽप्यारोपात्-पुरुषे समारोपात्तसिद्धिः-सुखदुःखादिव्यवस्थासिद्धिर्न-न संभवति । कुतः ? एकत्वात् आरोपाधिष्टानस्य पुरुषस्यैकत्वादित्यर्थः ॥ १५३ ॥ नन्वेवं तर्हि पुरुषनानात्वेऽद्वतश्रुतिविरोधस्तत्राह- "नाद्वैतश्रुतिविरोधो जातिपरत्वात् " ॥ १५४ ॥ नाद्वतश्रुतिविरोध: नानात्मवादिनामस्माकमात्मैक्यप्रतिपादिकाभिः श्रु- तिभिर्विरोधो न । कुतः ? जातिपरत्वाद-तासां चित्त्वेन पुरुषकरूपत्वपति- पादनपरत्वादित्यर्थः ॥ १५४ ॥ ननु यथा पुरुपेकत्वं तन्नानात्वप्रत्यक्षेण विरोधात्परित्यज्यते,तथा पुरुषै- करूपत्वमपि तनानारूपत्वमत्यक्षेण विरोधात् परित्यक्तव्यम्, तत्राह- 'विदितबन्धकारणस्य दृष्टयाऽत्तद्रूपम् " ॥ १५५ ॥ विदितबन्धकारणस्य-विदितं-लब्धवृत्तिकं बन्धकारणं अविवेकलक्षणे मिय्याज्ञानं यस्य, तस्याशपुरुषस्य दृष्टयाऽतद्रूपं श्रुतिमतिपादितं चित्त्वेन पुरुश्यक नेत्यर्थः।

(५०) सौख्यदर्शनस्यगृत्ती। सातरम्पारणम्य इमा नपतिनादिनं मित्पनि. ननु पुगरम्पलं पा सापलभ्येत । नोटभ्यते । नमामागंच, तमाद- 'नान्यदृष्टया पाप्मतामनुपलंमः ॥ १५६ ।। अन्धाअन्धानांगूिन्यानां जानुपरभापिन पशुप्म- तांविरुधुपामाप्यांगा दाऽनुपरंभः पुकापरलानुपरमात्पर्यः। तथा प नॉटनश्रुतिरिगए इनि भारः ॥ १५६ ॥ किन । "यामदेवादिमुक्तो नाद्वतम् " ॥ १७ ॥ आदिना भरनादेः मंग्रहः । नामदेवादिको नातः । ततिरिना बदनी- यामायाप्युपलभ्यन्ते । तस्मागदिननारमारसमित्यः । चेदेफ एपारमा भोत, तदा गामदयादिमुनी गईमुगरिदानी बनाको नपभिपरभ्यन । विगने नारदुपटम्भानग्मागटितमिनि भावः॥१५७॥ ननु वामपादरपि न मुनिनांना, तमाह- "अनादायध यायदभावाद्भषिपदप्येयम्" ॥ १८॥ अनादी अनादिकालफेसंसारेऽद्यपान-=अयार्पन्तमभावाद-मुनेरना- पमानवाद भविष्यदपि भविप्पकालो संसारेऽप्येवं-न फस्य निन्मु. निभविष्यतीत्ययः ॥ १५८ ॥ ननु नानात्मवादेऽपि मुनेरवश्यंभावात् कमेण सर्वमुनी संसारस्यात्य- न्तोछेदः प्रसन्यते, "इदानीमिव सर्वत्र नात्यन्तोच्छेदः" ।। १५९ ।। इदानीमिवम्यषेदानीमीश्वरनियमाद फेचिन्मुक्ताः केचिददा वर्तन्ते, तमाह- प्रथमोऽध्यायः तया सर्वत्र भूतभविष्यतोरपि कालयोरवर्तन्त । वस्यन्ते च । तस्मान्नात्य- न्तोच्छेदा संसारस्यात्योच्छदोन कदापि शंकनीय इत्यर्थः ॥ १५९ ॥ ननु प्रकृतिपुरुषव्यतिरिक्तः कोऽयमीश्वरः । यस्य नियमवशासंसारच सततमनुवर्तते, तवाह- व्यावृत्तोभयरूप" ॥१६०॥ व्यावृत्तंभित्रं-विलक्षणमितियावदुभयस्मात् भकृतेः पुरुषाच्च रूपं सरूपं यम्य, स तथा नित्य क्लेशकर्मविपाकाशयरपरामृष्टःपुरुषविशेष इत्यर्थः ॥१६०॥ ननु प्रकृतिविलक्षणत्वेऽपि पुरुषविलक्षणत्वमस्य कथमनुनानीम: ? तमाह- साक्षात्संबन्धात्साक्षित्वम्" ॥ १६१ ॥ यत इति शेषः । यस्मात् साक्षात्सबन्धात्मकृतेः पुरुषाणाश्वेश्वरा- स्मीयतया तादात्म्यलक्षणः संबन्धः साक्षात्सम्बन्धः । स्वस्वामिभावलक्षणः शरीरशरीरिभावलक्षणः संबन्धोऽप्ययमव परिभाष्यते । तस्मादस्य भगवतो जगदधिपतेः साक्षित्वं-विश्वसाक्षित्व-साक्षात्सर्वदष्ट्रत्वमित्यर्थः । तथा चाह भगवान् मन्त्रः ऋ०अष्ट०२अ०३ वर्ग १७२०॥ द्वा, सुपर्णा, सयुजा, सखाया, समानं वृक्ष परि- षस्वजाते । तयो रन्यः पिपलं स्वाद्वत्त्यन- श्रन्नन्यो अभिचाकशीति ॥ इति॥ पुरुषस्तावदात्मोपाधिभूतबुद्धिसत्त्वस्य तदर्माणाञ्च केषाश्चित्साक्षी भवनपि न विश्वस्य साक्षी । तेन तद्रिलक्षणः श्रीपतिरीश्वर इति भावः ॥ १६१॥ अन्यं विशेषमाह- " नित्यमुक्तत्वम्" ॥ १६२ ।। यत इति शेषः । यस्मादस्य भगवतो नित्यमुत्तत्व-नित्यं मुक्तिभारल्- मित्यर्थः

.
(५२) सांख्यदर्शनमूत्रवृत्ती।
पुरुषस्य बन्धकोटिरुपावर्तते, भगवतो जगदीभरस्य तु न साऽभून
भवति न भविष्यतीति महदेलक्षण्यमिति भावः ॥ १६२ ।।
ननु कस्मादस्य नित्यमुक्तत्वमभ्युपेयते ? तवाह-
"औदासीन्यश्चेति ॥ १६३ ॥
इति हेलमें । पर्याप्तकामत्वादिधर्मान्तरसमुच्चयामः । यम्मादस्य
नगदधिपतरोदासीन्यं नित्यं माध्यस्यं पक्षपातराहित्यमित्यर्थः ॥१६६॥
नवीदृशभेदीभरस्ताह श्रृयमाणं जगत्कर्तृत्वं तस्य कथमुपपयेत,
कथश्च तदा की मतिरिति सांस्यडिण्डिमोऽपि सङ्गच्छेत ? तमाह-
"उपरागात्कर्तृत्वं चित्सान्निध्यात,
चित्सानिध्यात्" ॥ १६४ ॥
अध्यायपरिसमातिसूचनार्या वीप्सा । यथायोग्यमन्वयः । उपरागाव=
मकृतिसविधानादस्य कर्तृत्व-प्रयोगकर्तृत्वम् । मकृते चित्सानिध्यार
ईश्वरश्चित् । तत्सनिधानान्मुस्यं फर्नीत्वमित्यर्थः ।
तत्र मयोमककर्तृत्वं निमित्तत्वम् । मुख्यकर्तृत्वमुपादानत्वमिति विवरः १६४
अथात्यन्तपुरुषार्यों बन्धोऽनुमकृतिस्तथा ॥
सविस्तरं पुमानीशः प्रथमेऽस्मिनिरूपितः ॥ १॥
इति श्रीमत्परमहंसपरिव्राजकाचाय्यांदासीनवर्या-
त्मारामभगवत्पादशिप्यहरिप्रसादकृतायांसांख्य-
सूत्रवृत्ती प्रथमो विषयाध्यायः ॥१॥

द्वितीयोऽध्यायः। , अथ द्वितीयोऽध्यायः। ननु प्रकृतेः भयोजनाभावान्मुख्यं जगतः कर्तीत्वं न संभवति, तबाह- "विमुक्तमोक्षार्थ स्वार्थ वा प्रधानस्य ॥ १॥ कर्तृत्वमिति मथमाऽध्यायशेषसूत्रादनुवर्तते । विमुक्तमोक्षार्थ-विवेकेन मुक्तो विमुक्ता-पुरुषः, तस्य मोक्षार्थ-मुक्त्यै स्वार्थ वा-भोगापवर्गपदातृत्व- लक्षणस्वाधिकारसमात्य वा प्रधानस्य प्रकृतेः कर्तृत्व-नगत्तष्ट्रीत्वमित्यर्थः । यद्यपि मोक्षवदोगोऽपि सृष्टेः प्रयोजनं, तथापि प्रधानत्वान्मोक्ष एव सृत्रित इति ध्येयम् ॥ १॥ ननु विमुक्तमोक्षार्थश्वेत्मकृतेः स्रष्ट्रीत्वं, तर्हि सकृत्सृष्टयैव मोक्षसंभवे कृतमसकृत्सृष्ट्या, तत्राह- "विरक्तस्य तत्सिद्धेः॥२॥ विरनास्य-विवेकपत्ययोत्पत्रपरवैराग्यस्य तसिद्धः मोक्षोत्पत्तेर्न सक- स्मृष्टया निर्वाह इत्यर्थः ॥ २ ॥ ननु सकृत्सृष्टथैव श्रवणमात्राद्वैराग्य सेत्स्यति, तबाह- न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया बलवत्त्वात् "॥३॥ अनादिवासनायाः वैराग्यमतिबन्धकीभूताया अनादिसंसारवासनाया बल- वत्त्वात्मवलत्वान श्रवणमात्रात-बहुजन्मकृतपुण्यसञ्चयलभ्यात्सत्त्वपुरुषा- न्यताश्रवणमात्रात्तसिद्धिः तस्य वैराग्यस्य सिद्धिरित्यर्थः ॥ ३ ॥ असकृत्सृष्टौ युक्त्यन्तरमाह- बहुभृत्यवद्वा प्रत्येकम् ॥४॥ वा अथवा प्रत्येकं बहुभृत्यवत्-यथैकैकं सद्गृहस्थं प्रति स्त्रीपुत्रादिभेदेन चहवो भृत्याः-भर्तव्याः सन्ति, तथा प्रकृतेराप बहवः पुरुषा विमोचनीयाः सन्तीत्यर्थः ।

(५४) सांख्यदर्शनसूनवृत्ती। तथा च सकृत्सृष्टया कियत्पुरुषमोक्षेऽपि पुरुषान्तरमोक्षार्य पुनः पुनः सृष्टिरिति भावः ॥ ४॥ ननु "तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यादिना परमेश्वरस्यापि सहत्वश्रवणात्कथं प्रकृतिरेव स्रष्टी, तबाह- "प्रकृतिवास्तषे च पुरुपस्याध्याससिद्धिः ॥५॥ चोऽप्यर्थः पुरुषस्याये योग्यः । प्रकृतिवास्तवे प्रकृतेर्मुश्ये राष्ट्रीवें सिद्ध पुरुषस्य च-पुरुषेवरस्याप्यध्याससिद्धिः अध्यासः मकृत्युपरागस्त- स्मात् स्रष्टत्वसिद्धिरस्तीत्यर्थः। तेन युक्ता श्रुतिवागिति भावः ॥५॥ ननु प्रकृतमुख्यं स्रष्ट्रीवमेवासिद्धं, तबाह- "कार्यतस्तत्सिद्धः" ॥६॥ कार्यतः महदादिभूतान्तकार्येतो लिङ्गात् तत्सिद्दे:-मुख्यमष्ट्रीत्वस्य तस्पसिद्धरित्यर्थः ॥ ६ ॥ ननु मकृतेर्मुख्य स्रष्ट्रीत्वे सिद्धे तत्मवृत्तिनिवृत्तिनियमो नस्याव, तबाह- "चेतनोदेशानियमः कण्टकमोक्षवत् ॥७॥ चेतनोद्देशात्-नगदधिपतिरीश्वरोऽत्र चेतनः 'चेतनश्वेतेनानाम्' इति श्रुतेस्तस्योद्देशः अभिलापस्तस्मानियमः स्वार्थ परार्थ वा प्रकृतिमय- त्तिनिवृत्तिनियमः, कण्टकमोक्षवत्-सूच्यग्रभागः कण्टकस्तस्य यथा राना भिलापाददण्डयेषु मोक्षस्य, दण्डयेषु च प्रयोगस्य, नियम इत्यर्थः ॥७॥ ननु यस्याभिलापमात्रात्मकृतेः प्रवृत्तिनिवृत्तिनियमस्तस्य साक्षात्स्रष्टत्वं किं न स्यात, किमन्ययोगकल्पनया ? तबाह- "अन्ययोगेऽपि तत्सिद्धिर्नानस्येनायोदाहवत्" ॥८॥ अपिरवधारणे । अन्ययोगेऽपि प्रकृतियोगे सत्येव तत्सिद्धिः पुरुपेश्वर- स्प स्रष्टत्वसिद्धिर्भवति नाअस्येन-न साक्षात् । अयोदाहवत्-अयसो दाहक- खवादित्यर्थः। १० ब्रह्मानं० व० अनु०१ ।

द्वितीयोऽध्यायः। प्रकृतियोगाभाव कस्पेश्वरः स्यात् ? जीवानामिति चेत्, तदागतस्तदो- गापवर्गप्रदान्याः प्रकृतेरपि सनातनो योग इति भावः ॥ ८ ॥ ननु केयं सृष्टिर्नाम ? तबाह- "रागविरागयोर्योगः सृष्टिः"॥९॥ रागविरागयो. रञ्जनात्मकत्वादागः प्रकृतिः, नित्यमुदासीनत्वाद् विगत रागो जगदीश्वरः । तयोर्योगः-संबन्धः सृष्टिः सृष्टिहेतुत्वात्सृष्टिरित्यर्थः । योगः सनातन इत्यसकृदुक्तं तेन सृष्टिरपि सनातनीति बोध्यम् । रागविरागयोरिति निमित्तसप्तमी, सांसारिकविषयेषु स्नेहो रागस्तद- भावो विरागः । तत्र रागनिमित्ता सृष्टिविरागनिमित्तो योगः-मोक्ष इति भाष्यकृतः॥ ९॥ ननु सा केन क्रमेण भवति ? तत्राह- महदादि क्रमेण पञ्चभूतानाम् ॥ १०॥ सृष्टिरित्यनुवर्तते । महदादिक्रमेण अकृतर्महान् महतोऽहङ्कारोड हङ्कारात्पश्चतन्मात्राणि पश्चतन्मात्रेभ्यः पञ्चभूतानीतिमहदादिकमेण पञ्च- भूतानां क्षितिनलज्योतिरनिलविहायसां सृष्टिरित्यर्थः । यद्यप्येतस्मादात्मन आकाशः सभूत इत्यादिश्रुतावादावेव पञ्चभू- तानां सृष्टिः श्रूयते, तथापि महदादिकमेणैव तत्सृष्टिारिष्टेति भाष्यम्॥१०॥ ननु प्रकृतिसृष्टितो महदादिसृष्टौ को विशेषः ? तत्राह- "आत्मार्थत्वात्सृप्टेनैषामात्मार्थ आरम्भः॥ ११ ॥ सृष्टेः-महदादिसृष्टेरात्मार्थत्वात् आत्मा पुरुषस्तदर्थत्वानेषां महदादी- नामात्मार्थ:-प्रकृतिवत्स्वार्थ आरम्भा सृष्टिरित्यर्थः । प्रकृतिक का सृष्टिः परार्था स्वार्था च । महादादिकर्तृका तु केवलं परार्थवेति विशेषः ॥ ११॥ ननु सर्वव्यवहारसिद्धी दिकाली कुतो न गणिती, तबाह-- "दिकालावाकाशादिभ्यः" ॥ १२ ॥ आदिपदेनोपाधीनां सङ्ग्रहः । तेनाकाशस्यैकत्वेऽप्युपाधिसंबन्धाद (५८) सांख्यदर्शनसूत्रवृत्ती। नन्विन्द्रियाणामाहङ्कारिकत्वं नोपपद्यते अनिवागप्येति । वातं प्राणश्चक्षुरादित्यम्' इत्यादिश्रुत्या तेपामन्यादिषु भूतेषु लयश्रवणात कारणे हि कार्य्यस्य लयो भवति, तवाह- "देवतालयश्रुतिरिम्भकस्य" ॥ २१ ॥ देवतालयश्रुतिः=देवतासु-दिव्यगुणकेप्वन्यादिप्विन्द्रियाणां लयमतिपा- दिका श्रुति रम्भकस्य आरम्भककारणस्यावेदिका भवितुमर्हति । कुतः? अनारम्भकेऽपि भूतले जलबिन्दोरकार्य्यस्य लयदर्शनादित्यर्थः ॥ २१ ॥ नन्ववन्तर्हि तानि नित्यानि सन्तु, तत्राह- "तदुत्पत्तिश्रुतेविनाशदर्शनाच" ॥ २२ ॥ इन्द्रियाणीति प्रकरणलाभः । नेति पूर्वसूत्रादनुवर्तते । नित्यानीति शेपः। तदुत्पत्तिश्रुतेः 'एतस्माजायते प्राणी मनः सर्वेन्द्रियाणि च' इति तेषामुत्पत्तिश्रुतेरुत्पन्नानां विनाशदर्शनाच न तानि नित्यानीन्द्रियाणी- त्यर्थः ॥ २२ ॥ नन्वत एव गोलकमात्राणि तानि, नतु तद्यतिरिक्तानि, तत्राह- "अतीन्द्रियमिन्द्रियं धान्तानामधिष्ठानम्" ॥ २३ ॥ इन्द्रियं चक्षुरादीन्द्रियमतीन्द्रियम् इन्द्रियनन्यज्ञानागम्यमाभ्रान्तानां= भ्रान्तिमापनानां बौद्धानां लधिष्ठान-तदधिष्ठानं गोलकमेवेन्द्रियमि- त्यर्थः ॥ २३ ॥ ननु गोलकातिरिक्तं चेदिन्द्रियं, तकमेव शक्तिभेदात् तत्तगोलकस्थं सन्नानाकार्य करिष्यति, किं नानाभ्युपगमेन? तबाह- "शक्तिभेदेऽपि भेदसिद्धौ नैकत्वम्" ॥२४॥ शक्तिभेदेऽपि-शनीनां भेदाभ्युपगमेऽपि भेदसिद्धौ इन्द्रियभेदसिद्धी सत्यां नैकत्वं नेन्द्रियस्यैकत्वमभ्युपगन्तुं शक्यमित्यर्थः । शक्तिभेदेन शक्याश्रयभेदस्य कल्पनादितिभावः ॥ २४ ॥ १ वृहद-अ०५-२० २१ २ ० २-० १३।

द्वितीयोऽध्यायः। (५९) ननु शक्तिभेदेन भेदकल्पनायां विरोधः प्रसज्येत । शक्तिभेदेऽपि ते- जोभेदादर्शनाव, तत्राह- "न कल्पनाविरोधः प्रमाणदृष्टस्य" ॥२५॥ कल्पनाविरोधः-इन्द्रियभेदकल्पनायां विरोधो न-न प्रसज्यते । कुतः? प्रमाणदृष्टस्य-प्रमाणेन दृष्टस्य भेदस्य कल्पनादित्यर्थः । तेजसि तु न ममाणेन दृष्टो भेद इति भावः ॥ २५ ॥ तत्र मनसि विशेषमाह- "उभयात्मकं मनः" ॥२६॥ उभयात्मकं ज्ञानकर्मेन्द्रियात्मकं मना-मन इन्द्रियमित्यर्थः ॥२६॥ नन्वेकस्याहंकारस्य भूतेन्द्रियात्मकं कार्य्यनानात्वं कुतो जातं? तबाह- "गुणपरिणामभेदानानात्वमवस्थावत्" ।। २७ ।। गुणपरिणामभेदात्-गुणानां सत्वरजस्तमसामुद्भवाभिभवलक्षणपरिणाम विशेषानानात्वम्-एकस्याप्यहंकारस्य कार्य्यनानात्वम् तत्रोदाहरणमवस्थाव- त् । यकस्यापि देहस्य गुणपरिणामभेदावस्थानानात्वमित्यर्थः ।। २७ ।। संप्रति ज्ञानकन्द्रिययारेसाधारणी वृत्तिं दर्शयितुं तद्विषयमाह- "रूपादिरसमलान्त उभयोः ॥२८॥ रूपमादी रसमलः अवरसमलः पुरीपादिरन्ते यस्य स तथाभृतो विषय भयोः ज्ञानेन्द्रियकर्मेन्द्रिययोरित्यर्थः । दर्शनायात्मिका दयोरसाधारणी वृत्तिरिति भावः । तत्र रूपरसगन्धस्पर्शशब्दा ज्ञानेन्द्रियविषयाः। वचनविहरणादानानन्द- मलाः कर्मेन्द्रियविषया इति विवेकः ॥ २८ ॥ ननु मकाशकत्वादिन्द्रियाणामेव इष्टत्वादिकमस्तु, कृतं तदतिरिक्तपुर- पाभ्युपगमेन, तबाह "द्रकृत्वादिरात्मनः करणत्वमिन्द्रियाणाम् ॥ २९ ॥ द्रष्टत्वादिः द्रष्टुत्वादिकं वक्तृत्वादिकश्चात्मनः-पुरुषस्यैव, केवलं दर्श- नादिवृत्ती करणत्वं-साधनत्वमिन्द्रियाणां चक्षुरादीन्दियाणामित्यर्थः ।

(६०) सांख्यदर्शनमूत्रवृत्ती। तथैव संकल्पयितृत्वादिकमित्यपि द्रष्टव्यम् ॥ २९ ॥ अन्तःकरणत्रयस्यासाधारणी वृत्तिमाह- "बयाणांस्वालक्षण्यम् "॥३०॥ त्रयाणां महदहंफारमनसां स्वालक्षण्यं महतोऽघ्यवसायोऽहंकारस्या- भिमानो मनसः संकल्प इति स्वस्वंलक्षणमेवासाधारणीकृत्तिपा तानि स्वल- क्षणानि तेषां भावस्तत्त्वं-स्वलदाणासाधारणवृत्तिकत्वमित्यर्थः ॥ ३० ॥ बाह्याभ्यन्तरकरणानामसाधारणी वृत्तिमुस्त्वा साधारणी वृत्तिमाह- "सामान्यकरणवृत्तिःप्राणाद्या वायवः पञ्च" ॥ ३१ ॥ सामान्यकरणवृतिः सामान्यामाधारणी चासो करणवृत्तिः समस्तकरण- वृत्तिः माणाद्याःमाण आदिभवो येषां ते तथा माणापानसमानोदानव्यान- नामानो वायवः वायुवत्सश्चरणशीलाः पञ्च-पञ्चसंख्याका इत्यर्थः । वायुवत्सश्चरणशीलाःमाणाद्या पश्च साधारणी समस्तारणवृत्तिरिति भावः। तथा चोक्तं योगभाप्यकृदिरप्येकोनचत्वारिंशसूत्रे विभूतिपादस्थे भाष्ये- "समतोन्द्रयवृत्तिः प्राणादिलक्षणा इति।" यत्तु योगभाप्यटिप्पण्याम् 'अत्र समस्तेन्द्रियशब्देनाऽन्तःकरणत्रयमेव गृह्यते,नतु वाह्येन्द्रियाण्यपि । सुपुनो चक्षुराद्यपगमेऽपि माणव्यापारदर्शनात् । अत एव कपिलाचायरीश्वरकृष्णेशान्तःकरणप्रस्तावे'त्रयाणां स्वालक्ष- ण्यम्' इत्यनेनासाधारणीरध्यवसायादिवृत्तीयथायथमुक्त्वा 'सामान्यक- रणवृत्तिःप्राणाद्या वायवःपञ्च'इत्यभिहितम्, इति मलपति वालरा- मोदासीनः। तन्नितान्तामङ्गलम् । पूर्वोत्तरानुसन्धानाभावावानहि कपिलाचा- य्यरीश्वरकृष्णैश्वान्तःकरणमस्तावे 'त्रयाणां स्वालक्षण्यम् इत्यनेनासा. धारणीरध्यवसायादिवृत्तीरुत्तवा 'सामान्यकरणवृत्तिः माणाद्या वायवः पञ्चे- त्यभिहितम, येन बालोक्तिःकथञ्चित्मामाणिकी भवेत् । किन्तु करणमात्रमस्ता- वे पूर्वज्ञानकर्मेन्द्रियाणामसाधारणीरालोचनादिवृत्तीरन्तःकरणत्रयस्यचासा- द्वितीयोऽध्यायः। धारणीरध्यवसायादिवृत्तीरभिधाय पथात-'सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च' इत्यभिहितम् । अत एव च वाचस्पतिमिरैः 'द्वयीन्द्रियाणां वृत्तिर्वाह्याभ्यन्तरीच।बाह्या रूपाद्यालो- चनलक्षणा, आभ्यन्तरी तु जीवनम् । स हि प्रयत्नभेद: शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणो यथाचाहुः कापिलाः इति ससाक्षिकं व्याग्व्याताचेदत्र समस्तेन्द्रियश- ब्देनान्तःकरणत्रयस्य ग्रहणं युक्तममंस्यताकथं नाचार्यो व्याव्याग्यताकथश्च मत्युत सर्वकरणसाधारण इति व्यारेत्, कथञ्च तत्र कापिलानां साक्ष्यमुदा- हरेव, नचाचार्या अपि वञ्चका भवन्ति । येनान्यथा ग्राहयेयारिति स्वयमेवो- ह्यम् । किश्च समस्तन्द्रियशब्देनान्तःकरणत्रयस्य ग्रहणे जिज्ञासापि न निव- तते, किन्त्ववशिष्यते । कस्मादाचाय्यॆाह्याभ्यन्तरेन्द्रियाणामसाधारणी- .रालोचनादिवृत्तीरभिधाय पश्चादन्तःकरणत्रयस्यैव साधारणी वृतिरभिहिता न बाह्येन्द्रियदशकस्येति । तन्निवृत्तेश्वावश्यकत्वात्कोऽन्यस्तदुपायः स्याद वालकस्येति नावाच्योऽसौ महन्दिः। किञ्च 'सुपुप्तो चक्षुराद्यपगमेऽपि माणव्यापारदर्शनादित्युपपत्तिरपि बालस्वामिनस्तस्यानुपपत्तिसमैत्र । नहि सुषुप्ताविन्द्रियाणामपगमः कस्यापीष्टतमः । किन्तु तदुपरमः । तस्य च ज्ञान- कर्मलक्षणवृत्त्युपरमेणाप्युपपत्तिः सुसाध्वीति न किञ्चिदवद्यमस्ति । तथा चा- य॑मर्यादामतिकम्य सर्वथा विरुद्धमलापेन वार्तिककार मृपाभिपीडयन् बालोऽसौ कथं नार्यसंसदि गलहस्तितो भवेदिति स एव मष्टव्यो निखिल- शास्त्रनिष्णातंमन्यो बालिशो बाल इत्यलमिह विस्तरेण । तस्य सांख्यतत्त्वको मुदीटीकायां चित्तप्रसादिन्यां दर्शितत्वात् ॥ ३१ ॥ बाह्याभ्यन्तरभेदेन त्रयोदशविधं करणम् । साधारणासाधारणभेदेन तवृत्तिदैविध्यश्च प्रदर्शितम् । इदानीं तदसाधारणीषु वृत्तिषु कमाफमौ प्रदर्शयति।

(६२) सांख्यदर्शनमूत्रवृत्तौ। "क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः ॥ ३२ ॥ प्रमशः कस्मिंश्चिदिपये पुतभिनिमित्तात् कमेण, फरिमभित्र पुन भिनिमितादकमशन भन्तरेणापियमं-युगपदितियावदिन्द्रियत्तिः-ना. रादिबुद्धपन्तानामिन्द्रियाणां मृत्तिः दर्शनसहपाभिमानाध्यवसायरक्षणा किया भवतीत्यर्थः ॥ ३२॥ नन्विन्द्रियलक्षणदारभेदेन भिन्ना अपि युधितृत्तयो यस्तुतः फतिधा- सन्ति ? तत्राह- "वृत्तयः पञ्चतय्यः क्लिप्टाक्लिष्टाः ॥ ३३ ॥ वृत्तयः बुद्धिसत्त्ववृत्तयः पयतप्या प्रमाणविपर्ययविरुत्पनिद्रास्मृतिभे- दान पश्च मकारा भवन्ति । तत्र यास्तावदानस्यास्तामस्या ताः पिष्टाः । याः पुनः सालिरयस्ता अशिष्टा इत्यर्थः ॥ ३३ ॥ ननु वृत्तिनिवृत्तो सत्यामसत्यां च कीदृशः पुमान् ? तबाह- "तनिवृत्तावुपशान्तीपरागःस्वस्थः" ॥ ३४ ॥ तनिवृत्ती तासां वृत्तीनां विरामदशायामुपशान्तापरागः निवृत्ततत्संबन्धः पुरुषः स्वस्थः स्वरूपस्थितस्तदनिवृत्ती तु तत्मतिविम्बिततथा तदाकारतां भनमान इवास्वस्थो भवतीत्यर्थः ॥ ३४ ॥ तत्रोदाहरणमाह- 'कुसुमवच्च माणिः॥ ३५॥ कुसुमवच्च-यथा नपाकुसुमेन मणिः स्फटिको मणिरस्वस्थः, कुमुम- निवृत्ती च रागशून्यः स्वस्थ इत्यर्थः ॥ ३५ ॥ ननु किमर्थ करणमवृत्तिः ? कुतश्च ? तत्राह- "पुरुषार्थ करणोद्भवोऽप्यदृष्टोल्लासात् "॥ ३६ ॥ अदृष्टोल्लासाद अभिव्यक्तादृष्टनिमित्तात्करणोद्भवोऽपि अधानप्रवृत्तिनि 44 द्वितीयोऽध्यायः। दर्शनार्थोऽपिः । प्रधानप्रवृत्तिवत्करणमवृत्तिरपि पुरुषार्थ-पुरुषस्य स्वामिनः कृते स्वत एव भवतीत्यर्थः ॥ ३६ ॥ परार्थ स्वतः मवृत्ती निदर्शनमाह- "धेनुवद् वत्साय"॥३७॥ धेनुवत्-यथा धेनुर्वत्साय-वत्सार्थ स्वयमेव क्षीरं सवति । नान्य प्रय- वमपेक्षते । तथा पुरुषार्थ स्वयमेव करणानि प्रवर्तन्ते इत्यर्थः ॥ ३७ ॥ ननु कतिविध करण ? तबाह- "करणं त्रयोदशविधमवान्तरभेदात् " ॥ ३८॥ अवान्तरभेदात् बाह्याभ्यन्तरभेदाकरण त्रयोदशविध-बुद्धयहड्दारमना- सीत्यन्तस्त्रयम् । बाह्यानि चक्षुरादीनि दशेति त्रयोदशविधा यस्य, त- दित्यर्थः ॥ ३८॥ ननु फरमादिन्दियेषु करणत्व ? तत्राह- "इन्द्रियेषु साधकतमत्वगुणयोगात्कुठारवत्" ॥३९॥ इन्द्रियेपु-चक्षुरादिवाह्याभ्यन्तरेन्द्रियेषु साधकतमत्वगुणयोगात अति- शयेनज्ञाननियासाधकत्वलक्षणगुणसबन्धाकरणत्व-व्यापारवदसाधारणकार- णत्वम्। कुठारवत्-यथा छिदादिक्रियासाधकतमत्वगुणयोगात्कुठारे करणत्व- मित्यर्थः। व्यापारत्वञ्च तजन्यत्वे सति तजन्यजनकत्वमिति ध्येयम् ॥३९॥ नन्वनयोबाह्याभ्यन्तरयोरुभयोः कि मधान, तत्राह- "द्वयोः प्रधानं मनो लोकरभृत्येषु" ॥ ४० ॥ दयोः बाह्याभ्यन्तरयोरुभयोः प्रधान मुख्य मना-मननवृत्तिकं बुद्धि- सत्त्वमेव, ऋत्येपुम्भृत्पबगैषु लोकवद-लोकसिदस्वामिवदित्यर्थः। तब बाह्येभ्यः प्रधानमनः, मनसः प्रधानमहकारः, ततश्च बुद्धिसत्त्वमि- ति विवेकः ॥ ४०॥ ननु तत्प्राधान्ये को हेतुः ? तबाह-

(६४) सांख्यदर्शनसूत्रवृत्तौ।
"अव्यभिचारात्"॥४१॥
इन्द्रियान्तराणां व्यभिचारेऽपि ज्ञानमात्रे मनसो व्यभिचाराभावादि-
त्यर्थः ।। ४१ ॥
द्वितीयहेतुमाह-
" तथाऽशेषसंस्काराधारत्वात् "॥४२॥
हेत्वन्तरसूचनाय तथाशब्दः । अनुभवनन्यनिखिलसंस्काराश्रयत्वादि-
त्यर्थः ॥ ४२ ॥
नृतीयहेतुमाह-
स्मृत्याऽनुमानाच"॥ ४३ ॥
स्मृत्या पूर्वानुभूतपदार्थविषयिण्या स्मृतिलक्षणयाऽसाधारणवृत्त्याऽनुमा-
नाचन्मनःप्राधान्यानुमानाचेत्यर्थः ।
यद्वा संस्कारा एव न सन्ति कुतो बुद्धस्तदाधारत्वम् । तत्राह-स्मृ
त्याऽतुमानाच' । पूर्वानुभूतस्मृत्या लिङ्गभूतया तन्ननकसंस्काराणाम-
नुमानाच मनसस्तदाधारत्वमित्यर्थः ॥ ४३ ॥
नन्वेवं बुद्धिरेव करणमस्तु किं करणान्तराभ्युपागमेन, तत्राह-
"संभवेन्न स्वतः" ।। ४४ ॥
धारभूतश्चक्षुरादिकरणैर्विना बुद्धेः स्वतः करणत्वं न संभवत्-न संभ-
वतीत्यर्थः ।
बहिरस्वातन्त्र्यादिति भावः ॥ ४४ ॥
ननु किन्निबन्धनस्तर्हि करणेषु गुणप्रधानभावः ? तत्राह-
"आपेक्षिको गुणप्रधानभावः क्रियाविशेषात्" ॥४५॥
क्रियाविशेषात् करणत्वे समानेऽपि व्यापारविशेषानिमित्तादापेक्षिका
परस्परापेक्षानिवृतो गुणमधानभावः-गुणभावः प्रधानभावश्चेत्यर्थः ।
चक्षुरादिदशकमपेक्ष्य मनः प्रधानम् । तदपेक्ष्य चाहंकार, स्तदपेक्ष्य च
बुद्धिरिति भावः ॥ ४५ ॥

द्वितीयोऽध्यायः। (६५)
नन्वेवं गुणप्रधानभावमापन्नानि तानि कस्मात्पुरुषार्थ चेष्टन्ते तत्राह-
"तत्कर्मार्जितत्वात्तदर्थमभिचेष्टा लोकवत्" ॥४६॥
तत्कातिवाद-पुरुषस्य कर्म तत्कर्म, तेन पुरुषादृष्टेनार्जितत्वात=
संपादितत्वात् तदर्थ पुरुषार्थमभिचेष्टा करणानामीहालोकवस्यथा लोके
देवदत्तकार्नितं कुठारादि देवदत्तार्थ छिदादिक्रियां करोतीत्यर्थः ॥४६॥
नन्वेवं पुरुषार्थ करणानां क्रियातील्ये कस्माद् बुद्धेरेव प्राधान्य नेत-
रेषां तत्राह-
"समानकर्मयोगे बुद्धःप्राधान्यं लोकवल्लोकवत्॥४७॥
अध्यायपरिसमाप्तिसूचनाय वीप्सा । समानक्रियायोग-बुद्धयादिकरणानां
पुरुषार्थत्वेन समानेऽपि कियासम्बन्धे बुद्धेः बुद्धरेव प्राधान्य क्रियाविशेष
निमित्तं मुख्यत्वम् । लोकवत् यथा लोके राजामात्यमभृतीनां राजाज्ञा
परिपालनरूपकर्मयोगे समानेऽपि राजामात्यस्यैव माधान्यं नेतरेपामित्यर्थः ।
चक्षुरादीनि विषयानादाय बुद्ध्यै प्रयच्छन्ति । बुद्धिश्चात्मने पुरुषाय
राजमन्त्रिवत्पुरुषेश्वराय मयच्छति । तस्मान्मन्त्रिवत्प्रधानं बुद्धिरिति
भावः ॥४७॥
प्रकृतेरीधराधीनं पुरुषाय मवर्तनम् ।
ततोऽष्टादशतत्त्वानि द्वितीयेऽस्मिनिरूपितम् ॥ १ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्या-
त्मारामभगवत्पादशिप्यहरिप्रसादकृतायां सांख्य-
सूत्रवृत्तौ प्रधानकार्याध्यायो द्वितीयः ॥२॥

(६६) सांस्यदर्शनसूत्रवृत्ती। अथ तृतीयोऽध्यायः। क्रममाप्तं महाभूतोत्पादमाह- "अविशेषाद्विशेपारम्भ" ॥१॥ भविशेपात-शान्तयोरमूढतालक्षणविशेषरहितात्तन्मात्रपञ्चकाभूतसूक्ष्माद विशेषारम्भः विशेषाणां-शान्तपोरमूदतालक्षणविशेषवतां व्योमानिलतेनोऽ- पृथिवीनां पञ्चमहाभूतानामारम्भः उत्पाद इत्यर्थः ॥ १॥ ननु महाभूतपश्चकाकस्य पुनरुत्पादः? तबाह- "तस्माच्छरीरस्य" ॥२ तस्मात् महाभूतपश्चकाच्छरीरस्य-स्थूलस्यास्य शरीरस्यारम्भ इत्यर्थः॥२॥ ननु स्थूटस्यास्य दृष्टनष्टमायत्वादशरीरः पुमान् कथं भोगापवर्गाय दे- हादेहान्तरं गच्छेत् ? तत्राह- "तबीजात्संमृतिः॥३॥ तदीनात् तस्य स्थूलशरीरस्य वीज निमित्तं यत् साहद्वारबुद्धीन्द्रिय- तन्मात्रसप्तदशकारब्धं सारायं लिङ्गशरीरम् । तस्मादस्य भोनुरात्मनः संसृतिः ऐहिकामुप्मिका गतिरित्यर्थः ॥ ३ ॥ ननु किं पर्यन्तं महदादयः शरीरमारभन्ते? तत्राह- "आ विवेकाच्च प्रवर्तनमविशेषाणाम् ॥४॥ आविवेकाच-चोऽवधारणे । विवेकमत्ययपर्यन्तमेवाविशेषाणां शान्त- भोरमूटता लक्षणविशेषरहितानां महदादीनां प्रवर्तन शरीरारम्भाय प्रवर्तन- मित्यर्थः ॥ ४॥ । ननु कुत एतददगम्यते ? तबाह- "उपभोगादितरस्य" ॥५॥ -- (६७) तृतीयोऽध्यायः। इतरस्य अनुत्पत्रविवेकप्रत्ययस्य पुरुपस्योपभोगात्मकृत्या सांसारिक- भोगावश्यंभावादित्यर्थः ॥ ५ ॥ ननु संसृतिवेलायामस्य भोक्तुरात्मनः सुखदुःखोपभोगो भवति न वा ? तत्राह- "सम्पति परिमुक्तो द्वाभ्याम् ॥६॥ सम्मति-संसृतिवेलायां पुरुषो दाभ्यां सुखदुःखाभ्यां पारमुक्तः सर्वतो मुक्ता निर्मुक्तो भवतीत्यर्थः । सम्मूर्छितत्वादिति भावः ॥ ६ ॥ ननु यस्माल्लिङ्गशरीरादस्य पुंसः संमृतिस्तस्य स्थूलशरीरात्को विशेषः? तत्राह- "मातापितृजं स्थूलं प्रायश इतरन्न तथा"॥७॥ स्थूल-स्थूलं शरीरं प्रायशःबाहुल्येन मातापितृज योनिनं भवति।सर्गा- दावयोनिनस्यापि स्मरणात् मायश इत्युक्तम् । इतरत्-सूक्ष्मं शरीरं तु न तथा=न मातापितॄनमित्यर्थः ॥ ७ ॥ ननु तथापि भोगायतनत्वं कस्य ? तत्राह- "पूर्वोत्पत्तेस्तस्कार्यत्वं भोगादेकस्य नेतरस्य" ॥८॥ पूर्वोत्पत्तेः-पूर्व-सर्गादावेवोत्पत्तिः= जन्म यस्य,तस्य लिङ्गशरीरस्यैकस्य मतिपुरुष नियमेनैकस्यैव भोगाव-सुखदुःखानुभवाद तत्का>त्वं भोगायत- नत्वम् । भोगकर्तव्यताया अत्रैव युक्तत्वात् । नेतरस्य-स्थूलशरीरस्येत्यर्थः । मृतशरीरे व्यभिचारादिति भावः ॥ ८ ॥ ननु किं तल्लिङ्गशरीरं? तबाह- "सप्तदशैकं लिङ्गम्" ॥९॥ सप्तदश-एकादशेन्द्रियाणि, पञ्चतन्मात्राणिभूतसूक्ष्माणि, साहद्वारा बुद्धिश्चेति सप्तदश मिलित्वा लिङ्ग-लिंगशरीरम् । तचैकंमतिपुरुषमेकाम- त्यर्थः ॥ ९॥ ,

(६८) सांख्यदर्शनसूत्रवृत्ती।
ननु लिङ्गशरीरस्य तस्य सर्वध तुल्यत्वात् कथं देवतिर्यगादिभेदेन
भेदः तत्राह-
"व्यक्तिभेदः कर्मविशेषात्" ॥१०॥
व्यक्तिभेद: व्यक्तेलिङ्गशरीरस्य भेदः फर्मविशेषाद भीवानामदृष्टविशे-
पादित्यर्थः ॥ १० ॥
ननु तथापि लिङ्गशरीरस्प भोगायतनत्वं तत्रव शरीरव्यवहारे स्कुले -
स्मिन् लोकसिद्धः शरीरव्यवहारः कथं स्यात् ? तत्राह-
"तदधिष्ठानाश्रये देहे तद्बादात्तद्वादः" ॥११॥
तदधिष्ठानाश्रये-तस्य फर्मविशेषस्य यदधिष्ठानं बुद्धितत्त्वं, तस्याश्रये
लिङ्गशरीरे तदादात्-तस्प शरीरस्य वादः व्यवहारस्तदादस्तस्माद् देहे-
लिङ्गशरीरस्याश्रयीभूते स्थूलशरीरेऽपि तदादा-शरीरव्यवहार इत्यर्थः॥११॥
नन्वस्तु तर्हि बुद्धित एव पुरुषस्य भोगः, कृतं सूक्ष्मशरीरेणाप्रामाणि-
केन, तत्राह-
"न स्वातन्त्र्यात् तहत, छायावञ्चित्रवच" ॥ १२ ।।
तहते-लिंगशरीरंविना न स्वातन्त्र्याव-स्वतन्त्रतया बुद्धिसत्त्वमव-
स्थातुमर्हति, दूरे ततो भोगः । तत्रोदाहरणं, छायावचित्रवञ्च-ययाश्रयं
विना छाया चित्रश्च न तिष्ठतीत्यर्थः ॥ १२ ॥
नन्वस्तु तर्हि लिंगशरीरणेव पुरुषस्य भोगः, कृतं स्थूलशरीरेण,
तत्राह-
"मूर्त्तत्वेऽपिन संघातयोगात् तरणिवत्" ॥ १३ ॥
स्वातन्त्र्यादिति पूर्वसूत्रादनुवर्तते । मूर्त्तत्वेऽपि-लिङ्गशरीरस्य स्थूलश-
रीरवन्मूतत्वेऽपि न तेन स्वातन्त्र्यात् पुरुषस्य भोगः संभवति । किन्तु
संघातयोगात् स्थूलशरीरसंबन्धात् । तत्रोदाहरणं तरणिवत्-यथा संघात-
योगादेव सहस्ररश्मितो भोग इत्यर्थः ॥ १३ ॥

तृतीयोऽध्यायः। (६९) ननु तत्सूक्ष्मं शरीरं किं परिमाणं ? तत्राह- “अणुपरिमाणं तत्कृतिश्नुतेः॥ १४ ॥ न इति पूर्वसूनादनुवर्तते । तत्-लिङ्गशरीरमणुपरिमाणं न, किन्तु मध्य- मपारमाणम् । कुतः ? कृतिश्रुतेः- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति तत्कृतेः करणस्य निर्माणस्य श्रुतेः श्रर- णादित्यर्थः ॥ १४ ॥ मध्यमपरिमाणत्वे हेत्वन्तरमाह- "तदन्नमयत्वश्रुतेश्व" ॥ १५॥ 'अनमयं हि सोम्य मन आपोमयःप्राणस्तेजोमयी वाग' इति तस्य लिङ्गशरीरस्यांशतोऽन्नमयत्वस्य अन्नसंसृष्टसजातीयांशप्रचुरत्व- स्य श्रवणाच मध्यमपरिमाणं तदित्यर्थः ॥ १५ ॥ ननु भवतु मध्यमपरिमाणं लिङ्गम् । तथाप्यचेतनानि तानि किमर्थ संस- रति ? तबाह- "पुरुषार्थ संसृतिलिङ्गानां सूपकारवत्" ॥ १६॥ पुरुषार्थ पुरुषाणो भोगापवर्गार्थ लिङ्गानां लिङ्गशरीराणां संमृतिः ऐहि कामुष्मिकागतिः । तत्रोदाहरणं सूपकारवत् यथा राज्ञः सूपकाराणां पाक- शालायां गतिस्तदर्थमेव भवति नात्मार्थमित्यर्थः ॥ १६ ॥ एवं लिङ्गशरीरं स्वरूपपारमाणाभ्यां विचार्य स्थूलशरीरं विचार- यन्नाह- "पाञ्चभौतिको देहः" ॥ १७ ॥ पाश्चभौतिक: व्योमानिलतेनोऽपृथिवीनां पश्चभूतानां परिणामो देहा- स्थूलशरीरमित्यर्थः ॥ १७ ॥ मतान्तरमाह- १४०२ खं० १-३॥ २ छाप्रपा. ६-खं० ५।

(७०) सांस्पदर्शनसूनवृत्ती। "चातु तिकमित्येके ॥ १८ ॥ चातुभौतिकंत्रव्योमापहाय चतुणी भूताना परिणामः स्थूलदेह इत्येकें इत्यर्थः ॥ १८॥ अपर मतमाह- "ऐकभौतिकमित्यपरे ॥ १९ ॥ एकभूतस्य पृथिवीमात्रस्य परिणामः स्थूलो देह इत्यपरे इत्य. यः ॥ १९ ॥ प्रसंगादेहचैतन्यवादं निरस्यति । "न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः॥ २०॥ प्रत्येकादृष्टेः पृषाकृतेषु भूतेप्ककस्मिन् चैतन्यादर्शनाद् भौतिकस्य देहस्य न सांसिद्धिकं न स्वाभाविकं चैतन्यं, किन्तु पुरुषोपाधिकमि- त्यर्थः॥२०॥ स्वाभाविके चैतन्ये वाधकान्तरमाह- "प्रपञ्चमरणाद्यभावश्च" ॥२१॥ आदिना सुषुमेः संग्रहः । देहस्य स्वाभाविक चैतन्येऽभ्युपगमे प्रपञ्चे- जगत्यां मरणस्य सुषुप्तेश्चाभावः मसज्येतेत्यर्थः । स्वभावसिद्धस्य चैतन्यस्याशक्यलोपतया कस्यापि सुषुप्तिमरणे न स्या- तामिति भावः ।। २१ ।। यदुक्तं प्रत्येकादृष्टेरिति, तत्राशंस्य दृष्टान्तवैषम्येण निराचष्टे । "मदशक्तिवञ्चेत प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः॥२२॥ मदशक्तिवत ननु यथा मदशक्तिः प्रत्येकद्रव्यावृत्तिरपि मिलितेषु तेषू भवति, तथा मत्येकभूतादृष्टमपि चैतन्य मिलितेषु तेषुद्भविष्यतीति चेद- याच्यते, तदा न=न वाच्यम् । कुतः? प्रत्येकपारिदृष्टे-यतस्तत्रापि सूक्ष्मत- या प्रत्येक मादकत्वे परिदृष्टे सति सांहत्ये-समुदाये तदुद्भवः तस्या मदश- तेरुदवा-पभवो नतु प्रत्येकादृष्टरित्यर्थः ॥ २२ ॥ ' . तृतीयोऽध्यायः। (७१) नवस्तु देहस्य पुरुषोपाधिकं चैतन्यं, तथापि पुरुषस्य तस्य मुक्ति कथं स्यात् । तत्राह- "ज्ञानान्मुक्तिः॥२३॥ शानात सत्त्वपुरुषयोगिनकज्ञानान्मुक्तिः शरीरसंबन्धहेतुफस्य विविधदुः सस्यात्यन्तनिवृत्तिरित्यर्थः ।। २३ ॥ ननु बन्धः कथं ? तबाह- बन्धो विपर्ययात्" ॥ २४ ॥ विपर्याया-विवेकज्ञानविपरीतादविवेकाइन्धः-शरीरसंबन्धहेतुकदुःख- त्रययोग इत्यर्थः ॥ २४॥ ननु ज्ञानान्मुक्तिरित्ययुक्तं, कर्मणोपे तब हेतुत्वात, तत्राह- "नियतकारणत्वान्न समुच्चयविकल्पो" ॥ २५ ॥ नियतकारणत्वात्-ज्ञानस्य मुक्ति मति नियमेन कारणत्वान्न समुच्चयवि- कल्पोन मोक्षोपननने तस्य कर्मणा समुच्चयः, कदाचिज्ज्ञानात्कदाचित्क- मण इति विकलो वेत्यर्थः ॥ २५ ॥ किञ्च। "स्वमजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य" ॥ २६ ॥ पूर्वसूत्रात्समुच्चयविकल्ली विभक्तिविपरिणामेनानुवर्तते । नोभयोः ज्ञान- कर्मणोर्विकल्पसमुच्चयाभ्यां पुरुषस्य मुक्तिः । किन्तु, ज्ञानादेव । 'मेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति- श्रुतेः । तत्रोदाहरणं स्वप्ननागराभ्यामिव मायिकामायिकाभ्यां यथा मायि- कामायिकाभ्यां कल्पिताकल्पिताभ्यां स्वमनागराभ्या स्वप्नजागरपदार्था- भ्यां, विकल्पिताभ्यां वा समुचिताभ्यां वा, न पुरुषस्य बुभुक्षातो मुक्तिः, किन्तु जागरपदार्थादेव, तत्यर्थः ॥ २६॥ १ यजु:- अ० ३१- १८॥

(७२) सांख्यदर्शनसूत्रवृत्तौ। ननु माभूतां नित्येन कर्मणा ज्ञानस्य विकल्पसमुच्चयो । नैमित्तिकन तु ती कि न स्यातां ? तत्राह- "इतरस्यापि नात्यन्तिकम् ॥२७॥ इतरस्यापि-नित्यववैमित्तिकस्यापि कर्मणो नात्यन्तिक-नान्तमतिकान्तं फलम् । अतस्तेनापि विकल्पसमुच्चयो ज्ञानस्य नेत्यर्थः ॥ २७ ॥ ननु माभूतां नैमित्तिकेनापि कर्मणा ज्ञानस्य विकल्पसमुच्चयो । काम्येन कर्मणा सेत्स्यतः, तत्राह- "सङ्कल्पितेऽप्येवम्" ॥२८॥ नात्यन्तिकमित्यनुवर्तते । संकल्पितेऽपिकाम्पे कर्मण्पप्णेव-नित्यनैमि- त्तिककर्मवनात्यन्तिकं फलम् । अतस्तेनापि तस्य तो न स्त इत्यर्थः॥२८॥ नन्वेवं यस्य मोक्षोपजनने फेनापि कर्मणा विकल्पसमुच्चयो नस्त स्तम्ज्ञानं कुतो जायतां ? तत्राह- "भावनोपचयाच्छुद्रस्य सर्व प्रकृतिवत्" ॥ २९ ॥ सर्व-निखिलं वेदोनं कर्म कुर्वतः शुद्धस्प-शुद्धान्तःकरणस्पभावनोप- चयात्=भावना-ध्यानं, तस्योपचप उत्कर्षस्तस्माज्ज्ञानं जायते इति शेषः। तत्रोदाहरणं प्रकृतिवत्-मकृत्या शुद्धान्तःकरणवदित्यर्थः ॥ २९ ॥ ननु किं तद्ध्यानं ? तत्राह- "रागोपहतियानम्" ॥ ३० ॥ रागोपहतिः चित्तचाञ्चल्यहेतुविषयानुरागो रागः, तस्योपहतिः अभि भको ध्यानमित्यर्थः ॥ ३०॥ ननु कुतो ध्यानस्य सिद्धिः । तत्राह- "वृत्तिनिरोधाचत्सिद्धिः" ॥ ३१ ॥ वृत्तिनिराधात-पमाणविपर्ययविकल्पनिद्रास्मृतयः पञ्च वृत्तय, स्ता नृतीयोऽध्यायः विषयानुरागहेतूनां निरोधात्तत्सिदिः तस्य ध्यानस्य सिद्धिः निष्पत्तिरि- त्यर्थः ॥ ३१॥ नतु वृत्तिनिरोधस्य सिद्धिः कुतः ? तत्राह- "धारणासनस्वकर्मणा तत्सिद्धिः ॥३२॥ धारणासनस्वकर्मणा वक्ष्यमाणलक्षणेन धारणाध्यानस्वकर्मणा तसि- द्विः तस्य वृत्तिनिरोधस्य सिद्धिः निष्पत्तिरित्यर्थः ॥ ३२ ॥ धारगां लक्षयति। "निरोधर्दिविधारणाभ्याम्" ॥ ३३ ॥ छर्दिविधारणाभ्यां रेचनं छर्दिस्तेन पूरणस्यापि संग्रहास्तम्भनं विधारणं, ताभ्यां यः माणस्य निरोधः सा धारणेत्यर्थः ॥ ३३ ॥ आसनं टक्षयति । "स्थिरसुखमासनम्" ॥ ३४ ॥ यद्यपि स्वस्तिकादिभेदनासन बहुविधं, तथापि यत् स्थिरसुख-स्थिरं सत्सु- खपदं, तासनमित्यर्थः ॥ ३४ ॥ स्वकर्म लक्षयति । "स्वकर्म स्वाश्रमविहितकर्मानुष्ठानम्" ॥ ३५ ॥ स्वाश्रमविहितकर्मानुष्ठानम् आश्रमाश्चत्वारस्तत्रस्वस्वाश्रमस्य वेदेन विहितानां कर्मणां यथाशास्त्रमनुष्ठानं स्वकर्मत्यर्थः ॥ ३५ ॥ वृत्तिनिरोधस्योपायान्तरमाह- "वैराग्यादभ्यासाच समुच्चये चः । दृष्टानुअविकविषयवतृष्ण्यं वैराग्यम् । स्थिती यलोड भ्यासः, ताभ्यां समुचिताभ्यां वृत्तिनिरोध इत्यर्थः ॥ ३६ ॥ 'बन्धो विपर्ययात् । इत्युक्तं, तब विपर्ययभेदानाह- "विपर्ययमेदाः पञ्च १ स०अ० ३ ० २४ - " (७४) सांख्यदर्शनस्ववृत्ती। अविद्यास्मितारागदेषाभिनिवेशाः पञ्च विपर्ययभेदाः-विपर्ययस्य% विवेकज्ञानविपरीतस्याविवेकस्य भेदा इत्यर्थः ॥ ३७॥ विपर्ययस्य भेदानुस्त्वा तत्कारणभूतामशक्तिमाइ- अशक्तिरष्टाविंशतिधा" ॥ ३८॥ अष्टाविंशतिधा-एकादशेन्दियाणि, तेषां वैकल्यादेकादशधा, सप्तदश तुष्टिसिद्धी, तयोविपर्ययाव सप्तद्गति मिलित्वाऽष्टाविंशतिधाऽशक्तिः बु• देरशक्तिरित्यर्थः ॥ ३८॥ ययोर्विपर्ययात्सप्तदशधा बुद्धरशक्तिस्ते तुष्टिसिद्धी सूत्रदयेनाह- तुष्टिर्नवधा" ॥३९॥ स्पष्टम् । नवधात्वं वक्ष्यति ॥ ३९ ॥ "सिद्धिरष्टधा"॥४०॥ स्पष्टम् । अष्टधात्वं वक्ष्यति ॥ १० ॥ 'विपर्ययभेदाः पञ्च' इत्युक्तं, तत्रावान्तरभेदान् निरूपयति । अवान्तरभेदाः पूर्ववत् "॥४१॥ पूर्ववत्-यथा पूर्व विपर्ययस्य पञ्च भेदा उक्तास्तथाऽवान्तरभेदाः-वि- पयभेदादवान्तरभेदा अपि दापटिरवगन्तव्या इत्यर्थः । तवाव्यक्तमहदहंकारतन्मात्रेप्वष्टास्वनात्मस्वात्मख्यातिरविद्या तमोऽ-- एधा ८ अणिमाद्यष्टविधैश्वयंप्वणुरस्मि, महानस्मीति तादात्म्याभिमानोऽ- स्मितामोहोऽष्टधा ८ दिव्यादिव्यभेदेन दशविधेषु शब्दादिविपयेषु लोभो रागो महामहो दशधा १० अस्मिताया अष्टो ये विषया, ये च रागस्य दविषयास्तद्विघातकेषु क्रोधो देपस्तामिम्रोऽष्टादशधा १८ तेषामेवाष्टा- दशानां विनाशस्यानुसन्धानानायमानस्वासोऽभिनिवेशोऽन्धतामियोऽष्टादश- भा १८ इति द्वापष्टिभेदो विपर्यय इति भावः ॥ ४२ ॥ अशक्तेरष्टाविंशतिधात्वमवधारयति । १ सां० अ०३ सू० ३७॥

तृतीयोऽध्यायः। (७५) "एवामितरस्या" ।। ४२ ।। एवं विपर्ययवदितरस्याः अशक्तेरप्यष्टाविंशतिरवान्तरभेदा अवग- न्तन्या इत्यर्थः । ते च भेदा अष्टात्रिंशत्तमे सूत्रे उक्ता इति ध्येयम् ॥ ४२ ॥ तुष्टेनषधात्वमाह- "आध्यात्मिकादिभेदानवधा तुष्टिः॥ ४३ ॥ आध्यात्मिकादिभेदात् आत्मानमधिकृत्य प्रवर्तन्ते इत्याध्यात्मित्यः मकृत्युपादानकालभाग्याख्याश्चतस्रस्तुष्टय आदी यस्य पारमुपारपारापारा- नुत्तमाम्भोत्तमाम्भाख्यपञ्चविधतुष्टिभेदस्य, स तथा, तस्माद नवधा-नव- मकारा दृष्टिरित्यर्थः। विवेकसाक्षात्कारपर्यन्तः सर्वोऽपि परिणामः प्रकृतेरेव, तश्च प्रकृतिरेव करोति, अहन्तु कूटस्थः पूर्ण इत्यात्मभावनादयः परितोषः सा प्रकृत्याख्या दृष्टिः। इयश्चाम्भ इत्युच्यते । ततश्च प्रबन्योपादानेन या तुष्टिः सोपादानाख्या सलिलमित्युच्यते । तदनु भवन्यायां बहुकालं योगानुष्ठानेन या तुष्टिः सा कालाग्व्या ओघ इत्युच्यते । पश्चात प्रसंख्यानापरनामधेयविवेकख्यातिपर- मकाष्ठारूपे धर्ममेघसमाधी सति या तुष्टिः सा भाग्याख्या वृष्टिरित्युच्यते। ता एताश्चतस्र आध्यात्मिक्यः । यास्तु शब्दादिषु पञ्चसु बाह्यविषयेवर्नन- रक्षणक्षयभोगहिंसादोषनिमित्तकोपरमानायन्ते ता यथाक्रमं पारसुपार- पारापारानुत्तमाम्भोत्तमाम्भा इत्याख्यायन्ते । ताचैता बाह्यविषयत्वात् बाह्याः पश्च तुष्टय इति नवधा तुधिरिति भावः ॥ ४३ ॥ सिद्धेरष्टधात्वमाह- "उहादिभिः सिद्धिः" ॥४४॥ आदिपदेन 'शब्दाध्ययनसुहृत्मातिदानदुःखविधातानां संग्रहात बिह- न्यमानस्य दुःखस्य त्रयत्वात्तदिधाता अपि त्रय इतीमा मुख्यास्तिस्त्रः सि-

(७६) सांख्यदर्शनसूबवृत्तौ ।
द्धयः तदुपायभूतास्त्वितराः पञ्च गौग्य इत्येवमूहादिभिर्भदैरष्टधा सिद्भिरि-
त्यर्थः ।
"
उपदेशादिकं विनैव मागूभवीयाभ्यासवशात् तत्वस्य स्वयमूहनमूहा?
अन्यदीयपाठमाकर्ण्य स्वयं वा शास्त्रमाफलप्य यज्ञानं जायते तच्छन्दः २.
शिष्याचार्यभावेन शास्त्राध्ययनानायमानं ज्ञानमध्ययनं ३ स्वयमुपदेशार्थ
गृहागतात्परमकारुणिकाज्ञानलाभः सुहृत्माप्तिः ४ धनादिदानेन पारितोषि-
ताज्ञानलाभो दानमित्युपायभूताः पञ्च सिद्धयः । आध्यात्मिकादिदुःख-
जयविधातात्मिकाः फलभूतास्तिस्रः सिद्धय इत्यष्टो ता इति भावः॥४४॥
ननूहादिपञ्चकं सिद्धिहेतुत्वात्सिद्धिरित्युक्तमयुक्तम् । तप आदेरपि तद्धे-
तुत्वात, तत्राह-
"नेतरादितरहानेन विना"॥ ४५ ॥
सिद्धिरिति पूर्वसूत्रानुवर्तते। नेतरात्सिद्धिः ऊहादिपश्चकेतरात्तप आदें-
जोयमाना सिद्धिर्न सिद्धिः, किन्तु सिद्ध्याभासः कुतः ? इतरहानेन विना=
विपर्ययस्य हानमितरहानं, तेन विना=विपर्ययविनाशमन्तरेव नायमानत्वा.
.द्वित्यर्थः ॥ ४५ ॥
एवमन्तःसृष्टिभेदानुक्त्वा बाह्यसृष्टिभेदानाह--
"देवादिप्रभेदा" ॥४६॥
सृष्टिरित्यग्रिमसूत्रादनुकृप्यते । मानुष्यभेदस्य तैय॑ग्यौनभेदस्य चादि-
पदेन परिग्रहः । प्रभेदोऽवान्तरभेदः । देवादिः प्रभेदो यस्याः सा तथा
भौतिकी मृष्टिरित्यर्थः।
तत्र देवी सृष्टिरष्टविधा । तैयंगयोनिः पञ्चविधा । मानुषी चैकविधेति
भाप्यम् ॥ ४६॥
ननु किमर्थमेषा सर्वा सृष्टिः किमवधिका च?तवाह-
"आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिराविवेकात्" ॥४७॥

तृतीयोऽध्यायः। (७७) आब्रह्मस्तम्बपर्यन्तम्-आदिमो ब्राह्मणव! ब्रह्मा, स्तम्बः स्थावरः, ब्राह्मणादि स्थावरान्ता सृष्टिः यावती भौतिकी सृष्टिः, सा सर्वाऽभौतिक- साष्टिवत् तत्कृते-पुरुषकृते वेदितव्या । साऽप्याविवेकाव यावदिवेकज्ञानं न जायते तावदेवेत्यर्थः ॥ ४७ ॥ तत्रीवस्पष्टप्रतिपत्तये स्वयं तद्विभागमाह- "ऊर्ध्व सत्त्वधिशाला" ॥ ४८ ॥ सृष्टिरित्यनुवर्तते।सत्त्वविशाला=सत्त्वं विशालं-बृहद् रजस्तमसीच लघुनी यस्यां सृष्टी, सा तथा सत्त्वगुणबहुला, सृष्टिः या सृष्टिः, सोर्ध्वम् अर्ध्वग -तिका देवीत्यर्थः ॥ ४८ ॥ "तमोविशाला मूलतः॥४९॥ सृष्टिरित्यनुवर्तते । तमोविशाला-तमोगुणवहुला या सृष्टिः सा मूलतः- मूळगा-शिफगेति यावत् । पश्यादिस्थावरान्ता तैर्यग्योनीत्यर्थः ॥४९॥ मध्येरजोविशाला" ॥ ५० ॥ सृष्टिरित्यनुवर्तते । रजोविशाला-रजोगुणबहुला या सृष्टिः सा मध्ये नोर्ध्व न मूलतः,किन्तुभयोर्मध्ये वर्तमाना मध्यगतिका मानुपीत्यर्थः॥५०॥ ननु कस्मादीदग्विचित्रसृष्टय प्रकृतेश्चेष्टा ? तत्राह- "कर्मवैचिच्यात्प्रधानचेष्टा गर्भदासवत् ॥ ॥५१॥ कर्मवैचित्र्याव-पुरुषादृष्टवलक्षण्यात् प्रधानचेष्टा-विचित्रसृष्टयपकृते. ापतिः । गर्भदासवत्न्यथा दास्यवासनावैचित्र्याद्र्भदासस्य = गर्भादार भ्य सेवकस्य पुरुषसेवाये विचित्रा चेष्टेत्यर्थः ॥५१॥ नन्वन्तर्हि पुरुषस्यास्य कमवेचित्र्यादूर्ध्वगतिलाभेनेव कृतार्थत्वमस्तु किं मोक्षण ? तबाह- "आवृतिस्तत्राप्युत्तरोत्तरयोनियोगाङ्गेयः" ॥५२॥ तत्रापि उर्ध्वगतिलाभेऽप्युत्तरोत्तरयोनियोगाव-उत्तरस्माइत्तरस्य योन:

(७८) सांख्यदर्शनसूत्रवृत्ती। सम्बन्धादात्तिः पुनरावृत्तिरस्ति । तस्मादुत्तरोत्तरगतिटाभोऽपि हेया-मुम क्षुभिस्पान्य इत्यर्थः ॥ ५२ ॥ किश्च। समानं जरामरणादिजं दुःखम्" ॥ ५३॥ हेय इत्यनुवर्तते । यत इतिरोपनीयम्, आदिना शोकमोहादयो ग्राह्याः। यस्मानरामरणादिमं दुःसं समानम् उच्चायोमध्यगानां प्रमादिस्तम्ब. पर्यन्तानां सर्वेषां जीवानामविशिष्टम् । तस्मादप्युत्तरोत्तरगतिलाभो मुमु. क्षुभिहेय इत्यर्थः ।। ५३ ॥ नन्वस्तु तर्हि कारणटयादेव कृतार्यत्वं, तबाद- न कारणलयात्कृतकृत्यता मनवदुत्थानात "॥५४॥ कारणारया कारण प्रकृती लपादपि न कृतकृत्यता-कृतार्थत्वमस्य पुंसः संभवति । फुतः ? ममवदुत्थानाद-जलनिमनपुरूषोत्यानवत्पुनरुत्थान संभवादित्यर्थः। यस्य विवको न जातः, फेवठं वैराग्यं वर्तते, तस्यात्मबुद्धयोपास्पमा- नामां मकृती लय इति द्रव्यम् ॥ ५४॥ नन्वसिटकारणं प्रकृतिः फस्मादात्मलीनं पुमांसं पुनरुत्थानेन योन- यति ? तत्राह- "अकार्यत्वेपि तद्योगः पारवश्या" ॥५५ अकार्यत्वेपि-निसिलकारणत्वेऽपि प्रकृतेः पारवश्याव=पर ईश्वरस्त दधीनत्वाद्ययानियमं पुरुषस्य तद्योगः-तया प्रकृत्या पुनरुत्यानयोगः संम- वतीत्यर्थः ॥ ५५ ॥ ननु कुलवधरिव जगज्जननी प्रकृतिः कथं परस्य दशर्तिनास्याव ? तत्राह- "सहि सर्ववित् सर्वकर्ता" ॥ ५६ ।।

तृतीयोध्यायः। (७९)
हि-यस्मात् सम्पर परमेश्वरः । सर्ववित्-सर्वशः । सर्वकर्ता सर्वस्य
जगत पितेत्यर्थ ।
तेन प्रकृतस्तद्वशवार्तनीत्वे न कश्चिद्दोष इति भाव ॥ ५६ ॥
नन्वनुमानत केवल परसामान्यस्य सिदिर्जायते, नवीदृशेश्वरस्य,
तत्राह-
"ईदृशेश्वरसिद्धिः सिद्वा" ॥५७ ॥
ईदृशेश्वरसिद्धि ईदृशस्य-प्रकृतिनियन्तुरीश्वरस्य-सर्वज्ञेश्वरस्य सिद्धि
ज्ञप्ति सिद्धा वेदमात्रनन्येत्यर्थ ।
तथा च तत्रभवान् वेद । यजु श्वेताश्व० अ० ६ म० १६ ॥
"स विश्वकृद्विश्वविदात्मयोनिः कालकालो गुणी
सर्वविद्यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः सन्सारमो-
क्षस्थितिबन्धहेतुः" ॥ १६ ॥ इति ॥ ५७ ।।
नन्वस्तु परवशवार्तनी प्रकृतिस्तथापि जीवसृष्टिरिव तत्सृष्टिरात्मकृते
किन भवेत् ' तबाह-
"प्रधानसृष्टिः परार्थ स्वतोऽप्यभीतृत्वा-
दृष्ट्रकुड्डमवहनवत" ॥५८॥
एवाथोऽपि । परार्थमित्यस्याग्रे योनायितव्य प्रधानसृष्टि परार्थमेव भवि-
तुमर्हति न स्वार्थम् । कुत ? स्वतोऽभोतृत्वात-स्वय तस्य भोत्तृत्वाभावात् ।
तत्र निदर्शनमुष्ट्रकुकुमवहनवत्-यथोष्ट्र परार्थमेव कुड्डम वहति न स्वार्थ-
मित्यर्थ ॥ ५८ ॥
नतु तथाप्यचेतना मकृति कथ परवशवर्तिनी सत्यपि परार्थ चेष्टेत?
सन्नाह-
"अचेतनत्वेऽपि क्षीरवञ्चष्टितं प्रधानस्य" ॥ ५९॥

(८०) सांख्यदर्शनसूत्रवृत्तौ। प्रधानस्य-प्रकृतेरचेतनत्वेपि-चेतनत्वाभावेऽपि चेष्टितं पुरुषकृतेजग- सननलक्षणो व्यापारविवशेष उपपद्यते । क्षीरवक्-यथा परवशवर्तिनः क्षीर- स्याचेतनत्वेऽपि वत्सार्थ चेष्टितमित्यर्थः ।। ५९ ।। निदर्शनान्तरमाह- "कर्म वदृष्टेर्वा कालादेः" ॥ ६० ॥ आदिपदेनादृष्टस्य संग्रहः। प्रधानस्येत्यनुवर्तते । कालादेः कर्मवदा यथा वा कालादेरचतनत्वेऽपिपरार्थ हेमन्तशिशरादिलक्षणं कर्म-चेष्टितम्, तथा प्रधानस्यापि चेष्टितम् । कुतः ? दृष्टेः-दर्शनादित्यर्थः । यथा दर्शनश्चान्यत्र कल्पनमिति भावः ॥ ६० ॥ नवचेतनायाः प्रकृतेर्ममेदंकर्तव्यमित्यनुसन्धानाभावात्कथं परार्थ चेष्टितं स्यात् ? तबाह- "स्वभावाच्चेष्टितमनभिसन्धानामृत्यवत् " ।। ६१ ॥ प्रधानस्येत्यनुवर्तते । स्वभावात् निसर्गतः प्रधानस्य चेष्टितं परार्थ चष्टनमनभिसन्धानात्-अभिसन्धानमत्रानुसन्धानम्, न 'ममेदं कर्तव्यम्' इत्यनुसन्धानात्।भृत्यवत्-यथा भृत्यस्य-गर्भदासस्य स्वभावादेव स्वामिकृतें चेष्टितं नाभिसन्धानादित्यर्थः ॥ ६१ ॥ समाधानान्तरमाह- "कर्माकृष्टेर्वानादितः" ॥ ६२ ॥ प्रधानस्य चेष्टितमिति पददयमनुवर्तते । अनादितः कर्माकृष्टे- संसारस्यानादित्वादनादीनि कर्माणि, तेषामनादित्वात्तैराकाष्टेः आकर्षण मप्यनादि । तस्मादनादिभूतात्कर्मभिराकर्षणादा प्रधानस्य चेष्टित- मित्यर्थः ॥ ६२ ॥ ननु स्वभावादा कर्मभिराकर्षणादा प्रधानस्य चेच्चेष्टितं, तदा कदापि सृष्टिनिवृत्तिर्न स्याद, तत्राह- तृतीयोऽध्यायः। (८१) "विविक्तवोधात्सृष्टिनिवृत्तिः प्रधानस्य सूदवपाके" ॥ ६३॥ विविक्तबोधाद-मकृतितत्कायभ्यो विविक्तस्य पुरुषस्य बोधो विविक्त- बोष -सत्त्वपुरुषान्यतामत्ययस्तस्मात् तदुपनननात् प्रधानस्य-प्रकृते स- टिनिवृत्ति -सर्ननलक्षणव्यापारस्य निवृत्तिर्भवति । सूद्वत्पाके यथा पाके निष्पन्ने सदस्य-पाचकस्य पाकानुकूलव्यापारस्य निवृत्तिरित्यर्थ । चरिताधिकारत्वादिति भाव ॥ ६३ ।। ननु प्रकृतेरेकत्वा जातविविक्तबोध मतीव तदितर प्रत्यपि तस्या सृष्टि- निवृत्ति स्याद, तबाह- इतर इतरवत् तदोषात् "॥ ६४ ॥ तदोषा-तच्छब्द प्रधानमाह । विविक्तबोधानुपजननलक्षणो दोषस्तहो- पस्तस्मादितर विविक्तबोधरहित पुमानितरवत्-अबुद्धवदवतिष्ठते । तेन त प्रति न प्रधानस्य सृष्टिनिवृत्तिरित्यर्थ ॥ ६४ ॥ ननु विविक्तबोधाचेत्सृष्टिनिवृत्तिस्ताह सेवापवगाऽस्तु कृत तदन्यन तेन, तत्राह- द्वयोरेकतरस्य वौदासीन्यमपवर्गः" ॥६५॥ विवित्तबोधादित्यनुवर्तते । विविक्तबोधाद्वयो प्रकृतिपुरुपयोरुभयोरेक- तरस्य वाद्वयोरेकस्य वा पुरुषस्य यदीदासीन्य एकाकिता-मिथोऽन- नुषङ्ग इति यावद, सोऽपवर्ग -मोक्ष इत्यर्थ ॥ ६५ ॥ नन्वेवमेकस्मिनोदासीन्यभनत प्रधानस्यान्यस्मिनप्यौदासीन्यस्यात, . अन्यसृष्टयुपरागेऽपि न विरज्यते, प्रबुद्धर जुतत्वस्येवोरगः" ।। ६६ ।। अपि-एकमुपनात विविक्तबोध प्रत्यौदासीन्य भनदपि प्रधानमन्यसृष्टयु-

(८२) सांख्यदर्शनसूनवृत्तौ।
परागे अन्यम् अनुपजातविविक्तबोधं प्रति सृष्टयुपरागे-मृष्टयपननने न
विरज्यते नौदासीन्यं भजते । प्रबुद्धरज्जुतत्त्वस्यवोरगः यथोरगः-रज्जुसर्पः
मबुद्धरज्जुतत्त्वस्य-जातरज्नुस्वरूपस्य पुरुषस्यार्थमुदासीनोऽपि भयकम्पा
दिजनने नामबुद्धरज्जुतत्वस्य कृते विरज्यते इत्यर्थः ॥ ६६ ॥
अनौदासीन्ये हेत्वन्तरमाह-
"कर्मनिमित्तयोगाच" ॥६७ ॥
अन्पमृष्टयुपरागे न चिरन्यते इत्यनुवर्तते । सृष्टी कर्मलक्षणनिमित्तस्य
सद्भावाच्चान्यसृष्टयुपरागे न विरज्यते प्रकृतिरित्यर्थः ॥ ६७ ॥
ननु पुरुषान् प्रति प्रकृत्युपकारे कि तन्निमित्तं, येन प्रत्युपकारनिरपे-
क्षापि प्रकृतिः पुनःपुनः प्रवर्तते ? तत्राह--
"नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तम्॥६८॥
नरपेक्ष्येऽपि प्रत्युपकारापेक्षाभावेऽपि पुमपान् प्रति प्रकृत्युपकारभोगा-
पवर्गलक्षणे तस्मिन्नविवेको निमित्तमित्यर्थः ।। ६८ ॥
नतु तथापि प्रवृत्तिस्वभावायाः प्रकृते विवेके सत्यपि निवृत्तिः कथमु-
पजायत? तबाह-
"नर्तकीवत्मवृत्तस्यापि निवृत्तिश्चारितार्यात्" ॥६९॥
मवृत्तस्यापि स्वभावतः प्रवृत्तिमतोऽपि प्रधानस्य निवृत्तिः निवर्तन
जायते । कुतः ? चारितार्थ्यात्-कृत कार्य्यत्वात् । नर्तकीवत्=यथा पारिपदान
प्रति नृत्यप्रदर्शनाय प्रवृत्ताया नर्तस्याश्रारितार्थ्यानिवृत्तिरित्यर्थः ॥६९॥
किञ्च।
"दोपयोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत्" ७०॥
समाधानान्तरमूचकोऽपिः।दोषबोधे परिणामित्वदुःखात्मकत्वादयःप्रक-
तिदोपास्तेषां बोधे–ज्ञाने जाते नोपसर्पणं न पुनर्जातदोषं प्रति प्रवर्तन
प्रधानस्य संभवति । कुलवधूव यथा परेण दोषस्य वोधे लानतायाः कु.
चीनस्त्रियाः पुनः परं मत्यनुपसर्पणमित्यर्थः ॥ ७० ॥

तृतीयोऽध्यायः। (८३) नन मकृत्युपसर्पणानुपसर्पणाभ्याश्चेत्पुरुषस्य बन्धमोक्षौ । तर्हि तस्य परिणामापत्तिस्तत्राह- "नेकान्ततो बन्धमोक्षौ पुरुषस्याविवेकारते' ७१॥ अविवेकाहते अन्तरेणाविवकमेकान्ततः परमार्थतः पुरुषस्य-जीवस्य चन्धमोसोम्बन्धो मोक्षश्च न-नस्त इत्यर्थः । अविवेकादेव तो पुरुषस्येति भावः ॥ ७१ ॥ ननु पुरुपस्याविवेकादेव चेद बन्धमोक्षी न परमार्यतस्तर्हि परमार्थतः कस्य? तत्राह- "प्रकृतेराञ्जस्यात्ससङ्गत्वात्पशुवत्" ॥७२॥ बन्धमोक्षी पूर्वसूत्रादनुवर्तते । प्रकृतेरानस्यात्=परमार्थतो बन्धमासी । कुतः ? ससङ्गत्वात् बन्धमोक्षहेतुधर्माधर्मादिभिर्गुणैः संबन्धः सगस्त- दत्त्वात् । पशुवत् यथा गुणसंबन्धवतः पगोः परमार्थतो बन्धो मोक्षश्चे- त्यर्थः ।। ७० ॥ ननु कतिभिर्गुणेः प्रकृतिरात्मानं बध्नाति मोनयति च ? तत्राह- "रूपैः सप्तभिरात्मानं बध्नाति प्रधान कोश- कारवद्विमोचयत्येकरूपेण ॥ ७३ ॥ कोशकारवत् यथा कोशकारः कीटविशेषः स्वगुणैरात्मानं बध्नाति तथा प्रधान-प्रकृतिः सप्तभिः धर्मवैराग्येश्व-धर्माज्ञानावैराग्यानेश्वय्य रूपैः= गुणेरात्मानं स्वं बध्नाति । विमोचयति-मोचयति चैकरूपेण एकेन विवेक- ज्ञानेन गुणेनेत्यर्थः । तत्राज्ञानमविवेक इति ध्येयम् ॥ ७३ ॥ नन्वेवमविवेकाइन्ध इति पूर्वोक्ता पञ्चमी नोपपोत, लोके गुणानां निमित्तकारणत्वस्यैव दृष्टेः, तत्राह- "निमित्तत्वमविवेकस्यति न दृष्टहानिः॥७४॥ , (८४) सांख्यदर्शनसूत्रवृत्ती। अविवेकस्य-पूर्वोक्तलक्षणस्याविवेकस्य पुरुषेषु वन्धादिकं प्रति निमि- तत्त्वं-निमित्तकारणलमवसेयमिति अतो न दृष्टहानिः लोके दृष्टस्य हानि- नत्यर्थः। निमित्तेऽपि पश्चमी स्मरणादिति भावः ॥ ७४ ॥ ननु भवत्वविवेकात्पुरुषस्य बन्धादिक, तथापि तनिवर्तकस्य विवेकस्य सिद्धिः कथं स्यात् ? तत्राह-- "तत्त्वाभ्यासान्नेति नेतीति त्यागाद् विवेकसिद्धिः" ॥ ७ ॥ नेति नेतीति त्यागात् इदमर्थकमत्रेति पदम् । मकृत्यन्तानां चतुर्विंश- तितत्त्वानां नेदमात्मा नेदमात्मेति एवं प्रकारेण परित्यागात् तत्त्वाभ्यासात् परिशिष्यमाणस्यात्मतत्त्वस्य पुनः पुनश्चिन्तनलक्षणादभ्यासादादरनरन्तर्य- दीर्घकालासेवितादविवेकसिद्धिा निरस्तसमस्तसंशयविपर्ययस्यात्मसाक्षात्का- रलक्षणस्य विवेकस्य सिद्धिः निष्पत्तिर्भवतीत्यर्थः ॥ ७५ ।। ननु तत्वाभ्यासाच्चेद् विवेकस्य निप्पत्तिस्त कस्मिन् जन्मन्येव सर्वेपाम- भ्यास कुर्वतां तनिष्पत्तिः किन स्यात् ? तत्राह - "अधिकारिप्रभेदान्न नियमः" ॥ ७६ ॥ अधिकारिमभेदात-उत्तममध्यमाधमभेदेनाधिकारिणां भेदाभ्यामे क्रिय- माणेऽपि न नियमा नैकस्मिन् जन्मनि सर्वेषां विवेकनिष्पत्तिनियम॥इत्यर्थः॥ किन्तूत्तमानामेवेति भावः ॥ ७६ ॥ ननु विवेकनिष्पत्याऽविवेकनिवृत्तौ तदविनाभूतनिःशेषदुःखनिवृत्ते- विवेफिनः पश्चादुपभोगो न स्यात्, तबाह- "वाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः ॥ ७७ ।। उत्तमविवेकतो बाधितानामनुवृत्तिर्न भवतीति मध्यपदमुपात्तम् । अपि- शब्दो मुक्तिसमूच्चायको भिन्नकमः । मध्यविवेकतः मन्दमध्योत्तमभेदाद तृतीयोऽध्यायः। (८५) विवेकोऽपि त्रिविधः । तत्र मध्यावस्थादं विवेकाद बाधितानुवृत्स्या-चाधि- तानां दुःखादीना मारब्धवलेनानुवृत्त्योपभोगोऽपि भोगोऽपि संभव- तात्यर्थः ॥ ७७ ॥ ननु विवेके सत्यपि चेदुपभोगस्तदा विवेकेन किं कृत ? तबाह- "जीवन्मुक्तश्च" ॥ ७८ ॥ अप्यर्थश्चः । बाधितानुवृत्योपभोग कुर्वाणेऽपिविवेकमाहात्म्याचीव- न्मुक्त: जीवन् सन् मुक्त इव भवतीत्यर्थः ॥ ७८ ॥ ननूपभोग कुर्वाणोऽपि जीवन्मुक्त इति न सिध्यति, तबाह - "उपदेश्योपदेष्टत्वात् तसिद्धिः" ॥ ७९ ॥ उपदेश्योपदेष्टुत्वात् लोकवेदयोरुपदेश्योपदेष्टभावस्य दर्शनात् तत्सि- दि-तस्य जीवन्मुक्तस्य सिद्धिरित्यर्थः । मन्दविवेकस्पोपदेश्यत्वादुत्तमविवेकस्य चोपदेष्टत्वासमवादर्थादुपदेष्टा मध्यविवेको जीवन्मुक्त इति भावः ॥ ७९ ॥ नन्वनुमानमेतन श्रुतिस्तत्राह- "श्रुतिश्च" ॥ ८॥ तस्य तावदेव चिरम्' इति श्रुतिश्च जीवन्मुक्तस्य सदावे प्रमाण मित्यर्थ. ॥ ८०॥ विपसे दण्डमाह- इतरथाऽन्धपरम्परा"॥८१॥ इतरथा जीवन्मुक्तानगीकारेऽन्धपरम्परा-उपदेष्टुरभावादन्धपरपरापत्ति- रित्यर्थः। सम्यविवेकचभूरहितत्वादन्धोगुम्स्तच्छिष्योऽपि तथात्वात्तथा, एवम- पीत्यधपरम्परेति भावः ॥ ८१ ॥ १ छा०प्र०६ खं० १४२

सांख्यदर्शनसूत्रवृत्तौ।
ननु विवेकसाक्षात्कारेण निवृत्तायां प्रकृती कथं पुनर्जीवन्मुक्तस्तिष्ठेत ?
तत्राह-
चक्रभ्रमणवद्धृतशरीरः" ॥८२॥
चक्रभ्रमणवत्-यथा दण्डेन भ्राम्यमाणं चक्रं निवृत्तेऽपि दण्डे भ्रमण-
ववतिष्ठते, तथायं धृतशरीरः-निवृत्तायां प्रकृती प्रारब्धकर्मणा धृतशरीर-
स्तिष्ठतीत्यर्थः ॥ ८२ ॥
ननु तथापि जीवन्मुक्तस्य भोगादिवासनाक्षये शरीरधारणं न सिध्य-
ति, तत्राह-
संस्कारलेशतस्तत्तिद्धिः" ॥ ८३ ॥
शरीरधारणहेतवो ये विषयभोगादिसंस्कारास्तेषां लेशः आभासस्त-
स्मात्-विषयभोगादिवासनाभासात्तत्सिद्धिः तस्य शरीरधारणस्य सिद्धि-
रित्यर्थः ॥ ८३ ॥
सम्प्रति भोगेन पारब्धकर्मक्षये परममुनिमुपसंहरन्नाह-
" विवेकानिःशेषदुःखनिवृत्तौ कृतकृत्यो
नेतरानेतरात्" ॥ ८४ ॥
अध्यायपरिसमाप्तिवचना वीप्सा । विवकात् आत्मसाक्षात्कारलक्षणात्स-
त्वपुरुषान्यताप्रत्ययानिःशेषदुःसनिवृतौन्याधिताबाधितसाधारण्येनाखिल-
दुःखनिवृत्ती सत्यां पुरुषः कृतकृत्यः कृतकार्य:-मुक्तो भवति नेतराव ने.
तरस्मात्केवलात्कर्मण इत्यर्थः ॥ ८४ ॥
स्थूल लिगं तथा सृष्टिनांना वैराग्यसाधनम् ।
विवेकोऽथ द्वयी मुक्तिः सम्यगस्मिनिरूपितम् ॥ १ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनव-
ात्मारामभगवत्पादशिप्यहरिप्रसादकृतायां
मांख्यसूत्रवृत्ती वैराग्याध्यायस्तृतीयः ॥३॥

चतुर्योऽध्यायः।
(८७)
अथ चतुर्थोऽध्यायः।
ननु कस्मात्स विवेको जायते येन निःशेषदुःखनिवृत्तिः? तबाह--
"राजपुत्रवत् तत्त्वोपदेशात्" ॥१॥
विवेक इति विपरिणम्यानुवर्तते । तत्त्वोपदेशात् स विवेको गुरुभिरा.
त्मतत्त्वोपदेशाजायते । रानपुत्रवत्यथा वसिष्टेनात्मतत्वोपदेशादानपुत्रस्य
रामस्य विवेको जात इत्यर्थः ॥ १॥
ननु यदर्थ गुरूणामुपदेशः कि तस्यैव विवेक उत्पद्यते, उत तदन्य-
स्यापि समीपस्थस्य? तत्राह--
"पिशाचवदन्यार्थीपदेशेऽपि ॥२॥
विवेक इति पूर्ववदनुवर्तते । अन्यार्थोपदेशे अन्यस्मै शिष्याय गुरुभि-
रात्मतत्त्वोपदेशे क्रियमाणेऽपि तत्समीपस्थस्यान्यस्यापि यथाविधिश्रवणाद्
विवेको जायते । पिशाचवत्-यथा स्वप्रियायै पार्वत्ये शिवेनात्मतत्त्वोपदेशे
कियमाणे तत्पार्थवर्तिनः पिशाचनानो मृत्यस्य विवेकोऽनायतेत्यर्थः ॥२॥
ननु सकृत् तत्त्वोपदेशाच्चेद् विवेको नोपनायेत । तदा कि कर्तव्य !
तत्राह--
"आवृत्तिरसकृदुपदेशात्" ॥३॥
आवृत्तिः सकृदुपदेशाद विवेकेऽजायमाने तदाऽऽवृत्तिः कर्तव्या । कुत.?
असकृदुपदेशात्-छान्दोग्योपनिषदि षष्ठपपाठके वेतकेतुं पुत्रं प्रति पिनु-
रारुणेरसकृदुपदेशदर्शनादित्यर्थः ॥ ३ ॥
ननु पुत्रं प्रति पितुरसकृदुपदेशः संभवति । न तु शिष्यं प्रति गुरोः ।
तत्राह--
"पितापुत्रवदुभयोईष्टत्वात्" ॥ ४ ॥

(८८) सांख्यदर्शनसूत्रवृत्तौ।
पितापुत्रवत्-पितापुत्रयोरिवोभयोःगुरुशिष्ययोरुपदेश्योपदेष्टुभावो भ-
वति। न तद्विलक्षणः कुतः? दृष्टत्वात् लोके मायेण तथा दृष्टत्वादित्यर्थः॥४॥
नन्वेवमुत्पन्न विवेकप्रत्ययस्य तद्दाक्य किं कर्तव्यमित्याकांक्षायां पूर्व
तस्य सर्वथा विषयपरित्यागमाह-
"श्येनवत्सुखदुःखी त्यागवियोगाभ्याम्" ॥ ५ ॥
सर्वथा विषयपरित्यागः कर्तव्यः । यतस्त्यागवियोगाभ्यां सुखदुःखी
विषयस्य त्यागात्पुरुषः सुखी । तस्य स्वयं वियोगाच दुःखी भवति । -
इयेनवत् यथाऽऽहितः दयेनः श्येनान्तरैरामिषत्यागेन सुखी । तस्य स्वयं
वियोगेन च दुःखी भवतीत्यर्थः ।
स्वयं त्यागःश्रेयानिति भावः ॥ ५ ॥
ननु कथं स्वयं विषयपरित्यागः स्यात् ? तत्राह--
"आहिनिलयनीवत्" ॥ ६॥
यथा सो निर्खयनी स्वकीयां त्वचं भुक्तभोगां विज्ञाय स्वयमनायासेन
'परित्यनति, तथा भुक्तभोगान् विषयान् परिज्ञाय स्वयं मेधावी परित्यने-
दित्यर्थः ॥ ६॥
निदर्शनान्तरमाह--
"छिनहस्तवद्वा" ॥७॥
यथा वा कश्चित्स्वकीयं छिन्नं हस्तं दुःखहेतु मत्वा स्वयं परित्यनति,
तथा परित्यनेदित्यर्थः ॥ ७ ॥
ननु विषयाणां परित्यागेऽपि मनसानुचिन्तने को दोपः? तबाह-
"असाधनानुचिन्तनं पन्धाय भरतवत्" ।। ८ ॥
असाधनानुचिन्तनम् असाधनानां-विवेकज्ञानासाधनानांविषयाणामनु-
चिन्तनं मनसाऽनुचिन्तनं पुरुषस्य बन्धायन्बन्धनाय भवति । भरत-
वत्-यया रानर्षिभरतस्य हरिणीशावकानुचिन्तनं बन्धाय बभूवेत्यर्थः ।
विषयानुचिन्तनं न कार्यमिति भावः ॥ ८ ॥

चतुर्थोऽध्यायः (८९)
ननु विषयानुचिन्तनाभावेऽपि बहुभियोगे को दोपः ? तत्राह--
"बहुभियोगे विरोधों रागादिभिः
कुमारीशंखवत" ॥९॥
बहुभिः-स्वभावतोविपरीताशयैर्बहुभियोगे-संगे सति रागादिभिः-
सङ्गदोषादभिव्यज्यमानै रागद्वेषादिभिर्विरोधः-परस्परं विरोधो भवति ।
कुमारीशंखवतम्यथा कुमार्या हस्ते सगतानां यहूनां शङ्खानामन्योऽन्य-
योगेन झणत्कारलक्षणो विरोध इत्यर्थः ॥ ९ ॥
ननु बहुभियोगे भवतु विरोधो दूपणम् । दाभ्यां योगे कि दूपणं ?
तबाह-
"द्वाभ्यामपि तथैव" ।। १० ॥
योगे विरोध इति पदद्वयमनुवर्तते । दाभ्यामपि द्वाभ्यां योगेऽपि
तथैव-बहुभियोगवदेव विरुद्धसंलापादिना विरोधो दृषणमित्यर्थः ॥ १० ॥
नन्वन्तर्हि कि कुर्यात् ? तत्राह-
"निराशः सुखी पिङ्गलावत्" ॥ ११ ॥
निराशा परिवर्जितसर्वाशः सुखी-सन्तोषमुखभाग्भवेत् । पिङ्गलावत
यथा पिङ्गला काचित्सर्वाशां परित्यज्य सुखिनी बभूवेत्यर्थः ॥११॥
नन्वेकाकी स्वगृहारम्भेऽशक्तः कथं सुखी भवेत् ? तत्राह-
"अनारम्भपि परगृहे सुखी सर्पवत्" ।। १२ ।।
अनारम्भेऽपि-स्वगृहारम्भाभावऽपि परगृहे-परनिर्मितशून्यालये वसन्
सुखी-नित्यं सुखभाग्भवेत् । सर्पवत्-यथा सर्पः स्वगृहमनारम्भमाणोऽपि पर-
गृहे वसन् सुखी भवतीत्यर्थः ॥ १२॥
ननु परगृहे वसन्नपि विवेकी बहुशास्त्राध्ययने गुरूणामुपासने च सक्तः
कि कुर्यात् ? तबाह-
"बहुशास्त्रारूपासनेऽपि सारादानंषट्पदवत्" ॥१३॥

सांख्यदर्शनसूत्रवृत्तौ।
बहुशास्वगुरूपासनेऽपि-बहूनां शास्त्राणांतदर्य गुरुणाञ्चोपासनेपि सनो
विवेकी सारादानं सारस्य-विवेकमत्ययोपयुक्तस्यार्थस्यादानं ग्रहणं कु-
यात् । षट्पदवत्-यथा षट्पदः भ्रमरः कुमुमेभ्यः सारमेवादत्ते नान्यदि-
त्यर्थः ॥ १३ ॥
ननु सारमाददानस्यापि विवेकिनो जनाकुले संसारे समाधिभ्रेषः सेत्स्यति,
तत्राह-
'इषुकारवन्नैकचित्तस्य समाधिहानिः ॥ १४ ॥
एकचित्तस्य-सारकचित्तस्य एकाग्रमनसो विवकिनः कथमपि समाधि-
हानिर्न न भवति । तत्रोदाहरणमिपुकारवत् यथा शरैकचित्तम्य सरकार-
स्य पार्धाभ्यां ससैन्यरानगमनेऽपि न समाधिभ्रेपो जात इत्यर्थः ॥ १४ ॥
नन्वेकचित्तस्यापि कश्चित्समादाच्छास्त्रीयनियमोल्लंघने किं स्यात् ?
तत्राह-
कृतनियमलङ्घनादानर्थक्यं लोकवत्" ॥ १५ ॥
कृतनियमलंघनान्–शास्त्रेण कृतस्य नियमस्य लड्नात्-उल्लंघनादान-
यायम् अनर्थभावः स्वार्थहानिर्भवति । लोकवत् यथा लोके रुग्णस्य पुंसः
शास्त्रमतपथ्यादिनियमोल्लङ्घनादानयिमित्यर्थः ।
कथमपि नियमस्य लंघनं न कुर्यादिति भावः ॥ १५ ॥
ननु नियमज्ञाने तदुल्लङ्घनादानर्थक्येऽपि तदिस्मरणे को दोषः ? तबाह-
"तद्विस्मरणेपि भेकीवत् " ॥१६॥
आनर्थक्यमित्यनुवर्तते । तदिस्मरणेऽपि तस्य शाखेण कृतस्य नियमस्य
विस्मरणेऽप्यस्यानस्यं भवति । भेकीवत् यथा कया चिढ़ राजकन्यकया
नाम्ना भेक्या पाणिग्रहसमये 'भो आर्यपुत्र कदापि त्वढियोगो मे माभूद-
न्यथा मद्वियोगस्ते भविष्यति' इति कृतस्य नियमस्य विस्मरणे देवादका-
किनो बहिर्गतस्यतर्तुर्वसुधाधिपस्य भेकोवियोगलक्षणमानर्थक्यं बभू-
वेत्यर्थः ॥ १६ ॥

चतुर्थोऽध्यायः नन्वेतदुत्पन्नविवेकप्रत्ययस्य कर्तव्यमुक्त ! यः पुनर्विवकोत्पत्त्यर्थ केवलं गुरुमुसादुपदेशमान शृणोति तस्य कि कर्तव्य । तबाह- " नोपदेशश्रवणेऽपि कृतकृत्यता, परामर्शाते विरोचनवत्" ॥१७॥ उपदेशश्रवणेऽपि गुरुमुखात्सत्यप्युपदेशश्रवणे परामर्शाने गुरुवाश्य- विवार परामर्शस्त विना कृतकृत्यता-कृतार्थता नम्न भवति। विरोचन- वद् यथा विरोचनस्य गुरमुखादुपदेशश्रवणेऽपि परामर्शादृते कृतकृत्यता नाभूदित्यर्थ । श्रवणानन्तर परामर्श पर्तव्य इति भाव ॥१७॥ ननु अवणानन्तर कस्याय परामशो दृष्टः १ तबाह- "दृष्टस्तयोरिन्द्रस्य" ॥ १८ ॥ परामर्श इति विपरिणम्यानुवर्तते । तयो -विवेकार्थ गुरु प्रजापति- मुपसर्पतोरिन्दविरोचनयोरिन्द्रस्य परामशो दृष्ट इत्यर्थ ॥ १८ ॥ नन्वेव तर्हि श्रवणानन्तर परामशे सति झटित्यव विवेकमत्ययस्य सिद्धि स्यात्, तत्राह- "प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिर्ब- हुकालात तद्वत" ॥ १९ ॥ प्रणतिब्रह्मचय्यारसर्पणानि-नम्रीभाव प्रणति । संवन्द्रियसयमी अन्न- चर्यम् । श्रद्धाभक्तिभ्या यथाविधि गुरु प्रत्युपगमनमुपसर्पण । तान्येतानि कृत्वा नियमेनानुष्ठाय सिद्धि -श्रवणपरामाभ्या विवकमत्ययस्य निष्पत्ति- बहुकालात-बहुकालानन्तर भवति । न दागित्येव । तद्वत् तच्छन्दे- नेन्द्रस्य परामर्श । यथा प्रजापतौ गुरौ प्रणतिब्रह्मचयपिसर्पणानि कुर्वत इन्द्रस्य श्रवणपरामर्शाभ्या विवेस्पत्ययस्य सिद्धिर्बहुकालादभव- दित्यर्थ ॥ १९ ॥ ननु किमेवमेव सर्वत्र सर्वथा कालनियम । तत्राह-- (९२) सांख्यदर्शनसूत्रवृत्ती। "न कालनियमो वामदेववत्" ॥ २० ॥ कालनियमः विवेफप्रत्ययस्य सिद्धी सर्वथा कालस्य नियमों न% नास्ति । वामदेववत् यथा वामदेवस्यैहिकसाधनाभावेऽपि माग्भवीयसा- धनेभ्यो द्रागित्येव विवेकमत्ययोदयो बभूवत्यर्थः ॥ २० ॥ ननु प्रणतिब्रह्मचर्योपसर्पणानि कुर्वतो गुरूणां तत्त्वोपदेशाच्चे- दिवेकसिदिस्तर्हि कुतो बहुकालापेक्षा ? तबाह- "अध्यस्तरूपोपासनात्पारंपर्येण यज्ञो.. पासकानामिव" ॥ २१ ॥ यत इति शेषः । सिद्धिरित्यनुवर्तते । यस्मादध्यस्तरूपोपासनाद-गुरु- भिरुपदिष्टं रूपमध्यस्तरूपम्।परोक्षत्वात् । तस्योपासनं श्रद्धाभक्तिभ्यामनु- 'ठान धारणामिति यावत्तस्मात्पारम्पर्पण-ध्यानादिपरंपरया विवेकमत्ययस्य सिद्धिर्भवति । यज्ञोपासकानामिवन्यथा यज्ञादिकर्मानुष्टायिनामदृष्टादि पारम्पर्येणाभ्युदयसिद्धिरित्यर्थः । तत्र प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा श्रवणम्।श्रुतस्यासंभावनानिवृत्त्यै श्रद्धाभक्तिभ्यां परामृश्य धारणं मननम् । मतस्य विपरीतभावनोप- शान्त्यर्थं ध्यानं निदिध्यासनम् । तस्य पाकोऽङ्गभूतः समाधिः । तस्य मपाकोऽङ्गी समाधिः संपज्ञातः । ततश्चित्साक्षात्कारलक्षणानाम्ना ऋतम्भरा प्रज्ञा सत्त्वपुरुषान्यताख्यातिरिति बहुकालविवेकः ॥ २१ ॥ नन्वेवश्चेत्तर्हि कर्मभिरूलगत्यैवालम् । कृतं परंपरायाससाध्येन मोक्ष- हेतुना विवेकप्रत्ययेन, तत्राह- "इतरलाभेऽप्यावृत्तिः पश्चाग्नियोगतोजन्मश्रुतेः॥२२॥ इतरलाभेऽपि वेदोनैर्निष्कामकर्मादिभिर्माक्षेतरस्योगमनस्य लाभेऽ- पि-माप्तावप्यावृत्तिः पुनरावृत्तिरस्ति न मोक्षवदनावृत्तिः।कुतः? पञ्चाग्नियो- गतः छान्दोग्योपनिषदि पश्चममपाठके छुपर्नन्यधरानरयोषितां पञ्चानीनां चतुर्थोऽध्यायः। संबन्धतो जन्मश्रुतेः-'असौ वावलोको गौतमानि इत्यादि- नोर्ध्वगतिमतोऽपि जन्मश्रवणादित्यर्थः । तत्रोर्ध्वगमनं ब्रह्मलोकपर्यन्तमिति सर्व श्रुतिविदो भाप्यकदादयः। ते च लोकाः सप्त पुरुषस्य कर्मिणः प्राकृतावस्थाविशेषा नेदृशो नगरभेदा इत्यनुसन्धेयम् ॥ २२ ॥ नन्वेवं विवेकमत्ययोत्पत्त्यर्थ ब्रह्मलोकान्तस्य निखिलसंसारस्य हानं तदिलक्षणस्य च मोक्षस्योपादानं कस्य स्यात् ? तत्राह- "विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत्" ॥२३॥ विरक्तस्य ऐहिकामुप्मिकविषयवितृष्णस्य हेयहानं हेयस्य संसारस्य हानमुपादेयोपादानम्-उपादेयस्य मोक्षस्य चोपादानं संभवति।हंसक्षीरवत- यथा हंसपक्षिणो नीरेण मिश्रिते क्षीरे नीरस्य हानं क्षीरस्य चोपादान- मित्यर्थः ॥ २३ ॥ ननु विरक्तस्यैतदुभयश्चेत्तदा कृतं सत्सङ्गमाहात्म्येन, तत्राह- "लब्धातिशययोगाद्वा तद्वत्" ॥ २४ ॥ हेयहानमुपादेयोपादानमित्यनुवर्तते । लब्धातिशययोगात्-लब्धः-संपा- दितो विवेकमत्ययकाष्ठालक्षणोऽतिशयो येन, तस्य सतः पुरुषस्य योगाद- संगादा अपि हेयहानमुपादेयोपादानश्च सभवति । तदत हंससंगाइ हंस- स्ववेत्यर्थः ।। २४ ॥ नन्येवं रागिणोऽपि तदुभयं स्यात, तत्राह- न कामचारित्वं रागोपहते शुकवत्" ॥ २५ ॥ रागोपहते-रागेण गुणेनाभिभूते पुरुष कामचारित्वं यथेष्टसञ्चारित्वमेव न-न संभवति । कुतस्तदुभयम् ? तत्रोदाहरणं गुकवत-यथा रागोपह- तस्य शुकपक्षिणः कामचारित्याभाव इत्यर्थः ॥ २५ ॥ ननु कुतोऽयं रागिणः कामचारित्वाभावः तत्राह- गुणयोगाद बद्धः शुकवत् ॥ ॥ २६ ॥ १ छा० प्रपा० ५-७० ४-५-६-७-८-९ ।

" (९५) सांख्यदर्शनसूचत्तौ। यत इति शेषःायम्मादसौरागी गुणयोगात रागादिगुणगंवभाइ यदा- वन्धनं गतोऽस्ति । शुक्रवतम् यथा गुणयोगाद बदः शुरुः पक्षी यामनारी न भवतीत्यर्थः ॥ २६ ॥ ननु भोगादागगान्ती रागिणोऽपि रापं मेरम्पनि, तबाह- न भोगादागशान्तिर्मुनियत् " ॥ २७ ॥ भोगात्-विषपभोगादागशान्तिः रागस्य नितिर्न न भवति। मनिवन- यथा सौभरिनानो मुर्विषयभोगाग रागम्य गान्तिरनायतेन्यर्थः ॥ २७ ॥ ननु फरमातहि रागोपमान्तिः ? तबाह- दोपदर्शनादुभयोः" ॥ २८ ॥ उभयोः महतितवार्ययोदयोगदर्शनान् परिणामिलामात्माला- दिदोषदर्शनादागः शाम्यतीत्यर्थः ॥ २८ ॥ गनूपदेशादेव विवेकप्रत्ययः सम्पति किमुभयोपदर्शनादागम्य शान्त्या ? तबाह- न मलिनचेतस्युपदेशबीजप्ररोहोऽजयत् " ॥ २९ ॥ मलिनचेतसि-रागादिमटेन मलिने गित्ते नोपदेशचीनमरोहा उपदेश- चीनस्य प्ररोहो न भवति । तत्रोदाहरणमजव=यथाऽनस्य राज्ञो भार्या- शोकादिना मलिने चेतसि वसिष्टोपदेशवीनस्य मरोहो नाभूदित्यर्थः ॥२९॥ ननु मलिने चेतसि ययाकाममुपदेशवीनं मा मरोहनु यत्किचित्त मरोहिप्यति, तबाह- " नामासमात्रमपि मलिनदर्पणवत्"॥३०॥ आभासमात्रमपि-दूरे तावदुपदेशबीनपरोहः, मलिनचेतसि तु तदाभा- समात्रमपिनन भवति । मलिनदर्पणवत्-यथा मलिने दर्पण मुसाभासाभाव इत्यर्थः ॥ ३०॥ ननु तथापि गुरूणामुपदेशो न व्ययोऽवश्यं ततो ज्ञान भविष्यति, तबाह-

चतुर्थोऽध्यायः।
न तजस्यापि तद्पता पंकजवत्" ॥ ३१॥
तजस्यापि तस्माद्गुरूणामुपदेशान्जायमानस्यापि ज्ञानस्य न तद्रूपता
नोपदेशानुरूपता भवति । चेतोदोपात् । पड्नवत्-यथा बोनान्जायमानस्या-
पि पङ्कजस्य न बीनानुरूपता पंकदोषादित्यर्थ. ॥ ३१ ॥
तदेवं श्रवणादिषु वैराग्यस्यैव प्राधान्येन विवेकप्रत्ययोत्पत्तिसाधन-
त्वमभिधाय यः पुनरणिमादिभूतियोगनैव कृतकृत्यतां मन्यते त
प्रत्याह
न भृतियोगेऽपि कृतकृत्यतोपास्यसिद्वि-
यदुपास्यसिद्धिवत्" ॥ ३२॥
अव्यायपरिसमाप्ती वीप्सा । भूतियोगेऽपि कथञ्चिद्योगमभ्यस्यतोऽणि-
मादिविभूतियोगेऽपि कृतकृत्यता-कृतार्थत्व न-न जायते। योगे विप्रयोग-
स्यावश्यंभावात् । उपास्यमिद्धिवत्-व्यतिरेक्युदाहरणार्मद, यथोपास्पस्य-
मुमुक्षुभिरुपास्यमानस्य विवेकज्ञानस्य सिद्धितः कृतकृत्यतेत्यर्थ. ॥३२॥
आत्मतत्त्वोपदेशादिविवेकज्ञानसाधनम् ।
निरूपित तुरीयेऽस्मिन्नितिहास पुरस्कृतम् ॥ १ ॥
इति श्रीमत्परहंसपरिव्राजकाचार्योदासीनवर्य्यात्मा-
रामभगवत्पादशिष्यहरिप्रसादकृतायां सांख्यस-
वृत्तौ चतुर्थोऽयमाख्यायिकाध्यायः॥४॥

(९६) सांख्यदर्शनसूत्रवृत्तौ। अथ पञ्चमोऽध्यायः। चतुर्भिरध्यायः स्वसिद्धान्तं निरूप्य तदााय परसिद्धान्तमपाकर्तु पश्चमाध्यायमारभमाणो ननु विवेकमत्ययाचनिःशेषतो दुःसनिवृत्तिस्तर्हि कि मङ्गलेन लौकिकवैदिकाचारेणेति शान्तावदपाकरोति । "मङ्गलाचरणं शिष्टाचारात्फलदर्शनाच्छुतितश्चेति ॥१॥ इति शब्दो हेत्वन्तराकांक्षा निरस्यति । मङ्गलाचरणं-भङ्गलानां- शुभाना लौकिकवैदिककर्मणामाचरणम् अनुष्टानं विवकिभिरवश्यं कर्तव्यम् । कुतः? शिष्टाचारात्-शिष्टः स्वधर्मनिष्टवैदिकैः पुरुपैराचाराव-आचारतत्वात फलदर्शनात् अनुष्ठितानां तेषां तत्तदभ्युदयादिलक्षणस्य फलस्य दर्शनात श्रुतितध 'कुर्वन्नेवेहे कर्माणि जीजीवेच्छत समाः" यान्यन- वद्यानि कर्माणि, तानि सेवितव्यानि, नो इतराणि, इत्यादि श्रुतितश्चेत्यर्थः ॥ १ ॥ नन्वस्तु विवेकिनामपि कर्तव्यं लौकिकं वैदिकं कर्म । तथापि तत्फल दानायेश्वराभ्युपगमो व्यर्थः कर्मणैव फलनिष्पत्तेस्तस्य तदधिष्ठितत्वा- सिद्धेश्च । तत्राह- "न, ईश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः॥२॥ चोऽनुवर्तते । न-कर्मणोजडत्वात्स्वतः फलदातृत्वं नाकिन्वीश्वराधिष्ठिते- तदधिष्ठानविषयीभूते तस्मिन् फलनिप्पत्तिः तत्तदभ्युदयादिलक्षणस्य फलस्य सिद्धिः । कर्मणा च-कर्महेतुना च तसिद्धः यत्कर्म, तत्सर्व पराधिष्ठितं सत् फलद, यथा मनानाथाधिष्ठितं प्रभाकर्म, तथा चेदं वैदिकं कर्मति तस्य ईश्वराधिष्टितत्त्वस्य सिद्धरित्यर्थः ॥ २ ॥ १ यजुः अ० ४० मं० २। २ तै० व० १- अनुवा० ११-२-३ ।

पञ्चमोऽध्यायः (९७) ननु कस्मादीश्वरः परेषां कर्माण्यधितिष्ठति ? तत्राह- "स्वोपकारादधिष्ठानं लोकवत्" ।।३।। स्वोपकारात्-स्वीयानामुपकारः स्वोपकारः 'तस्यात्मानुग्रहाभा- वेपि भूतानुग्रहमयोजनम्' इति योगभाप्योक्तेः । तस्मात्-नी- वोपकृतिमात्रादीश्वरस्याधिष्ठान-जीवकर्मसुसंबन्धविशेपः अधिष्ठातृत्वमिति- यावत् । लोकवन-यथा लोके कारुणिकस्य प्रनानाथस्य प्रनाकर्मस्वधिष्टा- नमित्यर्यः ॥ ३॥ ननु यथेश्वरस्य स्वीयोपकारस्तथा स्वापकारोऽपि स्यात्को दोपस्तवाह- "लौकिकेश्वरवदितरथा" ॥ ४ ॥ इतरथा-स्वीयोपकारवत्स्वोपकारसद्भवतिलौकिफेश्वरवत् लोकसिमने- भरवदपर्याप्तकामः स्यादित्यर्थः ॥ ४ ॥ नन्वात्मानमुपकुर्वाणोऽपि नासौ लौकिकेश्वरवन्मन्तव्यस्तत्राह- "पारिभाषिको वा" ॥५॥ चा-आत्मानमुपकुर्वाणोऽपि चेदीश्वरस्तर्हि पारिभाषिक स्वपरिभाषा- मात्रक्लप्सः स्यान सर्वसंमत इत्यर्थः ॥ ५ ॥ ननु पर्याप्तकामत्वात्तम्य स्वोपकासभावेऽपि रागाभावात्कथमविष्ठातृत्वं सिध्येत् ? तत्राह- "न रामाहते तसिद्धिः प्रतिनियतकारणत्वात् ॥६॥ न रागाहते नान्तरेण रागम् । किन्तु करुणालक्षणादागादीश्वरस्य तसिद्धिः अधिष्ठातृत्वसिद्धिः । कुतः? प्रतिनियतकारणत्वात्प्रवृत्ति प्रति रागमात्रस्य नियमेन कारणत्वादित्यर्थः ॥ ६ ॥ ननु रागी भवन्नीश्वरो त्यति रागस्प दोषत्वात् , तबाह, "तद्योगेऽपि न नित्यमुक्तः" ॥७॥ १ यो.पा. १-"तत्रनिरतिशय सर्वज्ञवीनम्" इति सूत्रभाध्यम् ।

(९८) सांख्यदर्शनस्यवृत्ती। - तद्योगऽपि तम्य करणालक्षणस्य गगस्प योगे-संवन्ये सन्यपि नित्यमुनः नित्यं वेशार्मविपाकापेविनिर्मुनः परमात्मा न-नैव दुप्यतीत्यर्थः। तवेभरस्य वेगात्मक रागो नाभिधीयते । किन्तु करुणात्मकः । तेन तद्योगे सत्यपि न तस्य किश्चिद दप्यति, ग्लेशात्मपरागस्यैव दुष्टताहेतु । स्वात् । नाप्यधिष्टातृत्वानुपपत्तिः । ताग रागाभावेऽपि करुणालक्षगरागस्य सद्भावात्कारुणिकानामिवेश्वरस्यापि तदुपपत्तेः । करुणा चास्य भगवतो जगदधिपतेरागन्तुकी न, किन्तु स्वाभाविकी, नित्यवादिति न कश्रिदोष इत्यनुसन्धेयम् ॥ ७॥ ननु जीव एवेश्वरः संपद्यते, न तदयातिरिनः कावनेश्वरः, तस्य तासंपत्तिश्च न स्वभावात्, किन्तु प्रकृतियोगाद, तवाह- "प्रधानशक्तियोगाचेत्संगापत्तिः ॥ ८॥ मधानशक्तियोगात् प्रधानास्मिका शक्तिःमधानशक्तिः प्रकृतिस्तस्या यो- गः संयोगस्तस्मात् चेद् यदि जीवस्येश्वयं, तदा तस्य संगापत्तिः=निः- संगताभंगापत्तिः स्यादित्यर्थः ॥ ८॥ नन्वस्तु तर्हि तत्सत्तामात्रानीवस्यैश्वर्या, तबाह- सत्तामाबाञ्चत् सर्वेश्वर्यम्" ॥९॥ सत्तामात्राचेत् अधानशनस्ताटस्म्येन विद्यमानता सत्ता, तन्मात्रा- चदेशर्य, तदा सर्वश्वयं सर्वेषां समानमेश्वयं स्यादित्यर्थः । प्रकृतिसत्तायाः सर्वान् प्रत्यविशेषादितिभावः ॥ ९ ॥ ननु समानत्वात्सर्व एवेश्वराः सिध्यन्तु को दोषस्तत्राह- प्रमाणाभावान्न तसिद्धिः॥ १०॥ प्रमाणाभावांत-प्रमाणमत्र प्रत्यक्षम् । तदभावात्तत्सिद्धिः तस्य सर्वे. श्वर्यस्प-सर्वेषामीश्वरभावस्य सिदिन-न भवतीत्यर्थः ॥ १० ॥ "

पञ्चमोऽध्यायः।
ननु मास्तु प्रत्यक्षमनुमान भविष्यति, तत्राह-
“संबंधाभावान्नानुमानम्" ॥ ११ ॥
संबन्धाभावात् मवन्धोव्याप्ति , तदभावस्तबहाभाव,तस्मानानुमानम्=
अनुमानमपि तत्साधक नेत्यर्थः ॥ ११ ॥
ननु श्रुत्या तहि नीरस्य नित्येश्वग्भव सिध्यतु, तबाह-
"श्रुतिरपि प्रधानकार्य्यत्वस्य" ॥ १२॥
श्रुतिरपि वैदिकी श्रुतिरपि मधानकार्यत्वम्य-नौवैश्वर्य प्रकृतिकार्य
त्वम्य बोधिका विद्यते, न नित्ये वरभावस्येत्यर्थः ॥ १२ ॥
ननु मास्तु नीव ईश्वर', विज्ञानात्मकंब्रह्मैवाविद्याशनि योगादीवरो
भविष्यति, तत्राह-
" नाविद्याशक्तियोगो निःसंगस्य" ॥ १३ ॥
अविद्याशक्तियोग विद्यावाध्या, सदसदिलक्षणा, मायाशक्तिरविद्याश-
क्तिस्तस्या योगसगो नि सङ्गस्य-निष्फान्तसर्वसगस्य ब्रह्मणो नम्न
सभवतीत्यर्थ ।
तदसमवे तु तदसभव एवेतिभार ॥ १३ ॥
नन्त्रविद्यायोगोऽपि तस्याविद्यक एवा-युपगम्यते न पारमार्थिक ,तनाह-
"तद्योगे तत्सिद्धावन्योन्याश्रयत्वम् "॥ १४ ॥
अविद्याया मिद्धायामाविद्यास्तद्योग सिध्यति, नचाद्याप्यविद्या
सिद्धाऽम्नि, तद्यागे अविद्यायोगे सिद्धे सति तत्सिद्धोअविद्यासिद्धी
चान्योन्याश्रयत्व परस्पराश्रयत्व दूषण स्थादित्यर्थ ॥ १४ ॥
नन्त्रविद्यातयोगयो/जागुरवदनादिवानान्योऽन्याश्रयत्व दोष ,तबाह-
"न बीजाहरवत्सादिसंसारश्रुतेः" ॥१५॥
बौनाङ्गुरवदम्बानाद्वरयोरिव न-अनादित्वं न । कुत. १ सादिससार-
श्रुते -सादिभूतस्याविद्यातद्योगलक्षणससारस्य श्रवणादित्यर्थः ॥ १५ ॥

(१००) सांख्यदर्शनसूत्रवृत्तौ । नन्वविधैवासिद्धति न युक्तम् । विद्यान्यत्वस्यैवाविद्यात्वाव, तबाह- "विद्यातोऽन्यत्वे ब्रह्मयाधप्रसंगः॥ १६ ॥ विद्यातोऽन्यत्वे-विद्यान्यत्वस्यैवाविद्याले ब्रह्मयाधासंगः विद्यान्न्यत्वा- विगेपाट् ब्रह्मणोऽप्यविद्यापद वाधः प्रसन्यतेत्यर्थः ॥ १६ ॥ विपक्षे दण्डमाह- "अमाधे नेप्फल्यम्" ॥ १७ ॥ अबाधेब्रह्मवाधाभानप्फल्य विद्याया निष्फालत्वं स्यादित्यर्थः।। १.७॥ ननु विद्याऽन्यत्वं न विद्याभिन्नत्वं विवक्षितम् । अपि च विद्यावाव्य- लम । तेन न ब्रह्मवाधप्रसंगस्तत्राह- "विद्याबाध्यत्वे जगतोऽप्येवम्" ॥ १८ ॥ विद्याबाध्यत्वे-विद्यावाध्यत्वस्यैवाविद्यात्वेनगतोऽपि-अपश्चस्याप्येवम् अनया रीत्या विद्यावं स्यादित्यर्थः । विद्यावाध्यत्वाविशेषादिति भावः ॥ १८ ॥ नन्वस्तु नगतोऽप्यविद्यात्वम् । किं तेन ? तत्राह- "तपत्वे सादित्वम्" ॥ १९ ॥ तदूपत्वे-जगतोऽप्यविद्यास्वरूपत्वे सादित्वं जगदिवाविद्याया अपि सादित्वं स्थानानादित्वमित्यर्थः । तथा च नेएसिद्धिरिति भावः ॥ १९ ॥ ननु तापि जीवानां धर्माधर्मादृष्टसिद्धी तत्फलमदाता कश्चिदीवरः मिध्यति । तदेव नास्ति । कुतस्तत्सिद्धिस्तत्राह- "न धर्मापलापः प्रकृतिकार्यवैचित्र्यात्" ॥२०॥ धर्मापलाप: धर्मलक्षणादृष्टस्यापहवो न=न संभवति । कुतः? प्रकृति कार्यवेचिन्यात्-प्रकृतिकार्याणां सुरसादीनां विचित्रताया दर्शनादित्यर्थः ।

पञ्चमोऽध्यायः। (१०१) कश्चित्सुखी, कश्चित्सुसितर , फश्चित्सुखितम इति प्रकृतिकार्यनि- न्यान्यथानुपपत्त्या धर्मसिद्धिरिति भाव ॥ २० ॥ ननु स्वभावादेव वैचि यमस्तु । किमसिद्धन धर्मेण? तबाह- "श्रुतिलिङ्गादिभिस्तत्सिद्धि" ॥२१॥ 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्यादि- श्रुति । सुखभोगोऽदृष्टनन्यो भोगत्वा दुखभोगावदित्यादिलिङ्गम । आदिना योगिप्रत्यक्षमित्येभिखिभि प्रमाणस्तत्सिद्धि =तस्य धर्मम्य सिद्धिरित्यर्थ । स्वभाववैचि यकल्पन गौरवान स्वभावाश्रयण युक्तमिति भाव ॥२१॥ ननु यदस्माक न प्रत्यक्ष, तन्नास्त्येव तत्राह- न नियमः प्रमाणान्तरावकाशात्" ॥ २२॥ न नियम यदस्माक न प्रत्यक्ष तनास्त्येवेति नियमो नाकुत ?प्रमाणा- न्तरावकाशात अमत्यक्षे वस्तुनि प्रमाणान्तरयो शब्दानुमानयोरवकाशस्य- गोचरत्वस्य सभवादित्यर्थ ॥ २२॥ धर्म मसाध्याधर्म साधयन्नाह- "उभयत्राप्येवम्' ॥२३॥ उभयनापि धर्मवद्धमऽप्येव-पूवातप्रकारेण श्रुतिलिङ्गादिक प्रमाण बोध्यमित्यर्ष ॥ २६॥ ननु धर्मवधर्मसाधन न युत्तम् । अर्थादेव तत्सिद्धेस्तत्राह- "अर्थात् सिद्धिश्चत्तमानमुभयो" ॥२४॥ अर्थात् सिदिशेव-एकस्मिन् सिद्धे तदपरस्य तत्सबन्धितया सिद्धि- सिद्धिस्तत्र धम सिद्ध तत्मतिद्धन्दित्वादधर्मस्य सिद्धिवेत्तदा समानमु भयो एतट धर्माधर्मयोरुभयोरपि समानमित्यर्थ । अधर्मवद् धर्मऽपि पय॑नुयोगोऽय तुल्य इति भाव ॥ २५ ॥ १ बृहदा अ०५-या २-१३) " (१०२) सांख्यदर्शनसूत्रवृत्ती। ननु धर्मादिस्वीकारे पुरुषस्य निर्गुणत्वं न स्यात्, तत्राह- अन्तःकरणधर्मत्वं धर्मादीनाम् ' ॥ २५ ॥ धर्मादिनां-धर्माधर्मसुमदुःसरागढेपजानेच्छायलादीनामन्तःकरणधर्म- वं बुदिधर्मत्वं न पुरुषधर्मत्वमित्यर्थः ॥ २५ ॥ ननु धर्मादीनामन्तःकरणधर्मवे पुरुषे तत्समारोपा वक्तव्यः । समारो- पितानाच तेषां विवेकज्ञानेनात्यन्तबाधे सत्कार्य्यवादो न सिध्येद, तत्राह- "गुणादीनाच नात्यन्तयाधः" ॥ २६ ॥ गुणादीनाश्च उपचारात्कार्यकारणपयोगस्तद्वाधापामेः । वैशेषिकपरि- भाषय वा प्रयोगोऽयम । धर्मादीनाच नात्यन्तवाधान स्वरूपतो वाथ इत्यर्थः। अयस्योष्ण्यवदात्मनि संसर्गती बाधाभ्युपगमादिति भावः ॥ २६ ॥ ननु स्वस्य धर्मादिज्ञाने जातेऽपि परम्य तज्ज्ञानं कथं भवेन ? तत्राह- पञ्चावयवयोगात्तुखसंवित्तिः" ॥ २७ ॥ गुणादीनामित्यनुवर्तते । पञ्चावयवयोगात्पश्चानां पतिजाहेतूदाहरणो- पनयनिगमनानामवयवानां योगः-मेलनं यस्मिन् परार्थानुमान तस्माद धर्मादीनां सुखसंवित्तिः=सुसेनानायासेन संवित्तिः=जानं भवतीत्यर्थः॥२७॥ ननु व्याप्तिसिद्ध्यधीननन्म ह्यनुमानम् । सा तावत्कथं भवेत् ? तत्राह- नसकृद्रहणात् संबन्धसिद्धिः" ॥ २८ ॥ नसकृद्हणात् नैकधेत्यादिवरसमासः, साध्यसाधनयोरसकृत्सहचारग्रह- णात्संबन्धसिद्धिः संबन्धो व्यानिस्तरिसन्दिर्भवतीत्यर्थः ॥ २८ ॥ ननु केयं व्याप्तिः। तत्राह- "नियतधर्मसाहित्यमुभयोरेकतरस्य वाव्याप्तिः॥२९॥ उभयोः साध्यसाधनयोर्दयोरेकतरस्य वा साधनमात्रस्य वा यनियत- धर्मसाहित्य-नियतम् अव्यभिचरितं, धर्मतायां माहित्य, धर्मसाहित्य- सहचारः। अव्यभिचारतसंबन्ध इति यावत्सा व्याप्तिरित्यर्थः । " . पञ्चमोऽध्यायः। (१०३) समन्याप्तिमदर्शनार्थमुभयोरति, विपमन्याप्तिमदर्शनार्थमेकतरस्पति ग्रहणम्।तबानित्यत्वकतकत्वयो समव्याप्ति । धूमस्य च विषमव्याप्तिरिति विवेक ॥ २९ ॥ ननु नियतधर्मसाहित्य न व्याप्ति , अपि च तत्त्वान्तर, तबाह- न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तः ॥ ३० ॥ न तत्वान्तर-नियतधर्मसाहित्यातिरिक्त पदार्थान्तर व्याप्तिन । कुतः। वस्तुकल्पनामसते तत्त्वान्तरकल्पनापसगादित्यर्थ । धर्मकल्पनापेक्षया धर्मिफल्पने गौरव स्यादिति भाव ॥ २० ॥ ननु नियतधर्मसाहित्य कीदृश विवक्षित तत्राह-~ "निजशनयुद्भवमित्याचा-" ॥ ३१ ॥ निनशक्युव-वस्तुनो नैमागको शनि निनशत्तिस्तयोद्भव =अभिव्य- निर्यस्य, तत्तथाभत साहित्यमित्याचा- साख्याचा प्रादुरित्यर्थ । तत्रस्वभावप्रतिबद्ध व्याप्यम् । यन च प्रतिवद्ध तव्यापकम । स्वभावाभिव्यक्त प्रतिवन्धो व्याप्तिरीनि विवेक ॥३१॥ "आधेयशक्तियोग इति पञ्चशिखः" ॥ ३२ ॥ आधेयशक्तियोग =आधान मङ्केत , तदिपयीभूता शक्ति =इद व्याप्य- व्यापाश्चेदमिति साफेति की शक्तिराधेयशक्ति । तल्लक्षणा योग वस्तुनो- व्यभिचरितमबन्ध साहित्यमिति पश्चशिख पञ्चशिवाचार्याइत्यर्थ ३०॥ ननु म्वरूपशीनरेव व्यानिरस्तु । किमायशत्या ? तबाह- "न शरूपशक्तिनियमः पुनर्वादमसक्तेः"॥३३॥ स्वरूपशत्ति = वस्तुन स्वरूपभूता शत्ति स्वरूपशत्ति नियमाव्याप्तिन न भवति । कुत ? पुनर्वापसने घट करश इत्यादिवत्पनिम्नयपसगा- मित्यर्थ ॥ २३ ॥ ननु कुत पोनरुत्त्य ? तत्राह - -

(१०४) सांख्यदर्शनसूत्रवृत्ती।
"विशेषणानर्थक्यप्रसक्तः॥ ३४ ॥
शक्तो देवदत्त इत्यादी विशेषणस्य 'शक्त, इत्यस्यानर्थस्यमसन:-
नरर्थस्यप्रसंगादित्यर्थः।
यदा स्वरूपात्मिका शक्तिः, तदा 'शक्तो देवदत्त,इत्यादौ देवदत्त इत्युक्तं
शक इत्यप्ययुक एव। तदात्मकत्वात् । तथा च पुनस्तत्मयोगः कलशो घट
इत्यादी कलश इव निरर्थकः । नरर्थस्यमसक्तिरेव च पोनरुत्यसनिरिनि
भावः ॥ ३४ ॥
ननु स्वरूपशक्तेाप्तित्वानुपपत्तेरनुपलम्भात्पुनर्वादप्रसक्तिर्न दोषस्तत्राह-
"पल्लवादिघनुपपत्तेः" ॥ ३५ ॥
पल्लादिपु-वृक्षादिभ्यरिच्छचेषु पल्लवादिषु वर्तमानायाः स्वरूपशक्तेनु-
पत्तेश्र-व्यामित्वानुपपत्तेश्रेत्यर्थः ।
तत्र स्वरूपात्मिकायाः शक्ताप्तित्वे यया दूरतो दृष्टिपथमारोहन्तो
वृक्षादिसंलग्राः पल्लवादयो वृक्षादिकमनुमापयन्ति । तथा छिन्ना अप्यनु-
मापयेयुः । वर्तमानस्वरूपत्वात् । न च ते तथाऽनुमापयन्ति । तस्मात्स्व-
रूपशक्तिर्न नियम इति भावः ॥ ३५ ॥
ननु मास्तु स्वरूपशक्तिर्व्याप्तिः । निनशक्त भिव्यको योग एव व्याप्ति-
रस्तु । कृतमाधेयशक्या, तबाह-
"आधेयशक्तिसिद्धौ निजशक्तियोगः समान-
न्यायात" ॥ ३६॥
आधेयशक्तिासेद्धी संकेताभिव्यक्तशक्तव्याप्तित्वसिद्धी निनशक्तियोगः-
निनशक्तयभिव्यको योगोऽपि व्याप्तित्वेन सिद्ध एव । कुतः? समानन्यायात
युक्तिसाम्यादित्यर्थः ।
तत्र निनशत्यभिव्यक्त योगो व्याप्तिरिति सांख्याचााः । संकेतामि-
ध्यक्तशक्तिलक्षणो योगो व्याप्तिरिति पश्चशिखाचार्या इति निवेकः ॥ ३६॥

पञ्चमोऽध्यायः। (१०५) नन्वनुमान प्रमाणीकर्तु यथालिगलिङ्गिनोः मंबन्धी निरूपितस्तथा शब्दं प्रमाणीकर्तु शब्दार्थसंबन्धोऽपि निरूपणीयः, कथ भवतां शन्दार्थयोः संबन्धः तत्राह- "वाच्यवाचकभावः संवन्धः शब्दार्थयो" ॥ ३७॥ शब्दार्ययोः-शब्दस्यार्थस्य च मियो वाच्यवाचकभावः वाच्यार्थी वाचकः शब्दस्तभाववाच्यवाचरुत्वं तल्लक्षणः मंबन्धः-सनातनः संवन्ध इत्यर्थः। अयमेव संबन्धी वृत्तिरित्याग्व्यायते । तत्र साक्षात्संबन्धः शक्तिवृत्तिः । परम्परासंबन्धो लक्षणावृत्तिः । सा च स्वशत्यसंबन्धिनिस्वशस्यगुणसंबन्धि- नि च नियतेति बोद्धव्यम् ॥ ३७ ॥ ननु ज्ञातः मेवन्धो बोधको भवति नाज्ञात इतितत्संबन्धज्ञप्तिः कथं स्यात्, तत्राह- "विभिः संबन्धसिद्धिः" ॥ ३८ ।। त्रिभिः-आतेपदशः, वृद्धव्यवहारः, प्रसिद्धपदसन्निधानमित्येभित्रि- भिः संबन्धसिद्धिः-संबन्धस्य-वाच्यवाचकभावलक्षणस्यशब्दार्थसंवन्धस्य सिद्धिः-ज्ञानिर्भवतीत्यर्थः ॥ ३८ ॥ ननु भवतु विभिः संबन्धसिद्धिः। तथापि तत्मिद्धिनियमः कस्यात् कार्य वा कार्याकार्ययोम्भयत्र वा, तबाह- "त काये नियम उभयथादर्शनात्" ॥ ३९ ॥ अस्माकं सांख्यानां कार्य कार्यबोधके "गामानय शुक्लां दण्डेन"इत्या- यात्मके चोदनावाक्ये नियमा-संबन्धसिद्धिनियमो नम्नास्तिाकुतः?उभय- पादर्शनाद कार्यवदकार्यबोधके "जगदधिपतिरीश्वरः पुत्रस्ते जातः" इ. त्याद्यात्मके सिद्धवास्येऽप्याप्तोपदेशादिना संवन्धसिद्धिदर्शनादित्यर्थः३९॥ नन्वेवं संबन्धसिद्धी लोके शब्दार्थपतीतिसंभवेऽपि वेदे तदर्थमनातिः कथं स्याद, तत्राह-

(१०६) सांख्यदर्शनसूत्रवृत्तौ।
"लोफेव्युत्पन्नस्य वेदार्थप्रतीतिः" ॥ ४० ॥
लो-लौकिकै शब्द व्युत्पनस्य आमोपदेगादिना गृहीतापगंबन्धस्य
वेदार्थमतीतिः वैदिकशब्दानामर्थस्य प्रनीतिः शामिः संभवतीत्यर्थः ।
यादृशा लौकिकाः शब्दाताहगा वैदिका इत्यभ्युपगमादिति
भावः ॥ ४० ॥
ननु लौकिकामानांपीपयत्वादानोपदेगेन, अर्थस्यातीन्द्रियसभा-
वाज वृद्धप्यवहारादिना संवन्धसिद्धी तदर्थमनातिः संभवति । दे तढिप-
गयारसंचन्धासिद्धी तदर्थमनीतिः कथं संभवेदित्यागकने ।
"न विमिरपौरुषेयत्वाद् वेदस्य तदर्थस्यातीन्द्रि-
यत्वात्" ॥ ११ ॥
मंबन्धसिद्धिरित्यनुवर्तते वदस्य-गयनुःसामाधर्वनामो भगवतो वेद-
म्यापौरुषेयत्वाद-पुरुपप्रणीतत्वाभावात्तदर्षस्य वेदार्यस्य नातीन्द्रियत्वात्
इन्द्रियगोनरवाभावानाप्नोपदेशादिभिखिभिः संयन्धमिदिः संभवनी-
त्यर्थः ॥
संबन्धसिद्धयसंभवे दूरे तदर्थमतीतिसंभव इति भावः ।
तत्रापौरुषेयत्वादामोपदेशासंभवः तदर्थस्यातन्द्रियत्वाद्धव्यवहारम-
सिद्धपदसन्निधानयोरसंभवस्तदसंभवेचसंबन्धसिद्धयगंभव इति विवेकः४॥
तत्रादौ वेदस्यातीन्द्रियार्थत्वं निरस्पति ।।
"न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्टयात्" ॥४२॥
नम्यदुक्तं तन्न । यतो यज्ञादेः यजदानतपआदिकर्मणः स्वरूपतः सा-
क्षाद्धमले वेदार्यत्वमभ्युपगम्यते । वैशिष्ट्यात विशिष्टफलननकत्वादि-
त्यर्थः ॥ ४२ ॥
अपौरुषेयत्वादातोपदेशासंभवं निराकरोति ॥
"निजशक्तियुत्पत्या व्यवच्छिद्यते" ॥ ४३ ॥

. पञ्चमोऽध्यायः। (१०७) मिनशक्ति. वेदानामपोरुपेयवेपिया स्वाभाविकी शति शब्दानाम: स्वाभाविक सबन्ध , सेवाप्तन्तर्वाणिभिरयमस्या इत्येवरूपया ध्युत्स- त्या शब्दार्थावबोधवशत्या व्यवच्छिद्यते व्यावत्योपदिश्यते इत्यर्थः । तथाचाप्तोपदेशादीना त्रयाणा सभवान्नापौरुषेयवदेऽपि सबन्धसिद्धय- सभव । तदसभवाभावे चोपपन्ना लोकवत्तदर्थप्रतीतिरिति भाव ॥४३ ॥ ननु यज्ञादे कियात्मकत्वेन योग्यत्वात्तत्राप्तोपदेशादिभि संबन्धसिद्धि- समवेऽप्ययोग्यपु वेदार्थेषु तत्सिद्धि कथ स्यात्, तबाह- "योग्यायोग्येषुप्रतीतिजनकत्वात्तत्सिद्धिः"॥४४॥ योग्यायोग्येपु-निदर्शनार्थ याग्यपदम् । इन्द्रिययोग्येषु यज्ञादिकर्मस्विव तदयोग्येप्यर्थेष्वपि पदाना प्रतीतिजनकत्वात्-प्रतीतिजनकत्वसाम्यात्तत्सि- द्धि तम्य स्वाभाविकसबन्धस्य सिद्धि -ज्ञप्ति संभवतीत्यर्थः ॥४४॥ ननु शब्दार्यसबन्धस्य स्वाभाविकत्वे शब्दराशिवेदा अपि स्वाभाविका स्युस्तत्राह- " ननित्यत्वं वेदानां कार्यत्वश्रुतेः" ॥४५॥ वेदाना मगयनु सामार्थवणा चतुणा वेदाना नित्यत्व-स्वाभाविकत्व नमनभवति । कुत । कार्यत्वश्रुते 'तस्माद्यज्ञात्सर्वहुतऋचा सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मा- दजायत' इति तेषा कार्यत्वस्य ईश्नरजन्यत्वस्य श्रुते श्रवणा- दित्यर्थ ॥ ४५ ॥ ननु चेदाना कार्य्यवे भारतादिवत्पुरुषप्रणीतत्वमेवकिनस्यात् ? तत्राह- न पौरुषेयत्वं, तत्कर्तुः पुरुषस्याभावात् ॥ ४६ ॥ वेदानामित्यनुवर्तते । वेदाना पोमषेयत्व-कार्यवेपि जीवकर्तृकत्व १ यजु-३ १३१ म ९।

(१०८) सांख्यदर्शनसूचवृत्ती। नम्न संभवति। कुतः ? तत्कर्तुः भेदकर्तुः पुरुषस्य-नीवस्याभावात् अनु- पलम्भादित्यर्थः ॥ ४६ ॥ ननु माचीनतमेषु धर्ममन्दिरेषु व्यभिचारात्कर्तुरनुपलम्भो न वेदाना जीवकर्तृकत्वं प्रतिक्षेप्तुमर्हति । कथं तेषां तदसंभवस्तत्राह-- "मुक्तामुक्तयोरयोग्यत्वात् "॥४७॥ मुक्तामुक्तयोः-मुक्तस्य जीवस्य निःसङ्गत्वेनामुक्तस्य बद्धस्य सर्वज- स्वाभावेनायोग्यत्वात् वेदकरणे योग्यलाभावादित्यर्थः ॥ १७ ॥ ननु येषां कर्ता नोपलभ्यते जीवाभ न तद्योग्यास्तेषामपोम्पेयत्वा- नित्यत्वं किन्नस्यात्, तबाह- " नापौरुषेयत्वानित्यत्वमंकुरादिवत्" ॥ ४८ ॥ अपौरुषेयत्वात्=पुरुषो जीवस्तत्कर्तृकत्वाभावानित्यत्वं वेदानां नित्यत्वं नम्न भवति, तत्रोदाहरणमडरादिवत् यथाऽझुगदीनां जीवकर्तृकत्वाभावेऽ पि न नित्यत्वमित्यर्थः। यदपौरुषेयं तन्नित्यमिति नियमो नास्ति, अङ्गुरादी व्यभिचारादिति भाव: ॥४८॥ नन्वहुरादीनां कार्यत्वानीवकर्तृकत्वमनुमेयं, तबाह- "तेषामपि तद्योगे दृष्टयाधादिप्रसक्तिः ॥ ४९॥ तेषामपि सस्यादिवदड्डुरादीनामपितद्योगे-तस्यनीवकर्षकत्वस्य योगे= मयोगे दृष्टयाधादिमसक्तिः आदिपदेनादृष्टकल्पनं गृह्यते । दृष्टवावस्या- दृष्टकल्पनस्य च प्रसक्तिः स्यादित्यर्थः ॥ ४९ ॥ नन्वेवं तर्हि जीवकर्तृकमेतदीश्वरकर्तृकञ्चदमिति कथं विजेयं तबाह- "यस्मिन्नदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयम्" ॥५०॥ अदृष्टेऽपि दृष्टिगोचराभावेऽपि तत्करि यस्मिन् यदस्तुनि कृतबुद्धिः- जीवेन कृतमित्येषा धीरुपनायते समुत्पद्यते । तत् तदस्तु पौरुषेयंजीवक- र्तृक-मित्यर्थः ।

पञ्चमोऽध्यायः।
(१०९)
रब तु वेदामुरादौ जीवकर्तृकलबुदिनपिनायते अयोग्यत्वात् । तत्रेश्वरः
तेति मन्तव्यम् ॥ ५॥
ननु वेदानामीश्वरोक्तत्वे परत प्रामाण्य कि न स्यात्, तनाह-
"निजशत्यभिव्यक्तः स्वतःप्रामाण्यम्" ॥५१॥
निनशमयभिव्यन -शब्दार्थसम्बन्धलक्षणया स्वाभाविस्या शक्त्याऽभि-
व्यके अतिसर्ग भगवतो जगदधिपते प्रादुर्भावाद्धदाना स्वत प्रामाण्य%
स्वार्थसिद्धी प्रमाणान्तरनिरपेक्षप्रमात्वमित्यर्थः ।
ईशरोच्चरितत्वेऽप्यनादित्वानिनया शतया प्रामाण्य स्वत मामाण्य
रूपविषये रखेरिवेति साख्या इति भाव ॥ ५१ ॥
नतु शब्दप्रमाणविषय साग्व्यानामीदृशं मतमस्तु । भ्रान्तिविषये पु.
नस्तषा कीदृश मतमित्याकाक्षायामात्ममत दिदर्शयिषुरादौ परमत निरा-
कुर्वन्नाह-
"नासतः ख्यानं नृगृङ्गवत्" ॥५२॥
असत -शुतिशतलादौ नितान्तालीकस्य रजतादे ख्यानम् इद रजत-
मित्यादीभ्रान्तिज्ञान विषयतया भान ननो पपद्यते ।अयोग्यत्वात् । नृङ्ग
वतन्यथा नितान्तासतोनशृङ्गस्य कचिदपि ख्यान नैत्यर्थ ॥ ५२ ॥
नन्वमता रनताद ग्यान मास्तु विज्ञानात्मन सत एव ख्यानमस्तु,
तत्राह-
"न सतो बाधदर्शनात्" ॥ ५३॥
ध्यानमित्यनुवर्तत । सत शुक्तिशकलादी विज्ञानात्मन सदनतादेः
ख्यानम् इद रजतमित्यादी भ्रान्तिनाने विषयतया भान न-नोपपद्यते ।
कुत' बाधदर्शनाव-नेद रनतमित्यादिना तदाधस्य दर्शनादित्यर्थ ।
रजतस्य विजानात्मकत्वे शुचिशकलादिषद बापो न स्यादिति
भाव ॥ ५३ ॥

सांख्यदर्शनसूयवृत्ती। अनिर्वचनीयवादिनं प्रत्याह- "नानिर्वचनीयस्य तदभावात् " ॥५४॥ ख्यानमित्यनुवर्तते । अनिर्वचनीयस्य सदसदिलक्षणस्यरनतादास्यान% भ्रान्तिजाने भान ननोपपद्यतः कुतः ? तदभावात नाहकपदार्गस्वाभावा- दित्यर्थः ॥ ५४॥ अन्यथाख्यातिवादं निरम्यति । "नान्ययाख्यातिः स्पषची व्याघातात्" ॥५५॥ अन्यथाख्यातिः इदंरनतमित्यादी पुरोवर्तिनः शुनिशकलादर- न्यथा-रजतादात्मना म्यातिः रयानं न-समीचीनं न । स्वर- घोच्पानाताव-ज्ञेयानुरूपं ज्ञानम्' इति वचसो व्याहनिमसंगादि- त्यर्थः।। ५५ ॥ आत्ममतमाह- "सदसत्ख्यातिर्वाधावाधात्" ॥५६ ॥ सदसल्यातिः= सांख्यानामस्माकं हटादी सतः पुरोवर्तिनि चासतो रजतादेः पुरोवर्तिसामान्यांशेनेदमाऽसंसााग्रहाख्यातिः इदं रनतमित्या- दो भ्रान्तिज्ञाने विषयतया भानम् । कुतः ? वाधावाधात् तस्य रजतादेः संप्तर्गतः पुरोवर्तिनि वाषऽपि स्वरूपतोयाधात-बाधाभानादित्यर्थः । अख्यातिवादिनस्तावत्सांख्या इदं रजतमित्यादी सर्वत्र ज्ञानदयमाचक्षते। तिमरादिना प्रमाणदोषेण पुरोवर्तिविशेष्यांशस्याग्रहात्सामान्यांशविषयमि- बमाकारं सन्निकर्षमात्रनन्यमकं ज्ञानम् । लंभादिममातृदोषसोचीनसाह- श्यादिदोषोढुदरजतादिसंस्कारमात्रनन्यञ्च सदनतादिविषयं स्मृत्यात्मकं द्वितीयम्।तयोश्चदयोज्ञानयोः प्रमाणादिदोषवशेन स्वरूपतो विषयतश्चासंसर्गा- ग्रहलक्षणो 'मयि भिन्नाविषयं ज्ञानदयं जातम्' इति विवेकमतिद्वन्दी योऽयमेक ज्ञानमित्यविवेकः, स एव तेषां तदूपामतिष्ठितत्वात् भ्रमो विपर्ण्ययो मिथ्या- पञ्चमोऽध्यायः। (१११) ज्ञान, नापर कश्चनपदार्थ । अत एव रजतादिज्ञानस्य विषयो रजतादिदेशा- न्तरे सनपिन पुरोवर्तिनि सन् । तेन नेद रजतमित्यादिना बाधाज्ञानेन दे. शान्तरे वर्तमानरय तस्य सरूपतोबाधासभवात्पुरोवर्तिनि ससर्गतोवाध इति भाव । तत्रासत्सदनिर्वाचनीयेतिग्यातित्रय वाह्यानाम् अन्ययाग्याति सदस ख्यातिश्चति द्वय वैदिकानाम ! वाधश्च मतिपन्नधामीण निषेधदिविषय स्वमिति विवेक ॥५६ ॥ एवं भ्रान्तिविषये स्वमत प्रदर्य शब्दविषय तत्मदर्शयितुमादो परेण समत शब्दस्प स्फोटात्मकत्व प्रतिषेधाति । "प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः ॥७॥ शब्द गारित्यादिशद स्फोगत्मा = हस्तपादाद्यायवेभ्यो व्यति- रिक्तोऽखण्डेकमातरवयवीव गकारादिवर्गभ्यो व्यनिरित्नाऽखण्डकमर्तिरर्थ- मत्ययहेतु पदादिसज्ञाभार गौरित्यादिशब्दविशेष स्फोटस्तदात्मक - त- स्वरूपो न भवति।कुत ? प्रतीत्यमतीतिभ्या-गकारादिवर्णाना मतीतेस्त- दयतिरिनस्य स्फोटम्य चामतीतेरित्यर्थ ॥ ५७ ॥ ननु शब्दस्य स्फोटात्मालाभावेऽपि नित्यत्व कि नस्यात् । तत्राह- न शब्दनित्यत्वं कार्य्यताप्रतीतेः"॥५८॥ शब्दनित्यत्व-शब्दस्य-गकारादिवर्णस्य नित्यत्वम् उपत्तिविनाश- न्यत्व ननभवति। कुत ? कार्य्यतामतीते = उत्पन्नो गकार इत्यादिना तदु- पादकतामतीतरित्यर्थ ॥ ५८ ॥ शब्दनित्यलवादी शकते। " पूर्वसिद्धसत्त्वस्याभिव्यक्तिीपेनेव घटस्य "॥५९॥ ननुन कारणव्यापारेण शब्दस्योत्पत्तिर्भवति,येन तस्य नित्यत्व नस्यात्। किंतु पूर्वसिद्धसत्त्वस्य-कारणव्यापागत्पूर्व सिद्ध सत्वं यस्य, तस्याभिव्य- (११२) सांख्यदर्शनसूत्रवृत्ती। ति:= पादु तिर्दीपेनेवघटस्य यथा पूर्वसिद्धसत्त्वस्यघटस्य दीपेना- भिव्यक्तिरित्यर्थः । उत्पन्नो गकारी नष्टः ककार इत्यादिमतीतिस्तु ध्वन्युपाधिकृता न स्वतः। कारणव्यापारेण ध्वनेरेवोत्पत्तिविनाशयारभ्युपगमादिति भावः॥५॥ परिहरति । " सत्कार्यसिद्धान्तश्चेत्सिद्धसाधनम् " ॥६० ॥ अभिव्यक्त्या नित्यत्वं साधायतस्ते का सिद्धान्तः। सत्कार्यसिद्धान्तश्चेव- कारणव्यापारात्पूर्व सतः कार्यस्य तेनाभिव्यक्तिरिति ते सिद्धान्तश्चेत् तदा सिद्धसाधनम-अस्माकं सिद्धस्यैवतत्साधनमित्यर्थः । तादृशनित्यत्वस्यास्माकं कार्य्यमाने सिद्धत्वादिति भावः ॥ ६० ॥ आत्मदितवादं प्रतिक्षिपति । "नाद्वतमात्मनो लिंगात्तद्भेदप्रतीतः ॥ ६१॥ आत्मनः =पुरुषात्मनोऽद्वैतम् ऐक्यं नम्न संभवति । कुतः? लिङ्गा- सुखदुःख नरामरणादिलिंगात् तदेदप्रतीतेः तस्यपुरुपात्मनोभेदस्य सिद्धे रित्यर्थः । आत्मेश्य मतिपुरुषं सुखदुःखादिभेदो न स्यादिति भावः ।। ६१ ॥ ननु मा भूत्सनातीयादेत, विनातीयाद्वैतं भविष्यति, तबाह- "नानात्मनाऽपि, प्रत्यक्षबाधात् "॥ ६२ ॥ अद्वैतमात्मन इत्यनुवर्तते।आत्मनोऽनात्मनापि =भोग्येन जगताऽपि ना. देतम् नात्यन्ताभेदः संभवति । कुतः ? प्रत्यक्षबाधात् भेदग्राहकमत्य- क्षेण वाधादित्यर्थः ॥ ६२ ॥ नन्वस्तु तर्हि समुचिताभ्यामात्मानात्मभ्यामदैतं,तबाह- नोभाभ्यां तेनैव ॥६३ ।। अद्वैतमात्मन इत्यनुवर्तते । नोभाभ्यां न समुचिताभ्यामारमानात्मभ्याम प्यात्मनोनं संभवति । कुनः ? तेनेव-पूर्वानहेतुद्वयनैवेत्यर्थः । ६३ ।।

पञ्चमोऽध्यायः। (११३) नन्वेवमदतपतिपादकश्रुत्या विरोधः स्याव, तत्राह- "अन्यपरत्वमविवेकानां तत्र"॥६४ ॥ तत्र-अद्वैतमतिपादकश्रुतावन्यपरत्व-दैतादन्यददैततत्परत्वम् आत्मादै तमतिपादिकत्वमविवेकाना-शास्त्रव्युत्पत्तिशन्यानांमतिभाति न जातविवेका- नामिति न विरोध इत्यर्थः। कचित्कार्यकारणयोग्भेदविवक्षया कचिच्चात्मतयैक्यप्रतिपादिकत्वमदै- तश्रुतीनामिति भावः ॥ ६४ ॥ नन्वात्मोपादानक जगदात्माभिन्न कि न स्यान्मृदुपादानकस्य मृदभि- नत्वदर्शनाद, तत्राह- "नात्माऽविद्या नोभयं जगदुपादानकारणं निःसङ्गत्वात् आत्मोपादामक जगदिति कोऽभिप्राय: १ किमात्ममात्रोपादानकम, उ- तात्माश्रिताविद्योपादानकम् ? आहोस्विदात्माविद्योभयोपादानक ? तत्रात्मा कूटस्थत्वादविद्याकल्पितत्वादुभयम्=आत्माऽविद्या चेति दय निःसङ्गत्वा- तपरस्परसगाभावाद् जगदुपादानकारण न सभवतीत्यर्थः । तदभावे कुतस्तदभेद इति भावः ॥ ६५ ॥ आत्माऽदैतं निराकृत्य सच्चिदानन्दस्वरूप ईश्वरः,सच्चित्स्वरूपो जीवः, सती च केवला प्रकृतिरित्यात्ममत दृढीकर्तुं पराभिमत जीवात्मनः पुरुषस्य तावदानन्दरूपत्व निराचष्टे । "नकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् "॥६६॥ एषस्य-पतिशरीरमेश्स्य-जीवात्मनः पुरुषस्येतियावदानन्दचिदपत्वे- सुखमानन्दो ज्ञान चित्तदुभयस्वरूपत्वन=नभवति । कुतः ? दयो = मुखज्ञा- नयो रुभ्यो भेदाभेदेनावरमादित्यर्थः ।

(११४) सांख्यदर्शनमूत्रवृत्तौ। यथाऽऽत्मनोज्ञानं स्वरूपं, तथा चेदानन्दोऽपि । तदा तयो देनावगमो न स्यात् । तदभिन्नाभिन्नस्य तदभिन्नत्वनियमात् । भवति च दुःखानुभववेलाया सुखाननुभवेन तद्देदावगमः । ततो भवति प्रतिपत्तिः ज्ञानवनात्मनः स्वरूपमानन्द" इति भावः ॥ ६६ ॥ ननु पुरुषस्यानन्दरूपत्वाभावे कदाचिदस्यात्मनिजायमानः “सुसमहम स्मीति सुखपत्ययो नोपपद्येत-रात्राऽह दुःखनिवृत्तेर्गौणः" ॥ १७ ॥ दुःखनिवृत्तः कस्यचित्तीव्रतरदुःखस्य निवृत्तेगौणः-जायमानःसुखप्रत्य- यो गीणो भातो मन्तव्य इत्यर्थः । दुःखाभावहि तदा सुखं मत्येतीति भावः ॥ ६७ ॥ ननु कथन्तर्हि मुक्त्यवस्थायामात्मनः केचिदानन्दरूपतामाचक्षते तत्राह- "विमुक्तिप्रशंसामन्दानाम् ॥ ६८ ॥ मन्दानां कर्तरिषष्ठीयम् । अत्र वैदिकसिद्धान्तानभिज्ञा मन्दास्तेषां सा विमुक्तिमशता श्रुतिस्मृतिविरुद्धा मुक्त्यवस्थायामानन्दरूपत्वेनात्मनः स्तुति- रित्यर्थः। मनोवैभव निराकरोति । "न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा" ॥ ६९ ।। मनसो व्यापकत्व-विभुत्वं न न सम्भवति । कुतः १ करणत्वाद-ता क्षाव कियासाधकत्वादास्यादिवदिन्द्रियत्वादा चक्षुरादिवदित्यर्थः ॥ ६९ ।। किश्च- सक्रियत्वाद्गतिश्रुतेः "॥eo ॥ न व्यापकत्वं मनसइत्यनुवर्तते । गतिश्रुतेः = मनःसहकृतस्यात्मनो लोकान्तरे गमनश्रुतेर्मनसःसकियत्वाद-पकियत्वावगमान तस्य व्यापकत्वं सम्भवतीत्यर्थः ॥ ७० ॥ ननु माम्त मनसो व्यापकत्वम् । अणुलं भविष्यति, तबाद- पञ्चमोऽध्यायः। "न निर्भागत्वं तद्योगाढ़ घटवत्" ॥ ७१ ॥ मनस इत्यनुवर्तत । मनसो निर्भागवभागोऽवयवस्तदहितत्व-निरवय- वत्वम् अणुत्त्वमिति यावन-न सभवति । फुतः तद्योगात भागयोगस्तद्यो- गस्तम्मात-सावयवत्वात् । घटवत्-यथा घटम्यसावयवत्वानाणुत्वमि- त्यर्थः ॥ ७१ ॥ ननु मनसो नित्यत्वात्कथ सावयवत्व,तत्राह- "प्रकृतिपुरुषयोरन्यत्सर्वमनित्यम्" ॥ ७२ । जीवेश्वरोभयपरोऽत्र पुरुषशब्द , साख्याना पदार्थत्रयस्यैव नित्यत्वाभ्यु- पगमात, स्पष्टमन्यत् । मनसोऽपि प्रतिपुरुषान्यत्वान्न नित्यत्वमिति भावः ॥ ७० ॥ नन्वीनरस्य भागयोगाभावेऽपि पुम्मत्यागयोग, कि न स्यात, तत्राह-- "न भागलाभो भोगिनो निर्भागत्वश्रुते." ॥ ७३ ॥ भोगिन -नीरामन पुरुषस्य मधानम्य च भागलाभ =भागयाग % सावयवत्वमिति यावन्न-न संभवति । कुत ? निर्भागवश्रुत ="अजो नित्यःशाश्वतोऽयम्""अजामेकाम् इति निरषयवत्वम्य श्रवणा- दित्यर्थ ॥ ७३ ॥ परस्य मुक्ति निराकुम्ते । "नानन्दाभिव्यक्तिर्मुक्तिनिर्धर्मत्वात्" ॥ ७४॥ आनन्दाभिव्यनि: ससारावस्थायामनभिव्यतस्यानन्दस्याभिव्यत्ति - मोक्षावस्थायां मादुर्भूतिर्मुक्ति कैवल्य न=न सभवति । कुत ? निर्धमत्वात आत्मनस्तादृग्धर्मानाश्रयत्वाभ्युपगमादित्यर्थः ॥ ७४ ॥ नन्वस्तु तयशेषविशेषगुणोच्छित्तिर्मुक्तिम्तवाह- न विशेषगुणोच्छित्तिस्तद्वत् " ॥७५ ।। १ का १-पाठी २-२८।२०अ० ४ । म०५।

(११६) सांख्यदर्शनसूत्रवृत्तौ। मुक्तिरित्यनुवर्तते । तदत-आनन्दाभिव्यक्तिवद् विशेषगुणोच्छित्तिः- आत्ममनःसंयोगननातानांज्ञानादिविशेषगुणानामुच्छित्तिा-निवृत्तिरपि मुक्ति- नम्न संभवतीत्यर्थः । मनःसंयोगसत्वेतदुच्छित्तेरसंभवादितिभावः ।। ७५ ॥ नन्वस्तु तर्हि निरन्तरोर्ध्वगतिरेव मुक्तिस्तत्राह- न विशेषगतिनिष्क्रियस्य" ॥ ७६ ॥ मुक्तिरित्यनुवर्तते । विशेषगतिः लोकसिद्धगतिव्यावर्तनाय विशेषपदम् । निरन्तरोर्ध्वगतिरपि मुक्तिन । कुतः ? निष्क्रियस्य-स्वतःक्रियारहितस्य गत्यसंभवादियधः ॥ ७६ ॥ जैनमुक्ति दूषयित्वा बौद्धमुक्तिं दूपयति । "नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् ॥ ७७ ॥ मुक्तिरित्यनुवर्तते । आकारोपरागोच्छित्तिः आत्मनि क्षणिकविज्ञान यो विषयाकाराणामुपरागान्तदासनालक्षणः संबन्धविशेषस्तस्यौन्छित्तिः उच्छे दोऽपि मुक्तिर्नन संभवति । कुतः ? क्षणिकत्वादिदोषात आदिपदेन तदुच्छेदोपायाभावस्यसंग्रहः । क्षणिकत्वादिदोषात्तस्याः पुरुषार्थत्वानु- पपत्तरित्यर्थः। सर्वस्य क्षणिकरवात्का मुक्तिः कस्य वा मुक्तिः स्यादिति भावः॥७७॥ नन्वस्तु तर्हि सर्वाच्छित्तिर्मुक्तिस्तवाह- न सर्वोच्छित्तिरपुरुषार्थत्वादिदोपात्" ॥७८ ॥ मुक्तिरित्यनुवर्तते।सर्वाच्छित्तिःसर्वस्य-विषयोपरागस्य तदाश्रयक्षणिक- विज्ञानात्मनोनीवस्यचोच्छित्तिरपि मुक्तिनन संभवति । कुंतः ?अपुरुषार्थ वादिदोषाद आदिपनारमोच्छेदासंभवदोपस्यसंग्रहः, पुरुषार्थत्वाभावादि दोपप्रसंगादित्यर्थः ॥ ७८ ॥ शून्यवादिन बौद्धं निरस्पति । “ पञ्चमोऽध्यायः (११७) "एवं शून्यमपि ॥ ७९ ॥ मुनि नत्यनुवर्तत । एव यथा पुरुषार्थत्वादिदोपात् साच्छितिन मुनि- रख शून्यमपि जानशेयात्मकनिखिलमपश्चनागोऽपि मुत्तिर्न सभवती- त्पर्य ॥ ७९ ॥ देशविशेषादिलाभो मुक्तिरिति मत व्युदस्यति । "संयोगाश्च वियोगान्ता इति न देशादिलामोऽपि"८०॥ मुक्तिरित्यनुवर्तते।च-यस्मात्सयोगा सर्व माप्तिलक्षणा सबन्धा वियो- गान्ता =विभागसीमान इति-अस्माद्देशादिलाभोऽपि प्रकृष्टदेशधनाङ्गनादि- माप्तिरपि मुक्तिन-न सभवतीत्यर्थ ॥ ८ ॥ जीवस्य परमात्मयोगो मुक्तिरिति मत दूषयति । "न भागियोगी भागस्य" ॥८१ ॥ सयोगाच वियोगान्ता इत्यपि मुक्तिरित्यनुवर्तते । भागस्य ईश्वरो- शस्य जीवस्य भागियोग-ईश्वरयोगोऽपि मुत्तिर्न सभवति।सयोगाना वियो- गातनवनिर्णयादित्यर्थ । निरंशस्य वास्तवाशासभवाद्, भावेवासावयवत्वमसगादीपाधिकम्य च प्रत्याग्थ्यानाचेत्यपि द्रष्टव्यम् ॥ ८१ ॥ नन्वस्तु तमुणिमादियोगो मुनिस्तत्राह- "नाणिमादियोगोऽभ्यवश्यंभावित्वात्तच्छितेरितर- योगवत्" ।। ८२॥ मुक्तिरित्यनुवर्तते । अणिमादियोगोऽपि अणिमा, लघिमा, महिमा, प्राप्ति , प्राकाम्य, वशित्वम्, ईशितृत्वम् यत्र कामावसायित्वमित्यणिमा- अष्टविधैश्वर्यमाप्तिरपि मुक्तिनीकुत । तदुच्छित्तेरवश्यभावित्वात्-तम्पाणि- मादियोगस्योच्छित्ते -वियोगस्यावश्यभावित्वात् आवश्यकत्वात् इतरयो- गवत्यथैश्वान्तरयोगस्योच्छित्तेरवश्यभावित्वमित्यर्थ ॥ ८२ ॥ नविन्द्रादिपदयोगस्तहि मुक्तिरस्तु, तत्राह- सांख्यदर्शनसूत्रवृत्तौ। "नेन्द्रादिपदयोगोऽपि तद्वत् "॥८३॥ मुक्तिरित्यनुवर्तते । तदत् अणिमादिमाप्तिवत्तदुच्छित्तेरवश्यंभावित्वादि- न्द्रादिपदयोगोऽपि इन्दबृहस्पतिमनापत्यादिपदप्राप्तिरपि मुक्तिनत्यर्थः ८३॥ ननु 'प्रोणरसनचक्षुस्त्वश्रोत्राणीन्द्रियाणिभूतेभ्यः' इति नैयायिका वैशेषिकाश्च मन्यन्ते। सांख्यानामत्र कः सिद्धान्तः। तत्राह- "न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः॥८॥ सांख्यानामस्माकमिन्द्रियाणां धाणादीनामिन्द्रियाणांभूतप्रकृतित्व-भूतो पादानकत्वं न । किन्वहंकारोपादानकत्वमाकुतः१ आहंकारिकत्वश्रुतेः-त षामहंकारकार्यत्वश्रवणादित्यर्थः । नैयायिका वैशेषिकास्तु यस्मादिन्द्रियाणां भौतिकत्वमाहुस्तत्स्वयम वक्ष्यति ।। ८४ ॥ नन्धवं तदुक्तपदार्थनियमोऽपि भवतां न स्यात्, तत्राह- न षट्पदार्थनियमस्तद्वोधान्मुक्तिः" ॥ ८५॥ षटपदार्थनियमः द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णा पदार्थानां नियमा=नियतिरस्माकं सांख्यानां न नास्ति, न वा तदोधात तेषां षण्णां पदार्थानांवोधात्-विवेकमत्ययान्मुक्तिः त्रिविधदुःखात्यन्तनिवृत्तिलक्षणंकेव ख्यामित्यस्माकं नियमः । किन्तु पञ्चविंशतितत्त्वानां चोधादित्यर्थः ॥८॥ अतिदिशति । " पोडशादिप्वप्येवम्" ॥ ८६ ॥ एवं यथा वैशेषिकोक्तेषु पद्सु पदार्थेषु तदोधान्मुक्ती च सांख्यानाम स्माकं नियमो न, तथा पोडशादिष्वपि नैयायिकादिमोक्नेषु-प्रमाण-प्रमेयसं- शय-अयोनन-दृष्टान्त-मिदान्ताऽवयव-तर्क-निर्णय,वाद जल्प-वितण्डा हेत्वा १ न्याय.अ. १-आ. १-मत्रं १२ ।

पञ्चमोऽध्यायः। (११९) भास-च्छल-जाति-निग्रहस्थानदिषुपदावपि, तदोपान्मुक्ती च बोदव्य इत्यर्थः। .. आदिशब्देन मीमांसफोक्ताः पदार्थाः संगृह्यन्ते ॥ ८६ ॥ वैशेषिकैकदेशिमोतंत्रसरेणुनित्यत्वं मत्याह- " नाणुनित्यता, तत्कार्यत्वश्रुतेः ॥ ८७ ॥ अनित्यता अणूनां परमाणुनानाऽभ्युपगतानांत्रसरेणूनां नित्यता=नि- त्यत्वं नन्न संभवति । कुतः ? तत्कार्यत्वश्रुतेः तेषां प्रकृतिकार्यत्वस्य श्रवणादित्यर्थः। इदमत्र बोध्यम् । यद्यपि सांख्या अप्येताक्षरमाणुन मन्यन्ते तथापि तेषां वैशेषकैकदेशिवन ते नित्याः । किन्तु पञ्चतन्मात्रकार्यभूता इति ।। ८७॥ ननु निरवयवाः परमाणवः कथमनित्याः स्युः ? तबाह- न निर्भागत्वं कार्य्यत्वात् ॥८८ ॥ निर्भागत्वं निरवयवत्वं न भवदभ्युपगतपरमाणूनां न संभवति।कुतः ! कार्यत्वाव-जन्यत्वाद् घटवदित्यर्थः ।। ८८ ॥ केवलरूपनिबन्धनं पहिरिन्द्रियैर्द्रव्यमत्यक्षनियमं निरस्यति । न रूपनिबन्धनात्प्रत्यक्षनियमः ॥ ८९॥ रूपनिवन्धनाद-रूपमात्रानिमित्तात्मत्यक्षनियमः बाह्यदव्यप्रत्यक्षस्प नियमो न-न भवति । कुतः १ घणुकादेरपिप्रत्यक्षत्वमसङ्गादित्यर्थः १८९॥ अणुमहदीर्घ हस्वमिति चतुर्विधं परिमाणमिति वैशेषिकाक्ने परि- माणचातुर्विध्यं दैविध्येनचरितार्थयन्नाह । न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्" ॥९॥ परिमाणचातुर्विध्यम् अणुमहद्दीर्घ हस्वमिति परिमाणस्य चतुःप्रकार- वं न युक्तं न । किन्तु दिपकारत्वम् । कुतः ? दायां तद्योगाव-अणु- महत्परिमाणाभ्यामेव तस्य परिमांगचातुर्विध्यस्य सर्वत्र प्रतिपादनसंभवा- दित्यर्थः ।

(१२०) सांख्यदर्शनसूत्रवृत्तौ।
मध्यादिबद्रस्वदीर्पयोरपि महत्परिमाणावान्तरभेदत्वेनैवोपपत्तरिति
भावः।
तत्राणुपरिमाणमाकाशस्य कारणं शब्दत्तन्मात्रलक्षणंगुणविशेष वर्नयित्वा
भूतेन्द्रियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यमिति भाष्यम् ॥ ९० ।।
इदानी स्वमतेने प्रत्यभिज्ञायाः सामान्यविषयत्वमुपपादयिष्यन तदप-
लापिनं बौद्धं प्रत्याचक्षाण आह-
"अनित्यत्वेऽपि स्थिरतायोगात्प्रत्यभिज्ञानं
सामान्यस्य"॥९१॥
प्रत्यभिज्ञान-सु एवायमित्यादिप्रत्यभिज्ञानं सामान्यस्य-विषयत्व पप्ठय
थैः । अनुगतधर्मविशेषःसामान्यं, तदिषयमवगन्तव्यम् । कुतः ? अनित्य-
त्वेऽपिस्थिरतायोगात्=तस्यमकृतिपुरुषाभ्यामन्यत्वेन नित्यत्वाभावेऽपि चिर-
स्थायित्वाभ्युपगमादित्यर्थः ॥ ९१ ॥
नन्वस्तु सामान्यविषयं प्रत्यभिज्ञानं, किं तेन ? तत्राह-
न तदपलापस्तस्मात् " ॥२२॥
तस्माव-मत्यभिज्ञाविषयत्वात्तदपलापः तस्यसामान्यस्यापहवो नन
संभवतीत्यर्थः ॥ ९२ ॥
नन्वतद्यावृत्तिरूपमेव सामान्यं न किश्चित्तत्त्वान्तरं, तबाह-
"नान्यनिवृत्तिरूपत्वं भावप्रतीते" ॥९३ ॥
सामान्यस्येत्यनुवर्तते । घटत्वादिसामान्यस्यान्यनिवृत्तिरूपत्वं-घटादि.
भ्योऽन्ये पटादयस्तभावस्वरूपत्वं नन्न संभवति । कुतः ? भावपत्तीतेः-
तस्य स एवायं घट ॥ इति भावत्वेन ज्ञप्तेरित्यर्थः ॥ ९३ ॥
नन्वस्तु तर्हि सादृश्यनिबन्धनमेवैतत्मत्यभिज्ञानं न सामान्यनियन्धनं,
तनाह-
न तत्त्वान्तरं सादृश्य, प्रत्यक्षोफ्लम्धेः ॥९४ ॥

पञ्चमोऽध्यायः।
(१२१॥
सादृश्य-भवदभ्युपगत सादृश्य तत्त्वान्तर भृयावयवसामान्यातिरिन
पदार्यान्तर न न भवति । कुत । प्रत्यक्षोपरथे. गोसदृशो गवय इत्यादि-
वत्सएवाय घट इत्यादौ सर्वत्र भूयोऽययवसामान्यम्यैव प्रत्यक्षणोपल धे-
रित्यर्थ ॥ ९४ ॥
"
ननु सापेक्षमतीतिविषयभूत सादृश्य कथ सामान्यताऽतिरित्न तत्त्वा.
न्तर न स्यात्तबाह-
निजशत्यभिव्यक्ति वैशिष्टयात्तदुपलब्धेः "॥९५॥
साध्यमित्यनुवर्तते । वा अथवा निजशत्यभिव्यक्ति वस्त्वन्तरदर्शन-
मापेक्षा वस्तुन स्वाभाविश्या शतेरभिव्यक्ति =अभिव्यना स्वाभाविकी श-
तिरितियावत्सादृश्य मन्तव्यमान तत्त्वान्तरम। कुत विशिष्टयात्तटुपलब्धे
तादृशशक्तिसवन्धोऽत्र वैशिष्टयम् । तस्मात्तस्य सादृश्यस्य प्रतीतरित्यर्थ ।
तत्तत्पदार्थनिष्ठस्तादृशक्तिभेद एव सर्वत्र सादृश्यमतीतिविषयो न
तत्त्वान्तरमिति भाव ॥ १५ ॥
नतु सादृश्यस्य शक्तिरूपत्वकल्पन न युक्तम । सज्ञासशिसवन्धग्रहहेतु.
स्वेन पृथक तत्सिद्देस्तत्राह--
"न सज्ञासज्ञिसबन्धोऽपि ॥९६ ॥
वैशिष्ट्यात्तदुपलब्धेरित्यनुवर्ततासज्ञासजिसवन्धोऽपि-विषयण विषयिण
लक्षयतिागवयादिशब्द सगा, तदथा व्यक्तिविशप सनी,तरसबन्धग्रहोऽपि
न-सादृश्यहेतुको न। कुत वैशिष्टयात्तदुपलब्ध आप्तापदेशादिसबन्धोऽत्र
वैशिष्टयम् । तस्मात्तस्य सब धस्य प्रतीतरित्यर्थ ।। ९६ ॥
सप्रति दिकालादीना सबन्धो निय इति मतमपाकरोति ।
न सबन्धनित्यतीभयान्नित्यत्वात् " ॥ ९७ ॥
सबन्धनित्यता-दिकालादीना सबन्धस्य नित्याव नन्न सम्भवति ।
कुत ? उभयानित्यत्वात-दिकालयोर्वा कालाकाशयोर्वा सबन्धधर्मिणोरुभ-
यो प्रकृतिपुरमान्यत्वन नित्यत्वाभावादित्यर्थ ॥ ९७ ॥

(१२२) सांख्यदर्शनसूत्रवृत्तौ । ननु संबन्धिनामनित्यत्वेऽपि तत्संबन्धो नित्यः किं न स्यात् ? तबाह- "नाजः संबन्धो धर्मिग्राहकमानबाधात्" ॥ ९८ ॥ ? संबन्धः संवन्धिनामनित्यत्वे सति संयोगादिलक्षणस्तत्संबन्धोऽन:- नित्यो न=न संभवति। कुतः ? धर्मिग्राहकमानबाधात् धर्मिणः-संबन्धस्य ग्राहकं यन्मानं-प्रमाणं तेनैव तन्नित्यत्वस्य बाधात् अभावनिश्चयादि- त्यर्थः। यो यः संबन्धः स सर्वः कादाचित्कविभागपूर्वक इति संबन्धं ग्राहय. प्रमाणं तदजवाभावमपि ग्राहयतीति भावः ॥ ९८ ॥ नन्वेवम् ‘इहेदमिनियतः कार्यकारणयोःस समवायः" इति वैशेषिकोक्तः समवायसंबन्धोऽपि नित्यो न स्यात्तत्राह- "न समवायोऽस्ति प्रमाणाभावात्" ।। ९९ ॥ ममवायः समवायाख्यः कश्चित्संबन्धो नास्ति न विद्यते। कुतः? प्रमा- णाभावात्-तत्साधकममाणानुपलम्भादित्यर्थः । तदाख्यःमम्बन्धण्वास्माकं नास्ति दूर तन्नित्यत्वमिति भावः ॥ ९९ ॥ ननु कथं तसाधकममाणाभावः प्रत्यक्षानुमानयोरेव तत्र प्रमाणत्वात्, तत्राह- "उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा" ॥ १० ॥ प्रत्यक्ष शुक्लः पट इत्यादिमत्यक्षमनुमानं वा-विशिष्टत्रुद्धिः विशेषण- विशेष्यसंबन्धविषया, विशिष्टयुद्धिवाद, दण्डीपुरुष इति विशिष्टबुद्धिवाद- त्याद्यनुमानं वा न-तत्र प्रमाणं न भवति । कुतः ? उभयत्राप्यन्यथासिद्धेः= ममाणद्वयेऽपि स्वस्पसंबन्धेनेवोपपत्तरित्यर्थः । १ नशेषिक-अ०७-आ०२-०२६ ।

पञ्चमोऽध्यायः। (१२३) प्रमाणदय स्वरूपसंबन्ध गोचरयति । न समवायसबन्धमिति भावः इदमत्रबोध्यम् यहि वैशेषिका नैयायिकाश्च समवायसबन्धमाचक्षते तमेव साख्या योगाश्च स्वरूपसम्बन्ध वैदान्तिकाश्चतादात्म्यसम्बन्धं व्याचक्षत इति न वैदिकदर्शनानां कधिन्मियो विरोध इति ॥ १०० ॥ सर्वथाऽनुमेया क्रियेति चौदस्त मत्याह- "नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तद्वतोरेवापरो- क्षमतीते"॥१०१॥ कियाया:-कर्मणोऽनुमेयत्वमेव केवलसयोगविभागलिङ्गकानुमानविष- यत्वमेव न=न मन्तव्यम् । कुत ? नदिष्ठस्य-अतिनिकटवर्तिन पुरुषस्य तत्तद्वतारेव-कियाकियावतोरुभयोरप्यपरोक्षमताते चलतीति प्रत्यक्षोपलब्धे रित्यर्थः ॥ १०१ ॥ समाधानाना क्षित्यादिपश्चभूताना परिणामः स्थूलो देह इत्येकदेशि- नस्तान् निराफरोति। "नपाञ्चभौतिक शरीरं, बहूनामुपादानायोगात्"॥१०२॥ शरीर-स्थूल शरीर पाश्चभौतिक पञ्चानासमप्रधानाना क्षित्यादिभू. ताना कार्य न-नभवति । कुत ? बहूना=भिन्न नातीयाना बहूनामुपादानायो- गात एक कार्य मति सममधानभावेनोपादानत्वासभवादित्यर्थ । तन्तूना बहुत्वेऽपि समाननातीयत्वानदोष इति द्रष्टव्यम् ॥ १०२॥ स्थूलमेवेक शरीरमिति बाह्यास्तान् प याह- "न स्थूलमितिनियम आतिवाहिकस्यापि विचमान- त्वात" ! १०३ ॥ स्थूलमितिनियम = स्थूलमेवेकशरीरमितिनियमो न = नापपद्यते । कुत ? आतिवाहिकस्यापि-नीवात्मान पुरुष देहादेहान्तरमतिवाहयतीत्या- तिवाहिक-मूक्ष्म शरीरम् । तस्यापि विद्यमानत्वात् स्थूलाभ्यन्तरे सत्त्वा- दित्यर्थ ।

( १२४) सांख्यदर्शनसूत्रवृत्ती। लोकवल्लोकान्तरेऽपि निराश्रयस्य पुंसो गमनासंभवात्स्थूलादन्यदाति- वाहिकं शरीरमभ्युपेतव्यमिति रहस्यम् ॥ १०३ ॥ अप्राप्तार्थप्रकाशकानीन्द्रियाणीति बौद्धास्तान् पराजयते । "नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्राप्तेःसर्वप्राप्तेर्वा"१०४ इन्द्रियाणां चक्षुरादिज्ञानेन्द्रियाणाममाप्तप्रकाशकत्वम् आत्मासम्बद्धा- यावभासकलं न-न संभवति । कुतः ? अप्राप्ते:-माप्तिरत्र ज्ञानम् । व्यव- हितवस्तुज्ञानाभावात् , सर्वमाप्तेर्वा=व्यवहिताऽव्यवहितसर्ववस्तुज्ञानमसंगादे- त्यर्थः ॥ १०४॥ नन्वेवं चक्षुरिन्द्रियस्य तैनसत्वमेव सिध्येत्, नाहङ्कारिकत्वम् । लो- के तेनस एव विषयप्रकाशाथै किरणरूपेण विषयदेशापसर्पणदर्शनात, तबाह- न तेजोऽपसर्पणातैजसं चक्षुत्तितस्तत्सिद्धेः" ॥१०॥ तेनोऽपसर्पणाव दूरदेशस्थविषयप्रकाशार्थ किरणरूपेण तेनसोऽपसर्पण- दर्शनाचक्षुः चक्षुरिन्द्रियं तैनसं तेनःकार्य न=न संभवति । कुतः ? वृत्तितस्तसिद्धः-तैनसत्वाभावेऽपितस्यशरीरमपरित्यज्यवृत्तिविशेषेण विष- यदेशापसर्पणोपपत्तेरित्यर्थः। यत्स्वाश्रयमपरित्यज्य बहिरपसर्पति, तत्तनसमिति नियमो नास्ति । प्राणानामतेनसत्वेऽपि नासाग्रतो बहिरपसर्पणदर्शनादिति भावः ॥ १०५॥ ननु तद्वत्तरेवासिद्धत्वात्कथं वृत्तितस्तत्सिद्धिस्तत्राह- " प्रामार्थप्रकाशलिङ्गावृत्तिसिद्धिः " ॥ १०६ ॥ मानार्थमकागलिगाव-इन्द्रियः प्राप्तस्प-संबद्धस्यार्थस्य-विषयस्य जाय. मानो यः प्रकाश अर्याकारःमत्ययस्तलक्षणाल्लिङ्गादृत्तिसिीधा-चक्षुरादी- नौ तेषां वृत्तेः सिद्धिर्भवतीत्यर्थः । आत्मासंबंद्धममिन्द्रियाणि न प्रकाशयन्ति, प्रकाशभानुभवसिद्धः ।

पञ्चमोऽध्यायः। (१२५) स एवान्यथानुपपन्नः संबन्धमयोनिकां वृत्तिं साधयति । तसिद्धौ च सुतरां नतस्तसिद्धिरिति भावः ॥ १०६॥ ननु सा किं विस्फुलिङ्गादिवञ्चक्षुरादिभागविशेषो वा रूपादिवत्तटू- गविशेषा वा, तबाह- "भागगुणाभ्यां तत्त्वान्तरं वृत्तिासंबन्धार्थ सर्पतीति"१०७ वृत्तिः चक्षुरादीन्द्रियाणां विषयैः संबन्धमयोनिका वृत्तिर्भागगुणाभ्यां तद्विभक्तांशो भागः, गुणः प्रसिद्धो रूपादिस्ताभ्यां दाभ्यां तत्त्वान्तरम् अन्यः पदार्थः आहङ्कारिकश्चाक्षुषादिपरिणामविशेष इति यावत् । कुतः ? संबन्धार्थ सर्पतीति हेत्वर्थक इतिः । यस्मादेषा संबन्धार्थम् इन्द्रियार्थ- संयोगाय सर्पतिम्-विषयदेशं गच्छतीत्यर्थः । वृत्तेविभक्तांशत्वे तद्द्वारा चक्षुरादीनामर्थसंबन्धो न भवेत्, गुणत्वे चा क्रियत्वात्स्वयं न सत्संबध्नाति सर्पति च । तस्माद्वाभ्यां ताभ्यां तत्त्वान्तरं वृत्तिरिति भावः ॥ १०७॥ ननु चक्षुरादीनां द्रव्यत्वे वृत्तिभिर्विपयदेशोपगमनं संभवति नाहंकारिकत्व । लोके द्रव्यस्यैव तथात्वदर्शनाव, तत्राह- "न द्रव्यनियमस्तद्योगात्" ॥१०८॥ नसांख्यानामस्माकं द्रव्यत्वात् क्रियानियमा न। किन्तु तद्योगात्-क्रि- योगाइ द्रव्यनियमाभ्यक्रियायोगि तव्यमिति नियम इत्यर्थः । तथा चेन्द्रियाणामाहंकारिकत्वेऽपि नद्रव्यत्वव्याघात इति भावः॥१०८॥ नन्वत्राहकारिकाणि सन्त्यपीन्द्रियाणि देशान्तरे भोतिकानि भवि- प्यन्ति । देशभेदवकार्यभेदस्यापि संभवात्, तत्राह- "न देशभेदेऽप्यन्योपादानताऽस्मदादिवनियमः।१०९॥ इन्द्रियाणामिति शेषः । चक्षुरादीन्द्रियाणां देशभेदेऽपि माहादिदेशवि. श्रेषेऽपि देशान्तरेऽपीतियावद योपादानता अहंकारातिरिक्तभूतोपादानता-

(१२६) सांख्यदर्शनसूत्रवृत्तौ।
भौतिकत्वमिति यावन्न नास्ति । किन्त्वस्मदादिवनियमः अत्रेव सर्वत्र
तेषामाहङ्कारिकत्वनियम इत्यर्थः ॥ १०९ ॥
नन्वेवं तर्हि कथं वैदिकानां दर्शनान्तरे"भूतेभ्य इति भौतिकत्वव्यपदे.
शः? तत्राह-
" निमित्तव्यपदेशात्तद्वयपदेशः"॥ ११०॥
निमित्तव्यपदेशात्-उपष्टम्भकत्वानिमित्तभूतेषु तेनआदिभूतेषूपादानतो-
पचारो निमित्तव्यपदेशस्तस्मात्तव्यपदेशः भौतिकत्वव्यपदेश इत्यर्थः ।
यथेन्धनोपष्टम्भेन तदनुगतात्तेजसो जायमानो वह्निरिन्धनादह्निरि-
ति व्यपदिश्यते । तथा तेजआदिभूतीपष्टम्भेन तदनुगतादहंकारान्नाय-
मानानीन्द्रियाणि भूतेभ्य इति व्यपदिश्यन्ते । नोपादानताऽभिमायादिति
न दर्शनान्तरविरोध इतिभावः ॥ ११० ॥
खण्डननरायुजस्वेदनोद्भिनमिति चतुर्विधं शरीरमिति केचित, नान्
प्रत्याह-
"ऊष्मजाण्डजजरायुजोद्भिजसाङ्कल्पिकसांसिद्धिक
श्चेति न नियमः ॥१११॥
हेत्वर्थकश्चकारः । सर्वेषां भौतिकत्वं ममानमिति सूचनाय समाहाराय-
स्मादृप्मनाण्डजनरायुनोदिन्नसांकल्पिकसांसिद्धिकम् ऊष्मणो जानं कृमि.
दशादिशरीरमूष्मजम् । अण्डाजातं पक्षिसरीमपादिशरीरमण्डलम् । गर्भवेष्टनं
चर्म नरायुस्तस्मान्नातंमनुनगवादिशरीरंजरायुजम् । भूमिमुद्भिद्य जातं
तरुगुल्मादिशरीरमुद्भिन्नम् । सृष्टयादी प्रजापतिसङ्कल्पान्नातमार्ष शरीरं
सांकल्पिकम् । योगसाधनाज्जाता सिदिः संसिद्धिस्तताजात योगिनां
यथाकामं शरीरं सांसिद्धिकमिति पाविध शरीरमिति-अस्मानियमः-
चतुर्विधमेव स्थूलं शरीरामिति नियमो न-न संभवतीत्यर्थः ॥१११ ॥

पञ्चमोऽध्यायः। (१२७) नन्वेषुसर्येषु लोके पार्थिवत्वव्यपदेशदर्शनारकथं "पाश्चमौतिको देह " इति तृतीये सूत्रितं, तबाह- " सर्वेषु पृथिव्युपादानमसाधारण्यात्तद्वयपदेशः पूर्ववत् ॥ ॥ ११२॥ यतोऽत इति शेषः । यस्मात् सर्वेषु-पूर्वोक्तेषु पहिषशरीरेष्वसाधार- ण्या-माधान्यात्पृथिव्युपादानं भूमिरुपादानकारणमितराणि च जलादीनि साधारण्याव,अतस्तदयपदेशः शरीरेषु तेषु पार्थिववव्यपदेशः तत्रोदाहरण पूर्ववत यथेन्द्रियेष्वाहारिकत्वव्यपदेश इत्यर्थः ।। ११२ ॥ ननु शरीराणां भौतिकत्वे तदन्तर्वर्तिनः माणस्यापि भौतिकत्व किन स्यात् ? तत्राह- “नदेहारम्भकस्य प्राणत्यमिन्द्रियशक्तितस्त सिद्धः"॥ ११३॥ देहारम्मकस्य- शरीरोत्पादकस्य भूतपञ्चकस्य प्राणस्व-माणोत्पादकरव न-नास्ति । कुतः ? इन्द्रियशक्तित: इन्द्रियाणांशक्तिविशेषात्तसिद्धे'तस्प प्राणस्योत्पत्तरित्यर्थः ॥ ११३ ॥ नन्वेतानि शरीराणि भोत्ता जीयः कदाधितिष्ठति । तत्राह-- भोक्तुरधिष्ठानाभोगायतननिर्माणमन्यथापूति- भावप्रसङ्गात् ॥ ११४ ॥ भोक्तु:-जीवात्मनः पुरुपस्याधिष्ठानात् अधिष्ठात्रधिष्ठेयभावलक्षणःसम्ब- न्धविशेषोऽधिष्ठानं, तस्मात्सतो भोगायतननिर्माण भौतिकाभ्यां शुफशोणि- ताभ्यां भोगायतनस्य शरीरस्य निर्माणम् आरम्भो भवति । न्यथा-पुर- स्तात्तदाधिष्ठानाभावे पूतिभावभसाद-मृतशरीरवच्छुकशोणितयोस्तयो.पूति स्वप्रसतरित्यर्थः ॥ ११४॥ १ स भ ३सू १७॥ “ (१२८) सांख्यदर्शनसूत्रवृती। ननु परमात्मनोऽधिष्ठानात्कार्यमात्रारम्भश्रुतेः कपमुच्यते भोक्तुरधि ष्ठानाभोगायतननिर्माण, तत्राह- भृत्यद्वारा स्वाम्यधिष्ठितिनैकान्तात् ॥११५ ॥ भृत्यदारा=परमात्मना सर्वदाभरणीयत्वाभृत्योनीवात्मापुरुषः । तद्वारा तत्रस्वाम्यधिष्ठितिः-स्वामिनः परमात्मनोऽधिष्ठानम् । 'ये आत्मनि तिष्ठन् ' इति श्रुतेः । नैकान्ताद=न साक्षादित्यर्थः । भोक्तारं जीवात्मानं पुरुषमधिष्ठाय जगदधिपतिरीश्वरस्तदधिष्ठितं भी ग्य नातमधितिष्ठतीति भावः । यद्वा ननु जीवात्मनः पुरुषस्य कूटस्थत्वेन स्वतो व्यापाराभावात्क यं तत्र तस्याधिष्ठानं स्याव ? तबाह । भृत्यद्वारा भृत्यतुल्यमत्र बुद्धिस- त्वमधानं सूक्ष्म शरीरम् । तद्वारा तत्र स्वाम्यधिष्ठितिः-स्वामिनः पुरुषः स्याधिष्ठानं नैकान्तात्न्न साक्षादित्यर्थः ॥ ११५ ॥ नन्वेवं परमात्मनोऽप्यधिष्ठातृत्वेन सनिहिततरत्वाद् बुद्धिसत्त्वसरूप. तावत्तत्सरूपताऽपि जीवात्मनः स्याव, तत्राह- समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता ॥११६॥ भोक्तरित्यनुवर्तते । जीवात्मनः पुरुषस्य नागदादौ बुद्धिसत्त्वसरूपताव समाधिसुषुप्तिमोक्षेषु-समाधिर्योगः, सुषुप्तिर्निदा, मोक्षो विदेह कैवल्यम् । समाधिश्च सुषुप्तिश्च मोक्षश्च, ते तथा, तेषु ब्रह्मरूपता परमात्मसरूपता भवतीत्यर्थः । यथाहिनायदादी बुद्धिधर्मान् दुःखादीन धारयन् नीवोऽयं बुद्धिरूपः सम्पद्यते यत्रेदमुक्तं भवति ध्यायतीव लेलायतीव । वृत्तिसारु प्यमितरत्र' इत्यादीति । तथैव समाधिमुषुप्तिमोक्षेषु निर्दुःखादीन ब्रह्मधर्मान धारयन् तत्स्वरूपानन्दमुपभुनानो ब्रह्मरूपः सद्यते । न तद्- १.-.५-प्रा.७-२२.अ६ मा. ३-७॥यो पा. रस..। “ " तस्य पञ्चमोऽध्यायः। (१२९) भेदमापद्यते । 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसासह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम्' 'सता सोम्य तदा सम्पनो भवति । 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । निरञ्जनः परमं साम्यमु- पैति' 'ब्रह्मविदामोति परम्' 'आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन' इत्यादिश्रुतेरिति मन्तव्यम् ॥ ११६ ॥ ननु ब्रह्मरूपतातौल्ये समाधिसुषुप्तिभ्यां मोक्षस्य विशेषो न स्यात, तत्राह- "द्वयोः सवीजमन्यत्र नद्धतिः" ।। ११७ ।। ब्रह्मरूपत्वमित्यनुवर्तते । द्वयोः समाधिसुपुप्त्योः सबीन-क्लेशकर्मादि- वासनान्तेन बन्धवीजेन सहित ब्रह्मरूपत्वम,अन्यत्र मोक्षे तु तदतिः बन्धबीनस्य हानं भवतीत्यर्थः । बन्धबीजहानाहानाभ्यां विशेष इति भावः ॥ ११७ ॥ ननु समाधिसुपुती दृष्टे न मोक्षस्तत्राह- "द्वयोरिव त्रयस्यापि दृष्टवान्न तु द्वौ "॥ ११८ ॥ दयोरिव-समाधिसुषुप्त्योरिवत्रयस्यापितृतीयस्यमोक्षस्यापिदृष्टत्वात्- श्रुतिस्मृतिभ्यामवगतत्वान्न तु दौ-न समाविसुपुती एव स्तोऽपि च मोक्षोऽप्यस्तीत्यर्थः ॥ ११८ ।। ननु समाधी क्लेशकदिवासनाया कौण्ठ्यात्सर्ववृत्तिविलये जीवात्मनः पुरुषस्य ब्रह्मरूपत्वमस्तु । सुषुप्ती पुनस्तदभावात्कथमस्य ब्रह्मरूपता स्यात, तत्राह- "वासनयाऽनर्थख्यापनं दोषयोगेऽपि न, निमित्तस्य प्रधानबाधकत्वम् ॥ ११९।। १ कठो, ३.६११० । २ । प ६ ग ८+१। ३ मुं ३ खं. १-२-३ । १ते. प्र. व. अनु. १+१। ५ने र अनु. ४-१ ।

(१३०) सांख्यदर्शनसूत्रवृत्ती। दोषयोगेऽपि यथा समाधी तथा निदादोषयोगेऽपि-सुषुप्तावपीति- यावद वासनया-क्केशकर्मादिवासनयाऽनर्थख्यापनम् आत्मातिरिनार्थानु- भावनं न न संभवति । कुतः? यतो निमित्तस्य-सुषुप्तिपति निमित्तभूतस्य- निद्रादोषस्य प्रधानवाधकत्वं ख्याति मति प्रधान कारणं वासना, तदाध. कत्वं तदभिभावकत्वमस्तीत्यर्थः । तथा च समाधिवत्सुषुप्तावपि वासनाकोण्ठ्यात्सर्ववृत्तिविलये ब्रझरूपता संभवतीति भावः ॥ ११९ ॥ यत्नेनेवादिक्षेपे जायमानादाद्यकर्मणो वेगाख्यः संस्कारो जायते ततः कर्म, ततश्च संस्कारः, पुनरप्यवमितिनैयायिकैकदेशिनस्तान्निरा- कुर्वनाह- एकः संस्कारः क्रियानिवर्तको न तु प्रतिक्रिय संस्कारभेदा बहुकल्पनाप्रसक्तेः" .॥ १२० ॥ एक: आयकर्मनिवर्त्यः प्रथम एव संस्कारः वेगाख्यः संस्कारः- क्रियानिवर्तक:यावदिप्यादिपतनंतावत्क्रियासन्तानस्य जनको, नतु पति- किय-क्रिया क्रियां प्रति संस्कारभेदाः वेगाख्यसंस्कारभेदाः सन्ति । कुतः? पहुकल्पनामसक्तेः बहुसंस्कारकत्सनापसगादित्यर्थः ॥ १२० ॥ ननु यदुक्तमुदिनं भोक्तशरीरं, तन्न युक्तम् । तत्र शरीरत्वमयोनि- फाया वाह्यबुद्धेरनुपलम्भात्तत्राह- न वाह्ययुद्धिनियमो वृक्षगुल्मलतौषधिवनस्पतितृ. णवीरुधादीनामपि भोक्तभोगायतनत्वं पूर्ववत्" ॥१२॥ वाह्यबुद्धिनियमः बहिरिन्द्रियनन्यं वाह्यवस्तुविषयंज्ञानं वाह्यबुद्धिः सा यत्र, तदेव भोक्तशरीरमिति नियमो न-न भवति । किन्तु ज्ञानमात्रम्, अतो वृक्षादिवीरुधन्तानामप्यन्तःसंजत्वाइभोक्तभोगायतनत्वं भोक्तशरीरत्वं पू- ववव उपमनादिषन्मन्तव्यमित्यर्थः ।

पञ्चमोऽध्यायः। . - तत्र पुष्पाजायमानफलाश्चूनादयस्तरवो वृक्षाः,गुल्माकाराः सोमलता- प्रभृतयो गुल्मलताः, ओषधयः फलपाकान्ता बीहियवादयः,पुष्पादृत जाय- मानफलाः पनसोदुम्बराश्वत्थादयो वृक्षविशेषा वनस्पतयः,नडमभृतीनि तृणा- नि, शाखादिभिर्विस्तृता लता वीरुधः, फलहीनाः केवलपुष्पिणो वृक्षविशेषा आदिपदार्थी इति विवेकः ॥ १२१ ॥ तत्र श्रुतिस्मृती प्रमाणयति । "स्मृतेश्च" ॥ १२२ ॥ वृक्षादीनां भोक्तभोगायतनत्वमित्यनुवर्तते।श्रुतिसमुच्चयाय चः 'अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति' इत्यादिश्रुतेः शेरीरजैः कर्मदोषैर्याति स्थावरतां नरः। वाचकै पक्षि- मृगतां मानसैरन्त्यजातिताम्' इत्यादिस्मृतेश्च वृक्षादीनां भोक्तभो- गायतनत्वमित्यर्थः ॥ १२२ ॥ ननु वृक्षादीनां भोक्तभोगायतनत्वे तेषां लौकिकवैदिककर्माधिकारिता- ऽपि स्यात्तत्राह-- "न देहमावतः कर्माधिकारिता, वैशिष्टयश्श्रुतेः॥१२॥ देहमात्रतः शरीरमात्रात्कर्माधिकारिता लौकिकैवैदिककर्माधिकारित्वं न कस्यचिन्न भवति । कुतः ? वैशिष्ट्यश्रुते =मनुष्यत्वब्राह्मणत्वादिवशिष्ट्य- स्यापि तत्र श्रवणादित्यर्थः ॥ १२३ ॥ ननु समाने देहे कुत एप भेद.१ तत्राह- "त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभय- देहाः ॥ १२४ ॥ यत इति शेषः । यस्मात् प्रयाणाम उत्तममध्यमाधमानां सर्वदेहिनां फर्मदेहोपभोगदेहोभयदेहा इति विधा-त्रिपकारा व्यवस्था देहव्यवस्थे- त्यर्थः। १ छा. प्र. ६-ख. ११-२२२मनु-अ. १२-श्लोक ८ ।

. (१३२) सांख्यदर्शनसूत्रवृत्तौ। तत्र ब्रह्मचारिवानप्रस्थानां कर्मदेहः पश्वादिस्थावरान्तानामुपभोगदेहः। गृहस्थानामुभयदेह इति विवेकः । यद्यपि ब्रह्मादिस्तम्बान्तानां सर्वेषामुपभोगदेहत्वतौल्यात्रिधा विभागो न संभवति, तथापि प्राधान्यनैष विभाग इति विज्ञेयम् ॥ १२४ ॥ ननु चतुर्थाश्रमिणः शरीरं न गणितं, तत्राह- न किश्चिदप्यनुशयिनः ॥१२५ ॥ अनुशयिनः पारब्धकर्मावशेषोऽनुशयः, स विद्यते यस्य, तस्य-त्यक्तस- वकर्मणो विवेकवतः संन्यासिनः किश्चिदपि-पूक्तेिषु त्रिविधशरीरेषु किमपि शरीरं नन्नास्तीत्यर्थः । उपदेशादिकन्तु तस्य स्वाभाविकी लीलति सर्वमवदातम् ॥ १२५ ॥ ज्ञानेच्छाकृत्यादयोबुद्धिसत्त्वगुणास्तादात्म्यात्पुरुषे व्यपदिश्यमाना यु- दिसत्त्वपरिणामविशेषत्वादनित्या इति सिद्धान्तः। तत्रैकस्मिन् कस्मिंश्चि- दाश्रय तेषामनित्यत्वदर्शनेऽप्याश्रयान्तरे नित्यत्वं भविष्यति, किमवशेषेण सर्वत्रानित्यत्वाभ्युपगमेनति परेणाशाते माह- "न बुद्धयादिनित्यत्वमाश्रयविशेषेऽपि वहिवत्"॥१२६॥ भाश्रयविशेषेऽपि एकाश्रयवदाश्रयान्तरेऽपि बुद्धयादिनित्यत्वं बुद्धिर्जा- नम् । आदिपदेनेच्छाकृत्यादिसंग्रहः । तेषां जानेच्छाकृत्यादीनां नित्यत्वम् उत्पत्तिविनाशशून्यत्वं न=न संभवति । वह्निवत् यथा महानसादावकत्रा- श्रयेऽनित्यत्वेन दृष्टस्य वढेराश्रयान्तरे न नित्यत्वमित्यर्थः ॥ १२६ ।। ननु ज्ञानादयो न बुद्धिसत्त्वगुणाः किन्तु जीवगुणाः, जीवाश्च नित्या इति तदणा अपि नित्याः किं न स्युस्तबाद- आश्रयासिद्धेश्च ॥ १२७ ॥ न युद्धवादिनित्यत्वमित्यनुवर्तते । पक्षे पक्षतावच्छेदकाभाव आश्रया- सिद्धिः । पक्षधात्र नीवगुणावुद्ध्यादयः, तेषां जीवगुणत्वस्यासिद्धेश न नित्यगुणवेन हेतुना नित्यत्वं सिध्यतीत्यर्थः ।

पञ्चमोऽध्यायः। (१३३)
अत्र वृत्त्यात्मनो ज्ञानस्य नित्यत्व प्रतिषिध्यते न स्वरूपभूतस्य
ज्ञानस्येति द्रष्टव्यम् ॥ १२७ ॥
सांसिद्धिक शरीरमित्युक्तम् । तदुपपत्तये योगसिद्धीरभ्युपाययति ।
"योगसिद्धयोऽप्यौषधादिसिद्धिवन्नापलपनीयाः॥१२८॥
औषधादिसिद्धिवत्-आदिनामणिमन्त्रतणासि सगृह्यन्ते । तत्पयोगेण
जायमानरोगहरणादिसिद्धिवद् यागसिद्धयोऽपि योगाभ्यासेन जायमाना•
अणिमादिसिद्धयोऽपि नापलपनीया नापोतुमही सन्तीत्यर्थ ।
औषधादिसिदिवत्ता अप्यभ्युपगन्तव्या इति भाव ॥ १२८ ॥
सम्पति परमननिराकरणाध्यायमुपसहन्नन्ते पुरुषसिद्धिप्रतिकूल-
तया भूतचैतन्यपादिन चार्वाक मत्याचष्टे ।
न भूतचैतन्यं प्रत्येकादृष्टेः साहत्येऽपि च सांह-
त्येऽपि च ॥ १२९ ॥
अध्यायपरिसमाप्तिपरावाप्सा 1 भित्रनमश्च । भूतचैतन्यभूताना=
वियन्मरुत्तमोऽस्तुप्रथिवीना चैतन्य प्रत्येक चेतनत्व नम्न दृश्यताप्रत्येका-
दृष्टेच-एकेकस्मिनदर्शनाच साहत्येऽपि-देहाकारेण परिणत तत्सपातेऽपि
चैतन्य न युक्तमित्यर्थ ।
तृतीयाध्यापेचेद स्वसिद्धान्तविधयोक्तम् । अत्र च परमतनिराकर-
णायेति न पोनरुत्यमिति भाप्यम् ॥ १२९ ।।
स्वसिद्धान्त दृढीकर्तुं परसिद्धान्तनिर्नय ।
प्रसङ्गाचात्मसिद्धान्त पश्चमेऽस्मिनिरूपित ॥ १ ॥
इति श्रीमत्परमहसपरिमानाचाम्पादासीनयीत्मारामभगवत्पादशिष्पहारपसा
दकृताया सारयमूत्रवृत्तौ परमतनिर्जया पाय पश्चम ॥ ५॥

" (१३४) सांख्यदर्शनसूत्रवृत्तौ। अथ पष्ठोऽध्यायः। पञ्चमाध्यायेन परसिद्धान्तं निराकृत्य चतुर्भिःपूर्वाध्यायनिरूपित- स्यात्मसिद्धान्तस्य स्थूणानिखननन्यायेन पुनः स्थिरीकर्तु धष्ठाध्यायमारभ- माणः पूर्वन्तावदात्मास्तित्वमाह- अस्त्यात्मा, नास्तित्वसाधनाभावात् आत्मा देहेन्द्रियादिसंघातदष्टा जीवात्मा पुरुषोऽस्ति विद्यते । कुतः ? नास्तित्वसाधनाभावात् तन्नास्तित्वसाधकस्य हेतोरनुपलम्भादित्यर्थः ॥१॥ ननु नास्माभिरात्मा प्रतिषिध्यते, किन्तु तस्यदेहादिव्यतिरिक्तत्वं, तबाह- "देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् " ॥२॥ असो-नीवात्मा पुरुषो देहादिव्यतिरिक्तः-देहादिप्रकृत्यन्तेभ्यस्तत्त्वेभ्यो भिनो भवितुमर्हति । कुतः ? वैचित्र्यात्-ततो विलक्षणत्वादित्यर्थः॥२॥ व्यतिरिक्तवे हेत्वन्तरमाह- " षष्ठीव्यपदेशादपि" ॥३॥ देहादिव्यतिरिकोऽसावित्यनुवर्तते । ममेदं शरीरं ममेयं बुद्धिरित्यादि- भैदव्यपदेशादपि देहादिव्यतिरिक्तोऽसौ पुरुष इत्यर्थः ॥ ३ ॥ ननु शिलापुत्रकस्य शरीरं, पुरुषस्य चैतन्यं, राहो शिर इत्यादिव्य- पदेशवदयमपि गौणो व्यपदेशो न मुख्यस्तत्राह- न शिलापुत्रवर्मिग्राहकमानवाधात्" ॥४॥ शिलापुत्रवत्-शिलापुत्रकस्य शरीरमित्यादिवन-ममेदं शरीरमित्यादि- व्यपदेशो गौणोन कुतः धर्मियाहकमानबाधात्-धर्मिणः जीवात्मनः पुरु- पस्य ग्राहकं-शरीरादिभ्यो भेदेनानुभावकंयन्मानं प्रत्यक्षानुमानशब्दल. क्षणं ममाणं, तेन वाधाव भेदगौणत्वस्य वाधनादित्यर्थः । " षष्ठोऽध्यायः। (१३५) शिलापुत्रादौ तु न तद्वाहकमानेन भेदगौणत्वबाध इति भावः ॥४॥ नन्वस्तु देहादिव्यतिरिक्त पुमान, तथापि दु खिनस्तस्य कृतकृत्यता कथं स्यात् ? तत्राह- अत्यन्तदुःखनिवृत्त्या कृतकृत्यता"॥५॥ अत्यन्तदु खनिवृत्त्या अन्तमतिकान्ता विविधदु सनिवृत्तिरत्यन्तटु ख- निवृत्तिस्तयैवास्य कृतकृत्यता-कृतकार्यता=कृतार्थत्व भवतीत्यर्थ ॥ ५ ॥ ननु कस्मादस्य दु खात्यन्तनिवृत्त्यैव कृतकृत्यता, न सुखावाप्त्या, तत्राह- यथा दुःखाक्केशः पुरुषस्य न तथा सुखादभि- लापः ॥६॥ यत्त इति शेष । यस्मात्पुरुषस्य भोनुर्जीवात्मनो यथान्येन प्रका- रेण दुखात दु खसबन्धात्लेश तद्विषयोदेषस्तथान्तेनमकारेण सुखा- सुखसबन्धादमिलाए -तद्विषय कामो नमन भवतीत्यर्थ । सुखामिलापतो दु ग्वद्वेषस्य बलीयस्त्वान्तदत्यन्तनिवृत्तिरेवोत्कटेच्छा. विषयत्वात् परमपुरुषार्थो न सुखावाप्तिरिति भाव ॥ ६ ॥ गनु कस्मादस्य दु खनिवृत्तिवत्सुखमाभिलाषगोचरो न भवति, तत्राह- कुचापि कोऽपि सुखीति" ॥७॥ इतिहतो। यस्मात्कुत्रापि ब्रह्माण्डमध्ये कचिदेव कोऽपि ब्रह्मादिस्तम्ब- पर्यन्ताना जीवाना मध्ये कश्चिदेव सुखी-सुखभाग्भवतीत्यर्थः ॥ ७ ॥ नन्वतेन सुखस्य दौर्लभ्यगायात नाभिलाषाविषयत्व, तत्राह~ "तदपि दुखशवलमिति दुःखपक्षे नि.क्षपन्ते विवेचका॥८॥ तदपि ब्रह्माण्डमध्ये कदाचित्कुत्रचित्कस्यचित्कथचिनायमान सुखमाप विश्वका विवेकिनो जना दु सपशे-दु खोटो निक्षान्त व्यवस्थापय- न्ते। कुत ? दु खशबलमिति-हेत्वर्थक इति । यतो दु खसभिन्नमित्यर्थः ।

सांख्यदर्शनसूत्रवृत्तौ। यथा विषसंसृष्टमन्नं बुद्धस्याभिलापगोचरो न भवति तथैव दुःखश- बलत्वात्सुखमपि दुःखनिवृत्तिवदस्यमुमुक्षुपुरुषस्याभिलापगोचरो न भव. तीति भावः ॥ ८॥ ननु केवला दुःखनिवृत्तिरपि परमपुरुषार्थो न संगच्छते; लोके सुखी- स्यां दुःखी न स्यामिति दुःखनिवृत्तिवत्सुखस्याप्यभिलाषाविषयत्वदर्शनादि- त्याशंक्य दुःखात्यन्तनिवृत्त्या ब्रह्मानन्दापभोगावश्यमावादमिलापोपपत्तर- दोष इति तात्पर्येण समाधान आह- सुखलाभाभावादपुरुषार्थत्वमिति चेन्न दै- विध्यात् " ॥ ९॥ ननु सुखलाभाभावात्-मुक्ती सुखावाप्त्यभावादपुरुषार्थत्व केवलदुःख- निवृत्तेरपि पुरुषार्थत्वं न स्यादिति चेन्न दैविध्यात्-दुःखात्यन्तनिवृत्तिरूप- तया परमपुरुषार्थस्यैरुपकारत्वेऽपि तदविनाभूतेन ब्रह्मानन्दोपभोगेन तस्य दिप्रकारत्वाभ्युपगमादित्यर्थः । इदमत्रबोध्यम् । यद्यपि सांख्यानां दुःखात्यन्तनिवृत्तिरेवैकः परमपुरु- पार्थो न सुखावाप्तिः, तेषां जायमानसुखमात्रस्य प्राकृतत्वेन दुःखशवलतया दुःखवत्परिहार्यत्वात्। तथापि ते मुक्त्यवस्थायां जीवात्मनः पुरुषस्य ब्रह्मा- नन्दोपभोगं मन्यन्ते ' सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' 'आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन' इत्यादिश्रुतेः । स च दुःखात्यन्तनिवृत्तिवनस्वतन्त्रःकश्चित्पुरुषार्थः, पुरु- पपुरुषकारेण तस्य साक्षात्साध्यत्वाभावात् । किन्तु दुःखात्यन्तनिवृत्तो सि- दायामवश्यंभावित्वात्तनान्तरायकः, तेनद्वैविध्ये सत्यपि प्रधानतः परम- पुरुषार्थस्यैकत्वान्न पूर्वापरविरोध इति ॥ ९॥ १ ते. प्र. य. अनु. १ । २. ब्रह्मा.व.अनु ९ ।

षष्ठोऽध्यायः। ननु साग्व्याना दु:समात्रस्य बुद्धिधर्मत्वेनात्मनिष्ठत्वासिद्धे कथ तनि- वृत्तिरपि परमपुरुषार्थ स्यादिति शकते । "निर्गुणत्वमात्मनोऽसगत्वादिश्रुतेः" ॥ १० ॥ नन्वात्मन =नीवात्मन पुरुषस्य निर्गुणत्वन्दु खादिनिखिलगुणसबन्ध- शून्यत्ल स्वत सिद्धमस्ति । कुत । असङ्गत्वादिश्रुतेः- असङ्गोधयं पुरुषः' इत्यादिना तस्यासङ्गलादिश्रवणादित्यर्थ । यस्य यत्सबन्धो न भूतो न भवति न भाविता,तस्य तनिवृत्ति कथम- भ्यर्थनीया स्यादिति भाव ॥ १० ॥ समाधत्ते। परधर्मत्वेऽपि तत्तिद्धिरविवेकात् " ॥ ११ ॥ परधर्मत्वेऽपि दु सार्बुद्धिसत्वधर्मत्वऽप्यविवेकात-वाक्तलक्षणादवि- वैकाबुद्धिमत्त्वतादात्म्यापत्यातत्सिद्वि-तस्य दु खादे पुरुषनिष्टत्वसि- दिरस्तीत्यर्थ । यथा वद्वितादात्म्याल्लाहस्प दाहादिमत्त्व, तथा पुरुषस्यापि बुद्धिसत्व- तादात्म्याददु सादिमत्तमस्ति, तन तस्य तद यन्तनिवृत्ति परमा पर्थनी- येति भाा ॥ ११ ॥ नन्वस्त्वविवरमूलकपुरुषस्य दु खादिगुणनातमविवेक पुनः कि- मूलक । तत्राह- " अनादिरविवेक न्यथादोपद्यप्रसक्तः" ॥ १२ ॥ अविवेक -पूर्वत्तिलक्षणोऽविवेवोऽनादि =आदि-कारण, तनविद्यते यस्य, स तथा । कुत ! अन्यथा दापदयप्रसत्ते: अन्यथा-सादित्वे दोषदय- प्रसते स्वोत्पत्ती कारणान्तरापेक्षायामनवस्था, तदनपेक्षणेचमुनस्या- पिपुनर्बन्ध इति दापद्यस्य प्रसगादित्यर्थ ॥ १२ ॥ १वृ अ५मा ३-१५।

- (१३८) सांख्यदर्शनसूत्रवृत्तौ। नन्वनादिश्चेदविवेकस्तहि नित्यः सेत्स्यति, तबाह- न नित्यः स्यादात्मवदन्यथाऽनुच्छित्तेः" ॥ १३ ॥ अनादिरविवक इत्यनुवर्तते। अनादिः सन्नप्यविवेको न नित्यः स्याव- पागभावन्नित्यो न भवेत् । अन्यथा नित्यत्वेत्वात्मवदनुच्छित्तिः यथाऽऽ. त्मनोनित्यत्वान्नाशो न भवति तथाऽविवेकस्यापि नाशो न स्यादित्यर्थः १३॥ ननु किनाश्यस्तयविवेकः ? तत्राह- " प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत् ॥ १४ ॥ अस्य-अविवेकस्यप्रतिनियतकारणनाश्यत्वम् अविवेकनाशंपतियन्नियतं- कारणविवेकस्तवाश्यत्वं, ध्वान्तवत् यथा ध्वान्तस्य-तमसःस्वनाशं पति नियतकारणेनालोकेन नाश्यत्वमित्यर्थः ॥ १४ ॥ ननु ध्वान्तालोकयोरन्वयव्यतिरेकाभ्यां नाश्यनाशकभावनियमोऽवग- म्यते न विवेकाविवेकयोस्तवाह- " अनापि प्रतिनियमोऽन्वयव्यतिरेकात्" ।। १५ ॥ अवापिध्वान्तालोकयोरिव विवेकाविवेकुयोरपि प्रतिनियमः नाश्य- नाशकमाननियमोऽन्वयव्यतिरेकात-विवेकसत्वेऽविवेकनाशसत्वम् । विवे. फासत्वेऽविवेकनाशासत्वमित्यन्वयव्यतिरेकादवगन्तव्य इत्यर्थः । शुक्तिरजतादी तथा दर्शनादिति भावः ॥ १५ ॥ नन्वेवं विवेकेनाविवेकनाशेऽपि बन्धनिवृत्तौ किमायातं, यत्कृते पुरुषस्य महान् प्रपलस्तवाह- " प्रकारान्तरासंभवादविवेक एव बन्धः ॥ १६ ॥ प्रकारान्तरासंभवात प्रथमाध्यायोकानामविवेकातिरिक्तानां स्वभावादि। बन्धमकाराणामसंभवादविवक एव बन्धः अन्धकत्वादन्ध इत्यर्थः ॥१६॥ " .. पष्ठोऽध्यायः। (१३९) नन्यविवेकस्य बन्धत्वे तनिवृत्तिरूपाया मुक्तेविवेकसाध्यत्वेन कार्य- खापत्तौ विनाशावश्यंभावान्मुक्तस्यापि पुनर्वन्धयोगोदुरिणः प्रप्तम्येत तत्राह- "म मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्तिश्रुतेः" ॥ १७ ॥ अपिमुक्तेविवेकसाध्यत्वेऽपि मुक्तस्य मुक्तपुरुषस्य पुनर्बन्धयोगः पुन- रविवेक संबन्धो न-न भवति।कुतः अनावृतिश्रुतेः "नंच पुनरावर्तते, न च पुनरावर्तते" इत्यादिना तस्यापुनरावृत्तिश्रवणादित्यर्थः ॥१७॥ ननु श्रुतिरुता न युक्तिस्तवाह- "अपुरुषार्थत्वमन्यथा" ॥ १८॥ अन्यथा मुक्तस्यापि पुनर्बन्धयोगेऽपुरुषार्थत्वं-मुक्तेः परमपुरुषार्थत्वं न स्यादित्यर्थः । मालि क्षयानुसन्धानादिति भावः ॥ १८ ॥ युक्त्यन्तरमाह- "अविशेषापत्तिरुभयो" ॥ १९ ॥ उभगोः बद्धमुक्तयोईयोरविशेषापत्तिः अविशेषत्वं-तुल्यत्वमापयेते- त्यर्थः- मुक्तस्य पुनर्वन्धयोगे संसारितो विशेषो न स्यादिति भावः ॥१९॥ ननु का सा मुक्तिर्यल्लाभादस्य पुनरावृत्तिर्न भवति? तत्राह- मुक्तिरन्तरायध्वस्तेन परः अन्तरायध्वस्ते: अन्तरायोगविवेकस्तस्य ध्वस्तिः-विवेकेनध्वंसस्त. स्मात्परा अन्यः पदार्थो मुक्तिर्न न भवतीत्यर्थः । अविवेकनिवृत्तिर्मुक्तिरिति भावः ॥ २० ॥ ॥ २०॥ १.पा. ८ खं. १५ ।

(१४०) सांख्यदर्शनसूत्रवृत्ती।
ननु दुःखात्यन्तनिवृत्तिर्मुक्तिरिति पुरस्तादुक्तम् । इदानीमन्तरायध्व-
स्तिर्मुक्तिरित्युत्तौ विरोधः स्यात, तत्राह-
" तत्राप्यविरोधः ॥२१॥
तत्रापि अन्तरायध्वस्तिर्मुक्तिरित्युक्तावप्यविरोधः विरोधोनास्तीत्यर्थः।
निमित्तापाये नैमित्तिकापायस्यार्थसिद्धत्वादिति भावः ॥ २१ ॥
नन्वन्तरायध्वस्तिश्चेन्मुक्तिस्तर्हि सर्वेषां श्रवणमात्रादेव विवेकज्ञाने जाते
सा सेत्स्यति । कि मनननिदिध्यासनादिभिः साधनान्तरैस्तत्राह-
"अधिकारित्रैविध्यान नियमः ॥ २२ ॥
अधिकारित्रैविध्यात्=अधिकारिणां विवेकज्ञानाधिकारिपुरुषाणां वि-
ध्यात्-उत्तममध्यमाधमभेदेन त्रिमकारत्वाननियमः श्रवणमात्रादेव सर्वेषां
दृढ़विवेकज्ञानोदयनियमो नेत्यर्थः ।
असंभावनाविपरीतभावनयोरुपमर्दकत्वादपरोक्षं विवेकज्ञानं दृदमित्या-
ख्यायते । तदेवानादित्वादृढीभूतमविवेक समूलकापंकषितुं पारयति, नेत-
रख । तच्च न सर्वेषांश्रवणमात्रादुत्पत्तुमर्हति । शब्दमात्रस्य परोक्षज्ञानो-
पमननस्वाभाव्यात् । किन्तु भगवदनुगृहीतानां पूर्वनन्माभ्यस्तश्रवणमनन-
निदिध्यासनादिसाधनानां केषां चित्पुण्यात्मनामुत्तमानामेवेति भावः।।२२॥
ननु येषां श्रवणमानाद्विविक्कज्ञानं दृढं नोत्पन्नं, तैस्तद्दार्थ किं
विधेयं ? तत्राह-
दाढार्थमुत्तरेपाम् " ॥ २३ ॥
दादा श्रवणानायमानस्य विवेकमत्ययस्यदीभावायोत्तरेषां-
श्रवणादुत्तरेपां मनननिदिध्यासनादीनांदीर्घकालनरन्तर्यसत्कारादिपूर्वक
नियमेनानुष्टानं विधेयमित्यर्थः ॥ २३ ॥

षष्ठोऽध्यायः (१४१)
नन्वासनाभावे ध्यानादिकं न संभवति तत्र कस्यासनस्य नियमीतमाह-
"स्थिरसुखमासनमिति न नियमः ॥ ॥ २४ ॥
स्थिरसुख-यदेवस्थिर=निश्चलंसत्सुखं ध्यायिनः सुखावह, तदेवास-
नम्-आसनपदवाच्यमिति-अतो ध्यानादौ नियमः कस्य चित्पद्माघासन-
विशेषस्प नियतिर्न नास्तीत्यर्थः ।। २४ ॥
ननु ध्यानस्य कि लक्षणं । तत्राह-
"ध्यानं निर्विषयं मनः ॥२५॥
निर्विषयं यदात्मातिरिक्तसर्वविषयानिष्क्रान्तं मनः चाञ्चल्यहेतुविध-
यानुरागाभावादात्मकप्रत्ययकं चित्त, तदयान-ध्यानपदवाच्यं निदिध्यास-
नमिति यावदित्यर्थः।
अब ध्यानमित्युक्तौ तदवस्थाभेदः समाधिस्तदवस्थाभेदः संप्रज्ञाता-
दिसमाधिरप्युक्तोभवतीतिद्रष्टव्यम् ॥ २५ ॥
ननु ध्यानाध्यानयोःपुरुषस्यविशेषाभावात्किध्यानेनेत्यागंस्य विशे.
"उभयथाप्यविशेषश्चेनैवमुपरागनिरोधाद्विशेष:" ॥२६॥
उभयथापि-ध्यानादिकं स्यान्न वा स्यादुभयवारेणाप्यविशेषः पुरुषस्य
विशेषो न भवति, निःसङ्गत्वादन्यथा विकारित्वापत्तरिति चेत-यदि शंकसें,
नैवम् एवं मा शशिष्ठाः । कस्मात् ? यस्मादुपरागनिरोधात्-ध्यानादी
केशकर्मादिनानावि वामनालक्षणस्योपरागस्यापगमादिशेषः-पुरुषस्य विशे-
षोऽस्त्येवेत्यर्थः ॥ २६ ॥
ननु निःसङ्गे निर्विकारिणि पुरुषे कथमुपरागस्तत्राह-
निःसंगेऽप्युपरागोऽविषकात्" ॥२७॥
निःसंगेऽपिलेशकर्मादिनानाविधवासनावासितबुद्धिसत्त्वसंसर्गरहितेऽपि
पुरुषेऽविवेकात सत्त्वपुरुषानन्यताप्रत्ययमावलक्षणादविवेकादुपरागः उक्त
वासनलक्षणोपरागोऽस्त्येवेत्यर्थः ॥ २७ ॥

(१४२) सांख्यदर्शनसूत्रवृत्तौ।
ननु कीदृशोऽयं पुरुषस्योपरागः तत्राह-
"जवास्फटिकयोरिव नोपरागः किन्त्वभिमान:॥२८॥
जवास्फटिकयोरिव नोपरागः यथा जवास्फटिकयोः परस्परसंसर्गात्स्फ-
टिके जवावर्णोपरागो,न तथा सत्त्वपुरुषयोः संसर्गात्पुरुषे वासनोपरागः, कि-
न्त्वभिमानः बुद्धिसत्त्वतादात्म्यात्पुरुषस्य तद्वासनाभिमान इत्यर्थः ॥२८॥
ननु तन्निरोधः किं ध्यानमात्रेण संभवति, तबाह-
"ध्यानधारणाभ्यासवैराग्यादिभिस्तन्निरोधः ॥ २९ ॥
आदिपदेन दोपदर्शन-यमनियमादिसाधनसंग्रहः।दोपदर्शनादिना विषयेषु
वैराग्य, तदनु यमनियमादिचित्तस्थैर्यसाधनानुष्ठानमभ्यास, स्तदन्वात्मनि
चित्तयन्धो धारणा, तदनु पूर्वोक्तलक्षणं ध्यानादिकमित्येवंविधधारणादिस-
हितेनध्यानेनतनिरोधः तस्योक्तलक्षणोपरागस्यनिरोधोभवतीत्यर्थः ॥२९॥
ननु ध्यानादिभिरेभिः किं साक्षादुपरागनिरोधो भवति ? तत्राह-
" लयविक्षेपयोावृत्त्येत्याचार्याः ॥ ३०॥
पूर्वसूत्रं समग्रमनुवर्तते । पूर्वोक्तानादिभिर्लयविक्षपयोः निद्रावृत्तिल-
यः,प्रमाणविपर्ययविकल्पस्मृतिलक्षणावृत्तिर्विक्षेपस्तयोावृत्या निवृत्त्या
तनिवृत्तिद्वारेतियावत्तनिरोधः-वासनानिरोधोभवतीत्याचार्याः सांख्याचा-
वा मन्यन्त इत्यर्थः।
तथा च न पवापरावराध इति द्रष्टव्यम् ॥ ३० ॥
ननु लयविक्षपयोावृत्त्यर्थ क ध्यानादिकं कर्तव्यं ? तबाह-
"नस्थाननियमश्चित्तप्रसादात् " ॥ ३१ ॥
चित्तमसादात्-चित्तपसनतातो ध्यानादिकं भवति । तस्मात्स्थाननि..
मा-ध्यानाद्यर्थ कस्य चित्स्थानविशेषस्य नियमो न नास्तीत्यर्थः ।
यत्र चित्तमसादआलक्ष्येत, तत्र ध्यानादिकं कर्तव्यमिति भावः॥३१॥

षष्ठोऽध्यायः। (१४३) ननु येषां बुदयादीनां तादात्म्यात्पुरुषस्य तदासनाभिमानस्तेषु मूलका- रणता कस्यास्ति ? तत्राह- "प्रकृतेराद्योपादानताऽन्येषां तत्कार्यत्वश्रुतेः" ॥३२॥ आद्योपादानता-प्रथमोपादानकारणता मूलकारणतेति यावत् , प्रकृतेः-- त्रिगुणात्मकस्य मधानस्य सर्वत्र मन्तव्या । कुतः १ अन्येषां महदादीनां तेषां तकार्यत्वश्रुतेः' मोयां तु प्रकृति विद्यात् ' इत्यादिना प्रकृ- तिकार्यत्वस्य श्रवणादित्यर्थः ॥ ३२ ॥ ननु पुरुषस्यापिनित्यत्वात्तस्यैवाद्योपादानताऽस्तु, कृतंप्रकृत्या,तबाह- "नित्यत्वेऽपि नात्मनो,योग्यत्वाभावात्" ।। ३३ ।। आद्योपादानतेत्यनुवर्तते, आत्मनः पुरुषस्य नित्यत्वेऽपि प्रकृतिवनित्यत्वे सत्यप्याद्योपादानता नम्-न संभवति। कुतः? योग्यत्वाभावात=तदयोग्यत्वा- दित्यर्थः। न केवलं नित्यत्वमेव तद्योग्यत्वप्रयोनकं किन्तु परिणामिनित्यलं । पुरुषस्य च नित्यत्वेऽपि परिणामिनित्यत्वाभावान्नतद्योग्यत्वामतिभावः । गुणवत्त्वं सङ्गित्वचोपादानतायोग्यत्वमिति भाप्यम् ॥ ३३ ॥ ननु केवलात्मनस्तद्योग्यत्वाभावेऽप्यविद्यासहकृतस्य तस्य तद्योग्य- स्वसंभवादसिद्धो हे, स्तत्राह- "श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभ" ॥ ३४ ॥ कुतर्कापसदस्य इत्यं कुतःण-कुत्सिततर्केण वेदविरुद्धनतर्केणेति यावदात्मानं नगदुसादान कारणं मन्वानस्य ते पुरुषाधमस्यात्मलाभ: अ. खण्डैफरससदात्ममाप्ति न भवेत् । कुतः १ श्रुतिविरोधात्-असनेव स भवति असद्ब्रह्मेति वेदचेत् इत्यादिश्रुतिविरोधादित्यर्थः । १ श्वे. अ. ४-१०।२-तै.प्राह्म. वली, २ अनु. ६-१।

:(१४४) सांख्यदर्शनसूत्रवृत्तौ।
वया कार्यकारणयोस्तादात्म्यस्याभ्युपेतत्वात्कारणस्यात्मनः स्वरूप-
तोऽसत्त्वाभावेऽपि कार्यात्मनाऽसत्त्वं वक्तव्यं, तदसत्त्वे च कुतस्तल्लाभ इति
भावः ॥ ३४ ॥
ननु स्थावरादिषुसर्वेषुक्षित्यादीनामेवोपादानकारणतादर्शनात्कथं स-
र्वत्र प्रकृतेराद्योपादानता, तबाह-
"पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत्" ॥ ३५ ॥
पारम्पपेऽपि स्थावरादिपु साक्षात्कारणत्वाभावेऽपि प्रधानानुवृत्तिः
मधानस्य प्रकृतेरनुवृत्तिः तेषु कारणतयाऽन्वयोऽस्त्येव । तत्रोदाहरणमणु-
व-पधा वैनाशिकसमयेऽशूनां परमाणूनां साक्षात्कारणत्वाभावेऽपि सवा-
तादिषु कारणतयानुवृत्तिरित्यर्थः ॥ ३५ ॥
ननु प्रकृतेराद्योपादानवे निश्चितेऽपि विभुत्वं कुतो निश्चयं । तत्राह-
"सर्वत्र कार्य्यदर्शनाद्विभुत्वम्" ॥३६ ॥
मकृतेरिति संबन्धः । सर्वत्र कार्य्यदर्शनात् सर्वासु दिक्षु सर्वेषु लोकेषु
तद्विकारोपलम्भात्मकृतेर्विभुत्वं निश्चेतव्यमित्यर्थः ।
अत्र विभुत्वं सापेक्षं मन्तव्यं, ननिरपेक्षं, तस्य परमात्मन्ये वा भ्युप-
गमादिति दिक् ॥ ३६ ॥
ननु प्रकृतेर्विभुत्वे तम्या जगत्सर्ननानुलझियायोगो न भवेत् । कथ-
श्चित्तद्योगे वा तन्त्वादिवदाद्योपादानकारणता न सिध्येत, तत्राह-
"गतियोगेऽप्याद्यकारणताहानिरणुवत् ॥ ३७ ॥
गतियोगेऽपि भगवदिच्छया जगत्सर्जनानुकुल क्रियायोगे सत्यपि प्रकृ-
तेरायकारणताऽहानिः मूलकारणताया हानिर्न भवति । अत्रोदाहरणमणु-
व-यथा वैनाशिकसमयेऽशूनां परमाणूनां सङ्घातादिस नानुकूलक्रियायो-
गेऽपि मूलकारणताया हानिर्नत्यर्थः ॥ ३७॥

षष्ठोऽध्यायः। (१४५) मनु प्रकृतेर्गतियोगे द्रव्यत्वावश्यंभावात्पृथिव्यादिषु द्रव्येषु क तस्या अन्तर्भावो भविष्यति तत्राह- "प्रसिद्धाधिक्यं प्रशानस्य न नियमः ॥ ३८ ॥ प्रधानस्यअकृतेः प्रसिद्धाधिक्यं प्रसिद्धेभ्यः पृथिव्यादिद्रव्येभ्योऽधि- कत्वमस्ति । मूलकारणत्वात् । अतो न नियमः यद्रव्यं तेन प्रसि- देवेवान्तर्भवितव्यमिति नियमो नेत्यर्थः ॥ ३८ ॥ ननु प्रकृतेर्दव्यत्वे क्रियावत्सत्वादीनामपि तदर्मत्वमेव सिध्येद, न तदूपत्वं, गुणत्वाव, तत्राह- "सत्त्वादीनामतद्धमत्वं, तद्रूपत्वात्" ॥ ३९ ॥ सत्त्वादीनां सत्त्वरजस्तमसांत्रयाण नत्वं प्रकृतिधर्मल न भवति । कुतः तद्रूपत्त्वाम्मकृतिस्वरूपत्वादित्यर्थः । गुणशब्दप्रयोगस्तु तत्र केवलं रख्नुवन्धनहेतुत्वादिति भावः ॥३९॥ ननु मधानस्य जड़त्वेनात्मोपभोगाभावात् किमर्थं तस्यैषा सृष्टिः? तबाह- "अनुपभोगेऽपिपुमर्थसृष्टिःप्रधानस्योष्ट्रकुङ्कमवहन- वत् ॥ ४० ॥ प्रधानस्पप्रकृतेरनुपभोगेऽपि आत्मोपभोगाभावेऽपिपुमर्थ-पुरुषार्थ सृष्टिः-जगतः सर्जनम् । तत्रोदाहरणमुष्टकुङ्कुमवहनव यथोष्ट्रस्यात्मोपभो- गाभावेऽपि पुरुषार्थ कुङ्कुमवहनमित्यर्थः ॥ ४० ॥ नन्धकाकिन्याः मकृतेः सृष्टिवैचित्र्यं कुतो जातं? तबाह- "कर्मवेचिश्यात्सृष्टिवैचित्र्यम्"॥४१॥ कर्मवैचिव्याव-प्रकृतेरेकत्वेऽपि सहकारिभूतानां पुरुषकर्मणां वैचित्र्या- त्सृष्टिवैचित्र्यं तत्सृष्टिवैचित्र्यं जातमित्यर्थः ॥ ४१॥ ननु भवतु कर्मसहकृतात्मधानादिचित्रा सृष्टिः,मलयः पुनः कस्माद- विध्यति न होकस्मात्कारणाविरुद्धकार्यदयं घटते । तबाह- (१४६) सांख्यदर्शनसूत्रवृत्तो। "साम्यवैषम्याभ्यां कार्यद्वयम्" ॥ ४२ ।। साम्यवैषम्याभ्यां प्रकृतेरेव समभावविषमभावाभ्यां सरूपविरूपपरिणा- माभ्यामिति यावदकार्य्यद्वयं-मृष्टिमलयलक्षणं कार्यदयं भवतीत्यर्थः । प्रकृतेःसरूपपरिणामात्सलयो विरूपपरिणामाचसृष्टिरितिभावः ॥४२॥ ननु कदा पुनः प्रकृतेः पुरुषार्थ सृष्टिर्न भवति? तबाह- "विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकव" ॥१३॥ विमुक्तबोधात्-विवे नमुक्तस्यपुरुषस्पविवेकमत्ययोदयात्पश्चात् प्रधान- स्य कृतकाव्या प्रकृतेःसृष्टिः विवकिपुरुपंपतिनगतः सन्नं न नभवति, लोकवत् यथाकृतकार्य्यस्यलोकस्यनपुनःप्रवर्तनमित्यर्थः ॥ ४३ ॥ ननु प्रकृतेर्व्यापकत्वादन्यान् मति भोगार्थमुपसर्पणे मुक्तस्यापि पुन- भौगो भवेद, संबन्धाविशेषाव, तबाह- "नान्योपसर्पणेऽपि मुक्तोपभोगो निमित्ताभावाव"॥४॥ अन्योपसर्पणेपि अन्यानविवकिपुरुषान् मति प्रकृतेरुपभोगार्थमवर्तनेऽपि मुत्तोपभोगा=मुक्तस्य पुनरुपभोगो नन भवति । कुतः निमित्ताभावाव- भोगनिमित्तस्याविवेकस्याभावादित्यर्थः । अविवेककृतः पुरुषस्योपभोग इति भावः ॥ ४४ ॥ नन्वन्योपसर्पणेऽपीत्येतद्युतम्, अद्वैतात्मवादिनामस्माकंपुरुषबहुत्वा- भावात्तत्राह- " पुरुषबहुत्वंव्यवस्थातः" ॥ १५ ॥ पुरुषबहुत्वं पुरुषाणां-जीवात्मनां बहुत्वं नानात्वमस्ति । कुतः? व्यव- स्थातःजन्ममरणवन्धमोक्षादिव्यवस्थात इत्यर्थः । अन्यथा व्यवस्था न स्यादिति भावः ॥ ४५ ननु पुरुषकत्वेऽप्युपाधिबहुत्वाव्यवस्था सेत्स्यति किं पुरुषबहुत्वाभ्यु- पगमेन, तबाह- षष्ठोऽध्यायः। (१४७) " उपाधिश्चेत्तत्सिद्धौ पुनतम्" । ४६ ।। चेव-यदि जन्ममरणादिव्यवस्थासिद्ध्यर्थमुपाधिः अविद्यालक्षणोपाधिः साध्यते, तर्हि मा साध्यताम् । कुतः १ यतस्तत्सिदो उपाधिसिद्धौ सत्यां पुनर्देतं-पुनस्ते दैतं प्रसज्यतेत्यर्थः ॥ ४६ ॥ ननु साध्यमानाउपाधयोऽपि न परमार्थभूताः, किन्त्वाविद्यकाः, तेन तसिद्धावपि न नः पुनद्वैतरसङ्गः, तत्राह- द्वाभ्यामपि प्रमाणविरोधः॥॥१७॥ अपि तथापि दाभ्याम् अविद्या, पुरुष इति द्वाभ्यामभ्युपगताभ्यां सद्भया प्रमाणविरोधः अद्वैतसावकत्वेनाभिमतेन प्रमाणेन विरोधस्त स्या- दित्यर्थः ॥ ४७ ॥ किञ्च- "द्वाभ्यामप्यविरोधानपूर्वमुत्तरञ्चसाधकाभावात्"॥४८॥ दाभ्यामप्यविरोधाव-प्रकृतिपुरुषो चेदविद्यामानौ ते, ताहै, दाभ्याम- प्यस्माकं विरोधाभावात्पूर्वम्-उपाधितो जन्ममरणादिव्यवस्थोपपादनं न- न सङ्गच्छते । परमार्थतः पुरुषनानात्वाभ्युपगमात् । उत्तरश्च तथा पुरुषा- दैतसाधनमपि न सङ्गच्छते, साधकाभावाद-युरुपादेतसाधकममाणा- भावादित्यर्थः ॥ ४८॥ ननु स्वप्रकाशतएवादितीय पुरुषः सेत्स्यति, कि साधकममाणेन, तबाह- "प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः ॥ १९ ॥ प्रकाशतः स्वस्यप्रकाशतस्तसिद्धौ-तस्य प्रकाशरूपस्यादितीयात्मनः स्वस्य सिद्धौ कर्मकर्तृविरोधः एकस्मिन् प्रकाश्यप्रकाशकभावसंबन्धासंभ- वाद् यत्कर्म स एव कर्तेति कर्मकर्तृभावविरोध आपत्तेदित्यर्थः । अस्मन्मतेतुबुद्धिवृत्याख्यामाणाझीकारानद्वारा प्रतिविम्वरूपस्य स्व- स्य बिम्वरूपे स्वस्मिन् सम्बन्धो घटते, यथा सूर्य जलद्वारा मतिविम्बरू- पस्वसंबन्ध इति भाष्यम् ॥ ४९ ॥ .

(१४८) सांख्यदर्शनसूत्रवृत्ती। नन्वस्तु तर्हि प्रकाशाश्रयतया तत्सिदिः । तत्राह- "जड़व्यावृत्तो जई प्रकाशयति चिद्रूपः ॥ ५० ॥ यत इति शेषः।यस्मानड़व्यावृत्तः नाड्यधर्मकारसाक्ष्यभूतादबुद्ध्यादे- भिन्नो जड़े जड़नातं मकाशयति-भासयति,तस्माचिद्रूपः-चिद् प्रकाशो ज्ञा- नमित्यनर्थान्तरं, प्रकाशस्वरूपः पुरुषो न प्रकाशाय इत्यर्थः । तत्र जड़व्यावृत्त इति प्रकाशाश्रयत्वंप्रतिपिद्धं, जई प्रकाशयतीति सर्व- साक्षित्वमुक्तं, चिद्रूप इति पुरुषस्वरूपं निर्धारितमिति विवेकः ॥ ५० ॥ नन्वेवमद्वैतासिद्धः " सेएषनेतिनेति ॥ इति जगविषेधेनात्मै- कयाहयन्त्या श्रुत्या विरोधः किन स्यात्, तबाह- "न श्रुतिविरोधोरागिणावैराग्यायतत्सिद्धेः" ।। ५१ ॥ श्रुतिविरोधः पुरुषबहुत्वेऽपि जगनिषेधकश्रुत्या विरोधो न नभवति । कुतः ? रागिणांविषयासक्तचेतसां वैराग्याय-विषयेषु हेयत्वबुद्धयुत्पादनाय तसिद्धः-जगनिषेधोपपत्तेरित्यर्थः । जगतोविरक्तःसन्नात्मानंगृहातीति श्रुतेराशय इति भावः ॥ ५१॥ गनु जगत्सत्यत्त्वे कल्पनैषा युज्यते, तदेव कुतः । तत्राह- "जगत्सत्यत्वमदुष्टकारणजन्यत्वाद्वाधकामा- वात्" ॥५२॥ जगत्सत्यत्वं जगतः महदादिभपञ्चस्यसत्यत्वं-त्रिषु कालेषु विद्यमा- नत्वमस्ति । कुतः? अदुष्टकारणनन्यत्वात्ननिदादिदोषयुक्तं कारणं दुष्का- रणे,तदिनमदुष्टकारण भगवद्भुद्धिसहकृता प्रकृति स्तजन्यत्वं तदुपादेयत्वं, तस्माद भगवड्बुद्धिसहकृतप्रकृतिकारणकत्वाद, वाधकाभावा-बाधक विषयत्वाभावाच्चेत्यर्थः। तत्राद्येनहेतुना स्वानार्थशंसपीतिमादिव्यावृत्तिः, दितीयेनशुक्तिरजता- दिष्यावृत्तिरितिविवेकः ॥ ५२ ॥ १-०अ०६-या०२-४। .

षष्ठोऽध्यायः। (१४९) ननु वर्तमानकालेसवदपिजगदुत्पत्तेःमाकूकर्यसद्भवेत् ! तबाह-- "प्रकारान्तरासंभवात्सदुत्पत्तिः ॥५३ ॥ प्रकारान्तरासंभवादमयमाध्यायोत्तरीत्या प्रकारान्तरस्य संभवाभावा- रसदुत्पत्तिः सतः-उत्पत्तेःपूर्व सूक्ष्मरूपेण विद्यमानस्यैव जगतः कारणव्या पारणोत्पत्तिा अभिव्यक्तिर्भवतीत्यर्थः ॥ ५३ ॥ ननु जगतः सत्यत्वे पुरुषस्य कर्तृत्वमपि सत्यं किन्न स्याव ! तबाह- "अहंकारः कर्ता न पुरुष" ॥ ५४॥ अहंकारः-चित्मतिबिम्बसमन्वितमहंकारावस्थापनं बुद्धिसत्त्वमेव क- ता-कर्तृत्वाश्रयो, न पुरुषान पुमान, अपरिणामित्यादित्यर्थः ॥ ५४ ॥ ननु पुरुषस्य कर्तृत्वाभावे भोक्तृत्वमपि न स्यात्, तत्राह- "चिदवसाना भुक्तिस्तत्कर्मार्जितत्वात्" ॥ ५५ ॥ भुक्तिः सुखदुःखयोरनुभूतिश्चिदवसाना-चिति-पुरुषेऽवसान=पर्यवसानं यस्याः सा तथा । कुतः ? तत्कर्मानितत्वाव अहंकारेणासनितंपुरुषे कर्म, तत्कर्म, तेनार्जितत्व संपादितत्वं, तस्माद-तत्पुरुषीयाहकारकर्तृ कर्मजन्पवादित्यर्थः। यद्यपि कर्तृत्वमिवतत्समकक्षभोक्तृत्वमपिपुरुषस्यनास्ति, तस्यविशिष्ट- धर्मत्वात् । तथाप्यहंकारस्य जड़त्वेन भोक्तृत्त्वासंभवात्तदवसानं चित्येवेति भावः॥ ५५ ॥ नन्वेवं कर्मणामानन्याभोगार्थचन्द्रादिलोकंगतानांततःपुनरावृत्तिन स्पाव, तत्राह- "चन्द्रादिलोकेऽप्यावृत्तिनिमित्तसद्भावात्" ॥५६॥ चन्द्रादिलोकेऽपि भूलोकवच्छन्दादिलोकेगतानामप्यावृत्तिः तल्लोकोचि- तकर्मफलभोगानन्तरं पुनरावत्तिभवत्यये। कुतः निमित्तसभावाव-पुनरावृ. तिनिमित्तस्याविवेककर्मादेः सत्वादित्यर्थः ।। ५६ ॥

(१५०) सांख्यदर्शनसूत्रवृत्ती। ननु तल्लोफवासिपुरुषोपदेशात्तत्र गतानांविवकेनाविषकादिनष्टे पुनराव- तिन भविष्यति, तत्राह- "लोकस्य नोपदेशासिद्धिः पूर्ववत् ॥५७ ।। लोकस्य तल्लोकवासिपुरुषस्योपदेशाव-उपदेशमात्राव सिद्धिा स्वकर्म - फलोपभोगाथै तल्लोकं गतानां विवेकज्ञाननिष्पत्ति न संभवति । पूर्ववत्- यथा पूर्वस्मिन् भूलोके भोगासक्तचेतस्कतयोपदेशमात्रामविवेकज्ञाननिष्प- त्तिांतेत्यर्थः ॥ ५७ ॥ ननु किमर्थन्तर्हि "चन्द्रमसो विद्युतं, तत्पुरुषोऽमानव: स एनान् ब्रह्म गमयत्यैप देवपी ब्रह्मपथ एतेन प्रतिप- द्यमाना इमं मानवमावत नायर्तन्ते" इति श्रुतिश्चन्द्रादिलोक गतानामपुनरावृत्तिमभिधत्ते ? तबाह- "पारम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः" ।। ५८॥ पारम्पर्येण कश्चिदराग्योदयाच्छ्रवणमनननिदिध्यासनाद्यनुष्ठानपरम्प- रया तसिद्धौ-विवेकज्ञाननिष्पत्तो सत्यां विमुक्तिश्रुतिः एपाऽपुनरावृत्ति- श्रुतिरित्यर्थः ॥ ५८॥ ननु सांख्यानो पुरुषस्याणुत्वेऽपिकूटस्थानित्यतया गतिपरिणामासम्भवाव कथं तस्यकर्मफलोपभोगार्थ देशविशेषस्य लाभो भवेव, तत्राह- "गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाद्भोगदेशकाल- लाभो व्योमवत्" ॥ ५९॥ व्यापकत्वेऽपियधास्त्रशास्त्रमनुरुन्धतां विभुवादिनां भवतामात्मनो व्या- पफत्वेऽपिशरीरोपाधिसम्बन्धादेशविशेषस्यलाभः, तथैव गतिश्रुतेश्व-स्मृत्य- भ्युच्चयार्थश्चः, गतिमतिपादिकायाः श्रुतेः स्मृतेश्रवशवर्तिनामस्माकं सां ख्यानामुपाधियोगाव बुद्धिसत्त्वमधानलिङ्गशरीरलक्षणोपाधिसंयोगाझोगदे- शकाललाभः स्वकर्मफलोपभोगार्थतनुचितदेशविशेषस्य कालेन लाभः-माप्तिः १-छांप्रपा०४-खं० १५+६ ।

षष्ठोऽध्यायः। संभवति । तत्रोपाधिसम्बन्धादेकदेशतो देशान्तरस्य लाभमाने निदर्शनं व्योमबत्=पथाव्योम्नो घटोदश्चनाद्यपाधिसंयोगादेकदेशतो देशान्तरस्य लाभ इत्यर्थः ॥ ५९॥ ननु यथा पुरुषोपभोगार्थ पूर्व तदनधिष्ठितस्यैव लोकविशेषस्य सिद्धि- जायते, तथैव भोगायतनसिद्धिरपि किन्न जायेत ? तत्राह- "अनधिष्ठितस्य पूतिभावप्रसंगान तसिद्धिः" ॥ ६ ॥ तसिद्धिः तच्छब्दो युद्धिस्थत्वाभोगायतनमाचष्टे । भोक्तपुरुषाधिष्ठान विना तस्य भोगायतनस्य सिद्धिः निप्पत्तिर्नन संभवति। कुतः अनधिष्टित- स्य-भोक्तृपुरुषानाधिष्ठितस्य तदोनभूतस्य शुक्रशोणितस्य पूतिभावमसङ्गाद= पूतित्वमसक्तरित्यर्थः ॥ ६० ॥ ननु भोक्तुपुरुषादृष्टवशादपूतित्वमसक्तेस्तसिद्धिर्भविष्यति । किंतदाधि- ठानेनेत्याशंश्य समाधत्ते। "अदृष्टद्वाराचेदसम्बद्धस्यतदसंभवाजलादि- वदकरे " ॥ ६१ ॥ न तसिद्धिरित्यनुवर्तते । अदृष्टद्वाराम्भोक्तृपुरुषादृष्टद्वारा चेव यदि तत्सिद्धिरित्याशङ्कयते, तर्हि न-नाशइयम्, कुतः? असम्बद्धस्य-भोगायतन. बीजभूते शुकशोणिते सम्बन्धरहितस्यादृष्टस्य तदसंभवाव भोगायतन- सिदिहेतुत्वासंभवात् । तत्रोदाहरणंमलादिवदगुरेन्यथाबीनासम्बदस्य जलादेरकुरे हेतुत्वं न संभवतीत्यर्थः ॥ ६१ ॥ किश्च- "निर्गुणत्वात्तदसंभवादहंकारधर्मा ह्येते" ॥६॥ एते अदृष्टादयोऽहंकारधर्मा हि-अहंकारावस्थापनबुद्धिसत्त्वधर्मा एव १-० अ०६ मा०४॥

( १५२) सांख्यदर्शनसूत्रवृत्तो। सन्ति न पुरुषधर्माः । कुतः १ तदसंभवाद-तेषां पुरुषधर्मत्वसंभवाभावात् । कुतोऽसंभवः । निपुणत्वाद-पुरुषस्प सर्वधर्मासंगित्वाभ्युपगमादित्यर्थः । तथा चादृष्टादीनां पुरुषधर्मत्वासंभवान तत्र तत्संबन्यसंभव इति भावः ॥ ६२ ॥ नन्वेवन्तर्हि कथमदृष्टादीनां जीवधर्मत्वम्यपदेश ? तत्राइ- "विशिष्टस्यजीवत्वमन्वयव्यतिरेकात्" ।। ६३ ।। विशिष्टस्य अहंकारविशिष्टपुरुषस्य जीवत्वं-नीवभावो न तु फेवर- पुरुषस्य । कुतः१ अन्वयव्यतिरेकावयवाहंमत्ययस्तत्रनीवभावो, यत्र न तत्र नेत्यन्वयव्यतिरेकादित्यर्थः॥ वैशिष्टयश्च तच्छायापत्तीतादात्म्यम् । तेनयुक्तोव्यपदेशइतिभावः॥६३॥ ननु जीवस्पयेयंलौकिकवैदिककार्यसिद्धिःसाकिंतस्यात्मतन्त्रा, परत- त्रा वा ? तबाह- "अहंकारकर्बधीना कार्यसिद्धिनेश्वराधीना, प्रमाणा- भावात् " ॥६४॥ अहंकारक-धीना-पुरुषप्रतिविम्बसमन्विताहंकारकर्तृतन्त्रा कार्यसिद्धिः- काय कर्म, तस्य लौकिकवैदिककर्मणःसिद्धिः अनुष्ठितिर्विद्यते नेश्वरा- धीनान परमात्मतन्वा । कुतः१ ममाणाभावाद=भोगवत्कार्यसिद्धेश्वर- सन्त्रत्वे प्रमाणाभावादित्यर्थः । कर्मणि स्वतन्त्रो, भोगे परतन्त्रो जीव इति भावः ॥ ६४ ॥ ननु यथानेश्वरतन्त्राकार्यसिद्धिस्तथाहंकारकर्तृतन्त्रापिन, किन्तु जीवा दृष्टतन्त्रा, तत्राइ- " अदृष्टोतिवत्समानत्वम् " ॥ ६५ ॥ अदृष्टोतिष-उद्धातिरनुष्ठितिः,जीवादृष्टतन्त्रा कर्मानुष्ठितिरित्युक्तिवद= षष्ठोऽध्यायः। (१५३) इत्युक्तिसमैवेतियावत्पुरुषपुरुषकारतन्त्रा कर्मानुष्ठितिरित्युक्तिः, नास्ति किधि- दन्तरम् । अपि च समानत्वम् उक्तिद्धयस्यार्थतस्तुल्यत्वमस्तीत्यर्थः । अदृष्टस्यापि पुरुषपुरुषकारसाध्यकर्मत्वाविशेषादिति भावः ॥ ६५ ॥ ननु पुरुषपुरुषकारसाध्यश्चेदखिलंकर्म, तदादुःखात्यन्तनिवर्तकं मक- तिपुरुषविवेकात्मकंमानसंकर्मास्यपुरुषस्ययथाकामंकुतोनजायते ? तत्राह- "महतोऽन्यत्"॥६६॥ महतः अनेकजन्माभ्यासपाटवनजायमानशुद्धसत्त्वगुणमयसूक्ष्मतमबु- दिसत्त्वतोऽस्यकल्याणभाजःपुरुषोत्तमस्पान्यत् दुःखफलकेभ्योलौकिकवैदिक फाखिलकर्मभ्योविलक्षणं कृतिपुरुषविवेकात्मकंमानसंकर्मोद्भवतीत्यर्थः । तथा च पुरुषपुरुषकारसाध्यमपि प्रकृतिपुरुषविवेकदर्शनं बुद्धितत्त्वमा- लिन्यादस्य पुरुषस्य यथाकामंनोत्पद्यते, तस्मान्मुमुक्षुणाऽनेन तच्छोपनो- पायभूतं यमनियमादिकं यत्नतोऽनुष्ठेयमिति भावः ॥ ६६ ॥ ननु ययोः प्रकृतिपुरुषयोविवेकदर्शनादस्य पुरुषस्य तत्संबन्धोच्छित्ति- पूर्विका दुःखात्यन्तनिवृत्तिः शास्त्रेणोपदिश्यते, तयोः संबन्धः किनिमित्तकः! तत्रैकदेशिमतमाह- "कर्मनिमित्तःप्रकृतेःस्वस्वामिभावोऽप्यनादि- यीजाकुरवत" ॥ ६७ ॥ प्रकृतेः उपलक्षणमेतव, बुद्धिसत्त्वात्मिकायाः प्रकृतेः पुरुषस्य च परस्परं स्वस्वामिभावः प्रकृतेर्नोग्यत्वासुरुषस्य च भोक्तृत्वात्स्वस्वामिभावलक्षणः सं- यन्धः फर्मनिमित्तः कर्मनिमित्तकारणकः, स चापि-कर्मनिमित्तोऽपि वीजा- दुरवर वीजाङरयोरेवानादिः भवाहकपेणकर्मानादित्वादनादिरित्यर्थः ६७ तत्रात्मसंमतं पञ्चशिखाचार्याणा मतमाह- "अविवेकनिमित्तोवापश्चशिखः। ६८॥ प्रकृतेः स्वस्वामिभाव इत्यनुवर्तते । पूर्वतो भेदसूचनाय वाफारः । मह-

(१५४) सांख्यदर्शनसूत्रवृत्तौ।
तिपुरुषयोरविवकनिमित्तकः स्वस्वामिभावलक्षणः संबन्ध इति पञ्चशिखः=
पञ्चशिखाचार्यों मन्यते इत्यर्थः ॥ ६८ ॥
मतान्तरमाह-
"लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः" ॥६९॥
भकृतेः स्वस्वामिभाव इत्यनुवर्तते। प्रकृतिपुरुषयोः स्वस्वामिभावसंबन्धो
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यो मन्यत इत्यर्थः ॥ ६९ ॥
उपसंहरति ।
यद्वातद्वातदुच्छित्तिःपुरुषार्थस्तदुच्छित्तिः
पुरुषार्थः ॥ ७० ॥
अध्यायपरिसमाप्त्यर्था वीप्सा । यत्तदिति हेत्वर्थकमव्ययम् । प्रकृतेः
स्वस्वामिभाव इत्यनुवर्तते । यतो वा ततो वा कर्मनिमित्ततो वाऽविवेक-
निमित्ततो वा, लिङ्गशरीरनिमित्ततो वा बुद्धिसत्त्वमकृतिपुरुषयोः स्वस्वा-
मिभावः संबन्धोऽस्तु । सर्वथाऽपि तदुच्छित्तिः विवेकज्ञानं विना दुरुच्छे-
द्यस्य तस्य संबन्धस्योच्छेदः पुरुषार्थः-दुःखात्यन्तनिवृत्तिहेतुत्वात्परमपुरु-
पार्थ इत्यर्थः ॥ ७० ॥
आत्मास्तित्वादिमोक्षान्तो विषयोऽपूर्वयुक्तिभिः ।
स्थूणान्यायेन तन्त्राख्ये पुनः पष्ठे निरूपितः ॥ १॥
कपिलेन प्रणीतेयं वैदिकी सांख्यकप्रपा ॥
मया हरिमसादेन वृत्त्या सम्यकपरिष्कृता ॥२॥
यत्मसादादियं वृत्तिनित्यं स्थास्पति निश्चला ॥
प्रतीभावेन वन्द्योऽसौ विद्यादातेश्वरस्सदा ॥ ३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनषा-
त्मारामभगवत्पादशिष्यहरिप्रसादकृतायां
सांख्यसूत्रवृत्तौ तन्त्राध्यायः षष्ठः ॥६॥

MALAALAAMMAMMotor सांख्यसूत्रवैदिकवृत्तेः शुद्धाशुद्धपत्रम् । १६ तेषा पृ० पं० अशुद्धम् शुद्धम् ३ कस्याप्यमनु कस्याप्यनु २२ तत्र सत्त्व प्रकाशः,रमःक्रिया, आवरणं तमः,तेषाश्चमीषा ८ व्यारेत् व्याहरेत् १६ परहस परमहस ८५ ११ नीजि जिनी ८८ ४ स्तेन तेन १०६ १५ निरस्पति निरस्यति १०७ १६ सर्व १०८ ३ वेदाना वेदाना प्रमात्व प्रमाणत्व त्पादकता त्पाद्यता सज्ञा संज्ञा १ साख्यानां सांख्याना १४२ ८ दोषदर्शनयमनियमादि दोषदशनादि सङ्ग्रहः साधन सङ्ग्रहः १५ नपवापरावराध न पूर्वापरविरोध इ कचित् तकारस्पदिस्वमदित्वश्च स्वयमूह्यम्- ७ . VIDYA TRATI SN.....-

Om Sankhyasutravaidik Vrati

Author
Hariprasad
Title
Om Sankhyasutravaidik Vrati
File name
Om Sankhyasutravaidik Vrati
Text
OCR done
Citation
1905
Published
2012/08
Publisher
Bombay,venkateshwar Yantralay
Language
Sanskrit
Pages
152
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311243
Barcode
99999990320150.00
Scanning centre
Banasthali University
Digital publisher
Calcutta.,The Asiatic Society
VMLT id
R5HtJk42LGa
Download PDF

Om Sankhyasutravaidik Vrati