University Library,gurukul Kangri Vishwavidyalaya

संक्षिप्त महाभारतम्

Munshiiraam · 2005/11/16

PDF Proofread

Front matter

ओ३म * संक्षिप्त महाभारतम् । CHEER1973 भीष्मपमा Inill 1 र पुग्यापिटाश महायना पुगीगा प्रकाशितम अननगम शम्पंग: चोर गुकुल काङ्गडोर- स दम्म मनाकि यन्त्रानो मुहिक । - . थानि, मनन ? वि.

ओ३म्
संक्षिप्त महाभारत
६
भीष्मपर्व
१
वैः ० उ०-अथ गावलगणिविद्वान्संयुगादेत्य भारत ।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ।।
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः ।
आचष्ट निहतं भीष्मं भारतानां पितामहम् ।।
सं० उ०----हतो भीष्मः शांतनवो भरतानां पितामहः ।
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् ।
भरतल्पगतः सोऽध शेते कुरुपितामहः ।।
यस्य वीर्य समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।
स शेते निहतो राजन्संख्ये भीष्मः शिखडिना ॥
यः स शक्र इवाक्षोभ्यो वर्षन्वाणान्सहस्रशः ।
जघान युधि योधानामव॒दं दशभिर्दिनैः ।।
स शेते निहतो भूमौ वातभग्न इव द्रुमः ।
तव दुर्मन्त्रिते राजन्यथा नाहः स भारत ।।
धृ० उ० कयं कुरूणामृपभो हतो भीष्मः शिखडिना ।
कथमासंश्च मे पुत्रा हीना भीष्मेण संजय ।।
आति परामाविशति मनः संश्रुत्य मे हतम् ।
कुरूणामृषभं वीरमकं पुरुषर्षभम् ॥
कथं वातिरथस्तेन पांचाल्येन शिखंडिना ।
भीष्मो विनिहतो युद्ध देवैरपि दुरासदः ।।
अश्मसारमयं नूनं हृदयं मुदृढं मम ।
10
।

संक्षिामहाभारत ११ १४ १६ यच्छ्रुत्वा पुरुषव्याघ्र हनं भीष्मं न दीर्यते ॥ नस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे। अप्रमेयाणि दुर्थ कथं स निहतो युधि ।। धर्मादधर्मो बलवान्संप्राप्त इति में मतिः । यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पांडवाः ।। योपेव हतवीरा में सेना पुत्रस्य संजय । अगोमिव बोद्धान गोकुलं तद्धलं मम ।। अगाधसलिले मनां नावं दृष्ट्रेव पारगाः । भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः । यद्वृत्तं तत्र संग्रामे मदस्याबुद्धिसंभवम् । अपनीनं सुनीतं यत्तन्ममाचक्ष्व संजय ॥ यत्कृतं तत्र संग्रागे भीष्मेण जयमिच्छना । तेजोयुक्तं कृतात्रेण शंस तचाप्यशेषतः ॥ म० उ०-प्रत्यक्ष यन्मया दृष्टं दृष्टं योगवलेन च । शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ॥ दिष्टमेतत्तुरा ननभिदमेव नराधिप ।। नमस्कृत्वा पितृस्तेऽहं पाराशर्याय धीमते । यस्य प्रसादादिव्यं नत्माप्त ज्ञानमनुत्तमम् ॥ दृष्टिश्चातींद्रिया राजन् दूराच्छ्रवणमेव च । परचित्तस्य विज्ञानमतीतानागतस्य च ॥ शृणु मे विस्तरेणेदं विचित्रं परमाद्भतम् भरतानामभृयुद्धं यथा तल्लोमर्हषणम् ॥ तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः दुर्योधनो महाराज दुःशासनमथाब्रवीत् ।। दुःशासन रथास्तूर्ण युज्यतां भीष्मरक्षिणः । अनीकानि च सर्वाणि शांघं त्वमनुचादय ।। अयं स मामभिप्राप्तो वर्षपूगाभिचिंतितः । पांडवानां ससैन्यानां कुरूणां च समागमः ॥ नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् । १० भध्यायः भीष्मपर्व ३१ हन्याद्गुप्तो ह्यसौ पार्थान् मोमकांश्च ससंजयान ।। अब्रवीच विशुद्धात्मा नाहं हन्यां शिखंडिनम् । श्रयते स्त्री हासी पूर्व तस्माद्वयो रणे मम ।। तस्माद्भीमो रक्षितव्यो विशेषेणेति मे मतिः। शिखंडिनो वधे यत्ताः सर्व तिष्ठतु मामकाः ॥ ततो रजन्यां व्युटायां स शब्दः समभृन्महान । क्रोशता भूमिपालानां युज्यतां युज्यतामिति ।। शंग्वदंदभियोपैश्च सिंहनादैश्च भारत । यहेपितनादैश्च स्थनेमिस्वनैस्तथा ॥ गजाना बृहतां चैव योधानां चापि गर्नताम् । वेलितास्फोटितोत्कृष्टस्नमल सर्वतोऽभवत् ।। ततः प्रकागे सैन्यानि समदृश्यंत भारत। त्वदीयानां परेषां च शस्त्रवंति महांति च ।। मधापायगः सोगस्तानं प्रत्यपद्यत । दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः ।। द्विधाभूत इवादित्य उदये प्रत्यदृश्यत । ज्वलंत्या शियया भयो भानुमानुदितो रविः ।। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव । समानीय महीपालानिंद वचनमब्रवीत् ।। इदं वः क्षवियाद्वारं स्वर्गायापावृतं महत् । गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम् ।। एष वः शाश्वतः पंथाः पूर्वैः पूर्वतरैः कृतः । संभावयध्वमात्मानमव्यग्रमनसो युधि ।। अधर्मः क्षत्रियस्पैष यद्वयाधिमरणं गृहे । यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ।। एवमुत्ता महीपाला भीष्मेण भरतर्षभ । निर्ययुः स्वान्यनीकानि शोभयंतो रथोत्तमैः ।। ततो मुहूर्तात्तुमुलः शन्दो हृदयकंपनः । अश्रूयत महाराज योधानां प्रयुयुत्सताम् ।।

संवितमहाभारते [अध्यायः १ शंखदुदुभियोपैश्च वारणानां च हितैः । नेमिघोष स्थानां च दीर्यतीव वसुंधरा ॥ हयानां हेषमाणानां योधानां चैव गर्जताम् क्षणेनेव नभो भमिः शब्देनापूरितं तदा ॥ पुत्राणां तव दुर्धर्ष पांडवानां तथैव च । समकंपत सैन्यानि परस्परसमागमे । धार्तराष्ट्रान्यनीकानि दृष्ट्वा व्यूढानि पांडवः । अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम् ।। महर्वचनात्तात वेदयति बृहस्पतेः । संहतान्योधयेदल्पान्कामं विस्तारयेबहून् । सूचीमुखमाकं स्यादल्यानां बहुभिः सह । अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ।। अर्ब० उ. - एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम् । अचलं नाम वज्राख्यं विहितं वज्रपाणिना ।। यः स बात इवोद्भूतः समरे दुःसहः परैः । स नः पुरो योत्स्यते वै भीमः प्रहरतां वरः ।। न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम् । द्रष्टुमत्युग्रकर्माणं विषहेत नरर्पभम् ॥ अथ सज्जीयमानेषु सैन्येषु भरतर्षभ । निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च । मादुरासीद्रजस्तीनं न प्राज्ञायत किंचन ।। पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः । चक्रे वायुः पृष्टतः पांडवानां धार्तराष्ट्रान् श्वापदा व्याहरति । भीष्मोऽग्रतःसर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखड्गः। श्वताष्णीषः पांडुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः ॥ सहस्रसूर्यः शताकिकिणीकः पराय॑नांबूनदहेमचित्रः । ग्योऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥ तमास्थितः केशवसंगृहीतं कपिध्वजो गांडिववाणपाणिः । ४८ भध्यायः २] ६ भीमपर्व धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित् ।।* ५३ २ ५६ ततो धनंजयं दृष्ट्वा बाणगांडिवधारिणम् । पुनरेव महानादं व्यसृजंत महारथाः ॥ पांडवाः संजयाश्चैव ये चैषामनुयायिनः । दध्मुश्च मुदिताः शंखान्वीराः सागरसंभवान् ।। ततो युधिष्ठिरो दृष्टा युद्धाय सुसमुद्यने । ने सेने सागरप्रख्ये मुहुः प्रचलिते नृप । विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । अवरुद्ध रथातूर्ण पद्भ्यामेव कृतांजलिः ।। पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः । वाग्यनः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् ।। नं प्रयातमभिप्रेक्ष्य कुंतीपुत्रो धनंजयः । अवतीर्य रथातूर्ण भ्रातृभिः सहितोऽभ्यगात् ।। क गमिप्यसि राजेन्द्र निक्षिप्तकवचायुधः । दंशितेप्वरिसैन्येषु भ्रातृनुत्सृज्य पार्थिव ।। एवमाभाग्यमाणोऽपि भ्रातृभिः कुरुनंदन । नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ।। दृष्ट्वा युधिष्ठिरं वीरा धार्तराष्ट्रस्य मनिकाः । मिथः संकथयांचक्रुरेषो हि कुलपांसनः ॥ व्यक्तं भीत इवाभ्यति राजासौ भीष्ममंतिकम् । युधिष्ठिरः ससोदयः शरणार्थ प्रयाचकः ।। सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् । भीष्ममेवाभ्ययात्तूर्ण भ्रातृभिः परिवारितः ।। ६० ६२ ६४ भृ. उ.-धर्मक्षेत्रे कुरुक्षेत्र सममा युयुत्सवः । मामकाः पांडवायचैव किमकुर्वत संजय ।। + इत्यादिभगवद्गीता भत्र द्रष्टव्या ।

संक्षिप्तमहाभारते अगर ५१ तमुवाच ततः पादौ कराभ्यां पीड्य पांडवः । भीष्मं शांतनवं राजा युद्धाय समुपस्थितम् ।। आमंत्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह । अनुजानीहि मां तत्र आशिषचव योजय ।। भी उ०-~-यद्येवं नाधिगच्छेथा युधि मां पृथिवीपते । शपेयं त्वां महाराज पराभावाय भारत ।। पीतोऽस्मि पुत्र युद्धयस्व जयमामुहि पांडव । यत्तेऽभिलषितं चान्यत्तदवामुहि संयुगे । अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कोरवैः ।। ततो युधिष्टिरो नाक्यं भीष्मस्य कुम्नंदनः । शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ प्रागात्पुनर्महाबाहुराचार्यस्य रथं पति । पश्यतां सर्वसेन्यानां मध्येन भ्रातृभिः सह । स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् । उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ दो० उ०-ध्रुषस्ते विजयो राजन् यस्य मंत्री हरिस्तव । अहं त्वामभिजानामि रणे शत्रून्विमोक्ष्यसे । यतो धर्मस्ततः कृष्णो यतः कृष्णस्तनो जयः ।। अनुमान्य तमाचार्य प्रायाच्छारद्वतं प्रति । सोऽभिवादा कृपं गजन याला चाभिनितम् उवाच दुर्याना पायं पायनिवारण ! अनुमानयित्वा योत्स्येऽहं गुरो विगतकल्मषः । जयेयं च रिपृन्सर्वाननुज्ञातस्त्वयाऽनघ । अनुमान्याथ कौंतेयो मातुलं मद्रकेश्वरम् । निजगाम महासैन्यादाभिः परिवारितः ।। अथ सैन्यस्य मध्ये तु प्राक्रोशपांडवाग्रजः । योऽस्मान्तृणोति तमहं वरये साह्यकारणात् ॥ अथ तान्समाभप्रेक्ष्य युयुन्सुरिदमब्रवीत् । ७६ 1 ७८ ८० ८१ .. मना] भीष्मपर्व पीतात्मा धर्मराजानं कुंतीपुत्रं युधिष्ठिरम् ॥ अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् । युष्मदर्थे महाराज यदि मां दृगुषेऽनघ । ऐह्येहि सर्वे योत्स्यामस्तव भ्रातृनपंडितान् । युयुत्सो वासुदेवश्च वयं ब्रम च सर्वशः ।। त्वयि तंतुश्च पिंडच धृतराष्ट्रस्य दृश्यते । भजस्वास्मानाजपुत्र भजमानान्महायुते ।। न भविष्यति दुबुद्धिर्धार्तराष्ट्रो ह्यमर्पणः ॥ ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव । जगाम पांडुपुत्राणां सेनां विश्राव्य दुंदुभिम् ॥ ततो युधिष्ठिरो राजा सुसंहणे गहाभुजः । जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ।। प्रत्यपयंत ते सर्वे स्थान्स्वान्पुरुषर्षभाः। ततो व्यूह यथापूर्व प्रत्यव्यहंत ते पुनः॥ गौरवं पादुपुत्राणां मान्यान्मानयतां च तान् । दृष्ट्वा महीक्षितस्तत्र पूजायांचक्रिरे भृशम् ॥ सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् । दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः ।। साधु माध्विति सर्वत्र निवेरुः स्तुतिसंहिताः ॥ म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा । वृत्तं तपांडपुत्राणां सादुरले सगरमाग !! पूर्वान्हे तस्य रोग्य युद्धपहो विशांपते । मावर्तत महाघोरं राज्ञा दहावकतनम् ।। कुरूणां संजयानां च संग्रान विजिगोलार । सिंहानामिव संहादो दिवमुर्वी च नादयन् । आसीकिलाकलाशब्दस्तलशंखरवैः सह ।। जहिरे सिंहनादाश्च नराणां प्रतिगर्जताम् । तलवाभिहतश्चैव ज्याशब्दो भरतर्षभ । पसीनां पदशन्दश्च वाजिनां च महास्वनः । ८६ . २१ ०८ লামা [अध्यायः २ तोत्रांकुशनिपातश्च आयुधानां च निःस्वनः ॥ घंटाशन्दश्च नागानामन्योन्यमभिधावताम् । तस्मिन्समुदितः शब्दस्तुमुलो लोमहर्षणः ।। बभूव स्थनिर्घोषः पर्जन्यनिनदोपमः । ते मनः क्रूरमास्थाय समाभित्यक्तजीविताः ॥ पांडवानभ्यवर्तत सर्व एवोच्छूितध्वजाः । स्वयं शांतनवो राजनभ्यधावद्धनंजयम् ।। सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात् । अभिमन्युमहेष्वासो बृहद्धलमयोधयत् ।। युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् । धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत ।। राक्षस क्रूरकर्माणं क्रूरकर्मा घटोत्कचः । अलंबुषं प्रत्युदियाद्रलं शक्र इवाहवे ।। शिखंडी समरे राजन् द्रौणिमभ्युद्ययौ वली । बृहत्क्षत्रं च कैकेयं कृपः शारद्वतो ययौ । एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् । पदातीनां च समरे तव तेषां च संकुले । १०१ मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन ।। १०२ न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् । न भ्राता भ्रातरं तत्र स्वस्त्रीयो न च मातुलम् ॥ १०३ रथानीकं नरव्याघ्राः केचिदभ्यपतत्रथैः । अभज्यंत रथैरेव युगानि भरतर्षभ ।। १०४ बहुधादारयन् क्रुद्धा विषाणैरितरेतरम् । सतोरणपताकैश्च वारणा रणवारणैः ।। अभिनीताश्च शिक्षाभिस्तोत्रांकुशसमाहताः । अभिभाः प्रभिमानां संमुखाभिमुखा ययुः । प्रभित्रैरपि संयुक्ताः केचित्तत्र महागजाः । काँचवभिनदं कृत्वा प्राद्रवंत ततस्ततः ।।

६ भीमपर्व १०८ ११० ११४ विनेदुर्भिन्नमर्माणो निपेतुश्च गतासकः । प्रधावति दिशः केचिभदंतो भैरवारवान् ।। गजानां पादरक्षाश्च व्यूढोरस्काः प्रहारिणः । ऋषिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ।। गदाभिर्मुसलैश्चैव भिदिपालैः सतोमरैः । आयसैः परिधैवापि निस्त्रिंशैविमलैः शितैः ।। सुगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः । व्यदृश्यंत महाराज परस्परजिघांसवः ।। राजन् शतसहस्राणि ततः क्षत्रियपुंगवाः। श्वेतं सेनापति शूराः पुरस्कृत्य महारथाः ॥ राज्ञो बलं दर्शयंतस्तव पुत्रस्य भारत । शिखंडिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ॥ अभ्यवर्तत भीष्मस्य रथं हेमपरिष्कृतम् । जिघांसंतो युधां श्रेष्ठं तदासीत्तुमुलं महत् ।। अहनः कोऽपि नैवासीद्भीष्मे निघ्नति शात्रवान् ।। एकाह्रा निर्दहेद्भीष्मः पांडवानामनीकिनीम् । शरैः परमसंक्रुद्धः तो यदि न पालयेत् ॥ निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः । तं प्रत्यविध्यदशभिभीष्मः शांतनवस्तथा । स विद्धस्तेन बलवान्नाकंपत यथाचलः । विव्याध पंचविंशत्या नदद्भुतमिवाभवत् ।। धनुश्चिच्छेद भीष्मस्य दशभिर्दशधा शरैः। संधाय विशिखं चैव शरं लोमप्रवाहिनम् । उन्ममाथ ततस्तालं ध्वजशीर्ष महात्मनः ।। केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव । हतं भीष्मममन्यंत श्वेतस्य वशमागतम् ।। उत्सृज्य कार्मुकं राजन् गागेयः क्रोधमूर्छितः अन्यत्कार्मुकमादाय विपुलं बलवत्तरम् ॥ तत्र संधाय विपुलान् भल्लान् सप्त शिलाशितान् । ११५ ११६ ११७ ११८ . . १२० १. संक्षिप्तमहाभारते [भध्याय ३ चतुर्भिश्चतुरश्चाश्चान् श्वेतस्य पृतनापतेः ।। १२२ ध्वजं द्वाभ्यां च चिच्छेद सलमेन च सारथः। शिरश्चिच्छेद भल्लेन संकुद्धो लघुविक्रमः॥ १२३ हनाश्चमृतात्स रथादवप्लुत्य महारथः । अभपवशमापनो व्याकुलः समपद्यत ।। १२४ विरयं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः । नाडयामास निशितैः शरसंघः समंततः ।। १२५ नन. शरं मृत्युसमं भारसाधनमुत्तमम् । निष्कृष्य बलवान् भीष्मः समधत्त दुरासदम् ।। १२६ अनास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् । दशदेवगन्धर्वाः पिशाचोग्गराक्षसाः ॥ १२७ म तस्य कवचं भिवा ज्वलदानसमौजसः । जगाम धरणि वाणो महाशनिरिव ज्वलन् । १२८ अस्तं गच्छन्यथादित्यः प्रभामादाय सत्वरः । एवं जीवितमादाय श्वेतदेहाजगाम सः॥ १२० मतो दुःशासनो राजन् श्वेतं दृष्ट्वा निपातितम् । वादित्रनिनदोरैर्नृत्यति स्म समंततः ।। १३ तस्मिन्हते मोवासे भीष्मेणाहवशोभिना । प्रात्रेपन महेष्वासाः शिवडिप्रमुखा रथाः ।। तनो भीष्मरथातूर्णमुत्पति पतंत्रिणः । थेरंतरिक्ष अमिश्र पर्वतः समवश्नुता !! पांचालानय मत्स्यांश्च केरलांश्च प्रभद्रकान् । पोभा महरता श्रेष्ठः पानयामास मार्गणः ।। शरैरेकायनी कुर्वन् दिशः सर्वा यतव्रतः । जघान पांडवरथानादिश्यादिश्य भारत ॥ नतः सैन्येषु भग्नेषु मथितेषु च भारत । मासे चास्तं दिनकरे न प्राज्ञायत किंचन ॥ १३८ भीष्मं च समुदीर्यतं दृष्ट्वा पार्था महाहवे । भवहारमकुर्वत सैन्यानां भरतर्षभ ।।

अध्यायः ३] ६ भीष्मपर्व १३८ १५० १४० भ० उ०-व्यूहः क्रौंचारुणो नाम सर्वशत्रुनिषूदनः । यं बृहस्पतिरिंद्राय तदा देवासुरेऽब्रवीत् ।। तं यथावत्पतिव्यहं परानीकविनाशनम् । अदृष्टपूर्व राजानः पश्यन्तु कुराभः सह ॥ तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव । प्रभाते सर्वसैन्यानामग्रे चक्रे-धनंजयम् ।। शिरोऽभूद्रुपदो राजा महत्या सेनया वृतः । कुंतिभोजश्च चैद्यश्च चक्षुरास्ता नरेश्वर ॥ दाशार्णकाः प्रभद्राश्च दासेरकगणैः सा । अनूपकाः किराताश्च ग्रीवायां भरतर्षभ ।। पटचरैश्च एणेश्च राजा पौरवकैस्तथा । निपादैः सहितश्चापि पृष्ठमासाधुधिष्ठिरः ।। पक्षी तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ॥ पिशाचा दारदाश्चव पौंड्रैः कुंडीवर्षः सह । यवना धेनुकाश्चैव तंगणाः परतंगणाः ॥ बाहीकास्तित्तिगश्चैव चोलाः पांडपाश्च भारत । एते जनपदा राजन दक्षिणं पक्षमाश्रिताः ।। अग्निवेश्या गजतुंडा मलदा दाशकारवः । शवराः कुंभसारचैव वन्माउन सह गावकैः नकुलः सहदेवश्च वाग पलं सपाधिनाः !! नधन पालयामास विराटः सह कैकयः। काशिराजश्च शैव्यश्च स्थानानयुतलिमिः ॥ एवमेते महाव्यूई व्यूह्य भारतसत्तमाः । सूर्योदयनामिच्छतः स्थिता युदाय दंशिताः ॥ ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष । अव्यूहत महान्यूहं पार्थानां प्रतिबाधने ॥ ततो युद्धं समभवत्तुमुलं लोमहर्षणम् । १४५ संधिममहाभारत [भापायः ३ १५० १५४ १८५ १५७ तावकानां परेषां च व्यतिपक्तरथद्विपम् ।। सौभद्रे भीमसेन च अर्जुने च महारथे । कैकेये च विरटे च धृष्टद्युम्ने च पार्षते ॥ एतेषु नरवीरेषु चेदिमत्स्येषु वा विभुः । वर्ष शरवर्षाणि वृद्धः कुरुपितामहः ।। प्रापत महाव्यूहस्तस्मिन्वीरसमागमे । सर्वेषामेव सैन्यानामासीद्वयतिकरो महान् ॥ ततो दुर्योधनो राजा कालिंग समचोदयत् । सैन्येन महता युक्तं भारद्वाजस्य गोपने ॥ ततः सा महती सेना कलिंगानां नरेश्वर । भीममभ्याययो भीमा तव पुत्रस्य शासनात् ।। नतो भीमो महाबाहुर्गदां त्यक्त्वा महाबलः । उद्वबई स निख्रिशं चिकीर्षुः कर्म दारुणम् ॥ चर्म चापतिमं राजन्नार्षभं पुरुषर्षभ ॥ ततः स्वरेण महता विननाद महास्वनः । तेन शब्देन वितस्ता कलिंगानां वरूथिनी ।। सासिवेगवक्षाप्लुत्य दंताभ्यां वारणोत्तमम् । आरुरोह ततो मध्यं नामराजस्य मारिष ।। खड्ड्रेन पृथुना मध्ये भानुमंतमथाच्छिनत् । सोऽतरा युधि तं हत्वा राजपुत्रमरिंदमः । गुरुभारसहं स्कन्धे नागस्यासिमपानयत् ।। छिनस्कंधः स विनदन्पपात गजयूथपः । आरुग्णः सिंहवेगेन सानुमानिव पर्वतः ॥ पततश्चाप्यवप्लुत्य गजाद्भारत भारतः । खड्गपाणिरदीनात्मा तस्थौ भुवि स दंशितः।। स चचार बहून्मार्गानभीतः पातयन् गजान् । अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ।। अश्वदेषु नागेषु स्थानीकेषु वा विभुः। पदातीनां च संघेषु विनिघ्नन्मत्यदृश्यत ।। १५८ १६० भध्यायः ४] ६ भीष्मपर्व १३ १६७ १६८ केचिदग्रासिना छिन्नाः पांडवेन महात्मना । विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।। छिन्नदंताग्रहस्ताश्च छिन्नकुम्भास्तथापरे । वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः॥ आसीत्तस्मिनणे भूमिः पर्वतैः पतितैरिव । विमृधैवं महानागान्ममर्दाश्वानरर्षभः ।। खलीनानि विचित्राणि कक्षाश्च कनकोज्ज्वलाः । परिस्तोमाश्च प्रासाश्च रिष्टयश्च महाधनाः॥ कवचान्यथ चर्माणि चित्राण्यास्तरणानि च । तत्र तत्रापविद्धानि व्यदृश्यंत महाहवे ॥ आप्लुत्य रथिनः कांश्चिन्परामृश्य महावलः । पातयामास खड्नेन सध्वजानपि पांडवः ।। एवं स तान्यनीकानि कलिंगानां पुनः पुनः । विभेद समरे वीरो भीमो भीमपराक्रमः ॥ संपदृष्टो महाघोरं शंखं प्रध्मापयन्वली । सर्वकालिंगसैन्यानां मनांसि समकंपयत् ।। ततोऽवहारः सैन्यानां तव तेषां च मारिष । अस्तं गच्छति सूर्येऽभून्संध्या च समवर्तत ॥ १७३ ४. प्रभातायां तु शर्वर्या भीष्मः शांतनवस्ततः । आनीकान्यथ संयाने व्यादिदेश परंतपः ॥ गारुडं च महाव्यूहं चक्रे शांतनवस्तदा । पुत्राणां ते जयाकांक्षी दृद्धः कुरुपितामहः ॥ तावकानां तु तं व्यूह प्रत्यव्यूहंत पांडवाः । अर्धचंद्रेण व्यूहेन व्यूहं तमतिदारुणम् ॥ ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । तावकानां परेषां च निन्नतामितरेतरम् ।। उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।

४ संक्षिप्तमहाभारने भध्यायः ४ १७८ १८० १८५ न दिशः प्रदिशश्चापि तत्र जजुः कथंचन ॥ अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे । वर्तते स्म तदा युद्धं तत्र तत्र विशांपते ॥ न व्यूहो भियते तत्र कौरवाणां विशांपते । रक्षितः स यथा तेन भारद्वाजेन मारिष । तथैव पांडवेयानां रक्षितः सव्यसाचिना ॥ सेनाबादभिानेप्पत्य प्रायुध्यस्तत्र मानवाः । उभयोः सेनयो राजन् व्यतिषक्तरथद्विपाः ।। ततस्ते पार्थिवाः क्रुद्धाः फाल्गुनं वीक्ष्य संयुगे । रथैरनेकसाहौः समंतात्पर्यवारयन् ॥ अस्त्राणामथ तां दृष्टिं शलभानामिवायनिम् । रुरोध सर्वतः पार्थः शरैः कनकभूपणेः ।। सात्यकिश्वाभिमन्युश्च महत्या सेनया सह । गांधारान्समरे शूरान् रुरुधुः सह सौवलान् ।। नतो धर्मसुतो राजा माद्रीपुत्रो च पांडवो । मिषतां सर्वसैन्यानां द्राणानीकमुपाद्रवन् । कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ । दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥ भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणः । हृद्यविद्धयत्यूपत्केन प्रहसन्निव पांडवः ।। ततो दुर्योधनो राजा प्रहारवरपीडितः। निपसाद रथोपस्थे कश्मलं च जगाम ह ।। तं विसंज्ञमथो दृष्ट्वा त्वरमाणोऽस्य सारथिः । अपोवाहरणाद्राजंस्ततः सैन्यमभज्यत ।। ततस्तां कौरवीं सेनां द्रवमाणां ततस्ततः । निघ्नन् भीमः शरैस्तीक्ष्णैरनुवाज पृष्ठतः । नाशक्नुतां वारयितुं भीष्मद्रोणो महारयो । ततो दुर्योधनो राजा समाश्वस्य विशांपते । न्यवर्तयत तत्सैन्यं द्रवमाण समंततः ॥ १८७ १८८ १८० १९१ भावाय: ६ भीमपर्व १०७ तत्र तत्र न्यवर्तत क्षत्रियाणां महारथाः । अन्योन्यस्पर्धया राजल्ल जया चावतस्थिरे॥ सनिटांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः । अब्रवीत्वरितो गत्वा भीष्यं शांतनवं वचः ।। अनुग्राह्याः पांडुसुता नूनं तव पितामह । यथेमा क्षमसे वीर वध्यमानां वरूथिनीम् ।। सोऽस्मि वाच्यस्त्वया राजन् पूर्वमेव समागमे । न योत्स्ये पांडवान्संख्ये नापि सात्यकिपार्पतौ ।। श्रुत्वाहं वचनं तुभ्यमाचार्यस्य च भारत। कर्णेन सहितः कृत्यं चिंतयानस्तदेव हि ॥ यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे । विक्रमेणानुरूपेण गुध्यतां पुरुषर्षभौ ।। एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः । अब्रवीतनयं नु क्रोधायात चक्षुषी ॥ बहुशोऽसि मया राजन्पथ्यमुक्तो हितं वचः । अजेयाः पांडवा युद्धे देवैरपि सवासवः ॥ यत्तु शक्यं मया कर्तुं वृद्धेनात्र नृपोत्तम । करिष्यामि यथाशक्ति प्रेक्षेदानीं सबांधवः ।। एवमुक्तस्तु भीष्मेण पुत्रस्तव नरेश्वरः । दध्मौ शंखं मुदा युक्तो भेरीश्च समताडयत् ॥ प्रावतत ततो युद्धं नुमुलं लोमहर्षणम् । अस्माकं पांडवैः सार्धमनयात्तव भारत । कांचनेषु तनुत्रेषु किरीटेषु ध्वजेषु च । शिलानामिव शैलेषु पतंतीनामभूत्स्वनः ।। पतितान्युत्तमांगानि बाहवश्व विभूषिताः । व्यचेष्टत महीं प्राप्य शतशोऽथ सहस्रशः ॥ मावर्तत महावेगा नदी रुधिरवाहिनी। मातंगांगशिला घोरा मांसशोणितकर्दमा । न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप ।

१६ संक्षिप्तमहाभारते अण्णायः २०७ २०८ २०९ २१० २११ २१२ यथा तव सुतानां च पांडवानां च भारत ।। तत्र भीष्मः शांतनवो नित्यं मंडलकार्मुकः । मुमोच बाणान्दीप्तापानहीनाशीविषानिव ॥ तमेकं समरे शूरं पांडवाः संजयः सह । अनेकशतसाहस्रं समपश्यंत लाघवात् ।। न चैनं पांडवेयानां कश्चिच्छनोति वीक्षितुम् । विशिखानेव पश्यंति भीष्मचापच्युतान्वहून् । अमानुषेण रूपेण चरतं पितरं तव । शलभा इव राजानः पतंति स्म प्रमोहिताः ।। न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे। नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।। एवं सा धर्मराजस्य वध्यमाना महाचमः । भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ।। प्रभज्यमान सैन्यं च दृष्ट्वा यादवनंदनः । उचाव पार्थ कृष्णस्तु निगृह्य रथसत्तमम् ।। अयं स कालः संप्राप्तः पार्थ यः कांक्षितस्तव । महरास्मै नरव्याघ्र न चन्मोहाद्विमुह्यसे ।। एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः । दयाश्वान्यतो भीष्मो विगावैतरलार्णवम् ।। ततो भीष्मः कुरुश्रेष्ठः सिंहवाद्विनदनमुहुः । धनंजयरथं तूर्ण शरवर्षेरवाकिरत् ।। क्षणेन स रथस्तस्य सध्वजः सहसारथिः । शरवर्षेण महता छिन्नो न प्रदृश्यते ।। बासुदेवस्त्वसंभ्रांतो धैर्यमास्थाय सत्ववान् । चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ।। अदर्शयद्वासुदेवो हयमाने परं बलम् । मोघान्कुंर्वच्छरांस्तस्य मंडलान्यचरल्लघु ॥ ततस्तु भीष्मः सुदृढं वासुदेवधनंजयौ । विव्याध निशितैर्वाणः सर्वगात्रेषु मारिष ।। ११४ 96 २१७ २२० ६ भीष्मपर्व २२४ २२८ २२७ भभ्यायः ४] शुशुभाते नरव्याघ्रौ तौ भीष्मशविक्षतौ । गोषाविव नर्दन्तौ विषाणोल्लिखिताड़ितौ । ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् । संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ।। २२३ अचिंतयदमेयात्मा नास्ति यौधिष्ठिरं बलम् । एकादा हि रणे भीष्मो नाशयेदैत्यदानवान् । किमु पांडुमुतान्युद्धे सवलान्सपदानुगान् । मोऽहं भीमं निहन्म्यद्य पांडवार्थाय दंशितः । भारमेनं विनेप्यागे पांडवानां महात्मनाम् ।' निहत्य सर्वान् धृतराष्ट्रपुत्रांस्तत्पाक्षिका ये च नरेन्द्रगुख्याः । राज्येन राजानमजातश संपादयिष्याम्यहमद्य हृष्टः ।। २२६ ततः सुनाभं वसुदेवपुकः सूर्यप्रयं वचसहस्रनुल्यम् । क्षुरांतसुदाम्प भुनेन चक्रं रथादवप्लुत्य विसृज्य वाहान् । संकंपयन्गां चरणेनहात्मा नेगेन कृष्णः प्रससार भीष्मम् ।। नमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम् । असंभनाका युक्रवाणपाणी रये स्थितः शांतननोऽभ्युवाच ॥ एचहि देवेश जगानेवास नगोऽस्तु ते शागदासिपाणे । प्रसह्य मां पारय लोकनाथ रथोतमाद्धृतशरण्य संख्यं ।। त्वया हनम्येह ममाघ कृष्ण श्रेयः परम्मिनिह चैव लोके ।। श्रुत्वा वाचः शांतनवस्य कृष्णो वेगेन धावस्नगाभ्युवाच । त्वं मूलमस्यह भवि क्षयस्य दुर्योधनं चाय सगुरिप्यास ॥ दुवृतदेवी नृपनिनिवार्यः सन्मंत्रिणा धर्मपथि स्थितेन । त्याज्योऽथवा कालपरीनबुद्धिर्धर्मातिगो यः कुलपासनः स्यात् ॥ २३२ भीष्मम्वदाकर्ण्य यदुमवीरं राजा परं दैवतमित्युवाच ॥ वा० उ०-त्यत्तस्तु कंसो यदुभिहितार्थे सम्बोध्यमानो न वुवोध राजा । क्लेशाय देवाद्विपरीतमुद्धिः श्रोता हिनं यस्य न कश्चिदस्ति ।। ग्थादवप्लुत्य ततस्त्वरावान्पार्थः पदा द्रुत्य यदुप्रवीरम् । जग्राह पीनोन्नतलम्बबाहुं वाहोईरि व्यायतपीनबाहुः ।। अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली।

संक्षिप्तमहाभारते [भवाव: ६ उवाच कोपं प्रतिसंहरोति गतिभवान्केशव पांडवानाम् ।। न हास्यसे कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च । अन्तं गमिष्यामि यथा कुरूणां त्वयाहमिंद्रानज संप्रयुक्तः॥ ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य । स तानभीपन्पुनराददानः प्रगृह्य शंङ्ख द्विषतां निहन्ता । निनादयामास दिशो नभश्च स पांचजन्यस्य रवेण शौरिः ।। ततो भनाभ्यां वलाद्विकृप्य चित्रं धनुर्गाडिवमप्रमेयम् । माहेन्द्रमस्वं विधिवन्गुवोरं प्रादुश्चकाराद्भुनमन्तरिक्षे ।। तेनोत्तमात्रेण ततो गहात्मा सर्वाण्यनीकानि महाधनुष्मान । शरोघजालविगलाग्निवर्णनिवारयामास किरीटमाली ।। २४० शिलीमुग्वाः पार्थधनुर्विमष्टा स्थान् ध्व जाग्राणि धषेि वाहन् । निकृत्य देहान्निविगुः परेपां नरेन्द्रनागेन्द्रतुरङ्गमाणाम ॥ २४. ततो दिशः गोजदिशश्च पार्थः शनैः सुधानिशितैर्वितत्य । गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार ।। तस्मिंस्तथा घोग्तमालयद्धे शङ्खम्बना दुन्दुभिनिस्वनाश्च । अन्तर्हिता गाण्डिवनिस्वनेन बभूवुरुग्राश्च रणप्रणादाः ।। इतमवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसंघान् ॥ २४४ विनेदतुस्तावितहर्पयुक्तौ गांडीवधन्वा च जनार्दनश्च । तदैन्द्रमत्र विततं च घोरमसद्यमीक्ष्य युगांतकल्पम् ।। अयापयानं कुरवः सभीष्माः सद्रोणदुर्योधनवाहिकाश्च । चर्निशां संधिगता समीक्ष्य विभावसोर्लोहितरागयुक्ताम् ।। २४६ अवाप्य कार्तिं च यशश्च लोके विमृद्य शत्रूश्च धनंजयोऽपि । ययौ नरेन्द्रः सहसोदरैश्च समाप्तकर्मा शिविरं निशायाम् ।। रणे स्थानामयुतं निहत्य गजा हताः सप्तशतार्जुनेन । प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ।। २४८ २४० २४५ २४७ परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः । कुरवः पांडवाश्चैव पुनयुद्धाय निर्ययुः ॥

मध्वायः१] भीष्मपर्व २५३ २५४ २५८ नतः प्रवडते युद्धं घोररूपं भयानकम् । तावकानां परेषां च निघ्नतामितरेतरम् ।। भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः। न शेकुः पाण्डवा द्रष्टुं नपन्तमिव भास्करम् ।। अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महावलात् ।। ततो दुर्योधनो गना सोदयः परिवारितः । भीष्मं जुगोप सारे वर्तमाने महाक्षय ।। भीमस्तु सारयिं हवा भीगार रथिनां वरः । प्रद्रुनाश्वे रथे तस्मिन्लवमाने समन्ततः ।। सुनाभस्य शुरेणा शिराविच्छंद भारत । पूर्णायतपिरोन म हतो न्यपनदभुवि ।। हते तमिहाराम तव पुत्रे महारथे । नामृप्यंत रणे शूराः सोदराः सम संयुगे । आदित्यकेतुर्वदाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्ष धदुर्जयः ।। पाण्डवं चित्रसन्नाहा विचित्रकवचायुधाः । अभ्यद्रवंत संग्राने योद्भुकामारिमर्दनाः ।। स तन ममृपे वीरः शत्रुभिर्वधमाहवे। धनुः प्रपीड्य वामन करेणामित्रकर्शनः ।। शिरश्चिच्छेद समरे शरणानतपर्वणा । अपराजितस्य मुनसं तव पुत्रस्य संयुगे ।। अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्यलोकाय सर्वसैन्यस्य पश्यतः ।। विशालाक्षशिरच्छित्वा पातयामास भूतले । त्रिभिः शरैरदीनात्मा म्गरन् क्लेशं पुरातनम् ।। महोदरं महेवासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतझवि ॥ आदित्यकेतोश्छत्रं च छित्त्वा बाणेन संयुगे। भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ।। २५६ २५७ २५० २६० २६१ २६२ संक्षिप्तमहाभारते [अध्याय ६ प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ।। ततो दुर्योधनो राजा भीष्ममासाद्य मारिष । दुःखेन महताविष्टो विललापातिदुःखितः। २६८ निहता भ्रातरः शूरा भीमसेनेन मे युधि । यतमानास्तथान्येपि हन्यते सर्वसैनिकाः ॥ २६६ भवान्मध्यस्थिततया नित्यमस्मानुपेक्षते । सोऽहं कापथमारूढः पश्य दैवनिदं मम ।। २६७ एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव । दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् ॥ २६८ उक्तमेतन्मया पूर्व द्रोणेन विदुरेण च । गांधार्या च यशस्विन्या तत् त्वं तात न बुद्धवान् ॥ २६° समयश्च मया पूर्व कृतो वः शत्रुसूदन । नाहं युधि नियोक्तव्यो नाप्याचार्गः कथंचन ।। यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। हनिष्यति रणे तं तं सत्यमंतद्रवीमि ते ॥ स त्वं राजन स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् । योधयस्व रणं पार्थान् स्वर्ग कृत्वा परायणम् ॥ स्वसन्य निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् । अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥ अर्धचन्द्रं च संधाय मुर्ताक्ष्णं लोमवाहिनम् । भीमसनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः । प्रसंदधे शितं वाणं गिरीणामपि दारणम् ।। नेनोरसि महाराज भीमसेनमताडयत् ।। २७६ स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् । समाललम्बे तेजस्वी ध्वज हेमपरिष्कृतम् ॥ तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः । क्रोधेनाभिप्रजज्वाल दिधक्षत्रिव पावकः ॥ ३७७ २७८ अध्याय 1] 1 भीमपर्व २८० " अभिमन्युमुखाश्चापि पांडवानां महारथाः । समभ्यधावन् क्रोशंतो राजानं जातसंभूमाः ।। संप्रेक्ष्यता-संपततः संक्रुद्वान् जातसंभूमान् । भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् । क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ।। तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः । तावकाः समवर्तत मांडवानामनीकिनीम् ।। एवमुक्त्वा गहावाहुमहाद्विस्फार्य कार्मुकम् । भारद्वाजस्ततो भीग पड्विंशत्या समादयत् ।। भूयश्चैनं गहाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः प्रापीय बलाहकः ।। तं प्रत्यविद्याशाभीमसेनः शिलीमुखैः । त्वरगाणो महेष्वासः सव्ये पार्वे महावला: स गाढविद्धो व्यथिता वयोटद्धश्च भारत । प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ।। गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रोणायनिश्च संक्र द्वौ भागसेनमभिद्रुतौ ।। तावापतन्तौ संप्रेक्ष्य कालान्तकयगोपमौ । भीमसेनो महावार्गदामादाय सत्वरम् अवप्लुत्य रथातूर्ण तस्थौ गिरिरिवाचलः । समुयम्य गदामुर्वी यमदण्डोपमां रणे । तत्राक्रन्दो महानासीता तेपांच भारत । निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ।। रणे चारूणि चापानि हेमपृष्ठानि मारिप। जातरूपमयैः पुढे राजनिशिताः शराः । तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ।। हस्तिदन्तत्सरुन्खड्गान् जातरूपपरिष्कृतान् । चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनाम् । सुवर्णविकृतपासान् पटिशान्हेमभूषितान् ॥ २८६ ॥ २८७ २८८ २८..

२२ संक्षिप्तमहाभारते [भपाव जातरूपमयाश्चष्टीः शक्तीश्च कनकोज्ज्वलाः । नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः॥ गदाविमथिलातर्मुसलेभिन्नमस्तकाः । गजवाजिरथक्षुण्णाः शेरते नृपते क्षितो ॥ विशब्दरल्पशब्दश्च शोणितौघपरिप्लुतः । गतासुभिरमित्रघ्न विवभौ निचिता मही । २९५ स्थेश्च सर्वतोभनैः किंकिणीजालभूपितैः । वाजिभिश्च हतैर्बाणः सस्तजिह्वःसुशोणितैः ।। २९६ नानारागैः कम्बलश्च परिस्तोनैश्च दन्तिनाम् । वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ।। २९७ पद्मेन्दुतिभिश्चैव बदनैश्चारुकुण्डलैः । क्लप्सश्मश्रुभिरत्यर्थं वीराणां समलत्तैः ।। २९८ एवमेते महासेने मृदिते तत्र भारत । परस्परं समासाद्य तव तेषां च संयुगे। २९९ तेषु श्रान्तेषु भनेषु मृदितेषु च भारत ।। रात्रिः समभवचन नापश्याम ततोऽनुगान् । ततोऽवहार सैन्यानां प्रचक्र: कुरुपांडवाः ॥ ६ २०२ ततो दुर्योधनो राजा शकुनिश्चापि सौबलः । दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ।। समागम्य महाराज मंत्रं चक्रुर्विवक्षितम् । कथं पांडुसुताः संख्ये जेतव्याः सगणा इति ।। दु० उ०-द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे । न पार्थान् प्रतिवाधन्ते न जाने तस्य कारणम् ॥ अवध्यमानास्ते चापि क्षपयंति बलं मम । सोहं संशयमापन्नः प्रहरिष्ये कथं रणे ॥ क. उ०-मा शुचो भरतश्रेष्ठ करिष्येऽहं प्रियं तव । भीष्मःशांतनवस्तूर्णमपयातु महारणात् ।। निचे युधि गांगेये न्यस्तशस्त्रे च भारत ।

अध्याय.] ६ भीमपर्व ३३ ३०७ ३०८ ३०९ ३११ ३१२ अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः ॥ पाण्डवेषु दया नित्यं स हि भीष्मः करोति वै । अशनाश्च रणे भीष्मो जेतुमेतान्महारथान् ।। अब्रवीद्वातंर तत्र दुःशासनमिदं वचः । अनुगात्रं यथा सर्व सज्जं भवतु सर्वशः ।। निष्पपात ततस्तूर्ण पुत्रस्तव विशांपते । सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ॥ ततम्तं नृपशार्दूलं शार्दूलसमविक्रमम । आरायद्धयं तूर्ण भ्राता दुःशासनस्तथा ॥ अनालप्तः परार्धेन चन्दनेन सुगंधिना। अरजाम्बरसंघीतः सिंहखेलगातेन॒पः ।। तं प्रयांत नल्याघ्र भीष्मस्य शिविर मात । अनुनमुहेप्वासाः सर्वलोकस्य धन्विनः ।। हयानन्य समारुह्य गजानन्ये च भारत । स्थानन्ये नरश्रेष्ठाः परिवत्रुः समन्ततः ।। अन्वीयमानः सततं सादरैः परिवारितः । दक्षिण दक्षिणः काले संकृत्य स्वभुज तदा ॥ हास्तहस्तोपमं पीनं सर्वशत्रुनिबर्हणम् । प्रगृह्यनजलानृणामुग्रतान्सर्वता दिशः ॥ प्रदीपः काञ्चनस्तत्र गन्धतैलावसेचिनः । परिवर्गहाराज प्रज्वलद्भिः समंततः । काधनोप्णीपिणम्तत्र वेत्रझझरपाणयः । प्रोत्साहयन्तः शनकस्तं जनं सर्वतोदिशम् ।। सम्पाप्य तु ततो राजा भीष्मस्य सदनं शुभम् । अभिवाद्य तनो भीष्म निषण्णः परमासने । काश्चने सर्वतोभद्रे स्पर्यास्तरणसंकृते । उवाच प्रांजलिर्भीष्मं बाष्पकंठोऽश्रुलोचनः ।। त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन । उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ॥ ३१५ ३१६ ३१८ ३२० ३२१ २४ संक्षिामहाभारते [अध्याय ३२२ ३०४ ३२७ ३२८ तस्मादहसि गांगेय कृपां कर्तुं मयि प्रभो । जहि पांडुसुतान्वीरान् महेन्द्र इव दानवान् ॥ दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो । मन्दभाग्यतया वापि मम रक्षसि पांडवान् ।। अनजानीहि समरे कर्णमाहवशोभिनम् । सजेन्यति रणे पार्थान् समुद्रणवांधवान् ॥ श्वसयानो यथा नागः प्रणुन्नो वाक्शलाकया । सध्यात्वा मुचिरं कालं दुःखरोपसमन्वितः ।। उद्धृत्य चक्षुपी कोपानिर्दहन्निव भारत । अब्रवीत्सव पुत्रं स सामपूर्वमिदं वचः ।। किं त्वं दुर्योधनैवं मां वाक्शन्यैरपळतास । घटगानं यथाशक्ति कुर्वाणं च तव प्रियम् ।। यदा तु पाण्डव शूरः खांडवेऽग्निमतर्पयत् पराजित्य रणे शक्रं पर्याप्तं तनिदर्शनम् ।। यदा च त्वां महाबाहो गंधर्हतगोजसा । अमोचयत्पांडुमुतः पर्याप्तं तनिदर्शनम् ॥ द्रवमाणेषु शूरेषु सोदरेषु तव भो । सूतपुत्रे च राधेये पर्याप्तं तनिदर्शनम् ॥ यच्च नः सहितान्सर्वान्विराटनगरे तदा । एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् विजित्य च यदाकर्ण सदा पुरुषमानिनम् । उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम् ॥ को हि शक्तो रणे जेतुं पाण्डवं रभस तदा। यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः॥ उक्तोसि बहुशो राजन्नारदामहर्षिभिः । त्वं तु मोहान जानीषे वाच्यावाच्यं सुयोधन ॥ मुमूहि नरः सर्वान्क्षान्पश्यति काञ्चनान् । तथा त्वमपि गांधारे विपरीतानि पश्यास ॥ स्वयं वैरं महत् कृत्वा पांडवैः सह संजयः । न अध्याय ३] ६ भीष्मपव ३३८ ३४० ३४. युद्धयस्व तानद्य रणे पश्यामः पुरुषो भव ।। तैर्वाऽहं निहतः संख्ये गमिष्ये यमराादनम् । तान्वा निहत्य समरे भीति दास्याम्यहं तव ।। पूर्व हि स्त्री समुत्पन्ना शिखंडी राजश्मनि । तमहं न हनिष्यामि प्राणत्यागे भारत ॥ सुवं स्वपिहि गांधारे श्वोऽस्मि कर्ता गहारणम् । यं जनाः कथयिष्यन्ति यावत्स्थास्यति योदेनी ।। एवमुक्तस्तव सुतो निजंगाल जनेश्वर । अभिवाद्य गुरुं मा प्रययौ म्वं निवेशनम् ।। प्रभातायां च शर्या प्रातरुत्थाय तापः । राज्ञः समाज्ञापयत सेनां योजयतेति ह । अद्य भीप्मो रणे क्रुद्धो निहानेण्यांत सोमकान् ।। दुर्योधनस्य तच्छुत्वा रात्री विलापतं बहु। मन्यमानः स त राजन् प्रत्याशाय पालनः ॥ निर्वदं परमं गत्वा विनिंद्य परवाच्यताम् दी दध्यौ शान्तनवो योद्धकायोऽर्जुनं रणे ।। दुर्योधनो महाराज दुःशासनमचोदयत् । दुःशासन रथाम्पूर्ण युज्यतां भीष्मक्षिणः ॥ अयं हि समनुप्राप्तो वर्पपगाभिाचंतितः । पाण्डवानां ससैन्यानां वधो राज्यम्य चागमः ॥ अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिवडिनम् । स्त्रीपूर्वको ह्यसौ राजस्तस्माद्वयॊ मया रणे । तत्र सर्वात्मना मन्ये गांगेयस्यैव पालनम् । अरक्ष्यमाणं हि को हन्यासिहं महाहवे ।। एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा । सर्वतो स्यवंशेन गांगेयं पर्यवारयन् ।। पुत्राश्च तव गांगेयं परिवार्य ययुमुदा। कम्पयन्तो भुवं धां च क्षोभयन्तश्च पाण्डवान् ।। भीष्मं तु रथवंशेन दृष्ट्वा समार्भसंवृतम् । ३४८ संक्षिप्तमहाभारते [भध्याय अर्जुनो रग्निा श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ शिखडिनं नरव्याघ्र भीष्यस्य प्रमुखे नृप । स्थापयस्वाध पांचाल्यं तस्य गोप्ताहामित्युत ॥ ततः शब्देन महता प्रचकम्पे वसंधरा । पक्षिणश्च महाघोरं व्याहरन्तो विवभ्रमः॥ सप्रभवोदितः सर्यो निष्पभः समपद्यत । क्वृश्च वातास्तुमुलाः शंसंतः सुमहद्भयम् ।। तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् । नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ रथी रथिनमासाद्य प्राहिणोद्यमसादनम् । तथेतरान्समासाद्य नरनागाश्वसादिनः ।। रथास्तु रथिभिहीना हतसारथयस्तथा । विपद्रुताश्च समरे दिशो जग्मुः समन्ततः ।। दन्तिनश्च नरश्रेष्ट हीनाः परमसादिभिः । मृदन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥ अश्वारोहान्हतैर धैर्गृहीतासीन्समन्ततः । द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे । गजो गजं समासाद्य द्रवमाणं महाहवे । ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा ।। तसिगरोद्रे तथा गद्धे वर्तमाने महाभये । पावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ।। असिसङ्घातसंबाधा केशशैवलशावला । रथहदा शरावर्ता हयमीना दुरासदा ॥ शीर्षोपलसमाकीर्णा हस्तिग्राहस गाकुला । कवचोष्णीषफेनीघा धनुर्वेगासिकच्छपा ॥ सेनापतिस्तु समरे माह सेनां महारथः । अभिवत गांगेयं सोमकाः संजयः सह ।। सेनापतिवचः श्रुत्वा सोमकाः संजयाच ते । अभ्यद्रवंत गांगेयं शस्त्रदृष्टया समाहिताः ॥ ३५८ ३५९ ३६० ३६२ अध्याय ] भीष्मपर्व ३६६ ३६८ ३६०. वध्यमानस्ततो राजन्पिता शांतनवस्तव । अमर्षवशमापनो योधयामास संजयान् । तस्य कीर्तिपतस्तात पुरा रामेण धीनता । संपदत्तास्वशिक्षा वै पारानीकविनाशिनी ।। स ता शिक्षामधिष्ठाय कुर्वन्परवलक्षयम् । अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।। भीष्मी दशसहस्राणि जघान परवीरहा । गजानामयुतं हत्या हताः सप्त महारथाः॥ हत्या पंचसहस्राणि रथानां प्रपितामहः । नराणां च महायुद्धे सहस्राणि चतुर्दश ॥ दतिनां च सहस्राणि हयानामयुतं पुनः । शिक्षावलेन विहतं पित्रा तव विशांपते ॥ ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् । विराटस्य प्रियो भ्राता शतानीको निपातितः ।। शतानीकं च समरे हत्वा भीष्मः प्रतापवान् । सहस्राणि महाराज राज्ञां भल्लेरपायत् ।। ये च केचन पार्थानामभियाता धनंजयम् । राजानो भीष्ममासाद्य गतास्ते यमसादनम् ।। एवं दश दिशो भीष्मः शरजालैः समंततः । अतीत्य सेनां पार्थानामवतस्थे चम नुखे ।। स कृत्वा मुमहत्कर्म तस्मिन्वै दशमहान । सेनयोरंतरेऽतिष्ठत् प्रगृहीतशरासनः । न चैनं पार्थिवाः केचिद्रणे शक्ता निरीक्षितुम् ।। तथा चैनं पराक्रान्तमालोक्य मधुसूदनः । उवाच देवकीपुत्रः प्रीयमाणं धनजयम् ॥ एप शांतनवो भीष्मः सेनयोरंतरे स्थितः । सनिहत्य वलादेनं विजयस्ते भविष्यति। बलात्संस्तंभयस्वनं यत्रेषा भिद्यते चमूः । न हि भीष्मशरानन्यः सोमुत्सहते विभो । ३७४ ३७८ संक्षिप्तमहाभारते [भध्याय ६ ततस्तस्मिन्क्षणे राजश्चोदितो वानरध्वजः । सध्वजं सरथं साव भीष्ममन्तर्दधे शरैः ।। स चापि कुरुमुख्यानामृषभः पांडवरितान् । शरवातैः शरवातान्वहुधा विददार तान् । ३८० ततः शिखंडी वेगेन प्रगृह्य परमायुधम् । भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ।। ३८१ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पांडवो ।। दुद्रुवुष्मिमेवाजौ रक्षिता दृढधन्विना । आभिमन्युश्च समरे द्रौपद्याः पंच चात्मनाः।। ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः। वहुधा भीष्ममानच्छुर्गिणेः क्षतमार्गणैः ॥ नाभिसंधत्त पांचाल्ये स्मयमानो मुहुईः । स्त्रीत्वं तस्य तु सस्मृत्य भीष्मो बाणांश्च्छिरवण्डिनि ॥३८५ अताडयनणे भीम सहिताः सर्वसंजयाः ॥ ३८६ स विशीर्णततुत्राणः पीडितो बहुभिस्तदा । न विव्यथे तथा भीष्मो भिद्यमानेषु मर्मनु ।। ३८७ संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः । विकृत्त्य रथसङ्घानामन्तरेण विनिःमृतः ॥ दृश्यते स्ग नरेन्द्राणां पुनर्मध्यगतश्चरन् ।। ३८८ ततः किरीटी संरब्धो भीप्ममेवाभ्यधावत । शिखडिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।। ३८९. शिखंडी तु रणे श्रेष्ठो रक्ष्यमाणः किरीटिना । अविध्यदशभिर्भीष्मं छिन्नधन्वानमाहवे ॥ सारथिं दशाभिश्चास्य ध्वजं चैकेन चिच्छिदे ।। सोऽन्यत्कार्मुकमादाय गांगेयो वेगवत्तरम् । तदप्यस्य शितैर्वाणैत्रिभिश्चिच्छेद फाल्गुनः ।। एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः । धनुश्चिच्छेद भीष्मस्य सव्यसाची परन्तपः॥

भध्याय ६] ६ भीष्मपर्व शिखंडी तु महाराज भारतानां पितामहम् । आजधानोरसि ऋद्धो नवभिनिशितैः शरैः ॥ स तेनाभिहतः संख्ये भीष्मः कुरूपितामहः । नाकम्पत महाराज क्षितिकम्पे यथाचलः ॥ ततः प्रहस्य वीभत्सुर्व्याक्षिपन् गांडिवं धनुः । गांगेयं पंचविंशत्या क्षुद्रकागां समापयत् ।। ३९६ शिखंडी तु रणे बाणान् यान्मुमोच महारथः । न चक्रस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥ ३९७ सोऽतिवेदो महेप्वासो दुःशासनमभापत ॥ ३९८ एप पार्थो रणे क्रुद्धः पांडवानां महारथः। शरैरनेकसाहस्रमामेवाभ्यहनद्रणे । न चैप सगरे शक्यो जेतुं वज्रभृता अपि ॥ वज्राशनिसमस्पर्शा अर्जुनेन शरा यावे । मुक्ताः सर्व व्यवच्छिन्ना नेमे वाणाः शिखंडिनः ॥ ४०० ब्रह्मदण्डसमस्पर्शा वज्रवेगदुरासदाः । मम प्राणानारुजन्ति नेमे वाणाः शिखंडिनः ॥ ४०१ अर्जुनस्य इमे वाणा नेमे बाणाः शिखंडिनः । कृन्तन्ति मम गात्राणि माघमासे गवा इव ॥ सर्व ह्यपि न मे दुःख कुर्यरन्ये नराधिपाः । वीरं गांडीवधन्वानमृते निष्णु कपिध्वजम् ॥ इति ब्रुवंश्च्छान्तनवो दिधक्षुरिव पांडवान् । शक्तिं भाष्मः स पार्थाय ततश्चिक्षेप भारत ॥ तामस्य विशिवैश्छित्वा त्रिधा त्रिभिरपातयत् । पश्यतां कुरुवीराणां सर्वेपां तव भारत ।। चर्माथादत्त गांगेयो जातरूपपरिष्कृतम् । खड्गं चान्यतरप्रेम॒त्यार जयाय वा ॥ तस्य तच्छतधा चर्म व्यदधात्सायकैस्तथा । रथादनवरूढस्य तदद्भुतमिवाभवत् ।। ततम्तमेकं बहवः परिवार्य समन्ततः । ४०० संविसमहाभारते [अध्याय ६ ४०८ ४०९ ४१० ४११ ४१४ ४१७ परिकाल्य कुरून्सश्च्छिरवरैवाकिरन् । न तस्यासीदनिर्भिन्नं गात्रे यंगुलमंतरम् । एवंभूतस्तव पिता शरैर्विशकलीकृतः ॥ शिताः फाल्गुनेनाजी प्राशिराः प्रापतद्रथान् । किंचिच्छेपे दिनकरे पुत्राणां तव पश्यताम् ॥ हाहेति दिषि देवानां पार्थिवानां च भारत । पतमाने रथाद्भीप्म बभूव सुमहास्वनः ।। सम्पतन्तभिप्रेक्ष्य महात्मानं पितामहम् । सह भीणोण सर्वपां प्रापतन् हृदयानि नः ॥ स पपात गहावाहुर्वसुधामननादयन् । इन्द्रध्वज इवात्सृष्टः केतुः सर्वधन गताम् ॥ धरणी न स पम्पर्श शरसंधैः समारतः । रथात्मपतित चैनं दिव्यो भावः समाविशत् ।। अभ्यवर्षच पर्जन्यः प्राकम्पत च मादनी ।। पतन्स ददृशे चापि दक्षिणेन दिवाकरम्। संज्ञा चोपालभद्वीरः कालं संचित्य भारत ! धारयामास च प्राणान्पतितोऽपि महीतले । उत्तरायणमन्विच्छन्भीष्मः कुरुपतामहः ।। एवं शृग करुणां पतिते भीष्मे महाजसि । पाण्डवाः सृजयाश्चैव सिंहनादं प्रचक्रिरे । संमोहश्चैव तुलः कुरुणामभवत्तदा । कृपदुर्योधनगुखा निश्वस्य रुरुदुस्तदा ॥ सीमाक्षे निपतिते करूणां समितिजये । सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ।। दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव । उमं जवमास्थाय द्रोणानीकमुपाद्रवत् ॥ ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः । द्रोणस्तथाऽपियं श्रुत्वा एमोह भरतर्षभ ।। स संज्ञामुपलभ्याशु भार जः प्रतापवान् । ४१८ ४१२ ४२० ४२२ भध्याय ६] ६ भीष्मपर्व निवारयामास तदा स्वान्यनीकाने मारिप ।। निवृत्तेषु च सैन्येषु पारंपर्येण सर्वशः। निर्मुक्तकवचाः सर्वे भीष्ममीयनराधिपाः ॥ व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः । उपतहात्मानं प्रजापतिमिवामराः ॥ ते तु भीष्मं समासाद्य शयानं भरतर्षभ । अभिवाधावतिष्ठन्त पाण्डवाः कुरुभिः सह ।। अथ पांडन्कु चव प्रणिपायाप्रतः स्थितान् । अभ्यभाषत धर्मात्मा भीष्मः शतनपस्तदा । स्वागतं वो महाभागाः स्वागतं वो महारथाः। तुष्यामि दर्शना चाहं युप्माकननरोपमाः ॥ अभिनव्याय तानेर शिरसा लम्बताऽब्रवीत् । शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ ततो नताः समाज स्तनूनि च मृदुनि च । उपधानानि मुख्याने नैच्छत्तानि पितामहः ।। अथाब्रवीनरव्याघ्रः प्रहसन्निव तानृपान् । नैतानि वीरशय्यास युक्तरूपाणि पार्थिवाः ।। फाल्गुनोपि तथेत्युक्त्वा व्यवसायमरोचपन् । गृह्यानच्य गांडावं शरान्सनतपर्वणः ॥ अनुमान्य महात्मानं भारतानां महारथम् । त्रिभिस्तीक्ष्णैमहावेगैरन्वगृहच्छिरः शरैः ।। भीष्म उ०-पश्यध्वमुपधानं मे पांडवेनाभिसंधितम् । शेष्येहमस्यां शय्यायां यावदावर्तनं वः ।। दिशं वैश्रवणाक्रान्तां यदा गंता दिवाकरः । विमोक्ष्येहं तदा प्राणान्सुहृदः सुरियानपि ।। परिखा खन्यतामत्र ममावसदने नृपाः । उपासिष्ये विवस्वन्तमेवं शरशताचितः ।। उपातिष्ठन्नयो वैद्याः शल्योद्धरगकोविदाः । सर्वोपकरणयुक्ताः कुशलैः साधु शिक्षिताः ।।

४४० ४४२ संक्षिप्तमहाभारते [भध्याय ६ तान्दृष्ट्वा जाहवीपुत्रः प्रोवाच तनयं तव । धनं दत्वा विसृज्यतां पूजयित्वा चिकित्सकाः ।। एवं गते मयीदानी वैद्यैः कार्यमिहास्ति किम् । क्षत्रधर्म प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ।। तच्छुत्वा वचनं तम्य पुत्रो दुर्योधनस्तव । वैद्यान्विसनयागास पूजयित्वा यथार्हतः ।। विधाय रक्षा भीष्मस्य सर्व एव समंततः । वीराः स्वशिविराण्येव ययुस्ते परमातुराः । निवेशायाभ्युपागच्छन् सायाने रुधिरोक्षिताः ॥ ४४१ व्युष्टायां तु महाराज शर्वर्या सर्वपार्थिवाः । पांडवा धार्तराष्ट्राश्च उपातिष्ठन् पितानहम् ॥ तं वीरशयने वीरं शयानं कुरुसत्तमम् । अभिवाद्योपतस्थुपै क्षत्रियाः क्षत्रियर्षभम् ।। तृप्तः शांतनवश्चापे राजन् वीभत्सुमनवीत् । सर्वपार्थिववीराणां संनिधौ पूजयन्निव ।। धनुधराणामेकस्त्वं पृथिव्यां प्रवरो नृए । ४४५ मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः । जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धान्वनाम् ।। दृष्टं दुर्योधनैतचे यश पार्थन धीमता । जलस्य धारा जनिता शीतस्यामनगन्धिनः । एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ॥ आनेयं वारुणं सौम्य वायव्यमय वैष्णवम् । ऐन्द्रं पाशुपत चैव पारमेष्ठ्यं प्रजापतेः ।। सर्वस्मिन्मानुपे लोके वेश्येको हि धनंजयः । कृष्णो वा देवकीपुत्रो नान्यो वेद ह कश्चन ।। अशक्यः पाण्डवस्तात युद्धे जेतुं सुरासुरैः । अमानुपाणि कर्माणि यस्यैतानि महात्मनः ।। ४५० तेन सत्ववता संख्ये शरेणाहवशोभिना । कृतिना समरे राजन् संधिर्भवतु मा चिरम् ।। ४४४ ४४६ ४४८

"
भावाय ]
६ भीष्मपर्व
यावन्न ते चमूः सर्वा शरैः सन्नतपर्वभिः ।
नाशयत्यर्जुनस्तावत्संधिस्ते नात युज्यताम् ॥ ४५२
त्यक्त्वा मन्युमुपशाम्यम्व पार्थः पर्याप्तमेतद्यत्कृतं फाल्गुनेन ।
भीष्मस्यांतादस्तु वः सौहदं च जीवनुशेषाः साधुराजन् प्रसीद ॥ १५३
राज्यस्यार्ध दीयतां पांडवानामिंद्रप्रस्थं धर्मराजोऽभियातु ।
ममावसानाच्छांतिरस्तु प्रजानां संगच्छता पार्थिवाः प्रीतिमंतः ।। ४५४
एतद्वाक्यं सौहदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा ।
तृष्णीमासीच्छत्यसंतप्तमा योज्यात्मानं वेदनां सन्नियम्य ॥
धर्मार्थ सहितं वाक्यं श्रुत्वा हितमनामयम् ।
नारोचयत पुत्रस्ते मुर्मुरिव भेषजम् ।। ४५६
ततस्तं पार्थिवाः सर्वे जग्मुः स्वानालयान् पुनः ।
तूष्णीभूते महाराज भीष्मे शंतनुनंदने ।

No text on this page.

संक्षिप्त महाभारतम्

Author
Munshiiraam
Title
Sankshhipt Mahaabhaaratam
File name
संक्षिप्त महाभारतम्
Text
OCR done
Citation
1963
Published
2005/11/16
Publisher
Anantaraam, Gurukul Kaangang-ii, Haridvaar
Language
Sanskrit
Pages
35
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
RELIGION THEOLOGY
DLI number
477141
Barcode
99999990172969.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
R8ipKJhzu01
Download PDF

संक्षिप्त महाभारतम्