S.P College, Srinagar

Kavyamala Part Xii

Durga Prasad And Kasinath Pandurang Parab · 2013

PDF Proofread

Front matter

to
TO THE READER.
KI
INDLX use
this book verv
carefully. If the book is disfigured
or marked or written on while in your
possession the book will
have
be
replaced by a new copy or paid for. In
the book be a volume of set of
which single volumes are not available the
price of the whole set will be realised.
case
O, 29.
SAP
PRA
SRI
COLLEGE
LIBRARY
Class No....
8.91:263..........
Book No....
O...... DOSK.....V.12...
10673
Acc. No...

No text on this page.

No text on this page.

KAVYAMALA.
A collection of old and rare Sanskrit Kāvyas,
Nātakas, Champūs, Bhānas, Prahasanas,
Chhandas, Alañkāras &c.
Part XII.
EDITED BY
PANDIT DURGĀPRASĀDA
AND
KĀSĪNĀTH PANDURANG PARAB.
SECOND EDITION.
PUBLISHED BY
PĀNDURANG JAWAJI,
PROPRIETOR NIRŅAYA SĀGAR' Press,
BOMBAY
1938.
Price: 1 Rupee.

1.613
[All rights reserved by the publisher.]
Publisher:-Pandurang Jawaji,
Printer:-Ramchandra Yesu Shedge,
Nirnaya Sagar Press,
26-28, Kolbbat Street, Bombay.

॥ श्रीः॥ काव्यमाला नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। द्वादशो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। द्वितीयं संस्करणम् । स च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः । शाकः १८६०, ख्रिस्ताब्दः १९३८. मूल्यमेको रूप्यकः।

अनुक्रमणिका ।
१-२०
२०-४२
१. श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः
२. श्रीरामभद्रदीक्षितविरचितो रामबाणस्तवः
३. कविवरनरहरिविरचितं शृङ्गारशतकम्
४. उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम्
४२-६०
६१-१६१

काव्यमाला। . श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः। यन्मूलो रघुनन्दनस्य जगतां त्रातेति कीर्त्यङ्कुरो देवी चार्चति जानकी सविनयं यद्गन्धपुष्पाक्षतैः । यत्कोठ्या कृतलाञ्छनश्च जलधौ सेतुर्जगत्पावनो भद्रायास्तु जगत्रयस्तुतिपदं तद्राघवीयं धनुः ॥ १ ॥ यः शत्रुजयकुञ्जरेश्वरशिरःसंघट्टनाकर्कशे वैदेहीकुचकुम्भपत्रमकरीविन्यासवैज्ञानिके । चञ्चत्पञ्चवटीकुटीरजटिलव्यूहाय दत्ताभये पाणौ कौणपवैरिणो विजयते चापाय तस्मै नमः ॥ २ ॥ दारुण्यप्यवलम्बिते कृतवतः साकेतराज्यश्रियं 1: कैलिन्यासविघूतगौतमवधूदुःशीलमूलैनसः । पादस्याक्रमणेन पूतमसकृत्कोटौ गुणारोपणे । चापं चन्द्रवतंसचापमथितुर्देवस्य सेवामहे ॥ ३ ॥ मद्रक्षाकथनेच्छयेव गतया देवस्य कर्णान्तिकं मौा मार्गणपक्षपातघटनापारीणया संगतम् । कोटौ चामरहेमभूषणमिषात्कीर्तिप्रतापाड्डरौ बिभ्राणं करवाणि रावणरिपोश्चापं शरण्यं प्रभोः ॥ ४ ॥ :: १." तं बाणासनमीशचाप" इति पाठान्तरम्. द्वादशगु० २ काव्यमाला । लब्धोन्मेषविशेषमीषणशिखिज्वालाजटालेक्षण- श्लिष्टाभ्यन्तररुष्टरुद्रनिटिलस्निग्धं विशुद्ध्यै गिराम् । अन्तः संततकाञ्चनाञ्चितशरश्रीमञ्जरीपिञ्जरी- भूतं भातु पुरः कबन्धमथितुळबन्धवामं धनुः ॥ ५ ॥ कल्याणं वितनोतु नः करुणया काकुत्स्थचूडामणे- श्थापः कोपदुरापरुद्रविकटभ्रूवल्लरीविभ्रमः । यत्रोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमध्वज- : ज्वालावल्लिविडम्बडम्बरमयत्यापिञ्जरा शिञ्जिनी ॥ ६ ॥ कर्षदक्षिणपाणिलग्नसशरज्यावल्लिचक्रीकृतं गृहद्वामकराङ्गुलीयकमणिच्छायोल्लसलस्तकम् । संरब्धस्य निषेदुषो रघुपतेरोलीढभङ्ग्या रणे धावद्राक्षससैनिकाक्षिविषयं क्षेमाय चापं भजे ॥ ७ ।। भाखच्चन्द्रकलाग्रमाशरकुलासृग्लोहिताङ्गं बुध- ध्येयं चित्रशिखण्डजातघटितं वाल्मीकिकाव्यस्तुतम् । मन्दस्यापि मतिप्रदं प्रणमतो बाणं रणे बिभ्रते श्रीरामस्य शरासनाय शिरसि न्यस्ये नमस्याञ्जलिम् ॥ ८ ॥ भद्रं यच्छति पापमत्ति भणितिं दत्ते यशः पुष्यति प्रागल्भ्यं विवृणोति तस्य नुवति खं यो नरः सूक्तिमिः । यो देवान्विरुणद्धि विप्रकुरुते विप्रान्निगृहाति तं चापं दाशरथेरिति श्रुतवता संसेव्यते तन्मया ॥९॥ आस्तामिन्द्रयमादिदिक्पतिकुलं तिष्ठन्तु देवास्त्रयो । देवो वा रघुनन्दनो विहरतु खैरं समं सीतया । १. धनुर्मध्यम्. २. अवस्थानविशेषः.

रामचापस्तवः । MP अस्माकं तु शरण्यमस्ति परमं तत्कंचन प्राणिनां कोटिस्पृष्टपयोधिसेतुसलिलैरेनः पुनानं धनुः ॥ १० ॥ अन्ये केलिगृहीतकालियफणारङ्गस्थलीनर्तन- क्रीडामर्दलवाद्यहृद्ययमुनाकल्लोलकोलाहले। देवे प्रेम वहन्त्वहं तु कुतुकी काकुत्स्थहस्तद्वयी- रङ्गोत्सङ्गनटे धनुष्यरिभटाक्रन्दोरुमेरीरवे ॥ ११ ॥ कालव्यालकपालजालघटितसम्भारपोरं परे रुद्रं, भद्रतृषाविषादकृतधीलोपा वृथोपासताम् । श्रीमच्चामरबद्धमृद्धसुषुमज्यावल्लिकावेल्लितं दध्यां बुद्धिमहं तु राक्षसचमूहन्तुः प्रणन्तुं धनुः ।। १२ ॥ धावंधावमबन्धगन्धगजवद्विन्ध्याद्रिवन्ध्याटवी- कल्पेऽप्यत्र जगत्रये सर इव स्नातुं ममेदं मनः । नन्वन्विष्यति धन्व मन्वभिजनोत्सस्य हंसच्छद- खच्छोद्गच्छदमीशुपेशलशिरोबद्धोच्चलच्चामरम् ॥ १३ ॥ धर्म निर्मलमामुयामिति तथा विन्देय मन्देतरा- ननित्यहमत्यये दिवि वधूर्भुजीय मञ्जरिति । ब्रह्मानन्दसुधाविधायिनि मम प्राचां प्रवाचामपि ध्यातव्ये रघुनन्दनस्य धनुषि त्रेधा मनो धावति ॥ १५ ॥ नाहं यष्टुमलं भवामि न घटे दातुं धनान्यर्थिनां का शतिर्मम दृश्यते तपसितुं दुनिग्रहे मानसे । आत्मज्ञानमवामुयामिति तथाप्याराधयेयं गिरा वाराशिस्मयघस्मरास्त्रमहसो वीरस्य सारं धनुः ॥ १५ ॥ मातुर्गमकुटीरमर्भकतनुः संप्राप्य कं प्रायशो नो जन्मानि कियन्त्यगाहिषि कियहुःखं च नाज्ञासिषम् । مة काव्यमाला। दिया संप्रति जायते मम नृणां जन्मात्ययध्वंसने i} चीपे चन्द्रवतंसचापमथितुर्देवस्य भावः स्थिरः ॥ १६ ॥ वल्गन्मन्दरशैलमूलमुखरक्षीरोदपूरोदर- क्षिप्रानर्गलनिर्गलन्नवसुधामाधुर्यधुर्या गिरः । निर्गच्छन्तु निसर्गवेगविधुतखोककल्लोलिनी-..... .. गर्वाः शर्वधनुर्विमर्दनधनुःस्तोत्राय वक्रान्मम ।। १७ ॥ कालोन्मीलदमन्दकुन्दमुकुलस्पर्धानिबद्धादर- प्रौढोदारपरप्रबन्धरचनापाण्डित्यनाडिंघमम् । अस्तु प्रस्तुतदुर्घटस्वमहिमस्तोत्रस्य मे त्रस्यतः । खेदच्छेदकृतादरं भगवतश्चापं रुचा बन्धुरम् ॥ १८ ॥ गौरीतातगिरीशमञ्जुलदरीकेलीधुरीणामरी- वीणोरीकृतवैखरीमधुझरीपारीणरीतिक्रमम् । मारीचारिधनुः सरीसृपपुरीनारीजनैरीडितं सारीकृत्य सरीसरीतु हृदि मे भूरीर्वचोमञ्जरीः॥ १९॥ चित्रवीयचरित्रचिन्तनसुधाकृष्टाय तुष्टुषवे मां स्निह्यतु दातुमुक्तिमवनीपुत्रीशमित्रं धनुः । श्लाघान्दोलितचन्द्रचूडमकुटीविभ्राम्यदभ्रापगा- पाथःपातगृहीतगर्वगिरिजानेत्रान्तपात्रीकृताम् ॥ २० ॥ पापार्थस्मरणेन जातु जनितं पापं कृपापक्ष्मलो । गौरीकान्तशरासनान्तकधनुदूरीकरोतु स्मृतः । नैवं चेत्कथमेष भीषणदवज्वालाकरालाटवी- । किकाम्यद्भवचक्रनिग्रहविधौ प्रागल्भ्यमभ्येतु मे ॥ २१ ॥ शस्त्राचार्यभुजंगभूषणधनुर्भङ्गप्रसङ्गश्रव- ।. ......प्रादुर्भूतरुष्ः, कराहगुपतेर्यगृह्मति प्रेयसि । ج रामचापस्तवः । ܕܢܝܺ ईर्ष्यारोषकषायिता दरदलत्कहारगर्भश्रियो जानक्या निहिता दृशो हृदि वयं तत्कार्मुकं कुर्महे ॥२२॥ सङ्घीभूय कुतूहलेन गगने स्थित्वा मुहुः पश्यतां संतानद्रुमपुष्पवृष्टय इव स्वौकसां दृष्टयः । यत्र क्षत्रियकण्ठलाविपरशोर्वीरादुपात्तेऽपत- न्कुर्यामुत्तरकोसलेन्द्रधनुषे तस्मै प्रणामाञ्जलिम् ॥ २३ ॥ हेलाकालमुहुर्गृहीतकमलाचेलान्तदृश्यस्तन- श्रीखण्डद्रवमुद्रिताच्युतकरस्पर्शस्फुरत्सौरभम् । शश्वदुष्प्रतिलम्भसंभवमनःशर्मण्यधर्मे मम !! - प्रावण्यं प्रणुदेद्विदेहतनयापाणेशबाणासनम् ॥ २४ ॥ त्रासोद्धान्तशकुन्तसंततिजवव्याघूतचूताटवी- शाखाशेखरमञ्जरीपरिगलन्माध्वीनिषिक्ताध्वनि । गोदावर्युपकण्ठसीनि कुहनागोकर्णहत्त्यै गुणं यस्यारीरणदीश्वरो रघुभुवां तद्धन्व मन्ये गतिम् ॥ २५ ॥ पश्चात्पश्यति बाणपातचकिते शश्वन्निवृत्त्याननं ; विद्राणे कुहनामृगे विकिरितुं बाणो यदारोपितः । देवेन श्रवणान्तकृष्टकपिलज्यावल्लि तत्कार्मुकं , केकागर्मितकण्ठकाननशिखिप्रेक्षापदं पातु नः ॥ २६ ॥ वेगवंशितवृक्षनीडविहगव्यागीणविद्रावित- क्रीडद्रोहितपति दर्भकवलव्यावृत्तमत्तद्विपम् । द्रागुत्थापितसुप्तकेसरि जनस्थाने खरायोधने ज्याघोषं जहति प्रभोधनुषि मे चेतो मुहुर्घावति ॥ २७ ॥ वीर्योत्सितखरप्रयुक्तसमरप्रक्रान्तचक्रनमी- : चञ्चत्काञ्चनपञ्जरोदरचरश्रीरामकीरार्भके। म काव्यमाला। or 7 धावत्येव मनो विनोदरसिकं दिक्षु प्रविक्षिप्तया विष्वग्घट्टितहेमपट्टकपिशे चापे रुचा पेशले ॥ २८॥ त्रासोल्लासविलोललोचननदीपर्यन्तनिर्यन्मृगी- घासग्रासनिरासशासनगिरा ज्यागजितेनोर्जिते। कीशाधीशविनाशसाशयशरव्यामोक्षमीमोद्यमे श्रीमद्रामशरासने सरति मे भद्राय भद्रा मतिः ।। २९ ॥ तदिग्भागनिविष्टदृष्टिमचिरल्यापन्नदोर्विक्रम चेतःस्फीतभयप्ररोहमुदितप्रत्यङ्गरोमोद्गमम् । उद्यद्गद्गदकण्ठनादमुरसि द्राङ्न्यस्ततीक्ष्णाशुगं कुर्वद्वालिनमाहवे भगवता कृष्टज्यमीडे धनुः ।। ३० ॥ चञ्चच्चामरदामरश्मिहसितैर्व्याप्तोदरौदन्वत- त्वङ्गत्तुङ्गतरङ्गगर्वगरिमप्रध्वंससंसूचनम् । कोदण्डं कलिखण्डनाय कलये रामस्य भीमस्यं त- त्क्षिप्तोदीप्तशराग्रजाग्रदनलज्वालाकरालाम्बरम् ।। ३१ ॥ यन्मौर्व्यामिषुमोचनाय जलधावास्फालितायां प्रभो- रङ्गुल्या चिरकालविस्मृतमहीकन्याकुचस्पर्शया । टङ्कारो निरुणद्धि कर्णविवराण्यन्यानि दिग्दन्तिनां शुण्डादण्डमुखेन गाढपिहितात्तन्मे शरण्यं धनुः ॥ ३२ ॥ वेलाशैलगुहाविहारिवनकर्यादानमोदाकुल- कामद्भीमविलासकेसरिमुखव्याकर्षणैकक्षमम् । तारज्यारवमुद्वमद्रचयितुं भव्यं शरव्यं पयो. राशिं मे शिवलम्भकं भवतु तदेवस्य तावद्धनुः ।। ३३ ॥ कालीयानकरालकण्ठनिनदन्यकारलीलासख- ज्याकर्षस्तनितात्तगन्धचकितक्रन्ददिशादन्तिनि ।

रामचापस्तवः। गर्जन्निर्झरिणीशतर्जनदशानिर्यच्छ रे पीरियं सीताकान्तकरान्तकेलिसदने काण्डासने खेलति ॥ ३४ ॥ पारावारतटीकुटीरविटपिस्त्यायत्कुलायस्थित- श्येनोड्डीनविधानकेलिरसिकज्याघोषणाघोरया । वारिप्रेरितसायकायतशिखाचऋत्रुटन्नक्रया माखद्वंशवतंसचापलतया नूनं मनो नन्दति ॥ ३५॥ वन्दे कार्मुकमीशकार्मुकभिदो वीरस्य यस्मिन्रुषा कल्मान्तानलकल्पमब्धिहतये बाणामिमुन्मुञ्चति । कन्यादाहधिया करेण ममृशे चूडानदी शंभुना पीठप्लोषविशतिना च विधिना स्पृष्टा पयःकुण्डिका ॥३६॥ ज्यामौखर्यविदार्यमाणनदरापर्यन्तगिर्यन्तरं स्थैर्यौदार्यनिवार्यमेरुमदमत्यैश्चर्यकार्यर्थिनाम् । पर्यन्तार्णववार्यजीर्यदिषुचर्याश्चर्यधुर्य नम- स्कुर्यामर्यमवंशजार्यकरयोः पर्यायधार्य धनुः ॥ ३७ ॥ ज्याविद्वेषुसमिद्धपावकशिखासंनद्धगाढोद्धत- [क्रीडद्वाडवपीडनाचटचटाकुर्वाणसण्डिजात् । अब्धेर्लब्धतरङ्गमङ्गलमृदङ्गारावधाराक्ता- [.. 2 सीतावल्लभचापवल्लिरुदयल्लीलयमतल्लीसखी ॥ ३८ ॥ मौर्वीविद्धशराग्निदग्धकमठीपाठीनगाढोठ- कछोलोद्भटपूरपूरणरणत्पर्यन्तगिर्यन्तरे । अप्राप्तप्रतिबिम्बडम्बरवपुःसिन्धौ. कबन्धद्विषः कोदण्डं गुणमण्डितं मम शुचः स्यात्खण्डने पण्डितम् ॥३९॥ ज्याविक्षिप्तपृषत्कवल्गदनलक्काथोद्भवद्दुद- क्षारक्षीरषिपाचिताचिततिमिकव्याहव्यमया ।

८ काव्यमाला। त्रासत्यक्तनिवासमधिजठराद्दूरे वधूरेखया : :: , ' साकं कैकसलोकमाकलितवद्देवस्य सेवे धनुः ॥ ४० ॥ लक्षातऋविशङ्किशंकरगिरिप्रक्षोभिरक्षोऽमितो- निक्षिप्ताप्तनिशाटपाटनपटुस्फोटप्लवङ्गच्छटे । विष्वविष्वणदिवरिष्ववतरजन्ये रजन्येधिते .. मन्ये धन्व शमन्ययाय(?) हृदये मान्यस्य धन्विप्रभोः॥४१॥ नन्दन्निर्जरवृन्द्रमुक्तकुसुमैः सुग्रीवविग्रीकृत- प्रक्रान्ताहक्कुम्भकर्णदुरवापामन्दगन्धग्रहैः । सामोदं मनसा मनूद्रधनुाटंक्रियान्धोरग- 11,':.:. . . द्वन्द्वान्योन्यदुरीक्षकेलिविरसाधोलोकमालोकये ॥ ४२ ॥ सक्रोधप्लवगाग्रणीनखरदश्रेणीनिकृत्तश्रवो- नासत्रासदकुम्भकर्णवदनव्यालोककालोचितम् । कर्तुं योऽक्षिसहस्रमीलनमलं नासीत्तदा सीदत- . ., स्तस्येन्द्रस्य मनोरथप्रदशरं चापं प्रभोश्चिन्तये ॥ १३ ॥ हेषामश्वगणस्य हितमिभव्यूहस्य चक्रक्रम- केंकारं रथमण्डलस्य समरे श्वेलां भटानामपि । मेरीभांकृतिमायुधव्यतिकरध्वानं पृथङमागध- स्तोत्रोद्धोषमपि ज्यया परिभवद्देवस्य वन्दे धनुः ॥ १४ ॥ एकं देहभृतामुभे हुतभुजस्त्रीण्यामयानां प्रभो- श्चत्वारि द्रुहिणस्य पञ्च विषमापाङ्गस्य षट् शाकरेः । सप्त त्रीणि च रावणस्य फणिनां पत्युः सहस्रं तुद- 1. ज्यानादेन शिरांसि संयति धनुर्यातुद्रुहः पातु नः ॥१५॥ शाकं स्मारय चाण्डिकं विकलय ब्राझं समुत्सारय स्कान्दं नर्तय यानमित्यधिरणं यत्क्रीडति ज्याखनैः । !!

. रामचापस्तवः । तुर्ण विस्मितसिद्धचारणगणप्रस्तूयमानस्तव- व्याप्ताशेषदिशे नमोऽस्तु धनुषे सप्ताश्ववंशप्रमोः ॥ ४६ ।। नश्यन्निद्रमहापुमांसि नटनक्रीडाचलक्रौञ्चभि- द्वाहाञ्चत्तनुरुंहि सुम्भदमनायानाहितकुन्धि च । सीदत्कुम्भिककुम्भि सिद्धपरिरम्भारम्भियोषिन्ति खे कुर्वाणं गुणटंकृतानि समरे कोदण्डमीडे विभोः ॥ ४७ ।। यन्मौर्वीनिनदे निरुन्धति युधि द्यावापृथिव्यन्तरं दृम्भिादशभिर्विलोक्य शिखिनो यानस्य नृत्तं पुनः । षद्भिः स्तौति गुहो मुखैः प्रियतमापर्यायपीताधरैः सीतान्तःपुरधन्व तन्मृडजटाशीतांशुवकं भजे ॥ ४८ ॥ खं पाशाङ्कुशदन्तमोदकधृतौ दोष्णां चतुष्कं दिश- न्हेरम्बो निजवल्लभामभिमृशन्काञ्चीपदे शुण्डया । कर्णो च्छादयितुं विषीदति चिराद्दोरन्तरासंभवा- द्यज्ज्याघोषविजृम्भणे युधि धनुस्तद्राघवीयं भजे ॥ ४९ ।। यद्धोषप्रथमप्रबोधितरमाप्राणेशवामेक्षण- च्छायामीलितनामिपङ्कजकुटीगर्भस्थितोऽप्यजभूः । कर्णैरष्टभिरात्मनोऽप्यकलितामेवाध्यगीष्ट त्रयीं नद्धं तेन गुणेन राघवधनुर्विद्येत हृद्येव नः ॥ ५० ॥ कल्पापायवितर्ककर्कशहरव्यामुक्तभीमध्वनि व्यामृष्टान्तरविन्ध्यकन्दरशिलाविष्टब्धदुष्टद्विपम् । ज्याघोषक्षणमक्षिपत्किल विधिर्यस्य त्रसद्भारती- जिह्वात्यागगृहीतकण्ठवसतिस्तद्रामचापं भजे ॥ ५१ ॥ कल्पान्तक्षणबद्धकौतुककरप्रस्फालितोरूत्पत- द्भर्गोन्मुक्तमहाट्टहासपरुषज्याघोषविप्रोषिते । .

काव्यमाला। खापे शार्ङ्गभृतः सुखेन वहता लध्वीभवन्ती तनुं चक्रीन्द्रेग कृतस्तवं युधि विभोश्चापं शरण्यं मम ।। ५२॥ संवर्तव्यतिषङ्गभङ्गुकृपमूभङ्गगङ्गाधर- क्ष्वेडाचण्डिमगर्वखण्डननिजज्यानाददीनात्मनि । व्यालेन्द्रस्य दृशां सहस्रयुगले पातालवास्तव्यया प्रस्ताव्यस्तविस्तरं जनतया नाथस्य चापं भजे ॥ ५३ ।। काकुत्स्थस्य धनुस्तदेव कलये गर्जासृजा यज्यया बाधिर्ये भुग्नत्रयस्य जनिते का मेऽस्तु का मेऽस्त्विति । बाणोत्खण्डितयातुवीरसुरवाग्गुम्भेन मामेहि मा- मेहीत्यःसरसां वचांसि च सम कुण्ठीभवन्ति द्यवि ॥ ५४॥ अव्यादव्ययदीव्यदाशुगजवव्याधूतदिव्यापगा- नव्याजव्यवसृप्तभव्यमधुपव्याजाम्रसेव्याम्बरम् । ऋळ्यादव्यथनोत्थनाव्यरुधिरव्याप्ताजि कन्युक्तिभि- य॑तव्यश्यपसव्यसव्यभगवत्पाणिव्यवस्थं धनुः ॥ ५५ ॥ दुर्लचाशरसङ्घसङ्गरपरिक्रामद्धनूमल्लल- ल्लाङ्गूलाग्रनियत्रितप्रतिभटक्रव्यादरोदध्वनिः । यज्यागर्जितपूर्णकर्णविवरैर्नामानि वैमानिकैः शर्मार्थ नमिकर्म धार्मिकविभोस्तत्कुर्महे कार्मुकम् ॥५६॥ खगान्पातयतः शरान्विकिरतः शक्तीस्तनौ मुञ्चतः पद्भ्यां मृद्गति मुष्टिना नति तलेनाविध्यति द्वेषिणः । उत्साहं जनयत्प्रभञ्जनसुते तत्साधु भूयो रणे ज्यानादै रघुनाथकार्मुकवरं शर्माणि निर्मातु नः ॥ ५७ ॥ २. कवीनामुक्तिभिर्व्यव्या श्रीर्यस्य तत् इत्यर्थः. १. नावा तार्य.

रामचापस्तवः ।
११
एकद्वान्वपुषा दृशा त्रिचतुरान्पादाहतैः पञ्चषा-
सप्ताष्टान्करताडनैर्नवदशाञ्जानुप्रहारैररीन् ।
युद्धे द्रावयता कृतं हनुमता चण्डाट्टहासध्वनि
ज्यानादेन विवर्धयद्रघुपतेश्चापं भजे संपदे ।। ५८ ।।
आढ्यंभावुकमर्चिषा सरभसान्धंभावुकारातिना
स्थूलंभावुकहर्षवानरचमूदृष्टिप्रियंभावुकम् ।
तत्पायाद्धनुरुत्पतिष्णुविशिखं वर्धिष्णुघण्टारवं
रोचिष्णुज्यमलंकरिष्णु समरं वर्तिष्णु हस्ते विभोः ॥५२॥
कालीकेलिकरालमांसलरणक्ष्माधूलिपालीजल-
क्ष्वेलापेतवलीमुखालिकवलीकालिव्यलीकच्छिदम् ।
खेलन्तं गलदर्यरालकुरलाधारालहक्कज्जलं
कालव्यालकुलीनकालियनिभं चापं विभोः शीलये ॥६०॥
द्राभिवृषितरक्तबीजरुधिरप्राम्भारधारामिल-
चामुण्डामुखमण्डलोदरचलज्जिहालताहायिना ।
विद्धारिव्रजविसविस्रवदसम्व्याप्तेन दीप्तौजसा
चापः साभरणः शरेण स रणे पायादपायात्प्रभोः ॥६१ ॥
यत्क्षिप्तैरिषुभिहीतशिरसामायोधने रक्षसां
सद्यः खर्गमुपेयुषां सुरवधूतुङ्गस्तनालिङ्गिनाम् ।
वाग्भिर्मन्मथकेलिगद्गदगिरां प्राचीनवैरत्यचां
प्रक्रान्तस्तुति मे चकास्तु हृदये तद्राघवीयं धनुः ॥ ६२॥
स्वर्गस्त्रीग्रहणाद्भयं विदधिरे ये यातुधानाः पुरा
तैरेव खविमुक्तवाणदलितग्रीवैदिवं प्रापितैः ।
खैरं हारयदप्यमर्त्ययुवतीरेषा ममैषाममे-
त्यारब्धस्तुति हृष्यता बलजिता तद्रामचापं भजे ॥६३॥

१२ काव्यमाला। रोषश्लेषखराक्षराक्षसचमुपादातदातद्रुत- क्रोशत्कीशभयापयापनपटुज्याघोषघोषदिशम् । चापं तापनिविष्टविष्टपमनःशोकान्तकान्तक्रियं रक्षत्वक्षकुमारमारणमहादूतस्य धन्विप्रभोः ॥ ६४ ॥ नाराचक्षतयातुवीरवरणव्यापारिपौरंदर- स्थानस्त्रीजननिस्तलस्तनंतटीपाटीररेणूत्करैः । प्रश्यद्भिः शिशिरांशुरश्मिभिरिव स्फारममीवारितै- रप्राप्ताटनि ताटकारिपुधनुः पापानि मे पाटयेत् ॥ ६५ ॥ भक्षालम्पटकङ्कसङ्घचटुलत्रोटीविघत्रुट- द्रक्षःकोटिकरोटिकोटिरटितप्रोद्घाटितक्रूरते । युद्धे विद्धपतद्धयद्विपतनूवित्रंसिविस्रामिषा- कृष्टक्रोष्टुनि विष्टपत्रयपतेः क्रीडत्तदीडे धनुः ॥ ६६ ॥ घण्टाचण्डनिनादमण्डितनिजज्यानादनानादल- ब्योमस्थेमविधायकायतकुशीनीकाशनकाशुगम् । चापं तापविलोपदायि भजतां ध्यायामि मायामृग- प्राणप्रीणितबाणरिहणगुणालंकारि लङ्कारिपोः ॥ ६७ ॥ हस्ते दाशरथेर्दिशो गुणरवैर्भक्ताय भद्रं द्विषा- माटोपं मरुतां भयं हरिचमूं जेतुं रणे वैरिणः । भाति प्राति ददाति दाति हरति प्रीणाति जानाति य- त्तद्वाञ्छामि च पूजयामि च धनुर्ध्यायामि च स्तौमि च ॥६८॥ चक्षुर्लक्षितलोकरक्षि तरुणक्षीबामरैणेक्षणा- १. 'वर्तुलं निस्तलं वृत्तम्' इत्यमरः. "तन्मते स्थेमेति पाठ्यः. २. स्थामन्शन्दो नास्तीति केचित् .

रामचापस्तवः । १३ द्राक्षेक्षुद्रवमाक्षिकाक्षिपवचःसंधुक्ष्यमाणस्तवम् । अक्षीणाक्षमराक्षसक्षयविधारूक्षेषुविक्षेपणं स्यादैक्ष्वाकऋभुक्षपक्ष्यमशुभक्षोदैकदक्षं धनुः ॥ ६९ ॥ अक्षुभ्यन्मरुदक्षिवीक्षितरणक्षीवक्षकीशाक्षय- क्ष्वेडाघुक्षणदक्षिणक्रियममुक्ष्यस्त्रेण भिक्ष्योपमम् । रक्षस्तत्क्षणशिक्षणक्षमशरक्षेपक्षरज्याखन- क्षुण्णक्षेमफणीन्द्रचक्षुरवतादैक्ष्वाकपक्ष्यं धनुः ॥ ७० ॥ कान्त्या क्षेपयतीन्द्रकार्मुकमदं मन्दांश्च सेनाहरी- ज्याघोषेण दुरासदं प्रथयति खां रक्षसां च व्यथाम् । बाणं प्रापयति द्विषो यदपि तान्खारवामझुवां संग्रामे तदुमेशचापमथितुश्चापं शुभायास्तु नः ॥ ७१ ॥ वन्दे मन्दरशैलकन्दरकुटीवास्तव्यजायापति- श्रद्धाभक्तिकृताभिधाजपविधेरीशस्य शस्यं धनुः । यज्ज्यारावभरावकर्णनदशासातङ्कलङ्कावधू- गर्भस्रावहृतास्रवासववधूबन्दीपुरन्ध्रीनुतम् ॥ ७२ ॥ तन्वानन्तरशिञ्जिनीरवकिरा शक्रायुधस्य भ्रमं तन्वानं दिवि देवदानवततेरालोकयन्त्या रणम् । मन्वानं शरणार्थिनामभिमतं यच्छेयमित्यन्वहं मेन्वानन्त्यवदन्वयोदधिमणेरन्वेमि धन्वेशितुः ॥ ७३ ॥ १. क्षेपयति निरासयति; अन्यत्र क्षिप्रान्करोति. २. प्रथयति कथयति; अन्यत्र पृथु करोति. ३. प्रापयति गमयति; अन्यत्र प्रियान्करोति. ४. तन्वा मूर्या, अनन्तरान् निविडान्, शिजिवीरवान् किरन्या. ५. मनोः राज्ञः आनन्यवान् अन्वयः, .

१४
काव्यमाला।
पाणिच्छादितकर्णपत्ति भयभृत्सूतावसीदद्रथं
दूरभ्रान्ततुरङ्गमद्यशशिखादुर्वारवेगद्विपम् ।
। लङ्कानाथवरूथिनीं विकलयवारेण घोरेण च
ज्यानादेन रणे धनुर्भगवतो जागर्तु भद्राय नः ॥ ७४ ॥
सकोधं दशकन्धरेण सभयं रक्षोभटानां गणैः
साश्चर्य कपिसैनिकैः सकुतुकं गन्धर्वविद्याधरैः ।
सश्लाघं च विभीषणेन सजयाशंसं च सौमित्रिणा
दृष्टं शक्रसुतद्विषा युधि धनुर्विस्फार्यमाणं भजे ॥ ७५ ॥
कालीयप्रतिवंशविंशतिभुजालंकारलङ्कापुरी-
नाथक्रोधनिरोधसाधनकलाधौरेयधीरध्वनि ।
जीवा यस्य वयस्यतामुपगतैवायस्यतो रक्षसां
शिक्षायै कलुषक्षयाय भवतात्तद्रामचापं मम ॥ ७६ ॥
युद्धे यद्गुणघोषणानिशमनप्रोन्मीलदीग्रॅमिथः-
श्लिष्यद्दन्तपरम्पराकटकटाकारातिघोरैर्मुखैः ।
पौलस्त्ये दशभिः प्रदर्शितवति क्रोधं वरे धन्विनां
श्लाघ्यस्यामुमुदे रिपोरुपगमात्तच्चापमर्च्य मम ॥ ७७ ॥
प्रत्यग्रप्रणयापराधसमयानानन्दमन्दोदरी-
पादाम्मोरुहताडनैरपि सुखाकुर्वद्भिरप्रस्तुतान् ।
कुर्वद्गर्वितराक्षसेश्वरशिरःस्तोमान्निरस्तोपमा-
ज्यावल्लिस्तनितेन राघवधनुषूनोतु दैन्यं मम ॥ ७८ ॥
मा युद्धे प्रवृतो मदुज्झितशरैर्मा तेऽसवो विस्रस-
न्मा रुद्रं हृदि विसभः शरणितं मा ते रुचज्जाल्मता ।
इत्याहेव दशास्यमाहवमहीवास्तव्यमस्तव्यय-
ज्यानादेन यदानयेदभिमतं तद्रामभद्रायुधम् ॥ ७९ ॥

रामचापस्तवः। १५ स्यादैक्ष्वाकसमीकमिश्रमसखं चापं मम श्रेयसे यस्य ज्यानिनदस्तनूकृतदशग्रीवाट्टहासो रणे । लकोद्याननिरुद्धमुग्धवसुधाकन्याकपोलस्थली- रोमाञ्चव्यतिषङ्गमङ्गलसमारम्भकभेरीरवः ॥ ८० ॥ कुप्यन्मातलिनुन्नवाहनवहत्संक्रन्दनस्यन्दना- कामञ्चक्रसमुत्थभूमिरजसामोघेन मोघा दृशः । बिभ्राणस्य दशाननस्य बधिरीभावं श्रवोविंशतौ कुर्वज्यारसितेन कोसलपतेः कोदण्डमीडे रणे ॥ ८१ ॥ कल्पान्तोद्भटचण्डमारुतजवप्राग्भारसंघट्टन- क्षुभ्यन्नीरदगर्मनिर्भरमिलनिर्घोषघोरश्रुतिम् । ज्यानादं निशमय्य यस्य विवशश्चक्राम मन्दोदरी- कान्तः शान्तमदो मृधे स जगतां नेतुर्धनुः पातु नः ॥८२॥ वैरिक्षारितशक्रविक्रमकथानीशानदाशानन- श्लाघालाघवखिन्नकिन्नरवधूहर्षप्रकर्षप्रदम् । घोरज्यारसितेन मानवपतेः कुर्वे धनुर्वेधसा गेयं सायकभूषमेष मनसि क्षेमाय भीमायतम् ॥ ८३ ।। लङ्कानाथनिमाथनाथनविधापर्यायपर्यापत- गीर्वाणीमुखवाद्यवाद्यपटुतादुर्वारमौर्वीरवम् । वक्रप्रक्रमदुष्टदिष्टदमनं शक्रायुधप्रक्रिया- निष्णातं रघुमल्लवल्लभधनुर्मुष्णातु तृष्णां मम ॥ ८४ ॥ मौर्वीकर्षणमण्डलीकृतिवशादुर्वीकुमारीपतेः प्राप्तायाम्बररत्नबिम्बतुलनां सवामरनाङ्गणे । दुर्दान्ताशरनाथदुर्दमभुजावीर्याम्बुसंशोषणी नाराचद्युतिमञ्जरी विकिरते. चापाय तस्मै नमः ।। ८५ ॥

काव्यमाला। . चेतश्चातकपोतकल्पचलितानल्पामरालोकित- श्रीमद्रामशरीरनीरदशचीनाथायुधे धन्वनि । पङ्किस्कन्धशरप्रबन्धदलनाधौरंधरीबन्धुर- ज्याविद्धेषुविमर्ददुर्दिनहरिच्चक्रे मम क्रीडति ॥ ८६ ॥ दृप्यद्राक्षसराजविंशतिभुजीराजीवनालावली- लावार्धेन्दुमुखेषुमोचनविधिव्याकृष्टमौर्वीरवे । रन्ध्र रुन्धति खस्य मिन्दति भृशं कुम्भांश्च दिक्कुम्भिनां तुष्टास्तुश्रुविरे पुरायममरास्तं नौमि चापं विभोः ।। ८७ ।। चण्डीनाथबलीकृतानि चटुलभ्रूवल्लरीकिंकरी- भूतामर्त्यकुलानि मृत्युविमुखीकाराट्टहासानि च । नाराचेन निराचिकीर्षु समरे शीर्षाणि लङ्कापते- मारीचारिकराजचारि महता भावेन सेवे धनुः ॥ ८८॥ कल्पान्तोद्भटकालरुद्रवदनव्यादानकेलिस्फुर- इंष्ट्राविक्रमगौरवक्रमगलग्राही जिताहीनिषून् । मुश्चन्पञ्चशरार्तिकीर्तितपरस्त्रीनामनानामुखे पौलस्त्ये रघुवीरहस्ततुलितश्चापोऽस्तु नस्त्राणदः ।। ८९ ।। यज्ज्यावल्लिविमुक्तशंकरजटाचन्द्राभवक्राशुग- च्छिन्नग्रंशितपतिकन्धरशिरोमुण्डावलीताण्डवे । वेतालाः करतालयन्ति विविधं गायन्ति गोमायवः पश्यन्ति त्रिदशाश्व कश्चन विभोश्चापः स मे पालकः॥९॥ पौनःपुन्यविलूनपातितनटत्पौलस्त्यदोर्मस्तक- श्रेणीदर्शनमीतसिद्धवनिताप्रोन्मुक्तसंदर्शनम् । दूरद्रावितरौद्रराक्षसचमूनाथश्रवोदुःश्रव- ! ज्यानादं जगदीशचापमगदीकर्तु प्रवर्तेत नः ॥ ९१ ।। .

रामचापस्तवः। १७ दंष्ट्राभृकुटिभीमवक्त्रदशकक्रोधाट्टहासप्रभा- निष्पिष्टमयहारयष्टिनि दशग्रीवस्य बाह्वन्तरे । विस्रम्भानुपलम्भकं खनुदधजम्भारिकौतूहलं नाराचान्निखनद्रणे रघुपतेराराधयामो धनुः ॥ ९२ ॥ मुष्टीमुष्टि तलातलि प्रचलितं कव्यादशाखामृग- व्यूहस्याहवमैहलौकिककथाप्रस्तारविस्तारकम् । दृष्ट्वा कष्टमिति त्रिविष्टपजने शंसत्यरं साधयं- स्तत्कामं शरकृत्तरावणवपुश्चापो विभोर्मे गतिः ॥ ९३ ॥ शश्वन्नश्वरजीवितेश्वरमुखश्रीदृश्वविश्वामरी- निश्वासाश्वसनश्वयद्भुजमहो वैश्वानराश्वेडितम् । पूर्व दुर्वहशर्वपर्वतभृतो निर्वाप्य गर्व द्विषः कुर्वत्सर्वसुपर्वनिर्वृतिमवेदौर्वीसुतेशं धनुः ॥ ९४ ॥ पौलस्त्योपरमे परस्परबलग्राहावहेलाग्रह- व्यग्रोदग्रवलीमुखावलिमुखव्यालोलकोलाहले । भूकन्याकमनैकपाणिनलिनन्यासेन धन्याटनि- श्वापस्तम्भितशंभुकङ्कणनिभः शर्माणि निर्मातु नः ॥९५॥ सिद्धस्त्रीमुखबद्धहासचपलत्वङ्गत्प्लवङ्गच्छटा- वक्रानुक्रियमाणकौणपतरुण्याक्रन्दितप्रक्रमे । युद्धान्ते धनुरिद्धमुद्धतदशग्रीवान्तवान्ताशर- स्थैर्ये हृन्मम रामभद्रकरभृत्कोटीकमाटीकते ॥ ९६ ॥ गृहद्रामकरारविन्दनखरश्रीपुञ्जमिश्रान्तस- मश्रान्तं परिचिन्तये हृदि धनुर्वल्ली रुजाशान्तये । लङ्कानाथनिपातजातकुतुकव्योमाङ्कसङ्घीभव- गीर्वाणीरमणीयगीतिसरणीनिष्पन्नपुष्पामिव ॥ ९७ ॥ २द्वादशगु० १८. काव्यमाला । माद्यद्यातु विभिद्य याधि शरैरामोद्य विद्याधरी- स्तद्वक्रोद्यतगद्यपद्यनुतिमिः सद्योऽभवद्योजितम् । धन्व द्योमणिवंशनद्यधिपतिप्रद्योतिशीतयुते- वाद्यस्य तदद्य हृद्यनुपमा विद्यां प्रदद्यान्मम ॥ ९८ ॥ बाणाशीविषशीर्णशीकरदशीभूताम्बुराशीडितं जन्यं शीतलशीलशालिरघुभूशीतांशुशीघ्रोद्यतम् । वाताशीशवशीकृतश्रि दशशीर्षाशीःक्रशीयस्त्वकृ- क्रव्याशीकुलशीधुशीलनहरं चिन्वीत चापं वचः ॥ ९९ ।। चञ्चत्कुण्डलगण्डकाण्डरुहभूवाङ्मण्डलीवर्णितं तद्ब्रह्माण्डकरण्डखण्डनगुणोच्चण्डखनालंकृतम् । चण्डीशानशिखण्डखण्डशशभृत्पाण्डित्यवैतण्डिक मार्ताण्डान्वयमण्डनस्य हृदि मे कोदण्डमाहिण्ड्यते ॥१०॥ बाणः श्रीरमणो गुणः फणिपतिर्लक्ष्यं पुराणां त्रयं वोढा धूर्जटिरेव यस्य बिसवत्तद्येन लूनं धनुः । तेन श्रीरघुवीरबाहुयुगलेनारोपणीयं रणे यत्कृच्छ्राद्भवति श्रियं दिशतु मे तच्चापमुच्चावचाम् ॥१०१॥ ये स्निह्यन्ति तपखिनः कथमपि प्रत्याहृतैर्मानसै- ये वैते विषयानुरक्तमनसो द्रुह्यन्ति नक्तंचराः । यल्लीलाव्यपनीयमानतमसः स्वर्यान्ति तेऽपि द्वये तत्पुण्यं शरणीकरोमि धरणीकन्यापरिण्यो धनुः ॥१०२॥ पुष्यत्तक्षकभोगविभ्रमजुषां येषामभूत्कन्दुक- क्रीडाकौतुकहेतुरदिरभवच्च(तुलश्च)न्द्रार्धचूडामणेः । १. काण्डरुहभूः ब्रह्मा. २. धरणीकन्यापरिणीः श्रीरामस्तस्यः

रामचापस्तवः।
१९
मौव्य दुर्विनमं दशाननभुजैस्तैरेव शैवं धनु-
भनुर्धन्व विभोः शरण्यमुररीकुर्यामुपर्यायुषे ॥ १०३ ॥
कण्ठं रुन्धति भैषजेन महतामच्छिद्यमाने कफे
मार्गालाभपरिप्लवेन मरुतां संधौ तनोस्त्रुट्यति ।
तामुल्लिख्य दशां विषादविवशं चेतः सुखावाप्तये
चापे दाशरथेविषण्णजगतां बन्धाविदं धावति ॥ १०४ ।।
यावत्पावकपुञ्जपिञ्जरदृशो हस्तव्युदस्तायुधा
रुन्धि च्छिन्धि जहीति भीतिदगिरो नृत्यन्ति मृत्योर्भटाः ।
तावद्धावतु चित्तमुत्तमगुणाकल्पे ममाल्पेतर-
क्षेमस्थेमकरे शरासनवरे रामस्य नाम स्वयम् ॥ १०५ ।।
यावद्भीषणवेषकालमहिषग्रीवासमालम्बिनी
घण्टा चण्डमुदञ्चयत्यनुपदं नादं जवादम्बरे ।
तावद्धावितदूतपातचकितव्यावृत्तकीनाशया
मौर्वीटंक्रियया भयं शमयतामौर्वीसुतेशं धनुः ॥ १०६ ॥
एषा दक्षिणतो दिगस्तु महतो यस्यां पथो नावधिः
पान्थास्तत्र चरन्तु येषु भयदा भ्राम्यन्ति याम्या भटाः ।
तेभ्यः पातकिनां व्यथा भवतु या शक्या न सोढुं नृणां
का भीतिर्मम यस्य शर्मणि धनुर्जागर्ति सीतापतेः ॥१०७॥
यत्तेजस्यति कीर्तिकाम्यति युधि प्रह्वान्कुमारीयति
प्रासादीयति देवहस्तकमले भासेन्द्रचापायते ।
रत्नैः पर्वसु लोहितायति भृतैः शब्दायते च ज्यया
तन्नः पातु नमस्यतो रघुपतेश्चित्रीयमाणं धनुः ॥ १०८ ॥

२० काव्यमाला कल्पत्यर्थिनि कालिकाति रसिते कालानियत्योजर्सि स्थैर्ये मेस्वति श्रिते. पितरति श्रीराघवे यायति । यच्चाप्यर्यमणत्यबोधतमसि द्वीपीनति द्विपमृगे चापेऽस्मिंस्तपनीयपघटिते कुर्मो नमः कर्मताम् ॥१०९।। योऽपास्यन्नपि मार्गण[निभिमतं] दत्ते जमायार्थिने खीकुर्वन्नपि वक्रिमाणमधिकं यः सद्गुणालंकृतः । यः श्रीमानपि शश्वदीश्वरकरालम्बेन मध्येकृश- स्तं चापं चलचामराञ्चितशिखं स्तुध्वं खरध्वंसिनः ॥११०॥ पुत्रेणेव शिलीमुखेन ऋजुना सज्जाययेव ज्यया रज्यन्त्या सुभटैरुपातरुचिभिः सौवर्णपट्टैरपि । आराध्यस्य रघुप्रवीरधनुषस्त्रैलोक्यरक्षामणेः प्राचीनेन फलोन्मुखेन तपसा दासा वसामो वयम् ॥१११॥ इति श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः संपूर्णः । श्रीरामभद्रदीक्षितविरचितो रामबाणस्तवः। मारीचोपज्ञवेगं बैलविजयिसुतप्रेक्षितामोघभावं पारावारावरोधव्रजविदितमहादुःसहार्चिःप्रभावम् । लीलालोलूयमानत्रिदशरिपुशिरोधोरणीदृष्टतैक्षण्यं भक्तत्राणप्रवीणं शरणमशरणो रामबाणं प्रणौमि ॥ १ ॥ १. 'योधति' इति स्याश्चत्पाठः स समीचीन इति संदृश्यते. २. उपज्ञा ज्ञानमाद्यम्.. ३. इन्द्रसूनुर्जयन्तः काकल्पः ४.. अन्तःपुरम्, ५. पङ्गिः, रामबाणस्तवः। २१ पौलस्त्ये निस्तुलौजस्तुलितहरगिरौ बाधमाने त्रिलोकी- मनौ भग्नप्रभावे द्रवति च पवने क्वापि तान्ते कृतान्ते । वित्रस्ते वज्रहस्ते कृतमखिलजगद्रक्षणं येन सोऽयं त्रण्याच्चण्डीशकाण्डासनभिदभिमतो मार्गणो दुर्गतिं नः ॥२॥ निर्ममस्ताटकोरजुटनविगलितासृक्प्रवाहे सुबाहो- र्वक्षोमध्यं प्रविष्टो दलितखरवसापङ्कदिग्धोज्ज्वलाङ्गः । मारीचान्त्रकहाराभरणकृतरुचिर्वालिहृत्पद्महारी पौलस्त्यप्राणकुक्षिभरिरवतु जगद्रक्षको रामबाणः ॥ ३ ॥ भक्तानामिष्टदाने सुरतरुरुदधेः शोषणे वाडवामिः क्रव्यादव्याजखेलत्प्रबलतमतमःखण्डने चण्डभानुः । पुष्णातु क्षेममेकाधिकदलितमहासालपटूः पृषत्कः श्रीरामस्कन्धपीठग्रथितरिधिवल्मीकशायी फणीन्द्रः ॥४॥ प्राप्यानुज्ञामभिज्ञात्कुशिककुलभुवस्तापसात्कोपसान्द्रे खामिन्युन्मोक्तुकामेऽप्यनुचितमिदमित्यन्तरुद्भिन्नचिन्तः । कंचित्कालं विलम्ब्य स्मृतनिखिलजगद्रक्षणस्तत्क्षणं यः संतापं ताटकाया व्यधित युधि तमेवाश्रये रामबाणम् ॥५॥ मौर्वीटंकारघोरश्रवणकटुरटत्ताटकोद्घाटितास्य- भ्रश्यज्ज्वालाविनश्यद्धनतमतिमिरारण्यलीलाधरण्याम् । भिन्दन्यो वृक्षवृन्दं विगलितगरुतं विक्षिपन्पक्षिपङ्गिं कर्षन्मेघान्व्यहाद्रघुपतिविशिखं तं भजे रोगहत्यै ॥ ६ ॥ संम्राम्यत्ताटकाम्भोवहनिवहरजोवृष्टिनष्टावकाशे दिक्चक्रे येन चक्रे स्फुटतरुपटलोत्पाटनापाटवेन । १. शंभुचापदारी. २. शरः. ३. मेदः. ४. दलितसप्तसालः ६. तूणीरः. ५. बाणः.

२२ काव्यमाला। . रहःसंमुग्धसिंहच्युतमदकरिणा चण्डवातस्य लीला स स्ताद्राजेन्द्रहस्ताम्बुजवसतिरिषुः श्रीनिदानं सदा नः ॥७॥ संक्रुद्ध्यत्ताटकाभ्युत्पतनजवसमुद्भूतपीत्कारघोर- व्यात्तास्योद्वान्तवक्षःसृगदसृगभितवप्रवेशप्रदेशः । लीलाविध्वस्तमूलावनिरुहनिवहानुद्रुतो रौद्रवेगो हर्षायामावृणोद्यो हरतु स दुरितं रामभद्रस्य बाणः ॥८॥ नीलाम्भोवाहलीलां विदधति दलिते ताटकाबाहुमध्ये विद्युल्लेखामिवैकामुदसृजदसृजा वाहिनीं लोहिनीं यः । दीप्तानां प्राप्तिमावेदयितुमिव भुवि खप्रतापातपानां बाणो राजेन्द्रतूणोदरकृतभरणो वैरिणोऽसौ कृणोतु ॥९॥ येन प्रौढेन मध्ये महितरसभरालंक्रियाकल्पकेन श्लोकानुत्पादयित्रा रजनिचरकुलोत्पाटनानाटकस्य । न्यस्तं प्रस्तावनायाः सपदि किल पदे ताडनं ताटकायाः सोऽस्माकं रामबाणः सुललितरचनां सूक्तिमाविष्करोतु १ हस्तोदस्तत्रिशूलक्षपितमुनिपृथुस्कन्धनिप्यन्दमान- स्फारासृक्पूरधाराभजनजठरभृत्ताटकापाटनेन । नन्दद्योगीन्द्रवृन्दस्तुतिमुखरितदिक्चक्रवालान्तरालो रक्षेदिक्ष्वाकुचूडामणिकरकमलोत्सङ्गशायी शरो नः ॥११॥ होतयुन्मुक्तशस्त्रे विरमति सहसोद्गातरि स्तोत्रगाना- दध्वर्यावस्तपात्रे द्रवति किमिदमित्सुन्मिषत्यन्यलोके । यो वेगादुजिजृम्भे कुशिकसुतमखे वर्षतो विस्रमात्रं रक्षोमेघाञ्जिघांसुर्घटयतु स घनां संपदं रामबाणः ॥ १२ ॥ १. 'मध्येमहि तरसभरालंक्रियाकल्पकेन' इति च पदच्छेदः.

रामबाणस्तवः ।
२३
दुर्दान्तो रक्तबिन्दून्विकिरति परितो वेदिकां कौशिकस्ये-
त्य|क्ते सिद्धसङ्घर्झटिति पटुतरो यः शठं ताटकेयम् ।
धृत्वा धूत्वार्दयित्वा जलनिधिकुहरे मज्जयामास वेगा-
द्रोगानस्माकमुच्चाटयतु स जवनः सायकस्ताटकारेः ॥१३॥
विश्वामित्रीयसत्रप्रतिहतिकलनोड्डामरव्योमरङ्ग-
त्वङ्गन्मारीचदूरीकरणरयसमुद्भूतजीमूतचक्रः ।
तत्कालोद्भूतहर्षाद्भुतभयशवलखान्तयोगीन्द्रदत्त-
द्राघीयःश्लाघनोक्तिर्दलयतु दुरितं सायको राघवीयः ॥१४॥
मौलिभ्रश्यत्किरीटं गलपरिविगलच्चारुमुक्ताकलाप
त्रासोद्यन्मुष्टिबन्धश्लथकरयुगलस्रंसमानासिखेटम् ।
दूरक्षिप्तान्तरीयप्रकटकटितटीबद्धकौशेयकक्ष्यं
धून्वन्मारीचमुच्चै रघुपतिविशिखः पावनो नः पुनातु ॥१५॥
सस्तव्यालोलकेशे ततकरचरणच्छादिताशावकाशे
त्रासव्यात्तास्यगर्तप्रकटितविकटाक्रन्दितोद्धोषघोरे ।
मारीचे व्योम्नि धूते भयतरलवधूखैरसंश्लेषहृष्य-
सिद्धश्रेणीनिबद्धस्तुतिरवतु सदा राघवीयः शरो नः ॥१६॥
भनर्षिस्कन्धरन्ध्रस्रुतममितमसृक्पूरमुत्कण्ठितेन
प्रागाकण्ठं निपीतं वमयितुमिव यस्ताटकेयेन गाढम् ।
भ्रामंभ्रामं तमश्रे भ्रमिरभसदलत्संधिबन्धं विजहे
दारिट्यं दारयेद्राक्खयमयमिह मे रामभद्रीयवाणः ॥ १७॥
रंहोनिघूतमूर्धच्युतमुकुटतटभ्राजिमाणिक्यराजि-
श्रीपुञ्जाव्याजनव्यारुणितपतदसृक्पाटलं यज्ञवाटम् ।
कृरोऽयं ताटकेयो व्यतनुत इति तं क्रोधतोऽम्भोधितोये
सद्यः प्रापातयद्यस्तमिषुमिह विभोश्चिन्तयाम्यन्तरने ॥१८॥

.
२४
काव्यमाला।
सिसचण्डानिलेनाम्बुद इव गगने येन बेशोत्तरेण
न्यञ्चन्कुन्नाप्युश्चन्वचिदपि विततः कापि भमः कुहापि ।
मारीचः प्राप वाचप्रचमकरफ्टानिर्भरंगर्भमब्ये:
कौसल्यासूनुबाणः कलयतु स रुचा फेशलः कौशलं नः १९
प्रश्यन्मारीचपातप्रचलितसलिलोत्पीडनिलमूर्छ-
कल्लोलोखातमूलोद्गलिततटमहीरूढतालगुजालः ।
वेगोद्भिवाम्बुपूरोदरविवृतलुठन्नक्रपाठीनचक्र-
श्चके येनार्णवस्तं मनसि मनुगहे रामकाण्डप्रकाण्डम् ॥२०॥
ऊर्ध्वक्षितार्थतारप्रतिभयनयनं वक्रदंष्ट्राप्रदष्ट-
स्थूलास्यप्रान्तलोलद्रसनमुरुनसाप्रसुतोद्बुद्दास्रम् ।
हृन्मर्मस्फोटकर्मण्यरमुपजनिते येन मारीचसैन्यं
खादशीददनं दिशतु सकुशलं दाशरथ्याशुगेशः ॥२१॥
विध्वंसन्ते शकुन्ता युगविगमघनस्फारनिर्घातघोरं
मौर्वी निर्घोषमुर्तीरुहशिखरगतास्तूर्णमाकर्ण्य यावत् ।
यस्तावत्रस्तधावत्सुरजनमभिनबाहुमध्यं सुबाहो-
ळलानिष्पीतकालानलबहलमदं रामबाणं तमीडे ॥२२॥
यश्चापज्यापविद्धः सपदि धनपदव्यन्तमुत्पत्य कृन्त-
बाहामध्यं सुबाहोरतिरभसवशादप्यनासक्तरक्तः ।
सेवासंनद्धदेवावनमितमुकुटोद्दीप्तमाणिक्यसूप्त-
श्रीपु नाररञ्जे स भवतु भगवत्सायकः श्रेयसे सः ॥२३॥
मित्त्वा सत्त्वानुरूपं झदिति घनमुरः कामति व्योमरणं
यन भ्रश्यत्तनुत्रः पतदसिलतिकारिक्तबाहुः सुबाहुः ।
प्रागंभ्यासादिवागस्कृदजनि पुनरप्यसविसावणेन
स्वानारण्ये मुनीनामवतु स जवनो रामनाराचराजः ॥२४॥

रामबाणस्तवः । २५ यश्चञ्चत्कङ्कचञ्चपुटहठविकटाकृष्टभीमान्त्रजाला- न्विद्राणकोष्टुघोणाधृतपिशितगलद्रक्तसंसिक्तमार्गान् । खण्डखण्डं सुबाहोर्भटकुलमकरोत्कौशिकस्याश्रमान्ता- न्कौसल्यासंभवस्याशुगमखिलरुजाशान्तये चिन्तये तम् २५ कर्मप्रत्यूहभङ्गान्नियमिपरिषदो भव्यहव्योपलम्भा- दिव्यानां क्रव्यदानादपि वनपततामुत्तमां प्रीतिमत्ताम् । प्रायच्छत्ताटकेयप्रमुखमखरिपुक्षोदरूक्षोदयो यो वन्दे तं देववृन्दस्तुतमुपितमिघु रामहस्तारविन्दे ॥ २६ ॥ कोदण्डे भार्गवेण त्रिपुररिपुधनुर्भङ्गरुष्टेन दत्ते भक्तिप्रवाब्धिकन्याकरकमलपरिक्षिप्तगन्धाक्षताङ्के । संनद्धः सिद्धविद्याधरसुरपरिषत्पक्ष्मलाश्चर्यवीक्षा- पात्रीभूतः स पत्री भवतु शुभवहोऽस्माकमैक्ष्वाकधार्यः २७ ज्वालानिर्दग्धमूलावदलनविगलत्काञ्चनस्तम्भमौलि- व्यत्यस्तभ्रश्यदत्यद्भुतमणिशिखराक्षिप्तनश्यद्विमानान् । सौवर्गान्भार्गवीयप्रचुरतरतपःसाधितान्बाधितार लोकानापन्नशोकानपनुदघनुदं नौमि रामस्य बाणम् ॥२८॥ पक्षव्याक्षेपलक्षास्यदचकितमिषत्सिद्धगन्धर्वयक्षं धावन्तं देववृन्दं प्रति मम शरणं त्वं भव त्वं भवेति । एषा रोषाजयन्तं करटतनुमनुक्रामते भीमतेजो- नुद्ध्याय स्यान्नमस्या मम रघुवृषभप्रेयसे सायकाय ॥२९ ।। त्राणानीशे हुताशे वितरितुमभयं पाशभृत्युज्झिताशे रक्षावैमुख्यदीक्षां विदधति धनदे वज्रहस्ते विहस्ते । काकेनालम्भि लोके क्वचिदपि न किल त्रस्यता यस्य पाता- दामादन्यः शरण्यः प्रथयतु स शुभं मैथिलीनाथबाणः ३० काव्यमाला। मारीचानुप्रचारावहितनवमृगाकाररक्षोयुगोरः- प्रध्वंसप्रेसिमांसग्रसनरसनटत्संकुलश्येनकङ्कम् । कुर्वन्प्रताधि सर्वकषगुणघटितो दण्डकामण्डलं यः संचिक्रीडे तमीडे तपनकुलमणेः सायकं भावुकाय ॥३१॥ घोरासम्बर्षिधाराधरमवनिपतत्तुङ्गरथ्याश्वसङ्गं दुष्टश्येनोपविष्टध्वजशिखरमुरुकन्दगोमायुचक्रम् । नासीरं पूर्वमासीदति सपदि खरे योद्धमुन्नद्धधूमो युद्धाशंसामशंसत्किल रघुपतये यः स बाणः पुनातु ॥३२॥ एकोऽनेकोपरोधश्चरतु कथमिति व्याकुले दिव्यलोके युद्धालोकाय बद्धादरमनुपतति व्योमसीमां विमानैः । तच्चिन्तां भङ्गुमेको दशशतमिति यो जातु मुक्तोऽपि यातु क्षिप्रं चिच्छेद दीप्रं तमिनकुलमणेः सायकं भावयामः ३३ रुन्धरक्षोहगन्धंकरणरुचिभरैरन्तरिक्षं तरखी वृन्दं वृन्दं विभिन्दन्समिति खरचमूचारिणां वैरिणां यः । नन्दन्नाकेशमन्दप्रचलितनयनाम्भोजसंभावितोऽभू- दन्तायामि संतर्पितमुनिसदसं तं शरं वंशनेतुः ॥ ३४ ॥ गोमायुत्यक्तभीमायुधसचिवभुजच्छेदसंबाधमुर्त्या- मुच्चण्डश्मश्रुमुण्डग्रहविमुखवलद्धनीरन्ध्रमूर्ध्वम् । धर्मारण्यं वितन्वन्नपि खरसमरे तापसारब्धसार- स्तुत्यानत्यास्पदं यः समजनि तमहं रामबाणं नमामि ३५ सैद्यःसंघट्टरहस्युटितखरचमूचक्रचञ्चत्करीन्द्र- स्कन्ध द्विस्रगन्धक्षतजतटवतीनद्धडिण्डीरबुद्धिम् । १. अत्रारण्यकाण्डे एकोनचत्वारिंशसोक्ता रामायणकथानुसंधेया. २. आसीद- ति सति. ३. शृङ्गपादविहीनोऽयं श्लोकः. शृङ्ग-ए ऐ ओ औ एङ्पाद=आकारः.

रामबाणस्तवः । २७ कुर्वन्पश्यज्जनस्य व्यपदलितसितच्छत्रमूर्च्छद्रुचीभिः पृथ्वीपुत्रीशपत्री विपदमनुपदं हन्तु निविण्णबन्धुः ॥३६॥ कृत्तच्छत्रप्रभमध्वजमुपदलितस्यन्दनं मारिताश्वं निर्भिण्णस्कन्धगन्धद्विरदमवयवच्छेदनिप्पन्दयोधम् । चिक्रीड क्रूरमेव प्रखरखरचमूचक्रमाक्रम्य यः प्रा- मद्रोगानेष विद्रावयतु भगवतो रामभद्रस्य बाणः ॥३७॥ भग्नासिच्छिन्नशक्तित्रुटितपरिघनिर्भिण्णकोदण्डलून- प्रासोत्कृत्तत्रिशूलप्रभृतिभिरवनीमायुधैराशराणाम् । द्यामप्युद्यत्कबन्धव्रजगलविवरोद्गच्छदास्रच्छटाभिः संरुन्धन्नः समिद्धः खरसमरविधौ संपदे रामबाणः ॥३८॥ क्वापि च्छिन्नैः शिरोभिः कचिदपि दलितैदोभिरेकत्र कृत्तैः पादैरन्यत्र लूनैरवयवशकलैः क्रव्यमात्रानुभाव्यैः । आस्तीर्यास्तीर्य भूमिं व्यहृत खरचमूरक्षिणां रक्षसां यो गुर्वीमुर्वीकुमारीसहचरविशिखः स श्रियं नस्तनोतु ॥ ३९।। भिन्दन्स्वच्छन्दमुद्यन्नखरुचिकुसुमं दूषणाख्यद्रुमस्य स्त्यायद्रनाङ्गुलीयद्युतिकिसलयितं बाहुशाखायुगं यः । आरण्यायां धरण्याममृडयत दृढं मण्डलीमण्डजानां जानाम्येकं शरण्यं विपदि सपदि तं जानकीजानिबाणम्४० आतङ्कोड्डीनकङ्कस्थगितघनपथं भीतगोमायुधूत- क्रन्यादानं भयव्याकुलहरिणकुलाक्रान्तपर्यन्तकुञ्जम् । १. अरण्ये भवायामारण्यायाम्. २. अण्डजानां गृध्राणां मण्डलीममृडयत मृडां सुखितामकरोत्. 'मृड सुखने.' इगुपधात्कः. ततः 'तस्करोति-' इति णिच 'णिचश्च' इति लिङस्तङ् २ काव्यमाला। गात्रं यो दूषणस्य त्रुटितमुजमवापातयद्वीतयत्नं त्राता मे सोऽस्तु सीतारमणकरमहामण्डनं काण्डवर्यः ४१ स्थूले माहाकपाले शिरसि निपतिते प्रोज्झिते च प्रमाथि- न्याशु शूलाक्षनाशे सति दृगपनयादर्दिते चान्यसैन्ये । पश्यद्भिः श्येनगामिप्रभृतिषु निधनं व्योनि विद्याधराद्यैः संतुष्टैस्तुष्टुवे यः स रघुपतिशरस्त्रायतामायतौ नः ॥ ४२ ॥ संपास्यं द्रागपास्यन्परुषमपि रुषा तर्जयन्दुर्जयस्य छिन्दन्देहं च वैहंगममसुविगमाभिज्ञयन्यज्ञशत्रुम् । जन्यावन्यामथान्यानपि खरपृतनामद्ध्यगानाशु विद्ध्य- न्कुर्याद्भूमीकुमार्याः कमितुरिषुवरः संपदं सांप्रतं नः ॥४३॥ संरुष्टक्रोष्टुकृष्टक्षितिपतिततनूभङ्गनिःशङ्ककङ्क- क्रोधोपावर्तिताधोरणमुखविकलस्कन्धरन्ध्रान्त्रजालम् । दृष्ट्वा नासीरमासीद्रणरणरणकस्रस्तशस्त्रत्रिशीर्ष यत्र क्रीडत्यमित्रच्छिदि स दिशतु शं भूमिपुत्रीशपत्री ४४ आतन्वन्नेकतोऽपि प्रवणवनतसंपातमात्रापसर्प- त्कृत्तत्रैमूर्धमूर्धत्रयपिशिततृषानुद्रवद्धरौद्राम् । अन्यत्रामर्त्यहस्तोज्झितकुसुमवलद्गन्धलोभान्धभृङ्ग- श्यामामृष्याश्रममां रघुवृषभशरः शर्म मे निर्मिमीते ॥४५॥ एकस्तूणीरगर्भे दश धरणिसुतानाथहस्ताभिमर्श चापारोपे सहस्रं प्रयुतमुडुपथे न्यर्बुदं कर्बुरेषु । १. 'महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा । चत्वार एते सेनान्यो दृषणं पृष्ठतो ययुः ॥ श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः । दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ मेघमाली महामाली सोस्योरुधिराशनः । द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥' इति श्रीरामायणे त्रयोविंशे सर्गे.

रामबाणस्तवः । २९ दृष्टो यों वेगकृष्टोपहतखररथः सिद्धगन्धर्वय:- रक्षीणं दीनरक्षी दिशतु स कवितादाक्ष्यमैक्ष्वाकबाणः ४६ हेमाकल्पाभिरामां कुपितखरकरप्रेरितां प्रावृताशां वीरुनद्धावनीरुत्समुदयमुदयद्विस्मयं भस्मयन्तीम् । दूरादभ्राम्बुधारां मरुदिव विभिदे यो गदां रोगदायी यातूनामेष दूनावनपटुरवताद्रामभद्रस्य बाणः ॥ ४७ ॥ केतुर्भग्नो निपेतुर्भुवि शबलरुचो दारिताङ्गास्तुरङ्गा- नीतः सूतस्य मूर्धा गलगलितदशां जातभङ्गः शताङ्गः । इत्यायान्तं निहत्याहवशिरसि खरं रुष्टमुन्मृष्टशोक- वर्गस्त्रीवृष्टकल्पद्रुमकुसुमजुषं राघवेषु निषेवे ॥ ४८ ॥ जीवन्नेवैष धावन्मम कनकमृगः शक्यते न ग्रहीतुं हन्यां तेनेति वन्यामभिमृशति विभौ यं करालं करेण । भीतः प्राग्वत्पपात व्यसनभरमये वीतमुद्रे समुद्रे मारीचः क्ष्माकुमारीरमणशरमणिं तं शरण्यं भजामः ॥४९॥ मेघश्याम घनानां विपिनविटपिनां कञ्जकिञ्जल्कपुञ्ज- च्छायादायादमायामृगवपुरचिरज्योतिषा भाति षण्डे । यस्यारोपेण चापे द्रुतमुपजनितो गर्जितं निर्जिगाय ज्यानिर्घोषोऽघशोषोपजनमिषुमिमं भावये राघवीयम् ॥५०॥ चापे यस्याधिरोपे सति भयतरलव्याजसारङ्गराज- व्योमप्रस्तीमभीमत्वरखुरशिखरस्तोकलीढावनीकम् । जानस्थानान्तरालं घनगुणरणिताध्मातदर्यन्तभीत- व्याघ्रानाघ्रातरोहित्पिशितमजनि तं रामबाणं भजामः॥५१॥ सांकुर्वपुङ्खककच्छदजवचकितोद्भान्तशाकुन्तपति- व्यातन्वत्पक्षवातश्लथवनकुसुमैः किंचिदन्वश्चिताय ।

. काव्यमाला। मायां मायासारङ्गकायाभिमुखनिजमुखप्रस्फुरद्भिः स्फुलिङ्गै- रुन्नद्धायास्मि बद्धाञ्जलिरवनिसुतानायकस्याशुगाय ॥५२॥ येनाविद्धः समिद्धज्वलनकणकिरा मर्मणि क्रूरकर्मा क्षिप्रं तालप्रमाणं खमुपनिपतितः सस्तपर्यस्तकङ्कम् । प्राणस्यानुप्रयाणं विदधदिव दिवं प्रस्थितस्याबभासे दासे मय्याधिमासेदुषि स तु भवतु त्राणदो रामबाणः ५३ दीर्घाक्षं चारुशृङ्गं मुखमजनि करालेक्षणं वक्रदंष्ट्र किंचाङ्ग्रीणां चतुर्णा त्वरितमभवतां द्वौ भुजौ द्वौ च पादौ। नष्टा लाङ्गूलयष्टिर्नवसिचयमयी कापि कक्ष्या तु दृष्टा यत्कोटिस्पृष्टमात्रे हृदि कपटमृगेतं भजे रामबाणम् ॥ ५४॥ व्यर्ल्ड खकीयामिव दलनमिषान्मायिके ताटकेये कायं तस्याक्षिपेयं त्रिजगति कपटप्रायमैणं विधूय । मनाक्षं दीर्घकूर्चस्तबकमुरुनसं तुन्दिलं तालजई घोरं रक्षःशरीरं व्यतनुत भगवत्सायकं तं भजामः ॥५५॥ सारङ्गीयं शरीरं प्रथममथ तनुं राक्षसी रूक्षशीलां दूरीकृत्यान्यदूरीकृतवति च वपुर्दिव्यमव्याजभव्यम् । मारीचे सिद्धनारीकरतलगलितानल्पकल्पद्रुपुष्प- श्योतन्माध्वीविधूतक्षतजमलिनिमा पातु मां रामबाणः ५६ उन्मीलत्सालजालत्रुटनविगलिताशङ्कतुङ्गप्रमोद- त्वङ्गच्चेतःप्लवङ्गप्रकरकरयुगच्छिन्नमाल्यप्रसूनम् । तत्कालप्रोतशैलक्षितितलयुगपद्दर्शनाश्चर्यधुर्य- श्लाघाकृत्किन्नरौघावृतगगनतलं रामबाणं भजामः ॥ ५७ ।। १. 'खमुपनिपतितः सस्तपर्यस्तकेशम्' इति स्थिते पाठः समीचीनः स्यादिति प्रतिभाति.

रामबाणस्तवः। ३१ सारण्यग्रामपृथ्वीभरदुरखनमोत्तुङ्गसर्वोत्तमाङ्ग- प्रोद्यद्वैफल्यशल्यज्वरितफणधरग्रामणीभक्तिदृष्टः । भूरिश्रद्धानिबद्धस्तवनतभुजगीदृक्प्रसूनाय॑मानो भित्त्वा सालान्प्रविष्टः फणिपतिभुवनं पातु रामस्य बाणः ५८ खेलद्धेमाजमालं शकलितरणकृदुन्दुभिक्रूरशृङ्गं कक्षप्रक्षिप्तरक्षःपतिविधुतशिरःप्रान्तघातक्षमान्तम् । तारावक्षोजभाराहृतघुसृणरसं वालिनो बाहुमध्यं विध्यन्बाणो विदध्यान्मम शुभमनिशं रामतूणीरधामा ५९ तारातारप्रलापद्विगुणितकरुणाक्रन्दकिप्किन्धमुद्य- त्रासापक्रान्तकीशप्लवननिपतितानोकहानेकशाखम् । सुग्रीवान्तःसमग्रीभवदरिपतनानन्दमिन्धानरूपं चित्ते कृत्तेन्द्रसूनुं रघुपतिविशिखं शीलयामः शुभाय ॥६०॥ ईडे वीरस्य गाढश्रयितघनजटामण्डलस्य श्रमाम्भः- सिक्तालीकस्य वीचीनिचयवलयिने कुप्यतः सागराय । आरक्तापाङ्गलीढश्रुतिनिकटचरन्मुष्टिसंदष्टमूलं चापातिक्रान्तशल्यज्वलदनलमिघु शान्तये साध्वसानाम् ६१ संसृप्तज्वालतप्तप्रबलगिरिदरीगर्भनिर्भेदखेद- क्षुभ्यद्धर्यक्षरूक्षध्वनिचकितगजोन्मुक्तफीटारघोरम् । अम्भःशोषोपलम्भक्षणचुरुचुरुतोद्बुद्रुदस्त्यानफेनं पारावाराम्बुपूरं चिकलयिषुरिषुः पातु पौलस्त्यजेतुः ॥६२।। प्रश्यन्निर्घातनश्यद्धृति तिमिरभराक्रान्तमुद्धान्तलोकं वातूलध्वस्तमूलक्षितिरुहमवनीकम्पसम्पन्नशोकम् । १. अयं श्लोको जानकीपरिणयनाटकेऽपि (६।६७) दृश्यते.

संर काव्यमाला। तिर्यच्चन्द्रार्कचर्याचकितमुनि जगत्कुर्वता येन पूर्व लक्षीचक्रे समुद्रः स हरतु दुरितं रामभद्रीयबाणः॥६३ ॥ शुष्यत्पाथोधिकुक्षिभ्रमदमितमहाग्राहवालाग्रघात- क्षुभ्यत्कल्लोलगर्मप्रभवकलकलव्याप्तविध्यण्डमध्यम् । दिक्कोणव्यापिनव्यामणिशतसमुद्भाव्यसाचिव्यभाव्या- ज्वालामालाकरालं विपदपहतये समबाणं स्मरामः ॥ ६४ ॥ पाथःक्वाथासहाधःपतदुरुमकरत्रस्तपर्यस्तयादो- निर्वृत्तावर्तचक्रभ्रमणविवलदुत्ताननिष्प्राणमीनम् । निष्टापत्रुट्यदनप्रकरपटपटध्वानसंरुद्धमब्धि यश्चक्रे प्रागिषु तं खरमथनकराम्भोजभाजं भजामः ॥६५॥ उत्क्रामत्प्राणनकाननबिलविगलत्प्राङिगीर्णाम्बुमर्त्य धूम्यासंसर्गताम्यद्रजनिचरकुलत्रासमुक्ताधिवासम् । अन्योन्यश्लिष्टनष्टद्विरसनमनलज्वाललीनाम्रजालं कुर्वन्नम्भोधिमुर्वीदुहितृपतिशरः पातु नः क्षेमहेतुः ॥६६॥ संमुह्यत्सह्यकन्यं तरलितमुरलं जृम्भितातङ्कगङ्गं सद्यःक्रन्दत्कलिन्दात्मजमवशलुठन्नर्मदातुङ्गभद्रम् । खेलज्वालावलीढक्षुभितसरभसोद्वेलकल्लोलचक्रे विक्रोशत्यम्बुराशौ रघुपतिविशिखः पातु मां यातुमाथी ६७ अन्योन्यश्लिष्टवीचीभुजलतमभितःकीर्णशैवालकेशं लोलत्पभेक्षणान्तस्रवदमितमधुस्यन्दबाष्पानुबन्धम् । चक्रन्दुः सिन्धवो यन्मुखवलदनलज्वालतान्ते खकान्ते सः श्रेयस्ताटकेयप्रमथनविशिखो यच्छतादिच्छतां नः ६८ वैडूर्यस्निग्धमुग्धद्युतिरमरधुनीमुख्यनारीपरीतो रत्नसमलिरात्मप्रभवमणिगणालंकृतो स्क्तचेलः।

रामबाणस्तवः । ३३ यस्मिन्प्राणान्तदण्डप्रणयिनि समुपागम्य रम्यैर्वचोभि- भक्या तुष्टाव बद्धाञ्जलिपुटमुदधिस्तत्प्रभोरस्त्रमीडे ॥ ६९ ।। अन्वञ्चजझुकन्याशिशिरकरतलामृष्टनिष्टप्तभाग- स्तातप्रेमाप्तधन्वन्तरिकरकलितच्छिन्नगात्रार्द्रपट्टः । काङ्कन्नम्भोधिरन्तर्घनममृतरुचेरात्मजस्याङ्कपालि निन्ये यगस्तमुक्तः कथमपि दिवसं तं भजे रामबाणम् ॥७०॥ अङ्कालंकारलङ्कापुरशिखरशिलाचक्रविक्रान्तवीर- क्रूरक्रोधाट्टहासश्रवकुपितकपिक्ष्वेडितानेडितानि । ज्यानि?षेऽतिशय्य प्रवहति विहगानंहसा संहसन्तं तं रक्षश्चक्षुरुष्णंकरणमधिरणं रामबाणं नमामि ॥ ७१ ॥ कृत्तं येनापतत्तद्रणशिरसि शिरः श्मश्रुलं रश्मिकेतोः सुप्तनश्च न्यपप्तद्भुवि दलितशिरा यज्ञकोपेन साकम् । भग्नं द्रागनिकेतोरपि धरणिगतं शीर्षमाकार्षि करे- लङ्कातकैकहेतुः स शरपरिवृढः पातु सीताधिनेतुः ॥ ७२ ॥ सातङ्कामर्त्यसङ्घानमिलषितनिजालोकनं शोकनम्र- खर्बन्दीनिर्भराश्रुस्लपितमषिरजोद्गीर्णपाथःकणार्द्रम् । उन्मीलत्केलिकोपाकुलमयतनयामात्रदृष्टप्रणाम दाशग्रीवं किरीटं रणभुवि विकिरन्रामवाणः पुनातु ॥ ७३ ॥ वेगादाकाशवीथ्यामुपरि परिहरन्नप्रवृन्दं विभिन्द- नाकर्षन्काककङ्कप्रकरमधिनभश्चक्रमुच्चैर्धमन्तम् । दोर्दण्डः कौम्भकर्णः कपिवरदलनप्राप्तदम्भोलिकेलि- येन व्यालूनमूलः क्षितिमभजदयं त्रायतां रामबाणः ॥ ७४ ।। १. परिसरमभ्रवृन्द इति स्थिते भव्यः पाठो भवेदिति भाति. २. 'कौम्भ- कर्णः कथमपि कपिभिर्विद्वते दूरमद्रौ' इति पाठमेदो दृश्यते. ३द्वादशगु० २४ काव्यमाला। निर्घातक्रूरपातध्वनिचकितजगद्भुमभूगर्भमन- क्रोडावध्यङ्गपीडाकुलममरकुलोन्मुक्तहर्षाट्टहासम् । यत्कृत्ताभ्यां पदाभ्यां द्रुतमपतदधः कौम्भकर्ण शरीरं तस्मादन्यं न मन्ये रघुवृषभशराद्रक्षणे दक्षिणं नः ॥ ७५ ॥ त्रस्तापावृत्तमत्तद्विपचकितललहुष्टतुङ्गोष्ट्रपृष्ठ- भ्रश्यन्नैःसाणिकाशुत्रुटितपदपुनःसंध्यपारीणवैद्याम् । लङ्कां सुग्रीवविग्रीकृतविवृतनसारन्ध्रमीमो न्यरुन्ध- द्रार्धा कौम्भकर्णो यदपहृतगलः पातु बाणःस नेतुः ॥७६॥ निप्पिष्टानल्परक्षःकपिकुलमसकृद्भूतले पातुकस्य क्षिप्तोदञ्चद्विमानस्खलितसुरमुपर्यम्बरे चोत्पतिष्णोः । वृत्तं यत्कृत्तमूर्ध्नः क्षणमधिसमरं कुम्भकर्णस्य नृतं भूता मामेति भीताः कथमपि ददृशुस्तं भजे रामबाणम् ॥ ७७॥ बाणा लूनाः सुराणामपि पिशितभुजो येन कङ्कच्छदाङ्क- प्रेवत्पुङ्खाभिरामा रणभुवि तरसामाकरा माकराक्षाः । नीतस्तातस्य पाच तदनु खरसुतोऽप्यस्त्रशस्त्रप्रवीण. स्तेन स्मस्ताटकारेरिह वयमिषुणा केवलं सावलम्बाः ॥ ७८ ।। कोदण्डादुजिहानो नमदमरवधूसंघसंगीतकीर्तिः प्रीणन्गीर्वाणलोकं यमिकुलसहितं तेजसा जृम्भितेन । रामस्यामित्रवर्ग मथितुमखिलमाबालमुत्साहपर्या- णद्धोऽस्माकं शुभानि स्तबकयतु शरो वेगनिधूतमेघः ॥७९॥ निर्गच्छद्वैरिवर्गच्छलजलदकुलोन्मुक्तनाराचधारा. विच्छेदाभिज्ञकङ्कच्छदजवपवनप्रेखितक्रूरपुङ्खः । १. अत्र प्रतिपादं नियतिप्रथमाक्षरसंकलनया 'को न संप्रीयते रामबाणस्तवे' इति स्रग्धरणीपादेभ्यो लभ्यते. 7 रामबाणस्तवः। ३५ बाणो रामस्य शाणोपलनिशितशिखाधालधल्यावदात- हादिन्याख्यातशातकतवदुरितदुर्भिक्षयोगः पुनातु ॥ ८० ।। मौर्वीटंकारखवींकृतयुगविगमोद्भूतजीमूतशब्दै- श्चापैरुद्धान्तचामीकरमयशिखरैर्मुश्चतोऽस्त्रप्रपञ्चम् । तूणैरक्षीणबाणैरविरहितवहान्सङ्घशो वीररामा- न्संग्रामे दर्शयन्तं तमरिपरिषदे नौमि रामस्य बाणम् ।। ८१ ।। व्याकीर्णवर्णपट्टातिविशददिशं वैरिधैर्यप्रणाडी- लुण्टाकध्वानघण्टाघटितसदटनिं मण्डलीकृत्य चापम् । सङ्ग्रामे रामचन्द्रे सरति भुवि दिवि च्छिन्नभिन्नापविद्ध- क्रव्यादव्याहताम्भोवहनिवहमहं भावये बाणराजम् ॥ ८२ ।। आराद्धं युद्धभूमि निशितनिशिखाकृत्तमत्तेभकुम्भ- प्रश्योतद्रक्तनिश्चप्रचघुसृणरसालेपदत्तावलेपाम् । सोत्कण्ठः पुण्डरीकस्रजमसृजदरं खण्डितारिप्रकाण्ड- श्वेतच्छत्रच्छलाद्यो हृदि सपदि स मे रामबाणोऽस्तु भूत्यै ॥८३।। साटोपाघातगादत्रुटितपटुरटत्कटोद्घाटिताङ्ग- क्रव्यादोरःकवाटभ्रमणलगदसृक्पङ्कभृत्कङ्कपत्रः । आकर्षन्नेकमाकस्मिकमिव तटितः खण्डमुच्चण्डवेगः क्रीडन्नीडानपीडाव्यपनुदपनुदेदापदं रामबाणः ॥ ८४ ॥ कृत्तक्षिप्ताश्वकुक्षिस्रुतरुधिरमिलद्वधिकागृनुगृध्री- सङ्घानाघ्रातजङ्घाकरिककरिकरच्छेदवित्रंसिमांसा । चक्रे येनारिसेना विदलितनिपतढुष्टवीरास्यदष्ट- स्कन्धक्रन्दच्छृगालभ्रमणकलुषिता रामवाणं तमीडे ।। ८५ ॥ १. ईडानाः स्तुवन्तो जनास्तेषामार्तिहारी.

३६ काव्यमाल कृन्तगोमाकुदम्तकृकयकटकटात्कारधारास्थिकूट कडोरुत्रोटिट त्रुटितपटपटाकुवंदुच्चण्डमुण्डम् । चक्रं यत्क्रूरशल्यक्रमणविगलितप्राणमासीदरीणां तन्यान्मे भूमिकन्यासहचरविशिखस्तापनिर्वापणं सः ।। ८६ ।। कस्मैचित्कापि मैत्री निरुपधि दिदिशे दाशमुख्याय येन क्षेमं यत्संनिधाने समिति पृतमया दाशमुख्या यये न । तस्य श्रीराघवेन्दोररिचकितशचीदेवनानाशुगन्तं भक्तान्कुर्वन्तमीडे सुलभसुखनदीदेवनानाशुगं तम् ॥ ८७ ॥ क्षीणौजःकौणपासृक्कणविकिरणतो दाग्रणक्षोणिकोणं शोणीकुर्वाणमुद्यद्रणरणकरणद्रावणद्रावणज्ञम् । प्राणत्राणप्रवीणं प्रणतिचणनृणां प्रक्कणद्वेणुवीणा- पाणिवस्त्रैणवाणीगुणितगुणगणं रामबाणं प्रणौमि ॥ ८८ ॥ कालीहर्यक्षकण्ठध्वनिभरपरुषं कुर्वतामट्टहासं साटोपन्यस्तपादक्रमनमितभुवां भमशूलद्रुमाणाम् । १. दाशमुख्याय धीवरश्रेष्ठाय येन राघन्वेदुना इति प्रथमपादे. दाशमुख्या दशमुखसंबन्धिन्या पये प्राप्तम्. 'या प्रापणे'. कर्मणि लिट्. आत्मनेपदम्. नेति नष्प्रतिषेधे इति द्वितीयपादे. अरिचकितस्य रावणागीतस्य शचीदेवस्य महेन्द्रस्य नानाविधाः याः शुचः शोकाः तासामन्तं नाशप्रदमिति तृतीयपादे. सुखमेव नदी सुलभं सुखनद्यां देवनं विहारो येषां तान् सुलभसुखनदीदेवनान् ; आशुगं बाणं तमिति यच्छब्दप्रतिनिर्देशः. २. रावणद्रावणशं रावणं विद्रावयन्तमित्यर्थः, ३. अदसीयशृङ्गारतिलकभाणे- 'कालीहर्यःकण्ठध्वनिमरपरुषं कुर्वतोरटहासं साटोपन्यस्तपादक्रमनमदवनि भ्राम्यतोर्मण्डलेन । निर्घातकरमुष्टिप्रहृतबृहदुरस्तारठात्कारपोरा युद्धारम्भा हिडिम्बानिलसुतबलयोर्मल्लयोरुल्लसन्ति॥१४॥'ति.

रामबाणास्तवः । १७ निर्घातक्रूरमुष्टिपहृतवृहदुरस्तारठात्कारपोरे युद्धे निर्दग्धलङ्क रघुपतिविशिखं नौमि रक्षःकपीनाम् ॥ ८९॥ तं वन्दे रामबाणं रजनिचरचमूः खां पुरी यत्प्रभाभिः सालंकारामवाटीकत मदविधुरा बन्धुरागा विनेत्रा । वर्षित्रा येन चाथ ज्वलनमजनि न प्रापिता दौरवस्थ्य सा लङ्कारामवाटीकतमदविधुराबन्धुरागा विनेत्रा ॥ ९० ॥ संस्पर्धारब्धयुद्धाभिमुखदशमुखक्रूरपादप्रचार- न्यञ्चद्भूकुञ्चिताङ्गद्विरसनवरसंप्रार्थितखप्रवृत्तिः । चापारोपाय कुप्यन्निव दिशि ददृशे यो विलम्बासहत्वा- ज्ज्वालाजिहालवक्रः स दहतु महतीमापदं रामबाणः ॥ ९१ ।। कल्पान्तोद्भूतवातभ्रमितजलधरोद्घोषगम्मीरगर्ज- द्रक्षोनाथाट्टहासश्रवणसरभसोत्पुष्यदान्ध्ये फणीन्द्रे । १. सालंकाराम् , अवाटीकत, मदविधुरा, बन्धुरागा. विनेत्रा, इति प्रथमाधै; सा, लधारामवाटी, कतमत् , अविधुराबन्धुरागा, विनेत्रा, इति द्वितीयार्धे पद. च्छेदः यत्प्रभामिः यस्य वाणस्य तेजसा हेतुना विनेत्रा विगतनयना अत एव मदविधुरा युद्धगर्वरहिता बन्धुषु रागो यस्याः सा बन्धुरागा । बन्धूनेवाभिल. षन्ती न तु युद्धे शरीरत्यागमिति भावः । रजनिचरचमूः सालंकारां अलंकारैः रम्भास्तम्भतोरणमालिकादिभिः सहिताम् रामवाणपतनात्पूर्वमिति भावः । पुरी अवाटीकत । युद्धभूमि परित्यज्य प्राप्तवतीत्यर्थः 'टीकृ गतौ' । अवपूर्वात्ततो लठ् । आत्मनेपदम् । अथ तदनन्तरम् । ज्वलनं वर्षित्रा। वृषेननन्तादतस्तृ- तीया। विनेत्रा शिक्षकेण । दुर्जनानामिति शेषः । येन वाणेन सा प्रसिद्धा लवाया आरमवाटी । वीनां पक्षिणां धूः विधुरा। 'ऋक्पू:-' इति समासान्तः। विधुरया पक्षिभरेण वन्धुरा मनोज्ञा अगाः वृक्षाः सा न भवतीति अविधुराबन्धु रागा-सती । दग्धत्वादिति भावः। कतमत् कीदृशम् । डतमच्प्रत्ययान्तः किं- शब्दः । दुःखरूपा अवस्था यस्याः सा दुरवस्था, तस्या . भारः दारैवस्थ्यम्। तच्च बहुविधं पक्षिदाहवृक्षदाहलतादाहादिदुःखानां बहुत्वात् तं रामबाणं वन्दे.

३८ काव्यमाला। येनाविन्दसंदर्शितविविधजगच्चक्षुषा दिक्षु साक्षा- दक्षान्त्येवोदलासि क्षिपतु स विपदं क्षिप्रमैक्ष्वाकबाणः ।।९२॥ शार्दूलकोष्ठकोलश्वखरमकरहर्यक्षकाकोलकङ्क- श्येनास्यानाशरेशभ्रमदलघुधनुश्चक्रमुक्तान्पृषत्कान् । तारोल्काधूमकेतुग्रहदहनतडिच्चन्द्रचण्डांशुवृत्त्या छिन्दानं दाशरथ्याशुगमधिसमरं चिन्तये शोकशान्त्यै ॥९३॥ लीलाविक्षिप्तशूलाशनिमुसलगदामुद्गरप्रमहोग्रं यस्मिन्नाश्चर्यचर्ये कवलयति बलादात्मनोदस्तमस्त्रम् । पौलस्त्यः श्वासवेगग्लपितरदपटश्रीनिशश्वास शश्व- तस्मै विस्मेरविद्याधरनयनकृषे नौमि रामाशुगाय ।। ९४ ॥ क्रुद्ध्यत्पौलस्त्यहस्तभ्रमितधनुरपश्लिष्टघोरास्त्रसृष्टा- न्श्वेलज्वालाजटालापिहितदशफणामण्डलान्कुण्डलीशान् । हत्त्वा संवर्तमेषस्फुरदुरुगरुदास्फालनिर्धतमूनों विक्रामन्व्योम्नि चक्रायुधरथवपुषा पातु रामस्य बाणः ॥९५॥ हुंकारत्रस्तविश्वत्रयममरपतिप्रार्थितभ्रूनिदेशं प्रेम्णा संचारिताक्षं मुहुरपि च परस्त्रैणतुङ्गस्तनेषु । मध्वासाराद्रकूर्च मदनकलमयापत्यपीताधरोष्ठं मूर्धानं निर्धनानो युधि दशशिरसः पातु मां रामबाणः ॥९६ ॥ सद्यःकृत्तापविद्धत्रिदशपथसमाकीर्णपौलस्त्यमूर्ध- द्राधीयःश्मश्रुपाशग्रथितपदवलगृध्रसंपातरौद्रे । युद्धारम्भे सुशिक्षावशदुरवगमादानसंधानमोक्ष- स्तादृक्षो रामबाणो वितरतु नितरां भव्यमव्याहतं नः ॥९७॥ कृत्तप्रभ्रष्टदृप्यद्दशवदनशिरःपिण्डतालीफलाली- मुह्यत्काकोलकोलाहलमुहुरनुहुंकारिगोमायुभीमाम् ।

रामबाणस्तवः । ३९ कुर्वन्सङ्घामभूमि कुतुकघनमनश्चारणस्त्रैणमुक्त- प्रभ्रश्यत्पारिजातप्रसवसुरभिलः पातु रामस्य बाणः ॥ ९८ ।। सङ्ग्रामे रूपमानामरभयवहाद्विन्ध्यमेरूपमाना निर्यन्नीराक्षसीसाकृतिरदनमुखी वाहिनी राक्षसी सा । दृष्ट्वा तत्रास कृतं दशवदनशिरो येन तत्रासकृतं वाणं वन्देऽवमान्यं भगवत उदयद्वैभवं देवमान्यम् ।। ९९ ।। हाहाकुर्वाणसर्वाशरनिकरमविसम्भिणो जम्भजेतु- भृत्यैरभ्येत्य दृष्टं मुदितकपिकुलास्फालितोद्भूतवालम् । आहृत्य श्येनकङ्कावलिदलितभुजाभ्यन्तरं स्यन्दनान्ता- ल्लकेशं भ्रंशयन्तं रघुपतिविशिखं नौमि रोगोपशान्त्यै ॥१०॥ 1. यत्पत्रं तत्सवित्रीभवति हनुमतो नीलसुग्रीवसर्गा- वायत्तौ यत्फले चानिशमिनशशिनौ गच्छतो यच्छरीरे । अन्यत्किं यद्गरिम्णि त्रिपुरहरधनुर्दुग्धसिन्धोश्च मन्थः पौलस्त्यप्राणहारी युधि भवतु स मे रामवाणः शरण्यः ॥१०१॥ १. रूपमानात् रूपप्रमाणात् । विन्ध्यमेरूपमाना विन्ध्यमेरुतुल्या । उत्तुङ्गश- रीरेत्यर्थः । रक्षोनिष्टमुतुङ्गशरीरत्वं तद्वाहिन्यामारोपितम् । निर्यन्नीरे शोकेन विगलाद्वाष्पे अक्षिणी येषां तानि निर्यनीराक्षाणि । सीसाकृतयः श्वेततया सीस- तुल्यरूपा रदना येषां तानि सीसाकृतिरदनानि । एवंविधानि मुखानि यस्याः सा तथोक्ता वाहिनी । राक्षसी रक्षःसंबन्धिनी । सेति प्रसिद्धौ । तत्रास त्रस्ता बभूव । कृतं छिन्नम् । तत्र तस्मिन्सङ्ग्रामे । असकृत् बहुकृत्वः बाणं वन्दे नौमि । अवमादधमादन्यं उत्तममित्यर्थः । उदयद्वैभवं उद्यत्प्र- मावम् । देवानां मान्यं पूज्यं देवमान्यम् । इति क्रमेण पदच्छेदः पदार्थश्चाक् गन्तव्यः. २. 'यस्य पत्रेषु पवनः फले पावकभास्करौ । शरीरमाकाशमयं गौरवे मेरुमन्दारौ ॥' इति रामायणे. तं काव्यमाला। आदौ मारीचमात्रप्रचलितचरणन्यासनिवृत्तरेखें पश्चात्क्रामत्खराश्वद्विरदस्थभटाक्रान्तिवैपुल्यमाजम् । निस्तीर्ण कुम्भकर्णप्रभृतिमिरगमद्वन्धुभिः स्पन्दितैः प्रा- म्यत्कृत्तः पतिवको यमनगरपथं रामबाणं तमीडे ॥ १०२॥ कल्याणं रामबाणः कलयतु भुवनातङ्कनिस्तन्द्रलका- नाथखच्छन्दबन्दीकृतरुददमरस्त्रैणनिर्मोक्षदक्षः । निर्विनारम्भरम्भाकुचकलशपरीरम्भसौख्योपलम्भ- स्निह्यज्जम्भारिसंभावितविनतजनत्राणचातुर्यधुर्यः ॥ १०३ ॥ यश्चण्डीजानिशैलग्रहणकृतधियः खण्डितेन्द्रानिलाग्ने- लकानाथस्य कण्ठानहह कदलिकाकाण्डकत चकर्त । हर्षेणाशेषगीतं त्रिजगति नितरां दृश्यते यस्य तेजः सः श्रेयस्ताटकारेः करतलकलितः सायकः साधयेन्नः ॥१०॥ भासद्भानुप्रभावामिभवपटुरुरुखप्रभाभिर्विघून्व- न्सौवर्गोपप्लवौघोद्भवमृजु सुमनोभावसुप्रापरूपः । पापन्यालोपमायुर्विभवमपि मधुस्वादुवाग्गुम्फमावि- ष्कुर्वन्प्रहेषु बाणो भवतु शुभवहोऽसौ सुबाहुद्विषो वः ॥१०॥ खच्छन्दं यश्चकार प्रबलनिशिचैरव्यूहमारी चलाव- स्थानां लङ्कासमृद्धि प्रतिभटपरिभाव्यूहमारीचलावः । १. निरोष्ट्यवर्णश्लोकः, २. सर्वोच्छ्यवर्णश्लोकः. ३. निशिचराणां व्यूह समूहं मारयितुं शीलमस्यास्तीति निशिचरव्यूहमारी । चलं अवस्थानं यस्यावा लङ्कासमृद्धिम् । प्रतिभटान् शत्रून् परिभवितुं शीलमस्यास्तीति प्रतिभटपरिभावी तादृश ऊहो बुद्धिविशेषो यस्य सः । तथोक्तं मारीचं लुनातीति प्रतिभटपरिक्षा व्यूहमारीचलावः । प्राप्तं सीतारमणकरसरोज येन सः तथोकम् । भजे नस- स्कुर्वे । त्रासितेन तर्जितेन । जम्भजेत्रा इन्द्रेण । सितेन बद्धेन । 'पिन् बन्धने' कः । इति पदच्छेदः पदार्थश्चावगन्तव्यः.

रामबाणस्तवः। ४१ बाणं तं प्राप्तसीतारमणकरसरोजं भजे त्रासितेन ख्यातस्तोत्रेदशास्येऽपि च कृतकदनं जम्भजेत्रा सितेन ॥१०६॥ साभावज्ञानसत्रापहतिनिरतभिल्लोकरक्षाविलासा सालाविक्षारकल्लोलजलधितनुमग्रामसक्ता सदासा । सादासक्ता समग्रा दिशतु शुभमिषुस्तामसघ्नानिरासा सारानिघ्ना समस्ताशरभटनिकरत्रासनज्ञावभासा ॥ १०७ ।। १. सभासंबन्धिनः साभाः सभायोग्याः । महान्त इत्यर्थः । तेषामवज्ञानं अवमानम् । सत्रस्य यज्ञस्य अपहतिः विघातिः । साभावज्ञाने सत्रापहतौ च निरतास्तत्परा मारीचादयः तान्भिनत्तीति साभावज्ञानसत्रापहतिनिरतभित् । लोकरक्षैव विलासो यस्याः सा तथोक्ता। 'इषुर्द्वयोः' इत्यमरोक्तरिषुविशेषणस्यापि स्त्रीलिङ्गता । सालाः सप्तसालाः, अविः शैलः, क्षारकल्लोलजलधिः लवणोमि- समुद्रः, तेषां तनुषु मज्जतीति सालाविक्षारकल्लोलजलधितनुमक् । रामसकः रा. मसंवन्धिनीत्यर्थः । सदा आसो गतिर्यस्याः सा सदासा । असतेर्गत्यर्थादास इति भावे घञ् । पत्रांशे वायुरूपेत्यर्थः । सादो विशरणम् । नाश इत्यर्थः । तेनासका असंवद्धानित्या। आकाशरूपेत्यर्थः । समुज्वलमग्रं यस्याः सा समग्रा । अग्निसूर्यात्मकाग्रत्वादिति भावः । 'यस्य पत्रेषु पवनः फले पावकभास्करौ । शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥' इति रामायणे । तामसघ्नानिरासा । तामसः तमःप्रधानत्वाद्रावण उच्यते । तं हन्तीति तामसनी । 'अमनुष्यर्तृके च' इति इन्तेष्टः । न विद्यते रामस्य सकाशानिरासो यस्याः सा अनिरासा । शत्रून् हत्वा पुनस्तूणीरप्रवेशादिति भावः। तामसन्नी चासौ अनिरासा चेति कर्म धारयः । पूर्वपदस्य पुंवद्भावः । तामसघ्नानिरासा । सा प्रसिद्धा । आरानिघ्रा भरीणां समूहः आरं तस्यानिन्ना अनधीना । 'अधीनो निघ्न आयत्तः' इत्यमरः। शत्रुभिर्वशीकर्तुमप्यशक्ता । 'एतदत्रवलं दिव्यं मम वा त्र्यम्बकस्य वा' इति रामायणोक्कमिति भावः । समस्ताश्च ते आशरभटा राक्षसभटाश्च तेषां निकरस्य समासनं तर्जनं तस्य ज्ञः अवभासः ज्वाला यस्याः सा । खज्वालादर्शनमात्रेण राक्षसास्त्रसन्तीति भाव: पद्मबन्धोऽयं श्लोकः.

२ काव्यमाला । पायात्वीयाभिघातक्षतदशमुखदोर्मध्यमन्दोष्णनिर्य- . द्रक्तात्यन्तोपयोगश्रमभरित इव खामिहस्ते निषण्णः । प्रक्रान्तस्तोत्रशक्राम्बुजभवगिरिशप्रष्ठसौवर्गवर्ग- खैरखाराज्यभोगप्रणयनसुभगं भावुको रामबाणः ॥ १०८ ॥ इति श्रीरामभद्रदीक्षितविरचितो रामबाणस्तवः संपूर्णः । कविवरनरहरिविरचित शृङ्गारशतकम् । शब्दब्रह्ममयी चकास्ति मुरली यत्राद्भुता मोहिनी यत्रास्ते शुकनारदादिनिहितं प्रेमैव पीताम्बरम् । यत्राद्वैतसमाधिमग्नमनसं निद्रामयी श्यामता गोपीलोचनचुम्बितं नरहरेः क्षेमाय धामास्तु तत् ॥ १ ॥ ये केचित्सुधियः सदुक्तिनिधयः संतुष्टवाग्देवता- स्तेषां काव्यरसामृतानि वदने नित्यं वसन्त्येव हि । १. इमौ रामचापस्तव-रामबाणस्तवौ सटिप्पणको तऔरनगरवासिभिः टी. एस्. कुप्पूखामीशास्त्रिभिः प्रेषितौ, रामबाणस्तवस्य प्रथमावधि त्रिंशतिश्लोक- पर्यन्तं च त्रिचिनापल्लिवासिभिः ज. से. नटेशशास्त्रिभिः प्रेषितम्, इति तेषा- मुपकारगौरवं बिमृमः. २. अयं हि कविवरनरहरिः कदा कतमन्महीमण्डलं मण्डयामासेति न निश्चितम्. परंतु खकीयेऽस्मिन्नेवशृङ्गारशतके 'श्रीकालिदास कवितासुकुमारमूर्ते बाणस्य वाक्यमिव मे वचनं गृहाण । श्रीहर्षकाव्यकुटिलं त्यज मानबन्धं वाणी कवेर्नरहरेरिव संप्रसीद ॥ ८९ ॥ इति श्लोके बाणश्रीह- वर्णनेन ताभ्यामर्वाचीनः प्रतीयते. ३. अस्यादर्शपुस्तकं तु महामहोपाध्याय- खर्गवासिपण्डितवरदुर्गाप्रसादशर्मभिरेव संवत् १९४२ मध्ये काशीनाथशर्मणा लेखयित्वा खकीयपुस्तकसंग्रहे स्थापितमासीदिति बोध्यम्.

शृङ्गारशतकम् । तेऽपि श्रोत्रपुटेन वायरसं पातुं सतृष्णाः सदा तस्मादेष रसाधिको नरहरेः काव्यश्रमः सार्थकः ॥२॥ कालिन्दीजलकेलिकौतुकवती नीलाञ्जनश्यामला चञ्चत्केकिकलापकोमलतनुौराङ्गि वेणी तव । वाचाटैः कविभिस्त(स्त्व)दीयसुषमा बाले कथं वर्ण्यतां वाम्मिश्रेणिशिरोमणिर्नरहरिर्यद्वर्णने मुह्यति ।। ३ ।। बाले वीत(चीन)पटाञ्चलेन पिहिता भीमा प्रलम्बा भृशं श्यामाङ्गी मणिमण्डिता फणवती वेणी भुजंगी तव । दष्टोऽयं तरुणस्तया नरहरिस्त्वं मञ्जुहासामृतै- रेनं जीवय सत्वरं शिवशिव प्राणानसौ त्यक्ष्यति ॥ ४ ॥ मुक्तामण्डितकर्णशुक्तिरुचिरे बिम्बोष्ठरत्नाकरे पर्यन्तस्थितनीलकुन्तलवने लावण्यकल्लोलिनि । चार्वङ्ग्या मधुरस्मितामृतनिधौ शोभासमुद्रे मुखे वत्तु(चक्षु)ीनमनोहरे नरहरेश्चेतोनिमग्नं सखि ॥ ५ ॥ दंपत्योर्ननु मौनमेव सुदृढं नामग्रहो न द्वयो- /डा हन्त विलोकने नरहरे तत्रापि तिर्यग्गतिः । सांमुख्ये मुखमावृणोति वनिता भ्रूभगिनी सर्वदा । प्रत्यक्षो रण एव केलिसमये वैरं नु तत्प्रेम नु ॥ ६ ॥ स्मेरास्ये कलया कयापि तरुणे लीलारसप्रार्थके नम्रास्या करवारिजेन वलयं व्यावर्तयत्यङ्गना । मत्कण्ठे मृदुसुन्दरे सवलयं बाहुं निधेहीत्यमुं भावं तस्य महाकविर्नरहरिर्जानाति नान्यो जनः ॥ ७ ॥ रक्तान्येव रदक्षतानि वदने गात्रेपि रक्ता पटी रक्तान्येव नखक्षतानि हृदये रक्ताः कटाक्षोर्मयः ।

काव्यमाला। रक्तोऽयं सविशेषमेव दयितो नित्यानुरक्ता वधू- यूनो रागरसात्मकं नरहरे रागाद्वयं दृश्यते ॥ ८ ॥ मानो मुक्तिमुपागतः प्रथमतः पश्चान्मिलच्चेतसो- मौनं मुक्तिमुपागतं नरहरे मुक्तिं गता कञ्चुकी। नीवी मुक्तिमुपागता रतिरसे मुक्तिं गताः कुन्तला मुक्तिक्षेत्रमिदं महत्परिचितं मुक्तेःसुखं रागिणा ॥ ९ ॥ आलापे मधुरस्मितानि तनुते गृह्णाति कण्ठस्थली तल्पं कल्पयति स्वयं नरहरे सुखिग्धमालोकते । आश्लेषे मृदुसीत्कृतानि कनुते(?) चाचूनि रम्ये रते क्रीतोऽहं कतिधा न किं तदपि मां क्रीणाति लीलाशतैः ॥१०॥ अग्रे नृत्यति हावभावचतुरं नेत्रद्वयं चञ्चलं पार्थे कङ्कणकिङ्किणीप्रभृतयो वादित्रमातन्वते । गायन्ति भ्रमराः सपुष्पकबरीसौरभ्यलुब्धा इमे रामे शंसति कौतुकं नरहरेस्तौर्यत्रिकं ते तनुः ॥ ११ ॥ कान्तिः पावकसंनिभापि सुखदस्पर्शा यथा चन्द्रिका वक्रा(के) वाक्यपरम्परा नरहरे पीयूषधारानिधिः । अत्यन्तं कठिनौ तथापि हृदयानन्दाय वक्षोभवौ दृक्पाता निशिताः शरा इव परं पुष्पाञ्जलिश्रेणयः ॥ १२ ॥ दूरीकृत्य दुकूलमन्त(म्ब)रवरं गाढान्धकारे गृहे संश्लिष्टैव दुकूलकोमलतनुः सर्वात्मना सुन्दरी । गात्रं नाम दुकूलमेव सुदृशस्तेनामुना हेतुना संभ्रान्तस्य दुकूलगो नरहरे स्तं गतः संशयः ॥ १३ ॥ केचित्क्रूरकटाक्षबाणनिहताः संपातिता भूतले केचिद्भाषणमाधुरीहृतधियस्तिष्ठन्ति मोहं गताः ।

शृङ्गारशतकम् । ४५ ये केचित्प्रपलायितुं कृतधियो जालेन ते यत्रिता बालेय स्मरदेवता नरहरे आखेटकं खेलति ॥ १४ ॥ अक्षान्मुञ्चति वल्लभे वलयति स्निग्धान्कटाक्षानियं दायं स्थापयितुं नतस्य वदनं संस्तूय संचुम्बति । सारी मारयति प्रिये रसभृता भावेन सीत्कारिणी नारी सारसलोचना नरहरे सारीफलैः खेलति ॥ १५ ॥ चित्रे कौशलमागता कृतवती पत्रे प्रियस्याकृति प्राणेशस्य मुखं निपीय सुखदं भूयोऽपि संचुम्बति । उद्भिन्ने मकरध्वजे मुहुरियं कण्ठग्रहायाकुला संतापेन समन्विता नरहरे संमूर्छिता दृश्यताम् ॥ १६ ॥ विश्लेषज्वरपीडितान्नरहरे संतापयत्युच्चकै- १ःखं यान्ति यथा यथा विरहिणो मारस्तथा मोदते । वामाङ्गीकृतशैलराजतनयं पश्यन्भवं भस्मसा- जातोऽयं वयमेव भूतपतिना नायं कृतो भस्मसात् ॥ १७ ॥ न्यस्ताः कङ्कतिकापथि प्रणयिना भूयोऽपि कृष्टाश्च ते निम्नत्वं न हि यान्त्यमी नरहरे हर्ष गताः कुन्तलाः । वेणी नाम कथं घटेत रमणी वन्धाय जातोद्यम- स्तत्प्रेम्णा शिथिलीकृते भुजयुगे बन्धः कथं सिध्यतु ॥१८॥ नेयं पश्यति मां तथापि सदयं संपश्यति भ्रूयुगं मौने तिष्ठति मानिनी तदधरः संभाषते मां प्रति । गाढाश्लेषविधिं करोतु न वधूर्वक्षस्तु रोमाञ्चितं हासं नैव तनोतु हे नरहरे नीवी हसत्युच्चकैः ॥ १९ ॥ वामाजीवदने विलोचनमृगद्वन्द्वं मया वीक्षितं तेनैतन्मुखचन्द्र एव सुमते सत्यो मृगाकः किल ।

१६ काव्यमाला- चन्द्रे नास्ति मृगस्ततो नरहरिस्तर्कान्वितं भाषते चन्द्रे चन्द्रपदप्रसङ्गवशतो जाता मृगाप्रथा ॥२०॥ वामांसे लुलितः किरन्परिमलं बन्धश्लथः कुन्तलो निद्रापाटलघूर्णिते सरसुखध्यानालसे लोचने । बिम्बोष्ठो नवलाञ्छनः सरमसं रोमाञ्चितावकितौ वक्षोजौ नखलेखया नरहरेरानन्दमातन्वते ॥ २१ ॥ भाखत्कुन्तलभारसौरभमिलद्धङ्गालिझङ्कारकै- लीलान्दोलितबाहुकङ्कणरणत्कारप्रकारैरपि । उद्दामस्मरकेलिकौतुकचलन्मञ्जीरम खनैः सीत्कारैर्मुदुसुन्दरं नरहरे बालारतं राजते ॥ २२ ॥ कोणे कापि दिशोभृशं नरहरे तारुण्यलक्ष्मीभृतो वक्षस्यम्बुधरस्य संभ्रमवतीमुद्वीक्ष्य विद्युल्लताम् । तत्कालस्मरलोलकाञ्चनतनुर्धन्योरसि प्रेयसी गङ्गावारितरङ्गिता हिमरुचो लेखेव सा खेलती ॥ २३ ।। गम्भीरोऽपि समुत्सुको गुरुजनः शोभा नवामीक्षितुं यात्यायाति मुहुर्मुहुर्नरहरे स्मेरः सखीनां गणः । वेषः सर्वरहस्यभावपिशुनो जाताः प्रकाशा दिशः सिद्धिं यातु कथं मनोहरतनोः केलीगृहान्निर्गमः ॥ २४ ॥ चातुर्येण चकोरचञ्चलदृशा नूनं दृशां विभ्रमैः सान्द्रस्नेहरसालसैनरहरे रागी वशं प्रापितः । शय्याभूषणभोजनेषु विरसः संयोगचिन्तातुरः सर्वा विस्मृत एव देहरचनां शून्यं मनो वर्तते ॥ २५ ॥ आदर्श वदनं प्रियस्य वदनं संयोज्य संवीक्षितं सद्यः संमिलितं स्मितैर्नरहरे हर्षादुभाभ्यामपि ।

शृङ्गारशतकम् । ४७ प्राणेशस्तु गतो विदेशमधुना मत्पातकैर्दारुणै. रादर्शस्य किमु प्रयोजनमिति द्वेषेण दूरीकृतः ॥ २६ ॥ त्वं मां मुञ्च दयां विधेहि विरहेत्यालप्य वामझुवा विश्लेषाय समर्पिता नरहरे स्थूलाश्रुमुक्तावली । मूर्खः प्राणपतिर्विदेशरसिको धाम स्मरत्येव न प्राणानेव जिघृक्षुरेष स कथं दानादिना शाम्यति ॥ २७ ॥ ज्वालाभिर्वलितं जगत्रयमिदं मध्यं दिने मूर्छिता यान्त्यायान्ति न मानुषा नरहरे चण्डो रविदीप्यते । कासारे किमु चक्रवाकमिथुनं विश्लिष्टमालोक्यते कौमुद्यामिति संस्थिता विरहिणी व्यामोहमाविन्दति ॥ २८ ।। संलापावसरे स्फुटं नरहरे दृष्टं शिरश्चालनं दंपत्योर्वचने कदाचन मुदा हुंकारमाख्याति च । तेनायं पिशुनस्तृतीयमुचितं नैव द्वयोरावयो- दूरीकृत्य सखीजनं वनितया दीपोऽपि निर्वापितः ॥ २९ ॥ पूर्व तु स्नपितं विलोकनसुधाधाराशतैः शीतलैः पश्चाच्चन्दनचर्चितं नरहरे मुक्ताक्षतैरचितम् । पुष्पैः पूजितमेव शंभुयुगलं किंतु स्फुरत्पाणिजै- दन्ताश्चन्द्रकलाः शिवप्रियतमास्तत्पूजनं पूजनम् ॥ ३० ॥ अस्या नीलसरोजरम्यनयने नीलं यथैवाञ्जनं जात्या चन्दनशीतले स्तनतटे श्रीखण्डलेपो यथा । गात्रे काञ्चनपत्रसुन्दरतरे भूषा यथा काञ्चनी बिम्बोष्ठेऽपि तथा न किं नरहरे ताम्बूलरागप्रभा ॥ ३१ ॥ कुर्वन्नैव महोत्सवं नरहरे कामाधिकैः संप्रमैः कामिन्यै मिलनस्य पृच्छति सुखं प्राणेश्वरः कौतुकी ।

8 काव्यमाल। वक्तुं नार्हति लज्जया परवशा संमीलयन्ती शौ कर्णे तस्य तु किङ्किणीकलरवस्तस्याः सुखं शंसति ॥ ३२ ।। नाथं नन्दयितुं सखे नरहरे माणिक्यमञ्चे स्थिता वीणां वादयति स विस्मयमयीं जेगीयमानाङ्गना । गाने स्नेहसमन्वयः समधिको वीणाकणे नास्त्यसौ तुल्यत्वे सति तारतम्यमनयोः सुज्ञेन विज्ञायते ॥ ३३ ॥ लावण्यैकनिधे विनोदजलधे मीनाक्षि मन्दस्मिते नानाविनमनायके नरहरिर्दासानुदासस्तव । आज्ञाकारिणि किंकरे परिसरे प्राणान्तपर्यन्तिनी दुष्प्रेक्षा दृढमानबन्धरचना रामे किमर्थ कृता ॥ ३४ ॥ उच्चैर्मन्दिरमुज्ज्वलं समुदितः पूर्णः पुरश्चन्द्रमाः प्रेमास्तरुणः सखे नरहरे रूपाधिका नायिका । पर्य” स्फुटफेनदुग्धधवले मञ्जुस्मितालंकृता लीलाः साधु निपीय हर्षजलधौ मनः सखीनां गणः ॥ ३५ ॥ पूर्व चारु निरीक्ष्य पाणिकमलेनामृश्य संबोधितः पश्चात्खेलनलीलया मृदुपदैः सस्नेहमध्यापितः । क्रीडापञ्जरयन्त्रितो नरहरिनक्तं यथा लालितः क्रीडापञ्जरयनितो वनितया कीरस्तस्था लालितः ॥ ३६ ॥ चन्द्रे लोचनगोचरे सुखनिधे सा निश्चिनोत्यामनं कञ्चुक्या हृदि संवृतप्रणयिनं निःसंशयं लिप्यति । कीरे कुर्वति संकथां प्रियतमं संभाषते संभ्रमैः पद्मं चुम्बति चेन्मुखं नरहरेश्चुम्बत्यसौ तन्मयी ॥ ३७ ॥ तेना."न्वय ............"स्य कवेरिवोक्तिरबला किं ते रसं दास्यति ।

शृङ्गारशतकम् । ४९ संप्राप्तानुनया विलासरसिका शृङ्गारहाराञ्चिता साहित्येन समन्वि[ता] नरहरेर्वाणीव सा सेव्यताम् ॥ ३८ ॥ जानाम्येव यथा सुखं सुखनिधेः सांनिध्यतो लभ्यते तादृङ् नास्ति सुखं सखे नरहरे लोकेशलोकेऽपि न । किंतु प्राञ्जलिरेष नम्रनयनो विज्ञापनामाचर- न्कान्तश्चाटुचमत्कृतानि तनुते मानस्तदर्थो मम ॥ ३९ ॥ अथ स्रग्धरा- केयं काश्मीरगौरी सकुसुमयमुनावर्तकान्तालकान्त- ग्रन्थिः पूर्णेन्दुवक्रा नवमृगनयना पक्कबिम्बाधरश्रीः । मन्दस्मेरा सुपीनस्तनभरविनमन्मुष्टिमेयोदरश्रीः श्रोणिप्राग्भारगुर्वी नरहरिहृदयानन्दिनी मन्दमेति ॥ ४० ॥ भाले कस्तूरिकाभो वदनसरसिजे नीलचैलाव(नाञ्च)लाभः कण्ठे काचव्रजाभः कुचकलशयुगे कञ्चकीसंगमाभः । श्रोणीशैलेऽम्बुदाभो नरहरिमनसि प्रेमपाशप्रकाशो लक्ष्मी धत्ते नवीनां दिशि दिशि लुलितः कामिनीकेशपाशः ४१ रक्ताम्भोजं हसद्भिः करचरणतलैर्लोचनश्यामपद्मा हेमाम्भोजाभिरामं मुखमनुदधती बालरोलम्बलक्ष्मीम् । नीरक्रीडानुरक्तस्मरनिहितघटद्वन्द्ववक्षोभवाङ्का पुण्यैरालोकितेयं नरहरिहृदयानन्दिनी रूपवापी ॥ ४२ ।। चन्द्रश्रीतस्करं तन्मुखमथ नयने तस्करे मीनकान्तेः कुन्दश्रीतस्करेयं रदरुचिरधरस्तस्करो बिम्बभासः । बिस्वश्रीतस्करौ द्वौ वपुरपि निखिलं तस्करं हेमलक्ष्म्या 'वस्त्रैराच्छादितोऽयं कलय नरहरे तस्कराणां समूहः ॥ ४३ ।। ४ द्वादशगु० ५० काव्यमाला। अथ मन्दाक्रान्ता- तामुत्तुङ्गस्तनभरनमन्मध्यभागामरालै- रासिञ्चन्ती नयनवलनैः कामिकामाखरालीम् । पूर्णप्रेम्णा रहसि मिलितामुखरोमाञ्चरम्या कामप्यतः(न्तः) कविनरहरे कामिन(नी) कामयामि ॥४४॥ नासाभित्तिश्रवणविवरैर्वारितं दीर्घभावा- नेत्रद्वन्द्वं चतुरचपलं कस्य नाकर्षणाय । 'स्तानं दशनवसनं कं न कुर्याद्वशं वा हासोल्लासः[..."]नरहरे कस्य नो विस्मयाय ॥ १५ ॥ नम्रं कृत्वा मुखहिमरुचिं पद्मपत्रेक्षणायाः संपश्यन्त्याः स्फुरितमधुरं नीविवन्धं स्मितेन । लीलारङ्गं कविनरहरौ याचमाने नितान्त- स्तूष्णीं भावः कथयति सखे लालसं खेलनेषु ॥ ४६ ॥ अथार्याः- चौरसुजनप्रसङ्गे बन्धश्चौरस्य नरहरे नियतः । मदनमहीपतिराज्ये चैौरैः सुजना निबध्यन्ते ॥ १७ ॥ तृष्णातरलितचक्षुः पश्यति सरसी यथा पथिकः । एवं यदि सरसी स्यान्नरहरिरुपमा ब्रवीतु दम्पत्योः ॥ ४८ ॥ रमणगृहं प्रति रमणं मयनं नयति स्म नम्रमयनायाः । नयनेम मयनमस्या नयनपदं नरहरे भजति ॥ १९॥ आ ईषमनुवाणीमानममङ्गीचकार परिरम्भे । तेनैवाननमस्या आननमिति नरहरिर्वदति ॥१०॥ परिपूर्णचन्द्रलक्ष्या यदास्यते मुख्यमासं तत् । सव तन्धि वागावं नरहरिरन्यत्र लक्षपापपति५१ ॥

शृङ्गारशतकम् । ५१ नरहरिहृदय इवास्या विनिमज्जन्त्या रसाधिके सरसि । दर्शितरङ्गतरङ्गः प्रससार निरन्तरः खेहः ॥ ५२ ॥ त्वं हावभावसहिता नरहरिकवितेव मञ्जुलं वदसि । श्लेषे न कुरु विलम्ब शेषो हि सुखार्णवः सुमुखि ॥ ५३ ॥ चन्दनघनमलयद्धयसौरभलाभाय भुजगवनितेयम् । मृदु चलति नाभिकुहरान्नरहरिराख्याति सेमराजिरिति ॥५४ ॥ सुखमिति वक्तुं युक्त मुखमिति स लिपेर्विपर्यासः ॥ ५५ ॥ नरहरिकरेण गलिते नीवीबन्धे सुवर्णवर्णायाः । हरभस्मितोऽपि मद्नो जन्म नवीनं पुनः प्राप ॥ ५६ ॥ क्षीणतया न हि खिद्यति नरहरिरभ्यागतः स्वगृहे । परिचेष्यते कथं मामिति वनिता दुःखिता भवति ॥ ५७ ॥ पल्लरमत्रितचञ्चलचकोरचर्याञ्चितं चक्षुः । भवनगवाक्षगताया नरस्टिवलोक्य विस्मयं विशति ॥ ५८ ॥ अथ प्रहर्षिणी- बिम्बोष्ठे करच[रणे सुरक्तवर्णा रोमालीचिकुरकवाक्षकृष्णकान्तिः । अत्यच्छा स्मितविषये विमोहनीयं निर्णीता नरहरियाा मुकुन्दमाया५९ बध्नन्ती करकमलेन केशपाशं पश्यन्ती मणिमुकुरे मुखारविन्दम् । मीनाक्षी कुदिलकटाक्षखद्धारानिक्षेपानरहरिमञ्जसा जघान ।। ६०॥ चार्वझ्या नरहरिराहतो विहारे मञ्जीरक्कणितपत्ता पदाम्बुजेन । संसिक्तः स तु सुधयैव मोदमानः प्रागल्भ्यं द्विगुषमवाप खेलनेषु ६१ धम्मिल्लस्थलविगलपसूनजाय कस्तूरीतिलकलसद्विशालभाला । एकान्ते नरहरिशंगमे रसाल बाला सिा) मदनकाविलासशाला ६२ ५५ काव्यमाला अथ मालती- निरवधिरतिरङ्गप्रेमरोमाञ्चिताङ्गी कतिपयरदरेखारम्यबिम्बाधरश्रीः। स्फुरति हरिणनेत्रा हारिहावा हसन्ती नरहरिसुखमूर्तिस्तस्करा चित्तवृत्तेः ॥ ६३ ॥ नरहरिकविराजव्याजतः शारदेयं कथयति बत भावं कामिनी कुन्तलानाम् । तरुणशकुनिहिंसाकर्महेतोः किलेयं [स] विषशरकिरातव्यातता वागुरन्ति ॥ ६४ ।। किमपि नयनशोभा नाम पानीयमस्या लसति नयनयुग्मे कृष्णसारेक्षणायाः। नरहरिकविरेवं वक्ति कृत्वा विचार किमु सरिति न तावत्सागरे सप्तमेऽपि ।। ६५ ।।। कलय कनकवल्लीतुल्यभासोऽङ्गनायाः कुटिलतरकटाक्षप्रेरणाशृङ्खलाभिः । जिगमिषुरपि यत्र वापि काम विलासी नरहरिकविराजो नागराजो निरुद्धः ॥ ६६ ॥ अमलकमलशोभाखण्डने पण्डितेयं तुहिनकिरणलक्ष्मीजित्वरी तुण्डकान्तिः । नरहरिकविराजः कामलोलः कदाहं मधुरमधरमस्याः केलिकाले पिबेयम् ।। ६७ ॥ दशति मृदु धुनीते कुन्तलं मञ्जुवाणी धयति मधुरमोष्ठं रम्यरोमाञ्चितेन ।

शृङ्गारशतकम् ।
५३
रचयति रचनाभिर्भावसंभाविताभि-
नरहरिपरिरम्भे संभ्रमं सारसाक्षी ॥ ६८ ॥
झगिति न कितवानां संभवैः संभ्रमानां
नरहरिकविचेतश्चेतसा चन्द्रमुख्याः ।
नयननलिनपाली संप्रनालीसमेतं
सलिलमिव सरस्योः सामरस्यं समेति ॥ ६९ ॥
सविनयमनुवारं वच्मि कृत्वा विचार
नरहरिपरिहारं मा कृथा दुःखभारम् ।
हृदि कुरु नवहारं मुञ्च कोपप्रकारं
कुरु पुलिनविहारं
सुभ्र
संभोगसारम् ॥ ७० ॥
अथ पृथ्वी-
सहैव हरिनामभिर्ननु न पाठितामप्यसौ
प्रियावचनमाधुरी किल पपाठ कीरः सुधीः ।
न सन्ति कति पक्षिणो नरहरे शुकः केवलं
लभेत कथमन्यथा वचनमाधुरीमीदृशीम् ॥ ७१ ॥
यदा नरहरिस्तया ललितहासमङ्गीकृतो
विलासरसरञ्जितैः स्मरतरङ्गितैरक्षिभिः ।
दृगन्तकुसुमोत्करैः सकुतुकं सखीभिः कृतं
तदैव करतालिकागणझणत्कृतैर्मङ्गलम् ॥ ७२ ॥
अथ वसन्ततिलकम्-
वेणीधृतां नरहरिः कविनायकोऽपि
श्यामच्छविं न किल वर्णयितुं समर्थः ।
यद्गौरवेण कनकद्रवगौरगात्री
श्यामापदं शिरसि चन्द्रमुखी बिभर्ति ॥ ७३ ॥

'काव्यमाली।
कर्णान्तदीर्घनयना नयनाभिधाने
द्वेर्षिके मरहरे रसपूरपूर्णे।
लज्जाभिधा ललितनावमिहाधिलढो
रत्या समं विहरते मदनो विनोदी ॥ ७ ॥
एकार्णवे भवति नाम वरावरस्य
श्रीकेशवौ रहसि केलिरसं भजेते ।
एकार्णवे हि तमसोऽपि धने निशीथे
लीलारसं नरहरे तरुणी मजेते ॥ ७५ ॥
आलक्ष्य दर्पणतले दयितेन दत्त
बिम्बाधरान्तरदनक्षतचारुभावम् ।
चन्द्रानना नरहरे प्रणयप्रमोदा-
दिन्द्रासनस्थितिसुखानि तिरस्करोति ॥ ७६ ॥
मन्दोदरी मदनताण्डवपण्डितन
सुण्डेन कुण्डलवता रदखण्डितेन ।
रागारुप्पा नरहरे रतिरङ्गरम्य
रामा रसेन रमणं रमयांचकार ॥ ७७॥
लीलां विधाय रतिराजरसाभिरामां
लीलान्तरे नरहरौ ननु याचमाने ।
भ्रूभारङ्गरुचिरे वनितावितीर्ण
ताटङ्कताण्डवसुखं कथयामि कस्मै ।। ७८ ॥
प्रक्षीणमध्यविशदस्तनतुङ्गभावा
कन्दर्पददरमन्थरलोचमश्रीः ।
हेमाचलस्थलविशालनितम्यविम्या
विम्बाधरा नरहरे«दयं विमोति ॥ ७९ ॥

शृङ्गारशतकम् ।
अत्यन्तचीनवसनेन पिधाय कायं
निद्रां गता समणिभूषणभूषिताङ्गी।
प्रत्यक्षतोऽपि परमां रुचिमावहन्ती
चन्द्रानना नरहरेनयने जहार ॥ ८० ॥
मञ्जीरमुग्धमरुणं चरणारविन्दं
मन्दं निघाय वदनं परिवर्तयन्ती।
आलोकितुं नरहरि भ्रमराभिरामै-
नेवैरियं निभृतमातुरता व्यनक्ति ॥ ८१ ।।
स्निग्धेन लोचनयुगेन यथा रतान्ते
दृष्टस्तया नरहरिः स्मरकेलिदक्षः ।
एणीहशा किल तथैव कटाक्षितोऽसौ
पुष्पाञ्चितो विलुलितो धनकेशपाशः ।। ८२ ।।
कण्ठे निधेहि नवचम्पकदामरम्यं
तुङ्गौ स्तनौ मम विलेपय चन्दनेन ।
एवं वचो नरहरि प्रति तेऽनुरूपं
रूक्षस्य हन्त वचसः सखि नावकाशः ।। ८३ ॥
सौन्दर्यकुण्डमषले तव नाभिकुण्डं
रोमावलीपरिसरे मृदुशालश्रीः ।
पातुं गतं नरहरेर्नयनद्वयं चे-
नैवागतं सुतनु तर्हि निमममेव ॥ ८४ ॥
पातुं क्षमो नहि पुरो विहितापराधः
केशप्रसाधनविधानपरो बभूव ।
व्यावृत्य सापि झटिति स्मरवाणनुन्ना
जग्राह तं नरहरेः करपञ्जरेण ॥ ८५ ॥

५५
काव्यमाला ।
खैरं निपीय वदनं मदनाभिरामं
लीलारसेन चिबुकं स्पृशति प्रवीणे ।
खीयं वपुर्नरहरे सकलं समर्प्य
नानृण्यमाप सुमुखी सुखदस्य तस्य ॥ ८६ ॥
यूना प्रणम्य चरणौ शिरसा गृहीतौ
संचुम्बितौ नयनयोरपि योजितौ च ।
जाता प्रसादसुमुखी चरणान्तरेण
जग्राह यन्नरहरेः सघनः प्रसादः ॥ ८७ ॥
निद्रां गतापि नयनप्रियमेव कृष्णं
निनादरान्नरहरे हृदि लालयन्ती ।
स्वप्नेऽपि जागरकथामनुभूय राधा
न स्वप्नजागरविभेदमुरीचकार ॥ ८८ ।।
प्राणाधिके झटिति संमुखमागते सा
चैलाञ्चलेन हि बभूव कृतावधाना ।
लज्जाञ्चलेन विदधे वदनं तथेयं
रागी यथा नरहरे पिहितं विवेद ॥ ८९ ॥
श्रीकालिदासकवितासुकुमारमूर्ते
बाणस्य वाक्यमिव मे वचनं गृहाण ।
श्रीहर्षकाव्यकुटिलं त्यज मानबन्धं
वाणी कवेर्नरहरेरिव संप्रसीद ॥ ९० ॥
धम्मिल्लबन्धमवलोक्य सुगन्धसिन्धुं
विद्यावतो नरहरेरुदितो वितर्कः ।
साकं विचित्रसुमनोभिरुदारकेश्या
बद्धानि किं नु सुमनांसि रतिप्रियाणाम् ॥ ९१ ॥

शृङ्गारशतकम्।
धम्मिल्लबन्धमवलोक्य विलासवत्याः
किं राहुरेष इति संवलितः क्षणेन ।
चन्द्राननावदनचन्द्रघनप्रसादै.
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९२ ॥
चन्द्राननावदनचन्द्रविलोकनेन
चन्द्रोऽयमेव जगतीति हृदि प्रवृत्तः ।
लीलाचलन्नयनखञ्जनदर्शनेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९३ ॥
बालाविलोचनमृगद्वयदर्शनेन
जातोऽपि कोमलमृगद्वयपक्षपाती ।
कन्दर्पकेलिचतुरेण निरीक्षणेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९४ ॥
मन्दस्मितामृतमहारसपूरपूर्णे
वामाधरे नरहरेरुदितो वितर्कः ।
अस्याः सरोरुहदृशः किमु भालवर्ती
सिन्दूरपूरतिलकः प्रतिबिम्बितोऽयम् ॥ ९५ ॥
शोणेऽधरे नरहरेः कवितारसेन
स्यात्पद्मराग इति संवलितो वितर्कः ।
पीते तदैव किल तत्र सुधारसाले
दूरीकृतो मधुरतागुणसेवनेन ॥ ९६ ॥
वक्षोभवे नरहरेर्मनसो वितर्को
जातोऽपि हेमकलशद्वयपक्षपाती ।
दूरीकृतो झटिति लोलविलोचनाया-
श्चन्द्रार्धसुन्दरनखक्षतलक्षणेन ॥ ९७ ॥

१८
काव्यमाला
नास्त्येव नूनमुदरं किसु किंचिदस्ती-
त्येवंविधस्तरलितोभयपक्षपातः ।
रोमावली कलयता करपल्लवेन
: दूरीकृतो नरहरेरुदितो वितर्कः ॥ ९८॥
खैरं निपीय रुचिरा तनुरोमराजी
चित्ते भृशं नरहरेरुदितो वितर्कः।
अत्यन्तभाखरतया वपुषोऽङ्गनाया
घेणी विनीलविषयः प्रतिबिम्बितोऽयम् ॥ ९९॥
किं वा मृदूनि कुसुमानि किमु प्रिया स्या-
देवंविधः कुसुमतल्पगतस्य यूनः ।
उत्तुङ्गपीनकठिनस्तनमर्दनेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १० ॥
हस्तावलोकनविधौ स्फुरितोऽपि दैवा-
दुत्फुल्लकोकनदयुग्मकृतावधानः ।
रत्नाङ्गुलीयनखराजिनिरीक्षणेन
दूरीकृतो मरहरेममसो वितर्कः ॥ १०१ ॥
जवाद्वये जघनसुन्दरदर्शनाया
रम्भादयं किमु भवेदिति संप्रवृत्तः ।
स्पर्शेन कामसुखदेन विनोदभाजा
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०२ ।।
संचारचारुचरणद्वयसंनिधाने
हंसदयं किमु भवेदिति संप्रवृत्तः ।
हंसखनप्रजयिहंसकसि(शि)जितेन
दूरीकृतो नरहरेरुदितो वितर्कः ॥ १.३ ॥

शृङ्गारशतकम् । ५९ ताटङ्करत्नरचनामवलोक्य रम्या- मेवंविधो नरहरेरुदितो वितर्कः। कन्दर्पशास्त्रपठितानि वसन्ति मन्ये रत्नानि विभ्रमविलासरसात्मकानि ॥ १०४ ।। लोका वदन्ति सखि रत्नललन्तिकेयं तुङ्गस्तनान्तरगता हृदि राजतीति । ताम्बूलचर्वणरसप्रतिबिम्बरूपं तर्काधिक नरहरेर्मतमन्यदेव ॥ १०५ ॥ किं मानवीयमथवा स्मरदेवतेय- मेवंविधो मनसि ते लसितो वितर्कः । तत्खण्डन नरहरे न तवास्ति युक्तं सत्यं हि सा सुवदना स्मरदेवतैव ॥ १०६ ॥ शाटी लसत्कुसुमचित्रवतीं वसाना- मालोकितुर्नरहरेरुदितो वितर्कः । रङ्गस्थली गमयितुं कुसुमायुधेन क्षिप्तैर्विचित्रकुसुमैरिव संवृताङ्गी ॥ १०७ ॥ अध्यापितः करतले कलितः किलायं कीरस्त्वया कुवलयाक्षि कुतूहलेन । अध्यापनेन जनिता स्वरमाधुरीदं तत्वं परं नरहरिः सखि वेद नान्यः ॥ १०८ ॥ पाणौ स्थितो नरहरे मुकुरोऽङ्गनायाः कर्तु छलेन वदनं ननु सद्वितीयम् । तेनैव हन्त मुखकान्तिपराजितेन विस्पष्टमेव कथितं मुखमद्वितीयम् ॥ १०९॥ .

६० काव्यमाला। भाले विधाय तिलकं तव कुङ्कुमेन कण्ठे निधाय दयिते नवरत्नम(मालाम्)। नीराजनां नरहरिर्वितनोति नेत्र- रद्यापि किं न कुरुषे सुमुखि प्रसादम् ॥ ११० ॥ कण्ठे लगन्तमधरामृतपानलोलं लीलाकुलं नरहरि प्रति संभ्रमेण । दूरे भवेति वचनं यदुवाच वामा मन्ये तदेव निकटे भवलक्ष्यतुल्यम् ॥ १११ ॥ अथ प्रान्ते शिखरिणी- तया मुक्तः श्वासस्तदभिमुखमाधाय वदनं तदन्यासंपर्क स्वकृतमपि सस्मार दयितः । हिया नने तस्मिन्कृतवति नतिं मानसमयीं प्रसादं कुर्वाणा सखि नरहरे साम विदधे ॥ ११२ ॥ अलिश्यामं व्योम स्फुटमृगमदः प्रच्छदपट- परिस्तीर्णास्ताराः सखि नरहरे ताः सुमनसः । अनल्पोऽयं तल्पः सरसरमणी किंच रजनी कलानाथो नाथः कलय समयोऽयं रसमयः ॥ ११३ ॥ चमत्कारं कुर्वन्प्रतिपदमलंकारसहितः पदन्यासो यस्याः प्रकृतिमधुरो भावरुचिरः । निदानं तादृश्या गतिगमकवित्रां(?) बलभृतः समुद्रः पद्मायाः सरसकविताया नरहरिः ॥ ११४ ॥ शृङ्गारशतकशतकं यदपि निरुक्तं पुरातनैः कविभिः । तदपि तुलां नारोहति नरहरिशृङ्गारशतकस्य ॥ ११५ ॥ इति [श्रीकविवर]नरहरि(विरचितं] शृङ्गारशतकम् ।

१ पद्धतिः] भिक्षाटनकाव्यम् । ६१ उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम्। प्रथमा पद्धतिः। कल्याणमावहतु वः शिवयोस्तदेकं गात्रं यदीयमसितच्छविकण्ठमूलम् । वामेतरेऽपि कुरुते सितभासि भागे प्रारब्धशैलतनयापरिणामशङ्काम् ॥ १ ॥ कार्य क्षिणोतु भवतां परमेश्वरस्य मिक्षाटनं तदनुसंहितदेहिशब्दम् । यन्मानिनामपि विधेर्विपरीतभावे याच्योक्तिदैन्यसहमेव मनश्चकार ॥ २ ॥ सद्यस्तुषारगिरिजौषधिसेवयेव यः खोपभुक्तगरलं शमयांचकार । अन्यैरशक्यशमनाजननामयाद्वः प्रायादपायनिलयादयमादिवैद्यः ॥ ३ ॥ नित्यं करोतु भगवान्स करीन्द्रवत्रः प्रारभ्यमाणशुभकर्मविघातलोपम् । १. अस्य च कवेः 'उत्प्रेक्षावल्लभः' इति नाम कव्यन्तरदत्तमेव प्रतीयते. वास्तविक नाम तु प्रथमपद्धतिसमाप्तिपद्यदर्शितं 'शिवभक्कदासः' इति भवेत्. यथा नवमगुच्छकमुद्रितषष्ठकाव्यसुन्दरीशतककर्तुः श्रीगोकुलस्य 'भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्विजद्वारा। श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लमेत्यभिधा ॥' इति लोकदर्शितमुत्प्रेक्षावल्लभनाम. अस्य देशकालौ न ज्ञायेते.

१२ दोषानुषङ्गरहितः स शिवोऽपि यस भृङ्गेषु गण्डतलचुम्बिषु साभ्यस्यः ॥ ४ ॥ वाल्मीकिरस्तु विजयी प्रथमः कवीनां तस्यानुसारसरलः स च कालिदासः । अन्ये भवन्तु जयिनः कवयोऽथ मा वा एषां कृतः कृतिषु नैव मयावगाहः ॥ ५ ॥ सन्त्येव सूक्तिरसिका बहवो मनुष्याः ख!कसो नवसुधारसनिर्वताश्च । तौ दुर्लभौ कविवचःस्खलितस्य सोढा मर्येषु सागरगरस्य च यः सुरेषु ॥ ६ ॥ भूयानसत्कविजनो जगतीति खेदा- न्मौनग्रहः सुकविभिनं कदापि कार्यः । काकैरसह्यनिनिदैनिचितेऽपि लोके किं कोकिला विदधते नहि कूजितानि ॥ ७ ॥ दुर्दान्तदुर्जनचिते भुवने नराणां प्रायो वरं विकलतैव कलोपपते। राहुग्रहेण न कदापि कलाविहीनः पूर्णस्तु हन्त परिभूयत एव चन्द्रः ॥ ८॥ एकेन सूक्तिमपिना हृदयंगमेन प्राज्ञस्य सत्कविपदं कुकविः प्रयाति । चक्षोगतेन मणिनेष परस्य पुंसो रत्नाकरत्वगणना लवणार्णवस्य ॥९॥ नापेक्षते महृदपि प्रथमानदोष निर्वोपमल्पमपि नन्दति बस्तु लोकः ।

१ पद्धतिः] भिक्षाटनकाव्यम् । ६३ - मूर्धा विभर्ति कृशमप्यनिशं सुधांशु शंभुः कलङ्करहितं न तु पूर्णविम्बम् ॥ १० ॥ सर्वे खलास्तिलकयन्तु चिराय पृथ्वी यत्संभवो बहुमतेः सुजनेषु हेतुः । घोरेषु धर्मदिघसेष्वतिलखितेषु छायादुमान्मृगयते नहि कोऽपि मर्त्यः ॥ ११ ॥ सन्तः क्षतानि जनयन्तु यथेष्टमस्या- माभाति तैरधिकमेव सरखती मे । दत्तं क्षतं प्रियतमैरुपभोगकाले किं मण्डनाय न भवेद्वरसुन्दरीणाम् ॥ १२ ॥ सन्त्येव केऽप्यमितवाङ्मयदुर्विदग्धा- स्तेषां पुरः सुकविभिः खगिरः प्रकाश्याः । । तेजस्यपि प्रवितते सति तिग्मरश्मे- र्मुश्चन्ति केचिदुपला निजमल्पतेजः ॥ १३ ॥ भूत्वा चिरेण गलिताः कति नाम सन्तः पृथ्वीश्वराश्च कति नाम तथेतरेऽपि । अद्यापि कीर्तिवपुषः कवयः पृथिव्यां जीवन्ति तेष्वभिहितस्तुतयोऽथवा तैः ॥ १४ ॥ मा मा परस्त्र विषये विषसेक्षणे मे तस्मिन्सदा प्रततु हीनगुणापि वाणी। । यो मूर्ति मुघलयो जनराहणीयां धत्ते सुधांशुकलयैव सहास्थिमालाम् ॥ १५ ॥ आकर्णयन्तु मम सूक्तिविदः प्रक, तैनन्द्यतां पुनरयं खल्ल निन्द्यतां वा ।

काव्यमाला। तत्कर्णगोचरतयैव भवेदरीया- नस्माकमस्तु सफलो रचनाप्रयासः ॥ १६ ॥ वृत्तं वसन्ततिलकं विषयः शिवस्य भिक्षाटनं कविरसौ शिवभक्तदासः । शृङ्गार एव हि रसस्तदिह प्रबन्धे श्रद्धा न कस्य यदि सूक्तिविनोदशीलः ॥ १७ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये काव्यमुखपद्धतिः प्रथमा । द्वितीया पद्धतिः। भिक्षाटनेन पुरुहूतपुराङ्गनाना- माकस्मिकोत्सवविधायिनि भूतनाथे । तासामनङ्गशरजर्जरमानसानां नानाविधानि चरितानि वयं वदामः ॥ १॥ रथ्यागतस्य गिरिशस्य विलोकनाय निर्गन्तुकाममनसो वनिता गृहेभ्यः । नैजाभिरूप्यगुणदर्शितपौनरुक्त्य- माचार इत्यभिमतं परिकर्म चक्रुः ॥ २ ॥ चन्द्रस्य संचितकलस्य शरत्प्रसादो गन्धद्विपस्य च पुनर्मदिरोपयोगः । प्रागेव यौवनपरिष्करणे शरीरे भूयोऽपि भूषणविधिः प्रमदाजनस्य ॥ ३॥ लाक्षांधयातुमवलम्बितमात्रमेव सख्याः करेण तरुणाम्बुजकोमलेन । १. 'शिवदासदासः' इति पाठान्तरम् ।

२ पद्धतिः] मिक्षाटनकाव्यम् । ६५ ॥ ईशान्तिकबजनविघ्नभुवा रुषेव कस्माश्चिदग्रपदमाशु बभूव रक्तम् ॥ ४ ॥ कस्याश्चिदग्रपदमाशु सखी विधाय लक्षिाक्तमेकमपरग्रहणे प्रसक्ते । आरञ्जितेतरविवेकमपारयन्ती कर्तुं मुहूर्तमनयोः स्तिमितावतस्थे ॥ ५ ॥ कस्याश्चिदञ्चितदृशश्चरणारविन्दे नैपथ्यकर्मनिपुणेन सखीजनेन । आमुक्तमेव मणिनूपुरमुन्मदस्य मुक्तःक्षणेन निगलो मदनद्विपस्य ॥ ६ ॥ काचिद्गतित्वरणलुप्तमतिश्चकार चूडामणिं चरण एव चकोरदृष्टिः । यः स्थापयत्यसम एव पदे स्वमूर्धा संभाव्यमस्य किमहो न जनस्य हास्यम् ॥ ७ ॥ उद्दामकामकरचापविकल्पमौर्वी पुंवर्गचित्तमृगवञ्चनमार्गरजुम् । काञ्ची मदीयवलयान्न बहिः पुमर्थ .. ' इत्यूचुषीं कलरवेण बबन्ध काचित् ॥ ८॥ तां दिव्यसिन्धुपुलिनाकृतिभाजि काचि- काञ्ची नितम्बफलके कलयांचकार । उत्तीर्णमीमजननाम्बुधयोऽपि मुक्ता यामाश्रिता जघनसंगमकौतुकेन ॥ ९॥ मुक्तेरपि प्रियतमाजघनोपभोगः श्रेयान मृग्यमिह वस्तुनि नः प्रमाणम् । ५द्वादशगु काव्यमाला यत्पश्यतायतहशो रशनाकाषे भुक्ता अपि खयमहो पुनरेव बद्धाः ॥ १० ॥ पीनस्तनद्वितयधारणकर्शितस्य मध्यस्य मण्डनविधिं न चकार काचित् । निःशङ्कमन्यभरनिर्वहणेन जाता- : कार्यात्परं न खलु मण्डनमस्ति किंचित् ॥ ११ ॥ हारेण च स्तनयुगं परिभूष्य पीन- मत्यायतं च जघनं रशनागुणेन । मध्यस्तु हन्त न कयापि विभूषितोऽभू- द्वितः सनाभिरपि नैव हि माननीयः ॥ १२ ॥ पकोद्भवत्वपरिवादभयान्मृगाक्ष्या जातं सरोजयुगलं कुचवेषधारि । शक्यं न धातृविहितं परिहर्तुमस्य भूयोऽपि येन धनचन्दनपङ्कयोगः ॥ १३ ॥ न्यस्तानि शङ्खवलयानि करे कयाचि- त्तानीन्दुखण्डघटितानि ममैष तर्कः । अस्या निसर्गमृदुपाणिसरोजमेषा- मामोचने झटिति यन्मुकुलीबभूव ॥ १४ ॥ एकावलीकलितमौक्तिककैतवेन कस्याश्चिदुन्नतपयोधरयुम्मसेवाम् । चक्रुर्मनांसि यमिनामतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि ॥ १५ ॥ हाराञ्चितं कुचतटं जघनं च काच्या कृत्वा कयापि न विभूषित एवं मध्यः । -- २ पद्धतिः] भिक्षाटनकाव्यम् । ६० स्फीते परं बहुमतिर्भुवने जनाना ! मप्यन्तरङ्ग पदवीजुषि नैव रिक्ते ॥ १६॥ दास्यामि हारहरिचन्दनकुङ्कुमानि दाक्ष्यं यदा हरवशीकरणं तदा ते । इत्यात्मनः स्तनमुपांशु निगद्य काचि- त्सर्वेतराङ्गपरिकर्मविधिं चकार ॥ १७ ॥ तन्व्याः सखी सपदि कालमषीप्रयोगा- नेत्रोत्पलं द्विगुणमोहनमेव चक्रे । यद्वीक्ष्य कामुकजनो गलमीश्वरस्य निःशेषलुप्तगरलं गणयाश्चकार ॥ १८ ॥ नूनं विदग्धजनकृत्यमतयंपाक लाक्षारसः प्रणयिना वनिताजनेन । कस्याश्चिदोष्ठपुट एव कृतः समस्तं यूनां मनः सपदि लम्भितरागमासीत् ॥ १९ ॥ काचित्स्वकीयदशनानि विशोधयन्ती बिम्बाधरोष्ठरुचिसंगमपाटलानि । आदर्श एवं परिवारजनोपनीते दृष्ट्वा न जात्वपि पुनर्विरराम रामा ॥ २० ॥ प्रागेव मोहनमथाञ्जनयोजनेन चक्रे तथामृगदृशो नयनं सखीभिः । पश्यन्यथा युवजनो गलमीश्वरस्य निःशेषलुप्तगरलं गणयेदशेषः ॥ २१ ॥ साम्ये मिथः स्थितवतो वने जनानां वैषम्यबुद्धिरुभयोः समदर्शनेन ।

२८ काव्यमाला। इत्याकलय्य किल कापि विलोचनान्ते :: कर्णद्वये ललितमुत्पलमाततान ।। २२ ।। तामार्द्रचन्दनरसेन सखी ललाटे लेखां मदालसदृशो विदधे विदग्धा । यां वीक्ष्य शंभुरपि मुग्धजटाशशाङ्के ., शङ्काकुंलीकृतमनाः खकरं चकार ।। २३ ।। मा जातु राहुपरिभूतिरतर्ययोगा- न्मा भूत्क्षयः किमपि मा च कलङ्कयोगः । कस्याश्चिदेवमभिधाय मुखेन्दुबिम्बे रक्षामय तिलकमाप्तजनश्चकार ॥ २४ ॥ कस्याश्चन प्रचुरकेशभरे जलाते जाड्यास्पदं तरुणवर्गमनो बभूव । कालेयधूपजुषि धूपितमात्तपुष्पे पुष्पासविद्धमथ बन्धिनि बद्धमेव ।। २५ ।। प्रस्थानविघ्नकरदुर्वहभारभीत्या काचित्प्रसूनसुकुमारशरीरयष्टिः । धूपादृते शिरसि नैव बभार पुष्प- मङ्गेषु चन्दनरसादपि भूषणानि ॥ २६ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मण्डनपद्धतिर्द्वितीया । :: तृतीया पद्धतिः। नारीषु निर्गमनमण्डनतत्परासु सख्यो वचास्यनुगुणार्थमनोहराणि ।

३ पद्धतिः] भिक्षाटनकाव्यम् । ६९ फलितान्यधुना ईशावलोकनमुहूर्तनिरोधभीत्या प्रारब्धमण्डननिषेधफलान्यवोचन् ॥ १ ॥ आकूतसीधुभरितं पदवाक्यपुष्प- माविस्मराण्यपि विलासिविचेष्टितानि । स्थाने च लज्जितपथास्ति युवप्रमाथे किं भूषणेन सुदृशां तनुभूषणेन ॥ २ ॥ अर्काभिमुख्यसलिलस्थितिसाधनानि रक्ताम्बुजस्य तपांसि । यद्भीरु तस्य परिभूतिकरं पदं ते लाक्षारसान्तरितरागमिदं करोषि ॥ ३ ॥ गन्तुं परैरविदितं यदि शंभुपार्श्व वाञ्छा किमालि रणता तव नूपुरेण । कर्तु रहस्यचरितान्यभिलाषवद्भिः प्रारम्भ एव पिशुनः परिवर्जनीयः ॥ ४ ॥ मा विश्वसीः सखि खलां मणिमेखलां तां क्षौमस्य यद्यभिमतं परिरक्षणं ते । या लम्भितापि दृढबन्धमिह प्रयत्ना- ज्जायेत बन्धविमुखी पुरतः पुरारेः ॥ ५ ॥ यानि च्यवन्ति विरहे विदलन्ति यानि योगे हरेण वलयैः सखि किं फलं ते । नैवास्ति यैर्विपदि संपदि वोपयोग- स्तैः संगम न खलु वाञ्छति कोऽपि मर्त्यः ६॥ १." अश्यन्ति यानि विरहे विदलन्ति यानि" इति पाठान्तरम् ।

23 काव्यमाला: विस्तारिणि स्तनतटे हरिचन्दनं ते लज्जावहं किमिति लिम्पसि कातरासिं। संभोगसंक्रमितकान्त.."रा' दन्तःप्रवृद्धफलकौषधिलेपकल्पम् ॥ ७ ॥ मध्यो मृगाक्षि विधिनैव कृशोऽपितोऽयं तस्योपरि स्तनभरो हतयौवनेन । भूयोऽपि हारमभिवाञ्छसि तत्र वोढु- मेकस्य भङ्गकरणे बहवः प्रवृत्ताः ।। ८.।। बनासि दग्धमणिनूपुरमङ्गियुम्मे कस्मै फलाय यदि निर्गमनेऽमिलाषः । एणीदृशां द्रुतगतिप्रतिबन्धभावे नास्ति ध्रुवं निगलनूपुरयोर्विशेषः ॥१९॥ भस्मैव लिम्प कुचयोः सखि रक्षणार्थ मध्यावलोपनतया यदिमौ सुदुःस्थौ । हारेण किं किमथवा नवकुङ्कुमेन लब्धात्मनः खलु पुनः परिकर्मवाञ्छा ॥ १० ॥ मा चन्दनेन कुचयोः कुरु पत्रभङ्गं लब्ध्वा दृशोरनुमतिं स तु कल्प्यतां वा । यादृच्छिकप्रणयिना विरहे हरेण नेत्रद्वयात्तव पतिष्यति बाप्पपूरः ॥ ११ ॥ १. अत्युचते स्तनतटे हरिचन्दनं ते लज्जाकर किमिति लिम्पसि कातरादि। आलेपनं दयितवक्षस एव लब्धं इलाध्यं भवत्यपरमौषधलेप एव ॥ इति पाठान्तरम्।

३ पद्धतिः] भिक्षाटनकाव्यम् । पर्याप्तयौवनकृतोन्नतिशालितो ते मा त्वं तिरस्कुरु कुचौ सखि कञ्चुकेन स्तोकोद्गमं मनसिजश्चिरमाशशंसे जेतुं ययोः पशुपतिं निजपूर्वशत्रुम् ॥ १२॥ आजन्मपाटलरुचावधरे तदीये रागोऽपरः पुनरयं सखि दूषणाय । जातोस्य रत्नशकलस्य कृतोऽपि द:- रर्घक्षयाय नवकृत्रिमरागयोगः ॥ १३ ॥ मा कज्जलेन मलिनीकुरु लोचनान्ते यद्यस्मदुक्तिमवमन्य तथा कियन्त । चन्द्रश्चिराय वदनेन तवाभिवाञ्छ- न्साम्यं लभेत सखि हन्त मलीमसोऽपि ॥ १४ ॥ स्निग्धापि न प्रणयि चेत्तव नेत्रमन्य- म(द)न्यस्य मा भवतु संस्करणप्रयासः । आकल्पितादपि तयोः सखि केवलस्य जानातु कान्तिमखिलामखिलोऽपि लोकः ॥ १५ ॥ पर्याप्तदीर्घनयनोत्पलभूरितं (षिते)ते कर्णे कुतः सखि नवोत्पलमादधासि । यद्यन्यथा(दा) भरणमिच्छसि कर्णयोस्त पथ्योक्तयः श्रवणभूषणतां लभन्ताम् ॥ १६ ॥ आदर्शमाशु सखि मुञ्च कृतापराधं कस्त्वां विनात्र मलिनाशयमाश्रियेत । १. अस्फुटोऽयं, द्वितीयः पादः.

७२ काव्यमाला । छायां प्रदृश्य सहशीं तव वक्त्ररूपे : निर्द्वन्द्ववादमधुना शिथिलीचकारः ॥ १७ ॥ केयूरनपुरशिखामणिपारिहार्य- हारादिभिः किमबले शृणु संग्रहोक्तिम् । भूषा त्रपा मृगदृशः शुचि संप्रदायि पुंसः श्रुतं यदवरं परमङ्गभारः ॥ १८ ॥ इत्युत्प्रेक्षावल्लभकृती मिक्षाटनकाव्ये मण्डनप्रतिषेधपद्धतिस्तृतीया । चतुर्थी पद्धतिः। प्रेमोत्तरैः प्रियसखीवचनैरलायै- रुत्तीर्य मण्डनविधानधुरं कथंचित् । वीथीसमागतवृषाङ्कविलोकनाय निर्जग्मुरायतदृशो निजमन्दिरेभ्यः ॥ १ ॥ काचित्पदाग्रगलितेन गृहात्मयान्ती लाक्षारसेन पदवीमरुणीचकार । सा च क्षणेन सरणीश्चरणाग्रमस्याः कस्योपकर्तुमुपकर्तरि नैव वाञ्छा ॥ २ ॥ कस्याश्चिदात्तरभसे गमने प्रवृत्ते काञ्ची पपात पदयोः करुणं कणन्ती । ध्यव्यपायगणनव्यथयेव कर्तु विच्छित्तिमाशु गमनोद्यमसाहसस्य ॥ ३ ॥ किंचिद्विलम्बितभरेण पयोधरस्य तूर्ण गताखपि सखीषु हरोपकण्ठम् ।

४ पद्धतिः] भिक्षाटनकाव्यम्। ७३ . तादृग्विधस्तनविज़म्भणमूलमेषा संर्थिनीयमपि मध्यवयो निनिन्द ॥ ४ ॥ कृच्छेण कापि गुरुणैव जनेन रोध- : मुल्लङ्य शंकरसमीपमभिप्रतस्थे । हा हन्त शीघ्रगमनप्रतिरोधहेतु- स्तस्याः पुनः स्तनभरोऽपि गुरुर्बभूव ॥ ५ ॥ दृष्टे शिवेऽपि वलयानि न मे दलेयु- रित्यग्रतः परिजनस्य कृतां प्रतिज्ञाम् । त्रातुं विसृज्य वलयान्यपरा प्रतस्थे नास्त्येव तस्करभयं धनवर्जितस्य ॥ ६ ॥ काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं हरं भवनजालकमाससाद । तस्या विलोपनमदृश्यत दाशयन्त्र- यत्नोपरुद्धशफरोपमितं क्षणेन ॥ ७ ॥ कृत्वा मषीमलिनमीक्षणमेकमेका वैकल्यभूषणमथान्यदियात रथ्याम् । किं नैव जैत्रमनयोर्मदनास्त्रमेकं दिग्धं विषेण यदि रूढकलङ्कमन्यत् ॥ ८ ॥ ईशावलोकनकुतूहलमभुलेशै- वाचं विनैव जननी प्रति काचिदूचे । तस्यास्तथैव विदधे गमनाभ्यनुज्ञां मातापि पाणिवलयोपनयच्छलेन ॥ ९॥ १. तथापि (इति. पाठान्तरम् )।

काव्यमाला..
धात्रीमुहूर्तविनिवारितनिर्गमाया
; .बाष्पस्मितद्वितयलब्धविरुद्धयोगम् ।
कस्याश्चिदाननमशान्तहिमाम्बुजालं.
प्रत्यूषपङ्कजमिव क्षणमावभासे ॥१०॥
भूषाविधावपि निवृत्तमनाः खकीये
शंभोः समीपगमनत्वरयैव काचित् ।
भूषोद्यतां प्रियसखी प्रतिपाल्य तस्थौ
स्निह्यन्ति नात्मनि सखीष्विव हन्त नार्यः ॥ ११ ॥
प्रारब्धमात्रकलजल्पितशिक्षणेन
वामप्रकोष्ठवलयावलिसंश्रितेन ।
काचित्ससंभ्रममुमापतिवीक्षणाय
क्रीडाशुकेन सह राजपथं प्रतस्थे ॥ १२ ॥
प्रस्थानसंभ्रमवशाद्गलितालकाया
लमांघियावकरसे पथि शोणरूपः ।
धम्मिल्लपुष्पनिवहो हृदयप्रविष्ट-
रक्ताक्तमारविशिखश्रियमाततान ॥ १३ ॥
अस्थानगामिभिरलंकरणैरुपेता
भूयः परिस्खलननिहुतिरप्रसन्ना ।
वाणीव कापि कुकवेर्मधुपानमत्ता
गेहान्निपातबहुलैव विनिर्जगाम ॥ १४ ॥
वेगप्रयाणसमये चलितालकेभ्यः
पुष्पैरधो निपतितैरपरा विरेजे ।
ईशोपकण्ठगमनप्रणयस्य पूजां
कर्तु निजातियुगलस्य कृतोद्यमेव ॥१५॥

१ पद्धतिः] भिक्षाटनकाव्यम् । याने गृहाबहिरुपान्तजनेन रुद्धे रोषारुणं सपदि जृम्भितबाष्पपूरम् । कस्याश्चिदीक्षणयुगं विदधे हुताश- निष्टप्तदत्तसलिलस्मरशस्त्रशङ्काम् ॥ १६ ॥ निर्गम्य काचिदसितोपलगर्भहा- दालोकिते गुरुजने भयवेपिताङ्गी । भूयोऽपि तत्र सहसैव तिरोबभूव सौदा- मिनी नवधनादिव निप्पतन्ती ॥ १७ ॥ त्रुट्यद्गुणेन निजवृत्तपरिच्युतेन संक्रान्तभूरिरजसा हतकंन्तुकेन । व्याकुर्वता युवतिवश्यदशां नराणां काचिद्विहाय विहृति हरमाससाद ॥ १८ ॥ नेत्रं विधाय धृतकज्जलमेकत(म)स्या मात्रा परस्य करणेऽपि तथा प्रवृत्ते । काचिद्भवान्तिकगतित्वरितप्रवृत्त- र्बाप्पैः कृतार्थमपि तेन समीचकार ॥ १९ ॥ त्याज्या सखि द्रुतगतिः कुचधारकोऽयं संशय्यतां तव यया समुपैति मध्यः । लोके सुदुर्लभतरो गुणवान्कृशोऽपि यः कल्पतेऽन्यभरनिर्वहणोत्सवाय ॥ २० ॥ अप्युत्तरांशुकमिदं त्वरितप्रयाणे पीनस्तनात्क्षिपति चेल्लघु भारभीत्या १. 'कन्तुः कन्दर्पवित्तयोः'.

६ काव्यमाला। वोढुं क्षमा भवसि तत्र निषेदुषीणों भारं पुनस्तरुणचित्तपरम्पराणाम् ।। २१ ।। यत्नान्मयैव विहितं तिलक ललाटे धर्माम्बुना विलुलितं गतिसंभ्रमेण । पत्रक्रिया च सखि ते कुचयोविलुप्ता व्यापत्तये भवति हन्त जलेन योगः ॥ २२ ॥ कर्णोत्पलान्नयनमाप गतिच्युतात्ते तन्मीलने मुखमयं न जहाति भृङ्गः । येनैनमद्य विनिवारयसि प्रमत्ते तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥ २३ ॥ गत्वा तथा त्रिचतुराणि पदानि तूर्ण गन्तुं पुनः सखि शनैरपि न क्षमासि । प्रायः स्वशक्तिमन(निरूप्य कृता प्रवृत्तिः शक्ति निजामपि शरीरभृतां क्षिणोति ॥ २४ ॥ लाक्षारुणैः सपदि विश्लथकेशपुष्पै- भ्रष्टेरशोभत परं पदवी परस्याः । आशंभुदर्शनमनुद्रवतः स्मरस्य बाणैर्विभिन्नहृदयैरिव शोणिताः ॥ २५ ॥ खिद्यल्ललाटमधिकाकुलितालकान्तं काचिद्धनस्तनविवल्गनरुग्णमध्यम् । दोलाच्छलेन रतिशिक्षणमाचरन्ती हित्वा तदाशु हरपार्श्वभुवं जगाम ॥ २६ ॥ १. जडेन, वारिणा च. २. प्राच्यां दशामपि इति पान्तरम् ।

७७
५ पद्धतिः]
भिक्षाटनकाव्यम् ।
काचिद्विहृत्य किल कन्तुककेलिरङ्गा-
रेणुरूषिततनुनिरगान्मृगाक्षी ।
उकुल्लपङ्कजवने सुचिरं चरित्वा
किंजल्करेणुपरिधूसरितेव लक्ष्मीः ॥ २७ ॥
यान्ती हरं प्रति शशाङ्कमुखी पदाग्र-
लाक्षारसैररुणितां पदवीं चकार ।
सा च क्षणेन पदवी पदमन्वथास्याः
किं नोपकारिणि भवेदुपकारवाञ्छा ॥ २८ ॥
पूर्व द्विरेफपरिभूतिभयाद्भवत्या
यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् ॥
व्यर्थ तदद्य पुनरप्यलकेषु भृङ्गाः
पुञ्जोभवन्निजकुलभ्रमतः पतन्ति ॥ २९ ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये निर्गमनपद्धतिश्चतुर्थी ।
पञ्चमी पद्धतिः।
यत्रागतिः पशुपतेर्नगरप्रवेशे
तत्रैव धावनपरस्य वधूजनस्य ।
संजल्पितानि पथि यानि मिथो बभूवु-
रेतानि सन्तु रसिकश्रुतिपारणाय ॥ १ ॥
पादाम्बुजं सखि तवेदमियं धरित्री
सद्यः परागपरिधूसरितं विधाय ।
पभेन शोच्यजननेन समीकरोति
सत्यं भवत्यसमसाम्यकरः कुसङ्गः ॥२॥

७८
काव्यमाला-1
मामप्यपेतकरुणे प्रतिपाल्य याहि
शंभुं विलोकयितुमुत्सुकितामतीव ।
पन्यां विलासगमनं न परं त्वयासं
हंस्या गतिर्वियति पक्षतिसाधिता च ॥ ३ ॥
हारो न यत्कुचभरे निहितो भवत्या
प्रस्थानसंत्वरितया तदतीव भद्रम् ।
आलिङ्गनं यदि करिष्यसि भूतभर्तु-
माद्यत्त्वदीयदृढमौक्तिकमर्दतोदः ॥ ४ ।।
मञ्जीरमालि चरणाश्रितमेतदेता-
नाहूय मञ्जुनिनदैर्गमने त्वदीये ।
वाञ्छावतां तव मदालसयानचौर्ये
चारायते गृहसरःकलहंसकानाम् ॥ ५ ॥
एकावली करतले दधती वकण्ठे
विस्मृत्य धर्तुमबले त्वमतीव भासि ।
मन्त्रेण साधयितुमात्मपतेः शरीरं
वाञ्छावती रतिरिव स्फटिकाक्षमालाम् ॥ ६॥
अस्या हरो हृदयगेहनवप्रवेशं
वासाय दीर्घमचिरेण करिष्यतीति ।
धात्रा न्यधायि नवमङ्गलकुम्भयुग्म
नूनं तवोन्नतपयोधरनामधेयम् ॥ ७ ॥
मीनध्वजस्य शरधिद्वयमस्तमूर्ते-
वात्मना परिणतं तव यद्भुवं तत् ।
नो चेत्कथं मदनवैरिसमीपयाने
जङ्घायुगस्य गतिरालि विलम्बिनी ते ॥ ८॥

७९ ५ पद्धतिः] भिक्षाटनकाव्यम् । वामे पदे निहितमामलक्तकं ते नान्यत्र यत्तदतिसुन्दरमेव मन्ये । येनाद्य लब्धमबले परिकर्मसाम्यं नारीविमिश्रवपुषः परमेश्वरस्य ॥ ९ ॥ किं चित्रमत्र जघनं घनमुद्वहन्त्या मन्दीभवन्ति यदि ते गतयो वरानि । यद्धीक्षणेऽपि गतधैर्यगुणा युवानो गन्तुं मनागपि पुनर्नहि शक्नुवन्ति ॥ १० ॥ शंभोरवेक्षणमहोत्सव एवं लभ्ये नायाति शीघ्रमिदमालि पदाम्बुजं ते । ज्ञातं मम द्रुतगतेः फलमप्रयत्ना- संलप्स्यते नयनयुग्ममितीर्घ्य एव ॥ ११ ॥ विस्मृत्य यावकमकारि हरंदिदृक्षो- नैवाधरे तव यदद्य तदालि युक्तम् । आत्मोपयुक्तगरलौषधपानकामः पास्यत्यवश्यमधरामृतमिन्दुमौलिः ॥ १२ ॥ प्रागेवबद्धरुचि लोचनकान्तिचौर्ये नीलोत्पलं यदकरोः सखि नाद्य कर्णे। : बुद्धिप्रमादिदमभूदिति मा विषादः कस्तस्करं घनगृहाधिकृतं करोति ॥ १३ ॥ इन्दुर्मुखं कुचभरो गुरुरेव दन्तः शुक्लोऽधरश्च तव लोहित एव जातः । १. 'गतयो यदि ते'.इवि पाठान्तरम् ।

काव्यमाला । H एवं ग्रहात्मवपुषः सखि तन्न चित्रं यत्पादयोरपि शनैश्चरता तवास्ते ॥ १४ ॥ मा भूत्तवालि गिरिशस्य विलोकनाय यान्त्या न मण्डनमकारि मयेति लज्जा। यत्ते विलासिजनलोचनपेयमेत- निर्मक्षिकं मधु निराभरणं शरीरम् ॥ १५ ॥ मात्रैव ते गतिनिवारणमग्रतोऽभू- सद्यस्तथा परिहृतं सखि बाष्पपूरैः । शक्ता न गन्तुमधुनासि नितम्बमारा- दोषो निसर्गजनितः परिहारहीनः ॥ १६ ॥ हस्तस्थितां तु सखि ते नवपुष्पमालां मा विस्तृता शिरसि कर्तुमिति स्म खेदः । दृष्टे शिवे सपदि तस्य कुतूहलेन कण्ठे निधातुमुचिता वरणोत्सवाय ॥ १७ ॥ त्याज्याः सखि द्रुतगतिः कुचमारधारी संशय्यतां तव यया समुपैति मध्यः । अस्मिञ्जगत्यसुलभः सुगुणाधिरूढः कार्ये निजे भवति यः परधारणाय ॥ १८ ॥ वैफेल्यर्शकनवशाज्जनगर्हितोभू द्यनिर्मितौ शतधृतेरतिमात्रयत्नः । .... १..'शतासि गन्तुमधुना न' इति पाठान्तरम् । २. 'नूनं जनस्य न करो सवकाशदानम्' इत्यपि पाठान्तरं पुस्तक एव लिखितम् ६ पद्धतिः] भिक्षाटनकाव्यस् । ८१ अस्य त्वदीक्षणयुगस्य विशालता सा..... साफल्यमेष्यति वृष्पाङ्कविलोकनेन ॥ १९ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये निर्गमनपद्धतिः पञ्चमी । }} '.. षष्ठी पद्धतिः। नेत्रैर्मषीमलिनितैर्ददृशुस्तमेव ! ... रथ्यागताः शिवमयत्नत एव नार्यः ।... 1) ज्ञानात्मकेन विमलेन विलोचनेन यद्वीक्षणाय हृदये 'यतयो यतन्ते ॥१॥ . गौरीकुचक्षपितभस्मनि कापि दृष्टिं चिक्षेप वक्षसि विभोरभिलाषगर्भाम् । आशाग्रहः सुलभदुर्लभयोविवेके नूनं जनस्य न करोत्यवकाशदानम् ॥ २॥ स्पन्दैरमन्दजनितैर्मुहुरेव यस्य संसूचितं झटिति शर्म भविष्यतीति। अन्यन्निमील्य निबिडं मुदितैव काचि- द्वामेन तेन नयनेन शिवं ददर्श ॥ ३ ॥ न्यस्ता लिपिः शिरसि येन शरीरभाजां तस्याप्यजस्य हरपाणिभृते कपाले । दृष्ट्वाक्षराणि मसृणानि चिराय काचि- देतान्यनेन लिखितानि. किलेति मेने ॥ ४ ॥ . ..... १. 'गिरिशेन घृते कपाले ।,x x x देतानि, केन लिखितानि किलेति- दध्यौ ॥' इति पाठान्तरम् ....... .. ६ द्वादशगु०

८२
कान्यमाग
वक्षःस्थले व महति सरशासनस
समिपयोधरयुगे च बिजृम्ममाणे !
कस्याधिदीक्षणयुगं बिदधे मुहूर्त-
मानन्दशोकपिशुनानि गतागतानि ॥ ५ ॥
आरादुदैवत तथा हरकण्ठमूल-
माश्लेषकौतुकक्शेन चिराय काचित् ।
तस्या यथा कलितकज्जलदृष्टिपातैः
कल्माषितं तदिति पार्श्वजनस्य तर्कः ॥ ६ ॥
काधिकरण मणिदर्पणमुद्धहन्ती
तत्रावलोक्य गिरिशं प्रतिबिम्बलगम् ।
कण्ठे कथं मलिनिमेति गरं गलस्थं
मुग्धा मुहुर्मुकुर एव मुधा ममार्ज ॥ ७ ॥
कुम्भश्नलं कुचतटेन गतेन यान-
मूर्वोर्युगेन च करं करिणो जहास ।
या पूर्वमद्य किल सा वसिते हरेण
तस्यैव चर्मणि कुतूहलिनी बभूव ॥ ८ ॥
पूर्णेन्दुबिम्बतुलितेन मुखेन काचि-
प्रीतिं चकार हरहारमहोरगस्य ।
सा तस्य मीतिमपि भीतिनिवृत्तकण्ठी
सस्मार केशनिचयेन मयूरभङ्गीम् ॥ ९ ॥
कस्याश्चिदीक्षणमलोकविलासलोलं
बिम्बौष्ठरक्तकुमुदे पदपाणिपने ।
संतापहारिणि हराख्यमहातटाके
सद्यो निपत्य शफरायितमाचचार ॥ १० ॥

६ पद्धतिः]
भिक्षाटनकाव्यम् ।
८३
आलोक्य लोकविपरीतममुष्य काचि-
ककालमंसशिखरे शितशूलबद्धम् ।
कोऽयं क्रमः प्रमहसामिति बिसयेन
नासानिवेशितकराकुलिरेव तस्थौ ॥ ११ ॥
कस्याश्चिदायतहशो हरकण्ठमूलं
कण्ठग्रहोत्सुकतयैव विलोकयन्त्याः ।
त्रासावहं न गरलं न च हारसो
यत्पार्वतीवलयपङ्गिपदं तदेव ॥ १२ ॥
नेत्रद्वयन हृतधीः करुणामयेन
काचित्तृतीयमपि लोचनमीश्वरस्य ।
उन्मीलितं चिरनिमीलितमाचकाङ्के
सा तन्न वेद मदनेन्धनवह्निगर्भम् ॥ १३ ॥
कान्त्या रतिर्भुजगहारतयैव हासः
शोकश्च दुर्लभतया गरलेन भीतिः ।
क्रोधश्च निर्दयतया च यदायताक्ष्या
नानारसास्पदमजायत शंभुकण्ठः ॥ १४ ॥
अङ्गानि भीषणभुजंगविभूषणानि
मत्वेतराणि नयनं विनिवर्त्य तेभ्यः ।
वकं स्मिताभरणमीशितुरीक्षमाणां
बालां रुरोध सहसा प्रतिनेत्रपातः ।। १५॥
संध्यानभःकपिशभासि विभोः कपर्दै
काचिद्विलोक्य बुबुधे तुहिनांशुलेखाम् ।
स्रष्टुः कपालशकलावलिसाहचर्या-
बंष्ट्रेति पोत्रिवपुषः पुरुषोत्रमस्य ॥ १६ ॥

काव्यमाला शंभोश्चिरं पदयुगे चिरमुरुकाण्डे मध्ये चिरं चिरमुरस्यघरे तथैव एवं मुहुः कृतपरिभ्रमणा मृगाक्ष्यां ... ; इंष्टिर्जगाम तृषितेव शिरःस्रवन्तीम् ॥ १७ ॥ गङ्गामवेक्ष्य गिरिशस्य जटाकलापे दीर्घार्मिहस्तकलितेन्दुकलां चिराय । इत्थं बभूव किल भर्तरि शैलजाया दाक्षिण्यपाक इति कापि मुहुः शुशोच ॥ १८ ॥ व्यालोलकेशकलितैककरैव काचि- काञ्चीगुणश्लथनदर्शितनाभिमूला । वक्षस्यमीष्टदयिताकुचमुद्रितोऽयं योगी किलेति गिरिशं कुटिलं ददर्श ।। १९ ।। शर्मोद्भविष्यति ममेति तदीयकम्पै- बुवाननन्द यदतीव पुरा वराङ्गी । तद्धामसेव. नयनं शिवमीक्षमाणा शर्वस्य सर्वसमचित्ततया निनिन्द ॥ २० ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दर्शनपद्धतिः षष्ठी। : सप्तमी पद्धतिः। आपादपद्मयुगमा च कपर्दभारा-: दङ्गान्यनङ्गदमनस्य पुरन्ध्रिवर्गः । नेत्रैरपाकृतनिमेषकथैर्विलोक्य }} कर्णामृतानि वचनानि मिथो बभाषे ॥ १ ॥ ...

७ पद्धतिः] भिक्षावकाच्यम् । نسة । ( नैवान्यदस्ति शरणं चरणारविन्दा- गौरीसखस्य सखि दुःखजुषां जनानाम् । यत्पद्मदुर्बलमपि खयमन्तकस्य or : वक्षो बिभेद दृढमाश्रित्तरक्षणाय ॥२॥ तारापतीन्सुदति पश्य पिनाकपाणेः- पूर्णानिमान्पदमुपेत्य नखच्छलेन । अस्यायमभिकमलाश्रयहानिदोषा- दद्यापि हन्त कृश एव कपर्दचन्द्रः ॥ ३ ॥ जवायुगं सखि. विलोकय भूतभर्तुः संवाहनेषु गिरिजाकरपल्लवेन । संजातकण्टकतया प्रतिपद्यतेयन्- नित्यं पदाम्बुरुहकोमलनालकक्ष्याम् ॥ ४ ॥ कक्षोरगेन्द्रमिह पश्य विभोस्तमेन- मावेष्टनेन विपुले कलितं नितम्बे । येनायमद्य लभते वरसुन्दरीणां चित्ताम्बुराशिमथने सखि मन्दरत्वम् ॥ ५ ॥ नाथस्य सुन्दरि विलोकय नामिगत- मस्योत्तमाङ्गकलिता विवुधस्रवन्ती.। आवर्तमाशु विरचय्य पुनःपुनस्तं यत्साम्यदुर्लभतया शिथिलीकरोति ॥ ६ ॥ "अङ्गीकृतं यदमुना वसनत्वपक्षे कक्षोरगेन्द्रफणरत्नमरीचिशोणम् । मातचम चिरकालनिकृत्तमेत- दद्यापि पश्य रुधिराक्तमिवावभाति ॥ ७॥ . .

८६ काव्यमाला॥ नैसर्गिकारुण शालिनि पश्य भिक्षो- हैरण्यगर्भमाथि पाणितले कपालम् । आविष्करोत्यरुणतामरसे विनिद्रे निद्रविशस्तिमितहसगताममिस्याम् ।॥ ८ ॥ आलेपनं यदिदमस्य मुंजान्तराले तद्भस्म दग्धवपुषो मदनस्य मन्य। नो चेत्कथं कथय वीक्षितमात्र एवं समोहयेत्सखि मनः सकलीगनानाम् ॥ ९॥ गौर्या मनोहरभुजार्पणयोग्य एवं कण्ठे कथं सखि हरस्य भुजङ्गहारः । मन्ये तयान्यवनितासुदृढोपगूढ- साकिया वसति तत्र कृताभ्यनुजः ॥ १० ॥ शीतं निसर्गधवलं हृदयें विहाय हारं भुजङ्गमतिमीषणमेव धत्ते । खातव्यभनभयतः प्रभवः कदापि कुर्वन्ति हन्त न गुणेष्वपि पारतश्यम् ॥ ११ ॥ हारायितः सखि हरस्य महाभुजङ्गः पार्थस्थितिं मृगदृशां निरुणद्धि मीमः । रुन्धे विमुप्वधिकवल्लमतां प्रपद्य प्रायः पराश्रयणमाशु भुजङ्गवर्गः ॥ १२ ॥ नैल्यं यदस्य गलमूलगतं तदेके कामं गृणन्तु गरमालि ममैष तर्कः । १. 'परावयमतीव' इनि पाठान्तरम् ।

७ पद्धतिः] भिक्षाटनकाव्यम् । या कापि सिद्धगुलिकैव मृगेक्षणाना- माश्लेषकौतुकविधाननिरूढशक्तिः ।। १३ ।। यो मूर्ध्नि मुग्धशशिभङ्गभयेन सोढा पार्थस्य निर्णशरासनताडनानि । यो वा करोत्युभयदानमपायकाले तं पश्य दक्षिणकरं सखि शंकरस्य ॥ १४ ॥ साकूतमन्दहसितोदयलोभनीया- दास्यादिहास्य सखि संप्रति निर्गतानि । देहीति लोकबहुमानविवर्जितानि याच्याक्षराण्यपि महेश्वरतां ध्वनन्ति ।। १५ ।। आलोकयैतदलिकेक्षणमालि शंभो- निर्हेतुनिहुतमनोभवरम्यदेहम् । सर्वेषु जन्तुषु विभुः समदर्शनोऽपि शाठ्येन यस्य विषमेक्षण एव जातः ॥ १६ ॥ सत्यार्थमेव खलु तद्यदिहाद्भुतस्य पात्रं भुजङ्गपरिरक्षितमाहुरार्याः । पश्याम्बिकाकलवचोमृतपात्रभूते कर्णेऽपि कुण्डलभुजङ्गपरिप्कियास्य ।। १७ ।। फा(भा)लेक्षणान्तिकचरं सखि पश्य शंभो- चूडाशशाङ्कमतिम(क)र्शितगात्रमेनम् । खप्रेमबन्धुमदनप्लुषि हव्यवाहे त्यक्तुं निजामिव तनुं विहितावसायम् ॥ १८ ॥ १. 'निर्गुणशरासन' इति पाठान्तरम्।

... :.... किव्यमाला [:e नासीरपूरणविधौमिकरध्वजस्य ॥ चक्रुर्वचासि सुलभानि च यानि नाय:। तानीन्दुशेखरभवं मदनावमान: सद्यो ममार्जुपि तस्य वपुः पुरारेः ॥ १९ ॥ सत्यं समाश्रितजनो बहुमानलामें : h नामाप्तवाञ्छितफलोऽपि विभुं जहाति । पश्येन्दुरेष कुरुते शिरसा धृतोऽस्मी- त्येितावता पशुपतेः कृश एवं सेवाम् ॥ २० ॥ इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकाव्येऽवर्णनपद्धतिः सप्तमी। I' अष्टमी पद्धतिः। गौर्याः समक्षमपि यस्य विमोर्विकार कर्तु कथंचिदपि नालमभून्मनोभूः । । तस्यैव चित्तमपहर्तुमहो विलासा नानाविधा नगरवामदृशां बभूवुः ॥ १ ॥ पुष्पं कराञ्जलिधृतं चलदुत्तरीया चिक्षेप कापि पुरतः स्मरशासनस्य । एतावदद्य मयि पुष्पशरेण मुक्तं पश्यास्त्रजालमिति शंसितुमुद्यतेव ॥ २॥ आविश्चिकीर्षुरतुलं निजबाहुमूलं कन्दर्पमूलधनमीश(शि)तुरन एव । काचिद्विलोलवलयावलिना करेण नेत्रान्तिकादलकभारमपाचकार ॥ ३॥ [" ८ पद्धतिः] भिक्षाटनकाव्यम् । ८९ एका त्रपापरिभवासकलेप्रवृत्ति चिक्षेप घष्टिमबला नवचन्द्रचूडे । प्रायेण तिष्ठति विदग्धविलासिनीना- मधेक्षितेषु-मदनः परिपूर्ण एव ॥ ४ ॥ काचिद्विलासचतुरं कतिचित्पदानि ! शंभोर्जमाम पुरतो मदमन्थरैव । तां वीक्ष्य तादृशगतिं विशिखैः किमन्य- दात्मन्यमि स्वयमभून्मदनः प्रहर्ता ॥ ५ ॥ कंदर्पशत्रुरयमित्यनुरूपयन्ती सैषा. पपात पुर एव पुरां विजेतुः ॥ इत्यात्मदोषमपरत्र निपात्य काचि- त्काञ्चीमहो गुणवतीमपरा निनिन्द ॥ ६ ॥ प्राप्ता खगेहमणितोरणदण्डमेका रथ्यागतत्रिपुरवैरिविलोकनाय । किं स्थाणुसंश्रयणमिष्टमिति ब्रुवाणां पाणिस्थकेलिकमलेनं सखीं जघान् ॥ ७ ॥ किं ब्रह्मणो हननमेव तपोङ्गमेव किं ते विरक्तिरवलासु वशीक्रियेयम् । किं पावनी शवशिरःस्रगिति स्मरात्तै- रानर्च कापि गिरिशं वचनप्रसूनैः ॥ ८ ॥ व्यालोलकेशकलितेन करेण काचित्का- श्वीगुणश्लथनदर्शितनामिमूला । १. 'विलासलंलित" इति पाठान्तरम् । २. 'स्थाणुं गतासि तव भद्रामिति अवाणां' इति पाठातरम् ti : FE .. . &; म १० काव्यमाला। वक्षस्यमीष्टदयिताकुचमुद्रितोऽपि योगी किलेति गिरिशं कुटिलं ददर्श ॥ ९ ॥ काचित्पुरा प्रणतिकृत्यमशिक्षितापि गौरीक्राय विनयाञ्जलिमाबकच । तन्मौलिचन्द्रकिरणैर्मुकुलीकृतेन लीलाम्बुजेन कृततत्प्रवर्णोपदेशा ॥ १० ॥ हीनाङ्गतोपरतमार्गणमोचनेन प्राचीनवैरकुपितेन मनोभवेन । संचोदितेव निशितैर्निखिलेऽपि देहे विव्याध कापि मदनारिम्पाङ्गबाणैः ॥ ११ ॥ प्रस्थानवेगशिथिले सति केशपाशे काचित्तथैव गिरिशस्य समीपमाप । स्थाने स्मरस्य परिभूतिमपास्य केश- बन्धो विधेय इति बद्धदृढव्रतेव । १२ ।। येनाकुलेक्षणयुगा तरुणेन्दुमौलि- मान्दोलितेन न विलोकयितुं शशाक । लीलाम्बुजेन सहसैव नुनोद काचि- दात्मालकं चलदलिभ्रमवश्यबुद्धिः ।। १३ ।। कण्ठे सकौतुकसमर्पितया तदीये ववे स्वयं पशुपति पतिमेव सद्यः । कालाञ्जनप्रणयमेचकया खदृष्ट्या नीलोत्पलारचितमालिकयेव काचित् ॥ १४ ॥ १. 'मुकुलायितेन xxx तद्रचनोपदेशा' इति पाठान्तम् ।

८ पद्धतिः] भिक्षाटनकाव्यम् । ९१ वल्ली वधूस्तदधरस्तरुणप्रवाल- सत्रापि निर्मलरुचिस्मितमेव पुष्पम् । तस्योद्मे जनविलोचनभृङ्गसेव्ये मासो मधुर्मधुसखारिरभूत्क्षणेन ॥ १५ ॥ रथ्योपहारकुसुमस्खलनेन काचि- त्पादाग्रतोदमभिनीयं पुरः पुरारेः । आत्मन्यशृङ्खलमनोभवमुच्यमान- पुष्पास्त्रदुर्विषहतां प्रकटीचकार ॥ १६ ॥ काचित्प्रकोष्ठवलयावलिसंश्रितस्य लीलाशुकस्य मुखसंक्रमितैर्वचोमिः । भिक्षाटनादिलघुकृत्यनिषेधगमैं- मन्दस्मितोत्तरमयुग्मदृशं चकार ॥ १७ ॥ द्वारि स्थितस्फटिकतोरणदीर्घदण्डं तुङ्गस्तनाग्रयुगलेन निपीडयन्ती । मन्दस्मितानुमितचित्तनिगूढभावा काचिन्मुहुर्मुहुरवैक्षत चन्द्रमौलिम् ॥ १८ ॥ कस्याश्चिदीशपदवन्दनलालसाया नासीदिवा मुकुलितं करपद्ममेव । चूडाशशाङ्ककिरणैः परिभूयमान तस्याः करप्रणयकेलिसरोरुहं च ॥ १९ ॥ अहाय काचिदनियन्त्रितमेवं कृत्वा बन्धश्चथं चिकुरमीश्वरमाससाद ।

९१ काव्यमाला [:: कामायमान 'सन्त-: " निःशेषनिर्हरणबद्धदृढव्रतेव ॥ २०॥ काचित्कलकणितकरणमञ्जनादै-IAC- हरीशं स्ववीक्षणपरं विदधे विदग्धा पुंसां मनोऽभिलषितेषु विलासिनीनां प्रायेण भूषण रवः प्रथमामिलाषः ॥ २१ ॥ आचारपुष्पमपरा स्मितपुष्पमिश्र- मन विभोः क्षणमवाकिरदानमन्ती । लालाटलोचनकृशानुभयानुपात्त- रूपान्तरेव कुसुमायुधचापयष्टिः ॥ २२ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विलासपद्धतिरष्टमी। ' - " नवमी पद्धतिः । तैस्तैर्विलासचरितैर्विकृतं न वेति चित्तं परीक्षितुमयुग्मविलोचनस्य । । यान्यूचिरे युवतयो वचनानि सार्ध तस्योत्तरैरनुगुणैः कथयामि तानि ॥ १ ॥ सख्यं वरेण्यघटितं द्रविणेश्वरेण कार्य तथापि किमिदं तव नापयातम् । किंवैष सुन्दरि चिराय पयोधरेण- स्फीतेन ते परिचितः कृश एव मध्यः ॥ २ ॥ १. अत्र पाठो न दृश्यते. .. २. कार्य निःसारत्वम्.

९ पद्धतिः] भिक्षाटनकाव्यम्। ९३ , 3 सर्वेषु जन्तुषु समं कथमिन्दुमौले', त्वामेव हन्तु विषमेक्षणमाह लोकः। मध्यः कृशोऽपि वहति स्तनयोर्भरं ते }} .) तस्मिन्वहत्यपि च मध्यमवाद एव ॥ ३ ॥ दोषं विनैव भवता तरुणेन्दुमौले कस्मात्पुरा विनिहतः करियूथनाथः। त्वत्पीवरस्तननिराकृतकुम्भकान्ति- जीवन्मृतो मयि वराङ्गि मृषापवादः॥ ४ ॥ आद्यन्तशून्यइति वेदविदो वदन्ति .... त्वामिन्दुशेखर जगत्युदयान्तभाजि । तद्वादमात्रमयमद्य हि दृष्ट एवं }}}सर्वैश्चकोरनयने तव मध्यलोपः ॥ ५ ॥ उत्पाद्य पावकमयं नयनं ललाटे. प्लष्टस्त्वया किमिति शंकर पुष्पकेतुः । दृष्ट्यैव ते यदयमाप पुनः प्रसूति तचण्डि हास्यपदमस्म्यहमेव जातः॥ ६ ।। मुक्तामयः स्फुटमयं रशनागुणो मे विग्धिग्भयंकरभुजङ्गमकल्पितं ते । मुक्तामयत्वमुचितं ननु तस्य बाले यः सेवते तव नितम्बमजस्रमेव ॥ ७॥ पूर्ण विहाय कथमेनमनङ्गशलो मूर्धा भवान्वहति नित्यकृशं शशाङ्कम् । त्वद्वत्रकान्तिपरिभूतिमनाकलय्य || पूर्णाद्वराङ्गि वर एव कृशोऽयमिन्दुः ॥ ८ ॥ । ::- काव्यमाला। ये गर्हिता गिरिश तेऽपि भवन्तमेत्य लाध्या भवन्ति सहसेति सतां प्रवादः। रागोऽधरे कुटिलताप्यलके, ऋशवं मध्ये, कुचे कठिनता च तथा नकिंवा ॥ ९ ॥ वैवखतेन दमितः सकलोऽपि लोकः सोऽप्ति त्वदीयचरणेन मिताकपाणे । पद्मं शशी जयति मीरु मुखं तबैन. मेकान्ततो न विजयोऽस्ति पराजयो बा ॥ १०॥ देहीति वाचि पदमद्य तवेन्दुमौले चक्षुः पुनर्मूगदृशां मणिमेखलासु । पुंसो रसाहृदयस्म पुरो वधूनां वाक्ये च चेतसि च कर्मणि चान्यदन्यत् ॥ ११ ॥ एतेन भैक्षचरणेन जगत्कुटुम्ब- त्राणक्षमा पशुपते किमलाभि पूर्तिः । पूर्णो न किं प्रतिदिनं त्वयि भिक्षमाणो लावण्यमाननगतं प्रतिपच्छशाङ्कः ॥ १२ ॥ अग्रेसरस्त्वमसि नाथ विलासभाजां भिक्षामटस्यपि कथं त्वमपास्तलज्जः । खच्छन्दवीक्षणवचांसि पृथवा कर्तु न भैक्षचरणादपरोऽभ्युपायः ॥ १३ ॥ एतानि नाथ वचनान्यमृतोपमानि कण्ठादुपात्तगरलादपि निर्गतानि । खादिष्टता वचसि जाता श्रोतुर्जनस्य गुणवत्त्वनिवन्धनैव ॥ १४ ॥ वक्तृगुणैर्न ९ पद्धतिः] भिक्षाटनकाव्यम् । ९५ क्रीडापरः कथमसि त्वमनादिवृद्धो मुग्धासु भैक्षचरणच्छलतो वधूषु । यः संगमो युवतिभिर्जरयातुराणां तं सूरयो जरणभैक्षजमामनन्ति ॥ १५ ॥ धिक्त्वां भुजङ्गममयस्तव यस्य हारो मुक्कामयस्तव न किं मम पश्य नाथ । मुक्तामयत्वमुचितं ननु तस्य बाले पीनस्तनेन कृतसंगमनिर्वृतस्य ॥ १६ ॥ अन्यत्र यातमपि मानसमीश किं ते नैवाददासि बलिमद्य नच प्रयासि । यस्ते गुरुस्तनभरः कलकण्ठि तस्य तद्दक्षिणीकृतमिदं हृदयं मया ते ॥ १७ ॥ यत्कायॆमीश भवतो मुखपूर्णचन्द्रे भ्रष्टं तदेव गणयामि गलस्थमेतत् । रागोऽधरे सुदति यः स तवाननेन्दो- राभासि(ति) संचित इवोदयशोणभावः ॥ १८ ॥ मध्यस्थमीश कथयन्त्यखिला भवन्तं कस्मादकारि भवता सरदेहदाहः । पुंसां करोति मदिराक्षि नितान्तपीडां मध्यस्थमेव कथमद्य वलित्रयं ते ॥ १९॥ इत्युत्प्रेक्षावल्लभकृती भिक्षाटनकाव्य उत्तरप्रत्युत्तरपद्धतिर्नवमी। १. 'कथयन्ति जना भवन्तं' इति पाठान्तरम् ।

काव्यमाला . . दशमी पद्धति::::: प्रत्यालयं, कृपणवजगतामधीश देहीति दीनपदवादिनि सिक्षमाणेः।। वामश्रुयां मनसिजावशमानसानां भिक्षाप्रदानचरितान्युपलालयामः ॥ १॥ काचित्पुरः पुररिपोरतिसंभ्रमेण भिक्षामपातपतितामवबुध्य सद्यः । अन्तर्भयेन निदधे हृदये कराग्रं भिक्षाहममि भवतो भगवन्नितीव ॥ २॥ प्रेम्णापि याचितनिदानविरोधिता तु दर्वी दधत्यपि करेण समृद्धसिद्धाम् । भैक्षाढणा(ना)न्तमपरा गिरिशेन योगा- .. निश्चित्य कालहरणं कपटैश्चकार ॥ ३ ॥ सत्पात्रदानविधिना यदनेन पुण्यं तन्मे तवैव कृशभावमपाकरोतु । इत्येवमिन्दुशकलाभरणाय काचि-: फ्रेक्षेण पुण्यमपि दानभवं दिदेश ॥ ४ ॥ आदातुमैच्छदधिकं गिरिशो न भैक्षं पात्रं वधूः सपदि पूर्णमियेष कर्तुम् । आयस्तयोर्युवतिशंकरयोर्बभूव भिक्षाप्रदानसमये सुचिरं विवादः ॥ ५ ॥ दाः परिच्युतमिदं तमियं च हस्ता- दानादयं तदपि दुर्लभसंप्रदानात् । '..

१० पद्धतिः ] भिक्षाटनकाव्यम् । ९७ अश्रान्तमेव गिरिशान्तरपल्लवेन कस्याश्चिदायतदृशः स्मितपुष्पकेण ॥ ६ ॥ आयाहि तिष्ठ जहि भीमभुजङ्गहार- । मेनं गलात्तदनु भैक्षमिदं गृहाण । इत्येवमीश्वरमपेक्षितभैक्षदाना- प्रागेव कापि निजकिंकरतां निनाय ॥ ७॥ एका कथंचन चिरेण विनम्रवना लज्जावशेन गिरिशाय दिदेश भिक्षाम् । दानोन्मुखस्य च गुणाभ्यधिके निकृष्टे याच्नापरस्य च समस्त्रपया विकारः ॥ ८॥ धिग्याचनं जगति सन्निहितावमानं भैक्ष्यं प्रदेयमिदर्मर्थयते महेशः । कामद्रुहे न खलु देयमिति खवाचा प्रत्यादिदेश पुर एव हि तस्य काचित् ॥ ९॥ यो भिक्षते प्रतिगृहं भुवनेश्वरोऽपि तस्मै च या सकरुणैव ददाति भिक्षाम् । तावन्ववेक्ष्य गिरिशं [च] सखीं च काचि- त्तामेव सर्वसहतां जगते जगहें ॥ १० ॥ दर्वीमुखं द्रुतगतिच्युतसिक्थमेव काचिन्मुधैव निदधे हरमैक्ष्यपात्रे । तस्याः पुनः परिहृतो झटिति प्रकोष्ठा- शिक्षाकपालपतितैर्वलयैः प्रमादः ॥ ११ ॥ भिक्षा प्रदातुमपरा शमनान्तकस्य वेगादुपान्तमुपसृत्य बभूव तूष्णीम् । ७.द्वादशगु० ९० काव्यमाला। दानादधःकृततदीयकरारविन्दा- च्छाध्यं विभुद्य(बुध्य) जनशोच्यमदानमेव ॥ १२ ॥ आहूत एव चरितो विधृतान्नदा भिक्षुः कयापि गिरिशो न कृतः कृतार्थः । दोषावरन्नि(रं नि)रवधेविरहासहिष्णोः स्नेहस्य किंचिदपि चारुदृशो न तस्याः ॥ १३ ।। भिक्षा प्रदातुमभिवाञ्छय पुमानमुष्मै कङ्कालवेष इति बन्धुविबोधितापि । नैव न्यवर्तत वि(व)धूः शिवभक्ष्य(क्ष)दाना- .. द्धर्मात्मना परिणतो ननु काम एव ॥ १४ ॥ यावन्न निर्गलति देहिवचोऽस्य वक्रा- तावद्ददौ झटिति काऽपि शिवाय भैक्षम् । देहीति दीनपदनिर्गमयत्नमूल्यं नालं जगत्रितयमर्थिजनाय दत्तम् ॥ १५ ॥ यो दक्षिणः पुरजितो विततार भिक्षां कस्याश्चिदाशु वलयैः स करो विहीनः । हा हन्त दैवतमतिक्रमकारि वामः , संरक्षितो वलयवान्मलिनालकायाः ॥ १६ ॥ भिक्षोदने स्थलनिपातिनि कापि शंभोः पात्रं न सम्यगिति पाणिगतं जगहें । आत्मीयदुष्करणहेतुक एव मत्यैः सर्वैविधेः शिरसि पात्यत एव दोषः ॥ १७ ॥ ... १. 'बुद्धिविबोधितापि' इति पाठान्तरम् ।

११ पद्धतिः]
भिक्षाटनकाव्यम् ।
९९
मा गच्छ शंभुमिति मातृनिवारितापि
भिक्षाप्रदानमपदिश्य जगाम काचित् ।
धर्मप्रतीपगतिरप्यभवत्तदानी-
मालम्बनं मनसिजस्य विचित्रमेतत् ॥ १८ ॥
काचित्करेण दधती गुरुभैक्षगर्भा
दर्वीमियाय हरपार्श्वभुवं न यावत् ।
स्नेहोज्ज्वलां मनसिजः स्वयमग्र भिक्षां
तामेव तावददिशत्परमेश्वराय ॥ १९॥
पात्रोत्तमस्त्वमसि नायक पाणिलग्नं
पात्रं तथापि न पवित्रमिदं कपालम् ।
यावन्न तत्त्यजसि नैव ददामि ताव
दित्येव कपि गिरिशाय ददौ न भिक्षाम् ॥ २० ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाप्रदानपद्धतिर्दशमी।
-
एकादशी पद्धतिः।
मिक्षाप्रदानसमये वनिताजनस्य
जातानि शंभुमधिकृत्य वचांसि यानि ।
तस्योत्तराण्यपि च यानि नयान्वितानि
वक्ष्यामि तानि विदुषां श्रवणोत्सवाय ॥ १ ॥
भिक्षाटनादिकममङ्गलचेष्टितं ते
किं नाम सापि सहते गिरिराजपुत्री।
यं यं करोत्यविनयं जगतीह भर्ता
साध्वी वधूरनुगुणैव हि तस्य तस्य ॥ २ ॥

काव्यमाला। भिक्षाटनं यदि न ते विहृतिप्रवृत्तं याचख भूरि पुरशासन मैव मैक्षम् । लोकेऽत्र लोभबहुले मितमेव याच्यं तावानलाभसमये भविता विषादः ॥ ३ ॥ भिक्षान्नसाध्यमभिधेहि पिनाकपाणे रुच्यावहं तव तदेव हि कालकूटम् । यद्याचितं कृशजनेन तदाशु देयं दात्रा कथं चिदपि नास्य फलं विचार्यम् ॥ ४ ॥ अस्त्येव ते प्रियसखः शिव वित्तनाथः तस्मिन्स्थितेऽपि किमियं तव भैक्षयाचा । वित्तान्धदुर्मुखनिरीक्षणभीतिभाजां भिक्षा वरं प्रति निकेतमदैन्यलभ्या ॥ ५ ॥ सर्वाः कला वदनतो भवतः प्रवृत्ताः किं तासु काचिदपि नाथ न पोषहेतुः । अन्यैव कापि धनिनां द्रविणात्मिका श्री- विद्यात्मिकापि विदुषामपरैव लक्ष्मीः ॥ ६ ॥ कंचिन्मुहूर्त्तमिह तिष्ठ विभो मदीयं गेहं प्रविश्य पुनरेत्य ददामि भिक्षाम् । अभ्यर्थिनामभिमतस्य चिरेण लामा- दभ्यर्हितः सपदि नास्ति पदस्य लाभः ॥ ७॥ तां तां समृद्धिममरा भवतो लभन्ते भिक्षाटनव्यसनमीश किमर्थमेतत् । १. 'हच्याशनं जगति ते गरलं प्रसिद्धम् ।' इति पाठअन्तरम् । २. 'त्वामा- हुराद्यकवयो निलयं कलाना' इति पाठान्तरम् ।

. ११ पद्धतिः] भिक्षाटनकाव्यम् । १०१ नीचैः : कदाचन समस्थितिरन्यदोच्चै- रप्येकदा भवति देहभृतामवस्था ॥ ८ ॥ यत्केवलं तव कराग्रकरोटिपात्र- मद्याप्यलाभि भवता न किमग्रभैक्षम् । उत्साहसंततिकृतामपि देहभाजां लाभो न यत्नमनुधावति भाग्यतन्त्रः ॥ ९ ॥ मागाः परत्र भवने भव पात्रमद्य मिक्षोदनैरहमिदं तव पूरयामि । वाचं मुधा कुसुमितां विदधाति लोकः किंचित्त्वसौ फलति नार्थिषु दीर्घतोऽपि ॥ १० ॥ संपन्नमन्नमखिलेश्वर भैक्षमात्रं तुभ्यं प्रदातुमियदेतदपत्रपेऽहम् । निर्णीतमेतदखिलार्थिजनेन दाने देयस्य काललघुता लघुतां क्षिणोति ॥ ११ ॥ भैक्षार्थिना प्रतिगृहं चरता त्वयैव न स्थीयते किमिति हन्त मुहूर्तमात्रम् । एकत्र पुष्कलमलब्धवतां वकाम्यं क्वापि स्थितिमधुलिहामिव दुर्लभैव ॥ १२ ॥ दास्यामि भैक्ष्यमखिलेश दिने परस्सिं- स्तुभ्यं हतेन विधिना गलितोऽन्नकालः । संप्रीयतां स खलु नाम तयात्वदुक्त्या यः खात्मनः स्थिरमतित्वमिहातनोति ॥ १३ ॥ १. 'लघुतां करोति' इति पाठान्तरम् । २. 'धत्ते स्थिरत्वमतिमात्मनि यः स भूयाद्भाव्यर्थव्यभमुदितो न तथाहमस्मि ॥' इति पाठान्तरम् ।

१०२
काव्यमाला।
कालात्ययेऽद्य भवता गृहमागतं मे
नास्त्येव भैक्षमखिलेश किमत्र कृत्यम् ।
नास्तीति यो वदति भिक्षुसमक्षमेव
सद्भावमात्मनि निषेधति नैव देये ॥ १४ ॥
अप्रापणे वदनमेति यथा विकास
भैक्षस्य नैव हि तथा तव तस्य लाभे ।
वाञ्छाम्यलाभमहमायतलोचनाभ्यः
सद्यो वियोगविपदाहत एव लाभः ॥ १५ ॥
खामिन्मया पुरत एव विखण्डिताशो
भूयोऽपि मां किमनुधावसि मैक्षकामी ।
भृङ्गः पुरा मुकुलनेन विमोघकामः
पुष्पं न किं पुनरुपैति विकासकाङ्गी ॥ १६ ॥
तुभ्यं ददामि कथमद्य वरेण्य भिक्षां
तां खीकरोति कथमेव भवानलज्जः ।
दाता यथारुचि ददात्यमितं मितं वा
गृह्णाति वस्तु मितमप्यगतिर्दरिद्रः ॥ १७ ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटन काव्ये दीनोक्तिपद्धतिरेकादशी।
द्वादशीपद्धतिः ।
बध्नाति मे प्रथमवैरिणि पक्षपात-
मेवं जनोऽयमिति जातरुषा स्मरेण ।
निःशङ्कविद्धहृदयस्य वधूजनस्य
यत्पारवश्य चरितं तदुदीरयामि ॥ १ ॥

१२ पद्धतिः] भिक्षाटनकाव्यम् । १०३ भूतैः किमन्तिकचरैः सहसा गृहीता दष्टा शरीरकलितैरुत पन्नगेन्द्रैः । का(क्ला)न्ता खिदस्य गलकालगरोष्मणेति काचिच्छिवस्य पथि संदिदिहे सखीभिः ॥२॥ भूषोरगानविगणय्य विभोरुपान्ते कापि स्थितैव निजबन्धुनिवारितापि । किं धार्श्वमेतदुत मौढ्यमहो विदस्या भक्तिर्वरा किमु मनोभववैभवं वा ॥ ३ ॥ आलोक्य दृष्टिररुणा प्रथमं मृगाक्ष्या गौरीकुचाहतिकिणोरसमिन्दुमौलिम् । पश्चादुदश्रुसलिलाभवदग्नितप्ता मारस्य दत्तनिशिताश्रुजलेव शक्तिः ॥ ४ ॥ अस्त्रं विमुच्य निखिलं प्रथमप्रयोगे भूयोऽपि वेढुमबलां विहितोद्यमस्य । पुप्पायुधस्य वपुरेव तदीयमेकं लक्ष्यं च हन्तशरधिश्च तदा बभूव ॥ ५॥ पादेन किं फणिगणे चकितं नितम्बे शंभोः करे विवशमग्रसरे सपात्रे । आधूसरं भसितलेपिनि बाहुमध्ये स्नातुं शिरः सरिति चित्तमधीरदृष्टेः ॥ ६ ॥ काचित्पृथुस्तनभरे गलितोत्तरीये व्यत्यासभङ्गिनिहितेन भुजद्वयेन । आलिङ्गनं हृदयदेशजुषः शिवस्य कर्तु समीप्सितवतीव चिरं चकाशे ।। ७ ।।

१०४ काव्यमाला। पुष्पं विकीर्य गिरिशाय पुरैव पश्चा- सर्वो जनो जगति बन्धविमुक्तिमेति वेणीभरो मृगदृशः प्रथमं विमुक्तो बन्धात्पुनः पुरजिते कुसुमं मुमोच ॥ ८॥ आत्मानुबन्धिरशनागलनाद्यवद्य- मन्यास्वपि क्षणमवेक्ष्य हरोग्र एव । काचित्रपापरिभवं न ययौ तदानीं लज्जावहो न खलु जात्यविशेष दोषः ॥ ९॥ आलिङ्गनाहतमना गिरिशं विलोक्य रोमाञ्चकण्टकितमूर्तिरजायतान्या । रागेण पुंसि निहिता सुदृशां दृगेव प्रायेण तत्तदुपभोगसुखं करोति ॥ १० ॥ कस्याश्चिदाईघनचन्दनपङ्किलायां संवर्धितं स्तनभुवि स्मरकर्षकेण । रोमाच(श्च)सस्यममितिश्रमवारिसिक्तं भेदस्तु नाभवदयं खलु दीर्घतन्त्रः ॥ ११ ॥ भिन्नाः स्तनांशुकगुणा हरसंनिधाने प्रीत्या यदायतदृशो न तदद्भुताय । योषिद्गुणा नियमिता विधिनैव तस्या लज्जादयः सपदि यत्रुटिता बभूवुः ॥ १२ ॥ आसीत्परा सपदि तस्य कृतान्तशत्रो- रालोकनादनिमिषेति किमत्र चित्रम् । १. 'वेणीभरस्तु सुदृशः' इति पाठान्तरम् । पाठान्तरम्। २. 'पुरः शिवस्य' इति १३ पद्धतिः] भिक्षाटनकाव्यम् । १०५ यस्य क्षणस्मरणमात्रवशेन मा यत्नं विनाप्यनिमिषत्वपदं लभन्ते ॥ १३ ॥ च्योतत्सखीवसनरक्षणदत्तहस्ता वित्रंसिनि स्ववसने पुरतः पुरारेः । अन्यापुनः क्षणमजायत कृत्यमूढा नात्मावनेपि गणना पररक्षकाणाम् ॥ १४ ॥ कस्याश्चिदुत्तरदुकूलविलोपदृश्या- दाभोगतः कुचयुगस्य विनिर्जगाम । अन्तर्गतं झटिति वक्तुमिवेन्दुमौलिं रोमाञ्चमन्तिकगताय सखीजनाय ॥ १५॥ बन्धश्लथः कचभरः प्रचुराश्रु नेत्रं कम्पोत्तरं कुचयुगं गलदुत्तरीयम् । विस्रस्तकाश्चि जघनं चरणं प्रयाणे शक्तरं मृगदृशो हरदर्शनेन ॥ १६ ॥ हस्तः कयापि गलितांशुकवारणाय व्यापारितो वलयविच्युतिदैन्यमाप । यत्ने कृते शमयितुं विनिपातमेकं हानि परामपि विधिर्विदधाति वामः ॥ १७ ॥ इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकाव्ये पारवश्यपद्धतिदशी । त्रयोदशी पद्धतिः। कन्दर्पमुक्तशितबाणपरम्पराभिः शंभोः पुरः प्रहृतचित्तमवेक्ष्य सख्यः ।

१०६ काव्यमाला। नारीजनं निजगदुर्वचनानि यानि रम्याणि सन्तु रसिकश्रुतिपारणाय ॥ १ ॥ मुग्धे स्मरार्तिपिशुनं वसनाश्चलेन रोमाञ्चमावृणु पुरः पुरसुन्दरीणाम् । लोकः परस्खलनदर्शनदिव्य चक्षु- र्जात्यन्ध एव निजदोषनिरीक्षणेषु ॥ २ ॥ यत्पूर्वमात्तविनयाञ्जलिरीशपार्थे भूयाः सदेति मुहुरालि मयोपदिष्टम् । तस्यावधीरणफलं वलयच्युतिस्ते क्षेमंकरो भवति किं न शिवे प्रणामः ॥ ३ ॥ खैरं विलोकय कृशोदरि कामशत्रु मा भूदयं तव मुखाम्बुरुहे विकासः । आविर्भवत्यहिमभासि विकासमात्रा- त्तत्प्रेयसीति नलिनी न किमाह लोकः ॥ ४ ॥ आमीलनेन कमलस्य मधुव्रतानां खच्छन्दचारविहतिस्त्वयि सान्यथैव । फुल्लेऽपि शंकरमुखाम्बुरुहे विलीनः शक्तो न गन्तुमपरत्र कटाक्षभृङ्गः ॥ ५॥ वासच्यु(श्युोतं तव सखीत्यभिधीयमाना नीलं हरस्य गलमूलमिति ब्रवीषि । उन्मादिनां जगति नूनमपार्थजल्पा- दल्पान्तराणि मदनातुरभाषितानि ॥६॥ १. 'रम्याणि तानि कथयामि विदन्तु सन्तः ।' इति पाठान्तरम् ।

१३ पद्धतिः] भिक्षाटनकाव्यम् । १०७ शंभोः समीपमुपगच्छसि निर्विशङ्क मुग्धे मनोभवभवेन मतिभ्रमेण । हाराहिमस्य न निरूपयसि क्षुधात मुग्धं च ते मुखमिदं शशिनिर्विशेषम् ॥ ७ ॥ स्रस्तोत्तरीयमधुना कुचमण्डलं ते पाहि(णि)द्वयेन पिदधासि यदम्बुजाक्षि । तत्साधु संप्रति पुनर्वलयोज्झितस्य तस्याभिधेहि सखि केन तिरस्क्रियास्तु ॥ ८ ॥ नेत्रद्वयं हरविलोकनलाभधन्यं सर्वेतरेन्द्रियगता गमितैव शक्तिः । स्पर्श न वेत्सि मुहरङ्गुलिताडितापि नाह्वानशब्दमपि यत्सखि मे शृणोषि ॥ ९ ॥ सर्वाङ्गवीक्षणमहोत्सवभाग्यहीना नूनं त्वमस्य गिरिशस्य किमद्य कुर्मः । वक्षःस्थले प्रथममस्य दृशं निमग्ना- मुद्धर्तुमेव निपुणासि न यत्नतोऽपि ॥ १० ॥ नैवाद्य कान्तिविलयो वपुषीश्वरस्य संकोचनं न तव नेत्रयुगे प्रसङ्गि । अन्यः किमद्य सखि पश्यसि रोषरूक्षं पश्यन्तु ता अपि वृषध्वजमादरेण ॥ ११ ॥ ईर्ष्याकठोरमसकृत्त्वमवेक्षसे कि- मन्योऽपि तं कमपि पश्यतु भीरुवर्गः । मोहेन शंकरविलोकनसंभवेन १०४ काव्यमाला। : श्वासं न किंचिदपि मुञ्चसि कातराक्षि । भृङ्गामदीयवरसौरभलोभलोभा- द्यत्नेन संप्रति तवाननमाश्रयन्ते ॥ १२॥ मा मेखलेति मम वा वनमाकलय्य बद्धा तदाक गलिता मणिमेखला ते पण्यं न यः स्वयमवैति जनः स नूनं पथ्योपदेशमपि हन्तवहिप्करोति ॥ १३ ॥ यो मूढधीः खयमयं न श्रद्दधीत यदि तस्य विपत्तिरेव ॥ १४ ॥ काञ्चीगुणः पततु काममसौ नितम्बा- देतानि रत्नवलयानि च बाहुयुग्मात् । एतत्तु मे व्यसनमालि सहैव तैस्तै- र्लज्जामयस्य सहजाभरणस्य पातः ॥ १५ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्योक्तिपद्धप्तिस्त्रयोदशी। पुनराप्तवाक्यं :: :- चतुर्दशी पद्धतिः । श्लाघ्येन भैक्षचरणेन चिरं विहृत्य रथ्यासु कालदमने गमनप्रवृत्ते । जातानि तस्य पुर एव नितम्बिनीनां विश्लेषभीतिकलुषानि(णि) विचेष्टितानि ॥ १ ॥ गन्तुं प्रवृत्तमवलोक्य वृषाङ्कमेका बालाम्बु नेत्रयुगुले प्रचुरं बभार ।

१४ पद्धतिः] भिक्षाटनकाव्यम् । तस्यास्तदीयनयनानि पुनर्विदाहा- त्रस्यन्निव क्षणमलक्ष्यत पञ्चबाणः ॥ २ ॥ साकूतमैक्षत हरं मुहुरेव काचि- द्विश्लेषवन्दननिमीलितपाणिपद्मा। संज्ञां सरोरुहनिमीलनयोग्यकाले भूय स्तदागममपेक्ष्य वितन्वतीव ॥ ३ ॥ मन्दस्मितैरकलितोत्तरमीशमन्या देहीन्द्रनीलमिति कण्ठगरं ययाचे । आगामितं झटिति तीव्रवियोगतापं तेनैव कर्तुमभिवाञ्छय विमूढ बुद्धिः ॥ ४ ॥ काचित्पति गतिविषक्तमवेक्ष्य चिह्नः कामं तथास्त्वथ च कापि ममास्ति नीतिः । एते न मे हृदयगेहमहं प्रविष्टो मा निर्गमेदिति विलोचनमामिमील ॥ ५॥ मा गा इति व्यवसिता गदितुं कयाचि- त्वह्ना निरोद्धुमपि बाहुयुगार्गलेन । नानुष्ठितं गमनकाटिणि भूतनाथे हीयन्त्रणा भवति नैव मनःप्रवृत्तेः ॥ ६ ॥ हस्तान्मम वगलितं वलयं न जाने भिक्षाकपालमिह नायक दर्शयेति । काचिच्चकार हरयानमुहूर्तविघ्नं भिक्षुः शिवोऽपि परिभूतिपदं जगाम ॥ ७ ॥ १. आईपादस्यार्थोऽस्फुटः.

११०
काव्यमाला ।
वीथीविमोचनकृतव्यवसायमेका
ज्ञात्वा हरं विरहतश्चकिता चकार ।
तत्संनिधावपि निमील्य निमील्य चक्षु-
यत्नेन भावितदवीक्षणसाम्यशिक्षाम् ॥ ८ ॥
तावत्रपा त्वरितपार्श्वगतिर्मंगाक्ष्या
तावच्छलादसकलानि विलोकितानि ।
वीथीप्ररिभ्रमणकेलिविपक्षभूतो
यावत्प्रभोर्न गमने जनितोऽभिलाषः ॥ ९॥
अन्तर्वरः श्वसितमूर्जितमेव भूयां-
नगण्डस्थले धवलिमा दृशि बाप्पपूरः ।
जातो हरेण सुदृशो विरहप्रतापा-
त्पूर्व फलं तदनु हेतुरहो विचित्रम् ॥ १० ॥
काचिन्निरर्गलविनिर्गतबाष्पपूरै-
राशङ्कितं हरवियोगभयं सखीभ्यः ।
दृष्टिर्ममेयमलकच्युतपुष्परेणु-
स्पृष्टत्यपृष्टवचनैः प्रकटीचकार ॥ ११ ॥
प्रस्थानमिन्दुशकलाभरणस्य काचि-
दासन्नमेव विगणय्य भयेन मुग्धा ।
आदर्शमापतिततत्प्रतिबिम्बहृद्य-
मङ्गेष्वनङ्गविवशेषु मुहुर्त्यधत्त ॥ १२ ॥
भमस्य शङ्खवलयस्य ममैतदेक-
मर्ध चिराय मृगये तदिह द्वितीयम् ।
यन्मूर्ध्नि ते कुटिलभावरमेतदद्य
संदर्शयेति वनिता गिरिशं रुरोध ॥ १३ ॥

१४ पद्धतिः] मिक्षाटनकाव्यम् । १११ खच्छन्दरागरसिकस्य गतिर्वि(गतिं नि)रोद्धं शक्तास्मि ते मलयमारुततुल्यवृत्तेः । अस्याः स्मरार्तिरियतीति सखी प्रदर्य प्रस्थायिनं हरमवोचदुपांशु काचित् ॥ १४ ॥ सद्यः प्रयाणकरणोद्यमगम्यमान. नैरस्यमाईयितुमेव मनस्तदीयम् । पेतुः पिनाकिनि मुहुर्मुगलोचनाया बाप्पोदकान्तरितलोचनवीक्षितानि ॥ १५ ॥ काचित्प्रसक्तगमनं गिरिशंकरस्थे छायाप्रविष्टवपुषा मुकुरे निधाय । तं सर्वदा सुलभमेव विबुध्यमाना नारी वियोगभयविह्वलतां जहास ॥१६॥ लीलाम्बुजे मम रमस्व यथेष्टमस्मि- न्मा गच्छ षट्पद परिभ्रमणेन किं ते । इत्याशु कापि गिरिशस्य गतिप्रसङ्गे भृङ्गाश्रयं गतिनिषेधवचो जगाद ॥ १७ ॥ आशासमुल्लसितपीनपयोधराया ताम्राधरस्फुरणदर्शितशक्रगोपा। काचिद्बभूव गतिकाङ्किणि नीलकण्ठे बाष्पाम्बुदुर्दिनमुखी जलदागमश्रीः ॥ १८ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विश्लेषारम्भपद्धतिश्चतुर्दशी ।

११२ काव्यमाला । पञ्चदशी पद्धतिः । स्था(स्थित्वा विभोर्जिगमिषोः पथि कातराक्ष्या- स्तत्प्रस्थितिक्षणनिवारणकारणानि । अप्यल्पिकां विविदिषां सुवहन्त्य एव प्रश्नात्मिकानि ललितानि वचांसि चक्रुः ॥ १॥ स त्वं पुराण कथयेह ममाद्य रूपं सख्या सहैव चिरकालकृतो विवादः । यद्भस्म ते वपुषि तद्भवता गृहीतं दाहे स्मरस्य किमथो नु पुरत्रयस्य ॥ २ ॥ शङ्कामिमां शमय नाथ पुनर्यथेष्टं देशं भवान्नजतु को नु तदा विरोधः । दाक्षायणीपरिणयप्रणयेऽपि किं ते पाणिः फणीन्द्रपु(प)रुषोऽयमथान्यथा वा ॥ ३ ॥ पृच्छाम्ययं किमपि नाथ भवन्तमेत- द्रुहि द्वयोरपि तयोरधिकः क एव । अन्विष्य यस्तव वराहमलाभखेदो व्याघाकृतेः सुचिरमस्य च यो भवन्तम् ॥ ४ ॥ खामिन्मदीयहृदये चिरकाङ्कितोऽयं कार्यस्त्वया सपदि विप्रतिपत्तिलोपः । देहीति यत्पदमथाब्धिभवं विषं वा जिह्वाग्रदुःसहमुदीरय किं तयोस्ते ॥ ५ ॥ १. 'आत्मीयसंशयनिराकरणापदेशात्' इति पाठान्तरं च कृतीयपादस दृश्यते।

१५ पद्धतिः] भिक्षाटनकाव्यम् । जिज्ञासया हृदयमाकुलितं तथापि पृच्छामि तत्कथय नायक तथ्यमेव । किं ते कपालमनिशं दघतः करस्य : किं वानुगेहमटतश्चरणस्य तोदः ॥ ६ ॥ याचे भवन्तमधुना मघुबन्धुशत्रो शामिमां प्रशमयाद्य चिरानुषक्ताम् । त्वद्भक्तयोर्वद पुलिन्दमुकुन्दयोस्ते नेत्रं यदेतदधिकं कतरेण दत्तम् ॥ ७ ॥ अभ्यर्थये भव भवन्तमपाकुरुष्व दीर्घ विवादमनुयुक्तविबोधनेन । का वल्लभा तक हिमालयजहुपुत्र्यो- र्भागेन किं परिणता शिरसा धृता वा ॥८॥ अस्त्येतया न विहतिर्मचतस्तथापि संदेहमद्य निरैवद्य निराकुरुष्व । सपैरलंकृतिरियं किमु कान्तिदर्पा- कि सर्वयोषिदुपगृहनशकया वा ॥९॥ इच्छाम्यहं किमपि नाथ भवन्तमद्य तथ्यं निगद्य कुरु मामपि वीतशवाम् । चामाहतिः किमनतिः शिरसा स्वयं वा कामस्य दाहसमय तव कोपहेतुः ।। १० ॥ १. 'मम देव निराकुरुष्व ।' इति पाठान्तरम। ८वाशगु काव्यमाला । यत्सत्यमत्र वद निश्चयहेतुहान्या दोधूयते मम मतिश्चिरकालमेव । किं ते श्मशानभसिते किमु सर्पहारे सर्वखबुद्धिरुत भैक्षकपाल एव ॥ ११ ॥ एतत्कुतूहलवशेन ममास्ति किंचि- द्विज्ञाप्यमद्य भगवन्भव सावधानः । किं ते गलस्य यदि वा विबुधाङ्गनानां कण्ठस्य भूषणमवेक्ष्य विषोपयोगः ॥ १२ ॥ वामिश्रणं कुरु मदीयवचोभिरद्य संदिग्धवस्तुकथनेन शशाङ्कमौले। मूर्धा नतिस्तव विलोप्तुमलक्तरागं गौर्याः पदे किमुत वा दृशि कोपरागम् ।। १३ ॥ इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रश्नोक्तिपद्धतिः पञ्चदशी । षोडशी पद्धतिः। भिक्षाटनव्युपरमे सति यान्तमीशं या विप्रयोगभयदुःस्थतयानुजम्मुः । तासां सरोरुहदृशामनुयानकाले यच्चेष्टितं तदपि मां मुखरीकरोति ॥ १ ॥ पूर्वाङ्गमङ्गजरिपोः प्रतिनेत्रपात- व्रीडाद्विलोकन(कित:)वती न पुरा नतभूः । • पश्चादपश्यदपराङ्गमनुव्रजन्ती सर्वाङ्गवीक्षणमहोत्सवभाग्यहीना ॥ २ ॥ १. 'डोलायते' इति पाठान्तरम् ।

१६ पद्धतिः ] भिक्षाटनकाव्यम् । आन्दोलिताममरसिन्धुतरङ्गवातै- रिन्दोः कलां शिरसि कापि विलोक्य शंभोः । एषा पतिष्यति पतिष्यति संप्रतीति स्वीकृतिव्यवसिता तमनु प्रतस्थे ॥ ३ ॥ तस्यां द्विदन्तिकसखीभिरुपेक्षितायाः सख्यो न वा बत हरानुगमे बभूवुः । एका दृढा व्यवसितिर्महती वरान्या काचित्कठोरगुरुवर्गनिषेधशङ्का ॥ ४ ॥ काचिखबन्धुजनमेकपदे विहाय रथ्यासमागतमनाकलितान्ववायम् । (१)भिक्षां विरूपनयनं वनितां विहाय कामश्चिरं प्रणयमाव(वह)ति क्षणेन ॥ ५॥ काचिजनस्य पुरतो मनसाध्यवस्य मुग्धेन्दुचूडमनुगन्तुमुदश्रुनेत्रा । संयुध्यतोरथ जयार्थतयार्गलाभू- दुद्रिक्तमानमदनद्विपयोर्मुहूर्तम् ॥६॥ गच्छन्तमन्तकविपक्षमनुव्रजन्ती धाच्या कथंचिदपि कापि निवारिताभूत् । चक्रेऽथ केवलमियं मनसा नु यात्रां वल्ली यथा सुमनसा मलयानिलस्य ॥ ७ ॥ गौरीपतेरनुगमेन किमित्युदीर्य () पूर्व पुनस्तु वचनैर्विहितानुयात्राम् । .. १. 'कस्याश्चिद' इति पाठो भवेत्। ..

काव्यमाला। तचित्रमाप्तवचनैर्वनितार्थमूढै- रित्यात्मनः प्रियसखीमपरा चुकोप ॥ ८ ॥ भिक्षाविसर्जनमकारि मया न तस्मै मा मूत्कदापि मम याचनमजदोषः । आलप्य काचिदिति शङ्करमन्वयासी- हवीं विना प्रहसितैव सखीजने ॥ ९ ॥ प्रते(१)बलिग्रहणकर्मणि कापि बाला यातुं प्रवृत्तमवगम्य पिनाकपाणिम् । एष्यं निशाघनतमस्थमिसर्तुमीशं चूडेन्दुयाचनपरा चिरमन्विधा(या)य ॥ १० ॥ एका रहस्समिमतं किल वक्तुकामा दीर्घा विभोरनुगति विदधे मृषैव सा किं करोतु सकलाखपि चात्मनैव तुल्यामिलापगमनासु विलासिनीषु ।। ११ ।। एषा भविष्यति मनोमवसायकाना- मबैव प(पात्रमिति तां सहसा विहाय । तस्याश्चिदीशमपयान्तमियाय चेतो नैचाधिरापदि फलाय नपुंसकेन । १२ ।। काचित्प्रयान्तमनुगम्य पतिं जवेन बाला पदानि कतिचिन्न पुनः शशाक । (१)मुक्तास्त्वया दिशमनेन गतामवेक्ष्य(:) श्वासानिल(ला स्तमनु दूरपथा(४)नुजग्मुः ॥ १३ ॥ नासादवाप्यनुमतिर्न सखी च लब्धा संघाधिका न च तया विदितोऽस्य देशः १७ पद्धतिः ] भिक्षाटनकाव्यम् । ११. काचित्तथाप्यनुजगाम हरं प्रयातं न कापि हन्त गणना मदनातुराणाम् ॥ १४ ॥ संतर्जितापि गुरुमिः कृतसान्त्वनापि जीवोपमैः परिजनैरनुयाचितापि । जाल्मैश्च कापि हसिताप्यनुशोचितापि मध्यस्थितैर्न गिरिशानुगतिं मुमोच ॥ १५ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुगमनपद्धतिः षोडशी। सप्तदशी पद्धतिः। सर्वेश्वरोऽपि निजशासनहानिदोषा- द्रामेषु मैक्षचरणादिषु यः प्रयत्नः(तः) । आधातुमस्य विनयं गिरिशस्य चक्रः शिक्षावचांसि दृढभक्तिवशेन नार्यः ॥ १॥ याचे विमो जहि कराग्रकरोटिपात्र- मेतद्विधातृवधपातकसूचकं ते । कर्मायशस्यमवशापतितं स्वकीयं कः श्ाघयत्यनुदिनं जगति त्वदन्यः ॥ २ ॥ दाता जनोऽस्तुभुवने भवतोऽप्यनेकः कामं तथापि न फलाय तवार्थितोऽयम् । रत्नाकरो विधिवशायदि नाम शुष्ये- कस्तस्य पूरणविधानपटुः पयोदः ॥ ३ ॥ मिक्षाटनं तव न यद्यपि वर्जनीयं देहीति मा वद कदापि शशारमौले।

काव्यमाला। अभ्यर्थिनामवनताननमुदुयैव() दाता ददाति नहि देहिगिरापि लुब्धः ।। ४ ।। आमो(त्मो)परोधविरसा करुणा न जातु भूयादितः प्रभृति ते कृपणामरेषु । चक्रे निसर्गविमलस्य तवापि कण्ठे काय॑ वृषध्वज यदीयविपाकदोषः ॥ ५॥ • गीर्वाणलोकसरिता सह नित्यमेना- मस्थ्यावलिं शिरसि मा बिभृयाः पुरारे । त्वर्य (य्य)क्रमाकलितविश्वपदार्थवर्गे मा भूत्कदापि न विशेषविदित्यवद्यम् ॥ ६॥ भीमं भुजङ्गमपहाय पिनाकपाणे कण्ठे कुरु प्रकृतिशीतलमेव हारम् । तेनैव शान्तिमुपगच्छतु कालकूट- नित्यास्पदस्य सहसैव गलस्य तापः ॥ ७ ॥ मा जातु चन्द्रशकलाभरण श्मशाने क्रीडा विभो सह पिशाचगणैर्विधेया। क्षुद्रे चिरं परिचयो विहितो विधत्ते सौजन्यभूषणभृतामपि चित्तभेदम् ॥ ८ ॥ कस्त्वा निरोद्धुमलमीश यथेष्टचारं विज्ञापनीयमथवास्ति ममैतदेकम् । गौरीपयोधरनिसर्गपरिग्रहेऽस्मि- न्वक्षस्यमङ्गलचिताभसितं न कार्यम् ॥९॥ शार्दूलचर्मवसनव्यसनं विहाय सौमं सुरद्रुमभवं परिधेहि नाथ ।

१७ पद्धतिः] भिक्षाटनकाव्यम् । ११९ नैतेन यद्यपि तवास्ति विशेषलाभः शोभां तदाशु लभतां तव संश्रयेण ॥ १० ॥ प्रागेव जृम्भितमभूदयशो जयत्सु पुष्पायुधं यदकरोनयनामिहव्यम् । नेत्रानलात्परिहरास्य सहायमिन्दु- चूडापगोमिचलनाद्भव सावधानः ॥ ११ ॥ श्वासेन हुंकृतिमता स्तनितैः कठोरै- रुत्तुङ्गशृङ्गयुगलेन च भीषणेन । यस्त्रासमावहति भीरुजनस्य शंभो हित्वा जरद्वमिमं कुरु भैक्षचर्यम् ॥ १२ ॥ तेनैव वित्तपतिना जहि मैत्रबन्धं । याच्याञ्जलिः शिरसि नाथ मुहुः कृतो मे । भिक्षाटनादुपरतिं तव यो न चक्रे शक्तो न चेत्करकैरोटिविपर्ययं वा ॥ १३ ॥ मा दूयये पदयुगं नलिनप्रकार सुत्रामनाथ पितृकाननचंक्रमेण । यत्क्षालयत्यहरहः परिषत्सुराणां- मुत्तंसपुष्पगलितैर्मकरन्दपूरैः ॥ १४ ॥ योगोचिते मदनसूदन सांध्यकाले शोकोचिते शवशतैर्निचिते श्मशाने । प्रेतप्रमोदनटनं भवता न कार्य घिग्देशकालगणनाविधुरं चरित्रम् ॥ १५॥ । १. 'तत्राक्षमः करकरोटिविपर्ययं वा।' इति पाठान्तरम् ।

काव्यमाला आत्मीयभूतिपरिभूतिकरी समृद्धि- माकल्ययाल्पशशिभूषणभृत्यवर्ग । आरोप्यते जलजनैर्जगदाधिपत्यं यत्त्वत्समाश्रयणलब्धपदे मुकुन्दे ॥१६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मिक्षाटमपद्धतिः सप्तदनी । अष्टादशी पद्धतिः। भिक्षाप्रतिग्रहमिषेण मृगेक्षणाना- मादाय मानमपयायिनि लोकनाथे। रथ्यासु दुःसहनवोत्कलिकाकुलानां तासां चरित्रमहमद्य विजृम्भयामि ॥ १ ॥ हारः कचित्कचिदलक्तरसः कचित्र धम्मिल्लपुष्पनिवहः कचिदुत्तरीयम् । काप्यर्धभनवलयानि मृगेक्षणानां रथ्यां हरेण कृतचंक्रमणां विवत्रुः ॥२॥ क्षोणीतले......."निपातितहारमुक्तां खीकर्तुमादृतवतीव निषण्णमूर्तिः । रथ्यारजःसु निहितानि विमो पदानि काचिद्ददर्श सुचिरं पुरतः सखीनाम् ॥ ३ ॥ काचित्पुरारिपदलाञ्छनभूषिताया वीथ्याविमोक्षविमुखी पुरतः सखीनाम् । १.'चेतः प्रमध्य गलिते सति लोकनाथे।' इति पालन्तरम् ।

१८ पद्धतिः] भिक्षाटनकाव्यम् । १२१ L भूमौ विकीर्य मुषतो(?) निजहारमुक्तां तासां क(क)मग्रहणसंभ्रममाचकार ॥ ४ ॥ आदाय शंभुपदमुद्रितमादरेण रथ्यापरागमपरा निदधे कुचाग्रे । कन्दर्पमुक्तशितबाणनवव्रणानां निर्वापणार्थमिव सिद्धरसस्य चूर्णम् ॥ ५ ॥ मार्गे शिवस्य पतितं कृतमालपुष्प- मादाय कापि बहु संकटमाससाद । यत्पुष्पमात्रधृतिमूषितमुत्तमाङ्गा नैवाङ्गमस्ति च यदन्यत(द)तो वरिष्ठम् ॥ ६ ॥ शंभोः कपर्दगलितं कृतमालपुष्पं लब्ध्वा सखी प्रमुदितामवलोक्य काचित् । वीथ्यागतप्रणयिना स्वयमप्यवाप्तुं चूडानदीमलभतैव दृशोः क्षणेन ॥ ७ ॥ वीथ्या ययाप ललितां कृतपुष्पमालां शंभोः कपर्दगलितामपरा वहन्ती। तां वीथिकां न विजहौ शशिखण्डलोभा लब्धेऽप्युपर्युपरि काईत एव लोकः ॥ ८ ॥ वीथ्यां शिवस्य चरणाम्बुजदत्तमुद्रां काचिद्विलोकयितुमाननमानमय्य । धारात्मना निपतदश्रुजलात्तदानीं ज्याबन्धनी मदनकार्मुकयष्टिरासीत् ॥ ९ ॥ अत्रस्थितं सुचिरमत्र बलियूँहीता साकूतमत्र गिरिशेन विलोकिताहम् ।

१२३ काव्यमाला। :. इत्याकुला परिजनैः सह तत्र तत्र बभ्राम नष्टमिव कापि मनो विचेतुम् ॥ १०॥ खीकर्तुमैच्छदपरां वसनाञ्चलेन पांसु""हरस्य पदमुद्रितमादरेण । विन्यासलोपचकिता मुहुरीक्षमाणा नैवाददे न च मुमोच वधूश्चिराय ॥ ११ ॥ आदौ वृषस्य खुरधूलिरथास्य घण्टा- नादः पुरः शिशिरमौलिधुनीसमीरः । वीथी स्वयं तदनु भूतपतेः प्रवासे कस्याश्चिदाश्वसथहेतुरभूत्क्रमेण ॥ १२ ॥ संबन्धि वस्तु दयितेन सुदूरतोऽपि लब्धं मनो रमयति ध्रुवमङ्गनानाम् ईशानवाहनवृषानिखुराहतायां वीथ्यां रजोभिरपि नितिमाप काचित् ॥ १३ ॥ वीथ्यां चकार कृतमालमवेक्ष्य काचि- न्मौलेः शिवस्य निपतेदिति जाततर्का । दैवात्तदास्यपचिचाय पुनः शशाङ्क लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ १४ ॥ यस्यां विरश्चिबलसूदनदुर्लभाभ्यां पद्भ्यां चचार सुचिरं स विहारमिक्षुः । खच्छन्दकेलिभवनादपि सैव रथ्या पथ्येति कापि न कदापि गृहं विवेश ॥ १५॥ आत्मीयमेव धवलं वलयस्य खण्डं मार्गे शिवस्य पतितं वनिता विलोक्य ।

१९ पद्धतिः] भिक्षाटनकाव्यम् । १२३ सद्यः कपर्दगलिता शशिनः कलेति जग्राह काचिदुपसृत्य कुतूहलेन ॥ १६ ॥ इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकाव्ये रथ्याचरितपद्धतिरष्टादशी । एकोनविंशी पद्धतिः। आत्मीयनेत्रपथलम्बिनि भूतनाथे रथ्यागता हरवियोगविषादशान्त्यै । वामेक्षणा जगदुरस्य कथाप्रसङ्गा- दाविष्कृतामृतरसानि मिथो वचांसि ॥ १ ॥ कस्मादयं सखि करेण बिभर्ति शंभु- भिक्षाटने विधिशिरोमयमेव पात्रम् । कार्या कदाचिदपि नार्थिषु कालहानि दीर्घायुषामपि दशेयमितीव शास्ति ॥ २ ॥ पोत्री पदाम्बुजमलं न बभूव बोद्ध- माद्यो जटाटविमुमादयितस्य हंसः । क्रोडस्य काननचरस्य न पङ्कजेन हंसस्य पद्मवसतेन वनेन योगः ॥ ३ ।। कोऽन्यो ददाति हिमसानुमतस्तनूजां मारद्रुहे च जगति श्वशुरद्रुहे च । तं लब्धुमद्रितनयामपहाय कन्या का वा करोति सुकुमारतनुस्तपांसि ॥ ४ ॥ कैवापरा गिरिसुतामपहाय कन्यां कामद्रुहं जगति कामयती वृषाङ्कम् ।

काव्यमाला। तस्याः पितुर्हिमवतः श्वशुरदुहेरी ' कोऽन्यो ददाति तनयामपहाय मीतः ॥ ५ ॥ अभ्यर्थितः सुरगणेन विमुकशक- श्चक्रे हरः किमिति तीव्रविषोपयोगम् । मन्येऽहमुत्तमगुणा गणयन्ति पथ्यं याच्नाविभङ्गकरणाद्विषपानमेव ॥ ६ ॥ नेत्रानलार्चिषि विभोर्मदनेन साकं प्लोषोत्सवं किमिति नैव रतिः प्रपेदे। सा तत्र यत्नमकरोदथ भाम्यहान्या तस्या बभूव नयनोदकमन्तरायः ॥ ७॥ कामप्रिया मदनमेव विभोर्वितन्वं दग्धस्तदा किमिति नैव हुताशनेन । दाहो न किं व्यतिकरं शिवया शिवस्य मूढः स्वकृत्यमिति दर्शयितुं प्रवृतः ॥ ८ ॥ शैलात्मजासहचरोऽपि हरः किमर्थ मन्दाकिनी शिरसि सादरमेव धत्ते । इत्थं न चेत्कथमयं बहुशो भवान्याः पादप्रहारफलदं कलहं लमेत ॥९॥ देहीति दीनपदमाहितपात्रपाणिः केनार्थिवेषमयमायने(द्रियते) वृषाङ्कः । सर्वो यथा विभवमाद्रियते जनोऽन्यः कार्य तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ १० ॥ भिक्षैव वृत्तिरजिनं वसनं यदस्य वाहो वृषस्तदयमिच्छति किं महेशः।

१९ पद्धतिः] भिक्षाटनकाव्यम् । १३५ सर्वो यथा विभवमाद्रियते जनोऽन्यः कार्य तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ ११ ।। निद्रानिमीलितविलोचनमूल्यमेष शंभुः खदर्शनमदाद्गरुडध्वजाय । कोलान्त एव विभवः कुटिलखभावै- वृत्त्यैः प्रसाधितधियो महते फलाय ॥ १२ ॥ कैलासचालनकृतागस एव कस्सा- दीशः कृपाणमदिशद्दशकन्धराय । संत्रासिताद्रितनयादृढकण्ठपाश- लाभेन तुष्टहृदयः स न किं ददाति ॥ १३ ॥ आराध्य दुग्धजलधिः सुधयैव देवा- न्देवाय हन्त महते गरलं दिदेश । एषा ध्रुवं प्रकृतिरेव जलाशयानां नीचेषु संमतिरसंमतिरुत्तमेषु ।। १४ ।। विद्वज्जनो जगति येन पितामहेन मिक्षाप्रतिग्रहणपात्रमकारि सर्वः। तस्योत्तमानमपि शंकरपाणिपट्टे मिक्षाप्रतिग्रहणपात्रमहो बभूव ॥ १५ ॥ बाणाहवे मुरजिता विजितः पुरारि- रित्येव विश्वगदितः सखि भूतवादः । सत्या स एव स यतः प्रभवो लयानां मृत्यै पराक्रमणकृत्यमतीव हास्यम् ॥ १६ ॥ १.सटामोलमुतयः : काव्यमाला। [:58 शंभो पुरा यदभवन्मदनेन चैर- मद्यापि किं सुदति तत्तदवस्थमेव । गौर्या सहैव कृतविग्रहसंधिना वा पुष्पायुधोऽपि कृतविग्रहसंधिरेव ।। १७ ॥ इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकान्ये चरितोपलालनपद्धविरेकोनविंशी । १ विंशी पद्धतिः। गौरीवरस्य पदपातपवित्रपांशु रथ्याः कथंचिदपहाय शनैः प्रवृत्तः । गेहे प्रवेशचरितैः पुरमानिनीनां वाणीमिमां वयममी चरितार्थयामः ॥ १ ॥ काचित्सखीविहृतपथ्यवचोङ्कुशानां पातैः प्रवृत्तिविपरीतशिरोविधूतिः । पार्श्वस्थितैः परिजनैः परिणुद्यमाना कृच्छ्रेण दुष्टकरिणीव निकेतमाप ॥ २ ॥ अच्छिन्नया स्मृतिरम्परयैव वीथ्यां गौरीपतिं विहितसन्निधिमीक्षमाणा । सर्वाखपि खनिलयं प्रति कामिनीषु यातासु कापि न चकार गृहप्रवेशम् ॥ ३ ॥ प्राक्संगमे पुरजिता मदशोणरूपं शोकेन पाण्डुरमतो नु गृहप्रवेशम् । कस्याश्चिदाननमभूदुदयाद्रिमेत्य भूयः क्रमाद्विजहता शशिना समानम् ॥४॥ !

२० पद्धतिः ] भिक्षाटनकाव्यम् । १२७ आश्रित्य यं भवनतोरणदीर्घदण्डं पूर्व पुरारिमवलोकयति स्म काचित् । तन्मोक्तुमेव न शशाक गृहप्रवेशे प्राप्ते तदा कलितमूर्तिरिव स्मरास्त्रैः ॥ ५ ॥ नीतां कथंचन गृहं प्रियबन्धुवर्गों भूयोऽपि निर्जिगमिषु सहसा रुरोध । निद्यत्यकारणमपूर्वकपालिनीति तस्याः कथा झटिति हन्त बहिर्गतैव ॥ ६ ॥ निःश्वासमात्रशरणामकरोदवस्था कस्याश्चिदीशमपहाय गृहप्रवेशः । मत्तं मतंगजमपोह्य विधेर्विपाका- द्वारिप्रवेश इव तापकरः करिण्याः ।। ७ ।। तापेन शोकमहता प्रविहाय रथ्या- मेका विवेश भवनं बहवो निरीयुः । श्वासानिलनिरवधिनयनाम्बुपूरो वादश्च हन्त विषमेक्षणरागिणीति ॥ ८ ॥ आपाण्डुगण्डयुगला गलदश्रुनेत्रा खस्थानविच्युतकटीगुणबद्धपादा । आलीजनेन परितः परिरक्ष्यमाणा बन्दीव कापि शनकैर्वसतिं विवेश ।। ९॥ पूर्व गृहात्प्रचलिता हरदर्शनाय यामनियावकरसैररुणीचकार । बाष्पैर्मषीमलिनितैर्विनिवर्तमाना । तामेव कापि पदवीमसितां चकार ।। १० ।।

काव्यामाला काचित्कथंचन सखीजनसान्त्ववादै- र मतापि हरमार्गविलोकनेच्छु । बाणी मनखिन इवार्थनदैन्यकाले नान्तर्मता च वनिता न बहिर्गता च ॥ ११॥ या पूर्वमुन्नतपयोघरगौरवेण क्लान्ताप्यवाप हरमीक्षितुमाशु स्याम् । तस्यैव सा हृदयदेशजुषा गरिम्णा गेहप्रवेशमशकन पुनर्विधातुम् ॥ १२ ॥ नाथे चिरेण पतितामनिवर्त्य बुद्धि काचित्खयं निववृते गुरुवश्यबुद्धिः । तस्याः पुनर्बहुविचारसखी विनैव बुद्धिं कृतं तदनु हास्खममूञ्चरित्रम् ॥ १३ ।। काचित्कथंचिदपि नैव गृहं विवेश रथ्यां विहाय बहुभिः कृतसान्त्वनामि । कामातुरस्य हृ(ह)तकन्धुजनाचकीणे कारानिवाससम एव गृहे निवासः ॥ १४ ॥ गेहं प्रविश्य पुनरप्ययमागतः स्था- द्वीथ्यां वृषाङ्क इति कापि विनिर्जगाम । रथ्यासु मैक्षचरणादपरं न कृत्यं ... तस्येति सा मृदुमना गणयांचकार ॥ १५ ॥ काचित्प्रदक्षिणविकर्शनदुर्वलाङ्गी वीथ्यां निपात्य निजभूषणमेकमेकम् । यावद्गृहोपगमनं ननु तावदेव राण्यावशेषसकलाभरणा बभूक ॥ १६ ॥ ::

२१ पद्धतिः] भिक्षाटनकाव्यम् । १२०. वीथ्याः कथंचन गृहं वचनप्रभेदैः प्रावेशयद्विरहिणीं प्रियबन्धुवर्गः । चित्तं तदीयमसमाक्षविरक्तिवाचा नालं प्रवेशयितुमेव पुनर्बभूव ॥ १७ ॥ काचिद्विवेश शयनालयमाप्तसख्या रथ्यां विहाय हरवीक्षणहानिदूना । तस्या मनश्च विरहव्यथया सहैव श्रीकण्ठसंगममहोत्सवलम्भचिन्ताम् ॥ १८ ॥ हस्तच्युतैश्च वलयैश्चिकि(कु)रप्रमुक्तैः पुष्पैश्च यावकरसैश्च पदापमुक्तैः कीर्णैश्च भा(हा)रमणिभिगिरिशस्य रथ्या- माकल्प्य कापि शनकैर्वसतिं विवेश ॥ १९ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गृहप्रवेशपद्धतिविंशी । एकविंशी पद्धतिः। आलोक्य मारजनितां कृपणामवस्था वामभ्रुवां निजगृहं पुनरागतानाम् । संदूयमानहृदयो हितबन्धुवर्गों यान्यप्यवोचत वचांसि वदामि तानि ॥ १॥ हा हन्त दग्धमदनस्तव पुष्पशय्या- शेषं शरीरमकरोदसहाय एव । रात्रावथास्य नवकैरवगन्धवन्धु- मन्दानिलप्रभृतयो बहवः सहायाः ॥ २ ॥ द्वादशगु० १३० काव्यमाला कालानलो यदलिकाक्षिणि रक्षितोऽभू- कण्ठे च यद्रलमर्पितमीश्वरेण । तत्सर्वमात्मविरहे सति बालिकानां तापं विधातुमिति संप्रति मे वितर्कः ॥ ३ ॥ अस्या हरेण विरहादतिकर्शितायां हस्तच्युतं वलयमेतदलब्धदेशम् । आस्ते पुनः स्थितिमगादिदमङ्गुलीयं स्थानाच्युतिर्महत एव भवत्यनर्थः ॥ ४ ॥ अज्ञातमद्य तनये त्यज शोकशङ्कु पञ्चायुधः किमपि न त्वयि जातकोपः । किं तु त्वदीयहृदये गिरिशं निरुद्ध्य बाणैस्तमेव खलु विध्यति पूर्वशत्रुम् ॥ ५ ॥ सन्तापदाय्यसुलभार्थनमित्यजस्रं बाले वदामि न मनागपि तच्छृणोषि । यद्वा स्मरास्त्रनिकरे हृदयं प्रविष्टे पथ्योक्तयो न खलु कर्णपथं विशन्ति ॥ ६॥ वन्ध्यत्वमग्र्यमनियम्यतनूजलाभाद्दुः साधरोगनयनाद्वरमान्ध्यमेव । धिक्तामशिक्षितपरां मम सूतवत्याः कृन्तत्यहो हृदयमाधिमयः कृपाणः ॥ ७ ॥ रागो नवश्चरणयोरनुयानजन्मा मुक्तावली विरचिता नयनाम्बुलेशैः । अङ्गेप्वयं धवलिमैव 'दसः शिवेन सखि ते व्रजतैष वेषः ॥ ८॥ N यदङ्गरागो - 5.

२१ पद्धतिः ] भिक्षाटनकाव्यम् । १३१ भैक्षं प्रदातुमनघाय यदोद्यमस्ते तूष्णीं तदा सुकृतभङ्गभयादभूवम् । वत्से तदद्य मम पापमभूत्तवेत्थं यत्संशयस्थितिरियं मदुपेक्षयैव ॥ ९ ॥ सर्वोऽपि वक्ति जन एव शिवाभिधानं भस्मावली प(प्रति यथेप्सितमङ्गकेषु । तन्मे सुता विदधती परिहासपात्रं ; , प्रायेण कामुकजनस्य गुणोऽपि दोषः ॥ १० ॥ घुघूरकं शिरसि नैव सुगन्धि पुप्पं भस्म स्तने न तव कुङ्कुमचन्दनादि । धत्ते सुता मम किमन्यदियं वृषाङ्के प्रेम्णा भविष्यति भुजंगमभूषणापि ॥ ११ ॥ यस्य क्षणं स्मरणमेव सुदुस्तराणां सर्वापदामुपशमाय वदन्ति वृद्धाः । दृष्ट्वापि तं शिवमियं पुनरेवमार्ता प्रायेण पुण्यमपि पुण्यवतां फलाय ॥ १२ ॥ तत्सत्यमेव किल यन्नवबन्धुजीव- शोभाहरं सखि हरायनमामनन्ति । तस्मान्नि(द)तीव रतिमद्य दधासि तेन शोभागतैव तव शंसयितुश्च जीवः ॥ १३ ॥ मेघं विना स्थितिमगान्न तडित्तथैव वाला वृषाङ्कमिति मीतिरभूत्पुरा मे । लाभो महालयमहो यदभूदमुष्याः । प्राणैनिंजैः सह पुनर्भवनप्रवेशः ॥ १४ ।।

RR
काव्यमाला।
यस्त्वां क्षिणोति विशिखैः खशरण्यभूता-
मेवं सदा सुमुखि तेन समः स मारः ।
शाखां खयं समधिरुवा महीरुहस्य
यस्तां छिनत्ति निशितेन परश्वधेन ॥ १५ ॥
यन्न्याय्यवर्त्मगमनं निपुणा च या घी-
लज्जा च या यदपवादभयं त्वदीयम् ।
तत्सर्वमालि कथमेकपदे विनष्ट
सर्वकषः स खलु तत्रभवाननङ्गः ॥ १६ ॥
बालामिमां हतमनोभवपुष्पबाणै-
र्मा विध्य संप्रति वदामि तवैव पथ्यम् ।
अस्या मनस्यविरतं वसतीन्दुमौलि-
स्मर्ता न किं भवसि तेन पराजयं ते ॥११॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये बन्धुवचनपद्धतिरेकविंशी ।
।।
द्वाविंशी पद्धतिः।
यैश्चेष्टितैः प्रकटितः पुरसुन्दरीणां
भूयो विजेतरि पुरामनुरागबन्धः ।
प्रस्तुत्य तानि विरहोज्ज्वलमन्मथानि
संपादयामि विदुषां श्रवणातिथेयम् ॥ १॥
संतर्जिता गिरिशमालपसीति मात्रा
काचित्रपानतमुखी भुवमालिलेख ।
रेखा तदाकृतिरभूत्किमियं विधत्तां
चित्तानुसारि वचनं च विचेष्टितं च ॥ २॥

२२ पद्धतिः]
भिक्षाटनकाव्यम् ।
१३३
पार्श्व
व्रजाशु
गिरिशस्य निशान्धकारे
मा ते विषाद इति जीवसखीजनेन ।
आश्वासिता झटिति कापि निमील्य चक्षुः
संपादितं तम इति प्रमदा जगाद ॥ ३ ॥
तुङ्गौ युवामिह वृथैव प्रथासुवृत्ता-
वन्योन्यसंगमजुषौ च वृथेति काचित् ।
श्रीकण्ठबाहुयुगलान्तरकास्येव
कण्डूभृतौ करतलेन कुचौ ममर्द ॥ ४ ॥
काचिद्दिवैव गिरिशाभिरतिं विधातुं
संनह्यति स्म हसितापि सखीजनेन ।
रागोपजाततिमिरावृतमानसानां
नास्ति प्रियाभिसरणे दिनरात्रिभेदः ॥ ५॥
क्रीडाशुकं हर हरेति शनैः प्रवृत्तौ
यत्नेन पाठयितुमन्तरमन्मथापि ।
मातुर्भयेन पुनरेवमवोचदेत-
दिष्टं फलं मम करादिति वाक्यशेषम् ॥ ६ ॥
बालेन्दुशेखरमनारतकालकण्ठं
पिङ्गत्विषा तिलकितालकमीक्षणेन ।
सख्योऽपि यूयमिह पश्यत पश्यतेति
कस्याश्चिदाविरभवन्विविधा विलापाः ।। ७ ।।
बन्धुष्वनादृतवती चिरसंस्कृतेषु
भस्मावगुण्ठिततनुदृढबन्धमौना ।
काचित्सदैव हृदये शिवमर्चयन्ती
योग वियोगविधुरा फलितं चकार ॥ ८ ॥

काव्यमाला।
-
कस्याश्चन स्तनभरो भसितेन शंभो-
वक्षःस्थलप्रणयिना वनितं चकार ।
यः कर्तुमीप्सति समागमनं महद्भि-
: स्तद्वल्लमेन कुरुते तदयं पुरैव ॥ ९॥
तुष्टाव निन्दति. जने त्रिपुरारिमेका
पार्थस्थिते. स्तुवति गाढतरं निनिन्द ।
मौनावलम्बिनि चुकोप चकोरदृष्टिः
सेहप्रिये दुरवबोधगतिर्वधूनाम् ॥ १० ॥
काचिनिजामधिरोप्य शनैर्विपञ्ची
गाथामुपाक्रमत पाठयितुं शिवस्य ।
तस्या विलोचनजलैः पुनराव(य)द्भि-
स्तन्त्री स्वकीयजलता प्रकटीकृतैव ॥ ११ ॥
एका त्रपोदयवशेन पुनः सखीनां
चित्रे विधातुमसमक्षमपारयन्ती ।
बाह्यं विहाय करणं. पटतूलिकादि
चेतःपटे स्मरणतूलिकया लिलेख ॥ १२ ॥
शीघ्रं नयात्र सखि संप्रति नीलकण्ठ-
मित्यूचिषी सपदि मात्र(त)भयेन काचित् ।
तीव्रातपादुपवनादिति पूरयित्वा
लीलामयूरविषयं वचनं चकार । १३ ।।
चक्षुश्चकार निजसद्मनि यत्र यत्र
विश्लेषणैर्गिरिशमैक्षत तत्र तत्र ।
एतद्भुवं सपदि संगमतोऽपि मन्ये
: विश्लेष एव दयितेन वरं वधूनाम् ॥ १४ ॥

२२ पद्धतिः] भिक्षाटनकाव्यम् । १३५ शंभुर्यथा गृहमगान्मम भेक्षकाङ्की मां भिक्षयैव सह दत्तवती तदानीम् । प्राप्तः स एव हृदयालयमाशु तस्मै किं देयमद्य कथयति सखीमपृच्छत् ॥ १५ ॥ अध्यापितो रहसि केलिशुकः कयापि नामानि मन्मथरिपोर्विरहार्तिशान्त्यै । तानि क्षणाद्गुरुजनस्य परो निगद्य तस्या मनस्थविकृति प्रकटीचकार ॥ १६ ॥ यः कोऽपि सोऽस्तु विषमा गतिरेष रोगो भस्मार्पणं निखिलरोगसमा चिकित्सा । मातुः पुरो वचनमेवमुदीरयन्त्यां सख्यां न्यधत्त तरलां दृशमाशु काचित् ॥ १७ ॥ काचिनिजाशयतिरस्करणाय शंभो- निन्दापराण्यकथयद्वचनानि बाला । तानि प्रकोपमधिकं जनयांबभूवु- स्तस्याः पुनः परिजनैरनुभाषितानि ॥ १८ ॥ गाथाः शिवस्य विलपन्नपरो मृगाक्ष्याः क्रीडामृगो विरहतापमपाचकार । संस्मारयन्निजगलेन सितेतरेण कण्ठं तदीयमसकृद्गृहबहिणोऽपि ॥ १९ ॥ इत्युत्प्रेक्षावल्लभकृती भिक्षाटनकाव्येऽनुरागपद्धतिविंची।

१३॥ काव्यमाला। त्रयोविंशी पद्धतिः । याभ्यो दुरापहरसंगमलोलुपाभ्यो वन्धुर्जनः स कटु पथ्यवचो बभाषे । तासां तदीयवचनश्रवणार्दितानां ब्रूमो वचांस्यनुगुणार्थमनोहराणि ॥ १॥ मातः सदा गिरिशसंगमविघ्नमेव याचे करोषि न ततस्त्वयि जातरोषा । खेहं मिथो न गणयन्ति यतः पुरन्ध्यः सापल्यमेव करणस्पृहया वहन्त्यः ॥ २॥ मां दुर्निवारविषमास्त्रकृतावसादां या तर्जयत्यसकृदेव शठैर्वचोमिः । अप्राप्य यौवनमनङ्गविधेयमेषा मन्ये मदीयजननी जरती बभूव ॥ ३ ॥ अद्यापि शैशवमिदं परिवर्तते मे तन्मैव मां प्रति सवित्र(त्रि)हितोपदेशः । ये यौवनस्थितिजुषो जगतीह तेषा- माचार्यकं वहति मन्मथ एव नान्यः ॥ ४ ॥ कंदर्पमुक्तविशिखव्रणिताशयस्य यो दुर्विदग्धगुरुसंनिधिदेशवासः । त्रुट्यत्किरातशररुग्णतनोम॑गस्य मन्ये क्षुधार्तमृगवैरिगुहाप्रवेशः ॥ ५ ॥ पथ्योपदेशसमयः स गतः सदूरो (सुदूरे) यस्मिन्न सन्ति मदनज्वरसंनिपाताः ।

२३ पद्धतिः] भिक्षाटनकाव्यम् । १३७ : किं नैव वेत्सि जननि त्वमिमामवस्था यस्याः कथंचिदपि जीवितमेव रक्ष्यम् ॥ ६ ॥ शाम्येदपि स्वयमयं मदनारि(मि)रीशे नैराश्यतो जननि मा कुरु तं प्रदीप्तम् । एधांसि नीरसनिषेधवचांसि मन्ये कामानलस्य गुरुभिर्बहुशः कृतानि ॥ ७ ॥ स्नेहो न ते मयि परं मम देह एव मातः किमन्यदिदम(र)त्र मम प्रमाणम् । ईशानुसारविनिवारणमाचरन्ती यन्मे झटित्यसुगतेर्विदधास्यनुज्ञाम् ॥ ८॥ मातस्त्वदीयवचनैः शितशूलकल्पै- हिं मृता किमिति मर्मसु ताडितापि । प्रायः प्रियेण विरहव्यसने वधूनां प्राणप्रयाणमपि पुण्यफलं वदन्ति ॥ ९॥ छायां समाश्रयति काममहाद्रुमस्य सर्वोऽपि संसृतिमरुस्थलचारतप्तः । निन्दत्यथापि किमिमं वयसो विपाके मन्ये जरा जनयति स्मृतिमूलनाशम् ॥ १० ॥ (४) अस्त्येव शंभुविषयान्मनसो विकारा- द्रागो ममाद्य सखि मा परसङ्गमूलम् । पौष्पं रजः सपदि मालघ(य) मारुतार्थ्य .. मूवधायमपरं(?) पुरुषं जनस्य ॥ ११ ॥ मातः समस्तमपरं वचनं विमुञ्च शैवीसमागमकथा यदि तां शृणोमि ।

१३४ 'काव्यमाला। मत्कर्णयोर्ध्वलितकालहुताशंतप्त- नाराचपातसदृशोऽन्यवचःप्रवेशः ॥ १२ ॥ धामान्नि(या मां नि)यच्छति सुदुर्लभकाङ्किणी भू- ‘ा मेति किंचिदपि सा जननी न वेत्ति । सर्वैर्विना प्रियतमैः सुखमासितव्यं खापेक्षया यदि भवेदभिलाषबन्धः ।। १३ ।। मामद्य शिक्षयसि शंकरवादमात्रा- द्रोमाञ्चकण्टकितमूर्तिरसि त्वमेव । वृद्धः करोति विनयं विषयात्परसै तस्मान्मनागपि निवर्तितुमक्षमोऽपि ॥ १४ ।। कष्टा नितान्तमशरीरिशरेण पीडा तस्या यदस्म्य(:)तितरार्तिगतो विशेषः । प्रायेण शत्रुरपि शोचति मर्त्यमात मातापि नैव दयि(य)ते मदनातुरेषु ॥ १५ ॥ त्रातुं कृताभिलषितैःस्मरयन्वृत्ता- न्मौनव्रतैर्गुरुजनैर्भवितव्यमेव । खादूकरोति सुकृतामपि कामवृत्ति शास्त्रेण वा गुरुजनेन च वा निषेधः ॥ १६ ॥ यो वक्ति पथ्यवचनं हृदयानुकूलं यो वा भिषज्यति भिषप्रियभेषजेन । तावेव बान्धवजनश्च चिकित्सकश्च प्रच्छन्नशत्रुरपरो न सुहृन्न वैद्यः ॥ १७ ॥ एतन्नम(?)प्रथममम्ब मयि त्वदीये प्रेम्णे पुनस्तदनुरूपविचेष्टितेभ्यः ।

२४ पद्धतिः] भिक्षाटनकाव्यम् । १३९ यन्मां प्रतीत्थमुपदेशविधिस्तवायं मा भूद्विजेतरि पुरामनुरागबन्धः ॥ १८ ॥ अद्यापि शैलसुतया वपुरैक्ययोग- मङ्गीकरोति गिरिशः स्वयमादिवृद्धः । केषांचिदत्र तदयं जरतां जनानां कामानवाप्तिपर एवं विरक्तिवादः ॥ १९ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गुरुवचनोपालम्भपद्धतित्रयोविंशी । चतुर्विशी पद्धतिः। रथ्यां विमुच्य कथमप्यसुनिर्विशेषै- रालीजनैर्भवनमाशु निवेशितानाम् । वामझुवां शशिकलाधरविप्रयोगे देहाश्रयाणि चरितान्युपलालयाम ॥ १ ॥ कस्याश्चिदक्षियुगलाधरयोर्वियोगे जातः प्रसाधनविधेर्विपरीतभावः । बाप्पैस्तयोः प्रथम आहितराग आसी- अन्तःश्वसन्मलिनितः श्वसितोष्मणैव ॥ २ ॥ भस्मालिलेप कुचयोर्हरिचन्दनादि- लेपं विहाय विरहे वनिता हरेण । बाष्पोदकं तदपि हन्त पुनर्निरासे शुध्यन्ययोनिरसनेन जलस्य भेदः ॥ ३ ॥ १. अस्योसरापस्यास्फुटत्वम्.

१४)
काव्यमाला।
सह केलिपत्रै-
त्यक्तेऽपि रत्नवलयैः
। हस्तादवाप्तगलने मणिकंदुकेऽपि ।
कस्याश्चिदेव न जहौ करभूषणत्वं
क्रीडाशुकः पठितशंकरनामधेयः ।। ४ ॥
श्वासानिलश्च नयनोदकनिर्गमश्च
जातागसी(सौ) विरहिणीकुचयोरभूताम् ।
आक्षेपणेन लघुनो वरणांशुकस्य
लोपेन च प्रचुरचन्दनकर्दमस्य ॥ ५ ॥
विश्लेषदुर्बलमकारणपाटलेन
संसृज्यमानमपि गण्डतलं करेण ।
आपाण्डुरच्छवि बभूव मृगेक्षणायाः
संसर्गजा इति मृषैव गुणाश्च दोषाः ॥ ६ ॥
संमानपात्रमहमस्यमृतांशुमौले-
भूयासमित्यधिकवर्धितकौतुकेव ।
अन्या वधरहरहः परिकर्शनेन
खाऊं शशाककलया सममेव चक्रे ॥ ७ ॥
कस्याश्चिरग(रं ग्ल)पितचम्पककान्ति गात्रं
जातं हरेण विरहे घनसारगौरम् ।
(?)निःशृङ्खलप्रमृतिमिस्तदसंनिधाने
व्याप्तं मनोभवयशोभिरिवा(रा)बभासे ॥ ८ ॥
दृष्टे पुरा पुरविरोधित(नि) काचिदङ्गै-
र्या कण्ठकोद्गतिमयीं(?) ह रतिं प्रपेदे ।
तां नैव जातु विजहौ विरहेऽपि तस्मि-
नन्तर्हितेऽपि सवितर्यरविन्दिनीव ॥ ९॥

२४ पद्धतिः] भिक्षाटनकाव्यम् । १११ तुल्या शशाङ्ककलयेति मृगेक्षणायाः स्थौल्यातिरेकभणितावपरः प्रकारः । अङ्गानि शंकरवियोगभुवा तनिन्ना मध्यानसाम्यमितराण्यपि शोच्यमापुः ॥ १० ॥ आत्मीय एव सति धार्यदशां प्रपन्ने कस्तस्य धारणमृते परधारणाय । यत्वेदपाण्डरमधान्मुखपद्ममेका हस्तोदरे विरहिणी न तु केलिपद्मम् ॥ ११ ॥ कस्याश्चिदश्रुसलिलेषु कृताभिषेकं शोकानलेन हृदयज्वलितेन तप्तम् । गौरीपतरुपरि लब्धुमिव प्रदेशं तीव्र तपः पृथुकुचद्वयमाचचार ॥ १२ ॥ आप्तो भवेद्यदि विपत्करणे प्रवृत्तः पीडां करोत्यरिजनादपि देहभाजाम् । द्रपुं दिवा हरमुदश्रुतया मृगाक्षी स्वप्नेऽपि लोचनमनिद्रतया रुरोध ॥ १३ ॥ नालंकृतौ न शयने न मिथः प्रलापे न क्रीडनेषु न च भोजनपानयोर्वा । आस्थावती शिवसमर्पितचेतनका रागो निरत्ययसुखोऽन्यविरक्तिहेतुः ॥ १४ ॥ श्वेताकृतिस्तरुणपल्लवतल्पमध्ये संध्यानभस्यभिनवा शशिनः कलेव । १. अस्फुटार्थोऽयं श्लोकः.

१४२ काव्यमाला1 दुर्लक्ष्यमूर्तिरपि काचिदतीव काा- संलक्षिता हितजनेन कथंचिदेव ॥ १५ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विरहिण्यवस्थापद्धतिश्चतुर्विंशी । पञ्चविंशी पद्धतिः । निष्पाप एव गिरिशे विहितस्पृहाणां वामध्रुवां मतिविभेदनकारणेन । आप्तो जनो रहसि यानि जगाद तानि प्रत्युत्तरैः सह वदामि पुनस्तदीयैः ॥ १ ॥ इन्दीवराक्षि विषमाक्ष इति प्रसिद्ध मा त्वं कृथाः पुरविरोधिनि पक्षपातम् । वैरूप्यमेव सखि तस्य चिराय काझे येनायमन्यवनिताजनवर्जनीयः ॥ २ ॥ कण्ठे हरस्य न वरं परिरम्भणं ते हारोरगेण न कदापि यदेष शून्यः । त्राताः पयोधिमरलादपि येन लोका- स्त्रातुं न मामहिविषात्किमयं समर्थः ॥ ३ ॥ यः कामदेदहनाद्विरसः प्रसिद्ध- स्तस्मै कुतः स्पृहयसि त्रिपुरान्तकाय । कोऽन्यः क्षमेत मदनद्रुहमन्तरेण रक्षां विधातुमिह मन्मथपीडितानाम् ॥ ४ ॥ आश्लेषणेषु कथमिच्छसि शंकरस्य भस्मक्रयं सुरभिणा कुचकुङ्कुमेन । .

२५ पद्धतिः] भिक्षाटनकाव्यम्। १४३ न्यूनामेव भसितादपि कुङ्कुमं ते. दर्धस्थितिः परमभिज्ञम(कृ)तैकमन्त्रात् ॥ ५ ॥ येनार्धगात्रमनुरागवशाद्वितीर्ण कस्यैचिदेनमपि कामयसे किमर्थम् । चक्रे ध्रुवं स पुनरर्धशरीरदाना- 1. दन्याङ्गनाप्रणयसंगमनाभ्यनुज्ञाम् ॥ ६॥ यो नीरसाग्रगणितः स्मरदेहदाहा- त्तस्मिन्पिनाकिनि कथं तव कामवन्धः । खारस्यवानथ च वा विरसः स भूया- कान्त्यैव वश्यमनसः पुरुषे युवत्यः ॥ ७॥ भूलोकभृङ्गवनिता यदि दिव्यपुष्प- माघ्रातुमिच्छति तथा हरसंगमस्ते । अस्माकमक्षिविषयः सहसैव योऽभू- किं संभवेन्न हि हरेण समागमोऽपि ॥ ८॥ पाणिं हरेण यदि वाञ्छसि गृह्यमाणं मीरु त्वयाप्युरगकौतुकमेव धार्यम् । सत्यं तदेव दृढकौतुकबन्धि(न्ध)नं मे व्यर्थः करे शिथिलकौतुकतन्तुवन्धः ॥ ९ ॥ भर्तारमिच्छसि शिवं यदि तेन साधे | वस्तव्यमालि नियतं पितृकाननेषु । एणीदृशां हृदयवल्लभसंनिधाने 3. सौधस्थलस्य विपिनस्य चे को विशेषः ॥ १० ॥ हित्वा तपांसि परुषाणि हरो दुरापः कर्तु क्षमं न खलु तावकमङ्गमेतत् । .

१११ काव्यमाला। मुग्धे तदीयविरहानलतीव्रतापा- दस्मादसातरमस्ति तपः किमन्यत् ॥ ११ ॥ शैलात्मजैव हरमर्हति कामिनीषु मुग्धे कथं कथय तेन समागमेच्छा । अर्हेतराणि गणनापरवेषवन्ति सर्वोऽपि सर्वमपि वाञ्छितुमर्ह एव ॥ १२ ॥ उन्मादिनी त्वमिति निश्चितमालि किं तु तन्मात्रवेषचरिते यदि ते रिम्सा । उन्मादिनी यदि भवेयमहं तथा त्वं नो मन्त्रशिक्षणविधिः प्रकृतिस्थितानाम् ॥ १३ ॥ गौरी विना सखि कदापि न शंभुरास्ते कालोऽन्यया सह न तस्य समागमाय । रात्र्या सहैव चरि(र)तो दिवसस्य नित्यं किं संध्यया न सममस्ति मुहूर्तयोगः ॥ १४ ॥ ब्रीडां तनोति मदिराक्षि विशेषतोऽपि वामझुवामननुरागिणि रागबन्धः । श्लाघावहो भवति नैव किमापगाना- मम्भोनिधेरुपरि यत्वयमेव पातः॥ १५ ॥ कामं हरः सुलभ एव विहाय भीति सापत्न्यमिच्छसि कथं जगतां जनन्याः । अस्थानधावनपरस्य मनोभवस्य प्रायेण नैव हि जलस्थलयोनिपातः ॥ १६ ॥ गौर्याः पुरो वहति यः शिरसैव गहां विसम्भभूमिरियमालि कथं परस्य ।

२६ पद्धतिः] भिक्षाटनकाव्यम् । १४५ स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ तस्मिन्ममापि खलु पाक्षिकलाभशङ्का ॥ १७ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽतिदीनोक्तिप्रयुक्तिपद्धतिः पञ्चविंशी । षड्विंशी पद्धतिः। उद्यानमाशु विविशुहरविप्रयुक्ता नार्यो निजार्तिपरिहारमतिभ्रमेण । पूर्व निरूढपतनैर्मदनः शरैस्ता स्तस्याथ दृश्यपतनैश्च सुसंस्कृतैव ॥ १ ॥ काचिनिजोपवन एव वियोगरुग्णा पुष्पाणि वीक्ष्य विकचानि भृशं दुदूये (?) । हासो जनस्य निजचापलदर्शनोत्थः सह्यः स्मरातुरजनैनतु पुष्पहासः ॥ २ ॥ आलोलकिंशुकतरोस्तरुणप्रसून मापाटलं परिजहार भयेन काचित् । निर्भिन्नकामिहृदयक्षतजावसक्तं नूनं स्मरास्त्रमिदमित्युपजातबुद्धिः ॥ ३ ॥ काचिद्वधूः शमय शंभुवियोगताप- मित्यादरेण मलयद्रुममालिलिङ्ग । लेमे स सिद्धिमतुलां तरुणैरलभ्यां ! ... नैषा स्मरार्तिशमनं फलमाप किंचित् ॥ ४ ॥ कन्दर्पवाणनिकषच्युतचूर्णकल्पं सद्यः परागमवलोक्य दिशासु पौप्पम् । १०द्वादशगु० काव्यमाला १ आसूचिताखिलवियोगिजनव्यपाय- मुत्पातपांसुमपरा गणयांचकार ।। ५ काचिद्गता विरहिणी सहकारमूल- माकर्ण्य शब्दमशनिखननिर्विशेषम् । सद्यः किमित्युपरि लोचनमर्पयन्ती पापादवैक्षत भयंकरमन्यपुष्टम् ॥ ६॥ . कर्णे कयापि करपल्लवमर्पयन्त्या भृङ्गखनव्यथितया गृहवाटिकायाम् । व्याख्यातमेव च सखीजनदीयमान- कर्णावतंसनवपल्लवनैरपेक्ष्यम् ॥ ७॥ दृष्ट्वा पलाशमुकुलान्कुटिलखभावा- काचिद्भयादपससर्प सुदूरतोऽपि । मिथ्या प्रकाश्य मुवने निजसौमनस्य कौटिल्यमात्मनि वहन्परिवर्जनीयः ॥ ८॥ आलम्बितो विरहदुःखितया कयाचि- दामदुमस्य सहसा तरुणप्रवालः कृष्णच्छविर्यदभवन्ननु युक्तमस्य प्रागेव पाणितलशोणितमस्तकस्य ॥९॥ यस्यैव चम्पकतरो(र)पनीय(?) पूर्व मूले ददौ (वि)मलशीतलवारिधाराम् । तस्येतरा कुसुमितस्य विनिश्चिकाय दातुं पुनर्विरहिणी निशितासधाराम् ॥ १० ॥ भृङ्गखनास्य(न्य)कुसुमे कुरवे पुरले गाढं निमील्य नयने विरहिण्ययताद ।

२६ पद्धतिः भिक्षाटनकाव्यम् । १४७ कर्णद्वये तु निजसिद्धिविधानहीने काचिननन्द च निनिन्द च पद्मयोनिम् ॥ ११ ॥ काचित्पुरा प्रतिदिनं परिवृद्धिहेतो. यस्यै दिदेश सलिलं नवमल्लिकायै । सा पुष्पितैव जलमश्रुमिषाद्वियोगे तस्यै प्रदाय कथमप्यनृणा वभूव ॥ १२ ॥ पुष्पेषु संसृतिमती क्वणितालिमाला- मालोक्य कापि महदेव भयं प्रपेदे । शंभोस्तृतीयनयनानलधूमनीला सा मन्मथस्य धनुषो यत एव मौर्वी ॥ १३ ।। यो लम्बितो विरहधर्मितया कयाचि- दुद्यानचूतविटपो मधुसंभृतश्रीः । म्लानप्रवालकुसुमः क्षणएव जातः स्पर्शोऽपि कामुकजनैः कुरुते विपत्तिम् ॥ १४ ॥ अङ्गारसंचयमतिविरहातुरायाः पुष्पेप्वजायत पलाशमहीरुहस्य । सा स्थापितैव मधुपैः पुनरत्र लीनैः किंचित्प्रशान्त्युचितकार्ण्यघियं विधाय ॥ १५ ॥ मा पुष्पितोऽयमिति नैव चकार काचि- दुद्यानभाजि पदघातमशोकयूनि । न्यक्कारकृत्यमपि नामिलषन्ति कर्तु प्रायः प्रसादविषयादपरत्र नार्यः ॥ १६ ॥ कामास्त्रमेतदिति जातरुषा लतासु विश्लेषिणी सुमनसां हरणे प्रवृत्ता ।

काव्यमाला। कामास्त्ररक्षकजनैरिव सद्य एव सैषा न्यरोषि(घि) कृतहुंकृतिभिर्द्विरेफैः ॥ १७ ॥ स्निग्धेन कोकिलरुतेन नवोद्गतेन चूताङ्कुरेण पवनेन च मालयेन । कालं वसन्तमवलोक्य जनोपकण्ठे कालं वसन्तमपरा कलयांचकार ॥ १८ ॥ आलम्बिता विरहधर्मितया कयाचि- क्लान्तप्रवालकुसुमाभवदाम्रशाखा । तां वीक्ष्य तादृशदशां प्रणयिन्यथास्यां दीर्घ स्वकीयमजुगुप्सत बन्धुभावम् ॥ १९ ॥ आमूलपुप्पितमवेक्ष्य पलाशमन्या विश्लेषिणी ज्वलितबुद्धिरिमं शशाप । अङ्गारकारकरगोचर एव पूर्व पश्चात्त्वमेवमरुणच्छविराशु भूयाः ॥ २० ॥ यस्याश्चिराय विदधे गृहयूथिकायाः पुप्पोद्गमाय बहुदैवत[त]र्पणानि । तां पुप्पितेन परिगृह्य चकार काचि- i. . . द्विश्लेषिणीयुवतिजातिसमानकक्ष्याम् ॥ २१ ॥ अप्यात्मनापरिहृतेन सखीसमक्षे दृष्ट्वा वसन्तसमये बकुलं सपुप्पम् । काचियथां विरहिणी महती प्रपेदे । सत्यं नहि प्रतिनिधिर्भवितव्यतायाः ॥ २२ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये उद्यानचरितपद्धतिः षड्विंशी ।

२७ पद्धतिः ] भिक्षाटनकाव्यम् । (१४९ - सप्तविंशी पद्धतिः। उद्यान एव ननु पुष्पितशाखिवर्गे विश्लेषतप्तमनसां मदिरेक्षणानाम् । तं तं विनोदमनुभूय विषादवेगा- द्वाक्यानि वक्रगलिनानि विजृम्भयामः ॥ १ ॥ यन्नाम ते जगति रूढमजातवृत्त्या जातं पुरा कुरबकद्रुम वाच्यमेव । भूयस्तदद्य भवता कृतमन्वितार्थ वाचालमत्तमधुपावसथं(?) प्रदाय ॥ २ ॥ उद्यानभूषण तवेदमयुक्तरूपं छायाप्रदानहृततप्तजनश्रमस्य । अस्मिञ्जने विरहपावकतापवृद्ध्या शोकातुरेऽपि यदसि त्वमशोक एव ॥ ३ ॥ वाचालकोकिल तथा मधुराणि पूर्व- मां पीडयन्ति विधुरां तव कूजितानि । धन्यं धिनोति वचनैः श्रवणानुकूलै- रन्यं दुनोति परुषैः परपुष्टजातिः ॥ ४ ॥ किं किंशुक त्वमपि संप्रति वीतलज्जः कर्त() व्यवस्यसि रुजं कुसुमैरगन्धैः 1 अभ्यर्थितोऽहमिति विक्लवमानसाना- मस्त्येव दार्श्व(क्ष्य)मसतां परि(र)पीडनेषु ॥ ५॥ मनाङ्गने सखि तवापि ममापि तुल्या श्रीकण्ठ[कण्ठ]रुचिरस्त्यथ कोप(ऽपि) भेदः । १. पद्यमिदं व्यतिरेकालंकारप्रकरणे विश्वेश्वरेणालंकारकौस्तुमेऽप्युदाहृतम्.

५० काव्यमाला। पुष्पेषुचेष्टितमतीव तवानुकूल सत्यं तदेव हि सम प्रतिकूलमासीत् ॥ ६ ॥ आपीय सीधुरसमागलमुन्मिपत्सु पुष्पेष्वमी तत इतश्चषकायितेषु । ...मन्ये कलध्वनिमिषेण मनोभवस्य गायन्ति मत्तमधुपा विजयप्रशस्तिम् ॥ ७ ॥ पूर्व मया चिरतरं सहकारबुद्ध्या यः पोषितः प्रतिविधानमुखैः प्रयतैः । जातः स संप्रति जगत्रयनाशहेतु- हो हन्त पुष्पसमये विषवृक्ष एव ॥ ८॥ नृत्तोद्यमोऽसि फणिसंगमनिर्मयोऽसि बर्हिन्यदप्यसितबन्धुरकन्धु(न्ध)सेऽसि । तैस्तैर्गुणैरनुकरोषि पिनाकपाणि हन्तुंममातिमधुना कथमक्षमोऽसि ॥९॥ अम्मोनिधौ निपतितो यदि सेतुहेतोः शैलोऽपि दक्षिणसमीरणजन्मभूमिः । सीतैव कान्तविरहे न परं कपीन्दैः संरक्षिता युवतयः सकला भवेयुः ॥ १०॥ यत्ते निसर्गलघिमा यदभूल्लतानां संसृज्य पुष्परजसा तव धूसरत्वम् । मैत्रं च यत्तव जलैरुचितं तदा तै- मन्दानिल त्वमसि यत्प्रतिकूलवृत्तिः ॥ ११ ॥ आरम्वधादनिल कोरकमाहर त्वं सद्वा प्रसूनमथवा दलमेतदीयम् ।

२७ पद्धतिः] भिक्षाटनकाव्यम् । १५१ : सौरभ्यमेव यदि वा करुणा तवाहो किं नाञ्जनेयजनकस्य वियोगिनीषु ॥ १२ ॥ अत्युच्छ्रितासु सहकारमहीरुहाणां शाखासु पुष्पनिबिडाखधिरूढवन्तः । प्रायः कुहूरिति पिका निजकूजितेन वध्यां निशामभिवदन्ति वियोगिनीभ्यः ॥ १३ ॥ पोषं स्वकीयजननीपरिवर्जितानां कुर्वन्ति ये बलिभुजः पिकपोतकानाम् । तैः सम्यगेव विदितं परिरक्ष्यपात्रं कृष्णात्मनां सुकृतरूपमपि क्रियासु ॥ १४ ॥ मात्रापि दुर्गुणतया परिवर्जितानां के रक्षणं विदघते पिकपोतकानाम् । काकैर्न हन्त विदितं परिरक्ष्यपात्रं कृष्णात्मनां सुकृतबुद्धिरसक्रियासु ॥ १५ ॥ पूर्व मदीयवदनासवपुष्पितस्त्व- मद्याहमस्मि विधिना हरविप्रयुक्ता । हा हन्त पीडयसि मां बकुल प्रसूनै- भॊक्तव्यमात्मकृतदुष्कृतमात्मनैव ॥ १६ ॥ वर्णः सुवर्णविजयी शुचिरेष गन्ध[:] संभावना शिरसि ते परमेश्वरेण । एतत्तथापि कृतमाल तवास्ति दोषो यत्संगतोऽसि मलिनैरसकृहिरेफैः ॥ १७ ॥ १. इति पाठमेदः पुस्तकान्तरे दृश्यते ।

१५२
काव्यमाला।
उद्यानकेलिकमलानि च तानि हित्वा
शंभोः पदाम्बुजयुगे यदि ते रिरंसा ।
गीर्वाणनाथगणकस्य जनार्दनादे-
रारुह्यतां सपदि लालित(?) मौलिमाला ॥ १८ ॥
क्वाप्युच्चयः सुमनसां कुहचित्परागो
गन्धः क्वचित्वचन दक्षिणगन्धवाहः ।
दिष्ट्या वसन्तसमये मरणाभ्युपाय[:]
सार्वत्रिको विरहदुर्मरजीवितानाम् ॥ १९ ॥
पूर्व प्रवालमथ पुष्पमथो नु गन्धं
पश्चान्मधुव्रतकुलं पुनरस्य शब्दम् ।
चूते विधाय विधिरेवमभद्रमालां
किं किं करिष्यति वियुक्तनिरूढवैरः ॥ २० ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानोक्तिपद्धतिः सप्तविंशी ।
अष्टाविंशी पद्धतिः।
उद्रिक्तशंकरवियोगविषादशान्त्यै
नानाविधे सपदि बन्धुजनैः प्रवृत्ते ।
"शीतक्रियाप्रकरणे वरमर्णिता(नी)नां
यद्यद्बभूव चरितं कथयामि तत्तत् ॥ १ ॥
संचारिताकदलीदलतालवृन्तै-
रुत्थापितः परिजनैः शिशिरः समीरः ।
नान्तर्ध्वरं मृगदृशां शमयांबभूव
यत्ने कृतेऽपि न फलाय मृदुः खभावः ॥२॥

२८ पद्धतिः]
भिक्षाटनकाव्यम् ।
१५३
मालां नवोत्पलमयीं विरहोष्मितायाः
सख्या निधाय हृदये कृतमानुकूल्यम् ।
पुष्पास्त्रमोचनपरस्य मनोभवस्य
• विस्रम्भणं न वनितासु कदापि कार्यम् ॥ ३ ॥
यः कल्पितः कुचतटे विरहातुरायाः
शैत्याय सान्द्रतरचन्दनपङ्कलेपः ।
अन्तः स तापमधिकं जनयन्नयासी-
दापाकलाक्ष्यनवकर्दमलेपकक्ष्याम् ॥ ४ ॥
कस्याश्चिदीशविरहे शयनीकृतानि
पङ्केरुहाण्यपि तया सह शोषमापुः ।
अन्यातिनिर्वृतिमशक्नुवतां विधातुं
म्लानिः स्वयं सुमनसामुचितैव वृत्तिः ॥ ५ ॥
धारागृहं विरहवह्निशमाय तन्व्या
भूयोऽपि मुग्धपरिवारजनश्चकार ।
तस्याः सदा कुचतटे पतिताम्बुधारे
धारागृहत्वमधिकुर्वति नेत्र एव ॥ ६॥
हाराः पयोधरयुगे विहिताः कयापि
विश्लेषतापजुषि नीलदशामवापुः ।
संतापशान्तिकरणाक्षमतापवाद-
माधातुमिन्द्रमणिमूर्धनि वाञ्छयेव ॥ ७ ॥
विस्रम्भिता प्रियसखीवचनेषु रम्भा-
माश्लिष्यति स्म विरहोष्मशमाय काचित् ।
कस्याश्चन स्तनयुगे निहितं मृणाल-
' ( मानीय तेन सुषुवेऽम्बुजमाननस्य ॥ ८ ॥

काव्यमाला। . आपीतरक्तकपिशा किमु जालजिह्वा ज्वाला किमद्य जगतः किमुत क्षयाः । आलोक्य काचिदितिसंदिदिहे सखीभि- नीतानि शंभुविरहे नवपल्लवानि ॥९॥ विश्लेषिणी तरुणपल्लवक्तृप्तशय्यां दीप्ता चितेति परिहातुमियेष काचित् । बाष्पोदकैस्तदुपरि प्रसरद्भिरेव तस्या मतिभ्रममुपान्तजनो जहार ॥ १० ॥ हा हन्त कापि विधुरा रचितं सखीमिः प्रत्यग्रपुप्पशयनं क्षणमारुरोह । सा मूढधीरसुनिराशजनैर्निषेव्यं प्रायेण कामशरतल्पमिदं न वेद ॥ ११ ॥ विस्रम्भतः प्रियसखीवचनेन रम्मा- माश्लिष्यति स्म विरहोष्मशमाय काचित् । तस्यास्तदूरुयुगलोपनतामवज्ञा स्मृत्वैव तापमथ सा विपुलं ततान ॥ १२ ॥ हारादिभूषणविधिः सरसैर्मृणालैः पात्रैनितान्तपृथुमिय॑जनोपयोगः पझैश्च तल्परचना विरहातुराया- स्तत्पद्मिनीविधिरहो विरहैकशेषः ॥ १३ ॥ कस्याश्चिदान्तरघनज्वरशान्तिहेतो. रालीजनेन विहिते शिशिरोपचारे । रेजे कुचोपचितचन्दनपङ्कलना मुक्तावली बिसलतेव मुखाम्बुजस्व ॥ १४ ॥ --

२९ पद्धतिः]
भिक्षाटनकाव्यम् ।
१५५
सख्यार्पितेन कुचयोर्नवचन्दनेन
भूरिज्वरा विरहिणी कुपिता क्षणेन ।
तस्यास्तदेव घनसनहना विलेप्तुं
काचित्कृपामृदुमना न तथा चकार ॥ १५ ॥
कस्याश्चिदीशविरहानलतापशान्त्यै
वाञ्छां विभोर्बहुमते भसिते वहन्त्या ।
भस्मात्मना परिणतः कथिताङ्गसङ्गा-
त्सख्या कृतः सरसचन्दनलेप एव ॥ १६ ॥
कहारसारघनसारहिमादि वस्तु
यत्पठ्यते हृदयतापहरं विदग्धैः ।
तद्यर्थमेव समभूत्कुचयोः परस्याः
किं चौषधं गिरिशशब्दितमेव शिष्टम् ॥ १७ ॥
जित्वा सरोजनिलयामलयागृहीतां
सौर्य तपः कमलिनीनियतं परस्याः ।
पझैरकारि शयनं व्यजनं विशालैः
पत्रैर्मृणालरचितानि विभूषणानि ॥ १८ ॥
इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकाव्ये शिशिरोपचारपद्धतिरष्टाविंशी।
एकोनत्रिंशी पद्धतिः।
नारीजनो हरवियोगमहोष्मशान्त्यै
शीतक्रियां प्रियसखीषु वितन्वतीषु ।
निःशृङ्खलद्विगुणवर्धिततीव्रताप-
स्तत्कृत्यदूषणपरामिति वाचमूचे ॥ १ ॥

१५६
काव्यमाला।
शीतक्रियां फलवती यदि कर्तुमास्था
सख्या मदीयमुखतः शृणुताभ्युपायम् ।
आनीय शंकरमिहाद्य मदीयपार्थे
कार्यास्ततो नु विविधाः शिशिरोपचाराः ॥ २ ॥
सत्यं त्वया प्रकटितो मयि भावबन्धः
शीतक्रियासु विरमाद्य वृथाप्रवृत्तेः ।
शक्यः कथं शमयितुं सखि निर्विकल्प-
कल्पावसानदहनश्चलकोदकेन ॥ ३ ॥
निर्भागधेय हरिचन्दनसौरभेण
सान्द्रेण किं तव दिगन्तविजृम्भितेन ।
बद्धादरः परुषभस्मविलोच(लेप)नेऽपि
यत्तत्पराङ्मुखमना जगदेकनाथः ॥ ४ ॥
किं चन्दनेन किमु पल्लवसंस्तरेण
किं मु(मौ)क्तिकैबिसगुणैरथ भूषणैर्वा ।
मूढे सखि प्रियसमागम एव यद्वा
मारज्वरस्य मरणं शिशिरोपचारः ॥ ५ ॥
प्रारभ्यते प्रतिविधिः सखि यो भवत्या
मूर्छासु मे हरसमानयनं विनान्यः ।
काराग्रहाज्झटिति निर्गमतो जनस्य
द्वारोपरोधविधिना स शठेन तुल्यः ॥ ६ ॥
आदित्यतापसदृशं विरहोप्मतापं
बुद्धैव या प्रयतते शिशिरोपचारे ।
सा त्वं पयोधिसलिलैर्वडवामुखामेः
शान्तिं करोष्यपरवह्निसमभ्रमेण ॥ ७ ॥

२९ पद्धतिः] भिक्षाटनकाव्यम् । १५७ साम्यं प्रतीत्य सखि सांप्रतमन्यरोगै- स्तस्येदृशः प्रतिविधानमनोरथस्ते । सोऽयं पुनः स्मरगतो विपरीतवृत्ति- र्यस्यैक एव जनकश्च निवारकश्च ।। ८॥ क्रीडाशुकं सखि कलानि वचांस्यजसं जल्पन्तमेनमपसारय शीघ्रमेव । अस्याश्वशिक्षणगिरं मुहुरुद्गिरन्त्या कार्यस्त्वयापि मम संनिधितोऽपसारः ॥ ९ ॥ निर्वापणं सरसवस्तुभिरेव कर्तु मूढे किमस्य सखि वाञ्छसि चन्दनाद्यैः । किं त्वं न वेत्सि सरसेषु मनोभवाग्नि- वृद्धि प्रयाति सुतरामिति लोकवादम् ॥ १० ॥ और्वानलं जलनिधेनहि यानि शेकु- हतु दवाग्निमथवा न वनद्रुमाणाम् । तैर्मौक्तिकैः किसलयैरपि तैरिदानी शक्यः कथं शमयितुं सखि मन्मथाग्निः ॥ ११ ॥ ये शीतलप्रकृतयो भुवने पदार्था- स्तेऽप्यद्य हन्त मयि तापकरा हिमाद्याः । यः सर्वसर्गनिकरे निपुणः स वेधाः कर्तु क्षमो न किमयं गुणवैपरीत्यम् ॥ १२ ॥ शय्यां करोषि मम तापनिवृत्तये चे- दादित्यमैत्र्यजनितौप्ण्यगुणैः सरोजैः ।

१५८ काव्यमाला। सख्यावयोहृदयजीवितयोरभेदा- न्मारज्वरो मयि घनस्त्वयि हन्त मोहः ॥ १३ ॥ यं पन्नगा निजविषोष्मनितान्ततप्ताः श्रीखण्ठपादपमिवानिशमाश्रयन्ते । अन्तर्ध्वरं शमय मे सखि तस्य शंभोः काराग्रहान्नहि वरः शिशिरोपचारः ॥ १४ ॥ नैबामुना श्रुतिकटुकणता शुकेन नैव त्वयाप्यनुपमव्यवधानयापि । नीतौ युवां हितविधायिपदं ययैव मन्ये मयैव सखि संप्रति मेऽपराद्धम् ॥ १५ ॥ हारस्त्वया सखि कृतो यदि मे मृणालै- वारे न केन यदि वा विदितं मयैव । नाथेन वक्षसि धृतो यदतो ममाशु संतापहार्यपि भवेत्स भुजङ्गहारः ॥ १६ ॥ मत्तेव(त्तोऽव)गच्छ सखि संप्रति शीतविद्यां विश्लेषिणीमलमलं विफलक्रियाभिः । लोके सुखप्रदतया प्रथितानि यानि तैर्वस्तुभिर्विरह एव परं भिषज्या ॥ १७ ॥ प्रारम्भतोऽपि पुरतः परपीडनानां यान्त्या पदं खयमकारणरूढवैराः । यन्मां वियोगविधुरां परितप्कामो निष्पीड्यते मलयजो भवतीभिरद्य ॥ १८ ॥ १. 'शीतविधानविद्या" इत्यादर्श पाठः,

३० पद्धतिः
भिक्षाटनकाव्यम् ।
१५९
धन्यैव सा जनकमूर्विरहे परीता
या राक्षसीभिरनिशं न वृता सखीभिः ।
तस्या अपि प्रियसखीजनसंगमश्चे-
च्छीतक्रियामहमिवानुभवेदसह्याम् ॥ १९ ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये सख्युपालम्भपद्धतिरेकोनत्रिंशी ।
त्रिंशी पद्धतिः।
तापं सरोरुहदृशामचिकित्सनीयं
विज्ञाय शीतलविधाभिरपि क्षणेन ।
अन्तर्दधे करुणया किल तिग्मभानु-
स्तासां पुनश्चरितमद्य वयं वदामः ॥ १॥
तिग्मातावपरदिक्प्रणयप्रवृत्ते
दुःखं विभाव्य रजनीमुखभावि तीव्रम् ।
कस्याश्चिदंशुमलिनं विरहातुरायाः
पूर्व मुखं तदनु पूर्वदिशस्तमोभिः ॥ २ ॥
जालान्तरेण पवनः प्रविशन्कयापि
रुद्धो मुहुर्दृढकवाटसमर्पणेन ।
लुप्ते यथात्मनि तथा विशति खगेहे
मन्दानिलेन विरहिण्यकरोदवज्ञाम् ॥ ३ ॥
कस्याश्चिदस्तमयलम्बितपाटलिना
पूष्णा सहैव पतता दिशि पश्चिमायाम् ।
सख्या वियोगपरिहारनिरुद्यमायाः
कोपात्पपात शनकैररुणः कटाक्षः ॥ १॥

१६.
काव्यमाला ।
मीति यथैव विदधे कुमुदैहसद्भि-
रासूचितादयतटान्तरितखरूपः ।
वामभ्रुवो विरहविज्वरिताशयायाः
प्रादुर्भवन्नपि पुनर्न तथा हिमांशुः ॥ ५ ॥
आलम्बते दिनमणिः सखि पश्चिमायां
सद्यः कयापि वि(प्यभि)हिता हरमानयेति ।
काचित्सरःसरसिजं मुकुलायमान-
मालोक्य पाणिकमलं मुकुलीचकार ॥ ६ ॥
यः पावकप्रणयिभिर्दिवसे पृथिव्या-
माधायि चण्डमहसः किरणैरनेकैः ।
सर्वोऽपि हन्त निशि मन्मथपीडितायाः
कस्याश्चिदाशु हृदयं स विवेश तापः ॥ ७ ॥
या तुङ्गसौधवलभीशयिता वियुक्ता
या तत्समीपगतमङ्गलदीपिका च ।
सख्यः प्रमादमभिशय तयोर्वितेनु-
र्जालप्रविष्टपवनात्सममेव रक्षाम् ॥ ८ ॥
काचित्सहायरहितां निशि चक्रवाकी
दृष्ट्वा सतीप्वपि सखीष्वनुरागिणीषु ।
तस्यै शनैरकथयन्निजकामपीडां
नूनं दशासदृशता प्रणयस्य हेतुः ॥ ९॥
आ x x कार्यकरणो निखिलोऽपि लोको
यद्हते झटिति निहृतदिग्विभागम् ।
मीमं तमस्तदपि कापि ननन्द तस्मा-
:: यसात्रिलोचनगलस्मृतिमाततान.॥ १० ॥

३१ पद्धतिः] भिक्षाटनकाव्यम् । १६१ काचिद्विलोक्य कमलानि निमीलितानि विश्लेषिणी विकसितानि च कैरवाणि । शोकः सतां परविपद्यसतां च हर्षों धात्रैव सृष्ट इति कापि विनिश्चिकाय ॥ ११ ॥ गौरीपतेरभिसृति सुदृशा कयापि कर्तु प्रसाधनमशङ्कितमाचरन्त्या । नाबन्धि रत्नरशना विपुले नितम्बे वाचालता गुणवतामतिदूषणाय ॥ १२ ॥ संध्यानभश्चरमसीमनि कापि पांसु संसर्पिणी विरहिणी सहसा निरीक्ष्य । मेने जगत्रितयनिर्जयवैजयन्ती कामस्य रत्नपटिकां भवविह्वलैव ॥ १३ ॥ इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषचरितपद्धतिस्त्रिंशी । एकत्रिंशी पद्धतिः। प्राप्तः प्रदोष इति वीक्ष्य निरर्गलेन पुष्पायुधेन भृशपीडितमानसानाम् । वामभ्रुवां विरहतापविजृम्भितानि वाक्यानि वक्तुमभिवाञ्छति चेतना मे ॥ १ ॥ कृत्वा खवेणुजनितं स्वयमेव गीतं विध्यन्ति मुग्धहरिणान्विजने पुलिन्दाः । आश्चर्यमुच्चलति गोपतिवंशगीतं कामस्तु विध्यति वियोगिजनं पृषत्कैः ॥ २ ॥ ११द्वादशगु०

१६२
काव्यमाला।
तुभ्यं नमो भवतु वासरलोपसंध्ये
नान्तःश्लथामनुकरोषि जटां शिवस्य ।
आशास्महे वयममी तत एव हेतो.
र्मा भूत्कदापि शशिनः शकलेन हीना ॥३॥
नेयं निशा हतनिशाचरयोषिदेषा
हन्तुं वियोगविधुरं जनमाजगाम ।
अस्या मुखे सपदि यः प्रथते प्रकामं
रागः स कोपजनितो न तु सांध्यरागः ॥४॥
संधुक्षयत्यविरतं हृदयं मदीय-
मन्तः प्रविश्य मदनामिरसौ समीरः ।
अस्मिन्नमुष्य विषमास्त्रविमुक्तबाणे-
रापाद्यमानविवरे सुकरः प्रवेशः ॥ ५॥
यः पश्चिमे क्षणमदर्शि नभःप्रदेशे
रागः क्व यात इति संप्रति मे व(वि)शक्षा ।
सत्यं हरेण विरहे हरिणेक्षणानां
चित्तेषु पुष्पधनुषा कृतसंविभागः ॥ ६ ॥
आसन्नचन्द्ररमणप्रणयावि(व)लिप्ता
कामव्यथां मनसि कैरविणी करोतु ।
अम्भोजिनि त्वमपि संप्रति वल्लभेन
विश्लेषिणी मयि कथं रुजमादधासि ॥ ७ ॥
दग्धुं जगत्रयमयं विकलोऽपि वहि-
रुज्जृम्भते वियति सांध्यमहश्छलेन ।
इत्थं न चेत्किमिति संप्रति वारि विप्राः
सश्रद्धमञ्जलिभिरू ममी क्षिपन्ति ॥ ८ ॥

३१ पद्धतिः]
भिक्षाटनकाव्यम् ।
१६३
यस्य प्रयाणसमये प्रकटानुरागः
सोऽवश्यमेष्यति पुनः सवितेति सुप्तिम् ।
अम्भोजिनी व्रजति सुप्तिकथा कथं स्या-
निःसङ्ग एव गिरिशे मम भक्तिमत्याः ॥ ९ ॥
साध्वेष वासरपतिर्दिशि पश्चिमायां
तेजःक्षयद्युतिवशेन बभूव रक्तः ।
हा हन्त पातयति सा तमियं वराङ्गी
कस्यापदे जगति नान्यतरानुरागः ॥ १० ॥
मन्येऽहमित्थमुदयारुणचन्द्रनाम-
खीकारिणः प्रलयकालहुताशनस्य ।
धूमोऽयमग्रजनितस्तिमिरच्छलेन
विश्लेषिसार्थनयनाश्रुनिपातहेतुः ॥ ११ ॥
एकस्य रात्रिमुखवेषविषद्रुमस्य
संजातसाध्यकिरणारुणपल्लवस्य ।
आगामिपूर्णशशिबिम्बमहाफलस्य
तारागणं विगणयामि नवप्रसूनम् ।। १२ ।।
अत्युच्छ्रितादनिल ते मलयात्प्रसूति-
नित्यं यतः परिचयं सुमनोभिरेव ।
दाक्षिण्यवानिति जगद्विदितोऽसि तस्मा-
न्मा जातु जारसरणिं व्रज नीचसेव्याम् ॥ १३ ॥
'पूर्णेन्दुरत्र मरुदत्र हिमाम्बुगर्मों
गन्धोऽयमत्र मुकुलस्य विजृम्भमाणः ।
नाम प्रदोष इति दोषसमग्रभावा-
सष्टा यथार्थमकरोगजनीमुखस्य ॥ १४ ॥

१६४
काव्यमाला।
धन्या हि सा भगवती दिवसान्तसंध्या
यामागतां भुवि सुवीक्ष्य पिनाकपाणिः ।
विश्लिष्टबन्धनजटाभरणः स हर्षा-
गौर्याः समक्षमपि नृत्यति वीतशङ्कः ॥ १५ ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषोक्तपद्धतिरेकत्रिंशी ।
।
द्वात्रिंशी पद्धतिः।
कंदर्पशासनविलविजनेषु रूढ-
रोषादिवेन्दुमुदयस्थमवेक्ष्य ताम्रम् ।
जज्ञे हरेण विरहे वनिताजनस्य
यच्चेष्टितं तदधुना कथनीयमास्ते ॥ १ ॥
उष्णायमानमुदयारुणमिन्दुबिम्ब
काचिद्रवेविरहिणी न शशाक भेत्तुम् ।
तस्या विवेकमतिदायितया तदानीं
तस्योपयोगमहितं शशलाञ्छनत्वम् ॥ २ ॥
अन्या विहाय मदनातुरजीविताशां
जातस्पृहा मरणशब्दितमङ्गलाय ।
लब्धः शिवो भवतु मे परजन्मनीति
चन्द्रातपे विरहिणी सहसा पपात ॥ ३ ॥
आलोक्य काचिदुदयारुणमिन्दुबिम्ब
विश्लेषिणामविषहं शिशिरं परेषाम् ।
द्रोही न वा खलु ममेति जनं बिभत्सोः
कामास्य तप्तपरशुं गणयांचकार ॥ ४ ॥

३२ पद्धतिः ]
भिक्षाटनकाव्यम् ।
१६५
ज्ञातो जनैविरहतापजुषः परस्य
नेत्रद्वयस्य नलिनस्य च जातिभेदः ।
पद्मेषु चन्द्रकिरणैर्मुकुलीकृतेषु
यज्जागरूकमभवन्निशि नेत्रयुग्मम् ॥ ५ ॥
चूडामणिः पशुपतेरिति जृम्भितास्था
तापावहो विरहिणामिति जातभीतिः ।
चन्द्रस्य काचिदुदये विधुरा निजाक्ष्णो-
रुन्मीलनेऽपि न शशाक निमीलनेऽपि ॥६॥
भिक्षाटनं पशुपतिः कृतवानिहेति
यां हातुमह्नि गलितेऽपि हि न क्षमाभूत् ।
तां वीथिकां शशिमयूखभयाद्विहाय
छायेव कापि शनकैर्वसतिं विवेश ॥ ७ ॥
कस्याश्चिदीशविरहव्यथिताशयायाः
कामं वदन्तु मुखमेव हि चन्द्रकान्तम् ।
तस्या दृशोयुगलमप्युदये हिमांशो-
निर्दिश्यमानबहलोदकमिन्दुकान्तम् ॥ ८ ॥
यावान्दिनेशपतने विरहातुराया-
स्तावान्हिमत्विषि मनागुदितेऽपि तापः ।
पातो यथा परहिताय तथार्तिभाजां
खेदाय नूनमुदयो मलिनाशयस्य ॥ ९ ॥
प्लुष्टं मनाविरहिणी स्तनमिन्दुपादैः
काचिद्ददौ प्रियसखीमुखमारुताय ।
प्रारब्धमन्यदपरं फलितं क्षणेन
जज्वाल हन्त हृदये मदताग्मिरस्याः ॥ १० ॥

१६६
काव्यमाला।
एका शशाङ्ककिरणोपनिपातमीत्या
वाततायनान्तरपिधानकृतप्रयत्ना।
आमीलनव्यपहृतेन्दुकरप्रयत्ना-
लक्ष्म्याः सरोजवसतिं मनसा ननन्द ॥ ११ ॥
स्पष्टं मुहुर्भवनजालकृतप्रवेशै-
रिन्दुः करैर्विरहिणी व्यथयांचकार ।
स्प्रष्टुं जडप्रकृतिरिच्छति कामिनीना-
मङ्गं मनःस्थितिमनाकलयन्करेण ॥ १२ ॥
इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकाव्ये चन्द्रोदयपद्धतिर्वात्रिंशी ।
त्रयस्त्रिंशी पद्धतिः ।
चन्द्रोदये विरहविहलमानसानां
या निर्गता भणितयो वदनाद्वधूनाम् ।
माधुर्ययोगपुनरुक्तसुधान्वितानां
तासामिहास्मि कथनेन विदग्धमान्यः ॥ १ ॥
किं कृत्यमद्य सखि पश्य जगत्समस्तं
व्यामोति सान्द्रमपहृत्य निशान्धकारम् ।
त्रैलोक्यसंहरणकर्मणि कामशत्रोः
कोपाट्टहास इव कोऽपि शशिप्रकाशः ॥ २ ॥
एतस्य चन्द्रहतकस्य कठोरभावं
सख्यस्तदेव गमयेति विकल्पमेव ।
अम्भोनिधेरखिलरक्षणजागरूको
जग्राह यत्पशुपतिर्गरलेन साकम् ॥ ३ ॥

३३ पद्धतिः] भिक्षाटनकाव्यम् । १६७ अन्येषु जन्तुषु सुधासहजत्वमिन्दो व्यक्तीकरोषि किरणैरतिशीतपातैः । अस्मादृशेषु तु पुनर्विधिवञ्चितेषु तैर्दुःसहैर्गरलसोदरभावमेव ॥ ४ ॥ वेधाः सुखी भवतु सांप्रतमात्मशिष्टं कृत्वा जगत्रितयमिन्दुमयानलेन । सद्योनिमीलितजनार्दननाभिपद्मे गूढं स्थितस्य न हितस्य शशाङ्कभीतिः ॥ ५ ॥ किं राहुणा कवलितः किमु चन्द्रमौलेः सर्वात्मना मुकुटभावमलंकरोति । निर्मूल एव किमु शीकरतः प्रलीनो यत्तस्य राज्यमयमुष्णकरः करोति ॥ ६ ॥ पूर्ति विहाय निहतद्युतिमद्य शोच्यं कार्य तदेव कुमुदैकपते भजस्व । यस्मिंस्त्वया निखिलवन्दनहेतुभूतं प्राप्तं पुरार्दनकपर्दशिखामणित्वम् ॥ ७ ॥ अङ्गारगर्भकरमिन्दुमिमं पिधाय यादृच्छिकानुगमने 'कुरु मेघ रक्षाम् । कालप्रतीक्षणपरो भुवनोपकारे जीमूतजातिरिति मास्तु तवापवादः ॥ ८ ॥ अन्तःकलङ्कमुदयाहितशोणभाव- मालोचयामि सखि संप्रति चन्द्रबिम्बम् । १. पुरार्दनः पुरारिः शिवः.

१६८ काव्यमाला। अङ्गारचक्रमुपशान्तकरालमन्तः कामस्य दु(द)ग्धवपुषस्त्रिपुरान्तकेन ॥ ९॥ किं क्षेममद्य सखि नः कथयाम्बुराशेः से(सो)यं कलाभिरखिलाभिरुदेति चन्द्रः । शैलात्मजावपुरभेदफलां स्मराज्ञा- मेकैव वर्तयति यस्य कला हरेऽपि ॥ १० ॥ शाणोपलं मकरकेतनसायकानां पूर्णेन्दुबिम्बमिदमालि वितर्कयामि । नो चेत्तथा कथमिदं निशितत्वमेषा- मस्मिन्नुदश्चति कथं च पुनः क्षयोऽस्य ।। ११ ॥ इन्दुच्छलेन जलधेः प्रलयानलोऽय- मुज्जृम्भते सखि वियोगिजनक्षयाय । मूर्ना बिभर्ति सरितं परमेश्वरोऽपि कालेयचन्द्रितकलापरितापभीतः ॥ १२ ॥ अद्यादिमं यदि स संप्रति राहुरिन्दु दिष्ट्या भवेद्विरहिणामपि जीवलाभः । भुङ्ग्यात्सदैव यदि भूरिफलं परेषां मन्ये कदाचिदपि हन्त खलो न भुते ॥ १३ ॥ पात्रं करालगरगर्भितमेव सत्यं नैवेन्दुबिम्बमिदमालि यतश्चिराय । उत्कण्ठते मम मनः शिवकण्ठमेव यः कालकूटगरलादखिलं ररक्ष ॥ १४ ॥ हृद्यानि मीलयसि हन्त सरोरुहाणि हा चन्द्र जृम्भयसि संप्रति कैरवाणि ।

३४ पद्धतिः] भिक्षाटनकाव्यम् । १६९ युक्तं तवैतदुभयं मलिनाशयस्य भव्यावधीरणमभव्यसभाजनं च ॥ १५ ॥ आलोकितं रमणभूषणमङ्गनानां तापं वियोगसमये हरतीति वादः । चूडामणिः पशुपतेरयमिन्दुराधि हा हन्त वर्धयति मे विधिना शठेन ॥ १६ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिस्त्रयस्त्रिंशी। चतुस्त्रिंशी पद्धतिः । अव्याजदुस्तरनिशीथपयोधिमध्ये वैरायमाणविधिनैवनिपातितानाम् । एणीदृशां हरमहाप्लवकाकिणीनां दौत्यत्वयानि(?) चरितानि जनः शृणोतु ॥ १॥ कामातुरो नहि निरूपयति खदैन्यं काचित्समस्तवनिताजनपूजनीया । दूत्या मुहुः सकृदपि त्रिपुरान्तकस्य कण्ठग्रहाय चरणग्रहणं चकार ॥ २ ॥ यः पाण्डुरःस्वयमथाब्धिविषं निपीय नैल्यं विभर्ति भुवनत्रयरक्षणाय । दौत्यं तथाविधतथा(या)हसि शंकरस्य तस्येव कापि नवमम्बुधरं ययाचे ॥ ३ ॥ कल्याणवान्धवपरो जगतीह मातु- रन्यो जनोऽयमिति जीवसखीरुपेक्ष्य ।

१७० काव्यमाला। काचित्खमातरमयाचत शंभुदौत्यं किं नैव कारयति कामभवो विकारः ॥ ४ ॥ सामोक्तिभिः प्रियसखीमनुचर्य काचि- रौत्याय वाच्यमनया परिपृच्छयमाना। तूष्णीमजातनिजसंगमने वृषाङ्के वक्तव्यहानिपरिदूयमना बभूव ॥ ५॥ यामेव जीवितसवीं परिरभ्य गाढ- मीशोपकण्ठगमने त्वरयांचकार । तां प्रस्थितां सपदि वीक्ष्य रुरोध काचि- दीशान्तिकान्यवनितागमनासहिष्णुः ॥ ६॥ संदेशगर्मितपुटे स्मरलेखपत्रे विन्यस्तसान्द्रनवचन्दनपङ्कमृत्के । शंभोभविष्यति करःप्रणयीति काचि- न्मुद्रां व्यधाद्विरहिणी कुचचूचुकेन ॥ ७ ।। मा गास्त्वमद्य हरसंनिधिमस्मदर्थे प्राणाधिका यदसि मे तदिहासितव्यम् । प्राणाः प्रयान्तु सुखमद्य ममेति काचि- स्नेहोक्तिभिः प्रियसखी त्वरयांचकार ॥ ८ ॥ न प्रेषिता प्रियसखी गिरिशस्य पार्श्व सा स्त्रीति शङ्कितधिया सुदृशा कयापि । मत्वा नपुंसकमिति प्रहितं मनोऽभू- तच्चापि तत्र रमते किमियं विधत्ताम् ॥ ९ ॥ कृत्वाधरं रचितचिह्नमलक्तकेन तस्याः कुचाग्रमपि कुङ्कुमकर्दमेन ।

३१ पद्धतिः] भिक्षाटनकाव्यम् । १७१ काचिद्गभीरहृदया हरसंनिधानं गन्तुं पुनः प्रियसखीं वनिता न्ययुत ॥ १० ॥ योऽपीदृशं वितनुते परकीयमिष्टं तादृक्फलं स फल(लभ)ते पुनरित्यभिज्ञाम् । मामद्य योजय हरेण विधाय दौत्य- मित्याजगाद विधुरा निशि चक्रवाकीम् ॥ ११ ॥ रागः शठो नियतमन्यतरानुरागः खस्थः स एव पुरुषस्य निरङ्कुशस्य । मानग्रहो हि मरणाय वधूजनस्य व्याचक्ष्व नाथमिति कापि जगाद दूतीम् ॥ १२ ॥ वार्ताहरीमनधिगम्य रहः शुचान्या तापोऽर्जिते स्तनतटेऽश्रुजलं मुमोच । तस्मै हृदि स्थितिमते स्थितिमेतदीयां वक्तुं प्रविष्टमिव तन्नहि तत्र दृष्टम् ॥ १३ ॥ संदेशमीशविषयं स्वयमेव काचि- द्यस्मिन्विलेखितुमुपाक्रमताञ्चिताक्षी । पत्रं तदाशु धृतकज्जलबाष्पपातैः प्रागक्षरार्पणविधेर्मलिनीचकार ॥ १४ ॥ किं किं परिभ्रमसि संप्रति कुन्तले मे पुष्पोज्झितेऽपि मधुपार्थितया तथैव । आनीय शङ्करमिह द्रुतमाप्तकामो भूया इति भ्रमरमाह शुचेव काचित् ॥ १५ ॥ दीर्घ मयैव कलजल्पितशिक्षणं ते तद्दक्षिणावितरणस्य स एष कालः ।

१७२ काव्यमाला। कालान्तकाय कथया मम कामपीडा- मित्यन्तरङ्गमपरा शुकमावभाषे ॥ १६ ॥ कर्णावतंसकुसुमाश्रयणापदेशा- त्तस्यैव कण्ठविवरं प्रतिपद्य सद्यः । वार्ताहरो भव हराय ममेति काचि- दात्मालकान्तिकचरं भ्रमरं बभाषे ॥ १७ ॥ विश्लेषदुःखशमनाय सरोरुहिण्याः संध्या प्रयान्तमनुगम्य कठोरभासम् । अध्यास्ततेन न विनेति कथाप्रसङ्गा- त्सख्युः पुरो विरहिणीं वचनं जगाद ॥ १८ ॥ आहूय दौत्यगमनाभिमुखी वयस्यां संदेशमीशविषये बहु वक्तुकामा । तत्पार्श्वमेष्यसि यदीत्यसमापितोक्ति- प्पैिरवोचदपरा कथनीयशेषम् ॥ १९ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीप्रेषणपद्धतिश्चतुस्लिंशी। पञ्चविंशी पद्धतिः । अस्मादृशामसुलभस्य विभोरशक्ये दौत्ये पदे युवतिभिर्विनियोजितानाम् । तं व्यापिनं गगन एव विधाय लक्ष्यं दौत्योचितानि वचनान्यभवन्सखीनाम् ॥ १ ॥ कालान्तकोऽयमिति विश्वजनप्रसिद्धिं सत्यां विधातुमथ चेगिरिशामिलाषः ।

३५ पद्धतिः] भिक्षाटनकाव्यम् । १७३ यो बाधते त्वयि दृढप्रणयां सखीं मे कालं तमद्य झटिति क्षपय क्षपाख्यम् ॥ २॥ सख्यां वसन्तसखबाणगणार्दितायां तां किंचिदत्र करुणां कुरु चन्द्रमौले । मा वा न नः क्षतिरतो मरणं वरिष्ठं जीवस्थितेस्त्वदनुरागनिमित्तमस्याः ॥ ३ ॥ किं विस्तरेण शृणु शंकर संग्रहोक्ति वक्तव्यवस्तुनि मया सति पृच्छ्यमाने । नैवाक्षरैः सपदि कण्ठगतैमूंगाक्ष्याः प्राणैरभाणि भवितव्यमशेषमेव ॥ ४ ॥ गौरीसखस्य तव मा भवतु प्रसक्ति(त्ति): कल्याणकाममितरासु मृगेक्षणासु । कण्ठे चिरं रुचिमती गरनीलमूले भूयात्सदैव करुणाधिकवल्लभासु ॥ ५ ।। शंभो तदा त्वदवलोकनपुण्यकाले याभ्यामभून्निपतितः प्रथमाश्रुपूरः । शोकाश्रुणा परिभवोऽपि किमायताक्ष्या- स्तस्यास्तयोर्नयनयोरनुरूप एव ॥ ६ ॥ सर्वज्ञता निरुपधिश्च कृपापि सिद्धे- रव्याहतत्वमिति नाथ गुणास्त्रयस्ते । तत्र त्रये नियतमन्यतमस्य लोप- स्तस्या न चेदिह विधास्यसि जीवरक्षाम् ॥ ७ ॥ पाण्डुत्वमावहति भस्मकृति विनाङ्गे धूमं विना च नयनाश्रुनिपातहेतुः ।

१७४ काव्यमाला। शंभो विना ज्वलति चेन्धनमद्भुतं त- तस्यास्त्वदीयविरहप्रचितो हुताशः ॥ ८ ॥ याचे भवन्तमिदमद्य जटाकलापे पूर्ण निधेहि शशिनं विकलं विहाय । दैन्यं च ते विकलचन्द्रपरिग्रहोत्थं तस्याश्च मा भवतु दुर्विषहोऽद्य तापः ॥ ९॥ यत्तादृशं मयि तथा प्रणिपातदैन्यं सख्या गिरीश न हितेऽत्र निदानमेतत् । सद्यस्त्वदानयननैपुणरूढयैव यन्निद्रया निशि विभो प्रणयव्यपायः ॥ १० ॥ त्वां याचते मम सखी निशि मन्निकेत- मागम्यतामिति पुरार्दन मन्मुखेन । नातः परं मृगदृशामभिमानभङ्गो लभ्येत चेदभिमतं ननु सोऽपि सह्यः ॥ ११ ॥ मध्यस्थितिं तव मनोभवपीडितायां याचे न पक्षपतनं चिरजीवसख्याम् । एतावतैव हि भविष्यति काम्यसिद्धि- माध्यस्थ्यमातुरजनेप्वपि पक्षपातः ॥ १२ ॥ आश्लेषणं तव सुदुर्लभमस्तु शंभो सख्याः प्रयच्छ ललितं तव बाहुमूलम् । तस्या गले विनिहिता(?)मसवः प्रयाणे प्रारम्भिणी(?) पुनरिमां न विलयेयुः ॥ १३ ॥ गौरीभुजार्पणमहावलयाहिधन्ये कण्ठे न तेऽन्यवनिताजनसङ्गमोहः ।

३५ पद्धतिः]
भिक्षाटनकाव्यम् ।
१७५
तत्र खमाहितमवेक्ष्य भुजंगमेनं
तस्या भुजोऽपि घटतामिति नाथ याचे ॥ १४ ॥
कुर्वन्तु तावदपरे विभवः परेषां
याच्याविभञ्जनमिदं तव नैव युक्तम् ।
शंभो यतस्त्वमपि वेत्सि विधाय भिक्षां
नित्यं सुदुर्विषहयाचनभङ्गपीडाम् ॥ १५ ॥
त्वत्संश्रितापि भवतैवमुपेक्षिता चे-
त्सा नः सखी वरद हन्त तवैव हानिः ।
यन्नीलिमा तव गले सहसैव जह्यात्
कारुण्यहेमनिकषोपलशैललक्ष्मीम् ॥ १६ ॥
सा पद्मचारुनयना विषमेक्षणस्त्वं
सा कुञ्चितालकभरा हर धूर्जटिस्त्वम् ।
सा सद्गुणैकवसतिगुणवर्जितस्त्वं
तस्यास्तथापि किमिदं शिव दुर्लभोऽसि ॥ १७ ॥
या वीक्ष्य नाथ गरलं तव कण्ठमूले
या पन्नगेन्दु(न्द्र)मपि तत्र पुरा निनिन्द ।
जातस्पृहैव भगवन्भवतीयमात्रे(र्ता)
पापादियं न सहते विरहं त्वदीयम् ॥ १८ ॥
कामं वृथा भवतु मे त्वयि कामदौत्यं
प्रष्टव्यमेतदभिधेहि पिनाकपाणे ।
तस्यास्तथा स्मरशरैर्विहितप्रहारे
चित्ते वसन्नपि कथं त्वमकामविद्धः ॥ १९ ॥

काव्यमाला।
गङ्गापयः सकलमेव कपर्दकोणे
सद्यो विलीनमिति नाथ कियान्मदस्ते ।
सामर्थ्यमस्ति यदि ते नयनाम्बुपूरः
सख्यास्त्वदीयविरहप्रचितो निवार्यः ॥ २० ॥
इत्युत्प्रेशावल्लभकृतौ भिक्षाटनकाव्ये दूतीवचनपद्धतिः पञ्चत्रिंशी ।
षत्रिंशी पद्धतिः।
विश्लेषिता युवतयो विरहे त्रियामां
निन्युः सुदुःसहवियोगनितान्तदीर्घाम् ।
तेषां विचक्षणवचोभ्युपवर्णनेन
वाणीमिमां वयममी चरितार्थयामः ॥ १ ॥
कस्याश्चिदिन्दुमलयानिलचक्रवाक-
केङ्कारसंतमसकैरवसौरभायैः ।
विश्लेषवंशमथनैर्निचिते निशीथे
मूर्छाप्रसादकृत एव हि जीवलाभः ॥ २ ॥
प्रत्यग्रपुष्परचिते शयने न शिश्ये
नासिष्ट कुत्र च न चैव सखीं बभाषे ।
नापि क्वचित्स्थितिमती न ययौ न विद्मः
किं किं विधाय विधुरा रजनीमनैषीत् ॥ ३ ॥
चन्द्र क्षयं भव मुहुर्भुजगामिषं स्याः
भूयाः कलङ्कनिलयो जलतां भजस्व ।
कस्याश्चिदित्यपुनरुक्तमुदीरिताभिः
शापोक्तिभिः सह निशा विरतिं प्रपेदे ॥ ४ ॥

ज ३६ पद्धतिः] भिक्षाटनकाव्यम् । १७७ तचिन्तनैस्तदनुबन्धिकथाप्रसङ्गै- स्तत्संगमानुगुणकर्मनिरूपणाभिः । तन्नामभाषिशुकसंवहनैश्च काचि- द्रोत्रिं निनाय रहिता परमेश्वरेण ॥ ५ ॥ पर्याप्तशीतकर "मण्डलतालवृन्ता नीरन्ध्रसंस्तवदृढप्रणया सखीव । कस्याश्चिदीशविरहव्यसने प्रवृत्ते पार्श्व न जातु विजहौ विपुला त्रियामा ॥ ६ ॥ संतप्तमूर्तिरतिशीतलराजरम्भा शंमोस्ततार रजनीसरितं वियुक्ता । किंतु च्युते दयितपोतदृढोपगूढे यस्यान्न भावि पुनरुत्तरणं वधूनाम् ॥ ७ ॥ याश्चोक्तिभिश्च गमनाय गतिप्रसक्ता- माहूय शंकरवशीकृतिशास्तिभिश्च । दूतीं प्रकृत्य पुनरेव पुनः कृताभि- र्याता निशा मृगदृशो न तु सा प्रयाता ॥ ८॥ पौष्पैः शरैः प्रहरतो रतिनायकस्य पुष्पास्त्रविद्धवपुषश्च मृगेक्षणायाः । प्रायेण नैव निशि सुप्तिरभूत्तथापि मूर्छासु सा विरहितापि निमीलिताक्षी ॥९॥ किं कालरात्रिरथवा किमु कालदूती किं पापसंहतिरनेकविधप्रवृत्ता । किं मर्मकृन्तनकरी शितहेतिरेषे- त्येका व्यलयदपोक्तिभिरेव रात्रिम् ॥ १० ॥ १२द्वादशगु० ७० काव्यमाला। 8 चन्द्राभिधानवडवामिमदृष्टपारं कंदर्पकेतुमकरभ्रमणातिमीमम् अच्छिन्नबन्धहरचिन्तनसेतुनैव काचिद्गमीररजनीजलधिं ततार ।। ११ ।। शैत्यार्थिनी कुसुमतल्पमवाप्य पूर्व पश्चात्प्रवालशयनं तदपि प्रमुच्य । श्रीखण्डपसरसीमपि शैत्यहेतोः काचिद्गतागतिनयैश्च निशां निनाय ॥ १२ ।। वापीमवाप नवचन्दनपङ्कलिप्ता प्रत्ययपुप्पशयनात्पुनरेतदस्याः । इत्थं द्वयोरपि तयोररति वहन्ती काचिद्गतागतगतेन निशां निनाय ।। १३ ।। यस्याः क्षणादपगति हरविप्रयुक्ता यस्याश्च काचन समागममाशशंस न प्रस्थिता च रजनी न समागता वा निद्रा विधातरि विरोधिनि नेष्टसिद्धिः ॥ १४ ॥ एकक्षणप्रतिस""दिवसाः शिवेन योगान्निशा च विरहादपि नाम दीर्घा । ताभ्यां विवर्जितमहो दिवसक्षपाभ्यां देशं विचिन्त्य विरहिण्यपरा चचार ॥ १५ ॥ आलम्बितैः प्रियसखीभिरथात्मनापि पर्यायतः क्षणमशक्तिवशेन मुक्तैः । बाला शिलामिव विशालतमां कथंचि- काचिद्गुणैः पुरजितो रजनी चकर्ष ॥ १६ ॥ --- ३७ पद्धतिः] भिक्षाटनकाव्यम् । १७९ शक्येतराय गिरिशाय रुचैर्वचोभि- र्दीत्याय जीवितसखीमपरा न्ययुत । प्राणव्यये विरहिणी रजनीमशेषां तस्याश्चिरायितवशेन चिरायते स ॥ १७ ॥ 'गौरीपतेरथ च चौर्यमपेक्ष्य काचि- द्रात्रिं निनाय निखिलामपि जागरेण । लब्धेऽपि रक्तकुमुदिन्यवितन्द्रगङ्गा जागर्ति तस्करजनो निशि पुष्कलोऽपि ॥ १८ ॥ काचित्क्षपां क्षपयितुं विपुलां सखीभिः संप्रस्तुतस्य वृषवाहनकीर्तनस्य । आकर्णनेन चरमेतरयोः प्रवृत्तां संध्यां द्वयोरचलयोयुगपद्ददर्श ॥ १९ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः षत्रिंशी । सप्तत्रिंशी पद्धतिः । दीर्घा निशां शमयितुं विरहे हरेण निद्राप्रसक्तिरहितस्य वधूजनस्य । नानाविधानि चरितानि सखी प्रकृत्य जातानि यानि कथयाम्यहमद्य तानि ॥ १ ॥ आहूत एव न समीपमुपैति भिक्षां गृह्णाति नैव मुहु""रर्थयते तथापि । १. "गौरीपतेरधरचौर्य" "रक्तकुमुदिन्यपि तागासीत्" इति पुस्तकान्तरे २. पुष्कलायाम्। चर्तते।

1 काव्यमाला.[.. धत्ते चिरादनुसृतोऽपि न चाभिमुख्य. भिक्षुर्मंगाक्षि वद कोऽयमदृष्टपूर्वः ॥ २ ॥ भिक्षाप्रदानसमये न मया तदानी- :: : मालिङ्गितोऽभवदहं पुनरद्य दूये । चिन्तामणि-करतलस्थमुपेक्षयोया सद्यो निपात्य मृगये तमितस्ततोऽपि ॥ ३ ॥ भिक्षातिसर्जनमिषादहमिन्दुमौले- 1. वक्षः स्तनेन मम योजयितुं प्रवृत्ता । अत्रान्तरे श्वसितमूर्जितमुत्ससर्ज हारो हरस्य सखि भाग्यविपर्ययेण ॥ ४ ॥ भिक्षां ददातु भवतीत्युदिते शिवेन तां दातुमोदनमयीं मयि सोद्यमायाम् । यत्तस्य गर्भितरतार्थरहःप्रवृत्त- मन्दस्मितं सखि न मे हृदयादपैति ॥ ५ ।। गात्रं विकर्शितमभूगिरिशानवाप्त्या वृद्धासमीक्षणमदर्शनतः शिवस्य । लब्ध्वा शिवं सततमाहितसंनिधानं संतप्यते सखि कथं हृदयं मदीयम् ॥ ६॥ यद्यागमिष्यति मदीयगृहोपकण्ठं , भिक्षाटनाय गिरिशः समनन्तरेऽपि । तस्योपगृहनविधिर्भवितव्य एव दातुः प्रदानसमये खवशो हि भिक्षुः ॥ ७ ॥ नाट्ये कृतश्रममिवास्य पदं गतेन देहीति दीनपदमप्यनुषक्तरागम् ।

३७ पद्धतिः ] भिक्षाटनकाव्यम् । (१८१ 7 पत्रावलम्ब्यपि करः करणप्रवीणः : प्रायेण कोऽपि नट एव नः भिक्षुरेषः ॥ ८ ॥ इक्षुर्धनुर्मधुकराबलिरेव मौर्वी शस्त्राणि पञ्च नवपुष्पमयानि कस्य । लोकत्रयं विजयते मदनस्तथापि मन्ये जयाय निजधैर्यमतन्त्रमेतत् ॥ ९॥ पुप्पायुधो गिरिशनेत्रहुताशनेन प्राग्भस्मासात्कृत इति स्म कथा वृथैव । आलिङ्गितोनलममुप्य तथोपदिष्टो मन्ये वियोगिजनदाहविधिप्रकारः ॥ १० ॥ बद्धा जटा नयनमप्यसमं चितैस्त- न्नीतं वपुश्च भसितैरतिधूसरत्वम् । एवं य....... "नोह... भैक्षचारे कान्तीविग्रहितमहो विबभूव शंभुः ॥ ११ ॥ तां पार्वती मनसिजः परमेश्वरेण यो येन योजयितुमक्षमतां प्रपेदे । तेनैव मां वशयितुं यतते मुधैव कामोऽपि कामुकवदेव विवेकहीनः ॥ १२ ॥ वीथ्यां तथा पुरत एव जनस्य शंभुं कण्ठे ग्रहीतुमभवं विहितोद्यमेव । लज्जा रुरोध सखि मां सहसा किमन्य- स्त्रीत्वेन साप्यभवदेव हि मे सपत्नी ॥ १३ ॥ स्त्रीजातिमात्रहृदयार्तिकरे वृषाङ्के । कंदर्पदौत्यमनुतिष्ठति केवकस्याः(?) ।

१८२ काव्यमाला। क्रीडाशुकः शरणमन्यतमो ममाय लोके पुनः फलितमात्रवचा न दूतः ॥ १४ ॥ साक्षात्पुरस्थितमपोह्य वृषाङ्कमद्य चित्रे निवेश्य परिरम्भणमाचरन्ती। भित्त्वा विहारसरसी परिवृद्धपूरां वाञ्छामि गाहितुमहं मृगतृष्णिकायाम् ॥ १५ ॥ इत्युत्प्रेक्षावल्लभकृतौ मिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः सप्तत्रिंशी । अष्टत्रिंशी पद्धतिः। नीरन्ध्रमुक्तशरपीडितमानसाना- मेणीहशामकरुणेन मनोभवेन । विश्लेषसुप्तिविषयाणि निशाविरामे जातानि यानि चरितानि वदामि तानि ॥ १ ॥ निद्रावती गिरिजया कृतदेहसंधि- रप्याजगाम विधुरां खयमिन्दुमौलिः । अप्यन्ययोषिदुपधानपदे निरुद्धे पत्न्या ध्रुवं प्रभुजनो भजतेऽन्यनारीम् ॥ २ ॥ वामे विधौ भवति बन्धुजनोऽपि वैरी सुप्तां कथंचिदपि जीवसखी निशान्ते । मूर्छाभयाद्विरहणीं प्रतिबोधयन्ती विच्छित्तिमाशु विदधे हरसंगमस्य ॥ ३ ॥ लाभं परार्थमपरत्र नयेद्विधाता सुप्त्यागते विधुरया गिरिशे कयाचित् ।

३८ पद्धतिः] भिक्षाटनकाव्यम् । १८३ गाढोपगूहनविधेरसकृत्कृतस्य पार्थोपधानमभवत्सहसैव पात्रम् ॥ ४ ॥ रोमाञ्चितैरवयवैः स्फुरिताधरेण किंचिद्विवल्गनवता च कुचद्वयेन । ज्ञात्वा सखी हरसमागमनं चरन्ती निद्रां खकीयहरनिर्वहणां ननन्द ॥ ५॥ काचित्कथंचन निशाविरतिप्रसुप्त्या संमीलिताक्षियुगलापि शिवं ददर्श । या पुण्डरीकवदना च मृगायताक्षी ' तस्या विरुद्धचरितास्पदतापि युक्ता ॥ ६ ॥ साक्षात्कृते पशुपतौ न कदापि शोच्या जायेत मीलनदशा नियतं नराणाम् । यदृष्टवद्गिरिशमहि तदायताक्ष्या । यत्नं विनैव निशि मीलितमक्षियुग्मम् ॥ ७ ॥ जातप्रबोधजनलभ्यनिजानुभूति सुस्त्यैव काप्यनुबभूव शिवं वियुक्ता । स्नेहः शिवे यदि भवेदमितो नराणां मार्गेण सिध्यति निकर्षवतापि शंभुः ॥ ८ ॥ यत्सुप्तिभङ्गकरणं स्मृतिभिर्निषिद्धं तन्नैव सर्वविषयं विरहार्तलक्ष्यम् । सख्या प्रभातमिति कापि निबोधयन्त्या हा हन्त भञ्जितशिवानुभवा बभूव ॥ ९ ॥ उद्दिश्य कापि विधुरा गिरिशानुभूति सुस्त्यैव लोचननिमीलनमाचक्राझे ।

१८४ काव्यमाला । :: तस्यास्तदेतदुचितं खलु येन सर्वे , · पश्यन्ति तं शमधना विनिमीलिताक्षाः ॥ १० ॥ आलिङ्गनं किमथवाधरपानमस्य मन्दस्मितं किमुत वा स्थितिरेव तूष्णीम् । अन्यक्रिया किमपि कापि सखीमपृच्छ- । स्वप्नागतेन गिरिशेन रतिं चिकीर्षुः ॥ ११ ॥ सर्वोऽपि चौर्यमपरो वनितासु कुर्व- कामी समीप्सति परस्य जनस्य सुप्तिम् । आश्चर्यमेतदचलेन्द्रसुताभयेन यत्सुप्तयैव विदधे रसचौर्यमेव ॥ १२ ॥ योगप्रबुद्धहरिनाभिसरोजसृष्टौ संभाव्यते न खलु मे गिरिजापरेण । सृष्ट्यन्तरं कुरु तदागमनप्रधानं सुप्त्येति कापि नयनाम्बुरुहं ययाचे ॥ १३ ॥ वामध्रुवां हरसमानयनाय निद्रा नाभ्यर्थिता तदपि सैव तमाननीया । अभ्यर्थितापि विदधे न सखीति दृष्टं किं कस्य केन फलमित्यतितर्यमेव ॥ १४ ॥ पार्श्वे तवेन्दुमुखि शंकरमानयामि विश्वस्य मां नयनमीलनमाचरेति । खप्ने समागममनेन विबुध्य तन्व्या . निद्रावती प्रियसखी विदधे वियुक्ताम् ॥ १५॥ जाग्रत्प्रपञ्चविपरीतविधानदक्षे देव्यद्य मे नयनयोः क्षणमात्रमाख ।

३९ पद्धतिः ] भिक्षाटनकाव्यम् । १८५ काम्यार्थसिद्धिरियतैव ममेति निद्रा- मन्तर्निगद्य विधुरा न च तल्पमाप ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये खप्नपद्धतिरष्टत्रिंशी । فس एकोनचत्वारिंशी पद्धतिः । संगत्य रात्रिविरतौ कथमप्यवाप्त- निद्राप्रसादसुलभेन महेश्वरेण । खप्नोपभोगमवदन्प्रमदाः प्रमोदा- त्सद्यो रहस्यभिमताय सखीजनाय ॥ १ ॥ खप्नो हरेण रतिमद्य विधातुमीष- सक्तस्त्वयास्तकृपया प्रतिबोधिताहम् । सुप्तिं व्रजेयमधुनास्य समागमाय भूयोऽपि नैव सखि मे प्रतिबोधिनी भूः ॥२॥ आंलिङ्गिताङ्गमभवं शशिभूषणेन खप्ने मया तु स पुनर्न गले गृहीतः । व्रीडावशस्तिमितया सखि हन्त पापा- नाज्ञासिषं किमिति सुप्तिविजृम्भितं तत् ॥ ३ ॥ स्वप्ने हरेण विहितेऽपि तथैव भोगे नासीत्क्षतं वपुषि मे सखि हा हतास्मि । यन्नैव दष्टमधरं न रतिक्षतस्य I. क्षेत्रं तदेवमुभयं फलहीनमेतत् ॥ ४ ॥ यः प्रस्थितो गतघृणः सखि चन्द्रमौलिः खमागतः प्रथममेव मयोपगूढः ।

१८६ । काव्यमाला वीथीगतो यदि भवेत्रपयामिभूता तस्यापतो नहि यथैव पुरा भवेयम् ॥ ५ ॥ सुखप्नदर्शनफलं भवति प्रबोधे पश्चादिति स कथयन्ति तदन्यथापि । खप्ने शिवस्य निशि वीक्षणमालि जातं तस्योपगूहनविधि तदसूत सद्यः ॥ ६ ॥ खप्ने हरेण परिभोगरसेप्सुना मे वासो गृहीतमिदमेव तदा विबुद्धम् । सख्यावयोरुपरि यानि विचेष्टितानि ज्ञाता परं विषमसायक एव तेषाम् ॥ ७॥ यन्मे हरेण सह संगमसौख्यहेतो- नेत्रं निमीलनदशां स्वयमाससाद । सोढा स्वयं विपदमार्त्यपहारकृत्यं नेत्रोपमस्य चरिते किमुत खदृष्टेः ॥ ८॥ खप्नोपलम्भनदशा मम सैव नित्यं भूयात्प्रजागरदशा सखि मा कदापि (१)। यस्यामवापमचलेन्द्रसुतैकशेष वक्षः प्रजागरसुदुर्लभमीश्वरस्य ॥ ९ ॥ खप्ने शिवः सुदति संप्रति देहि भिक्षा- मित्यूचिवानहमदामविलम्ब्य तस्मै । नैवाददे न च गतः मितमेव चके दत्ता मयास्य तु गले दृढमङ्कपाली ॥ १० ॥ यो वीक्षितोऽहनि शिवो निशि सुप्तिलब्ध- शय्यागृहं मयिरिरंसुरिवाससाद ।

३९ पद्धतिः]
भिक्षाटनकाव्यम् ।
१८७
दृष्ट्वा तमाशु गलता वसनांशुकेन
जारायितं चिरनितम्बनिषेविणा मे ॥ ११ ॥
आलम्ब्यमानवसना सकलेश्वरेण
मुञ्चत्यवोचमपतच्छिथिलोऽस्य हस्तः ।
खप्ने सखि क्षणत एव हतो भुजो मे
जग्राह कण्ठमयमस्तदयस्तु तस्य ॥ १२ ॥
खप्ने हरेण सति निर्दयमारयुद्धे
लुप्तो न चन्दनरसः कुचयोरयं मे ।
नैवाधरेऽपि दशनक्षतमीक्ष्यते य-
जाग्रद्रतादपि वरं सखि सुप्तिभोगः ॥ १३ ॥
आविस्मितेन गिरिशेन दृढाप्तलज्जा
निद्रागमे सखि गृहीतकराहमासम् ।
आमूलकण्टकितपङ्कजनालकल्प-
मद्यापि पश्य चरितार्थमिदं प्रकोष्ठम् ॥ १४ ॥
रत्युत्सवाय मम लम्वितमीश्वरेण
वासो निशाविरतिसुप्तिसमागतेन ।
बोधेन तद्गलितमैक्ष्यत हन्त रन्तुं
सोऽयं पुरा न खलु तिष्ठति चन्द्रमौलिः ॥ १५ ॥
निदैव जीवितसखी मम नैव सख्यो
यूयं मृषाप्रणयडम्बरमाचरन्त्यः ।
या दुर्लभं गिरिसुतावरमद्य दूरा-
दानीय मे शयनमध्यगतं चकार ॥ १६ ॥

१.८८
काव्यमाला।
निम्नीकृतस्तनयुगं विहितोपगृह-
खप्नागतेन यदहं परमेश्वरेण ।
तेनैव हारगलिताः सखि पश्य मुक्ताः
सत्यं भवत्यनृतमेव कृतं शिवेन ॥ १७ ॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये खप्नोतिपद्धतिरेकोनचत्वारिंशी ।
..
चत्वारिंशी पद्धतिः।
खप्ने मुहूर्तमनुभूय पिनाकपाणिं
निःशेषलुप्तविरहव्यसना युवत्यः ।
तेनैव नित्यमपि सेवितयौवनाया
गौर्याः प्रशस्तिगिरमात्मगतां शशंसुः ॥ १ ॥
सा शैलराजतनया वनितासु वर्या
यालभ्य रूढिसुलभे विरहे हरेण ।
पादोदकायितजला मुहुरेव यस्या-
स्तन्मौलिदिव्यतटिनी पदयोर्निपत्य ॥ २ ॥
सा पार्वती स्तनवती भुवने वृथान्याः
क्लेशावहा युवतयः स्तनमुद्वहन्त्यः ।
यस्याः पयोधरयुगेन मनोजशत्रो-
वक्षःस्थलेऽपि विहिता रतिमर्दमुद्रा ॥ ३ ॥
सा राजते जगति शैलसुता वधूनां
या जायते हरगलग्रहणोत्सवेषु ।
आनन्दनिर्भरतया मुकुलीकृताक्षी
- मोहं गतेरवगरस्य महोष्मणैव ॥ ४ ॥

१० पद्धतिः]
भिक्षाटनकाव्यम् ।
१८९
सेवोत्तमा जगति पर्वतराजपुत्री
पीत्वा यदीयमधरामृतमिन्दुमौलिः ।
आत्मीयमप्रतिमृदुः सह कालकूट-
क्ष्वेडोपतापमखिलं शमयांचकार ॥ ५ ॥
सा पार्वती विजयतां भुवनस्य माता
स्थेमानमाजगतमङ्गलभूषणस्य ।
निश्चित्य या मतभया विदधेऽभ्यनुज्ञां
भर्चा कृतस्य गरलाशनसाहसस्य ॥ ६ ॥
सौभाग्यजन्मवसतिः किल शैलकन्या-
कामाभिभूत्युचितमस्य"संविधातुम् ।
कण्ठे मुहुर्मदनशत्रुमपेतशङ्का
बध्नाति यानि भुजगद्वयशृङ्खलेन ॥ ७ ॥
सा राजते जगति पर्वतराजपुत्री
संभोगकेलिकलहे बहुशः प्रवृत्ते ।
ईशस्य मौलिपरितः परिपूर्णचन्द्रो
यूनां पुराश्रिकषणा कृशमेवमासीत् ॥ ८ ॥
सा पार्वती विजयतां जगदेकमाता
यस्या विहारकलहे सुलभे हरेण ।
पादाम्बुजाश्रयणकाशितयैव तस्य
प्रागेव मौलिकुसुमान्मधुपाः श्रयन्ते ॥ ९॥
तप्तं तयैव हि तपो गिरिराजपुत्र्या
यस्या पिपास..."ममे परमेश्वरेण ।
हस्ता..."हो न मनसैव कृतः कृतोऽभू-
दम्याधि(?)रोहणमिषाचरणावलम्बम् ॥ १० ॥

१९० काव्यमाला। सा पार्वती जगति भाग्यवती वधूनां या रुष्टपार्थदृढमुष्टिनिपातपीडास् । सद्यो जहार गिरिशोरसि घट्टितेन कामोष्मणेन(व) कुचपुट्टलिकद्वयेन ॥ ११ ॥ धन्या गिरीन्द्रतनया खलु यद्भवेन संध्याप्रणामसमये स पिनाकपाणिः । एवं निमीलति सरोरुहमद्य पश्य गौरीत्युदीर्य करमीलनमातनोति ॥ १२ ॥ सा नायिका विजयतां प्रणयेन रुष्टा या साक्कनाय(?) विनतस्य पुरार्दनस्य । प्रद्योतिताम्भसि कपर्दसुरस्रवन्त्यां बाप्पैरपूर्वसरितं पुनरातनोति ॥ १३ ॥ तां पार्वतीमनिशमेव सदा स्वमेव संध्याप्रणामसमये परमेश्वरस्य । कोपेन यारुणतनुच्छविराजभूत्वं निर्यात्पुनः परिणता खयमेव संध्या ॥ १४ ॥ सोभाग्यजन्मवसतेर्गिरिराजपुत्र्याः कुर्मस्तयोश्चरणयोरसकृन्नमस्याम् । नित्यं ययोः स्वयमलक्तकसंनिधित्सो- श्चेटीजनेन सुलभः कलहः शिवस्य ॥ १५ ॥ दाक्षायणीचिरसमीप्सितलाभहेतो- विद्यासमस्तयुवतीस्पृहणीयवृत्ता ।

४० पद्धतिः] भिक्षाटनकाव्यम् । १९१ उन्मत्तवृत्तिरपि यत्सहचारसक्त्या शंभुर्जगत्रयगरिष्ठकुसुम्बधुर्यः ॥ १६ ॥ नित्या हि सा भगवती गिरिराजकन्या नम्रस्य केलिकलहेषु नवेन्दुमौलेः । मन्दाकिनीशिरसि या पदयावकेन संध्यायमानसलिलामसकृत्करोति ॥ १७ ।। सा पार्वती जगति विभ्रमजन्मभूमि- र्या याचते स्म गिरिशं(?) सुरसंघमध्ये । यन्मे व्यलीकमभवन्मदनाङ्गदाहा- तत्क्षम्यतामिति करग्रहणच्छलेन ॥ १८ ॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गौरीप्रशंसापद्धतिश्चत्वारिंशी । समाप्तमिदं काव्यम् ।

Kavyamala Part Xii

Author
Durga Prasad And Kasinath Pandurang Parab
Title
Kavyamala Part Xii
File name
Kavyamala Part Xii
Text
OCR done
Citation
1938
Published
2013
Publisher
Pandurang Jawaji Nirnaya Sagar Press, Bombay
Language
Sanskrit
Pages
198
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242051
Barcode
99999990879801.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
RHKnNwcI5zJ
Download PDF

Kavyamala Part Xii