Sanmati Library
Sammatyakhya Prakaranam
Front matter
२ सम्मतिताख्यप्रकरणस्य- रप्यवाप्तामलकेवलज्ञानसंपद्भिस्तीर्थकृतिः शासनार्थाभिव्यक्तिकरणसमये विहि तस्तवत्त्वाच्छासनमतिशयतः स्तवाहमिति निश्चिन्वन्नसाधारणगुणोत्कीर्तनस्वरूपः एव च पारमार्थिकस्तव इति च संप्रधार्य शासनस्याभीष्टदेवताविशेषस्य प्रधान भूतसिद्धत्वकुसमयविशासिलाहित्प्रणीतलादिगुणप्रकाशनद्वारेण स्तवाभिधायिका गाथामाह- सिद्ध सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥१॥ अस्याश्च समुदायार्थ एतत्पातनिकयैव प्रकाशितोऽवयवार्थस्तु प्रकाश्यते । शास्यन्ते जीवादयः पदार्था यथावस्थितत्वेनानेनेति शासनं हादशाङ्गम्। तच्च सिद्ध प्रतिष्ठितं निश्चितप्रामाण्यमिति यावत् ; स्वमहिम्नैव, नातः प्रकरणात्प्रतिष्ठाप्यम् ॥ अत्राहुर्मीमांसकाः॥अर्थतथात्वप्रकाशको ज्ञातृव्यापारः प्रमाणम् ; तस्यार्थतथा- त्वप्रकाशकवं प्रामाण्यम् । तच्च स्वतः उत्पत्ती, खकार्ये यथावस्थितार्थपरिच्छेदल- क्षणे, खज्ञानेच । विज्ञानोत्पादकसामग्रीव्यतिरिक्तगुणादिसामग्यन्तर-प्रमाणान्तर- स्वसंवेदनग्रहणानपेक्षवात् । अपेक्षात्रयरहितं च प्रामाण्यं खत उच्यते। अत्र च प्रयोगः । ये यहावं प्रत्यनपेक्षास्ते तत्स्वरूपनियताः । यथाऽविकला कारणसाम- न्यकुरोत्पादने । अनपेक्ष्यं च प्रामाण्यमुत्पत्ती, स्वकार्ये, ज्ञप्तौ च इति ॥ अत्र परतःप्रामाण्यवादिनःप्रेरयन्ति। अनपेक्षत्वमसिद्धम्। तथाहि । उत्पत्ती तावत्प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणादिकारणान्तरसापेक्षम् । तदन्वय- व्यतिरेकानुविधायित्वात् । तथाच प्रयोगः। यच्चक्षुराद्यतिरिक्तभावाभावानुविधायि, तत्तत्सापेक्षम् ; यथाऽप्रामाण्यम्। चक्षुराद्यतिरिक्तभावाभावानुविधायि च प्रामाण्य- मिति खभावहेतुः; तस्मादुत्पत्तौ परतः॥तथावकार्ये च सापेक्षलात्परतः। तथाहि । प्रतीक्षितप्रत्ययान्तरोदया न ते स्वतो व्यवस्थितधर्मकाः; यथाऽप्रामाण्यादयः। तीक्षितप्रत्ययान्तरोदयं च प्रामाण्यं तत्रेति विरुद्धव्याप्तोपलाब्धिः ॥ तथा ज्ञप्ती सापेक्षवात्परतः । तथाहि । ये सन्देहविपर्ययाध्यासिततनबस्ते परतो निश्चि यावस्थितखरूपाः; यथा स्थाण्वादयः । तथा च सन्देहविपर्ययाध्यासित वे केषाश्चित्प्रत्ययानां प्रामाण्यमिति खभावहेतुः ॥
तत्वबोधविधायिनी व्याख्या । अत्र यत्तावदुक्तम् । प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणादिकार- सव्यपेक्षमुत्पत्तौ । तदसत्। तेषामसत्त्वात् । तदसत्त्वं च प्रमाणतोऽनुपलब्धः। तथाहि। न तावत्प्रत्यक्षं चक्षुरादीन्द्रियगतान् गुणान् ग्रहीतुं समर्थम् । अती- न्द्रियत्वेनेन्द्रियाणां, तद्गुणानामपि प्रतिपत्तुमशक्तः । अथानुमानमिन्द्रियगुणान् प्रतिपद्यते । तदप्यसम्यक् । अनुमानस्य प्रतिबद्धलिङ्गनिश्चयबलेनोत्पत्त्यभ्युप- गमात् । प्रतिबन्धश्च किं प्रत्यक्षेणेन्द्रियगतगुणैः सह गृह्यते लिङ्गस्य; आहो- स्विदनुमानेनेति वक्तव्यम् । तत्र यदि प्रत्यक्षमिन्द्रियाश्रितगुणैः सह लिङ्गसम्ब- न्धग्राहकमभ्युपगम्यते । तदयुक्तम् । इन्द्रियगुणानामप्रत्यक्षत्वे तद्गतसम्बन्ध- स्याप्यप्रत्यक्षत्वात् । “द्विष्ठसम्बन्धसंवित्तिनैकरूपप्रवेदनात्" इति वचनात् । अथानुमानेन प्रकृतसम्बन्धःप्रतीयते। तदप्ययुक्तम् । यतस्तदप्यनुमानं किं गृहीत- सम्बन्धलिङ्गप्रभवम्, उतागृहीतसम्बन्धलिङ्गसमुत्थम् । तत्र यद्यगृहीतसम्बन्धलि- ङ्गप्रभवं, तदा किं प्रमाणमुताप्रमाणम् । यद्यप्रमाणम् ;नातः सम्बन्धप्रतीतिः। अथ प्रमाणम् ; तदपि न प्रत्यक्षम् । अनुमानस्य वाह्यार्थविपयत्वेन प्रत्यक्षत्वानभ्युपगमा- त्; प्रत्यक्षपक्षोक्तदोपाच्च । किं तु अनुमानम्। तच्चानवगतसम्बन्धं न प्रवर्त्तत इत्या-. दि वक्तव्यम् । अथावगतसम्बन्धम् । तस्यापि सम्बन्धः किं तेनैवानुमानेन गृह्येत, उतान्येन । यदि तेनैव गृह्यत इत्यभ्युपगमः। स न युक्तः। इतरेतराश्रयदोषप्रसङ्गात। तथाहि । गृहीतप्रतिबन्धं तत् खंसाध्यप्रतिबन्धग्रहणाय प्रवर्तते, तत्प्रवृत्तौ च खो- त्पादकप्रतिबन्धग्रह इत्यन्योऽन्यसंश्रयो व्यक्तः।अथान्येनानुमानेन प्रतिबन्धग्र- हाभ्युपगमः । सोऽपि न युक्तः । अनवस्थाप्रसङ्गात् । तथाहि । तदप्यनुमानमनु- मानप्रतिवन्धग्राहकमनुमानान्तराद्गृहीतप्रतिबन्धमुदयमासादयति तदप्यन्यतोऽ- नुमानाद्गृहीतप्रतिबन्धमित्यनवस्था । किं च तदनुमानं खभावहेतुप्रभावित, कार्य- हेतुसमुत्थम्,अनुपलब्धिलिङ्गप्रभवं वा प्रतिवन्धग्राहकं स्यात् । अन्यस्य साध्यनि: श्वायकत्वेन सौगतैरनभ्युपगमात्।तदुक्तम्। त्रिरूपाणि च त्रीण्येव लिङ्गानि; अनुप लब्धिः, स्वभावः, कार्य च' इति । त्रिरूपालिङ्गाल्लिङ्गिविज्ञानमनुमानम्' इति च। तर स्वभावहेतुः प्रत्यक्षगृहीतेऽर्थे व्यवहारमात्रप्रवर्तनफल!; यथा शिशिपात्वादि दिव्यवहारप्रवर्णनफलः। नचाक्षाश्रितगुणलिङ्गसम्बन्धः प्रत्यक्षतः प्रतिपन्नो, ११ ४ सम्मतितकांख्यप्रकरणस्य- स्वभावहेतुप्रभवमनुमानं तत्सम्बन्धव्यवहारमारचयति ॥ नापि कार्यहेतुसमुत्थम्, अक्षाश्रितगुणलिङ्गसम्बन्धग्राहकलेन तत्प्रभवति । कार्यहेतोः, सिद्धे कार्यकारण- भावे, कारणप्रतिपत्तिहेतुलेनाभ्युपगमात् । कार्यकारणभावस्य च सिद्धिः, प्रत्यक्षानु- पलम्भप्रमाणसम्पाद्या । न च लोचनादिगतगुणाश्रितलिङ्गसम्बन्धग्राहकत्वेन प्रत्य- क्षप्रवृत्तिः, येन तत्कार्यत्वेन कस्यचिल्लिङ्गस्य प्रत्यक्षतःप्रतिपत्तिः स्यात् । तन्न कार्यहे- तोरपि प्रतिबन्धप्रतिपत्तिः ॥ अनुपलब्धेस्त्वेवंविधे विषये प्रवृत्तिरेव न सम्भवति; तस्या अभावसाधकलेन व्यापाराभ्युपगमात्। नचान्यल्लिङ्गमभ्युपगम्यत इत्युक्तम् ॥ न च प्रत्यक्षानुमानव्यतिरिक्त प्रमाणान्तरमिति नेन्द्रियगतगुणप्रतिपत्तिः।यन्नक- चिदपि प्रमाणेन प्रतिभाति, न तत्सयवहारावतारि; यथा शशशृङ्गम्। न प्रतिभान्ति च क्वचिदपि प्रमाणेनातीन्द्रियेन्द्रियगुणा भवदभ्युपगता इति कुतस्तेषां विज्ञानो- त्पादककारणव्यतिरिक्तानां प्रामाण्योत्पादकत्वम्॥अथ कार्येण यथार्थोपलब्ध्यात्म- केन तेषामधिगमः। तदप्ययुक्तम् । यथार्थत्वायथार्थत्वे विहाय यदि कार्यस्य उपल- ध्याख्यस्वरूपं निश्चितं भवेत्तदा यथार्थत्वलक्षणः कार्यस्य विशेषः पूर्वस्मात्कारण- कलापादनिष्पद्यमानो गुणाख्यं स्वोत्पत्तौ कारणान्तरं परिकल्पयति। यदा तु यथा- थैवोपलब्धिः स्वोत्पादककारणकलापानुमापिका, तदा कथमुत्पादकव्यतिरेकिगुण- सद्भावः । अयथार्थत्वं तूपलब्धेः कार्यस्य विशेषः पूर्वस्मात्कारणसमुदायादनुपप- द्यमानः खोत्पत्तौ सामग्यन्तरं कल्पयति;अत एव परतोऽप्रामाण्यमुच्यते । तस्यो- त्पत्तौ दोषापेक्षत्वात् । नचेन्द्रियनैर्मल्यादि गुणत्वेन वक्तुं शक्यम् । नैर्मल्यं हि तत्वरूपमेव, न पुनरौपाधिको गुणः। तथा व्यपदेशस्तु दोषाभावनिबन्धनः। तथा- हि। कामलादिदोषासत्त्वान्निर्मलमिन्द्रियमुच्यते; तत्सत्त्वे सदोषम् । मनसोऽपि मिवाद्यभावः स्वरूपम् ; तत्सहावस्तु दोषः । विषयस्यापि निश्चलत्वादिस्वभावः; चलत्वादिकस्तु दोषः। प्रमातुरपि क्षुदाद्यभावः स्वरूपम्; तत्सद्भावस्तु दोषः । नदुक्तम् । 'इयती च सामग्री प्रमाणोत्पादिका' । तदुत्पद्यमानमपि प्रमाणं खो- गदककारणव्यतिरिक्तगुणानपेक्षत्वात् स्वत उच्यते॥नाप्येतद्वक्तव्यम् । तज्ज- कानां खरूपमयथार्थोपलब्ध्या समधिगतम् ; यथार्थत्वं तु पूर्वस्मात्कार्यावगता- रकखरूपादनिष्पद्यमानं किामेति गुणाख्यं सामग्यन्तरं न कल्पयति ।
तत्त्वबोधविधायिनी व्याख्या । ५ प्रक्रियाया विपर्ययेणापि कल्पयितुं शक्यत्वात् । यतो न लोकः प्रायशो विपर्य- यज्ञानात् स्वरूपस्थं कारणमप्यनुमिनोति किंतु सम्यग्ज्ञानात् । तथविधे च कार- कानुमानेऽशक्यप्रतिषेधा पूर्वोक्तप्रक्रिया । नापि तृतीयं यथार्थत्वायथार्थले विहाय कार्यमस्तीत्युक्तम् । अपिचार्थतथाभावप्रकाशनरूपं प्रामाण्यम् । तस्य चक्षुरादि- कारणसामग्रीतो विज्ञानोत्पत्तावप्यनुत्पत्त्यभ्युपगमे विज्ञानस्य किं स्वरूपं भवद्धि- रपरमभ्युपगम्यत इति वक्तव्यम्। न च तद्रूपव्यतिरेकेण विज्ञानस्वरूपं भवन्म- तेन सम्भवति; येन प्रामाण्यं तत्र विज्ञानोत्पत्तावप्यनुत्पन्नमुत्तरकालं तत्रैवोत्पत्ति- मदभ्युपगम्येत; भित्ताविव चित्रम्। किंच। यदि स्वसामग्रीतो विज्ञानोत्पत्ताबपि न प्रामाण्यं समुत्पद्यते, किंतु तद्यतिरिक्तसामग्रीतः पश्चाद्भवति; तदा विरुद्धधर्माध्या- सात् कारणभेदाच्च भेदःस्यात्। अन्यथा 'अयमेव भेदो भेदहेतुर्वा, यदुत विरुद्धधर्मा- ध्यासः, कारणभेदश्च; सचेन्न भेदको विश्वमेकं स्यात्' इति वचः परिप्लवेत । तस्मा- चत एव गुणविकलसामग्रीलक्षणात्कारणाद्विज्ञानमुत्पद्यते तत एव प्रामाण्यमपीति गुणवच्चक्षुरादिभावानुविधायित्वादित्यसिद्धो हेतुः। अत एवोत्पत्तौ सामग्यन्तरान- पेक्षवं नासिद्धम्। अनपेक्षलविरुद्धस्य सापेक्षत्वस्य विपक्ष सद्भावात् । ततो व्यावत- मानो हेतुः स्वसाध्येन व्याप्यते इति विरुहानैकान्तिकत्वयोरप्यभाव इति भवत्यतो हेतोः स्वसाध्यसिद्धिः। अर्थतथालपरिच्छेदरूपा च शक्तिः प्रामाण्यम् । शक्तयश्च सर्वभावानां स्वत एव भवन्ति, नोत्पादककारणकलापाधीनाः । तदुक्तम्- "स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" ॥१॥ एतच्च नैव सत्कार्यदर्शनसमाश्रयणादभिधीयते, किं तु यः कार्यधर्मः कार- णकलापेऽस्ति स एव कारणकलापादुपजायमाने कार्ये तत एवोदयमासादयति; यथा मृत्पिण्डे विद्यमाना रूपादयो, घटेऽपि मृत्पिण्डादुपजायमाने मृत्पिण्ड रूपादिद्वारेणोपजायन्ते । ये पुनः कार्यधर्माः कारणेऽविद्यमाना न ते कारणेभ्यो. कार्ये उदयमासादयन्ति,न तत एव प्रादुर्भवन्ति; किंतु स्वतः । यथा घटस्यैः । दकाहरणशक्तिः । तथा विज्ञानेऽप्यर्थतथात्वपरिच्छेदे शक्तिः चक्षुरादिपु विज्ञ कारणेप्वविद्यमाना न तत एव भवति, किंतु खत एवं प्रादुर्भवति । 1 न सम्मतिताख्यप्रकरणस्य- किंचोक्तम्- "आत्मलाभे हि भावानां कारणापेक्षिता भवेत् । लब्धात्मनां वकार्येषु प्रवृत्तिः स्वयमेव तु"॥१॥ तथाहि। मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते, उदकाहरणेतस्य तदपेक्षान विद्यत इति ॥ अथ चक्षुरादेविज्ञानकारणादुपजायमानलात्प्रामाण्यं परत उपजायत इति यद्यभिधीयते; तदभ्युपगम्यत एव । प्रेरणाबुद्धेरपि अपौरुषेयविधिवाक्यप्रभवा- याः प्रामाण्योत्पत्त्यभ्युपगमात्।तथाऽनुमानबुद्धिरपिगृहीताविनाभावानन्यापेक्षलि- गादुपजायमाना तत एव गृहीतप्रामाण्योपजायत इति सर्वत्र विज्ञानकारणकला. पव्यतिरिक्तकारणान्तरानपेक्षमुपजायमानं प्रामाण्यं स्वत उत्पद्यत इति नोत्पत्ती परतः प्रामाण्यम् ॥नापि खकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्त्तमानं प्रमाण खो- त्पादककारणव्यतिरिक्तनिमित्तापेक्षं प्रवर्त्तत इत्यभिधातुं शक्यम् । यतस्तन्निमित्ता- न्तरमपेक्ष्य खकार्ये प्रवर्त्तमानं किं संवादप्रत्ययमपेक्ष्य प्रवर्तते, आहोस्वित्स्वोत्पाद- ककारणगुणानपेक्ष्य प्रवर्तत इति विकल्पद्वयम्। तत्र यद्याद्यो विकल्पोऽभ्युपगम्यते, तदा चक्रकलक्षणं दूषणमापतति। तथाहि। प्रमाणस्य स्वकार्ये प्रवृत्तौ सत्यामर्थकि- यार्थिनां प्रवृत्तिः, प्रवृत्तौ चार्थक्रियाज्ञानोत्पत्तिलक्षणः संवादः; तं च संवादमपेक्ष्य प्रमाणं स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्त्तत इति यावत्प्रमाणस्य खकार्ये न प्रवृत्तिर्न तावदर्थक्रियार्थिनां प्रवृत्तिः, तामन्तरेण नार्थक्रियाज्ञानसंवादः, तत्सद्भाव विना प्रमाणस्य तदपेक्षस्य स्वकार्येन प्रवृत्तिरिति स्पष्टं चककलक्षणं दूषणमिति। न चभाविनं संवादप्रत्ययमपेक्ष्य प्रमाणं वकार्ये प्रवर्त्तत इति शक्यमभिधातुम् ।भा- विनोऽसत्त्वेन विज्ञानस्य स्वकार्ये प्रवर्त्तमानस्य सहकारित्वासंभवात् । अथ द्वितीयः। तत्रापि किं गृहीताः खोत्पादककारणगुणाः सन्तः प्रमाणस्य स्वकार्ये प्रवर्त्तमानस्य हकारिखं प्रपद्यन्ते, आहोस्विदगृहीता इत्यत्रापि विकल्पद्वयम्। तत्र यद्यगृहीता तिपक्षः। सनयुक्तः। अगृहीतानां सत्त्वस्यैवासिद्धेः सहकारित्वं दूरोत्सारितमेव । अद्वितीयः। सोऽपिन युक्तः। अनवस्थाप्रसंगात् । तथाहि ।गृहीतस्वकारणगुणा- प्रमाणं स्वकार्ये प्रवर्त्तते; स्वकारणगुणज्ञानमपि स्वकारणगुणज्ञानापेक्षं प्रमा- ग्णगुणपरिच्छेदलक्षणे स्वकार्ये प्रवर्तते, तदपि स्वकारणगुणज्ञानापेक्षमित्य- 1 तत्वबोधविधायिनी व्याख्या । नस्थासमवतारो दुर्निवार इति । अथ प्रमाणकारणगुणज्ञानं स्वकारणगुणज्ञानानपे- क्षमेव प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्ये प्रवर्तते, तर्हि प्रमाणमपि स्वकारण- गुणज्ञानानपेक्षमेवार्थपरिच्छेदलक्षणे स्वकार्ये प्रवर्तिप्यत इति व्यर्थ प्रमाणस्य स्वकारणगुणज्ञानापेक्षणमिति न स्वकार्ये प्रवर्त्तमानं प्रमाणमन्यापेक्षम्। तदुक्तम्- "जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत्कारणशुन्डत्वं न प्रमाणान्तराद्गतम् ॥ १॥ तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥ २ ॥ तस्यापि कारणाशुद्धेर्न ज्ञानस्य प्रमाणता । तस्याप्यवमितीच्छंस्तु न क्वचिद्व्यवतिष्ठते" ॥ ३ ॥ इति । तेन 'ये प्रतीक्षितप्रत्ययान्तरोदयाः' इति प्रयोगे हेतोरसिद्धिः । तस्मात् स्वसामग्रीत उपजायमानं प्रमाणमर्थयाथात्म्यपरिच्छेदशक्तियुक्तमेवोपजायत इति स्वकार्येऽपि प्रवृतिः खत इति स्थितम् । नापि प्रमाणं प्रामाण्यनिश्चयेऽन्यापेक्षम् । तापेक्षमाणं किं स्वकारणगुणानपेक्षते, आहोस्वित् संवादमिति विकल्पद्वयम् । तत्र यदि स्वकारणगुणानपक्षत इति पक्षः कक्षीक्रियते । सोऽसंगतः। स्वकारण- गुणानां प्रत्यक्षतत्पूर्वकानुमानाग्राह्यत्वेनासत्त्वस्य प्रागेव प्रतिपादनात् । अथा- भिधीयते यो यः कार्यविशेषः स स गुणवत्कारणविशेषपूर्वको, यथा प्रासा- दादिविशेषः। कार्यविशेपश्च यथावस्थितार्थपरिच्छेद इति स्वभावहेतुरिति । एतद- सम्बडम् । परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वासिद्धेः । तथाहि । परिच्छेदस्य यथावास्थितपरिच्छेदत्वं किं शुद्धकारकजन्यत्वेन, उत संवादित्वेनाहोस्विद् बाधार- हितत्वेन, उतस्विद् अर्थतथात्वेनेति विकल्पाः। तत्र यदि गुणवत्कारणजन्यत्वेनेति पक्षः।सन युक्तः। इतरेतराश्रयदोपप्रसङ्गात् । तथाहि । गुणवत्कारणजन्यत्वेन परि- च्छेदस्य यथावस्थितार्थपरिच्छेदत्वम् , तत्परिच्छेदत्वाच्च गुणवत्कारणजन्यत्वमिलि. परिस्फुटमितरतराश्रयत्वम् ॥ अथ संवादित्वेन ज्ञानस्य यथावस्थितार्थपरिच्छेदत विज्ञायते । एतदप्यचारु। चक्रकप्रसङ्गस्यात्र पक्षे दुर्निवारत्वात्। तथाहि । न यायहि ज्ञानस्य यथावस्थितार्थपरिच्छेदलक्षणो विशेषः सिन्धति, न तावत्तत्पूर्विका प्रव को सम्मतितर्काख्यपकरणस्य- संवादार्थिनां यावच्च न प्रवृत्तिर्न तावदर्थक्रियासंवादः, यावश्च न संवादो न तावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदत्वसिद्धिरिति चक्रकप्रसङ्गः प्रागेव प्रतिपा- दितः ॥ अथ बाधारहितत्वेन विज्ञानस्य यथार्थपरिच्छेदत्वमध्यवसीयते । तदप्य. सङ्गतम्। स्वाभ्युपगमविरोधात। तदभ्युपगमविरोधश्च बाधाविरहस्य तुच्छस्वभावस्य सत्त्वेन, ज्ञापकत्वेन वाऽनङ्गीकरणात्। पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य तु वि- ज्ञानपरिच्छेदविशेषाविषयत्वेन तद्व्यवस्थापकत्वानुपपत्तेः॥अथार्थतथात्वेन यथाव- स्थितार्थपरिच्छेदलक्षणो विशेषो विज्ञानस्य व्यवस्थाप्यते । सोऽपि न युक्तः। इत- रेतराश्रयदोषप्रसङ्गात् । तथाहि । सिद्धेऽर्थतथाभावे तडिज्ञानस्यार्थतथाभावपरिच्छे- दत्वसिद्धिः, तत्सिद्धेश्चार्थतथाभावसिद्धिरिति परिस्फुटमितरेतराश्रयत्वम्। तन्न का- रणगुणापेक्षा प्रामाण्यज्ञप्तिः॥ अथ संबादापेक्षःप्रामाण्यविनिश्चयः। सोऽपि न युक्तः। यतः संवादकं ज्ञानं किं समानजातीयमभ्युपगम्यते, आहोस्विद् भिन्नजातीयमिति पुनरपि विकल्पद्वयम्।तत्र यदि समानजातीयं संवादकमभ्युपगम्यते, तदाऽत्रापि बक्तव्यम् । किमेकसन्तानप्रभवं, भिन्नसन्तानप्रभवंचा । यदि भिन्नसन्तानप्रभवं स. मानजातीयं ज्ञानान्तरं संवादकमित्यभ्युपगमः । अयमप्यनुपपन्नः । अतिप्रसंगात् । अतिप्रसंगश्च देवदत्तघटविज्ञानं प्रति यज्ञदत्तघटान्तरविज्ञानस्यापि संवादकत्वप्र- सक्तः। अथ समानसन्तानप्रभवं समानजातीयं ज्ञानान्तरं संवादकमभ्युपगम्यते; तदात्रापि वक्तव्यम् । किं तत् पूर्वप्रमाणाभिमतविज्ञानगृहीतार्थविषयम् , उत भिन्न- विषयमिति। तत्र यद्येकार्थविषयमिति पक्षः। सोऽनुपपन्नः। एकार्थविषयत्वे संवाद्य- संवादकयोरविशेषात् । तथाहि । एकविषयत्वे सति यथा प्राक्तनमुत्तरकालभाबिनो विज्ञानस्यैकसन्तानप्रभवस्य समानजातीयस्य न संवादक, तथोत्तरकालभाव्यपि न स्यात् । किंच। तदुत्तरकालभावि समानजातीयमकविषयं कुतःप्रमाणमेव सिद्धम्, येन प्रथमस्य प्रामाण्यं निश्चाययति । तदुत्तरकालभाविनोऽन्यस्मात्तथाविधादेवेति त; तर्हि तस्याप्यन्यस्मात्तथाविधादेवेत्यनबस्था । अथोत्तरकालभाविनस्तथावि- स्य प्रथमप्रमाणात्प्रामाण्यनिश्चयः; तर्हि प्रथमस्योत्तरकालभाविनः प्रमाणात्तन्नि- "चयः, उत्तरकालभाविनोऽपि प्रथमप्रमाणादिति तदेवेतरेतराश्रयत्वम्। अथ प्रथ- गुणारयोरेकविषयत्वसमानजातीयत्वैकसन्तानलाविशेषेऽप्यस्त्यन्यो विशेषः, यतो तत्त्वबोधविधायिनी व्याख्या। विशेषात् , उत्तरं प्रथमस्य प्रामाण्यं निश्चाययति, न पुनः प्रथममुत्तरस्य ।स च विशेष उत्तरस्य कारणशुद्धिपरिज्ञानानन्तरभावित्वम् । ननु कारणशुद्धिपरिज्ञान- मर्थक्रियापरिज्ञानमन्तरेण न सम्भवति; तत्र च चक्रकदोषः प्राक् प्रतिपादित इति नार्थक्रियाज्ञानसम्भवः । सम्भवे वा तत एव प्रामाण्यनिश्चयस्य संजात- वात, व्यर्थमुत्तरकालभाविनः कारणशुद्धिज्ञानविशेपसमन्वितस्य पूर्वप्रामाण्याव- गमहेतुत्वकल्पनम्। तन्न समानजातीयमेकसन्तानप्रभवमेकार्थमुत्तरज्ञानं पूर्वज्ञान- प्रामाण्यनिश्चायकम् ॥अथ भिन्नार्थ तव ज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम्।तदप्य- युक्तम् । एवंसति शुक्तिकायां रजतज्ञानस्य तथाभूतं शुक्तिकाज्ञानं प्रामाण्यनिश्चा- यकं स्यात् । तन्न समानजातीयमुत्तरज्ञानं पूर्वज्ञानस्य प्रामाण्यनिश्चायकम् ॥अथ भिन्नजातीयं प्रामाण्यनिश्चायकमिति पक्षः। तत्रापि वक्तव्यम् । किम् अर्थक्रिया- ज्ञानम्, उत अन्यत् । तत्रान्यदिति न वक्तव्यम् । घटज्ञानस्यापि पटज्ञानप्रामाण्यनि- चायकत्वप्रसङ्गात् । अथार्थकियाज्ञानं संवादकमित्यभ्युपगमः । अयमपि न युक्तः । अर्थक्रियाज्ञानस्यैव प्रामाण्यनिश्चयाभावे,प्रवृत्त्याद्यभावतश्चक्रकदोपेणासम्भवात् । अथ प्रामाण्यनिश्चयाभावेऽपि संशयादपि प्रवृत्तिसम्भवान्नार्थक्रियाज्ञानस्यासम्भवः । तर्हि प्रामाण्यनिश्चयो व्यर्थः। तथाहि ।प्रामाण्यनिश्चयमन्तरेण प्रवृत्तो, विसंवादभाक् मा भूवमित्यर्थक्रियार्थी प्रामाण्यनिश्चयमन्वेपते; सा च प्रवृत्तिस्तन्निश्चयमन्तरेणापि संजातेति व्यर्थःप्रामाण्यनिश्चयप्रयासः । किंच।अर्थक्रियाज्ञानस्यापिप्रामाण्यनि- इचायकत्वेनाभ्युपगम्यमानस्य कुतः प्रामाण्यनिश्चयः। तदन्यार्थक्रियाज्ञानादिति चेत;अनवस्था। पूर्वप्रमाणादिति चेत;अन्योऽन्याश्रयदोपःप्राक् प्रदर्शितोऽत्रापि। अथार्थक्रियाज्ञानस्य स्वत एव प्रामाण्यनिश्चयः। प्रथमस्य तथाभावे प्रदेपः कि- निवन्धनः । तदुक्तम्:- "यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मुग्यस्तथैव हि ॥ १ ॥ कस्यचित्तु यदीप्येत स्वत एव प्रमाणता । प्रथमस्य तथाभावे प्रक्षेपः केन हेतुना ? ॥२॥ संवादस्याथ पूर्वेण संवादित्वात् प्रमाणता ।
१० सम्मतिताख्यप्रकरणस्य- . अन्योऽन्याश्रयभावेन न प्रामाण्यं प्रकल्पते” ॥ ३ ॥ इति । अथापि स्यादर्थक्रियाज्ञानमर्थाभावे न दृष्टमिति न तत्त्वप्रामाण्यनिश्चयेऽ- न्यापेक्षम् ;साधनज्ञानं तु अर्थाभावेऽपि दृष्टमिति तत्प्रामाण्यनिश्चयेऽर्थक्रियाज्ञाना- पेक्षमिति। एतदंप्यसङ्गतम्।अर्थक्रियाज्ञानस्याप्यर्थमन्तरेण स्वप्नदशायां दर्शनात् ; नच स्वप्नजाग्रद्दशाऽवस्थायाः कश्चिद्विशेषः प्रतिपादयितुं शक्यः। अथार्थक्रियाज्ञानं फलावाप्तिरूपत्वान्न स्वप्रामाण्यनिश्चयेऽन्यापेक्षम् साधनविनिर्भासि पुनर्जनं नार्थ- क्रियावाप्तिरूपं, भवति तत्स्वप्रामाण्यनिश्चयेऽन्यापेक्षम् । तथाहि । जलावभासिनि ज्ञाने समुत्पन्ने पानावगाहनाद्यर्थिनः किमेतज्ज्ञानविभासि जलमभिमतफलं साधयि- ष्यति, उत नेति जाताशङ्काः तत्प्रामाण्यविचारं प्रत्याद्रियन्ते। पानावगाहनार्था- वाप्तिज्ञाने तुसमुत्पन्नेऽवाप्तफलत्वान्न तत्प्रामाण्यविचारणाय मनःप्रणिधति नैत- त्सारम्। अवाप्तफलत्वादित्यस्यानुत्तरत्वात्। तथाहि। यथा. ते विचारकत्वाजलज्ञा- नावभासिनोजलस्य किं सत्त्वमुतासत्त्वमिति विचारणायांप्रवृत्तास्तथा फलज्ञाननि- सिनोऽप्यर्थस्य सत्त्वासत्त्वविचारणायां प्रवर्त्तन्ते । अन्यथा तदप्रवृत्तौ तदवभासि- नोऽर्थस्यासत्त्वाशङ्कया तज्ज्ञानस्यावस्तुविषयत्वेनाप्रमाणतया शङ्कयमानस्यन त- जलावभासिप्रवर्तकज्ञानप्रामाण्यव्यवस्थापकत्वम् । ततश्चान्यस्य तत्समानरूपतया प्रामाण्यनिश्चयाभावात्कथमर्थक्रियार्थी प्रवृत्तिनिश्चितप्रामाण्यात् ज्ञानादित्यभ्युप- गमः शोभनः॥किंच; भिन्नजातीयं संवादकज्ञानं पूर्वस्य प्रामाण्यनिश्चायकमभ्युप- गम्यमानमेकार्थ, भिन्नार्थ वा । यद्येकार्थमित्यभ्युपगमः। सन युक्तः। भवन्मतेनाघट- मानत्वात् । तथाहि । रूपज्ञानाद्भिन्नजातीयं स्पर्शादिज्ञानम्, तत्र च स्पर्शादिक- माभाति न रूपम् , रूपज्ञाने तु रूपं, न स्पर्शादिकमाभाति; रूपस्पर्शयोश्च परस्परं भेदः, न चावयवी रूपस्पर्शज्ञानयोरेको विषयतयाऽभ्युपगम्यते; येनैकविषयं भिन्न- जातीय पूर्वज्ञानप्रामाण्यव्यवस्थापकं भवेत्।अपि च ।एकविषयत्वेऽपि किं येन स्वरू- ण व्यवस्थाप्ये ज्ञाने सोऽर्थः प्रतिभाति, किं तेनैव व्यवस्थापके; उतान्येन । तत्र यदि नैवेत्यभ्युपगमः। स न युक्तः । व्यवस्थापकस्य तावद्धर्मार्थविषयत्वेन स्मृतिवदप्र- शत्वेन व्यवस्थापकत्वासम्भवात्। अथ रूपान्तरेण सोऽर्थस्तत्र विज्ञाने प्रतिभाति। गुणवं संवाद्यसंवादकयोरेकविषयत्वं न स्यादिति द्वितीय एव पक्षोऽभ्युपगतः स्यात्। -- तत्त्वबोधविधायिनी व्याख्या । ११ सचायुक्तः । पूर्वस्यापि भिन्नविषयस्यैकसन्तानप्रभवस्य विजातीयस्य प्रामाण्य- व्यवस्थापकत्यप्रसङ्गात् । तथा किं तत्समानकालमर्थकियाज्ञानं पूर्वज्ञानप्रामाण्यनि- श्चायकम् , आहोविद् भिन्नकालम् । यदि समानकालम् । किं साधननिर्भासिज्ञान- ग्राहि, उत तदग्राहीति पुनरपि विकल्पद्वयम्। यदितग्राहि।तदसत्। ज्ञानान्तरस्य चक्षुरादिज्ञानेप्वप्रतिभासनात् प्रतिनियतरूपादिविषयत्वेन चक्षुरादिज्ञानानामभ्यु- पगमात् । अथ तदग्राहि । न तर्हि तज्ज्ञानप्रामाण्यनिश्चायकम् । तदग्रहे तद्ग- तधर्माणामप्यग्रहात् ॥ अथ भिन्नकालम् । तदप्ययुक्तम् । पूर्वज्ञानस्य क्षणि- कत्वेन नाशादुत्तरकालभाविविज्ञानेऽप्रतिभासनात् । भासने चोचरविज्ञानस्यास- द्विपयत्वेनाप्रामाण्यप्रसक्तितस्तद्वाहकत्वेन न तत्प्रामाण्यनिश्चायकत्वम् । तदग्राहक तु भिन्नकालं सुतरां न तन्निश्चायकमिति न भिन्नकालमप्येकसन्तानजं भिन्नजा- तीयं प्रामाण्यनिश्चायकमिति न संवादापेक्षः पूर्वप्रमाणप्रामाण्यनिश्चयः । तेन ज्ञप्ताबपि 'ये या प्रत्यनपेक्षाः' इति प्रयोगे हेतो सिद्धिः । व्याप्तिस्तु साध्य- विपक्षातन्नियतत्वव्यापकात्सापेक्षत्वान्निवर्तमानमनपेक्षत्वं तन्नियतत्वेन व्याप्यते इति प्रमाणसिदैव । यतश्च न पूर्वोक्तेन प्रकारेण परतः प्रामाण्यनिश्चयः सम्भ- वति; ततो ये सन्देहविपर्ययविषयीकृतात्मतत्त्वाः' इति प्रयोगे व्याप्त्यसिद्धिः, हेतोभासिद्धता। सर्वप्राणभृतां प्रामाण्ये सन्देहविपर्ययाभावात् । तथाहि । ज्ञाने समुत्पन्ने सर्वपामयमर्थ इति निश्चयो भवति; नच प्रामाण्यस्य सन्देहे विपर्यये वा सत्येप युक्तः ॥ तदुक्तम्:- "प्रामाण्यग्रहणात्पूर्व स्वरूपेणैव संस्थितम् ॥ निरपेक्षं स्वकार्ये च-" इति । स्वार्थनिथयो हि प्रमाणकार्य,नच तत्र प्रमाणान्तरग्रहणं चापेक्षत इति गम्यते। न चैतत्संशयविपर्ययविषयत्वे सम्भवतीति । अथ प्रमाणाप्रमाणयोरुत्पत्तौ तुल्य रुपमिति न संवादविसंवादावन्तरेण तयोः प्रामाण्याप्रामाण्ययोनिश्चयः। तदसत अप्रमाणे तदुत्तरकालमवश्यंभाविनी बाधककारणदोपप्रत्ययौ; तेन तत्रापामा निश्चयः । प्रमाणे तु तयोरभावात्कुतोऽप्रामाण्याशङ्का । अथ तत्तुल्यरूपे तय दर्शनात्तत्रापि तदाशङ्का । साऽपि न युक्ता । त्रिचतुरज्ञानापेक्षामात्रतस्तत्र - १२ सम्मतिताख्यप्रकरणस्य- निवृत्तेः । नच तदपेक्षातः खतःप्रामाण्यव्याहतिरनवस्था वेत्याशङ्कनीयम्। संवाद- ज्ञानस्याप्रामाण्याशङ्काव्यवच्छेदे एव व्यापारादपरज्ञानानपेक्षणाच्च। तथाहि ।अनु- त्पन्नबाधके ज्ञाने परत्र बाध्यमानप्रत्ययसाधादप्रमाण्याशङ्का; तस्यां सत्यां तृती- यज्ञानापेक्षा; तच्चोत्पन्नं यदि प्रथमज्ञानसंवादि, तदा तेनन प्रथमज्ञानप्रामाण्यनि- श्चयः क्रियते; किं तु द्वितीयज्ञानेन यत्तस्याप्रामाण्यमाशङ्कितं तदेव तेनापाकि- यते; प्रथमस्य तु खत एव प्रामाण्यमिति । एवं तृतीयेऽपि कथञ्चित्संशयोत्पत्तौ चतुर्थज्ञानापेक्षायामयमेव न्यायः ॥ तदुक्तम्- "एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः । प्रार्थ्यते तावतैवैकं खतः प्रामाण्यमश्नुते"॥१॥ इति । यत्र च दुष्टं कारणं, यत्र च बाधकप्रत्ययः स एव मिथ्याप्रत्यय इत्यस्याप्ययमेव विषयः । चतुर्थज्ञानापेक्षा त्वर्थज्ञानापेक्षाऽभ्युपगमवादत उक्ता, नतु तदपेक्षाऽपि भावतो विद्यते। अथ तृतीयज्ञानं द्वितीयज्ञानसंवादि, तदा प्रथमस्याप्रामाण्यनिश्चयः। स तु तत्कृतोऽभ्युपगम्यते एव; किंतु द्वितीयस्य यदप्रामाण्यमाशङ्कितं तत्तेनापा- क्रियते, न पुनस्तस्य द्वितीयप्रामाण्यनिश्चायकत्वे व्यापारः। यत्र त्वभ्यस्ते विषयेऽर्थ- तथात्वशङ्का नोपजायते तत्र बलादुत्पाद्यमाना शङ्का तत्कर्तुरनर्थकारिणीत्यावेदितं वार्चिककृता- * आशङ्केत हि यो मोहादजातमपि बाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्” ॥१॥ इति । नचैतदभिशापमात्रम् । यतोऽशङ्कनीयेऽपि विषयेऽभिशथिनां सर्वत्रार्थानर्थ- प्राप्तिपरिहारसमर्थप्रवृत्त्यादिव्यवहारासम्भवात् न्यायप्राप्त एव क्षयः खोत्प्रेक्षितनि- मित्तनिबन्धनाया आशङ्कायाः सर्वत्र भावात् । प्रेरणाजनिता तु बुद्धिरपौरुषेयत्वेन दोषरहितात्प्रेरणालक्षणाच्छन्दादुपजायमाना लिङ्गाप्तोक्ताक्षबुद्धिवत्प्रमाणं सर्वत्र तः ॥ तदुक्तम्- "चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः। कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्ताक्षबुद्धिवत् ॥ १॥ इति । - तस्वबोधविधायिनी व्याख्या । १३ तस्मात् स्वतः प्रामाण्यम्, अप्रामाण्यं परत इति व्यवस्थितम् । अतः सर्व. प्रमाणानां स्वतः सिद्धत्वात् , युक्तमुक्तं स्वतः सिद्धं शासनं नातः प्रकरणात्प्रामा- ण्येन प्रतिष्ठाप्यम् । इदं लयुक्तम् ; जिनानामिति। जिनानामसत्त्वेन शासनस्य तत्कृतत्वानु- पपत्तेः । उपपत्तावपि परतः प्रामाण्यस्य निषिद्धत्वादिति ॥ अत्र प्रतिविधीयते।यत्तावदुक्तम् अर्थतथाभावप्रकाशको ज्ञातव्यापारःप्रमा- णम् । तदयुक्तम् । पराभ्युपगतज्ञातव्यापारस्य प्रमाणत्वेन निषेत्स्यमानत्वात्। यद- भ्यधायि; तस्य यथार्थप्रकाशकत्वं प्रामाण्यं, तच्चोत्पत्तौ स्वतः। विज्ञानकारणचक्षुरा- दिव्यतिरिक्तगुणानपेक्षत्वात्। तत्र प्रामाण्यस्योत्पत्तिरविद्यमानस्यात्मलाभः।साचे- निर्हेतुका, देशकालस्वभावनियमोन स्यादित्यन्यत्र प्रतिपादितम्। किंच।गुणवच्च- क्षुरादिसद्भावे सति यथावस्थितार्थप्रतिपत्तिदृष्टा, तदभावे न दृष्टेति तहेतुका व्य- वस्थाप्यते अन्वयव्यतिरेकनिबन्धनत्वादन्यत्रापि हेतुफलभावस्य । अन्यथा दोष- वचक्षुराद्यन्वयव्यतिरेकानुविधायिनी मिथ्याप्रतिपत्तिरपि स्वतः स्यात् । तथाऽभ्युप- गमे "वस्तुत्वाद् द्विविधस्यात्र संभवो दुष्टकारणात्” इति वचो व्याहतमनुषज्येत। यदपि, 'अत्यक्षाक्षाश्रितगुणसद्भावे प्रत्यक्षाप्रवृत्तेः तत्पूर्वकानुमानस्यापि तद्ग्राहक- वेनाव्यापारात् चक्षुरादिगतगुणानामसत्त्वात्तदन्वयव्यतिरेकानुविधायित्वं प्रामाण्य- स्योत्पत्तावयुक्तम्' इत्युक्तम् । तदप्यसङ्गतम् । अप्रामाण्योत्पत्चावण्यस्य दोषस्य समानत्वात् । तथाहि । अतीन्द्रियलोचनाद्याश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते, उतानुमानेन । न तावत्प्रत्यक्षेण । इन्द्रियादीनामतीन्द्रियत्वेन तद्गतदोषाणा- मप्यतीन्द्रियत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः। नाप्यनुमानेन। अनुमानस्य गृहीतप्रति- बन्धलिङ्गप्रभवत्वाभ्युपगमात् । लिङ्गप्रतिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चात्र विषयेऽसम्भवात्;प्रमाणान्तरस्य चात्रानन्तर्भूतस्यासत्त्वेन प्रतिपादयिष्यमाणत्वात्, इत्यादि सर्वमप्रामाण्योत्पत्तिकारणभूतेपु लोचनाद्याश्रितेषु दोषेष्वपि समानमि तितेपामप्यसत्त्वाचदन्वयव्यतिरेकानुविधानस्यासिहत्वादप्रामाण्यमप्युत्पत्तौ स्वत स्यात् । यदपि 'अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः' इत्यादि, यह न लोकः प्रायशो विपर्ययज्ञानादुत्पादकं कारणमात्रमनुमिनोति किंतु सम्यग्ज्ञा '.- संम्मतितकाख्यप्रकरणस्य- इत्यन्तमभ्यधायि । तदप्यसङ्गतम् । यतो यदि लोकव्यवहारसमाश्रयणेन प्रामा- ण्याप्रामाण्ये व्यवस्थाप्येते, तदाऽप्रामाण्यवत्प्रामाण्यमपि परतो व्यवस्थापनीयम् । तथाहि । लोको यथा मिथ्याज्ञानं दोषवच्चक्षुरादिप्रभवमभिदधाति, तथा सम्यग्- ज्ञानमपि गुणवच्चक्षुरादिसमुत्थमिति तदभिप्रायादप्रामाण्यवत्प्रामाण्यमप्युत्पत्ती परतः कथं न स्यात् । तथाहि । तिमिरादिदोषावष्टब्धचक्षुष्को विशिष्टौषधोपयो- गावाप्ताक्षिनर्मल्यगुणः केनचित्सुहृदा कीदृक्षे भवतो लोचने वते इति पृष्टः सन् प्राह-प्राक् सदोषे अभूतामिदानीं समासादितगुणे संजाते इति । नच नैर्मल्यं दोषाभावमेव लोको व्यपदिशतीति शक्यमभिधातुम् ; तिमिरादेरपि गुणा- भावरूपत्वव्यपदेशप्राप्तेः । तथाचाप्रामाण्यमपि प्रामाण्यवत्खतः स्यात् । यदप्य- भ्यधायि; 'नच तृतीयं कार्यमस्ति' इति । तदप्यसम्यक् ।तृतीयकार्याभावेऽपि पूर्वोक्त- न्यायेन प्रामाण्यस्योत्पत्तौ परतः सिद्धत्वात् । यच्च 'अपि चार्थतथाभावप्रकाशनल- क्षणं प्रामाण्यम्' इत्यादि, 'विश्वमेकं स्यादिति वचः परिप्लवेत' इतिपर्यवसानमभि- हितम् । तदपि, अविदितपराभिप्रायेण । यतो न परस्यायमभ्युपगमो विज्ञानस्य चक्षुरादिसामग्रीत उत्पत्तावप्यर्थतथाभावप्रकाशनलक्षणस्य प्रामाण्यस्य नैर्मल्यादि- सामग्यन्तरात्पश्चादुत्पत्तिः, किंतु गुणवच्चक्षुरादिसामग्रीत उपजायमानं विज्ञानमा- गृहीतप्रामाण्यखरूपमेवोपजायत इति ज्ञानवत्तव्यतिरिक्तखभावं प्रामाण्यमपि परत इति गुणवच्चक्षुरादिसामग्यपेक्षत्वादुत्पत्तौ प्रामाण्यस्यानपेक्षत्वलक्षणस्वभाव- हेतुरसिद्धोऽनपेक्षत्वखरूप इति 'तस्माद्यत एव गुणविकलसामग्रीलक्षणात्' इत्या- द्ययुक्तमभिहितम् ॥'अर्थतथात्वपरिच्छेदरूपा च शक्तिः प्रामाण्यम् ;शक्तयश्च सर्व- भावानां खत एव भवन्ति' इत्यादि यदभिधानम् । तदप्यसमीचीनम्। एवमभिधाने अयथावस्थितार्थपरिच्छेदशक्तेरप्यप्रामाण्यरूपाया असत्याः केनचित्कर्तुमशक्तेस्त- दपि खतः स्यात्। यदपि एतच्च नैव सत्कार्यप्रदर्शनसमाश्रयणादभिधीयते' इत्यादि, सदपेक्षा न विद्यते' इति पर्यन्तमभिहितम् । तदपि प्रलापमात्रम्। यतोऽनेन न्याये- देताप्रामाण्यमपि प्रामाण्यवत् स्वत एव स्यात् । तदपि हि विपरीतार्थपरिच्छेदशक्ति- क्षणं न तिमिरादिदोषसङ्गतिमत्सु लोचनादिषु अस्तीति । अपि च । ज्ञानरूपता- गुण न्यसतीमाविर्भावयन्तीन्द्रियादयो न पुनर्यथावस्थितार्थपरिच्छेदशक्तिमिति न.
१५ तत्त्वबोधविधायिनी व्याख्या। किंचिन्निमित्तमुत्पश्यामः।कुतश्चैतदैश्वर्य शक्तिभिःप्राप्तम् , यत इमाः स्वत एवोदयं प्रत्यासादितमाहात्म्या न पुनस्तदाधाराभिमता भावविशेषा इति । नच तास्तेभ्यः प्राप्तव्यतिरेकाः यतःस्वाधाराभिमतभावकारणेभ्यो भावस्योत्पत्तावपि, न तेभ्य एवो- त्पत्तिमनुभवेयुः, व्यतिरेके, स्वाश्रयैस्ततोऽभवन्त्यो न सम्बन्धमाप्नुयुः, भिन्नानां का- र्यकारणभावव्यतिरेकेणापरस्य सम्बन्धस्याभावादाश्रयाश्रयिसम्बन्धस्यापि जन्य- जनकभावाभावेऽतिप्रसङ्गतो निषेत्स्यमानत्वात् । धर्मत्वाच्छक्तेराश्रय इत्यप्ययुक्तम् । असति पारतन्त्र्ये, परमार्थतस्तदयोगात् । पारतन्त्र्यमपि, न सतः सर्वनिराशम् । सत्त्वात् । असतोऽपि व्योमकुसुमस्येव न, तत्त्वादेव । अनिमित्ताश्चेमा न देशका- लद्रव्यनियमं प्रतिपद्येरन् । तद्धि किञ्चित् कचिदुपलीयेत नवा, यद्यत्र कथञ्चि- दायत्तमनायत्तं वा । सर्वत्र प्रतिबन्धविवेकिन्यश्वेच्छक्तयो नेमाः कस्यचित्कदाचि- द्विरमेयुरिति प्रतिनियतशक्तियोगिता भावानां प्रमाणप्रमिता न स्यात् । व्यतिरे- काव्यतिरेकपक्षस्तु शक्तीनां विरोधानवस्थोभयपक्षोक्तदोषादिपरिहाराद्विनाऽनुहो- प्यः। अनुभयपक्षस्तु नयुक्तः । परस्परपरिहारस्थितरूपाणामेकनिषेधस्य परविधा- ननान्तरीयकत्वात् । न च विहितस्य पुनस्तस्यैव निषेधः । विधिप्रतिषेधयोरेकत्र विरोधात् । ये त्वाहुः । उत्तरकालभाविनः संवादप्रत्ययान्न जन्म प्रतिपद्यते शक्ति- लक्षणं प्रामाण्यमिति स्वत उच्यते, न पुनर्विज्ञानकारणान्नोपजायत इति। तेऽपि न सम्यक् प्रचक्षते । सिद्धसाध्यतादोपात् । अप्रामाण्यमपि चैवं स्वतः स्यात् ; नहि तदप्युत्पन्ने ज्ञाने विसंवादप्रत्ययादुत्तरकालभाविनः तत्रोत्पद्यत इति कस्यचि- दभ्युपगमः । यदा च गुणवत्कारणजन्यता प्रामाण्यस्य शक्तिरूपस्य प्राक्तनन्याया- दवस्थिता, तदा कथमौत्सर्गिकत्वम्। तस्य दुष्टकारणप्रभवेपु मिथ्याप्रत्ययेष्वभावात् । परस्परव्यवच्छेदरूपाणामेकत्रासम्भवात् । तस्माद्गुणेभ्यो दोषाणामभावस्तदभावाद- प्रामाण्ययासत्त्वेनोत्सर्गोऽनपोहित एवास्त इति वचः परिफल्गुप्रायम् । इतश्चैतह- चोऽयुक्तम् । विपर्ययेणाप्यस्योढोषयितुं शक्यत्वात् । तथाहि । दोषेभ्यो गुणानाम- भावस्तदभावात्प्रामाण्ययासत्त्वेनाप्रामाण्यमौत्सर्गिकमास्त इति ब्रुवतो न वक्र . वक्रीभवति । किंच । गुणेभ्यो दोषाणामभाव इति न तुच्छरूपो दोषाभावो गुणन्यापारनिप्पायः। तत्र व्यतिरिक्ताव्यतिरिक्तविकल्पद्वारेण कारकव्यापारस्या सम्मतिताख्यप्रकरणस्य- म्भवात् ; भवद्भिरनभ्युपगमाच्च । तुच्छाभावस्याभ्युपगमे वा- "भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । अभावः संमतस्तस्य हेतोः किं न समुद्भवः"॥१॥ इति बचो न शोभेत । तस्मात्पर्युदासवृत्त्या प्रतियोगिगुणात्मक एव दोषाभावोऽभिप्रेतः। ततश्च गुणेभ्यो दोषाभाव इति ब्रुवता गुणेभ्यो गुणा इत्युक्तं भवति । नच गुणेभ्यो गुणाः कारणानामात्मभूता उपजायन्ते इति । स्वात्मनि क्रियाविरोधात् स्वकारणेभ्यो गुणोत्पचिसद्भावाच्च। तदभावादप्रामाण्यद्वयासत्त्वमपि प्रामाण्यमभिधीयते। ततश्च गुणेभ्यः प्रामाण्यमुत्पद्यत इति अभ्युपगमात्परतः प्रामाण्यमुत्पद्यत इति प्राप्तम् । ततश्च स्वार्थावबोधशक्तिरूपप्रामाण्यात्मलाभे चेत्कारणापेक्षा, काऽन्या स्वकार्य- प्रवृत्तिा स्वयमेव स्यात् । तेनायुक्तमुक्तम्, 'लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वय- मेव तु' इति । घटस्य जलोद्वहनव्यापारात्पूर्व रूपान्तरेण स्वहेतोरुत्पत्तेर्युक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरित्यतो विसदृशमुदाहरणम् । उत्पत्त्यनन्तर- मेव च विज्ञानस्य नाशोपगमात्कुतो लब्धात्मनः प्रवृत्तिः स्वयमेव ।। तदुक्तम्:- "नहि तत्क्षणमप्यास्ते जायते वाऽप्रमाऽऽत्मकम् । येनार्थग्रहणे पश्चाद्याप्रियतेन्द्रियादिवत् ॥ १ ॥ तेन जन्मैव विषये बुद्धेापार उच्यते । तदेव च प्रमारूपं तद्वती करणं च धीः" ॥ २ ॥इति । तस्माजन्मव्यतिरेकेण बुद्धेापाराभावाचत्र च ज्ञानानांसगुणेषु कारणेष्व- पेक्षावचनात्कुतः स्वातन्त्र्येण प्रवृत्तिरिति किं तज्ज्ञानस्य कार्य ? यत्र लब्धात्मनः प्रवृत्तिः स्वयमेवेत्युच्यते। स्वार्थपरिच्छेदश्चेन्न । ज्ञानपर्यायत्वात् तस्यात्मानमेव करो- तीत्युक्तं स्यात् । तच्चायुक्तम् । प्रमाणमेतदित्यनन्तरं निश्चयश्चेन्न । भ्रान्तिकारणसद्भा- वेन कचिदनिश्चयाद्विपर्ययदर्शनाच्च । तस्माजन्मापेक्षया गुणवच्चक्षुरादिकारणप्रभवं प्रामाण्यं परतः सिद्धमिति 'अथ चक्षुरादिज्ञानकारण-' इत्याद्ययुक्ततया स्थितम् । पौरुषेयविधिवाक्यप्रभवायास्तु बुद्धेः स्वतः प्रामाण्योत्पत्त्यभ्युपगमो न युक्तः । गर, - तत्त्वबोधविधायिनी व्याख्या । १७ अपौरुषेयत्वस्य प्रतिपादयिष्यमाणतग्राहकप्रमाणाविषयत्वेनासत्त्वात् । सत्त्वेऽपि भवन्नीत्या तस्यैव गुणत्वात् । तथाभूतप्रेरणाप्रभवाया बुद्धेः कथं न परतः प्रामाण्यम् । किंच । अपौरुषेयत्वे प्रेरणावचसो, गुणवत्पुरुषप्रणीतलौकिकवाक्येषु तत्त्वेन निश्चितप्रामाण्य, गुणाश्रयपुरुषप्रणीतत्वव्यावृत्त्या तत्तत्र न स्यात् । तथा च। "प्रेरणाजनिता बुद्धिः प्रमाणं दोषवर्जितः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्ताक्षबुद्धिवत् " ॥ १॥ इति । इत्ययं श्लोक एवं पठितव्यः- प्रेरणाजनिता बुद्धिरप्रमा गुणवर्जितैः । कारणैर्जन्यमानत्वादलिङ्गाप्तोक्तबुद्धिवत् ॥ १॥ अथ प्रेरणावाक्यस्यापौरुषेयत्वे पुरुषप्रणीतत्वाश्रया यथा गुणा व्यावृत्ता- स्तथा तदाश्रिता दोपा अपि । ततश्च तव्यावृचावप्रामाण्यस्यापि प्रेरणाया व्या- वृत्तत्वात् स्वतः सिद्धमुत्पचौ प्रामाण्यम् ॥ नन्वेवं सति गुणदोपाश्रयपुरुषप्रणी- तव्यावृत्ती प्रेरणायां प्रामाण्याप्रामाण्ययोावृत्तत्वात्प्रेरणाजनिता बुद्धिः प्रामाण्या- प्रामाण्यरहिता प्राप्नोति । ततश्च- प्रेरणाजनिता बुद्धिर्न प्रमाणं नचाप्रमा । गुणदोषविनिर्मुक्तकारणेभ्यः समुद्भवात् ॥१॥' इत्येवमपि प्राक्तनः श्लोकः पठितव्यः । अतएव यथा- " दोषाः सन्ति न सन्तीति पौरुपेयेषु चिन्त्यते । वेदे कर्तुरभावात्तु दोपाशदैव नास्ति नः" ॥१॥ इत्ययं श्लोक एवं पठितस्तथैवमपि पठनीयः- गुणाः सन्ति न सन्तीति पौरुपेयेपु चिन्त्यते । वेदे कर्तुरभावात्तु गुणाशळेव नास्ति नः॥१॥ नच यत्रापि गुणाः प्रामाण्यहेतुत्वेनाशकंयन्ते तत्रापि गुणेभ्यो दोषाभाव'' - - ३ सम्मतिताख्यप्रकरणस्य- इत्यादि वक्तव्यम् । विहितोत्तरत्वात् । अपि च । अपौरुषेयत्वेऽपि प्रेरणाया न स्वतः स्वविषयप्रतीतिजनकव्यापारः। सदा सन्निहितत्वेन ततोऽनवरतप्रतीतिप्रसङ्गात् । किंतु पुरुषाभिव्यक्तार्थप्रतिपादकसमयाविर्भूतविशिष्टसंस्कारसव्यपेक्षायाः। ते च पुरुषाः सर्वे रागादिदोषाभिभूता एव भवताऽभ्युपगताः। तत्कृतश्च संस्कारो न यथार्थः । अन्यथा पौरुषेयमपि वचो यथार्थ स्यात् । अतोऽपौरुषेयत्वाभ्युपगमेऽपि समयकर्तृपुरुषदोषकृताप्रामाण्यसद्भावात् प्रेरणायामपौरुषेयत्वाभ्युपगमो गजना- नमनुकरोति । तदुक्तम्- "असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता । संस्कारोपगमे व्यक्तं गजनानमिदं भवेत्॥१॥ यदप्यभाषि । 'तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्षा' इत्यादि । तदप्यचारु । अविनाभावनिश्चयस्यैव गुणत्वात् ; तदनिश्चयस्य, विपरीतनिश्चयस्य च दोषत्वात् । तदेवमुत्पत्तौं प्रामाण्यं गुणापेक्षत्वात्परत इति स्थितम् ॥ यद- प्युक्तम् । 'नापि स्वकार्ये प्रवर्तमान प्रमाणं निमित्तान्तरापेक्षम्' इति। तदप्यसंग- तम् । यतो यदि कार्योत्पादनसामग्रीव्यतिरिक्तनिमित्तानपेक्षं प्रमाणमित्युच्यते। तदा सिद्धसाधनम् । अथ सामग्येकदेशलक्षणं प्रमाणं निमित्तान्तरानपेक्षम् तदप्यचारु । एकस्य जनकत्वासंभवात्। 'नोकं किंचिज्जनकं सामग्री वै जनि- का' इति न्यायस्यान्यत्र व्यवस्थापितत्वात् । किंच । नार्थपरिच्छेदमानं प्रमाणका- र्यम् । अप्रमाणेऽपि तस्य भावात् । किं तर्हि । अर्थतथात्वपरिच्छेदः । स च ज्ञानस्वरूपकार्यः । भ्रान्तज्ञानेऽपि स्वरूपस्य भावात्, तत्रापि सम्यगर्थपरिच्छेदः स्यात् । अथ स्वरूपविशेषकार्यो यथावस्थितार्थपरिच्छेद इति नातिप्रसङ्गः । तर्हि स स्वरूपविशेषो वक्तव्यः । किमपूर्वार्थविज्ञानत्वम् , उत निश्चितत्वम्, आहो- स्विद् बाधारहितत्वम्, उतस्विद् अदुष्टकारणारब्धत्वम् , किं वा संवादित्वमिति । तत्र यद्यपूर्वार्थविज्ञानत्वं विशेषः । स न युक्तः। तैमिरिकज्ञानेऽपि तस्य भावात्॥ अथ निश्वितत्वम्।सोऽप्ययुक्तः। परोक्षज्ञानवादिनो भवतोऽभिप्रायेणासंभवात् ॥ अथ बाधारहितत्वं विशेषः । सोऽपि न युक्तः। यतो बाधाविरहस्तत्कालभावी तत्त्वबोधविधायिनी व्याख्या । १९ विशेषः, उत्तरकालभावी वा । न तावत्तत्कालभावी । मिथ्याज्ञानेऽपि तत्का- लभाविनो बाघाविरहस्य भावात् । अथोत्तरकालभावी। तत्रापि वक्तव्यम् । किं ज्ञातः स विशेषः, उताज्ञातः। तत्र नाज्ञातः। अज्ञातस्य सत्त्वेनाप्यसिद्धत्वात् । अथ ज्ञातोऽसौ विशेषः । तत्रापि वक्तव्यम् । उत्तरकालभावी बाधाविरहः किं पूर्वज्ञा- नेन ज्ञायते; आहोस्विदुत्तरकालभाविना । तत्र न तावत्पूर्वज्ञानेनोचरकालभावी वाधाविरहो ज्ञातुं शक्यः। तद्धि स्वसमानकालं संनिहितं नीलादिकमवभासयतु, न पुनरुत्तरकालमप्यत्र बाधकप्रत्ययो न प्रवर्तिष्यत इत्यवगमयितुं शक्नोति । पूर्वमनुत्पन्नबाधकानामप्युत्तरकालयाध्यत्वदर्शनात् । अथोचरज्ञानेन ज्ञायते । ज्ञायताम् , किंतूत्तरकालभावी वाधाविरहः कथं पूर्वज्ञानस्य विनष्टस्य विशेषः । भिन्नकालस्य विनष्टं प्रति विशेपत्यायोगात् । किंच । ज्ञायमानत्वेऽपि केशोण्डु- कादेरसत्यत्वदर्शनाद्, बाधाभावस्य ज्ञायमानत्वेऽपि कथं सत्यत्वम् । तज्ज्ञानस्य सत्यत्वादिति चेत्, तस्य कुतः सत्यत्वम् । तत्प्रमेयसत्यत्वात् , इतरेतराश्रयदोष- प्रसंगात् । अपरवाधाभावज्ञानादिति चेत्, तत्राप्यपरबाधाभावज्ञानादित्यनवस्था। अथ संवादादुत्तरकालभावी बाधाविरहः सत्यत्वेन ज्ञायते । तर्हि संवादस्याप्य- परसंवादज्ञानात्सत्यत्वसिद्धिः, तस्याप्यपरसंवादज्ञानादित्यनवस्था। किंच । यदि संवादप्रत्ययादुत्तरकालभावी बाधाभावो ज्ञायमानो विशेषः पूर्वज्ञानस्याभ्युप- गम्यते । तर्हि ज्ञायमानस्वविशेषापेक्षं प्रमाणं स्वकार्ये यथावस्थितार्थपरिच्छेद- लक्षणे प्रवर्चत इति कथमनपेक्षत्वात्तत्र स्वतः प्रामाण्यम् । अपि च । बाधावि- रहस्य भवदभ्युपगमेन पर्युदासवृत्त्या संवादरूपत्वम्। बाधावर्जितं च ज्ञानं स्वकार्ये अन्यानपेक्षं प्रवर्चत इति ब्रुवता संवादापेक्षं तत्तत्र प्रवर्त्तत इत्युक्तं भवति । किंच। किं विज्ञानस्य स्वरूपं वाध्यते, आहोस्वित्प्रमेयं, उतार्थक्रियेति विक- ल्पत्रयम् । तत्र यदि विज्ञानस्य स्वरूपं बाध्यत इति पक्षः। स न युक्तः । विकल्पढयानतिवृत्तेः । तथाहि । विज्ञानं वाध्यमानं किं स्वसत्ताकाले बाध्यते, उत उत्तरकालम् । तत्र यदि स्वसत्ताकाले वाध्यत इति पक्षः । स न युक्तः । ' तदा विज्ञानस्य परिस्फुटरूपेण प्रतिभासनात् । नच विज्ञानस्य परिस्फुटपति- भासिनोऽभावस्तदैवेति वक्तुं शक्यम् । सत्याभिमतविज्ञानस्याप्यभावप्रसंगात् ।, २० सम्मतितकाख्यप्रकरणस्य- अथोत्तरकालं बाध्यत इति पक्षः । सोऽपि न युक्तः । उत्तरकालं तस्य स्वत- एव नाशाभ्युपगमात् , न तत्र बाधकव्यापारः सफलो देवरक्ता हि किंशुकाः ॥ अथ प्रमेयं बाध्यते इत्यभ्युपगमः । सोऽप्ययुक्तः। यतः प्रमेयं बाध्यमानं. किं प्रतिभासमानेन रूपेण बाध्यते, उताप्रतिभासमानरूपसहचारिणा स्पर्शादिलक्षणे- नेति विकल्पनाद्वयम् । तत्र यदि प्रतिभासमानेन रूपेण बाध्यते इति मतम् । तद्- युक्तम् । प्रतिभासमानस्य रूपस्यासत्त्वासंभवात् ।अन्यथा सम्यग्ज्ञानावभासिनो- ऽप्यसत्त्वप्रसंगः।अथाप्रतिभासमानेन रूपेण बाध्यत इति मतम् । तदप्ययुक्तम्। अप्रतिभासमानस्य रूपस्य प्रतिभासमानरूपादन्यत्वात् । नचान्यस्याभावेऽन्यस्या- भावः । अतिप्रसंगात् ॥ अथार्थक्रिया बाध्यते । ननु साऽपि किमुत्पन्ना वाध्यते, उतानुत्पन्ना। यद्युत्पन्ना; न तर्हि बाध्यते । तस्याः सत्त्वात् । अथानुत्पन्ना। साऽपिन बाध्या।अनुत्पन्नत्वादेव। किंच। अर्थक्रियाऽपि पदार्थादन्या। ततश्च तस्या अभावे कथमन्यस्यासत्त्वम् । अतिप्रसंगादेव।व्यवच्छेद्यासंभवे च बाधावर्जितमिति विशेषणस्याप्ययुक्तत्वात; न बाधाविरहोऽपि विज्ञानस्य विशेषः ॥ अथादुष्टका- रणारब्धत्वं विशेषः । सोऽपि न युक्तः । यतस्तस्याप्यज्ञातस्य विशेषत्वमसिद्धम् । ज्ञातत्वे वा कुतोऽदुष्टकारणारब्धत्वं ज्ञायते । अन्यस्माद्दुष्टकारणारब्धाद्विज्ञाना- दिति चेत्; अनवस्था । संवादादिति चेत् । ननु संवादप्रत्ययस्याप्यदुष्टकारणार- ब्धत्वं विशेषोऽन्यस्माद्दुष्टकारणारब्धात्संवादप्रत्ययाद्विज्ञायत इति सैवानवस्था भवतः संपद्यत इति । किंच । ज्ञानसव्यपेक्षमदुष्टकारणारब्धत्वविशेषमपेक्ष्य स्व- कार्ये ज्ञानं प्रवर्त्तमानं कथं न तत्तत्र परतः प्रवृत्तं भवति । तथा कारणदोषा- भावः पर्युदासवृत्त्या भवदभिप्रायेण गुणः। ततश्चादुष्टकारणारब्धमिति वदता गुणवत्कारणारब्धमित्युक्तं भवति । कारणगुणाश्च प्रमाणेन स्वकार्ये प्रवर्तमाने- नापेक्ष्यमाणनिश्वायकप्रमाणापेक्षा अपेक्ष्यन्ते, तदपि प्रमाणं स्वकारणगुणनिश्वा- यकं स्वकारणगुणनिश्चयापेक्षं स्वकार्ये प्रवर्तत इत्यनवस्थादूषणं “जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते” इत्यादिना ग्रन्थेन परपक्षे आसञ्ज्यमानं स्ववधाय कृत्योत्थापनं भवतः प्रसक्तम् । अथादुष्टकारणजनितत्वनिश्चयमन्तरेणापि ज्ञानं स्वार्थनिश्चये स्वकार्ये प्रवर्तिष्यते । तदसत् । संशयादिविषयीकृतस्य प्रमाणस्य तत्वबोधविधायिाने व्याख्या । २१ स्वार्थनिश्वायकत्वासंभवात् । अन्यथाऽप्रमाणस्यापि स्वार्थनिश्चायकत्वं स्यात् । त- नादुष्टकारणारब्धत्वमपि विशेषो भवन्नीत्या संभवति ॥ अथ संवादित्वं विशेपः। साऽभ्युपगम्यत एव । किंतु संवादप्रत्ययोत्पत्तिनिश्चयमन्तरेण स न ज्ञातुं शक्यत इति प्रतिपादयिष्यमाणत्वात् , तदपेक्षं प्रमाणं स्वकार्ये प्रवर्चत इति तत्तत्र परतः स्यात् । अत एव निरपेक्षत्वस्यासिद्धत्वात्पूर्वोक्तन्यायेन थे प्रतीक्षितप्रत्ययान्तरो- दया।' इति प्रयोगे नासिद्धो हेतुः । एतेनैव यदुक्तम्- "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसंमतम् ॥१॥ इति तदपि निरस्तम् ॥ यच्चोक्तम् । यदि संवादापेक्षं प्रमाण स्वकार्ये प्रवर्त्तते तदा चककप्रसङ्गः । तदसङ्गतम् । यथावस्थितपरिच्छेदस्वभावमेतत्प्रमाणमित्येवंनिश्चयलक्षणे स्वकार्ये यथा संवादापेक्षं प्रमाणं प्रवर्तते, नच चक्रकदोपः, तथा प्रतिपादयिष्य- माणत्वात् । यदपि 'अथ गृहीताः कारणगुणाः' इत्याद्यभिधानम् । तदपि परसमयानभिज्ञतां भवतः ख्यापयति । कारणगुणग्रहणापेक्षं प्रमाणं स्वकार्ये प्रवर्त्तते इति परस्यानभ्युपगमात् । यच्चोक्तम् । 'उपजायमानं प्रमाणमर्थपरिच्छे- दशक्तियुक्तम्, इति । तत्राविसंवादित्वमेव अर्थतथात्वपरिच्छेदशक्तिः, तच्च परतो ज्ञायते, तदपेक्ष प्रमाणं स्वकार्य प्रवर्त्तते इति तत्तत्र परतः स्थितम् । 'नापि प्रामाण्यं स्वनिधयेऽन्यापेक्षम्' इत्युक्तं यत्। तदप्यसत् । यतो निश्चयस्तत्र भवन कि निनिमित्तः, उत सनिमित्त इति कल्पनाहयम् । तत्र न तावन्निनिमित्तः । प्रतिनियतदेशकालस्वभावाभावप्रमङ्गात् ॥ सनिमित्तत्वेऽपि किं खनिमिचः, उत स्वव्यतिरिक्तनिमित्तः । न तावत् स्वनिमित्तः । स्वसंविदितप्रमाणानभ्युपगमात् मीमांसकस्य । अथ स्वव्यतिरिक्तनिमित्तः । तत्रापि वक्तव्यम् । तन्निमित्तं किं प्रत्यक्षम्, उतानुमानम् । अन्यस्य तन्निश्चायकस्यासम्भवात् । तत्र यदि प्रत्यक्षम् । तदयुक्तम् । प्रत्यक्षस्य तत्र व्यापारायोगात् । तद्दीन्द्रियसंयुक्ते विषये तयापारा- दुदयमासादयत्प्रत्यक्षव्यपदेशं लभते । न चेन्द्रियाणामर्थापरोक्षतालक्षणेन फलेन तसंवेदनस्वरूपेण वा सम्प्रयोगः; येन तयोर्यथार्थत्वस्वभावं प्रामाण्यमिन्द्रियव्या- २२ सम्मतिताख्यप्रकरणस्य- पारजनितेन प्रत्यक्षेण निश्चीयते । नापि मनोव्यापारजेन प्रत्यक्षेण । एवंविधस्या- नुभवस्याभावात् । नापि तयोरुत्पादकस्य ज्ञातृव्यापाराख्यस्य यथार्थत्वनिश्चाय- कलं प्रामाण्यं बाह्येन्द्रियजन्येन मनोजन्येन वा प्रत्यक्षेण निश्चीयते । तेन सहे- न्द्रियाणां सम्बन्धाभावात् । न चेन्द्रियासम्बद्धे विषये ज्ञानमुपजायमानं प्रत्यक्षज्य: पदेशमासादयतीत्युक्तम् । नाप्यनुमानतः प्रामाण्यनिश्चयः । पूर्वोक्तस्य फलद्दयस्य यथावस्थितार्थत्वलक्षणप्रामाण्यनिश्चये लिङ्गाभावात् । ज्ञातव्यापारस्य तु पूर्वोक्तफ- लहयखभावस्खकार्यलिङ्गसम्भवेऽपि न यथार्थनिश्चायकत्वलक्षणप्रामाण्यनिश्चाय- कत्वम् । यतस्तल्लिङ्गं संवेदनाख्य, यथार्थत्वविशिष्टं तन्निश्चये व्याप्रियेत, निर्वि- शेषणं वा । प्रथमपक्षे तस्य यथार्थलविशेषणग्रहणे प्रमाणं वक्तव्यम्। तच्चन सम्भ- वतीति प्रतिपादितम् । निर्विशेषणस्य फलस्य प्रामाण्यप्रतिपादकले, मिथ्याज्ञाने फलमपि प्रामाण्यनिश्चायकं स्यादित्यतिप्रसङ्गः । तत्रैतत्स्यात् पूर्वोक्तं फलद्वयमर्थ- संवेदनार्थप्रकटतालक्षणम् ; अनुभवान्निश्चीयते यथा तस्य खतः पूर्वोक्तखरूपनि- श्चयः, तथा यथार्थवस्यापि । यथा हि तत्संवेद्यमानं नीलं संवेदनतया संवेद्यते, तथा यथार्थवविशिष्टस्यैव तस्य संवित्तिः। नहि नीलसंवेदनादन्या यथार्थवसंवि- त्तिः। यद्येवम्, शुक्तिकायां रजतज्ञानेऽपि अर्थसंवेदनस्वभावत्वाद्यथार्थवप्रसक्तिः। स्मृतिप्रमोषादयस्तु निषेत्स्यन्ते इति नानुमानादपि तत्प्रामाण्यनिश्चयः। किंच। प्रत्यक्षानुमानयोः प्रामाण्यनिश्चयनिमित्तत्वेऽभ्युपगम्यमाने, स्वतःप्रामाण्यनिश्चय- व्याहतिप्रसङ्गः, तत्रान्यनिमित्तोऽपि प्रामाण्यनिश्चयः। यदुक्तम् ; 'नापि प्रामाण्यं स्वनिश्चयेऽन्यापेक्षं, तद्यपेक्षमाणं किं कारणगुणानपेक्षते' इत्यादि।तदनभ्युपग- मोपालम्भमात्रम्। नह्यस्मदभ्युपगमः, यंदुत स्वकारणगुणज्ञानात् प्रामाण्यं विज्ञा- यते। कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुमशक्यत्वात् । संवादप्रत्ययात्तु का- रणगुणपरिज्ञानाभ्युपगमे, तत एव प्रामाण्यनिश्चयस्यापि सिद्धलातु व्यर्थ गुणनि- श्चयपरिकल्पनम् । प्रामाण्यनिश्चयोत्तरकालं गुणज्ञानस्य भावात्तन्निश्चयस्य प्रा- माण्यनिश्चयेऽनुपयोगाच्च। नाप्येकदा संवादाद् गुणान् निश्चित्य, अन्यदा संवा- दमन्तरेणापि गुणनिश्चयादेव तत्प्रभवस्य ज्ञानस्य प्रामाण्यनिश्चय इति वक्तुं शक्यम् । अत्यन्तपरोक्षेषु चक्षुरादिषु कालान्तरेऽपि निश्चितप्रामाण्यस्वकार्य- तत्त्वबोधविधायिनी व्याख्या। २३ दर्शनमन्तरेण गुणानुवृत्तेनिश्चेतुमशक्यलात् । नच क्षणक्षयिपु भावेषु गुणा- नुवृत्तिरेकरूपैव सम्भवति । अपरापरसहकारिभेदेन भिन्नरूपत्वात् । संवादप्र- त्ययाचार्थकियाज्ञानलक्षणात् प्रामाण्यनिश्चयोऽभ्युपगम्यत एव । प्रमाणमविसंवा- दिज्ञानम्' इति प्रमाणलक्षणाभिधानात् । न च संवादिललक्षण प्रामाण्यं स्वत एव ज्ञायते इति शक्यमभिधातुम् । यतः संवादिलं संवादप्रत्ययजननशक्तिः प्रमाणस्य न च कार्यदर्शनमन्तरेण कारणशक्तिनिश्चेतुं शक्या। यदाह । 'नह्य- प्रत्यक्षे कार्य कारणभावगतिः' इति । तस्मादुत्तरसंवादप्रत्ययात्पूर्वस्य प्रामाण्यं व्यवस्थाप्यते । नच संवादप्रत्ययात् पूर्वस्य प्रामाण्यावगमे संवादप्रत्ययस्याप्यप- रसंवादात् प्रामाण्यावगम इत्यनवस्थाप्रसङ्गात् प्रामाण्यावगमाभाव इति वक्तुं युक्तम् । संवादप्रत्ययस्य संवादरूपखेनापरसंवादापेक्षाभावतोऽनवस्थाऽनवतारात्। न च प्रथमस्यापि संवादापेक्षा मा भूदिति वक्तव्यम् । यतस्तस्य संवादज- नकलमेव प्रामाण्यम्; तदभावे तस्य तदेव न स्यात् । अर्थक्रियाज्ञानं तु साक्षादविसंवादि । अर्थक्रियालम्बनलात् । तस्य स्वविषये संवेदनमेव प्रामाण्यम् । तच्च स्वतः सिद्धमिति नान्यापेक्षा । तेन 'कस्यचित्तु यदीष्येत' इत्यादि परस्य प्रलापमात्रम् । नचार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयाऽनव- स्थाऽवतारः इति वक्तव्यम् । अर्थक्रियाज्ञानस्यार्थक्रियानुभवस्वभावलेनार्थक्रिया- मात्रार्थिनां भिन्नार्थक्रियात एतज्ज्ञानमुत्पन्नम्, उत तव्यतिरेकेणेत्येवंभूतायाश्चि- न्ताया निष्पयोजनत्वात् । तथाहि । यथाऽर्थक्रिया किमवयवव्यतिरिक्तनावयवि- नाऽर्थेन निष्पादिता, उताव्यतिरिक्तेन, आहोस्विदुभयरूपेण, अथानुभयरूपेण, किंवा त्रिगुणात्मकेन, परमाणुसमूहात्मकेन वा, अथ ज्ञानरूपेण, आहोस्वित्सं- वृत्तिरूपेणेत्यादिचिन्ताऽर्थक्रियामात्रार्थिनां निष्प्रयोजना, निष्पन्नवाहाञ्छितफ- लस्य; तथेयमपि किं वस्तुसत्यामर्थक्रियायां तत्संवेदनज्ञानमुपजायते, आहो- स्विवस्तुसत्यामिति । तृड्दाहविच्छेदादिकं हि फलमभिवाञ्छितम् । तच्चाभिनि- ष्पन्नं तद्वियोगज्ञानस्य स्वसंविदितस्योदये इति तच्चिन्ताया निष्फलत्वम् ; अव- स्तुनि ज्ञानद्वयासंभवाच्च । यत्र हि साधनज्ञानपूर्वकमर्थक्रियाज्ञानमुत्पद्यते तत्रावस्तुशंका नैवास्ति । नयनमावग्निज्ञाने संजाते प्रवृत्तस्य दाहपाकाद्यर्थक्रि- २४ सम्मतिताख्यप्रकरणस्य- याज्ञानस्य संभव इत्यागोपालाङ्गनाप्रसिद्धमेतत् । न च स्वप्नार्थक्रियाज्ञानमर्थक्रि- याऽभावेऽपि दृष्टमिति जाग्रदर्थक्रियाज्ञानमपि तथाऽऽशङ्काविषयः। तस्य तद्विपरी- तत्वात् । तथाहि । स्वप्नार्थक्रियाज्ञानम् , अप्रवृत्तिपूर्व व्याकुलमस्थिरं च; तद्विपरीत तज्जाग्रहशाभावि, कुतस्तेन व्यभिचारः। यदि चार्थक्रियाज्ञानमप्यर्थमन्तरेण जाग्र- दशायां भवेत्, कतरदन्यज्ञानमर्थाव्यभिचारि स्याद्, यद्वलेनार्थव्यवस्था क्रियेत । परतः प्रामाण्यवादिनो बौद्धस्य प्रतिकूलमाचरामीत्यभिप्रायवता तस्यानुकूलमे- वाचरितम् । स हि निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवदित्यभ्यु- पगच्छत्येव । भवता तु जाग्रहशास्वप्नदशयोरभेदं प्रतिपादयता तत्साहाय्यमेवा- चरितम् । नहि तद्व्यतिरिक्तः प्रत्ययोऽस्ति यस्यार्थसंसर्गः; न चावस्थादयतुल्य- ताप्रतिपादनं त्वया क्रियमाणं प्रकृतोपयोगि । तथाहि । सांव्यवहारिकस्य प्रमा- णस्य लक्षणमिदमभिधीयते 'प्रमाणमविसंवादिज्ञानम्' इति । तच्च सांव्यवहारिक जाग्रद्दशाज्ञानमेव । तत्रैव सर्वव्यवहाराणां लोके परमार्थतः सिद्धत्वात् । स्वप्न- प्रत्ययानां तु निर्विषयतया, लोके प्रसिद्धानां प्रमाणतया, व्यवहाराभावात् किं स्वतः प्रामाण्यमुत परत इति चिन्तायाः अनवसरत्वात् । तच जाग्रज्ञाने द्विती- यदर्शनाति प्रमाणं, किं वाऽप्रमाणम् ; तथा किं स्वतः प्रमाणं, किं वा परतः इति चिन्तायाः। पूर्वोक्तलक्षणे जाग्रत्प्रत्ययत्वे सतीति विशेषणाभिधाने स्वप्न- प्रत्ययेन व्यभिचारचोदन प्रस्तावानभिज्ञतां परस्य सूचयति । अपि च । अर्थ- क्रियाऽधिगतिलक्षणफलविशेषहेतु नं प्रमाणमिति लक्षणे, तत्फलं नैवं प्रमाण- लक्षणानुगतमिति कथं तस्यापि प्रामाण्यमवसीयत इति चोद्यानुपपत्तिः । यथा ऽङ्कुरहेतुबीजमिति बीजलक्षणे नाङ्कुरस्यापि बीजरूपताप्रसक्तिस्ततो न विदुषामेवं प्रश्नः, कथमङ्कुरे बीजरूपता निश्चीयत इति । यथाचाङ्कुरदर्शनाद्वीजस्य बीजरू- पता निश्चीयते, तत्राप्यर्थक्रियाफलदर्शनात्साधनज्ञानस्य प्रामाण्यनिश्चयः। न चार्थक्रियाज्ञानस्याप्यन्यतः प्रामाण्यनिश्चयादनवस्था। अर्थक्रियाज्ञानस्य तद्रूप- तया स्वत एव सिद्धत्वात् । तदुक्तम् । “स्वरूपस्य स्वतो गतिः" इति । न च खरूपज्ञानस्य भ्रान्तयः संभवन्ति । स्वरूपाभावे स्वसंवित्तेरप्यभेदेनाभावप्रसं- गात् । व्यतिरिक्तविषयमेव हि प्रमाणमधिकृत्योक्तम् । 'प्रमाणमविसंवादिज्ञान- तत्वबोधविधायिनी व्याख्या । प्रेक्षावतां प्रयासः; मर्थक्रियास्थितिरविसंवादनम्' इति । तथा 'प्रामाण्य व्यवहारेणार्थक्रियालक्षणेन' इति च । तस्माद्यत्पमाणस्यात्मभूतमर्थक्रियालक्षणपुरुषार्थाभिधानं फलं, यदर्थोऽयं तेन स्वतः सिद्धेन फलान्तरं प्रत्यनङ्गीकृतसाधनान्तरात्मतया 'प्रमाणमविसंवादिज्ञानम्' इति प्रमाणलक्षणविरहिणा साधननि सिज्ञानस्या- नुकान्तरूपफलप्रापणशक्तिस्वरूपस्य प्रामाण्याधिगमेऽनवस्थाप्रेरणा क्रियमाणा परस्यासङ्गतैव लक्ष्यते । यदुक्तम् । अनिश्चितप्रामाण्यादपि साधनज्ञानात्प्र- वृत्तावर्थक्रियाज्ञानोत्पत्चाववाप्तफला अपि प्रेक्षावन्तो यथा साधनज्ञानप्रामाण्य- विचारणायां मनः प्रणिधति; अन्यथा तत्समानरूपापरसाधनज्ञानप्रामाण्य- निश्चयपूर्विकाऽन्यदा प्रवृत्तिर्न स्यात्; तथाऽर्थक्रियाज्ञानस्यापि प्रामाण्यविचा- रणायां प्रेक्षावत्तयैव ते आद्रियन्ते; अन्यथाऽसिद्धप्रामाण्यादर्थक्रियाज्ञानात्पू- र्वस्य प्रामाण्यनिश्चय एव न स्यादित्यवाप्तफलत्वमनर्थकमिति । तदप्ययु- क्तम् । अर्थक्रियाज्ञानस्य स्वत एव प्रामाण्यम्, साधनस्य तु तज्जनकत्वेन प्रामाण्यमिति प्रतिपादितत्वात् । यदभ्यधायि । यदि संवादात्पूर्वस्य प्रामाण्यं निश्चीयते तदा 'श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः' अपि । तदप्ययुक्तम् । गीतादिविषयायाः श्रोत्रबुद्धेरर्थक्रियानुभवरूपत्वेन स्वत एव प्रामाण्यसिद्धेः । तथा चित्रगतरूपबुद्धेरपि स्वत एव प्रामाण्यसिद्धिः । अर्थक्रियाऽनुभवरूपत्वात्। गन्धस्पर्शरसबुद्धीनां त्वर्थक्रियानुभवरूपत्वं सुप्रसिद्धमेव । यदप्युक्तम् । किमेक- विषयं, भिन्नविपयं वा संवादज्ञानं पूर्वस्य प्रामाण्यनिश्चायकमित्यादि । तत्रैकसङ्घी- तवर्जिनो विषयद्वयस्य रूपस्पर्शादिलक्षणस्यैकसामग्यधीनतया परस्परमव्यभिचा- रात्, स्पर्शादिज्ञानं जाग्रदवस्थायामभिवाञ्छितस्पर्शादिव्यतिरेकेणासंभवद्भिन्नवि- पयमपि स्वविपयाभावेऽप्याशयमानरूपज्ञानस्य-प्रामाण्यं निश्चाययतीति न त- संगतमेवम् । अतएव रूपाद्यर्थाविनाभावित्वा ध्वनीनां तद्विशेपशङ्कायां क्वचिद्वी णादिरूपप्रतिपत्तौ तद्विशेषशङ्काव्यावृत्तेस्तद्रूपदर्शनसंवादादपि प्रामाण्यनिश्चयः सिदो भवति। यच्चोक्तम्। किं संवादज्ञानं साधनज्ञानविपयं तस्य प्रामाण्यं व्यव. - स्थापयति, उत भिन्नविषयमित्यादि । तदप्यविदितपराभिप्रायस्याभिधानम् ! नहि संवादज्ञानं तबाहकत्वेन तस्य प्रामाण्यं व्यवस्थापयति, किन्तु तत्का- सम्मतितकोख्यप्रकरणस्य- यविशेषलेन, यथा धूमोऽग्निमिति पराभ्युपगमः । यच्च संवादज्ञानात्साधन- प्रामाण्यनिश्चये चक्रकदूषणमभ्यधायि । तदप्यसङ्गतम् । यदि हि प्रथममेव संवादज्ञानात्साधनस्य प्रामाण्यं निश्चित्य प्रवर्तेत तदा स्यात्तद् दूषणं, यदा तु वह्निरूपदर्शने सत्येकदा शीतपीडितोऽन्यार्थ तद्देशमुपसर्पस्तत्स्पर्शमनुभवति, कृपालुना वा केनचित्तद्देशं वढेरानयने; तदाऽसौ वह्निरूपदर्शनस्पर्शनज्ञानयोः संबन्धमवगच्छति, एवंखरूपो भावः एवंभूतप्रयोजननिर्वर्त्तक इति । सोऽव- गतसंबन्धोऽन्यदाऽनभ्यासदशायामनुमानात् ममायं रूपप्रतिभासोऽभिमतार्थक्रि- यासाधनः, एवंरूपप्रतिभासखात्, पूर्वोत्पन्नैवरूपप्रतिभासवत् , इत्यस्मात्साधन- निर्भासिज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्त्तत इति, कुतश्चक्रकचोद्यावतारः । अभ्यासदशायामपि साधनज्ञानस्यानुमानाप्रामाण्यं निश्चित्य प्रवर्त्तत इत्येके।नच तद्दशायामन्वयव्यतिरेकव्यापारस्यासंवेदनान्नानुमानव्यापार इत्यभिधातुं शक्यम्। अनुपलक्ष्यमाणस्यापि तद्व्यापारस्याभ्युपगमनीयखात्; अकस्माद् धूमदर्शनात्परो- क्षाग्निप्रतिपचाविव । अन्यथा गृहीतविस्मृतप्रतिबन्धस्यापि तदर्शनादकस्मात्त- प्रतिपत्तिः स्यात् । नचाध्यक्षैव साधनस्य फलसाधनशक्तिरिति कथमध्यक्षेऽनु- मानप्रवृत्तिरिति चोद्यम् । दृश्यमानप्रदेशपरोक्षाग्निसङ्गतेरिव तज्जननशक्तरप्रत्यक्ष- लेन,अनुमानप्रवृत्तिमन्तरेण निश्चेतुमशक्यलात् । तदुक्तम्- "तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्य भाविनः । स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते”॥१॥ इति । अपरे तु मन्यन्ते । अभ्यासावस्थायामनुमानमन्तरेणापि प्रवृत्तिः सम्भ- वति । अथानुमाने सति प्रवृत्तिर्दृष्टा, तदभावे न दृष्ठेत्यनुमानकार्या सा। नन्वेवंसत्यभ्यासदशायां विकल्पस्वरूपानुमानव्यतिरेकेणापि प्रत्यक्षा तत्प्रवृत्ति- ईश्यते इति तदा तत्कार्या सा कस्मान्न भवति । तथाहि । प्रतिपादोद्धार न विकल्परूपानुमानव्यापारः संवेद्यते; अथ च प्रतिभासमाने वस्तुनि प्रवृत्तिः सम्पद्यत इति । अथादावनुमानात्प्रवृत्तिदृष्टेति तदन्तरेण सा पश्चात्कथं- भवति । नन्वेवमादौ पर्यालोचनायवहारो दृष्टः, पश्चात्पर्यालोचनमन्तरेण तस्वबोधविधायिनी व्याख्या । २७. - कथं पुरःस्थितवस्तुदर्शनमात्राद्भवतीति वाच्यम् । यदि पुनरनुमानव्यतिरेकेण सर्वदा प्रवृत्तिर्न भवतीति प्रवर्तकमनुमानमेवेत्यभ्युपगमः । तथा सति प्रत्यक्षण लिङ्गग्रहणाभावात्तत्राप्यनुमानमेव तन्निश्चयव्यवहारकारणम् ; तदप्यपरलिङ्ग- निश्चयव्यतिरेकेण नोदयमासादयतीत्यनवस्थाप्रसङ्गतोऽनुमानस्यैवाप्रवृत्तेर्न क- चित्प्रवृत्तिलक्षणो व्यवहार इत्यभ्यासावस्थायां प्रत्यक्षं स्वत एव व्यवहारकृत् अभ्युपेयम् । अनुमानं तु तादात्म्यतदुत्पत्तिप्रतिबन्धलिङ्गनिश्चयबलेन स्वसा- ध्यादुपजायमानबादेव तत्प्रापणशक्तियुक्तं संवादप्रत्ययोदयात्प्रागेव प्रमाणा- भासविवेकेन निश्चीयतेऽतः स्वत एव । तथाहि । यद् यत उपजायते तत् तत्प्रापणशक्तियुक्तम् । तद्यथा प्रत्यक्षं खार्थस्य । अनुमेयादुत्पन्नं चेदं प्रतिबद्ध- लिङ्गदर्शनद्वारायातं लिङ्गिज्ञानमिति तत्पापणशक्तियुक्तं निश्चीयत इति मूढं प्रति विषयदर्शनेन विषयी व्यवहारोऽत्र साध्यते । सङ्केतविषयख्यापनेन समये प्रवर्त्तनात् । तथाहि । प्रत्यक्षेऽप्यर्थाव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः प्रतिपन्नः । अव्यभिचारश्च नान्यस्तदुत्पत्तेः । सैव च ज्ञानस्य प्रापणशक्ति- रुच्यते॥ तदुक्तम्- "अर्थस्यासम्भवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धखभावस्य तद्धेतुले समं द्वयम्" ॥ १ ॥ इति । तस्मात् मूढं प्रति परतः प्रामाण्यव्यवहारः साध्यते । अनुमाने प्रामाण्यस्य प्रतिबद्धलिङ्गनिश्चयानन्तरं स्वसाध्याव्यभिचारलक्षणस्य तत उत्पन्नलेन प्रत्य- क्षसिद्धत्वात्, न परतः प्रामाण्यनिश्चये चककचोद्यस्यावतारः । प्रत्यक्षे तु संवादा- स्पागदुत्पत्तिरशक्यनिश्चयेति संवादापेक्षवानभ्यासदशायां तस्य प्रामाण्याध्यव- सितिर्युक्ता। अत उत्पत्ती, स्वकार्ये, ज्ञप्तौ च सापेक्षत्वस्य प्रतिपादितत्वाद् थे यावं प्रत्यनपेक्षाः' इति प्रयोगे हेतोरसिद्धिः। यतश्च सन्देहविपर्ययविषयप्रत्ययप्रामाण्यस्य परतो निश्चयो व्यवस्थितोऽतो ये सन्देहविपर्ययाध्यासिततनवः' इति प्रयोगेन,व्या- प्त्यसिद्धिः । यदप्युक्तम् । सर्वप्राणभृतां प्रामाण्यं प्रति सन्देहविपर्ययाभावादसिहो हेतुरित्यादि । तदप्यसत् । यतः प्रेक्षापूर्वकारिणः प्रमाणाप्रमाणचिन्तायामधिक्रियन्ते २८ सम्मतितकोख्यप्रकरणस्य- नेतरे। ते च कासाञ्चित् ज्ञानव्यक्तीनां विसंवाददर्शनाज्जाताशङ्का न ज्ञानमात्रात् एवमेवायमर्थ इति निश्चिन्वन्ति; नापि तज्ज्ञानस्य प्रामाण्यमध्यवस्यन्ति । अन्यथैषां प्रेक्षावत्तैव हीयेत इति सन्देहविषये कथं न सन्देहः । तथा कामलादिदोषप्र- भवे ज्ञाने विपर्ययरूपताऽप्यस्तीति तबलाद्विपर्ययकल्पनाऽन्यज्ञानेऽपि सङ्गतैवेति. प्रकृते प्रयोगे नासिद्धो हेतुरिति भवत्यतो हेतोः परतः प्रामाण्यसिद्धिः । यदपि, प्रमाणतदाभासयोस्तुल्यं रूपम् इत्याद्याशङ्कय अप्रमाणे अवश्यंभावी बाधकप्रत्ययः, कारणदोषज्ञानंच इत्यादिना परिहतम् । तदपि न चारु। यतो बाधककारणदोषज्ञानं मिथ्याप्रत्यये अवश्यंभावि, सम्यक्प्रत्यये तदभावो विशेषः प्रदर्शितः। स तु किं बाधकाग्रहणे, तदभावनिश्चये वा । पूर्वस्मिन् पक्षे, भ्रान्तदृशस्तद्भावेऽपि तदग्रहणं दृष्टं कञ्चित्कालम् , एवमत्रापि तदग्रहणं स्यात्। तत्रैतत्स्या भ्रान्तदृशः किश्चित्कालं तदग्रहेऽपि कालान्तरे बाधकग्रहणम्। सम्यग्दृष्टौ तु कालान्तरेऽपि तदग्रहः। नन्वेत- सर्वविदां विषयो नार्वाग्दृशां व्यवहारिणामस्मादृशाम् । बाधकामावनिश्चयोऽपि सम्यग्ज्ञाने किं प्रवृत्तेः प्राक् भवति, उत प्रवृत्त्युत्तरकालम् । यदि पूर्वः पक्षः। स न युक्तः । भ्रान्तज्ञानेऽपि तस्य सम्भवात्प्रमाणत्वप्रसक्तिः स्यात् । अथ प्रवृत्त्युत्तरकालं बाधकामावनिश्चयः । सोऽपि न युक्तः । बाधकामावनिश्चयमन्तरेणैव प्रवृ- तेरुत्पन्नवेन तन्निश्चयस्याकिञ्चित्करत्वात् । न च बाधकाभावनिश्चये प्रवृ- त्युत्तरकालभाविनि किञ्चिन्निमित्तमस्ति । अनुपलब्धिनिमित्तमिति चेन्न । तस्या असम्भवात् । तथाहि । बाधकानुपलब्धिः किं प्रवृत्तेः प्राग्भाविनी बाध- काभावनिश्चयस्य प्रवृत्त्युरकालभाविनो निमित्तम्, अथ प्रवृत्त्युत्तरकालभाविनीति विकल्पद्वयम् । तत्र यदि पूर्वः पक्षः। स न युक्तः। पूर्वकालाया बाधकानुपलब्धेः प्रवृत्त्युत्तरकालभावनिश्चयनिमित्तत्वासम्भवात्।नधन्यकालानुपलब्धिरन्यकालम- भावनिश्चयं विदधाति। अतिप्रसङ्गात् । नापि प्रवृत्त्युत्तरकालभाविनी बाधकानुपल- ब्धिस्तन्निश्चयनिमित्तम् । प्राक्प्रवृत्तेरुत्तरकालं बाधकोपलब्धिर्न भविष्यतीत्यर्वाग्- दर्शिना निश्चेतुमशक्यत्वेन, तस्या असिद्धत्वात् । नापि प्रवृत्त्युत्तरकालभाविन्य- नुपलब्धिस्तदैव निश्चीयमाना तत्कालभाविबाधकामावनिश्चयस्यं निमित्तं - भविष्यतीति वक्तुं शक्यम् । तत्कालभाविनो निश्चयस्याकिञ्चित्करत्वप्रतिपाद- . तस्वबोधविधायिनी व्याख्या। २९ नात्। किंचा बाधकानुपलब्धिःसर्वसम्बन्धिनी किं तन्निश्चयहेतुः, उताऽऽत्मसम्ब- धिनीति पुनरपि पक्षद्वयम्। यदि सर्वसम्बन्धिनीति पक्षः। स न युक्तः । तस्या असिंहत्वात्।नहि सर्वे प्रमातारो बाधकं नोपलभन्त इति अवीग्दर्शिना निश्चेतुं शक्यम्।अथात्मसम्बन्धिनीत्यभ्युपगमः। सोऽप्ययुक्तः । आत्मसंबन्धिन्या अनुप- लब्धः परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् तन्न बाधाभावनिश्चयेऽनुपलब्धिनिमि- चम् नापि संवादो निमित्तम् ।भवदभ्युपगमेनानवस्थाप्रसङ्गस्य प्रतिपादितत्वात् । न वाधाभावो विशेषः सम्यक्प्रत्ययस्य सम्भवतीति प्रागेव प्रतिपादितम् । कार- गोपाभावेऽप्ययमेव न्यायो वक्तव्य इति नासावपि तस्य विशेषः ॥ किंच । कार- णदोषबाधकामावयोर्भवदभ्युपगमेन कारणगुणसंवादकप्रत्ययरूपत्वस्य प्रतिपादना- त् तन्निश्चये तस्य विशेपेऽभ्युपगम्यमाने परतः प्रामाण्यनिश्चयोऽभ्युपगत एव स्यात्। नच सोऽपि युक्तः। अनवस्थादोपस्य भवदभिप्रायेण प्राक् प्रतिपादितत्वात् । यदप्युक्तम् । 'एवं त्रिचतुरज्ञान' इत्यादि । तत्रैकस्य ज्ञानस्य प्रामाण्यं, पुनरप्रामाण्यं, पुनः प्रामाण्यम, इत्यवरथाप्रयदर्शनाद्वाधके, तबाधकादौ वाऽवस्थात्रयमाशङ्कमा- नस्य कथं परीक्षकस्य नापराऽपेक्षा; येनानवस्था न स्यात्। यदप्युक्तम् । 'अपेक्षातः' इत्यादि । तदप्यसङ्गतम् । यतो नायं छलव्यवहारः प्रस्तुतः; येन कतिपयप्रत्यय- मात्रं निरूप्यते । नहि प्रमाणमन्तरेण बाधकाशङ्कानिवृत्तिः। नचाशङ्काव्यावर्तकं प्रमाणं भवदभिप्रायेण सम्भवतीत्युक्तम् । तथा कारणदोपज्ञानेऽपि पूर्वेण जाताश- इस्य कारणदोषज्ञानान्तरापेक्षायां कथमनवस्थानिवृत्तिः ॥ कारणदीपज्ञानस्य तत्कारणदीपग्राहकज्ञानाभावमात्रतः प्रमाणत्वात् नात्रा- नवस्था; यदाह- "यदा स्वतः प्रमाणत्वं तदाऽन्यन्नैव मृग्यते । निवर्तत हि मिथ्यात्वं दोपाज्ञानादयत्नतः" ॥१॥ इति । पतञ्चानुढोप्यम् । प्रागेव विहितोत्तरत्वात् ॥ नय दोषाज्ञानाहोपाभावः । सत्स्वपि दोपेषु तदज्ञानस्य सम्भवात् । सम्य- गज्ञानोत्पादनशक्तिवपरीत्येन मिथ्याप्रत्ययोत्पादनयोग्य हि रूपं तिमिरादिनिमि- चमिन्द्रियदोषः। स चातीन्द्रियत्वात्सन्नपि नोपलक्ष्यते।नच दोषा ज्ञानेन च्याप्ताः, ३.. सम्मतिताख्यप्रकरणस्य- येन तन्निवृत्त्या निवर्तेरन् । दोषाभावज्ञाने तु संवादाद्यपेक्षायां सैवानवस्था प्राक् प्रतिपादिता । तेनैतदपि निराकृतम्, यदुक्तं भट्टेन- "तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् । बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥१॥ पराधीनेऽपि चैतस्मिन्नानवस्था प्रसज्यते । प्रमाणाधीनमेतद्धि स्वतस्तच्च प्रतिष्ठितम् ॥ २ ॥ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते । न सिध्यत्यप्रमाणत्वमप्रमाणात्तथैव हि ॥ ३ ॥ इति स्यान्मतम् । यदपि, अन्यानपेक्षप्रमितिभावो बाधकप्रत्ययः, तथाऽप्यबाधकतया प्रतीत एवान्यस्याप्रमाणतामाधातुं क्षमो नान्यथेति । सोऽयमदोषः । यतः- "बाधकप्रत्ययस्तावदर्थान्यत्वावधारणम् । सोऽनपेक्षप्रमाणत्वात्पूर्वज्ञानमपोहते ॥१॥ तत्रापि त्वपवादस्य स्यादपेक्षा कचित्पुनः । जाताशङ्कास्य पूर्वेण साऽप्यन्येन निवर्तते ॥२॥ बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥ ३ ॥ अथान्यदप्रयत्नेन सम्यगन्वेषणेऽकृते । मूलाभावान्न विज्ञानं भवेद्बाधकबाधनम् ॥ ४ ॥ ततो निरपवादत्वात्तेनैवायं बलीयसा । बाध्यते तेन तस्यैव प्रमाणत्वमपोद्यते ॥५॥ एवं परीक्षकज्ञानत्रितयं नातिवर्तते । ततश्चाजातबाधेन नाशङ्कयं बाधकं पुनः"॥ ६॥ इति । तथाहि । एतेन सर्वेणापि ग्रन्थेन स्वतःप्रामाण्यव्याहतिःपरिहता, परीक्षक- , तत्वबोधविधायिनी व्याख्या । ज्ञानत्रितयाधिकज्ञानानपेक्षयाऽनवस्था च । एतद्वितयमपि परपक्षे प्रदर्शितं प्राक्त- नन्यायेन । यश्चान्यत् पूर्वपक्षे परतः प्रामाण्ये दूषणमभिहितम् ; तच्चानभ्युपगमेन निरस्तमिति न प्रतिपदमुच्चार्य दूष्यते ॥ प्रेरणाबुद्धेस्तु प्रामाण्यं न साधननिर्भासि; प्रत्यक्षस्येव संवादात्तस्य तस्यामभावात्। नाप्यव्यभिचारलिङ्गनिश्चयबलात्वसा- ध्यादुपजायमानत्वादनुमानस्येव । किंच।प्रेरणाप्रभवस्य चेतसः प्रामाण्यसिध्यर्थ स्वतः प्रामाण्यप्रसाधनप्रयासोऽयं भवताम् । चोदनाप्रभवस्य च ज्ञानस्य न केवलं प्रामाण्यं न सिद्धति, किंत्वप्रामाण्यनिश्चयोऽपि तव न्यायेन सम्पद्यते। तथाहि । यद् दुष्टकारणजनितं ज्ञानं, न तत्प्रमाणम् ; यथा तिमिराद्युपद्रवोपहतचक्षुरादिप्र- भवं ज्ञानम्। दोपवत्प्रेरणावाक्यजनितं च 'अग्निहोत्रं जुहुयात्' इत्यादिवाक्यप्रभवं ज्ञानमिति कारणविरुद्धोपलब्धिः । न चासिद्धो हेतुः। भवदभिप्रायेण प्रेरणायां गुणवतो वक्तुरभावे, तद्गुणैरनिराकृतोपर्जन्यमानत्वस्य प्रेरणाप्रभवे ज्ञाने सिद्ध- त्वात् । अथ स्यादयं दोषो यदि वक्तगुणैरेव प्रामाण्यापवादकदोषाणां निराक- रणमभ्युपगम्यते, यावता वक्तुरभावेनापि निराश्रयाणां दोषाणामसहावोऽभ्यु- पगम्यत एव । तदुक्तम्- "शब्दे दोपोहवस्ताबहाधीन इति स्थितम् । तदभावः क्वचित्तावद् गुणवद्वक्तृकलतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यहा वक्तुरभावेन न स्युर्दोषा निराश्रयाः"॥ २॥ इति । भवेदप्येवं, यद्यपीरुपेयत्वं कुतश्चित्प्रामाण्यात्सिद्धं स्यात् । तच्च न सिद्धम् । तत्प्रतिपादकप्रमाणस्य निपेत्स्यमानलात् । अतएव चेदमप्यनुढोप्यम्- "तत्रापवादनिर्मुक्तिर्वस्वभावाल्लघीयसी । वंदे तेनाप्रमाणत्वं नाशङ्कामपि गच्छति ॥१॥ तेन गुणवतो वक्तुरनभ्युपगमावादः, अपौरुषेयत्वस्य चासम्भवात्, अनि- राकृतापर्जन्यमानलं हेतुः प्रेरणाप्रभवस्य चेतसः सिद्धः। दोषजन्यलाप्रामाण्य- - - ३२ सम्मतिताण्यप्रकरणस्य-: योरविनाभावस्यापि मिथ्याज्ञानेऽन्यत्र निश्चितत्वात्, तद्विरुचत्वानकान्तिकत्वयो- रप्यभाव इति भवत्यतो हेतोः प्रेरणाप्रभवे ज्ञाने प्रामाण्याभावसिद्धिः। किंच । प्रामाण्ये सिद्धे सति, किं, तत् प्रामाण्यं स्वतः, परतो वेति चिन्ता युक्तिमती । भव. दभ्युपगमेन तु तदेव न सम्भवति । तथाहि । ज्ञातव्यापारः प्रमाणं भवता- भ्युपगम्यते । नचासौ युक्तः । तद्ग्राहकप्रमाणाभावात् । तथाहि । प्रत्यक्षं वा तद्राहकम्, अनुमानम्, अन्यद्वा प्रमाणान्तरम् । तत्र यदि प्रत्यक्षं तद्राहकम- भ्युपगम्येत, तदाऽत्रापि वक्तव्यम् । स्वसंवेदन, बाह्येन्द्रियजं, मनःप्रभवं वा।न तावत् स्वसंवेदनं तद्राहकम् । भवता तद्राह्यत्वानभ्युपगमात् तस्य । नापि बाह्ये- न्द्रियजम् । इन्द्रियाणां खसंबद्धेऽर्थे ज्ञानजनकत्वाभ्युपगमात् । न च ज्ञातृव्या. पारेण सह तेषां संबन्धः । प्रतिनियतरूपादिविषयत्वात् । नापि मनोजन्यं प्रत्यक्ष ज्ञातृव्यापारलक्षणप्रमाणग्राहकम् । तथाप्रतीत्यभावात्, अनभ्युपगमाच्च । अथानु- मानं तद्वाहकमभ्युपगम्यते । तदप्ययुक्तम् । यतोऽनुमानमपि ज्ञातसंबन्धस्यै- कदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरित्येवंलक्षणमभ्युपगम्यते । संबन्धश्चान्यसंब- न्धव्युदासेन नियमलक्षणोऽभ्युपगम्यते । यत उक्तम् । संबन्धो हि न तादा. म्यलक्षणो गम्यगमकभावनिबन्धनम् । ययोहि तादात्म्यं, न तयोर्गम्यगमक- भावः । तस्य भेदनिबन्धनत्वात् । अभेदे वा, साधनप्रतिपत्तिकाल एव साध्य- स्यापि प्रतिपन्नत्वात्कथं गम्यगमकभावः । अप्रतिपत्तौ वा, यस्मिन प्रतीयमाने यन्न प्रतीयते तत्ततो भिन्नम् ; यथा घटे प्रतीयमानेऽप्रतीयमानः पटः । न प्रतीयते चेत्साधनप्रतीतिकाले साध्यं, तदा तचतो भिन्नमिति कथं तयोस्ता- दात्म्यम् । किंच। यदि तादात्म्याद् गम्यगमकभावोऽभ्युपगम्यते तदा तादात्या- विशेषाद्यथा प्रयत्नानन्तरीयकत्वमनित्यत्वस्य गमकम्, तथाऽनित्यत्वमपि प्रयत्ना- नन्तरीयकत्वस्य गमकं स्यात् । अथ प्रयत्नानन्तरीयकत्वमेवानित्यत्वनियतत्वेन निश्चितं, नानित्यत्वं तन्नियतत्वेन; निश्चयापेक्षश्च गम्यगमकभाव इति, तर्हि 'यस्मिन्निश्चीयमाने यन्न निश्चीयते' इत्यादि पूर्वोक्तमेव दूषणं पुनरापतति। अपि च ।प्रयत्नानन्तरीयकत्वमेव, अनित्यत्वनियतत्वेन निश्चितमिति वदता स एवा--- स्मभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो भवति ॥ नापि तदुत्पत्तिलक्षणः तत्त्वबोधविधायिनी व्याख्या । । संबन्धो गम्यगमकभावनिबन्धनम्।तथाऽभ्युपगमे वक्तृत्वादेरप्यसर्वज्ञत्वं प्रतिग- मकवं स्यात् । अथ सर्वज्ञत्वे, वक्तृत्वादेर्वाधकप्रमाणाभावात्सर्वज्ञत्वादिभ्यो वक्त- त्वादेयावृत्तिः सन्दिग्धेति संदिग्धविपक्षव्यावृत्तिकत्वान्नायं गमकः; तर्हि धूमस्या- प्यनग्नौ बाधकप्रमाणाभावात्ततो व्यावृत्तिः सन्दिग्धेति सन्दिग्धविपक्षव्यावृत्तिक- वादग्निं प्रति गमकत्वं न स्यात्। अथ कार्य धूमो हुतभुजः, कार्यधर्मानुवृत्तिः; स तदभावेऽपि भवन, कार्यमेव न स्यादित्यनग्नौ धूमस्य सद्भावबाधकं प्रमाणं विद्यत इतिनासौ सन्दिग्धविपक्षन्यावृत्तिकः । तद्येतत् प्रकृतेऽपि वक्तृत्वादौ समानमिति तस्याप्यसर्वज्ञत्वं प्रति गमकत्वं स्यात् । किंच । कार्यत्वे सत्यपि वक्तृत्वादे, सन्दिग्धविपक्षव्यावृत्तिकत्वेनासर्वज्ञत्वं प्रत्यनियतत्वात् यद्यगमकत्वं, तर्हि स एवास्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो भवति । अपि च । तादात्म्य- तदुत्पत्तिलक्षणसंवन्धाभावेऽपि नियमलक्षणसंवन्धप्रसादात्, कृत्तिकोदय-चन्द्रो- द्मना-द्यतनसवित्रुद्गम-गृहीताण्डपिपीलिकोत्सर्पणै-काम्रफलोपलभ्यमानमधुररस- स्वरूपाणां हेतूनां, यथाक्रम भाविशकटोदय-समानसमयसमुद्रवृद्धि-श्वस्तनभानू- दय-भाविवृष्टि-तत्समानकालसिन्दूरारुणरूपस्वभावेपु साध्येपु,गमकत्वं सुप्रसिद्धम्। संयोगादिलक्षणस्तु संबन्धो भवतैव साध्यप्रतिपादनाङ्गत्वेन निरस्त इति तं प्रति न प्रयस्यते। "एवं परोक्तसंवन्धप्रत्याख्याने कृते सति । नियमो नाम संवन्धः स्वमतेनोच्यतेऽधुना ॥ १ ॥ कार्यकारणभावादिसंवन्धानां द्वयी गतिः। नियमानियमाभ्यां स्यात् , अनियमादतद्गता ॥ २ ॥ सर्वेऽप्यनियमा होते नानुमोत्पत्तिकारणम् । नियमाकेवलादेव न किश्चिन्नानुमीयते" ॥ ३ ॥ इत्यादि । सच संबन्धः किमन्वयनिश्चयद्वारेण प्रतीयते, उत व्यतिरेकनिश्चयद्वारे- णेति विकल्पद्वयम् । तत्र यदि प्रथमो विकल्पोऽभ्युपगम्यते तत्रापि वक्तव्यम् । कि प्रत्यक्षेणान्वयनिश्चयः, उतानुमानेनेति । न तावत्प्रत्यक्षेणान्वयनिश्चयः । अन्वयस्य हि रूपं तन्हावे एव भावः । नच ज्ञातृव्यापारस्य प्रमाणवेनाभ्यु- ५ -- ३४ सम्मतिताख्यप्रकरणस्य- पगतस्य प्रत्यक्षेण सहावः शक्यते ग्रहीतुम् । तद्राहकलेन प्रत्यक्षस्य पूर्वमेव निषिद्धत्वात् , वयाऽनभ्युपगमाच्च । नापि ज्ञातृव्यापारसद्भावे एवार्थप्रकाशन- लक्षणस्य हेतोः सद्भावः प्रत्यक्षेण ज्ञातुं शक्यः । तस्यापीन्द्रियव्यापारजेन प्रत्य- क्षेण प्रतिपत्तुमशक्तेः । तदशक्तिश्च, अक्षाणां तेन सह संबन्धाभावात् । नापि खसंवेदनलक्षणेन प्रत्यक्षेण पूर्वोक्तस्य हेतोः सद्भावः शक्यो निश्चेतुम् । भवद- भिप्रायेण तत्र तस्याव्यापारात् । तन्न प्रत्यक्षेण साध्यसद्भावे एव हेतुसद्भाव- लक्षणोऽन्वयो निश्चेतुं शक्यः ॥ नाप्यनुमानेन तन्निश्चयः । अनुमानस्य निश्चि- तान्वयहेतुप्रभवत्वाभ्युपगमात् । न च तस्यान्वयः प्रत्यक्षसमधिगम्यः । पूर्वो- तदोषप्रसङ्गात् । अनुमानात् तन्निश्चयेऽनवस्थेतरेतराश्रयदोपावनुषज्येते इति प्रागेव प्रतिपादितम् । नच प्रत्यक्षानुमानव्यतिरिक्तं प्रमाणान्तरं सम्भवति । तन्न अन्वयनिश्चयहारेण ज्ञातृव्यापारे साध्ये पूर्वोक्तस्य हेतोनियमलक्षणः सं. बन्धो निधेतुं शक्यः ॥ नापि व्यतिरेकनिश्चयद्वारेण । यतो व्यतिरेकः सा- ध्याभावे हेतोरभाव एवेत्येवंस्वरूपः। नच प्रकृतस्य साध्यस्याभावः प्रत्यक्षेण समधिगम्यः । तस्याभावविषयत्वविरोधादनभ्युपगमाद्, अभावप्रमाणवैयर्थ्यप्र- सङ्गाच्च । नाप्यनुमानांदिसद्भावग्राहकप्रमाणनिश्चयः। अत एव दोषात् ॥ अथा- दर्शननिश्चय इति पक्षः । सोऽपि न युक्तः । यतोऽदर्शनं किमनुपलम्भरूपम् , आहोस्विद् अभावप्रमाणखरूपमिति वक्तव्यम् । तत्र यद्याद्यः पक्षः । स न युक्तः । यतोऽत्रापि वक्तव्यम् । अनुपलम्भः किं दृश्यानुपलम्भोऽभिप्रेतः, आहो- खिद् अदृश्यानुपलम्भ इति । तत्र यद्यदृश्यानुपलम्भः प्रकृतसाध्याभावनिश्चाय- कोऽभिप्रेतः। तदाऽत्रापि कल्पनाइयम्।किं स्वसंबन्धी अनुपलम्भस्तन्निश्चायकः, उत सर्वसंबन्धी । यद्यात्मसंबन्धी तन्निश्चायकः । स न युक्तः। परचेतोड़- त्तिविशेषैस्तस्यानैकान्तिकत्वात् । अथ सर्वसंबन्धी अनुपलम्भस्तन्निश्चायक इत्यभ्युपगमः । अयमप्ययुक्तः । सर्वसंबन्धिनोऽनुपलम्भस्यासिद्धत्वात् ॥ अथ दृश्यानुषलम्भस्तन्निश्चायक इति पक्षः । सोऽप्यसङ्गतः। यतो दृश्यानुपल- म्भश्चतुर्दा व्यवस्थितः । स्वभावानुपलम्भः, कारणानुपलम्भो, व्यापकानुप- लम्भो, विरुद्धविधिश्चेति । तत्र यदि स्वभावानुपलम्भस्तन्निश्चायकलेना- तत्त्वबोधविधायिनी व्याख्या । ३५ भिमतः। स न युक्तः । खभावानुपलम्भस्यैवंविधे विषये व्यापारासंभवात् ।। तथाहि । एकज्ञानसंसर्गिणस्तुल्ययोग्यतास्वरूपस्य भावान्तरस्याभावव्यवहार- साधकत्वेन पर्युदासवृत्त्या तदन्यज्ञानस्वभावोऽसावभ्युपगम्यते । नच प्रकृतस्य साध्यस्य केनचित्सहैकज्ञानसंसर्गित्वं संभवतीति नात्र स्वभावानुपलम्भस्य व्या- पारः । नापि कारणानुपलम्भः प्रकृतसाध्याभावनिश्चायकः । यतः सिद्धे कार्य- कारणभावे कारणानुपलम्भः कार्याभावनिश्चायकत्वेन प्रवर्त्तते । न च प्रकृतस्य साध्यस्य केनचित्सह कार्यत्वं निश्चितम् । तस्यादृश्यत्वेन प्रागेव प्रतिपादना- त् । प्रत्यक्षानुपलम्भनिबन्धनश्च कार्यकारणभाव इति कारणानुपलम्भोऽपि न तन्निश्चायकः । व्यापकानुपलम्भस्तु, सिद्धे व्याप्यव्यापकभावे व्याप्याभावसा. धकोऽभ्युपगम्यते । नच प्रकृतसाध्यव्यापकत्वेन कश्चित्पदार्थों निश्चेतुं शक्यः । प्रकृतसाध्यस्यादृश्यत्वप्रतिपादनात् । तन्न व्यापकानुपलम्भोऽपि तन्नि- वायकः। विरुद्धोपलब्धिरप्यत्र विषये न प्रवर्तते । तथाहि । एको विरोधो- ऽविकलकारणस्य भवतोऽन्यभावेऽभावात्सहानवस्थानलक्षणो निश्चीयते; शीतो- ष्णयोरिव । विशिष्टात् प्रत्यक्षात् । नच प्रकृतं साध्यमविकलकारणं कस्यचिहावे निवर्तमानमुपलभ्यते । तस्यादृश्यत्वादेव । द्वितीयस्तु परस्परपरिहारस्थिति- लक्षणः । सोऽपि लक्षणस्य स्वरूपव्यवस्थापकधर्मरूपस्य दृश्यलाभ्युपगमनिष्ठो, दृश्यत्वाभ्युपगमनिमित्तप्रमाणनिबन्धनो न प्रकृतसाध्यविषये संभवति । तन्न ततोऽपि प्रस्तुतसिद्धिः । तन्न साध्यस्याभावनिश्चयोऽनुपलम्भनिबन्धनः ।। साध- नाभावनिश्चयोऽपि नादृश्यानुपलम्भनिमित्तः । उक्तदोषत्वात् । दृश्यानुपलम्भ- निमित्तत्वेऽपि, न स्वभावानुपलम्भस्तन्निमित्तम् । उद्दिष्टविषयाभावव्यवहारसा- धकत्वेन तस्य व्यापाराभ्युपगमात् । अनुद्दिष्टविषयत्वेऽपि, यत्र यत्र साध्याभा- वस्तत्र तत्र साधनाभाव इति; एवं न ततः साधनाभावनिश्चयः। तन्निश्चयश्च नियमनिश्चयहेतुरिति न स्वभावानुपलम्भोऽपि तन्नियमहेतुः ॥ नापि कारणा- नुपलम्भः। यतः कारणं ज्ञातृव्यापार एवार्थप्रकटतालक्षणस्य हेतोर्भवताऽभ्युपग- म्यते । न चासौ प्रत्यक्षसमाधिगम्य इति कुतस्तस्य सम्प्रति कारणत्वावगम इति न कारणानुपलम्भोऽपि तदभावनिश्चयहेतुः॥ व्यापकानुपलम्भेऽप्ययमेवन्यायः।
सम्मतिताख्यप्रकरणस्य-
३६
यतो व्यापकत्वमपि पूर्वोक्तहेतुं प्रति ज्ञातृव्यापारस्यैवाभ्युपगन्तव्यम् । अन्यथा-
ऽन्यस्य व्यापकले साध्यविपक्षाद् व्यापकनिवृत्तिहारेण निवर्तमानमपि साधनं
न साध्यनियतं स्यात् । अथ यथा सत्त्वलक्षणो हेतुः क्षणिकवलक्षणसाध्यव्य-
तिरिक्तक्रमयोगपाखरूपपदार्थान्तरव्यापकनिवृत्तिद्वारेण, अक्षणिकलक्षणाद् वि.
पक्षाद् व्यावर्त्तमानः खसाध्यनियतः, तथा प्रकृतोऽपि हेतुभविष्यति । असम्य-
गेतत् । यतस्तत्रापि यद्यर्थक्रियालक्षणसत्त्वव्यापके क्रमयोगपद्ये कुतश्चित्प्रमा-
णात् क्षणिके सिद्धे भवतस्तदा तन्निवृत्तिद्वारेण विपक्षात् व्यावतमानोऽपि सत्त्व.
लक्षणो हेतुः स्वसाध्यनियतः स्यात् । अन्यथा तत्र व्यापकवृत्त्यनिश्चये राश्यन्तरे
क्षणिकाक्षणिकरूपे तस्याशङ्कयमानलेन तव्याप्यस्यापि नैकान्ततः क्षणिकनि-
यतलनिश्चयः । नच प्रकृतसाध्येऽयं न्यायः । तस्यात्यन्तपरोक्षवेन हेतुव्यापक-
भावान्तराधिकरणलासिद्धेः । तन्न व्यापकानुपलम्भनिमित्तोऽपि विपक्षे साध-
नाभावनिश्चयः ॥ नापि विरुडोपलब्धिनिमित्तः । प्रकृतसाध्यस्यात्यन्तपरोक्ष-
बेन तदप्रतिपत्तौ तदभावनियतविपक्षस्याप्यप्रतिपतितस्तेन सहार्थप्रकाशनल-
क्षणस्य हेतोः सहानवस्थानलक्षणविरोधासिद्धेः। परस्परपरिहारस्थितलक्षणस्तु
विरोधोऽन्योन्यव्यवच्छेदरूपयोरर्थप्रकाशनाप्रकाशनयोः सम्भवति; न पुनरर्थप्र-
काशनज्ञातृव्यापारयोः । अन्योन्यव्यवच्छेदरूपत्वाभावात् । नापि ज्ञातव्यापारनि-
यतत्वादर्थप्रकाशनस्य साध्यविपक्षण विरोध इति शक्यमाभधातुम् । अन्योन्या-
श्रयदोषप्रसक्तेःतथाहि । सिद्धे तन्नियतत्वे तद्विपक्षविरोधसिद्धिः,तत्सिद्देश्व तन्नि-
यतत्वसिद्धिरिति स्पष्ट एवेतरेतराश्रयो दोषः । तन्न विरुद्धोपलब्धिनिमित्तोऽपि विपक्षे
साधनाभावनिश्चयः॥ अथादर्शनशब्देन अभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमि-
त्तमभिधीयते। तदप्यनुपपन्नम्। तस्य तन्निमित्तत्वासम्भवात् । तथाहि । निषेध्य-
विषयप्रमाणपञ्चकवरूपतयाऽऽत्मनोऽपरिणामरूपं वा तदभ्युपगम्येत, तदन्यव-
स्तुविषयज्ञानरूपं वा । गत्यन्तराभावात् ।
तदुक्तम्-
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि"॥१॥
तत्त्वबोधविधायिनी व्याख्या । तत्र यदि निपेध्यविषयप्रमाणपञ्चकरूपत्वेनात्मनोऽपरिणामलक्षणमभावा- ज्यप्रमाणं साधनाभावनियतसाध्याभावस्वरूपव्यतिरेकनिश्चयनिमित्तमित्यभ्युपग- मः । स न युक्तः । तस्य समुद्रोदकपलपरिमाणेनानैकान्तिकत्वात् । अथान्यव- स्तुविषयविज्ञानस्वरूपमभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तमिति पक्षः । सोऽपि न युक्तः । विकल्पैरनुपपत्तेः । तथाहि । किं तत्साध्यनियतसाधनस्वरू- पादन्यद् वस्तु, यद् विषयं ज्ञानं तदन्यज्ञानमित्युच्यते । यदि यथोक्तसाधनख- रूपव्यतिरिक्त पदार्थान्तरम् । तदा वक्तव्यम् । तदेकज्ञानसंसर्गि, साधनेन सह, उतान्ययेति । यदि यथोक्तसाधनेनैकज्ञानसंसर्गि तदा तद्विपयज्ञानात् सिद्धति यथोक्तसाधनस्याभावनिश्चयः प्रतिनियतविषयः । किन्तु यत्र यत्र साध्याभावस्तत्र तत्रावश्यंतया साधनस्याप्यभाव इत्येवंभूतोव्यतिरेकनिश्चयो न ततः सिद्ध्यति। सर्वोपसंहारेण साधनाभावनियतसाध्याभावनिश्चयस्य हेतोः साध्यनियतत्वलक्षण- नियमो निश्चायक इति नैकज्ञानसंसर्गिपदार्थान्तरोपलम्भादभावाख्यात्प्रमाणात् व्यतिरेकनिश्चयः अथ तदसंसर्गि पदार्थान्तरोपलम्भस्वरूपमभावाख्यं प्रमाणं, सा- ध्याभावे साधनाभावनिश्चयनिमित्तम् । तदप्यसम्बहम् । अतिप्रसङ्गात् । नहि पदार्थान्तरोपलम्भमात्रादन्यस्य तदतुल्ययोग्यतारूपस्य तेन सहकज्ञानासंस- गिणः पदार्थान्तरस्याभावनिश्चयः। अन्यथा सह्योपलम्भाद्विन्ध्याभावनिश्चयः स्या त् ॥ अथ तथाभूतसाधनादन्यस्तदभावः, तद्विपयं ज्ञानं तदन्यज्ञानं, तद्विपक्षे साधनाभावनिश्चयनिमित्तम्। ननु तदपि ज्ञानं, किं यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इत्येवं प्रवर्तते, उत क्वचिदेव साध्याभावे साधनाभाव इत्येवम् । तत्र यद्याद्यः कल्पः । स न युक्तः । यथोक्तसाधनविविक्तसर्वप्रदेशकालप्रत्यक्षीकरण- मन्तरेण एवंभूतज्ञानोत्पत्त्यसम्भवात् । सर्वदेशप्रत्यक्षीकरणे च कालादिविप्र- कृष्टानन्तप्रदेशप्रत्यक्षीकरणवत्' स्वभावादिव्यवहितसर्वपदार्थसाक्षात्करणात् स एव सर्वदर्शी स्यादित्यनुमानाश्रयणं, सर्वज्ञाभावप्रसाधनं चानुपपन्नम् । अथ द्वितीयपक्षाभ्युपगमः । तदा, भवति ततः प्रतिनियते प्रदेशे साध्याभावे साध- नाभावनिश्चयः, घटविविक्तप्रत्यक्षप्रदेश इव घटाभावनिश्चयः । किंतु तथा- भूतात्साध्याभावे साधनाभावनिश्चयान्न व्यतिरेको निश्चितो भवति । साधनाभाव- सम्मतिताख्यप्रकरणस्य- ३८ नियतसाध्याभावस्य सर्वोपसंहारेण निश्चये, व्यतिरेको निश्चितो भवति। अन्यथा यत्रैव साध्याभावे साधनाभावो न भवति तत्रैव साधनसद्भावेऽपि न साध्य- मिति, न साधनं साध्यनियतं स्यादिति व्यतिरेकनिश्चयनिमित्तो न हेतोः साध्यनियमनिश्चयः स्यात्। तन्न द्वितीयोऽपि पक्षः। अथ न प्रकृतसाधनाभावज्ञानं तद्विविक्तसमस्तप्रदेशोपलम्भनिमित्रं, येन पूर्वोक्तो दोषः, किन्तु तद्विपयप्रमाण- पञ्चकनिवृचिनिमित्तम् । तदुक्तम्- "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ तत्राभावप्रमाणता" ॥ १॥ नन्वत्रापि वक्तव्यम् । किं सर्वदेशकालावस्थितसमस्तप्रमातृसंवन्धिनी तन्निवृत्तिः, तथाभूतसाधनाभावज्ञाननिमित्तम् ; उत प्रतिनियतदेशकालावस्थिता- त्मसम्बन्धिनीति कल्पनाद्वयम् । तत्र यद्याद्या कल्पना । सा न युक्ता । तथाभूता- यास्तन्निवृत्तेरसिद्धत्वात् । नचासिद्धावपि तथाभूतज्ञाननिमित्तम् । अतिप्रसङ्गात् । सर्वस्यापि तथाभूतज्ञाननिमित्तं स्यात् । केनचित्सह प्रत्यासत्तिविप्रकर्षाभावात्, अनभ्युपगमाच्च।नहि परेणापि प्रमाणपञ्चकनिवृत्तेरसिद्धाया अभावज्ञाननिमित्तता- ऽभ्युपगता । कृतयत्नस्यैव प्रमाणपञ्चकनिवृत्तेरभावसाधनत्वप्रतिपादनात् । 'गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते । तदाऽन्यकारणाभावादसन्नित्यवगम्यते" ॥१॥ इत्यभिधानात् । नचेन्द्रियादिवदज्ञाताऽपि प्रमाणपञ्चकनिवृत्तिरभावज्ञानं जनयिष्यतीति शक्यमभिधातुम् । प्रमाणपञ्चकनिवृत्तेस्तुच्छरूपत्वात् । नच तुच्छरूपाया जन- कत्वम् । भावरूपताप्रसक्तः। एवंलक्षणस्य भावत्वात् । तन्न सर्वसंबन्धिनी प्रमाणपञ्चकनिवृत्तिविपक्षे साधनाभावनिश्चयनिबन्धनम् ॥ नाप्यात्मसंबन्धिनी तन्निमित्तम् । यतः साऽपि किं तादात्विकी, अतीतानागतकालभवा वा। न पूर्वा । तस्या गङ्गापुलिनरेणुपरिसंख्यानेनानैकान्तिकत्वात्। नोत्तरा। तादात्विकस्यात्मन- स्तन्निवृत्तेरसंभवात्, असिद्धत्वाच्च । तन्न आत्मसंबन्धिन्यपि प्रमाणपञ्चकनिवृत्तिस्त- तत्त्वबोधविधायिनी व्याख्या । ३९ ज्ज्ञानोत्पत्तिनिमित्तम् ॥ तन्न अन्यवस्तुविज्ञानलक्षणमप्यभावाख्यं प्रमाणं व्यतिरे- कनिश्चयनिमित्तम् ॥ यच्च- "गृहीत्वा वस्तुसहावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया"॥१॥ इत्यभावप्रमाणोत्पत्ती निमित्तप्रतिपादनम्। तत्र किं वस्त्वन्तरस्य प्रतियोगि- संसृष्टस्य ग्रहणम् ,आहोखित् असंसृष्टस्य । तत्र यद्याद्यः पक्षः। स न युक्तः।प्रतियो. गिसंसृष्टवस्त्वन्तरस्य प्रत्यक्षेण ग्रहणे, प्रतियोगिनः प्रत्यक्षेण वस्त्वन्तरे ग्रहणात; नाभावाख्यप्रमाणस्य तत्र तदभावग्राहकत्वेन प्रवृत्तिः । प्रवृत्तौ वा प्रतियोगिस- त्वेऽपि तदभावग्राहकत्वेन प्रवृत्तेविपर्ययः। तत्त्वान्न प्रामाण्यम् । अथ प्रतियोग्य- संसृष्टवस्त्वन्तरग्रहणम् । तदा प्रत्यक्षेणैव प्रतियोग्यभावस्य गृहीतत्वात्तत्राभावाख्यं प्रमाणं प्रवर्त्तमानं व्यर्थम् । अथ प्रतियोग्यसंसृष्टताऽवगमो वस्त्वन्तरस्याभावप्र- माणसंपाद्यः, तर्हि तदप्यभावाख्यं प्रमाणं प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणे सति प्रवर्तते । तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाणसंपाद्य इत्यनवस्था। तथा प्रति- योगिनोऽपि स्मरणं किं वस्त्वन्तरसंसृष्टस्य, अथासंसृष्टस्य । यदि संसृष्टस्य; तदा नाभावप्रमाणप्रवृत्तिरिति पूर्ववहाच्यम् । अथासंसृष्टस्य स्मरणम् । ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे, तथाभूतस्य तस्य स्मरणं, नान्यथा । प्रत्य- क्षेण च पूर्वप्रवृत्तेन वस्त्वन्तरासंसृष्टप्रतियोगिग्रहणे पुनरप्यभावप्रमाणपरिकल्पनं व्यर्थम् ॥'वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रया' इत्यभिधानाचदर्थ तस्य परि- कल्पनम्। तच्च प्रत्यक्षेणैव कृतमिति तस्य व्यर्थता ॥अथात्राप्यभावप्रमाणसंपाद्यः प्रतियोगिनो वस्त्वन्तरासंसृष्टताग्रहः, तर्हि तथाभूतप्रतियोगिग्रहणे तथाभूतस्य स्मरण, तत्सद्भावे चाभावप्रमाणप्रवृत्तिः, तत्प्रवृत्तौ च तस्यासंसृष्टताग्रहः, तद्ब्रहे च स्मरणमित्येवं चक्रकचोयं भवन्तमनुबध्नाति । नापि वस्तुमात्रस्य प्रत्यक्षेण ग्रहणमित्यभिधातुं शक्यम् । तथाऽभ्युपगमे, तस्य वस्त्वन्तरत्वासिद्धेः। प्रति- योगिनोऽपि प्रतियोगित्वस्येति न प्रतियोगिनो नियतरूपस्य स्मरणमिति सुतरामभावप्रमाणोत्पत्त्यभावः । किंच। यदि, अभावाख्यं प्रमाणमभावग्राहक- 1 •: सम्मतिताख्यप्रकरणस्य- मभ्युपगम्यते; तदा तमेव प्रतिपादयतु; प्रतियोगिनस्तु निवृत्तिः कथं तेन पति- पादिता स्यात् । अथाभावप्रतिपत्तौ तन्निवृत्तिपतिपत्तिः । ननु साऽपि निवृत्तिः प्रतियोगिखरूपासंस्पर्शिनी; ततश्च तत्पतिपत्ौ, पुनरपि कथं प्रतियोगिनिवृत्ति- सिद्धिः । तन्निवृत्तिसिद्धेरपरतन्निवृत्तिसिद्मभ्युपगमे, अपरा तन्निवृत्तिस्तथाऽभ्युप- गमनीयेत्यनवस्था। किंच। अभावप्रतिपत्तौ प्रतियोगिस्वरूपं किमनुवर्तते, व्याव- ते वा । अनुवृत्तौ, कथं प्रतियोगिनोऽभावः। व्यावृत्तौ, कथं प्रतिषेधः प्रतिपाद- यितुं शक्यः । तद्विविक्तप्रतिपत्तेस्तत्पतिषेध इति चेन्न । तदप्रतिभासने तद्विवि- क्तताया एवं प्रतिपत्तुमशक्तेः । प्रतियोगिप्रतिभासात् नायं दोष इति चेत् : क तर्हि विज्ञाने तस्य प्रतिभासः । यदि प्रत्यक्षे । न युक्तः । तत्सद्भावसिद्ध्या तन्निवृत्त्यसिद्धेः । स्मरणे तस्य प्रतिभास इति चेन्न । तत्रापि येन रूपेण प्रतिभाति, न तेनाभावः; येन न प्रतिभाति न तेन निषेधः, तदेवं यदि पति- योगिस्वरूपादन्योऽभावः, तथापि तत्पतिपत्तौ न तन्निवृत्तिसिद्धिः । अनन्यत्वेऽपि तत्प्रतिपत्ती प्रतियोगिनः प्रतिपन्नत्वात् न निषेधः । अपि च । तदभावास्य प्रमाण निश्चितं सत्, प्रकृताभावनिश्चयनिमित्तत्वेनाभ्युपगम्यते; आहोवित् अनिश्चितमिति विकल्पद्वयम् । यद्यनिश्चितमिति पक्षः। स न युक्तः । खयम- व्यवस्थितस्य खरविषाणादेरिव अन्यनिश्वायकत्वायोगात् । इन्द्रियादेस्त्वनिश्चित- स्यापि रूपादिज्ञानं प्रति कारणत्वात् निश्वायकलं युक्तम् ; न पुनरभावप्रमा- णस्य । तस्यापरज्ञानं प्रति कारणलासम्भवात् । तदसम्भवश्व, प्रमाणाभावात्म- कवेनावस्तुत्वात् । वस्तुत्वेऽपि, तस्यैव प्रमेयाभावनिश्चयरूपलेनाभ्युपगमार्हत्वात्। नापि द्वितीयः पक्षः । यतस्तन्निश्चयोऽन्यस्मादभावाख्यात्प्रमाणादभ्युपगम्येत; प्रमे- याभावाद्वा। तत्र यदि प्रथमपक्षः। स न युक्तः । अनवस्थाप्रसङ्गात् । तथाहि । अभावप्रमाणस्याभावप्रमाणानिश्वितस्याभावनिश्वायकलं, तस्याप्यन्याभावप्रमाणा- दित्यनवस्था । अथ प्रमेयाभावात्तन्निश्चयः। सोऽपि न युक्तः । इतरेतराश्रयदो- षप्रसङ्गात् । तथाहि । प्रमेयाभावनिश्चयात्प्रमाणाभावनिश्चयः, सोऽपि प्रमाणा- भावनिश्चयादिति इतरेतराश्रयत्वम् । नापि स्वसंवेदनात्प्रमाणाभावनिश्चयः । तस्य भवताऽनभ्युपगमात् । तन्न अभावाख्यं प्रमाणं सम्भवति । सम्भवेऽपि तत्त्वबोधविधायिनी व्याख्या । ४१ न तत्प्रमाणचिन्ताहमिति प्रतिपादितम् । प्रतिपादयिष्यते च प्रमाणचिन्ताऽ- वसरे अत्रैव ॥ तन्नाभावप्रमाणादपि विपक्षे साधनाभावनिश्चयः । अतो न अदर्शननिमित्तोऽपि प्रकृतव्यतिरेकनिश्चयः । तदभावात् न प्रकृतसाध्ये प्रकृ- तहेतोनियमलक्षणसंबन्धनिश्चयः । नचान्वयव्यतिरेकनिश्चयव्यतिरेकेणान्यतः कुतश्चित् तन्निश्चयः । नियमलक्षणस्य संबन्धस्य यथोक्तान्वयव्यतिरेकव्यतिरे- केणासम्भवात् । तथाहि । य एव साधनस्य साध्यसद्भावे एव भावः, अयमेव तस्य साध्ये नियमः। साध्याभावे साधनस्यावश्यंतयाऽभाव एव यः, अयमेव वा तस्य तत्र नियमः। अतो यदेवान्वयव्यतिरेकयोर्यथोक्तलक्षणयोर्निचायकं प्रमाणं, तदेव नियमखरूपसम्बन्धनिश्वायकम् । तन्निश्चायकं च प्रकृतसाध्यसाधने हेतो- न सम्भवतीति प्रतिपादितम् । तन्नानुमानादपि ज्ञातव्यापारलक्षणप्रमाणसिद्धिः॥ अथापि स्याद्; बाह्येपु कारकेपु व्यापारवत्सु फलं दृष्टम्; अन्यथा सिद्धखभा- वानां कारकाणामेकं धात्वर्थ साध्यमनङ्गीकृत्य कः परस्परसम्बन्धः, अतस्तदन्त- रालवर्तिनी सकलकारकनिष्पाद्याऽभिमतफलजनिका व्यापारस्वरूपा क्रियाऽभ्यु- पगन्तव्या, इति प्रकृतेऽपि व्यापारसिद्धिरिति । एतदसम्बद्धम् । विकल्पानुपपत्तेः । तथाहि । व्यापारोऽभ्युपगम्यमानः, किं कारकजन्योऽभ्युपगम्यते, आहोखित् अजन्य इति विकल्पद्वयम् । तत्र यद्यजन्य इति पक्षः । सोऽयुक्तः । यतोऽज- न्योऽपि किं भावरूपोऽभ्युपगम्यते, आहोस्विद् अभावरूपः। यद्यभावरूप इत्यभ्यु- पगमः। सोऽप्ययुक्तः । यतोऽभावरूपत्वे तस्यार्थप्रकाशलक्षणफलजनकत्वं न स्यात् । तस्य फलजनकत्वविरोधात्। अविरोधे वा, फलार्थिनः कारकान्वेषणं व्यर्थ स्यात् । तत एवाभिमतफलनिष्पत्तेर्विश्वमदरिद्रं च स्यात् । तन्नाभावरूपो व्यापारोऽभ्युगन्तव्यः॥ अथ भावरूपोऽभ्युपगमविषयः । तदाऽत्रापि वक्तव्यम् । किमसौ नित्यः, आहोखित् अनित्य इति । तत्र यदि नित्य इति पक्षः। सोऽस- गतः । नित्यभावरूपव्यापाराभ्युपगमेऽन्धादीनामप्यर्थदर्शनप्रसङ्गः, सुप्ताघभावः, सर्वसर्वज्ञताभावप्रसङ्गश्च । कारकान्वेषणवैयर्थ्य तु व्यक्तम् । अथानित्य इत्य- भ्युपगमः । सोऽप्यलौकिकः । अजन्यस्य भावस्यानित्यलेन केनचिदनभ्युपग- मात् । अथ वदेन्मयैवाभ्युपगतः । तत्रापि वक्तव्यम् । किं कालान्तरस्थायी, ६ ४२ सम्मतिताख्यप्रकरणस्य- उत क्षणिकः ।यदि कालान्तरस्थायी; तदा 'क्षणिका हि सा न कालान्तरमवति- ष्ठते' इति वचः परिप्लवेत । कारकान्वेषणं चात्रापि पक्षे, फलार्थिनामसङ्गतम् । कियत्कालस्थाय्यजन्यभावरूपव्यापाराभ्युपगमे, तत्कालं यावत् तत्फलस्थापि निष्पत्तेः, आव्यापारविनाशमर्थप्रकाशलक्षणकार्यसहावादन्धत्वमूर्छादीनामभावः स्यात् । अथ क्षणिक इति पक्षः । सोऽपि न युक्तः । क्षणानन्तरं व्यापारासत्त्वे- नार्थप्रतिभासाभावात् । अपगतार्थप्रतिभासं सर्व जगत् स्यात् । अथ स्वत एव द्वितीयादिक्षणेषु व्यापारोत्पत्तेर्नायं दोषः । अजन्यत्वं तु तस्यापरकारकजन्यत्वा- भावेन । नैतदस्ति । कारकानायत्तस्य देशकालखरूपप्रतिनियमाभावस्वभाव- तायाः प्रतिपादनात् । किंच । अनवरतक्षणिकाजन्यव्यापाराभ्युपगमे, तज्जन्यार्थ- प्रतिभासस्यापि तथैव भावात् सुप्ताद्यभावदोषस्तदवस्थः । तन्नाजन्यव्यापाराभ्युप- गमः श्रेयान् ॥ अथ जन्यो व्यापार इति पक्षः कक्षीक्रियते । तदाऽत्रापि विक- ल्पद्वयम् । किमसौ जन्यो व्यापारः क्रियाऽऽत्मकः, उत तदनात्मक इति । तत्र यदि प्रथमः पक्षः । स न युक्तः । अत्रापि विकल्पद्वयानतिवृत्तेः । तथाहि । सापि क्रिया किं स्पन्दात्मिका, उत अस्पन्दात्मिका । यदि स्पन्दात्मिका; तदाऽऽ- त्मनो निश्चलत्वादन्येषां कारकाणां व्यापारसहावेऽपि व्यापारो न स्यात्, यद- र्थोऽयं प्रयासः; तदेवेत्युक्तं भवतैवमभ्युपगच्छता । अथापरिस्पन्दात्मिका क्रिया व्यापारखभावा । न । तथाभूतायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात्, अभावस्य जनकत्वविरोधात् । न च क्रिया कारणफलापान्तरालवर्तिनी परिस्प- न्दस्वभावा, तद्विपरीतखभावा वा प्रमाणगोचरचारिणीति न तस्याः सद्यवहार- विषयत्वमभ्युपगन्तुं युक्तमिति न क्रियाऽऽत्मको व्यापारः ॥ नापि तदनात्मको व्यापारोऽङ्गीकर्तुं युक्तः । तत्रापि विकल्पवयप्रवृत्तेः । तथाहि । किमसावक्रिया- ऽऽत्मको व्यापारो बोधखरूपः, अबोधस्वभावो वा । यदि बोधस्वरूपः, प्रमा- तृवन्न प्रमाणान्तरगम्यताऽभ्युपगन्तुं युक्ता । अथाबोधखभावः । नायमपि पक्षः। बोधात्मकज्ञातृव्यापारस्याबोधात्मकत्यासम्भवात् । न हि चिद्रूपस्याचिद्रूपो व्यापारो युक्तः । जानातीति च ज्ञातृव्यापारस्य बोधात्मकस्यैवाभिधानात् । तन्न अवोधः । खभावोऽपि व्यापारः । किंच । असौ ज्ञातृव्यापारो धर्मिस्वभावः, उत धर्मस्वभाव तत्त्वबोधविधायिनी व्याख्या) इति पुनरपि कल्पनाद्वयम् । धर्मिखरूपत्वे, ज्ञातृवन्न प्रमाणान्तरगम्यत्वमि- त्युक्तम् । धर्मखभावत्वेऽपि, धर्मिणो ज्ञातुर्व्यतिरिक्तो व्यापारः, अव्यतिरिक्तः, उभयम्, अनुभयं चेति चत्वारो विकल्पाः। न तावयतिरिक्तः । तत्त्वे, संबन्धाभा- वेन ज्ञातुर्व्यापार इति व्यपदेशायोगात् । अव्यतिरिक्ते, ज्ञातैव; तत्स्वरूपवत् नापरो व्यापारः । उभयपक्षस्तु, विरोधमपरिहत्य नाभ्युपगमनीयः । अनुभयपक्ष- स्तु, अन्योऽन्यव्यवच्छेदरूपाणामेकविधानेनापरानिषेधादयुक्त इति प्रतिपादितम् ॥ किंच । व्यापारस्य कारकजन्यत्वाभ्युपगमे, तज्जनने प्रवर्तमानानि कारकाणि किम् अपरव्यापारमान्जि प्रवन्ते, उत तन्निरपेक्षाणीति विकल्पद्वयम् । यद्यायो विकल्पः; तदा तद्व्यापारजननेऽपि, तैरपरव्यापारमाग्भिः प्रवर्तितव्यम् ; तजननेऽ- प्यपरव्यापारयुग्भिः प्रवचितव्यमित्यनवस्थितेःन फलजननव्यापारोद्भूतिरिति तरू- लस्याप्यनुत्पत्तिप्रसङ्गात् न व्यापारपरिकल्पनं श्रेयः॥ अथ अपरव्यापारमन्तरेणापि . फलजनकव्यापारजनने प्रवर्त्तन्ते, नायं दोषः, तर्हि प्रकृतव्यापारमन्तरेणापि फल- जनने प्रवर्तिष्यन्त इति किमनुपलभ्यमानव्यापारकल्पनप्रयासेन ॥ किंच । असौ व्यापारः,फलजनने प्रवर्त्तमानः किमपरन्यापारसव्यपेक्षः, अथ निरपेक्ष इत्यत्रापि कल्पनाद्वयम्।तत्र यद्याद्या कल्पना।सा न युक्ता । अपरापरव्यापारजननक्षीणश. क्तित्वेन व्यापारस्यापि फलजनकत्वायोगात् ॥ अथ व्यापारान्तरानपेक्ष एव फल- जनने प्रवर्त्तते; तर्हि कारकाणामपि व्यापारजनननिरपेक्षाणां फलजनने प्रवृत्ती, न कश्चिच्छक्तिव्याघातः सम्भाव्यते ॥ अथ व्यापारस्य व्यापारस्वरूपत्वान्नापरव्यापा- रापेक्षा; कारकाणां वव्यापाररूपत्वात्तदपेक्षा का पुनरियं व्यापारस्य व्यापारस्वभा- वता । यदि फलजनकत्वम् ; तद्विहितप्रतिक्रियम् । अथ कारकाश्रितत्वम् । तदपि भिन्नस्य, तज्जन्यत्वं विहाय, न सम्भवतीत्युक्तम् । अथ कारकपरतन्त्रत्वम् । तदपि न । अनुत्पन्नस्यासत्त्वात् । नाप्युत्पन्नस्य । अन्यानपेक्षत्वात् । तथापि तत्प- रतन्त्रत्वे, कारकाणामपि व्यापारपरतन्त्रता स्यात् । अथ एवं पर्यनुयोगः सर्वभाव- प्रतिनियतस्वभावव्यावर्तक इत्ययुक्तः । तथाहि । एवमपि पर्यनुयोगः सम्भवति; वहेर्दाहकस्वभावत्वे आकाशस्यापि स स्यात् ; इतरथा वढेरपि स न स्यादिति । स्यादेतद् यदि प्रत्यक्षसिद्धो व्यापारस्वभावो भवेतः स च न तथेति प्रतिपादि- सम्मतिताख्यप्रकरणस्य- - - तम् । तत एवोक्तम्:- "स्वभावेऽध्यक्षतः सिद्धे यदि पर्यनुयुज्यते । तत्रोत्तरमिदं युक्तं न दृष्टेऽनुपपन्नता" ॥१॥ तन्न तत्र व्यापारो नाम कश्चित् यथाऽभ्युपगतः परैः।। अथानुमानग्राह्यत्वे स्यादयं दोषः, अत एवार्थापत्तिसमधिगम्यता तस्याभ्युपगता । ननु, दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पनाऽर्थापतिः, तत्र कः पुनरसौ भावो व्यापारव्यतिरेकेण नोपपद्यते, यो व्यापार कल्पयति । अर्थ इति चेत् । का पुन. रस्य तेन विनाऽनुपपद्यमानता ?। नोत्पत्तिः, स्वहेतुतस्तस्याः भावात् । किंच। असावर्थः किम् एकज्ञातृव्यापारमन्तरेणानुपपद्यमानस्तं कल्पयति, उत सर्वज्ञातृ- व्यापारमन्तरेणेति वक्तव्यम्। तत्र यदि सकलज्ञातृव्यापारमन्तरेणेति पक्षः। तदन्धा- • नामपि रूपदर्शनं स्यात् ; तद्व्यापारमन्तरेणार्थाभावात् सर्वज्ञताप्रसङ्गश्च । अथ एकज्ञातृव्यापारमन्तरेणानुपपत्तिः, तर्हि यावदर्थसद्भावः तावत् तस्यार्थदर्शनमिति सुप्ताद्यभावः ॥ अथ अर्थधर्मोऽर्थपकाशतालक्षणो व्यापारमन्तरेणानुपपद्यमानस्तं कल्पयति । ननु साऽप्यर्थप्रकाशताऽर्थधर्मो, यद्यर्थ एव; तदाऽर्थपक्षोक्तो दोषः । अथ तव्यतिरिक्तः । तदा तस्य स्वरूपं वक्तव्यम् । तस्यानुभूयमानता सा इति- चेत् । न। पर्यायमात्रमेतत्, न तत्स्वरूपप्रतिपत्तिः इति स एव प्रश्नः। किंच । प्रकाशोऽनुभवश्च ज्ञानमेव; तदनवगमे तत्कर्मतायाः सुतरामनवगम इत्यर्थप्र- काशताऽनुभूयमानते स्वरूपेणानवगते, कथं ज्ञातृव्यापारपरिकल्पिके ? । किंच । अर्थप्रकाशतालक्षणोऽर्थधर्मोऽन्यथानुपपन्नत्वेनानिश्चितस्तं कल्पयति, आहोस्वित् निश्चित इति । तत्र यद्याद्यः कल्पः । स न युक्तः । अतिप्रसङ्गात् । तथाहि । यद्यनिश्चितोऽपि तथात्वेन स तं परिकल्पयति, तथा येन विनाऽपि स उपपद्यते तमपि किंन कल्पयति। विशेषाभावात्। अथानिश्चितोऽपितेन विनाऽनुपपद्यमानलेन निश्चितः स तं परिकल्पयति; तर्हि लिङ्गस्यापि नियतत्वेनानिश्चितस्यापि स्वसा- ध्यगमकत्वं स्यात्। तथा च अर्थापत्तिरेव परोक्षार्थनिश्वायिका, नानुमानमिति षट्- प्रमाणवादाभ्युपगमो विशीर्येत ॥ अथ अन्यथानुपपद्यमानत्वेन निश्चितःस धर्मस्तं परिकल्पयति। तदा वक्तव्यम् । क तस्यान्यथानुपपन्नत्वनिश्चयः । यदि दृष्टान्त- .
तत्त्वबोधविधायिनी व्याख्या । ४५ धर्मिणि, तदा लिङ्गस्यापि तत्र नियतत्वनिश्चयोऽस्तीत्यनुमानमेवार्थापत्तिः स्यात् । एवंचार्थापत्तिरनुमानेऽन्तर्भूतेति पुनरपि प्रमाणषटकाभ्युपगमो विशीर्येत । अथ साध्यधर्मिणि, तन्निश्चय इत्यनुमानात् पृथगापत्तिः । तदात्रापि वक्तव्यम् । कुतः प्रमाणात् तस्य तन्निश्चयः । यदि विपक्षेऽनुपलम्भात्। तन्न युक्तम् । सर्व- सम्बन्धिनोऽनुपलम्भस्यासिद्धत्वप्रतिपादनात्; आत्मसंबन्धिनस्तु, अनैकान्तिक- त्वादिति नान्यथाऽनुपपद्यमानत्वनिश्चयः। किंच। अर्थापत्त्युत्थापकस्यार्थानुभूयमा- नतालक्षणस्यार्थधर्मस्य य एव स्वप्रकल्प्यार्थाभावेऽवश्यंतयाऽनुपपद्यमानत्वनिश्चयः, स एव स्वप्रकल्प्यासद्भाव एवोपपद्यमानत्वनिश्चय इत्यर्थीपत्त्युत्थापकस्यार्थस्य, स्वसाध्यानुमापकस्य च लिङ्गस्य, न कश्चिद्विशेष इत्यनुमाननिरासेऽर्थापत्तेरपि निरासः कृत एवेति नार्थापत्तेरपि ज्ञातृव्यापारलक्षणप्रमाणनिधायकत्वम् ॥ येऽपि संवित्त्याख्यं फलं ज्ञातव्यापारसद्भावे सामान्यतोदृष्टं लिङ्गमाहुः । तन्मतमप्य- सम्यक् । यतः संवेदनाख्यस्य लिङ्गस्य किम् अर्थप्रतिभासस्वभावत्वम् , उत तद्वि- परीतत्वमिति कल्पनाद्वयम् । तत्रार्थप्रतिभासस्वभावत्वेऽपि, किम् अपरेण ज्ञा- तृव्यापारेण कथितेन, इति वक्तव्यम् । तदुत्पत्तिस्तेन विना न सम्भवतीति चेन्न । इन्द्रियादेस्तदुत्पादकस्य सद्भावात् व्यर्थ तत्परिकल्पनम् । क्रियामन्तरेण कारककलापात्फलानिप्पचेः तत्कल्पनेति चेत् । नन्विन्द्रियादिसामग्यस्य क व्यापार इति वक्तव्यम् । क्रियोत्पत्ताविति चेत् । साऽपि क्रिया, क्रिया- न्तरमन्तरेण कथं कारककलापादुपजायत इति पुनरपि तदेव चोद्यम् । कियान्तरकल्पनेऽनंवस्था प्राक्प्रतिपादितैव । तन्नार्थप्रतिभासस्वभावत्वेऽन्यो व्यापारः कल्पनीयः । निष्प्रयोजनत्वात् ॥ अथ द्वितीया कल्पनाऽभ्युपगम्यते । सापि न युक्ता । यतोऽर्थस्य संवेदन तहवत् ज्ञातृव्यापारलिङ्गता समासाद- यति । सा च तदसंवेदनस्वभावस्य कथं सङ्गता । शेषं तु पूर्वमेव निर्णीतमिति न पुनरुच्यते । किंच । अर्थप्रतिभासस्वभावं संवेदनं ज्ञानं, ज्ञाता, तद्व्यापारश्व बोधात्मक, नैतत् त्रितयं कचिदपि प्रतिभाति॥ अथ घटमहं जानामीति प्रति- पचिरस्ति, न चैपा निहोतुं शक्या, नाप्यस्या किश्चिद् बाधकमुपलभ्यते; तत्कथं न त्रितयसहावः । तथाहि । अहमिति ज्ञातुः प्रतिभासो, जानामीति संवे- सम्मतिताख्यप्रकरणस्य- दनस्य, घटमिति प्रत्यक्षस्यार्थस्य; व्यापारस्य वपरस्य प्रमाणान्तरतः प्रति- पत्तिरित्यभ्युपगमः । अयुक्तमेतत् । यतः कल्पनोद्भूतशब्दमात्रमेतत्, न पुनरेप वस्तुत्रयप्रतिभासः । अतएवोक्तमाचार्येण-'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेका- कारविवर्त्त समुत्पश्यामस्तत्र यथेष्टं संज्ञाः क्रियन्ताम् । किंच । व्यापारनिमित्ते कारकसंबन्धे विकल्पद्वयम् । किं पूर्व व्यापारः, पश्चात्संवन्धः; उत पूर्व संवन्धः, पश्चाद्यापारः । पूर्वस्मिन् पक्षे न व्यापारार्थः संबन्धः। पूर्वमेव व्यापारसद्भावात् । उत्तरस्मिन् पुनर्विकल्पद्वयम् । संवन्धे सति किं परस्परसापेक्षाणां स्वव्यापार- कर्तृवम्, उत निरपेक्षाणाम् । सापेक्षत्वे खव्यापारकर्तृत्वानुपपत्तिः । अनेकज- न्यत्वात्तस्य । निरपेक्षत्वे किं मीलनेन; ततश्च संसर्गावस्थायामपि स्वव्यापारक- रणादनवरतफलसिद्धिः । न चैतत् दृष्टमिष्टं वा । तन्न युक्तं व्यापारस्याप्रती- यमानस्य कल्पनम् । कोह्यन्यथासंभवति फलेऽप्रतीयमानकल्पनेनात्मानमाया- सयति । अन्यथासंभवश्व, इन्द्रियादिषु सत्सु फलस्य प्रागेव दर्शितः । इन्द्रि- यादेस्तवाभ्युपगमनीयत्वात्। इतोऽपि संवेदनाख्यं फलमपरोक्षं व्यापारानुमापक- मयुक्तम् । खदर्शनव्याघातप्रसक्तेः । तथाहि । भवता शून्यबादपरतःप्रामाण्य- प्रसक्तिभयात् स्मृतिप्रमोषोऽभ्युपगतः । विपरीतख्यातो, तयोरवश्यंभावित्वात् । तथाहि । तस्यामन्यदेशकालोऽर्थस्तद्देशकालयोरसन् प्रतिभाति । नच तद्देशाद्य- सत्त्वस्यात्यन्तासत्त्वस्य चासत्प्रतिभासे कश्चिद्विशेषः । यथाऽन्यदेशाद्यवस्थित- माकारं कुतश्चिद् भ्रमनिमित्तात् ज्ञानं दर्शयति; तथा अविद्यावशादत्यन्तास- न्तमपि किं न दर्शयति । तथाच कथं शून्यवादान्मुक्तिः ॥ तथा परतः प्रामा- ण्यमपि, मिथ्यात्वाशङ्कायां कस्यचिज्ज्ञानस्य बाधकाभावान्वेपणा वक्तव्यम् । तदन्वेषणे च, सापेक्षत्वं प्रमाणानामपरिहार्य विपरीतख्यातौ । ततो न कस्यचिद् ज्ञानस्य मिथ्यात्वम् ; तदभावान्नान्यदेशकालाकारार्थप्रतिभासो, नापि बाधका- भावापेक्षा । भ्रान्ताभिमतेषु तु तथा व्यपदेशः, स्मृतिप्रमोषात् । तथाहि । इदं रजतमिति प्रतीताविदमिति पुरो व्यवस्थितार्थप्रतिभासं, रजतमिति पूर्वावगत- रजतस्मरणं, सादृश्यादेः कुतश्चिन्निमित्तात्; तच्च स्मरणमपि, स्वरूपेण नावभासते इति स्मृतिप्रमोष उच्यते । यत्र सरामीति प्रत्ययस्तत्र स्मृतेरप्रमोषः। यत्र स्मृ.
तत्त्वबोधविधायिनी व्याख्या । तित्वेऽपि स्मरामीति रूपाप्रवेदनं कुतश्चित्कारणात्, तत्र स्मृतिप्रमोषोऽभिधीयते। अस्मिन्मते रजतमिति यत्फलसंवेदनं; तत्किं प्रत्यक्षफलस्य सतः, किं वा स्मृतेः । यदि प्रत्यक्षफलस्य; तदा यथेदमिति प्रत्यक्षफलं प्रतिभाति, तथा रजतमित्यपि ततश्च तुल्ये प्रतिभासे; एक प्रत्यक्षम्, अपरं स्मरणमिति किं कृतो विशेषः। अथोक्तं स्मरणस्यापि सतस्तद्रूपानवगमात् तेनाकारणावगमः । तत्कि रजतमित्यत्राप्रतिप- त्तिरेव । तस्यां चाभ्युपगम्यमानायां कथं स्मृतिप्रमोपः । अन्यथा मूर्जाद्यवस्थाया- मपि स्यात् । अथेदमिति तत्र प्रत्ययाभावान्नासौ। नन्विदमित्यत्रापि वक्तव्यम् । किमाभाति । पुरोऽवस्थितं शुक्तिशकलमिति चेत् । ननु किं प्रतिभासमानत्वेन तचत्र प्रतिभाति, उत सन्निहितत्वेन । प्रतिभासमानत्वेन तथाऽभ्युपगमे, न स्मृतिप्रमोपः । शुक्तिकाशकले हि स्वगतधर्मविशिष्टे प्रतिभासमाने, कुतो रजत- स्मरणसंभावना । नहि घटग्रहणे पटस्मरणसंभवः । अथ शुक्तिकारजतयोः साह- श्यात् शुक्तिप्रतिभासे रजतस्मरणम् । न । तस्य विद्यमानत्वेऽप्यकिंचित्कर- त्वात् । यदाह्यसाधारणधर्माध्यासितं शुक्तिवरूपं प्रतिभाति, तदा कथं सदृश- वस्तुस्मरणम् । अन्यथा सर्वत्र स्यात् । सामान्यमात्रग्रहणे हि तत्कदाचिह्नवेदपि; नासाधारणस्वरूपप्रतिभासे । तन्नेदमित्यत्र शुक्तिकाशकलस्य प्रतिभासनात् तथा व्यपदेशः । सन्निहितत्वेनाप्रतिभासमानस्यापि तद्विपयत्वाभ्युपगमे, इन्द्रियसंब- डानां तद्देशवर्तिनामण्वादीनामपि प्रतिभासः स्यात् । न चाप्रतिभासमानानां इन्द्रि- यादीनामिव प्रतीतिजनकानामपि तद्विपयता सङ्गच्छते । तन्नेदमित्यत्र शुक्तिका- शकलप्रतिभासः।नापि रजतमित्यत्र स्मृतित्वेऽपि तस्याः स्वरूपेणानवगमात्प्रमोष इत्यभ्युपगमो युक्तः। अथ स्मृतिरप्यनुभवत्वेन प्रतिभातीति तत्प्रमोपोऽभ्युपगम्यते। नन्वेवं सैव शून्यवादपरताप्रामाण्यभयादनभ्युपगम्यमाना विपरीतख्यातिरापति- ता । नचात्राप्रतिपत्तिरेव । रजतमित्येवं स्मरणस्यानुभवस्य वा प्रतिभासनात् ॥ इदमत्रदंपर्यम् । अर्थसंवेदनमपरोक्षं सामान्यतोदृष्टं लिङ्गं यदि ज्ञातृव्यापारानु- मापकमभ्युपगम्यते, तदा स्मृतिप्रमोपे रजतमित्यत्र संवेदनम्, उतासंवेदनम् । प्रतिभासोत्पत्तेः संवेदनेऽपि, रजतमनुभूयमानतया न संवेद्यते । स्मृतिप्रमोषाभा- वप्रसङ्गात् । नापि स्मर्यमाणतया। प्रमोपाभ्युपगमात् । विपरीतख्यातिस्तु नाभ्युप- सम्मतिताख्यप्रकरणस्य- ४८ गम्यते। तद्रजतमित्यत्र संवेदनस्यापरोक्षत्वाभ्युपगमेऽपि, प्रतिभासाभावः प्रसक्तः। किंच । स्मृतिप्रमोषः पूर्वोक्तदोषद्वयभयादभ्युपगतः; तच्च तदभ्युपगमेऽपि समा- नम् । तथाहि । सम्यग्रजतप्रतिभासेऽपि आशङ्कोत्पद्यते । किमेप स्मृतावपि स्मृतिप्रमोषः, उत सम्यगनुभव इति सापेक्षवात् बाधकान्वेषणे परतःप्रामाण्यम् । तत्र च भवन्मतेनानवस्था प्रदर्शितैव । यत्र हि स्मृतिप्रमोपस्तत्रोत्तरकालभावी बाधकप्रत्ययो, यत्र तु तदभावः तत्र स्मृतिप्रमोषासम्भव इति कथं न बाधकाभावा- पेक्षायां परतःप्रामाण्यदोषभयस्यावकाशः । शून्यवाददोषभयमपि स्मृतिप्रमोपा- भ्युपगमेऽवश्यंभावि । तथाहि । ध्वस्तश्रीहर्षाद्याकारोऽनुत्पन्नशङ्खचक्रवा- द्याकारश्च ज्ञाने यः प्रतिभाति, सोऽवश्यं ज्ञानरचितोऽसत्प्रतिभाति । रजतादि- स्मृतेरप्यसन्निहितरजताकारप्रतिभासखभावत्वात् तत्सत्त्वं तदुत्पत्तावसन्निहित नोपयुज्यत इति असदर्थविषयत्वे ज्ञानस्य, कथं शून्यवादभयाइवतः स्मृतिप्रमो- षवादिनो मुक्तिः, तन्न स्मृतिप्रमोषः ॥ कश्वायं स्मृतिप्रमोपः। किं स्मृतेरभावः, उतान्यावभासः, आहोस्वित् अन्याकारवेदित्वमिति विकल्पाः । तत्र नासौ स्मृतेर- भावः । प्रतिभासाभावप्रसङ्गात् । अथान्यावभासोऽसौ । तदाऽत्रापि वक्तव्यम् । किं तत्कालोऽन्यावभासोऽसौ, अथोत्तरकालभावी । यदि तत्कालभावी अन्या- वभासः स्मृतेः प्रमोषः, तदा घटादिज्ञानं तत्कालभावि तस्याः प्रमोषः स्यात् । अथोत्तरकालभाव्यसौ तस्याः प्रमोषः । तदप्ययुक्तम् । अतिप्रसङ्गात् । यदि नामोत्तरकालमन्यावभासः समुत्पन्नः पूर्वज्ञानस्य स्मृतिप्रमोपत्वेनाभ्युपगतस्य, तत्त्वे किमायातम् । अन्यथा सर्वस्य पूर्वज्ञानस्य स्मृतिप्रमोषलप्रसङ्गः । अथान्याकारवेदिलं तस्या असौ; तदा विपरीतख्यातिः स्यात्, न स्मृतिप्रमो- षः । कश्चासौ विपरीत आकारस्तस्याः । यदि स्फुटार्थावभासिवं; तदसौ प्रत्यक्षस्याकारः, कथं स्मृतिसम्बन्धी । तत्सम्बन्धिले वा तस्याः प्रत्यक्षरूप- तैव स्यात्, न स्मृतिरूपता । अत एव शुक्तिकायां रजतप्रतिभासस्य न स्मृति- रूपता तत्पतिभासेन व्यवस्थाप्यते । तस्य प्रत्यक्षरूपतया प्रतिभासनात् । नापि बाधकप्रत्ययेन तस्याः स्मृतिरूपता व्यवस्थाप्यते । यतो बाधकप्रत्ययः । तत्प्रतिभातस्यार्थस्यासद्रूपत्वमावेदयति, न पुनः तज्ज्ञानस्य स्मृतिरूपताम् ।'
- तत्त्वबोधविधायिनी व्याख्या । तथाहि । बाधकप्रत्यय एवं प्रवर्त्तते । न इदं रजतम्, न पुना रजतप्रतिभासः प्रकृतः स्मृतिरिति । तन्न स्मृतिप्रमोषरूपता भ्रान्तदृशामभ्युपगन्तुं युक्ता । अतो नायमपि सत्पक्षः ॥ तन्नार्थसंवेदनखरूपमप्यपरोक्षं सामान्यतो दृष्टं लिङ्गं प्राभाकरैरभ्युपगम्यमान, ज्ञातृव्यापारलक्षणप्रमाणानुमापकमिति, मीमांसकमते प्रमाणस्यैवासिद्धत्वात्कथं यथावस्थितार्थपरिच्छेदशक्तिखभावस्य प्रामाण्यस्य स्वतः सिद्धिः । नहि धर्मिणोऽसिद्धौ तद्धर्मस्य सिद्धिर्युक्ता; अतो न सर्वत्र खतः प्रामाण्यसिद्धिरिति स्थितम् ॥ शब्दसमुत्थस्य तु अभिधेयविषयज्ञानस्य यदि प्रामाण्यमभ्युपगम्यते, तदा अपौरुषेयत्वस्यासम्भवाद् गुणवत्पुरुषप्रणीतस्तदुत्पादकः शब्दोऽभ्युपगन्तव्यः । अथ तत्मणीतत्वं नाभ्युपगम्यते, तदा तत्समुत्थज्ञानस्य प्रामाण्यमपि न स्या- दित्यभिप्रायवानाचार्यः प्राह- "जिनानाम्" । रागद्वेषमोहलक्षणान् शत्रून् जितवन्त इति जिनास्तेषाम्, " शासनं" तदभ्युपगन्तव्यमिति प्रसङ्गसाधनम् । नचानेदं प्रेर्यम् ॥ यदि जिनशासनं जिनप्रणीतत्वेन सिद्धं निश्चित- प्रामाण्यमभ्युपगमनीयम्, अन्यथा प्रामाण्यस्याप्यनभ्युपगमनीयत्वादिति प्रस- ङ्गसाधनमत्र प्रतिपाद्यत्वेनाभिप्रेतं; तत्किमिति बौहयुक्त्याऽऽहतेन त्वया खतः प्रामाण्यनिरासोऽभिहितः ॥ यतः सर्वसमयसमूहात्मकत्वमेवाचार्येण प्रतिपाद- यितुमभिप्रेतम् । यद्वक्ष्यत्यस्यैव प्रकरणस्य परिसमाप्तौ । यथा- "भई मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स"॥१॥ इत्यादि। अयमेवार्थों बौद्धयुक्त्युपन्यासेन समर्थितः । अन्यत्राप्यन्यमतोपक्षेपेणा- न्यमतनिरासेऽयमेवाभिप्रायो द्रष्टव्यः । सर्वनयानां परस्परसापेक्षाणां सम्यग्- मतत्वेन विपरीतानां विपर्ययत्वेनाचार्यस्येष्टत्वात् ॥ अत एवोक्तमनेनैव हात्रिंशिकायाम् :- "उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । नच तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः" ॥१॥ ७ सम्मतिताख्यप्रकरणस्य- - अथापि स्यात् ; यदि प्रामाण्यापवादकदोषाभावो गुणनिमित्त एव भवेत् , तदा स्यादेतत्प्रसङ्गसाधनम् ; यावताऽपौरुषेयत्वेनापि तस्य सम्भवात्कथं प्रसङ्ग- साधनस्यावकाशः । असदेतत् । अपौरुषेयत्वस्यासिद्धत्वात् । तथाहि । किमपौ- रुषेयत्वं शासनस्य, प्रसज्यप्रतिषेधरूपमभ्युपगम्यते, उत पर्युदासरूपम् । तत्र यदि प्रसज्यरूपं; तदा किं सदुपलम्भकप्रमाणग्राह्यम्, उत अभावप्रमाणवे- धम् । यदि सदुपलम्भकप्रमाणग्राह्यम् । तद्युक्तम् । सदुपलम्भकप्रमाणवि- षयस्याभावत्वानुपपत्तेः । अभावत्वे वा न तद्विषयत्वम् । तस्य तद्विपयत्ववि- रोधात्, अनभ्युपगमाच॥अभावप्रमाणग्राह्यत्वाभ्युपगमेऽपि वक्तव्यम् । किमभा- वप्रमाणं ज्ञानविनिर्मुक्तात्मलक्षणम्, उत अन्यज्ञानखरूपम् । प्रथमपक्षेऽपि किं सर्वथा ज्ञानविनिर्मुक्तात्मस्वरूपम्, आहोस्वित् निषेध्यविपयप्रमाणपञ्चकविनि- मुक्तात्मलक्षणमिति । प्रथमपक्षे, नाभावपरिच्छेदकत्वम् । परिच्छेदस्य ज्ञानधर्म- त्वात्; सर्वथा ज्ञानविनिर्मुक्तात्मनि च तदभावात् ॥ निषेध्यविपयप्रमाणपञ्चक- विनिर्मुक्तात्मनोऽपि नाभावव्यवस्थापकत्वम् । आगमान्तरेऽपि तस्य सद्भावेन व्यभिचारात् ॥ तदन्यज्ञानमपि यदि तदन्यसत्ताविषयं स्यान्नाभावप्रमाणं स्यात् । तस्य सद्विषयत्वविरोधात् ॥ पौरुषेयत्वादन्यस्तदभावः, तद्विपयज्ञानं तदन्यज्ञा- नम्, अभावप्रमाणमिति चेत् । अत्रापि वक्तव्यम् । किमस्योत्थापकम् । प्रमा- णपञ्चकाभावश्चेत् । नन्वत्रापि वक्तव्यम् । किमात्मसंवन्धी, सर्वसंवन्धी वा प्रमाणपञ्चकाभावस्तदुत्थापकः । न सर्वसंबन्धी। तस्यासिद्धत्वात् । नात्मसं- बन्धी । तस्यागमान्तरेऽपि सहावेन व्यभिचारित्वात् ॥ आगमान्तरे परेण पुरु- षसद्भावाभ्युपगमात् प्रमाणपञ्चकाभावो नाभावप्रमाणसमुत्थापक इति चेत् । न । पराभ्युपगमस्य भवतोऽप्रमाणत्वात् ॥ प्रमाणत्वे वा वेदेऽपि नाभावप्रमाण- प्रवृत्तिः । परेण तत्रापि कर्तृपुरुषसद्भावाभ्युपगमात् ॥ प्रवृत्तौ चागमान्तरेऽपि स्यात्। अविशेषात् ॥ नच वेदे पुरुषाभ्युपगमः परस्य मिथ्या । अन्यत्रापि तन्मि- थ्यात्वप्रसक्तेः ॥ किंच । प्रमाणपञ्चकाभावः किं ज्ञातोऽभावप्रमाणजनका, उता- ज्ञातः। यदि ज्ञातः, तदा न तस्यापरप्रमाणपञ्चकाभावाद् ज्ञप्तिः। अनवस्था- ६ प्रसङ्गात् ॥ नापि प्रमेयाभावात् । इतरेतराश्रयदोषात् ॥ अथाज्ञातस्तजनकः ।
तत्त्वबोधविधायिनी व्याख्या। ५१ न । समयानभिज्ञस्यापि तज्जनकत्वप्रसङ्गात् । नचाज्ञातः प्रमाणपञ्चकाभावोऽ. भावज्ञाने जनकः । कृतयत्नस्यैव प्रमाणपञ्चकाभावोऽभावज्ञापक इत्यभिधानात् ॥ नच इन्द्रियादेरिव अज्ञातस्यापि प्रमाणपञ्चकाभावस्याभावज्ञानजनकत्वम् । अभावस्य सर्वशक्तिरहितस्य जनकत्वविरोधात् ॥ अविरोधे च भावेऽप्यभाव इति नाम कृतं स्यात् ॥ न तुच्छात्तदभावात्तदभावज्ञानं, किन्तु प्रमाणप- श्वकरहितादात्मन इति चेत् । न । आगमान्तरेऽपि तथाभूतस्यात्मनः सम्भ- वात्, अभावज्ञानोत्पत्तिः स्यात् ॥ प्रमेयाभावोऽपि तहेतुः; तदभावान्नागमा- न्तरेऽभावज्ञानमिति चेत् । न । अभावाभावः प्रमेयसद्भावः, तस्य प्रत्यक्षा- धन्यतमप्रमाणेनानिश्चये, कथमभावाभावप्रतिपत्तिः ॥ अभावज्ञानाभावात्तत्प्रति- पत्तिः, न सदुपलम्भकप्रमाणसद्भावादिति चेत् । न । अभावज्ञानस्य प्रमेयाभावका- यत्वात् , तदभावान्नाभावाभावावगतिः । कार्याभावस्य कारणाभावव्यभिचारात् । अप्रतिबद्धसामर्थ्यस्याभावप्रतीतावपि नेप्टसिद्धिः । क्वचित्प्रदेशे घटाभावप्रतिप- चिस्तु न घटज्ञानाभावात्, किन्त्वेकज्ञानसंसर्गिपदार्थान्तरोपलम्भात् ॥ न च पुरुपाभावाभावप्रतिपचावयं न्यायः । तदेकज्ञानसंसर्गिणः कस्यचिदप्यभावात् ।। न, पुरुप एव तदेकज्ञानसंसर्गी । पुरुपभावाभावयोर्विरोधेनैकज्ञानसंसर्गित्वास- म्भवात् ॥ सम्भबेऽपि न पुरुषोपलम्भभावात् तदभावाभावप्रतिपत्तिः । तदुपल- म्भस्यैव तत्प्रतिपत्तिरूपत्वात् । अतएव विरुद्धाविधिरप्यत्र न प्रवर्चत इति ॥ किंच । कस्याभावज्ञानाभावात् प्रमेयाभावाभावः; वादिनः, प्रतिवादिनः, सर्वस्य वा । यदि वादिनोऽभावज्ञानाभावान्नागमान्तरे प्रमेयाभावः। वेदेऽपि माभूत् । तत्रापि प्रतिवादिनोऽभावज्ञानाभावस्याविशेपात् ॥ अथागमान्तरे बादिप्रतिवा- दिनारुभयोरप्यभावज्ञानाभावान्न प्रमेयाभावः; वेदे तु प्रतिवादिनोऽभावज्ञाना- भावेऽपि, बादिनोऽभावज्ञानसद्भावात् । न । वादिनो यदभावज्ञानं तत्साङ्केतिकं, नाभाववलोत्पन्नम् ; आगमान्तरे प्रतिवादिनः अप्रामाण्याभावज्ञानवत् । न च साङ्केतिकादभावज्ञानादभावसिद्धिः । अन्यथाऽऽगमान्तरेऽपि ततोऽप्रामाण्या- भावसिद्धिप्रसङ्गः । तन्नागमान्तरे वादिनोऽभावज्ञानाभावाद् गतिः॥ नापि प्रति- वादिनोऽभावज्ञानाभावाचत्र तद्गतिः । वेदेऽपि तत्प्रसङ्गात् ॥ अत एव न - ५२ सम्मतिताख्यप्रकरणस्य- सर्वस्याभावज्ञानाभावात् ॥ असिद्धश्च सर्वस्याभावज्ञानाभावः। तन्नात्मा प्रमाण- पञ्चकविनिर्मुक्तो अभावज्ञानजनकः ॥ अथ वेदानादिसत्त्वमभावज्ञानोत्थापकम् । नन्वत्रापि वक्तव्यम् । ज्ञातमज्ञातं वा तत्तदुत्थापकम् । न ज्ञातम् । तज्ज्ञा- नासम्भवात् । प्रत्यक्षादेः तज्ज्ञापकत्वेनाप्रवृत्तेः ॥ प्रवृत्तौ वा तत एव पुरुषा- भावसिद्धेरभावप्रमाणवैयर्थ्यम् । अनादिसत्त्वसिद्धेः पुरुषाभावज्ञाननान्तरीय- कत्वात् ॥ नाप्यज्ञातं तत् तदुत्थापकम् । अगृहीतसमयस्यापि तत्र तदुत्पत्तिप्रस- केनचित्प्रत्यासत्तिविप्रकर्षाभावात् ॥ तन्नानादिसत्त्वमपि तदुत्थापक- मिति नाभावप्रमाणात्पुरुषाभावसिद्धिः ॥ नचाभावप्रमाणस्य प्रामाण्यम् । प्राक्प्रतिषिद्धत्वात् । प्रतिषेत्स्यमानत्वाच्च ॥ अथ पर्युदासरूपमपौरुषेयत्वम् । किं तत्पौरुषेयत्वादन्यत्सत्त्वम्। तस्यास्माभिरप्यभ्युपगमात् ॥न, अनादिसत्त्वम्। तद्वा- हकप्रमाणाभावात् । तथाहि । न तावत् तद्राहकं प्रत्यक्षम् । अक्षानुसारि- तया तथाव्यपदेशात् । अक्षाणां च अनादिकालसङ्गत्यभावेन तत्सम्बद्धतत्स- त्वेनाप्यसंबन्धात्, न तत्पूर्वकप्रत्यक्षस्य तथाप्रवृत्तिः ॥ प्रवृत्ती वा तद्वदना- गतकालसम्बद्दधर्मस्वरूपग्राहकत्वेनापि प्रवृत्तेः, न धर्मज्ञनिषेधः । तथा 'सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तम् , विद्यमानो- पलम्भनत्वात्' इति सूत्रम् "भविष्यति न दृष्टं च, प्रत्यक्षस्य मनागपि ॥ सामर्थ्यम्-" ॥ इति च वार्त्तिकं व्याहतं स्यादिति न प्रत्यक्षात् तत्सिद्धिः ॥ नाप्यनुमानात् । तस्याभावात् ॥ अथ- " अतीतानागतौ कालौ वेदकारविवर्जितौ ॥ कालत्वात् तद्यथा, कालो वर्तमानः समीक्ष्यते" ॥१॥ इत्यतोऽनुमानाचत्सिद्धिः। न । अस्य हेतोरागमान्तरेऽपि समानत्वात् ॥ किंच । किं यथाभूतो वेदकरणासमर्थपुरुषयुक्त इदानीं तत्कर्तृपुरुषरहितः काल- उपलब्धः, अतीतोऽनागतो वा तथाभूतः कालत्वात् साध्यते; उत अन्यथा- भूतः । यदि तथाभूतः, तदा सिद्धसाध्यता । अथान्यथाभूतः; तदा सन्नि- वेशादिवदप्रयोजको हेतुः । तथाहि । यथाभूतानामभिनवकूपप्रासादादीनां , तत्वबोधविधायिनी व्याख्या । . सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वेन व्याप्तमुपलब्धं; तथाभूतानामेव जीर्णकूप- प्रासादादीनां तद् बुद्धिमत्कारणत्वप्रयोजकत्वानन्यथाभूतानाम् । यदि पुनरन्य- थाभूतस्याप्यतीतस्यानागतस्य कालस्य तद्रहितत्वं साधयेत्कालत्वम् ; तदाऽन्य- थाभूतानामपि भूधरादीनां सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वं साधयेत् ; न तस्य सर्वजगज्ज्ञातुः कर्तुश्चेश्वरस्य सिद्धेश्वान्यथाभूतकालभावसिद्धिरितीव अपौरुषेयत्व- साधनं च वेदानामनवसरम् ॥ अथ तथाभूतस्यैवातीतस्थानागतस्य वा कालस्य तद्रहितत्वं साध्यते । नच सिद्धसाध्यता । अन्यथाभूतस्य काल- स्याभावात् । न । अन्यथाभूतः कालो नास्तीति कुतः प्रमाणादवगतम् । यद्य- न्यतः, तत एवापौरुषेयलसिद्धिः, किमनेन । अतोऽनुमानाच्चेत् । न । अन्य- थाभूतकालाभावात्, अतोऽनुमानाचद्रहितत्वसिद्धिस्तत्सिद्धेस्तत्सिद्धिरितीतरे- तराश्रयदोषप्रसङ्गात् ॥ तदेवमन्यथाभूतकालस्याभावासिद्धेस्तथाभूतस्य तद्रहि- तत्वसाधने सिद्धसाधनामिति ॥ नापि शब्दातत्सिद्धिः । इतरेतराश्रयदोषप्र- सङ्गः । तदेवमन्यथा कथं वेदवचनमस्ति ॥ नापि विधिवाक्यादपरस्य भवद्भिः प्रामाण्यमभ्युपगम्यते । अभ्युपगमे वा पौरुषेयत्वमेव स्यात् । तथाहि । तत्प्रतिपादकानि वेदवचांसि श्रूयन्ते । “हिरण्यगर्भः समवर्तताये तस्यैव चैतानि निःश्वसितानि याज्ञवल्क्य इतीहोवाच" इत्यादीनि । तन्न शब्दा- दपि तत्सिद्धिः ॥ नाप्युपमानात् सिद्धिः। यदि हि चोदनासदृशं वाक्य- मपौरुषेयत्वेन किंचित् सिद्ध स्यात्, तदा तत्सादृश्योपमानेन वेदस्या- पौरुषेयत्वमुपमानात् सिद्धं स्यात् । नच तत्सिद्धमित्युपमानादपि न तत्सि- दिः॥ नाप्यर्थापत्तेः । अपौरुषेयत्वव्यतिरेकेणानुपपद्यमानस्य सिद्धवेदे कस्य- चिद्धर्मस्याभावात् । नापामाण्याभावलक्षणो धर्मोऽनुपपद्यमानो वेदस्यापौरुषेयत्वं परिकल्पयति । आगमान्तरेऽपि तस्य धर्मस्य भावादपौरुषेयत्वं स्यात् ॥ नचासौ तत्र मिथ्या । वेदेऽपि तन्मिथ्यावप्रसङ्गात् ॥ अथागमान्तरे पुरुषस्य कर्तुरभ्युपग- मात् 'पुरुषाणां च सर्वेषामपि आगमादिषु रक्तत्वात् , तद्देषजनितस्याप्रामाण्यस्य तत्र संभवात, नाप्रामाण्याभावलक्षणो धर्मस्तत्र सत्यः । वेदे त्वप्रामाण्यजनक- दोषास्पदस्य पुरुषस्य कर्तुरभावादप्रामाण्याभावलक्षणो धर्मः सत्यः ॥ कुतः पुन- ५४ सम्मतितकाख्यप्रकरणस्य- स्तत्र पुरुषाभावो निश्चितः । अन्यतः प्रमाणादिति चेत् । तदेवोच्यताम् , किम- पत्त्या । अर्थापत्तितश्चेत्। न। इतरेतराश्रयदोपप्रसङ्गात्। तथाहि । अर्थापत्तितः पुरुषाभावसिद्धावप्रामाण्यासिद्धिरेतत्सिद्धौ चार्थापतितः पुरुपाभावसिद्धिरिती- तरेतराश्रयत्वं, चक्रकचोचं चात्रापि । तथाहि । यद्यप्रामाण्याभावलक्षणो धर्मो ऽनुपपद्यमानो वेदेऽपौरुषेयत्वं कल्पयति, आगमान्तरेऽप्यसौ धर्मस्तत्किं न कल्पयति । तत्र पुरुषदोपसम्भवादसौ धर्मों मिथ्या; तेन तत्र तन्न कल्प- यति। वेदे कुतः पुरुषाभावः । अर्थापत्तेश्चैतदागमान्तरे समानमित्यादि तदेवावर्तत इति चक्रकानुपरमः ॥ नाप्यतीन्द्रियार्थप्रतिपादनलक्षणो धमोंऽनुपपद्यमानो वेदे पुरुषाभावं कल्पयति । आगमान्तरेऽपि समानत्वात् ॥न चाप्रामाण्याभावे पुरुषा- भावः सिद्यति । कार्याभावस्य कारणाभावं प्रति व्यभिचारित्वेनान्यथानुपपन्नत्वा- सम्भवात् । अप्रतिवद्धासमर्थस्य पुरुषस्याभावसिद्धावपि, न सर्वथा पुरुषाभाव- सिद्धिः । पुरुषमात्रस्यापि निराकरणादिष्टसिद्धिश्च। अप्रामाण्यकरणस्य तत्कर्तृत्वे. नास्माकमप्यनिष्टत्वात् ॥ नापि प्रामाण्यधर्मोऽन्यथाऽनुपपद्यमानो वेदे पुरुषाभावं साधयति। आगमान्तरेऽपि तुल्यत्वात् ॥ शेषमत्र चिन्तितमिति न पुनरुच्यते ॥ परार्थवाक्योच्चारणान्यथाऽनुपपत्तेस्तत्प्रतिपत्तिरिति चेत् । अयमर्थः। खार्थे- नावगतसंबन्धः शब्दः स्वार्थ प्रतिपादयति । अन्यथाऽगृहीतसंकेतस्यापि पुंसः ततो वाच्यार्थप्रतिपत्तिः स्यात् । सच संवन्धावगमः प्रमाणत्रयसंपाद्यः। तथाहि । यदैको वृद्धोऽन्यस्मै प्रतिपन्नसङ्गतये प्रतिपादयति-'देवदत्त!गामभ्याजैनां शुक्लां दण्डेन' इति, तदा पार्श्वस्थितोऽव्युत्पन्नसङ्केतः शब्दार्थी प्रत्यक्षतः प्रतिपद्यते, श्रो- तुश्च तद्विषयक्षेपणादिचेष्टादर्शनात अनुमानतोगवादिविषयां प्रतिपत्तिमवगच्छति; तत्प्रतीत्यन्यथाऽनुपपत्त्या शब्दस्य च तत्र वाचिकां शक्तिं स एव परिकल्पयति । स च प्रमाणत्रयसंपाद्योऽपि सङ्गत्यवगमो न सकृद्वाक्यप्रयोगात्संभवति । वाक्या- संमुग्धार्थप्रतिपत्ताववयवशक्तेरावापोहापाभ्यां निश्चयात्॥ नचास्थिरस्य पुनःपुन- रुच्चारणं संभवति, तदभावे नान्वयव्यतिरेकाभ्यां वाचकशच्यवगमः, तदस- स्वात् न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चार्यम् ; उच्चार्यते च परावबोधाय । वाक्यम् ; अतः परार्थवाक्योचारणान्यथानुपपत्त्या निश्चीयते धूमादिरिव गृहीतसंव- .
तत्त्वबोधविधायिनी व्याख्या । ५५ न्धोऽर्थप्रतिपादकः शब्दो नित्यः । तदुक्तम्। "दर्शनस्य परार्थवान्नित्यः शब्दः" इति ॥ अथ मतम् ; भूयो भूय उच्चार्यमाणः शब्दः सादृश्यादेकलेन निश्चीयमा- नोऽर्थप्रतिपतिं विदधाति, न पुनर्नित्यत्वात् ; तन्न किंचिन्नित्यत्वपरिकल्पनेन प्रमाणबाधितेन । तदयुक्तम् । सादृश्येन शब्दादर्थाप्रतिपत्तेः । नहि सदृश- तया शब्दः प्रतीयमानो वाचकत्वेनाध्यवसीयते, किन्त्वेकत्वेन । तथाह्येवं प्रतिपत्तिः । य एव संबन्धग्रहणसमये मया प्रतिपन्नः शब्दः स एवायमिति ॥ किंच । सादृश्यादर्थप्रतिपत्तौ भ्रान्तः शब्दादर्थप्रत्ययः स्यात् । नह्यन्यस्मिन् गृहीतसङ्केतेऽन्यस्मादर्थप्रत्ययोऽभ्रान्तः। यथा गोशब्दे गृहीतसंबन्धेऽश्वशब्दाग- वार्थप्रत्ययः ॥ न च भूयोऽवयवसामान्ययोगवरूपं सादृश्यं शब्दे संभवति । विशिष्ट वर्णात्मकत्वाच्छब्दस्य; वर्णानां च निरवयवखात् ॥ नच समानस्थान- करणजन्यत्वलक्षणं सादृश्यं प्रतिपत्तुं शक्यम् । परकीयस्थानकरणादेरतीन्द्रियस्वेन तज्जन्यस्याप्यप्रतिपत्तेः । नच गत्वादिविशिष्टानां गादीनां वाचकत्वमभ्युपगन्तुं युक्तम् । गत्वादिसामान्यस्याभावात् । तदभावश्च, गादीनां नानात्वायोगात् ।' तदयोगश्च, प्रत्यभिज्ञया गादीनामेकलनिश्चयात्। अत एव न सामान्यनिवन्धना गादिपु प्रत्यभिज्ञा भिदनिबन्धनस्य सामान्यस्यैव गादिप्वभावात् , कुतस्तन्निबन्ध- ना गादिपु प्रत्यभिज्ञा । किंच । किं गलादीनां वाचकत्वम् , उत गादिव्यक्ती- नाम् । न तावद्गत्वादीनाम् । नित्यत्वेनास्मदभ्युपगमाश्रयणप्रसङ्गात् । नापि गादीनां वाचकत्वम् । विकल्पानुपपत्तेः । तथाहि । किं गत्वादिविशिष्ट व्यक्ति- मानं वाचकम्, उत गादिव्यक्तिविशेपः । तत्र न तावत् गादिव्यक्तिविशेषः । सामान्ययुक्तस्यापि तस्यानन्वयात्। अनन्विताच्च नार्थप्रतिभासः । नापि गादि- व्यक्तिमात्रम् । यतस्तदपि व्यक्तिमानं किं सामान्यान्तर्भूतम्, उत व्यक्त्यन्त- भूतमिति कल्पनाद्वयम् । यदि सामान्यान्तःपाति, तदा पुनरपि नित्यस्य वाच- कत्वमित्यस्मत्पक्षप्रवेशः । अथ व्यक्त्यन्तर्भूतमिति पक्षः, तदाऽनन्वयदोपस्तदव- स्थित इति । किंच। यद्यनित्यः शब्दः, तदाऽऽलम्बनरहिताच्छब्दप्रतिभासमात्रा- दर्थप्रतिपत्तिरभ्युपगता स्यात् । तथाहि । शब्दश्रवणं, ततः सङ्केतकालानुभू- तस्मरणं, ततः तत्सदृशत्वेनाध्यवसायः । नचैतावन्तं कालं शब्दस्यावस्थान .
सम्मतिताख्यप्रकरणस्य- - भवत्परिकल्पनया, तवाचकशून्यात्तत्प्रतिभासादर्थप्रतिपत्तिः स्यात् । अतोऽर्थ- प्रतिभासाभावप्रसङ्गात नानित्यत्वं शब्दस्य ।। अत्र प्रतिविधीयते ॥ यदुक्तम् । दर्शनस्य परार्थत्वान्नित्यः शब्दोऽनित्यत्वे पुनः पुनरुच्चारणासंभवात् न समयग्रहः, तदभावे शब्दादर्थप्रतिपत्तिर्न स्यात्, इति परार्थशब्दोच्चारणान्यथाऽनुपपवेर्नित्यः शब्दः । तद्युक्तम् । अनित्यस्यापि धूमादेरिवावगतसंबन्धस्यार्थप्रत्यायकत्वसंभवात् शब्दस्य । नहि धूमादीनामप्ये. कैव व्यक्तिरग्न्यादिप्रतिपादिका, किन्त्वन्यैव । नचानाश्रितसमानपरिणतीनां सर्वधूमादिव्यक्तीनामर्वाग्दृशा खसाध्येन संबन्धः शक्यो ग्रहीतुम् । असाधा- रणरूपेण सर्वधूमादिव्यक्तीनामदर्शनात् । न च लिङ्गानुमेयसामान्ययोस्तत्र संबन्धग्रहणम् । शब्देऽप्यस्य न्यायस्य समानत्वात् । नच धूमत्वात् मया प्रतिपन्नोऽग्निरिति प्रतिपत्तिः, किन्तु धूमादिति । सा च लिङ्गानुमेययोः सामा- न्यविशिष्टव्यक्तिमात्रयोः संबन्धग्रहणे सति, सामान्यविशिष्टाग्निव्यक्त्यवगमे युक्ता । नच धूमसामान्यादग्निसामान्यस्य, यथा च सामान्यविशिष्टस्य विशेषस्य; अनुमेयत्वं, वाच्यत्वं वाऽभ्युपगमनीयम् । अन्यथा सामान्यमात्रस्य दाहाद्यर्थ- क्रियाऽजनकले, ज्ञानाद्यर्थक्रियायाश्च सामान्यसाध्यायास्तदैव समुहूते हार्थि- नामनुमेयवाच्यप्रतिभासात्मवृत्त्यभावेन, लिङ्गिवाच्यप्रतिभासयोरप्रामाण्यप्रसङ्गः। तथा धूमशब्दयोस्तद्विशिष्टयोः तत्त्वमभ्युपगन्तव्यम्; न्यायस्य समानत्वा- त्॥ नचानुमेयत्ववाच्यत्वसामान्य व्यक्तिव्यतिरेकेणानुपपद्यमानं तां लक्षयतीति लक्षणया प्रवृत्तिविष्यतीति वक्तुं शक्यम् । क्रमप्रतीतेरभावात् । नहि लिङ्ग- वाचकजनितलिङ्गिवाच्यप्रतिभासे, प्राक् सामान्यप्रतिभासः, पश्चाद्यक्तिप्रतिभास इति 'क्रमप्रतीत्यनुभवः । न च लक्षणा संभवतीति प्रपञ्चतः प्रतिपादयिष्याम इत्यास्तां तावत् ।। एवं सामान्यविशिष्टधूमादिलिङ्गस्य गमकत्ववद्गत्वादिविशिष्टगा- दिवाचकत्वे, न किञ्चिन्नित्यत्वेन । तदभावेऽपि धूमादिभ्य इवार्थप्रतिपत्तिसंभवात् । अथ धूमादौ सामान्यस्य संभवात् पूर्वोक्तेन न्यायेन गमकत्वमस्तु; शब्दे तु न किंचित्सामान्यमस्ति, यद्विशिष्टस्य शब्दस्य वाचकभावः । शब्दत्वमिति चेत् ।। न । गोशब्दस्य शब्दत्वविशिष्टस्य, खवाच्ये न संबन्धग्रहः । नच शब्दत्वमपि तत्त्वबोधविधायिनी व्याख्या । ५७ गादिपु विद्यते । गोशब्दत्वगत्वादीनां तु सत्त्वे का कथा। शब्दत्वादीनां स्वभावः, वर्णान्तरग्रहणे वर्णान्तरानुसन्धानाभावात् । यत्र सामान्यमस्ति तत्रैकग्रहणेऽपर- स्यानुसन्धानं दृष्टम्; यथा शाबलेयग्रहणे बाहुलेयस्य ।वर्णान्तरे च गादौ गृह्य- माणे न कादीनामनुसन्धानम् : तन्न तत्र शब्दत्वादिसंभवः । एतदयुक्तम् । यतः किमिदमनुसन्धान भवतोऽभिप्रेतं यद् वर्णान्तरे गृह्यमाणे वर्णान्तरस्य नास्तीति प्रतिपाद्यते । यदि गादौ वर्णान्तरे गृह्यमाणे, अयमपि वर्ण इत्यनुसन्धानाभावः। तदयुक्तम् । एवंभूतानुसन्धानस्यानुभूयमानत्वेनाभावासिद्धेः ॥ अथ गादौ वर्णा- न्तरे गृह्यमाणे, अयमपि कादिरित्यनुसन्धानाभावान्न सामान्यसहावः; तदाऽत्य- ल्पमिदमुच्यते । शावलेयादावपि व्यक्त्यन्तरे गृह्यमाणे, अयमपि बाहुलेय इत्यनुसन्धानाभावात् गोत्वस्याप्यभावः प्रसक्तः ॥ अथ तत्र गौौरित्यनुगता. कारप्रत्ययस्याबाधितस्य सद्भावात् न गोलासत्त्वम् । एतद् गादिष्वपि समानम् । तत्रापि वर्णो वर्ण इत्यनुगताकारस्याबाधितस्य प्रत्ययस्य सद्भावात् ; कथं न वर्णेपु वर्णत्वस्य, गादिपु गत्वादेः, शब्दे शब्दत्वस्य संभवः । निमित्तस्य समानत्वात् । तथाहि । समानासमानरूपासु व्यक्तियु कचित्समाना इति प्रत्य- योऽन्वेति, अन्यत्र व्यावर्त्तते । यत्र च प्रत्ययानुवृत्तिस्तत्र सामान्यव्यवस्था, नान्यत्र । सा च प्रत्ययानुवृत्तिादिष्वपि समाना इति कथं न तत्र सामान्य- व्यवस्था । यदि पुनर्गादिप्वनुगताकारप्रत्ययसत्त्वेऽपि न गत्वादिसामान्यमभ्युप- गम्यते, तर्हि शावलेयादिप्वपि न गोत्वसामान्यमभ्युपगमनीयम् । नहि तत्रापि तथाभूतप्रत्ययानुवृत्तिमन्तरेण सामान्याभ्युपगमेऽन्यत् निमित्तमुत्पश्यामः । अक्ष- जन्यत्वमबाधितत्वादि च प्रत्ययस्योभयत्रापि विशेपः समानः । यदि चानुगता- वाधिताक्षजप्रत्ययविशेषविपयत्वे सत्यपि गत्वादेरभावः; गादेरपि व्यावृत्ततथाभूत- प्रत्ययविपयस्याभावः स्यात् । ततश्च कस्य दर्शनस्य परार्थत्वान्नित्यत्वं साध्येत ॥ अथ गादी श्रोत्रग्राह्यत्वनिमिचोऽनुगतः प्रत्ययो न सामान्यनिमित्तः। तदप्ययु- क्तम् ! श्रोत्रग्राह्यवस्यातीन्द्रियत्वेनानवगमे निमिचाग्रहणे, तद्ग्रहणनिमित्तानु- गतप्रत्ययस्य गादावभावप्रसङ्गात् । न च प्रत्यभिज्ञया गादीनामेकत्वसिद्धर्भेदनि- वन्धनस्य तेषु गत्वादिसामान्यस्याभाव इति युक्तमभिधानम् । गायेकत्वग्राहि- सम्मतिताख्यप्रकरणस्य- ५८ काया लूनपुनर्जातकेशनखादिष्विव तस्या भ्रान्तत्वात् । अथ दलितपुनरुदिते न- खशिखरादौ प्रत्यभिज्ञाया बाधितत्वेन भ्रान्तत्वं, न पुनर्गादौ । ननु तत्र प्रत्यभि- ज्ञायाः किं बाधकम्।अन्तरालेऽदर्शनमिति चेत्। ननु गादावप्यन्तरालेऽदर्शनं समा- नम् । अथ दलितपुनरुदिते नखशिखरादावभावनिमित्तमन्तरालेऽदर्शनं, न गा- दावभावनिमित्तम् । किं पुनरत्रादर्शननिमित्तमिति वक्तव्यम् । किमत्र वक्त- व्यम्, अभिव्यक्तेरभावः। अथ केयमभिव्यक्तिर्यदभावादन्तराले गाद्यप्रतिपत्तिः। वर्णादिसंस्कारः । अथ कोऽयं वर्णादिसंस्कारः । आत्ममनःसंयोगपूर्वकप्रयत्न- प्रेरितेन कोष्ठेयन वायुना ताल्वादिसंयोगविभागवशात् प्रतिनियतवर्णाघभिव्यञ्ज- कत्वेन भेदमासादयता, वक्तृमुखसमीपगतैः स्पर्शनेन्द्रियप्रत्यक्षेण, तद्देशस्य च तूलादेः प्रेरणात्कार्यानुमानेन, देशान्तरे शब्दोपलब्ध्यन्यथाऽनुपपत्त्या च, प्रती- यमानेन; नित्यसर्वगतस्य गकारादेवर्णस्य, श्रोत्रस्य, उभयस्य वा वारकाणां वायूना- मपनयन; यथाक्रमं वर्णसंस्कारः, श्रोत्रसंस्कारः, उभयसंस्कारश्चेति चेत् । ननु वर्णसंस्कारोऽभिव्यक्तिरित्यभ्युपगमे, आवारकवायुभिर्विज्ञानजननशक्तिप्रतिघाता- द्वर्णोऽपान्तराले ज्ञानं न जनयतीति अभ्युपगन्तव्यम् । सा च शक्तिवर्ण- खरूपात् कथञ्चिदभिन्नाऽभ्युपगन्तव्या । एकान्तभेदे ततो वर्णादनुपकारे, तस्य शक्तिरिति संबन्धानुपपत्तेः । उपकारे वा तदुपकारिका अपरा शक्तिरभ्युप- गन्तव्या; तस्या अपि ततो भेदेऽनवस्था। अभेदे प्रथमैव शक्तिः कथञ्चिदभिन्ना- ऽभ्युपगमनीया। एवं हि पारम्पर्यपरिश्रमः परिहतो भवति । तथाभ्युपगमे च तच्छक्तिप्रतिघाते वर्णखरूपमेव तदभिन्नमावारकेण प्रतिहतं भवति । ततश्च कथं नानित्यवम् । व्यञ्जकेनापि शक्तिप्रतिबन्धापनयनद्वारेण विज्ञानजनक- शक्याविर्भावेन वर्णखरूपमेवाविर्भावितं भवतीति कथं न वर्णस्य व्यञ्जक- जन्यत्वम् । व्यञ्जकावाप्तविज्ञानजननस्वरूपो वर्णों यदि तेनैव खरूपेणावतिष्ठते, तदा सर्वदा तदवभासिज्ञानप्रसङ्गः, सर्वदा तद्जननस्वभावस्य भावात्।सहका- येपेक्षा च नित्यस्य न भवतीति प्रतिपादयिष्यामः।अजनने वा न तत्वभावतेति प्रथममपि ज्ञानं न जनयेत् । यो हि यन्न जनयति नसतज्जननस्वभावः। यथा शाः लिबीजं यवाङ्कुरमज़नयन्नातज्जननस्वभावम् । न जनयति च वर्णो व्यञ्जकाभि-
तत्वबोधविधायिनी व्याख्या ।
५९
मतवाय्वभिव्यक्तोऽपि सर्वदा स्वप्रतिभासिज्ञानम्, इति न सर्वदातजननस्वभावः।
तत्स्वभावाभावे चोत्तरकालं तदेवानित्यत्वमिति व्यर्थमभिव्यक्तिकल्पनम् । अपि
घ । वर्णाभिव्यक्तिपक्षे कोष्ठयेन वायुना यावद्वेगमभिसर्पता यावान्वर्णविभागो-
ऽपनीतावरणः कृतस्तावत एव श्रवणं स्यात्, न समस्तस्य वर्णस्येति खण्डशस्तस्य
प्रतिपत्तिः स्यात् ॥अथ वर्णस्य निरवयवलादेकत्रोत्सारितावरणःसर्वत्रापनीतावरण
इति नायं दोषः, तर्हि निविभागलादेवकवानपनीतावरणः सर्वत्र तथेति मना-
गपि श्रवणं न स्यात् । सर्वत्र सर्वात्मना वर्णस्य परिसमाप्तवात्। सामस्त्येन श्रव-
णाभ्युपगमे, वर्णस्याव्यापकलमनेकत्वं च दुर्निवारम् | यदि चैकत्राभिव्यक्तो निर्वि-
भागलेन सर्वत्राभिव्यक्तः, तदा सर्वदेशावस्थितैस्तस्य श्रवणं स्यात् । यदप्युच्यते ।
यथैवोत्पद्यमानोऽयमुत्पत्तिवादिना पक्षे दिगादीनामविभागादविभक्तदिगादिसंब-
न्धिलेन स्वरूपेणासर्वगतोऽपि, सर्वान् प्रति भवन्नपि, न सर्वैरवगम्यते; किन्तु
यच्छरीरसमीपवर्ती वर्ण उत्पन्नस्तेनैवासौ गृह्यते; तथाऽस्मत्पक्षेऽपि स्वतः सर्वगतो
'ऽपि वर्णो न सर्वेर्दूरस्थैरवगम्यते, किन्तु यच्छरीरसमीपस्थोऽभिव्यक्तस्तैरेवेति
व्यञ्जकध्वनिसन्निधानासन्निधानकृतं वर्णस्य श्रवणमश्रवणं च युक्तम् ।
एतदेवाह-
"यथैवोत्पद्यमानोऽयं न सर्वरवगम्यते ।
दिग्देशाद्यविभागेन सर्वान् प्रति भवन्नपि ॥ १ ॥
तथैव यत्समीपस्थैनीदैः स्यात् यस्य संस्कृतिः ।
तैरेव गृह्यते शब्दो न दूरस्थैः कथञ्चन"॥ २ ॥ इति ।
तदपि प्रलापमानम् । यतो यदि व्यञ्जका वायवो यत्रैव संनिहितास्तत्रैव वर्ण-
संस्कार कुर्युस्तदा स्यादप्येतत्, किन्तु तथाभ्युपगमे वर्णस्य सावयवत्वम् अनभिव्य-
क्तस्वरूपादभिव्यक्तस्वरूपस्य च भेदात्, अनेकत्वं च स्यात् । सर्वात्मना
-
तु संस्कारे-
"यच्छरीरसमीपस्थैनीदैः स्याद्यस्य संस्कृतिः ।
तैर्यथा श्रूयते शब्दस्तथा दूरगतैर्न किम्” ॥ १ ॥
. सम्मतिताण्यप्रकरणस्य- उत्पत्तिपक्षे तु अव्यापकत्वात् यत्समीपवर्ती वर्ण उत्पन्नस्तेनैवासौ गृह्यते, : न दूरस्थैरिति युक्तम्। दिग्देशाद्यविभागेनेति चातीवासङ्गतम्। अविभागस्य कस्य- चिहस्तुनोऽसंभवेनानभ्युपगमात् । किंच। व्यापकत्वेन वर्णानामेकवर्णावरणापाये, समानदेशत्वेन सर्वेषामनावृतत्वात्, युगपत्सर्ववर्णश्रुतिश्च स्यात् । अथापि स्यात् ; प्रतिनियतवर्णश्रवणान्यथाऽनुपपत्त्या व्यञ्जकभेदसिद्धेः, प्रतिनियतैर्व्यञ्जकैः प्रति- नियतावारकनिराकरणद्वारेण प्रतिनियतवर्णसंस्कारात् न युगपत्सर्ववर्णश्रुति- दोषः । स्यादेतत्, यदि व्यञ्जकानां वायूनां भेदः स्यात् । स चावारकभे- दनिबन्धनः । अन्यथा तदभेदेऽभिन्नावारकापनेतृत्वेन कुतो व्यञ्जकभेदः । आवारकभेदोऽपि वर्णदेशभेदनिबन्धनः । अन्यथा समानदेशानां यदेवक- स्यावारकं तदेवापरस्यापीत्यावारकभेदो न स्यात् । देशभेदोऽपि वर्णानामन्या. पकत्वे सति स्यात् । व्यापकत्वे तु परस्परदेशपरिहारेण वर्णानामवस्थाना- भावान्न देशभेदः । न चाव्यापकत्वं वर्णानामभ्युपगम्यते भवद्भिरिति न देशभेदः, तदभावान्नावारकभेदः, तदसत्त्वान्न व्यञ्जकभेद इति युगपत्सर्ववर्णश्रु- तिरिति तदवस्थो दोषः। नाप्यावारकाणां वर्णपिधायकत्वेनावारकत्वं, किन्तु वर्णे दृ- श्यस्वभावखण्डनात् । व्यञ्जकानामपि न तदावारकापनेतृत्वेन व्यञ्जकत्वं, किन्तु वर्णे दृश्यस्वभावाधानादिति पूर्वोक्तदोषाभाव इति वक्तुं न शक्यम् । यत एवम- मिधाने स्ववाचैव तस्य परिणामित्वमभिहितं स्यादित्यविपतिपत्तिप्रसङ्गः। तन्न वर्ण- संस्कारोऽभिव्यक्तिरिति पक्षोयुक्तः ॥ नापि श्रोत्रसंस्कारोऽभिव्यक्तिरिति पक्षो युक्तः। तस्मिन्नपि पक्षे सकृत्संस्कृतं श्रोत्रं सर्ववर्णान् युगपत् शृणुयात् । नह्यञ्जनादिना संस्कृतं चक्षुः संनिहितं स्वविषयं किञ्चित् पश्यति, किञ्चिन्नेति दृष्टम् ॥अथ व्यञ्जका- नां वायूनां भिन्नेषु कर्णमूलावयवेषु वर्तमानानां संस्काराधायकत्वेनार्थापत्त्या प्रति- नियतवर्णश्रवणान्यथाऽनुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन, संस्काराधायक- वस्य प्रतीतेनैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान् युगपद् गृह्णातीति। तथाहि। वायवीयशब्दपक्षे यथा गकारादेर्निष्पत्त्यर्थ प्रयत्नप्रेरितो वायुर्नान्यं वर्णमु- त्पादयति, तथाऽस्मत्पक्षेऽप्यन्यवर्णग्राहकश्रोत्रसंस्कारे समर्थो नान्यवर्णग्राहक- श्रोत्रसंस्कारं विधास्यति । येषां तु ताल्वादिसंयोगविभागनिमित्तः शब्द इति पक्षः, . .
तत्त्वबोधविधायिनी व्याख्या । ६१ तेपो यथाऽन्यगकारादिजनकैः संयोगविभागैर्नान्यो वर्णो जन्यते, तथाऽस्मत्पक्षेऽपि नान्यवर्णग्राहकश्रोत्रसंस्काराधायकव्यञ्जकप्रेरकैरन्यवर्णग्राहकश्रोत्रसंस्काराधायक- वायुप्रेरणं क्रियत इत्युत्पत्त्यभिव्यक्तिपक्षयोः कार्यदर्शनान्यथाऽनुपपत्त्या समः सामर्थ्यभेदः प्रयत्नविवक्षयोः सिद्धः। अतश्च यदुक्तं कैश्चित्। समानेन्द्रियग्राह्येष्व- थेपु व्यञ्जकेपु न दृष्टो नियम इति । एतदयुक्तम् । अर्थापत्तेदृष्टान्तानपेक्षत्वात् । दृष्टश्च तैलाभ्यक्तस्य मरीचिभिः, भूमेस्तूदकसेकेन गन्धाभिव्यक्तिभेद इति कथं न व्यञ्जकनियमः॥ तदुक्तम्- "व्यञ्जकानां हि वायूनां भिन्नावयवदेशता । जातिभेदश्च, तेनैव संस्कारो व्यवतिष्ठते ॥१॥ अन्यार्थ प्रेरितो वायुर्यथाऽन्यं न करोति वः । तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति ॥२॥ अन्यैस्ताल्बादिसंयोगै न्यो वर्णो यथैव हि । तथा ध्वन्यन्तराक्षेपो न ध्वन्यन्तरसारिभिः ॥ ३ ॥ तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः । सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः ॥ ४ ॥ इति । एतदसंबद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकानां, समानदेशसमानेन्द्रियग्रा- ह्येष्वर्थपु प्रतिनियतविपयग्राहकत्वेनेन्द्रियसंस्कारकत्वस्य कदाचिददर्शनात् । नह्य- खनादिना संस्कृतं चक्षुः सन्निहितं स्वविपयं किञ्चित्पश्यति, किश्चिन्नेत्युपलब्धम् । तथा वाधिर्यनिराकरणद्वारेण वलातैलादिना संस्कृतं श्रोत्रं स्वग्राह्यान् गकारादीन् वर्णानविशेषेणैवोपलभमानमुपलभ्यते । एवं घ्राणादीनीन्द्रियाणि स्वव्यञ्जकैः संस्कृतानि स्वविपयग्राहकत्वेनाविशेपेण प्रवर्त्तमानानि प्रतीयन्त इति प्रकृतेऽ प्ययमेव न्यायो युक्तः ॥ यश्च तैलाभ्यक्तस्य मरीचिभिः, भूमेस्तूदकसेकेन गन्धाभिव्यक्तिरिति व्यञ्जकं प्रति नियमो दर्शितः; सोऽपि विपयसंस्कारक- व्यजकप्रतिनियमो, नेन्द्रियसंस्कारकव्यञ्जकप्रतिनियमः । विपयसंस्कारकेष्व- प्ययं नियमो भिन्नदेशेषु दर्शितो, न समानदेशसमानेन्द्रियग्राह्येषु । तत .
. ६२ सम्मतिताख्यप्रकरणस्य- इन्द्रियसंस्कारकेषु समानेन्द्रियग्राह्ये समानदेशेऽर्थे प्रतिनियतविषयग्राहकत्वेन, इन्द्रियान्तरविषयग्राहकत्वेन च इन्द्रियसंस्कारकत्वस्यादर्शनात्, अत्यन्ता- संभविनो नार्थापत्तिसामर्थ्यात्कल्पना युक्ता । कारकाणां तु प्रतिनियत- कार्यकर्तृत्वस्यान्यत्राप्युपलब्धेः प्रतिनियतवर्णोत्पादनसामर्थ्यभेदस्य ताल्वादि- वर्थापतितः कल्पना संभाव्यत एव । किंच । इन्द्रियं संस्कुर्वद् व्यञ्जक यदि यथावस्थितवर्णग्राहकत्वेनेन्द्रियसंस्कारं विदध्यात्, तदा सकलनमस्त- लव्यापिनो गादेः प्रतिपत्तिः स्यात् । नचासौ दृष्टा । अथान्यथा न तर्हि वर्णस्वरूपप्रतिभास इति न तत्स्वरूपसिद्धिः; तन्न श्रोत्रसंस्कारोऽप्यभिव्यक्तिः ॥ नाप्युभयसंस्कारोऽभिव्यक्तिः, प्रत्येकपक्षोक्तदोषप्रसङ्गात् । नचान्यप्रकारः संस्का- रोऽभिव्यक्तिः संभवति । तदभिव्यक्तेरसंभवात् । नानमिव्यक्तिनिमित्तोऽन्तराले गादीनामनुपलम्भः किन्तु दलितनखशिखरादिष्विवाभावनिमित्तः, इति लूनपु- नर्जातनखादिष्विवापान्तरालादर्शनेन गादिप्रत्यभिज्ञाया बाध्यमानत्वादप्रामाण्यम् । अथ खण्डितपुनरुदितकररुहसमूहविषयाया अपि प्रत्यभिज्ञायास्तत्सामान्यवि- षयत्वेन नाप्रामाण्यमः तस्यास्तद्विषयतयाऽबाध्यमानत्वात् । नचायं प्रकारो गा- दिविषयप्रत्यभिज्ञायाः सम्भवति । तथाभूतकेशादिष्विव गादिभेदविषयाबाधित- प्रतिभासाभावेन तद्भेदासिद्धौ, समानानां भावः सामान्यमिति कृत्वा तत्र सा- मान्यस्यैवासम्भवात् । असदेतत् । गादिष्वपि पूर्वोपलब्धगादेः सकाशादयमल्पो महान् कर्कशो मधुरो वा गादिरित्यबाधिताक्षजप्रतिभाससद्भावेन भेदनिबन्धनसा- मान्यसम्भवस्य न्यायानुगतत्वात् । नच यथा तुरगजवस्य पुरुषेऽध्यारोपात्पुरुषो यातीति प्रत्ययो व्यपदेशश्च, तथा व्यञ्जकध्वनिगतस्याल्पकर्कशादेर्गादावुपचा- रात् तथा प्रत्ययो, व्यपदेशश्चेत्यभ्युपगन्तुं शक्यम् । तथाऽभ्युपगमे, वाहीके गो- प्रत्ययवद्, गादिप्रत्ययस्य भ्रान्तत्वेनगादिस्वरूपासिद्धिप्रसङ्गात् । नहि भ्रान्तप्रत्य- यसंवेद्या द्विचन्द्रादयः स्वरूपसंगतिमनुभवन्ति । नचाल्पमहत्त्वप्रत्यययोमा॑न्तित्वे, अल्पमहत्त्वे एव गादिविषये अव्यवस्थितस्वरूपे: न पुनर्गादिको वर्णः । तत्प- त्ययस्याभ्रान्तत्वात् । नचान्यविषयप्रत्ययस्य भ्रान्तत्वेऽन्यस्य तथाभावोऽतिप्र... सगादिति वक्तुं युक्तम् । यतो यद्यल्पमहत्त्वादिधर्मव्यतिरिक्तस्य गादेः,द्वित्वर- - तत्त्वबोधविधायिनी व्याख्या । हितस्येव निशीथिनीनाथस्य, प्रत्ययविषयत्वं स्यात् तदैव तयुज्येतापि वक्तुम् । नच स्वप्नेऽपि तर्मानध्यासितो गादिः केनचित् प्रतीयत इति कथं तस्य महत्त्वादिधर्मरहितस्य स्वरूपव्यवस्था । अत एव महत्त्वादिधर्मयुक्तस्य सर्वदा प्रतीयमानत्वाद् गादेन तद्धर्मयुक्ततया प्रतीयमानस्य, उपचरितप्रत्ययविषयता ।। तदुक्तम्:- “यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथाऽपि वा । स भ्रान्तो, नतु तेनैव यो नित्यमुपलभ्यते"॥ १ ॥ इति । तन्न व्यञ्जकधर्माध्यारोपादुपचरितप्रत्ययविषयत्वं तथाभूतस्य गादेः । सर्वभावानामुपचरितप्रत्ययविषयखेन स्वरूपाभावप्रसङ्गात् । नच व्यञ्जकस्य प्रदीपादेरल्पमहत्त्वभेदात् व्यङ्ग्यस्य घटादेरल्पमहत्त्वभेदप्रतिभासो दृष्टः ॥ अथ व्यञ्जकधर्मानुकारित्वं व्यङ्ग्ये उपलभ्यते । तथाहि । एकस्वरूपमपि मुखं, खड्गे प्रतिबिम्बितं दीर्घम्, आदर्शे वर्तुलं, नीलकाचे गौरमपि श्याम, व्यञ्जकधर्मानु- कारितया प्रतिभासविषयमुपलभ्यत इति प्रकृतेऽपि तथा स्यात् । एतदप्यसङ्गतम् । दृष्टान्तमात्रादासिद्धेः । तस्य हि साध्यसाधनप्रतिबिम्बसाधकप्रमाणविषयतया साध्यसिद्धाबुपयोगो, न खतन्त्रस्य । अन्यथा 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः' इत्यादिदृष्टान्तमात्रतो, अद्वैतवादिनोऽपि पुरुपाद्वैतसिद्धेः, शब्द- खरूपस्याप्यभावात् कस्योपचारात् महत्त्वादिप्रतिभास इत्युच्यते । मुखादीनां च च्छाया खड्गादौ संक्रान्ता तद्धर्मानुकारिणी प्रतिभाति, न मुखादयः । नच गादीनां छाया व्यजकध्वनिसंक्रान्ता तधर्मानुकारिणी प्रतिभातीति शक्य वक्तुम् । शब्दस्य भवताऽमूर्त्तत्वेनाभ्युपगमात् । अमूर्तस्य च मूर्तध्वनौ छाया- प्रतिबिम्बनासंभवात् । मूर्त्तानामेव हि मुखादीनां मूर्चे आदर्शादौ छायाप्रति- बिम्बनं दृष्टं, नामूर्तीनामात्मादीनाम् । अदृष्टे च ध्वनौ छाया प्रतिबिम्बिताऽपि न गृह्येत, कथं तद्धर्मानुकारितया प्रतीतिविषयः । नच ध्वनेः शब्दप्र- तिभासकाले श्रवणप्रतिपत्तिविषयत्वम् । उभयाकारप्रतिपत्तेरसंवेदनात् । तन्न व्यञ्जके ध्वनी प्रतिबिम्बिता गकारादिच्छाया प्रतिभाति । नाप्यमूर्ने गादौ ध्वनिच्छायाप्रतिबिम्बनं युक्तम् । अमूर्ते आकाशादौ घटादिच्छायाप्रतिबिम्बना- सम्मतिताख्यप्रकरणस्य- नुपलब्धेः । तदयुक्तमुक्तं खड्गादौ दीर्घमुखादिप्रतिभासवदल्पमहत्त्वादियुक्त- शब्दप्रतिभास इति । दृष्टान्तदान्तिकयोवैषम्यात् । अतोऽबाधितमहत्त्वादिभेद- भिन्नगादिप्रतिभासाद् गादिभेदसिद्धेः, तन्निबन्धनस्य सामान्यस्य गादौ सद्भावात् ; तन्निबन्धना प्रत्यभिज्ञा दलितोदितनखशिखरादिष्विव गादावभ्युपगमनीया । अत एव धूमादीनामिवानित्यत्वेऽपि गादीनां, सामान्यसद्भावतः सङ्गत्यवगमस्य संभवात् ; न परार्थशब्दोच्चारणान्यथाऽनुपपत्त्या तन्नित्यत्वकल्पना युक्ता । तद् गत्वादिविशिष्टस्य गादेरविवक्षितविशेषस्य स्वार्थेन सङ्गत्यवगमेन, न किञ्चि- नित्यलेन । यथा गोवादिविशिष्टस्य गोव्यक्तिमात्रस्य वाच्यत्वे न कश्चिद्दोषः; तहद् वाचकवेऽपि तदर्थप्रतिपादकलस्य अन्यथापि सम्भवात् 'दर्शनस्य परार्थत्वात् नित्यः शब्दः' इत्ययुक्तमभिहितम् ॥ यत्पुनरुक्तम् । सदृशत्वेनाग्रह- णात् न सादृश्यादर्थप्रतिपत्तिरिति । तत्र यदि सदृशपरिणामलक्षणं सामान्यं, व्यक्तेः सादृश्यमभिप्रेतम् ; तदा तस्य यथा शक्तिविशेषणस्य वाचकत्वं तथा प्रतिपादितम् । अथान्यथाभूतं सादृश्यमत्र विविक्षितं, तदा तस्य वाचकलान- भ्युपगमात् स एव परिहारः । यत्तूक्तम् । वर्णानां निरवयवत्वात् न भूयोऽवय- वसामान्ययोगलक्षणस्य सादृश्यस्य सम्भवः । तदत्यन्तासङ्गतम् । वर्णानां भाषा- वर्गणारूपपरिणतपुद्गलपरिणामस्यैव सावयवत्वात् ॥अथ पौद्गलिकले वर्णानां, महत्यदृष्टकल्पना प्रसज्यते । तथाहि । शब्दस्य श्रवणदेशागमनं, मूर्तिस्पर्शादि- मत्त्वं च अनुपलभ्यमानं परिकल्पनीयम् । तेषां च मूर्तिस्पर्शानां सतामप्यनु- द्भूतता कल्पनीया, त्वगग्राह्यत्वं च परिकल्पनीयम् । ये चान्ये सूक्ष्मा भागा- स्तस्य कल्प्यन्ते, तेषां च शब्दकरणवेलायां सर्वथाऽनुपलभ्यमानानां कथं रच- नाक्रमः क्रियताम् । उपलभ्यमानत्वेऽपि कीदृशाद्रचनाभेदात् गकारादिवर्णभेदः, द्रवत्वेन च विना कथं वर्णावयवानां परस्परतः संश्लेषो वर्णनिष्पादकः । यद्यपि च कथञ्चित् की निष्पादिता वर्णाः, तथापि आगच्छता कथं न वायुना वि- श्लेषः । लघूनां तवयवानामुदकादिनिबन्धनाभावात् । निबद्धानामप्यागच्छ- तां वृक्षाद्यभिहतानां विश्लेषो लोष्टवत् । नचैकशब्दस्यैकश्रोत्रप्रवेशे मूर्त्तत्वेन प्रतिबद्धत्वादन्येषां श्रोतॄणां तद्देशव्यवस्थितानामपि श्रवणमुपपद्यते । प्रयत्ना- तत्त्वबोधविधायिनी व्याख्या। ६५ न्तरस्यासत्त्वेन पुनर्निष्क्रमणासम्भवात् । नचैकगोशब्दापेक्षयाऽवान्तरवर्णनाना- वकल्पनायामस्ति प्रयोजनम् । एकस्मादेव गोशब्दादर्थप्रतीतेः । अतो गकारा- दिवर्णनानात्वमदृष्टं परिकल्पनीयम् । न चैकस्यैव गोशब्दावयविनः सर्वासु दिक्षु गमनं युज्यत इत्यनेकादृष्टपरिकल्पना स्यात् । तदुक्तम्:- "शब्दस्याऽऽगमनं तावददृष्टं परिकल्प्यते। मूर्तिस्पर्शादिमत्वं च तेषामभिभवः सताम् ॥ १॥ त्वगग्राह्यत्वमन्ये च सूक्ष्मा भागाः प्रकल्पिताः । तेषामदृश्यमानानां कथं च रचनाक्रमः ॥ २ ॥ कीदृशादचनाभेदावर्णभेदश्च जायताम् । द्रवत्वेन विना चैषां संश्लेषः कल्प्यतां कथम् ॥ ३ ॥ आगच्छतां च विश्लेषो न भवेद्वायुना कथम् । लघवोऽवयवा ह्येते निबद्धा नच केनचित् ॥ ४ ॥ वृक्षाद्यमिहतानां तु विश्लेषो लोष्टवद्भवेत् । एकश्रोत्रप्रवेशे च नान्येषां च पुनः श्रुतिः ॥ ५ ॥ नचावान्तरवर्णानां नानात्वस्यास्ति कारणम् । नचैकस्यैव सर्वासु गमनं दिक्षु युज्यते॥ ६ ॥ इति । एतद्भवत्पक्षेऽपि सर्व समानम् । तथाहि । वायोरागमनं तावददृष्टं परिक- रूप्यत इत्याद्यपि वक्तुं शक्यत एव । केवलं वर्णस्थाने वायुशब्दः पठनीय इति कथं न भवत्पक्षेऽपि भूयस्यदृष्टपरिकल्पना अपि च । भवत्पक्षेऽयमपरः परिकल्प- नागौरवदोषः सम्पद्यते । वर्णस्य पूर्वापरकोट्योः सर्वत्र देशेऽनुपलभ्यमानस्य सत्त्वं परिकल्पनीयम्;तस्य चावारकाः स्तिमिता वायवः प्रमाणतोऽनुपलभ्यमानाः, तदपनोदकाश्चान्ये तथाभूता एव व्यञ्जकाः परिकल्पनीयाः; तेषां चोभयरूपा- णामपि शक्तिनानात्वं परिकल्पनीयम् । अस्मत्पक्षे तत्सर्वमपि नास्तीति कथम- दृष्टपरिकल्पना गु: । पौद्गलिकत्वं च शब्दस्य,अम्बरगुणप्रतिषेधप्रस्तावेप्रमाणो- पपन्नं करिष्यत इत्यास्तां तावत् ॥ यत्पुनोन्तत्वं शब्दादर्थप्रत्ययस्याभिहितम् ; m ९ सम्मतिताख्यप्रकरणस्य- तधूमालिङ्गाल्लिङ्गिप्रत्ययेन प्रत्युक्तम् ॥गत्वादिविशिष्टस्य गादेर्वाचकत्वमयुक्तम् । गत्वादेः सामान्यस्यासम्भवात् ; तदनन्तरं निराकृतम् । यत्पुनरुक्तम् । गादिव्यक्ति- मात्रं गत्वादिविशिष्टं नोपपद्यते, तस्य सामान्यविशेषयोरन्यतरत्रान्तर्भाव एकत्र वाचकस्य नित्यत्वप्रसङ्गात्, अन्यत्रानन्वयात् वाचकत्वायोगात् । एतदसारम् । व्यक्तिमात्रस्य सामान्यविशिष्टस्य पूर्व वाचकत्वव्यवस्थापनात् । ता एव व्यक्तयो- ऽविवक्षितासाधारणविशेषाः सामान्यविशिष्टव्यक्तिमात्रशब्दाभिधेयाः । किंच । किं वर्णानां नित्यत्वमभ्युपगम्यते, उत वर्णक्रमस्य, आहोस्वित् वर्णाभिव्यक्तः, किंवा तत्क्रमस्य । तत्र न तावदभिव्यक्तेनित्यत्वम् । तस्या निषिद्धत्वात् । अनिषेधेऽपि पुरुषप्रयत्नप्रेरितवायुजन्यत्वेनापौरुषेयत्वासम्भवात् । नाप्यभिव्यक्तिक्रमस्य । अभिव्यक्त्यभावे तत्क्रमस्याप्यभावात् । तत्पौरुषेयत्वे तस्यापि पौरुषेयत्वात् ॥ अथैवं पौरुषेयत्वस्यानादिसिद्धस्य केनचिदादावकृतस्य सर्वपुरुषैः परिग्रहात्, पुरुषाणां खातन्त्र्याभावादपौरुषेयत्वमुच्यते । तदुक्तम्:- वक्ता नहि क्रम कश्चित्वातन्त्र्येण प्रपद्यते । यथैवास्य परैरुक्तः तथैवैनं विवक्षति ॥१॥ परोऽप्येवं ततश्चास्य संबन्धवदनादिता । तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता ॥ २ ॥ यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता" ॥ इति । एतदसंबद्धम् । अपौरुषेयत्वप्रतिपादकप्रमाणस्यासिद्धत्वात् ॥ अथ वर्ण- कमस्यापौरुषेयत्वमभ्युपगम्यते तदप्यचारु । वर्णानां नित्यलेन कालकृतस्य तन्तुपटवद्; व्यापकत्वेन देशकृतस्य मुक्तावलीमुक्ताफलमालावत् ; अस्यासंभ- वात् ॥ अथ वर्णानामपौरुषेयत्वमङ्गीक्रियते । तदप्यसङ्गतम् । 'य एव लौकिकाः शब्दास्त एव वैदिकाः' इत्यभिधानात् वेदवल्लोकायतशास्त्रमपि प्रमाणं स्यादिति तदर्थानुष्ठानं भवतः प्रसज्यते । लौकिके च वाक्ये यो विसंवादः कचिदुपल- भ्यते, स भवन्नीत्या न प्राप्नोति॥ अथ लौकिकवैदिकशब्दयोर्भेदोऽभ्युपगम्यते । तथा रागादिसमन्वितत्वाभ्युपगमात्सर्वपुरुषाणां, न तेषां यथावस्थितवेदार्थ- ६७ तत्त्वबोधविधायिनी व्याख्या। परिज्ञानम् ; स्वयं वेदोऽपि न भवतां वेदाथै प्रतिपादयति; नापि वेदार्थप्रति- पादकमपौरुषेयं वेदव्याख्यानमवगतार्थ सिद्धम्, येन ततो वेदार्थप्रतिपत्तिः, लौकिकशब्दानुसारेण वेदशब्दार्थप्रकल्पनमपि तद्भेदाभ्युपगमेऽनुपपन्नमिति न वेदार्थप्रसिद्धिः स्यादिति न वैदिकलौकिकशब्दयोर्भेदाभ्युपगमः श्रेयानिति लौकिकवद्वैदिकस्यापि पौरुषेयत्वमभ्युपगन्तव्यम्। न च लौकिकवैदिकशब्दयोः शब्दस्वरूपाविशेषे, सङ्केतग्रहणव्यपेक्षवेनार्थप्रतिपादकले, अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे सत्यतोऽपरो विशेषो विद्यते; यतो वैदिका अपौरुषेयाः, लौकिकाः पौरुषेयाः स्युः । तथा नियोगे चार्थप्रत्यायनमुभयोरपि । नच नित्यत्वे पुरुषे- च्छावशादर्थप्रतिपादकत्वं युक्तम् ; उपलभ्यन्ते च यत्र पुरुषैः सङ्केतितास्त- मर्थमविगानेन प्रतिपादयन्तः । अन्यथा नियोगाद्यर्थभेदपरिकल्पनमसारं स्यात् । अतः पौरुषेयत्वमनुमानादवसीयते । तथाहि । ये नररचितरचनाविशिष्टास्ते पौरुषेयाः, यथाऽभिनवकूपप्रासादादिरचनाविशिष्टा जीर्णकूपप्रासादादयः, नरर- चितरचनाविशिष्टं च वैदिकं वचनमिति प्रयोगः ॥ नचात्राश्रयासिद्धो हेतुः । वैदिकीनां रचनानां प्रत्यक्षत उपलब्धेः ॥ नाप्यप्रसिद्धविशेषणः पक्षः । अभिनव. कूपप्रासादादिपु पुरुषपूर्वकत्वेऽस्य साध्यधर्मलक्षणस्य विशेषणस्य सिद्धत्वात् ॥ . नच हेतोः स्वरूपासिद्धत्वम् । वैदिकीषु वचनरचनासु विशेषग्राहकप्रमाणाभा- वेन तस्याभावात् । नच प्रामाण्याभावलक्षणो विशेपः तत्र इति शक्यमभिधातुम् तथाभूतस्य विशेषस्य विद्यमानस्यापि पौरुषेयत्वानिराकरणात् । यादृशो हि विशेष उपलभ्यमानः पौरुषेयत्वं निराकरोति, तादृशस्य विशेषस्याभावादविशि- एत्वमुच्यते, न पुनः सर्वथा विशेपाभावात् ; एकान्तेनाविशिष्टस्य कस्यचिदभा- वात् । अप्रामाण्याभावलक्षणश्च विशेषो दोषवन्तमप्रामाण्यकरणं पुरुषं निराकरोति, नच गुणवन्तमप्रामाण्यनिवर्त्तकम् । नच गुणवतः पुरुपस्याभावात्, अन्यस्य च तेन विशेपेण निवर्तितत्वात्सिद्धमेवापौरुषेयत्वं वेद इत्यभ्युपगमनीयम् । अपौ- रुपयेत्वस्य निराकृतत्वाद्, गुणवत्पुरुषाभावेऽप्रामाण्याभावलक्षणस्य विशेषस्या- भावप्रसङ्गात् । नच गुणवतः पुरुषस्यान्येन विशेषेण निराकरणमिति तथाभूत- विशेषस्याभावात् नासिद्धो नररचितवचनरचनाविशिष्टत्वलक्षणो हेतुः। पौरुषेयेषु - ६८ सम्मतिताख्यप्रकरणस्य- प्रासादादिषु . नररचितरचनाविशिष्टत्वदर्शनादपौरुषेयेष्वाकाशादिष्वदर्शनाच, नानैकान्तिकः॥अथापौरुषेयेष्वदृष्टमपि नररचितरचनाविशिष्टत्वं, तत्र विरोधाभा- वादाशङ्कयमानं सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् । न । अपौरुषेयेष्व- पि नररचितरचनाविशिष्टत्वस्य भावे, पौरुषेयत्वेन निश्चितेपु प्रासादादिषु सकृदपि तस्य सद्भावो न स्यात् । अन्यहेतुकस्य ततः कदाचिदप्यभावात् । भावे वा तहेतुक एवासाविति नापौरुषेये तस्य सद्भावः शङ्कनीयः॥अत एव न विरुहः। पक्षधर्मत्वे सति विपक्ष एव वृत्तिर्यस्य स विरुद्धः। नचास्य विपक्षे वृत्तिरिति प्रतिपा- दितम् ॥ नापि कालात्ययापदिष्ट-प्रकरणसमा-प्रयोजकत्वानि हेतोोपाःसम्भवन्ति। तथाहि । प्रत्यक्षागमबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वं हेतोः कालात्ययापदिष्टत्व- मुच्यते । नच यत्र खसाध्याविनाभूतो हेतुर्धामणि प्रवर्त्तमानः स्वसाध्यं व्यवस्था- पयति, तत्रैव प्रमाणान्तरं प्रवृत्तिमासादयत्तमेव धर्म व्यावर्त्तयति । एकस्यैकदैकत्र विधिप्रतिषेधयोर्विरोधात् । तन्न बाधाविनाभावयोः सम्भव इति न कालात्ययापदिष्ट- खमविनाभूतस्य हेतोर्दोषःसंभवति ॥ प्रकरणसमत्वमपि प्रतिहेतोविपरीतधर्मसाध- कस्य प्रकरणचिन्ताप्रवर्तकस्य तत्रैव धर्मिणि सद्भाव उच्यते । न च खसाध्यावि- नाभूतहेतुसाधितधर्मिणो धर्मिणि विपरीतत्वं संभवतीति न विपरीतधर्माधायिनो हेत्वन्तरस्य तत्र प्रवृत्तिरिति न प्रकरणसमत्वमविनाभूतस्य हेतोर्दोषः॥ अप्रयो- जकत्वं तु पक्षधर्मान्धयव्यतिरेकाणामन्यतमरूपाभावः । नच प्रकृते हेतौ तदभाव- इति दर्शितम् ॥ अथाऽनुमानलक्षणयुक्तस्य प्रत्यनुमानस्यापौरुषेयत्वसाधकस्य सद्भावात् प्रकरणसमता, प्रकृतस्य हेतोरनुमानबाधितत्वं वा पक्षस्य दोषः । प्रत्य- नुमानं च दर्शितम् :- "वेदाध्ययनमखिलं गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा" ॥१॥ इति । नचैतदाशङ्कनीयम् । एवंविधे प्रत्यनुमानेऽभ्युपगम्यमाने कादम्बर्यादी- नामप्यपौरुषेयत्वसिद्धिः । यतस्तेषु बाणादीनां कर्तृणां निश्चयः । तथाहि । कालिदासकृतत्वेन कुमारसंभवादीनि काव्यानि अविगानेन स्मर्यन्ते ॥ अथ वेदेऽपि कर्तृस्मरणमस्ति । तथाच । केचिद्धिरण्यगर्भ वेदानां कर्तारं स्मरन्ति;
तत्त्वबोधविधायिनी व्याख्या । अपरे अष्टकादीन् ऋषीन् । सत्यमस्ति, नत्वविगीतं; यथा भारतादिपु । तथा छिन्नमूलं च स्मरणस्यानुभवो मूलम् । नच वेदे कर्तृस्मरणस्य केनचित्प्रमाणेन मृलानुभवो व्यवस्थापयितुं शक्यः । यदपि कर्तृसद्भावप्रतिपादकं वचनं कैश्चित् कृतम्, 'हिरण्यगर्भः समवर्त्तताग्रे' इत्यादि; तदपि मन्त्रार्थवादानां श्रूयमाणे ऽथें प्रामाण्यायोगात्, न तत्सद्भावावेदकम् । तदुक्तम् :- "भारतेऽपि भवेदेवं, कर्तृस्मृत्या तु बाध्यते । वेदे तु तत्स्मृतियां तु, साऽर्थवादनिवन्धना' ॥ १ ॥ एतदप्ययुक्तम् । यतः किमत्र प्रतिसाधनत्वेन विवक्षितम् ? | किमध्ययन- शब्दवाच्यत्वम्, उत कर्तुरस्मरणम् । पूर्वस्मिन् पक्षे, निर्विशेषणो वा हेतुरपौरुषे- यत्वप्रतिपादकः, कञस्मरणविशिष्टो वा। निर्विशेपणस्य निश्चितकर्तृकेषु भार- तादिष्वपि भावादनैकान्तिकत्वम् । किंच । किं यथाभूतानां पुरुषाणामध्यय- नपूर्वकं दृष्टं तथाभूतानामेवाध्ययनवाच्यत्वम्, अध्ययनपूर्वकत्वं साधयति, उत अन्यथाभूतानाम् । यदि तथाभूतानां, तदा सिद्धसाधनम् । अथान्यथाभूतानां, तदा सन्निवेशादिवदप्रयोजको हेतुः ॥ अथ तथाभूतानामेव साधयति । न च सिद्धसाधनम् ; सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येन अतीन्द्रियार्थप्रति- पादकप्रेरणाप्रणेतृत्वासामर्थ्येनेदृशत्वात् । स्यादेतत् ; यदि प्रेरणायास्तथाभूता- र्थप्रतिपादनेऽप्रमाण्याभावः सिद्धः स्याद्; यावता गुणवद्वक्तुरभावे तद्गुणैरनि- राकृतैदॉपैरपोदितत्वात्सापवादं प्रामाण्यमित्युक्तम्, तथाभूतां च प्रेरणामती- न्द्रियदर्शनशक्तिविकला अपि कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वा- सामध्यन सर्वपुरुषाणामीदृशत्वसिद्धिः, यतः सिद्धसाधनं न स्यात् । अथ न गुणवक्तृकत्वेन चोदनाया अप्रामाण्यनिवृत्तिः, किन्त्वपौरुषेयत्वेन; ततो नायं दोपः । ननु कुतः पुनरपौरुषेयत्वं चोदनाया अवगतम् । यधन्यतोऽनुमानात्, तदा तत एवापौरुषेयत्वसिद्धेय प्रकृतमनुमानम् । अत एवानुमानाचेत् । नन्व- तोऽनुमानादपौरुषेयत्वसिद्धौ, प्रेरणाया अप्रामाण्याभावः; तदभावाच्च तथाभूतप्रे- रणाप्रणेतृत्वासामथ्र्येन सर्वपुरुषाणामीहशत्वसिद्धिः, इतीतरेतराश्रयदोषसहावः ।
सम्मतिताख्यप्रकरणस्य- अतः स्थितमेतत् तथाभूतानां तथाभूताध्ययनसाधने सिद्धसाधनम् । तन्न नि- विशेषणो हेतुः प्राक्तनोऽपौरुषेयत्वं साधयति ॥ अथ सविशेषणो हेतुः पूर्वोक्ता प्रकृतसाध्यगमकः, तदा विशेषणस्यैव केवलस्य गमकत्वाद्विशेष्योपादानमन- र्थकम् । भवतु विशेषणस्यैव गमकत्वम्, सर्वथा अपौरुषेयत्वसिद्ध्या नः प्रयो- जनमिति चेत् । असदेतत् । यतः कञस्मरणं विशेषणं किमभावाख्यं प्रमाणम्, अर्थापत्तिः, अनुमानं वा । यद्यभावाख्यमिति पक्षः । स न युक्तः । अभावप्र- माणस्य प्रामाण्याभावात् । किंच । तदुपलम्भकप्रमाणपञ्चकनिवृचिनिबन्धना- ऽस्य प्रवृत्तिरभ्युपगम्यते भवता; 'प्रमाणपश्चकं यत्र' इत्याद्यभिधानात् ; नच प्रमाणपञ्चकस्य वेदे पुरुषसहावावेदकस्य निवृत्तिः । नररचितरचनाविशिष्ट- त्वस्य पौरुषेयत्वप्रतिपादकत्वेनानुमानस्य प्रतिपादनात् ॥ नचास्याप्रामाण्यमभि- धातुं शक्यम् । यतोऽस्याप्रामाण्यं किम्,अभावप्रमाणवाधितत्वेन, उत खसाध्या- विनाभावित्वाभावेन । तत्र न तावदभावप्रमाणबाधितत्वेन । चक्रकदोषप्रस- ङ्गात् । तथाहि । न यावदभावप्रमाणप्रवृत्तिर्न तावत् प्रस्तुतानुमानबाधा; यावच्च न तस्य बाधा, न तावत्सदुपलम्भकप्रमाणनिवृत्तिः, यावचन तस्य निवृ- तिर्न तावत्तन्निबन्धनाभावाख्यप्रमाणप्रवृत्तिः, तदप्रवृतौ च नानुमानबाधेति दुरु- त्तरं चक्रकम् । तन्नाभावप्रमाणबाधितत्वात्प्रस्तुतानुमानस्याप्रामाण्यम् । नचा- बाधितत्वमनुमानप्रामाण्यनिबन्धनम्।तथाऽभ्युपगमे तस्य प्रामाण्यमेव न स्यात् ; तस्य निश्चेतुमशक्यत्वात् । तथाहि । बाधाभावो नानुपलम्भान्निश्चीयते । विद्य- मानबाधकेष्वपि बाधानुपलम्भस्य भावात् । नापि बाधकाभावज्ञानात् । यतः तदपि ज्ञानं यदि तदैव बाधकामावं निश्चाययति, तदा न तत्प्रामाण्यनिबन्ध- नम्; तथाभूतज्ञानस्य संभवात्; बाधकेष्वपि भावात् । अथ सर्वदा तहा- धकाभावं निश्चाययति । तदसत् । न पूर्व वाधकमत्र प्रवृत्तं, नाप्युत्तरकालं प्रवर्त्तिष्यत इत्येवंभूतस्य ज्ञानस्यार्वाग्दृशामभावात् । भावे वा तस्यैव सर्वज्ञ- त्वात्, न प्रेरणैव धर्मे प्रमाणमित्यन्ययोगव्यवच्छेदेन तद्विषयतत्प्रामाण्यावधारणो- पपत्तिःस्यात् ; किन्तु निश्चितखसाध्याविनाभूतलिङ्गप्रभवत्वम् ।स्वसाध्याविनाभाव.. निश्चायकं च प्रकृतस्य हेतोः पौरुषेयत्वेन कार्यकारणभावनिश्चायकम् । तदेव च - तत्त्वबोधविधायिनी व्याख्या । ७१ स्वसाध्यविपर्यये तस्य सद्भावबाधकम् ; तस्य च प्रकृतहेती सत्त्वेन दर्शितत्वान्न तत्प्रभवस्यानुमानस्याप्रामाण्यम् ॥ अत एव स्वसाध्याविनाभाविवाभावेन तस्या- प्रामाण्यमिति द्वितीयोऽपि पक्षो न युक्तः । तन्नाभावाख्यं कर्बस्मरणलक्षणं प्रमाण अपौरुपयेवसाधकम् ; नापि पौरुषे यत्वबाधकम् । अथार्थापत्तिः कर्चस्मरणम् । तदप्यसङ्गतम् । अर्थापचेरनुमानेऽन्तर्भावस्य प्रतिपादयिष्यमाणत्वात् ; तदूषणै- श्वास्य पक्षस्य दूषितत्वात् । अथानुमानम् । तदप्यसङ्गतम् । अपौरुषेयो वेदः कस्मरणादित्येवं प्रयोगे हेतोय॑धिकरणवदोपात् । अथास्मर्यमाणकर्तृकत्वा- दिति हेतुप्रयोगान्न व्यधिकरणत्वदोपः, तस्मियमाणकर्तृकत्वं भारतादिषु निश्चितकर्तृकेष्वपि विद्यत इत्यनैकान्तिकत्वम् । अथागमान्तरे परैः कर्तुः स्मर- णाचतो व्यावृत्तमस्मर्यमाणकर्तृकत्वमपौरुषेयत्वेन व्याप्यत इति नानैकान्तिक- त्वम् । न । परकीयस्य कर्तुः स्मरणस्य भवता प्रमाणत्वेनानभ्युपगमात् । अभ्यु- पगमे वा, परदेऽपि कर्तुः स्मरणादसर्यमाणकर्तृकत्वादिति प्रतिवाद्यसिद्धो भवन् भवतोऽप्यसिद्धः स्यात् । अथ वेदे सविगानं, कर्तृविशेषविप्रतिपत्तेः कर्तृस्मरणमसत्यम् । तथाहि । केचित् हिरण्यगर्भ, अपरेऽटकादीन् वेदस्य कर्तृन् स्मरन्ति इति कर्तृविशेषविप्रतिपत्तिः । नन्येवं कर्तृविशेषविप्रतिपत्ते- स्तद्विशेपस्मरणमेवासत्यं स्यात्, तत्र न कर्तृमात्रस्मरणम् । अन्यथा कादम्ब- यादीनामपि कर्तृविशेषविप्रतिपत्तेः कर्तुमात्रस्मरणस्यासत्यत्वेन तत्राप्यस्मर्यमाण- कर्तृकत्वस्य सद्भावात्पुनरप्यनैकान्तिकवं प्रकृतहेतोः। अथ वेदे कर्तृविशेष- विप्रतिपत्तिवत्कर्तृमात्रेऽपि विप्रतिपत्तिरिति तत्र कर्तृस्मरणमसत्यम् । कादम्बर्या- दीनां तु कर्तृविशेष एवं विप्रतिपत्तिर्न कर्तृमात्रे; तेन तत्र कर्तुः स्मरणस्य विरुडस्य सत्यत्वात् नास्मर्यमाणकर्तृकत्वं तेषु वर्चत इति नानकान्तिकत्वम् । ननु वेदे सौगताः कर्तृमात्रं स्मरन्ति, न मीमांसका इत्येवं कर्तृमात्रेऽपि विप्रतिपत्तेः, यदि कर्तृस्मरणं मिथ्या, तदा कर्तृस्मरणवदस्मर्यमाणकर्तृकत्वम- प्यसत्यं स्यात् विप्रतिपत्तेरविशेषात् । तथाच पुनरप्यसिद्धो हेतुः । एतेन 'सत्यं वेदे कर्तृस्मरणमस्ति नत्वविगीतं, यथा भारतादिषु' इति निरस्तम् । यदप्यु- क्तम् । तथा छिन्नमूलं च वेदे कर्तृस्मरणं तस्यानुभवो मूलं, नचासौ तत्र ७२ सम्मतिताख्यप्रकरणस्य- .. तद्विषयत्वेन विद्यते' इति तदप्यसङ्गतम् । यतः किं प्रत्यक्षेण तदनुभवाभावात् तत्र तच्छिन्नमूलत्वम्, उत प्रमाणान्तरेण । तत्र यदि प्रत्यक्षेणेति पक्षस्तदा वक्तव्यम् । किं भवत्संबन्धिना प्रत्यक्षेण तत्र तदनुभवाभावः, उत सर्वसंब- न्धिना तत्र तदनुभवाभावः। यदि भवत्संबन्धिना; तदागमान्तरेऽपि तत्कर्तृ- ग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेः तत्कर्तृस्मरणस्य च्छिन्नमूलत्वेनास्मर्यमाणकर्तृ- कत्वस्य भावादनैकान्तिकः पुनरपि हेतुः । अथ सर्वसंबन्धिना प्रत्यक्षेणाननु- भवः । असावसिद्धः । नार्वाग्दृशा सर्वेषामत्र तद्ग्राहकत्वेन प्रत्यक्ष न प्रवृत्ति- मदिति निश्वेतुं शक्यमिति तत्र तत्स्मरणस्य च्छिन्नमूलत्वासिद्धेः, अस्मर्यमाणक- तकत्वादित्यसिद्धो हेतुः । अथ प्रमाणान्तरेण तदनुभवाभावः। तत्रापि वक्तव्यम्। आगमलक्षणं किं तत्प्रमाणान्तरमभ्युपगम्यते, उत अनुमानस्वरूपम् । अपरस्य प्रामाण्यासम्भवात् । तत्र यद्यागमलक्षणेन तदननुभव इति पक्षः। स न युक्तः। हिरण्यगर्भः समवर्चताय इत्यादेरागमस्य तत्र तत्सद्भावावेदकस्य संभवात् । नच मन्त्रार्थवादानां स्वरूपार्थे प्रामाण्याभाव इति वक्तुं शक्यम् । यतो मन्त्रार्थ- वादानां स्वाभिधेयप्रतिपादनद्वारेण कार्यार्थोपयोगिता; तेषां तत्राप्रामाण्ये, विध्य- र्थाङ्गताऽपि न स्यात् ॥ अथानुमानेन तत्र तदननुभवः । सोऽपि न युक्तः । अनुमानेन तत्र तदनुभवस्य प्रतिपादितत्वात् । अथानुपलम्भपूर्वकमस्मर्यमाण- कर्तृकत्वं यद्यस्माभिर्हेतुत्वेनोच्येत, तदा पूर्वोक्तप्रकारेणासिद्धत्वानकान्तिकवे स्याताम्; नतु तत्कनुपलम्भपूर्वकमस्मर्यमाणकर्तृकत्वं हेतुः, किन्तु तदभाव- पूर्वकम् । नन्वत्रापि यदि तदभावः प्रमाणान्तरात् सिद्धः, तदाऽस्यानुमानस्य वैयर्थ्यम् । नच तदभावप्रतिपादकमन्यत् प्रमाणमस्तीत्युक्तम् । अस्मादे- वानुमानात् तदभावसिद्धिः, तदाऽतोऽनुमानात् तदभावसिद्धौ, तत्पूर्वकमस्मर्य- माणकर्तृकत्वं सियति; तत्सिद्धौ चातोऽनुमानात् तदभावसिद्धिरितीतरेतराश्र- यदोषात्, तदवस्थं सविशेषणस्याप्यस्य हेतोरसिद्धत्वम् । अथ मतम्, यत्र सिद्धकर्तृकेषु भावेष्वस्मयमाणकर्तृकत्वम् ; तत्र कर्तुः स्मरणयोग्यता नास्तीति निर्विशेषणस्यानैकान्तिकत्वम् । वैदिकीनां तु रचनानां सति पौरुषेयत्वेऽवश्यं । पुरुषस्य कर्तुः तदर्थानुष्ठानसमयेऽनुष्ठातॄणां स्मरणं स्यात् । तेह्यदृष्टफलेषु तत्त्वबोधविधायिनी व्याख्या । कर्मवेवं निर्विचिकित्साः प्रवर्तन्ते यदि तेषां तद्विषयः सत्यत्वनिश्चयः । . तस्याप्येवं भावो यदि तदुपदेष्टुः स्मरणम् ; यथा पित्रादिप्रामाण्यवशात् स्वयमदृष्टफलेप्वपि कर्मसु तदुपदेशात्प्रवर्त्तन्ते, पित्रादिभिरेतदुपदिष्टं तेनानु. ठीयते । एवं वैदिकेष्वपि कर्मस्वनुष्ठीयमानेपु तत्र स्मरणं स्यात् । नचाभियुक्ता- नामपि वेदार्थानुष्ठातृणां त्रैवर्णिकानां कर्तुः स्मरणमस्ति । अतः स्मरणयोग्यस्य कर्तुरस्मरणात्, अपौरुषेयो वेदः । एवं चायं हेत्वर्थः । कर्तुः स्मरणयोग्यत्वेऽपि सति, अस्मर्यमाणकर्तृकत्वात् , अपौरुषेयो वेदः । नचैवंविधस्य हेतोः सिद्धकर्तृकेपु भावेषु वृत्तिः, अतो नानकान्तिकः । यत्र पौरुषेयत्वं तत्र सविशेषणो हेतुर्न संभवतीति विरुद्धत्वमपि न विद्यते । विपक्षे वर्चमानः सपक्षेऽसन् विरुद्ध उच्यते।अस्य तु सवि- शेषणस्य प्रसिद्धपौरुपेये वस्तुन्यप्रवृत्तिः, नापि सपक्ष आकाशादावसत्त्वम् ; अतः परिशुद्धान्वयव्यतिरेकहेतुसडावात्कर्तृस्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वात्, अपौरुषेयो वेदः सिद्ध्यति । तदप्यसंबद्धम् । आगमान्तरेऽपि कर्तुः स्मरणयोग्यत्वे सत्यस्मयमाणकर्तृकत्वादित्यस्य हेतोः सद्भावबाधकप्रमाणाभावेन सद्भावसंभवात् , संदिग्धविपक्षव्यावृत्तिकत्वादनकान्तिकत्वस्य तदवस्थत्वात् । किंच । विपक्षवि- रुद्धं हि विशेषणं विपक्षाद् व्यावर्त्तमानं स्वविशेष्यमादाय निवर्तत इति युक्तम् । नच पौरुषेयत्वेन सह कर्तुः स्मरणयोग्यत्वस्य सहानवस्थानलक्षणः, परस्परपरिहार- स्थितलक्षणो वा विरोधः सिहः । सिद्धौवा तत एव साध्यसिद्धरस्मर्यमाणकर्तृकत्वा- दिति विशेप्योपादानं व्यर्थम् । यदप्युक्तम् । तदर्थानुष्ठानसमयेऽवश्यंतया त्रैवर्णि- कानामनिश्चिततत्प्रामाण्यानामप्रवृत्तिप्रसङ्गात्, सति कर्तरि तस्मरणं स्यात्, नचाभियुक्तानामपि तदस्तीति, तदागमान्तरेऽपि समानं नवेति चिन्त्यतां स्वयमेव ॥ नचायं नियमः, अनुष्ठातारोऽभिप्रेतार्थानुष्ठानसमये तत्कर्तारमनुस्मृत्यैव प्रवर्त्तन्ते । नहि पाणिन्यादिप्रणीतव्याकरणप्रतिपादितशाब्दव्यवहारानुष्ठानसमये तदनुष्ठा- तारोऽवश्यतया व्याकरणप्रणेतारं पाणिन्यादिकमनुस्मृत्यैव प्रवर्तन्त इति । दृष्टम् । निश्चिततत्समयानां कर्तृस्मरणव्यतिरेकेणाप्यविलम्बेन भवत्यादिसाधुश- 2.ब्दोच्चारणदर्शनात् । तत् स्थितमेतत्सविशेषणस्याप्यस्मर्यमाणकर्तृकलादिति हेतोर्वादिसंबन्धिनोऽनैकान्तिकलम्; प्रतिवादिसंबन्धिनोऽसिद्धत्वम् ; सर्वसंब- सम्मतिताख्यप्रकरणस्य- न्धिनोऽपि तदेवेति नास्माद्धेतोरपौरुषेयत्वसिद्धिः। अतोऽपौरुषेयत्वप्रसाधक प्रमाणाभावाच्छासनस्यापौरुषेयत्वासम्भवे, यदि सर्वज्ञप्रणीतत्वं नाभ्युपगम्यते, तदा प्रामाण्यमपि न स्यात् । तथाच धर्मे प्रेरणाप्रमाणमेवेत्ययोगव्यवच्छेद नावधारणमनुपपन्नम् ॥ अथ प्रेरणाप्रामाण्यसिद्धयर्थं सर्वज्ञः प्रेरणाप्रणेताऽम्यु- पगम्यते, तदा “चोदनैव च भूतं, भवन्तं, भविष्यन्तं, सूक्ष्म, व्यवहितमेवंजाती- 'यकमर्थमवगमयितुमलम् , नान्यत्किञ्चनेन्द्रियम्" इत्याद्यभिधानमसङ्गतं प्रामो- तीत्युभयतः पाशारज्जुर्मीमांसकस्य । तत् स्थितमेतदाचार्येण मीमांसकापेक्षया प्रसङ्गसाधनमेतदुपन्यस्तम् । यदि सिद्धं शासनमभ्युपगम्यते भवहिः, तदा जिनानाम् ; तत् जिनप्रणीतमभ्युपगन्तव्यमिति ।। अथ भवतु प्रेरणाप्रामाण्यवादिनां मीमांसकानामेतत्प्रसङ्गसाधनम् । ये तु तदपामाण्यवादिनचार्वाकास्तान् प्रति, स्वप्रतिपत्तौ वा भवतः किं प्रमाणम् । नच प्रमाणाविषयस्य सद्व्यवहारविषयत्वं युक्तम् । तथाहि । ये देशकाल- स्वभावविप्रकर्षवन्तः सदुपलम्भकप्रमाणविषयभावमनापन्ना भावा न ते प्रेक्षावतां सद्व्यवहारपथावतारिणः; यथा नाकपृष्ठादयस्तथात्वेनाभ्युपगमविषयाः। तथा च समस्तवस्तुविस्तारव्यापिज्ञानसंपत्समन्वितः पुरुष इति . सद्व्यवहारप्रतिषे- धफलानुपलब्धिः । नचासिद्धो हेतुः । तथाहि । सकलपदार्थसाक्षात्कारिज्ञाना- ङ्गनालिङ्गितः पुरुषः प्रत्यक्षसमधिगम्यो वा अभ्युपगम्येत, अनुमानादिसंवेद्यो वा। न तावदध्यक्षगोचरः । प्रतिनियतसंनिहितरूपादिविषयनियमितसाक्षात्करणस्व- भावा हि चक्षुरादिकरणव्यापारसमासादितात्मलाभा ज्ञप्तयो न परस्थं संवेदनमा- त्रमपि तावदालम्बितुं क्षमाः, किमङ्ग ! पुनरनाद्यनन्तातीतानागतवर्तमानसूक्ष्मा- दिस्वभावसकलपदार्थसाक्षात्कारि संवेदनविशेष, तदध्यासितं वा पुरुषम्। अविषये चक्षुरादिकरणप्रवर्तितस्य ज्ञानस्य प्रवृत्त्यसम्भवात् । सम्भवे वाऽन्यतमकरण. प्रतितस्यापि ज्ञानस्य, रूपादिसकलविषयग्राहकत्वेन संभवात् , शेषेन्द्रियपरिक- ल्पना व्यर्था । नच सूक्ष्मादिसमस्तपदार्थग्रहणमन्तरेण प्रत्यक्षेण तत्साक्षात्करणप्रवृ- त्तज्ञानग्रहणम् । ग्राह्याग्रहणे तद्ग्राहकत्वस्यापि तद्गतस्य तेनाग्रहणात् । तदग्रहे. च तद्धर्माध्यासितसंवेदनसमन्वितस्यापि न प्रत्यक्षतः प्रतिपत्तिः नाप्यनुमानतः तत्त्वबोधविधायिनी व्याख्या। ७५ सकलपदार्थज्ञप्रतिपतिः। अनुमानं हि निश्चितस्वसाध्यधर्मर्मिसंबन्धाद हेतोरुदय- मासादयत्प्रमाणतामामोति । प्रतिबन्धश्च समस्तपदार्थज्ञसत्त्वेन स्वसाध्येन हेतोः किं प्रत्यक्षेण गृह्यते, उतानुमानेन । न तावदध्यक्षेण । अध्यक्षस्यात्यक्षज्ञानवत्सत्त्वसा- क्षात्करणाक्षमत्वेन तदवगतिनिमित्तहेतुप्रतिबन्धग्रहणेऽप्यक्षमत्वात् । नानवगत- संबन्धिना तद्गतसंबन्धावगमो विधातुं शक्यः॥ नाप्यनुमानेन तद्गतसंबन्धावगमः। तथाभ्युपगमेऽनवस्थेतरेतराश्रयदोषद्वयानतिवृत्तेः । नचागृहीतप्रतिबन्धादेतोरुप- जायमानमनुमानं प्रमाणतामासादयति । तथा धर्मिसंबन्धावगमोऽपि न प्रत्यक्षतः। अनक्षज्ञानवत्प्रत्यक्षेऽक्षप्रभवस्याध्यक्षस्याप्रवृत्तेः । प्रवृत्तौ वाऽध्यक्षेणैव सर्वविदः संवेदनात् , अनुमाननिवन्धनहेतुव्यापारणं व्यर्थम्। नचानुमानतोऽप्यनक्षज्ञानव- तोऽवगमः । हेतुपक्षधर्मतावगममन्तरेणानुमानस्यैव धर्मिग्राहकस्याप्रवृत्तेः । नचा- प्रतिपन्नपक्षधर्मवो हेतुः प्रतिनियतसाध्यप्रतिपत्तिहेतुरिति नानुमानतोऽपि सर्वज्ञ- प्रतिपत्तिः । किंच ! सर्वज्ञसत्तायां साध्यायां त्रयीं दोषजाति हेतु तिवर्तते असि- इविरुद्धानकान्तिकलक्षणाम् । तथाहि । सकलज्ञसत्त्वे साध्ये किं भावधर्मों हेतुः, उताभावधर्मः, आहोखिदुभयधर्मः। तत्र यदि भावधर्मः, तदाऽसिद्धः। अथाभाव- धर्मः, तदा विरुद्धः। भावे साध्ये अभावधर्मस्याभावाव्यभिचारित्वेन विरुद्धत्वात् । अथोभयधर्मः, तदोभयाव्यभिचारित्वेन सत्तासाधनेऽनैकान्तिकत्वमिति न सकल- ज्ञसत्त्वसाधने कश्चित् सम्यग् हेतुः सम्भवति । अपिच । यद्यनियतः कश्चित् सकलपदार्थज्ञः साध्योऽभिप्रेतः, तदा तत्कृतप्रतिनियतागमाश्रयणं नोपपन्नं भवताम् । अथ प्रतिनियत एक एवाहन सर्वज्ञोऽभ्युपगम्यते, तदा तत्साधने प्रयुक्तस्य हेतोरपरसर्वज्ञस्याभावेन दृष्टान्तानुवृत्त्यसंभवादसाधारणानकान्तिक- स्वादसाधकत्वम् । किंच । यत एव हेतोः प्रतिनियतोऽर्हन् सर्वज्ञः तत एव बुद्धोऽपि स स्यादिति कुतः प्रतिनियतसर्वज्ञप्रणीतागमाश्रयणमुपपत्तिमदिति न कश्चित् सर्वज्ञसाधको हेतुः ॥ अथ सर्वे पदार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वाद- ग्न्यादिवदिति तत्साधनहेतुसहावः । तदसत् । यतोऽत्र किं सकलपदार्थसा- क्षात्कार्येकज्ञानप्रत्यक्षत्वं सर्वपदार्थानां साध्यत्वेऽभिप्रेतम्, आहोस्वित्प्रतिनियत- विषयानेकज्ञानप्रत्यक्षत्वमिति कल्पनाइयम् । यद्याद्यः पक्षः। स न युक्तः। प्रति- ७६ सम्मतितकांख्यप्रकरणस्य-, नियतरूपादिविषयग्राहकानेकप्रत्ययप्रत्यक्षत्वेन. व्याप्तस्याग्न्यादिदृष्टान्तधर्मिणि, प्रमेयत्वलक्षणस्य हेतोरुपलम्भाधतुविरुद्धत्वसाध्यविकलदृष्टान्तदोषव्याघ्रातत्वा- त् । अथ द्वितीयः। सोऽप्यसङ्गतः । सिद्धसाद्यतादोषप्रसङ्गात् । तथा प्रमे- यत्वमपि हेतुत्वेनोपन्यस्यमानं, किमशेषज्ञेयव्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षणम- भ्युपगम्यते, उत अस्मदादिप्रमाणप्रमेयत्वव्यक्तिस्वरूपम् , आहोखित् उभयव्य- क्तिसाधारणसामान्यखभावमिति विकल्पाः। तत्र यदि प्रथमः पक्षः। स न युक्तः। विवादाध्यासितपदार्थेषु तथाभूतप्रमाणप्रमेयत्वस्यासिद्धत्वात् । सिद्धत्वे वा साध्यस्यापि हेतुवत् सिद्धत्वात् व्यर्थ हेतूपादानम् ; तथाभूतप्रमाणप्रमेयत्वस्य दृष्टान्तेऽग्न्यादिलक्षणेऽसिद्धेः संदिग्धान्वयश्च हेतुः स्यात् । अथास्मदादिप्रमाण- प्रमेयत्वं हेतुः, तदा तथाभूतप्रमाणप्रमेयत्वस्य विवादगोचरेवतीन्द्रियेष्वसंभवा- दसिद्धो हेतुः । सिद्धौ वा ततस्तथाभूतप्रत्यक्षत्वसिद्धिरेव स्यात् ; तत्र चाविवाद इति न हेतूपन्यासः सफलः । अथोभयप्रमेयत्वव्यक्तिसाधारणं प्रमेयत्वसामान्य हेतुरिति पक्षः। सोऽप्यसङ्गतः। अत्यन्तविलक्षणातीन्द्रियेन्द्रियविषयप्रमाणप्र- मेयत्वव्यक्तिद्वयसाधारणस्य सामान्यस्यासम्भवात् । नहि शाबलयकर्कव्यक्ति- द्वयसाधारणमेकं गोत्वसामान्यमुपलब्धमिति प्रमेयत्वसामान्यलक्षणो हेतुरसिद्ध इति नानुमानादपि सर्वज्ञसिद्धिः ॥ नापि शब्दात् । यतः शब्दोऽपि तत्प्रतिपाद. कोऽभ्युपगम्यमानः किं नित्यः, उतानित्य इति कल्पनाद्वयम् । न तावत् नित्यः । सर्वज्ञबोधकस्य नित्यस्यागमस्याभावात् । भावेऽपि तत्प्रतिपादकत्वेन तस्य प्रामा- ण्यासम्भवात्; कार्येऽर्थे तत्प्रामाण्यस्य व्यवस्थापितत्वात् । अथानित्यस्तत्प्रतिपा- दक इति पक्षः । सोऽपि न युक्तः । यतोऽनित्योऽपि किं तत्प्रणीतःस तदवबोध-- कः, अथ पुरुषान्तरप्रणीत इति विकल्पद्वयम्। तत्र न सर्वज्ञप्रणीतः स तदवबोधक. इति पक्षो युक्तः । इतरेतराश्रयदोषप्रसङ्गात् । तथाहि । तत्प्रणीतत्वे तस्य प्रामा- प्यम्, ततः तस्य तत्प्रतिपादकत्वमिति व्यक्तमितरेतराश्रयत्वम् । नापि पुरुषान्त- रप्रणीतस्तदवबोधकः । तस्योन्मत्तवाक्यवदप्रमाणत्वात् । तन्न शब्दादपि तस्य सिद्धिः ॥ नाप्युपमानात् तत्सिद्धिः। यत उपमानोपमेययोरध्यक्षत्वे, सादृश्या- 1 लम्बनं तदभ्युपगम्यते । नचोपमानभूतः कश्चित् सर्वज्ञत्वेन प्रत्यक्षतः सिद्धः; ॥
तत्त्वबोधविधायिनी व्याख्या । ७७ येन तत्सादृश्यादन्यस्य सर्वज्ञत्वमुपमानात् साध्यते । सिद्धौ वा प्रत्यक्षत एव सर्वज्ञस्य सिद्धत्वान्नोपमानादपि तत्सिद्धिः ॥ सर्वज्ञसद्भावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कविज्ञातस्यार्थस्य कस्यचिदभावात् नार्थापत्तेरपि सर्वज्ञसत्त्वसिद्धिः । नचागमप्रामाण्यलक्षणस्यार्थस्य तमन्तरेणानुपपद्यमानस्य तत्परिकल्पकत्वम् । अतीन्द्रिये स्वर्गाद्यर्थे तत्प्रणीतत्वनिश्चयमन्तरेण तस्य प्रामाण्यानिश्चयात् । अपौरु- षेयत्वादपि तत्प्रामाण्यसंभवात् कुतस्तस्य तमन्तरेणानुपपद्यमानता; तन्नार्था- पत्तितोऽपि तत्सिद्धिः ॥ अभावाख्यस्य तु प्रमाणस्याभावसाधकत्वेन व्यापारात् न तत्सद्भावसाधकत्वम् । न चोपमानार्थापत्त्यभावप्रमाणानां भवता प्रामाण्यम- भ्युपगम्यते इति न तेभ्यस्तत्सिद्धिः । तदुक्तम्:- "सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिई वा योऽनुमापयेत् ॥१॥ न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः । नच मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २॥ नचागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम्" ॥ ३ ॥ इत्यादि । ततो ये देशकाल-' इत्यादिप्रयोगे नासिद्धो हेतुः। सयवहारनिषेधश्च, अनु- पलम्भमात्रनिमित्तः। अनेकधाऽनेन अन्यत्र प्रवर्तित इत्यत्रापि तन्निमित्तसद्भावात प्रवर्तयितुं युक्तः । अथ यथाऽस्माकं तत्सद्भावावेदकं प्रमाणं नास्ति, तथा भवतां तदभावावेदकमपि नास्तीति सद्व्यवहारवदभावव्यवहारोऽपि न प्रवर्त्तयितव्यः । तथाहि । सर्वविदोऽभावः किं प्रत्यक्षसमधिगम्यः, प्रमाणान्तरगम्यो वा । तत्र न तावत्प्रत्यक्षसमधिगम्यः । यतः प्रत्यक्षं सर्वज्ञाभावावेदकमभ्युपगम्यमानं, किं सर्वत्र सर्वदा सर्वः सर्वज्ञो न इत्येवं प्रवर्तते; उत कचित्कदाचित कश्चित् सर्वज्ञो नास्तीत्येवमिति कल्पनाद्वयम् । तत्र यदि सर्वत्र सर्वदा सर्वः सर्वज्ञो नेति प्रत्यक्षस्य प्रवृत्तिः, तर्हि न सर्वज्ञाभावः । तज्ज्ञानवत एव सर्वज्ञत्वात् । नहि सकलदेश- कालव्यवस्थितपुरुषपरिपत्साक्षात्करणमन्तरेण तदाधारमसर्वज्ञत्वमवगन्तुं शक्यम्। " ७५ सम्मतितक्कोख्यप्रकरणस्थ- तत्साक्षात्करणे च कथं न तज्ज्ञानवतः सर्वज्ञत्वमिति नाद्यः पक्षः ॥ द्वितीयेऽपि पक्षे न सर्वथा सर्वज्ञाभावसिद्धिरिति न प्रत्यक्षात सर्वज्ञाभावसिद्धिः । अथ न प्रवर्त्तमानं प्रत्यक्षं सर्वज्ञाभावसाधकं, किंतु निवर्तमानम् । ननु यदि निखिलदे- शकालाधारसकलपुरुषपरिषदाश्रितानन्तपदार्थसंविद्व्यापकं, कारणं वा तत् स्यात्, तदा तन्निवर्त्तमानं तथाभूतं सर्वज्ञत्वं व्यावर्त्तयेत्, नान्यथा । तथाभूतनिवृत्ती तन्निवृत्तेरसिद्धः । तथाऽभ्युपगमे वा स एव सर्वज्ञ इति न तेन तन्निषेधः । किंच । प्रत्यक्षनिवृत्तिर्यदि प्रत्यक्षमेव, तदा स एव दोषः । अथ प्रत्यक्षादन्या, तदाऽसौ प्रमाणमप्रमाणं वा अप्रमाणत्वे, नातः सर्वज्ञाभावसिद्धिः । प्रमाणवे ना- नुमानत्वम्; सर्वात्मसंबन्धिन्याः तन्निवृत्तेर्यथासङ्ख्यमसिद्धानकान्तिकत्वदोष. इयसद्भावात् । नच तुच्छा तन्निवृत्तिः तदभावज्ञापिका । तुच्छायाः केनचित् सह प्रतिबन्धाभावेन सर्वसामर्थ्य विरहेण च ज्ञापकत्वासम्भवात् । तन्न प्रवर्त्तमानं, निवर्तमानं वा प्रत्यक्षं तदभावं साधयति ।। प्रमाणान्तरगम्यत्वेऽपि तदभावो न तावदनुमानगम्यः। तदभावसाधकानुमानाभावात् । अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात्, रथ्यापुरुषवदित्यनुमानं तदभावसाधकम् । नन्वत्र किं प्रमाणान्तरसंवादिनोऽर्थस्य वक्तृत्वं हेतुः, उत तद्विपरीतस्य, आहोवित् वक्तृत्वमात्रमिति वक्तव्यम् । यदि प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादिति हेतुः, तदा विरुद्धो हेतुः । तथाभूतवक्तृत्वस्य सर्वज्ञ एव भावात् । अथ प्रमाणान्तरवि. संवादिनोऽर्थस्य वक्तृत्वादिति हेतुः, तदा सिद्धसाधनम् । तथाभूतस्य वक्तुरसर्व- ज्ञत्वेनास्माभिरप्यभ्युपगमात् । अथ वक्तृत्वमात्रं हेतुः । न । तस्य साध्यविप- ययेण सर्वज्ञत्वेनानुपलब्धेन सहानवस्थानलक्षणस्य तदन्यवच्छेदखभावेन च परस्परपरिहारस्वरूपस्य च विरोधस्याभावात् न ततो व्यावृत्तिसिद्धिरिति न खसाध्यनियतत्वम् ; तदभावान्न वसाध्यसाधकत्वम् । अथ सर्वज्ञो वक्ता नोपलब्ध इति ततो व्यावृत्तिसिद्धिः । न । सर्वसंबन्धिनोऽनुपलम्भस्यासंभ- वात् । सर्वज्ञ एव वक्तृत्वमात्मन्युपलप्स्यते, सर्वज्ञान्तरेण वा तत्तत्र संवेदिष्यत इति न सम्भवः सवसंबन्धिनोऽनुपलम्भस्य । अथ सर्वज्ञस्य कस्यचिदभावात् ५ सर्वसंबन्धिनोऽनुपलम्भस्य संभवः । ननु सर्वज्ञाभावः कुतः सिद्धः। अन्यतः तत्त्वबोधविधायिनी व्याख्या। प्रमाणात् चेत् । तत एव तदभावसिद्धेरस्य वैयर्थ्यम् । अत एवानुमानादिति न वक्तव्यम् । इतरेतराश्रयदोषप्रसङ्गात् । सिद्धेऽतोऽनुमानात् सर्वज्ञाभावे, सर्वसंवन्ध्यनुपलम्भसंभवसामर्थ्यात् हेतोर्विपक्षतो व्यावृत्तिः स्यात् तस्य च विपक्षाड्यावृत्तस्य तत्साधकत्वमिति व्यक्तमितरेतराश्रयत्वम् । भवतु वा सर्वसंबन्ध्यनुपलम्भसंभवः; तथापि सकलपुरुषचेतोवृत्तिविशेषाणामसर्वज्ञेन ज्ञातुमशक्तेरसिद्धः सर्वसंबन्ध्यनुपलम्भ इति न ततो विपक्षव्यावृत्तिनिश्चयो वक्तृत्वस्येति कुतः संदिग्धविपक्षव्यावृत्तिकाद् हेतोस्तदभावसिद्धिः । नापि स्वसंवन्धिनोऽनुपलम्भात् तद्यतिरेकनिश्चयः । तस्य स्खपितृव्यपदेशहेतुनाऽप्य- नैकान्तिकत्वात् । नचैवंभूतादपि हेतोः साध्यसिद्धिः, तथाऽभ्युपगमे न कश्चि- सर्वज्ञाभावमवबुद्यते वक्तृत्वात्, रथ्यापुरुपवादिति तदभावावगमाभावस्यापि सिद्धिः स्यात् । अथान्यत्रापि हेतावयं दोषः समान इति सर्वानुमानोच्छेदः । तयुक्तम् । अन्यत्र विपक्षव्यावृत्तिनिमित्चस्यानुपलम्भव्यतिरेकेण बाधकप्रमा- णस्य सद्भावात् । नचात्रापि तस्य सद्भाव इति शक्यं वक्तुम् । तदभावस्य हेतुलक्षणप्रस्तावे वक्ष्यमाणत्वात् । किंच । सर्वज्ञप्रतिपादकप्रमाणाभावे तस्या- सिद्धत्वात् तदभावसाधनायोपन्यस्यमानः सर्वोऽपि हेतुराश्रयासिद्ध इति न तस्मादभावसिद्धिः। अथ तद्राहकत्वेन प्रमाणं प्रवर्चत इत्याश्रयासिद्धत्वा- भावः, तर्हि तत्साधकप्रमाणबाधितत्वात् पक्षस्य न तत्साधनाय हेतुप्रयोगसाफल्य- मिति नानुमानावसेयः सर्वज्ञाभावः । अपौरुषेयत्वस्य प्राक्तनन्यायेनासिद्धत्वात् , सर्वज्ञप्रणीतत्वानभ्युपगमे शब्दस्य पुरुषदोषसंक्रान्त्याऽप्रामाण्यात् न ततोऽपि तदभावसिद्धिः । नच तदभावाभिधायकं किञ्चिद्वेदवाक्यं श्रूयते; केवलं तहा- वावेदकवेदवचनोपलब्धिरविगानेन समस्ति- "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्व नहि तस्य वेत्ता तमाहुरग्यं पुरुषं महान्तम्" ॥ १ ॥ तथा हिरण्यगर्भ प्रकृत्य सर्वज्ञ इत्यादि।नच स्वरूपेऽर्थे तस्याप्रामाण्यम् ; तत्र तत्प्रामाण्यस्य प्रतिपादयिष्यमाणत्वात्। तन्न शब्दादपि तदभावसिद्धिः॥
- 2. सम्मतिताख्यप्रकरणस्य- . नाप्युपमानात्तदभावावगमः । यत उपमानमुपमानोपमेययोरध्यक्षत्वे सादृश्याल- म्बनमुदेति; अन्यथा- "तस्माद्यत् स्मयते तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १ ॥ इत्यभिधानात् प्रत्यक्षेणोपमानोपमेययोरग्रहणे उपमेये स्मरणासंभवात् ; कथं स्मर्यमाणपदार्थविशिष्टं सादृश्यं, सादृश्यविशिष्टं वा स्मर्यमाणं वस्तु उप- मानविषयः स्यात् । तस्मादिदानींतनोपमानभूताशेपपुरुपप्रत्यक्षत्वम्, उपमेया- शेषान्यकालमनुष्यवर्गसाक्षात्करणं चावश्यमभ्युपगमनीयम् । तदभ्युपगमे च स एव सर्वज्ञ इति कथं उपमानात तदभावावगमो युक्तः । अतो यदुक्तम्: "यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्ट संप्रति लोकस्य तथा कालान्तरेऽप्यभूत्" ॥ १॥ इति । तन्निरस्तम्। उपमानस्योक्तन्यायेनात्र वस्तुन्यप्रवृत्तेः ॥ नाप्यर्थापत्तितस्तद. भावावगमः । तस्याः प्रमाणत्वेऽनुमानेऽन्तर्भूतत्वात् । तथाहि । दृष्टः श्रुतो वाऽ- र्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः। नचासावर्थोऽन्यथानुपपद्यमान- त्वानवगमे अदृष्टार्थपरिकल्पनानिमित्तम् । अन्यथा स येन विनोपपद्यमानत्वेन निश्चितस्तमपि परिकल्पयेत्; येन विना नोपपद्यते तमपि वा न कल्पयेत् । अन- वगतस्यान्यथाऽनुपपन्नत्वेनार्थापत्त्युत्थापकस्यार्थस्यान्यथाऽनुपपद्यमानत्वे सत्य- प्यदृष्टार्थपरिकल्पकत्वासंभवात् । संभवे वा लिङ्गस्याप्यनिश्चितनियमस्य परोक्षा- र्थानुमापकत्वं स्यादिति; तदपि नार्थीपत्त्युत्थापकादर्थाद्भिद्येत । स चान्यथाऽनु- पपद्यमानत्वावगमः, तस्यार्थस्य न भूयो दर्शननिमित्तः सपक्षे । अन्यथा लोह- लेख्यं वज्रं पार्थिवत्वात् , काष्ठवदित्यत्रापि साध्यसिद्धिः स्यात् । नापि विपक्षे तस्यानुपलम्भनिमित्तोऽसौ । व्यतिरेकनिश्चायकत्वेनानुपलम्भस्य पूर्वमेव निषिद्ध- त्वात् ; किन्तु विपर्यये तबाधकप्रमाणनिमित्तः । तच्च बाधकं प्रमाणमर्थापत्ति- प्रवृत्तेः प्रागेवानुपपद्यमानस्यार्थस्य तत्र प्रवृत्तिमभ्युपगन्तव्यम् । अन्यथाऽर्था- तत्वबोधविधायिनी व्याख्या । पत्त्या तस्यान्यथाऽनुपपद्यमानलावगमेऽभ्युपगम्यमाने यावत्तस्यान्यथाऽनुपपद्यमा- नलं नावगतं, न तावदर्थापत्तिप्रवृत्तिः; यावच्च न तत्प्रवृत्तिः, न तावदर्थापत्त्यु- त्थापकस्यार्थस्यान्यथाऽनुपपद्यमानत्वावगम इतीतरेतराश्रयत्वान्नार्थापत्तिप्रवृत्तिः । अतएव यदुक्तम्:- अविनाभाविता चान तदैव परिगृह्यते । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥ १ ॥ तेन संबन्धवेलायां संबन्ध्यन्यतरो ध्रुवम् । अर्थापत्त्यैव मन्तव्यः पश्चादस्त्वनुमानता" ॥२॥ इत्यादि । तन्निरस्तम् । एवमभ्युपगमेऽर्थापत्तेरनुत्थानस्य प्रतिपादितत्वात् । स च तस्य पूर्वमन्यथाऽनुपपद्यमानत्वावगमः किं दृष्टान्तधर्मिप्रवृत्तप्रमाणसंपाद्यः, आहोस्थित खसाध्यमिप्रवृत्तप्रमाणसंपाद्य इति । तत्र यद्याद्यः पक्षः । तदाऽ- त्रापि वक्तव्यम्। किं तत् दृष्टान्तधर्मिणि प्रवृत्तं प्रमाणं, साध्यधर्मिण्यपि साध्या- न्यथाऽनुपपन्नत्वं तस्यार्थस्य निश्वाययति, आहोखित् दृष्टान्तर्मिण्येव । तत्र यद्याद्यः पक्षः । तदाऽर्थापत्त्युत्थापकस्यार्थस्य, लिङ्गस्य वा स्वसाध्यप्रतिपादन- व्यापार प्रति न कश्चिद्विशेषः । अथ द्वितीयः । स न युक्तः। नहि दृष्टान्तध- मिणि निश्चितस्वसाध्यान्यथाऽनुपपद्यमानत्वोऽर्थोऽन्यत्र साध्यधर्मिणि तथा भवति। नंच तथात्वेनानिश्चितः स साध्यधर्मिणि स्वसाध्यं परिकल्पयतीति युक्तम् । अतिप्रसङ्गात् । अथ लिङ्गस्य दृष्टान्तर्मिप्रवृत्तप्रमाणलवशात्सर्वोपसंहारेण खसाध्यनियतत्वनिश्चयः, अर्थापत्त्युत्थापकस्य त्वर्थस्य स्वसाध्यधर्मिण्येव प्रवृत्ता- प्रमाणात्सर्वोपसंहारेणादृष्टार्थान्यथाऽनुपपद्यमानत्वनिश्चय इति लिङ्गार्थापत्त्युत्था- पकयोभैदः। नास्मा दादर्थापत्तेरनुमानं भेदमासादयति । अनुमानेऽपि स्वसाध्य- धर्मिण्येव विपर्यया तुव्यावर्तकत्वेन प्रवृत्तं प्रमाण सर्वोपसंहारेण खसाध्यनिय- तत्वनिश्चायकमभ्युपगन्तव्यम् । अन्यथा सर्वमनेकान्तात्मक सत्त्वादित्यस्य हेतोः पक्षीकृतवस्तुन्यतिरेकेण दृष्टान्तर्मिणोऽभावात्कथं तत्र प्रवर्तमानं बाधकं प्रमाणमनेकान्तात्मकत्वानियतत्वमवगमयेत् सत्त्वस्य । नचं साध्यधर्मिणि दृष्टा- न्तर्मिणि च प्रवर्त्तमानेन प्रमाणेनार्थापत्त्युत्थापकस्यार्थस्य, लिङ्गस्य च यथा- सम्मतिताख्यप्रकरणस्य- - ८२ क्रमं प्रतिबन्धो गृह्यत इत्येतावन्मात्रेणार्थापत्त्यनुमानयोर्भेदोऽभ्युपगन्तुं युक्तः । अन्यथा पक्षधर्मत्वसहितहेतुसमुत्थादनुमानात्तद्रहितहेतुसमुत्थमनुमानं प्रमाणा- न्तरं स्यादिति प्रमाणषटवादो विशीर्येत । नियमवतो लिङ्गात्परोक्षार्थप्रतिपत्तेर- विशेषात् न ततस्तद्भिन्नमित्यभ्युपगमे, खसाध्याविनाभूतादर्थादर्थप्रतिपत्तेरवि. शेषादनुमानादर्थापत्तेः कथं नाभेदः। तदेवं प्रमाणत्वेऽर्थापत्तेरनुमानेऽन्ती- वात्, अनुमानस्य च सर्वज्ञाभावप्रतिपादकस्य निषेधात्तन्निषेधे चार्थापत्तेरपि तद- भावग्राहकत्वेन निषेधान्नार्थापत्तिसमधिगम्योऽपि सर्वज्ञाभावः ॥ अभावाख्यं तु प्रमाणमप्रमाणत्वादेव न तदभावसाधकम् । प्रमाणत्वेऽपि किमात्मनोऽपरिणाम- लक्षणं तत्, आहोस्विदन्यवस्तुविज्ञानलक्षणमिति । तत्र यद्यात्मनोऽपरिणामलक्षण तदभावसाधकमिति पक्षः। सन युक्तः। तस्य सत्त्वेनाभ्युपगते परचेतोवृत्तिविशे- षेऽपि सद्भावनानैकान्तिकत्वात् । अथान्यविज्ञानलक्षणमिति पक्षः।सोऽप्यसंबद्धः। यतः सर्वज्ञत्वादन्यद्यदि किञ्चिज्ज्ञत्वं तद्विषयज्ञानं तदन्यज्ञानं, तदाऽत्रापि वक्त- व्यम्; किं सकलदेशकालव्यवस्थितपुरुषाधारं किञ्चिज्ज्ञवं अभ्युपगम्यते, आहो- स्वित् कतिपयपुरुषव्यक्तिसमाश्रितमिति । तत्र यदि समस्तदेशकालाश्रितपुरुषाधारं किञ्चिज्ज्ञलं तद्विषयं ज्ञानं तदन्यज्ञानं तत्सर्वज्ञाभावप्रसाधकम् । तदयुक्तम् । सकलदेशकालव्यवस्थितपुरुषपरिषत्साक्षात्करणव्यतिरेकेण तदाधारस्य किञ्चि- ज्ज्ञवस्य विषयीकर्तुमशक्तेन तद्विषयस्य तदन्यज्ञानस्य सर्वज्ञाभावावगमनिमि- तलं युक्तम्। सर्वदेशकालव्यवस्थिताशेषपुरुषसाक्षात्करणे च स एव सर्वदर्शीति न तदभावाभ्युपगमः श्रेयान् । अथ कतिपयपुरुषव्यक्तिव्यवस्थितं किञ्चिज्ज्ञवं तदन्यत् तद्विषयं ज्ञानं तदन्यज्ञानं सर्वज्ञाभावावेदकम्। तदप्ययुक्तम्।तज्ज्ञानाव तदभावावगमे कतिपयपुरुपव्यक्तिव्यवस्थितस्यैव सर्वज्ञवस्याभावः सिद्धेत, न सर्वत्र सर्वदा सर्वपुरुषेषु । तथाच सिद्धसाधनम् । अस्माभिरपि कुत्रचिथ्या- पुरुषादेरसर्वज्ञलेनाभ्युपगमात् । अथ सर्वज्ञवादन्यस्तदभावस्तद्विषयं ज्ञानं तद- न्यज्ञानम् तदाऽत्रापि किं सर्वदा सर्वत्र सर्वः सर्वज्ञो न इत्येवं तत्पवर्चते, उत कुत्र- चित्कदाचित्कश्चित् सर्वज्ञो नइत्येवम्।तत्र नाद्यः पक्षः। सकलदेशकालपुरुषासाक्षा- करणे तदाधारस्य तदभावस्यावगन्तुमशक्यत्वात् , प्रदेशाप्रत्यक्षीकरणे तदाधारस्य तत्वबोधविधायिनी व्याख्या । घटाभावस्येव, तत्साक्षात्करणे च तदेव सर्वज्ञत्वमिति न तदभावसिद्धिः । अथ द्वितीयः पक्षः । तदा न सर्वत्र सर्वदा सर्वज्ञाभावसिद्धिरिति तदेव सिद्ध. साधनम् । प्रमाणपञ्चकनिवृत्तेस्तदभावज्ञानमित्यादि सर्व प्रतिविहितमिति नाभावप्रमाणादपि तदभावावगमोऽभ्युपगन्तुं युक्त इत्यादि यत्; तदप्यविदितपरा- भिप्रायस्य सर्वज्ञवादिनोऽभिधानम् । यतो नास्माकमतीन्द्रियसर्वज्ञादिपदार्थवा- धकं प्रत्यक्षादिप्रमाणं खतन्त्र प्रवर्चत इत्यभ्युपगमः । अतीन्द्रियेषु खतन्त्रस्य प्रत्यक्षादिप्रमाणस्य भवदमिहितप्राक्तनदोषदुष्टत्वेन प्रवृत्त्यसंभवात् । किन्तु प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षपप्रतिपादकं युक्तिजालमभिहितं यथा- र्थमभिधानमुहहद्भिर्मीमांसकैः। अत एव तदभिप्रायप्रकाशनपर भगवतो जैमिनेः सूत्रं 'सत् सम्प्रयोगे पुरुपस्यन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' इति । यतो नानेनापि सूत्रेण स्वातन्त्र्येण प्रत्यक्षलक्षणमभ्यधायि भगवता; किन्तु लोकप्रसिद्धलक्षण- लक्षितप्रत्यक्षानुवादेन तस्य धर्म प्रत्यनिमित्तत्वं विधीयते । नचैतदत्रापि वक्त- व्यम्; कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं विधीयते; अस्मदादिप्रत्यक्षस्य, सर्वज्ञप्रत्यक्षस्य वा । अस्मदादिप्रत्यक्षस्य तदनिमित्तत्वप्रतिपादने सिद्धसाधनम् । सर्वज्ञप्रत्यक्षस्य भवन्मतेनाप्रसिद्धत्वाच्छशविषाणस्येव कथं तं प्रत्यनिमित्त- ताविधिः। अथापि स्यात् परेण तस्याभ्युपगतत्वात्, तं प्रत्यनिमित्तत्वं तत्प्रसिधै- वोच्यते । तदयुक्तम् । परीक्षापूर्वकत्वेनाभ्युपगमस्य स्थितत्वात् । तत्पूर्वकश्चेत्, पर- स्याभ्युपगमः, तदा भवतोऽपि तस्य तद्भावः, परीक्षायाःप्रमाणरूंपत्वात् । प्रमाण- सिद्धं च न परस्यैव सिद्धम् । प्रमाणसिद्धस्य सर्वैरेवाभ्युपगमनीयत्वात् । अथ प्रमाणव्यतिरेकेण परेण सर्वज्ञप्रत्यक्षमभ्युपगतम्, तदाऽसौ प्रमाणाभावादेव नाभ्यु- पगमो युक्तः । नच प्रमाणाभ्युपगतस्यास्मदादिप्रत्यक्षविलक्षणस्य सर्ववित्प्रत्य- क्षस्य तं प्रत्यनिमित्तत्वं विधातुं युक्तम् , यतोऽस्मदादिप्रत्यक्षविलक्षणत्वं सर्ववित्प्रत्यक्षस्य धर्मादिग्राहकत्वेनैव; तच्चत्प्रमाणतोऽभ्युपगतं, कथं तस्य तं प्रत्यनिमित्तत्वमुपपद्यते। तद्ग्राहकप्रमाणबाधितत्वात्। किञ्चायं परस्परविरुद्धोऽपि वाक्यार्थः स्यात् । प्रमाणतो धर्मादिग्राहकं सर्ववित्प्रत्यक्ष यत्प्रसिद्धं तद् धर्मादिग्राहकं न भवतीति । यतो न प्रसङ्गसाधने आश्रयासिद्धत्वादिदूषणं -- - सम्मतिताख्यप्रकरणस्य- क्रमते। नहि प्रमाणमूलपराभ्युपगमपूर्वकमेव प्रसङ्गसाधनं प्रवर्त्तते, किं तर्हि यद्यः र्थाभ्युपगमदर्शनपूर्वकम् । अत एव प्रसङ्गसाधनस्य विपर्ययफललम् । विपर्ययस्य च अतीन्द्रियपदार्थविषयप्रत्यक्षनिषेधफललम्, तन्निषेधे च किं प्रत्यक्षस्य धर्मिणो निषेधः, अथ तद्धर्मस्य प्रत्यक्षत्वस्येति। पूर्वस्मिन् पक्षे हेतूनामाश्रयासिद्धतेति प्रति- पादितम् ; उत्तरत्र प्रत्यक्षत्वनिषेधे प्रमाणान्तरत्वप्रसक्तिः, विशेषप्रतिषेधस्य शेषा- भ्यनुज्ञानलक्षणत्वात् ; इति न प्रेर्यम् । यतो विशेषनिषेधे तस्य विशेषरूपत्वेन सर्वस्यैव प्रतिषेधः । नच धर्म्यसिद्धत्वादिदोषः । यद्यर्थस्याभ्युपगतत्वात् । कथं पुनरत्र प्रसङ्गो, विपर्ययो वा क्रियते इति चेत् । तदुच्यते । सार्वज्ञं प्रत्यक्षं यद्यभ्यु- पगम्यते तदा तत् धर्मग्राहकं न भवति; विद्यमानोपलम्भनत्वात्। नचासिद्धो हेतुः। तथाहि । विद्यमानोपलम्भनमतीन्द्रियार्थजप्रत्यक्षं, सत्संप्रयोगजलात् ।अस्याप्यसि- इतोद्भावने एवं वक्तव्यम् । विवादगोचरं प्रत्यक्ष सत्संप्रयोगजं, प्रत्यक्षत्वात् । तच्छ- ब्दवाच्यवाद्वाऽस्मदादिप्रत्यक्ष सर्वत्र दृष्टान्त इति प्रसङ्गः। विपर्ययस्त्वेवम् तद्धर्म- ग्राहकं चेत् , तर्हि अविद्यमानोपलम्भनम् ; अविद्यमानलात धर्मस्य । अविद्यमानोप- लम्भनत्वे न सत्संप्रयोगजम्।असत्संप्रयोगजत्वे न प्रत्यक्षं; नापि तच्छब्दवाच्यम्। प्रसङ्गसाधनाभिप्रायेणैव यद्यर्थोपक्षेपेण वार्त्तिककृताऽप्यभिहितम् :- "यदि षड्भिः प्रमाणैः स्यात सर्वज्ञः केन वार्यते । एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥१॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत्" ॥२॥ पुनरप्युक्तम्- "येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः। स्तोकस्तोकान्तरत्वेन नत्वतीन्द्रियदर्शनात् ॥ ३ ॥ यत्राप्यतिशयो दृष्टः स खार्थानतिलवनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता" ॥ ४ ॥ इत्यादि । तेनात्रापि स्वतन्त्रानुमानाभिप्रायेणाश्रयासिद्धत्वादिदूषणम्, उपमानोपन्यास- तत्त्वबोधविधायिनी व्याख्या। घुया वा शेषोपमानोपमेयभूतपुरुषपरिषत्साक्षात्करणे उपमानं प्रवर्त्तते इत्यादि दूषणाभिधानंच, सर्वज्ञवादिनः स्वजात्याविष्करणमात्रकमेवाअतोऽतीन्द्रियसर्वविदो न प्रत्यक्ष प्रवृत्तिद्वारेण निवृत्तिद्वारेण वा भावसाघनमित्यादि सर्वमभ्युपगमवादा- निरस्तम् । यच्चानुमानेन सर्वज्ञाभावसाधने दूषणमभिहितम् । किं प्रमाणा- न्तरसंवाद्यर्थस्य वक्तृत्वादित्यादि; तडूमादग्न्यनुमानेऽपि समानम् । तथाहि । तत्रापि वक्तुं शक्यते; किं साध्यधर्मिसंबन्धी धूमो हेतुत्वेनोपन्यस्तः, उत दृष्टान्त- धर्मिसंवन्धी । तत्र यदि साध्यधर्मिसंबन्धी हेतुः, तदा तस्य दृष्टान्तेऽसंभवादन्व- यदोषः। अथ दृष्टान्तमिसंबन्धी; सोऽसिद्धः। दृष्टान्तर्मिधर्मस्य साध्यधर्मिण्यसंभ- वात् । अथोभयसाधारण धूमत्वसामान्य हेतु तदा तस्य विपक्षेऽनग्नौ विरोधासिद्धेः, सन्दिग्धविपक्षव्यावृत्तिकत्वेन स्वसाध्यागमकत्वम् । अथ विपक्षेऽनग्नौ धूमस्या- नुपलम्भाद्विरोधसिद्धेः नसन्दिग्धविपक्षव्यावृत्तिकसम्। नन्वत्रापिवक्तुं शक्यम्। सर्वसंबन्धिनोऽनुपलम्भस्यासम्भवादनगौ देशान्तरे कालान्तरे वा केनचित धूमस्योपलम्भात्, तदुपलब्धिमतः कस्यचिदभावात् सर्वसबन्धिनोऽनुपलम्भ- स्य संभव इति चेत्, केन पुनः प्रमाणेनानग्नौ धूमसत्त्वग्राहकपुरुषाभावः प्रति- पन्नः । यद्यन्यतः प्रमाणात; तत एवानने—मस्य व्यावृत्तिसिद्धयर्थं सर्वसंब- न्ध्यनुपलम्भलक्षणस्य विपक्षे धूमविरोधसाधकस्य प्रमाणस्याभिधानम्। अथ तथा- भूतानुपलम्भात् तदभावावगमः । ननु तथाभूतपुरुषाभावे तदनुपलम्भसंभव- स्तत्संभवाच्च तथाभूतपुरुषाभावसिद्धिरितीतरेतराश्रयत्वात् न सर्वसंबन्धि- नोऽनुपलम्भस्य संभवः। संभवेऽपि तस्यासिद्धेर्न विपर्यये विरोधसाधकत्वम् । अथात्मसंवन्धिनोऽनुपलम्भस्य धूमत्वलक्षणहेतोर्विपक्षात् न व्यावृत्तिसाधकत्वम्। तस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । अथानुपलम्भव्यतिरिक्तं धूमल- क्षणस्य हेतोर्विपर्यये बाधकं प्रमाणमस्ति, नतु वक्तृवलक्षणस्य । किं पुनस्तदिति वक्तव्यम्। आनिधूमयोः कार्यकारणभावलक्षणप्रतिबन्धग्राहकमिति चेत् कः पुनरसौ कार्यकारणभावः, किंवा तद्वाहक प्रमाणम् । अग्निभाव एव धूमस्य भावस्तदभावे चाभाव एवासौ; तबाहकं च प्रमाणे प्रत्यक्षानुपलम्भखभावम् । ननु किञ्चिज्ज्ञवस्य तद्व्यापकस्य वा रागादिमत्त्वस्य भाव एव वक्तृत्वस्य भावः स्वात्मन्येव दृष्टस्तदभावे . २६ सम्मतिताण्यप्रकरणस्य- वाऽभाव एवोपलादाबविगानेनानुपलम्भतो ज्ञात इति कथं न विपर्यये सर्व- ज्ञत्वे, वीतरागत्वे वा वक्तृत्वलक्षणस्य हेतीबर्बाधक, कार्यकारणभावलक्षणप्रतिबन्ध- ग्राहकं प्रत्यक्षानुपलम्भाख्यं प्रमाणं, दर्शनादर्शनशब्दवाच्यं युक्तम् । नच दर्शना- दर्शनशब्दवाच्यस्यास्मदभ्युपगतप्रमाणस्य प्रत्यक्षानुपलम्भशब्दवाच्यस्य वा भवदभिप्रेतस्य कश्चिद्विशेषः प्रकृतहेतुसाध्यप्रतिबन्धसाधने उपलभ्यते । अथ किञ्चिज्ज्ञत्वरागादिमत्त्वसद्भावेऽपि खात्मनि न तहेतुकं वक्तृत्वं प्रतिपन्नं, किन्तु वक्तुकामताहेतुकम्; रागादिसद्भावेऽपि वक्तुकामताऽभावेऽभावाद्वचनस्य । नन्वेवं व्यभिचारे,विवक्षाऽपिन वचने निमित्तं स्यात् तत्राप्यन्यविवक्षायामन्यशब्ददर्शनात्। अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात्। अथार्थविवक्षाव्यभिचारेऽपिशब्दविवक्षाया- मव्यभिचारः।न। स्वप्नावस्थायामन्यगतचित्तस्य वा शब्दविवक्षाभावेऽपि वक्तृत्व- संवेदनात्।न चव्यवहिता विवक्षा तस्य निमित्तमिति परिहारः । एवमभ्युपगमे, प्रति- नियतकार्यकारणभावाभावप्रसङ्गात् सर्वस्य तत्प्राप्तेः,तन्न वक्तुकामतानिमित्तमप्येका- न्ततो वचनं सिद्धम्। व्यतिरेकासिद्धेः । अन्वयस्तु किश्चिज्ज्ञलेन, रागादिमत्त्वेन वा वचनस्य सिद्धो न वक्तुकामतया।अथ किञ्चिज्ज्ञत्वाद्यभावे, सर्वत्र वक्तृत्वं न भवती- त्यत्र प्रमाणाभावान्नासर्वज्ञवक्तृत्वयोः कार्यकारणभावलक्षणः प्रतिबन्धः सिद्धयति। तर्हि वह्नयभावे धूमः सर्वत्र न भवतीत्यत्रापि प्रमाणाभावस्तुल्य इति न प्रतिबन्ध- ग्रहः।अथाग्न्यभावेऽपि यदि धूमः स्यात्तदाऽसौ तहेतुक एव न भवेदिति सकृदप्य- हेतोरग्नेस्तस्य न भावः स्यात् । दृश्यते च महानसादावग्नित इति नानग्गेधूमसहाव इति प्रतिबन्धसिद्धिः। ननु यथेन्धनादेरेकदा समुहूतोऽपि वह्निरन्यदाऽरणितो मण्या- देर्वा भवन्नुपलभ्यते, धूमो वा वह्नित उपजायमानोऽपि गोपालघटिकादौ पावकोहू- तधूमादप्युपजायते इत्यवगमस्तदा कदाचिदग्न्यभावेऽपि भविष्यतीति कुतः प्रति- बन्धसिद्धिः। अथ यादृशो वहिरिन्धनादिसामग्रीत उपजायमानो दृष्टोन तादृशोऽ- रणितो मण्यादेर्वा, धूमोऽपि यादृशोऽमित उपजायते न तादृश एव गोपालघटिका- दावग्निप्रभवधूमात्। अन्यादृशात्तादृशभावे तादृशत्वमहेतुकामति न तस्य क्वचिदपि प्रतिनियमः स्यात् । अहेतोदेशकालखंभावनियमायोगादितिनाग्निजन्यधूमस्य तत्स- रशस्य वाऽनग्नेर्भावः ।भावेवा तादृशधूमजनकस्याग्निखभावतैवेति न व्यभिचारः।
तत्वबोधविधायिनी व्याख्या । तदुक्तम्- "अग्निखभावः शक्रस्य मूर्दा यद्यभिरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत्" ॥१॥ इत्यादि । तदेतद्वक्तृत्वेऽपि समानम् । तथाहि । यदि सर्वज्ञे, वीतरागे वा वचनं स्याद- सर्वज्ञाद्रागादियुक्ताद्वा कदाचिदपि न स्यादहेतोः सकृदप्यसंभवात् भवति च तत्त- तः। अतो न सर्वज्ञे तस्य तत्सदृशस्य वा संभव इति प्रतिबन्धसिद्धिः। अथ देशा- न्तरे, कालान्तरे वाऽसर्वज्ञकार्यमेव वचन: न सर्वज्ञप्रभवमिति न दर्शनादर्शन- प्रमाणगम्यम्। दर्शनस्येयद्व्यापारासंभवाद् ,अदर्शनस्य च प्रागेवैवंभूतार्थग्राहकत्वेन निषिद्धत्वात्।तर्हि सर्वदाऽग्निप्रभव एव धूमोऽग्न्यभावे कदाचनापिन भवतीत्यत्रापि प्रत्यक्षस्य सन्निहितवर्तमानार्थग्राहकत्वेनाप्रवृत्तेः,अनुपलम्भस्यापितद्विविक्तप्रदेश- विषयप्रत्यक्षस्वभावस्यात्र वस्तुनि व्यापारासंभवात्,न कार्यकारणभावलक्षणः प्रति- बन्धः प्रत्यक्षानुपलम्भसाधनः स्यात्। नाप्यनुमानतोऽपि प्रकृतः प्रतिबन्धः सिद्धि- मासादयति।इतरेतराश्रयानवस्थादोपप्रसङ्गस्य प्रदर्शितलात्। न चान्यत्प्रतिबन्धप्र- साधक प्रमाणमस्तीति प्रसिद्धानुमानस्यापि सर्वज्ञाभावावेदकानुमाननिरासयुक्त्यु- पक्षेपमिच्छतोऽत्राभावः प्रसक्तः । अथ प्रसिद्धानुमाने साध्यसाधनयोः प्रतिबन्धः, तत्प्रसाधकं च प्रमाणं किञ्चिदस्ति; तर्हि स एव प्रतिबन्धः किञ्चिज्ज्ञत्वव- क्तृत्लयोः, तत्प्रसाधकं च तदेव प्रमाणं भविष्यतीति सिद्धः प्रतिबन्धः किञ्चिज्ज्ञ- त्ववक्तृत्वयोरमिधूमयोरिव । अत एव व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरी- यको यत्र दयते तत्प्रसङ्गसाधनमिति तल्लक्षणस्य युष्मदभ्युपगमेनात्र सद्भावात् भवत्येवातोऽनुमानात् सर्वज्ञाभावसिद्धिः । पक्षधर्मताभावप्रतिपादनं च यत्प्रकृत- प्रसङ्गसाधने प्रतिपादितं, तदभ्युपगमवादान्निरस्तम्। तत्र पक्षधर्मताया हेतोरभावेऽपि गमकत्वस्य सिद्धत्वात् । शेपस्तु पूर्वपक्षग्रन्थोऽनभ्युपगमान्निरस्त इति न प्रत्युच्चार्य दूपितः। अतोऽयुक्तमुक्तं सर्वक्षवादिनां यथा तत्साधकप्रमाणाभावात् न तद्वि- षयः सद्व्यवहारः, तथा तदभाववादिनां मीमांसकादीनां तदभावग्राहकप्रमाणा- भावादेव न तदभावव्यवहार इति । प्रसङ्गसाधनस्य तदभावसाधकस्य समर्थि- तत्वात् । अथ यदभ्यासविकलचक्षुरादिजनितं प्रत्यक्ष तद्धर्मादिग्राहकं न भवतीति 20 सम्मतिताख्यमकरणस्य- प्रसङ्गसाधनासिद्धयति,न पुनरन्यादृग्भूतम्।चोदनावदन्यादृशस्य धर्मग्राहकत्वा- विरोधात्। ननु किं तज्ज्ञानं प्रतिनियतचक्षुरादिजनितं धर्मादिग्राहकम्, उताभ्यास- जनितं,आहोखित् शब्दजनित किंवाऽनुमानप्रभावितम्।तत्र यदि चक्षुरादिप्रभवम् । तंदयुक्तम् । चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेनं तत्पभवस्य तज्ज्ञानस्य धर्मा- दिग्राहकत्वायोगात् । अत एव 'यदि षड्भिः' इत्याधुक्तं दूषणमत्र पक्षे।अथाभ्यासज- नितं तदिति पक्षः। तथाहि । ज्ञानाभ्यासात्पकर्षतरतमादिप्रक्रमेण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात्सकलभावातिशयपर्यन्तं संवेदनमवाप्यत इति । तदपि मनोरथमात्रम् । यतोऽभ्यासोहि नाम कस्यचित्प्रतिनियतशिल्पकलादौ प्रति- नियतोपदेशसद्भाववतो जन्मतो जनस्य संभाव्यते, न तु सर्वपदार्थविषयोपदेश- संभवः। नच सर्वपदार्थविषयानुपदेशज्ञानसंभवः, येन तज्ज्ञानाभ्यासात्सकलज्ञान- प्राप्तिः तत्संभवे वा सकलपदार्थविषयज्ञानस्य सिद्धत्वारिकमभ्यासप्रयासेना किंच तंदभ्यासप्रवर्तकं ज्ञानं यदि चक्षुरादिप्रतिनियतकरणप्रभवमप्यन्येन्द्रियविषय- रसादिगोचरं, अतीन्द्रियार्थगोचरं च स्यात्, तदा पदार्थशक्तेः प्रतिनिय- तत्वेन प्रमाणसिद्धाया अभावात्, प्रतिनियंतकार्यकारणभावाभावप्रसक्ति- सद्भावात् सकलव्यवहारोच्छेदप्रसक्तिः । अथाभ्याससहायानां चक्षुरादीना- मपि सर्वज्ञावस्थायामतीन्द्रियदर्शनशक्तिः, नच व्यवहारोच्छेदः, अस्मंदादि- चक्षुरादीनामनभ्यासदशायां शक्तिप्रतिनियमादस्मदादय एंव व्यवहारिणं इति । एतदप्यसमीचीनम्। न खल्वभ्यासे सत्यप्यन्यतो वा हेतोः कस्यचिदतीन्द्रियदर्शन चक्षुरादिभ्य उपलभ्यते; दृष्टानुसारिण्यश्च कल्पना भवन्तीति । किंच। सर्वपदार्थ- वेदने चक्षुरादिजनितज्ञानात्तदभ्यासः, तत्सहायं चक्षुरादिकं सर्वज्ञावस्थायां सर्व- पदार्थसाक्षात्कारिज्ञानं जनयतीति कथमितरेतराश्रयमेतत्कल्पनागोचरचारि चतुर चेतसो भवत इति न द्वितीयोऽपि पक्षो युक्तिक्षमः । अथ शब्दजनितं तज्ज्ञानम् ननु शब्दस्य तत्प्रणीतत्वेन प्रामाण्ये सर्वपदार्थविषयज्ञानसंभवः; तज्ज्ञानसंभंदे चं सर्वज्ञस्य तथाभूतंशब्दप्रणेतृत्वमितीतरेतराश्रयदोषानुषङ्गः । अतएवोक्तम्:-- "नर्ते तदागमात् सियेत् नच तेनागमो विना" । इति । ।
तत्त्वबोधविधायिनी व्याख्या । ८९ नच शब्दजनितं स्पष्टाममितिनतज्ज्ञानवान् सकलज्ञ इत्यभ्युपगम्यते । एवं च प्रेरणाजनितज्ञानवतो धर्मज्ञत्वम् । अत एवोक्तम् 'चोदना हि भूतं भवन्तम्' इत्यादि । तन्न तृतीयपक्षोऽपि युक्तिसङ्गतः। अनुमानजनितज्ञानेन तु सर्ववित्त्वे न धर्मज्ञत्वम् । धर्मादेरतीन्द्रियत्वेन तज्ज्ञापकलिङ्गलेनाभ्युपगम्यमानस्यार्थस्य तेन सह संबन्धासिद्धेः असिद्धसंबन्धस्य चाज्ञापकवान्न ततोधर्माद्यनुमानम्, इत्यनु- मानजनितं ज्ञानं न सकलधर्मादिपदार्थावेदकम् । किंच । तथाभूतपदार्थज्ञानेन यदि सर्वविदभ्युपगम्यते, तदाऽस्मदादीनामपि सर्ववित्त्वमनिवारितप्रसरम्।भावाभा- वोभयरूपं जगत् प्रमेयत्वादित्यनुमानस्यास्मदादीनामपि भावात्,अस्पष्टं वाऽनुमान- मिति तज्जनितस्याप्यवैशद्यसंभवान्न तज्ज्ञानवान् सर्वज्ञो युक्तः। अथानुमानज्ञानं प्रागविशदमपि तदेवाशेषपदार्थविषयं पुनःपुनर्भाव्यमानं भावनाप्रकर्षपर्यन्ते योगि- ज्ञानरूपतामासादयदेशद्यभाग् भवति । दृष्टं चाभ्यासबलाज्ज्ञानस्यानक्षजस्यापि कामशोकभयोन्मादचौरस्खप्नायुपप्लुतस्य वैशद्यम् । नन्वेवं तज्ज्ञानवदतीन्द्रि- यार्थविद्विज्ञानस्याप्युपप्लुतत्वं स्यादिति तज्ज्ञानवतः कामाद्युपप्लुतपुरुषवहिपर्य- स्तत्वम् । अथ यथा रजोनीहाराद्यावरणावृतवृक्षादिदर्शनमविशद, तदावरणापाये वैशयमनुभवति; एवं रागाद्यावारकाणां विज्ञानावैशघहेतूनामपाये सर्वज्ञज्ञानं विशदतामनुभविष्यतीति। असदेतत्। रागादीनामावरणत्वासिद्धेः । कुडयादीना- मेव ह्यावारकत्वं लोके प्रसिद्ध, न रागादीनाम् । तथाहि । रागादिसद्भावेऽपि कुड्याद्यावरणकाभावे विज्ञानमुत्पद्यमानं दृष्टम्; रागाधभावेऽपि कुडयाधावारक- सहावे न विज्ञानोदय इत्यन्वयव्यतिरेकाभ्यां कुड्यादीनामेवावरणत्वावगमो, न रागादीनामिति न रागादय आवारका इति न तद्विगमोऽपि सर्वविद्विज्ञानस्य वैशयहेतुः । किंच । सर्ववेदनं सर्वज्ञज्ञानेन किं समस्तपदार्थग्रहणम्, उत शक्ति- युक्तत्वम् , आहोस्वित् प्रधानभूतकतिपयपदार्थग्रहणम् । तत्र यद्याद्यः पक्षः । तत्रापि वक्तव्यम्। किं क्रमेण तद्ब्रहणम्, आहोस्त्रिद्योगपद्येन । तत्र यदि क्रमेण तद्रहणम् । तदयुक्तम् । अतीतानागतवर्तमानपदार्थानामपरिसमाप्तेस्तज्ज्ञान- स्याप्यपरिसमाप्तितः सर्वज्ञताऽयोगात् । अथ युगपत् अनन्तातीतानागतपदार्थसा- क्षात्कारि तवेदनमभ्युपगम्यते । तदप्यसत् । परस्परविरुद्धानां शीतोष्णादीना- । १२ सम्मतिताख्यप्रकरणस्य- -- मेकज्ञाने प्रतिभासासंभवात् । संभवे वा न कस्यचिदर्थस्य प्रतिनियतस्य तद्रा. हक स्यादिति किं तज्ज्ञानेन, अस्मदादिभ्योऽपि व्यवहारिभ्यो हीनतर इति कथं सर्वज्ञः। किंच। यदि युगपत् सर्वपदार्थग्राहक तज्ज्ञानं, तदैकक्षणे एव सर्वपदार्थ- ग्रहणात् , द्वितीयक्षणे किश्चिज्ज्ञ एव स्यात् । ततश्च किं तेन तादृशा किश्चिज्ज्ञेन सर्वज्ञत्वेन । नचानाद्यनन्तसंवेदनस्य परिसमाप्तिः परिसमाप्तौ वा कथमनाद्यन- न्तता। किंच । सकलपदार्थसाक्षात्करणे परस्य रागादिसाक्षात्करणमिति रागादि- मानपि स स्याविट इव | अथ रागादिसंवेदनमेव नास्ति, न तर्हि सकलपदार्थ- साक्षात्करणम् । तन्न प्रथमः पक्षः । अथ शक्तियुक्तत्वेन सकलपदार्थसंवेदनं तज्ज्ञानमभ्युपगम्यते । तदपि न युक्तम् । सर्वपदार्थावेदने तच्छक्तातुमशक्तः, कार्यदर्शनानुमेयत्वाच्छक्तीनाम् । किंच। सर्वपदार्थज्ञानपरिसमाप्तावपीयदेव सर्व- मिति कथं परिच्छेदशक्तिः । अथ वेदनाभावादभावोऽपरस्येति सर्वसंवेदनम्। अवे. दनादभावोऽपरस्येति कुतो निश्चयः। तदपेक्षया तस्योपलब्धिलक्षणप्राप्तत्वात् तथा- भूतानुपलब्ध्याऽभावनिश्चय इति चेत् । एवं सति स एवेतरेतराश्रयदोषः। सर्वज्ञत्व- निश्चये तदभावनिश्चयः, तदभावनिश्चये च सर्वज्ञत्वनिश्चय इति नैकस्यापि सिद्धिः । तन्न द्वितीयोऽपि पक्षः। अथ यावदुपयोगिप्रधानभूतपदार्थजातं ताव- दसौ वेतीति तत्परिज्ञानात्सकलज्ञः, तदपि सर्वपदार्थावेदने नियमेन न संभवति । सकलपदार्थव्यवच्छेदेन तेषामेव प्रयोजननिर्वर्तकत्वमिति सकलपरिज्ञानमन्तरे- णाशक्यसाधनमिति न तृतीयोऽपि पक्षो युक्तः । किंच । नित्यसमाधानसंभवे विकल्पाभावात्कथं वचनम् । वचने वा विकल्पसंभवात् समाधानविरोधान्न समाहितत्वमिति भ्रान्तच्छाद्मस्थिकज्ञानयुक्तः स स्यात् । कथं वाऽतीतानागतग्रह- णम् । अतीतादेः स्वरूपस्यांसंभवात् । असदाकारग्रहणे च तैमिरिकज्ञानवत्पमा- णत्वं न स्यात् । अथातीतादिकमप्यस्ति; एवं सत्यतीतादित्वादेरप्यभाव एव इति सर्वज्ञव्यवहारोच्छेदः । अथ प्रतिपाद्यापेक्षया तस्याभावः। तदप्ययुक्तम् । नहि विद्यमानमेवापेक्षया तदैवाविद्यमानं भवति । तस्यानुपलब्धेरविद्यमानत्व मेवेति चेत् । तद्नुपलब्धिरेवास्तु कथमविद्यमानम् । नान्यस्याभावेऽन्य- । स्याप्यभावः । अतिप्रसङ्गात् । तस्यासावविद्यमानत्वेन प्रतिभातीति चेत् स तर्हि -- तस्वबोधविधायिनी व्याख्या । भ्रान्तः । असद्विकल्पसंभवात् । तस्यासद्विकल्पस्य विपयीकरणात्सर्वज्ञोऽपि भ्रान्त एवेति कथं सर्ववित् । अथ विकल्पस्यापि स्वरूपेऽभ्रान्तत्वमेव; तेन तस्य वेदनं सर्वज्ञज्ञानमभ्रान्तम् । एवं तर्हि स्वरूपसाक्षात्करणमेव केवलं, कथमतीताद्यविद्यमानसाक्षात्करणम् । ततश्चातीतानागतपदार्थाभावात्तत्साक्षा- करणासंभवान्न तद्ग्रहणात्सर्वज्ञः । किंच । स्वरूपमात्रवेदने तन्मात्रस्यैव विद्यमानत्वाचवेदनेऽद्वैतवेदनात् न सर्वज्ञव्यवहारः । सद्भावे वा सर्वः सर्ववित् स्यात् । अथापि स्यात्, सत्यस्वप्नदर्शनवदतीतानागतादिदर्शनं, ततो व्यवहार इति । तदप्ययुक्तम् । सत्यस्वप्नदर्शनस्य स्वरूपमात्रवेदने न सत्या- सत्यविभागः; किन्वानुमानिकः । सत्यस्वप्नस्वरूपसंवेदनस्य तन्मात्रपर्यवसि- तत्वात् । किंच । अतीतानागतकालसंवन्धित्वात्पदार्थानामतीतानागतत्वम्, तद्धि भवत्किमपरातीतानागतकालसंबन्धादतीतानागतत्वमभ्युपगम्यते, आहो- खित् स्वत एव । यद्यपरातीतानागतकालसंवन्धात्कालस्यातीतानागतत्वं, तदा तस्याप्यपरातीतानागतकालसंबन्धादतीतानागतत्वं, तस्याप्यपरस्मादित्यनवस्था । अथातीतानागतपदार्थक्रियासंबन्धात्कालस्यातीतानागतत्वम्, तेनायमदोपः । ननु पदार्थक्रियाणामपि कुतोऽतीतानागतत्वम् । यद्यपरातीतानागतपदार्थक्रिया- सहावात ; तदाऽत्रापि सैवानवस्था। अतीतानागतकालसंबन्धात्पदार्थक्रियाणाम- तीतानागतत्वं,तर्हि कालस्याप्यतीतानागतपदार्थक्रियासंबन्धादतीतानागतत्वमिति व्यक्तमितरेतराश्रयत्वम् | तन्न प्रथमः पक्षः । अथ वरूपत एव कालस्यातीता- नागतत्वं तदा पदार्थानामपि स्वत एवातीतानागतत्वमस्तु, किमतीतानागतकाल- संबन्धित्वेन । तच्च पदार्थस्वरूपमस्मदादिज्ञानेऽपि प्रतिभातीति नातीतानागत- पदार्थग्राहित्वेनास्मदादिभ्यः सर्वज्ञस्य विशेषः अपिच । संबन्धस्यान्यत्र विस्त- रतो निषिद्धत्वान्न कस्यचिकेनचित्संबन्ध इत्यतीतानागतादिसंबद्धपदार्थग्राहि- ज्ञानमसदर्थविषयत्वेन भ्रान्तं स्यादिति न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्तः । भवतु वा सर्वज्ञः, तथाप्यसौ तत्कालेऽप्यसर्वातुं न शक्यते। तद्ग्राह्य- पदार्थाज्ञाने तद्ग्राहकज्ञानवतः केनचित्प्रमाणेन प्रतिपत्तुमशक्तेः ।
- ९२ सम्मतिताख्यप्रकरणस्य- तदुक्तम्:- "सर्वज्ञोऽयमिति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १॥ कल्पनीयास्तु सर्वज्ञा भवेयुर्बहवस्तव । य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते" ॥२॥ नच तदपरिज्ञाने तत्प्रणीतत्वेनागमस्य प्रामाण्यमवगन्तुं शक्यम् । तदन- वगमे च तद्विहितानुष्ठाने प्रवृत्तिरप्यसङ्गता। तदुक्तम् :- सर्वज्ञो नावबुद्धश्वेयेनैव, स्यान्न तं प्रति । तद्वाक्यानां प्रमाणत्वं, मूलाज्ञानेऽन्यवाक्यवत्" ॥ १ ॥ इति । तदेवं सर्वज्ञसद्भावग्राहकस्य प्रमाणस्याभावात्, तत्सद्भावबाधकस्य चाने- कधा प्रतिपादितत्वात, सर्वज्ञाभावव्यवहारः प्रवर्त्तयितुं युक्तः। तथाहि । ये बाधक- प्रमाणगोचरतामापन्नास्ते असदिति व्यवहर्तव्याः; यथा अगुल्यग्रे करियूथादयः; बाधकप्रमाणगोचरापन्नश्च भवदभ्युपगमविषयः सकलपदार्थसार्थसाक्षात्कारीत्य- सद्व्यवहारविषयत्वं सर्वविदोऽभ्युपगन्तव्यमिति पूर्वपक्षः ॥ अत्र प्रतिविधीयते।यत्तावदुक्तम्। थे देशकालस्वभावव्यवहिताः प्रमाणविष- यतामनापन्नानते सद्व्यवहारगोचरचारिणः' इत्यादि। तद्युक्तम् । सर्वविदि प्रमाण- विषयत्वस्य प्रतिपादयिष्यमाणलात् असिद्धो हेतुस्तदविषयत्वलक्षणः। यदप्यम्य- धायि। न तावदक्षसंभवज्ञानसंवेद्यस्तावः अक्षाणांप्रतिनियतविषयत्वेन तत्साक्षा- करणव्यापारासंभवात् । तत् सिद्धमेव साधितम् । यदप्युक्तम् । नाप्यनुमानस्य तंत्र व्यापारः। तद्धि प्रतिबन्धग्रहणे पक्षधर्मताग्रहणे च हेतोः प्रवर्तते । नच प्रतिबन्धग्रहणं प्रत्यक्षतस्तत्र संभवतीत्यादि । तद् धूमादेरग्न्यादिप्रभवत्वानुमानेऽपि समानम् । अथाग्न्यादेः प्रत्यक्षत्वात्तत एव तत्प्रभवत्वकार्यविशेषत्वयोधूमादौ प्रतिबन्धसिद्धिः । ननु धूमस्य किमनिस्वरूपग्राहकप्रत्यक्षेण पावकपूर्वकत्वमव- गम्यते, उत धूमस्वभावग्राहिणेति कल्पनाद्वयम् । तत्र न तावदाधः पक्षः। पावकरूपग्राहिप्रत्यक्षं तत् स्वभावमात्रग्रहणपर्यवसितमेव, न धूमरूपप्रवेदनप्रव- तत्ववोधविधायिनी व्याख्या। ९३ णम् । तदप्रवेदने च न तदपेक्षया तेन वढेः कारणत्वावगमः । नहि प्रतियोगि- स्वरूपाग्रहणे तं प्रति कस्यचित्कारणत्वमन्यहा धर्मान्तरं ग्रहीतुं शक्यम् । अति- प्रसङ्गात् । अथ धूमखरूपप्रतिपत्तिमता प्रत्यक्षेण तस्य चित्रभानु प्रति कार्य- स्वस्वभावं तत्प्रभवत्वं गृह्यते । ननु तस्यापि पावकखरूपग्राहकत्वेनाप्रवृत्ते- स्तदग्रहणे तदपेक्षं कार्यत्वं धूमस्य कथमवगमविषयः । अथानिधूमहयस्वरूप- ग्राहिणा प्रत्यक्षेण तयोः कार्यकारणभावनिश्चयः। तदप्यसङ्गतम् । द्वयग्राहिण्यपि ज्ञाने तयोः खरूपमेव भाति, न पुनरमेधूमं प्रति कारणत्वम् : धूमस्य वा ते प्रति कार्यत्वम् । नहि पदार्थद्वयस्य स्वस्वरूपनिष्ठस्यैकज्ञानप्रतिभासमात्रेण कार्यका. रणभावप्रतिभासः । अन्यथा घटपटयोरपि स्वस्वरूपनिष्ठयोरेकज्ञानप्रतिभास: कचिदस्तीति तयोरपि कार्यकारणभावावगमप्रसङ्गः। अथ यस्य प्रतिभासानन्तरं यत्प्रतिभास एकज्ञाननिबन्धनस्तयोस्तदवगम इति नायं दोषः। तदपि घटप्रति- भासानन्तरं पटप्रतिभासे कचित् ज्ञाने समानम् । नच क्रमभाविपदार्थद्वयप्रति- भासमन्वय्येकं ज्ञानमिति शक्यं वक्तुम् । प्रतिभासभेदस्य भेदनिबन्धनत्वात् । अन्यत्रापि तद्भेदव्यवस्थापितत्वाहेदस्य । स च क्रमभाविप्रतिभासहयाध्यासित- ज्ञाने समस्तीति कथं न तस्य भेदः । नचैकमेव ज्ञानं जन्मानन्तरक्षणादि- कालमास्त इति भवतामभ्युपगमः । तदुक्तम् । 'क्षणिका हि सा, न कालान्तर- मास्ते' इति । अथ वहिधूमस्वरूपदयग्राहिज्ञानहयानन्तरभाविस्मरणसहका- रीन्द्रियं सबिकल्पकज्ञानं जनयति, तत्र तद्दयस्य पूर्वापरकालभाविनः प्रति- भासात् कार्यकारणभावनिश्चयो भविष्यति । तदप्यसङ्गतम् । पूर्वप्रवृत्तपत्यक्ष- इयस्य तत्राव्यापाराचदुत्तरस्मरणस्य च पदार्थमात्रग्रहणेऽप्यसामर्थ्याच्चक्षुरादीनां च तदवगमज्ञानजननेऽशक्तेः । शक्तौ वा प्रथमाक्षसन्निपातवेलायामेव तदवग- मज्ञानोत्पत्तिप्रसङ्गात्, अकिञ्चित्करस्य स्मरणादेरनपेक्षणीयत्वात् । परिमलस्मरण- व्यपेक्षस्य लोचनस्य सुरमि चन्दनमित्यविषये गन्धादौ ज्ञानजनकलस्येव, तत्रापि तज्जनकत्वविरोधात् । अथ तत्स्मरणसव्यपेक्षलोचनव्यापारानन्तरं कार्यकारण- * भूते एते वस्तुनी इत्येतदाकारज्ञानसंवेदनात्कार्यकारणभावावगमः सविकल्पक- प्रसक्षनिबन्धनो व्यवस्थाप्यते । नन्वेवं परिमलस्मरणसहकारिचक्षुर्व्यापारान- . ar .. 1. है सम्मतिताण्यप्रकरणस्य- न्तरभावी सुरमि मलयजमिति प्रत्ययः समनुभूयत इति परिमलस्यापि चक्षुर्ज- प्रत्ययविषयलं स्यात् । अथ परिमलस्य लोचनाविषयत्वात् नायं प्रत्ययस्तज्जः, किन्तु गन्धसहचरितरूपदर्शनप्रभवानुमानखभावः । तदेतत्प्रकृतेऽपि कार्य- कारणभावे लोचनाविषयत्वं समानम् । प्रत्ययस्य तु तदध्यवसायिनोऽपर निमित्तं कल्पनीयम् । तन्न प्रत्यक्षतः सविकल्पकादपि धूमपावकयोः कार्य- कारणत्वावगमः । मानसप्रत्यक्षं तु तदवगमनिमित्तं भवता नाभ्युपगम्यते । अपिच । कार्यकारणभावः सर्वदेशकालावस्थिताखिलधूमपावकव्यक्तिकोडीकरणे- नावगतोऽनुमाननिमित्ततामुपगच्छति । नच प्रत्यक्षस्येयति वस्तुनि. सवि- कल्पकस्य, निर्विकल्पकस्य वा व्यापारः संभवतीत्यसकृत्प्रतिपादितम् । किंच। न कारणस्य प्राग्भावित्वमात्रमेव बौद्धानामिव कारणत्वम् ; येन तस्य कारणखरूपा- भेदात्तत्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभावस्य कारणत्वस्यावगमः; केवलं. कार्यदर्शनादुत्तरकालं तन्निश्चीयते, किन्तु कारणस्य कार्यजननशक्तिः कारणत्वम्। सा च शक्तिर्न प्रत्यक्षावसेया; अपि तु कार्यदर्शनसमवगम्याभवता परिकल्पिता। तदुक्तम्:- "शक्तयः सर्वभावानां कार्यार्थीपत्तिगोचराः"। ततः कथं प्रत्यक्षात्कारणस्य कारणत्वावगमः। अथ कार्यादेव कारणस्य कारणत्वावगमो भवतु, किं नश्छिन्नम् । ननु कार्यात्कारणत्वावगमेऽनुमानाच्छ- क्त्यवगमः, तत्र च तदपि कार्य लिङ्गभूतं यदि कारणशक्तिमवगमयति, तदा शक्तिकार्ययोः प्रतिबन्धग्रहणमभ्युपगन्तव्यम् । सच प्रतिबन्धावगमो न प्रत्य- क्षादिति प्रतिपादितम् । अनुमानात्तदवगमे इतरेतराश्रयानवस्थादोषावतारोऽ- त्रापि समानः । अर्थापत्तेस्त्वनुमानेऽन्तर्भावः प्रतिपादित इति न प्रसिद्धानुमान- स्यापि प्रवृत्तिर्भवदभिप्रायेण । अथ वहिगतधर्मानुविधानात् धूमस्य तत्पूर्वकत्वं कुतश्चित्प्रमाणात्प्रसिद्धमिति धूमत्वस्य तत्पूर्वकत्वव्याप्तिसिद्धिः । अन्यथा धूमा- दग्न्यसिद्धेः सकललोकप्रसिद्धव्यवहाराभावः । अनुमानाभावे प्रत्यक्षतोऽपि व्यव- हारासम्भवात्। तर्हि वचनविशेषस्यापि यदि विशिष्टकारणपूर्वकत्वं तत एव प्रमा- णात्मसिद्धम् ; विवादाध्यासिते वचने वचनविशेषत्वात्साध्येत, तदा कोऽपराधः।
तत्त्वबोधविधायिनी व्याख्या । ९५ - यदप्युक्तम् । 'पक्षत्वनिश्चये सति हेतोरनुमान प्रवर्तते; नच सर्ववित् कुतश्चित्प्र- माणात्सिहः' इत्यादि । तदप्ययुक्तम् । यतो यदि सर्वविदो धर्मित्वं क्रियेत, तदा तस्यासिद्धत्वात्स्यादप्यपक्षधर्मवलक्षणं दूषणम् ; यदा तु वचनविशेषस्य धर्मित्वं तस्य विशिष्टकारणपूर्वकत्वं साध्यत्वेनोपक्षिप्तं, तदा तत्र तहिशेपत्वादिलक्षणो हेतु- रुपादीयमानः कथमपक्षधर्मः स्यात् । नचापक्षधर्मादपि हेतोरुपजायमानमनुमान प्रमाणं भवताऽभ्युपगच्छता पक्षधर्मवाभावलक्षणं दूपणमासञ्जयितुं युक्तम् । अन्यथा- "पित्रोन ब्राह्मणत्वेन पुत्रव्राह्मणताऽनुमा । सर्वलोकप्रसिद्धा, न पक्षधर्ममपेक्षते” ॥ १ ॥ इत्याद्यपक्षधर्महेतुसमुत्थानुमानप्रामाण्यप्रतिपादनं भवतोऽप्ययुक्तं स्यात् । यदप्यभ्यधायि । 'सर्वजसत्तायां साध्यायां त्रयीं दोपजाति हेतु तिवर्त्तते' इत्यादि । तत्र स्यादप्ययं दोपः, यदि तत्सत्ता साध्यत्वेनाभ्युपगम्यते, यावता पूर्वोक्तप्रकारेण वचनविशेषस्य विशिष्टकारणपूर्वकत्वं साध्यमित्युक्तम् ; तत्र चास्य दोपस्योप- क्षेपोऽयुक्त एव । यदप्यम्यधायि । यद्यनियतः कश्चित्सकलपदार्थज्ञः साध्योऽभिप्रेत इत्यादि।तदप्यसङ्गतमेव। यतो नास्माभिःप्रतिनियत एव कश्चित्सर्वज्ञोऽनुमानात्सा- ध्यते, किन्तु विशिष्टकारणपूर्वकत्वं विशिष्टशब्दस्य । तच्च स्वसाध्यव्याप्तहेतुवला. त्साध्यधर्मिणि सिरिमासादयडेतुपक्षधर्मत्वबलात्प्रतिनियतसर्वज्ञपूर्वकत्वेनैव सि- डिमासादयति । नच तत एव हेतोरन्यस्यापि सर्वज्ञसिद्धेः, अन्यागमाश्रयणमपि भवतां प्रसज्यते इति दूपणम् । अन्यागमानां दृष्टविषय एव प्रमाणविरुद्धार्थप्रति- पादकलेनाप्रामाण्यस्य व्यवस्थापयिष्यमाणवात्, कथं तत्मणेतृणामपि सर्वज्ञखसि- रिः। यच्चान्यदाभिहितम्।न कश्चित्सर्वज्ञप्रतिपादकः सम्यग् हेतुः संभवति। तदप्य- सङ्गतम् । तत्प्रतिपादकस्य सम्यग्हेतोर्वचनविशेषत्वादेः प्रतिपादयिष्यमाणलात्। यच्चान्यदभिहितम्। सर्वे पदार्थाः कस्यचित्प्रत्यक्षाः प्रमेयवादग्न्यादिवदित्यत्र यदि सकलपदार्थग्राहिप्रत्यक्षत्वं साध्यमित्यादि । तदप्यसङ्गतम् । एवं साध्यविकल्पनेऽ- गन्यादेरप्यनुमानान्न सिद्धिः स्यात्। तथाहि अत्राप्येवं वक्तुं शक्यते । यदि प्रतिनि- यतसाध्यधर्मो बतिः साध्यत्वेनाभिप्रेतस्तदा तहिरुद्धेन दृष्टान्तधर्मिणि तद्धर्मि- .
सम्मतिताख्यप्रकरणस्य- धर्मेण पावकेन व्याप्तस्य धूमलक्षणस्य हेतोरसिद्धत्वात् विरुद्यो हेतुः स्यात्, साध्य विकलश्च दृष्टान्तः। अथ दृष्टान्तर्मिधर्मः साध्यर्मिणि साध्यते, तदा प्रत्यक्षादिवि. रोधः । अथोभयगतं वह्विसामान्यं, तदा सिद्धसाध्यतादोषः । तथा प्रमेयलमपि हेतुलेनोपन्यस्यमानमित्यादि यदुक्तम् तद् धूमत्वलक्षणेऽपि हेतौसमानम्।तथाहि। अत्रापि किं साध्यधर्मिधर्मों हेतुलेनोपात्तः, उत दृष्टान्तर्मिधर्मः, अथोभयगतं सा- मान्यम्। तत्र यदि साध्यमिधर्मों हेतुः स दृष्टान्तर्मिणि नान्वेतीत्यनन्वयो हेतु- दोषः । अथ दृष्टान्तर्मिधर्मः स साध्यमिण्यसिद्ध इत्यसिद्धताहेतुदोषः । अथो- भयगतं सामान्य, तदपि प्रत्यक्षाप्रत्यक्षमहानसपर्वतप्रदेशविलक्षणव्यक्तिद्वयाश्रितन संभवतीति हेतोरसिद्धता तदवस्थिता । अथ पर्वतप्रदेशाश्रितानितडूमव्यक्तरुत्त- रकालभाविप्रत्यक्षप्रतीयमानत्वेन न महानसोपलव्धधूमव्ययाऽत्यन्तवैलक्षण्य- मिति नोभयगतसामान्याभावः।ननूभयगतसामान्यप्रतिपत्तौ ततोऽनुमानप्रवृत्ति- स्तत्प्रवृत्तौ चतदर्थक्रियार्थिनस्तत्रप्रवर्तमानस्य प्रत्यक्षप्रवृत्तिस्तस्यां च सत्यामत्यन्त- वैलक्षण्याभावस्तयक्तः, तत्सद्भावे चोभयगतसामान्यसिद्धितस्तदनुमानप्रवृत्तिरिति चक्रकदूषणावकाशः। अथ कण्ठक्षीणतादिलक्षणधर्मकलापसाधान्न महानसप- र्वतप्रदेशसङ्गतधूमव्यक्त्योरत्यन्तवैलक्षण्यमित्युभयगतसामान्यसिद्धौ न धूमानु- माने हेलसिद्धतादिदोषः, तर्हि वाच्याविसंवादादिधर्मकलापसाधर्म्यस्य वचन- विशेषव्यक्तिद्वयेऽप्यत्यन्तवलक्षण्यनिवर्तकस्य सद्भावेन कथं न तद्विशेषत्वसामा- न्यसंभवः । प्रमेयत्वं तु यथा प्रकृतसाध्ये हेतुर्भवति तथा प्रतिपादयिष्याम आस्तां तावत्॥ यत्तु नापि शब्दात्तत्सिद्धिरित्यादिप्रतिपादितम्। तत्सिद्धसाध्यतादोषाघ्रात- लान्निरस्तम्।यदप्युक्तम्।ये देशकालेत्यादिप्रयोगेनासिद्धोहेतुरिति। एतदप्ययुक्तम्। अनुमानस्य तदुपलम्भखभावस्य प्रतिपादयिष्यमाणत्वेनानुपलम्भलक्षणस्य हेतोः परप्रयुक्तस्यासिद्धत्वात् । अत एव सध्यवहारनिषेधश्चानुपलम्भनिमित्तोऽने- नेत्याद्यसारतया स्थितम् । अथ यथाऽस्माकं तत्सद्भावावेदकं प्रमाणं नास्ति, तथा भवतां तदभावावेदकमपि नास्तीत्यादि यावत्प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितमिति, यदुक्तम्। तदप्यचारु । यतः 'सर्वज्ञो दृश्यते तावन्नेदानीम्' इत्यादिना तत्सद्भावोपलम्भकप्रमाणपञ्चकनिवृ तत्त्वबोधविधायिनी व्याख्या । चिप्रतिपादनहारेण यदभावाख्यप्रमाणप्रवृतिप्रतिपादनं, तत् तद्भावावेदकखतन्त्रा- भावाख्यप्रमाणाभ्युपगमव्यतिरेकेणासंभवद्भवतां मिथ्यावादितां सूचयति । यद- प्यवादि । तथाच प्रसङ्गसाधनाभिप्रायेण भगवतो जैमिनेः सूत्रमित्यादि । तदप्यसङ्गतम् । यतः प्रसङ्गसाधनस्य, तत्पूर्वकस्य च विपर्ययस्य व्याप्य- व्यापकभावसिद्धौ यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयका व्याप- कनिवृचितो व्याप्यनिवृत्तिरवश्यंभाविनी च प्रदर्श्यते, तत्र यथाक्रमं प्रवृत्तिः । अत्र तु प्रत्यक्षबस्य सत्संप्रयोगजलेन, तस्य च विद्यमानोपलम्भनवेन, तस्यापि धर्मादिकं प्रत्यनिमित्तत्वेन व व्याप्यव्यापकभावावगमः, येन प्रसङ्गतद्विपर्यययोः प्रवृत्तिः स्यात् । ननूक्तमेवैतत् स्वात्मन्येव सत्यमुक्तम्, नतु युक्तमुक्तम्। अयुक्तता च सर्व चक्षुरादिकरणग्रामप्रभवं प्रत्यक्ष सन्निहितदेशकालपदार्थान्तरस्वभावावि- प्रकृष्टप्रतिनियतरूपादिग्राहकं सर्वत्र सर्वदा चेति न व्याप्यव्यापकभावग्राहक प्रमाणमस्ति, विपर्ययोपलभ्यते । योजनशतविप्रकृष्टस्यार्थस्य ग्राहक संपाति- गृधराजप्रत्यक्षं रामायणभारतादी भवत्प्रमाणत्वेनाभ्युपगते श्रूयते, तथेदानीमपि गृध्रवराहपिपीलिकादीनां चक्षुःश्रोत्रघाणजस्य प्रत्यक्षस्य यथाक्रमं रूपशब्द- गन्धादिपु देशविप्रकृष्टेषु प्रवृत्तिरुपलभ्यते। तथा कालविप्रकृष्टस्याप्यतीतकालसंव- न्धित्वस्य, पूर्वदर्शनसंबन्धित्वस्य च स्मरणसव्यपेक्षलोचनादिजन्यप्रत्यभिज्ञापत्य- क्षग्राहावं पुरोव्यवस्थितेऽथे भवताऽभ्युपगम्यते । अन्यथा- "देशकालादिभेदेन तदाऽरत्यवसरो मितेः । इदानींतनमस्तित्वं नहि पूर्वधिया गतम्" ॥१॥ इत्यादिवचनसंदर्भण प्रत्यभिज्ञाप्रत्यक्षस्यागृहीतार्थाधिगन्तृत्वं पूर्वीपर- कालसंबन्धित्वलक्षणनित्यत्वग्राहकत्वं च प्रतिपाद्यमानमसङ्गतं स्यात् । अथा- तीतातीन्द्रियकालसंबन्धित्वं, पूर्वदर्शनसंवन्धित्वं वा वर्तमानकालसंवन्धिनः पुरोग्यवस्थितस्यार्थस्य यदि चक्षुरादिप्रभवप्रत्यभिज्ञानेन गृह्यते, तदा- "संवद्ध वर्त्तमानं च गृह्यते चक्षुरादिभिः" । इति वचन विरुद्धार्थ स्यात् । तथाऽतीन्द्रियकालदर्शनादेवर्तमानार्थ- ૧૨ - सम्मतितकाख्यप्रकरणस्य विशेषणत्वेन ग्रहणेऽतीन्द्रियधार्यादेरपि ग्रहणप्रसङ्गात् प्रसङ्गसाधनतहिपर्यय- योरप्रवृत्तिः स्वयमेव प्रतिपादिता स्याव; नत्वयमेवात्र दोषः । कालविप्रकृ. ष्टार्थग्राहकत्वेन इन्द्रियजप्रत्यक्षस्य प्रतिपादयितुमस्माभिरभिप्रेत इति कस्यात्रो- पालम्भः । अथ वर्तमानकालसंबद्धे विशेष्ये पुरोवर्तिनि व्यापारबच्चक्षुस्तद्विशे- षणभूतेऽतीन्द्रियेऽपि पूर्वकालदर्शनादौ प्रवर्तते । अन्यथा चक्षुर्व्यापारानन्तरं पूर्वदृष्टं पश्यामीति विशेष्यालम्बनं प्रत्यभिज्ञानं नोपपद्येत.। नागृहीतविशेषणा विशेष्ये बुद्धिरुपजायते, दण्डाग्रहण इव दण्डिबुद्धिः । नच धर्मादावयं न्यायः संभवतीति चेत् । ननु धर्मादेः किमतीन्द्रियत्वाच्चक्षुरादिनाऽग्रहणं, उत अविद्य- मानत्वात् , आहोस्त्रित् अविशेषणत्वात् । तत्र नाद्यः पक्षः।अतीन्द्रियस्याप्यतीत- कालादेर्ग्रहणाभ्युपगमात् । नाप्यविद्यमानत्वात्। भाविधर्मादेरिवातीतकालादेरविद्य- मानत्वेऽपि प्रतिभासस्य भावात्। अथाविशेषणवाधर्मादेरप्रतिभासः। तदप्यसङ्ग- तम्। सर्वदा पदार्थजनकखेन, द्रव्यगुणकर्मजन्यलेन च धर्मादेः सर्वपदार्थविशेष- जभावसंभवात्।अतीतातीन्द्रियकालादेरिव तस्यापि विशेष्यग्रहणप्रवृत्तचक्षुरादिना ग्रहणसंभव इति कथं धर्म प्रत्यानिमित्तलप्रसङ्गसाधनस्य, तद्विपर्ययस्य वा संभवः। तथा प्रश्नादिमन्त्रादिद्वारेण संस्कृतं चक्षुर्यथा कालविप्रकृष्टपदार्थग्राहकमुपलभ्यते, तथा धर्मादेरपि यदि ग्राहकं कस्यचित्स्यात् , तदान कश्चिद्दोषः।अपिच । अनालो- कान्धकारव्यवहितस्य मूषिकादेर्नक्तंचरवृषदंशादेश्चक्षुर्यथा ग्राहकमुपलभ्यते, तथा भिद्यतीन्द्रियातीतानागतधर्मादिपदार्थसाक्षात्कारि कस्यचिचदेव स्यात् , तवाऽत्रापि को दोषः। नच जात्यन्तरस्यान्धकारव्यवहितरूपादिग्राहकं चक्षुर्दृष्टं, न पुनर्मनु- ष्यधर्मण इति प्रतिसमाधानमत्राभिधातुं युक्तम् । मनुष्यधर्मणोऽपि निर्जीविका- देव्यविशेषादिसंस्कृतं चक्षुः समुद्रजलादिव्यवहितपर्वतादिग्रहणे समर्थमुपल- भ्यत इति धर्मादेरपि देशकालखमावविप्रकृष्टस्य कस्यचित्पुरुषविशेषस्य पुण्या- दिसंस्कृतं चक्षुरादि ग्राहक भविष्यतीति न कश्चित दृष्टस्वभावव्यतिक्रमः। अथ चक्षुरादे करणस्य प्रतिनियतरूपादिविषयत्वेनान्यकरणविषयग्राहकले स्वार्थाति- क्रमो व्यवहारंविलोपी स्यात निनुश्रूयत एवं चक्षुषा शब्दश्रवणं पाणिविशेषाणा- म् चक्षुश्रवसों भुजङ्गाः इति लोकपवादात् । मिथ्या स प्रवाद इति चेत् । नैतत्। .."
तत्त्वबोधविधायिनी व्याख्या । प्रवादबाधकस्याभावात् , कर्णच्छिद्रानुपलब्धेश्च । नच दन्दशुकचक्षुषो जात्यन्त- रखादित्युत्तरमत्रोपयोगि। अन्यत्रापि प्रकृष्टपुण्यसंभारजनितसर्वविच्चक्षुषि समान- त्वात् । तदेवं धर्मादिसमस्तपदार्थग्राहकत्वेन चक्षुरादिजनितप्रत्यक्षस्य विरोधात्, न प्रत्यक्षत्वसत्संप्रयोगजलादेयाप्यव्यापकभावसिद्धिरिति न प्रसङ्गविपर्यययोः प्रवृत्तिरिति न ततस्तत्प्रतिक्षेपः। एतेन यदि पड्भिःप्रमाणैः स्यात् सर्वज्ञः' इत्यादि वार्तिककृत्प्रतिपादितं प्रसङ्गसाधनाभिप्रायेण युक्तिजालमखिलं निरस्तम्। व्याप्ति- प्रतिपेधस्य पूर्वोक्तप्रकारेण विहितत्वात् । यच्च किं प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वा- दित्यादि; तद् धूमादग्न्यनुमानेऽपि समानम् । तथाहि। अत्रापि वक्तुं शक्यम् , किं साध्यधर्मिसंवन्धी धूमो हेतुत्वेनोपन्यस्त इत्यादि यावसिद्धः प्रतिबन्धोऽसर्वज्ञत्व- वक्तृत्वयोरमिधूमयोरिवेति पर्यन्तम् । तदप्ययुक्तम् । यतोऽसर्वज्ञत्ववक्तृत्वयोरिव नाग्निधूमयोः कार्यकारणत्वप्रतिबन्धस्य, तद्राहकप्रमाणस्य वा भावः । नहि वह्नि- सहावे धूमो दृष्टस्तदभावे च न दृष्ट इत्येतावता धूमस्याग्निकार्यत्वमुच्यते, किन्तु "कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः"। नचासो दर्शनादर्शनमात्रगम्यः, किन्तु विशिष्टात्प्रत्यक्षानुपलम्भाख्यात्प्रमा णात् । प्रत्यक्षमेव प्रमाण प्रत्यक्षानुपलम्भशब्दाभिधेयम्, तदेव कार्यकारणा- भिमतपदार्थविषयं प्रत्यक्षम् ; तद्विविक्तान्यवस्तुविषयमनुपलम्भशब्दाभिधेयम् ; कदाचिदनुपलम्भपूर्वकं प्रत्यक्षं तहावसाधकं, कदाचित्प्रत्यक्षपुरःसरोऽनुपलम्भः । तत्राधेन येषां कारणाभिमतानां सन्निधानात् प्रागनुपलब्धं सद् धूमादि, तत्सन्निधानादुपलभ्यते; तस्य तत्कार्यता व्यवस्थाप्यते । तथाहि । एतावद्भिः प्रकारधूमोऽग्निजन्यो न स्यात; यद्यभिसन्निधानात्प्रागपि तत्र देशे स्यात् अन्यतो वाऽऽगच्छेत्, तदन्यहेतुको वा भवेत् ; तदेतत्सर्वमनुपलम्भपुरस्सरेण प्रत्यक्षेण निरस्तम् । एतेन प्रागनुपलब्धस्य रासभस्य कुम्भकारसन्निधाना- नन्तरमुपलभ्यमानस्य तत्कार्यता स्यादिति निरस्तम् । तथाहि । तत्रापि यदि रासभस्य तत्र प्रागसत्त्वम्, अन्यदेशादनागमनम्, अन्याकारणत्वं च निश्चेत शक्येत; तदा स्यादेव कुम्भकारकार्यता; केवलं तदेव निश्चेतुमशक्यम् । एवं तावदनुपलम्भपुरस्सरस्य प्रत्यक्षस्य तत्साधनवमुक्तम् । तथा प्रत्यक्ष- १०.. सम्मतिताण्यप्रकरणस्य- पुरस्सरोऽनुपलम्भोऽपि तत्साधनो, येषां सन्निधाने प्रवर्त्तमानं तत्कार्य दृष्ट, तेषु मध्ये यदैकस्याप्यभावो भवति तदा नोपलभ्यते तत्तस्य कारणमितरत्का- र्यम् । नचामिकाष्ठादिसन्निधाने भवतो धूमस्यापनीते कुम्भकारादावनुपलम्भोऽ- स्ति; अग्न्यादौ खपनीते भवत्यनुपलम्भः । एवं परस्परसहितौ प्रत्यक्षानुलम्भा- वभिमतेष्वेव कार्यकारणेषु निःसन्दिग्धं कार्यकारणभावं साधयतः, सर्वकालं चा- मिसन्निधाने भवतो धूमस्यानमिजन्यत्वं कदाचित्सदसतोरजन्यत्वेनाहेतुकत्वे- नादृश्यहेतुकत्वेन वा भवेत् । तत्र न तावत्प्रथमः पक्षः । असतो जन्यत्वात् । सदेव च नजन्यते इति त्वदभिप्रायात, सतएव जन्यमानत्वानुपपत्तेः, कार्यस्य च कादाचित्कत्वेन सिहत्वात् । नाप्यहेतुकत्वम् । कादाचित्कत्वेनैवाहेतुत्वे तदयो- गात् । नाप्यदृश्यहेतुकत्वम् । धूमस्याग्न्यादिसामग्यन्वयव्यतिरेकानुविधानात् । अथापि स्यात् , अदृश्यस्यायं स्वभावो यदग्न्यादिसन्निधान एव धूम, कर्पूरो- दिदाहकाले सुगन्धादियुक्तं च करोति नान्यदेति, तत्किमग्निमन्तरेण कदा- चिद् धूमोत्पत्चिदृष्टा, येनैवमुच्यते । नेति चेत्, कथं नाग्निकार्यों धूमः । तद्भावे भावात् । धूमोत्पत्तिकाले च सर्वदा प्रतीयमानोऽमिः, काकतालीयन्यायेन व्यवस्थित इत्यलौकिकम् । अथ स एवादृश्यखभावो यदग्निसन्निधान एव धूमं करोति । ननु यद्यमिना नासावुपक्रियते, किममिसन्निधानात् न पूर्व पश्चात् वा धूमं विद- धाति; नचान्यदा करोतीति तस्य तजन्यस्वभावसव्यपेक्षस्य धूमजनने तदेवं पारंपर्येणाग्निजन्यत्वं धूमस्य। किंच। यथा देशकालादिकमन्तरेण धूमस्यानुत्पत्ते- स्तदपेक्षा प्रतीयते, तथाऽग्निमन्तरेणापिधूमस्यानुत्पत्तिदर्शनातदपेक्षा केन वार्यते; . तदपेक्षा च तत्कार्यतैव । यथा चादृश्यभावे एव धूमस्य भावात्तजन्यत्वमिष्यते, तथा सर्वदाऽग्निभावे एव धूमस्य भावदर्शनात्तजन्यता किं नेष्यते; यावतां च सन्निधाने भावो दृश्यते तावतां हेतुत्वं सर्वेषामित्यग्न्यादिसामग्रीजन्यत्वाद् धूमस्य कुतोऽग्निव्यभिचारः। नचायं प्रकारोऽसर्वज्ञत्ववक्तृत्वयोः संभवति। असर्वज्ञत्व- धर्मानुविधानस्य वचने अदर्शनात् । तथाहि । यदि सर्वज्ञत्वादन्यत्पर्युदासवृत्त्या किञ्चिज्ज्ञत्वमसर्वज्ञत्वमुच्यते, तदा तद्धर्मानुविधानादर्शनान्न तज्जन्यता वचनस्य। ' नहि किञ्चिज्ज्ञत्वतरतमभावात् वचनस्य तरतमभाव उपलभ्यते । तथाहि ।
तत्त्वबोधविधायिनी व्याख्या । किश्चिज्ज्ञत्वं प्रकृष्टमत्यल्पविज्ञानेपु कुम्यादिषु । नच तेषु वचनप्रवृत्तेरुत्कर्ष उपलभ्यते । अथ प्रसज्यप्रतिषेधवृत्त्या सर्वज्ञत्वाभावोऽसर्वज्ञत्वं तत्काय तुवचनम्, तदा ज्ञानरहिते मृतशरीरे तस्योपलम्भः स्यात; नच कदाचनापि तत्तत्रोपलभ्यते । ज्ञानातिशयवत्सु च सकलशास्त्रव्याख्यात्पु वचनस्यातिशयभावो दृश्यते इति ज्ञानप्रकर्षतरतमाधनुविधानदर्शनात् तत्कार्यता तस्य; धूमस्येवाग्न्यादिसाम- श्रीगतसुरभिगन्धाद्यनुविधायिनो यथोक्तप्रत्यक्षानुपलम्भाभ्यां व्यवस्थाप्यते । अतएव कारणगतधर्मानुविधानमेव कार्यस्य तत्कार्यतावगमनिमित्तं, न पुनर- न्वयव्यतिरेकानुविधानमात्रम् । तदुक्तम्:- "कार्य धूमो हुतभुजा कार्ये धर्मानुवृत्तितः"। इति । यच्च यत्कार्यत्वेन निश्चितं तत् तदभावे न कदाचिदपि भवति; अन्यथा तद्धेतुकमेव तन्न स्यादिति सकृदपि ततो न भवेद् भवति च; यद्यत्र निश्चि- ताविसंवादं वचनं, तत् तदविसंवादिज्ञानविशेषादित्यात्मन्येवासकृन्निश्चितमिति नान्यतस्तस्य भावः ॥ तेन- "यद्यस्यैव गुणदोपान्नियमेनानुवर्तते । तन्नान्तरीयकं तत्स्यादतो ज्ञानोद्भवं वचः"॥१॥ अथ यदि नामाविसंवादिज्ञानधर्मानुकरणतोऽथिसंवादि वचनमेकं तत्प्रभवं यथो- क्तप्रत्यक्षानुपलम्भतोऽवगतं, तदन्यतो न भवति; तथाप्यन्यवचनस्य तद्धर्मानुकरणतो नतकार्यत्वसिद्धिरिति तस्यान्यतोऽपि भावसंभवात्कुतो व्यभिचारः। न । ईग्भूतं वचनमीदृक्षज्ञानतः सर्वत्र भवतीति सकृत्प्रवृत्तप्रत्यक्षतोऽवगमात्। ननु सकलव्य- चयनुगततिर्यक्सामान्यानभ्युपगमे यावन्ति तथाभूतवचांसि तानि सर्वाणि प्रत्यक्षी- करणीयानि तथाभूतज्ञानकार्यतया। अन्यथैकस्यापिवचसस्तद्व्याप्ततयाऽप्रत्यक्षीकरणे तनव व्यभिचारी हेतुः स्यात्। नचैतावत्प्रत्यक्षीकरणसमर्थप्रत्यक्षम् । तस्य सन्निहित- विषयत्वात् । नचान्येषां स्वलक्षणानामनुमानात् साध्यधर्मेण व्याप्तिग्रहणम्। अन- वस्थाप्रसङ्गात्। तदयुक्तम् । यतः प्रत्यक्षं तथाभूतज्ञानसन्निधान एव तथाभूतवचन- १०२ सम्मतितख्यिप्रकरणस्य-. भेदात् प्रतिपद्यैष्वतथाभूतवचनव्यावृत्तं रूपमतथाभूतज्ञानव्यावृत्तज्ञानजन्यमित्य- वधारयति यथाऽत्र; तथाऽन्यत्रापि देशकालादौ तथाभूतज्ञानजन्यमेवेत्यप्यवधार- यति । अन्यथाऽत्रापि तथाभूतज्ञानजन्यतया न प्रत्यक्षेणावधार्येत । एवं हि तया- भूतातथाभूतज्ञानजन्यतया तथाभूतातथाभूतवचनस्य प्रतीतिः स्यात्, न तथा- भूतज्ञानजन्यतयैव।प्रतीयते च तथाभूतज्ञानजन्यतया तथाभूतवचनम् ;तस्माद- न्यवान्यदा च तथाभूतज्ञानादेव तथाभूतवचनमिति कुतो व्यभिचारः। यश्च तद्रूपमन्यतो व्यावृत्तमवधारयितुं शक्नोति तस्यैव तदनुमानम्; यथा वाप्पादि विलक्षणधूमावधारणेऽग्न्यनुमानम्। किंच। तिर्यक्सामान्यवादिनोऽपिगोपालघटि- कादौ धूमसामान्यस्याग्निमन्तरेणापि दर्शनात् व्यभिचाराशङ्कयाऽग्निनियतधूमसा- मान्यावधारणेनैव तदनुमानम् । अग्निनियतधूमसामान्यावधारणं चामिसंबद्धधूम- व्यक्त्यवधारणपुरस्सरमेव । नच सर्वदेशादावमिसंबद्धधूमव्यक्तिविशिष्टस्य धूम- सामान्यस्य केनचित्प्रमाणेनावधारणं संभवति। नच महानसादावग्निनियतधून- व्यक्तिविशिष्टं धूमसामान्यं प्रतिपन्नमन्यत्रानुयायि । व्यक्तेरनन्वयात् । यच्च धूम- सामान्यमनुयायि, तन्नाग्न्यव्यभिचारि । तस्मात् सामान्यव्याप्तिग्रहणवादिनामपि कथं विशिष्टधूमसामान्यं सर्वत्राग्निना व्याप्त प्रतिपन्नमिति तुल्यं चोद्यम् । अथ विशिष्टधूमस्यान्यत्राग्निजन्यत्वे न किञ्चिद्वाधकमस्ति तदेवेदमिति च प्रतीतेः तत्सामान्यं प्रतीतमिष्यते । अस्माकमपि तदेवेदं वचन मिति प्रत्ययस्योत्पत्तेस्त- प्रतिपन्नमिति सदृशपरिणामलक्षणसामान्यवादिनो जैनस्य, भवतो वा को विशे- षोऽत्र वस्तुनीति यत्किञ्चिदेतत् । तेनाग्निगमकवेन धूमस्य योन्यायः सोऽत्रापि समान इति विशिष्टज्ञानगमकवं विशिष्टशब्दस्याभ्युपगन्तव्यम् । अथ ज्ञान- विशेषग्रहणे प्रवृत्तं सविकल्पकं, निर्विकल्पकं वा ततो भिन्नमभिन्नं वा ज्ञानं न वचनविशेषे प्रवर्त्तते । तस्य तदानीमनुत्पन्नखेनासत्त्वात् । तदप्रवृत्तेन च ज्ञानवि- शेषखरूपमेव तेन गृह्यते, न तदपेक्षया तस्य कारणत्वम्। वचनविशेषग्राहकेणापि तत्स्वरूपमेव ,गृह्यते, न पूर्व प्रति कार्यलम् । कारणस्यातीतत्वेनाग्रहणात् । नाप्यु- भयग्राहिणा। भिन्नकालत्वेन तयोरेकज्ञाने प्रतिभासनायोगात्। अतएव स्मरणमपि न तयोः कार्यकारणभावावेदकम्। अनुभवानुसारेण तस्य प्रवृत्त्युपपत्तेः । अनुभव- तत्त्वबोधविधायिनी व्याख्या । १०३ स्य चात्र वस्तुनि निषिद्धत्वात्। असदेतत् । यतः कार्यस्य न तावदसावनुत्पन्नस्यैव कार्यत्वं धर्मः असत्त्वात् तदानीम्।नाप्युत्पन्नस्यात्यन्तभिन्नं, तत्चद्धर्मत्वादेव।तथा कारणस्यापि कारणत्वं कार्यनिप्पत्त्यनिष्पत्त्यवस्थायां न भिन्नमेव। नापितयोः कार्य- कारणभावः संबन्धोऽन्योऽस्ति; भिन्नकालत्वादेव।संबन्धस्य च द्विष्ठत्वाभ्युपगमात्। ततस्तत्स्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभावधर्मरूपं कारणत्वं, कार्यत्वं च गृह्यते एव क्षयोपशमवशात् । यत्र तुस नास्ति तत्र कार्यदर्शनादपि न तन्निश्चीयते, यतो नाकार्यकारणयोः कार्यकारणभावः संभवति। नापि तेनाभिन्ना उत्तरकालं तयोः कार्यकारणताकर्तु शक्या। विरोधात्। नापि भिन्ना। तयोः स्वरूपेणाकार्यकार- णताप्रसङ्गात् ।नापि स्वरूपेण कार्यकारणयोरर्थान्तरभूतकार्यकारणभावखरूपसंब- न्धपरिकल्पनेन प्रयोजनम्। तद्व्यतिरेकेणापि स्वरूपेणैव कार्यकारणरूपत्वात् । नच भिन्नपदार्थयाहि प्रत्यक्षद्वयं, द्वितीयाग्रहणे तदपेक्ष कार्यत्वं कारणत्वं वा ग्रहीतुमश- तमिति वक्तुं युक्तम् । क्षयोपशमवतां धूममात्रदर्शनेऽपि वद्विजन्यतावगमस्य भा- वात् । अन्यथा बाप्पादिवलक्षण्येन तस्यानवधारणात्, ततोऽनलावगमाभावेन सर्व- व्यवहारोच्छेदप्रसङ्गात्। कारणाभिमतपदार्थग्रहणपरिणामापरित्यागवता, कार्यस्व- रूपग्राहिणा च प्रत्यक्षेण कार्यकारणभावावगमे न कश्चिदोषः। न च कारणखभावाव- भासं प्रत्यक्ष न कार्यस्वरूपावभासयुक्तर, प्रतिभासभेदेज भेदोपपत्तेरिति प्रेर- णीयम्। चित्रप्रतिभासिज्ञानस्य नीलप्रतिभातापरित्यागप्रवृत्तपीतादिप्रतिभासस्यैक- त्ववत्प्रकृतज्ञानस्यापि तदविरोधात् । च चित्रज्ञानस्याप्येकत्वमसिद्धमिति वक्तुं युक्तम् । तथाऽभ्युपगमे नीलप्रतिभासस्यापि प्रतिपरमाणुभिन्नप्रतिभासत्वेन भिन्नत्वात् , एकपरमाण्ववभासस्य वाऽसंवेदनात्प्रतिभासमात्रस्याप्यभावप्रसङ्गा- सर्वव्यवहाराभावः स्यात् । अतः प्रत्यक्षगेव यथोक्तप्रकारेण सर्वोपसंहारेण प्रति- वन्धग्राहकमनुमानवादिनाऽभ्युपगन्तव्यम् । अन्यथा प्रसिद्धानुमानस्याप्यभावः स्यात्। अथेयतो व्यापारान् प्रत्यक्ष कर्तुमसमर्थम् ; तस्य सन्निहितविषयबलोत्पत्त्या तन्मात्रग्राहकत्वात् । तर्हि प्रत्यक्षेण प्रतिबन्धग्रहणाभावेऽनुमानेन तद्ग्रहणेऽ- । नवस्थेतरेतराश्रयदोषसहावादनुमानाप्रवृचिप्रसङ्गतो व्यवहारोच्छेदभयादवश्यम- नुमानप्रवृत्तिनिवन्धनाविनाभावनिश्चायकमपरमस्पष्टसर्वपदार्थविषयमूहाख्यं प्रमा ।
सम्मतिताख्यप्रकरणस्य- णान्तरमभ्युपगन्तव्यम् । अन्यथा सर्वमुभयात्मकं वस्त्विति कुतोऽनुमान- प्रवृत्तिमीमांसकस्य । ततोऽसर्वज्ञत्वरागादिमत्त्वसाधने वक्तृत्वलक्षणस्य हेतोः प्रतिबन्धस्य, तत्साधकप्रमाणस्य च प्रसिद्धानुमान इवाभावान्न प्रसङ्गसाधनानु- मानप्रवृत्तितः सर्वज्ञाभावसिद्धिः । विपर्ययेण वचनविशेषस्य व्याप्तत्वदर्शनाद्वि- पर्ययसिद्धिरेव ततो युक्ता । यच्च सर्वज्ञज्ञानं किं चक्षुरादिजनितमित्यादि पक्ष- चतुष्टयमुत्थाप्य चक्षुरादिजन्यत्वेन चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन धर्मादिग्राहकत्वायोगस्तज्ज्ञानस्य दूषणमभ्यधायि । तदप्यसङ्गतम् । धर्मादिग्रा- हकत्वाविरोधस्य चक्षुरादिज्ञाने प्राक् प्रतिपादितत्वात् । अभ्यासपक्षे तु यत् दूषणमभ्यधायि; न सकलपदार्थविषय उपदेशः संभवति; नापि समस्तविषयो- ऽभ्यास इति। तदपि न सम्यक् । “उत्पादव्ययधौव्ययुक्तं सत्” इति सकलपदा- थेविषयस्योपदेशस्य सामान्यतः संभवात् । नचास्याप्रामाण्यम्, अनुमानादिप्र- माणसंवादतः प्रामाण्यसिद्धेः । अनुमानादिप्रवर्द्धनद्वारेण चैतदर्थाभ्यासे कथं न सकलविषयाभ्याससंभवः ॥ यदपि, नच समस्तपदार्थविषयमुपदेशज्ञानं संभव- तीत्युक्तम् । तदप्यचारु । सर्वमनेकान्तात्मकं सत्त्वादित्यनुमाननिवन्धनव्याप्ति- प्रसाधकप्रमाणस्य सकलपदाविषयस्य संभवात् । अन्यथाऽनुमानाभावस्य प्रतिपादितत्वात् । नच तज्ज्ञानवत एव सर्वज्ञत्वाद्यर्थोऽभ्यासः। सामान्यविष- यत्वेनास्पष्टरूपस्यैवास्य ज्ञानस्य भावात्।अभ्यासजस्य च सकलतद्तविशेषविषय- त्वेन स्पष्टत्वान्न तदभ्यासो विफलः । यदपि तदभ्यासप्रवर्तकं चक्षुरादिजनितं यद्यतीन्द्रियविषयमित्याद्यवादि। तदपि प्रतिक्षिप्तम् । अतीन्द्रियार्थग्राहकत्वस्यान्ये- न्द्रियविषयग्राहकत्वस्य च प्राक् प्रतिपादनाव्यवहारोच्छेदाभावस्य च दर्शितत्वात्। अतीन्द्रियेऽपि च कालादौ विशेषणभूते चक्षुरादेः प्रवृत्तिप्रतिपादनाचेतरेतराश्रयत्व- दोषस्याप्यनवकाशः पूर्वपक्षप्रतिपादितस्य । शब्दज्ञानजनितज्ञानपक्षेतु इतरेतराश्र- यदोषप्रसङ्गापादनमप्ययुक्तम् । कारणपक्षे तदसंभवात् । अन्यसर्वज्ञप्रणीतागमप्रभः वत्वेन ज्ञानस्य कथमितरेतराश्रयत्वम् । तदागमप्रणेतुरप्यन्यसर्वज्ञप्रणीतागमपूर्वक- वेऽनवस्था स्यात्।साचेष्यत एव; अनादित्वादागमसर्वज्ञपरम्परायाः।यदप्यवादि। शब्दजनितंज्ञानमस्पष्टाभ, तज्ञानवतः कथं सकलज्ञत्वमिति। तदप्यसङ्गतम्। नहि वत्वबोधविधायिनी व्याल्या । शम्दजनितेन ज्ञानेनाभ्यासानासादितवैशधेन सकलज्ञोऽभ्युपगम्यते, येनायं दोषः स्यात् ; किन्त्वभ्यासासादितसकलविशेषसाक्षात्कारित्वलक्षण मल्यवता । अत- एव प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीतानागतसूक्ष्मादिपदार्थविषयमस्तीति सर्वज्ञत्वं स्यादिति यदुक्तम् ; तदपि निरस्तम् । अभ्यासजस्य स्पष्टविज्ञानस्य सकल- पदार्थविपयस्यास्मदादीनामभावात् लिङ्गजनितत्वेऽपि तज्ज्ञानस्यातीन्द्रियधर्मा- दिपदार्थसंबन्धानवगमात्। लिङ्गस्यानवगतसाध्यसंबन्धस्य च तस्य, धर्मादिसा- ध्यानुमापकत्वासंभवादित्यादि यत् ; तदप्यसङ्गतम् । अवगतधर्माद्यतीन्द्रियसा- ध्यसंबद्धस्य हेतोः प्रसिद्धत्वात् । तथाहि । स्वविषयग्रहणक्षमस्य ज्ञानस्य तद- ग्राहकत्वं विशिष्टद्रव्यसंबन्धपूर्वकम् ; पीतहत्पूरपुरुपज्ञानस्येव । सर्वमनेकान्ता- त्मकमिति सकलसामान्यविषयस्य च ज्ञानस्य तद्गताशपविशेषाग्राहकत्वं च सुप्रसिद्धमिति भवति पौद्गलिकातीन्द्रियधर्मादिसिद्धिरतो हेतोः। यदप्युक्तम् । अनुमानज्ञानेन सकलज्ञत्वाभ्युपगमेऽस्मदादीनामपि तत्स्यात; भावनावला- चहँशये तु कामादिविप्लुतविशदज्ञानवत इवासर्वज्ञत्वं तज्ज्ञानस्य तद्व- दुपप्लुतत्वप्राप्तरिति । तदप्यचारु । यतो भावनावलाज्ज्ञानं वैशयमनुभवती- त्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् न सकलदृष्टान्तधर्माणां साध्यर्मिण्यास- जनं युक्तम् । तथाऽभ्युपगमे सकलानुमानोच्छेदप्रसक्तेः । नचानुमानगृहीतस्या- र्थस्य भावनाबलादेशयं तत्प्रतिभासिन्यभ्यासजे ज्ञानेऽनुभवतो वैपरीत्यसं- भवः; येन तवभासिनो ज्ञानस्य कामाद्युपप्लुतज्ञानस्येवोपप्लुतत्वं स्यात् । यदप्यभ्यधायि । रजोनीहाराद्यावरणापाये वृक्षादिदर्शनवद्रागाद्यावरणाभावे सर्व- ज्ञज्ञानं वैशद्यभाग् भविष्यनि; नच रागादीनामावारकत्वं सिद्धमित्यादि । नदप्यसङ्गतम् । कुड्यादीनामप्यन्वयव्यतिरेकाम्यामावारकत्वासिद्धेः । तथाहि । सत्यस्वप्नप्रतिभासस्यार्थग्रहणे, न कुड्यादीनामावारकत्वम् । निश्छिद्रापवारकमध्य- स्थितेनापि भाव्यतीन्द्रियार्थस्यान्तरावरणाभावे प्रमाणान्तरसंवादिन उपलम्भात् । कुयादीनां वावरणत्वे तदर्शनमसंभाव्येव स्यात् । तथा प्रतिभासेनादृष्टार्थे- ऽपि कुझ्यादीनां नाबारकत्वम्। यच्च प्रातिभंज्ञानं जाग्रदवस्थायां, शब्दलिङ्गाक्ष- व्यापाराभावेऽपि श्वो भ्राता मे आगन्ता इत्याद्याकारमुत्पद्यमानमुपलभ्यते तत्र - १०६ सम्मतिताख्यप्रकरणस्य- कुड्यादीनां कथमाबारकत्वं कथं वा विज्ञानस्य नातीन्द्रियविशेषभूतश्वस्तन- कालाद्यवभासकत्वम्।अनिन्द्रियजस्य च ज्ञानस्य बाह्यसूक्ष्मादिपदार्थसाक्षात्कारित्वं न सिद्धम् । येन सवर्शज्ञानस्यानक्षजत्वे बाह्यातीन्द्रियादिसकलपदार्थसाक्षात्क- रणं स्पष्टत्वं च न स्यादित्यादि प्रेर्येत । अतएव सकलपदार्थग्रहणस्वभावस्य ज्ञानस्य इन्द्रियादिजन्यत्वकृत एव प्रतिनियतरूपादिग्राहकत्वनियमोऽवसीयते। प्रातिभादौ तदजन्ये तस्याभावात्। सकलज्ञज्ञानं चातीन्द्रियमिति कथं येऽपि सातिशया दृष्टाः' इत्यादि तथा 'यत्राप्यतिशयो दृष्टः' इत्यादि च दूषणं तत्र क्रमते । नहि शब्द- झानस्याशेषज्ञेयज्ञानस्वभावस्य कश्चित्प्रतिनियतो रूपादिकः स्वार्थः संभवति इत्यसकृदावेदितम् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः, कथं वाऽभ्यस्यमानमप्यविशदं ज्ञानं, लड्डनोदकतापादिवत्प्रकृष्टप्रकर्षावस्थां वैशय वाऽवाप्नोतीति । नैतत्प्रेर्यम् । यतो यदि रागादीनामावारकत्वादिस्वरूपं न ज्ञायेत नित्यत्वमाकस्मिकत्वं वा तेषां स्यात् ; तद्धेतूनां वा स्वरूपापरिज्ञानं नित्यत्वं वा संभाव्येत; तद्विपक्षस्य वा स्वरूपतोऽज्ञानं अनभ्यासश्च स्यात् । तदेतन्न स्यादपि, यावता रागादीनां ज्ञानावरणहेतुत्वेनावरणस्वरूपत्वं सिद्धम् ;नच तेषां नित्यत्वम् । तत्सद्भावे सर्वज्ञज्ञानस्य प्रतिपादयिष्यमाणप्रमाणनिश्चितस्याभावप्रसङ्गात् । नाप्या- कस्मिकत्वम्, अतएव । नचैषामुत्पादको हेतुर्नावगतः । मिथ्याज्ञानस्य तज्जनक- त्वेन सिद्धत्वात्।नच तस्यापि नित्यत्वम् । अन्यथाऽविकलकारणस्य मिथ्याज्ञानस्य भावे प्रबन्धप्रवृत्तरागादिदोषसद्भावात् तदावृतलेन सर्वविद्विज्ञानस्याभावः स्यादि- ति स एव दोषः। आकस्मिकत्वेऽपि मिथ्याज्ञानस्य हेतुन्यतिरेकेणापि प्रवृत्तेस्तत्कार्य- भूतरागादीनामपि प्रवृत्तिरिति पुनरपि सर्वज्ञज्ञानाभावोऽहेतुकस्य च मिथ्याज्ञा- नस्य देशकालपुरुषप्रतिनियमाभावोऽपि स्यादिति न चेतनाचेतनविभागः। नच तत्प्रतिपक्षभूतस्योपायस्यापरिज्ञानम् । मिथ्यावविपक्षत्वेन सम्यग्ज्ञानस्य निश्चि- तत्वात् । तदुत्कर्षे मिथ्याज्ञानस्यात्यन्तिकः क्षयः । तथाहि । यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य विपक्षप्रकर्षावस्थागमने भवत्यात्यन्तिकः क्षयः; यथो- ण्णस्पर्शस्य तथाभूतस्य प्रकर्षगमने शीतस्पर्शस्य तथाविधस्यैव । सम्यग्ज्ञानोप- चयतारतम्यानुविधायी च मिथ्याज्ञानापचयतरतमादिभाव इति तदुत्कर्षेऽस्यात्य- तत्त्वबोधविधायिनी व्याख्या । १०७ न्तिकक्षयसहावात् तत्कार्यभूतरागाद्यनुत्पत्तेरावरणाभावः सिद्धः। रागादिविपक्ष- भूतवैराग्याभ्यासाद्दा रागादीनां निर्मूलक्षय इति कथं नावरणाभावः । नच लङ्घ- नोदकतापादिवदभ्यस्यमानस्यापि सम्यग्ज्ञानवैराग्यादेर्न परप्रकर्षप्राप्तिरिति कुत- स्तद्विषये मिथ्याज्ञानाभावाद्रागादेरात्यन्तिकोऽनुत्पत्तिलक्षणः क्षयलक्षणो वाऽभाव इति वक्तुं युक्तम् । यतो लवनं हि पूर्वप्रयत्नसाध्यं यदि व्यवस्थितमेव स्यात् तदोत्तर- प्रयत्नस्यापरापरलङ्घनातिशयोत्पत्तौ व्यापारात्, भवेल्लङ्घनस्याप्यनपेक्षितपूर्वातिश- यसद्भावप्रयत्नान्तरस्य प्रकर्षावाप्तिः। न चैवम्।अपरापरलङ्घनातिशयप्रयत्नस्य पूर्व- पूर्वातिशयोत्पादन एवोपक्षीणशक्तित्वात्। अथैतत्स्यात्, यदि तत्रापि पूर्वप्रयत्नोत्पा- दितोऽतिशयो न व्यवस्थितः स्यात, तत्किमिति प्रथममेव यावल्लङ्घयितव्यं तावन्न लवयति; तल्लङ्घनाभ्यासापेक्षणात् पूर्वप्रयत्नाहितातिशयसद्भावेऽपि न लखनप्रक- पंप्राप्तिरिति यथा तस्य व्यवस्थितोत्कर्पता तथा ज्ञानस्यापि. भविष्यति। न । यतः श्लेप्मादिना प्राक् शरीरस्य जाड्याद् यावल्लङ्घयितव्यं न तावद्व्यायामानपनीतश्ले. प्माऽनासादितपटुभावः कायो लङ्घयति । अभ्यासासादितश्लेष्मक्षयपटुभावस्तु यावल्लङ्घयितव्यं तावल्लङ्घयतीत्यभ्यासस्तत्र सप्रयोजनः । ज्ञानस्य तु योऽभ्याससमा- सादितोऽतिशयः सोऽतिशयान्तरोत्पत्तौ पुनः प्राक्तनाभ्यासापेक्षो न भवतीत्युत्तरो- चराभ्यासानामपरापरातिशयोत्पादने व्यापारात्, न व्यवस्थितोत्कर्षतेति भवति ज्ञानस्य परप्रकर्षकाष्ठा । उदकतापे तु अतिशयेन क्रियमाणे तदाश्रयस्यैव क्षयात् नातिताप्यमानमप्युदकमग्निरूपतामासादयति । विज्ञानस्य त्वाश्रयोऽत्यभ्यस्यमा- नेऽपि तस्मिन् न क्षयमुपयातीति कथं तस्य व्यवस्थितोत्कर्षता । नच विज्ञानमपि प्राक्तनाभ्यासादासादितातिशयं पूर्वमेव विनष्टम् ; अपराभ्यासादन्यदतिशयवदुत्प- नमिति कथं पूर्वाभ्याससमासादितोऽतिशयो नाभ्यासान्तरापेक्षः, येन व्यवस्थितो- कर्पता तस्यापि न स्यादिति वक्तुं युक्तम् । तत्र पूर्वाभ्यासजनितसंस्कारस्योत्त- रत्रानुवृत्तेः । अन्यथा शास्मपरावर्तनादिवैयर्थ्यप्रसङ्गात् । नापि यदुपचयतारतम्या- नुविधायी यदपचयतरतमभावस्तस्य तद्विपक्षप्रकर्पगमनादात्यन्तिकः क्षय इत्यत्र प्रयोगे श्लेष्मणा व्यभिचार उहावायितुं शक्यः किल । निम्बाघौषधोपचारयो- गात्प्रकर्पतारतम्यानुभववतस्तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्ति- - सम्मतितकास्यप्रकरणस्य- १.८ कक्षय इति । यतस्तत्र निम्बाद्यौषधोपयोगस्यैव नोत्कर्षनिष्ठा आपादयितुं शक्या । तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात् । अन्यथौ- षधोपयोगाधारस्यैव विनाशः स्यात् । चिकित्साशास्त्रस्य च धातुदोषसाम्यापादना- भिप्रायेणैव प्रवृत्तेः, तत्प्रतिपादितौषधोपयोगस्योद्रिक्तधातुदोषसाम्यविधाने एव व्यापारो, न पुनस्तस्य निर्मूलने । अन्यथा दोषान्तरस्यात्यन्तक्षये मरणावाप्ते- रिति न श्लेष्मणा तथाभूतेनानैकान्तिको हेतुः । नच सम्यग्ज्ञानसात्मीभावेऽपि पुनर्मिथ्याज्ञानस्यापि संभवो भविष्यति तदुत्कर्ष इव सम्यगज्ञानस्येति वक्तुं युक्तम् । यतो मिथ्याज्ञाने, रागादौ वा दोषदर्शनात्, तद्विपक्षे च सम्यगज्ञान- वैराग्यलक्षणे गुणदर्शनात्तत्र पुनरभ्यासप्रवृत्तिसंभवात् प्रकृष्टेऽपि मिथ्याज्ञान- रागादावुत्पद्यते एव सम्यग्ज्ञानवैराग्ये । नैवं तयोः प्रकर्षावस्थायां दोषदर्शनं, तत्र तहिपर्यये वा गुणदर्शनं, येन पुनस्तत्, सात्मीभावेऽपि मिथ्याज्ञानरागादेरुत्पत्तिः संभाव्येत। नचानक्षजस्य ज्ञानस्य सर्ववित्संबन्धिनः कथं प्रत्यक्षशब्दवाच्यतेति वक्तुं युक्तम् । यतोऽक्षजत्वं प्रत्यक्षस्य शब्दव्युत्पत्तिनिमित्तमेव न पुनः शब्दप्रवृ- त्तिनिमित्तम्। तन्निमित्तं हि तदेकार्थाश्रितमर्थसाक्षात्कारित्वम्। अन्यद्धि शब्दस्य व्युत्पत्तौ निमित्तम्, अन्यच्च प्रवृत्तौ । यथा गोशब्दस्य गमनं व्युत्पत्ती, गोपिण्डा- श्रितगोत्वं प्रवृत्तौ निमित्तम् । अन्यथा यदि यदेव व्युत्पचिनिमित्तं तदेव प्रवृत्ता- वपि; तदा गच्छन्त्यामेव गवि गोशब्दप्रवृत्तिः स्यात् ;न स्थितायाम्। महिण्यादौच गमनपरिणामवति गोशब्दः प्रवर्त्तत । तथाऽत्रापि निमित्तसद्भावात्प्रत्यक्षव्यपदेशः संभवत्येव। यहा। यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावप्यस्तु, तथापि तच्छब्दवा- च्यतायास्तत्र नाभावः । तथाहि । अश्नुते सर्वपदार्थान् ज्ञानात्मना व्याप्नोतीति व्युत्पतिशब्दसमाश्रयणादक्ष आत्मा, तमाश्रितमुत्पाद्यत्वेन तं प्रति गतमिति प्रत्य- क्षमिति व्युत्पत्तेः, अभ्युपगमवादेन चाभ्यासवशात्प्राप्तप्रकर्षेण ज्ञानेन सर्वज्ञ इति प्रतिपादितम् । नत्वस्माकमयमभ्युपगमः, किन्तु ज्ञानाद्यावारकघातिकर्म- चतुष्टयक्षयोडूताशेषज्ञेयव्याप्यनिन्द्रियशब्दलिङ्गसाक्षात्कारिज्ञानवतः सर्वज्ञत्व- मभ्युपगम्यते । यच्चोक्तम् । यद्यतीतानागतवर्तमानाशेषपदार्थसाक्षात्कारिज्ञानेन सर्वज्ञस्तदा क्रमेणातीतानागतपदार्थवेदने पदार्थानामानन्त्यात न ज्ञानपरिसमा- तत्वयोधविधायिनी व्याख्या । तिरिति । तदयुक्तम् । तथाऽनभ्युपगमात् । शास्त्रार्थे क्रमेणानुभूतेऽप्यत्यन्ताभ्या- सान्न क्रमेण संवेदनमनुभूयते; तद्वदनापि स्यात् । यदप्यभ्यधायि । अथ युगप- सर्वपदार्थवेदकं तज्ज्ञानमभ्युपगम्यते तदा परस्परविरुद्धानां शीतोष्णादीनामे- कज्ञाने प्रतिभासासंभवात् ; संभवेऽपीत्यादि । तदप्ययुक्तम् । यतः परस्पर- विरुद्धानां किमेकदाऽसंभवः, किंवा संभवेऽप्येकज्ञानेऽप्रतिभासनं भवता प्रतिपा- दयितुमभिप्रेतम् । तत्र यद्याद्यः पक्षः। सनयुक्तः।जलानलादीनां छायाऽऽतपादीनां चैकदा विरुद्धानामपि संभवात्। अथैकत्र विरुद्धानामसंभवः, तदाऽसंभवादेव नैकत्र ज्ञाने तेषां प्रतिभासो, न पुनर्विरुद्धत्वात्। विरुद्धानामपि तेषामेकज्ञाने प्रतिभास- संवेदनात् । एतेन विरुद्धार्थग्राहकस्य च तज्ज्ञानस्य न प्रतिनियतार्थग्राहकत्वं स्यादित्याद्यपि निरस्तम् । छायाऽऽतपादिविरुद्धार्थग्राहिणोऽपि ज्ञानस्य प्रतिनि- यतार्थग्राहकत्वसंवेदनात् । यच्चोक्तम् । यदि युगपत्सर्वपदार्थग्राहकं तज्ज्ञानं तदेकक्षण एवं सर्वपदार्थवेदनात् द्वितीयादिक्षणे किञ्चिज्ज्ञ एव स स्यादित्यादि । तदप्यत्यन्तासंबद्धम् । यतो यदि द्वितीयक्षणे पदार्थानां तज्ज्ञानस्य चाभावः स्यात्, तदा स्यादप्येतत् ; नचैतत्संभवति। तथाऽभ्युपगमे द्वितीयक्षणे सर्वपदार्था- भावात्सकलसंसारोच्छेदः स्यात् । यदप्यभ्यधायि । अनाद्यनन्तपदार्थसंवेदने तत्सं- वेदनस्यापरिसमाप्तिरित्यादि । तदप्ययुक्तम् । अत्यन्ताभ्यस्तशास्त्रार्थज्ञानस्येव युगप- दनाद्यनन्तार्थग्राहिणस्तज्ज्ञानस्यापि परिसमाप्तिसंभवात् । अन्यथा भूतभविष्यत्सू- क्ष्मादिपदार्थग्राहिणः प्रेरणाजनितज्ञानस्यापि कथं परिसमाप्तिः। तत्राप्यपरिसमाप्त्य- म्युपगमे, चोदना भूतं भवन्तं भविष्यन्तम्' इत्यादिवचनस्य नैरर्थक्यं स्यादिति । यदपि, परस्थरागादिसंवेदने सरागः स्यादित्यादि।तदप्यसङ्गतम्।नहि परस्थरागा- दिसंबदनाद्रागादिमान् भवति । अन्यथा श्रोत्रियद्विजस्यापि स्वप्मज्ञानेन मद्यपाना- दिसंवेदनान्मद्यपानदोपः स्यात् । अथाप्यरसनेन्द्रिय तज्ज्ञानमिति नायं दोषः, तर्हि सर्वज्ञज्ञानमपि नेन्द्रियजमिति कथमशुचिरसास्वाददोषस्तत्रासज्येत । नच रागादिसंवेदनाद्रागीति लोके व्यवहारः, किन्त्वङ्गनाकामनाघभिलाषखसंविदि. तस्याशिष्टव्यवहारकारिणः स्वात्मस्वभावस्योत्पत्तेः। नचासौ तत्रेति कथं स रागा- दिमान्। यदपि, अथ शक्तियुक्तत्वेन सर्वपदार्थवेदनमित्यादि।तदप्यचारु । यथोप- सम्मतितांत्यप्रकरणस्य- लब्धिलक्षणप्राप्ते सन्निहितदेशादावनुपलब्धेरपरमत्र नास्तीति इदानींतनानामियत्ता निश्चयः, तथा सर्वज्ञस्यापि। स्वशक्तिपरिच्छेदात् । अन्यथा घटादीनामपि कचित् प्रदेशेऽभावनिश्चयेऽपरप्रकारासंभवात्सकलव्यवहारविलोपः स्यात् । अथ यावदुप- योगिप्रधानपदार्थजातमित्याधप्ययुक्तम् । सकलपदार्थज्ञत्वप्रतिपादनात् । अत एव ज्ञो ज्ञेये कथमज्ञः स्यात् । असति प्रतिबन्धरि सत्येव दाह्ये नह्यग्निः कचित् दृष्टो न दाहक इति । अत्र यदुक्तम् ; किं सर्वज्ञत्वात् , अथ किश्चिज्ज्ञत्वादिति; नो- भयथापि हेतुः। यदि तावत् सर्वज्ञत्वादिति हेत्वर्थः परिकल्प्यते, तदा प्रति- ज्ञार्थंकदेशो हेतुरसिद्ध एव । कथं हि तदेव साध्यं तदेव हेतुः। अथ किश्चि- ज्ज्ञत्वादिति हेतुः, तदा विरुद्धता स्यात् । कथं हि किञ्चिज्ज्ञत्वं सर्वज्ञत्वेन विरुद्ध सर्वज्ञत्वं साधयेत् । अथ ज्ञत्वमात्रं हेतुः, तदाऽनैकान्तिकः । ज्ञत्वमा- अस्य किश्चिज्ज्ञत्वेनाप्यविरोधादिति । तदपि निरस्तम् । सामान्येन सर्वज्ञत्वा- दित्यस्य हेतुत्वात् , विशेषेण तज्ज्ञत्वस्य साध्यत्वात् ; सामान्यविशेषयोश्च भेदस्य कथञ्चित्प्रतिपादयिष्यमाणत्वात् । सामान्येन सर्वज्ञत्वस्य चानुमानव्यवहारिणं प्रति साधितत्वात्। एतेन सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वादित्यत्र प्रयोगे प्रमेयत्वहेतोर्यद् दूषणमुपन्यरतं पूर्वपक्षवादिना, तदपि निरस्तम् । सर्व- सूक्ष्मान्तरितपदार्थानां व्याप्तिप्रसाधकेनानुमानप्रमाणेन वा एकेन सामान्यतः प्रमेयत्वस्य प्रसाधितत्वात् । यच्च प्रधानपदार्थपरिज्ञानं न सकलपदार्थज्ञानमन्तरेण संभवतीति, तत् सर्वज्ञवचनामृतलवास्वादसंभवो भवतोऽपि कथञ्चित्संपन्न इति लक्ष्यते । तथाहि तद्वचः-"जो एगं जाणई" इत्यादि । तन्मतानुसारिभिः पूर्वाचार्यैरप्ययमर्थो न्यगादि- "एको भावस्तत्त्वतो येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः" ॥ १॥ अस्यायमर्थः नासर्वविदा कश्चिदेकोऽपि पदार्थस्तत्त्वतो द्रष्टुं शक्यः। एक- स्यापि पदार्थस्यानुगतव्यावृत्तधर्मद्वारेण साक्षात्पारंपर्येण वा सर्वपदार्थसंबन्धिख- भावलात्। तत्स्वभावावेदने च तस्यावेदनमेव । परमार्थतस्तज्ज्ञानं स्वप्रतिभासमेव वेत्तीति नार्थो विदितः स्यात् ; केवलं तत्राभिमानमात्रमेव लोकस्य । अथ संब- तत्त्वबोधविधायिनी व्याख्या । धिस्वभावता पदार्थस्य स्वरूपमेव न भवति, यत्केवलं प्रत्यक्षप्रतीतं सन्निहितमात्रं स एव वस्तुस्वभावः। संबन्धिता तु तत्र परिकल्पितैव पदार्थान्तरदर्शनसंभवतया । तथाचोक्तम्- "निप्पचरपराधीनमपि कार्य, खहेतुना। संबध्यते कल्पनया, किमकार्य कथञ्चन?॥ १॥ इति । तदेतदयुक्तम् । एवं हि परिकल्प्यमाने स्वरूपमात्रसंवेदनादद्वैतमेव प्राप्तम्, ततः सर्वपदार्थाभावे व्यवहाराभावः । अथ व्यवहारोच्छेदभयात् पदार्थसहावो- ऽभ्युपगम्यते, तर्हि सर्वपदार्थसंबन्धिताऽपि साक्षात् पारंपर्येण च पदार्थस्वभावो- ऽभ्युपगन्तव्यः । अन्यथा साक्षात्पारंपर्येण वाऽन्यपदार्थजन्यजनकतालक्षणसंब- न्धिताऽनभ्युपगमे, तद्व्यावृत्त्यनुगतिसंबन्धिताऽनभ्युपगमे च पदार्थस्वरूपस्याप्य- भावः; तत्पदार्थपरिज्ञाने च तहिशेषणभूता तत्संबन्धिताऽपि ज्ञातैव । अन्यथा तस्य तत्परिज्ञानमेव न स्यात् । तत्परिज्ञाने च सकलपदार्थपरिज्ञानमस्मदादीनाम- नुमानतः, सर्वज्ञस्य च साक्षात् तज्ज्ञानेन सकलपदार्थज्ञानम् । लोकस्तु प्रत्यक्षेण कथश्चित् कस्यचित् प्रतिपत्ता । तथाहि । धूमस्याप्यग्निजन्यतया प्रति- पत्ची बाप्पादिव्यावृचघूमस्वरूपप्रतिपचिः; अन्यथा व्यवहाराभावः । तथा नीलादिप्रतिभासस्य बाझार्थसंवन्धितयाऽप्रतिपत्ती वाह्यार्थाप्रतिपत्तिरेव स्यात्। तस्मात् संबन्धितयैव पदार्थस्वरूपप्रतिपत्तिः। तच्च संबन्धिलं प्रमेयमनुमानेन प्रती- यतेऽभ्यासदशायामस्मदादिभिः, यत्र क्षयोपशमलक्षणोऽभ्यासस्तत्र तस्य प्रत्यक्ष- तोऽपि प्रतिपत्तिरिति कथं न प्रधानभूतपदार्थवेदने सकलपदार्थवेदनम् । एकवेद- नेऽपि सकलवेदनस्य प्रतिपादितत्वात् । विकल्पाभावेऽपि मन्त्राविष्टकुमारिकादि- वचनवन्नित्यसमाहितस्यापि वचनसंभवाद्, विकल्पाभावे कथं वचनमित्यादि निरस्तम् । दृश्यते चात्यन्ताभ्यस्ते विपये व्यवहारिणां विकल्पनमन्तरेणापि वचन- प्रवृचिरिति कथं ततः सर्वज्ञस्य च्छाद्मस्थिकज्ञानासजनं युक्तम् । यदप्युक्तम् । अतीतादेरसत्त्वात् कथं तज्ज्ञानेन ग्रहणम्, ग्रहणे वाऽसदर्थग्राहित्वात् तज्ज्ञान- वान् भ्रान्तः स्यादित्यादि। तदप्ययुक्तम् । यतः किमतीतादेरतीतादिकालसंबन्धित्वे- नासत्त्वं, उत तज्ज्ञानकालसंवन्धित्वेन । यद्यतीतादिकालसंबन्धित्वेनेति पक्षः। स - ११२ सम्मतितक्कोख्यप्रकरणस्य- न युक्तः। वर्तमानकालसंबन्धित्वेन वर्तमानस्येव तत्कालसंबन्धित्वेनातीतादेरपि सत्त्वसंभवात्। अथातीतादेः कालस्याभावात् तत्संबन्धिनोऽप्यभावः, तदसत्त्वं च प्रतिपादितं पूर्वपक्षवादिनाऽनवस्थेतरेतराश्रयादिदोषप्रतिपादनेन । सत्यं प्रतिपादित नच सम्यक् । तथाहि । नास्माभिरपरातीतादिकालसंबन्धित्वादस्यातीतादित्वमभ्यु. पगम्यते, येनानवस्था स्यात् ; नापि पदार्थानामतीतादित्वेन कालस्यातीतादित्वम्, येनेतरेतराश्रयदोषः, किन्तु खरूप एवातीतादिसमयस्यातीतादित्वम् । तथाहि । अनुभूतवर्तमानत्वसमयोऽतीत इत्युच्यते, अनुभविष्यद्वर्तमानत्वश्वानागतः; तत्संबन्धित्वात पदार्थस्याप्यतीतानागतत्वे अविरुद्धे । अथ यथाऽतीतादेः समयस्य खरूपेणैवातीतादित्वं तथा पदार्थानामपि तहविष्यतीति व्यर्थस्तदभ्युपगमः। एत- चात्यन्तासङ्गतम् । नोकपदार्थधर्मस्तदन्यत्राप्यासज्जयितुं युक्तः। अन्यथा निम्बा- देस्तिक्तता गुडादावप्यासजनीया स्यात् , नच साऽत्रैव प्रत्यक्षसिद्धेत्यन्यत्रासजने तद्विरोध इत्युत्तरम् । प्रकृतेऽप्यस्योत्तरस्य समानत्वात् । भवतु पदार्थधर्म एवाती- तादित्वं, तथापि नास्माकमभ्युपगमक्षतिः। विशिष्ट पदार्थपरिणामस्यैवातीतादिका. लत्वेनेष्टेः, परिणामवर्तनादिपरापरत्वेत्याद्यागमात् । तथाहि । स्मरणविषयत्वं पदार्थ- स्यातीतत्वमुच्यते । अनुभवविषयत्वं वर्तमानत्वं, स्थिरावस्थादर्शनलिङ्गबलोत्पद्य- मानकालान्तरस्थाय्ययं पदार्थ इत्यनुमानविषयत्वं धर्मोऽनागतकालत्वमिति । तेन यदुच्यते, यदि खत एव कालस्यातीतादित्वं, पदार्थस्यापि तत् खत एव स्यादिति परेण तत्सिइंसाधितम् । तदतीतादिकालस्य सत्त्वान्न तत्कालसंबन्धित्वेनातीतादेः पदार्थस्याऽसत्त्वम् । वर्तमानकालसंबन्धिखेन लतीतादेरसत्त्वप्रतिपादनेऽभिमतमेव प्रतिपादितं भवति । नह्यतीतकालसंबन्धित्वसत्त्वमेवैतज्ज्ञानकालसंबन्धित्वमस्मा- भिरभ्युपगम्यते। नचैतत्कालसंबन्धिवेनासत्त्वे खकालसंवन्धित्वेनाप्यतीतादेरस- त्वं भवति।अन्यथैतत्कालसंबन्धित्वस्याप्यतीतादिकालसंबन्धित्वेनासत्त्वात् सर्वा. भावःस्यादिति सकलव्यवहारोच्छेदः अथापि स्यात्, भवत्वतीतादेःसत्त्वं, तथापि सर्वज्ञज्ञाने न तस्य प्रतिभासः; तज्ज्ञानकाले तस्यासन्निहितत्वात् । सन्निधाने वा तज्ज्ञानावभासिन इव वर्तमानकालसंबन्धिनोऽतीतादेरपि वर्तमानकालसंबन्धि- त्वप्राप्तेः। नहि वर्तमानस्यापि सन्निहितत्वेन तत्कालज्ञानप्रतिभासित्वं मुच्वाऽन्य- तत्त्वबोधविधायिनी व्याख्या । हर्चमानकालसंबन्धित्वम् । एवमतीतादेस्तज्ज्ञानावभासित्वे वर्चमानत्वमेवेति वर्त- मानमात्रपदार्थज्ञानवानस्मदादिवन्न सर्वज्ञः स्यात् । किंच।अतीतादेस्तज्ज्ञानकाले- ऽसन्निहितत्वेन तज्ज्ञाने प्रतिभासः। प्रतिभासे वा खज्ञानसंबन्धित्वेन तस्य ग्रहणात् तज्ज्ञानस्य विपरीतख्यातिरूपताप्रसक्तिः । एतदसंबद्धम् । यतो यथाऽस्मदादीनाम- सन्निहितकालोऽप्यर्थः सत्यस्वप्नज्ञाने प्रतिभाति । नचासन्निहितस्य तस्यातीतादि- कालसंबन्धिनो वर्तमानकालसंबन्धित्वं; नापि खकालसंबन्धित्वेन सत्यस्वप्नज्ञाने तस्य प्रतिभासनात् तद्राहिणो ज्ञानस्य विपरीतख्यातित्वम् । यत्र ह्यन्यदेशका- लोऽर्थोऽन्यदेशकालसंबन्धित्वेन प्रतिभाति सा विपरीतख्यातिः । अत्र त्यतीता- दिकालसंबन्ध्यतीतादिकालसंबन्धित्वेनैव प्रतिभातीति न तत्प्रतिभासिनोऽर्थस्य तत्कालसंबन्धित्वेन वर्तमानत्वम् ; नापि तद्ग्राहिणो विज्ञानस्य विपरीतख्याति- त्वम् । तथा सर्वज्ञज्ञानेऽपि यदाऽतीतादिकालोऽर्थोऽतीतादिकालसंबन्धित्वेन प्रति- भाति, तदा कथं तस्यार्थस्य वर्तमानकालसंबन्धित्वम् ; कथं वा तज्ज्ञानस्य विप- रीतख्यातित्वमिति । यथावा विशिष्टमन्त्रसंस्कृतचक्षुपामङ्गुष्ठादिनिरीक्षणेनान्यदेशा अपि चौरादयो गृह्यमाणा न तद्देशा भवन्ति, नापि तज्ज्ञानं तद्देशादिसंबन्धित्वम- नुभवति; तथा सर्वविद्विज्ञानमप्यसन्निहितकालं यद्यर्थमवभासयति, स्वात्मना तत्कालसंबन्धित्वमननुभवदपि,तदा को विरोधः कथं वा तस्यातीतादेरर्थस्य तज्ज्ञा- नकालत्वमिति । नच सत्यस्वप्नज्ञानेऽप्यतीताधर्थप्रतिभासे समानमेव दूपणमिति न तदृष्टान्तहारेण सर्वज्ञज्ञानमतीताद्यर्थग्राहकं व्यवस्थापयितुं युक्तमिति वक्तुं युक्तम् । अबिसंवादवतोऽपि ज्ञानस्य विसंवादविपये विप्रतिपत्त्यभ्युपगमे, स्वसंवे- दनमात्रेऽपि विप्रतिपत्तिसहावादतिसूक्ष्मेक्षिकया तस्यापि तत्स्वरूपत्वासंभवात्सर्व- शुन्यताप्रसङ्गात् ; तन्निषेधस्य च प्रतिपादयिष्यमाणत्वादतो न युक्तमुक्तम् , प्रति- पाद्यापेक्षयेत्यादि न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्त इति पर्यन्तम् । यदप्यु- क्तम्। भवतु या सर्वज्ञस्तथाप्यसौ तत्कालेऽप्यसर्वज्ञातुं न शक्यते इत्यादि । तद- प्यसंगतम् । यतो यथा सकलशास्त्रार्थापरिक्षानेऽपि व्यवहारिणा सकलशास्त्रज्ञ इति कश्चित्पुरुपो निधीयते; तथा सकलपदार्थापरिज्ञानेऽपि यदि केनचित् कश्चित् सर्व- ज्ञत्वेन.निश्चीयते, तदा को विरोधः। युक्तं चैतत् । अन्यथा युप्माभिरपि सकलवेदा- १५ ११४ सम्मतिताख्यप्रकरणस्य- परिज्ञाने कथं जैमिनिरन्यो वा वेदार्थज्ञत्वेन निश्चीयते । तदनिश्चये च कथं तद्व्याख्यातार्थानुसरणादमिहोत्रादावनुष्ठाने प्रवृत्तिरिति यत्किञ्चिदेतत् सर्वज्ञोऽय- मिति ह्येतत्' इत्यादि । तदेवं सर्वज्ञसद्भावग्राहकस्य प्रमाणस्य ज्ञत्वप्रमेयत्ववचन- विशेषत्वादेर्दर्शितत्वात् तदभावप्रसाधकस्य च निरस्तत्वात् ; ये बाधकप्रमाणगो- चरतामापन्नास्तेऽसदितिव्यवहर्त्तव्या इति प्रयोगहेतोरसिद्धत्वात् ; ये तु निश्चितासं- भवद्वाधकप्रमाणत्वे सति सदुपलम्भकप्रमाणगोचरास्ते सदिति व्यवहर्त्तव्याः, यथो- भयवाद्यप्रतिपत्तिविषया घटादयः, तथाभूतश्च सर्ववित् इति भवत्यतः प्रमाणात्सर्व- ज्ञव्यवहारप्रवृत्तिरिति।अथापि स्यात् स्वविषयाविसंवादिवचनविशेषस्य तद्विषया- विसंवादिज्ञानपूर्वकत्वमात्रमेव भवता प्रसाधितम् । नचैतावताऽनन्तार्थसाक्षात्का- रिज्ञानवान सर्वज्ञः सिद्धिमासादयति । सकलसूक्ष्मादिपदार्थसार्थसाक्षात्कारिज्ञान- विशेषपूर्वकत्वे हि यचनविशेषस्य सिद्धे तज्ज्ञानवतः सर्वज्ञत्वसिद्धिः स्यात् । नच तथाभूतज्ञानपूर्यकत्वं वचनविशेषस्य सिद्धम्। अनुमानादिज्ञानादपि स्वविषयावि- संवादिवचनविशेषस्य संभवात्। नच तथाभूतज्ञानवान् सर्वज्ञो भवद्भिरभ्युपगम्यत इत्येतद् हृदि कृत्वाऽऽह सूरिः। "कुसमयविसासणम्" इति। सम्यक प्रमाणान्तरावि- संवादिलेनेयन्ते परिच्छिद्यन्ते इति समयाः, नष्टमुष्टिचिन्तालाभालाभसुखासुखजी- वितमरणग्रहोपरागमन्त्रौषधशक्त्यादयः पदार्थाः तेषां विविधमन्यपदार्थकारणलेन कार्यलेनचानेकप्रकारं शासनं प्रतिपादकम् ; यतः शासनं कुः पृथ्वी तस्या इवायम- भिप्रायः ज्ञवप्रमेयवादेरनेकप्रकारस्य प्रतिपादितन्यायेन सर्वज्ञसत्त्वप्रतिपादकस्य हेतोः सद्भावेऽपितत्कृतत्वेन शासनप्रामाण्यप्रतिपादनार्थ सर्वज्ञोऽभ्युपगम्यते, तस्य चान्यतो हेतोः प्रतिपादनेऽपि तदागमप्रणेतृत्वं हेत्वन्तरात्पुनः प्रतिपादनीयं स्या- दिति हेत्वन्तरमुत्सृज्य प्रतिपादनगौरवपरिहारार्थ वचनविशेषलक्षण एव हेतुस्त- सद्भावावेदक उपन्यसनीयः। स चानेन गाथासूत्रावयवेन सूचितः । अतएव संस्कृत्य हेतुः कर्तव्यः। तथाहि।यो यद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरे- कपूर्वको वचनविशेषः, स तत्साक्षात्कारिज्ञानविशेषप्रभवः। यथाऽस्मदादिप्रवर्तितः पृथ्वीकाठिन्यादिविषयस्तथाभूतो वचनविशेषः।नष्टमुष्टिविशेषादिविषयाविसंवाद्य. लिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचनविशेषश्चायं शासनलक्षणोऽर्थ इति ! न तत्वबोधविधायिनी व्याख्या । ११५ चात्राविसंवादिलं वचनविशेषत्वलक्षणस्य हेतोर्विशेषणमासिद्धम् । नष्टमुष्ट्यादीनां वचनविशेषप्रतिपादितानां प्रमाणान्तरतरतथैवोपलब्धेरविसंवादसिद्धेः । योऽपि क्वचिद्वचनविशेषस्य तत्र विसंवादो भवता परिकल्प्यते; सोऽपि तदर्थस्य सम्यगप- रिज्ञानात सामग्रीवैकल्यान्न पुनर्वचनविशेषस्यासत्यार्थत्वात् । नच सामग्रीवैकल्या- देकनासत्यार्थले सर्वत्र तथात्वं परिकल्पयितुं युक्तम् । अन्यथा प्रत्यक्षस्यापि द्वि- चन्द्रादिविषयस्य सामग्रीवैकल्येनोपजायमानस्यासत्यत्वसंभवात् समग्रसामग्रीप्र- भवस्याप्यसत्यत्वं स्यात् । अथाविकलसामग्रीप्रभवं प्रत्यक्षं विकलसामग्रीप्रभवा- तस्माद्विलक्षणमिति नायं दोषः। तत्रापिसमानम्। तथाहि । सम्यगज्ञाततदर्थाद्व- चनाद् यन्नष्टमुष्ट्यादिविषयं विसंवादिज्ञानमुत्पद्यते तत्सम्यगवगततदर्थवचनोग- वाद्विलक्षणमेव। यथा च विशिष्टसामग्रीप्रभवस्य प्रत्यक्षस्य नक्कचिद् व्यभिचार इति तस्याविसंवादित्वम् । तथाऽवगतसम्यगर्थवचनोद्भवस्यापि नष्टमुष्टयादिविषयवि. ज्ञानस्येति सिद्धमत्राविसंवादित्वलक्षणं विशेषणं प्रकृतहेतोः । नाप्यलिङ्गपूर्वकत्वं विशेषणमसिद्धम् | नष्टमुप्ठ्यादीनामस्मदादीन्द्रियाविपयत्वेन तल्लिङ्गत्वेनाभिमत- स्याप्यर्थस्यास्सदाद्यक्षाविषयत्वान्न तत्प्रतिपत्तिः । प्रतिपत्तो वाऽस्मदादीनामपि तल्लि. ङ्गदर्शनाद्वचनविशेपमन्तरेणापि ग्रहोपरागादिप्रतिपत्तिः स्यात् । नहि साध्यव्याप्त. लिङ्गनिश्चयेऽग्न्यादिप्रतिपत्तौ वचनविशेषापेक्षा दृष्टा; न भवति चास्मदादीनां वचनविशेषमन्तरेण कदाचनापि प्रतिनियतदिक्प्रमाणफलाद्यविनाभूतग्रहोपरा- गादिप्रतिपत्तिरिति तथाभूतवचनप्रणेतुरतीन्द्रियार्थविषयं ज्ञानमलिङ्गमभ्युपगन्त- व्यमित्यलिङ्गपूर्वकत्वमपि विशेषणं प्रकृतहेतानीसिद्धम् । नाप्ययमुपदेशपरम्परया- ऽतीन्द्रियार्थदर्शनाभावेऽपि प्रमाणभूतः प्रबन्धेनानुवर्तत इत्यनुपदेशपूर्वकत्वविशे- पणासिद्धिरिति वक्तुं युक्तम् । उपदेशपरम्पराप्रभवत्वे नष्टमुष्टयादिप्रतिपादकवच- नविशेपस्य वक्तुरज्ञानदुष्टाभिप्रायवचनाकौशलदोपैः श्रोतुर्वा मन्दबुद्धित्वविपर्य- स्तबुद्धित्वगृहीतविस्मरणैः प्रतिपुरुषं हीयमानस्यानादौ काले मूलतश्विरोच्छेद एव स्यात् । तथाहि । इदानीमपि केचित् ज्योतिःशास्त्रादिकमज्ञानदोषादन्यथोपदिशन्त उपलभ्यन्ते; अन्ये सम्यगवगच्छन्तोऽपि दुष्टाभिप्रायतया; अन्ये वचनदोषादव्य- क्तमन्यथाचेति। तथा श्रोतारोऽपि केचिन्मन्दबुद्धित्वदोषादुक्तमपि यथावन्नावधार-
,
सम्मतिताख्यप्रकरणस्य-
यन्ति; अन्ये विपर्यस्तबुद्धयः सम्यगुपदिष्टमप्यन्यथाऽवधारयन्ति; केचित् पुनः
सम्यक्परिज्ञातमपि विस्मरन्तीत्येवमादिभिः कारणैः प्रतिपुरुष हीयमानस्य, एतावन्तं
कालं यावदागमनमेव नस्याच्चिरोच्छिन्नत्वे नागच्छति च । तस्मादन्तराऽन्तरा वि.
च्छिन्नः सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता केनचिदभिव्यक्त इयन्तं कालं यावदा-
गच्छतीत्यभ्युपगमनीयमिति नानुपदेशपूर्यकत्वविशेषणासिद्धिः। नाप्यन्वयव्यति-
रेकाभ्यां नष्टमुष्ट्यादिकं ज्ञात्वा तद्विषयवचनविशेषप्रवर्त्तनं कस्यचित् संभवति,
येनानन्वयव्यतिरेकपूर्वकत्वविशेषणासिद्धिः स्यात् । यतो नान्वयव्यतिरेकाभ्यां
ग्रहोपरागौषधशक्त्यादयो ज्ञातुं शक्यन्ते । प्रावृट्समये शिलीन्ध्रोड्दवत् ग्रहोपरा-
गादीनां दिक्प्रमाणफलकालादिषु नियमाभावात्। द्रव्यशक्तिपरिज्ञानाभ्युपगमेऽन्व-
यव्यतिरेकाभ्यां यावन्ति जगति द्रव्याणि तान्यकत्र मीलयित्वा एकस्य रसकल्का-
दिभेदेन, कर्षादिमात्राभेदेन, बालमध्यमाद्यवस्थाभेदेन, मूलपत्राद्यवयवभेदेन,प्रक्षे-
पोद्धाराभ्यामेकोऽपि योगो युगसहस्रेणापि न ज्ञातुं पार्यते, किमुतानेक इति कुत-
स्ताभ्यामौषधशक्तयवगमः। तेन नानन्वयव्यतिरेकपूर्वकत्वविशेषणस्यासिद्धिः ।
नापि नष्टमुष्ट्यादिविषयवचनविशेषस्यापौरुषेयत्वात् विशिष्टज्ञानपूर्वकत्वस्यासि-
ढेरसिद्धः प्रकृतो हेतुः । अपौरुषेयस्य वचनस्य पूर्वमेव निपिद्धत्वात् । नाप्यसा-
क्षात्कारिज्ञानपूर्वकत्वेऽपि प्रकृतवचनविशेषस्य संभवादनकान्तिकः।सविशेषणस्य
हेतोविपक्षे सत्त्वस्य प्रतिषिद्धत्वात् । अत एव न विरुद्धः । विपक्ष एव वर्त्तमानो
विरुद्धः । नचास्य पूर्वोक्तप्रकारेणावगतखसाध्यप्रतिबन्धस्य विपक्षे वृत्तिसंभवः ।
अथ भवतु ग्रहोपरागाभिधायकवचनस्य तत्पूर्वकत्वसिद्धिः, अतो हेतोः। तत्रतस्य
संवादात् । धर्मादिपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिस्तु कथं, तत्र तस्य संवादा-
भावात् । न । तत्रापि तस्य संवादात् । तथाहि । ज्योतिःशास्त्रादेहोपरागादिक
विशिष्टवर्णप्रमाणदिग्विभागादिविशिष्ट प्रतिपद्यमानः प्रतिनियतानां प्रतिनियत-
देशवर्तिनां प्राणिनां प्रतिनियतकाले प्रतिनियतकर्मफलसंसूचकत्वेन प्रतिपद्यते ।
उक्तं च तत्र-
" नक्षत्रग्रहपञ्जरमहर्निशं लोककर्मविक्षिप्तम् ।
भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ १॥
तत्वबोधविधायिनी व्याख्या । ११७ अतो ज्योतिःशास्त्रं ग्रहोपरागादिकमिव धर्माधर्मावपि प्रमाणान्तरसंवादतोऽ- वगमयति । तेन ग्रहोपरागादिवचनविशेषस्य धर्माधर्मसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धम् ; तत्सिद्दौसकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धिमासादयति। नहि धर्माधर्मयोः सुखदुःखकारणत्वसाक्षात्करणं सहकारिकारणाशेषपदार्थतदाधारभूत- समस्तपाणिगणसाक्षात्करणमन्तरेण संभवति । सर्वपदार्थानां परस्परप्रतिबन्धादे- कपदार्थसर्वधर्मप्रतिपत्तिश्च सकलपदार्थप्रतिपत्तिनान्तरीयका प्राक् प्रतिपादिता । अतो भवति सकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिरतो हेतोर्वचनविशेषस्य । तत्सिद्धौ च तत्प्रणेतुः सूक्ष्मान्तरितदूरानन्तार्थसाक्षात्कार्यतीन्द्रियज्ञानसम्पत्सम- वितस्य कथं न सिद्धिः । नाप्येतद्वक्तव्यम् । साध्योक्तितदावृत्तिवचनयोरन- भिधानात् न्यूनतानामाऽत्र साधनदोषः। प्रतिज्ञावचनेन प्रयोजनाभावात् । अथ विषयनिर्देशाथै प्रतिज्ञावचनम् । ननु स एव किमर्थः। साधर्म्यवत्प्रयोगा- दिप्रतिपत्त्यर्थः । तथाहि । असति साध्यनिर्देशे यो वचनविशेषः स साक्षात्कारिज्ञा. नपूर्वक इत्युक्ते किमयं साधर्म्यवान् प्रयोगः, उत वैधर्म्यवानिति न ज्ञायेत। उभयं छत्राशयेत । वचनविशेषत्वेन साक्षात्कारिज्ञानपूर्वकत्वे साध्ये साधर्म्यवान्, असाक्षात्कारिज्ञानपूर्वकत्वे वचनाविशेपत्वे साध्ये वैधर्म्यवानिति हेतुविरुहानैका- न्तिकप्रतीतिश्च न स्यात्।प्रतिज्ञापूर्वकेतुप्रयोगे शब्दविशेषः साक्षात्कारिज्ञानपूर्वकः शब्दविशेषत्वादिति हेतुभावः प्रतीयते । असाक्षात्कारिज्ञानपूर्वको वचनविशेष- त्वादिति विरुहता।चक्षुरादिकरणजनितज्ञानपूर्वको वचनविशेषत्वादित्यनैकान्ति- कत्वम्।हेतोश्च त्रैरूप्यं न गम्येत । तस्य साध्यापेक्षया व्यवस्थितेः। सति प्रतिज्ञानि- देशेऽवयवे समुदायोपचारात साध्यधर्मी इति पक्ष इति तत्र प्रवृत्तस्य वचनविशेषत्व- स्य पक्षधर्मत्वम् ; साध्यधर्मसामान्येन च समानोऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्त्वम् ; न सपक्षोऽसपक्ष इत्यसपक्षेऽप्यसत्त्वं प्रतीयते । तदिदमनालोचि- ताभिधानम्। तथाहि । यो वचनविशेषःस साक्षात्कारिज्ञानपूर्वक इति एतावन्मात्रम- भिधाय नैव कश्चिदास्ते, किन्तु हेतोर्धर्मिण्युपसंहारं करोति। तत्र यदि वचनविशेष- श्वायं नष्टमुष्ट्यादिविषयो वचनसंदर्भ इति ब्रूयात्, तदा साधर्म्यवत्प्रयोगप्रतीतिः। अथासाक्षात्कारिज्ञानपूर्वकश्चेत्यभिदध्यात, तदा वैधय॑वत इति संबन्धवचनपूर्व- - है ११८ सम्मतिताख्यप्रकरणस्य- कात्पक्षधर्मववचनात् प्रयोगद्दयावगतिः, विवक्षितसाध्यावगतिश्च । हेतुविरुद्धाने- कान्तिका अपि पक्षधर्मत्ववचनमात्रेण न प्रतीयन्ते; यदा तु संबन्धवचनमपि क्रियते तदा कथमप्रतीतिः । तथाहि । यो वचनविशेषःस साक्षात्कारिज्ञानपूर्वक इत्युक्त हेतुरवगम्यते। विधीयमानेनानूद्यमानस्य व्याप्तेः।यो वचनविशेषः सोऽसा- क्षात्कारिज्ञानपूर्वक इत्युक्ते विरुद्धः। विपर्ययव्याप्तेः। यो वचनविशेषः स चक्षुरादिः जनितज्ञानपूर्वक इति अनैकान्तिकाध्यवसायः। व्यभिचारात् । तथा त्रैरूप्यमपि हेतोर्गम्यत एव । यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतया अवगम्यते। यत्र तु व्याप्यो धर्मो विवादास्पदीभूते धर्मिण्युपसंहियते स समुदायैकदेशतया पक्ष इति तत्रोपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मलावगतिः । सा च व्याप्तियंत्र धर्मिण्युपदश्यते स साध्यधर्मसामान्येन समानोऽर्थः सपक्षः प्रतीयत इति सपक्षे सत्त्वमप्यवगम्यते । सामर्थ्यात् हि व्यापकनिवृत्ती व्याप्यनिवृत्तियंत्रावसी- यते सोऽसपक्ष इति असपक्षेऽप्यसत्त्वमपि निश्चीयते इति नार्थः प्रतिज्ञावचनेन। तदाह धर्मकीर्चिः-यदि प्रतीतिरन्यथा न स्यात् सर्व शोभेत, दृष्टा च पक्षधर्म- संबन्धवचनमात्रात् प्रतिज्ञावचनमन्तेरणापि प्रतीतिरिति कस्तस्योपयोगः। यदाच प्रतिज्ञावचनं नैरर्थक्यमनुभवति तदा तदावृत्तिवचनस्य निगमनलक्षणस्य सुतरामनुपयोग इति न प्रतिज्ञाद्यवंचनमपि प्रस्तुतसाधनस्य न्यूनतादापा, केवलं तत्प्रतिपाद्यस्यार्थस्य स्वसाध्याविनाभूतस्य हेतोः स्वसाध्यमिण्युपसंहारमात्रा सिद्धत्वात् । अर्थादापन्नस्य स्वशब्देन पुनरभिधानं निग्रहस्थानमिति प्रतिज्ञादि- वचनं वादकथायां क्रियमाणं तहक्तुनिग्रहमापादयति । उपनयवचनं तु हेतोः पक्षधर्मत्वप्रतिपादनादेव लब्धमपि तस्यापि ततः पृथक् प्रतिपादने पुनरुक्ततालक्षण एवं दोष इति न तदनभिधानेऽपि न्यूनं साधनवाक्यम्; ततः सर्वदोषरहितत्वात् साधनवाक्यस्य भवत्यतः प्रकृतसाध्यसिद्धिः। खसाध्याविनाभूतश्च हेतुः साध्यध- मिण्युपदर्शयितव्यो वादकथायामित्यभिगायवता आचार्येण गाथासूत्रावयवेन त- थाभूतहेतुप्रदर्शनं कृतमिति। तथाहि। समयविशासनमित्यनेन गाथासूत्रावयवव- चनेन स्वसाध्यव्याप्तस्य हेतोः साध्यधर्मिण्युपसंहारः सूचितः । हेतोश्च वसाध्य- व्याप्तिः प्रमाणतः सर्वोपसंहारेण प्रदर्शनीया। तच्च प्रमाणं व्याप्तिप्रसाधकं कदा.
तत्त्ववोधविधायिनी व्याख्या । ११९ चित् साध्यमिण्येव प्रवृत्तं तां तस्य साधयति; कदाचित् दृष्टान्तर्मिणि । यत्र हि सर्वमनेकान्तात्मकं सत्त्वादित्यादौ प्रयोगेन दृष्टान्तर्मिसद्भावः, तत्र व्याप्तिप्रसा- धकं प्रमाणं प्रवर्त्तमानं साध्यर्मिण्येव सर्वोपसंहारेण हेतोः स्वसाध्यव्याप्ति प्रसा- घयति। यत्र तु प्रकृतप्रयोगादौ दृष्टान्तमिणोऽपि सत्त्वं तत्र दृष्टान्तधर्मिण्यपि प्रवृत्तं तत्प्रमाणं सर्वोपसंहारेणैव तस्याः प्रसाधकमभ्युपगन्तव्यम् । अन्यथा दृष्टा- न्तर्मिणि हेतोः स्वसाध्यव्याप्तावपि साध्यधर्मिणि तस्य तदव्याप्तौ न ततस्तत्र तत्प- तिपत्तिः स्यात् । दृष्टान्तर्मिण्येव तेन तस्य व्याप्तत्वात् ; बहिप्तेिविद्यमानाया अपि साध्यर्मिणि साध्यप्रतिपत्तावनुपयोगात् सादृश्यमात्रस्याकिञ्चित्करत्वात्। अन्यथा शुक्लं सुवर्ण सत्त्वाद्रजतवदित्यत्रापि शुक्लत्वप्रतिपत्तिः स्यात् । अथात्र पक्षस्य प्रत्यक्षबाधनं, प्रत्यक्षबाधितधर्मनिर्देशानन्तरप्रयुक्तत्वेन हेतोः कालात्ययाप- दिष्टत्वं वा दोषः। तदयुक्तम् । बाधाऽविनाभावयाविरोधात् । तथाहि । सत्येव साध्यर्मिणिं साध्ये हेतुर्वर्तत इति तस्य तदविनाभायः, तत्प्रतिपादितसाध्यधर्मा- भावश्च प्रमाणतो बाधा। साध्यधर्मभावाभावयोकत्र धर्मिण्येकदा विरोध इति नैत- होपादस्य साधनस्य दुष्टत्वम्, किन्तु साध्यर्मिणि साध्यधर्माविनाभूतत्वेनानि- श्चयः। सच बहिातिमात्रेण हेतोः साध्यसाधकत्वाभ्युपगमेऽन्यत्रापि समान इति नानुमानात् कचिदपि साध्यनिश्चयः स्यात् । अतो दृष्टान्तधर्मिणि प्रवृत्तेनप्रमाणेन व्याप्या हेतोः स्त्रसाध्याविनाभावो निश्चयः। सच निश्चिताविनाभावो यत्र धर्मि- ण्युपलभ्यते तत्र स्वसाध्यमविद्यमानप्रमाणान्तरबाधनं निश्चाययति; यथाऽत्रैव सर्व- ज्ञलक्षणे साध्ये वचनविशेपलक्षणे साध्यधर्मिणि तद्विशेषलक्षणो हेतुः प्रतिबन्ध- प्रसाधकं चास्य हेतोः प्रागेव दृष्टान्तधर्मिणिप्रमाणं प्रदर्शितमित्यभिप्रायवतवाचार्ये- णापि 'कुसमयविसासणम्' इति सूत्रे कुरित्यनेन दृष्टान्तसूचनं विहितम्, नच पक्ष- वचनाद्युपक्षेपः सूचितः । ननु भवत्वस्मादेतोर्यथोक्तप्रकारेण सर्वज्ञमात्रसिद्धिर्न पुनस्तद्विशेषसिद्धिः। तथाहि । यथा नष्टमुष्टयादिविषयवचनविशेपस्यार्हत्सर्वज्ञप्र- णीतत्वं वचनविशेषत्वात् सिद्यति, तथा बुद्धादिसर्वज्ञपूर्वकत्वमपि तत एव सेत्स्य- तीति कुतस्तद्विशेषसिद्धिः। नच नष्टमुष्टयादिप्रतिपादको वचनविशेषोऽर्हच्छासन एवेति वक्तुं युक्तम् । बुद्धशासनादिष्वपि तस्योपलम्भादित्याशक्याह सूरिः। "सि- - १२. सम्मतिताख्यप्रकरणस्य- इत्थाणम्" इति । अस्यायमभिप्रायः। प्रत्यक्षानुमानादिप्रमाणविषयत्वेन प्रतिपा- दिताः शासनेन ये ते तद्विषयत्वेनैव तैनिश्चिता इति सिद्धास्ते चार्यन्त इत्यर्था उच्यन्ते, तेषां शासनं प्रतिपादकमर्हत्सर्वज्ञशासनमेव, न बुद्धादिशासनम् । अतो वचनविशेषत्वलक्षणस्य हेतोस्तेष्वसिद्धत्वात् कुतस्तेषामपि सर्वज्ञत्वम् ;येन विशेष- सर्वज्ञत्वसिद्धिर्न स्यात्। यथा चागमान्तरेण प्रत्यक्षादिविषयत्वेन प्रतिपादिताना- मर्थानां तद्विषयत्वं न संभवति, तथाऽत्रैव यथास्थानं प्रतिपादयिष्यते । अथवा सिद्धार्थानामित्यनेन हेतुसंसूचनं विहितमाचार्येण । सिद्धाः प्रमाणान्तरसंवादतो निश्चिता येऽर्था नष्टमुष्टयादयस्तेषां शासनं प्रतिपादकम् ; यतो द्वादशाङ्गं प्रवच- नमतो जिनानां कार्यत्वेन संबन्धि; तेनायं प्रयोगार्थः सूचितः । प्रयोगश्च प्रमा- णान्तरसंवादियथोक्तनष्टमुष्टयादिसूक्ष्मान्तरितदूरार्थप्रतिपादकत्वान्यथाऽनुपपत्ते- जिनप्रणीतं शासनम् । अत्र च सूक्ष्माद्यर्थप्रतिपादकत्वान्यथाऽनुपपत्तिलक्षणस्य हेतोर्जिनप्रणीतत्वलक्षणेन वसाध्येन व्याप्तिः साध्यधर्मिण्येव निश्चितेति तन्निश्चा- यकप्रमाणविषयस्येह दृष्टान्तस्य प्रदर्शनमाचार्येण न विहितम्। तदर्थस्य तयतिरे- केणैव सिद्धत्वात्। यथा चार्थीपत्तेः साध्यधर्मिण्येव व्याप्तिनिश्चयाद् दृष्टान्तव्य- तिरेकेणापि तदुत्थापकादर्थादुपजायमानायाः सर्वज्ञप्रतिक्षेपवादिभिर्मीमांसकैः प्रामाण्यमभ्युगम्यते, तथा प्रकृतादन्यथाऽनुपपत्तिलक्षणाद्धतोरुपजायमानस्या- स्थानुमानस्य तत् किं नेष्यते । प्रतिपादितश्चार्थापचेरनुमानेऽन्तर्भावःप्रागितिभव- त्यतो हेतोःप्रकृतसाध्यसिद्धिः। अतएव पूर्वीचाहें तुलक्षणप्रणेतृभिरेकलक्षणो हेतु:- अन्यथाऽनुपपन्नत्वं यत्र, तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं यत्र, तत्र त्रयेण किम्" ॥ १ ॥ इत्यादिवचनसंदर्भेण प्रतिपादित इति मन्वानेनाचार्येणापि न दृष्टान्तसूचनं वि. हितम् । अत्र प्रयोगे कुसमयविशासनमिति चात्र व्याख्याने बुद्धांदिशासनानाम- सर्वज्ञप्रणीतत्वप्रतिपादकत्वेन व्याख्येयम् । तथाहि । कुत्सिताः प्रमाणबाधितैका- न्तस्वरूपार्थप्रतिपादकत्वेन समयाः कपिलादिप्रणीतसिद्धान्तास्तेषां "सन्ति पञ्चम- हब्भूया-"इत्यादिवचनसंदर्भेण दृष्टेष्टविषये विरोधाधुझावकत्वेन विशासनं विध्वंसकं यतोऽतो हादशाङ्गमेव जिनानां शासनमिति भवत्यतो विशेषणात् सर्वज्ञविशेषसि- द्विरिति स्थितमेतजिनशासन द्वादशाङ्गम् तत्त्वादेव सिद्धं निश्चितप्रामाण्यमिति॥ " तत्त्वबोधविधायिनी व्याख्या । '१२१ . अत्रेश्वरकृतजगहादिनः प्राहुः । युक्तमुक्तं सर्वज्ञप्रणीतं शासनं, तत्पणी- तलाच तत्प्रमाणमिति । इदं त्वयुक्तम् । रागद्वेषादिकान् शत्रून् जितवन्त इति जिनाः।सामान्ययोगिन एवेश्वरव्यतिरिक्ता एतल्लक्षणयोगिनो, न पुनः शासनादि- सर्वजगवस्रष्टा ईश्वरः। तथाच पतञ्जलिः। "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषवि- शेष ईश्वरः" इति । अनेन सूत्रेण रागादिलक्षणक्लेशशत्रुरहितलं सहजमीश्वरस्य प्रतिपादितं, न पुनर्विपक्षभावनाद्यभ्यासव्यापारात क्लेशादिक्षयस्तस्य, येन रागादीन स्वव्यापारेण जितवन्त इति वचः सार्थकं तद्विपयत्वेन स्यात् । तथा चान्यरप्युक्तम्- "ज्ञानमप्रतिघं यस्य ऐश्वर्य च जगत्पतेः। वैराग्यं चैव धर्मश्च सह सिद्ध चतुष्टयम्" ॥१॥ इत्याशड्क्याह।"भवजिणाणम् इति। भवन्ति नारकतिर्यग्नरामरपर्यायवे- नोत्पद्यन्ते प्राणिनोऽस्मिन्निति भवः संसारस, तहेतुलाद रागादयोऽत्र भवशब्देनोप- चाराद्विवक्षिताः; तं जितवन्त इति जिनाः। उपचाराश्रयणेचप्रयोजनं,नह्यविकल- कारणे रागादी अध्वस्ते, तत्कार्यस्य संसारस्य जयः शक्यो विधातुमिति प्रतिपा. दनम्। भवकारणभूतरागादिजये चोपायः प्रतिपादितः प्राक् । तदुपायेन च विपक्ष- रागादिजयद्वारेण तत्कार्यभूतस्य भवस्य जयः संभवति, नान्यथेति । नापायव्य- तिरेकेणोपेयसिद्धिः। अन्यथोपेयस्य निर्हेतुकत्वेन देशकालस्वभावप्रतिनियमो न स्यादिति सर्वप्राणिनामीश्वरत्वम् ; नवा कस्यचित्स्यात् । प्रतिपादितचायमर्थः- "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः" ॥१॥ इत्यादिना ग्रन्थेन धर्मकीर्तिना ॥ तन्न रागादिक्लेशविगमः खभावत- एवेश्वरस्येति युक्तम् ॥ अत्र बृहस्पतिमतानुसारिणः स्वभावसंसिद्धज्ञानादिधर्म- कलापाध्यासितस्य स्थाणोरभावप्रतिपादन जैनेन कुर्वताऽस्माकं साहाय्यमनुष्ठि- तमिति मन्याचाः प्राहुः । युक्तमुक्तं यत् खभावसंसिद्धज्ञानादिसंपत्समन्वितस्ये- १६ १२२ सम्मतिताख्यप्रकरणस्य- श्वरस्याभावः। नारकतिर्यङ्नरामररूपपरिणतिस्वभावतया उत्पद्यन्ते प्राणिनोऽस्मि- नित्येतच्चायुक्तमभिहितम् । परलोकसद्भावे प्रमाणाभावात् । तथाहि । परलोकसभा- वावेदकं प्रमाणं प्रत्यक्षम्, अनुमानम्,आगमो वा जैनेनाभ्युपगमनीयः। अन्यस्य प्रमाणत्वेन तेनानिष्टेः। नचातद्वक्तव्यम् । भवतोऽपि किं तत् प्रतिक्षेपकं प्रमा- णम् । यतो नास्माभिस्तत्प्रतिक्षेपकप्रमाणात् तदभावः प्रतिपाद्यते, किन्तु परोप- न्यस्तप्रमाणपर्यनुयोगमात्रमेव क्रियते। अतएव "सर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेः" इति चार्वाकैरमिहितम्। स च परोपन्यस्तप्रमाणपर्यनुयोगः तदभ्युपगम- स्य प्रश्नादिद्वारेण विचारणा, न पुनःस्खसिद्धप्रमाणोपन्यासः। येनातीन्द्रियार्थप्रति- क्षेपकत्वेन प्रवर्तमान प्रमाणमाश्रयासिद्धत्वादिदोषदुष्टलेन कथं प्रवर्त्तत इत्यस्मान् प्रति भवताऽपि पर्यनुयोगः क्रियेत । अतएव परलोकप्रसाधकप्रमाणाभ्युपगमं परेण ग्राहयित्वा तदभ्युपगमस्यानेन प्रकारेण विचारः क्रियते । तत्र न तावत् परलोक- प्रतिपादकत्वेन चक्षुरादिकरणव्यापारसमासादितात्मलाभं सन्निहितप्रतिनियत- रूपादिविषयत्वात् प्रत्यक्ष प्रवर्तते । नाप्यतीन्द्रियं योगिप्रत्यक्षं तत्र प्रवर्चत इति वक्तुं शक्यम् । परलोकादिवत्तस्याप्यसिद्धेः । नाप्यनुमानं प्रत्यक्षपूर्वकं तत्र प्रवृत्ति- मासादयति । प्रत्यक्षाप्रवृत्तौ तत्पूर्वकस्यानुमानस्यापि तत्राप्रवृत्तेः । अथ यद्यपि प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवमनुमानं न तत्र प्रवर्तते, तथापि सामान्यतो दृष्टं तत्र प्रवर्तिष्यते। तदपि न युक्तम् । यतस्तदपि सामान्यतो दृष्टमवगतप्रतिबन्ध लिङ्गोड़वम्, आहोखित् अनवगतप्रतिबन्धलिङ्गसमुत्थम् । यद्यनवगतप्रतिवन्ध- लिङ्गोद्भवमिति पक्षः। स न युक्तः । तथाभूतलिङ्गप्रभवस्य स्वविषयव्यभिचारिणश्च दर्शनानन्तरोहूतराज्यावाप्तिविकल्पस्येवाप्रमाणत्वात् । अथ प्रतिपन्नसंवन्धलिङ्ग- प्रभवं तत् तत्र प्रवर्तत इति पक्षः । सोऽपि न युक्तः । प्रतिबन्धावगमस्यैव तत्र लिङ्गस्यासंभवात् । तथाहि । प्रत्यक्षस्य तत्र लिङ्गसंवन्धावगमनिमित्तस्याभावे- ऽनुमानं लिङ्गसंबन्धग्राहकमभ्युपगन्तव्यम् । तत्र यदि तदेव परलोकसहावावेदक- मनुमानं स्वविषयामिमतेनार्थेनात्मोत्पादकलिङ्गसंबन्धग्राहकम्, तदेतरेतराश्रयत्व- दोषः। अथानुमानान्तराद् गृहीतप्रतिबन्धाल्लिङ्गादुपजायमानं तद्विषयं तदभ्युप- गम्यते, तदाऽनवस्था; तथा सर्वमप्यनुमानमस्सान्प्रत्यसिद्धम् । तथाहि । बृहस्प- तत्त्वबोधविधायिनी व्याख्या । १२३ । - तिसूत्रम्-"अनुमानमप्रमाणम्" इति । अनेन प्रतिज्ञाप्रतिपादनं कृतम् । अनि- भितार्थप्रतिपादकत्वात,असिद्धप्रमाणाभासवदिति हेतुदृष्टान्तावभ्यूद्यौ। विषयवि- चारेण वाऽनुमानप्रामाण्यमयुक्तम्। धर्मधर्म्युभयस्वतन्त्रसाधने सिद्धसाध्यता यतः। अतो विशेषणविशेष्यभावः साद्यःप्रमेयविशेषविषयांप्रमां कुर्वत् प्रमाणं प्रमाणता- मश्नुते । इतरेतरावच्छिन्नश्व समुदायोऽत्र प्रमेयः; तदपेक्षया च पक्षधर्मवादीना- मन्यतमस्यापि रूपस्याप्रसिद्धिः। नहि समुदायधर्मता हेतोः। नापि समुदायेनान्वयो व्यतिरेको वा, धर्मिमात्रापेक्षया पक्षधर्मले साध्यधर्मापेक्षया च व्याप्ती गौणतेति । उक्तं च। "प्रमाणस्यागौणत्वादनुमानादर्थनिश्चयो दुर्लभः” इति; धर्मिधर्मताग्रह- णेऽपि न गौणतापरिहारः। प्रतीयमानापेक्षया गौणमुख्यव्यवहारस्य चिन्त्यत्वात् ; समुदायश्च प्रतीयते । एकदेशाश्रयणेनापि त्रैरूप्यमयुक्तम् । व्याप्यसिद्धेः । नहि सत्तामात्रेणाविनाभावो गमकः; अपि त्ववगतः। अन्यथाऽतिप्रसङ्गात् । स च सकलसपक्षविपक्षाप्रत्यक्षीकरणे दुर्विज्ञानोऽसर्वविदा । नचात्र भूयोदर्शनं शरणम् । सहस्रशोऽपि दृष्टसाहचर्यस्य व्यभिचारात् । अतएव दर्शनादर्शनमपि । तदुक्तम् :- गोमानित्येव म]न भाव्यमश्ववताऽपि किम् ?" इति ॥ देशकालावस्थाभेदेन च भावानां नानात्वावगमादनाश्वासः । तदुक्तम्- "अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिपु । भावानामनुमानेन प्रतीतिरतिदुर्लभा" ॥ १॥ इत्यादि । आह च ।अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात् । यच्च सामान्यस्य तद्वि- पयस्याभावात् स्वार्थपरार्थभेदासंभवाद्, विरुद्धानुमानविरोधयोः सर्वत्र संभवात् ; कचिच्च विरुद्राव्यभिचारिण इत्यादि दूपणजालम् । तदनुद्घोपणीयमेव। यतोऽनि- श्चितार्थप्रतिपादकत्वादनुमानमप्रमाणमित्यनुमानाप्रमाणताप्रतिपादने कृते शेषदू- पणजालस्य मृतमारणकल्पत्वात् । ततोऽनुमानस्याप्रमाणत्वादतीन्द्रियपरलोकसहा- वप्रतिपादने. कुतस्तस्य प्रवृत्तिः। अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्त- -- १२४ सम्मतिताख्याकरणस्य- मिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियमर्थापतिः, अथानुमान था।न तावदर्थापत्तिः। तल्लक्षणाभावात् । “दृष्टः श्रुतोवाऽर्थोऽन्यथा नोपपद्यते इति हि तस्या लक्षणं विचक्षणैरिण्यते, न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम् । मातापितृसामग्रीमात्रकेण तस्योपपत्तेस्तन्मानहेतुकवे चान्यपरिकल्प- नायामतिप्रसङ्गात् । अथ प्रज्ञामेधादयो जन्मादावभ्यासपूर्वका दृष्टाः कथमत- पूर्वका भवेयुः, न वह्निपूर्वको धूमः, तत्पूर्वकतामन्तरेण कदाचिदपि भवन्नुपल- ब्धः । तदप्यसत्। अविनाभावसंबन्धस्य देशकालव्याप्तिलक्षणस्य प्रत्यक्षेण प्रति- पत्तुमशक्तेः । सन्निहितमात्रप्रतिपत्तिनिमित्तं हि प्रत्यक्षमुपलभ्यते; नहि सकलदे- शकालयोविना वह्निमसंभव एव धूमस्येति प्रत्यक्षतः प्रतीतिर्युक्ता, अतोन धूमोऽपि वह्निपूर्वकः सर्वत्र प्रत्यक्षानुपलम्भाभ्यां सिद्ध इति कुतस्तेन दृष्टान्तेन जन्मा. न्तरस्वरूपपरलोकसाधनम् । तस्मात्केचित् प्रज्ञामेधादयस्तथाभूताभ्यासपूर्वकाः, केचिन्मातापितृशरीरपूर्वका इति । नच प्रज्ञादयः शरीरतो व्यतिरिच्यमानस्वभावाः संवेदनविषयतामुपयान्ति । शरीरं च तदन्वयव्यतिरेकानुवृत्तिमदेव दृष्टमिति कथमन्यथा व्यवस्थामर्हति । अथ पूर्वोपात्तादृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरं, न त्वेतेनैव व्यभिचारो दृश्यते। नहि सर्वदा कारणानुरूपमेव कार्यम् । तेन विलक्षणादपि मातापितृशरीराद्यदि प्रज्ञामेधादिभिर्विलक्षणं तदपत्यस्य शरीरमु- पजायेत, कदाचित् तदाकारानुकारि तत्कथं वाऽत्र विरोधः। यथा कश्चित् शालू- कादेव शालूकः, कश्चिद् गोमयात् ; तथा कश्चिदुपदेशाहिकल्पः, कश्चित् तदाकार- पदार्थदर्शनात् । अथ दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवेत्, तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेति एतदपि प्रष्टव्यम्। तस्मात्कार्य- कारणभावमात्रमेव तत् । तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद्वि- ज्ञानमुपजायताम् । अथवा यथा विकल्पायवहितादपि विकल्प उपजायते, तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः । यथा चैकमातापितृशरी- रादनेकापत्योत्पत्तिस्तथैकस्मादेव ब्रह्मणः प्रजोत्पत्तिरितिनजात्यन्तरपरिग्रहः कस्य- चिदितिन परलोकसिद्धिः। नहि मातापितृसंबन्धमात्रमेव परलोकः। तथेष्टावभ्यु- पगमविरोधात् । अथानाधनन्त आत्माऽस्ति, तमाश्रित्य परलोकःसाध्यते। नो- तत्त्वबोधविधायिनी व्याख्या। १२५ कानुभवितव्यतिरेकेणानुसन्धानं संभवति। भिन्नानुभवितर्यनुसन्धानादृष्टेः। तद्- युक्तम् । परलोकिनोऽभावात्, परलोकाभाव इति वचनात् । नानाद्यनन्त आत्मा प्रत्यक्षप्रमाणप्रसिद्धः; अनुमानेन चेतरेतराश्रयदोषप्रसङ्गः । सिद्धे आत्मन्येकरूपे- णानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिस्तत्सिद्धेश्वानुसन्धानस्य तदविना- भूतत्वसिद्धिरितीतरेतराश्रयसहावान्नैकस्यापि सिद्धिः नचासिद्धमसिद्धेन साध्यते। किंच । दर्शनानुसन्धानयोः पूर्वापरभाविनोः कार्यकारणभावः प्रत्यक्षसिद्धस्तत्कुतो- ऽनुसन्धानस्मरणादात्मसिद्धिः। अपि च । शरीरान्तर्गतस्य ज्ञानस्यामूर्तलेन कथं जन्मान्तरशरीरसंचारः। अथान्तराभवशरीरसन्तत्या संचरणमुच्यते; तदपि परलो- कान्न विशिष्यते। संचारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगममेतन्न परलोकसिद्धिः । अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसं- बन्धासिद्धेय॑र्थमेवानुमानेन परलोकास्तिलसाधनम् । अथागमात्प्रतिनियतकर्मफ- लसंवन्धसिद्धिः । तथा सति परलोकास्तित्वमप्यागमादेव सिद्धमिति किमनुमा- नप्रयासेनानचागमादपि परलोकसिद्धिः। तस्य प्रामाण्यासिद्धेः।नचाप्रमाणसिद्ध परलोकादिकमभ्युपगन्तुं युक्तम् । तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । तन्न पर- लोकसाधकप्रमाणप्रतिपादनमकृत्वा भवशब्दव्युत्पत्तिरर्थसंस्पर्शिन्यमिधातुं युक्ता। डित्यादिशब्दव्युत्पत्तितुल्या तु यदि क्रियेत, तदा नास्माभिरपि तत्प्रतिपादकप्रमा- णपर्यनुयोगे मनः प्रणिधीयत इति पूर्वपक्षः ॥ ॥ अनोच्यते ॥ यदुक्तम् ; पर्यनुयोगमात्रमस्माभिः क्रियत इति। तत्र वक्त- व्यम् । पर्यनुयोगोऽपि क्रियमाणः किं प्रमाणतः क्रियते, उताप्रमाणतः । यदि प्रमाणतः । तद्युक्तम् । यतस्तत्कार्यपि प्रमाणं किं प्रत्यक्षम्, उतानुमानादि। यदि प्रत्यक्षम् । तदयुक्तम् । प्रत्यक्षस्याविचारकलेन पर्यनुयोगस्वरूपविचारर- चनाऽचतुरत्वात् । नच प्रत्यक्षस्यापि प्रमाणत्वं युक्तम् । भवदभ्युपगमेन तल्ल- क्षणासंभवात् । तदसंभवश्व, खरूपव्यवस्थापकधर्मस्य लक्षणत्वात् । तत्र प्रत्य- क्षस्य प्रामाण्यस्वरूपव्यवस्थापको धर्मोऽविसंवादित्वलक्षणोऽभ्युपगन्तव्यः। तच्चा- ( विसंवादित्वं प्रत्यक्षप्रामाण्येनाविनाभूतमभ्युपगम्यम् । अन्यथाभूतात्ततः प्रत्यक्ष- प्रामाण्यासिद्धेः । सिद्धौ वा यतः कुतश्चिद्यत्किश्चिदनभिमतमपि सिद्धेदित्यतिप्र- १२६ सम्मतितकास्यप्रकरणस्य- सङ्गीस चाविनाभावस्तस्य कुतश्वित्प्रमाणादवगन्तव्यः । अनवगतप्रतिबन्धाद- र्थान्तरप्रतिपत्तौ नालिकेरद्दीपवासिनोऽप्यनवगतप्रतिबन्धाद् धूमात्,धूमध्वजपति- पत्तिः स्यात् । अविनाभावावगमश्चाखिलदेशकालव्याप्त्या प्रमाणतोऽभ्युपगमनीयः। अन्यथा यस्यामेव प्रत्यक्षव्यक्तौ संवादित्वप्रामाण्ययोरसाववगतस्तस्यामेवाविसं- वादित्वात्तत्सियेत्, न व्यत्यन्तरे । तत्र तस्यानवगमात् । नचावगतलक्ष्यल- क्षणसंबन्धा व्यक्तिर्देशकालान्तरमनुवर्तते । तस्याः प्रत्यक्षव्यक्तेस्तदैव ध्वंसात् ; व्यत्त्यन्तराननुगमात् ।अनुगमे वा व्यक्तिरूपताविरहानुगतस्य सामान्यरूपत्वात्, तस्य च भवताऽनभ्युपगमात् । अभ्युपगमे वा न सामान्यलक्षणानुमानविषया- भावप्रतिपादनेन तत्प्रतिक्षेपो युक्तः। स च प्रमाणतःप्रत्यक्ष लक्ष्यलक्षणयोर्व्याप्त्या- विनाभावावगमो यदि प्रत्यक्षादभ्युपगम्यते । तद्युक्तम् । प्रत्यक्षस्य सन्निहितस्ववि- षयप्रतिभासमात्र एव भवता व्यापाराभ्युपगमात् । अथैकत्र व्यक्तौ प्रत्यक्षेण तयो- रविसंवादित्वप्रामाण्ययोरविनाभावावगमादन्यत्राप्येवंभूतं प्रत्यक्षं प्रमाणमिति प्रत्य- क्षेणापि लक्ष्यलक्षणयोर्व्याप्त्या प्रतिबन्धावगमः, तीन्यत्राऽप्येवंभूतं ज्ञानलक्षणं कार्यमेवंभूतज्ञानकार्यप्रभवमिति तेनैव कथं न सर्वोपसंहारेण कार्यलक्षणहेतोः स्व- साध्याविनाभावावगमः । येनानुमानमप्रमाणमविनाभावसंबन्धस्य व्याप्त्या ग्रही- तुमशक्यत्वादिति दूषणमनुमानवादिनं प्रति भवता सज्यमानं शोभते । किं च। अविसंवादिलक्षणो धर्मः प्रत्यक्षप्रामाण्यलक्ष्यव्यवस्थापकः प्रत्यक्षप्रतिबद्धत्वेन निश्चयः। अन्यथा तत्रैव ततः प्रामाण्यलक्षणलक्ष्यव्यवस्था न स्यात् । असंबद्धस्य केनचित्सह प्रत्यासत्तिविप्रकर्षाभावात् , तदन्यत्रापि ततस्तयवस्थाप्रसङ्गः । तथा- ऽभ्युपगमे च यथा संवादित्वलक्षणो धर्मो लक्ष्यानवगमेऽपि प्रत्यक्षधर्मिसंबन्धि- त्वेनावगम्यते, तथा धूमोऽपि पर्वतैकदेशे अनलानवगतावपि प्रदेशसंबन्धि- तयाऽवगम्यत इति कथं समुदायः साध्यः, तदपेक्षया च पक्षधर्मलं हेतोरवगन्त- व्यम् । नच पक्षधर्मवाप्रतिपत्तौ साध्यधर्मानलविशिष्टतत्पदेशप्रतिपत्तिः। प्रति- पत्तौ वा पक्षधर्मवाद्यनुसरणं व्यर्थम् । तत्प्रतिपत्तेः प्रागेव तदुत्पत्तेः। समुदायस्थ साध्यत्वेनोपचारातदेकदेशर्मिधर्मवावगमेऽपि पक्षधर्मलावगमाददोषे उपचरितं पक्षधर्मवं हेतोः स्यादिति अनुमानस्य गौणखापत्तेः प्रमाणस्यागौणलादनु- ...
तत्वबोधविधायिनी व्याख्या । १२७ मानादर्थनिर्णयो दुर्लभ इति चोद्यावसरः। प्रत्यक्षप्रामाण्यलक्षणेऽपि क्रियमाणेऽस्य सर्वस्य समानत्वेन प्रतिपादितत्वात् । यदा चाविसंवादित्वलक्षणप्रत्यक्षप्रामाण्य- लक्ष्ययोः सर्वोपसंहारेण व्याप्तिरभ्युपगम्यते; अविसंवादित्वलक्षणश्च प्रामाण्यव्य- वस्थापको धर्मस्तत्राङ्गीक्रियते पूर्वोक्तन्यायेन तदा कथमनुमानं नाभ्युपगम्यते प्रमाणतया। तथाहि । यत्किञ्चिद् दृष्टं तस्य यत्राविनाभावस्तद्विदस्तस्य तद्गमकं तत्रेत्येतावन्मात्रमेवानुमानस्यापि लक्षणम् । तच्च प्रत्यक्षप्रामाण्यलक्षणमभ्युपग- च्छताऽभ्युपगम्यते देवानांप्रियेण । तथा प्रामाण्यमप्यनुमानस्याभ्युपगतमेव; यतो यदेवाविसंवादित्वलक्षणं प्रत्यक्षस्य प्रामाण्यम् , अनुमानस्यापि तदेव ॥ तदुक्तम्- "अर्थस्यासंभवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तहेतुले समं द्वयम्" ॥ १ ॥ इति । अर्थासंभवेऽभावःप्रत्यक्षस्य संवादस्वभावः प्रामाण्ये निमित्तम्।सच साध्या- र्थाभावेऽभाविनो लिङ्गादुपजायमानस्यानुमानस्यापि समान इति कथं न तस्यापि प्रामाण्याभ्युपगमः । किंच।अयं चार्वाका प्रत्यक्षकप्रमाणवादी यदि परेभ्यः प्रत्यक्षलक्षणमनवबुन्धमानेभ्यस्तत् प्रतिपादयति, तदा तेषां ज्ञानसंवन्धिवं कुतः प्रमाणादवगच्छति।न तावत्प्रत्यक्षात् । परचेतोवृत्तीनां प्रत्यक्षतो ज्ञातुमशक्यत्वात्; किं तर्हि स्वात्मनि ज्ञानपूर्वको व्यापारव्याहारी प्रमाणतो निश्चित्य परेष्वपि तथाभूत- तदर्शनाचत्संवन्धित्वलक्षणमवबुध्यते, ततस्तेभ्यस्तत्प्रतिपादयति।तथाऽभ्युपगमे च व्यापारव्याहारादेर्लिङ्गस्य ज्ञानसंवन्धिखलक्षणस्वसाध्याव्यभिचारिख पक्षधर्मवंचा- भ्युपगतं भवतीति कथमनुमानोत्थापकस्यार्थस्य त्रैरूप्यमसिद्धम् ; येन नास्माभि- रनुमानप्रतिक्षेपः क्रियते, किंतु विलक्षणं यदनुमानवादिभिलिङ्गमभ्युपगतं, तन्न लक्षणभाग् भवतीति प्रतिपाद्यत इति वचः शोभामनुभवति । प्रत्यक्षलक्षणप्रति- पादनार्थ परचेतोवृचिपरिज्ञानाभ्युपगमे, त्रिलक्षणहेत्वभ्युपगमस्यावश्यंभावित्वप्रति- पादनात्। अथ नास्माभिः प्रत्यक्षमपि प्रमाणत्वेनाभ्युपगम्यते; येन तल्लक्षणप्रणयने- ऽवश्यंभाव्यनुमानप्रामाण्याभ्युपगम इत्यस्मान् प्रति भवद्भिः प्रतिपाद्येत । यत्तु प्रत्यक्षमेवैकं प्रमाणमिति वचनं, तचान्त्रिकलक्षणालक्षितलोकसंव्यवहारिप्रत्यक्षापे- १२८ सम्मतिताख्यप्रकरणस्य- क्षया।अतएव लक्षणलक्षितप्रत्यक्षपूर्वकानुमानस्य,अनुमानमप्रमाणमित्यादि ग्रन्थ- सन्दर्भेणाप्रामाण्यप्रतिपादनं विधीयते; न पुनर्गोपालाधज्ञलोकव्यवहाररचनाच. तुरस्य धूमदर्शनमात्राविर्भूतानलप्रतिपत्तिरूपस्य । नैतच्चारु । तस्यापि महानसादि- दृष्टान्तधर्मिप्रवृत्तप्रमाणावगतवसाध्यप्रतिबन्धनिश्चितसाध्यमिधर्मधूमबलोद्भू- तत्वेन तान्त्रिकलक्षणलक्षितप्रत्यक्षपूर्वकत्वस्य वस्तुतः प्रदर्शितत्वात् । एतत्पक्षध- मत्वमियं चास्य धूमस्य व्याप्तिरिति साङ्केतिकव्यवहारस्य गोपालादिमूर्खलोका- संभविनोऽकिञ्चित्करत्वात् । प्रत्यक्षस्य चाविसंवादित्वं प्रामाण्यलक्षणं तद्यथा संभ. वति, तथा परतःप्रामाण्य व्यवस्थापयद्भिः "सिद्धम्"इत्येतत्पदव्याख्यायां दर्शितं, न पुनरुच्यते । तत् स्थितमेतन्न प्रत्यक्षस्य भवदभिप्रायेण प्रामाण्यव्यवस्थापकलक्षण- संभवः । तद्भावे चानुमानस्यापि प्रामाण्यप्रसिद्धिरिति न प्रत्यक्ष पर्यनुयोगविधा- थि। नाऽप्यनुमानादिकं पर्यनुयोगकारि ।अनुमानादेः प्रमाणत्वेनानभ्युपगमात् । अथास्माभियद्यप्यनुमानादिकं न प्रमाणतयाऽभ्युपगम्यते, तथापि परेण तत्प्र- माणतयाऽभ्युपगतमिति तत्पसिद्धेन तेन परस्य पर्यनुयोगो विधीयते । ननु परस्य तत्पमाणतः प्रामाण्याभ्युपगमविषयः, अथाप्रमाणतः। यदि प्रमाणतः, तदा भव- तोऽपि प्रमाणविषयस्तत् स्यात् । नहि प्रमाणतोऽभ्युपगमः कस्यचिद्भवति, कस्य- चिन्नेति युक्तम् । अथाप्रमाणतोऽनुमानादिकं प्रमाणतयाऽभ्युपगम्यते परेण, तदाऽ- प्रमाणेन न तेन पर्यनुयोगो युक्तः । अप्रमाणस्य परलोकसाधनवत्तत्साधका- माणपर्यनुयोगेऽप्यसामर्थ्यात्। अथ तेन प्रमाणलक्षणापरिज्ञानाचत्प्रामाण्यमभ्यु- पगतमिति तत्सिद्धेनैव तेन परलोकादिसाधनाभिमतप्रमाणपर्यनुयोगः क्रियते । नन्वज्ञानात्तत्परस्य प्रमाणवेनाभिमतम् ; नचाज्ञानादन्यथालेनाभिमन्यमानं वस्तु तत्साध्यामर्थक्रियां निवर्त्तयति । अन्यथा विषलेनाज्ञैर्मन्यमानं महौषधादिक- मपि तान्मारयितुकामेन दीयमानं स्वकार्यकरणक्षमं स्यात् । अथ नास्माभिः परलोकप्रसाधकप्रमाणपर्यनुयोगोऽनुमानादिना स्वतन्त्रप्रसिद्धप्रामाण्येन, पराभ्यु- पगमावगतप्रामाण्येन वा क्रियते; किं तर्हि यदि परलोकादिकोऽतीन्द्रयोऽर्थः परेणाभ्युपगम्यते, तदा तत्पतिपादकं प्रमाणं वक्तव्यम् । प्रमाणनिबन्धना हि प्रमेयव्यवस्थितिः। तस्य च प्रमाणस्य तल्लक्षणाद्यसंभवेन तद्विषयाभिमतस्याप्य- तत्त्वबोधविधायिनी व्याख्या । १२९ . भाव इति; एवं विचारणालक्षणः पर्यनुयोगः क्रियते इति न स्वतन्त्रानुमानोप- न्यासपक्षधर्म्यसियादिलक्षणदोषावकाशो बृहस्पतिमतानुसारिणाम् । नन्वेवम- प्यनया भङ्गया भवता परलोकायतीन्द्रियार्थप्रसाधकप्रमाणपर्यनुयोगे प्रसङ्गसाध- नाख्यमनुमान, तद्विपर्ययखरूपं चस्ववाचैव प्रतिपादितं भवति । तथाहि । प्रमाण- निबन्धना प्रमेयव्यवस्थितिरिति एवंवदता प्रमेयव्यवस्था प्रमाणनिमित्व प्रति- पादिता भवति । एतच्च प्रसङ्गसाधनम् । तच्च व्याप्यव्यापकभावे सिद्धे यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः प्रदर्यत इत्येवंलक्षणम् । तेन प्रमेयव्यवस्था प्रमाणप्रवृत्त्या व्याप्ता प्रमाणतो भवता प्रदर्शनीया। अन्यथा प्रमाणप्रवृत्तिमन्तरेणापि प्रमेयव्यवस्था स्यात् । ततश्च कथं परलोकादिसाधकप्र- माणपर्यनुयोगेऽपि परलोकव्यवस्था न भवेत् ? । व्याप्यव्यापकभावग्राहकप्रमाणा- भ्युपगमे च कथं कार्यहेतोः स्वभावहेतोर्वा परलोकादिप्रसाधकत्वेन प्रवर्त्तमानस्य प्रतिक्षेपः । व्याप्तिप्रसाधकप्रमाणसद्भावेऽनुमानप्रवृत्तेरनायाससिद्धत्वात् । प्रमा- णाभावे तन्निबन्धनायाः प्रमेयव्यवस्थाया अप्यभाव इति प्रसङ्गविपर्ययः । सच व्यापकाभावे व्याप्यस्याप्यभाव इति एवंभूतव्यापकानुपलब्धिसमुद्भूतानुमा- नस्वरूपम् । एतदपि प्रसङ्गविपर्ययरूपमनुमानं प्रमाणतो व्याप्यव्यापकसिद्धी प्रवर्तत इति व्याप्तिप्रसाधकस्य प्रमाणस्य तत्प्रसादलभ्यस्य चानुमानस्य प्रामाण्ये स्त्रवाचैव भवता दत्तः स्वहस्त इति नानुमानादिप्रामाण्यप्रतिपादनेऽस्माभिःप्रय- स्यते । अतो यदुक्तम् ; सर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेरिति । तदभिधे- यशून्यमिव लक्ष्यते। उक्तन्यायात् । यत्तूक्तम्, प्रत्यक्षं सन्निहितविषयत्वेन च- क्षुरादिप्रभवं परलोकादिग्राहकत्वेन न प्रवर्त्तते । तत्र सिद्धसाधनम् । यत्रोक्तम् । नाप्यतीन्द्रियं योगिप्रत्यक्षं, परलोकवत्तस्यासिद्धेरिति । तद्विस्मरणशीलस्य भवतो वचनम् । अतीन्द्रियार्थप्रवृत्तिप्रवणस्य योगिप्रत्यक्षस्यानन्तरमेव प्रतिपादितत्वात् । यत्पुनरिदमुच्यते । नापि प्रत्यक्षपूर्वकमनुमानं तदभावे प्रवर्तते । तदसङ्गतम् । प्रत्यक्षेण हि संबन्धग्रहणपूर्व परोक्षे पावकादौ यथाऽनुमान प्रवर्त्तमानमुपलभ्यते, स एव न्यायः परलोकसाधनेऽप्यनुमानस्य किमित्यदृष्टो दृष्टो वा। तथाहि । यत् कार्य तत् कार्यान्तरोद्भूतम्, यथा पटादिलक्षणं कार्यम् ; कार्य चेदं जन्म इति सम्मतिताख्यप्रकरणस्य- भवत्यतो हेतोः परलोकसिद्धिः। तथाहि- “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥ १ ॥ इति न तावत् कार्यत्वमिहजन्मनो न सिद्धम्। अकार्यत्वे हेतुनिरपेक्षस्य नित्यं सत्त्वासत्त्वप्रसङ्गात् । अथ स्वभावत एव कादाचित्कवं पदार्थानां भविष्यति। नहि कार्यस्य कारणभावपूर्वकलं प्रत्यक्षत उपलब्धम् , येन तदभावान्निवर्तेत; प्रत्यक्षतः कार्यकारणभावस्यैवासिद्धेः। यद्येवं, बाह्येनाप्यर्थेन सह कार्यकारणभावस्यासिद्धेः, स्वसंवेदनमात्रत्वे सत्यद्वैत; विचारतस्तस्याप्यभावे सर्वशून्यत्वमिति सकलव्यव- हारोच्छेदप्रसक्तिः । तस्माद्यथा प्रत्यक्षेण बाह्यार्थप्रतिबद्धत्वमात्मनः प्रतीयते; अन्यथेहलोकस्याप्यप्रसिद्धेः; प्रत्यक्षतः तज्जन्यस्वभावत्वानवगमे तस्य तद्ग्रा- हकत्वासंभवात; तथा चेहलोकसाधनार्थमङ्गीकर्तव्यं प्रत्यक्षं स्वार्थेनात्मनःप्रति- बन्धसाधकं तथा परलोकसाधनार्थमपि तदेव साधनमिति सिद्धः परलोकोऽनु- मानतः । यथा च बाह्यार्थप्रतिबद्धलं प्रत्यक्षस्य कादाचित्कत्वेन साध्यते, धूम. स्यापि वह्निपतिबद्वत्वं; तथेहजन्मनोऽपि कादाचित्कत्वेन जन्मान्तरप्रतिबद्धत्व- मपि । ततोऽनलबाह्यार्थवत्परलोकेऽपि सिद्धमनुमानम् । अथेहजन्मादिभूतमा- तापितृसामग्रीमात्रादप्युत्पत्तेः कादाचित्कत्वं युक्तमेवेहजन्मनः । नन्वेवं शसमनन्तरप्रत्ययमात्रसामग्रीविशेषादेव धूमप्रत्यक्षसंवेदनयोः कादाचित्कत्वमिति न सिधति वहिबाह्यार्थप्रतीतिरिति सकलव्यवहाराभावः । अथाकारविशेषादेवान- न्यथात्वसंभविनोऽनलबाह्यार्थसिद्धिः तर्हि इहजन्मनोऽपि प्रज्ञामेधाद्याकारविशेषत एव मातापितृव्यतिरिक्तनिजजन्मान्तरसिद्धिः। तथा । यथाऽऽकारविशेष एवायं तैमि- रिकादिज्ञानव्यावृत्तःप्रत्यक्षस्य बाह्यार्थमन्तरेण नभवतीति निश्चीयते; अन्यथा बाह्या- सिद्धबौद्धाभिमतसंवेदनाद्वैतमेवेति पुनरपि व्यवहाराभावः, तथेहजन्मादिभूत- प्रज्ञाविशेषादिजन्मविशेषाकारो निजजन्मान्तरप्रतिबद्ध इति निश्चीयतामनुमानतः। अथ प्रत्यक्षमेव सविकल्पकं परमार्थतः प्रतिपत्तुः "ततः परं पुनर्वस्तुधर्मैः" इत्यादि मीमांसकादिप्रसिद्ध साधकं वहिबाह्यार्थपूर्वकत्वस्य धूमजासत्पुरोवृत्तिस्तम्भादिप्रत्य:
तत्त्वबोधविधायिनी व्याख्या । यस्यात्राभ्युपगमे, परलोकवादिनः स्वपक्षमनायाससिद्धमेव मन्यन्ते।नहि दृष्टेऽ- नुपपन्नमिति न्यायात्। यथैव हि निश्चयरूपा मातृपितृजन्मप्रतिबद्धत्वसिद्धिः, तथै- चेहजन्मसंस्कारव्यावृत्तादिजन्मप्रज्ञाद्याकारविशेपानिजजन्मान्तरप्रतिबद्धत्वसिद्धि- रपि प्रत्यक्षनिश्चिता स्यादिति न परलोकक्षतिः । नच निश्चयप्रत्ययोऽनभ्यास- दशायामनुमानतामतिकामति; पूर्वरूपसाधर्म्यात्तत्तथाप्रसाधितां नानुमेयतामति- पततीति न्यायात्, अन्वयव्यतिरेकपक्षधर्मताऽनुसरणस्यानभ्यासदशायामुपलव्धेः। अभ्यासदशायां च पक्षधर्मवाद्यनुसरणस्यान्यत्राप्यसंवेदनात्, सिद्धमनुमानप्रती- तवं परलोकस्य । अथेतरेतराश्रयदोपादनुमानं नास्त्येवैवंविधे विषय इत्युच्येत । नन्येवं सति सर्वभेदाभावतो व्यवहाराच्छेद इति तदुच्छेदमनभ्युपगच्छता व्यव- हारार्थिनाऽवश्यमनुमानमभ्युपगन्तव्यम् । एतेन प्रत्यक्षपूर्वकलाभावेऽप्यनुमानस्य प्रामाण्यं प्रतिपादितम् । नचानुमानपूर्वकलेऽपीतरेतराश्रयदोषानुपङ्गः । तस्यैवेतरे- तराश्रयदोपस्य व्यवहारमवृत्तितो निराकरणात् । यदप्युक्तम् ; अनुमानपूर्वकत्वेऽ- नवस्थाप्रसङ्गान्नानुमानप्रवृत्तिरिति। तदप्यसङ्गतम्। एवं हि सतिप्रत्यक्षगृहीतेऽप्यर्थे विप्रतिपत्तिविषये नानुमानप्रवृत्तिमन्तरेण तन्निरास इति वाह्येऽर्थे प्रत्यक्षस्याव्या- पारात्पुनरप्यद्वैतापचेः, शून्यतापत्तेर्वा व्यवहारोच्छेद इति व्यवहारवलात् सैवा- नवस्था परिहियत इत्यभ्युपगमवादेन चैतदुक्तम् । अन्यथा वाह्यार्थव्यवस्थापनाय प्रत्यक्ष प्रवर्तते; तथा प्रदर्शितहेतााप्तिप्रसाधनार्थ केपांचिन्मतेन निर्विकल्पम् ; अन्येषां तु सबिकल्पकं चक्षुरादिकरणव्यापारजन्यम् ; अपरेषां मानस; केषाञ्चि- घ्यावृत्तिग्रहणोपयोगि ज्ञानम्; अन्येषां प्रत्यक्षानुपलम्भवलोद्भूतालिङ्गजोहाख्यं परोक्षंप्रमाणं तत्र व्याप्रियत इति कथमनुमानेन प्रतिबन्धग्रहणेऽनवस्थेतरेतराश्र- यदोषप्रसक्तिः परलोकवादिनः प्रति भवता प्रेर्येत । यदप्युक्तम् ; सर्वमप्यनुमान- मस्मान्प्रति प्रमाणत्वेनासिद्धमित्यादि। तदप्यसङ्गतम् । यतः किमनुमानमात्रस्या- प्रामाण्यं भवता प्रतिपादयितुमभिप्रेतम् , अनुमानमप्रमाणमित्यादिग्रन्थेन; अथ तान्त्रिकलक्षणक्षेपोऽतीन्द्रियार्थानुमानप्रतिक्षेपो वा । न ताबदनुमानमात्रप्रति- षेधो युक्तः। लोकव्यवहारोच्छेदप्रसङ्गात् । यतः प्रतियन्ति कोविदाः कस्यचिदर्थस्य दर्शने नियमतः किश्चिदर्थान्तरं, न तु सर्वस्मात्सर्वस्यावगमः ।
सम्मतितळख्यप्रकरणस्य- १३२ उक्तं चान्येन- "स्वगृहानिर्गतो भूयो न तदाऽऽगन्तुमर्हति"। अतः किञ्चिद् दृष्ट्वा कस्यचिदवगमे निमित्तं कल्पनीयम् । तच्च नियत- साहचर्यमविनाभावशब्दवाच्यं नैयायिकादिभिः परिकल्पितम्। तदवगमश्च प्रत्य- क्षानुपलम्भसहायमानसप्रत्यक्षतः प्रतीयते।सामान्यद्वारेण प्रतिबन्धावगमाद्देशा- दिव्यभिचारो न बाधकः । नापि व्यक्क्यानन्त्यम् । उभयत्रापि सामान्यस्यैकत्वात् । सामान्याकृष्टाशेषव्यक्तिप्रतिभानंच मानसे प्रत्यक्षे; यथा शतसङ्ख्याऽवच्छेदेन शतमितिप्रत्यये विशेषणाकृष्टानां पूर्वगृहीतानां शतसङ्ख्याविषयपदार्थानाम् । तथाहि । एते शतमिति प्रत्ययो भवत्येव । सामान्यस्य च सत्त्वमनुगताबाधितप्रत्यय- विषयत्वेन व्यवस्थापितम्, तदेवं नियतसाहचर्यमर्थमर्थान्तरं प्रतिपादयदुपलब्धं सत्प्रतिपादयति।उपलम्भश्वावश्यं क्वचित् स्थितस्य, सैव पक्षधर्मता।ततः सम्बन्धा- नुस्मृतौ ततः साध्यावगमः। यस्तु प्रतिबन्धं नोपैति, तस्यापि कथं न सर्वस्मात् सर्वप्रतिपत्तिः। अभ्युपगमे चाप्रतिपन्नेऽपि संबन्धे प्रतिपत्तिप्रसङ्गः। प्रमातृसंस्का- रकारकाणां पूर्वदर्शनानामभावादित्यनुत्तरम् । संवन्धाप्रतिपत्तौ प्रमातृसंस्कारानुप- पत्तेः । दर्शनजः संस्कारोऽप्यनभिव्यक्तः सन्चामात्रेण न प्रतिपत्त्युपयोगी । नच स्मृतिमन्तरेण तत्सद्भावोऽपि । न चानुभवप्रध्वंसनिबन्धना स्मृतिः। क्वचिद्विषये संस्कारमन्तरेण तदनुपपत्तेः । प्रध्वंसस्य च निर्हेतुकतासंभवात् । यत्राप्यन्यस्ते विषये वस्त्वन्तरदर्शनादव्यवधानेन वस्त्वन्तरप्रतिपत्तिः, तत्रापि प्राक्तनक्रमाश्र- यणेन वस्त्वन्तरावगमः । इयांस्तु विशेषः । एकत्रानभ्यस्तत्वादन्तराले स्मृति- संवेदमम् ; अन्यत्राभ्यासाद्विद्यमानाया अप्यसंवित्तिः । केचित्तु योगिप्रत्यक्षं संबन्धग्राहकमाहुः । व्याप्तेः सकलाक्षेपणावगमात् । तथाच यत्रयोति देश- कालविक्षिप्तानां व्यक्तीनामनवमासेऽनुपपत्तिः । अत एकत्र क्षणे योगिवं प्रति- बन्धग्राहिणः; एतत्पूर्वस्मादविशिष्टम्, तल्लोके अर्थान्तरदर्शनात् । अर्थान्तरसु- दृढप्रतीतौ तार्किकाणांनिमित्तचिन्तायां पक्षधर्मत्वाद्यभिधानम् ; अतो न तान्त्रिक- लक्षणप्रतिक्षेपोऽपि । उत्पन्नप्रतीतीनामस्तु प्रामाण्यम्। उत्पाद्यप्रतीतीनां तु अती- न्द्रियादृष्टपरलोकसर्वज्ञाद्यनुमानानां प्रतिक्षेप इति चेत् । तदसत् । यद्यनवगत- तत्वबोधविधायिनी व्याख्या । १३३ संवन्धान प्रतिपत्तॄनधिकृत्यैतदुच्यते, तदा धूमादिष्वपि तुल्यम् । अथ गृहीतावि- नाभावानामप्यतीन्द्रियपरलोकादिप्रतिभासानुत्पत्तेरेवमुच्यते । तदसत् । ये हि कार्यविशेषस्य तद्विशेषेण गृहीताविनाभावास्ते तस्मात्परलोकाधवगच्छन्त्येव । अतो न ज्ञायते केन विशेषेणातीन्द्रियार्थानुमानप्रतिक्षेपः । साहचर्याविशेषेऽपि व्याप्य- गता नियतता प्रयोजिका,न व्यापकगता। अतः समव्याप्तिकानामपि व्याप्यमुखे- नैव प्रतिपत्तिः। नियतताऽवगमे चार्थान्तरप्रतिपचौ न बाधा; न प्रतिबन्धः । एकस्य रूपभेदानुपपत्तेः ततो न विशेपविरुद्धसंभवः, नापि विरुद्धाव्यभिचारिण इति । यदुक्तम् । विरुद्वानुमानविरोधयोः सर्वत्र संभवात्, कचिच्च विरुद्धाव्यभिचारिण इति। एतदप्यपास्तम्। अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात् ।अवस्थादेशका- लादिभेदादित्यादेव पूर्वनीत्याऽनुमानप्रमाणत्वेऽनुपपत्तिः । परोक्षस्यार्थस्य सामा- न्याकारेणान्यतः प्रतिपत्ता लोकप्रतीतायां बौद्धैस्तु कार्यकारणभावादिलक्षणः प्रति- बन्धस्तन्निमित्तत्वेन कल्पितः । तदुक्तम्- "कार्यकारणभावाहा स्वभावाहा नियामकात । अविनाभावनियमो दर्शनान्न न दर्शनात्" ॥१॥ इत्यादि । तथा- "अवश्यंभावनियमः कः परस्यान्यथा परैः । अर्थान्तरनिमित्तो वा धर्मो वाससि रागवत्" ॥१॥ इति च । तथाहि । कचित्पर्वतादिदेशे धूम उपलभ्यमानो यद्यग्निमन्तरेणैव स्यात् तदा पावकधर्मानुवृत्तितस्तस्य तत्कार्यत्वं यनिश्चितं विशिष्टप्रत्यक्षानुपलम्भाभ्यां तदेव न स्यादित्यहेतोस्तस्यासत्त्वात् क्वचिदप्युपलम्भो न स्यात्; सर्वदा सर्वत्र सर्वाकारेण वोपलम्भः स्यात् । अहेतोः सर्वदा सत्त्वात् । खभावश्च यदि भावव्यतिरेकेण स्यात्, ततो भावस्य निःस्वभावत्वापत्तेः स्वभावस्याप्यभावाप- चिः। तत्प्रतिबन्धसाधकं च प्रमाण कार्यहेतोर्विशिष्टप्रत्यक्षानुपलम्भशब्दवाच्यं प्रत्यक्षमेव, सर्वज्ञसाधकहेतुप्रतिबन्धनिश्चयप्रस्तावे प्रदर्शितम् । स्वभावहेतोस्तु कस्यचिद्विपर्यये बाधकं प्रमाणं व्यापकानुपलब्धिस्वरूपं, कस्यचित्तु विशिष्टं १३४ सम्मतिताख्यमकरणस्य- प्रत्यक्षमभ्युपगतम् । सर्वथा सामान्यद्वारेण व्यक्तीनामतद्रूपपरावृत्तव्यक्तिरूपेण वा तासां प्रतिबन्धोऽभ्युपगन्तव्यः । अन्यथाऽप्रतिबद्धादन्यतोऽन्यप्रतिपत्तावति- प्रसङ्गात् । प्रतिबन्धप्रसाधकं च प्रमाणमवश्यमभ्युपगमनीयम् । अन्यथाऽग- हीतप्रतिबन्धत्वादन्यतोऽन्यप्रतिपत्तावपि प्रसङ्गस्तदवस्थ एव। यत्र गृहीतप्रतिबन्धो ऽसावर्थ उपलभ्यमानः साध्यसिद्धिं विदधाति, तद्धर्मता तस्य पक्षधर्मत्वस्वरूपा, तद्ग्राहकं च प्रमाणं प्रत्यक्षमनुमानं वा । तदुक्तं धर्मकीर्तिना । “पक्षधर्मता- निश्चयः प्रत्यक्षतोऽनुमानतो वा” अतो लोकप्रसिद्धतान्त्रिकलक्षणलक्षितानुमा- नयोर्भेदाभावादतीन्द्रियपरलोकाद्यर्थसाधकत्वमपि तस्यैवेति तत्प्रामाण्यानभ्यु- पगमे इहलोकस्यापि अभ्युपगमाभावप्रसङ्गः । नच किमत्र निर्विकल्पकं मानसं योगिप्रत्यक्षमूहो वा प्रतिबन्धनिश्वायकम् , प्रतिबन्धोऽपि नियतसाहचर्यलक्षणः, कार्यकारणभावादिति चिन्ताऽत्रोपयोगिनी । धूमादग्निप्रतिपत्तिवत् प्रज्ञामे- धादिविज्ञानकार्यविशेषान्निजजन्मान्तरविज्ञानखभावपरलोकप्रतिपत्तिसिद्धेः । अ- तोऽनुमानाप्रामाण्यप्रतिपादनाय पूर्वपक्षवादिना यथुक्तिजालमुपन्यस्तं, तन्निरस्तं द्रष्टव्यम् । प्रतिपदमुच्चार्य न दूष्यते, ग्रन्थगौरवभयात् । यदप्युक्तम् । परलोके प्रत्यक्षस्याप्रवृत्तेरापत्तिरेवेयमिहजन्मान्यथाऽनुपपत्त्या परलोकसद्भाव इति । तदपि न सम्यक् । पूर्वानुसारेण सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वप्रतिपा- दनात्।अविनाभावसंबन्धस्य ग्रहीतुमशक्यवान्नानानुमानमिति चेत्, नन्वेवं तदे- वाद्वैतं शून्यलं वा कस्य केन दोषाभिधानम्। तस्मात् संव्यवहारकारिणा प्रत्यक्षेणो- हेन वा प्रतिबन्धसिद्धिरिति कथं नानुमानात्परलोकसिद्धिः । यदप्युक्तम् । माता- पितृसामग्रीमात्रेणेहजन्मसंभवान्न तज्जन्मव्यतिरिक्तभूतपरलोकसाधनं युक्त मिति । तदपि प्रतिविहितमेव । समनन्तरप्रत्यक्षस्य भावात् । स्वप्नादिप्रत्ययवन्न प्रत्यक्षाद् बाह्यार्थसिद्धिरपीति बौद्धाभिमतपक्षसिद्धिप्रसङ्गः । अतस्तत्त्वात् । यदपि प्रतिपादितम् ; सन्निहितमात्रविषयत्वात् प्रत्यक्षस्य देशकालव्याप्त्या प्रतिबन्धग्रह- णासामर्थ्यमिति । तदपि न किञ्चित् । एवं सति अतिसन्निहितविषयलेन प्रत्यक्षस्य खरूपमात्र एव प्रवृत्तिप्रसङ्ग इति तदेव बौद्धाद्यभिमतं स्वसंवेदनमात्रं सर्वव्यव- हारोच्छेदकारि प्रसक्तमिति प्रतिपादितत्वात् । तस्माल्लोकव्यवहारप्रवनक्षमसविक- तत्वबोधविधायिनी व्याख्या। स्पकप्रत्यक्षवलादूहाख्यप्रमाणादा देशकालव्याप्त्या यथोक्तलक्षणस्य हेतोः प्रति- बन्धग्रहणे प्रवृत्तिरनुमानस्येति न व्याहतिः प्रकृतस्येति । एतदपि निरस्तम् ; के चित्यज्ञादय इति इत्यादि। नच प्रज्ञामेधादयः शरीरस्वभावान्तर्गता इत्यादि चोचं युक्तम् । तदन्तर्गतत्वेऽपि परिहारसंभवादन्वयव्यतिरेकाभ्यां तेषां मातापित्रोः पितृशरीरजन्यत्वस्य पितृशरीरं तर्हि हेतुभेदान्न भेदो मातापितृशरीरादपत्यप्रज्ञा- दीनाम् । अयमपरो वृहस्पतिमतानुसारिण एव दोषोऽस्तु, यः कार्यभेदेऽपि कारणभेदं नेच्छति । अस्माकं तु हर्षविपादाद्यनेकविरुद्धधर्माकान्तस्य विज्ञानस्यान्तर्मुखाकार- तया वेद्यस्य रूपरसगन्धस्पर्शादियुगपहाविबालकुमारयविनवृद्धावस्थाद्यनेकक्रम- भाविविरुद्धधर्माध्यासिततच्छरीरादेर्बाह्येन्द्रियप्रभवविज्ञानसमधिगम्याझेदः सिद्ध- एव । विरुद्धधर्माध्यासः, कारणभेदश्च पदार्थानां भेदकः । स च जलानलयोरिव शरी- रविज्ञानयोर्विद्यत एवेति कथं न तयोर्मेदः । तद्भेदादप्यभेदे ब्रह्माद्वैतवादापत्ते- स्तवस्थ एव पृथिव्यादितत्त्वचतुष्टयाभावापत्त्या व्यवहारोच्छेदः । अथ वा माता- पितृपूर्वजन्मैकसामग्रीजन्यमेतत् कार्यम् । एतत् न दोपोऽव्यतिरिक्तपक्षेऽपि विज्ञा- नशरीरयो । पूर्वमप्युक्तं विलक्षणादप्यन्वयव्यतिरेकाभ्यां मातापितृशरीराविज्ञानमु- पजायताम् ; नहि कारणाकारमेव सकलं कार्यमिति । तदप्यसत् । यतो नहि कारण- विलक्षणं कार्य न भवतीत्युच्यते, अपि तु तदन्वयव्यतिरेकानुविधानात्तत्कार्यत्वम्। तथाहि । यद्यद्विकारान्वयव्यतिरेकानुविधायि तत्तत्कार्यमिति व्यवस्थाप्यते । यथा- गुरुकर्पूरोणादिदाह्यदाहकपावकगतसुरभिगन्धाद्यन्वयव्यतिरेकानुविधायी धूमस्त- कार्यतया व्यवस्थितः । एकसन्तत्यनुपतितशास्त्रसंस्कारादिसंस्कृतप्राक्तनविज्ञा- नधर्मान्धयव्यतिरेकानुविधायि च प्रज्ञामेधाद्युत्तरविज्ञानमिति कथं न तत्कार्यम- भ्युपगम्यते । तदनभ्युपगमे धूमादेरपि प्रसिद्धवयादिकार्यस्य तत्कार्यत्वाप्रसि- डिरिति पुनरपि सकलव्यवहारोच्छेदः । "तस्माद्यस्यैव संस्कार नियमेनानुवर्त्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥ १॥ प्रतिपादितश्च प्रमाणतः प्रतिनियतः कार्यकारणभावः सर्वज्ञसाधने कुस- मयविसासणमितिपदव्याख्या कुर्वहिन पुनरिहोच्यते । योऽपि शालूकदृष्टान्तेन सम्मतितकाख्यप्रकरणस्य- - व्यभिचारः । यथा गोमयादपि शालूकः, कश्चित् समानजातीयादपि शालूका- देव; तथा केचित् प्रज्ञामेधादयस्तदभ्यासात; केचित् तु रसायनोपयोगात्; अपरे मातापितृशुक्रशोणितविशेषादेवेति । सोऽपि न सम्यग् । तत्रापि समानजाती- यपूर्वाभ्याससंभवात् । अन्यथा समानेऽपि रसायनायुपयोगे यमलकयोः कस्य- चित् क्वापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात् । रसायनाद्युपयोगस्य सा- धारणत्वादिति। नच प्रज्ञादीनां जन्मादी, रसायनाभ्यासे च विशेषः । शालूकगो- मयजन्यस्य तु शालूकादेस्तदन्यस्माहिशेषो दृश्यते, कचिजातिस्मरणं च दर्शन- मिति न युक्ता दृष्टकारणादेव मातापितृशरीरात् प्रज्ञामेधादिकार्यविशेपोत्पत्तिः । नच गोमयशालुकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्यात्यन्तवैलक्षण्यम् । रूपर- सगन्धस्पर्शवत्पुद्गलपरिणामत्वेन इयोरपि अवलक्षण्यात्। विज्ञानशरीरयोश्चान्तर्व- हिर्मुखाकारविज्ञानग्राह्यतया खपरसंवेद्यतया स्वसंवेदनबाह्यकरणादिजन्यप्रत्ययानु- भूयमानतया च परस्पराननुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यस्य प्रति- पादितत्वात्, नोपादानोपादेयभावो युक्तः । शरीरवृद्धादेश्चैतन्यवृयादिलक्षण उपादानोपादेयभावधर्मोपलम्भः प्रतिपाद्यते। असौ महाकायस्यापि मातङ्गाजगरादे- चैतन्याल्पत्वेन व्यभिचारीति न तद्भावसाधकः। यस्तु शरीरविकाराच्चैतन्यविका- रोपलम्भलक्षणस्तद्धर्मभावः प्रतिपाद्यतेऽसावपि सात्त्विकसत्त्वानामन्यगतचिचानां वा छेदादिलक्षणशरीरविकारसद्भावेऽपि तच्चित्तविकारानुपलब्धेरसिद्धः । दृश्यते च सहकारिविशेषादपि जलभूम्यादिलक्षणाद् चीजोपादानस्याङ्कुरादेविशेष इति सहकारिकारणत्वेऽपि शरीरादेविशिष्टाहाराद्युपयोगादौ, यौवनावस्थायांवा शास्त्रादि- संस्कारोपात्तविशेषपूर्वज्ञानोपादानस्य विज्ञानस्य विवृद्धिलक्षणो विशेषो नासंभवी। यदप्युक्तम् । अनादिमातापितृपरम्परायां तथाभूतस्यापि बोधस्य व्यवहितमाता- पितृगतस्य सद्भावात् ततो वासनाप्रबोधेन युक्त एव प्रज्ञामेधादिविशेषस्य संभव इति । तदप्ययुक्तम् । अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसंभवात्। ततश्चक्षुरादिकरणजनितस्य खरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ मयैवोपलब्धमेतदिति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि । स्यात् । नच मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित्प्रत्यभिज्ञानमुपलभ्यते।।
तत्त्वबोधविधायिनी व्याख्या। २३७ अनेनैकस्माद् ब्रह्मणः प्रजोत्पत्तिः प्रत्युक्ता । एकप्रभवत्वे हि सर्वप्राणिनां परस्परं प्रत्यभिज्ञाप्रसङ्गः; एकसन्तानोडूतदर्शनस्पर्शनप्रत्यययोरिख । यत्तूक्तम् । मात्मनोऽदृष्टर्नात्मानमाश्रित्य परलोक इति । तद्युक्तम् । तददृष्ट्यसिद्धेः । सथाहि । देहेन्द्रियविषयादिव्यतिरिक्तोऽहंप्रत्ययप्रत्यक्षोपलभ्य एवात्मा । न च चक्षुरादेः करणग्रामस्यातीन्द्रियात्मविषयत्वेन ज्ञानजननाव्यापारात्, कथंतजन्य- प्रत्यक्षज्ञानविषय इति वक्तुं युक्तम् । स्वसंवेदनप्रत्यक्षग्राह्यत्वाभ्युपगमात् । तथाहि । उपसंहृतसकलेन्द्रियव्यापारस्यान्धकारस्थितस्य चाहमितिज्ञानं सर्वप्रा- णिनामुपजायमानं स्वसंविदितमनुभूयते, तत्र च शरीराधनवभासेऽपि तयति- रिक्तमात्मस्वरूपं प्रतिभाति। नचैतज्ज्ञानमनुभूयमानमप्यपह्नोतुं शक्यम् । अनु- भूयमानस्याप्यपलापे सर्वापलापप्रसङ्गात् । नाप्येतन्नोत्पद्यते । कादाचित्कत्व- विरोधात् । नापि बाह्येन्द्रियव्यापारप्रभवम् । तद्यापाराभावेऽप्युपजायमानत्वात् । नापि शब्दलिङ्गादिनिमित्तोडूतम् । तदभावेऽप्युत्पत्तिदर्शनात् । नचेदं बाध्यत्वे- नाप्रमाणम् । तत्र बाधकसद्भावस्यासिद्धेः। नचेदं सविकल्पकलेनाप्रमाणम् । सविकल्पकस्यापि ज्ञानस्य प्रमाणवेन प्रतिपादयिष्यमाणलात् । कदाचिच्च बाहोन्द्रियव्यापारकालेऽपि यदा घटमहं जानामीत्येवं विषयमवगच्छति, तदा खा- मानमपि । तथाहि । तत्र यथा विषयस्यावभासः कर्मतया, तथाऽऽत्मनोऽप्यवभासः कर्तृतया । नच शरीरादीनां ज्ञातृता। यथा हि शरीरायतिरिक्ता घटादयः प्रतीति- कर्मतया प्रतिभान्ति मम घटादयोऽहं घटादीनां ज्ञाता; एवं मम शरीरादयोऽहं शरीरादीनां ज्ञातेति। एवं च प्रतीतिकर्मवेन घटादिभिस्तुल्यत्वान्न शरीरादिसंघातस्य ज्ञातृता । नच ज्ञानप्रतिभासः । तदप्रतिभासे हि ममैते भावाः प्रतिभान्ति, नान्यस्येत्येवं प्रतिभासो न स्यात् । तदवभासापह्नवे च घटादेरपि कथं प्रतीतिः। इयोस्तु विशेषः । एकस्य प्रतीतिकर्मताऽपरस्य तत्प्रतीतिकर्तृता, नत्वनवभासः । अतो लिङ्गाद्यनपेक्ष आत्माऽवभासोऽप्यस्तीति कथं तस्यादृष्टिः। नचास्य प्रत्ययस्य बाधारहितस्यापूर्वार्थविषयस्याक्षजविषयावभासकस्येवासन्दिग्धरूपस्य निश्चित- रूपत्वेन प्रतिभासमानस्य स्मृतिरूपताऽप्रामाण्यं वा प्रतिपादयितुं युक्तम् । अतो- ऽस्यामपि प्रतीताववभासमानस्यापरोक्षतैव युक्ता, न प्रमाणान्तरगम्यता। यदप्य- १३८ - सम्मतितकाख्यप्रकरणस्य- बाहुः । अस्त्ययमवभासः, किन्त्वस्य प्रत्यक्षता चिन्त्या। प्रत्यक्षं हीन्द्रियव्यापारज ज्ञानम् । तथाचोकं भवद्भिः। "इन्द्रियाणां सत्संप्रयोगे बुद्धिजन्म प्रत्यक्षम्,” प्रत्य- क्षविषयलात्तदर्थस्य प्रत्यक्षता, नतु साक्षादनिन्द्रियजलेन । तत्र घटादेर्बाह्यन्द्रि- यज्ञानविषयत्वेन सर्वलोकप्रतीताऽध्यक्षता, नत्वेवमात्मनः। अथैवमुच्येत।नात्मनो घटादितुल्या प्रत्यक्षता । घटादेहि इन्द्रियजज्ञानविषयलेन सा व्यवस्थाप्यते, नखात्मा कस्यचित्प्रमाणस्य विषयः । कथं तर्हि प्रत्यक्षः। न ज्ञानविषयत्वात्प्र- त्यक्षः, अपि त्वपरोक्षत्वेन प्रतिभासनात्प्रत्यक्ष उच्यते। तच्च केवलस्य, घटादिप्रती- त्यन्तर्गतस्य वाऽपरसाधनं प्राक् प्रतिपादितम् । एतदप्यसत् । यतः अपरसा- धनमिति कोऽर्थः । किं चिद्रूपस्य सत्ता, आहोखित् खप्रतीतौ व्यापारः । यदि चिद्रूपस्य सत्वात्मप्रकाशनमुच्यते, तदा दृष्टान्तो वक्तव्यः । नचात्राशङ्कनी- यम् ; अपरोक्षे दृष्टान्तान्वेषणं न कर्त्तव्यम् । यतस्तथाविधे विवादविषये सुप्रसिद्ध दृष्टान्तान्वेषणं दृश्यते । न च दीपादिदृष्टान्तः । तत्र हि सजातीयालोकानपे- क्षत्वेन खपतीतौ प्रकाशकत्वं व्यवस्थापितं कैश्चित्, न विन्द्रियाग्राह्यत्वम् । तदग्राह्यले सुप्रकाशाः प्रदीपादय इति चक्षुष्मतामिवान्धानामपि तत्प्रतीति- प्रसङ्गः, तस्मान्न स्वप्रकाशाः प्रदीपादयः। यत्त्वालोकान्तरनिरपेक्षवम् ; तत्कस्य- चिहिषयस्य काचित्सामग्री प्रकाशिकेति नैकत्र दृष्टलेनान्यत्रापि प्रसक्तिचोद्यते। अथ द्वितीयः पक्षः । सोऽप्ययुक्तः। अदर्शनादेव । नहि कश्चित्पदार्थः कर्तृ- रूपः, करणरूपो वा खात्मनि, कर्मणीव सव्यापारो दृष्टः। कथं तर्वानुमेयत्वेऽप्या- त्मप्रतीतिः । प्रमानन्तराभावात् । एकस्यैव लिङ्गादिकरणमपेक्षाऽवस्थाभेदेन भेदे सत्यदोषः । किंच। प्रमाणाविषयत्वेऽप्यपरोक्षतेत्यस्य भाषितस्य कोऽर्थः । ज्ञात- तया स्वरूपेणावभासनमिति चेत्, घटादयोऽपि किं पररूपतया प्रतीतिविषयाः। अतो यद् यस्य रूपं तत्प्रमाणविषयत्वेऽपि अवसीयते इति न ज्ञानाविषयता प्रमातुः । तथाहि । तस्य ज्ञातृता, प्रमातृताऽऽत्मखरूपता, घटादेः प्रमेयता, ज्ञेयता, घटादिरूपता। अतो यथा तस्य स्वरूपेणावभासनान्न प्रत्यक्षता, तद्वदात्म- नोऽपि अभ्युपगमनीयं चैतत् । अन्यथाऽऽत्मादिखसंवेदनस्य प्रत्यक्षस्यापि प्रत्यक्षा- दिलक्षणव्यतिरिक्तं लक्षणान्तरं वक्तव्यम् । तथाच प्रमाणेयत्ताव्याघांतः । केन- तत्त्ववोधविधायिनी व्याख्या । १३९ चित्मसक्षादिलक्षणेनात्मादिविषयस्य स्वसंवेदनस्यासंग्रहात् । इतोऽप्युक्तं, प्रमा- तृवत्फलेऽपि संवेदनाम्युपगमप्रसङ्गात्। तथाऽभ्युपगमाददोप इति चेत्। तथा चोक्त- म्। 'संवित्तिः संवित्तितयैव संवेद्या, न संवेद्यतया'इति । एतत्प्राक् प्रतिक्षिप्तम् । न स्वरूपावभासे प्रमाणाविषयता। किंच । एवं कल्प्यमाने बोधद्वयमान्तरं, स्वसंविद्रूपं च कल्पितं स्यात् । तथाचायुक्तम् । एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनया। अथोच्येत, कल्पना ह्यनवभासमानस्य; बोधद्वये तु घटादिवदवभासोऽस्तीति न कल्पना । यदीदृशाः प्रतिभासाः प्रमाणवेन व्यवस्थाप्यन्ते, तदा घटमहं चक्षुषा पश्यामीति करणप्रतीतिरपि प्रमातृफलप्रतीतिवत्कल्पनीया। याऽपि कश्चित्कर- णप्रतीतिः प्रत्यक्षत्वेनोक्ता, साऽपि नातीव संगच्छते । तथाहि । घटमहं चक्षुषा पश्यामीत्यस्यामवगतौ किं गोलकस्य चक्षुष्ट्वम्, आहोस्थित् तद्व्यतिरिक्तस्य । गोलकस्य चक्षुष्टे, न कश्चिदन्धः स्यात् । तद्व्यतिरिक्तस्य च रश्मेरनभ्युपगमः । अभ्युपगमे वा न प्रतीतिविषयः; केवलं शब्दमात्रमुच्चारयति घटप्रतीतिकाले । एवं च प्रमातृफलविषयं शब्दोच्चारणमात्रमवसीयते । नच तयोः प्रतीतिगोचरता, करणस्येव । तथाहि । इन्द्रियव्यापारे सति शरीरायवच्छिन्नस्य विषयस्यैव के- वलस्यावभासनमिति न्यायविदः प्रतिपन्नाः, किं तस्यावभासनमिति पर्यनुयोगे मूकखं परिहारमाहुः । व्यपदेष्टुमशक्यत्वात् । अतः प्रमात्रवभासानुपपत्तिः । नन्वहमिति प्रत्ययः सर्वलोकसाक्षिको नैवापह्रोतुं शक्यः । अनपहवे सविषयो निर्विपयो वा । निर्विषयता प्रत्ययानामबाधितरूपाणां कथम् ? । सविषयलेऽपि प्रमात्रप्रतिभासे किंविषयोऽयं प्रत्ययः ? । न प्रत्ययापह्नवः; नचास्य निर्विषयता; किन्तु देहादिन्यतिरिक्तो विषयत्वेनावभासमान आत्माऽस्य न विषयः। नच ज्ञात- बनावभासमान इत्युच्यते । कस्तर्हि विषयः। शरीरमिति ब्रूमः। तथाहि । कृशोऽहं स्थूलोऽहं गौरोऽहमिति शरीराधालम्बनैः प्रत्ययैरस्य समानाधिकरणताऽवसीयते।न- न्वेवं सुखादिप्रत्ययरप्यहङ्कारस्य समानाधिकरणता; सुख्यहं दुःख्यहमिति वा; अतो न देहविषयता। यच्चोच्यते।गौरोऽहमित्यादिसामानाधिकरण्यदर्शनाच्छरीरालम्बन- समिति।तत्राप्येतद्विचार्यम्। गौरादीनां शरीरादिव्यतिरिक्तानामनहङ्कारास्पदवंदृष्टं, तहच्छरीरादिगतानामपि युक्तं व्यवस्थापयितुम्। तथा च वार्चिककृतोक्तम् । "नह्य- सम्मतिताख्यप्रकरणस्य-.. स्य द्रष्टुर्यदेतन्मम गौरं रूपं सोऽहमिति भवति प्रत्ययः, केवलं मतुब्लोपं कृत्वैवं. निर्दिशति" । अयमर्थः । शरीरेऽहकार औपचारिको, न तात्त्विकः । यथाऽन्य- स्मिंस्तत्कार्यकारिण्यत्यन्तनिकटेऽहङ्कारो गौणः, योऽयं सोऽहमिति; एवं शरीरेऽपि । यतो निमित्तादयमेतस्मिंस्तूभयसंप्रतिपन्नेऽनात्मरूपे इदंप्रत्ययविषयेऽहङ्कारस्तत एव शरीरेऽपि।आत्मविषयस्त्वहङ्कारो नौपचारिकः । इदंप्रत्ययासंभिन्नाहंप्रत्ययप्रति- भासित्वात् ।प्रमाता शरीरादिव्यतिरिक्तः। एतदेव कथम् । ममेदं शरीरमिति प्रत्ययो- पादानात्, ममायमात्मेति प्रत्ययाभावाच्चाननुममायमात्मेति किंन भवति प्रत्ययः? न भवतीति ब्रूमः । कथं तद्येवमुच्यते ? । केवलं शब्द उच्चार्यते, नतु प्रत्ययस्य संभवः । अत्रापि ममप्रत्ययप्रतिभासस्यादर्शनात् । शब्दोच्चारणमात्र केन वार्यते । किमिदानीं सुखादियोगः शरीरस्येष्यते । नैवम् । सुखादियोगाभावात् । मिथ्याप्रत्ययोऽयं सुख्यहमिति, नत्वेतदालम्बनः । अतो व्यवस्थितं ज्ञातप्रतिभा- सादर्शनात्, प्रतिभासे वा शरीरस्य ज्ञातृत्वेनावभासनान्न देहादिव्यतिरिक्तस्याहं- प्रत्ययविषयता, शरीरस्य च ज्ञातृत्वेनावभासमानस्यापि प्रमाणसिद्धा, बुद्धियो- गनिषेधान्मिथ्याप्रत्ययालम्बनता; न तु तस्याचैतन्येऽन्यः कश्चिद् ज्ञाता प्रत्यक्ष- प्रमाणविषयः सिद्यतीत्यादि। तदप्यसङ्गतम् । यतो भवतु जैमिनीयानां "सत्संप्रयो- गे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षम्" इतिलक्षणलक्षितेन्द्रियप्रत्यक्षवादिना- महमित्यवभासप्रत्ययस्यानिन्द्रियजत्वेनात्राप्रत्यक्षदोषो, नास्माकं जिनमतानु- सारिणाम् । नास्माकमिन्द्रियजमेव प्रत्यक्षं, किंतु यद्यत्र विशदं ज्ञानमिन्द्रियानि- न्द्रियनिमित्तं तत्तत्र प्रत्यक्षामित्यभ्युपगमात्, "तदिन्द्रियानिन्द्रियनिमित्तम्" इति वाचकमुख्यवचनात् । तेन यथा प्रत्यक्षविषयत्वेन घटादेः प्रत्यक्षता, तथाऽऽत्म- नोऽपि स्वसंवेदनाध्यक्षतायां को विरोधः । अतएव यदुच्यते । घटादेभिन्नज्ञान- ग्राह्यत्वेन प्रत्यक्षता व्यवस्थाप्यते; आत्मनस्त्वपरोक्षवेन प्रतिभासनात्प्रत्यक्षत्वम् । तच्च केवलस्य, घटादिप्रतीत्यन्तर्गतस्य वाऽपरसाधनं प्राक् प्रतिपादितमित्यत्रा-. परसाधनमिति कोऽर्थः-किं चिद्रूपस्य सत्ता, आहोखित् स्वप्रतीतौ व्यापार इति पक्षद्वयमुत्थाप्य, प्रथमपक्षे चिद्रूपस्य सवैवात्मप्रकाशनं यद्युच्यते तदा दृष्टान्तो वक्तव्य इति । तन्निरस्तम्। अध्यक्षप्रतीतेऽर्थे दृष्टान्तान्वेषणस्यायुक्तत्वात् । अथ वि- तत्त्वबोधविधायिनी व्याख्या वादगोचरेऽध्यक्षप्रतीतेऽपि दृष्टान्तान्वेषणं लोके सुप्रसिद्धमिति; सोऽत्रापि वक्तव्यः। तदाऽस्त्येव प्रदीपादिलक्षणो दृष्टान्तोऽपि, ज्ञानस्य प्रकाशं प्रति सजातीयापरान- पेक्षणे साध्ये । तथाहि । यथा प्रदीपाद्यालोको न खप्रतिपत्तावालोकान्तरमपक्षते, तथा ज्ञानमपि स्वप्रतिपचौ न समानजातीयज्ञानापेक्षम्। एतावन्मात्रेणालोकस्य रष्टान्तत्वं, न पुनस्तस्यापि ज्ञानत्वमासाद्यते । येनेन्द्रियाग्राह्यत्वाच्चक्षुष्मतामिवा- न्धानामपि तत्प्रतीतिप्रसङ्ग इति प्रेर्यते । नहि दृष्टान्ते साध्यधर्मिधर्माः सर्वेऽपि आसञ्जयितुं युक्ताः । अन्यथा घटेऽपि शब्दधर्माः शब्दत्वादयः प्रसज्येर- निति तस्यापि श्रोत्रग्राह्यत्वप्रसङ्गः। नच साधर्म्यदृष्टान्तमन्तरण प्रमाणप्रतीत- स्याप्यर्थस्याप्रसिद्धिरिति शक्यं वक्तुम् । अन्यथा जीवच्छरीरस्यापि सात्मकत्वे साध्ये तत्प्रसिद्धदृष्टान्तस्याभावात्प्राणादिमत्त्वादेस्तत्सिद्धिर्न स्यात् । अथ साध- Hदृष्टान्ताभावेऽपि दृष्टवैधHदृष्टान्तस्य घटादेः सद्भावात् केवलव्यतिरे- किबलात्तत्र तत्सिद्धिस्तहि यत्र खप्रकाशकलं नास्ति तत्रार्थप्रकाशकत्वमपि नास्ति, यथा घटादाविति व्यतिरेकदृष्टान्तसझावादर्थप्रकाशकत्वलक्षणाद्धेतोः स्वप्रकाशकत्वं विज्ञानस्य किमिति न सिद्धिमासादयति १ । यत्तूक्तम् । कस्य- चिदर्थस्य काचित्सामग्री, तेन प्रकाशः प्रकाशान्तरनिरपेक्ष एव खग्राहिणि ज्ञाने प्रतिभाति । तदयुक्तमेव । यथा हि खसामग्रीत उपजायमानाः प्रदीपालोकादयो न समानजातीयमालोकान्तरं खग्राहिणि ज्ञाने प्रतिभासमाना अपेक्षन्ते, तथा स्वसामग्रीत उपजायमानं विज्ञानं स्वार्थप्रकाशस्वभाव स्वप्रतिपत्तौ न ज्ञाना- न्तरमपेक्षते । प्रतिनियतत्वात् स्वकारणायत्तजन्मनां भावशक्तीनाम् । यत्तु प्रदी- पालोकादिकं सजातीयालोकान्तरनिरपेक्षमपि स्वप्रतिपत्तौ ज्ञानमपेक्षते, तत्तस्या- ज्ञानरूपत्वाव; ज्ञानस्य च तद्विपर्ययस्वभावत्वात् युक्तियुक्तमिति नैकत्र दृष्टः स्वभाव अन्यत्रासञ्जयितुं युक्त इति पूर्वपक्षवचो निःसारतया व्यवस्थितम् । अथालोकस्य तदन्तरनिरपेक्षा प्रतिपत्तिरुपलब्धेति न तदृष्टान्तबलात् ज्ञान- स्यापि ज्ञानान्तरनिरपेक्षा प्रतिपत्तिः। अदृष्टत्वात् , स्वात्मनि क्रियाविरोधाच्च । नन्वे- वमुपलभ्यमानेऽपि वस्तुनि यद्यदृष्टत्वं, विरोधश्चोच्येत, तदा खात्मवत् घटादेरपि बाह्यस्य न ग्राहकं ज्ञानम्, अदृष्टत्वात, जडस्य प्रकाशायोगाच्चेत्सपि वदतः सौ-.
सम्मतिताख्यप्रकरणस्य- - १४२ गतस्य न वक्त्रवक्ता समुपजायते। तथाहि । असावप्येवं वक्तुं समर्थः । जडं वस्तु न खतः प्रकाशते । विज्ञानवजडवहानिप्रसङ्गात् । नापि परतः प्रकाशमानम्। नीलसुखादिव्यतिरिक्तस्य विज्ञानस्यासंवेदनेनासत्त्वात् । अथ नीलस्य प्रकाश इति प्रकाशमाननीलादिव्यतिरिक्तस्तत्प्रकाशः। अन्यथा भेदेनास्याप्रतिपत्तौ संवेदनस्य तत्प्रतिभासो न स्यात् । ननु न नीलतवेदनयोः पृथगवभासः प्रत्यक्षसंभवी । प्रकाशविविक्तस्य नीलादेरननुमवात्तद्विवेकेन च बोधस्याप्रतिभासनात् । नचा- ध्यक्षतो विवेकेनाप्रतीयमानयोर्नीलतत्संविदोर्भेदो युक्तः । विवेकादर्शनस्य भेद- विपर्ययाश्रयत्वान्नीलतत्स्वरूपवत् । अथापि कल्पना नीलतत्संविदोर्भेदमुल्लिखति, नीलस्यानुभव इति । नन्वभेदेऽपि भेदोल्लेखो दृष्टः । यथा शिलपुत्रकस्य वपुः, नीलस्य वा स्वरूपमिति । अथ तत्र प्रत्यक्षारूढोऽभेदो बाधक इति न भेदोल्लेखः सत्यः, स तर्हि नीलसंविदोरपि प्रत्यक्षारूढोऽभेदोऽस्तीति न भेदकल्पना सत्या। तदेवं नीलादिकं सुखादिकं वस्तु प्रकाशवपुः प्रतिभातीति स्थितम् । तद्यतिरि- तस्य प्रकाशस्याप्रतिभासनेनाभावात्। भवतु वा व्यतिरिक्तो बोधस्तथापिनतद्राह्या नीलादयो युक्ताः। तथाहि । तुल्यकालो वा बोधस्तेषां प्रकाशको, भिन्नकालो वा। तुल्यकालोऽपि परोक्षः, खसंविदितो वा।न तावत्परोक्षः। यतोऽप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्यतीत्यादिना खसंविदितवं ज्ञानस्य प्रसाधयन्त एतत्पक्षं निराक- रिष्यामः । नापि ज्ञानान्तरवेद्यः । अनवस्थादिदूषणस्यात्र पक्षे प्रदर्शयिष्यमाण- लात् । खसंवेदनपक्षे तु यथाऽन्तर्निलीनो बोधः स्वसंविदितः प्रतिभाति; तथा तत्काले स्वप्रकाशवपुषो नीलादयो बहिर्देशसंबन्धितया प्रतिभान्ति इति समान- कालयोर्नीलतत्संवेदनयोः स्वतन्त्रयोः प्रतिभासनात् सव्येतरगोविषाणयोरिव न वेद्यवेदकभावः। समानकालस्यापि बोधस्य नीलं प्रति ग्राहकत्वे नीलस्यापि संप्रति ग्राहकताप्रसङ्गः।समानकालप्रतिभासाऽविशेषेऽपि बुद्धिर्नीलादीनां ग्रहणमुपरचय- तीति ग्राहिका, नीलादयस्तु ग्राह्याः। नैतदपि युक्तम् । यतो नीलबोधव्यतिरिक्ता न ग्रहणक्रिया प्रतिभाति । तथाहि । बोधः सुखास्पदीभूतो हृदि, बहिः स्फुटमुहासमानतनुश्च नीलादिराभाति, नत्वपरा ग्रहणकिया प्रतिभासविषयः । तदनवभासे च न तया व्याप्यमानतया नीलादेः कर्मता युक्ता । भवतु वा .
तत्त्वबोधविधायिनी व्याख्या । १४३ नीलबोधव्यतिरिक्ता किया, तथापि किं तस्या अपि खतः प्रतीतिर्यद्वाऽन्यतः। तत्र यदि स्वतो ग्रहणक्रिया प्रतिभाति; तथा सति बोधो, नीलं, ग्रहणक्रिया चेति त्रयं स्वरूपनिमग्नमेककालं प्रतिभातीति न कर्तृकर्मक्रियाव्यवहतिः । अथान्यतो ग्रहणक्रिया प्रतिभाति । ननु तत्राप्यपरा ग्रहणक्रियोपेया। अन्यथा तस्या ग्राह्यताऽसिद्धे, पुनस्तत्राप्यपरा कर्मतानिबन्धनं क्रियोपेयेत्यनवस्था । तन्न ग्रहणक्रियाऽपराऽस्ति । तत्स्वरूपाऽनवभासनात् । ततश्चान्त संवेदनं, वहिनीलादिकं च स्वप्रकाशमेवेति स्वसंवित्तिमात्रवादः साधीयान् यदि, तन्ति- निलीनो बोधो नीलादेनं बोधकः, किन्तु स्वप्रकाश एवासौ । तथा सति नीलमहं वेगीति कर्मकर्तृभावाभिनिवेशी प्रत्ययो न भवेत् । विषयस्य कर्मकर्तृभावस्या- भावात् । ननु विषयमन्तरेणापि प्रत्ययो दृष्ट एव, यथा शुक्तिकायां रजतावगमः। अथ वाधकोदयात्पुनर्जीन्तिरसौ; नीलादौ तु कर्मतादेर्न बाधास्तीति सत्यता । नन्वत्रापि बोधनीलादेः स्वरूपासंसक्तस्य द्वयस्य स्वातन्त्र्योपलम्भोऽस्ति बाधकः कर्मकर्तृभावोल्लेखस्य । अथ किमस्या भ्रान्तेर्निबन्धनम्, नहि भ्रान्तिरपि निर्वीजा भवति । ननु पूर्वभ्रान्तिरेवोत्तरकर्मकर्तृभावावगतेर्निबन्धनम् । पूर्वभ्रा- न्तिकर्मतादेरपि अपरा पूर्वभ्रान्तिरित्यनादिभ्रान्तिपरंपरा कर्मतादिन तत्त्वम् । अथवा नीलमिति प्रतीतिस्तावन्मात्राध्यवसायिनी पृथक्, अहमित्यपि मतिरन्तरु- लेखमुद्दहन्ती भिन्ना; वेद्मीत्यपि प्रतीतिरपरैव । ततश्च परस्परासंसक्तप्रतीतित्रि- तयं क्रमवत्प्रतिभाति, न कर्मकर्तृभावः । तुल्यकालयोस्तस्यायोगात् । भिन्नका- लयोरप्यनवभासनान्न कर्मतादिगतिः कथश्चित् संभविनी। अथापि दर्शनात प्राक् सन्नपि नीलात्मा न भाति, तदुदये च भातीति कर्मता तस्य । नैतदपि सा- धीयः । यतः प्राग्भावोऽयस्य न सिद्धः । दर्शनेन स्वकालावधेरर्थस्य ग्रहणात् , दर्शनकाले हि नीलमाभाति, नतु ततः प्राक्। तत्कथं पूर्वभावोऽर्थस्य सियेत् । तस्य दर्शनस्य पूर्वकाले विरहात् । नच तत्काले दर्शनं प्रागर्थसन्निधिं व्यन- क्ति । सर्वदा तत्प्रतिभासप्रसङ्गात् । अथाऽन्येन दर्शनेन प्रागर्थः प्रतीयते । प्राक् सद्भावोऽर्थस्यान्येनावसेय इत्यनवस्था। तस्मात्सर्वस्य नी- लादेर्दर्शनकाले प्रतिभासनान्न तत्पूर्व सत्ता सिद्यति। अथापि पूर्वदृष्टं पश्यामीति ननु तहर्शनादपि १४४ सम्मतितकाख्यप्रकरणस्य- व्यवसायात्प्रागर्थः सिधतिः प्रागर्थसत्तां विना दृश्यमानस्य पूर्वदृष्टेन एकत्वगते- रयोगात् । केन पुनरेकत्वं तयोर्गम्यते। किमिदानीन्तनदर्शनेन, पूर्वदर्शनेन वा। नं तावत्पूर्वदर्शनेन । तत्र तत्कालावधेरेवार्थस्य प्रतिभासनात्। नहि तेन वप्रति- भासिनोऽर्थस्य वर्तमानकालदर्शनव्याप्तिरवसीयते । तत्काले साम्प्रतिकदर्शनादे- रभावात् । नचासत्प्रतिभाति । दर्शनस्य वितथत्वप्रसङ्गात् । नापीदानीन्तनद- र्शनेन पूर्वदर्शनादिव्याप्तिर्नीलादेरवसीयते । तदर्शनकाले पूर्वकालस्यास्तमया- त् । नचास्तमितपूर्वदर्शनादिसंस्पर्शमवतरति प्रत्यक्षम्। वितथत्वप्रसंगादेव । त- स्मादपास्ततत्पूर्वदृगादियोग सर्व वस्तु दृशा गृह्यते, पूर्वदृष्टतां तु स्मृतिरुल्लिखति । तदपास्तम्। दृष्टतोल्लेखाभावात्। नच स एवायमिति प्रतीतिरेका।स इति स्मृतिरूपम्, अयमिति तु दृशः वरूपम् ; तत्परोक्षापरोक्षाकारत्वान्नैकस्वभावौ प्रत्ययौ; तत्कुत- स्तत्त्वसिद्धिः।अथानुमानात्याग्भावोऽर्थस्य सियति;प्राक् सत्तां विना पश्चाइर्शनायो- गादिति । तदप्यसत्। यतः पश्चाद्दर्शनस्य प्राक्सत्तायाः संबन्धो न सिद्धः, प्राक्स- चायाः कथञ्चिदप्यसिद्धेः। नचासिद्धया सत्तया व्याप्तं पश्चाद्दर्शनं सिद्धति; येन तत- स्तत्सिद्धिः। अथ यदि प्रागर्थमन्तरेण दर्शनमुदयमासादयति, तथा सति नियाम- काभावात् सर्वत्र सर्वदा सर्वाकार तद्भवेत्।नायमपि दोषः। नियतवासनाप्रबोधेन संवेदननियमात्।तथाहि स्वप्नावस्थायां वासनाबलाद्दर्शनस्य देशकालाकारनियमो दृष्ट इति जाग्रहशायामपि तत एवासौ युक्तः । अर्थस्य तुन सत्ता सिद्धा । नापि तद्भेदात् संवित्तिनियम इति तन्नततःसंविद्वैचित्र्यम् । तस्मान्न कथञ्चिदपि नीलादेः प्राक् सत्तासिद्धिः अथ पूर्वसत्ताविरहे किं प्रमाणम्। नन्वनुपलब्धिरेव प्रमाणम्।यदि नीलं पूर्वकालसंबन्धिस्वरूपं स्यात्तेनैव रूपेणोपलभ्येत, नच तथा दर्शनकालभुवः। सर्वदाप्रतिभासनात् । यच्च येनैव रूपेण प्रतिभाति, तत्तेनैव रूपेणास्ति । यथा नीलं नीलरूपतयाऽवभासमानं तथैव सत् न पीतादिरूपतया । सर्व चोपलभ्यमानं रूपं वर्तमानकालतयैव प्रतिभाति, न पूर्वादितया, तन्न पूर्व सचाऽर्थस्य । अथ नीलं, तह- र्शनविरतावपि परदृशि प्रतिभातीति साधारणतया ग्राह्यम् ; विज्ञानं साधारणतया प्रकाशकम् । नैतदपि युक्तम्।यतोनीलस्य न साधारणतया सिद्धः प्रतिभासः।प्रत्य- क्षेण स्वप्रतिभासिताया एवावगतेः। नहि नीलं परदृशि प्रतिभातीत्यत्र प्रमाणमस्ति।
तत्त्वबोधविधायिनी व्याख्या । १४५, परदृशोऽनधिगमे नीलादेस्तवेद्यताऽनधिगतेः । अथानुमानेन नीलादीनां साधा- रणता प्रतीयते । यथैव हि वसन्ताने नीलदर्शनात् तदादानार्थी प्रवृ- चिस्तथाऽपरसन्तानेऽपि प्रवृत्तिदर्शनात् , तद्विपयं दर्शनमनुमीयते । नैतद- प्यस्ति । अनुमानेन वपरदर्शनभृतो नीलादेरेकताऽसिद्धेः; तद्विसदृशव्यवहार- दर्शनादुपजायमानं स्वदृष्टसदृशता परदृष्टस्य प्रतिपादयेत् । यथाऽपरधूमदर्श- नात् पूर्वसदृशं दहनमधिगन्तुमीशो, नतु तमेव पूर्वदृष्टम् । सामान्येनान्व- यपरिच्छेदात् । नानुमानतोऽपि ग्राह्याकारस्यैकता। ननु भेदोऽप्यस्य न सिद्ध एव । प्रतिभासभेदे सति कथमसिद्धः परप्रतिभासपरिहारेण स्वप्रतिभासात् , स्वप्र- तिभासपरिहारेण च परप्रतिभासात, विवेकखभावान् व्यतिरेचयति ? । अन्यथा तस्यायोगात् । तः स्वपरदृष्टस्य नीलादेः प्रतिभासभेदात् व्यवहारे तुल्येऽपि भेद एव । इतरथा रोमाश्चनिकरसदृशकार्यदर्शनात् सुखादेरपि स्वपरसन्तान- भुवस्तत्त्वं भवेत् । अथापि सन्तानभेदात् सुखादेर्भेदः । ननु सन्तानभेदोऽपि किमन्यभेदात्, तथा चेदनवस्था । अथ तस्य स्वरूपभेदाझेदः, सुखादेरपि तर्हि स एवास्तु । अन्यथा भेदासिद्धेः । नान्यभेदादन्यद्भिन्नम् । अतिप्रसङ्गात् । नीलादेरपि वपरभासिनः प्रतिभासभेदोऽस्तीति नैकता। अथ देशैकत्वादेक- त्वम् । ननु देशस्यापि स्वपरदृष्टस्यानन्तरोक्तन्यायात् नैकता युक्ता । तस्मा- द्वाहकाकारवत्प्रतिपुरुपमुद्भासमाननीलादिकमपि भिन्नमेव । तच्चैककालापल- म्भात , ग्राहकवत् स्वप्रकाशम् । अथ ग्राहकाकारश्चिद्रूपत्वावेदको, नीला- .कारस्तु जडत्वाद्राह्यः । अत्रोच्यते । किमिदं वोधरय चिद्रूपत्वम् ? । यद्यप- रोक्षं स्वरूपं, नीलादेरपि तर्हि तदस्तीति न जडता । अथ नीलादेरपरोक्षस्व- रूपमन्यस्माइवतीति ग्राह्यम् । ननु वोधस्यापि स्वखरूपमिन्द्रियादेर्भवतीति ग्राह्यं स्यात् । अथ यदिन्द्रियादिकार्य न तहृद्यम् । नीलादिकमपि तर्हि नय- नादिकार्यमस्तु न तु ग्राह्यम् । अथापि बोधो बोधस्वरूपतया नित्यः, नीला- दिकस्तु प्रकाश्यरूपतयाऽनित्य इति ग्राह्यः । तदप्यसत् । स्तम्भादेनयनादि- बलादुदेति रूपमपरोक्षत्वम् । तदनित्यः स्तम्भादिर्भवतु, ग्राह्यस्तु कथम् । नहि यद्यस्मादुत्पद्यते, तत्तस्य वेद्यम् । अतिप्रसङ्गात् । तस्मादपरोक्षस्वरूपाः स्तम्भा- १९ सम्मतिताख्यप्रकरणस्य- दयः खप्रकाशाः; बोधस्तु नित्यो ऽनित्यो वा तत्काले केवलमुद्भाति, नतु वेदकः। इयोरपि परस्परं ग्राह्यग्राहकतापत्तेः । अथ नीलोन्मुखलाबोधो ग्राहकः । किमिदं तदुन्मुखलं नाम बोधस्य । यदि नीलकाले सत्ता; सा नीलस्यापि तत्काले सम- स्तीति नीलमपि बोधस्य वेदकं स्यात् । अथान्यदुन्मुखत्वं तत, तर्हि स्वरूपनि- मग्नं चकासत्तृतीयस्वरूपं भवेत् । तथाहि । तस्य तदुन्मुखवं तव्यापारः । स च व्यापारो यदि नीले व्याप्रियते, तदा तत्राप्यपरो व्यापार इत्यनवस्था। अथ न व्याप्रियते, न तबलाबोधस्य ग्राहकलं, नीलादेस्तु ग्राह्यत्वम् । अथ व्यापारस्यापर- व्यापारव्यतिरेकेणापि नीलं प्रति व्यापृतिरूपता । तस्य तद्रूपत्वात् । ननु नील- स्यापि खं स्वरूपं विद्यत इति बोधं प्रति ग्रहणव्यापृतिः स्यात् । किञ्च । बोधेन यदि नीलं प्रति ग्रहणक्रिया जन्यते सा नीलाद्भिन्ना अभिन्ना वा। भिन्ना चेत्, न तया तस्य ग्राह्यत्वम् । भिन्नलादेव। अथाभिन्ना,तर्हि नीलादेर्शानरूपता । ज्ञानजन्यवादु- तरज्ञानक्षणवत् । अथ ज्ञानस्य एवंभूता शक्तिर्येन तस्य नीलं प्रति ग्राहकता, नीलादेस्तु तं प्रति ग्राह्यता। ननु बोधस्य ग्राहकले, नीलादेस्तु ग्राह्यले सिद्धे शक्ति- परिकल्पना युक्ता । शक्तेः कार्यानुमेयत्वात् । तदसिद्धौ तु तत्परिकल्पनमयुक्तम् । इतरेतराश्रयप्रसङ्गात् । तथाहि । बोधस्य शक्तिविशेषसिद्धेर्नीलं प्रति ग्राहकल. सिद्धिः, तत्सिद्धेश्च तच्छक्तिसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् ; तन्न बोधस्य नीलं प्रति ग्राहकलसिद्धिः। तस्माद्यतिरिक्तेऽपि बोधेऽभ्युपगते सहोपलम्भनियमात् स्वसं. वेदनमेव युक्तम् । परमार्थतस्तु सुखादयो नीलादयश्वापरोक्षा इत्येतावदेव भाति । निराकारस्तु बोधः स्वप्नेऽपि नोपलभ्यत इति न तस्य सद्भाव इति कथं तस्यार्थ- ग्राहकलम् ?।अत एव ते प्रमाणयन्ति । इह खलु यत्प्रतिभाति, तदेव सद्व्यवहृतिपथ- मवतरति; यथा हृदि प्रकाशमानवपुः सुखम्, न तत्काले पीडाऽनुद्भासमाना समस्ति, विज्ञप्तिरेव च नीलादिरूपतया सकलतनुभृतामाभातीति स्वभावहेतुः । तदेवमर्थग्राहकवस्याप्यसिद्धेः, जडस्य प्रकाशविरुद्धत्वाच्च नार्थग्राहकलमपि बौद्ध- दृष्ट्या युक्तम् । अथ बहिर्देशसंबद्धस्य जडस्यापि नीलादेरनुभवान्न नीलादि- प्रकाशस्य तद्ग्राहकत्वमसिद्धम् ; नाप्यनुभूयमाने स्तम्भादिके जडे प्रकाशविषय- लविरोधोहावनं युक्तिसंगतम् । प्रत्यक्षसिद्धे स्वभावे च सति तद्विरुष्खभावावे- तत्त्वबोधविधायिनी व्याख्या । १४७ दकस्यानुमानस्य, प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तकालात्ययापदिष्टत्वदोषदुष्ट- हेतुप्रभवत्वेनानुमानाभासत्वात्। नच प्रत्यक्षसिद्धे स्वभावे विरोधः सिद्यति।अन्यथा ज्ञानस्यापि ज्ञानवविरोधप्राप्तिः। नन्वेवं नीलादिसंवेदनस्यापि हृदि खसंवेदन- विषयतयाऽनुभवान्न खसंवेदितत्वमसिद्धम् ; नापि खात्मनि कियाविरोधोहावन युक्तियुक्तम् । अनुभूयमाने विरोधासिद्धेः । अस्वसंवेदनज्ञानसाधकत्वेनोप- न्यस्यमानस्य च हेतोः प्रत्यक्षनिराकृतपक्षविषयत्वेन न साध्यसाधकत्वमि- त्यपि समानम् । किंच । खसंविदितज्ञानानभ्युपगमे प्रतीयतेऽयमर्थों बहिर्दे- शसंबन्धितयेत्यत्र प्रतीतर्व्यवस्थापिकाया अप्रतीतत्वेनाऽव्यवस्थितौ व्यवस्था- प्यस्यार्थस्य न व्यवस्थितिः स्यात् । नहि स्वयमव्यवस्थितं खरविषाणादि कस्यचिद् व्यवस्थापकमुपलब्धम् । अथ प्रतीतेरसंविदितत्वेऽपि एकार्थसमवे- तानन्तरप्रतीतिव्यवस्थापितत्वेन नाव्यवस्थितत्वं, तर्हि तदेकार्थसमवेतानन्तरप्र- तीतेरपि अपरतथाभूतप्रतीत्यवस्थापितत्वेनाऽर्थव्यवस्थापनप्रतीतिव्यवस्थापकत्व- मिति पुनरपि तथाभूताऽपरा प्रतीतिः प्रतीतिव्यवस्थापिकाऽभ्युपगन्तव्येत्यन- वस्था । अथ प्रतीतिव्यवस्थापिका प्रतीतिः स्वसंविदितत्वेन खयमेव व्यव. स्थितेति नायं दोषः, तीर्थव्यवस्थापिकाऽपि प्रतीतिस्तथा किं नाभ्युपगम्यते । न्यायस्य समानत्वात् । अथ प्रतीतिरप्रतीताऽपि प्रतीत्यन्तरव्यवस्थापिका, तर्हि प्रथमप्रतीतिरप्यव्यवस्थिताऽप्यर्थव्यवस्थापिका भविष्यतीति, 'नागृहीत- विशेषणा विशेष्ये बुद्धिः' इति वचः कथं न परिप्लवेत?। प्रतीतोऽर्थ इति विशे- प्यप्रतिपत्तौ प्रतीतिविशेषणानवगमेऽपि विशेष्यप्रतिपत्त्यभ्युपगमात् । अपि च । यदि तदेकार्थसमवेतज्ञानान्तरग्राह्यं ज्ञानमर्थग्राहकमभ्युपगम्यते, तदा पूर्वपूर्वज्ञानोपलम्भनस्वभावानामुत्तरोत्तरज्ञानानामनवरतमुत्पत्तेविषयान्तरसंचारो ज्ञानानां न स्यात् । विषयान्तरसंनिधानेऽपि पूर्वज्ञानलक्षणस्य तदेकार्थसम- वेतस्यान्तरङ्गत्वेनातिसंनिहिततरस्य विषयस्य सहावात् । यस्त्वाह । विषयो- पलम्भनिमित्तमात्रप्रतिपत्तौ प्रतीतिविशेषणस्यार्थस्य सिद्धत्वात्. नानवस्था । तदेतदेव न संगच्छते । स्वसंवेदनज्ञानानभ्युपगमात् । एतच्च प्रतिपादितम् । अपि च । 'प्रमाणसंप्लववादिना नैयायिकेन प्रत्यक्षशाब्दज्ञानयोरेकविषयत्वमभ्यु- , - १४८ सम्मतितकाख्यप्रकरणस्य- पगतम् । तथाचाध्यक्षज्ञानवत् शाब्देऽपि तस्यैवान्यूनानतिरिक्तस्य विषयस्या- धिगमे न प्रतिपत्तिभेद इति अध्यक्षवच्छाब्दमपि स्पष्टप्रतिभासं स्यात् । अथैक विषयत्वे सत्यपि इन्द्रियसंबन्धाभावाच्छन्दविषये प्रतिपत्तिभेदः । नन्वक्षैरपि विषयस्वरूपमुद्रासनीयम् । तच्च यदि शाब्देनापि प्रदर्श्यते, तथा सति इन्द्रिय- संबन्धाभावेऽपि किमिति न स्पष्टावभासः शान्दस्य। नहि विषयभेदमन्तरेण ज्ञाना- वभासभेदो युक्तः । अन्यथा ज्ञानावभासभेदाद् विषयभेदव्यवस्था न स्यात् । नहि बहिरपि तदवभासभेदसंवेदनव्यतिरेकेणान्यझेदव्यवस्थानिवन्धनमुत्पश्या- मः । अन्यच्च प्रत्यक्षेऽपि साक्षादिन्द्रियसंवन्धोऽस्तीति न स्वरूपेण ज्ञातुं शक्यः । तस्यातीन्द्रियत्वात्; किन्तु स्वरूपप्रतिभासात्कार्यात् । तच्चाविकलं यदि शाब्देऽपि वस्तुस्वरूपं प्रतिभाति, तदा तत एवेन्द्रियसंबन्धस्तत्रापि किं नाभ्युपगम्यते । अथ तत्र स्पष्टप्रतिभासाभावान्नासावनुमीयते । ननु तदभाव- स्तदक्षसंगतिविरहात्, तदभावश्च स्फुटप्रतिभासाभावादिति सोऽयमितरेतराश्रय- दोषः । तस्माद्विषयभेदनिबन्धन एव ज्ञानप्रतिभासभेदावसायोऽभ्युपगन्तव्यः । स चैकविषयत्वे शाब्दाध्यक्षज्ञानयोन संगच्छते । अथ शब्दैर्वस्तुरूपावभासे- ऽपि न सकलतद्गतविशेषावभास इत्यस्पष्टप्रतिभासं तत् । नन्वेवं प्रत्यक्षावभा- सिनो विशेषस्यार्थक्रियाक्षमस्य तत्राप्रतिभासनात्तदेव भिन्नविषयत्वं शब्दाध्यक्षयोः प्रसक्तम्। अथोभयत्रापि व्यक्तिस्वरूपमेकमेव नीलादिवं प्रतिभाति, विशदाविशदौ वाकारौ ज्ञानात्मभूतौ। नन्वेवमक्षसंबद्ध विषये प्रतिभासमाने तत्कालः स्पष्टत्वा- वभासो ज्ञानावभास इति प्राप्तम्। विशिष्टसामग्रीजन्यस्य ज्ञानस्य विशदत्वात् । तदवभासव्यतिरेकेण तु अक्षसंबद्धनीलप्रतिभासकालेऽन्यस्य भवदभ्युपगमेन वैशद्यप्रतिभासनिमित्तस्यासंभवात् । अथ भवतु विशदज्ञानप्रतिभासनिमित्त एवं तत्र वैशद्यप्रतिभासव्यवहारः, तथापि न स्वसंविदिततज्ज्ञानसिद्धिः। तदेकार्थसम- वेतज्ञानान्तरवेद्यत्वेऽपि तद्व्यवहारस्य संभवात् । एककालावभासव्यवहारस्तु लघु- त्तित्वान्मनसः क्रमानुपलक्षणनिमित्तः, उत्पलपत्रशतव्यतिभेदवत् । नन्वेवं सत्सङ्गु- लिपश्चकस्यैकज्ञानावभासोऽपि क्रमावभासे सत्यपि तत एव क्रमप्रतिभासानुपल- क्षणकृत इति सदसद्वर्गः सर्वः कस्यचिदेकज्ञानप्रत्यक्षः प्रमेयत्वात्पञ्चाङ्गुलिवदिति तत्त्वबोधविधायिनी व्याख्या । १४९ सर्वज्ञसाधकप्रयोगे दृष्टान्तस्य साध्यविकलताप्रसक्तिः। तथा समस्तसदसद्वर्गग्राह- केण सर्वविज्ज्ञानेन ज्ञानात्मा गृह्यते, उत नेति । यदि न गृह्यते, तदा तस्य प्रमेयत्वे सति तेनैव प्रमेयत्वलक्षणो हेतुर्व्यभिचारी; अप्रेमयत्वे तस्य भागासिद्धो हेतुः । अथ सर्वज्ञज्ञानेन सर्वपदार्थग्राहिणा आत्माऽपि गृह्यत इति नानैकान्तिकः । नन्वेवं सति यथेश्वरज्ञानं ज्ञानत्वेऽप्यात्मानं स्वयं गृह्णाति,नच तत्र स्वात्मनि क्रिया- विरोधः, तथाऽस्मदादिज्ञानमप्येवं भविष्यतीतिन कश्चिद्विरोधः। किञ्च । एवमभ्युप- गमे ज्ञानं ज्ञानान्तरग्राह्यं प्रमेयत्वात् घटवदित्यत्र प्रयोगे ईश्वरज्ञानस्य प्रमेयले सत्यपि ज्ञानान्तरग्राह्यलाभावात्तेनैवानकान्तिकः प्रमेयत्वादिति हेतुः । तस्मात् ज्ञानस्य ज्ञानान्तरग्राह्यवेऽनेकदोपसंभवात् स्वसंविदितं ज्ञानमभ्युपगन्तव्यम्। ज्ञानस्वरूपश्चात्मा। अन्यथा भिन्नज्ञानसहावादाकाशस्येव तस्य ज्ञातृलं नं स्यात्। नचाकाशव्यतिरेकेण ज्ञानमात्मन्येव समवेतमिति तस्यैव ज्ञातृत्वं नाकाशादे- रिति वक्तुं युक्तम् । समवायस्य निषेत्स्यमानत्वात् । ज्ञानस्य च स्वसंविदितले सिद्धे आत्मनोऽपि तदव्यतिरिक्तस्य तत् सिद्धमिति कथं न स्वसंवेदनप्रत्यक्षसि- इत्वमात्मनः; तन्न प्रथमपक्षस्य दुष्टत्वम् । द्वितीयपक्षेऽपि यदुक्तम् । नहि कश्चित् पदार्थः कर्तृरूपः, करणरूपो या स्वात्मनि कर्मणीव सव्यापारो दृष्ट इति । तदप्य. सङ्गतम्। भिन्नव्यापारव्यतिरेकेणापि आत्मनः कर्तुः, प्रमाणस्य च ज्ञानस्य स्वसंवि- दितत्वप्रतिपादनात् । एकस्यैव च लिङ्गादिकरणमपेक्ष्यावस्थाभेदेन यथा प्रमातृत्वं, प्रमेयत्वं च भवद्भिरविरुद्धत्वेनाभ्युपगम्यते, तथैकदाऽप्येकस्यात्मनः अनेकधर्मस- डावात्प्रमातृत्वप्रमाणत्वप्रमेयत्वान्यविरुद्धानि किं नाभ्युपगम्यन्ते । तत्तद्धर्मयोगात् तत्तत्स्वभावत्वस्य प्रमाणनिश्चितत्वेनाविरोधात्।यच्चोक्तम् । प्रमाणाविषयत्वेऽप्य- परोक्षतेति; अस्य कोऽर्थ इत्यादि। तदप्यसारम्। ज्ञातृतया, प्रमाणत्वेन च स्वरूपा- चभासनस्य प्रतिपादितत्वात् । नच घटादेः स्वरूपस्य भिन्नज्ञानग्राह्यत्वात्प्रमातुः, प्रमाणस्य च स्वरूपं भिन्नज्ञानग्राह्यम् । तयोश्चिद्रूपत्वेन घटादेस्तु तद्विपर्ययेण खरूपसिद्धत्वात् । नच प्रमाणप्रमातृवरूपग्राहकस्य प्रत्यक्षस्य तल्लक्षणेनासंग्रहः। तत्संग्राहकस्य लक्षणस्य प्रदर्शितत्वात् । यदपि घटमहं चक्षुषा पश्यामीति, अनेना- तिप्रसङ्गापादनं कृतम् । तदप्यसङ्गतम्। नहि चक्षुषो जडरूपस्यास्वसंविदितत्वे प्रमा- सम्मतिताख्यप्रकरणस्य- - तृप्रमित्योरपि चिद्रूपयोरखसंविदितवं युक्तम्। अन्यस्वभावत्वानुपपत्तेः। यत्तूक्तम्। इन्द्रियव्यापारे सति शरीरायवच्छिन्नस्य विषयस्यैव केवलस्यावभासनमिति। तदत्य- न्तमसङ्गतम् । विषयस्येव तदवभाससंवेदनस्यापि व्यवस्थापितत्वात् । तदभावे विषयावभास एव न स्यादित्यस्य चातःप्रमात्रवभास उपपन्न एव। नच कृशोऽहं स्थूलोऽहमिति शरीरसामानाधिकरण्येनास्य प्रत्ययस्योपपत्तेस्तदालम्बनता । चक्षुरादिकरणव्यापाराभावे शरीरस्याग्रहणेऽपि अहमितिप्रत्ययस्य सुखादिसमा. नाधिकरणवेन परिस्फुटप्रतिभासविषयलेनोत्पत्तिदर्शनात् न शरीरालम्बनलमस्य व्यवस्थापयितुं युक्तम् । नच कृशोऽहमिति प्रत्ययस्य भ्रान्तले ज्ञानवानहमिति ज्ञानसामानाधिकरण्येनोपजायमानस्यापि प्रत्ययस्य भ्रान्तवं युक्तम् । अन्यथा अग्निर्माणवक इति माणवकेऽग्निप्रत्ययस्योपचरितविषयस्य भ्रान्तलेऽमावपि तत्प्रत्ययस्योपचरितत्वेन भ्रान्तलं स्यात् । अथ तत्र पाटवपिङ्गलबादिलक्षणस्यो- पचारनिमित्तस्य सद्भावाद्भवति तत्रोपचरितः प्रत्ययः । नचात्रोपचारनिबन्धनं किञ्चिदस्ति । तदप्यसङ्गतम्। संसार्यात्मनः शरीराद्युपकृतलेन तदनुबद्धस्योपभो- गाश्रयत्वेनोपभोगकर्तृवस्याप्युपचारनिमित्तस्य सद्भावात्। दृष्टश्च शरीरादिन्यति- रिक्तेऽप्यत्यन्तोपकारके खभृत्यादावुपचरितस्तन्निमित्तो योऽयं भृत्यः सोऽहमिति प्रत्ययः । नच सुखादिसामानाधिकरण्येनोपजायमानस्यैवाहंप्रत्ययस्योपचरित- विषयतेति वक्तुं शक्यम् । अग्नावग्निप्रत्ययवदबाधितखेनास्खलद्रूपलेन चास्या- ऽत्र मुख्यत्वात् ; गौरत्वादेस्तु पुद्गलधर्मलेन बाह्येन्द्रियग्राह्यतयाऽन्तर्मुखाकारानि- न्द्रियाहप्रत्ययविषयत्वासंभवात् । नच गौरवादिरूपाश्रयभूतस्य प्रतिक्षणविशरारु- लेनाभ्युपगमविषयस्य शरीरस्य य एवाहं प्राग्मित्रं दृष्टवान् स एवार्ह वर्षपश्चकादि- व्यवधानेन स्पृशामीति स्थिरालम्बनलेनानुभूयमानप्रत्ययविषयत्वं युक्तम् । अन्य- था रूपविषयलेनानुभूयमानस्य तस्य रसाद्यालम्बनवं स्यात् । नच सुखादिविवा- मकात्मालम्बनले किञ्चिद्वाधकमुत्पश्यामः; येन तद्विषयत्वेनास्य भ्रान्तवं स्यात्। नापि तत्र तस्य स्खलद्रूपता; येन वाहीके गोप्रत्ययस्येवोपचरितत्वकल्पना युक्ति- मती स्यात्। तस्मादबाधितास्खलद्रूपाऽहंप्रत्ययग्राह्यत्वादात्मनो नासिद्धिः। शेषस्तु पूर्वपक्षग्रन्थो निःसारतया न प्रतिसमाधानमर्हतीत्युपेक्षितः। नचान बौद्धमतानु- सत्त्वबोधविधायिनी व्याख्या। १५१ सारिणैतद्वक्तुं युज्यते । अहंपत्ययस्य सविकल्पकत्वेनाप्रत्यक्षत्वेन न तबाह्यत्व- मात्मन इति । सविकल्पकस्यैव प्रत्यक्षस्य प्रमाणत्वेन व्यवस्थापयिष्यमाणत्वात् । प्रत्यक्षविषयत्वेऽपि विप्रतिपत्तिसंभवेऽनुमानस्यावतारः। नच सिद्धे आत्मन एकत्वे तत्प्रतिबद्धोऽनुसन्धानप्रत्ययः सिन्धति, तत्सिद्धौ च ततस्तस्यैकत्वमितीतरेतरा- श्रयदोषावतारः। य एवाहं घटमद्राक्षं स एवेदानीं तं स्पृशामीति प्रत्ययात् प्रत्य. भिज्ञाप्रत्यक्षस्वरूपादात्मन एकत्वसिद्धेः । नचात्रैतत्प्रेर्यम् । द्रष्टरूपमात्मनः स्पष्ट- रूपानुप्रवेशेन प्रतिभासते, आहोखिदननुप्रवेशेन । यद्यनुप्रवेशेन, तदा द्रष्ट्ररूपस्य स्प्रष्टरूपेऽनुप्रवेशात् स्पष्टरूपतैवेति न द्रष्टुरूपता, तथाचाहं द्रष्टा स्पृशामीति, कुत उभयावभासोल्लेख्येकं प्रत्यभिज्ञानम् ?, यतस्तदेकत्वसिद्धिः। अथाननुप्रवेशेन तदा दर्शनस्पर्शनावभासयोर्भेदात् कुत एक प्रत्यभिज्ञानम्। नहि प्रतिभासभेदे सत्य- प्येकत्वम्। अन्यथा घटपटप्रतिभासयोरपि तत्स्यात् । अथ प्रतिभासस्यैवात्र भेदो न पुनस्तद्विषयस्यात्मनः।कुतः पुनस्तस्याभेदःनि तावत्प्रतिभासाभेदात् । तस्य भि- मत्वेन व्यवस्थापितत्वात् । नापिस्वतः स्वतोऽद्यापि विवादविषयत्वात् । अथ दर्श- नस्पर्शनावस्थाभेदेऽपि चिद्रूपस्य तदवस्थातुरभिन्नत्वान्नाय दोषः। तदप्यसङ्गतम्। यतो दर्शनावस्थाप्रतिभासेन तत्संबद्धमेवावस्थातृरूपं गृहीतं, न स्पर्शनज्ञानसंब- न्थि । तत्र तदवस्थाया अनुत्पन्नत्वेनाप्रतिभासनात; तदप्रतिभासने च तयापि- त्वेनावस्थातुरप्यप्रतिभासनात् । नापि स्पर्शनप्रतिभासेन दर्शनावस्थाव्याप्तिरव- स्थातुरवगम्यते । स्पर्शनज्ञाने दर्शनस्य विनष्टत्वेनाप्रतिभासनात् । प्रतिभासने वाऽनाद्यवस्थापरम्पराप्रतिभासप्रसङ्गः। नच प्रागवस्थाऽप्रतिभासने तदवस्थाव्या- तिरवस्थातुरवगन्तुं शक्या । यच्च येन रूपेण प्रतिभाति, तत्तेनैव सदित्यभ्युपगन्त- व्यम् । यथा नील नीलरूपतया प्रतिभासमानं तेनैव रूपेणाभ्युपगम्यते । दर्शनस्प- निज्ञानाम्यां च स्वसंबन्धित्वमेवावस्थातुर्गुह्यते इति तद्रूप एवासावभ्युपग- न्तव्य इति कुतोऽवस्थातृसिद्धिः॥ यतो नीलप्रतिभासेऽप्येवं वक्तुं शक्यम् । किमेक- नीलज्ञानपरमाण्यवभासोऽपरतन्नीलज्ञानपरमाण्ववभासानुप्रवेशेन प्रतिभाति,उता- ननुप्रवेशेन । यद्यनुप्रवेशेन, तदैकतन्नीलज्ञानपरमाण्यवभासानामनुप्रवेशान्नील- ज्ञानसंवेदनस्यैकपरमाणुरूपत्वम् तस्य चाननुभवात्कुतो नीलज्ञानसंवेदनसिद्धिः।
१५२ सम्मतिताख्यप्रकरणस्य- अथाननुप्रवेशेन, तदा नीलज्ञानपरमाण्ववभासानामयःशलाकाकल्पानां प्रति- भासनात्, कुतः स्थूलमेकनीलज्ञानसंवेदनम् ? । प्रतिनीलज्ञानपरमाण्यवभासं भिन्नत्वात्। अथ स्वसंवेदनावभासभेदे सत्यपि न तत्प्रतिभासस्य नीलज्ञानस्य भेदः। ननु कुतो नीलज्ञानस्याभेदः । किं तत् स्वसंवेदनाभेदात् , स्वतो वा। यदि स्वसंवेदनाभेदात् । तद्युक्तम् । तद्भेदस्य व्यवस्थापितत्वात्।अथ स्वत एव तदभेदः। तदप्ययुक्तम् । तस्याद्याप्यसिद्धत्वात् । तथा यदि दर्शनावस्थायां स्पर्शनावस्था न प्रतिभातीति तवस्था व्याप्तिदर्शनज्ञानेनावस्थातुर्न ग्रहीतुं शक्या । नन्वेवं तदप्रतिभासनेन तद्व्याप्तिरपि कथं ग्रहीतुं शक्या ? । तदप्रतिभासने तत इदमवस्थातृरूपं व्यावृत्तमित्येतदपि ग्रहीतुमशक्यमेव । नच तद्विविक्तप्रतिभासा- देव तव्याप्तिर्गृहीतैवेति वक्तुं युक्तम् । तदप्रतिभासने तद्विविक्तस्यैवाग्रहणात् । नच तद्याप्तिस्तस्य खरूपमेवेति दर्शनज्ञानेन तत्वरूपग्राहिणा तदभिन्नस्त्र- रूपा तव्याप्तिरपि गृहीतैवेति युक्तम् । तद्व्याप्तावप्यस्य सर्वस्य समानत्वात् । नचा- बाधितैकप्रत्ययविषयस्यात्मन एकत्वमसिद्धम् । नचास्यकलाध्यवसायस्य किञ्चि- हाधकमस्ति । तबाधकलेन संभाव्यमानस्य प्रमाणस्य यथास्थानं निषेत्स्यमान. खात् । भवतु वाऽनुसन्धानप्रत्ययलक्षणाद्धेतोस्तदेकलसिद्धिः, तथापि नेतरेतराश्रय- दोषः। यतो नैकलप्रतिबद्धमनुसन्धानमन्वयिदृष्टान्तद्वारेण निश्चीयते, येनायं दोषः स्यात्, अपि त्वनेकत्वेऽनुसन्धानस्यासंभवात ततो व्यावृत्तमनुसन्धानं तदेकत्वेन व्याप्यत इति एकसन्ताने स्मरणाद्यनुसन्धानदर्शनादनुमानतोऽपि तत्सिद्धिः । नच भेदे दर्शनस्मरणादिज्ञानानामनुसन्धानं संभवति । अन्यथा देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणाद्यनुसन्धानं स्यात् । अथ देवदत्तयज्ञदत्तयोरेकसन्तानाभावा- नानुसंधानम्; यत्र त्वेकः सन्तानस्तत्र पूर्वापरज्ञानयोरत्यन्तभेदेऽपि भवत्ये- वानुसन्धानम् । ननु सन्तानस्य यदि सन्तानिभ्यो भेद एकत्वं च; तदा शब्दा. न्तरेण स एवात्माऽभिहितो यत्पतिबद्धमनुसन्धानम् । अथ सन्तानिभ्योऽभिन्नः सन्तानः,, तदा पूर्वोत्तरज्ञानक्षणानां सन्तानिशब्दवाच्यानां देवदत्तयज्ञदत्तज्ञान- वदत्यन्तभेदात् तदभिन्नस्य सन्तानस्यापि भेद इति कुतोऽनुसन्धाननिमित्त- खम् । अथैकसन्ततिपतितानां पूर्वोत्तरज्ञानसन्तानिनां कार्यकारणभावात् । - तत्वबोधविधायिनी. व्याख्या । १५३ भेदेऽप्येकसन्तानत्वम् ; तन्निबन्धनश्वानुसन्धानप्रत्ययो युक्तः । न पुनर्देवदत्तयज्ञ- दत्तज्ञानयोः कार्यकारणभावः । अतस्तन्निबन्धनसन्तानाभावनिमित्तस्तत्रानु- सन्धानाभावः । ननु देवदत्तज्ञानं यज्ञदत्तेन यदा व्यापारव्याहारादिलिङ्गबलादनु- मीयते, तदा तत् यज्ञदत्चानुमानजनकं भवतीति कार्यकारणभावनिमित्तैकस- न्ताननिबन्धना अनुसन्धानप्रसक्तिः स्यात् । अथ वसन्ततावुपादानोपादेयभावेन ज्ञानानां जन्यजनकभावो, भिन्नसन्ततौ तु सहकारिभावेन तद्भाव इति नाऽयं दोषः। ननु किं पुनरिदमुपादानलं, यदभावाद् भिन्नसन्तानेऽनुसन्धानाभावः। यत् स्वसन्ततिनिवृत्तौ कार्य जनयति, तदुपादानकारणं, यथा मृत्पिण्डः स्वयं निवर्च- मानो घटमुत्पादयतीति स घटोत्पत्तावुपादानकारणम्, अथवापरम् , अनेकस्मादु- त्पद्यमाने कार्य सकलखगतविशेषाधायकं तत् ;नलेवं निमित्तकारणम्। ननु प्रति- क्षणविशरारुष्वेकखभावपार्वापर्यावस्थितज्ञानखभावेषु क्षणेषूपादानोपादेयभाव एव न व्यवस्थापयितुं शक्यः । तथाहि । उत्तरज्ञानं जनयत् पूर्वज्ञानं किं नष्टं जनयति, उतानष्टम्, उभयरूपम्, अनुभयरूपं वा।न तावन्नष्टम् ; चिरन्तरनष्टस्येवानन्तरन- टस्याप्यविद्यमानलेनोत्पादकत्वविरोधात् । नाप्यनष्टम् ;क्षणभङ्गभङ्गप्रसङ्गात् । ना- प्युभयरूपम् ; एकखभावस्य विरुद्धोभयरूपासम्भवात् । नाप्यनुभयरूपम् ; अन्यो- न्यव्यवच्छेदरूपाणामेकनिषेधस्य तदपरविधाननान्तरीयकत्वेनानुभयरूपताया अयोगात् । अथ यदि व्यापारयोगात्कारणं कार्योत्पादकमभ्युपगम्येत, तदा स्यादयं दोपः, यदुत नष्टस्य व्यापारासम्भवात् कथं कार्योत्पादकत्वम् । यदातु प्राग्भावमात्रमेव कारणस्य कार्योत्पादकत्वं, तदा कुत एतदोषावसरः। नन्वेतस्मि- नभ्युपगमे प्राग्भाविनोऽनेकस्मादुपजायमाने कार्य कुतोऽयं विभागः, इदमत्रो. पादानकारणमिदं च सहकारिकारणमिति । द्वयोरपि कार्येणानुविहितान्वयव्य- तिरेकत्वात् । अथ सत्यप्यन्वयव्यतिरेकानुविधाने एकस्योपादानत्वेन जनक- त्वमपरस्यान्यथेति । नन्वेतदेवोपादानभावेन जनकलं कस्यचिद् रूपस्याननु- गमे प्राग्भावित्वमात्रेण दुरवसेयम्। अथाभिहितमेवोपादानकारणवस्य लक्षणं, तवगमात् कथं तद् दुरवसेयम्। सत्यमुक्तम्।न तु कस्यचिद् रूपस्याननुगमे सत्संभवति, नाप्यवसातुं शक्यम् । तथाहि । यत् खगतविशेषाधायकत्वमु- २.
१५४ - सम्मतिताख्यप्रकरणस्य- पादानत्वमुक्तं, तत्किं स्वगतकतिपयविशेषाधायकत्वम् ,आहोस्त्रित् सकलविशेषा- धायकत्वमिति । तत्र यदिप्रथमः पक्षः। सन युक्तः। सर्वज्ञज्ञाने स्वाकारार्पकस्यास्म- दादिविज्ञानस्य तं प्रत्युपादानभावप्रसङ्गात् । तथा रूपस्यापि रूपज्ञानं प्रत्युपादा- नभावप्रसक्तिः, तस्यापि खगतकतिपयविशेषाधायकत्वात् । अन्यथा निराकारस्य बोधस्य सर्वान् प्रत्यविशेषाद् रूपस्यैवायं ग्राहको न रसादेरिति ततः प्रतिकर्म- व्यवस्था न स्यात् । रूपोपादानवे च ज्ञानस्य परलोकाय दत्तो जलाञ्जलि: स्यात् । किञ्च । कतिपयविशेषाधायकत्वेनोपादानत्वे एकस्यैव ज्ञानक्षणस्य तत्कार्यानुगतव्यावृतानेकधर्मसम्बन्धित्वाभ्युपगमे विरुद्धधर्माध्यासोऽभ्युपगतोभ- वति । तथाच यथा युगपडाव्यनेकविरुद्धधर्माध्यासेऽप्येकं विज्ञान, तथा कम- भाव्यनेकतद्धर्मयोगे किमित्येकं नाभ्युपगम्येत ? । अथ सकलविशेषाधायकत्वेन, न तर्हि निर्विकल्पकात् सविकल्पकोत्पत्तिः । नच निर्विकल्पकसविकल्पकयो- रप्युपादानोपादेयत्वेनाभ्युपगतयोस्तझावः स्यात् । तथाच कुतो रूपाकारात समनन्तरप्रत्ययात् कदाचिद्रसाधाकारस्याप्युपादेयत्वेनाभिमतस्योत्पत्तिः । अथ विज्ञानसन्तानवहुत्वाभ्युपगमात् नाऽयं दोषः; तेन सर्वस्य स्वसदृशस्योत्पत्तिा; तयस्मिन् दर्शन एकस्मिन्नपि सन्ताने प्रमातृनानात्वप्रसङ्गः। तथाच गवा- श्वदर्शनयोभिन्नसन्तानवर्तिनोरेकेन दृष्टेऽर्थे ऽपरस्यानुसन्धानं न स्यात् ; देवदत्त- यज्ञदत्तसन्तानगतयोरिवान्येनानुभूतेऽन्यस्य । दृश्यते च- "गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः" । किञ्च । सकलस्वगतविशेषाधायकत्वे सर्वात्मनोपादेयज्ञानक्षणे तस्योपयो- गात् अनुपयुक्तस्यापरखमावस्याभावात् योगिविज्ञानं रूपादिकं चैकसामग्रय- न्तर्गतं प्रति न सहकारित्वं तस्येति सहकारिकारणाभावे नोपादेयक्षणव्यतिरि- क्तकार्यान्तरोत्पादः । अथ येषां कारणमेव कार्यतया परिणमति, तेषां भवत्वयं दोषो नास्माकं प्राग्भावमात्रं कारणत्वमभ्युपगच्छताम् । नन्वत्रापि मते येन स्वरूपेण विज्ञानमुपादेयं विज्ञानान्तरं जनयति, किं तेनैव रूपमेकसामग्यन्त- गतम्, उत स्वभावान्तरेण ? । तत्र यदि तेनैव; तदा रूपमपि ज्ञानमुपादेयभूटं स्यात् । तत्स्वभावजन्यत्वात्, तदुत्तरज्ञानक्षणवत् । अथ स्वभावान्तरेण:
तत्त्वबोधविधायिनी व्याख्या। १५५ : पर- तदोपादानाभिमतं ज्ञानं द्विस्वभावमासज्यते; यथा चोपादानसहकारिस्वभाव- रूपढ़ययोगस्तथा त्रैलोक्यान्तर्गतान्यजन्यकार्यान्तरापेक्षया तस्याजनकत्वमपि स्वभावः ततश्चैकत्वं ज्ञानक्षणस्य यथोपादानसहकार्यजनकत्वानेकविरुद्धधर्माध्या- सितस्याभ्युपगम्यते, तथा हर्षादिविवर्त्तात्मनस्तत्सन्तानस्याप्यभ्युपगन्तव्यम् । अथोपादानसहकार्यजनकलादयो धर्मास्तत्र कल्पनाशिल्पिकल्पिताः, एकल तु तस्य स्वसंवेदनाध्यक्षसिद्धमिति न तैस्तदपनीयत इति मतिः; तात्मनो- प्येकत्वं सन्तानशब्दाभिधेयतया प्रसिद्धस्य स्वसंवेदनाध्यक्षसिद्धस्य क्रमवद्ध- पविपादादिकार्यदर्शनाऽनुमीयमानं तदपेक्षजनकत्वाजनकत्वधर्मापनेयं न स्यात् तन्न स्वगतसकलधर्माधायकत्वमुपादानलं भवदभ्युपगमेन सङ्गतम् । नापि सन्ताननिवृत्त्या कार्योत्पादकस्वभावम् ; तथाऽभ्युपगमे ज्ञानसन्ताननिवृत्तेः लोकाभावप्रसङ्गः । अथ समनन्तरप्रत्ययत्वमुपादानवमुच्यते । तथाहि । सम- स्तुल्योऽनन्तरोऽव्यवहितः प्रत्ययो जनकः, नचैतद्भिन्नसन्तानादिति न तत्रा- नुसन्धानसंभवः । नन्वनापि समलं कार्येण यद्यपादानलं प्रत्ययस्य, तदा वक्तव्यम् । किं सर्वथा समलम्, उतैकदेशेन ? । यदि सर्वथा। तदसत् । कार्यका- रणयोः सर्वथा तुल्यले यथा कारणस्य प्राग्भावित्वं, तथा कार्यस्यापि स्यात् । तथाच कार्यकारणयोरेककाललात् न कार्यकारणभावः। नोककालयोः कार्य- कारणभावः, सव्येतरगोविषाणवत् । तथा कारणाभिमतस्यापि स्वकारणकालता, तस्यापि स्वकारणकालतेति सकलसन्तानशून्यमिदानीं समस्तं जगत् स्यात् । अथ कथश्चित्समानता । तथा सति योगिज्ञानस्याप्यस्मदादिज्ञानालम्बनस्य तदाकारत्वेनैकसन्तानलं स्यादित्यादि दूषणं पूर्वोक्तमेव । अथानन्तरत्वमुपादा- नत्वम् । ननु क्षणिकैकान्तपक्षे सर्वजगतक्षणानन्तरं विवक्षितक्षणे जगत् जायत इति सर्वपामुपादानत्वमित्येकसन्तानत्वं जगतः। देशानन्तर्य तत्रानुप- योगि । देशव्यवहितस्यापीहजन्ममरणचित्तस्य भाविजन्मचित्तोपादानत्वाभ्यु- पगमात् । प्रत्ययत्वं तु नोपादानत्वम् । सहकारित्वेऽपि प्रत्ययत्वस्य भावात् । तन्न समनन्तरप्रत्ययत्वमप्युपादानत्वम् । नच प्रतिक्षणविशरारुपु भावेषु कथञ्चि- देकान्वयमन्तरेण जनकत्वमपि संगच्छते, किमुतोपादानादिविभाग इति क्षण- १५६ सम्मतिताख्यप्रकरणस्य- भङ्गभङ्गपतिपादनावसरेऽभिधास्यामः । अत्र केचित् तुल्येऽपि जनकले खपरस. न्तानगतयोर्विज्ञानयोरुपादानवे कारणमाहुः । वसन्ततौ चेतितं ज्ञानं ज्ञाना- न्तरजनकं, नत्वेवं परसन्ततौ; अतो जनकत्वव्यतिरिक्तस्योपादानकारण नि- मित्तस्य संभवादित्थंभूताहेतुफलभावाद्यवस्था । अस्यापि व्यवस्थानिमित्तत्वम- युक्तम् ; नहि ज्ञानमसंवेदितं व्यवस्थां लभते । संवेदनं हि ज्ञानानां खत एवेष्यते । तच्च वसन्ततिपतित इव परसन्ततिपतितेऽपि तुल्यम् । ज्ञानान्तरवे- धत्वं तु न शाक्यैरभ्युपगम्यते ज्ञानस्य नियमत इति नायमप्यतिप्रसङ्गपरि- हारः। न च वसन्ततावपि स्वसंविदितज्ञानपूर्वकता ज्ञानस्य सिद्धा। मूर्छाद्यवस्थो- सरकालभाविज्ञानस्य तथात्वानवगमात् । यतो विज्ञानपूर्वकत्वेऽपि तत्र विप्रति- पत्तावादितः कुतःपुनःखसंविदितज्ञानपूर्वकत्वम् । तत्रैतत् स्यात् , विज्ञानपूर्वकत्व- स्थानुमानेन निश्चयात् कथं विप्रतिपत्तिः। तच्च दर्शितम्, 'तज्जातीयात् तज्जातीयो- त्पत्तिः' इति । एतदसत् । अतज्जातीयादपि भावानामुत्पत्तिदर्शनाद्, यथा धूमादेः। येऽप्यत्राहुः । सदृशतादृशभेदेन भावानां विजातीयोत्पत्त्यसंभवादेतददूषणम् । तेषामपि सदृशतादृशविवेको नार्वाग्दृझमातृगोचरः । कार्यनिरूपणायामपि तयोविवेको दुर्लभः; तस्मादयमपरिहारः । यैः पुनरुच्यते । सर्वस्य समानजाती- यादुपादानात्तदुत्पत्तिः । आद्यस्यापि धूमक्षणस्योपादानत्वेन व्यवस्थापिताः काष्ठान्तर्गता अणवस्तत्रापि सजातीयत्वं न विद्मः । रूपादीनां हि रूपादिपूर्व- कत्वेन वा सजातीयत्वम्, धूमत्वोपलक्षितावयवपूर्वकत्वेन वा । प्राच्ये विकल्पे, नेदानी विजातीयादुत्पत्तिोरप्यश्वादुपजायमानस्य । उत्तरविकल्पेऽपि, काष्ठान्तर्गतानामवयवानां धूमत्वं लौकिकं, पारिभाषिकं वा । परिभाषायास्ताबद- यमविषयः। लोकेऽपि तदाकारव्यवस्थितानामवयवानां नैव धूमत्वव्यवहारः । तार्किकेणापि लोकप्रसिद्धव्यवहारानुसरणं युक्तं कर्तुम् । तस्मान्न सजातीयादु- त्पत्तिः । यच्चानोच्यते । तस्यामवस्थायां विज्ञानाभावे तदवस्थातः प्रच्युतस्योत्त- रकालमीदृशी संवित्तिर्न भवेन्न मया किश्चिदपि चेतितं, स्मृतिहीयमानानुभवपू- विका, अतो येनानुभवेन सता न किञ्चिन्चेत्यते, तस्यामवस्थायां तस्यावश्यं सद्भावो ऽभ्युपगन्तव्यः । एतत् सुव्याहृतम् । न किश्चिच्चेतितं मया इति ब्रुवता वस्त्ववे- तत्त्ववोधविधायिनी व्याख्या। १५७ दनं वोच्येत, स्वरूपावेदन वा वस्त्ववेदने, सकलप्रतिषेधो न युक्तः। स्वरूपावेदन तु स्वसंवेदनाभ्युपगमे दूरोत्सारितम् । तस्मादिदानीमेव मनोव्यापारात्तदवस्था- भावी सर्वानवगमः संवेद्यते । अस्तु वा तस्यामवस्थायां विज्ञान, तथापि जनक- त्वातिरिक्तव्यापारविशेषाभावः समनन्तरप्रत्ययत्वे जनकत्वातिरिक्तेऽभ्युपगम्यमाने तयोस्तात्त्विकभेदप्रसङ्गः । तथाच यदेवैकस्यां ज्ञानसन्ततौ समनन्तरप्रत्ययत्वं, तदेव परसन्तताववलम्बनत्वेन जनकत्वामित्येतन्न स्यात् । अथ जनकत्वसम- नन्तरत्वादयो धर्माः काल्पनिकाः।अकल्पितंतु यत् खरूपं तत्तात्त्विकं,तच्च बोधरू- पम् । किमिदानी सांवृतात् रूपाडावानामुत्पत्तिः, नेत्युच्यते, कथं वा काल्पनिक- त्वम् । अथ जनकत्वातिरिक्तस्य समनन्तरप्रत्ययत्वस्यैवमुच्यते, कथं तन्निबन्धना व्यवस्था । तथाहि । एकस्यां सन्ततौ परसन्ततिगतेम विज्ञानेन तुल्येऽपि जनकत्वे, समनन्तरप्रत्ययत्वेन जननविशेषमङ्गीकृत्यैकसन्तानव्यवस्था क्रियते; यदा तु व्य- वस्थानिबन्धनस्यापि सांवृतत्वं, ततस्तत्कृताया व्यवस्थायाः परमार्थसत्त्वं दुर्भण- मिति।अयमपि सौगतानां दोपो न जैनानाम्।यतो ज्ञानपूर्वकत्वं ज्ञानस्य, खसंवेदनं च ज्ञानस्य स्वरूपमित्येतत्प्राक् प्रतिसाधितम् । यच्चोक्तम् । अतज्जातीयादपि भावा- नामुत्पत्तिदर्शनाद्, यथा धूमादेः।इत्यपि न संगतम्।यतो नास्माभिरतज्जातीयोत्प- चिर्नाभ्युपगम्यते, विलक्षणादपि पावकात् धूमोत्पत्तिदर्शनात् , किन्तु कारणगत- धर्मानुविधान कार्यत्वाभ्युपगमनिबन्धनम् ; तच्च ज्ञानस्य प्रदर्शितं प्राक्।नच काय- विज्ञानयोरिवानलंधूमयोः सर्वथा वैलक्षण्यम् : पुद्गलविकारत्वेन द्वयोरपि सादृश्यात्। सर्वथा सादृश्ये च कार्यकारणभावाभावप्रसङ्गः, एकत्वप्राप्तेः । यत्तु सदृशतादृश- विवेकः कार्यनिरूपणायामपि दुर्लभस्तत्र यः कार्यदर्शनादपि विवेक नावधार- यितुं क्षमस्तस्यानुमानव्यवहारेऽनधिकार एव । तदुक्तम्। सुविवेचितं कार्य कारणं न व्यभिचरति, अतस्तवधारणे यत्नो विधेयः। अत एव रूपादीनां हि रूपादिपूर्वक- त्वेन चेत्याधनभिमतोपालम्भमात्रम् । कथञ्चित् सादृश्यस्य कार्यकारणयोर्दर्शि- तत्वात् ;तर च प्रकृते प्रमाणसिद्धत्वात्। यच्च सुप्तमूञ्छिताद्यवस्थासु विज्ञानाभा- वेन तत्पूर्वकत्वमुत्तरज्ञानस्य न संभवीत्यभिधायि। तदसत । तदवस्थायां विज्ञाना- भावग्राहकप्रमाणासंभवात् । तथाहि । न तावत् सुप्त एव तदवस्थायां विज्ञानाभावं . १५८ सम्मतित ख्यप्रकरणस्य- वेति । तदा विज्ञानानभ्युपगमात्। तदवगमे च तस्यैव ज्ञानलात्, न तदवस्थायां तदभावः। नापि पार्श्वे स्थितोऽन्यस्तदभावं वेति। कारणव्यापकखभावानुपलब्धीनां विरुद्धविधेर्वाऽत्र विषयेऽव्यापारात् , अन्यस्य तदभावावभासकत्वायोगात् । नचा- भाववत् तद्रावस्यापि तस्यामवस्थायामप्रतिपत्तिः। स्वात्मनि स्वसंविदितविज्ञाना- विनाभूतत्वेन निश्चितस्य प्राणापानशरीरोष्णताकारविशेषादेस्तदवस्थायामुपलभ्य- मानलिङ्गस्य सद्भावेनानुमानप्रतीत्युत्पत्तेः।जाग्रदवस्थायामपि परसन्ततिपतितचे- तोवृत्तेरस्मदादिभिर्यथोक्तलिङ्गदर्शनोडूतानुमानमन्तरेणाप्रतिपत्तेः। न किश्चिञ्चेतितं. मयेति स्मरणादुत्तरकालभाविनस्तदवस्थायामनुभवानुमाने, किं वस्त्वसंवेदनं स्वरू- पासंवेदनं वेत्यादि यदूषणमभिहितम् । तदप्यसारम्। जाग्रदवस्थाभाविखसंविदि- तगच्छत्तृणस्पर्शज्ञानाश्वविकल्पसमयगोदर्शनादिषूत्तरकालभावि, न मया किञ्चिदु- पलक्षितमिति स्मरणलिङ्गबलोद्भूतानुमानविषयेष्वप्यस्य समानत्वात्। नच खसं- विदितविज्ञानवादिनोऽत्रापि समानो दोष इति वक्तुं युक्तम् । यस्य यावती मात्रेति खसंविदितज्ञानस्याभ्युपगमात् । यच्च समनन्तरसहकारिखाद्यनेकधर्मयुक्तत्वमेकक्षणे ज्ञानस्यासज्यत इतिप्रतिपादितम्।तदभ्युपगम्यमानलेनादूषणम् । अतः पौर्वापर्य- व्यवस्थितहर्षविषादाद्यनेकपर्यायव्याप्येकात्मव्यतिरेकेण ज्ञानयोःखसन्तानेऽप्यनु- सन्धाननिमित्तोपादानोपादेयभावासंभवात्, न परसन्तानवदनुसंधानप्रत्ययः स्या- द्, दृश्यते च।अतोऽनेकत्वव्यावृत्तादनुसन्धानप्रत्ययादपिलिङ्गादात्मसिद्धिः।अथा- पि स्याद्, गमकत्वं हि हेतोःखसाध्याविनाभावग्रहणपूर्वकम् तद्ब्रहणं च धर्म्यन्तरे। नचात्रैककर्तृकत्वेन साध्यमिव्यतिरिक्त धर्म्यन्तरे प्रतिसन्धानस्य व्याप्तिः । येन प्रतिसन्धानादेकः कर्ताऽनुमीयेत। अथ ब्रूषे क्षणिकतासाधकस्य सत्ताख्यस्य हेतोर्यथा धर्म्यन्तरे व्याप्त्यग्रहणेऽपि गमकता, तद्वदस्यापि। एतदचारु । तस्य हि क्षणिकतायां प्राक् प्रत्यक्षेण निश्चयान्निश्चयविषयेण च व्याप्तदर्शनाद्विपक्षात् प्रच्या- वितस्य बाधकप्रमाणेन साध्यधर्मिणि यदवस्थानं, तदेव खसाध्येन व्याप्तिग्रहणम् । अत एवास्य हेतोः साध्यधर्मिण्येव व्याप्तिनिश्चयमिच्छन्ति । ननु व्याप्तिसाध्यनि- श्चययोनियमेन पौर्वांपर्यमभ्युपगन्तव्यम् । व्याप्तिनिश्चयस्य साध्यप्रतिपत्त्यङ्गत्वात्। अत्र तु साध्यधर्मिणि व्याप्तिनिश्चयाभ्युपगमे. साध्यप्रतिपत्तिकालोऽन्योऽभ्युप- -- तत्त्वबोधविधायिनी व्याख्या । " गन्तव्यः; नचासावन्योऽनुभूयते। अस्त्येतत्कार्यहेतोः, कस्यचित् स्वभावहेतोरपि। अस्य तु बाधकात् प्रमाणाद्विपक्षात्पच्युतस्य यदेव साध्यधर्मिणि खसाध्यव्याप्त- तया ग्रहणं तदेव साध्यग्रहणम् । नचास्यैवं द्वैरूप्यम् । यतो विपक्षाद्यावृत्तिरेवान्व- यमाक्षिपति।इयांस्तु विशेषः। कस्यचिद् हेतोाप्तिविषयप्रदर्शनाय धर्मिविशेषः प्रदर्श्यते, अस्य तु यत्सत्तत् क्षणिकमिति धर्मिविशेषाप्रदर्शनेऽपि धर्मिमात्राक्षेपेण व्याप्तिप्रदर्शनम् । तच्च सत्त्वं क्वचिद्यवस्थितमुपलभ्यमानं क्षणिकताप्रति- पत्त्यङ्गम् ; अतः पक्षधर्मताऽप्यत्रास्ति । नचात्रैवम् । अत्राप्येनमेव न्यायं केचिदाहुः । कथं ? तत्र हि व्यापकस्य क्रमस्य योगपद्यस्य निवृत्त्या विपक्षात्तन्निवृत्तिः । अत्रापि प्रमानियतताया व्यापिकाया अभावाद्विप- क्षात्प्रतिसन्धानलक्षणस्य हेतोनिवृत्तिः । अथ तत्र बाधकप्रमाणस्य व्याप्तिः प्रत्यक्षेण निश्चीयते। क्रमयोगपद्याभ्यामर्थक्रियाकरणस्य प्रत्यक्षेण निश्चयात् । अत्र तु कथम् अत्रापि प्रमातृनियमपूर्वकत्वेन खसन्तान एवं प्रतिसंधानस्य व्याप्तिनि- श्रयात् कथं न तुल्यता । अथ ब्रूयात् प्रमातृनियततेत्यस्य भाषितस्य कोऽर्थः, यदि परं भङ्ग्यन्तरेणैककर्तृकत्वं साध्यं व्यपदिश्यते, तस्य प्रत्यक्षेण निश्चयाभ्यु- पगमे कथं बाधकप्रमाणावसेयता व्याप्तः । नैतत् । प्रमातृनियतताग्रहणं नैक- कर्तृकत्वग्रहणम् ; सर्व एव हि भावा देशादिनियततयाऽवसीयमानव्यवहारगोचर- तामुपयान्ति । प्रमातुरप्यवसाय एवमेव दृश्यते; इदानीमत्राहम् । एवं देशाद्यसंसर्ग- वत् प्रमानन्तरासंसर्गोऽपि निश्चीयते । तथाहि । देशकालनिबन्धननियमवयति- रिक्तपदार्थासंसर्गस्वभावनियतप्रतिभासोऽपि घटादेरिवात्रैकत्वानेकत्वनिश्चयाभावः। पूर्वपाक्षिकमते तस्य नानाकर्तृकेषु सन्तानान्तरेषु व्यापकस्याभावाद्, विपक्षात्प्र- च्युतस्य प्रतिसन्धानस्य क्वचिदुपलभ्यमानस्यैककर्तृकत्वे नव्याप्तिः यथाक्रमयोगप- द्याभ्यामर्थक्रियाकरणदर्शने नैवं निश्चयः, किं क्षणिकै क्रमयोगपद्याभ्यां सा क्रियते, आहोस्विदन्यथेति । अथ च प्रत्यक्षेण बाधकस्य व्याप्त्यवसाये, पश्चाद्व्यापकानुप- लब्ध्या मूलहेतोर्व्याप्तिसिद्धिः, एवमेककर्तृकत्वानवसायेऽपि, प्रमातृनियततया प्रतिसन्धानस्य स्वसन्ततौ व्याप्तिनिश्चये सत्युत्तरकालं विपक्षे व्यापकस्य प्रमातृनि- यतत्वस्याभावादेककर्तृकत्वेन प्रतिसंधानस्य व्याप्तिसिद्धिः। एवमनभ्युपगमेऽहं- सम्मतिताख्यप्रकरणस्य- - मन्यो वेति प्रमात्रनिश्चये प्रमेयानिश्चयादन्धमूकं जगत् स्यात् । औपचारिकस्य प्रमातृनियततया प्रतिभासविषयत्वे नात्मप्रत्यक्षत्वदोषः। तत्रैतत् स्यात्। अस्त्ययं प्रमातृनियमनिश्चयः; स तु वसन्ततौ किमेककर्तृकत्वकृतः, उतस्विन्निमित्ता- न्तरकृतो युक्तः। तच्चैकस्यां सन्ततौ हेतुफलभावलक्षणं प्राक् प्रदर्शितम् । सत्यं प्रदर्शितं, नतु साधितम्। तथाहि । तत्कृतःप्रमातृनियमो नान्यकृत इति नैतावत्प्र- त्यक्षस्य विषयः, नच प्रमाणान्तरस्यापि । तद्यस्मिन् विषये उच्यमानं अनुमान- मुच्येत, तदपि प्रत्यक्षनिषेधान्निषिद्धम् । नच क्षणिकत्वव्यवस्थापने हेतुफलभाव- कृतो नियम इत्यभ्युपगन्तुं युक्तम् । तस्योपरिष्टात् निषेत्स्यमानत्वात् । नचात एव . दोषादेककर्तृकत्वकृतोऽपि न नियम इति वक्तुं शक्यम्। स्वसंवेदनप्रत्यक्षसिद्धत्वस्य, तत्पूर्वकानुमानसिद्धत्वस्य चात्मनि प्राग्व्यवस्थापितत्वात् । अभ्युपगमवादेन तु क्षणिकत्वव्यवस्थापकसत्त्वहेतुतुल्यत्वमनुसन्धानप्रत्ययहेतोः प्रदर्शितम् ; नतु क्षणिकत्ववदात्मैकत्वस्य प्रत्यक्षासिद्धत्वम्; येनानुमानात तत्पतिसिद्मभ्युपगमे इतरेतराश्रयदोषप्रसङ्गप्रेर्येत ।अतोऽध्यक्षानुमानप्रमाणसिद्धलात् 'परलोकिनोऽ- भावात् परलोकाभावः' इति सूत्रं निःसारतया व्यवस्थितम् । यदप्युच्यते । शरी- रान्तर्गतसंवेदनं कथं शरीरान्तरसंचारि; जीवतस्तावत् न शरीरान्तरसंचारो दृष्टः; परस्मिन् मरणसमये भविष्यतीति दुरन्वयमेतत् । तदपि न युक्तम् । यतः कुमारशरीरान्तर्गताः पाण्डित्यादिविकल्पा वृद्धावस्थाशरीरसंचारिणो दृश्यन्ते; जीवत एव चपलतादिशरीरावस्थाविशेषाः, वाग्विकाराश्च; तत् कथं न जीवतः शरीरान्तरसंचारः । अथैकमेवेदं शरीरं बालकुमारादिभेदभिन्नं, जन्मान्तरशरीरंतु मातापित्रन्तरशुक्रशोणितप्रभवं शरीरान्तरप्रभवम् । एतदप्ययुक्तम् । बालकुमारश- रीरस्यापि भेदात् । यथा च बालकुमारशरीरचपलताभेदस्तरुणादिशरीरसञ्चारी उपलभ्यते, तथा निजजन्मान्तरशरीरप्रभवश्वपलतादिभेदः परभवभाविजन्मशरी- रसंचारी भविष्यतीति; ततो न मातापितृशुक्रशोणितान्वयि जन्मादिशरीरम् , अपि तु स्वसन्तानशरीरान्वयमेव; वृद्धादिशरीरवत् । अन्यथा मातापितृशरीर- चपलतादिविलक्षणं शरीरं चेष्टावन्न स्यात् । अथेहजन्मबालकुमाराद्यवस्थाभेदेऽपि प्रत्यभिज्ञानादेकलं सिद्ध, शरीरस्य तदवस्थाव्यापकस्य । तेन न तदृष्टान्तबला- . - तत्त्ववोपविधायिनी व्याख्या । १६१ सन्तमिले जन्मान्तरशरीरादौ ज्ञानसंचारों युक्तः । तदसत् । पूर्वोत्तरजन्मशरीर- शानसंचारकारिणः कार्मणशरीरस्यात एवं कथञ्चिदेकलसिद्धेः । तथाहि । ज्ञान तावदिहजन्मादावन्यनिजजन्मज्ञानप्रभवं प्रसाधितम्; तस्य चेहजन्मबालकुमा- राघवस्थाभेदेषु तदेवेदं शरीरमित्यबाधितप्रत्यभिज्ञापत्ययावगतैकरूपान्वयिषु संचा- रदर्शनात् पूर्वोत्तरजन्मावस्थास्वपि तथाभूतानुगामिरूपसमन्वितासु तस्य संचारो- ऽनुमीयते । नचास्मदादीन्द्रियसंवेद्यरूपाद्याश्रयस्यौदारिकशरीरस्य जन्मान्तरश- रीराद्यवस्थाऽनुगमः संभवति; तस्य तदैव च दाहादिना ध्वंसोपलब्धेः । अतो जन्मद्वयावस्याव्यापकस्योप्मादिधर्मानुगतस्य कार्मणशरीरस्य विज्ञानसंचारका- रिणः सहावः सिद्धः । पूर्वोत्तरजन्मावस्थाव्यापकस्यावस्थातुस्तदवस्थाभ्यः कथ- चिदभेदात्; मातापितृशरीरविलक्षणनिजशरीरावस्थाचपलताऽऽद्यनुविधाने, उत्त- रावस्थायाः कथं नावस्थातृधर्मानुविधानम् । तस्माद्यस्यैव संस्कारं नियमेनानुवर्तते । शरीरं पूर्वदेहस्य तत्तदन्वयि युक्तिमत्" ॥ १ ॥ अथ पूर्वापरयोः प्रत्यक्षस्याप्रवृत्तेर्न कार्यकारणभावः; अनुमानभावसिद्धावि- तरेतराश्रयदोप इति । तदापि प्रतिविहितम् । एवं हि सर्वशून्यत्वमायातमिति कस्य दूपणं साधनं वा केन प्रमाणेन?, इहलोकस्याप्यभावप्रसक्तरिति प्रतिपादि- तत्वात् । अथ कार्यविशेषस्य विशिष्टकारणपूर्वकत्वसिद्धौ यथोक्तप्रकारेण भवतु पूर्वजन्मसिद्धिः, भाविपरलोकसिद्धिस्तु कथम् । भाविनि प्रमाणाभावात् । तत्रापि कार्यविशेषादेवेति ब्रूमः । तथाहि । कार्यविशेषो विशिष्टं सत्त्वमेव । तच्च न सत्तासंबन्धलक्षणम् । तस्य निपेत्स्यमानत्वात् । नाप्यर्थक्रियाकारित्वलक्ष- णम् । सन्ततिव्यवच्छेदे तस्याभावप्रसङ्गात् । तथाहि । शब्दबुद्धिप्रदीपादिसन्ता- नानां ययुच्छेदोऽभ्युपगम्यते, तदा तत्सन्ततिचरमक्षणस्यापरक्षणाजननादस- त्वम्, तदसत्त्वे च पूर्वपूर्वक्षणानामर्थक्रियाऽजननादसत्त्वमिति सन्तत्यभावः । अथ सन्तत्यन्तक्षणः सजातीयक्षणान्तराजननेऽपि' सर्वज्ञसन्ताने खग्राहि- । ज्ञानजनकत्वेन सन्निति नायं दोषः । तदसत् खसन्ततिपतितोपादेयक्षणाजनकत्वे परसन्तानवविवाहिज्ञानजनकत्वस्याप्यसंभवात् । नमुपादानकारणलाभावेसह- सम्मतिताख्यप्रकरणस्य- कारिकारणलं क्वचिदप्युपलब्धम् । तत्सद्भावे वा एकसामन्यधीनस्य रूपादे, रस- तस्तत्समानकालभाविनोऽव्यभिचारिणी प्रतिपत्तिर्न स्यात् । रूपक्षणस्य खोपादे- यक्षणान्तराजननेऽपि रससन्ततौ सहकारिकारणलेन रसक्षणजनकलाभ्युपगमात्, तत्सद्भावेऽपि तत्समानकालभाविनो रूपादेरभावात्।तन्नोपादानकारणत्वाभावेसह- कारित्वस्यापि संभव इति वसन्तत्युच्छेदाभ्युपगमेऽर्थक्रियालक्षणस्य सत्त्वस्यासम्भव इत्युत्पादव्ययध्रौव्यलक्षणमेव सत्त्वमभ्युपगन्तव्यमिति कार्यविशेषलक्षणाद्धेतो- येथोक्तप्रकारेणातीतकालवदनागतकालसंबन्धिलमप्यात्मनः सिद्धम्। यदप्युक्तम्। यद्यागमसिद्धत्वमात्मनः, तस्य वा प्रतिनियतकर्मफलसंबन्धस्तत्सिद्धोऽभ्युपगम्यते, तदाऽनुमानवैयर्थ्यमिति। तदपि मूर्खेश्वरचेष्टितम्। नहि व्यर्थमिति निजकारणसाम- प्रीबलायातवस्तु प्रतिक्षेप्तुंयुक्तम् । नह्यागमसिद्धाः पदार्थी इति प्रत्यक्षस्यापि प्रति- क्षेपो युक्तः। यदपि प्रत्यक्षानुमानाविषये चार्थे आगमप्रामाण्यवादिभिस्तस्य प्रामा- ण्यमभ्युपगम्यते।तदुक्तम् "आम्नायस्य क्रियाऽर्थवादानर्थक्यमतदर्थानाम्-"इति । तदप्ययुक्तम् । यतो यथा प्रत्यक्षप्रतीतेऽप्यर्थे विप्रतिपत्तिविषयेऽनुमानमपि प्रवृ- त्तिमासादयतीति प्रतिपादितम्, तथा प्रत्यक्षानुमानप्रतिपन्नेऽप्यात्मलक्षणेऽर्थे तस्य वा प्रतिनियतकर्मफलसंबन्धलक्षणे किमित्यागमस्य प्रवृत्तिर्नाभ्युपगमस्य विषयः। नचागमस्य तत्राप्रामाण्यमिति वक्तुं युक्तम्। सर्वज्ञप्रणीतलेन तत्प्रामाण्यस्य व्यव- स्थापितलात्।प्रतिनियतकर्मफलसंबन्धप्रतिपादकश्चागमः। "बहारम्भप्रतिग्रहलंच नारकस्य-" इत्यादिना वाचकमुख्येन सूत्रीकृतोऽस्यैवानुमानविषयले प्रतिपादयितु- कामेन । यथा च कर्मफलसंबन्धोऽप्यात्मनोऽनुमानादवसीयते, तथा यथास्थानमि- हैव प्रतिपादयिष्यामः । आत्मस्वरूपप्रतिपादकः, प्रतिनियतकर्मफलसंबन्धप्रति- पादकश्चागम:-"एगे आया पुवि दुविण्णाणं दुप्पडिकंताणं कडाणं कम्माणम्" इत्यादिकः सुप्रसिद्ध एव । तदेवं प्रत्यक्षानुमानागमप्रमाणप्रसिद्धत्वात् नारकतिर्य- नरामरपर्यायानुभूतिखभावस्यात्मनो न भवशब्दव्युत्पत्तिरर्थाभावात् 'डित्था- दिशब्दव्युत्पत्तितुल्येति स्थितम् ॥ अत्राहुनैयायिकाः। क्लेशकर्मविपाकाशयापरामृष्टपुरुषाभ्युपगमे, 'नित्यं सत्त्वम- सत्त्वं वा' इति दूषणमभ्यधायि। तत्र तन्नित्यसत्वप्रतिपादने नास्माकं काचित् क्षतिः।। • .
तस्वबोधविधायिनी व्याख्या । प्रमाणतो नित्यज्ञानादिधर्मकलापान्वितस्य तस्याभ्युपगमात् । ननु युक्तमेतद्यदि तयाभूतपुरुषसद्भावप्रतिपादकं किश्चित्पमाणं स्यात्,तच नास्ति।तथाहि ।नप्रत्यक्षं तथाविधपुरुषसहावावेदकमस्मदादीनाम् : अस्माद्विलक्षणयोगिमिस्तस्यावसाय इत्यत्रापि न किञ्चित् प्रमाणमस्ति । यदा न तवस्वरूपग्रणे प्रत्यक्षप्रमाणप्रवृत्तिः, तदा तद्गतधर्माणां नित्यज्ञानादीनां सद्भाववात्तैव न संभवति। नानुमानमपि युक्त. मेतत्स्वरूपावेदकम् । प्रत्यक्षनिषेधे तत्पूर्वकस्य तस्यापि निषेधात् । सामान्यतो दृष्टस्यापि नात्र विषये प्रवृत्तिः। लिङ्गस्य कस्यचित्तत्प्रतिपादकस्याभावात् , कार्य- त्वस्य पृथिव्याधाश्रितस्य केपाश्चिन्मतेनासिद्धेः । नच संस्थानवत्त्वस्य तत्साध- कत्वम् ।प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्यात्यन्तवैलक्षण्यात् । संस्थान- शब्दवाच्यत्वेन चातिप्रसक्तिर्दर्शिता, "वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः" इत्यादिना ।तस्मानानुमानं तत्साधनायालम्।नाप्यागमः।नित्यस्यात्र दर्शनेऽनभ्यु- पगमात् । अभ्युपगमे वा कार्यार्थप्रतिपादकस्य, सिद्धे वस्तुन्यव्यापतेः। नापीश्वर- पूर्वकस्य प्रामाण्यम्।इतरेतराश्रयदोषप्रसङ्गात् । अनीश्वरपूर्वकस्यापि संभाव्यमान- दोपलेन प्रप्राणताऽनुपपत्तेः । तस्यान्येश्वरपूर्वकत्वे, तस्यापि सिद्धिः कुत इति 'वक्तव्यम् । तदसिद्धी,न तस्य प्रामाण्यम्; अनेकेश्वरप्रसङ्गदोपश्च । भवतु को दोषः । यत एकस्यापि साधने वयमतीवोत्सुकाः, किं पुनर्बहूनामिति चेत् । न कश्चित्प्रमा- णाभावं मुक्त्वा । तन्नागमतोऽपि तत्प्रतिपत्तिः, एवं स्वरूपासिद्धौ कथं तस्य कार- णता । अत्राहुः। यदुक्तम्, न तत्र प्रत्यक्ष प्रमाणम् । तदेवमेव । यदपि, सर्वप्रकारस्या- गमस्य न तत्स्वरूपावेदने व्यापृतिः। तत्रोच्यते । आगमाव्यापारेऽपि ततस्वरूप- साधकमनुमानं विद्यते । आगमस्यापि सिद्धेऽर्थे लिङ्गदर्शनन्यायेन यथा व्यापृति- स्तथा प्रतिपादयिष्यामः । प्रत्यक्षपूर्वकानुमाननिषेधे सिद्धसाधनम् । सामान्यतो दृष्टानुमानस्य तत्र व्यापाराभ्युपगमात् । नन्वनुमानप्रमाणतायामयं विचारो युक्ता- सम्मः, तस्यैव तु प्रामाण्यं नानुमन्यन्ते चार्वाका इति । एतच्चानुढोण्यम् । अनुमान- प्रामाण्यस्य व्यवस्थापितलात् । यत्तूक्तम् । पृथिव्यादिगतस्य कार्यत्वस्याप्रति- ; पत्तेः, न तस्मादीश्वरावगमः । तत्र पृथिव्यादीनां बौद्धैः कार्यलमभ्युपगतं, ते कथमेवं क्देयुः । येऽपि चार्वाकाद्याः पृथिव्यादीनां कार्यलं नेच्छन्ति, तेषामपि + सम्मतिताख्यप्रकरणस्य-. विशिष्टसंस्थानयुक्तानां कथमकार्यता ? । सर्व संस्थानवत् कार्यम्, तच्च पुरुषपू- र्वकं दृष्टम् । येऽप्याहुः। संस्थानशब्दवाच्यत्वं केवलं घटादिभिः समानं पृथिव्या- दीनान तत्त्वतोऽर्थः कश्चिद् द्वयोरनुगतसमानो विद्यते। तेषामपि, न केवलमत्रा- नुगतार्थाभावः किन्तु धूमादावपि पूर्वापरब्यक्तिगतो नैव कश्चिदनुगतोऽर्थः समानोऽस्ति । अथ तत्र वस्तुदर्शनायातकल्पनानिमित्तमुक्तम् , अत्र तथाभूतस्य प्रतिभासस्याभावान्नानुगतार्थकल्पना । तथाहि । कस्यचिद् घटादेः क्रियमाणस्य विशिष्टां रचनां कर्तृपूर्विकां दृष्ट्वाऽदृष्टकर्तृकस्यापि घटप्रासादादेस्तस्य रचना- विशेषस्य कर्तृपूर्वकलप्रतिपत्तिः । पृथिव्यादेस्तु संस्थान कदाचिदपि कर्तृपूर्वकं नावगतम् । नापि तादृशं धर्म्यन्तरे दृष्टकर्तृक इव पटादौ; तत्पृथिव्यादिगतस्य संस्थानस्य वैलक्षण्यात्ततो न ततः कर्तृपूर्वकलप्रतिपत्तिः । एवं हेतोरसिद्धत्वेन नैतत्साधनम् । अयुक्तमेतत् । यतो यद्यनवगतसंबन्धान प्रतिपत्तॄन अधिकृत्य हेतोरसिद्धत्वमुच्यते, तदा धूमादिष्वपि तुल्यम् । अथ गृहीताविनाभावानामपि कार्यत्वदर्शनात् तत्त्वादिषु ईश्वरादिकृतत्वप्रतिभासानुत्पत्तेरेवमुच्यते । तदसत् । ये हि कार्यत्वादेर्बुद्धिमत्कारणपूर्वकत्वेन गृहीताविनाभावास्ते तस्मादीश्वरा- दिपूर्वकत्वं तेषामवगच्छन्त्येव, तस्माद् व्युत्पन्नानामस्त्येव पृथिव्यादिसंस्थान- वत्त्वकार्यत्वादेहेतोईर्मिधर्मताऽवगमः। अव्युत्पन्नानां तु प्रसिद्धानुमाने धूमादावपि नास्ति । अपिच । भवतु प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्य वैलक्षण्यं, तथापि कार्यत्वं शाक्यादिभिः पृथिव्यादीनामिष्यते । कार्य च कर्तृकरणादि- पूर्वकं दृष्टम्; अतः कार्यत्वाद् बुद्धिमत्कारणपूर्वकत्वानुमानम् । अथ कर्तृपूर्व- कस्य कार्यत्वस्य, संस्थानवत्त्वस्य च तदैलक्षण्यान्न ततः साध्यावगमः। अत एवा- धिष्ठातृभावाभावानुवृत्तिमद्यत् संस्थानं तद्दर्शनात् कर्बदर्शिनोऽपि तत्प्रतिपत्ति- र्युक्तेत्यस्य दूषणस्य कार्यत्वेऽपि समानत्वात् कथं गमकता ?। यद्येवम् , अनुमानो- च्छेदप्रसङ्गः। धूमादिकमपि यथाविधमग्न्यादिसामग्रीभावाभावानुवृत्तिमत्, तथा- विधमेव यदि पर्वतोपरि भवेत् , स्यात् ततो वह्याद्यवगमः; अथाधूमव्यावृत्तं तथाविधमेव धूमादि, तर्हि कार्यत्वाद्यपि तथाविधं पृथिव्यादिगतं किं नेष्यते । अथ पृथिव्यादिगतकार्यत्वादिदर्शनात् कर्बदर्शिनां तदप्रतिपत्तिः; एवं शिखा- तस्वबोधविधायिनी व्याख्या। १६५ दिगतवह्नयाघदर्शिनां धूमादिभ्योऽपि तदप्रतिपत्तिरस्तु । नचात्र शब्दसामान्य वस्त्वनुगमो नास्तीति वक्तुं युक्तम् । धूमादावपि शब्दसामान्यस्य वक्तुं शक्यत्वात्। तन्न शाक्यदृष्ट्या कार्यत्वादेरसिद्धता; नापि चार्वाकमीमांसकदृष्ट्या । तेषामपि संस्थानवदवश्यं कार्यम् , घटादिवत्पृथिव्यादिस्वावयवसंयोगैरारब्धम् , अवश्यंतया विदलेपाद्विनाशमनुभविष्यति । एवं विनाशादा संभावितात्कार्यत्वानुमान, रचना- स्वभावाहा।यथोक्तं भाष्यकृता।येपामप्यनवगतोत्पत्तीनां भावानां रूपमुपलभ्यते; तेषां तन्तुव्यतिपङ्गजनितं रूपं दृष्ट्वा तयतिषणविमोचनात् , तद्विनाशाहा विन- क्ष्यतीत्यनुमीयते । अनेन संस्थानवताऽनुपलभ्यमानोत्पत्तेः समवाय्यसमवायि- कारणविनाशादिनाशमाह; तथा पृथिव्यादेः संस्थानवतोऽदृष्टजन्मनो रूपदर्शनात् नाशसम्भावना भविष्यति; सम्भाविताच नाशात् कार्यवानुमितौ कर्तृपतिपत्तिः। यथोक्तं न्यायविद्भिः "तत्त्वदर्शनं प्रत्यक्षतोऽनुमानतो वा" कार्यत्वविनाशित्वयोश्च समव्याप्तिकत्वादेकेनापरस्यानुमानमिष्टम् ; "तेन यत्राप्युभौ धौं-" इत्यत्रातो जैमिनीयानां न कार्यलादेरसिद्धता । नापि चार्वाकमतेऽसिहत्वम् ; तेषां रचना- वत्वेनावश्यंभाविनी कार्यताप्रतिपत्तिरदृष्टोत्पत्तीनामपि क्षित्यादीनाम् । अन्यथा वंदरचनाया अपि कईदर्शनाभावान्न कार्यता । यतस्तत्राप्येतावच्छक्यं वक्तुम् । न रचनात्वेन वेदरचनायाः कार्यत्वानुमानं, कर्तृभावानुविधायिनी तदर्शना- लौकिक्येव रचना तत्पूर्विकाऽस्तु, मा भूवैदिकी । अथ तयोविशेषानुपलम्भाल्लौ- किकाच वैदिक्यपि कर्टपूर्विका, तर्हि प्रासादादिसंस्थानवत् पृथिव्यादिसंस्थान- यत्त्वस्यापि तद्रूपताऽस्तु । विशेपानुपलक्षणात् । तन्न हेतोरसिद्धता । मा भूद- सिदत्वं तथाऽप्यस्मात्साध्यसिद्धिर्न युक्ता । नहि केवलात्पक्षधर्मत्वाद् व्याप्ति- शून्यात्साघ्यावगमः । ननु किं घटादौ कर्तृकर्मकरणपूर्वकत्वेन कार्यत्वादेर्व्या- त्यनवगमः अस्त्येवं घटगते कार्यत्वे प्रतिपत्तिस्तथापि न व्याप्तिः। सा हि सक- लाक्षेपेण गृहाते, अत्र तु व्याप्तिग्रहणकालं एव केषाश्चित् कार्याणामकर्तृपूर्वकाणां कार्यत्वदर्शनान्न सर्व कार्य कर्तृपूर्वकम्, यथा वनेपु वनस्पतीनाम् । अथ तत्र न कभावनिश्चयः, किंतु कर्वग्रहणम् तच्च विद्यमानेऽपि कर्तरि भवतीति कथं साध्या- भावे हेतोर्दर्शनम् । क पुनर्विद्यमानकर्तृणां तदप्रतिपत्तिः, यथा घटादीनामनवगतो- १६६ सम्मतिताख्यप्रकरणस्य- त्पत्तीनाम् ;युक्ता तत्र कर्तुरप्रतिपत्तिः, उत्पादकालानवगमात्; तत्काले चतस्य तत्र संनिधानम्, अन्यदाऽस्य सन्निधानाभावादग्रहणम् । वनगतेषु च स्थावरेषूपलभ्य- मानजन्मसु कर्तृसद्भावे तदवगमोऽवश्यंभावी; यथोपलभ्यमानजन्मनि घटादौ।अत उपलब्धिलक्षणप्राप्तस्य कर्तुंस्तेष्वभावनिश्चयात्, तत्र व्याप्तिग्रहणकाल एव कार्य- त्वादेहेंतोर्दर्शनान्न कर्तृपूर्वकत्वेन व्याप्तिः।इतश्च दृष्टहान्यदृष्टपरिकल्पनासम्भवात् । दृष्टानां क्षित्यादीनां कारणत्वत्यागोऽदृष्टस्य च कर्तुःकारणत्वकल्पना नयुक्तिमती । अथ न क्षित्यादेः कारणत्वनिराकरणम्, कर्तृकल्पनायामपि तत्सद्भावेऽपि तस्यापर- कारणत्वकृतेः। तदसत । यतो यद्यस्यान्वयव्यतिरेकानुविधायि तत्तस्य कारणमित- रत्कार्यम्, क्षित्यादीनां त्वन्वयव्यतिरेकावनुविधत्ते तत्राकृष्टजातं वनस्पत्यादि नापरस्य; कथमतो व्यतिरिक्तकारणं भवेत् ? । एवमपि कारणत्वकल्पनायां दोष उक्तः, 'चैत्रस्य व्रणरोहणे' इत्यादिना। तस्मात्पक्षधर्मत्वेऽपि व्याप्त्यभावादगमकत्वं हेतोः । अथ तेषां पक्षेऽन्तर्भावान्न तैय॑भिचारः। तदसत् । तात्त्विकं विपक्षत्वं कथमिच्छाकल्पितेन पक्षत्वेनापोघेत । व्याप्तौ सिद्धायां साध्यतदभावयोरग्रहणे वादीच्छापरिकल्पितं पक्षत्वं कथ्यते । सपक्षविपक्षयोहेतोः सदसत्त्वनिश्चयाया- तिसिद्धिः । एवमपि साध्याभावे दृष्टस्य हेतोाप्तिग्रहणकाले, व्यभिचाराशङ्कायां निश्चये वा व्यभिचारविषयस्य पक्षेऽन्तीवेन गमकत्वकल्पने न कश्चिद्धेतु- यभिचारी भवेत् । तस्मान्नेश्वरसिद्धौ कश्चित् हेतुरव्यभिचार्यस्ति । अत्राहुः । नाकृष्टजातैः स्थावरादिभियभिचारो, व्याप्त्यभावो वा । साध्याभावे वर्तमानो हेतुर्व्यभिचारी उच्यते; तेषु तु कत्रग्रहणम्; न सकर्तृकत्वाभावनिश्चयः। ननू- क्तम् , उपलब्धिलक्षणप्राप्तत्वे कर्तुरभावनिश्चयस्तत्र युक्तः । तद्युक्तम् । उपल- ब्धिलक्षणप्राप्ततायाः कर्तुस्तेष्वनभ्युपगमाव। यत्तूक्तम् । क्षित्याद्यन्वयव्यतिरेकानु- विधानदर्शनाचेषां तद्व्यतिरिक्तस्य कारणत्वकल्पनेऽतिप्रसङ्गदोष इति । एतस्यां कल्पनायां धर्माधर्मयोरपि न कारणता भवेत्।नच तयोरकारणतैव। तयोःकारण- त्वप्रसाधनात् । नहि किश्चिज्जगत्यस्ति यत्कस्यचिन्न सुखसाधनं, दुःखसाधनं वा। नच तत्साधनस्यादृष्टनिरपेक्षस्योत्पत्तिः। इयांस्तु विशेषः। शरीरादेः प्रतिनियताह- टाक्षिप्तत्वं प्रायेण, सर्वोपभोग्यानां तु साधारणादृष्टाक्षिप्तत्वम्। एतत्सर्ववादिभिरभ्यु- तत्त्वबोधविधायिनी व्याख्या । पगमादप्रत्याख्येयम् : युक्तिश्च प्रदर्शितैव। चार्वाकैरप्येतदभ्युपगन्तव्यम्।तान् प्रति पूर्वमतत्सिद्धौ प्रमाणस्योक्तत्वात् ।प्रमाणसिहं तु न कस्यचिन्न सिद्धम् । अथादृ- टस्य कार्येणान्वयव्यतिरेकाननुविधानेऽपि नाकारणता; न तर्हि वक्तव्यं भूम्यादिव्य- तिरेकेण स्थावरादिना कार्येणेश्वरस्यान्वयन्यतिरेकाननुविधानादकारणत्वम् । अथ जगडैचित्र्यमदृष्टस्य कारणत्वं विना नोपपद्यते इति तत् कल्प्यते। सर्वानुत्पत्तिमतः प्रति, भूम्यादेः साधारणत्वादतोऽदृष्टाख्यविचित्रकारणकृतं कार्यवैचित्र्यम् । एवमदृ- टस्य कारणत्वकल्पनायामीश्वरस्यापि कारणत्वप्रतिक्षेपो न युक्तः । यथा कारण- गतं वैचित्र्यं विना कार्यगतं वैचित्र्यं नोपपद्यते इति तत् परिकल्प्यते, तथा चेतनं कारं विना कार्यस्वरूपानुपपत्तिरिति किमिति तस्य नाभ्युपगमः १ । नचा- कृष्टजातेषु स्थावरादिपु तस्याग्रहणेन प्रतिक्षेपः । अनुपलब्धिलक्षणप्राप्त- लाददृष्टवत् । नच सर्वा कारणसामग्युपलब्धिलक्षणप्राप्ता । अत एव दृश्यमाने- प्वपि कारणेषु कारणत्वमप्रत्यक्षम्। कार्येणैव तस्योपलम्भात् । सहकारिसत्ता दृश्यमा- नस्य कारणता केषाश्चित् सहकारिणां दृश्यत्वेऽप्यदृष्टादेः सहकारिणः कार्येणैव पति- पतिःएवमीश्वरस्य कारणत्वेऽपिन तत्रवरूपग्रहणं प्रत्यक्षेणेति स्थितम् । ततोऽनुप. लम्धिलक्षणमाप्तत्वात् क रुपलभ्यमानजन्मसु स्थावरेपु हेतोवृत्तिदर्शनान्न व्या- प्समावः; यतो निश्चितविपक्षवृत्तिहेतुर्व्यभिचारी । ननु निश्चितविपक्षवृत्तिर्यथा व्यभिचारी, तथा सन्दिग्धव्यतिरेकोऽपि। उक्तेषु स्थावरेषु कत्रग्रहणं किं क-भावात, आहोविद् विद्यमानत्वेऽपि तस्याग्रहणमनुपलब्धिलक्षणप्राप्तत्वेन । एवं सन्दिग्ध- व्यतिरेकत्वेन कश्चिद्धेतुर्गमकः।धूमादेरपि सकलव्यक्क्याक्षेपेण व्याप्त्युपलम्भकाले, न सर्वा वहिव्यक्तयो दृश्याः, तासु वाऽदृश्यासु धूमव्यक्तीनां दृश्यत्वे सन्दिग्धव्यतिरे- काशङ्का न निवर्चते । यत्र वढेरदर्शने घूमदर्शनं, तत्र किंवद्वेरदर्शनमभावात्, आहो- खिद् अनुपलब्धिलक्षणप्राप्तत्वादिति न निश्चयः। अतो धूमोऽपि सन्दिग्धव्यतिरेक- त्वान्न गमकः । अथ धूमः कार्य हुतमुजः, तस्य तदभावे स्वरूपानुपपत्तिः,अदृष्टत्वेऽ- प्यनलस्य सहावकल्पना । ननु तत्कार्यमत्रोपलभ्यमानं किमिति कारणमन्तरेण करप्यते । अथ दृष्टशक्तेः कारणस्य कल्पनाऽस्तु, मा भूद् बुद्धिमतः। वह्नयादेबूंमा- दीन् प्रति कथं दृष्टशक्तिता। प्रत्यक्षानुपलम्भाभ्यामिति चेत्। बुद्धिमतोऽपि ताभ्यां - सम्मतिताख्यप्रकरणस्य- कारणत्वकृतौ वह्वयादिभिस्तुल्यता । यथा वयादिसामग्यां धूमादिर्जन्यमानो दृष्टः, स तामन्तरेण कदाचिदपि न भवति । स्वरूपहानिप्रसङ्गात् । तद्वत्सर्व- मुत्पत्तिमत् कर्तृकर्मकरणपूर्वकं दृष्टं; तस्य सकृदपि तथादर्शनात्तजन्यतास्वभावः। तस्यैवस्वभावनिश्चितावन्यतमाभावेऽपि कथं भावः । किंच । अनुपलभ्यमान- कर्तृकेषु स्थावरेषु कर्तुरनुपलम्भः, शरीराद्यभावात् । नत्वसत्त्वात् । यत्र शरीरस्य कर्तृता तत्र कुलालादेः प्रत्यक्षेणैवोपलम्भः; अत्र तु चैतन्यमात्रेणोपादानाद्यधि- ष्ठानात् कथं प्रत्यक्षव्यापृतिः। नाप्येतद्वक्तव्यम्, शरीराद्यभावात्। तर्हि कर्तृताऽपि न युक्ता । कार्यस्य शरीरेण सह व्यभिचारदर्शनात् । यथा स्वशरीरस्य प्रवृत्ति- निवृत्ती सर्वश्चेतनः करोति; ते च कार्यभूते । न च शरीरान्तरेण शरीरप्रवृत्ति- निवृत्तिलक्षणं कार्य चेतनः करोति; तेन तस्य व्यभिचारः । अथः शरीर एव दृष्ट- त्वात् करोतु नान्यत्र । तन्नं । यतः कार्य शरीरेण विना करोतीति नः साध्यम्., तत् स्वशरीरगतमन्यशरीरगतं वेति नानेन किञ्चित् । एतेनैतदपि पराकृतम्, यदाहुरेके- "अचेतनः कथं भावस्तदिच्छामनुवर्तते" । अचेतनस्य शरीरादेरात्मेच्छानुवर्तित्वदर्शनात् । नचाचेतनस्य तदि- च्छाननुवर्तिनोऽपि प्रयत्नप्रेर्यत्वपरिहार इति वक्तव्यम् । यत ईश्वरस्यापि प्रयत्नसद्भावे, न काचित् क्षतिः । नच शरीराभावात् कथं प्रयत्न इति वक्तुं युक्तम् । शरीरान्तराभावेऽपि शरीरस्य प्रयत्नयंत्वदर्शनात, तत्कः शरीराभावादकृष्टोत्पत्तिषु स्थावरेष्वग्रहणम्, न तत्रादर्शनेन हेतोय॑भिचार। येऽपि- प्रत्यक्षानुपलम्भसाधनं कार्यकारणभावमाहुः, तेषामपि कस्यचित्कार्य- कारणभावस्य तत्साधनत्वे यथेन्द्रियाणाम् , अदृष्टस्य चतौ विना कारणत्व- सिद्धिः, तथेश्वरस्यापि । अतो न व्याप्त्यभावः । अत एव नसत्प्रतिपक्षताऽपि । नैकस्मिन् साध्यान्विते हेतौ स्थिते द्वितीयस्य तथाविधस्य तत्रावकाशः। वस्तुनों बैरूप्यासंभवात् । नापि बाधः । अबुद्धिमत्कारणपूर्वकत्वस्य' प्रमाणेनाग्रह- णात् । साध्याभावे हेतोरभावः स्वसाध्यव्याप्तत्वादेव सिंहः । नापि धर्म्य- सिद्धता । कार्यकारणसङ्घातस्य पृथिव्यादेर्भूतग्रामस्य च प्रमाणेन सिद्धत्वात् । .
तत्त्ववोधविधायिनी व्याख्या। तदाश्रयत्वेन हेतोर्यथा प्रमाणेनोपलम्भस्तथा पूर्व प्रदर्शितम् । अतोऽस्मादी- धरावगमे न तत्सिद्धौ प्रमाणाभावः । नापि हेतोर्विशेषविरुद्धता । तद्विरुद्धत्वे, हेतोविशेषणेऽभ्युपगम्यमाने न कश्चिहेतुरविरुद्धो भवेत् । प्रसिद्धानुमानेऽपि विशे- पविरुद्वादीनां सुलभत्वात् । यथाऽयं धूमो दहनं साधयति तथैतदेशावच्छिन्न- वयभावमपि साधयति । नहि पूर्वधूमस्यैतद्देशावच्छिन्नेन वह्निना व्यातिः । एवं कालाद्यवच्छेदेन हेतोविरुद्धता वक्तव्या। अथ देशकालादीन् विहाय वह्निमात्रेण हेतोप्तेिन विरुद्धता, तर्हि तहत्कार्यमात्रस्य बुद्धिमत्कारणपूर्वकत्वेन व्याप्तेः यद्यपि दृष्टान्तेऽनीश्वरोऽसर्वज्ञः कृत्रिमज्ञानसम्बन्धी सशरीरः क्षित्याद्युपविष्टः कर्ता, तथापि पूर्वोक्तविशेषणानां धर्मिविशेषरूपाणां व्यभिचारात्तद्विपर्ययसाधकत्वेऽपि न विरुद्धता। विरुद्धो हि हेतुः साध्यविपर्ययकारित्वाइवति। नचैतेषां साध्यता । बुद्धिमत्कारणपूर्वकत्वमात्रस्यास्माद्धेतोः साध्यत्वेनेष्टत्वात् । यथा च विशेषविरुडा- दीनामदूपणत्वं तथा "सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः" इत्यत्र सूत्रे निर्णीतम्। इतश्चैतददूषणम्। पूर्वस्मादेतोः स्वसाध्यसिद्धावुत्तरेण पूर्वसिद्धस्यैव साध्यस्य किं विशेषः साध्यते, उत पूर्वहेतोः स्वसाध्यासिद्धिप्रतिबन्धः क्रियते । न तावत्पूर्वो विकल्पः । यदि नाम तत्रापरेण हेतुना विशेषाधानं कृतं, किं तावता पूर्वस्य हेतोः साध्यसिद्धिविधातः। यथा कृतकलेन शब्दस्यानित्यवसिद्धौ, हेवन्तरेण गुणव- सिद्धावपिन पूर्वस्य क्षतिः, तत्रापि । अथोत्तरो विकल्पः। तथापि खसाध्यसिद्धि- प्रतिबन्धो व्याप्त्यभावप्रदर्शनेन क्रियते; व्याप्त्यभावश्व हेतुरूपाणामन्यतमाभावेन। न च धर्मिविशेषविपर्ययोहावनेन कस्यचिदपि रूपस्याभावः कथ्यते; नच हेतु- रूपाभावासिहावगमकलम् । तन्न विशेपविरुद्धता । विशेपास्तु धर्मिणः स्वरूप- सिडावुत्तरकालं प्रमाणान्तरप्रतिपाद्याः, न तु पूर्वहेतुवलादभ्युपगम्यन्ते । तच्च प्रमाणान्तरमागमः, पूर्वहेतोर्हेवन्तरं च । तच्चान्वयव्यतिरेकिपूर्वककेवलव्यतिरे- किसंज्ञम्। यथा गन्धाधुपलब्ध्या तत्साधनकरणमात्रप्रसिद्धी प्रसक्तप्रतिषेधे करण- विशेषसिद्धिः केवलव्यतिरेकिनिमित्ता, तथहापि कार्यवात बुद्धिमत्कारणमात्र- प्रसिद्धी प्रसक्तप्रतिषेधात् कारणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता । तथाहि । कार्यत्वाद् बुद्धिमत्कारणमात्रसिद्धी प्रसक्तानां कृत्रिमज्ञानशरीरसंबद्धवादीनां .
१७० सम्मतिताख्यप्रकरणस्य- धर्माणां प्रमाणान्तरेण बाधोपपत्तौ विशिष्टबुद्धिमत्कारणसिद्धियतिरेकिबला- दिति केचित् । अन्ये मन्यन्ते यत्रान्वयव्यतिरेकिणो हेतोर्न विशेषसिद्धिः, तत्र तत्पूर्वकात केवलव्यतिरेकिणो विशेषसिद्धिर्भवतु; यथा घ्राणादिषु । अत्र तु पूर्वस्माद्धेतोविशेषसिद्धौ न हेत्वन्तरपरिकल्पना । यथा धूमस्य वह्निनाऽन्वयव्यतिरे- कसिद्धावत्र देशेवह्निरिति पक्षधर्मत्वबलात्प्रतिपत्तिः, नान्वयाद् व्यतिरेकाहा।तयो- ह्येतद्देशावच्छिन्नेन वह्निनाऽसंभवाद्यद्यपि व्याप्तिकाले सकलाक्षेपेण तद्देशस्याप्या- क्षेपः, अन्यथाऽत्र व्याप्तेरसंभवात; तथापि व्याप्तिग्रहणवेलायां सामान्यरूपतया तदाक्षेपा, न विशेषरूपेणेति विशेषावगमो नान्वयव्यतिरेकनिमित्तः, अपि तु पक्षध- मत्वकृतः।अत एव प्रत्युत्पन्नकारणजन्यां स्मृतिमनुमानमाहुः । प्रत्युत्पन्नं च कारणं पक्षधर्मत्वमेव । तथा कार्यत्वादेर्बुद्धिमत्कारणमात्रेण व्याप्तिसिद्धावपि कारणविशे- षप्रतिपत्तिः पक्षधर्मत्वसामर्थ्यात् । य इत्थंभूतस्य पृथिव्यादेः कर्ता, नियमेनासा- वकृत्रिमज्ञानसंबन्धी शरीररहितः सर्वज्ञ एक इति । एवं यदा पक्षधर्मत्वबलाहि- शेषसिद्धिः, तदान विशेषविरुद्धादीनामवकाशः अन्वयसामर्थ्यादपि विशेषसिद्धि- मन्ये मन्यन्ते । यथा धूममात्रस्य वह्निमात्रेण व्याप्तिः, एवं धूमविशेषस्य वह्निविशे- षेण इति धूमविशेषप्रतिपचौ न वह्निमात्रेणान्वयानुस्मृतिः; किन्तु वह्निविशेषे- गैवंविशिष्टकार्यत्वदर्शनान्न कारणमात्रानुस्मृतिः, किन्तु तथाविधकार्यविशेषजनक- कारणविशेषानुस्मृतिः। तदनुस्मृतावत्रान्वयसामर्थ्यादेव कारणविशेषप्रतिपत्तिरिति न विशेषविरुद्धावकाशः। एतेषां पक्षाणां युक्तायुक्तत्वं सूरयो विचारयिष्यन्तीति नास्माकमत्र निर्बन्धः; सर्वथा विशेषविरुद्धस्यादूषणत्वमस्माभिः प्रतिपाद्यते, तद्वि- रुद्धलक्षणपर्यालोचनया प्रसक्तानां च विशेषाणां प्रमाणान्तरबाधया, अन्वयव्य- तिरीकमूलकेवलव्यतिरेकिबलाहा, पक्षधर्मत्वसामर्थ्येन वा, कार्यविशेषस्य कारण- विशेषान्वितत्वेनवा; नात्र प्रयत्यते।सर्वथा प्रस्तुतहेतौ न व्याप्यसिद्धिः प्रसक्तानां विशेषाणां प्रमाणान्तरबाधया विशेषविरुद्धताऽनवकाश इत्युक्तम् तत्र कतमस्य प्रसक्तस्य विशेषस्य केन प्रमाणेन निराकृतिः । शरीरसंबन्धस्य तावद्याप्त्यभावेन, शरीरान्तररहितस्याप्यात्मनः स्वशरीरधारणप्रेरणक्रियासु यथा। अथात्मनः प्रयत्न- वत्त्वाद् धारणादिकियासु शरीराद्याधारासु कर्तृवं युक्तम्, नेश्वरस्य; तद्रहितत्वात् । N तस्वबोधविधायिनी व्याख्या। १७१ तथाच भवतां मुख्यं कर्तृलक्षणं "ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृता" इति। केनेश्वरस्य तद्रहितत्वात् प्रयत्नप्रतिषेधः कृतः आत्ममनःसंयोगजन्यलात् प्रयत्नस्येश्वरस्य तदसंभवात्कारणाभावात् तनिषेधः बुद्धिस्तहीश्वरे कथम् , तस्या अपि मनःसंयोगजन्यतैव। साऽपि मा भूत्का नःक्षतिः। ननु तदसत्तैव, न त्वन्या काचित् । साऽपि भवतु; तदभावे कस्य विशेषः शरीरादिसंयोगलक्षणः साध्यते । अत एवान्यैरुक्तम्, नातीन्द्रियार्थप्रतिषेधो विशेषस्य कस्यचित्साधनेन, निराकरणेन वा कार्यः तदभावे विशेषसाधनस्य तन्निराकरणहेतोर्वाऽऽश्रयासिद्धत्वात्, किन्ल- तीन्द्रियमर्थमभ्युपगच्छंस्तत्सिही प्रमाण प्रष्टव्यः । स चेत्तत्सिद्दौ प्रयोजक हेतुं दर्शयति, ओमिति कृत्वाऽसौ प्रतिपत्तव्यः। अथ न दर्शयति प्रमाणाभावादेवासौ नास्ति, न तु विशेषाभावात् । तस्माद् ज्ञानचिकीप्रियत्नानां समवायोऽस्तीश्वरे । तेतु ज्ञानादयोऽस्मदादिज्ञानादिभ्यो विलक्षणाः। वैलक्षण्यं च नित्यत्वादिधर्मयोगात्। तन्नेश्वरशरीरस्य कर्दविशेपस्य व्याप्त्यभावात सिद्धिः। नाप्यसर्वज्ञवं विशेषः कुला- लादिषु दृष्टस्तत्र साध्यतेतत्सिडावपि विशेषविरुद्धस्य व्याप्त्यभाव एव । नासर्व- विदा क; कुलालादिना किश्चित्कार्य क्रियते। ननु कुलालादेः सर्ववित्त्वे नेदानी कभिदसर्ववित् । एवमेव, यद्यः करोति स तस्योपादानादिकारणकलापं, प्रयोजनं च जानाति । अन्यथाततक्रियाऽयोगात्। सर्वज्ञत्वं च प्रकृतकार्यतन्निमित्तापेक्षम्।अतः लादिर्यथा कर्ता स्वकार्यस्य सर्व जानात्युपादानादि, एवमीश्वरोऽपि सर्वकी सर्वस्य कारणप्रयोजनं विवादविषयस्य सर्वस्योपादानकारणादि च कर्तृलादेव जानाति; अतः कथमसाबसर्ववित् ?। अन्ये लाहुः । क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविधिष्ठितानाम् , यथा प्रतिनियतशब्दादिविषयग्राहकाणामिन्द्रियाणामनियत- विषयसर्वविधिष्ठितानां जीवच्छरीरे, तथाचेन्द्रियवृत्त्युच्छेदलक्षणं केचिन्- मरणमाहुश्चेतनानधिष्ठितानाम् ।अस्ति च क्षेत्रज्ञानां प्रतिनियतविषयग्रहणं, तेना- प्यनियतविषयसर्वविदधिष्ठितेन भाव्यम्। योऽसौ क्षेत्रज्ञाधिष्ठायकोऽनियतविषयः, स सर्वविदीश्वरः। नन्वेवं तस्यैव सकलक्षेत्रेप्यधिष्ठायकत्वात् किमन्तर्गदुस्थानीयैः १ नयायिका समाधत्ते-प्रागुकप्रकारेण बुद्धयादेनिषेधे तस्येश्वरस्यासत्तेव क्षतिर्नान्या काचित् । परः पुनः प्राह-साऽपि भवत्यिति ।
- १७२ सम्मतिताख्यप्रकरणस्य- क्षेत्रज्ञैः कृत्यम् ?, न किञ्चित्प्रमाणसिद्धता मुत्त्वा। नलेवमनिष्टा । यथेन्द्रियाधिष्ठा- यकः क्षेत्रज्ञस्तदधिष्ठायकश्वेश्वरः, एवमन्योऽपि तदधिष्ठायकोऽस्तु । भवत्वनिष्टा, यदि तत्साधकं प्रमाण किञ्चिदस्ति, नवनिष्टासाधकं किश्चित्प्रमाणमुत्पश्यामः । तावत एवानुमानसिद्धत्वात् । आगमोऽप्यस्मिन् वस्तुनि विद्यते । तथा च भगवान् व्यास:- 'द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः" ॥२इति । तथा श्रुतिश्च तत्प्रतिपादिका उपलभ्यते । “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात।सं बाहुभ्यां धर्मति संपतत्रैवाभूमी जुनयन् देव एक आस्ते" इत्यादि । नच स्वरूपप्रतिपादकानामप्रामाण्यम् । प्रमाणजनकत्वस्य सद्भावात् । तथाहि । प्रमाणजनकत्वेन प्रमाणस्य प्रामाण्यं, न प्रवृत्तिजनक- त्वेन; तचेहास्त्येव । प्रवृत्तिनिवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वाध्यवसाये समर्थस्यार्थित्वाइवत इति । अथ विधावङ्गत्वादमीषा प्रामाण्य, न स्वरूपार्थ- त्वादिति चेत् । तदसत् । स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् । तथाहि । स्तुतेः खार्थप्रतिपादकलेन प्रवर्तकत्वम्, निन्दायास्तु निवर्तकलमिति।अन्यथा हि तदर्था- परिज्ञाने विहितप्रतिषिद्धेष्वविशेषेण प्रवृत्तिनिवृत्तिर्वा स्यात् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टम् , एवं स्वरूपपरेष्वपि वाक्येपु स्यात्।वा- क्यस्वरूपतायाअविशेषात् , विशेषहेतोश्वाभावादिति।तथा स्वरूपार्थानामप्रामाण्ये; मेध्या आपो दर्भाः पवित्रम्, अमेध्यमशुचीत्येवंवरूपापरिज्ञाने, विध्यङ्गतायामप्य- विशेषेण प्रवृत्तिनिवृत्तिप्रसङ्गीनचैतदस्ति, मेध्येष्वेव प्रवर्त्तते, अमेध्येषु च निवर्तत इत्युपलम्भात् ।तदेवं स्वरूपार्थेभ्यो वाक्येभ्योऽर्थस्वरूपावबोधे सति इष्टे प्रवृत्तिदर्श- नात्, अनिष्टे च निवृत्तेरितिज्ञायते-स्वरूपार्थानांप्रमाजनकत्वेन प्रवृत्तौ,निवृत्तौ वा विधिसहकारित्वमिति।अपरिज्ञानात्तु प्रवृत्तावतिप्रसङ्ग अथ स्वरूपार्थानांप्रामाण्ये प्रावाणःप्लवन्त इत्येवमादीनामपि यथार्थता स्यात् ।न।मुख्य बाधकोपपत्तेः। यत्र हि तत्त्वबोथविधायिनी व्याख्या । १७३ मुख्य बाधकं प्रमाणमास्ति तत्रोपचारकल्पना, तदभावे तुप्रामाण्यमेव। नचेश्वरसडा- वप्रतिपादनेषु किश्चिदस्ति वाधकमिति खरूपे प्रामाण्यमभ्युपगन्तव्यामित्यागमादपि सिद्धप्रामाण्यातदवगमः । ईश्वरस्य च सत्तामात्रेण स्वविपयग्रहणप्रवृत्तानां क्षेत्र- ज्ञानामधिष्ठायकता। यथा स्फटिकादीनामुपधानाकारग्रहणप्रवृत्तानां सवितृप्रकाश यथा तेषां सावित्रं प्रकाशं विना नोपधानाकारग्रहणसामर्थ्य, तथेश्वरं विना क्षेत्रवि- दान स्त्रविषयग्रहणसामर्थ्यमिति आस्ति भगवानीश्वरः सर्ववित् । इतश्चासौ सर्व- वित् । ज्ञानस्य सन्निहितसदर्थप्रकाशकत्वं नाम खभावः । तस्यान्यथाभावः कुत- विदोषसहावात्। एतचावद्पं चक्षुराद्याश्रयाणां ज्ञानानाम् । यत्पुनश्चक्षुरनाश्रितं नच रागादिमलावृतम् ; तस्य विषयप्रकाशनखभावस्य विषयेषु किमिति प्रकाशनसामर्थ्यविधातः?; यथा दीपादेरपवरकान्तर्गतस्य । ननु रागादेरावरणस्य कथं तत्राभावोऽवगतः। तत्प्रतिपादकप्रमाणाभावात् । प्रमाणस्याभावे संशयोऽ. स्तु रागादीनाम्, नत्वभावः। विपर्यासकारणारागादयः, एषां कारणाभावे कथं तत्र भावः, विपर्यासचाधर्मनिमित्तः । नच भगवत्यधर्मः। तत्सद्भावे वा इत्थंविधस्या- स्मदादिभिश्चिन्तयितुमशक्यस्य कार्यस्य कथं तस्मादुत्पादः । अनेकादृष्टकल्पना- प्रसङ्गात्। किश्च । रागादय इष्टानिष्टसाधनेषु विषयेपूपजायमाना दृष्टाः। नच भग- वतः कश्चिदिष्टानिष्टसाधनो विपयः अवाप्तकामत्वात्।या तु प्रवृत्तिः शरीरादिसर्गे सा कैश्चित् क्रीडार्थमुक्ता। सा चावाप्तप्रयोजनानामेव भवति, नत्वन्येषाम्। अतो यदुक्तं वार्तिककृता-"क्रीडा हि रतिमविन्दता; न च रत्यर्थी भगवान् , दुःखाभा- वात्। तत्प्रतिक्षिप्तम् । न हि दुःखिताः क्रीडासु प्रवर्तन्ते; तस्मात् क्रीडार्थी प्रवृत्तिः। अन्ये मन्यन्ते-कारुण्याद्भगवतः प्रवृचिः। नन्वेवं केवलः सुखरूपःप्राणि- सर्गोऽस्तु नवम्। निरपेक्षस्य कर्तृत्वेऽयं दोषः, सापेक्षत्वे तु कथमेकरूपः सर्गः। यस्य यथाविधः कर्माशयः पुण्यरूपोऽपुण्यरूपो ग तस्य तथाविधफलोपभोगाय तत्साधनान् शरीरादीस्तथाविधांस्तत्सापेक्षः सृजतीति । नचेश्वरत्वव्याघातः सापे- क्षत्वेऽपि; यथा सवितृप्रकाशस्य स्फटिकाद्यपेक्षस्य, यथा वा करणाधिष्ठायकस्य क्षेत्रज्ञस्य सापेक्षत्वेऽपि तेषु तस्येश्वरताविघात इति केचित् । अन्ये मन्यन्ते यथा प्रभुः सेवाभेदानुरोधेन फलभेदप्रदो नाप्रभुः, तथेश्वरोऽपि कर्माशयापेक्षः फलं जन- .
१७४ सम्मतिताख्यप्रकरणस्य- यतीत्यंनीश्वर इतिन युज्यते वक्तुम् । भाष्यकारः कारुण्यप्रेरितस्य प्रवृत्तिमाह। तन्नि- मिचायामपि प्रवृत्तौ न वार्तिककारीयं दूषणं संसृजेत् शुभमेवैकमनुकम्पा- प्रयोजित इत्येवमादि। यतः कर्माशयानां कुशलाकुशलरूपाणां फलोपभोगं विना न क्षय इति भगवानवगच्छंस्तदुपभोगाय प्राणिसगै करोति । उपभोगः कर्मफल- स्य शरीरादिकृतः; कस्यचित्त्वशुभस्य कर्मणः प्रायश्चित्तात् प्रक्षयः। तत्रापि खल्पे- न दुःखोपभोगेन दीर्घकालदुःखप्रदं कर्म क्षीयते, न तु फलमदत्त्वा कर्मक्षयः। येषामपि मतं सम्यग्ज्ञानाद् विपर्यासनिवृत्तौ, तज्जन्यक्लेशक्षये, काशयानां सद्भा- वेऽपि सहकार्यभावान्न शरीराद्याक्षेपकता; तत्रापि कुशलं कर्म, समाधि वाऽन्तरेण न तत्त्वज्ञानोत्पतिः; तयोस्तु संचये प्रवृत्तस्य यमनियमानुष्ठानेऽनेकविधदुःखो- त्पत्तिः, अतः कथं केवलसुखिरूपःप्राणिसर्गः। नारकतिर्यगादिसर्गोऽपि अकृतप्रा- यश्चित्तानां तत्रत्यदुःखानुभवे पुनर्विशिष्ट स्थानावाप्तावभ्युदयहेतुरिति सिद्ध दुःखि- प्राणिसृष्टावपि करुणया प्रवर्त्तनम्। तन्नासर्वज्ञत्वं विशेषः। नापि कृत्रिमज्ञानसंब- न्धित्वम्। तज्ज्ञानस्य प्रत्यर्थनियमाभावात् । यज्ज्ञानमानत्यं तच्छरीरादिसापेक्ष प्रत्यर्थनियतं तत् , ज्ञानस्य तु शरीराद्यभावे कुतः प्रत्यर्थनियतता भवतु तज्ज्ञानं प्रतिनियतविषयम् न तस्य प्रतिनियतविषयत्वेऽस्माकं पक्षक्षतिः। कथं न क्षतिः? तस्य तथाविधत्वे युगपत् स्थावरानुत्पादप्रसङ्गः । तदनुत्पादे च कर्तृत्वासिद्धिः। तदसिद्धौ कस्य कृत्रिमज्ञानसंबन्धिताविशेषः । अथ युगपत्कार्यान्यथानुपपत्त्या प्रत्यर्थनियतामनेका बुद्धिमीश्वरे प्रतिपद्येत; तत्रापि सन्तानेन वा तथाभूता बुद्धयः, युगपदा भवेयुः।प्राच्ये विकल्पे, पुनरपि युगपत्कार्यानुत्पादप्रसङ्गः। युग- पदुत्पत्तौ वा बुद्धीनां शरीरादियोगस्तस्यैषितव्यः; स च पूर्व प्रतिक्षिप्तः। अथ कार्य- स्य बहुत्वमहत्त्वाभ्यां बहवो बुद्धिमन्तः कर्त्तारो भवन्तु, नत्वेकः सर्वज्ञः सर्वश- क्तियुक्तः। नन्वेतस्मिन्नपि पक्षे ईश्वरानेकत्वप्रसङ्गः। भवतु, को दोषः । व्याहत- कामानां स्वतन्त्राणामेकस्मिन्नर्थेऽप्रवृत्तिः । अथ तन्मध्येऽन्येषामेकायत्तता तदा स एवेश्वरः, अन्ये पुनस्तदधीना अनीश्वराः। अथ स्थपत्यादीनां महाप्रासादादि- करणे यथैकमत्य, तहदत्रापि । नैतदेवम् । तत्र कस्यचिदभिप्रायेण नियमितानामै- कमत्यम्; नत्वत्र .बहूनां नियामकः कश्चिदस्ति । सहावेवास एवेश्वरः। एवं यस्य :
तत्त्वबोधविधायिनी व्याख्या। १७५ यस्य विशेषस्य साधनाय वा, निराकृतये वा प्रमाणमुच्यते, तस्य तस्य पूर्वोक्तन न्यायेन निराकरणं कर्त्तव्यम् । तन्न विशेषविरुद्धता ईश्वरसाधकस्य । प्रसङ्गवि- पर्यययोरप्यनुत्पत्तिः । प्रसङ्गस्य व्याप्त्यभावात्, तन्मूलत्वात् तद्विपर्ययस्य;तथे- एविधातकृतश्च । यच्च नित्यत्वादकर्तृकत्वमुच्यते शाक्यैः तदपि क्षणभङ्गभने प्रति- क्षिप्तम् । यदपि व्यापार विना न कर्तृत्वम् ; तदपि ज्ञानचिकीर्षाप्रयत्नलक्षणस्य व्यापारस्यक्तित्वान्निराकृतम् । वार्चिककारेणापरं प्रमाणद्वयमुपन्यस्तं तत्- सिद्धये-महाभूतादिव्यक्तं चेतनाधिष्ठितं प्राणिनां सुखदुःखनिमित्र, रूपादिमत्त्वात् तुर्यादिवत्, तथा पृथिव्यादीनि महाभूतानि बुद्धिमत्कारणाधिष्ठितानि स्वासु धारणा- घासु क्रियासु प्रवर्त्तन्ते, अनित्यत्वाद्,वास्यादिवदिति अविद्धकर्णस्तु तत्सिद्धये इदं प्रमाणद्वयमाह-हीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकम्; स्वारम्भकावयवसन्निवेशविशिष्टत्वात् ; घटादिवद्, वैधम्र्येण परमाणव इति । तत्र द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्य महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं, पृथिव्युदकज्वलनसंज्ञकं त्रिविधं द्रव्यं हीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्मा- न्महत्त्वमनेकद्रव्यवत्त्वं रूपसमवायादियोपलब्धिकारणमिष्यते, तच्च वाय्वादौ नास्ति।यथोक्तम्"महत्यनेकद्रव्यवत्त्वाद् रूपाचोपलब्धिः-रूपसंस्काराभावादा वाय्वनुपलब्धिः" रूपसंस्कारो रूपसमवायः। व्यणुकादीना खनुपलब्धिरमहत्त्वा- दिति । अन्ये तु वायोरपि स्पर्शनेन्द्रियप्रत्यक्षग्राह्यत्वमिच्छन्ति । हीन्द्रियग्राह्यला- पेक्षया तु रूपसमवायाभावादनुपलब्धिरित्युक्तम् तत्र सामान्येन हीन्द्रियग्राह्याग्रा- ह्यस्य बुद्धिमत्कारणपूर्वकत्वसाधने सिद्धसाध्यतादोषो घटादिषु उभयसिद्धेः विवा- दाभावात्; अभ्युपेतबाधा चाण्वाकाशादीनां तथाऽनभ्युपगमात, तेषां च नित्यत्वात् प्रत्यक्षादिवाधा; अतस्तदर्थ विमत्यधिकरणभावापन्नग्रहणम्। विविधा मतिर्विमतिर्वि- प्रतिपत्तिरिति यावत्, तस्याऽधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः। एवं च सति शरीरेन्द्रियमुवनादय एवात्र पक्षीकृता इति नाण्वादिप्रसङ्ग । कारणमात्रपूर्वकत्वे. ऽपि साध्ये सिद्धसाध्यता माभूदिति बुद्धिमत्कारणग्रहणम् । साङ्ख्यं प्रति मतुबर्था- नुपपत्तेन सिद्धसाध्यता। अन्यतिरिक्ता हि बुद्धिः प्रधानात् साङ्ख्यैरुच्यते । नच तेनैव तदेव तहहवति। खारम्मकाणामवयवानां संनिवेशःप्रचयात्मकः संयोगः, ७ १७६ सम्मतिताख्यप्रकरणस्य- तेन विशिष्टं व्यवच्छिन्नं तहावस्तस्मात् । अवयवसन्निवेशविशिष्टत्वं गोत्वादि- भिर्व्यभिचारीति अतः स्वारम्भग्रहणम्।गोत्वादीनि तुद्रव्यारम्भकावयवसन्निवेशेन विशिष्यन्ते, न तु खारम्भकावयवसन्निवेशेनेति।तेन योऽसौ बुद्धिमान, स ईश्वर इत्येकम्। द्वितीयं तु तनुभुवनकरणोपादानानि चेतनाचेतनानि चेतनाधिष्ठितानि खकार्यमारभन्त इति प्रतिजानीमहे; रूपादिमत्त्वात् , यद्यद्रूपादिमत्तत्तच्चेतनाधि- ष्ठितं खकार्यमारभते, यथा तन्त्वादि; रूपादिमच्च तनुभुवनकरणादिकारणं, तस्माञ्चे- तनाधिष्ठितं खकार्यमारभते । योऽसौ चेतनस्तनुभुवनकरणोपादानादेरधिष्ठाता स भगवानीश्वर इति । उद्द्योतकरस्तु प्रमाणयति-भुवनहेतवः प्रधानपरमा- ण्वदृष्टाः खकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते; स्थित्वा प्रवृत्ते. स्तन्तुतुर्यादिवदिति । प्रशस्तमतिस्त्वाह-सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वात्।अप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु च प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राघुपदेशपूर्वक इति । प्रबुद्धानां प्रत्यर्थ नियतत्वादिति प्रबुद्धानां सतां प्रत्यथै नियतत्वादित्यर्थः। यदुपदेशपूर्वकश्च सर्गादौ व्यवहारः, स ईश्वरः; प्रलयकालेऽप्यलुप्तज्ञानातिशय इति सिद्धम् । तथाऽपराण्यप्यु- योतकरेण तसिद्धये साधनान्युपन्यस्तानि-बुद्धिमत्कारणाधिष्ठितं. महाभूता- दिकं व्यक्तं सुखःदुखनिमित्वं भवति, अचेतनत्वात, कार्यत्वात् , विनाशित्वाद्, रूपा- दिमत्त्वाद्, वास्यादिवदिति। अथ भवत्वस्माइतुकदम्बकादीश्वरस्य सर्वजगहेतुत्व- सिद्धिः, सर्वज्ञत्वं तु कथं तस्य सिद्धम् ? येनासौ निःश्रेयसाभ्युदयकामानां भक्तिवि- षयतां यायात् । जगत्कर्तृसिद्धेरेवेति ब्रूमः । तथाचाहुः प्रशस्तमतिप्रभृतयः-कर्तुः कार्योपादानोपकरणप्रयोजनसंप्रदानपरिज्ञानात् । इह हि यो यस्य कर्ता भवति, स तस्योपादानादीनि जानीते; यथा कुलालः कुण्डादीनां कर्त्ता, तदुपादानं मृत्पिण्डम् , उपकरणानि चक्रादीनि, प्रयोजनमुदकाहरणादि, कुटुम्बिनं च संप्रदानं जानीत इत्येतत् सिद्धम् ; तथेश्वरः सकलभुवनानां कर्ता, स तदुपादानानि परमाण्वादिलक्ष- णानि, तदुपकरणानि धर्मदिक्कालादीनि, व्यवहारोपकरणानि सामान्यविशेषसम- वायलक्षणानि, प्रयोजनमुपभोग, संप्रदानसंज्ञकांश्च पुरुषान् जानीत इति; अतः सिद्धमस्य सर्वज्ञत्वमिति। अत एव नात्रैतत्प्रेरणीयम् ।सर्वज्ञपूर्वकत्वे क्षित्यादीनांसा- .
.. तत्त्वबोधविधायिनी व्याख्या । .१७७ ध्ये साध्यविकलो दृष्टान्तः, हेतुश्च विरुद्धः, असर्वज्ञकर्तृपूर्वकत्वेन कुम्भादेः कार्यस्य व्याप्तिदर्शनात् ; किश्चिज्ज्ञपूर्वकत्वे साध्येऽभ्युपेतबाधा; कारणमात्रपूर्वकत्वे साध्ये कर्मणा सिद्धसाधनमिति । यतः सामान्येन खकार्योपादानोपकरणसंप्रदानाभिज्ञ- कर्तृपूर्वकलं साध्यते, तत्र चास्त्येव वस्त्रादिदृष्टान्तः। तस्य छुपादानोपकरणाय- भिज्ञकर्तृपूर्वकलं सकललोकप्रसिहम्, कथमन्यथाकर्तुं शक्यते,अपहोतुं वा । न तु कर्मणा सिद्धसाध्यता। तस्य सकलजगलक्षणकार्योपादानाद्यनभिज्ञवात् । तद- भिज्ञले वा तस्यैव भगवतः कर्म इति नामान्तरं कृतं स्यात्। शेषं त्वत्र चिन्तितमेव । तदेवं सकलदोपरहितादुक्तहेतुकलापात् ज्ञानाधतिशयवद्गुणयुक्तस्य सिद्धेः, तस्य च शासनप्रणेतृलं नान्येषां योगिनामिति भवजिनानां शासनमित्ययुक्तमुक्त- मिति स्थितम् । इति पूर्वपक्षः ॥ अत्र प्रतिविधीयते। यत्तावदुक्तम्-सामान्यतो दृष्टानुमानस्य तत्र व्यापारा- भ्युपगमात् प्रत्यक्षपूर्वकानुमाननिषेधे सिद्धसाधनामिति । तदसङ्गतम् । सामान्यतो दृष्टानुमानस्यापि तत्साधकत्वेनाप्रवृत्तेः। तथाहि। तनुभुवनकरणादिकं बुद्धिमत्कार- णपूर्वकं कार्यलाटादिवदित्यत्र धर्म्यसिद्धेराश्रयासिद्धस्तावत् कार्यवलक्षणो हेतुः । तथाहि। अवयविरूपं तावत् तन्वादि अवभासमानम्, तत्तु न युक्तम् । देशादि- भिन्नस्य तन्वादेः स्थूलस्यैकस्यानुपपत्तेः । नानेकदेशादिगतमेकं भवितुं युक्तम्। विरुद्धधर्माध्यासस्य भेदलक्षणलात्, देशादिभेदस्य च विरुद्धधर्मरूपलात् । तथा- प्यभेदे सर्वत्र भिन्नलेनाभ्युपगते घटपटादावपि भेदोपरतिप्रसङ्गात् । नहि भिन्न- लेनाभ्युपगते तत्राप्यन्यद्भेदनिबन्धनमुत्पश्यामः । प्रतिभासभेदात् तत्र भेद इति चेत् । न विरुद्धधर्माध्यासं भेदकमन्तरेण प्रतिभासस्यापि भेदानुपपत्तेः। अथावय- व्येको न भवति विरुद्धधर्माध्यासितवादित्येतत् किं खतन्त्रसाधनम्, उत प्रसङ्ग- साधनमिति । न तावत् खतन्त्रसाधनं युक्तम् । अक्यविनः प्रमाणासिद्धलेन हेतो- राश्रयासिद्धत्वदोषात् । प्रमाणसिद्धत्वे वा तत्प्रतिपादकप्रमाणबाधितपक्षनिर्देशान- न्तरप्रयुक्तत्वेन तस्य कालात्ययापदिष्टत्वदोपदुष्टत्वात्। नच परस्यावयवी सिद्ध इति नाश्रयासिद्धत्वदोष इति वक्तुं युक्तम् । यतः, परस्य किं प्रमाणतोऽसौ सिद्धः, उता- प्रमाणतः। प्रमाणतश्चेत्, तर्हि भवतोऽपि किं न सिद्धः । प्रमाणसिद्धस्य सर्वान् २३ १७८ सम्मतिताख्यप्रकरणस्य- - प्रत्यविशेषात् । तथाच तदेव कालात्ययापदिष्टत्वं हेतोः । अथाप्रमाणतः, तदान परस्यापि सिद्ध इति पुनरप्याश्रयासिद्धलम्। तन्न प्रथमः पक्षः । नापि द्वितीयः । यतः व्याप्याभ्युपगमो यत्र व्यापकाभ्युपगमनान्तरीयका प्रदर्श्यते, तत्प्रसङ्गसाध- नम् । नच परस्यभेदविरुद्धधर्माध्यासयोर्व्याप्यव्यापकभावः सिद्धः । देशादिभेद- लक्षणविरुद्धधर्माध्यासाभावेऽपि रूपरसयोर्भेदाभ्युपगमात् । तद्भावेऽपि सामान्या- दावभेदस्य प्रमाणसिद्धलादिति न वक्तव्यम् । यतः प्रथमः पक्षस्तावदनभ्युपगमा. देव निरस्तः। प्रसङ्गसाधनपक्षे तु यद् दूषणमभिहितम्-देशभेदलक्षणविरुद्धधर्मा- ध्यासाभावेऽपि रूपरसयोर्भेद इति; तयाप्यव्यापकभावापरिज्ञानं सूचयति, न पुन- याप्यव्यापकभावाभावम् । यतो देशभेदे सति यद्यभेदः कचित्सिद्धः स्यात्, तदा व्यापकाभावेऽपि विरुद्धधर्माध्यासस्य भावान्न तस्य तेन व्याप्तिः स्यात् । यदातु देशाभेदेऽपि रूपरसयोर्भेदः, तदा देशभेदो भेदव्यापको न स्यात्, न पुनरेतावता भेदो विरुद्धधर्माध्यासव्यापको न स्यात् । यदि हि भेदव्यावृत्तावपि देशादिभेदो न व्यावर्चेत, तदा व्यापकव्यावृत्तावपि. व्याप्यस्याव्यावृत्तेर्न भेदेन देशादिविरुद्ध- धर्माध्यासो व्याप्येत । न चैतत् क्वचिदपि सिद्धम् । यत्तु सामान्यादावभेदस्य प्रमा- णतः सिद्धर्मेदव्यावृत्तावपिन देशादिभेदलक्षणस्य विरुद्धधर्माध्यासस्य निवृत्ति- रिति। तदयुक्तम्। सामान्यादेः प्रमाणतोऽभिन्नरूपस्यासिद्धेः। उक्तं च। यदि वि- रुद्धधर्माध्यासः पदार्थानां भेदको न स्यात् , तदाऽन्यस्य तद्भेदकस्याभावाद्विश्वमेकं स्यात् । प्रतिभासभेदस्यापि तमन्तरेण भेदव्यवस्थापकस्याभावादिति व्याप्यव्याप- कभावसिद्धेः कथं न प्रसङ्गसाधनस्यात्रावकाशः। अथैकत्वप्रतिभासाद्देशादिभेदेऽ- - पि तन्वादेरेकता।न। देशभेदेन व्यवस्थितानामवयवानां प्रतिभासभेदेन भेदात् ।न ह्येकरूपा भागा भासन्ते, पिण्डस्याणुमात्रताऽऽपत्तेः, तद्व्यतिरिक्तस्य चापरस्य तन्वा- द्यवयविनो द्रव्यस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भेनासत्त्वात्।नच तस्योपलब्धि- लक्षणप्राप्तता परैर्नाभ्युपगम्यते । “महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः” इति वचनात्। तत्सिद्धमनुपलब्धरुपलब्धिलक्षणप्राप्तस्येति विशेषणम्।न च मध्यो- दिभागव्यतिरिक्तवपुर्बहिर्लाह्याकारतां बिभ्राणस्तन्वादिव्यात्मा दर्शने.चकास्ती- त्यनुपलब्धिरपि सिद्धानःच समानदेशलादवयविनोऽवयवेभ्यः पृथगनुपलक्षण- । तत्त्वबोधविधायिनी व्याख्या। १७९ मिति वक्तुं शक्यम् । समानदेशलादिति विकल्पानुपपत्तेः। तथाहि । समानदेश- स्वमवयवावयविनोः किं पारिभाषिकम् , लौकिकं वा । यदि पारिभाषिकम् । तद- नुढोष्यम् । परिभाषाया अत्रानधिकारात्। नचात् तत्र भवदभिप्रायेण सिद्धम् । तथाहि । अन्य एव पाण्यादय आरम्भका देशास्तन्वाद्यवयविनो भवद्भिः परिभाष्य- न्ते, अन्ये च पाण्यादीनां तदवयवानामारम्भका देशाः। आरभ्यारम्भकवादनिषे- धात्।तन्न पारिभाषिकं समानदेशत्वम्।नापिलौकिकम्।आकाशस्य लोकप्रसिद्धस्य समानदेशस्यास्मान् प्रति असिद्धत्वात् । प्रकाशादिरूपस्य च देशस्य तत्सिद्धस्य समानत्वेऽपि भिन्नानां वाताऽऽतपादीनां भेदेनोपलव्धेः। तथाहि । समानदेशा अपि भावा वाताऽऽतपादयो भिन्नतनवः पृथक् प्रथन्ते, नचैवमवयविनिर्भासः। तझावयवी तन्वादिभिन्नोऽस्ति | अथ मन्दमन्दप्रकाशे अवयवप्रतिभासमन्तरेणाप्यवयविनि प्रतिभास उपलभ्यते,तत्कथं प्रतिभासाभावात् तस्याभावः? असदेतत् नहि तथा- भृतोऽस्पष्टप्रतिभासोऽवयविस्वरूपव्यवस्थापको युक्तः । तत्प्रतिभासस्यास्पष्टरूपस्य स्पष्टज्ञानावभासितत्स्वरूपेण विरोधात् । अथ स्वरूपवयमेतदवयविनः स्पष्टम् , अस्पष्टं च । तवास्प; मन्दालोकज्ञानविषयः; स्पष्टं तु सालोकज्ञानभूमिः। नन्वेतत् स्वरूपवयं केनावयविनो गृह्यते न तावन्मन्दालोकज्ञानेन । तत्र सालोकज्ञानवि- पयरपष्टरूपानवमासनात् । अस्पष्टतत्स्वरूपप्रतिभासं हि तदनुभूयते । नापि सालोकज्ञानेन स्पष्टतत्स्वरूपावभासिना । तत्र भन्दालोकज्ञानावभासितवस्वरू- पानवभासनात् । नहि परिस्फुटप्रतिभासवेलायामविशदरूपाकारोऽवयव्यर्थः प्रतिभाति, तत्कथमसावयविनः स्वरूपम् । अथ मन्दालोकदृष्टमवयविनः खरूपं परिस्फुटमिदानी पश्यामीति तयोरेकता । ननु किमपरिस्फुटरूपतया परि- स्फुटं रूपं अवगम्यते, आहोखित् परिस्फुटतयाऽपरिस्फुटम् । तत्र यद्याद्यः पक्षा, तदाऽपरिस्फुटरूपसंवन्धिलमेवावयविनः प्राप्नोति । परिस्फुटस्य रूपस्यास्फुट- रूपताऽनुप्रवेशेन प्रतिभासनात् । अथ द्वितीयः पक्षः । तथा सति स्पष्ट- स्वरूपसंबन्धित्वमेव । अस्पष्टस्य विशदखरूपानुप्रविष्टलेन प्रतिभासनात् । तन्न स्वरूपहयावगमोऽवयविनः। एकत्वप्रतिभासनं तुप्रतिभासरहितमभिमानमात्रं स्पष्टास्पष्टरूपयोः । अन्यथा सालोकज्ञानवन्मन्दालोकज्ञानमपि परिस्फुट-.
१८० सम्मतिताख्यप्रकरणस्य- प्रतिभासं स्यात् । अथालोकभावाभावकृतस्तत्र स्पष्टास्पष्टप्रतिभासभेदः । नन्वा- लोकेनाप्यवयविस्वरूपमेवोडासनीयम्। तच्चेत् , अविकलं मन्दालोके प्रतिभाति, कथं न तत्र तदवभासकृतः स्पष्टावभासः।अन्यथा विषयावभासव्यतिरेकेणापि ज्ञानप्रतिभासभेदेन ज्ञानावभासभेदो रूपरसयोरपि भेदव्यवस्थापकः स्यात् । अथावयविस्वरूपमेकमेवोभयत्र प्रतीयते, व्यक्ताव्यक्ताकारौ तु ज्ञानस्यात्माना- वित्युच्येत। तदप्यसत्। यतो यदि ज्ञानाकारौ तौ, कथमवयविरूपतया प्रतिभातः? तद्रूपतया च प्रतिभासनादवयव्याकारौ तावभ्युपगन्तव्यौ । नहि व्यक्तरूपता- मव्यक्तरूपतां च मुक्त्वा अवयविखरूपमपरमाभाति । तत्तस्यानवभासादभाव एव । व्यक्ताव्यक्तैकात्मनश्वावयविनो व्यक्ताव्यक्ताकारवद् भेदः । नहि प्रतिभास- भेदेऽप्येकता । अतिप्रसङ्गात् । तन्नास्पष्टप्रतिभासमन्धकारेऽवयविनो रूपमवयवा- प्रतिभासेऽपि प्रतिभातीति वक्तुं युक्तम् । उक्तदोषप्रसङ्गात् । किंच । किं कतिपया- वयवप्रतिभासे सत्यवयवी प्रतिभातीत्यभ्युपगम्यते, आहोस्वित् समस्तावयव- प्रतिभासे । यद्याद्यः पक्षः । स न युक्तः । जलमममहाकायस्तम्भादेरुपरितनक- तिपयावयवप्रतिभासेऽपि समस्तावयवव्यापिनः स्तम्भाधवयविनोऽप्रतिभासनात् । अथ द्वितीयः पक्षः। सोऽपि न युक्तः । मध्यपरभागवर्तिसमस्तावयवप्रतिभासासं- भवेनावयविनोऽप्रतिभासप्रसङ्गात्।अथ भूयोऽवयवग्रहणे सत्यवयवी गृह्यत इत्य- भ्युपगमः। सोऽपि न युक्तः। यतोऽर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागभा. व्यवयवाग्रहणात् । न तेन तद्व्याप्तिरवयविनो ग्रहीतुं शक्या । व्याप्याग्रहणे तेन तयापकत्वस्यापि ग्रहीतुमशक्तेः । ग्रहणे वाऽतिप्रसङ्गः। तथाहि । यद्येन रूपेणाव. भाति तत्तेनैव रूपेण सदिति व्यवहारविषयः। यथा नीलं नीलरूपतया प्रतिभास- मानं तेनैव रूपेण तद्विषयः, अर्वाग्भागभाव्यवयवसंबन्धितया चाऽवयवी प्रतिभा- तीति स्वभावहेतुः। नच परभागभाविव्यवहितावयवाऽप्रतिभासनेऽप्यव्यवहितोऽ- वयवी प्रतिभातीति वक्तुं शक्यम् । तदप्रतिभासने तद्तत्वेनाप्रतिभासनात् । यस्मि- श्व प्रतिभासमाने यद्रूपं न प्रतिभाति, तत्ततो भिन्नम् । यथा घटे प्रतिभासमाने प्रतिभासमानं पटस्वरूपम्।न प्रतिभाति च अर्वाग्भागभाव्यवयवसंबन्ध्यवयवि- खरूपे प्रतिभासमाने परभागभाव्यवयवसंबन्ध्यवयविखरूपम् ; इति कथं न तत्त- ..
तत्त्ववोधविधायिनी व्याख्या । तोभिन्नम् ? तथाऽप्यभेदेऽतिप्रसङ्गाप्रतिपादितः। नापि परभागभाव्यवयवावयवि- ग्राहिणा प्रत्यक्षेणाग्भिागभाव्यवयवसंवन्धिलं तस्य गृह्यते। तत्र तदवयवानांप्रति- भासात्तत्संबन्ध्येवावयविखरूपं प्रतिभासेत, नाग्भिागभाव्यवयवसंवन्धि । तेषां तत्राप्रतिभासनात् । तदप्रतिभासने च तत्संबन्धिरूपस्याप्यप्रतिभासनात; व्याप्याप्रतिपत्ती तयापकत्वस्याप्यप्रतिपत्तेः। नापि स्मरणेनार्वाक्परभागभाव्यव- यवसंबन्ध्यवयविस्वरूपग्रहः । प्रत्यक्षानुसारेण स्मरणस्य प्रवृत्त्युपपत्तेः । प्रत्यक्षस्य च तद्राहकवनिषेधात् । नाप्यात्माऽर्वाक्परभागावयवन्यापित्लमवयविनो ग्रहीतुं समर्थः । सत्तामात्रेण तस्य तद्राहकलानुपपत्तेः । अन्यथा स्वाप-मद-मूर्छाद्य- वस्थास्वपि तत्प्रतिपत्तिप्रसङ्गात् । किन्तु दर्शनसहायः, तच्च दर्शनं नावय- विनोऽवयवव्याप्तिग्राहकं प्रत्यक्षादिकं संभवतीति प्रतिपादितम् । अथार्वा- ग्भागदर्शने सत्युत्तरकालं परभागदर्शनेऽनन्तरस्मरणसहकारीन्द्रियजनितं स एवायमिति प्रत्यभिज्ञाज्ञानमध्यक्षमवयविनः पूर्वापरावयवव्याप्तिग्राहकम् । तद्- युक्तम् । प्रत्यभिज्ञाज्ञानस्यैतहिपयस्य प्रत्यक्षलानुपपत्तेः । अक्षानुसारि हि प्रत्यक्षम् । नचाक्षाणामापरभागभाव्यवयवग्रहणे व्यापारः संभवति । व्यव- हिते तेषां व्यापारासंभवात् । संभवे वाऽतिव्यवहितेऽपि मेरुपृष्ठादौ व्यापारः स्यात् । तन्न तदनुसारिणोऽध्यक्षरूपस्य प्रत्यभिज्ञाज्ञानस्य तत्र व्यापारः । नच स्मरण- सहायस्यापीन्द्रियस्याविषये व्यापारः संभवति । यद्यस्याविषयः न तत्तत्र स्मर- णसहायमपि प्रवर्त्तते, यथा परिमलस्मरणसहायमपि लोचनं गन्धादौ । अवि- पयश्च व्यवहितोऽक्षाणां परभागभाव्यवयवसंबन्धिवलक्षणोऽवयविनःस्वभाव इति नाक्षजस्य प्रत्यभिज्ञाज्ञानस्यावयविस्वरूपग्राहकलम्। नच स एवायमिति प्रतीति- रेका।स इति स्मृतेः रूपम् , अयमिति तु दृशः स्वरूपम् । तत्परोक्षापरोक्षाकारत्वात् नेकस्वभावावेती प्रत्ययौ । अथ स एवायमित्येकाधिकरणतया एतौ प्रतिभात इति एकं प्रत्यभिज्ञाज्ञानम्, आकारभेदे सति दर्शनस्मरणयोरिव सामानाधिकर- ण्याध्यवसायेऽप्येकखानुपपत्तेः । अन्यत्राप्याकारभेद एव भेदः; स चात्रापि विद्यत इति कथमेकत्वम् ? | किश्च । स इत्याकारोऽयमित्याकारानुप्रवेशेन प्रतिभाति, माहोस्त्रिदननुप्रवेशेनेति। यद्यनुप्रवेशेनेति स इत्याकारस्यावामित्याकारे अनुप्रविष्टr १८२ ; सम्मतिताख्यप्रकरणस्य- खादभाव इत्ययमित्याकार एव केवलः प्राप्त इति कुतः सोऽयमित्येका प्रत्यभिज्ञा? अथायमित्याकारः स इत्येतस्मिन्ननुप्रविष्टः, तदा स इत्येव प्राप्ती नायमित्यपीति कथमेका प्रत्यभिज्ञा ? । अथ स एवायमित्याकारौ परस्पराननुपविष्टौ प्रतिभातः, तथापि भिन्नाकारौ भिन्नविषयौ च द्वौ प्रत्ययाविति कथमेकार्थेका प्रत्यभिज्ञा? । प्रतिभासभेदस्य विषयभेदव्यवस्थापकलात् । नच प्रतिभासभेदेऽपि विषयाभेदः। प्रतिभासाभेदव्यतिरेकेण विषयाभेदव्यवस्थायां प्रमाणं विना प्रमेयाभ्युपगमः स्यात् ; तथाच सर्व सर्वस्य सिद्येत् । तन्न प्रत्यभिज्ञातोऽप्यवयव्येकत्वग्रहः । अनुमानस्य च अवयविखरूपग्राहकस्य प्रत्यक्षनिषेधे तत्पूर्वकस्य निषेधः कृत एव । सामान्यतो दृष्टस्य चावयविप्रतिषेधप्रस्तावे निषेधो विधास्यत इत्यास्तां तावत् । अथैको घट इति द्रव्यप्रतीतिरस्तिं तदवयवव्यतिरेकिणी, तत्कथमभा- वोऽवयविनः । न । घटावसायेऽपि तदवयवाध्यवसायः, नामोल्लेखश्चाध्यवसीयते नावयविद्रव्यम् । वर्णाकृत्यक्षराकारशून्यस्य तद्रूपस्य केनचिदप्यननुभवात् । वर्णाकृत्यक्षराकारशून्यं चावयविखरूपमभ्युपगम्यते । नच तेन रूपेण कल्पना- ज्ञानेऽपि तत्प्रतिभाति । नचान्याकारः प्रतिभासोऽन्याकारस्य वस्तुस्वरूपस्य व्यवस्थापकः । अन्यथा नीलप्रतिभासः पीतस्य व्यवस्थापकः स्यादिति न वस्तु- व्यवस्था स्यात् । तस्मात् न कल्पनोल्लिख्यमानवपुरप्यवयवी बहिरस्ति । केवलम- नादिरयमेकत्वव्यवहारो मिथ्यार्थः । नच व्यवहारमात्राहहिरके वस्तु सिद्यति । नीलादीनां खभाव इत्यत्रापि व्यवहाराभेदादेकताप्राप्तेः स्वभावस्य । अथ तत्र प्रतिनीलादिखभावं दर्शनभेदादेकलं बाध्यते, इहापि तर्हि बहीरूपस्यो- धिोमध्यादिनिसिस्य भेदादेकता तन्वादीनां प्रतिदलतु । तन्नावयविरूपो बाह्योऽर्थोऽस्ति । अथावयविनोऽभावे तदवयवानामपि पाण्यादीनां दिगुभेदादिविरु- इधर्माध्यासा भेदः । तदवयवानामप्यङ्गुल्यादीनां तत एव भेदात्तावतेंदो यावत्प- रमाणवः । तेषां च स्थूलप्रतिभासविषयलानुपपत्तिः । स्थूलतनुश्च बहिर्नीलादि- रूपः प्रतिभासः स्फुटमुद्भाति । नच स्थूलरूपं प्रत्येकं परमाणुषु संभवति, तथाले परमाणुखायोगात्। नापि समुदितेषु स्थूलरूपसंभवः । समुदितावस्थायामप्यणूनां खरूपेण सूक्ष्मलात्। नच तयतिरिक्तः समुदायोऽस्ति । तथाले द्रव्यवादप्रसङ्गात् ।
तत्त्वबोधविधायिनी व्याख्या । १८३ तत्र चोक्तो दोषः । तन्न स्थूलता परमाणुषु कथश्चिदपि संभवति । नचान्यादृक्- निभीसोऽन्यादृक्षस्यार्थस्य प्रकाशका । नीलदर्शनस्यापि पीतव्यवस्थापकबापत्तेः। तथाच नियतविषयव्यवस्थोच्छेदः । किश्च । परमाणोरपि नानादिक्संबन्धादेकता नोपपनैव। तथाचाह- "पटकेन युगपद्योगात्परमाणोः षडंशता" । इति । पुनस्तदंशानामपि नानादिसंबन्धात् सांशताऽऽपत्तिः, तथाचानवस्था । तस्मान्न परमाणूनामपि सत्त्वम्, इत्यवयव्यग्रहणे सर्वाग्रह्णप्रसङ्ग इति प्रति- भासाभावापत्तेर्न प्रसङ्गसाधनस्यावकाशः। असदेतत् । अवयव्यभावेऽपि निरन्तरो- त्पन्नानां घटाधाकारेण परमाणूनां सद्भावात् , तद्राहकाणामपि ज्ञानपरमाणूनां तथोत्पन्नानां तबाहकलात् न बहिरर्थाभावः । नापि तत्प्रतिभासाभाव इति कथं प्रसङ्गसाधनस्य नावकाशः स्थूलैकरूपावयव्यभावेऽपि ? यदि चावयविनो- ऽभावे परमाणूनामप्यभावप्रसक्तः प्रतिभासाभावेन प्रसङ्गसाधनानवकाशः प्रतिपाद्येत, तदा सुतरां परमाणुरूपस्य, ज्ञानरूपस्य चार्थस्याभावे कार्य- वादिलक्षणस्य हेतोराश्रयासिद्धतादोपः । वाह्यार्थनयेन चास्माभिराश्रयासिद्ध- तादोपात् कार्यत्वलक्षणाद्धेतोर्नेश्वरसिद्धिरिति प्रतिपादयितुमभिप्रेतम् । यदि पुन- विज्ञानशून्यवादानुकूलं भवताऽप्यनुष्ठीयते, तदा साध्यदृष्टान्तर्मिसाध्यसाधनध- मादीनामनुमित्यङ्गभूतानां सर्वेषामप्यसिद्धेः कुत उपन्यस्तप्रयोगादीश्वरसिद्धिः । तदेवं तन्वादिलक्षणस्य कार्यत्वादिहेत्वाश्रयस्यावयविनोऽसिद्धेराश्रयासिद्धो हेतुः। तथा बुद्धिमत्कारणमिति साध्यनिर्देशे बुद्धिमदिति मतुबर्थस्य साध्यधर्मविशे- पणस्यानुपपचिः । तज्ज्ञानस्य ततो व्यतिरेके, अकार्यत्वे च तस्येति संबन्धानुप- पत्तेः । तद्गुणयात् तत्त्स्येति चेत् । न । अकार्यत्वे, व्यतिरेके च तस्यैव तद्- गुणो नाकाशादेरिति व्यवस्थापयितुमशक्तः । समवायो व्यवस्थाकारीति चेत् । न।तस्यापि ताभ्यामनर्थान्तरत्वे स एव दोषः। व्यतिरेके समवायस्यापि सर्व- त्राविशेषान्न ततोऽपि तयवस्था । अर्थश्चरात्मकार्यत्वादीश्वरात्मगुणस्तज्ज्ञानम् । कुत एतत् । तस्मिन् सति भावादिति चेत् । आकाशादावपि सति तस्य भावात् १८४ सम्मतिताख्यप्रकरणस्य- तत्कार्यता किं न स्यात् ।। अथ तदभावेऽभावात्चत्कार्यलम् । तन्न। नित्यव्यापि- वाभ्यां तस्य तदयोगात् । तदात्मन्युत्कलितस्य तस्य दर्शनाचत्कार्यतेति । किमिदं तस्य तत्रोत्कलितलम् ? । तत्र समवेतवं तस्येति चेत् । नन्विदमेव पृष्टं किमिदं समवेतत्वं नाम ? । तत्र समवायेन वर्तनमिति चेत् । ननु किं व्याप्त्या समवायेन तत्र वर्तनम्, आहोखिदव्याप्त्या। यदि व्याप्त्या, तदाऽस्मदादिज्ञानवैलक्षण्यं यथा तज्ज्ञानस्यादृष्टस्यापि कल्प्यते, तथाऽकृष्टोत्पत्तिषु वने वनस्पत्यादिषु घटादौ कर्म- कर्तृकरणनिर्वर्य कार्यत्वमुपलब्धमपि, चेतनकर्तृरहितमपि भविष्यतीति कार्यव- लक्षणो हेतुर्बुद्धिमत्कारणपूर्वकले साध्ये स्थावरैयभिचारीति लाभमिच्छतो मूलक्षातिरायातेति । अथान्याप्त्या तत् तत्र वर्चते, तदा देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्यासन्निधानेऽपि यथा व्यापारः, तथाऽदृष्टस्याप्यग्न्यादिदेशेष्वसन्नि- हितस्यापि ऊर्ध्वज्वलनादिविषयो व्यापारो भविष्यतीति "अग्नेरूज़ज्वलनं, वायो- स्तिर्यपवनम्,अणुमनसोश्वाध कर्माऽदृष्टकारितम्" इत्यनेन सूत्रेण सर्वगतात्म- साधकहेतुसूचनं यत्कृतं तदसङ्गतं स्यात्। ज्ञानादिविशेषगुणवददृष्टगुणस्य तत्रास- निहितस्याप्यग्न्या ज्वलनादिकार्येषु व्यापारसंभवात् । नच सामान्यगुणविशेष- गुणत्वलक्षणोऽपि विशेषो गुणगुणिनोभँदे संभवति । किंच । समवायस्य सर्व- त्राविशेषे तत्रैव तेन वर्चनं नान्यत्रेति कुतोऽयं विभागः। अथ तत्राधेयत्वं समवे. तत्वम्, तदा आत्मवद् गगनादेरपि सर्वगतले तदात्मन्येव तदाधेयत्वं नान्यत्रेति दुर्लभोऽयं विभागः । ततस्तज्ज्ञानस्य तदात्मनो व्यतिरेके तस्यैव तज्ज्ञानमिति संबन्धानुपपत्तिः । अथ ततस्तज्ज्ञानस्याभेदेऽपि संबन्धस्य समवायरूपस्य भावान्नायं दोषः । असदेतत् । समवायस्यानुत्पत्तेः । तथाहि । किं सतां समवायः, आहोस्विदसतामिति। तत्र यद्यसतामिति पक्षः। स न युक्तः शशविषाणव्योमोत्प. लादीनामपि तत्प्रसङ्गात्।अथात्यन्तासत्त्वात्तेषां न तत्प्रसङ्गः। ननु तदात्मतज्ज्ञा- नयोरत्यन्तासत्त्वाभावः कुतः। तत्समवायादिति चेत् । इतरेतराश्रयत्वम्। सिद्धे तत्समवाये तयोरत्यन्तासत्त्वाभावः, तदभावाच्च तत्समवाय इति व्यक्तमि- तरेतराश्रयत्वम् ।अथ सतां समवायः। ननु तेषां समवायात् प्राक् कुतः सत्त्वम्?। यद्यपरसमवायात् । तदसत् । तस्यैकत्वाभ्युपगमात् । अनेकत्वेऽपि यद्यपरस- - तस्वबोधविधायिनी व्याख्या। मवायाप्राक्तेषां सत्त्वम् , समवायादपि प्रागपरसमवायातेषां सत्त्वमभ्युपगन्तव्य- मित्यनवस्था । अथ समवायात्प्राक्तेषां खत एव सत्त्वमिति नानवस्था, तर्हि सम- वायव्यतिरेकेणापि सत्त्वाभ्युपगमे व्यर्थ समवायपरिकल्पनमिति सत्तासंबन्धात्प- दार्थानां सचेत्युच्यमानं न शोभामावहति । अथ समवायात् प्राक् पदार्थानां न सत्वम्, नाप्यसत्त्वम् । सत्तासमवायः सत्त्वम् । असदेतत् । यतो यदि तत्- समवायात् माक् पदार्था योगिज्ञानमपि न जनयन्ति, तदा कथं तेषां नासत्त्वम् ?; अथ तद् जनयन्ति, तदा कथं तेपां न सत्त्वम् ? । किंच । अन्योऽन्यव्यव- च्छेदरूपाणामेकनिषेधस्यापरसद्भावनान्तरीयकत्वात् कथमसत्त्वनिषेधे न सत्त्व- विधानम् ?, तद्विधाने वा कथं नासत्त्वनिषेधः? इत्ययुक्तमुक्तमुद्योतकरेण । गोत्वसंबन्धात् प्राग् न गौः, नाप्यगौः, गोत्वयोगाद् गौरित्यपि च । समवायादि पदार्थानां सत्त्वम्, समवायस्य कुतः सत्त्वमिति वक्तव्यम् ? । यद्यपरसमवायात्; भनवस्था | अथ स्वत एव समवायस्य सत्त्वम्, पदार्थानामपि तत्वत एवास्तु। पुनरपि व्यर्थ सत्तासमवायकल्पनम् । अथ यदि नाम समवायस्य स्वतः सत्त्वमिति रूपम्, कथमन्यपदार्थानामपि तदेव रूपमिति सच्चेतसा वक्तुं युक्तम् ? नहि लवणस्य स्वतो लवणले रूपादेरपि तद्व्यतिरेकेण तद्भवति। असदेतत् । यतो- ऽध्यक्षतः सिद्धे पदार्थस्वभावे युज्येतैतहक्तुम् ;न च समवायादेः स्वरूपतः सत्त्वम्। अन्यपदार्थानां तु तत्सद्भावात् सत्त्वमित्यध्यक्षात् सिद्धम् । अपि च । अयं समवायः किं समवायिनोः परिकल्प्यते, उतासमवायिनोरिति विकल्पद्वयम् । तत्र यद्यस- मवायिनोरिति पक्षः। स न युक्तः । घटपटयोरत्यन्तभिन्नयोस्तत्प्रसङ्गात् । न चा- समवायिनोभिन्नसमवायेन समवायिलं तदभिन्न विधातुं शक्यम् । विरुद्धधर्मा- ध्यासेन ताभ्यां तस्य भेदप्रसङ्गात् । नापि भिन्नम् । तत्करणे तयोः तत्संबन्धि- खानुपपत्तेः । भिन्नस्योपकारमन्तरेण तदयोगात्। उपकारेऽपि तद्भिन्नसमवायिल- करणे पुनरपि तयोरसमवायित्वम् ; अन्यान्योपकारकरणे त्वनवस्था। खत एव तु समवायिनोः किं समवायेन तहेतुना परिकल्पितेन । अथ समवायेन तयोस्तद्यव- हारः क्रियते । ननु यदि समवायिनोः स्वरूपं प्रत्यक्षादिप्रमाणगोचरः, तदा तत एव तयवहारस्यापि सिद्धेः, व्यर्थमेव तदर्थ तत्परिकल्पनम् । अथ प्रत्यक्षप्रमाण- २४ . -- . ૬૮૬ सम्मतिताख्यप्रकरणस्य- सिद्धलात् समवायस्यैवं विकल्पनमयुक्तम् । तदसत् । यदि हि तत्सिद्धलं तस्य स्याचदा युक्तमेतत् । न च प्रत्यक्षप्रमाणे तत्वरूपावभासः । नहि तदात्मा, ज्ञानं, तत्समवायश्चेति त्रितयमिन्द्रियजाध्यक्षगोचरः। नापि स्वसंवेदनाध्यक्ष- विषयः। तस्य भवताऽनभ्युपगमात् । नाप्येकार्थसमवेतानन्तरमनोऽध्यक्षविषयः। तस्य प्रागेव निषिद्धलात् । न च बाह्येष्वपि घटरूपादिष्वर्थेष्वयं घटः, एते च तत्समवेता रूपादयः, अयं च तदन्तरालवी भिन्नः समवाय इति त्रितयम- ध्यक्षपतीतौ विभिन्नस्वरूपं प्रतिभाति । तत्प्रतिभाने वा, द्रव्यगुणसमवायाना- मध्यक्षसिद्धत्वात् विभिन्नखरूपतया न गुणगुणिभावे, समवाये वा कस्यचिहि- वादः स्यात् । नाप्येकत्वविभ्रमो घटरूपादीनाम् । ततश्च तन्निराकरणार्थ शास्त्र- प्रणयनमपार्थकं स्यात् । ननु यथा प्रत्यक्षेण प्रतिपन्नेऽप्यनेकान्ते जैनेन, खलक्षणे वा बौद्धेन, स्वदुरागमाहितवासनाबलाल्लोकस्य तेन तदप्रतिपन्नतावि- भ्रमः, तन्निराकरणार्थ च शास्त्रप्रणयनम् , तथाऽत्रापि स्यादिति; तर्हि तथा. विधशास्त्ररहितानामबलाबालादीनां न समवायप्रत्यक्षताविभ्रम इति तेषां शुक्ल: पट इति प्रतीतिर्न स्यात् , अपि त्वयं पटः, एते शुक्लादयो गुणाः; अयं च तद्- न्तरालवी अपरः समवाय इति प्रतीतिः स्यात् । अथ समवायस्य सूक्ष्मला- प्रत्यक्षलेऽप्यनुपलक्षणात्, तत्रस्थत्वेन रूपादीनामुपचारात् शुक्ल: पट इति प्रतिपत्तिः स्यात् । नैतदेवम् । दण्डेऽपि पुरुष इति प्रतिपत्तिः स्यात्। उपचाराच्चेयं प्रतिपत्तिरुपजायमाना स्खलद्रूपा स्यात् , वाहीके गोवुद्धिवत् । न च समवेत- मिदं वस्त्वत्रेति प्रतिपचौ, विशेषणभूतः समवायः प्रतिभातीति वक्तुं युक्तम् । बहिः प्रतिभासमानरूपादिव्यतिरेकेण, अन्तश्चाभिजल्पमन्तरेणापरस्य वर्णाकृ- त्यक्षराकारशून्यस्य ग्राह्याकारतां बिभ्राणस्य बहिः समवायखरूपस्याप्रतिभास- नात् । वर्णाद्याकाररहितं च परैः समवायखरूपमभ्युपगम्यते। नच तत्कल्पना बुद्धावपि प्रतिभाति । न चान्यादृशः प्रतिभासोऽन्यादृक्षस्यार्थस्य व्यवस्थापकः । अतिप्रसङ्गात् । तन्न समवायोऽध्यक्षप्रमाणगोचरः । यस्वाह-नित्यानुमेयत्वात्स- मवायस्यानुमानगोचरता, तेनायमदोष इति । तच्चानुमानम् ; इह तन्तुषु पट इति बुद्धिस्तन्तुपटव्यतिरिक्तसंबन्धपूर्विका, इहेति बुद्धिवाद, इह कंसपाच्या तत्वदोधविधायिनी व्याख्या । १८७ जलवुद्धिवदिति एतत् । सोऽप्ययुक्तवादी । समवायस्यान्यस्य वा पदार्थस्य नित्यैकरूपस्य कारणलासंभवात् क्वचिदपि, इति प्रतिपादयिष्यमाणत्वात् । न च तन्तुषु पटः, शृङ्गे गौः, शाखायां वृक्ष इति लौकिकी प्रतीतिरस्ति; पटे तन्तवो, गवि शृङ्ग, वृक्षे शाखेत्याकारेण प्रतीत्युत्पत्तेः संवेदनात, तस्याश्च समवायनिवन्धनवे तन्वादीनां पटाद्यारब्धवप्रसङ्गः । किंच । समवायस्य समवायिभिरनभिसंबन्धे तस्य तत्र “संबबुद्धिजननं तेषां संवन्ध एव च" इति च न युक्तम् । न हि दण्डपुरुपयोः संयोगः सह्यविन्ध्याभ्यामनभिसंबन्ध्य- मानन्तत्र संबन्धबुद्धिहेतुः। तत्संबुद्धौ वा, तैस्तदभिसंवन्धे वा खतः द्रव्यगुणक- मणां स्वाधारः स्वतः संबन्धः किं न स्यात् ?, यतः समवायपरिकल्पनाऽऽनर्थ- क्यमदनुवीत । इह समवायिषु समवाय इति च बुद्धिरपरनिमित्तिका प्रकृतस्य हेतोरनेकान्तिकवं कथं न साधयेत् ?। स्वतस्तत्संबन्धाभ्युपगमे समवायान्तरेण तस्य तदभिसंबन्धेऽनवस्थालता गगनतलावलम्बिनी प्रसज्येत । विशेषण- विशेप्यभावलक्षणसंवन्धबलात्तस्य तदभिसंबन्धे तस्यापि तैः संबन्धोऽपरविशे- पणविशेष्यभावलक्षणसंबन्धवलायदि, सेवानवस्था । समवायवलात्तस्य तत्संबन्धे व्यक्तमितरेतराश्रयत्वम् । स्वतस्तैस्तस्याभिसंबन्धे बुयादीनामपि स्वत एव स्वाधारः संबन्धो भविष्यतीति व्यर्थ संबन्धपरिकल्पनम् । तन्न समवायः कस्य- चित्प्रमाणस्य गोचरः । पुनरपि चैनं यथास्थानं निपेत्स्याम इति आस्तां तावत् । तदेवं बुद्धस्तदात्मनो व्यतिरेके संबन्धासिद्धेर्मतुवर्थानुपपत्तिः । अथाव्यतिरिक्ता तदात्मनम्तहुद्धिस्तथाऽपि तदनुपपत्तिः । न हि तदेव तेनैव तहबति । किंच। तदात्मनस्तबुद्धेरव्यतिरेके यदि तदात्मनि तद्बुद्धेरनुप्रवेशः, तदा बुद्धेरभावाद् बुद्धिविकलो गगनादिवज्जडस्वरूपः तदात्मा कथं जगत् स्रष्टा स्यात् ।बुयादिवि- शेपगुणगणवैकल्ये च तदात्मनोऽस्मदाद्यात्मनोऽप्यात्मत्वेन तदैकल्यान्मुक्तात्मन इव संसारिलं न स्यात् । नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मु- क्तत्वाभ्युपगमात् । तस्य चास्मदाद्यात्मस्वपि समानत्वात् भवदभ्युपगमेन । अयात्मत्वाविशेपेऽपि तदात्माऽस्मदाद्यात्मभ्यो विशिष्टोऽभ्युपगम्यते, तर्हि कार्यत्वा- विशेपेऽपि घटादिकार्येभ्यः स्थावरादिकार्यमकर्तृत्वेन विशिष्टं किं नाभ्युपगम्यते ।
१८८ , सम्मतिताख्यप्रकरणस्य- तथाच न कार्यत्वादिलक्षणो हेतुरनुपलभ्यमानकर्तृकैः स्थावरादिभिरव्यभि- चारी स्यात् । अथ तबुद्धौ तदात्मनोऽननुप्रवेशः, तदा बुद्धिमात्रमाधारशून्यमभ्यु- पगन्तव्यं भवति। तथाचास्मदादिबुद्धेरपि तद्वदाधारविकलत्वेन मतुबर्थासंभवात; घटादावपि बुद्धिमत्कारणत्वस्यासिद्धत्वात् साध्यविकलो दृष्टान्तः । अथा- ऽस्मदादिबुद्धिभ्यो बुद्धित्वे समानेऽपि तद्बुद्धेरेवानाश्रितत्वलक्षणो विशेषोऽभ्युप- गम्यते, तर्हि घटादिकार्येभ्यः पृथिव्यादिकार्यस्य कार्यत्वे समानेऽप्यकर्तृपूर्वकत्व- लक्षणो विशेषोऽभ्युपगन्तव्य इति पुनरपि कार्यत्वलक्षणो हेतुस्तैरेव व्यभिचारी। किंच । असौ तद्बुद्धिः क्षणिका,अक्षणिका वेति वक्तव्यम् । यदि क्षणिकेति पक्षः, तदाऽऽत्मानं समवायिकारणम् , आत्ममनःसंयोगं वाऽसमवायिकारणम् , तच्छरी- रादिकं च निमित्तकारणमन्तरेण कथं द्वितीयक्षणे तस्या उत्पत्तिः, तदनुत्पत्तौ चा- चेतनस्याण्वादेश्वेतनानधिष्ठितस्य कथं भूधरादिकार्यकरणे प्रवृत्तिः?, वास्यादेरिवा- चेतनस्य चेतनानधिष्ठितस्य प्रवृत्त्यनभ्युपगमात् । ततश्चेदानीं भूरुहादीनामनुत्प- त्तिप्रसङ्गात् कार्यशून्यं जगत् स्यात्। अथ समघाय्यादिकारणमन्तरेणापि तबुद्धे- रस्मदादिबुद्धिवैलक्षण्यादुत्पत्तिरभ्युपगम्यते । नन्वेंवं घटादिकार्यवैलक्षण्यं भूधरा- दिकार्यस्य किं नाभ्युपगम्यते ? इति तदेव चोधम् । किंच । यदीशबुद्धिः समवाय्या- दिकारणनिरपेक्षैवोत्पत्तिमासादयति, तर्हि मुक्तानामप्यानन्दादिकं शरीरादिनिमि- सकारणादिव्यतिरेकेणाप्युत्पत्स्यते इति न बुद्धिसुखादिविकलं जडात्मस्वरूप मुक्तिः स्यात् ।अथाक्षणिका तबुद्धिः, नन्वेवमस्मदादिबुद्धिरप्यक्षणिका किं नाभ्यु. पगम्यते ? । अथ प्रत्यक्षादिप्रमाणविरोधान्नास्मदादिबुद्धिरक्षणिका, तर्हि तद्विरोधा- देवाकृष्टोत्पत्तिषु स्थावरेषु कार्यत्वं बुद्धिमत्कारणपूर्वकं नाभ्युपगन्तव्यम् । अथा- स्मदादिबुद्धेः क्षणिकत्वसाधकमनुमानमक्षणिकत्वाभ्युपगमे बाधकं प्रवर्त्तते, न पुनरकृष्टोत्पत्तिषु स्थावरेषु, किं पुनस्तदनुमानम् अथ क्षणिका बुद्धिरस्मदादिप्रत्य- क्षत्वे सति विभुद्रव्यविशेषगुणत्वात् , शब्दवदित्येतत् । ननु यथाऽस्यानुमान- स्यास्मदादिबुद्ध्यक्षणिकत्वाभ्युपगमबाधकस्य संभवः, तथाऽकृष्टोत्पत्तिषु स्थावरेषु कर्तृपूर्वकत्वाभ्युपगमबाधकस्य तस्य संभवः प्रतिपादयिष्यत इति नात्र वस्तुनि भवतौत्सुक्यमास्थ्यम् । यथा च बुद्धिक्षणिकत्वानुमानस्यानेकदोषदुष्टत्वं, तथा , तत्त्वबोधविधायिनी व्याख्या । शब्दस्य पौगलिकत्वविचारणायां प्रतिपादयिष्यत इत्येतदप्यास्तां तावत् । यथा वा बुद्धित्वाविशेषेऽपीशास्मदादिबुद्ध्योरयमक्षणिकत्वक्षणिकत्वलक्षणो विशेषः, तथा भूरघटादिकार्ययोरप्यकर्तृकर्तृपूर्वकत्वलक्षणो विशेषः किं नाभ्युपगम्यते ? इति पुनरपि तदेव दूपण कार्यत्वादेहेतोरनैकान्तिकत्वलक्षणं प्रकृतसाध्ये । तदेवं बुद्धिमत्कारणपूर्वकत्वलक्षणे साध्ये मतुवर्थासंभवात् ; तन्वादीनामनेकधा प्रमाणबाधासंभवाच्च; शास्त्रव्याख्यानादिलिङ्गानुमीयमानपाण्डित्यगुणस्य देवदत्त- स्येव मूर्खत्वलक्षणे साध्येऽनुमानवाधितकर्मनिर्देशानन्तरप्रयुक्तस्य कार्यवादेहेतोः कालालयापदिष्टलेन तत्पन्नादेविागमकत्वम् , अनुमानवाधितत्वं वा पक्ष- स्येति स्थितम् । तथा कार्यत्वादिति हेतुरप्यसिद्धः । तथाहि । किमिदं तन्वा- दीनां कार्यत्वं, प्रागसतः स्वकारणसमवायः, सत्तासमवायो वेति चेत् । कुतः प्रागिति । कारणसमवायादिति चेत् । ननु तत्समवायसमये प्रागिव स्वरूपसत्त्व- वैधुयें प्रागिति विशेषणमनर्थकम् । सति संभवे व्यभिचारे च विशेषणमुपादीय- मानमर्थवनवतिः अत्र तु व्यभिचार एव न संभवः । तथाहि । यदि कारण- समवायसमये स्वरूपेण सद्भवति तन्वादि, तदा तत्काल इव तस्य प्रागपि सत्वे कार्यत्वं न स्यादिति विशेषणमुपादीयते प्रागसत इति । यदा पुनः प्रागिव कारणसमवायवेलायामपि स्वरूपसत्त्वविकलता, तदा प्रागिति विशेषणं न कश्चिदर्थ पुष्णाति, मसत इत्येवास्तु । न चासतः कारणसमवायो- ऽपि युक्तः शशविषाणादेरपि तत्प्रसङ्गात् । तस्य कारणविरहान्न तत्प्रसङ्ग इति चेत् । कुत एतत् । असस्वात् । तनुकरणादेरपि तद्वदसत्त्वे किंकृतोऽयं विभागः। अस्य कारणमस्ति न शशशृङ्गादेरिति तन्वादेः कारणमुपलभ्यते नेतरस्येत्यपि नोत्तरम् । यतः कार्यकारणयोरुपलम्भे सत्येतत्स्यादिदमस्य कारणं, कार्य चेदमस्ये- ति । न च परस्य तदुपलम्भः प्रत्यक्षतः। उपलम्भकारणमुपलम्भविषय इति नैयायिकानां मतम्। "अर्थवत्प्रमाणम्" इत्यत्र भाष्ये प्रमातृप्रमेयाभ्यामर्थान्तरम- व्यपदेश्याव्यभिचारिव्यवसायात्मकज्ञाने कर्तव्येऽर्थः सहकारी विद्यते यस्य तदर्थवत्प्रमाणमिति व्याख्यानात् । न चाजनकं सहकारि; सह करोतीति सहका- रीति व्युत्पत्तेः न चासच्छशविषाणसमं ज्ञानस्यान्यस्य वा कारणम् , विरोधात् ।
सम्मतिताख्यप्रकरणस्य- अपि च । इन्द्रियार्थसन्निकर्षात् प्रत्यक्ष ज्ञानमुत्पत्तिमत्, कार्यकारणादिनाचेन्द्रि- यसन्निकर्षः संयोगः, सोऽपि कथं तेनासता जन्यते' इति चिन्त्यम्। संयोगाभावे च रूपादिनेन्द्रियस्य संयुक्तसमवायः, रूपलादिना तु संयुक्तसमवेतसमवाय इति सर्व दुर्घटम् । एतेन द्रव्यत्वादिसामान्यसंबन्धोऽपि तस्य निरूपितः । तन्न तन्वादि- विषयमध्यक्षम् । अत एव नानुमानमपि । तदेवं खरविषाणादिवत्कार्यकारणादेरनु- पलम्भान्न युक्तमेतच्छरीरादेः कारणमस्ति, न शशशृङ्गादेरिति । यदि पुनस्त- नुकरणादिः सन् वन्ध्यासुतादिपरिहारेणेति मतिः । तत्र कुतः स एव सन् ? । कारणसमवायात् । सोऽपि कुतः सत्त्वात्। अन्योऽन्यसंश्रयः। तत्समवायात्सत्त्वम- तश्च तत्समवाय इति।प्रागसतः सत्तासमवायात् स एव सन्निति चेत्, कुतःप्राक्, सत्तासमवायात् । ननु तत्समवायकाले प्रागिव खरूपसत्त्वविरहे प्रागिति- विशेषणमनर्थकमित्यादि सर्व वक्तव्यम् । असतश्च सत्तासमवाये खरशृङ्गादेरपि संभवेत् , अविशेषात् । प्रागितिच विशेषणं शशशृङ्गादिव्यवच्छेदार्थ परेणोक्तम्। सत्तासंबन्धसमये च तन्वादेः खरूपसत्त्वाभावे कस्ततो विशेषः । अयमस्ति विशेषः । कूर्मरोमादिकमत्यन्तासत्, इतरत्पुनः खयं न सन्नाप्यसत्, अत एव सत्तासंबन्धात्तदेव सदित्युच्यत इति । तदेतज्जडात्मनो भवतः कोऽन्यो भाषते ?। तथाहि । न सदितिवचनात्तस्य सत्तासंबन्धात्प्रागभाव उक्तः, सत्प्रतिषेध- लक्षणत्वादस्य । नाप्यसदित्यभिधानाहावः, असत्त्वनिषेधरूपत्वाद् भावस्य रूपान्तराभावात् । तथैव वैयाकरणानां न्यायः-"द्वौ प्रतिषेधौ प्रकृतमर्श गमयतः" इति । कथमन्यथा नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्यत्र नैरात्म्य- निषेधः सात्मकः सियेत् ? । अत्र केचित् अवते । नैवं प्रयोगः क्रियतेऽपि तु सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । तैरप्येवं प्रयोगं कुर्वद्भिः सात्मक- खाभावो नियमेन प्राणादिमत्त्वाभावेन व्याप्तोऽभ्युपगन्तव्यः । अन्यथा व्यभि- चाराशङ्का न निवर्चेत । तदभ्युपगमे चेदमवश्यं वक्तव्यम् । जीवच्छरीरे प्राणादिमत्त्वं प्रतीयमानं स्वाभावं निवर्तयति । स च निवर्तमानः स्वव्याप्यं सात्मकलाभावमादाय निवर्त्तते; इतरथा तेनासौ व्याप्तो न स्यात् । यस्मिन्नि- वर्तमाने यन्न निवर्त्तते न तेन तद्व्याप्तम् , यथा निवर्तमानेऽपि प्रदीपे अनिवर्त्त- तत्त्ववोधविधायिनी व्याख्या । मानः पटादिर्न तेन व्याप्तः, न निवर्तते च प्राणादिमत्त्वाभावे निवर्तमानेऽपि सात्मकलाभाव इति । निवर्तते इति चेत्, तन्निवृत्तावपि यदि सात्मकलं न सिन्धति, न तर्हि तदभावो निवर्तते। सात्मकवाभावाभावेऽपि तदभावस्य तद- वस्थत्वात् सिन्धतीति चेत् ; आयातमिदं "हौ प्रतिषेधौ प्रकृतमर्थ गमयतः" इति । तदा चेदमपि युक्तम्- नेदं निरात्मकं जीवच्छरीरं, प्राणादिमत्त्वादिति । अन्ये तु मन्यन्ते-अन्यत्र दृष्टो धर्मः कचिमिणि विधीयते, निषियते चेति वचनात् , केवलं घटादौ नैरात्म्यमप्राणादिमत्त्वेन व्याप्तं दृष्टम् ; तदेव निषिद्यते जीवच्छरोरे प्राणादिमत्त्वाभावेन, न पुनः सात्मकलं विधीयते । तस्यान्यना- दर्शनादिति । तेषां घटादौ नैरात्म्यं प्रतिपन्न प्रतिषिध्यते इति भवतु सूक्तम् ; तथापि तन्निपेधसामाद्यदि जीवच्छरीरे सात्मकत्वं न स्यात्, न तर्हि तत्र तन्निपेधः । यदा हि नैरात्म्यनिषेधो न सात्मकः, किन्तु यथाऽऽत्मनोऽभावो नैरात्म्य, तथाऽस्याभावोऽपि तुच्छरूपः, आत्मनोऽन्यत्वाद्, भङ्गयन्तरेण नैरात्म्यमेव पुनस्तन्निपेद्धव्यम् । पुनरपि तन्निपेधस्तुच्छरूपो नैरात्म्यमि- त्यपरस्तन्निषेधो मृग्यः । तथा च सत्यनवस्थानान्न नैरात्म्यनिषेधः। किंच। यदि नाम घटादी नैरात्म्यमुपलब्धं किमित्यन्यत्र निषिध्यते । इतरथा देवदत्ते पाण्डित्यमुपलब्धं यज्ञदत्तादी निषिध्येत । तत्र प्राणादिमत्त्वदर्शनादिति चेत् । युक्तमेतत् । यदि प्राणादिमत्त्वं नैरास्यविरुद्धं स्यादग्निरिव शीतविरुद्धः । न चैवम् । अन्यथा सर्वमशेषविरुद्धं भवेत् , प्राणादिमत्त्वेन स्वाभावो नैरात्म्य- व्यापको विरुद्धस्ततः प्राणादिमत्त्वभावात् तदभावो निवर्त्तते, वह्विभावादिव शीतम् । स च निवर्तमानः स्वव्याप्यं नैरात्म्यमादाय निवर्त्तते; यथा धूमाभावः पावकाभावमिति दत्तमत्रोत्तरम् । यदि नैरात्म्याभावः सात्मको न भवेत् तद्- वस्थं नैरात्म्यमिति, भवतु तर्हि नैरात्म्यनिषेधः सात्मकः । तथा सति सत्ता- संबन्धात् प्राक् तन्वादि सन्नितिवचनात तदा तस्य सत्त्वमुक्तम् ; न सदित्य- भिधानादसत्त्वमिति विरोधः । ततोऽसदेव तदभ्युपगन्तव्यमिति न वन्ध्यासुता- देस्तनुकरणादेविशेषः। भवत्वेवं तथापि तन्वादेरेव सत्तासंबन्धात्सत्त्वम्, न खर- शृङ्गादेः, तथादर्शनादिति चेत् । उक्तमत्र तथादर्शनोपायाभावादिति । अपि सम्मतिताख्यप्रकरणस्य- च । सत्ताऽपि यद्यसती, कथं ततो वन्ध्यासुतादेरिवापरस्य सत्त्वम् , सती चेद, यधन्यसत्तातः, अनवस्था । खतश्चेत्, पदार्थानामपि खत एव सत्त्वं स्यादिति व्यर्थ तत्परिकल्पनम् । किञ्च । यदि स्वत एव सत्ता सती उपेयते, तदा प्रमाणं वक्तव्यम्। अथ खतः सत्ता सती, तत्संबन्धात् तन्वादीनां सत्त्वान्यथाऽनुपपत्तेः, तीन्योन्यसंश्रयः, तत्संबन्धात् तन्वादिसत्त्वे सिद्धे सत्तासत्त्वसिद्धिः, ततस्तत्सं- बन्धात् तन्वादिसत्त्वसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । अथ सत्ता स्वतः सती, सदभिधानप्रत्ययविषयत्वाद्, अवान्तरसामान्यादिवत् । न द्रव्यादिना व्यभिचारः, द्रव्यादिरपि सद् द्रव्य, सन् गुणः, सत्कर्मेत्येवं सदभिधानप्रत्ययविषयो भवति । न चासौ परेण स्वतः सन्नभ्युपगतः। सत्ताप्रकल्पनवैफल्यप्रसङ्गात् । न च द्रव्यादौ तद्विषयत्वं परापेक्षं न सचायामिति वक्तुं युक्तम् । तस्यामपि तदपेक्षत्वसंभवा- त् । अथ तत्र तस्य तदपेक्षत्वे किं तदपरमिति वक्तव्यम् ? । नन्वेतद् द्रव्या- दावपि समानम्, तत्र सत्तेति चेत्, अत्रापि द्रव्यादिकमिति तुल्यम् । यथैव हि सत्तासंबन्धात् द्रव्यादिकं सत् ,न खतः तथा द्रव्यादिस्वरूपसत्त्वसंबन्धात्सत्ता सती, न स्वतः। द्रव्यादेः खरूपसत्त्वं नास्ति, तेनायमदोषः । तदस्तित्वे को दोष इति वाच्यम् । ननु तस्य खतः सत्त्वेऽवान्तरसामान्याभावप्रसङ्गो दोषः । ननु खतोऽसत्त्वे खरविषाणादेरिव सुतरांतदभावदोषः। अपि च । यो हि तत्र सत्तासंबन्धं नेच्छति, स कथमवान्तरसामान्यसंबन्धमिच्छेत् । न चात्र प्रमाणं स्वतोऽसन्तो- द्रव्यादयो नावान्तरसामान्यमिति । अथैतद्रव्यादयो न स्वतः सन्तः अवान्तर- सामान्यवत्त्वाद्; यत् पुनः स्वतः सत्, न तदवान्तरसामान्यवत्, यथा सामान्यवि.. शेषसमवाया इति व्यतिरेकी हेतुः। नैतत् ।यदि हि द्रव्यादयो धर्मिणः कुतश्चित्प्रती- तिगोचरचारिणो ऽसन्तो भवन्ति,स कथमवान्तरसामान्यसंबन्धमिच्छेत् ।न चात्र प्रमाणं स्वतोऽसन्तो द्रव्यादयो नावान्तरसामान्यमिति । अथैतद्रव्यादयो न स्वतः सन्तोऽवान्तरसामान्यवद्, यथा सामान्यप्रतीतिः सत्त्वं साधयन्ती स्वत इति प्रतिज्ञाम् । तदसत्त्वविषयाबाधने चेदमत्रोत्तरम् । न स्वतः सन्तस्ते प्रती- तिविषयाः किन्तु सत्तासंबन्धादिति; यतो न स्वयमसन्तस्तत्संबन्धात्तद्विषया भवन्तीत्युक्तम् । किंच । द्रव्यादरेकान्तेन यस्य भिन्नान्यवान्तरसामान्यानि कथं तत्त्वबोधविधायिनी व्याख्या । तस्य तानि स्युः ?; यतोऽवान्तरसामान्यवत्त्वादिति हेतुः सिद्धः स्यात् । अथ तथापि तस्यापि न परस्परमपि स्युरिति सामान्यसमवायात् परिशेषवदितिवैधर्म्य- निदर्शनमयुक्तम् । यदि मतं, द्रव्यादौ तानि समवेतानि, ततस्तस्य तानि, न सामान्यादेविपर्ययादिति । तन्न सम्यक् । तत्र समवेतानीति समवायेन संबद्धा- नीति यद्यर्थः । स न युक्तः । समवायस्य निषिद्धत्वान्निपेत्स्यमानत्वाच्च । भवतु वा समवायः, तथापि यत्र द्रव्ये, गुणे, कर्मणि च द्रव्यत्वं, गुणत्वं, कर्मत्वं चाऽवान्तरसामान्य, तत्रैव पृथिवीत्वादीनि, रूपत्वादीनि, गमनत्वादीनि च तथा- विधानि सामान्यानि, समवायोऽपि तत्रैव सामान्यवत्, तस्य सर्वगतत्वाच्च द्रव्या- दिवदन्योन्यसत्तानीति न द्रव्यादेः स्वतः सत्त्ववाधनमित्याशङ्का न निवर्त्तते; किं द्रव्यादिसंबन्धात्सत्ता सती, किं वा तया द्रव्यादिकं सदिति । तन्न सत्तातः तन्वादेः सत्त्वम् । तस्या एवासिद्धत्त्वात् । सत्ताप्रत्यक्षादिप्रमाणसिद्धत्वात् सत्तायाः प्रत्यक्षबाधितविषयत्वे नैवमुपन्यस्यमानस्य प्रसङ्गसाधनस्यानवकाशः। न च द्रव्यप्रतिभासवेलायां प्रत्यक्षबुद्धौ परिस्फुटरूपेण व्यक्तिविवेकेन सत्ता न प्रतिभातीति शक्यं वक्तुम् । अनुगताकारस्य च प्रत्यक्षानुभवस्य संवेदनात् । न चानुगतव्यावृत्तवरतुन्यतिरेकेण ध्याकारा बुद्धिर्घटते ; न हि विषयव्यतिरेकेण प्रतीतिरुत्पद्यते । नीलादिस्वलक्षणप्रतीतेरपि तथाभावप्रसङ्गात् । अथ तैमिरि- कस्य वायार्थसन्निधिव्यतिरेकेणापि केशोण्डुकादिप्रतीतिरुदेति, तथैवानुगत- लामन्तोऽपि भिन्नवस्तुप्वनुगताकारा बुद्धिरुदेष्यतीति न ततः सत्ताव्य- वस्था । वैदयुक्तम् । तैमिरिकप्रतीतौ हि प्रतिभासमानस्य केशोण्डुकादे- वधिककारणदोपपरिज्ञानादतत्त्वम् ; सत्तादर्शने तु न बाधकप्रत्ययोदयो, नापि कारणदापपरिज्ञानमिति न तद्राहिणो विज्ञानस्य मिथ्यालम् । तथाहि । विभिन्नेष्वपि घटपटादिष्वर्थेपु सत्सदित्यभेदमुल्लिखन्ती प्रतीतिरुदयमासादयति; न चासी कालान्तरादौ विपर्ययमुपगच्छन्ती लक्ष्यते । सर्वदा सर्वेषां घटपटा- दिपु सत्सदिति व्याहृतः । व्यवहारमुपरचयन्ती च प्रतीतिः परैपि प्रमाणम- भ्युपगम्यते । यथोक्तं तैः, “प्रामाण्यं व्यवहारेण” इति । तदेवमवस्थि- तम् । अनुगताकारा हि बुद्धिावृत्तरूपप्रतीत्यनधिगतं साधारणरूपमुल्लिख- १९४ सम्मतितोख्यप्रकरणस्य- न्तीयमुपरिनिश्चितरूपा बांधाऽयोगात् प्रमाणम् । सा चाक्षान्वयव्यतिरेकानुसारि- तया प्रसक्षम् । तथाहि । विस्फारितलोचनस्य घटपटादिषु रूपमारूढां सत्ता- मुल्लिखन्ती सत्सदिति प्रतीतिः, तदभावे च न भवतीति तदन्वयव्यतिरेकानु- विधायितया कथं न प्रत्यक्षम् । तस्माद्बहुषु व्यावृत्तेषु तुल्याकारा बुद्धिरेकताम- वस्यति । यच्चात्र विभिन्नेषु घटादिषु प्रतिनियतमेकमनुगतवरूपं सैव जातिः, अथ व्यक्तिव्यतिरिक्ता जातिरुपेयते, न च व्यक्तिदर्शनवेलायां तद्रूपसंस्पर्श- विषयव्यतिरिक्तवपुरपरमनुगतिरूपं प्रतिभाति, तत्कथं तत् सामान्यम्? । नैत- दस्ति । यस्मादगृहीतसङ्केतस्यापि तनुभृतः प्रथममुहाति वस्तु, द्वितीये तुल्यरू- पतामनुसरति बुद्धिः, कचिदेव न सर्वत्र । प्रतिपत्त्यन्यता च सर्वत्र भेदव्यवहार- निबन्धनम् ; तुल्यदेशकालेऽपि रूपरसादौ च प्रतिपत्त्यन्यता जातावपि विद्यत इति कथं न सा भिन्नाऽस्ति । तथाहि ।व्यक्त्याकारविवेकेन विशदमनुगतिरूपता भाति, तहिवेकेन च व्यावृत्तरूपतेति कथं व्यक्तिस्वरूपाहिन्नावभासिनी जाति- मिन्ना नाभ्युपगमविषया?। अथैकेन्द्रियावसेयत्वात् जातिव्यक्त्योरेकता; रूपरसा- दौ तु भिन्नेन्द्रियग्राह्यला दः । तदप्यसङ्गतम् । यतः एकेन्द्रियग्राह्यमपि वाता- तपादिकं समानदेशं च भिन्नं प्रतिभातीति भिन्नवपुरभ्युपेयते, तथा प्रतिनियते- न्द्रियविषयमपि जातिव्यक्तिद्वयं भिन्नं, भिन्नप्रतिभासादेव । तथाहि । घटमन्त- रेणापि पटग्रहणे सत्सदिति पूर्वप्रतिपन्नासत्ताऽवगतिर्दृष्टा, यदि तु व्यक्तिरेव सती न जातिः, तत्सत्त्वेऽपि तदन्यतिरिक्ता च, तथा सति व्यक्तिरूपोतदनुगति- रपि व्यक्त्यन्तरे प्रसज्येत । प्रतीयते च सद्रूपता युगपद्ः घटपटादिषु परस्परविविक्ततनुष्वपि सर्वदा । तेनैकरूपैब जातिः, प्रत्यक्षे तथाभूताया एव तस्याः प्रतिभासनात् ; शब्दलिङ्गयोरपि तस्यामेव संबन्धग्रहणमिति ताभ्यामपि सा प्रतीयते । तदेवं प्रत्यक्षादिप्रमाणावसेयत्वात्सत्तायाः न तन्निराकरणाय प्रसङ्ग- साधनानुमानप्रवृत्तिरिति । असदेतत् । यतो न व्यक्तिदर्शनवेलायां खरूपेण बहि- ह्याकारतया प्रतीतिमवतरन्ती जातिरुद्भाति । नहि घटपटवस्तुहयप्रतिभास- समये तदैव तयवस्थितमूर्तिर्भिन्नाऽभिन्ना वा जातिराभाति । तदाकारस्यापरस्य : ग्राह्यतया बहिस्तत्राप्रतिभासनात् , बहिर्लाह्यावभासश्चबहिरर्थव्यवस्थाकारी,नान्त- - , तत्त्वबांधविधायिनी व्याख्या । , रावभासः यदि तु सोऽपि तयवस्थाकारी स्यात्, तथा सति हृदि परिवर्त्तमानवपुषः सुखादेरपि प्रतिभासाहहिस्तव्यवस्था स्यात् । तथा च सुखाद्यात्मकाः शब्दादय इति साङ्ख्यदर्शनमेव स्यात् । अथ सुखादिराकारो बाह्यरूपतया न प्रतिभातीति न बहिरसौ जातिरपि, तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपाऽभ्युपगन्तव्या। यतः कल्पनामतिरपि दर्शनदृष्टमेव घटादिरूपं बहिरुल्लिखन्ती, तद्रिं चान्तः प्रति- भाति नतुतयतिरिक्तवपुपं जातिमुद्योतयति। तन्न तदवसेयाऽपि बहिर्जीतिरस्ति । तैमिरिकज्ञाने बहिः प्रकाशमानवपुपोऽपि हि केशोण्डुकादयो न तथाऽभ्युपेयन्ते, बाध्यमानज्ञानविषयत्वात् । जातिस्तु न बहीरूपतया कचिदपि ज्ञाने प्रतिभातीति कथं सा सत्त्वाभ्युपगमविषया ११ बुद्धिरेव केवलं घटपटादिषुः प्रतिभासमानेषु सत्सदिति तुल्यतनुराभाति यदि, तर्हि न बाह्या जातिरस्ति, बुद्धिरपि कथमेकरूपी प्रतिभाति ?। नहि बहिनिमित्तमन्तरेण तदाकारोत्पत्तिमतीसा युक्ता। ननु केनोच्यते बहिनिमित्तनिरपेक्षा जातिमतिरिति, किन्तु बहिर्जातिर्न निमित्तमिति, बाह्यास्तु व्यक्तयः काश्चिदेव जातिबुद्धेनिमित्तम्। ननु यदि व्यक्तिनिबन्धनाऽनुगताकारा मतिः, तथा सति यथा खण्डमुण्डव्यक्तिदर्शने गौौरिति प्रतिपत्तिरुदेति, तथा गरिशिखरादिदर्शनेऽपि गौगौरियेतदाकारा प्रतिपत्तिर्भवेत्। व्यक्तिभेदाविशे- पात् । तद्युक्तम् । भेदाविशेपेऽपि खण्डमुण्डादिव्यक्तिपु गौ!रित्याकारा मतिरुद- यमासादयन्ती समुपलभ्यत इति ता एव तामुपजनयितुं समर्था इत्यवसीयते, न पुन शिखरादिषु गौौरिति मतिर्दृष्टेति न ते तन्निबन्धनं, यथा वा ..आमलकी लादिपु यथाविधानमुपयुक्तेषु व्याधिविरतिलक्षणं फलमुपलभ्यत इति सान्येव तद्विधौ समर्थानीयवसीयते । भेदाविशेषेऽपि न पुनस्त्रपुषद्ध्या- दीनि । अथ भिन्नेष्वपि भावेषु सत्सदिति मतिरस्ति, विभिन्नेषु च भावेषु यदेकत्वं तदेव जातिः । तत्रोच्यते । तदेकत्वं घटपटादिषु किमन्यत्, उतानन्यत्। न तावदन्यत् । तस्याप्रतिभासनादित्युक्तेः। नाप्यनन्यत् । एकरूपा- ऽप्रतिभासनात्। न हि घटस्य पटस्य चैकमेव रूपं प्रतिभाति । सर्वात्मना प्रति- द्रव्यं भिन्नरूपदर्शनात्। तस्मादप्रतीतेरभिन्नाऽपि जाति स्ति; बुद्धिरेव तुल्याकार- प्रतिभासा सत्सदिति, शब्दश्च दृश्यत इतितदन्वय एव युक्तः,नजात्यन्वयः। तस्या- सम्मतिताख्यप्रकरणस्य- दर्शनात् । न च बुद्धिखरूपमप्यपरवुद्धिस्वरूपमनुगच्छति इति न तदपि सामान्य- मित्येकानुगतजातिवादो मिथ्यावादः । अपिच । अनेकव्यक्तिव्यापि सामान्य तहा- दिभिरभ्युपगम्यते। न च तद्यापित्वं तस्य केनचित् ज्ञानेन व्यवस्थापयितुं शक्यम्। तथाहि । सन्निहितव्यक्तिप्रतिभासकाले जातिस्तव्यक्तिसंस्पर्शिनी स्फुटमवभा- ति, न व्यत्यन्तरसंबन्धितया । तस्यास्तथाऽसन्निधानेन प्रतिभासायोगात् । तद- प्रतिभासे च तन्मिश्रताऽपि नावगतेति कथमसन्निहितव्यक्त्यन्तरसंवद्धशरीरा जातिरवभाति । यदेव हि परिस्फुटदर्शने प्रतिभाति रूपम् , तदेव तस्या युक्तम् । दर्शनासंस्पर्शिनः स्वरूपस्यासंभवात् । संभवे वा तस्य दृश्यखभावाद्भेदप्रसङ्गात्, तदेकले सर्वत्र भेदप्रतिहतेः अतो नैकं जगत्स्यात् । दर्शनगोचरातीतं च व्यत्य- न्तरसंबद्धं जातिवरूपमप्रतिभासनादसत् । प्रतिभासने वा तस्य तत्संबद्धानां व्यवहितव्यक्त्यन्तराणामपि प्रतिभासप्रसङ्ग इति सकलजगत्प्रतिभासः स्यात् । अथ मतं सन्निहितव्यक्तिदर्शनकाले व्यत्यन्तरसंबन्धिनी जातिन भाति; यदा तु व्यक्त्यन्तरं दृश्यते तदा तद्दर्शनवेलायां तद्गतत्वेन जातिराभातीति साधार- णखरूपपरिच्छेदः पश्चात् संभवतीति । ततश्च पश्चादर्थान्वयदर्शने कथं तस्या- स्तद्व्यापितामहः । असदेतत् । यतो व्यक्त्यन्तरदर्शनकालेऽपि तत्परिगतमे जातेः खरूपं प्रतिभाति, न पूर्वव्यक्तिसंस्पर्शितया तस्याः प्रत्यक्षगोचरातिक्रान्ततया । तत्संबद्धस्यापि रूपस्य तदतिक्रान्तलात् । तत्कथं सन्निहितासन्निहितव्यक्तिसंबद्ध- जातिरूपावगमः। अथ प्रत्यभिज्ञानादनेकव्यक्तिसंबन्धित्वेन जाति प्रतीयते ।। ननु केयं प्रत्यभिज्ञा ?। यदिप्रत्यक्षम्, कुतस्तदवसेया जातिरेकानेकाक्तव्यापिनी प्रत्यक्षा? । अथ नयनव्यापारानन्तरं समुपजायमाना प्रत्यभिज्ञा कथं न प्रत्यक्षम् । निर्विकल्पकस्याप्यक्षान्वयव्यतिरेकानुविधानात् प्रत्यक्षत्वम्, तदत्रापि तुल्यम् । असदेतत् । यद्यक्षजा प्रत्यभिज्ञा, तथा सति प्रथमव्यक्तिदर्शनकाल एव समस्तव्य- क्तिसंबद्धजातिरूपपरिच्छेदोऽस्तु । अथ तदा स्मृतिसहकारिविरहान्न तत्त्वावगतिः, यदा तु द्वितीयव्यक्तिदर्शनं तदा पूर्वदर्शनाहितसंस्कारप्रबोधसमुपजातस्मृति- सहितमिन्द्रियं तत्त्वदर्शनं जनयति। तदप्यसत् । यतः स्मरणसचिवमपि लोचनं पुरःसन्निहितायामेव व्यक्तौ तत्स्थजातौ च प्रतिपत्तिं जनयितुमीशम् ; न पूर्व- ? सत्वबोधविधायिनी व्याख्या । १९७ व्यक्ती, असन्निधानात् । तन्न तस्थितां जाति दर्शनं परिदृश्यमाने व्यक्त्यन्तरे संधत्ते । अथेन्टियवृत्तिर्न स्मरणसमवायिनी, करणत्वादिति नासौ संधानकारिणी। पुरुपस्तु कर्तृतया स्मृतिसमवायीति चक्षुषा परिंगतेऽर्थे तदुपदर्शितपूर्वव्यक्तिगत जाति मंधास्यतीति । तदसत् । यतः सोऽपि न स्वतन्त्रतयाऽर्थग्राहकः, किन्तु दर्शनसहायः । यदि पुनः स्वतन्त्र एवार्थग्राहकः स्यात् । तथा सति खापमद- मूर्छादिप्वपि सर्वव्यक्त्यनुगतजातिप्रतिपत्तिः स्यात् । तस्मादात्माऽपि दर्शनसहाय एवार्थवेदी; दर्शनं च पुरःसन्निहितं व्यक्तिस्वरूपमनुसरति । नहि स्मृतिगोचरमपि पूर्वदृष्टव्यक्तिगतं जात्यादिकमिति न दर्शनसहायोऽपि तदनुसंधानसमर्थ आत्मा। अथ स्मरणोपनीतं जातिरूपमात्मा तत्र संधास्यति । नन्वत्रापि स्मृतिः परिहतपुरो- वर्तिव्यक्तिदर्शनविपया पूर्वदृष्टमर्थमनुसरन्ती संलक्ष्यते; तत्कथं पुरोवर्त्तिन्य- प्रवर्त्तमाना स्वविषयान् सामान्यादींस्तत्र संघटयितुं क्षमा । तदरमृतं च संघटनं कथमात्माऽपि कर्तु क्षमः । तथाहि। दर्शने सति द्रष्टरि तस्य स्वरूपे जाते तन्नि- मग्नं, न मृतिकृतं स्मर्तृरूपं भाति; यदि तु भाति, तथा सति द्रष्टुरूप एवासौ, न स्म अथ स्मर्तृरूपे द्रष्टस्वरूपमनुप्राविष्टं प्रतिभाति; तथापि स्म वाऽसौ न द्रष्टा । अथ द्रष्टस्मर्तृस्त्ररूपे विविक्ते भातस्तथा सति तयोर्मेद इति नैकत्वम् । तथाहि ! द्रष्टेस्वरूपं दृग्विफ्यावभासि प्रतिभाति, स्मर्तृवरूपमपि पुंसः स्मृ- तिविपयशवतीर्णमवभाति तत्कुतः पूर्वापरयोर्जातिरूपयोःसंधानम् । यत्पुनरुक्तम्। स्मरतः पूष्टार्थानुसंधानादुत्पद्यमाना मतिश्चक्षुःसंवद्धले प्रत्यक्षमिति । एतदप्य- संत् । नेनियमतिः स्मृतिगोचरपूर्वरूपग्राहिणी, तत्कथं सा तत्संधानमात्मसात्क- रोति । पूर्वदृष्टसंधानं हि तत्प्रतिभासनं, तत्प्रतिभाससंबन्धे चेन्द्रियमतेः परो- क्षार्थग्राहित्यापरिस्फुटप्रतिभासनमसन्निहितविषयग्रहणं च, तत्कुतस्तयोरैक्यम् । अथ परोक्षग्रहण स्वात्मना नेन्द्रियमतिः संस्पृशति, एवं तर्हि तद्विविक्ता इन्द्रिय- मतिरिति कथं तत्संधायिका सामग्री अभ्युपेयते? यदि चस्मृतिविषयखभावतया दृश्यमानोऽर्थः प्रत्यक्षबुद्धिभिरवगम्यते । तथा सति स्मृतिगोचरः पूर्वस्वभावो वर्त- मानतंया भातीति विपरीतख्यातिः सर्व दर्शनं भवेत् । अथ यत्तदा तत्राविद्यमा- नमर्थमवैति ज्ञानं तत्र विपरीतख्यातिः । प्रत्यक्षप्रतीतिस्तु पूर्वसंधानादप्युपजाय- - १९८ सम्मतिताख्यप्रकरणस्य- माना पुरः सदेव वस्तु गृहृती कथं विपरीतख्यातिर्भवेत् ? । ननु पूर्वरूपमाहितया तस्याः सदर्थग्रहणमेव न संभवति; स्मरणोपनेयं हि रूपं प्रतियती वर्तमानतया प्रत्यक्षबुद्धिर्न प्रतिभासमानवपुषः सत्ता साधयितुमलम्, प्रत्यस्तमितेऽपि रूपे स्मृतेरवतारात्, तद्नुसारिणी चाक्षमतिरपि तदेवानुसरन्ती न सत्ताऽऽस्पदम् । तस्मादिन्द्रियमतिः सकलापूर्वरूपग्रहणं परिहरन्ती वर्तमाने परिस्फुटे वर्तत इति तदैव तद्गतां जातिमुहासयितुं प्रभुरिति न पूर्वापरब्यक्तिगता जातिः समस्ति । यदेव हि द्वितीयव्यक्तिगत रूपं भाति, तदेव सत्; पूर्वव्यक्तिगतं तु रूपं न भातीति न तत्सत् । ततश्चानेकव्यक्तिव्यापिकाया जातेरसिद्धिरिति न तत्र लिङ्गशब्दयोरपि प्रवृत्तिरिति न ताभ्यामपि तत्प्रतिपत्तिः । यथा च व्यक्तिभिन्नाऽनुस्यूता जातिर्न संभवति, तथा यथास्थानं प्रतिपादयिष्यत इत्यास्तां तावत् । तदेवं सत्तासमवाययोः परपरिकल्पितयोरसिद्धेः प्रागसतः कारणसमवायः सत्तासमवायो वा कार्यत्वमिति कार्यवस्यासिद्धत्वात् खरूपा- सिद्धोऽपि कार्यवलक्षणो हेतुः । अथ स्यादेष दोषो यदि योक्तलक्षणं कार्यलं हेतुलेनोपन्यस्तं स्यात्; यावताऽभूला भवनलक्षण कार्यों हेतुत्वे- नोपन्यस्तं तेनायमदोषः। नन्वेवमपि भूभूधरादेः कथमेवंभूतं कार्यलं सद्धम् । अथ यद्यत्र विप्रतिपत्तिविषयता, तदाऽनुमानतस्तेषु कार्यलं साध्यते, तच्चानुमा- नम्-भूभूधरादयः कार्य, रचनावत्त्वाद्, घटादिवदिति कथं न तेषु कार्यत्वलक्षणो हेतुः सिद्धः । असदेतत् । यतोऽत्रापि प्रयोगे भूभूधरादेरवयविगतद्धराश्रया- सिद्धो रचनावत्त्वादिति हेतुः, तदसिद्धत्वं च प्राक् प्रतिपादितम्। केञ्च । कि- मिदंरचनावत्त्वम् । यद्यवयवसनिवेशो रचना, तहत्त्वं च पृथिव्यादेस्तदुत्पाद्यत्वम् , तदाऽवयवसन्निवेशस्य संयोगापरनाम्नोऽसिद्धत्वादसिद्धविशेषणो रचनावत्त्वा- दिति हेतुः, तथा पृथिव्यादिषु संयोगजन्यत्वस्य विशेष्यस्यासिद्धत्वादसिद्धवि- शेष्यश्च प्रकृतो हेतुः । कथं संयोगासिद्धत्वम् ? येनोक्तदोषदुष्टःप्रकृतो हेतुः स्यात् । उच्यते। तद्ग्राहकप्रमाणाभावात् , बाधकप्रमाणोपपत्तेश्च । तथाहि । “संख्यापरि- माणानि पृथक्त्वं संयोगविभागौ. परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि" इति वचनात दृश्यवस्तुसमवेतस्य संयोगस्य परेण प्रत्यक्षग्राह्यत्वमभ्युपगतम्।न च तत्त्वबोधविधायिनी व्याख्या। \ ५823 २९९ निरन्तरोत्पन्नवस्तुद्वयप्रतिभासकालेऽध्यक्षप्रतिपत्तौ तद्व्यतिरेकेणापरः संयोगो बहि- ग्राह्यरूपतां बिभ्राणः प्रतिभाति, नापि कल्पनाबुद्धौ बस्तुद्वयं यथोक्तं विहाय, शब्दो- ल्लेखं चान्तरमपरं वर्णाकृत्यक्षराकाररहितं संयोगस्वरूपमुद्भाति । तदेवमुपलब्धि- लक्षणप्राप्तस्य संयोगस्यानुपलब्धेरभावः, शशविषाणवत्।तेन यदाहोद्दयोतकर:-यदि संयोगो नार्थान्तरं भवेत्तदा क्षेत्रबीजोदकादयो निर्विशिष्टलात् सर्वदैवाङ्कुरादि- कार्य कुर्युः, न चैवम् । तस्मात् सर्वदा कार्यानारम्भात् क्षेत्रादीन्यकुरोत्पत्तौ कारणा- न्तरसापेक्षाणि; यथा मृत्पिण्डादिसामग्री घटादिकरणे कुलालादिसापेक्षा; योऽसौ क्षेत्रादिभिरपेक्ष्यः स संयोग इति सिद्धम् । किश्च । असौ संयोगो द्रव्ययो- विशेषणभावेन प्रतीयमानत्वात् ततोऽर्थान्तरलेन प्रत्यक्षसिह एव । तथाहि । कश्चित्केनचित्संयुक्ते द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते, ते एवाहरति, न द्रव्यमात्रम् । किश्च । दूरतरवर्तिनः पुंसः सान्तरेऽपि वने निरन्तररूपावसायिनी बुद्धिरुदयमासादयति; सेयं मिथ्याबुद्धिः मुख्यपदार्था- नुभकरण न कचिदुपजायते । नह्यननुभूतगोदर्शनस्य गवये गौरिति विभ्रमाति । तस्मादवश्यं संयोगो मुख्योऽभ्युपगन्तव्यः । तथा न चैत्रः कुण्डले त्यनेन प्रतिषेधवाक्येन न कुण्डलं प्रतिषिध्यते, नापि चैत्रः । तयोरन्यत्र देशादी वात्। तस्माच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते। तथा चैत्रः कुण्डलीय. नेनापि विसवाक्येनन चैत्रकुण्डलयोरन्यतरविधानम्। तयोः सिद्धत्वात् ; पारिशे- { प्यात् संयोग वानम्। तस्मादस्त्येव संयोग इति। तन्निरस्तं द्रष्टव्यम् । संयुक्तद्रव्य- खरूपावभशिव्यतिरेकेणापरस्य संयोगस्य प्रत्यक्ष निर्विकल्पके सविकल्पके वा प्रतिभासस्य प्रतिपादितखात् । न च संयुक्तप्रत्ययान्यथानुपपत्त्या संयोगकल्पनो- पपना। निरन्तरावस्थयोरेव भावयोः संयुक्तप्रत्ययहेतुलात यावच्च तस्यामवस्थायां संयोगजनकलेन संयुक्तप्रत्ययविषयौ ताविष्येते, तावत्संयोगमन्तरेण संयुक्तप्र- सयहेतुलेन तद्विपयौ कि नेष्येते?, किं पारम्पर्येण ?।न चसान्तरे वने निरन्तरावभा- सिनी बुद्धिः मुख्यपदार्थानुभवपूर्विकाऽस्खलत्प्रत्ययवेनानुपचरितलात् न चैत्रः कु- ण्डलीत्यादौ चैत्रसंबन्धिकुण्डलं निषिध्यते विधीयते वा, न संयोगः।नच संबन्धव्य- तिरेकेण चैत्रस्य कुण्डलसंबन्धानुपपत्तिरिति वक्तुं शक्यम्। यतश्चैत्रकुण्डलयोः विं २०० सम्मतिताख्यपकरणस्य- संबन्धिनोः स संबन्धः, उतासंबन्धिनोः।नासंबन्धिनोः। हिमवद्विन्ध्ययोरिवासंब- न्धिनोः संबन्धानुपपत्तेः । न चासंबन्धिनोमिन्नसंबन्धेन तदभिन्नं संबन्धिवं शक्यं विधातुम्। विरुद्धधर्माध्यासेन भेदात्। नापि भिन्नम्। तत्सद्भावेऽपि तयोः वरूपेणा- संबन्धित्वप्रसङ्गात् । भिन्नस्य तत्कृतोपकारमन्तरेण तत्संबन्धित्वायोगात् ; ततोऽ- परोपकारकल्पनेऽनवस्थाप्रसङ्गात् । संबन्धिनोस्तु संबन्धपरिकल्पनं व्यर्थम्। संबन्ध- मन्तरेणापि तयोः खत एव संबन्धिखरूपत्वात्। यत्तूक्तम् । विशिष्टावस्थाव्यतिरेकेण क्षितिबीजोदकादीनां नाङ्कुरजनकत्वम्।साच विशिष्टावस्था तेषां संयोगरूपा शक्तिः। तदसारम् । यतो यथा विशिष्टावस्थायुक्ताः क्षित्यादयःसंयोगमुत्पादयन्ति, तथा तद- वस्थायुक्ता अङ्कुरादिकमपि कार्य निष्पादयिष्यन्तीति व्यर्थ संयोगशक्तेस्तदन्त- रालवर्तिन्याः परिकल्पनम् । अथ संयोगशक्तिव्यतिरेकेण न कार्योत्पादने कारण- कलापः प्रवर्त्तत इति निर्बन्धः,' तर्हि संयोगशक्त्युत्पादनेऽप्यपरसंयोगशक्ति- व्यतिरेकेण नासौ प्रवर्तत इत्यपरा संयोगशक्तिः परिकल्पनीया, तत्राप्यपरेत्यनव- स्था। अथ तामन्तरेणापि शक्तिमुत्पादयन्ति, "ह कार्यमपि तामन्तरेणैदिरादिकं निवर्तयिष्यन्तीति व्यर्थ संयोगशक्तेः तदन्तरालवर्तिन्याः कल्पनम्।नार हेतशिष्टा- वस्थाव्यतिरेकेणं पृथिव्यादयः संयोगशक्तिमपि निवर्तयितुं क्षमाः; तरभ्युप- गमे सर्वदा तन्निवर्तनप्रसङ्गादडरादेरप्यनवरतोत्पत्तिप्रसंङ्गः । न चातरकर्मा- दिसव्यपेक्षाः संयोगमुत्पादयन्ति क्षित्यादय इति नायं दोषः। कात्पत्तावपि संयोगपक्षोक्तदूषणस्य सर्वस्य तुल्यत्वात् । तस्मादेकसामग्यधीशष्टोत्पत्ति- मत्पदार्थव्यतिरेकेण नापरः संयोगः। तस्य बाधकप्रमाणविषयत्वाद, साधक- प्रमाणाभावाच्च । यस्तु संयुक्ते द्रव्ये एते इति, अनयोर्वाऽयं संयोग इति व्यपदेशः, स भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां तथाऽवस्थोत्पन्नवस्तुद्वयनिबन्धन एव; नातोऽ- परस्य संयोगस्य सिद्धिः । न चाक्षणिकत्वे तयोःस संबन्धो युक्तः। तत्संबन्धस्य समवायस्य निषिद्धत्वात् , निषेत्स्यमानत्वाच्च । न च तजन्यत्वादसौ तत्- संबन्धी; अक्षणिकत्वे जनकत्वविरोधस्य प्रतिपादयिष्यमाणत्वात् । क्षणिकत्वेऽपि तयोरेकसामग्यधीना नैरन्तयोत्पत्तिरेव, नापरसंयोग इति रचनावत्त्वादित्यत्र हेतो- विशेषणस्य संयोगविशेषस्य रचनालक्षणस्याऽसिद्धेः तद्वतो विशेष्यस्याप्यसिद्धि-
No text on this page.
म ॥ विज्ञापनम् ॥ विदितमस्त्येव भवतां महामान्याना विद्वज्जनानाम्, श्रीसिद्धसेनदिवाकरविरचित-सम्मत्याख्यप्रकरणस्य रत्नाकर रूपस्यागाधत्वम्, तदर्थस्फोटनपरस्य च राजगच्चीय वादि प्रवर-तर्कपवानन- न्यायचक्रवत्ति-श्रीमदभयदेवरिवर्यस्य पाण्डित्यगाम्भीर्यमः। ततश्चास्यग्रन्थस्य मुद्रापरणाय साधारणः सरल:पन्याः। तथापि बहुव्ययायासेन मुद्रणसंशोधनादिविषये यथाशक्ति प्रयस्यतेऽस्माभिः, सम्भाव्यते च सफलतामत्र लभेमहि । बहुना विद्वजनानां विज्ञप्त्या द्विशतपृष्ठामा प्रथमः खण्डा प्रकाश्यते । मुल्यं चास्य ३ ) रूप्यकत्रय कम- शश्चैवमेव सर्वे खण्डाः प्रकाशिता भविष्यन्ति तिखण्डे मुल्यं रूप्यकत्रयं भविष्यति । येषां जिघृक्षा स्यातू तेः- हर्षचन्द-भूराभाई यशोविजयजैनपाठशाला मुहल्ला नन्दनसाहु बनारस सिटी
No text on this page.