Sringeri Sharada Peetham
Namalinganu Sasana Part 4 Kanda 3
Front matter
TRIVANDRUM SANSKRIT SERIES.
No LII
THE
NÂMALINGÂNUSÂSANA
AMARASIMH A
With the commentary
Tikasarvaswa
VAXDYAGHATILA-SARVANANDA
EDITED BY
T. GANAPATI SÂSTRÎ
Curutor of the Department for the publication
u Sanskri Hunitserip! I'riturum.
Part IV. 3rd Kanda.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OP
HIS HIGHNESS THE MAHARAJAH OF TRAVAYCORB.
NE
TRIVANDRUM:
HINTED BY THE SUPERIYTUNDENI. QOVELYMEST PAS
11 Rights Reserved.)
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाः ५२.
नामलिङ्गानुशासन
श्रीमदमरसिंहविरचित
वन्धघटीयसर्वानन्दप्रणीतया
टीकासर्वस्वाख्यया व्याख्यया समेत
।
संस्कृतग्रन्थरकाशनकार्याध्यक्षण
त. गणपतिशास्त्रिणा
संशोधितम् ।
चतुर्थः सम्पुट: ---- तृतीय कागडम ।
अनन्तरायने
महामहिमश्रीमलकरामवर्मकुलशेग्वरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालय नदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
स्मृता ग्रन्थाः। अन्यनाम पृष्ठम्, अमरमाला १२४, १४५, ५१, ६०, ९२, १०१, १५७. १३३. २४,९८, १६३, १७६. १०. १७४. ४९, १७९. २८. ." उणादिवृत्तिः कप्फिणाभ्युदयम् कातन्त्रम् किरातम् कीचकवधम् चण्डीपाठः चन्द्रलिङ्गवृत्तिः चान्द्रलिङ्गानुशासनम् छन्दस्सूत्रम् तन्त्रान्तरम् त्रिकाण्डम् त्रिकाण्डशेषः धातुपारायणम् धातुप्रदीपीका नाममाला निगमाभिधानम् निघण्टुः न्यासः न्यासरत्नमतिः बुद्धचरितम् भट्टिभाषासमावेशः भाष्यम् १८६. १८४. ६०. २८, ६२, ६२, १६२, १६३. ६३, ८१, ११६, १२५, १३३, १८०. १८, ६२. ३०. १७, ३०. १८०. ११३. ३. ७४. १८०. १०, ३८. रत्नकोशः १२, २९, ३२,७९, १६०.
ग्रन्थनाम. पृष्ठम्. वररुचिसूत्रम् वर्णदेशना विदग्धम् विश्वप्रकाशः वृत्तिः ३८.१७४. १३५. १६०, १७९. ३८, ३९. १७७. १६२. शब्दार्णवः शृङ्गारप्रकाशः Aamharmaparam स्मृता ग्रन्थकारः। meenamannertone कर्तृनाम. अजयः पृष्ठम्, ३८,७६, ७७, ९२,९५,९७, १०१, १०३, १०६, ११८, १२०, १२१, १२३, १२६, १२८, १३२, १३९, १४४, १४५, १४८, १५०, १५४, १५६. १९१. अरुणः अरुणदत्तः १७९, १८६. १ कालापाः कालिदासः गङ्गाधरायः गोवर्धनः चन्द्रगोमी जयादित्यः धरणिः पाल्यकीर्तिः पुरुषोत्तमः १८. ५२, ६०, १७०. १९१. १३०, १८७. १७४. १०, ६३. ८७, १०६, १७३. ७२. :- पृष्ठम्. २४,४१, १२, ६९, ६४, ११७. १९. ३०, ४०. ५१, ६६, १६०. कर्तृनाम. भट्टिः भरताचार्यः भवभूतिः भागुरिः भारविः मयूरः माघः माघटीकाकृत् मुरारिः रक्षितः ग्भसः ३४. १९. २४. १९, ३१, ३३, ७४, ७८, ८१, ८२, ८३, ८५, ८६, १०३, १०६, १११, ११२, ११४, ११५, ६१६, ११८, १२०, १२४, १३८, १४०, १४४, १४६, १४७, १७४, १७८, १८०. १७९.. राजशेखरः ५१, ५९,६०, ७५, ७७, ८१, ८२, ८८, ९०, ९१, ९४, १०१, १०८, १२८, १२९, १३३, १३५, १३९, १४१, १४३, १४६, १४८, १४९, १६०, १६३, १६४, १७९, १८०. १७४. लिङ्गशास्त्रकृत् वराहमिहिरः वर्णदेश नाकृत् वोपालितः व्याडिः १८०, १८६. ५९, १६, १७५. ७९, ९९, १००, १३७, १७५. १२४. * शाश्वतः BHARATI
शुद्धिपत्रम् ।
९७तमस्य पृष्ठस्य सर्वाः, ९८तमस्य पृष्ठस्य सप्त च पलय आवृत्ताः ।
॥ श्रीः॥ श्रीमदमरसिंहविरचितं नामलिङ्गानुशासनं वन्द्यघटीयश्रीसर्वानन्दप्रणीतया टीकासर्वस्वाख्ययां व्याख्या समेतम् । mumerememestmle तृतीयं काण्डम अथ विशेष्यनिघ्नवर्गः। विशेष्यनिनः मङ्कीर्ण नार्थैरव्ययैरपि । लिङ्गादिस वर्गाः सामान्ये वर्गसंश्रयाः ॥१॥ विशेष्यनिम्नरित्यादि । वक्ष्यमाणे सामान्य काण्डे विशेष्यनिम्नैः शेप्यायत्तैः सुकृतिप्रभृतिभिः, सङ्कीर्णः परम्परविजातीयार्थः कर्मपारायण-- रस्परप्रभृतिभिः, अनेकार्थः नाकादिभिः, अव्ययैः आङदिभिः, लिङ्गस- है: 'त्रियामीदृद्विरामैकान्' इत्यादिभिः, आदिशब्दन नामसङ्ग्रहश्च लङ्का- फालिकादिभिः । ते च पूर्ववर्गसंश्रयाः पूर्ववर्गानुगताः । तथाहि ---- 'सुकृति- भृतयोऽमरमनुप्यादिषु विशेषणतया सम्बद्धाः, कर्मादयात व्यापार तया, नाका- यो वाचकतया, आङादयोऽवध्यादिद्योतकतया. स्त्रियामीदित्यादयश्च तत्त- अगादिप्रतिपादकतया । अत एव साधारणत्वात सामान्य काण्ड मिदम् ।। , " ..
-- नामलिङ्गानुशासनं [तृतीयं काण्ड स्त्रीदाराद्यैर्य विशेष्यं यादृशैः प्रस्तुतं पदैः। गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः॥२॥ इह शास्त्रे रूपभेदात् प्रायशो लिङ्गनिर्णयः । सोऽत्रापि वर्गे रूपभेदादेवेति भ्रमनिरासार्थमाह स्त्रीदाराद्यैः स्त्रीदारकलत्राद्यैः पर्याहशै- लिङ्गैः स्त्रीत्वादियुक्तैर्यदर्थरूपं विशेष्यं विशेषणीयं प्रक्रान्तं, तस्य विशेष्यस्य भेदका गुणादिशब्दाः तथा स्युः तल्लिङ्गा एव भवेयुः । एतदुक्तं भवति- यदा विशेष्यं स्त्रीलिङ्गेन विशेष्यपदेन प्रस्तूयते, तदा गुणादिशब्दोऽपि सुकृ- तिप्रभृतिः तस्य विशेषकः स्त्रीलिङ्गः । यदा पुल्लिङ्गेन प्रस्तूयते, तदा पुल्लि- ङ्गः । यदा क्लीबलिङ्गेन. प्रस्तूयते, तदा क्लीबलिङ्गः । विशेष्यनिघ्नत्वेन विशे- प्यगतमेव लिङ्गं विशेषणान्याददत इति यावत् । तद्यथा सुकृतिनी स्त्री, सुकृतिनो दाराः, सुकृति कलत्रमित्यादि । सुकृती पुण्यवान धन्यः सुकृतित्रयं सुकृतिनि । “धनगणं लब्धा' (४. ४. ८४) इति यत् । . धन्यः ॥ महेच्छस्तु महाशयः। महेच्छद्वयं महाशये । महाशयो महामनाः ॥ हृदयालुः सहृदयः प्रकृष्टहृदये हृदयालुद्वयम् । 'हृदयात्रालुरन्यतरस्याम्' (वा० ५. २. १२२) इत्यालुः ॥ महोत्साहो महोद्यमः ॥३॥ महोत्साहद्वयं महाध्यवसाये ॥ प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४॥ प्रवीणदशकं सुज्ञे । 'पुण कर्मणि शुभे' । इगुपधलक्षणः कः । निपुणः । 'निनदीभ्यां नातेः कौशले' (८. ३. ८९) इति षत्वे निष्णातः ।
विशेष्यनिघ्नवर्गः १] टीकासवस्वाख्यव्याख्यासमतम् । शिक्षा सञ्जातास्येति तारकादित्वाद् इतच् । शिक्षितः । विज्ञानेन व्यवहरतीति वैज्ञानिकः । 'चरति' (४. ४. ८) इति ठक् । मत्वर्थीयठनि विज्ञानिको वा पाठः । कृतमभ्यस्तं मुखम् उपायोऽनेनोते कृतमुखः । कृती इन्नन्तः । कुशे- स्तालव्यात् सौत्राद् वृषादिकलचि कुशलः ॥ पूज्यः प्रतीक्ष्यः पूज्यद्वयं पूज्ये ॥ सांशयिकः संशयापन्नमानसः। सांशयिकद्वयं संशयविषयस्थाण्यादौ । 'संशयमापन्नः' (५. १. ७३) इति ठक् , न तु संशयवति पुरुष इति न्यासः । अतः सप्तम्यर्थे बहु- व्रीहिः । संशयकर्तरि पुरुष एवेति तद्रत्नमतिः ।। दक्षिणीयो दक्षिणदार्हस्तत्र दक्षिण्य इत्यपि ॥५॥ दक्षिणीयत्रयं दक्षिणायोग्ये । 'कडङ्करदक्षिणाच्छ च' (५. १. ६९) इति छयत्प्रत्ययाभ्यां दक्षिणीयदक्षिण्यौ ॥ स्युर्वदान्यस्थूल लक्षदानशौण्डा बहुप्रदे । वदान्यचतुष्कं बहुप्रदे । 'वदेरान्यः' (उ० ३. १०४) । वदान्यः । दाने शौण्डः प्रसक्तो दानशौण्डः ।। जैवातृकः स्यादायुष्मान् जैवातृकद्वयं दीर्घायुपि । चन्द्रे जैवातृक उक्तः ॥ अन्तर्वाणिस्तु शास्त्रवित् ॥६॥ अन्तर्वाणिद्वयं शास्त्रज्ञे । अन्तः अन्तश्शरीरे वाणी शास्त्रशरीरभूता अधिदैवतभूता अस्येत्यन्तर्वाणिः । समासान्तस्यानित्यत्वाद् 'नवृतश्च' (५. ४. १५३) इति न कप । 'गोस्त्रियोरुपसर्जनस्य' (१. २. ४८) इति हस्वत्वम् ॥ परीक्षकः कारणिकः परीक्षकद्वयं निरूपके । कारणं हेतुः, तेन व्यवहरति । 'चरति' (४. ४. ८) इति ठकि कारणिकः ।।
नामलिभानुशासनं [तृत यिं का वरदस्तु समर्धकः। यो देवतादिवरं वाञ्छितं फलं ददाति, तत्र वरदद्वयम् । समृध्यति समृद्धया युज्यत इति ण्वुलि समर्धकः ॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥७॥ हृष्टहृदये हर्षमाणचतुष्कम् । 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३. २. १२९)। हर्षमाणविकुर्वाणौ । अथवा विकुर्वाणे 'अकर्मकाच्च' (१. ३. ३५) इति तैङ् । प्रमनाः सान्तः ॥ दुर्मना बिमना अन्तर्मनाः वैमनस्ययुक्ते दुर्मनस्त्रयम् । त्रयमेव सान्तम् ॥ स्यादुत्क उन्मनाः। सोत्कण्ठे उत्कद्वयम् । 'उत्क उन्मनाः' (५. २. ८०) इति निपा- तितम् । उच्छब्दात् तद्वति कन्प्रत्ययः । उन्मनाः सान्तः ॥ दक्षिणे सरलोदारी दक्षिणत्रयम् ऋज्वाशये । वनौषधौ सरलं उक्तः ॥ सुकलो दातृभोक्तरि ॥८॥ एक एव दाता च भोक्ता च स सुकलः । त्यागभोगयुक्त इत्यन्यः । सुष्टु कल्पत इति सुकलः । पृषोदरादिः ।। तत्परे प्रसितासक्ती तत्परे तात्पर्यवति प्रसितद्वयम् । 'षिञ् बन्धने' । 'पञ्ज सङ्गे' । क्तः ।। १. 'आत्मनेपदम् । प्र' क, ज. पाठ;.
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । इष्टार्थोद्युक्त उत्सुकः। इष्टार्थे आभिमतप्रयोजने उद्युक्त उद्यतः उत्सुकः ॥ प्रतीते प्रथितख्यातंवित्तविज्ञातविश्रुताः ॥९॥ धनादिना ख्याते प्रतीतषट्कम् । विदिर्लाभे । 'वित्तो भोगप्रत्यययोः' (८. २. ५८) इति निपातनाद् न नत्वम् । वित्तः ॥ गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । त्यागशौर्यादिगुणैः ख्याते कृतलक्षणद्वयम् । 'लक्षणं नामचिह्नयोः' । कृतमभ्यस्तमनुरागाद् लक्षणं नामास्येति कृतलक्षणः । आहतं गुणितम् असकृदुच्चरितं नामास्येत्याहतलक्षणः ॥ इभ्य आढ्यो धनी बहुधने इभ्यत्रयम् । इभमर्ह तीति इभ्यः । 'दण्डादिभ्यो यत्' (५. १. ६६)। एत्यैनं ध्यायन्तीत्याढ्यः । घञर्थे कः । पृषोदरादिढत्वम् ।। स्वामी त्वीश्वरः पतिशिता ॥१०॥ अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः । स्वामिदशकं प्रभो । 'स्वामिन्नैश्वर्ये' (५. २. १२६) इति मत्वर्थे निपातनात् स्वामी । 'अश्नोतेराशुकर्मणि वरद च' (उ० ५. ५८) इति वरट् अकारस्य च ईकारः । ईश्वरः । ‘पातेर्डतिः' (उ० ४. ५८)। पतिः । ईशितृनेतारौ तृन्नन्तौ । विपि अधिभू: । 'प्रभौ परिवृढः' (७. २. २१) इति परिवृढो निपातितः । बृंहेः क्तः इडागमाभावः नकारहकारयो- र्लोपः परस्य च ढत्वं निपात्यते । अधिपातीत्यधिपः ।। अधिकद्धिः समृद्धः स्यात् अधिकर्द्धिद्वयम् अतिशयितसम्पद्युक्ते ।।
नामलिङ्गानुशासनं [तृतीयं काण्ड कुटुम्बव्यापृतस्तु यः ॥११॥ स्थादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् । कुटुम्बं पोष्यवर्गादि । तत्र व्यापृतः पोषणादिव्यग्रो यः, तत्र अभ्यागारिकद्वयम् । अगारं भक्तिः सेव्यमस्येत्यागारिकः । 'अचित्ताददेश- कालाईट्ठक्' (४. ३. ९६) । अभ्यधिक आगारिकोऽत्यन्तागारशरणोऽभ्या- गारिकः । उपादधाति कुटुम्बमित्युपाधिः । आविष्टलिङ्गत्वादयं योषिदादौ च पुमान् ।। वराङ्गरूपोपेतो यः सिंहसंहननो हि सः॥ १२ ॥ यः प्रत्येकमवयवशुद्धया रूपवान् सुन्दरः, स सिंहसंहननः ॥ निर्धायः कार्यकर्ता यः सम्पतन् सत्त्वसम्पदा । व्यसने यदविकारकं, तत् सत्त्वम् । तत्सम्पदा सम्पतन् उद्यम कुर्वन् यः कार्यकर्ता, स निर्धार्यः । कचित् 'संयुत' इति पाठः ।। - अवाचि मूकः अवाग्द्वयं बोब्बेति ख्याते । अवाक् चान्तः । अथ मनोजवः स पितृसन्निभः॥१३॥ मनोजवद्वयं पितृतुल्ये । जुः सौत्रः । लोकानां मनो जवति प्रविश- तीति अच् ॥ सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः । परिणेत्रे योऽलङ्कृत्य कन्यां सत्कृतां ददाति, स कूकुदः । दीर्घादिः ॥ लक्ष्मीवाल्लँक्ष्मणः श्लीलः श्रीमान् $ 'ठञ्' इति मुद्रिताष्टाध्यायीपाठः ।
विशेष्यनिघ्नवर्गः१] टीकासर्वस्वाख्यव्याख्यासमेतम् । लक्ष्मीवच्चतुष्कं सम्पयुक्ते शोभायुक्ते च । 'लक्ष्म्या अच्च' (ग० ५. २. १००) इति पामादिपाठाद् नः अकारश्चान्तादेशः । लक्ष्मणः । सिध्मादिलचि श्लीलः । 'कपिलकादीनां रो लत्वमापद्यते' (वा० ८. २. १५) इति लत्वम् ॥ स्निग्धस्तु वत्सलः ॥ १४ ॥ स्निग्धद्वयं स्निग्धे । 'वत्सांसाभ्यां कामबले' (६. २. ९८) इति मत्वर्थलचि वत्सलः ॥ स्याद् दयालुः कारुणिकः कृपालुः सूरतः समाः। दयालुचतुष्कं कृपालौ । 'स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आ- लुच्' (३. २. १५८) । दयालुः । कारुण्ययोगात् कारुणिकः । 'अत इनिठनौ' (५. २. ११५) इति ठन् । 'हलस्तद्धितस्य' (६. ४. १५०) इति यलोपः । कृपां लातीति कृपालुः । 'डुप्रकरणे मितवादिभ्य उप- सङ्ख्यानम्' (वा० ३. २. १८०) इति डुः । सूरतो दीर्घादिः ॥ स्वतन्त्रोपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥ स्वतन्त्रपञ्चकं स्वतन्त्रे । स्वतन्त्रः स्वप्रधानः । स्वेन आत्मना ईर्ते प्रचरतीति णिनिः । 'स्वादीरेरिणोद्धिर्वक्तव्या' (वा० ६. १. ८९) इति वृद्धिः । स्वैरी । स्वच्छन्दः स्ववशः । निरवग्रहः परेणानियम्यः ।। परतन्त्रः पराधीनः परवान् नाथवानपि । अधीनो निन्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ॥१६॥ परतन्त्रनवकं परायत्ते । परस्मिन् अधीनः पराधीनः । 'सप्तमी शौण्डैः' (२. १. ४०) इति समासः । 'अषडक्षाशितंग्वलङ्कलिं- पुरुषाध्युत्तरपदात् खः' (५. ४. ७) इति खः । परशब्दः श्रेष्ठवचनः । अधिगत इनः ईश्वरोऽनेनेति अधीनः । इस्वादिः । निहन्यत इति ८ नामलिङ्गानुशासनं [तृतीयं काण्ड निम्नः । 'स्थानापाव्यधिनियुध्यर्थम्' इति घार्थे कः । 'यती प्रयत्ने' । क्तः । आयत्तः ॥ खलपू: स्याद् बहुकरः खलपूद्वयं सम्मानकारिणि कोळगोमीति ख्याते । खलं भूस्था- नकण्ठेषु । तत् पुनातीति विप् । खलपूः । बहु करोति सम्माष्र्टीति 'किंयत्त- बहुषु कृञोऽज्विधानम' (वा० ३. २. २१) इत्यच् । बहुकरः ॥ दीर्घसूत्रश्चिरक्रियः। स्वल्पकालसाध्ये कर्मणि चिरेण कार्यकारिणि दीर्घसूत्रद्वयम् । दीर्घ सूत्रमस्येति दीर्घसूत्रः । चिरं क्रिया अनुष्ठानमस्येति चिरक्रियः ॥ जाल्मोऽसमीक्ष्यकारी स्यात् गुणदोषानपरामृश्य यः करोति स जाल्मः ॥ कुण्ठो मन्दः क्रियासु यः ॥१७॥ क्रियासु व्यापारेषु मन्दः कुण्ठः । 'कुठि च' इत्यतः पचाद्यच् ॥ कर्मक्षमोऽलङ्कीणः अनायासेन कर्मनिष्पादके कर्मक्षमद्वयम् । पराधीनवत् खप्रत्ययेन अलङ्कर्माणः॥ क्रियावान् कर्मसूद्यतः। कर्म कर्तुमुद्यते क्रियावान् तान्तः ।। स कार्मः कर्मशीलो यः विशेष्यनिघ्नवर्गः१] टीकासर्वस्वास्यव्याख्यासमेतम् । कार्मद्वयं कर्मशीले । 'कार्मस्ताच्छील्ये' (६.४.१७२) इति निपातनात् साधुः ॥ कर्मशूरस्तु कर्मठः ॥१८॥ कर्मशूरद्वयं कर्मठे । 'कर्मणि घटोऽठच्' (५. २. ३५) । कर्मठः ॥ भरण्यभुक् कर्मकरः भरण्यं वेतनं यो भुक्ते, स कर्मकरः । अयं शूद्रविशेषाभि- धानप्रस्तावेऽभिहितः । इह तु क्रियाशब्दप्रक्रमेण भरण्यभुगिति पर्यायान्तरद- र्शनार्थ कर्मकारेण सह विषयभेदप्रदर्शनार्थ चानूदितः ॥ कर्मकारस्तु तक्रियः। तक्रियः वेतनं विना कर्मक्रियो दासादिः कर्मकारः। 'कर्मण्यण' (३. २. १)॥ अपलातो मृतलातः मृतमुद्दिश्य लाते अपसातद्वयम् ॥ आमिषाशी तु शौष्कलः॥१९॥ आमिषाशिद्वयं मत्स्यमांसभक्षणशीले । शौष्कलस्तालव्यादिमूर्ध- न्यमध्यः ॥ बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः। बुभुक्षितचतुष्कं जातबुभुक्षे । त्रिषु तारकादित्वाद् इतच् । अत्तमि- च्छतीति जिघत्सुः ।। परान्नः परपिण्डादः १. 'चा' च. छ. पाठः, १० नामलिङ्गानुशासनं [तृतीयं काण्ड परान्नोपजीविनि परान्नद्वयम् । परस्यान्नमस्येति वैयधिकरण्येन बहुव्रीहिः । परपिण्डमत्तीति अणू । परपिण्डादः ॥ भक्षको घस्मरोऽमरः ॥ २० ॥ भक्षकत्रयं भक्षणपरे । 'सृघस्यदः क्मरच्' (३. २. १६०) । घस्मरः। अमरः ॥ आयूनः स्यादौदरिको विजिगीषाविवर्जिते । आबूनद्वयम् उदरपूरके । 'दिवोऽविजिगीषायाम्' (८. २. ४९) इति. निष्ठातकारस्य नत्वे आयूनः । 'उदराट्टगाड्ने' (५. २. ६७) इति ठक् । औदरिकः । विजिगीषाविवर्जित इति, योऽत्यन्तक्षुधया बाध्यमान उदर एव प्रसक्त इत्यर्थः ।। उभावात्मभरिः कुक्षिभरिः स्वोदरपूरके॥२१॥ पोष्यवर्ग विहाय स्वोदरमात्रपूरके आत्मभरित्रयम् । 'फले- अहिरात्मभरिश्च' (३.२. २६) इति निपातितः । चकारात् कुक्षिभरिरपि । भृञ इन् उपपदस्य (नु ? मु) मागम इति जयादित्यः । भाष्ये तु कुक्षिभरिसिय- र्थम् अत्यल्पमिदमुच्यते भृञः कुक्ष्यात्मनो(र्नु ? # ) (चेति) वक्तव्यमिति चकाराद् उदरंभरिमपि समा(स? दध)ते । 'आत्मोदरकुक्षिषु भृञः ख च' इति कातन्त्रे वररुचिसूत्रम् ॥ सर्वान्नीनस्तु सर्वान्नभोजी चतुर्णामपि वर्णानां योऽनं भुते, तत्र सर्वान्नीनद्वयम् । 'अनुपद- सर्वान्नायानयं बद्धाभक्षयतिनेयेषु' (५. २. ९) इति खः । सर्वान्नीनः ।। गृध्नुस्तु गर्धनः। लुब्धोऽभिलाषुकस्तृष्णा गृध्नुपञ्चकं लुब्धे । 'त्रसिगृधिधृषिक्षिपेः क्नुः' (३. २. १४०)। गृनुः । 'जुचडक्रम्य-' (३. २. १५०) इत्यादिना युचि गर्धनः ।
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । ११ लुभेः क्तः । लुब्धः । 'लष कान्तौ' । 'लषफ्त-' (३.२. १५४) इत्या. दिना उकञ् । अभिलाषुकः । 'स्वपितृपोर्नजिङ्' (३. २. १७२) इाते नजिडि तृप्णक् । जान्तः । 'तत् करोति-' (ग० ३.१.२६) इति ण्यन्ताद् ण्वुलि तृप्णकोऽजन्तोऽपीष्यते ॥ समौ लोलुपलोलुभौ ॥२२॥ अतिशयलुब्धे लोलुपद्वयम् । लुपेढुंभेश्च यङ् । पचाद्यच् । 'यङोऽचि च' (२. ४.७४) इति यङो लुक् । 'न धातुलोप आर्धधातुके' (१.१. ४) इति गुणनिषेधः ॥ उन्मदस्तृन्मदिष्णुः स्याद् उन्मदद्वयम् उन्मादशीले । उद्गतो मदोऽस्येत्युन्मदः । 'अलंकृम् - निराकृत ---' (३. २. १३६) इत्यादिनेष्णुचि उन्मदिष्णुः ।। अविनीतः समुद्धतः। अविनीतद्वयम् अविनीते । हन्तेः क्तः । समुद्धतः ॥ मत्ते शौण्डोत्कटक्षीबाः, मत्तचतुष्कं मत्ते । शुण्डा पानागारं, तत्र भवा स्थितिरस्येति 'शेष' (४.२.९२) अण् । शौण्डः । 'संप्रोदश्च कटच्' (५.२.२९) इति कटच । उत्कटः । 'अनुपसर्गात् फुल्लक्षीब-'(८.२. ५५) इति निपातितः । 'क्षी मदे। क्तः । तत्र तकारलोप इडभावश्च निपात्यते ॥ कामुके कमितानुकः ॥२३॥ कम्रः कामयिताभीकः कमनः कामनोभिकः । कामुकनवकं कामुके । कमेः पूर्ववदुकञ् । कामुकः । 'आयादय आर्धधातुके वा' (३. १. ३१) इति णिङन्ताददन्ताच तुन् । कामयिता नामलिशानुशासन (तृतीयं काण्ड कमिता च । 'अनुकाभिकाभीकः कमिता' (५. २. ७४) इति निपातनात् त्रयं निपातितम् । तत्र कमितेत्यर्थे कप्रत्ययान्ता एते निपात्यन्ते । 'नमिकम्पिस्म्य- जसकमहिंसदीपो रः' (३. २. १६७)। कम्रः । अनुदात्तेतश्च हलादेः' (३.२. १४९) इति युच् । कमनः । 'कमेणिङ' (३.१. ३०) इति णिङ् । कामनः॥ विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४॥ विधेयचतुष्कं विधेये । 'स्यादाश्रवो विधेय' इति रत्नकोषः । विनयं विधिनिषेधवचनं ग्रहीतुं शीलमस्येति णिनिः । विनयग्राही । वचनेस्थित इत्यलुक्समासः । वाक्यमेव वा । आदिष्टं शृणोतीति अच् । आश्रवः ॥ वश्यः प्रणेयः वश्यद्वयं वशंगते । वशम् आयत्तिं गतो वश्यः । 'वशं गतः' (१. ४. ८६) इति यत् । प्रणेतुं शक्यः प्रणेयः ।। निभृतविनीतप्रश्रिताः समाः। निभृतत्रयं विनीते । श्रिञः क्तः । प्रश्रितः ॥ धृष्टे धृष्णग् वियातच धृष्टत्रयं निर्लज्जे । 'धृषेश्चेति वक्तव्यम् । (वा ० ३.२.१७२) नजिङ्। धृष्णक् । धृष्णुगिति पाठे 'त्रसिगृधि (३. २.. १४०) इत्यादिना क्नुः । 'या प्रापणे । क्तः। वियातः ।। प्रगल्भः प्रतिभान्वितः॥२५॥ प्रत्युत्पन्नमतित्वं प्रतिभा, तदन्विते प्रगल्भः॥ स्याधृष्टे तु शालीनः विशेष्यनिम्नवर्गः१] टीकासर्वस्वाख्यव्याख्यासमेतम् । अधृष्टद्वयं सलज्जे । 'शालीनकौपीने अधृष्टाकार्ययोः (५. २. २०) इत्यनेन शालाशब्दात् खप्रत्ययो निपातितः । शालीनस्तालव्यादिः ॥ विलक्षो विस्मयान्विते । विलक्षद्वयं वैलक्ष्ययुक्ते॥ अधीरे कातरः व्यसनादावाकुलहृदये अधीरद्वयम् ॥ त्रस्नुभीरुभीरुकभीलुकाः ॥ २६ ॥ त्रस्नुचतुष्कं भयशीले । 'सिगृधिधृषिक्षिपेः क्नुः' (३.२. १४०)। त्रस्नुः । 'भियः क्रुक्लुकनौ' (३. २. १७४)। भीरुभीलुकौ । 'भियः क्रुकन् वक्तव्यः' (वा० ३. २. १७४)। भीरुकः ।। आशंसुराशंसितरि आशंसुद्वयम् आशंसनशीले । प्रियार्थस्य प्राप्तुमिच्छा आशंसा । तच्छील आशंसुः । 'सनाशंसभिक्ष उः' (३. २. १६८)। आशंसुः ॥ ग्रहयालुर्ग्रहीतरि। ग्रहयालद्वयं ग्रहणशीले । 'ग्रह ग्रहणे' । चुरादिणिचि 'स्पृहिगृहि (३. २. १५८) इत्यादिना आलुच् । 'अयामन्तावाय्येल्विष्णुषु' (६. ४. ५५) इति णेः अयादेशः॥ श्रद्धालुः श्रद्धया युक्त श्रद्धायुक्ते श्रद्धालुः । दयालुवदालच् ॥ पतयालुस्तु पातुके ॥ २७ ॥ पतनशीले पतयालद्वयम् । अयालुवत् पतयालुः । 'लषपत (३. २. १५४) इत्यादिना उकञ् । पातुकः ॥
नामलिशानुशासन [तृतीयं काण्ड लज्जाशीलोऽपत्रपिष्णुः लज्जाशीलद्वयं लज्जाशीले । 'अलंकृग्निराकृञ्-' (३.२. १३६) इत्यादिना इष्णुच् । अपत्रपिष्णुः ॥ स्याद् वर्धिष्णुस्तु वर्धनः। अपनपिष्णुवद् वर्धिष्णुः । 'अनुदात्तेतश्च हलादेः (३. २. १४९) इति युचि वर्धनः ।। उत्पतिष्णुस्तूत्पतिता उत्पतनशीले उत्पतिष्णुद्वयम् । उत्पूर्वात् पतेः अपत्रपिष्णुवद् उत्पतिष्णुः॥ अलंकरिष्णुस्तु मण्डनः ॥ २८ ॥ अलंकरिष्णुद्वयमलंकरणशीले । अपत्रपिष्णुवदलंकरिष्णुः । 'क्रुधम- ण्डार्थेभ्यश्च (३. २. १५१) इति युचि मण्डनः ॥ भूष्णुर्भविष्णुर्भविता भूष्णुत्रयं भवनशीले । 'पलाजिस्थश्च गस्नुः' (३. २. १३९) इति चकाराद् गस्नुः । 'भुवश्च' (३. २. १३८) इतीष्णुचि भविष्णुः । छान्द- '. सोऽप्ययं भाषायां निबद्धः॥ वर्तिष्णुर्वर्तनः समौ। वर्तिष्णुद्वयं वर्तनशीले । अपत्रपिष्णुवद् वर्तिष्णुः । वर्धनवद् युचि वर्तनः ॥ निराकरिष्णुः क्षिप्नुः स्यात् निराकरिष्णुद्वयं निराकरणशीले । अपत्रपिष्णुवदिष्णुचि निराक- रिष्णुः । त्रस्नुवत् क्षिप्नुः ।। सान्द्रस्निग्धस्तु मेदुरः॥ २९ ॥ सान्द्रस्निग्धद्वयं नवमेघवदतिस्निग्धे । 'भञ्जभासमिदो घुरच्' (३. २. १६१) । मेदुरः॥
विशेष्यनिघ्नवर्गः १]] टीकासर्वस्वाख्यव्याख्यासमेतम् । ज्ञाता तु विदुरो विन्दुः ज्ञातृत्रय ज्ञानीले । तृनि ज्ञाता । 'विदिभिदिच्छिदेः कुरच्' (३. २. १६२) । विदुरः । 'विन्दुरिच्छुः' (३. २. १६९) इत्यनेन विदेा- नार्थाद् बिन्दुर्निपातितः ॥ विकासी तु विकस्वरः। विकासिद्वयं विकसनशीले । 'कस गतौ' । विपूर्वः । 'वौ कसलषक- स्थस्रन्भः' (३. २. १४३) इति घिनुण । विकासी । 'स्थेशभासपिसकसो वरच्' (३. २. १७५)। विकस्वरः । दन्त्यसः ॥ विसृत्वरो विमृमरः प्रसारी च विसारिण ॥ ३० ॥ विसृत्वरचतुष्कं प्रसरणशीले । 'इण्नशजिसर्तिभ्यः करप्' (३. २, १६३)। विसृत्वरः । 'सृघस्यदः क्मरच्' (३. २. १६०) । विस्मरः । 'प्रे लपमृद्रुमथवदवसः' (३. २. १४५) इति घिनुण् । प्रसारी । मत्स्ये विसारी उक्तः ॥ सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी। सहिष्णुषट्कं क्षमाशीले । अलंकरिष्णुवत् सहिष्णुः । वर्तनवत् सहनः । 'क्षमूष् सहने' । तृन् । क्षन्ता । इट्पले क्षमिता । 'शमित्यष्टाभ्यो घिनुण्' (३. २. १४१) । क्षमी ।। क्रोधनोऽमर्षणः कोपी क्रोधनत्रयं क्रोधने । मण्डनवत् क्रोधनः । न मर्षयतीत्यमर्षणः । आवश्यकणिनौ कोपी॥ चण्डस्त्वत्यन्तकोपनः॥३१॥ चण्डद्वयमतिकोपने । 'चडि कोपे' । चण्डः । पचाद्यच् । क्रोध- नवत् कोपनः ।।
मामलिङ्गानुशासनं [तृतीयं काण्ड जागरूको जागरिता -- जागरणशीले जागरूकद्वयम् । 'जागरूकः' (३. २. १६५) इत्यनेन ऊकगुणौ निपातितौ ॥ घूर्णितः प्रचलायितः। घूर्णतद्वयं निद्रापूर्णिते । 'धुण पूर्ण भ्रमणे' । क्तः । घूर्णितः । प्रचल इवाचरतीति क्यङन्तात् क्तः । प्रचलायितः ॥ स्वप्न शयालुर्निद्रालुः स्वप्नक्त्रयं निद्राशीले । 'स्वपितृषोर्नजिङ' (३. २. १७२)। स्वप्नक् । जान्तः । 'शीडश्चेति वक्तव्यम् ' (वा० ३. २. १५८) इत्यालुः । शयालुः । दयालुवन्निद्रालुः ।। निद्राणशयितौ समौ ॥ ३२॥ निद्रां गते निद्राणद्वयम् । 'संयोगादेरातो धातोर्यण्वतः' (८. २. ४३) इति निष्ठातकारस्य नत्वे निद्राणः । शेतेः क्तः । शयितः ।। पराङ्मुखः पराचीनः पराङ्मुखद्वयं विमुखे । 'विभाषाञ्चेरदिस्त्रियाम् ' (५. ४. ८) इति खः । पराचीनः ॥ स्यादवाङप्यधोमुखः। अवाङ्मुखद्वयमधोमुखे । अञ्चतेः ऋत्विगादिना किन् । अवाङ् । चान्तः । स्त्रियामवाची ॥ देवानश्चति देवद्यङ् देवान् गच्छति पूजयति. वा देवद्यङ् । चान्तः । 'विष्वग्देवयोश्च टेरग्यश्चतावप्रत्यये' (६. ३. ९२) इत्ययादेशः । स्त्रियां देवद्रीची ।।
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वास्यव्याख्यासमेतम् । विष्वग्रङ् विष्वगवति ॥ ३३ ॥ विष्वक् समन्ताद् गच्छति यः, स विषयङ् । विष्वक्सेनप्रस्तावे षकारो निरूपितः । सर्वं देवद्यबत् ॥ यः सहाञ्चति सध्रयङ् सः सह तुल्यं गच्छतीति सध्यङ् । चान्तः । 'सहस्य सधिः' (६. ३. ९५) इति सध्यादेशः । स्त्रियां सधीची ।। स तियङ् यस्तिरोऽञ्चति । वक्रं गच्छति यः स तिर्यङ् । चान्तः । 'तिरसस्तिर्यलोपे' (६. ३. ९४) इति तिरःशब्दस्य तिरीत्यादेशः ॥ वदो वदावदो वक्ता वदत्रयं वक्तरि । पचाद्यच् । वदः । 'चरिचलिपतिवदीनामप्याक् चाभ्यासस्य' (वा० ६. १. १२) इत्यागागमः द्विर्वचनं च । वदावदः । चि वक्ता॥ वागीशो वाक्पतिः समौ ॥ ३४ ॥ निरवद्योद्दामवाणीके वागीशद्वयम् ।। वाचोयुक्तिपटुर्वाग्ग्मी वचनयुक्तिज्ञे वाचोयुक्तिपटुद्वयम् । 'वाग्दिक्पश्यद्भयो युक्तिदण्ड- हरेधूपसङ्ख्यानम् ' (वा० ६. ३. २१) इत्यलुकि वाचोयुक्तिपटुः । नाममालायां तु वाचोयुक्तिरित्येव नाम । 'वाचो ग्मिनिः' (६, २. १२४) इति वाग्मी । द्विगकारवान् ।। वावदूकोऽतिवक्तरि। अत्यन्तवक्तरि वावदूकः । वदेर्यबन्ताद् 'यजजपदशां यह नामलिङ्गानुशासनं [तृतीयं काण्ड (३. २. १६६) इति बहुवचननिर्देशादन्यतोऽप्यूक इति धातुपारायणम् । 'चक्रीयीतान्तानां यजिजपिदंशिवदाम्' इत्यूक इति कालापाः ॥ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगद्यवाक्॥३५॥ जल्पाकचतुष्कं ग भाषिणि । 'जल्पभिक्षकुट्टलुण्टवृङः पाकन्' (३. २. १५५) । 'आलजाटचौ बहुभाषिणि' (५. २.. १२५) इत्यालजाटच्प्र- त्ययाभ्यां वाचालवाचाटौ । एतौ कुत्सार्थे प्रत्ययौ ।। दुर्मुखे मुखराबद्धमुखौ दुर्मुखत्रयमप्रियवादिनि । निन्दितमुखो दुर्मुखः । खरवन्मुखरः । अबद्धमुखो हूस्वादिः ॥ शक्ल: प्रियंवदे। शक्लद्वयं प्रियंवदे । 'शकु शक्तौ' । “मूङ्पशकिभ्यः क्लः' (उ० ४. ११०) । शक्लः । 'प्रियवशे वदः खच्' (३. २. ३८) । प्रियंवदः ॥ लोहलः स्यादस्फुटवाग लोहलद्वयमव्यक्तवचने ॥ गयवादी तु कवदः॥ ३६ ॥ निन्धवादिनि गर्यवादिद्वयम् । कुत्सितं वदतीति 'रथवदयोश्च' (६. ३. १०२) इति कोः कद्भावः । कद्वदः ।। समौ कुवादकुवदी परदोषकथनशीले कुवादद्वयम् । कर्मण्यणि कुवादः । पचाद्यचि कुवदः ।। स्यादसौम्यस्वरोऽस्वरः। काकस्वरादिरसौम्यस्वरोऽस्वरः॥ + 'मूशक्यबिभ्यः क्तः' इति मुद्रितोणादिपाठः ।
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वास्यव्याख्यासमेतम्। Maa रवणः शब्दनः शब्दकारिणि रवणद्वयम् । उभयत्र 'चलनशब्दार्थादकर्मकााच्' (३. २. १४८)॥ नान्दीवादी नान्दीकरः समौ ॥ ३७॥ भेरीसमाननान्दीवादनशीले नान्दीवादिद्वयम् । अथवा नान्दी- श्लोकपठनकारिणि । तथाच भरताचार्यः "आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्तते । देवद्विजनृपादीनां तस्मान्नान्दीति सा स्मृता ॥" णिनिः । नान्दीवादी । दिवाकरवत् टः । नान्दीकरः । 'मदकलकलविङ्कीका कुनान्दीकरेभ्यः' इति मुरारिः ।। जडोऽज्ञे जडद्वयं जडे । तदुक्तम् - "इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः ॥ अनेडमूकस्तु वक्तुं श्रोतुमशिक्षिते । वचनश्रवणरहितेऽनेडमूकः । कृतनसमासोऽवयवार्थशून्य एव D रूढः। 'त्रिलिङ्गोऽनेडमूकः स्याच्छठवाक्छतिवजिते' इति रभसश्च । केचित्तु एडश्चासौ मूकश्चेत्येडमूकमिच्छन्ति । पूर्व पृथक् कथि- तत्वात् तयोः समुदायेऽपि रूपमूह्यमिति कृत्वा नेच्छन्ति ॥ तूष्णींशीलस्तु तूष्णीकः मौनशीले तूष्णींशीलद्वयम् । *'तूष्णींशीले को मलोपश्च वक्तव्यः' (वा० ५. ३. ७२) इति को मलोपश्च ।। 'शोले को' इति मुद्रितवार्तिकपाठः ।
नामलिङ्गानुशासनं. [तृतीयं काण्ड नग्नोऽधासा दिगम्बरः ॥३८॥ परिधानवस्तुशून्ये नग्नत्रयम् । ओलस्जिधातोर्लग्न एव वर्णव्यत्यया- नग्नः । अवासाः सान्तः।। निष्कासितोऽपकृष्टः स्याद् निष्कासितद्वयं निःसारिते । निष्कासिते प्रथमो द्धन्यो द्वितीयो दन्त्यसः ॥ अपध्वस्तस्तु धिकृतः। कृतधिक्कारेऽपध्वस्तद्वयम् ॥ आत्तगर्वोऽभिभूतः स्याद् अरिणा भग्नदर्पे आत्तगर्वद्वयम् । आत्तो गृहीतो गर्वोऽस्येत्यात्तगर्वः। 'बन्त गन्ध अर्दने' । आत्तगन्ध इति पाठ इत्यन्यः ॥ दापितः साधितः समौ ॥३९॥ धनादिकं दापितद्वयम् । ददातेर्ण्यन्तात् पुकि दापितः । 'दय दानग- तिरक्षणहिंसादानेषु' । ण्यन्तादिति पुरुषोत्तमः ।। अधिक्षिप्तः प्रतिक्षिप्तः अधिक्षिप्तद्वयं कृताक्षेपे प्रेषिते वा। तदुक्तम् "आय प्रेष्यते यस्तु प्रतिक्षिप्तः स उच्यते" इति ॥ बद्धे कीलितसंयतौ। कीलेन निश्चलीकृते कीलितद्वयम् । रज्ज्वा तु बद्धे वक्ष्यति ।। आपन्न आपत्माप्तः स्यात् आपन्नद्वयमापद्धस्ते ॥
विशेष्यनिघ्नवर्गः १]
टीकासर्वस्वाख्यव्याख्यासमेतम् ।
२१
कान्दिशीको भयद्रुतः॥४०॥
भयोपद्रुते कान्दिशीकद्वयम् । कां दिशं गच्छामीति चिन्तयन्
पलायितः कान्दिशीकः। पृषोदरादिः ॥
आक्षारितः क्षारितोभिशस्ते
परस्त्रियाः परपुरुषस्य वा मैथुनं प्रति दूषिते आक्षारितत्रयम् ।
मैथुनं प्रत्याहूत इत्यन्यः॥
संकसुकोऽस्थिरे।
असन्देहविषयेऽपि यः सन्देहकृत् , तत्र संकसुकद्वयम् । 'कस
गतो' । 'समि कस उकन्' (उ० २. ३२) इत्युकन् । संकसुको द्विदन्त्यो
हस्वमध्यः॥
व्यसना;परक्तौ द्वौ
दैवी मानुषी वा पीडा व्यसनं, तदाते व्यसनार्तद्वयम् । चन्द्रार्को
राहुग्रस्तावुपरक्तावुभौ ॥
विहस्तव्याकुलौ समौ ॥४१॥
शोकादिभिरितिकर्तव्यताशून्ये विहस्तद्वयम् ।।
विक्लबो विहला
विक्लबद्वयं स्वकीयाङ्गधारणाशक्ते ।।
स्यात्तु विवशोरिष्टदुष्टधीः।
आसन्नमरणमरिष्टं, तेन दूषितबुद्धिर्विवशः ॥
कश्यः कशा
कशामश्वताडनीमपराधाद् योऽर्हति, तत्र कश्यद्वयम् । 'दण्डादि-
भ्यो यः' (५. १. ६६)। कश्यः॥
सन्नद्धे त्वाततायी वधोद्यते ॥४२॥
२२ नामलिङ्गानुशासनं तृतीयं काण्ड कृतसन्नाहे हन्तुमुद्यते आततायी । द्वेष्ये त्वक्षिगतः द्वेष्यद्वयं द्वेष्ये ॥ वध्यः शीर्षच्छेद्य इमौ समौ । वध्यद्वयं वध्ये। कश्यवद् वध्यः । 'शीर्षच्छेदाद् यच्च' (५. १.६५) । शीर्षच्छेद्यः ॥ विष्यो विषेण यो वध्यः विषेण वध्यो विष्यः । 'नौवयोधर्म-' (४. १. ९१) इत्या- दिना यत् ॥ मुसल्यो मुसलेन यः॥४३॥ मुसलेन वध्यो मुसल्यः । कश्यवद् यः ॥ शिश्विदानः कृष्णवर्मा कृष्णवा पापाचारः । शिश्विदानः द्वितालव्यः । 'श्विता वर्णे' । 'श्वितेर्दश्च' (उ० २. ९३) इत्यानच् सनो लुग् दश्चान्तादेशः ॥ चपलश्चिकुरः समौ। चपलद्वयं चपले। "अविमृश्य तु यः कार्य पुरुषो वधबन्धनाद्यमाचरति । अविनिश्चितकारित्वात् स तु खलु चपलो बुधैर्जेयः ॥" दोषैकदृक् पुरोभागी दोषैकद्रष्टा पुरोभागी, नान्तः ॥ निकृतस्त्वन्जुः शठः ॥४४ ॥ निकृतत्रयं वक्राशये । 'शठ कैतवे' । तालव्यादिः । पचादिः ।
विशेष्यनिन्नवर्गः१]] टीकासर्वस्वाख्यव्याख्यासमेतम् । कर्णेजपः सूचकः स्यात् कर्णेजपद्वयमनुचितादौ प्ररोचके । 'स्तम्बकर्णयो रमिजपोः' (३. २. १३) इति 'हस्तिसूचकयोरिति वक्तव्यम्' (वा० ३. २. १३) इत्यच् । कर्णेजपः । 'सूच पैशुन्ये' । ण्वुल् । सूचकः । दन्त्यादिः ॥ पिशुनो दुर्जनः खलः। परस्परभेदनशीले पिशुनत्रयम् । पिडिकाख्यशाखे पिशुनोक्ता ॥ नृशंसो घताकः क्रूरः पापः नृशंसचतुष्कं परद्रोहाचरणशीले । 'शसु हिंसायाम्' । नैरुक्तो वर्णागमः । नृशंसः । ण्वुलि घातकः । पूर्वमुकआ हिंसाशील उक्तः । 'कृती छेदने' । *'कृतेः क्रू च' (उ० २.२३)इति रक क्रू चादेशः । क्रूरः॥ धूर्तस्तु वञ्चकः ॥४५॥ धूर्तद्वयं प्रतारणशीले । धुवांधातोर्हस्तवत् तः । धूर्तः । सृगालेऽपि वञ्चक उक्तः ॥ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। अज्ञषदं मूर्खे । यादृशो जातो विवेकशून्यो यथाजातः । विधेय- शब्दाद् ज्योत्स्नाद्यणि वैधेयः । परदत्तं श्यतीति बलिशः । बलिश एव बालिशः॥ कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ॥ ४६ ॥ कदर्यपञ्चक कृपणे । उग्रवत् क्षुदः । कुत्सितं पचानः कि- १. 'तं पश्य' हु. छ, पाठ:. * “कृतेश्छः कृ च' इति मुद्रितोणादिपाठः ।
नामलिङ्गानुशासनं तृतीयं काण्ड । म्पचानः । 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३. २. १२९) । 'मितनखे च'(३. २. ३४) इति खश् । मितम्पचः । मितशब्देनार्थग्रहणात् 'पान्तावल्प- म्पचान् मुनीन्' (स० ६. श्लो० ९६) इति भट्टिरिति रक्षितः ।। निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । निःस्वपञ्चकं दरिद्रे । निष्कान्तः स्वाद् निःस्वः । विधा समृ- द्भिर्दुःस्थास्येति दुर्विधः । 'इण्सिजियुष्यविभ्यो नक्' (उ० ३. २) इति दीडो नक् । दीनः । पचाद्यचि दरिद्रः । दुःपूर्वो गमिनिःस्वे ॥ वनीयको याचनको मार्गणो याचकार्थिनीं ॥४७॥ वनीयकपञ्चकं प्रार्थके. । 'वनु याचने' । ध्वनिवद् इः । वनी- मिच्छतीति क्यचि ण्वुल । वनीयकः । एवमन्तःस्थयमध्यः । "नवकदम्बकदम्बकसन्ततप्रसवनीपवनीपकषट्पदः" (न गच्छति?) इति कप्फिणाभ्युदये यमकादोप्ठ्यमध्यः । 'मार्ग अन्वेषणे । ल्युट् । मार्गणः । याचतेवुल् । याचकः । 'अर्थाच्चासन्निहिते' (वा० ५, २.१३५) इतीनिः । अर्थी ॥ अहङ्कारी स्यादहंयुः अहङ्कारिद्वयमहङ्कारयुक्ते । 'अहंशुभमोर्युस्' (५. २. १५०) इति युस् । अहंयुः । सकारः 'सिति च' (१. ४. १६)इति पदसंज्ञार्थः । 'वा पदान्तस्य' (८. ४. ५९) इति परसवर्णविकल्पः ॥ शुभंयुस्तु शुभान्वितः। शुभंयुद्वयं शुभान्विते ॥ दिव्योपपादुका देवाः . दिवि भवा दिव्याः । मात्रादिकारणमनपेक्ष्यादृष्टवशादुत्पद्यन्त इति दिव्योपपादुकाख्या देवाः । कर्मधारयसमासः । देवनामत्वेऽप्यस्य त्रिलि- गत्वादिह वर्गे पाठः ॥
विशेष्यनिघ्नवर्गः१] टीकासर्वस्वाख्यव्याख्यासमेतम् ।
२५
नृगवाद्या जरायुजाः॥४८॥
नृगवादयो जरायुजशब्देनोच्यन्ते । आयेन खराश्वप्रभृतयः ।।
स्वेदजाः कृमिदंशाद्याः
कृमिदंशाद्याः स्वेदजाः। ऊष्मा स्वेदः । आयेन शक्राद्याः॥
पक्षिसपादयोऽण्डजाः।
पक्षिमत्स्यसपीदयोऽण्डजाः ॥
उद्भिदस्तमगुल्माद्याः
तृणतरुगुल्माद्या उद्भिद उच्यन्ते ।।
उद्भिच्छब्दस्याभिधेयमुत्पाद्यास्य पर्यायमाह-
उद्भिदुद्भिज्जमुद्भिदम् ॥४९॥
उद्भित्रयं तरुगुल्मादिषु । उद्भिनत्तीति किप् । उद्भित् । भूमेरु-
द्वेदनमुद्भित् , ततो जातमुद्भिज्जम् । सम्पदादिकिबन्ताज्जनेर्डः । इगुपधलक्षणः
कः । उद्भिदम् । कामचारात् क्लीबनिर्देशः ।।
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।
कान्तं मनोरमं रुच्यं मनोज्ञं मञ्ज मञ्जुलम् ॥५०॥
सुन्दरद्वादशकं शोभने । डीपि सुन्दरी । दारुवञ्चारु । 'सुविनि-
१Wः- (८. ३. ८८) इति षत्वे सुषमम् । 'राजसूय --' (३. १.
११४) इत्यादिना रोचतेः क्यबन्ताद् रुच्यं निपातितम् ॥
तदसेचनकं तृप्ते स्त्यन्तो यस्य दर्शनात् ।
बहुशो दर्शनेऽप्यधिकां प्रीतिमुत्पादयति, असेचनकम् । ह्रस्वादि ।।
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५१ ॥
तृतीयं काण्ड नामलिङ्गानुशासन २ अभीष्टषट्कं प्रिये । 'हृदयस्य प्रियः' (४. ४. ९५) इति यत् । हृद्यम् । 'हृदयस्य हृल्लेखयदण्लासेषु' (६. ३. ५०) इति हृदादेशः । वल्लतेः रासभवद् वल्लभः ॥ . निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगाणकाः समाः ॥५२॥ निकृष्टत्रयोदशकं जात्यादिना निन्दिते । कृषः क्तः । निक- ष्टप्रतिकृष्टौ । अश्वनाम्नि अर्वा नान्त उक्तः । *'रिफ कल्क बुद्धादौ (१) । कर्मणि घञ् । रेफः । अदन्तः । "रवणे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गवत्" इति रभसश्च । रेपाः सान्तोऽपि पवर्गप्रथमवान् । तथाच माघे-'राजतः पुपुविरे । विरेपसः' (स० ११. श्लो० ३५) इति । 'या प्रापणे । 'अर्तिही- (७. ३. ३६) इत्यादिना पुक् । 'अचो यत्' (३. १.९७)। याप्यः। अवश- ब्दादधःशब्दाच 'अवाधसोर्लोपश्च' इति भावार्थे मक् । अवमाधमौ । 'पूयी विसरणे' । अच् । कुपूयः । कुत्सा सञ्जालास्येति तारकादित्वादितचि कुत्सितः । 'अवधपण्य -' (३. १. १०१) इत्यादिना नपूर्वाद् वदेर्य- प्रत्ययान्तादवद्यं निपातितम् । 'खिट उत्रासने' । अच् । खेटः । 'गर्ह गल्ह कुत्सायाम्' । ण्यत् । गर्यः । अणतेः कुन् । अणको हस्वादिः ।। मलीमसं तु मलिनं कच्चरं मलदूषितम् । मलीमसचतुष्कं मलिने । 'ज्योत्स्नातमिस्रा (५.. २. ११४) इत्यादिना मलशब्दान्मत्वर्थे इनजीमसच्प्रत्ययान्तौ मलिनमलीमसौ निपातितौ । 'रथवदयोश्च' (६. ३. १०२) इति चकारात् कोः कति पचाद्यच् । कचरम् ॥ 'रिफ कत्थनयुद्धनिन्दाहिंसादानेषु' इति मुद्रितधातुपाठो दृश्यते । + 'निरे- नसः' इति मुद्रितमाघे दृश्यते। $ 'अवद्यावमाभ्रमावरेफाः' इति मुद्रितोणादौ दृश्यते।
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । पूतं पवित्रं मेध्यं च पूतत्रयं पवित्रे । 'मेधृ सङ्गमे । ण्यत् । मेध्यम् । ब्रह्मवर्गेऽपि पवित्रनाम प्राणिविषयमुक्तम् ॥ वीधं तु विमलार्थकम् ॥५३॥ स्वभावनिर्मलं वस्तुमा वीभ्रम् । विपूर्वादिन्धेः 'वाविन्धे:* कन्' (उ० २. २९) इति क्रन् । कित्त्वादनुनासिकलोपः ॥ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् । निर्णिक्तपञ्चकं प्रक्षालिते । णिजिरः क्तः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८. ४. १४) इति णत्वम् । निर्णिक्तम् । 'शुध शौचे। क्तः । शोधितम् । 'मृजू शुद्धौ' । क्तः । मृष्टम् । निष्क्रान्तं शोध्यं क्षालनीयं निःशोध्यम् ॥ असारं फल्गु फल्गुद्वयमसारे । ‘फल निप्पत्तौ' । वैल्गुवद् उः गुगागमश्च । फल्गु ॥ शून्यं तु वशिकं तुत्थरिक्तके ॥ ५४ ॥ शून्यचतुष्कं शून्ये । शून्यवशिकौ तालव्यशौ । रिक्तमेव रिक्त- कम् ॥ क्लीवे प्रधान प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रबह नवराय॑वत् ॥५५॥ परााग्रप्राग्रहरमाप्रयाग्रथाग्रीयमग्रियम् । प्रधानसप्तदशकं प्रधाने । क्लीब इति निर्देशादजहल्लिङ्गता । तेन PRAMANIRUNBHARA १. 'नाकुव' ग. पाठः. HRIRAMMAme more HAINCIPSetianewhomewomantinue Ma 'वाविन्धेः' इत्येव मुद्रितोणादिपाठः ।
२८ नामलिङ्गानुशासनं [तृतीयं काण्ड स्त्री प्रधानमित्येव भवति । 'न जाने सप्रधानो मे' इति चण्डीपाठः, सह प्रधानेन वर्तत इति साधुः । प्रकृष्टं मुखमारम्भोऽस्येति प्रमुखम् । 'शाखादिभ्यो यः' (६. ३. १०३) । मुख्यः । 'वर इच्छायाम्' । चुरादि- रदन्तः । 'अचो यत्' (३. १. ९७)। वर्यः । 'वृङ एण्यः' (उ० ३. ९८) । अवरस्मिन्नर्धे भवम् अवराय॑म् । 'परावराधमोत्तमपूर्वाञ्च' (४. ३. ५) इति यत् । नञा अनवराय॑म् । 'अग्राद् यत्' (४. ४. ११६) । 'घ- च्छौ च' (४. ४. ११७) इति यथाक्रमं यद्धच्छप्रत्ययाः । अग्रयम् अग्रियम् अग्रीयं च । "अगं प्राग्रहरं श्रेष्ठं मुख्यं वय प्रहर्षणम्" इति त्रिकाण्डे पाठादेकविंशतिरेव श्रेष्ठ इत्यन्यः ॥ श्रेयान् श्रेष्ठः पुष्कल: स्यात् सत्तमश्चातिशोभने॥५६॥ श्रेयःपञ्चकमतिप्रशस्ये । ईयसुन्नन्तः श्रेयान् । “पुषः कित्' (उ० ४. ४) इति कलच् । पुष्कलः ॥ स्युरुत्तरपदे व्याघपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५७ ॥ व्याघ्रादयः सप्त उत्तरपदीभूताः श्रेष्ठार्थविषयाः पूर्वपदार्थस्य श्रेष्ठत्व- वाचकाः पुंल्लिङ्गाश्च स्युः । तद् यथा - पुरुषव्याघ्रः । आद्येन वृषभादयः ।। अप्राग्रयं दयहीने द्वे अप्रधानोपसर्जने । अप्राय्यत्रयमप्रधाने । द्वयहाँने क्लबिलिङ्गे ॥ विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ॥ ५८ ॥ वद्रोरु विपुलं विशङ्कटनवकं महति । 'वेः शालच्छङ्कटचौ' (५. २. २८) । विशङ्कटविशालौ तालव्यशौ । भृगुवत् पृथु । पृषदादौ महबृहती अतिप्रत्य- + 'वृषः' इति मुद्रितोणादिपाठः ।
वेशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । २९ १ आन्ते निपातिते । सिधमादिलचि पृथुलम् । वदेः 'स्फायितश्चिवाञ्च उ० २. १३) इत्यादिना रक् । वद्रः । 'महति हूस्वश्च' (उ० १.३२) इत्यनेन मोतेः कुः । उरु । 'पुल महत्त्वे' । इगुपधलक्षणः कः । विपुलम् ॥ पीनपीनी तु स्थूलपीवरे। पीनचतुष्कं स्थूले । उपचितमांसं विपुलम् आयतमाका(शारा)- देति भेदः । ओप्यायीतः क्तः । 'ओदितश्च' (८. २. ४५) इति ो नः । 'प्यायः पी' (६. १. २८) इति पीभावः । पीनम् । 'प्यैङ् वृद्धौ' । च्याप्योः सम्प्रसारणं च' (उ० ४. ११६) इति कनिप् । 'हलः' (६. १. २) इति दीर्घः। पीवा । स्त्रियां 'वनो र च' (४. १. ७) इति ङी- रेफौ। पीवरी । 'स्थूल परि बृंहणे' । चुरादिपचादी । स्थूलम् । 'छित्वर-' उ० ३. १) आदिसूत्रेण पीवरं निपातितम् ॥ स्तोकाल्पक्षुल्लकाः मक्ष्मश्लक्ष्णभ्रं कृशं तनु ॥ ५९॥ स्त्रियौ मात्रात्रुटी पुंसि लवलेशकणाणवः । स्तोकचतुर्दशकमल्पे । "अल्पं ददं स्तोकं लवाणुलेशा नरे श्लक्ष्णम्" ति रत्नकोषः । चातकेऽपि स्तोक उक्तः । क्षुल्लकोऽपि पामरे । 'सूच पैशु- '। 'सूचेः स्मन्' (उ० ४. १७८)। सूक्ष्मम् । दन्त्यादिः । 'श्लिष आ- हेजने । 'निषेरच्चोपधायाः' (उ० ३. १९) इति क्नः उपधाया अकारश्च । ऽक्ष्णम् । 'कृश तनूकरणे' । इगुपधलक्षणः कः। कृशम् । दन्भे रकि दभ्रम् । साङ् माने' । 'हुयामाश्रु हासिभ्यस्त्रन्' (उ० ४. १६९) । मात्रा । त्रुटिरुक्तः वर्गव । 'लिश अल्पीभावे' । पञ् । लेशः ।। प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु ।। ६० ॥ पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च । प्रभूतद्वादशकं प्रचुरे । प्राङ्पूर्वाद् अजेः क्यम् । प्राज्यम् । हूनर्थान् लाति बहुलम् । पुरून् हन्तीति पुरुहम् । 'अन्येष्वपि १. 'दिभे इ. छ. पाटः.
३० नामलिङ्गानुशासनं [तृतीयं काण्ड (३. २. १०१) इति डः। 'पृभिदिव्यधिगृधिधृषिभ्यः' (उ० १.२३) इति कुः । पुरु । 'इष्ठस्य यिट् च' (६. ४. १५९) इति बहो भाव इडागमश्च । भूयि- ष्ठम् । शिशिरवत् स्फिरशब्दो निपातितः । भूयः ईयसुन्नन्तम् । अद्रिवत् किन् । भूरि ॥ परश्शताद्यास्ते येषां परा सङ्ख्या शतादिकात् ॥६१॥ यच्छताद् बहु, तत् परश्शतम् । द्वितालव्यम् । शतादेरर्था- दुत्तराः सङ्ख्या येषां सङ्ख्येयानां, ते पराः शतात् परश्शताः । आदिना पराः सहस्रात् परस्सहस्राः। परा अयुतात् परायुताः। तथाच नाममाला- "अश्वसहस्रादश्वीयं परस्सहस्रं सहस्रतोऽप्यधिकम्" इति । 'पञ्चमी' (२. १. ३७) इति योगविभागात् समासः । राजदन्तादि- त्वात् शतशब्दस्य परनिपातः । पारस्करादित्वात् सुट् । सुटश्चाभक्तत्वाद् विस- जनीयो न भवति । श्चुत्वमेव भवति । परस्सहस्रे तु द्विदन्त्य एव । "आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परश्शताः" इति माघः। (स० १२. श्लो० ५०) "ब्रह्मादयो ब्रह्महिताय तप्त्वा परस्सहस्राः शरदस्तपांसि" इति परस्सहस्रस्य भवभूतेः स्त्रीलिङ्गप्रयोगः । सङ्ख्यानमात्रेऽपि शतादिकं वर्तत इति परश्शतं गवां, परस्सहस्रं गवामिति नपुंसकत्वमेव । शतादधिका सङ्ख्या गवामित्यर्थः ॥ गणनीये गणेयं ही तु गणयितुं शक्ये गणनीयद्वयम् । 'गण सङ्ख्याने' । चुरादिण्यन्ताद् 'अचो यत्' (३. १. ९७) । गणेयम् । 'क्यस्य विभाषा' (६. ४. ५०) इत्यतोऽनुवृत्तस्य विभाषाग्रहणस्य व्यवस्थितविभाषात्वाद् ‘णेरनिटि' (६. ४. ५१) इति न णिलोप इति धातुप्रदीपटीका । गण्यं तु चिन्त्यम् ।। सायाते गणितम् गणिते सङ्ख्यातद्वयम् ॥
ष्यनिघ्नवर्गः१] टीकासर्वस्वाख्यव्याख्यासमेतम् । , amonomme- अथ समं सर्वम् । विश्वमशेषं कृत्वं समस्तनिखिलाखिलानि निःशेषम् ।। समग्रसकलाखण्डपूर्णादीन्यप्यनूनके। समचतुर्दशकं सर्वस्मिन् । समशब्दः सर्वनामसंज्ञकः । सर्तेः निघृप्वरिप्व (उ० १. १५९) इत्यादिना वन्प्रत्ययान्तः ब्दो निपातितः । गणदेवतायां विश्व उक्तः । कृतेः 'कृत्यशूभ्यां क्स' ३. १७) । कृत्स्नम् । अग्रेण शिखरेण सङ्गतं समग्रम् । दन्त्यादिः । चातोः पूर्णम् ॥ घनं निरन्तरं सान्द्र धनत्रयं घने । सान्द्रं दन्त्यादि । पेलवं विरलं तनु ॥ ६३ ॥ पेलवत्रय विरले॥ समीपे निकटासन्नसन्निकृष्टसनीडवत् । सदेशाभ्याससविधसमर्यादसवेशवत् ॥ ६४ ॥ उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् । समीपपञ्चदशकं समीपे । सङ्गता आपोऽस्मिन् इति समीपम् । पूरब्धःपथामानक्षे' (५. ४. ७४) इति अः समासान्तः । 'द्वय- पसर्गेभ्योऽप ईत्' (६. ३. ९७) इतीत्त्वम् । निकटादिवत् सदेशादिवञ्च ण्ठादयः समीपे इति वच्छब्दार्थः । अभ्यासो दन्त्यसः । 'समीपेऽभ्यस- यासः' इति दन्त्यादौ रभसः । तालव्यान्तस्तु चिन्त्यः । कण्ठं सामीप्य- त उपकण्ठः । 'अभेश्वाविदूर्ये' (७. २. २५) इतीनिषेधे अभ्यर्णः । भभ्यां च' (५. ३. ९) इति तसिः । अभितः ।। संसक्ते त्वव्यवहितमपटान्तरमित्यपि ॥ ६५ ॥ संसक्तत्रयं संलग्ने । सञ्जः संसक्तम् ॥
नामालङ्गानुशासन [तृताय काण्ड नेदिष्ठमन्तिकतमं अतिसमीपे नेदिष्ठद्वयम् । 'अन्तिकबाढयोनेंदसाधौ' (५. ३. ६३) इत्यन्तिकस्य नेदादेशः इष्ठन्प्रत्ययश्च । नेदिष्ठम् । अतिशायने तमपि अन्तिकतमम् । ननु च 'अन्तिकस्य तमपि कादिलोपः, आधुदात्तत्वं च' इत्यनुवृत्तौ, 'तमे तादेश्च' इति तमप्रत्यये 'अन्तिकस्य तकाद्योः' तकारादेः ककारादेश्च लोपो भवति । तत्र तादिलोपे अन्तिकं, कादिलोपे अन्तिमं वा प्राप्नोति । कथमन्तिकतमम् । उच्यते । 'कादिलोपे बहुलम्' इति वचनात् पक्षे लोपः। अन्तिकस्य तम इव सदि वा तादेलोपवचनम् । "अन्तिकतमोऽतिसन्निधिरन्तिसदन्तिकसदन्तमोजन्तिकतमः" इति रत्नकोषः॥ स्याद् दूरं विप्रकृष्टकम् । दूरद्वयं दूरमात्रे । 'इण् गतौ' । 'दुरीणो लोपश्च' (उ० २. २२) इति दुस्पूर्वादिणो रक्, इणो लोपश्च । 'रो रि' (८. ३. १४) इति रेफलोपः । 'ठूलोपे पूर्वस्य दीर्घोऽणः' (६. ३. १११) इति दीर्घत्वम् ॥ दवीयश्च दविष्ठं च सुदूरे दवीयस्त्रयमतिदूरे । दूरशब्दस्य 'स्थूलदूर (६. ४. १५६) इत्यादिना ईयसुन्निष्ठनोर्यणादिभागलोपौ गुणश्च । दवीयः दविष्ठं च ॥ दीर्घमायतम् ॥ ६६ ॥ दीर्घद्वयं दीर्घे ॥ वर्तुलं निस्तलं वृत्तं वर्तुलत्रयं वर्तुले । वृतेर्बहुलवचनाद् 'हृषेरुलच्' (उ० १. १०१)। वर्तुलम् ॥ बन्धुरं तून्नतानतम् । स्वभावाद् यदुन्नतम् , उपाधिवशादीषन्नतं, तद् बन्धुरम् । १ , विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । *"बन्धुरं बन्धुरे रम्ये नदे हंसे तु बन्धु(रम्?रः)" इति रभसः ॥ उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे उच्चषट्कमुच्चे । उच्चिनोतेर्डः । उच्चः । प्रकृष्टोंऽशुर्दीप्तिरस्यति प्रांशुः । उद्गतं नतमुन्नतम् । ऊर्व श्रित उच्छ्रितः ।। अथ वामने ॥ ६७॥ न्यङ्नीचखर्वह स्वाः स्युः न्यपञ्चकं खर्वसामान्ये । नृवर्गे तु वा हम्वश्च वामनः' इति नरवचना उक्ताः । निपूर्वादश्चेः ऋत्विगादिना किन् । 'किन्प्रत्ययस्य कुः' (८. २. ६२) इति कुत्वम् । न्यक् चान्तः । स्त्रियां नीची । पामरे नीच उक्तः । 'खर्व माने' । पचाद्यच । खर्वः ।। अवाग्रेऽवनतानतम् । अवाग्रत्रयमवनताग्रे । अवनतमग्रमस्येत्यवाग्रम् ॥ अरालं वृजिनं जिह्ममूर्मिमत् कुश्चितं नतम् ॥ ६८ ।। आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि । अरालैकादशकं वक्र । ऊर्मिभङ्गः, तद्योगान्मतुपि ऊर्मिमत् । कुर्टि कुटिलतां लातीति कः । कुटिलम् । 'भुजो कौटिल्ये'। क्तः । 'ओदितश्च' (८. २. ४५) इति नत्वम् । भुमम् ।। ऋजावजिह्मप्रगुणौ ऋजुत्रयमवक्रे॥ व्यस्ते त्वप्रगुणाकुलौ ॥ ६९ ॥ व्यस्तत्रयं व्यस्ते । यथा आकुलाः केशपाशाः ।। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः । १. 'च्चरते' छ. पाठः. * "बन्धूरवन्धुरौ रम्ये नने हंसे तु वन्धुरः' इति भानुजि सम्मतः पाठः ।
नामलिङ्गानुशासनं [तृतीयं काण्ड शाश्वतपञ्चकं कालत्रयव्यापिनि । शश्वच्छब्दाद् भवार्थाणि शाश्वतः । द्वितालव्यः । ठञि शाश्वतिकोऽप्यत्र । 'सायंचिरं - (४. ३. २३) इत्या- दिना ट्युट्युलौ तुट् च । सदातनः ।। स्थास्नुः स्थिरतरे स्थेयान् स्थास्नुत्रयमतिस्थिरे । जिष्णुवत् स्थास्नुः । 'प्रियस्थिर-' (६. ४. १५७) इत्यादिना स्थिरशब्दस्य स्थादेशे स्थेयान् । शाश्वताष्टकमेव स्थिर इति कश्चित् ॥ एकरूपतया तु यः ॥ ७० ॥ कालव्यापी स कूटस्थ: एकेनैव स्वभावेन निरवधिकालस्य व्यापक आकाशादिः कूटस्थः ॥ स्थावरो जङ्गमेतरः। जङ्गमेतरः प्राणितोऽन्यः स्थावरः । ईश्वरवद् बरच् ॥ चरिष्णुजङ्गमचरत्रसमिङ्गं चराचरम् ॥ ७१ ।। चरिष्णुषट्कं जङ्गमे । गमेः 'नित्यं कौटिल्ये गतौ' (३. १. २३) इति यङ् । 'नुगतोऽनुनासिकान्तस्य' (७. ४. ८५) इति नुक् । तस्य चानुस्वारः । पचाद्यच् । 'यङोऽचि च' (२. १. ७४) इति यङो लुक् । जङ्गमम् । त्रस्यति चलतीति त्रसम् । पचाद्यजन्तम् । इङ्गति गच्छतीति इङ्गम् । वदावदवच्चराचरम् ॥ चलनः कम्पनः कम्प: चलनत्रयं चलनशीले । 'चलनशब्दार्थादकर्मकाद् युच्' (३. २. १४८)। चलनः । कम्रवत् कम्प्रः॥ चलं लोलं चलाचलम् । चञ्चलं तरलं चैव पारिप्लवपरिलवे ॥ ७२ ॥ चलसप्तकं चलमात्रे । 'लुड इत्येके' इत्यतः पचाद्यचि लोलम् । लोल- तिरपरिपठितधातुरिति माघटीकाकृत् । वदावदवच्चलाचलम् । चञ्चतेः कलच् ।
विशेष्यनिघ्नवर्गः १
टकिासर्वस्वाख्यव्याख्यासमेतम् ।
३५
dus
चञ्चलम् । 'अन्येषामपि ----' (६. ३. १३७) इति दीर्घत्वे पारिप्लवम् ।
पचाद्यच् । परिप्लवम् ॥
अतिरिक्तः समधिकः
अतिरिक्तद्वयमधिके ।
दृढसन्धिस्तु संहतः।
दृढसन्धिद्वयं दृढसन्धाने । हन्तेः क्तः । संहतः ।।
कर्कशं कठिनं कृरं कठोरं निरं दृढम् ॥ ७३ ।।
जरठं मूर्तिमन्मूर्त
कर्कशनवकं कठिने । 'कठ कृच्छ्रजीवने' । 'बहुलमन्यत्रापि' (उ० २.
५१) इतीनच् । कठिनम् । घातके क्रूर उक्तः । 'काठचकिभ्यामोरच्'
(उ० १. ६७) । कठोरम् । 'दृढः स्थूलबलयोः' (७. २. २०) इत्यत्र परि-
बृढवद् दृढो निपातितः । मूर्तिः काठिन्यं , तद्योगान्मूर्तिमत् । 'तदस्या-
स्त्यस्मिन्निति मतुप्' (५. २. ९४) । अर्शआद्यचि मूर्तम् ।।
प्रवृद्धं प्रौढमेधितम् ।
प्रवृद्धत्रयं प्रौढे । प्रैषवद् वृद्धौ प्रौढः । एधेः क्तः । एधितः ।।
पुराणप्रतनप्रत्नपुरातनचिरन्तनाः ॥ ७४ ।।
पुराणपञ्चकं पुरातने । 'सायंचिरं -' (४. ३. २३) इत्या-
दिना ट्युः । पुराणम् । 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु' (४. ३. १०५) इति
निपातनान्न तुट् । 'अबाधकान्यपि निपातनानि भवन्ति' इति पक्षे तुटि
पुरातनम् । 'प्रान्नश्च पुराणे' (वा० ५. ४. ३०) इति प्रशब्दान्नप्रत्ययः ।
चकारात् (नप्) तनम् (च)। प्रत्नं प्रतनं च ॥
प्रत्यग्रोऽभिनवो नव्यो नवीनो नृतनो नवः ।
नूत्नश्च
।
INIATutneedeemedies
१. '' क. ग, पाठः.
प्रत्यग्रसप्तकं नवे । प्रतिगतोऽयोऽस्य प्रत्ययः । 'पादार्घाभ्यां च' ५. ४. २५) इति चकाराद् यत् । नव्यः । 'नवशब्दस्य नूआदेश- स्नप्तनखाश्च प्रत्यया वक्तव्याः' (वा०५. ४. ३०) इति यथाक्रमं खतन- नप्प्रत्ययाः । नवीननूतननूत्नाः ॥ सुकुमारं तु कोमलं मृदुलं मृदु ॥ ७५ ॥ सुकुमारचतुष्कं कोमले । मृदुलं सिध्मादि । पृथुवन्मृदु ॥ अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् । अन्वक्चतुष्टयमनुगन्तरि । अनु पश्चादञ्चतीत्यन्वक् , चान्तः । नयामनूची । अनुगतं पादेन्द्रियमन्वक्षम् । पदस्य पश्चादनु पदम् । 'अव्ययं भक्ति -' (२. १. ६) इत्यादिना समासः ।। प्रत्यक्ष स्थादेन्द्रियकम् इन्द्रियग्राह्ये वस्तुनि प्रत्यक्षद्वयम् । अक्षं प्रति प्रत्यक्षम् । आभिमु- येऽव्ययीभावः । कुलालादेराकृतिगणत्वाद् वुञ् । ऐन्द्रियकम् ।। अत्यध्यक्षमतीन्द्रियम् ॥ ७६ ॥ अत्यध्यक्षद्वयमप्रत्यक्षे । अतिक्रान्तमध्यक्षमत्यध्यक्षम् ॥ एकतानोऽनन्यवृत्तिरेकाकायनावपि । अप्येकसर्ग एकाग्रयोऽप्येकायनगतोऽपि च ॥ ७७ ॥ एकतानसप्तकमेकाग्रे । एकस्मिन् तानोऽस्यैकतानः । 'तन यज्ञोपक- रणयोः' । चुरादिण्यन्ताद् ‘एरच्' (३. ३. ५६) । तानः ॥ पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः आदिपञ्चकमादौ । 'दक्षिणापश्चात्पुरसस्त्यक्' (४. २. ९८)। पौर- स्त्यः । दिगादित्वाद् यत् । आद्यः ॥ अथास्त्रियाम् । अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम् ॥ ७८॥ अन्तषट्कमन्ते । जघन्यान्त्यौ दिगादी । पौरस्त्यवत् पाश्चात्त्यः ।
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । ३७ अनचि च' (८. ४. ४७) इति द्वित्वे द्वितकारः । शाकल्यमते त्रितका- रम् । *'अग्रपश्चाड्डिमच्' (वा० ४. ३. २३) । पश्चिमम् ।। मोघं निरर्थक मोषद्वयं निष्फले ॥ स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् । स्पष्टचतुष्कं व्यक्ते । अछुः क्तः । व्यक्तम् ।। साधारणं तु सामान्यम् यदेकमनेकसंबन्धि, तत्र साधारणद्वयम् । पूर्व तु 'सदृक् । साधारणः' इत्युक्तम् । तुल्ये साधारणः साधितः, स्त्रियां साधारणी साधारणा च । स्वार्थिकष्यनि सामान्यम् । तेन जातेरन्यत्रापीति प्रयोगः । 'सामान्योऽयं धर्मसेतुर्नृपाणाम्' । सामान्यं धनम् । सामान्या भूमिः ।। एकाकी त्वेक एककः॥ ७९ ॥ एकाकित्रयमेकके । 'एकादाकिनिन्चासहाये' (५. ३. ५२) इत्या- किनिच् । एकाकी । चकारात् पक्षे कन्लुकौ च । एककः एकश्च ।। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि । अन्यतरादयः पञ्च भिन्नार्थवाचकाः । पञ्चैव सर्वनामसंज्ञकत्व इत्येव नाम ॥ उच्चावचं नैकभेदम् उच्चावचद्वयमनेकप्रकारे । उदक चासाववाक् चेत्युच्चावचं, मयूरव्यं सकादिषु निपातितम् । 'उच्चावचा वीचयः' इति प्रयोगः । न एको भेदोऽत्रेति त्रिपदो बहुव्रीहिः । 'सुप् सुपा' इति नशब्देन सह समासः ।। उच्चण्डमविलम्बितम् ॥ ८०॥ उच्चण्डद्वयं तूर्णे ॥ * 'अग्रादिपश्चाझिमच्' इति मुद्रितवार्तिकपाठः ।
३८ नामलिङ्गानुशासनं तृतीयं काण्ड अरुन्तुदं तु मर्मस्पृग अरुन्तुदद्वयं मर्मपीडाकरे । विधुन्तुदवदरुन्तुदः । विनि मर्म- स्पृक्, शान्तम् ॥ अबाधं तु निरर्गलम् । अबाधद्वयमनिवारिते॥ प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्टु च ॥ ८१ ॥ प्रसव्यचतुष्कं प्रतिकूले । घुञः 'अचो यत्' (३. १. ९७) । प्रसव्यापसव्यौ । 'अपदुस्सुषु स्थः' (उ०१. २५) इति तिष्ठतेः कुः । 'अम्बा- म्ब-' (८. ३. ९७) इत्यादिना षत्वम् । अपठु ॥ वामं शरीरे सव्यं स्याद् शरीरे वाममङ्गं (सव्यम्) । 'सव्यं वामे च दक्षिणे' इति त्वजयः॥ अपसव्यं तु दक्षिणम् । दक्षिणमङ्गमपसव्यम् । 'द्विवकार' इति वर्णदेशना ॥ सङ्कटं ना तु सम्बाधः सङ्कटद्वयमल्पावकाशे । 'सम्प्रोदश्च कटच्' (५.२.२९)। सङ्कटम् । पनि सम्बाधः। पुल्लिङ्ग एव नान्यलिङ्गः ॥ कलिलं गहनं समे ॥८२॥ दुष्प्रवेशे, दुर्विवेक इति यावत् । तत्र कलिलद्वयम् । यथा गहनं शास्त्रम् । सलिलवत् कलिलम् ॥ सङ्कीर्णे सङ्कुलाकीर्णे जनादिना निरन्तरव्याप्ते सङ्कीर्णद्वयम् । द्वयं दन्त्यादि । 'शङ्करुलचि तालव्यादी'ति तु गोवर्धनः ।। मुण्डितं परिवापितम्। मुण्डितद्वयं कृतकेशखण्डने । यथा मुण्डितं शिरः । 'मुडि खण्डने' । क्तः । मुण्डितः । वपेरनेकार्थत्वाद् मुण्डनेऽपि वृत्तिः । तथाच भाष्यं--- "वपिः प्रकिरणे दृष्टो मुण्डने चापि दृश्यते”। स्वार्थिकणिचि परिवापितम् ।।
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । ग्रथितं सन्दितं दृव्धं ग्रथितत्रयं अथिते । 'ग्रन्थ सन्दर्भ' । क्रयादिः । क्तः । प्रथितम् । 'प्रथि कौटिल्ये' । भूवादिः । 'इदितो नुम् धातोः' (७. १. ५८) इति नुमि ग्रन्थितमिति वा पाठः । 'मृद क्षोदे' । अनेकार्थत्वाद् धातूनां अन्थनेऽपि वृत्तिः । णिच् । क्तः । मर्दितः । 'दृभि ग्रन्थे' । क्तः । दृब्धम् ।। विसृतं विस्तृतं ततम् ॥ ८३ ॥ लब्धप्रसरे विसृतत्रयम् । 'मृ गतौ' । 'स्तृञ् आच्छादने' । इस्वा- दिः । 'तनु विस्तारे' । क्तः । विसृत-विस्तृत-ततानि ।। अन्तर्गतं विस्मृतं स्यात् अन्तर्गतद्वयं विस्मृते ।। प्रासप्रणिहिते समे। प्राप्तद्वयं प्रकर्षेण निहिते । अधिक्षिप्ते इति केचित् । लब्धपर्याये च प्राप्तं वक्ष्यते । 'नर्गद --' (८. ४. १७) इत्यादिना णत्वे प्रणिहितम् ।। वेल्लितप्रेकिताधूनचलिताकम्पिता धुते ॥ ८४ ॥ वेल्लितषट्कं कम्पिते । 'धू विधूनने' । आधूतः । 'धुञ् कम्पने' । हस्वादिः। धुतः ॥ नुत्तनुन्नास्तनिष्ठ्यताविद्धक्षिप्तेरिताः समाः। नुत्तसप्तकं प्रेरिते। 'नुदविदोन्दत्राग्राहीभ्योऽन्यतरस्याम्' (८.२.५९) इति निष्ठानत्वविकल्पे नुत्तनुन्नौ । परिक्षिप्तं तु निवृतं परिखादिना वेष्टिते परिक्षिप्तद्वयम् । वृो निवृतम् ।। मुपितं मूपितार्थकम् ॥ ८५ ॥ मुषितद्वयं मुषिते । 'मुष स्तेये' । कैयादिको ह्रस्वोपधः । 'मूष स्तेये' । भौवादिको दीर्घोपधः ।। प्रवृद्धपमृते
नामलिङ्गानुशासनं
तृतीयं काण्ड
प्रवृद्धद्वयं प्रसरणे । प्रपूर्वो वृधिः प्रसरणे ।
"तस्मादयं प्रववृधे पृथिवीपतानामुद्गीतपुण्यचरितो भुवनेषु वंशः"
इति भवभूतिश्च । प्राक् प्रौढेऽपि प्रवृद्ध उक्तः । इत आरभ्य समे इति
वक्ष्यमाणं योज्यम् ॥
न्यस्तनिसृष्टे
न्यस्तद्वयं न्यस्ते । निक्षिप्त इति यावत् ।।
गुणिताहते।
गुणितद्वयं गुणिते । यथा पञ्चधा गुणिता द्वादशसंख्या षष्टिर्भवति ।
निदिग्धोपचिते
निदिग्धद्वयमुपचिते । दिहेः क्तः ।।
गूढगुप्ते
कृतसङ्गोपने गूढद्वयम् ॥
गुण्डितरूषिते ॥ ८६ ।।
गुण्डितद्वयं धूलिपक्षिप्ते । गुण्डिर्वेष्टने । रूषिस्तु मूर्धन्यान्तो भूवादे-
रपरिसमाप्तत्वाज् ज्ञेयः ।।
दूतावदीर्णे
जातद्रवीभावे मांसादौ द्रुतद्वयम् ।।
उद्र्णोद्यते
उद्यते शस्त्रादौ उद्भूर्णद्वयम् । 'गुरी उद्यमे' । क्तः । उद्भूर्णः ॥
काचितशिक्यिते।
काचितद्वयं शिक्यारोपिते । 'प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च'
इति णिजन्तात् क्तान्तद्वयम् । काचितम् । शिक्यितम् ।।
प्राणघाते
(जिजे)घीते पुष्पादौ घाणद्वयम् । नुन्नवद् विभाषा नत्वम् ॥
दिग्धलिप्ते
दिग्धद्वयं चन्दनादिलिप्ते ॥
विशेष्यनिनवर्गः१] टीकासर्वस्त्राख्यव्यास्यासमेतम् । समुदक्तोद्धृते समे ॥ ८७॥ कूपादेरुद्धृते जलादौ समुदक्तद्वयम् ॥ वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम् । नदीमाकारादिना वेष्टिते वेष्टितपञ्चकम् ।। रुग्णं भग्ने रुग्णद्वयं भने । 'रुजो भङ्गे । 'भञ्जो आमर्दने' । क्तः ॥ अथ निशितक्ष्णुतशातानि तेजिते ॥ ८८ ॥ शाणादौ तीक्ष्णीकृते निशितचतुष्कम् । 'शो तनूकरणे' । 'शाच्छोरन्यतरस्याम्' (७. ४. ४१) इति इत्त्वविकल्पः । निशितम् । 'क्ष्णु तेजने' । 'तिज निशाने' । चुरादिः ॥ स्याद् विनाशोन्मुखं पकं विनाशोन्मुखे पक्कम् । परिणते च वक्ष्यति । 'पचो वः' (८. २. ५२) इति निष्ठावत्वम् । यथा पक्को वटुः । विनाशोन्मुख इत्यर्थः ।। हीणहीतौ तु लज्जिते । हीणत्रयं लज्जिते । नुन्नवद् विकल्पेन नत्वे हीणहीतौ । लज्जितस्ता- रकादिः॥ वृते तु वृत्तवावृत्ती वृतादित्रयं वृत्ते । सूत्रादेविवरणं वृत्तिरुच्यते । दिवादौ 'तप ऐश्वर्ये' इत्यनन्तरं 'वावृतु वर्तने' इति पठ्यते । यत्प्रयोगो भट्टौ- "ततो वावृत्यमानासौ रामशालां न्यविक्षत " इति । अत्र रामं वृण्वतीत्यर्थः । ततः क्तः। वावृत्तः । संयोजित उपाहितः ॥ ८९ ॥ पदार्थे पदार्थान्तरेण संयुक्तीकृते संयोजितद्वयम् ॥ प्राप्यं गम्य समासाद्यं । १. 'जाभ्यां क:' ख. ग. घ., "जिभ्यां कः' क. पाठः. २. 'दौ व ग. घ. पाठः, नामलिङ्गानुशासनं तृतीयं काण्ड पातुं शक्ये प्राप्यत्रयम् । ण्यति प्राप्यम्। 'पोरदुपधात्' (३. १.९८) इति यति गम्यम् ॥ स्पन्नं रीणं तं सुतम्। सुते जलादौ स्यन्नचतुष्कम् । 'स्यन्दू प्रस्रवणे' । क्तः । स्यन्नम् । 'सु प्रस्रवणे' । क्तः । स्नुतम् ।। सङ्गढः स्यात् सङ्कलितः लेखकादिना (संवृतकृतीते?) सङ्गूढद्वयम् ।। अवगीतः ख्यातगर्हणे ॥९०॥ ख्याता प्रसिद्धा गर्हणा यस्य सोऽवगीतः ।। विविधः स्याद् बहुविधो नानारूप: पृथग्विधः । विविधचतुष्कं नानाप्रकारे॥ अवरीणो धिक्कृतश्चापि अवरीणद्वयं कृतधिक्कारे । पूर्वोक्तस्यैव चौधिकृतस्य अवरीण इति पर्यायान्तरं दृश्यते ॥ अवध्वस्तोऽवचूर्णितः ॥९१ ॥ दृप्तचूर्ण(?) लेखादौ अवध्वस्तद्वयम् । 'सत्यापपाश -' (३. १. २५) इत्यादिना णिच् । क्तः ॥ अनायासकृतं फाण्ट अनायाससाध्यं फाण्टम् । "द्रव्यादायोत्थितात् तोये प्रतप्ते चैव संस्थिते । रसो निर्याति यः सद्यः स फाण्ट इति संस्तुतः" ॥ 'क्षुब्धस्वान्त (७. २. १८) इत्यादिना 'फण गतौ' इत्यतो निष्ठायामि- डभावे फाप्टं निपातितम् ।। १. 'ति' ङ. पाठः. २. 'वाधिककृ' क. पाटः, ३. 'ता' ड. पाठः, ४. 'द' घ.च, पाठः. ५. 'य' उ. पाठः, ६. 'स्कृ' ज, पाठः, विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । स्वनितं ध्वनितं समे। कृतस्वने स्वनितद्वयम् ॥ बद्धे सन्दानितं मूर्णमुद्दितं सन्दितं सितम् ॥१२॥ बद्धषट्कं बद्धे । सन्दानितं तारकादि । 'मुर्वी बन्धने' । क्तः । वलोपदीर्घनत्वानि । मूर्णम् । मूत इति पाठे 'मूञ् बन्धने' । क्तः । 'दो अवखण्डने' । उदितसन्दितौ । 'षिञ् बन्धने' । क्तः । सितम् ॥ निष्पकं कथित निष्पक्कद्वयं कथिते । 'कथ निष्पाके' । क्तः। कथितम् ।। पाके क्षीराज्यहविषां शृतम्। क्षीरादीनां पाके शृतम् । 'श्रा पाके' । 'शृतं पाके' (६. १. २७) इति निपातितम् । पाकेऽभिधेये श्रातेर्निष्ठायां शृभावो निपात्यते ।। निर्वाणो मुनिवह्नयादी 'निर्वाणोऽवाते' (८. २. ५०) इति निष्ठानत्वम् । निर्वाणो मुनिः । निर्वाणो वह्निः । निर्वाणो हस्ती । मुक्तो, नष्टो, ममश्चेति यथाक्रम निर्वाणशब्दार्थाः॥ निर्वातस्तु गतेनिले ॥१३॥ वाते तु नत्वाभावाद् निर्वातो गते वायौ । पकं परिणते पक्कद्वयं परिणते । यथा परिणता बुद्धिः ।। गूनं हो कृतमलोत्सर्गे गूनद्वयम् । 'गु पुरीषोत्सर्गे । 'दुग्वोर्दीर्घत्वं चेति वक्तव्यम्' (वा० ८. २. ४४) इति निष्ठानत्वं दीर्घत्वं च | गूनम् । हदेः क्तः। हनम् ॥
१४ नामलिङ्गानुशासन [तृतीयं काण्ड i मीढं तु मूत्रिते। मीढद्वयं मूत्रिते । 'मिह सेचने' । क्तढत्वष्टुत्वढलोपदीर्घत्वानि ॥ पुष्टे तु पुषितं पुष्टद्वयं पुष्टे पक्ष्यादौ । 'पुष पुष्टौ' । दिवादिरनिट् । भूवादेस्तु सेटः पुषितम् ॥ सोढे क्षान्तम् सोढद्वयं क्षान्ते । यथा सोढोऽपराधः । 'सहिवहोरोदवर्णस्य' (६. ३. ११२) । सोढः ॥ उद्धानमुद्गते ॥१४॥ उद्धानद्वयमुद्गते । ओहाङ् गतौ' । उत्पूर्वः । ओदित्त्वान्नत्वम् । उद्धानम् ॥ दान्तस्तु मिते पूर्व तपःक्लेशसह उक्तम् । इदानीं सामान्येन वहनादिक्लेशसहे दान्तद्वयम्॥ शान्तः शामिते शान्तद्वयं शान्ते । णिचि 'वा. दान्त-' (७. २. २७) इत्यादिना विभाषेट् । शान्तशमितौ ॥ प्रार्थितेऽर्दितः। प्रार्थितद्वयं प्रार्थिते । 'अर्द गतौ याचने च । क्तः । अर्दितः ॥ ज्ञप्तस्तु ज्ञपिते ज्ञप्तद्वयं विनइश इति ख्याते । 'ज्ञा मारणतोषणनिशामनेषु' । एतेष्वे- वार्थेष्वित्यन्यः । पूर्ववद् विभाषेट् ॥ १. 'नाशन इ' 3. छ. पाठ:.
विशेष्यनिघ्नवर्गः १] टीकासर्वस्वाख्यव्याख्यासमेतम् । छन्नश्छादिते छन्नद्वयं छन्ने । यथा मेघच्छन्नं नमः ॥ पूजितेऽश्चितः॥९५॥ पूजितद्वयं पूजिते। 'अञ्चेः पूजायाम्' (७. २. ५३) इतीट् । 'नाञ्चेः पूजायाम्' (६. ४. ३०) इत्युपधानलोपाभावः । अञ्चितः ॥ पूर्णस्तु पूरिते पूर्णद्वयं पूरिते ॥ क्लिष्टः क्लिशित क्लिष्टद्वयं क्लिष्टे । 'क्लिशू विबांधने' । 'क्लिशः क्त्वानिष्ठयोः' (७. २. ५०) इतीविकल्पः । क्लिष्टक्लिशितौ ॥ अवसिते सितः। अवसितद्वयं समाप्ते । यो अन्तकर्मणि' । क्तः ।। अष्टप्लुष्टोषिता दग्धे घुष्टचतुष्कं दग्धे । “श्रिषु पुषु प्लुषु दाहे' । 'उष दाहे' । क्तः। 'दह भस्मीकरणे' । क्तः॥ तष्टत्वष्टौ तनूकृते ॥९६ ॥ तष्टत्रयं वैश्चतेति ख्याते । 'तच त्वक्षु तनूकरणे' । 'स्कोः संयो. गाद्योरन्ते च' (८. २. २९) इति कलोपः ॥ वेधितच्छिद्रितौ विद्धे वेधितत्रयं वेधिते । ण्यन्तात् क्तः । वेधितः । द्वा तारकादी। 1. 'लोडने' क, ख, ग, घ. पाठः. २. 'प' छ., 'च' म., 'चश्वते' ट. पाठः.
२. नामलिङ्गानुशासनं [तृतीयं काण्ड विनवित्तौ विचारिते। विन्नत्रयं विचारिते । 'विद विचारणे' । नुन्नवद् विभाषा निष्ठानत्वम् ॥ निष्प्रभे विगतारोको निष्प्रभत्रयं प्रभाशून्ये । रुंचेञि नसमासे अरोकः ।। विलीने विद्रुतद्रुतौ ॥ ९७॥ घृतादौ विलीने विलीनत्रयम् ॥ सिद्धे निवृत्तनिष्पन्नौ सिद्धत्रयं सिद्धे ॥ दारिते भिन्नभेदितौ। दारितत्रयं विदारिते ॥ ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते ॥ ९८ ॥ ऊतत्रयं सन्तते वस्त्रादौ । 'ऊयी तन्तुसन्ताने' । क्तयलोपौ । ऊतम् । 'षिवु तन्तुसन्ताने' । स्यूतम् । वेज उतम् ।। स्यार्हिते नमस्थितनमसितमपचायितार्चितापचितम्। अतः परमावर्गमार्याच्छन्दः । अर्हितषट्कं नमस्कृते । 'नमोवरिवश्चि- त्रः क्यच' (३. १. १९) । 'क्यस्य विभाषा' (६. ४. ५०) इति यलो- पविकल्पः । नमस्यितनमसितौ । 'चाय पूजानिशामनयोः' । अपचायितम् । 'अपचितश्च' (७. २. ३०) इति निपातनाद् अपचितम् । अपपूर्वाञ्चायते- निष्ठायामनिट्वं चिभावश्च निपात्यते ॥ वरिवसिते वरिवस्थितमुपासितं चोपचरितं च ॥९९॥ कृतपरिचर्ये वरिवसितचतुष्कम् । नमस्यितद्वयवद् वरिवस्थितद्वयम् । 'आस उपवेशने' । उपासितम् ।।
विशेष्यनिघ्नवर्ग: १] टीकासर्वस्वाख्यव्याख्यासमेतम् । ४७ ४७ सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च। सन्तापितपञ्चकमध्वादिश्रान्ते । 'गुपूधूपविच्छि-' (३. १. २८) इत्यादिना 'आयादय आर्धधातुके वा' (३. १. ३१) इति आयविकल्पे धूपितधूपायितौ । 'टुदु उपतापे' । 'दुग्बोर्दीर्घश्च' (वा० ८. २.४४) इति नत्वम् । दूनम् ॥ हृष्टो मत्तस्तृप्तःप्रहन्नः प्रमुदितः प्रीतः ॥१०॥ प्रीतियुक्ते हृष्टषट्कम् । 'हृषु अलीके' । अनेकार्थत्वाद् हृष्टः । 'न ध्याख्या-' (८, २. ५७) इत्यादिना नत्वनिषेधे मत्तः । 'लादो निष्ठा- याम्' (६. ४.९५) इत्युपधाहस्वत्वे प्रहन्नः ॥ छिन्नं छातं लूनं कृत्तं दानं दितं छितं वृणम् । छिन्नाष्टकं छिन्ने । 'शाच्छोरन्यतरस्याम्' (७. ४. ४१) इतीत्त्व- विकल्पे छातं छितं च । 'दाप् लवने' । दातम् । 'दो अवखण्डने' । 'द्यति. स्यतिमास्थामित् ति किति' (७. ४. ४०) इतीत्त्वम् । दितम् । 'ओवश्धू छेदने' । क्तः । वृक्णम् ॥ सस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥ १०१॥ स्रस्तसप्तकं च्युते । 'सन्सु भ्रन्सु ध्वन्सु अवलंसने' । क्तः । स्रस्तत्र- यम् । 'गड सेचने' । गलितम् ।। लब्धं प्राप्तं विनं भावितमासादितं च भूतं च । लब्धषट्कं लब्धे । विदिर्लाभे । विन्नम् । 'भू प्राप्तावात्मनेपदी' । 'आ धृषाद् वा' इति पक्षे चुरादिणिच् । भावितम् । भूतम् । 'षट् विशर- णादौ' । आङः षदेः पद्यर्थे णिच् । आसादितम् ।। अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥ १०२॥ अन्वेषितपञ्चकमन्वेपिते । 'एष हे गतौ', 'गवेष मार्गणे', 'इषु इच्छायां', 'मार्ग अन्वेषणे', 'मृग अन्वेषणे' । क्तः ॥ aamana नामलिङ्गानुशासनं [तृतीयं काण्ड आद्रं सां क्लिनं तिमितं स्तिमितं समुन्नमुत्तं च । आर्द्रसप्तकं स्तिमिते । आर्द्रत्वेऽप्याम् । तेन सह वर्तमानं साम् । 'क्लिदू आर्द्रभावे' । क्लिन्नम् । 'तिम ष्टिम आर्द्रभावे' । तिमितस्तिमिते । 'उन्दी केदने' । नुन्नवद् विकल्पेन नत्वे समुन्नम् , उत्तं च ॥ त्राणं नातं रक्षितमवितं गोपायितं गुप्तम् ॥ १०३ ॥ त्राणषट्कं रक्षिते । नुत्तनुन्नवत् त्रातत्राणे । 'अव रक्षणे'। अवितम् । धूपायितवद् गोपायितम् ॥ अवगणितमवमतावज्ञाते अवमानितं च परिभूते । अवगणितपञ्चकं परिभूते । अवपूर्वो गणिरवज्ञायाम् । 'मान पूजा- याम्' । चुरादिः॥ त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम् ॥१०४ ॥ त्यक्तषट्कं त्यक्ते । 'ओहाक् त्यागे' । हीनम् । 'धुञ् कम्पने' । हस्वादिः । 'धू विधूनने' । दीर्घादिः, तुदादिः ॥ उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपि- [तम्। उक्तषट्कमभिहिते । वदेः उदितम् ।। वुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगतम् ॥ बुद्धसप्तकं बुद्धे । 'बुध अवगमने' । बुद्धम् । 'बुध बोधने' । बुधितम् । मनःशब्दात् 'तत् करोति-' इति णिचि टिलोपः । मनितम् । 'विद ज्ञाने' । विदितम् । 'यो अन्तकर्मणि' । अवसितम् ॥ ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् । सङ्कीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥१०६॥ ऊरीकृतैकादशकमङ्गीकृते । ऊरीकृतं दीर्घादि । अन्यथार्याभङ्गः ।
विशेष्यनिध्नवर्गः १] टीकासर्वस्वास्यव्याख्यासमेतम् । ४२ "क्रीडयापि न वैद्येन वितथा वागुरीकृता । हन्तुं चारिमृगान् बाणसन्ततिर्वागुरीकृता ॥" इति कीचकवधे यमकाद् ह्रस्वादि च । शृणोतेः, आश्रुतसंश्रुतोपश्रुताः । 'गृ शब्दे' । दीर्घादिः । गीर्णम् ॥ इंडितशस्तपणाथितपनायिताः प्रणुतपणितपनितानि । अभिगीर्णवर्णिताभिष्टुतडितानि स्तुतार्थानि॥१०७॥ ईडितद्वादशकं स्तुते । 'ईड स्तुतौ' । ईडितम् । इडितं च । 'पन स्तुतौ' । 'पण व्यवहारे' । धूपायितधूपितवत् पणायितपनायितपणितपनि- तानि । नौतेः प्रणुतम् ॥ भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्। अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥ १०८॥ भक्षितचतुर्दशकं भक्षिते । प्रत्यवपूर्वः स्यतिरभ्यवहारे । 'गिल अदने' । गिलितम् । 'प्सा भक्षणे' । प्सातम् । 'अन्नाण्णः' (४. ४. ८५) इति निपातनाद् जग्ध्यादेशाभावपक्षे अन्नम् । 'अदो जग्धिय॑प् ति किति' (२. ४. ३६) इति जग्धादेशः । जग्धम् । 'प्रसु ग्लसु अदने' । अस्तं ग्लस्तं च ॥ क्षेपिष्टक्षोदिष्टप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः । क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः ॥१०९॥ क्षेपिष्ठादयः षड् यथाक्रमं क्षिप्रादीनामतिशये । प्रकर्षोऽतिशयः । तद् यथा अतिशयितः क्षिप्रः क्षेपिष्ठः । अतिशयितं क्षुद्रं क्षोदिष्ठ- मित्यादि ॥ साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठहसिष्ठवृन्दिष्ठाः । बाढव्यायतबहुगुरुवामनबृन्दारकातिशये ॥ ११ ॥ साधिष्टादयः षड् यथाक्रमं बाढादीनामतिशये । अतिशयेन चातिशयी लक्ष्यते । तद् यथा - अतिशयेन बाढं दृढं साधिष्ठम् । H ५० नामलिङ्गानुशासनं [तृतीयं काण्ड अतिशयेन दीर्घ द्राधिष्ठमित्यादि । इष्ठनि, 'स्थूलदूरयुवह्रस्वक्षुद्रक्षिप्राणां यणादिपरं पूर्वस्य च गुणः' (६. ४. १५६)। (प्रेष्ठादिः) प्रियस्थिरस्फिरोरुबहु- लगुरुवृद्धतृप्रदीर्घवृन्दारकाणांप्रस्थस्फर्बहिगवर्षित्रद्राधिबृन्दाः (६. ४. १५७) इति प्रेष्ठादि । 'अन्तिकबाढयोर्नेदसाधौ' (५. ३. ६३) इति साधादेशे साधिष्ठः ॥ इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे विशेष्यनिघ्नवर्गः ॥ अथ सङ्कीर्णवर्गः। प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् । सङ्कीर्ण इति । लिङ्गसङ्कीर्णे भिन्नजातीयेन संसृष्टे रूपभेदादिना निश्चेतुमशक्ये इह चान्यत्र च प्रकृतिप्रत्ययाथैलिङ्गमुन्नयेत् , लिङ्गविशे- पमवधारयेदित्यर्थः। प्रकृत्यर्थवशेन यथा अपरस्पराः सार्था गच्छन्ती- त्यादेवाच्यलिङ्गता । प्रत्ययार्थवशेन यथा-शान्तिः दान्तिः। क्तिन्नन्तत्वात् स्त्री- त्वम् । प्रायेणात्र प्रकृतिप्रत्ययार्थाधैर्लिङ्ग समुन्नीयत इत्यत्रैव चेदमुक्तम् । यद्यप्यत्र रूपभेदादिनैव लिङ्गनिर्णयः, (६) तथाप्यभ्युच्चयार्थमुक्तम् । अपरस्परा इत्यादौ न रूपभेदादिना विवक्षितलिङ्गप्रतीतिः । तथाहि, अत्र पुल्लिङ्गमात्रप्रतीतेः । प्रकृत्यर्थेन लिङ्गमुन्नयेदिति वचनादपरस्पराणि ब्राह्मणकुलानि वहन्तीति नपुंसकत्वमपि । एवं स्यूत्यादीनामपि न रूपभेदाल्लिङ्गावगतिः, अपितु स्त्रीप्रत्ययार्थेनैव । अत्र च सङ्कीर्ण इत्युपलक्षणम् । तेन पूर्ववर्गेऽपि कचित् प्रकृतिप्रत्ययार्थाद्यैर्लिङ्गमुन्नयेत्, यत्र रूपभेदादिना लिङ्गनिश्चयाभावः । 'तद् यथा - 'मुत् प्रीतिः प्रमदो हर्षः' इत्यादौ मुत्प्रीत्यादीनां स्त्रीत्वा- दिकम् । यच्चोक्तं लिङ्गादिसङ्ग्रहे 'स्त्रीभावादावनिक्तिन्' इत्यायूह्य , तत एव स्यूत्यादीनां स्त्रीत्वादिकमवगम्यते । तत् किमत्र प्रत्ययार्थेन लिङ्गमुन्न. येदित्युच्यते । तन्न । यतस्तदेवानेन स्मर्यते । आद्यशब्देन व्यक्तलिङ्गेन सामानाधिकरण्यं लिङ्गशास्त्रं परस्परसाहचर्यादि च गृह्यते । तेन 'शुचिस्त्वय- १. 'रा' क. स. ग. ह. छ. न. ट. पाठः, संकीर्णवर्गः २] टीकासर्वस्वाख्यव्याख्यासमेतम् । माषाढे 'तस्य बृन्दमित्यौपगवादिषु शुच्यौपगवादीनां पुंस्त्वक्लीबत्वमवधार्यते । अथ कथमयं सङ्कीर्णवर्ग इत्युच्यते । सङ्कीर्णैः सङ्कीर्णाथैः शब्दैरारब्धत्वात् । कथमेत एव सङ्कीर्णार्थाः । भिन्नार्थत्वात् । भिन्नजात्यर्थसंसर्ग एव हि सङ्करः । पूर्वं च सक्रियाङ्गानां (?) वर्णानां भूम्यादेश्च वस्तुनः प्रकरणबद्धाः समानार्थाः शब्दाः क्रमेणोक्ताः । एते च नैकप्रकरणबद्धाः । तथाच क्रियत इति कर्म । मनिनन्तः कर्मशब्दः । कृतिः क्रियेति 'कृमः श च' (३. ३. १००) इति भावप्रत्ययान्तः क्रियाशब्दः । 'अपरस्पराः क्रियासातत्ये' (६. १. १४४) इति क्रियासातत्ये गम्यमाने सततगमनादिक्रियासाधने सार्थादावपरस्परशब्दो वर्तते अपरे च परे चै अपरस्पराः सार्था गच्छन्तीति । यद्येवं क्रमाभावादिह लिङ्ग- सङ्करो न युक्तः । यदुक्तं -- 'न सङ्करः, कृतोऽत्र भिन्नलिङ्गानाम्' इति, उच्यते । यद्यपि वस्त्वर्थानां क्रमेणाभिधानमिह नास्ति, तथापि भावाभावा- भिधायिनोऽत्र निबद्धा इत्यस्त्येव शब्दानां क्रमाभिधानमिति ॥ कर्म क्रिया कर्मद्वयं क्रियायाम् । "कर्म व्याप्ये क्रियायां च पुन्नपुंसकयोर्मतम् " इति रुद्रः । "क्षपयत्यशुभं कर्म कर्मणां चिनुते शुभम्" इति च । क्रिया प्राक् साधिता ॥ तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ तच्छब्देन क्रिया परामृश्यते । अविच्छेदेन क्रियासमापकेषु सादिषु अपरस्पराः। "निर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम् " इति भागुरिः । "अपरस्परा गदिता क्रियासातत्यवाचिका" इत्यमरमाला । एतद्वर्गादिस्थश्लोकव्याख्याने अपरस्परं सुव्यक्तम् । अत्र सकृदर्थे न सुट् । अपरपरा अपरपरे इत्येव रूपम् ।। ----- १. 'नाः श' म. पारः. २. 'चेति' घ, ङ, पाठः.
ઉરું नामलिङ्गानुशासनं [तृतीयं काण्ड साकल्यासङ्गवचने पारायणपरायणे । यथाक्रमं साकल्यवचनं पारायणम् , आसङ्गवचनं परायणम् । पारं पर्यन्तमयते गच्छत्यत्रेति पारायणम् । यथा धातुपारायणम् । "रत्नपारायणं नाम लङ्केयं मम मैथिलि!" (स० ५. श्लो० ८९) इति भट्टिप्रयोगादाविष्टलिङ्गम् । अत्र सकलरलार्थो गम्यत इति साकल्यवच- नत्वम् । परम् अयनम् आसक्तिस्थानं परायणम् । यथा धर्मपरायणो धर्मासक्त इत्यर्थः । 'अथ मोहपरायणा' (कुमा० स० ४. श्लो० १) इति कालिदासः ॥ यदृच्छा स्वैरिता यदृच्छाद्वयं स्वाच्छन्द्ये ॥ हेतुशून्या त्वास्या विलक्षणम् ॥ २॥ हेतुना कारणेन शून्या निष्प्रयोजना आस्या स्थितिः विलक्षणम् ॥ शमथस्तु शमः शान्तिः कामक्रोधादिपध्वंसे शमथत्रयम् । बाहुलकोऽथः । शमथः । श- त्रयं तालव्यम् ।। दान्तिस्तु दमथो दमः। ब्रह्मचर्यादिक्लेशसहिष्णुतायां दान्तित्रयम् ॥ अवदानं कर्म वृत्तं वृत्तं विशुद्धं कर्म, तदवदानम् । 'दैप् शोधने' । ल्युट् ॥ काम्यदानं प्रचारणम् ॥३॥ तन्त्रेण काम्यशब्दो द्विरावर्त्यते । तेन काम्यस्य वस्तुनः कामनापूर्वकं दानं प्रचारणम् । महादानं च तदुच्यते । ‘प्रचारणं महादानम्' इति त्रिकाण्डम् ॥ यशक्रिया संवदनं मणिमन्त्रादिभिर्वशीकरणे वशक्रियाद्वयम् । भावल्युटि संवदनम् । जा... mr.
संकीर्णवर्गः२] टीकासर्वस्वाख्यव्याख्यासमेतम् । me- करणल्युटि वशक्रियासाधनेऽपि मन्त्रादौ । तथाच 'जयश्रियः संवदनं यतस्तत् ' (स ० १६. श्लो० ७४) इति रघुः ।। मूलकर्म तु कार्मणम् । कामणेति ख्याते मूलकमद्वयम् । मूलकर्म नान्तम् । 'तद्युक्तात् कर्म- णोऽण्' (५. ४. ३६) इति स्वार्थेऽण। 'अन्' (६. ४. १६७) इति प्रकृति. भावः । कार्मणम् ॥ विधूननं विधुवनं विधूननद्वयं कम्पने । 'धूपीओर्नुम् वक्तव्यः' (वा० ७. ३. ३७) इति नुक् । विधूननम् । कुटादित्वाद् गुणाभावः । एवं स्फुटनस्फु- रणगुरणेषु ॥ तर्पणं प्रीणनावने ॥४॥ तर्पणत्रयं प्रीणने । विधूननवन्नुक् । प्रीणनम् । “अव रक्षणगति- प्रीत्यादौ' । अनेकार्थत्वाल्ल्युट् । अवनम् ॥ पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि । मरणोद्यतस्य निषेधे पर्याप्तित्रयम् । यथा 'पर्याप्तो नु सुहृदं महाभागः' इति ॥ सेवनं सीवनं स्यूतिः सेवनत्रयं सीवनक्रियायाम् । 'अन्येषामपि (६. ३. १३७) इति दीर्घत्वे सीवनम् ॥ विदः स्फुटनं भिदा ॥५॥ वस्त्रादेः स्फुटने विदरत्रयम् । दरवद् विदरः । स्फुटनं कुटादि । मिदाद्यङि भिदा ॥ आक्रोशनमभीषणः नामलिङ्गानुशासनं [तृतीयं काण्ड . आक्रोशनद्वयं शापे । 'सञ्ज सङ्गे । घजि घत्वे अभीषङ्गः ॥ संवेदो वेदना न ना। संवेदद्वयमनुभवे । 'धट्टि वादिविदिभ्य उपसङ्ख्यानम्' (वा० ३. ३. १०७) इति युचि वेदना । न ना न पुमानित्यर्थः । संसूर्छनमभिव्यातिः सर्वतो व्यापने संमूर्छनद्वयम् । 'मुर्छा मोहसमुच्छ्राययोः ॥ याच्या भिक्षार्थनार्दना ॥ ६॥ याच्नाचतुष्कं याचनायाम् । 'अर्द गतौ याचने च' । 'हेतुमति च' (३. १. २६) इति चकारात् स्वार्थणिचि अर्दना ॥ वर्धनं छेदने वर्धनद्वयं छेदने । 'वर्धच्छेदनपूरणयोंः' । चुरादिः । वर्धनम् ॥ अथ दे आनन्दनसभाजने । आमच्छनम् आनन्दनत्रयं संवर्गणे । सवर्गणं च बान्धवादेरालिङ्गनचुम्बनस्वागत- भाषणादि । आमन्त्रणमिति काचेत् पाठः । 'समाज प्रीतिसेवनयोः' । चुरा- दिणिच् । सभाजनम् ॥ अथाम्नायः संप्रदायः शिष्यपरम्परागते सदुपदेशे आम्नायद्वयम् । 'म्ना अभ्यासे' । घञ् ॥ क्षये क्षिया ॥७॥ क्षयद्वयमपचये । क्षय उक्तः । षित्त्वादङि क्षिया ॥ 'वन्दिवि' इति मुद्रितवार्तिकपाकः ।
सङ्कीर्णवर्गः २]] टीकासर्वस्वास्यव्याख्यासमेतम् । ग्रहे ग्राहः ग्रहद्वयं ग्रहणे निवन्धे च । बाहुलकाद् घञ् । ग्राहः। तथाच 'कण्ठे स्वयंग्राहनिषक्तबाहुम्' इति ॥ वशः कान्तौ वशद्वयमिच्छायाम् । 'वश कान्तौ' । 'वशिरण्योरुपसङ्ख्यानम्' (वा० ३. ३. ५८) इत्यप् । वशः ॥ रक्ष्णस्त्राणे रक्ष्णद्वयं रक्षणे । 'यजयाच --' (३. ३.९०) इत्यादिना नङ् । रक्ष्णः ॥ रणः कणे। कणने शब्दकरणे रणद्वयम् । वशवदप् । रणः ॥ व्यधो वेधे व्यधद्वयं वेधने । जपवद् व्यधः । 'विध विधाने' । घञ् । वेधः ॥ पचा पाके पचाद्वयं पचने । पित्त्वादङ् । पचा । घञि पाकः ॥ हवो हूतौ हवद्वयं हवने ॥ वरो वृतौ ॥८॥ वरद्वयं वरणे। वेष्टने प्रार्थनाविशेषे चेत्यन्यः ।। ओषः प्लोषे ओषद्वयं दाहे । घञ् ॥ नयो नाये नयद्वयं नीतौ । बाहुलकाद् ‘एरच्' (३. ३. ५६)। नयः। 'श्रिणी- मवोरनुपसर्गे' (३. ३. २४) इति पनि नायः ।।
नामलिङ्गानुशासन तृतीयं काण्ड ज्यानिर्जीणों ज्यानिद्वयं जीर्णतायाम् । 'ग्लाम्लाज्याहाभ्यो निः' (वा० ३. ३. ९५) । ज्यानिः । 'जृष् वयोहानौ' । क्तिन् । 'ऋकारल्वादिभ्यः क्तिन् निष्ठावद् भवतीति वक्तव्यम् ' (वा० ८. २. ४४) इति निष्ठातिदेशाद् नत्वम् । जीणिः॥ भ्रमिभ्रमे। भ्रमिद्वयं भ्रमणे। *'इक् कृष्यादिभ्यः' (वा० ३. ३. १०८) इतीक् । भ्रमिः । तत्र भ्रमी गौरादिरपि ।। स्फातिवृद्धौ स्फातिद्वयं दृद्धौ । 'स्फायी ओप्यायी वृद्धौ । क्तिन् । स्फातिः ।। प्रथा ख्याती प्रथाद्वयं ख्यातौ । 'घटादयः षितः' । षित्त्वादङ् । प्रथा ॥ स्पृष्टिः पृक्ती स्पृष्टिद्वयं स्पर्शे । 'पृची संपर्के' । क्तिन् । पृक्तिः ॥ स्र गतौ । लवः स्रवे ॥९॥ नवद्वयं स्रवणे । 'ऋदोरप्' (३. ३. ५७)। नवः । सवः । बाहुलकघञि स्रावोऽपि ॥ विधा समृद्धी विधाद्वयं समृद्धौ । विधानं विधा । 'आतश्चोपसर्गे' (३. ३. १०६) इत्यङ्॥ स्फुरणं स्फरणे स्फुरणद्वयं किश्चिञ्चलने । 'स्फुर स्फुरणे' । कुटादिः । उदुपधान्तः । ल्युट् । स्फुरणम् । अदुपधान्तः स्फर इत्येके । ल्युट् । स्फरणम् ॥ 'ऋल्वा, 'इत् कृ' इति मुद्रितवार्तिकपाठः ।
सङ्कीर्णवर्गः२] टीकासवस्वाख्यव्याख्यासमेतम् । पमिती प्रमा। तत्त्वानुभूतौ प्रमितिद्वयम् । बाहुलकात् क्तिन् । प्रमितिः । अनि प्रमा॥ प्रसूतिः प्रसवे प्रसूतिद्वयं प्रसवे ॥ इच्योते प्राधारः श्च्योतद्वयं घृतादिक्षरणे । 'श्च्युतिर् क्षरणे' । श्च्योतः । 'गृ घृ सेचने । घनि 'उपसर्गस्य घञ्यमनुष्ये बहुलम् ' (६. ३. १२२) इति दीर्घत्वे प्राधारः॥ क्लमथः क्लमे ॥१०॥ क्लमथद्वयं प्रयासे ॥ उत्कर्षोऽतिशये उत्कर्षद्वयमतिशये । कृषेर्घञ् । उत्कर्षः। शीडोऽतिशयः ।। सन्धिः श्लेषे सन्धिद्वयं सन्धाने ॥ विशय आशये। यथा आमाशयो जलाशयः । शेतेरच् । विशयः आशयः । आश्रय इति पाठे श्रिञो रूपम् ॥ क्षिपायां क्षेपणं क्षिपाद्वयं प्रेरणे । 'क्षिप प्रेरणे' । भिदादिः ॥ गीणिगिरी गीर्णिद्वयं गिलने । जीणिवद् गीर्णिः । गिरिः कृष्यादिः ।। I नामलिङ्गानुशासनं [तृतीयं काण्ड गुरणमुद्यमे ॥११॥ गुरणद्वयमुद्यमने । ''गुरै उद्यमने' । कुटादिः । ल्युटि गुरणम् । दीर्घोपधपाठे 'गूर उद्यमने' इत्यत्र चुरादौ व्युत्पाद्यः । यमेपनि उद्यमः । 'अड उद्यमे' इति निपातनादू वृद्ध्यभावः ।। उन्नाय उन्नये उन्नायद्वयमुन्नायने । 'अवोदोर्नियः' (३. ३. २६) इति पनि उन्नायः । बाहुलकाद् ‘एरच्' (३. ३. ५६) । उन्नयः ।। श्रायः श्रयणे श्रायद्वयमाश्रयणे । 'श्रिणी- (३. ३. २४) इत्यादिना घमि भायः॥ जयने जयः। जयनद्वयं जये । 'जि जिये' । ल्युडचौ ।। निगादो निगदे निगादद्वयं शब्दने । 'नौ गदनद -' (३. ३. ६४) इत्यादिना पक्षेऽच् ॥ मादो मदे मादद्वयं ददँ । उत्तरपदाधिकारे 'सधमादस्थयोश्छन्दसि' (६. ३. ९६) इति निपातनाद् घञि मादः । 'मदोऽनुपसर्गे' (३. ३. ६७) इत्यप् । मदः ॥ उद्वेग उद्ममे ॥ १२॥ उद्वेगद्वयं चमत्कारे॥ १. 'रू' अ., 'स' क. ख. पाट:. २. 'दो ल्युट् व्यु' ङ. पाठः + 'गुरी' इति मुद्रितधातुपाठः ।। Arum सङ्कीर्णवर्गः२] टीकासर्वस्वाख्यव्याख्यासमेतम् । विमर्दनं परिमले विमर्दनद्वयं कुङ्कुमादिमर्दने । परिमलः। ‘मल मल्ल धारणे' । घन् । संज्ञापूर्वकत्वाद् न वृद्धिः ॥ अभ्युपपत्तिरनुग्रहः। अभ्युपपत्तिद्वयं दानाद्यनुग्रहे ॥ निग्रहस्तु निरोधः स्याद् अननुग्रहे निग्रहः ॥ अभियोगस्त्वभिग्रहः ॥१३॥ अभियोगद्वयमुद्योगे । येनाभियुक्तश्चात्र इत्युच्यते । आभिमुख्येन युदादिनिमित्तं प्रवृत्तिरित्यपरे ।। मुष्टिबन्धस्तु सङ्ग्राहः मुष्टिबन्धद्वयं मुष्टेबन्धने । दृढत्वे 'समि मुष्टौ' (३. ३. ३६) इति घम् । "स्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम्" (स० ७. श्लो० ४०) इति भट्टिः । 'खटको मुष्टिः स्त्रियां च संग्राह' इति वोपालितो मुष्टावेव पठति ॥ डिम्बे डम्बरविप्लवौ। परचक्रादिजे महाभये चाठक इति ख्याते डिम्बत्रयम् । डिम्ब मूर्धन्यादि पवर्गतृतीयवच्च ॥ बन्धनं प्रसितिश्चारः येन निगडादिना बध्यते, तत्र बन्धनत्रयम् । 'समे तूद्दानबन्धने' इत्यनेन बन्धनक्रियायां प्रागुक्तः । 'पिन् बन्धने' । क्तिन् । प्रसितिः । चार उक्तः । 'बन्धापसव्ययोश्चार' इति रुद्रः ।।
नामलिङ्गानुशासनं तृतीयं काण्ड स्पर्शः स्पष्टोपतप्तरि ॥ १४ ॥ स्पर्शत्रयं रोगे । तथाच रुद्रः 'रुजायां स्पर्शी दानस्पर्शयो- रपि' इति । 'स्पृश उपताप इति वक्तव्यम्' (वा०३. ३.१६) इति घन् । स्पर्शः । वासरूपविधिना च तृच् । 'अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्' (६. १. ५९) इति पक्षे स्प्रष्टा । उपतापकमात्रे स्पर्शत्रयमित्यन्यः। कश्चित् पुनरि- दमाह - चरणानां कर्मणि चारस्पर्शी । स्प्रष्टद्वयमुपतापकारिणि ॥ निकारो विप्रकारः स्याद् निकारद्वयमपकारे । कृो घञ् ॥ आकारस्त्विङ्ग इङ्गितम् । आकारत्रयमिङ्गिते । अन्यस्तु अप्रियार्थसूचके चक्षुरादिचेष्टाविशेष इङ्गितं, भ्रुकुटिमुखरागादौ आकार इति मन्यते । 'इङ्गितं चेष्टितादन्यदाकारस्त्वङ्गवैकृतम्" इति तन्त्रान्तरं च । "तस्य संवृतमन्त्रस्य गूढाकारोङ्गितस्य च" (रघु० स० १. श्लो. २०) इति कालिदासोऽपि ॥ परिणामो विकारे परिणामद्वयं विकारे । प्रकृतेश्चान्यथात्वं विकारः । यथा मृत्पिण्ड- विकारो घटः, काष्ठस्य भस्म ॥ हे समे विकृतिविक्रिये ॥१५॥ विकृतिद्वयं प्रकृतेरन्यथात्वमात्रे । तच्च नावश्यं परिणामरूपमेव । यथा मुखस्य विकृतिः । 'अमार्गो विक्रिया स्त्रियाम्' इत्यमरमाला । अत उन्मार्गे द्वयमित्यन्यः । चत्वारोऽप्येकार्थे इत्यपरः ॥ wapan १. 'गे' म. पाठः.
सङ्कीर्णवर्गः२] टीकासर्वस्वाख्यव्याख्यासमेतम् । अपहारस्त्वपचयः अपहारद्वयमपचये ॥ समाहारः समुच्चयः। समाहारद्वयं कूटीकरणे । यथा श्लोकसमुच्चयादिः । प्रत्याहार उपादानं विषयेभ्य इन्द्रियाहरणे प्रत्याहारद्वयम् ।। विहारस्तु परिक्रमः॥ १६ ॥ पद्भयां गमने विहारद्वयम् । अभिहारोऽभिग्रहणं अन्नाहारेऽभिहारद्वयम् । चौर्यकरणे वा । अभिमुखग्रहणे वैत्यन्यः ॥ निर्यारोऽभ्यवकर्षणम् । शल्यादेरुत्पाटने निर्हारद्वयम् ॥ अनुकारोऽनुहारः स्याद् अनुकारद्वयं सादृश्ये॥ अर्थस्थापगमे व्ययः ॥ १७॥ अर्थस्यापगमे व्ययः । 'व्यय वित्तसमुत्सर्गे' । चुरादिणिच् । 'अतो लोपः' (६. ४. ४८) इत्यकारलोपः। प्रवाहस्तु प्रवृत्तिः स्यात् जलादीनामविच्छिन्नायां सन्ततौ प्रवाहद्वयम् । प्रवाहो घअन्तः । प्रवहो गमनं बहिः। 1. 'कटिक' घ, ज., 'कु'. पाठः. ... पाठ..
६२ मामलिङ्गानुशासनं तृतीयं का गृहनगरादेबाह्यगमनं यात्रा प्रवहो बाहुलकादपि । 'प्रवहः स्याद् बहिर्यात्रा' इति त्रिकाण्डः ॥ वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥ वियामषट्कं संयामे । 'यमः समुपनिविषु च' (३, १. ६३) इति पक्षेऽप् ॥ हिंसाकर्माभिचारः स्याद् अथर्ववेदोक्तं हिंसात्मकं कर्माभिचारः ॥ जागो जागरा द्वयोः । १. जागर्याद्वयं जागरे । 'जागर्तेरकारो वेति वक्तव्यम्' (वा० ३. ३. १०१) इति शप्रत्ययाकारप्रत्ययौ । शपक्षे 'सार्वधातुके यक्' ६७) इति यक् । 'जाग्रोऽविचिण्णल्डित्सु' (७. ३. (५) इति गुणे जा- गर्या । परत्वाद् 'रिङ् शयग्लिङ्घ' (७.४.२८) इति रिङि जानियेति धातु- पारायणम् । अकारप्रत्ययपक्षे जागरेति ॥ विनोऽन्तरायः प्रत्यूहः विघ्नत्रयं विघ्ने । 'घर्थे कविधानम्' (वा० ३. ३. ५८) इति कः । विनः॥ स्यादुपनोऽन्तिकाश्रये ॥ १९ ॥ समीपभूत आश्रये उपनः । 'उपन्न आश्रये' (३. ३. ८५) इत्यप्रत्ययान्तो निपातितः ।। निर्वेश उपभोगः स्यात् निर्वेशद्वयमुपभोगे । घम् ॥ परिसर्पः परिक्रिया।
सङ्कीर्णवर्गः२] टीकासर्वस्वाख्यव्याख्यासमेतम् । परिजनादिवेष्टने परिसर्पद्वयम् । 'गम्ल सृप्ल गतौ' । घनि परिसर्पः ॥ विधुरं तु प्रविश्लेषः दुःस्थितकाद् विक्लवत्वे विधुरद्वयम् । प्रकृष्टो विश्लेषः प्रविश्लेषः । "वैकल्येऽपि च विश्लेषे विधुरं विकचे त्रिषु" इति त्रिकाण्डशेषः॥ : अभिप्रायश्छन्द आशयः ॥ २० ॥ अभिप्रायत्रयमभिप्राये । छन्दोऽदन्तः । “अभिप्रायवशौ छन्दौ' इत्यनेकार्थे वक्ष्यति । सान्तोऽप्यभिप्रायवाची. छन्दश्शब्द इति जयादित्यः ।। संक्षेपणं समसनं विस्तीर्णस्य संक्षेपे संक्षेपणद्वयम् ।। पर्यवस्था विरोधनम् । पर्यवस्थाद्वयं विरोधने । अडि पर्यवस्था । परिसर्या परीसारः भूमौ सर्वतो भ्रमणे परिसर्याद्वयम् । परिचर्यावत् परिसर्या । 'उप- सर्गस्य -' (६. ३. १२२) इत्यादिना दीर्घत्वे परीसारः ॥ स्यादास्या त्वासना स्थितिः॥२१॥ आस्यात्रयमुपवेशने । 'आस उपवेशने । भावे ण्यत् । आस्या । 'ण्यासश्रन्थो युच्' (३. ३. १०७) । आसना । 'स्थागापापचो भावे' (३. ३.९५) इति क्तिन् । स्थितिः ।। विस्तारो विग्रहो व्यास: विस्तारत्रयं पटादीनां विस्तीर्णतायाम् । 'प्रथने वावशब्दे' (३. ३, ३३) इति पञ् । विस्तारः । 'अस क्षेपणे' । घन । व्यासः ।।
६४ नामलिङ्गानुशासनं तृतीयं का स तु शब्दस्य विस्तरः। स च व्यासो न शब्दसम्बन्धी विस्तारः । शब्दविषये तु अशब्द इति निषेधादबेव भवति । यथा वाचां विस्तरः ।। स्थान्मर्दनं संवाहनं मर्दनद्वयं मर्दने । 'वाह प्रयत्ने' । भावे ल्युट् । संवाहनम् । संव- हनमित्यपपाठः । वहेर्मर्दने वृत्त्यभावात् ॥ विनाशः स्यादर्शनम् ॥ २२ ॥ विनाशद्वयं लु(क्ताता)यने । तथाहि नश्यतिरदर्शने वर्तते । प्रयुक्तं च भट्टिना- 'ननाश शत्रुर्ददृशे सुवेलः' इति । तिरोबभूवेत्यर्थः ॥ संस्तवः स्यात् परिचयः संस्तवद्वयं परिचये ॥ प्रसरस्तु विसर्पणम् । स्वल्पविटपादेर्वर्धने प्रसरद्वयम् ॥ नीवाकस्तु प्रयामः स्यात् महार्णाद् धान्यादिषु जलादीनामतिशये नीवाकद्वयम् । 'वच परिभाषणे । घनि दीर्घत्वे नीवाकः ॥ संनिधिः संनिकर्षणम् ॥ २३ ॥ संनिधिद्वयं संनिधौ । संनिधिर्ना ॥ लवोऽभिलावो लवने लवत्रयं धान्यादीनां छेदने । 'ऋदोरप्' (३. ३. ५७) । लवः । 'निरभ्योः पूल्योः' (३. ३. २८) इति पनि अभिलावः ॥
सङ्कीर्णवर्गः २] टीकासर्वस्वाख्यव्याख्यासमेतम् । १५ निष्पावः पवने पवः। धान्यादीनां पूतीकरणे बहुलीकरणादौ निष्पावत्रयम् । घञ्- ल्युडपः॥ प्रस्ताव: स्यावसरः प्रस्तावद्वयमवसरे। 'प्रे द्रुस्तुनुवः' (३. ३. २७) इति पञ् । प्रस्तावः ।। तसरः मूत्रवेष्टनम् ॥ २४ ॥ तन्तुवायानां तसलीति ख्याते तसरद्वयम् । 'तन्य॒षिभ्यां क्सरन्' (उ० ३. ७५) । एवं तसरोऽसंयोगादिरुणादावुक्तः । 'त्रसी उद्वेगे' । बाहुलकोऽरः । सर इत्यन्यः ।। प्रजनः स्यादुपसरः स्त्रीगवीषु पुंगवानां प्रथमगमने प्रजनद्वयम् । भावे पनि 'जनि- वयोश्च' (७. ३. ३५) इति वृद्धिप्रतिषेधः । प्रजनः पुमान् । क्लीबं त्व- पपाठः । 'प्रजने सर्तेः' (३. ३. ७१) इत्यप् । उपसरः ॥ प्रसरः प्रणयः समा। प्रसरद्वयं प्रश्रये ॥ धीशक्तिनिष्क्रमः "शुश्रूषा श्रवणं चैव ग्रहणं धारण तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥" धीगुण एव धीशक्तिः, तत्र निष्क्रमः ।। अस्त्री तु संक्रमो दुर्गसंचरः॥२५॥ संक्राम इति ख्याते संक्रमद्वयम् ॥ प्रत्युत्क्रमः प्रयोगार्थः १. 'ति' ज. पाठः. २. ''म. पाठः. ३. 'निषेधे प्रज', पाठः.
६६ नामलिङ्गानुशासनं तृतीयं काण्ड प्रकृष्टप्रयोगो युद्धं, तदर्थं यत् प्रत्युपक्रमणं तत् प्रत्युत्क्रमः । 'प्रत्यु- स्क्रमः प्रयुद्धार्थम् ' इति भागुरिः ।। प्रक्रमः स्यादुपक्रमः। प्रथमारम्भे प्रक्रमद्वयम् ॥ स्याभ्यादानमुद्धात आरम्भ आरम्भमात्रेऽभ्यादानत्रयम् । पञ्चैवारम्भमात्रे इत्यन्यः ।। संभ्रमस्त्वरा ॥२६॥ संभ्रमद्वयं संभ्रमे । घटादेः षित्त्वादङ् । त्वरा ॥ प्रतिबन्धः प्रतिष्टम्भः कार्यप्रतीघाते प्रतिबन्धद्वयम् । 'स्तन्भेः' (८. ३. ६७) इति षत्वे प्रतिष्टम्भः ॥ अवनायस्तु नियातनम् । अधोनयेऽवनायद्वयम् । 'अवोदोर्नियः' (३. ३. २६) इति घञ् । अवनायः ॥ उपलम्भस्त्वनुभवः उपलम्भद्वयमनुभवे । उपलम्भादौ 'उपसर्गात् खल्धोः' (७. १. ६७) इति नुम् ॥ समालम्भो विलेपनम् ॥२७॥ कुङ्कुमादिना गात्रघर्षणे समालम्भद्वयम् ॥ विप्रलम्भो विप्रयोगः स्त्रीपुंसयोर्विरहे विप्रलम्भद्वयम् ॥ विलम्भस्त्वतिसर्जनम् । विलब्धौ विलम्भद्वयम् ॥ विश्रावस्तु प्रविख्यातिः अतिशयितायां प्रसिद्धौ विश्रावद्वयम् । 'वौ क्षुश्रुवः' (३. ३. २५) इति घञ् । विश्रावः ॥
सङ्कीर्णवर्ग:२] टीकासर्वस्वाख्यव्याख्यासमेतम् । ६७ अवेक्षा प्रतिजागरः॥ २८ ॥ अवेक्षाद्वयं प्रत्यवेक्षणे ॥ निपाठनिपठौ पाठे निपाठत्रयं पठने ॥ तेमस्तमौ समुन्दने । तेमत्रयमार्दीभवने । 'तिम ष्टिम आर्द्रभावे' । घञ् । 'उन्दी केदने। ल्युट् ॥ m आदीनवास्रवौ क्लेशे आदीनवत्रयं रोगादिक्लेशे । अत्यन्तदीना दरिद्राः सन्त्यत्रेति आदी- नवः।वप्रकरणे 'अन्येभ्योऽपि (वा० ५. २. १०९) इति मत्वर्थीयो वः ।। मेलके सगसंगमौ ॥२९॥ मेलकत्रयं सङ्गमे । 'मिल सङ्गे' । घञ् । स्वार्थे कः । मेलकः ।। संवीक्षणं विचयनं मार्गणं मृगणा मृगः। अपहृतवस्तुनस्तात्पर्यान्वेषणे संवीक्षणपञ्चकम् । 'मार्ग अन्वेषणे'। मार्गणम् । 'मृग अन्वेषणे''। चुरादिरदन्तः । युचि मृगणा । ण्यन्ताद् घनि णिलोपः। मृगः ॥ परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम् ॥ ३० ॥ परिरम्भचतुष्टयमालिङ्गने । 'रभेरशब्लिटोः' (७. १.६३) इति नुम् । परिरम्भः । 'उपसर्गात् सुनोति-' (८. ३.६५) इत्यादिना षत्वे परिष्वङ्गः । 'गुहू संवरणे' । लघूपधगुणः । तस्य च 'ऊदुपधाया गोहः' (६. ४. ८९) इत्यूत्त्वम् । उपगृहनम् ।। निवर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । निवर्णनपञ्चकं दर्शने ॥ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥ ३१ ॥ प्रत्याख्यानचतुष्कं निराकरणे । 'असु क्षेपणे' । निरसनम् ॥
नामलिङ्गानुशासनं [तृतीयं काण्ड । उपशायो विशायश्च पर्यायशयनार्थको। उपशायद्वयं क्रमात् प्रहरिकादीनां शयने । 'व्युपयोः शेतेः पर्याये' (३. ३. ३९) इति घञ् ।। अर्तनं च ऋतीया च हृणीया च घृणार्थके ॥३२॥ घृणा जुगुप्सा तदर्थे अनित्रयम् । ऋतिः सौत्रः । ल्युट । अर्तनम् । 'ऋतेरीयङ् (३. १. २९) इतीयाङ ऋतीया । 'हृणीङ् लज्जायाम्' । क- ण्डादिः । ततो यगन्तादप्रत्यये हृणीया। ऊप्मादिः ।। स्याद् व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । अन्यस्यान्यस्य रूपेण ग्रहे विपर्यासचतुष्कम् । अस्यतेपञ् । विप- र्यासः । 'इण् गतौ' । 'एरच्' (३. ३. ५६) । विपर्ययः ॥ पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥३३॥ पर्थयचतुष्कं व्यतिक्रमे । पूर्वमानुपूर्व ? वी)प्रक्रमेणानुक्रमादय उक्ताः, इह तु व्यत्ययप्रक्रमेण पर्ययः । 'परावनुपात्यय-' (३. ३. ३८) इत्यनुक्रमे घन् । इह तु 'एरच् ' (३.३. ५६) । पर्ययः ।। प्रेषणं यत् समाहृय तत्र स्यात् प्रतिशासनम् । (भर्तारन्विता भृत्यादीनां) यत् प्रेषणं, तत् प्रतिशासनम् ॥ संस्तावस्तु क्रतुषु या स्तुतिभूमिर्दिजन्मनाम् ॥३४॥ यज्ञे स्तुतिं कुर्वतां ब्राह्मणानामवस्थानभूमौ संस्तावः। 'यज्ञे समि स्तुवः' (३. ३. ३१) इति घञ् ।। निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः। काष्ठतक्षणार्थमधःस्थापितकाष्ठे उद्धनः । 'उद्धनोऽत्याधानम्' (३. ३. ८०) इति निपातितः । हन्तेरप, हकारस्य च धकारः ।। स्तम्बघ्नस्तु स्तम्बधनः स्तम्बो येन निहन्यते ॥३५॥ . २. 'ता' ट., तार पित्वा य' अ., 'कारं बित्वा य' १. 'पूर्वक' छ, पाठः. प. पाठः .
सङ्कीर्णवर्गः २]
टीकासर्वस्वाख्यव्याख्यासमेतम् ।
६९
तृणादिगुच्छोन्मूलनकारिणि खनित्रादौ स्तम्वन्नद्वयम् । 'स्तम्बे क
च' (३.३.८३) इति कापौ प्रत्ययौ घत्वं च ।।
आविधो विध्यते येन तत्र
येन भ्रमरादिना विध्यते, तत्र आविधः। 'घञर्थे कविधानम्' (वा० ३.
३, ५८) इति कः ॥
विष्वक्समे निघः।
विप्वक्समे समन्तात् समारोहपरिणाहे वृक्षादौ निघः । 'निधो
निमितम्' (३. ३. ८७) इति निपातितः । हन्तेरप् , टिलोपः, घत्वं च ॥
उत्कारश्च निकारश्च द्रौ धान्यक्षेपणार्थको ॥३६॥
धान्यस्योर्ध्वप्रेरणे उत्कारद्वयम् । 'कृ धान्ये' (३. ३. ३०) इति घञ् ॥
निगारोद्गारविक्षावोद्भाहा निगरणादिषु।
निगारचतुष्टयं यथाक्रमं निगरणोद्गारणक्षवणोद्रहणेषु । एतच्च
आदिशब्देन गृह्यते। तत्र निगारोऽभ्यवहारः । उद्गार उद्गार इति ख्यातः ।
क्षवः कासः । उदाह उद्गाहणीति ख्यातः । ऊर्वीकृत्यापि ग्रहण-
मित्यन्यः । 'उन्न्योः' (३. ३. २९) इति घञि निगारोद्गारौ । 'वौ क्षुश्रुवः'
(३. ३. २५) इति पनि विक्षावः । “उदि ग्रहः' (३. ३. ३५) इति पनि
उदाहः । यद्यपि गीणिगिरावित्युक्तः, तथापि शब्दान्यत्वादुद्गारशब्दप्रसङ्गाच्च
निगारोऽपि निग(र इति ? रण इव) पुनरुच्यते ॥
आरत्यवरतिविरतय उपरामे
अथार्याद्वयम् । आरतिचतुष्टयमुपरतौ । आङादिपूर्वाद् रमेः क्तिनि
त्रयम् । 'यमु उपरमे' इति निपातनाद् घञि अवृद्धौ उपरमः । 'अबा-
धकान्यपि निपातनानी ति उपरामः ।।
वा स्त्रियां तु निष्ठेवः ॥३७॥
नामलिङ्गानुशासनं
तृतीयं काण्ड
निष्टयूतिनिष्ठीवनं निष्ठेवनमित्यभिन्नानि ।
मुखादिना श्लेष्मादिनिःसरणे निष्ठेवचतुष्कम् । 'वा स्त्रियाम्'
इति पाठात् स्त्रियामङि निष्ठेवा । अथवा 'उपरामे च' इति पाठे चका-
रादारक्तावप्यारतिशब्दः । अवरतिविरतिशब्दौ विरामेऽपि ॥
जवने जूतिः
जवनद्वयं वेगे । जुः सौत्रो वेगे । 'ऊतियूतिजूतिसातिहेतिकीर्तयश्च'
(३. ३. ९७) इति निपातनात् क्तिनि दीर्घः ॥
सातिस्त्ववसानं स्याद्
सातिद्वयमवसाने । क्रियासमाप्तावित्यन्यः । जूतिवत् स्यतेः सातिः ॥
अथ ज्वरे जूर्तिः ॥३८॥
ज्वरद्वयं ज्वरणे । ज्वररोगे इति यावत् । ज्वरयतेर्घञ् । ज्वरः ।
घटादित्वान्न वृद्धिः । 'ज्वरत्वरस्रव्यविमवामुपधायाश्च' (६. ४. २०) इत्यूठि
जूर्तिः ॥
उदजस्तु पशुप्रेरणम्
गवादिपशूनां प्रेरणे उदजद्वयम् । 'समुदोरजः पशुषु' (३. ३. ६९)
इत्यप् । उदजः॥
अकरणिरित्यादयः शापे।
शापे आक्रोशे, क्रियाक्षेपे इति यावत् । अकरणिः, अज-
ननिरित्यादयोऽनिप्रत्ययान्ताः शब्दा बोद्धव्याः । आदिना 'आक्रोशेऽवन्यो-
ग्रहः' (३. ३. ४५) इति घनन्तश्च । 'आक्रोशे नयनिः' (३.३. ११२)।
अकरणिः । यथा--- 'अकरणिस्ते वृषल! भूयात् ।
"तस्याजननिरेवास्तु जननीकेशकारिणः" (माघ० स० २. श्लो० ४५)
इति । 'अवग्राहोऽद्य ते वृषल ! भूयाद्' इति । 'निग्राहोऽद्य वृषल ! भूयाद्'
इति ॥
गोत्रान्तेभ्यस्तस्य बृन्दमित्यौपगवकादिकम् ॥३९॥
सङ्कीर्णवर्गः २] टीकासर्वस्वास्यव्याख्यासमेतम्। गोत्रप्रत्ययान्तेभ्य औपगवादिभ्यस्तस्य बृन्दमित्यर्थे 'गोत्रोक्षोष्ट्रोरत्र- (४.२.३९) इत्यादिना वुनि कृते औपगवकम् । आदिना कापटवकमित्यादि विज्ञेयम् । बृन्दम् इत्ययमधिकारो वर्गसमाप्तिर्यावत् ॥ आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । अचेतसाम् अप्राणिनाम् । अपूपानां बृन्दम् आपूपिकम् । शाकुलिकम् । आदिना आपौपिकप्रभृतयः । 'अचित्तहस्तिधेनोष्ठक' (४. २. ४७) । माणवानां तु माणव्यं माणवा बालाः, तेषां समूहो माणव्यम् । 'ब्राह्मणमाणवबाडवाद् यत् (४. २. ४२)॥ सहायानां सहायता ॥४०॥ सहायानां समूहे सहायता । 'ग्रामजनबन्धुसहायेभ्यस्तल' (४. २. ४३)॥ हल्या हलानां हलानां समूहे हल्या । 'पाशादिभ्यो यः' (४. २. ४९) ।। ब्राह्मण्ययाडव्ये तु द्विजन्मनाम् । ब्राह्मणानां समूहे ब्राह्मण्यद्वयम् । माणव्यवद् यत् ॥ हे पशुकानां पृष्ठानां पार्श्व पृष्ठ्यमिति क्रमात् ॥ ४१ ।। पशुकानां पार्वा स्थिखण्डानां समूहः पार्श्वम् । “पर्शोर्णस् वक्तव्यः' (वा० ४. २. ४३) इति णस्प्रत्ययः । 'सिति च' (१. ४. १६) इति पदसंज्ञायाम् 'ओर्गुणः' (६. ४. १४६) इति न गुणः । पृष्ठानां स्तोत्राणां बृन्दं पृष्ठयम् । न त्वधमावयववचनः । 'पृष्ठादुपसङ्ख्यानम् ' (वा. १. २. ४२) इति यत् ॥ wwwseemar meer-terramme 'पर्धा णस्' इति मुद्रितवार्तिकपाठः ।
नामलिङ्गानुशासनं [तृतीयं काण्ड खलानां खलिनी खल्यापि खलो धान्यसंचस्यथानम् । तेषां समूहे खलिनीद्वयम् । 'इनि- प्रकट्यचश्च' (४. २. ५१) इतीनिः । खलिनी । यति खल्या ॥ अथ मानुष्यकं नृणाम् । नृणां समूहे मानुष्यकम् । ‘गोत्रोक्षोष्ट्र-' (४. २. ३९) इत्या- दिना वुन् ॥ ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथक् ॥४२॥ अपि साहस्रकारीषवार्मणाथर्वणादिकम् । प्रामादिसमूहे यथाक्रमं ग्रामतादिपञ्चकम् । सहायतावत् तलि द्वयम् । अपरं पाशादियदन्तम् । पाशादिषु पोटगलेति पठ्यते । तत्र पोटशब्दात् पृथगेव गलशब्द इति प्रतिपन्ने गल्येत्युदाहृतम् । अन्ये त्वाहुः-- एक एवायं पोटगलशब्दः । तत्र पोटगल्येति रूपं साधु, न तु गल्यति । ततश्च पोटगल्येत्यत्र बोद्धव्यम् । तथाहि तत्र पाल्यकीर्तेविवरणं पोटगलो बृहत्काशः । पृथगित्यनेन ग्रामतादीनां पर्यायतां निरस्यति । पृथक पृथगिति सम्बन्धप्रतिपादनार्थमपिशब्दः । सहस्राणां समूहः साहस्रम् । करीषः शुष्कगोमयः, तत्समूहे कारीषम् । वर्म कवचं, तत्समूहे वार्मणम् । भिक्षादि- पाठादण् । 'आथर्वणिकस्येकलोपश्च' (४. ३. १३३) इति अणि इकलोपे आथर्वणम् । आदिना अङ्गाराणां समूह आङ्गारम् । चर्मणां समूहे चार्मणम् ।। इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे सङ्कीर्णवर्गः। नानार्थाः केपि कान्तादिवर्गेष्वेवात्र कीर्तिताः। भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥१॥ ननु य एव पूर्ववर्गेणोक्ताः, त एवात्रापि कान्तादिवर्गेऽभिहिताः । अथावश्यमनेकार्थवर्गारम्भः कार्यः, तदा ते किमिति पर्यायेषूक्ता इति मानार्थधर्गः १ टीकासर्वस्वास्यव्याख्यासमेतम् । man शङ्कायामाह नानार्था इत्यादि । अत्रैव कान्तखान्नादिवर्गे नाना अनेकार्थाः शब्दा उक्ताः, न पूर्वपर्यायवर्गे । यथा- "मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः" इति । केऽपीति वचनात् केऽप्यत्र नोक्ता एव । यथा घण्टा सृगालकोली पूगे च पूर्ववर्ग एवोक्ताः । ये तु शब्दा येप्वयंपु भरिप्रयोगाः काव्यादिषु दृष्टाः, ते तु पर्यायेप्वपि तेषु तेष्वर्थेषु काः । अत्रापि यथा -नाकशब्दः स्वर्गे, भत्राप्याकाशे कीर्तितः । कीर्तनं चाध्येतुः स्मरणार्थम् । अतः सर्व सुस्थम् ॥ आकाशे त्रिदिवे नाकः त्रिदिवे स्वर्गे ॥ लोकस्तु भुवने जने। भुवनं स्वर्गादि । जनो मनुष्यादिः ॥ पये यशसि च श्लोकः पद्यं चतुष्पदी । 'श्लोक सङ्घाते' । घनि श्लोकः ।। शरे खड्गे च सायकः॥२॥ सायको दन्त्यादिः ॥ जम्बुको क्रोष्टुवरुणौ वरुणो दिक्पतिः ॥ पृथुको चिपिटार्भको। चिपिटः 'चिडउ' इति ख्यातः ।। आलोको दर्शनोहयोती चक्षुर्विज्ञानं दर्शनम् , उद्दयोत आतपः ॥ भेरीपटहमानको ॥३॥ १. 'तु तेषु तेष्वर्थे पर्यायवर्गेपू' क. ख. घ. इ. छ. ट. पाठ:. गये ठ. पाम. २. 'त: सम्य- - 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (२. ४.२) इत्येकवद्भावे भेरीपटहम् ॥ उत्सङ्गचिहयोरङ्कः उत्सङ्गः क्रोडम् ॥ कलङ्कोऽङ्कापवादयोः। अङ्कश्चिह्नम् ॥ तक्षको नागवर्धक्योः नागो नागविशेषः ॥ अर्कः स्फटिकसूर्ययोः॥४॥ अर्को वृक्षभेदोऽपि ॥ मारते वेधसि अध्ने पुंसि कः कं शिरोम्बुनोः । पुंसि आत्मनीत्यर्थः । तथाच रभसः 'प्रजापत्यात्मवातार्के कः इत्यादि । रूपभेदादेव शिरोम्बुनोः कं क्कीबम् ।। स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥५॥ तुच्छधान्ये वातानेति ख्याते । संक्षेपे क्षुद्रे । तथाच बुद्धचरितं "निबोध किञ्चितु पुलाकमानं वाक्यं मुनेर्वाक्यविदां वरस्य" इति । भक्तसिक्थके भक्तगुडके । 'पुल महत्त्वे'। पिनाकादयश्च' (उ०१. १५) इति आकः । पुलाकः ॥ उलूके करिणः पुच्छमूलोपान्ते च पेचकः । पुच्छमूलोपान्ते गुदस्याच्छादके मांसपिण्डे । कमण्डलौ च करकः वनौषधौ ‘करकहाडिनो' इत्युक्तम् । तदपेक्षया कमण्डलो गेति समुच्चयः ॥ 1,के। भक्तजाडि केचित् । पु' क. स. ग, प... ब.स.म. ट.. पा.
नार्थवर्गः ३]] टीकासर्वस्वाख्यव्याख्यासमेतम् । ७५ सुगते च विनायकः॥६॥ चकाराद् गणपतौ च ॥ किष्कुर्हस्ते वितस्तो च "किष्कुर्हस्ते वितस्तौ च प्रकोष्ठेऽप्यनपुंसकम् शूककीटे च वृश्चिकः। चकाराद् गोमये वृश्चिके च वृश्चिकः ॥ प्रतिकूले प्रतीकस्त्रिष्वेकदेशे च पुंस्थयम् ॥७॥ प्रतिकूले प्रतीपे त्रिषु । एकदेशे अवयवे नरि ॥ स्याद् भूतिकं तु भूनिम्बे कत्तॄणे भूस्तृणेऽपि च । भूनिम्बः चिराइतेति ख्यातः । कतृणे रामकर्पूराख्ये । भूस्तृणे परवेड इति ख्याते ॥ ज्योत्लिकायां च घोषे च कोशातकी ज्योत्लिका पजिरालीति ख्याते । घोषको लताविशेषः । अथ कटफले ॥८॥ सिते च खदिरे सोमकल्कः स्याद् सित इति खदिराविशेषणम् ॥ अथ सिरके। तिलकल्के च पिण्याकः तिलकल्का तिलखलिः ॥ बाइकिं रामठेऽपि च ॥९॥ 'बाहीकं धीरहिडनोनीश्वदेशयोः' । धीरं कुङ्कुमम् ।।
नामलिङ्गानुशासनं [तृतीयं काण्ड महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः। महेन्द्रः ॥ रुक्तापशङ्कास्वातङ्कः रुग् रोगः । शङ्का भयम् ॥ स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥१०॥ स्वल्पे कनिष्ठे । स्तोके चेत्यन्यः । अपिना नीचेऽपि ॥ जैवातकः शशाङ्केऽपि दीर्घायुषि च जैवातृकः ॥ खुरेऽप्यश्वस्य वर्तकः। "पक्षिभेदे नरि क्लीबं खुरेऽप्यश्वस्य वर्तकः" । व्याघेऽपि पुण्डरीको ना "पुण्डरीक सितच्छत्रे सिताम्भोजेऽपि कीर्तितम् । पुण्डरीको व्याघ्रभेदे दिग्गजेक्षुप्रभेदयोः ॥" इत्यजयः ॥ यवान्यामपि दीप्यकः ॥११॥ जीरकेऽपि दीप्यकः ॥ शालाकाः कपिक्रोष्टश्वानः शालावृकस्तालव्यादिः॥ स्वर्णेपि गैरिकम् । शिलाविकारे च गैरिकम् ॥ पीडार्थेऽपि व्यलीकं स्याद् अपियाकारक्लिभेष्वपि व्यक्लीकम् । दीर्घमध्यम् ।।
नानार्थवर्गः३] टीकासर्वस्वाख्यव्याख्यासमेतम् । अलीकं त्वप्रियेऽनृते ॥१२॥ दीर्घमध्यमलीकम् ॥ शीलान्वयावनूके हे शीलं स्वभावः । अन्वयो वंशः॥ शल्के शकलवल्कले। तालव्यादि शकलं खण्डवाचि । 'शल्कं तु वल्कले खण्डे' इत्य- जयः। 'शशाङ्कशल्काकृतिपाण्डरेण' (स० १७. श्लो०५१) इति भारविप्रयोगः । अथवा शकलं मत्स्यानां कवचाया त्वक् , तद्योगात् शकली मत्स्यः । वल्कलं वृक्षादित्वक् ॥ साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥१३॥ दीनारेऽपि च निष्कोऽस्त्री सहाष्टभिर्वर्तत इति साष्टम् । साष्टं च तत् शतं चेति साष्टशतम ष्टोत्तरशतम् । हेम्नीति स्वर्णमात्रे। उरोभूषणे मुखखण्डाख्ये। पले इति हेमपले । दीनारे देशान्तरे स्वनामप्रासद्धे ।। कल्कोऽस्त्री समलैनसोः। दम्भेऽपि समल: पापाशयः । "त्रिषु पापाशये कल्कोऽस्त्री विकिट्टेभदम्भयोः" इति रुद्रः॥ अथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥१४॥ शूलोऽस्त्रभेदः ॥ धेनुका तु करेण्वांच करेणु हस्तिची । नवप्रसूतगवी व धेनुकर ॥
नामलिङ्गानुशासनं तृतीयं काण्ड मेघजाले च कालिका। मेघजाले मेघबृन्दे । धूमरीयोगिनीभेदे मानवाब्देषु कालिका । क्रयदेये वस्तुमूल्ये काष्ण्ये काल्यां घनावलौ ॥ इति रभसः । धूमरीह हेतिका । काल्याः कृष्णत्वम् ॥ कारिका यातनावृत्त्योः यातना तीव्रवेदना । वृत्तिः सूत्रप्रायो बहर्थः प्रक्षिप्तो विवरश्लोकः ।। कर्णिका कर्णभूषणे ॥१५॥ करिहस्ताङ्गुलौ पद्मबीजकोश्यां कर्णभूषणं तालपत्रम् ॥ विषूत्तरे। उत्तरे वृन्दारकादयः कान्तवर्गोक्तास्त्रिषु । अवधेरनिर्देशेऽपि कान्तवि- जातीयतया न मयूखादयः ।। बृन्दारको रूपिमुख्यौ रूपिस्वरूपिमनोज्ञा इति पर्यायः । मुख्यो वृन्दारकः । पुरुषवृन्दारको योषिबृन्दारिका कलत्रबृन्दारकम् ॥ एके मुख्यान्यकेवलाः ॥ १६ ॥ प्रधानान्यैकाकिनाम् एकशब्दः । मुख्य यथा 'सर्वसाथै कबन्धुः। अग्याथै यथा-एके आचार्याः' । केवलार्थे यथा एकाकिभिः क्षुदै - तम्॥ स्याद् दाम्भिके कौमुटिको यश्चादूरेरितेक्षणः । 4. म. 8., 'य'च पाठी मानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । कुहनावृत्तिम्भिकः । पादविक्षेपदेशे चक्षुः संयम्य यो भिक्षुर्गन्ता सोऽदूरेक्षणो भिक्षुः । तौ कौकुटिकाख्यौ । "मिथ्याचर्या कुक्कुटिरीर्यापथकल्पना कुहना" इति रत्नकोषः । 'संज्ञायां ललाटकुक्कुट्यौ पश्यति' (४. ४. ४६) इति ठक् ॥ लालाटिका प्रभोः फालदर्शी कार्याक्षमश्च यः॥१७॥ यः सेवकः कोपचिह्नसंलक्षणाय प्रभोर्ललाटमेव पश्यति, स्मामिकार्ये च यो नोपयुज्यते, तौ लालाटिको । कौकुटिकवट्ठक् ॥ कान्तः। मयूखस्त्विट्करज्वालासु त्विड् दीप्तिः । करः किरणः ॥ अलिबाणौ शिलीमुखौ। अलिः भ्रमरः ॥ शो निधौ ललाटास्थि कम्बौ न स्त्री निधौ निधिभेदे ललाटास्नि च । न स्त्री पुनपुंसकम् ।। इन्द्रियेऽपि खम् ॥ "खशब्दः शून्यबिन्दौ च स्वर्गाकाशेन्द्रियेषु च इति व्याडिः ॥ घृणिज्वाले अपि शिखे शिखा चूडादावपि ॥
नामलिङ्गानुशासनं तृतीयं काण्ड शैलवृक्षौ नगावगौ। नगशब्देन अगशब्देन च शैलवृक्षावुच्यते ॥ आशुगौ वायुविशिखौ विशिखो बाणः ॥ शरार्कविहगाः खगाः॥ १९ ॥ अर्को रविः॥ पतङ्गौ पक्षिसूर्यों च शालिभेदे शलभे च पतङ्गः॥ पूगः क्रमुकवृन्दयोः। क्रमुको गुवाकवृक्षः । एतत्फले तु क्लीवम् ।। पशवोऽपि मृगाः हरिणाः सर्वपशवश्च मृगाः ।। वेगःप्रवाहजवयोरपि ॥ २० ॥ विष्ठादेबहिनिर्गमे प्रवाहः । किम्पाकवृक्षेऽपि महाकालाख्ये वेगः ॥ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । स्वभावः प्रकृतिः। निर्मोक्षस्त्यागः । निश्चये यथा-- 'गृहाण शस्त्रं यदि सर्ग एष ते' । अध्याये काव्यपरिच्छेदे । सृष्टिर्निर्माणम् ॥ योगः सन्नहनोपायध्यानसंगतियुक्तिषु ॥२१॥ सन्नहनं कवचम् । उपायः सामभेदादिः । सङ्गतिः सङ्गमः ।। भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः । ध्यादीत्यादिशब्देन हस्त्यादीनामपि भृतौ ॥ चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २२॥ शबले कबुरे। पक्षिवाची सारङ्गो दन्त्यादिः । हरिणे तु तालव्यादिरपि ।
नामलिङ्गानुशासनं [तृतीयं काण्ड भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २५ ॥ काम इच्छा । यत्नो हितैषिता, यद्योगाद् भगिनीति प्रयोगः । "ज्ञानवैराग्ययोर्योनौ भगमस्त्री तु भास्करे" इति रुद्रः॥ गान्तः। परिघः परिघातेऽस्त्रेऽपि परिघातो हननम् । अस्त्रे अस्त्रविशेषे । लोहबद्धलगुडे अर्गलेऽपि परिघः ॥ ओघो बृन्देऽम्भसा रये। द्रुतनृत्येऽपि ओघः ॥ मूल्ये पूजाविधावः मूल्ये यथा महार्घः पटः ॥ अंहोदुःखव्यसनेष्वघम् ॥ २६ ॥ व्यसनं रागद्वेषादि अघम् ॥ त्रिविष्टेऽल्पे लघुः त्रिषु इष्टे रुच्ये। "कृष्णागुरुणि शीघ्रं च लघु क्लीबेऽगुरौ त्रिषु । निःसारे च मनोज्ञे च पृक्कायां च लघुः स्त्रियाम् ॥" इति रभसः॥ घान्तः।' काचाः शिक्यमृन्दहग्रजः। शिक्यमुत्कचनद्रव्यम् । मृद्भेदः काच इत्येवाख्यातः । योगः पट- लप्रायः॥
-
मानार्थवर्गः
टीकासर्वस्वाख्यव्याख्यासमेतम् ।
विपर्यासे विस्तरे च प्रपञ्चः
विपर्यासे वैपरीत्ये॥
पावके शुचिः॥ २७ ॥
मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु ।
मासि आषाढे । धर्माद्यैः परीक्षणमुपधा, तामतिक्रान्ते अमात्ये स-
चिवे , उपधाशुद्ध इत्यर्थः । मेध्ये पवित्रे ॥
अभिषङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥२८॥
अभिषने अत्यासक्तौ । स्पृहायां यथा अन्ने रुचिः ।।
,
wwmment
केकिताावहिभुजौ
अहीन भुङ्क्ते इति क्विप् । अहिभुक् । जान्तः ॥
दन्तविप्राण्डजा द्विजाः।
विप्र इत्युपलक्षणम् । क्षत्रियवैश्ययोरपि द्विजः ॥
अजा विष्णुहरच्छागाः
"द्वयोश्छागे हरब्रह्मविश्वस्मरहरिष्वज़ः''
इति रभसः ॥
गोष्टाध्वनिवहा व्रजाः ॥२९॥
*
निवहः सङ्घः ॥
धर्मराजौ जिनयमो
जिनो बुद्धः ॥
कुञ्जो दन्तेऽपि न स्त्रियाम् ।
लतापिहितोदरेऽपि कुञ्जः ॥
वलजे क्षेत्रपूर्दारे वलजा वल्गुदर्शना ॥ ३० ॥
[तृतीयं काण्ड नामलिङ्गानुशासनं क्षेत्रे नगरद्वारे च वलजं क्लीबम्।। (वल्गुदर्शना वाकुस्त्रीति ?)। तत्र रूपभेदात् स्त्रियाम् ॥ समे आमांशे रणेऽप्याजिः समे मांशे समे भूभाग इति यावत् ॥ प्रजा स्यात् सन्ततौ जने । सन्ततिरपत्यम् ॥ अब्जौ शङ्खशशाङ्कौ च धन्वन्तरौ चाब्जः ॥ स्वके नित्ये निजं त्रिषु॥३१॥ 'स एषां ग्रामणीः' (५. २. ७८) इति कन् । स्वक आत्मीयः॥ जान्तः। पुस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । प्रवीणो निपुणः ॥ संज्ञा स्याचेतना नाम हस्ताद्यैरर्थसूचना ॥ ३२॥ चेतना धीः । नाम आख्या । हस्ताद्यैरर्थसूचनेति । युद्धे वस्त्रक्रियादौ (8) च हस्तादिव्यवहार उपांशु क्रियते, सापि संज्ञा । आदिना भ्रलोचनादिग्रहणम् । सूर्यपत्नी च संज्ञा ॥ जान्तः। काकेभगण्डौ करटो कटैकादशाहश्राद्धयोरपि करटः ॥ गजगण्डकटी कटौ। शवेऽपि कटोऽकारान्तः ॥ 1. 'ती' ख. ठ., 'स्ती' उ., 'स्मितं त' घ. पाठः, २. 'य: सोऽपि' क ख. पाठः. + 'क्लीबमित्येतदनन्तरं 'तत्र' इत्यत: पूर्व 'वा तु स्त्रीति । वल्गुदर्शना' इति पठनीयम् । तत्र वल्गुदर्शनायां रूपभेदाद् ‘वलजा' इति रूपस्य पुन्नपुंसकव्यावृत्तत्वा दित्यर्थः । क्षेत्रपूरयोस्तु 'वलजे' इति निर्दिष्टरूपस्य स्त्रीक्लीबसाधारणत्वमुभयलिङ्गत्वगमक- मित्यभिप्रायः।
. नानार्थवर्गः ३] टीकासर्वस्वास्यव्याख्यासमेतम् । शिपिविष्टस्तु खलतो दुश्चर्मणि महेश्वरे ॥ ३३ ॥ खिलिन (8) इत्युणादिः । इकारान्तस्त्वत्र पाठः । (खलति खल्वितः!) निष्कुषितमेढ़मलो दुश्चर्मा । शिपिविष्टस्तालव्यादिः ।। देवशिल्पिन्यपि त्वष्टा देवशिल्पी विश्वकर्मा । वर्धकौ च त्वष्टा ॥ दिष्टं दैवेऽपि न द्वयोः। दिष्टं प्राक्तनं कर्म । कालेऽपि दिष्टो ना ॥ रसे कटुः कटकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३४ ॥ रसे पिप्पल्यादिरसे । अकार्य अकरणाहे रूपभेदात् कटु क्लीबम् ।। रिष्टं क्षेमाशुभाभावेषु क्षेमं कल्याणम् । अशुभं पापम् । अभावो विनाशः । खड्नेऽपि रिष्टो ना॥ अरिष्टे तु शुभाशुभे। "क्लीबं शुभे(शुभे) तक्रे सूत्यगारान्तचिह्नयोः । अरिष्टो लशुने काके निम्बफेनिलवृक्षयोः ॥" इति रभसः ॥ मायानिश्चलयन्त्रेषु कैतवा नृतराशिषु ॥३५॥ अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । मायेन्द्रजालादि । निश्चलमाकाशादि । यन्त्रं यन्त्रविशेषः, येन मृगो बध्यते । राशिः पुञ्जः । अयो लोहं येन हन्यते, सोऽयोधनः हाधइडोति ख्यातः । सीराङ्गं फालः ॥ सूक्ष्मैलायां तुटिः स्त्री स्यात् कालेऽल्पे संशयेऽपि सा॥ कालेऽत्यन्तसूक्ष्मकाले ॥ MAMANOMImmenAmadimaksemamalan 1. 'तु'च. पाटः.
नामलिङ्गानुशासनं [तृतीयं काण्ड अयुत्कर्षाश्रयः कोव्यो मूले लग्नकचे जटा । लमकचे जटा मांस्यां च ।। व्युष्टिः फले समृद्धौ च फले हेतुकृते, न तु सस्ये । 'नियमादिफले व्युष्टिः समृद्धौ च स्त्रि- याम्' इति हि रभसः। "तस्यैव तपसो व्युष्ट्या प्रसादाच स्वयम्भुवः । नासुरेभ्यो न देवेभ्यो (हं ? भयं मम कदाचन) ॥" इति प्रयोगोऽपि ॥ दृष्टिानेऽक्षिण दर्शने ॥३७॥ दर्शनं वीक्षणम् । (सिद्धान्तः निश्चयः) । इष्टिांगेच्छयोः बाहुलकात् क्तिनि इष्टिः॥ सृष्टं निश्चिते बहुनि त्रिषु । बहुनि प्रचुरे ॥ कष्टे तु कृष्द्गहने दुरधिगमान्तःपातं गहनम् ॥ दक्षामन्दागदेषु तु ॥ ३८॥ पटुद्धौं वाच्यलिङ्गौ च दक्षोऽनलसः। अमन्दस्तीक्ष्णः । अगदो नीरुक् । द्वौ कष्टपटू वा- च्यलिङ्गौ ॥ टान्तः। नीलकण्ठः शिवेशप च । दात्यूहग्रामचटकखञ्जरीटमयूरेष्वपि नीलकण्ठः ।। पुंसि कोष्टोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ३९ ॥ 1. 'प्रथामिति प्रयोगः । दर्शन' ख. पाठः, नानार्थवर्गः३ टीकासर्वस्वास्यव्याख्यासमेतम् । अन्तर्जठरमुदरमध्यम् । कुसूलो मरावः । 'कुस संश्लेषणे' । 'कुसे: कूल ' इत्यादिना ऊलः । कुसूलः । एवं दन्त्यसः । गृहस्यान्तरमन्त- गुहम् ।। निष्ठा निष्पत्तिनाशान्ताः नाशोऽदर्शनम् । अन्तो विनाशः ।। काष्ठोत्कर्षे स्थितौ दिशि । स्थितिमर्यादा ॥ त्रिषु ज्येष्ठोऽतिशस्तेऽपि अतिशस्तेऽतिशयप्रशस्ते । अपिनाग्रजातिवृद्धयोश्च । वृद्धप्रशस्ययोरिष्ठनि 'वृद्धस्य च', 'ज्य च' (५. ३. ६२. ६१) इति ज्यादेशः ।। कनिष्ठोऽतियुवाल्पयोः॥४०॥ अतियूनि अत्यल्पे च कनिष्ठः । 'युवाल्पयोः कनन्यतरस्याम्' (५. ५. ६४) इति कनादेशः॥ ठान्तः। दण्डोऽस्त्री लगुडेऽपि स्याद् "दण्डो यमे मानभेदे चण्डांशोः पारिपाश्चिके । दण्डो लगुडमन्थानदमसैन्येषु वाजिनि ॥" इति धरणिः ॥ गुडो गोलेक्षुपाकयो। गोलो मृत्तिकादिगुडकः । इक्षुपाको गुडाख्य एव ।। सर्पमांसात्पशु व्याडौ मांसात्पशुाघ्रादिः ॥ HASAMRIANP १. 'हिंस्रपशु' ग. पाठः, ८८ नामलिङ्गानुशासनं [तृतीयं काण्ड भूगोवाचस्त्विडा इलाः ॥४१॥ गौः स्त्रीगवम् । संक्षेपार्थ डान्तवर्ग एवोक्ता ॥ क्ष्वेडा वंशशलाकापि सिंहनादे वेडा । 'ना तु ध्वनौ विष' इति रुद्रः ।। नाडी कालेऽपि षद्क्षणे । षटक्षणात्मके काल इत्यर्थः । सिरायां शाकादिनाले च नाडी ।। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४२ ॥ कदलीकाण्डः । अर्वा कुत्सितः । वर्गे यथा-त्रिका- ण्डोऽमरकोषः । अवसरो निर्व्यापारस्थितिः । क्षण इति यावत् । वारिणि यथा- 'शरत्काण्डसमद्युतिः ॥ स्याद् भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । सुवर्णादिकृतमश्वाभरणसामान्यं भाण्डम् । अमत्रं पात्रम् । वणिजां मूलधनं भाण्डमित्येव ख्यातम् ॥ दण्डे यथा - डान्तः। भृशप्रतिज्ञयोर्याद प्रतिज्ञा अभ्युपगमः ॥ प्रगाढं भृशकृच्छ्रयोः ॥४३॥ कृच्छ्रे गहनम् ॥ 'क्ता। एवं शशशल्यसिं' ग.पाठः, नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ । संहते यथा-व्यूढोरस्कः ॥ ढान्तः। भ्रूणोऽर्भके स्त्रैणगर्भ अर्भको बालः । स्त्रिया अपत्यं स्त्रैणः, स्त्रैणश्चासौ गर्भश्चेति कर्मधा- त्यः॥ बाणो बलिसुते शरे ॥ ४४ ॥ बलिसुतो बाणासुरः । झिण्ट्यां तु बाणा द्वयोः ।। कणोऽतिसूक्ष्मे धान्यांशे अतिसूक्ष्मे अत्यल्पे । पृथगेवेदं नाम । धान्यांशः कण इत्येव ख्यातः॥ संघाते प्रमथे गणः। संघाते वृन्दे । प्रमथाः रुद्रानुचराः ॥ पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४५ ॥ द्यूतादिषुत्सृष्टे अड्ड इति ख्याते । आदिना मेषकुक्कुटादौ धनोत्सृष्टे, तत्राप्यड्डः क्रियते । भृतौ वेतने । धने अर्थे । मौया द्रव्याश्रये सत्त्वशुक्लसन्ध्यादिके गुणः। 'द्रव्यं भव्ये गुणाश्रये' इति वक्ष्यति । तत्र भव्योऽभिप्रेतानां पात्रम् । गुणाश्रयस्तु पृथिव्यादिः । (त?अ)त्रोभयोग्रहणम् । तेन भव्याश्रिते त्यागशौ- र्यादिके पृथिव्या(द्या)श्रिते च रूपरसादिके गुणः । आदिशब्दस्य सत्त्वा- दिभिः प्रत्येकममिसम्बन्धः । सत्त्वादीनि सत्त्वरजस्तमांसि । शुक्लादिः शुक्ल- कृष्णलोहितादिः। सन्ध्यादिः सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षट् ॥ निर्व्यापारस्थिती कालविशेषोत्सवयोः क्षणः॥४६॥ N ९० नामलिङ्गानुशासनं [तृतीयं का 'क्षणो व्यापारशून्यत्वे' इति रुद्रः । कालविशेषो मुहूर्तस्य द्वादशो भागः ॥ वों द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे । आदिना क्षत्रविट्शूद्रा नीललोहितादयश्च । अक्षरे वा क्लीवं, पक्षे पुमान् ॥ ग्रामणी पिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४७ ॥ श्रेष्ठं प्रधानम् । अधिपः पतिः ॥ ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवौ । आदिना शशकोष्ट्रप्रभृतीनां ग्रहणम् । भ्रूमध्यलोमावर्तविशेषेऽपि च ऊर्णा । एतच्च महापुरुषलक्षणम् । 'अन्तरान्तरेण युक्ते' (२. ३. ४) इत्य- नेन ध्रुवौ इत्यत्र द्वितीया ॥ हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥४८॥ सुवर्णस्य प्रतिमा । या हरितवर्णा, सापि हरिणी ॥ त्रिषु पाण्डौ च हरिणः चकारान्मृगे ॥ स्थूणा स्तम्भेऽपि वेश्मनः! लोहप्रतिमायां च स्थूणा ॥ तृष्णे स्पृहापिपासे वे तृष्णेत्युपलक्षणम् । तृष्णा तृट् तर्ष इत्येतेऽपि लिप्सापिपासयोः ॥ जुगुप्साकरुणे घृणे ॥ ४९ जुगुप्सा निन्दा ॥ वणिक्पथेऽपि विपणिः वणिक्पथो हः ।
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । ९१ "आपणे पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम्" इति रुद्रः ॥ सुरा प्रत्यक् च वारुणी। प्रत्यक् प्रतीची दिक् ॥ करेणुरिभ्यां स्त्री ने इभ्यां हस्तिन्यां स्त्री करेणुः । इभे तु हस्तिनि ना पुमानित्यर्थः ।। द्रविणं तु धनं बलम् ॥ ५० ॥ बलं पराक्रमः॥ शरणं गृहरक्षित्रोः शरणं तालव्यादि । श्रीपर्ण कमलेऽपि च। अग्निमन्थेऽपि श्रीपर्णम् ॥ विषाभिमरलोहेषु तीक्ष्णं क्लीबं खरे त्रिषु ॥५१॥ अभिमरो युद्धम् । यः शीघ्रं कार्यकारी स खरस्त्रियु ॥ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । येनाग्मिरनुमीयते, स हेतुः धूमादिः । मर्यादा सीमा । शास्त्रे यथा--- आर्ष प्रमाणम् । इयत्ता मानम् । प्रमाता यथार्थानुभवयुक्तः ॥ करणं साधकतमे क्षेत्रगानेन्द्रियेष्वपि ॥५२॥ साधकतमं कारकभेदः ॥ प्राण्युत्पत्तौ संसरणमसंबाधचमूगतौ । घण्टापथे प्राणिनामुत्पत्तौ जन्मनि । असंकटेन रथाश्वादिगमनमसंबाधचमूगतिः । घण्टापथो नगरस्योपनिर्गमः ॥ Animantiminatnymisawguarathimanumanumaithunt १. हि क. ख. . च . पाठः, नामलिङ्गानुशासनं [तृतीयं काण्ड अथ वान्तान्ने समुद्धरणमुन्नये ॥ ५३ ।। वान्तान्ने भुक्तोज्झिते । उन्नय उत्तोलनम् ।। अतस्त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः । अतः परं णकारान्तास्त्रिषु । विषाणं मूर्धन्यषम् ।। प्रवणः क्रमनिम्नोव्या प्रढे ना तु चतुष्पथे ॥ ५४॥ क्रमनिम्नोवाच्यलिङ्गतया त्रिषु त्रिलिङ्गः । पूर्वप्रवणा भूः । पूर्वप्र- वणो देशः । पूर्वप्रवणं स्थलम् । ना त्विति त्रिष्वित्यस्य बाधकः ॥ संकीणों निचिताशुद्धौ निचितं व्याप्तम् ॥ इरिणं शून्यमूषरम् । इरिणं हूस्वादि' दीर्घादि च ।। णान्तः। देवसूर्यो विवस्वन्ती देवो देवसामान्यम् ॥ सरस्वन्तौ नदाणवी ॥५५॥ "सरस्वती स्यात् स्त्रीरत्ने नद्यां नद्यन्तरे गवि" इत्यजयः॥ पक्षिताक्ष्यों गरुत्मन्ती पक्षिसामान्यं पक्षी॥ . शकुन्ती भासपक्षिणी। 'कोष्ठकुक्कुटको भासः' इत्यमरमाला ।।
नानार्थवर्गः३] टीकासर्वस्वाख्यव्याख्यासमेतम् । अग्न्युत्पातौ धूमकेतू उत्पातः प्रसिद्धः । धूमः केतुश्चिह्नमस्यति धूमकेतुः अग्निः ।। जीमूतौ मेघपर्वतौ ॥५६॥ देवताल्याख्यौषधे च जीमूतः ।। हस्तौ तु पाणिनक्षत्रे नक्षत्रं तारकाभेदः॥ मरुतौ पवनामरौ। अमरे, मरुत्वानिन्द्रः॥ यन्ता हस्तिपके सूते सूते सारथौ ॥ भर्ता धातरि पोष्टरि ॥ ५७ ॥ धातरि यथा--- वज्रस्य भर्ता । यानपात्रे शिशौ षोतः यानपात्रे वहिने ॥ प्रेतः प्राण्यन्तरे मृते। प्राण्यन्तरं प्रेताख्यमेव ॥ ग्रहभेदे ध्वजे केतुः ध्वजश्चिह्नम् ॥ पार्थिवे तनये सुतः॥ ५८॥ पार्थिवो राजा ॥ .. 'धिविशेष च' ठ. पाठः.
नामलिङ्गानुशासनं [तृतीयं काण्ड स्थपतिः कारुभेदेऽपि बृहस्पतिसवयाजी कञ्चुकी च स्थपतिः ॥ भूभृद् भूमिधरे नृपे। भूमिधरः पर्वतः ॥ मूर्धाभिषिक्तो भूपेऽपि क्षत्रियमात्रे प्रधानेऽपि मूर्धाभिषिक्तः ।। ऋतुः स्त्रीकुसुमेऽपि च ॥५९॥ हेमन्तादावपि ऋतुः ॥ विष्णावप्यजिताव्यक्ती "त्रिषु स्यादस्फुटोऽव्यक्तः क्लीबं तु परमात्मनि" इति रुद्रः॥ सूतस्त्वष्टरि सारथौ। त्वष्टा वर्धकिः ॥ व्यक्तः प्राज्ञेऽपि स्फुटेऽपि व्यक्तः ॥ दृष्टान्तावुभौ शास्त्रनिदर्शने ॥६॥ शास्त्रं व्याकरणशास्त्रादि । निदर्शनमुदाहरणम् ।। क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे । द्वाःस्थे प्रतिहारे । क्षत्रियायामिति पाठः । वैश्यायामित्यपपाठः ॥ वृत्तान्तः स्यात् प्रकरणे प्रकारे कात्न्यवार्तयोः॥१॥ १. 'रभसः ।।' ग. पाठः. २. 'ति दिपा' क, ख.न.पाठः.
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । प्रकरणं प्रक्रिया । प्रस्ताव इत्यन्यः । प्रकारो विशेषः ।। आनतः समरे नृत्तस्थाननीवृद्विशेषयोः। नृत्तस्थानं मण्डपादि । नीवृद्विशेषो जनपदभेदः ॥ कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥३२॥ दैवं जन्मान्तरीयं शुभाशुभकर्म । अकुशलकर्म पापकर्म ॥ श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६३ ॥ श्लेष्मादीत्यादिशब्देन वातपित्ते । रसः आहारस्य परिणामः विकारः सारो भागः । रक्तमसृक् । आदिना मांसादिः। महाभूतानि पृथिव्यतेजोवा- वाकाशानि । तद्गुणाः पृथिव्यादीनामाश्रिता गन्धरसरूपस्पर्शशब्दाः। इन्द्रि- याणि प्राणजिह्वाचक्षुःस्पर्शश्रोत्राणि । अश्मविकृतिगैरिकमनःशिलादिः । श- ब्दयोनिः भूवादिः। एते धातुवाच्याः ।। कक्ष्यान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे । कक्ष्यान्तरे प्रकोष्ठान्तरे । नृपस्यासर्वगोचर इत्येतदस्यैव विशेषणम् । “शुद्धान्तोऽन्तःपुरे गुह्ये कक्ष्याभेदे च भूपतेः" इत्यजयः ॥ कामसामर्थ्ययोः शक्तिः कासूः शर्वला ॥ मूर्तिः काठिन्यकाययोः ॥६४॥ काठिन्यं दृढता ॥ विस्तारवल्ल्योततिः १. 'त्यस्ये' क, ग. छ. पाटः.
नामलिङ्गानुशासनं [तृतीयं काण्डं विस्तारो विस्तीर्णता॥ वसती रात्रिवेश्मनो। स्थितावपि वसतिः । सर्वत्रेयं स्त्री ॥ क्षयार्चयोरपचितिः क्षयो हानिः । अर्चा पूजा ॥ सातिर्दानावसानयोः ॥६५॥ अवसानमन्तः ॥ अतिः पीडाधनु:कोट्योः अर्तिः ह्रस्वादिः । धनुःकोटिरटनिः ।। जातिः सामान्यजन्मनोः। जन्म जननम् । चुल्ल्यामपि जातिः ॥ प्रचारस्यन्दयो रीतिः प्रचारो व्यवहारः । स्यन्दः प्रस्रवणम् । लोहकिट्टे च रीतिः ॥ ईतिर्डिम्बप्रवासयोः ॥६६॥ डिम्ब उपप्लवः । स च षड्विधः । तदुक्तम्- "अतिवृष्टिरनावृष्टिः शरभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥" ई गतौ' । दीर्घादिः । क्तिनि ईतिः॥ उदयेऽधिगमे प्राप्तिः उदय उद्गमः । अधिगमो लाभः ॥
गर्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । कक्ष्यान्तरे प्रकोष्ठान्तरे । नृपस्यासर्वगोचर इत्येतदस्यैव विशेषणम् । "शुद्धान्तोऽन्तःपुरे गुह्ये कक्ष्याभेदे च भूपतेः" जयः॥ कासूसामर्थ्ययोः शक्तिः कासूः शर्वला ॥ मूर्तिः काठिन्यकाययोः॥ काठिन्यं दृढता ॥ विस्तारवल्लयोततिः विस्तारो विस्तीर्णता ॥ वसती रात्रिवेश्मनोः । स्थितावपि वसतिः । सर्वत्रेयं स्त्री ॥ a क्षयार्चयोरपचितिः क्षयो हानिः । अर्चा पूजा ।। सातिर्दानावसानयोः ॥६५॥ अवसानमन्तः ॥ अर्तिः पीडाधनुष्कोव्योः अर्तिह्रस्वादिः। धनुष्कोटिरटनिः ।। जातिः सामान्यजन्मनोः। जन्म जननम् । चुल्लयामपि जातिः ।। प्रचारस्यन्दयो रीतिः प्रचारो व्यवहारः । स्यन्दः प्रस्रवणम् । लोहकिट्टे च रीतिः ॥ १. 'त्यस्य' क. ग, छ. पाठः. .
१८ नामलिङ्गानुशासनं [तृतीयं काण्ड ईतिर्डिम्बप्रवामयोः ॥ ६६ ॥ डिम्ब उपप्लवः । स च पड्विधः । तदुक्तम् - "अतिवृष्टिरनावृष्टिः शरभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः पडेता ईतयः स्मृताः ।।" 'ई गतौ' । दीर्घादिः । क्तिनि ईतिः ।। उदयेऽधिगमे प्रातिः उदय उद्गमः । अधिगमो लाभः ।। नेता त्वग्नित्रये युगे। गार्हपत्याद्यमित्रयं त्रेता॥ वीणाभेदेऽपि महती नारदस्य वीणाभेदः । महत्त्वयुक्तायां च महती ।। भूतिर्भस्मनि संपदि ॥ ६७ ।। अणिमादिगुणेऽपि भूतिः ॥ नदीनगयो गानां भोगवती नागनदी नागनगरी च भोगवती॥ अथ सङ्गरे। सङ्गे सभायां समितिः सङ्गरो युद्धम् । सङ्गः सङ्गमः ।। क्षयावासावपि क्षितिः ॥ ६८ ॥ क्ष्मापि क्षितिः ।। रवेरर्चिश्च शस्त्रं च वहिज्वाला च हेतयः। हन्तेहेतिशब्दः क्तिन्नन्तः । 'निर्मा0सौ नीतिमयेन हेतिना' इति कप्फिणाभ्युदये । ततः शस्त्रे बाहुलकात् पुंस्यपि ॥
नानार्थवर्गः३, टीकासर्वस्वाख्यव्याख्यासमेतम् । ९९ जगती जगतिच्छन्दोविशेषेऽपि क्षितावपि ॥ ३९ ॥ जगति भुवने । छन्दोविशेषे द्वादशाक्षरपादे ।। पङ्क्तिश्छन्दोऽपि दशम दशम छन्दो दशाक्षरपादकम् । राजिदशसंख्ययोरपि पतिः ।। स्थात् प्रभावेऽपि चायतिः। दीर्घत्वागामिकालयोरप्यायतिः ॥ ज पत्तिर्गतौ च "पत्तिर्ना पतगे सैन्यविशेपे तु स्त्रियां मता" || मूले तु पक्षनिः पक्षभेद्योः ॥ ७० ॥ पक्षभेदयोरिति षष्ठी । एकः पक्षो मासाध, तस्य मूले प्रतिपदीत्यर्थः । द्वितीयो विहगावयवः । तन्मूलं कक्षस्थानम् ॥ प्रकृतियोनिलिङ्गेच योनिरुत्पत्तिकारणम् । लिऑस्त्रीत्वादि । "पौरामात्यादिलिङ्गेषु स्वभावे प्रकृतिभंगे। सत्त्वरजस्तमसां च समवस्थापि दृश्यते ।। इति व्याडिः ॥ कैशिक्याद्याश्च वृत्तयः। "भारती सात्वती चैत्र कैशिक्यारभटी तथा । चतस्रो वृत्तयस्त्वेताम्तासु नाट्यं प्रतिष्ठितम् ।। सिकताः स्युालुकापि वालुका गां सिकताः बदुत्वे । 'बहवश्च समाः मिकताः' इति वा नः। सिकतामयदेशश्च सिकता ॥
१०० नामलिङ्गानुशासनं [तृतीयं काण्ड वेदे श्रवसि च श्रुतिः॥७१॥ श्रवसि कर्णे । वार्तायां च श्रुतिः ॥ वनिता जनितात्यर्थानुरागायां च योषिति । जनितात्यर्थानुरागायां योषिति योषिन्मात्रेऽपि वनिता ॥ गुप्तिः क्षितिब्युदासेऽपि क्षितिव्युदासो गर्तार्थ क्षितेरुत्खननम् । गोपनेऽपि गुप्तिः ।। धृतिर्धारणधैर्ययोः ॥७२॥ सुखे योगान्तरे यागे च धृतिः ।। बृहती क्षुद्रर्वाताकीच्छन्दोभेदे महत्यपि । छन्दोभेदो नवाक्षरपादः । महती विपुला । कण्टकारिकायामुत्तरीयेऽपि बृहती ॥ वाशिता स्त्रीकरेण्वोश्च स्त्रीति स्त्रीमात्रम् ॥ वार्ता वृत्तौ जनश्रुतौ ॥ ७३ ॥ वात फल्गुन्यरोगे च त्रिषु वृत्तौ वर्तने । किंवदन्ती जनश्रुतिः । फल्गुन्यसारे क्लीबम् । अरोगे नीरोगे त्रिषु ॥ अप्सु च घृतामृते । आज्य च घृतम् । "अयाचिते यज्ञशेषे निर्वाणे चापि सुन्दरे । अमृतं वारिणि प्रोक्तमतिहृद्ये च वस्तुनि ॥" इति व्याडिः॥
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । कलधौतं रूप्यहेम्नोः रूप्यमन्तस्थावत् ॥ निमित्तं हेतुलक्ष्मणोः ॥ ७४ ॥ 'निमित्तं कारणे चिह्ने' इत्यजयः ।। श्रुतं शास्त्रावधतयोः अवधृते आकलिते ॥ युगपर्याप्तयोः कृतम्। युगं (सत्य)युगम् । पर्याप्तं निवारणम् । "शक्ती निवारणे तृप्तौ पर्याप्तं स्याद् यथेप्सिते" 'इति रुद्रः॥ अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ७५ ॥ कर्म जीवानपेक्षीति साहसं कर्म । युक्त क्षमादावते भूतं प्राण्यतीते समे त्रिषु । युक्त न्याय्यम् । क्ष्मादौ महाभूतपञ्चके । ऋते सत्ये । प्राणीति प्राणिमात्रम् । अतीते वृत्ते । भूतं क्लीबम् । उत्तरपदभूतो भूतशब्दः समे सदृशे वर्तते । यथा पितृभूतो मातृभूतः । "क्ष्मा(दौ च तौ ? दावृते) च भूतं स्यात् पिशाचादौ नृशण्डयोः" इत्यमरमाला ॥ वृत्तं पद्ये चारने विष्वतीते दृढनिस्तले ॥ ७६ ।। श्लोकचरित्रयोवृत्तं क्लीबम् ॥ महद्राज्यं च महद् बृहदपि ॥
१०२ नामलिङ्गानुशासनं [तृतीयं काण्ड अवगीतं जन्ये स्याद् गर्हिते त्रिषु । जन्ये जनापवादे क्लीबम् ॥ श्वेतं रूपयेऽपि सितेऽपि श्वेतम् ।। रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७७ ॥ हेमरूप्ययोः क्लीबम् ॥ अवदातः सिते पीते शुद्ध शुद्धे विशुद्धेऽवदातं कर्म ॥ बद्धार्जुनौ सितौ। बद्धः । अर्जुनः धवलः॥ युक्ततिसंस्कृते मर्षिण्यभिनीतः युक्ते न्याय्ये । मर्षः क्षमा ॥ अथ संस्कृतम् ॥ कृत्रिमे लक्षणोपेतेऽपि क्रियया निवृत्तं कृत्रिमं । घटादि । लक्षणोपेते पाणिनीयादिलक्षण- युक्ते शब्दे साककह इति ख्याते. ॥ अनन्तोऽनवधावपि । अवधिशून्ये । दुरालभा वि (शापू ? शल्या दू) र्वा (पि?) उत्पलशा- (लिनी ! रिबा)। "अनन्तो ना हरौ शेषे नगे क्लीबं विहायसि" ॥ ख्याते हृष्ट प्रतीतः हृष्टः सन्तुष्टः ॥ अभिजातस्तु कुलजे बुधे ॥ ७९ ॥ कुलजः कुलीनः ॥
नानार्थवर्गः ३] टीकासर्वस्वास्यव्याख्यासमेतम् । १०३ - विविक्तौ पूतविजनी विगतजनसङ्घातो विजनः ।। मूर्छितौ मूढसोच्छ्यौ। मूढो मूर्खः । सोच्छयो वृद्धियुक्तः ॥ द्वौ चाम्लपरुषौ शुक्ती 'शुक्तं पूताम्लनिग्लुर' इति तालव्यादौ रभसः । अम्लविशेषेऽपि शुक्तम् । यदाह "मृन्मयादिशुचौ भाण्डे सक्षौद्रगुडकाञ्जिके । धान्यराशौ त्रिरात्रस्थं चुनं तच्छुत्तामुच्यते ॥ शिनी धवलमेचकौ ॥ ८ ॥ 'शितिर्धवलकोप्णयोरि ति तालव्यादावजयः । स्त्रियां शिती ।। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् । सत्ये यथासंभूते । अभ्यर्हिते अचिते ।। पुरस्कृतः पूजितेऽरात्यभियुक्तंऽननः कृते ॥ ८१ ॥ अरात्यभियुक्तः शत्रुणाकान्तः । अग्रतः कृतः पुरो व्यवस्थापितः ।। निवातावाश्रयावाती शस्त्राभयं च वर्म यत् । आश्रयो निवासः । अवातो वातशून्यो देशः ।। जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिताः जात उत्पन्नः । उन्नद्ध उन्नतः । प्रवृदो बहलतां गतः ।। उत्थितास्त्वमी ।। वद्धिमत्प्रोद्यतोत्पन्नाः वृद्धिमदादिषु त्रिषु उत्थितः । प्रोद्यते यथा सृस्थितो राजा ॥ आदती सादरार्चिती। PMum- अत्र तान्तसमाप्तिमातृकासु न दृश्यते ।
१०४ नामलिङ्गानुशासनं तृतीयं काण्ड अर्थोऽभिधेयरैवस्तुप्रयोजननिवत्तिषु ॥ ८३ ॥ निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ । निदानमादिकारणम् । आगमो मुनिवचनम् । ऋषिसेवितजलं वारा- णस्यादि ॥ समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च ॥ ८४ ॥ शक्तिस्थे शक्तियुक्ते । सम्बद्धोऽर्थोऽस्येति सम्बद्धार्थः ॥ दशमीस्थौ क्षीणरागवृद्धौ क्षीणरागो नष्टबीजः ॥ वीथी पदव्यपि। पदवी मार्गः । पङ्गिहाङ्गं रूपकं च वीथी । आस्थानीयत्नयोरास्था आस्थानी सभा ॥ प्रस्थोऽस्त्री सानुमानयोः॥८५ ॥ मानं परिमाणविशेषश्च ॥ थान्तः। अभिप्रायवशी छन्दो अभिप्राय आशयः । वशे यथा स्वच्छन्दाश्छात्राः ॥ अब्दौ जीमूतवत्सरौ। पर्वतभेदेऽप्यब्दः ॥ अपवादौ तु निन्दाज्ञे आज्ञा निदेशः॥ दायादी सुतबान्धवौ ॥ ८६ ॥ बान्धवो ज्ञातिः ॥ पादा रश्म्य वितुर्यांशाः तुर्याशश्चतुर्थाशः ॥
RAMANA नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । चन्द्राग्न्यर्कास्तमोनुदः। अर्कः सूर्यः ॥ निर्वादो जनवादेऽपि जनवादो निन्दा । अवज्ञानिश्चितवादयोरपि निर्वादः ।। शादो जम्बालशष्पयोः॥८७॥ शष्पं नवतृणम् ।। सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे । आर्तध्वनिरारावः, तत्सहिते रुदिते आक्रन्दः । त्रातरि यथा -- निराक्रन्दं जगत् । दारुणे इति रणविशेषणम् ।। स्यात् प्रसादोऽनुरोधेऽपि कार्यप्रमाणप्रसक्तिषु प्रसादः ।। सूदः स्याद् व्यञ्जने त्रिषु ॥८८ ॥ सूपकारोऽपि सूदः ॥ गोष्ठाध्यक्षेऽपि गोविन्दः हरौ च गोविन्दः ॥ हर्षेऽप्यामोदवन्मदः। यथा आमोदशब्दो हर्षे तथा मदशब्दश्च । अतिनिहारिगन्धोऽप्या- मोदः । गर्वगजदानयोश्च मदः ॥ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ॥ ८९ ॥ प्रधानमेव प्राधान्यम् । राजलिङ्ग राजचिहं कनकदण्डादि । ककुच्छब्दो- ऽप्येषु ।। स्त्री संविज्ञानसम्भाषाक्रियाकाराजिनामसु । क्रियायाः कारो निश्चयः । आजिः युद्धम् । स्त्रीति उपनिषदा शरदा च सम्बध्यते ॥ धर्मे रहस्युपनिषत् " नामलिङ्गानुशासनं [तृतीयं काण्ड - वेदान्तेऽप्युपनिषत् ॥ स्याहतौ वत्सरे शरत् ॥९॥ ऋतुविशेषे ऋतौ ॥ पदं व्यवसितित्राणस्थानलक्षाद्धिवस्तुषु । व्यवसितिश्च व्यवसायः । लक्षं व्याजः । 'पदं स्थानेऽपदेशे चे' त्यादिना धरणिश्च । लक्ष्मपाठे तु लक्ष्म चिह्नम् । तथाहि- "पदं स्थाने परित्राणे व्यवसायापदेशयोः” (2) इत्यजयः ।। गोष्पद सेविते माने सेविते गोभिरेव सेविते देशे । मीयतेऽनेनेति मानं गोखुरश्वभ्रं गोष्प- इमात्रक्षेत्रम् । गोष्पदं मूर्धन्यवत् । "गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे" इति रभसः ॥ प्रतिष्ठा कृत्यमास्पदम् ॥ ९१ ।। प्रभुत्वं स्थानमात्रकं च प्रतिष्ठा । कृत्यं कार्यम् ।। त्रिविष्टमधुरौ स्थादू इष्टो मृष्टः । दान्तवर्गावधि त्रिष्वित्यधिकारः ।। मृदू चातीक्ष्णकोमलौ। अतीक्ष्णो मन्दः॥ मूढाल्पापटुनिर्भाग्या मन्दाः स्युः मूढो मूर्खः ।। द्वौ तु शारदौ॥ प्रत्यग्राप्रतिभौ प्रत्यग्रोऽभिनवः । अधृष्टोऽप्रतिभः । शारदस्तालव्यादिः ॥ विछत्सुप्रगल्भौ विशारदौ ।
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । २०७ विद्वान् पण्डितः ॥ दान्तः। व्यामो वटश्च न्यग्रोधी व्यामो विआम इति ख्यातः । वटो वृक्षभेदः ।। उत्सेधः काय उन्नतिः॥ १३ ॥ उन्नतिः उच्छ्रायः । 'सिधु गत्याम्' । घञ् । उत्सेधः ।। पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ। पर्याहारः भौत्स इति ख्यातः ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ ९४ ॥ यज्ञियतरुरुदुम्बरादिः, तच्छाखायां परिधिः। उपसूर्यमादित्यमण्डलम् ।। बन्धकं व्यसनं चेतःपीडाधिष्ठानमाधयः। बन्धकं भूम्यादिबन्धकम् । अधिष्ठानमाक्रमणम् ।। स्युः समर्थननीवाकनियमाश्च समाधयः ॥ ९५ ।। दुर्घटप्रतिविधानं समर्थनम् । धान्यादिप्वादरो नीवाकः । नियम इन्द्रियसंयमः ॥ दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादिविनश्चरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानिवर्तने ॥ ९६ ॥ चतुर्षु अनुबन्धः । प्रकृतिप्रत्ययादेर्योऽदर्शनीयो लोप्यस्वभावो वर्णः, सोऽनुबन्धः । यथा-तिपः पकारः । विवाहामन्त्रणयात्रायां यो मुख्यं पित्रा- दिकमनुयाति शिशुः, तत्राप्यनुबन्धः । प्रकृतस्यानिवर्तने निवर्तनाभावे । यथा-वैरानुबन्धः । अनुवर्तनमिति क्वचित् पाठः ।। विधुर्विष्णौ चन्द्रमसि चन्द्रमास चन्द्रे॥ १. 'रः प्रसिद्धः ।। य' ठ. पाठ:. २. 'प' क., 'वा' म, पाठः, १०८ नामलिङ्गानुशासनं तृतीयं काण्ड परिच्छेदे बिलेऽवधिः। परिच्छेदः सीमा ॥ विधिविधाने देवेऽपि विधानं क्रिया । देवं कर्म ॥ प्रणिधिः प्रार्थने चरे ॥ ९७ ॥ प्रार्थनचरौ सुप्रसिद्धौ ॥ बुधवृद्धौ पण्डितेऽपि सुगते बुधितेऽपि बुधः । स्थविरेऽपि वृद्धः । शैलेये तु क्लीबम् ॥ स्कन्धः समुदयेऽपि च । समुदयः समूहः । "प्रकाण्डेंऽशे नृपे स्कन्धः समुदायसमूहयोः” इति रुद्रः ॥ देशे नविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ॥९८॥ देशे देशविशेषे ॥ विधा विधौ प्रकारे च विधानं विधिः । राजवेतने हस्त्यन्नेऽपि विधिः।। साधु रम्येऽपि च त्रिषु । रम्यं मनोहरम् । वाधुषिके सज्जने च साधुः ।। वधूर्जाया स्नुषा स्त्री च जाया स्वभार्या । स्नुषा पुत्रादिभार्या । स्त्रीति स्त्रीमात्रम् । वधूः न- वोढा, पृक्का शटी च ॥ सुधा लेपोऽमृतं स्नुहिः ॥ ९९ ॥ लेपः सौधादिलेपनद्रव्यम् । स्नुहिः सिन्धुः ॥ १ 'मी' जट. ज. पाठः. २. 'पः छभु इति ख्यातः। स्नु' ड. पाठः.
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । १०९ - - सन्धा प्रतिज्ञा मर्यादा प्रतिज्ञायां यथा सत्यसन्धः । मर्यादायां यथा- "उपकारिणि विस्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति ! वसुधे! कथं वहसि ॥ श्रद्धा सम्प्रत्ययः स्पृहा । स्पृहा काला ॥ मधु मद्ये पुष्परसे क्षौद्रेऽपि "दैत्यचैत्रवसन्तेषु द्रुमभेदे च ना मधुः" । अन्धं तमस्यपि ॥१०॥ अक्षिहीनेऽप्यन्धः ॥ अतस्त्रिषु अतः परे धान्तवर्गान्तास्त्रिषु ॥ समुन्नद्धौ पण्डितंमन्यगर्वितौ । पाण्डित्याभिमानयुक्तः पण्डितंमन्यः ।। ब्रह्मबन्धुरधिक्षेपे निर्देशे अधिक्षेपे यथा ब्रह्मबन्धो ! किमेवं त्वमित्यादि। निर्देश इति। यस्य द्वेषाद् नाम न ग्रहीतव्यं, स ब्रह्मबन्धुनिर्दिश्यत इत्यर्थः ।। अथावलम्बितः ॥१०॥ अविदूरोऽप्यवष्टब्धः अवलम्बित आश्रितः । अविदूर आस(न्नेनो) नातिदूरश्च ।। प्रसिद्धौ ख्यातभूषितौ। भूषितोऽलङ्कृतः ॥ . Humaunion- धान्तः। सूर्यवही चित्रभानू वहिरमिः ॥ भानू रश्मिदिवाकरौ ॥ १०२ ।।
नामलिङ्गानुशासनं [तृतीयं काण्ड रश्मिः किरणः ॥ भूतात्मानौ धातृदेहौ भूतानां प्राणिनां परमात्मत्वाद् ब्रह्मा भूतात्मा । पृथिव्यादिभूतस्वभावाद् देहोऽपि ॥ मूर्खनीचौ पृथग्जनौ। नीचो हीनजातिः ॥ ग्रामाणौ शैलपाषाणौ अभेदाच्छैलेऽपि ग्रावा ॥ पत्रिणौ शरपक्षिणौ ॥ १०३ ॥ श्येनाख्यविहगोऽपि पत्री ॥ तरुशैलौ शिखरिणी अपामार्गे शिखरी॥ शिखिनौ वहिबर्हिणौ। बर्हिणो मयूरः ॥ प्रतियत्नावुभौ लिप्सोपग्रही लिप्सा तृष्णा । उपग्रहो बन्दीग्रहणादिः । सतो गुणान्तराधानेऽपि प्रतियत्नः॥ अथ सादिनौ ॥ १०४॥ दो सारथिहयारोही हयारोहोऽश्ववा(व?)रः ।। वाजिनोऽश्वेषुपक्षिणः। इषुः काण्डः॥ कुलेऽप्यभिजनो जन्मभूम्यामपि कुलस्थानेऽप्यभिजनः॥ अथ हायनाः॥१०५॥ वर्षार्चिीहिमेदाइच वर्षों वत्सरः । अचिर्मयूखः ॥
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । - चन्द्राग्न्यको विरोचनाः । अर्को रविः ॥ केशेऽपि वृजिनः "वृजिनं कल्मषे क्लीबं के(शो शे)नो कु(न्त ? टि)ले त्रिषु" इति रभसः ॥ विश्वकर्मार्कसुरशिल्पिनोः॥१०६ ॥ अर्को रविः ॥ आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च । ब्रह्म परमात्मा । वर्म कायः॥ शको घातुकमत्तेभो वर्षकाब्दो घनाघनः ॥ १०७ ॥ घातुकश्चासौ मत्तेभश्चेति कर्मधारयः । एवं वर्षकाब्दः ।। अभिमानोऽर्थादिदर्पेऽज्ञाने प्रणयहिंसयोः। अर्थादीत्यादिना कु(लदर्पा)लादिदपै ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ॥१०८॥ मूर्तिः काठिन्यं, स एव गुणः । यथा अभ्रधनः । मूर्ते काठिन्य- युक्ते यथा घनं दधि । निरन्तरे यथा--धनं वनम् । मुस्तकविस्तारलोहमु- गरे(षु) धनो ना, कांस्यतालादिवाये च क्लीबम् ।। 2004 --- New - इनः सूर्ये इनो ह्रस्वादिः । ‘हेतुरहामिनो वः' इति मयूरः ॥ प्रभौ राजा मृगाङ्के क्षत्रिये नृषे । "प्रभौ भूमिपतौ राजा क्षत्रिये रजनीपतौ इति रभसः । अतः प्रभाविति राज्ञि सम्बध्यते ॥ वाणिन्यौ नर्तकीदूत्यौ १. 'शानां तरलेऽपि च इति विश्वः ॥' इति ठ. पाठः. २. 'नान्तरले' क. ख, . ग, ङ. छ. ट. पाठः. .
११२ नामलिशानुशासनं [तृतीयं का . (मत्ता.) मत्तस्त्री विदग्धा च वाणिनी ॥ स्रवन्त्यामपि वाहिनी ॥१०९ ॥ सेनाभेदे सेनामात्रे च वाहिनी ॥ हादिन्यौ वज्रतडितो तडिद् विद्युत् ॥ वन्दायामपि कामिनी। वृक्षे विजातीयप्ररोहो वन्दा, विलासिनी च कामिनी ।। त्वग्देहयोरपि तनुः "त्वचि काये तनुः स्त्री स्यात् त्रिष्वल्पे विरले कृशे" (इति रभसः) ॥ सूनाधोजिहिकापि च ॥ ११ ॥ अधोजिह्निका गलासुतुण्डीति ख्याता । वधस्थानेऽपि सूना। वधालाप इत्यन्यः.॥ क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके। मन्दे तुच्छं शून्यम् । मन्दे वितानीभूतहृदये ॥ अथ केतनं कृत्ये केतापनिमन्त्रणे ॥ १११॥ कृत्यं कार्यम् । केतुर्ध्वजः । निमन्त्रणमेवोपनिमन्त्रणम् ।। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः । तत्त्वं परमात्मा । तपसि यथा-ब्रह्मचारी । विप्रो द्विजातिः ॥ उत्साहने च हिंसायां सूचने चापि गन्धनम् ॥११२॥ उत्साहनमुत्साहः । सूचनमभिनयः ।। आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् । १. 'लो' ख, ट. पाठः.
मानार्थवर्गः ३] टीकासर्वस्वास्यव्याख्यासमेतम् । ܕ ܕ ܀ "अपीयस्तु प्रतीवा(यो ? पो) मारिरीतिरुपद्रवः" इति निघण्टुः । जवनं वेगः । आप्यायनं पीवनम् ॥ व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि ॥ ११३ ॥ लाञ्छनं चिह्नम् । निष्ठानं तेजनम् । स्त्रीपुंसयोरुपस्थोऽवयवः ।। स्यात् कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् । लोकापवादो लोकवादः। पशुयुद्धे, अहियुद्धे, पक्षियुद्धे ।। स्यादुद्यानं निस्सरणे वनभेदे प्रयोजने ॥ ११४॥ निस्सरणे गृहादिनिर्गमे । कृत्रिमवनं वनभेदः ॥ अवकाशे स्थितौ स्थानं स्थितौ यथा- गवां स्थानेऽश्वो बध्यताम् ।। क्रीडादावपि देवनम् । आदिना व्यवहारविजिगीषापरिदेवनेयपि । पाशके तु पुंसि ।। उत्थानं पौरुषे तन्त्र सन्निविष्टोद्गमेऽपि च ॥ ११५ ॥ उत्थानसम्पन्नो राजा । (त्रम्थेन ? तन्त्रे) सैन्ये । व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च । प्रतिरो(ह ? ध) आस्कन्दनम् ॥ मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने ॥ ११६ ॥ निर्वर्तनोपकरणानुव्रज्यासु चं साधनम् । रससाधनम् । मृतत्य संस्कारोऽमिदानम् । गति- र्गमनम् । द्रव्यं धनम् । अर्थस्य मूमिधनादेर्दापने । उपकरणमुपायो हस्त्य- श्वादिः । अनुव्रज्या अनुगमनम् ।। पौरुषे यथा Arvintymotion मारणे यथा 7 'वा' क.ख. ग. प्र.ट. पाठः, २. 'त' क.पाम:.
1 नामलिङ्गानुशासनं [तृतीयं कार्ड निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ॥११७ ॥ दानं त्यागः ॥ व्यसनं विपदि भ्रंशे दोषे कामजकोपजे । विपद् दुःखम् । भ्रंशोऽपायपतनम् । कामजे दोषे कोपजे च दोषे ।। पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाचंशेऽप्यणीयसि ॥ अणीयसीति तन्त्वाचंशस्य विशेषणम् ॥ तिथिभेदे क्षणे पर्व तिथिभेदे पूर्णिमायाम् । "दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि । पर्व क्लीबं महे चैव विषुवत्प्रभृतिष्वपि ।।" इति रभसः ॥ वम नेत्रच्छदेऽध्वनि । नेत्रच्छदे पिधानचर्मपुटे ॥ अकार्यगुये कौपीनं अकार्यमकर्तव्यम् । गुह्यमुपस्थः । तादात् तदावरणं चीराख्यं च वस्त्रं कौपीनम् ॥ मैथुनं सङ्गतौ रते ॥ ११९॥ संगतिः संयोगः । 'विवाहः सङ्गतिरिति कलिङ्गः ।। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः । प्रसूनं पुष्पफलयोनिधनं कुलनाशयोः ॥ १२०॥ क्रन्दने रोदनाहाने वर्म देहप्रमाणयोः । गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ॥ १२१ ॥ संनिवेशे च संस्थानं Wiki १. 'यःपकख. ङ. पाठः.
मानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । आकृति(सूमृत्योरपि संस्थानम् ॥ लक्ष्म चिह्नमधानयोः। चिह्न प्रसिद्धम् ॥ आच्छादनं संपिधानमपवारणमित्युभे ॥ १२२ ॥ संपिधानं परिधानम् । अपवारणं तिरोधानम् । एते आच्छादनाख्ये ॥ आराधनं साधने स्यादवासी तोषणेऽपि च । साधनं निष्पादनम् । अवाप्तिाभः । तोषणं सन्तोषणम् ।। अधिष्ठान चक्रपुरप्रभावाध्यासनेष्वपि ॥१२३ ॥ चक्रं रथाङ्गम् । पुरं नगरम् । अध्यासनमाक्रमणम् ॥ रत्नं स्वजातिश्रेष्ठेऽपि स्वजातिश्रेष्ठे ---- स्त्रीरत्नम् अश्वरत्नम् । मरतकादौ च रत्नम् ।। वने सलिलकामने । (नि)लयनिवासयोरपि वनम् ॥ तलिनं विरले स्तोके वाच्यलिई 'त्रिव(ष्टे ? रूपे) तलिनं ल(ये वे) इति रभसः ।। तथोत्तरे॥१२४॥ यथा तलिनं वाच्यलिङ्गं, तथोत्तरे नान्तावधि वाच्यलिङ्गाः ॥ समानाः सत्समैके स्युः सत् सज्जनः । समः सदृशः । एकस्मिन् यथा-समानोदरे शयितः॥ पिशुनी खलसूचकौ । सूचकः कर्णेजपः ॥ ९. 'षोत्पादनम् ॥' क. ख. ग. ङ. च. छ. अ. पाठः.
। नामलिङ्गानुशासनं [तृतबिं काण्ड हीनन्यूनावूनगयों हीनन्यूनौ द्वावनेकार्थो । गीः कुत्सितः ।। वेगिर्रौ तरस्विनौ ॥१२५ ॥ शूरो बली ॥ अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्तावपि । अपराधोऽपराधवान् । अभिग्रस्तः शत्रुणा आक्रान्तः ॥ नान्तः। कलापो भूषणे बर्हे तूणीरे संहतेऽपि च ॥ १२६ ॥ भूषणं काञ्च्यादि । बह मयूरपिच्छम् ॥ परिच्छदे परीवापः पर्याप्तौ सलिलस्थितौ । परिच्छदः पटकुटीपटवादिः । सर्वतो व्यापनं पर्याप्तिः। सलिलस्थिती जलाधारे ॥ गोधुग् गोष्ठपतिर्गोपी गोधुग् गोपालः । गोष्ठपतिः गोष्ठाध्यक्षः । अग्नौ च ॥ हरो विष्णुर्वृषाकपिः ॥ १२७॥ वृषाकपिमूर्धन्यषः ॥ बाष्पमूष्माश्रु ऊष्मणि बाप्पायते स्थाली । अश्रुणि-~बाष्पाम्भसां बिन्दवः । समाहारद्वन्द्वे ऊष्माश्रु॥ कशिपुस्त्वन्नमाच्छादनं द्वयम् । अन्नमाहारः । आच्छादनं वस्त्रम् । "एकोक्त्या कशिपू भक्ताच्छादने द्वे पृथक्कृते" इति रभसः । कशिपुस्तालव्यमध्यः पुमांश्च । क्लीबमिति त्रिकाण्डशेषः ।। तल्पं शय्यादारेषु ..
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । अट्टोऽट्टालिका । वक्ष्यमाणोऽस्त्रियामिति तरूपेनापि संबध्यते । तथा च भट्टिः --- 'ययुः सुषुप्सवस्तल्पान्' (स० ८. श्लो० १०१) इति ॥ स्तम्बेऽपि विटपोस्त्रियाम् ॥ १२८॥ पल्लवे शाखायां च विटपम् ॥ प्रासरूपस्वरूपाभिरूपा बुधमनोज्ञयोः । भेद्यलिङ्गा अमी प्राप्तरूपादित्रयं भेद्यलिङ्गं बुधमनोज्ञयोः ॥ कूर्मी वीणाभेदश्च कच्छपी॥१२९॥ कमठीसारस्वतवीणयोः कच्छपी! पान्तः। रवणे पुंसि रेफः स्यात् कुत्सिते चाच्यलिङ्गकः। फान्तः। homemarawmein अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने ॥ १३०॥ यो मृतो नैव कायान्तरं लभतें, कि(ञ्चन्त्व)शरीरी, स मरणजन्मनो- मध्यभवत्वादन्तराभवसत्त्वम् ।। कम्बुर्ना वलये शर्के वलयो बाहुभूषणम् ॥ द्विजिह्वौ सर्पसूचकौ। सूचकः कर्णेजपः ॥ पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् ॥ १३१ ॥ पूर्वोऽन्यलिङ्गः वाच्यलिङ्गः सन् प्रागाह पूर्वदिग्देशकालसम्बन्धि वस्तु आह। यथा पूर्वो ग्रामः, पूर्वं धनं , पूर्वा नदी । यदा च पूर्वजान् पितामहादीनाह , तदा पुंबहुत्वे वर्तते । यथा पूर्वे वदन्ति । पूर्वैः कृतम् ॥ - बान्तः । HeamPIN- १. 'ल्पमिति' ङ. छ. पाठः, नामलिङ्गानुशासनं तृतीयं काण्ड कुम्भौ घटेभमूर्धाशो इभमूर्षांशो मस्तकपिण्डद्वयम् ॥ डिम्भौ तु शिशुबालिशौ। बालिशो मूर्खः ॥ स्तम्भौ स्थूणाजडीभावी जडीभावो निष्पन्दता ॥ शम्भू ब्रह्मत्रिलोचनौ ॥१३२॥ विष्णौ च शम्भुः । कुक्षिभ्रूणार्भका गर्भाः गर्भस्थसत्त्वेऽपि भ्रूणः ॥ विसम्भः प्रणयेऽपि च । "विस्रम्भः स्यात् परिचये विश्वासे विप्रलम्भयोः" इत्यजयः॥ स्याद् भेयाँ दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ॥ अक्षः पाशकः॥ स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् । महारजने पुष्पे कोसुम्ब इत्येवाख्याते । करके कमण्डलौ ।। क्षत्रियेऽपि च नाभिर्ना "सुराट्क्षत्रिययोर्नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधानेऽपि स्त्रियां कस्तूरिकामदे ॥" इति रभसः ।। सुरभिर्गवि च स्त्रियाम् ॥ १३४ ॥ वसन्तजातीफलचम्पकेऽपि सुरभिर्ना, सुगन्धिमनोज्ञयोस्त्रिषु ।।
नार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । सभा संसदि सभ्ये च संसद् गोष्ठी। सभ्यः सभासत् ॥ त्रिष्वध्यक्षेऽपि वल्लभः। दयिते च वल्लभः ॥ भान्तः। wwer किरणप्रग्रहौ रश्मी अश्वादिसंयमनी रज्जुः प्रग्रहः ।। कपिभेको प्लवङ्गमौ॥१३५॥ प्रवङ्गमोऽप्यत्र॥ इच्छामनोभवौ कामी निकाम(रेतः)का (मेम्येषु च कामं क्लीबम् ।। शौर्योद्योगौ पराक्रमौ। प्राणमात्रेऽपि पराक्रमः ॥ धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ॥ १३६ ।। षट्सु धर्मः ॥ उपायपूर्व आरम्भ उपधा चाप्युपक्रमः । उपायज्ञानपूर्वको यः कार्यारम्भः स उपायपूर्वः । अमात्यशीलपरीक्षो- | उपधा॥ वणिक्पथः पुरं वेदो निगमाः वणिक्पथो वाणिज्यम्॥ नागरो वणिक् ॥१३७॥ नेगमौ द्वौ नगरे भवो नागरः ॥ बले रामो नीलचारुसिते त्रिषु । बले रामो ना, नीलादित्रये त्रिषु ।।
१२० नामलिङ्गानुशासनं [तृतीयं काण्ड शब्दादिपूर्वो बृन्देऽपि ग्रामः शब्दादिपूर्वो ग्रामो बृन्दे । यथा--- शब्दग्रामः । विषयग्रामः । अपिना संवसथेऽपि ग्रामः ॥ क्रान्तौ च विक्रमः ॥१३८॥ क्रान्तिः क्रमणम् । पराक्रमो विक्रमः ॥ स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलस। गुल्मा रुक्सभ्यसेनाश्च रुक्सभ्यो गुल्मपतिरिति केचित् । सभ्योऽपपाठः, स्तम्ब इत्येव पाठ इत्यन्यः । सेनाभेदः सेना । गुल्मकेऽपि गुल्मः ॥ जामिः स्वमुकुलस्त्रियोः॥१३९॥ "प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोः" इति रभसः। "जिझस्तु कुटिले मन्दे जामिः स्वसूकुलस्त्रियोः" इति चवर्गादावजयः ॥ क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु । क्षितिभूमिः । युक्ते न्याय्ये ॥ त्रिषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिया निशा॥ हरिति यथा शुकः श्यामः । शारिबा श्यामलता । (अनन्तापन :) यस्या मूलम् अनन्तमूलमिति ख्यातम् । निशा रात्रिः ।। ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु । १. 'यनास्या' अ. पाठः, वर्ग: ३] टीकासर्वस्वास्यव्याख्यासमेतम् । १२१ "ललाम च ललामं च भूपावालधिवाजिषु । चिप्रभावपुण्ड प्रधाने ध्वजशृङ्गयोः ॥" यः । अतोऽदन्तमपि ललामम् । पुच्छे लाङ्गुलम् । पुण्डूं गवादीनां ललाटे . सूक्ष्ममध्यात्ममपि आत्मन्यधि अध्यात्मम् । परमात्मनीत्यर्थः । स्वल्पेऽपि सूक्ष्मम् ॥ आदौ प्रधाने प्रथमः प्रधान श्रेष्ठ ॥ त्रिषु ॥१४१॥ वामी वल्गुप्रतीपाश्री मान्तं यावत् त्रिग्वित्यधिकारः । वामा मनोहरः ! यथा वामलो- प्रतीपो विपरीतः ।। अधमौ न्यूनकुत्सितौ। and- न्यूनः अनः ॥ जीणं च परिभुक्तं च यातयाममिदं वयम् ॥१४२॥ परिभुक्तं भुक्ताज्झितम् । यातयामे यद्वयमन्तःस्थम् ॥ तुरङ्गगरुडा ताक्ष्यो तुरङ्गोऽश्वः ॥ निलयापचयो क्षयौ । निलयो गृहम् । अपचयो हासः ।। श्वशुर्यों देवरश्यालो 'राजश्वशुराद् यत्' (५. १. १३७) इति यत् । श्वशुर्यः ॥ भ्रातृव्यौ भ्रातृजद्विषौ ॥१४३॥ 'भ्रातुर्व्यच्च' (४. १. १४४) इति व्यत् । भ्रातृव्यः ।। ।
१२२ नामलिङ्गानुशासनं तृतीयं काण्ड पर्जन्यौ रसदब्देन्द्रौ 'पृषु सेचने' । 'पर्जन्यः' (उ० ३. १०३) इत्यनेन अन्यप्रत्ययः कारस्य चवर्गीयो जकारश्च निपात्यते । पर्जन्यः । अर्जेर्वान्यप्रत्ययः पु- डागमश्च धातोः । रसदब्दः सशब्दो मेघः ॥ स्यादर्यः स्वामिवैश्ययोः। स्वामी प्रभुः ॥ तिष्यः पुष्ये कलियुगे पुष्यो नक्षत्रभेदः॥ पर्यायोऽवसरे क्रमे ॥ १४४॥ प्रकारेऽपि पर्यायः ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । रन्ध्रे शब्द 'स्वप्रत्यया वृत्तिरभीतवासः' । हेतौ यथा-'अपेक्षते प्रत्ययमुत्तमं त्वाम् । (स?) शब्दः स(न्ध्य ? क्य)जादिः । अथानुशयो दीर्घद्वेषानुतापयोः ॥१४५॥ दीर्घद्वेषश्चिरद्वेषः ॥ स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते । असाकल्यमकास्यम् । नागानां गजानां मध्यमं गतं गमनं नाति- त्वरया नातिमन्दं सेवितम् ॥ समयाः शपथाचारकालसिद्धान्तसंविदः ॥१४६॥ १ अधीने यथा क्रियाकारो निश्चय इति यावत् (?) ॥ १. 'धी' अ. पाठः.
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । १२३ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रय" व्यसनं अंशादिदोपः । अशुभं दैवविशेषणम् ।। अत्ययोतिक्रमे कृच्छ्रे दोषे दण्डेऽपि नाशेऽप्यत्ययः ॥ अथापदि ।।१४७॥ युद्धायत्योः संपरायः आयतिरागामिकालः ॥ पूज्यस्तु श्वशुरेऽपि च । पूजाहेऽपि पूज्यः ॥ पश्चादवस्थायि बलं समवायश्च संनयौ ॥१४८ ॥ सेनायाः पृष्ठस्थायि बलम् । समवायः समूहः । "समुन्नयः समुदये पृष्ठस्थायिबलेऽपि च" इति त्वजयः ॥ समाते सन्निवेशे च संस्त्यायः सन्निवेशो निकर्षणम् ॥ प्रणयास्त्वमी। विस्रम्भयाच्याप्रेमाणः विस्रम्भः परिचयः ॥ विरोधेऽपि समुच्छूयः॥१४९॥ विरोधो वैरम् । उन्नतावपि समुच्छयः ।। विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि । यस्य यो ज्ञात इति येन य एकान्तं परिशीलितो निषेवित इति यावत् । शब्दादिकाः शब्दस्पर्शरूपरसगन्धाः ।। tra १. “यि दन्वब' क. ख. अ. च. छ., यिमुदन्वब' घ. पाठः.
१२४ नामलिङ्गानुशासनं [तृतीयं काण्ड निर्यासेऽपि कषायोऽस्त्री निर्यासः क्वाथरसः । "रसभेदेऽङ्गरोगे च निर्यासे च विलेपने । कषायोऽस्त्री त्रिलिङ्गस्तु सुरभौ रुधिरेऽपि च ॥' इति रभसः॥ सभायां च प्रतिश्रयः॥१५॥ . आश्रयमन्दिरयोरपि प्रतिश्रयः ।। प्रायो भूनयन्तगमने भूम्नि बाहुल्ये । अन्तं गम्यतेऽनेनेत्यन्तगमनम् । संन्यासपूर्वकम- नशनम् ॥ मन्युदैन्ये क्रतो ऋधि । 'मन्युदैन्ये क्रतौ क्रुधी'त्यमरमालायां पुंस्काण्डम् ।। रहस्योपस्थयोगुद्य कमठेऽपि गुह्यः पुमान् ॥ सत्यं शपथतथ्ययोः ॥ १५१॥ युगभेदेऽपि सत्यम् ॥ वीय बले प्रभावेच बलं रेतः॥ द्रव्यं भव्ये गुणाश्रये। भव्यो भाग्यसंपन्नः ॥ धिष्ण्यं स्थाने गृहे भेऽग्नौ भे नक्षत्रे । 'गृहे धिष्ण्यः पुमानि ति शाश्वतः ॥ १. 'लेपेच घ. पाठ:. २. 'गेनि' क. ख. ग. ङ, छ, म. ट. ठ. पाठः, * नानार्थवर्गः ३] टीकासर्वस्वाथ्यव्याख्यासमेतम् । १२५ भाग्यं कर्म शुभाशुभम् ॥ १५२।। शुभाशुभमिति सङ्घातविगृहीतम् । तेन न केवलमशुभं शुभं च ॥ कशेरुहेम्नोर्गाङ्गेयं कशेरु स्वनामप्रसिद्धम् ।। विशल्या दन्तिकापि च । दन्तिका दन्तीमूलन् । ओषधिभेदे च विशल्या ।। वृषाकपायी श्रीगाया वृषाकर्भार्या वृपाकपायी । वृपाकप्यग्नि (४.१. ३७) इत्यादिना डीबैकारादेशौ ।। भिखया नामशाभयोः ॥ १५३ ।। कीविप्यभिख्या ॥ आरम्भो निष्कान शिक्षा पूजनं मंधारणम् । उपायः कर्मचारिकिनाचनक्रियाः॥१५४॥ , NRAIPURBEIN आरम्भादिपु नवमु क्रियाशनः কাদা কাগ ক্ষানি লিলি লানত্বঃ । अनातप आतपाभावः ।। कक्ष्या प्रकोठेहादेःकाच्या मध्यभवन्धने ॥१५॥ । मध्येभवन्धनं करिकक्षरज्जुः । त्रिकापडशेपे तु कक्षा मूर्धन्यान्ते पठ्यते ।। कृत्या क्रियादेवतयोस्त्रिाभेये धनादिभिः। देवता यज्ञदेवताविशेषः । धनत्रीभूम्यानिनिर्मदीयो य : परराष्ट्र पुरुषः, तत्र वर्तमानः कृत्यशब्दो वाच्यलिङ्गः । इतः परं यान्तावधि त्रिवित्य- नुवर्तते ॥
नामलिङ्गानुशासनं [तृतीयं काण्डं जन्यः स्याज्जनवादेऽपि जामातृस्निग्धेऽपि जन्यः ॥ जघन्योऽन्त्येऽधमेऽपि च ॥१५६॥ अन्त्ये पश्चाद्भवे ॥ गांधीनौ च वक्तव्यौ गयः कुत्सितः । अधीनो वचनग्राही ॥ कल्यौ सज्जनिरामयौ । सज्ज संभृतम् । निरामयो नीरुक् ॥ आत्मवाननपेतोऽर्थादथ्यो आत्मवान् विज्ञः । 'अर्यो विज्ञार्थशालिनोः' इत्यजयः । 'धर्मपथ्यर्थन्या- यादनपेते' (४. ४. ९२) इति यत् । अर्थ्यः ।। पुण्यं तु चार्वपि ॥ १५७ ॥ सुकृतेऽपि पुण्यम् ॥ रूप्यं प्रशस्ते रूपेऽपि 'रूपादाहतप्रशंसयोर्यप्' (५. २. १२०) इति यप् । रूप्यम् ॥ वदान्यो वल्गुवागपि । वर्ण ? ल्गु)वाग् वाग्मी । दानशीलेऽपि वदान्यः ॥ न्याय्येऽपि मध्यं न्याय्यमुचितम् । आद्यन्ताभ्यामन्यश्च मध्यः । सौम्यं तु सुन्दरे सोमदैवते ॥१५८॥ सौम्यं हविः । 'सोमाट्यम्' (४. २. ३०) इति व्यग् ॥ सोमदैवते यथा - यान्तः।
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । १२७ निवहावसरौ वारी निवहः समूहः ॥ संस्तरौ प्रस्तराध्वरौ। वल्कलद दिशय्या प्रस्तरः ॥ गुरू गीपतिपित्राद्यौ गीर्पतिः सुरमन्त्री ॥ द्वापरौ युगसंशयौ ॥ १५९॥ युगं तृतीयम् ॥ प्रकारी भेदसादृश्ये भेदे नानाविधे ॥ आकाराविङ्गिताकृती। आकृतिः संस्थानम् ॥ किंशारू धान्यशकेषु इषुः शरः । धनुश्च किंशारुः, ना॥ मरू धन्वधराधरौ ॥ १६० ॥ धन्वा निर्जलो देशः । धराधरो गिरिः ॥ अद्रयो द्रुमशैलार्काः अर्को रविः ॥ स्त्रीस्तनांब्दी पयोधरौ। अब्दो मेघः ॥ ध्वान्तारिदानवा दृत्राः १२८ नामलिङ्गानुशासनं [तृतीयं काण्ड स वृत्रो य इन्द्रेण हतः ॥ बलिहस्तांशवः कराः॥१६१ ।। राजग्राह्यो भागो बलिः ॥ प्रदरा भङ्गनारीरुग्याणाः नारीरुग् रक्तप्रवाहः ॥ अस्राः कचा अपि । नेत्रान्बुरुधिरयोरप्यतः ॥ अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तृवरौ ॥१६२॥ प्राप्तकालेऽपि यस्य गोः शृङ्ग नोत्पद्यते, यस्य वा पुरुषस्य कालेऽपि न श्मश्रुसम्भवः, तौ तूबरौ ॥ स्वर्णेऽपि राः 'रादेवीविहले (१) स्वर्ण' इति रुद्रः ॥ परिकरः पर्यङ्कपरिवारयोः। "भवेत् परिकरो बृन्दे परिवार विवेकयोः । आरम्भगात्रिकाबन्धपर्यकेषु परिच्छदे ।।" इत्यजयः । परिवारः परिजनः ।। मुक्ताशुद्धौ च तारः स्यात् मुक्तायाः शुद्धिः धवलता । अत्युच्चस्वरोऽपि तारः ।। शारो वायो स तु त्रिषु ॥१६३॥ कर्बुरे कबुरे शबले त्रिषु । शारः तालव्यादिः ॥ - १. 'भे'. छ. ट. पाठः. २. 'वि' अ., विितहख., "त्रिः है' 2. पाठः. tandareemattern * 'रा दाने विभ्रमे स्वर्ण' इति पाठः स्यात् ।
नानार्थवर्गः३] टीकासर्वस्वास्यव्यास्यासमेतम् । अथ प्रतिज्ञाजिसंविदापत्सु संगरः। आजिः युद्धम् । संवित् क्रियाकारः । आपद् विपत्तिः ।। वेदभेदे गुप्तिवादे मन्त्रः गुप्तिवादे सम्यगालोचने ॥ मित्रो रवावपि ॥१६४॥ सुहृदि मित्रं क्लीबम् ॥ मखेषुयूपखण्डेऽपि स्वरुः इषुः काण्डम् । दम्भोलौ स्वरुः ॥ गुह्येऽप्यवस्करः। गूढेऽप्यवस्करः ॥ आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ १६५ ॥ तूर्यरवे सामामिके ॥ अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च । अपचिकीर्षयाभिकम्याक्रमणमभियोगः ।। स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ॥ १६६ ॥ जङ्गमः परिजनः। (परीवारः) परिजने खड्गकोषे परिच्छदे" इति रुद्रः ॥ विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् । विटपी वृक्षः । 'वृक्षासनयोर्विष्टरः' (८. ३.९३) इति षत्वम् ।। द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे ॥१६७॥ निकटवाची अनन्तरशब्दः । अनन्तरे द्वाःस्थे प्रतीहारिशब्दा णिन्यन्त इत्यर्थः । अणन्त इत्यपरः ॥ 8 १३० नामलिङ्गानुशासनं [तृतीयं का विपुले नकुले विष्णौ बभ्रः स्यात् पिङ्गले त्रिषु । विपुल इति नकुलविशेषणम् ॥ सारोबले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु॥१६८ ॥ बलं सामर्थ्यम् । स्थिरांशः खदिरसारादिः । न्याय्ये युक्ते क्लीबम् । वरे श्रेष्ठे ॥ दुरोद्रो यतकरे पणे द्यते दुरोदम् । द्यूतकरोऽक्षदेवी, तत्र पुंसि । अन्यत्र क्लीबम् । "आश्रित्य दुर्ग गिरिकन्दरोदरं क्रीडन्नमुप्मिन् सततं दरोदरम्" इति निरुकारं गोवर्धनः पठति ॥ महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकम् ॥ १६९ ॥ दुर्गपथे अनवगम्यवने ॥ मत्सरोऽन्यशुभषे तवत्कृपणयोस्त्रिषु । अन्यशुभद्वेषः परसंपत्तावसहमानता । तद्वति परसंपत्तिद्वेषिणि ॥ देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये ॥१७॥ देवात् सकाशाद् वृते वाञ्छिते । मनाप्रिये मनागिष्टे । जामातर्यपि , वरः॥ --- वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना। घटे कलशे॥ ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥१७१ ॥ चमूजघने सेनायाः पश्चाद्भागे ॥ यमानिलेन्द्रचन्द्राकविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिनी कपिले त्रिषु ॥ १७२।। चतुर्दशसु हरिः ॥
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । १३१ शर्करा कर्परांशेऽपि कर्परांशो शिकराख्यः । शर्कराइम(स)रोगयोश्च ।। यात्रा स्याद् यापने गतौ । यापनं स्नानभोजनादिना वर्तनम् ॥ इरा भूवाक्सुराप्सु स्यात् सुरा मद्यम् ॥ तन्द्रा निद्राप्रमीलयोः॥ १७३ ॥ प्रमीला मोहप्राया ॥ धात्री स्थादुपमातापि क्षितिरप्यामलक्यपि । मात्रा उपमिता उपमाता इति व्याख्याता ।। क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका॥१७४ ॥ त्रिषु करेऽधनेऽल्पेऽपि क्षुद्रः अङ्गविकला व्यङ्गा । सरधा मधुमक्षिका ।। मात्रा परिच्छदे । अल्पे च परिमाणे स्यान्मात्रं कात्स्न्येऽवधारणे॥१७५ ॥ परिच्छदः परिकरः । यथा कापालिकस्य मात्रा । अल्पे यथा- शाकस्य मात्रा । परिमाणे यथा • कि हस्तिमात्रोऽङ्कुशः । एषु मात्रा स्त्रि- जीवमात्रं न हिंस्यात् । अवधारणे पयोमात्रं भुङ्क्ते । अनयोः क्कीबम् ॥ आलेख्याश्चर्ययोश्चित्रं आलेख्यं चित्रकरकर्म ॥ कलत्रं श्रोणिभार्ययोः। श्रोणिः कटीभागः॥ Patenews Momso- WHIARRIOR याम् । कास्न्य 1. 'सि' ख. पाठः. २. 'स्का' क. ख. ग. घ, ङ, च. छ. ट., 'का' ज. पाठः, , नामलिशानुशासनं तृतीयं का योग्यभाजनयोः पात्रं योग्यः शक्तः। तीरद्वयान्तरे पात्रम् ।। पत्रं वाहनपक्षयोः॥ १७६ ॥ वाहनमश्वादि । पक्षो गरुत् । पर्णेऽपि पत्रम् ॥ निदेशग्रन्थयोः शास्त्रं निदेश आज्ञा ॥ शस्त्रमायुधलोहयोः। आयुधं खड्गादि ॥ स्याज्जटांशुकयोर्नेत्र जटा वृक्षमूलम् । अंशुकं नेत्राख्यम् । लोचनमन्थकर्षणयोरपि नेत्रम् ॥ क्षेत्रं पत्नीशरीरयोः॥ १७७॥ केदारसिद्धस्थानयोश्च क्षेत्रम् ॥ मुखाग्रे क्रोडहलयोः पोत्रं सूकरमुखाग्रे हलमुखाग्रे च पोत्रम् ॥ गोत्रं च नाम्नि च। "गोत्रं कुले बले नाम्नि गोत्रस्तु धरणीधरे । गोत्रा भुवि गवां वृन्दे" इत्यजयः ॥ सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ १७८॥ आच्छादने छादने ॥ अजिरं विषये कायेऽपि विषयो रूपादिः । अङ्गणेऽप्यजिरम् ।।
नानार्थवर्गः३] टीकासर्वस्वास्यव्याख्यासमेतम् । अम्बरं व्योम्नि वाससि । सुगन्धिद्रव्यभेदेऽप्यम्बरम् ॥ चक्रं राष्टेऽपि "चक्रः कोके व्रजे पुंसि क्लीबे सैन्यरथाङ्गयोः । ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥" इति त्रिकाण्डशेषः ॥ अक्षरं तु मोक्षेऽपि 'अक्षरं ब्रह्मवर्णयोरिति रुद्रः ॥ क्षीरमप्सु च ॥१७९॥ दुग्धेऽपि क्षीरम् ॥ स्वर्णेऽपि भूरिचन्द्रौ दौ प्रचुरेऽपि भूरिस्त्रिषु । स्वर्णपर्याये त्वस्य रूपभेदाद् क्लीबत्वमुक्तम् । "इन्दुकर्पूरकम्पिल्लाश्चन्द्राश्चन्द्रोऽपि हेमनि" इति रुद्रः ।। द्वारमात्रे तु गोपुरम् । पूद्वारे कैवर्तीमुस्तके च गोपुरम् ॥ गुहादम्भौ गह्वरे वे गुहा गुहा इति ख्याता । 'गहरी गुहे'ति तूणादिवृत्तिः ।। रहोऽन्तिकमुपहरे ॥१८॥ रहो विजनम् । अन्तिक समीपम् ।। पुरोऽधिकमुपर्यग्राणि पुर इति पुरस्तात् । प्रलयविनाशेऽप्यग्रम् ॥ अगारे नगरे पुरम् ।
१३४ नामलिङ्गानुशासनं [तृतीयं काण्ड मन्दिरं च यथा पुरमगारे नगरे च तथा मन्दिरमप्येतयोः । अथ राष्टोऽस्त्री विषये स्यादुपद्रवे ॥ १८१॥ विषयो जनपदः । उपद्रवो नागरादिः ।। दरोऽस्त्रियां भये श्वभ्रे श्वभ्रो गर्तः ॥ वजोऽस्त्री हीरके पवौ। पविर्वज्रम् ॥ तन्त्रं प्रधाने सिद्धान्ते सूत्रवापे परिच्छदे ॥ १८२॥ प्रधाने यथा--- स्वतन्त्रः । कुविन्दा येन तन्तुवापं कुर्वन्ति, स सूत्र- वापः । परिच्छदे पांचकादौ(?)॥ औशीरं चामरे दण्डेऽप्यौशीरं शयनासने । चमरस्यायं चामरो दण्डः । आसनं पीठादि ॥ पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ॥ १८३ ॥ व्योम्नि खङ्गफले पद्मे तीर्थौषधिविशेषयोः। करिहस्ताग्रेऽङ्गुलौ । वाद्यभाण्डमुखं मुरजादिमुखम् । खड्गस्य फलं मध्यम् ॥ अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयें ॥१८४॥ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च । अवकाशे - 'मृणालसूत्रान्तरमप्यलभ्यम्' । अन्तर्षी -- 'ज्योत्स्ना- न्तराणीव कलान्तराणि' । भेदे --- 'यदन्तरं वायसवैनतेययोः' । तादयें - तवान्तरे ऋणं गृहीतम् । छिद्रं रन्ध्रम् ।। SHARINRNAMMEHAR १. 'वायका' ग. रु. च. छ. अ., 'वायिका' क. ख. ट., 'पायिका' घ. पाठः, २. 'रेण ऋ' ट. पाठः.
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । मुस्तेऽपि पिठरं "स्थाल्यां ना पिठरः क्लीबं मुस्तमन्थनदण्डयोः” ॥ राजकशेरुण्यपि नागरम् ॥ १८५॥ राजकशेरु विशिष्टं तृणम् । शुण्ठ्यां च क्लीबम् । विदग्धे तु नागरः ॥ शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् । शार्वरं तालव्यादि । घातुको मारणशीलः । अतः परं वाच्यलिङ्गग्रहणं रान्तान्तमनुवर्तते ॥ गौरोऽमणे सिते पीते चन्द्रेऽपि गौरः ।। व्रणकार्यप्यरुष्करः॥ १८६ ॥ भल्लातक्यां चारुष्करः ।। जठरः कठिनेऽपि स्याद् "उदरे जटरो न स्त्री बद्धकक्खटयोस्त्रिपु" इति रुद्रः ॥ अधस्तादपि चाधरः। हीने त्वधरस्त्रिषु । ओष्ठे तु ना ॥ अनाकलेऽपि चैकाग्रः अप्येकतानोऽप्येकामः ॥ व्यग्रोऽन्यासक्त आकुले ॥१८७॥ . अन्यासक्तो दन्त्यवान् ॥ उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्याद् उदीच्यो देशादिः । प्रतिवाक्ये तु उत्तरं क्लीबम् ।। - नामलिङ्गानुशासनं तृतीयं काण्ड - अनुत्तरः। एषां विपर्यये श्रेष्ठ उपर्यादीनां विपर्यये अनुत्तरः। नसमासः॥ दूरानात्मोत्तमाः पराः॥ १८८ ॥ अ(न्या?ना)त्मनि यथा परस्य भोजनमिच्छति ग्लानः ।। स्वादुप्रियौ च मधुरौ रसेऽपि मधुरः पुंसि । रसवति त्रिषु । विषेऽपि क्लीबम् ॥ करौ कठिन निर्दयो। भयङ्करेऽपि क्रूरः॥ उदारो दातृमहतोः दक्षिणेऽप्युदारः ॥ इतरस्त्वन्यनीचयोः ॥ १८९ ॥ नीचः पामरः ॥ मन्दस्वच्छन्दयोः स्वैरः मन्दः मन्थरः ॥ शुभ्रमुद्दीप्तशुक्लयोः। दीप्तम् उद्दीप्तम् ॥ रान्तः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥१९॥ चूडा शिखा । किरीटं रत्नादिघटितम् । संयंताः कचाः धम्मिल्लः ॥ द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः। मातङ्गो हस्ती ॥ १. 'ह' क. ख. ग. ङ. छ. ट. उ. पाठः.
विर्ग: ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । कृतान्तानेहसोः कालः अनेहा समयः ॥ चतुर्थेऽपि युगे कलिः ॥ १९१ ॥ युद्धेऽपि कालिः॥ स्यात् कुरङ्गेऽपि कमलः पद्मजलयोः कमलं क्लीवम् ॥ प्रावारेऽपि च कम्बलः। प्रावारे मेषलोमादिमये । उत्तरासङ्गसास्नानागविशेषाणामपि कम्बलः ।। करोपहारयोःपुंसि बलि प्राण्यङ्गजे स्त्रियाम् ॥१९२॥ करो राजप्रत्यादेयः । उपहारः पूजोपहारः। प्राण्यङ्गज मिति जराश्लथं गौवनादिकृतमुदरे जटिकाकारं च चर्म ।। स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः। सीरी बलभद्रः ॥ वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ॥ १९३ ॥ वातसमूहो वात्या। "वातूलो वातसङ्घाते वातले मरुतोऽसहे" भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः । शठः खलः । श्वापदो व्याघ्रः । मलोऽस्त्री पापविदकिहानि चर्म घ. छ.ट. पाठ:. . T तृतीयं काण्ड १३८ नामलिङ्गानुशासन पापम् अपुण्यम् । विट् गू(ढंःथम्) । किट्टानि स्वेदशिवाणका- दीनि ॥ अस्त्री शूलं रुगायुधम् ॥१९४ ॥ रुक् शूलम् । आयुधं त्रिशूलादि । वेश्यायां तु शूला ॥ शङ्कावपि द्वयोः कीलः शङ्कुः कीलकः । कफोणिघातज्वालयोस्तु कीलः ॥ पालिः स्यश्रयङ्कपङ्क्तिषु । आश्रिः कोणः ॥ कला शिल्पे कालभेदेऽपि चित्रं गीतिचित्रादिनैपुण्यम् (१)। कालभेदो निमेषाणां चत्वारिंशदधि- कपञ्चशतानि ॥ आली सख्यावली अपि॥१९५।। आवलिः पतिः । सेतौ चालिः ॥ अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि । अब्धेरम्बुविकृति लवृद्धिः। कालो घटिकादिः । मर्यादा सीमा ॥ बहुला कृत्तिका गावो बहुलोग्नौ शितौ त्रिषु॥१९६ शितिः कृष्णः । गावः स्त्रीगव्यः । "कृत्तिकासु स्त्रियां भूग्नि बहुला बहुला गवि । एलायां च पुमानग्नौ कृष्णपक्षे शितौ त्रिषु ॥" इति रभसः॥ लीला विलासक्रिययोः केलौ च लीला ॥ उपला शर्करापि च । १. " . पाठः. २. 'त्रा' ख. रु.च. पाठः, नानार्थवर्गः३] टीकासर्वस्वाख्यव्याख्यासमेतम् । शर्करा खण्डविकारः॥ "उपलौ रत्नपाषाणावुपला शर्करापि च" इति रुद्रः॥ शोणितेऽम्भसि कीलालं शोणितं रक्तम् ॥ आनाये यथा मूलमाये शिफाभयोः॥१९७॥ आद्यं निजम् ॥ "मूलं निजे शिफायां स्यान्नक्षत्रान्तिकयोरपि" इत्यजयः ।। जालं समूह आनायो गवाक्षक्षारकावपि । 'जाले पुनर्निपतितः शफरो वराकः' इति । अव्य- क्ता कलिका क्षारकः ॥ शीलं स्वभावे सद्वृत्ते शोभनं वृत्तं सद्वृत्तम् ॥ सस्ये हेतुकृते फलम् ॥१९८ ॥ सस्यं धान्यादि । हेतुकृते यथा प्रमाणफलमनुभवः॥ छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। छदिः गृहच्छादनम् ॥ अधःस्वरूपयोरस्त्री तलं अधोर्थे रसातलम् । स्वरूपे करतलम् ॥ स्याचामिषे पलम् ॥ १९९ ॥ 'पलमुन्मानमांसयोरिति रुद्रः ।। और्वानलेऽपि पातालं रसातलेऽपि पातालम् ॥ madam नामलिङ्गानुशासनं [तृतीयं काण्ड Donatantan Inskr. - mmmmmm चेलं वस्त्रेऽधमे त्रिषु। वस्त्रे क्लीबं चेलम् । अधमे यथा ब्राह्मणचेली ॥ कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥२०० ॥ शङ्ककीर्णश्वभ्रं कीलकाकीर्णगतः ॥ निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्लयोः। निर्णीते केवलं क्लीबम् । यथा "केवलं दन्तभङ्गाय दन्तिनः शैलताडनम्" । एकस्मिन् यथा केवलो व्रजति । कृत्स्ने सकले यथा केवला भिक्षवः॥ पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २०१॥ पर्याप्तिः सामर्थ्यम् । शिक्षितो निपुणः ॥ प्रवालमङ्कुरेऽप्यस्त्री “वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे" इति रभसः ॥ त्रिषु स्थूलं जडेऽपि च । जडोऽबुद्धिः । पीवरेऽपि स्थूलम् ॥ करालो दन्तुरे तुझे दन्तुरमुन्नतावनतम् ॥ चारौ दक्षे च पेशलः ॥२०२॥ चारुर्जन्ममनोहरः ॥ मूर्खेऽर्भकेऽपि बालः स्यात् मूर्खाभकावज्ञशिशू । हस्तिघोटकयोलिधौ कुन्तले च पुमान् । हीबेरे कीबं बालम् ॥
नानार्थवर्गः ३]
टीकासर्वस्वास्यव्याख्यासमेतम् ।
१४१
लोलश्चलसतृष्णयोः।
सतृष्णः साकाङ्कः । जिह्वालक्ष्म्योस्तु लोला । (शाखी ? ) ॥
लान्तः।
INAMAMRPAL
वदावी बनारण्यवही
वनारण्यान्योर्दवो दावश्च । बाहुलकात् पचाद्यचि दवः । दनोते.
'दुन्योरनुपसर्गे' (३. १. १४२) इति णः । दावः ॥
जन्महर
जन्म उत्पत्तिः । संसारेऽपि भवः ।।
मन्त्री सहायः सचिवौ
सहायः निजः ॥
पतिशाखिनरा धव
शाखी शाखिविशेषः ॥
अवयः शैलमेषाः
अर्को रविः॥
आज्ञाहानाध्वरा हवाः॥
आह्वानमाहूतिः । 'हवतेश्वोपसंख्यानमिति णः । हावः ॥ .
भावः सत्त्वस्वभावाभिप्रायचेष्टात्मजन्मसु ।
सत्त्वे पदार्थे । चेष्टा क्रिया । जन्मनि यथा
बीजादङ्कुर
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥२
उत्पाद उत्पत्तिः । गर्भमोचनं प्रसूतिः ।।
अविश्वासेऽपहवेऽपि निकृतावपि निहवः।
"अविश्वासेऽपलापेऽपि निकृतावपि निवः"
इति रुद्रश्च ॥
१४२ नामलिङ्गानुशासनं तृतीयं का उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः ॥ २०६ ॥ उत्सेकः उद्गतिः । अमर्षोऽक्षमा । इच्छाप्रसर इच्छाया अतिरोहः । मह आनन्दकालः ॥ अनुभावः प्रभावे च सतां च मतिनिश्चये। सतां मतेरभिप्रायस्य निश्चये निश्चायके । अनुभावो भावबोधकः । यथा-देवानुभावः । सतामिति किं, चौरस्य प्रभावः ।। यथा - स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ २०७॥ जन्मनो हेतुः कारणम्। आद्योपलब्धये प्रथमज्ञानार्थ, स्थानम् । वाल्मीकिः संस्कृतप्रभवः । हिमालयो गङ्गाप्रभवः ॥ शूद्रायां विप्रतनये शस्त्रे पारशवो मतः। ध्रुवो भभेदे क्लीवे तु निश्चिते शाश्वते त्रिषु ॥ २०८ ॥ भभेदे नक्षत्रभेदे ॥ स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने । ज्ञातौ स्वः पुंसि ॥ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ २०९॥ स्त्रीकटीवस्त्रबन्धो ग्रन्थिः । 'नीवी प्रति प्रणिहिते तु करे प्रियेण । प- रिपणो वणिजां मूलधनम् ॥ शिवा गौरीफेरवयोः फेरेवः सृगालः॥ बन्दं कलहयुग्मयोः। कलहे युद्धे ॥
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । १४३ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ॥ २१०॥ द्रव्ये वस्तुनि । असवः प्राणाः । तथा च निस्सत्त्वो मनुष्यः । सत्त्व- शब्दो द्वितकारवान् ॥ क्लीबं नपुंसके षण्डे वाच्यलिङ्गमविक्रमे । षण्डः तृतीया प्रकृतिः । अत्र वर्तमानः कीबशब्दो नपुंसकलिङ्गः । अविक्रमोऽलसः। "अस्त्री नपुंसके क्लीबं वाच्यलिङ्गमविक्रमे" इति तु रुद्रः॥ वान्तः। - दौ विशौ वैश्यमनुजी वैश्यो विट् ॥ बौ चराभिमरौ स्पशौ॥२११॥ चरो गूढपुरुषः । अभिमरः सचनमः ।। द्वौ राशी पुञ्जमेषाद्यौ मेषाद्यो मेषवृषमिथुनप्रभृतिः ॥ द्वौ वंशो कुलमस्करौ। मस्करो वेणुः ॥ रहःप्रकाशौ वीकाशी प्रकाशः स्फुटः ॥ निवेशो भृतिभोगयोः॥ २१२ ॥ कृतान्त पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु । क्षुद्रः कृपणः॥ पदे लक्ष्ये निमित्तेऽपदेशः स्यात् पदे व्याजे॥
१४४ नामलिङ्गानुशासन [तृतीयं काण्ड कुशमप्सु च ॥ २१३ ॥ दशावस्थानेकविधापि अनेकविधावस्था बाल्यादिः । "दशावस्था(ववस्थायां ? दीपवयोः) वस्त्रांशे भूग्नि स्त्रियोः" इति रभसः ॥ आशा तृष्णापि चायता। आयता दीर्घा तृष्णा । दिगप्याशा ॥ वशा स्त्री करिणी च स्याद् वशा आयत्ता। "वशा वन्ध्यगबीयूथ्योरायत्तायोषितोरपि" इत्यजयः॥ दृग् ज्ञाने ज्ञातरि त्रिषु॥२१४॥ ज्ञाने बुद्धौ ॥ स्यात् कर्कशः साहसिक कठोराममृणावपि । कठोरो दृढो निर्दयश्च । अमसृणो दुस्पर्शश्च ॥ प्रकाशोऽतिप्रसिद्धेऽपि 'प्रकाशः स्फुटरोचिषोः' इत्यजयः । आतपेऽपि प्रकाशः ।। शिशावने च बालिशः ॥२१५॥ अज्ञो मूर्खः ॥ शान्तः। सुरमत्स्यावनिमिषो सुरो देवः ॥
नानार्थवर्गः ३] टीकासर्वस्वास्यव्याख्यासमेतम् । पुरुषावात्ममानवौ। आत्मा क्षेत्रज्ञः॥ काकमत्स्यात्खगौ ध्वाक्षी मत्स्यात्खगः बकः । 'ध्वासौ च (काकवासना ? बकवायसौ)' इत्यमर- माला ॥ कक्षौ तु तृणवीरुधौ॥२१६॥ वीरुत् लता ॥ अभीषुः प्रग्रहे रश्मा प्रग्रहोऽश्वादीनां मुखरज्जुः । रश्मिः किरणः । हरिप्रबोधयमकात् ता- लव्यान्तोऽप्यभीशुः ॥ प्रेषः प्रेषणमर्दने । मर्दनं पीडा। 'श्रेषः प्रेषणपीडयोः' इत्यजयः ।। पक्षः सहायेऽपि पञ्चदशदिनात्मकेऽपि काले पक्षः ॥ उष्णीषं शिरोवेष्टकिरीटयोः ॥२१७ ॥ शिरोवेष्टो वस्त्रादिमयः ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः। शुक्रलो बहुलशुक्रः॥ कोषोऽस्त्री कुमले खगपिधानेऽर्थौघदिव्ययोः॥२१८॥ अर्थोघो धनसमूहः ॥ द्यतेऽक्षे शारिफलकेऽप्याकर्षः अक्षः पाशकः ॥ P, 100, १. 'ना' अ. पाठ:. ।
नामलिङ्गानुशासनं [सृतीयं काण्ड अथाक्षमिन्द्रिये। ना ताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे ॥ २१९ ॥ द्यूताङ्गे पाशकादौ । व्यवहारे यथा प्राडिवाकाक्षदर्शकौ । कलिद्रुमो विभीतकः ॥ कर्पूर्वार्ता करीषाग्निः कः कुल्याभिधायिनी। कुल्याभिधायिनी नद्यभिधायिनी । "करीषामौ पुमान् कः कुल्यायामपि च स्त्रियाम्" इति रभसः ॥ पुंभावे तक्रियायां च पौरुषं पुरुषस्य भावे पुरुषस्य क्रियायां च । "उर्ध्वविस्तृतदोपाणिनृमाने पौरुषं त्रिषु । भावे कर्मणि च क्लीबं पुरुषस्य च तेजसि" || विषमप्सु च ॥२२०॥ "स्त्री विषातिविषायां स्यात् कीबे क्ष्वेडे जलेऽपि च" ॥ उपादानेऽप्यामिषं स्याद् उत्कोचादिकेषूपादानम् । मत्स्येऽप्यामिषम् ।। अपराधेऽपि किल्बिषम् । स्थाद् वृष्टौ लोकधान्यंशे वत्सरे वर्षमस्त्रियाम् ॥२२१॥ लोकधाञ्यंशो भारतवर्षादिः । 'पुन्नपुंसकयोष जम्बूद्वीपाब्दवृष्टिषु" इति रुद्रः ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा नृत्तस्येक्षणं वीक्षणम् । प्रज्ञा धीः ॥ .
नार्थवर्गः ३] टीकासर्वस्वास्यव्याख्यासमेतम् । भिक्षा सेवार्थना भृतिः। अर्थना याच्ना ॥ त्विद् शोभापि 'कान्तौ वाचि रुचौ त्विट् स्त्री' इति रभसः ।। त्रिषु परे परे षान्तास्त्रिषु । न्यक्षं कात्न्यनिकृष्टयोः॥ कास्न्यं साकल्यम् । निकृष्टोऽधमः । 'न्यक्षौ कायनिकृष्टावि' त्य- माला ॥ प्रत्यक्षेऽधिकृतेऽध्यक्षः अधिकृतो ग्रामादिष्वधिकृतः ।। रूक्षस्त्वप्रेम्ण्यचिक्कणे। अप्रेम्णि प्रेमशून्ये ॥ पान्तः ॥ रविश्वेतच्छदो सौ श्वेतच्छदो हंसः ॥ सूर्यवही विभावम् ॥ २२३ ॥ वहिः आमिः॥ वत्सौ तर्णकवर्षों द्वौ तर्णको गोपोतः । वर्षों वत्सरः ॥ सारङ्गाश्च दिवौकसः। सारङ्गाश्चातकाः । देवाश्च दिवौकसः ॥
१४८ नामलिङ्गानुशासनं तृतीयं काण्ड शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः॥ २२४ ॥ शृङ्गारादयो नव नाट्यरसाः । विषं श्वेडं जलं च । वीर्यं पारतः । गुणे तिक्तादौ । रागो रक्तिः ॥ पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे । "शेखरे कर्णपूरेऽस्त्री स्यादुत्तंसोऽवतंसवत् " इति रुद्रः ॥ देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ॥२२५॥ रश्मिः प्रग्रहः किरणं च । रत्नधनयोः क्लीबं वसु ॥ . विष्णौ च वेधाः ब्रह्मणि पण्डिते च वेधाः ॥ स्त्री त्वाशीहिताशंसाहिदंष्टयोः। . हिताशंसा अभीष्टाशंसनम् ॥ लालसे प्रार्थनौत्सुक्ये "तृष्णातिरेके वाञ्छायामौत्सुक्ये लालसा द्वयोः" इति रुद्रः॥ हिंसा चौर्यादिकर्म च ॥ २२६ ॥ आदिना त्रासनबन्धनादिविधेऽपि हिंसा ।। प्रसूरश्वापि अश्वा बडवा। माता च प्रसूः॥ भूद्यावौ रोदस्यौ रोदसी च ते। भूद्यावौ सहिते विगृहीते च रोदसीरोदःशब्दयोर्वाच्ये । तथाचाजयः- "रोदसी रोदसा सार्धं पृथ्वीस्वर्गे दिवि क्षितावितौ" इति ॥
नानार्थवर्गः ३] टीकासवस्वाख्यव्याख्यासमेतम् । ज्वालाभान्वोर्न पुंस्यर्चिः मयूखो भानुः ॥ ज्योतिर्भद्योतदृष्टिषु ॥ २२७ ॥ "ज्योतिर्ना भास्करेऽसौ च क्लीबं भद्योतदृष्टिषु" इति रुद्रः ॥ •पापापराधयोरागः आगः क्लीबम् ॥ ग्वगबाल्यादिनोवयः। खगः पक्षी । बाल्यादि यौवनादि । तेजःपुरीषयावर्चः वर्चः क्लीबम् ॥ महस्तूत्सवतेजसोः॥ २२८ ॥ तेजो रश्मिः॥ रजो गुणे च स्त्रीपुष्पे गुणः रज इति ख्यातः आत्मगुणः । स्वपुिष्पम् आर्तवम् ॥ राहो ध्वान्ते गुणे तमः गुणे तमआख्ये आत्मगुणे ॥ छन्दः पद्येऽभिलाषेच अभिलाष इच्छा । वेदेऽपि छन्दः ॥ तपः कृच्छादिकर्म च ॥ २२९॥ सान्तपनादिकं कृच्छ्रे व्रतम् । धर्मेऽपि तपः । शिशिरर्तुमाधयोस्तु पुमान् ॥ सहो बलं सहा मार्गः नामलिङ्गानुशासनं [तृतीयं काण्ड सहो बलम् । मार्गे सहाः पुमान् ॥ नभः खं श्रावणो नभाः। खमाकाशम् ॥ ओकः सद्माश्रयश्चौकाः आश्रय इत्याश्रयमात्रम् ।। पयः क्षीरं पयोऽम्बु च ॥२३०॥ क्षीरं दुग्धम् ॥ ओजो दीसौ बले अवष्टम्भेऽप्योजः ॥ स्रोत इन्द्रिये निम्नगारये । इन्द्रिये ॥ तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि बलं पराक्रमः॥ अतस्त्रिषु ॥२३१॥ अतः परे सान्तास्त्रिषु ॥ विद्वान् विदंश्च विदन् प्राज्ञः । आत्मवित्पण्डितयोरपि विद्वान् ।। बीभत्सो हिंस्रोऽपि हिंस्रो हिंसाशीलः। "बीभत्सो विकृते पार्थे क्रूरे पापिघृणात्मनोः" .इत्यजयः॥ m 'इन्द्रि ...न्द्रिये' इति ग. च. न. पुस्तकेषु सान्तरः पाठो दृश्यते । अत इन्द्रि. यद्वारे इन्द्रिये इति पाठः सम्भाव्यते ।
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । अतिशये त्वमी। अमी सान्तपर्यन्ता अतिशये वर्तन्ते । सर्वे स्त्रियां ड्यन्ताः ।। वृद्धप्रशस्ययोायान् अतिशयवृद्धेऽतिशयप्रशस्ते ज्यायान् ॥ कनीयांस्तु युवाल्पयोः ।। २३२ ।। अत्यर्थतरुणाल्पयोः कनीयान् ॥ वरीयांस्तस्वरयोः अतिमहति अतिश्रेष्ठे च वरीयान् ॥ साधीयान् साधुषाढयोः। अत्यर्थशोभने अत्यर्थगाढे च साधीयान् सान्तः। दलेऽपि बही दलं पत्रम् । मयूरपिञ्छोऽपि बहम् ॥ निर्बन्धोपरागार्कायो ग्रहाः ॥ २३३ ॥ निर्बन्धो बालग्रहः । सूर्याचन्द्रमसो राहुयसनमुपरागः । आदिना चन्द्रादयोऽष्टौ ॥ द्वार्यापीडे काथरसे नि!हो नागदन्तके । द्वारि द्वारे । आपीडः शेखरः । वाथरसे घने द्रव्यनिर्यासे । आलम्ब. नार्थ गेहादिभित्तिनिर्गतं काष्ठद्वयं नागदन्तकः ॥ तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ २३४ ॥ वाणजां तुलादण्डस्य सूत्रे । अश्ववृषादीनां रश्मौ योक्त्रे । प्रग्रहो- इप्येतयोः ॥
१५२ नामलिङ्गानुशासनं [तृतीयं काण्ड पत्नीपरिजनादानमूलशापाः परिग्रहाः। आदानं स्वीकारः । शापः शपथः ।। दारेषु च गृहाः गृहेऽपि गृहाः पुंसि ॥ श्रोण्यामप्यारोहो वरस्त्रियाः॥२३५॥ "हस्त्यारोहे द्रुमाङ्गे च वरारोहाकटावपि । आरोहणेऽपि चारोहो दीर्घत्वेऽपि समुच्छ्ये" ।। व्यूहो वृन्देऽपि बलविन्यासे व्यूहः ॥ अहित्रेऽपि वृत्रे वृत्रासुरे । सर्पेऽप्यहिः ॥ अग्नीन्द्वकांस्तमोपहाः। अर्को रविः ॥ परिच्छदे नृपाहेंऽर्थे परिवहः नृपार्होऽर्थः सितच्छत्रादिः॥ हान्तः। अव्ययाः परे ॥ २३६ ॥ परेऽनेकार्था अव्यया उच्यन्ते ॥ आङीषदर्थेऽभिव्याप्ती सीमार्थे धातुयोगजे। आडित्यव्ययो ङकारानुबन्धवान् । ईषदर्थे- आपिङ्गलः । अभिव्या- -आजन्म ब्रह्मचारी । सीमार्थे आ उदकान्तात् (न:) प्रोषन्तं प्रियमनु व्रजेत् । धातुयोजे क्रियायोगज इत्यर्थः । यथा आहरति । - मानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । www wayam- आ प्रगृह्यः स्मृतौ वाक्येऽपि आ इत्यङित् । स च 'निपात एकाजनाङ्' (१. १. १४) इति प्रगृह्य- संज्ञकः । स्मृतौ आ ज्ञातं स जटायुरेप इति । वाक्ये -आ एवं मन्यसे इति । एवं मन्यस इत्यर्थः ।। आस्तु स्यात् कोपपीडयोः ॥ २३७।। सविसर्ग आः कोपपीडयोः ।। पापकुत्सेपदर्थे कु पापे कुब्राह्मणः । कुत्सायां -कुदानमप्रीतिकरम् । कुशब्दस्ये- पदर्थस्य कादेशे कोणम् ॥ घि निर्भर्सननिन्दयोः। अपकारैर्भयोत्पादन निर्भर्त्सनम् ।। चान्वाचयसमाहारेतरेतरसमुच्चये ।। २३८ ॥ एकस्य यत्र प्राधान्येन विधानमपरस्य तदनुष्ठानाविरोधितया, सोऽन्वाचयः। . भिक्षामट गाश्चानय । समाहारे ---- शुष्मिणी हरीतकी चाद्धि । इतरे- तरे माता पिता च जयतः । समुच्चये ---- योगिने रागिणे च दद्यात् ।। स्वस्त्याशीक्षेमपुण्यादी आशीः आशीर्वादः । स्वस्ति ते भूयात् । क्षेमे--- 'नि(सृत्य ? वर्त्य) मां स्वस्ति गताः स्वयूथ्या:' । पुण्यं पापक्षालनम् । आदिना मङ्गलादौ ॥ प्रकर्षे लङ्घनेऽप्यति । प्रकर्षो नितान्तम् । लखनमतिक्रमणम् । अपिना प्रशंसायामपि ॥ स्वित् प्रश्ने च वितर्के च वितर्को विकल्पः॥ तु स्याद् भेदेऽवधारणे ॥ २३९॥ भेदः पृथक्करणम् ॥ 'च भक्षम् । 'क. ख. ग. घ. डा. च. छ. म. ट. पाठः. . यथा memade- - maaommarimmmawam NON- नामलिङ्गानुशासनं [तृतीयं काण्ड सकृत् सहैकवारे चापि सकृद् दन्त्यादिः॥ आराद् दूरसमीपयोः । आराद् ग्रामः, शनैगच्छ॥ प्रतीच्यां चरमे पश्चाद् प्रतीच्या पश्चिमायां दिशि । यथा. पश्चादागतः । चरमे --- 'आरो- पितं यद् गिरिशेन पश्चात्' । कुमारोत्पत्तिकालादित्यर्थः ।। उताप्यर्थविकल्पयोः॥ २४० ॥ 'उत बाढविकल्पयोरि' त्यजयः ।। पुनःसहार्थयोः शश्वत् शश्वत् तालव्यः॥ साक्षात् प्रत्यक्षतुल्ययोः। साक्षाद् दन्त्यादिः ॥ खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत ॥ २४१ ॥ आमन्त्रणे एहि बत ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । वाक्यारम्भे हन्त वदामि त्वाम् ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ २४२ ॥ मुख्यसदृशः प्रतिनिधिः । यथा--विष्णुरर्जुनतः प्रति । सदृश इ- त्यर्थः । (प्रा ? व्या)प्तुमिच्छा वीप्सा । वृक्षं वृक्षं प्रति । लक्षणे ---वृक्षं प्रति वि. द्योतते विद्युत् । आदिना इत्थम्भूताख्यानभागप्रतिदानस्तोकेषु । कञ्चित् प्रका- रमापन्न इत्थंभूतः, तस्याख्याने साधुर्देवदत्तो मातरं प्रति । भागे दत्र मां प्रति स्यात् । गृहीतस्य प्रत्यर्पणं प्रतिदानम् । तिलेभ्यः प्रति माषान् प्रयच्छति । स्तोके अन्नं प्रति । शाकं प्रति । प्रयोगत इति शिष्टप्रयोगा- नुसारतः ॥ . Aman नानार्थवर्गः३] टीकासर्वस्वाख्यव्याख्यासमेतम् । १५५ इति हेतुप्रकरणप्रकाशादिसमातिषु । हेतौ- हस्तीति पलायते । प्रकरणं प्रक्रमः प्रस्ताव इति पर्यायाः । यथा-इति वृत्तान्तः । एषोऽयं प्रस्ताव इत्यर्थः । प्रकाशे - इति पाणि- नेर्यशः । प्रकटमित्यर्थः । आदौ --- 'शमित्यष्टाभ्यो घिनुग्' । (३.२. १४१) समाप्तौ-हलिति प्रत्याहारः ।। प्राच्यां पुरस्तात् प्रथमे पुरार्थेऽग्रत इत्यपि ।। २४३ ॥ चतुर्पु पुरस्तात् ॥ यावत् तावच्च साकल्येऽवधौ मानेऽवधारणे। यावत्तावच्छब्दौ चतुर्यु ॥ मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ ॥२४४॥ अथोअथशब्दौ पञ्चसु ॥ वृथा निरर्थकाविध्योः अविधौ यथा- - 'वृथावाक्यं च वर्जयेत् ॥ नानानेकोभयार्थयोः। अनेकार्थे बहुलप्रकारे ॥ नु पृच्छायां विकल्पे च पृच्छा प्रश्नः ॥ पश्चात्सादृश्ययोरनु ॥ २४५ ॥ पश्चादर्थे अनु रथं गच्छ । सादृश्ये मातरमनुकरोति ॥ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु । अवधारणमेवार्थः । अनुनयः सान्त्वनम् ॥ गर्दासमुच्चयप्रश्नशङ्कासंभावनास्वपि ।। २४६ ॥ पवर्गीयपकारवानयमपिशब्दः । गर्दा निन्दा । उपमायां विकल्प वा उपमायां -शुक्तौ वा रजताकारः ।।
१५६ नामलिङ्गानुशासनं [तृतीयं काण्डं सामि भुक्तम् ॥ - -- सामि त्वर्धे जुगुप्सिते । अर्ध अमा सह समीपे च समीपम् अन्तिकम् ॥ कं वारिणि च मूर्धनि ॥ २४७ ।। 'कं शिरम्सुखतोयेप्वि'त्यजयः ।। इवेत्थमर्थयोरेवं इवार्थ औपम्यम् । इत्थंशब्दार्थः प्रकारः । एवंप्रकार औपम्य' इत्यजयः॥ नूनं तर्केऽर्थनिश्चये। तर्के ऊहे । अर्थनिश्चये. 'नूनं साहसिकेन चूतमुकुले दृष्टिः समा- रोपिता' ॥ तूष्णीमर्थे सुखे जोषं तूष्णीमों मौनम् । 'जोषं तूष्णीं सुखेऽव्ययमिति चवर्गादावंजयः ।। किं पृच्छायां जुगुप्सने ॥२४८॥ जुगुप्सायांस किंगजा, यो न रक्षति ।। नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने । पञ्चसु नाम । प्राकाश्ये -- 'राजाभूच्छूद्रको नाम ' । सम्भाव्ये अपीह भविष्यति सीता नाम । क्रोधे किन्नाम शकुनः । उपगमः स्वी कारः । अस्तु नाम धनी, किञ्चिद् ददाति । कुत्सने-मानेऽपि नाम पुण्यम् ॥ अलं भूषणपर्यासिशक्तिवारणवाचकम् ॥ २४९ ॥ भूषणे ~~ कन्यामलङ्करोति । पर्याप्तिः पूर्णता । यथा अलं भुक्तवान् । शक्ती- अलं मल्लो मल्लाय । वारणे अलं बाले ! रुदित्वा । निरर्थकेऽप्यलम् ।। am Helamma नानार्थवर्गः ३] टीकासर्वस्वास्यव्याख्यासमेतम् । १५७ BHARASHeen हुं वितर्के परिमने अनुमतौ च हुम् ॥ समयान्तिकमध्ययोः। अन्तिके निकटे॥ पुनरप्रथमे भेदे अप्रथमे ---- पुनर्ददाति । मंदे-मातृपु पुनी? भवान् । निर्मिश्चयनिषेधयोः ॥ २५० ॥ निश्चये निरुक्तम् ॥ स्यात् प्रवन्धे चिरातीते निकटागामिक पुरा । प्रबन्धो वाक्यरचना पुराणादिः, चिरन्तन इति यावत् । अतीतं भूतम् । निकटः सन्निहितः । आगामिनि अनागते ।। ऊररी चोररी च विस्तारङ्गीकृतौ त्रयम् ॥ २५१ ॥ ऊ(र)र्यादित्रयं विस्तारेऽङ्गीकारे च ॥ स्वर्गे परे च लोके स्वर परे चेति लोकविशेषणम् । व्योम्नि च स्वः ॥ वा संभाव्ययोः किल । वार्तायाम् - एवं किल राजाभवत् । संभाव्ये स ते किल दास्यति ।। निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु ॥ २५२ ॥ निषेधे किं खलु रुपित्वा । वाक्यालङ्कारे भवान् विस्तीर्णा परिपदमामन्यते स्म । जिज्ञासायां-किं खलु जानासि । सान्त्वने-देहि खलु प्रतिवचनम् || समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः । साकल्ये अभितो वनं दग्धम् ।। mms MERIMINAR स अथ खलु wwmawe HOMumoom Anandamananews पाठः .
१५८ नामलिङ्गानुशासनं [तृतीयं काण्ड नामप्राकाश्ययोः प्रादुः नामशब्दार्थे प्रादुः । अनादरणीयं केचिज्जन्म वर्णयन्ति । प्रादुर्भूतानि सौधे तृणानि । प्राकाश्ये- प्रादुर्भवन्ति निशि तारकाः ।। मिथोऽन्योन्यं रहस्यपि ॥ २५३ ॥ रहसि विजने ॥ तिरोऽन्तधौ तिर्यगर्थे तिर्यगर्थे-तिरः कृत्वा का(ण्ड?ण्ड) गतः ॥ हा विषादशुगर्तिषु । खेदशोकदुःखेषु हा ॥ अहहेत्यद्भुते खेदे अद्भुते विस्मये अहह कथं जानासि । खेदे अहह विधेरपु- - ण्यता॥ हि हेताववधारणे ॥ २५४ ॥ हेतुः कारणम् । विशेषेऽपि हिः । दीर्वान्तस्तु दुःखहेतौ ॥ इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे अनेकार्थवर्गः। अथाव्ययवर्गः। चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः । चिरायेत्यादयस्त्रयो दीर्घकालवाचकाः । आदिना चिरं चिरेण चिरा दित्यादि ॥ मुहुः पुनःपुनः शश्वद्भीक्ष्णमसकृत् समाः॥१॥ मुहुःपञ्चकमसकृदर्थे पौनःपुन्ये ॥
नानार्थवर्गः ३] टीकासर्वस्वाख्यव्याख्यासमेतम् । स्राग् झटित्यञ्जसाहाय द्राङ् मछु सपदि द्रुते । सागादयः (पञ्च ? सप्त) द्रुते शीघे । म शब्द ओष्ठचादिरनुस्वारवा- नुकारान्तः । साग् दन्त्यसः ।। बलवत् सुष्छु किमुत स्वत्यतीव च निर्भरे॥२॥ बलवत्षटकं निर्भरे अतिशये । किमुत समस्तम् ।। पृथग विनान्तरेणर्ते हिरू नाना च वर्जने । पृथक्षट्कं वर्जने वियोगे । विनभ्यां नानाजी प्रत्ययौ । विना ना- ना। मध्यार्थवाच (कम?को)ऽप्यन्तरेणशब्दः । मध्यार्थे सामीप्ये च हिरुक् ॥ यत् तद् यतस्ततो हेती यदादिचतुष्टयं हेतौ ॥ असाकल्ये तु चिच्चन ॥ ३ ॥ चिदादिद्वयमसाकल्ये । यथा--किञ्चित् किञ्चन ।। कदाचिज्जातु कदाचिट्ठयं कदाचिदर्थे । जातु चवर्गीयतृतीयादि । साध तु साकं सत्रा समं सह । सार्धपञ्चकं सहार्थे । सजूश्शब्दोऽप्यत्र ॥ आनुकूल्यार्थक प्राध्वं प्राध्वंशब्द आनुकूल्ये । नप्रेऽपि प्राध्वम् ।। व्यर्थके तु मुधा वृथा ॥ ४ ॥ मुधाद्वयं व्यर्थके निष्फले ॥ आहो उताहो किमुत विकल्पे किं किमूत च । आहोषट्क विकल्पे वितर्के ।
नामलिङ्गानुशासनं तृतीयं काण्ड - "दृष्ट आहो उताहो च विकल्पार्थे प्रयोक्तृभिः" इति भागुरिः । एवं दीर्घादिः ॥ "ईश्वरेऽधिकृतेऽधि स्याद् विकल्पे विस्मयेऽप्यहो" इति रुद्रो हूस्वं पठति । उताहो दि.मुतेति च समस्तम् । किं किमु उत इति शब्दत्रयम् । उत हूस्वादि । तु हि च स्म ह वै पादपूरणे तुषट्कं श्लोकपादपूरणे ॥ पूजने स्वती ॥५॥ सुशब्दोऽतिशब्दश्च पूजने ॥ दिवाहीति दिवाशब्दोऽह्नि दिने ॥ अथ दोषा च नक्तं च रजनाविति । अहीति रजनावितीतिशब्दाभ्यां दिवादोषादीनामधिकरणप्रधानतां दर्श- यति । रजनौ रात्रौ दोषाद्वयम् ॥ तिर्यगर्थे साचितिरोऽपि तिर्यगर्थे वक्रार्थे साचिद्वयम् । 'साचि स्त्रियामिति तु रत्नकोषः ।। अथ सम्बोधनार्थकाः ॥ ६॥ स्युः प्याट् पाडङ्ग हे है भोः प्याटपट्कं संबोधने । प्याट् पाट पवर्गीयादी । अङ्ग इतिच्छेदः ॥ समया निकषा हिरुक् । समयात्रयं मध्ये । तथाच विश्वप्रकाशः 'समयान्तिकमध्ययोरिति । "निकषा त्वन्तिके मध्ये रक्षोवाची त्वनव्ययम् " इति । निकटे त्रयमिदमिति केचित् । तदयुक्तम् । निकषान्तिक इति वक्ष्यमाणेन पुनरुक्तेः । समयान्तिकमध्ययोरिति पुनरुक्तिर्न दोषः । - अव्ययवर्गः४] टीकासर्वस्वास्यव्याख्यासमेतम् । "भूरप योगा ये येषु पर्यायेष्वपि तेषु ते" इत्यनेन परिहृतत्वात् ॥ अतर्किते तु सहसा अतर्कितेऽनालोचिते सहसा ॥ स्यात् पुरः पुरतोऽग्रतः॥७॥ पुरस्त्रयम् अग्रत इत्यर्थे । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (५. ३. ३९) इति असि पुरादेशश्च । पुरः । परतो निरुकारः शब्द इत्यन्यः ।। स्वाहा देवह विदर्दाने औषड् वौषड् वषट् स्वधा। देवहविर्दाने स्वाहापञ्चकम् । पितृहविर्दानेऽपि स्वधा ।। किञ्चिदीषन्मनागल्पे किञ्चित्रयमरूपेऽणौ। प्रेत्यामुत्र भवान्तरे ॥८॥ भवान्तरे जन्मान्तरे प्रेत्यद्वयम् । प्रेत्यशब्दोऽदन्तः(१) ॥ वद् वा यथा तथेवैवं साम्ये वंदादिषट्कं साम्ये सादृश्ये । अमिवदयं वटुः ।। अहो ही च विस्मये। अहोद्वयं विस्मये। अहो हस्वादि । प्रमादेऽपि ही॥ मौने तु तुष्णीं तूष्णीका तूष्णीमादिद्वयं मौने । 'अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्त- व्यः' (१.३.७२) इति काम्प्रत्ययः । मकारो 'मिदचोऽन्त्यात् परः' (१.१. ४७) इति विशेषणार्थः । तूष्णीकाम् ॥ । १. 'वादि' क.ख.. पाठः, w नामलिङ्गानुशासनं [तृतीयं काण्ड सद्यः सपदि तत्क्षणे ॥९॥ सद्योद्वयं (क्ष ? तत्क्षणे । 'सद्यःपरुद्-'(५. ३. २२) इत्यादिसूत्रे सद्यो निपातितः । अहन्यभिधेये द्यस्प्रत्ययः प्रकृतेश्च सभावः । समाने अहनि सद्यः॥ दिष्टया शमुपजोषं चेत्यानन्दे आनन्दे चित्तानन्दे दिष्टयात्रयम् । शं तालव्यादि । शुभसन्तोषश- ब्दावप्यत्र॥ अथान्तरेऽन्तरा। अन्तरेण च मध्ये स्युः अन्त(वरेत्र)यं मध्ये ॥ प्रसह्य तु हठार्थकम् ॥१०॥ हठार्थकं बलात्कारार्थकम् ॥ युक्ते द्वे साम्प्रतं स्थाने युक्ते उचिते साम्प्रतद्वयम् ॥ अभीक्ष्णं शश्वदनारते । अभीक्ष्णमादिद्वयमनारते सतते ॥ अभावे ना नो नापि नहिचतुष्टयमभावे । नहि समस्तम् । नहिशब्दात् परः अकारः । -नहि स्थूलम् । अस्थूलः । नो जागर्ति । न जागर्ति । "नहि नोऽना न मा मास्म प्रतिषेधे प्रकीर्तिताः" इति त्रिकाण्डम् । अपिशब्देन अनशब्दस्य ग्रहणम् । तथाच शृङ्गारप्र- 'अनोपमा ते बुद्धिरिति॥ मास्म मालं च वारणे ॥११॥ मास्मत्रयं वारणे निषेधे॥ यथा काशः ॥ १. 'णम् । अ', २. 'ति शकारप्रकाशे ॥' ठ, पाठः, अव्ययवर्गः४] टीकासर्वस्वास्यव्याख्यासमतम् । पक्षान्तरे चेद् यदि च चेदादिद्वयं पक्षान्तरे॥ तत्त्वे त्वद्धाञ्जसा द्वयम् । अद्धाद्वयं तत्त्वे सत्ये । 'रवा बद्धा' इति कप्फिणाभ्युदये भाषासमा. वेशः । तत्र प्राकृतपक्षे रवाः शब्दाः बद्धाः संयताः। बन्ध बन्धने क्तः। संस्कृते तु रवौ सूर्ये अद्धा तत्त्वमिति परिद)च्छेदः । अञ्जसाशब्दो दन्त्य- सकारवान् । प्राकाश्ये प्रादुराविः स्यादू प्राकाश्ये स्फुटत्वे प्रादुरादिद्वयम् ॥ ओमेवं परमं मते ॥१२॥ मतेऽनुमते ओमादित्रयम् । "अव्ययं स्यादनुज्ञाने परमं परमः परे" इति रुद्रः ।। समन्ततस्तु परितः सर्वतो विष्वगित्यपि । समन्ततआदिचतुष्टयं सर्वत इत्यर्थे । समन्तादित्यप्यत्र ॥ अकामानुमतौ कामम् अकामानुमतौ अनिच्छयानुमतौ कामम् । अथवा आकामानुमता- विति दीर्घोऽयमाकारः, न नञ् । तेन निकामानुमतौ काममित्यर्थः । तथाच त्रिकाण्डे -'कामं कामाभ्यनुज्ञायामि'ति ।। असूयोपगमेऽस्तु च ॥ १३ ॥ असूयापूर्वके उपगमे अस्तु । यथा- अस्तु नाम शूरः , जेष्यामि । "असूयायामनुज्ञाने पीडायामस्तु दृश्यते" इति रुद्रः ॥
नामलिङ्गानुशासन तृतीयं काण्ड ननुच स्थान विरोधोक्तो ननुचेति समस्तं विरोधोक्तौ।। कच्चित् कामप्रवेदने। कामप्रवेदने इच्छाया आख्याने कञ्चित् ॥ निःषमं दुःषमं गर्यो निःषमद्वयं गये । 'सुविनियः (८. ३. ८८) इति मूर्धन्य- षत्वम् ॥ यथास्वं तु यथायथम् ॥ १४ ॥ यो य आत्मा यश्चात्मीयः तत्र यथास्वमादिद्वयम् । यथास्वमिति वी. प्सायामव्ययीभावः । स्वशब्दोऽत्रात्मीयवचनः आत्मवचनश्च । 'यथावे यथा- यथम् (८. १. १४) इति यथायथं निपातितम् ।। मृषा मिथ्या च वितथे वितथेऽससे मृषाद्वयम् ॥ যখাখ तु यथातथम् । यथार्थद्वयं सत्ये॥ स्युरेव तु पुनः चेत्यवधारणवाचकाः॥ १५ ॥ एवादयः पञ्चावधारणे । चकारोऽयमन्त इति रुद्रः । वकार इत्यन्यः॥ प्रागतीतार्थक अतीतार्थे प्राक् ॥ नूनमवश्यं निश्चये द्रयम् । 'वस. घ..च. छ. ठ, पाठः, अव्ययवर्ग:४] टीकासस्वास्यव्याख्यासमेतम् । नूनमादिद्वयं निश्चये॥ संवद् वर्षे घर्षे वत्सरे उक्तः ॥ अवरे त्वम् अवीगवरे । यथा--- अक् ितीरम् ।। आमवं आमित्येवंशब्दार्थे ज्ञानावधारणे । 'आं ज्ञाननिश्चये' इति हि वोपालितः ॥ स्वयमात्मना।॥१६॥ आत्मनेत्यस्यार्थे स्वयम् ॥ अल्पे नीचैः देर्पणाल्पे नीचैः ।। महत्युच्चैः दीर्घत्वेन महति उबैः ।। আষা সুন্ধি भूम्नि बाहुल्ये प्रायः ॥ अद्रुते शनैः। अशीघ्र शनैः॥ सना निये सना नित्ये। सदाशब्दोऽप्यत्र || बहिर्वाह्ये बाह्ये बहिः ।। स्मातीते स्मशब्दोऽतीते॥
१६६ नामलिङ्गानुशासनं तृतीयंका अस्तमदर्शने ॥ १७॥ अदर्शनेऽस्तम् ॥ अस्ति सत्त्वे सत्त्वे विद्यमाने अस्ति ॥ रुषोक्तावू रुषोक्तौ रोषे । ऊ इति दीर्घादिः॥ उं प्रश्न प्रश्ने पृच्छायाम् । उ ह्रस्वादिः ।। अनुनये स्वयि । अनुनये सान्त्वने अयि । यरलवीययकारः ।। हुँ तर्के स्याद् तर्क वितर्के हुम् ॥ उषा रात्रेरवसाने राज्यन्ते उषा ॥ नमो नती ॥१८॥ नतौ प्रणामे नमः ॥ पुनरर्थेऽ अङ्ग पुनरर्थे । निन्दायां दुछु दुष्ठु निन्दायाम् ॥ । मुटु प्रशंसने।
अध्ययवर्गः ४] टीकासर्वस्वायव्याख्यासमेतम् । सुष्ठ प्रशंसायाम् ॥ सायं साये साये दिनान्ते सायम् ॥ प्रगे प्रातः प्रभाते प्रगेप्रातःशब्दौ प्रभाते । प्रातःशब्दो रेफान्तः ॥ निकषान्तिके ॥ १९॥ अन्तिके समीपे निकषा ॥ परुत् परायैषमोऽन्दे पूर्वे पूर्वतरे यति । पूर्वे अब्दे वर्षे परुत् । पूर्वतरे अब्दे वर्षे परारि । यति गच्छति, वर्तमाने अब्दे वर्षे इति यावत् । ऐषमः मूर्धन्यषः । शब्दत्रयं 'सद्यः- परुद्-' (५. ३. २२) इत्यादिसूत्रेण निपातितम् । पूर्वपूर्वतरयोः पर्भावः उदारिच्प्रत्ययौ, इदम ऐमावः समसण्प्रत्ययश्च निपात्यन्ते ।। अयात्राहि अत्रास्मिन्महान अद्यशब्दः ॥ अथ पूर्वेऽहीत्यादौ पूर्वोत्तरापरात् ॥२०॥ तथाधरान्यान्यतरेतरात् पूर्वेद्यरादयः। पूर्वेऽहीत्यादिशब्देन उत्तरेऽहीत्यादीनां षण्णां ग्रहणम् । पूर्वेधुरादय इत्यादिशब्देन उत्तरेयुःप्रभृतीनां षण्णां ग्रहणम् । तद् यथा --पूर्वस्मिन्नहनि पूर्वेयुः । उत्तरस्मिन्नहनि उत्तरेयुः । अपरस्मिन्नहनि अपरेद्युः । अधरासिन्नहनि अधरेद्युः । अन्यस्मिन्नहानि अन्येदुः । अन्यतरास्मिन्नहनि अन्यतरेयुः । इत- रस्मिन्नहानि इतरेयुः । एते सद्यःपरुदादिना निपातिताः । तत्र पूर्वादिशब्देभ्य एघुम्प्रत्ययः॥ उभयधुश्चोभयेयः १६८ नामलिङ्गानुशासनं तृतीयं काण्ड उभयस्मिन्नहनि उभयाद्वयम् । 'घुश्चोभयाद् वक्तव्यः' (वा० ५. ३. २२) इति द्युः । उभयद्युः । सद्यःपरुदादिसूत्रेणैव उभयेधुनिपातितः। उभयशब्दादेद्युस् निपात्यते ॥ परे त्वहि परेद्यवि ॥ २१ ॥ परस्मिन्नहनि परेद्यवि ॥ ह्योऽतीते गतेहि ह्यश्शब्दः ।। अनागतेऽहि श्वः अनागते भविष्यत्यहि श्वः । तालव्यशः ॥ परश्वश्च परेऽहनि । अनन्तरागामिदिवसात् परस्मिन्नहनि परम् इति ख्याते परश्वः अतिक्रान्ते तु परतरे दिने परश्वो जात इति गौणः प्रयोगः ।। तदा तदानीं तस्मिन् काले तदाद्वयम् । 'सवैकान्यकियत्तदः काले दा' (५.३. १५) इति दा । तदा ॥ युगपदेकदा तुल्यकाले युगपदादिद्वयम् । युगपच्छब्दो निर्वकारः, किन्तु पका- रवान् ॥ सर्वदा सदा ॥ २२ ॥ सर्वकाले सर्वदाद्वयम् । 'सर्वस्य सोऽन्यतरस्यां दि' (५. ३. ६) इति सभावविकल्पः ॥ एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा । एतादिपञ्चकम् एतस्मिन् काले ॥
लिङ्गादिसंग्रहवर्ग:५] टीकासर्वस्वास्यव्याख्यासमेतम् । दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २३ ॥ पूर्वादिषु दिग्देशकालेषु प्राक्त्रयम् । यथा---पूर्व प्राक् । उत्तरे उदक् । पश्चिमे प्रत्यक् । आदिना अपागवागादयः । प्राच्युदीचीप्रतीच्यवाचीशब्देभ्यः 'पञ्चमीसप्तमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः' (५. ३. २७) इति अस्ताति- प्रत्ययः । तस्य 'अञ्चेलक' (५. ३. ३०) इति लुक् । 'लुक् तद्धितलुकि ' (१. २.४९) इति डीपो लुक् । 'तद्धितश्चासर्वविभक्तिः' (१.१. ३८) इत्यव्यय- स्वम् ॥ इत्यव्ययवर्गः । .. अथ लिङ्गादिसंग्रहवर्गः। सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः । अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥१॥ सलिङ्गशारित्यादि । सलिङ्गशास्त्रैः लिङ्गलक्षणसहितैरित्यर्थः । लिङ्गलक्षणं च 'स्त्रियामीदूद्विरामैकाजि'ति वक्ष्यति । जकारस्य प्रत्येकमभि- संबन्धः । सन्नादिजैश्चिकीर्षादिभिः । कृजसंगृहीतस्यापि गोवलीवर्दन्यायात् पृथगुपादानम् । यतः सन्नन्ताद् "अ प्रत्ययात्' (२. ३. १०२) इति अकारा- दिभिरेव कृद्भिश्चिकीर्षादयः शब्दा निष्पाद्यन्ते । अनुक्तैः बाहुल्येन पूर्ववर्गेष्व- नभिहितैः । अयं वक्ष्यमाणः सङ्ग्रहः । लिङ्ग सङ्कीर्णवदिहोन्नयेत् । यथा सङ्कीर्णवर्गे प्रकृतिप्रत्ययाद्यर्थैः लिङ्गोन्नयनं, तथात्रापि पूर्ववर्गानुक्तानां नाम्नां लिङ्गोन्नयनम् । तत्र ‘अर्धर्चाः पुंसि च' (२. ४. ३१) इति वचनात् प्रकृत्यर्थेना- र्धर्चादीनां स्त्रियां क्तिन्' (३. ३. ९४) इत्यादेवचनात् प्रत्ययार्थन क्तिन्नन्ता- दीनां मातृष्वस्रादीनामभिधेयद्वारेण क्रियाव्ययविशेषणानां न्यायतो वक्ष्यमा- । णादिति ।। लिङ्गशेषविधियापी विशेषैर्यद्यबाधितः । लिङ्गशेषविधिरित्यादि । पूर्वमनुक्तस्य लिङ्गस्यायं विधिरिति लिङ्गशे- पविधिः । स च व्यापकस्तदा स्याद् , यदि प्रागुक्तैरिहोक्तैश्च विशेषैरबा- X स्यात् । यथा यथा - नामलिङ्गानुशासन तृतीयं का धितो भवति । तथाहि- स्वर्गपर्याय इह पुंसि वक्ष्यते । तस्य 'योदिवौ द्वे स्त्रियौ', 'क्लीवे त्रिविष्टपमि'त्यपवादः॥ स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च ॥२॥ स्त्रियाम् । स्त्रियामित्ययमधिकारः पुंस्त्वविधेः प्राक् । ईद् ऊद् विरामी अन्तौ यस्य तद् ईदूद्विरामं, तच्च तदेकाच् चेति ईदूद्विरामकाज नाम स्त्रियां -श्रीः हीः भीरित्यादयः । ऊकारान्तो यथा-(श्रः सूः) भ्रूः। सयोनिप्राणिनाम च । योनिर्भगम् । तत्सहितानां प्राणिनां नाम स्त्रियां स्यात् । माता दुहिता याता ॥ नाम विद्यन्निशावीणावल्लीदिग्भूनदीहियाम् । नामेत्यादि । विद्युदादीनां यावद् नाम स्त्रियां स्यात् । विद्युत् तडित् । रात्रीनिशारजनीवीणाविपञ्च्यादीनां ड्याबूङन्तमित्येव सिद्धे झटिति स्त्रीत्वाव- गमार्थम् । अन्ये तु वाणीति पठन्ति वाग् गौः(धी ? गा)रित्याद्यर्थम् । हिय एकाच्त्वात् त्रपादेश्चाबन्तत्वात् सिद्धे स्त्रीत्वे स्पष्टार्थं वचनम् । शेषं तु ज्ञेयं शिष्टप्रयोगत इति वचनाद् व्रीडा द्वयोः । तथाच कालिदासः -- 'बीडाद- मुं देवमुदीक्ष्य मन्ये' (कुमा० स० ७. श्लो० ६७) इति । केषाश्चिद् धिया- मिति पाठः । तेन चित्संविदादीनां स्त्रीत्वमुक्तं स्यात् ।। अदन्तैर्दिगुरेकार्थः अदन्तैर्द्विगुरेकार्थः अकारान्तैः पूलादिभिः सह यो द्विगुसमासः सः, एकार्थः, एकोऽर्थोऽस्येत्येकार्थः, समाहारद्विगुरित्यर्थः । स स्त्रियाम् । पश्चपूली त्रिलोकी ॥ । न स पात्रयुगादिभिः ॥ ३ ॥ स द्विगुरेकार्थः पात्रयुगादिभिरदन्तैः कृतो न स्त्रियाम् । द्विपात्रं चतुर्यु- गमित्यादि,। तद्धितार्थोत्तरपदसमाहारे च'(२. १. ५१) इति समासः ॥ तल् बृन्दे येनिकव्यत्रा वैरमैथुनिकादियुन् । स्त्रीभावादावनिक्तिपण्वुणच्क्यपोऽयुजकिञ्चिशाः।।
लिङ्गादिसंग्रहवर्गः ५] टीकासर्वस्वास्यव्याख्यासमेतम् । १७१ . . उणादिषु निरूरीश्च ङयाङन्तं चलं स्थिरम् । तल् । एतदन्तं स्त्रियाम् । तस्य भावस्त्वतलौ' (५. १. ११९) । धार्मि- कता पटुता । बृन्दे येनिकट्यत्राः समूहे ये यादयः प्रत्ययास्तदन्ताः स्त्रियां स्युः । 'पाशादिभ्यो यः' (४. २. ४९) । पाश्या । 'इनित्रकट्यचश्च' (४. २. ५१) । यथाक्रमं खलिनी गोत्रा रथकट्या । वरमैथुनिकादिवुन् । बैरं विरोधः मैथुनिको विवाहः । अनयोरर्थयोर्यो वुः, तदन्तः स्त्रियाम् । 'द्वन्द्वाद् वुन् वैरमैथुनिकयोः' (४. ३. १२५) इति वुन् । अश्वमहिषिका । अत्रिभरद्वाजिका । आदिना 'पाद- शतस्य संख्यादेवींप्सायां वुन् लोपश्च' (५. ४. १) इत्यादेग्रहणम् । द्वौ द्वौ पादौ, द्विपदिकादयः । 'स्त्रीभावादावनिक्तिण्ण्वुणचुक्यपोऽयुजकिञ्जिशाः । स्त्रीत्ववि- शिष्टे भावे कारकेऽपि ये अनिप्रभृतयः प्रत्ययाः तदन्ताः स्त्रियां स्युः। 'आक्रो- शे नयनिः' (३. ३.११२) । अकरणिरित्यादयः । 'स्त्रियां क्तिन्' (३. ३. ९४) । कृतिः स्तुतिः । 'रोगाख्यायां एबुल् बहुलम्' (३. ३. १०८) । प्रच्छर्दिकाविपादिकादयः । 'पर्यायाहत्पत्तिषु ण्वुच्' (३. ३. १११)। भवतः शायिकादयः । ण्वु इति ण्वुल्ण्वुचोरुभयोर्ग्रहणम् । 'कर्मव्यतिहारे णच् स्त्रि- याम्' (३. ३.४३) । व्यावहासीत्यादयः । 'संज्ञायां समज-(३. ३.९९) इत्यादिना क्यप् । समज्येत्यादयः । स्त्रीभावादेरन्यत्र 'वदः सुपि क्यप् च' (३. १. १०६) इत्यादिना क्यप् । मृषोद्यम् । ब्रह्मभूयम् । स्त्रीभावेऽविधानाच्छिष्ट- प्रयोगादेव ब्रह्महत्यादौ स्त्रीत्वम् । 'अ प्रत्ययात्' (३. ३. १०२)इत्यः। चिकीर्षा- दयः। 'ण्यासश्रन्यो युच्' (३. ३. १०७) । कारणा हारणा। 'पिद्भिदादिभ्योऽङ्' (३. ३. १०४)। पचा भिदा । 'विमापाख्यानपरिप्रश्नयोरिञ् च' (३, ३. ११०)। कां कारिमकार्षीः । इमां कारिमकार्षम् । 'ग्लाम्लाज्याहाभ्यो निः' (वा० ३. ३. ९५)। ग्लान्यादयः । नकारस्य चुत्वेन अद्वयवान् पाठः । 'कृञः श च' (३. ३. १००)। क्रिया । उणादिषु निरूरीश्च । औणादिका न्यादयः स्त्रियाम् । 'कृबीज्यात्वरिभ्यो निः' (उ० ४. ४९) । कादयः । कचिद् 'उणादिष्वनिरूरीश्चेति पाठः । 'अर्तिमृधृधम्यश्यमितरिभ्योऽनिः' (उ० २. १०२) धमन्यादयः । 'कृषिचमि (उ०'. ८४) इत्यादिना ऊः । कर्पू: चमूः । 'अवितृस्तृतन्त्रिभ्य ई:' (उ० ३. १५९)। अवीः तरीः स्तरीः तन्त्रीः । ज्याबूङन्तं चलं स्थिरम् । ड्याद्यन्तं जङ्गमवाचि स्थावरवाचि च स्त्रियाम् ।
१७२ - Parmanand नामलिङ्गानुशासनं . तृतीयं काण्ड जङ्गमं कदली कन्दली च । अनयोगजातिमात्रवाचित्वात् 'सयोनिप्राणिनाम चे'त्यनेन न सिध्यति । शिवाशब्दः सृगाली सृगालं चाह । खरकुटीव खर- कुटी। मनुष्यः चञ्चेव चञ्चामनुष्यः खरकुटी नापितशाला । चञ्चा तृणमयः पुरुषो यः क्षेत्ररक्षणाय क्रियते । 'ऊकुतः' (४. १. ६६)। ब्रह्मबन्धः धवबन्धुः । एतौ निन्दायां कस्याञ्चिद् ब्राह्मणजातौ वर्तते । स्थावरं चाबूङन्तं यथा ताडी केतकी खटा माला अलाबूः । चलस्थिरग्रहणम् अ(टा ? पा)र्थम् । (अ ? य)तो ड्याबूङन्तं चलं स्थिरं च न व्यभिचरति ।। तत् क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा दिक् ॥ ५॥ तत् क्रीडायां प्रहरणं चेद् मौष्टा पाल्लवा णदिक । तन्मुष्ट्यादिकं यदि क्रीडायां प्रहरणं, तदा तैस्मिन्नर्थे विहितस्य णस्य इयं दिग् उदाहरणोद्देशः मौष्टा पालवेति । तदस्यां प्रहरणमिति क्रीडायां णः' (४. २. ५७)। मुष्टिः पहरणमस्याम् इति मौष्टा क्रीडा । एवं पाल्लवा । दिग्ग्रहणं दाण्डाद्यर्थम् ॥ घोषःसा क्रियास्यांचे दाण्डपाता हि फाल्गुनी । श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् ॥६॥ घयो ब इत्यादिः श्लोकः । घन इति धनन्तात् सा घञ्वाच्या क्रिया अस्यां फाल्गुनिकादिकायामित्यत्रार्थे यो ओ विहितः स स्त्रियाम् । तस्य च अस्य दाण्डपाता फाल्गुनीत्यादि दिक् उदाहरणोद्देशः । दण्डपातोऽस्यां फाल्गु- न्यामिति दाण्डपाता फाल्गुनी । 'घञः सास्यां क्रियेति सः' (४. २. ५८)। फाल्गुनपौर्णमास्यां हि कापि देशे राजदण्डः पतति । श्येनपातोऽस्यामिति श्यैन- म्पाता मृगया । तिलपातोऽस्यामिति तैलम्पाता स्वधा । 'श्येनतिलस्य पाते थे' (६. ३. ७१) इति मुम् । इतिशब्दः प्रकारार्थः । तेन मुसलपातोऽस्यामिति मौसलपाता भूरित्यादि च ॥ स्त्री स्थात् काचिन्मृणाल्यादिर्विवक्षापचये यदि । स्त्री स्यादित्यादि । अंपचितस्वभावा स्त्री। निदर्शनान्तरेण यदा अप- चयविवक्षा (प्रो ? प्रयो) तुस्तदा काचिद् मृणाल्यादिः स्त्रीलिङ्गा स्यात् । काचि- दिति किम् । अल्पो वृक्षो वृक्षकः ।। १. 'चारि ॥' म. पाट:. निकाया' छ. पाठः २. 'अ' ग. म. पाठः, ३. 'नादिकाया' कठ., लिङ्गादिसंग्रहषर्गः ५] टीकासर्वस्वास्यव्याख्यासमेतम् । Portantan पाणिन्यादिभिरनुशिष्टलिङ्गमभिधाय तदवशिष्टानि कानिचिन्नामानि का. न्तक्रमेणाह लङ्का शेफालिका टीका धातकी पत्रिकाढकी ॥७॥ लङ्केत्यादि । तत्र लङ्कादीनां 'ड्यावूडन्तमिति सिद्धे पुनः पाठो नामार्थः । नगरीशाखयोर्लङ्का । शेफालिका सेफालीति ख्याता । अस्यास्तु लिङ्गप्रपञ्चार्थः पाठः। टीकृधातोरच् । टीका सकलपदव्याख्यात्री। धातकी धातृ- पुष्पिका । पञ्जिका विषमपदभञ्जिका आयव्ययार्था च । आढकी तुवरिका ।। सिध्रका शारिका हिका प्राचिकोल्का पिपीलिका। तिन्दुकी कणिका भङ्गिः सुरुङ्गासूचिमाढयः॥८॥ सिद्धाख्यस्तरुः सिध्रका, दन्त्यादिः। पक्षिविशेषः शारिका, तालव्यादिः । हेटीति ख्याता हिक्का । प्राचिका वनमक्षिका । उल्का शुका इत्येव ख्याता । पिपीलिका पिंपडीति ख्याता। तिन्दुकी काकेन्दुवृक्षः । कणिका परमाणुः व्रीहिश्च । भङ्गिः गात्रभाङ्गिः । भाङ्गः प्रकार इत्यन्यः । सुरुङ्गा विवरभेदः । सूचिः दन्त्यसा स्वनामप्रसिद्धा । माढिः पत्रशिरा । 'माढिः पत्रशिरेति रत्नकोषः । अनुच्छलितत्वं वस्त्रातं च माढि(१) ॥ पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी गुणी दरत् । सातिः कन्धा तथासन्दी नाभी राजसभापिच ॥९॥ पिच्छा भक्तमण्डः शाल्मलनिर्यासश्च । अनङ्गीकृतसिद्धान्तो वादो वितण्डा। "काकिणी मानदण्डस्य तुरीयांशे *प(ल? ण)स्य च" इति टवर्गान्ते धरणिः । "पणोनमानदण्डानां तुरीयांशे च काकिनी" delet-awanHANNAPROTEIN पाठ. ४. 'क' . छ. पाठः. २, 'च' ठ, “च्छी' घ. ट. पाठः ३. 'सू' घ. 'न्त' ठ. पाठः. ५. धिः' ट., 'डिः' ठ, पाठः, ६. 'फ' ग. रु.च. ७. 'कनिः' ग. अ. पाठः. 8. पाठ: 'काकिनी पणपादेऽपि मानपादे' इति मेदिनी । । 'पणोदमानगण्डागाम् इति रभसः' इति भानुजिदीक्षितः ।
१७४ नामलिङ्गानुशासनं [तृतीयं काण्ड इति तवर्गान्ते रभसः । अशेषप्रतिपक्षचूर्णनाच्चूर्णिः महाभाष्यम् । प्रचु- रकपर्दिका च चूर्णा । ङीपि चूर्णी च । 'शण श्रण दाने' । तालव्यादिः। पचादिः । तस्य विकारः' (४. ३. १३४) इत्यणि शाणीति वर्णदेशना । गुणी कच्छपी वृश्चिकी च । दरत् कूलदराणः प्रपातश्च । सातिः तीव्रवेदना दाना- वसा(नौ ? ने) च । 'ऊतियूतिजूति --' (३. ३. ९७) इत्यादिना निपातिता। कन्था कन्थेंडिका । आसन्दी स्वल्पखट्वा वेत्रासनं च । 'आतपः क्षत्रिये नाभि- रिति परतः पुंस्त्वेऽपि वक्ष्यति । किराते तु नाभिशब्दः पुमानुक्तैः- "समुच्छृसत्पङ्कजकोषकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः" (स०८. श्लो०२४) इति । लिङ्गशास्त्रकृतां स्त्रियामेव नाभिरिति सम्मतम् । तथाच चन्द्रगोमी- Namaste । "ईदूदन्ता य एकाच इदन्ताङ्गानि देहिनः" इति । राज्ञां सभा कुटी राजसभा । अपिचेति निपातसमुदायः समुच्चये । तेन भम्भादीनां ग्रहणम् ॥ झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसीमसी॥१०॥ "झणरी झल्लरी च द्वौ हुडुक्के वालचक्रके" इति रभसः । सदेवार्चनं गीतनृत्यं चर्चरी । पारी घटी । 'होरेति लग्नं भवनस्य चामिति वराहमिहिरः । भवनं च तत्र राशिः परिभा- षितः । लटिधातोः विल्ववत् कन् । लट्वा ग्रामचटकः करञ्जबीजमध्यं च । सिमला सिध्म इति ख्यातः, यत्र (वङ्गलवच्चाराणां!) प्रीतिः । किलासीति च । लाक्षा जतु । लिक्षा केशकृमिः । गण्डूपा जलादिना मुखपूरणम् । एत- दपि लिङ्गानुशासनकृत एवामनन्ति । 'गण्डूषमुज्झितवता पयसः सरोषम्' १. 'नेप: ठ. पाठः, २. मथाधिका' ङ, छ, धधिका' म. पाठ:. ३. 'ति । स्त्रियामेवेति लिङ्गशास्त्रकृतः । रा', ५. 'च राशिः। ल' 3. पाठः, ६. 'कजखज' च. पाठः, ७. 'य' क.ख. पाठः. 4. 'म कि' झ. पाकः लिङ्गादिसंग्रहवर्गः ५]] टीकासर्वस्वाख्यव्याख्यासमेतम् । इत्यादिप्रयोगस्तु काव्यसमयतो बनाम्नातमपि लिङ्गं प्रयुज्यत इत्येतत्परः । बोपालितस्तु काव्यप्रयोगानुग्रहार्थ गण्डूषा कापि मुखपूर्तिरित्युक्तवान् । गृ- ध्रसी दन्त्यसा कटिरोगः । चमसी दन्त्यसामुदादिपिष्टके । मसी लिपिप्रयोजना प्रसिद्धैव । 'स्त्रीपुंसयोर्मषी ति व्याडिराह ॥ इति स्त्रीलिङ्गप्रकरणम् । .. तद् यथा- पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः । स्वर्गयागाद्रिमेघाब्धिलुकालासिशरारयः॥ ११ ॥ पुंस्त्वे, अधिकारोऽयं प्राङ् नपुंसकविधेः। सभेदानुचराः सपर्यायाः सुरा- सुराः । स्वरूपप्राधान्येऽप्यर्थबहुत्वाद् बहुवचनम् । सुरशब्दोऽसुरशब्दश्च पर्यायसहितो विशेषवाचिना अनुचरवाचिना च सहितः पुंस्त्वे स्यात् । मरुतो धुषदो लेखा इत्यादि । विशेषबाधितत्वाद् दैवतानि देव- ताश्चेत्यादि । तद्भेदा आदित्यविश्वादयः । तदनुचराः हाहा हूहूरित्यादयः । एवमसुरा अपि । स्वर्गेत्यादि । स्वर्गादय ऊनविंशतियथासंभवं सभेदाः सप- र्यायाश्च पुंस्त्वे । स्वर्गो नाक इत्यादि । विशेषबाधितत्वाद् द्योशब्दादीनां स्त्रीत्वाद्युन्नेयम् । यागः क्रतुः तद्विशेषः कुण्डपाय्यादिः । अद्रिः शैलः । मेघो जलदः । अब्धिः समुद्रः । लवणोदादयो भेदाः । दुर्वृक्षः । कालः समयः । मासादयो भेदाः । असिः खड्गः । चन्द्रहासादयो भेदाः । शरो बाणः । भल्लादयो भेदाः। अरिः शत्रुः ।। करगण्डौष्टदोर्दन्तकण्ठकेशनखस्तनाः। अहाहान्ताःक्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः॥१२॥ करो राजग्राह्यार्थः रश्मिपाणी च । गण्डः कपोलः । ओष्ठोऽधरः । दोर्बाहुः । दन्तो द्विजः । कण्ठो गलः । केशः कचः । नखः करजः । स्तनः कुचः । अहाहान्ताः एतदन्ताः पुंस्त्वे स्युः । पूर्वाह्नः सायाह्नः मध्याह्नः । उत्त- राहः द्वयहः व्यहः । वेडभेदाः । श्वेलो विषम् । तद्विशेषाः पुंस्त्वे । सौरा- ष्ट्रिकः शौल्किकेयः । रात्रान्ताः प्रागसंख्यकाः । रात्रशब्दोऽयम् 'अहः- .. १, 'ता विमुखं पू' ख. च. पाठ:.
१७६ नामलिङ्गानुशासन तृतीयं का Pand सर्व (५. ४. ८७) इत्यादिना समासान्ताच्प्रत्ययान्तः । एतदन्ताः पुंस्त्वे, यदि संख्यापूर्वपदा न स्युः । पूर्वरात्रः अर्धरात्रः । प्रागसंख्यका इति किम् । पञ्चरात्रम् ॥ श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः। कशेरुजतुवस्तृनि हित्वा तुझविरामकाः ॥ १३ ॥ श्रीवेष्टाद्याश्च निर्यासाः श्रीविष्टप्रभृतयस्तरुद्रवाः पुंस्त्वे स्युः । आदिना श्रीवासाः सर्जरसाः । असन्नन्ता अबाधिताः । असन्नन्ताश्च पुंसि स्युः । अङ्गिराः पुरोधाः । अन्नन्तो यथा -प्रतिदिवा दिवसः। अबाधिता इति किम् । सुमनसोऽप्सरसः ललाम । विशेषैर्यद्यबाधित इत्युक्तत्वात् पुनरबाधिता इति पाठस्तत्स्मरणार्थः । कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः । तुकाररुकारान्ताः कशेरुत्रिकवर्जिताः पुंसि स्युः । केतुः सेतुः चरुरित्यादिः । कशेरु प्रसिद्धं तालव्यवत् । जतु लाक्षा । वस्तु पदार्थः । उपलक्षणत्वादेतेषां दारुप्रभृतीन्यपि हित्वा ॥ कषणभमरोपान्ता यद्यदन्ता अमी अथ । पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४॥ कषणभमरोपान्ताः यद्यदन्ता अमी । कादिवर्णषट्कोपान्ताः पुंसि स्युः अदन्ताश्चेत् । कुहकः पुलकः । कल्माषः अम्बरीषः । पाषाणः पणः । कौस्तुभः गर्दभः । व्यामः ग्रामः । प्राग्भारः मसारः । अयं च दन्त्यवान् स्फ- टिकवाची च । तथाच कप्फिणाभ्युदये- "प्रभारसंप्रक्रमसारसालां मसारसालां दधती धिनोति । आक्रीडभूरच्छिदुरा परागे दुरापरागेऽपि रतिं दधाना ॥" इति । अथ पथनयनसटोपान्ताः । अथादित्वाददन्ता इति नाभिसंबध्यते । पादिवर्णषट्कोपान्ताः पुंसि स्युः । सूपः पूपः । आवसथः निशीथः । इनः फेनः । कुलायः हयः । वेतसः पनसः । कटः कुटः । गोत्राख्या वंशसंज्ञाः पूंस्त्वे स्युः । कुत्सः गौतमः । चरणाह्वयाः वेदशाखासंज्ञाः पुंस्त्वे स्युः । कठः कलापः ॥ १. २.१., 'स'म. ठ. पाठः, लिङ्गादिसंग्रहह्वर्गः५] टीकासर्वस्वाख्यव्याख्यासमेतम् । १७७ नाम्न्यकर्तरि भावे च घनजन्नणघाथुचः । ल्युः कर्तरीमनिज भावे को धोः किः प्रादितोऽन्यतः॥ - - संज्ञायां कर्तृवर्जिते कारके भावे च ये घञादयस्तदन्ताः पुंसि स्युः । नाम्न्यकर्तरि घञ् यथा प्रास्यति तमिति प्रासः कुन्तः । 'अकर्तरि च कारके संज्ञायाम्' (३. ३. १९) इति घञ् । चकारादसंज्ञायां च । लामो लब्धः । दायो दत्तः । भावे घञ् यथा - पाकः त्यागः रागः। 'भावे च' (४.४.१४४) इति घञ् । 'एरच्' (३. ३.५६)। नयः जयः । 'ऋदोरप्' (३.३.५७)। करः हरः। 'यजयाचयतविच्छप्रच्छरक्षो नङ् (३.३.९०)। यज्ञः यत्नः । 'नौ ण च' (३. ३. ६०)। न्यादः । (पुंसि संज्ञायां घः-- (३. ३. ११८)। प्रच्छदः । 'टितोऽथु' (३. ३. ८९)। श्वयथुः । ल्युः कर्तरि । नन्द्यादिल्युप्रत्ययान्ताः पुंस्त्वे स्युः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्य- चः' (३. १. १३४)। सङ्कर्षणो मधुसूदनः । इमनिज् भावे कः। एतौ भावे पुंस्त्वे भवतः । 'पृथ्वादिभ्य इमनिज् वा' (५.१.१२२)। प्रथिमा महिमा । 'पञर्थे कविधानं कर्तव्यम्' (वा०३. ३. ५८) इति कः । प्रस्थः विघ्नः । 'सुपि स्थः' (३. २. ४) इत्यत्र योगविभागाद् भावे कः । आखूत्थः शलभो- स्थः । एतयोश्च मतान्तरेण क्लीबत्वमपि शिष्टप्रयोगतः । तथाच शब्दा. र्णवः- "आखूत्थशलभोत्थादितत्तदुत्थानमद्वयोः" इति । अतोऽनपुंसकपाठो वृत्तौ प्रमादज इति रक्षितोक्तं युक्तमेव । घोः किः प्रादितोऽन्यतः । घुशब्देन दाब्दैब्वर्जितदाधाग्रहणम् । ततः प्रादिपरात् तद- न्यपराच्च यः किप्रत्ययः तदन्तः पुंसि । 'उपसर्गे घोः किः' (३. ३. ९२) । आदिः आधिः । 'कर्मण्यधिकरणे च' (३. ३. ९३) इति किः । बालधिः शेवधिः ॥ द्वन्द्वेऽश्वबडवावश्वबडवा न समाहृते । कान्तः सूर्येन्दुपर्यायपूर्वोऽयापूर्वकोऽपि च ॥ १६ ॥ द्वन्द्वे समासे अश्वबडवशब्दस्य पुंस्त्वम् । तद् यथा अश्वबडवौ। पुनरश्वबडवा इति बहुवचननिर्देशः 'पूर्ववदश्वबडवौ' (२. १. २७) इत्यस्मिन् Y १७८ नामलिशानुशासनं [तृतीयं काण्ड ग सूत्रे द्विवचनस्यातन्त्रत्वाद् बहुवचनान्तत्वेऽपि पुंस्त्वदर्शनार्थः । न समाहृते न समाहारे इत्यर्थः । तत्र तु अश्वबडवमिति नपुंसकत्वमेव । 'विभाषा वृक्षमृ. ' (२. १. १२) इत्यादिना इतरेतरयोगे समाहारे च समासः । 'कान्तः सूर्यन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च'। कान्तशब्दः सूर्येन्दुपर्यायपूर्वः अयःशब्दपूर्वश्च पुंस्त्वे स्यात् । सूर्यकान्तः अर्ककान्तः चन्द्रकान्तः इन्दुकान्तः अयस्कान्तः ॥ वटकश्वानुवाकश्च रल्लकश्च कुडङ्गकः। पुलो न्यूङ्ख समुद्गश्च विटपधटाः खटः॥१७॥ लक्षणेऽनुक्तांश्च स्पष्टार्थ कान्तक्रमेणाह.। वटकः पिष्टकभेदः । अनुवाको वेदभेदः । रल्लकः कम्बलविशेषो मृगभेदश्च । कुडङ्गकः छदिः, चल इति ख्यातः । 'कुटुको ना छदिः पिटमि'ति वोपालितः । पुङ्खः काण्डम्य मूलम् । उखणखेत्यादौ .इगुपधलक्षणः कः । पृषोदरादित्वाद् धातोः पुडागमो नुगाग- मश्च । पुङ्खः । वृषोदरादित्वादेवोपधादीर्घनुमागमौ । एवं न्यूडो दीर्घोपधः । सामवेदनिरन्तराः षडोङ्कारा न्यूङ्खः । समुद्गः संपुटकः परुकादिः । विटो ना- गरः । पट्टः पेषणशिला, आधानादि च । घटः तुला । खटः करस्य प्रहार- विशेषः । श्लेष्मान्धकूपयोश्च खटः ।। कोद्वारघट्टहवाश्च पिण्डगोण्डपिचण्डवत् । गडः करण्डो लगुडो वरण्डश्च किणो घुणः ॥१८॥ कोट्टो दुर्गपुरम् । अरघट्टः कूपभेदः । कोट्टारः समस्त इति कस्यचिन्म- तम् । 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके" इति रभसः । घट्टः शुल्कः । हट्टः क्रयविक्रयस्थानम् । "सिल्हे गन्धरसे सान्द्रे देहा(कागा रैकदेशयोः । (वे? बो)ले गोले च पिण्डः स्यात्" ।। १. 'डुङ्गो ना' ८. पाठः, २, 'तोऽपि । पु' क. स. ग. घ. अ. ज. पाठ. - ।
लिङ्गादिसंग्रहवर्गः५] टीकासर्वस्वास्यव्याख्यासमेतम् । "गोण्डः पामरजातौ च वृद्धनाभौ च सम्मतः" 'पिचण्डौ पक्षपश्वङ्गे इति रुद्रः । पिचण्डवत् कोट्टादयोऽपि पुंसीति वत्यर्थः । 'कुब्जे पृष्ठगडे गड्डु- रि'ति रुद्रः । करण्डो वंशादिरचितो भाण्डभेदः । लगुडो लोहमयः प्रहरण- विशेषः । 'वरण्डो यौवने गण्डे स्यादिति विश्वप्रकाशः । पत्रादिमूलके व. रण्डः । किणो व्रणाहृयः । धुणः काष्ठकीटः ।। दृतिसीमन्तहरितो रोमन्धोद्गीथवुद्बुदाः। कासमर्दोऽदतिः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ दृतिः चर्मपुटकः । सीमन्तः केशविन्यासः । हरिद् वर्णविशेषः । त- द्वति ते त्रिषु । रोमन्थः पागुल इति ख्यातः । उद्गीथः प्रणवः सामवेदध्वनि- श्वेत्यरुणदत्तः । बुढ्दो जलादिविकारः । कासमर्दो वृक्षभेदो गुल्मभेदश्च । अर्दतिः अग्निः । याचनेत्यन्यः । कुन्दः कुन्दकारशिल्पिनः शिल्पोपकरणम् । माध्यं कुन्दम् । बाधितत्वान्मतान्तरेण तत्रापि पुंस्त्वम् । फेनो जलपरिणामः । स्तूपो मृदादिकृतोन्नतप्रदेशः । पूपः पिष्टकः ॥ आतपः क्षत्रिये नाभिः कणयक्षुरकेदराः। पूरखुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥२०॥ आतपः सूर्यालोकः । क्षत्रिये वर्तमानो नाभिः पुमान् । प्राण्यङ्गवाची स्त्रीप्रकरणेऽभिहितः । कणयः शरभेदैन इत्यन्यः । क्षुरो लोमशातनः। "स्थितं सबाप्पं त्वयि चक्षुरस्य समं पृषत्का मयि च क्षुरस्य" इति कीचकवधयमकम् । केदरः संव्यवहारपदार्थ इत्यन्यः । तरुभेद इत्यपरः । पूरो नदीकूलद्वयपूरणम् । खुरप्रो बाणभेदः । 'दशाननक्षिप्तखुरप्रवाण्डित' इति राजशेखरः । "भजेथाः पश्चान्मां वरतनु! पुरस्तान्मृगखुर- क्षुरप्रव्यालेख्यस्थपुटितविभागा वनभुवः" 1. 'कु' क.स. ट. पाठः. २. 'प:' घ. ङ. च. छ. ज. पाठः. ३. क.ख.ग.ड.च.छ.ज.2.ठ. पाठः, 'मा' ग. घ. कृ. छ. अ. द, ठ,' 'हा' ख.पाट:.
१८० नामलिङ्गानुशासनं [तृतीयं काण्ड इत्यन्यः । चुक्रः सन्धानकृतोऽत्यम्लश्चुक इति ख्यातः । "जारजे विधवापुत्रे गोलको मणिके गुले" इति रभसः । हिङ्गुलो रागद्रव्यम् । 'देहेऽध्यात्मनि पुद्गलः' इति रुद्रः ॥ वेतालभल्लमल्लाश्च पुरोडाशोऽपि पहिसः । कुल्मासो रभसश्चैव सकटाहः पतगहः॥ २१॥ वेतालः सत्त्वविशेषः । भल्लः काण्डभेदः । मल्लो बाहुयोधः । पुरो- डाशस्तालव्यश इति वर्णदेशनाकृतोक्तम् । स च यागोपयुक्तः पिष्टभेदः । "परशुः पट्टिसो रामः स एव च परश्वधः" इति निगमाख्यमभिधानम् । अयं च दन्त्यस: । 'असितोमरकुन्दमहापट्टिसम्' (स० १३. श्लो० ४७) इत्यादिभट्टिभाषासमावेशोऽपि । "कुल्माषो यवके पुंसि कान्निके स्यान्नपुंसकम्" इति मूर्धन्यान्ते स्भसः । बोरवधान्यम् । माषमिश्रभक्तमित्यन्यः । प्रागस्य स- कारो निरूपितः । रभसो वेगहर्षयोः । "उत्कण्ठसटवराटकरभसाः स्त्रीत्वे तु डाबन्ताः" इति त्रिकाण्डशेषः । "स्तूपे च पाकपात्रे च कटाहो महिषीशिशौ" इति त्रिकाण्डशेषः । पतद्रहः पतिगहेति ख्यातः ॥ इति पुलिङ्गप्रकरणम् । बिहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् । शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥ 1. 'एकविशेषः । पसः परशुः स', २. 'चि', ३. 'योः । रभसा डाबन्ता- पीति'. पाठः. ४. क. घ... छ. म. ट. 3. पाठः १८२ लिङ्गादिसंग्रहवर्गः ५] टीकासर्वस्वाख्यव्याख्यासमेतम् । हलहेमशुल्बलोहं सुखदुःखशुभाशुभम् । जलपुष्पाणि लवणं व्यञ्जनाद्यनुलेपनम् ॥ २३ ॥ द्विहीन इत्यादिश्लोकद्वयम् । खादिषड़िशतिवाचकं वाधरहितं नपुंसके । अन्यच्चेति बाधितादन्यत् । चकाराद् द्वारान्तिकाङ्गणरणादयः । खशब्देनेन्द्रिया- काशयोहणम् । हृषीकं करणम् । अरण्यं वनम् । पर्ण पत्रम् । श्वभ्रं छिद्रम् । हिमं तुहिनम् । उदकं जलम् । शीतं हिमम् । उष्णं तिग्मम् । मांसं पिशि- तम् । रुधिरं रक्तम् । मुखं आस्यम् । अक्षि चक्षुः । द्रविणं द्रव्यम् । बलं शक्तिः सेना च । हलं लाङ्गलम् । हेम स्वर्णम् । शुल्वं ताम्रम् । लोहम् अयः । सुखं शर्म । दुःखं प्रसिद्धम् । शुभं शिवम् । अशुभं अकल्याणम्। जलपुष्पाणि कमलोत्पलादीनि । लवणं सामुद्रम् । व्यञ्जनं तेमनम् । आदिना दघितक्रा- दिविशेषग्रहणम् । अनुलेपनं समालम्भनम् ।। कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत् । यच्कमासिसुसन्नन्तं यदनान्तमकर्तरि ॥ २४ ॥ कोट्याः शतादिसंख्यान्या । कोठ्या अन्या शतादिसंख्या क्लीवे । असन्तं यशः पयः । इसन्तं सर्पिः हविः । उसन्तं वपुः आयुः । अन्नन्तं कर्म । यदनान्तमकर्तरि । कर्तुरन्यद् यद् अनप्रत्ययान्तं तत् क्लीचे । गमनं दानम् । अकर्तरीति किम् । पवमानो दहनः ॥ बान्तं सलोप, शिष्टं रात्रं प्राक्संख्ययान्वितम् । पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥२५॥ त्रान्तं सलोपधं शिष्टम् । लोपधसहितं त्रांन्तं क्लीबे । त्रान्तं यथा --- कलत्रं गात्रम् । लोपधं यथा ---तुमुलं लाङ्गुलम् । सोपधं चेति केषाञ्चिद् बोधः । तदा यवसं बिसमित्यादि। शिष्टम् , अबाधितमित्यर्थः । एतेन गलवलच. 1. 'लशब्देन शक्तिसेनयोर्ग्रहणम् । बलं म्थाम तेमन बल सैन्यम् ।' क. ख. ग. घ इ.च, छ, ज.ट. पाठः, ३. 'खदुःखं प्र' ठ. पाठ..
૨૮૨ नामलिङ्गानुशासनं [तृतीयं काण्ड Pahinymmete लादीनां न भवति । रात्रं प्राक्संख्ययान्वितम् । संख्यापूर्वपदं रात्रशब्दान्तं क्लीवे । त्रिरात्रं पञ्चरात्रम् । पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः । पात्रादिभिरद- न्तैर्यो द्विगुसमास एकार्थः स पात्रादेराकृतिगणत्वालक्ष्यानुसारतः शिष्टप्रयोगा- नुसारतो द्विहीने । द्विपात्रं चतुर्युगम् । अन्यस्त्वाह -शिष्टमित्यनुवर्तमाना- देव लक्ष्यानुसारतः इति पृथक् सूत्रम् । द्विगुरेकार्थ इत्यप्यनुवर्तते । एकार्थो द्विगुः शिष्टः लक्ष्यानुसारेण द्विहीने स्यात् । सप्तकुमारि त्रिजगत् । लक्ष्यानुसारव- चनात् कचिदप्रवृत्तिः । 'त्रिवली तरङ्गतरला'. 'त्रिजगतीजीवा(न्त:तु)रेणे- क्षणा॥ द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याध्ययात् परः। षष्टयाश्छाया बहूनां चेद् विच्छायं संहतो सभा । द्वन्द्वैकत्वाव्ययीभावौ । द्वन्द्वस्यैकत्वं द्वन्द्वकत्वम् अव्ययीभावश्च नपुंसके स्यात् । अश्वबलीव धवखदिरपलाशम् । अव्ययीभावो यथा अधिस्त्रि अ. धिकुमारि । पथः संख्याव्ययात् परः। संख्याव्ययाभ्यां परो यः कृतसमासान्तः पथशब्दः, क्लीबे । द्विपथं चतुष्पथम् । अव्ययपरो यथा विपाम् उत्पथम्। षष्ठ्याश्छाया बहूनां चेद् । विच्छायम् । षष्ठयन्ताद् या छाया, क्लीवे सा यदि बहूनां सम्बन्धिनी । उदाहरणदिशमाह वीनां पक्षिणां बहूनां छाया विच्छा- यम् । अनया दिशा शलभच्छायम् । बहूनामिति किम् । एकस्य तरोः छाया तरुच्छाया । संहतौ सभा । समूहार्था सभा षष्ठयन्तात् परा क्लीवे । दाससभम् ॥ शालार्थापि परा राजामनुष्यार्थादराजकात् । दासीसभं नृपसभं रक्षासभमिमा दिशः ॥२७॥ शालार्थापि परा राजामनुष्यार्थादराजकात् । राजवर्जिताद् राजपर्यायाद् अमनुष्यार्थाच्च षष्ठयन्तात् परा शालार्था गृहवाचिनी या सभा अपिशब्दात् संहत्यर्था च, क्लीबे स्यात् । उभयोरुक्तयोरुदाहरणदिशमाह -दासीसमें नृपसभं रक्षःसभमिमा दिशः । दिग्ग्रहणाद् गोपालसमें मनुष्यसभम् ईश्वरसभं पिशाचसभम् ॥ १. 'गम् । शि', २. 'द् इति कश्चित् । तन स' उ. पाठः, लेङ्गादिसंग्रहवर्गः ५] टीकासर्वस्वाख्यव्याख्यासमेतम् । उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने । कोपज्ञकोपक्रमादि कन्थोशीनरनामसु ॥ २८॥ - 'उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने । कोपज्ञकोपक्रमादि'। उपज्ञान्त उपक्रमान्तश्च षष्ठीसमासः तयोरेवोपज्ञोपक्रमयोः प्राथम्यप्रतिपादने गम्यमाने कीबे स्यात् । उदाहरणमाह उपज्ञायते परिज्ञायत इत्युपज्ञा । 'आतश्चोप- पर्गे' (३. ३. १०६) इत्यङ् । कस्य ब्रह्मण उपज्ञा प्रथमज्ञेया कोपझं प्रजा, तेनादौ सृष्टत्वात् । उपक्रम्यत इत्युपक्रमः । कस्य प्रजापतेरुपक्रमः कोपक्रम प्रजा, प्रथमतस्तेन कृतेत्यर्थः । आदिना विप्रोपज्ञं प्रतिग्रहः । आढ्योप- क्रमं दानम् । कन्थोशीनरनामसु । उशीनराख्यजनपदप्रतिबद्धग्रामाणां नामसु विषयभूतेषु षष्ठयन्तात् परा कन्था क्लीबे । सौषमीणां कन्था सौषमिक न्थम् आह्व(र)कन्थम् । उशीनरादन्यत्र दाक्षिकन्था वाहीकग्रामस्याख्या । नानोऽन्यत्र वीरणानां कन्था वीरणकन्था । उशीनरेष्वपि नायं कन्थान्तः संज्ञा॥ भावे नणकचिद्भयोऽन्ये समूहे भावकर्मणोः । अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ 'भावे नणकचिन्योऽन्ये समूहे भावकर्मणोः । अदन्तप्रत्ययाः' । नश्च णश्च कश्च चिच्च तेभ्योऽन्ये भावे ये अदन्ता धातुविहिताः प्रत्ययाः, समूहभावक- मसु अदन्तास्तद्धिताः, ते क्लीबे । तत्र धातुविहिता यथा -- वस्तव्यं चेयं ब्रह्म- भूयं सांराविणम् । नणकचिभ्योऽन्ये इति किम् । 'यजयाच-' (३. ३.९०) इत्यादिना नङ् । प्रश्नः । 'नौ ण च' (३. ३. ६०)। न्यादः । 'सुपि स्थः' (३. २. ४) इति योगविभागात् कः। आखूत्थः । चकार इत्संज्ञको यस्य स चित् । यथा- 'एरच्' (३. ३. ५१)। चयः । 'ट्वितोऽथुच्' (३. ३. ८९)। वेपथुः । समूहे अदन्तप्रत्यया यथा चाषाणां समूहः चाषम् । एवं भै- क्षम् । 'तस्य समूहः' (४. २. ३७) इत्यण् । भावेऽदन्तप्रत्यया यथा 'तस्य भावस्त्वतलौ' (५. १. ११९) । गोत्वं शुक्लत्वम् । कर्मणि यथा 'गुणवचनब्राह्मणादिभ्यः- . (६. १, १२४) इति ष्यङ् । ब्राह्मण्यं नामलिझानुशासनं [ततीयं काण्ड राज्यम् । पुण्यसुदिनाभ्यां त्वहः परः । एताभ्यां परः कृतसमासान्तो योऽहश्श- ब्दः, क्लीबे । पुण्याहम् । 'राजाहःसखिभ्यष्टच्' (५. ४. ९०१)। सुदिनशब्दः प्रशस्तवाची ॥ क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके । चोचं पिञ्छं गृहस्थूणं तिरीटं मर्मयोजने ॥३०॥ क्रियाव्ययानां भेदकान्येकत्वेऽपि । क्रियाणामव्ययानां च भेदकानि विशेषकानि क्लीबे भवन्ति । एकत्वेऽपि, एकवचनान्तानि च भवन्तीत्यर्थः । मन्दं पचति मृदु पचति । अव्ययविशेषणं यथा - रम्यं खः । इदानीं ना- मान्युक्तादन्यानि कानिचिदाह - उक्थं (माससाम)विशेषः । तोटकं रूपभेदो वृत्तभेदश्च । 'अथ तोटकमब्धिसकारकृतमि तिच्छन्दःसूत्रम् । चोचं तालफलं कदलीफलादीनां त्वक् च । पिञ्छं मयूरशिखण्डम् । गृहस्य स्थूणा स्तम्भो गृहस्थूणम् । तिरीटं वेष्टनम् । शिरोभूषणमित्यन्यः । मर्म प्राणस्था- नम् । योजनं चतुःक्रोशात्मकम् ॥ . 4 राजसूयं वाजपेयं गद्यपद्ये कृते कवेः। माणिक्यभाष्यसिन्दूरचीरचीवरपञ्जरम् ॥ ३१ ॥ राजसूयवाजपे(यौ?ये) यागविशेषौ । कवेः कृते ये गद्यपद्ये, क्लीबे । "अपादः पदसन्तानो गद्यं पद्यं चतुष्पदी" । कविकृतादन्यत्र गद्या वाग् गद्योऽयमों गद्यं वचः । पद्यः पङ्कः पद्या धूलिः पद्यं रजः । माणिक्यं रत्नविशेषः । भाष्यलक्षणं तु "सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥" सिन्दूरं दन्त्यस सीमन्तप्रसाधकम् । चीरं जीर्णवस्त्रखण्डम् । कुचीरमित्यपि दृश्यते । चीवरं भिक्षूणां प्रावरणविशेषः । पञ्जरं कायास्थि पक्षिस्थापन- कं च ॥ १. 'प्यं तल्लक्ष ठ. पाठः.
लिङ्गादिसंग्रहवर्ग: ५] टीकासर्वस्वाख्यव्याख्यासमेतम् । लोकायतं हरीतालं विलं स्थालबाहवम् । लोकायतं चार्वाकशास्त्रम् । हरीतालं धातुविशेषः । विदलं द्विधा कृतं कलायादिकं वंशादिफालिश्च । स्थालं भोजनपात्रविशेषः । बाढवं कुकुमम् ॥ इति नपुंसकप्रकरणम् । पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२ ॥ पुन्नपुंसकयोः, अयमधिकारः । शेषः प्रकृतेभ्यः स्त्रीपुन्नपुंसकेभ्यो यः शेषः स पुन्नपुंसकयोः । स च विहारमण्डपादिः । अथवा शेषशब्द एव पुन्न- पुंसकयोर्बोद्धव्यः । अर्धर्चादिरेव वा शेषः । नामानि कानिचिदाह-ऋचोऽर्ध- मर्धर्चः । 'ऋक्पूरब्धःपथामानक्षे' (५. ४. ७४) इत्यः । "पिण्याकोऽस्त्री तिलकरके हिङ्गुबाहिक(सिह)के । रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्के कण्टकोऽस्त्रियाम् ॥" मोदकस्तण्डकस्तङ्कः शाटकः खर्वटोऽर्बुदः । पातकोद्योगचरकतमाला मालको नडः ॥ ३३ ॥ मोदको भक्षभेदः । तण्टकः श्लोकच्छन्दोभेदः। खञ्जन इत्यन्यः । तङ्कः प्रियविरहजस्तापः । शाटको वस्त्रभेदः। ग्रामशतमध्यस्थो ग्रामशतवास्तव्यज- नोपजीव्यो ग्रामः खर्वटः । "अर्बुदो मांसपरु(पि ?ष)दशकोटिषु न स्त्रियाम्" । पातको ब्रह्महत्यादिः । उद्योगोऽभियोग उद्यमश्च । चरकं चिकित्साशास्त्रम् वरकं वा पाठः, स्यूतवस्त्रयुगाख्यम् । तथाच वृञो रूपम् । तमालो वृक्षभेदो वंशत्वक् च । मालकः पर्वतभूमिक्षेत्रम् । मडः नड इति ख्यातः ॥ कुष्ठं मुण्डं शीथु बुस्तं श्वेलितं क्षेमकुटिमम् । सङ्गमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥ कुष्ठा ..न्धद्रव्यं व्याधिभेदश्च । मुण्डो मस्तकः । मुण्डितवचनश्च वाच्यलिङ्गः । शीथु मद्यम् । बुस्तं स्थालीभ्रष्टं मांसम् । पनसादिफलस्य सार- H नामलिङ्गानुशासनं तृतीयं काण्ड भागस्य वोप्र इति ख्यातस्य । क्ष्वेलितं सिंहनादः । क्षेमं लव्यार्थरक्षणम् । कुट्टिमं स्थण्डिलम् । सङ्गमं सङ्गतिः । प्रत्यैश्चतुर्मिराढकः, स एव शतमानम् । अर्म अक्षिरोगः अन्धा हाते ख्यातः । शम्बलं पाथेयम् । तालव्यादि दन्त्या- दि च | अव्ययं चवाहहादिकम् । ताण्डवं नृत्तम् ॥ कवियं कर्म कासि पारं वारो युगन्धरम् । यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५॥ 'कवियं वा ना तुरङ्गमुखभाण्डमिति वोमालितः । कर्म व्याप्ये कि- यायां च । कर्पासि कर्यासीफलम् । पारं नद्यादिपरतीरम् । वारः समूहो- ऽवसरो राजादिद्वारं परिपाटिश्च । युगन्धरः कूबरः । पर्वतविशेष इत्यन्यः । यूपं यागे पशुबन्धनदारु । प्रग्रीवं मुखशालेति चाणक्यटीकाकृत् । मत्तवा- रणाख्यं दार्वित्यरुणदत्तः । गृहादौ वीश्याद्याकर्षणं प्रग्रीवमित्यन्यः । यज्ञो- पकरणपात्रविशेषः पात्रीवम् । मुद्गादिविकारो यूपम् । चवर्गीयादिरव्ययमिति वर्णदेशनाकृत् । चमसं सोमपानपात्रं दन्त्यसम् । चिक्कसो यवचूणम् ।। अर्ध दिगणे घृतक्षीरादयः पठ्यन्ते, चान्द्रलिङ्गानुशासने च तृणरे- णचरणादयः। ते च कथमिह नोक्ता इत्यत आह अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् । तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६॥ अर्धर्चादौ घृतादीनां पुंस्त्वाचं पुन्नपुंसकत्वमुक्तम् । तद् वैदिकं छान्दसं ध्रुवं निश्चितम् । तत् तस्माद् इह लौकिके नामलिङ्गानुशासने अनुपयुक्तत्वा- नोक्तम् । ननु चात्यन्तविदुषोऽपि पुरुषस्याशेषलौकिक(प्र)योगपारगत्वासंभवात् सन्दिग्यमेतत् । किमस्ति लोकानां प्रयोगो न वेत्याह ---- लोकेऽपि तच्चेदम्ति घृतादीनां पुंस्त्वादि, (वि:) शेषवद् । अनुक्तलिङ्गसङ्ग्रहार्थमिह वक्ष्यते-- 'शेषं तु ज्ञेयं शिष्टप्रयोगत' इति । यथा ग्रन्थविस्तरभयादनुक्तमपीह शेष शिष्टप्रयो- गतो ज्ञेयं, तथा तदपि शिष्टप्रयोगतो ज्ञेयम् ।। पुन्नपुंसकविशेषणम्। meo । MADHAN WImaeyNamrataswimminenorisanketeoblemselated HEROIN .. 'कणचणा' क. ग. पाठः, - । लिङ्गादिसंग्रहवर्गः५] टीकासर्वस्वास्यव्याख्यासमेतम् । १८७ स्त्रीपुंसयोरपत्यान्ता हिचतुःषट्पदोरगाः। जातिभेदाः स्त्रीपुंसयोः, अधिकारोऽयम् । अपत्यान्ताः अपत्यप्रत्ययान्ताः सर्वे स्त्री- पुंसयोः स्युः । 'तस्यापत्यम्' (४. १. २२) इत्यण् । औपगवः । 'टिड्डा- ण -' (४. १. १५) इत्यादिना ङीप् । औपगवी। गार्ग्यः गार्गी। द्विवतुःषटपदोरगाः द्विपद चतुष्पदषट्पदवाचिनः उरगवाचिनश्च स्त्रीसयोः । मानुपः मानुपी । सिंहः निही । द्विरेफ: द्विरेकी । उरगः उरगीत्यादि । जातिभेदविशिष्टा एव जातिवाचनः स्त्रीपुंसयोः । द्रुणी हुणः । मत्ती मरग्यः । पूर्वयोगोऽत्यैव प्रपञ्चः । केचिदेकयोगमाम-न्ति । तेषामयार्थः - द्विपदादयो जातिभेदविशिष्टा एव जातियाचिनः स्त्रीपुंसयोः, न सर्वे । तथाहि पुरुषादयः पुंस्येव, स्त्रीप्रभृतयः स्त्रियामेवेप्यन्ते । द्विपदादिग्रहणं च जातिभेदो. पलक्षगार्थम् । ते न द्विपदादिजातियोमेऽपि द्रुणमत्स्यादयः स्त्रीपुंसयोरिति ।। पुमाख्याश्च स्त्रीयोगैः सह मल्लकः॥३७॥ मुनिवराटकः स्वातिर्वर्णको जाटर्मिनुः । मूषा सुपाटी कर्कन्धूर्यष्टिः शाटी कटिः कुटिः॥३८॥ पुमाख्याश्च स्त्रीयोगैः ': सह मल्लकः। "मुनिवराटकः स्वातिवर्णको जाटलिर्मनुः । मूषा सुपाटी कर्कन्धूाष्टः शाटी काटेः कुटिः ॥ इति पाटः । तत्र पुमाख्याः स्त्रीयोगैः सहेति सूत्रभेदः । तस्यार्थः ----पुमाख्याः स्त्रीयांगैः सह स्त्रीपुंसयोः स्युः । यथा प्रष्ठोऽग्रगामी पुरुषविशेषः । स यदा तात्थ्यात् स्त्रियां वर्तते तदा प्रष्ठा स्त्री। 'पुंयोगादाख्यायाम्'(४. १. ४८) इति डीप् । नामान्यनुक्तान्याह मल्लको मल्लिका भाजनभेदः । मुनिरयं मुनिरियं वा, तपखी । वराटको वराटिका कपर्दिः । स्वातिरयं स्वातिरियं, नक्ष- अभेदः । वर्गको वर्णिका, नीलिकादिः । जाटलिरयं जाटलिरियं वृक्षभेदः । अयं मनुः प्रजापतिः इयं मनुस्तद्भार्येति चन्द्रलिङ्गवृत्तिः । मूषा मूषः स्वर्णादि- विलयनभाण्डम् । सुपाटः सुपाटी परिमाणविशेषः । रुधिरधारेति तु गोवर्धनः । do- - 8. 'देन वि' क. ख. पाठः. २. 'ते द्विपदादिजातयोऽपि . पादः १८८ नामलिङ्गानुशासनं [तृतीयं काण्ड इयमयं वा कर्कन्धः , बदरी । इयमयं वा यष्टिः, दण्डः । शाटी शाटो वस्त्र- भेदः । कट आसनविशेषः ओषधिविशेषश्च । कटिः श्रोणिः । अयं कुटिरियं कुटिः, स्वल्पावासः । कुटी इति पाठः प्रथमाद्विवचनान्तः । 'जातिभेदा यष्टिमु- ष्टिस्वातयः कीटवृश्चिकाः' इति पाठान्तरम् । ह्रस्वकारोऽपि कीटशब्दोऽस्ति ।। स्त्रीपुंसविवरणम् । - । me स्त्रीनपुंसकयोर्भावक्रिययोः ष्यन् कचिच्च वुञ् । औचित्यमौचिती मैत्र्यं मैत्री वुञ् प्रागुदाहृतः॥ ३९॥ स्त्रीनपुंसकयोः, अधिकारोऽयम् । भावक्रिययोः प्यञ् कचिच्च । कचि- दिति भावक्रिययोर्विशेषणमसाकल्यार्थम् । चकार एवार्थे । भावकर्मणो. विहितः प्यञ् स्त्रीनपुंसकयोः स्यात् । उदाहरणमग्रसूत्रे । वुञ् । क्वचिचेत्य- नुवर्तते । क्वचिदेव भावकर्मणोर्विहितो वुञ् स्त्रीनपुंसकयोः स्यात् । पूर्वसूत्र- स्योदाहरणमाह उचितस्य भावः कर्म वा औचित्यम् औचिती। एवं मैत्र्यं मैत्री । उदाहरणस्य दिङ्मात्रत्वाद् वैदग्ध्यं वैदग्धीत्यादि । वुञ् प्रागुदाहृत इति । मनुष्यवर्गादावुदाहृतम् । वार्धकं चौरिका । मनोज्ञादित्वाद् वुञ् ॥ षष्ठयन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः। स्याद् वा नसेनं श्वनिशं गोशालमितर च दिक् ॥ ४०॥ षष्ठयन्तेत्यादि । षष्ठयन्तपूर्वपदाः सेनादयोऽपुंसि स्त्रीक्लीबयोः स्युः । उदाहरणान्याह वा नृसेनमित्यादिना । वावचनाद् नृसेना श्वनिशा गोशाला यवसुरं यवसुरा । तरुच्छायं तरुच्छाया । दिगिति उदाहरणदिगियमित्यर्थः । अपराणि च पाण्डवसेनं पाण्डवसेनेत्यादीनि द्रष्टव्यानि ॥ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् । त्रिखट्टुं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥ भाबन्नन्तोत्तरपदो द्विगुश्चासि नश्च लुप् । आबन्तोत्तरपदोऽनन्तो. तरपदश्च द्विगुरपुंसि स्यात् । नकारस्य चोत्तरपदसंबन्धिनो लप् । दिगित्युदा- - AWARAN लिङ्गादिसंग्रहवर्गः ५] टीकासर्वस्वास्यव्यास्यासमेतम् । १८९ हरणदिक् । तामाह-त्रिखट्दमित्यादिना । तक्षन्शब्दस्यानन्तत्वाद् नका- रलोपः ॥ स्त्रीनपुंसकविवरणम्। त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ। त्रिष्वित्यधिकारोऽयम् । नामान्याह । पात्रीषट्कं त्रिषु । पात्री पात्रं पात्रः, भाजनविशेषः । पत्रादिरचिता पुटी । वेष्टितः स्थलभागो वाटी । पेटी वेत्रादिरचिता । कुवलो बदरीतरुः । स्त्रियां कुवली । दाडिमः प्रसिद्धः । लियां दाडिमी ॥ त्रिलिङ्गविवरणम् । - परलिङ्गं स्वप्रधाने द्वन्दे तत्पुरुषेऽपि तत् ॥ ४२ ॥ इदानीमुच्चावचेन लिङ्गमाह परलिङ्गं स्वप्रधाने द्वन्द्वे । द्वन्द्वसमासे स्वप्रधाने उभयपदार्थप्रधाने, इतरेतरद्वन्द्व इत्यर्थः, परं परस्थस्य शब्दस्य यल्लिनं तत् स्यादित्यर्थः । उदाहरणं तु कुक्कुटमयूयॊ मयूरीकुक्कुटौ । स्वप्रधान इति किम् । वाक्त्वचम् । श्रीस्रजम् । तत्पुरुषेऽपि तत् । तत् पर- स्थलिङ्गं तत्पुरुषेऽपि समासे स्यात् । करकिसलयं भुजलता ॥ अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः। तद्धितार्थे विगुः संख्यासर्वनामतदन्तकाः॥४३॥ अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः। अर्थान्ताः, प्रायलमादि- शब्दाः पूर्वाः पूर्वपदभूताश्च यत्र तेऽपि समासाः परोपगाः परकीयलिङ्गोपगाः, वाच्यलिङ्गा इत्यर्थः । अर्थान्ता यथा विप्रार्थः सूपः । विप्रार्थी यवागूः । विप्रार्थ पयः । प्रादिना प्रपरादयो गृह्यन्ते । अतिक्रान्तः खट्रामतिखट्वः पुरुषः, अतिखट्वा स्त्री, अतिखट्वं ब्राह्मणकुलमित्यादि। एवम् अलजीविकः प्राप्तजी- विकः आपन्नजीविकः । तद्धितार्थे द्विगुः । तद्धितार्थे यो द्विगुः सोऽपि पर- कीयलिङ्गोपगः । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । पञ्चकपाला यवागू : । पञ्चकपालं हविः । संख्यासर्वनामतदन्तकाः । संख्याशब्दाः सर्वनामानि तदन्तकाश्च अन्यलिङ्गाः स्युः । बहवो नराः बह्वयः स्त्रियः बहूनि ब्राह्मणकुलानि । विंशत्यादौ बाध(मुन्नेयम् ? उन्नेयः) । सर्वनामानि १९० नामलिङ्गानुशासनं [तृतीयं काण्ड यथा पर- यथा सर्वः सर्वा सर्वम् । विश्वः विश्वा विश्वम् । तदन्तका यथा मसर्वः परमसर्वा परमसर्वम् ।। बहुव्रीहिरदिङ्नाम्रामुन्नेयं तदुदाहृतम् । गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः॥४४॥ बहुव्रीहिरदिङ्नाम्नाम् । दिग्वाचिव्यतिरिक्तानां बहुव्रीहिरन्यलिङ्गः । तस्योदाहरणं किमित्याह - उन्नेयं तदुदाहृतम् । तन्योदाहृतमुदाहरण पुन्ने- यम् ऊहनीयम् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । प्राप्तो दकं नगरम् । अदिङ्नाम्नामिति किम् । उत्तरपूर्वा दिक् । गुणद्व्यक्रियायोगोपाधिभिः परगा- मिनः । गुणयोगेन द्रव्ययोगेन क्रियायोगेन चोपाधिना विशेषणेन परगामिनः धर्मिणि ये प्रवृत्ताः ते परोपगाः अन्यलिङ्गाः । गुणशब्दो यथा-शुक् शुक्ला शुक्लम् । द्रव्यशब्दो यथा दण्डी दण्डिनी दण्डि । क्रियाशब्दो कृतः कृता कृतम् ॥ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्माण। अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ कृतः कर्तर्यसंज्ञायाम् । कर्तरि वर्तमानाः कृत्संज्ञकप्रत्यया अन्यलिङ्गाः स्युः । पाचकः पाचिका पाचकम् । असंज्ञायामिति. किम् । दुनोतीति दावः । वनाग्नेरियं संज्ञा । कृत्याः कर्तरि कर्मणि । कर्तरि कर्मणि च ये कृत्यप्रत्ययाः तदन्ता अन्यलिङ्गाः स्युः । हव्यस्तरुः हव्या लता हव्यं फलम् । कर्मणि वाच्यः वाच्या वाच्यम् । अणाधन्तास्तेन रक्ताद्यर्थ नानार्थभेदकाः । तेन रक्ताद्यर्थे ये अणादयः प्रत्यया विहिताः तदन्ता नानार्थभेदकाः नानार्थविशे- धकाः सन्तः अन्यलिशा भवन्ति । कुसुम्भेन रक्तः कौसुम्भः पटः । कौसुम्भी शाटी । कौसुम्भं वस्त्रम् ॥ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिव्ययम् । पर विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ षट्संज्ञकास्त्रिषु समाः। षकारनकारान्ताः संख्याः षट्संज्ञका इतिप्र- स्ययान्ताश्च । ते त्रिषु लिङ्गे समाः तुल्याः । षट् स्त्रियः षड् जनाः पद्
लिङ्गादिसंग्रहवर्गः ५] टीकासर्वस्वाख्यव्याख्यासमेतम् ।
-
कुलानि । एवं पञ्च स्त्रियः पञ्च जनाः पञ्च कुलानि । कति स्त्रियः कति जनाः
कति कुलानि । पटसंज्ञकस्यापि संख्यान्तर्गतत्वादेव त्रिलिङ्गत्वे लब्बे संख्या-
सर्वनामतदन्तका इत्यस्यैवायं प्रपञ्चः । युष्मदस्मतिङव्ययम् । युष्मदस्मदी
तिङन्तमव्ययं च त्रिपु लिङ्गेषु तुल्यरूपम् । यथा त्वं प्रिया त्वं नाथः
त्वं मित्रम् । एवम् अहं प्रिया अहं नाथः अहं मित्रं च । तिङन्तं यथा-
अयं पचति इयं पचति इदं पचति । अव्ययं यथा- उच्चैगिरिः उच्चैः
शाला उच्चगृहम् । पर विरोधे । लिङ्गलक्षणयोर्विरोधे सति परं लक्षणं
प्रवर्तते । यथा-
मानुपो मानुषी भ्रमरो भ्रमरी इत्यत्र 'कषणभमरोपान्ता
यद्यदन्ता अमी' इति पुंस्त्वे प्राप्ते 'द्विचतुःषट्पदोरगा' इति स्त्रीपुल्लिङ्गाः ।
शेषं तु ज्ञेयं शिष्टप्रयोगतः। यत्र ग्रन्थविस्तरभयाद् लिङ्गं नाम च नोक्तं
तत् शिष्टानां पूर्वाचार्याणां महाकवीनां च प्रयोगादवसेयम् । यथा-
"अ(न? )न्तेोत्कृत्यन्तं गायव्यायं तथा छन्दः"
इति स्त्रीत्वानुशासनमरु मन्येत्यन्यद् बोद्धव्यम् । नामानुशासनं यथा
'निलिम्पा द्युषदो देवा' इत्यादि गङ्गाधरादीनाम् ।
HAR
pa
-
प्रीणि व्याकरणान्यधीत्य सकलं साहित्यमालोक्य च
प्राज्ञाध्यापकभाषितानि हृदये न्यस्याकृतेदं स हि ।
प्राज्ञेनानु सनातनेन बहुशः प्रत्यक्षरं शोधितं
जिज्ञासा यदि शब्दवर्त्मनि तदा चैतत् समालोक्यताम् ॥
इति वन्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे लिङ्गादिसंग्रहवर्गः ।
समाप्तं च टीकासर्वस्वम् ।
शुभं भूयात् ।
1. 'त', २. 'नोच्यते किन्तु पू' 3. पाठः,
READY FOR SALE. RS. AS. P. TEATT (Stuti) by H. H. Svâti Srî Râma Varma Malârâjah. 1 0 0 Trivandrum Sanskrit Series. No. 19 (Vyakarana) by Deva with Purushakâra of Krishn":lí låsukamuni. 100 No. 2-अभिनयकौस्तुभमाला-दक्षिणामूर्तिस्तवौ by Krishnalîlàsukamuni. 0 2 0 No. 3.-76*: (Kavya) by Vîmana Bhatta Bâna. 0 4 0 No. 4-faciaria: (Kavya) by Nîlakantha Dikshita. 2 00 No. 5 Tiadas: (Alankûra) by Malima Bhatta with commentary. 2 12 0 No. 1--Alle: (Vyakurana) by Saranadeva. 2 0 0 No. 7-ब्रह्मतत्तप्रकाशिका (Vedânta) by Sadasivendra Sarasvati 2 4 0 No. 8-RETET (Nataka) by Ravi Varma Bhûpa 1 0 0 No. 9-TIBAT (Vedânta) by Virûpäkshanátha with the commentary of Vidyâchakravartin. 0 No. 10-17 (Gajulakshana) by Nîlakantha. O 8 0 No. 11-amiazora (Natika) by Kulasekhara Varma with the cominentary of Sivarâria. 2 4 0 No. 12-arch (Vedânta) by Bhagavad Adi. sesha with the commentary of Raghavananda. 0 8 0 No. 13-TE24 (Nataka) by Kulasekhara Varma with the commentary of Sivarama 20.0 8 0 2 RS. AS. P. 0 1 1 1 No. 14-aar: (Nîti) by Kamandaka, with the commentary of Sankarârya. 3 8 0 No. 15-FTHARETTET (Nâtaka) by Bhâsa. Seconil (Edition) 1 8 0 No. 16-siagaitarata (Nâtaka) by Bhâsa. 1 8 No. 17_3117 Do. Do. 0 0 No. 18 rcrrith (Stuti) by Nârâyana Bhatta with the commentary of Desanaangala Vârya. 4 0 0 No. 19-FTTHEU: (Mimâmsa) by Nârâyana Bhatta and Narayana Pandita. 1 4 0 No. 20-Tahra (Nataka) by Bhâsa. 8 0 No. 21-Ticarea Do. Do. 0 0 No. 22-मध्यममायोग-दूतवाक्य-दूलवटोत्कच-कर्णभारोरुभनानि (Nataka) luy Bhâsa. 18:0 No. 23--T2CBTizia: (Kosa) by Kosavaswâinin (Part I, 1 & 2 Kândas) 1 12 0 No. 24—371777ifurt: (Kâvya) by Chakrakavi. 1 0 0 No. 25Tefera HT (Nyâya) by Gangadharasûri. 0 12 0 No. 26-172 (Nâtaka) by Bhâsa. 0 12 0 No. 27-ATTATHA: (Kâvya) by Kalidasa with the tiro commentaries, Prakásikâ of Arunagirinatha and Vivarana of Nârâyana Pandita (Part I, 1 & 2 Sargas) 1 12 No. 28_MNATIH: (Dharmasûtra) by Vikhanas. O 8 0 No. 29-etorriana: (Kosa) by Kesavaswamin (Part II 3rd Kânda) 2 4 0 No. 30-aveafaret (Silpa) 0 12 0 No. 31mFATTOTTÁT: (Kosa) by Kes vastâmin (Part III, 4th, 5th & 6th Kandas) 1 0 0 0 3 RS. AS. P No. 32-APTERT: (Kâvya) by Kalidasa with the two commentaries, Prakâsikâ of Arunagirinâ tha and Vivarana of Nârâyana Pandita (Part II 3rd, 4th & 5th Sargas) 2 8 0 No. 33-RETTE: (Vyâkarana) with the commentary Dîpa prabhâ of Nârâyana 0 8 0 No. 34-ACQ: (3154Utda:) (Nyâya) by Rajachûdâmanimakhin. 1 4 0 No. 35--AUTATE: (STTATTEUE:) (Nyâya) by Gopinatha. 1 8 0 No. 36-TTT: (Kavya) by Kâlidâsa with the two commentaries, Prakâsikâ of Arunagirinâtha and Vivarana of Nârâyana Pandita (Part III 6th, ith & Sth Sargas) 3 0 0 No. 37- Braia147 (Smriti) by Vararuchi with the commentary. 0 4 0 No. 38 - HILFIGETTATH (Kosa) by Amarasimha with the comumentary Tîkâsarvasva of Vandyaghatiya Sarvånanda (Part I. 1st Kânda) 2 0 0 No. 39-TTTH (Nâtaka) by Bhâsa. 0 12 0 No. 40.--HEERE (Alankâra) by Râjânaka Srî Ruyyaka with the Alankârasarvaswa of Mankhuka and its commentary by Samudrabandha. 28 0 No. 41-28717926# (Kalpa) by Åpastamba with l'ivarana of Sri Sankara Bhagavat Pada 0 4 0 No. 42-TATTIE** (Nataka) by Bhâsa. 8 No. 43—HEFTEETIT (Kosa) by Amarasimha with the two commentaries, Amarakoso. dghatana of Kshiraswamin and Tikasarvaswa of Vandyaghatiya-Sarvananda (Part II. 2nd Kanda 1-6 Vargas) 2 8 0 1 0