Sarnath Varanasi

Alanakarmuktawalii

Parvatiya Sri Visvesvara Pandeya · 2006/05/07

PDF Proofread

Front matter

हरिदाससंस्कृतग्रन्थमालासमाख्य- काशीसंस्कृतसीरीजपुस्तकमालायाः ५४ काव्यविभागे (७) सप्तमं पुष्पम् । पर्वतीय-विहहर-श्रीविश्वेश्वर पाण्डेयनिर्मिता- AIRMAN अलङ्कारमुक्तावली। - नेपालदेशीय- पण्डित श्रीविष्णुप्रसादभण्डारिणा संशोधिता। काश्यां- चौखम्बासंस्कृतग्रन्थमालाप्रकाशक-श्रीयुतहरिदासगुप्तात्मज- श्रेष्ठिजयकृष्णदासगुप्तमहाशयेन स्वकीये विद्याविलास' नानि यन्त्रालये मुद्रयित्वा प्रकाशिता।

हमारे यहां हर तरहकी छपाई व जिल्दसाजीका कार्य भी होता है।
हर तरह के संस्कृत ग्रन्थ तथा भाषा पुस्तकों के मिलने का पता-
जयकृष्णदास-हरिदास गुप्तः,
चौखम्बासंस्कृतसीरीज आफिस,
विद्याविलास प्रेस, गोपालमन्दिर लेन,
बनारस सिटी।

KASHI-SANSKRIT-SERIES
(HARIDAS SANSKRIT GRANTH MALA)
54.
( l'avya Section No. 7)
ALANKAR MUKTAVALI
BY
PARVATIYA SRI VISVESVARA PANDEYA
Edited by
Vishnu Prasad Bhandari of Nepal.
Printed Published & Sold By
JAI KRISIIN A DAS-HARI DAS GUPTA,
CHOWKHAMBA SANSKRIT SERIES OFFICE,
Vidya Vilas Press, North of Gopal Mandir,
Benares City ( India )
1927

XX
1
Agents:
Luzac & co, Booksellers,
LONDON,
Otto Harrassowitz, Leipzig:
GERMANY
The Oriental Book-supplying Agency,
POONA

भूमिका। इयमलङ्कारमुक्तावली कूर्माचलदेशीय-पाण्डेयकुलतिलकविद्वद्वर श्रीविश्वेश्वरशर्मणः कृतिः। एतदीयेतिवृत्तं पूर्व मुद्रिताया अदसी- यासप्तशत्या भूमिकातोऽवगन्तव्यमितिहासरसिकैः सहृदयैः । प्रबन्धोऽयमुक्तकविना अलङ्कारकौस्तुभनामकं विस्तृतमलङ्कारविष. यकं ग्रन्थरत्नं निर्माय पश्चानिमित इति ग्रन्थक; आरम्भ एव "नानापक्षविभावन" इतिपद्येन स्वयमेव प्रतिपादितम् । अन्थका अलङ्कारकौस्तुभस्था एव कारिका अत्र स्वल्पविवृति- सहिताः कृत्वा सन्निवेशिताः। उदाहरणपद्यानि तुप्रायोनूत्नानि सन्नि- वेशितानीति विशेषः । अलङ्कारकौस्तुभमभ्यसितुमिच्छतां सुतरामुः पयोगीदं प्रबन्धरत्न मुमुद्रयिषुणा नेकविधामुद्रितचरग्रन्थरत्नमुद्रण- प्रवणेन श्रेष्ठिहरिदासतनूजेन श्रीजयकृष्णदासगुप्तमहाशयेन शोधन- कृते प्रार्थितोऽहं प्रावतिष्येतच्छोधनाय । आदर्शपुस्तकं तु अलवरस्थराजमान्यश्रीयुत-पण्डितचन्द्रदत्त- शास्त्रिणः सकाशादानाय्य तेनैव दत्तं शुद्धप्रायमेकमेव । विषयानुक्रम- णिकोदाहरणपद्यानुक्रमणिकादानेन अभ्याससौकर्याय कारिकाणां पृथक्सन्निवेशेन च परिष्कृत्य सपरिश्रमं संशोधितेऽप्यत्र मानुष्यक- नान्तरीयकदोषजातानि स्खलितानि मर्षयिष्यन्ति ग्रन्धतत्वमाजि- शासाग्रहिला धीरवरा इति- प्रार्थयते- - mes १९८४ वैशाखकृष्णे तिथौ चन्द्रवासरे। विनीतो विदुषां विधेयो नेपालाभिजनो विष्णुप्रसाद भण्डारी

अलङ्कारमुक्तावल्याः
कारिकाः।
सन्मूलप्रकृतिः प्रकाशितशतानन्दो दधानः क्षमा
कृष्णं वापि मुमन्तुनैकगुरुताशाली नयन्पूज्यताम् ।
सवृत्तिं दधदात्मभूतनयतामारुन्धते यस्य ता-
माचार्यः प्रथमो गिरा विजयते विद्वान्स लक्ष्मीधरः ॥ १॥
नानापक्षविभावनकुतुकमलङ्कारकौस्तुभं कृत्वा ।
मुखबोधाय शिशूनां क्रियते मुक्तावली तेषाम् ।। २ ॥
तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा ।
वाचकधर्मसमत्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ॥१॥
श्रोत्यार्थी सा द्विविधा वृत्तौ वाक्ये च तद्धिते तद्वत् ।।
स्यादिवपदादियोगे बतौ तदर्थेऽपि सा श्रौती ॥ २ ॥
तुल्यादिकपदयोगे वतौ तदर्थेऽपि चार्थी सा ।।
अन्यतमस्य चतुर्णा विरहे लुप्तां वदन्त्याप्ताः ॥ ३ ॥
धर्मोपमानवाचकमध्येऽन्यतमस्य लुप्तत्वे ॥
धर्माअकयोरखकसमयोः समधर्मयोः समान्येषाम् ॥ ४ ॥
धर्मविलुप्त्रौत्यार्थी वाक्ये वृत्तौ च तद्धिते त्वार्थी ॥
वाक्यसमासोभयगोपमानलोपे न वाक्यगाञ्जकलुक् ॥५॥
वृत्तौ कर्माधारक्याच क्याङि स्यात् द्विधा गमुलि ।
धर्मद्योतकलुप् किप्समासयोः क्यचि समाअकलुप् ॥ ६ ॥
धर्मोपमानलुप्ता वृत्तौ वाक्ये समान्यलुप् वृत्तौ ॥
मालोपमेय मुक्ताप्यकास्मंश्चद्वपमानसम्बन्धः ॥ ७ ॥
सामान्यधर्मभेदाभेदाभ्यां सापि च धा ।
पूर्वोषमोपमेयं यथुपमानं परोपमायां स्यात् ॥ ८ ॥

२ अलङ्कारमुक्तावल्याः। रशनोपमेयमुक्ता द्वैविध्यं प्राग्वदेवास्थाः ॥ यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्वे ॥ ९ ॥ अन्यसदृशं निषेधुं तमनन्वयसंज्ञमाचख्युः ।। उपमायां पूर्वस्यां प्रतियोग्यनुयोगिनौ यौ तु ॥ १० ॥ तो विपरीतौ परतश्चेदुपमेयोपमा त्वेषा । सम्भाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् ॥११॥ तामुत्प्रेक्षामाहुभिन्नं हेत्वादिविषयत्वात् ।। प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या ॥ १२ ॥ बुद्धिनिश्चयभिन्ना तामाचख्युः ससन्देहाम् ।। उक्त विशेषधर्म प्रकृतस्य भवेदनुक्ते च ॥ १३ ॥ तद्रूपकं त्वभेदः स्यादुपमानोपमेययोर्यत्र ।। आरोप्याः शाब्दाश्चेत्कथयन्ति समस्तवस्तुविषयं तत् ॥१४॥ एकदेशविवर्ति तच्छौतार्थत्वे तु साङ्गे द्वे ।। निरवयवं तु तदुक्तं यद्यकारोपसाधकं नान्यत् ॥ १५ ॥ मालारूपकमुक्तं वेकस्मिन्भूयसां यदारोपः ॥ अन्यारोपाभावप्रयोजकस्य त्वभावस्य ॥ १६ ॥ प्रतियोगी परकीयारोपो यस्तत्परम्परितम् ॥ तच श्लेषभिदाभ्यामारोपनिमित्तशब्दस्य ॥ १७ ॥ प्रकृते निषिध्य भिन्नात्मतया प्रोक्तावपहनुतिः कथिता ।। उभयविशेष्यान्वितयोरेकेन प्रोक्तिरर्थयोः श्लेषः ॥ १८ ॥ यत्र प्रकारवाचकपदमात्रं व्यङ्ग्यवाच्यसामान्यम् ।। सच्छक्तरप्रकृतार्थोक्तिः सोक्ता समासोक्तिः ॥ १९ ।। उपमापर्यवसन्नो यत्रार्थोऽन्योन्यमन्वयानहः ॥ यञ्च क्रियया कारणकार्यान्वयधीनिदर्शना सोक्ता ॥२०॥ अप्रस्तुतप्रशंसा प्रकृतिप्रतिपत्तिरेतया यत्र । कार्य हेतौ व्याप्यव्यापकयोरन्यगीः समे तस्य ॥ २१ ॥ .

३ कारिकाः। अप्रकृतेन निगीणे साध्यवसानाश्रयात्मकृते ।। प्रकृतस्याप्यधिकत्वे यद्येवं स्यात्तथापत्तौ ॥ २२॥ स्याजन्यजनकपौर्वापर्यत्यागश्च सा वतिशयोक्तिः ।। सादृश्यपर्यवसिते यस्मिन्दाक्यद्वये धर्मः ॥ २३ ॥ एकोऽपि द्विरुपात्तस्तां प्रतिवस्तूपमामाहुः ।। साधारणस्य साम्यप्रतियोग्यनुयोगिनोर्यत्र ॥ २४ ॥ निर्देशः स्यात् विम्बप्रतिविम्बतया स दृष्टान्तः ।। प्रकृतापकृतानां ययेकान्वयितास्ति दीपक तत्स्यात् ॥२५॥ यत्रैकमेव कारकमन्वयमेति क्रियासु बहीषु ।। माला तु पूर्वपूर्वे (१)विधान्तरेणोत्तरान्वयिनि ॥ २६ ॥ प्रकृतानां तारके भिन्नानां वापि तुल्ययोगित्वम् ।। उभयोः साम्यप्रोक्तौ विशेष उपमेयगो व्यतिरेकः ॥२७॥ हानिप्रकर्षहेत्वोरुक्ती त्रेधा च तदनुक्तौ ॥ शब्दार्थालेपोत्थे साम्ये श्लेषे च दिग्युगमित्तः सः ॥२८॥ इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोधाय ॥ स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥२९॥ हेतुं विनापि कार्य यत्रोक्तं स्याद्विभावना सा तु ।। हेतौ सयपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः ॥ ३० ॥ निर्देशक्रमतो यदि समन्वयस्तद्यथासङ्खयम् ॥ यदि सामान्यविशेषौ समर्थयते विशेषसामान्ये ॥ ३१ ॥ साधाद्वैधादपि वा सोऽर्थान्तरन्यासः ॥ अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः ॥ ३२ ॥ स्याजातेर्गुणकर्मद्रव्याणां स्वस्वपरयोगात ॥ यो वस्तुनः स्वभावस्तस्य निरूक्तिः स्वभावोक्तिः ॥ ३३ ॥ ब्याजस्तुतिर्विपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । सहसमभिव्याहारात्सहोक्तिरुभयान्विते धर्मे ॥ ३४ ॥ (१) विध्यन्तरेणेति पाठोऽलङ्कारकौस्तुभे । -- < .. अलङ्कारमुक्तावल्याः। यत्रान्येन विनान्योऽसाधुः (१)साधुर्विनोक्तिः सा ।। सदृशासहशैरथैरर्थानां विनिमयस्तु परित्तिः ॥ ३५ ॥ भाविकमध्यक्षं स्यात्मध्वंसमागभावानाम् ॥ वाक्यपदार्थत्वाभ्यां हेतृक्तिः काव्यलिङ्गं स्यात् ।। ३६ ।। पर्यायोक्तं कथितं वाच्यस्यैवान्यभङ्गयोक्तिः ।। वस्तुपचय उदात्तं महतामङ्गत्ववचनं च ॥ ७ ॥ एकस्मिन् सति हेतौ हेत्वन्तरगीः समुच्चयः प्रोक्तः ।। सदसत्सदसद्योगे गुणक्रियायोगपग्रेऽन्यः ॥ ३८ ॥ एकमनेकमनेकैकस्मिन् (२)क्रमशोऽस्ति चेत्स पर्यायः ।। अनुमानं व्याप्यवलाध्यापकपीमिनिष्ठा या ॥ ३९ ॥ साभिप्रायविशेषणविन्यासे परिकरः प्रोक्तः ॥ व्याजोतिर्विशदीभवदर्थस्यापह्नुतिमिर्षतः ॥ ४० ॥ पृष्टमपृष्टं प्रोक्तं ययङ्ग्यं वापि वाच्यं वा ।। फलतीतरव्यपोहं परिसङ्ख्या सा तु सङ्ख्याता ॥४१ ॥ (३)कारणमाला प्रोक्ता पूर्वे पूर्वे यथोत्तरं हेतौ ॥ अन्योन्यं वस्तूनां परस्परोत्कर्षहेतुत्वे ।। ४२ ।। उत्तरमात्रात्प्रश्नोन्नयने स्यादुत्तरं नाम ।। प्रश्न लोकाविदितोत्तरस्य तच्चासकृत्योक्तौ ॥ ४३ ॥ प्रतिभातिशयाज्जातो यद्याकारङ्गितादर्थः ।। विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ।। ४४ ॥ मारस्तु पूर्वपूर्वादुत्कर्षियुत्तरोत्तरे प्रोक्त । हेतुव्यधिकरणं चेत्कार्यं स्यात्सा स्वसङ्गतिः प्रोक्ता ॥४५॥ भवति समाधिः मुकरे हेत्वन्तरसमवधानतः कार्ये ।। अन्योन्यसङ्गमाहौँ सम्बध्येते समं नत्म्यात् ॥ ४६ ।। (१) सन्वेति पाठ: अलंकी। ( २ ) अलङ्कारकौस्तुभे क्रमतोऽस्तीति पाठः। (३) कारणमाला पूर्वे पूर्व कार्य इति पाल अलं. का। :

कारिकाः। सम्वन्धानुपपत्ताविष्टार्थानाप्त्यनिष्टसम्प्राप्ता ॥ जन्यजनकोभयगुणक्रियाविरोधे च विषम म्यात् ॥४७॥ आधारस्थाधेयादाधेयस्यापि वाधारात् ॥ यदय॑ते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ ४८ ।। आत्मापकारजनकप्रसपकारासमर्थेन ।। तत्सम्बन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ।। ४६ ॥ सहजनिमित्तजधर्मात्सदृशान्येन वस्तुना वस्तु ।। अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ ५० ॥ प्रथमं विशेषणं (१)चेद्विशेष्यमग्रे भवत्यसकृत् ॥ विरहप्रतियोगी वा तद्वानेकावलिः(२) सोक्ता ।। ५१ ॥ मदृशज्ञानोबोधितसंस्कारभवस्मृतिः(३) स्मरणम् ।। तदभाववति मतिस्तत्पकारिका भ्रान्तिमान् भवति ॥२२॥ उपमानानर्थक्यं प्रतीपमस्योपमेयत्वम् ।। स्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम् ॥ ५३ ।। स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ ५४ ।। परकीयगुणतिरोहितगुणस्य भानं तु तद्गुणः प्रोक्तः ।। अन्य गुणासम्बन्धः प्रकृतस्यातद्गुणः प्रोक्तः ॥ ५५ ॥ कार्यान्तरहेतुतयान्येनाभिमताविरुद्ध कार्य चेत् ॥ क्रियते परेण तस्मायाघातोऽयं समाख्यातः ॥ ५६ ॥ संसृष्टिस्तु परस्परमनपेक्ष(४)स्थितिरनेकस्य ।। एकमपेक्ष्यान्यस्य प्रादुर्भावे तु सङ्करः प्रोक्तः ॥ ५७ ।। साधकबाधकमानाभावाच्चैकस्य निर्णयाभावे ॥ एकपदाच्छन्दार्थालङ्कत्योरवगतावन्यः ।। ५८ ।। रसभावतदाभासे रसवत्प्रेय ऊर्जस्वी ॥ भावशमे तु समाहितमुदयेऽन्योऽप्यस्य शवलत्वे ।।५९॥ इति । (१) यदिति पा० अलंक कौ०। (२) "ली" अलं की। (३) 'भवा मतिः' अलंक कौ०। (४) 'अनपेक्ष्य' अलं कौ!

अलङ्कारमुक्तावलीस्थविषयाणामकारादिक्रमेण अनुक्रमणिका। पृ० पं० ३० २५ । विषयाः पृ० पं० । विषयाः अङ्गाङ्गिभावसङ्करः ५९ २२ एकावली- अतद्गुणः १८ । एकाश्रयानुप्रवेशसङ्करः ६० अतिशयोक्तिः कारणमाला अधिकम् १० काव्यलिङ्गम् अनन्वयः १३ । क्रियादापकम् ३० ११ ( अनुगुणः) १४ तद्गुणः अनुमानम् ४३ ११ : तुल्ययोगिता ( अनुज्ञा) २ दीपकम् अन्योन्यम् ६ दृष्टान्तः अपडतिः १८ २८ धर्मलुप्तोपमाविषयाः अप्रस्तुतप्रशंसा ३ धर्मवाचकलुप्तोपमा- अर्थान्तरन्यासः ३४ १३ विषयाः २३ असङ्गतिः १३ धर्मोपमानलुप्तापमा- आक्षेपः ३२ ११ विषयाः उत्तरम् उत्प्रेक्षा ९ निरवथवरूपकम् ३ उदात्तम् ४० १९ परम्परितरूपकद्वैविध्यम्१७ (उन्मीलितम् ) ४ परम्परितरूपकलक्षणम् १६ १८ उपमाद्वैविध्यम् उपमानलुप्तोपमाविषयाः ५ २६ ( पारकराङ्करः । उपमालक्षणम् १२ : परिवृत्तिः उपमेयोपमा ११ २६ . परिसंख्या ऊर्जस्वी पर्यायः १५ ( उल्लेखः ) २८ ११ पर्यायोक्तम एकदेशविवर्तिरूपकम् १५ १२ । ( पूर्वरूपम् ) - ११ निदर्शना १ १ १६ परिकरः ) २ २ १८ । २८ २ विषयानुक्रमणिका! पृ. पं० पृ० " OC प्रेयः १८ व्यतिरेकः ३१ ६ ५७ २६ ६ o1 २ २८ ३ संसृष्टिः " १३ विषयाः विपयाः प्रतिवस्तूपमा २८ २५ विशेषः प्रतीपम् ५३ विशेषोक्तिः विषमः प्रत्यनीकम् ( प्रहर्षणम् ) ३० (विषादनम् ) ६० व्यतिरेकभेदाः (प्रौढोक्तिः) २८ व्याघातः भावशबलम ६० भाविकम् ( व्याजनिन्दा) ३९ १५ भावोदयः ६० १८ व्याजस्तुतिः भ्रान्तिमान् व्याजोक्तिः १५ मङ्गलाचरणम् श्रौतायुंम्माविषयाः मालादीपकम् श्लेषः मालारूपकम् ११ सन्देहसङ्करः मालोपमा १० मीलितम् ५१ १९ समम् यथासङ्ख्यम् ३४ ७ समस्तवस्तुविषय- (युक्तिः) रूपकम् रशनोपमा समाधिः १० १३ समासोक्तिः रसवत् रूपकम् समाहितः लुप्तोपमा ११ समुच्चयः लुप्तोपमाभेदाः १५ ( सम्भावनम् । (लेशः) ससन्देहः वाचकलुप्तोपमाविषयाः ६ २९ ससन्देहभेदाः वाचकोपमेयलुप्तोपमा- सहोक्तिः विषयाः ६ सामान्यम् ( विकस्वरः) ३५ सारः विनोतिः ३८ ५ सूक्ष्मम् विभावना ५ स्मरणम् विरोधः ३५ १३ स्वभावोक्तिः ४७ २१ २२ ३० " २८ १३ ३७ २८ ६ २७ ५३ १ इति।

अथ श्रीविश्वेश्वरपण्डितरचिता अलङ्कारमुक्तावली। -- ॥ श्रीगणेशाय नमः॥ सन्मूलप्रकृतिः प्रकाशितशतानन्दो दधानः क्षमा कृष्णं वापि सुमन्तुनैकगुरुताशाली नयन्पूज्यताम् ॥ सद्वृत्तिं दधदात्मभूतनयतामारुन्धते यस्य ता- माचार्यः प्रथमो गिरा विजयते विद्वान्स लक्ष्मीधरः ॥१॥ नानापक्षविभावनकुतुक पलङ्कार कौस्तुभं कृत्वा । सुखवोधाय शिशूनां क्रियते मुक्तावली तेषाम् ॥ २ ॥ तत्र प्रायेण सर्वालङ्काराणां गम्यसादृश्यपर्यवसायित्वेन प्राधान्या- प्रथममुपमा व्याख्यायते ।। तत्रैकवाक्यवाच्यं सादृश्यं भिन्न योरुपमा । चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायामतिव्याप्तिवारणा- य एकेत्यादि । तत्र वाक्यद्वयसत्त्वान्न दोषः । व्यङ्ग्योपमावारणाय वाच्येति । चन्द्र इव चन्द्र इत्यनन्वयवारणाय भिन्नयोरिति। सा चेयमुपमा द्विधा। पूर्णा लुप्ता च। तत्र ज्ञानसौकर्याय पूर्णी ताव. दर्शयति- वाचकधर्मसमत्त्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ॥ १ ॥ वाचकं सादृश्यार्थक इवादिशब्दः। धर्मो रमणीयत्वादिरुपमा. निमित्तम् । सादृश्यप्रतियोगी उपमानम् । सादृश्यानुयोगी उपमेयम् । एषां चतुर्णी शब्दोपात्तत्वे पूर्णोपमा। यथा-- वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।। अत्र इवशब्दो वाचकः । सम्पृक्तत्वं धर्मः। वागर्थावुपमानम् । शि. -- २ अलङ्कारमुक्तावल्याम् - - बावुपमेयम् इति चतुर्णा प्रयोगः । तस्या भेदानाह- श्रोत्यार्थी सा द्विविधा वृत्तौ वाक्ये च तद्धिते तद्वत् । वाक्ये समासे तद्धिते च प्रत्येक श्रोती आर्थी च त्रिविधेति षड्वि- धा । कुत्र श्रौती कुत्र चार्थीति लोकार्थमाह-- स्यादिवपदादियोगे बतौ तदर्थेऽपि सा श्रौती ॥ २ ॥ तुल्यादिकपदयोगे बतौ तदर्थेऽपि चार्थी सा। इवादिनिपातानाम् इवार्थविहितस्य वतिप्रत्ययस्य प्रयोगे श्रौती। तुल्यादिपदानां तुल्यार्थविहितवतिप्रत्ययस्य च प्रयोगे त्वार्थी । तत्र वाक्ये श्रौती यथा “वागर्थाविव" इत्यादि । वागर्थावित्यस्य इवेन सह लमालस्य अनित्यत्वादविवाक्षितत्वात् । तत्रार्थी यथा-- मुक्ताभिः सलिलरयास्तशुक्तिपेशी- मुक्ताभिः कृतरुचि सैकतं नदीनाम् ॥ स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यबैर्विगलितहारचारुभिः स्वैः ॥ ( मा० स० ४ श्लो०) अत्र वाचकोषमानोपमेयधर्माणां कस्यापि न समास इति वाक्यग. तत्वम् । तुल्यपदप्रयोगादार्थत्वम् । समासे श्रौती यथा- विद्विषबलनाशेन दृशां भूयस्तया तथा । पुनरुक्त इवाभासि त्वमेव मम भूपते! ॥ अत्र इवेन समासः । इवपदप्रयोगाच्छ्रोतत्वम् । तत्रार्थी यथा- सुकुमारतया तन्वि ! मनोहरतया इशोः। सौरभाभ्युदयाच्च त्वं मालतीकुसुमोपमा ।। तद्धिते औती यथा- अलौकिकमहाल्हादो ब्रह्मास्वादसहोदरः। भुज्यते भूमिगैरेव स्वर्गवत्तव विग्रहे ॥ अत्र स्वर्ग इवेति सप्तम्यन्ताहांतरिति श्रौतत्वम् । तत्रैवार्थी यथा- अयं मदोदये हेतुधृतमुक्ताफलान्तरः। चकांस्ति तव कजाक्षि! कुचः कुञ्जरकुम्भवत ॥ - उपभाकरणम् । marwadi इह कुम्भेन तुल्यमिति तुषार्थत्वम् गनु व्यङ्ग्यरहितत्वमेव चित्र- त्वम् । अत्रत्योदाहरणेषु च रसादिरू व्यङ्गय मस्त्येवेति कथमेषामर्थ- चित्रत्वमिति चेत्, मैवम् । तस्य सार्वत्रित्वादवजनीयलनिधितया तदतिरिक्तव्यङ्ग्यविरहस्यैव चित्रत्वप्रयोजकत्वात् । वायवैचित्र्यादेवात्र चमत्कारोदयात् ॥ इति पड्विधा पूर्णा ॥ धर्मश्च सर्वत्रोपमायाम. नुगामितया बिम्बप्रतिविम्बभावेन वस्तुप्रतिवस्तुभावेन श्लेषणोपचा- रेण समालभेदेन च निर्दिश्यत इति षडेक प्रकाराः । अनुगामितया यथा-- त्वया दत्तबरोदीर्णस्तारकाख्यो महासु : । उपप्लवाय लोकानां धूमकेतुरिवोस्थितः ॥ दुःखहेतुत्वमुभयानुगतम् । बिम्बप्रतिबिम्बमावस्तु भिन्नयोरपि सा. रूप्यादेकत्वाध्यवसानम् । यथा- सुरक्षमाभृत्सार त्रिपुरहरधन्वच्छिनादन शिशुः क्षत्रोच्छेदप्रथितमपि जिग्ये भृगुपतिम् । त्रिमूर्धप्रष्ठांश्च प्रधनभुवि नक्तञ्चरमटान् क्षणेन प्रामथ्नाज्जरठ करहाटानिव १)करी ॥ अत्र करिरामयोरुपमायां त्रिशिरःप्रभृतीनां करहाटानां च भिन्ना. नामप्यैक्यमादाय तन्मथनकर्तृत्वरूपसामान्यधर्मनिष्पत्तिः ॥ वस्तुमति. वस्तुभावस्तु एकस्यैव द्विरुपादानम् (२)। यथा- ध्यपवर्तत एष बालधीरः पृतनानिर्मथनात्योपहतः । स्तनयित्नुरवादिभावलीनामवमर्दादिव दृमसिंह शावः ।। ( उत्त० अं० ५ श्लोक०.८) अत्र सिंहशावलक्योरुपमायां बिम्बप्रतिविम्वभावापन्नयोः पृतनाग- जावल्याविशेष्यतया निर्मथनावमर्दशब्दाभ्यामेक एव धर्म उक्तः । श्लेषेण यथा- अतिपूजिततारेयं दृष्टिः श्रुनिलङ्घनक्षमा सुननु । जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ - women martime (१) 'करहाटः शिफा कन्द' इत्यमर । (२) एवं च शुद्धो न सम्भवन्येव किंतु बिम्बप्रतिबिम्बमात्र विशष्यतया विशेषणतया वा ।

अलङ्कारमुक्तावल्यामू- - - - उपचारेण यथा- अपत्ये यत्ताहग्दुरितमभवत्तेन महता विषक्तस्तीव्रण वणितहृदयेन व्यथयता। पटुर्द्धारावाही नव इव चिरेणापिहि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति। (उत्तरा००४श्लो०३) अत्र मर्मकर्चनं मन्यो गौणम् । समासभेदेन यथा-- कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ (हर्ष० उ०१ श्लो०१४) कुमुदवदुज्ज्वलेति कीर्ती कुमुदेनोज्ज्वलेति च सेनायाम् । लप्तामाह- अन्यतमस्य चतुर्णा विरहे लुप्तां वदन्त्याप्ताः ॥ २ ॥ उपमानोपमेयवाचकधर्माणां मध्ये कस्यचिदप्रयोगे लुप्ता । सा च त्रिविधा । एकलोपे द्विलोपे त्रिलोपे चेत्यर्थः । तद्भेदानाह- धर्मोपमानवाचकमध्येऽन्यतमस्य लुप्तत्वे । धर्माअकयोरञ्जकसमयोः समधर्मयोः समान्येषाम् ।। ३।। वाचकलोपे धर्मलोपे उपमानलोपे चेति एकलुप्तायास्त्रयो भेदाः । उत्तरार्द्ध षष्ठयन्तचतुष्टये लोप इत्यस्यान्वयः । धर्मवाचकयोर्वाचकोप- मेययोधर्मोपमानयोश्च लोपात् द्विलुप्ता त्रिविधा । * समान्येपाम* । उप- मेयभिन्नानां त्रयाणामुपमानधर्मवाचकानां लोपे त्रिलुप्तकविधेत्यर्थः। तत्र धर्मलप्तां त्रिविधां दर्शयति- धर्मविलुप् श्रौत्यार्थी वाक्ये वृत्तौ च तद्धिते त्वार्थी ॥ वाक्ये समासे च प्रत्येक श्रौत्यार्थी च तद्धिते त्वायैवेति धर्मलु. तायाः पञ्च भेदाः। तत्र वाक्ये श्रौती धर्मलुप्ता यथा- इह वनेषु स कौतुकवामना मुनिरतप्त तपांसि पुरातनः। तमिव वामवलोक्य तपस्विनौ नयनमद्य मनागुदमीमिलत् ॥ अत्र वामनस्य रामलक्ष्मणयोश्चोपमायां भगवत्तादात्म्यरूपधर्मा. नुपादानम्। वाक्ये आर्थी यथा मम- राजीभिः सहशा हशांव्यतिकरा राजीवजानां सजा घाचामाचरणस्य काचन विधा तुल्या सुधाकुल्यया। - - ভবাসন্ধগ। . - A कुम्भाभ्यां तुलितौ बलप्रतिबलस्तम्बेरमस्य स्तनौ बर्हाणां नवरीतिरङ्गकबरी साम्यं बरीभर्ति ते ॥ अत्रोपमाचतुष्टयेऽपि साधारणधर्मानुपादानम् । समासे श्रौती यथा- द्रानिष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- ग्रन्थ्युद्भासिनि भग्नमोघमघवन्मातङ्गभङ्गोद्यमे । भर्जुनन्दनदेवताविरचितस्नग्धाम्नि भूमेः सुता वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ इवेन समासः। समासे आर्थी यथा- हिमलव सहशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरको कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ सदृक्पदप्रयोगादार्थी यथा गृहीतो यः पूर्व परिणयविधौ कङ्कणधर- श्चिरं स्वेच्छास्पर्शरमृतशिशिरैर्यः परिचितः। स एवायं तस्यास्तुहिननिकरौपम्यसुभगो मया लब्धः पाणिललितलवलीपल्लवनिभः ।। ( उत्त० ना० अं०३ श्लो०४०) अस्वपदविग्रहोऽत्र समासः । तद्धिते आर्थी धर्मलुप्ता यथा मभ- बिम्बाधरं बहुसुधं कनकाजवल्लीदेश्यां कलेवरलतां मुखमिन्दुकल्पम् ॥ वक्षोरुहद्वयमनेकपकुम्भदेशदेशीयमाकलयितुं न क उत्सुकोऽस्याः ॥ नवीषदसमातिविहितानां कल्पबादीनां कथं सादृश्यपरत्वमिति चेत , तस्याप्यर्थगत्या सादृश्यपर्यवसानात् । तथा च तत्र कैयदः- "सामर्थ्यादुपमानोपमेयभाव" इति । उपमानलुप्तामाह-- वाक्यसमासोभयगोपमानलोपे । पाक्ये समासे चोपमानलोप इति द्विविधा उपमानलुप्तेत्यर्थः । वाक्ये यथा मम-- सन्दर्भेषु कचप्रभापितृसुतभ्रातृव्ययोरप्य- श्यन्तीसत्यवतीतनूभवसुतान्तवासिताशालिनोः । - ६ अलङ्कारमुक्तावल्यामू- वाचां किञ्च कणप्रभञ्जनभुजोर्निष्णातमेकान्ततः पश्यामोऽपि न कश्चिदश्चति तुलां यस्यात्र लक्ष्मीधरः ॥ (१) कचपिता बृहस्पतिः तस्य भ्रातृव्यो गोतमः। प्रभा सगरस्य राज्ञी तस्याः सुताः षष्टिसहस्रसङ्ख्याः । तेषां भ्रातृव्यो वैरी कपिलः । अह. श्यन्ती शक्तिभार्या । तत्तनूभवः पराशरः तस्य सुतो व्यासः । सत्य. वतीतनूभवो व्यासस्तस्यान्तेवासी जैमिनिः । कणभुक् कणादः। प्रभञ्जन भुक् शेषः । उपमानस्य ज्ञानविषयत्वनिषेधादप्रयोगः स्पष्टः । अनन्वये त्वसत्त्वमात्रमुपमानस्याभिमतं न त्वत्रेति विशेषः । समासे यथा- बहुशःप्रलपन्तु वावदूकास्त्वयि सादृश्यमनेकरूप्यमाणम् । वयमद्भुतकान्तिरूपवेषैर्भवदीपम्यनिरूपिकां न विद्मः ॥ इयश्चार्येवेति सिद्धान्तः । तत्र प्रकृतस्योपमेयत्वानुरोधेन ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया। भनुर्विप्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरां वहन्ति विरलास्ते दुर्लभास्त्वादृशाः ।। मुद्रा० अं.१ श्लो० १४) इत्यादी त्वनिष्ठसादृश्यप्रतियोगिनो दुर्लभा इत्यर्थाङ्गीकारे । स्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे । स्वमदहो दहनाज्ज्वलतात्मना ज्वलयितुं परिरभ्य जगन्तियः ।। ( नैष० स० ४ श्लो०९८) इत्यादौ श्रौत्यप्युपमानलुप्ता सम्भवत्येवेति विभावनीयम् । वाचकलुप्तां दर्शयति- न वाक्यगाअकलुक ॥ ४ ॥ वाक्यपदं वाक्यतद्धितोभयपरम् । तदुभयत्र वाचकलुप्ता न सम्भ वति । मुखं चन्द्रो रमणीयमित्यतः साश्यानवगमात् । वत्यादितद्धि- तप्रयोगे च तेषामेव साम्यवाचकतया वाचकलोपानुपपत्तः । तर्हि कुत्र वाचकलुप्त्यत आह- वृत्तौ कर्माधारक्याच क्याडि स्थात् द्विधा णमुलि । (१) सगरस्तस्य पुत्रोऽभूद्राजा परमधार्मिकः । द्वे भायें समरस्यापि प्रभा भानुमती तथा । इति प्रक्रम्य गृहातु वंशकीर प्रभागृाहूंस्तदा । एक भानुमती पुत्रं गृ यादसमन्जसम् । एकषिष्टिष्टसहस्त्राणि सुषुवे यादवी प्रभा इति मन्स्यपुराणे । - - उपमाप्रकरणमू। समासे कर्मक्याच आधारक्यचि क्याङि कर्तृणमुलि चेति षड्भेदा इत्यर्थः। तत्र समासे यथा- कुवलयदलश्यामः स्निग्धः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ॥ पुनरपि शिशुभूत्वा वत्सः स मे रघुनन्दनः सपदि कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ।। ( उत्त० रा० अं० ४ श्लो० १९) कुवलयदलवत् श्याम इति "उपमानानि सामान्यवचनैः" (अ०२ पा० १ सू०५५) इति उपमानस्य साधारणधर्मेण समासः। यथा वा- पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः पतिं पापे ! मौर्य यदसि गुणहीनं वृतवती ॥ प्रकृत्या वा काशप्रसवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ।। (मु०रा० अं०२ श्लो०७) कचित्राणामपि यथा(१)- उन्मीलन्ति मृणाल कोमलरुचो राजीवसंवर्तिका- संवत्तवतवृत्तयः(२) कतिपये पीयूषभानोः कराः ॥ अप्यग्रेवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मङ्ख्यता विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते ॥ इह मृणालकोमलेतिपूर्ववत्समासः। ततो मृणालकोमला रुक् ये. षामित्युपमेयेन बहुव्रीहिः। कर्मक्यचि यथा मम-- त्वदङ्गविषयस्नेहस्तिमितीकनमानसा । सुभग ! त्वां सरोजाक्षी प्रसूनविशिखीयति ।। 'उपमानादाचार" इति कर्मणि क्यच् । आधारक्यचि यथा-- अति स्वच्छतया तन्वि ! सातप्रतिबिम्चतः । भवत्पयोधरे कान्तो जातरूपाचलीयति ॥ (१)त्रयाणाम उपमानोपमेयसाधारणधर्माणां समावेश इति शेषः । (२) "संवर्तिका नवदलं" "संवर्त प्रलयः कल्पः " इत्यमरः । MAHARMA-- AIMIMNirnayA -- अलङ्कारमुक्तावल्याम्- - "अधिकरणाच्च" इति वार्तिकेन क्यच् । तत्र स्थित इव भासते इत्यर्थः । कङि यथा मम- यस्मिन्नेकधनुर्भूतो भगवतः खट्वाङ्गपाणेरसा- वाकृष्टो गुणतां गतोऽप्यहिपतिः कर्णावतंसायते ॥ सम्प्राप्तश्च पुरेव भूषणपदं याति प्रकोष्ठान्तरे काकुत्स्थेन तदेव भार्गवगुरोः कोदण्डमाकृष्यते ॥ अवतंस इवाचरतीत्यर्थे "कर्तुः क्यङ् ( अ० ३ पा० १ सू० ११ । ) इति सूत्रेण क्यङ्। कर्तृणमुलि यथा-- तन्वह्नि ! तडिदुद्योतमुद्योतन्ने विषस्तव । करवालनिपातं च निपतन्ति हर्मयः॥ तडिद्वदुद्योतन्ते करवालवत् निपतन्तीत्यर्थे वक्ष्यमाणसूत्रे चका. रेण कषुरनुकर्षात्कर्तरि णमुल् । कर्मणमुलि यथा-- उद्दिश्याराद्दशरथकुलाङ्क्रमाचं पतन्तं दृप्तं कुम्भ(१) मृधभुवि(२)कपिः कोऽपि मध्ये रुरोध ॥ दोः स्तम्भाभ्यां सरमसमथापीड्य विक्षिप्य भूमौ क्रान्त्वाप्येनं प्रति(३)विवशो माषपेषं पिपेष ।। माषमिव पिपेषेत्यर्थं "उपमाने कर्मणि च ( अ०३ पा०४ सू०४५) इतिसूत्रेण णमुल्। इति त्रयोदशविधैकलुप्ता। द्विलुप्तामाह- धर्मद्योतकलुपूक्तिसप्तमासयोः धर्मवाचकलुप्तोपमा विप्प्रत्यये समासे चेति द्विधा । आद्या यथा मम- मन्मथोऽर्जुनति कार्मुकति भूर्वियत्यलकमञ्जरिरत्र । अस्त्रति क्रुदिषवन्ति कटाक्षाः कर्णतीह वरणिनि ! कान्तः ।। अर्जुन इवाचरतीत्यादावर्थ क्विप् । उक्तं च महाभाध्ये-सर्वप्रा. तिपदिकेभ्य आचारे विविति । (१) मृधभुवि समामभूमौ । (२) प्रतिघविवश:-क्रोधवशः। (३) कुम्म--कुम्भकर्णम् ।

उपभाप्रकरणम् । R -- समासे यथा-- वधूवक्षोजमातङ्गकुम्भेषु विहितक्षता । पातु वो वृष्णिसिंहस्य रमणीया नखच्छविः। अत्र वृष्णिजातीयशरीरसम्बन्धाद्भगवतो वृष्णिशङ्देन निर्देशः। ल सिंह इवेत्युपमितसमासः । उपमेयद्योतकलुप्तामाह- क्यचि समाअकलुप् ॥ ५॥ समम् उपमेयम् । अञ्जकम् इवादिपदम् । तदुभयूलुप्ता क्यप्र. त्यये भवति। यथा मम-- तं मनोभवमिवाभ्युपेयुषी चञ्चलाक्षि ! भवती रतीयति । त्वां तथा रतिमिव प्रपेदिवान् मन्मथीयति युवा स मन्महे ॥ अत्र रतिमिव मन्मथमिव स्वात्मानमाचरतीत्यर्थे क्यच् । कर्मीभू तस्यात्मन इवाइश्चाक्षणादुभयलोपः। धर्मोपमानलुप्ता वृत्तौ पाको । समासे वाक्ये च धर्मोपमानलुप्तोपमा । आद्या यथा- पाञ्चाली कृष्णवर्मप्रथितजनिरभूद्भीमजन्मैव ताव. द्वैदर्भी सा विदेहप्रवरतनुभवा जानकी सर्वसिद्धा। लक्ष्मीदत्तानुजन्मस्फुरदवमतिरप्यर्धशेषीकृतस्व. प्राणेशा शैलपुत्री वरतनु ! भवती बमहे किंसमानाम् ।। अत्रोपमानानुपादानं स्पष्टम् । तुलितां बमहे त्वां कया वेति पाठे वाक्यगतत्वम् । त्रिलुप्तामाह-- (१)समान्यलुप् वृत्तौ। उपमेयान्येषाम् उपमानधर्मवाचकानां लोपो यत्र सा उपमा समास एव न तु वाक्यादावित्यर्थः । यथा ममाभिरामराघवे-- मृगाक्षीवक्षोजव्यतिकरसमक्षीकृतिमिलत्. प्रसूनप्रत्यग्रस्तबककमनीयः कुरबकः । पुरस्तादाभाति भ्रमररुतजामत्कलकलः स्फुरन्मुक्तास्थूलान् विजहदिव बाष्पाम्बुपृषतान् । (१) समात् = उपमेयात अन्येषाम धमीपमानवाचकाना- लुम् लोप इत्यर्थः । mano Preparmanoramatemewmunerawarananetaminarsimamtaramanamursanamokaninmeeeem २ १० HD अलङ्कारमुक्तावल्याम्- on- इह मृगस्याक्षिणी इव अक्षिणी यस्या इति बहुव्रीहौ प्रथमस्याक्षि. पदस्य लोपः इचपदस्यार्थानिवृत्तिः तारल्याद्यनुपादानं च स्पष्टम् । मालोपमेयमुक्ताप्येकस्मिश्चेबहूपमानसम्बन्धः । सामान्यधर्मभेदाभेदाभ्यां सापि च द्वधा ॥ ६ ॥ भिन्नसामान्यधर्मा यथा- बुधमतिरिव बहुलोहा सुघटितचका प्रभातवेलेव। हरमुनिरिष हसन्ती ज्वलति विधूमानलोपेता ॥ एकसामान्यधर्मा यथा- अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य । स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या व्यां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ पूर्वोपमोपमेयं यापमानं परोपमा स्यात् ।। रशनोपमेयमुक्ता द्वैविध्यं प्राग्वदवास्या: ॥ ७ ॥ पूर्वोपमायां यदुपमेयं तस्योत्तरोपमायामुपमानत्वे रशनोपमा । द्वितीयोपमायामुपमेयमन्यदेवेत्युपमेयोपमाव्यावृत्तिः । सा च द्विविधा। सामान्यधर्मभेदे तदैक्ये च । आद्या यथा मम- तत्याज धीस्तरलतां गतिवद्वभाज सूक्ष्मार्थतामपि च धीरिव वाङ्मृगाक्ष्याः । भूयो. रसत्वमथ वागिव जगाहे व्यङ्ग्याधिका च दृगिवाजनि मध्यभूमिः ॥ द्वितीया यथा मम- व्योम्नीव वारिमुचि वारिमुचीव वारि वारीव वारिरुहि वारिरुहीव चेन्दौ ॥ इन्दाविवाथ हृदये पथिकाङ्गनाना- माविबभूव गतिशृङ्खलमुज्ज्वलत्वम् ॥ केचित्तु- परिणामः क्रियार्थश्चेद्विषयी विषयात्मता। प्रसन्नेन गब्जेन धीक्षते मदिरेक्षणा॥ अत्र गब्जेनेत्यत्र रूपकमनुपपन्नमेव । वीक्षणस्य प्रधानभूतपना. - अनन्वयोपमेयोपमालङ्कारी। नुपपाधत्वात् । नापि गजमिवेत्युपमितसमासादुपमा । प्रसन्नेनेति सामान्यधर्ममयोगात् । अतो विषयिणोऽब्जस्य विषयभूतष्टितादा. त्म्यापत्त्यैव वीक्षण क्रियोपयोग इति परिणामोऽप्यलङ्कारान्तरम् । एवमिवादिशब्दैरुच्यमानः सामान्यविशेषयोरवयवावयविभाव उदा. हरणम्। - यथा- अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥ इवशब्दः सामान्यविशेषभावप्रतिपादको निपातानामनेकार्थत्वात् । न चात्रोपमैवेति वाच्यम् । विशेष्यस्य सामान्यभेदाभावात् । तत उदाहरणमप्यलङ्कारान्तरमेवेत्याहुः । ॥ इत्युपमा ।। यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्वे । अन्यसदृशं निषेढुं तमनन्वयसंज्ञमाचख्युः ॥ ८॥ यत्रोपमानत्वमुपमेयत्वं चैकधर्मावच्छिन्नं सोऽनन्धयः। उपमानान्तरनिषेधश्च तस्य व्यङ्ग्य इत्यर्थः॥ यथा मम- आम्नायसम्प्रदाये वदान्यतायां विपक्षविजये च ।। उद्योतचन्द्रनृप इत्र राजत्युद्योतचन्द्रनृपः ।। व्यङ्ग्यो यथा- कुले वा शौर्ये वा भुजसमुदये वा तपसि वा बभूवुर्न प्राञ्चस्त्वमिव भषितारो न चरमे ॥ अहो धिोहस्ते कथमतिचिरादेष न खलु प्रतीचीनः पन्था दशवदन ! येनासि चलितः॥ अत्रोक्तसदृशान्तरनिषेधात्तस्यैव तत्सादृश्यं व्यङ्ग्यम् । उपमायां पूर्वस्यां प्रतियोग्यनु योगिनौ यौ तु । तौ विपरीतौ परतश्चदुपमेयोपमा त्वेषा ॥ ९ ॥ पूर्वोपमायामुपमानस्य द्वितापस्यानुपमयत्वं पूर्वत्रोपमेयस्य चोत्त. रोपमानत्वं यत्र सा उपमेयोरमेत्यर्थः । - १२ अलङ्कारमुक्तावल्याम् यथा मर्म- धनुरागमनिष्णाता भूयांसोऽप्यासतां नाम । राधेय इव किरीटी भाति किरीटीव राधेयः ।। अत्र तृतीयोपमानव्यवच्छेदे तात्पर्यम् । सादृश्यं चात्रैकधर्मरू- - पम् । तेन- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते. मनसि ।। इत्यादौ नातिव्याप्तिः । सुखदत्त्वदुःखदत्वादिधर्मभेदात् । सम्भाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् । तामुत्प्रेक्षामाहुर्भिन्नं हेत्वादिविषयत्वात् ॥ १० ॥ उपमेये उपमानतादात्म्यसम्भावनम् उत्प्रेक्षा । सम्भावनामात सन्देहे रूपके चातिव्याप्तिवारणाय । सन्देहालङ्कारे तुल्यकोटिकत्वे. नोपमानकोटेरुत्कटत्वाभावात् । रूपके च तादात्म्यनिश्चयेन सम्भाव. नविरहात् । सा च त्रिधा । हेतुफलस्वरूपभेदात् । आद्या यथामम--- झणदकृत कङ्कणगणो बजुलविटपं विनमयन्त्याः । तत्किसलयातिशयितं स्वाश्रयमालक्ष्य मुदित इव ॥ अत्र वलयनिनादे हस्तकर्मजन्यपरस्पराभिघातो हेतुः । तत्र हस्त निष्ठाशोकपल्लवापेक्षाधिकगुणशालित्वज्ञानजन्यो वलयनिष्ठप्रमोद आ. रोप्यते । अभिघातस्य च प्रयोगविरहात्साध्यवसानत्वम् । रसगङ्गाध. रादिरीत्या तु वलय एव समवायसम्बन्धेन प्रमोदारोप इति विशेषः । न चाद्ये वलयनिष्ठप्रमोदस्यालीकत्वादारोप्यमप्रसिद्धमिति वाच्यम् । कविकल्पितत्वेन तदभावात् । काव्यमार्गे अरोप्यस्य लोकसिद्धत्वा- नपेक्षणात्। द्वितीया यथा पम-- स्वव्यापारनिबर्हितै रिपुगणैर्निर्भ-बिम्ब रव- रर्द्ध चाप्यपहार्य वृत्रमधितुः सिंहासनस्याजसा ॥ निर्मथ्याप्यमरावती बहुमहावीरोपरुद्धान्तरां बाणस्ते धरणीतलं विशति किं तात दिक्षुबलिम् ॥ अत्र बाणधरणातलप्रवेशस्थ तत्संयोगफलत्वेऽपि बलिदर्शनस्य तत्फलत्वमुत्प्रेक्षितम् ।

सन्देहालङ्कारः। १३ तृतीया यथा--- यन्मौलिरत्नमुदितासि स एष जम्बू- द्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ॥ दोलायितेन बहुना भवभीतिकम्प्रः कन्दर्पलोक इव खात्पतितस्त्रुटित्वा ।। [ नैष० स० ११ श्ली० ८३] जम्बूद्वीपे कन्दर्पलोकतादात्म्यं सम्भावितम् । हेतुफलोत्प्रेक्षयोः स्वरूपोत्प्रेक्षाभेदस्त्वत्र स्वरूपपदस्य हेतुफलातिरिक्तपरत्वादिति प्राञ्चः । प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या । बुद्धिनिश्चयभिन्ना तामाचख्युः ससन्देहाम् ॥ ११ ॥ उपमेय उपमानविषयिणी सादृश्यज्ञानमूला निश्चयान्या च बुद्धिः ससन्देहः । स्थाणुन वेत्यादिसंशयवारणाय उपमेयेति । अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् । निमजयामास यशांसि संशय स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ [ नैष० स० १ श्लो० ४५] इत्यादिवारणाय सादृश्यति । रूपके तिव्याप्तिवारणाय निश्चयभिः नेति । अस्य भेदद्वयमाह- उक्त विशेषधर्मे प्रकृतस्य भवेदनुक्ते च ॥ स्पष्टम् । विशेषधर्मोक्तावपि निश्चयान्तनिश्चयगर्भताभेदाद्वैविध्यम् । यत्र संशयोक्तो प्रकृतव्याप्यविशेषधर्मदर्शनात्संशयनिवृत्तिस्तत्राद्यः । था मम-- पीयूषातिमणिशालभञ्जिका वा किं प्रेयोविरहितमत्तकाशिनीति(१)। सन्देहेऽभ्युदयति निश्चिकाय शोषा- द्वारीणां स्तनशिखरे निपातुकानाम् ।। अत्र धारिशोषात्तापवत्त्वं तेन च मणिपुत्रिकाव्यावृत्ततया विर. हिणीधर्मत्वज्ञानात्प्रकृतनिर्णयः। द्वितीया यथा मम-- किं विद्युन्मुदिराविमौ न भुवि तौ किं हेमवीरुन्महा- (१) वरारोहा मनमाशिनी त्यमरः । - -- mathunanisamnment MAMmmmmrapheendraramananewMATImmunMAP metermwriterritamansahimamate १४ अलङ्कारमुक्तावल्याम्- तापिच्छौ न गतिस्तयोः स्वरसतः किं वा प्रवाहावुभौ । जम्बूशैवलिनीकलिन्दसुतयोस्तौ भिन्नदेशाविति श्रीराम सह सीतया कलयता प्राप स्थिति द्वापरः(१) । अत्र तत्कोट्यभावव्याप्यदर्शनेन तत्कोटिकसंशयनिवृत्तावपि प्रकृ. तनिर्णयसामग्न्यभावात्कोट्यन्तरमादाय पुनः संशयः, प्रकृतनिर्णयस्तु व्यङ्ग्य इत्युद्भटभट्टादिभिरयमेवोद्भावितः। विशेषधर्मानुक्तौ यथा मम-- चके किं त्रसरेणुभिः सुमनसामामोदिभिः किं हिमैः पीयूषस्य किमु स्मरस्य रुचिरैरित्येवमेणीदृशः । किं तीक्ष्णैस्तरणेढेरुत पवेः किं सांयुगीनै(२) रघु- श्रेष्ठस्येत्यभिमातयो नृपवर ! त्वां वीक्ष्य संशेरते ॥ अत्र सौरभादिभिरुपपादकैः पुष्पत्रसरेणध एतत्समवायिनो वा इत्यादिः सन्देहो नायिकानिष्ठः तन्निवर्त्तकविशेषधर्मानभिधानं च । एवं तीक्ष्णत्वादिभिरुपपादकैः सूर्यत्रसरेणव एतत्समवायिनो न वेत्या. दिविपक्षनिष्ठोऽपि। तद्रूपकं त्वभेदः स्यादुपमानोपमेययोर्यत्र ॥ १२ ॥ उपमानोपमेययोराहार्यतादात्म्यनिश्चयो रूपकम् । हृदो वह्निमानि. त्यादिवारणाय उपमानेति । भ्रान्तिमद्वारणाय आहायति । भेदज्ञानस मानकालिक इत्यर्थः । उत्प्रेक्षालन्देहवारणाय निश्चय इति । उद्देश्यवि. धेयभावेन तदुभयतादात्म्यबोधस्य लाभादतिशयोक्तावपढ्नुतौ च न व्यभिचारः । अतिशयोक्तावुपमेयवाचकपदविरहात् अपनुतौ चोपमे. यनिषेधात् । नच समासगतरूपकेऽव्याप्तिः। समासे उद्देश्यविधेयभा. वेनान्वयबोधविरहादिति वाच्यम् । उपमानतावच्छेदकस्योपमेयताव. च्छेदकलामानाधिकरण्यप्रतीतेरेव विवक्षितत्वात् । आरोप्याः शाब्दाश्चेत्कथयन्ति समस्तवस्तुविषयं तत् ॥ यस्मिन्नारोप्यते यारोप्यते तयोः शब्देनाभिधानं यत्र तद्रूपकं स. मस्तुविषयम्। यथा- प्रागुचैः शिरसं क्षुरप्रनखरैः क्रौञ्चाद्रिदन्ताबलं भित्त्वा हसमयानि मौक्तिकफलान्याकीर्य पर्यापिताम्। (१) सन्देडद्वापरी चाथ इत्यमरः । (२) सायुगीनो रणे साधुरित्यमरः -- रूपकालङ्कारः। १५ सेंही वृत्तिमधिष्ठितेऽपि हि मयि क्षात्रेण वीर्येण ते दिष्टया कौतुकमाभिरामिकमसि त्वं कोऽपि वीराङ्करः । अत्र क्षुरप्रादीनां नखरादीनां च शाब्दमुपादानम् । नच नखरसह. शः क्षुरप्रेरित्यादिरीत्या उपमितसमासं कृत्वा उपमैषेयं स्यादिति वा. च्यम् । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ०२ पा०१ सू०५६) इति वचनेन साधारणधर्मानुपादान एव तत्समासविधानात् । अत्रोच्चैः- शिरसमिति सामान्यधर्मप्रयोगसत्वात् । क्रौञ्चाद्रिदन्तावलमित्यत्र त. समासानुपपत्त्या क्रौञ्चाद्रिरेव दन्तावल इति समासस्यैव वाच्यत्वात् । तदनुरोधेन क्षुरप्रनखरैरित्यादावपि रूपकस्यैव निर्णयात् । अन्यथा रूपके दन्तावलपदार्थप्राधान्ये उपमायां च क्षुरप्रादिपदार्थप्राधान्येऽर्थासङ्ग- तिप्रसङ्गात् । एकदेशविव ितच्छौतार्थत्वे तु साङ्गे वे ॥ १३ ॥ केषांचिदारोप्यमाणानां शाब्दत्वे केषांचिच्चार्थगम्यत्वे एकदेश. विवर्तिरूपकम् । पूर्वोक्तं समस्तवस्तुविषौकदेशवित्तिरूपकद्वयं च सावयवम् इत्युच्यते इत्यर्थः । यथा किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जकोटिना कार्मुकेण ॥ समरशिरसि चञ्चत्पञ्चचूडश्चमूना- मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ ( उत्तररा० अं०५ श्लो०२) अत्र शरेषु तुषारारोपेण चमूनां तन्नाश्यतया नलिनीत्वारोपसिद्धिः। अनुकूलतया यथा-- नाराचैः कृतवीर्यनन्दनवधूवाप्पप्रियम्भावुकै- रुत्पाद्य क्षतजोदमर्णवमथ न्युप्तं पितृभ्यां पयः॥ सम्प्रत्यस्य समस्तबाहुजभुजक्रोधस्य निर्वास्थतः क्षुन्दानो धनुरैन्दुशेखरमहो जातो भवानिन्धमम् ।। अत्र रामे इन्धनत्वारोपेण क्रोधस्याग्नितादात्म्यमाक्षिप्यते । बहूना- नामागेपाणामेकारोपाक्षेपकत्वम्- यथासम गुलुच्छौ वक्षोजी हसितमसिताजाक्षि ! कुसुम प्रकाण्डौ बाहू द्वावपि दशनवासः किसलयम् ॥ तनुश्रीराबालं किमपि सुकृतं धीजमतुल - अलङ्कारमुक्तावल्याम्- -- प्रमोदस्यांद्वैतं फलमुपभुजिवल्लभगता ॥ अत्र रूपकान्तरेरौचित्यवशान्नायिकाया लतातादात्म्यं गम्यते । निरवयचं तु तदुक्तं यधेकारोपसाधकं नान्यत् । यत्र केचित्कस्यचिदारोपमात्रं न त्वारोपोपपादकत्वं तन्निरवयवम् में यथा- इयं गेहे लक्ष्मीरियममृतवर्तिनयनो. रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ॥ अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसास्तु विरहः ॥ [उत्त०अ०१श्लो०३८] अत्र परस्परानपेक्षा एवारोपाः । मालारूपकमुक्तं स्वेकस्मिन्भूयसां यदारोपः ॥ १४ ।। यथा- नेत्राणां मधुपर्कपात्रमुदधेः सर्वाङ्गमेदस्करः शृङ्गारस्य रसायनं मनभुजां पीयूषगजापतिः (१) देवः किं स्तुमहे महेश्वरशिरोनेपथ्यरत्नाङ्कुरः क्षीरोदार्णवशुक्तिमौक्तिकमयं दाक्षायणीनायकः ।। अत्रैकस्मिश्चन्द्रे बहूनामारोपः । अन्यारोपाभावप्रयोजकस्य स्वभावस्य । प्रतियोगी परकीयारोपो यस्तत्परम्परितम् ॥१५॥ यदारोपं विना आरोपान्तरं न निर्वहति तत्परम्परितरूपकम् । यथा-- दशमुखबधनाट्यसूत्रधारो रघुपतिरस्य च पारिपार्श्वकोऽहम् । प्रकरणफलबीजभावकाना- ममृतभुजां समुपास्महे समाजम् ॥ अत्र रघुपतौ सूत्रधारारोपः सुग्रीवे पारिपास्विकारोपनिर्वाहकः । नाट्यरूपैककार्यकारित्वेन तत्सिद्धेः। यदि च नाट्यप्रयोगकर्तृत्वरूप धर्म एव रूपकद्वयनिर्वाहकः । अतो दशमुखवधनाट्यरूपकमेवोभय. सिद्धिहेतुर्नतु सूत्रधारारोपः पारिपावकारोपनिर्वाह को मानाभावा- दिति विभाव्यते । तदा तदेवादाय दृष्टान्तत्वमव्याहतम। (१) गञ्जा तु मदिरागृहम् इत्यमरः । ammarwasename रूपकालङ्कार। १७ - तच इलेषभिदाभ्यामारोपनिमित्तशब्दस्य ॥ १४॥ आरोपान्तरनिर्वाहहेतावारोपे विषयविषयिवाचकपदयोभैदे पवेत्यर्थः। तत्राथमुदाहृतम् । तदेव मालारूपम्- यथा मम-- चेतोजन्मशिखण्डिताण्डवकलाकादम्बिनीकूजितं शृङ्गाराद्वयरूपरूपकविधिप्रारम्भनान्दोस्वनः ॥ सञ्चिन्वन्किलकिञ्चिततुकृते याज्यारवप्राज्यतां कामं जीवतु खञ्जरीटनयनामारजन्मा ध्वनिः ॥ द्वितीयं यथा-- आदाय दण्ड सकलासु दिनु योऽयं परिभ्राम्यति भानुभिक्षुः । अब्धौ निमजन्नुपरीव सोऽयं सन्ध्याकाषायमधत्त सायम् ॥ दण्डपदोपात्तयोः सूर्यानुचरविशेषवेणुयष्ट्योरभेदारोपो भानुभि- क्षुरूपकनिर्वाहकः। खण्डश्लेषो यथा मम-- मृदुतामृदितमृणालीमदभारा मुदिरमेदुरामकचा। बीज मन्जुलताया मुदमासञ्जयति कजाक्षी ॥ मञ्जः सुन्दरी लता । वल्लीत्वारोपो नायिकायां बीजारोपे मूलम् । अखण्डलष मालारूप परम्परितम्-- यथा मम- आमोदकुरबकवनी माधुर्यसुधारलैकपुष्करिणी । मकरध्वजैकराकारजनी वरवर्णिनी वरीवति ॥ खण्डश्लेषे तदेव- यथा मम-- (१)रसोद्धरणनिर्मितिस्मरवराहदंष्ट्रा द्विष- स्कुरङ्गनयनोत्करे कररुहस्य रेखा हरेः। नवस्तनधनोदये बलभिदो धनुर्मञ्जरी मृगाक्षि! तव पाणिजक्षतिरुदीक्ष्यते वक्षसि ॥ विरोधितया उपपाद्योपपादकभावो यथा- दोऽयं भवतः सुरासुरचमूदो काण्डकण्डूविष- ज्वालाजाङ्गलिकन जाङ्गलभुजां पत्यापि न त्याजितः। (१) रसा=पृथ्वी । रसः शङ्कारः । द्विपत्कुरङ्गनयनासपत्नी । हरे:-सिंहस्य। बलभिदा इन्द्रर ३ - - w- -- hindiminary Arrow १८ अलङ्कारमुक्तावल्याम्- -GO - येनैन्द्रे रथवर्मणी रघुशिशोरस्योपनीते त्वया राजद्विष्टमिदं विधाय स कथं शक्रोऽपि वर्तिप्यते ॥ अत्र कण्डूविषयकविषज्वालारोपस्तदपनायकतया रावणे विषवे. द्यारोपनिमित्तम् । शुद्धसावयवयोः सङ्करो- यथा ममाभिराघवे- उन्मीलद्वलभिच्चमूकमलिनीनिर्मन्थगन्धद्विपो व्यूहानामभितो निशाचरपतेर्वज्रात्मकः पञ्जरः । अत्युच्चैरमरावतीनवलताकम्पप्रचण्डानिलो वीरो दिग्द्विरदेन्द्रकुम्भदलनव्यापारकण्ठीरवः । विषमपादद्वये सावयवं, समपादद्वये च शुद्धम् । खण्डश्लेषमूलकसा. वयवसङ्करो यथा तत्रैव- पारावारतुषारबिन्दुचुलुकीकारवालाधरो विन्ध्यक्षमाधरगावैकृतकरक्रोधेनसो निष्कृतिः॥ तेजःप्रज्वलदिल्वलावृतिविधिप्रत्यग्रधाराधरो ब्रह्मर्षिर्यमुनामजप्रियहरिसीमन्तचूड़ामणिः । इल्वलो दैत्यविशेषस्तस्या वृतिरेव इल्वलानां ताराविशेषाणामावृ. तिरिति वाचकं श्लिष्टम् । अन्यत्र वाचकभेदः । परम्परितैकदेशविवर्तिसङ्करो यथा-- आपन्नवत्सल ! जगजननकबन्धो! विद्वन्मरालकमलाकर ! रामचन्द्र !। जन्मादिधर्मविधुरैः सुमनश्चकोरै-- राचम्यतां तव यशः शरदां सहस्रम् ॥ केचित्तु- क्रमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः। चतुरास्यः पतिर्लक्ष्म्याः सर्वशस्त्वं महीपते ! ॥ ब्रह्मविष्णुशिवानां श्लेषेण क्रमादुपन्यासाद्रत्नावली अलङ्कारान्तर मित्याहुः। प्रकृतं निषिध्य भिन्नात्मतया प्रोक्तावपढ्नुतिः कथिता । उपमेयं निषिध्य तत्रोपमानाभेदव्यवस्थापनमपनुतिः । निषेधश्च विविधः । शाब्द आर्थश्च ।

श्लेषालङ्कारः। १९ मा शाब्दो यथा- पात्रं करालगरगर्भितमेव सत्वं नैवेन्दुविम्बमिदमालि ! यतश्विराय । उत्कण्ठते मम मनः शिवकण्ठमेव यत्कालकूटगरलादखिलं ररक्ष । सावयवा यथा-- नेयं निशा हतनिशाचरयोषिदेव हन्तुं वियोगविधुरं जनमाजगाम ! अस्या मुखे सपदि यः प्रपतन प्रकामं रागः स कोपजनितो न तु सान्ध्यरागः ॥ अत्र सान्ध्यरागापह्नवो निशापवानुग्राहकः । आर्थो यथा-- येन स्वां विनिहत्य मातरमपि क्षत्रास्त्रमध्वासव. स्वादाभिज्ञपरस्वधेन विदधे निःक्षत्रिया मेदिनी । यद्वाणवणवर्मना शिखरिणः क्रौञ्चस्य हंसच्छला- दद्याप्यस्थिकणा: पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥ छलशब्दसमभिव्याहारेण हंसानां निषेधवुद्धिः। उभयविशेष्यान्वितयारकेन प्रोक्तिरर्थयोः श्लेषः ॥ १५ ॥ उभयपदमेकभिन्नपरम् । त्रिविधश्चायम् । द्वयोः प्रकृतत्वे द्वयोरप्य. प्रकृतत्वेऽन्यतरस्यैव प्रकृतत्वे चति । पुनर्द्विविधः। शब्दश्लेषोऽर्थश्ले. षश्चेति । शब्दश्लषोऽपि द्विविधः। पदभदे तदैक्ये च। आद्यः खण्ड- श्लेष इति गीयते । तत्र शब्दश्लषः शब्दालङ्कारोऽर्थश्लेषस्त्वर्थालङ्कार इति काव्यप्रदीपः । द्वयमपि शब्दालङ्कार इति केचित् । द्वयमपि अर्था- लङ्कार इति अलङ्कारसर्वस्वकारः। दीक्षिताद्यभिनवसम्मतं चैतदित्य. न्यत्र विस्तरः। द्वयोः प्रकृतत्वे यथा-- (१)अकम्पनोद्दीपितमेघनादा प्रहस्तनाथा दृढचित्रकाया । आविर्भवद्वैरनरान्तकोमा सामषवेगांज्ज्वललोहिताक्षा। -- (१) अकम्पन उद्दीपितः क्रुद्धों मेघनाद इन्द्र जितपस्या पक्षे अकम्पनतिछद । उद्दीपितमेघनादा-प्रवृद्ध- इनादाा प्रस्तावनामा निशाचरः नायी यस्या परे पटा हस्ता येवाशिमहस्ता बाहुबलशालिनो वा ता. दशानाथा सेनानायकायस्याम् । दृढ बलवान् चियकीयस्तत्रामा राक्षसो यस्याम् पक्षे.पट अभेद्योविचित्रो २० अलङ्कारमुक्तावल्यामू- -- ससिन्धुराजा तरलोग्रभीष्मा सतिशल्या कृतवर्मनिष्ठा । समिन्महाकर्मसु दक्षिणा च रुरोध शबून परवाहिनी सा ।। अत्र वर्ण्यतया रावणदुर्योधनसेनाद्वयस्य प्रकृतत्वम् । द्वयोरप्रकृतत्वे यथा मम--- (१)संपन्नशक्तिर्विवुधेन्द्रवृन्दमुखप्रयायी विलसच्छिखावान् । त्वयानुभावेन विलक्षणेन जितः कृशानुश्च कृशानुभूश्च ।। राजस्तुतौ वह्निस्कन्दयोर्द्वयोरप्रकृतत्वम् । अन्यतरस्य प्रकृतत्वे यथा मम-- तात्पर्यमकलयन्तो नालोचितविशदभाष्यगिरः। अपरिचितदीधितिमहालोका न्यायाद्वहिः प्रजल्पन्ति ॥ तात्पर्यानभिज्ञा आपातरम्योक्तयः क्रूरसुकुमारोक्तिप्रस्तावज्ञानही. मा लोका अन्याय्यमेवार्थ वदन्तीति प्रकृतः। तात्पर्यटीकाभाष्य-शि. रोमणि-मिश्रग्रन्थानभिज्ञा न्यायशास्त्रविरुद्धमेव वदन्तीत्यप्रकृतः । ख. ण्डश्लेषस्त्वष्टधा। तत्र वर्णश्लेषो यथा-- यामि विधावभ्युदिते पुनरेष्यामीति यत्त्वया कथितम् । जानात्युदन्तमात्र नेदं तत्त्वेन मुग्धवधूः ॥ विधाविति सप्तम्येकवचने विधिविधुशब्दयोः समानम्। पदश्लेषो यथा- तमभ्यधावक्षत शत्रुरक्षो- घटोत्कचस्फीतविटङ्कमोलिः॥ चलाचलाकारकरीन्द्रपाली कुम्भप्रणुन्नाऽम्बुदसंहतिश्रीः॥ अत्र रामायणपक्षे क्षतशत्रु यथा स्यात्तथा कुम्भसंज्ञेन कुम्भकर्ण- पुत्रेण प्रेषिता रक्षसां घटा राक्षससमूहः तं सुग्रीवमभ्यधावत् । किंभू. ब्यूहो यत्र । नरान्तको राक्षसविशेषः पक्षे अन्तकोग्रेति पृथक्पदम् । अक्षो रावणसूनुः पक्षे.. कोपावेशा इतनेत्रवती । ससिन्धुरा सगजा जातवीररसेनातिभयङ्करा । पक्षे सिन्धुराजो जयद्रथः । तरसाम्बलेन उने भीष्मो यस्याम् । हेतया शस्त्राणि-शल्यानि भल्लानि शमसहितः शल्यो राजविशेषो यस्यामिति च । सकवचा। पक्षे स्पष्टम् । (१) शाक्त दाहकत्वरूपा आयुधविशेषश्च । देववृन्दस्य मुखं बदनं प्रयायी गतिमान् “अनि- मुखा बै देवा" इति श्रुतेः । मुखे अग्रे प्रयायी सेनानीरिति यावत् : विलसन्ती शिखा ज्वाला तद्वान् विलसन शिखावान् मयूो यस्य । तद्वाहनत्वानस्य । .

श्लेषालङ्कारः। ता उद्गताः कचाः केशा यत्र ताशः स्फीती विशालश्च विट कसदृशो मौलियस्याः । तथा मेघवन्नीलवर्णा चलत्पर्वताकारागजपङ्किरप्यधाव. दिति व्याख्यातारः । भारतपक्षे तु क्षता शत्रूणां रक्षा येन तादृशो घटो. स्कचनामा राक्षसस्तं कर्णमभ्यधावत् । स्फीतेत्यादितुल्योऽर्थः । "खपरे शरि" इति विसर्गलोपमाश्रित्य घटोत्कचशब्दस्य प्रथमान्तत्वम् । करी. न्द्रपालीनां कुम्भैर्गण्डस्थलैः प्रणुन्ना उत्तम्भिता मेघानां संहतिश्री: समुदायशोभा येन । गजानुत्क्षिप्य युध्यन्तीत्यर्थः । लिङ्गश्लेषो यथा-- प्रवर्तयन्मान्द्यनिवारणेन कर्मण्यभीष्टप्रतिपत्तिहेती। उद्भास्वरप्राज्यमहोतिमानं मित्रं च मित्रश्च मुदं सुवाते ॥ "यरोऽनुनासिक" (८४|४५) इति नत्वे कृते प्रवर्त्तयदिति क्लीवस्य नकारान्तसाम्यम् । उद्भास्वरः परप्रकाशकः प्राज्यो भूयान्महस्तेजो य स्य । तेजोऽर्थकमहशब्दस्याप्यदन्तत्वात् । पक्षे उद्भास्वरं प्राज्यं मह उत्सवो यस्मात् । सुहृदुपदेशानतिक्रमे सुखाभ्युदयात् । सकारान्तमहाश. ब्दस्याप्युत्सवार्थकत्वात् । “मह उत्सवतेजसोः” इतिहकारान्तेषु "महो भवेदुत्सवतेजसोश्च" इति सान्तेषु च विश्वः । भाषाश्लेषो यथा मम- सरसं तरसा रमणो रहस्समम्महसरेण । अह वासराजवासे सुहसा राजन्ति वामा हि ।। इह संस्कृतपक्षे वासगजो-गृहश्रेष्ठः क्रीडागृहं तत्र वासे सुहसाः शोभनहासा वामाः स्त्रियो राजन्ति शोभन्ते । हीत्यवधारणे । अहेति पादपूरणे । सरसमिति क्रियाविशेषणम् । यद्वा रह इत्यस्य विशेषणम् । कदा शोभन्त इत्यत आह-मह उत्सवः तस्य सरो विस्तारः। सृगता. वित्यस्मादप्प्रत्ययः। तेन समं सह । सस्वेदः कामविकारवत्त्वात् । अनेन विप्रलम्भसाहित्यं प्रतिपादितम् । दुःखसम्भिन्नरतेरेव तत्स्वरूपत्वात् । "सम्भोगः सुखसम्भिन्नो विप्रलम्भस्तु दुःखयुक् । रतिस्तयोः प्रकर्षः स्यादुत्कर्षात्सुखदुखयोः" ॥ एवंविधो रमणो नायकः रह एकान्तदेशश्च यदि भवति तदा सम्भोगसामग्रीसाम्राज्यादिति भावः । प्राकृतपक्षे तु- सरसांतरसारमनारथस्य मन्मथशरण । अथ वासरा जवात्तस्य सुखसारा यन्ति वामाभिः॥

२२ अलङ्कारमुक्तावल्याम्- -- विरहे कथं तस्य दिनानि गच्छन्तीत्याशङ्कायां कस्याप्युक्तिः । मनोरथोपनीताः प्रियाः साक्षात्कृत्य तत्परिशीलनयैव सुखं दिनानि यान्तीत्यर्थः। प्रकृतिश्लेषो यथा मम- तिरस्कृताम्भोभृदहङ्कृतीनां धृतोत्कटत्वप्रवहत्कटानाम् । स्वेषां परेषामपि वारणानां तनोति पाणिस्तव दानमेव ॥ "दो अवखण्डने” इत्यस्य "डुदाञ् दाने" इत्यस्य च ल्युट्प्रत्यये दानमिति रूपं तुल्यम् । प्रत्ययश्लेषो यथा मम- वीरव्रतदीक्षायां निरूपयत्यनवकीर्णनं हृदये। भूतलपुरुहूत! त्वं केवलमचकाच्च गाङ्गेयः॥ अचकादिति चकास्तेलङि प्रथममध्यमपुरुषकवचने समान रूपम् । विभक्तिश्लेषो यथा मम- तात्पर्यविषयभावं त्वमश्व एव श्रुतिशतानाम् । शिरसामहाविशेषादसन्मतेः सम्यगुद्धर्तुम् ॥ श्रुतिशतानां शिरसामुपनिषदां तात्पर्यविषयत्वं त्वमेव अश्वः प्राप्त वान् । अवान्तरवाक्यानामन्यत्रापि तात्पर्यमाशङ्कयाह-विशेषादित्यादि। वेदार्थानभिज्ञैरेवान्यत्र तात्पर्यमाशङ्ख्यते इत्यर्थः । अथ च शिरसा मुखा- बच्छेदेन अश्वो हयग्रीव इति यावत् । ईशस्त्वमेव वेदशतानां दुर्बुद्धि- युक्तान्मधुकैटभादेः सकाशात्सम्यगुद्धारं कर्तुं तात्पर्यस्य विषयभाव. म् आश्रयतां विशेषात्-देवान्तव्यतिरेकेण अमहः पूजितवान् । 'मह पूजाया' मित्यस्य लङि मध्यमैकवचने रूपम् । अत्राश्व इति श्वयतेर्धातो- गत्यर्थस्य लुङि मध्यमैकवचनम्, अश्वशब्दस्य प्रथमैकवचनं च स. मानम् । वचनश्लेषो यथा-- अपयातमितो धृष्टे धिग्वामशीलशीलताम् । इत्युक्ते वेत्रवन्तश्च व्यतियाते स्म ते भिया ।। अत्र ते सख्यौ ते कञ्चुकिनश्च व्यतियाते इति कर्मव्यतिहारे तङ् । यथाक्रम द्विवचनान्तं रूपम् बहुवचनान्तं च समानम् । यत्र प्रकारवाचकपदमा व्यङ्ग्य वाच्यसामान्यम् । तच्छक्तरप्रकृतार्थोक्तिःसोक्ता समासोक्तिः ॥ १६ ॥ m निदर्शनालङ्कारः। यत्र विशेषणपदानां प्रकृताप्रकृतसाधारणार्थप्रत्यायकत्वं न तु विशेष्यपदस्यापि सा समासोक्तिः। साधारणार्थबलादप्रकृतार्थस्यापि प्रतीते। यथा मम- -- मुकुलेषु कमलिनीनां पतन्ति भास्वत्करा बहलरागाः। प्रथममतितीक्ष्णस्पर्शात्सुमुखि ! तदुद्वेगभीत्येव ॥ अत्र नवीननायिकाकुचे पूर्व तद्विश्वासाय शिथिलस्पर्शस्य कर्नु यकस्य व्यवहारस्य प्रत्ययः । यत्र तु विशेष्यवाचि पदमपिश्लिष्ट तत्रोपमाध्वनिरेव । अयं त्विह विशेषः । सर्वस्वकारादीनां मते समा. सोक्तौ प्रकृतव्यवहारे अप्रकृतव्यवहारतादात्म्यमेव भासते न तु प्रक- तर्धामण्यप्रकृतधर्मितादात्म्यमपि । यथा प्रकृते सूर्यव्यवहारे नायकव्य. वहाराभेदो न तु सूर्यनायकाभेदः । कमलिन्यादौ नायिकादितादात्म्य तु प्रतीयत एवेति । रसगङ्गाधरादीनां तु प्रकृतधर्मिण्यप्रकृतधर्मितादा- त्भ्यमपि भासत इति । उपमापर्यवसन्नो यत्रार्थोऽन्योन्यमन्वयानहः । यञ्च क्रियया कारणकार्यान्वयधीनिदर्शना सोक्ता ॥१७॥ यत्र पदार्थयोर्वाक्यार्थयोर्वा सम्बन्धो वाधवशात्सादृश्ये पर्यवस्य- तिसा तावदेका निदर्शना । यथा-- दर्पण कौतुकवतामपि बद्धलक्ष्यः पश्चार्लरनुसृतोऽयमुदीर्णधन्वा । द्वधा समुद्धतमरुत्तरलस्य धत्त मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥ - यथावा-- चूडामण्डलवन्धनं तरल यत्याकृतजो वेपथुः किंचित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः॥ धत्ते कान्तिमकाण्डताण्डवितयोर्भङ्गेन वक्रं भ्रुवो. श्चन्द्रस्योत्स्फुरलाञ्छनस्य कमलस्योद्धान्तभृङ्गस्य च ॥ अन्यधर्म कथमन्यो वहनीति धर्मिणोः सादृश्यपर्यवसानम् । वा. क्या निदर्शना तु सहशवाक्यार्थयोरभेदारोपः ।

- अलङ्कारमुक्तावल्याम्- यथा मम रुक्मिणीपरिणये--- पद्मिन्याः परिरक्षणाय तुहिनैर्मूलावसंकक्रिया स्पष्टं यामिकताकृति मृगपतेः केलीमृगी गोपितुम् । कोशीयस्य धनस्य च स्वकृतिभिः पाटच्चरायार्पण मार्या अतिसौरभस्य रभसात्पाणी प्रदान कपेः ॥ अत्र दुर्मुखसंज्ञस्य मायया हसरूपिणो दैत्यस्य श्रीकृष्णेन रुक्मिणी प्रति दूत्येन प्रेषणम् । अहो तदेतदिति पूर्ववाक्यार्थः । अत्रोक्तवाक्यार्थच. तुष्टयस्थाभेदारोपः। अप्रसिद्ध आरोप्य वाक्यार्थो यथा- उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः । अमेव रत्यास्तदनति पत्या च्छदेऽप्यबोधं यदहर्षि लोम ॥ ( नैष० स०६३४ श्लो० ) समामरूपवाक्यार्थस्य यथा-- चतुरिमकलाकण्ठच्छेदो मनोभववञ्चन दृषदि मधुनो लिपला लोके विडम्बनमात्मनः । उपरि परितः सङ्कल्पानां शिलाशतपातनं सहचरि! परीतापस्थानं जडे हृदयार्पणम् ॥ आधचरणोपात्तं समासरूपवाक्यचतुष्टयम् । यत्र क्रियया कार्यका. रणभावे कयोश्चिदर्थयोः प्रतिपादिते उत्तरवाक्यार्थी विशेषरूपतया दृष्टान्तत्वेन पर्यवस्यति साप्यपरा निदर्शना । यथा मम-- यो वहति मलिनमन्तवृद्धौ हानौ च सोऽन्तयति पक्षम् । राकायां दर्श वा क्षपयति पक्षं क्षपानाथः ॥ अत्र मालिन्यसम्बन्धपक्षनाशयोः कार्यकारणभावे पूर्वार्द्ध प्रतीय. माने उत्तरार्द्ध ग्राहकम् । केचित्तु ललिताख्यमलङ्कारं वदन्ति । प्रस्तुत- वाक्यार्थेऽप्रस्तुतवाक्यार्थाभेदो हि निदर्शना । यत्र तु प्रस्तुन वाक्यार्थम- नुपन्यस्याप्रस्तुतवाक्यार्थ उच्यते तत्र ललितम् । यथा-- अनाथि देशः कतमस्त्ववाद्य वसन्तमुक्तस्य दशा वनस्य । त्वदाप्तसङ्केततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ - -- अप्रस्तुत प्रशंसालङ्कारः। २५ अत्र कुतस्त्वमागत इति प्रस्तुतमनुपन्यस्य तत्सदृशवाल्यार्थान्त रोपन्यास इति। अप्रस्तुतप्रशंसा प्रकृतपतिपत्तिरेतया यत्र । अप्रकृतार्थोक्त्या प्रकृतार्थप्रत्ययो यत्र इयमप्रस्तुतप्रशंसा। अप्र. स्तुतस्य प्रतिपादनमात्रं विवक्षितं न स्तुतिरेव । अस्याः पञ्च भेदानाह कार्य हेतौ व्याप्यव्यापकयोरन्यगीः ममे तस्य ॥ १८ ॥ कार्य प्रकृत अन्यस्य कारणस्य । हेतौ प्रकृतेऽन्यस्य कार्यस्य । व्या. प्य विशेष प्रकृते तदन्यस्य सामान्यस्य । व्यापके सामान्य प्रकृते तद. न्यस्य विशेषस्य । समे प्रकृते तदन्यस्य समस्याभिधानमिति पञ्चविधे. यमित्यर्थः । तत्राद्या यथा- ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥ अत्र रामण गवणं प्रति स्वोक्त्यतिक्रमेण तदनिष्टविधानरूपे कार्य वक्तव्ये स्वदौमनस्यरूपं कारणमुक्तम् । द्वितीया यथा-- पुरं निःशेषघटितकपाटद्वारमावृतम् । रक्षा चाप्तभक्तिमद्भिः कोणपैः परितः कृता ।। अत्र रावणेन भद्र ! सेनापते ! कितुरयं कलकल इति हेतौ पृष्टे प्रहस्तेन नगरावरोधहेतुमनभिधाय तत्कार्यमात्रमुपन्यस्तम् । तृतीया यथा-- असो वा यदि वा विपर्ययगनोशानेऽथ सन्देहवान दृष्टाष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः ॥ निःसन्देहविपर्यये सति पुननि विरुद्ध क्रिय गजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥ अत्र परशुरामस्य शासने वक्तव्ये सामान्यमुक्तम् । चतुर्थी यथा- धियात्मनस्तावदसाधु नाचरं परस्तु तद्वेद स यद्वदिष्यति । जनावनायोद्यमिनं जनार्दनं क्षये जगजीवपि शिव बदन् । (नैष०स०९श्लो०।१२४) २६ अलङ्कारमुक्तावल्याम्- - - विपरीतग्राही लोक इति सामान्ये वक्तव्ये उत्तरार्द्ध विशेष उक्तः। तुल्येन तुल्याभिधाने त्रयः प्रकाराः । श्लेषः समासोक्तः सादृश्य. मात्रं चति । धर्ममात्रश्लेषो यथा मम- छिदुरेण गुणगणेन व्याप्तं येषां सदा हृदयम् ॥ तेषां मृणालकानां मुखमुद्राजीवनमुचितम् ।। उद्गतं राजीवनं कर्म (कमल) यत्र तादृशं मुखम् । अथ च आजीवन जीवनर्पयन्तं मुखस्य मुद्रा मौनम् । मृणालपदं चैकमात्रार्थकम् । विशेषणविशेष्योभयश्लेषो यथा मम- खट्वाङ्ग पाणितले निधाय यो भूतले स्वपिति । दिग्वासा नेत्रत्रययुतोऽपि किं सर्ववित्तया तस्य ।। समासोक्तिर्यथा- एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी सञ्चारो नहि नागरस्य विषयोच्छिन्नं मुनीनां मनः । धूमेनापि सुगन्धिना दश दिशः सामोदमामोदय- भामूलं यदि दह्यतेऽगुरुतनुः कस्मै किमाचक्ष्महे ॥ सादृश्यमानं यथा मम- ऐरावतमन्दारी दुर्वासाश्चेति सहभुवो लक्ष्म्याः । एतेषां व्यापारात्सा निकृति प्राप विधिशक्त्या ॥ केचित्तु प्रस्तुतेन अप्रस्तुतप्रतीतो समासोक्तिः। अप्रस्तुतेन प्रस्तु. तप्रतीतौ अप्रस्तुतप्रशंसा। प्रस्तुतेन प्रकृतप्रतीतौ तु प्रस्तुताङ्करः पृथ गलकारान्तरम्। यथा- अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं कलिकामकाले व्यर्थ कदर्थयासि कि नवमालिकाया:॥ अत्र वृत्तान्तद्वयं प्रकृतमेघेत्यतिरिक्तत्वमेव युक्तमित्याहुः । अप्रकृतेन निगीणे साध्यवसानाश्रयात्मकृते । प्रकृतस्याप्यधिकत्वे यद्येवं स्यात्तथापत्तौ । स्पाज्जन्यजनकपौ पर्यत्यागश्च सा त्वतिशयोक्तिः ॥ १९॥ उपमेयवाचकपदमपहाय उपमानवाचकपदेनैव तदुपादानमेकाति. शयोक्तिः अतिशयोक्त्यलङ्कारः। NEL अत्र यथा- तमस्तोमः पूर्व तदनु विमलः शीतकिरण- स्ततः कोकद्वन्द्वं तदनु च न किञ्चित्पुनरभूत् । अनङ्गस्यावतस्तदनु कदलीकाण्डयुगलं ततोऽवाचौ पद्मो शिव ! शिव !विधेः सृष्टिरपरा ॥ कच पदनाद्युपमेयानां तमःप्रभृत्युपमानवाचकशब्दैरेवापा. दानम् । यत्र प्रकृतस्य सजातीयादत्युज्ज्वलत्वं वर्ण्यते सा द्वितीया। यथा मम- अन्यत्कुतूहलमपाङ्गतरङ्गितानामन्यैव रीतिरपि गीतिभृतः स्मितस्य ॥ एणीशः सदभिसन्धिगुणेषु सूक्तिमुक्ताफलग्रथनकौशलमन्यदेव ॥ यद्येवं स्यादिति केनचिदापादकेन कस्यचिदर्थस्यापादानं तृतीया। यथा- निरन्तरत्वेन निधाय तन्वि ! तारासहस्राणि यदि क्रियेत । सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत ॥ कारणकार्ययोः पौर्वापर्यपरित्यागे चतुर्थी । तत्परित्यागेऽपि द्वैवि. ध्यम् । पूर्व कारणस्य पश्चात्कार्यस्योत्पत्तरुक्तौ युगपत्तदुभयोक्तौ च । आद्या यथा- उदेति पूर्व कुसुमं ततो रजो घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥ अत्र प्रसादात्पूर्वमेव सम्पदभिधानम् । द्वितीया यथा मम- पुरुहूतहरिन्मुखे हिमांशुर्विरहिण्या हृदये च वीतिहोत्रः । क्षणमन्यतराश्रयक्षणक्षयहीनं प्रतिपद्य दिद्युताते ॥ अत्र चन्द्रोदयस्य विरहिणीतापाश्रयक्षणध्वंसानधिकरणक्षणवृत्ति स्वोक्तविरहिणीतापस्य च चन्द्रोदयक्षणध्वंसानधिकरणक्षणवृत्तित्वो. तरर्थात्तयारकक्षणोत्पत्तिकत्वं लभ्यते । केचित्तु-"कार्यकारणयोरभेदेन वर्णन हेतुरलङ्कारः। यथा- लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः । एवं कस्याचिदर्थस्य बाधितत्वोधनार्थ कस्यचिद्वाधितार्थस्य क. रुपनं मिथ्याध्यवसितिः। -- २८ अलङ्कारमुक्तावल्याम्- - - -- - यथा- अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः सङ्ख्यया प्रज्ञाचक्षुरवेक्ष्यमाणवधिरश्रव्याः किलाकीतयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि (नैष०स०१२श्लो०१०६) तथा सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ इति सम्भावनमलङ्कारः। तथा बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ॥ यथा- गजत्रातति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालाभिईष्टः शौरिः सकौतुकम् ॥ एवमेकेन बहुधोल्लेखेऽपि- गुरुर्वचस्यर्जुनोऽयं कीत्तौं भीष्मः शरासने । तथा- प्रौढोक्तिरुत्कर्षा हेतौ तहेतुत्वप्रकल्पनम् ॥ तदकारणत्वेऽपि तत्कारणत्वकल्पनं प्रौढाक्तिः। यथा-- कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशङ्खानाम् । रचितो रजोभरपयस्तेजःश्वासाम्बरैरेषः ॥ अत्र कल्पद्रुमादेराधिकदानं प्रत्यहेतुत्वेऽपि राज्ञः कल्पद्रुमादिसम्ब न्धिभूतावयवनिर्मितत्वात् हेतुत्वेन कल्पनमिति प्रौढोक्तिः” इति वदन्ति । सादृश्यपर्यवसिते यस्मिन्वाक्यद्रये धर्मः । एकोऽपि द्विरुपात्तस्ता प्रतिवस्तूपमामाहुः ॥ २० ॥ सादृश्याभिप्रायके वाक्यद्वये यत्रैक एव धर्मों द्विवार निर्दिश्यते सा प्रतिवस्तूपमा। यथा देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं -- प्रतिवस्तूपमादृष्टान्तालङ्कारौ । जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिलडिन्त एव वानरभटैः किन्त्वस्य गम्भीरता. मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥ अत्र ज्ञानरूप एको धर्म उभयत्र निर्दिष्टः । मुरारिमन्दरयोः साम्यं चपर्यवस्यतीति स्पष्टम् । यथा वा-- नान्यत्र राघवाद्वंशात्प्रसूतिवत्सयोः क्षमा । दुग्धार्णवाटते जन्म चन्द्र कौस्तुभयोः कुतः ।। पूर्वत्र भावरूपोऽत्र त्वभावरूप इति विशेषः । वैधयेण यथा मम-- तत्तद्युक्तिविशेषगुम्फितवचःसन्दर्भगीकृता. नर्थानास्वदितुं कवेरथ धियां धन्याः शतेऽपीशते । सभ्रविभ्रमरक्तरङ्गविहितामास्ये मृगाक्ष्याः क्षमो विच्छित्ति न विलक्षणां क्षणमपि क्षीणेक्षणः प्रेक्षितुम् ॥ अत्रान्धो यथोक्तशोभा साक्षात्कर्तुमक्षम इत्यस्य विपर्ययेण चक्षु. मानेव तां साक्षात्कर्तुमर्ह इत्यनेन प्रकृतसिद्धिः । साधारणस्य साम्यप्रतियोग्यनुयोगिनोर्यत्र । निर्देशः स्यात् बिम्बप्रतिबिम्बतया स दृष्टान्तः ॥ २१ ॥ यत्रोपमानोपमेयदिशि विस्वप्रतिबिम्बभावेन भिन्नधर्मोपादानं स दृष्टान्त इत्यर्थः । प्रतिवस्तूपमायां त्वेकस्यैव धर्मस्याभिधानमिति भेदः । यथा- अयमयमीशप्रशमविश्वसनीयतनुः भुवनभयङ्करीः कथमधत्त रुषोऽपि मुनिः। स्थितमिदमेव वा मृदुमनोज्ञतुषारतमा- स्तमसि सति ज्वलन्ति सहसैव महौषधयः ।। अत्र रोषज्वलनयोबिम्बप्रतिबिम्बभावः । वैधर्येण यथा मम- आपन्नतापविहतिस्पृहयातिसान्द्रं वैजात्यवत्सुकृतशालिन एव चेतः । केन श्रुतं बहलहालहलावलीढादाशीविषादपि समुन्मिषितं सुधायाः ॥ प्रकृतामकृतानां यद्येकान्वयितास्ति दीपकं तत्स्यात् । प्राकरणिकानामप्राकरणिकानां चैकपदोपात्तधर्मेणान्वयो दीपकम् ।

३० अलङ्कारमुक्तावल्याम्- यथा- सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च । सेनकुलतिलकभूपतिरेको राकाप्रदोषश्च ॥ वर्ण्यत्वेन प्रकृतस्य प्रवरसेनस्य अप्रकृतस्य राकाप्रदोषस्य च कला साकल्यकल्पनसामर्थ्यरूपैकधर्मान्वयः। क्रियादीपकं यथा- गणयन्ति नापशब्ई न वृत्तभङ्गं क्षयं नचार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ।। निन्द्यत्वेन प्रकृतानां कुकवीनाम् अप्राकरणिकानां च वेश्यापतीनामे- कक्रियान्वयः॥ यत्रैकमेव कारकमन्वयमेति क्रियासु बढीषु ॥ २२ ॥ एकस्य कारकस्यानेकक्रियान्वयित्वेऽपरं दीपकम् । यथा- प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥ माला तु पूर्वपूर्वे विधान्तरेणोत्तरान्वयिनि । तस्यामेव क्रियायां रूपान्तरेणान्वितस्य रूपान्तरेण तत्रैव पुनरन्वये मालादीपकम् । यथा मम- आत्मा ते मनसात्मनाप्यभिनवा लोकोत्तराः कल्पना श्वम्पूनामथ कल्पनाभिरमलं माधुर्यमभ्यर्हितम् । माधुर्येण पदानि कान्यपि पदैरप्यावृदयावृता श्रोत्रं तेन मनोऽमुनापि च मुदामद्वैतमासाद्यते ॥ आसादनक्रियायां पूर्व कर्मत्वेनान्वितस्यानन्तरं कर्तृत्वेनान्वयः। प्रकृतानां तारके भिन्नानां वापि तुल्ययोगित्वम् ॥ २३ ॥ प्रकृतानामेव अप्रकृतानामेव वा एकधर्मान्वये तुल्ययोगिता। प्रकृतानां यथा- सम्भाध्यमिष्टभुषनाभयदानपुण्य. सम्भारमस्य धपुरत्र हि विस्फुरन्ति । लक्ष्मीश्च सात्विकगुणज्वलितं व तेजो धर्मश्व मानविजयौ च पराक्रमश्च ॥ - व्यतिरेकालङ्कारः। - अप्रकृतानां यथा- अवनिरमरसिन्धुः सार्द्धमस्मद्विधाभि- स्स च कुलगुरुरायः छन्दसां यः प्रयोक्ता। स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्त्वयि वितरतु भद्रं भूयसे मङ्गलाय ॥ (उत्तर०अं०३श्लो०४८) उभयोः साम्यप्रोक्तो विशेष उपमेयगे व्यतिरेकः ॥ उपमानादुपमेयस्य केनचिद्धर्मेणाधिकवर्णनं व्यतिरेकः । हानिप्रकर्षहेत्वोरुक्तो त्रेधा च तदनुक्तौ ॥ शब्दार्थालेपोत्थे साम्ये श्लेषे च दिग्युगमितः सः ॥ २४ ॥ उत्कर्षापकर्षहेत्वाभिधाने एकः । उत्कर्षहेतुमात्रेऽपकर्षहेतुमात्रे तदुभय. हेतौ वानुक्ते त्रय इति मिलित्वा चत्वारः। तत्रापि साम्यस्य शाब्दत्त्वे आ. र्थत्वे आक्षेपगम्यत्वे वेति चतुर्णा प्रत्येक त्रैविध्ये द्वादश । द्वादशानामपि शुद्धत्वेन श्लेषेण च द्वैविध्ये चतुर्विंशतिर्भेदा व्यतिरेकस्येत्यर्थः ।क्रमे गोदाहरणानि । आद्यानां चतुर्णा यथा मम- वाङ्मयसरसामन्तर्गाहनकुतुकैकरसिकोऽपि। अपरश्चपलो बुध इव धीरोऽयं न मदमाधत्ते ॥ चापलधैर्ये अपकर्षोत्कर्षहेतू उक्तौ । मदमाधत्ते न लेशमपीति चतु: थचरणनिर्माणे उत्कर्षहेतुरनुक्तः। क्वचिदप्यपरो बुध इवेति तृतीयचर. णपाठेऽपकर्षहेतुरनुक्तः । एतत्पादद्वयेनैवोत्तरार्द्धपाठे तूभयहेत्वनुक्तिः । सर्वत्र इवपदप्रयोगात् शाब्दं साम्यम् । आर्थे साम्ये यथा तत्रैव 'चपल. तरेतरबुधवत्' इति पाठे उक्तरीत्यैव चतुर्थचरणपाठे । क्वचिदपि चेतरबु. धवदिति तृतीयचरणपाठे पादद्वयनैवोत्तरार्द्धपाठे च तुल्यार्थकवतिप्रयो. गादार्थ साम्यम् । आक्षेपात्साम्ये यथा तत्रैव'चपलान्बुधानभिभवन्'इति पाठे चपलपद. स्थाने सकलपदप्रक्षेपे । अन्यत्र पूर्वरीत्या पठिते अभिभवस्य सादृश्ये शक्तिलक्षणयोरभावात्साम्याक्षेप इति द्वादश भेदाः । श्लिष्टभेदा यथा मम- अभ्यासप्रतिभादिप्रतिभागुणसम्पदनपेताः। अविकलकलस्य विधुवत्कादाचित्की न काचन कलास्य ॥ अवैकल्यं कादाचिकत्वं चोत्कर्षापकर्षहेतू बहुतरकलस्य इति पाठे अलङ्कारमुक्तावल्याम्- उत्कर्षहेत्वनुक्तिः। बुधमौलिमणेर्न काचन'इत्यादिचतुर्थचरणपाठेऽपक हेत्वनुक्तिः। उक्तद्वयनवोत्तरार्द्धपाठे उभयहेत्वनुक्तिः। षष्ठीसमर्थादिव थै वतिरिति शाब्द साम्यम् । तत्रैव- अविकलकलो न विधुवत्कादाचित्की कलामयं धत्ते इति पाठे प्रथमः, अविकलपदस्थाने बहुतरपदपाठे द्वितीयः । क दाचित्कीमित्यत्र बुधमौलिमणिरिति पाठे तृतीयः। उक्तद्वयेनोत्तरा चतुर्थः । तुल्यार्थे वतिरित्याथै साम्ये । अविकलकलो विधुजयी कादाचित्की कलां न धत्तेऽयम्- इतिपाठ प्रथमः । भेदत्रयं पूर्ववत् । जयमात्रोक्त्या साम्यमाक्षेप्यम द्वादशस्वपि कलाशब्दः श्लिष्टः । इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोधाय । स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥ २५ ॥ विवक्षितस्यार्थस्य वचनप्रतिषेध आक्षेपः । स च द्विविधः। वक्ष्य माणविषय उक्तविषयश्च । यत्र वक्तुमारब्धस्यैव निषेधः स आद्यः । उक्तस्यैव वचनवैयोक्तिद्धितीयः। आद्यो यथा- प्रीते विधातरि पुरा परिभूय मां- न्ववेऽन्यतो यदभयं स भवानहंयुः। तन्ममणि स्पृशति मामतिमात्रमद्य हा वत्स ! शान्तमथवा दशकन्धरोऽसि ॥ अत्र बुद्धिस्थं रावणं प्रति रामादभिभवे विवक्षिते शान्तमिति त. निषेधः। द्वितीयो यथा- यदि ते सन्ति सन्त्येव केयमल्पा विभीषिका। किमुक्तैः सन्निपत्यैव पताकां तां हरामि वः ॥ अत्र महाराज प्रति कुतः क्षत्रिया इत्यश्वरक्षकैरुक्ते पूर्वार्द्धनान्य. बलवत्सत्तामुक्त्वापि तादृशकर्माननुष्ठाने वचनमात्रं व्यर्थमित्यभिप्रा येण तनिषेधः । केचित्तु-“यो निषेधो बाधितः सन्नन्तरे पर्यवस्य. ति स आक्षेपः। यथा-- पुरोजन्मा नाद्यप्रभृति मम रामः स्वयमहं न पुत्रः पौत्रो वा रघुकुलभुषां च क्षितिभृताम् ।

विभावनाविशेषोत्यलङ्कारौ । - अधीरं धार वा कलयतु जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ पूर्वोक्तनिषेधो बाधितत्वात् ब्राह्मणभङ्गनिषेधातिक्रम सूचयति । हेतुं विनापि कार्य यत्रोक्तं स्याद्विभावना सा तु । प्रसिद्धकारणव्यतिरेकेऽपि कार्योत्पत्तिवर्णनं विभावना। यथा- अरालरुचिरे ध्रुवौ न न मरालमन्दा गति- ईगञ्चलमचञ्चलं हृदयभूरभूतोदयः । सुधा न खलु वाक्पयातिथिरथापि यूनां मनो मनोजशरजर्जरं नयति मोहमस्यास्तनुः ॥ इयं चानुक्तनिमित्ता । सौन्दर्यविशेषस्य हेतोरनभिहितत्वात् । उक्तनिमित्ता यथा- प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः । मर्मच्छेदपरैर्यत्नैराकर्षो न समाप्यते ॥ अत्र सीतायाश्चक्षुषो रामसंयोगप्रतिबन्धकयत्नसत्त्वेऽपि प्रतिब. न्धाभावः । तृष्णायाश्च तद्धेतोरुपादानम् । हेतौ सत्यपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः ॥ २६ ॥ सा च त्रिधा-उक्तनिमित्ताऽनुक्तनिमित्ता चेति । आद्या यथा- स्वेषूत्कृत्य हुतेषु मूर्द्धसु जवादग्नेः स्फुटित्वा बहि- वाकीर्णेषु लवेषु दैवलिपिभिदृष्ट्वापि रामायणम् । चित्तेनास्खलितेन यस्तदधिकं ब्रह्माणमग्रीणय. कस्तस्मै प्रथमाय मानिषु महावीराय वैरायते ॥ अत्र भयहेतौ भाविरामायणदर्शनेऽपि रावणस्य भयाभावः। म. हावीरत्वं च तद्धतुरुपात्तः। द्वितीया यथा मम-- पण्डितता तव खण्डितनयचित्रशिखण्डितनययम् । अनुपहते तनुजनुषी तनुनैव मदस्य वार्तापि ॥ मदहेतुविद्यादिसत्वेऽपि मदानुत्पत्तिः। धीरत्वरूपं च तन्निमि. त्तमनुक्तम्। । - अलङ्कारमुक्तावल्याम्- तृतीया यथा- यद्विद्वानपि तादृशेऽप्यभिजने धात्पथो विच्युनः किं बमोऽत्र तदन्यदेव न वसन्त्येकत्र सर्वे गुणाः । लीलानिर्जितषण्मुखाद्भगवतः श्रीजामदग्न्याते निर्विघ्नप्रतिपन्नविश्वविजयो वीरस्तु कस्तादृशः ।। अन्यदेवेत्यस्यान्यहेतुकमेवेत्यर्थः। हेतुश्च विशिष्य न निर्वक्तुं शक्य निर्देशक्रमतो यदि समन्वयस्तद्यथासङ्खयम् ॥ २७ ॥ यथा ममाभिरामराघवे- दुर्वादानिलवृद्धरोषदहनाद्राग्बीरणप्रेरण- प्रायन्यायविपाटनप्रकटितवोटिद्विकोटित्रुटिम् । कृत्वा त्वामथ कर्णिकारमरुणं सम्पातिमप्यासा लकेन्द्रः स्वयमातनोति रहितांस्तानात्म जभ्रातामः ॥ यदि सामान्यविशेषौ समर्थयते विशेषसामान्ये । साधाद्वैधादपि वा सोऽर्थान्तरन्यासः ॥ २८ ॥ सामान्येन विशेषस्य विशेषेण सामान्यस्य वा समर्थनमान्तर न्यासः । प्रत्येकं साधयेण वैधम्र्येण वेति चतुर्विधः । आयं साधम्र्येण यथा-- संवृत्तोऽयं यदि तव भुजच्छायया सम्प्रतीन्द्रोऽ. निर्विघ्नश्रीरियमभिनवा कीदृशी से प्रशस्तिः । इक्ष्वाकूणां लिखितपठिता स्वर्वधूगण्डपीठ- क्रीडापत्रप्रकरमकरी पाशुपाल्यं हि वृत्तिः ॥ वैधर्येण यथा-- बाले ! तवेह विरहानलकर्षिताया हस्तव्युतं वलयमेति तलप्रदेशम् । दूरे पुनः स्थितिमगादिदमङ्गुलीयं स्थानच्युतिमहत एव भवत्यनार्या ॥ द्वितीयं साधम्र्येण यथा--- न तेजस्तेजस्वी प्रसृतमपरेषां प्रसहते स तस्य स्वो भावः प्रकृतिनियतत्वादविकृतः। मयूखैरश्रान्तस्तपति यदि देवो दिनकर किमानेयो ग्रावा निकृत इव तेजांसि बमति ॥ (उ० अं०६ श्लो०१६) -- विरोधालङ्कारः। वैधयेण यथा मम- भावविरोधी स्फुटतां विरुद्धमेवाश्रयन्वहति । नाध्यक्षं यदभावः प्रतियोगिनमन्तरा लभते ॥ अत्रोत्तरार्द्धस्य वाच्यार्थविपर्ययभूतेन प्रतियोगिविषयत्वनियमेन पूर्वोक्तसामान्यसमर्थनम् । केचिनु-- यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः । एकविशेषसमर्थनार्थ मुपात्तस्य सामान्यस्य समर्थनार्थ विशेषा- न्तरस्याप्युपादानं विकस्वरालङ्कारः ! यथा अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥ ( कुमार० स०१ श्लो०३) अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः ॥ २९ ॥ आपाततो विरोधप्रत्ययाद्विरोधः । अयमेव विरोधाभासः । स्याज्जातेगुणकर्मद्रव्याणां स्वस्त्रपरयोगात् ॥ जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रध्याभ्यां द्रव्यस्य द्रव्येण सह विरोध इति दश भेदाः । क्रमेणोदाहरणानि । अद्भुतमिदं यदिन्दुस्तपनः पवनश्च पावको जातः । तव विरह किं चित्रं शरत् समा यदभवत्तस्याः ॥ अत्र वायुत्ववाहित्वजात्योः सामानाधिकरण्यम् । शस्त्रीकृतस्तस्वरो हरिपुङ्गवेन लकेन्द्रवक्षसि मृणालमृदुः पपात । तत्र स्थितैस्तु कुसुमैः कुसमेपुरेनं सीतावियोगविधुरं दृढ़माजघान ।। वृक्षत्वजातिमृदुत्वगुणयोः । अयेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये करुणकरुणैरायंचरितै- रपि मावा रोदित्यपि दलति बज्रस्य हृदयम् । (उत्तर० अं०१श्लो० २८) प्रावत्वजातिरोदनक्रिययोः । प्रथमश्लोके सूर्यत्वजातिचन्द्रद्रव्ययोः। वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ( उत्तर० अं०२ श्लो०७) ३६ अलङ्कारमुक्तावल्यामू- काठिन्यमृदुत्वगुणयोः। स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसहशानि । मधुरापि मूर्छयति यत् विषविटपिसमाश्रिता वल्ली ।। माधुर्यगुणमूर्छनक्रिययोः। मुनेः कलशजन्मनो जयति कापि गम्भीरता यया चुलुकमम्भसामपि निधिः समापद्यत । अमुष्य पुनरीश्महे न विवरीतुमुनुङ्गतां यया भवति नोश्चकैरहह सोऽपि विन्ध्याचलः ॥ नीचत्वगुणविन्ध्याचलद्रव्ययोः (१)यं चेष्टन्तमनीकसीमनि परित्रस्तः पराञ्चन्नपि प्रत्यक्षीकुरुते सहस्त्रनयनः पृष्ठोद्भवैरक्षिभिः । चके वर्म व नागलोकजयिनी यात्रामिव प्रस्तुव- न्यः कैलासमुदस्य कीदृशमुपादानं तु तस्यापदाम् ।। पलायनपृष्ठस्थप्रत्यक्षीकरणक्रिययोः। त्रैविक्रमः सकलदानवजीवितव्यविद्यासमातिलिपिरेव सुदर्शनो मे । यस्मिन्निपत्य हृदये दलितारजालज्योतिस्तुपारमयमाभरणं बभूव ॥ दलनक्रियासुदर्शनद्रव्ययोः। अवदायति दिक्कदम्बके कुमुदानामुदिते मुदा मदे। कुतुकं विरहस्पृशामपि क्षणदेशो वडवाशुशुक्षणिः ॥ चन्द्रवडवानलयोः। यो वस्तुनः स्वभावस्तस्य निरुक्तिः स्वभावोक्तिः ॥ ३० ॥ यथा- अयमेकतमेन पक्षतेरधिमध्योवंगजङ्घमध्रिणा। स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ (नैष० स०२ श्लो०३) व्याजस्तुतिविपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । निन्दायाः स्तुतौ स्तुतेर्वा निन्दायां तात्पर्य व्याजस्तुतिः । आधा यथा मम रुक्मिणीपरिणये- आसंसूतिप्रवहणाबहुनान्वयन नित्यं सहरव्यवहरन्नपि मायया त्वम् । -- (१) पेटन्तमित्यनुदात्तेत्त्वप्रयुक्तात्मनेपदस्यानित्यत्वेन समाधेयम् ।

व्याजनिन्दा-सहोत्यलङ्कारीः। ३७ - बिभ्रजवाकुसुमसन्निहितत्वमर्क- ग्रावेव गच्छसि न तहुणसम्प्रयोगम् ॥ अत्र कृष्णं प्रति सुप्रसिद्धमेव तवेदशे कर्मणि नैपुण्यमिति रुक्मि- ण्या वञ्चनकर्मज्ञत्वरूपनिन्दायामीश्वररूपत्वप्रतिपत्त्या स्तुतौ पर्यव- सानम्। द्वितीया यथा- कोऽप्येष सम्प्रति नवः पुरुषावतारोवारो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तातचरितानि च यो न वेद ॥ ( उत्त० अं०५ श्लो० ३४ ) चन्द्रकेतोरत्र लवस्य स्तुतिमुखनिन्दायां तात्पर्यम् । उभयत्रापि स्तु. तिनिन्दयोरेकविषयत्वम् । क्वचित्तु अन्यनिन्दास्तुतिभ्यामन्यस्तु. तिनिन्दावगमः। यथा- क्षोणी पर्यटिता श्रमाय विदुषां वादाय विद्यार्जिता मानध्वंसनहेतवे परिचितास्ते ते धराधीश्वराः । विश्लेषाय सरोजसुन्दरदृशामास्ये कृता दृष्टयः कुज्ञानेन मया प्रयागनगरे नाराधि नारायणः ॥ अत्र स्वनिन्दया तदाराधकस्तुतिः । एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः । यः सकललघिमकारणमुदरं न विभात दुष्पूरम् ।। अत्र राहुस्तुत्यान्यानन्दा । अयमपि व्याजस्तुतिभेद इति दीक्षिताः। अप्रस्तुतप्रशसेयमिति प्राञ्चः । कचित्तु- निन्दाया निन्दया व्यक्तिजिनिन्देति गीयते ॥ यथा- विधिरेव विशेषगर्हणीयः करट ! त्वं रट कस्तवापराधः । सहकारतरौ चकार योऽसौ सहवासं सरलेन कोकिलेन ॥ इह विधिनिन्दया विवेकहीनस्य प्रभार्निन्दा गम्यते इत्याहुः । सहसमभिव्याहारात्सहोक्तिरुभयान्विते धर्मे ॥ ३१ ॥ सहशब्दसमानार्थकशब्दबलादेकधर्मस्य धर्मिद्वयसम्बन्धे स. होक्तिः। mmam अलङ्कारमुक्तावल्याम्- यथा- अनेन सार्ध तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् । प्रेमापि तन्वि! त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य (नै० स० ८ श्लो०६१ यत्रान्येन विनान्योऽसाधुः साधुर्विनोक्तिः सा ।। केनचिदर्थेन विना कस्यचिदप्राशस्त्यं प्राशस्त्यं वा यत्रोच्य सा विनोक्तिः। आद्या यथा-- विना सीतादेव्या किमिव नहि दुःखं रघुपतेः प्रियानाशे सर्व किल जगदरण्यं हि भवति । स च स्नेहस्तावानयमपि वियोगो निरवधिः किमित्येवं पृच्छस्यनधिगतरामायण इव ।। ( उत्तर० अं०६ श्लो. ३०) दुःखपदं तत्कारणपरम् । अत्र सीताव्यतिरेकेण साम्राज्यादेर्दुःख हेतुत्वरूपमप्राशस्त्यम् । द्वितीया यथा मम- कैरवाकरनिबद्ध सौहेदे तेजसि स्फुरति पूर्वदिङ्मुखे । कामनीयकमलं तदानशे हन्त सन्तमसमन्तरा निशा(१) ।। अत्र तमोविरहेण राज्ञः प्राशस्त्यम् । केचितुः नित्यसम्बन्धानामसम्बन्धवचनं विनोक्तिः । मृणालमन्दानिलचन्दनानां शिरीषशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥ इह शैत्याविनाभावेऽपि मृणालादीनां तद्विनाभावोक्तिरित्याहुः । सदृशासदृशैरथैरर्थानां विनिमयस्तु परिवृत्तिः ॥ ३२ ॥ इयं त्रिधा-समेन समस्य न्यूनेनोत्तमस्य उत्तमेन न्यूनस्य विनि- मयात् । आधा द्विधा । द्वयोरुत्तमत्वे न्यूनत्वे च । यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसितां विदधुर्गजेन्द्राः । तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः ॥ (१) सन्तमसम् = अन्धकारम् , अन्तरा = विनाकामनीयकं = रामणीयकम् निशा भानशे = प्राप। - anata walliateendima- परिवृत्ति-भाविक-काव्यलिङ्गालङ्काराः। अत्र चन्द्रकप्रयुक्तनेत्रशोभाया नीलनलिनदलप्रयुक्तनेत्रशोभया । न्यूनेन न्यूनस्य यथा मम- स्वयमादाय कलङ्क विरहिभ्यो वेदनां दत्से । रजनीजीवितवल्लभ ! कोऽस्मिन्विषये तवोत्साहः ॥ द्वितीया यथा- यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषां नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ । अम्भोजानि पराश्चि तन्निजमघं दत्वेव तेभ्यस्ततो गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ॥ तृतीया यथा-- अस्ताचलेऽस्मिन्निकषोपलामे सन्ध्याकषोल्लेखपरीक्षितो यः। विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः॥ ( नैष० स०२२ श्लो०१३) भाविकमध्यक्षं स्यात्सध्वंसप्रागभावानाम् ।। ३२॥ सध्वंसाः अतीता सप्रागभावा भाविनः तेषां विद्यमानवत् लौ. किकविषयत्वकथनं भाविकम् । आद्यं यथा- पश्यामि वलस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान् पूर्वाननुभवामि च ॥ ( उत्त० अं०२ श्लो०१६) द्वितीयो यथा मम--- जीवितेशितरि दूरयियासौ कामिनीमनुनिनीषति साना । पाण्डिमप्रभृतयोऽनुबभूवुर्भाविनोऽपि नयनाध्वगभावम् ॥ इह भाविनामपि विरहचिह्नानां चाक्षुषं वर्णितम् । वाक्यपदार्थत्वाभ्यां हेतूक्तिः काव्यलिङ्गं स्यात् । हेतुवचनं काव्यलिङ्गम् । तत् द्विविधम् । हेतोर्वाक्यार्थत्वे पदा. यत्वे च। आचं यथा-- दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो- ईप्तानां दहनाय दीपितनिजक्षत्रप्रतापोमभिः nama अलङ्कारमुक्तावल्याम्- -- आदित्यैर्यदि विग्रहो नृपतिभिर्द्धन्यं ममैतद्भवे. हीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥ ( उत्त० अं०६ श्लो०१८ अत्र रामादिभिः सह युद्धप्रसङ्गो धनुषः श्लाध्यत्वे हेतुः । द्वितीयं यथा-- सिद्धश्रोत्रपरम्परापरिगतैरेभिः प्रपौत्रस्य ते वृत्तैरद्य पुलस्त्यवर्जमभितः स्मेरेषु देवर्षिषु । विश्वग्वृत्तिरसङ्गता नमयितुं दुर्वारलजाभर. म्लानश्रीस्तु चतुर्मुखी भगवतो धातुः कथं वर्तते ॥ अत्र ब्रह्ममुखचतुष्टयस्य नमयितुमशक्यत्वे विध्वम्वृत्तित्वं हेतुः । पर्यायोक्तं कथितं वाच्यस्यैवान्यभङ्गग्योक्तिः ॥ ३३ ॥ वाच्य एवार्थों यत्र व्यञ्जनयोच्यते तत्पर्यायोक्तम् । नचैकस्यैव त्तिद्वयेन प्रत्यायनेऽप्ययमिति वाच्यम् । प्रकारभेदेन तदभावात् । यथा मम-- मिथ्याभूतं जगतो यस्य पदं यत्पदस्य जगदेव । तावपि पुरतो भवतो भवतो वत नोदयत्प्रतिभौ ॥ अत्र लौकिकप्रत्यक्षाविषयचरणतया शेषः जगदनिर्वचनीयत्वता पर्यवत्तया च व्यासो रूपान्तरण प्रतिपादितौ । वस्तुमचय उदात्तं महतामङ्गत्ववचनं च । वस्तुसम्पत्तिवर्णनमुदात्तम् । यथामम- गारुत्मतस्त्रावविहारवापीसहोदरे वारिमुचां समूहे । यस्यां प्रयस्यत्यपि हंससंसत् विद्युत्सु हेमाजमृणालमोहात् ॥ वर्ण्यवस्तुनि महतामर्थानामङ्गत्वकथनमप्युदात्तम् । यथा ममाभिरामराघवे- श्रौतीभिः प्रतिपत्तिभिस्तिसृभिरप्यप्रस्खलद्वृत्तिभि- मैत्रेयीरमणोपदेशविशदः सीरध्वजस्ते गुरुः । यं चैतन्यमयानुगाधिकसुखं साक्षात्करोत्यादरा- दात्मा कोऽपि स नीललोहितमयो जागर्त्य मुष्मिन्गिरौ । अत्र शिवः कैलासस्याङ्गत्वमापादितः । शौर्यादीनामुत्कर्षकथने- ऽप्युदात्तमेव । R- समुच्चयालङ्कारः। यथा मम- ब्रह्माण्डान्तररूपवेश्मसु निजोत्तापोत्थरन्ध्राध्वना जालौघन भवप्रतापतरणेरन्तर्विशन्ति त्विषः । भासन्ते किल तत्र तत्र तदवच्छेदेन तेजोमया भूर्यासस्त्रसरेणवस्तदितरादित्यापदेशस्पृशः ॥ शौर्योत्कर्षवर्णनमत्युक्तिरिति केचित् । एकस्मिन् सति हतौ हेत्वन्तरगीः समुच्चयः प्रोक्तः। प्रकृतकार्यसाधनपर्याप्ते एकस्मिन् सत्यपि यत्र कारणान्तरम. प्युपात्तं स समुच्चयः । स त्रिविधः। सदसत्सदसद्योगे सद्योगे असद्योग सदसद्योग च । आयो यथा- आदेष्टा भगवान्भृगुर्जननयोरोत्पत्तिकब्राह्मयो- देवो धूर्जटिरस्त्रकर्मणि गुरुवर्य तु दूरे गिराम् ॥ सप्तद्वीपवती ददद्भुवमभिप्रैषि द्विजान कश्यप प्रायानप्रतिमानुभाव ! भवते कस्मैचिदस्मै नमः ॥ नमस्यता प्रयोजकानामनेकेषां संयोगः । द्वितीया यथा- न्यक्कारो हृदि वज्रकील इव मे तीवः परिस्पन्दते घोरेऽन्धे तमसीव मज्जति मनः संमीलितं लजया ॥ शोकस्तातविपत्तिजो दहति मां नास्त्येव यस्मिन् क्रिया मर्माणीव पुनर्भिनत्ति करुणा सीतां वराकी प्रति ॥ अत्र वैमनस्यहेतूनां भूयसामसतामुपादानम् । तृतीयो यथा- न्यकारेण पुरापि कौशिकमखादारभ्य लङ्केश्वरो धत्ते शाश्वतिकं विरोधमधुना त्वेते हता बान्धवाः । उत्साहप्रभुमत्रशक्तिभिरलंभूष्णुश्छलशो बली इतः शूर्पणखानिकारमपरं दृष्ट्वा कथं मृष्यते ॥ छलबान्धवसम्बन्धयोरसतोरन्येषां च सतां योगः । गुणक्रियायोगपग्रेऽन्यः ॥ ३४ ॥ गुणयोः क्रिययोगुणक्रिययोश्च योगपद्यादन्यः समुच्चयः । ६ ४२ अलङ्कारमुक्तावल्याम्- आयो यथा- तच्छुत्वा. मम राक्षश्च विषादप्रमदी द्वयोः । अभूतां मेघमालोक्य हंसवातकयोरिव ॥ अत्र शर्ववर्मणो वरप्राप्तिश्रवणेन वररुचिसातवाहनयोःखसुखयो. योगपद्यम्। द्वितीयो यथा- आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं सातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् । निवृत्तश्च फलेग्रहि मवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ।। तृतीयो यथा- काश्मीरजैरिव तवारुणरश्मिजालेरालोहिनी हरिहयोपहिता हरिच्च । ब्रह्माद्वयानुभवकालिकसंमदानां धारा रथाङ्गमिथुनेषु विजृम्भिता च ॥ अत्र लोहितन्वगुणविजृम्भितक्रिययोः । एकमनकमनकै कस्मिन् क्रमशोऽस्ति चेत्स पर्यायः ।। एक वस्त्वनेकस्मिन्ननेक वा वस्त्वेकस्मिन् क्रमेण यद्वर्ण्यते स प. र्यायः । स प्रत्येकं द्विविधः। प्रयोजकनिर्देशानिर्देशभेदात् । आद्यपर्यायस्यायभेदो यथा- गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया । (माघ० स०१३ श्लो०११) इह नाभिधितायाः श्रियो भगवन्मुखवृत्तित्वं कथितमित्येकस्य क्र. मेणानेकवृत्तित्वं युधिष्ठिरकृतगाढपरिरम्भमयपीडनभयं च मुखाश्रये प्रयोजकमुक्तम् । तस्यैव द्वितीयो यथा- चूडारलैवलद्भिर्विषधरविवराण्युज्ज्वलान्युज्ज्वलानि प्रेक्ष्यन्ते, चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः। किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भरोद्यत्तमिस्रा- सचट्टाकृष्टसन्ध्याकणनिकरपरिस्पर्द्धिनो भान्ति दीपाः॥ अत्र वह्नः क्रमेण सूर्यकान्तचक्रवाकीहृदयवर्तित्वं विरहरूपप्रयो. जकस्य चानभिधानम्।

- अनुमान-परिकरा-लङ्कारी। ४३ द्वितीयपर्यायस्याद्यभेदो यथा- यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते ॥ इहैकस्मिन् हृदये क्रमेणानन्दतापयोवृत्तिः। तापवृत्तौ विरहरूपप्रयो- जकस्य च अधुनेत्यनेनोपादानम् । अस्य एतत्कालार्थकतया पतत्पदेन तत्सन्निधिव्यतिरेकाभिधानाद्विरहाधिकरणकालस्यैव प्रतीतेः । तस्यैव द्वितीयो यथा- य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः । क्षते क्षारमिवासां जातं तस्यैव दर्शनम् ॥ एकस्मिन्कौशल्यादर्शने क्रमेण सुखदुःखहेतुत्वयोवृत्तिः । अनुमानं व्याप्यवलायापकधीधर्मिनिष्ठा या ॥ ३५ ।। हेतुना पक्षे साध्यज्ञानमनुमितिः । यथा यत्पाथोजविनिद्रणप्रकरणे निर्निद्रयत्यंशुमान् दृष्टिं पूर्णयतिस्म यजलरुहामक्ष्णां सहस्रं हरिः। साजात्यं सरसीरुहामपि दृशामप्यस्ति तद्वास्तवं यन्मूलाद्रियतेतमां कवितृभिः पद्मोपमा चक्षुषः ॥ अत्र नेत्रं पद्मत्वजातिमत् पद्मासाधारणकार्यवत्त्वादिति कल्पितव्या. प्तिमूलकमनुमानम् । साभिप्रायविशेषणविन्यासे परिकरः प्रोक्तः ॥ स्पष्टार्थः। यथा- हेरम्बदन्तमुशलोल्लिखितकभित्ति वक्षो विशाखविशिखवणलाञ्छितं में। रोमाञ्चकञ्चुकिर्तमद्भुतवीरलाभा- त्सत्यं ब्रवीमि परिरन्धुमिवेच्छति त्वाम् ॥ अत्र विशेषणद्वयगम्यवक्षाप्रकर्षेण परशुरामोत्कर्षाभिप्रायः । साक्षाद्यथा-- अम्भोधे रिकेलीरसमिव चुलुकैरुच्चुलुम्पन्स्यपो ये येषामुत्क्षेपहेतु: शिखरिषु लकुचोदुम्बरप्राय एषः । ब्रह्मस्तम्भ निवासटुमामिव रंभसाद्विप्रकर्तुं क्षमा ये तेषां कोटयोऽप्यसङ्ख्याः सुनममरपतेर्वानराणां नमन्ति । - अलङ्कारमुक्तावल्याम्-- । कचित्तु विशेष्यार्थकपदस्य साभिप्रायत्वं परिकराङ्कुरः । यथा- फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः साक्षात्काहमेष क ते गुणाः ॥ अत्र फणीन्द्रादिपदानि मुखादिवाहुल्याभिप्रायाणीति वदन्ति । व्याजोक्तिर्विशदीभवदर्थस्थापनुतिषितः ।। ३६ ।। प्रकाशमानस्य रहस्यवस्तुनः कथाञ्चिदावरणं यत्राच्यते सा ब्याजोक्तिः। यथा- त्वय्यर्द्धासनभाजि किन्नरगणोद्गीतेर्भवद्विक्रमै रन्तःसम्भृतमत्सरोऽपि भगवानाकारगुप्तौ कृती। उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चबन्धोल्लस- द्वाप्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥ इह दशरथविक्रमश्रवणजन्यानन्दाभिनयप्रसक्तप्रकाशस्य तद्विष यमत्सरस्य प्रकारान्तरस्रवदश्रुभिरेव गृहनं कृतम् । केचित्तु- युक्तिः परातिसन्धानं क्रियया मर्मगुप्तये ॥ क्रियया रहस्यसंवरणं युक्तिरलङ्कारः। यथा- दम्पत्योर्निशि जल्पताहशुकेनाकार्गतं यद्वच. स्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपचारं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे पीडा विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ।। व्याजोक्तौ वचसैव गोपनमिह तु क्रिययैवेति भेद इत्याहुः । पृष्टमपृष्टं प्रोक्तं यद्वयङ्ग्यं वापि वाच्यं वा ॥ फलतीतरव्यपोहं परिसङ्ख्या सा तु सङ्ख्याता॥३७॥ इतरव्यावृत्तितात्पर्यकवचनं परिसङ्खथा। वचनं च प्रश्नपूर्वकं त. दपूर्वकं च । व्यवच्छेदमपि व्यङ्ग्यं वाच्यं चेति चत्वारो भेदाः। प्रश्न पूर्वककथने व्यङ्ग्यव्यवच्छेदे यथा- महाभारते, शिलावृत्तिरुवाच । - .

परिसख्या-कारमालालङ्कारी। के देशाः के जनपदा के श्रमाः के च पर्वताः। प्रकृष्टाः पुण्यतः काश्च ज्ञायते चेत्तदुच्यताम् ॥ देशा इत्यादिप्रश्नः। सिद्ध उवाच- ते देशास्ते जनपदास्ते श्रमास्ते च पर्वताः । येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा ॥ इति । इह तीर्थोत्तराणां हेतुत्वम् । व्यवच्छेद्यं शब्दानुपात्तम् । तत्रैव वाच्ये व्यवच्छेदे यथा'मम- निर्बन्धः क विधेयः सुकृतस्यैवार्जने न वित्तस्य । किं नाम रक्षणायं यत्नेन यशो न तु शरीरम् ॥ इह व्यवच्छेद्यानामपि शब्द उपात्तः। अप्रश्नपूर्वके कथने व्यङ्गये व्यवच्छेद यथा मम- विकृतिः पूर्व तन्त्रे मिथ्याभावोक्तिरोपनिषदेषु । त्वयि शासति नृप ! वसुधां नवीनतर्केषु जातिसाङ्कर्म्यम् ॥ श्लेषेण सौर्यादिरूपयागादीनाम् उत्पातादीनां चाभेदाध्यवसायेन इतरत्र व्यावृत्तिः। देशादीनां चाभेदाध्यवसायेन इतरत्र व्यावृत्तिः । देशादीनां च व्यवच्छेद्यानामनुपादानम् । तत्रैव- व्यवच्छेदे वाच्ये यथा व्यधाधुधि न कोशेषु यो दीनारातिरक्षणम्(१)। शक्ति च धर्मचर्यासु श्रद्दधे नाङ्गनाश्रये ॥ इहापि श्लेषो मूलम। तदभावे यथा- तीर्थ गङ्गा तदितरदपां निर्मलं सङ्घमात्रं देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य. तां यो नित्यं स्मरति स वुधो बोधशून्यस्ततोऽन्यः । कारणमाला प्रोक्ता पूर्व पूर्वे यथोत्तरं हेतौ ।। पूर्वकार्यतापन्नित्योचरं प्रति कारणत्वमित्यनया रीत्या हेतवो यत्र वयन्त साकारणमाला। - - Homen PAIdea Patanimarnaga (१) दीनारातिरक्षणम् दीनानामरातीना रिप्रणा रक्षणम् । दीनाराणां निष्काणाम् अतिरक्षणम् ।

अलङ्कारमुक्तावल्याम्- -- यथा मम-- पुण्यं साधुसमागमस्य जनकं साधायला सङ्गमा- तात्पर्यप्रतिपत्तिरोपनिषदी सा चेतसः शुद्धये । वस्तूनां च ततो विवेचनमतो वैराग्यमस्मान्मन:- स्थैर्य तेन तमोलयो विजयते तस्मान्मुदामद्वयम् ।। अन्योन्यं वस्तूनां परस्परात्कर्षहेतुत्वे ।। ३८ ॥ स्पष्टोऽर्थः। यथा- रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् । अविलंबितक्रमममहो महतामितरेतरोपकृतिमचरितम् ॥ उत्तरमात्रात्मश्नोन्नयने स्यादुत्तरं नाम ।। उत्तरश्रवणेन यत्र प्रश्नः कल्प्यते तदुत्तरम् । यथा- अन्येषु पथिक ! पृच्छ व्याधकुटुम्बेषु पृषदजिनम् । अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति ॥ एतद्वाक्येन पृषञ्चाणि तव किं सन्तीति पथिकवाक्यं कल्प्यते । प्रश्ने लोकाविदितोत्तरस्य तच्चासकृत्पक्तिौ ॥ ३९ ॥ किंचिद्विषयप्रश्ने सति तदुत्तरत्वेन अप्रसिद्धमेव यदुत्तरं कथ्यते तदप्युत्तरोत्तरम् । एकमात्रोत्तरे चमत्काराभावात्प्रश्नोत्तराणां बाहुल्य एवायमलङ्कारः। यथा मम- समधिकमधुरं किं साधुकाव्यं न दुग्धं किमतिपृथु गभीरं धीरचित्तं न सिन्धुः। किमिह धनमनन्तं कापि विद्या न रुक्म किमु निधनमकीर्ति व देहावसानम् । अत्र काव्यमाधुर्यादेः सहृदयमात्रवेद्यतया लोकाविदितमेवोत्तरम् । प्रतिभातिशयाज्ज्ञातो यद्याकारङ्गितादर्थः ॥ विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ॥ ४० ॥ आकारादिनिताद्वा सूक्ष्ममर्थ विज्ञाय तद्रीत्यैव यदन्यस्मै तत्प्रका- शनं तत्सूक्ष्मम्। - सारासङ्गति-समाध्यलङ्काराः। - यथा- लोलभूलतया विपक्षदिगुपन्यासे विधूतं शिर-. स्तद्वत्तान्तनिरीक्षणे कृतचमत्कारो (१)विलक्षः स्थितः। कोपस्ताम्रकपोलभित्तिनिक दृष्ट्या नतः पादयो- रुत्सृष्टो गुरुसन्निधावपि विधिर्वाभ्यां न कालोचितः ॥ सारस्तु पूर्वपूर्वादुत्कार्षण्युत्तरोत्तरे प्रोक्त । पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षकथनं सारः । यथा- गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः पिता ॥ तत्पुत्राश्च महाकुला(२)न विदिताः कस्यात्र तेषामपि प्रज्ञाशिल्पविवेकधैर्यविनयाचारैरहं चोत्तमः ॥ हेतुव्याधिकरणं चेत्कार्यं स्यात्सा स्वसङ्गतिः प्रोक्ता ॥ ४१ ॥ कार्यकारणयोरेकदेशत्वं यत्र परित्यज्य कथ्यते साऽसङ्गतिः । यथा सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा: सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ बाल्यादि नायिकायामप्रागल्भ्यादिकं नायक इति भिन्नदेशत्वम् । भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये ।। कारणान्तरसम्पत्या यत्र कार्यसौर्य स समाधिः । यथा- आगतानगणितप्रतियातान् वल्लभानभिसिसारयिपूणाम् । प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ माघ० स०१० श्लो०२०) इह नायकावज्ञानजन्यपश्चात्तापरूपाभिसारकारणे सत्यपि मदेन तत्प्रतिबन्धकनिरासादभिसारकपकार्यसिद्धिः। केचित्तु- "इष्टार्थादधिकार्थप्राप्तिः प्रहर्षणम्" (१) विलक्षः लज्जितः । (२) कम्य न विदिता इत्यन्वयः। - अलङ्कारमुक्तावल्याम्- - यथा- उश्चित्य प्रथममधः स्थितं मृगाक्षी पुष्पौधं श्रितविटपं ग्रहीतुकामा । आरूढं पदमदधादशोकयष्टा-- वामूलं पुनरपि तेन पुष्पिताभूत् ॥ उपरिगतकुसुमग्रहणेच्छयाऽशोकवृक्षारोहणे चरणस्पर्शरूपदोहद- वशादनेकपुष्पप्राप्तिरित्याहुः । अन्योन्यसङ्गमाहौँ सम्बध्येते समं तत्स्यात् ॥ ४२ ॥ अनुरूपसम्बन्धवर्णनं समालङ्कारः । आनुरूप्यं च वेधा सत्त्वा. सत्त्वभेदात्। आद्यं यथा- भवान्धर्मो धर्मप्रवणमतिरेष प्रतिदिन भवान्ध्येयो ध्याता पुनरयमनावर्जितमनाः। भवान् शास्ता शिष्यः पुनरयमतन्द्रः किमपरं भवान्सेव्यः सर्वैरुपधिभिरयं सेवक इति ।। इह रामसुग्रीवयोः सतोरनुरूपसम्बन्धः । द्वितीयो यथा मम- अर्हसङ्गमविधासु विधातुश्चातुरी कुतुकमातनुते नः । यत्कृतं तिमिरमप्युपजीव्यं कौशिकं यदुपजीवकमक्षि ॥ अनान्धकारोलूकनेत्रयोरसतोः। द्वयं यथा- पश्यानुरूपमिन्दिन्दिरेण चूतस्य शेखरो मुखरः । अपि च पिचुमन्दमौलौ कपिकुलमाकुलं मिलति ॥ सम्बन्धातुपपत्चाविष्टार्थानाप्स्यनिष्टसम्माप्तौ । जन्यजनकोभयगुणक्रियाविरोधे च विषमः स्यात् ॥ ४३ ॥ यत्र द्वयोः सम्बन्धोऽननुरूपतया प्रतिपाद्यते स तावत्प्रथमो वि. षमालङ्कार। यथा- धारः प्रलयेषु ये भगवतो वेदस्य विधेश्वरा- स्तेषामन्वयसम्भवस्य भवतः स्नातस्य वेदवतैः - - om विषमालङ्कारः। ४९ - जेतु तलसानोऽपि तपसा दीप्तस्य राज्ञः सतो निन्द्या दुश्चरिता च नाभिजननी जाता कथं दुर्मतिः ॥ अत्र रावणस्य दुर्मतिसम्बन्धोऽननुरूपतयोक्तः । यत्रेष्टानवाप्तिरनि- ष्टलाभश्च स द्वितीयः। यथा- पुरस्तस्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्षारिकर्माप लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स ताहपरिणतो गता येन व्यक्तिं पुनरवयवः सैव तरुणी ।। अत्र नायिकाप्रसादानवाप्तिस्तत्प्रतिपक्षनायिकाभिव्यक्तिरूपानिष्ट- लाभश्चा -- केवलेष्टानवाप्तौ यथा- तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः स्मः । किं कुर्मः सोऽपि सखे ! स्थितो मुखं मुद्रयित्वैव ।। अत्र प्रकाशालाममात्रम् । केलानिष्टप्राप्तौ यथा- आस्तां वरमवकेशी (१)मा दोहदमस्य रचय पूगतरोः। एतस्मात्फलितादपि केवलमुद्वेगमवगच्छ ॥ अत्र फलरूपेष्टप्राप्तावपि श्लेषवशादुद्वेगरूपानिष्टप्राप्तिः । कार्यगुण- क्रिययोः कारणगुणक्रियाविरुद्धत्वे तृतीयः। यथा- आश्चर्यमस्य ककुभामवाधिं यदापदाजानुगाद्भुजयुगादुदितः प्रतापः । व्यापत्सदाशयविसारितसप्ततन्तुजन्मा चतुर्दश जगन्ति यशःपटश्च ॥ ( नै० स० ११ श्लो० १०८) भुजप्रतापयोः सप्ततन्तुयशसोश्च न्यूनाधिकपरिमाणवर्णनात्तयो: विरोधः । आजानुगत्वेन भुजस्य सप्ततन्तुपदश्लषमूलकाभेदाध्यवसा- नेन यज्ञस्य न्यूनपरिमाणबोधात् । दिगन्तचतुर्दशजगत्प्राप्त्या च प्रता- पयशसोमहत्परिमाणप्रतीतेः। द्वितीयं यथा-- आनन्दयति ब्रह्मेत्याम्नायसहस्रसम्प्रदायोऽस्ति । (१) "वन्ध्योऽफलोऽव केशी च" इत्यमरः । -- maanwure ----- अलङ्कारमुक्तावल्याम्- Commerce- तज्जन्यस्तु विवर्तः स्वच्छन्दं दन्दहीति कुतः ।। इहानन्द नतापक्रिययोः। केचित्त- इध्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् । यथा- रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनी गज उजहार ॥ आधारस्याधेयादाधेयस्यापि वाधारात् ॥ यद्वयते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ ४४ ॥ आधेयापेक्षयाधारस्य आधारापेक्षयाधेयस्य वा महत्तया वर्णन. मधिकम् । आधं यथा- कनकाचलजित्वरस्तनीनां तरुणीनामपि यत्र सन्निवेशः । मनसः परमाणुतां वदन्तः कथमद्यापि न तार्किकास्त्रपन्ते ॥ इह युक्तिपूर्वकं मनसो महत्त्वकल्पनं गम्यते । द्वितीयं यथा--- दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत. टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः द्राक्पर्याप्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ इह ब्रह्माण्डोदरापेक्षयोक्तशब्दस्य महरवं वर्णितम् । केचित्तु- अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता। मणिमालोमिका तेऽद्य करे जपवटीयते ॥ अङ्गुलीयकस्याल्पपरिमाणेऽपि तदपेक्षया करस्य सूक्ष्मत्वं वर्णित. मित्यल्पाख्यमलङ्कारान्तरमिति वदन्ति ।

प्रत्पनीकमीलितालङ्कारौ। - आत्मापकारजनकमत्यपकारासमर्थेन । तत्सम्बन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ ४५ ॥ विपक्षविजयशक्तिरहितेन यत्र तत्सबन्धिनोऽपकारः क्रियते तत्प्र. त्यनीकम् । सम्बन्धश्च द्विधा-साक्षात्परम्परा चेति । तत्र प्रथमं यथा मुम- गिरीन्द्राणां स्थानान्विशददृषदत्यन्तविषमा- न्म्रदिम्नः सीमानो झटिति समुपारोदुमनसः । तदीयप्राणेशै रचितनिजभेदानुशयतो ध्रुवं सन्ताप्यन्ते त्वदरिदयितास्तिग्मरुचिना ॥ अत्र स्त्रीत्वं साक्षात्सम्बन्धः । विपक्षभूपानामपकारे कर्तव्ये तद्वधू- नामपकारोऽत्र वर्णितः। द्वितीयं यथा ममैव- कामेन भालनयनोपरि वैरभाजा प्रालेयजलदुहितृप्रतिमानशीला । त्वं नीयसे कुसुमगात्रि! शरव्यभावं कल्पान्तवह्निगततैष्ण्यभृतामिषूणाम् ॥ इहेश्वरे विजेये परम्पराजातसम्बन्धिन्या नायिकाया विजय उक्तः। शिवस्य पार्वत्या स्त्रीत्वं तस्याश्च नायिकायां सादृश्यं सम्बन्धः। सहजानिमित्तजधर्मात्सदृशान्येन वस्तुना वस्तु | अपिधीयते यदेतन्मीलितमाहुविशपज्ञाः ॥ ४६ ॥ धर्म्यन्तरवृत्तिधर्मसजातीयेन धर्मेण पदार्थतिरोधानं मीलितम् । धर्मश्च द्विविधः-स्वाभाविक आगन्तुकश्च । तत्राद्यं यथा मम-- नित्यं चन्दनवारिभिर्मणिभुवो रथ्याः समभ्युक्षिताः प्रोद्यद्वन्धनमालिकाभिरभितः प्रोत्तसितास्तोरणाः। अश्रान्तं स्फटिकांशुदम्भहसितस्वर्लोकभासो गृहाः कश्चिन्माङ्गलिकः कृतोऽप्यतिशयो यातीह नाध्यक्षताम् ।। इह नगर्या सहजैरुक्तधमैरुत्सवादेस्तल्लिङ्गकावगमाभावः । द्वितीयं यथा मम- कोपकषायितमीक्षणमुदीक्षमाणेन पक्षमलाक्षि! तप । माणिक्यकर्णभूषणसङ्क्रान्तारुणिमेति निरणायि ॥ - - अलङ्कारमुक्तावल्यामू- अत्रागन्तुकेन माणिक्यलौहित्येन तिरस्कृतलौहित्यस्य कोपजन्यः त्वज्ञानाभावः। केचित्तु- हेतोः कुतोऽपि वैशिष्ट्य स्फूर्तिरुन्मीलितं मतम् ।। मीलितरीत्या वस्त्वनवगमे प्रसक्त हेत्वन्तरेण तन्निर्णय उन्मीलि. तालङ्कारः। यथा मत्स्यपुराणे- कोकिलश्चूतशिखरे मञ्जरिणापञ्जरः । गुञ्जितैयक्ततां याति कुलीनश्चेष्टितैरिव ॥ इह कोकिलस्यानवगमे प्रसक्ते कूजितैस्तीनश्चयः । प्रथम विशेषण चविशेष्यमग्रे भवत्यसकृव । विरहप्रतियोगी वा तद्वानेकावलिः सोक्ता ॥ ४७ ।। पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वं विशेषणत्वं वा यत्र सा एका. चली । यत्र च पूर्व किंचिदभावप्रतियोगित्वेनोक्तस्य वस्तुनः किञ्चिद. भावाधिकरणत्वमुच्यते सा एकावली। विशेष्यत्वं यथा- आकारसहशप्रज्ञः प्रज्ञया सदृशागमः। आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥ (रघु०स०१श्लो०१५) अत्र दिलपिस्यैव विशेष्यत्वेऽपि सादृश्यादिविशेषणीभूतस्य प्रज्ञा देः प्रथमवाक्ये विशेष्यकोटिप्रवेशसत्त्वात्। विशेषणत्वं यथा- चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्ता मदो दयितसङ्गतिरेनम् ॥ (मा० का० स०१० श्लो०३३) इह चारुतादेः पूर्वोक्तस्य उत्तरोक्ते यौवनादौ विशेषणत्वम् ॥ द्वितीया यथा- न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । नासौ धर्मो यत्र वै नास्ति सत्य न तत्सत्यं यच्छलेनानुविद्धम् ॥ अभावकोटिनिविष्टानां वृद्धादीनां वृद्धत्वाद्यभावाधिकरणत्वं व. र्णितम्। - स्मृति-भ्रान्तिमत्प्रतीपालङ्काराः। - सदृशज्ञानोबोधितसंस्कारभवस्मृतिः स्मरणम् । अदृष्टादिकृतस्मरणवारणाय-सदृशज्ञानेति। यथा- अवगणितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ इह लवदर्शनोबुद्धसंस्कारवशात्सुमंत्रस्य बालावस्थापनश्री. रामस्मरणम् । स्मृत्युदबुद्धसंस्कारजन्यस्मरणं- यथा- सन्त्येवास्मिन्जगति बहवः पक्षिणो दिव्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु ।। यैरध्यक्षरथ निजसखं तोयदं स्मारयद्भिः स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ एकसम्बन्धिदर्शनमपरसम्बन्धिस्मारकमिति चातकदर्शनान्मेध. स्मरणम् । ततः सादृश्येन भगवतः स्मरणम् । तदभाववति मतिस्तत्मकारिका भ्रान्तिमान् भवति ॥ ४८ ॥ यो धर्मों यत्र नास्ति तद्धर्मेण तस्य ज्ञानं भ्रमः । यथा ममाभिरामराघवे-- पूर्वानेहसि नीललोहितपदोपस्थानपर्वण्यय चक्षुर्गोचरतां मुनेरनुभवन् राजन्यसर्गच्छिदः ॥ दोःसाहस्रनिबन्धनाहितभुवा माहिष्मतीवल्लभ- ज्ञानेनाविलयांबभूव(१)नितरां वृत्तिं तदीयां हृदः ॥ अत्र बाणासुरे जामदग्न्यस्य कार्तवीर्यभ्रमः । न च तस्य सर्वक्षत. या कथमेवमिति वाच्यम् । "मुनीनां च मतिभ्रम" इत्युक्त प्रणिधान- विरहदशायां भ्रमसम्भवात् । उपमानानर्थक्यं प्रतीपमस्योपमेयत्वम् ।। उपमेयेनैव उपमानकार्यनिर्वाह इत्युपमानवैयर्थ्यम् , उपमानस्योप- मेयत्वं च यत्र कथ्यते तत्प्रतीपम् । आधं यथा- मुखं यदि किमिन्दुना यदि चलाञ्चले लोचने -- - (१) आविलयांबभूव कलुषीवभूव ।

अलङ्कारमुक्तावल्याम्- किमुत्पलकदम्बकैयदि तरङ्गभङ्गी भ्रुवोः ।। किमात्मभवधन्वना यदि सुसंयताः कुन्तलाः किमम्बुधरडम्बरैयदि तनूरियं किं श्रिया ॥ द्वितीय द्विधा-उपमितिक्रियानिष्पत्त्यनिष्पत्तिभ्याम् । तत्राद्यं यथा- गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः शय्योत्थाय यदखिलमहः प्रीणयन्ति द्विरेफान् ॥ एकाग्रं यहधति भगवत्युष्णभानौ च भक्तिं तत्प्रापुस्ते सुतनुवदनौपम्यमम्भोरुहाणि ॥ द्वितीयं यथा- अनेन रम्भोरु ! भवन्मुखेन तुषारभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ यथा वा- आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं शङ्के सुन्दरि ! शर्वरीपरिवृढस्तेनैष दोषाकरः॥ आदायेन्दुमृगादपीह निहितं पश्यामि सारं दृशोः त्वद्वत सति वा विधौ धृतिमयं दध्यादनन्धः कुतः॥ (नै० स० २२ श्लो०१४७) चन्द्रमृगनेत्रयोः सारग्रहणाभिधानात्तयोः सादृश्यनिमित्तधर्मविर- हवताबोधादुपमेयत्वमपि व्यङ्ग्यम् । यथा वा- अतिदीर्घजीविदोषाधासेन यशोऽपहारितं हन्त । कैःच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ इह व्यासस्य जन्मान्तरापत्तौ तस्य गुणाढ्याभेदारोपविषायित्वा- भ्युपगमाहुणाव्यसादृश्यं व्यङ्ग्यम् । न चारोप्यस्योपमानतया गुणान्य. निष्ठाभेदप्रतियोगित्वेन व्यासस्याभिमतत्वे तदभावे गुणाव्यनिष्ठसा दृश्यप्रतियोगित्वमेव व्यज्यत इति वाच्यम् । तथा सति तस्य जीवन प्रयुक्तप्रतिष्ठाव्यतिरेकाभिधानानुपपत्तेः। स्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम् ॥ ४९ ॥ एकजातीयगुणवस्तुसम्बलनेन वस्तुनः पृथगुणग्रहणं सामान्यम् ।

सामान्य-विशेषालङ्कारौ। यथा मात्स्ये- ब -- - mIA स्ववर्णसदृशैः पुष्पैः संछन्ना नलिनीवने । कान्ता काचिच्चिरात्प्राप्ता कान्तेनान्विध्य यत्नतः (१)॥ इदं भेदग्रहाभिधानविशिष्टम् । तद्रहितं यथा-- भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् । नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्ब मणिवेदिकायाम् ॥ (नै० स०६ श्लो०७४) यथा वा- प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् । न शक्ष्यतो लक्षयितुं विमिश्रं दसौ सहस्त्रैरपि वत्सराणाम् ॥ (नै० स०१० श्लो०६३) इह सजातीयसम्बलनेन दस्त्रयोः परस्परविशिष्टानवबोध उक्तः। यथावा- अम्बां प्रणम्योपनता नताङ्गी नलेन भैमी पथि योगमाप । स भ्रान्तिभैमीषु न तां व्यक्ति सा तं च नादृश्यतया ददर्श ॥ ( नै० स०६ श्लो०४८) अत्र नायिकान्तरविशेष्यकागेपप्रकारीभूना भैम्यैव विशिष्य स्व. विषयकनिर्णयाभावप्रयोजिकति विशेषः । केचित्तु- "सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेषस्फूर्ती विशेषः। यथा वाराणसीवासवतां जनानां साधारणे शङ्करलाञ्छनेऽपि । पार्थप्रहारत्रणकर्कशापंप्राचीनमीशं प्रकटीकरोति ॥” इत्याहुः । स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ ५० ॥ प्रसिद्धमाधारं विनाप्याधेयस्य स्थितिकथनमेको विशेषः । - (१) स्वस्य वर्गो गौर : तस्य सदृशैः सुवर्णमयपुष्पैः नायिकाया नलिनीमध्येऽपरिचयः नलि- नीवने हि देहस्य पलाशाच्छन्नतया मुखदर्शनेन परिचीयेत सुवर्णपद्मपुष्पै!रस्य कमलमनोहरस्य का- न्तामुखस्य समाननायिकागुणवस्तुसंवलिततया ऐकस प्यातिरोधानादित्याशयः ।

अलङ्कारमुक्तावल्याम्- - - - यथा- आनन्दहेतुमपि देवमपास्य नन्दं सक्तासि किं कथय वैरिणि मौर्यपुत्रे ॥ दानाम्बुराजिरिव गन्धगजस्य नाशे तत्रैव किं न चपले प्रलयं गतासि। इह नन्दनाशेऽपि तदाश्रिताया लक्ष्म्या अवस्थानम् | उत्तरार्द्ध एकस्याप्यर्थस्य युगपदनेकदशावस्थानवर्णनं द्वितीयः । यथा- पश्यामि तामित इतः पुरतश्च पश्चा- दन्तबहिः परित एव विवर्तमानाम् ॥ उबुद्धमुग्धकनकाजनिभं वहन्ती- मासक्तितियंगपवर्जितदृष्टि वक्रम् ॥ अत्रैकस्या मालत्या बहुषु देशेषु वृत्तिः। यत्र चैकार्थसिद्ध्यनुकूल. बलादेव दुर्लभार्थान्तरसिद्धिः स तृतीयः। यथा मम- यदि ब्रह्मानन्दो विशदबिसतन्तौ कुशलता- विशेषेणावेक्ष्यो दृशि विशदताभागपि भृशम् ॥ ततः किं वा कौतूहलमिदमहल्याप्रियतमो वहत्यध्यक्षं यच्छुकजनयिता जैमिनिरपि ।। इह ब्रह्मानन्दसरस्वतीदर्शने ईश्वर(व्यास)गौतमजैमिनिप्रत्यक्षसिद्धिः। परकीयगुणतिरोहितगुणस्य भानं तद्गुणः प्रोक्तः । वस्त्वन्तरगुणसाक्षात्कारप्रतिबद्धज्ञानस्य वस्तुनो भानं तहुणा लङ्कारः। यथा- मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे- वापीष्वन्तीनमहानीलशिलासु। शस्त्रीश्गमैरंशुभिराशुद्रुतमम्भ- श्छायामच्छामृच्छति नीलीसलिलस्य ॥ (माघ०स०४ श्लो४४) अत्र श्वैत्यस्य स्वगुणमपहाय नीलगुणयोगः । केचिनु- "पुनः खगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता ।। तहणरीत्या गुणान्तरग्रहे जाते पुनर्वस्त्वन्तरसन्निधानात्स्वगुण. प्राप्तिः पूर्वरूपालङ्कारः।

अतद्गुण-व्याघातालङ्कारी। ५७ यथा- विभिन्नवर्णा गरुडाग्रजेन मर्यस्य रथ्याः परितः स्फुरत्या। रत्नः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ (मा०स०४ श्लो१४) इह सूर्यहयानामरुणकान्त्या लौहित्यसम्बन्धे हरिन्मणिकान्त्या पुनहरितसम्बन्धः। पूर्वावस्थानुत्तिश्च विकृते मति वस्तुनि ।। पूर्वावस्थाविपर्ययेऽपि तादवस्थ्यकथनमपि पूर्वरूपम् । यथा- द्वारं खड्गिभिगवृतं बहिरपि प्रस्विन्नगण्डैर्गजै- रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन् कर्ण ! चिरन्तनप्रणयिनी शून्यऽपि सैंव स्थितिः ॥ प्राक् सिद्धस्वगुणोत्कपीऽनुगुणः परसन्निधेः ।। नीलोत्पलानि दधते कटाक्षरतिनीलताम् ॥ स्वगुणसजातीयगुणवद्वस्तुयोगे तस्य गुणोत्कर्षोऽनुगुणालङ्का इत्याहुः। अन्यगुणासम्बन्धे प्रकृतस्यातद्गुणः प्रोक्तः॥५१॥ विजातीयगुणवद्वस्त्वन्तरयोगे सत्यपि तहुणानन्वयोऽतद्गुणालङ्कार।। यथा मम- शवालैः शवलीकृतापि गुणिताप्यालीमृणालीगणैः श्रीखण्डस्य निषद्वररुपनिषद्वारापि सत्यापिता । राजन्ती यवसारजस्य रजसो राजीभिराजानिक राजीवाक्ष! निरागसं जहति मा नाङ्गस्य ते सागरे । इह वर्णान्तरयोगसत्त्वेऽपि रागापरित्यागः । कार्यान्तरहेतुतयान्येनाभिमताविरुद्धकार्य चेत् । क्रियते परेण तस्मायाघातोऽयं समाख्यात: ।। ५२ ॥ अन्यहेतुत्वेन पराभिमतस्य कारणस्य तद्विरुद्धार्थहेतुत्वम् येन यत्र प्रतिपाद्यते स व्याघातः।

अलङ्कारमुक्तावल्याम्- यथा-- अचिन्त्याने ज्योतिः किमपि महतामन्धकरिपो- र्यदक्ष्णोऽभूत्तेजस्तदकृत कथामप्यमदनाम् । मुनेनॆत्रादत्रेर्यदजनि पुनज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ।। इह मदननाशहेतुत्वेनाभिमतास्यैव नेत्रजन्यतेजसो मदनजीवनहेतु. त्वं वर्णितम्। यथा- त्रैलोक्यत्राणशौण्डः सरसिजवसतेयः प्रसूतो भुजाभ्यां स क्षत्रं नाम वर्णः कुलिशकठिनयोयर्य दोष्णोविलीनः । ज्वालाजिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जगन्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ।। इह उत्पादकत्वाभिमतानाशोऽभिहितः । यथाच- गौर्याः पुरो वहति यः शिरसैव गङ्गा विश्रम्भभूमिरयमप्यभिकः परस्याः । स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ तस्मिन्ममापि सखि ! पाक्षिकलाभशङ्का ॥ अत्र शिवाननुरागहेतुत्वेन सख्योपन्यस्तमेव तारल्यं नायिकया तदनुरागहेतुत्वेन कल्पितम् । केचित्तु- लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् ।। यथा- अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक ! पञ्जरबन्धस्ते मधुराणां गिरा फलम् ॥ अत्र दोषप्रभूतमप्यवक्तृत्वं स्वच्छन्दचारानुकूलत्वाद्गुणत्वेन कल्पितम्। अपि वत गुरुगर्व मास्म कस्तूरि ! याया निखिलपरिमलानां मौलिना सौरभेण ।। गिरिगहनगुहायां लीनमत्यन्तीनं स्वजनकममुनैव प्राणहीनं करोषि ॥

संसृष्टि-सङ्करालङ्कारौ। ५९ इह कस्तूर्या सौरभगुण एव दोषत्वेन वर्णितः । दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु सङ्कीर्त्यते हरिः॥ अत्र विपत्तिरूपदोषस्यापि भगवत्सङ्कीर्तनानुकूलत्वादिच्छा । एवं दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषः तिरस्कारो नामा. लङ्कारः। यथा श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा- मदभ्राम्यभृङ्गावलिमधुरसङ्गीतसुभगाः। निमग्नानां यासु द्रविणरसचर्यासु कुधियां सपर्यासोकय हरिचरणयोरस्तमयते ।। इह भगवत्सेवाप्रतिकूलतया सम्पदि विद्वेष इति । संमृष्टिस्तु परस्परमनपेक्षस्थितिरनेकस्य । एवं शुद्धालङ्कारा निरूपिताः । यत्र तु परस्परनिरपेक्षा अनेकालङ्का. रा एकत्र वर्तन्ते सा संसृष्टिः । यथा मम- एकांशेन भवत्करम्बिततया ब्रह्माद्वयोल्लासिनी पीयूषद्ववाहिनीमिव मुदा धारां समुद्भावयन् । अन्येन त्वदलाभसंबलनया हालाहलेन च्छला- द्यालैरप्यलिकानलैर्विसदृशं वृत्त्यन्तरं निनुते ॥ अत्रोपमानिनवादयः परस्परमनपेक्ष्य वर्तन्ते । एकमपेक्ष्यान्यस्य प्रादुर्भाव तु सङ्करः प्रोक्तः ॥ ५३ ॥ अलङ्कारस्यालङ्कारान्तरसापेक्षावे सङ्करः । यथा मत्स्यपुराणे- शुकैर्यत्र विहन्यन्ते पद्मरागविनिर्मिताः । भित्तयो दाडिमभ्रान्त्या प्रतिदिग्धितमौक्तिकाः ।। इहोदात्तमपेक्ष्य भ्रान्तिमदुन्मेषः। साधकबाधकमानाभावाच्चैकस्य निर्णयाभावे ॥ यत्रान्यतरालङ्कारनिर्णयविरहस्तत्र सन्देहरूपः सङ्करः । - ६० अलङ्कारमुक्तावल्याम्- 4- यथा मम-- न प्राचीन परम्परापरिचयो बाल्ये न वा सौहृदं नैकस्यां भुवि सम्भवां न च समं वासो न सेवालयः। इत्यादीनि न दूषणानि गणयस्यम्भोज! भृङ्गस्य य- तनैसर्गिकमव्यपेक्षमुदयत्यौदार्यमत्युज्ज्वलम् ।। अत्र प्रस्तुतकमलप्रस्तावेन अप्रस्तुतसत्पुरुषप्रतीतेः समासोक्तिः, किं वा अप्रस्तुतवृत्तान्तन प्रस्तुतसत्पुरुषप्रतीतेरप्रस्तुतप्रशंसेति स. न्देहः। एकपदाच्छब्दार्थालगुन्यारवगतावन्यः ।। ५४ ॥ एकपद एव शब्दालङ्कारार्थालङ्कारयोरवगम्यमानत्वे एकाश्रयानु. प्रवेशलक्षणः लङ्करः । यथा- कैलासाद्रितटीषु धूर्जटिजटालङ्कारचन्द्राकुर- ज्योत्स्नाकन्दलिताभिरिन्दु दृषदामद्भिनदीमातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासखाः शाखिनः ॥ इहानुप्रासोदात्तयोः । रसभावतदाभासे रसवत्प्रेय ऊर्जस्वी। भावशमे तु समाहितमुदयेऽन्योऽप्यस्य शबलत्वे ॥ ५५ ॥ प्रसङ्गेन रसालङ्कारा अप्युदाहियन्ते । तत्र रसस्याङ्गत्वेन रसवद- लङ्कारः । भावस्य तथात्वे प्रेयोऽलङ्कारः। रसाभासभावाभासयोस्त. थात्वे ऊर्जस्विसंज्ञः । भावशान्तस्तथात्वे समाहितसंज्ञः । भावोदय. भावशबलत्वयोः अपिशब्दोपात्तस्य च भावसन्धेस्तथात्वे विशेषसंज्ञा. नभिधानात्तत्तत्संज्ञमेवालङ्कारत्रयम् । तत्राद्यो यथा- तीक्ष्णैस्तिग्मरुचः करैः परिचितां सेक्तुं कपोलस्थली नीराणां निकर करेण हरता तुच्छ कृते वारिधौं। मैनाकं समुदीक्ष्य पङ्कयति तं शालूकशङ्काजुषो हरम्बस्य पुनातु दन्तशिखरव्यापारलीलारसः॥ अत्राभुतस्थ लम्बोदरविषयकभावाङ्गत्वम् ।

अलङ्कारमुक्तावल्याम्- दशरथसुतावेतौ दृष्ट्वा यथोच्छ्रसितं मनः शिथिलयति में प्रत्यग्ज्योतिः प्रबोधसुखासिकाम् ।। अत्र जनकस्य हषादयो रामविषयकभावस्य । सप्तमो यथा- यथेन्दावानन्दं भजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिमम कलहकामः पुनरयम् । झगत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु- धृर्तप्रेमा बाहुर्विकटविकरालवणमुखः( उत्त अं०५ श्लो० २६) इह लवस्य हर्षक्रोधयोः सन्धिर्वारस्य । अष्टमो यथा मम- अप्यादेर्जगतां नवो लवणिमा सीदन्ति गात्राणि किं रज्यन्ते न हि मानसानि विषये प्रत्यनिरुद्धात्मनाम् । धिग्वृत्ति मनसः स्पृहातरलितां लभ्येत वायं मया प्रेयानित्यचलाधिराजदुहितुश्चिन्ता चिरं पातु वः ॥ अत्र जगदम्बिकायाः शिवदर्शने विस्मयभ्रममतिनिर्वेदोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावस्याङ्गमिति सर्व शिवम् ॥ हृद्यावधानतरलामवदातवृत्तां मुक्तावली गुगगणैग्रंथितामनध्यैः । कण्ठेनिधाय विबुधाबहुधावहन्तु शश्वत्सभाजनसभाजनभाजनत्वम् ॥ श्रीमन्महीमहिततत्तदसीमधीमन्मूर्धन्यताकलनसङ्गतधन्यताकः ॥ लक्ष्मीधरो यमुदसूत मुदं प्रसूतां विश्वेश्वरस्य कृतिरस्य चिरस्य लोके । इति श्रीलक्ष्मीधरपण्डितसृनुश्रीविश्वेश्वरपण्डितविरचिता अलङ्कारमुक्तावली समाप्ता ॥

अलङ्कारमुक्तावलीस्थोदाहरणश्लोकानामकासादक्रमेण अनुक्रमणिका। अ १० पं० ३५ २ २६ W अकम्पनो अखिलेषु अचिन्त्यो अज्ञो वा यदि अतिदीर्घ अतिपूजित अतिस्वच्छ अथेदं रक्षोभिः अद्भुतमिदं अनन्तरल अनायि देशः अनेन रम्भोरु अनेन साध अन्धस्य अन्यत्कुतूह अन्यासु ताव अन्येषु " " ३९ १२ २८ २ पृ० पृ० अम्भोधेर्ना १९ २७ अयमयमी ५८ २३ / अयमेक २ अयं मदोदये २५ २१ अरालरुचिर ५४ २२ अर्हमङ्गम ३ २८ २८ अलौकिक २९ अवगणित ३५ २४ अवदातयति १८ अवनिरमर १० अस्ताचल २४ ३० अस्य क्षोणि अहल्या ३८ २ आकारसदृश ९ आगतानगणिता आत्मा ते २६ आदाय ४६ १४ आदेष्टा २ आनन्दयति २२ २६ | आनन्दहेतु आपन्नता आपन्नवत्सल ३१ १६ अपूर्णश्च ६ आमोदकुरबक १३ १३ आम्नायसम्प्रदाये ५५ १४ आसंसृति ५२ १७ २४ अपत्ये यत् ४९ ३० अपयातमितो ७ अपि बत अप्यादेर्ज अभ्यासप्रति अमितगुणोऽपि ર. ७ अमुष्य धीरस्य अम्बां प्रणम्यो 2 अनुक्रमणिका पृ० पं० आस्तां घर आस्यं शीत आश्चर्य पृ० प० ४९ १७ कुले वा शौर्य ५४ १४/ कुवलयदल ४९ २२ के देशा कैरवाकर ६१ १७ कैलासाद्रि ९ WM Roc इयमिय इयं गेहे इह वनेषु ६ / कोऽप्येष ५२ २६ १३ २८ १४ उचित्य उदेति पूर्व उद्दिश्या उन्मीलदल उन्मीलन्ति डल्लास्यता ४ २६ / कोकिलश्चूत कोपकषायित खट्वाङ्गं ४८ २ २७ १८ गजत्रातेति गणयन्ति ६ गतया निरन्तर गारुत्मत गिरीन्द्राणां गृहीतो यः ३७ १९ गुलुच्छौ ५९ १७ गोत्रे साक्षा २६ १३ | गोडं राष्ट्र ४२ १९ ६ ए एक: स एव एकांशेन एणाधाः ६ ४७ ९ गौर्याः पुरो च ইয়াবল ऐश्वर्यादन कल्पतरु कामेन लाभ १८ ६ १३ / चक्रे कि चतुरिम १५ चारुता २८ २१ चूडामण्डल ५१ १३ चूडारत्नैः ४२ १२ चेतोजन्मछ १५ १७ छिदुरेण १३ ३० ७ । जीवितशितरि ૨૨ ૨૨ २३ २५ ४२ २६ १७ २६ काश्मीरज किरति कलि किं विद्यु कीर्तिः प्रवर ज अनुक्रमणिका। ३ पृ० पं० झ पृ० पं० ९ ५८ २२ झणदक्कत दुर्वादानल देवीं वाच दोर्दण्डा द्रानिष्पेष २ द्वारे खड्गिभि त ફર २९ ध १० १९ २० धनुरागम धर्तारः धियात्मनस्ता १२ ૨ ४८ २९ २७ न न तेजस्तेजस्वी न प्राचीन ३४ २६ २ २० २२ १४ नसा सभा तच्छुत्वा तत्तद्यक्ति तत्याज धी वमभ्यधावत् तन्वति तमसि घने तमस्तोमः तं मनोभव तात्पर्यम तात्पर्य विषय तिरस्कृताम्भो तीर्थगङ्गा तीक्ष्णैस्तिग्म ते देशाः त्वदङ्गविषय त्वमिव कोऽपि त्वया दत्त त्वय्यर्धासन त्रैलोक्यत्राण त्रैविक्रमः " पृ० पं० २८ ३१ 59w ५१ २४ २७ १३ ६० २६ | नाराचैः ५ नित्यं चन्दन २५ निरन्तरत्वेन १९ । निर्बन्धः २. नेत्राणां १० नेयं निशा ९ न्यकारेण ३६ १५ / न्यकारो १९ ४१ २५ ५८ दत्तेन्द्रामय दम्पत्योर्नि दर्पण कौतुक दोऽयं दशमुखवध ३९ ३० पण्डितता ४४ २० पभिन्याः २३ २० पश्यानुरूप १७ २९ पश्यामि ता १६ २२ पश्यामि घजु ३३ २८ २४ २ ४८ २२ अनुक्रमणिका पृ० प १९ पाञ्चालीकृष्ण पातुं न प्रथम पात्रं कराल पारावारतुषार पीयूषद्युति पुण्यं साधुसमा २ मन्मथोऽर्जुनेति मिथ्याभूतं मुकुलेषु १५ ५ २३ १३ २३ मुक्तं मुक्ता ४६ २ मुक्ताभिः २ १२ पुरं निःशेष २५ १७ मुखं यदि ३२ ३१ मुनेः ६ ९ २७ २७ २२ :कलश मृगाक्षीवक्षो मृणालमन्दा मृदुतामृदित १३ य पुरोजन्मा पुरस्तस्या पुरुहूत पूर्वानेहसि पृथिव्यां कि प्रणमति प्रत्युप्तस्येव प्रवर्तयन् प्रवेक्ष्यतः प्रागुच्चैः शिरसं प्रीते विधातरि फणीन्द्रस्ते WWW य एव में v29 ३ " ३२ २४ ३४ २ यत्पाथोज ९ यत्पीयूष यथेन्दावा यदि ते सन्ति ३२ यदि ब्रह्मा ३ द्विद्वानपि यद्विस्मयः ६ १० यन्मौलिरत्न ३४ २३ य चेष्टन्त ५ २१ यस्मिन्नेक ६ यामि विधा २ यां चन्द्रकै बहुशः प्रत्न बाले! तह बिम्बाधरं खुधमतिरिव ब्रह्माण्डान्तर ब्राह्मणाति ३ २५ १२ येन स्वा भ यो वहति ૨૩ ૨૨ भवति न भवान्धर्मों भावविरोधी ४६ १ ४८ १२ रजनीमवाप्य २। रसोद्धरण अनुक्रमणिका। ५ पृ० रात्रिर्गमिष्य राजीभिः सह प० ६ श्रियो मेमा ४ ३१ श्रौतीभिः ४० २६ स ३० م م م ४६ २२ २० ३० २८ ४५ ૨૨ ६ लक्ष्मीविलासा लोलभूलतया व वज्रादपि वधूवक्षोज वागर्थाविव वाटायसरसा वाराणसीवास विकृतिः पूर्वे विधिद्वपद्वंली विधिरव विना सीता विभिन्नवर्णा विरोधो विश्रान्तः वीरव्रतदीक्षा व्यधाटुधि व्यपवर्तत व्योम्नीव वारि श शुकैर्यत्र शेषालैः कृत ४० सकलकलाः २ मन्त्येवास्मिन् सन्दर्भेषु ३५ २९ समधिक २ सम्पन्नशक्तिः १ २० सम्भाव्यमिष्ट ३१ १६ संवृत्तोऽयं ५५ १३ सरसं तरसा सविता विधवति सायाला ३७ २५ सिद्धोत्र सुकुमारतया ૨ सुरक्ष्मा ६१ २१ स्त्रीणां हि सा २२ १० स्वयमादाय ४५ १९ स्ववर्णसदृशैः ३ २२ स्वव्यापार १० २४ स्वेषूत्कृत्य हिमलव ५९ १७ हेरम्बदन्त १७ २१ क्षोणी पर्यटिता ૨ ૨૨ ३६ २२ ३९ ૨ १२ २६ ३३ २१ इति। Pagemaameer marATAR

हमारे यहां हरतरहकी छपाई व जिल्दसाजीका कार्य भी होता है।
हर तरह के संस्कृत प्रन्थ तथा भाषा पुस्तकों के मिलने का पता-
-
जयकृष्णदास-हरिदास गुप्तः,
चौखम्बासंस्कृतसीरीज आफिस,
विद्याविलास प्रेस, गोपालमन्दिर लेन,
बनारस सिटी।

.. काशीसंस्कृतसीरीज-पुस्तकमाला । इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रका- श्यमाणानां ग्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्रा- शतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि । मूल्यम्। १ नलपाका नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीका- सहितम् । (वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाष्योपस्काराभ्यां समन्वितम् (वैशेषिक१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् । ( वैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः ( भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः। (व्याकरण १) रु. ८-० ६ कारिकावली मुक्ता दिन राम शब्दखण्डसहिता तथा “गुण निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि. कृतव्याख्यासहिता। (न्यायं १) रु०६-० ७ पञ्चीकरणम् । वार्तिकाभरणालङ्कतवार्तिकटीकया-तत्त्वचन्द्रि कासमवेतविवरणेन च समन्वितम् । ( वेदान्तं २)रु००-८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। १ अनङ्गरङ्ग:महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु० ०. -१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणाविरचितः। (ज्यो०१) रु०२-० ११ पारस्करगृह्यसूत्रम् । कात्यायनसूत्रीयश्राद्ध-शौच-स्नान-भोजन- कल्पसहितम् । ( कर्मकाण्डम् १) रु० ०--८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि- म्बार्कमतभाध्यचतुष्टयसहितम् । (वैदिकं २) रु० १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्यया च संवलितम् । ( वेदान्तं ३) रु.१-४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासविक । सञ्जी. वनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं२) प्पणा। - २ काशीसंस्कृतसीरीज़ । १५ श्रुतबोधश्छन्दोग्रन्थः । आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः। (छंदः १) रु००-६ १६ कारिकावली। मुक्तावली-न्यायचन्द्रिकाटीकाद्वयसहिता सटि. (न्याय २) रु०१ १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर गदाधर० तृतीयकाण्डे ह. रिहर-जयराम-प्रणीतभाष्येण समलङ्कृतम् । हरिहरभाष्यस. हितस्नानत्रिकण्डिकासूत्र-गदाधरभाष्यसहितश्राद्धनवक- ण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिवि-शौच-भोजन- कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रः परिष्कृतं-टिप्प- ण्यादिभिः सहितं च। ( कर्मकाण्डं २)२०३-० १८ संक्षेपशारीरकम्-मधुसूदनीटीकासहितम् संपूर्ण (वेदान्तं४) रु०८ १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिनि- मितिः। (व्याकरणं २) रु० ०-८ २० कातीयष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) महामहोपाध्याय- पं० श्रीनित्यानन्द पन्तपर्वतीयविरचितः । (कर्मकाण्ड) रु०१-० २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य: विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया ( संस्कृतटी. का-संस्कृतपद्यानुवाद-भाषाटीका-भाषापद्यानुवाद-भाषा बिम्ब) पञ्चमुखीनाम्न्या टीकया-शक्तिमहिम्नस्तोत्रण च समन्वितम्। (स्तोत्रवि०१) रु. १-० २२ बौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः सटीकन्यायबिन्दुः-भाषा- टीकासहितः ( बौद्धन्याय वि०१) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) २०४-० २४ न्यायवार्तिकतात्पर्यटीका श्रीवाचस्पतिमिश्रविरचिता। सम्पूर्ण (न्यायविभाग ३) रु०६-० २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकतया सारविवेचिन्या व्याख्यया सहितः ( मीमांसा१)रु०२-० २६ पौरोहित्यकर्मसार: ( टिप्पणीसमलंकृतः ) प्रथमो भागः श्रीरमा- कान्तशर्मणा संगृहीतः। ( कर्मकाण्डवि० ३) रु००-४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः। अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त-पर्वतीय. कृतशेखरदीपकाख्येनटिप्पणेन समुज्ज्वलितः। (व्या०४)रु०४-८ २८ रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् पञ्चसर्गा स्मकम् । म० म० श्रीमल्लिनाथसूरिकृतसञ्जीविनीटीकया पं० श्रीकनकलालठक्कुरकृताऽर्थप्रकाशिकाटीकया च सम. लङ्कृतम् (काव्यवि०३) रु००-१२ काशीसंस्कृतसीरीज़। २९ कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयत्नरासादितथा पूर्णया जयमङ्गलरचितया टीकया समेतम् । बहुखण्डितपाठान् परिप र्य,सूत्राांश्च संयोज्य, परिष्कृत्य संशोधितम्। (काम०२)रु०८-० ३० न्यायकुसुमाञ्जलीः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचर्यविरचि- तः । महामहो पाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो पाध्याय वर्द्धमनोपाध्यायप्रणितप्रकाशसाहतः (न्यायं४) रु० ६-७ ३१ परिभाषेन्दुशेखरः। म०म० श्रीनागेशभट्टरचितः। म०म० भैरव- मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व- प्रकाशिकया टीकया च सहितः। (व्याकरण ४) रु०३-० ३२ अर्थसंग्रहः । पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि. तः श्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्ष- विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनाभाष्योपबृहणम् । परमर्षि भारद्वाजोहयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्ब. लितवृहत्भूमिकासहितम् । (न्यायं) हर ६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया। श्रीमदुत्व- टाचार्यविरचितमन्त्रभाष्येण श्रीमन्महीधराचार्यविरचितवेद- दीपेन च सहिता। ( भाग १-२-३-४ )(वैदिकं ३) रु०८-० ३५ शुक्लयजुर्वेदकाण्वसंहिता। श्रीसायणाचार्यविरचितभाष्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता। (वैदिकं ४) २०६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदप्पयदीक्षितविरचितः। श्रीमत्परमहंस- परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितया कृष्णालङ्काराख्य- या ब्याख्यया समलंकृतः । (वेदान्तं ४) रु०६-० ३७ काशिका | श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि. द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-० ३८ प्राकृतप्रकाशः । भामहकृतः । श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि- तः। टिप्पण्या च संयोजितः । (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमद्विद्यारण्यस्वामिविरचितः । भाषानुवा- दसमेतः। (वेदान्तं ५) २०२-० ४० श्रीनारदीयसंहिता । ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिष- (ज्योतिष २) रु००-६ ४१ मेदिनीकोश:-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरचितभाष्यसहितम् । (भाग-२) (मीमांसा ३) २०१०-० ग्रन्थः।

7891 केन्द्रीय उच्च तिब्बती शिक्षा संस्थान सारनाथ, वाराणसी ४३ न्यादर्शनम् ( स्नातकोत्तर अध्यापन एवं शोध ) भाष्यसाह ग्रथालय तन्यायसूत्रवृत्त्यः .) रु०३-० ४४ दानमयूखः। विद्वद्वरश्रीनीलकण्ठभट्टविरचितः। (धमशास्त्र रु०१-८ ४५ कालमाधवः। विद्रद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्रं२) रु. १-८ ४६ भास्वती । श्रीमच्छता. विरचिता । श्रीमातृप्रसाद ( देवनभू. षण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भाषाटोकाभ्यां सहिता । (ज्योतिषं ३) रु०२-० ४७ फक्किकाप्रकाशः। उपाध्यायोपाह्ववैयाकरणकेसरीविरुदाङ्कितमैथि- लेन्द्रदत्तशर्मविरचितः पं० सीतारामशर्मकतटिप्पण्या विभूषितः। (व्याकरणं ७) रु०१-४ ४८ मिताक्षरा ! श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाब्याख्या-श्रीम- त्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि- कृता|शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च। (वेदा०६)रु०१-४ ४९ काव्यप्रकाशः । श्रीमम्मटाचार्यविरचितः । पं० श्रीहरिशङ्करशर्मणा मेथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः (काव्य-४) रु०४ --- ५० अधिकरणकौमुदी । श्रीदेवनाथठक्कुरहता (मीमां०४) रु. १-० ५१ रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् महामहो पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटी कयोपेतम् पं० श्रीकन- कलालक्कुरेण विरांचतया भावबोधिनी टिप्पण्या सम- लङ्कतम् संपूर्णम् । रु०१-४ ५२ काथबोधः साजनीकृत टीकोपेतः दत्तात्रेय सम्प्रदायाऽनुगतः। रु०-८ ५३ रसचन्द्रिका । पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता (काव्य०६/रु०१-० १४ अलङ्कारमुक्तावली । पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय. निर्मिता- ( काव्य वि०७) रु०-१२-० जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् चौखम्बा संस्कृत सीरीज आफीस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक बनारस सिटी। । mama

Alanakarmuktawalii

Author
Parvatiya Sri Visvesvara Pandeya
Title
Kashi Sanskrit Series(haridas Sanskrit Granthamala)
File name
Alanakarmuktawalii
Text
OCR done
Citation
1927
Published
2006/05/07
Publisher
Jai Krishna Das Hari Das Gupta Chowkhamba Sanskrit Series Office Vidya Vilas Press,north Of Gopal Mandir Benaras City India.
Language
Sanskrit
Pages
83
Library
Sarnath Varanasi
Classification
Literature
DLI number
486717
Barcode
1990010094436.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
Rbvl3BjuIAZ
Download PDF

Alanakarmuktawalii