Library

Shriimadand-ubhaashhyama~ Faskiikyulasa~ 13

Shriishriivallabhaachaara~yaa · 2005-11-28

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184319
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

wwwmaat- Powe- BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDI IS OF THIS BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCIC OF R. ''. H. CRIPTI, A. A., C. I. E. AND G. THIBAUT, PH. D. N) 127. H श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजीमहाराजविरचितभाष्य. प्रकाशाख्यव्याख्याममतम् । श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविदुषा रत्नगोपालभट्टेन संशोधितम् । ANU BHASHYA, Ox BRAHMASUTRA BY SRf VALLABH ACHARYA, With the Commentary called Bhâshya Prakasa, By Goswami Śrî Purushottamjee Mahârâj. EDITED BY RATNA GOPAL BHATTA. Fusciculus XIII BENARES: by the Proprietor's Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, 1, Chowkhamba Sanskrit Book Depôt. ated at the Vidya Vilas Press, BENARES. " 1906.

No text on this page.

OUP-68-11-1-68-2,000.
OSMANIA UNIVERSITY LIBRARY
Call No. S181.48
Accession Pro. Bis 1734
VITS
Author बलभाचार्य
Title LOL SHOTTT: Yasciculus: 13.
1906.
This book should be returned on or before the date
last marked below.

No text on this page.

३ अध्याये ३ पादः। विशिष्टं स्वरूपमनुभावयिता प्रभुर्भवति सद्गुहायां तल्लीलाश्रय- भूतमक्षरस्वरूपं वैकुण्ठलोकवदाविर्भावयतीति नोक्तशङ्कालेशोऽपि । यत्र पुरुषोत्तमस्य चाक्षुषत्वं तत्र ततोऽधाकक्षस्य तस्य तथात्वे का शङ्का नाम । एतदुपपादितं पूर्व, विद्वन्मण्डने च । ननु ज्ञानि- ज्ञानविषयभक्तगुहाविर्भूताक्षरयोर्भेदोऽस्ति, न वा। नायः ।माना- भावादेकत्वेनैव सर्वत्रोक्तः। न द्वितीयः । निरवयवस्य क्वचि- ल्लोकरूपत्वातद्रूपत्वाभ्यामेकत्वानुपत्तेरिति चेन्मेवम् । लोकरूपत्त- स्य पश्चाद्भावित्वे हीयमनुपपत्तिर्न त्वेवं, किन्त्वक्षरस्वरूपमेव तथेति श्रुतिराह, अम्भस्यपारे भुवनस्य मध्य इत्युपक्रम्य तदेव भूतं त- दु भव्यमा इदं तदक्षरे परमे व्योमन् । एतदने च, यमन्तः समुद्रे लोकवदिति लोकयुक्तम् । तथाच शानमार्गीयान् प्रति ताहशतदनु- भावनेच्छाया अभावान परमध्योमारमकाक्षरखरूपस्याविर्भावः । स चाविर्भावो दर्शनविषयत्वयोग्यतारूपो, न तु ज्ञानविषयत्वमात्रम् । अतो भगवतस्तथेच्छाभावेन केवलाक्षरज्ञानिनो वरणात्मकसहकारि- शून्यत्वान्न परप्राप्तिरिति शानिभक्तस्यापि वरणात्मकसहकारिसापे. क्षमेव ज्ञानं परप्राप्तिजनकमिति सिद्धान्तो निर्विचिकित्स इत्यर्थः । ननु श्रुतावक्षरस्याहश्यत्वादिगुणकत्वस्योक्तत्वात् समन्वयाध्याये त- था नितित्वाञ्च नेदं साधीय इति शङ्कायामाहुः । * यत्रेत्यादि * तथाच वरणेन पुरुषोत्तमखरूपस्य चाक्षुषत्वं वरणश्रुतौ, भक्त्या त्व- नन्ययेति गीतास्मृतौ चोक्तम् । अक्षरस्यापि कश्चिद्धारं इति श्रुतावु- क्तम् । तच्च पुरुषोत्तमादधःकक्षमतः साधनविशेषसम्पत्ती कैमु- तिकन्यायावतारात सर्वाश्यतायामपि दृश्यत्वे विरोधाभावान स- न्देह इत्यर्थः । अत्राक्षरस्वरूपविचारेण चोदयति । * नन्वित्यादि * तथाच शब्दापेक्षयार्थस्य बलिष्ठत्वादर्थस्वरूपविचारे पूर्वोक्तमनुप- पन्नमित्यर्थः । तत्र समादधते । * मैवमित्यादि * । * नितिमि- त्यन्तेन *। * इयमिति * उक्तविकल्पमपा। * न त्वेवमिति * न तुरूपभेदः । शेषमुत्तानार्थम् । तथाच स्वरूपस्योक्तरूपत्वाद् भग १९५४ समकाये अणुभाष्ये । कवयो वयन्ति यदक्षरे परमे प्रजा इसादिरूपा । स्मृतिरपि, “पर. स्तस्मात्तु भावोऽन्योऽव्यक्तो व्यक्ताद सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः पर- मां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम"इसादि तु गीतासु । श्रीभागवतेऽपि, “दर्शयामास लोकं स्वं गोपानां तमसः परम् । ससं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुगापाये समाहिता" इति दशमे। द्वितीये च, तस्मै स्वलोकं भगवान् समाहितः सन्दर्शयामासेत्युपक्रम्य काल- त्रिगुणमायासम्बन्धराहिसमुक्त्वा भगवत्पार्षदानुक्त्वा विमानप्रम- दा उक्त्वा श्रीरुक्ता ।तथाच श्रुतिस्मृसेकवाक्यतायां ताइक्स्वरू- पमेवाक्षरामिति निर्णयो भवति । एवं सति सच्चिदानन्दत्वदेश- कालापरिच्छेदस्वयम्प्रकाशत्वगुणातीतत्वादिधर्मवत्त्वेनैव ज्ञानिना- मक्षरविज्ञानम् । भक्तानामेव पुरुषोत्तमाविष्ठानत्वेन तथेति ज्ञेयम् । मल्लानामशनिरिति श्लोकोक्तरीया पुरुषोत्तमस्येव । प्रभुणा ये यथा विचारिताः मन्ति ते तथा भवन्तीति तद्विचार एव सर्वेषा- मधिकाररूप इति कृतप्रयत्नापेक्षस्वित्यत्र निर्णीतम् ॥ ५४ ॥ आस्मन्नर्थे कैमुतिकन्यायकथनार्थ निदर्शनत्वेनोत्तरं पठति ॥ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥ यागे तत्तदृत्तिनियतकर्तव्यान्यन्वाधानादीन्यङ्गानि । त- पावबद्धाः सर्व एवविजो यजमानेन । अवबन्धनं नामाध्वर्यु लां वदिच्छयाधिकारभेदेन तस्य तस्य तथा भानान काऽप्यनुपपत्तिरि- त्यर्थः ॥ ५४॥ अलावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ सूत्रमवतार- पन्ति । * अस्मिन्नित्यादि * । व्याकुर्वन्ति । * याग इत्यादि *। * ३ अध्याये ३ पादः। तणे होतारं त्वां वृण उद्गातारं त्वां वृण इसादिरूपं वरणमेवा. न्यथा सर्वकर्मविदुषां तत्कृतिपटूनामेकत्राधिकारो, नान्यत्रेति मिय- मो न स्यात् । तस्य तस्य तथा वरणे तु यजमानेच्छैव हेतुः । ते च तदा न सर्वासु शाखासु विहितान्यङ्गानि कर्तुं सर्वेऽपि शक्ताः, किन्तु यजमानवरणनियमिता एव तथा । तत्र हेतुमाह । हि यतः कारणात् प्रतिवेदं नियमितान्यङ्गानि, हौत्रमचाऽऽध्वर्यवा- दि यजुषौद्गात्रं साम्नेति । तथाचालौकिके वैदिके कर्मणि जीवे. च्छापि नियामिका भवंति यत्र तत्र किमु वाच्यं प्रतिरोमकूपं सावकाशममितब्रह्माण्डस्थितिमतस्तदीशितुरिच्छेव नियामिका त- तत्साधनफलसम्पत्ताविति ॥५५॥ मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥ ननु पूर्व कर्मज्ञाननिष्ठानामपि पुंसामग्रे भक्तिमार्गीयत्वं यत्र भवति तत्र तथैव भगवदरणमिति हि सिद्धान्तः । ऋत्विजस्त्वेक- स्मिन याग एकत्र वृतस्य नापरत्रापि तथेति विरुद्धो दृष्टान्तः इ. त्यरुच्या निदर्शनान्तरमाह । यथैक एव कश्चिन्मन्धो बहुषु कर्मसु इत्यादिरूपवरणमिति*तत्तत्कर्मकर्तृतानियमनरूपं सम्भजन, विभाग इति यावत् । शेषं स्फुटम् । तथाचाक्षरस्य तत्सर्वरूपत्वेऽपि शामिषु तथानाविर्भावे भक्तहदये च तथाविर्भाके उक्तरीत्या कैमुतिकन्याया- द्भगवतस्तेषां तेषां ताहक्ताहक्फलदिस्सैव नियामिकेत्यर्थः ॥ ५५ ॥ मन्त्रादिवद्वाविरोधः । सूत्रमवतारयन्ति । * नन्वित्यादि तथैव भगवद्वरणमिति । तसदनन्तरमेतं भक्तिमार्ग प्रवेशयिष्यामी- स्येवं विचारितत्वात्तत्तदनन्तरमेव भगवद्वरणम् । ऋग्विज इति - षष्ठी। * नापरत्रापि तथेति * नान्यकार्यों विनियोगः । सूत्रं व्याहु- वन्ति । * यथैक एवेत्यादि * उदाहरणं त्वाद्यस्य । देवस्य स्वा सवितुः प्रसव इत्यादिरनुषनमात्रः। द्वितीयस्य सूर्योपलाने मन्दे.

१५६ सप्रकाशे अणुभाष्ये । सम्बध्यते कश्चिद् द्वयोः कश्चिदेकत्रैव तथैव विधानात् तथात्रा- पीयर्थः । आदिपदात् कर्मोच्यते । यत्र काम्येनैव निसकर्म- निर्वाहस्तत्र कामितार्थसाधकत्वे प्रसवायपरिहारेऽप्येकमेव तदु- पयुज्यते । यथाच सर्वतोमुखेऽनेकहोतृप्रवरेऽध्वर्युप्रवरे च गृ- ह्यमाणे, देवाः पितर इत्यादिना यजमानकर्तृकाऽनुमन्त्रणमेकमेव सर्वत्र सम्बद्धयते, तथैव विधेस्तथात्रापि तावद्विधं यदेकमेव वरणं तेन तत्तनिष्ठाऽनन्तरं भक्तिनिष्ठेति न दृष्टान्तविरोध इसर्थः। अथवा मित्युदाहृयैव मन्त्राणामुच्चारणान्मन्त्रादिरोङ्कारः । स यथा ब्रह्मात्मकत्वेनैक एव सर्वमन्त्रेषु सम्बद्धयते। तथा वरणमपीति त- येत्यर्थः। यद्यपीतरनिष्ठानन्तरभूतभक्तिनिष्ठावतोऽपि वरणं तथाभू- तमेकमेवेति नोक्तदोपस्तथाऽप्युत्कृष्टमार्गे वृतस्यनीचकक्षापादनम- नुचितमिति मत्वा पक्षान्तरमुक्तम् । वस्तुतस्तु साधनमर्यादया यत्र भक्तिदित्सिता तत्र तथेति नानुपपत्तिः काचित् ॥ ५६ ॥ हादिनिवारणे च गायत्रीमन्त्रः । तृतीयस्य तेजखीभूयासमिति । ए. वमन्यदपि द्रष्टव्यम् । कर्मोदाहरणं, ज्योतिष्टोमादि, जयन्तीव्रतादि च द्रष्टव्यम् । कर्मोदाहरणमन्यदप्याहुः । * यथाचेत्यादि * सर्वतो- मुखः कश्चिद्यागविशेषः । * तावद्विधमिति * ऋमिकतत्तत्प्रकार- कम् । मन्त्रादिपदं तद्गुणसंविज्ञानबहुव्रीहिणा व्याख्याय षष्ठीसमा- सपक्षण प्रकारान्तरमाहुः । * अथवेत्यादि * ननु पूर्वव्याख्याने को दोषो येन व्याख्यानान्तरमत्रोक्तामत्याकाङ्क्षायां तदुक्तमङ्गीकृत्य स- म्भावितं दोषमाहुः । * यद्यपीत्यादि *। * तथाभूतमिति * याह- शं केवलभक्तिमागीयस्य ताहशम् । * पक्षान्तरमिति * ॐकारनि- दर्शनपक्षः । तथाच ब्रह्मात्मकत्वेनोत्कृष्टस्याप्योङ्कारस्य तत्तन्मन्त्र- साङ्गत्वाय तत्तत्सम्बन्धो न दोषावहस्तथा वृतस्यापि तत्सम्बन्धो मर्यादामार्गरक्षार्थत्वान्न दोषावह इत्यर्थः । युक्त्या समाधाय सिद्धा- न्तेन समाधानमाहुः । * वस्तुत इत्यादि * तथाच भगवदिच्छावि.

३ अध्याये ३ पादः। ११५७ भूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥५॥ ननु मुखस्वरूपजिज्ञासायां यो वै भूमा तत् मुखमित्युक्तं भू- मस्वरूपजिज्ञासायां, यत्र नान्यत् पश्यतीसादिना तद्यनिरूपितं तत्सर्वात्मभावस्वरूपमिति यदुक्तं तन्नोपपद्यते । भूम्नो हि सुखरू- पतोच्यते । सर्वात्मभावे तु विरहभावे दुःसहदुःखानुभवः श्रूयते । तेन मोक्षसुखमेव यो वै भूमेयादिनोच्यते । यो वै भूमा तदमृत- मिति वाक्याच्च । अग्रे च, स वा एष एवं पश्यन्नित्याद्युक्त्वा तस्य सर्वेषु लोकेषु कामचारो भवतीति फलमुच्यते । तच्च मोक्षा- नन्तरमसम्भव्यतः स भावो, मोक्षो वात्रोच्यत इति संशयः । तत्र कामचारोक्तेर्मुक्तिपूर्वदशायां तन्माहात्म्यनिरूपणार्थवादमृतश- ब्दाच मुक्तिरेव भूमपदेनोच्यत इति पूर्वपक्षः । तत्र भूमशब्देन स चारादेवानुपपत्तिपरिहारो, निदर्शनं तु धादिनिग्रहायति सूत्रकारा- शय इत्यर्थः ॥ ५६ ॥ १८ ॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ प्रासङ्गिक वि- चार्य पुनः प्रकृतशेषमेव विचारयतीत्याशयेनाधिकरणमवतारयन्तः संशयं व्युत्पादयन्ति * नन्वित्यादि * । * तद्यदिति * भूमस्वरूप- म् । * श्रूयते इति * पुराणवाक्येभ्यः श्रूयते । * तेनेति * सुखस्य दुःखविलक्षणत्वेन । * यो वै भूमा तदमृतमिति वाक्याच्चंति इद- मपि तन्नोपपद्यत इत्यत्र मोक्षाङ्गीकारे च हेत्वन्तरम् । तत्रानन्तरं दुःखसद्भावेन सुखस्यामृतत्वाभावाद्, मोक्षे चानन्तरं दुःखाभावेन सुखस्याऽमृतत्वादिति। एवं मोक्षकोटिय॒त्पादिता । अग्रे चेत्यादिना असम्भवीत्यन्तेन सर्वात्माभावकोटिव्युत्पादनम् । अत उभयबीज- सद्भावादेवं संशय इत्यर्थः । पूर्वपक्षमाहुः । * तत्रेत्यादि * काम- चारोक्तरितिषष्ठी । सिद्धान्तमाहुः । * तत्र भूमेत्यादि * सम्प्रसादा- ऽधिकरणे भूमशब्देन परमात्मनो निर्णीतत्वाल्लिङ्गभूयस्त्वाधिकरणे सर्वात्मभावस्यापि निर्णीतत्वादत्र भूमलक्षणवाक्ये भूमपदेन स १९५८ सप्रकाशे अणुभाष्ये। भाव एवोच्यत इति सिद्धान्तस्तत्र दुःखदर्शनानुपपत्त्या सर्वाधि- कत्वलक्षणं भूमत्वमनुपपन्नमिति शङ्का परिहरति । भूम्नः सर्वा- त्मभावस्य ज्यायस्त्वं सर्वस्मान्मन्तव्यम् । तत्रोक्तानुपपत्तिपरिहा- रा) दृष्टान्तमाह । क्रतुवदिति । दर्शपूर्णमासप्रकरणे तैत्तिरीयके प- व्यते परमेष्ठिनो वा एष यज्ञोऽग्र आसीत्तेन स परमां काष्ठामग- च्छदित्युपक्रम्य, य एवं विद्वान दर्शपूर्णमासौ यजते परमामेव काष्ठां गच्छतीति । यथा व्रतादिदुःखात्मकत्वेऽपि परमकाष्ठालक्षणफल- गमकत्वेन दर्शपूर्णमासयोः सर्वक्रतुभ्योऽधिकत्वं वक्तुमग्रआसी- दिति श्रूयते । तथा दुःखहेतुत्वेऽप्यनन्यलभ्यसाक्षात्पुरुषोत्तमान- न्दप्राप्तिहेतुत्वेन सुखरूपत्वमुच्यत इसन्येभ्यः सर्वेभ्यो ज्यायस्त्वं मन्तव्यमियर्थः । अत्रोपपत्तिमाह । तथाहि दर्शयति ।श्रुतिस्तु स एवाधस्तादियाद्युक्त्वाथाहङ्कारादेश इसायुक्त्वाऽथात्मादेश इ- साधुक्तवसग्रे चैतादृशस्यात्मन एव प्राणाशास्मरादिसर्वमिति भावः सर्वात्मभावसहित एव परमात्मोच्यते । यथा घटेन जलमा- हरेत्यादी घटादिपदेन छिद्रेतरत्वादिसहितो घटादिस्तद्वदिति सि- खान्त इत्यर्थः । एवं सिद्धान्तं सामान्यत उक्त्वा तं व्युत्पादयितुं सूत्रमवतारयन्ति । * तत्र दुःखेत्यादि * व्याकुर्वन्ति । * भूम्न इ- त्यादि * सर्वात्मभावस्येति । इदं षष्ठ्यर्थस्य विवरणम् । भूमसम्ब- धिनः सर्वात्मभावस्येत्यर्थः। अत्र लौकिकतन्निरासायैव कथनमिति बोध्यम् । * तत्रंति * ज्यायस्त्वप्रतिज्ञायाम् । * दर्शपूर्णमासप्रकर- ण इति * संहिताप्रथमाष्टकषष्ठप्रपाठकनवमानुवाके। * अग्र आ- सीदिति * परमष्ठिनो वा एष यशोऽन आसीत् । * उच्यत इति * भाविस्वरूपमादायोच्यते । तथाच परमकाष्ठाप्रापकत्वात्तथेत्यर्थः । ननु भाविस्वरूपमादायैवोच्यते, न विद्यमानं स्वरूपमादायेत्यत्र किं गमकमिस्याकाङ्क्षायामाहुः । * अत्रोपपत्तीत्यारभ्य, न वदोदित्यन्त- ३ अध्याये ३ पादः। ११५९ च दर्शयति । एतत्सर्वात्मभाववसेव सर्वमुपपद्यते, न मुक्तस्य । वृत्तिभेदाभावात् प्राणाद्यभावाच्च । जीवन्मुक्तिदशायां प्राचीना- नामेव सत्त्वादात्मनः प्राणा इत्यादि न वदेत् । यद्वा, ननु लोके ऽपि शृङ्गाररसभाववति पुंसि नायाँ च त्वदुक्तभावसम्बन्धिव्यभि- चारिभावाः श्रूयन्ते । सैव सर्वत्र, स एव सर्वत्रेति । एवं सति लौकिकसधर्मवत्वान्न त्वदुक्तभावस्यालौकिकबानादिभ्य आधिक्य वक्तुं शक्यमलौकिकविषयत्वाल्लौकिकत्वमपि न तथेति भवति संशयः । तत्र मनुजत्वरिपुत्वादिज्ञानानामिव कामादिभावेन स्नेह- भावस्यापि सम्भवान्नास्यालौकिकत्वमिति पूर्वः पक्षः । सिद्धा- न्तस्त्वस्य लौकिकेभ्यो ज्यायस्त्वं मन्तव्यम् । ननूक्तं लोकसांधार- ण्यं बाधकमिति शङ्कानिरासाय निदर्शनमाह । क्रतुवदिति । म् * । तथाच भूमपदेन यदि मोक्षावस्थामभिप्रेयात् तदेवं त्रिविधा वृत्तीनं वदेत् । प्राणादीनां नामान्तानां तत्र सम्बन्धं च न वदेत् । तदानीं तदुभयाभावादतस्तदन्यथानुपपत्त्या भूमलक्षणे सर्वात्म. भावभाविस्वरूपमेवोच्यत इति सर्वात्मभावसहित एव भूमा, न तु मोक्षावस्था । नापि जीवन्मुक्तावस्थेति युक्तम् । तां चेदभिप्रेयात् तदा आत्मनः प्राण इत्यादि न वदेत् । तस्यामवस्थायां प्रारब्धवशादेव पूर्वप्राणादीनां सत्तायाः सत्त्वात् । अतो द्विविधस्यापि मोक्षस्यात्रा- दातुमशक्यत्वात् सर्वात्मभावोऽत्र ग्राह्य इत्यर्थः । एतस्यार्थस्य पूर्वा- धिकरणस्थन सामान्यसूत्रार्थविचारेणापि सिद्धप्रायत्वमित्यरुच्या वर्णकान्तरेण सूत्रं व्याकुर्वन्ति * यवेत्यादि ** श्रूयन्त इति * सा. हित्यप्रन्थेषु भरतसूत्रादौ चोच्यन्ते । * अलौकिकज्ञानादिश्य इति * | लोकविलक्षणेभ्योऽक्षरक्षानमुक्तिजीवन्मुक्तिभ्यः । * न तथे- ति भवति संशय इति । * न वक्तुं शक्य इति लौकिकसजातीयध- मवत्त्वाल्लौकिकविषयत्वाभ्यां हेतुभ्यां भवति संशय इत्यर्थः । पूर्वप- क्षमाहुः । * तप्रेत्यादि * । * तत्रेति । * भगवति । सिद्धान्तं व- दन्तः सूत्रं व्याकुर्वन्ति । * सिद्धान्त इत्यादि । * प्रतिज्ञायां हेतुं १९६० सप्रका अणुभाष्ये । यथा दर्शादिषु दोहनाधिश्रयणातञ्चनवीयवघातादिपुरोडाशभक्ष- णादीनां लौकिकक्रियातुल्यत्वेन दर्शनेऽपि न लौकिकत्वम् । लौकिकप्रमाणामाप्तत्वादलौकिकतत्प्राप्तत्वात्तथोक्तप्रमाणरूपवरण- लभ्यत्वेन श्रुत्युक्तत्वान्न लौकिकत्वमस्य भावस्येति दिक् ॥ वस्तुतस्तु ग्रामसिंहस्य सिंहस्वरूपत्वेऽपि न तादूप्यं वक्तुं शक्यम् । तथा लौकिकपुंसि नायाँ वा सदाभासो रसशास्त्रे निरूप्यते । तदृष्टान्तेन भगवद्भाववद्भक्तरीतिभावनार्थ, न तु वक्तुं, नन्धित्यादिना बाधकमाशमय हष्टान्तं व्युत्पादयन्ति । * यथे- स्यादि । * उक्तप्रमाणरूपवरणलभ्यत्वेनात * । अलौकिकप्रमाण- रूपतल्लभ्यत्वेन । तथाच सर्वात्मभावो लौकिकसहशत्वेऽपि न लो- किकः । अलौकिकप्रमाणप्राप्तत्वात् । लौकिकप्रमाणाप्राप्तत्वाश्च । यागीयदोहनाधिश्रयणादिवत् । यन्नैवं तन्नैवम् । लौकिकतादिति हेतुसिद्ध्या न प्रतिक्षायां दोष इत्यर्थः । एतादृश्यश्च सादृश्यदर्शन जाः शङ्कग अविचारकस्यैवोद्यन्ति, न तु विचारकस्येत्याशयेनाहुः । * वस्तुत इत्यादि * तथाच विचारकस्तु लोकेऽपि तथा सदभावं पश्यन्नैवं शङ्कत इत्यर्थः । ननु यदि न सादृश्यन ताद्रूप्यं तदा ऋषि भिर्भरतादिभिरलौकिकभावधर्मसादृश्यं लौकिके रस कुतो निरूप्य ते अतस्तदर्शनाद्विचारकस्यापि शङ्कन तूदेत्येवेत्याकाङ्क्षायामृषीणां त था तनिरूपणस्य तात्पर्यमाहुः । * तथा लौकिकेत्यादि *। * भग घद्भाववद्भक्तरीतिभावनार्थमिति * भगवति विगांढभाववान् यो भ क्तस्तद्रीतिभावनार्थम् । ननु ऋषीणां तथैव तात्पर्यमित्यत्र किं गम कमत आहुः । * न त्वित्यादि * तदुक्तं कामसूत्रसमाप्ती वात्स्याय नेन । “तदेतद् ब्रह्मचर्येण परमेण समाधिना। विहितं लोकयात्रा न रागार्थोऽस्य संविधिः । रक्षन् धर्मार्थकामाँस्त्रीन् सम्पश्यन् लोक वर्तनीम् । अस्य शास्त्रस्य तत्वज्ञो भवत्येव जितेन्द्रिय" इति। तथा यदि लौकिके तात्पर्य स्याद् एतच्छास्त्रतत्त्वज्ञस्य जितेन्द्रियभवनरू फलं न वदेत् । एवं भरतोक्ने सङ्गीतशास्त्रेऽपि ज्ञातव्यम् । उपवेद ३ अध्याये ३ पादः। ऋषीणां लौकिके तात्पर्य भवितुमर्हति । अत्रोपपत्तिमाह । तथा- हीसादि । पूर्वोक्तभाववत आत्मनः प्राणादिकं सर्व दर्शयति श्रु- तिः । तस्य ह वा एतस्यैवं पश्यत इसादिना। इतः, पूर्वमपि सवा एष एवं पश्यन्नित्युपक्रम्यात्मरतिरात्मक्रीड आत्ममिथुन आत्मा. नन्दः स स्वराड् भवति सर्वेषु लोकेपु कामचारो भवतीति श्रु- तिश्च । न हि लोक एवं सम्भवयात्मपदानां भगवद्वाचकत्वादिति सर्वोत्तमविषयकमावस्यैव तथात्वं युक्तमिति चोपपत्तिर्हिशब्देन सूच्यते ॥ ५७ ॥ नाना शब्दादिभेदात् ॥ ५८॥ पूर्वाधिकरणैः सर्वात्मभावस्वरूपादिनिर्णयं कृतवान् । अथ त्वात् । अतः पूर्वोक्त एव निश्चयः । सूत्रशेषमवतारयन्ति । * अत्रे. त्यादि * उक्तस्यार्थस्य प्रकृतश्रुत्याभिप्रेतत्वे उपपत्तिमाहेत्यर्थः । उप- पत्त्यन्तरं बोधयितुं हिशब्दार्थमाहुः । * सर्वोत्तमेत्यादि * । * तथा- त्वमिति * सर्वसाधनज्यायस्त्वम् । अत्रान्ये, वैश्वानरविद्यामुदाहृत्य किमिहोभयथाऽप्युपासनं स्याद् व्यस्तस्य समस्तस्य चोत समस्तस्यैव वेति सन्देहे, व्यस्तस्यापि वि- हितत्वात् फलस्यापि कथनादुभयथेति प्राप्ते, समस्तस्यैव न्याय्यम्। आन्तमेकवाक्यत्वात् । यथा वैश्वानरं द्वादशकपालंनिर्वपेतू पुढे जात इत्यत्र । मूद्धा ते व्यपतिष्यन्मां नागमिष्य इत्याद्यनर्थस्य व्यस्तो- पासने दर्शितत्वाच्चेत्याहुः । तन्नास्माकं रोचते । पूर्वकाण्डे उदव- सानीयाख्ये कर्मणि अपवैसोमेनेजानाद्देवताश्च यशश्च क्रामन्तीत्या- दिना देवतायज्ञावरोधार्थ पूर्व पञ्चकपालं विधाय, ततो, गायत्रो या अग्निरित्यादिना तद्दोषदर्शनेन दूषयित्वाऽष्टाकपालमाग्नेयं पुरोडाशं पञ्चसंख्याके याज्यानुवाक्ये चोपसंहारे विहिते इति पूर्वविधानस्या- ऽनभिप्रेतत्वबुद्धेः शीघ्रमुदयेन न पूर्वप्रकारकरणानेदयस्तथात्रापि शङ्कगया एव पराहृत्यानुदयेन पूर्वपक्षानुदयादिति ॥ ५७ ॥ १९ ॥ नानाशब्दादिभेदात् ॥ सङ्गति बोधयन्तोऽधिकरणमवतारय- न्ति । * पूर्वेत्यादि * । प्रदानवदित्यादिभिः पूर्वाधिकरणैर्मुख्याधि- .

सप्रकाशे अणुभाष्ये । मत्स्यादिरूपाणां भगवदवतारत्वमविशिष्टमिति सर्वेषां समस्योपा- सना कार्यात पार्थक्येनेति विचारयति । अत्रोपास्याभेदेऽपि रूप- मेदादेकत्रोपासकस्यान्यत्रानुपामनलक्षणावज्ञासम्भवादस्या अप्य- सिद्धिसम्भवादपि समस्यैव सा कार्येति प्राप्ते सिद्धान्तमाह । सर्वेष्ववतारेषु नानवापासना कार्या । तत्र हेतुः, शब्दादिभेदादि- ति । तत्तत्स्वरूपवाचकशब्दानां मन्त्राणां चादिपदादाकारकर्मणां च भेदादिसर्थः । एतेनैव मिथोविरुद्धानामाकारकर्मणामेकत्र भावनस्याशक्यत्वमयुक्तत्वं चेति भावः सूचितः॥ ५८ ॥ कारिणामर्थे सर्वात्मभावस्वरूपस्य तदुत्कर्षस्य तत्फलस्य तदधि- कारिणां च निर्णयं कृतवान् । अथ तदनन्तरं पुराणोक्तानां मत्स्याधु. पासनानामपि नित्यानुमेयवेदमूलत्वादिदानीमपि केषाश्चिद् वामन- हयग्रीवाद्युपासकानां दर्शनात् तादृशानामर्थे उपासनान्तरनिर्णय- स्यावश्यकत्वात् । मत्स्यादिरूपाणां भगवदवतारत्वमविशिष्टम् । यथा सुतेजःप्रभृतीनां वैश्वानरावयवत्वमिति तेषां सर्वेषां समस्य भ- गवतैफीकृत्योपासना कार्या ? उत सुतेजःप्रभृतीनां व्यस्तोपासने दो- षश्रवणवदत्र दोषस्याश्रवणाद् व्यस्ततया कार्यति शङ्कगयां प्रसङ्गा- द्विचायतीत्यर्थः । पूर्वपक्षमाहुः । * अत्रेत्यादि * । * अस्या अप्य- सिद्धिसम्मवादिति * । रूपान्तरावारूपापराधकृतप्रतिवन्धेन अ- सम्भवात् । तथाचात्र दोषाश्रवणेऽप्युक्तरीत्या दोषसम्भवान्न का- येत्यर्थः । सिद्धान्तं बोधयितुं सूत्रं व्याकुर्वन्ति । * सर्वेष्वित्यादि * । नवज्ञादोषस्य कथं निवृत्तिरित्यत आहुः । * एतेनेत्यादि *। * ए- तेनेवोत *उपासनभेदस्थापनेनैव । * अयुक्तत्वमिति*विरुद्धत्वादयु- क्तत्वम् । तथाच शक्यस्य युक्तस्याकरणे ह्यपराधो, न त्वशक्यस्या- ऽयुक्तस्याकरणे । अतोऽनुपासनस्य तत्रापराधाप्रसञ्जकत्वेन प्रतिबन्धा- भावान्नासिद्धिरित्यर्थः।एतेन यत् पूर्व,नभदादितिसूत्रेऽधिकगुणोपसं. हारौचित्यमुक्तं तत्प्रकारोऽत्र दर्शितः । तत्तद्रपप्राधान्येन ब्रह्मोपास- कस्याधिका अपि गुणा अविरुद्धा एवोपसंहार्या, न त्वन्येऽपीति । ।

३ अध्यायः पादः। ११६३ विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥ पार्थक्येनोपासनानि कर्तव्यानीति स्थिते विचायते । कि- मग्निहोत्रदर्शपूर्णमासादिवदेषां समुच्चय उत फलविकल्प इति । --- तस्मात्तेषां व्यस्तोपासनमेव कर्त्तव्यमिति सिद्धम् ॥ अन्ये तु, अत्र यासु यासु विद्यासु श्रुतिनानात्वऽप्यर्थैक्याद्वे- चुक्यं, यथा मनोमयः प्राणशरीरः, कं ब्रह्म, सत्यकामः सत्यसंकल्प इत्यादौ। यथा च, प्राणो वा व संवर्गः, प्राणो वा व ज्येष्ठःश्रेष्ठः,प्राणो ह पिता प्राणो मातेत्यादौ च । तत्र श्रुतिनानात्वस्य गुणान्तरपरत्वा- दु, वेद्याभेदेन विद्युक्याच्च स्वपरशाखोक्तं गुणजातं विद्याकाा- र्थमुपसंहार्यमिति पूर्वपक्षे, शब्दादिभेदाद्विद्याभेदं सिद्धान्तयन्ति । पूर्वतन्त्रे शब्दान्तरादीनां कर्मभेदकत्वेन सिद्धत्वात् प्रकृते च, वेद, उपासीत, क्रतुं कुर्वीतत्यादिशब्दभेदात् । आदिपदेन यथासम्भवं गुणादीनामपि भेदस्य संग्रहाच्च। नच शब्दभेदेपि, यजति जुहोती. त्यादिवद् वेदोपासीतत्यादावर्थभेदाभावान्न भेद इति वाच्यम् । तथाऽप्येकस्मिन्नेव वेद्ये प्रतिफरणमितरेतरव्यावृत्तगुणोपदेशरूपा. नुबन्धभेदेन तस्यां तस्यां विद्यायां तादृक्तादृग्गुणविशिष्टस्येवोपा- स्यतया विद्याभेदोपपत्तेः । एवं स्थितेऽपि सर्ववेदान्तप्रत्ययेत्यादि द्रष्टव्यमिति चाहुः। तदसङ्गतम् । सर्ववेदान्तप्रत्ययसूत्रोक्तचोदनाधविशेषरूप- हेत्वभावादेवोक्तस्थलेषु विद्याभेदस्य सिद्धत्वेनैतत्सूत्रारम्भवैयर्थ्यप्र- सङ्गात् । नचोपसंहारनिवृत्त्यर्थत्वान्नानर्थक्यमित्यपि युक्तम् । ऐक्यहे- त्वभावादेव सिद्ध विद्याभेदे उपसंहारप्राप्तेरेवाभावात् । विद्यासूच- कनानापदविरोधाच्चेति ॥ ५८ ॥ २० ॥ विकल्पोऽविशिष्टफलत्वान् ॥ अधिकरणमवतारयन्ति । * पा- र्थक्येनेत्यादि * । * घिचार्यत इति * । उपोद्धातसङ्गत्या विचा- यते । संशयमाहुः । * किमित्यादि * । तथाच विधिसामान्यात क्रमेण कार्याणीत्येवं समुच्चय? उत फलतौल्याद्विकल्प इत्यर्थः।व - ११६४ सप्रकाशे अणुभाष्ये। तत्र विधिफलयोः समानत्वात समुच्चय इति प्राप्ते निर्णयमाह ॥ उपासनानां विकल्प एव । तत्र हेतुरविशिष्टफलत्वात् । मुक्तिफलकत्वं हि सर्वेषामुपासनानामविशिष्टम् । एवं ससेकेनैव तत्सिद्धावपरस्याऽप्रयोजकत्वादग्निहोत्रादिवन्निसताबोधकश्रुसभा- वात्तदथिनो विकल्प एव ॥ ५९ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६॥ येषु तूपासनेषु भिन्नानि भिन्नानि फलान्युच्यन्ते, तत्र त्व- पक्षमाहुः । * तत्रेत्यादि * । विधिः फलं च सर्वत्र तुल्यम् । यथा- ऽग्निहोत्रादीनाम् । तथा सति यदेव न क्रियते तत्फलाभावेन न्यून- तापत्तेर्विकल्पस्य प्राप्तप्रामाण्यपरित्यागादिदोषवत्तया तदादरे त- संसर्गाश्च समुच्चय एव ज्यायानित्यर्थः । सिद्धान्तमाहुः । * उपा- सनानामित्यादि * तथाचाग्निहोत्रादितौल्यस्याभावाञ्चित्रोद्भिदादि- तौल्यस्य सत्वाद्विकल्पस्यादुष्टत्वेन स्वर्गादिवद्विश्वमायानिवृत्तिरूपा- यां तत्तदवतारसायुज्यरूपायां च मुक्तौ विशेषाभावेन च फलस्या- विशिष्टत्वातू समुश्चये अप्रयोजकत्वदोषापत्तेश्च विकल्प एव ज्याया- नित्यर्थः । एतेनैव फलप्राप्तिफलानां सद्विद्यादहरविद्योपकोसलवि- द्याशाण्डिल्यविद्याऽक्षरविद्यादीनामेकफलानां प्राणादिविद्यानां च विकल्पोऽवगन्तव्य इत्यपि बोधितम्।अत्र सर्वेऽप्येवमेवाहुः ॥५९॥२१ काम्यास्तु यथाकामं समुच्चीयरन् न वा पूर्वहेत्वभावात् ॥ अविशिष्टफलत्वादित्यस्य विकल्पहेतोः प्रत्युदाहरणमिदम् । एवं मु- तिफलिका उपासना विचार्य काम्यासु पक्षद्वयस्य सम्भवात् ताः पृथग विचारयतीत्याशयेन सूत्रं पठित्वा व्याकुर्वन्तस्तत्र तत्तत्फलानां काम्यत्वाद्युपासनानां समुच्चयपक्षं व्याकुर्वन्ति । * येष्वित्यादि * येषु स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भ- वति, सर्व वै तेऽनमाप्नुवन्ति येऽन्नं ब्रह्मोपासत इत्यादिषु तथेत्य-

३अध्याय ३ पादः।
११६५
नेकफाथिनस्तत्तत्कलकोपासनानि समुच्चीयेरनविशिष्टफलत्वा-
भावात् । यत्र वेकस्यैवोपासनस्य स्वकामितानेकफलकत्वं श्रूय-
यते तत्र तथैव चेदुपासनं करोति तदा न समुच्चीयेरनपि । ख-
कामितेष्वेकतरस्य तदन्यफलवैशिष्टनाविशिष्टफलत्वाभावादिति
पूर्वहेत्वभावादतिश्लिष्टप्रयोगाभिप्रायेणोक्तमिति ज्ञेयम् ।
अथवा कामैक्ये नियतफलकानि तानि न समुच्चीयेरन् । अत्र
हेतुः स्पष्टः ॥६० ॥
थः । एवं समुच्चयपक्षं व्याख्याय, न वा इति पदाझ्यामुक्तमसमुच्च-
यपक्षं व्याकुर्वन्ति*यत्र त्वित्यादि * * श्रूयते इति यथा भार्गव्यां
विद्यायां, य एवं वेद प्रतितिष्ठति, अन्नवान्नन्नादो भवति महान् भ-
वति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्योति श्रूयते । तत्र तथैव
चेत् । तदुक्तस्वकामितसकलफलसाधकतया चेत्तदुपासनं करोति
तदा तत्फलकान्यन्यानि तत्प्रतिष्ठेत्युपासीत तन्मह इत्युपासीतेत्यादी-
नि तत्तद्गुणकान्युपासनानि न समुच्चीयेरन्नपि । अनापि हेतुः पूर्व-
हेत्वभावादिति। तं विवृण्वन्ति * स्वकामितेवित्यादि * स्वकामित-
फलेष्वेकतरस्य फलस्य तदन्यफलवैशिष्ट्येन अविशिष्टफलत्वाभा-
वादिति । तथाच समुच्चये अविशिष्टत्वाभावोऽनेकफलत्वात् । समु-
च्चयाभावे त्वविशिष्टफलत्वाभावस्तत्फलस्यान्यफलविशिष्टत्वादिति
भेदेऽपि, पूर्वहेत्वभावादिति यत्सूत्र उक्तं तत्तथेत्यर्थः।अत्र व्याख्यान-
क्लेशात् पक्षान्तरमाहुः । * अथवेत्यादि * । * कामैक्ये इति *
एकमात्रविषयत्वेन तदैक्ये । अत्र हेतुः * स्पष्ट इति * अस्मिन् पक्षे
तेषां फलभेदेन विशिष्टफलतया अविशिष्टफलत्वाभावरूपः पूर्वहे-
त्वभावः स्फुट इत्यर्थः । अत्रापि माध्वाचार्यभिक्षुव्यतिरिक्तानां स-
भ्रषामैकमत्यम् । अस्माकं त्वेतावान् विशेषः । अत्र सूत्रे काम्यपदा-
बुद्गीथायुपासना अपि संग्रहीतुं शक्यन्ते । तास्वपि यदेव विद्यया
करोतीत्यादिभिः फलश्रवणात् । कामपदाभावेऽपि रात्रिसत्रन्यायेन
काम्यत्वस्य शक्यत्वादिति ॥ ६०॥ २२ ॥

१९६६ सप्रकाशे अणुभाष्ये । अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ प्रधानेषु निर्णयमुक्त्वाकेषु तमाह । एकार्थसाधकानामुपास- नानां भेदेनाङ्गभेदेऽप्येकतरोपासने फलैक्यादङ्गानि तत्र समुच्ची- येरन वेति संशये निर्णयमाह । उपासनाङ्गानां तदेवाश्रयस्तथाच यदङ्गं यदुपासनाश्रितं तत्रैव तस्य भाव इअर्थः ॥ ६१ ॥ अत्र हेतुमाह ॥ अङ्गेषु यथाश्रयभावः ॥ कर्माङ्गत्वेऽपि स्वव्यापारेण फलसाध- ने उपासनान्तरानपेक्षत्वात् प्रधानानामुद्गीथाधुपासनानामपि काम्य- त्वेन यथाकामसमुच्चयविकल्पयोः पूर्वसूत्रेणैव सिद्धत्वादत्र विषया- न्तरं बोधयन्ताऽधिकरणमवतारयन्ति । प्रधानेत्यादि । अन्यानपेक्ष- तया खव्यापारद्वारा फलजनकानि प्रधानानि तेषु समुच्चयादि- निर्णयमुक्त्वा अन्यापेक्षतया तथा फलजनकेप्वङ्गेषु निणवमाहेत्य- र्थः । ननु किं प्रयोजनं येन पृथगारम्भ इत्यत आहुः । * एकार्थेत्या- दि * एकोऽर्थ एकं फलम् । तत्साधकानामन केषामुपासनानां रूपा- दिभेदेन भेदेऽपि तेषां मध्य एकतरोपासनेऽन्येषामस्य च फलैक्यातू तत्फलार्थ यान्यङ्गानि तत्र तत्रोक्तानि तान्वेकस्मिन्नुपासने समुच्ची- येरनवेति संशये उपसंहारसूत्रेाभेदपदस्य फलाभेदवाचकत्वे फ- लैक्यात समुच्चयप्राप्ती वक्ष्यमाणहेतुभ्यां निर्णयमाहेत्यर्थः । सूत्र व्याकुर्वन्ति । * उपासनाङ्गानामित्यादि* । * तदेवेति * उपासन- मेव । तथाच आश्रयमनतिक्रम्य यथाश्रयभावः सत्ता, सत्ता, यथाश्रयं भावो यथाश्रयभाव इति सूत्रयोजना । उदाहरणं तु छाग्दोग्ये मनो- हिङ्कनरो वाक्प्रस्ताव इत्यादिभिर्दशभिर्वाक्यैर्गायत्ररथन्तरवामदेव्य. बृहवरूपवैराजशक्कयरैवत्ययज्ञायज्ञीयराजननामग्रहणपूर्वकं विहि- तानि दश सामोपासनानि । तेषु ह्येकमेकमसाधारणं फलमुक्त्वा तदुत्तरं सर्वमायुरति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीयेति सर्वोपासनेषु साधारणं फलमुक्त्वा क्रमेण महामनाः स्यात् तद् व्रतं,न प्रत्ययङग्निमाचामेन ठीवेत् तद् व्रतम्, एवं न काञ्चन ३ अध्याये ३ पादः। शिष्टेश्च ॥ ६२॥ तत्तदुपासनं तत्तदङ्गविशिष्टमेव वेदे शिष्यत इति तथेयर्थः । चकारादतिरिक्तकरणे प्रायश्चित्तोक्तिरपि बाधिकति मूच्यते॥१२ समाहारात् ॥ ६३ ॥ कर्ममागीयोपासने निर्णयमुक्त्वा ज्ञानमागीयोपासने तमा- इ । अथर्वोपनिपत्सु नृसिंहोपासनादिषु मत्स्यकूर्मादिरूपत्वेनापि स्तुतिः श्रूयते । श्रीभागवते च, नमस्ते रघुवर्याथेयादिरूपा स्तुति- परिहरेतू, न तपन्तं निन्देत्, न वर्षन्तं निन्देत, नर्तन्निन्देतू, न पशू- निन्देत्, संवत्सरमज्ञो नाश्नीयात्, ब्राह्मणान्न निन्दद् इति तत्तदुपा- सनाङ्गभूतानि व्रतान्युक्तानि । तथाच तस्य व्रतस्य तत्तदुपासन एव सम्बन्धो, नान्यत्रेति बोध्यम् । एवञ्जातीयमन्यदपि । न्यायस्य सा- धारणत्वात् । यथा भार्गव्या आनन्दविद्याया अङ्गभूतेषु त्रिष्वन्नप्र- तिष्ठितत्वोपासनेषु प्रतिष्ठादीनां फलानामैक्यं तत्तदुपासनाङ्गभूताना- म् । अन्नं न निन्द्यात् तद्वतम्, अन्नं न परिचक्षीत तद् व्रतम्, अन्नं बहु कुर्वीत तद् व्रतमिति तत्तव्रतानां भंद इति ॥६१॥ शिष्टेश्च ॥ अत्र भाष्यं स्फुटम् ॥ ६२ ॥ २३ ॥ समाहारात् ॥ सूत्रप्रयोजनमाहुः । * कर्ममार्गीयेत्यादि * कर्माङ्गतया कर्ममार्गीयेषु सामाधुपासनेषु अङ्गनिर्णयमुक्त्वा ज्ञाना- ऽङ्गतया शानमार्गीयेषु तेवङ्गनिर्णयमाहत्यर्थः । सूत्रं व्याकुर्वन्तो विषयमाहुः । * अर्वेत्यादि * अत्र मत्स्यकूर्मादिपदात् पूर्व ब्रह्म- विष्ण्यादीति पदस्य त्रुटिर्बोध्या । तथाच नृसिंहोपासनायां यो वै नृसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नम इति, श्रीरामोपा- सनायां च यो वै रामचन्द्रो भगवान् ये च मत्स्यकूर्माद्यवतारास्तस्मै वै नमो नम इत्येवंविभागेन स्तुतिः श्रूयत इत्यर्थः । द्वितीयं पौराणा- दाहरणम् । एवं विषय उक्तः । तत्र तत्सर्वरूपत्वेनोपासना कार्या ? उत तेषां रूपाणां विरुद्धधर्मवत्त्वात् तथा न काति संशये शब्दा. दिभेदेन नानोपासनस्य पूर्वमुक्तत्वातू सर्वरूपत्वेनोपासने च तद्विरो- ११६८ सप्रकाश अणुभाष्ये । व्रजनाथे । एवं सति रूपभेदेऽपि भगवदवतारत्वस्याविशिष्टत्वा- देकस्मिन् रूपे रूपान्तरसमाहारो दृश्यत इति सर्वरूपत्वेनैकत्रोपा- सनमपि साध्वियर्थः ॥ ६३ ॥ गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ ऐश्वर्यवीर्यादिगुणानां सर्वेष्ववतारषु साधारण्यं श्रूयते । तेन धमिधर्माणामैक्यात पूर्वोक्तं साध्विसर्थः ॥ ६४ ॥ न वा तत्सहमावाश्रुतेः ॥ ६५ ॥ नन्वेवमुपासनं निसमुत बैकल्पिकमिति संशय उक्तरीया धान्नकार्येति प्राप्तम् । तत्र सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति । * एवं सतीत्यादि * अनाङ्गेषु यथाश्रयभाव इत्यनुवर्तते । * समाहार इति * एकीभावः । तथाच ज्ञानमार्गीयोपासनाङ्गेष्वपि यथाश्रय- भावे सति, रूपभेदेऽपीत्यादिनोक्तरीत्या समाहारदर्शनात तथेत्यर्थः । एतदेवाभिप्रेत्य, भेदान्नेतिचेदिति सूत्रे उपासनाविषयेष्वित्यादिना- ऽवतारेवपि सर्वगुणोपासंहारीचित्यमुक्तम् ॥ ६३॥ अत्र हेत्वन्तरं सूत्रान्तरेणाह । गुणसाधारण्यश्रुतेश्च ॥ अत्रचकारोऽधिकरणपूर्णत्वद्योतकः। शेपं प्रकटार्थम् । तथाच भगवत्त्वप्राधान्योपासने एवं सर्वरूपत्वेनो- पासनं कार्यम् । तत्तद्रूपप्राधान्येनोपासने तथा न कार्यमिति विभा. गान्नं कोऽपि विरोध इत्यर्थः ॥ ६४ ॥ २४ ॥ न वा तत्सहभावाश्रुतेः ॥ अधिकरणमवतारयन्ति । * नन्वि- त्यादि * । सर्वरूपत्वेनकावतारोपासनं नित्याग्निहोत्रदर्शपूर्णमा- सादिवत् क्रमेण समुश्चेतव्यमुतकमेव यावजीवं फर्त्तव्यमित्यवं वै- कल्पिकमिति संशये उक्तरीत्या सर्वेषां सर्वरूपत्वेनैश्वर्यादिगुणसा- धारण्येन च क्रमिकसमुच्चये प्राप्ते तस्य समुच्चयस्य निषेधमाहेत्य- ३ अध्याये ३ पादः। निसत्वे प्राप्ते तनिषेधमाह । नेति । किन्तु वा विकल्प एवैवमुपा- सन ऐच्छिकस्तत्र हेतुमाह । सहभावाश्रुतेरिति नियमतस्तेषां रूपाणां सहभावश्रवणं चेत्स्यात्तदा स्यात्तथोपासनस्य निसता, न त्वेवमतो विकल्प एवेसर्थः ॥ ५॥ दर्शनाच ॥ ६६ ॥ योऽपि रूपान्तरसमाहारपूर्वकमुपास्ते सोऽप्येकं रूपमुपा- स्यत्वेन मत्वा तत्तथोपास्त इति फलं तस्यैकस्यैव रूपस्य दर्शनं भवति, न तु सर्वेषामितोऽपि हेतोर्विकल्प एवेयर्थः । एतद्दृष्टा- न्तेन यस्मिन् रूपे यादृग्धर्मवत्त्वं श्रूयते तादृग्धर्मविशिष्टमेवैकं रूपमुपास्यमिति व्यासहृदयमिति ज्ञायते । उपासनानिर्णयान्ते दर्शनात्मकहेतूक्सा सर्वोपासनानां भगवत्साक्षात्कारः फलमिति ध्वन्यते । माहात्म्यज्ञापनार्थम् । परं सर्वावताररूपत्वं यथार्थमेव र्थः । व्याकुर्वन्ति । * नेतीत्यादि * / * चेत्स्यादिति * । दर्शपूर्ण- मासाभ्यामिष्टा सोमेन यजेतेत्यादिवच्चेत् स्यात् । शेषं स्फुटम् ॥ एतमेव विकल्पमभिसन्धाय स्वाध्यायस्तोतिसर्वदृष्टान्तव्याख्यानो. त्तरं प्रकृतेऽपीत्यादिना तत्तद्रूपे तत्तदसाधारणधर्मोपसंहारो व्यव. स्थापितः ॥६५॥ दर्शनाच्च ॥ पूर्वसूत्रात्तत्पदमत्रानुवर्तत इत्याशयेन सूत्रं व्याकुर्वन्ति । * योऽपीत्यादि * / * तत्तथोपास्त इति * । तद् ए- कमवताररूपं सर्वरूपवत्तथोपास्ते । * एतदृष्टान्तेनेति * | दर्शन- दृष्टान्तेन । एतेन पूर्वाधिकरणोक्तपक्षस्य गौणता सूचिता । तथा दर्शनाभावादिति । सर्वनिरूपणान्ते एवं कथनस्य तात्पर्यमाहुः *उ. पासनेत्यादि * । ननु यद्येकस्यैव रूपस्य दर्शनं तदा सर्वरूपोपसं. हारबोधनस्य किं प्रयोजनम् अत आहुः । * माहात्म्येत्यादि * । * ११७० सप्रकाशे अणुभाष्ये । कैश्चिज्ज्ञाप्यते । यथार्थत्वात्तदप्यविरोधीति ज्ञेयम् ॥ ६६ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते व्याससूत्राणुभाष्ये तृतीयाध्यायस्य तृतीयः पादः समाप्तः ॥ ३ ॥ ३ ॥ फैश्चिदिति । स्मृतिपुराणादिवाक्थैः । * तदपीति * । सर्वरूपोप- संहरणम् । तथाचैकरूपदर्शनेऽपि सर्वरूपोपसंहारोऽप्येकदेशिना न दुष्ट इति भावः । अम्ये तु इदं षट्सूत्रमेवाधिकरणमङ्गीकृत्य कर्मा- अभूनेपूगीयादिषु य आश्रिता वेदत्रयविहिताः प्रत्ययास्ते समुच्चीये. रम्नुत यथाकामं स्युरिति सशये, प्रत्ययाश्रयभूताः स्तोत्रादयो यथा समुच्चीयन्त एवं तदाश्रिताः प्रत्यया अपि । तत्रानुशिष्टत्वादिभ्यो हेतुभ्यः समुच्चीयेरनिति पूर्वपक्षे, सहभावाश्रयणादिहेतुभ्यां यथा. कामं स्युरिति सिद्धान्तयन्ति । तन्नास्माकं रोचते । यथाकामसूत्रोक्तहेतुनैव ताहशनिर्णयस- म्भवेनेतद्वैयर्थ्यात् । गुणसाधारण्यसूत्रे पूर्वपक्षसमाप्त्या शिष्टिसूत्र- स्थचकारवैयापत्तेश्चेति । तस्मात् पूर्वोक्तमेव युक्तमिति दिक् ॥ अत्रायं संग्रहः । सर्वे वेदा यत्पदमामनन्तीति श्रुतेः सर्वस्य वेदस्य ब्रह्मविद्यात्वम् । इतिहासपुराणं च वेदानां पञ्चमं वेदमिति- श्रुतवेदपदेन तयोरपि संग्रहात्तयोरपि तथात्वम् । विद्ये वेदित- व्य इत्याद्याथर्वणश्रृंतर्ऋग्वेदादिरूपा अपरा अक्षराधिगमिका परेति फलतो विभागः । परावपि, ब्रह्मविदाप्नोति परम्, अक्षरात परत: पर इति श्रुतेः पुरुषोत्तमस्य तत आधिक्यं तद्विद्यानां विषयफल- योर्षलादारविद्यातोऽप्याधिक्यम् । परास्वपरासु च तत्तद्वेदोक्तासु सर्ववेदान्तप्रत्ययसूत्रोक्तहेतुना फलसंयोगरूपचोदनानामविशिष्टत्वे विद्युक्यनिर्णयः । तन्मध्य अन्यतरस्याभावं तु विद्याभेदः । गुणोप- संहारस्तु प्रायशो रूपैक्यात् प्रयोजनक्याद्वा, क्वचित्त्वर्थवादतौल्या- दपि । स च स्वाध्यायसूत्रोक्तनिरूपणप्रकारभदाधिकारिभेदसम्ब- धिभेदोऽन्यथा सन्तमिति वाक्याक्तदोषापत्त्या च कासुचिदा- स्मविद्यासु बाध्यते । कर्मणि तु पूर्वोक्तस्त्रिभिन्यूनातिरिक्तप्रायश्चित्त- श्रवणाच्च बाध्यते । तदभावे तु भवति । परविद्या अपरविद्याश्च

३ अध्याये ३ पादः।
११.७१
फलैक्ये विकल्पन्ते । फलभेदे तु यथाकामं समुच्चीयन्ते । कचिदे-
कस्योपासनस्य खकामितानेकफलत्वे विकल्पन्ते च । कर्ममार्गीय.
विद्याङ्गानि तु बहूनां विद्यानां फलैक्येऽपि यथाश्रयं तत्रैव व्यवति.
ठन्ते । शानमार्गीयविद्याङ्गानि तु यथाश्रयं कचित् समाहियन्ते, क-
चित्तु यथाश्रयं व्यवतिष्ठन्ते।अवतारोपासनं च यथाकाममेव भवति ।
सर्वासां परविद्यानामुपास्यरूपसाक्षात्कारः फलमिति च ॥६६ ॥ २५॥
इति श्रीमवल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य
पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे तृतीयाध्यायस्य
तृतीयः पादः ॥३॥३॥

तृतीयाध्यायस्य चतुर्थः पादः । पुरुषार्थोऽतःशब्दादिति बादरायणः ॥ १ ॥ उपासनाभेदेऽप्युपास्याभेदाच्छाखान्तरोक्तधर्माणामप्युपसं- हारः कर्तुमुचित इति पूर्वपादे निरूपितमिति तन्न्यायनोत्तरका- ण्डपतिपायब्रह्मफलकसर्वात्मभावेऽपि पूर्वकाण्डप्रतिपादितकर्मणा- पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ अथ तुरीयपादं विव- रिषवः सङ्गतिबोधनाय पूर्वपादार्थमनुवदन्त एतत्पादार्थमाहुः। *उ- पासनेत्यादि * । फलमत उपपत्तरित्यत्र हेतुव्यपदेशेन जैमिनिमत. निरासपूर्वकं परमेश्वरस्यैव कारयितृत्वं फलदातृत्वं च समर्थयि- त्वा ततोऽनन्तरूपस्य भगवतस्तत्तत्फलदानाय साक्षात्कारो यथा भवति तदर्थ तत्तदुपासनमुक्तम् । तेन तत्तदुपास्यरूपसाक्षात्कार- रूपविद्यासिद्धौ परमेश्वरात फलं भवतीति सिद्धम् । तथा उपासनाः कथं कर्त्तव्या इत्यपेक्षायां तं तं मार्ग स्वस्खाधिकारं तत्तद्भगवद्रूपं वानुरुध्यते । ते तत्तत्स्वरूपगुणास्तत्तदुपासनाखरूपनिर्वाहकत्वाद- न्तरङ्गा इत्यन्तरङ्गविचारेण तत्तद्गुणानां बुद्धौ विषयीकरणरूपो गुणोपसंहार उक्तः। तत्रोपसंहारोऽर्थाभेदादिति सूत्रेऽर्थपदस्य वस्तु- वाचकतामादाय उपासनाभेदेऽप्युपास्यवस्त्वमेदाद्यथा शाखान्तरो- क्तधर्माणामप्युपसंहारः कर्तुं युक्त इति निरूपितं, तथा अस्मिन् पादे उपासनाया बहिरङ्गाणामाश्रमादीनां विचारे उपसंहारसूत्री- यार्थपदस्य प्रयोजनवाचकतामादाय ब्रह्मदर्शनरूपफलैक्यात तन्न्या. येन उत्तरकाण्डोक्तब्रह्मफलफसर्वात्मभावेऽपि पूर्वकाण्डोक्तकर्मणा- मुपसंहारः । स च कर्मणां तत्तदुपासनोपकारकतया बुद्धी विषयी- करणरूपः करणार्थ प्राप्नोति"यको दानं तपः कर्म न त्याज्यं कार्यमेव ३ अध्याये ४ पादः। ११७३ उपसंहारः प्राप्नोति न वेसधुना विचार्यते । विधिपक्षे तत्सहकृत- यास्य फलसाधकत्वमिति सिद्धयति । निषेधपक्षे तु केवलस्येती- मेव पक्षं सिद्धान्तत्वेनाह । पुरुषार्थ इसादिना । सिद्धान्ते ज्ञा- तत्र पूर्वपक्षसम्भव इसादौ तमेवाह । अतः सर्वात्मभावादेव बलात् पुरुषार्थः सिद्धयति । कुतः । शब्दात् । श्रुतेरिसर्थः । एतिस्तु, नायमात्मा प्रवचनेनेत्युपक्रम्य, यमेवैष वृणुत इसादिका ह्मविदामोति परमिसादिका, तमेव विद्वानमृत इह भवतीति, नत्कुमारनारदसंवादे यत्र नान्यत् पश्यतीत्याद्यामिका छान्दो श्रुतिश्च । एतदादिश्रुतिषु पूर्वोक्तरीया केवलस्यैव भगवद्भावस्य लसाधकत्वं श्रूयते इति तथा । अत्र, फलमत उपपत्तेरिसत्रेवो- पत्ति हेतुत्वेनानुक्त्वा श्रुतिपदं चानुक्त्वा शब्दपदं यदुक्तवस्तिन तिस्मसात्मकः सर्वोऽपि प्रमाणशब्दो हेतुत्वेन व्यासाभिमत . न । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । एतान्यपि तु कर्मा- । सङ्गं त्यक्त्वा फलं तथा। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्त- म्"इति गीतावाक्यात् । सहस्रसमे सत्रे हिरण्मयशकुनिरूपद्र- दर्शनस्य तत्र श्रावणात् । नाभ्यादीनां यज्ञेषु भगवत्प्रादुर्भावस्य भागवतेऽप्युक्तत्वाच्च । अथवा, यमेवैष वृणुते तेन लभ्यः, भ- या धनन्यया शक्य इत्यादिषु साधनान्तरन्युदासान प्राप्नोतीति न्देहे अधुना प्रथमाधिकरणे विचार्यते । तथाच शेषिशेषभावः गतिरित्यर्थः । ननु गुणानामिव कर्मणामुपासनाखरूपनिर्वाहक- भावेनानावश्यकत्वात् किं तद्विचारणेत्याकाङ्कायां विचारफलं दार्थ वदन्तः सूत्रमवतार्य व्याकुर्वन्ति । * विधीत्यादि *। * इ- मिति * । निषेधपक्षम् । तथाच विद्यासामर्थ्यबाधनायाऽयं विचार यर्थः । सिद्धान्तेनाधिकरणे हेतुव्यपदेशादित्यत्र सिद्धान्तिनः श्मदर्शित्वस्यावधारितत्वात्तथेत्येतदर्थ तमेवाहेत्यर्थः। शब्दशब्दप्र- गतात्पर्यमाहुः । * अत्रेत्यादि * । संग्रहेण यत् सिद्धं तदाहुः ।

सप्रकाशे अणुभाष्ये । इति ज्ञायते । तेन "केवलेन हि भावेन गोप्यो गावः खगा मृगाः। येऽन्ये मूढधियो नागाः सिद्धा मामीयुरनसा । या योगेन सांख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसन्न्यासैः पाप्नु याद् यत्नवानपि"इसादिरूपा स्मृतिरपि संगृह्यते । एतेन श्रुसादि- प्रमाणवादिनामिदमेवाभिमतं, तद्विरुद्धवादिनामितोऽन्यदिति तेषा. मप्रमाणिकत्वं ज्ञाप्यते । अत एव स्वनाम गृहीतम् । स्वस्य वेद- व्यासकर्तृत्वेन तत्रैव यतो भरः । अपरं च वैदिकसिद्धान्ते भग- वत्स्वरूपस्यैव स्वतन्त्रपुरुषार्थत्वात् प्राप्ततत्स्वरूपाणां मुक्सान- च्छाकथनान्मुक्तोपमृप्यव्यपदेशाच्च मुक्तरपरमपुरुषार्थत्वात् सा- भवतु नामाऽन्यः साधनैः । वस्तुतः परमपुरुषार्थो य उक्तरूपः स तु सर्वात्मभावनैवेति ज्ञापनाय फलपदमनुक्त्वा पुरुषार्थपद- मुक्तम् । एवं ससस्य सूत्रस्यार्थान्तरमपि व्यासाभिमतमिति ज्ञाय- ते । तथा ससयं श्लिष्टः प्रयोगः। तथाहि । पुरुषार्थो भगवानेव । कुतः। अतःशब्दात् । अतःपदविशिष्टश्रुतिवाक्यादिसर्थः । * एतेनेत्यादि * 1 * अभिमतमिति * । तात्पर्यगोचरम् । * तद्वि- रुद्धवादिनामिति * । तत्तात्पर्यविरुवादिनाम् । * अप्रामाणिक- त्वमिति * । प्रमाणतात्पर्यानभिशत्वम् । बादरायणपदोक्तितात्प- र्यमाहुः । * अत एवेत्यादि * । * तत्रैवेति * । प्रमाणभूते शब्दे । पुरुषार्थपदतात्पर्यमाहुः । * अपरं चेत्यादि । * अन्यैः साधनैरि- ति * । मर्यादामार्गीयैः कर्मक्षानविहितभक्तिरूपैः साधनैः । एतेन भास्कराचार्याद्यङ्गीकृतो ज्ञानकर्मसमुच्चयः पूर्वकमाविश्रान्त इति बोधितम् । पुरुषार्थपदेन सूचितमर्थान्तरमाहुः * एवं सतीत्यादि * अस्यां श्रुतौ तमसः परस्तादित्यनेनानुपाधित्वयोधनात स्वतो घि- रुद्धधर्माधारत्वं बोध्यते । परात् परमिस्यनेमाक्षरादुत्तमत्वम् । तथा. चाक्षरात् परो यः स एव परमपुरुषार्थ इति सिद्ध्यति । एवं ब्या- ३ अध्याये ४ पादः। ११७५ तैत्तिरीयोपनिषत्सु पठ्यते । अतः परं नान्यदणीयस हि पराव परं यन्महतो महान्तं, यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः पुरस्तादिति ॥ १॥ अथात्र प्रसवतिष्ठते । शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥२॥ विष्पोरिज्यत्वेन कर्मशेषत्वात् तत्स्वरूपज्ञानपूर्वको यागः फलातिशयहेतुरिति तन्माहात्म्यमुच्यत इयर्थवादरूपं तत् । अत्र दृष्टान्तमाह । यथान्येष्विति अन्येषु द्रव्यसंस्कारकर्मसु, यस्य पर्ण- मयी जुहूर्भवति न पापः श्लोक शृणोति यदाङ्क्ते चक्षुरेव भ्रा- तृव्यस्य वृक्ते यत्मयाजानुयाजा इज्यन्ते वर्म वा एतद् यज्ञस्य. क्रियते वर्म यजमानस्य भ्रातृव्याभिभूसा इसेजातीयिका फल- श्रुतिरर्थवादस्तद्रादिसर्थः ॥२॥ ख्यानद्वयेन केवलविद्याया एव पुरुषार्थपर्यवसायित्वम् । पुरुषोत्तम- स्यैव च परमपुरुषार्थत्वं बोधितम् ॥ १॥ शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ सूत्रमव. तारयन्ति । * अथत्यादि * | सिद्धान्तसूत्रे सर्वात्मभावस्य खत- न्त्रतया पुरुषार्थपर्यवसायित्वे परब्रह्मण एव च परमपुरुषार्थत्वे द- शितेऽपि हेतुव्यपदेशविषयश्रुती फलदित्सया कारयितृत्वस्योक्तत्वा- तू क्रिययैव फलम् । छान्दोग्ये काङ्गोपासनानामेव पूर्वमुपकान्त- त्वादन्यासामपि कर्मशेषत्वेन फलत्वम् । ईश्वरस्य च तच्छेषतयैव फलदत्वमित्याशयेन पूर्वमीमांसक उक्तंर्थे प्रतिकूलतयाऽवस्थितो भवतीत्यर्थः । सूत्रं व्याकुर्वन्ति । * विष्णोरित्यादि * । अयमर्थः । ध्वपाद कर्माङ्गोपासनानां निर्णये तुन पूर्वकाण्डविरोधः। यत्पुनरात्म- ज्ञानादेः सर्वात्मभावस्य च स्वातन्त्र्येण पुरुषार्थपर्यवसायित्वं पर- ब्रह्मणः परमपुरुषार्थत्वं चेत्युक्तम् । तन्न युक्तम् । कुतः । शेषत्वात् । शेषलक्षणे पुरुषः कर्मार्थत्वादिति पुरुषस्य कर्मार्थत्वमुक्तम् । तच चोदनाविचारे कर्तृतया सिद्धयनीत्यात्मशापकांनि वाक्यानि कर्तृ- ।

सप्रकाशे अणुभाष्ये । ननु तमेव विदित्वा मुनिर्भवसेतमेव प्रवाजिनो लोकमीप्स- न्तः प्रजान्त । एतदने च ते ह स्म पुत्रषणायाश्च वित्तषणाया- श्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीति श्रुतिर्भगवज्ज्ञान- वतः सर्वसागं वदतीति न त्वदुक्तं साधीय इसत उत्तर पठति ॥ आचारदर्शनात् ॥ ३ ॥ ब्रह्मविदामपि वसिष्ठादीनामग्निहोत्रादिकरणं जैमिनिः प. श्यतीति तदाचारं प्रामाणिकमिति च मनुत इति तन्मतमनुवद- निममप्यनूक्तवान् व्यासः । ब्रह्मविदां सागावश्यकत्वे गार्हस्थ्य- मेतेषां न स्यादिति भावः । उक्तश्रुतिस्तु कर्मण्यशक्तानां तेषां स्वरूपबोधकानि । एवं ब्रह्मवाक्यानि ब्रह्मणोऽनन्तरूपैरिज्यत्वात् यो देवानां नामधा एक एवेत्यादिमन्त्रवर्णेन तत्तन्नामकत्वाच्च कर्मशेष- त्वं तस्मात् । तत्स्वरूपशानेत्यादिवश्यमाणभाष्योक्तरीत्या तत्ताहश- मतस्तत्र पुरुषार्थत्ववाद इत्यर्थः । विष्णोरिज्यत्वं ब्रह्मत्वं च शतदू- पणीकारोपन्यस्तात् संकर्षणकाण्डसमाप्तिस्थात्, स विष्णुराह हि, तद् ब्रह्मेत्याचक्षते इति सूत्रद्वयात् सिद्ध्यतीति मुख्यतया तस्यैव शेषत्वमत्र व्याख्यातम् । अन्येषां च शेषत्वात् तत्फलस्यार्थवादत्वं जैमिनिना चतुर्थस्य तृतीयपादे उक्तम् । द्रव्यसंस्कारकर्मसु परार्थ- त्वात् फलश्रुतिरर्थवादः स्यादिति । तदुदाहरणं च, यस्य पर्णम- यीत्यादिनांक्तम् ॥२॥ आचारदर्शनात् ॥ सूत्रचतुष्टयमवतारयन्ति * ननु तमित्या- दि *। * उत्तर पठतीति * उक्ताशङ्कनयां विद्यायाः पुरुषार्थत्वं चारयितुमग्रिमसूत्राणि वक्तीत्यर्थः । सूत्रं व्याकुर्वन्तः प्रथमत आ. चारमेव कुतो वदतीत्यत आहुः। * ब्रह्मविदामित्यादि * I * प्रा- माणिकं च मनुत इति * । यदेव विद्ययेतिश्रुत्युपोलकत्वन तथा मनुने । तर्हि तमेव विदित्वेत्यादिश्रुतेः का गतिरित्यत आह । * उक्ते. त्यादि । ननु प्रव्राजश्रुतेरशक्ताधिकारकत्ववत् कर्मकरणश्रुते- ३ अध्याये ४ पादः। ११७७ सागमनुवदति। लोकैषणायाश्च व्युथायेति श्रुतेर्लोकसंग्रहार्थं त. करणमिति न वक्तुं शक्यम् ॥ ३ ॥ तच्छ्रुतेः ॥ ४ ॥ ब्रह्मविदः कर्माचारनिरूपकश्रुतेरिसर्थः । सा च, जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेज इसादिरूपा । तथाच ज्ञानेनैवार्थसि- दिश्चेत् स्यात्तदा तद्वत आयाससाध्ये कर्मणि प्रत्तिन स्यादिति भावः ॥ ४॥ समन्वारम्भणात् ॥ ५ ॥ तं विद्याकर्मणी समन्वारभेते इति श्रुतिः फलारम्भे विद्याक- मणोः साहिसं दर्शयतीति न स्वातन्त्र्यं विद्यायाम् ॥ ५ ॥ तहतो विधानात् ॥ ६॥ ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोस्तं वृणीत इति कल्पश्रुया ब्र- मविदो ब्रह्मत्वेन बरणं विधीयत इतिब्रह्मज्ञानस्याविज्याधिकार- सम्पादकत्वात् कर्मशेपत्वमेवेसर्थः ॥ ६ ॥ ननु यदहरेव विरजेव तदहरेव प्रबजेद, ग्रहाद्वा प्रबजेदनाद्वे- . लोकसंग्रहार्थत्वस्यापि शक्यवचनत्वान्नेदं साधीय इत्यत आह*लो- केत्यादि * तथाच आचारदर्शनान्यथानुपपत्त्या तथा कल्प्यत इत्य- र्थः । अन्ये त्वाचारदर्शनसूत्रे जनको ह वा इति श्रुति, द्वितीये च यदेव विद्ययेत्युदाहरन्ति । तच्चिन्त्यम् । द्वितीयसूत्रवैयापत्तेः॥३॥ तच्छुतेः ॥४॥ समन्वारम्भणात् ॥५॥ तद्वतो विधानात् ॥ एतद्भाष्यं सुगमम् ॥ ६ ॥ १४८

११७८
समकाशे अणुभाष्ये ।
सादिश्रुतिभ्यो विहितत्वाविशेषात् कर्मतत्यागयोरैच्छिको विक-
ल्पोऽङ्गीकार्योऽतो न शेषिशेषभाव इसत उत्तरं पठति ।।
नियमाच ॥ ७ ॥
आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत
ऐन्द्राग्नंपुनरुत्सृष्टमालभेत य आतृतीयात् पुरुषात् सोमं न पिवेद
विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्नाऽऽतृतीयात
पुरुषात् सोमं नपिबति। यावजीवमग्निहोत्रं जहुयादियादिश्रुतिभ्यो
यथा कर्मकरणे नियमः श्रूयते, न तथा तत्त्याग इति नोक्तपक्षः
साधुरियर्थः । चकाराद् "नियतस्य तु संन्यासः कर्मणो नोपप-
द्यते । मोहात् तस्य परिसागस्ताममः परिकीर्तित" इसादिरू-
पा स्मृतिः समुच्चीयते । सागविधिरशक्तविषय इत्युक्तमिति
माते ॥ ७ ॥
प्रतिवदति ॥
नियमाश्च ॥ सूत्रमवतारयन्ति । * नन्वित्यादि * । व्याकु
न्ति । * आश्विनमित्यादि * । अत्र दुर्ब्राह्मण इति विच्छिन्न इति
पदाभ्यामकरणे निन्दा बोध्यते । तेन च नियमेन नित्यत्वं कर्मण
व्यक्तीभवति । तथाग्रे यावजीवाधिकरण सूत्रपञ्चकोक्तं निगमय
न्ति । * त्यागेत्यादि । * इति प्राप्त इति * । एवं प्रकारण ब्र
झणस्तद्विद्यायाः कैमुतिकन जीवविद्यायाश्च कर्मशेषत्वे प्राते ।
अन्ये तु, तच्छतेरित्यत्र विद्यायाः कर्मशेषत्वाय, यदेव वि
धति श्रुतिमुदाहरन्ति । तद्वतो विधानादित्यत्र, आचार्यकुलावेदम
धीत्येति छान्दोग्यसमाप्तिस्थश्रुत्या वंदार्थज्ञानवतः कर्माधिकारं व्या
कुर्वन्ति । नियमाच्चत्यत्र, कुर्वन्नेव हि कर्माणि जिजीविषेच्छर
समाः एवं त्वपि नान्यथेतोऽस्ति न कर्म लिप्यते नर इतीशावास्यश्रु
तिं. जरामयसत्रश्रुति चोदाहरन्ति । तन्मत विद्यायाः कर्मशेषत्व
मिति पूर्वपक्षः ॥ ७॥

३ अध्याये ४ पादः। १९७१ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥८॥ तुशब्दः पूर्वपक्षं व्यवच्छिनत्ति । यदुक्तं शेषत्वात् पुरुषार्थ- वाद इति तन्नोपपद्यते । कुतः । अधिकोपदेशात् । कर्म साम्यमपि न वक्तुं शक्यं यत्र तत्र तच्छपत्वं दुरापास्तम् । यत ईश्वरः कर्म- णः सकाशादधिक उपदिश्यते । तथाहि । स वा अयमात्मा सर्व- स्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किश्च। स न साधुना कर्मणा भूयान्नो एवामाधुना कनीयानित्युप- क्रम्याऽग्रे पठ्यते, तमेतं वेदानुवचनेन विविदिपन्ति ब्रह्मचर्यण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदिता मुनिर्भवसेतमेव प्रवाजिनो लोकमभीप्तन्तः प्रवजन्तीसादि। एवं सति यज्ज्ञानसाध- नत्वं यज्ञे तस्य यज्ञशेषवं कथं स्यात्।किन्तु यज्ञस्य तद्वेदनशेपत्वम्। एतेनेज्यत्वेन तच्छेषत्वं प्रत्युक्तं वेदितव्यम् । तज्ज्ञानस्य यागपूर्वाङ्ग- .. । अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ॥ परिहारं व्या- कुर्वन्ति * तुशब्द इत्यादि * । * पूर्वपक्षमिति * । ईश्वर इ- ज्यत्वात् कर्मशेष इति पक्षम् । * कर्मसाम्यमिति * । कर्मणो ब्र- हासाम्यम् । स वा अयम् इति श्रुतिस्तु बृहदारण्यके शारीरब्राह्मणे * एवं सतीत्यादि * । उक्तश्रुती वंदानुवचनेनेत्यादिभिस्तृतीया- श्रुतिभिर्भगवज्ञानशेषत्वे कर्मणामुक्त सति । * तस्येति * यशश- विभूतस्य । अधिकोपदेशेन हेतुना यत् सिद्धं तदाहुः । * पतेनत्या- दि * । उक्तहेतुना तत्प्रयुक्तमित्यर्थः । तद् व्युत्पादयन्ति । * त- ज्ञानस्येत्यादि * । इज्यत्वेन ज्ञानस्य यागपूर्वाङ्गत्वात पूर्व सत्वेऽ- पि ताहशज्ञानपूर्वकं यागकरणे तादृशज्ञानविशिष्टस्य यागस्य ब्रह्म ज्ञानसाधनत्वात् तत्फलस्य ज्ञानस्य यः शेषी तस्यैकदेशशानशेष- त्वापादने यस्य शानं यागपूर्वाङ्गं स यागशेष इति नियमो हेतुत्वेन वक्तव्यः । स तु स्वर्गादी व्यभिचरति । स्वर्गादेः फलत्वज्ञानं विना तदर्थके यागे प्रवृत्त्यभावेन तज्ज्ञानस्य यागपूर्वाङ्गत्वेऽपि स्वर्गादेः ११८० सप्रकाशे अणुभाष्ये । स्वात् तद्विशिष्टस्य तस्य ब्रह्मज्ञानसाधनत्वात् । नच पूर्व सामा. न्यत इज्यज्ञानमासीद यज्ञेन विशेषतो ज्ञाने सति पुनर्यज्ञकरणे पूर्ण कर्मफलं भवतीति न तदशेषत्वमिति वाच्यम् । तमेव विदित्वा मु- निर्भवखेतमेव प्रवाजिनो लोकमभीप्सन्तः प्रव्रजन्तीति श्रुतेस्तद्वेद नस्य गार्हस्थ्यविरोधित्वेन तदसम्भवाद् । यश्च साध्वसाधुकर्मफल- सम्बन्धरहितस्तस्य कर्तृत्वेन तथात्वमनुपपन्नमतो जीवात्मन एव त- थात्वं न तु परस्य । नचैतयोस्तिवाऽभेदानवमिति वाच्यम् । वास्तवाभेदाजीवेऽप्युक्तश्रुतिभ्यस्तथात्वस्य सुवचत्वात् । वास्तवा- ऽभेदस्य पूर्वमेव निरस्तत्वात्तमादाय ये पूर्वपक्षास्ते पूर्वपक्षा एवेस- फलत्वेन यागशेषत्वानङ्गीकारात् । अतस्तदप्रयोजकमित्यर्थः । पुनः शेषत्वमाशङ्य निषेधन्ति * नचेत्यादि * । पूर्व गुरुमुखादध्ययने ततस्तस्यावर्तनेन स्वाध्यायत्वसम्पादने ब्रह्मण इज्यत्वेन सामान्यतो ज्ञानमासीत्ततस्तदुद्देश्यकस्य ब्रह्मयज्ञस्य द्रव्ययज्ञस्य च करणे वि. शेषतो शाने सति पुनर्यशकरणे यदेव विद्ययेति श्रुत्या यागस्य वी- यवत्तायां पूर्ण फलं भवतीति तात्पर्यात, तमेतं वेदानुवचनेनेति श्रुत्या न ब्रह्मणो यागशेषत्वनिवृत्तिरित्येवं न वाच्यम् । एतमेवेत्या- दितदनिमश्रुतेस्ताहग्ब्रह्मज्ञानस्य गार्हस्थ्यविरोधित्वेन यज्ञासम्भवा- तू । तदसम्भवे तथा फलोत्पत्त्यापादानस्यापि कर्तुमशक्यत्वाद् ब्रह्मणः कर्मशेषत्वं नापादयितुं शक्यमित्यर्थः । नन्वीश्वरस्य कर्तृ- त्वाद्विश्वसृड्न्यायन यज्ञकर्तृत्वे सुखेन तच्छेषत्वसम्भव इत्याशङ्ख्य परिहरन्ति । * यश्चेत्यादि * I * तथात्वमिति * । कर्मशेषत्व- म् । एकदेशिप्रतिपन्नम् । जीवब्रह्मैक्यमादाय पुनः शेषत्वाशङ्कनयां तदुपगम्य परिहरन्ति । * नचैतयोरित्यादि * । * तथात्वस्ये- ति * । ईश्वरवत् कर्मशोषित्वस्य । ननु यदि जीवेश्वरयोर्वास्तवाभे- द उपगतस्तयंकतरपक्षपातस्य कर्तुमयुक्तत्वादुभयमप्यस्त्विति श- गयां सिद्धान्ते तदनुपगमेनाहुः । * वास्तवाभेदस्येत्यादि * । जीव- ब्रह्मणोहि घटाकाशमहाकाशयोरिवोपाधितो भेदो, वस्तुतस्त्वभेदः ।

१ अध्याये ४ पादः। १९८१ लमुक्त्वा। न कर्मणा न मजया धनेन सागेनैके अमृतत्वमानशुः। परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्तीति श्रुखा कर्मप्रजाधनैर्मोक्षामाप्तिमुक्त्वा सागेन तत्प्राप्तिरुच्यते । सागविषय- स्यान्यस्यानुत्त्या सान्निध्यात् कर्मादीनामेव सागोऽभिप्रेतः। त- थाच मुक्तोपमृप्यत्वाद्भगवत उक्तसाधनेन मुक्ताः सन्तो नाकं प. रेण विद्यमानमपि भक्त्या गुहायां विभ्राजते, यद, यस्मात् परं ना- परमस्तीसादिनोपक्रान्तत्वात् पुरुषोत्तमस्वरूपं यतयो विरहभावेन तद्विना स्थातुमशक्तास्तत्प्राप्यर्थ यतमाना विशन्तीति भक्तिमार्गी- याणां फलमुक्तम् । अग्रे वेदान्तविज्ञानेत्यूचा ज्ञानमार्गीयाणां फ- लमुक्तम् । अन्यथा पौनरुत्त्यं स्यात् । एवं कर्मज्ञानाभ्यामधिको भक्तिमार्गस्तत्प्राप्यः पुरुषोत्तमश्च श्रुतावुपदिश्यत इति तदेकरमा- णवादिनो बादरायणस्य मतमप्येवं जैमिनिमतादधिकमियर्थः । एवं श्रुखा परमतं निरस्य शिष्यविश्वासार्थं स्वानुभवमाप प्रमाण- यति । तदर्शनादिति । उक्ताधिक्यवत्त्वेनैव भगवतो भक्तिमार्गस्य एतादृशाभेदस्य द्वितीयाध्यायतृतीयपादे, अंशो नानेत्यत्रांशत्वव्यव- स्थापनेन निरस्तत्वात् । तमादाय ये पूर्वपक्षास्ते जीवस्वरूपाज्ञानात्पू- र्वपक्षा एव न भवन्तीति तथेत्यर्थः । श्रुत्यन्तरेणापि कर्मशेषत्वं परि- हरन्ति । * न कर्मणेत्यादि * । श्रुतिस्तु बृहन्नारायणे अणोरणीयानि- त्यनुवाकस्था । अत्रानुवाकारम्भमन्त्रे महिमानमीश इत्यनेनेशपदवा- च्यस्य शिवस्य विभूतित्वकथनाद्, यस्मात् परमिति मन्त्रस्य श्वेता- ऽश्वतरेऽपि श्रवणाच्छिवपरत्वभ्रमो भा भूदित्येतदर्थ भाष्ये पुरुषोत्त- मस्वरूपपदमुक्तम् । एतस्यानुवाकस्य यथा पुरुषोत्तमपरत्वं तथा प्रहस्ताख्ये वादे मया सम्यगुपपादितमिति विशेषतो नोच्यते । अत्रै. तन्मन्त्रद्वयोक्तयोः प्रवेशपरिमोकयोर्भक्तिज्ञानफलयोरनावृत्तिरूपत्वा. दु दुःखसाहचर्याभावेन कर्मफलादाधिक्यं बोधितमिति तो कर्ममा- समकाशे अणुभाष्ये। धानुभवादिसर्थः । श्रुतयोऽधिकमात्मानन्दर्शयन्तीति नव्याख्या- नम् । उपदेशपदेन पौनरुत्यापत्तेः । तन्मतमनिरस्य तस्मात् स्व. मत आधिक्यमात्रोक्सा निष्कामकर्मगश्चित्तशुद्धिहेतुत्वेन परम्परा- ज्ञानमार्गोपयोगाङ्गीकारोऽत्र सूच्यते । पुष्टिभक्तिमार्गे तु सोऽपि न । यन्न योगेनेति वाक्यात् । एवं सति क्व कर्मशेषत्वगन्धोऽपि ब्रह्मणीति भावः ॥८॥ तुल्यं दर्शनम् ॥९॥ यदुक्तमाचारदर्शनात् कर्मशेषत्वं ब्रह्मण इति तदपि न सा- धीयः । तुल्यं यतो दर्शनम् । ब्रह्मविदां 'शुकतृतीयजन्मवदाप- भादीनां सागदर्शनात् । एतेन यद्विदां कर्मसागस्तस्य कर्मशेषत्वं कथं शाङ्कितुमपि शक्यमिति भावः मूच्यते । एतेन कर्मण्यशक्तान प्रति सागविधिरिति निरस्तम् । शुकादीनामतथात्वात् ॥ ९॥ वुत्कृष्टाविति सिद्धम् । दर्शनव्याख्याने, भक्तिमार्गस्य चेति च. कारो ज्ञानमार्गसमुच्चायकः । श्रुतिसूत्रशेषयोाख्यानं तूत्ताना- र्थम् । मतान्तरीये एतव्याख्याने अयुक्तत्वं बोधयन्ति । * श्रुतय इत्यादि * शारीरादधिकं परमात्मानं दर्शयतीति यद् व्याख्यानं त- पौनरुक्त्यापादकत्वादयुक्तमित्यर्थः । एवं स्वोक्तं व्याख्यानं समर्थ- यित्वा बादरायणपदेन स्वमतबोधनस्य तात्पर्यमाहुः । * तन्मतमि- त्यादि *। * तन्मतमिति * जैमिनीयं मतम् । अर्थस्तु स्फुटः । एवमेतेन सूत्रेण जैमिन्युक्तस्य शेषत्वस्य हेतोर्बाधितत्वं स्फुटी- कृतम् ॥८॥ एवं ब्रह्मणः कर्मशेषत्वं निराकृत्य विद्यायाः कर्मशेषत्वं वा. रयतीत्याशयेनाहुः ॥ तुल्यन्दर्शनम् ॥ भाष्यमत्र प्रकटार्थम् । तथाच य आचारद- शन इति हेतुर्विद्यायाः कर्माङ्गत्व उक्तः सोऽपि साधारणत्वात्विा.

३ अध्याये ४ पादः।
१९८३
ननु जनको ह वैदेह इति श्रुतिसाहाय्यादाचारदर्शनं साग-
दर्शनादधिकबलमियत उत्तरं पठति ।
असार्वत्रिकी ॥ १० ॥
ब्रह्मविदां सर्वेपामेतदाचारं चेन्निरूपयेच्छ्रुतिस्तदा त्वदुक्तं
स्यान त्वेवम् । यत एतादृशी श्रुतिर्ब्रह्मवित्सु सर्वेषु न श्रूयते ।
तथाहि । एतद्ध स्म वै तद्विद्वांस आहुर्ऋपयः कावपेयाः । किमर्था
वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे । एतद्ध स्म वै तत्पूर्वे वि-
द्वांसोऽग्निहोत्रं न जुहुवाञ्चक्रिरे एतं वै तमात्मानं विदित्वा ब्रा-
ह्मणाः पुत्रैषणायाश्च लोकैपणायाश्च व्युत्थायाथ भिक्षाचर्य
चरन्ति । एतावदरे खल्वऽमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रव-
बाजेखादिश्रुतयो बह्वयस्तद्विदां कर्मयागमेवानुवदन्यतस्यागपक्ष
एवं बलवान् ॥ १० ॥
ननु ब्रह्मवित्त्वाविशेषेऽप्येकेषां कर्मकृतिरेकेषां तत्त्याग इति
विभागः कुत इसाशमा तत्र हेतुमाह ।
भास इति योध्यते । ब्रह्मणः कर्माङ्गत्वं च कैमुतिकानिरस्यते । जै-
मिनीयकृता त्यागव्यवस्था च निरस्यत इति तत्र वोधितम् ॥९॥
असार्वत्रिकी ॥ सूत्रमवतारयन्ति। * नन्वित्यादि * सदा-
चारस्य तुल्यत्वेऽपि केवलस्य परमुखनिरीक्षकत्वेन श्रुत्युपष्टन्धस्यैव
बलवत्त्वमतस्तुल्यत्वं न हेतोः साधारणत्वापादकमित्याशगयां श्रु-
तेरपि साधारण्यं बोधयितुं सूत्रान्तरं पठतीत्यर्थः । सूत्र व्याकुर्वन्ति।
*ब्रह्मविद्यामित्यादि * अत्र प्रथमा श्रुतिहदारण्यके शारीरब्राह्मणे ।
द्वितीया मैत्रेयीघ्राह्मणे । तथाच श्रुतेरपि साधारणत्वात् तदबहुत्वा-
नुगृहीतस्त्यागपक्ष एव बलवान्न तु तत्करणपक्ष इत्यर्थः ।
अन्य तु यदव विद्ययेति श्रुतिरुद्गीथविद्यापठितेति तस्या एव कर्माङ्गता
बोधयतीति विद्यायाः कर्माङ्गता असार्वत्रिकीत्यर्थमाहुः ॥१०॥

११८४ समकाशे अणुभाष्ये । विभागः शतवत् ॥ ११ ॥ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेर्मा- नुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तं ये गणिता आनन्दास्ते सर्वे पुरु- पोत्तमानन्दात्मका एव । एवं सति येषु यावानानन्दो दत्तोऽस्ति तावन्तं तं निरूपयन्सधिकारतारतम्यन तहानमिति ज्ञापनाय शतो- चरमानन्दं श्रुतिर्यरूपयत् । अत एव पुरुषायुःसंख्यासमानसं- ख्ययैवोत्कर्ष उक्तस्तेन पुरुषधर्मस्याधिकारस्यैवोत्कर्षः सूच्यते । एवं प्रकृतेऽप्यन्यभावरहित्यतारतम्येन भगवद्भावतारतम्यमत्र त्व- नुग्रह एवाधिकाररूप इति तदुत्कर्षे सागस्तदनुत्कर्षे नेसर्थः॥११॥ यच्चोकं तद्वतो विधानादिति तत्राह । विभागः शतवत् ॥ सूत्रमवतारयन्ति । * नन्वित्यादि * | यदि बहुप्रमाणप्रमितत्वात् कर्मत्यागपक्ष एव ज्यायाँस्तदोक्तरूपो विभागः किंहेतुक इति वक्तव्यम् । तदवचने तु ब्रह्मवित्स्वपि ये क- मण्यधिकारशून्यास्तेषामेव कर्मत्यक्तृत्वं सेत्स्यतीति न विद्याया वेद्यस्य वा आधिक्यसिद्धिरित्याशङ्कायां कर्मत्यागात्यागविभागे हे. तुमाहेत्यर्थः । * एतस्येत्यादि । निरूपयन्तीति सुब्विभक्तिर्बोध्या । * अत एवेति * । अधिकाराभिप्रायादव । * प्रकृत इति । कर्मत्या- गात्यागविभागे ब्रह्मविदाचारविभागे घा। * अत्र त्विति * । भगव- द्भावतारतम्ये तु , तथाच कर्मत्यागात्यागविभागे एवमुत्कर्षस्तद- भावश्च बीजं, न तु त्वदुक्तमित्यर्थः ॥ अन्ये तु इदं सूत्रं समन्वारम्भणसूत्रोत्तरत्वेनाङ्गीकृस्यैवं व्याकुर्वन्ति। यथा शतमाभ्यां दीयतामित्युक्ते मेकस्मा अर्द्धमन्यस्मै दीयते तथा। विद्यान्यमारभते कर्मान्यमिति विभागो द्रष्टव्य इति । तच्चिन्त्यम् । तत्र उपसंहारे इति तु कामयमान इति कथनात् कर्माङ्गभूतविद्या- या एव विवक्षितत्वावगमेन समन्वारम्भणस्य हेतुत्वाशनया भ्रा- न्तिमूलत्वेन तदुपेक्षाया एव युक्तत्वादिति ॥ ११ ॥ .

३ अध्याये ४ पादः। ११८५ अध्ययनमात्रवतः ॥ १२ ॥ यदुक्तं ब्रह्मिष्ठो ब्रह्मयादि तब ब्रह्मशब्देन वेद एवोच्यते, न तु परस्तथाच तं ब्रह्मत्वेनाविकृतशब्दरूपत्वं ज्ञात्वा सततं तद- ध्ययनमात्रं यः करोति, न तु तेन किञ्चित् कामयते तस्याधि- कारो ब्रह्मत्वात्विज्य इत्युच्यत इति न ब्रह्मज्ञानस्य कर्मशेषत्वम् । प्रययस्यातिशायनार्थकत्वादतिशयेन ब्रह्मरूपस्तदैव भवतीति युक्त तस्य तदात्विज्यमेवं सति ब्रह्मपदं ब्राह्मण्यपरमपि सङ्गच्छते ॥ अथवा वेदाध्ययनमात्रवतः कर्मण्यधिकारो, न तु ब्रह्मविदो- ऽपीयर्थः।नच तदन्तःपातित्वेन वेदान्तानामप्यध्ययनस्यावश्यकत्वे तत्प्रतिपाद्यब्रह्मज्ञानस्याप्यवर्जनीयत्वात्तद्वत एव तत्राधिकार इति वाच्यम् । शाब्दपरोक्षज्ञानस्य ब्रह्मज्ञानत्वाभावात् । न हि, सिता मधुरेतिशाब्दज्ञानमात्रवांस्तन्माधुर्यज्ञो भवति । तथा सति पित्तो- अध्ययनमात्रवतः ॥ सूत्रमवतारयन्ति । * यच्चेत्यादि * । व्याकुर्वन्ति । * यदुक्तमित्यादि * । इष्ठन्प्रत्ययसूचितमर्थमाहुः । * प्रत्ययस्येत्यादि * । एताहशस्य दुर्लभत्वाइर्शपूर्णमासयोश्च प्रति. पक्षान्तं कर्तव्यत्वात् तादशाभावे तल्लोपप्रसङ्ग इत्यरुच्या पक्षान्तर- माहुः । * अथवेत्यादि * । आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य शुचौ देशे स्वाध्यायमधीयान इति श्रुतावध्ययनमात्रश्रवणात्तावन्मात्रवत एवेति तथेत्यर्थः । नन्वध्ययन- स्याक्षरग्रहणरूपत्वेऽविद्वत्वात् कर्मानधिकारप्रसक्तिरथार्थज्ञानस्या- प्यपेक्षितत्वं तदा तु वेदान्तेभ्यो ब्रह्मज्ञानस्यापि सम्भवादू ब्रमिष्ठ- स्यापि कर्मशेषत्वमनिवार्यमित्याशङ्कनमनूद्य परिहरन्ति । * नचे- त्यादि *। * ब्रह्मज्ञानत्वाभावादिति । अत्र शाब्दज्ञानस्य तथात्वेन विवक्षितत्वाभावात् । तदुपपादयन्ति । * न हीत्यादि * । * तथा सतीत्यादि * । तावतैव तन्माधुर्यज्ञत्वे सति तस्यापरोक्षशानस्य रासनरूपत्वात् तत्कार्य स्यात् तत्तु न दृश्यते । एवं प्रकृतेऽपि यदि १४९

११८६
समकाशे अणुभाष्ये ।
पशमादिकं तत्कार्यमाप स्यान्न वेवम् । अत एव छान्दोग्ये सन-
स्कुमारेण, यद्वेत्थ तेन मोपसीदेत्युक्तो नारद ऋग्वेदमारभ्य सर्पदेव-
जनविद्यापर्यन्तं स्वाधीतमुक्त्वाह, सोऽहं मन्त्रविदेवास्मि नात्मविदि-
खतोऽपरोक्षब्रह्मज्ञानमेव ब्रह्मज्ञानमुच्यते । अत एव तैत्तिरीयोप-
निषत्सु वेदान्तविज्ञानसुनिश्चितार्था इति पठ्यते । विज्ञानमनुभव
एव, न तु ज्ञानमात्रमतो दुरापास्तं कर्मशेषत्वं ब्रह्मणः ।
विद्याकर्मणी इसादिस्तु संसार्यात्मनः पूर्वदेहसागसामयिकं वृतान्तं
निरूपयति, न तु ब्रह्मविद इति, समन्वारम्भणादिति सूत्रमुपेक्षित-
माचार्येण ॥ १२ ॥
यच्चोक्तं नियमाचेति तत्राह।
।
तत् तथा स्यात्तदा शुकादिवदेव चरेन त्वात्विज्यं कुर्यादतस्तदि
वैतदपि नापरोक्षमित्यर्थः । अत्र श्रुतिसम्मतिमाहुः । * अत एवे
त्यादि * । लिङ्गेन तस्यापरोक्षज्ञानत्वं निवार्य श्रुत्यापि वारणायाहुः
* तैत्तिरीयेत्यादि * । ननु भवत्वेवं तथापि समन्वारम्भणस्यापरि
हतत्वावू विद्यायाः कर्मसाहित्येनैव फलजनकताङ्गीकार्येति विद्या
याः कर्मशेषत्वं त्वनिवार्यमित्याशङ्कनयामाहुः । * तं विद्येत्यादि *
यतः सा संसारिवृत्तान्तं शारीरब्राह्मणे निरूपयत्यतस्तत्र विद्यापदे
विद्वद्वाक्योक्ता कर्माङ्गभूतैव विद्याऽभिप्रेयते । अत एव तत्र विद्या
कर्मभ्यां दैवं घा, पित्र्यं वा, गान्धर्व वेति ताशशरीरमेव फल
त्वेन वक्ति, न मोक्षमतस्तस्मिन् वाक्ये ब्रह्मवित्सर्गस्याप्यभावात
तदुपेक्षितमतो न घेदान्तोदितविद्याया अपि कर्मशेषत्वमित्यर्थः
एतेन यदन्यैरेव व्याख्यातम् । औपनिषदमात्मज्ञानं स्वातन्त्र्येणे
प्रयांजनवत् प्रतीयमानं न कर्माधिकारकारणतां प्रतिपद्यत इति प्र
तिपादयाम इति । तत्र बीजमिदमंव वक्तव्यं, न तु क्रत्वन्तरक्षानं क
त्वन्तराधिकारणापेक्ष्यत इति दृष्टान्तबोधितमिति सूचितम् । तथ
सस्यपि अरिष्ठपदयाधितशेषताया अनपायादिति ॥ १२॥

३ अध्याये ४ पादः। ११८७ नाविशेषात् ॥ १३ ॥ आश्विनमियादिश्रुतिभ्यः कर्मकृतो यथा नियमः श्रूयते, न तथा साग इति यदुक्तं, तन्न । कुतः । अविशेषात् । न कर्मणा न प्रजया धनेन सागेनैके अमृतत्वमानशुरिति श्रुतिः कर्मादिना अमृतत्वामाप्तिमुक्त्वा तत्त्यागेन तां वदन्ती कर्मसागस्यावश्य- कत्वं वदतीति तस्मान्न विशेषो यत इयर्थः । तथाचाऽमृतत्वमान- शुरिति पदान्मुमुक्षोः कर्मसागनियमोऽमुमुक्षोस्तकृतिनियम इति- व्यवस्थेति भावः ॥ अथवा, ननु क्रमप्राप्ते तुरीयाश्रमे हि कर्मयागो, द्वितीये तस्मिन् कर्मकरणनियमस्तत्र च कर्तुरङ्गत्वेन तत्स्वरूपज्ञानमाव- नाविशेषात् ॥ अवतारयन्ति । * यच्चोक्तमित्यादि * सौत्रं हेतुं व्याकुर्वन्ति । * न कर्मणेत्यादि * । तथाच यथा फर्मश्रुताव- करणनिन्दादिना तदावश्यकतया कर्मकरणनियमोऽवगम्यते तथा त्यागश्रुतावपि कर्मादिभिर्मोक्षाप्राप्तिकथनपूर्वकं त्यागेन तत्प्राप्त्यु- त्या तदावश्यकतया त्यागस्यापि नियमोऽवगम्यत इति तथेत्यर्थः । तेन सिद्धमाहुः । * तथाचत्यादि * । एवं ब्रह्मज्ञानस्य कर्माङ्गत्वा- ऽभावेऽपि जीवस्वरूपज्ञानस्य कर्माङ्गत्वं न वारायतुं शक्यमित्याशग- ऽप्यनेनैव निरस्ता भवतीत्याशयेन पक्षान्तरमाहुः * अथवेत्यादि । * तत्र चेति * । कर्मणि च अविशेषपदस्य व्याख्यानम् । आश्रम- विशेषे विशेषाभावादिति । अयमर्थः । भाट्टा हि अध्ययन विधिगृ- हीतानां वेदान्तानां वेदशेषत्वायवमुपवर्णयन्ति । तथाहि । यत्तावद् अविनाशी वा अरे अयमात्मेत्यादिना जायमानं शरीराद्यतिरिक्तनि- त्यात्मस्वरूपसद्भावक्षानं तत् पारलौकिकफलककर्मानुष्ठानोपयिक- त्वात् कर्मज्ञानवदेव सामर्थ्यतः क्रतुसंयोगात् ऋत्वर्थम् । यथा ज्योतिष्टोमादिवाक्याध्ययनं दृष्टेनैव द्वारेणानुष्ठानोपयिक शानं जन- यतीति तदर्थतयैवाध्ययनं विधीयते । तथा अविनाशीत्यादिधाक्या- नामप्यध्ययनविधिरेव कर्मानुष्ठानोपयांग्यात्मशानार्थतां विधत्ते । त- यदि प्रमाणान्तरेणात्मनः शरीरादिविवेको नैकान्ततः सिद्ध्यति ।

११८८ सपकाशे अणुभाष्ये । ततो हढविवेकप्रतिपादकानामुपनिषद्वाक्यानां विस्पष्टज्ञानमेव फल- म् । तदुक्तम् । "इत्याह नास्तिक्यनिराकारण्णुरात्मास्तितां भाष्यक. दत्र युक्त्या । दृढत्वमेव तद्विषयः प्रबोधः प्रयाति घेदान्तनिषेवणेन" इति । यदि च शरीरादिव्यतिरिक्तात्मशानमन्यतोऽपि सिद्ध्यति ततो यथैवान्यतः क्रतुशानसम्भवेऽप्यध्ययनोपात्तवेदवाक्यावगतकर्मरूपा- णामेव पुंसां कर्मस्वधिकारस्तथैवाध्ययनोपात्तोपनिषवाक्यावगतात्म- तत्त्वानामेवाधिकार इत्यध्ययनविधिबलादेव कल्प्यते । यत्वात्मस- द्भावप्रतिपादनोपक्रमे, आत्मा वा अरे द्रष्टव्य इत्यादिकं विधिरूपं वाक्यं तत्तु वक्ष्यमाणार्थस्यातिगहनत्वान्महोपयोगित्वाच्चालस्यं निवार्य श्रद्धाविशेषेण कृत्वा वक्ष्यमाणार्थप्रतिपत्तिमात्रार्थम् । त- स्मादेतज्ज्ञानं दृष्टोपयोगित्वात् त्वर्थम् । यानि पुनरितिकर्तव्य- ताविशेषे उपासनात्मकानि ज्ञानानि विधीयन्ते तेषां कृतौ दृष्टोपयो- गाभावाददृष्टफलत्वम् । अदृष्टं च फलं वाक्यशेषाद् द्विविधं अभ्युद- यरूपं निःश्रेयरूपं च । सर्वांश्च कामानाप्नोति, सोऽश्नुते सर्वान् कामानित्यायुक्तमभ्युदयफलम् । न स पुनरावर्तत इत्यायुक्तं निः- श्रेयसफलमिति विवेकः। यत्तु, विज्ञानघन एवैतेभ्यो भूतेभ्य समुत्थाय तान्येवानुवि- नश्यति, न प्रेत्य संज्ञास्तीति ब्राह्मणेन भूतचैतन्यमुक्तमित्याशक्यते तन्न । स्वयमेव ब्राह्मणेन, अत्रैवमा भगवनमूमुहं न प्रेत्य संज्ञास्तीत्य- नेन पूर्वोक्ताऽजराऽमृतत्वस्य विनाशित्वाभिधानतो बाधात् पूर्वपक्ष चोद्याख्यमुत्थाप्य, न वा अरे मोहमहं ब्रवीम्यविनाशी वा अरेऽयमा- त्माऽनुच्छित्तिधर्मेत्युक्त्वामात्रासंसर्गस्त्वस्य भवतीति कथनेन मात्रा- शब्दवाच्यानां भूतेन्द्रियधर्माणां विकाराणां सम्बन्धबोधनात विज्ञान- घनशब्दोक्तो ज्ञानशक्तिस्वभाव आत्मा एतेभ्यो भूतेभ्यः समुत्थाय व्यक्तो भूत्वा तान्येवानुविनश्यति । भूतविनाशाद्विनष्ट इव भवति । भूतसंस्थो ह्यसौ स्वयं प्रत्यक्षेण गृह्यते । परैश्च शरीरचेष्टादिलिङ्गका- ऽनुमानेन । मुक्तस्तु प्रमाणपथातिवर्तनाद्विनष्ट इव भवतीति प्रकारेण मात्राणामेव नाश उच्यते, नात्मन इत्यविरोधात् । तदुक्तम् । “अ- विनाशी स्वरूपेण पुरुषो याति नाशिताम् । मात्राणां सविकाराणां भूतादीनामसंहिते"ति । अत्र हि मुक्तस्य ज्ञानाभावो योध्यते । भूते- न्द्रियादिवियोगे करणाभावेन ज्ञानोपायाभावात् । तत्केन कं पश्ये- , ३ अध्याये ४ पादः। ११८९ दित्यारभ्य विज्ञातारमरे केन विजानीयादिस्यन्तेन विज्ञानामावोपपा. दनात् । वस्तुतस्तु प्रकरणार्थोपसंहारोऽयम् । यत एव पूर्वोक्तन्या- येन भूतचैतन्यं न सम्भवति तस्माद् भूतेन्द्रियाणामसंशित्वम् । अ- चैतन्यम् । अन्यस्तु तेभ्यो नित्यश्चेतनस्य स्वर्गगमनसम्भवान्न स्वर्ग लोकं यातीत्यस्य प्रत्यक्षस्य विरोध इत्येवं भट्टकारिकाया अर्थादि- ति पार्थसारथिमिश्राः । तथाच यथा प्रोक्षणसंस्कृता एव ब्रीहयो याग उपयुज्यन्त एवमीपनिषदज्ञानसंस्कृत एव कर्ता उपयुज्यत इति तत्स्वरूपनिरूपकत्वेन वेदशेषा वेदान्ता इत्याहुः । तत्र भाग्यो- कं दूषणं पश्चा, व्युत्पाद्यम् । पूर्व तु तदुक्तेऽस्यात्मवाक्यतात्पर्य त्वासङ्गतिः प्रकाश्यते । शरीरादिव्यतिरिक्तात्मसत्तामात्रसाधना. याऽविनाशीत्यादिश्रुतिरित यदुक्तम् । तन्मदम् । शाबरभाष्ये नै- यायिकाधुक्तयुक्तिभिरेव तत्सिद्ध्या तत एव नास्तिक्यनिराकरणसि- द्धावविनाशी वा अर इत्यादिश्रुतिसन्दर्भस्य तदर्थताया वक्तुमयुक्त- त्वात् । एतदुपक्रमे, येनाहं नामृतास्यां किमहं तेन कुर्यामिति मो- क्षार्थत्वस्य श्रावणाग्निरुपधिप्रियत्वबोधनस्याप्यन्यत्र वैराग्योत्पादना- यंत्वन संसारिलिङ्गत्वाभावात् । ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्र. स वेदेत्यादिनिन्दाश्रुत्या आत्मज्ञानेन सर्वज्ञानश्रावणस्यापि स्तुत्यर्थ- ताया वक्तुमशक्यत्वात् । अध्ययनवाक्ये तु न विधिः, किन्त्वावश्य- कार्थे तव्य इति जिज्ञासासूत्र एवोपपादितम् । अर्थशानं तु सामा- न्यतो गुरुकृताज्ज्ञापनात् । विशेषस्तु तपआदिभ्यः साधनेभ्यो मी- मांसाद्वयसहकृतेश्य इत्यपि । अर्थशानं च न द्रव्ययक्षमात्रानुष्ठानो- पयोगि । चातुराश्रम्यधर्मार्थत्वात् । अन्यथा तद्वाक्यवैयापत्तः । धर्मोऽपि न धर्मत्वन रूपेण वेदार्थः, किन्तु ब्रह्मात्मकत्वेन । यज्ञो वै विष्णुरिति, धर्मो यस्यां मदात्मक इति श्रुतिस्मृतिभ्यां, सर्वे वेदा य- त्पदमामनन्तीति वेदैश्च सर्वैरहमेव वेद्य इत्यादिश्रुतिस्मृतिभ्यश्च । एवञ्च विधिपक्षेऽपि आत्मावारे द्रष्टव्य इति दर्शनविधानं ब्राह्मणो- पक्रममारभ्यान्तं प्रोक्तस्यार्थस्यातिगहनत्वात् तदर्थ न तुक्रत्वर्थम्। सोऽश्नुते सर्वानित्यस्य यदभ्युदयरूपत्वमुक्तम् । तदप्यबुद्ध्वा । पर- प्राप्तिविवरणरूपत्वेन तस्य निःश्रेयसरूपत्वात् । इदं च प्रागुप- पादितम् । यदपि, न प्रेत्य संज्ञास्तीत्यनेन मोक्षदशायामात्मनः करणाभावाज्ज्ञानशून्यत्वमुच्यत इत्युक्तम् । तदपि तथा ।

समकाये अणुभाष्ये। श्यकम् । तच्च वेदान्तैरेवेति कथं न कर्मशेषत्वमित्युत्सूत्र- माशा निषेधति । नेति । यदहरेव विरजेदिति श्रुतेस्तावत् क- मर्माणि कुर्वीत न निर्विघेत यावतेति भगवाद्वाक्याच्च सागे वैरा- ग्यस्य च प्रयोजकत्वादाश्रमविशेषे विशेषाभावादप्रयोजकत्वादिस- थः। यत्रापि क्वचित्क्रमप्राप्तिस्तत्रापि न तज्ज्ञानं ब्रह्मज्ञानमिति अनुच्छित्तिधर्मेत्यनेन तत्रैव धर्मानुच्छित्तिं श्रावयित्वा यद्वैतन्न प- श्यति पश्यन् वै तद् द्रष्टव्यं न पश्यतीत्यादिना करणाभा- वेपि स्वत एव दर्शनस्य विभक्ताभावेनान्यादर्शनस्य चोक्त्या स्व- तोऽविभक्तदर्शनस्यैव व्युत्पादनादिति । वस्तुतस्त्विदमपि ब्रह्मप्रकर- णमिति वाक्यान्वयाधिकरणे व्युत्पादितमिति न तत्र जीवात्मस- सासाधनार्थत्वगन्धोऽपि । तस्मान्न कर्तृशेषा वेदान्ताः । अतः परं भाष्य विवियते । * यदहरेवेत्यादि * यदुक्तं कर्तृवरूपनिरूपक- त्वात् कर्मशेषत्वं वेदान्तानामिति । तन्न युक्तम् । कर्तुः कर्मशेषत्वा- भावात् । यदहरेवेत्यादिश्रुनेस्तावत् कर्माणीति भगवद्वाक्याच्च त्यागे वैराग्यस्यैव प्रयोजकत्वाद्वैराग्योत्पत्तिपर्यन्तमेव कर्मकरणप्रा- सेराश्रमविशेषस्याप्रयोजकत्वावदानां पूर्वोक्तरीत्या कर्ममोक्षाय क- र्माणि विधत्ते ागदं यथेति स्मृत्या च कर्मत्याग एव तात्पर्याद्वेदानां वेदान्तशेषत्वान्जीवनिरूपकवेदान्तभागस्यापि त्यागकर्तृनिरूपकत्व- मेव मुख्यम् । कर्मकर्तृनिरूपणं तु प्रासङ्गिकम् । अत एव तद्वाक्येषु, इति तु कामयमान इति, अथाकामयमान इत्युभयविधं तत्स्वरूपं नि- रूप्यते । अत आश्रमविशेषमादाय वेदान्तानां कर्मशेषत्वस्थापनमा युक्तमेवेत्यर्थः । ननु स्यागस्य फलार्थत्वेऽपि शानाङ्गत्वाज्ञानस्य च वेदान्तसिद्धस्य कर्माङ्गतायाः प्रागेवोक्तत्वात् प्रव्राजेऽपि चातुराश्र- म्यपक्षकथनेनाध्ययनोपात्तवेदान्तभागजन्यस्य शानस्य कर्मशेषत्वम- निवार्यमेवेत्याशङ्कायां तस्याः पूर्वमेवोत्तरं दत्तमित्याहुः । * यत्रा- पीत्यादि * यत्रापि कस्मिंश्चित् पुरुषविशेषे क्रमेण त्यागप्राप्तिस्त- त्रापि शाब्दझानस्य मुक्तिसाधकत्वाभावान्न विवक्षितब्रह्मज्ञानत्यमि- ति पूर्वस्मिन्नध्ययनमात्रवत इति सूत्र एव व्युत्पादितमतो न ब्रह्म- ३ अध्याये ४ पादः। ११९१ पूर्वसूत्र एवोक्तमिति भावः । एतेन वेदाध्ययनादिकमप्यप्रयो. जकामति ज्ञापितमाअत एव शुकस्य वैराग्यातिशयादुपनयनादेरप्य- नपेक्षोच्यते । एवं सूत्रद्वयेन कर्माधिकारसम्पादकत्वेन ब्रह्मज्ञानस्य तच्छेषत्वं निरस्तम् ॥ १३ ॥ स्तुतयेऽनुमतिर्वा ॥ १४ ॥ अथ अहिलतया ब्रह्मिष्ठ इसत्र ब्रह्मपदेन पर एवोच्यत इति वदसि तत्रापि वदामः । दर्शपूर्णमासावेतादृशौ यत्रब्रह्मविदात्वि- ज्याधिकारीति तत्स्तुसर्थ ब्रह्मिष्ठो ब्रह्मेसनेन ब्रह्मविदोऽप्या- विज्येऽनुमितिः क्रियते, न तु तस्याधिकारित्वमभिप्रेतम् । शाने कर्मशेषत्वगन्धोऽपीत्यर्थः । ननु तथापि, ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो शेयश्चेत्यादिश्रुतिभिर्वेदाध्ययनादिकं त्वावश्यक- म् । तदपि कमैवेति तदङ्गत्वं त्वात्मज्ञानस्य भविष्यत्येवेति कथं न फर्माङ्गत्वमित्यत आहुः । * एतेनेत्यादि * I * अप्रयोजकमिति * ज्ञानस्य कर्माङ्गत्वाप्रयाजकम् । अत्र निदर्शनमाहुः । * अत एवेत्या- दि * । सिद्धमाहुः * एवमित्यादि * एवमधिकोपदेशसूत्रेण स्वो- क्तमुपष्टभ्य शेषैः पञ्चभिः सूत्रैजैमिन्युक्ता हेतव आभासीकृताः ॥ अन्ये, तु कुर्वन्नेव हीत्यत्र न विदुष इति विशेषेण नियमवि- धानमित्येवं सूत्रार्थमाहुः । तथाचाविद्वद्विषयत्वेऽपि वाक्यसामञ्ज- स्यान तेन विद्यायाः कर्माङ्गत्वसिद्धिरिति तदाशयः । रामानुजास्तु, उक्तवाक्ये कर्मणां करणनियमेऽपि कर्मसु वि- शेषो नोच्यते । यज्ञाधव कार्य नान्यदिति । अतो यथा अविदुषां स्व. तन्त्रफलसाधकं नियतमेवं विदुषां विद्याङ्गभूतमत एवमपि वा. क्यसामञ्जस्यानानेन विद्यायाः कर्माङ्गत्वप्राप्तिरित्याहुः । तदप्यवि- रुखम् ॥१३॥ स्तुतयेऽनुमतिर्वा ॥ एवं षभिः सूत्रैजैमिनीयोक्तं निराकृत्य पुनरुत्सूत्र किश्चिदाशय निराकरोतीत्याशयेन सूत्रमवतारयन्ति । * अथेत्यादि * व्याकुर्वन्ति । * दर्शेत्यादि *। * तस्येति * ब्रह्म- ११९२ सप्रकाश भणुभाष्ये । उक्तानुपपत्तिभिरिसर्थः ॥१४॥ कामकारेण चैके ॥ १५ ॥ नन्वेष नियो महिमा ब्राह्मणस्य न कर्मणा वर्द्धते नो कनी- यानिति श्रुसा ब्रह्मविदः कर्मकृतगुणदोषौ निषिद्धयते । स च प्रा- प्तिपूर्वक इति ब्रह्मविदः कर्मकरणमावश्यकमिति प्राप्ते, उच्यते । --- शानस्य । तथाचोक्तवाक्ये ब्रह्मिष्ठपदमतिशयेन ब्रह्मवानित्यर्थकम् । अतिशयश्च श्रद्धया साक्षात्कारेण वति, यो यच्छ्रद्धः स एव सः, ज्ञानी त्वात्मैव मे मतमिति गीतास्मृत्याऽवसीयते । तादृशश्चेद् ब्रह्मा कताकृतावेक्षकतया यागे तिष्ठति तदा परमकाष्ठाप्रापको दर्शपूर्ण- मासी साङ्गी भवतः । यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेदित्यष्टम- स्कन्धे शुक्राचार्य प्रति भगवद्वाक्यात् । अतो ब्राह्मष्ठो ब्रह्मेति पद- समाभिव्याहाररूपस्यानुग्रहबीजस्य वाक्ये विद्यमानत्वाच्छुकाद्या- चारकावषेयश्रुतिविरोधत्यागनियमरूपाणामात्विज्यबाधकानामनुप. पत्तीनां सत्त्वाच तस्या अनुशायाः यागस्तुत्यर्थत्वमेवेत्यर्थः । सूत्रे, वाशब्दोऽनादरे । तेन ब्रह्मणि श्रद्धावतः सर्वत्र ब्रह्मद्रष्टुश्च तदार्वि- ज्यं प्रासङ्गिकमिति बोधितम् । स्तुतिप्रयोजनं त्वविद्वत्प्ररोचनम् । अधिकाराभावेऽपि त्यागकरणेऽनिष्टं स्यादिति तन्निवृत्त्यर्थमिति बो- ध्यम्। अन्ये तु, कुर्वनिति श्रुतौ प्रकरणसामर्थ्याद्विद्वानेव संबोध्यत इत्युच्यते । तदापि विद्यास्तुतये कर्मानुज्ञानं द्रष्टव्यम् । न कर्म लि- प्यते नर इति वाक्यशेषात् । यावजीवं कर्म कुर्वत्यपि विदुषि विद्या- सामर्थ्यात् कर्म न लेपाय भवतीति तत्रार्थादित्याहुः । तदप्यवि. रुखम् ॥ १४॥ कामकारेण चैके ॥ नन्वनुशयाप्यात्विज्यकरणे विध्यधीनत्वं तु निर्वाधमता भवतु कर्माङ्गत्वं विद्यायास्तद्वारेत्याशयेन सूत्रमव- तारयन्ति । * नन्वित्यादि * । स चति * । निषेधः । सूत्रं व्याकु- ३ अध्याये ४ पादः। ११९३ कामकारेणेति । करणं कारः । कामेनेच्छया करणं कामकारस्त- थाच परानुग्रहार्थमिच्छामात्रेण, न तु विधिवशाद यत् करणं तव कामकार इत्युच्यते। तथाचैवं कृते कर्मणि तत्कृतगुणदोषप्रसक्ती तत्प्रतिषेधमेक शाखिन, एष निस इसादि पठन्ति ॥ न घेतावता कर्मकृसधिकारप्राप्तिरिति भावः । अथवा । कामेन कारो यस्य स तथा । तादृशेन कर्मणा प्राप्तद्धिहासयोः सम्बन्धाभावं ब्र- माविदि एके पठन्तीयर्थः । चकारेणेश्वराज्ञया लोकसंग्रहार्थ कृतं कर्म समुच्चीयते । सर्वस्य वशी सर्वस्येशान इति श्रुते. स्तथा ॥ १५ ॥ पन्ति । * करणमित्यादि * 1 *हच्छामात्रेणेति * । स्वेच्छामात्रेण । एतस्यैव विवरणं, न तु विधिवशादितिं । तेन"शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्याँश्च नियमान ज्ञानी यथाहं लीलयेश्वर" इत्येकादशीयभगवद्वाक्यानुरूपया स्वेच्छयेति फलितं बोध्यम् । * एतावतेति * । गुणदोषनिषेधमात्रेण । एवं व्याख्याने स्वकृत्या दोषाद्यप्रसक्तिरायाति, न तु तदभिव्यङ्ग्यकर्मकृतगुणदोषाप्रसक्ति- रपीत्यतः प्रकारान्तरमाहुः * अथवेत्यादि * : * स इति * । ब्रह्म वित् । तथाच श्रुतावेष इत्यनेन कृताकृतजन्यतापाभावरूपं पूर्वोक्त- महिमानं परामृश्य तस्य नित्यत्वोक्तिस्तस्यैकरसत्वोक्तिश्च काम- कारलिङ्गम् । तेन तादृशपुरुषस्यापि चेत्कर्मशेषत्वनिवृत्तिस्तदा वि- धायाः कर्मशेषत्वं शडिन्तुमप्यशक्यमित्यर्थः । ईश्वरेच्छायां गमफ- माहुः । * सर्वस्येत्यादि । तथाच सर्ववशकरणार्थ कर्मणामाव- श्यकत्वाद् भगवतः सर्वेशनशीलत्वेन ज्ञानिनामपि भगवदीशितव्य- तया तानाशापयति लोकसंग्रहार्थमित्ययमर्थोऽनया श्रुत्यैव शायत इत्यर्थः । यद्यपि पूर्वपादे तन्निर्धारणानियमसूत्रेऽयमर्थस्तत्फलार्थ- मुक्तस्तथाप्यत्र स एव धादिनिराकरणार्थमुच्यत इति न पुनरुक्ति- दोषः । एवं ब्रह्मविदः कामकारबोधनादाविज्यमपि तस्य न विधि- नियतमिति च समर्थितम् ॥ १५० १११४ समकाशे अणुभाष्ये । उपमईञ्च ॥ १६ ॥ अनेन कर्माधिकाराभावे हेत्वन्तरमुच्यते ॥ द्वैतभाने हि य- थाकथञ्चित् कर्मकृतिसम्भावनापियस्य वखण्डब्रह्माद्वैतभानं ब्रह्मे- सेव, न विदं ब्रह्मात सखण्डम् । अत्रोद्देश्यत्वेन प्रपञ्चस्यापि भा- नात् सखण्डत्वन् । तथाचाखण्डतद्भाने कर्मतदधिकारादेरुपमर्दै चैके शाखिनः पठन्तीति न ब्रह्मज्ञानस्य कर्मशेपत्वसम्भावनापी- सर्थः। श्रुतिस्तु, यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येदिसा- दिरूपा ॥ १६ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ १७ ॥ अन्ये तु, कामकार इच्छेति व्याख्याय, तद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो एवाय- मात्मा नायं लोक इति वाजसनेयिश्रुती कर्मत्याग इच्छयैव बोध्यत इति प्रत्यक्षीकृतविद्याफलानां तदवष्टम्भेन प्रजादिषु कामाभावकथ- नात् । अतो विद्याफलस्य प्रत्यक्षतया तत्फलश्रुनेरयथार्थताया व- तुमशक्यत्वान्न विद्यायाः कर्मशेषत्वमाश्रयितुं शक्यमित्येवं व्या- कुर्वन्ति । तत्र कामपदस्येच्छावाचकत्वेऽपि कामकारपदस्य तद्वाच- कत्वं चिन्त्यम् ॥ १५ ॥ उपमई च ॥ उक्तोपष्टम्भायसूत्रान्तरं पठतीत्याशयेन सूत्रम- वतारयन्ति । * अनेनेत्यादि * । व्याकुर्वन्ति । * द्वैतेत्यादि * । अनेनापि पूर्वोक्तं समर्थितं ज्ञयम् । शाङ्करग्रन्थेऽप्येवम् । रामानुजास्तु, भिद्यते हृदयािरति श्रुतिमुपन्यस्यात्र वि- द्यया कर्मक्षयकथनाद्विद्यया तदुपमर्द इति न तस्याः कर्माङ्गत्वमि- त्याहुः॥ १६ ॥ उर्ध्वरेतस्सु च शब्दे हि ॥ ननु पूर्वसूत्रीविद्यायाः कर्मशेषत्वं बहुधा निराकृतम् । फल स्वातन्त्र्यं च स्थापितमिति किमनेन सूत्रेणे- त्याशङ्कायां तत्प्रयोजनं वदन्तः पूर्व त्रिभिः सूत्रैग्रहिलवाद एकस्मि- ३ अध्याये ४ पादः। १११५ अत्रदं विचार्यते । ब्रह्मचर्यानन्तरं गार्हस्थ्यमाप श्रुया योध्यते । ब्रह्मचर्यादेव प्रव्रजेदियादिश्रुतिभिर्ब्रह्मचारिण एव च प्रवजनमाप बोध्यते । एवं ससविरोधाय यदहरेवेति श्रुतेश्च रागितद्रहितभे. देन विषयभेदो वाच्यः । तत्र ब्रह्मचार्याविशेषेऽपि भगवदनुग्रह- विशेषजचित्तशुद्धिविशेषजवेदान्तार्थपरिज्ञानमेव हेतुर्याच्यः। वेदा- न्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद् यतयः शुद्धसत्त्वा इति श्रुतिरिममेवार्थमाह । तथाचैतादृशा एवोर्ध्वरतस इत्युच्य. न्ते । एवं सत्यूदुर्ध्वरेतस्मु कर्माभाव उक्तरीया त्वयाऽप्युरीकार्य इति ज्ञानरहितानां कर्मण्यधिकारस्तदतां सन्न्यास इति त्वदुक्ताद् निराकृतेऽपि श्रुतौ ब्रह्मचर्यगार्हस्थ्यावेवाभिप्रेती चातुराश्रम्यपक्षस्तु स्मात्तत्वानिर्बल इति तमादाय कर्मत्यागादरो न युक्त इति अहिल- वादान्तरं निराकरोतीत्याशयेन सूत्रं व्याकुर्वन्ति । * अत्रेत्यादि * | अयमर्थः । जाबालश्रुतौ हि सन्यासमनुब्रूहीति जनकप्रश्न याज्ञव- ल्क्यो ब्रह्मचर्य समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेदिति क्रमे- ण चातुराश्रम्यपक्षं पूर्वमुक्तवान् । तत्रायुर्भागक्रमेण तथा करणे आयुस्तुरीयभागे आन्ध्यादिकमपि क्वचित् सम्भवतीति तदा कर्मा- नधिकार संन्यास इति शङ्कग स्यादिति तदभावाय पक्षान्तरमाह। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेदू गृहा छा वनाद्वाऽथं पुनरवती वा व्रती वा स्नातको वाऽस्नातको बोत्सन्नाग्निरननिको वा यदहरे- व विरजेत्तदहरेव प्रव्रजेदिति । तेन कर्मानधिकारो न सन्न्यासप्रयो- जकः, किन्तु वैराग्यमेव तत्प्रयांजकम् । तथा सति यावजीवाग्निहो- त्रादिश्रुतीनामपि रागाधिकारकत्वान्न विरोध इति सिद्ध्यति । तथा. पि ब्रह्मचर्यस्य तद्धर्मस्य च सर्वसाधारणत्वेऽपि कथं कस्य चिदेव विरागो न सर्वस्येत्यपेक्षायां भगवदनुग्रह जनितचित्तशुद्धिरेव हेतु- त्वेन वाच्या । भगवदनुग्रहे च व्यापारत्वेन वेदान्तार्थविज्ञानं त- त्सह कारी सन्न्याश्च वाच्य इति चेदान्तविज्ञानेति तैत्तिरीयश्रुत्या- ऽवसीयते । तथाचैवं भगवदनुगृहीता उर्ध्वरेतस इत्युच्यन्ते । तेषु .

११९६ समकाको अणुभाष्ये । विपरीतोऽर्थः सिद्धपतीति क्व कर्मशेषत्वसम्भवना ज्ञाने । ननु सन्यासेऽपि तदाश्रमीणं कर्मास्तीति वैराग्यसहकृतं ज्ञानमेतच्छेष- भूतं, तदसहकृतं तदग्निहोत्रादिशेषभूतमिति न वैपरीसमिति प्राप्त आह । शब्दे हीति । ज्ञानस्वरूपं तत्फलं च न युक्तिसिद्धं, किन्तु वेदमात्रसिद्धम् । तत्र तु, तमेवं विद्वानमृत इह भवति, ब्रह्मविदा. मोति परम्, य एवं विदुरमृतास्ते भवन्तीसादिवाक्यैब्रह्मज्ञानस्य मोक्ष एव फलं श्रूयते । सर्वसाधनानां साक्षात्परम्पराभेदेन तत्रैव पर्यवसानादतो धर्मिग्राहकमानविरोधात्सन्यासाश्रमीणकर्मशेषत्वम- मपि न वक्तुं शक्यमित्यर्थः । नन्वेवं संन्यासवैयर्थ्यमितिचेन्न । ब्रह्मविदतिरिक्तसङ्गस्य भगवद्विस्मारकत्वेनावश्यसाज्यत्वेन श्रुसा कथनादत एव, वेदान्तविज्ञानसुनिश्चितार्था इत्युक्त्वा, संन्यास- योगाद् यतयः शुद्धसत्त्वा इत्युक्तम् । अत्र पञ्चम्याऽन्तःकरणे च कर्मभावे उक्तरीत्या हेतुभेदकृतविषयभेदेन सन्न्यासयोगात्त्वया- ऽपि श्रीतवादिनाऽङ्गीकार्यः । अन्यथा श्रुतीनां सामञ्जस्यासम्भवात् । एवं सति, परिवाड् विवर्णवासा मुण्डोऽपरिग्रहः शुद्धिरद्रोही भैक्षा- ण इत्यादिरूपं तदग्रिमवाक्यमपि सङ्गतं भवेत्। तस्मान्न झानस्य क- कर्मशेषत्वं शक्यवचनमपि । सूत्रशेषमवतारयन्ति । * नन्वित्या. दि *। * तदाश्रमीणमिति * । शौचाचमनस्नानाऽष्टग्रासभक्षण- योगाभ्यासादि । व्याकुर्वन्ति * शानस्वरूपमित्यादि *1* धर्मिग्रा. हकमानविरोधादिति * धर्मि, कर्मशेषत्वेन मुख्यत्वेन च सन्दिह्यमानं शानम् । तद्ग्राहकं मानं तत्स्वरूपशापिका श्रुतिः । सा तु ज्ञानस्य मोक्षपूर्वकालीनत्वं प्राप्तृविशेषणतां च कर्मनैरपेक्ष्येण वदन्ती मोक्ष- रूपं फलं प्रति साक्षादेव कारणतां बोधयतीति कर्मशेषत्वाङ्गीकारे तद्विरोधात् । तथाच शानस्य सन्न्यासाश्रमीणकर्मशेषत्वनिवारणाय मर्यादामार्गे सन्न्यासस्यावश्यकत्वबोधनाय चेदं सूत्रमित्यर्थः । अ- त्रैव किञ्चिदाशय परिहरन्ति । * नन्वेवमित्यादि ** एवमिति ।

३ अध्याये ४ पादः। ११९७ संस्कारविशेषाधायकत्वं च प्रतीयते संन्यासस्य । स च संस्कारः फलोपकार्यङ्गमिसावश्यकः संन्यासो मर्यादामार्गे। पुष्टिमार्गे त्वन्यैव व्यवस्था । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिति वा क्यात ॥ १७॥ परामर्श जैमिनिरचोदना चापवदति हि॥ १८ ॥ . शानस्य केवलस्य कारणत्वे । तथाच मर्यादामार्गे प्रतिबन्धनिवृत्ते- रावश्यकतया श्रुती सन्न्यासस्य सत्त्वशोधकत्वकथनेन ज्ञानस्वरू- पोपकारकत्वेऽपि फलानुभवप्रतिबन्धनिवारकत्वात् तत्राप्यपेक्षास- त्वेन न वैयर्थ्यमित्यर्थः । क्वचिद् व्यभिचारदर्शनेनावश्यकत्वशङ्कग- स्यादिति तन्निवृत्त्यर्थमाहुः । * पुष्टीत्यादि * । तथाच मार्गभेदान दोष इत्यर्थः । एवमेतैश्चतुर्भिः सूत्रैराग्रहवादनिराकरणेन विद्यायाः स्वातन्त्र्येण मोक्षसाधकत्वं हढीकृतम् ॥ अन्ये तु, त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति, प्रथमस्तप एव, द्वितीयो ब्रह्मचर्याचार्यकुलवासी, तृतीयो योऽत्यन्तमात्मानमा- चार्यकुलेऽवसादयन्, सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृत- त्वमेतीति छान्दोग्यश्रुति, ये चेमेऽरण्ये श्रद्धातप इत्युपासत इति प- श्चाग्निविद्याश्रुतिम् । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ती- ति काण्वश्रुति चोपन्यस्य एतेषु शब्देपूर्ध्वरेतसामाश्रमाणां कथना- तेषां चाग्निहोत्रादिकर्मासम्भवान्न विद्यायाः कर्माङ्गत्वमिति व्या. कुर्वन्ति ॥ १७ ॥ परामर्श जैमिनिरचोदना चापवदति हि ॥ अमान्ये पूर्वोक्ता एव श्रुतीरुपन्यस्य एतेषु शब्देष्वाश्रमान्तराणां परामर्शम् अनुवाद जैमिनिराचार्यों मन्यते, न विधिम् । अत्र लिङ्गाद्यन्यतमस्य चोदना. शब्दस्याभावाद्, अर्थान्तरपरत्वस्यैतेषु शब्देषु प्रत्येकमुपलम्भाश्च । प्रयो धर्मस्कन्धा इत्यत्र प्रयाणां परामर्शपूर्वकपुण्यलोकप्राप्तिरूपम- नात्यन्तिकं फलं सङ्कीर्त्य ब्रह्मसंस्थस्याऽमृतफलतायाः कथनेन, प- धाग्निविद्यास्थाद्वितीयश्रुतौ च देवयानोपदेशप्रत्ययेनाश्रमान्तरस्य सन्दिग्धतया तृतीयस्यां काण्वश्रुतौ च लोकपदतो लोकसंस्तवन- १९९८ सप्रकाशे अणुभाष्ये । जरेतस्सु च ज्ञानोक्तस्तस्य मुक्तिफलकत्वोक्तेः, किं प्र. जया करिष्यामो येषां नोऽयमात्मायं लोक इत्यादिश्रुतेश्च ब्रह्म- प्राप्तावेव सर्वस्याः श्रुतेस्तात्पर्यमिति सिद्धयति । तस्या एव सर्व- क्लेशापायपूर्वकपरमानन्दरूपत्वान्न तु कर्मणि दुःखात्मकसंसारहे- तुत्वात्तस्य जीवश्रेयोनिमित्तमेव श्रुतिप्राकट्यात् । अन्यथा निषेध- विधिर्न स्यात् । तथाच कर्मविधिनाऽपि परम्परामोक्ष एव फल- वेन परामृश्यत इति सिद्धम् । तं परामर्श कर्मस्वातन्त्र्यवादी जै- मिनिरपवदति बाधत इयर्थः । मोहकशास्त्रप्रवर्तकः स इतीश्वर- तीत्या च तथाऽवसायात् । अपिचापवदति । वीरहा वा एष देवा- नामिति, आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीरि- ति, नापुत्रस्य लोकोऽस्तीति प्रत्यक्षा श्रुतिरेवाश्रमान्तरमपवदतीति व्याख्याय ब्रह्मचर्यादेव प्रव्रजेदिति जाबालश्रुतिमनपेक्ष्याऽयं विचार इत्याहुः । तत्र जाबालश्रुत्यनपेक्षायां बीजं नोपलभ्यते । परामर्शश- ब्दश्च ग्रहणे प्रसिद्धो, न त्वनुवाद इत्यतो न सूत्रे तदुक्तोऽर्थोऽभिप्रे- तः किन्तु पूर्वोक्तमेव सिद्धान्तं स्थूणाखननवद् दृढीकर्तुं पुनर्जेमिनि- मतमुत्थापयतीत्याशयेन पूर्वसिद्धमनुवदन्तः सूत्रं व्याकुर्वन्ति । * ऊर्चेत्यादि * * तस्येति * | ज्ञानस्य । * इत्यादिश्रुतेश्चेति । नापुत्रस्य लोकेऽस्तीत्यादिश्रुतिविरुद्धायाः, किं प्रजया करिष्यामो,न कर्मणा न प्रजयेत्यादिश्रुतश्च। *तस्या इति* ब्रह्मप्राप्तेः। * न तु कर्म- णीति * कर्मकरणे तु न तात्पर्यम् * तस्यति * कर्मणातथाच कर्मवि- धिनाऽपि, तमेवं वेदानुवचनेनेति श्रुत्यादिभिर्मानजननद्वारा कर्मणां फलत्वेन मोक्ष एव तात्पर्यगोचरीक्रियते इति श्रुतिसन्दर्भविचारात सिद्धम् । तमतं परामर्श निश्चयं कर्मस्वातन्त्र्यवादी जैमिनियांधत इ. ति सूत्रभागस्याओं युक्त इत्यर्थः । पुनर्जेमिनिपद कथनतात्पर्यमाहुः । * मोहकेत्यादि * तदुक्तं पाद्मोत्तरखण्डे मोहकशास्त्रकथनप्रस्तावे । "द्विजन्मना जैमिनिना पूर्व वेदमपार्थतः । निरीश्वरेण वादन कृतं शास्त्रं महत्तरमि"ति । पराशरोपपुराणपि "अक्षपादप्रणीते च का- ३ अध्याये ४ पादः। १९९९ मेव न मनुने यतोऽतस्तत्पाप्तिस्तस्य मते दुरापास्ता । कर्माऽनधि- कारिणामन्धादीनां संन्यासविधिविषयत्वम्।अन्यथा, वीरहा वा एप देवानां योऽग्निमुद्रासयत इति श्रुतिर्न स्यादतो ब्रह्मचर्य समा- प्य गृही भवेद् गृहानीभूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्यादेव प्रत्रने गृहावनादातश्रोरप्यङ्गहीन एव स विपयो, यत आयुर्भाग- विभागेनाश्रमाणां विधानम् । तुरीये तस्मिन् देहेन्द्रियादिवैकल्यं नियतमतः कर्मण्येव श्रुतेस्तात्पर्यम् । अपिच, ज्ञानकर्मणोरलौकिक- फलसाधकत्वेन विहितत्वमेव प्रयोजकम् । अपरोक्षब्रह्मज्ञानं च न विधेयम् । साक्षात्स्वकृत्यमाध्यत्वाच्चोदनाबोधकलिङाद्यभा- वाच्च ज्ञानस्य न मुक्तिसाधकलं वक्तुं शक्यम् । य एनं विदुरि- सादिस्तु यागेष्विज्यविष्णुस्तुतिपरेखाशयेनाह । अचोदनाचेति । जैमिनिवत्तत्सहायभूतेयमचोदना च परामर्शमपवदतीति सम्बन्धः। तथाच विविसम्बन्धात् कर्मवानुष्ठेयं, न तु मुक्तिसाधनमप्यतथा- वादिति स्थितम् ॥ १८ ॥ अनुष्ठयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ बादरायण आचार्यों जैमिनेराप गुरुस्तदेव कर्त्तव्यमिति णादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः । जमिनीयचं"त्युक्तम् । तन्मतेन सन्न्यासविधितात्पर्यमाहुः । * कर्म- त्यादि * I * अङ्गहीन एव स इति * अङ्गहीनः पुरुषः । अत्र गमकं * यत इत्यादिनाच्यते । तदुपपादनम् * तुरीय इत्यादिना * । एतेन सिद्धमाहुः * अत इत्यादि * । अचोदनेत्याद्यशमवतारयन्ति । * अपिचत्यादि *। शेष स्फुटम् ॥ १८ ॥ अनुष्ठेयं बादरायण. साम्यश्रुतेः ॥ पूर्वसूने जैमिनिमतमनूये- दानी तत्परिहरतीत्याशयन सूत्रं व्याकुर्वन्ति । * बादरायण इत्या- दि * | असुर्या इति मन्त्रे अविद्वांस इत्यनेन कर्माङ्गभूतविद्वाक्यो- १२०० सप्रकाशे अणुभाष्ये । शिष्यसंमतपनुष्ठेयं कर्मापवदवतीति पूर्वेण सम्बन्धः । तत्र हेतुः । साम्यश्रुतेः । यथा, वीरहा वा एष देवानामिति श्रुसा कर्मसाग- कर्तुनिन्दा श्रूयत एवमेव भगवज्ज्ञानरहितस्यापि सा श्रूयते यतः। तथाहि । अमुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते- प्रसाभिगच्छन्सविद्वांसोऽबुधा जनाः । एतदने च, ये तद्विदुरमृता- स्ते भवन्यथेतरे दुःखमेवोपयन्तीसादिरूपा । एतच्च निन्दामात्रेण साम्यमुक्तमापाततः। वस्तुतस्तु, तमेतं वेदानुवचनेन विविदिष- ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवखेतमेव प्रगजिनो लोकमीप्सन्तः प्रव्रजन्तीति श्रुखा ज्ञान- साधनत्वेनवाश्रमकर्मकरणोक्तेश्च न स्वातन्त्र्यं कर्मणो वक्तुं शक्य- म् । अत एव शुकस्य न ब्रह्मचर्यादिकमपिं । फलस्य जातत्वेन त- साधनानपेक्षणात् । नच स्वर्गकामपदश्रवणान्नैवमिति वाच्यम् । त्वदभिमतलोकात्मकस्वर्गे, यन दुःखेन सम्भिन्नमिति वाक्यशेषो- क्तस्वर्गपदप्रचिनिमित्तधर्माभावादात्मसुखस्यैव तादृशत्वात्तस्यैव तत्रोक्तेः । एवं सति तमेतं वेदानुवचनेनेतिश्रुसेकवाक्यतापि स- क्तज्ञानशून्या एव निन्द्यन्त इति शङ्कगनिरासायाहुः । * एतदन इ- त्यादि * श्रुती तु बृहदारण्यक शारीरब्राह्मणस्थे । तथाच यथा क- किरणनिन्दया कर्मनित्यत्वं तथा अविद्वन्निन्दया ब्रह्मज्ञाननित्यत्वं प्राप्यतेऽतो निन्दामात्रेण कृत्वा कर्मकरणे श्रुतितात्पर्यसाधनमयुक्त. मित्यर्थः । ननु साम्यश्रुत्या शानस्याप्यावश्यकत्वं प्राप्यते, न तु क- मापवादस्तथा सति विद्वद्वाक्योक्तज्ञानवद्वेदान्तोक्तब्रह्मशानस्यापिक- ङ्गित्वमवर्जनीयमित्याशङ्कय तनिवारणायाहुः । * एतदित्यादि * उक्तमापातत इति * भगवता व्यासेन तथोक्तम् । तथोक्तौ गम- कमाहुः * वस्तुत इत्यादि *। * न ब्रह्मचर्यादिकमिति *उपनयना- भावादाश्रमरूपं तन्न । तथाच श्रुत्यर्थसन्देहवारणायाचार्यस्य प्र.

अध्याये ४ पादः। १२०१ म्पद्यते । अन्यथा तु विरोध एव । ननु दृष्टफलका अपि कारीरी- चित्रादियागाः श्रूयन्त इति नैवं निर्णय इति चेत्।उच्यते । निस- कर्मणो हि ज्ञानसाधनत्वमुच्यते । व्रीहिपश्वादीनां तन्निर्वाहकत्वा- । वृत्तत्वादुक्तश्रुतिदर्शनेऽपि यदेवं निन्दामात्रेण साम्यकथनं तदापात. त एव । नचोक्तश्रुतिदर्शनेऽपि साम्यकथनात् कर्मणां मुख्यत्वमेवा- भिप्रेतमिति शङ्कयम् । शुकादिषु तथा दर्शनस्य विरोधप्रसङ्गात् । नच तत्तद्वाक्येषु स्वर्गकामादिपदश्रवणाज्ज्ञानसाधनत्वोक्तेश्च भिन्न- पाक्यगोचरत्वेन दुर्बलत्वान्नोक्तं साधीय इति शङ्कयम् । स्वर्गकाम- पदावयवभूतस्वर्गपदस्यात्मसुखे लोके च शक्तः किमत्राभिप्रेत- मिति सन्देहे प्रसिद्ध्यपेक्षया वाक्यशेषस्य बलिष्ठत्वात् त्वदभिम- तस्य वाक्यशेषेऽनुपपत्तावात्मसुखस्यैव वाक्यशेषे सिद्धेस्तदभिप्रा. येणैव तेषु वाक्येषु स्वर्गकामपदस्योक्तेः । नचात्र किं गमकमिति शङ्ग्यम् । एवमात्मसुखस्य तत्रोक्तत्वे सति तस्यात्मज्ञानसापेक्षतयो- क्तश्रुत्येकवाक्यता सिद्धयेदन्यथा तु विरोध एव । स च सम्भवत्ये- कवाक्यत्वेऽयुक्त इति सर्वसामञ्जस्यस्यैव गमकत्वात् । अतो वाक्यशे- षोक्तमेवाङ्गीकार्यमित्यर्थः । अत्र किञ्चिदाशङ्कते * नन्वित्यादि * । तथाच श्रुत्यन्तरे तथादर्शनात् स्वर्गपदस्य प्रसिद्धार्थाङ्गीकार एव युक्तो, न तु वाक्यशेषोक्तार्थाङ्गीकारः। तथा सति सुवर्गाय वा ए- तानि लोकाय हूयन्त इत्यादिकं युज्यत । अन्यथा तद्विरोधापत्तेरि- त्यर्थः। अत्राभिदधते । * नित्येत्यादि * । उक्तश्रुतौ हि नित्यस्य फर्मणस्तथात्वमुच्यते । नित्यं च कर्म तदैव साङ्गं भवति यदा शुद्ध- द्रव्यादिभिरुपसम्पद्यते । अन्यथा, चाण्डालो जायते यज्ञकरणा- च्छूद्रभिक्षितादित्यादिनिन्दावाक्यानि न स्युः । अतस्ताहशद्रव्या- द्यर्थ चित्रादियागानां नित्यशेषतया विधानम् । एवमेकफलकेषु नानायागेष्वपि कश्चिदभिप्रायोऽस्तीत्यवगन्तव्यम् । अन्यथा तद्वैय- •पत्तेः । एवमतिविमुखस्य सन्मार्गश्रद्धाजननार्थ दृष्टफलाः का. रीर्यादयो विधीयन्ते । इदमप्यश्वमूत्रणादिनिदर्शनादवगम्यते । एवं सति काम्यैस्तत्सद्यागैः समीचीनादृष्ट उत्पन्न तनिष्पग्रुपकरणैर्यदा १५१ १२०२ समकाशे अणुभाष्ये । तच्छेषत्वेन तेषां विधानम् । एवं सति वीरहेति श्रुतिः साग्निक- स्य गृहिण आलस्यादिदोषेण तदुद्वासने दोषमाह, न त्वाश्रमा- न्तरपरिग्रह इति मन्तव्यम्।अन्यथा तदुच्छेदस्तद्विविययं च स्यात् । नचानधिकृतमादाय तत्समाहितिरिति वाच्यम्। अत्र पृच्छामो ऽन्ध- पङ्ग्वादिभिः प्रव्रजनं कार्यमिति विधिरस्त्याहोखिद् यावज्जीव- म् अग्निहोत्रविधायकवाक्यप्रवजनविधायकवाक्ययोविरोधाभावाय विषयो भिन्नः कल्प्यते । नायः। अश्रुतेः।न द्वितीयः। यदहरेव वि- रजेदिति श्रुया वैराग्यवतः प्रवजनविधानात्तेनैव विषयभेदसिद्धौ तत्कल्पनानवकाशात् । तेन, नापुत्रस्य लोकोऽस्तीति श्रुतिरप्य- विद्वद्विपयिणीति न विरोधः । विद्वांसः प्रजां न कामयन्त इति श्रुः । एतेनर्णत्रयापाकरणमपि प्रत्युक्तं वेदितव्यम् । अविद्वद्वि- । . साङ्गनित्यकर्मसिद्धिस्तदा शानं भवति । तेन चात्मसुखम् । लोक- स्त्वङ्गवाक्येषु फलतयोच्यते । यदि प्राचीनदुरदृष्टवशाद् यष्टुलोक- कामना भवति तदा साङ्गात् कर्मणस्तद्भवतीति । अतो न तत्र ता- स्पर्य, किन्तु वाक्यशेषोक्त एवेति कर्मणां ज्ञान एव तात्पर्यमित्यर्थः । ननु यदि शानमेव मुख्यं तदा त्यागावश्यकत्वे, वीरहेत्यादिनिन्दावा- क्यविरोधी दुर्वार इत्यत आहुः । * एवं सतीत्यादि * । ननु नि- न्दावचनद्वयाञ्जस्यार्थमधिकारिभेदकल्पनमावश्यकम् । तत्र वीर- हेत्यादिविषयसोचापेक्षया. असूर्येत्यादिविषयसङ्कोच एव युक्तः । आज्यमवेक्षते, विष्णुक्रमात् क्रामतीत्यादिस्वारस्यात् । तत्रानधिकारे तु कर्मानधिकारात्तत्र त्यागादिविधिसार्थक्ये सर्वसामञ्जस्यादित्या- शट्य विकल्पपूर्वकं तत् परिहरन्ति । * नचानधिकृतेत्यादि * * तत्समाहितिरिति * । सन्यासोच्छेदतद्विधिवैयर्थ्ययोः समाधान- म् । तथाच यदि प्रव्राजवाक्ये, विरजेदित्यधिकारबोधकं पदं न भ- घसदा तथा कल्पयितुं शक्येतापि । न तु तत्सद्भाव इति तदप्रयोज- कमित्यर्थः । श्रुत्यन्तरविरोधपरिहारायाहुः । * तनेत्यादि * । * ए- नति * अविद्वांस इति कथनेन ।

३ अध्याये ४ पादः। १२०३ षयत्वात् । यदप्युक्तमचोदना चेति सूत्रावयवेन चोदनाबोधक- लिडाधभावो वाधक इति । तदपि न साधीयः । श्रुतिसाम्यादे- व । श्रूयते हि तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धा- वित्तो भूत्वात्मन्येवात्मानं पश्येदिति । नच प्रमाणवस्तुपरतन्त्र- त्वान ज्ञानस्य विधेयतेति वाच्यम् । इतरज्ञानस्य तथात्वेऽपि जी- वात्मलक्षणेऽधिष्ठाने परमात्मनो भगवतो दर्शनस्याऽन्यतोऽप्राप्त- त्वाच्छ्रद्धान्तसाधनस्तदर्शने स्वरूपयोग्यतासम्पत्तावात्मन्यधिष्ठाने परमात्मदर्शनानुकूलप्रयत्नविधानसम्भवाच्छ्रवणविधिना श्रुतिका- क्यजशाब्दज्ञानानुकूलप्रयत्नविधानवत् । एवमेव हि यागविधिना- पि क्रियारूपयागस्य स्वानुकूलप्रयत्नाधीनत्वेन स प्रयत्न एव वि- धीयते । अन्यामाप्तत्वात् । न तु क्रिया । तत्प्रयत्ने सति तस्याः ननु साम्यश्रुतिरूपेण हेतुना. भवतूक्तदोषपरिहारस्तथापि शानस्य प्रमाणवस्तुपरतन्त्रत्वेन चोदनाविषयत्वाऽभावादचोदना- कृतापवादस्य कथं परिहार इत्यत आहुः । * यदपीत्यादि * । त- थाच चोदनाश्रुतिसाम्यात् तस्यापि परिहार इत्यर्थः । अत्र पश्ये- दित्यस्य प्रमाणान्तरजन्यदर्शनानुवादत्वमाशय निषधन्ति * नचे. त्यादि * । तथाचात्र एवं विदित्यादिभिर्निविचिकित्सशाब्दज्ञानव- त्वशमदमवैराग्यदुःखसहिष्णुत्वश्रद्धावित्तत्वपूर्वकं जीवात्माधिकर- णकपरमात्मदर्शनप्रयत्नस्य प्रमाणान्तरेणा प्राप्तत्वात् तद्विधानस्य सुखेन सम्भवान्नानुवादत्वमित्यर्थः । ननु तथापि कर्मचोद तथापि कर्मचोदनासु क- मण एव विधेयतेति तस्य फलवत्त्वमुचितम् । इह तु ज्ञानानुकूल- प्रयत्नस्येति ज्ञानस्याविधेयत्वं दुर्वारमित्याशङ्कायां कर्मचोदनाव- प्येतत्तुल्यत्वं बोधयन्ति । * एवमेवेत्यादि * } * स इति * | यागाभिव्यञ्जकः । * न तु क्रियेति * । यज्ञो वै विष्णुः सुप्तं कर्मप्र- बोधयन्नित्यादिश्रुतिस्मृतिभिरलौकिकस्य कर्मणो नित्यत्वात् सा न विधेया । इदं यथा तथा समन्वयसूत्र एव व्युत्पादितं कारिका- भिः । भावार्थपादभाष्ये चाचार्यः । तथाचोभयत्रापि तत्तदभिव्य- १२०४ समकाशे अणुभाष्ये । खत एव सम्भवात् । अथवा। ननु यथा, वीरहेति श्रुत्या कर्मसागो निन्धते तथैव, असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेखाभिगच्छन्यविद्वांसोऽबुधा जनाः । ये तद्विदुरमृतास्ते भ- वन्यथेतरे दुःखमेवोपयन्तीखादिश्रुया भगवज्ज्ञानाभावो निन्द्यते । एवं सति कर्मज्ञानानुकूलप्रयत्नयोविधयत्वे मिथोविरोधादपिका- रिभेदेन विधेयत्वं वाच्यम् । नच, तावत् कर्माणि कुर्वीत न नि- विद्येत यावतेति भगवद्वाक्याद्रागिणः कर्म विधीयते । तद्राहितस्य ज्ञानमिति वाच्यम् । जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेज इति श्रुतेर्नीरागत्वेन प्रसिद्धस्यापि तस्य कर्मणि प्रवृत्तिर्या सा न स्या- दधिकाराभावात् । अथ जनकदृष्टान्तेन कर्मणोऽङ्गित्वं ज्ञानस्य त- दङ्गत्वं वाच्यम् । तथाच ज्ञानवता कर्मानुष्ठेयमिति प्राप्ते प्रतिवद- ति ॥ अनुष्ठेयं वादरायणः साम्यश्रुतेः ॥ नानमङ्गं तदङ्गित्वेनानु- ष्ठेयं कर्मेति मतं वादरायणोऽपवदतीति पूर्वेण सम्बन्धस्तत्र हेतु- माह । साम्यश्रुतेरिति । खतोऽपुरुषार्थ कर्म फलार्थिनवानुष्ठेय- म् । तथाचैष निसो महिमेति श्रुसा ज्ञानवति विहितनिषिद्धयोः कर्मणोः फलाजनकलेन साम्यं श्रूयत इति फलार्थिप्रत्त्यसम्भवेन ज्ञानिनस्तथावाभावेन कर्मोच्छेदप्रसत्त्या न ज्ञानस्याङ्गत्वं वक्तुं अकप्रयत्नस्यैव विधेयत्वात्तेनाभिव्यक्ताभ्यां सुखेनं फलसम्भवान्न कोऽपि दोष इत्यर्थः । अस्मिन् व्याख्याने ज्ञानाङ्गत्वेन कर्म कर्तव्य- मिति सिद्धम् । इदमेव च विधिर्वा धारणवदिति सूत्रे प्रतिपादनी- यमित्येकतरवैयर्थ्यमापद्यतेत्यरुच्या प्रकारान्तरेण व्याकर्तुमवतार- यन्ति * अथवेत्यादि * । * मिथोविरोधादिति * । कर्माङ्गस्य कामस्य ज्ञानाङ्गस्य शान्त्यादेश्चेतरेतरविरोधेन तयोर्विरोधात् । व्याकुर्वन्तो हेतुं विशदीकुर्वन्ति । * स्वत इत्यादि *। * तथात्वा- भावेनेति* कर्मकर्तृत्वाभावेन । ननु शानिप्रवृत्त्यभावेऽपि न कर्मोच्छे- ३ अध्याये ४ पादः। शाक्यम् । कृषीवलस्य ब्रीहीणां वपने भर्जनस्येव । तथाच ज्ञानिना प्रवृत्त्यसम्भवेनान्येषां च, अथतरे दुःखमेवोपयन्तीति निन्दाश्रवणेन तथात्वात् सर्वार्थतत्त्वज्ञा श्रुतिर्ज्ञानवहिर्भूतं कर्म कथं विदध्यादि- ति ज्ञानस्य पुरुषार्थाऽसाधकत्वोक्तिमसहमानेनाचार्येण प्रौढ्या नि- रूपितम् ॥ १९ ॥ एवं सति पूर्वकाण्डवैयर्थ्यमापततीति तत्तात्पर्यमाह ॥ विधिर्वा धारणवत् ॥ २० ॥ यथा योगशास्त्रे मनःसमाधेरेव साध्यत्वात् तत्साधनत्वेनैव मानस्याः मूर्चेरणं विधीयते, न तु स्वतन्त्रतया फलसाधकत्वेन मनःसमाधौ तत्त्यागात् । ततः किश्चन न स्मरेत, तच्चापि चित्तव- डिशं शनकैर्वियुक्त इसादिवाक्येभ्यस्तथा । तथा सति भक्तिसा. दः । फलार्थिनां प्रवृत्तेः सम्भवात् । नचासुर्यवाक्यानिवृत्तिः । तत्राविद्वांस इत्यनेन विद्वद्वाक्योक्तज्ञानशून्यनिन्दाया अपि शक्यव- चनत्वादित्याशङ्कायां स्वोक्तं विभजन्ते । * तथाचेत्यादि * । * अन्येषामिति * । ब्रह्मशानशून्यानाम् । * तथात्वादिति * । कर्म- करणासम्भवात् । * शानबर्हिभूतमिति * । तत्सम्बन्धशून्यम् । एवं निरूपणस्य तात्पर्यमाहुः । * ज्ञानस्येत्यादि * । अन्य तु, अनुष्ठेयमाश्रमान्तरम् । कुतः । साम्यश्रुतेः । त्रयो धर्मस्कन्धा इत्या- दी गार्हस्थ्येन सममेवाश्रमान्तरपरामर्शश्रुतिदर्शनादित्याद्याहुः। तत्तु जाबालश्रुतिचोदितत्वादेवाश्रमान्तराणां तद्विहायैवं व्याख्यानं न समञ्जसमिति प्रागेव दत्तोरमित्यवधेयम् ॥ १९ ॥ विधिर्वा धारणवत् ॥ सूत्रमवतारयन्ति । * एवं सतीत्या. दि । * एवं सतीति * । उक्तश्रुतिवेत्तुः कर्माकरण प्राप्ते सति । व्याकुर्वन्ति । * तथेत्यादि * । अत्र, ततः किचनति पाक्यमेका- दशस्कन्धीयम् । द्वितीयं तृतीयस्कन्धीयम् । * तथेति * । स्या- १२०६ समकाशे अणुभाष्ये । धनत्वेनैवानुष्ठेयमिति तात्पर्येण कर्मविधिरुच्यते । न तु स्वतन्त्रत- या फलसाधकत्वेन । ननु तत्र समाधिमधिकृस यमादीन्युक्तानी- ति तन्मध्यपातित्वेन धारणस्य तथात्वमुच्यते । प्रकृते ज्ञानं भक्ति वाऽधिकृस न कर्म विहितमिति दृष्टान्तवैषम्यमिति चेत् । न । उ- क्तानुपपत्त्या स्वानिन्द्यमेव कर्मश्रुतिर्विदधातीयवश्यं वाच्यम् । निन्दायां चेतरपदाज्ज्ञानमध्यपातिन एव तद्विषयस्य प्राप्तेरावश्य- कत्वात् । तथाच भगवज्ज्ञानस्येतरनिरपेक्षत्वेन स्वरूपोपकारित्वम- ज्यत्वम् । तथा भक्तीत्यत्र भक्तिपदं ज्ञानस्याप्युपलक्षकम् । अंत्र दृष्टान्तबलेन कर्मणोऽस्वातन्त्र्यसाधनसहमानो दृष्टान्तवैषम्यमाश- इते । * नन्वित्यादि * । वैषम्यं समादधते । * नेत्यादि * । एष नित्य इति श्रुतौ शानिनि कर्मणां फलाजनकत्वकथनात्तेषां कर्मण्य- प्रवृत्त्या ज्ञाने कर्माङ्गतायामप्युक्तदोषतौल्येन उक्तश्रुतौ ब्रह्मज्ञानशू- न्यानां दुःखप्राप्तिकथनेन चान्येषामपि प्रवृत्यसम्भवे पूर्वकाण्डवै- यर्थ्यप्रसक्तिरूपयाऽनुपपत्त्या स्वानिन्द्यमेव कर्म पूर्वकाण्डीयश्रुतिर्वि- दधातीत्यवश्यं वाच्यम् । अथेतर इत्यविद्वनिन्दावाक्य इतरपदा- ज्ञानशून्येषु निन्दितेषु ज्ञानवान् वा तद्योग्यो वाशानमार्गमध्यपात्येव कर्माधिकारी वाच्यः । तत्र जातज्ञानस्यापि न कर्मणेत्युक्तश्रुत्या निवृत्ती तद्योग्य स्यव विषयत्वेन प्राप्तेरावश्यकत्वात् । तथाच का- म्यानां कर्मणां मूढविश्वासजनकतया परम्परातः सार्थक्यम् । नित्यानां त्वात्मसुखफलकानां विद्यासाहाय्यमन्तरेण तादृशफलो पधायकत्वस्यादृष्टत्वाजनकादिष्वपि विद्यासाहाय्यस्यैव दर्शनात् केवलभगवज्ञानस्य च शुकारुणिभरतादिषु फलोपधायकत्वदर्श- नात्तस्येतरनिरपेक्षकत्वेन नित्यकर्मविधिवैयर्थ्यपरिहाराय, तमेतं घे- दानुवचनेनेत्यादितृतीयाश्रुत्या शानभक्ती प्रति स्वरूपोपकारित्वं नि- त्यस्य कर्मणो वाच्यमिति तात्पर्येण नित्यविधीनां, तदुपयोगित्वेन का- म्यविधीनां च सामञ्जस्यान पूर्वकाण्डवैयर्थ्यमित्यर्थः । ननु भवत्वेवं कर्मणां शानाङ्गत्वं तथापि भक्त्यङ्गत्वे किं मानमत आहुः ।

३ अध्याय ४ पादः। १२०७ स्य कर्मणो वाच्यम् । तथाचोक्तम् । “दानव्रततपोहोमजपस्वाध्या- यसंयमैः । श्रेयोभिर्विविधश्चान्यैः कृष्ण भक्तिर्हि साध्यते" इति । एष नियो महिमेति श्रुतिरपि यज्ज्ञाने सति विहितनिषिद्धकर्मफ. लासम्बन्धस्तद्वित् स्यादिसनुक्त्वा तस्यैव पदवित् स्यादिति यदु- क्तवती तेन पदयोर्भक्तिमार्गरूपत्वात् तत्र च पदयोरेव सेव्यत्वेन मुख्यत्वात्तज्ज्ञानानुकूलप्रयत्नमेव पूर्व विदधते । तेन “शृण्वन्ति गायन्ति गृणन्सभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः।त एव पश्यन्यचिरेण तावकं भवप्रवाहोपरमं पदाऽम्बुजमि"ति वाक्याच वर्णाश्रमधर्मा आत्मधर्माश्च पदज्ञानसाधनत्वेन कर्त्तव्या इति सि- द्धम् । तस्यैव, तच्छब्दस्य प्रसिद्धार्थकत्वाल्लोकवेदप्रसिद्धस्य पुरुषो- समस्यैव, तत्रापि, पदावदेव, दीनभावेन भक्तिमार्गीय ज्ञानवानेव स्यादेवेसेवकारः सर्वत्रानुपज्ज्यते । तथा सति भक्तौ जातायां स्वत एप भगज्ज्ञानं भवतीति ज्ञापयितुं, तं विदित्वेति पश्चादुक्तवतीति तदाशयो ज्ञायते । अत एव पूर्व कर्मनिरूपितम् । साधनत्वात् । स्यादेतत् । भक्तिसाधनत्वमेव चेत् कर्मणः श्रुतेरभिप्रेतं तदा भगवद्विदि तत्फलासम्बन्ध इसनुपपन्नामिति चेत् । मैवम् । कर्मणां * तथाचोक्तमित्यादि * । ननु तथापि द्वयन्तरितत्वाद् भक्त्यङ्गत्वापेक्ष- या ज्ञानाङ्गत्वमेव साधीय इति शङ्कगयां भक्त्यङ्गत्वस्य श्रीतत्वं वि- शदयन्ति । * एष इत्यादि * । सिद्धमाहुः । * तेनेत्यादि * । उक्तन स्वल्पोपपादनेनापरितुष्यन्तो विशेषतः श्रुत्यर्थं वदन्ति । * त त्यैवेत्यादि * । * सर्वत्रेति * । पदंविच्छन्देऽपि । * पूर्व- मिति * । पूर्वार्द्ध । तथाच पूर्वोक्तं युक्तमित्यर्थः । वस्तुतस्तु, तेनेत्या- दिसिद्धार्थकथनात् पूर्वस्तस्यैवेत्यादिग्रन्थो लेखकभ्रमात् पश्चात् पतित इति प्रतिभाति ॥ अत्र पुनश्चोदयति । * स्यादित्यादि * । * अनुपपन्नमिति * १२०८ सप्रकाशे अणुभाष्ये । हि भक्त्युत्पत्तौ स्वरूपयोग्यतासम्पादकत्वमेव । नायमात्मेति श्रु- तेः। कर्मज्ञानाभ्यामलभ्यत्वाद्भगवतः स्वरूपयोग्यतापेक्षाऽपि मा- र्यादिकस्य, न तु पौष्टिकस्यात एव, वाशब्द उक्तोऽनियमवा- ची। तथा सति भगवदनुग्रहश्चेत्तदा भक्तिस्तया पुरुषोत्तमज्ञानं तदा कर्मतत्फलसम्बन्धगन्धोऽपि नेति किमानुपपन्नम्। एतेन, तमेव विदित्वा मुनिर्भवति । अग्राह्यो न हि गृह्यते इसादिश्रुतीनां मि- थोविरोधः परिहृतः । भक्या ग्राह्यत्वात् तदितरसाधनाग्राह्यत्वा- त् । अत एव विविदिषन्ति, न तु विदन्यपीसाशयवती तमेतं वेदानुवचननेति श्रुतिः पठ्यते । नचानुपदमेव, तमेव विदिता मुनिर्भवतीत्युक्तः साग्नि- ध्यादुक्तसाधनैरेव वेदनमभिप्रेतमिति वाच्यम् । वेदानुवचनादीनां सर्वेषां वेदनसाधनत्वे सर्वेषां तस्कर्तृणां वेदनसम्भवेन, मुनिर्भव- सागाद्वैदिककर्मणः फलावश्यम्भावनियमेन ततो भक्त्युत्पत्तिस- म्भवादनुपपन्नमित्यर्थः । तत् समादधते। * मैवमित्यादि *। * उक्त इति * । शानस्य कर्मसापेक्षत्वात् पूर्वकाण्ड नित्यविधिनिमार्गा- यस्येति कर्मणस्तदङ्गत्वबोधनाय सूत्रे उक्त इत्यर्थः । उक्तार्थोपष्ट. म्भार्थमेवन्तात्पर्याङ्गीकारे गुणान्तरमाहुः । * एतनेत्यादि * । अत एवेति * । साधनबलेनाग्राह्यत्वादेव । * इत्याशयवतीति * । यद्यपि रथेन जिगमिषतीत्यादाविच्छामात्रस्यापुरुषार्थत्वात् फल- पर्यन्तत्वमिष्यत इति प्रकृतेऽप्येवं वक्तुं शक्यम् । तथापि लोके फल- पर्यन्ततायाः प्रायो दर्शनेन प्रतिबन्धाभावे तथा कल्पयितुं शक्यम् । प्रकृते तु नायमात्मेति श्रुत्या वरणाभावे ज्ञानाभावस्य निश्चितत्वात् केवलेन वेदानुवचनादिना ज्ञानरूपं फलं न वक्तुं शक्यते । अत इच्छायास्तदर्थकयत्नकारणत्वेनेच्छाकरणानां यशादीनां ज्ञानं प्र. ति स्वरूपयोग्यतासम्पादकत्वमेवेत्याशयवतीत्यर्थः। अग्रिमवाक्य- विरोधमाशय परिहरन्ति । * नचानुपदेत्यादि * । * उक्तसा- धनरिति * । वेदानुवचनादिभिः। तथाच मुनिरित्येकवचनश्रुत्या- ३ अध्याये ४ पादः। १२०९ तीसेकत्वं तद्विदि न वदेदतो ज्ञानं कस्यचिदेकस्य भवतीति ज्ञान- स्य दुर्लभत्वं ज्ञाप्यते । “मनुष्याणां सहस्रेषु कश्चिद् यतति सि- द्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत" इति भग- वद्वाक्याच्च । तार्ह वेदानुवचनादिषु निःशङ्का प्रत्तिः कथम् ? इत्थम् । स वा अयमात्मेसादिकया पूर्वश्रुसा भगवन्माहात्म्यं श्रुत्वा यथाकथञ्चित् तद्वेदनौत्सुक्ये सति सत्सङ्गाभावेन भक्तिमार्गाऽपरि- चयात् । कर्ममार्गमात्रमाश्रमधर्मत्वेनालौकिकार्थसाधकत्वेनापि पूर्व ज्ञातमम्तीति तदेव भगवद्वेदनेऽपि साधनमिति मन्यमानास्तदेव कुर्वन्ति । ननु वैदिकमाधनानां वैयर्थ्यं कथमितिचेत् । न । भ्रम- कृतत्वेऽपि जन्मान्तरीयाक्षरज्ञानोपयोगिसंस्काराधायकत्वेनावैय- र्थ्यात् ॥ २० ॥ ऽनेनापि तदुपोवलनमेव क्रियत इति न तद्विरोध इत्यर्थः । ज्ञानं कस्य चिदेवति यदुक्तं तत्राशङ्कन्ते । * तीत्यादि' * । * नित्यक- मणाम् * । वेदानुवचनादीनां ज्ञान उत्कटेच्छाजननन वा सत्त्वशो- धनेन वा स्वरूपयोग्यतासम्पादन एव पर्यवसानं तदा ज्ञानमूल- कारणस्य वरणस्य स्वविषयतानिश्चयस्याभावेन वेदानुवचनादिषु निःशङ्कन प्रवृत्तिर्या दृश्यते सा कथमित्यर्थः ।तत्परिहाराय प्रवृत्तिमुप. पादयन्ति * इत्थमित्यादि * । स वा अयमात्मा सर्वस्य वशी स- वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च । स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेप भूताधिपतिरेप लो- केश्वर एष लोकपालः स सेतुर्विधरण एपां लोकानामसम्भेदायति माहात्म्यश्रवणेन वेदनौत्सुक्ये सति तेन तेषु तत्साधनत्वभ्रमातू प्रवृत्तिरित्यर्थः । ननु भ्रमात करणे पापभ्रमेण कृतस्य प्रायश्चित्तस्येव तेषां वैयर्थ्य स्यादित्याशयेनाशङ्कन्ते । * नन्वित्यादि * । तत्र समा- दधते । * नेत्यादि * । तथाच तत्र कर्मफलनिषेधस्य, नान्तरिक्षे न दिवीत्यादिवन्नित्यानुवादरूपत्वादेते पदज्ञानसाधनत्वेन कर्त्तव्या इति विदित्वा ते कुर्वन्ति । तत्र भक्तिमार्गात्मकपदज्ञानाभावेऽप्यक्ष- १२१० सप्रकाशे अणुभाष्ये । स्तुतिमात्रमुपादानादितिचेन्नाऽपूर्वस्वात् ॥ २१ ॥ ननु साम्यश्रुतेहेतोः कर्मशेषत्वं ज्ञानस्य यदपास्तं तन्नोपपद्य- ते । साम्योक्तेनिस्तुतिरूपत्वात् । अपिच । तथा ज्ञानिनोऽपि कर्मोपादानात ककृतिस्वीकारादिति यावत् । अन्यथा ज्ञानिनां कर्मकृसमावेन तत्कृतगुणदोषाप्रसक्या तनिषेधानुपपत्तिः स्यात् तेपामपि तत्कृतगुणदोपसम्बन्धोऽस्सेवेति ज्ञापनाय मात्रपदम् । निषेधेनेतरसाधारण्यं परिहियते । तथाच ज्ञानिनोऽपि कर्मकर- णात कर्मशेषत्वं ज्ञानस्य निष्यत्यूहमितिचेन्नैवं वक्तुं युक्तम् । पदझानस्य कर्मफलासम्बन्धफलकत्वस्यापूर्ववाद्विधेयत्वमेव । रात्मकपदज्ञानस्य जन्मान्तरे भवनार्थ मनसि तत्संस्कारमाश्रमधर्मा आदधत इति पूर्वोक्तमक्षुण्णमित्यर्थः । न च पापभ्रमप्रायश्चित्तस्येवा. स्य वैयर्थेऽपि दोषाभावात् सार्थकत्वसाधनमप्रयोजकमिति शङ्ख्य- म् । न हि कल्याणकृत् कश्चिदिति न्यायेन पापभ्रमप्रायश्चित्तस्यापि जन्मान्तरे ताहशपापविषयकमनःप्रवृत्त्या भावस्य फलत्वेन वक्तुं शक्यतया किञ्चिदंशेन तत्रापि सार्थक्यस्यैव युक्तत्वात्। तेन पूर्वो- सरकाण्डयोरैकशास्त्र्यानुराधादेवं श्रुतितात्पर्यनिश्चयेनैकवाक्यतायां पूर्वस्योत्सरशेषत्वामति सिद्धम् ॥ २० ॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ अत्रैव किञ्चिदा- शङ्ख्य परिहरतीत्याशयन सूत्रं विवृण्वन्तः पूर्वपक्षभागं व्याकुर्वन्ति । * नन्वित्यादि * । ननु यदि साम्यश्रुत्या कर्मोपादानमापाद्यते तदा निषेधश्रवण बाधितमेव स्यादित्यत आह । * निषेधेनत्यादि * | * इतरसाधारण्यमिति * । अज्ञानिनां यथा कर्मजगुणदोषस्तथा शानिनो नेति तथेत्यर्थः । * कर्मशेषत्वमिति * । सन्न्यासाश्रमीण- फर्मशेषत्वम् । परिहारभागं व्याकुर्वन्ति । * नैवमित्यादि * । * अपूर्वत्वाद्विधेयत्वमिति * यथा प्रतितिष्ठन्ति ह वै य एता रात्री- रुपयन्तीत्यत्र रात्रिसत्रीयप्रतिष्ठाफलकत्वस्याऽपूर्वत्वाद् विधेयत्व- ३ अध्याये ४ पादः। १२११ न हि यस्य कर्मणो ज्ञानस्य वा यत्फलं तदुक्तिरपि स्तुतिरेवेति यु. क्तम् । तयोरुच्छेदापत्तेः । विधिर्हि प्रवर्तकः । तस्य पुरुषप्रत्यु- पयोग्यर्थकथनेनैव चारितार्थ्यादन्यार्थकथनस्य स्तुतित्वमस्तु नाम । न ह्येवं प्रकृते । मुमुक्षोः कर्मबन्धाभावप्रेप्सोस्तत्साधनत्वज्ञान एव प्रवृत्तिसम्भवात् । यच्च कर्मफलसम्बन्धनिषेधानुपपत्त्या कर्मस- म्बन्ध इत्युक्तम् । तन्न साधीयः। न हि तरणौ तमःकार्याभाव इत्युक्ते तत्माप्तिरपि सम्भवति । अथवा पुरुषोत्तमज्ञानमुख्यफल- स्यातिमहत्त्वेन साक्षाद्वक्तुमशक्यत्वं ज्ञापयन्ती कैमुतिकन्यायेन प- रम्परया तदाहानयर्चा तं विदित्वा ब्राह्मणो भवतीति श्रुतेर्बा- ह्मणपदेन ब्रह्मविदुच्यते । तथाचाद्यपदेन बुद्धिस्थब्राह्मणमाहा- त्म्योद्देशे कृते, स क इसाकाङ्क्षायामाह, तं ब्राह्मणं विदित्वा विहितनिषिद्धफलासम्बन्धी भवतीति लक्षण इयर्थः । साक्षाद्भ- गवद्विदः किमु वाच्यमिति भावः । अतस्तस्यैव तच्छब्दस्य पूर्व- परामर्शिवाद ब्राह्मणस्यैव भगवद्विदो भक्तस्यैव पदवित् स्यात् मेव न तु स्तुतिमात्रत्वं तथेत्यर्थः । तदेतदुपपादयन्ति । * न हीत्या- दि * । यस्यति पदं यत् फलमित्यनेन सम्बध्यते । हितौ । विधि- हीत्यत्रापि तथा। * एवमिति * । अन्यार्थकथनम् । पूर्वोक्तमाश- ङ्कान्तरमनूद्य परिहरन्ति । * यश्चेत्यादि * । यतो वाचो निवर्तन्त इत्यत्नाकुतोभयस्य भगवज्ज्ञानफलत्वश्रवणात् ततो न्यून कर्मफल- सम्बन्धाभावमात्रस्य फलत्वकथनमप्रयोजकमित्यरुच्या एष नित्य इति ऋगुत्तरार्द्ध प्रकारान्तरेणाहुः । * अथवेत्यादि * 1 * तदाहे- ति * । महत्त्वमाह । तद्विशदयन्ति । * तमित्यादि * । ते विदि- त्वेति व्याख्येयप्रतीकम् । * श्रुतेरिति * । विपापादिपदोत्तरं पठि- तानिरपेक्षाच्छब्दात् । * आद्यपदेनेति * । एष इति पदेन । * स क इति * । ब्राह्मणः कः । विहितनिषिद्धफलासबन्धीति । पापकप- दे पापं कं सुखं यस्मादित्यस्याप्यर्थस्य संग्रहीतुं शक्यत्वात् तथेत्य- १२१२ सप्रकाशे अणुभाष्ये । तज्ज्ञानानुकूलप्रयत्नवान् स्यात् तद्भजेतेति यावत् । तथाच यत्र भक्तविद्विषयकज्ञानस्याऽप्युक्तरीया न कर्मशेषत्वं वक्तुं शक्यं तत्र भगवज्ज्ञानस्य तथात्वं दूरदूरतरमिति सर्व मुस्थम् ॥ २१ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २२ ॥ र्थः । * तद्भजेतेति * । पदं भजेत । * सुस्थमिति * । कर्मफलास- म्बन्धस्य विधेयत्वेन स्तुतिरूपताया आदर्जुमशक्यत्वाज्ज्ञानस्य न सन्न्यासाश्रमीणकर्मशेषत्वमिति यदुक्तं तदक्षुण्णमित्यर्थः । एतदने भावशब्दाञ्चति सूत्रं पठ्यते । तत्र च भावशब्दादित्यस्य विधिश- ब्दादित्यर्थः । तथाचापूर्वत्वादेव न पदज्ञानस्य विधेयत्वकल्पनं, किन्तु पदवित् स्यादिति विधिशब्दादपीत्यर्थो वक्तव्यः। “कुर्यात् क्रि- येत कर्त्तव्यं भवेत् स्यादिति पश्चकमाएतत स्यात् सर्व वेदेषु नियतं विधिलक्षणम्” इति वाचस्पतिलिखितान्न्यायविदां स्मरणात् । तच्च विधिर्वा धारणवदित्यत्रैतस्यैव स्यात् पदविदिति श्रुतिव्याख्याननैव व्युत्पादितमतः प्रयोजनाभावादुपेक्षितमिति प्रतिभाति । लेखकदो- पात् त्रुटितं वेति ज्ञेयम् ॥ अन्येतु, स्तुतिमात्रमित्यादि द्विसूत्रमधिकरणान्तरमङ्गीकृत्य स एप रसानां रसतमः परमः पराद्धोऽष्टमोऽयम् । उद्गीथ इत्याद्याः श्रुतयः किमुद्गीथादिस्तुत्यर्था उतोपासनविध्यर्था इति संशय, उद्गी- थादिकर्माङ्गान्युपादाय श्रावणात् स्तुत्यर्था इति शङ्कनयाम, अपूर्व- त्वाद्विध्यर्थाः । उद्गीथमुपासीतेति विधिशब्दाच तथेत्याहुः । ततः पारिष्ठवादिसूत्रत्रयमप्यधिकरणान्तरत्वेनोक्त्वा अग्नीन्धनसूत्रं, पुरु- पार्थोऽतःशब्दादित्याद्याधिकरणस्य फलोपसंहारार्थमिति चाहुः । तन्नास्माकं रोचते । विद्यायाः स्वतः पुरुषार्थत्वसाधनाय संन्यासस्य तदङ्गत्वसाधनाया चाऽऽचार्यस्य प्रवृत्तत्वान्मध्ये उद्गीथादिविचारे प्रसङ्गस्यादर्शनादिति दिक् ॥२१॥ पारिप्लावार्था इतिचेन्न विशेषितत्वात् ॥ अत्राशङ्कान्तरं परि- ३ अध्याये ४ पादः। १२१३ अथ प्रकारान्तरेण शङ्कते । भृगुर्वै वारुणिवरुणं पितरमुप- ससार । अधीहि भगव इति होपससाद सनत्कुमारं नारदः। प्रतईनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामेसायुपाख्यानैर्हि ब्रह्म विद्या निरूप्यते । सर्वाण्याख्यानानि पारिप्लवे शंसतीति श्रु- सा शंसनशेषत्वं तेषामवगम्यते । शंसने शब्दमात्रस्य प्राधान्येनार्थ- ज्ञानस्यातथात्वादुपदेशान्ताख्यानप्रतिपाद्यं ज्ञानं मन्त्रार्थवदप्रयो- जकमिति कर्मशेषत्वमपि न वक्तुं शक्यम् । प्राधान्यं तु दुरापा- स्तम् । धर्मिण एवासिद्धिरिसाह । पारिप्लवार्था इति । उक्तरीया सर्वा उपाख्यानश्रुतयः कर्मशेषभूता इयर्थः । अत्राचार्य एवमपि कर्मशेपत्वं ज्ञानस्य न सम्भवतीसाह । नेति । कुतः । विशेषित- त्वात् । कर्मणः सकाशाज्ज्ञानं विशेषितमधिकधर्मविशिष्टत्वेनोक्त- मिति न ज्ञानस्य कर्मशेषत्वमियर्थः । ननु विशेपितत्वमाख्यानेष्वे- वेसप्रयोजको हेतुरितिचेन्मैवम् । आचार्याशयानवगमात् । तथा- हि । पूर्व तुष्यतु दुर्जन इति न्यायेनाख्यानानां शंसनशेपत्वमु- पेक्षित्वोच्यते । न ह्याख्यानेष्वेव ज्ञानं निरूप्यते, किन्त्वन्यत्रापि। तथाहि । तैत्तिरीयके पठ्यते । ब्रह्मविदाप्नोति परं, तदेपाऽभ्युक्ता, संसं ज्ञानमनन्तं ब्रह्मेत्युपक्रम्य माहात्म्यविशेषज्ञानार्थमाकाशादि- कर्तृत्वमुक्त्वाऽऽनन्दमयत्वं रसरूपत्वमुक्त्वा,भीपाऽस्मादिसाना स- नियामकत्वं चोक्त्वाभगवानेव पूर्णानन्द इतिज्ञापनायानन्दगणनां कृत्वा आनन्दमयं पुरुषोत्तमं प्राप्तेनानुभूयमानानन्दस्वरूपं, यतो हर्तुमेषा त्रिसूत्रीत्याशयेनैतस्य पूर्वपक्षांशमवतारयन्ति । * अथे- त्यादि * । * तेषामिति * । उपाख्यानानाम् । * धर्मिण एवासि- द्धेरिति * । धर्मिणो ज्ञानस्यैव अप्रयोजकत्वादसिद्धेः । परिहारां- शमवतारयन्तो व्याकुर्वन्ति । * अत्रेत्यादि * । * विशेषितमि- ति * विशेषः सातोऽस्येति विशेषितम् । अधिकधर्मविशिष्टत्वं १२१४ सप्रकाशे अणुभाष्ये । वाचो निवर्तन्ते अप्राप्य मनसा सहेसादिनोक्त्वा तद्विदो माहा- स्म्यमुच्यते । एत५ ह वा व न तपति किमहं साधु नाकरवं कि- महं पापमकरवमिति । अत्र ज्ञानवान् सच्चिद्रूपदेशकालापरिच्छिन्नं सर्वकारं निरवध्यानन्दात्मकं सर्वनियामकं मनोवागगोचरं पुरु- षोत्तमं प्राप्नोति । कर्म तु स्वयं क्लेशात्मकं तद्वांश्चास्थैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्तीति श्रुतः क्षुद्रतराऽऽनन्दजनक- स्वर्गपश्वादिफलमाप्नोतीति विहितनिषिद्धकर्मणोश्वाप्रयोजकत्वं त. स्मिन्नुच्यत इति कर्मणः सकाशाज्ज्ञानस्य निरवधिरेव विशेष: उ- च्यत इति न धर्मासिद्धिर्न वा कर्मशेषत्वं ज्ञानस्य सिद्धयति ॥२२ तथाप्याख्यानप्रतिपादितविद्यानामसिद्धिरेवेतिचेत्तत्राह । तथाचैकवाक्यतोपबन्धात् ॥ २३ ॥ यथा केवलश्रुतर्विद्याप्राधान्यं तथैवोपाख्यानश्रुतीनामियर्थः। चकारेण प्रश्नोत्तरीनिर्णीतार्थप्रतिपादनम् । महतामेवात्र प्रवृत्तिः । सापि बह्वायासपूर्विकेति विद्यामाहात्म्यज्ञापनं प्ररोचनञ्चाधिकमुपा- ख्यानानामुपाख्यानं विनैव विद्यानिरूपिकायाः श्रुतेः सकाशा दित्युच्यते । तत्र हेतुरेकवाक्यतोपबन्धादिति ।आचार्यवान् पुरुषो च परमानन्दरूपफलजनकत्वं ज्ञेयम् । तदेवाने व्युत्पाद्यम् । शेष स्फुटम् ॥ २२॥ तथाचैकवाक्यतोपबन्धात् ॥ सूत्रप्रयोजनमाहुः । * तथा. ऽपीत्यादि * असिद्धिरिति * । कर्मशेषत्वाभावस्यासिद्धिः । तथाचाशङ्कान्तरस्य निवृत्तत्वेऽप्युक्ताशगया अनिवृत्तत्वादेकदेश दोषपरिहारायेदं सूत्रमित्यर्थः । व्याकुर्वन्ति * यथेत्यादि * *प्र. रोचनं चाधिकमिति * इदमवान्तरफलमधिकम् । कथमेकवाक्यतो. पबन्ध इत्याकाङ्क्षायां तामुपपाद्याहुः । * आचार्यत्यादि * । सर्वा- ३ अध्याये ४ पादः। १२१५ वेदेति श्रुसैकवाक्यताज्ञानमाख्यानं विना न भवतीति तदर्थमु- पबन्धाद् गुरुशिष्यकथोपबन्धादिसर्थः । अथवोपाख्यानरहितायां श्रुतौ यथाज्ञानं निरूप्यते तथैवाधीहि भगव इति होपससाद सन- त्कुमारं नारद इयाद्याख्यानेष्वपि निरूप्यत इसनाख्यानश्रुसैक- वाक्यतथैवाख्याने ज्ञानम्वरूपोपबन्धात् प्रतिपादनादिसर्थः । नै- कट्यवाचिनोपपदेन वस्तुसती या तत्तद्गुरुतत्तच्छिष्यकथा त- सामीप्यमत्रोच्यते । अन्यथा सामीप्यासम्भवादतः कल्पितत्वश- कानिरासः । नन्वेवमपि पारिप्लवार्थत्वे न वाधकं पश्याम इतिचेद्, उच्यते । अश्वमेधप्रकरणे, मनुर्वैवस्वतो राजेखादीन्याख्यानानि सां परविद्यानां परब्रह्मैवार्थस्तत्प्राप्तिरेव च प्रयोजनम् । आचार्य- वान् पुरुषो वेदेति श्रुतिश्छान्दोग्ये श्वेतकेतूपाख्याने, यथा सौम्य पुरुषं गन्धारेभ्योऽभिनिबद्धाक्षमित्युपक्रम्य पठिता । तत्र तदृष्टा- न्तेन आचार्याच्छिष्यस्य ब्रह्मज्ञानादिकं श्राव्यते । अतः सर्वा एव विद्या गुरुशिष्यसाकाङ्क्षाः । तदतच्छुत्युक्तमेकवाक्यताज्ञानम् आ- ख्यान न भवतीति तदर्थ तदुपबन्धात् । तथाच केवलानां यथा न शंसनशेषत्वं तथा आख्या- नोक्तानामपि नेत्यर्थः । अन्ये तु सूत्र एकवाक्योपबन्धादिति पाठम- गीकृत्य एकवाक्यतयोपबन्धं व्याकुर्वन्त एकवाक्यपदं भावप्रधानं बांधयन्तीति न कश्चिद्विशेषः । नन्वेवमाख्यानरहितानामप्याख्याना- तार्थाकाङ्कत्वात्तासामवंतच्छेषत्वं, न त्वाख्यानवतीनां तच्छेषत्व- मिति नोक्तदोपनिवृत्तिरित्यपेक्षायां पक्षान्तरमाहुः । * अथवेत्यादि * तथाच यदि तत्रान्यदेवोच्येत तत्परत्वमेव स्यान्न ज्ञानपरत्वम् । नि- रूपिते तुं ज्ञानस्वरूप एतासामपि केवलविंद्याशेषत्वमतो न दोष इ. त्यर्थः । सूत्र उपोपसर्गकथनस्य तात्पर्यमाहुः । * नैकट्यत्यादि * अत्र पुनराशङ्कते । * नन्वित्यादि * एवं पूर्वव्याख्याने तासामुपा- ख्यानाकाङ्क्षा, द्वितीय चोपाख्यानानां तदाकाङ्क्षति परस्पराकाङ्क्षयैक- वाक्यत्व उभयविध-वाक्यानां पारिप्लवशेषता अदण्डवारितेति तथे- त्यर्थः । अत्र समादधते । * उच्यत इत्यादि * तथाच प्रकरणेन १२१६ सप्रकाशे अणुभाष्ये । यत्र पठितानि तत्र सामान्यतस्तेषां विनियोगः, सर्वाण्याख्याना- नि पारिप्लवे शंसतीसनेनोक्त इति सर्वशब्दस्तदाख्यानपर एव, न त्वाख्यानान्तरपरोऽपि । प्रकरणस्य नियामकत्वात् । एवं स- ति, यदा पारिप्लवाख्यकर्मप्रस्तावस्तदा विशेषविनियोग उक्तः। पारिप्लवमाचक्षीतेति । तत्र प्रथमेहनि मनुवैवस्वतो राजेति । द्वितीयेऽहनीन्द्रो वैवस्वत इति । तृतीयेऽहनि यमो वैवस्वतो रा- जेसाद्याख्यानविशेपा वाक्यशेषे विनियुज्यन्ते । आख्यानसामा- न्यपरत्वे त्वहोविशेष उपाख्यानविशेषविधानं न स्यात् । अत एव पारिप्लवमिसेकवचनमतो नाख्यानान्तरगन्धसम्बन्धोऽपि । प्रापकाभावात् ॥ २३ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २४ ॥ एवं पुरुषार्थोऽतःशब्दादित्युपक्रम्य ज्ञानस्य फलसाधने कर्मा- ऽनपेक्षत्वमुपपाद्य तत्रैवोपपत्त्यन्तरमाह । यतो ज्ञानी ज्ञानेन स्वय- मेव यज्ञात्मको जातोऽत एव जरामर्याग्निहोत्रेऽग्निस्तदिन्धनं समिदा- - सर्वशब्दार्थसङ्कोचावगमादनेन वाक्येन विद्यानां न फर्मशेषत्वसि. द्धिरित्यर्थः । उक्तेऽथै लिङ्गमप्युपोद्वलकमाहुः । * एवं सतीत्या- दि *। * एवं सतीति * प्रकरणसंनिधिभ्यां सर्वशब्दार्थसङ्कोचे सति । तथाचदं लिङ्गमपि सङ्कोचे मानमित्यर्थः । ननु, मनुवैवस्वत इत्यादीनि तत्तदहनि पूर्वमाख्यातव्यानीत्यभिप्रायेण विशंपविधान- मित्याशङ्कनवारणाय गमकान्तरमाहुः । * अत एवेत्यादि * तथाच यदि तथाभिप्रायः स्यात् तदा बहुवचनमादिपदं वा प्रयुक्तं स्यादत- स्तदभावान्न तथेत्यर्थः । एवञ्च पारिप्लवसूत्रे यो विशेपितत्वरूपो हे- तुरुक्तः स एव प्रकृतेतगण्याख्यानानि व्यावतयन् सर्वशब्दार्थस- काचं बोधयतीति न काऽपि शति तात्पर्यम् ॥ २३ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ सूत्रप्रयोजनमाहुः । एवमि- त्यादि । व्याकुर्वन्ति । * य त इत्यादि * ।

. ३ अध्याये ४ पादः। १२१७ दि, तदादय आज्यादयस्तेषामनपेक्षोक्ता । श्रुतौ तैत्तिरीयके पठ्यते । तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पनी शरीर- मिध्ममुरो वेदिलोमानि बहिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निरिसादि । एतेन यदन्यस्य यज्ञतासम्पादकं तस्य स्वकार्यसाधने कथं यज्ञापेक्षा भवेदिति भावः सूच्यते॥२४॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २५ ॥ उक्तन्यायेन ज्ञानं प्रति कर्मणः फलोपकारित्वाभावेऽपि स्वरूपोपकारित्वमास्ति न वेति चिन्यते । तत्र नेति पूर्वः पक्षः। गुरूपसचितदुपदेशैरेव तत्सम्भवादाचार्यवान् पुरुषो वेदेति श्रुतेः। अत्र सिद्धान्तमाह । सर्वापेक्षेति । सर्वेषां कर्मज्ञानभक्तीनां पुरुषो- त्तमज्ञानोत्पत्तावस्यपेक्षा । अत्र प्रमाणमाह । यज्ञादिश्रुतेरिति यज्ञादिनिरूपिका श्रुतिरेव प्रमाणं यत इयर्थः । इदमत्राकूतम् । पुरुषोत्तम एव स्वतन्त्रपुरुषार्थरूपस्तत्प्राप्तिरेव फलम् । तत्र प्रेम- भक्ति तज्ज्ञानमेव साधनमिति ब्रह्मविदाप्नोति परमिसादिना एतद्विदुरमृतास्ते भवन्तीसादिश्रुतिसहस्रैश्च प्रतिपाद्यते । अथेतरे दुः- शेषं स्फुटम् ॥ २४॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ अधिकरणमवतारयन्ति । * उक्तन्यायेनेत्यादि * । पूर्वाधिकरणे पुरुषोत्तम एव पुरुषार्थस्त- प्राप्तिश्च केवलाज्शानादेवेति प्रतिज्ञाय शब्दाद्धेतोस्तत् साधयित्वा शब्दस्य तत्साधकत्वं व्युत्पादितम् । अत उक्तेन न्यायेन शब्देन ज्ञानं प्रति कर्मणः फलोपकारित्वाभावेऽपि कर्मणां सार्थक्याय स्वरूपोप- कारित्वं यदुक्तं तद्युक्तत्वादस्ति, उतायुक्तत्वान्नास्तीत्येतदस्मिन्नधि- करणे विचार्यत इत्यर्थः । सिद्धान्तं व्याकुर्वन्ति । * सर्वेषामित्या- दि * । तथाच मार्गत्रयापेक्षाकथनात्तत्तन्मार्गोक्तानां कर्मणामपेक्षा- स्तीत्यर्थों बोधितः । यज्ञादिपदे आदिशब्देन शमदमादीनां कर्मणां भगवद्धर्मरूपाणां शरणगमनादिकर्मणां च संग्रहः । यज्ञादिकर्मणां १५३ १२१८ सप्रकाशे अणुभाष्ये । खमेवोपयन्तीति श्रुसा ज्ञानरहितानां दुःखमात्रप्राप्तिरुच्यते । एवं सति स्वतोऽपुरुषार्थरूपं यज्ञादिकं सर्वार्थतत्त्वप्रतिपादिका श्रुतिर्य- निरूपयति तत्सर्वथा पुरुषार्थसाधनत्वेनैवेति मन्तब्यम् । तच्च निष्कामतयैव कृतं तथा । अत एव वासजनेयिशाखायां यथा- कारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवतीत्युपक्रम्य पठ्यते । तस्माल्लोकाद पुनरेयस्मै लोका य कर्मण इति तु कामयमानोऽथाऽकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्मात् प्राणा उत्क्रामन्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माऽप्येतीसादि।अत्र, अथाकामयमानः कर्ता निरूप्यत इति शेषः । यः पुमान् कर्मकृतावकामस्ततो नि- कामः सन्नात्मकामो निरुपविस्नहवान् प्रभौ ततो भगवत्प्राप्या SSतकामो भवतीसर्थः । अत्र यथाकारीसादिना कर्मकर्तुरेवोप- क्रमादथाकामयमान इसनेनापि तथाभूतः स एवोच्यते । एवं सति सत्कर्मणि प्रवृत्त्यर्थं विविधफलानि स्वयमेवोक्त्वा जनान् भ्रामि- तवानिति स्वोक्तकरणाच्चिरेण दयया निष्कामं करोति सकाम- तयाऽपि क्रियमाणेन वैदिककर्मणाऽनेकजन्मभिः संस्कारविशेष- प्रचयेनापि तथा । कषाये पक्वे ततो ज्ञानं प्रवर्त्तते इसादिस्मृति- विद्यास्वरूपोपकारकत्वे कथं यज्ञादिश्रुतेः प्रमाणत्वमित्याकाङ्कायां सदुपपादयन्ति । * इदमत्रेत्यादि * । * एवं सतीति *। अनेन प्रकारेण ज्ञानशून्यकर्मणां दुःखप्रापकत्वे सति । * मन्तव्यमिति * । निरूपणान्यथानुपपत्त्या मन्तव्यम् । * तथेति * । पुरुषोत्तमशान- साधकम् । अथाकामयमान इति श्रुतिभागं व्याकुर्वन्ति । * अथे. त्यादि * I * तथा भूतः स इति * । एतान्यपि तु कर्माणि सङ्गं त्य- क्त्वा फलं तथेति गीतावाक्यादकामः कर्मकृतौ निष्कामः फले। एवं द्विविधकर्तृनिरूपणेन यत् सिद्ध्यति तदाहुः । * एवं सति सदित्या- दि * । उक्तमर्थ स्मृत्योपटश्नम्ति । * कषाय इत्यादि *। एवं ३ अध्याये ४ पादः। १२१९ भ्यश्च ज्ञानोत्पत्तौ कर्मापेक्षाऽस्तीति । चकारेण पुष्टावङ्गीकृतस्य सर्वानपेक्षेति सा समुच्चीयते । अत एव, नायमात्मेसादिश्रुतिर्न विरुद्ध्यते । ननु ज्ञानद्वारा कर्मादीनामेव फलसाधकत्वमस्त्विति शङ्कानिरासाय दृष्टान्तमाह । अश्ववदिति । यथा स्वेष्टफलसाधक- देशव्यवधानात्मकदेशातिक्रमेऽश्वस्य साधनत्वं, न तु तत्तत्फलसि- दावपि तथाधिभौतिकाध्यात्मिकाधिदैविकप्रतिबन्धनिवृत्तावेव तेषां मर्यादामार्गे फर्मापेक्षैव यद्यपि भगवत्साक्षात्कारे व्युत्पादिता, तथा- पि हेतुबोधके यज्ञादिश्रुतिपदे आदिशब्देन तैत्तिरीयाधुक्तानामानन्द- मयाधुपासनानामन्यत्रोक्तानां शमादीनां ज्ञानोपकारिणाम, तथा भ-- क्त्युपयोगिनां गोपालतापनीयाधुक्तानां शरणगमनध्यानरसनभजना-. दीनां च संग्रहात्तदपेक्षापि बोध्या । साप्यप्रिमसूत्रेषु व्युत्पादयि-. प्यते । चकारार्थमाहुः । * चकारणेत्यादि * / * सेति * । अत्रा- ऽनुक्तापि । सौत्रस्य चकारस्यार्थ श्रीतार्थापत्त्योपष्ट नन्ति । * अत एवेत्यादि *। * अत एवेति * मार्गभेदादेव । तथाच साधनदशा-. यामेव कर्मापेक्षा, न तु सिद्धदशायामिति भावः । अत्रेदं बोध्यम् । पुरुषोत्तमज्ञानं हि मार्गभेदेन सामान्यतश्चतुर्विधं वा । तत्न कर्ममा- र्गे यदाविर्भवति तत्सत्त्वगुणमाधारीकृत्य तत्रान्तर्यामिन्यायेन प्रवि- श्य सत्त्वं स्वान्तर्भूतं कृत्वा तेन तेन रूपेणार्विभवतीति नाभि-दक्षा- दियज्ञेषु तत्तद्रूपेणाविर्भावादवगम्यते । शानमार्गे त्वक्षररूपेणैवावि- र्भवतीति, ये त्वक्षरमनिर्देश्यमिति गीतावाक्यसन्द दवगम्यते । झानभक्तिसाहित्ये तु यद् बलिष्ठं तदनुसारेणाविर्भवति.।एवं केवले- ऽपि विहितभक्तिमार्गेऽपि तत्तदुपासनावाक्यैस्तत्क्रतुन्यायादवसीय- ते । अविहितभक्तिमार्गे तु वरणानुसारेणाविर्भवतीति बरणश्रुत्या- दिभिरवसीयते । तत्र विहितमार्गप्रये च तत्तन्मर्यादामार्गीयसा- क्षात्कारे साधनापेक्षा । पुष्टिमार्गे तु वरणमात्रैकसाध्यत्वान तदपेक्षे- त्युभयमप्युपपन्नामितिाननु सर्वापेक्षापदे कर्मशानभक्तीनां पुरुषोत्तम- शानेऽपेक्षां व्याख्याय यज्ञादिश्रुतेरित्यस्यार्थव्युत्पादने द्विविधं कर्मक- रिं व्याख्याय निष्कामकर्तुः कर्मापेक्षामा व्युत्पादितम् । ततश्च १२२० सप्रकाशे अणुभाष्ये। साधनत्वं, न तु भगवत्याप्तावपीयर्थः । इदं च मुमुक्षुभक्तविषयक- मिति ज्ञेयम् । आयन्तिकभाक्तिमतां भक्तीतरानपेक्षणात् ॥ २५ ॥ शमदमाद्युपेतः स्यात् तथाऽपि तु तद्विधे- स्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २६ ॥ ननु तस्मादेवंविच्छान्तो दान्त इसादिना शमादेरेव ज्ञानसा- . शाने फर्मापेक्षासिद्धा, न तु ज्ञानभक्त्यपेक्षेति तत्कथनस्य किं प्रयो- जनमित्याकाङ्कायामाहुः * इदं चेत्यादि * । * इदमिति * । क- मांपेक्षणम् । * भक्तीतरानपेक्षणादिति * । अतीतपादे, सैव हि स- त्यादय इत्यत्र निर्णीतत्वेन तथात्वात् । तथाचैकादशस्कन्धे योगा- स्त्रयो मयाप्रोक्ता इत्यत्र कर्मज्ञानभक्तीरुक्त्वा"निर्विण्णानां ज्ञानयोगः कर्मयोगस्तु कामिनाम् ।ननिर्विण्णोनातिसक्तो भक्तियोगोऽस्य सिद्धि- द"इति कथनेन तस्य तत एव सिद्धिरिति मुमुक्षभक्तस्य सोपाधिक स्नेहवत्त्वात्तस्य कर्मापेक्षणं युक्तम् । अत्र वाक्यसन्दर्भे योगशब्देन पुरुषार्थप्राप्त्युपाय उच्यते । ज्ञानशब्देन, सर्वभूतेषु येनैकं, कैवल्यं सात्त्विकं ज्ञानमित्यादिवाक्योक्तं ब्रह्मैव सर्व, वासुदेवः सर्वमित्यत्र पर्यवसितं सात्त्विकं ज्ञानमुच्यते । कर्मशब्देन च पूर्वकाण्डाद्युक्तम- ग्निहोत्रादिलक्षणं विहितं कर्मोच्यते । भक्तिशब्दन च तापनीगीताश्री- भागवतायुक्तो भगवद्विषयकः स्नेह उच्यते । अत एव त्रयः स्वस्व- प्रकरणोक्तसाधनसहिता मार्गशब्देन व्यवह्रियन्त इति सोपाधिभक्त- स्य तदपेक्षणं युक्तमेवेत्यर्थः । तस्मादस्ति ज्ञानस्वरूपे सर्वापेक्षेति सिद्धम् ॥२५॥ शमदमाशुपेतः स्यात्तथापि तु तुविधेस्तदङ्गतया तेषामव- श्यानुष्ठेयत्वात् ॥ सूत्रमवतारयन्ति । * नन्वित्यादि * । तमेतं वे- दानुवचनेति श्रुतिलिङ्गाद्यभावेन विद्यास्तुत्यर्थ, यज्ञाद्यनुवादस्य श- क्यवचनत्वात् । विद्यार्थिनः, इति साधनानां विशेषतो विधानाद्भक्तिमार्गेऽपि, ॐकारेणान्तरितं कृत्वा यो जपति गोविन्दस्य पञ्चपदं मनुं तस्येवासौ दर्शदात्मरूपमित्या- शान्तो दान्त श्रुत्या शमादीनां ३ अध्याये ४ पादः। १२२१ धनत्वमुच्यते, न तु यज्ञादेरितिवेत्तत्राह शमदमाद्युपेतो भक्तिमा- र्गेऽपि स्यादेव यद्यपि तथापि तदङ्गतयाऽऽत्मन्येवात्मानं पश्येदिति ज्ञानमार्गीयज्ञानाङ्गतयैव शमादिविधर्हेतोनिमार्गे तेषामवश्यानु- ष्ठेयत्वात्तथा विधिरियर्थः । भक्तिमार्गे स्वत एव शमादीनां सम्भ- वेऽप्यावश्यकत्वं न तेषामिति भावः ॥ २६ ॥ सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ॥ २७ ॥ ननु सत्त्वशोधकत्वेन यज्ञशमदमादेविधानमिति मतं नोपप- दिश्रुतीनां तापनीयेषु दर्शनाच तत्करणमेव युक्तं, न तु यज्ञादिकर- णमिति पूर्वोक्तहेतोर्वाधितत्वमित्याशय तत्परिहारमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति । * शमदमेत्यादि * । तथाविधिरिति * । साधन- त्वेन विधानम् । तथाचानया श्रुत्या ज्ञानमार्गीयस्य साधनान्तर- मधिकं विधीयते इति तेषामवश्यानुष्ठेयत्वम् । तत्र च न यज्ञादिकं निषिद्धयत इति तेषामप्यनुष्ठेयत्वम् ! यद्यपि तत्र लिङाद्यभावस्त- थापि विविदिषन्तीति फलसंयोगस्याऽपूर्वत्वात्तत्र रात्रिसत्रवद् दि- टाग्निहोत्रस्थे, उपरि हि देवेभ्यो धारयन्तीति वाक्ये समिद्धारणवञ्च विधिः कल्पयितुं शक्यत इति तेषामपि हेतुत्वमदण्डवारितमिति न पूर्वोक्तहेतोर्बाधितत्वमित्यर्थः । एतेन भक्तिमार्गव्यवस्थाप्यर्थात् सि- द्धत्याहुः * भक्तीत्यादि *।भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्ये. नैवामुष्मिन् मनःकल्पनमिति भक्तिलक्षणात्तादृश्यां सत्यां तन्मार्गे स्वत एव शमदमादीनां सम्भवान्न तेषामावश्यकतया विशेषतो विधान- म् । अत एव तत्र एतदेव च नैष्कर्म्यमिति सन्न्यासरूपत्वं श्रावित- म् । तथाच ज्ञानेऽन्तरङ्गाणां शमादीनां बहिरङ्गाणां यशादीनां चा- ऽस्त्यपेक्षा । भक्तौ तु तेषामर्थात् सिद्धिरिति भेद इत्यर्थः ॥ २६ ॥ सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात्॥ अत्रैव किञ्चिदाशय परिहरतीत्याशयेन सूत्रमवतारयन्ति । * नन्वित्यादि * तथाच य- था प्राणसंवादस्थश्रुतिभ्याम् आहारशोधकश्रुत्युक्तमपोद्यते, तथा ताभ्यां शमयशाद्यपवादोऽपि वक्तुं शक्यते । तस्मात् सत्त्वशुद्धयर्थ १२२२ समकाशे अणुभाष्ये । धते । आहारशुद्धौ सत्वशुद्धिरिति श्रुतेस्तद्विरुद्धा सर्वान्नभक्षणा- नुमतिरपि यतः श्रूयते छन्दोगानाम् । न ह वा एवं विदि कि- श्वनानन्नं भवति, तथा वाजसनोयिनां, न ह वा अस्याननं जग्धं भवतीयादि । तस्मात् सत्त्वशुद्धयर्थं यज्ञादेर्न विधानमिति प्राप्त विषयव्यस्थामाह । आहारदौलभ्येन प्राणासय उपस्थिते पाण- धारणस्य ज्ञानाऽन्तरङ्गतमसाधनत्वेनाहारस्य देहपोषकत्वेन ततो बहिरङ्गत्वाद तदनुमतिः क्रियत इसर्थः । अत्र प्रमाणमाह । तद्द- र्शनादिति । चाक्रायणः किलर्षिापद्गत इभ्येन सामिखादितान् कुल्माषांश्चखादेयादिश्रुतिदर्शनादिसर्थः । यद्यपि ज्ञानसाधनत्वेन सत्त्वशुद्धेरपेक्षितत्वाजाते ज्ञाने तत्साधानपेक्षणादेवंविदीति वच- नाव तादृशे सार्वदिक्यपि तदनुमति नुचिता । अपि स्मर्यते इ- सनेनाविदुषोऽप्यनुमतेर्वक्ष्यमाणत्वाच्च । तथाऽप्याचार्येणावस्था. विशेषविषयकत्वमुक्तं यत् तेन ज्ञानिनोऽप्यऽनापदि विहितसा- गोविहितकरणं च चित्तमालिन्यजननेन ज्ञानतिरोधायकमिति श्रुसभिमतमिति बाप्यते । अत एव श्रीभागवते द्वितीयस्कन्धे "विशुद्धं केवलं ज्ञानं प्रसक्सम्यगवस्थितम् । ससं पूर्णमनाद्यन्तं निर्गुणं नियमद्वयम् । ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाश- यशशमदमादेन विधानं, किन्त्वेतानि वाक्यानि विद्यास्तावकान्येवेति प्राप्ते तानि न स्तावकान्यपि तु विशेषविधानार्थान्येवेति हृदिकृत्य, अन्नभक्षणवाक्यव्यवस्थामाहेत्यर्थः । सूत्रं व्याकुर्वन्ति । * आहारे- त्यादि *। * क्रियते इति * प्राणधारणार्थ क्रियते । तथाच सर्वा- भानुमते नान्तरङ्गसाधनार्थ व्यवस्थितत्वेनासार्वदिकत्वान्न तया सार्वदिकानां सत्त्वशोधकसाधनानां ज्ञानमार्गे बाधः शक्यवचन इ- त्यर्थः । अत्र किश्चिदाशय परिहरन्ति । * यद्यपीत्यादि *। * त- थापीस्यादि च * । ननु भवत्येवं ज्ञानमार्गे तथापि भक्तिमार्गे शम-

३ अध्याये ४ पादः।
१२२३
याः । यदा तदेवासत्तस्तिरोभूयेत विप्लुतम्" इति ब्रह्मणोक्तम् ।
"ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मो.
हाय महामाया प्रयच्छतीति" इति मार्कण्डेयेनाप्युक्तम् । एषा
ज्ञानमार्गीयज्ञानवतो व्यवस्थेति ज्ञेयम् । भक्तिमार्गीयस्यैवमापद-
सम्भवात् । “अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां
निसाभियुक्तानां योगक्षेमं वहाम्यहम्" इति भगवद्वाक्याव । मा-
मेव ये प्रपद्यन्ते मायामेतान्तरन्ति त इसत्रैवकारेण पुरुषोत्तमज्ञानवत
एवं मायातरणोक्तरक्षरमात्रज्ञानवतां तथात्वमुचितम् ॥ २७ ॥
अबाधाच ॥ २८ ॥
आपदि तथानभक्षणेन चित्ताशुद्धघसम्भवेन तज्जनितपतिव-
न्धाभावाच्च न दोष इत्यर्थः ॥ २८ ॥
अपि स्मयते ॥ २९॥
आपद्यविदुषोऽपि दुष्टान्नभक्षणे पापाभावो यत्र स्मयते तत्र
विदुषि श्रुसनुमते का शङ्केयर्थः । स्मृतिस्तु “जीवितात्ययमापनो
योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाऽम्भ-
सा" इति । अथवा विदुषो दुष्टकर्मासम्बन्धो, ज्ञानाग्निः सर्वकर्माणि
भस्मसात् कुरुते तथेति स्मर्यतेऽपीयर्थः ॥ २९ ॥
दमादीनां सत्त्वशोधकानां स्वभावतः प्राप्तत्वेन तदर्थकनिर्बन्धाभावा-
प्तस्या अनुपस्थितौ पूर्वोक्तानुमतेरपि तत्र वक्तुमशक्यत्वात्तस्य का ग-
तिरित्यत आहुः। * भक्तिमार्गीयस्यैवमिति * । ननु यद्येवं तदा ज्ञान-
मार्गीयस्य कथमापत्तिरित्यत आहुः * मामेवेत्यादि * तथाच माया-
तरणाभावादापत्तिमत्त्वमित्यर्थः ॥ २७॥
अबाधाश्च ॥ २८ ॥
अपि स्मर्यते ॥ २९ ॥

१२२४
सप्रकाशे अणुभाष्ये ।
शब्दश्चातोऽकामकारे ॥ ३ ॥
यतो ज्ञानाग्निरेव सर्वकर्मदहनसमर्थ इति फलदशायां काम-
कारेऽपि न दोषोऽत एव साधनदशायां तदभावेन तस्मादेवंवि-
च्छान्तो दान्त उपरतस्तितिक्षुरिसादिरूपः शब्दः कापकारनिव-
तकः श्रूयत इसर्थः ॥ ३० ॥
एवं ज्ञानस्य कर्मनाशकवे सिद्ध जातज्ञानस्याश्रमकर्म कर्त:
व्यं न वेति चिन्यते । तत्र फलस्य जातत्वात् कृतस्यापि नाश्य-
त्वेनाप्रयोजकत्वान्न कर्त्तव्यमिति पूर्वः पक्षः । तत्र सिद्धान्तमाह ।
विहितत्वाच्चाश्रमकर्माऽपि ॥ ३१ ॥
यथा ज्ञानिनामप्यनापदि शिष्टानामेवान्नं भक्षणीयं विहित-
त्वात् तथाश्रमकापि कर्त्तव्यमेव निसं विहितत्वादिसर्थः । यथा-
ऽनापद्यशिष्टान्नभक्षणं दोषाय, निपिद्धत्वाद् एतच्चोपपादितं,
सर्वान्नानुमतिरिसत्र । तथा निससागोऽपि प्रसवायजनक इति
तत् कर्त्तव्यमेवेति भावः ॥ ३१ ॥
यच्चोक्तं कृतस्यापि नाश्यत्वेनाप्रयोजकत्वान्न कर्त्तव्यमिति
तत्राह।
.
शब्दश्चातोऽकामकारे ॥ एतत्सूत्रत्रयभाष्यमतिरोहितार्थम् ॥
अन्ये तु, सर्वान्नानुमतिरित्यादिसूत्रचतुष्टयात्मकमधिकर-
णान्तरमङ्गीकृत्य किमत्र विद्यावतः सर्वानभक्षणं विधीयत उत वि-
धास्तुत्यर्थ कीर्त्यत इति संशये, न द्वयमपि, किन्तु प्राणरक्षार्थम्
अनुज्ञामात्रम् । अतोऽर्थवाद एवेति सिद्धान्तयन्ति । तदप्यवि-
रुखम् ॥ ३० ॥२॥
विहितत्वाच्चाश्रमकर्मापि ॥ अधिकरणप्रयोजनं पूर्वपक्षादि-
कं चाहुः * एवं शानस्यत्यादि * । सूत्रव्याख्यानं तु स्फुटम् ॥३१॥

३ अध्याये ४ पादः। १२२५ सहकारित्वेन च ॥ ३२॥ शमदमादीनामन्तरङ्गसाधनानां सहकारीण्याश्रमकर्माणीन्येला द्रहितैः शमादिभिरपि ज्ञानं न स्थिरीकर्तुं शक्यमिति तानि कर्त- व्यान्येवेसर्थः । संसारवासनाजनकत्वस्वभावो यः कर्मणां स ज्ञानेन नाश्यत इति न सहकारित्वेऽनुपपत्तिः काचिदिति भावः ॥ ३२॥ एवं ज्ञानमार्गीयज्ञानस्थैर्यसाधनमुक्त्वा भक्तिमार्गीयसाधना- नां भगवच्छ्वणादीनामित आधिक्यमावश्यकतां चाह ॥ सर्वथापि त एवोभयलिङ्गात् ॥ ३३ ॥ भगवच्छ्रवणकीर्तनादयः साधनान्तरवद्विहितत्वेन कर्त्तव्या एव यद्यपि तथापि सर्वथापि अन्येषां युगपदुपस्थितौ तदनुरोध- सहकारित्वेन च ॥ ननु गीतास्मृती ज्ञानस्य सर्वकर्मनाशक- त्वमुक्तम् । जातज्ञानस्य च ज्ञानं वर्तत इति तेन कर्मनाशे कथं तेषां सहकारित्वं युज्यत इत्याशङ्कायामाहुः । * संसारेत्यादि * तथाच स्मृतावेधोऽग्निहष्टान्तस्योक्तत्वाद् यथाग्निरेधांसि दहस्तेषां धूमादिज- नक खभावं नाशयति, स्वस्थितिपर्यन्तमगाररूपेण स्थापयति च त- स्वरूपं, तद्वदत्रापि स्वान्तर्गतमेव कर्मस्वरूपं कृत्वा स्थापयतीति न सहकारित्वेऽनुपपत्तिरित्यर्थः ॥ ३२ ॥ सर्वथापि त एवोभयलिङ्गात् ॥ पूर्व सर्वापेक्षासूत्रे सर्वपदेन कर्मज्ञानभक्तीनां संगृहीतत्वात्तेषु कर्मणामङ्गाङ्गतयैव सङ्ग्रहो मुख्य- तया तु ज्ञानभक्त्योरिति पूर्व प्रथमकक्षाविश्रान्तज्ञानमागीयज्ञानस्थै- र्यप्रकार दर्शयित्वाऽधुना भक्तिमार्गीयाणां तं दर्शयतीत्याशयेन सूत्र- मवतारयन्ति । * एवमित्यादि * I * आहेति * शारीरब्राह्मणस्थ- श्रुतिविचारेण, श्रीभागवतगीतावाक्यविचारेण चाहेत्यर्थः । सूत्रं व्याकुर्वन्ति । * भगवदित्यादि * । * अन्येषामिति * आश्रमधर्मा- णाम् । ननु तच्छब्दस्य पूर्वपरामर्शित्वात् पूर्व चाश्रमधर्माणां शमा- १५४ १२२६ सप्रकाशे अणुभाष्ये । मकृत्वापित एव भगवद्धर्मा एव कर्त्तव्या इयर्थः। कुतः।श्रुतिलिङ्गात् स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तु, तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहून्छब्दान् वाचो विग्लापनं हि त- दिति । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथाऽमृतस्यैष सेतु- रिसपि । अत्रैवकारेण भगवदतिरिक्तं प्रतिषिद्धय तद्विषयकज्ञाना- नुकूलं प्रयत्नं श्रवणात्मकं विज्ञायेति विधाय स्मरणमपि तन्मात्र- विषयकमेव प्रज्ञां कुर्वीतेति वचनेन विधाय तदेकनिष्ठताहेतुभूना- नामेव शब्दानामावर्तनमर्थानुसन्धानमपि कर्त्तव्यं, नान्येषामिति नानुध्यायाद् बहूनित्यनेनोक्तवती । अत्रान्वित्युपसर्गेण ध्यानस्य- पश्चाद् भावित्वमुच्यते । तेन योग्यतया श्रवणकीर्तने एव तत्पूर्व भाविनी प्राप्यते । स्मृतिस्तु-"शृण्वन्ति गायन्ति गृणन्त्यभी. क्ष्णशः स्मरन्ति नन्दन्ति तवहितं जनाः । त एव पश्यन्यचिरेण दीनां चोक्तत्वातान् विहायात्र तच्छब्देन भगवद्धर्मा एव कथं गृह्य- न्त इत्याशङ्कनयां हेतुच्याख्यानेन तामपि निरस्यन्ति । * श्रुतिलिङ्गं तु तमेव धीर इत्यादि * तथाच पूर्व सूत्रेषु शमादीनां यक्षादीनां च शारीरब्राह्मणस्थानामंव परामृष्टत्वादत्रापि तत्रत्यमेव साधनं परा- मृश्यते । तत्र च पूर्व, तमेव धीर इति वाक्यमेवोक्तम् । ततो वेदा. नुवचनवाक्यम् । ततः शान्तदान्तवाक्यम् । अतः सूत्रस्थेन तच्छब्देन श्रुतिस्थं यत्पूर्व तदेव परामृश्यते । श्रुतावेषां पूर्वमुक्तत्वेऽपि यदेषां पश्चाद्विचारण तदेकादशस्कन्धे भगवता, ज्ञानं कर्म च भक्तिश्चति पश्चादुक्तत्वात्, तमेवैकमिति मुण्डकश्रुतिश्चासन्दिग्धतया सम्यङ्- माहात्म्यस्फारणाय पठ्यते। केन लिङ्गेनात्र भगवद्धर्मप्राप्तिरित्याका. कायाम् । इतरानुध्याननिषेधकवाक्यगतानूपसर्गस्य पश्चाद्भावित्व- प्रकाशकत्वलिङ्गन तत्पूर्वभाविनी श्रवणकीर्तने प्राप्येते । तेन तदन- न्तरं तत्सारभूतशब्दार्थानुसन्धानमेव कार्य, न त्वन्येषां तदर्थमन्या. नुवादकानामपीत बोध्यत इति न कोऽपि शङ्कगलेशः । स्मृतिलिङ्गं वक्तुमाहुः । * स्मृतिस्त्वित्यादि * । अत्रापि प्रथमवाक्ये फलश्रुति

३ अध्याये ४ पादः।
१२२७
तावकं भवप्रवाहोपरमं पदाऽम्बुजमिति । महात्मानस्तु मां पार्थ
दैवी प्रकृतिमास्थिताः।भजन्सनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भत्त्या
नित्ययुक्ता उपासत"इति । एतेन भगवद्धर्माणामात्मधर्मत्वेनान्त-
रङ्गत्वादाश्रमकर्मणो देहधर्मत्वेन बहिरङ्गत्वात्तदविरोधनैव तत् क-
र्तव्यमिति स्थितम् । अत एव भगवद्धर्माऽन्यधर्म प्रतिषिद्धय तेषां
सर्वेभ्य आधिक्यं ज्ञापयितुं, स वा अयमात्मा सर्वस्य वशीसादिना
भगवन्माहात्म्यमुक्तम् ॥ ३३ ॥
अनभिभवं च दर्शयति ॥ ३४ ॥
प्राधान्येन भगवद्धर्मा एव कर्त्तव्या इत्यत्रोपोबलकान्तरमनेन
उच्यते । सर्व पाप्मानं तरति, नैनं पाप्मा तरति, सर्व पाप्मानं
तपति, नैनं पाप्मा तपतीत्यादिना भगवद्धर्मानुरोधेनाश्रमकर्माकर-
णजदोषैरनभिभवं च श्रुतिदर्शयत्यऽतो भगवद्धर्मा एव सर्वेभ्य
उत्तमानि साधनानीत्यर्थः ॥ ३४ ॥
अन्तरा चापि तु तदृष्टेः ॥ ३५ ॥
लिङ्गेन तेषां करणं लभ्यते । एवं गीतावाक्येऽपि शेयम् । सिद्धमा-
हुः । * एतेनेत्यादि * एतदुपष्टम्भाय प्रकृतश्रुतिस्थमेव लिङ्गदर्शय-
न्ति । * अत एवेत्यादि * । तथाचान्ते भगवन्माहात्म्योक्तिरपि भ-
गवद्धर्माणामाधिक्ये तेषामवश्यकर्तव्यत्वे च लिङ्गमित्यर्थः । पतेन
अस्मिन् सूत्रे त एवेत्यवधारणेन त्रयाणां युगपदुपस्थितौ भगवद्ध-
मातिरिक्तान आचार्यो निवर्तयतीति बोधितम् । एतदुपष्टम्भायैवा-
ग्रिमा पञ्चसूत्रीति ॥ ३३ ॥
अनभिभवं च दर्शयति ॥ अत्र भाष्यमतिरोहितार्थम् । सर्व
पाप्मानं तरतीति श्रुतिस्तु शारीरब्राह्मणस्था ॥ ३४ ॥

१२२८ सप्रकाशे अणुभाष्ये । भगवद्धर्मेभ्य आश्रमधर्मा हीना इत्यप्यऽल्पमुच्यते । अपि तु तस्मिन् पुरुषोत्तमे धर्मिण्येव दृष्टिस्तात्पर्य यस्य पुंसस्तस्याश्रम- धर्मा अन्तरा च फलसिद्धौ व्यवधानरूपाश्चेति श्रुतिदर्शयतीति पू. र्वेण सम्बन्धः । अन्तराशब्दोऽत्राव्ययात्मको व्यवधानवाचकः । तथाच श्रुतिः-एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ऋणाऽपाकरणहेतुत्वेन लौकिकोत्कर्षहेतुत्वेनापि प्रजा- या अभीष्टत्वेऽपि तदुत्पादनव्यासङ्गेन भगवदानन्दानुभवेऽन्तरा- यो भविष्यतीति तदृष्टया तत्रोपेक्षां दर्शयति ॥ ३५ ॥ अपि स्मर्यते ॥ ३६॥ अपिशब्देनाश्रमधर्माणां तथात्वं किमु वाच्यं, यतो ज्ञानत- साधनवैराग्यादीनामप्यन्तरायरूपत्वं स्मर्यते । “तस्मान्मद्भक्तियु- तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे"ति भगवद्वाक्यम् ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७॥ स्मर्यत इति पूर्वेण सम्बन्धः । ज्ञानादेः सकाशाद्भक्तिमार्गे अन्तरा चापितु तदृष्टेः ॥ * व्यवधानवाचक इति ।अन्तरे- ऽन्तरा, अन्तरेण च मध्ये स्युरिति कोशात् । मध्यस्थितस्य च व्य- वधायकत्वाद् व्यवधानवाचक इत्यर्थः । आश्रमकर्मणां कथं व्यव- धायकत्वमित्याकाङ्क्षायां श्रुत्या तदुपपादयन्ति । * तथाचेत्या- दि * । इयमपि श्रुतिस्तत्रत्यैव ॥ ३५ ॥ अपि स्मर्यते ॥३६॥ विशेषानुग्रहश्च ॥ पदद्भाष्यमप्यतिरोहितार्थम् ॥ अनुग्रहस्तु धर्मान्तरं कृपा- दयाद्यपरपर्यायम् । न तु फलदित्सा । यस्यानुग्रहामिच्छामीति ३ अध्याये ४ पादः। १२२९ फलतोऽप्युत्कर्षमाह । ज्ञानादिसाधनवत्स्वनुग्रहो मुक्तिपर्यन्त एव । भक्तिमार्गे तु, अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विजेसादिवाक्यै- विशेषरूपो मुक्तादिभ्योऽपि भक्तानां व्यावर्तको भगवदनुग्रहः स्मर्यत इसर्थः ॥ ३७॥ गूढाभिसन्धिमुद्घाटयन फलितमर्थमाह । अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ अत इति पूर्वोक्तश्रुतिस्मृतिपरामर्शः। तथाचेतरस्या मुक्तेरपि भक्तिमार्गीयतदीयत्वमेव ज्याय इत्यर्थः । अत्र हेत्वन्तरमाह । लिङ्गाचेति । मुक्तानां तु मायाविनिर्मुक्तमात्मस्वरूपमेव, न तु दे- हेन्द्रियादिकमप्यस्ति येन भजनानन्दानुभवः स्यात् । भक्तानां तु देहेन्द्रियादिकमपि मायातत्कार्यरहितत्वेनानन्दरूपत्वेन च भगवदु- पयोग्यतोऽपि तत्तथेयर्थः । न हि मुक्तात्मनां कश्चन भगवदुपयो- गोऽस्तीति भावः । तदुक्तं श्रीभागवते, न यत्र माया किमुताऽपरे वाक्यात् । अयमेव च पुष्टिशब्देनोच्यते । पोषणं तदनुग्रह इति वा- फ्यात् । एतत् सर्व मत्पितृचरणविरचिते पुष्टिप्रवाहमर्यादाख्यग्रन्थ- विवरणे अपश्चितमिति नात्रोच्यते ॥ ३७॥ अतस्त्वितरज्यायो लिङ्गाश्च ॥ मुक्तरिति पञ्चमी । * अत्रे. ति *। भक्तिमार्गीयभगवदीयत्वस्य मुक्तितोऽपि ज्यायस्त्वे । * स्वरू- पमेवेति * तिष्ठतीति शेषः। * अतोऽपीति * भगवदुपयोगिलिङ्गस्थूल- शरीरद्वयात्मिकाया भजनानन्दानुभावकसामग्या आधिक्यादिति । एतेन "सर्वेन्द्रियैस्तथाचान्तःकरणैरात्मनाऽपि हि । ब्रह्मभावात्तु भ- तानां गृह एव विशिष्यत इति निबन्धोक्तं स्मारितम् । ननु भगव- दुपयोगित्वस्य कथं मुक्त्यपेक्षया भक्ताधिक्यलिङ्गत्वमित्यपेक्षायां तत्र प्रमाणमाहुः । * तदुक्तमित्यादि * । एतद्वाक्ये मायासंसर्गर- हिते स्थाने भगवदनुव्रतानां कथनाद्गवतो मुक्तसेव्यत्वस्य पूर्व १२३० सप्रकाशे अणुभाष्ये । हरेरनुव्रता यत्र मुरासुरार्चिता इसादि, मुक्तोपमृप्यत्वं चोच्यते । अत एव सप्तमस्कन्धे देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनामित्यु- क्तम् । पुरवासित्वे देहादेरावश्यकत्वान्निषेधो जडात्मकानामेवेस- वगम्यते । इतरज्ज्याय इति पाठे तु पूर्वोक्ताश्रमकर्मपरामर्शोऽत इसनेन उक्तयोरेव वा । एतेन, सोऽश्नुते सर्वान् कामान् सह ब्र- ह्मणा विपश्चितेत्युक्तफलवत्त्वं तस्य सूच्यते ॥ ३८ ॥ भगवता सूत्रकारेण मुक्तोपसृप्यसूत्रे उक्तत्वाश्च तदेव प्रमाणमित्य- र्थः । एतदुपोवलनाय निषेधमुखेनालौकिकदेहबोधकं वाक्यान्तर- माहुः । * अत एवेत्यादि * । एवमेकपाठं व्याख्याय पाठान्तरं व्याकुर्वन्ति । * इतरदित्यादि * । उक्तयोरिति * । श्रुतिस्मृत्योः । अस्मिन् पक्षे इतरदिति पदेन भक्तिमार्गीयभगवदीयत्वं बोध्यम् । सिद्धमाहुः । * एतेनेत्यादि * / * तस्यति * । ताहशभगवदीय- यत्वस्य । एवं शानिधर्माणां शमादीनामाश्रमधर्माणां च विहितत्वेन तौल्यादवश्यकर्त्तव्यत्वे प्राप्तेऽप्यनभिभवादिपञ्चसूत्र्या भगवर्मा- णामुत्कर्षप्रदर्शनन अन्येषामेतेषां च युगपदुपस्थितौ भक्तिमार्गीयेण पूर्वमेत एव कर्तव्या, गौणकाले त्वन्य इति निर्णीतम् ॥ यद्यप्यतीत. पादे,आदरादलोप इत्यधिकरणे राजसभक्तानां कर्मासक्तिनिवृत्तयेऽय- मर्थ उक्तस्तथाप्यत्र कर्मोपसंहारप्रकारदाार्थ पुनर्विशेषतो युक्ति. पूर्वकं बोधित इति न पुनरुक्तिदोष इति शेयम् । सर्वथाऽपीति सूत्रद्वयमाश्रमकर्माधिकरणशेषत्वेनाङ्गीकृत्य त एवेत्यवधारणेनाश्रमधर्मातिरिक्तधर्मान्तरनिवृत्तिमङ्गीकुर्वन्ति । य. था हि, मासग्निहोत्रं जुह्वतीति कर्मान्तरमुपदिश्यत तथा नात्र । किन्तु तान्येव वेदानुवचनादरनूद्य पृथक्संयोगो विधीयते तस्मादि- ति । तत्रैवं व्याख्याने सर्वथेति पदानर्थक्यम् । आश्रमधर्मपक्षे भेद- शङ्कगया एवानुदयादिति । अनभिभवसूत्रवैयर्थ्य च ॥ तथा, अन्तरा चापीति सूत्रचतुष्टयात्मकमधिकरणान्तरम- ङ्गीकृत्य तत्र विधुरादीनां द्रव्यादिसम्पद्रहितानां चान्यतमाश्रमप्रति- पत्तिहीनानां च विद्यायामधिकारोऽस्ति, न वेति संशये, रयिक- ३ अध्याये ४ पादः। १२३१ तद्भूतस्य तु नाऽतहावो जैमिनिरपि निय- मातद्रूपाभावेभ्यः ॥ ३९॥ अथेदं विचार्यते । तदीयानामपि कदाचित् सायुज्यमस्ति, न वेति । तत्र भक्तिमार्गस्यापि साधनरूपत्वात्तस्य च मुक्तावेव प- र्यवसानात्तदीयत्वस्य साधनावस्थारूपत्वात् तेषामपि मुक्तिरावश्य- की। तथाच फलतो न कश्चिद् विशेष इति प्राप्ते, उच्यते । त- द्भूतस्येयादि । तुशब्देन मर्यादामार्गीयव्यवच्छेदः । अत्र विश्वा- सदाायाह । अन्यस्य का वार्ता, कर्ममात्रनिरूपकस्य जैमिनेरा यदि कदाचिद्भगवत्कृपयाऽयं भावो भवत् तदा तद्भूतस्य पुष्टि- मार्गीयभगवद्भावं प्राप्तस्य तस्यापि नातद्भाव उक्तभावतिरोधानं न कदाचिदपीसर्थः । अत्र हेतूनाह नियमादीन् । तैत्तिरीयके, ते ते धामान्युष्मसीति मन्त्रे यत्र भूरिशृङ्गा अयासस्तदुरुगायस्य पर- मं पदमित्युक्त्वा तदनन्तरं तत्र कृतानि कर्माण्यपि, विष्णोः कर्माणि वाचक्नवीप्रभृतीनामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः । संवर्त्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्मणामपि महायोगित्वस्मरणात् । विधुरादीनामविरुद्धः पुरुषमात्रसम्बन्धिभिर्धर्मविशेषैर्विद्यानुग्रह- स्मरणाश्च । तेषामप्यस्त्यधिकार इति निर्णयमाहुः । अन्तरालवर्ति- त्वापेक्षया आश्रमित्वं ज्यायो विद्यासाधनमिति चाहुः ॥ तत्रोदासीना वयम् ॥ ३८ ॥३॥ तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः । अधिकरणमवतारपन्ति । * अथेत्यादि * / * कदाचित् सायुज्य- मस्ति, न वेति साधनभक्तिपरिपाकदशायामक्षरसायुज्यमस्ति न वेत्यर्थः । * तस्य चंति * । साधनस्य । सिद्धान्तं वक्तुं सूत्रं व्याकु- वन्ति । * तुशब्दनेत्यादि * । तेन नैकात्मतां मे स्पृहयन्तीत्यादीनां भक्तमुक्तिबोधकानां वाक्यानां न विरोध इति बोधितम् । मर्यादा- सहितपुष्टी पुरुषोत्तमसायुज्य एव पर्यवसानादिति । * यदि कदाचिः १२३२ सप्रकाशे अणुमाष्ये । पश्यतेति मन्त्रेण निरूप्य पुनः पूर्वोक्तलीलास्थानं, तद्विष्णोः परमं पदमिति पदेनानूध तस्य निसत्वनिरूपणायोच्यते, सदा पश्यन्ति सूरय इति सूरयो विद्वांसः पुरुषोत्तमज्ञानवन्त इति यावत् । तच भत्त्यैवेति मूरिपदेन भक्ता उच्यन्ते । तथाच भक्तानां सार्वदिक- दर्शनं नियम्यते, सदेति पदेन । एवं सति पुष्टिमार्गीयभगवद्भावं प्राप्तस्य मुक्तावुच्यमानायां तन्नियमो भज्यतेसर्थः । यच्चोक्तं सा- धनावस्थायामुत्तमावस्थारूपत्वं परं तदीयत्वस्य फले मुक्तिरेवेति तत्राहाऽतद्रूपति । उक्तभगवदीयत्वं न साधनरूपमपि तु मुक्तेरपि फलरूपम् "मुक्तानामपि सिद्धानां नारायणपरायणः। मुदुर्लभः प्रशान्ताऽऽत्मा" इति वाक्यात् । “यदा सर्वे प्रमुच्यन्ते कामा ये- ऽस्य हृदि श्रिताः। अथ मोऽमृतो भवसत्र ब्रह्म समश्नुत" इति श्रुखा अमृतस्य मुक्तस्य ब्रह्मस्वरूपभोग उच्यते । स च, यमेवैप वृणुत इति श्रुतेर्भगवदीयत्वसाध्य एनेति स्पष्टफलत्वमस्यातोऽतद्रू- पत्वम् । किञ्च । फलं हि साधनादुत्तमं भवति । भगवदीयत्वादु- तमस्यार्थस्याभावादपि न मुक्तिर्वक्तुमुचिता । तदुक्तं श्रीभागवते पञ्चमस्कन्धे पूर्व भक्तिस्वरूपं निरूप्य, तयैव परया निवृत्त्या ह्यप- वर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्था इति ॥ ३९ ॥ दिति * । अनेकजन्मसुविहितकर्मकरणेन भगवत्तोषे जाते । * त- नियम इति * सार्वदिकदर्शननियमः । पुष्टिमार्गीयभगवतीयत्वस्य मुक्तिफलरूपत्वे श्रुतिं दर्शयन्ति * यदा सर्वे इत्यादि * । इयं शारीर- ब्राह्मणस्था । तत्र अकामयमानं कर्तारमुपक्रम्य ताहशस्य प्राणानु- क्रमणं ब्रह्मैव सन् ब्रह्माप्येतीति ब्रह्मणि लयं चोकवा लयस्वरूपं वि. वेक्तुं तदेष श्लोको भवतीति प्रतिक्षाय, यदा सर्वे इति पठ्यते । तत्र सर्वकामप्रमोके अस्याऽमृतत्वभवनमुक्त्वा, अत्र एतल्लोक एव, ब्रह्म ३ अध्याये ४ पादः। नचाधिकारिकमपि पतनानुमानात् तदयोगात् ॥४०॥ अथेदं विचार्यते। धुवायेव ब्रह्मादिलोकाधिकारं दवा तत्स- म्बन्धिफलं ददाति, न वेति । तत्र नेसाह । नचेति । तत्र हेतुः । पतनानुमानादिति । आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुने- समश्नुते इत्यनेन सोऽश्नुते इत्यत्रेवाश भोजने इति धातोरेव विकर- णपदव्यत्ययाभ्यां प्रयोगात्तस्यैवार्थो गृह्यत इति मुक्तस्य ब्रह्मस्व. रूपभोग एवात्रोच्यते । स च, यमेवेति श्रुत्यन्तरैकवाक्यतया तथा. विधार्यते इति मुक्तिफलरूपत्वान्न तस्य मुक्तिसाधनरूपत्वमित्य. र्थः । तेन, अतद्रूप इति भावप्रधानो निर्देश इति घोधितम् । न च सुषुप्त्युत्क्रान्त्यो देनेत्यत्रेयं वाजसनेयिश्रुतिरकामयमानस्येत्यारण्य ब्रह्म समश्नुत इत्यन्तं सुषुप्तिपरत्वेन भाष्य एव व्याख्यातेति कथम- भैवमुच्यत इति शयम् । याज्ञवल्केन शिष्टतया तत्र सुषुप्तिमोक्षाव. स्थे बोधिते इति बोधनार्थ तत्र तथा व्याख्यानं, न तु सिद्धान्तबो. धनायेति तत्रैव मया व्युत्पादितत्वादिति । शेषं स्फुटम् । यद्यप्यती- तपादे लिङ्गभूयस्त्वाधिकरणस्थेऽनुबन्धादिसूत्रेऽयमों निर्णीतस्त- थापि सर्वात्मभाववत एव निर्णीतो, न तु पुष्टिमर्यादामार्गीयभगव- द्भक्तस्यापीति न पुनरुक्तिरिति शेयम् । अन्ये तु अत्र ऊर्ध्वरेतआश्रमात् कथमपि पुनराश्रमान्तरं भवतिन वेति संशयेऽनेन सूत्रेण तदभावः साध्यत इत्याहुः । तद- स्माकमपि संमतम् । यत्तु जैमिनिपदमैकमत्यबोधनायेत्याहुः । तत् तदर्शने तद्विचारादर्शनाच्छिष्यत्वेन तत्सम्मतिप्रदर्शनप्रयोजनाभा. पाश्चेति न रोचिष्णु ॥ ३९ ॥ नचाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ अधिकरणमव- तारयन्ति । * अथेत्यादि * / * अथेदं विचार्यत इति * । पुष्टिम. र्यादामार्गीयफलविचारोत्तरं मर्यादापुष्टस्य फलं विचार्यत इत्यर्थः । * तत्सम्बन्धीति * अधिकारसम्बन्धि । सिद्धान्तमाहुः । * तन नेत्यादि * ईदृशे सन्देहे ध्रुवायेव ददातीति पूर्वपक्षे नेत्याहेत्यर्थः । व्याकुर्वन्ति । * आग्रह्मेत्यादि * । सूत्रयाजना तु, आधिकारिक १.२३४ सप्रकाशे अणुभाष्ये । ति स्मृतरिसर्थः । फलस्य सावधिकत्वादिति भावः । किश्च ता. दृशे भगवदीये यजनाऽयोगादपि न तथा । अथवा । तादृशस्य सदप भक्तिरसानुभवात्तदतिरिक्तस्यानपेक्षणादन्येषां फलानां स- म्बन्धाभावादिसर्थः ॥ ४० ॥ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४१ ॥ एके भक्ता आधिकारिके फले पतनमात्रं न हेयत्वप्रयोजक- मिति वदन्सऽपि तूपपूर्व पतनमेव तदिति वदन्ति । भक्तिभावा- उच्युतेः। अधिकारसमाप्तौ भगवदनुग्रहाशाऽपि कदाचित् सम्भव- तीत्युपपतनं तत् । मुक्तौ वपुनराहत्तेभक्तिरसाशाऽपि नेति महा- पतनमेव सेति भावः । तेन निपिद्धकर्मफलतुल्यत्वं ज्ञापितं भवति । अत एव श्रीभागवते "नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन" इति गीयते । भक्तिमार्गे तु साक्षात्सङ्गाभावेऽपि तदीयभावमात्रमप्यशनवत् साक्षाद्भगवत्स्व- फलं चकारादधिकारमपि न, पुष्टिमार्गीयभ्यो न ददात्येव । कुतः । पतनानुमात् । अनुमीयते श्रुतिरनेनेत्यनुमानं स्मृतिः पतनबोधकम- नुमानं पतनानुमान तस्मात् । शेषा तु स्फुटा । तर्हि, ध्रुवाय कथं दत्तवानिति तु न शङ्यम् । द्वितीयस्कन्धे, ते वै विदन्त्यतितरन्ति च योगमायामिति भगवद्योगमायाज्ञानरूपसाधनान्तरस्य ध्रुवे उक्तत्वेन, नैच्छन्मुक्ति- पतमुक्तिं पश्चात्तापमुपेयिवानिति वाक्येन च तस्य मुमुक्षुतया मर्या. दामार्गीयत्वावगमात् । पुनः पुष्टावङ्गीकृतास्तेषां तु मुक्तावप्या. काङ्गाराहित्यात्तामेव न ददातीति दुरापेतमाधिकारिकमित्यर्थः । किञ्च तस्यापि तत्र मुक्तिरेव मायातरणरूपा फलत्वनोच्यते, न तु भक्तिफलमतो न दोषः । भक्तस्वरूपविचारणार्थान्तरं तदयोगपद स्याहु । * अथवेत्यादि ॥४०॥ उपपूर्वमपि त्वके भावमशनवत्तदुक्तम् ॥ उक्तऽर्थे हेत्वन्तर- माहत्याशयेन सूत्रं व्याकुर्वन्ति । * एक इत्यादि * । . ये ३ अध्याये ४ पादः। रूपभोगवदेव मन्यते। तदुक्तं श्रीभागवते, अथ ह वा व तवेसादि- ना । साक्षाद्भगवद्भोगो जीवस्यासम्भावित इति शङ्कानिरासाया- ह । तदुक्तमिति। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चि- तेति, अत्र ब्रह्मसमश्नुत इयादिश्रुतिषु साक्षादब्रह्मस्वरूपरसाशन- मुक्तमिसर्थः ॥ ४१ ॥ बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४२ ॥ अथेदं चिन्यते । प्रचुरभगवद्भावमात्रवतः साक्षात् स्वरूप- भोगवतो वा गृहसागः कर्त्तव्यो न वेति फलस्य सिद्धत्वाति प- क्षव्यवच्छेदाय, मद्वा यातयामानां न बन्धाय गृहा मता इति वा- - अथ ह वा वेति* इदं गद्यं षष्ठस्कन्धे नवमाध्याये अथ ह वा. व तब महिमाऽमृतरससमुद्रविरुणा सकृदवलीढया स्वमनसि निष्पन्दमा. नानवरतसुखेन विस्मृतदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतसुहृदि सर्वात्मनि नित निरन्तरनिर्वृतम- नसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशलाः ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाऽम्बुजानुसेवा विसृजन्ति, न यत्र पुनरयं संसार- पर्यावर्स इति । तथाच पूर्णानुग्रहभाजनानामव भगवत्परायणत्वा- तू नेपामाधिकारिकं फलमधिकारं च तुच्छत्वान्न ददाति, किन्तु भ- गवल्लोकेषु नित्यमक्षरात्मकं सेवानुरूपं देहमन्तर्भजनानन्दानुभवं च ददातीत्येतादृशं मर्यादापुष्टानां फलमिति सिद्धम् । एतेन भक्तिमार्गे मध्यमजघन्याधिकारिणोरपि ज्ञानफलतः फलोत्कर्षाद्भक्तिमार्ग उत्कृ- ट इत्यपि सिद्धम् ॥४१॥५॥ बहिस्तूभयथापि स्मृतेराचाराच्च ॥ अधिकरणप्रयोजनमाहुः । * अथेदमित्यादि * । अथ भक्तिमार्गीयमध्यमजघन्ययोः फलवि. चारोत्तरं मध्यमस्य त्यागरूपं साधनं चिन्त्यत इत्यर्थः । मध्यमत्वं विशदयन्तः संशयादिकमाहुः । * प्रचुरेत्यादि * । अत्राधिकारिद्व- यस्योक्तत्वाद् द्विविधपूर्वपक्षव्यवच्छेदार्थस्तु शब्द इत्याशयेनाहुः । * फलस्येत्यादि * । मद्वात्यादि च * ।

सप्रकाशे अणुभाष्ये । क्याद् बन्धकत्वेन साज्य इति पक्षव्यवच्छेदाय च तुशब्दः। भाव- मात्रे साक्षात्लभुसम्बन्धे वोभयथापि गृहाद बहिर्गमनं गृहसाग इति यावत् । स आवश्यकः । तत्र प्रमाणमाह । स्मृतेरिसादि । त्वं तु सर्व परियज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः स- म्यक् समदृग्विचरस्व गामियादिस्मृतिर्भगवद्भाववतस्तत्सङ्गविशिष्ट- स्यापि बहिर्गमनमाह। तदाचारोऽपि तथैव श्रयतेऽतस्तथा। अत्राय- माशयः । आश्रमधर्मत्वेन गृहसागो यदहरेवेसादिश्रुतिभ्यः पूर्व- मुपपादितोऽपि यदधुना पुनरुच्यते तेन तदतिरिक्तोऽयमिति ज्ञा- यते। तथाचोक्तवाक्यान्मुमुक्षुमुक्तिप्रतिबन्धकत्वाभावेऽपि व्यासङ्ग- स्य तत्रावश्यकत्वादुक्तोभयोरप्यनवरतं प्रभुरसास्वादे प्रतिबन्धक- त्वेन तस्य तत्त्यागस्य विप्रयोगरसानुभावकत्वेन च स कर्त्तव्यः । यद्यपि स्वेष्टान्तरायत्वेन स्वत एव तत्सागो भावी तथाप्याश्रमादा- श्रमं गच्छेदिति वाक्यादत्राश्रमान्तरत्वाभावेन सागस्याऽविहित- त्वशङ्काभावायेयमुक्तिरिति ॥ ४२ ॥ * अतस्तथेति * उक्तप्रमाणप्राप्तत्वात्यागः कर्त्तव्य इत्यर्थः उद्धवस्य मध्यमाधिकारित्वं तु, उद्धवादिमध्यमभावबोधकाय नम इति ना- मावल्ल्यां स्फुटम्। पुनरुक्तिपरिहाराय तदाशयमाहुः * अप्रेत्यादि * *पूर्वमिति । उर्ध्वरेतःसूत्रे। * उक्तवाक्यादिति * । मद्वा यानया. नामिति वाक्यातू । * तस्येति * । गृहस्य । * इयमुक्तिरिति * । अनेन सूत्रेणानुशा । तथाचाश्रमान्तररूपत्वाभावेन स्मृत्यन्तरोक्त- स्वाभावेऽपि । एकादशस्कन्धेऽष्टादशाध्याये “यदा कर्मविपाकेषु लो- केषु निरयात्मसु । विरागो जायते सम्यङ्न्यस्ताग्निः प्रव्रजेत्तत"इ. त्यादिषोडशभिः श्लोकैस्त्रिदण्ड सन्न्यासमुक्त्वा, ततो, "ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस्त्यक्त्वा चरदवि- धिगोचर"इत्यादिभिरेकादशभिाननिष्ठस्य भक्तस्य च तदतिरिक्तः ३ अध्याये ४ पादः। १२३७ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४३ ॥ पुष्टिमार्गीयभक्तस्य विहितत्वादिति ज्ञानमयोजकम् । तत्र हेतुः-तस्य भक्तिमार्गस्वामिनः श्रीगोकुलेशादेव फलस्य श्रुतेरतो बहिर्गमनं न साधनत्वेनात्र कार्यमिति भावः । अत्र, यमेवैप वृणुत इति श्रुतिरनुसन्धेया । एतदनुपदमेव पठ्यते । नायमात्मा बलही- नेन लभ्य इति । अत्र भगवदरणानन्तरमपि जीववलं कतमद्, यद- पेक्षो भगवल्लाभ इति जिज्ञासायां सर्वात्मभाव एव बलमिति नि- गीयते । तस्यैव मर्यादावलोपमर्दकत्वाद्भगवदशीकारहेतुत्वाच्च । बजसीमन्तिनीनां प्रभुवचनातिक्रममपि कृत्वा स्वरूपपरिग्रहस्तद्व- लेनैव यत इसात्रेय आचार्यों मनुते । इदमत्राभिप्रेतम् । सर्वात्म- भावस्य यद् बलं, तत्तदात्मकस्य प्रभोरेव तस्य चायं स्वभावो यदन्यन्न रोचते। अत एव व्रजपरिवृढवदनेन्दुवचनकिरणप्रचारमो. संन्यास उक्तः।तबोधनायेदं कथनमित्यर्थः एतस्य प्रपञ्चःसंन्यास- निर्णयग्रन्थादवगन्तव्यः ॥ ४२ ॥ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ननु भक्तिमार्गीयत्यागो मध्य- मस्य कर्त्तव्यत्वेनोक्त इत्याकाङ्कायामिदं सूत्रं प्रववृत इत्याशयेन व्याकुर्वन्ति । * पुष्टीत्यादि * / * विहितत्वादिति * । विहितत्वेन ज्ञानम् । तथात्वेन फलसाधकत्वज्ञानं च । * साधनत्वेनेति * फल. प्राप्तिसाधनत्वेन । * अत्रेति * । स्वामिन एव फलमित्यस्मिन्नर्थे नायमात्मा बलहीनेनेति वाक्यार्थस्य गुणोपसंहारपाद एव विचारि- तत्वात्तद्विचारोऽत्र न क्रियते। * तस्यैव मर्यादेत्यादि * "धर्मः सत्य. दयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक प्रपुनाति हीति । न साधयति मां योगो न सांख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो यथा भक्तिममार्जिते"त्यकादशस्कन्धीयवा- क्याभ्यां तथात्वादित्यर्थः । * तदात्मकस्येति * । सर्वात्मभावात्म- कस्य । * अन्यदिति * । भगवदतिरिक्तम् । सिद्धमाहुः । * अत १२३८ सप्रकाशे अणुभाष्ये । छलत्केवलभावाऽम्भोधिवचनवीचयो गीयन्ते—ययम्बुजाक्ष तव पादतलमस्पाम तत्मभृति नान्यसमक्षं स्थातुं पारयाम इसादयः। अतस्यागस्तु पृष्ठलग्न इवायातीनि न तदर्थं यतनीयमिति विष्ण्व- वतारत्वेन पुरुषोत्तमभावस्वरूपज्ञोऽयमिति तथा ॥ ४३ ॥ आविज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥४॥ सर्वसागपूर्वकं यद् वहिः प्रभुसमीपगमनं भक्तस्य तदात्वि- ज्यमृत्तिक्कमवेसौडुलोमिराचार्यों मन्यते । तस्यायमभिसन्धिः । यजमानो हि वेष्टसिद्धयर्थमृत्विज आदौ वृणुते । प्रकृते च, य- मेवैप वृणुत इति श्रुतेस्तस्मादकाकी न रमत इति श्रुतेश्च स्वक्री- डार्थ भगवान् स्वचिकीर्षिततत्तल्लीलानुरूपाजीवान् वृणुते । यूनः स्थविरान् वेति विकल्पादेकरूपाणां यथा सोमादिषु वरणं तथा सर्वात्मभाववत्त्वेनैकरूपाणामेवात्र वरणम् । तत्र यथा स्वी- यस्वीयतदङ्गमात्रकरणं तेषां तथेतरसम्बन्धनिवर्तनपूर्वकं तेद्भाग्य- समर्पकत्वमत्र । तदुक्तं भगवना, यदा पुमाँस्यक्तसमस्तकर्मा निवेदि- इत्यादि * । तथाचोत्तमस्य स्वत एव गृहत्यागः सम्भवतीत्यतो नोक्त इत्यर्थः । नन्वात्रेयस्य कथमेवं भक्तिमार्गीयभावस्वरूपज्ञानं येन गृहत्यागयत्न निषेधतीत्यत आहुः । * विष्ण्वतारत्यादि * । “अत्रे. रपत्यमभिकाङ्कत आह तुष्टो दत्तो मयाऽहमिति यद्भगवान् स दत्त" इति द्वितीयस्कन्धवाक्यादवतारत्वन तथेत्यर्थः ॥ ४३ ॥ आविज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ औडुलोम्या- शयमाहुः । * तस्यायमित्यादि * । यूनः स्थावरान् वेति * । सर्वान् यूनः सर्वान् स्थविरन् वा । * तत्रेति * । सोमादियागे । * अत्रे- ति * । भक्तिमार्गायलीलायाम् । तत्र सम्मतिमाहुः । * तदुक्तमि- त्यादि * । यदा पुमानिति वाक्यम् । एकादशस्कन्धे ऊनत्रिंशाध्या- ३ अध्याये ४ पादः। १२३९ तात्मा विचिकीर्षितो म इति । अत्र पूर्वपदेनेतरसम्बन्धनिवर्त्तनो- त्या सर्वात्मभाव उक्तो भवति । तदनन्तरमात्मनिवेदने सति त- द्विषयकलीलाकरणेच्छाविषयः सम्भवति । अन्तरङ्गलीलाप्रवेशन- मिच्छायां विशेषः । तस्मात् मुष्ठ्क्तमात्विज्यमिति । एतेन, न द- दाति न पचतीसादिश्रुतेर्यथा सोमादौ दीक्षितस्य तद्यागेतरधर्म- निवृत्तिः स एव परमो धर्मो यतस्तथा पुरुषोत्तमस्योक्तभक्तैः सह रमणमेव सार्वदिकम्, एतदेव च महन्महत्त्वमिति मूचितं भवति । प्रकृते भक्तानामृत्विक्त्वेन निरूपणे हेतुत्वन तात्पर्यान्तरमप्याह । तस्मै यजमानारब्धकर्मसाङ्गत्वाय ऋत्विक परिक्रीयते । वरणेन स्वकार्यमानोपयोगित्वाय स्त्रीयः क्रियते तथा प्रकृतेऽपि । --- येऽस्ति । तद् व्याकुर्वन्ति । * अत्रेत्यादि * । * पूर्वग्दैनति * । त्यक्तसमस्तकर्मेति पदनतरसम्बन्धनिवर्तनोक्त्या भक्तिमार्गीयो वि- गाढभावैकदशः सर्वात्मभाव उक्तो भवति । नचायं ज्ञानमार्गीय इति वक्तुं शक्यः । अग्रे निवदितात्मपदात् । तदनन्तरमात्मनिवेदने सति । विचिकीर्पितो निवेदितात्मजीवविषयकलीलाकरणच्छााव- पयः स निवेदितात्मा जीवो भवति विचिकीर्पितपदे व्युपसर्गण अ- न्तरङ्गलीलाप्रवंशनरूगो विशेष इच्छायां बाध्यते । एतदुत्तरार्द्ध तु सदाऽमृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै इत्यस्ति । त- दर्थस्तु यदेवं भवति तदा अमृतत्वं ब्रह्मभावं वह्नययांगोलकन्यायन प्रतिपद्यमानः सन् मया सह कल्पते कामाशनसमर्थो भवात । च पुनः आत्मभूयाय स्वरूपेणावतारणति न्यायेन मदात्मत्वाय कल्पत इति । त्रचित्तु, यदा पुमानित्यत्र मो यदेति मूले पाठस्तदाऽप्यर्थे न कोऽपि विशेषः । तदेतत्सूत्रार्थत्वेन निगमयन्ति * तस्मादित्यादि * आत्विज्यपदमेवं व्याख्याय तत्सूचितमर्थमाहुः । * एतेनेत्यादि * } * एतदेव च मह- त्वमिति * । रमणे सार्वदिकत्वमेव च भक्तिमार्गे उत्कर्षः । सूत्रशेषं व्याकुर्वन्ति । * प्रकृत इत्यादि *। * तथा प्रकृत इति * चिकीर्षि.

१२४० सप्रकाशे अणुभाष्ये । नच, कञ्चित् कल्याण्योदक्षिणा इतिप्रश्नवचनात्तदर्थैव तत्पत्तिरत्र तु स्वतः पुरुषार्थत्वेन भगवदर्था प्रवृत्तिरतो वैषम्यमिति वाच्यम् । नीरागस्यापि वरणसमये तत्प्रश्नस्यावश्यकत्वात्तथैव दक्षिणादान- मप्यन्यथा निरङ्गत्वापत्तेः । प्रकृतेऽपि भक्तानां स्नेहादेव प्रवृत्तिर्भ- गवान् स्वानुभवार्थमेव ताननुभावयतीति न वैषम्यम् ॥ ४४ ॥ श्रुतेश्च ॥ ४५ ॥ अथर्वणोपनिषत्सु पठ्यते भक्तिरस्य भजनं तदिहामुत्रोपाधि- नैराश्यनैवामुष्मिन् मनःकल्पनमेतदेव च नैष्कर्म्यमिति ॥ तलीलासाङ्गत्वाय तत्तद्भक्तवरणमित्यर्थः । स्मृतिषु याजनस्य वृत्ति- मध्ये गणनादाविज्ये स्वार्थमेव प्रवृत्त जनस्य च भगवदर्थत्वेन त- इभावात् तद्वैषम्यमाशय परिहरन्ति । * नचेत्यादि *। * नीरा- गस्यति * याजनेन वृत्तिमनिच्छतः । * आवश्यकत्वादिति * वै. रत्वेनावश्यकत्वात् । * तथैवेति * वैधत्वेन । * अनुभावयतीति * लीला अनुभावयति । तथाच यथा तत्र वैधत्वमेव तादृशप्रश्नादिप्र- त्तिप्रयोजकमेवमत्र निरुपधिस्नेहो यथा तत्र तहानेन कर्मसाङ्गता तथात्र खलीलानुभावनमतो न वैषम्यमित्यर्थः । तथाच भगवदि- छायां सत्यामुत्तमस्य गृहत्यागः कर्तव्योऽन्यथा तु न कर्तव्यो यज- मानाधीनविग्वत्ताहशस्य केवलं प्रश्वधीनत्वादिच्छा चानियताऽतो नोक्त इत्यौडुलोमेराशय इति बोध्यम् ॥ ४४ ॥ श्रुतेश्च ॥ व्याकुर्वन्ति । * अथर्वणेत्यादि * तथाचात्र वि. हेताया भक्तेः सन्न्यासरूपताया उक्तत्वाद् बुद्धिपूर्वकं तत्करणमा- वश्यकं, न तु त्यागस्यापि, श्रुती तावन्मात्रस्यैव कथनादिति व्यास- प्रतमित्यर्थः । तेनान भक्तिमार्ग साधनपरिपाकदशायां द्विविधः स- न्यासः । अत्यन्तसिद्धानां विगाढभावस्वाभाव्यादेव प्राप्तो यथा प्रजभक्तानामतः सोऽवैधः । तत ईषन्न्यूनां तु विरहानुभवाथै कर्त्त- यो यथा श्रीमदुद्धवानाम् । स वैधः । त्वं तु सर्व परित्यज्यति, म- द्भकोवाऽनपक्षकः, सलिङ्गानाश्रमाँस्त्यक्ता चरेदविधिगोचर इत्यादि.

३ अध्याये ४ पादः।
१२४१
भक्तिमार्गप्रचारैकहृदयो बादरायणः ।
मानं भागवतं तत्र तेनैवं ज्ञेयमुत्तमैः ॥ ॥ ४५ ॥
वाक्यतः प्राप्तत्वात् । द्वावप्येतो नाश्रमरूपाविति तूपपादिमतो न
कोऽपि सन्देहः ॥ नन्वत्रान्यैः परामर्शादिसूत्रेप्वाश्रमरूपं संन्यासं
विचार्य, अन्तरा चाऽपीति सूत्रे विधुरादीनामपि तस्य कर्तव्यता
विचारिता, महायोगिनां नग्नचर्यादिकं च । तद्भूताधिकरणे च ऊ-
र्ध्वरेतोश्य आश्रमेभ्यः प्रच्युतभावश्च विचारितः । तन्मते चाश्रमा-
त्मक एव संन्यासो विविदिषाविद्वदशाभेदनति तदेवात्र कुतो ना-
द्रियत इत्याकाङ्क्षायामाहुः । * भक्तीत्यादि * । “अनर्थोपशमं सा-
क्षा भक्तियोगमधोक्षजे।लोकस्याजानतो व्यासश्चक्रे सात्वतसंहिता-
म्” इति श्रीभागवतवाक्याद्भागवतं पुराणमेव सर्व तत्र व्यासस्य
ताशत्वे मानं प्रमितिजनकम् । तेन हेतुना उत्तमर्भक्तावधिकारिभि-
रेवं शेयम् । यद्यपि प्रकारान्तरेण व्याख्यातृभिरुक्तः सूत्रवर्णकै-
निमार्गीयो द्विविधोऽपि संन्यासो व्याख्यातस्तथापि विविदिषायां
कालदोषेणापचारदोपस्य तैरेव दर्शितत्वात् । आन्तरवैराग्याभावे
बहिर्लिङ्गमात्रस्थापने च, “गृहस्थस्य क्रियात्यागो व्रतत्यागो वटो-
रपि । तपस्विनो ग्रामवासो भिक्षोरिन्द्रियलौल्यता । आश्रमाऽपसदा
ह्येते खल्वाश्रमविडम्बकाः । देवमायाविमूढाँस्तानुपेक्षेतानुकम्पये"ति
सप्तमस्कन्धीयनारदवाक्ये "मौनानीहानिलायामा दण्डा वाग्देहचेत-
साम् । यस्यैते न भवन्त्यङ्ग वेणुभिर्न भवेद्यतिरि"त्येकादशीयभग-
वद्वाक्ये च तारशस्य निन्दितत्वात् । विद्वदशायां चेदानी दुर्घट-
त्वात् तदनाहत्य भक्तिमार्गीय एव साधनपरिपाकदशायां कर्त्तव्यो,
न त्वन्यथापीत्यर्थः॥
अन्ये तु, आत्रेयादिसूत्रत्रये अनोपासनानां यजमानकर्मत्वं
वात्विक्कर्मत्वं वेति संशये, आत्रेयमते यजमानकर्मत्वमौडुलोमिमते
ऋत्विक्कर्मत्वं तदेव च युक्तमिति व्यवस्थापयन्ति ।
तत्रोदासीना वयम्।
अप्रासङ्गिकत्वेमारुच्यत्वादिति ॥ ४५ ॥६॥

१२४२ समकायो अणुभाष्ये । सहकार्यन्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवत् ॥ ४६॥ ननु यमेवेति श्रुतिः साधनान्तरनिषेधपूर्वकं वरणस्यैव साधन- स्वमाह । तस्मादेवांवच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावितो भूत्वाऽऽत्मन्येवात्मानं पश्योदति श्रुतिः साधनान्तरमप्याह । एवं विरोधे श्रुतित्वाविशेषात् किमादरणीयं, किं नेति संशये साधना- न्तरविधिरेवादरणीयोऽन्यथा शास्त्रवैयर्थ्यं स्यादिति प्राप्ते, उच्य- ते । सहकार्यन्तरविधिरिति । मर्यादापुष्टिभेदेन वरणं द्विधोच्यते । तत्र सहकार्यन्तरविधिस्तु मर्यादापक्षणोच्यते । पुष्टौ तु नान्यापे- क्षति न विरोधगन्धोऽपि । अपरं च साधनं हि कायिकं वाचिकं मानसिकं च विधीयते । तत्र मनसैवाप्तव्यमिति श्रुतेस्तृतीयं मु- ख्यम् । तदपि तावदेव मार्यादिकस्यापि विधेयत्वेन कर्त्तव्यम् । यावत्स्नेहो न भवति । यतस्तद्वतः स्नेहवतस्तूक्तं तृतीयं साधनमपि विष्यादिवत् । यथा तद्वतो विधिरर्थवादो वा प्रवृत्तावप्रयोजक- सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ एवं भक्तिमार्गीयस्य गृहत्यागावश्यकत्वे साधिते तद्वत्साधनान्तरं श. मादिरूपमप्यायातीति तव्यवस्थां बोधयितुमिदमधिकरणमित्या- शयेन तदवतारयन्ति * ननु यमेवेत्यादि * / * व्याकुर्वन्ति *। * मर्यादेत्यादि * * नान्यापेक्षेति * । नाऽयमात्मा बलहीनेन लभ्य इति श्रुत्युक्ता- दन्यस्याऽनपेक्षा । नन्वेतानि शमादीन्यन्तरङ्गाणि मानसानि साध- नानि किमिति पाक्षिकाणि क्रियन्त इत्यत आहुः * अपरं चेत्यादि । विधीयन्त इति । तमेतं वेदानुवचनेन, शान्तो दान्त इत्यादिवाक्यै- विधीयन्ते । * तृतीयमिति * । शान्तादिवाक्योक्तम् *। * विध्या. दिवदिति * | विधिश्च तदादिश्च विध्यादी तद्वत् । प्रथमार्थे वतिः । तथाच पित्रादौ सहजस्नेहवतो यथा तत्सेवाविधिस्तत्फलबोधका- ३ अध्याये ४ पादः। १२४३ स्तस्य स्वत एव सम्भवात्तथा भगवत्प्राप्ताविदमियर्थः । कैमतिक- न्यायेन पूर्वयोरपयोजकत्वमेतच्छेषत्वादेवायास्यतीति तृतीयमे- वोक्तम् ॥ ४६॥ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ ननु बहिस्तूभयथेसादिना भगवदीयस्य गृहसाग आवश्यक इति निरूपितम् । छान्दोग्ये त्वाचार्यकुलादित्युपक्रम्य छान्दो. ग्योपनिषदन्ते आचार्यकुलाद्वेदमधीय गुरोः कर्मातिशेषेणातिस- मात्त्य कुटुम्बेशुचौ देशे स्वाध्यायमधीयानोधार्मिकान् विदधदा- त्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य आहेसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते । नच पुनरावर्तते नच पुनरावर्तते । इदं विषयवाक्यम्।ब्रह्मलोकमभिसम्पद्यत इति गृहिणोपसंहारः कृतः वाजसनयिशाखायां च तद्ध, स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वां- सः प्रजां न कामयन्त इत्युपक्रम्याथ भिक्षाचर्य चरन्तीति पउथ- ते । एवं सति विकल्पे सम्भवत्युपसंहारस्य तात्पर्यग्राहकत्वाद् गृहिण एवं यथोक्तक ब्रह्मसम्पत्तिरिति श्रुतेस्तात्पर्यम् । सागोक्ति- स्तु ब्रह्मैतादृशं यदर्थ सर्व राज्यत इति स्तुतिपरेति प्राप्से गृहिणो- ऽर्थवादोवान तत्प्रवृत्तिप्रयोजकस्तस्य तत्र स्वत एक प्रवृत्तिसम्भवा. त् । तथा भगवत्प्राप्त्यर्थमिदं शमादिकं स्वभावादेव सम्भवतीति न तदर्थ वाक्यापेक्षा । अतो भक्तिदाढच्छु प्रत्येवेदं विधेयं, न तु ह. ढभक्तिमन्तं प्रतीति तथेत्यर्थः । तेन पुष्टिमार्गे बरणमात्रमेव साधन- म् । मर्यादामार्ग एव त्वन्याकाङ्केति सिद्धम् ॥ ४६॥ कृत्स्नभाषास्तु गृहिणोपसंहारः । पूर्वाधिकरणोक्तं दृढीकर किञ्चिदाक्षिप्य समाधत्ते इत्याशयेन सूत्रमवतारयन्ति । * ननु ।

१२४४ सप्रकाशे अणुभाष्ये । पसंहारे हेतुत्वेन तात्पर्यमाह । कृत्स्नेति । सागे वाङ्मनसोरेव भ- गवति विनियोगो न सर्वेन्द्रियाणाम् । गृहिणस्तु सर्वैः प्रकारैर्भजनं भवतीति । परिजनश्च कृतार्थो भवतीति च भजने कृत्स्नता भव- बहिरित्यादि * / * तात्पर्यमाहेति * । उक्तश्रुतेस्तात्पर्यमाहेत्यर्थः । श्रुत्यर्थस्तु-आचार्यकुलाद् गुरुगृहाद, गुर्वभावे तत्पत्न्यां तत्पुत्रे तद्- गोत्रे वा ब्रह्मचर्यमिति ज्ञापयितुं कुलपदम् । वेदमधीत्य गुरोः कर्मा- तिशेषेण गुरोः सेवारूपं यत्कर्म तत् कृत्वा ततोऽतिशेषोऽवशेषो यः कालस्तेन कालेन वेदाध्ययनं साङ्गं सरहस्यार्थज्ञानपुरःसरं कृत्वा अभिसमावृत्य जिज्ञासाद्वयसमापनोत्तरमाचार्यकुलानिवृत्त्य दाराना- हृत्य कुटम्बे स्थित्वा गार्हस्थ्यविहिते कर्माणि तिष्ठन्, शुचौ देशे स्वाध्यायमधीयानो विविक्ते स्वाध्यायब्राह्मणोदितप्रकारे पवित्रे देशे यथावदासीन आवृत्तिमधीतस्य कुर्वन, धार्मिकान् विदधत् पुत्रान् शिष्यांश्च शिक्षणेन धर्मशीलान् कुर्वन्, आत्मनि सन्द्रियाणि स- म्प्रतिष्ठाप्य हार्देऽन्तर्याणि परे ब्रह्माण बाह्याभ्यरेन्द्रियाणि सम्यक् स्थापयित्वा, ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतीति न्यायेन तमेव शरणत्वेन ज्ञात्वा कर्माणि तत्र सन्न्यस्यति यावत् । अहिंसन् सर्वा- णि भूतान्यन्यत्र तीर्थेभ्यः, तीर्थानि शास्त्रादिष्टा भिक्षाद्युपायास्तेषु परपीडापि सम्भवति । यथा याज्ञवल्क्यस्य कुरुपाञ्चलस्थब्राह्मणैः सह चर्चायां, तदादिभ्यो भिक्षाटनाद्युपायेभ्योऽतिरिक्तस्थले हिंसा परपीडामकुर्वन्, स खल्वेवं वर्तयन् सोऽधिकारी उक्तेन प्रकारण वर्तमानः पुत्रादिपरिजनमप्येवं वर्तयन् यावदायुषं यावजीवं, ब्रह्म- लोकमभिसम्पद्यते देहान्ते भगवल्लोकं प्राप्नोति । नच पुनरावर्तते । प्राप्तेर्जन्यत्वेन पुनरावृत्तिः शङ्ख्येत । जन्यभावत्वेन नश्वरत्वेन लोके व्याप्तेः । तदभावायात्रावृत्तिर्निषिद्धयते । तेन लोकवैलक्षण्यं बोधित- म् । पुनः कथनं समाप्तिद्योतनायेति बोध्यः । सूत्रं व्याकुर्वन्तः श्रुति- तात्पर्यमाहुः । * त्याग इत्यादि * । * कृत्स्नतेति * । सर्वे- षामान्तराणां बाह्यानां च सार्थक्यम् ।

३ अध्याये ४ पादः। १२४२ तीति तेनोपसंहारः कृत इसर्थः । अत एवात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्येत्युच्यते । अत्रात्मपदं भगवत्परमिति ज्ञेयम् । कर्म- मार्गीयगृहिव्यवच्छेदाय तुशब्दः । अत्रेदमाकूतम् । भक्तिमार्गो बहुविध इति कपिलदेववाक्यात् केचन भक्ताः स्वगृहेष्वेव स्नेहेन भगवदाकारे विविधोपचारैः सेवां कुर्वन्तस्तयैव निवृत्त्या मुक्तिम- पि तुच्छां मन्यन्ते । तदुक्तं,-मधुद्विट्मेवानुरक्तमनसामभवोऽपि फल्गुरिति । तेन भगवद्भजन एव तत्रापि पुष्टिमार्ग एव श्रुतेर्भर इति ज्ञायते । पूर्वमुत्कटभगवद्भाववतां तदर्थं सागं निरूप्य गृ- हिणोपसंहारतात्पर्य पश्चाद् यनिरूपितवाँस्तेन तादृग्भाववतैव सा- गः कार्यः । तद्रहितेन तु गृह एवोक्तरीया प्रभुभजनं कार्यम् । तेनैव तल्लाभ इति व्यासहृदयमिति ज्ञायते। उक्तभावाभावे साग- * तेनेति * । गृहिणा । एवं तात्पर्ये गमकमाहुः * अत एवेत्यादि । * कर्ममार्गीयेति * । जैमिनीयतन्त्रविचारितेत्यर्थः । ननु पूर्वाधिकरणे त्यागं निरूप्य यदन गार्हस्थ्यं प्रशंसति तत्किमित्याकाङ्क्षायामाहुः । * अत्रेदमित्यादि । * भक्तिमार्गो बहुविध इति कपिलदेववाक्यादिति * । "भक्तियोगो बहुविधो मार्गर्भामिनि भाव्यते । स्वभावगुणभेदेन पुंसां भावो वि- भिद्यत इति कपिलदेववाक्याद् भक्तिमार्गो बहुविध इत्यन्वयः । * तदुक्तमिति * । “यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थी श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट्- सेवानुरक्तमनसामभवोऽपि फल्गुरि"ति पञ्चमस्कन्धे भवाटवी- समाप्तौ शुकेनोक्तम् । तथाच भरतस्य राजदशायां तथाभावस्योक्त. त्वादन्यस्यापि गृहिणस्तथाविधत्वे तथात्वमित्यर्थः । * तेनेति * गृ- हिणोपसंहारे आत्मनि सर्वेन्द्रियसम्प्रतिष्ठापनादिकथनेन । श्रुतिता- त्पर्य निरूप्य व्यासतात्पर्य निरूपयन्ति । * पूर्वमित्यादि * । * त- लाभ इति * भगवत्प्राप्तिः । * उक्तभावाभावे त्यागधर्मानिर्वाहादि- ति * विगाढभावाभावे स एवाधस्तादित्यादिनोक्तस्य सर्वत्र तद्भान- १२४६ समकाो अणुभाष्ये। धर्मानिर्वाहादिति। केचन भक्ता भाषणादिलीलादर्शनं विमा स्था. तुमशक्ताः प्रचुरभावविवशाशया गृहाँस्यक्त्वा वनं गच्छन्ति । आ- यौडुलोमिभ्यां तु भगवदवतारसामयिकभक्तदशोक्ता । एते सर्वे फलमार्गीयाः। वाजसनेय्युक्तास्तु साधनमार्गीया इति नानुपपत्तिः काचित् ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ किञ्च संन्यासिन आवश्यका ये धर्मास्ततोऽधिकास्ते गृहिणः अपस्य त्यागधर्मस्य मध्ये विच्छेदेन सर्वदा स्थैर्याभावात् । ननु यद्येचं दोलभ्यं तदा तत्कथनमशक्योपदेशरूपत्वादप्रयोजनकमतो न वक्त- व्यमेवेति किमित्युक्तमत आहुः * केचनेत्यादि * तथाच दौर्लभ्ये- ऽपि तत्सत्तास्तीत्यतस्तदनूदितम् । अतस्ताहशाधिकारे भगवत्कृपया सम्पन्ने तत्कर्तव्यताबोधनार्थ तत्कथनमित्यर्थः । नन्वायोडुलोमि- भ्यामेताहशदशासम्पत्ती गृहत्याग उच्यते।वाजसनेयके तु किं प्रजया करिष्यामो येषां नोएवायमात्मा नायं लोक इति श्रावणादात्मलोकका- मनामात्रे बोध्यत इति ताभ्यामुक्तं श्रुतिविरुद्धम् । किञ्च । ये लीला- दर्शनार्थे धनं गच्छन्ति ते भगवदागमने पुनरायान्ति, न तु वन एव खित्वा संन्यासिधानातिष्ठन्तीत्यतोऽपि तच्छतिविरुद्धमतः कथं भौते विचार एवं तन्मतोपन्यास इत्यत आहुः। * आयेत्यादि * पते सर्वे यदीया दशा ताभ्यामुक्ता ते सर्वे भक्ताः फलमार्गीयाः,मार्ग उपायः फलमेव मार्गों यत्रासी मार्गः फलमार्गस्तत्सम्बन्धिनः । यथा गोपालतापनीयोक्ता गान्धर्वीप्रभृतयः। तथाच फलरूपो भगवानेव स्वरूपं ताननुभावयतीति भगवत्कृपाविशिष्टयैवेच्छया तेषां सन्द्रि- यध्यापाराः। वाजसनेयिनां कहोडब्राह्मण उक्तास्तु साधनमागीयाः। साधनं शमादिविशिष्टं ज्ञानमार्गे उपायः फलप्राप्ती यत्रासौ साधन- मार्गस्तत्सम्बन्धिन इति तत्तदधिकारिभेदेन तथा तथा कथमान पू. बोक्ता अतिविरोधरूपा काऽप्यनुपपत्तिरित्यर्थः ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात ॥ सूत्रमवतारयन्ति । * किचे

३ अध्याय ४ पादः।
१२४७
सिद्धयन्तीसतोऽपि हेतोस्तेनोपसंहारः कृत इसाशयेनाह । मौनव-
दिसादि । मौनपदमनीहानिलायामादित्रिदण्डिधर्मोपलक्षकम् ।
यथा वागिन्द्रियमावदेहमात्रचित्तमात्रानयामकास्ते धर्मा उक्ता
न्यासिनस्तथेतरेषामपीन्द्रियनियामकानां धर्माणामात्मनि सर्वेन्द्रि-
याणि सम्प्रतिष्ठाप्येति श्रुसा गृहिण उपदिश्यन्त इति युक्तो गृ-
हिणोपसंहार इसर्थः। तत्र नियमनमात्रम्, अत्र तु भगवति विनियो-
गाद् आधिक्यमिति भावः । वस्तुतस्तु केवलनियमनस्याप्रयोजक-
वात्तत्रापि भगवति विनियोग एव तात्पर्यमिति नेयम् ॥ ४८ ॥
अनाविष्कुर्वन्नन्वयात् ॥ ४९ ॥
ननु भगवति सर्वेन्द्रियविनियोगाद् गृहिणोपसंहार इति न यु-
ज्यते । शुचौ देशे स्वाध्यायमधीयान इसादिकर्ममार्गीयसाधनश्रु-
तेरियाशक्य तत्तात्पर्यमाह। अनाविष्कुर्वन्निति । भगवद्भावस्य र-
सात्मकत्वेन गुप्तस्यैवाभिवृद्धिस्वभावकत्वादाश्रममैरेव लोके खं
भगवद्भावमनाविष्कुर्वन् भजेतेत्येतदाशयेन ते धर्मा उक्ताः । गो-
पने मुख्यं हेतुमाहाऽन्वयादिति। यतो भगवता सममन्वयं सम्बन्ध
प्राप्य वर्ततेऽतो हेतोस्तथा । अत्र ल्यब्लोपे पश्चमी। एतेन या-
बद अन्तःकरणे साक्षात् प्रभाः प्राकट्यं नास्ति तावदेव बहिरावि-
करणं भवति । प्राकट्ये तु न तथा सम्भवतीति ज्ञापितम् ॥४९॥
स्यादि * व्याकुर्वन्ति । * मौनपदमित्यादि * यद्यपि मुने वो मौ.
नमिति योगेन विचारात्मकं ज्ञानमप्यादातुं शक्यते तथापि भगवता,
मौनानीहानिलायामा दण्डा वाग्देहचेतसामिति वाक्ये त्रयाणां सम-
भिव्याहृतत्वाद्वाग्दण्डरूपं मौनं रूढं गृहीतं शेयम् । शेष स्फुटम् ॥४८॥
अनाविष्कुर्वन्नन्वयात् ॥ सूत्रमवतार्य व्याकुर्वन्ति । * नन्वि-
त्यादि * । भाष्यमत्रातिरोहितार्थम् ॥ ४९ ॥

१२४८ सप्रकाशे अणुभाष्ये । ऐहिकमप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ ५० ॥ वैदिककर्मकरणे तात्पर्यमुक्त्वा लौकिकस्यानावश्यकत्वेऽपि तत्स मयमाह । प्रस्तुतं प्रभुभजनं तत्प्रतिबन्धासम्भव एवैहिकं कर्म का र्यम्। नन्वैहिकं कर्माऽस्तु मा वा, अतस्तत्समयोक्तिर्व्यर्थेयाशझ्या ऽऽह प्रस्तुतं प्रभुभजनं, तदर्शनादिति । आचार्यकुलादित्युपक्रम्या ऽग्रे पठ्यते, धार्मिकान् विदधदिति । अतो धार्मिकपुत्रविधानमै हिकं कर्म श्रुतौ दृश्यतेऽतस्तत्समयोक्तिरावश्यकी । अन्यथा श्रुता वुक्तमस्तीति प्रस्तुतबाधेऽपि तत्करणे फलप्रतिबन्धः स्यादिति भावः॥५०॥ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ अत्रापि भाष्यं प्रकटार्थम् । एवञ्च यस्य मर्यादायां वरणं व तते तेन साधनापरिपाकदशायामाचार्यकुलादिति श्रुत्युक्तरीत्य गृह एव स्थित्वा भगवद्भजन कर्त्तव्यं स्वधर्मरहस्यं च गोपनीयमि ति सिद्धम् ॥ शङ्कराचार्यास्तु, सहकार्यन्तराधिकरणं त्रिसूत्रमङ्गीकृत्य, स्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद बाल्यं च पाण्डि त्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति बृह दारण्यकीयकहोडब्राह्मणे किं मौनं विधीयत उत नेति संशये । मौ विधीयते । यद्यप्यत्र न विधिस्तथाप्यपूर्वत्वाद्विधिराश्रयणीयः । मौ च पाण्डित्यातिरिक्त ज्ञानातिशयरूपम् । मुनीनामप्यहं व्यास इति प्रयोगदर्शनात् । अतो मननान्मुनिस्तद्भावो मौनम् । अतोऽथ मुनि रित्यत्र मुनिः स्यादित्येवं विधिराश्रयणीयः । यद्यपि गार्हस्थ्यमा चार्यकुलं मौन वानप्रस्थ्यमित्यत्र मुनिशब्दस्तत्सदाश्रमेऽपि श्रुतस्त थापि, वाल्मीकिं मुनिपुङ्गवमित्यत्र व्यभिचारदर्शनान्न नियमतोऽन्य त्र तदर्थको ग्रहीतुमुचितः । उक्तश्रुतौ त्वाश्रमान्तरसन्निधानाधुत्र तद्ग्रहणम् । ज्ञानप्रधानत्वादुक्तमाश्रमस्य तस्मादू बाल्यपाण्डित्या ऽक्षया तृतीयं मौनमत्र विधीयते । निवेदनीयत्वनिर्देशादपि मौनर बनारससंस्कृतसीरीज़नान्नी वाराणसेयसंस्कृतपुस्तकावली । १ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा. दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्य ऽपि विद्वांसः शोधयन्ति । या- हकमहाशयैरियं पुस्तकावला नियमनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ॥) मूल्यं प्रापणव्ययश्च =) देयः । अन्यम- हाशयैर्यः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां १) मूल्यं प्रापणव्ययश्च :) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रह अंग्रजीभाषानुवादसहितः तम्त्रवार्तिकम् खण्डानि १३ १३ पात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाष्यं ख० ६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता पाक्यपदायम् खण्डानि ५ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटाकासहित खण्ड ३। द्वितीयभागः तृतीयाका- ण्डम् हलाराजटीकासहित खण्ड २) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शन किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्ड २ शिक्षासङ्ग्रहः खण्डानि ५ नष्कर्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ तत्त्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख०८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुष्टीका खण्डानि ४ ९ २ . c. U . . २ ८ . ४ २ २ पातञ्जलदशनम् ।श्रीरामानन्द यतिकतम शिश, र गृति , व्याकरणमिताक्षरा । श्रीमद भट्टप्रणीला सवानि रसमञ्जरी । व्यङ्गयार्थकौमुद्या :काईन च सहिता स्व० ३ ३ भधिकारः व्याख्यासहितः श्रीमदप्पयदीक्षिाकृत उपक्रमप- राक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिष्यदिवाकरकृतटी कयास ० ख० १० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगद्विचिता खण्डे २ दैवज्ञकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीश्रीवलभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोसमजी महाराजर्जावरचितभाष्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि १३ तत्त्वशेखरः । श्रीभगवल्लोकाचार्यप्रणीतः । तथा-तत्त्वत्रयचुलुक संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः । श्रीभाप्यवार्तिकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैतसिद्धान्तप्र- तिपादनपरम् । ३ १ १ व्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस JEND

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shriimadand-ubhaashhyama~ Faskiikyulasa~ 13

Author
Shriishriivallabhaachaara~yaa
Title
Shriimadand-ubhaashhyama~ Faskiikyulasa~ 13
File name
Shriimadand-ubhaashhyama~ Faskiikyulasa~ 13
Text
OCR done
Citation
1906
Published
2005-11-28
Publisher
Vidya Vilaasa~ Presa~
Language
Sanskrit
Pages
112
Classification
Philosophy. Psychology
DLI number
369504
Barcode
2030020016323.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
RgB5keIsvax
Download PDF

Shriimadand-ubhaashhyama~ Faskiikyulasa~ 13