Svclrc
The Vishnu Bhaktikalpalatha Of Purushothama
Front matter
THE
VISHNUBHAKTIKALPALATÂ
OF
PURUSHOTTAMA
With the Commentary of Mahidhara.
EDITED BY
PANDIT KEDARNATHA SARMA
AYN
WASUDEV LAXMAN SASTRI PANSIKAR
Second Edition.
PUBLISHED
BY
TUKÂRÂM JAVAJI,
PROPRIETOR OF "NIRNAYA SAGAR" PRESS.
BOMBAY
( All rights reserved by the publisher. ) Published by Tukaram Javaji, and Printed by Ramchandra Yesu Shedge, at the 'Nirnay-sagar' Press, 23, Kolbhat Lane, Bombay.
काव्यमाला. ३९. + पुरुषोत्तमविरचिता विष्णुभक्तिकल्पलता। महीधरकृतया टीकया समेता । जयपुरमहाराजाश्रितपण्डितश्रीदुर्गाप्रसादतनयपण्डितकेदार- नाथशर्मणा तथा मुम्बापुरवासिपणशीकरोपाह्वविद्वद्वर- श्रीलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा च संशोधिता। द्वितीयं संस्करणम् । साच मुम्बय्यां तुकाराम जावजी श्रेष्ठिभिः खीये निर्णयसागराख्यमुद्रणयन्त्रालये स्वायसाक्षरैर्मुद्रयित्वा प्रकाशिता। शाकः १८३९, ख्रिस्ताब्दः १९१७.
मानी-विष्णु-संज्ञकयोमर्मातापित्रोलब्धजन्मा विष्णुभक्तिकल्पलताप्रणेता पुरुषोत्तम- कविः कस्मिन्काले कतमं जनपदमलंचकारेति संदिग्धप्रायम् । यदि नामलिङ्गानुशासनपरिशिष्टरूपस्य निकाण्डशेषस्य निर्मातासावेव पुरुषोत्तमः स्या- त्तदैते विचाराः प्रादुर्भवन्ति । तथाहि-नानार्थसंग्रहभूमिकायां चतुर्दशे पृष्ठे 'अयं वाङ्गो हलायुधवंश्यः निस्ताब्दीयत्रयोदशशतकोत्तरार्धान चिरंतनः' इति श्रीमदानन्दरामो व्य- वस्थापयति । महाराष्ट्रभाषानिबद्धकविचरित्राभिधाने ग्रन्थे तु 'अयं च ओरसाक्षत्रियः कलिङ्ग- देशस्य राजा शालिवाहनशकाब्दीयचतुर्दशशतके बभूव । कटकाभिधाना चास्य राजधा- न्यासीत् । अनेन त्रिकाण्डशेषः, हारावली, एकाक्षरकोषः, इति प्रबन्धत्रयी स्वदेशीय- पाठालयोपयुक्ता व्यरचि' इत्यादि व्यवस्थापितमास्ते । 'नोटिसिस् ऑव संस्कृत म्यान्युस्क्रिप्टस्' संज्ञके सूचीपत्रे 'दशमे एकादशे वा ख्रि- स्ताब्दशतके पुरुषोत्तम आसीत्' इति श्रीराजेन्द्रलालमित्रो निश्चिनोति । हारावलीसमाप्तौ 'श्रीधृतिसिंहजनमेजययोः समं निरूप्य श्रीकृतिसिंहवाचामाधारण हारावली निर्मिता' इति पुरुषोत्तमो वक्ति । तथा च पूर्वोक्तत्रिकाण्डशेषादिग्रन्थावसाने 'पुरुषोत्तमदेवः' इति देवशब्दान्तं नामोपलभ्यते । तेनायं कदाचित्क्षत्रियः स्यात् । विष्णुभक्तिकल्पलतायां तु कुत्रापि देवशब्दान्तं पुरुषोत्तमनाम न दृश्यत इत्यपि सं. देहावसरः। यद्यप्यत्र काव्ये 'हरिणचरणमात्रं-' इत्यादयः कतिपये श्लोकाः सहृदयहृदयान्तरे कामप्यरुचिकणिकामङ्कुरयन्ति तथापि संसारारामविहरन्मनोमृगवागुरायमाणत्वान्न कामं दोषोद्घोषकाः ॥
एतट्टीकानिर्माता भट्टतनूभवो महीधरो बाणवेदनृप (१६४५) प्रमे विक्रमवर्षे वाराण- स्यामासीदित्यादि सर्व निम्नलिखितश्लोकेभ्यः स्पष्टं ज्ञायते । तथाहि- अहिच्छत्रे द्विजच्छनं वत्सगोत्रसमुद्भवः । आसीद्रत्नाकरो नाम विद्वाजातो धरातले ॥ १२१ ॥ तत्तनूजो रामभक्तः स तु भट्टामिधोऽभवत् । महीधरस्तदुत्पन्नः संसारासारतां विदन् ॥ १२२ ॥ निजं देशं परित्यज्य गतो वाराणसी पुरीम् । सेवमानो नरहरि तत्र ग्रन्थ मिमं व्यधात् ॥ १२३ ॥ विक्रमाद्गिते वर्षे वाणवेदनृपैर्मिते । ज्येष्ठाष्टम्यां शिवस्याने पूर्णो मन्त्रमहोदधिः ॥ १३३ ॥ महीधरस्य कल्याणनामा पुत्र आसीदित्यपि 'कल्याणाभिधपुत्रेण-' इति मन्त्रमहो- दधिसमाप्तिश्लोकाज्ज्ञायते । महीधरस्य सर्वस्मिन्नेव ग्रन्थे लक्ष्मीनृसिंहस्मरणरूपं मङ्गला- चरणपद्यं प्रायो वर्तते, तेन मन्त्रमहोदधिप्रणेतृमहीधराद् विष्णुभक्तिकल्पलताविवरीता कश्चिदन्य इति शङ्काङ्कुरोऽपि नोदेति । अद्यावधि ज्ञाता महीधरविरचितग्रन्थास्त्वेते- (१) विष्णुभक्तिकल्पलताविवरणम् । (२) वेददीपनामकं शुक्लयजुर्वेदभाष्यम् । (३) मन्त्रमहोदधिः । (४) नौका (मन्त्रमहोदधिव्याख्या)। (५) मन्त्रनिघण्टुः । - अथास्याः सटीकाया विष्णुभक्तिकल्पलतायाः पुस्तकत्रयं भिन्नमातृकं नातिशुद्धं ना- तिप्राचीनं लेखनकालविकलमासादितम् । तत्र मूले कुत्रचिदेव पाठमेदो दृश्यत इति विशेषतः पाठक्षोदाय न यतितम् । टीकायां तु प्रायः प्रतिश्लोकव्याख्यं पाठमिदा समु- पलभ्यते, कुत्रचिद् विघृतिव्यत्यासोऽपि । किं बहुना विलक्षणेयं टीका । हा हन्त तत्तन्निबन्धमणिनिकरनिकषायमाणशेमुषीके महामहोपाध्यायपण्डितश्रीदुर्गा- प्रसादे देवसभासभास्तारहीरतां गते द्वित्रमासपर्यन्तममुष्य ग्रन्थस्य वैयाकरणपण्डित- श्रीशिवदत्तशर्मणा संपादनमकारीति तस्य महाशयस्याथ शोधनपत्रकर्तुः कविमल्लश्रीहरि- काव्यमाला श्रीपुरुषोत्तमकविप्रणीता विष्णुभक्तिकल्पलता। श्रीमहीधरविरचितया टीकया समेता। - प्रथमः स्तबकः । नृहरिं गिरिजां गिरं गणेशं गुरुपादाब्जयुगं शिवं प्रणम्य । हरिभक्तिलताभिधेऽत्र काव्ये विवृतिं वच्मि यथामतीशतुष्टयै ॥ तत्र खाभीष्टदेवतावर्णनरूपं विष्णुभक्तिलताख्यं काव्यं चिकीर्षुः प्रारिप्सितग्रन्थनि- विघ्नपरिसमाप्त्यै शिष्टाचारपरिपालनाय च पुरुषोत्तमः कविराड्विघ्नेशस्मरणलक्षणमाशी- रूपं काव्यमुखं वदति । 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तेः- अतिसुदृढमगातां हर्षमङ्कभावा- दधिकतममुमेशौ यं तथात्मैक्ययोगात् । तदधिकमिव यातौ यं सुतं वीक्षमाणौ सफलयतु स देवो वः क्रतुं वक्रतुण्डः ॥ १॥ उमेशौ भवानीशंकराव.कभावाद्देहैक्यादतिसुदृशं निबिडं यं हर्ष संतोषमगातां प्रापतुः । तथा आत्म्यैक्ययोगादात्मनोरैक्यादधिकतममत्यधिकं हर्षमगाताम् । तथा तस्माद्धर्षांद्य सुतं वीक्षमाणौ विलोकयन्तौ सन्तौ तदधिकमिव आत्मैक्ययोगहर्षादधिकं हर्ष यातौ- प्राप्तौ स वक्रतुण्डो गणेशो देवो वो युष्माकं क्रतुं संकल्पं सफलयतु सफलं करोतु । मनोरथसिद्धिं करोत्वित्यर्थः । मालिनीवृत्तम् ॥ एवं गणेशं स्मृला भारती स्मरति- स्फटिकमणिमयाक्षस्रक्सुधापूर्णचञ्च- कनककलशवीणापुस्तकान्यादधाना ।
दक्षिणहस्तयोवीणापुस्तक वामहस्तयाः । तथा सक वाणीरूपं ब्रह्म वेदस्तन्मूर्तिः । वेदरूपेत्यर्थः । कमलदलाक्षी पुण्डरीकपत्रनेत्रा । इत्यनेन प्रसन्नलम् । 'प्रसन्ना देवता ध्येया सर्वाभीष्टप्रदायिनी' इत्युक्तेः ॥ एवं सरस्वती भ्याखा सन्तः स्मरति- हृदयजलजजाग्रज्योतिरुयोतितान्तः- करणकिरणरीणाशेषदोषान्धकाराः । भवदवविवशानां तन्वते येऽभिषेक हरिचरितसुधाभिस्तेऽभिनन्दन्तु सन्तः ॥ ३ ॥ ते सन्तः सत्पुरुषा अभिनन्दन्तु आनन्दं प्राप्नुवन्तु । ते के ये हरिचरितसुधाभि- [विन्दचरित्रामृतैर्भवदवविवशानां संसारदावानलपरितप्तानामभिषेकं तन्वते । हरिच- रित्रामृतैः संसारतापं शमयन्तीत्यर्थः । कीदृशास्ते । हृदयजलजे हृत्कमले जाग्रत्प्रका- शमानं यज्योतिब्रह्मतेजस्तेन द्योतितं प्रकाशितं निर्मलितं यदन्तःकरणं तत्किरणे नृणाः क्षीणा अशेषदोपाः कामादय एवान्धकारो येषां ते तादृशाः ।। एवं मङ्गलं विधाय कर्तव्यं प्रतिजानीते- अधिजगति जनानामेक एवास्त्युपायो विषमतमभवाब्धि तूर्णमेतं तरीतुम् । श्रवणमननपूर्व विष्णुपादारविन्द- स्मरणमिति तदेतत्प्रोच्यते भक्तिलोभात् ॥ ४ ॥ जगत्यामधि इत्यधिजगति पृथिव्याम् । 'जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः' इति विश्वः । विभक्त्यर्थेऽव्ययीभावः । विषमतमभवाब्धिमतिदुःसहं संसारसमुद्रं तूर्ण शीघ्रं तरीतुं नराणामेक एवोपायोऽस्ति । को वा तमाह-श्रवणमननपूर्व विष्णुचरणा- म्बुजस्मरणमिति । सर्ववेदान्तवाक्यानामद्वैते वस्तुनि तात्पर्यावधारणं श्रवणम् । युक्ति- भिस्तस्यैवानुचिन्तनं मननम् । ते द्वे विधाय हरिस्मरणमिति तदेतद्भक्तिलोभात्प्रो. च्यते कथ्यते ॥ विमलयतु मनो मे दूषितं दोषसंधै- रहरहरिह रम्या रामचन्द्रस्य भक्तिः । सगरतनयभूतिभ्रेषितं भूमिभागं मिदग्धानां भूत्या भस्मना प्रेषितं दूषितं भूमिभागं सुरसरिद्गङ्गेव । दोषाणां पापानां प्लोषे दाहे विख्याता शक्तिर्यस्याः सेत्युभयोर्विशेषणम् ॥ उपनिषदपि लेभे नैव साक्षाद्यदन्तं न च वचनमनोभिर्योगिनो जग्मिवांसः । शिथिलितभवबन्धा जन्तवो यस्य नाम्ना हृदि तमभिनिबद्धं राधयाराधयामः ॥ ६ ॥ उपनिषद्वेदान्तोऽपि साक्षाद्यदन्तं यस्य विष्णोनिर्णयं न लेभे न पर्याप्ता । योगिनः सनकादयोऽपि वाग्भिमनोभिश्च यदन्तं न जग्मिवांसो न गताः । गमेः कसुः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । यस्य नाम्ना रामकृष्णेत्याधुच्चारितेन प्राणिनः शिथिलितभवबन्धाः शिथिलीकृतसंसारजनककर्माणो भवन्ति । राधया गोप्या यद्वा राध्यते आराध्यते अनयेति राधा भक्तिराराधना तया हृदि अभिनिबद्धं मनस्या- यातं तं हरिं वयमाराधयामः ॥ श्रवणविवरमाप्ता सज्जनानां प्रसङ्गा- दनयदनयवृत्तीनप्यनेकान्दिवं या । हृदयविहितवासा मुक्तये कस्य नासा- वधिभुवनसमर्था जानकीजानिकीर्तिः ॥ ७ ॥ असौ जानकीजानिकीर्तिः । जानकी जाया यस्य सः । जायाया निङ् । रामकीर्तिः हृदयविहितवासा हृदये विहितः कृतो वासो यस्याः सा हृदये स्थापिता सती कस्य मुक्तये न, अपि तु सर्वस्यापि मुक्तये भवेत् । अधिभुवनं त्रिलोकेषु समर्था । मुक्ति दातुमिति शेषः । या रामकीर्तिः सज्जनानां साधूनां प्रसङ्गात् श्रवणविवरं कर्णमार्गभाप्ता श्रुता सती अनयवृत्तीनन्यायाचाराननेकानप्यजामिलादीन् दिवं द्योतमानं वैकुण्टलोकमनयत्प्रापयत् ॥ अधिहृदयमयं चेद्भाति भर्ता रमाया विषमभवसमुद्रे साधुसेतुः सतां यः । उपनिषदमुदग्रां यष्टिमादाय हस्ते कलयतु क इवात्रागाधतां तद्भवाब्धेः ॥ ८॥ चेद्यदि रमायाः श्रियो भर्ता हरिरधिहृदयं हृदये भाति प्रकाशते । सत्सङ्गादिति शेषः।
ग्रा याष्ट हस्त गृहाला भवा कोऽपि । उपनिषदर्थे विचारिते ब्रह्मणि साक्षात्कृते को वा संसाराब्धिरित्यर्थः संसारसमुद्रे श्रीहरियंदा सेतुर्जातस्तदोपनिषद्यष्टेः किं प्रयोजनं न किंचिदिति ॥ ननु श्रुतयो बहुधर्मप्रमाणकाः सन्ति कथं हरिरेव साधुसेव्यत्वेनाश्रयणीय इत्यतः श्रुतिभिरतिभिदोक्तौ कौतुकं कुर्वतीभि- हृदय यदयमेवाश्रीयते श्रीनृसिंहः । तदिह भवभयस्याभावभव्यं भज त्वं चरणकमलमस्यापास्य नोपास्यमन्यत् ॥ ९ ॥ हे हृदय, यद्यस्माच्छ्रुतिभिर्वेदैरयमेव श्रीनृसिंह आश्रीयते प्रतिपाद्यते । ननु संसारभेदः प्रतिपाद्यते कुतो नृसिंहस्तत्राह-अतिभिदोक्तो भेदव्याख्याने कौतु- तीभिः । भेदव्याख्यानं कौतुकेन वास्तवं तु हरिप्रतिपादनं श्रुतेः। तत्तस्मादिह संब हरेश्वरणकमलं त्वं भज सेवख । कीदृशम् । भवभयस्य संसारभीतेरभावे नाशे कुशलम् । यत एतदपास्य विहायान्यनोपास्यं न सेव्यम् ॥ हृदि न यदि नराणां विष्णुपादारविन्द- स्मरणवशसमुत्थः स्नेहयोगातिरेकः । तदितरपरिचर्या जायतेऽर्थाय कस्मै कतरगुणकृदद्रौ नीरसे नीरसेकः ॥ १० ॥ यदि नराणां हृदि विष्णुपादारविन्दस्मरणवशेनोत्थो यः स्नेहयोगस्तस्यातिरेक अ न तत्तर्हि इतरपरिचर्या अन्यसेवा कस्मै अर्थाय जायते । भगवद्भक्तिं विन अकिंचित्करेत्यर्थः । तत्र दृष्टान्तः-नीरसे शुष्केऽद्रौ नीरसेकः कतरगुणं करो कमपीत्यर्थः ॥ अहो त्वया प्रतिजन्म हर्यनाश्रयणेन दुःखं प्राप्तं तथापि कथं क्षणमात्रमपि । तेन मुरारिं न स्मरसीत्याह- अनुजनुरनुभूयाप्यत्र दुःखं दुरात्म- न्क्षणमपि हृदि रुद्धः शुद्धचित्तेन साक्षात् । जलजदलजयश्रीमण्डितोदारनेत्रो न बत नवतमालश्यामवर्णो मुरारिः ॥ ११ ॥ - 09 विलसितकृततापप्रौढिमानं निरीक्ष्य । त्यज हृदय विषादं मा गमः कातरत्वं तव नवजलदश्री रक्षिता रामचन्द्रः ॥ १२ ॥ भवः संसार एव पवनवयस्यो वायुसखोऽमिस्तस्यानल्पा बहवः संकल्पाः कामा एव कीला ज्वालाः । 'वहेर्द्वयोवालकीलौ' इत्यमरः । तासां विलसितेन प्रसरणेन कृतो य- स्तापस्तस्य प्रौढिमानं भूयस्त्वं निरीक्ष्योत्पन्नं विषादं हे हृदय, त्यज । कातरवमधैर्य च मा गमः । यतो नवजलदश्रीनूतनमेघश्यामो रामचन्द्रस्तव रक्षितास्ति । तमाश्रयेत्यर्थः । नन्वन्तकाले नरकत्रासः कथं गच्छतीति चेत्तत्राह- मनसि यदि मुकुन्दः कं दरं मन्द रम्ये- तरनरकततेस्तच्चिन्तयस्यन्तकाले । हरिचरणसरोजे जाग्रती याप्रतीर्थ कलिकलुषमशेषं वधुंनी ते धुनीते ॥ १३ ॥ हे मन्द मूर्ख, यदि ते मनसि मुकुन्दो हरिरस्ति तत्तर्हि रम्येतरनरकततेरतिदुःखदा- यिनिरयौघादन्तकाले कं दरं त्रासं चिन्तयसि । कमपि मा चिन्तयेत्यर्थः । कुतस्तत्राह- हरिचरणाम्बुजे जाग्रती शोभमाना अग्रतीर्थ सकलतीर्थमुख्यभूता या खर्धनी गङ्गा ते तवाशेषं सकलं कलिकलुषं पापं धुनीते नाशयति । पापोऽपि पापानिवृत्तो मुकुन्दं स्म- रनरकं नैतीत्यर्थः ॥ ननु प्रायश्चित्तं विना कथं पापक्षयस्तत्राह- चिरममरतरङ्गिण्यादिसत्तीर्थसेवा- व्रतनियमजपा वा ये च दत्तप्रभावाः । न च सकलसमृद्ध्या साधिता बाधितारः स्मरणसुकृतलक्ष्मीमध्वरा मध्वरातेः ॥ १४ ॥ चिरकालं गङ्गादि सतां तीर्थानां सेवा व्रतानि प्रायश्चित्तानि नियमाः स्नानसंध्यादयः जपा मन्त्रादीनां सकलसमृद्ध्या बहुधनेन साधिताः संपादिता अध्वरा यज्ञा एते दत्त- प्रभावाः दत्तः प्रभावः फलं यैस्ते ईदृशा अपि मध्वरातेमधुसूदनस्य स्मरणसुकृतलक्ष्मी स्मरणोत्थपुण्यशोभा न बाधितारो न जेतारः । हरिस्मरणतुल्यं पुण्यं नास्तीत्यर्थः ।। यस्मादेवं तस्मात्सर्वस्मरणं विहाय हरिमेव सेवस्वेत्याह - - हे हृदय, रमाया लक्ष्म्याः कान्तं हरिं श्रय सेवख । अन्यत्र मा याः मा गच्छेः । यातेर्लुङ् । ननु धनादयः कथं त्याज्यास्तत्राह-धनपुत्रकलत्राणि श्रेयसां कल्याणानां संप्रदाया मार्गा न भवन्ति । दुःखालयभूतानीत्यर्थः । ननु तर्हि व्यवहारः कथं त्याज्य स्तत्राह-व्यवहृतिमति व्यवहारयुक्ते संसारे तस्य वा ये उपायास्ते सर्वशः सर्वप्रका रैरन्तराया विघ्ना एव । ननु एते सर्वे केन दोषेण त्याज्या इत्याह-शमनशयगतमिति 'शमनो यमराज्यमः' इत्यमरः । शयो हस्तः। यमहस्तगत लामपायानरकदुःखात्के रक्षिता । न कोऽपि हरिं विनेत्यर्थः ॥ शिथिलय भवजालं चिन्तयानन्तयालं श्रय हृदय दयालं केवलं नन्दबालम् । न विधिविदितपारं संहृतक्षोणिभारं निखिलनिगमसारं ब्रह्म यन्निर्विकारम् ॥ १६ ॥ हे हृदय, भवजालं संसारबन्धं शिथिलय श्लथं कुरु । अनन्तया बह्वया चिन्तय अलम् । चिन्ता न कर्तव्येत्यर्थः । केवलं नन्दवालं श्रय आश्रय । कीदृशम् । दयालु दया वन्तम् । न विधिना ब्रह्मणा विदितः पारो यस्य तम् । संहृतो भूभारो येन तम् । नि खिलनिगमसारं सर्ववेदान्तोपनिषत्प्रतिपाद्यम् । यनिर्विकारं मायातीतं ब्रह्मैव तं श्रय वसतिरसति विष्णुध्यानयोगे नराणा- मपि सुकृतपराणामस्ति गर्ने जनन्याः । हृदि भज तदजस्रं निर्मले कर्मलेप- व्यपनयननिमित्तं तं पतंगेन्द्रकेतुम् ॥ १७ ॥ सुकृतपराणां पुण्यवतामपि नराणां विष्णुध्यानयोगे हरिस्मरणे असत्यविद्यमाने सां जनन्या गर्भे वसतिर्निवासोऽस्ति । तत्तस्मात् हे नर, निर्मले हृदि तं पतंगेन्द्र केतुंगा डध्वजमजसं निरन्तरं त्वं भज । कर्मलेपस्य कर्मसंबन्धस्य व्यपनयने निराकर निमित्तं हेतुभूतम् ॥ त्रिचतुरदिवसान्तर्धानवानेव मृत्यु- 'नरकभयविमुक्तो विद्यते कोऽत्र जन्तुः । हृदि तदिह न किं स मर्यते कंसशत्रुः ."
। अत्र संसारे नरकभयहीनः को जन्तुः । न कोऽपि विद्यते । तत्तस्मादिह संसारे स कंसशत्रुहरिर्हदि किं न स्मर्यते । किं तत्स्मरणेन तत्राह-यदीयं स्मरणं योगोऽष्टाङ्गो यागोऽश्वमेधादि तावतिगच्छति । योगयागाभ्यामुत्कृष्टफलमित्यर्थः ।। रसवदपि समस्तं पश्य संसारवृक्षा- फलमविरलदोषं यच्च भूतं भविष्यत् । व्रजति परिमलायोत्कण्ठिता कं प्रमोदं मिलितमलितरुण्या पद्ममासाद्य नासा ॥ १९ ॥ भवफणिमणिनारीनेत्रनिध्यानमूर्छ- जनमनसि न सिद्धिर्यस्य सेवां विहाय । अयि स हृदि न कस्मात्पन्नगारातिकेतु- भवजलनिधिसेतुः स्मर्यते मुक्तिहेतुः ॥ २० ॥ (युग्मम् ) संसारवृक्षाद्यद्भूतं जातं भविष्यच्च फलं कान्ताकनकादिकं तत्समस्तं रसवत्वादुतर- मपि अविरलदोषं बहुदोषयुक्तं पश्य विचारय । तत्र दृष्टान्तः–नासा नासिका परिम- लाय गन्धग्रहणायोत्कण्ठिता सती अलितरुण्या भ्रमर्या मिलितं पद्मं प्राप्य कं प्रमोदं हर्ष व्रजति प्राप्नोति । न कमपि । पुनर्धमर्या दष्टा दुःखमेवाप्नोति । तथा संसारसुखासक्तिरिति भावः ॥ भवः संसार एव फणी सर्पस्तस्य मणिस्थानीया नारी तस्या नेत्रनिध्यानं चक्षु- रवलोकनं तेन मूर्छन्मुह्यन्जनमनो नरान्तःकरणं तत्र यस्य हरेः सेवां विहाय सिद्धिर्नास्ति । अयीति कोमलामन्त्रणे । हे जीव, हृदि गरुडध्वजो भवाब्धितारको मुक्तिकारणं स हरिः कस्मान स्मर्यते ॥ हरिणचरणमात्रं कामिनीनां प्रतीक कमपि कलयतस्ते कोटयोऽगुर्युगानाम् । परिणतिरसवत्ता तत्र नैवानुभूता प्रथमपदमितस्तद्धेहि मुक्त्वा णमाद्यम् ॥ २१ ॥ मृगपदप्रमाणं नारीणां प्रतीकं 'अङ्गं प्रतीकोऽवयवोऽपधनः' इत्यमरोक्तेः । अङ्गं यो- न्याख्यं कमप्यनिर्वाच्यं कलयतो ध्यायतस्ते तव युगानां कोटयोऽगुर्गताः । युगकोटि- मितकालानुभवेनापि तत्राओं परिणतिरसवत्ता परिपाकखादुता नानुभूता। नालंबुद्धिर्जा- ।
किमु न कमनमेनं मानसे तद्रमायाः श्रयसि पयसि सुप्तं लीलया दुग्धसिन्धोः ॥ २२ ॥ अस्य हरेर्नामामृतं द्रागपि मनागपि । ईषदपीति यावत् । रसनसक्तं जिह्वालग्नं स स्कस्य भवतन्द्रां संसारनिद्रां न शमयति । यत उद्दामशक्ति दृढसामर्थ्यम् । तस्माद्दुग्ध सिन्धोः पयसि लीलया सुप्तमेनं रमायाः कमनं कान्तं मानसे किमु न श्रयसि किमिति न सेवसे । अपि तु सेवस्वेत्यर्थः ।। दधति मुदमुदारां नाकिवृन्दे नभःस्थे निखिलनृपनृशंसे कम्पमाने च कंसे । सह सबलभुजैस्तैर्दानवै रङ्गवाटे रमितममितशक्तेर्यस्य वक्तुं न शक्यम् ॥ २३ ॥ तमिह किमु रमाया वल्लभं मल्लभङ्गो- त्सवभवदवलेपोत्पत्तिजेतारमन्तः । स्मरसि न विनयानुस्यूतसूक्तामृतौधैः स्तुतमतुलयशोभिः शोभिवृन्दैः सुराणाम् ॥२४॥(युग्मम् ) अमितशक्तेर्बहुसामर्थ्यस्य यस्य हरेः सकलभुजैर्बलवद्वाहुभिस्तैः प्रसिद्धैश्चाणूरादिभि- दर्दानवैः सह रङ्गवाटे मल्लरङ्गे रमितं क्रीडितं वक्तुं न शक्यम् । क सति, नभःस्थ आका- शगते नाकियन्दे देवसमूहे उदारां महतीं मुदं हर्ष दधति सति । तथा निखिलनृपनृशंसे सकलराजघातुके कंसे कम्पमाने सति ॥ इह संसारे तं रमाया वल्लभमन्तश्चित्ते किं न स्मरसि । कीदृशम् । मल्लानां भङ्गेनोत्सवस्तस्माद्भवन्ती यावलेपोत्पत्तिर्गर्वोत्पत्तिस्तस्या जेतारम् । मल्लभङ्गेनापि गर्वहीनम् । तथा अतुलयशोभिर्निरुपमयशोन्वितैः सुराणां वृन्दैः शोभमानसमूहैः कर्तृभिर्विनयेनानुस्यूताः संबद्धा ये सूक्तामृतौघाः सुवचनसुधा- समूहास्तैः स्तुतम् ॥ सुकृतमकृत किं किं चित्रमासर्गकाला- दहह सपरिवारो नन्दगोपश्च नैनः । इति विहितहितथि प्रत्तमक्त्यच्यत त्वां :
सहकाार सपाट दता अथाद्भक्ताना मुफियन तन्मुक्तिदम् । वन्धुर मना. हरं वां बन्धुरत्नं खल्लक्षणं बान्धवश्रेष्ठं फलं यतोऽलभत प्राप । पुण्यं विना हरिपितृत्वं नन्दस्य कथं स्यादिति नानाजन्मगतं पुण्यं नन्दस्यानुमीयत इत्यर्थः ॥ विधिरतनुत मान्मुक्तिमार्गोपरोधो- द्भुरतररजसादौ तेन मे राजसीयम् । स्फुरदमरसरित्त्वत्पादपद्मावगाहा- द्भवतु हृदयवृत्तिर्नीरजा नीरजाक्ष ॥ २६ ॥ विधिब्रह्मा मान्मनुष्यान्मुक्तिमार्गस्योपरोधे प्रतिबन्धे उद्धरतरं समर्थतरं यद्रजो रजोगुणस्तेन सृष्टयादावतनुतासृजत् । तेन रजोगुणसृष्टत्वेन राजसी रजोगुणप्रधाना मम हृदयवृत्तिर्हे नीरजाक्ष कमलनेत्र, स्फुरन्ती अमरसरिद्गङ्गा यस्मिन्नेवंविधस्य खत्पादप- अस्यावगाहानीरजा निर्मला भवतु । रजस्वलं जलावगाहानिर्मलं भवति तथा बञ्चरणा- ब्ववगाहान्निर्मला भवतु ॥ यदहमदहमुक्त्यानिष्टया हृज्जनानां चकर च करपातं यत्परते प्रमत्तः । श्रुतिपथपथिको यन्नाभवं तन्मुरारे मम समभिसहस्वादीनवं दीनबन्धो ॥ २७ ॥ अनिष्टयोक्त्या अप्रियवचनेन जनानां हृञ्चित्तमहं यददहं दग्धवानस्मि । यच्च प्रमत्तो- ऽनवहितोऽहं परस्वे परधने करपातं हस्तसंचारं चकर कृतवानस्मि । ‘णलुत्तमो वा' इति वृद्ध्यभावे गुणः । यच्च श्रुतिपथपथिको वेदमार्गचारी नाभवं न भूतः हे मुरारे दीनबन्धो, मम तमादीनवं दोषं सममिसहस्व क्षमस्व । दोष आदीनवो मतः ॥ भवजलनिधिमध्ये हर्षसंघर्षतर्ष- प्रमुषि विषमवीचिव्याकुलं वीक्ष्य विष्णो । चरणकमलनावं भावगम्यां मुनीन्द्र- रपि सदयतया मे यच्छ यच्छ प्रसीद ।। २८ ।। संसारसमुद्रमध्ये हर्षः संतोषः संघर्षः स्पर्धा तर्षस्तृष्णा तत्प्रमुखास्तदादयो या विषमा वीचय ऊर्मयस्तैर्व्याकुलं मां विक्ष्य हे विष्णो, मुनीन्द्रैरपि भावगम्यां चरणकमललक्षणां विमलितमलमस्तु प्रस्तुतत्वत्सपर्यम् ॥ २९ ॥ स्फुरिता सरिद्ङ्गा यस्मिंस्तम्। उच्चैरतिशयेनानन्दमातन्वानं विस्तारयन्तम् । हे कृष्ण हे देव, खदीयं शोभनं पादपद्मं प्राप्य सपद्येतन्मामकं दुरितभरितं पापाक्रान्तं चेतः प्रस्तुता उपक्रान्ता प्रारब्धा इति यावत् । वत्सपर्या तव पूजा येन तादृशं सद्विमलितमस्तु निर्मलं भवतु ॥ दमय मम यतीन्द्रध्येय चेतः प्रभूता- पदमपि यदवेत्य प्रेत्य दुर्गत्यवस्थाम् । सरभसमसदुचैराचरनैति भीति तदव यदवलम्बः संसृतौ न त्वदन्यः ॥ ३० ॥ हे यतीन्द्रध्येय सनकायैश्चिन्तनीय, मम चेतो दमय । यद्यस्मादसद् दुष्टमाचरनपि; नरः प्रेत्य मृला प्रभूतापदं बहुविपद्युक्तामपि दुर्गत्यवस्थां नरकयातनामप्यवेत्य ज्ञावापि भीतिं न प्राप्नोति । दुष्टाचारो नरकभयं श्रुला न बिभेतीत्यर्थः । तत्तस्मादव रक्ष । यतः संसृतौ संसारे बदन्योऽवलम्ब आश्रयो नास्ति ।। त्वदपि भुवनमध्ये को वदान्यो वदान्यो नहि परपरिलभ्यं देव विश्वंभरत्वम् । इदमहम भियाचे तद्विहाय त्वदनी कचन चरतु चेतो मामकं मा मुकुन्द ॥ ३१ ॥ हे मुकुन्द, भुवनमध्ये त्रिलोक्यां खत् अन्यो वदान्यः कः त्वं वद । वाक्यार्थस्य कर्म. त्वम् । 'प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' । हे देव, विश्वंभरत्वं परपरिलभ्यम- न्यप्राप्यं नहि । तत्तस्मादहमिदमभियाचे मामकं चेतस्त्वदनी विहाय वचन मा चरतु मा यातु। अपि तु वचरणयोरेव यात्वित्यर्थः ॥ शमय मम यमस्य त्रासमत्रासमाना- पदि सपदि हृदि त्वं कृष्ण तिष्ठन्निमेषम् । जगति न गतिरन्या त्वां विना कापि धन्या प्रभवति भवतिग्माभीलनिर्मीलनाय ॥ ३२ ॥ हे कृष्ण, असमानापदि अनुपमपीडेऽत्रास्मिन्मम हदि सपदि निमेषं तिष्पन यमस्य .. वरमधुरतरश्रीसङ्गरगदृगशम् । मयि सदय निधायानन्त यद्योगजाग्र- न्मुदतिशयवशात्मा न मराम्येव किंचित् ॥ ३३ ॥ हे सदय, हे अनन्त, इन्दिराया लक्ष्म्या लोचनेन्दीवरस्य नेत्रकमलस्य मधुरतरा रम्या या श्रीः शोभा तस्याः सङ्गेन रगन् क्रीडन् यो दृगंशः कटाक्षस्तं मयि निधाय भवदवदौः स्थ्यात्संसारदावानलदुःखादव रक्ष । यद्यतोऽवनेन योगेन यद्वा दृगंशेन जाग्रत्स्फुरन्यो मुदतिशयो हर्षवेगस्तद्वशात्मा सन् किंचिन्न स्मराम्येव ॥ सततमहितहेतुं हन्तु हन्तुर्मधोर्वः सकलसुकृतसारः पादपद्मोपचारः । भवति हृदयशुद्ध्या मानवो यद्विधाना-' इलितदुरितभारः प्राप्तसंसारपारः ॥ ३४ ॥ सकलसुकृतानां मध्ये सारभूतो मधोर्हन्तुर्मुरारेः पादपद्मोपचारश्चरणाजसेवनं सततं वो युष्माकमहितहेतुं दुःखकारणीभूतं पापं हन्तु नाशयतु । चित्तशुद्ध्या यद्विधानाद्यस्य पाद- पद्मोपचारस्य विधानान्मानवो दलितदुरितभारो नष्टपापपुञ्जः सन्प्राप्तसंसारपारो भवति । मधुरिपुपदलग्नं चित्तमायस्य हर्तु कथमपि न समर्था दस्यवो दर्पकाद्याः । सुमतिबलिविमुक्तं शक्नुवन्ति प्रमाष्टुं किमु हरिकरमध्याद्दानवा दानवारि ॥ ३५ ॥ दर्पकाद्याः कामाद्या दस्यवो वैरिण आर्यस्य पुण्यवतो मधुरिपुपदलग्नं हरिपदसक्तं चित्तं हतु कथमपि न समर्थाः । 'कंदो दर्पकोऽनङ्गः' इत्यमरः । तत्र दृष्टान्तमाह--शोभन- मतिर्यो बलिस्तेन विमुक्तं दानवारि दानोदकं हरिकरमध्याद्दानवाः किं प्रमा? निराकर्तु शक्नुवन्ति । स्मेति शेषः। वामनहस्तादानोदकं बलिदत्तं यथा दैत्या नापहर्तुं शक्ता इत्यर्थः॥ दशशतदलपमं यस्य तच्छत्रमुच्चै- वरचमरमहेला पिङ्गलेला च पुण्या । अनपरपरिमुक्तं भाति भद्रासनं स- स्कर्षण वर्तताम् ॥ सुरभिखुरभिदाभृद्भतलोद्भुतधूली- धरममरमहेलामोहबाहुल्यहेतुम् । अमृतकरमुखीनां वल्लभो वल्लवीनां दधदवतु वपुर्वः कायभाजामपूर्वः ॥ ३७ ॥ सुरभीणां धेनूनां खुर्भिदां बिभर्ति एतादृशं यद्भूतलं तस्मादुद्धता या धूली तद्धारकम् । अमरमहेलानां स्वर्गस्त्रीणां मोहवाहुल्ये हेतुभूतं वपुर्दधत् । अमृतकरमुखीनां चन्द्रवदनानां वटवीनां गोपीनां वल्लभः । कायभाजां शरीरिणामपूर्वो मुख्यो हरिवो युष्मानव्याद्रक्षतु ॥ नयनकमलयुग्मच्छत्रभृद्यत्र नासा करनखरमरीचिप्रस्फुरच्चामरश्रीः । अधरमधुरतायाः सार्वभौमो मुरारे- जगति जयति वंशो विश्वविश्वकवन्द्यः ॥ ३८ ॥ यत्र वंशे नासादण्डो नयनकमलयुग्ममेव च्छनं बिभर्ति तादृशः । हस्तनखानां मरी- चयः किरणा एव प्रस्फुरन्ती चामरश्रीर्यस्य स विश्वं सर्व यद्विश्वं जगत्तस्यैकवन्योऽसाधा. रणस्तुत्योऽधरमधुरताया ओष्ठमाधुर्यस्य सार्वभौमो राजा माधुर्यग्राहको मुरारेवंशो जगति भूतले जयति सर्वोत्कर्षेण वर्तते ॥ चरणकमललीला बालगोपालमूर्ते- जयति रुचिभिरिभ्या निर्भराभ्यासलभ्या। शकटतनुमनूनं वज्रतः कर्कशत्वा- च्छतशकलमकार्षांद्या सुमृद्वी सुरारिम् ॥ ३९ ।। इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्त्युद्भावनो नाम प्रथमः स्तबकः । वालगोपालमूर्तेः पादपद्मलीला अत्यन्ताभ्यासप्राप्या कान्तिभिरिभ्या आल्या जयति सर्वोत्कर्षेण वर्तते सुतरां मृद्वी कोमला । या कर्कशत्वात्काठिन्येन वज्रतो वज्रादनूनं व. जसदृशं शकटतनुं शकटशरीरं सुरारि दैत्यं शतशकलं शतखण्डमकार्षीत्कृतवती । करो- ते ङि रूपम् । 'शकटासुरभञ्जनः' इति पुराणात् ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्त्युद्भवो नाम प्रथमः स्तबकः ।
।
वाक्च मनश्च तयोरगोचरमविषयं रूपं खरूपं शीलयति धारयति तादृशी । ली-
लायुक्ता । यतीनां हृत्कमले राजहंसी । ललाटतटेऽपिता चन्द्रलेखा यया सा । शेष-
नागशायिनो हरेर्भगिनी दुर्गा अशेषात्समग्रादुरितात्पातकादव्याद्रक्षतु । 'नन्दगोपकुले
जाता' इति मार्कण्डेयो केः । वसन्ततिलकावृत्तम् ॥
यन्निमेषमपि रे वृधं विना वर्तसे मिथुनभावतोषितः ।
कर्कशत्वमिदमात्मनि स्फुटं पश्य सिंहमिव मृत्युमुद्धतम् ॥ २॥
रे जन्तो, निमेषमपि मिथुनभावेन स्त्रीसंयोगेन तोषितः सन्यदृषं विना धर्महीनो व-
तसे इदं धर्महीनलमात्मनि खस्मिन्कर्कशत्वं स्वस्यैव दुःखदायित्वं स्फुटम् । यत
उद्धतं सिंहमिव मृत्यु पश्य । रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ' इत्युक्तेः ।।
कन्यकावसुतुलादिदानतो यद्यसह्यभववृश्चिकव्यथा ।
नैव शाम्यति ततो बलिष्ठया रामनामसुधयाख सुस्थितः ॥ ३ ॥
यदि यतः कन्याकनकतुलादिदानेनाप्यसह्या संसाररूपवृश्चिकपीडा नैव शाम्यति ततो
बलवत्या रामनामरूपया सुधया सुस्थितः सुखी आख तिष्ठ । आस्तेर्लोटि मध्य-
मैकवचनम् ॥
रामनामधनुषा भवाभिधं भिन्द्धि रे मकरमन्यथात्मकम् ।
कुम्भमध्यगतमीनवदशामेति कामिह न हाग्रहाकुलः ॥ ४ ॥
रे जन्तो, अन्यथात्मकं मिथ्यास्वरूपं स्वप्नप्रायं भवाभिधं संसाररूपं मकरं ग्राह
रामनामरूपेण धनुषा मिन्द्धि विदारय । ह स्फुट इहाग्रहेण संसाराग्रहेणासक्तया आकुलो
व्यग्रः कुम्भमध्यगतमीनतुल्यां का दशामवस्थां नैति न प्राप्नोति । दुःखमेवानुभवतीत्यर्थः।।
अस्तमेति दिवसात्यये रविश्चन्द्रमा अपि विशेषतः क्षयी ।
मङ्गलोपरि मनः कयाशया तत्करोति जगतीतले बुधः ॥ ५॥
रविर्दिवसान्तेऽस्तं याति । चन्द्रोऽपि विशेषतः क्षयवान् । चन्द्रसूर्ययोरपि विपदं
दृष्ट्वा बुधो ज्ञानी जगतीतले मङ्गलोपरि कल्याणाप्तौ कया तृष्णया मनः करोति । न किं-
चिदपि साध्यमित्यर्थः ॥
जीव पीवरमथेतरद्वपुः शुक्रशोणितसमुद्भवं सदा ।
प्राप्यमेव हि परं शनैश्चरभ्रातृदूतभयभेषजं भज ॥ ६ ॥
तावदेव कुरु यत्नमच्युताराधर्न धनधिय धिगन्ध त ॥ ७ ॥ राहुणा चन्द्र इव लुलायकेतुना महिषध्वजेन यमेन यावन्न गृह्यसे । 'ग्रस्यसे' इति वा पाठः । तावदेवाच्युताराधने हरिभजने यत्नं कुरु । हे अन्ध, ते तव धनधियं धनबुद्धिं धिक । तां मा कार्धारित्यर्थः ॥ अष्टमी भव तनुर्महेशितुः कैटभारियजनाय यत्नतः । यौवनेऽसि नवमीनकेतनः किं त्वमत्र दशमी करिष्यसि ॥ ८ ॥ हे जन्तो, यत्नतः कैटभारेहरेर्यजनाय महेशितुः शिवस्याष्टमी तनुर्दीक्षितो भव । 'पञ्चभूतानि सोमाको यज्वेत्यष्टाजमूर्तयः' इत्युक्तेः । 'भूतेन्दुसूर्य यज्वानः शंकरस्याष्ट- मूर्तयः' इति च । यौवने नवो नूतनो मीनकेतनः कामो यस्येदृशोऽसि । अत्र संसारे दशमी वृद्धः सन्कि करिष्यसि । 'वर्षीयान्दशमी ज्यायान्' इत्यमरः । दशमोऽवस्था- विशेषो यस्येति क्षीरस्वामी । जरायां शरीरासामर्थ्यान किमपि कर्तुं शक्यतेऽतस्तत्पू. मेव हरिभजने यत्नं कुर्वित्यर्थः । अय्यनेकविधवेदनाकुले मातृकुक्षिकुहरे कृतौकसः । आमनस्यमपि ते मनस्यहो न प्रकाशमुपयाति किं नु तत् ॥ ९ ॥ अयीति संवोधने । हे जन्तो, अनेकविधाभिर्वेदनाभिराकुले व्याप्ते मातृकुक्षिकुहरे ज- ननीजठरविवरे कृतौकसो विहितनिवासस्यापि ते तव मनस्यामनस्यं प्रसवजनितं दुःखं प्रकाशं नोपयाति न स्फुरति । अहो आश्चर्य किं नु तत् । 'आमनस्यं प्रसूतिजम्' इत्यमरः । वुद्धिरस्ति यदि विष्णुयोगिनी तद्भयं किमिह कालपाशतः । मेरुमौलिरमरापगाप्लवो दह्यते किमु दवेन वह्निना ॥ १० ॥ यदि बुद्धिर्विष्णुयोगिनी हरियुक्तास्ति तत्तर्हि इह संसारे कालपाशतो भयं यमयातना- भीतिः किम् । न किमपीत्यर्थः । दृष्टान्तमाह---अमरापगाया गङ्गाया आप्लवः प्रवाहो यस्मिन्नीदृशो मेरुमौलिर्दवेन वह्निना दावानलेन किमु दह्यते । नेत्यर्थः ॥ सिद्धिरस्ति सुकृतानुसारतः सारतर्कसुहृदेष निर्णयः । अर्जितव्यमनिशं यशोधनं शोधनं यदखिलापराधतः ॥ ११ ॥ सुकृतस्य पुण्यस्यानुसारेण सिद्धिरस्तीत्येष निर्णयः सिद्धान्तः सारतर्कसुहृत्समीचीनस्य तर्कस्य सहायः । अनुसारीत्यर्थः । तत्खरूपमाह-यत्समग्राणामपराधानां शोधनं नाशनं मकतेनेत गमो भारतीय ना नि .
। च हैहये । द्रुमे केकिनि च' इति कोषः । अर्जुनमिवाचरति । 'उपमानादाचारे' इति क्यच् । 'क्यचि च' इतीत्त्वम् । चिराय संचिता शीघ्रं या नश्यति तया संपदा जगति के नरा न वञ्चिताः । सर्वेऽपि तदासक्ता वञ्चिता इत्यर्थः ।। भा रतीशितुरिवास्तु विग्रहे भारती भवतु वाक्पतेरिव । भारतीह सकलोऽपि तद्गुणो यस्य भक्तिरचला न माधवे ॥ १३ ॥ विग्रहे शरीरे रतीशितुः कामस्येव भा कान्तिरस्तु । वाक्पतेगुरोरिव भारती वाग्भवतु। परंतु यस्य माधवे निर्मला भक्तिनास्ति तस्य सकलोऽपि कान्तिपाण्डित्यादिगुणो भारति भार इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विबाचारे' इति विप् ॥ जीवितव्यमतिमात्रचञ्चलं यादृशं कमलिनीदले जलम् । तद्विधाय हृदयं सुनिश्चलं चिन्तयख हरिमेव केवलम् ॥ १४ ॥ पद्मिनीपत्रे यादृरजलं चञ्चलं तादृग्जीवितव्यमतिचञ्चलं तत्ततो हृदयं सुनिश्चलं कृत्वा केवलं हरिमेव चिन्तयख ॥ योनियन्त्रणविधा न वेद ना लीलयेन्द्रियचयस्य खेलतः । योनियन्त्रण विधानवेदना का न काः स सहते हतेप्सितः॥ १५ ॥ लीलया स्वेच्छया खेलतः प्रचरत इन्द्रियचयस्य नियन्त्रणविधाः नियमनप्रकारान् यो ना पुरुषो न वेद न जानाति स नरो हतेप्सितो नष्टमनोरथः सन् काः का योनौ यन्त्रणविधान बन्धन तज्जनिता वेदनाः पीडा न सहते । अपि तु सर्वयोनिवासव्यथाः सहत इत्यर्थः ।। तं धिगन्धमिह यस्य रामतो रा मतोऽधिककदर्थनावहः । एकवारमपि यस्य नामतो धाम तोषकरमेति तत्परम् ॥ १६ ॥ इह संसारे तं अन्धं पुरुषं धिक् यस्य रामतो हरेः सकाशादधिकां कदर्थनां दुःखमा- वहति प्रापयति तादृशो राः धनं मतो मान्यः । 'अभिसर्वतसोः-' इति द्वितीया । 'राः खणे जलदे धने' इत्यमरः । रामस्य गुणमाह--एकवारमपि यस्य नाना तत्प्रसिद्ध परं केवलं तोषकरं संतोषप्रदं धाम ब्रह्मपदमेति ॥ क्लेशवारणसमर्थता भवे केशवादपि परस्य किं भवेत् । यं नमन्नपि सुरेषु गौरवं याति पातकिजनो न रौरवम् ॥ १७ ॥ असामानयागारमा सामानिराकमा
यस्य चेतसि जातु कदाचित्कंसहा कृष्णो न अयं मानव इह लोके स्त्रिया रङ्गतः क्री.
डया गलितयौवनोऽमुत्र यमदूतहस्तमध्यं प्राप्तः सन् के सहायमेति । न कमपीत्यर्थः ॥
रामनाममहिमा महोत्सवं यस्य चेतसि तनोति न श्रुतः ।
तस्य जीवितमिवावकेशिनो भूमिभारकरणाय केवलम् ॥ १९ ॥
रामनाम्नो महिमा श्रुतः सन्यस्य चेतसि महोत्सवं न तनोति तस्य जीवितं केवलं अ.
वकेशिनो निष्फलवृक्षस्येव । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । भूमिभारकरणाय
भूभाराय भवति ॥
न क्रिया समभिहारविक्रियाजातपातकमपोहितुं प्रभुः ।
वासुदेववरिवस्यया विना या विनाशयति सर्वमप्यघम् ॥ २० ॥
क्रिया ज्योतिष्टोमादिवासुदेववरिवस्यया हरिपूजया विना समभिहारेण पौनःपुन्येन या
विक्रिया क्रोधकामादिस्तज्जातं पातकमपोहितुं निराकर्तुं न विभुर्न समर्था । या वासुदेव-
वरिवस्या सर्वमप्यघं पापं विनाशयति ॥
मन्द रे भव कदापि मायया मा यियासुरिह मातृकुक्षिषु ।
प्राप को न भवकाननं गतोऽनङ्गतो मृगपतेः पराभवम् ॥ २१ ॥
रे मन्द, इह संसारे मायया कृत्वा कदापि मातृकुक्षिषु जननीजठरेषु यियासुर्गन्तु-
मिच्छुर्मा भव । संसारेच्छापि न कर्तव्येत्यर्थः । तत्र हेतुमाह-भवकाननं संसारवनं
गतः को नरोऽनङ्गतो मृगपतेः कामसिंहात्पराभवं न प्राप । अपि तु सर्वोऽपि कामेन
पराभूत इत्यर्थः ॥
दुर्लभं जनुरवाप्य मानुषं मानुषङ्गमिहि कालतो मृषा ।
रामचन्द्रचरणारविन्दयोर्विन्द योगिजनजीवनं युगम् ॥ २२ ॥
हे जन्तो, दुर्लभं मानुषं मनुष्यसंवन्धि जन्म प्राप्य मृषा मिथ्या कालतः कालेनानु-
पङ्गं संवन्धं मा इहि मा गच्छ । मृत्युसंवन्धं मा प्राप्नुहीत्यर्थः । ततः किं विधेयमत आह-
रामचन्द्रचरणकमलयोर्युग्मं योगिजनानां जीवनमाधारभूतं विन्द लभख । 'विट्ठ लाभे'।
'शेमुचादीनाम्' इति नुम् ॥
रामचन्द्रचरणौ सुकोमलौ को मलौघमिलिताशयोऽपि सन् ।
न स्मरन्विमलतामुपागतो यागतोऽधिकनमस्क्रियौ हि यो ॥ २३ ॥
सवाप अधिका यागाधिकफलदात्री नमस्किया ययोस्तौ । तदुक्तम्-‘एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथरतुल्यः' इति ॥ सेवितैव भुवि तर्हि गोमती गोमती यदि मुकुन्दमाश्रिते । यस्य सेवनमपास्य सारवं सारवन्न जलमप्यघापहम् ॥ २४ ॥ यदि गोमती वाग्बुद्धी मुकुन्दं हरिमाश्रितेतर्हि भुवि गोमती नदी सेवितैव । हरिभजन विना तीर्थ व्यर्थमिति भावः । तदेवाह-यस्य हरेः सेवनमपास्य त्यक्ला सारवत्सारयुक्तम् । श्रेष्टमित्यर्थः । सारवं सरयूनदीसंबन्धि जलमपि नाघापहं न पापहृत् । सरय्वा इदं सार- वम् । 'दाण्डिनायन-' इत्यादिना निपातः ।। तत्कथं मधुरिपोरनाविलं नाविलम्बमवलम्बसे पदम् । यत्समेत्य किल काञ्चनापदं नाप दम्भमतिरप्यहो जनः ॥ २५ ॥ तत्तस्मादनाविलं निर्मलं मधुरिपोः पदमविलम्बं यथा तथा कथं नावलम्वसे नाथ- यसि । अहो आश्चर्ये । दम्भमतिदाम्भिकोऽपि जनो यद्धरिपदं समेत्य प्राप्य काञ्चनापदं किमपि दुःखं न प्राप । किलेति श्रुतौ ॥ किं गतेन कुरुतापसे वने सेवने कुरु मतिं मधुद्विषः । आत्मसान्न कुरुते हि कं सवं कंसवंशवधकृन्नतेनरः ॥ २६ ॥ गुरवः श्रेष्ठास्तापसा यस्मिन्वने तत्र गतेन गमनेन किम् । न किमपि । मधुद्विषो हरेः सेवने मतिं कुरु । हि यतः कंसवंशवधकृनतेः कंसान्वयनाशकस्य हरेनतेनमस्का- राद्धेतोर्नरः कं सवं यज्ञमात्मसादात्माधीनं न कुरुते । सकलयज्ञफलं प्राप्नोतीत्यर्थः । हरिनत्यैवाश्वमेधादिफलप्राप्तः किं वनगमनेनेत्यर्थः ॥ अस्ति कामविषयेऽथवा मतिस्तत्परोऽयमुपदेश उच्यते । पद्मनाभपरिचर्यया परं तं निशम्य हृदये स्थिरं कुरु ॥ २७ ॥ अथवा ते कामविषये मतिरस्ति तर्हि तत्परः कामविषयोऽयमुपदेशः कथ्यते । तमु- पदेशं परमुत्कृष्टं मोक्षविषयं निशम्य श्रुला वेदान्तश्रवणेनावधार्य पद्मनाभपरिचयंया हरिसेवया हृदये स्थिरं कुरु । मोक्षातिरिक्तं कामं मा कार्षीरित्यर्थः ॥ केवलं कलय नन्दनन्दनं नन्द नन्दनगतश्विराय च । ॥ 7 चक्रपाणिचरणार्चने हरिपादपूजने आदरो यस्य स ना पुमानीदृशो भवति । विशेषणैः सेवनफलमाह—यमादपि दरेण त्रासेनोज्झितं त्यक्तं मनो यस्य । विष्टपे लोके दुष्टानां शासिता नियन्ता । तथा धिया भासितान्यखिलानि दिगन्तराणि येन । जगद्यापिकीर्ति- भवतीत्यर्थः ॥ वासरे मधुरिपोरुपोषिताः कामिनो दिवि वसन्ति भूषिताः । उर्वशीप्रमुखदेवयोषितामालिभिर्ललितभावतोषिताः ॥ ३० ॥ मधुरिपोवीसरे एकादश्यामुपोषिता उपवासवन्तः कामिनः सकामा नरा भूषिता भूपणालंकृताः सन्तो दिवि स्वर्गे वसन्ति उर्वश्यादिस्वर्गनारीणां पतिमिमनोहरै वैर्विला- लस्तोपिता हर्षिताश्च भवन्ति ।। जाग्रतो हरिपदाम्बुजाग्रतो यस्य याति सकला विभावरी । तत्कलेवरविभा वरीयसी स्वः सदैव रविभावदुल्लसेत् ॥ ३१ ॥ हरिचरणाने जाग्रतो निद्रामकुर्वतो यस्य पुंसः सकला विभावरी रात्रिर्याति तस्य कले- वरभा वरीयसी श्रेष्ठा स्वः स्वर्ग सदैव रविभावत्सूर्यकान्तिवदुल्लसेच्छोभते ॥ रामनामभणितिं सुधाविधां मा मनागपि मुखाम्बुज त्यज । यामनातवति प्रतीयते कामना नरि न दूरदूषणा ॥ ३२ ॥ मुधाविधाममृततुल्यां रामनामभणिति हरिनामोक्ति मुखकमलान्मनाक् स्तोकमपि मा त्यज । शश्वद्धरिनामानि जपेत्यर्थः । यां रामनामोक्तिमनादृतवत्यसेवमाने नरि पुंसि दूरदूपणा दूरे दूषणं यस्यास्तादृशी दूषणहीना कामनाभिलाषो न प्रतीयते । हर्यभक्तस्या- भीष्टालाभात् ॥ यादृशेन मनसा जनार्दनं सेवते सकलदेवतातनुम् । तादृशं फलमुपैति मानवः स्वर्गसौख्यमथ मुक्तिमुत्तमाम् ॥ ३३ ॥ मानवो नरः सर्वदेवस्वरूपं हरिं यादृशेन सकामनिष्कामेन मनसा सेवते तादृशं फलं -स्वर्गसौख्यमुत्तमा मुक्ति चोपैति । निष्कामसकामभेदेन ॥ मानसं यदि करोषि रामसात्कामसाध्यतमसंपदं ततः । मन्यसे यदुपचारचातुरी धातुरीड्यतरतां न कं नयेत् ।। ३४ ॥ यदि मानसं चित्तं रामसाद्रामाधीनं करोषि ततस्तर्हि कामसाध्यसंपदं मन्यसे । तदा ।
.. दुलमा क्लेशानां रागादीनां मूलं कारणं वसुप्रजापौरुषादि धनसंतानपराक्रमादि सकलं शरी- रिणां सुलभं परंतु जगति भूतले मुक्तेः कारणभूता हरिपादपूजाप्रीतिदुर्लभा ॥ विष्णुभक्तिजितवासनाशया नाशया तरलयन्ति मानसम् । मालतीमधुनि लब्धकेलयः केलयः कुरबकेषु सस्पृहाः ॥ ३६ ॥ हरिभक्त्या जिता नाशिता वासना दुष्टप्रीतयो यस्मादीदृश आशयश्चित्तं येषां तादृशा नरा आशया तृष्णया मानसं न तरलयन्ति चञ्चलं न कुर्वन्ति । तत्र दृष्टान्तः-मालती- कुसुमरसे लब्धा केलिः क्रीडा यस्तादृशाः के अलयो भ्रमराः कुरबकेषु करीरेषु सस्पृहाः सतृष्णा भवन्ति । न केऽपीत्यर्थः ।। तावका वयमनन्त शावका नावकाशमिह किं निरीक्षितुम् । तद्ददासि बत बालवत्सलो विश्वबीज जनको न को भवेत् ।। ३७ ॥ हे अनन्त, यदि वयं तावकास्त्वत्संवन्धिनः शावकाः शिशवः । 'पृथुकः शावकः शिशुः' इत्यमरः । तत्तर्हि इह संसारे निरीक्षितुमस्मान्द्रष्टुमवकाशं किं न ददासि । कुत्रापि समयेऽस्मानवलोकयेत्यर्थः । बतेति हर्षे । हे विश्वबीज जगत्कारण, को जनकः पिता वालवत्सलो बालप्रियो न भवेत् । पिता पुत्रप्रियो भवेदेवेत्यर्थः ॥ भक्तिरस्ति यदि कृष्ण तावकी तत्किमेति भवसंभवं भयम् । अन्धकारगरिमा करोति किं भास्करे नयनमार्गमागते ।। ३८ ॥ हे कृष्ण, यदि तावकी भक्तिरस्ति तत्तहि भवसंभवं संसारोत्थं भयं किमेति प्राप्नोति । न प्राप्नोतीत्यर्थः । तत्र दृष्टान्तः-भास्करे रवौ नयनमार्गमागते चक्षुर्विषयमागते सत्यन्धकारगरिमा तमोबाहुल्यं किं करोति । न किमपीत्यर्थः ।। श्रीनृसिंह तव पादयोर्द्वयं नित्यमत्ययभयादयादयम् । मन्मनोणुरणुभिर्विना भयं रंरमीतु सुरसिन्धुसंभवैः ॥ ३९ ॥ हे श्रीनृसिंह, अयं मन्मन एवाणुः परमाणुरत्ययभयान्मृत्युभीतेर्हेतोस्तव पादद्वयं नित्य- मयात् सर्वदा प्राप्तः । अतः सुर सिन्धुसंभवैः पदद्वयगतगङ्गोद्भबैरणुमिर्जलबिन्दुभिः सह भयं विना मृत्युभयं विहाय रेरमीतु अत्यन्तं रमताम् । रमतेयंङ्लुकि लोटि रूपम् ।। इन्द्रियं विषयसाधनप्रियं विग्रहः सपदि दत्तनिग्रहः ।
। । नजत् हे रामचन्द्र, जनिभृतां प्राणिनां तब भक्तियोगाद्यः क्षणः कालो गतस्तेन नरकसमू- हाजातं साध्वसं भयमशेषतः समग्रं साधु यथा तथा असंभवं नाशं व्रजेत् । क्षणमात्र- कृतया तव भक्त्या यदि पापनाशस्तहि जन्मावधि कृतया किमु वक्तव्यमित्यर्थः ॥ पद्मनाभ तव पादपद्मयोः पद्मयोनिरुपचारचातुरीम् । शीलयन्भुवनकर्तृतामगात्तामगाधमहिमश्रियं च सः ॥ ४२ ॥ हे पद्मनाभ, पनयोनिर्ब्रह्मा तवाहिकमलयोः सेवनचातुर्यमभ्यसन् लोककर्तृत्वं प्राप। तां प्रसिद्धामगाधो महिमा कीर्तिर्यस्यास्तादृशीं श्रियं च सोऽगादिति संबन्धः ॥ रामचन्द्र तव पादसेवया देव याति न किमीहितं नरः । तन्न रक्षसि कथं दयानिधे तानि धेहि चरितानि ते मयि ॥ ४३ ॥ हे रामचन्द्र हे देव, तव पादसेवया चरणकमलसेवया नरः किमीहितं कमभिलाषं न याति न प्राप्नोति । सर्वामिलाषदायिनी तव भक्तिरित्यर्थः । हे दयानिधे, तत्तर्हि कथं न रक्षसि । मामिति शेषः । तानि प्रसिद्धानि ते तव चरितानि गोवर्धनोद्धरणादीनि मयि धेहि धारय । तव चरितविस्मरणं मास्त्वित्यर्थः ।। चन्द्रदीधितिचयान्प्रभावतो भावतोऽपि हि जयन्ति याः प्रभो । कीर्तयो हृदि लसन्तु मे घना मेघनादवधबन्धुरास्तव ।। ४४ ॥ हे प्रभो, मेघनादो रावणात्मजस्तस्य वधेन बन्धुरा मनोहरा घना निबिडास्तव ताः कीर्तयो मे मम हृदि लसन्तु स्फुरन्तु । ताः काः । याः प्रभावतः प्रभावेण महिन्ना भावतः कान्तिमतश्चन्द्रदीधितिचयान् शशिरश्मिसमूहान् जयन्ति । ततोऽप्युज्वलाः ॥ ये भजन्ति तव पादपङ्कजं पङ्कजं न भयमाप्नुवन्ति ते । यस्य पादकमलार्चनेहया नेह याति भवितां जनः पुनः ॥ ४५ ॥ हे हरे, ये तव पादपङ्कजं भजन्ति ते पङ्कजं पापजातं भयं न प्राप्नुवन्ति । यस्य पाद- पद्मपूजालक्षणया ईहया चेष्टया जनः पुनरिह लोके भवितां जन्मवत्त्वं न याति न प्राप्नोति । पीतचीवरधरं रमापति नीलनीरजदलोपमद्युतिम् । मालया तुलसिमञ्जरीभुवा भूषितं भुवनभूषणं भजे ॥ ४६ ॥ पीतंचीवरयंका
मन्महे किमपि मन्महेशितुर्धाम नित्यरमणीयमव्ययम् ।
यद्विदन्ति नहि सूरयो जना वेदवाचि कृतयुक्तियोजनाः ॥ ४७ ।।
नित्यं रमणीयं सुन्दरमव्ययमपक्षयशून्यं किमपि लोकोत्तरं महेशितुर्हरेस्तद्धाम खरूपं
वयं मन्महे चिन्तयामः । वेदवाचि वेदवाण्यां कृता युक्त्या योजना यैस्ते । वेदार्थज्ञा
अपि सूरयो वुधा यद्धाम न विदन्ति न जानन्ति ॥
रागिणां सुरतरङ्गिणीक्षणात्स्वर्वधूसुरतरङ्गिणी तनुः ।
अस्तु किं पुनरियं विरागिणां देहमात्रमपि यन्न सासहिः ॥ ४८ ॥
रागिणां सकामानां तनुः शरीरं सुरतरङ्गिणीक्षणाद्गङ्गादर्शनात्स्वर्वधूसुरतरङ्गिणी अप्स-
रोमैथुनरागवती अस्तु । सकामानां गङ्गादर्शनात्वर्गाप्तिर्भवतु नाम । इयं गङ्गा पुनर्वि-
रागिणां निष्कामानां देहमानमपि यन्न सासहिः न सहते तत्किम् । सकामानां स्वर्ग
ददातु निष्कामानां देहमपि कथं न सहते । तेभ्यो मुक्ति ददातीत्यर्थः ।।
ईदृशं निजरसान्निरन्तरं कुर्वती हसितवारिजानना ।
गर्जति त्रिभुवने निरर्गलं तत्फलं हरिपदाश्रयादलम् ।। ४९ ।।
निजरसात्स्वरागानिरन्तरमीदृशं पूर्वश्लोकोक्तं सकामनिष्कामेम्यो युभोगमुक्तिरूपं
फलदानं कुर्वती हसितवारिजानना विकसितकमलमेव मुखं यस्या ईदृशी त्रिभुवने
निरर्गलं गर्जति तदुभयविधं फलं हरिपदाश्रयादलं समर्थम् । हरिचरणोत्पनखादेवेशं
सामर्थ्यमित्यर्थः ॥
या मुकुन्दपदपङ्कजालया लीलया हरति सर्वपातकम् ।
दूषणानि तव हन्तु सा धुनी साधुनीरजविराजितोदका ॥ ५० ॥
या हरिपदपद्मालया सती लीलया सर्वपातकं हरति साधूनि नीरजानि पद्मानि तैर्भू-
षितजला सा धुनी नदी गङ्गा तव दूषणानि पापानि हन्तु नाशयतु ।
राजन्यव्याजराजद्दितिदनुतनुजोदामदोर्दण्डदर्प-
प्राग्भारस्फारकृत्येतरभरतरले भूतलेऽम्भोजजन्मा ।
अस्तौषीदस्तदोषस्तवनिवहमहोत्साहवत्या गिरा यं
तं षड्भ्यो दर्शनेभ्यः कमपि समधिकं चेतसाराधयामः ॥ ५१ ॥
Nil
आराधयामः । स्रग्धरा छन्दः ।।
इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे रागिविरागिफल विवेको नाम
द्वितीयः स्तवकः।
..
तृतीयः स्तवकः ।
पष्ठी मङ्गलवारदास्ति हृदये येषां व्यतीपाततो
न त्रासः श्रवणेऽपि विष्टिरनिशं तेषां न वा तद्गरम् ।
अन्ये तु व्यतिपातविष्टिविवशा दर्शन्दुदीनानना
दृश्यन्ते भरणीशभृत्यभयतो भीता भुवो मण्डले ॥ १ ॥
'तिथिगौंयाः स्मृता षष्ठी' इति कोषात् 'षष्टी तु पण्णां पूरण्यां कात्यायन्यामपी-
प्यते' इति विश्वोक्तेः पष्ठी गौरी मङ्गलधारदा मङ्गलसमूहदात्री । 'समूहनिकरवात-
वारसंघातसंचयाः' इत्यमरः। सा येषां हृदयेऽस्ति तेषां गौरीस्मरणलीनानां व्यतीपाता-
दुत्पाताबासो न भवति । 'व्यतीपातो महोत्पाते योगभेदावपातयोः' इति विश्वोक्तेः ।
तथा तेषां श्रवणे कर्णेऽप्यनिशं निरन्तरं विष्टिन द्रविणमन्तरेण परकर्मकारित्वं न। 'विष्टिः
कर्मकरे भद्रे प्रेषणे चेतनेऽपि च' इति विश्वः । न वा तेषां गरं विषम् । विषकृतपरा-
नवोऽपि नास्ति । व्याधिर्वा नास्ति । 'गरो व्याधावुपविषे विषे च करणे गरम्' इति
विश्वः । अन्ये गौर्या अभक्तास्तु व्यतिपातविष्टिभ्यां महोत्पातपरसेवकलाभ्यां व्याकुलाः
सन्तो दर्शन्दुदीनानना अमावास्याचन्द्रतुल्यवदना भरणीशो भरणीनक्षत्रखामी यमस्तस्य
भृत्या यमदूतास्तेभ्यो यद्भयं ततो भीता भुवो मण्डले दृश्यन्ते । शार्दूलविक्रीडितं छन्दः।
'सूर्याश्वैर्मसजास्तथा सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥
अनुजनुः क नु मानुषयोनिषु भ्रमसि जिम हितं महितं शृणु ।
श्रय जगत्रितयप्रियमच्युतं विमलमङ्गलमङ्गलसच्छ्यिम् ॥ २ ॥
हे जिह्म, अनुजनुः प्रतिजन्म मानुषयोनिषु क्व भ्रमसि कुतो भ्रमणं करोषि । महितं
पूजितं हितं वाक्यं शृणु जगत्रितयप्रियं त्रैलोक्यवल्लभं निर्मलमङ्गलयुतं अङ्गे लसन्ती
शोभमाना श्रीर्यस्य तमच्युतं हरिं श्रय सेवख । द्रुतविलम्बित छन्दः ।
अलस मानस मानसमा न ते वचन केऽपि विरोधविधायिनः ।
जड यदीयसमागमसंभवावतरहेतुरहो तव कर्तृता ॥ ३ ॥
रावावयाायनः शत्रवः वचन बाप न सान्त । हजड मूख, अमिमानसङ्गाज्जाता अनेकावतारकारणभूता तव कर्तृता कर्तृलम् । वास्तवं कर्तृत्वं तब नास्ति आभिमानिकमेवेत्यर्थः ।। यदि नरा दिनरात्रिषु केशवे जपरताः परतापनिवारिणि । अपि न मोहतमोहतचेतसस्तदपि कष्टकथापि कुतो भवेत् ॥ ४ ॥ नरा यदि दिनरात्रिष्वहोरात्रं परतापनिवारिणि आध्यात्मिकादिनिवर्तके केशवे जप- रताः स्युस्तदपि तदा मोहतमसा अविवेकान्धकारेण हतं चेतो येषामीदृशा न भवन्ति तर्हि कष्टकथा दुःखवार्तापि कुतो भवेत् । न भवेदेवेत्यर्थः ।। पिब मुकुन्दकथा भवतोऽन्यथा भवपथाघटिता विविधव्यथाः । क इव वारयिता दयिताद्युपद्रवजवप्रचुरोपचयस्थिराः ॥ ५ ॥ हे जन्तो, मुकुन्दकथाः पिव आदरेण शृणु । अन्यथा हरिकथापानमन्तरेण दयिता- दीनां कलत्रपुत्रगृहवित्तपश्वादीनां य उपद्रवजवः पराभववेगस्तस्य प्रचुरोऽधिको य उप- चयो वृद्धिस्तेन स्थिराः यावजीवानुवर्तिनीः भवपथे संसारमार्गे आ समन्तात् घटिता रचिता भवतस्तव विविधव्यथा नानापीडाः क इव वारथिता । न कोऽपि निवारक इत्यर्थः ।। हृदयतोयजतो यज तोषितं भृशमनन्तमनन्तरया श्रिया । किमितरैतिरैर्विमुखैर्मखैर्निखिलदोषदृशेक्षितुमीहितैः ॥ ६ ॥ अनन्तरया निकटवर्तिन्या त्रिया भृशमत्यन्तं तोषितं सेवितमनन्तं हरि हृदयतोय- जतो हृत्कमले । सार्वविभक्तिकतसिल् । यज पूजय । मितं स्वल्पं रान्ति ददति ते मितरास्तैरल्पस्वर्गादिफलदैरत एव हरेविमुखैनिखिला ये दोषास्तेषां दृष्टया इक्षितु- मवलोकथितुमीहितैः सदोषैरितरैहरिभजनादन्यैर्मखैर्योतिष्टोमादिभिः किम् । न कि- मपीत्यर्थः ॥ चरणतामरसं मुरवैरिणः स्मर चिरं रुचिरं रुचिरङ्ग चेत् । भवति तोयनिधिं तव जन्मवन्न सुतरं तरितुं त्वरितुं भवम् ॥ ७॥ अङ्गेति संबुद्धौ । हे जन्मवन् जन्तो, चेद्यदि असुतरं सुखेन तरितुमशक्यं भवं तोय- निधि संसाराब्धि लरितं तूर्ण तरितुमभिक्रमितुं तव रुचिर्भवति तर्हि रुचिरं कान्तं मु- स्वैरिणो हरेश्वरणतामरसं पदपद्म विरं स्मर ।।
तस्य भावा दशामता तया शामता विधौ धर्मानुष्टाने पटीयसी पटुतरा समर्था न भवति । वार्द्धके हरिभजनाशक्तेरिदानीमेव हरि भजेत्यर्थः ।। निजनिजव्यवहारविधिक्षमो भवति यावदयं खचयस्तव । हरिपदप्रणतो क्रियतां त्वरा तव पुरा वपुराश्रयते जरा ॥ ९ ॥ 'खमिन्द्रिये मुखे स्वर्गे शून्ये बिन्दी विहायसि' इति, 'चयः समूहे प्राकारमूलबन्धे समाहृतो' इति च विश्वोक्तेः खाना मिन्द्रियाणां चयः समूहोऽयं श्रोत्रादिस्तव तावको यावन्निजनिजव्यवहारविधी श्रवणस्पर्शनादिकर्तव्ये क्षमः शक्तो भवति तावद्धरिपदप्रणतौ नारायणचरणनमस्कारे बरा वेगः क्रियताम् । यतो जरा तव वपुः पुरा आश्रयते आ- अयिष्यते ‘यावत्पुरानिपातयोर्लट्' इति लडथै लट् । वार्द्धके जराग्रस्तेन्द्रियाणामसामर्थ्य हरिभजनाशक्तेरिदानी भजेत्यर्थः ॥ अभिमतं लभते तपसा जनस्तदपि सौख्यकरं न भवेत्पुनः । इदमनित्यमिति व्यथते मनस्तदुचितं हरिसेवनमेव नः ॥ १० ॥ जनस्तपसा यद्यप्य भीष्टं प्राप्नोति तदपि पुनः सुखकारि न भवेत् । यतोऽनित्यमिद- मिति मनो व्यथते व्याकुलीभवति । तत्तस्मानोऽस्माकं हरिसेवनमेवोचितं योग्यं नित्य- खादित्यर्थः ॥ दनुजतर्जनतो जनतोषकद्धनसमानवपुर्नवपुष्टिभूः । वसतु हृत्कमले कमलेश्वरश्चिरमयं रमयन्मम मानसम् ॥ ११ ॥ दनुजानां दानवानां तर्जनेन तिरस्कारेण जनानां संतोषकारी मेघश्यामो नवाया नू- तनायाः पुष्टेः पोषणस्य भूः स्थानम् । जगत्पोषणकृदित्यर्थः । कमलेश्वरो रमापतिरयं ह. रिश्चिरं मम मानसं रमयन्नानन्दयन्मे हृत्कमले बसतु ॥ अतिभयंकरसंसृतिसागरे रतिपतिप्रमुखैः कलितं झपैः । त्वमव माधव मां तुलसीदलैर्ललितमाल तमालदलद्युते ॥ १२ ॥ हे तुलसीदलैः कृत्वा ललितमाल मनोहरमालायुक्त, हे तमालपत्रश्याम, हे माधव, अत्यन्तं भयंकरे संसारसमुद्रे रतिपतिप्रमुखैः कामक्रोधाद्यैसधैर्मत्स्यैः कलितं भक्षितं मां खमव रक्ष। तव दृगन्तसुधालहरी मयि त्रिविधतापवति क्षणमापतेत् । नोबदतोऽपिता.
धीष्टसंप्रश्नप्रार्थनेषु लिङ् । इति प्रार्थने लिङ् । यद्यतः शुभवता कल्याणयुक्तेन भवता वया भवतापिताः संसारदुःखपीडिता वहवोऽप्युद्धृताः ॥ विविधपातकजातकदर्थनाकुलितजन्तुशरण्यशिरोमणे । मम मनो विदधातु पदाम्बुजात्तव रमावर मा वरमाश्रयम् ॥ १४ ॥ नानाविधं यत्पातकजातं पापौघस्तेन या कदर्थना दुःखं तया आकुलिताः पीडिता ये जन्तवस्तेषां शरण्याः शरणे साधवो रक्षकास्तेषां शिरोमणे मुकुटभूत हे रमावर ल. क्ष्मीपते, मम मनसस्तव पदाम्बुजादवरमन्यमाश्रयं मा विदधातु मा कुस्ताम् । मन्मन. स्वत्पदाम्बुज एव तिष्ठत्वित्यर्थः ॥ सततसंसरणाध्वनि धावतो भवतु मे भवदनिषु विश्रमः । प्रकटयन्स्वमपाकुरु मे तमः कपटवामन वा मनसि क्षणम् ॥ १५ ॥ नित्यं संसारमार्गे गच्छतो मे खच्चरणे विश्रान्तिभवतु । हे कपटवामन मायाखर्व त्वमपि क्षणं क्षणमात्रं मे मनसि स्वरूपं प्रकाशयन् तमोऽज्ञानं नाशय ॥ अधिभवाटवि मन्मथवात्यया कलुषितात्मतया निजदिङ्मुखम् । अज न वेद्मि तदत्र दयां कुरु भ्रमति मे मतिमेदुर मानसम् ॥ १६ ॥ है अज हे हरे, अधिभवाटवि संसारवने मन्मथ एव वात्या वातस्य मण्डली तया कामरूपिण्या वात्यया कलुषित आत्मा चित्तं यस्य तस्य भावस्तता तया कामव्याकुल- त्वेन निजदिङ्मुखं खदीयदिशोमुखं न वेद्मि यस्यां दिशि वमसि तां न जानामि । त- त्तस्मादत्र मयि दयां कुरु । हे मतिमेदुर, मल्या मेदुरो व्याप्तः । हे बहुबुद्धे, मे मानसं भ्रमति चित्तधामकमज्ञानं निवर्त्य वत्स्वरूपं दर्शयेत्यर्थः ।। विविधदानवराजिविराजितोर्जितदिगन्तचरिष्णुयशोजनिः । तव करोतु करोऽतुलविक्रमोऽतिसुख(प)मः सुखमच्युत सर्वदा ॥७॥ विविधा या दानवराजिदैत्यश्रेणिस्तया विराजिताः शोभिता अत एवोर्जिता उत्कृष्टा ये दिगन्ता दिक्प्रदेशास्तत्र चरिष्णु गमनशीलं यद्यशो दैत्यमारणोत्था कीर्तिस्तस्या ज- निरुत्पत्तिर्यस्मादीदृशः अत एवातुलविक्रमोऽनुपमपराक्रमोऽतिसुषमोऽत्यन्तं शोभमानः । सुषमा परमा शोभा' । हे अच्युत, ईशस्तव करो हस्तः सर्वदा सुखं करोतु ॥ ध्रुवमयुर्लयमप्यभियातयो महसि ते ह सितेतरतेजसि ।
सरण रता नरारलाय लायन्त तनकमुवतव्यासत्य
पतति पन्नगराजधृता धरा तिमिरमेति गतिं रविमण्डले ।
तदपि कृष्ण कदापि भवत्पदार्चनपरे न परेतपतेर्दरः ॥ १९ ॥
पन्नगराजेन शेषेण धृतापि धरा भूः प्रतति । रविमण्डलेऽपि तिमिरं तमो गतिमेति ।
सूर्योऽपि नश्यतीत्यर्थः । हे कृष्ण, तदपि प्रलयकालेऽपि भवत्पदार्चनपरे त्वत्पूजके नरे
कदापि परेतपतेर्यमस्य दरखासो न । प्रलयेऽपि बद्भक्ता न नश्यन्तीत्यर्थः । 'परासुप्रा-
नपञ्चलपरेतप्रेतसंज्ञकाः (संस्थिताः)' इत्यमरः । परेतानां मृतानां पतिर्यमः ॥
न भवतो भवतोयनिधौ नृणां शरणमस्ति परं प्रणिमजताम् ।
जलजनेत्र जनेऽत्र दधद्दयां भवभयादव यादव तेन माम् ॥ २० ॥
हे जलजनेत्र पुण्डरीकाक्ष, भवतोय निधौ संसाराब्धौ प्रणिमजतां नृणां भवतस्लत्तः
परमन्यच्चरणं नास्ति । हे यादव, तेन कारणेन त्वदन्यशरणाभावलक्षणेनात्र मयि जने
दयां दधद्धारयन्भवभयात्संसारभीतेामव रक्ष ॥
वसतिरेव सती वसतीश्वरो हृदि निरामय राम यदा भवान् ।
जनमनोहर नोऽहरपि क्षपा न रमसेऽरमसेचनकेऽत्र चेत् ॥ २१ ॥
हे निरामय निपि हे राम, यदा ईश्वरः समर्थो भवान् हृदि चित्ते वसति तदा वरा-
तिरेव रात्रिरपि सती समीचीना । 'वसती रात्रिवेश्मनोः' । हे जनमनोहर लोकानन्द-
दाचिन् , अरमत्यर्थ असेचनके अतृप्तिमति । दुःखदायिनीति यावत् । 'तदासेचनकं तृप्त-
नास्त्यन्तो यम्य दर्शनात्' इत्यमरः । अत्र चित्ते चेत्त्वं न रमसे तर्हि तदा नोऽस्माकमह-
रपि दिवसोऽपि क्षपा रात्रिनुल्यः । त्वयि चित्तागते सर्वदा प्रकाशोऽन्यथा तिमिरमित्यर्थः ।।
मम मनश्चरितार्थयतु क्षणं तव सुसंहननं हननं भियाम् ।
अमरशेखर शेषरमाप्रियं सजलतोयदतो यदतिद्युति ॥ २२ ॥
है अमरशेखर सुरमुकुटभूत, यत्सजलतोयदतः सनीरमेघादतिद्युति अधिककान्ति-
युक्तं शेपरमाप्रियं नागेन्द्रलक्ष्म्योर्वल्लभं भियां भयानां हननं नाशकं तव मुष्ट संहननं शो-
भनं शरीरं तन्मम मनः क्षणं चरितार्थयतु कृतार्थ करोतु । 'तनुतनूः संहननं शरीरम
इति हलायुधः । क्षणं लां ध्याला कृती भवेयमिति भावः ।।
भवविडम्वनया रहितोऽनया क समये समयेष्टविपक्षयोः ।
तव रमेश रमे शरणं गतः प्रतिपदातिपदाश्रितया तव ॥ २३ ॥
शमितसंसृतिसंतमसं महः श्रुतिगिरा रममाणमहो रहः । प्रकटयन्प्रकृतेः परमात्मनो मम रमख रमावर मानसे ॥ २४ ॥ हे रमावर श्रीपते, शमितं नाशितं संसृतिः संसार एव संतमसं गाढं तमो येन तथा रहः श्रुतिगिरा वेदवाण्या सह रममाणं प्रकृतेर्मायायाः परं मायातीतमात्मनः खस्य मह- स्तेजो मम मानसे प्रकटयन्प्रकटं कुर्वन् रमख ॥ दिवि भवा विभवा विभवात्मनो वशमिताः शमितामितहृदुजः । प्रथमपुण्यचयव्ययहेतवस्तव तु भक्तिरचिन्त्यफलायतौ ॥ २५ ॥ हे विभो, दिविभवाः स्वर्गस्था विभवा भोगा आत्मनो वशमिताः प्राप्ताः शमिता अ- मिता वहवो हृद्रुज आधयो यैरीदृशा भवन्ति । परंतु प्रथमं पूर्व संचितो यः पुण्यचयः मुकृतौघस्तस्य व्यये नाशे हेतवः कारणभूताः । तु पुनस्तव भक्तिरायतावुत्तरकाले अचि- न्यफला बहुफलयुक्ता । तव भक्तिफलव्ययो नास्तीत्यर्थः ॥ अतिदयालु मनः कमनच्छविस्तनुरकण्टकराज्यमिलातले । तव परीष्टिलतादलतां गता गजवरा जवराजितविग्रहाः ॥ २६ ॥ अत्यन्तं दयायुक्तं मनः, कमना कमनीया छविः कान्तिर्यस्येदृशी तनुः शरीरम् , इलातले भूमण्डलेऽकण्टकं रिपुहीनं राज्यम् । 'कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाङ्गे रो- माञ्चे' इति कोषः । तथा जवेन वेगेन राजिताः शोभिता विग्रहाः शरीराणि येषामीदशा गजवरा दन्तिश्रेष्टा एते पदार्थास्तव परीष्टिलतायाः सेवालक्षणवल्या दलतां पन्नभावं गताः । तव सेवया एते सहजेन भवन्तीत्यर्थः ।। विदधतु ऋतुकोटिमहोत्सवाः कमलया मलयापनमीश्वराः । तव पदस्मृतिरेव पुनातु मां यदसि देव दयालुरकिंचने ॥ २७ ॥ क्रतुकोटय एव महोत्सवा येषां ते ईश्वरा धनिनः कमलया धनेन मलयापनं पाप- -नाशनं विदधतु कुर्वन्तु । मां तु तव पदस्मृतिरेव पुनातु शोधयतु । यद्यस्मात् हे देव, अकिंचने निर्धने त्वं दयालुरसि ।। दहति दारुणदुःखपरम्परा सदय यादव या दववद्वपुः । प्रथमजन्मसु सम्यगुपार्जिता शमय तामयतात्मतया मया ॥ २८ ॥ अयतात्मतया अजितेन्द्रियत्वेन मया पर्वजन्मस सयापार्जिता गा THI हे विजितधेनुक विशेषेण जितः पराजितो धेनुको दानवो येन तादृश, तृणराजानां तालानां वनेन सहितं मृधे युद्धे जवनं वेगवत् तत्प्रसिद्धं खरकुलं रासभदेहधारिदानवा- न्वयं तरसा वेगेन निपात्य धेनुकदम्बकं गोसमूहं दयालुत्वेन भवान्सुखयति स्म सुख- युक्तमकार्षीत् ॥ परवधूकिलकिञ्चितचिन्तया मलिनमीश मनः शमनः क्रुधः । न परिचिन्त्य बिभेति ततोऽव मां मदनतात नतातनुतोषकृत् ॥ ३० ।। परस्त्रीणां किलकिञ्चितं विलासस्तस्य स्मरणेन मलिनमपि मे मनः शमनक्रुधो यम- क्रोधान्परिचिन्त्य न बिभेति । हे ईश, हे मदनतात कामपितः, हे नतातनुतोषकृत् प्र- णतानां बह्वानन्दकारिन् ततो हेतोर्मामव रक्ष । बच्चरणलग्नं मन्चेतो यमन ग- णयतीत्यर्थः ॥ जननकोटिकृतं दुरितं नरस्तरति नामनि ते मनिते मनाक् । तदपि माधव मां किमुपेक्षसे भवदवे वद वेदनयानया ॥ ३१ ॥ हे माधव, नरस्तव नामानि मनाकू स्तोकमपि मनिते पूजिते ध्याते सति । 'मनअ- चने' क्तान्तः । जननानां जन्मनां कोट्या कृतं दुरितं पापं तरति । तदपि भवदवे सं- सारदावानले अनया वेदनया पीडया उपलक्षितं मां किमुपेक्षसे तद्वद । वाक्यार्थस्य कर्मलम् । मदुपेक्षां हिला मां पालयेत्यर्थः । 'वेदना ज्ञानपीडयोः' । निखिलविष्टपकष्ट निवारणं परशुरामवपुर्दधदेव यत् । पुनरभूद्रघुवंशविभूषणं जनहिते नहि ते शिथिलादरः ॥ ३२ ॥ हे हरे, निखिलानां विष्टपानां जगतां कष्टस्य निवारकं परशुरामस्य वपुर्दधदेव धा- रयत्नेव यत्त्वं (भवान्) पुना रघुवंशस्य विभूषणभूतो रामो दाशरथिरभूदेतद्युक्तमिति शेषः । हि यतो जनानां हिते तव शिथिलादरो नास्ति । समममर्त्यवधूनिवहैर्मधौ कुसुमपूरितभूरितरूत्तरे । मम भवत्स्मृतिसौख्यशतांशदा न यदुनन्दन नन्दनकेलयः ॥ ३३ ॥ कुसुमैः पूरिता भूरयो बहवस्तरवो वृक्षा उत्तरा अधिका यस्मिन्नीदृशे मधौ वसन्ते अमर्त्यवधूनां देवाङ्गनानां निवहैः समूहैः समं सह नन्दनवनकेलयो वासवोद्यानक्रीडा हे यदुनन्दन हरे, भवत्स्मृत्या यत्सुखं तस्य शतांशदान्यो न भवन्ति । ..
तिता तयः ससारत य एव महारसमा. चराहशाहहर, तवक णमात्रमिताः प्राप्ताः सन्तोऽघं पापं न शमयन्ति । अपि तु शमयन्त्येव । मनसि तेजसि तेऽज सितद्युतिद्युमणिवृन्दसमे हि समेयुषि । अपि सुधर्मतया मतया सतां किमु शचीशतया शतयागतः ।। ३५ ॥ हे अज, सितद्युतयः श्वेता ये द्युमणयो दिव्यरत्नानि तेषां वृन्दैः समूहैः समे तुल्ये ते तव तेजसि मनसि समेयुषि समागते सति सतां मतया मान्यया सुधर्मतया शोभ- नाचरणत्वेनापि किमु शतयागतोऽश्वमेधशतेन कृत्वा शचीशतया इन्द्रत्वेनापि किमु । न क्रिमपीत्यर्थः । यदि हरितेजो मनस्यायातं तदा सर्व धर्माः कृता इत्यर्थः ॥ भवति यत्र भवैकभयापहं भवदनुस्मरणं समये क्वचित् । अखिलपर्वसु चारुकराङ्गुलीकलितपर्वत पर्व तदेव मे ॥ ३६ ॥ चारुभिः कराङ्गुलीभिः कलितो धृतः पर्वतो गोवर्धनो येन तत्संबुद्धौ हे हरे, अखिल- पर्वसु सर्वेषूत्सवेषु मे मम तदेव पर्व उत्सवः तत्किम् । यत्र क्वचित्समये भवैकभयापहं संसारसाधारणभीतिनिवर्तकं भवदनुस्मरणं भवति । खस्मृतिरेवोत्सव इत्यर्थः । 'पर्व प्रस्तावोत्सवयोन्यौ विषुवदादिषु' इति कोषः ॥ अनरिचक्रकथाप्रथितार्थया वसुधया सुधयाप्यथ किं तया । हरिपदस्मृतिरेव हि केवला हृदि वसेदिवसे दिवसे यदि ॥ ३७ ॥ यदि दिवसे दिवसे प्रत्यहं हरिपदस्मृतिरेव केवला हृदि वसेत् तर्हि नास्ति अरिच- कस्य रिपुसमूहस्य कथा यत्र । प्रथितो विपुलोऽर्थो धनं यत्र । ततः कर्मधारयः। तया च वसुधया किम् । तथा तया प्रसिद्धया सुधया अमृतेनापि किम् । हरिस्मृतौ सत्यामिहा- मुत्र भोगैः किमित्यर्थः ॥ अयि वराह वराहवनिर्जितेऽमितबले तव लेखकुलद्विषि । कनकचक्षुषि का स्तुतिरम्भसो धृतवतो धरणीमपि दंष्ट्रया ॥ ३८ ॥ अयीति संबोधने । हे वराह, अमितबले बहुशक्तौ लेखकुलस्य देवसमूहस्य द्विषि शत्रौ कनकचक्षुषि हिरण्याक्षे वराहवे श्रेष्ठयुद्धे निर्जिते सति अम्भसः प्रलयजलाइंष्ट्रया धरणीमुद्धृतवतस्तव का स्तुतिः ।। यतो ननं नैव प्रणमति परं कंचन शिरः करौ कस्याप्यग्रे न जगति युतो यत्र च युतौ ।
वयि पन्नं पतितं वपुः कृतिनां पुण्यवतामधो नरके न पतति । तास्मस्वाये कृतय प्रण. तिर्नोऽस्माकमनन्तायै मुदे पूर्णसंतोषायास्तु ॥ स एवाहं पापी कृतदुरितकोटीपरिणति- प्रभूतापत्तापत्रयरयशयस्त्वच्छरणधीः । स एव त्वं सत्त्वं भजसि भजदाति शमयितुं गुणातीतं ब्रह्माच्युत वितर तस्मान्मयि दयाम् ॥ ४० ॥ कृता या दुरितकोटी पापौघस्तत्परिणतेः परिपाकात्प्रभूता उत्पन्ना यद्वा परिणति- भूता या आपत्कष्टं तापत्रयमाध्यात्मिकादि च तयो रये जवे शेते तथाविधः । अत एव खच्छरणधीस्वदेकशरणबुद्धिः पापी स एवाहम् । हे अच्युत, गुणातीतं ब्रह्म भज- तामाति पीडां शमयितुं सत्त्वं सत्त्वगुणेनावतारं रामकृष्णादिकं भजसि । तस्मान्म यि दयां वितर देहि ॥ अपीदं चेतो मे हरिचरितपीयूषलहरी- परीरम्भाभोगप्रसृमरमहानन्दसुभगम् । अपीयं जिह्वा मे नरकरिपुनामव्यसनिनी भवेदद्धा बद्धाञ्जलि शयसरोजद्वयमिदम् ॥ ४१ ॥ हरेश्चरितमेव पीयूपलहरी अमृतोर्मिस्तत्परीरम्भाभोगेनास्वादाधिक्येन प्रसृमरः प्रसर- णशीलो यो महानन्दस्तेन सुभगं भाग्यवदिदं मे चेतो भवेद्भवतु । मे जिह्वापि नरक- रिपोर्हरेर्नामव्यसनिनी नामोच्चारणपरास्तु । इदं शयसरोजद्वयं पाणिपद्मयुगलं अद्धा सा- क्षाद्वद्धाञ्जलि कृताञ्जलि भवेत् ॥ शिवः स वः सवभुवः पावनावनवद्धवः । अवत्ववभवत्पीवभावलावण्य विच्छवः ॥ ४२ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां स्वाभिप्रायप्रकाशनो नाम तृतीयः स्तवकः । स शिवो वो युष्मानवतु । किंभूतान्वः । सवभुवः । 'पू प्रसवे' । 'ऋदो रपू' । सवं जन्म भवन्ते प्राप्नुवन्ति ते सवभुवः । 'भू प्राप्तौ' आत्मनेपदी । अस्मारिकप् । शिवः की- दृशः। पावनं शुद्धिः, अवनं रक्षणं, ते विद्यते यत्र स पावनावनवान ईदृशो हवो यजनं यस्य।
इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे स्वाभिप्रायप्रकाशनो नाम तृतीयः स्तबकः। चतुर्थः स्तबकः। रक्षन्तु वो हरिभुजाः प्रतिबिम्बभाजो वक्षःस्थलस्थिरमणीरमणीयमासि । क्षीराम्बुधावभिनवा इव पारिजाता जाताः समस्तजगतामभिलाषपूत्यै ॥ १ ॥ वक्षःस्थले स्थिरा या मणिः कौस्तुभः । 'रत्नं मणिर्द्वयोः' इत्यमरः । तस्या रमणीया मनोहरा या भाः कान्तिस्तस्यां प्रतिबिम्बभाजः प्रतिफलिता अत एव समस्तजगतां त्रि. लोकानामभिलाषपूरणाय क्षीरसमुद्रे जाता अमिनवाः पारिजाता इवेत्युत्प्रेक्षा । हरिभुजा वो युष्मान् रक्षन्तु । कौस्तुभस्य सितखात्क्षीराम्बुध्युपमानम् ॥ पादारविन्दं पुरुषोत्तमस्य तमस्यगाधेऽभिनिमजतां नः । नखप्रभानिर्जितसोमशोभमशोभनं सर्वमपाकरोतु ॥ २ ॥ नखकान्या जिता चन्द्रप्रभा येन ईदृशं हरेः पादपद्ममगाधेऽपारे तमसि संसाराज्ञा- नेऽमितो निमजतामस्माकं सर्वमशोभनं पापमपाकरोतु निवर्तयतु ॥ भावाभिधायां निशि येन मोहदुःस्वप्नदौःस्थ्यात्सपदि प्रबोधः । संपद्यते कोऽपि स चित्तरङ्गः श्रीरामचन्द्रे यदि चित्तरङ्गः ॥ ३ ॥ श्रीरामचन्द्रे यदि चित्तरङ्गो मनःप्रीतिः स्यात् , तदा स प्रसिद्धः कोऽप्यवर्णनीयश्चितो ज्ञानस्य तरङ्ग ऊर्मिः संपद्यते । येन ज्ञानोर्मिणा संसाररूपरात्रौ मोह एव दुःखप्तस्तेन यद्दौःस्थ्यं दुःखं तस्मात्सपदि प्रबोधो भवति । संसारानिवर्तत इत्यर्थः ॥ मन्दारमालाभरसादरं यन्नाशं निजायुर्निखिलं नयन्ति । मन्दारमालामरसादरं तन्न चन्द्रचूडं परितोषयन्ति ॥ ४ ॥ यद्यपि मन्दा मूर्खा रमालाभरसाधनलाभलोभेन सर्वं निजमायुररमत्यर्थ नाशं नयन्ति व्यर्थमायुर्व्ययं कुर्वन्ति । तत्तदपि मन्दारकुसुममालानां भरेऽतिशये सादरं सप्रीति चन्द्रचूडं शिवं न परितोषयन्ति न भजन्ति ॥
जीवा यदूत्तमपदानि यदृच्छयैव यन्तो रजोभिरमलैः परिरब्धदेहाः । नेहामुवन्नवतरं वत कीटकाद्याः पाद्यार्घ्यदानविधिना विधिनार्चितास्ते ॥ ६॥ वतेति हर्षे । कीटकाद्याः क्रिम्याद्या जीवा यदृच्छयैव यदूत्तमस्य कृष्णस्य पदानि पा- दन्यासस्थलानि यन्तो गच्छन्तोऽतुलैरनुपमै रजोमिः पादपांसुभिः परिरब्धदेहा व्या- प्ताङ्गाः सन्त इह संसारेऽवतरं जन्म नाप्नुवन् न प्रापुः ते जीवा विधिना ब्रह्मणा पाद्या- ययोर्दानविधानेन पूजिताः । विधिपूजायोग्यता प्राप्ता इत्यर्थः ॥ तीर्थाधिके सति सदा सुलभे समन्ता- चेतोहरे हरिचरित्रसुधासमुद्रे । लोकं मिमखमपि पावयति प्रसिद्धे का भीतिरन्तकभवा भुवि मुक्तिभाजाम् ॥ ७ ॥ तीर्थेभ्यो गङ्गादिभ्योऽधिकपावने मिमहुँ मज्जन्तमपि लोकं पावयति तारयति सदा सुलभे चेतोहरे भनोहारिणि हरिचरित्रमेवामृतं तत्समुद्रे सति भुवि मुक्तिभाजामन्तक भवा यमप्रकृतिका का भीतिः । न कापीत्यर्थः ॥ गोविन्दपादार्चनचातुरीयं सद्यः पदं यच्छति तत्तुरीयम् । तदत्र चेतो भव सावधानं भवामयेऽन्यौषधमप्रधानम् ॥ ८ ॥ हरिपादपूजायां चातुर्य तत्प्रसिद्धं तुरीयं पदं ब्रह्मपदं यच्छति । तत्तस्मात् हे चेतः, अत्र हरिपादार्चने सावधानं तत्परं भव । यतो भवामये संसाररोगेऽन्यत् हर्यर्चनं विना औषधमप्रधान मुख्यं न भवति ॥ यो गीयते जगति दुर्दमयातुकालः श्रीरामनाम जपतो मम यातु कालः । शीतांशुचारुवदनां रिपुरोधमाप्तां सीतां शुचा विरहितामिह यश्चकार ॥ ९ ॥ यो रामो जगति दुर्दमानां दुष्टानां यातूनां यातुधानानां रक्षसां कालो नाशको गी- यते जनैः तस्य रामस्य नाम जपतः सतो मम कालः समयो यातु गच्छतु । 'कालः है. TTT. का उच्चस्तरामतिशयेन सारा धेष्टा जनिर्जन्म येषां ते सारजनयः उत्तमजन्मानस्तद्भाव- की सा रजनी रात्रिः कदा नु संपत्स्यते भविष्यति यस्यां रात्रौ हरिनाम जपन्तो वयं जनुपां जन्मनां कोटिभिरपि कृतं पापं हनाम निवर्तयाम । हन्तेर्लोट् ॥ त्वत्प्रेरितेन मयका कृतमद्य याव- त्किंचिच्छुभाशुभमथापि तथा करोमि । मजन्मनः सफलतां कुरुषे न कस्मा- न्मजन्मनः सरिति विष्णुपदस्थितायाम् ॥ ११ ॥ हे मनः, खत्प्रेरितेन मयका मया। 'अव्ययसर्वनाम्नामकच् प्राक् टेः' इत्यकच् । अ- घयावदेतद्दिनपर्यन्तं किंचिच्छुभाशुभं पुण्यपापं कृतम् अथ तथा तद्वत्करोम्यपि । अतो विष्णुपदस्थितायां सरिति गङ्गायां मजत् मज्जनं कुर्वत्सत् मजन्मनो मम जनेः सफलतां साफल्यं कस्मान्न कुरुषे । हरिपदे स्थिला मजन्म सफलं कुर्वियर्थः ॥ यत्प्रेर्यमाणमनिशं जनिशङ्कितेन रे दुष्टमानस मया समया मुकुन्दम् । नैव प्रयासि कतमो बत मोक्षमार्गो दृष्टो विहाय तमतर्कितमद्वितीयम् ॥ १२ ॥ दुष्टमानस, जनेः सकाशाजन्मपरम्परायाः शङ्कितेन भीतेन मया अनिशं निरन्तरं प्रेर्यमाणमपि त्वं मुकुन्दं समया मुकुन्दस्य समीपे न प्रयासि नैव गच्छसि यतः अतो वतेति खेदे अद्वितीयं सजातीयस्वगतभेदरहितमतर्कितं तं विहाय कतमो मोक्षमार्गस्वया दृष्टः ।। बद्धे भवत्यसुमतामतिमात्रबन्धो मुक्ते तु मुक्तिरिति चित्त तवातिशक्तिः । बन्धे तु ते व्यसनिता न तथास्ति मुक्तौ तबद्धमेव भव केशवकेलिषु त्वम् ॥ १३ ॥ हे चित्त, भवति खयि बद्धे सति असुमतां प्राणिनामतिमात्रमत्यन्तं वन्धः त्वयि मुक्ते तु तेषां मुक्तिः । इति तवातिशक्तिरत्यन्तं सामर्थ्य यस्मात्ते तव तु यथा व्यसनिता सक्तिरस्ति तथा मुक्तौ न । तत्तस्मात् केशवकेलिपु हरिलीलासु बद्धमेव भव ॥
.. । ह हृदय, चदक क्षणमनन्त तिष्टास तत्ताह दुस्तराऽपि भवनारानाधः ससारसागरा न किंचित्कर इत्यर्थः । नो चेद्धरिस्मरणाभावेऽनेकविधानां दुःसहानां दुःखानां कोट- योऽसंख्या ये कल्लोलास्तैलचितमाकान्तं सदशुभ्रां दुष्टां दशामुपैषि प्राप्नोषि ॥ गोविन्दपादोदकबिन्दुरिन्दुः किं दुर्निवार्य न तमो निहन्ति । निपीय पीयूषरसोत्तमं तमन्तर्महः पश्य महत्तमं तत् ॥ १५ ॥ गोविन्दचरणोदकबिन्दुरूपचन्द्रो दुर्निवार्य किं तमो न निहन्ति सर्व हन्त्येव । अमृत- रसादप्युत्तमं तं पादोदकविन्दुं पीला तत्प्रसिद्धं महत्तमं महस्तेजोऽन्तर्विलोकय ॥ श्रीवासुदेवं हृदयं नयन्ति न यन्ति ते गर्भभुवं जनन्याः । पदं तमेकं भज केशवस्य शिवस्य नान्यो निधिरस्ति लोके ॥ १६ ॥ ये नरा हरिं हृदयं नयन्ति प्रापयन्ति स्मरन्ति ते मातुर्गर्भभूमि न यन्ति न गच्छन्ति । तत्तस्मादेकं शिवस्य कल्याणकारिणः केशवस्य पदं भज । लोकेऽन्यो निधिनास्ति । "विधिः' इति पाठे शिवस्य कल्याणस्यान्यो हरिपादभजनव्यतिरिक्तो विधिः प्रकारो नास्ति । हरिसेवयैव कल्याणाप्तिरिति भावः ॥ अन्ते विमुञ्चत खवर्गविधेयताशां न्याय्यो तृसिंहकृपयैव किलापवर्गः । मुञ्चालमित्यवगहो न हरीति शब्द वक्षःस्थलस्पृशि बकी शिवकीर्तनेऽपि ॥ १७ ॥ हे जन्तवः, अन्तकाले खवर्गविधेयताशामिन्द्रियवश्यवामिलाषं मुञ्चत । विषयाभि- लाषं त्यजतेत्यर्थः । यतो नृसिंहकृपयैवापवर्गो न्याय्यः । किल यतो बकी पूतना शिव- कीर्तने कल्याणरूपं कीर्तनं यस्य तस्मिन्हरौ वक्षःस्थलस्पृशि हृदयस्थेऽपि सति अलं मु- ञ्चैत्यवक् उवाच । उक्तेलङि रूपम् । हरीति शब्दं नोवाच । तस्मादन्ते इन्द्रियवश्यखा- भावादिदानीमारभ्य हरिः स्मर्तव्यः । यो देवकीमिव बकीमपि विश्वयोनिः खीयं निनाय पदमुज्ज्वलयैव मत्या । सर्वापराधशमनं कमलालयायाः को न श्रयेत कमनं कमनन्तमिच्छन् ॥ १८ ॥ HIT नाली निन्मय शतपन. .. .
किं वीक्षितैरवरवस्तुभिरप्रशस्तो-
दैमनोहरतरैरपि भाविभङ्गैः ॥ १९ ॥
हे नयन नेत्र, हरेर्निर्मलं पदयुग्मं न निभालयसि न विलोकयसि न श्रयसि अयं
नयो नीतिन भवति । अवरवस्तुभिरीक्षितैः किं न किमपि । कीदृशैः । अप्रशस्त उदर्क
उत्तरकालो येषां तैः । तथा मनोज्ञैरपि भावी भङ्गो येषां तैः ।।
गोविन्दमेव स्तुहि वस्तु हित्वा समस्तमन्यदूसने स नेड्यः ।
लोकत्रये कस्य पदस्य दास्यं पुरंदरत्वादपि सुप्रशस्यम् ॥ २० ॥
हे रसने, अन्यत् समस्तं वस्तु त्यक्त्वा गोविन्दमेव स्तुहि स्तुतिं कुरु । यद्यस्माल्लोक-
त्रये स कस्य नेड्यः न स्तुत्यः । अस्य हरेर्दास्यं पुरंदरत्नादिन्द्रपदादपि सुप्रशस्यं प्रशस्त-
तरमतस्तं स्तुहि ॥
त्वमन्यशब्दग्रहतां विहाय श्रवः शृणु श्रीपतिशीलशब्दम् ।
श्रतीति शब्दस्त्वयि चागमे च समत्वमभ्येति यतो गुणौधैः ॥ २१ ॥
हे श्रवः कर्ण, अन्यशब्दग्राहित्वं त्यक्त्वा श्रीपतिं शीलयत्यभ्यस्यति तादृशं हरिवा-
चकं शब्दं शृणु । यतः श्रुतिरिति शब्दस्त्वयि वेदे च गुणौघैस्तुल्यतामेति ॥
दुःखाकरोषि यदरे यदुवंशरत्न-
सेवारतानविरतं विधितामुपेत्य ।
दुष्कर्म किं न विदितस्तव कैटभारि-
यन्नाम जन्मशतसंचितपापहारि ॥ २२ ॥
अरे हीनसंबोधने । हे दुष्कर्म, हरिभक्तिपरायणान् विधितां दैवलमुपेत्य प्राप्य य-
दुःखाकरोषि पीडयसि । दुःखात्प्रातिलोम्ये डान्प्रत्ययः । तव किं कैटभारिहरिन विदितो
न ज्ञातः । यस्य नाम जन्मनां शतेन संचितं पापं हरतीत्येवंशीलम् ।।
मिथ्यामनोरथपथि प्रथितानुभाव
रे मोह को हरिपरेऽपि तव प्रसङ्गः ।
बालातपे तिमिरमिच्छति खेलितुं चे-
सौख्यं लभेत कतरच्छूितरत्नवेदि ॥ २३ ॥
.. न द्योततेऽजस्रकृतेऽपि यत्ने खद्योततेजस्तरणः पुरस्तात् ।। २४ । एकं मुकुन्दं हृदये स्मरामि अतो हे स्मर काम, इतो मयि अमितेन बहुलेन श्र पूर्यताम् । दृष्टान्तमाह-तरणे रवेः पुरस्तात् खद्योततेजो निरन्तरं यत्ने कृतेऽपि न द्य संकल्पकल्लोलमगम्यसीमं जायादियादोभिरतीव भीमम् । कर्मोदकं त्वां न तृणाय मन्ये चतुर्भुजे चित्तमिते भवाब्धे ॥ २५ हे भवाब्धे संसारसमुद्र, चतुर्भुजे चित्तमिते प्राप्ते खां तृणाय न मन्ये तृणत गणयामि । 'मन्यकर्मण्यनादरे' इति चतुर्थी । कीदृशं खाम् । संकल्पा एव कलो रङ्गा यस्य तम् । अगम्या दुष्प्रापा सीमा मर्यादा यस्य तम् । जाया स्त्री तदाद यादांसि जलजन्तवस्तैः कृत्वा अतिभयंकरम् । कर्माण्येवोदकानि यत्र तम् ॥ संसारसत्रे घडमी अमित्रा मदादयो मामदया लुठन्ति । आशा तवैवास्ति चराचराणामाधार राधावर धाव रक्ष ॥ २६ ॥ यतः संसारवने अमी मदादयः षडमित्राः शत्रवो निर्दयाः सन्तो मां लुठन्ति चौर्ये' । 'कामक्रोधौ लोभमोही तत्परं मदमत्सरौ। षडमी रिपवो ज्ञेयाः संसाराब्धी ज्जताम् ॥' इति शारदोक्तेः । अतो हे स्थावरजङ्गमानामाधार, हे राधावर, तवैव शास्ति अतस्त्वं धाव मां रक्ष । संपापसंकल्पमलीमसेऽपि मनस्यनन्त स्मृतिमेषि मे यत् । खामी दयालुर्भवता समः कः को वापराधी मम साम्यमेति ॥ २॥ सम्यग्यः पापसंकल्पस्तेन मलिने मनसि हे अनन्त, चेत्त्वं स्मृतिमेषि प्राप्नोषि तवोचितमिति शेषः । यतो भवता समः को दयालुः खामी । अपराधी को वा साम्यमेति । अतोऽहं लयैवानुकम्प्य इति भावः ॥ कृष्ण त्वदीयं चरणारविन्दं चेतोहरं चेतसि चिन्तयन्तः । सन्तः पदं तत्समवाप्नुवन्ति ब्रह्मादयोऽपि स्पृहयन्ति यस्मै ॥ २८ । हे कृष्ण, सन्तः साधवश्वेतोहरं मनोहरं वदीयं पादाब्जं चित्ते चिन्तयन्तः सन् त्पदं प्राप्नुवन्ति यस्मै पदाय ब्रह्मादयोऽपि स्पृहयन्ति । 'स्पृहेरीप्सितः' इति संग्र लाञ्चतुर्थी ॥ येषां न माता न पिता न बन्धुर्न सोदरो नापि धनं न विद्या । ने नारी भागमा T TITT ARTH ।
केऽयू रमावर नराश्चरणप्रणत्या न ब्रह्मणः पदमदभ्रदयावतस्ते । केयूरभूषितकरेण कृताभयस्य कृत्वापि पातकमतर्कितशक्तिभाजः ॥ ३० ॥ हे रमावर श्रीपते, के नरा जनास्तव चरणनमनेन पातकं कृलापि ब्रह्मपदं नायुन प्रापुः । याते डि रूपम् । किंभूतस्य ते । अदभ्रदयावतो बहुदयायुक्तस्य । 'अदभ्रं ब- हुलं बहु' इत्यमरः । केयूरेणाङ्गदेन भूषितो यः करस्तेन कृताभयदानस्य । तथा अत- कितां शक्ति भजतीति तस्य । अत्यन्तविह्वलमिदं विषयाङ्कुशैर्य- दाकृष्यते भृशमुदग्रभवान्तकेन । गोपीमनोहर मनोहरहर्मदीयं त्वत्पादपङ्कजपरागसरागमस्तु ॥ ३१ ॥ हे गोपीमनोहर, मदीयं मन उदग्रो यो भवान्तकः संसाररूपोऽन्तकस्तेन विषया. शैः शब्दादिरूपसृणिभिरहरहः प्रत्यहमाकृष्यते ततोऽत्यन्तविह्वलमिदं तव चरणकमल- परागे सप्रेमास्तु । ततो दुःखाभाव इत्यर्थः ॥ लक्ष्मीनिवास जनजीवन दीनबन्धो बन्धोऽयमुत्कटतमो भवसंभवो मे । त्वन्मन्त्रनामजपतोऽस्तु तदस्य नाशो नाशोचिता त्रिभुवने त्वयि केन कर्तुम् ॥ ३२ ॥ है राधावर, हे जनानां जीवन, हे दीनबन्धो, मे मम भवसंभवः संसारोत्थ उत्कट. स्तमरतीव्रतरोऽयं बन्धोऽस्ति तत्तस्मात्त्वन्मन्त्रान्नामानि च जपतो ममास्य बन्धस्य ना. शोऽस्तु । मन्त्राश्च नामानि च तेषां समाहारो मन्त्रनाम । त्रिभुवने बयि केन पुंसा आशा कर्तु नोचिता ॥ गोविन्द गङ्गातुलसीतरङ्गत्तरङ्गमालामिलितं मदीयम् । मनस्त्वदीये चरणारविन्दे तापत्रयत्रासविमुक्तमस्तु ॥ ३३ ॥ आहागावलम्या मह तर.
एकं विहाय महनीयमुदग्रदुःख- संघातघातचतुरं चरणाम्बुजं ते ॥ ३४ ॥ हे गोपालवाल नन्दशिशो, महनीयं पूज्यमुत्कृष्टदुःखसंघातानां घाते नाशे चतुरमेकं ते चरणाम्बुजं विहाय कायवतां प्राणिनां बलवत्तरस्यातिशक्तस्य कालकोपस्य लोपाय ना. शाय कोऽप्युपायो नास्ति ॥ पादाम्बुजन्म भजतामज तावकीनं दीनार्तिभञ्जनशुभं जनदुःखहृन्नः । आयान्तु यान्तु दिवसा भवसागरोऽपि यस्मिन्परागति परा गतिरस्त्यवश्यम् ॥ ३५ ॥ हे अज, तावकीनं पादाम्बुजन्म पादपद्मं भजतां नोऽस्माकं दिवसा आयान्तु यान्तु । कीदृशम् , दीनानामातिभञ्जने दुःखनाशे शुभं समर्थम् । जनानां दुःखं हरतीति । यस्मि- पादपद्मभजने भवसागरोऽपि पराग इवाचरति जलकणवद्भवति । परागाविप् । यत- स्वमवश्यं निश्चितं परा गतिरसि ॥ कर्मानुरूपजनियुक्ततया न यामि त्वत्पादसेवनसुधालहरी विहारम् । यस्मिन्ननेहसि विना स्मरणेन तत्र दीने मयि स्मयमनन्त दया विधेया ॥ ३६॥ हे अनन्त, यस्मिन्ननेहसि समये । 'कालो दिष्टोऽप्यनेहापि' इत्यमरः । कर्मानुरूपज. नियुक्ततया दैवयोग्यजन्मवत्त्वेन त्वत्पादसेवनमेव या सुधालहरी अमृतोमिस्तत्र विहार क्रीडां न यामि । खां न सेव इत्यर्थः । तत्र तस्मिन्काले वत्स्मरणेन विना वर्तमाने मयि खयं बया दया विधेया कार्या ॥ कुरु मे परमेश्वर प्रियं हृदये संनिवसन्सुनिश्चलम् । हर पातकवृत्रमत्रसत्प्रभयाप्यन्य (क)भुवा यदत्र सत् ॥ ३७॥ हे परमेश्वर, मे हृदये सुनिश्चलं संनिवसन् प्रियं कुरु । किं प्रियमत आह-यदन्य- (क) भुवा रव्युत्थया प्रभया अवसदभीतं तत्पातकबूत्रं पापान्धकारम् । 'वृत्रो दैत्येऽन्ध- कारे च' इति कोषः । अत्र हृदि सद्वर्तमानं हर नाशय ॥ मयि पापिनि कापि निष्कृतिन तव ध्यानमृते रमापते । ।
हे रमापते, पापिनि मयि तव ध्यानमृते विना कापि निष्कृतिः प्रायश्चित्तं नास्ति । तत्र दृष्टान्तः-कर्दमेन लेपितं वपुर्जलं विना विमलं जायते किमु । न जायत इत्यर्थः ॥ अयि मानसमच्युत क्षणं कुरु कारुण्यगुणानुगुम्फितम् । सदया हि भवन्ति साधवः कलयन्तः किल दीनवेदनाः ॥ ३९ ॥ अयीति संबोधने । हे अच्युत, मे मानसं चित्तं कारुण्यगुणानुगुम्फितं दयायुक्तं क्षणं कुरु । कारुण्यमेव गुणस्तेन गुम्फितं प्रथितम् । हि यतः साधवो दीनानां वेदनाः कल- यन्तो जानन्तः सन्तः सदया भवन्ति किल ॥ स्वयं भवाब्धिः स्वयमेव नेता स्वयं सतां तारयिता नृसिंहः । खयं च सौहार्दनिधिः स्वयं नौः सर्वात्मना तेन तमेव सेवे ॥ ४० ॥ हे नृसिंह, त्वं खयमेव भवाब्धिः संसाररूपः समुद्रः । नेता संसारप्रसारकोऽपि स्व- यम् । तस्मात्तारयितापि स्वयम् । सौहार्दस्य दयाया निधिः स्वयम् । नौरूपः स्वयम् । तेन हेतुना सर्वात्मना सर्वभावेन तं खामेव सेवे ॥ हे लक्ष्मीवर हेलयो लयमयुर्मायाविनो दानवाः कुर्वन्तस्त्वयि वैरमेव विरता वेदोदिताद्वर्त्मनः । जीवा ये तु निरन्तरं नवनवानन्दास्तवैव स्तवै- स्तेषां दर्शनमात्रमप्यनुचितं किं देव तन्मादृशाम् ॥ ४१ ॥ हे लक्ष्मीपते, वेदप्रोक्ताद्वमनो मार्गाद्विरता निवृत्तास्वयि वैरमेव कुर्वन्तो दानवा मायाविनो हेलया अनायासेन त्वयि लयमयुः प्रापुः । 'हे दयालय ययुः' इति पाठे ल- यमिति शेषः । तर्हि ये तु जीवास्तव स्तवैः स्तोर्निरन्तरं नवनवानन्दा अत्यन्तानन्द- युक्तास्तेषां मादृशां दर्शनमात्रमप्यनुचितं किम् ॥ सेवे देव तवैव पादकमलं कल्याणकोटीकुलं श्रीमद्रक्ततलं परीष्टिपरतो लक्ष्मीकरात्कोमलम् । यद्दीव्यत्तुलसीदलं सुरसरित्कल्लोलकौतूहलं कैवल्यैकफलं नखावलिविभाविध्वस्तमायाबलम् ॥ ४२ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्त्युपद्रवनिराकरणो नाम चतर्थः स्तबका।
क्ष्मीकरादपि कोमलम् । दीव्यन्ति शोभमानानि तुलसीदलानि यत्र । सुरसरितो ग- कायाः कल्लोलैः कौतूहलमुत्सवो यत्र । कैवल्यं मुक्तिरेवैकं फलं यत्र । नखावलिविभया नखपङ्गिशोभया विध्वस्तं मायावलं येन ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्त्युपद्रवनिराकरणो नाम चतुर्थः स्तबकः । पञ्चमः स्तबकः। लक्ष्मीलावण्यलीलारसविसरसरः साधु पेपीयमानं दृग्भ्यां साक्षान्मुरारेर्दिनकररजनीकामुकाभ्यां करौधैः । कृष्णत्वं यद्विपाकादलभत सितमप्यरय वर्म प्रभाम्भो धाराभिर्निर्यदेतद्भवतु भवदवज्वालजालप्रशान्त्यै ॥ १ ॥ प्रभालक्षणाभिरम्भोधाराभिर्निर्यत्प्रसरणशीलम् । तथा दिनकररजनीकामुकाभ्यां सूर्य- चन्द्रलक्षणाभ्यां दृग्भ्यां मुरारेनॆत्राभ्यां करौधैः किरणसमूहैः साधु यथा तथा साक्षात पेपीयमानमत्यन्तं दृश्यमानम् । ईदृशमेतत् लक्ष्म्या माया लावण्यलीलयोः सौन्दर्यकीइयो राजसतामसरूपयोर्यो रसविसरः प्रेमप्रसरः स एव सरस्तटाको भव एव दवाग्निस्तस्य ज्वालाजालं ज्यालासमूहस्तस्य प्रशान्त्यै नाशाय भवतु संसारतापं शमयतु । एतत्किम् । यद्विपाकाद्यत्परिणामेन । यत्संसर्गादिति यावत् । सितं शुद्धसत्त्वात्मकमपि अस्य हरेत्रम शरीरं कृष्णत्वं श्यामतामलभत प्राप ॥ नीत्वा नाकनितम्बिनीनयनयोः पीयूषपानायते मत्वा मङ्गलमातनोति मरुतामास्थाय सुत्रामताम् । जानीते जगदीशितुर्यदतुलं जन्तु पित्वा पदं तन्नारायणनाम कामभिमतां सिद्धिं न दत्ते सताम् ॥ २ ॥ तत् हरेर्नाम सतां कामिष्टां सिद्धिं न दत्ते । सर्वामपि दत्त इत्यर्थः । तत्किम् । जन्तु: बनाम नीला प्राप्य । श्रुत्वेत्यर्थः । नाकनितम्बिनीनयनयोरप्सरोनेत्रयोः पीयूषपानायते अमृतपानवदाचरति । अप्सरसां भोगयोग्यो भवति । यन्नाम मत्वा ज्ञाखा मननं कृल। मुत्रामतामिन्द्रत्वमास्थाय मरुतां देवानां मङ्गलं विस्तारयति । यन्नाम जपिखा निदिध्या- -सनं कृत्वा जगदीशितुर्ह रेरतुलं पदं ब्रह्मस्वरूपं जानीते । साक्षात्कारो भवतीत्यर्थः ॥ । ..
स्तरिक पामर रामरत्नमनिशं हृद्येव न स्थाप्यते ॥ ३ ॥ हे पामर अधम, तद्रामरत्नमनिशं निरन्तरं हृद्येव किं न स्थाप्यते । तत्किम् । यद्रा- मरत्नं भवान्धतमसं संसारगाढध्वान्तं दूरीकुरुते निवर्तयति । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । अक्षरमविनाशि तत्प्रसिद्धं परं ब्रह्मैव यस्य रामरत्नस्य प्रकाशः किरणोधः । अत्र संसारे यद्रामरत्नं लीलया अनायासेनैव लिप्साधिकं वाञ्छाधिकं ददते । 'दद दाने' विभुः प्रभुरपि नलिनोद्भूतः कमलजो ब्रह्मापि यस्यानेकगुणान्वक्तुं नालं न समर्थः ।। यज्ञस्तम्भवती कृता वसुमती तेनाखिला संयुगे सुप्तं तेन सपत्नदर्पदलनोद्दामप्रतिष्ठावता । वित्तं वेदविदे व्यतारि विधिवद्ब्रह्मार्पणन्यायतः कंसध्वंसकृतः कृतः कृतधिया येन प्रणामः सकृत् ॥ ४ ॥ तेन प्राणिना अखिला वमुमती भूर्युपयुक्ता कृता । सपत्नानां शत्रूणां दर्पदलने गर्मा- पहारे उद्दामा वह्वी प्रतिष्ठा यस्येदृशेन तेन संयुगे रणे सुप्तम् । तेन च ब्रह्मार्पणन्यायेन वेदविदे विधिवद्वित्तं व्यतारि दत्तम् । येन कृतधिया कुशलेन सकृदेकवारमपि कंसध्वंस- कृतो हरेः प्रणामः कृतः ॥ धन्या धर्मधुरंधरेण धरणी तेनो_लोकाधिका माता तस्य कृतार्थतामुपगता चीतापदः पूर्वजाः । तस्मॅिल्लोचनमार्गमागतवति प्रायेण पापक्षयो यस्योदारमतेनरस्य रमते चित्ते मुरस्य द्विषन् ॥ ५ ॥ तेन पुंसा धर्मधुरंधरेण धर्मभारवोड़ा ऊर्ध्वलोकाधिका वर्गलोकाधिका धरणी धन्या । अमुष्य पुंसो माता कृतार्थतां प्राप्ता । पूर्वजाश्च तस्य वीतापदो गतदुःखाः । तस्मिन्प्रा- येण लोचनमार्गमागतवति दृष्टे पापक्षयो भवति । उदारमतेमहाबुद्वेर्यस्य नरस्य चित्ते मुरस्य द्विषन् हरी रमते ॥ चेतो यस्य जनार्दने जनमनःपीयूषपानाधिक- ध्यानानन्दपदे निरस्तनिखिलद्वैतप्रतिष्ठास्पदे । किं तस्यारिभिरुद्धतैः किमथवा विनैः कुलैर्वापदां ज्वालाभी रिपुभीतिभिश्च पुरुषो धन्यः स एव क्षितौ ॥ ७ ॥ एतैः पदार्थैर्यस्य खान्तं मनोऽनन्ततो हरेः सकाशान चलितं क्षितौ धरायां स एव धन्यः पुमान् । कैरियत आह-लीलावतीकटाक्षरुच्चैः प्रकाशं सूचिता कथिता या निश्चलप्रियता स्थिरप्रियवाक्यं आ जन्मावधि तव लक्षहेममुद्राः अनेन दातुं प्रतिश्रुते- खादि तेनापि । तथा पुत्रालिङ्गनैः । तथा स्मार उपतापः । 'स्मृ शब्दोपतापयोः । घञ्प्रत्ययः । तस्य स्फारतया वाहुल्येन । 'स्फारस्तु करकादीनां बुद्बुदे विपुलेऽपि च' इति कोपः । तथातिवलवान्यो दारिद्यदावानलस्तस्य ज्वालाभिः । तथा शत्रुभीतिभि- रपि । एतैर्हरी स्थिरमना धन्यः ।। पीयूषं परिहाय हायमधमस्तृष्णाभिभूतो जनः कूपं काङ्क्षति पङ्कसंकुलमलं दैवेन निर्वञ्चितः । हित्वा हृद्गतमेव देवमतुलानन्दप्रदं केशवं भूतप्वात्महिताय ताम्यति मतित्यक्तो हि संसारिषु ॥ ८ ॥ हा इति खेदे । अयं तृष्णाभिभूतोऽधमो जनोऽमृतं त्यक्ता पङ्कव्याप्तं कूपं वाञ्छति । यतो देवेन वञ्चितः । कथं तदाह-अतुलानन्ददायिनं हृदयस्थं केशवं देवं त्यक्त्वा मति- लत्तो निर्बुद्धिः सन् संसारिषु भूतेष्वात्म हिताय ताम्यति ग्लायति ॥ तावदैन्य मदन्यतो न भवतो गन्तव्यमव्याहता- नन्दं नन्द दरिद्र दुःसहतरं दुःखं च तावद्ददत् । तावद्गदर्जतु दुर्जनो मम विपद्वृद्ध्या रणत्कारक- द्यावन्मामवलोकते न कृपया कृष्णः कृतायां स्तुतौ ॥ ९ ॥ तुती कृतायां कृष्णो मां यावावलोकते हे दैन्य, तावद्भवतस्त्वया मदन्यतो न गन्तव्यम् । 'कृयानां कर्तरि वा' इति भवत इति कर्तरि षष्टी । हे दरिद्र, लमपि तावद्दुः- सहतरं दुःखं ददत्सत् अव्याहतानन्दं यथा तथा नन्द । किंच दुर्जनो मम विपदृध्या रणत्कारकृत् हसन् गर्जतु । हरिणा मय्यवलोकिते दैन्यादयोऽकिंचित्करा इति भावः ।। मातर्मेदिनि देवकीतनयतामासाद्य देवो दया- सिन्धुः सिन्धुरलीलया त्वयि पदबातानतानीत्तु यान् । ..
मन .. स्याम् ततस्ते मद्भारहीनतेति भावः ॥ यद्धीमावरजो रजोधिकमनाः संन्यासिवेषं दध- कन्यामेकतमः समस्तसुभटश्रेणीशिरःशेखरे । गर्जत्येव बलेऽवलेपविधुरो हृत्वा सुभद्रामगा- नागोऽनन्तवशंगतो जयति सा नारायणस्वामिता ॥ ११ ॥ रजोगुणव्याप्तमना भीमानुजोऽर्जुनो यतिवेयं धारयनेक एवावलेपविधुरं गर्वहीनं यथा तथा निर्गवं एव सन् समस्तसुभटश्रेण्याः शिरः शेखरीभूते बलभद्रे गर्जयेव सति अनन्तस्य हरेवशंगतः सन्सुभद्रा हवा अगात् आगोऽपराधं तु नागान प्राप । सा हरि. खामिता जयति । हरेभक्तखादिति भावः ॥ कारागारगता हृतामरमुदो भौमम्य यद्भीरवो भर्तारं भगवन्तमन्तकभयातङ्कापहं लेभिरे । हृवृत्तिश्चतुराननस्य नितरां यदास्यमेवेहते- ऽप्येकाग्र्यं कलितस्मृतेर्विजयते सोऽयं प्रसादः प्रभोः ॥ १२ ॥ हृता अमराणां मुदो येन ईदृशस्य भौमस्य नरकासुरस्य कारागृहस्था भीरवो नार्यः । 'नारी भीरु मिनी कामिनी च' इति हलायुधः । अन्तकोत्पन्नमातकं भयमपहन्ति तं नरकभीतिहारं हरिं भर्तारं यल्लेमिरे प्रापुः । ऐकाम्यं यथा तथा कलिता स्मृतिर्यन तस्य निरन्तरस्मरणशीलस्य चतुर्मुखस्य मनोवृत्तिर्यदास्यमेवेहते चेष्टते सोऽयं प्रभोः प्रसादो विजयते ॥ कंसः किं सुकृतं चकार भगिनी कारागृहे योऽरुण- जामेयानपि जन्निवान्पितुरभूत्सौराज्यसर्वकषः । अन्यत्तस्य किमुच्यते तदपि मामेप क्षयं नेप्यती- त्यत्यन्तस्मृतकेशवः शिवतमं तस्याश्रमं जग्मिवान् ।। १३ ॥ कंसः किं पुण्यं चकार, न किमपि । यतो भगिनी देवकी कारागृहे योऽरुणदुरोध, जामेयान् 'जामिः स्वसृकुलस्त्रियोः' तदपत्यानि जामेयास्तान् जघान, पितुरुग्रसेनस्य सौराज्यं सर्वं कषति वलाद्गृह्नाति तादृशोऽभूत् । 'करीषकूलसर्वाभ्रेषु कपः' इति खइप्र.
ब्रह्मात्य तज्जाग्मवान् प्राप । इशा हारस्मरणश्रमाव इत्ययः ।। ना रायः स्मरणं करोति हि यथा नारायणस्य प्रभो- रेवं चेत्कुरुते कलामपि तदा दारिद्यदारि द्रुतम् । प्राप्य श्रीकरुणाकटाक्षकलनाकल्याणमक्षुद्रया संपत्त्यैलविलं विलङ्य विलसत्याचन्द्रतारं सुखी ॥ १४ ॥ ना पुमान् यथा रायो धनस्य स्मरणं करोति तथा कलां लेशमपि यदि नारायणस्य हरेः स्मृतिं करोति तदा श्रीयुक्तो यः करुणाकटाक्षस्तत्कलनया दारिद्यनाशकं कल्याण मजलं प्राप्याक्षुद्रया महत्या संपत्त्या ऐलविलं कुवेरम् । 'यक्षकपिङ्गैलविलश्रीदपुण्यजने- श्वराः' इत्यमरः । अतिक्रम्य आचन्द्रतारं कल्पान्तपर्यन्तं सुखी विलसति ॥ गङ्गे संनिहितासि संततमपि श्रीकृष्णपादाम्बुजे लक्ष्मि त्वं ललनाललाम लभसे लावण्यमस्योरसि । प्रेमा तस्य च मातरस्ति तुलसि त्वय्युत्तरस्तत्कथं विज्ञप्तिर्न विधीयते करुणया मैदुःखविध्वंसिनी ॥ १५ ॥ हे गझे, त्वं हरिचरणे निरन्तरं निकटाति । हे लदिम, ललनानां नारीणां ललाम स्त्रीरत्नभूता समस्य हरेहरसि लावण्यं शोभा लभसे । हे तुलसि मातः, तस्य हरेः प्रेमा लव्यधिकोऽस्ति । तत्तहिं करुणया कृला मम दुःखनाशिनी विज्ञप्तिर्भवतीभिः किं न क्रियते । सर्वथा मम दुःखनाशाय हारेविज्ञपनीय इति भावः । 'ललामवल्ललामश्च शृङ्गे चिहपताकयोः । रम्ये प्रधाने भूपायां पुण्ड्रे पृच्छप्रभावयोः' ।। अन्तश्चिन्तयतामनन्तमनिशं श्वासा निवासाः श्रियो जन्तूनां यति यन्ति यागयुगलैस्ते तुल्यतां तन्वते । स्पर्धन्ते मृडमौलिमण्डननदीवीचीभिरुचैः पुनः पावित्र्येण भवाम्बुदव्युदसनोद्दामैकदेशौजसः ॥ १६ ॥ नित्यं चित्ते हरि स्मरतां प्राणिनां श्रियः शोभाया निवासा आधारभूता यति या- वन्तः श्वासा यन्ति गच्छन्ति ते यागयुग्मैः सादृश्यं कुर्वते । हरि स्मरतां प्रतिश्वासं यागद्वयफलमित्यर्थः । किंच ते श्वासाः शिवस्य मौलेमण्डनभूता या नदी गङ्गा तद्वी- चीमिः :: सह पावित्र्येण स्पर्धन्ते । कीदृशाः-भवाम्बुदस्य संसारमेषस्य व्यदसने नाशे :
मुक्त्वा माधवसेवनं मतिमता मन्तव्यमन्तव्यथाः किंचिद्वारयितुं समर्थमपरं पुण्यं न लोकत्रये । संतप्ते तपतीव्रतापतपनप्रद्योततो भूतले ताप हर्तुमलं विना जलधरं दृष्टः कुतः केन कः ॥ १७ ।। लोकत्रये एकं हरिसेवन मुक्त्वान्ते मरणे या व्यथास्ता वारयितुं समर्थमपरं किंचि- पुण्यं मतिमताम् । कर्तरि पष्टी । पुंसां न मन्तव्यम् ॥ तत्र दृष्टान्तः-तपे ग्रीष्मे ती- वस्तापो यस्य तपनस्य भानोः प्रद्योततः प्रद्योतेनातपेन संतप्ते भूतले मेधं विना तापं हर्तुं केन कः कुतो दृष्टः । न केनापि न कोऽपीत्यर्थः । तथा हरिसेवां विनान्तपीडाना- शकं किमपि नास्तीति भावः ।। धातुप्रत्यययोगतो रचयितुं रूपाणि लोकत्रये विद्वांसो विविधा विधातुरधिकं धीकौतुकं तु प्रभोः । संख्यालोपसमासकालपदभिल्लिङ्गादिभावान्वितं रूपं प्रत्यययोजनाविरहितैर्निर्माति यो धातुभिः ॥ १८ ॥ धातुर्भूवादिः, प्रत्ययस्तिबादिः, तयोर्योगाद्रूपाणि भवत्यादीनि रचयितुं लोकत्रये वि- द्वांसो वुधा विविधा वर्तन्ते । परं तु विधातुः कर्तुः प्रभोरीशस्य हरेस्तु धीकौतुकं बुद्धि- विख्यातिरधिकम् । तदेवाह-यो विधाता प्रत्यययोजनाविरहितैनिसंवन्धशन्यैरचे- तनैः । जडैरिति यावत् । धातुभिर्महाभूतैः संख्यैकखादिः, लोपो नाशः, समासः समर्थ- कालः समयोऽवस्थादिकः, पदभिद्वस्तुभेदः, लिङ्गादि स्त्रीलादि, भावो जन्म, एतै- र्युक्तं रूपं मनुष्यपश्वादि निर्माति करोति ॥ 'धातू रसादौ श्लेष्मादौ भ्वादौ ग्रावविका- रयोः । महाभूतेषु लोकेषु शब्दादाविन्द्रियेऽस्थनि ॥' इति कोषः । 'कौतुकं नमणी- च्छायामुत्सवे कुतुके मुदि । पारम्पर्यागते ख्याते मङ्गलोद्वाहसूत्रयोः ॥' इति च । 'कालः कृष्णे महाकाले कृतान्ते समये मृतौ ।' 'पदं स्थाने विभक्त्यन्ते शव्दे वाक्येऽङ्क- वस्तुनोः।' 'भेदो विदारणे वेधे उपजापविशेषयोः ।' 'लिङ्गं पुंस्त्वादिचिह्नयोः । शिवमू- वनुमाने सांख्योक्तप्रकृतावपि' इति च । 'भावोऽभिप्रायवस्तुनोः । खभावजन्मसत्ता. मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे । शब्दवृत्तिहेतौ च ।' 'समासः स्यादैकपद्ये संक्षेपे च समर्थने ॥ .. नम् ..
तस्मिन्देहे स्मितयाहंभावेनाभिभूतं पराभूतं हृदयं यस्तै रूपे आकारे नरादिके एव कृतः प्रत्ययो विश्वासो यैस्ते, मन्दा दुष्टास्तेषां जन्तूनामाशयश्चित्तमेकं शरणं येषां ते, तथा वुधानां ज्ञानिनां बोधाय ज्ञान प्राप्तये समीचीनो यो विधिः प्रकारः श्रवणादिस्तयाषे- धिनी ज्ञानप्रकारनिवर्तिका मेधा वुद्धिर्येषां ते कामदम्भादयो दस्यवश्चौरा अनिवार्यविप- दमसाध्यकष्टयुक्तं लोकं बाधन्ते पीडयन्ति ॥ अत्र दृष्टान्तः-यथा निशामाश्रिता यामा रात्रिप्रहराः कोक चक्रवाकं वाधन्ते । तद्वदेहमाश्रिताः सन्तो ज्ञानं बाधन्त इत्याशयः ॥ मजन्तु प्रबलप्रतापनिहतानेकैनसि न्यायतो निर्णीते निगमैनरा भवपराभूताः सुतीर्थान्तरे । मजन्तुस्तु मधुद्विषः पदनखप्रेसत्प्रभामण्डली- पूरस्फारतरङ्गसंगमचमत्कारोत्सवं गाहते ॥ २० ॥ संसारपीडिता नराः शास्त्रैनिणीते प्रबलप्रतापेन निहतान्यनेकान्येनांसि पापानि येन तादृशे तीथीन्तरे प्रयागादौ मजन्तु स्नान्तु । मजन्तुरहमेव जन्तुस्तु मधुद्विपो हरेः पद- नखानां प्रेवन्ती या प्रभामण्डली कान्तिपटली तस्याः पूरस्य स्फारा वृद्धा ये तरङ्गास्तेषां संगम एव चमत्कारोत्सवस्तं गाहते हरिचरणभक्तिमेव गाहते ।। लक्ष्मीभर्तरि भक्तिमेव भजतां यज्जायते जन्मिनां मानैश्चर्यमरातिभीतिरकुलस्फीतिः प्रतिष्ठाच्युतिः । नासीरः स समग्रसंपदुदधेहेर्यथा सूचको धूमः स्यात्प्रथमो यथोपनिपदः पूर्वैव भूमिर्भिदाम् ॥ २१ ॥ हरी भक्ति भजतां जन्मिनां प्राणिनां यदानैश्वर्यमसामर्थ्यम् , अरातिभीतिः शत्रुभ- यम् , अकुलस्फीतिः कुलवृद्धेरभावः, प्रतिष्टानाशः, इत्यादि दुःखं जायते, स समस्तसं- पदुदधेः सर्वहर्षस्योत्पत्तेनासीरः सेनामुखम् । हरिभक्तौ क्रियमाणायां दुःखाविर्भावः मुखप्रागभावतया ज्ञेय इत्यर्थः। तत्र दृष्टान्तः--वहेस्तेजसो यथा प्रथमो धूमो जायते। यथा चोपनिपदोऽद्वैतप्रतिष्ठापिकायाः पूर्वा आदौ पूर्वपक्षत्वेन भिदा भूमिहेंदप्रतिपादनम् ॥ गङ्गासागरसंगमः सुमहितं काशीतलं शीतलं दाहाय प्रबलैनसो न सरितः शेषा विशेषार्थदाः । यस्य ध्यानमृते तमच्युतमहं हृत्कुञ्जकण्ठीरवं , मुक्तिपदं दृश्यैव भवति । यस्य चरणभजनेन साक्षात्कारो भवतीत्यर्थः ।। द्रव्येणापि विना भवन्ति सुलभान्यम्भांसि भूमीतले प्राप्याः पादपपल्लवाः प्रभुरपि प्रौढप्रतापोऽच्युतः । स्यादेवार्चितयार्चयार्चिततरस्त सिन्भवेदर्चिते मोक्षो मङ्गु मुमुक्षितस्य नियतं तत्र प्रमाणं श्रुतिः ॥ २३ ॥ द्रव्यं विना भूतले जलानि सुलभानि, वृक्षपल्लवाः पूजार्थं प्राप्याः, प्रभुहरिरपि प्रौढ- प्रतापः, अर्चया प्रतिमया पूजितयाप्यच्युतोऽर्चिततरोऽत्यन्तं पूज्यः स्यात् । तस्मिन्हरौ पूजिते मुमुक्षितस्य मोक्षेच्छोमङ्गु शीघ्रं मोक्षो भवेत् । नियतं निश्चितं तत्र श्रुतिर्वेद एवं प्रमाणम् ॥ मार त्वं मृदुमानसानपि मुनीन्मृद्गासि यन्मार्गणै- स्तेन त्वज्जनकोऽपि कोपितमनास्त्वद्वृत्ततो वर्तते । यद्याता यमयातनां तनुभृतस्त्वामाश्रितास्त्वत्त्यजो नीता लोकमशोकमत्रभवता नारायणेन ध्रुवम् ॥ २४ ॥ हे मार काम, त्वं कोमलचेतसोऽपि मुनीन्वाणैर्यत्पीडयसि, तेन हेतुना बदृत्ततस्ख- दाचरणेन खपिता हरिः क्रुद्धचित्तो वर्तते । मयि हरेः कोपः कथं ज्ञातः, तत्राह-यत- स्वामाश्रिताः कामरता जना यमपीडां प्राप्ताः । वत्यजो निष्कामा जना अत्रभवता पूज्येन हरिणाशोकं मोक्षं प्रापिताः । अतो ध्रुवं ज्ञायते हरिस्त्वयि कुपितः ॥ लक्ष्मि त्वं यदपीपल: पलभुजः पौलस्त्यपूर्वानमू- नक्षीणैर्विभवैरशूशुष ऋषीनप्यन्नतृप्तिं विना । मातुस्तेऽनुचितं समस्तजगतामेतच्चिरं चिन्तय- ल्लङ्कायां पुरि शासनं तव धवश्चके भवन्राघवः ॥ २५ ।। हे लक्ष्मि पौलस्त्यपूर्वानमून्रावणादीन्पलभुजो राक्षसान्पूर्णविभवैः रागृद्धिभिस्त्य यदपीपलः पालितवत्यसि । ऋपीविश्वामित्रादीनन्नतृप्तिं विना श.शुपःशोपितवत्यसि । सर्वजगतां मातुस्तबैतद्रक्षःपालनमृपिशोषणं चानुचितम् । एतचिरं चिन्तयंसव धवराव भर्ता रामो भवटकायां तव शासनं शिक्षणं चक्रे ॥ तत्र युक्तिमाह- 4 चेद्यद्येवं न स्यात्तहिं दशास्यतां रावणभावमनुभवन्संसारसमुद्रस्य यादी जलावभूता लद्देशो रावणः क, गिरां वाचामगोचरतरोऽत्यन्तमविषयस्तव भर्ता रामः क्व । महदन्त. रमनयोः। तस्य रामस्येच्छां विना त्रैलोक्ये वाहतु हे मातः को वा समर्थो न कोऽपी- त्यर्थः । तत्तस्मादीदृशं प्रस्तुतमुपक्रान्तं पुनरपि कथं प्रारभ्यते । पापिपालनं धर्मिशोषणं चन कर्तव्यमित्यर्थः ।। त्वं मूलप्रकृतिः पुराणपुरुषो नारायणोऽयं विधु- वह्निस्त्वं स च विन्दुरिन्दुवदने नादात्मकं ते वपुः । मातः किं बहुना चराचरमिदं जातं युवाभ्यां यत- स्तस्मादौदरपुत्रवन्निजतया पोष्यं विभेदं विना ॥ २७ ॥ हे मातरिन्दुवदने चन्द्रमुखि, त्वं मूलप्रकृतिरादिमाया, अयं नारायणः पुराणपुरुषः, अयं विधुश्चन्द्रस्त्वम् , अग्निहरिः, विन्दुस्तव वपुर्नादात्मकं नादरूपम् । किं बहुना । इदं स्थावरजङ्गमं युवाभ्यां लक्ष्मीनारायणाभ्यां जातम् । तस्माद्भेदं त्यक्त्वौररापुत्रवन्निजतया स्त्रीयत्वेन विश्वं पोध्यं पोपणीयम् ।। तत्त्वं मातरनन्तमन्तरनिशं निध्यायतामायता- वालोक्य स्थितिमेनमेव समया देवं दयासागरम् । अप्येतन्न विचिन्तयस्यधिजगत्येते दरिद्रार्दिता दत्त्वा पर्यनुयोगमच्युतपरा मां हेपयिप्यन्ति यत् ।। २८ ।। हे मातः, तस्मात्त्वामन्तश्चित्तेऽनन्तं नितरां ध्यायतां स्मरतामायतावुत्तरकाले दयास- मुद्रमेनं देवं हरिं समया हरिसमीपे स्थितिमालोक्य तन्न चिन्तय सि । किं तचिन्तनीयम् , अत आह-दारिद्रादिता एते हरेरने पर्यनुयोगमुपालम्भनं दत्त्वा मां हेपयिष्यन्ति । तस्माद्भक्तेभ्यो दारिद्र्यं दूरीकार्यमित्यर्थः ॥ मातर्मङ्गलदेवते मधुरया दृश्या मनुप्या मुदा वीक्ष्यन्ते भवदीक्षिताः शतमखीभावाय ते दीक्षिताः । दोपस्तेषु गुणायते रिपुरपि प्रायेण मित्रायते व्यालो रज्जवति क्षितिस्त्रिदिवति क्षोणीपतिर्दासति ॥ २९ ॥ हे कल्याणदेवते मातः, ये मनुष्या मधुरया कृपायुक्तया दृष्ट्या मुदा बया वीक्ष्यन्ते ते भवसंसारेदीक्षिताः संसारिणाः संसरणादीनां गामा मन्त: मातार सा सपा रज्जवात रज्जुवदाचरात, क्षिातः पृथ्वी निादवात खगवदाचरात, क्षाणापता राजा दासवदाचरति । गुणायते, मित्रायते इत्यत्र क्यङ् । रज्जवतीत्यादौ विप् ॥ अप्येकक्षणमेधि रे मधुकरः श्रीमन्मधुद्वेषिणः पादाम्भोजयुगे धिगेव कमलाकाङ्क्षावशः क्लिश्यसि । यद्भूताभ्युदयाय भूरिविभवैराविर्भवेद्भार्गवी भक्त्या भर्तु""रसाधुभिरभिप्रायैः परैः पूर्यताम् ।। ३० ।। रे जन्तो, एकक्षणमपि श्रीमतो मधुसूदनस्य पादाब्जयुग्मे मधुकरो भ्रमर एधि भव । तव कमलाया लक्ष्म्या आकाझ्या यदाकुलत्वं तद्धिगस्तु । यतो भार्गवी भृगुपुत्री लक्ष्मीर्भतुर्हरेभक्त्यैव भूतानामभ्युदयायाविः प्रकटा भवेत् । अतः परैरन्यैरसाधुभिर- भिप्रायैः पूर्यताम् , अन्येऽभिप्राया न कार्या इति भावः ॥ दूरं याहि देरिद्र दीर्णहृदयं दौर्भाग्य भङ्गं भज व्याधे लावणसैन्धवीपु लहरीप्वापद्यतां निवः । शेषं भ्रंशमुपैतु युष्मदुपमं नारायणाराधने वैयग्र्यं व्यपहाय लग्नमनसो जाता वयं सर्वथा ।। ३१ ॥ हे दरिद्र, दीर्ण स्फुटितं हृदयं यस्येदृशं सत्त्वं दूरं याहि । हे दौर्भाग्य नाशं प्राप्नुहि । हे व्याधे रोग, त्वया लवणसिन्धोरिमा लावणसैन्धव्यः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः । क्षाराधिसंवन्धिनीषु लहरीषु निह्नवो लय आपद्यतां प्राप्यताम् । रोगेण क्षाराब्धौ पतितव्यमित्यर्थः। शेषमनुक्तं युष्मदुपमं भवत्सदृशं दुःखभयादिकं भ्रंशं नाशमुपैतु । यतो वयं वैययं व्यग्रत्वं सक्ला सर्वांशेन कृष्णाराधने लग्नचित्ता जाताः, अतो दरिद्रादिभिर्म यि न स्थेयमिति भावः ॥ दयालुर्देव त्वं क इव हृदयालुम्त्वदपरो रमा यस्यादेशोत्सवभवनवानन्दलहरी । अधर्मो यन्नाम्ना विलयमयते माधव सदा तदप्येतत्सीदत्यहह भुवनं त्वत्कपितृकम् ।। ३२ ।। हे देव माधव, त्वं दयालुः । वदन्यो हृदयालुः कृपावान्क इव, न कोऽपीत्यर्थः । रमा ल- क्ष्मीर्यस्य तवादेश आज्ञेवोत्सवस्तदुत्पन्ना नवा आनन्दलहरी हर्षपरम्परा यस्याःसा । लक्ष्मी यस्यानाकारिणीत्यर्थः ययतनामा मामासानासाना. - कटाक्षः केपांचित्कृतसुकृतसंघातवशतो हरिध्यानं हित्वा मम किमपि नायाति हृदये ॥ ३३ ॥ वध्वा नेत्रपद्म उल्लसन्ती शोभमाना या लक्ष्मीस्तस्या यहीलाकमलं तत्र या मधुपश्रे- णिभ्रमरपतिस्तद्वत्मुभग एवं विधः कटाक्षः सुकृतसंघातः पुण्यसमूहस्तद्वशात्प्रायः केषां- चित्प्रमोदाय सुखाय प्रभवतु । नायं कटाक्षः, किंतु पद्मालया रमा वधूने पद्म निव- सति, तद्धस्ते लीलाकमलमस्ति, तन भ्रमरपतिः सैवेयमिति भावः । एवं केचिस्त्रियाः सुखमनुभवन्तु । मम तु हृदये हरिध्यानं त्यक्त्वा किमपि नायाति ॥ मुरारातिर्भाति श्रुतिमुकुटमाणिक्यकिरणा- वलीभिर्व्याश्लिप्यच्चरणनखचन्द्रद्युतिचयैः । भजजन्तुखान्तोत्कटकुहरतो मोहतिमिरं निरस्यन्नीरन्धैर्हदि यदि तदिष्टं किमितरत् ॥ ३४ ॥ श्रुतर्मुकुटभूतोपनिपत्तदेव माणिक्यं रत्नं तस्य किरणपतिभिर्व्याश्लिष्यन्तः संबध्नन्त उपनिपत्प्रतिपाद्या ये चरणनखास्त एव चन्द्रास्तेषां नीरन्धैर्निबिद्युतिचयैः कान्तिपुजैः कृला भजतां जन्तूनां वान्तं चित्तमेवोत्कटं कुहरं गतं तस्मान्मोहान्धकारं निरस्यन्निव- तयन्मुरारियदि हृदि भाति तत्तर्हि इतरदन्यदिष्टं किम् , न किमपि । हरिध्यानाधिक सुखं नास्तीत्यर्थः । अज्ञाननाशके हरौ हृदि भाति सति कृतार्था भवन्तीति भावः ॥ यच्छक्यं नैव वाचंयमविमलमनः संपरित्यज्य बड़े नैर्गुण्यादेव बन्धं व्रजति पुनरहो न प्रसङ्गाद्गुणानाम् । यस्मिन्बद्ध विमुक्तिर्भवति तनुभृतां यत्रिलोक्याममूल्यं कौशल्यागर्भरत्नं मम हरतु तमःस्तोममत्यद्भुतथि ॥ ३५ ॥ यद्रामरत्नं वाचंयमानां मुनीनां विमलं मनस्त्यक्त्वा बद्धं नैव शक्यम् । यच्च मनसो नैर्गुण्या देव संवन्धं याति, न तु गुणानां विषयाणां प्रसङ्गात्सेवया । यस्मिन्बद्धे प्राणिनां मुक्तिर्भवति । यच्च त्रिलोक्याममूल्चमत्यन्तमाश्चर्यकारिणी श्रीर्यस्य तनिर्मूल्यं कौशल्या गर्भरत्नं रामरनं मम तमःस्तोममन्धकारसमूहं हरतु । अज्ञाननिवृत्तिं करोलित्यर्थः ॥ ये जन्मान्तरपर्युदञ्चनवशादायान्ति जायादितां जीवास्तेष्वपि मातृशासितमिदं चेतो ममत्वाकुलम् । पनि NE .. न्मातृशासितः' । इदं चेतस्तेष्वपीग्रसं पुत्रादिसमस्नेहाकुलं ममतया व्यग्रम् । तथा सर्वेषां तनुभृतां तच्चित्तं चौरेष्वपीदृग्रसं पुत्रादिसमस्नेहं कथं न भवति । यतः, ते चौ- रादयोऽप्येवं भवितारो जायादिभावं यास्यन्ति । अत एवेमा विवेकहीनां चेष्टां धिक् ।। नित्यं हृत्कमलं कृतार्थयतु मे देवो भवानीपति- यस्मिन्मार्गगते मतेविरमति द्रागेव माया यया । हर्तु बोधधनं निवध्य बहुधा पाशैः प्रमादादिभि- महिाधौ विषयैर्विलोभ्य विवशं व्याक्षिप्यते विष्टपम् ॥ ३७ ।। भवानीपतिर्देवः शिवो नित्यं मम हृत्पद्मं कृतार्थयतु । यस्मिशिवे मार्गमिते द्राक शीघ्र मतेर्माया विरमति निवर्तते । तिष्टतु माया, तत्राह-यया मायया ज्ञानं धनं हतु प्रमादादिभिः पाशेर्वहुधा वद्धवा विषयः स्रगादिभिर्विलोभ्य विवशं बवा भुवनं मो- हसागरे क्षिप्यते ॥ पूर्वो बस इतश्च दीर्घ इतरो नैव क्वचिद्विद्यते कस्यानेन समानता त्रिभुवने को वा समानोऽमुना । अन्तःस्थायिनि घोषवत्यविरतं लोकोपचारात्मनः संज्ञासंधिसमाप्तये प्रतिजनुः किं नात्र तत्स्थीयते ॥ ३८ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्तिगौरवदर्शनं नाम पञ्चमः स्तवकः । हे मनः, प्रतिजनुर्जन्मनिजन्मनि संज्ञा देवदत्तादिका नरपश्वादिका वा तस्याः संधिः संबन्धस्तत्समाप्तये जन्मनिवृत्त्यै अत्र हरौ कि न स्थीयते । यस्मादितो हरेः पूर्व आदि- नास्ति, अनादिलात् । इत इतरो ह्रखो रिपुरपि नास्ति, इतो दीर्घोऽपि क्वचिन्न विद्य- ते, त्रैलोक्येऽनेन हरिणा समानता सादृश्यं कस्या अमुना समानो वा कः, न कोऽपी. त्यर्थः । किंभूतेऽत्र । अन्तःस्थायिनि चित्तस्थे । अन्तर्यामिणीत्यर्थः । लोकोपचारालोक- व्यवहारतोऽविरतं नित्यं घोषवति शब्दवति घोपो वेदशब्दः प्रतिपादकत्वेनास्तीति । वस्तुतो वाग्गोचरे । तदासक्तिः कथं न क्रियते इत्यर्थः ॥ इति महीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्तिगौरवदर्शनं पञ्चमः स्तवकः । पष्ठः स्तवकः ।
। ते हरिगुणा वो युप्माकं अतुलं प्रमोदं हर्ष कुर्वन्तु । ते के । ये संसाररूपान्धकारस्य तीबसूर्यप्रायाः । संसारनिवर्तका इत्यर्थः । ये मुक्तिरूपा या लक्ष्मीस्तस्या लसन्तो मु- ताहारस्य कणा मणयः । ये च नमस्कारकुशला ये प्राणिनस्तेषां प्रसादं प्रत्युन्मुखाः । प्रसादकरा इत्यर्थः । ये च । अद्वैतागमवाक्यानि वेदान्तशास्त्रवचांसि त एव दीपका- स्तेषां दशानिर्माणाय वर्तिरचनाय सूत्रभूताः ॥ कृष्ण त्वत्करुणाकटाक्षलहरीलीलालवाय स्पृहां कुर्वन्तः कमलासनप्रभृतयो देवाः स्तवं तन्वते । एकस्तत्तव पादपद्मरजसां गङ्गाम्बुना मिश्रितो वातोद्भूतकणः कृतार्थयतु मां कोऽपि प्रणामानतम् ॥ २ ॥ हे कृष्ण, ब्रह्मादयो देवास्तव कृपाकटाक्षलहर्या या लीला तस्या लेशायैकदेशप्राप्तये इच्छां कुर्वन्तः सन्तस्तव स्तवान्स्तोत्राणि कुर्वते । तत्तस्मात्तव चरणधूलीनामेको वातो. द्धतः कोऽपि कणो लेशो नत्या नम्रीभूतं मां कृतार्थयतु । किंभूतः । गोदकयुक्तः ॥ त्वं राजा भुवनेप्वतो भुवि तवावात्सं कुटुम्बीभव- न्दुप्पूरोदरपूरणाय वृषलः क्षेत्री खलेपु स्थितः । निप्पन्नं भवतो निवेदितवतो मे कर्मवीजैरपि क्षीणं तत्तव सेवनव्यसनिनं मामच्युताङ्गीकुरु ।। ३ ।। वतस्त्वं भुवनेघु राजा अतः कुटुम्वीभवनहं तव गृहे अवात्समुषितवानस्मि । वसते- लुभ्युत्तमकवचने रूपम् । किमर्थम् । दुष्पूरस्य जठरस्य पूरणाय । कीदृशोऽहम् । वृषलः बुध धर्म लुनातीति धर्मविमुखः । क्षेत्री शरीरवान् । खलेषु पापेषु स्थितः । क्षेत्रे निष्प. नमुपार्जितं शुभाशुभं भवतस्तव निवेदितवतो मम कर्मरूपबीजैः क्षीणं कृष्णार्पणबुद्ध्या कर्म कुर्वतः कर्मक्षयादिति भावः । 'यत्करोपि-' इति गीतोक्तः । तस्मात्तव सेवासक्तं मां हे अच्युत, अङ्गीकुरु ॥ न्यायोऽयं निरणायि नैकनिगमैर्नारायणानश्वरः कर्तारं तदुपैति कर्म कलितं यद्येन यादृग्यथा । त्यामेव स्मरतो ममेह विगतोऽनेहा महानप्यहो मच्चिन्ता निमिषार्धमेकमपि किं तत्तन्यते न त्वया ॥ ४ ॥ ।
लया कामात न तन्यत । माचन्ता विधयात भावः ।। श्रीविष्णो जगदेकजीवन घनानन्दैकदीक्षागुरो मूर्छन्मोहमहान्धकारतरणे कारुण्यरत्नाकर । ग्राहव्याहतचेष्टितद्विपविपद्विच्छेददक्ष प्रभो कस्याग्रे भवसंभवः परिभवस्त्वामन्तरेणोच्यते ॥ ५ ॥ हे श्रिया युक्त विष्णो, हे जगतामेकजीवन, हे निविडानन्दैकदीक्षायामानन्ददाने गुरो, हे मूर्च्छतां मूढानां मोह एव महान्धकारस्तस्य तरणे रवे मोहनाशक, कारुण्य- रत्नाकर दयाब्धे, ग्राहेण व्याहता चेष्टा यस्येदृशो द्विपो गजेन्द्रस्तस्य विपन्नाशे चतुर, हे प्रभो, संसारोत्थः पराभवस्त्वां विना कस्याग्ने कथ्यते ॥ सध्रीची१ःखवीचीरतिशयविषमा विक्षिपन्व्याकुलत्वं गच्छन्न च्छन्दतः स्वादधिभवजलधि त्वां मधुद्वेषणैषः । स्मर्तुं शक्नोमि वेला मयि तव तदियं देव दातुं दयार्द्र- दृष्टेरंशं प्रभूणां त्रिजगति करुणादानपात्रं यदार्तः ॥ ६ ॥ हे मधुद्वेषण मधुसूदन । 'रिपो वैरिसपत्नारिद्विषद्वेषणदुहृदः' इत्यमरः । एषोऽहं खां स्मर्तुं न शक्नोमि । किं कुर्वन् । अधिभवजलधि संसाराब्धौ अत्यन्तं विषमाः सध्रीचीः सहाञ्चनशीलाः सर्वत्र प्रसारिणीदुःखलहरीविक्षिपन्प्रेरयन् । अत एव खात् निजात् छन्दतोऽभिप्रायात् स्वाभिप्रायेण खवशेनैव वा व्याकुलत्वं गच्छन् । 'छन्दो वशेऽभिप्राये च' इति कोषः। तत्तस्मात् हे देव, तव दयादृष्टेरंशं मयि दातुमियं वेला एप समयः । 'कालसमयवेलासु तुमुन्' । यद्यस्मादा” दुखितः । त्रैलोक्ये प्रभूणां दयादानस्य पात्रम् । प्रभुभिर्दीनेषु दया कार्येति भावः ।। देव श्रीवासुदेव ध्रुवमवति तवोदारलीलाकला य- द्विश्वं शश्वन्निकारोद्यतदनुतनुजव्याकुलीभूतमेतत् । तत्रैकान्तेऽनुकम्पानिगमनिगदिता न्यायदृष्ट्या निदानं तत्त्वं विश्वोपकारबत वितर मयि प्राप्तदौःस्थ्ये हगंशम् ॥ ७ ॥ हे श्रीवासुदेव, देव दीप्यमान, तवोदारा महती या लीला तत्कला लेशोऽप्येतद्विश्वं ध्रुवमवति रक्षति । कीदृशम् । शश्वनिकारे पराभवे उद्यता ये दनुतनुजा दानवास्तै- .. वींचीभिर्विरलेतराभिरभितो रम्भेव दीव्यद्दलैः । विज्ञप्तिर्वरदायिनी त्वयि कृतापि स्यान्न चेप्राणिनां शब्दब्रह्मणि तच्छ्रमो मतिमतामाकाशकण्डूयनम् ।। ८ ॥ हे मुकुन्द देव एतन्मे हृदयमव रक्ष । कीदृशम् । विपद्वारिधेदुःखाब्धेविरलेतराभि- वनाभित्रींचीभिव्याप्तमत्यन्तदुःखितम् । तत्र दृष्टान्तः-दीव्यद्भिर्दलैः पत्रैर्यथा रम्भा कदली व्याप्ता हे नाथ, लयि कृतापि विज्ञप्तिर्यदि प्राणिनां वरदायिनी इष्टदात्री न चेत् तर्हि मतिमतां सुवुद्धीनां शब्दब्रह्मणि वेदे श्रमो नभःकण्डूयनतुल्यः। हरिसेवयैवेष्टप्राप्ति- रिति वेदार्थः । स चेन्मिथ्या तर्हि वेदोक्तकर्मणि श्रमो नमःखर्जनवन्मिथ्येत्यर्थः ।। यन्मे पातकमस्ति माधव तव ध्यानान्तरायीभव- त्तत्कि देव निवार्यते न भवता भक्तानुकम्पावता । दासे दुःसहवेदनां गतवति खामी समर्थोऽपि चे- दौदासीन्यमुरीकरोति तदहो वखामिधर्मः कुतः ।। ९ ।। हे माधव, तव ध्यानेऽन्तरायीभवद्विप्नभूतं पातकं यन्मेऽस्ति । हे देव, भक्तेषु कृपा- लुना लया तत्पातकं किं न निवार्यते । अर्थान्तरेण द्रढयति-दुःसहपीडायुक्त दासे सति दुःखनिरसनसमर्थोऽपि स्वामी चेदुदासीनतामुपेक्षां कुरुते, तर्हि खामिसेवकधर्मः कुतः । न कुतोऽपीत्यर्थः ॥ यस्मिन्नः स्मृतिमेषि मेऽखिलगुरो गोविन्द तस्मिन्क्षणे मा जीवन्निति नीतिनिर्मलमतिर्मापैतु मच्चेतसः । जन्तुर्यत्तव सेवया विरहितो जीवत्यवश्यं न त- सारं सौरभसंपदामविषयो यद्वत्सितं कौसुमम् ॥ १० ॥ हे सर्वगुरो, हे गोविन्द, यस्मिन्क्षणे त्वं स्मृति नैषि चित्तं नायासि तस्मिन्कालेऽयं जनो मा जीवनश्यतु । 'मायाकोशे' इति शतृप्रत्ययः । इत्येतादृशी नीत्या निर्मला मति- मच्चित्तान्मा गच्छतु । यस्माजन्तुस्तव सेवां विना यज्जीवति अवश्यं न तत्सारम् । तत्र दृष्टान्तः यथा कौसुमं स्मितं पुष्प विकासः सौरभसंपदां गन्धसमृद्धीनामविषयो न सा- रम् । अगन्धं पुष्पं निषिद्धमित्यर्थः ॥ माजी मालमतं गान . जान TISTA Trrr .. पश्चान्मे कैव चिन्ता तव भुवनविभो रक्षणीयस्य धर्मात् ॥ ११ ॥ हे मधुमथन, तावन्मम महन्मन्तुमत्त्वं सापराधता यावद्यत्नाद्योगाभ्यासकुशलैः क. पिलादिभिः स्मृतं तव पादाम्बुजं शरण्यानामवधिभूतं शुभानां कल्याणानामेकं स्थानं शरणं न यामि । पश्चान्मम कैव चिन्ता, न कापीत्यर्थः । कीदृशस्य मे । हे भुवनविभो, खया धर्मादक्षणीयस्य बच्छरणागतस्य । मे मम लयैव रक्षा कार्येति भावः ॥ गोभिः शोभि तवानुवादनिबिडानन्दाभिरुद्यद्वृष रामोदारचरित्रचारु दलितारिष्टं प्रभूतद्युति । त्यक्तत्रासमघादपि प्रबलतस्त्वत्पादपद्माश्रयं त्याज्यं गोकुलवद्गदाग्रज कदाप्येतनमे तन्मनः ॥ १२ ॥ हे गदाग्रज, मम मनो गोकुलवत्कदापि बया न त्याज्यम् । कीदृशं गोकुलं मनश्च । तवानुवादेन निविड आनन्दो यासां ताशीभिर्गोभिर्धेनुभिरिन्द्रियैश्च शोभि राजितम् । उद्यन् वृषोऽसुरो धर्मश्च यत्र । रामस्योदारचरितेन चारु, रामाणां स्त्रीणां चरित्रेण चारु । दलितोऽरिष्टो वृषभासुरो विघ्नश्च यस्मात् । प्रकृष्टकान्तीति समानम् । प्रबलादघासुरात्पा- पाच त्यक्तत्रासं निर्भयम् । 'दुःखैनोव्यसनेश्वघम्' इत्यमरः। तव चरणपद्ममाश्रयो यस्येति समानम् ॥ संप्राप्तं भुवनत्रयेऽपि सुयशः सोमावदानं मया लब्ध्वानेकसुखानुभूतिसुभगा सुत्रामलक्ष्मीरपि । मन्ये तीर्णमशेषदुःखविषमं संसारवारांनिधि यद्यायाति दशास्यशात्रव तव ध्यानामृतं मे हृदि ॥ १३ ॥ हे दशास्य शात्रव रावणारे, तव ध्यानलक्षणममृतं यदि मम चित्ते आयाति, तदा मया त्रैलोक्ये चन्द्रनिर्मलं यशः प्राप्तं नानासुखानुभवेन सुभगेन्द्रलक्ष्मीरपि प्राप्ता । 'सुत्रामा गोत्रभिद्वञी' इत्यमरः । नानादुःखैर्विषमं संसारसमुद्रं तीर्णं मन्ये ॥ चेतो मे चरितार्थयाच्युत चिरं त्वद्ध्यानबुद्ध्यान्वितं रूपेण प्रकटीभवन्नवभिदाभक्तिप्रतीतात्मनाम् । येन त्वं बहुलाकुलं बहुलया वृष्ट्याकुलं गोकुले
भक्तिशब्दस्य प्रियादिवाद्भिदाशब्दस्य पुंवद्भावाभावः । तया प्रतीतस्तुष्ट आत्मा चित्तं
येषां तेषां प्रकटीभवन् । येन हेतुना त्वं । किलेति प्रसिद्धौ । गोकुले बहुलया धनया
वृष्टया व्याकुलं बहुलाकुलं गोकुलं रक्षिष्यन् रक्षितुम् । तुमर्थे लद । गोवर्धनं गिरि
लीलया विभरांबभूविथ धृतवानसि । 'बहुलः कृष्णपक्षेऽनौ शितौ च बहुला गवि' ।
कारुण्यामृतपूरिताक्षियुगलव्यालोलनैकद्युति-
स्पर्शोद्देशदलदुरन्तदुरितं दामोदरैनं तव ।
तावत्पाहि कृपाहितैकनिलय त्वत्पादपद्मस्मृते-
रन्तर्यामिणि यामि निर्मलतया त्वय्येव यावल्लयम् ॥ १५ ॥
हे कृपाहितैकनिलय दयाहितयोरेकाश्रयभूत, हे दामोदर, तवाजिस्मरणान्निर्मलत्वे.
नान्तर्यामिणि खयि यावदहं लयं यामि लीनो भवामि तावदेनं मां त्वं पाहि रक्ष ।
कीदृशं माम् । तव कारुण्यामृतेन पूरितं यन्नेत्रयुग्मं तस्य व्यालोलाः प्रसरन्त्यो या नैका-
तयो विविधकान्तयस्तासां स्पर्मोद्देशेन स्पर्शलेशेनैव दलदुरन्तं दुःसहं दुरितं पापं यस्य तम् ।।
ये लक्ष्मीपतिपादपङ्कजमिलन्मन्दाकिनीमजनो-
द्दामानन्दभरेण भान्ति भविनां ते वासराः सार्थकाः ।
सद्यःपण्डकखण्डिताधरवधूवैक्लव्यवद्ब्रह्मवि-
कर्मन्दिक्रियमाणकर्मवदहो शेष जनुर्नार्थवत् ॥ १६ ॥
हरिपादपद्मे मिलन्ती या गङ्गा तत्र मज्जनेन हरिपादस्मरणेनोद्दामो बहुलो य आन-
न्दभरः मुखौघस्तेनोपलक्षिता दिवसा ये प्राणिनां यान्ति ते सार्थकाः। शेषं हरिपदस्मृ-
तिहीनं जन्म नार्थवनिरर्थकम् । तत्र दृष्टान्तः-सद्यः पण्डकेन नपुंसकेन खण्डित ओप्टो
यस्या ईदया वध्वा वैक्लव्यं दुःखं तद्वत् । तद्यथा निरर्थकम् । किं च ब्रह्मविदा कर्म-
न्दिना तापसेन क्रियमाणं यत्कर्म तद्वत् । 'कर्मन्दी तापसो यतिः' । 'तदधिगम उत्तर-
पूर्वाधयोरश्लेषविनाशो-' (४।१।१३) इति व्याससूत्रात् ॥
श्रीमचूतकुणेऽतिसौरभचणे कीरः कुलस्त्री धव-
ध्याने मञ्जुसरोजराजिषु यथा पुष्पंधयश्रेणयः ।
वातान्दोलितवारिवाहविगलद्वारीव सारङ्गव-
लक्ष्मीलालनलोल लालसमिदं त्वत्सेवने मेऽस्तु त ॥१५॥
कर्णादिभ्यः कुणब्जाहचौ' इति कुणपूप्रत्ययः । यथा भर्तुयाने कुलनारी लोला । यथा च मनोहरपद्मश्रेणीपु भ्रमरपतयः । यथा वातेन कम्पितो यो मेघस्तस्माद्विगलति वारिणि जले सारङ्गश्चातक इव । एतेषां तेश्विव मे त्वयि प्रेमास्त्विति भावः ।। साक्षाद्यस्य मनोमयी तव भवेदर्चा स संत्यज्यते संसाराभिधया भयंकररुजा तैस्तैः सपर्यामृतैः । स्नातं सर्वसुखावहैर्मुनिवराः कल्याणगीर्भिः सुराः कल्पद्रुप्रसवैः प्रभूतमहसं संपूजयन्ति प्रभो ॥ १८ ॥ हे प्रभो, यस्य पुंसः साक्षान्मनोमयी भवदर्चा भवेत् मानसी तव पूजा प्रतिमाच्यानं वा भवेत् स पुमान् संसाररोगेण भयंकरेण त्यज्यते । सुखावहैः पूजामृतैः स्नातं तं मु- निवराः शुभवाणीभिः 'चिरं जीव' इत्यादिभिरर्चन्ति । सुराः कल्पवृक्षपुष्पैश्च । कीदृशं तम् । प्रभूतमहसं बहुलतेजसम् ॥ सेवा ते वासुदेवानिशमशनिरसौ प्रौढपापाचलानां चिन्तारलं च साक्षाजगति जनमनःकामनापूरणाय । स्फूर्जदुःखौघवीची विषमतमभवाम्भोधिपारावनीयं तद्ब्रह्माद्वैततेजोमृतमयमनयैवाप्ययोगादवाप्यम् ॥ १९ ॥ हे वासुदेव, तव सततं सेवा प्रौढा ये पापपर्वतास्तेषामशनिः । वज्रप्राया नाशिके. त्यर्थः । जनमनसामिच्छापूरणाय सच्चिन्तामणितुल्या इष्टप्रदा । स्फूर्जन्त्यो या दुःखोर्म- यस्तैर्विषमतमो यः संसाराब्धिस्तस्य पारावनी परपारतीरभूमिः । संसारतारिकेत्यर्थः । तत्तस्मादयोगादपि योगाभ्यास विनापि अमृतमयं ब्रह्माद्वैतं तेज आत्मसाक्षात्काररूपं मयानया सेवयैवावाप्यं प्राप्यम् ॥ विष्णो कामितकामितानि ददते लोकत्रये देवता सा चेदस्ति तदा तदर्पितहृतौ कालः किमालस्यकृत् । त्वद्भक्त्या फलितं तु कालकलितं न क्षीयते जन्मिना- मिष्टं माति मनोरथस्य महिमोद्रेकान्न मार्गेऽपि च ॥ २० ॥ हे विष्णो, त्रैलोक्ये का देवता अमितकामितानि बहूनीष्टानि ददते । 'दद दाने' ।
। मा निमातु कदाचिदव करुणाकल्लालिनाकामुक ।। २१ हे रमापते, हे करुणाकल्लोलिनीकामुक, कल्लोला ऊर्मयो यासु ताः कल्लोलिन्यो नद्य- स्तासां कामुको भर्ता समुद्रः हे दयासमुद्र, तत्तस्मान्नोऽस्माकं मनः कदाचिदपि खत्पाद- पद्मशरणादन्यामिच्छां मा करोतु । यतः प्राणिनां कृतान्तपत्तनं यमनगरं किमु अनभ्यर्ण दूरम् । अपि तु निकटमेव । तथापि लोभादिभिर्यावजीवं पीडितचित्ता जनास्तिष्ठन्ति ।। विष्वक्सेन किमेनमेनसि कृताशंसं नृशंसं जनं कृत्वा कालमुखे क्षिपस्युपदिशन्कर्मानुरूपां मयि । बुद्धिं विष्टपकष्टभञ्जन जनुर्जीवातुरेको नृणां कारुण्यामृतवारिधिस्त्वमुचितं किं तत्तवापीदृशम् ॥ २२ ॥ हे विष्वक्सेन व्यापकसैन्य, हे विष्टपकष्टभञ्जन लोकदुःखनिवर्तक, जनुषि जन्मनि जीवातुजीवनौषधभूतो दयामृतसमुद्रस्त्वं कर्मानुरूपामपि बुद्धिमुपदिशन्नेनसि कृताशंसं पापे कृताभिलापं अत एव नृशंसं क्रूरमेनं जनं कृत्वा कालवदने किं क्षिपसि तवापि ईदृशं प्राणिनां नरकपातादिदुःखदानं किमुचितम् । अनुचितमित्यर्थः । भेदाभावतया भवेदिह भवद्भक्तिन विष्णो मया मायासंतमसावसानकलितब्रह्मप्रकाशश्रिया । भेदस्तु भ्रममातनोति परमं तत्त्वं किमित्याशया तत्ते भक्तिसुधातरङ्गततये चेतः करोति स्पृहाम् ॥ २३ ॥ मायैव संतमसं गाढान्धकारं तस्यावसाने नाशे कलिता प्राप्ता ब्रह्मप्रकाशश्रीः परमा- नन्दसाक्षात्कारो येनेदृशेन मया भेदाभावत्वेन हे विष्णो, तव भक्तिर्न भवेत् । भेदतु परमं तत्त्वं किमिति चित्ते भ्रमं विस्तारयति । तत्तस्मात्ते तव भक्तिलक्षणामृतोर्मिपत चित्तमिच्छां करोति ॥ दत्त्वा चन्दनमात्रमत्रभवते भावान्विता भामिनी भूत्वा भाग्यवती व्यतीत्य विबुधानुच्रगात्कुलिका । मालाकारमनस्तुतोष न कया पुष्पप्रदानाच्छूिया भक्तिः स्वल्पतरापि ते वितनुते कामं न कं श्रीपते ॥ २४ ॥ अत्रभवते पूज्याय तुभ्यं कुब्जा भामिनी भावान्विता श्रद्धायक्ता सती चन्दनमानं मनोऽपि कया समृद्ध्या न तुतोष । अपि तु सर्वसमृद्ध्या तुष्टमभूत् । हे श्रीपते, खल्प- तरापि ते भक्तिः कं कामं न तनुते । सर्वेष्टमपि प्रयच्छतीत्यर्थः ॥ दत्तं पूतनया दयार्णव तव द्वेषं दधत्या विषं निःशेषं तदपि व्युदस्य सदसद्याता परं त्वत्पदम् । तस्यानौपयिकं मुकुन्द तव किं देयं यदङ्गिस्थिता त्रिस्रोतास्तरसा रसादपि कृतं कर्म क्षिणोति क्षणम् ॥ २५ ॥ हे दयासमुद्र, द्वेषं धारयन्या पूतनया तब विष दत्तं तदपि सर्व सदसच्छुभाशुभं व्युदस्य त्यक्त्वा त्वत्पदं ब्रह्मपदं प्राप्ता । हे मुकुन्द, तस्य तव किं देयं दातव्यम् । अनौ- पयिकमनुपयोगि सर्व देयम् । तवोपयोगीत्यर्थः । यत्पादस्थिता गङ्गा स्नेहादपि कृतं तरसा बलेन क्षणात्तत्क्षणं क्षिणोति नाशयति ॥ केशी केशव लेशमप्युपकृतेः कस्यापि नैव व्यधा- द्वेधा निष्ठुरकर्मकर्मठतमं चक्रे यमन्धं गदात् । यत्त्वं तं विरजीचकर्थ हृदयग्रन्थि मृदित्वात्मनो हस्तेनान्तरगेन तस्य वपुषः खान्तं दयाद्रं तव ॥ २६ ॥ हे केशव, केशी दैत्यः कस्याप्युपकारस्य लेशमपि नैवाकृत । ब्रह्मा मदान्धं यं निष्ट- रकर्मसु अतिकर्मठं प्रवीणतमं चके । कर्मणे घटते, 'कर्मणि घटोऽठचू' । आत्मनः स्वस्य हस्तेन तत्तच्छरीरान्तर्गतेन हृदयग्रन्थिमहंकारमज्ञानं मृदिला विनाश्य यस्मात्त्वं केशिनं विरजीचकर्थ रजोहीनं कृतवान् । तस्मात्तव स्वान्तं चिन्तं दयाम् । पापिनोऽप्यु- पकारादिति भावः ।। दृष्ट्वा कालियनागदूषितपयःपानेन पन्नं यमी- तीरे तर्णकपालवालककुलं कस्योपकारस्त्वया । क्लुप्तो नेह दयायाच्युत धिया यद्वैनतेयादभू- द्भोगी भग्नभयो धुनी गततरा रम्याश्च दम्यादयः ॥ २७ ॥ हे अच्युत, तर्णका वत्साः पाला बालका गोपकुमारास्तत्समूहं कालियनागेन दूषितं विषप्रायं कृतं यत्पयो जलं तत्पानेन यमनातीरे पन्नं मतं दृष्टया करुणाईया दृष्ट्या खया व्योदायाजगरः परश्शतपशूनभैः समं जनर्स । त्वं तस्यापि तदात्तजीवनविधिव्याजेन विष्णो व्यधाः सद्यः संसृतिपाशनाशनमतस्त्वामीशमाशास्महे ॥ २८ ॥ अजगरोऽघासुरः स्थूलेन वपुपा प्रथमं मार्गमाच्छाद्य पुनर्मुखं व्यादाय विशालं कृत्ला अभै लैः सह परश्शताञ्शताधिकान्पशूञ्जग्रसे । तेनात्ता भक्षिता गोपादयस्तेषां जीवन- विधिमिषेण तस्याप्यघासुरस्य सद्यः संसारपाशनाशं हे विष्णो, त्वं कृतवान् । अतो हेतो- रीशं संसारपाशनाशनक्षम खां वयमाशास्महे वाञ्छामः ॥ देव श्रीवर पीवरः कवलयंस्तत्त्वार्थबुद्ध्यङ्कुरा- हृत्कासारदयापथः कलुषयन्मोहो भवत्यप्ययम् । अन्तर्यामिणि साभ्यसूयहृदयं धत्ते महाकासरः तत्किं तेन महाहवः सुमनसां संतुष्टये नेप्यते ॥ २९ ॥ हे देव, हे श्रीपते, पीवरः स्थूलो मोह एव महाकासरो महामहिषः । 'कासरो म. हिषः स्मृतः'। अन्तर्यामिणि भवति त्वय्यपि असूयामहि चितं धत्ते । किं कुर्वन् । तत्त्वार्थ- बुद्ध्यङ्कुरान तत्त्वज्ञानलेशान् कवलयन्ग्रसमानः । तथा हृदयमेव कासारः सरस्तस्य दयारूपं जलं कलुषं कुर्वन् । 'कासारः सरसी सरः' । तत्तस्मात्तेन मोहेन महाद्धं सुम- नसां साधूनां संतोषाय किं नेष्यते ॥ विश्वाधार हरेऽहरेकमपि मे हृवृत्तिरप्युद्धस- त्वयानोद्भुरदुग्धसिन्धुलहरीलीलामरालीयताम् । येनाहाय समस्तजन्म सफलं संजायतेऽहा यथा वणेनादिभवेन देव सफला वैयञ्जनीयं जनिः ॥ ३० ॥ हे विश्वस्याधार, हे हरे, मम चित्तवृत्तिरेकदिनमपि उत्फुल्लं विकसच्छ्रेष्ठं यत्तव ध्यानं स एवो रो महान्दुग्धसागरस्तस्य लहरीषु लीलाहंसवदाचरतु । येन हरिध्यानाब्धिह- सत्वेन अहा एकदिनेन सकलजन्म सफलं जायते । तत्र दृष्टान्तः यथादिभवेन वर्णे. नाकारेण सर्वा व्यञ्जनाया इयं वैयजनी जनिः कादिव्यञ्जनसृष्टिः सफला जायते तेन विनोचारयितुमशक्तेः ॥ श्रीदामोदर सीदतामपि सतां त्वत्तः परं याचितुं चेतो नेच्छति वेदगोरसलसदैयंगवीनात्मनः ।
दृशात्त्वत्तः । वेद एवं गोरसो दधि तस्य लसद्य यंगवीन नवनीतमुपनिषद्वेदानों सार-
लात् स एवात्मा स्वरूपं यस्य । उपनिषत्प्रतिपाद्यस्येत्यर्थः । तत्र दृष्टान्तमाह-कल्प-
वृक्षमूले निर्मलरत्ननिर्मितं यद्वेदीतलं तत्त्यक्त्वापायानां विघ्नानामास्पदभूतां नदीतीरवृक्ष-
च्छायां को वाञ्छति ॥
देव श्रीवत्सलक्ष्मन्नव कवलयतः कालहस्ताद्विहस्ता-
नेतानेकोऽपि लोको निधिरधिकतरश्रीरनुक्रोशवाराम् ।
या दैन्यं दुःखभाजां शमयति न दया किं तया साध्यमन्य-
तन्नः किं न प्रपन्नानपि विनयवृतो वीक्षसेऽपि क्षणार्धम् ॥३२॥
हे देव, हे श्रीवत्सलाञ्छन, कवलयतो ग्रासं कुर्वतः कालहस्ताद्यमकराब्याकुलानेता-
नस्मांस्त्वमव रक्ष । यतोऽधिकशोभायुक्तोऽनुक्रोशवारां दयोदकानां निधि के लमसि ।
अर्थान्तरमाह-या दया दुःखिनां दीनत्वं न नाशयति तया दययान्यत्किं साध्यमस्ति ।
तत्तस्मात्प्रपन्नाशरणागतान्विनययुक्तानोऽस्मान्क्षणार्धमपि किं न पश्यसि ।।
लक्ष्मीजाने न जाने प्रतिजनिजनितानल्पसंकल्पसूत्रै
रारब्धे मोहजाले नवनिबिडरुचिग्रन्थिगुप्तात्मकत्वात् ।
ध्यानं धर्मेषु धुर्यं धुतदुरितमथो पादयोरर्चनं ते
चारित्रं चातिचित्रं कलयितुमपि तद्रक्ष कारुण्यवत्त्वात् ॥३३॥
हे लक्ष्मीपते, धर्मेषु धुर्य मुख्यं धुतदुरितं निवर्तितपापं ध्यानं तब पादयोः पूजनम्,
अतिचित्रं चारित्रं च कलयितुं मनसि धर्तुं न जाने न वेद्मि दयावत्त्वात्ततो रक्ष । ध्याना.
द्यज्ञाने हेतुमाह-प्रतिजन्म नानावतारेषु जनिता ये अनल्पा बहुलाः संकल्पास्त एव
सूत्राणि तैः कृते मोहजाले संसारे नवा प्रत्यहं नूतना या निविडा घना रुचिः प्रीतिः
सैव ग्रन्थिस्तत्र गुप्तोऽनुस्यूत आत्मा चित्तं यस्य तस्य भावस्तत्त्वं तस्मात् संसारासक्तला.
ध्यानाद्यज्ञानमिति भावः ॥
मायामेया ममेयं तव नयनतिरोधानभूतास्ति विष्णो
न त्वां पश्यामि तस्मादपि हृदयसरोजन्मरोलम्बमेकम् ।
संसारव्याधिवैद्यो यदसि तु तदियप्रार्थये खात्मदाना-
द्वीक्षे त्वत्तादमात्रं कुरु किमपि तथा सिद्धभैवज्यदानात् ॥ ३४॥
देव श्रीरामचन्द्र द्रुतममृतवतः कुर्वतः कायभाजो व्याजव्याहारतोऽपि व्यसनशतहतखीयमार्गानुरोधात् । त्वन्नाम्नः शक्यते कैस्त्रिजगति महिमा वक्तुमप्युक्ततत्त्वै- स्तन्नाम त्वत्प्रसादान्मम रसनकृतावासमभ्यासतः स्तात् ॥३५॥ हे देव श्रीरामभद्र, त्रैलोक्ये बन्नाम्रो महिमा उक्ततत्त्वैस्तत्त्वज्ञैरपि कैर्वक्तुं शक्यते । न कैरपीत्यर्थः । कीदृशस्य बन्नाम्नः । व्यसनशतेन परदारासक्त्यादिना हतो नष्टः स्वीय- मार्गस्य खाचारानुष्ठानस्यानुरोधोऽनुवृत्तिर्येषां तानाचारवहिर्मुखानपि कायभाजः प्राणिनो व्याजव्याहारतः सांकेल्यादिमिषेणोच्चारणादप्यमृतवतो मोक्षभाजः कुर्वतः । तस्मात्त्वत्त- सादात्तव नामाभ्यासवशान्मम जिह्वायां कृतवासं स्तात् भवतु । अस्तेरतातादेशे रूपम् । 'सांकेत्यं पारिहास्यं वा स्तोमं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहर विदुः ॥' इति शुकोक्तः ॥ गुणग्रामं वक्तुं तव न वयमुद्दाममतयो दयोदवनस्वाखपि तदपि कोणं दिश दृशः । यतो लब्धे बोधे तब चरितपीयूषजलधौ मरालानां स्यामाच्युत कतरसंज्ञाभृत इमे ॥ ३६॥ हे दयोदन्वन् दयासमुद्र, वयं तव गुणौधं वक्तुं नोद्यतबुद्धयः, तथाप्यस्मासु नेत्रस्य कोणे कटाक्षं दिश देहि । यतो दृग्दानाज्ज्ञाने प्राप्ते सति हे अच्युत, तव चरित्रामृताब्धौ ये मराला हंसभूता ज्ञानिनस्तन्मध्ये कतरसंज्ञाभृतः किंचिन्नामधारका इमे वयं स्याम लद्दासमध्ये गण्यामहे । शिखरिणी वृत्तम् ॥ श्रीरामस्य नमस्यमस्यदशुभान्यनिद्वयं तद्वयं चित्तं चित्तमपेतपातकभरा भूरादिलोके कदा । द्रक्ष्यामोऽखिलमेव जन्तुमतुलश्रीकं तुलस्युत्तर- सम्भाजं गरुडध्वजं परिलसत्पीताम्बरं शाङ्गिणम् ॥ ३७॥ अशुभानि पापान्यस्यन्निराकुर्वत् नमस्थं नमनीयं श्रीरामस्य पादद्वयं चित्तं चित्तं वि. चिन्य विचिन्त्यापेतपातकभरा निष्पाताः सन्तत्रैलोक्ये सर्वजन्तुमीदृशं वयं कदा । नालस्यं तरसा त्यजामि शिरसा नन्तुं त्वदघिद्वयम् । लग्नं यत्र मनो मनोहरतरास्ताराधिपास्याः स्त्रियो- ऽपास्य वर्गसहामुदारमयते मायाविहीनं महः ॥ ३८ ॥ हे देव श्रीनृहरे, ममाज्ञानं संहर नाशय । येनाज्ञानेनाघ्रातं ग्रस्तं हृद्यस्याज्ञानग्रस्तोऽहं शिरसा तव पादद्वयं नमस्कर्तुमालस्यं तरसा बलेनापि न लजामि । यत्र पदद्वये लग्न मनो मायातीतमुदारं महो ब्रह्मस्वरूपमयते प्राप्नोति । किं कृत्वा । अतिमुन्दरीचन्द्रमुखी. देवानां स्त्रियोऽसरसोऽपास्य त्यका ॥ यत्कारुण्यकटाक्षलेशवशतो लब्धा दिवः स्वामिता यस्याज्ञामपहन्तुमन्तकशिरश्छेत्तापि नालं मृडः । संपत्तिक्षमया सदैव रमया यहास्यमभ्यस्यते भक्ते सीदति यः प्रसीदति विभुः सेव्यः स एवाच्युतः ॥३९॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां विष्णुविज्ञप्तिनाम पठः स्तवकः । स एवाच्युतः सेव्यो नान्यः । यत्कृपाकटाक्षलेशवशादिवः स्वामिता वगैश्वयमि. न्द्रत्वं लभ्यम् । यमशिरसश्छेत्ता मृडः शिवोऽपि यस्याज्ञां हातुं न समर्थः । संपत्तिदाच्या लक्ष्म्या यहास्यमेवाभ्यस्यते । भक्ते सीदति यो हरिः प्रसनो मवति । एतादृशो हरिः सेव्यो नान्यः ॥ इति महीधरविरचिते विष्णुभक्तिकल्पलताविवरणे विष्णुविज्ञप्ति म पष्ठः स्तवकः । सप्तमः स्तबकः । संसारं तिरस्कर्तु मङ्गलं करोति- केयं कौस्तुभकान्तिपूरलहरीलीलाविहारातुला- नन्दा नन्दति नन्दनन्दन घनश्यामे त्वदीयोरसि । हृद्येवासि ममेति मां यदवदस्तत्केत्यसूयाकुलां छाया सुभ्र तवेयमित्यवतु वः श्लिप्यन्मुरारिः श्रियम् ॥ १ ॥ कौस्तुभकान्तिपूरलहरीषु लीलाविहारेऽतुलो निविड आनन्दो यग्या ईदृशी मेघाभे खदुरसि हे नन्दसूनो का नन्दति । 'त्वं मम हृदय एवात्ति' इति यदुक्तवान् , तर्हि 'इयं का' इत्यसूयाव्याप्तां लक्ष्मी प्रति 'हे सुश्रु तवायं प्रतिविम्बः' इत्युक्लालिङ्गनं कुर्वन् ये गोविन्दपदारविन्दविमुखाः संभाषणं तैने तु ॥ २ ॥ वरमेतानि कार्याणि, परं हरिपदविमुखैः सह संभाषणं न तु तानि कानि कार्याणी- त्याह-स्त्रीषु विश्वासः, मन्दबुद्धिभिर्नरैमैत्री, मिथ्यावचनम् , हरिहरयोर्भेदः, दयाहीना क्रिया निर्दयं कर्म, हालहलं विषमत्तं भक्षितम् , कलङ्कार्पणमन्यस्य, उत्तमैः सार्ध कलहः । एतेभ्योऽपि हरिविमुखसंभाषणमधर्ममित्यर्थः ॥ या वेला याति जन्तोगति जलधरश्याम लोकाभिराम श्रीराम ध्यानपूजाप्रणतिनुतिमहामङ्गलश्रीभिरिभ्या । आयुः सा सर्वकामैरभिमतमतुलं वर्गसौख्यं च सैव ब्रह्म त्वं सा तदन्या मृतिनरकततिप्राप्तिगर्भार्तिहेतुः ॥ ३ ॥ हे मेघश्याम, लोकानन्दकर श्रीराम, सा ध्यानपूजानतिस्तुतिरूपमहामङ्गलशोभाभि- रिभ्या आढ्या या वेला जन्तोर्याति । 'इभ्य आढ्यो धनी खामी' इत्यमरः । सैवायुर्जी- वनम् , सर्वाभीष्टयुतं वर्गसुखमपि सैव वेला, ब्रह्मत्वं सैव, तदन्या हरिध्यानादिशून्या वेला मरणनरकश्रेणीपातगर्भदुःखानां हेतुः कारणम् ।। श्रीरामाय नमो नमो नम इति व्याहृत्य हत्यायुता- न्मुच्यन्ते मनुजा न जातु जठरं मातुर्विशन्ति क्वचित् । मन्त्रोऽयं मधुराक्षरः स्फुरतु मे जिह्वाञ्चले निश्चलो येनामी निगडा गलन्ति सहसा संसारसंबन्धिनः ॥ ४ ॥ मनुष्याः 'श्रीरामाय नमः' इत्युच्चार्य ब्रह्महत्यादिपापौघान्मुच्यन्ते, जननीजठरं च कदाचिन्न विशन्ति । मधुरवर्णोऽयं मन्त्रो मे जिह्वाञ्चले स्थितः स्फुरतु । येन मन्त्रणामी सशृङ्खलाः सहसा गलन्ति निवर्तन्ते ॥ सानन्दं सुन्दरीभिः समममरपुरोपान्तकान्तारवेल्ल- न्मल्लीवल्लीमतल्लीप्रचुरपरिमलप्रीयमाणालिवृन्दैः । उद्गीतस्फीतशीतद्युतिसदृशयशा यच्चिरं भाति यज्ञैः कैतत्वानन्तसेवाफलमहह कुतः कल्पवृक्षः क तालः ॥ ५॥ एतादृशो नरो यज्ञैरश्वमेधादिभिः कृत्वा सुन्दरीभिः सार्ध सानन्दं यचिरं शोभते एतत्व । हरिसेवाफलं मोक्षाख्यं क्व । द्वौ महदन्तरे । मोक्षापेक्षया वर्गफलं तुच्छमि- चन्द्रसदृशं यशो यस्येतादृशः सन् । दृष्टान्तमाह-पारिजातः कल्पवृक्षः । कुतः । तालश्च क । यथा पारिजाततालयोरन्तरम् , तादृशं मोक्षस्वर्गयोरित्यर्थः ॥ जन्तो दीन भवाध्वनीन बहुना भारेण किं कर्मणां खिन्नः किं न करोषि कर्णकुहरे किंचिद्वरेण्यं वचः । विश्रामं कुरु रामचन्द्रचरणच्छायाखनायासतो यत्रत्या भविनो विनोदवशतो विन्दन्ति वाञ्छाधिकम् ॥ ६ ॥ हे भवाध्वनीन । अध्वनि गच्छतीति 'अध्वनो यत्खौ' इति खः । हे संसारपान्थ । हे दीनजन्तो, कर्मणां नित्यनैमित्तिककाम्यानां भारेण किं खिन्नः श्रान्तोऽसि । किं. चिच्छेष्ठं वचनं कर्णविवरे किं न करोषि। किं वच इलाह-हरिपदच्छाया विश्रान्ति कुरु । यत्रत्या हरिचरणस्था जन्तवो विनोदवशेनैवायासं विना वाञ्छाधिकं लभन्ते ।। हर्ष चेत्कुरुषे सखे तदविता विष्णुर्ममेति ध्रुवं कुर्वीथा यदि रोपमेष तदरिः संसार एकम्तव । लोभश्चेतसि चेत्तदर्पय धनं सत्पात्रभूते द्विजे- ऽहंकारस्तु तवायमेव घटते यत्सर्वमेवाम्म्यहम् ॥ ७ ॥ कामादयो यद्यपि निषिद्धाः, तथापि तव कर्तव्याश्चेत् , तर्हि तेषां करणे स्थान- माह-हे सखे, चेद्धर्ष कामं कुरुषे तर्हि ‘हरिर्मम रक्षिता' इति कामं कुरु । यदि रोषं कुरुषे चेत्, तर्हि एक एष संसारस्तवारिः, तत्रैव कार्यः । तव चित्ते लोभश्चेत् , तर्हि सत्पात्रभूते विद्याचारयुते विप्रे धनं देहि । तवाहंकारस्वयमेव घटते यत्सर्व- महमेवास्मि । 'सर्व खल्विदं ब्रह्म' इति श्रुतेः ।। ये वर्णा व्यवहारमार्गविविधव्यापारवन्तः सदा किं तैः संसृतिजालविस्तृतिकृते तन्तुत्वमभ्यागतैः । जिह्वे जल्प निरन्तरं भगवते नारायणायों नमो याताः पातकिनोऽपि यैः परपदं यत्तद्गुणागोचरम् ॥ ८ ॥ संसारमार्गे नानाव्यवहारोपयोगीनि यान्यक्षराणि संसाररूपजालस्य विस्तारार्थ तन्तुत्वं प्राप्तैस्तैरक्षरैस्तव किम् । मिथ्यावर्णोच्चारो न कार्य इति भावः । है जिह्वे, नित्यं 'ॐ नमो भगवते नारायणाय' इति वर्णानित्यं वद । यैर्नारायणनामवणः TETYT . स्तावन्नारायणस्य श्रय सुरसरितासेवितं पादपद्मम् ॥ ९॥ अहहेत्यद्भुते । हे जीव, देवस्य प्राकर्मण एकोऽत्यन्तं वश्यो वशवी । अयं ते तव कायो देहो यावत्पञ्चत्वं मृति नाप्नोति, तावद्गङ्गया सेवितं हरेः पादकमलं लमा- श्रय सेवख । देहस्य पञ्चत्वं कुतः, तत्र हेतुमाह-संसार एव दावाग्निस्तस्याधि- कसामर्थ्यादुत्तालाश्चञ्चला याः कीला ज्वालाः । 'वर्द्वयोज्वीलकीलावर्हेितिः शिखा स्त्रियाम्' इत्यमरः । तासां करालो भयंकरो यः प्राग्भार उच्चैस्तरता तेन स्फारो बहुलो यस्तापस्तस्मादतनुतराश्चातिमहत्यो भवन्त्यो या वेदनास्ता एव भेदनास्ताभिः । संसारतापर्यावन्न नियत इत्यर्थः ।। गोबिन्दध्यानलीलालहरिपरिहृतानेकदुर्वारदोषाः सन्तः स्वैरं चरन्तस्तृणमिव गणयन्त्येवमुच्चैर्भवाब्धिम् । खामी वागःसमर्थो विमलतमधियाराधितः साधकाना- मम्भोधि वा हनूमाननुनयवचनं जानकीवात्मशत्रोः ॥ १० ॥ हरेानरूपा या लीलास्तासां लहरिभिर्नाशिता अनेके दुर्वारा दोषाः कामक्रोधा- दयो येषामीदृशाः सन्तो विश्वामित्रादयः खैरं चरन्तः स्वेच्छाचरणशीला अयाज्यया- जनवेश्यागमनादि कुर्वन्तोऽपि संसारसमुद्रमुच्चैस्तृणमिव गणयन्ति मन्यन्ते । तत्र दृष्टान्तमाह-समर्थः स्वामी निष्कपटवुद्ध्या सेवितो भक्तानामागोऽपराधं यथा न गणयति । यथा हनूमान्समुद्रं नागणयत् । सीताशुद्ध्यर्थ गतः । सीता रावणस्य विनयवचनं यथा नागणयत् । तथा सतां संसार इत्यर्थः ।। लब्ध्वा पार्वणचन्द्रचारुचतुरं कंदर्पकाण्डाकुल: कामिन्या वदनं करिष्यसि घनं मन्ये चिरं कूर्दनम् । ख्यातिं क्षोणितले गमिप्यसि पुनः प्राप्याखिलं कासितं कालो न स्मृतिमेति किं कवलयन्नुत्तालजिहो जगत् ॥ ११ ॥ हे जन्तो, पूर्णेन्दुरम्यं नार्या मुखं प्राप्य कामबाणातुरो निबिडं कूर्दनं खेलनं करिष्यसि निखिल मिष्टं पुनः प्राप्य लोके कीर्ति च प्राप्स्यसीति अहं मन्ये । परं चञ्चलरसनो जगत् कवलयन्ग्रसमानः कालः किं तव स्मरणं नायाति । संसारसौख्येऽपि मरणमावस्यकमिति भावः ।।
मौक्तिकहारोऽपि पीनौ यो स्तनकुम्भी तयोरुल्लसच्छोभमानं स्वाझं स्वस्वरूपं यस्य
तस्य भावान मुक्तः। तत्र शोभत एव । अयं च श्लेषः-मुक्त आहारो येनेदृश-
स्त्यक्तानोऽपि न सङ्गमुक्तः । कर्णस्यालंकारः कर्णिका । 'कर्णललाटात्कनलंकारे'
इति कन्प्रत्ययः । कर्णगता कर्णिका वहेमध्ये । 'पारे मध्ये षष्ट्या वा' इति समासः ।
अग्निमध्ये प्रविश्यापि विभ्रमाय विलासाय भवति । वनिवेशेऽपि भ्रमो न गतः ।
चरणस्थे अपि नूपुरे पतनभयाच्छब्दं कुरुतः। पदस्थस्यापि पातभयमस्त्येव तत्त.
स्माद्देहिनां नारीसङ्गः कियदुःखं न ददाति । सर्वामुखहेतवो नार्य इति भावः ।।
को बिन्दुं मृगतृष्णिकासु पयसः प्रामोति यत्नाजनः
कोवाभीषुभिरानमय्य शशिनं पीयूषमाखादयेत् ।
संसारे सुखमेति कः सिकतया निप्पन्नपात्रोपमे
जाड्यं जीव जहीहि याहि शरणं श्रीकान्तमेकान्ततः ॥ १३ ॥
को जनो मृगतृष्णायां यत्नादपि जलकणमाप्नोति । को वा किरणश्चन्द्रं नमयिखा.
मृतं पिवति । सिकताकृतपात्रतुल्ये संसारे को वा सुखमाप्नोति । एतत्रयं दुर्लभ-
मित्यर्थः । हे जीव जन्तो, जाज्यं मूर्खत्वं त्यज । सततं हरिं शरणं गच्छ ।।
कायः कष्टनिकाय एष नरकद्वारं पुरंध्रीजनो
बन्धुः स्वार्थपरो नृपस्य पदवी कारुण्यलेशोज्झिाता।
वित्तं विद्युदिवास्थिरं विवदिषा वेदे वितण्डावती
तत्संसारसमुद्रसारमितरत्किं कृष्णसेवामृतात् ॥ १४ ॥
एष देहो दुःखानां गृहम् , स्त्रीजनो निरयद्वारं तत्प्रापकलात् । स्वजनस्तु स्वार्थ-
साधको न तु परोपकारी, नृपपदमपि निर्दयम् , द्रव्यं तडिच्चलम् , वेदे विवदिपा
वक्तुमिच्छा । 'विविदिषा' इति पाठे जिज्ञासा । वितण्डावती वादस्यास्पदम् । तस्मा-
द्धरिसेवारूपामृतादन्यत्संसाराब्धौ कि सारम् । न किमपि । हरिसेवनमेव सारमित्यर्थः ।।
तृष्णावारि न वारि नान्नमशितं क्षुद्व्याधिविच्छित्तये
योग्यामातनुते निरन्तरमियं निद्रामदैयेषिणी ।
मारो मूर्च्छति निर्दयं नरमधोदेशं नयन्भैरवं
किं मानं वद जीवितव्यविषये विष्णोविहायार्चनम् ॥ १५ ॥
कंसारातिसुरातिसेवितपदध्यानप्रमोदक्षणं हित्वाराधकबाधकव्यधविधौ लोकत्रये दक्षिणम् । कः सारामितरः करिष्यति विशामाशाभृशावर्तव- संसाराब्धिसमर्थमारमकरग्रासीकृतानामिह ॥ १६ ॥ कंसशत्रोहरेः सुरैर्देवैरत्यन्तं सेवितं यत्पदं तस्य ध्यानेन यः प्रमोदोत्सवस्तं त्यक्ता- न्यः को विशां नृणां सारां समाधानं संभालनं करिष्यति। न कोऽपि । कीदृशानां विशाम् । आशा तृष्णैव भृशोऽत्यर्थ आवर्ती जलभ्रमो यत्रेदृशो यः संसारसमुद्रस्तत्र समर्थो यो मारः काम एव मकरस्तेन ग्रासीकृतानां भक्षितानाम् । कामाकुला- नामित्यर्थः । ध्यानप्रमोदक्षणं कीदृशम् । त्रैलोक्ये आराधकानां सेवकानां ये बाधकाः कामादयस्तेषां व्यधो नाशस्तद्विधौ नाशकरणे दक्षिणं कुशलम् । समर्थमित्यर्थः । हरि- ध्यानमेव कामादिशमकमिति भावः ॥ भूयाद्भूधर भक्तिरेव भवतः पादाम्बुजे भूयसी यामाश्रित्य यमं न मन्दमतिरप्यालोकते कुत्रचित् । दीव्यत्संसृतिदावपावकपयोवाहप्रवर्षत्ततिः पीयूषादपि पेयपावनरसा लभ्या सदभ्यासतः ॥ १७ ॥ हे भूधर, तव पादाब्जे भूयसी वह्वी भक्ति, भूयात् । मन्दबुद्धिरपि यां भक्ति- माश्रित्य कदापि यमं न पश्यति। कीदृशी भक्तिः । दीव्यन्प्रसरन्यः संसार एव दावा- ग्निस्तत्र मेघस्य प्रवर्षन्ती ततिः श्रेणी। तन्नाशिकेत्यर्थः । अमृतादपि पातुं योग्यः पावनः पवित्रो रसो यस्याः। अमृतादपि वादीयसीत्यर्थः। तथा सता श्रेष्ठेनाभ्यासेन प्राप्या ॥ संसारावयदावपावकलसल्लोभादिकीलावली. दाहव्यातदेहिदौःस्थ्यदलने यज्जायु वीर्योत्तरम् । पीयूषादतिरिच्यतां मम मुखव्याकोशपद्माशये तद्गङ्गादिगरिष्ठतीर्थगुरु ते गोविन्द पादोदकम् ॥ १८ ॥ हे गोविन्द, तत्ते तव चरणोदकं मम मुखलक्षणे विकसितकमलमध्ये अमृतादप्यति-
संसृत्यायवागुरैकविषये व्याधो हि कालाभिधो
मायाजालवशं विधाय बलवानहाय मामक्षिपत् ।
तत्रत्यातुलजन्तुजातिकलनोदामापदं मां दया-
सिन्धो माधव मोचयामितभयादीनं धृताशं त्वयि ॥ १९ ॥
संसारलक्षणवागुराया मृगवन्धन्या एको विपयो देशः तत्र कालनामा बलवान
व्याधोऽहाय शीघ्रं मायालक्षणजालवशवर्तिनं मां कृत्वा अक्षिपत् क्षिप्तवान् । तत्रत्याः
संसारवागुराविषयस्था अतुला वह्वो या जन्तुजातयस्तासां कलनेन ग्रसनेन उद्दामा
उत्कृष्टा आपत्पीडा यस्य तम् । अत एव दीनं सयि धृताशं कृताभिलापं मां हे
दयाब्धे माधव, अमितादसंख्याद्भयान्मोचय । संमृतिपथं निवर्तयेत्यर्थः ।।
मायाजालमिदं विचित्रमतुलं यस्मात्समुत्सद्यते
सूत्रं प्रत्युत संसृतिप्रमृतये यत्र स्थिता जन्तवः ।
नित्यं निर्व्यथनैर्निवारितदृशो यन्मध्यगैर्दृश्यते
विश्वाकारतया तदेव परमं ब्रह्म प्रकाशात्मकम् ॥ २० ॥
इदं मायाजालं विचित्रमाश्चर्यकारि। अतुलमनुपमं च । तदेवाह--यस्मान्माया.
जालात् प्रत्युत वैपरीत्येन संसारप्रसाराय सूत्रं महत्तत्त्वमुत्पद्यते । 'प्रकृतेर्महान्'
इत्यादिश्रुतेः । सूत्राज्जालं जायते । अत्र पुनर्जालात्सूत्रमिति वैपरीत्यम् । यत्र माया-
जाले स्थिता जन्तवो निर्व्यथनैनितरां पीडनर्निवारितदृशो नष्टज्ञाना वर्तन्ते । अथ
'रन्ध्र नियंथनं रोकम्' इत्यमरोक्तनिर्व्यथनं छिद्र तेन वारितनेत्रा जना इत्याश्चर्यम्
छिद्रे तु पश्यन्ति । किंच, यन्मध्यगर्यत्र मायाजाले स्थितर्जनैः प्रकाशरूपं तब्रह्म
विश्वाकारतया संसाररूपत्वेन दृश्यते 'सर्वं खल्विदं ब्रह्म' इत्युक्तेः ॥
मा दामोदर दाः कदाचन चिदानन्दानुभावोत्सवा-
दन्यं मे समयं भयंकरभवव्याधिप्रधानौपधात् ।
करते पादसरोजसेवनसुधासुखादसंतुष्टह-
मौसमले सानिमालसंजायते सम्पः ॥ २१ ॥
। श्राराम भवदावपावकधन निप्पङ्कजन्मास्थता । अव्यक्ताक्षरमेव गर्जति भवेद्यासारमुक्तिस्तया मा सीदन्तु सवीजयोगमरुतः सत्क्षेत्रिणोऽयं नयः ॥ २२ ॥ संसारदावानलस्य घने मेघे संसारतापशमके श्रीरामे अस्पष्टाक्षरं गूढं यथा तथा गर्जति या सारा श्रेष्टा मुक्तिर्भवेत् , तया सन्तः क्षेत्रिणो देहिनो मा सीदन्तु । अयं नयो नीतिः । कीदृशे रामे । सर्वदिक्षु समुन्नते प्रसिद्धे । आध्यात्मिकादितापत्रयं प्रायेण जित- वति तापनाशके । निष्पकं निष्पापं जन्म येषां तत्र स्थितिर्यस्य तस्मिन् । अर्थान्तर- ध्वनिः-सर्व दिक्षुनते तापनाशके निश्चिता पकस्य जन्म स्थितिश्च यत्र । गूढं गर्जति मेघे या आसारस्य वेगवृष्टेभुक्तिर्भवेत् , तया क्षेत्रवन्तो न सीदन्ति । कीदृशा देहिनः क्षेत्रिणश्च । सवीजयोगमरुतः । साकारध्यानयुक्तो योगः सबीजयोगः, तत्र मरुत् प्राणा- यामो येषां ते । बीजं ब्रीह्यादि तद्योगेन मरुता अनुकूलवायुना च सह वर्तमानाः । 'पङ्कोऽधे कर्दमेऽपि च ।' 'वीजं तु रेतसि । स्यादाधाने च तत्त्वे च हेतावङ्गुरकारणे ॥' [इति हैमः ।] 'क्षेत्रं भरतादौ भगाङ्कयोः । केदारे सिद्धभूपत्न्योः' इति कोषः ॥ चित्रं त्वेतदलब्धवीजविवशा योगेन हीनाः सदा येषां साधयितुं समीहितमभून्नैवानुकूलोऽनिलः । क्षेत्रं वीतवृषोदयं बहुतृणं संप्राप्य संकर्षणाः साम्यं ते समवाप्नुवन्ति फलतः श्रीरामनामग्रहात् ॥ २३ ॥ एवंविधा अपि नराः श्रीरामनामग्रहणमात्रेण सम्यकर्षणं शरीरशोषणं कृषिश्व येषां ते फलतः फलेन सादृश्यं यान्तीत्येतचित्रम् । कीदृशाः । अलब्धं यद्वीजं सबीजयोग- ध्यानं च तेन विह्वलाः । योगेन योगाझेन यमादिना उपायेन, हलादिसामग्या च हीनाः । किंच, येषां समीहित मिष्टं साधयितुमनुकूलो वायुः प्राणायामो वाह्यवायुश्च नाभूत् । किं कृला । वीतो नष्टो वृषोदयो धर्मोदयो वृष्टयुदयश्च यस्मात् । बहुतृगं तृणादप्यूनं तुच्छम् । तृणात् '(विभाषा बहुच्) परस्तात्तु' इति बहुच् । बहूनि तृणानि यत्र ईदृशं क्षेनं स्थानं च प्राप्य ॥ रे संसारपयोद पुण्यतरणिं प्रच्छाद्य पकोत्तरा वृष्टिवैषयिकै रसैरविरतं सन्मार्गरोधाय ते ।
खादैः पकं पापमुत्तरमधिकं यस्याः सा । तव वृष्टिः सन्मार्गस्य रोधाय वारणाय भवति । किंच स्त्रीसंवन्धी कटाक्षरूपो विद्युतो झांकारस्तेन विष्णुभक्तान् यत्त्वं भीषयसे भयमुत्पा- दयसि, तल्किं तब तस्य हरेस्तायो गरुडस्तत्पक्षवातो न श्रुतः । स खां निर्मूलं करिष्य- तीत्यर्थः । वातस्य मेघनिराकरणक्षमत्वं प्रसिद्धम् ॥ तृष्णावल्लभ दम्भदोबल महामोहप्रविष्टास्पद- क्रोधालस्यवयस्य लोभविभव भ्रान्तिव्रतैकादर । संकल्पात्मक मर्म तेऽस्ति विदितं संसार किंचित्परं यन्नारायणनाममात्रचकितो भूयो न भावी भवान् ॥ २५ ॥ तृष्णा वल्लभा यस्य । दम्भ एव बाहुवलं यस्य । महामोहस्थितावास्पदं यस्य । को- पालस्ये मित्रे यस्य । लोभ एव विभवः समृद्धिय॑स्य । भ्रान्तिब्रतरूप एक आदरो यस्य । संकल्प एव आत्मा स्वरूपं यस्य । हे संसार, तव किंचित्परमुत्कृष्टं मर्म विदितमस्ति । यद्धरिनाममात्र भीतो भवान्न पुनर्भविष्यति ॥ लोलत्वं न जहाति हन्त कमला कौमारमुख्यं वयो विद्युदर्शनकल्पमल्पदिवसा नैव स्थितिः खैः सह । या जागर्ति विदन्निदं न मनुजः संकल्पशय्यां गतः संसारावयवैरिणो विलसितं सर्व तदेतद्रुवम् ॥ २६ ॥ हन्तेति खेदे । लक्ष्मीश्चाञ्चल्यं न त्यजति । वाल्यादिवयस्तु विद्युद्दर्शनतुल्यम् । अति. चञ्चलमित्यर्थः । वन्धुभिः सहावस्थानं खल्पकालावस्थायि । मनुष्य इदं लक्ष्म्यादिचा- ञ्चल्यं जाननपि यन्न जागर्ति । मनोरथरूपशय्यां गतः सन् पारलौकिक न करोति । निश्चितमेतत्सर्वं संसारलक्षणशत्रोविलसितम् । संसारप्रताप थः ॥ रे संसारसमुद्र मुद्रय मुखं मा गर्न लोलैजलै- गण्डूषग्रहिलो ग्रहीप्यति मुनिस्त्वां कुम्भकात्संभवन् । ब्रह्मण्यः स यमी धनाम्बुगरलप्रायः प्रवीणः प्रभु स्ताराकारधरः समस्तजगतामानन्दहेतूदयः ॥ २७ ॥ रे संसारार्णव, मुखं मुद्रय, चञ्चलैजलैर्मा गर्न। ब्रह्मण्यो ब्रह्मप्रतिपादकः । यमी नियमयक्तः । घिनास्व मेधजलं निविडपानीयं तदेव वित्रं तन्नाशचतरः । तारस्य प्रण- सवापद्रवशान्तिरास्त चारत यस्य शुत विश्रुत यन्नामैव महौषधं त्रिभुवने पथ्यं पयः पादयोः संसारामय रामचन्द्रचरणप्रह्वे भवेत्किं व्यथा ॥ २८ ॥ हे संसाररोग, हरिपादनने नरे तव किं भवेत् । तमेव हरिं वर्णयति यत्सेक्या संचितः सर्वो दोषः प्रायो नाशमाप्नोति । विश्रुते यस्य चरिते रावणवधादिके श्रुते सति सर्वेपामुपद्रवाणां नाशोऽस्ति भवति । त्रैलोक्ये यन्नामैव रामेत्यादिकं रोगौषधम् । यत्ला- दोदकं पथ्यं हितम् । ईदृशे रामभक्ते लमत्किंचित्करः ॥ सारं सर्वगिरां सदा दिशति यजन्तोरसव्यश्रुतौ काश्यां कालजिघृक्षितस्य करुणाकल्लोलमाली मृडः । पीतं पुण्यवशाद्दशाननरिपो रामेति नामामृतं येनासावमृती भयंकरभवाम्भोधेयं तस्य किम् ॥ २९ ॥ रावणशत्रो रामेतिनामरूपममृतं येन पुण्यवशात्पीतम् , असौ अमृती मोक्षाधिकारी । तस्य भयंकरात्संसारसमुद्रात्किं भयम् । न किमपीत्यर्थः । तदेवाह-दयासमुद्रो हरः काइयां कालेन गृहीतुमिष्टस्य मुमूषोर्जनस्य दक्षिणकर्णे सर्ववाणीनां सारभूतं सदा यद्राम- नामोपदिशति ॥ रोष त्वं दोषपोषोन्मुख विषयजुषो यन्निगृह्णासि तद्व- न्मैव श्रीवत्सलक्ष्मोपचरणचतुराञ्जीगणो जातु जन्तून् । क्षेमं रामं नमन्तः कति तु कृतिविदामुत्तमं मन्तुमन्तो धाम व्याधामपाणिप्रमुखमखभुजां भेजुरुद्भासिताशाः ॥ ३० ॥ हे रोष, हे दोषस्य वृद्धावुन्मुख, विषयसेवापरांस्त्वं यद्वत्पीड सि, तद्वद्धरेरुपचरणं सेवा तत्परानरान्माजीगणः मा गणय । गणयतेलुडि मध्यमपुरुषैकवचनम् । 'नाग्लोपिशा- स्वृदिताम्' इत्यस्य गणयतेर्विकल्पितलाञ्चकार्यम् । मन्तुमन्तः सापराधा अपि जनाः कृतज्ञानां श्रेष्टमिमं हरिं नमन्तः कतीन्द्रादिदेवलोकान प्राप्ताः । कीदृशाः । उद्भासिता दिशो यैः । व्याधाम वजं पाणौ यस्य व्याधामपाणिरिन्द्रः । 'व्याधामोऽपि' इति वज्र. नामसु क्षीरस्वामी॥ दानं नानन्दहेतुर्भवति महदहो दत्तमप्युत्तमेभ्यो यागो वा गोहयादिर्गलितफलतया नर्म निर्माति नोच्चैः ।
.. धादिमार्गोऽपि अधिकसुखं न करोति । कुतः । गलितफलतया क्षीणफलत्वेन । दान- यागादिफलं भुक्तं क्षीयत इत्यर्थः । यस्य हरेः प्रसङ्गाद्धरिसेवातः शर्मणः सुखस्य एका असाधारणी भूमिः स्थानभूतो धर्मो न नाशं प्राप्नोति । तस्य हरेाने एकनिष्टा- मध्यापरान्को दम्भावधर्मसंवन्धः कथमभिभवति । नाभिभवतीत्यर्थः ।। भवतिमिर किमेतन्मेदुरं ते दुरन्तं प्रसरति परितोऽङ्गं पीडयत्साधुलोकान् । हरितरणिरुदेति ग्रस्तमायातमिस्रो रचयति न पुरा त्वां किं कथाशेषमेषः ॥ ३२ ॥ हे संसाररूपान्धकार, मेदुरं वहुलं दुरन्तं दुष्टावसानं साधुजनान्पीडयते तवैतदङ्ग किं प्रसरति । न प्रसारणीयमित्यर्थः । यतो हरि रेव सूर्य उदयं याति । प्रस्तं मायारूपं तमो येन । एप हरिमिहिरः । 'मिहिरारुणपूषणः' इति कोषः । लां कथैव शेपो यस्य तादृशं किं न पुरा रचयति । न रचयिष्यतीत्यर्थः ॥ भवभुजग जगन्ति व्याकुलीकृत्य दर्पा- दयि दशसि दशास्यारातिसेवारतान्यत् । विषयविषयुताशीःखण्डनेऽतिप्रचण्डा- किमु पतगपतेस्ते कोऽपि गोपायितास्ते ॥ ३३ ॥ हे संसारसर्प, गजिगन्ति व्याकुलानि कृला यद्दशास्यो दशमुखस्तदराती रामस्त- सेवापरायणांस्त्वं दशसि प्रससे । तत्किं पतगानां पक्षिणां पत्युर्गरुडाद्गोपायिता रक्षिता कोऽपि तव वर्तते। कीदृशात् । विषया एव विषं तद्युक्ता आशीर्दष्ट्रा तत्स्वण्डनेऽति समर्थात्॥ भवदव तव दग्धुं नौचिती विष्णुभक्तां- श्चरितमतुलमेतत्किं न याति स्मृतिं ते । यदयमपिबदमिं गोकुलग्रासगृनु भवति सह महद्भिः श्रेयसे किं विरोधः ॥ ३४ ॥ हे संसारदावाग्ने, हरिभक्तान्दग्धुं तवौचिती योग्यता नास्ति । एतदतुलं हरेश्वरितं किं तव स्मरणं नाप्नोति । यदयं हरिर्गोकुलदाहे साभिलाषं दवाग्निं अपिवत् । असमय- दिति भावः ॥
हलं हेतिरायुधं यस्य तस्य बलभद्रस्य चित्तं निष्कपटेऽपि कृष्णे स्यमन्तकमणेतोः कोपेन कठिनमभूत् । कथंभूते कृष्णे । कुहनाविहींने छलरहिते । “शतधन्वा मणिं गृ- हीखा पलायित इति श्रुला तं हन्तुं गतौ बलकृष्णो ततो हयं पतितं विलोक्य बलमवस्थाप्य गतेन हरिणा तं हत्वा 'मणिनास्ति तत्र' इत्युक्ते मणिः कृष्णेन निद्भुत इति मला बलः क्रुद्धोऽभूत्" इति कथा । सीतापि रामस्य निविडदुःखदायिन्यभूत् । अत एव संसारा- ब्धिरसाः केचन कामिनीरूपा विषतुल्याः । यैहरयेऽपि दुःखमदायीति भावः ॥ भाति श्रीतुलसि प्रसिद्धमहिमा तेऽयं विधेयं विधे- यत्वीयं न करोषि दासमसकृत्कर्तारमप्यहसाम् । यत्पत्रे पुरुषोत्तमप्रभृतयो देवा निवासोत्सवा- स्तस्यायुक्तमिदं तदम्ब नय मां पारं भवाम्भोनिधेः ॥ ३६ ॥ तुलसी प्रार्थयते-हे श्रीतुलसि, अयं तव प्रसिद्धो महिमा भाति । कः । अस. कृत् अनेकवारं पापानां कर्तारमपि स्वीयं निजं दासं यद्विधेर्दैवस्य विधेयं वशं न करोषि । पापोऽपि वद्भक्तस्त्वयोभियत इति प्रसिद्धा कीर्तिरित्यर्थः । यस्यास्तव पन्ने हादयो देवा निवासनिरताः तस्यास्त वेदमेव युक्तम् । तत्तस्माद हे अम्ब, मामपि संसाराम्बुधेः पारं नय प्रापय ॥ चक्षुर्मैव दिदृक्षु भूः परवधूवक्षोजपद्मप्रभा कर्णाकर्णय कौतुकादपि वचो मावर्णवादात्मकम् । जिह्वे जल्प यथातथं विरमयाप्यक्षं परं पातका- न्मच्चित्तेऽखिलदुष्टदर्पदलनो दामोदरो दीव्यति ॥ ३७ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां संसारतिरस्करणो नाम सप्तमः स्तबकः ।। हे चक्षुर्नेत्र, परस्त्रीस्तनपद्मकान्ति द्रष्टुमिच्छु मैव भूः मा पझ्य । हे कर्ण, अवर्णवादात्म. कम् , अपवादवचनरूपं वा कौतुकादपि मा शृणु। हे जिह्वे, सत्यं वद । परमप्यक्षमिन्द्रियं प्राणकरादिकं पापानिवर्तय । यतः सर्वेषां दुष्टानां दर्पनाशको हरिर्मम मनसि क्रीडति ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे संसारतिरस्कारो नाम सप्तमः स्तबकः॥ अष्टमः स्तवकः । संप्रति ध्यानं वक्तुं मङ्गलमाचरति- - र्गाढानन्दमयीं पयोऽर्थमवतु श्लिप्यन्यशोदा हारः ॥ १ ॥ हे गोप्यः, शोभनतपोयुक्तस्य नन्दस्यायं पुत्रः कोऽप्यद्भुतः शिवो ब्रह्मा देवशिरोमणि- हरिवी, एवं गोपीजनैः संलापामृतेन पूरितं कर्णविवरं यस्यास्ताम् । अत एव निविडह- पंव्याप्तां यशोदा स्तनपानार्थमालिङ्गन्हरिवः पातु ॥ पात्रं हृत्कमलं मुरारिचरणद्वन्द्वैकसेवामृतं स्नेहोऽनन्तनितान्तनिर्मलगुणैरुद्दामशोभा दशा । अन्तर्यामितया प्रतीतममलं ज्योतिः किमप्यद्भुतं मायाकजलरेख एष भवताद्दीपो भवध्वान्तभित् ॥ २ ॥ एष परमात्मरूपो दीपो चो युष्माकं संसारान्धकारभिद्भवतु । दीपसामग्रीमाह- हृत्पद्मं पात्रम् । हरिचरणयुगलभक्तिलक्षणममृतं स्नेहस्थानीयम् । हरेरत्यन्तनिर्मला ये गुणा ऐश्वर्यादयस्तैरुत्कृष्टशोभायुक्ता दशा वर्तिः । अन्तर्यामिस्वरूपेण प्रसिद्धं निर्मलाश्चर्य- कारि ज्योतिदीपप्रभास्था नीयम् । किंभूतो दीपः । मायैव अननरेखा यस्य ॥ आयुनरिमिदं निमेषमिपतः कालेन पेपीयते पश्य प्राश्य जगन्ति विश्वविरमेऽविच्छिन्नतृष्णावता । प्राणस्तद्भयविह्वलः प्रियतया देहस्य चायं पुन- र्यातायातपरस्तदत्र कतरत्कृष्णादुपायान्तरम् ॥ ३ ॥ जगन्ति प्राश्य विश्वं संहृत्य विश्वनाशेऽपि अविच्छिन्नतृष्णायुक्तेन कालेन निमेपमिपा- दायुर्लक्षणं जलं पेपीयते । पातेयङ् । तस्मात्कालाद्भयेन व्याकुलः प्राणोऽयं देहस्य बह- भतया यातायातपरो गमनागमनपरोऽस्ति । तत्तस्मादत्र संसारे कृष्णादन्यदुपायान्तरं सुखसाधनं कतरत् किमस्ति । हरि विनान्य उपायो नास्तीत्यर्थः ॥ यत्ते चित्ते विधत्ते हरिपरिचरणोपायमस्तव्यपायं शास्त्रं साक्षात्समत्वप्रमदसमुदयप्राप्तये तद्धि विद्धि । लीलाकैलासशैलाश्रयविवुधवरप्राज्ञतायास्तु शेषं संसारस्थित्यपेक्षापलपितपरमानन्दमर्थान्तराढ्यम् ॥ ४ ॥ 'समः शत्रौ च मित्रे च तथा मानापमानयोः' इत्यादिना गीतोक्तं यत्समत्वं तेन यःप्रम-
ज्ञता ज्ञानं तस्याः शेषं तदन्यप्रतिपादकमर्थान्तरयुक्तं यच्छास्त्रं तत् । संसारस्थित्यपेक्षया
अपलपित आच्छादितः परमानन्दो येनेदृशं बोध्यम् । ह्वन्यप्रतिपादकं शास्त्रं संसारप्रा.
पकमित्यर्थः ॥
येनानेना विना स्यान्न विहितदुरितस्तीर्णचान्द्रायणादिः
प्रायश्चित्तोऽप्यथान्यो विविधवृषवशाद्वासवावासवासम् ।
संप्राप्य स्निग्धमुग्धाधरमधुररसास्वादसौहित्यहीनो
दीनो विभ्रंशमेति श्रयत तदनिशं दास्यमेवाच्युतस्य ॥ ५ ॥
द्विविधो जनः, पापी पुण्यवांश्च । तयोरपि हरिरेव शरणमित्याह-विहितं दुरितं गो.
वधादिपापं येन सः । कृतचान्द्रायणादिप्रायश्चित्तोऽपि येन हरिं विना अनेना निष्पापो
न स्यात् । अन्यथा अन्यः पुण्यवान् विधिधर्मवशाद्वासवावासे खर्गे संस्थितिं प्राप्य
स्निग्धः प्रीतिविषयो मुग्धः सुन्दरो योऽधरस्तस्य यो मधुररसस्तस्यास्वादेन यत्सौहित्यं
तृप्तिस्तद्र हितोऽप्सरोभोगेन तृप्त एव दीनः सन्' पुण्यक्षये भ्रंशं पातं प्राप्नोति । तत्त-
स्मानिरन्तरं हरेर्दास्यमेवाश्रयत । हरिसेवां विनात्यन्तिकसुखाभावात् ॥
स्फूर्जर्जटिमौलिशालिनलिनीकल्लोलवल्लोलता-
लीलाकौतुकमन्वभावि भवता साकं निजैरिन्द्रियैः ।
भूत्वा केवलमेव धाम्नि तदहो शुद्धे सुषुम्णान्तरे
मध्येहृत्कमलं सुखाय सुचिरं रे चित्त विश्रस्यताम् ॥ ६॥
रे चित्त, स्फूर्जति शोभमाने धूर्जटिमौलौ शिरसि शालिनी नलिनी गङ्गा तस्याः क-
टोलवद्गङ्गोर्मितुल्यं लोलतालीलाकौतुकं चाञ्चल्यक्रीडोत्सवो निजैरिन्द्रियैः सह भवता
खया अन्वभावि अनुभूतम् । इन्द्रियाणि त्वं चातिचञ्चल मिति त्वयैवानुभूतम् । तत्त-
स्मात्केवलमिन्द्रियरहितो भूत्वा सुषुम्णानाडीमध्यवर्तमाने हृत्पद्ममध्ये शुद्धे धाम्नि ब्रह्मख-
रूपे चिरकालं सुखाय सुखं प्राप्तुं विश्रमः क्रियताम् ॥
धुन्या धर्मधुरीणयाध्वरभुजां वन्धूरया धारया
द्वारं तां दशमीं प्रविश्य वियतः प्रक्षाल्यमानं महत् ।
सर्वखं यदशेषतः श्रुतिगिरां ध्येयं यदेकं सतां
तच्यात्वा सुमनस्तयार्चय चिरं चेतोऽच्युताख्यं महः ॥ ७ ॥
गङ्गा हरिचरणवर्तमानया वियतो ब्रह्मरन्ध्रसकाशाद् वन्धुरया मनोज्ञया धारया प्रवाहण प्रक्षाल्यमानं महल्लोकोत्तरं यच्छ्रुतिगिरामुपनिषद्वाचामशेषतः सर्वांशेन सर्वखम् । यच्च सतां सनकादीनामेकं ध्येयम् ॥ भूत्वा केवलमेव मानस लसन्मोहाद्यसत्सङ्गतो मध्येहृत्कमलं प्रविश्य विमलं वैकुण्ठमाराधय । यस्यालोकनमात्रतोऽत्र तरसा निःशेषकर्मक्षयः क्षीणे कर्मणि कोऽप्यगोचरतरो वाचामलभ्यः पुनः ॥ ८ ॥ हे मानस, लसन्तः प्रसरन्तो ये मोहादयोऽसन्तो दुष्टास्तेपां सनात्केवलमेकं भूला हृत्पद्मे प्रविश्य निर्मलं हरिं पश्य । यस्य दर्शनमात्रेण सहसा सर्वकर्मनाशः स्यात् । नष्टे च कर्मणि वाचामविषयः कोऽप्यलभ्योऽप्राप्यः । अपि तु प्राप्यव कर्मणां क्षय एव ब्रह्मान न्दोदयो भवति । तानि कर्माणि हरिध्यानेनैव क्षीयन्त इति भावः ॥ सामर्थ्य सुमनःसु नास्ति नियतं बन्धं निरोद्धं निजं तत्र खान्तमधुव्रत स्थितिरियं वन्धाय गन्धाशया । मुक्तिश्रीमुखपद्मसौरभमपि प्राप्यं यदीयाश्रया- देकं तद्भवपाशनाशकुशलं कृष्णाभिपद्मं भज ।। ९ ॥ नियतं निश्चितं सुमनःसु देवेषु कुमुमेघु च निजं बन्धं कर्मबन्धनं निरोद्धं वारयितुं सा. मर्थ्य नास्ति । हे स्वान्तमधुव्रत चित्तभ्रमर, तत्र देवेषु गन्धाशया वासनया इयं स्थि. तिबन्धायैव । संसारबन्धोच्छेदेच्छया अन्य देव भजनमकिंचित्करमित्यर्थः । तत्तस्मात्सं. सारपाशनाशे समर्थमेकं हरिपादपद्मं सेवख । यत्पादाश्रयान्मुक्तिलक्ष्मीमुखपद्मस्यापि सौरभं प्राप्यमेव ॥ चेतः प्रेतपतिस्थितिश्रुतिरिति त्रासाय संसारिणां तदृष्टिः परमापदामनुभवो नानाविधा वेदना । श्रीमद्रामकथा जनश्रुतिपथा नाहन्ति सर्वव्यथा नासन्पूर्णमनोरथाः कति जनास्तत्रादरं तत्कुरु ॥ १० ॥ हे चेतः, प्रेतपतेर्यमस्य स्थितिश्रवणं पुराणादौ प्राणिनामतिभयाय । यमस्थितिदर्शनं त आपदां कष्टानां स्थानम् । अनुभवो नरकभोगस्तु नानाविधवेदनारूपः । जनानां श्रु- हे चेतः, निर्मलं विष्णोश्चरणकमलं त्यक्त्वा स्नेहवशात्वचिन्मा गच्छ । मुनिभिर्नार- दादिभिरेतदेव महिष्टं श्रेष्ठं महस्तेजो ज्ञात्वा सेवितम् । मद्वाणी चेन मन्यसे नाङ्गीकुरुषे ततस्तर्हि ते खां हन्तास्मि । कर्मणि षष्ठी। चित्तं नाशयिष्यामि । उन्मना भविष्यामी- सर्थः । यत उन्मन्यवस्थायां भूतानि भूम्यादीनि नो, खानि इन्द्रियाणि न, विषया रूपादयोऽपि न, अमी गुणाः सत्त्वादयोऽपि नो, महान्महत्तत्वमपि न । ब्रह्मीभूतो भविष्यामीत्यर्थः ॥ यत्तापत्रयसंभवन्नवनवज्वालावलीव्याकुलं जाड्यं नैव जहासि हासि कठिनं चेतस्त्वमुच्चैस्ततः । गङ्गाख्यं गरुडध्वजानियुगले जागर्ति जायुः स्फुटं तद्ध्यानद्रवभावमेत्य तरसानेनैकतां तद्रज ॥ १२ ॥ हे चेतः, यद्यस्मात्तापत्रयादाध्यात्मिकादेः संभवन्ती जायमाना या नवनवा ज्वालाव- लिस्तया व्याकुलं सज्जाज्यं मौर्य न जहासि न त्यजसि । ततो हेतोरुच्चैरत्यन्तं हा खेदे कठिनमसि । तस्माद्धरिपदयुग्मे गङ्गालक्षणं जायुरसविशेषोऽस्ति, तस्य ध्यानेन स्फुट द्रवत्वं प्राप्य तरसा वेगेन तेन गङ्गाजायुना एकत्वं प्राप्नुहि । हरिपदसक्तं भवेत्यर्थः ॥ चेतः के तव हेतवः स्तवमवज्ञाय श्रियः प्रेयसः प्रायः पातकजातघातकुतुकं यद्वर्तसे खेच्छया । आश्चेत्ते स्मृतिमेति मातुरुदरे वासव्यथा तत्कथं कण्ठाश्लिष्टवरिष्ठरिष्टनिकराबोधो न कष्टापदि ॥ १३ ॥ पापसमूहस्य घाते नाशे कुतुकमुत्सवो यस्येदृशं श्रियः प्रेयसो रमाकान्तस्य स्तवं स्तुतिमवज्ञाय हे चित्त, त्वं प्रायो बाहुल्येन स्वेच्छया प्रवर्तसे तत्र के तव हेतवः किं प्रयोजनम् । आः इति विस्मये । ते तव मातुरुदरे वासेन या व्यथा सा चेत्स्मृतिमेति, तद्दुःखं स्मर्यते चेत्तर्हि कष्टयुक्तायामापदि कण्ठे आश्लिष्टो लग्नो वरिष्ठः श्रेष्ठो यो रिष्टनिकरोऽशुभसमूहस्तस्मादपि कथं बोधो न जायते । संसारदुःखक्लान्तस्यापि कथं न बोध इत्याश्चर्यम् ॥ अक्षाणामनिशं करोषि यदरे चेतस्त्वमन्वासनं तद्भोग्ये विषये सलालसमसि खामित्वमात्रभ्रमात् । .
किं लजापि न जायते शिवशिव व्यध्वेन ते गच्छतः ॥१४॥ हे चेतः, यनिरन्तरमक्षाणामिन्द्रियाणामन्वासनमनुवर्तनं त्वं करोषि, इन्द्रियान्यनुव- तसे । तद्भोग्ये इन्द्रिययोग्ये विपये रूपादौ सलालसं सतृष्णं वासि । स्वामित्वमात्रभ्रमेण अहमिन्दियेशमिति भ्रमात् । 'स्वामिलमात्रे भ्रमद्' इति पाटे विशेपणम् । किंच आसनं निकटवर्ति वेदान्तप्रतिपाद्यममृतरूपं महो ब्रह्मस्वरूपं हिला व्यध्वेन, विगतोऽवा व्यध्वः । तेन उन्मार्गेण गच्छतस्तव किं परं केवलं लज्जापि न जायते । शिवशिवेति दुःखावेदकः शव्दः 'हरिहरि हतादरतया' इतिवत् ॥ अत्यन्तानुचितेऽपि कर्मणि मनः प्राप्य प्रवृत्तिं पुनः खेदं यासि किमुच्चकैः कुरु मतिं कृष्णे कृपाकोमले । लोके तहुरितं किमस्ति मधुजिन्नत्या न यत्क्षीयते को वा दावविभावसोरपि रसोऽशोप्यम्तृणानां वने ॥ १५ ॥ हे मनः, अत्यन्तमयोग्येऽपि कर्मणि प्रवृत्ति प्राप्य पुनः खेदं किं यासि । कृपायुक्त कृपणे मतिं कुरु । लोके तत्पापं किमस्ति यद्धरिनमस्कारेण न नश्यति । दृष्टान्तमाह- वने वर्तमानानां तृणानां को वा रसो दावाग्नेरशोप्यः । अपि तु सर्वः शोष्य एव । तथा हरिनत्या पापमिति ॥ निर्माय स्वयमेष शेषशयनः स्वामी समग्रं जग- त्तद्व्यापारभरं चकार गुणिनि त्वय्येव चेतः परम् । त्वं तदर्शनमप्यनिच्छु मनुपे कर्तृत्वमप्यात्मनि स्पष्टादीनव जीवितं क्षममतस्तदर्शनान्तं तव ॥ १६ ॥ हे चेतः, शेषशायी खामी हरिरेप सर्व जगत्स्वयं कृला जगत्संवन्धिव्यापारसमूहं पर केवलं गुणयुक्ते सत्त्वादियुक्ते खयि कृतवान् । त्वं तु हरिदर्शनमनिच्छु सद् आत्मनि क. र्तृत्वं मन्यसे । स्पष्ट आदीनवो दोषो यस्य तत्स्पष्टदोष, कुतन, अतो हेतोः ह्यभक्तिकार- णात्तव जीवितं हरिदर्शनान्तं क्षमम् । दर्शनमन्तो नाशो यस्य तत् । हरिदर्शनानिम- नस्को भविष्यामीत्यर्थः ।। भाति श्रीपरमेश्वरः स्वयमयं हृत्पुण्डरीके यवा- कारः कारणमेकमेव जगतामाधारभतः प्रभः ।
, चेतः, अस्मिन्हृत्पद्मे वर्तमानेऽपि दुस्तृष्णावशात्क त्व, भ्रमास । भ्रमतयङ्लगन्त रूपम् । निश्चितं निरातङ्कतां निर्भयतां प्राप्तुमेकं मुहूर्तमत्र हृत्स्थे हरौ तिष्ट । हरिध्यानं हित्वा चरसि रसिको मोहमदिरां निपीय प्रेयस्या सह कुहनया संशयसखः । कृतान्तव्यापारं कलयसि न कस्मादकुशलं कियत्कालं केलिं विपयवनमध्येऽनुभवसि ॥ १८ ॥ हे जन्तो, त्वं मोहरूपां मदिरां पीला संशयस्य सखा सर्वदा संदिहानः सन् हरि- ध्यानं हिला त्यक्त्वा कपटयुक्तया नार्या सह रसिक आसक्तः क्रीडामनुभवसि । परंतु अ- कुशलं नरका दिदुःखप्रदं यमव्यापार कस्मान्न कलयसि न जानासि । शिखरिणीछन्दः ॥ एवं चित्तमुपालभ्येदानी करमुपालभते- पत्रालंकृतपुष्पशालितुलसीवृक्षोल्लसद्वल्लरी- वृन्दैरिन्दिरया समं स भगवान्नारायणो नार्चितः । पाणे दीनजनावनव्यसनिता नासादिता सीदते किंचिन्नोपकृतं कृतं किमहह प्रक्षीयते जीवितम् ॥ १९ ॥ हे पाणे, पत्रैरलंकृतैः पुष्पैः शालते शोभत ईदृशो यस्तुलसीवृक्षस्तस्योल्लसन्ति शोभ- मानानि वल्लरीवृन्दानि मञ्जरीसमूहास्तैः कृत्वा लक्ष्म्या सह हरिस्त्वया न पूजितः । दीनजनानां रक्षणे व्यसनिता सकामलमपि नाश्रिता । सीदते क्षुधादिपीडिताय प्राणिने कश्चिदुपकारो न कृतः । अहहेति दुःखे । किं कृतं जीवितं प्रत्यहं क्षयं याति ॥ देवः श्रीललनानुरागकलनालीलोमिलोलीभव- स्वान्तः स्वां तनुते दृशं त्वयि न चेत्सेव्यस्तदाप्यादरात् । यस्मात्तच्चरितामृताब्धिलहरीलाभानुभावा जनाः स्तूयन्ते यतिभिः पवित्रमतिभिः संसारपारंगतैः ॥ २० ॥ श्रीरेव ललना स्त्री तस्या अनुरागकलना प्रेमधारणं तस्य लीलोमिषु लोलीभवत्स्वान्तं चित्तं यस्येदृशः । रमाक्रीडासक्त इत्यर्थः । देवो हरिश्चेत्वां दृशं वयि त तनुते, व्यग्र- वात्त्वां न पश्यति, तथाप्यादरपूर्व स एव सेव्यः । यस्माद्धरिचरितरूपो योऽमृतार्णव- । .. सेवासाधुसुधासु धेहि धिषणां हित्वेतराध्येषणां गोविन्दस्य यदिच्छवः सवभुजो नाद्यापि निद्रालवः ॥ २१ ॥ स्त्रीभोगादिजनितं यत्सुखं लोकेऽस्ति तद्धस्तिजातेः सर्वमवश्यं भोगाय भवति । 'शर्म जोषं वशं सुखम्' इति कोपः । तस्मादितरस्याध्येषणां सेवां त्यक्खा गोविन्दस्य सेवा एव साध्व्यो याः सुधा अमृतानि तासु धिषणां बुद्धिं धेहि धारय । यदिच्छवो यत्सेवा- मृतकामुकाः सवभुजो यज्ञभुजो यज्ञभोक्तारो देवा अद्यापि निद्रालवो न भवन्ति । अ- लसा न सेवन्त एवेत्यर्थः ॥ एकस्मिन्नेव जन्मन्यहह तनुभृतां नैकजन्मप्रकाशः संलक्ष्ये भूतवर्गे त्विह सह सकले सर्वसाधारणेऽक्षैः । विष्णुध्यानैकताने मनसि मुनिरनुक्रोशदानायुपेते देवो मोहाभिभूते नर इतरजनिर्जातपके स एव ॥ २२ ॥ अहहेत्याश्चर्ये । अक्षरिन्द्रियैः सह सकले भूतवृन्दे पञ्चभूतवृन्दे सर्वसाधारणे पश्चिा]- दिसमाने संलक्ष्ये सम्यग्दृश्येऽपि सति प्राणिनामेकस्मिन्नेवावतारे अनेकजन्मप्रकाशो भ- वति । तदेवाह-हरिध्यानतत्परे चित्ते जनो मुनिरित्युच्यते । दयादानादियुक्ते देव इति । मूढे चित्ते नर इति । जातपापे चित्ते इतरजनिश्चण्डालादिः स एवोच्यते ।। किं पुष्पं तुलसीसमं त्रिभुवने दानं किमम्भोनिभं गीतायास्तुलनामुपैति कतरच्छास्त्रं पवित्रं परम् । को देवो भजतां नितान्तहितकृन्नारायणादप्यहो का भक्तिः स्मरणाधिका किमितरचेतःसमं साधनम् ॥ २३ ॥ त्रैलोक्ये तलसीसमं किं पुष्पम् । जलसमं दानं किम् । कतमदन्यच्छास्त्रं गीतासम- मिति । हरेरन्यः को वा भजतामत्यन्तं हितकारी । स्मरणादधिका का भक्तिः । मनसा तुल्यं साधनं च किम् । एतैस्तुल्यमन्यन्नास्ति । एवं सुलभेऽपि साधने हरिभक्तिपरा- मुखा भाग्यहीना इत्यर्थः ॥ एवं साधनमभिधाय त्रिभिः श्लोकैयानमाह- यतो हरिं विना गतिनास्ति तत्तस्मान्मध्येरविमण्डलं सूर्यमण्डलमध्यवर्तिनम् । 'ध्येयः सदा सवितृमण्डलमध्यवर्ती' इति वचनात् । मधुजितं देवं हरिमन्तश्चित्ते भजे सेवे इति तृतीयश्लोकेनान्वयः ॥ मूर्धारोपितम मौलिवलभीसंदर्भितात्यद्भुत- ज्योतिर्दिव्यमणीमरीचिरमणीरङ्गीभवद्योतलम् । ग्लानि चन्द्रमसः कपोलफलक श्रीभिः सुजन्तं सदा यं ब्रह्मेति वदन्ति वेदविवृतौ विख्यातशिक्षाभृतः ॥ २५ ॥ मूर्ध्नि आरोपितो यो रम्यो मुकुटस्तत्प्रदेशे खचिता अत्यद्भुतरोचिषो रम्यकान्तयो दिव्यमण्यः । मणीशब्दः स्त्रीलिङ्गः । तासां रश्मय एव नार्यस्तासां रङ्गीभवन्नृत्यस्थानभूतं बोतलं नभो यस्य तम् । 'रङ्गः स्यानतनालये' । 'द्योदिवा द्वे स्त्रियाम्' । मुकुटमणि कि. रणाः खे भ्रमन्तो नृत्यन्त इव दृश्यन्त इत्यर्थः । कपोलतलशोभाभिश्चन्द्रस्य ग्लानिं परा. जयं कुर्वन्तम् । किं च वेदविवृती श्रुतिव्याख्याने विख्यातां शिक्षा बिभ्रति ते उपनिष- त्तात्पर्यज्ञाः सदा यं हरिं ब्रह्मेति वदन्ति । अत्यन्तोत्तमनासिकाविवरयोः श्वासप्रसङ्गोत्सवैः कुर्वाणं कमलामुरःस्थिरतरां निप्पारिजातादराम् । आरक्ताधरधर्मिणो धुरि मधोः प्रादुर्भवत्पल्लवं माकन्दं मदमार्गसार्गलहृदं कुर्वन्तमन्तर्भजे ॥ २६ ॥ अत्यन्तमुत्तमे ये नासाछिद्रे तयोः श्वासप्रसङ्गा एवोत्सवास्तवक्षस्यत्यन्तस्थिरां रमा निर्गतः पारिजातकुसुमप्वादरो यस्यास्तादृशीं कुर्वाणम् । श्वाससगिन्ध्यस्य कल्पतरुपु- पसमगन्धलादित्यर्थः । अधरस्थितेन रक्तत्वेन कृला मधोधुरि वसन्तप्रारम्भे प्रादुर्भ- वन्तः पल्लवा यस्येदृशं माकन्दं निर्गर्व कुर्वन्तम् । ततोऽप्यधिकारुण्यादिति भावः । मदस्य गर्वस्य मार्गे सार्गलं सप्रतिवन्धं हृद्यस्य तम् ।। पुनः लोकत्रयेण ध्यानमाह- दीव्यद्दन्तमयूखसंचयपयःपूरेण दुग्धोदधे- रुत्कण्ठां शमयन्तमात्महृदयस्थायिश्रियो हास्यतः । नित्यं प्रत्युरसप्रसक्तयुमणिस्फूर्जद्धृणिश्रेणिभिः -
ठा रामयन्तम् । हा
२६न्तरारनामा
सारा
।। मदत
त्यर्थः । उरसीति प्रत्युरसम् । सप्तम्यर्थेऽव्ययीभावः । 'प्रतेरुरसः सप्तमीस्थात्' इत्यच्प्र-
त्ययः । नित्यं वक्षसि संसक्तो यः शोभनो मणिः कौस्तुभस्तस्य स्फूर्जन्तो ये रश्मिरामू-
हास्तः प्रत्याख्यातास्तिरस्कृताः पर्मयः क्षुधादयो यस्मात् । अत एव निर्मलं यन्मन-
स्तत्र जाग्रत् सदास्थितं त्रैलोक्यादिहितं यस्य तम् । 'प्राणस्य क्षुत्पिपासे द्वे शोकमोही
तु चेतसः । जरामृत्यू शरीरस्य पडूमिरहितः शिवः ॥' इति वचनात् ॥
निःशङ्क जगदर्तिवर्तितमनोवृत्तिप्रतीतासुर-
स्कन्धस्थायिमदव्यपायचपलं चक्रं च कौमोदकीम् ।
हस्तानां तु चतुष्टये सधनुषं शङ्ख तुषारद्युते-
विम्बेनातिसदृश्वमक्षयजयोदये दधानं प्रभुम् ॥ २८ ।।
अक्षयोऽविनाशी यो जयस्तेनोत्कृष्टे हस्तचतुष्टये चक्र गदां सरसिज पद्म शङ्ख च
दधानं विभ्राणम् । कीदृशं चनाम् । निःशकं जगत्पीडायां वर्तितया मनोवृत्त्या प्रतीता
हृष्टा येऽगुरास्तेषां स्कन्धस्त्रो यो गर्वस्तन्नाशे चञ्चलम् । दैत्यान्नाशयन्तमित्यर्थः । को..
दृशं शङ्खम् । तुषारातेश्चन्द्रस्य बिम्वेनातिसदृशम् । प्रभुम् । समर्थमित्यर्थः ॥
कण्ठस्थापितदामदुर्लभतमामोदेन मत्तालिनां
व्यापेधत्रतपाणिपारमया विभाजितोरःस्थलम् ।
नाभीनीरजसअपद्मजनुपा सिद्धान्तसंभावित-
स्तोत्रार्थामृतपूर्णकर्णकुहरं हृद्येव कुर्वे हरिम् ॥ २९ ॥
कण्ठे स्थापितमालया अत्यन्तं दुर्लभो यः परिमलस्तेन मत्तानां भ्रमराणां व्याषेधे
निवारणे व्रतं यस्येदृशं पाणिपनं यस्याः, तया रमया शोभितमुरःस्थलं यस्य तम् । ना-
भीपद्मं सद्म गृहं यस्येदृशेन पद्मजनुपा विधिना सिद्धान्ततया संभावितानि यानि स्तोत्राणि
तदर्था एवामृतानि तः पूरितं कर्णविवरं यस्य तम् ॥
कर्पूरामृतदीधितिप्रतिमया कायश्रिया शोभितं
धौतं सत्कलधौतजातसदृशच्छायं च यस्योत्तरम् ।
सेवाकारिसुपर्वराशिमुकुटप्राप्तप्रतिष्ठैर्मणि-
श्रेष्ठर्जुष्टपदारविन्दयुगलं ध्यायामि दामोदरम् ॥ ३० ॥
H
भवाटव्यामव्याहतगतिरयं मारमृगयुः
पुमेणानेणाक्षीनयनमयपाशैरशिथिलैः ।
दृढं बद्धाश्वत्थच्छदसदृशकारां नयति तां
यतो मूढं विश्वं तदेव निकृतेः कृष्ण कृपया ॥ ३१ ॥
संसारवनस्खलितगतिरयं कामव्याधः पुंस एवैणा मृगास्तान्मृगाक्षीनेत्ररूपपाशैढेईद
बद्धा पिप्पलपत्रसदृशी कारां बन्धनागारं नयति । नानायोनीः प्रापयतीत्यर्थः । यतो ज.
नेविश्वं मूढं भवति तत्तस्मात् हे कृष्ण, कृपया निकृतेः संसारपराभूतेः सकाशादव रक्ष ।
'तदवनकृते' इति पाठे तस्माद्रक्षणाय कृपां कुरु ॥
मच्चेतो मधुसूदनाशिकमले मन्दाकिनीकेलिमत्
क्लिन्नं भक्तिरसेन तीर्णमभितः संसारवारांनिधिम् ।
मोहं मित्रमनेकजन्मसु मुदात्रैवाममज्जत्वचि-
तद्वैरेण न विश्वसन्ति कथमप्यस्मिन्विषादादयः ॥ ३२ ॥
मम मनो हरिपदपझे गङ्गायां क्रीडायुक्तं भक्तिरसेना सरसमभितः संसाराब्धितीर्ण
सदनेकेषु जन्मसु सहायं मोहमत्रैव संसारे मजयामास । तद्वैरेण विषादमदलोभादयो-
ऽप्यस्मिंश्चित्ते कथमपि न विश्वासं कुर्वन्ति मज्जनभयेन ।
आम्नायाभ्यसनैः कृतं फलमिदं त्रेताकृताराधना-
संतुष्टा मम यन्मतिर्भगवती श्रीरामचन्द्रेऽभवत् ।
यस्याराधनमन्तरेण तनुभृत्तापाय न द्वापरो
न स्यात्तत्किमिवोच्यते कलिकृतामत्रापदां चेष्टितम् ॥ ३३ ॥
वेदाभ्यासैरिदं फलं कृतम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । गार्हपत्यादीनां कृता
प्रजा तया संतुष्टा यद्यतो मम हरौ बुद्धिरभूत् । यस्य सेवां विना द्वापरः संदेहो जन्तूनां
तापाय न अपि तु तापायै वेति काकुः । कलिकृतां निबिडापदां चेष्टितं चेष्टा किमुच्यते ।
तास्तु वर्तन्त एव हरिभक्तिं विना ॥
हरौ हृदयमायाते माया ते किं करिष्यति ।
यदच्युतध्यानपरा न पराभवमागताः ॥ ३४ ॥
भेदाभावेऽपि गोविन्द त्वया मम जीवनम् । न वल्ली विद्यते कापि स्वातिश्रवणरोहिणी ॥ ३५ ॥ हे हरे, आवयोरभेदेऽपि तव दया मम जीवने हेतुः । दृष्टान्तमाह-खातिश्रवणरो. हिणी स्वस्वरूपस्य कारणस्यातिश्रवणेनातिक्रमणेन रोहति जायते, ईदृशी वल्ही कापि न विद्यते । बीजं मुक्त्वा यथा वल्ली न जायते तथा लां विनाहं नास्मि । कार्यकारणयोरभेदात् ॥ यदा नायाति हृदये तदा मे मृत्युतोऽधिकम् । आयाते हृदि गोविन्दे मृत्युर्मङ्गलमङ्गलम् ॥ ३६ ॥ यदा हृदि हरि याति तदा जीवनमपि मे मृत्युतोऽधिकम् । हरौ हृयायाते मृत्युः परममङ्गलम् । मुक्तिहेतुखात् ॥ सेवे त्वत्पादकमलं कमलाकान्त केवलम् । विलम्ब तद्विधत्से किं देव हर्तुं महापदम् ॥ ३७ ।। हे रमाप्रिय, केवलं लत्पादप- सेवे । तर्हि हे देव, मम कटं हतु कथं विलम्ब कुरुषे । मम दुःखाहरणे विलम्बो न कार्यः ॥ तावल्लोभः प्रभुत्वं भजतु निजभुजस्फूर्जदूर्जातिरेकः प्रच्छन्नं तावदेनो विरचितमतुलां चित्तपीडां करोतु । रोषद्वेषाभिमानानयनिरय भियः स्फूर्तिमायान्तु ताव- द्यावन्नायाति मायातिमिरदिनकरश्चित्तमध्ये मुरारिः ॥ ३८ ॥ लोभस्तावदैश्वर्यं करोतु । कीदृशः । निजहरतयोः स्फूर्जन्बलातिशयो यस्य । प्रच्छन्नं रहःकृतमेनः पापं तावदतुलां मनःपीडां करोतु । क्रोधद्वेषाभिमानानयनरकभियस्ताव- दृद्धिं यान्तु । मायान्धकारसूर्यो हरिर्यावञ्चित्ते नायाति । तस्मिन्हृदि आयाते लोभादयः खयमेव नझ्यन्तीत्यर्थः ॥ आयाते हृदये हरौ विगलितं विघ्नैर्गतं पातकैः कोपेनोपरतं शुचाशु चकितं वीतं विरोधादिभिः । वित्रस्तं विषयैर्बिभाय बहुधा भेदोऽपि वेदोदितो दीर्ण दुःखहृदानुदारचरितो मोहः समाप्तिं गतः ॥ ३९ ॥ .. FITS Tr आता मी . - वामिव्यामिश्रभाव समलमत सुख यत्र वाचा विरामः मन्मनोनपा लक्ष्मीः रहनि विकसिते हृत्पद्मे सुतरां जाग्रद्यो हरिः तत्सङ्गोत्सव बाणतोपाया निःमारा सर्वेऽन्तगया यत्रेदशं तं प्राप्य प्रेमसमुद्रोमिव्याकुला सती परमानन्द गादमालिय स्वामिना सह व्यामिश्रतां प्राप । ब्राकलां प्राप्त्यर्थः । वाचामिन्द्रियाणां विरामः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुति 'मनमवानुद्रष्टव्यं' 'यन्मनो न मनुते' इति च ॥ इदानीं ग्रन्धान्ते मातापित्रोनीमकथनपूर्वकं वनाम निगमयति- मानी माता पिता विष्णुर्यस्याख्या पुरुषोत्तमः । विष्णुभक्तिलतां चक्रे सतां चक्रे कृताञ्जलिः ॥ ४१ ।। इति श्रीपुरुषोत्तमकतायां विष्णुभक्ति कल्पलतायां चितप्रबोधो नामाष्टमः स्तबकः । धम्म मानीनाम्नी [माता] । विष्णुनामा पिता । यस्याभिधानं पुरुषोत्तमः स इमां भक्तिकल्पलतां चके कृतवान् । कीदृशः । रातां साधूनां चक्रे समूहे कृतोऽअलियन सगुनमनकृदित्यर्थः ॥ इति श्रीमहीधर विरचिते विष्णुभक्ति कल्पलताविवरणे चित्तप्रबोधो नामाष्टमः स्तवकः समाप्तश्चायं ग्रन्थः।
. पृ. प. शुद्धपाठः । ४६-२१ यदनैश्वर्य ४८-१२ प्रकृति ४८-२८ दृष्ट्या प. शुद्ध पाठः । ४- ५ भिदोक्तौ ९-१.२ लचरणाजा ९-२८ मजतो १२-१० मृद्यत्र १३- ३ स्वरूप १९-२४ मृत्युभीतेः २३-३० रकिनाम् २६-२५ संहननम् २७-१५ लतादलता २८- ७ शमनकुधः २९-२६ मुद्धृतवतः ३३-२० खेदे ४१- ८ स्तम्भवती ४१-२८ ध्यानानन्दः ४४- ८ धनस्य ४४-१७ हे ४५-३ मतिमतां ४५-१९ धातुभिः ४५-२४ विभक्त्यन्ते ४६-१५ तेपा ४९- ७ रसाव ४९- ९ यतोऽसौ ५१-२२ करय ५५-१७ सोमावदातं ५५-१८ लब्धा ६४- ४ स्त्रीपु ६४- ५मन्यस्य ६४-२० खलाः ६४-२७ को ६७-३० दैयमिच्छन्ती ६८-२८ पतयः ६९-२७ मौषधं ७०-१४ भारतादी ७२- ८ मकिंचित्करः ७२-१५ ग्रहीतु ७२-२१ पीडयसि A -----------