Bharatiya Vidya Bhavan Library, Mumbai

Shri Krishna Chandra Bhyudayam

Shastri,haribhai · 2012/08

PDF Proofread

Front matter

शब्दानां विविनक्ति गुम्फनविधीनामादत मतिभिः
सान्दं लेदि रसामृतं विचिनुते तात्पर्यमुद्रां च यः॥
पुण्यैः सङ्कटतं विवेत्तृविरहादन्तर्मुखं ताम्यतां
कामव कदाचिदेव मुधियां काव्यश्रमज्ञो जनः ।।
(राजशेखरः।)

iranatanArraastastra
ARRRARARANAROSTARARARARARAA
అలకలలాలలకలలాలాలలాలు
सरदार सर चीनभाई माधवलाल धारोनेट सी. आई. ई.
जन्म-सं. १९२० वैशाख वदि ७. विदेह-सं. १९७२ माह वदि १४.
BARATASARA
amanias

ARRARARARANG,
carastraa
Pres060
PANORARARARARARARARARARARARARARARAAN
ROSCOURSE08080500RSE
महामहोपाध्याय नीयकत्रि गङ्करलाल माहेश्वर.
जन्म-सं.१८९९ भाषा:वरि४. विदेह-सं. १९७३ आषाढ दि१५
RRRRRaranaRanaraPARA

अर्पणपन्नम्। श्रीमद्भयो यदि वाऽर्पयामि विनयादेतं प्रवन्धं नवं सैप स्याद् भवतां प्रियो ननु किमित्यापृच्छयने चेन्नः । 'प्रायस्तस्य मुखं प्रमादविधुरं मनायते यसमा ग्रन्थान् नेतुमयं प्रयोजयति मामित्याकलय्य स्वयम् ॥ १॥ तस्मात्तादृशदुर्मुखेक्षणभयं त्यक्त्वा, समासाद्य यन् नाद्याप्यल्पमपीह कोपि भगते सङ्कोचलेगं जनः । तस्मै श्रीगिरिजादीशपदयोर्युग्माय नाट्य विद व्याख्यासंवलितं ममर्प्य नितरामानन्दमाविन्दन ॥ २ ॥ श्रीशङ्करसालात्मनः खेरशङ्करभर्मा।

प्रस्तावना। श्रीमन्महामहिमजामकुलावतंस- श्रीमनवानगरराज्यधुरन्धरस्व ॥ औदार्यधर्यरणशौर्यनिधेः प्रताप- कीर्त्यांश्रयस्य रणजित्यभुसिंहनाम्नः ॥ १ ॥ श्रीमोरबीपुरनृपेण ममं कदाचि- दामीत् प्रवाससहवासविनोदलाभः ।। वान भिरेव किल यीरमगामयाँका- नेरोभयान्तरमुभावपि नीतवन्ती ॥ २ ॥ तबाह मोरबिन्पो ननु जामभप ! स्पतं कथं परिचयन पिलायतस्य ।। प्रायः स्वधर्मचरणं भवतेति जाने यस्मान कण्ठितिलकादि दधामि किञ्चित् ।। ३ ।। किं वा भवान् तिलकमेव हि धर्मचिह जानाति ? नेय तदिदं किल युक्तरूपम् ॥ मत्याह जामनृपतिस्तदनुप्रदिष्टं श्रीमोरबीपुरवरस्य पुरन्दरेण ॥ ४ ॥ श्रीकृष्णवंशजनिता क्यमेव तस्मात् भक्तिर्विधानुमुचिता भवता तदीया । तस्मिन् क्षणेऽय रणजिनृपतिर्दभापे श्रीमोरबीनरपति प्रति वाचमेयम् ॥ ५ ॥ तत् सत्यमेव भवता यदमाणि कृष्ण- चंशोद्भया ययमितीह न कापि शहा ॥ श्रीकृष्णजन्म समभूधदुराजवंश जाता व तदनु तस्य परम्परायाम ॥ ६ ॥ श्रीकृष्ण आदिपुरुपे मम पूज्यमायो न्यूनस्तु नैव भवता परिकल्पनीयः ॥ गावतारमहमेनमतीव मान्य मन्ये तदीयवचनेवपि गौरवं मे || - || (१०) यत्किञ्चिदत्र कविना अथितं हि वस्तु रम्यं च सम्यगभिनेयपथानुकूलम् ॥ यच्चापि भक्तिक्शतोऽभिनिवेशितं या तत्सर्वमीश्वरगुणानुगुणं हि वेद्यम् ॥ २३ ॥ नो मे हरावपि हरे च विशेषभावो' नो वा कवेरिति तु तद्वचनैः प्रतीवम् ।। उत्कर्षमाविरकरोद्यदिहेश्वरस्थ व्यासादिशिष्टक्चसामनुवाद एपः ॥ २४ ॥ तस्मादमपरिवर्जितहाईभाषा भावायबोधनपुरस्सरदर्शनेन । कुर्वन्तु मार्मिकबुधाः कृतिनः कृतित्वं विद्वद्भिराहतमुपैति हि धन्यभावम् ॥ २५ ॥ श्रीकृष्णचन्द्राम्युदयं यूपेतं सन्नाटकं पञ्चभिरेतदकैः ॥ सटीकमभ्यावहतु प्रतिष्ठा- माचन्द्रतारं कृपया शिवस्य ॥ २६ ॥ आशासान इति श्रीमद्रणजित्सिंहभूपतेः ॥ आस्थानपण्डितोऽस्म्येय सत्सौजन्यवशंवदः ॥ २७ ॥ शास्त्री हायीभाईशा.

- । . उपोद्धातः इतिहासरत्नस्य श्रीमहाभारतस्य प्राशस्त्ये प्रामाण्ये व कः संशेते बुधः? * भारतं पञ्चमी वेदः । वेदान् भारतपञ्चमान् । इत्यादीन्यार्पवामि यस्य वेदममानकश्चत्वं सघोपमायणन्ति । तस्मिन्नेतस्मिनुक्तं वर्णितं च बस्तु अव- एभ्य बहुभिः कविभी राजशेखरादिभी रचितानि बालभारतादीनि रूपकाणि लोकमानन्दयन्ति । अयमपि महाकविरदसीयमेव कथावस्तु समृह्य रूपकमेतत् प्रणीतवान् । प्रकरणस्य चास्य पञ्च मन्त्यकाः । 'पञ्चाङ्कमेतदपरं दशाई नाटकं परम् ।' इति दारूपके दशाश्त्य परलं पञ्चाङ्गस्य चाऽपरत्यमाभाषितम् । उ- भयोरपि प्रकरणपदेन व्यवहारोपि प्राचीनसम्मतो यतः कविवर्यः कालिदास: शा- पुन्तलारम्भे सूत्रधारमुखेन । कतमत् प्रकरणमाश्रित्यैनमाराधयिष्यामः । इति रूपकसामान्यपरत्वेन प्रकरणपदं प्रयुञ्जानः प्रकरणपदं नाटकनाटिकादिसामान्या- धनोधकं, न केवलं दशाङ्करूपकेष्वेव परिमापितमिति सष्टीचकार । अघ नाटके श्रीद्वारकायर्या राज्यपालयतः श्रीकृष्णचन्द्रप्रमोः पोशमह- श्रान्तःपुरविहरणपटोर्योगमायामधिष्ठाय प्रतिकलयमन्दिरं सर्वदा सममेव मानि- ध्यमर्पयतः एकदा महति प्रत्यूप एवोत्थायाऽलभितमेय बहिर्गमनम् , त्याननि. द्राणां राशीनां श्रीकृष्णादर्शनेन मम्मूष मियः पृच्छा । सांभिर्यपारमसङ्कल्प श्रीकृष्णगमनशदोड्नम् । श्रीराधायां श्रीकृष्णस्य सातिशयरागिनया तन्ममी. पगमनं शङ्कितवत्या मत्यभामया सह रुक्मिण्याः सरलस्वभावाया: कश्चिद् या- ग्व्ययः । तेन च सत्यभामाया: सरोपकल्पत्यमाशय नाम्बवतीकर्तृको माश्य- स्थ्येन प्रसगान्तरापादनाय भित्तिचित्रदर्शनोपक्षेपः । अत्रैव श्रीकृष्णनिर्मित- शिवचरित्रचित्रदर्शनेन श्रीकृणास्य शिवभक्तत्ववोधकबीजोपन्यास: । अस्मि- नयमेरे लामणया 'यदि कोपि मामिदानी प्रभु दर्शयेत् वरमै हीरकहार ट दामि । इति स्वनिश्चये प्रकारते, भगवद्दनस्य हारादिसाधनसाव्यत्याक्षेपपुर- स्मरं तस्य केवलं प्रेमभस्तिलम्यन्यव्यवस्थापनपरं नारदवचनम् । तदुक्नानु- धानेन च मध एव श्रीकृष्णस्य नवागमनं, मासो राशीनों तद्दनलामश्च । अस्मिन्नेव धो गरिमध्यादिभि: स्वसभावानुरूपप्रभारम्परोपन्यासे मद्रा- प्रभ देशपिंगा नारदेन । इत्यादिपचनभवणादेव अवसरासादनमुदितस्य नाग्दस्यागमनम् । बहकलनादोपमुद्भापयतो नारदस्य श्रीकृष्णेन साकं वाग्वि.

(८) भक्ति तु यस्य कुरुते स्म म कृष्णचन्द्र- स्तस्येश्वरस्य परमादरतः करोमि ॥ घिल्लेश्वरं स तपसा समुपास्प लेमे पुत्रानितीदमखिलं हरिवंश उक्तम् ॥ ८ ॥ गत्वाऽथ मोरबिनृपो निजराजधानी- माहूय शास्त्रिघरशङ्करलालमेतत् ॥ वृत्तं निवेद्य सनयं परिपृच्छतिस्म 'किं कृष्णचन्द्रभगवान् शिवभक्त आसीत् ?' ॥ ९ ॥ . तं प्रश्नमुनरयितुं किल भारतीय- माख्यानमुक्तमय शङ्करलालविज्ञैः ॥ द्रोणिं यदाह युधि सत्यवंतीतनूजः श्रीशङ्करार्चनकृतोहरिपार्ययोस्तत् ॥ १० ॥ वृत्तान्त एप गदितो नगरागतेन मां यदा बुधवरेण तदा मयोक्तम् ॥' संगेरते हि बयः शिवभक्तभावे कृष्णस्य नाधिगतशावरहस्यवत्याः ॥ ११ ॥ तत्ताहगशजनसंशयभिनिबन्धं कश्चिद् भवन्त उचितं रचयन्तु येन लोके भवेद्धरिहरोभयभेदभाव- उन्मूलितः सकललोकशिवायरोधी ॥ १२ ॥ भाज्या क्रियेत भवता यदि मत्स्कृतीना सम्यक् श्रुतिस्मृतियचोनिचयेन युक्ता ।। पौराणिकैश्व वचनः सकलं मदुक्तं . सक्तिभिश्च नितरामुपपाद्यते चेत् ॥ १३ ॥ कुर्या निबन्धमनघं दशरूपकोक्त- लक्ष्मानुसारिरचनं,नचिरेण ननम् ॥ श्रीपार्वतीहृदयवल्लभदेवसेवा. हपाकिकृष्णभगवच्चरितोपपन्नम् ॥. १४ ॥ यस्मान्मदुक्तिमपि साम्प्रतिका जनाद्रा, गावाचदर्शिन इापरथा. नयेयुः । ॥ .

(3):
क्रुद्धयेयुरप्यभिमतागमवाक्यजातः
श्रद्धाभरा अनधिगम्य मदुक्तिमर्म " ॥ १५ ।।
इत्येवमुक्तवति गौरवभाजि बन्धा-
बुक्तं मया तंदनु मित्रवशंवदेन ।
कास्मि युष्मदुदितोक्तिसमर्थनेन
टीकामहं गुरुवरस्मरणावलम्बः ॥ १६ ॥
एवं प्रतिश्रवरचो मम संनिशम्य
सोत्साहमारभत स्पकवर्यमेतद् ॥
पूर्ण च तूर्णमकरोत्सकविप्रकाण्ड
संवत्सरेण सहजप्रतिभानुरूपम् ॥ १७ ॥
संश्रुत्य नाटकमिदं सरचीनुभाई-
सज्ञा महाशयशिरोमणयः प्रसन्नाः ।।
स्वरं च मुद्रयितुमेतदुदारभावा-
टीकायुतं समदिशन् सहमा तदानीम् ॥ १८ ॥
यातेपु तेषु दिवमप्यनधा तदीया
पत्नी पतिव्रतपरा हि मुलोचनाख्या ॥
तत्पुत्ररत्नमुदयी गिरिजाप्रसादः
सम्पूर्णमुद्रणमकारयतामुदारौ ॥ १९ ॥
ताजमहाशयवितीर्णसदाश्रयेण
सञ्जातमुद्रणमिदं जगतीह भूयात् ॥
ध्वन्यध्वनि प्रचरतां रसिकोत्तमाना-
मानन्ददं हरिहरीभयभक्तिभानाम् ॥ २० ॥
मूलं तु रम्यमखिलं शिवमस्तियुक्तं
यस्मादसौ कवयिता शिवरूप आसीत् ॥
टीकामु यद् भवति रम्यमिदं गुरुणा
स्यायेदवद्यमिह यतदिदं ममैव ॥ २१ ॥
व्याख्यानमेतदसमञ्जसमित्युपेश्य
दूरेऽस्यतीतरकृति नु नमोऽस्तु तस्मै ।।
जागर्नु कोपि वमुधावलयेऽनम्यः
सन्मार्मिकः प्रयतन हि यदवत् ॥ २२ ॥

(१२) नोदः । तदानीमेव राशीप्रभोत्तरतया श्रीकृष्णेन-ब्राह्ममुहत्तादारभ्य मध्यान्ह र्यन्तमनुष्ठितस्य महाशिवरात्रिनिमित्तकरण श्रीशिवाराधनस्य-निवेदनम् । अन शिवविण्योरभेदभावसाधकवचनोपन्यासः । श्रीकृष्णाशया च राशीना महाशि- वरानिव्रतनियमग्रहणम् । नारदस्य सोस्टुण्ठवचनेन राशीपु प्रेमवपग्यपरिहारार्थ श्रीकृष्णकृतप्रश्नः, तदुत्तरतया जाम्बवतीमुखेन सर्वासां समानपुत्रप्राप्तिकामनावि- निवेदनम् । तत्सिद्धये च श्रीकृष्णस्य तपश्चरणाय वनगमनसङ्कल्पः । नारदानु. मत्या च प्रस्थानमिति प्रथमावस्तुसङ्केषः । अस्मिन्न श्रीकृष्णस्य शिवाराध- कत्ववर्णनं केवलमनुवाद एव भारतवचसाम् । आनुशासनिके पर्वणि अ० १४-- ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि । "विश्वेपामपि देवानां वपुर्धारयने शिवः ।। इत्यादि शिवस्य मर्वदेवाधिदेवत्वमुपक्रम्य 'न शुश्रुम यदन्येषां लिगमभ्यचितं मुरैः।। २३. इति च व्यतिरेकेण महादेवत्वं प्रसाध्य- यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः । अर्चयन्ति सदा लिङ्गं तस्माच् श्रेष्ठतमो हि कः । ? ||२३२।। इत्यादिवाक्यैः सूपपादितमेव शिवस्य साराध्यत्वमनानूद्यते ॥ शान्ति- पर्वणि राजधर्म अ० ५३- स ध्यानपथमाविश्य सर्वज्ञानानि माधवः । अवलोक्य ततः पश्चाद् दध्यौ ब्रह्म सनातनम् ॥ २ इत्यन स्पष्टमेव विष्णोः शिवाराधकत्वमुपवर्णितम् । ब्रह्मपदस्य शिव- प्रतिपादकत्वनैयन्यात् । सूतसहिताया यज्ञवैभवसण्टे अ० १५ 'वं ब्रह्म परमं गुह्यं सदासद्भावभावनः । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ २४ ॥ इत्यन 'मूल कृष्णो ब्रह्म च ब्राह्मणाश्थे । त्यत्र च ब्रह्मपदेन शिवस्यैव बोधनात् ॥ श्रीमद्भागवते च अष्टमस्कन्धे अ० ७-- 'भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ।। १९- २८ अनेन शिवस्य सर्वेषां शरण्यत्वकयनेन सर्याराव्यत्वस्य ममर्थनात् । यदि यस्ता विशम्भो दानवेन्द्र जगहुरी' स्कं.१.उत. अ०८८ लो. ३३ .

' . (:१३) 'क्षेमी स्यान् किमु विश्वेशे कृतागरको जगद्गुरौ । 'स्का १० उत. अ.८८ श्लो. ३१ इत्यादि श्रीमद्भागवते शिवस्य जगद्गुरुत्यस्य चतुर्विंशतिवारमुढोषणाटु- चितमेव वस्य सायभ्यत्वमिति । यच्चाऽप्यस्मिन्नन शिवपिणे 'सत्यै परिनुष्याम्यहं कचित् ।। ४० इत्यादि श्रीकृष्णवचनं तदपि, लैङ्गे उत्तरार्द्ध पटाध्याये- अलक्ष्म्या निवाम- योग्यस्थानायाभ्यर्धितेन भगवता श्रीविष्णुना स्वयमेव ये रुद्रमनघं शान्तं शङ्करं नीललोहितम् अम्बा हैमवती वापि जनित्री जगतामपि ।। ८३ ॥ मक्ता निन्दयन्त्यंत्र तेषां वित्तं तवैव हि । 'यपि चैव महादेवं विनिन्द्यैव यजन्ति माम् ॥ ८४॥ मूढा ह्यभाग्या मद्भक्ता अपि, तेषां धनं तव । यस्याज्ञया ह्यहं ब्रह्मान्ये चं वर्तामहे सदा ।। ८५ ।। ये यजन्ति विनिन्द्यैव मम विद्वपकारकाः। मद्भक्ता नैव ते भक्ता इव पतन्ति सर्वदा ॥ ८६ ।। तेषां गृहं धनं क्षेत्रमिष्टापूर्त तवैव हि । इत्युक्त्वा तां परित्यज्य लक्ष्यालक्ष्मी जनार्दनः ।। ८७ ।। जंजाप भगवान् रुद्रमलक्ष्मीनियसिद्धये ॥.. इत्याद्यनेकवाक्योपहिनम् ॥ द्वितीयाके शिशुपालदन्तवक्त्रयोमिथ आलापेन श्रीकृष्णपुत्रहरणादि मह- स्पावेदनम् । तत्र शम्बरकृतमायिकप्रपञ्चेन श्रीकृष्णप्रवृत्त्यधिगमस्वेन च श्रीकृष्ण तपोभद्गार प्रयत्नारम्भ एव विष्कम्भकसमातिः। देवकीयमुदेवयोः श्रीकृष्णसन्तत्यर्थ चिन्तापक्षेपलाम्यामेव नारदोपदिष्ट- शिवाराधनाय श्रीकृष्णस्य तपोवनं प्रति प्रेषणम् । नारदेन सहेव श्रीमदाशिया- राधनाय श्रीकृष्णस्य वसोवनगमनमिति द्वितीयाङ्कवस्तुसोपः ॥ नृतीयाद्वारम्भे मक्मिण्यादीनां श्रीकृष्णवियोगप्रयुक्तचिन्ता, श्रीकृष्ण मुनालाय च सर्वासा सम्भूय तपोवनदेश्ये स्थस्याश्यने तपश्चरणसङ्कल्पपूर्षिका सियाराधनप्रतिभा, शिवस्तुती लीनाना तामा मून्यायस्वदेव श्रीराधादीना- भागमनं, गधास्वमगरगुणगानेन सर्वामा मृगमः । वनो राधास्तीपदो.

(१४) नापि अनयुद्धकृष्णसतत्या- सवाः, श्रीपार्वत्या आगत्य कृतसान्त्वना. श्रीकृष्णस्य तपोवनवृत्तान्तमवगम्य मुदिता इति तृतीयाङ्कवस्तु ॥ चतुर्थाके च पुनरपि श्रीकृष्णवृत्तान्तशेषमवगन्तुमातुराः सर्ग राज्यो मण्डपे मिलितास्तत्र श्रीपार्वती ता. सर्वाः, श्रीकृष्णस्य तपोवननिवासानुयक्त तपश्चरणलेशं, तदन्त पाति रैवताद्रौ उपमन्युसमागमादि, तदुपदिष्टप्रकारेण श्रीकृष्णस्य शैवदीक्षापुरस्सर शिवाराधनमित्यादि सकल दिव्यदृष्टिप्रदानेन दर्श यति । अन उपमन्युकृतपञ्चाक्षरीविद्योपदेश: सर्वार्थसिद्धिमूलमिति नदेव शाम्रोक्तमनूदितम् । नम शिवाय रुद्राय नम शक्तिधराय च। सर्वविद्याधिपतये भूताना पतयेनमः ॥ ३२ ॥ श्रीभा. स्क, ८ अ १६ नम.शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजोजुपेप्यघोराय नमस्तस्मै तमोजुपे ।। १७ ।। श्रीभा. स्कं. १२ अ १० इत्यादिविस्तरेण श्रीमद्भागवतादिषु महता गौरवेणास्या एवं पञ्चाक्षरी विद्याया निरूपणात् ॥ अवान्तरे गजारूढस्य सुदाम. प्रवेश । सदीयहेमवेम्मादि दृष्टा श्रीरुक्मिण्यादयो विस्मयन्ते, श्रीपार्वती समृद्धे श्रीकृष्णप्रसादप्रभवत्यमुक्त्वा तासा विस्मयमपाक्रोति । प्रसङ्गादन मैत्रीमाहात्म्यकथनम् । श्रीकृष्णेन मु दाने सालोक्यादिमुक्तिनयदानम् । कैवल्यमुक्तेरसमर्पणे हेतुत्वेन कैवल्यमुक्ति दातृत्व शम्भोरेवेति श्रीकृष्णमुखेने प्रतिपादितम् । तदर्पणाय च श्रीकेदारनाथस्य मुदामानुग्रहायर हिमालयात् मुदामपुरागमन तव चावस्थानमिति निरूपणम् । श्रीकृष्णस्य बिल्ये वगराधनाय बटुकाचलगमनम् । तन प्रतिदिन श्रीश ट्रे सहस्रकमलार्पणबल्युपहारादि नानाविधोपचारपूजासमारम्भ । एक्दा सहस्र यमल्मध्यान्मायाविना 'शम्बरेणागत्यैक कमलं हसरूपेण हृत तदानीमेय-श्रीकृ ब्णेन स्य नेम्मरमुद्धत्य सहस्रसङ्ख्यापूरणात् प्रसग्नेन शिवेन-प्रतिकलामेरा पुत्री पुनदशक च भविष्यतीति वर दत्वा स्वयमितरानष्टौ वरानम्बिका पोशवरान् ददाविति चनुायस्तु । पञ्चमाङ्के पुनस्लप प्रसनान्महेश्वरात् सुदामा तत्पत्नी मुशीला च श्री कृष्णस्य सध इमिईि वृणुतस्तावदेव श्रीकृष्ण कृतकृत्य सुदाम्न. पुरत आग छति, त महेश्वर मुदाम्ने वैव यमुक्तिदानाय प्रेरयति । श्रीकृष्णोपदिश तर I (१५) भक्त्यभिनिवेशभावितान्तःकरणाय सुदाम्ने नारोचत । तत: श्रीमहेश्वरः स्वयमेव सर्वात्मभावानुभवलक्षणां कैवल्यमुक्ति दत्त्वा ताभ्यां स्तुत एव श्रीकेदारनाथलि- जेऽन्तर्हितः । ततः श्रीकृष्णस्य मुदामपुरप्रवेशः । मुधर्मासभायामुग्रसेनवमुदेवादीनामने श्रीकृष्णराशीमां सीमन्तोन्नयनप्र- सङ्गेन वनालङ्कारादिदानायागता भीमसेनादयस्तिष्ठन्ति तावदेवागत्य दासीभिः पुत्रजन्मनिवेदनम् । ब्राह्मणांशीर्वादान्ते च भद्रशीलामुखेन रुक्मिण्याः पुत्रस्य साप्ताहिकस्यैव केनाप्पलक्ष्यभूतेनापहरणकयनम् । तत एवं ' च भीमसेनादीनां तन्मार्गणाय दिगन्तेषु सम्प्रेषणम् । श्रीकृष्णस्यैतद्वृत्तान्तश्रयणेऽपि निष्कमहृदय- तादर्शनेन बलभद्रविस्मयापनोदाय-शिवभक्तानामस्माकमनिष्टं"कन कोपि प्रभवतीति-दृढनिश्चयमेव स्वानुद्वेगकारणं पुरस्कुर्वन् श्रीकृष्णस्तदानीन्तनेऽनिष्टेपि माविकल्याणमाशांसानः स्वनिश्चयमतितरामचलयति । स्वेष्टदेवताविषयिणी निष्ठा हि वाञ्छितार्थत्य नैयत्येन सद्यः सिद्धिदा । तथा च मार्कण्डेय:-- पशुपतिवचनाद् भवामि सद्यः क्रिमिरथवा तरुरप्यनेकशाखः । अपशुपतिवरप्रसादजा में त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥८॥ N आनु. १० काममेष वरो मेऽस्तु शापो वाऽध महेश्वरात् । न चान्यां देवतां का) सर्वकामफलामपि ॥ २३७ ।। इति स्वोपास्यविधम्म एव फलतीति तत्वविदां वादः । अनः परं मायावती (भूमिकान्तरापन्ना रतिः) शम्बरहपरिचरणप्रसङ्गे दासीव्याजेन नियमन्ती तती मायाशतं विदितवती । एकदा उपायनतयोपागतं संस्करणार्य राज्ञा प्रेषितं महामत्स्यं खण्टशः कल्पयन्त्या तया तन्मत्स्योदरात्, कुमारो दिव्याकृतिरुपलब्धः । गगनगिरा च ' तयाऽयं पूर्वजन्मपति' रिति प्रतिबोधिता अचिरेणैव वृद्धिमापन्नायास्मै कुमाराय मायाशतमुपदिदेश । माया शतज्ञानप्रभावान् मदनेन शम्बरमनपूर्वकं तद्वाज्यापहरणम् । अत्रानेहसि जाम्बवतीतनपस्य साम्यस्य कुरुराजकन्यापहरणकुपितकौरवै- न्धनम् । बलभद्रेण तत्र गत्ला बन्धनान्मोचितस्य द्वारकानयनम् । रुक्मिण्या सह श्रीकृष्णो जाम्बवतीभवनं साम्बमुखदर्शनार्थ गति वायत्तत्र जाम्बवती-- मुदिमामालय पुन्छति श्रीकृष्णः । आम्दवती, केनाप्याहृतस्य श्रीरुक्मिणी- सुतम्य प्रद्युम्नस्य प्रवृत्त्यनधिगममेव स्वोदेगकारणं निगद्य स्प्रवृत्युपलम्भाय (१६) श्रीकृष्णमाग्रहाति । ततश्च श्रीकृष्णः श्रीमहेश्वरप्रार्थनमेव तल्लामोपायमादिश्य राज्ञीमिः समेत एव श्रीशङ्करप्रार्थना करोति, तावदेव श्रीशङ्करस्तत्कृतस्मरणमान- सिद्धसानिध्यः पुर एव मायावतीमदनाभ्यामन्वित आविर्भूय मायावती रति, मदन च प्रद्युम्नमाबोध्य सर्वा राजीः सान्त्वयन् श्रीकृष्णं किं ते भूयः प्रिय करोमी ति यदोपच्छन्दयति तदाऽनैवाभ्युदयस्य पर्याप्तत्यमाभाष्य श्रीकृ'ण. मुखेनैव जगतः कल्याणाभ्यर्थना । प्रजायाः मुरिसत्वे राजमक्तेरात्यन्तिकहेतुत्व- कथनेन राजभक्तिरूपमहामङ्गलाचारपर्यवसिनत्वबोधनं प्रकरणापवर्गोत्कर्षः । कवेरस्य कृतिरूपाः सन्तीतरे बह्यो निबन्धास्तानन केवलं नामग्राहमुपदिशामि- सावित्रीचरितम्, ध्रुवाभ्युदयम् , अमरमार्कण्डेयम्, गोपालचिन्तामणिविजयम् , भद्रायुर्विजयम्, एतच श्रीकृष्णचन्द्राभ्युद्यमिति नाटकषटकम् ; चन्द्रप्रभाचरि- तमित्यारया कादम्बरीकरपा कया; विद्वत्कृत्यविवेकः, विपन्मिमिति निबन्ध द्वयम् ; श्रीवालाचरितं नाम महाराव्यमेकविंशतिसर्गात्मकम् ; प्रयोगमणिमा- लाग्या लघुकौमुद्याः साधनकमर्शिनी टीका, इत्येतानि गीर्वाणगीनिर्माणानि; अध्यात्मरत्नावली-नामकश्चाध्यात्मविद्योपदेशरम्यो गुर्जरभाषानिबन्ध: प्राकृत- जनानुग्रहाय रचित इत्येव द्वादश ग्रन्थाः अन्ये च बहवो लघुलेग्वाः । तत्र भद्रा- युषिजनममरमार्कण्डेयमिति च नाटकद्वय पिहाय स. सञ्जातमुद्रणा लोका- नामतीव श्रेयोहेतवः सर्वथा" नीतिमया अनाघ्राताश्लीलगन्धतया स्त्रीभिरप्य सङ्काच परिशीलयितुमही लोकोपकारमायेहन्ति । कवेः प्रसादमधुराणा याचा माचम्य रस मोक्षमूलरादयो वैदेशिका अपि महाविद्वांसः सन्तोपमाविरकुर्वन् न्यतस्तैः प्रकटिताः स्वाभिप्रायास्तेषु तेषु मुद्रिता:सन्ति पुस्तकेषु । प्रश्नोरानागर- जातेयस्य कवेरस्ति विशालं जीवितवृत्त परमतिप्रसङ्गभगादत्रानिरूप्य पृथगव प्रकटयितुमिप्यते । सबत् १९०० आषाढशुक्लचतुझं लब्धजन्मनः संवत् १९७३ 'आषाढपूर्णिमादिने कैलाम प्रस्थितस्य महामाहेश्वरभट्ट-माहेश्वरात्मजस्य जनिम. । पनयन महामहिमश्रीकेशवगुरोः सकाशाद् विद्याधिगमश्चेति सकल जामनगरे एव, पैतृक निवासस्थानं मोरनीपूरिति तत्रैवाऽऽप्रायणमवस्थितिर्महामहोपाध्या- यपदवीलामोपि तद्गुणगणमदिनवेति शिवम् । 'श्रीमन्महामहिमहरिशङ्करात्मजः शास्त्री हाथीभाई-शर्मा -- जामनगराभिजनः अस्मिन् नाटके पात्राणि । प्रधानपात्रं यस्यायमभ्युदयो वर्णितः । श्रीकृष्णस्य पट्टरायः। देवर्षिः। श्रीकृष्णचन्द्र:- संक्मिणी- सत्यभामा- जाम्बवती- कालिन्दी- भद्रा- सत्या- मित्रविन्दा- लक्ष्मणा-- रोहिणी- नाग्निजिती- नारदः- शिशुपाल:- दन्तवकः- प्राचार्ग- द्वारपाल: देवकीयसुदेवी- श्रीराधा- ललिता- चन्द्रावली- विमासा- लीलावती- श्रीपार्वतीमहादेवी- उपमन्युः- शिप्या:- सुदामा- श्रीकृष्णस्य पितृवतीयोऽमुरकल्पवेदिगनः । शिशुपालस्य सखा वर्णिलिङ्गी शम्बरामुरः। शिशुपालसेवकः । श्रीकृष्णस्य मातापितरौ । श्रीकृष्णस्य परप्रेमात्पदं वृषभानुजा । श्रीराघायाः सख्यः। श्रीकृष्णान्युदयार्थमुपायातं देवयुग्मम् । श्रीकृष्णस्य वदोभानायर्या व्यानपादपुत्रो मुनिः। उपमन्योरेव- श्रीकृष्णस्य परमः सत्या विमः ।

(१८) मुदामपत्नी मुदाम्नो मन्त्री मथुरानरेशः श्रीकृष्णस्याग्रजः। पाण्डवी यादवः " " " सुशीला- भद्रसेनः- उग्रसेन:- वलदेवः- भीमार्जुनौ- सात्यकिः- कृतवर्मा- अक्रूरः- उद्धवः- अन्ये राजानः- पौरा जानपदाश्व- भद्रशीला- मायावती- राजसेवक:- चम्पकमाला- साम्ब:- रतिः- कामदेवः- देशाधिपाः समिता जनाः दासी रतिरेव भूमिकान्तरापन्ना शम्बरस्य भृत्यः। जाम्बवत्या दामी जाम्बवतीपुत्रः कामपत्नी प्रद्युम्मोऽस्तीर्णः T श्रीराजराजेश्वरो जयति श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । अथ श्रीकृष्णचन्द्राभ्युदयम् । छायानाटकम् । प्रथमोऽङ्कः। श्रीमत्साम्बसदाशिवाऽतुलकृपापीयूपसिन्धूद्भवो रुक्मिण्यादिमनोरमप्रियतमातारागणानन्ददः । भक्तस्वान्तचकोरकैः प्रणयिभिश्चास्वाद्यमानो मुदा श्रेयांसि प्रतिवासरं दिशतु नः श्रीकृष्णचन्द्रोदयः ॥ १ ॥ श्रीगणेशाय नमः याभ्यामुत्पादितं विश्वं याभ्यामेव च पाल्यते । मातापितृभ्यां जगतो द्वाभ्यामेव नमो नमः ।। नत्वा श्रीकेशवगुरून् स्मृत्वा वागधिदेवताम् । श्रीकृष्णचन्द्राभ्युदये टीका ज्योल्लामियां व्यधाम् ॥ प्रारिसितप्रकणरणस्य निर्विघ्नपरिसमाप्तिपूर्वकं प्रचयगमनाय स्वेष्टदेवतां स्तुवन् सवस्तूपक्षेपं द्वादशपदनान्दीपाठमुपक्रमते | नान्दीपाठः सूत्रधारकर्तृकः । तदुक्तं भरताचार्येण पञ्चमेऽध्याये । सूत्रधारः पठेत्तत्र मध्यम स्वरमाश्रितः । नान्दी पदेादशभिरष्टभिर्वाप्यलकृताम् ॥ एतेन 'कुशीलवा नान्दीपाठं कुर्वन्ति तदवसाने एव सूत्रधारप्रवेश' इति वदन्तो नवीना दत्तोत्तराः । राघवभट्टेनापि शाकुन्तलव्याख्यानारम्भे 'अय नाटकादौ पूर्वरशानभूतामाशीरूपां चतुरसतालानुसारिणीमष्टपदा सूत्रधारो नान्दी पटति' इति वदता एतदेव सम्पपिशवीकृतम् । . १ २ श्रीकृष्णचन्द्राभ्युदयम् । द्वादशपदामित्यत्र पदशब्दः पादपर्यायोऽपि । अनर्धराघवटीकारम्भे रुचि- पत्युपाध्यायेन श्लोकद्वयरूपाया नान्द्या अष्टपदापदेन व्यवहृतत्वात् । अत्र तु 'सुतिइन्तमिति । वैयाकरणपरिभाषितमेव पदमभिसन्धाय द्वादशपदेतिकथनम् । कुत्रचित् पदसमुदायरूपवाक्येऽपि पदप्रयोगो दृश्यते । यथा शाकुन्तले याक्या- एकात्मकस्याद्यपद्यस्याष्टपदा नान्दीतिनिर्देशः कृतो राघवभट्टेन । नाट्यप्रदीपे- 'लोकपादः पदं केचित् सुप्तिडन्तमथापरे । . परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे। ॥ इति सर्व समर्थितम् । नान्दीलक्षणमुक्तं भरताचार्येण आशीर्नमस्त्रियारूप: श्लोकः काव्यार्थसूचकः । नान्दीति कथ्यते इति । षट्त्रिंशाध्याये पुनः- देवतांसुरमानन्ध यस्माल्लोकं च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति । इति सहेतु गदितम् । इयं तायदाशीरूपा नान्दी । (१) श्रीमदिति । श्रीमतः साम्बस्य च सदा- शिवस्य अतुलकृपैव पीयूपसिन्धुरमृतसागर-स्तस्मादुद्भवो यस्य तादृशः श्रीकृष्ण एव चन्द्रस्तस्योदयः प्रतिवासरं नः श्रेयांसि दिशतु इति सम्बन्धः । यथा प्रति- दिनमधिनिशमुदयश्चन्द्रस्य नैशान्धकारनिवारणेन चन्द्रिकाप्रसारणेन च लोकानां श्रेयस्कर एवमयं श्रीकृष्णचन्द्रस्याप्युदयः श्रीसदाशिवप्रसादजन्योऽन्वयसन्तान- सर्वोत्तमत्वादिलक्षणः सर्वेषां नः श्रेयांसि मनोविनोदनादीनि यावदैश्वर्योपयि- कानि दिशतु इत्याशीरर्थनात्मकमिदं समगलं नान्दीपद्यम् । तमेव श्रीकृष्णच- न्द्रोदयं विशिनष्टि-रुक्मिण्यादयो या मनोरमाः प्रियतमास्ता एव तारास्तासां गणमानन्दयतीति तादृशः । भक्तानां स्वान्तान्येव चकोरकाः 'अल्पार्थे कन् । बालचकोरा इत्यर्थः । तैः प्रणयिभिः सद्भिर्मुदा आस्वाधमानो नतूदासीनैरिति । अत्र श्रीपदेन परा शक्तिरम्बापदेन च दाक्षायणी पार्वती वेति बोध्यम् । तेन त्रिमूर्त्यतीततदन्तर्गतयोरुभयोरपि रूपयोः स्मृतत्वेन वक्ष्यमाणाभेदोपपत्ति: सूचिता । 'सूत्रधारः पठेन्नान्दी श्लोकः काव्यार्थसूचके -रित्युक्तत्वेनायं श्लोकः काव्यार्थ- सूचकः । तद्यथा-श्रीकृष्णचन्द्रस्याम्युदयो हि समग्रस्य काव्यस्य प्रतिपाद्योर्थस्तत्र च रुक्मिण्यादीनां प्रियतमात्वपोषकं मनोरमेतिविशेषणोपादानम् । अभिजातम- मिहेनोरिव परस्परानुरक्तयोर्दम्पत्योोंगो भवति महतेऽभ्युदयाय । सोयं दक्षत्वेन सकलकविकुलसम्प्रतिपन्नस्यापि श्रीकृष्णलक्षणस्य नायकस्य प्रेयसीप्रणयपार- वश्यपरायणस्य तदिष्टमम्पादनार्थ तपोवनगमनादिल्लेशमुररीकुर्वतोऽनुकूलनायक-.

प्रथमोऽङ्कः। ३ समस्तसन्तापहरः सदाहादकरः सदा । भूयाच् श्रीकृष्णचन्द्रस्याभ्युदयोऽभ्युदयाय नः ।।२।। सद्विद्यासम्पदे वन्दे विद्यासाम्राज्यसिद्धिदौ । दयामृतमयात्मानौ श्रीकेशवमहेश्वरी ॥ ३ ॥ त्वापादनेन कोऽप्यवर्णनीयो रमपरिपोषः कविनाविर्भाव्यत इति सहृदयहृदयेऽना. वृतमेव काव्यार्यसूचनम् । वाच्यार्थबीजरूपनायकस्याभिधानात्पत्रावलीमज्ञ- केयं नान्दीति वैद्यम् । तदुक्तं नाट्यदर्पणे-- यस्यां बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । मलेषण या समासोक्त्या नान्दी पत्रायली तु सा ॥ अत्र पद्ये रूपकमलकारः । तदुकं दण्डिना-- उपमैव तिरोभूतमैदा रूपकमिप्यते इति । 'गङ्गा नागपतिः सोमः मुघानन्दो जयाशिपः । एभिनामपदैः कार्या नान्दी कविभिरकिता ॥ इति भरतवचनादत्र साधाचन्द्रपदोपादानं साम्प्रदायिकमेव । शार्दूलविक्री- हितं वृत्तम् । क्षेमं सर्वगुरुदत्ते मगणो भूमिदैवत' इति भामहोक्तेरादौ मगणो. धारणमतीवयुक्तम् । लोकपादः पदमिति मतमप्यनुसन्धानः कविर्मङ्गलबाहुल्याय अनुष्टुवयेन नान्दीमयोपबृंहयति (२) समस्तसन्तापहर इति । समस्ताश्च ते सन्तापाः समस्ताना (जनाना) या सन्तापास्तान् हरतीति तयाविधः । सदा सर्वदा सता. माहार्द या करोतीति वाक्, श्रीकृष्णचन्द्रस्य अभ्युदय: नोऽस्माकमभ्युदयाय भूयात् । अत्र चन्द्रोदयस्य केवलबाह्यसन्तापहरतया रात्रावेवाहादकत्वेन च ततोऽस्य श्रीकृष्णचन्द्राभ्युदयस्य व्यतिरेकावगमाद् व्यतिरेकालङ्कारः। स्वस्मिन् अन्यकरणपर्याप्तशक्तिमाधानुकामोऽभेदभावनामो कुर्वन् केशव- महेश्वरी सामस्त्येन स्तौति । (३) विद्यासाम्राज्यसिद्धिदौ श्रीकेशवमहेश्वरी हरिहरी सद्विद्यासमदे-सदिधाममामाय पन्दे । चिरमाराधनविरहयतः फेयलवन्दनेनैव कर्य ती तुम्य विद्यासम्पद दास्पद इत्यतो विशिनष्टि । दयामृ. तमयात्मानौ । वं विनय परदुःखप्रहाणेच्या दयेति वाशदयामयस्वरूपयो- स्तयोमाटगमनकृवस्मरणमात्रमेवाभीष्टसिद्धये भवितेति हदविश्वासोकिरियम् । अप्र विधागुरोः श्रीकेशवशानिमः पितुश्च महेश्वरमस्य पन्दनोद्देश्यत्वेन समा- सोस्त्येव बोपनात्समामोचिमूलो ध्वनिः ॥ नान्यन्ते सुत्रधारः । यदतीति , श्रीकृष्णचन्द्राभ्युदयम् । (नानान्ते) सूत्रधारः-अलमतिविस्तरेण । आज्ञप्तोस्मि महाराजेन श्रीकृष्णच- न्द्राभ्युदयाभिधानमभिनवं नाटकमभिनेतव्यमिति । (नेपथ्याभिमुखमवलोक्य) प्रिये ! इतस्तावत् । (प्रविश्य नटी) नटी-आर्य ! एपास्मि को निदेशः ? सूत्र-प्रिये ! आज्ञप्तोऽस्मि महाराजेन ( इत्यादि पुनः पठति) नटी-केन महाराजेन आज्ञप्तम् ? सूत्र-शृणु प्रिये । शेषः । (४) अलमति विस्तरेण । इयं हि प्राय: शैली नाट्यविदां यदारंभे नान्दीसमाप्ती सर्वत्र अतिविस्तरप्रतिषेधनम् । यतोऽतीव माङ्गलिकमपि यदति- विस्तृतं तदुद्वेजयति श्रोतृचेतांसि 'धत्ते पुण्डूकशर्करापि कटुतां कण्ठे चिरं चर्वि- तेति लोकोक्तेः। (५) आज्ञप्तोस्मि महाराजेनेतिवचनं प्रश्नोत्थापकतया काव्यार्थबीजायते, अग्रे 'केन महाराजेनेति । नटीकर्तृकप्रश्न तदुत्तरोद्घाट- नात् । श्रीकृष्णचन्द्राभ्युदय इत्यभिधानं यस्य तदभिनवं नाटक , भित्यत्राभि- नवपदं प्रेक्षकाणां परमौत्सुक्यमुद्बोधयति । ' गोत्रं नाम च बनीयात् पूजावाक्य सभासदाम्, इत्यादि, अभिधेयगतं यत् तत् काव्यनाम्ना प्रकाशनम् । इत्यन्तेन भावप्रकाशिकायामुक्तत्वात् । नाटकमभिनेतव्यमिति ॥ नाटकलक्षणं दशरूपके- -प्रकृतित्वादथान्येषां भूयोरसपरिग्रहात् सम्पूर्णलक्षणत्वाच्च पूर्व नाटकमुच्यते । इति प्रतिज्ञाय अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते। इत्यादिना निरूपितम् । मातृगुप्ताचार्यस्तु । प्रख्यातवस्तुविषयं धीरोदात्तादिनायकम् । राजर्षिवंशचरितं तथा दिव्याश्रयान्वितम् ॥ युकं वृद्धिविलासाद्यैर्गुणैर्नानाविभूतिभिः । शृङ्गारवीरान्यतरप्रधानरससंश्रयम् ॥ इति वृत्तकयोद्भूतं किञ्चिदुत्पाद्यवस्तु च । नाटकं नाम तद् शेयं पताकास्थानकैर्युतम् ॥ इत्याह । .

प्रथमोऽङ्कः। श्रीमोंधीवानरपतिमणिश्रीरवाजित्तनूजः। श्रीकृष्णेन्दोश्चरणकमले लीनचेतोमिलिन्दः॥ शौयाँदार्यप्रणयनिलयः स्वप्रजाश्रेय इच्छुः । काँयावंशे विलसति मणिक्वजिन्मोरवीन्द्रः ॥४॥ नटी-नाथ! सकलभूमण्डलप्रख्यात एवायं श्रीमोरवीमहेन्द्रः। ततस्ततः? सूत्र-तस्य श्रीमन्महाराजस्याज्ञया मोरवीपतेः । श्रीकृष्णाभ्युदयं प्रेम्णाऽभिनेतन्यं मुनाटकम् ॥ ५ ॥ नटी t-नाथ! कस्य कवेः कृतिः सा ? प्रथम सूत्रधारेण 'आज्ञतोऽस्मि महाराजेनेति । आत्मगतवदभिहितं ततो नटी- प्रवेशानन्तरं पुनस्तदेवाऽऽवृत्तं तेन च नटीवचसि ' केन महाराजेने । ति प्रश्नावसर उत्पादितः । किञ्च-रङ्गं प्रसाद्य मधुरैः श्लोकः काव्यार्थसूचकैः । ऋतुं कञ्चिदुपादाय भारती वृत्तिमाश्रयेत् ॥ इतिकथनानुरोधेन प्रथमं रङ्गस्य-तास्थ्यात्ताच्छब्धम्-रङ्गस्थप्रेक्षकग- णत्य काव्यार्थसूचकैर्मधुरैः श्लोकै: प्रसादनं कृतमनेन कविना । ततश्च ऋतुं कञ्चिदाश्रित्य गेयमिति तदवसरप्रदानाय नटीमाहूय तत्प्रवेशानन्तरं नटी यदा नियोगोन्मुखी पृच्छति तदा तदुत्तरव्याजेन स्वाश्रयभूतनरपतिप्रशंसनपूर्वक कवि मापि प्रकटयति । (६) श्रीमोंघीया इत्यादि पद्यं स्पष्टार्थम् । अत्र राज्ञो व्यानजिदभिधस्य मोंघीवारवाजीत्याख्यसद्गुणसम्पन्नमातापितृजत्वेन का- व्यार्थाभिनयप्रेक्षणोत्सुक्य, श्रीकृष्णेन्दोश्चरणकमले लीनश्चेतोस्पो मिलिन्दो भ्रमरो यस्य, एतेन श्रीकृष्णमक्तत्वं, शौर्यौदार्यप्रणयनिलयः स्वप्रजाश्रेयइच्छुरिति विशे- पणद्वयेन राजव्यवहारयोग्यत्वमप्रमादित्वं च, काँयावंशे विलसतीत्युक्त्या च महाकुलीनत्वं; कविनाऽऽविभांवितम् । मोरवीन्द्र इति मोखीसंज्ञकनगरी कये- निवासस्थानं तदधिपतितया च नृपे उपास्यता कविसम्मता काव्यसन्निवेशेन सम- थिता, नटीमुखेन च सफलभूमण्डलप्रख्यात एवेति वाचनादुपपादिता राशः सुप्रसिद्धता । तस्य श्रीमन्महाराजस्याज्ञया नाटकमभिनेतव्यमित्यर्थक-लोकेन राज्ञः सुकविप्रणीतसुनाटकप्रेशणे मार्मिकत्वमाविकृतम् । इदानीम् “ उन्मुखी- .करणं तत्र प्रर्शसातः प्ररोचना ॥ इति लक्षणलक्षितप्ररोचनामवतारयति नटी- मुखेन । (७) कस्य कोः कृतिः सेति ।

श्रीकृष्णचन्द्राम्युदयम् । सूत्र-प्रिये ! तदपि निवेदयामि । 'माहेश्वरात्मजनुपोऽर्द्धशशाङ्कमौले- र्दासस्य वर्यगुरुकेशवधर्मसूनोः। सेयं कृतिलसति शङ्करलालनान्नः श्रीमज्जटाद्यपदशङ्करमित्रमौलेः ॥ ६॥ नटी-नाथ ! कविरपि मातापितृसद्गुरुभक्तिधुरंधरः सुविदित एव । कोऽतः परं निदेश आर्यपुत्रस्य ? सूत्र-तत्सङ्गीतेन रञ्जय सभ्यजनानां मनांसि । नटी-कं समयमनुसृत्य गेयम् ? प्रिये ! वर्तमानं वप समयमैवाश्रित्य गीयताम् । नटी यथाज्ञा आर्यपुत्रस्य । (इति गायति) १°अस्मिन् वर्षति जीवनान्यविरतं धाराधराधीश्वरे । संतापा गलितास्तृपश्च दलिताश्चिन्ता प्रशांताऽखिला ॥ हृष्टं पुष्टमिदं जगद्विरहिताः कांताश्चकोर्यश्च हा । न प्राप्य प्रियचन्द्रदर्शनसुखं मग्ना विपादाम्बुधौ ॥७॥ तदपि निवेदयामीति प्रतिज्ञायाऽऽह सूत्रधारः-(८) माहेश्वरा- त्मजनुपः अर्द्धशशाङ्कमौलेर्दासस्य गुरुवर्यकेशवधर्मसूनोः शंकरलालनाम्नः सेयं कृतिर्योऽसौ कविः, श्रीमान् जटाशंकरो मित्रमौलिर्यस्थेति तादृशः । नेमे भिन्न- फ्रमे पष्ठयौ शंकरलालककित्वादेतस्य नाटकस्य मित्रनामनिर्देशेन कविना मित्र- धर्मो दर्शितो लोकदेशनायै । नटीमुखेन कविनिर्देशपद्योक्ता कविनिष्ठा माता- पितृभक्तत्व-गुरुभक्तत्व-मित्रप्रियत्यादयो गुणा अनुवादिताः कवीनामेवम्भावा- येति । सूत्रधारो नटी निदेशमभ्यर्ययमानामाह-(९) सङ्गीतेन सभ्यजनानां मनांसि रञ्जयेति । एतदन्तमुन्मुखीकरणमितः परं प्ररोचनाङ्गत्वेनापेक्षितं नटी- मुखेन ' के समयम् । इति प्रश्नोत्तरे 'वर्तमानमेव वर्षर्तुसमयमधिकृत्ये। ति सूत्रधारोक्तिः समयौचित्यमावेदयति गायनकर्मणि । नटी तथा गायति (१०) अस्मिन् 'इदमस्तु सन्निकृष्ट ' मिति वचनात् सन्निहिते धाराधराणां मेघाना. मीश्वरे महामेघे अविरामेण जीवनानि जलानि वर्षति सति । जीवनं भुवनं जलमित्यमरः । सन्तापाः सर्वेषां जनानां गलिताः । तृषश्च दलिताः शमिताः । धाराधराधीश्वरेणेति योजनीयम् । अखिला निःशेषा दुर्भिक्षाशंकादिजन्या चिन्ता प्रयमोऽङ्कः। ७ (नेपथ्ये) सत्यं सत्यम् । 'न प्राप्य प्रियचन्द्रदर्शनसुखं मग्ना विपादाम्बुधौ' सूत्र-प्रिये श्रीकृष्णचन्द्रविरहिणीनां महाराज्ञीनां स्वर इवोपलक्ष्यते तदेहि अनंतरकरणीयाय सन्नीभवावः । (इति निष्कान्तौ) (ततः प्रविशन्ति श्रीरुक्मिण्यादयो महाराज्यः ) च प्रकर्पण शान्ता । इदं प्रत्यक्षगोचरं जगत् पुष्टं हृष्टं चोपलक्ष्यत इति शेषः। हा इति खेदोद्गाराविष्करणम् । विरहिताः प्रियविरहिताः कान्ताः चकोर्यश्च प्रिय- चन्द्रदर्शनसुखं, कान्तापक्षे प्रिय एव चन्द्रस्तदर्शनमुखम्, चकोरीपक्षे च प्रिय- थासौ चन्द्रस्तद्दर्शनसुखम्, न प्राप्य, प्रोपितभर्तृकाणां दूरदेशस्यपतित्वेन चको- रीणां च मेघावृतचन्द्रविम्बतया प्रियचन्द्रदर्शनसुखाप्रातिस्तन्निदानकं च विषा- दाम्बुधिमजनम् । किश्व-पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनटः ॥ इति आस्थापकनटादिकर्तृकदिव्यमत्यादिवस्तु बीजं मुखं पात्रं वा सूच- येदिति निर्दिष्टमस्ति । तदत्र 'न प्राप्य प्रियचन्द्रदर्शनसुखं मना विपादा- म्बुधो । इति बीजस्थापनं नटीकर्तृकमेव । यद्यपि 'सूत्रधारे विनिर्गवे । इति सूत्रधारनिर्गमानन्तरमन्यः स्थापकः समागत्य बीजादि स्यापयेदित्युक्तं तथापि श्रीहर्षेण रत्नावल्या 'द्वीपादन्यस्मादपि इत्यादिबीजं नटीमुखेनैव स्थापितमस्ती- त्यत्राप्येवमुपन्यासः साम्प्रदायिक एव । एतत्पद्यस्य चतुर्थचरणः कयोद्घाताऽऽख्यवीप्यङ्गमामुखमवगमयति । तदुक्तम्--स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सत्रिणः । गृहीत्वा प्रविशेत् पात्रं कयोद्घातो द्विधैव स: ॥ अत्र 'न प्राप्ये त्यादि वाक्योपादानेन प्रयमविध एव कयोदघातः । नेपथ्ये-सत्यं सत्यं न प्राप्ये त्यनुवादमाकर्ण्य सूत्री नटीमुद्दिश्य श्रीकृष्ण- चन्द्रविरहिणीनां स्वर इवेति तर्कमूलकं प्रवेश सूचयित्वा-अनन्तरकरणीयाय सजीमवाव इति सापदेश निष्क्रान्तः । अयञ्च कवेः प्रयोगाविशयस्तदुक्तं दशरूपके-- एपोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः। पात्रप्रवेशो यत्रेप प्रयोगातिशयो मतः ॥ तथा च शाकुन्तले 'एष राजेव दुष्यन्तः सारङ्गेणे त्यादि । इदानीं प्रयोदशवीभ्यङ्गमस्यात् उद्घात्याख्यमनमादृत्योपक्रम । (११) वयः प्रपि.

८ श्रीकृष्णचन्द्राभ्युदयम् । रुक्मिणी-प्रिये सत्यभामे ! क गतः साम्प्रतमस्माकं प्राणनाथो जानासि किम् ? सत्यभामा–नाहं किमपि जानामि । जाम्बवती-प्रियस्वसारी मे ! ब्राह्ममुहर्त एव निद्रितां मां विहाय क.- चित्प्रयातः श्रीकृष्णः किं करोमि । रुक्मिणी--जाम्यवति ! आवयोरपि तवेव दशा वर्तते । कालिन्दी-(स्वगतम् ) रुक्मिणीसत्यभामाजाम्बवत्योपि प्राणप्रियवि- रहदुःखिता दृश्यन्ते, मन्ये तासां ममेव दशा वर्तते । (प्रकाशम्) प्रियस्वसारो मे कथमकस्माद्देवदेव एवमंतर्हितः ? सत्यभामा--कालिन्दि ! १२सर्वा वयं ब्राह्ममुहूर्त एवोत्थाय प्रतिदिनं भगवतः मानसन्ध्यादेवपूजनादिसाधनसामग्री कुर्मः । इदानीमेव वैरिणी निद्रा जाता। भद्रा-मन्येहं कदाचिदुद्धवगृहे भविष्यति । शन्ति रुक्मिण्याद्या महाराज्य इति 1 प्रिये सत्यभामे ! इति रुक्मिणीवचनादा- रभ्य 'कथञ्च प्राणनाथः समन्वेषणीय' इति रोहिणीवाक्यपर्यन्तं प्रश्नपतिवच- नात्मक ' निगव्याख्यातमुद्घात्यम् । तदुक्तं काव्यसर्वत्वे । गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा यत्रान्योन्यं समालापो द्वेधोद्धात्यं तदुच्यते । इति सर्वासां हृदि विभिन्नशंकोङ्कनेपि प्रियविरहस्य समानत्वात्साधारणमौत्सुक्यं नाम भावशाबल्यम् । कालिन्दीप्रश्नोत्तरे (१२) सर्वा वयमित्यादि सत्यभामोक्तो पतिव्रताकर्तृकं प्रातःकालिकतत्पतिकर्तृकसंघ्यावन्दनदेवपूजनादिकर्मसु सामग्रीसम- वधानापादनादि आनुकूल्याचरणं, मित्रविन्दात च प्रातरुत्याय प्रथमं मातापित्रो- रभिवन्दनमित्यादि लोकशिक्षाख्यं रूपकप्रयोजनं शेयम् । सत्योभामः क्रोधोयस्या इति निरुक्त्याऽन्वर्थनाम्न्याः सत्यमामायाः राधासमीपगमनतर्कश्रवगेन रुक्मि- ण्या-परोक्षेपि तादृशं पतिविषयक परुपं वक्तुं नोचितमिति वदन्त्या स्वस्या- स्साक्षालक्ष्म्यवतारतासूचनपूर्व पतिभक्त्यतिशय आविष्कृतः। किमत्र परुषम्। इति सत्यभामोक्तिः साधिक्षेपा-नात्र किमपि परुषम् किन्तु सत्यमेव वदामीति प्रति- ज्ञाय-तत्समर्थनाय उद्धवेन साकं विश्रम्भजल्पितं श्रीकृष्णस्योदाहृत्य रुक्मिणी प्रथमोऽङ्कः । सत्या-भद्रे ! मया उद्धवगृहे प्रेपिता लीलावती, नास्ति तत्रापि नः प्राणनाथः। मित्रविन्दा--मातापित्रोरभिवन्दनाय प्रातः प्रतिदिनं देवो गच्छति, तत्र मातृचरणानामाग्रहात् स्थितिः कृतेति मन्ये । लक्ष्मणा-मित्रविन्दे ! अहं मातापित्रोरभिवन्दनं विधायैवात्रागता न तत्रास्ति देवः। रोहिणी-सख्यः ! किमिदानी कर्त्तव्यं क गन्तव्यं कथं च प्राणनाथः समन्वेपणीयः? सत्यभामा-यदि कुत्रापि नास्ति भगवान् तर्हि राधायाः समीपं गतो भविष्यति । रुक्मिणी-सत्यभामे ! परोक्षेपि तादृशं परुपं वक्तुं नोचितं ते । सत्यभामा-किमत्र परुपं ? सत्यमेवोच्यते । एकदा स्वकीयेन परम- मित्रेणोद्धवेन सह विश्रम्भनल्पितानि श्रुतानि नः प्राणनाथस्य मया, तेषां मध्यादेकं निवेदयामि शृणु । रुक्मिणी-अवहितास्मि श्रोतुम् । सत्यभामा-3एकदा रहसि स्थितं परमौदास्यविलीनचित्तं भगवन्तं विलोक्य खिन्नस्वान्तेनोद्धवेन 'देव कथमुदासीन इव लक्ष्यसे' इति पृष्टं तदा सनिःश्वासं भगवता यदुक्तं तदेतत्पद्यम्- १५काम सन्तु गृहा महामणिमया हस्त्यश्वगोराजयः । कोशाश्वापि सुवर्णरत्नखचिताः सम्बन्धिनोऽनेकशः ।। श्रीवृन्दावनकुञ्ज उद्धव मया श्रीराधया चातुलं । यल्लीलासुखमन्वभावि किमपि प्राप्स्यामि तत् किं पुनः ।।८।। तेजयितुमाह-(१३) एकदेति । रहसि स्थितमित्युक्त्या हाद्दवेदने सङ्कोचा. भावो बोधितः । देव ! कथमुदासीन इव' इत्यत्रोद्धयवाक्ये इवपदोपादानं वस्तुतस्तु परमेशिनुस्तबौदासीन्यमसंभाव्यमेव तथापि मायामानवभावावलंबनेन तादृशावस्थेति द्योतनार्थम् । भगवता पुन: सनिःश्वासमुत्तरितमिति औत्सुक्या- तिशयः । (१४) कामं सन्तु गृहा इत्यादिना तेपुतेषु पदार्थषु रसाभावमा. भाष्य श्रीवृंदावनकुञ्ज इत्यादिना राधाविषयकमौन्मुक्यमाविष्कृतम् । ' विचारय कीह राधार्या तव प्राणनायस्य प्रेमप्रावल्यमिति' बदन्त्या सत्यभामया तव.

श्रीकृष्णचन्द्राभ्युदयम् । विचारय कीदृशं राधायां तव प्राणनाथस्य प्रेमप्रायल्यम् । रुक्मिणी-भवतु ततोपि नः का क्षतिः ? सत्यभामा--अस्मासु रुक्मिणि सतीपु तदपिद्म- द्वन्द्वकसेवनरतास्वखिलासु नित्यम् ।। राधा न विस्मरति नः प्रणयामृताब्धिः प्राणेश्वरः क्षणलवार्द्धमपीत्यवेहि ।। ९ ।। तत्कथं सुप्ताः सर्वा नः परित्यज्यास्माकं प्राणेश्वरो न राधा- समीपं समेयादिति मे तर्कः । रुक्मिणी-गच्छतु नाम न तेन मे मनसि क्लेशलेशोपि ! यतो नरा- त्मनावतीर्णस्य श्रीपरात्मनोऽस्मत्प्राणनाथस्य सा परा शक्ति- रस्तीति श्रुतं मया पुराणविद्धयः । किं च वयं सर्वास्तस्याः फला एव। सत्यमामा-(साश्चर्यम्) रुक्मिणि किंजल्पसि ? मत्तास्युन्मत्तासि वा। रक्मिणी-नास्मि मत्ता नाप्युन्मत्ता, सत्यमेव वदामि, शृणु । १न मया न त्वया नैवाप्याभिः सर्वाभिरप्यहो। कर्तुं शक्या हि सा सेवा कृता श्रीराधया तु या ॥१०॥ तत एव १८फालिन्दीपुलिने कदम्बकदलीकुते रहस्तिष्ठतो- रन्योन्याननबद्धनेत्रयुगयोरानन्दमग्नात्मनोः।। प्राणनाथस्य ' इत्यत्र (१५) तवपदोक्त्या स्वस्या अधीरात्वं प्रफटितम् । रुक्मि- ण्या तु ' भवतु ततोपि नः का क्षतिरिति । वदन्त्या पुनरपि पत्यावादरभरो न न्यूनतां नीतः । सत्यभामया-(१६) अस्मासु इति पद्येन स्वान्तःस्थं कृष्ण- विषयकरोष व्यक्तीकृत्य 'तत् कथं नः सुप्ताः सन्त्यज्य राधां न यायादिति मे तर्क' इत्यन्तेन पूर्वोक्तमतिशा निगमनमापिता । रुक्मिण्या, सा राधा परात्मनः श्रीकृष्णस्य परा शक्तिर्वयं च तस्याः कला इति यदोक्तं तदा मत्तासीत्याधधि- क्षेपपूर्व सत्यभामया तद्वचने स्वानङ्गीकारः प्रकटितः । (१७) यदा तु 'न मया नत्वये । त्यादिना राधाकर्तृकसेवाया: सर्वतो वेलक्षण्यं रुक्मिण्योद्भाव्य (१८) 'कालिन्दीपुलिने । इति पद्येन चित्रेपि राधामाधवयोस्तादृशावस्था- .पन्न युगलं विलोक्य मोदामहे इत्युक्तं तदा सत्यभामा सरोपं तद्वचनस्यार्थान्त- प्रथमोङ्कः । १ प्रेमालिङ्गनलाभलब्धपरमप्रीत्योर्मनोहारिणो- राधामाधवयोविलोक्य युगलं चित्रेपि मोदामहे ।। ११ ।। सत्यभामा--(सरोषम् ) अलमलमनल्पेनेहशेन ते जल्पेन । त्वं यासि राजतनया यदुवंशरत्न- श्रीकृष्णचन्द्रमहिषी च सदाप्तमाना । सापीह कामपि च गोकुलगोपकन्यां स्तोतुं न लजस इदं किमु तेऽस्ति युक्तम् ॥ १२ ॥ यदि पातिव्रत्यप्रभावप्रकटनाय पतिप्रियासु सर्वासु वे पूज्यभावस्तर्हि- २°कंसस्य चन्दनविधर्पणकार्यदासीं- वक्रां मनस्यपि वपुष्यपि वाचि नित्यम् । कुमां न विस्मरति ते रमणस्तु काली तस्या नु काऽपि भवती तु कलेति मन्ये ।। १३ ।। रुक्मिणी-(सरोपम् ) भामे ! भामे ! विचार्य वक्तव्यम् । कुन्जायाः कला तु कुल्जासहइयेव भवितुमर्हति न वयम् । जाम्यवती-(स्वगतम् ) अतिभूमिकां गतोऽनयोरुभयो रोपानिस्तत् प्रसट्टान्तरं नयामि, न चेन् महान् कलहो भविष्यति, (शीघ्रमुत्थाय प्रकाशम् ) देवि रुक्मिणि ! देवि सत्यभामे ! २१अलमनेन निष्फलेन विवादेन | भगवचरणविरहखिन्ना वयं तदीयविरहदुःखदीर्घान् क्षणनिकरान् तदीयकरकमलालिखि- तानि विचित्राणीमानि चित्राणि विलोकयन्त्यः क्षयमुपनयाम इति मेऽभ्यर्थना। रतापादनाय (१९) यदि पातिव्रत्यप्रभावप्रकटनाय सर्वासु पतिप्रियास ते पूज्यभावस्तार्ह (२०)' कंसस्य चन्दनविघर्षणकार्यदासी' मित्यादिवर्णनोपप- नायाः कुन्जाया अपि त्वं कलेति वाक्सन्तक्षणमारभते । जाम्बवती उभयोः कलहमाशङ्कमाना प्रसङ्गान्तरापादनाय श्रीकृष्णकृतचित्रालीविलोकनमुपस्यापयितुं तदा भगवदिरहावच्छिन्नकालयापनापदेशमादौकयते । (२१) मलमनेन निष्फ लेनेत्यादिना । तदेतत्सर्वाभ्यो रोचतेस्म यतो रुक्मिणीसत्यमामाभ्यामुभाभ्या- मपि करसोय रमणीयत्त्वेन सम्मत एव । इदानी मिनिस्यचित्राणि सर्वा विलो- कयन्ति । जाम्बवती च मर्मशतया दर्शयति । तत्र प्रथम परमशिवम- १२ श्रीकृष्णचन्द्राभ्युदयम् । उभे-सखि ! युक्तमुक्तमिदं भवत्या । एत सर्वा एत विलोकयामः। (सर्वा विलोकयन्ति ) जाम्बवती-प्रेम्णा रुक्मिणि ! पश्य पश्य परमप्रेमामृताम्भोनिधेः श्रीकण्ठस्य चरित्रमत्र लिखितं श्रीप्राणनाथेन नः । स्वीयां प्राणसमा रुपा परिहतप्राणां सती प्रेमतो धृत्वा स्कन्ध इतो विभात्यनुमहातीर्थ भ्रमन् शंकरः ॥१४॥ सत्यभामा -२"अहो !! महादेवस्य प्रेम्णः परिसीमाऽनुकूलनायकत्व- परिसीमा च दृश्यते । रुक्मिणी--२३इतोऽपि दीयतां दृष्टिः। श्रीकान्तद्रुहिणादिदैवतसभासम्भूपिते मण्डपे । नानारत्नविचित्रचित्ररचने नानाचलेन्द्राऽऽवृते । गायन्निर्जरगायके मुनिगणैर्मान्यैः सदाऽलङ्कृते गौरीशंकरयोविभाति विभुताभव्यो विवाहोत्सवः ॥१५॥ सत्यभामा--सत्यं देवि ! तथैव दृश्यते- २४इतस्तु गायन्त्यचलेश्वराङ्गना इतः स्तुवन्तीश्वरमिन्द्रगायकाः । इतश्च बालव्यजनेन देव्यो गौरीगिरीशौ परिवीजयन्ति ॥ १६ ॥ इतो हरिनीलमणिप्रभायुतं ताम्बूलमभ्यर्पयतीश्वराभ्याम् ।। तस्य श्रीकृष्णस्य, दाक्षायणीकलेवरं स्कन्धे धृत्वा तीर्थाटनपरायणस्य स्वकीया- नायकशिरोमणेरेकपत्नीव्रतपरावधेर्विप्रलम्भशृङ्गारमूर्ते: श्रीकण्ठस्य चित्रं तूलिका- गोचरमापद्यत इति श्रीकृष्णस्य शृङ्गारप्रियता तत्रापि विप्रलम्भपक्षपातिताऽव- गम्यते । न विना विप्रलम्भेन शृङ्गारः पुष्टिमश्नुत । इति वचनात् । (२२) सत्यभामया च अहो महादेवस्य प्रेम्णोऽनुकूलनायकत्वस्य च परिसीमेति वद- न्या तदेव विवृतम् । अनन्तरमेव (२३) 'इतोपि दीया दृष्टि, रित्यत्र * श्रीकान्तद्रुहिणादिदैवत समासम्भूषिते मण्डपे । इत्यादिना गौरीशङ्करयोर्वि- चाहोत्सवचित्रदर्शनेन पूर्वोत्पन्नविप्रलम्भसम्भिन्नकरुणापसारणाय सत्या एव जन्मा- न्तरपार्वत्या विवाहोत्सवालेख्येन श्रीकृष्णस्य रसराजाधिष्ठातृता व्यज्यते तेन चेदानी मेश्वणकर्तीणां राजीनां प्रथमचित्रदर्शनजन्यस्य शोकस्यैकपद एवापमार्ज- .

प्रथमोऽङ्कः। १३ . इतः शिवामाशिपमर्पयन्ति शिवाशिवाभ्यां परमेष्टिमुख्याः ॥ १७ ॥ इतः प्रणत्रप्रिय आशुतोपः श्रीशैलजाया वचनेन सद्यः । निजप्रियप्राणनमर्थयन्त्यै रत्यै प्रसादं कुरुते महेशः ॥ १८ ॥ तेन हि ! २५सम्पूर्ण एव श्रीपार्वतीपरमेश्वरयोविवाहमङ्गल- महोत्सव आलिखितोऽस्माकं प्राणनाथेनेति मे प्रतिभाति । नाग्नजिती--२६देव्यः ! इतो दीयतां दृष्टिः । इह हि। २७वालो मृकण्डतनयो महिपाधिरूढं दृष्ट्वा यमं भयमयाशय आशुतोपम् । आश्लिष्य तिष्ठति शिवस्तत एव लिङ्गा- निःसृत्य वक्षसि यमं प्रहरन् विभाति ॥ १९ ।। "स्वल्पायुपं मुनिसुतं प्रणतार्तवन्धुः कल्पायुपं रचयतिस्म दयामयात्मा। मृत्युञ्जयोऽत्र २९भगवानमृतार्द्रपाणिः पाणि निधाय मुनिकालकमूद्धि नैनम् ।। २० ।। नमिति कवमर्म । (२४) 'इतस्तु गायन्ति' इत्यादि (२५) 'सम्पूर्ण एव विवाहोत्सव आलिखित' इत्यन्तेन एकरूपयोरपि शिववियोः सख्यं, विवाहसा- मयिकं च विष्णो: शिवसचिवत्वमिति तन्निदानकमेवानुवरकर्तृकवरसम्प्रदानक- ताम्बूलार्पण--व्यवहारानुसरणमुचितं वर्णितम् । अपूर्वप्रसङ्गोपनिपातः पात्रान्तरापे- क्षीति नाट्यवित्समयमनुरुन्धानः कविर्मार्कण्डेयवृत्तचित्रदर्शनं हि नामजितीमुखे- नैव प्रस्तौति । (२६) देव्य: ! इतोपि दीयतां दृष्टिरिन्यादिना । (२७) बाल: पोटावर्षदेश्य:, मृकण्डमुनेस्तनयः महिषाधिरूढं यमं दृष्ट्वा भयमयः भय प्रचुरः आपायोऽन्तःकरणं यस्य तादृशः सन् आशुतोषं शिवमाश्लिष्य तिरति यावत् सावदेव लिङ्गानिक्रम्य शिवो यम वासि महरन् विभाति । चित्र इति शेषः । (२८) स्वल्पायुपं मुनिमुतं कल्पायुषं प्रणतातबन्धुः शिवो रचयति- स्मेति अनुप्रासोत्र शब्दालङ्कारः । (२९) मृत्युञ्जयस्य अमृतार्द्रपाणित्वं तन्त्र- प्रसिद्धमेवातानुदितम् । अमृतघटं दधानो हि पाणिरमृताईएव भवति । २ १४ श्रीकृष्णचन्द्राम्युदयम् । सर्वाः-30 30 "अहो!! भगवती भक्तवत्सलताया निरवधित्वं चित्रितम. स्मत्प्राणप्रियेण । कालिन्दी-देव्यः ! इतोऽपि विलोकनीयं विलोक्य कृतार्थयत स्वानि स्वानि लोचनानि । योऽयं शैल: स्फटिककटकालङ्कृताकाशभागो। नानाफल्पद्रुमपनवनो देवि ! फैलासनामा । यस्मिन् स्वच्छेवटविटपिनो मूल आभात्ययं श्री- गौर्या देव्या सह परशिवो रत्नसिंहासनस्थः ।। २१ ।। (निपुणं निर्वर्ण्य ) इतोऽपि पश्यन्तु प्रियस्वसारो मे--- प्राणप्रियो नः प्रणयादयं स्वयं- प्रणम्रमूर्द्धा विहिताञ्जलिः स्थितः । तस्मै महेशोऽयमसिं शशिप्रभं रत्नत्सरं यच्छति हर्षवर्पणः ॥ २२ ॥ (३०)अहो भगवतःशियस्य भक्तवत्सलताया निरवधित्वमस्मत्प्राणप्रियेण चित्रित- मित्युक्तर्ययार्थमालिखितमितिभावः । कालिन्दी-देव्यः! (३१) इतोपिविलोक- नीयम् । वर्तत इति शेषः । एतद्विलोकनेन चास्मन्नेत्राणां कृतार्थता भवित्रीति तदाह । विलोक्य कृतार्थयतेत्यादि । (३२) स्फटिककटकेन स्फाटिकशिख- रेण अलकृत आकाशभागो येन तादृशोयं शैल: कैलासनामा योऽयं नानाक- स्पद्रुमैर्धनानि वनानि यस्मिन्निति तादृशः । यस्मिन् स्वच्छ वटविटपिनो मूले श्रीगौर्या देव्या सह रत्नसिंहासनस्थः अयं परशिवः आभाति । (३३) निपुणं निर्वर्ण्य । 'इतोपि पश्यन्तु' इति सर्वासामवधानमाक- पति । नः प्राणपियोयं स्वय ' इति साकूतं यचनम् । एतावति चित्रनामे केवलं पदार्यान्तरचित्रकौशलं विलोकितमिदानीन्तु श्रीकृष्णेन स्वस्य चित्रं शिव- सविधे लिखितं विलोकयतेत्यभिप्रायेणाह स्वयमिति । (३४) अयं स्पष्टं संवा- द्याकृतिमान् नः प्राणप्रियः स्वयं प्रणयात् प्रणम्रमूर्द्धा विहिताञ्जलिः स्थितः विलोक्यतामिति शेषः । तस्मा अस्मत्प्राणनाथाय श्रीकृष्णचन्द्राय महेशः श्रीश- रः रलमयः त्सरुः खड्गमुष्टिर्यस्य तं शशिप्रभं च असिं तरवारि हर्षवर्षणो हाप्लुतः सन् यच्छति ददाति । अत्र महेशपदेन अभिधानौचित्यं कवेराभाति । ईशत्यं हि त्रिमूर्तिसाधा- रणं महेशत्वं तु केवलं शङ्करसमनियतमेव । ईशपदाभिधामर्यादाविष्टाय श्रीकृ- प्रथमोङ्कः । , रुक्मिणी--प्रियस्वसारो मे उपनिखिलजगचित्रशिल्पिनोऽस्माकं प्राण- नाथस्य स्वकीयमन्दिरचित्रकल्पनानैपुणं किं वर्णनीयं, परमत्र न केवलं परमेश्वरस्य पवित्राणि चरित्राणि चित्रितानि किन्तु प्राण- प्रियेणास्माकं श्रीकृष्णेन भगवति जगद्गुरौ श्रीचन्द्रचूडामणौ स्वकीयहृदयस्थितो भत्त्युद्रेकोऽप्यालिखितः । पश्यत पश्यत यत्र यत्र निक्षिप्यते चक्षुस्तत्र तत्र परमशिवपवित्रचरित्र-चित्राणि तदीयकरकमलकलिततूलिकाचित्रितान्येव दृष्टिपथमवतरन्ति तेन परमकृपालौ परमेश्वरे श्रीमदपर्णाप्राणेश्वरे भगवतः श्रीकृष्णाच- न्द्रस्य कीदृशो भक्तिभावोविलसतीलस्माभिश्चिन्तनीयम् । रोहिणी-एवमेतत् । नार्यपुत्राय शिवचरित्रादन्यचित्रयितुं रोचते । सत्यभामा -कवयितुमपीति वक्तव्यम् । यतोऽनेके परमशिव पर- मोत्कर्पदर्शका मृद्वीकामार्दवमाधुर्यकिरा गिरा प्रवद्धाः प्रबन्धा इति नाविदितं वः। ण्णचन्द्राय वरं दातुं प्रभवतस्तदाराध्यस्य शम्भोर्युक्तमेव महेशपदेनान कयनं यतः कालिदासेनापि 'महेश्वरस्त्र्यम्बक एव नापर' इति तदेवोपपादितम् । सपामितरेषां देवपदव्यपदेश्यत्वान्महादेवपदयाच्यता तु शिवस्यैवेति तस्मिन्नेव महेशपदमुपात्तान्वयमौचित्यं पुणातीति तत्त्वम् । शशिपमम् । रत्नखचितः त्सरुर्मुष्टियत्येति मध्यमपदलोपी समासः, तादृशं असि यच्छति ददाति । अत्र- एप साक्षादरेरंशो जातो लोकरिरक्षया । इयं च तत्परा हि श्रीरनुजशेऽनपायिनी ॥ मा० स्कं०४ । १५/६ इतीदं पृथ्वभेदभावनौपयिकम् - दशचन्द्रमसि रुद्रः शतचन्द्रं तयाम्बिका । भा० स्कं०४११५:१७ 'आजन्हु' रितिसम्बन्धनोथितं खड्गार्पणं चित्रगोचरमासूच्यते । इतःपरं रुक्मिणीवचनेन (३५) 'निखिलजगचित्रशिल्पिनः' इत्यनेन श्रीकृष्णस्य पारमेश्वरं भावं पुरस्कृत्य केमुतिक्रसिद्ध चित्रकलानैपुणं प्रसाधित परस्ताच ताशचित्रनिर्माणहेवाकिनो भगवति महेश्वरे प्रेमातिशयो विशदीकृतः। रोहिणी-यदा 'श्रीकृष्णाय शिवचरित्रादन्यन्न रोचते चित्रयितु । मित्याह तदा सत्यया (३६) 'कवयितुमपि ' इति पूरयन्त्या परमशिवस्तुतावादरातिशयो ध्यीकृत: श्रीकृष्णचन्द्रस्य ! श्रीमहेनरगुणानुवादमन्तरेण किमिव हिताशामी- . .

श्रीकृष्णचन्द्राभ्युदयम् । . मित्रविन्दा-एवमेतत् । मया किलैकदाऽऽर्यपुत्रेण निबद्धं प्रसन्नमहे- श्वरं नाम नाटकं विदेशीयाभिरप्सरोभिरभिनीयमानं मदी- यपितृरहे विलोकितं यस्मिन् कश्चिदपूर्व एव भवभक्तिरसोऽनु- भूतो मया। भद्रा-मयाऽपि श्रीमताऽऽर्यपुत्रेण प्रवद्धं श्रीमदपर्णापरिणय महा- काव्यं विलोकितं तत्रापि समुल्लसतितरां कोऽप्यलौकिक एव भक्तिरसः। लक्ष्मणादेव्यः! चित्रदर्शनेनानेन क्षणार्द्धमिव प्रयातं यामद्व- यं तथापि न नयनपथातिथितामुपयाति प्राणनाथो नस्तत् किं कर्त्तव्यम् ? प्रियस्वसारो मे ! ५०शृणुत तावन्मदीयं निश्चयम् । श्वरावताराणामधिकमालम्बनं कवयितृताया नाम प्रसक्तिप्रशंसनं भवेत् । यदाह मङ्खकः कविमतल्लिका- अहो धन्योऽस्मि यस्येयं स्वच्छन्दापि सरस्वती । विना श्रीकण्ठमन्यत्र नाचरच्चाटुकारिताम् ॥ धिक् कष्टं बत हा हित्या यच्छ सर्वतःश्रुतिम् । गर्वानवधिवाधिर्यो नरेण स्तूयते नरः ।। मित्रविन्दा पुनरत्र (३७) 'प्रसन्नमहेश्वरं' नाम नाटकं निजपितृ- गृहेऽमिनीयमानं श्रीकृष्णप्रणीतं कथयन्ती स्वानुभवं साधकत्वेन प्रमाणयति । भद्रापि (३८) 'अपर्णापरिणयं महाकाव्यं । मयापि तत्प्रणीतं विलोकितं यत्र विलक्षणः कोपि भवभक्तिरस: श्रीकृष्णेन निबद्धोनुभूयत इति वदन्ती संवादयति पूर्वोक्तम् ॥ कालयाफ्नाय आरब्धस्य चित्रदर्शनस्य (३९) 'क्षणा- ईमिव प्रयातं यामद्य ' मित्यनेन सिद्धप्रयोजनत्वं दर्शयन्ती लक्ष्मणा पुनरुद्वो- धयति कृष्णविरहानुतापं सर्वासाम् । तत्र चित्रदर्शनस्य तावत्कालं विरहविस्मर- णापादकत्वरूपां सफलोपायतामनूद्यापि श्रीकृष्णविरहदुःखस्य सर्वथाऽनुपायाए- नोद्यत्वं द्योतयन्ती स्वनिश्चयमाविष्करोति (४०) 'शृणुत मे निश्चय । मिति । यः कश्चित् श्रीकृष्णं सन्दर्शयेत् तस्मै हीरकहारदानं प्रतिशृण्वन्ती अपि लक्ष्मणा करुणां विधाय । इति व्याहारेण श्रीकृष्णदर्शनस्य द्रव्यव्ययसाध्यताम- पोद्य सद्गुरुकृपालभ्यत्वं व्यक्ति श्रीकृष्णस्य च करुणापीयूषपूर्णाशयं प्रणयिन' मिति च विशेषणदानेन वियोगप्रयोजक नैष्ठुर्यमपमाटि । अत्र 'प्राणादप्यधि- कप्रिय मित्युक्त्या श्रीकृष्णविषयक स्वीयं रसातिरेक सन्दर्य पूर्णेन्दुरम्याननं - प्रथमोऽङ्कः। ! यः कश्चित् करुणां विधाय करुणापीयूपपूर्णाशयं. प्राणादप्यधिकप्रियं प्रणयिनं पूर्णेन्दुरम्याननम् ।। श्रीकृष्णं नवनीलनीरदनिभं सन्दर्शयेदद्य न- स्तस्मै हीरकहारमुत्तममिमं दास्यामि सख्यो ! मुदा ।। २३ ॥ (नेपथ्ये-) ४१हाराः सन्तु सहस्रशो मणिमयालङ्कारभाराश्च वा मत्ताः सन्तु मदावलाश्च हरयश्वोच्चैःश्रवःसन्निभाः॥ नवनीलनीरदनिभ' मिति भगवत्स्वरूपध्यानरूपां चतुर्थी विप्रलम्भावस्थामावृ. ण्वती स्वाधिकारमवगमयति । किञ्च करुणापूर्णत्वेन प्रणयित्वेन च श्रीकृष्णस्य स्वप्नियासु प्रणयपारवश्यप्रकटनेन 'प्राणादप्यधिकप्रिय मित्युक्त्या श्रीकृष्णे तास भावातिशयबोधनेन परस्परं रसस्य उभयाश्रितत्वव्यञ्जनद्वारा परिपोपो दर्शितः । रागस्य अन्यतराश्रितत्वं हि दुरन्तमेव भवतीति यदाह दामोदरः । 'यस्त्वेकाश्रयराग: परिभवदौर्बल्यदैन्यनाशानाम् । स निदानमसन्दिग्धं सीतां प्रति दशमुखस्येव ॥ उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।' अस्मिन् पो 'सन्दर्शयेद् । इत्यनेन समुपसर्गसम्बन्धाहितातिशयं दर्शनमपरोक्षसाक्षात्कारपर्यवसाय्येवेति बोधयितुं नेपथ्ये नारदवाक्यमवतारयति । (४१) 'हाराः सन्विति ।। अत्र भगवत्प्रातः परमोपायत्वेन तद्भक्तिमेव पुरस्कुर्वन् उपायान्तरसाध्यत्वं प्रत्याचष्टे देवर्षिः ॥ हाराः सन्तु इति 'सन्तु । पदेनोपेक्ष्यतां, 'मणिमयालङ्कारभारा' इत्यत्र भारपदेन मणिमयालङ्काराणां भारेतरप्रयोजनासाधकत्यं, इस्त्यवादीनां श्रीकृष्णदर्शनेऽकिञ्चित्करत्वं च; प्रसाध्य 'एतैर्दर्शनगोचरो भवति किम् ? इति साक्षेपं तेषां भगवद्दर्शनेऽनुपयोगं स्थिरी- कृत्य भगवत्साक्षात्कारस्य भक्त्येकसमधिगम्यत्वबोधनाय भक्तेश्च 'प्रेमरसाईया- ऽनन्यये तिच विशेषणद्वयन सोपाधिका व्यावर्त्तयति । तथा च भगवद्गीताम् । 'नाहं यज्ञेन तपसा न दानेन नचेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मा यथा ।' 'भत्तयात्वनन्यया शक्यः । गी० ११५३। इति च । अन अनन्यया इति पदन भेदं त्यक्त्या आत्मभावनाहमुपास्य इत्पर्यो योग्यते, यतोऽपि 'वामुदेवः सर्वमिति स महात्मा मुदुर्लभः । गी० ७११९ इति वचनेन सर्वात्मभावलक्षणाया एव भक्तमत्कर्षः स्वयमेव वर्णित इति । , श्रीकृष्णचन्द्राभ्युदयम्। . एतैर्दर्शनगोचरो भवति किं श्रीकृष्णचन्द्रः प्रभु- भत्त्या प्रेमरसाया स नयनानन्दप्रदोऽनन्यया ॥ २४ ॥ रुक्मिणी-(साश्चर्यम् ) ४२अहो ! अदृश्यमानस्यापि भगवतो देवरिव खरः श्रूयते । दयालुना तेन समुपदिष्टश्च श्रीकृष्णदेवदर्शनो- पायः । स च कृतपूर्व एवास्माभिः । ४३परेश्वर इव प्रेम्णा प्राणेशः प्रतिवासरम् । चिन्त्यते चेदिहास्माभिर्मनोवाकायकर्मभिः ।। २५ ॥ अत्र केचिद् अनन्यया इति पदस्य देवान्तरपरित्यागे तात्पर्य वर्णयन्ति वदतीव भगवदभिप्रायविरुद्धम् । यतः स्वयमेव · ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । तमेव शरणं गच्छेति । ईश्वरः शर्वईशान ' इत्यादिकोशबोधित महेश्वरमेवकारेण शरण्यतमं निर्दिशन् कथङ्कारमन्यपरित्यागमुपदिशेत् । अपिच * सर्वोपनिषदो गायोxदुग्धं गीतामृतं मह । दिति प्रतिज्ञा तदेव निर्वहति यदा अनन्ययेत्यस्यात्मभावेनेत्येवमर्थोऽङ्गीक्रियेत, यत्कारणं 'अन्योऽसावन्योऽहम- स्मीति न स वेद पशुरेव स देवानाम् । इत्युपनिषदचसेककण्यमस्य घचस: स्पष्टमाटीक्यते । भगवता भाष्यकारेणापि 'पुरुषः स परः पार्थ भक्त्या लभ्य- स्त्वनन्यया ' गी० अ० ८ लो२२ इत्यस्य व्याख्यायां ' अनन्यया । इति पदस्य 'आत्मविषयया । इति विवरणं कृतम् । परस्ताच 'अनन्याश्चिन्तयन्तो माम् । गी. अ. ९ श्लो. २२ । इत्यत्रापि 'अनन्याः अपृथग्भूताः परं देवं नारायणमात्मत्वेन गताः सन्तः । इत्येव विवृतम् । 'येभ्योऽन्यो न विद्यते इत्यनन्याः, अहमेष वासुदेवः सर्वात्मा न मत्तोऽन्यत् किञ्चिदस्तीति ज्ञात्वा तमेव प्रत्यञ्च सदा भावयन्त इति । आनन्दगिरिणापि निरूपितम् । अपिच प्रेमरसाया इति भक्तेर्विशेषणमात्मभावे एव पर्यवस्यति यतो निरतिशयप्रेमास्प- दत्वमात्मनोऽन्यत्र सर्वथा न सम्भवति । एतच्च 'आत्मनस्तु कामाय सर्वम्प्रियं भवति । इत्यादि बृहदारण्यक० प्र. प्रियब्राह्मणवाक्य:सूपपादितम् । इतःपरं रुक्मिणी साश्चर्य वदतीति शेषः । नारदागमनस्याकस्मात्प्रयोजनमनाकलयन्ती आश्चर्यचकिता सती (४२) 'अहो ! ' इत्याद्याह । ' दयालुना तेन समुप- दिष्टश्च श्रीकृष्णदेवदर्शनोपायः स च कृतपूर्व एवास्माभि' रित्यनेन नारदस्य यथार्थोपदेशकत्वेऽनारेकणीयेऽपि तस्मिश्चोपायेऽस्माभिरनुष्ठितेऽपि फलानुत्पत्ति: सर्वथा कञ्चिदुपायशेषमवगमयतीति तदेव सार्वात्म्यं परमोपायमनुष्टुब्दयेन प्रतिशृण्वती प्रस्तौति (४३) परेश्वर इति । अत्र 'चिन्त्यो चेदिहाऽस्माभिर्म- प्रयमोऽङ्कः। तदा स दर्शनं दद्या-दद्याऽऽनन्दमहोदयः । अस्मचाश्चातकालीनन्दयन् कृष्णनीरदः ॥२६॥ (इत्युक्त्वा प्रणमति) (४४ततः प्रविशति भस्मरुद्राक्षाभरणभूषितः श्रीकृष्णाः) नोवाकायकर्मभि । रित्यनेन मनसा यद्यपि चिन्तनं प्रसिद्धमेव, वाचापि मध्य- माख्यया यथाकथञ्चिचिन्तनं भवति सूपपादं तथापि कायेन कर्मणा च चिन्तनं नोपपद्यते । तदत्र कवेरयमेवाशयो विकसति यत्परेण ध्यानाभ्यासेन स्वकायस्येश्व. ररूपता शक्यते भावयितुं, कर्मणां चेश्वरापणत्वेन विहितानामस्त्येवेश्वराभेदभावनं सुशकमिति । तदेतद्रासपञ्चाध्याय्यामुदाहृतम् 'असावहं त्वित्यबलास्तदात्मिका:' इत्यादिना । अत्र 'चेत् । इतिपदेन स्वभको संशयाधानमावेद्य दर्शनं दद्याद् । ति हठच्छायां प्रदर्शयति -। स्वचक्षुष्णु चातकालीत्वमारोप्य कृष्णे नीरदत्वारोपान् नीरदकर्तृकनीरदानवदत्रापि कृष्णकर्त्तकदर्शनदानं केवलं तत्कृ- पायत्तमस्मदायत्तं तु चातकवत् क्रन्दनमेवेति ध्वन्यते । एतादृशभक्तेः फलाऽव्य- भिचारमव्यवहितेष्टसिद्धि च दर्शयति । (४४) ततः प्रविशतीत्यादि । तदुक्तं सूत संहितायाम्- शिवेन विष्णुनाचैव ब्रह्मणा वञिणा तथा । देवताभिधृतं भस्म त्रिपुण्ड्रोडूलनात्मना ॥ उमादेव्या च लक्ष्म्या च वाचा चान्याभिरास्तिकाः । सर्वत्रीभिभृतं भस्म त्रिपुण्डोडूलनात्मना ॥ यत्कृतं भस्मनिष्ठेन श्रीमहादेवपूजनम् । तत्सर्वाभीष्टदं तस्मात्कर्त्तव्यं भस्मधारणम् ॥ उद्भूलनत्रिपुण्ड्राम्यामलकृत्य तनुं शिवम् । योर्चयिष्यति तत्तुल्यो भुवि कोवा भविष्यति ।। वसिष्ठः न तयानं न तज्ज्ञानं न तद्दानं जपो न सः । त्रिपुण्ड्रेण विना येन विप्रेण यदनुष्ठितम् ॥ कात्यायनोपि- श्राद्धे यशे जपे होमे वैश्वदेवे सुरार्चने । घृतत्रिपुण्ड्रः पूतात्मा मृत्युञ्जयति मानवः ।। भविष्यपुराणे--सत्यं शौचं जपो होमस्तीर्य देवादिपूजनम् । तस्य व्यर्थमिदं सर्व यत्रिपुण्डू न धारयेत् ॥ महाभारतेऽपि-आयुष्कामोऽथवा राजन् भूतिकामोथवा नरः ।

२०
श्रीकृष्णचन्द्राभ्युदयम् ।
नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विज: ॥
विष्णुधर्मोत्तरे-भस्म वै परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् ।
येन दृष्टेन पापानि नाशमायान्ति सर्वथा ॥
तैत्तिरीयश्रुती- भूत्यै न प्रमदितव्यम् ।
तद्भाष्ये--सत्याधर्माच कुशलाद्भस्मनोभूलनादपि ।
त्रिपुण्डधारणाचैव सदा न प्रच्युतो भवेदिति ॥
तत्रैवच-विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षधारणम् । .
पूजितोपि महादेवो न तस्य फलदो भवेत् ॥
अतोमाहेश्वरायणी: श्रीकृष्णो भस्मरुद्राक्षभूपित एवात्र प्रविष्टः ।।
श्रीकृष्णस्य भस्मरुद्राक्षाभरणभूपितत्वानुपनि परमशिवभक्तत्वं सुप्रसिद्धमेव
महाभारतादिनिबन्धेषु । द्रोणपर्वणि २०१ अध्याये-नारायणाशानिर्दग्धी
केशवार्जुनौ विलोक्य द्रौणिना पृष्टेन व्यासेनोक्तम् ।
योऽसौ नारायणो नाम पूर्वेपामपि पूर्वजः ।
अजायत च कार्यार्थ पुत्रो धर्मस्य विश्वकृत् ॥ ५७
स तपस्तीत्रमातस्थे शिशिरं गिरिमाश्रितः ।
पाष्टं वर्षसहस्राणि यायुमशोऽम्बुजेक्षणः ॥ ५९
ततो विश्वेश्वरं योनि विश्वस्य जगतः पतिम् ।
रुद्रमीशानमृषभ हरं शम्भु कपर्दिनम् ॥
पद्माशस्तं विरूपाक्षमाभिनुष्टाय भक्तिमान् ॥ ७१
तस्मै धरानचिन्त्यात्मा नीलकण्टः पिनाकधूर ।
अईते देवमुख्याय प्रायच्छपिसस्तुतः ॥ ७९

प्रथमाऽङ्कः। चाया विधानाद् द्रौशिना च मतिमायां पूजनात् तदपेशया लिङ्गार्चनकोर्नर- नारायणयोरजय्यत्वं निरूपयता व्यासेन समर्थितं श्रीकृष्णस्य शाम्भवत्वम् । लिङ्गपुराणे पूर्वाः १०८ अध्याये-- पुत्रार्थ भगवाँस्तत्र तपस्तप्तुं जगाम च । आश्रमं चोपमन्यो दृष्टवाँस्तत्र तं मुनिम् ॥ ४ नमश्चकारतं दृष्ट्वा धौम्याग्रजमहो द्विजाः । बहुमानेन वै कृष्णनिः कृत्यैव प्रदक्षिणम् ॥ ५ तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः । नष्टमेव मलं सर्व कायजं कर्मजं तथा ॥ ६ भस्मनोभूलनं दत्वा उपमन्युर्महाद्युतिः । तमभिरिति विप्रेन्द्रा वायुरित्यादिभिः क्रमात् ॥ ७ दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः । मुनेः प्रसादान्मान्योऽसौ कृष्णः पाशुपते द्विजाः ॥८ तपसा त्वेकवर्षेण दृष्टवा देवं महेश्वरम् । साम्ब सगणमव्ययं लब्धवान् पुत्रमात्मनः ॥ ९ तदा प्रभृति सं कृष्णं मुनयः शंसितव्रताः। दिव्याः पाशुपता: सर्वे तस्थुः संवृत्य सर्वतः ॥ १० श्रीविष्णोः शिवभक्तत्वमपि तत्रैवोत्तरार्धे पञ्चमाध्यायेऽम्बरीषवरप्रदाना- वसरेऽम्बरीषवाक्येन- लोकनाथ परानन्द नित्यं मे वर्तते मतिः । वासुदेवपरो नित्यं वाड्मन; कायकर्मभिः ।। यथा त्वं देवदेवस्य भवस्य परमात्मनः । तथा भवाम्यहं विष्णो तव देव जनार्दन॥इत्यादिना निरूपितम्। महाभारते आनुशासनिके पर्वणि चतुर्दशाध्याये २२ श्लोकात् भीष्मप्रे- रितस्य श्रीवासुदेवस्य वचनानि- न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः । हिरण्यगर्भप्रमुखा: सेन्द्रा देवा महर्पयः ॥ २२ न विदुर्यस्य भवन-मादित्यास्सूक्ष्मदर्शिनः । स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥ २३ तस्याहमसुरभस्य कॉश्चिद् भगवतो गुणान् । भवता कीर्तयिष्यामि ब्रतेशाय यथातथम् ॥ २४ प्रथमोऽदः। २३ श्रीकृष्णः- प्रेयस्यो मम सद्गुणैकनिलयाः सौशील्यशालायित- स्वान्ताः सत्कुलसम्भवाः प्रियतमप्रेमेक्षणालम्यनाः । सर्वासामिह वः सुभक्तिरसनावद्धोऽधुना दुरतो बेगेनाऽऽगत एव नास्ति हि परं भक्त्या समं फार्मणम् ॥२७॥ सर्वाः-(उत्याय ४६सांश्चर्यानन्दं प्रणमन्ति) वोलुचीर्णम् । ' शिरोवतं भस्मोधूलनमिति माध्यम् । अझविद्या पञ्चाक्षरीम् । तदुक्तमभियुक्तः। उच्चावचैरुपनिषदचनप्रकाण्डेन्मीलितभुतिगणरुपवृंहणेश्च । यत्सादरं समुदितं यमिनामुपास्यं तद् मझ शङ्करभवानितितर्कयामः । तदेव माण्डूक्ये 'शियमद्वेत चतुर्य मन्यन्ते । इत्यादिना मुनिरूपितम् । एव- चोपमन्युना श्रीकृष्णाय पञ्चाक्षरी विद्योपदिष्टा तद्दीक्षोपयिकं च भस्मरुद्राक्ष- भारणमद्य शिवव्रतदिनत्यात्सविशेषमिति भावः । शिवरात्रिवतं च श्रीकृष्णस्या- तीव प्रियमित्यपि वपुराणे-ज्ञानसंहितायां ७२ अध्याये शिवविष्णुसंवादे- 'फेन व्रतेन सन्तुष्टो मुक्ति मुक्ति च यच्छसि । इति विष्णुप्रभे शिववचनम् । शृणु विष्णो प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ॥ ८ शिवार्चनं रूद्भजप उपोष्यं च दिनत्रयम् । वाराणस्यां च भरणं मुक्तिरेषा चतुर्विधा ।। १२ चतुर्षपि बलिष्ठं हि शिवरात्रिन्त्र हरे ॥ इत्यादिना महता विस्तरेण प्रतिपादितम । इदानीं श्रीकृष्णविरहतापतप्तान्तरङ्गाणाममूर्षा नानाविधकल्पनापारम्परी. मवतारयितुं प्रथमं प्रागुक्तनारदवचसो निःशङ्कप्रत्येयतामुपदधाति (४५) 'प्रेयस्यो ममेत्यादि' 'नास्ति हि परं भत्त्या सम कार्मण मित्यन्तेन श्रीकृष्णवाक्येन । अत्र भक्तेः फार्मणपदार्थाभेदकयनमुभयोशीकारसामर्थ्यसा- म्यमूलकं बोध्यम् । तच्च भलस्य सद्गुणवत्व-सुशीलल्य-सत्कुन्दसम्भवत्व-तदे- कालम्बनत्वादिधर्माधिकरणतारूप-साधनसामग्रीसम्पनत्वे सद्यः फलान्यभिचारि भवतीति बोधयितुमेव विशेषणचतुष्टयेन सम्बोधनम् । तदुक्तं मधुसूदनेन भक्ति- रमायने 'साद्गुण्यादि-समवधानेऽव्यवहितः फलाव्यभिचार इति ॥ (४६) विलासिवेशादर्शनेनाश्चर्यम् । आनन्दश्च चिरेण दर्शनादुत्क- लिकान्तमन्यः । अभ्युत्थानं प्रणामश्च आचारप्रतिपत्त्यर्थमिति ।

श्रीकृष्णचन्द्राभ्युदयम् । रुक्मिणी-देव! ४७गुरुदेवद्विजातीनां पूजया कातिवाहितः । इयान समय इत्येतज् ज्ञातुमिच्छति मे मनः ॥ २८ ॥ सत्यभामा-४ अथवा मानिनीमानमनोमणिमुपा दृशा । का वाऽनुनीता मानिन्यः कालेनैतावता प्रभो! ॥ २९ ।। जाम्बवती—४९अथवा कतमो नाथाऽधमाधमतमो नरः । अधमोद्धारधुर्येणोध्धृतः कालेन चेयता ॥ ३०॥ कालिन्दी-५०राधा त्वदपराधारोपा दोपाकरानना । अपि प्रेम्णा प्रबद्धं त्वां निगडेन ववन्ध किम् ? ॥ ३१ ।। मित्रविन्दा–५ कुटजा वा कुपिता किन्ते काली कंसस्य किङ्करी । तस्या अनुनये नाथ किन्ते याता इमे क्षणाः? ॥ ३२ ॥ सत्या--५२यशोदां मातरं द्रष्टुं नन्दं च पितरं निजम् । गतः किंस्विद् व्रजं नाथ प्रेम्णा व्रजजनप्रियः ॥ ३३ ।। रोहिणी-५३नवनीतमुपं वस्त्रमनोनयनतस्करम् । वबन्धुजयल्लव्यः किन्त्वां हस्तगतं चिरात् ? ॥ ३४ ॥ (४७) गुरुदेवद्विजातीना मित्यादि रुक्मिणीवचनं सात्विकवेशो- स्प्रेक्ष्यवृत्तानुगतं प्रौढताशालि सारल्यव्यञ्जकम् । (४८) अथवेत्यादि सत्यमामावचलु भामावृतमेव स्पष्टम् । (४९) जाम्बवत्या तु भक्तोद्धारमेव मनसिकृत्य चिरायितमाशङ्कमा- नया स्वीयमार्जवं प्रकटमेवावेदितम् । (५०) कालिन्दी पुना राधायामपराद्धं श्रीकृष्णस्य वदन्ती स्वस्या अधीरात्वमाविष्कुर्वती दोषाकराननेति विशेषणश्लेषेण सापल्यप्रंयुक्तस्पामुद्- ञ्चति। (५१) मित्रविन्दया तु कुब्जानुनयापदेशं कथयन्त्या नर्मवादित्वमा- स्मनः ख्यापितम् । (५२) सत्यया स्वनामानुरूपमेवाशकमानया गुरुजनाभिवादननिगि- त्तेन व्रजगतस्य 'व्रजजनप्रिय । इति विशेषणव्यङ्ग्यं प्रियजनदर्शनजन्यानन्देन चिरायितस्य सहेतुत्वं प्रकटितम् । (५३) रोहिणी तु सत्यया उदृङ्कितं ब्रजगमनं प्रमाणयन्ती तत्र चिरा- यितस्य हेत्वन्तरप्रयुक्तत्वं सूचयन्ती श्रीकृष्णस्य बाललीलास्मारणेन तस्करस्य प्रथमोऽङ्गः। भद्रा-देवपिणा नारदेन पर्वतैनाऽपरेण वा । अनन्यभक्तेनाभूत्ते सङ्गमः किं कचिट्ठने ? ॥ ३५ ॥ (ततोऽन्तरिक्षादवतीर्य नारदः) नारदः-अहो महद् भाग्यं मे । येन- ५ यस्मिन् वर्पति जीवनान्यविरतं विश्वम्भरे विश्वतः सन्तापा गलितास्तृपश्च दलिताश्चिन्ता च शान्ताऽखिला । हृष्टं पुष्टमिदं जगध सकलं सोऽयं पुरो दृश्यते विद्युत्प्रोज्ज्वलकामिनीशतवृतः श्रीकृष्णधाराधरः।। ३६ ॥ (इति वदन् श्रीकृष्ण प्रणमति) श्रीकृष्ण:-(साश्चर्यानन्दम् ) अहो कुतोऽस्मानारदागमनम् ! (इति ब्रुवन् सह धर्मपत्नीभिः प्रणमति )५६ चिरात् हस्तगतत्वे बन्धनमुचितमेवानुबनती इतरापेशयाऽऽमनः सोपत्तिशति- त्वमवगमयति । (५४ ) भद्रा पुनः स्वनामायानुगुणमेव शङ्कमाना भगवत: स्त्रभक्त- नियत्वं कथयन्ती विलम्बस्य योग्यतां समर्थयति । अत्र भद्रावाक्ये श्रीनारदना- मोपादानेन नारदप्रवेशाय कविनाऽवसरप्रदानमुपनिबद्धं ध्रुवया यदाह भरतः । नानारसार्थयुक्ता नृणां या नीयते प्रवेशेषु । प्रावेशिकी तु नाम्ना विज्ञेया सा ध्रुवा तज्जैः ॥ अ० ३२ श्लो. ३१८ कविना स्वनिर्मितावास्याधतातिशयाधानार्थ शक्यते किश्चिद् वृतान्ता- न्तरमुपनिबन्धुम् । उक्तं हि ध्वनिकता ‘विना प्रबन्धमुपनिबनता सर्वात्मना रसपरतन्त्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत्तां भङ्- क्वापि स्वतन्त्रतया रसानुगुणं कथान्तरं प्रसङ्गान्तरं योत्पादथेन् , नहि कवेरिति- वृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनमितिहासादेव तसिद्धेः । । अतश्च नारदागम- नमत्र बीजोद्भेदायैवेति रहस्यम् । (५५) अत्र नारदवचने श्रीकृष्णस्य धाराधरपदेन कथनं पूर्वोक्तस्य * न प्राप्य प्रियचन्द्रदर्शनसुखं ममा विपादाम्बुधा' वित्यस्य बीजस्य सङ्गत्य, विपादनशमनं चन्द्रदर्शनमात्रसाध्यं न किन्तु धाराधरशाध्यमपीति प्रकटनाय च । तत्र श्रीकृष्णे-धाराधरत्वारोपीपयिकस्तत्प्रियासु विद्युत्त्वारोपो रूपकस्य साङ्गतामा- दधाति । अकस्मादागमनमाश्चर्यहेतुतयानुपदमेवोक्तमा(५६)आश्चर्यचकितानामपि महतामाचारप्रतिपत्तिरसम्भ्रमेणव भवतीति'धर्मपत्नीभिः सह प्रणमती । त्याह । ३ श्रीकृष्णचन्द्राभ्युदयम् । नारद:-अयि कृष्णचन्द्र ! अखण्डसौभाग्यवत्यो महासत्यो वत्साश्च ५७भक्तचिन्तामणे: श्रीमचन्द्रचूडामणेः प्रभोः । प्रसादात् सन्तु वः पूर्णा मनोरथपरम्पराः ॥३७॥ (इत्याशिपमुच्चार्य श्रीकृष्णदत्तमासनमधितिष्ठति) श्रीकृष्णः-(सपत्नीकस्तदने रचिताञ्जलिस्तिष्ठन् ) को निदेशो देवः ? (इति पृच्छति) नारदः-(स्वगतम्) न खल्विक्षनी सर्वान्तर्यामिणोऽमेऽसत्यं वक्त- व्यम् । (प्रकाशम्) भगवन् प्राय एककलत्रोऽपि पुरुषो यावदा. युर्वहून क्लेशाननुभवतीति मत्वा वह्वो बहुज्ञाः प्राज्ञा ब्रह्मचर्य- दशामेव श्रेयसी मत्वा तामेव यावदायुः स्वीकुर्वन्ति । भगवता तु अष्टोत्तरशताधिकानि पोडश सहस्राणि कलत्राणां स्वीकृता- नीति त्वदीयां स्थितिं विलोकयितुमेवाऽऽगतोऽहम् । परं भवदी- यासन्निधौ विविधविचारान् कुर्वन्तीनां भवत्सन्निधौ च काल- विलम्बहेतुप्रश्नपरम्परां रचयन्तीनामासां ते धर्मपत्नीनां वच- नैरेवावगतमाया स्थितिर्भगवतस्ते तथापि कश्चित्कालमत्र स्थित्वा भवदीयानि गृहस्थदशासुखानि विलोकथितुमिच्छामि, परमधुना तु प्रथमं श्रीमन्मुखाद् 'ब्राह्ममुहूर्तादुत्थाय सार्द्धद्वययामपरि- नारदमुखेन (५७) 'भक्तचिन्तामणेः श्रीचन्द्रचूडामणेः प्रसादाद्वो मनोरथपरम्पराः पूर्णाः सन्तु ' इत्याशीस्चारणेन सकलकाव्यप्रतिपाद्यार्थसड्- ग्राहकत्वेन अनुसन्धिनामक नाट्याङ्गमुपक्षितम् । यदाह भरतः । 'एकोऽनेकोऽपि वा सन्धिः पताकायास्तु यो भवेत् । प्रधानार्थानुयायित्वादनुसन्धिः स कीर्त्यते ।। (५८) निदेशार्थनाप्रवणेऽपि श्रीकृष्णे नारदस्य मायावचनपण्डित- स्यापि नाऽसत्यं वक्तव्य । मिति स्वगते ' सर्वान्तर्यामिणोऽग्ने' इति विशे- पणोपादानेनेश्वरं भावमावदत: सातिशयं गौरवमवबोध्यते । अत्र नारदेन आज- न्मब्रह्मचर्यदशायाः प्रशंसनेन स्वीयाऽवस्था स्तुता, कलत्रस्वीकारस्य क्लेशमूलत्वं च स्वयमूहितं तदनेकगुणं भगवत्यारोप्य भगवद्दशाविलोकननिमित्तमेव स्वस्याग. मनं यदन् मगवदागमनात्पूर्व राशीभिरारब्धान्विंचाराननुसन्दधानः श्रीकृष्णस्य दुःखबहुला व्यवहारस्थिति मन्यानो मुनी राशीनामेव प्रभं पुनरनुवदन् तदुत्तर- .

प्रथमोऽङ्कः। २७ मितस्य समयस्य व्ययः क कृत' इत्येताभिः कृतस्य प्रश्नस्योत्तरं श्रोतुमिच्छामि। श्रीकृष्णः--यथायुष्मदाझं कर्तुमवहितोऽस्मि । परं श्रीमता मदीयधर्म- पत्नीनां धचनैः कीटशी मे स्थितिरधिगतेति ज्ञातुमिच्छामि । नारदः-दुःखमय्येव स्थितिरस्तीति देवाधिदेवस्यापि सर्वदा स्वत- न्त्रस्यापि क्षणलवमानस्वातन्त्र्यसुखं नास्तीति बहुकलत्रस्वीकार- फलम्। श्रीकृष्णः-( सहासम् ) देव ! नेदं दुःखं किन्तु मुखमेव, यत एताभि- रारब्धोऽयं प्रेमकलहो, न वारतवः फलहः । वास्तवस्तु कलह- स्तदा स्याद्यदा पत्युः पत्नीपु प्रेमवैपम्यं स्यात, तथ मे स्वप्नेऽपि नास्तीति न छेशलेशावकाशोपि । प्रेमकलहस्तु गृहस्थानां किमपि सुखान्तरम् । नारदः--(सहासम् ) 'दुःखेषु दुःखमतिरेव न दुःखिताना' मिति वृद्धोक्तिर्न मृपा | स्वीयानां पाणिगृहीतीनामप्यविश्वासपानत्वं गृहस्थानां सुखान्तरम् !! तर्हि दुःखं किमिति बुद्धिर्योधपदवी- मेव नावतरति मे । अथवा सर्वोऽपि स्वीयमेवाश्रम श्रेष्ठं मन्यत इति युक्त एव भवतोऽपि तथाभिनिवेशः । E१ दानाय भगयन्त त्वरयति-(५९) 'एताभिः कृतस्ये ' त्यादिना । श्रीकृष्णः पुनः पारोश्ये राशीवचनैः कीदृशी में स्थितिर्भवताधिगतेति प्रतिप्रश्रयति । अस्योत्तरे लोकप्रसिद्ध बहुकलवस्वीकरणस्य पारतन्त्र्यादिदुःखनिदानत्यमेव मन- सिकृत्याह मुनिः। (६०) दुःसमय्येवेति । श्रीकृष्णस्तु मुनेर्व्यवहारापटुत्वमाविष्कुर्वन् सहासमाद । नायं फलहोऽपि तु प्रेमकलहोऽयं यः किल गृहस्थैः मुखप्रकारत्वेन मन्यते । मुनिरपि सहारामेयोत्तरयति । यत्र पल्यपि न विश्वसिति तदपि मुखमि- त्युच्यते सहि न ययं दुश्वस्वरूप शक्नुमो निधेनुम् । परमत्र स्वीय सर्व श्रेष्टमेव मन्यानो नापराध्यतीत्याद । (६१) अथरेत्यादि युक्त एवेत्यन्तम् । सर्वत्र मार्मिकयच प्राप्तझोपनिपातः सत्यभामामुसनेय नाप्नोऽन्यतानुर- देहयतीति पूर्वश्वमभस्य प्रमशान्तरापादने अदित्सितोत्तरत्यमिवाशमानाया २८ श्रीकृष्णचन्द्राभ्युदयम् । सत्यभामा-प्राणनाथ ! देवर्षिणा सह प्रसङ्गान्तरप्रवर्त्तनैनास्मत्प्र- श्रोत्तरापह्नयो न योग्यः। नारदः-(सहासम् ) देव एतदपि गृहस्थानां सुखान्तरम् । क्रियन्तां त्वरया सर्वा अपि पट्टराज्यो दत्तोत्तराः । मया तु पूर्वमेवोक्तं यत्प्रथमं ताभ्य उत्तरं देहीति परन्तु देवेनैव प्रसङ्गान्तरं निष्का- सितं यस्याऽयं परिणामः । श्रीकृष्णा-(स्वगतम् ) स्वभावतो वामाशयैव खलु भामा (प्रका- शम् ) अयि भामे ! अन्याश्च पट्टराइयः ! अद्य खलु महाशिव- रात्रिरस्तीति भवतीनां विदितं न विदितं वा ? सत्यभामा-विदितमेव । तदीयव्रतकरणाय श्रीमद्भिराज्ञप्तमा- त्मानमिच्छन्त्यो वयं श्रीमत्समीपमाप्ताः परं तत्रभवन्तो भवन्तस्तु राज्यतन्त्रपरतत्राः शिवरात्रावपि न विश्राम भजन्ते । कस्याज्ञा गृहीतव्या कथं च व्रतं कार्यम् ? श्रीकृष्णः-देव्यः ! अद्य महाशिवरात्रिमहोत्सवतया ब्राह्मे मुहूर्ते समुत्थाय समुद्रस्नानं कृत्वा च प्रथमं श्रीकुशेश्वरमनन्तरं सत्यभामाया (६२) 'न योग्य: प्रश्नोत्तरापहवः । इति हि साटोपं वचनम् । नारदस्य तु कुपितकामिनीवाक्सन्तक्षणं 'मुख : मिति मन्वानं भगवन्तं सोपहासमुत्तरदानाय प्रेरयतः प्रसमान्तरप्रयोजकत्वं श्रीकृष्णस्यैव न ममेति स्वस्याऽनपराधस्वप्रकटने तात्पर्यम् । श्रीकृष्ण:-(६३) स्वभावतो वामाशयैव भामेति वदन् दुःसमाधेय- तामिव सत्यभामाप्रश्नस्य प्रकटयति । परमद्यतनविलम्बस्य देवाधिदेवाराधना प्रयुक्तत्वेन निमित्तापहवादिल्लेशानाधायकतया सोत्साहमेव सम्बोधयति, अयि! भामे इत्यादिना गृहीतमहाशिवरात्रिव्रतनियममात्मानमायेदयति । सत्यमामापि शिवव्रतकरणाय स्वमौत्सुक्यं प्रकटयन्त्याह । (६४) तदी- यवतकरणायेत्यादि, कथं च व्रतं कार्यमित्यन्तेन । इदानीं श्रीकृष्ण:-एतावता समयेनानुष्टितं कार्यजातं परिगणयन् समय व्यवस्य निरर्थकता परिहरतितमाम् । शिवरात्रिदिनानुष्ठेयं सत्कार्यक्रममपि लोकानुग्रहायाह च । (६५) द्वारावत्यां श्रीकुशेश्वरस्य नगराधिदेवतात्वं प्रसिद्धमतस्त.

प्रयमोऽङ्कः। सर्वाणि द्वारावतीस्थितानि शिवलिङ्गानि सम्पूज्य श्रीप्रभासक्षेत्रे चास्मदीयकुलमूलपुरुषेण श्रीरोहिणीरमणेन स्थापितं श्रीसोम- नाथं सम्पूज्य तदुपरि चैकविंशत्यधिकशतत्राह्मणद्वारा श्रीमहा- रुद्राभिषेकं परिसमाप्य यावद्रेवताचलस्थितानि शिवलिङ्गानि पूजयितुं जिगमिपुरभूवं तावदाकर्पणविद्ययेव भवतीभिः कृतया परमेश्वरप्रार्थनया समाकृष्ट इवाहमत्राऽऽगत इत्येतन्मे ब्राह्ममुह- ादारभ्य मध्याह्नपर्यन्तस्य समयस्य कृत्यम् । रुक्मिणी-नाथ ! कि तादृशमस्माकमभाग्यं यदेकाक्येवाऽस्मान् विहाय परशिवपूजनं कर्तुं प्रस्थितः प्राणनाथः । सत्यभामा -भवदीयपादपद्मरजःपरमाणुसमाभिः पूजापानहस्ताभिर- नुयायिनीभिरस्माभिः क इव भगवतो भारोऽभविष्यत् ? जाम्बवती-नाथ ! धर्मे चार्थे च कामे च सहचरेयं सहचरेयमिति प्रतिज्ञापि विस्मृता? श्रीकृष्ण:- देव्यः ! 'विचित्ररूपाः खलु चित्तवृत्तयः' इति लोको- क्तयनुसारेण लोकानां भिन्नेपु भिन्नेषु देवेपु भक्तिर्भवतीति भवत्यः दर्चनं प्रथममेव युक्तं ततश्व सिद्धेश्वरादिलिगार्चन। सोमनाथलिङ्गे चाभिषेकात्म- कमहारुद्रार्चनमृत्विग्द्वारकं साद्यस्कल्याय । अनन्तरं रेवताचललिङ्गार्चनाय कृत- प्रयाणस्यापि भवतीनां भावाकर्षणेनावागमनमिति सर्योऽयं ब्राह्ममुहूतांदारम्य कृतस्य समयव्ययस्य कार्यक्रमः । (६६) रुक्मिणी असूयन्तीवाह । एकाक्येवाऽस्मान् विहाय प्रस्थित इति । परशिवपूजने भवत्साहाय्यकरणं हि महद् भाग्यमस्माकमित्याशयः ।। सत्यभामापि साहाय्यकप्रकारमेव विवृण्याना (६७) 'पूजापात्रहस्ताभिरनुया- न्तीभिरस्माभिर्भगवतः क इव भारोऽभविष्य । दित्याह । न खलु भाराभावः के- वलं प्रत्युत पूजासामग्रीमपादनसौकर्यमुपहारमारवहनलेशाभावयेत्यादिनेकविध- प्रयोजनसिद्धिरपीति काकूक्तिगूढाशयः । जाम्भयत्या तु-(६८)त्रिकानुष्ठाने सहचारित्वमास्माकीनं विवाहसामयिकप्रतिशाविषयीकृत कथं विस्मृतमिति यद- म्त्या प्रतिज्ञाभङ्ग उद्भावितो भगवति । (६९) इदानीं सर्वासा शङ्कापई क्षालयन् श्रीकृष्णधाराधरस्ता परशिव भक्तिभावं ज्ञातुकाम इव सर्वान्तयाम्यपि अनानान इव वदन् पूर्वोत्त..

श्रीकृष्णचन्द्राभ्युदयम् । सर्वा अपि श्रीसाम्बसदाशिवपदारविन्दभक्तिमत्यः स्थेति न मया ज्ञातम् । हठात् कारिता च भक्तिर्न भक्तिभावं पुष्णातीति विचार्य न भवत्यो मया श्रीसाम्यशिवपूजनाय समाहूताः । सी :-नाथ नाथ ! अमहेश्वरभक्तानां कुलकामिनीनां श्रीकृष्णचन्द्र- सहशप्राणपतिप्राप्तिः सुलमा किम् ? शृणुत- ७०श्रीमन्मन्मथमोहनाकृतिधरो लावण्यरत्नाकरः शौर्योदार्यदयादिसद्गुणगणारामोऽभिरामो दृशाम् । अस्माभिर्हृदयेश्वरो यदुपते प्राप्तः प्रियस्त्वं श्रियः श्रीगौरीगिरिशामिसेवनशतैः प्रेम्णा कृतैः केवलम् ॥३८॥ सत्यपि तथा यदि तत्कृपावलोकलहरीलब्धसौभाग्य- विकल्पजालं परिहरति 'देव्य ' इति । अत्र 'हठात्कारिता भक्तिर्न भक्तिभावं पुण्णातीति मया न भवत्य आहूता। इति वचनं कशाघातमिव मन्यानाः सर्वा राज्य: सम्भूय वदन्ति । श्रियः पतिस्त्वं सकलकल्याणगुणालयोऽस्माभिः प्रिय- पतित्वेन लब्धः सोऽयं कृत्स्नोऽपि परशिवाराधनस्य फलातिशय इत्याहुः (७०) 'श्रीमन्मन्मथमोहन ' इत्यादि केवल ' मित्यन्तम् । भागवतेऽपि- 'विद्याकामस्तु गिरिश दाम्पत्यार्थमुमां सतीम् ।। तदेतत्सकलं यत्कृपाकटाक्षानुपक्तं तद्भजनवैमुख्ये कथं नाम भवादृशप- तिलामः कयं या सौभाग्यावातिः ? तदुक्तं श्रीमद्भागवते- पूर्तेष्टदत्तनियमनतदेवविन- गुर्वर्चनादिभिरलं भगवान् परेशः ॥ आराधितो यदि गदाग्रज एत्य पाणि गृह्णातु मे न दमघोपसुतादयोऽन्ये ॥ स्कं १० उत्त० अ० ५२ श्लो. ४. तय-अपि मय्यनवद्यात्मा दृष्ट्या किञ्चिजुगुप्सितम् । मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ॥ दुर्भगाया न मे धाता नानुकूलो महेश्वर । देवी या विमुखा गोरी मद्राणी गिरिजा सती ॥ सं.१.उत्त० अ०५३लो. २४-२५ अग्रेऽपि ---- प्रयपसो बाली विधिशा विप्रयोपितः । भयानी यन्दयाचमुर्मपत्नी भयान्यिताम् ॥

प्रथमोहः । सर्वस्वा वयं परमकृपालुं परमेश्वरं १ श्रीसर्वमङ्गलासहायं न भनामस्तहि कृतनतमानामस्माकं क वा कथं वा कल्याण- लवप्राप्तिरपि भविष्यति । श्रीकृष्णः- देव्यः ! ग्रुप्माकं सर्वासामेभिर्वचोभिः परमं परितोषं प्राप्तं मनो मे । सर्वा अपि यूयं शिवभक्तिमत्तया में प्राणतो- ऽप्यधिकप्रियतमाः स्थति निर्विवादम् । ७४ये श्रीमहेशभक्तास्ते ममातीय हि वहभाः॥ भगक्ता अपि ये ते श्रीमहेशस्यातिवल्लभाः ॥ ३९ ।। "ममास्ति हृदयं शम्भुः शम्भोईदयमम्म्यहम् ॥ नमस्ये त्याऽम्बिकेऽभीरगं स्वसन्तानयुता शिवाम् । भूयात्पतिमें भगवान् कृष्णस्तदनुमोदताम् ॥ स्कं० १. उत्त० अ० ५३ श्लो० ४५-४६ इत्यादि महता विस्तरेणोपपादितमर्थमत्र मङ्गयन्तरेणानुयदति ॥ एतेन श्रीनारायणावतारस्य श्रीकृष्णस्य पतित्वेन योगः शिवाराधनफल- मिति सूचितम् । (७१) सत्यप्येयं यदि तमीश्वरं न भजामस्तहि कृतघ्नानाम- स्माकं कथं कल्याणप्राप्तिरिति व्यतिरेकविधया हेतुहेतुमद्भावः समर्थितः । यथा लक्ष्मीरपि प्राग्जन्मानुष्ठितपरशिवाराधनबलेनादिनारायणं पतिमवाप तत्संस्कारा- नुवृत्या जन्मान्तरेऽपि श्रीनारायणावतारश्रीकृष्णमेव पतिमाप्तुं श्रीसाम्बसदा- शिवाराधनमेव चेतसि स्फुरेदिति तदेव मुखादुद्गच्छति । (७२) अत्र परमेश्वरस्य श्रीसर्वमङ्गलासहायविशेषणदानेन स्वाभीष्ट- मिद्धावविलम्बोऽव्यभिचारश्च बोधित: । तदुक्तमभियुक्तैः- यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोः संस्मरणात् सद्यः सर्वतो जयमङ्गलम् । (७३) इदानीं श्रीकृष्णः श्रुतिस्मृतिपुराणेतिहासरहस्यभूतं शिववि- एण्यमेदं सर्वाः श्रावयन् तासां शिवभक्तिमुरोजयति ‘शिवे भक्तिमत्तया यूयं मे प्रियतमा । इति कयनेन विष्णुप्रसादामादनं शिवमतिसमधिगम्यमित्यपि द्योति- तम् । (७४)'ये श्रीमहेशभक्ता ' इत्यादिना । वक्ष्यति च---परात्परतरं यान्ति नारायणपरायणाः । न ते तत्र गमिष्यन्ति ये द्विपन्ति महेश्वरम् ॥ (७५) शिवमक्तेषु विष्णुप्रियत्वं विष्णुभक्तेषु च शिवप्रीतिपात्रत्वं मिथ: समु- -- ३२ श्रीकृष्णचन्द्राभ्युदयम् । न शिवद्वेपिणे सत्यं परितुष्याम्यहं कचित् ॥ ४० ॥ न च मद्धेपिणे शम्भुः परितुष्यति कहिंचित् ।। इति निश्चित्य मनसा सेव्योऽहं च महेश्वरः ॥४१ ।। यतो मदीयेयं प्रतिज्ञा- परात्परतरं यान्ति नारायणपरायणाः । न ते तत्र गमिष्यन्ति ये द्विपन्ति महेश्वरम् ॥ ४२ ॥ रुक्मिणी- प्राणनाथ ! पतिव्रताभिः सतीभित्मिप्राणनाथस्याज्ञां विना किमपि व्रतं कर्तव्यमिति धर्मशास्त्रम् । ततः श्रीशिवरा- त्रिवतकरणाय श्रीमद्भिराज्ञप्तमात्मानमिच्छामो वयं सर्वा अपि । श्रीकृष्ण:-देव्यः ! ७७ सर्वामिः कर्तव्यमेव शिवरात्रिवतं श्रीसदाशि- वप्रीतये मत्प्रीतयेच। किञ्च भवतीनां श्रीपार्वतीप्राणनाथे भक्ति विलोक्यतदाशासे । ७ श्रेयोलक्ष्मी दिशि दिशि दिशत्वाश्रितानन्ददो नः । श्रीमान् गौरीहृदयदयितो राजराजाधिराजः ।। दीर्य तन्निदानभूतमात्मनोऽपि शिवेनाऽभेदं तदोपयिकं च स्वद्वेषिणि शिव- प्रमादात्यन्ताभावं शिवद्वेपिणि च स्वस्य प्रसादविरहमनुष्टुब्दयेनोक्त्वा 'पगत्' दत्यनेन स्वा प्रतिज्ञा स्पष्टमाटीकते । (७६) एतावताऽवगतयायातय्या रुक्मिणी सर्वासामपि चिन्तितं प्रभोः पुरत आवेधानुशामर्थयते प्राणनाथ इति । अत्र सतीभिरित्युपादानं हि धर्मशास्त्रानुगमनिमित्तं यदाह मनु:---- नास्ति त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् । पति शुश्रूषते येन तेन स्वर्गे महीयते ॥ क्षेमेन्द्रोऽपि- पत्यो भनिर्वतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम् । प्रजानुपालनेऽनन्यकर्मता भूभृतां व्रतम् ॥ अतः पत्यनुशापूर्वकमेवाचरितं व्रत वीणो व्रतायते । अत्र तु पत्या स्वय- मप्याचीर्णमनुज्ञातं च शिवरात्रिव्रतं 'सर्वाभिः फर्त्तव्यमेव (७७) इति सावधारणमाह भगवान् । नैतेन व्रतानुष्ठानेन फेवलं शिवप्रीतिरेव भवित्री किन्तु मत्मोतिरपीति पूर्वोचमयधारण प्रयोजनकयनेन दृढीकृतम् । शिवभजनसमनि. यतामाशिपमाशास्ते । (७८)' श्रेयोलक्ष्मी मित्यादिना । 'रामराजा- .

प्रथमोऽहः । ३३ नत्वा नत्वा यमिह परमं देवतासार्वभौम प्राप्ताः सर्वा अनुपमतमं देवता देवतात्वम् ॥ ४३ ।। (सभक्त्युद्रेकम्) अयि श्रीरुक्मिणीप्रमुखाः प्रियातमा मे ! शृणुत । ७९ विद्या हृद्या दिशि दिशि जयः कीर्तिरिन्दुप्रकाशा लक्ष्मीलाभो निधिपतिनिधिस्पर्दिवित्तागमोऽयम् ।। मां सेवन्ते कुवलयदृशां यत्सहस्राणि सोऽयं सर्वः श्रीमत्परशिवकृपालोकलेशप्रभावः ॥ ४४ ॥ कथं तस्य परमेश्वरस्य परमप्रीतिकरं शिवरावित्रतं न कर्तव्यं कर्तव्यं वेति संशयः ? कर्तव्यमेवैतद् व्रतम् । रुक्मिणी-८१ प्राणनाथ! यथाज्ञा प्राणनाथस्य तथा करिष्यामः । णः-८२देव्यः ! विलोफयत भक्तवत्सलस्य भगवतो दयालुताम् । धिराज । इति विश्वाधिको रुद्रो महर्षिः । इति श्वेताश्वतरवचसैककण्ठ्यावे- दकम् । 'देवतासार्वभौम ' मिति तु महादेवपदनिर्वचनलभ्यमर्थमन्वाह । तद्धेतुत्वेनैव 'यं नत्वा देवतात्वावाप्ति । रिति कथनम् । बहुशोऽयमर्थ आभ- ण्यते पुराविद्भिस्तद्यथा- देवं वन्दे जलधिशरधि देवतासार्वभौमं । व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः ॥ भूपापेटी भवनमघरं पुष्करं पुष्पवाटी । शाटीपाला: शतमखमुखाश्चन्दनदुर्मनोभूः ॥ (७९) भक्तयुद्रेकवशात् पुनः स्वस्यापि शिवकृपालब्धवेभवत्यं वर्ण- यति ।' विद्या हृद्या । इत्यादिना । अस्मिन् पये 'विद्या हृद्या' इत्यनेन धर्मज्ञानसिद्धिं 'दिशि दिशि जयः कीर्तिर्लक्ष्मीलाभोऽतुलवित्तागम' इत्यनेनाऽर्थसिद्धि 'मां सेवन्ते कुवलयदृशां सहस्राणि ' इत्यनेन तृतीयपु- रुपार्थपर्याप्तिं च निर्दिश्य स्वस्य त्रिवर्गफलसिद्धि शिवकृपामूलां व्याजहार भगवान् । पद्ये चान धर्मार्थकामानां क्रमेण निरूपणात् ऋमिकालङ्कारः । अन- वसरत्वाचतुर्थपुरुषार्थस्य न न्यूनताशङ्कनम् । त्रिवर्गस्यानपेक्षव्यूहत्वाच्च । व्रत- करणानुज्ञा निगमयति (८०)' कथं तस्ये । त्यादि 'व्रत' मित्यन्तेन । (८१) रुक्मिण्या ' ययाशा प्राणनाथस्य तथा करिष्याम' इत्युक्त्वा शिवरात्रिवतकरणाय निश्चयः प्रकटीकृतस्ततः सर्वासा व्रते श्रद्धातिशयोत्पादनार्य शिवमहिमानमेव प्रस्तौति श्रीकृष्णः । (८२) देव्य इति । भक्तवत्सलता श्रीकृष्णचन्द्राभ्युदयम् । W विश्वेश्वरोऽपि कनकाद्रिकृतालयोऽपि । रत्लासने सुरवरैः परिपूजितोऽपि । भक्तार्पितानि जलविल्वदलानि हो- दङ्गीकरोति परितुष्यति चाऽऽशुतोपः ॥ ४५ ।। सत्यभामा--"यथार्थमाह प्राणनाथः, काप्यलौकिक्येव भक्तवत्सलता भगवतश्चन्द्रमौलेः। श्रीकृष्ण:--किञ्च शिवप्रदस्त्वत्र शिवः शिवायां ८५। रात्री पृथिव्यां निखिलस्थलेषु । स्वकीयलिडेपु हि सन्निधत्ते । भक्तिप्रियो भक्तहितानि कर्तुम् ॥ ४६ ॥ नारदः-(सहर्षम् ) ८ श्रीकृष्णचन्द्र यदुवंशमणेऽसि धन्यः श्रीशैलजारमणभक्तगणेषु मुख्यः ।। येनाऽत्र नः सुवचनैः शिवभक्तिभाजा- मुद्रोधिता मनसि काऽपि नवेव भक्तिः ॥ ४७ ॥ दयालता चेति गुणद्वयं भजनीयस्य भक्तभक्तिपरोचनायाऽलमिति तदेव गुणद्वय- मनन्यसाधारणं शिवे निरूपयति । ( ८३ ) विश्वेश्वर इति । विश्वेषामीश्वरस्य कनकाद्रिकृतालयस्य रत्नासने मुरवरैः परिपूजितस्य भक्तार्पितजलबिल्वपनादि न कमप्युपयोगमावति तथापि तादृशस्वल्पपदार्थाना सहर्षमङ्गीकारः परितो. पच भक्तवात्सल्यप्रयुक्त एवेति 'आशुतोप । इत्यभिधानौचित्येन ध्वन्यते । (८४ ) सत्यभामाऽपि भगवतो भक्तवत्सलताया 'अलौकिकी ति निर्देशेन लोकोत्तरतामभिदधाना श्रीकृष्णोक्तिमुपबृंयति । (८५) शिवरात्रौ शिवलिङ्गार्चनं फलातिशयजनकमित्याह श्रीकृष्णः । शिवपद इति । अत्र शिवलिनेषु सर्वदा सनिहितस्यापि शिवाय रात्री स्वकीयलिने मन्निधते। इति कथनेन भक्तस्तिकरणाय शिवरात्रिनिमित सनिधानवैशिष्टय सूच्यते । (८६) सपत्नीकस्य श्रीकृष्णस्य भवभक्तिप्रवणत्वदर्शनेन सन्तोषप्रक- टनपूर्वकमाशिषमुधारयति नारदः-तस्मादिति । .(८७) सर्वदा शियमतिमानामपि नो.मनसि मयता मुवचनैः कापि प्रथमोऽधः। राष्पश्चः- . तस्मात् स एव भगवान् स्वकृपावलोकैः पूर्णामिलापनिकराय निजाश्रिताय ।। सत्पुत्ररत्ननिकरान सुगुणोचलॉस्ते दद्यादिहोत्तमतमानिति मे शुभाशीः।। ४७ ॥ श्रीकृष्ण:- } (समणामम् ) भगवन् ! सफलाऽस्तु वः शुभाशी: नारदः-(स्वगतम्) इदानीं पुनः स्वकलां प्रकाशयामि । (प्रकाशम् ) देव ! प्रथमं मया सह वार्तालापप्रसङ्गेन स्वधर्मपत्नीनां प्रश्नोत्तरे विलन्यः कृतः । इदानीं पुनरेताभिः सह वार्ताप्रसङ्गेन मत्प्रश्नोत्त- रापह्नवः कर्तुमारब्धो भगवतेति प्रतिभाति । न परमह तद् विस्म- नवेव भक्तिरुवोषितेति भक्तेः सदातनाया अपि नवत्वसम्भावनं भगवद्वचनेषु कमपि चमत्कारमावहति । तादृशचमत्कारजन्यतोपोदार आशीरूपेण परीवहति । यस्मात् त्वं शिवमक्तामणीरसि तस्मात्तत्कृपावलोकः पूर्णाभिलाषाय भवते मुगु- णोज्ज्वलान् सत्पुत्ररत्ननिकरान् दद्यादिति सम्बन्धः । नहि सुतलाममात्रेण कात्ता- र्थ्यमपि तु सुताना सद्गुणवत्ताऽवश्यमपेक्ष्यते । यदाह भर्तृहरिः ‘सुताश्च मुधियः । क्षेमेन्द्रोऽपि ' सूनुः सच्चरितः' इत्यादिना । अप्पय्यदीचिता अपि मुताश्च विनयोज्यला: । इति स्यावसाने जोपं व्याज डुः । अतश्चात्राशीर्वचने मुगुणोज्वलान् । इति विशेषणोक्तिनारदस्य युक्तिव । अत्र प्रतिमुखं नाम सन्धिरुपन्यस्तः। यदाह काव्यानुशासने हेमचन्द्रः।- बीजस्योद्घाटनं यत्र दृष्टनष्टमिय कचित् । मुखन्यस्तस्य सर्वस्य तद्वै प्रतिमुखं स्मृतम् । यथा रत्नावल्यो ' परप्रेषणकर्षितमपि शरीरमेतस्य दर्शनेनाद्य मे बहुमदं सम्पन्नम् । इति सागरिकावचनानन्तरं सुसङ्गतारचितराजतत्समागमपर्यन्तं द्वितीयाङ्कगतं प्रतिमुखम् । पूर्वोक्त 'द्वीपादन्यस्मा दित्यादेवीजस्य उद्घाटनात् । एवमत्रापि सत्पुत्रप्राप्तिलक्षणाम्युदयरूपवीजस्य नारदवचसैवोद्घाटनात् प्रतिमु- खत्वावगमः। (८८) राशीसंवलितस्यैव श्रीकृष्णस्य प्रकृताशीघ्रहणेऽधिकारात्ताभिः सहैव प्रतिग्रहाति । (८९) इदानीं प्रपञ्चनावसरं मत्या पूर्वोक्तमनुसन्धत्ते । यया राशी- कृतप्रश्नोत्तरं मया सह यातालापेन विलम्बितं, मम प्रश्नस्य तु ताभिः सह ३ श्रीकृष्णचन्द्राभ्युदयम्। रिष्यामि ततः 'प्रकृतमनुसरामः पायसं भक्षयाम इतिः'लोकोक्ति मनसिकृत्य पृच्छामि त्वाम । यद्देवेनोक्तं 'यत्र प्रेमवैपम्यं तत्र कलहः स्यान्न स्वप्रेऽपि मे प्रेमवैपम्या मिति; तदा मयाऽर्पितं पारिजात. पुष्पं कथं रुक्मिण्यै समर्पितं न सत्यभामायै न वा जाम्बवत्यै ? श्रीकृष्णः-(सहासं स्वगतम् ) ९°कलहप्रियेण भगवता पुनः प्रकाशिता स्वकीयाभिधानस्य सार्थकता । (प्रकाशम्) भगवन् ! भवदर्पि- तैकपारिजातपुप्पप्रतिनिधितया पारिजाततरुरपि सत्यभामामन्दि- राङ्गणे रोपित: साम्प्रतं तु सर्वासां भवनोपवनेषु पल्लविताः पष्पिताः फलिताश्च पारिजाततरुततयो विलसन्तीति प्रतिमन्दिरं गत्वा विलोकनीयम् । नारदः-( सहासम् ) देव " ! सोऽयं सत्यभामायाः प्रकोपप्रभावो, न भगवतः प्रेमसाम्यप्रभावः । श्रीकृष्णः-९२देव ! यदि न मद्वचसि विश्वासस्तहि त्वत्समक्षमेव सर्वाः पृच्छामः। वार्तालापेनोत्तरमपन्हूयते, तदिदं नाई सहिप्ये इत्यभिप्रायेण प्रकृतानुसरणं स्मारयन् श्रीकृष्णोक्तं स्वप्रियासु प्रेमवैपम्याभावं प्रमाणोपन्यासेन खण्डयितुमाह 'पारिजातपुष्पं पूर्व मयाऽपित्तं भवता रक्मिण्ये दत्तं; सत्यभामायै जाम्भवत्येवा किमिति न दत्तम् ? ।। एवं जाग्रति वैषम्ये कथं नाम वक्तुमई 'न मे कापि प्रेमवैषम्य । मिति भगवन्तं पर्यनुयुते । (९०) शृण्वन्तीनां राशीनां प्राग्वृत्तस्मारणेन स्वस्थस्याऽपि चेतसो भवति कम्प इति कलहाशङ्कि भवति श्रीकृष्णहृदयम् । तथापि दक्षनायकस्य स्यस्मिन् समाधानसामर्थ्यप्रत्ययेन भवत्येव हास: इति सहासमेव स्वगतं चिन्त- यति । कलानियेणेति । सत्यभामामेव प्रथममनुनेतुकामस्तन्नामेव निर्दिशन् सदगणे पारिजातततयः सन्तीति वैषम्यापमार्जनं निगमयति भगवान् । (९१) मुनिरपि सहासमेव चिरप्रमुसकोपोद्बोधनमभिकाधमाण इय मगवदुति प्रतीपयति । 'सोऽयं सत्यभामायाः कोपप्रभावो' न भयता आत्मनः सामु प्रेमसाम्यसाधकत्येनोपयोक्तव्यः । (९२) श्रीकृष्णस्तु तदुक्त.. मनाकणितकेनेव परास्यन् स्वप्रेमसाम्यमेव माधीय: फर्नु स्ववचसि मुनेरवि. श्वास यदि । पदेन स्वयमेवारोप्य त्वत्समर्श साः पृच्छामः' इति पत्परि. हरायोपत्रम।

प्रथमोऽङ्कः। नारद- .९३ उत्तमोत्तमोऽयं प्रकारः श्रीकृष्ण:-१४अयि रुक्मिणीप्रमुखाः पट्टराइयो मे ! अखण्डसौभाग्यव- तीपु भवतीपु सर्वामु मे प्रेमसाम्यं वर्तते न वर्त्तते वैति सत्यं वक्तव्यम्। रक्मिणी-१५परमं प्रेमसाम्यं सर्वास्वस्मासु जागति प्राणनाथस्य यतः। रम्या हावलिनः कनकमणिमयी भाति रत्नप्रदीपा । स्त्रीरनैः सङ्खला सा मुरपतिवनितादुर्लभा वैभवाश्च ।। सर्वासां सन्ति तुल्या हरिकरिशिविका गौमहिप्यश्च कोशाः । प्राणेश ? प्रेमसाम्यं जयति तब किमप्यद्भुतं वागगम्यम् ॥ ४९॥ सर्याः-प्राणनाथ ! देव्या रुक्मिण्याः मूक्तिमुक्तावलीमक्षरयोऽनुस- रामो; नास्माकं मध्ये कस्या अपि काऽपि न्यूनता । प्रेमवैपम्यावापि न लब्धप्रसरा त्वयि पूर्णोदये हि पूर्णेन्दी क तमःसम्भवो भवेत् ।। ५०॥ श्रीकृष्णः-(सहर्षम् ) देवर्षे ! १७ श्रुतमेतासां वचनम् ? । निर्गतः संशयः ?। (९३) नारदोऽपि गत्यभामाप्रभृतयोऽवश्यं श्रीकृष्णस्य पुरत एय तदीयं प्रेमपम्यं प्रकटं करिष्यन्तीति मत्वा श्रीकृष्णोक्तमनुमोदमान आह ! 'उत्तमोत्तमोऽयं प्रकार ' इति । प्रायः प्रवक्तरभीष्टविषयसिध्याभिमुख्येना- बगते प्रमाणोपन्यासे ईगेय भवत्यक्षरोगारः । यथा शाकुन्तले 'अभिज्ञानं ते दयिष्यासति । शकुन्तलायचनानन्तरं दुष्यन्तस्य 'उदारः कल्प' इति वचनम् । (९४) श्रीकृष्णः स्वसन्निधावसङ्कोचेन यक्तुं सर्या अनुजानीते 'अयि रुचि गीप्रमुखा । इत्यादिना 'सत्यं वक्तव्य' मित्यन्तेन । (९५) रुक्मिणी 'परमं प्रेमसाम्य ' मिति साटोपमुस्का स्वोक्त ममर्थनाय रम्या हावाले' रित्यादि कार्यलिङ्गकानुमानमुपन्यस्यति । एतादृशकायलिशानुमितस्यापि प्रेमसाम्यस्य केवलं स्वहृदयसंवेद्यत्वमेवेति बोध- यितुं किमपि अद्भुतं वागगम्यम् । इति विशेषणदानम् । (९६) अत्र सर्वासामनुमोदनं रुक्मिण्याः सूक्तिमुचितामेव समर्थ वति । प्रेमवैषम्यशङ्कांपीति । प्रतिवस्तूपमालङ्कारः ।। ( ९७ ) स्वोक्तवस्तुमिद्धिमाकर्णयतः श्रीकृष्णस्य युक्तमेव सहपत्यम् । देवर्षे ! इति सोल्लुण्ठमित्र सम्बोधनम् । .

३८ श्रीकृष्णचन्द्राभ्युदयम् । १००. - नारदः-(परितोऽवलोक्य) देव ! " श्रुतानि सर्वासां वचनानि, न श्रुत- मेकस्याः सत्यभामाया वचनम् । श्रीकृष्णः-सत्यभामे ! ५९ त्वमपि त्वदीयमभिप्रायं देवः श्रवणा- तिथितामुपनय । सत्यभामा- 'प्राणनाथ ! नाहमेता इव मिथ्यामधुरवचनकुशला; ततः किं मद्वचनश्रवणेन । नारदः-१०१( सहर्षस्मितम् ) वत्से ! प्राणप्रियस्यास्य ते सर्वासु प्रियासु प्रेमसाम्यसंरक्षणगर्वपर्वतं खर्वीकर्तुं सम्यगुक्तं भवत्या । १०२माधुर्यविधुरमपि सत्यमेव वक्तव्यं सत्कुलसम्भवया भामिन्या। श्रीकृष्ण:-(सस्मितम् ) प्रिये . ! १०३ यथानुभूतं भूतार्थमेव निर्माधुर्य निवेदय । न्यूनतानिवारणाय प्रेमवैपम्यपरित्यागाय च देवर्मम चाऽयं प्रयासः। (९८) सम्प्रति संशयो निवृत्तः ? ' इत्याशयेन पृच्छन् यावत् हृष्यति तावदेव नारदः परिवो विलोक्य सत्यभामाभिमुख एव एकस्याः सत्यभामाया वचनं न श्रुतमित्याह । अत्र नारदस्य अन्यारतावद्वदन्तु वैदग्ध्यात्, सत्यभामा तु निश्चितं श्रीकृष्णस्य दाक्ष्यभगमगणयित्वैव विनयनि चुलितमपि सत्यं यक्ष्यत्येवेत्यभिसन्धिः । (९९) श्रीकृष्णः पुनरात्मप्रत्ययावलम्बी तामनुजानीते ' त्वमपि त्वदीयमभिप्रायं देवः श्रवणातिथितामुपनय ' श्रावयेत्यर्थः । पर्यायोक्तम- लङ्कारः । पर्यायोक्तं तु गम्यस्य वचो भग्यन्तराश्रयम् । इति लक्षणात् । (१००) यदा सत्यभामया 'नाहमेता इव मिथ्यामधुरवादिनी। अतो वरमश्रवणमेव मदचनस्येत्याशयवदाह तदा नारदः स्येष्टसिद्धिमुपस्थिता. मिव मन्यानो ' वत्से । (१०१) इत्यादिना श्रीकृष्णस्य 'सर्वासु प्रेम- साम्यमेव मे वर्तत ' इत्याकारकगर्वलक्षणं अखर्व उच्छ्रितं पर्वत खर्चस्व पुरु; भेमवैषम्यप्रदर्शनेन तदीयं स्मयं परिहरेति सत्यभामा प्रोत्साहयति । (१०२) तत्र च ' सत्कुलसम्भवया भवादृश्या माधुर्यविधुरमपि सत्यं वक्त- व्यमेव । इत्यनेन असहोच हि इति सचितम् । यदि दाश्येण सफुचसि ताई सत्कुलोत्पन्नत्यं संशयदोलामारोश्यतीति भीतिप्रदर्शनमुपोदलनाय । 'भामिन्या' रति च प्रसनोचितमेयाभिहित मुनिना। (१०३) श्रीकृष्णस्तु नारदोचेजितायाः स्वभावकोपनाया: सत्यमामा- प्रथमोऽहः। सत्यभामा- ३०४ यद्येवमेवामहस्तहिं श्रूयताम् । न दत्ता या मात्रा न मुनिवर पिमा न सहजैः स्वयं गुप्तं दूतं द्विजवरमुपप्रेष्य कमपि ॥ लिखित्वा सकेतान् स्वयमवृत या स्वेष्टदयितम् समा सेयं भैष्मी वयमपि च सर्वा यदुपतेः ।। ५१ ।। किंच-मुने ! राधा राधावरहदयवाधाप्रशमनी घृता या फन्यात्वेऽप्यखिलमवभीर्यचरितम् ॥ अनेनास्मद्भर्ना यदुकुलमणेरस्य तु सदा समाना सा गोपी वयमपि च राजन्यतनयाः ।। ५२ ॥ या मुखात्यरुषाश्चराण्याशकमान: सस्मितमपि सभयमाह (प्रिये ! भूतार्थ निवेदये ' स्यादि । तत्रापि स्वाभीप्सितमर्थयते 'न्यूनतानिवारणाय प्रेमवै- पम्यपरित्यागाय । प्रयासोऽयमाश्योरतस्तदनुगतं निवेदयेति श्रीकृष्णस्य प्रेर- णाक्षराणामाशयः ॥ (१०४) दानी सत्यभामा व्याजोक्तिगर्भखिभिः पद्यैः श्रीकृष्णस्य प्रेमप्साम्यमेव वर्णयन्ती प्रथमं रुक्मिणीमेवोद्दिश्य वदति । न दत्तेति । कियता क्लेशेन स्वप्राप्तिः सम्पन्ना इति तु स्वयं यक्तुमसाम्प्रतमतो रुक्मिणीप्राप्तिक्लेशमेव प्रपञ्चय तादृशमलब्धाया अपि भेम्या यदि प्राकृताभिरितराभिः साम्यभावनं तर्हि विवेकापास्तं तादृशभावनं किं प्रेमसाम्यसाधकं भवति ? अस्मिन् पये 'स्वयमवृत या स्वेष्टदयित ' मिति कयनेन यया रुक्मिण्या मातापितरौ सहजादींश्वावधीय दूतमुखेन स्वाशयमावेद्य सङ्केतं च प्राइयित्वाऽऽत्मैव हारितः, इष्टदयितत्वेन च स्वयं वृतस्सापि समानाऽन्याभिरिति विवेकवैधुर्य व्यञ्जितम् । (१०५) किच-या राभा अखिलमार्यचरितमगणयित्वा कन्यात्ने वृता । श्रीकृष्णेन स्वयमेवेति शेषः । यदुकुलमणेरिति विशुद्धक्षात्रकुलसम्भ- वेन स्वयमेव बुद्धिपूर्वकमाभीरकन्यावरणं हि कियदपकर्षजनकमिति भवतवाव- धार्यमित्याशयेन सम्बोधयति मुने ! इति । राधायाश्च ' राधावरस्थ-कृष्ण- स्यैव हृदयबाधाप्रशमनी 'इति विशेषणेन व्याख्यात एव सौभाग्यातिशयः । अनेन अस्मद्धी' इति च पुरोऽवस्थितं कृष्णं निर्दिशन्त्या 'समाना सा गोपी वयमपि च राजन्यननयाः' इति निगमनोती द्यावापृथिव्योरिवा- न्तरबोधनेन प्रेमसाम्यकथैव दुरापास्तेति ध्वनितम् । - श्रीकृष्णचन्द्राभ्युदयम्। अपिच-मुने ! १०६काली कुजां वपुपि हृदये चापि कुटिलां भुजिष्यां कंसस्याप्यनुदिनमनन्येन मनसा ।। समानामस्माभिः सह गणयतः श्रीयदुपतेः क दृष्टं वैपम्यं हृदयदयितस्याऽन्न वद नः ॥ ५३ ।। (इत्युत्का तूष्णी तिष्ठति) नारदः-( सहासम् ) श्रीकृष्णचन्द्र ! श्रुतानि सत्यभामाया वचनानि । ईदृशी समदृष्टिस्तु विपमदृष्टितोऽपि विपमा । श्रीकृष्णः-१०४मुने ! सापत्न्यरोपाद्वा विनोदोक्तिरियं, न मे ।। सर्वासु समदृष्टित्वं निवारयति निर्मलम् ।। ५४ ॥ जाम्बवती-१०९(स्वगतम् ) सत्यभामया निसर्गरोपणया विपममुक्तं तथापि विषमस्य समीकरणं सुहृदां धर्मस्तत्प्रयते तदीयहिताय (१०६) इदानीं श्रीकृष्णस्य साहसा तिरेकमिव वक्तुकामा प्रथममे वाभिमुख्यकरणाय सम्बोधयति मुने इति । काली, कुन्जां वपुपि हृदये च कुटिलां, कंसस्य भुजियां दासी, 1 चतुभिरेतैर्विशेषणैः सर्वथा परिहरणी- यतेव समर्थिता । तादृशीमपि तामस्माभिः सह समानां गणयतोऽस्माकं हृदय. दयितस्य; एवमनेकवचनीयाचारयुक्तोऽप्यस्माकं हृदयदयित इत्युक्त्या स्वीयं प्रेमाद्रहृदयत्यमाख्यापितम् । तादृशस्य यदुपतेः क दृष्ट वैषम्यं १ अत्र त्वमेव वद । एवंविधव्यतिकरेण स्वरूपव्याक्रिययैव पराक्रियमाणं प्रेमसाम्यं भवता सम्यगवबुद्धमिति प्रभवति भवानेव स्पष्टमत्र वक्तुमिति ध्यानः । (१०७) एतावदुक्का तूष्णीभूतायां सत्यभामायां स्वेष्टसिद्धिमदूर- भाविनीजानन् नारदः सहासमाह-'ईदृशी समदृष्टिस्तु विपमदृष्टितोऽपि विपमा' वरमेवंविधसमदृष्टोर्वेषमा दृष्टिः । इयं समदृष्टिस्तु महतीमनर्थपरम्परामन्तवय- तीत्यर्थः। (१०८) एवं जातवेदग्ध्यभङ्गस्यापि भगवतो दक्षनायकत्वेन प्राग- ल्भ्यगर्भेव वाक्प्रवृत्तिर्भवति मुने ! इयं तु सापत्न्यरोपप्रयुक्ता विनोदोक्तिरिति नेनया मम निर्भलं प्रेमसाम्यं निवारयितुं क्षममिति । (१०९) जाम्बवती सत्यभामाया रोपाविष्टां वचःसरणि श्रुत्वा स्वान- मिषितान्तिरापातमीरुस्तदुत्तेरन्ययाशयं वर्णयितुं यतते ।' तंदीयहिताय- तस्याः सत्यभामाया हिताय-अन्यासामपि हिताय' इति प्रयोजनमपि निदि.

प्रथमोऽङ्कः । सर्वासां हिताय च । (प्रकाशम्) अयि प्राणनाथ ! अयि मुनिवर्य ! मम प्रियस्वस्रा यदुक्तं न तद्वनोत्तया प्राणप्रियस्य नः स्वपत्नीपु विषमदृष्टित्वप्रतिपादकं किं तु किमप्यन्यदेव तस्या हार्द विद्यते, यतो नीरनिधिगम्भीरहृदया सा न. निष्प्रयोजनं किमपि वदेत् । नारदः-११°वत्से ! तर्हि तदीयं हाद त्वयैव निवेद्यताम् । जाम्यवती-मुनिराज सा खलु समदृष्टिमन्यादृशीमेव मन्यते । श्रीकृष्ण:-११ जाम्बवति ! कीदृशीं सा समदृष्टिं मन्यते तत्त्वमेव तदीयहादज्ञा ब्रूहि । जाम्बवती-११२प्राणनाथ ! वैभवसाम्ये सम्पत्साम्ये प्रेमसाम्ये च श्रीरुक्मिण्यादिभिः सहैकमत्यमेव मे प्रियस्वसुः । श्रीकृष्णा-११३प्रिये ! कुत्र तर्हि ताभिः सह मतभेदस्ते भामायास्तदापि निवेद्यताम् । जाम्बवती-यद्येवमेव १४ प्राणनाथस्याग्रहस्तर्हि निवेदयामि । श्रूय- ताम् । प्रमेव स्वगते । प्रकाशं तु-नेतद् भगवतः स्वपत्नी प्रेमवैषम्यप्रतिपादनाय सत्यभामाया वचनं, वक्रोक्तिकल्पस्यापि वचस एतस्य किमप्यन्यदेव हाईम् । अत्र हेतुमाह । नीरनिधिगम्भीरहृदया न निष्प्रयोजनं किमपि वदेत् । (११०) नारदेन- तर्हि तदीयं हाई त्वमेव निवेदय । इति पर्यनु- युक्ता जाम्बवती किञ्चिद्वक्तुकामा प्रथममुपोद्घातं रचयति । सा समदृष्टिम- न्याशीमेव मन्यत इति । (१११) श्रीकृष्णस्तु किञ्चिच्छलयधैर्य इव 'कीदृशीं सा समदृष्टिं मन्यते? तत्त्वमेव ब्रूहि, यतस्त्वं तदीयहाईशासि इति जाम्बवतीमुखादाशयाकलनायो- नाम्यति । (११२) जाम्बवती तु भगवन्मनसि सद्यस्तोपमादधाना वैषम्यप्रयो- जकवस्तूनि गणयन्ती तेषु च वैषम्यं प्रतिषेधन्ती अपि कश्चिद्वैषम्यांशं शेषत्वेन बोधयतिस्म । वैमवसाम्ये सम्पत्साम्ये प्रेमसाम्ये च श्रीरुक्मिणीवचनमनुमत- मेवेति । (११३) कुत्र-तर्हि मतभेदः ? ' इति श्रीकृष्णेन पर्यनुयुक्ता पुनराह । (११४) यद्येवमेवाग्रह इति । यद्यपि नैतदात्मेच्छया याचनं किन्तु प्रासङ्गिकतया भवत्प्रेरितया मया वक्तव्यमेवेत्याशयेनोच्यते । एतेन अभ्यर्थनाभ- ૪૨ श्रीकृष्णचन्द्राभ्युदयम् । ५५नो हम्यैर्धनधान्यगोश्वमहिपीहस्त्यादिमिनॊत्तमै- नों रत्नाभरणैः समस्तव दयादृष्टिं नु मन्ये समाम् ।। सर्वासामपि नः समा यदि भवेत् सत्पुत्ररत्नावलि- र्नाथ ! त्वत्कृपया तदा तव दयादृष्टिं तु मन्ये समाम् ॥ ५२ ॥ इति तस्या आशयः । तत्र तु देवी रुक्मिण्यहं सर्वा- श्वेमा मे स्वसारः सत्यभामया सहकमत्यवत्य एव । नारदः-११६(स्वगतम् ) अहो सत्यभामाया युक्तियुक्तमुक्तिचातुर्य जाम्बवत्या विशदीकृतम् । रुक्मिणी-११७( स्वगतम् ) सत्यभामया वैमत्यप्रदर्शनेनाऽपि सर्वासा- मपि कल्याणमभियाचितम् । धन्या खलु सर्वहितैपिणी सत्य- भामा जाम्बवती च। श्रीकृष्णः-११६( स्वगतम् ) सत्यभामया जाम्बवत्या च देवैरप्यप्रति विधेया न्यूनता प्रदर्शिता । एतस्या न्यूनताया निवारणं तु ङ्गलाघवमपि परिहृतम् । तदेव विवक्षितं 'निवेदयामि श्रूयता' मित्युत्का प्रस्तौति । (११५) नो हम्युरिति । हम्यैर्भवनैः, गपाश्वादिभिः पशुभी रत्ना- भरणेश्वः समः दयादृष्टिं समां न मन्ये । एतत्सकलं बाह्योपचारजातं न सर्वत्र साम्यसाधकप्रमाणमूर्धन्यम् । किन्तु 'हे नाथ !' इति सम्बोधनं भगवत आभिमुख्यापादनाय । सत्पुत्ररत्नावलियदि सर्वासां न: समा भवेत् तदात्व तव दयादृष्टिं समां मन्ये; नाऽन्यथेति भावः। तदेतद्भगवत्कृपायत्तमित्यनुसन्द- धानाऽऽह । 'त्वत्कृपया' इति । एवं सत्यभामावचसामन्यैरतर्कितमाशयं प्रक- टय्य तस्मॅिश्चार्थे सर्वांसामैकमत्यं निगदति तत्र चे 'ति । ( ११६) एवं कल्पनापोढमाशयवर्णनं श्रुत्या नारदः स्वगते सविस्म- यमाह ' अहो । इति । 'युक्तियुक्तमुक्तिचातुर्य, मित्यनुप्रासोऽत्र शब्दाल- कारः । मनसि जाम्बवती बहु मनुते, एतादृशहार्दविशदीकरणपाटवानुभवेन । (११७ ) रुक्मिणी तु प्रथममेव श्रीकृष्णस्य सर्वत्र समदृष्टित्वमुपन्यस्य तत्साधकत्वेन हादिसाम्यमागृणातिस्म; इदानीं पुनर्जाम्बवतीकथितं सत्यभा- मावचनाशयं श्रुत्वा विस्मिता हृष्टा तुष्टा च सत्यभामां जाम्बवती च 'धन्या सर्वहितैपिणी । इति पदाभ्यां स्वगते वर्धापयते । तदीयं वाग्वैचित्र्यं च प्रशं- सति । वैमत्यप्रदर्शनमुखेन सर्वांसां कल्याणमभियाचितमिति । (११८) श्रीकृष्णोऽपि स्वगतमेवोहापोहान् रचयति । जाम्बवत्या सत्यभामाशयं प्रकट.

प्रथमोऽङ्कः। ४३ दुष्करतरम् । (क्षणं नेत्रे निमील्य सप्रत्याशम् ) अथवा किं नाम मे दुष्करम् । यस्यैवार्चनतो मया प्रियतमा प्राप्ता रमाऽनुत्तमा । यस्यैवार्चनतस्तयापि रमया प्राप्तः प्रियोहं लिजः ॥ यन्त्या या न्यूनता प्रदर्शिता सा देवैरपि दुर्निवारा । किर्तव्यतास्तब्ध इव क्षणं नेत्रे निमील्य । चित्तप्रणिधाने हि स्फुरन्ति सङ्कटप्रतिकारा: इत्यतश्चित्तैका- ग्र्याय नेत्रनिमीलनम् । मनसि वान्छितोपायस्फुरणेन प्रत्याशासंचलितमाह । अथवा किन्नाम मे दुष्करं ? न किमपीत्यर्थः । शिवप्रसादासादने सप्रत्ययस्य हृदि एवमेव निपतेनिश्चयः । तदेवात्मप्रत्ययदाय लोकाभ्यां द्वाभ्यां प्रणिगदति । (११९) यस्यैवार्चनतः श्रियाऽहं पतिरातः श्रीश्च मया पत्नी प्राप्ता । उभाभ्यां कृतस्य शिवाराधनस्य मिथ: फलमेतत् । देवीभागवते-पष्ठस्कन्धे १८ अध्याये २८ श्लोकादारभ्य लक्ष्मीकृतशिवाराधनं प्रकृत्य निरूपितम् । ततस्तुष्टो महादेवो वृपारूढत्रिलोचनः । प्रत्यक्षोऽभून् महेशानः पार्वतीसहितः प्रभुः ॥ १८ ॥ तत्रत्य सगण: शम्भुस्तामाह हरिवल्लभाम्। तपस्यन्ती महामागामश्विनीरूपधारिणीम् ॥ १९ ॥ किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे । सार्थदः पतिस्तेऽपि सर्वलोकविधायकः ॥ २० ॥ हरिं त्यक्त्वाद्य मां कस्मात् स्तौषि देवि ! जगत्पतिम् ॥ २१ ॥ वेदोक्तं वचनं कार्य नारीणां देवता पतिः । नान्यस्मिन् सर्वया भाव: कर्तव्य: कर्दिचित कश्चित् ॥ २२ ॥ पतिशुश्रूषणं त्रीणां धर्म एप सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ २३ ॥ नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि । तं त्यक्त्वा देवदेवेशं कि मां ध्यायसि सिन्धुजे ॥ २४ ॥ लश्मीरुवाच । आशुतोष महेशान पत्या शसास्म्यहं शिव । मां समुद्धर देवेश शापादस्माद् दयानिधे ! ॥ २५ ॥ इत्यादिशापोपशमनानन्तरं पुनः शिवेनोपच्छन्दिता लक्ष्मीराह घर मे देहि देवेश ! यदि नुटोसि शङ्कर!

श्रीकृष्णचन्द्राभ्युदयम् । तब तस्य द्विधाभावो नास्ति नूनं कदाचन ॥ ३० ॥ मयैतद् गिरिजाकान्त ! शातं पत्युः पुरः पुरा । यस्त्वं सोऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ ३१ ॥ एकत्यं च मया ज्ञात्वा स्मरणं ते मया कृतम् । अन्यथा मम दोपस्त्वा-माश्रयन्त्या भवेच्छिय ! ॥ ३२ ॥ शिव उवाच । कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि !। ऐक्यभावो हरेनं सत्यं मे वद सिन्धुजे ! ॥ ३३ ॥ एकत्वं च न जानन्ति देवाश्च मुनयस्तथा । शानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल ॥ ३४ ॥ मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा । विष्णुभक्ताश्च बहवो मम निन्दापरायणाः ॥ ३५ ॥ भयन्ति कालभेदेन कलौ देवि विशेषतः । कथं ज्ञातस्त्वया भद्रे दुशेयो ह्यकृतात्मभिः ॥ ३६॥ सर्वथा त्वैक्यभावो हि हरेर्मम च दुर्लभः । व्यास उवाच। इति सा शम्भुना पृष्टा तुष्टेन इरिवल्लभा ॥ ३७॥ वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे ॥ शिवं प्रति रमा तत्र प्रसन्नवदनाम्बुजा ॥ ३८ ॥ लक्ष्मीरुवाच । एकदा देवदेवेश विष्णुनिपरायणः । दृष्टो मया तप: कुर्वन् पद्मासनगतो यदा ॥ ३९ ॥ तदाहं विस्मिता देवं तमपृच्छं पति किल । प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम् ॥ ४० ॥ देवदेव जगन्नाथ यदाह निर्गताऽर्णवात् । मथ्यमानात् मुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो ! |॥ ११ ॥ वीक्षिताश्च मया सर्वे पतिकामनया तदा । वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात् ॥ ४२ ॥ त्वं कं ध्यायसि सर्वेश संशयोऽयं महान् मम । प्रियोसि कैटभारे मे कथय त्वं मनोगतम् ॥ ४३ ॥ विष्णुरुवाच । शृणु कान्वे प्रवक्ष्यामि यं ध्यायामि मुरोत्तमम् ।

प्रथमोऽङ्कः1
१२ यस्यैवार्चनतो मयाऽखिलमिदं विश्वं च संरक्ष्यते ।
सोयं साम्बसदाशिवो मम सदा कर्ता मनोवाञ्छितम् ।। ५५ ।।
आशुतोष महेशानं गिरिजायलभं हदि || ४५ ॥
कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः ।
ध्यायाम्यहं च देवेश शकरं त्रिपुरान्तकम् ॥ ४६ ॥
नरक यान्ति ते नूनं ये द्विषन्ति महेश्वरम् ।
भक्ता मम विशालाक्षि सत्यमेतद् प्रवीमि ते ॥ ४७ ॥
इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना ।
एकान्ते किल पृष्टेन मया शैलसुताप्रिय ! ॥ ४८ ॥
तस्मात् त्या यल्लम विष्णोर्शात्या ध्यातवती वहम् ।
तथा कुरु गहशान यथा मे प्रियसनमः॥ ४९ ॥
इति नियो वचः श्रुत्या प्रत्युवाच मदेश्वरः ।
स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तय ॥
समागमस्ते पत्या हि भविष्यति न संशयः ॥ ५० ॥
( १२०) विश्वरक्षणमपि यदर्चनलब्धसामर्थ्यनिर्वाह्यमित्याइ । यस्ये
यार्चनत इति । तदुक्तं श्रीकाशीखण्डे २१ तमेऽध्याये--
.ध्रुर्व प्रति भगवद्वाक्यम् ।
अहं जिगमिपुरत्वासं पुरीं वाराणसी शुभाम् ।
साक्षाद् विश्वेश्वरो यत्र तिष्ठते मोशकारणम् ॥ ९७ ॥
विपन्नानां च जन्तूनां यत्र विश्वेश्वरः स्वयम् ।
कर्णे जापं प्रकुस्ते फर्मनिर्मूलनक्षमम् ॥ ९८ ॥
अग्रे च-xxx
वैकुण्टनगरात् काशी नित्यं विश्वेशमचितुम् ।
अहमायामि नियमाञ् जगदर्य तदर्चिताम् ॥ १०४ ॥
मयि या परमा शत्तित्रिलोक्या रक्षणक्षमा ।
तत्र हेतुमद्देशानः स मुदर्शनचक्रदः ॥ १०५ ॥
पुरा जालन्धर देत्य ममापि परिकमनम् ।
पादाङ्गुष्टोत्यरेखोत्थं चक्रं मृट्या इरोऽदरत् ॥ १०६ ॥
तय चक्र मया लब्ध नेप्रपमाननाद्विभोः ।
एलमुदर्शनाख्यं वे देत्यचक्रममईनम् ॥ १०७ ॥

श्रीकृष्णचन्द्राभ्युदयम् । अपिव–१२१यो मूढानपि देवदेशिकनिभान् कर्तु क्षणेनोत्सुको यो रकानपि राजराजविभवान् कर्तुं प्रवद्धाग्रहः ।। योऽपुत्रानपि पुत्ररननिकरैर्युक्तान विवातुं क्षमः सोय श्रीगिरिजापतिः सुतशतप्राप्त्यै समयॊ मया ॥५६॥ १२२स एव मे प्रतिज्ञा पूर्णा विधास्यत्ति नात्र कापि चिन्ता। तन्मया तव रक्षार्थ भूतविद्रावणं परम् । तावत्मणुनं पुरत-स्ततश्चाहमिहागतः ॥ १०८ ॥ काशीमिदानी यास्यामि विश्वेश्वरविलोकने । अद्य यात्रास्ति महती कार्तिक्यां बहुपुण्यदा ॥ १०९ ॥ इत्यादिना महता विस्तरेण शिवप्रसादलब्धचक्रेण विश्वरधणकर्मणि सौकर्य स्वयमेव भगवतोक्तम् । तथा च यत्प्रसादान्मम सर्वार्थसिद्धिः सर्वदा भवति ' सोऽयं साम्बसदाशिवः । इति सदाशिवस्य 'स' इति पारोश्य- निर्देशाव्यवहितक्षण एव 'अयम् । इति पुरोवस्थितत्वमिव मन्यानः श्रद्धाभ- रेण 'मम सदा मनोवाञ्छितं कर्ता इति सविश्वास व्यवस्यति । (१२१) इदानीं मनोवांछितमेव विशदयन् महेशप्रभाव वर्णयित्या चिकीर्षितकार्यसिद्धयर्थमुपायं निश्चिनोति । यो मूढान् क्षणेन बृहस्पतितुल्यान् फर्नु प्रभयति, यश्च रकान् राजराजतुल्यवैभवभाज: फतु प्ररद्धाग्रहो, यो हि अपुत्रान् पुत्रिणो विधातुं च क्षमः; सोऽयं श्रीगिरिजापतिः मुतसताना प्राप्तये मया समर्त्यः । अयमों इरिवंशे भविष्ये कैलासयात्रायो ७३ अध्याये रुक्मि. ग्पर्धितेन श्रीकृष्णेन--- एप गच्छामि पुत्रार्थ कैलास पर्वतोत्तमम् ॥ ३५ ॥ तप्रोगस्य महादेव शकरं नीललोहितम् ॥ ततो लन्धारिम पुत्रं ते भयाद् भूतहिते रतान् ॥ १६ ॥ तरमा प्रदाचर्येण भव शहरमव्ययम्। सोपपिन्या विरूपाश्रमादिदेयम विभुम् ॥ ७ ॥ गमिष्याम्यहमयेय द्रष्टुं गहरमव्ययम् । सच मे दास्यते पुत्र तोvिarसा मया ॥ २८ ॥ रवि महता विस्तरेण स्वपमेयोकः ।। (१२२) पस्मिन् पिपेशीय विभामावि दर्गपति । स एप में प्रविना पूनों विभारपनि नाप कापि चिन्ता ।

प्रथमोङ्कः । ४७ १२३ (प्रकाशम् ) देवि सत्यभामे! त्वया या न्यूनता प्रदर्शिता सा तु मया देवर्पिणाऽप्यप्रतिविधेयैव । तथापि न्यूनतानिवारणं करिष्यामीति मया प्रतिज्ञातं तत्करिष्याम्येव परन्तु तत्र सर्वासां भवतीनां साहाय्यमपेक्षितम् । सत्यभामा-( सहर्पम् ) १२४यहाज्ञापयिष्यति प्राणनाथस्तत् साहाय्य सर्वा अपि वयं करिष्याम एव । श्रीकृष्णः-१२५सत्यभामे ! सर्वासां भवतीनां समाना सत्पुत्ररत्ना- बलिप्राप्तिः श्रीसाम्बसदाशिवप्रसादमन्तरा दुर्लभा श्रीसाम्य- सदाशिवप्रसादश्च तपश्चरणमन्तरा दुर्लभस्ततस्तपश्चरणाय तपो- वनं गन्तुं मामनुजानीत सर्वा इत्येतावन्मानं सर्वाभिर्भवतीभिः साहाय्य कर्तव्यमस्ति । सर्धाः-१२६( सोद्वेगम् ) नाथ ! नैतत् साहाय्यं कर्तुं शक्यमस्माभिः । सत्यभामा--१२७नाथ ! प्राणनाथ एवाऽस्मान् तपश्चरणायानुजानातु । वयं सर्यास्तपसा श्रीपार्वतीप्राणेश्वरं सम्प्रसादयिष्यामः । (१२३) करिप्यमाणाया अपि प्रतिज्ञाया भूतत्वमिव भावयन् स्वगते सर्वमात्मनिश्चयमवसाय, प्रकाशमाह । देवि सत्यभामे इति । यद्यपि त्वया प्रदर्शिता न्यूनता मया देवर्पिणा वा परिहर्तुमशक्या तथापि ' न्यूनता- निवारणं करिष्यामि इतीमानि मम प्रतिज्ञाक्षराणि मयैव निर्वोढव्यानि परन्तु तत्र भवतीनां साहाय्यमपेक्षितं तद्भवतीभिरवश्यं दातव्यमेवेति वदन ताः प्रोत्साहयति श्रीकृष्णः। (१२४ ) साहाय्यककरणाय समुत्नुका सत्यभामा सर्वासां प्रतिनिधि- स्वेन ' सर्वा अपि वयं करिष्याम ' इत्यङ्गीकारमाह । (१२५) परम्परानुपक्तमुपायोपेयभावं प्रदर्शयन् भगवान् वासां या- चिकमङ्गीकारमाग्रहेण दृढयति । सत्यभामे इत्यादिना । सत्पुत्ररत्नावलिप्राप्तिः सदाशिवप्रसादमन्तरा दुरधिगमा, सदाशिवप्रमादश्च तपश्चरणादिसाध्यस्तपश्च तपोव स्थतिसापेनियमनिर्वमिति तपोवनगमनाय अनुजानौत सवी इती. दमेव साहाय्यकप्रदानस्वरूपमिति । (१२६ ) वियोगभीरूणामासामेवंविधसाहाय्यकरणे भवेदेव धैमुख्यं तथापि प्रथममेव भगवता प्रनद्धतया किंवक्तव्यतामूदानामेतासां सोदेगमेव यचः प्रवृत्तियति 'नाथ नैतःसाहाय्यं कर्तुं शक्यमस्माभि' रिति । (१२७) मत्यभामा तु निश्यूतगिरणमिव स्वोतमन्यथयितुमनौचित्यत्रस्ता प्रकारान्तर- ४८ श्रीकृष्णचन्द्राभ्युदयम् । १३० यस्य श्रीकृष्णः-१२ भवतीभिस्तत् कर्तुमशक्यम् । नारद: -१२९वत्साः ! मा चिन्तां कुरुत स्वल्पेनैवानेहसा श्रीकृष्णचन्द्रः श्रीसाम्बशिवं सम्प्रसाद्य भवतीनां सर्वासां सर्वान् मनोरथान पूरयिष्यतीत्यविशङ्कमवगन्तव्यम् । सर्वाः--भगवन् ! क्षणवियोगोपि कल्पकल्पः प्रजायते ।। कथं तं तु तपः कर्तुमनुमन्तुं क्षमा वयम् ॥ ५६ ॥ श्रीकृष्णः-१३१ देव्यः! नायं वियोग इतरवियोगतुल्यः किन्तु श्रीपा- र्वतीनाथप्रसादहेतुतया निःसीमकल्याणपरम्पराप्रदोऽस्तीति सोढव्य एव । मेव पुरस्करोति । नाथ ! प्राणनाथ एवाऽस्मान् तपश्चरणाय अनुज्ञानात, वयं सर्वाः पार्वतीप्राणेश्वरं तपसा प्रसादयिष्याम इति । ( १२८) श्रीकृष्णो यद्येवमत्र ब्रूयाद्यत् सहैव युष्मानहं नयामि तपोवनमिति, तदापि श्रीकृष्णावियो- गरूपपरमेष्टसिद्धिः स्यादिति सत्यभामाया अभिसन्धिः । तदेतत्पत्याचंक्षाणः श्रीकृष्णः-भवतीभिस्तत् कर्तुमशक्यम्-इत्याह । अत्र भगवतः, पत्नीभिः कृतेन तपसा यदि तासां भवेत्पुत्राप्तिरूपेष्टसिद्धिस्तथापि ' करिष्यामीति ' स्वप्रतिज्ञा, स्यसम्पादितसत्पुत्ररत्नसम्पदा च तासां न्यूनतापरिहारः, स्वस्य च सर्वामु प्रेम- साम्यमित्यादि सकलं यात्यातूलायितं स्यादिति निगूढाशयः । (१२९) अत्रान्तरे नारद एव सर्वाः सान्त्वयन भगवदिष्टमनुकूल- यति । वत्सा: ! इत्यादिना । श्रीकृष्णवियोगोऽपि स्वाभीष्टसिद्धधनुगमतया न दुःखबुद्धया मन्तव्य: किन्तु स्वल्पकालपरिच्छिन्नवियोगस्य निश्चिताभीष्टसाध- कत्वे सर्वथा स वियोगोऽहत्येवानुमोदनमित्याशयः । समत्ययं च महर्पिराह । स्वल्पेनैव अनेहसा कालेन श्रीकृष्णचन्द्रः श्रीसाम्बशिवं प्रसाद्य भक्तीनां मनोरथान् पूरयिष्यत्येव इति सनिर्धारणमपि अशङ्कमवगन्तव्यमित्याह । (१३०) नारदवाक्येन जाताश्वासाः सर्वाः सम्भूय वदन्ति यस्येति । क्षणावच्छिन्नोऽपि यस्य वियोग: कल्पनुल्यो भवति । ईपदसमाप्त्यर्थकस्यापि करपपस्तुल्यार्थतायामेव पर्यवसानमिति तुल्यपदेन विवरणम् । तं तपः कर्तुं वयं कथमनुमन्तुमीरमहे ? । अत्र तपःकर्तुमित्यस्य तपोवनं गन्तुमित्यस्मिन्नय तात्पर्यम् । (१३१) यदा तु श्रीकृष्णः-'देव्यः ! नायं वियोगोऽनिटः किन्तु प्रथमोऽङ्कः । सर्वाः-प्राणनाथ ! यद्येवमेवाग्रहः प्राणनाथस्य तर्हि श्रीमदाज्ञापरतन्त्रा वयम्। नारद: १३२ श्रीकृष्णचन्द्र ! सर्वासामासामनुमतं ततश्चैत्रशुक्लप्रतिपदि वर्षारम्भदिवसे तपश्चरणाय प्रस्थातव्यं भगवता येन सद्य एव श्रीचन्द्रचूडामणिप्रसादात् प्राप्तसर्वामिलापो भविष्यसि । यथाज्ञा भगवतो देवः। किन्तु यावत्तपश्चर्याप्रयाणवा- सरं भगवताऽध्यत्रैव स्थातव्यमिति मेऽभ्यर्थना । नारदः-श्रीमदाज्ञापरतन्त्र एवाऽयं जनः । राश्यः-१३"प्रियं नः प्रियं नः । श्रीकृष्णः-१३३, श्रीपार्वतीप्राणनाथप्रसादहेतुतया निःसीमकल्याणपरम्पराप्रद इति सोढव्य । इत्याह, तदा भाविकल्याणगौरवमाशासानाः सर्वा आहुः 'श्रीमदाज्ञापरतन्त्रा वयम् ' इति । ( १३२) एवं लब्धानुमोदनं श्रीकृष्णं ज्ञात्वा तपसे तपोवनं प्रतिष्ठासुममुं शुभमुहूर्त्तदेशनया समुत्साहयन् सद्योऽभिल्लपितसिद्धिमादिशति मह- पिनारदः । श्रीकृष्णचन्द्र ! इत्यादिना । अत्र चैत्रशुलप्रतिपदि वर्षारम्भदिन- स्वेन अनायासलब्धं मुदिनमिति मुनेराशयः । (१३३ ) भगवतापि प्रयाणपर्यन्तमभिकाशितं मुनिसान्निध्यमसङ्कोच- मेवार्थितं, मुनिनापि सामोदं स्वीकृतमेव 'श्रीमदाज्ञापरतन्त्र एवायं जन' इति सप्रणयवादिना । (१३४ ) नारदस्थिति हर्षनिदानतया मन्वाना राज्यः प्रियं नः इति वाक्यस्य वीसां कृतवत्यः । अत्र श्रीकृष्णस्य पुत्रप्राप्तिरूपफलोद्देशेन शिवभक्तिनिरूपणं न महवे सौभगाय यत:- फलोद्देशेन देवेशि लघुर्मम समाश्रयः । फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ।' इति लैद्गवचने फलोद्देशेन भने लघुत्वकथनात् ; तथापि तादृश्यपि भक्तिः प्रतिबन्धविरहवतः पुरुषस्य फलसम्पादनेन विश्वासातिशयं जनयन्ती परिणती सात्त्विकभक्तिं प्रसूते इति न कोऽप्यपकर्पलेशः । भगवतन्तु शिवमहिमज्ञन्यशिवभक्तले मुतरां प्रसिद्ध एव । तदुक्तं कौमें- कृष्णद्वैपायनः साक्षाद् विष्णुरेव न संशयः । को ह्यन्यस्तावतो रुद्रं वेत्ति तं परमेश्वरम् ।। नार्जुनेन समः शम्भोभत्तो भूतो भविष्यति । मुत्का सत्ययतीसून कृष्णं या देवकीसुतम् ॥ इति । ५ श्रीकृष्णचन्द्राभ्युदयम् । श्रीकृष्णः-१३५अयि प्रियतमाः ! प्राप्तोऽयं प्रदोपसमयः, शिवा चाद्य शिवरात्रिस्ततः श्रीकुशश्वरमन्दिर एव शिवार्चनानन्देन रात्रिं सर्वां नेतुमिच्छामि । तद् गच्छाम्यहमिदानीमेव, भवतीभिरपि सर्वाभिः प्रतियामं श्रीसाम्बसदाशिवदर्शनार्थमागन्तव्यं, साम्प्रतं तु गच्छत स्वं स्वं मन्दिरम् । सर्वाः-(सप्रणामम् ) यथाज्ञा प्राणनाथस्य (इति निष्फ्रान्ताः) श्रीकृष्णः-देव ! एहि गच्छामः श्रीशिवमन्दिरम् । यत्तु भागवते चतुर्थस्कन्धे देवान् प्रति ब्रह्मणो वचनम्- नाऽहं न यज्ञो न च यूयमन्ये न देहभाजो मुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा तस्यात्मतन्त्रस्य क उपाय विधित्सेत् । यदपि शिवं प्रति देवानां वचनमष्टमस्कन्धे- न ते गिरित्राऽखिललोकपालविरिञ्चवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद् ब्रह्म निरस्तभेदम् ॥ तदेतत्सकलं कैमुतिकन्यायेन शिवतत्त्वस्य पाहतपुरुषदुईयत्वे पर्यवस्यति तेन न कोपि विरोध इत्यभियुक्तैरेव निरूपितम् । श्रीकृष्णस्य तु महेशभक्तिनिष्ठत्वं महेशप्रसादपात्रत्वं चोक्तं महाभारते सौषुप्तिके स्वयमेव शिवेन- अहं यथावदाराध्यः कृष्णेनाऽक्लिष्टकर्मणा । तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ इति । (१३५-.): श्रीकृष्णः प्रदोषपूजनाय समयापातं विदन्नाह । 'अयि ! प्रियतमाः !' इत्यादिना । अद्य शिवरात्रिरस्तीति श्रीकुशेश्वरसविध एव जाग- रणं, प्रतिप्रहरं च पूजन, प्रथमप्रहरपूजनावसान एव द्वितीयमहरपूजनारम्भ इति . पूजनानन्देन अविरलां रात्रि तत्रैव नेष्यामि ततश्च भवतीभिरपि प्रतियामं दर्श- नार्थमागन्तव्यम् । इयं भगवत आशा सर्वासामनुग्रहायवेति तत्त्वम् । उक्तं हि स्कान्दे प्रदोषमाशात्म्ये-- ये नार्चयन्ति गिरिशं समये प्रदोषे ये नाचित शिवमपि प्रणमन्ति चान्यैः। एतत्कथां श्रुतिपुटैन पियन्ति मूदा- रते जन्मजन्मनु भयन्ति नरा दरिद्राः ॥

प्रथमोऽङ्कः। नारदः यथाज्ञा श्रीकृष्णचन्द्रस्य- ( इत्युक्त्वा श्रीकृष्णचन्द्रेण सह निफ्रान्तः) इतिश्रीसद्गुरुवर्यकेशव-कृपाकल्पवलरी-~-पलवायमाने महामहोपाध्यायशीघ्रकविशङ्करलालकृती श्रीकृष्णचन्द्राभ्युदय-नाम्नि नाटके प्रथमोऽङ्कः पूर्णः ॥ तथाच अर्चनवदर्चितलिङ्गप्रणामोऽपि महते फलान भवतीत्याशयेन भगवता प्रतियामं दर्शनार्थमागन्तव्यमित्याशप्तम् । साम्प्रतं तु गच्छत स्वं स्वं मन्दिरमित्युक्त्या तासां विसर्जनेन मुनिना सह प्रारिप्सितं मन्त्रयितुकाम इव ' देवर्षे ! एदि गच्छरम: विश्वसन्दिर मित्युत्का 'यथाज्ञा श्रीकृष्णचन्द्रस्ये' ति दत्तानुकूल्येन नारदेन सह निष्क्रान्तः । इति श्रीसद्गुरुवर्यकेशवकृपाकल्पवहरीपलायमानश्रीकृष्णचन्द्राभ्युदय-नानो नाटकस्य टीकायां ज्योत्स्नाभिषायां प्रयमोऽः सम्पूर्णः । श्रीकृष्णचन्द्राभ्युदयाभिवस्य सनाटकस्योपरिनिर्मितायाम् । ज्योत्स्नाभिधायामगमत्समाप्ति व्याख्यात्मिकायां प्रयमोङ्क एप...

द्वितीयोऽङ्कः। दन्तवका-आर्य ! किमेवं वीरकोटीरोऽपि कातरतर इव धीरतां गम्भीरतां वीरतां च सहजा विमुच्य ग्लानिमुपगच्छसि ? नैत- दुचितं ते । शिशुपाल:-वत्स ! कथमिव न ग्लानिमुपयामि ? अनेकाक्षौहिणी परिवृत्तपरममित्रगणपरिरक्षितामपि रुक्मिणी भद्रकालीमन्दि- रादेकरथो वासुदेवो जहार, किमेतदल्पं ग्लानिस्थानम् ? दन्तवन:-आर्य ! जयपराजयौ हि सर्वेषां पर्यायेण भवतः, काला- घीनं हि सर्व लोके भवतीति नाविदितमार्यस्य । इदानीमनुक- लकाला यदवो जयभानो जाताः, प्रतिकूलकालाश्च वयं पराज- यपात्रतामुपगताः । पुनरपि सत्यनुकूले काले क्षणमात्रेण सर्वान यदूञ् जेष्यामः किमत्र विषादेन चिन्तया वा । किञ्च-सन्मि- त्ररत्नसम्पत्पूर्णस्य ते कैव तादृशवैरिविजये चिन्ता ? श्रुतं मया चारेभ्यो यन् महाराजो जरासन्धो वासुदेवविजयाय परमगु- द्यमं कुरते, शाल्यश्च तद्विजयाय दुष्करेण तपसा परमेश्वरं श्री- पार्वतीप्राणेश्वरमाराधयति, वाणञ्च महामाहेश्वरः श्रीमहेश्वरप्र- सादप्राप्तवाहुसहस्रः कृष्णच्छिद्रान्वेपणपरायणो न नदिनं विश्राममपि भजते । अन्ये च सर्वे स्वस्वशत्यनुसारेण कृष्णमेव पराभावयितुं यत्लसहस्राणि तन्वन्ति । शिशुपालः-(साश्वासम् ) अहो मदीयैः सन्मित्रैर्मदर्थ बहु बहु कृतम् । कदाऽहं तत्कृतानामुपकाराणामनृणो भविष्यामि । (२) दन्तवस्तस्य तादृशमधीरत्वमालक्ष्योपालभते । किमेवमित्यादि नैतदुचितं ते इत्यन्तम् । (३) शिशुपालः पुनस्तदेव रक्मिणीहरणमनुसन्दधानः परममित्र गणपरिरधितामिति मित्राणां परमविशेषणमनवधानतापरिहाराय रचितामित्यत्र परिपदन्यासेन प्रभादराहित्यप्रदर्शनपूर्वक प्रसङ्गोऽयमनल्पग्लानिमूलमिति सम. थितम् । अत्र वासुदेवो जहारेति भगवतो वासुदेवशब्देन व्याहारः सम्बन्धित्व. बोधनाय तेन च खेदातिशयः । (४) दन्तवस्तु जयपराजययोरनुकूलप्रतिकूलकालायत्तत्वं कथयन् विपादमपमाटिं, जरासन्धशाल्यवाणादिवृत्तान्तनिवेदनेन च तं प्रोत्साहयति । (५) शिशुपाल एतच्छुत्या लब्धाश्वासरतेषां मित्राणामानृप्यचिन्तां कुरुते ।

श्रीकृष्णचन्द्राभ्युदयम् । दन्तवना:-आर्य! न खलु सन्मित्राणि प्रत्युपकारापेक्षाणि भवन्तीति नाऽविदितं ते । किञ्च-तदीयवृत्तान्तजिज्ञासया चाराश्च बहवो वहुवेशाः परितः परिभ्रमन्ति, तेभ्यश्च कृष्णवृत्तान्तमधिगम्य तदीयकर्त्तव्येषु विन्ना उत्पाद्यन्ते । पीड्यते तदीया पुरी द्वारा- वती, हीयन्ते यादवस्त्रियो, वध्यन्ते यदवश्वोरयामश्च यादववा- लकान् । न खलु कृष्णो रुक्मिणीहरणदिवसादारभ्य कदा- चित् मुखं शेते, मुखं भुक्के सुखं पिबति वा पानीयम् । शिशुपाल:-"वत्स ! मदीयानां सन्मित्राणां मयि स्वाभाविक प्रेमप्रा- वल्यं श्रुत्वा परमं प्रमोदमामोति मनो मे साम्प्रतं, प्रणष्टः शोको मे पुनश्चारचक्षुपाऽध्यक्षीकृतं निवेद्यताम् । दन्तवा-यथाज्ञा महाराजस्य (इत्युक्त्वा यावदुत्थातुमिच्छति तावत्) (अपटीश्चेपेण प्रविश्य ब्रह्मचारी) ब्रह्मचारी-'जयतु जयतु महाराजो महाराजमन्त्री च ( इत्याशिष ददाति) शिशुपालदन्तवनौ-(१०साश्चर्यम् ) कुतोऽयमकस्माद् ब्रह्मचारी !! (इति परस्परं पश्यतः) (६) दन्तवस्तदीयां चिन्ता, मित्राणां प्रत्युपकारानपेक्षत्यमावेद्य परिहरति । कृष्णकर्त्तव्येषु विनोत्पादन, तदीयपुरीपीडनं तदीयस्त्रीणामपहरणं तदीयानां वधस्तदीयबालकानां चौर्येणापहरणं चेति सकलेयं कृष्णस्य विपत्पर- परोत्पादितेति आयदेयन् चेतश्चमत्कारयति । (७) शिशुपाल एतदाकर्ण्य ' प्रणष्टः शोको मे । इति वदन् कृष्ण वृत्तान्तमखिलमवगन्तुमातुर इवाह 'चारचक्षुपाध्यक्षीकृतमावेद्यतामिति । (८) अत्र दन्तवक्रवचनावसरं मध्ये छित्वाऽकस्माद् ब्रह्मचारि प्रवेशः सकलवृत्तान्तनिवेदनायागतस्य गृहीतवर्णिवेषस्य चारस्य विलम्बाक्षमता मावेदयति । अपटीक्षेपो हि तत्रैव लब्धावसरो यत्र निवेदनीयं त्वरयति निवे- दयितारं, यथावाऽनयराघवे मुरारी, रावणप्रेषितस्य शुकस्याधिगत्य रामसैन्य वृत्तमागतस्यापटीक्षेपेणैव प्रवेशमाह । (९) ब्रह्मचारिमुखादाशीरुचारणं समीपस्थितेषु मन्त्रगोपनायेव । (१०) अज्ञाततत्त्वयोः शिशुपालदन्तवत्रयोर्युक्तमेवाश्चर्यचकितत्वम् ।

द्वितीयोऽङ्कः । ब्रह्मचारी-हा ! राजप्रदत्तस्वल्पतमाधिकारमानलाभेनाऽप्यन्धतमा भवन्त्यधिकारिणः; परं नाऽयमधिकारिणां दोपः किन्तु विद्याविनयविवेकविधुरतयाऽनधिकारिभ्योऽधिकार समर्पयतां रात्रामेव दोपः । (१२प्रविश्य द्वारपाल:) द्वारपाल:--१३देव !मन्त्रिन् ! नमो राज्ञे नमो राज्याय राजसेवायै च । ईदशा भिक्षवोऽपि राजकिङ्करान् हुड्कृत्य तुकृत्य भर्त्सयित्वा ताडयित्वा चास्मान् वलात् प्रविशन्ति स्वेच्छया राजभवनम् । कारागारकुटुम्बिनं करोत्वमुं ब्राह्मणब्रुवं, मां वा राजसेवामुक्तं करोतु देवः । (इत्युक्त्या कनकदण्डं राजपादयोरमे निःक्षिपति) शिशुपाल:-वर्णिन् ! कथमेवं द्वारपालं तिरस्कृत्य वलाद् राजभवन:- वेशः कृतः । ब्रह्मचारी-१४राजन् ! नीचस्वभावाः खलु राजसेवका इति नाविदितं देवस्य । अनेकतीर्थयात्राचक्रमणक्रमेण श्रान्तः कश्चिद् प्र- ह्मचारी देवदर्शनभिच्छतीति निवेदय महाराजायेति प्रार्थितो- ऽध्ययं वैधवेयो निजाधिकारमदमत्ततयाऽन्धो गजनिमीलिका कृत्वा 'कस्त्वं वराको भिक्षुर्महाराजमुखचन्द्रदर्शनवार्तामपि (११) अवः परं ब्रह्मचारिषचने 'विद्याविनयविवेकविधुरतया । इति हि यद्यप्यधिकारिणामुद्देश्यविशेषणवयोपात्तं लब्धाधिकाराणामनधिका- रितापरिपोपाय तथापि तेभ्यस्तादृशेभ्योऽधिकारं समर्पयतां राज्ञामपि संश्लेप मुपाददानमनधिकारिभ्योऽधिकारदानप्रयुक्तं तेषां विद्याविनयविवेकवैधुर्य द्योतयद्भवति चमत्कारातिशयाधायकम् । तेन च 'राज्ञामेव दोपः, इति निगमनं सनिर्धारणं सङ्गच्छतेतराम् ॥ (१२) प्रसह्य प्रविष्टस्य पणिनो दोपावेदनाय द्वारपालप्रवेशः ॥ (१३) अत्र 'ईदृशा भिक्षवः इति निकृष्टतामुक्त्वा राजकिङ्कराणां नुकारानईत्यं, किमुत ताडनादिपूर्वकं बलात्प्रवेश इति ब्रह्मचारिणो दण्डवत्वं समर्थयन् 'नचेदस्मिन् दण्डपातस्तहहं स्वाधिकारान्मुक्तो भविनु मिच्छामीति:- कनरुदण्डनिःक्षेपो जिहासामेतस्याधिकारस्य द्योतयति ॥ (१४) शिशुपालप्रश्नोत्तरे- नीचस्वभावाः खलु राजसेवका , इति विशेपेण सामान्यसमर्थनरूपान्तरन्यासवचनं प्रायोभिप्रायम् ॥ तीर्थ श्रीकृष्णचन्द्राभ्युदयम् । कर्तुम् । मन्त्रभवने सम्प्रति महाराजो महामन्त्रिणा दन्तवफेण सह किमपि गहनं कार्यगौरवं मन्त्रयमाणस्तिष्ठति तेन दुर्लभ- तमं देवदर्शनं महाधिकारिणामपि का पुनस्ते वार्तापि ' इत्युका निद्रासुखमनुभवितुं प्रवृत्तः । दन्तवक्रः-१५कस्तत्र तस्य दोप:? किङ्करः स्वप्नेप्यनुलचनीयैव राजाज्ञा । ब्रह्मचारी:-१भवतु मन्त्रभवने स्थितिस्तथापि मदुक्तानि सर्वाण्य- क्षराणि महाराजाय मन्त्रिणे च निवेदयेति पुनः प्रार्थितोऽयं निद्राभङ्गक्रुद्धः कनकदण्डमुद्यच्छन् 'दुष्ट दूरमपसर, न चेत् ताडयिष्यामि दण्डनानेन, कोलाहलोऽपि मन्त्रविधौ विघ्नं कु- रुते ' इत्युत्त्का मह्यमर्द्धचन्द्रं दातुं प्रवृत्तस्ततोऽहं च तं चपेटा- प्रहारेण पातयित्वा राजसमीपमागतः । दन्तधना—१ भतीवाऽयुक्तं कृतं, द्वारपालतिरस्कारो हि राजतिरस्कार एव। ब्रह्मचारी–१ मदान्धा द्वारपालास्तिरस्कारमेवाहन्ति । श्रीवैकुण्ठस्थयोः श्रीविष्णुद्वारपालयोरपि ततः पतनं तदीयोन्मत्ततयैव जातमिति नाऽविदितं महामात्यस्य । दन्तवक्रः-१क्षणं विलम्व्य यद्यागमनमकरिष्यस्त्वं तर्हि का हानि रभविष्यत् ? यस्या भयात्त्वयेदृशं स्वीकृतं साहसम् । यात्राचक्रमणं च स्वपावित्र्यमाहात्म्यप्रकटनाय तेन च द्वारपालमनसि स्वस्य पूज्यत्वोत्पादनेन स्वागमनस्य सद्योनिवेदनीयत्वम् ॥ वैधवेय इति 'स्त्रीभ्यो ढक् ।। गजनिमीलिकापदमनादरपर्यायः । (१५) दन्तवक्रेण द्वारपालाचरणस्य निर्दोपत्वं साध्यते । (१६) ब्रह्मचारी, आगन्तुकनिवेदनमावश्यक मन्वानो द्वारपालस्य स्वं प्रति दण्डोद्यमनं महापराधं कथयन् स्यकर्त्तकचपेटाप्रहारस्याप्यनपराघतामेव दृढयित्वा स्वप्रवेशस्य कार्यगौरवमावेदयति ॥ (१७) दन्तवस्तु ब्रहाचारिवर्तनमसाम्प्रतमेव सिपाधयिपुः ' द्वार- पालतिरस्कारो हि राजतिरस्कार एवे । ति ब्रुवाणस्तमधिक्षिपति ॥ (१८) ब्रह्मचारी तु मदान्धद्वारपालानामयोग्यत्वं योग्यागन्तुकाना दरेण चाऽध:पातभागित्वं श्रीविष्णुद्वारपालयोर्जयविजययोरधःपातकया-निदर्श- नेन प्रस्तौति । (१९) 'क्षणं विलम्च्य यदी त्यादि दन्तववचन बीजोद्भेदाङ्गम् ।।

द्वितीयोऽङ्कः । ५७ ब्रह्मचारी-२, ब्रह्मचारी-२०(स्वगतम्) नायममात्यो महाराजो वा मां तत्त्वतोऽद्या वधि वेत्ति, सोऽयं भूमिकाग्रहणपाटवस्य प्रभावः । (प्रकाशम् प्रहस्य )२१महती हानिरभविष्यत् । ' का हानिः सम- यच्युति:' गतानि क्षणरत्नानि पुन यान्ति । किञ्च- आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य काल: पिवति तद्रसम् ।। इति नीतिरपि द्वारपालेनेव भवता महामात्येनापि नावलोकि- तेति नाऽल्पमाश्चर्यस्थानम् । दन्तवक्र:-(२२स्वगतम्) नाऽयं केवलं भिक्षादक्षिणामात्रलाभलुब्धो ब्रह्मचारी, कश्चिद्रूपान्तरण राजा राजामात्यो वेति प्रतिभाति । (प्रकाशम् ) ब्रह्मचारिणः ! किन्नामधेयाः श्रीमन्तः ? यादवकन्दनानन्दनामाऽहम् । राजामात्यौ-(२४सपश्चिर्यम्) द्वारपाल गच्छ गच्छ स्वाधिकारम- शून्यं कुरु । नाऽयं कश्चिद् बाह्यो ब्रह्मचारी किन्त्वाभ्यन्तरः प्रियहितकर्ता च राज्यस्य कोऽपि महात्मा वर्तते ततस्तत्कृतं त- जनमपि परमानन्ददं मन्तव्यम् । द्वारपाल:-यथाज्ञा देवस्य । (इत्युक्त्वा निफान्तः) (२०) ब्रह्मचारिस्वगते 'सोऽयं भूमिकाग्रहणपाटवस्य प्रभावः इतीदं दूतकौशलं नाम नाट्यालङ्कारः । ( २१ ) समयच्युतिरूपाया हानेरप्रतिविधेयतासमर्थनाय--' आदा- नस्येत्यादि । प्राचीन नीतिवचनमुदाहृतम् ॥ ( २२ ) उपालम्भकतरेवोपालम्भपात्रताप्रदर्शनाय · द्वारपालेनेव भवता महामात्येनाऽपि ' इति नीतिविस्मरणमाधर्म्यण दन्तयक्रस्यापि द्वारपाल. साम्यमापादयतो वर्णिनो विशिष्टव्यक्तित्वमाकलयन् दन्तवः स्वगते । राजा राजामात्यो वेति । विकल्पनापूर्वकं प्रभवति 'किन्नामधेयाः श्रीमन्तः । इति सबहुमानम् ॥ (२३) नामकथनमात्रेणैव संशयमपाकुर्वन्निय ब्रह्मचारी कन्दनानन्द । इत्यात्मनो नाम कथयति । (२४) तावदेव राजामात्यात्रु भावति नामार्थदोधजनितहर्षेण वेषापरिज्ञानजन्याश्चर्येण च युनो सम्भावना यादव- श्रीकृष्णचन्द्राभ्युदयम् । शिशुपालः-२५परमहितैपिवर्य ! इदानीं त्वदीयं तत्त्वं निवेद्य कुरुप्य नः सानन्दान् । ग्रह्मचारी -२६मायाशतज्ञाननिधिं यदूनां निकन्दने पद्धदृढप्रतिज्ञम् । अवेहि मां मोहितसर्वलोकं पृथ्वीपते शम्बरमात्ममित्रम् ॥ १ ॥ शिशुपाल:- (२७साश्चर्यम् ) अहो परमं मित्रं मे शम्बरः ? सुदिन- मिदम् । (इति वदन सिंहासनात् समुत्थाय दृढमालिङ्गति) दन्तवना-२"आर्य ! प्रणमाम्यहम् । कथमियं भूमिका स्वीकृता महा राजेन यया वयं भवदनादरपरापराधपात्रतामुपनीताः । शम्बरः-२यदा चारा अपि यादवसत्कृतास्तदीयं रहस्यं न निवदेया- मासुस्तदा तदीयरहस्यवृत्तान्तज्ञानायैव भूमिकेयं मया गृहीता। दन्तवना:--3°उत्तमोत्तम एप प्रकारः परकीयरहस्यवृत्तान्तज्ञानस्य । मात्रेण किञ्चिदुद्गतप्रत्यभिज्ञाच्छायाविव द्वारपालं विसृजतः। (२५) तं ब्रह्म- चारिणमात्मीय निश्चिन्वानः शिशुपालस्तत्त्वं प्रश्नयति 'परमहितैषिवर्य' इति सम्बोधयन् ॥ (२६) ब्रह्मचारी एफेनेय वाक्येन सर्व निवेदयति । अत्र मायाशत ज्ञाननिधि मोहितसर्वलोकमिति विशेषणद्वयेन स्वसामर्थं प्रदर्य, यदूना निकन्दने बदृढप्रतिशम् इत्यनेन कार्यप्रवणत्वं, शम्बरमिति नामनिवेदनेन आत्ममित्र- मिति आम्यन्तरत्वख्यापनेन च शिशुपालस्य मनसि कमपि प्रत्ययं जनयति ॥ (२७ ) ज्ञाततत्त्वः शिशुपालो दृढमालिङ्गति ॥ (२८) दन्तवत्क्रस्तु प्रणामपूर्वकं तदनादरप्रयुक्तस्वापराधं वर्णि- भूमिकापरिग्रहान्तरि न प्रत्यभिज्ञानेन परिहरन् पृच्छति । कथमियमिति ॥ (२९) इदानीं शम्बरः परपक्षभेदे स्वीयं पाटवं प्रकटयन् तादृश भूमिकाग्रहणप्रयोजनमाह ' तदीयरहस्यवृत्तान्तज्ञानायैवेति' । (३०) दन्तवक्रोऽनुमनुते — उत्तमोत्तम इत्यादि ।

द्वितीयोऽङ्कः । शम्बर:- . शिशुपालः-3'कस्को रहस्यवृत्तान्त उपलब्धो मदीयमित्रमणिना भवतेति निवेद्यताम् । शम्परः-तदर्थमेवाऽनाऽऽगमनं मे । श्रूयताम् । गृहीतब्रह्मचारिभूमि- कोहं यदुकुलाचार्य श्रीगर्गाचार्य विद्यागुरुमकरवम् । शिशुपाल:- (*सपरितोषम् ) सम्यकृतमेतत् । ततस्ततः । 33परमपरिचर्यापरितुष्टो गुरुवयों मां स्वपुत्रप्रेम्णाऽपश्यन् । वृद्धावस्थाविवशश्च न कचिन्मया विना गतागतमकरोत् । दन्वयनः-स्वभावसिद्धमेव सद्गुरूणां शिष्येषु पुत्रवात्सल्यम् । ततस्ततः। शम्बरः-३४एकदा वसुदेवेन सादरमाहूतो मै गुरुवयों रथमारुह्य तत्स- दनमगच्छन् । अहं च तदाज्ञया गुरुचरणानां पुस्तकानि धृत्वा तत्र गतः। शिशुपाल:-तदीयरहस्यज्ञानस्य समीचीनः समयः सम्पादितः । त- तस्ततः शम्बर:-आद्वारमभिगम्य प्रणम्य वसुदेवेन पाद्याादिभिः पूजितः श्रीगर्गाचार्यः काञ्चनसिंहासनमधिरुह्य क्षणं विश्रामसुखमन्य- भवन्। दन्तवन:--३५वसुदेवस्य गुरुभक्तिमत्तमोत्तमा खलु । ततस्ततः । (३१) शिशुपालो वृत्तान्तोपलम्माय प्रश्नयति 'निवेद्यतामिति ।' (३२) शम्बरेण 'गर्गाचार्य विद्यागुरुमकरव ' मित्युक्ते तदुत्तर वृत्तान्तं ज्ञातुं त्वरमाणः शिशुपालः सानुमोदनमाद ' ततस्तत: ' इति ॥ (३३) कपटपटुना शम्बरबटुना परिचर्याराधित: स्यविरो गुरुर्गर्ग- स्तस्मिन् स्वपुत्रनिर्विशेषभावोमवदित्याकर्ण्य — स्वभावसिद्धमेव सद्गुरूणां शिष्येषु पुत्रवात्सल्य : मिति दन्तवक्रवचः सामान्येन विशेपसमर्थनरूपमर्या- न्तरन्यासमवगमयति । (३४) इदानी गर्गस्य गुरुकरणे प्रयोजनं प्रकाशयति । एकदेत्यादि ।' (३५) आद्वारमभिगम्येत्यादि यमुदेवकर्तृकगुरुसपर्यादि श्रुत्वा 'यमुदेवस्य गुरुभक्तिरुत्तमे । ति दन्तवकवचनं, प्रतिपक्षिणोऽपि प्रशंसामिण दुर्जयत्वमावेदयति । गर्गाचार्यसदृशगुर्वाशावसतिनस्तस्याधृष्यत्वाध्यवसायेन स्वोत्साहमणध्वनिः ।

श्रीकृष्णचन्द्राभ्युदयम् । शम्परः-वत्स ! वसुदेव ! किमर्थमाहूतोऽहं तनिवेदय ' इति गुरु- णाऽऽज्ञप्तो वसुदेवः सालिवन्धं प्रणम्य 'भगवन् ! श्रीकृष्ण- चन्द्रस्याष्टोत्तरशताधिकेपु पोडशसहस्रेष्वपि कुलीनकलत्रेषु नै- कस्यापि पुत्रः पुत्री वाऽऽद्यापि समजनि, तेन खिद्यते मे चेत- स्तद् दयार्णवा यूयं मयि दयादृशं विधाय सत्पुत्रप्राप्तिपूर्वक वंशवृद्धये कमप्युत्तमोत्तममुपायं वदत' इति विज्ञापितवान् । शिशुपालः-(स्वगतम् ) कीलितानि मदीयैमित्रैरसद्हैस्तासां सर्वा- सामुदराणि, कथं प्रसवः स्यात् । गगोंऽपि तत्र किं कुर्यात् । (प्रकाशम् ) मित्रवर्य ! ततः किमुक्तमाचार्येण ? शम्बरः-3 ततो मद्धस्तात् स्वनिर्मितशास्त्रपुस्तकं गृहीत्वा विलोक्य च 'वसुदेव ! केनापि सर्वासां सन्तानावरोधः कृतोऽस्ति । इत्युक्तं तेन । दन्तवक्रः-अहो शास्त्रस्य शास्त्रकर्तुश्चातीन्द्रियज्ञानप्रावल्यम् । ततस्ततः शम्बरः ततो 'गुरुवर्याः ! तर्हि किं विधेयं येन सर्वासां सन्तानप्राप्ति- र्भवेत् ?' इति वसुदेवेन पृष्टः श्रीगुरुवर्यो में 'वत्स वसुदेव !' अनपत्यादिदोपेषु महामयभयेषु च ॥ आयुष्यवृद्धये चापि रुद्रो जाप्यो न संशयः ।। २॥ (३६) गर्गेण निजाह्वानप्रयोजनं पृष्ठो वसुदेयो यदा श्रीकृष्णचन्द्रस्य सन्ततिप्राप्त्युपायं याचितवान् तदा शिशुपालः श्रीकृष्णचन्द्रराशीनामुदर कीलने व्यापूतानामसद्ग्रहाणां स्वमित्राणां पराक्रमं प्रशंसन् 'गर्गोऽपि तत्र किं कुर्यात् । इति साधिक्षेपं गर्गोपदिष्टोपायानां व्यर्थत्वं मन्वान इव किमुक्तमाचार्येण ?' इति कुत्सार्थककिमा वक्ष्यमाणमर्थजातमनादरकक्षायां निक्षिपन्नाह ॥ (३७)' केनापि सर्वासां सन्तानावरोधः कृतोऽस्ती: ति गर्गवचन श्रवणेन तस्याऽतीन्द्रियज्ञाननिधित्वबोधकदन्तवक्रवाक्येन विस्मय उद्भावितः ॥ (३८) अत्र शम्बरोक्तो यमुदेववचनेन सर्वासां श्रीकृष्णापत्नीनां सन्तानावारुपायः पृष्टो गर्गमुनिना च स्मृतिसारसमुच्चयोऽनुष्टुमा कथितः । अनपत्यादिदोपेष्वित्यादि । - । ततः द्वितीयोऽङ्कः। ६१ इति ३१शास्त्रसिद्धमेव । ततः श्रीकृष्णेन कापि तपोवने गत्वा प्रतिदिनं श्रीसाम्बसदाशिवपदारविन्दयो रुद्राभिपेकं विधाय कमलसहस्रमर्पणीयं, ततः सद्यः सत्पुत्रप्राप्तिर्भविष्यति सन्ताना- वरोधकराः सर्वेऽपि दुर्घहा दूरे पलायिष्यन्ते च ' इत्यादिष्टवा- नाचार्यः॥ (३९) तयाचोक्तं रुद्रकल्पद्रुमे- विना महेश्वरं देवं नान्यत्रातुमघौधतः । इत्यतः परम्--- यः शतरुद्रीयमधीते सोऽमिपूतो भवति स वायुपूतो भवति स सुरापानात्पूतो भवति स सुवर्णस्वेयात्पूतो भवति गुरुतल्पगमनात्पूतो भवति स ब्रह्महत्याया: पूतो भवति तस्मादविमुक्तमाश्रितो भवति । इति श्रुतिमुदाहृत्य । यः श्रद्धया युतो नित्यं शतरुद्रियमम्यसेत् । अग्निदाहात् सुरापानादुष्कृताचरणात्तथा । मुच्यते ब्रह्महत्याया इति वै कल्पशास्त्रिनः ॥ इति श्रुत्यर्थानुविधायि वाक्यमुपन्यस्तम् ॥ स्मृतिमहार्णवे च-मद्यं पीत्वा गुरुदाराँश्च गत्वा । स्वर्ण हृत्वा ब्राह्मणं चापि इत्या ॥ भस्मस्नायी भस्मशय्यां शयानो । रुद्राध्यायी मुच्यते सर्वपापैः ॥ स्मृतिदर्पणेऽपि-रुद्रार्चनं रुद्रजपस्तथा चैकादशी व्रतम् ॥ वाराणस्यां च मरणं मुक्तिरेपा चतुर्विधा । रुद्रजापी शिवः साक्षात् चतुराश्रमधर्मकः ।। तस्मादन्यत्परित्यज्य रुद्रजापी भवेत् सदा ॥ सर्वरोगविनाशाय परमाम्युदयाय च ॥ मनोरथफलप्राप्त्यै रुद्रजापी भवेत्सदा । वायुपुराणे च-अनपत्यत्वदोपेषु शाकिन्यादिग्रहेषु च ॥ सर्वधरोपशान्त्यै च रुद्रो जाप्यो न संशयः ।। रोगयान् पापवाश्चैव रुद्र जप्त्या जितेन्द्रियः ॥ रोगात्पापाच मुचोऽसावतुलं सुसमश्नुते ।। इत्यादिशानवाक्यसमुदायसाधितमर्थमेश्वैव कारिकयोपदिष्टयता मुनिना ६२ श्रीकृष्णचन्द्राम्युदयम् । ४१ राम्वरः-- शिशुपाल:--४°मित्र ! ततो वसुदेवेन किमक्तम् ? । गुरुवर्याः! यथायुष्मदाझं निसर्गतो महामाहेश्वराग्रेसरं श्रीकृष्णं श्रीमहेश्वरसमाराधनाय तपोवनं प्रेपयिष्यामि' इत्युक्तं वसुदेवेन । दन्तवका-४हा ! ! महाननर्थ आपतितः । शिशुपालः-४३एवमेतद् यथाह भवान् । शृणु मित्र ! आराधयिष्यति यदीश्वरमिन्दुमौलि श्रीकृष्ण आत्मजवराप्तय आशुतोपम् । निःसंशयं तनयरत्नशतानि लब्धा नो भक्तिकल्पलतिका विफलाऽत्र शम्भोः ॥३॥ एवं च सति एकोऽपि श्रीकृष्णः केनाप्यजय्यः पुनस्तादृश पुत्रशतान्वितस्तु देवानामप्यजय्यो भविता । ततस्ततः। शम्बरः-४४ततो भवदुक्तमेवाभिप्रायं मनसिकृत्य 'गुरुवर्याः ! शिरी- पकुसुमसुकोमलाङ्गेन श्रीकृष्णेन तपोवनं गत्वा महेश्वराराधनं फर्तुमतिदुष्करं ततः कमप्यन्यमुपायं सन्तानाप्तये समाज्ञा गर्गेण उक्तोपायस्यासस्येन फलाव्यभिचाराय पुना रुद्राभिषेकसहका- रितया शेषमन्त्रेण कमलसहस्रार्पणविधिरुक्तो येन दुर्गहादिप्रतिबन्धकनिवृत्या कारणानां कार्योत्पादसामर्थ्यमावेदितम् । प्रतिबन्धकामावविशिष्टस्यैव कारणस्य कार्योत्पादकत्वात् । (४० ) यथार्थोपायोपदेशश्रवणानन्तरं वसुदेवाध्यवसायं ज्ञातुमुत्ताम्यन् शिशुपालः पृच्छति 'ततः' इत्यादिना । (४१) तदुत्तरमाह शम्बरः- 'गुरुवर्या' इत्यादिना वसुदेववचोनुवादेन । (४२) दन्तवस्तु वसुदेवोक्तं श्रीकृष्णस्य तपस्यार्थ तपोवनप्रेषण निश्चयमाकये 'महाननर्थ आपतित । इति वचनेन श्रीकृष्णकृतशिवाराधनेन तदिएसिद्धिमप्रत्यूहां शङ्कमानोऽनिष्टापत्तिमाह । (४३) तदाशयमाकलय्य शिशुपालोऽपि 'आराधयिष्यति यदी' त्यादि पद्येन शम्भुमक्तेः फलाविनाभावमावेदयन् दन्तवऋशङ्कां द्रढयन् कैमुतिकन्यायेन श्रीकृष्णस्य पुत्रशतान्वितस्याजय्यतरत्वमाह ।। (४४) शम्बरः पुनः स्वयुक्तरकिञ्चित्करत्वं कथयन् कृष्णस्य तपोनुवा- द्वितीयोऽङ्कः । पयिष्यन्त्यत्रभवन्तो भवन्तः । इति सावलिवन्धं मया प्रार्थिता गुरुवर्याः, वृद्धत्वसुलभरोपावेशाः सकम्पसकलशरीरा भृकुटीभङ्ग- भीपणाकृतयः रे रे पठितमूर्ख ! ब्राह्मणनिर्विशेपवेशाचारो- ऽपि कश्चिद्सुरोऽसीति प्रतिभासि मै । विनाऽसुरप्रकृति को महेश्वराराधनं दुष्करमिति ब्रयात् ? शृणु रे बालबुद्धे ! ४"यः केवलेन पयसा सितभस्मना का वन्यैः फलरपि दलैः कुसुमैश्च भक्त्या ।। आरावितः सकृदपि प्रददाति तुष्टो वाञ्छाधिकान्यपि फलानि निजाश्रितेभ्यः ॥ ४ ॥ ४ दयालु सुखाराध्यं दुराराध्यं त्रुवन् भवान् । आराधिताऽस्मचरणोऽप्यज्ञातज्ञेय एव हा ॥५॥ नाशक्तिमिव यदतो मम गुरुः क्रोधाविष्टो भर्त्सनपूर्व "रे रे पठितमूर्ख " इत्यादिना ‘विनाऽमुरप्रकृति को महेश्वराराधनं दुष्करं ब्रूया' दित्यन्वेन ज्ञातवानिवामुरंभावमाह ॥ (४५) शिवस्याशुतोपत्वसमर्थनायाऽऽह य इति ॥ केवलेन जलेन, भस्मना, वन्यैः फलैरमूल्यलभ्यरित्यर्थः । दलैः पत्रैः कुसुमैश्चेति चकारो पार्ये । एकैकेनाप्येपामन्यतमेन सकृदेवाराधितः सन् तुष्टो वान्छितादप्यधिकानि फलानि प्रददाति । अत्र 'भक्त्या 'निजाश्रितेभ्यः । इति पदद्वयेन भक्ति- भरेण रामाश्रयणमेव शिवतोषजनकं न पुनस्तत्रोपचारसामग्रीप्राचुर्यमपेक्ष्यत इति ध्वनिः ॥ तथाच दीक्षितवर्या:- अद्रोणप्रभृतिकुमुमैरर्चनं वे विधेयं प्राप्यं तेन स्मरहर ! पदं मोशसाम्राज्यलक्ष्मीः ।। इत्यं जानन्नपि शिव शिव व्यर्थयन् कालमात्मन् आत्मदोही करणविक्शो भूयसाऽधः पतामि ॥ (४६) समर्थितमर्यमनुवदति तं दयामिति । मुखाराध्यमपि दुरा- राध्यं युक्तो गुरूपासनावैफल्यं द्योतयति 'आराधितास्मचरणोऽपी' त्यादिना । नहि कपटपाटवेन चाटुकाटवमपोतुं क्षममिति श्रीकृष्णस्याहिताशंसी अहं गुरुभितिमात्र एव 'नेतः परमत्रावस्थानं क्षेमावह । मिति मत्वा गुरो स्था श्रीकृष्णचन्द्राभ्युदयम् । । अथवा श्रीकृष्णस्यापाततो हितैपितां दर्शयन् मनसावहि- तमेवाचरसीति में प्रतिभाति ' इति वदन्नुत्याय रथमारूढः । वसुदेवस्तु 'भगवन् क्षमस्व क्षमस्व, क्षन्तव्यं वालजल्पितं, सर्व यथायुप्मदाज्ञमेवाऽहं करिष्यामीति' वदन्नाऽऽद्वारदेशमनुग्रज्य निवृत्तः। अहं च पुस्तकभारं स्कन्धे निधाय सकम्पसकलगानी गुरोर्दृष्टिपातादात्मानं रक्षन् गुरुभुवने पुस्तकालये पुस्तकानि निःक्षिप्य पलायितः । शिशुपाला—५७मिन ! भाग्यवानसि यद् रोपावेशवशेन गुरुणा ज्ञान- शा--'कोऽयमस्ति' इति न विलोकितम् । ततस्तत: ? शम्बर:-“ततोऽहमपि द्वारकाधीशस्यैतां प्रवृति सन्मित्रमणये तुभ्यं निवेदयितुमागतोऽस्मि । अतःपरं महाराजेन यथास्वेच्छं विधेयम्। शिशुपाल:- सन्मित्रमणे ! शम्बर ! महता प्रयासेन सम्यग् रहस्य गृहीतम् । तपस्तुष्टो महादेवस्तमवश्यं सत्पुत्ररनसहस्रसमन्वित परमाभ्युदयनिःश्रेयसशालिनं च कतैय । ततोऽस्माभिस्वत्तपो भङ्ग एव विधेयः। दन्तवक्रः-५"तत्तपोभङ्गायाहमेव प्रयतिष्ये, न तद्विपये देवेन चिन्ता विधेया । (इति ब्रुधन निष्कान्तः) शम्बरः-५१महाराज ! दन्तवक्रेण तपोभने कृते न काचित् कृष्णस्य रोहणोत्तरमेव पुस्तकमारं गुरुगृहे निःक्षिप्य पलायितः । अनेन गुरुदृष्टिगोचरत्वे शापाशङ्कया पलायनमेव शरणं मन्वानस्य शम्बरस्यात्रागमन मिति सन्धिः। (४७) शिशुपालस्तु, स्वज्ञानशाऽतीन्द्रियमपि ज्ञातुं समर्थस्यैतावता त्वत्तत्त्वजिज्ञासैव नोवि महद्भायं तवेत्युत्का श्रोतुमुत्क आह ततस्तत इति ।। (४८) शम्बर उपसंहरति ' द्वारकाधीशस्यता प्रवृत्ति निवेदयितु मागत' इति ॥ (४९) इदानीं पुत्रप्राप्युपायानुष्ठानप्रवणं श्रीकृष्णमवगम्य चिन्तातुरः शिशुपालस्तत्तपोभङ्गमैव स्वाधीनमुपायं विदन् सूचयति । (५०) स्वामिकार्यमप्रेरितमेव कर्तुः सेवकस्योत्कर्षमाकामनाह दन्तवकः । ' तत्तपोभगायाहमेय प्रयतिष्ये । इति । (५१) शम्बरस्तु दन्तऋप्रयोगस्य वैफल्यपक्षेपि जातानामपि पुत्राणां समुद्रे प्रक्षेपं प्रतिजानान: शिशुपालं प्रोत्साहयति महाराजेत्यादिना ।

द्वितीयोऽङ्कः। कार्यसिद्धिर्भविष्यति, तथापि यदि . कदाचित् कृष्णस्य पुत्रा भविष्यन्ति तर्हि रुक्मिण्यास्तु सर्वान् पुत्रानहं सूतिकागाराद् गृहीत्वा समुद्रे क्षेप्त्यामीत्यसंशयं मन्तव्यम् । शिशुपालः-मित्रमणे! परमो मैत्रीधर्मः प्रदर्शितः ( इति वदन् साखं दृढमालिङ्गति) शम्बरः-च्छामीदानी मनगरम् । (इति ब्रुवन् प्रणम्य निष्क्रान्तः) शिशुपाल:--५२( स्वगतम् ) गतो दन्तवकः शम्बरश्च स्वस्वकार्याणि साधयितुं, तदहमपि कृष्णपरिभवकरणायाऽन्यानपि प्रेपयामि । (इत्युत्तका निकान्तः) (विष्कम्भकः।) (ततः प्रविशति वसुदेवो देवकी च ) वसुदेवः-५७देवि! परमकृपापीयूपपारावारस्य श्रीपरमेश्वरस्य कृपया साम्प्रतं पराः सुखपरम्परा अनुभवामः ।। देवकी-५४आर्यपुत्र ! युक्तमुक्तं प्राणनाथेन । सोऽयं सर्वोपि प्रभावः , श्रीपार्वतीप्राणनाथचरणपरिचर्यायाः। तदानीं क कंसकारागार निवासदुःखानि, क जातमात्रतनुजप्राणप्रणाशविलोकनत्रासप- रम्पराः, काऽनेकपुत्ररत्नविरहानलजन्या दुःसहा हृदयसन्तापाः, क चेदानीं श्रीद्वारावत्यां मणिमयभव्यभवननिवासमुखानि, क श्रीकृष्णचन्द्रवलभद्रभद्रमुखचन्द्रदर्शनसुखपरम्पराः, क चाऽखण्ड- सौभाग्यवतीनां सौशील्यवसतीनां रुक्मिणीरेवतीप्रमृति-वधूनां सानन्दवदनचन्द्रविलोकनानन्दः । किमेतत् सर्व, विना विश्वे- श्वरकृपावलोकलहरी: सम्भवति ? ( ५२ ) दन्तवक्रशम्बरयोर्गमनानन्तरमनन्तरकरणीयं विचारयन् शिशुपाल: श्रीकृष्णपरिभवमेव मनसिकृत्योपायान्वेपणव्यापाराय निकान्त: (विष्कम्मकः) (५३-५४) वमुदेवः सुखपरम्परानुभवस्य परमेश्वरप्रसादनिदानक- समाह । तदेव देवकी कंमकारागारवामादिपूर्ववृत्तानुकथनपूर्य द्वारवती- राज्यावाप्तिमारभ्य रुक्मिण्यादिपुत्रवधूमुखावलोकनान्तेन वृत्तान्तोपन्यासेन समययति । निगमयति च 'किमेतत्सर्व विनाविश्वेश्वरकृपावलोकलहरी: सम्मवेत् । इति काकूक्त्या।

श्रीकृष्णचन्द्राभ्युदयम् । घसुदेवः--५५सत्यं देवि! सत्यं, श्रीसदाशिवपदारविन्दपरिपूजाया एवाऽयं प्रभावः। (ततो रुक्मिणीप्रमुखा अष्टौ पट्टराज्यः प्रविश्य स्वस्वाभिधान प्रहणपूर्व प्रणमन्ति) देषफीयसुदेवी-वत्साः ! श्रीमदपर्णाप्राणप्रियप्रसादेनाखण्डसौभाग्य पत्यः सत्पुत्रफलप्राप्तिमत्यश्च भूयास्त । रुचिमण्यादयः-५७श्वशुरचरणसेवामेव तीर्थानि विद्मो निजपतिमनुवेलं श्रीपरेशं च विद्मः ॥ यदि हृदि सपदि श्रीशैलजेशस्तदानी- मभिलपितमशेपं यच्छतु श्रीमहेशः ॥५॥ (इत्युक्त्या पुनः प्रणम्योपविशन्ति सर्वाः ।) देवकी-प्राणनाथ ! यद्यपि भगवता भक्तवत्सलेन श्रीचन्द्रचूडेन पूरिता नः सर्वे मनोरथास्तथापि पौत्रमुखदर्शनसुखान्यनुभवितुं नितरामातुरतरा मे दृष्टिः। वसुदेवः-(५ स्वगतम् ) अस्माकं कुलगुरुभिः श्रीगर्गाचार्ययत् सत्पु- वरत्नप्राप्तय उपदिष्टं तत् स्वीकारयितुमयमवसरः । (५५) वसुदेवः पुनस्तदेय दृढयति देवकीवचनानुवादविधया । (५६) रुक्मिण्यादिपट्टराज्यष्टकप्रवेशो हि अत्रावसरे श्रीकृष्णचन्द्राम्यु- दयस्य पुत्रलामलक्षणस्य काव्यार्थबीजभूतस्य वापार्थ देवकीवमुदेवोक्ताशीर्व- चनरूपक्षेत्रीकरणसंस्कारद्वारा वस्तूझेदाङ्गोपक्षेपप्रयोजनः । तदुक्तमभियुक्त:-- आशीरूपेण भाव्यर्थसूचनं यत्र जायते । वस्तूझेदाख्यमङ्ग तन्नाटकेषु निगद्यते ॥ (५७) अत्र रुक्मिण्यादीनां वचने श्वगुरपदमेकशेपाभिप्रायेणोभय- परम् । तथाच श्वशुरयोस्तीर्थबुद्धया पत्यौ च परेशबुद्धथा परेशप्रसादस्तेन चाभि- लषितसिद्धिरप्रत्यूहेति साश्वासं पुनः प्रणामोपवेशने । (५८) देवकीमुखादपि पौत्रमुखदर्शनाभिलापप्रदर्शनेन मनोरया- कारः स्फुटीकृतः। (५९) वसुदेवः स्वगते गुरूपदिष्टप्रकारस्वीकारणायावसरं विदन् द्वितीयोऽङ्कः। ६७ (प्रकाशम् ) प्रिये ! सत्यमुक्तं देव्या । कोहि कल्याणेभ्यः परितृप्यति ? परमेतदर्थ वत्सेन श्रीकृष्णचन्द्रेणैव परमया भच्या श्रीमहेश्वराराधनं विधेयं येन सद्य एव सर्वासामैतासां सत्पुत्रर- नप्राप्तिर्भविष्यति । देवकी-प्राणनाथ ! सत्यं भवत्वार्यपुत्रस्य वचनं, परमिदानी दर्शनागताय श्रीकृष्णचन्द्राय देवेनैव स्वयं सत्पुत्रप्राप्तिफलदः श्रीसाम्बसदाशिवपूजनप्रकार उपदेष्टव्यो; न खलु गुरुजनगौर वविनम्रो लोकलज्जाजलनिधिश्च स्वयं कदाचिदपि तादृशं प्रभं करिष्यति । वसुदेव:-देवि! तथा करिष्यामि, मा चिन्तां कुरु । (नेपथ्ये-) E"संसारातपतापतप्तमनसां निःशेपसन्तापहा स्त्रीयस्वान्तचकोरपोपणपरो विश्वम्भराहादकः ।। दैत्यध्वान्तनिवारणकनिरतो नित्यं प्रवृद्धोदयः श्रीकृष्णोऽद्धतचन्द्रमा विजयते राजाधिराजाधिपः ॥ ६॥ इन्द्रादयोऽमरवरा मुनयो महीन्द्रा नत्वा प्रभोः पदयुगं ददताऽऽशुमार्गम् ।। देवर्षिणाऽनुगत एप महाप्रमुः श्री- पित्रोः समीपमुपसर्पति भक्तियुक्तः ॥ ७ ॥ देवकीमनोरयत्वेन स्वमनोरथमाविष्कुर्वन् सत्पुत्ररत्नप्राप्तिमतिनिश्चितामचिरेण च बोधयितुं श्रीकृष्णकर्तृकमहेश्वराराधनमुपाय निर्दिश्य तदर्य तपोवनगमनानुशा- सम्पादनाय देवकीमुत्तेजयति। (६०) देवकीतु श्रीकृष्णस्य लनाविनयादिवशेन सोचशालिस्वमा- वतया तदभ्यर्थनावेशणमन्तरेण स्वयमेव तादृशोपायोपदेशः कर्तव्य इति सानुरोध वमुदेवमुद्रोधयति 'प्राणनाथ' इत्यादिना । (६१) यमुदेयस्तु 'तया करिष्यामीति । देवकीमाश्वासयदि । (६२) नेपथ्य श्रीकृष्णस्य नारदेन महर्षिणा सह प्रवेशसूचनार्थ तस्या- ऐतचन्द्रमस्त्वमत्यायनाय साङ्गपरमरितरूपकमुपवर्णयति । संसारातपताप- समनसामित्यादि। O ६८ श्रीकृष्णचन्द्राभ्युदयम् । ६४, (अन्यतः)जय जय जय जीव पाहि पाहि प्रणतजनप्रिय पाहि नः स्वकीयान। निरवधिकरुणासुधैकसिन्धो नहि भवतः परमस्ति दैवतं नः॥८॥ वसुदेव:-(साश्चर्यानन्दम्) देवि ! एकतः श्रीकृष्णचन्द्रस्याप्रे प्रधा- वतां सुवर्णवेत्रिणां कोलाहल, इतरतश्च श्रीकृष्णचन्द्रं प्रणमतां मुनीनां मनुजानां च श्रूयते कोलाहलस्तन्मन्येऽधुनैव समाग- च्छति वत्सः कृष्णचन्द्र इति । देवकी: "प्राणनाथ ! एवमेव, महामुनिता नारदेन सहाऽऽगच्छतीति परमं प्रियं नः। (ततः प्रविशति नारदः) नारदः-जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु देवो वासुदेवोऽन्तरात्मा । जयतु जयतु देवो देवदेवाधिदेवो जयतु जयतु देवः श्रीयुतः कृष्णचन्द्रः॥९॥ देवकीपसुदेवौः-(सहसैवोत्याय) अहो भगवानारदः समागतः । महद् भाग्यं नः॥ सुरासुरशिरोरत्न-राजिनीराजिताङ्मये ।। श्रीमत्सुरर्पये तुभ्यं प्रणमावो मुहुर्मुहुः ॥ १० ॥ नारदः -आयौं ! जगत्पितामहस्यापि पितुयौँ पितरौ युवाम् । अस्य श्रीकृष्णचन्द्रस्य तयोः कुर्याच शिवः शिवम् ॥ ११॥ (६३) वैत्रिणां, जय जयेत्यादि च मुनीनां वाक्यमाकर्ण्य वसुदेवः श्रीकृष्णचन्द्रस्य मुनिभिः सहागमनं शङ्कते ' मन्येऽधुनैवेति'। (६४) देवकी नारदस्य सहागमनं प्रियं मत्वाभिनन्दति परममिति । (६५) नारदः प्रविश्य, देवकीनन्दनपदेन मातृभक्तत्वं, वासुदेव पदेन पितृभक्तत्व, देवदेवाधिदेवपदेन शिववरमात सर्वाधिकत्व, श्रीयुतः कृष्ण चन्द्र इति पदाभ्यां च लक्ष्मीवल्लभत्वपर्यन्तोदयं च प्रदर्शितवान् जयकथन पूर्वकमिति । (६६) अत्र 'सुरासुरेत्यादि' विशेषणेन जगद्वन्द्यत्वं देवर्षेरुरका मुहुः प्रणामस्य विशेष उपपादितः । (६७) जगतां पितामहस्य ब्रह्मणो यः पिता नारायणस्तस्य श्रीकृष्ण- द्वितीयोऽङ्कः। - (प्रविश्य श्रीकृष्णः) श्रीकृष्ण:-अदृरगमनं तीर्थ सुधावर्ण्यसुधाकरम् । दैवतं चाऽतपस्तुष्टं पित्रोर्वन्दे दयेक्षणम् ॥ १२ ॥ वसुदेवः-६ वत्स ! दीर्घायुरारोग्य-पुत्रपौत्रप्रपौत्रवान् । श्रीमहेशप्रसादेन सुखी भूया निरन्तरम् ।। १३ ।। देवकी-७°सम्प्राप्तसत्पुत्रफलैः कान्ताकल्पलताशतः । वृतः कल्पतरुभूया अर्थिनामखिलार्थदः॥ १४ ॥ नारदः ७ आयौँ ! सत्यानि सन्तु त्वरया युवयोराशीर्वचनाक्षराणि । वसुदेव:---७२मान्य महामुने! कदा भवन्तः समागताःकुतश्च समायाताः? त्वेनावतीर्णस्य यो युवां पितरौ, तयोः शिवं कल्याणं शिवः कुर्यादिति सम्बन्धः । अत्र देवकीयसुदेवयोः श्रीकृष्णमातापितृत्वेन महिमानं प्रकटयतो मुनेराशी- रुच्चारणेन तयोरेव शिवाभ्यर्थनेन श्रीकृष्णचन्द्रस्य स्वाधीनसिद्धिकस्यानपेक्ष. मेव कल्याणमयनसिमित्यभिसन्धिः। (६८) अदूरगमनं दूरगमनानपेक्षं तीर्थ, सुधाकररहितं सदेव सुधा- वर्पि, तपोनुष्ठानानपेक्षमेव तुष्टं परं देवतं, मातापित्रोदयेक्षणं दयामवलोकन वन्दे, प्रहीभावगोचरीकरणेन भावये इत्यर्थः । (६९) अत्राशीर्वचने दीर्घायु:पदेनापरितोषं विदन्नारोग्यमनन्तरमेवाह । यतश्चरकाचार्येण-नह्यत: पापात् पापीयो यदनुपकरणस्य दीर्घमायु-रिति ब्रुवता अनुपकरणपदमनारोग्यस्याप्युपलक्षणमिति विवृण्वता च आरोग्यासहकृतस्य दीर्घा- युपोऽनिष्टत्वबोधनात् । पुत्रपौत्रप्रपौत्रवान् इतीदमाशी:पदं पुरुपार्योत्कर्ष प्रापणाय । यथाह मनु:- पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अय पुत्रस्य पौत्रेण वनस्याप्नोति विष्टपम् ॥ (७०) वसुदेववचनापेक्षया देवकीवचने कल्पतरुत्वाशीरूपे सत्पुत्रेषु फलत्वारोपेण कान्तासुच कल्पलतात्वारोपेण कल्पलताकल्पवृक्षयोर्योगेनार्थिनामखि- लार्यदो भूया इत्यन्तेन परम्परितरूपकगर्भकयनेन, सम्पलामो हि पात्रप्रति. पत्तिफल एव पुरुषार्थतापर्यवसितो नान्यथेति ध्वनिरूपोऽविशयः । (७१) नारदकृतमनुमोदनमुभयोरुत्साहप्रवर्द्धनाय । (७२) मुनिदर्शनजन्यसम्भ्रमवशादेतावत्पर्यन्तं श्रीकृष्णविषयिणी चि- न्तोपक्रान्ताऽनुवृत्ता इदानीं पुनः वर्षि 'कदा कुतश्चागता' इति पृच्छति ।

श्रीकृष्णचन्द्राभ्युदयम् । नारदः :-'पितरौ (इत्यद्धोंक्ते) वसुदेवः -अयुक्तमयुक्तमुक्तमेतन् महामुनिना । नारदः-७४मवृत्तान्तं पश्चात् कथयिष्यामि, प्रथमं तु किमयुक्तमुक्तं मयेति भवद्य एव श्रोतुमिच्छामि । वसुदेवः-भगवन् ! मान्यानामपि मान्येन साक्षाद् ब्रह्मपुत्रेणास्त्र भवता ब्राह्मणकुलपादपद्मरजःपरमाणू आवां प्रति 'पितरौ' इति सम्बोधनमयुक्तमेवोक्तम् ।। नारदः-(प्रहस्य) ब्रह्मा साक्षान् मम पिता तस्य नारायणः पिता । स साक्षात् कृष्णचन्द्रोऽयं तस्यापि पितरौ युवाम् ॥ १॥ अतो लोकत्रयेऽपि केषां युवां 'पितरा' विति न सम्बोधनाहौँ ? घसुदेवः-तत् सर्वं तस्यैव मायाविलसितं । क 'साक्षादनोऽनन्तः शाश्वतोऽयं पुराणः साक्षी चेताः केवलो निर्गुणश्चे । त्यादि पदैर (७३) तदुत्तरदानाय यावन्नारदः 'पितरा, विति सम्बोध्योपक्र- मते तावदेव · पितरौ । इति स्वसम्बोधनमयोग्यं मन्वानो वसुदेवस्तद्वचना वसानमप्रतीक्ष्यैब मध्ये अयुक्त। मित्यादिना मुनि वैदग्ध्यभङ्गमानयति । (७४) नारदः स्ववृत्तान्तप्रश्नोत्तरमदत्त्वैवान्तरोपनीतमयुक्तत्वमेव परि- जिहीर्घराह प्रथमं त्वित्यादिना । (७५) अत्र वसुदेव:- दशवर्ष ब्राह्मणं च क्षत्रियं शतवार्षिकम् । पितापुत्रौ विजानीयाद्ब्राहाणस्तु तयोः पिता ॥ इति मनुवचनमनुसन्दधानः साक्षाद्ब्रह्मण आत्मजे गौरवमाभाष्य स्वोक्तं नारदयचसोऽयुक्तत्वं समर्थयति । (७६) नारदस्तु तस्य परमात्मतत्त्वानभिशत्वं पुरस्कृत्य प्रहासप्रूवमाह ब्रहोत्यादि । अत्र स्वपितुरात्मयोनेरपि परमकारणस्य नारायणस्य श्रीकृष्णत्वेनाव- तीर्णस्य जनकतया मम पितुरपि पितामहकल्पयोर्युवयोर्युज्यत एव पितराविति सम्बोधनं मदीयमिति नात्रायुक्तत्वसम्भावनापि । लोकत्रयेऽपीति कैमुतिकसिद्ध- मर्थमनूध स्वोक्तं सत्यापयति । (७७) नारदोक्तमूरीकुर्वन्निव ' अजोऽनन्त , इत्यादिलक्षणस्य द्वितीयोऽङ्कः। ७१ निरूपणीयो नारायणः, क चावां यदुकुलसागरतरङ्गपरम्पराशी- करौ, तयोर्गृहे तादृशस्य परमात्मनो जन्मवार्तापि सम्भवेत् ? तत एव तन्मायाविलासितमेतदखिलमिति मन्येऽहम् ।। नारदः-७ यावत्तस्य तादृशं मायाविलसितं तावदस्माभिरपि तद्नुसारे व वर्तितव्यम् । किञ्च-कार्यभेदेनाऽधिकारभेदः । यदाऽस्माकं धमोपदेशदानायाऽऽगमनं भवेत्तदा वयं गुरवो, यूयं च शिष्याः । यदा चाऽस्माकमनेन कृष्णचन्द्रेण सह मैत्रीरससुखानुमवा- याऽऽगमनं भवेत्तदा यूयं गुरवो वयं गर्भरूपाः । अतो न किञ्चि- युक्तम् । वसुदेवः-७ भगवन् ! सङ्कल्पमात्रेणाऽनन्तब्रह्माण्डनिर्माणनिपुणस्य श्रीपरमेष्ठिनः पुत्रस्य तवाऽने के क्यमुक्तिप्रत्युक्तिकल्पनायां ? तत्प्रकृतमेवानुसृत्य कृतार्थय माम.। नारदः- यथाज्ञाऽऽर्यस्य । अहं खलु ब्रह्मलोकाद् भवदीयगेहे पुत्रता प्राप्तस्यास्य श्रीकृष्णचन्द्रस्यैश्वर्यवैभवादिसमृद्धीविलोक- यितुं मासादर्वागत समागतोऽस्मि । नारायणस्य जन्मवापि सम्मवातिगा तत्रापि यदुकुलसागरशीकरतुल्ययोरा- वयोह परमात्मनो जन्मेति विस्मयमादर्य तदेतत्सकलं तस्यैव मायाविलसित- मिति भगवतो जन्मादि मायाविलसितपदेनाभिलपति वसुदेवः । (७८) यमुदेवोकं मायाविलसितमेवाग्रे धृत्वा वाङ्मनसयोरगोच- रस्य चिद्विलासस्यानवसरमेव प्रकटय्य व्यवहारानुसरणव्याजेन कार्यभेदप्रयु- चनधिकारभेदं शायसिसमाह |॥ तदेव विशदयितुं 'यदे' त्यादि निरूपणम् । तयाच अन्यदा देवर्षित्वोपाधिकमस्तु गुरुत्वमस्माकमिदानीं तु श्रीमत्पुत्रस्य मित्रत्वेनागतस्य मम श्रीकृष्णसमानरूक्षतया गर्भरूपतेव, ततश्च न किञ्चियुक्त मिति निगमनम् । ( ७९ ) नारदोकपरिहारस्सागुत्तरविधेयवामाकलव्य प्रत्युचिमद- स्वैव प्रकृतानुसरणाय प्रेरयति यमुदेवः । अत्र नारदस्य परमेष्ठिपुत्रताकयनं तामसकल्पसृष्टिनिर्माणनेपुर्ण पितरि विद्यमानमवश्यं पुत्रेऽपि तत्समानजातीयं कमप्यतिशयमुपजनयति, कारणगुणाः कार्यमुपसझामन्तीति न्यायात् । अवध के यमुचिमत्युक्तिकल्पनायामिति वचन, तपाने वयमसमा यमित्यभिप्रायफम् । (८०) आगमनोद्देश स्पष्टमेव कथयति नारदः । अहं सस्वित्यादिना । - .

७२ श्रीकृष्णचन्द्राभ्युदयम्। यसुदेवः( ८१ साश्चर्यम् ) अहो!! मासाक्सिमागतेनापि भगवताऽहं तु इदानीमेव दर्शनदानेनानुगृहीत इति चित्रम् । नारदः-८२न तद्विपये जनोऽयमुपालम्भपात्रं किन्तु भवदीयपुत्रस्यास्य श्रीकृष्णचन्द्रस्य मनोवचोऽगोचरा ऐश्वर्यविभवसमृद्धय एवोपा- लम्भपात्रं; यासां प्रतिदिनमासूर्योदयादासूर्यास्तं विलोक्य विलो- क्याऽपि मासेनाप्यपाराणां पारो न मयाऽऽसादितस्तत्प्रवृत्तिपर- तन्त्रतया च न युष्मत्समीपमुपसर्तुं प्राभवं तत् क्षन्तव्यम् । यसुदेव:-८3 तादृशविभवसम्पत्याप्तिः श्रीचन्द्रचूडप्रसादेन भवादृशां महामुनीनामाशिपा चेति मन्येऽहम् । नारदः-८४आर्य ! किं वर्णये भवदीयपुत्रविभवमहिमानम् । नैन्द्रे पुरे न च कुवेरपुरे प्रचेतःपुर्या न धर्मसदनेपि च यन्न दृष्टम् । तद्वस्तु ते तनयसद्मसु रम्यरम्यं सर्वे विलोकितमलौकिकमद्भुतं च ।१६॥ (८१) मासमतीतोऽपि नेतावत्पर्यन्तं दृष्ट इत्याश्चर्यनिदानम् । तदेव गुनेरपराधहेतुतामिवापादयन्नुपालभते चित्रमित्यन्तेन । (८२) नारदस्तु श्रीकृष्णमेवोपालम्भपात्रता नस्तद्व्याजन श्रीकृष्ण- वैभवस्य मनोवचोऽगोचरत्वकथनपूर्वकमपारत्वमाह । नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेविस्तरो मया ॥ गी०अ०१०श्लो०४० इति भगवता स्वयमेव गीतामु निरूपितं विभूतीनामान्त्यमनूद्य स्वस्या- नपराधत्वे समर्थितेऽपि क्षन्तव्यमिति क्षमाम्यर्थना, वृद्धेषु विनयपारतन्त्र्यमावेद- यति । सन्तो हि माननीयेषु नित्यमात्मानमपराधिनमेवाऽऽशङ्कमानाः क्षमाभ्यर्थ- नादि समुचिताचारपरिपालनपरिपाटीमप्रमादेनाऽनुरुन्धन्ति । (८३) हर्षप्रकर्षावसरेऽपि महात्मनामीश्वरानुग्रहानुभावनं प्राकृतं स्मयं प्रतिबध्नाति । तदेव वसुदेव आह : तादृशविभवसम्पत्प्राप्ती हेतु: श्रीचन्द्र- चूडप्रसादस्तत्सहकारिणी भवादृशामाशीरेवे' ति । (८४) नारदस्तु पुनरपि प्रकृतं विभवमेव वर्णयति । आर्य इति । भवदीयपुत्रविभवमहिमानं किं वर्णये ? वर्णनातिगो हि तन्महिमेत्यर्थः । तदेव विशदयति । नैन्द्र इति। ऐन्द्रे पुरे स्वर्गे इत्यर्थः, कुबेरपुरेऽलकायां, प्रचेतःपुर्या- वरुणनगर्या, धर्मसदने-यमनगर्यो, यन्न दृष्टं तद्वस्तु श्रीकृष्णसामु अलौकिकाकार द्वितीयोऽङ्कः ।, ७३ किम्बहुना- "नोर्द्ध सर्वेषु लोकेषु नाऽधः सर्वेषु या भया । दृष्टा, दृष्टास्तु ताः सर्वाः श्रियः श्रीकृष्णसासु ॥ १७ ॥ चसुदेवः-(८६ दीर्घमुणं च निःश्वस्य) आः किन्ततोऽपि । नारदः-आर्य ! कथमेवमपरिमितविभवविभूषितेष्वपि स्वपुत्रभव- नेषु न सन्तोपं भजति मानसं वः ? यसुदेवः-मान्यमुनीन्द्र! नवरत्नमयानि मन्दिराणि प्रमदारत्नशतावृतानि चेत् स्युः ।। अतुला विभवोचयाश्च किन्तैर्यदि दोला नहि बालकेलिलोला ॥१८॥ हसितेन्द्रगजा गजा यदि स्युर्विजितेन्द्वर्करथा रथा अथाश्वाः ।। अनिलोत्तमवेगिनोऽपि तैः किं यदि दोला नहिवालकेलिलोला ।।१९।। ८८. रमद्भुतं च सर्व विलोकितमिति श्रीकृष्णसम्पदा व्यतिरेकयोधनेन सर्वातिशायि- वैभवप्रयुक्तप्रमोदावसरो दत्तः । (८५) प्रमोदावसरं प्रवलयितुमाह किम्बहुनेत्यादि । अधिोविभागे- नावस्थितेषु चतुर्दशस्वपि भवनेषु श्रीकृष्णसद्मश्रीसादृश्यमपि नावलोक्यते एवञ्च श्रीकृष्णसम्पदामुत्कर्षवर्णन कियताप्यंशेन न शक्यते कमिति भावः । (८६) सम्पदुत्कर्पश्रवणसमनियतमाकातितमवस्तुस्मरणमत्र दीर्घा- रणनि:श्वासनिदानतामावहति तदुद्वाराक्षराणि आ: !! किन्ततोऽपी, त्यादीनि । (८७) प्रमोदावसरेऽपि नि:श्वासः कश्चिदसन्तोष मनसि स्थितं गमय- तीति नारद: अपरिमितविभवविभूपितेषु इति स्वपुत्रभवनानां विशेषणमुपा- ददानः, सन्तोषहेतावपि सन्तोपाजननलक्षणां विमावनामाविष्कुर्वन् पृच्छति कमिति । (८८) इदानीं वसुदेवः स्वमनसि स्थितां सुतवैभवन्यूनता मुनिप्रश्नो- 'तरव्याजेन प्रकटयस्तदुपायानुष्ठाने मुनेरनुमोदनमर्थयमान इय लोकाप्टकेन प्रस्तावमुपदर्शयति । नवरत्नमयमन्दिरादिभिरति किं १ यदि क्रीहद्भिलिके- .ला-चला दोला-बालशयनीया चेन्नास्ति । (८९) उक्तविशेषणोपलचिवर्गजाश्वरथैरपि किं १ यदि बाललोला दोला नास्ति ।

७४ श्रीकृष्णचन्द्राम्युदयम् । ५°वसनाभरणानि दिव्यदिव्या- न्यपि कोशा हसितालकेशकोशाः ।। विलसन्ति गृहेषु चेत् ततः किम् । यदि दोला न हि वालकेलिलोला ॥ २० ॥ ९१विजितेन्द्रसभा सभा गृहे चेन् प्रवलानीह बलानि दुर्जयानि ॥ सुहृदः सुहृदश्च चेत् ततः किम् । यदि दोला न हि बालकेलिलोला ॥ २१ ॥ ९२अखिलं जगदेव शून्यवत् हृदये तस्य विभात्यहर्निशम् । मनुजस्य तु यस्य मन्दिरे विलसन्तीह न बालकेलयः ।। २२ ।। ९३तनयातनयाननेन्दवोऽभ्युदयन्ते भवेनपु येवलम् ॥ भवनानि तु तानि तान्यहो शिशुशून्यं भवनं वनं मतम् ॥ २३ ॥ १४मुने! श्रीकृष्णस्योल्लसति परमा सद्मसु रमा सदा सम्पूर्णास्ते धनदनिधयो निस्तुलधनाः ।। (९०) दिव्येष्वपि दिव्यभावभाजि वसनान्याभरणानि, अलकेशस्य कुबेरस्य कोशान् स्वतो निकृष्टत्वेन हसन्तः कोशाश्च सन्तु तैरपि किम् ? यदी- त्यादि पूर्ववत् । (९१) मुधर्मापेक्षयाप्युत्तमा: सभाः प्रबलानि च बलानि सैन्यानि शोभनान्त:करणाश्च सुहृदः स्युस्ततोपि किम् ! यदीत्यादि पूर्ववत् । (९२) यस्य मनुजस्य मन्दिरे बालकेलयो न विलसन्ति तस्य हृदये अखिलं जगत् अहर्निशं शून्यवदेव विभाति इति सम्बन्धः । ( ९३ ) एतावता बालक्रीडाविरहितवेश्मनामनभ्यर्हिततमत्वमुक्त्वा- बालदोलान्यतिरेकेण च मणिमयभवनादिसुहृत्पर्यन्तस्य सकलस्यापि वैभव- सम्भारस्य आक्षेपार्यककिमाऽपुरुषार्थपर्यवसायित्वमाभाष्य तदेव पुनरन्वय- व्यतिरेकमुखेन दृढयति । येषु भवनेषु तनयानां पुत्रीणां तनयानां पुत्राणां च आननेन्दवो मुखचन्द्रा अभ्युदयन्ते, अहो-याथार्थेन तान्येव भवनानि, शिशु- शून्य भवनं तु न भवनपदाभिलप्यताई किन्तु तद्भवनं वनं बनतुल्यं मतम् । (९४) एतावत्पर्यन्तं सामान्येन वर्णितोऽर्थः पुनरिदानी स्पष्टमेव श्रीकृष्णोद्देशेन वर्ण्यते-'मुने' इत्यादिना । अस्मिन् पद्येऽनुक्तमपि 'यद्यपि' इति .द्वितीयोऽङ्कः। ९६ फलनम्राः कम्राः प्रतिपदममी कल्पतरव- स्तथाप्येनं मन्येऽभ्युदयमखिलं हा खिलमिव ॥ २४ ॥ ९५नमन्ति मापाला मणिगणमयोपायनकराः । सदैव श्रीकृष्णप्रणयरससम्पूर्णहृदयाः । मुदा तं सेवन्ते श्रिय इव पराः सुत्रिय इमाः विना पुत्रैमन्येऽखिलमुदयमेनं खिलमिव ॥ २५ ॥ नारदः द:-( स्वगतम् ) अहो पितृचरणानां पौत्रमुखचन्द्रदर्शनस्पृह- यालुता काऽप्यद्भुतैव भवति । (प्रकाशम् ) आर्याः ! तर्हि तद्वि- पये किं विधेयम् ? वसुदेवः-१७तदेवोच्यते-(श्रीकृष्णमुद्दिश्य ) वत्स ! श्रीकृष्ण ! सत्पुत्र-रत्नानां प्राप्तयेऽधुना । पुत्रपौत्रार्थदं शम्भोश्चरणं शरणं व्रज ॥ २६ ॥ पदमध्याहार्यम् । तथाच यद्यपि श्रीकृष्णस्य गृहेषु परमा रमा, सर्वोत्कृष्टा लक्ष्मी- वरीवर्तीत्यर्थः । किञ्च निधयोऽपि निस्तुलधना अतुलधनाः, फलेनम्रा अत एव कम्रा मनोहरा: कल्पतरवश्च पदे पदे दृश्यन्ते तथापि एनमखिलं कृत्स्नमपि अभ्युदय, हा दति खेदे खिलगपरिपूर्णगिव मन्ये । (९५) अपिच मणिगणप्रचुरोपायनहस्ता राजानो नमन्ति, कुतः सदैव श्रीकृष्णप्रणयरससम्पूर्णहृदयाः । इमाश्च मुखियः साश्चादवतीर्णाः श्रिय इव तं कृष्ण मुदा-परमेण प्रेम्णा सेवन्ते तदपि पुत्रैविना एनं सकलमुदयं खिलमिव- अपूर्णमिव मन्ये । (९६ ) नारदः स्वगते वसुदेवस्य पौत्रमुखदर्शनाकाक्षागत्युत्कटामा- लक्ष्य श्रीकृष्णाम्युदयैपितया तदुपायविवित्सया पृच्छति तीत्यादिना । (९७ ) किं विधेयमित्यस्यैवोत्तरमाह 'तदेवोच्यत' इत्यादिना वमु. देवः । वत्सेति श्रीकृष्णेति च सम्बोधनद्वयं वात्सल्यप्रेरितेन स्वयमेव बोधनार्य- मुद्यतेनांतरा श्रीकृष्णपदोपादानेनोपदेशग्रहणयोग्यतयानुष्ठाननिश्चयादभीष्टला. भस्य नेयत्यं सूच्यते । शम्भोश्चरणं शरणं व्रज शरण्यत्वेनाश्रयेत्यर्थः । अधुनेति पदेन विलम्बासहत्वं, सत्पुत्ररत्नानो प्राप्तये इति कामनानिर्देश:, पुत्रपौत्रार्थद- मिति चरणविशेषणमाश्रयितुरिष्टार्थदानोचितसामर्थ्य चरणस्य व्यनक्ति । .

द्वितीयोऽङ्कः । नारदः-(१०२स्वगतम् ) अहो वसुदेवस्य महेश्वरे भक्तिरसातिरेकः कोऽ- प्यपूर्व एव । श्रीकृष्णः-(स्वगतम् )१०३ तपोवनगमनानुमोदनमिदानीमनायासेन जातम् ॥ वसुदेवः-१०४श्रीमन्महेश्वरमुमासहितं दयाब्धि प्रेम्णा समर्चय समर्चय वत्स! नित्यम् ।। तस्याशुतोपहृदयस्य दयावलोकैः सत्पुत्ररननिकरो नहि दुर्लभस्ते ॥ ३०॥ दवेकी-१०५वत्स कृष्णचन्द्र ! युक्तैवोक्तिस्ते तातचरणानाम् । शृणु- स्मरहरचरणाजद्वन्द्वसेवारभावात् कति कति न हि देवा दानवा मानवा वा ।। अधिगतपुरुषार्थाः सम्बभूवुर्भवन्ति त्वमपि तत उमेशं पूजय श्रीमहेशम् ।। ३१ ।। (१०२) नारदः स्वगते वसुदेवस्य महेश्वरभक्तिरसातिरेक ' कोप्य- पूर्व एव' इति पदैः प्रशंसन् मनोरथसिद्धिमचिरभाविनी निश्चिनोति । (१०३) श्रीकृष्णश्च तपोऽर्थ वनगमनाय प्रथममेयोत्सुकस्तत्र च पितृचरणानामनुमोदनमनायासोपनतं ज्ञात्वा हृष्यति । (१०४ ) उमासहितं दयाब्धि श्रीमन्महेश्वरं प्रेग्णा नित्यं समर्चय, समर्चय इति वीप्सा आभीक्ष्ण्ये-पौन:पुन्येनार्चयेत्यर्थः । एवं कृते च हे वत्स ! आशुतोषहृदयस्य तस्य दयावलोकैः सत्पुत्ररत्ननिकरस्ते न दुर्लभो भविष्यतीति शिवप्रसादावश्यम्भावे स्वीयं विश्वास हीत्यनेनाह । ( १०५) देवकी अपि वसुदेवोक्तमनुमोदते युक्तवेत्यादिना । तदु- पपादयितुं च ' शृणु ' इत्युपक्रम्य शिवसेवाप्रमाचं वर्णयति । स्मरहरचरणान- सेवनप्रभावात् कति कति देवा दानवा मानवाश्चाधिगतपुरुषार्था न सम्बभूपुर- पितु सर्वेऽपि लब्धयथेष्टफला अभूवन्नित्यर्थः । नैतत्पूर्ववृत्तमपितु इदानीमपि भवन्त्येव ततस्त्वमपि श्रीमद्देशमुमेशं पूजय । अत्रोमेशमिति महेशविशेषणत्वेनो- पातं श्रीपार्वतीपरशिवयोरुपासनमखिलार्थनिदानमितिबोधनार्थम् । आह च मगवान्पूज्यपादः श्रीशङ्कराचार्यः । शियः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं- नवेदेवं देवो न खलु कुशल: स्पन्दितुमपि ।।

श्रीकृष्णचन्द्राम्युदयम्। श्रीकृष्णः-अयि मातृचरणास्तातचरणाश्च ! १०६पूज्यते प्रतिदिनोदयं मया श्रीमहेश्वर उमाहृदीश्वरः। तन्नचाऽत्यविदितं हि वस्तथाप्येष विस्मयकरो वचश्चयः ॥३२॥ पीयते नहि मया पयोऽन्यहो भोजनस्य तु कथैव दूरतः । श्रीमहेश्वरसमर्च- विनेत्येतदस्त्यविदितं किमत्र कः ॥ ३३ ॥ देवकीवसुदेवौ-१०७वाल्यतोऽपि वलदेवसंयुतो बालचन्द्रयुतभालमीश्वरम् ॥ भक्तवत्सलमुमाहृदीश्वरं सेवसे ननु दयामयाशयम् ॥ ३४ ॥ तलक्काराणामुपनिषदि च- उमासहायं परमेष्ठिनं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥' इति सर्वत्रोमासंवलितस्योपास्यत्वनिर्देशेनानापि तादृशमेवोपास्यस्वरूपं प्रतिबोधितं श्रीदेवक्या श्रीकृष्णं प्रति । (१०६) अधुना श्रीकृष्णः स्वीयं चिरन्तनमाचारं मातापित्रोः पुरतः प्राप्तावसरं निवेदयति 'पूज्यते। इत्यादि श्लोकद्वयेन । प्रतिदिनोदयं मया उमा- हृदीश्वरः श्रीमहेश्वरः पूज्यते तदेतद् युष्माकं विदितमेवास्ति तथापि एषः प्रागुक्तः 'समर्चये। त्यादि वचोनिकरो मम विस्मयकरो भवति । कारयितुमिष्टं स्वयमेवानुतिष्ठन् न भवितुमर्हति प्रेरणव्यापारविषय इति । तदेय पुना रानोति । मया श्रीमहेश्वरसमर्च- विना जलमपि न पीयते भोजनकथा तु दुरापास्ता अहो एतदपि कि वोऽविदितं ? सकलमेतञानन्त्येवाऽत्रभवन्त इत्यर्थः । श्रीकृष्णोक्तमनूद्यापेक्षितमंशमुदीरयतो देवकी वमुदेवौ-बाल्यत इति श्लोकः । बालचन्द्रयुतभालमित्यनेन भकसन्तापहरण साधनसम्पन्नताम्, ईश्वरमित्यनेन भकाभीष्टदानप्रभुताम्, भक्तवत्सलमित्य- नेन भक्तचिन्तितोपनये विलम्बाऽसहिष्णुताम्, उमाहृदीश्वरं दयामयाशयमि- त्याभ्यां पदाम्यां प्रेयसीप्रणयिनो दयाचित्तस्य सेव्यतातिशयं च व्यञ्जयति । बलभद्रसंयुत इत्यनेन बलभद्रस्य शेषावतारत्वेन शिवभूषणतया तस्याऽऽजन्म- सिद्धं शिवाराधकत्वं तत्सहचरत्वेन तवाऽपि तत्तादृशमेवेति । एतादृशं परमशिवं त्वं सदा सेवसे इत्येतदस्माकमविदितं नास्ति, नित्यं स्वयमेव शिवार्चने रत एवासि त्वमिति तु वयं जानीमः, किन्तु क्वचिदपि देशे काले या स इन्दुशेखरः पुत्रसुखलिप्सयेति, निमित्ताय तृतीया, पुत्रमुखलाभेच्छा निमित्तीकृत्य त्वया द्वितीयोऽङ्कः। वत्स नास्त्यविदितं हि तत्तु नस्त्वं स्वयं परशिवार्चने रतः ।। किन्तु पुत्रसुखलिप्सया त्वया नार्चितः कचिदपीन्दुशेखरः ॥३५॥ साम्प्रतं तु सुतरत्नलिप्सया वं समय॑ तपसा महेश्वरम् ।। तत्कृपादृगवलोकतो द्रुतं पुत्ररत्नशतलाभमर्जय ॥ ३६ ।। श्रीकृष्ण:-( सविनयम् ) यद्येवमेव मातापिनोनिदेशस्तर्हि कल्या- णीयं वेला तपोवनप्रयाणाय, मातापितृभ्यां तपोवनगमनायाऽऽज्ञ- प्तमात्मानमिच्छामि। नारदः--(१०स्वगतम् ) अहो श्रीकृष्णस्य कलाकौशल्यं यदनायासेन तपोवनगमनाभ्यनुज्ञा मातापित्रोः सम्पादिता । (प्रकाशम् ) ११० मान्यौ मातामितरौ त्वरया तपोवनप्रया- णायाऽऽज्ञाप्यतां श्रीकृष्णचन्द्रः सद्यःसिद्धिप्रदोऽयं मुहूर्तः । वसुदेवः– (सवाष्पम् )१११देवर्षे ! पौत्रमुखदर्शनसुखलाभलोभेन पुत्र- मुखदर्शनसुखलाभवियोगं कतिपयदिवसपर्यन्तं सहिष्यावहे । नाचित इत्युत्तरेण सम्बन्धः । तहींदानी किमनुष्ठेयमित्याह । साम्प्रतं तु सुत- रत्नलिप्सामुद्दिश्य त्वं तपसा महेश्वरं समर्थ्य तदीयरूपागवलोकतः पुत्ररत्न- शतलामम् अर्जय, पुत्रशतमाप्नुहीत्यर्थः । अत्र द्रुतमिति पदेन परित्यज्य प्रमाद सहसा तपसे कृतनिश्चयः प्रस्थातुमर्हसीति ध्वनितम् । (१०८) श्रीकृष्णस्तु वान्छिताधिकार्थलाममिव मन्वानस्तपोवनगम- नायानुज्ञामर्थयते यद्येवमित्यादिना । स्वयमेव तपोवनं जिगमिषोः पित्रोरपि तदेवादिशतोरयत्नसिद्धमिष्टं कदाचित्कालविलम्येन वात्सल्यातिरेकोद्गमे पुनः प्रतिषिद्धयेतेति भिया ' तपोवनगमनाय इयमेव कल्याणी वेले । त्याह ' तपो- वनगमनायाज्ञप्तमात्मानमिच्छामी, ति पर्यायोक्तेन 'सद्योऽनुजानीते, ति वचनध्वनिः । (१०९-१०) तदेतत्सकलं मर्मज्ञतया जानन्नारदः स्वगते स्पष्टमेवा- न्वाह । प्रकाशन्तु ' सद्यःसिद्धिप्रदोऽयं मुहूर्तस्तस्मादविलम्बेनेव तपोवनगम- नायाज्ञाप्यतां श्रीकृष्ण । इति श्रीकृष्णेष्टमनुक्लयति। (१११) वसुदेव: स्वहृदयदान्य प्रचिकटयिपुरायतो निश्चितोऽधिक- लामः साहयति वर्तमानलाभवैगुण्यमपीत्याशयेनं श्रीकृष्णवियोगस्य कथंचित्सो- दव्यत्वं समर्थयति देवर्षे इत्यादिना । उच्यमानमपि वियोगदुःखमाहन्त्यष ८० श्रीकृष्णचन्द्राभ्युदयम् । नारदः-एवमेतत् ११२१ श्रीमत आशुतोयस्य परशिवस्य प्रसादादाश्वेव पुत्रमुखदर्शनसुखानि पौत्रमुखदर्शनसुखानि च प्राप्स्यथेति मे प्रतिभाति। सकलाः परमादरार्चिताः परितुष्यन्ति चिरेण देवताः परितुष्यति चाऽऽशु शङ्करः प्रथिता तस्य यदाशुतोपता ।।३।। वसुदेवः सत्यानि सन्तु श्रीमतां वचांसि । ११३ पायाच्छ्रीपरमेश्वरः परशिवः कारुण्यरत्नाकर- स्त्वां च श्रीपरमेश्वरी परशिवा विश्वैकरक्षामणिः ।। वत्स ! श्रीयदुवंशभूषण ! द्यादृष्टया तयोः सान्द्रया सर्वे सन्तु मनोरथास्तु सफलाः श्रीकृष्णचन्द्राऽऽशु ते ॥ ३८ ॥ देवकी-११४विश्वाभिरक्षणपरायणमानसा श्री- विश्वेश्वरप्रणयिनी जगदम्बिका त्वाम् ।। यात्सल्यसम्मृतमन्तःकरणमिति । सबाप्पम् । इति क्रियाविशेषणेनाऽऽख्यात- वान् कविः। (११२) नारदोऽनुमनुते एवमेतदित्यादिना, आशु एव प्रथमं तप- श्वरणफलं श्रीसाम्बसदाशिवात्पुत्रप्राप्तिरूपवरं लब्ध्या प्रतिनिवृत्तस्य श्रीकृष्णस्य मुखदर्शनेन तदनन्तरं चाचिरेण शिवप्रसादपरिणती श्रीकृष्णचन्द्रराज्ञीनां पुत्र- लाभे पौत्रमुखदर्शनेन तजन्यमुखानि प्राप्स्यथेति में प्रतिभाति । अस्मिन्विपये आशुतोपेतिनानो निरुक्तिकथनपूर्व देवनान्तरात्परमशिवोत्कर्ष व्यतिरेकविधया प्रदर्य स्वोक्तं समर्थयति । अत्र परमादरेणार्चिता: ननु यथा कथंचिदिति । एवं च आदरशब्दोऽत्रोपचारसम्भारस्याप्युपलक्षकः । तथा च नेकविधोपचा- राचिता अपि शिवेतरदेयताश्चिरेण परितुष्यन्ति, शङ्करस्तु आशु तुष्यति यतस्तस्य आशुतोपता प्रथिता, श्रुतिस्मृतिपुराणेतिहासादिषु परःशवैराख्यानरुपबृंहितेत्यर्थः । (११३ ) यमुदेवो नारदोक्तमाशीरूपेण प्रतिग्रहाति ' सत्यानि सन्तु श्रीमतो पचासी । त्यनेन । स्वयं च श्रीकृष्णचन्द्रमाशिषा युक्ते । पर्यशवस्य कारुण्यरत्नाकरत्वेन भक्तावनन्यसनिता, परशियायाध विश्वरक्षणदीक्षिताया भक्तरक्षणप्रवणता स्वाभाविक्येवेति ध्वनिः । तयोरेतयोरेवंविषयोर्दयादृष्टया मनो- रथसाफल्य मुलममेव मवितेत्यर्थः । (११४) देवकी 'वीणां चीयु विधभमराधिक्यनेपत्येन । जगद- -स्थिकामेव प्रथममभिगणाना श्रीकृष्णरचाय 'विधाभिरक्षणपरायणमानमेति' .

द्वितीयोऽङ्कः। ८१ रक्षत्वनन्यशरणं शरणागतानां चिन्तामणिः प्रणतवत्सलतैकसीमा ॥ ३९ ॥ तपसा परितोष्य तावुभौ द्रुततोपौ गिरिजामहेश्वरौ ।। उपलभ्य तयोर्दयादृशा मुतरत्नाप्तिकरं वरं वरम् ॥ ४० ॥ अयि वत्स महेश्वरीमहेश्वरयोः पूर्णकृपावलोकनात् ।। परिपूर्णमनोभिवाञ्छितो द्रुतमानन्दय लोचनानि नः ॥ ४२ ॥ वत्स ! साधयतु भवान् तपोवनगमनाय, शिवाः सन्तु ते पन्थानः, शिवाः सन्तु ते सर्वा दिशः, शिवा वान्तु ते वायवः शिवानि सन्तु ते सर्वत्र सर्वाणि सलिलानि । श्रीकृष्ण:---११५वत्सलरसपीयूपपारावारौ मान्यौ मातापितरौ ! युवयो- राशीर्वचनवर्णा एवते मे रक्षामणयः, श्रीमहेश्वरप्रसादश्व युप्मदा- शिपा सुलभतम एवेति मन्येऽहम् ॥ आराध्याश्रितवत्सलं त्रिजगतामेकं परं देवतम् । कारुण्यामृतसागरं गिरिसुताप्राणप्रियं प्रेमतः ।। सन्तुष्टात् परमेश्वरात् परशिवात् सम्प्राप्तवाञ्छाधिका- भीष्टाथों युबयोरुपैप्यति पदद्वन्द्वं जनोऽयं द्रुतम् ॥ ४२ ।। न काचिचिन्ता मे विधेयाऽयं मे प्रयाणप्रणामपुष्पाञ्जलिः । (इति उक्त्या नारदेन सह निष्क्रान्तः) तां विशिनष्टि, वदीष्टसाधनसामर्थ्य च 'शरणागतानां चिन्तामणि रित्यने- नोत्तरगयति । पार्वतीपरमेश्वरौ तपसा प्रसाद्य ततश्च सुतरत्नदं वरं लब्ध्या परिपूर्णमनोरयो द्रुतमेवास्माकं नयनानि नन्दयेत्यादिश्यानुजानानैव तपोवनप्र. याणमध्यदेशवायुरालिलानां शिवकरतामाशास्ते, तेपामानुल्यमारोग्यदत्वेन तपःसहकारीत्यर्थः । (११५) पित्रोरनुशामासाद्य तयोरनिर्वेदाय तदीयाशीरक्षराणा रक्षा- मणितामुत्का तेनैव च महेश्वरप्रसादस्य सुलभतामाभाष्य तावाश्वासयति श्री- कृष्णः । आराध्येत्यस्मिन् पये आश्रितवत्सलमित्यादिविशेषणैः शिवमहिमान- मुपवर्ण्य तत एव 'सम्प्रातान्याधिकाभीष्टार्थः इत्यनेन परमशिवस्य परमुत्कर्ष बोधितवान् श्रीकृष्णः । यदाहमातूगुताचार्यः । महान्तोऽभ्यर्थिताः स्वस फलन्त्यल्पेतरत् स्वयम् । पयोधिने वदान्योऽदाद् दुग्धान्धिमुपमन्यवे ।।

अथ तृतीयोऽङ्कः। -e2222- - (ततः प्रविशन्ति श्रीकृष्णपल्यः) रुक्मिणी-अयि जाम्बवति ! सत्यभामे ! अप्रज्ञा एव प्रमदा इति प्राक्तनानां प्रज्ञानामुक्तिरवितथैव यदस्माभिः सत्पुत्रप्राप्ति- लोभेन प्राणनाथोऽपि तपसे तपोवनं प्रेषितः । इदानी कृतोऽनुता- पोऽपि निष्फलस्तथापि न हृदयादपैत्यनुतापः । तथाहि-- पीताम्बरं परिविहाय च वल्कलं यत् सन्धारितं भगवता मृदुले शरीरे ॥ दूये हि तेन हृदये हृदयेश्वरोऽयं स्वार्थान्धया वत मया तपसे नियुक्तः ॥ १॥ जाम्बवती-देवि एवमेतत् । प्राणप्रियेण नः श्रीकृष्णचन्द्रेण- निरुपयतममुक्तामालिकाः संविहाय सुटतरमुखमुद्राऽधारि रुद्राक्षमाला ।। यस्याः प्रसादमासाद्य मासाद्याति बुधेन्द्रताम् । तामाश्रितश्रमां श्रियं श्रेयःश्रिये श्रये ॥ (१) इदानीं श्रीकृष्णपियोगेन दुस्तरां प्रियविरहवेदनामनुभवन्तीनां तत्र चात्मानमेव निमित्तं मत्याऽनुशयवतीनां श्रीकृष्णपत्नीनामवस्थावदनाय तन्मुखेनेव प्रस्तावमारचयति 'ततः प्रविशन्तीत्यादिना ।। (२) आत्मनोऽपरामृष्टकारिता निगदेन ख्यापयित्वा 'प्राणनायोऽपि। इत्यपिपदेन प्राणानां नाथस्य दूरीकरणे प्राणरक्षा कथं भवित्रीति अविचार्यैव ' तपसे तपोवनं प्रेषितः । इत्याह । अनेन आयतिकलनाचिकलानामप्रज्ञा इति निर्देश उपपादितः प्रमदानां रुक्मिण्या । वयाच निष्फलोऽप्यनुतापो हदयाना- पयाति किन्तु शल्यायत इत्यर्थः । (३) पीताम्बरादिविशिष्टा या खल्वाकृतिर्मनोमोहनमाचरन्ती नित्य परिचिता सेवेदानी वल्कलादि दधाना मनो दुनोतितरामितिमायः । तदेतत्स्या- यांन्धया मया प्रयोजककयोऽनुष्ठितमिति खेदाविशयनिदानतामुपयातीति तपसे 'नियुक्त इत्यनेनायगमयति । (४) सर्वदा श्रीकृष्णचन्द्रो यद्यपि रुद्राक्षमाला कण्ठे दघात्येव तयापि श्रीकृष्णचन्द्राम्युदयम् । E प्रियतमहृदयस्य प्रेयसी पूर्वतः सा त्वपि मणिगणहीना खेदयत्येव सर्वान् ॥ २ ॥ सत्यभामा -"युक्त मुक्तं देवीभ्याम् । हरिचन्दनशीतलाङ्गरागानपहाय प्रभुणाऽखिले शरीरे ।। उररीकृत आशु भस्मलेपः स मनः कस्य सविस्मयं न कुर्यात॥३॥ सत्याः-देव्यो ! ममाप्येतन्मनसि शल्यायते मृदुतर कुसुमैः समास्तृतै स- न्मणिमयतस्पतलेऽतिकोमलाङ्गः ॥ य इह समभजच्छमं सदेवः कथमवनी शयिता धने वने हा ॥४॥ भद्राः-"मृदुलकुमुममालाकल्पिते स्वच्छतल्पेऽ प्यनधिगतसुनिद्रस्ताम्यतिम प्रियो यः ।। अतिमृदुलशरीरः सोऽवनौ काननान्तः कथमिव शयिता हा जीर्णपर्णास्तृतायाम् ।। ५ ।। लक्ष्मणा-'देव्यो ! विचारयत चेतसि यो नितान्तं सौवर्णरत्नकलशस्थिततीर्थतोयैः ।। नित्यधारणयोग्यायां मालायां रुद्राक्ष: साकं मुक्तामाणिक्यमरकतवजवेड्यादि मणिगणयुक्तस्यमिदानीं तु तपःप्रवृत्त्यानुगुण्याय मणिगणहीना केवलरुद्राक्षाणां मालाऽधारि तदेतदस्मान् खेदयति । रुद्राक्षधारणं हि नित्यं महते फलाय च । (५) हरिचन्दनागरागस्थाने भस्मोद्धूलन विस्मयं करोति । विस्मय हेतुश्चात्र भक्तेष्टसाधनसमर्थस्यापि भगवतः स्वेष्टसिद्धयर्थ तपश्चर्यानुगुणसाध- नाइम्बर एच। (६) यो मृदुकुमुमास्तृततल्पे नित्यं शेते स कथं वनभूमौ शयन करि- प्यतीति विचार एव सत्यामनसि शल्यायते । (७) सत्या कथितमेवार्थ प्रकारान्तरेण निरूपयन्ती भद्रा, मृतुकुसुम- कल्पिततत्येऽपि ताम्यति योऽनधिगतनिद्रः स कथं जीर्णपणास्तृतायां काननभूमी मुखनिद्रा लप्स्यत इति भृशं चिन्ताकुला 'हा' निपातेन खेदातिशयं प्रकटयति । (८) लक्ष्मणा, नित्यमनुष्ठीयमानां भगवतः स्नानारसरमेयामेवाय. पन्ती, वने स्ययमाद्दतैः कुपादिजलैः स्नान कुर्वतो मगवतस्तत्र चास्माकमसन्नि- धानादनेरुविधळेशाननुभवतः कीदृशी दशा स्यादित्यनुसन्धाना सिद्यतितराम् ।

तृतीयोऽङ्कः। सस्त्रौ हि नः करकुशेशयकोशमुक्ते: स्नाता कथं स निजहस्तभृतैः पयोभिः ॥६॥ मित्रविन्दा-'अमलकमलनेत्रो वन्दिगीतैर्मनोझै- रुपसि महति निद्रामुजही योऽतिहर्षात् ।। तरूवरशिखरस्थैः पक्षिभिर्दा वितीर्णैः कलकलकलरावैः सोऽद्य निद्रां जहाति ॥ ७ ॥ कालिन्दी-हे देव्यः ! श्रीकृष्ण आनन्दसिन्धु- र्नानापात्रेपूचचामीकराणाम् ।। भल्यं भोज्यं चोष्यमप्यन लेह्या- न्यस्माभिर्यः साकमादन्मुदादयः॥८॥ सोऽयं देव: कानने कापि घोरे व्यालोलूकैराकुले निर्मनुष्ये ।। एको भुङ्क्ते स्माद्य शीर्णान्ययन्नाद् वन्यान्यारान् सत्फलानीश्वरोऽपि ॥९॥ इति स्मारं स्मारं न मे मनः शान्तिमाप्नोति- (इति वदन्त्यभूणि मुञ्चति) रोहिणी-१'मूर्द्धाभिषिक्तवसुधावलयाधिनाथै-- गोष्ठी: समं समभजजगदीश्वरो यः॥ (९) मित्रविन्दा तु-राजधान्यां स्थितो मनोशेन्दिगीतेन्द्रिों जहातिस्म स इदानीं तपोवने तरुस्थितपक्षिरावैर्जागर्तीति वदन्ती 'हा' निपातो- चारणेन खेद प्रकटयन्त्यपि पुत्रप्राप्तिरूपफलहेतुतया न तत्र न्यक्कारबुद्धिमादधाति, अन्यथा पाण्डवसन्तक्षणोद्यतद्रौपदीवत्-'जहासि निद्रामशिवः शिवारते परित्य- नेव हीनताबोधकमशिवात्मकं शिवारुतादि. किमप्युपन्यस्येत् । पक्षिरुतैनिद्रा- त्यागो हि नाप्रशस्तो नाप्यमङ्गलः किन्तु केवलमेकलत्वेन खेदहेतुः, स एव यदि मंगलगीतसमृक्तस्ताह महामङ्गलमयो भवति । लोकेऽपि भवति कश्चित्पदार्थ: खेदहेनुर्भयन्नपि प्रियो यथा जनयित्र्याः पुत्रप्रसवस्तथैव चायं प्रसङ्ग इति ध्वनिः । (१०) चतुर्विधमोजनं जुपमाणस्य स्वयं विशीर्णैन्यफलेराहारवृत्ति शोचन्ती कालिन्दी, धनस्य व्यालोलूकाकुलत्वं चिन्तानिदानत्वेनाने करोति । (११) रोहिणी नु रजाधिराजैः साकं गोष्ठीनुखमनुभवतो, चने च ८ ८६ श्रीकृष्णचन्द्राभ्युदयम् । सोऽयं घनेऽतिविजनेऽद्य वने विधत्ते देव्यो ! मृगैः परिचयं हृदयेश्वरो नः ॥१०॥ किमेतदल्पं विपादस्थानं ? परं तदानीं ग्रहगृहीता इव न किञ्चिद्वेदिष्म। रुक्मिणी-१२प्रियस्वसारो मे ! यज्जातं तज्जातमिदानीं तु यधा सम्प्राप्तसर्वामिलापः प्राणेश्वरो नः सद्य एवास्मल्लोचनगोचरः स्यात्तद्विधेयम् । व्यतीतविषयविचारविपादेन न किञ्चित् फलम् । सत्यभामा -१७युक्तमुक्तं भवत्या, तर्हि प्राणनाथस्य सद्योभीष्टसिद्धये किमस्माभिः कर्त्तव्यमित्यत्रभवती भवती निवेदयतु । जाम्बवती-देवि ! देव्याः सत्यभामाया उक्तिमक्षरशोऽनुमोदामहे । रुक्मिणी-देव्यो ! यदि यूयं मामेव पृच्छथ तर्हि अस्माकं प्राणनाथे- नेवास्माभिः सर्वाभिरिहवोपत्रने पर्णकुटीपु स्थित्वा श्रीमदपर्णा- प्राणप्रियस्योपरि तपो विधेयं येनाशु प्रसन्न आशुतोपोऽस्माकं प्राणप्रियं श्रीकृष्णचन्द्रं सद्य प्राप्तसर्वाभिलापमत्र पयिष्यति । सर्वाः पट्टराश्यः-१४देवि ! सजाः स्मस्तथा कतै सर्वा अपि वयम् । नमो मणिमयभवनेभ्यो, नमो दिव्येभ्यो वस्त्राभरणभारेभ्यो, नमो दिव्येभ्यो भोगेभ्यश्च, यावच्छ्रीकृष्णचन्द्रागमनमिदमेवो- तादृशसमागमालाभान्मृगैः परिचयं कुर्वतो भगवतोऽवस्थाविशेषमनुसन्धाय तत्र स्वदत्तानुशामारमृत्य, तदानीं ( अनुशादानसमये ) ग्रहगृहीताभिरिवारमा. भिर्न किञ्चिदेतचिन्तितमिति महदिदमनुशयनिदानमिति ध्वनयति । (१२) व्यतीतविषयकविचारस्य वैफल्यं वदन्ती रुक्मिणी प्राप्तकाला- चरणे सर्वाः प्रेरयितुं लब्धेष्टार्थस्य श्रीकृष्णचन्द्रस्य दर्शनार्थमुपायप्रभ तासामेव मुखादुत्थापयति 'यत्रातः मित्यादि फलमित्यन्तम् । (१३) सत्यभामाजाम्बयतीन्यो पृष्टेऽनुमोदिते चोत्तरमुपममते- रुक्मिणी-यथाऽस्मरमाणनाथेन बटुफाचले ('बरहा इति प्रसिद्ध) दिल्यकानने तर आस्यीय एपमस्माभिरपि सर्वामिरिहय स्ये स्वे उपयने पर्णकुटीधिरचग्य तपो विधेयं येन सद्य एवागुतोपो महेश्वरः प्राप्तसर्वामिलापमस्मरमाणनाथमत्र प्रेषयिष्यतीति विश्वासातिशयः । (१४) रक्मिणीनिदियोपायानुने सयाः सकल्पानुगुण्ये प्रकटयन्ति मनाः स्मा इत्यादिना ॥ अत्र 'नमो मणिमयमयनेम्या इत्यादिशु नमःशादी- तृतीयोऽङ्कः। ८७ पवनं भव्य भवनं, वल्कलान्येव नो दिव्याम्बराणि, भस्मोद्धूलन- मैत्र नो दिव्याङ्गरागो, रुद्राक्षमाला एव च नो मौक्तिकमाला, वन्यानि फलान्येव च नो भन्यानि भक्ष्यभोज्यानि । (इत्येवं वदन्त्यः, काश्चन सालतरुतलेषु, काश्चन शालतरुतलेपु, काश्चन तालतरुतलेयु, काश्चन तमालतस्तलेषु, काश्चन हिन्तालतरुवलेषु काश्चन कदलीतलेघु, काश्चन वटविटपितलेपु, काश्चन चलदलतरुतलेषु बद्धासना भूत्वा परमेण प्रेम्णा परमया भक्त्या विशुद्धया श्रद्धया च श्रीपार्वतीप्राणे- श्वरस्य परमेश्वरस्य स्फटिकमणिमयानि, मुक्तामणिमयानि, वैदूर्यमणि- मयानि, वैक्रान्तमयानीन्द्रनीलमणिमयानि माणिक्यमणिमयानि लिङ्गानि नित्यसेव्यानि निजनिजपुरतः संस्याप्य तदर्चनाचरणपरायणान्तःकरणा विस्मृतदेहगेहस्नेहमानाभिमानाः स्वकीयप्राणप्रियवियोमिन्योऽपि महा- योगिन्य इव श्रीशिवाराधनेकप्रयणा: स्थिताः) सर्वाः-(सहेव )१५शिव शिव शिव पाहि पाहि पाहि प्रणवजनप्रिय जीवितेश्वरं नः ।। सद्यहृदय पूर्णचन्द्रव घनघनवर्णमुमेश कृष्णचन्द्रम् ।। ११ ।। (इति वदन्त्यो मूर्च्छया पतन्ति) नमोस्त्वधन्याय घनाय तुभ्यमित्यादाविवाऽनादरपर्यवसायी वोध्यः ॥ अग्रे च श्रीकृष्णचन्द्रागमनपर्यन्तं स्योपवनादिषु भव्यभवनत्वाद्यारोपेण सारोपलक्षणया सर्वत्यागलक्षणमहानताङ्गीकारपूर्वकपरशिवाराघनदीशाग्रहणेन स्वेष्टसिद्धेरदूरमा- वित्वमिव मन्वानानां तासां न केवलं सङ्कल्पशूरत्वमपि तु तदनुगुणानुष्ठानम- पीति, 'काश्चनसालतरुतलेषु' इत्यादिना 'परमया मक्त्या विशुद्धया च श्रद्धया। 'परमेश्वरस्य स्फटिकमणिमयानि इत्यादिना च स्वानि स्वान्याराध्य- लिङ्गानि पुरस्कृत्य तदर्चनप्रवणाः स्थिता' इत्यन्तेन वर्णितम् । (१५) इदानीं सोः सहैव प्रार्थनामुपक्रमन्ते-शिवशिवेत्यादिना । 'शिवेति । त्रिरुच्चार्य 'नः प्राणेश्वरं पाहि' इत्यपि त्रिरुच्चारयन्ति । प्रगतप्रिय ! सदयहृदय ! इति सम्बोधनद्येन-एतादृशस्य तय नैसर्गिकमेतद्रवणमिति मयोध्य पूर्णचन्द्रवकं घनघनवर्णमिति विशेषणद्वयार्यानुसन्धानेन श्रीकृष्ण- स्वरूपानुभ्याननिहास्ताः स्वशरीरन्द्रियादिविस्मरणपूर्वकं मूर्च्छयेव पदन्ति स्मत्यर्थः ।

८८ श्रीकृष्णचन्द्राभ्युदयम्। १ततः प्रविशति, लीलावती-ललिता-चन्द्रावली-विशाखाभिः सहिता श्रीराधा) राधा-"सख्यः ! सेयं द्वारका गोकुलतः प्रस्थिताभिरस्माभिरेकमासा समासादिता ।मणिमयमहामन्दिरेपु सुवर्णमयसकलप्रदेशेषु कल्प. वृक्षमयाखिलोपवनेपु विहरतोऽस्मन्मनोमानतस्करस्य श्रीकृष्ण चन्द्रस्य गोकुलग्रामो गोकुलप्रदेशा गोकुलोपवनानि च कथमिव स्मृतिपथमप्यवतरेयुः। ललिता-१ देवि ! यदि परिचयप्रायल्यात् स्मृतिपथमुपगच्छेयुस्तथा- प्युपहसितमुरपुरसुन्दर्यस्तस्य सुन्दर्यस्त्वरितं विस्मारयेयुः । चन्द्रावली-१ अथ किम् ? । सर्वः स्वार्थमपेक्षते । अस्मत्स्मरणं तासा- मनिष्टकरमेव । विशाखा-२०देवि ! त्वमिव त्वमेव जगति दयाहृदयाऽसि या स. पत्नीरपि प्रियविरहविपण्णाः समाश्वासयितुं गोकुलाद् द्वारा- वतीमागतासि । (१६) अत्रावसरे चतसृभिः सह सखीभी राधायाः प्रवेश उपनिबद्धः कविना भक्तिररापरिपोपाय । नहि ररावनेरध्वनि सञ्चरतः कः कथानिरूपण एवाहितभरत्वमपितु वृत्तान्तान्तरोपक्षेपेण रसानुगुणभावोपबृंहणमावश्यकमित्यतो भगवचत्वसतत्यभूतायाः श्रीराधाया द्वारीकरणेन तन्मुखेनैव सर्वासा मोहापगर्म वर्णयति । (१७) अत्र राधावचने रोयं द्वारका । इति नेयं प्रत्यभिज्ञा किन्तु यस्या! इति पदमुत्तरवाक्यादावध्याहत्य, यस्या मणिमयमहामन्दिरादिपु विहरतो भगवतो गोकुलप्राम: कथमिव स्मृतिपथमवतरेदिति सम्बन्धः । (१८) ललिता पुनरत्र-प्रचुरपरिचयेन स्मरणे सत्यपि अधिकतर- मुन्दरपरसुपरिशीलन दिवत्र विस्मृतिप्रयोजकतामुपयातीत्याद, उपहसितगुरपु. रसुन्दर्य इत्यादिना । (१९) चन्द्रावली ईयाशक्विशाशया 'अस्मत्स्मरणं तासामनिष्ट- करमेव । इति सावधारणं स्यवाक्यं सर्वः स्वार्थमपेशते । इति पामरेषु अनुर- प्रचारयता लोकिकन्यायेन समर्थयति । (२.) विशाखा नु चन्द्रावलीयाक्येनासम्पनीपट्दया श्रीराधामु .

राधीयोऽकः। लीलावती-२ तेनैवोत्तमेन सद्गुणेन देव्या वशीभूतोऽस्ति चतुर्दश- भुवननाथो यदुनाथः। श्रीराधा--२२अलं प्रसमान्तरेण, श्रीरुक्मिणीमुख्याः श्रीकृष्णचन्द्र- धर्मपत्नीविलोकयितुं वलवत्युत्कण्ठा मे । ललिता-इत इतो देवी, गोपुरस्यान्तः प्रमदवने सर्वाः साम्प्रतं तिष्ट- न्तीति श्रुतं तासां दासीभ्यस्तदेहि तत्र गच्छाम । ( पुरतोऽवलोक्य ) इदमेव प्रमदवनं (निपुर्ण निर्वर्ण्य) (साश्चर्यम्) देवि ! किमेतत् !! एताः सर्वा युगपदेव मूर्छा- वेशविवशा लक्ष्यन्ते । श्रीराधा-२४ ( विलोक्य साश्रुपातम् ) किमिवात्राश्चर्यम् । श्रीकृष्ण- चन्द्रविरहवेदनैवेमाः पदे पदे मूपिरतन्त्राः करोति तदेत वयमासां मूर्खापनयनोपचारान् कुर्मः । २३ दाराशयत्वारोपेण स्तौति देवि त्वमिव त्वमेव' इत्यादिनाऽनन्वयालक्षारगर्भण वाक्येन । अत्र, वयं तु चन्द्रावलीस्वभावमनुरुन्धानास्वं तु न तादृशी किन्तु निरमावासि या सपत्नीरपि दु:खिताः समाश्वासयिनुमतिदूराद् गोकुलादत्र द्वारकायामागतासि । वाक्येऽस्मिन् सपत्नीरपीत्यपिना पूर्वोक्तो निरमायः मुतरामुपपादितः। (२१) लीलावती तादृशनिर्वैरभायफलं चतुर्दशभुवननाथवशीकार- मुक्त्वा श्रीराधायाः सौमाग्याविशयं ध्वनयतिस्म । (२२) तदेतल्लीलायतीवचनमात्मस्तुतिरूपमरोचमानमाक्षिपति श्री. राधा ' अलं प्रसङ्गान्तरेणे । त्यनेन । नायमवसरो मम स्तुतेः किन्तु श्रीकृष्ण- राजीनामाश्वासनस्येत्यत आह-श्रीकृष्णधर्मपत्नीविलोकयितुं बलवती उत्कण्ठा में इति । स्वलुतावरुचिर्हि महतां स्वभाव एव यथाह भोज:-- अद्यापि दुर्निवारं तुतिकन्या वहति कौमारम् । सद्भयो न रोचते साऽसन्तस्तस्यै न रोचन्ते । (२३) ललिता, दासीव: प्रमदवने सर्वासामवस्थितिमवगम्य याव- द्राधिका तत्र नयति तावत्सर्वाः श्रीकृष्णराज्ञीर्छिता विलोक्याश्चर्यचकिता बदति किमेतदित्यादि। (२४) श्रीराधा नु दर्शनमात्रेणाधिगततत्त्वा साश्रुनेत्रा, सर्वासा श्रीकृष्णचन्द्राम्युदयम् । (इत्युक्त्वा स्कन्धे वीणां निधाय गायति) भुवो भारं हर्त सकलमुपकर्त सुरकुलं विहर्त्त गोपीभिर्निजहृदयरूपाभिरिव यः॥ विभत्तुं च स्वीयानजनि वसुदेवस्य सदने स एव श्रीकृष्णो नयनपथपान्थो भवतु नः ॥ १२ ॥ ललिता-२५परप्रेमालोकामृतलहरिकामजनसुखै- निरावाधां राधां हृदयदयितां वां रचयितुम् ।। शरद्रात्रीश्चक्रे य इह वितता निस्तुलरसः स एव श्रीकृष्णो नयनपथपान्थो भवतु नः ॥ १३ ॥ चन्द्रावली-पापीयूषाधिर्य इह यमुनायामहिनदे निपीयाम्भः सद्योमृतमखिलगोगोपतिकुलम् ॥ दयावृष्ट्या दृष्ट्या पुनरुपगतप्राणमकरोत् स एव श्रीकृष्णो नयनपथपान्थो भवतु नः ॥ १४ ॥ मू निदानं श्रीकृष्णविरहं बदन्त्येव तासां मूर्खापनयनायोपचारमुपक्रममाणा 'तदेते ' त्यादिना सखी: प्रोत्साह्य स्वयं वीणामादाय श्रीमद्भगवद्यशो गायति भुव । इति । अत्र भुवो भारहरणेन सफलमुरकुलोपकारवत् स्यीयानां भरणं गोपीभिर्विहरणं च भगवदवतारप्रयोजनत्वेनोपनिबर्द्ध; तदेताशप्रयोजनसिद्धये ' स एव । इत्यन्यव्यावृत्तिफ्लकैवकारेण स्वीयानामस्माकमेतादृशापदि दर्श- नदान प्राप्तकालमिति ध्वन्यते । .(२५) तदेव प्रार्थते ललितयाऽपि । परमन पद्ये । परमेभवामृत तालयों मजनेन यानि मुखानि : स्वां हृदयदयिता राधी निराबार्धा रचयितुं यः शरद्रात्रीवितताश्चके निस्तुलरस: स एव श्रीकृष्णो नो नयनपथान्यो भयतु' इत्युक्त्या, येन परप्रेमाणेन पूर्व राधानुग्रहः कृतः स एवेदानीमपि दर्शनदानेन तदनुग्रहाय यत्नमातिष्ठतामिति पूर्ववृत्तरमारणेनावश्यक व्यस्यानुप्राह्यानुग्रहस्य मोपनेन पत्नसाफ्ल्याशंसा प्यन्यते । (२६) चन्द्रावली पुनर्मगयतः कृपासागरत्वं कथयन्ती तत्र च कालि. यदमनेन विरामयजलपान मवाना गोपानामुजीयनयुगान्त प्रमाणयन्ती दयात. थैव भीमाणसानिध्यमर्थयते । .

man तृतीयोऽ। विशाखा-२"कृपापारावारो मधुवनविहारो ब्रजवधू- परप्रेमाधारोऽखिलभुवनसारो यदुपतिः ।। य आनन्दाकारः स्फुरति च मनोवृत्तिषु सतां स एव श्रीकृष्णो नयनपथपान्यो भवतु नः।। १५ ।। श्रीराधा-२"मुधासाराकारानधरगतवेणोर्मधुरवान् वितन्वन् यश्चके जगदखिलमानन्दजलधौ । निमग्नं श्रीकान्तः सजलजलदश्यामलरुचिः स एव श्रीकृष्णो नयनपथपान्थो भवतु नः ॥ १६ ।। ललिता-२९वसानः श्रीपीताम्बरमनुपमं सन्मणिमयान् धानोऽलङ्कारान् विकचवनमालाश्च नितराम ॥ विहारान् यश्चक्रे सह सहचरैगोपशिशुभिः स एव श्रीकृष्णो नयनपथपान्थो भवतु नः ॥ १७ ॥ चन्द्राचली—3°घनश्यामो दामोदर उदयदानन्दजलधिः कृते श्रीमत्प्रष्ट्रा निखिलनिजवत्सापहरणे ॥ (२७) विशाखा तु न केवलं मधुवनविहारित्वेनैव किन्तु व्रजवधूपर- प्रेमाधारत्वेन सतां मनःसु सदानन्दाकारस्फुरणरूपत्वेन च भगवतः सद्यः सान्निध्यमाकाङ्क्षमाणा सार्यात्म्यवोधकपदैरेय भगवन्तमुपश्लोकयति । (२८) पुनरपि श्रीराधा दिः स्तोतुमुपक्रममाणा सुधाया आसारो धारासम्पात: ('धारासम्मात आसार ' इत्यमरः) तत्समानाकारान् अधरगत- वेणोर्भधुतुल्यान् रवान् वितन्वन् योऽखिलं जगदानन्दजलधौ निमममकरोत् । एतावता आनन्दजलधौ जगन्निमजयतस्सन्तापजलधी निमजतां स्वजनानां तव उद्धरणं विलम्बासहमेवेति प्रेरणांशध्वनिः । अग्रे च श्रीकान्तः सजलज. सदश्यामलहचिरिति भगवत्स्वरूपध्यानगर्भपदाभ्यां प्रयत्नस्याव्यवधानेन फलावातिः सूच्यते। (२९) ललिताऽपि श्रीराधया पूर्व श्लोकान्त उपक्रान्तं भगवस्वरूपध्या- नमेव साक्षात्कारे परमोपायं मन्याना तदेव पूर्वानुभूतविशेषणभावनया प्रस्तौति 'यसान' इत्यादिना । अत्र पीताम्बरमणिमयालकारवनमालादि धारयतो भगवतो गोपशिशुभिः क्रीटतो घ्यानं, गोपशिशुवत् सद्यस्तोपो भूत्वाऽस्माक नयनपथपान्यो भवत्वित्यभिसन्धिमत् । (३०) चन्द्रायल्या तु घनश्यामो दामोदर उदयदानन्दजलधिरपि ९२ श्रीकृष्णचन्द्राभ्युदयम् । www अभूत्तत्तद्रूपो निखिलजगदात्मा प्रणयतः स एव श्रीकृष्णो नयनपथपान्थो भवतु नः॥ १८ ॥ विशाखा-अवकाद्याः कंसाद्याः सपदि वृषकेशिप्रभृतयो जरासन्याद्याश्च प्रबलबलवन्तश्च रिपकः ॥ जिता येनाऽनेकेऽतुलबलवता शौर्यनिधिना स एव श्रीकृष्णो नयनपथपान्थो भवतु नः ।। १९ ।। ललिता-अतुलरसिकलीलासागरः कृष्णचन्द्रः सजलजलदनीलो राधिकास्वान्तकान्तः ।। अनुवनमनुकुझं चातुधाराकदम्यं विहरणरसिकोऽस्मन्नेत्रयुग्मातिथिः स्तात् ।। २० ।। ब्रह्मणा वत्सापहरणे कृते तत्तद्रूपः स्वयमभूद् यतो निखिलजगदात्मा; एव- मधुनापि प्रणयतः स एव श्रीकृष्णः प्रणयिनीनामस्माकं नयनपथपान्यो भवतु । निखिलजगदात्मनस्तस्यान दर्शनदानमनायाससाध्यमेवेति भावः । उदयदित्यत्र अनुदात्तत्वलक्षणमात्मनेपदमनित्यं चक्षिडो ङित्करणा शापकात् । अत एव माध: 'उदयति विततोर्द्धरश्मिरजा' विति रैवतकवर्णने प्रयुक्तवान् ; मुरारिरपि ' स्फायनिर्मोकसन्धिप्रसरदविगलत्सम्मदस्खेदपूरा' इति नागिनीव-: र्णने स्फायदिति प्रायुक्त । नक्षत्रमालाकारेणापि श्रीनीलकण्टाचाणोक्तम् । आर्या-अनुदात्तत्त्वप्रथितं युवति निबोधात्मनेपदमनित्यम् । उदयति सविता चन्द्रो न निर्गत यौवनं तु तथा ॥ परिभाषाप्रत्याख्यानपक्षेऽपि उत्पूर्वादिधातो रूपसिद्धेः सर्वमनवद्यम् । (३१) बकादियरम्वद्रिपूर्णा ताऽस्मदृग्गोचरो भवतु । अब यया स्वानुग्राह्यानुग्रहप्रतिबन्धकीभूताञ्जरासन्धादीजित्या भकानुग्रह कृतवानेवमस्म- मनोरथपरिसन्धिपातकपराजयकर्मणि म एव शौर्यनिधिर्भवत्विति विशासाशयः। ( ३२ ) मनुलविशेषणं यद्यपि रसिकलीलयोरुभयोरपि समन्वय भजते तयापि रसिके सम्बन्धमानवद्भवति लीलास्वपि वैशिष्टयाधायक न पुनली- लाधित रसिके फमध्यतिशयमावत्तेऽतच अनुलो यो रसिफस्तकृताया लीलास्ता अप्यनुल्ला एक मवन्ति वासा सागर इवेत्युपमितसमासः सजलजलदनील रति मानानुगुर्ग विशेषणं; राधिकारमान्तकान्त इत्यनेन राधाहृदयेनाभिलपिन त्याकारकार्यवोधनेन साफमेव आराधनकीगो स्यान्तः काम्यमान इत्यर्थ.

तृतीयोऽङ्कः। ९३ श्रीराधा-33अहं स राधारमणो रमण्यः श्रीकृष्णचन्द्रोऽद्य समागतोऽस्मि ।। युष्माकमाकर्पणविद्ययेवा-- ऽपर्णेश्वरप्रार्थनयाऽनयाऽहम् ॥ २१ ॥ तस्मादिदानीमखिला भवत्यो मा खिद्यत प्रेमपवित्रभावाः । उन्मील्य नेत्राणि विलोक्य हान् मामात्मनाथं भवताऽऽसकामाः ॥ २२ ॥ सर्वाः पट्टराश्यः-३४( सद्यश्वभूपि समुन्मील्य सजलजलदवर्ण पीतवस्रावृताङ्गं विकचकमलनेत्रं वर्हिपिच्छावतंसम् ।। स्फुरणेन समासोक्तिर्गभत्यमस्य विशेषणस्यावसीयते । परस्ताच्च अनुवनम् अनु- कुञ्जम् अनुधाराकदम्बमिति सामीप्यार्थेऽव्ययीभावः । एवं सर्वत्र विहरणरसिकस्य तस्य अस्मन्नेत्रातिथिभाव को वा श्रम इति हाईम् । स्तादित्याशंसायां लोट् । तथाच विहारशीलो भगवान भवत्यत्रापि विहारी येन वयं कृतार्था भवेमेति ध्वनिः । (३३) इदानीं श्रीराधा सर्वासां राशीनां मूलीपनयनाय कौतुकमिव तन्वाना स्वयमेव श्रीकृष्णभावेन वक्ति । हे रमण्यः ! युष्माकं ( कर्तृपष्ठी) युप्मकर्तृकयाऽनया ( किञ्चिद्व्यवहितयाऽपि बुद्धिसन्निकृष्टया ) श्रीमदपर्णेश्वर प्रार्यनया 'शिय शिव शिव पाहि पाहि पाहि । इत्याकारकया आकर्षणविद्यया इव (आकृष्ट इव) स राधारमणः-राधावल्लभोऽपि अद्य-इदानीमहं समागतो- ऽस्मि । अस्मिन् पद्ये प्रथमं राधयाऽऽत्मविशेषणत्वेनोपात्तमहम्मदं पुनः कृष्णा- न्वयितयोपात्तेनाहम्पदेन सामानाधिकरण्यमुपयातमुभयो राधामाधवयोरतितरां शक्तिशक्तिमतोरिवाभेदमापादयत्कमपि चमत्कारातिशयं पुष्णातीति नैतद् द्विरुक्तः मन्तव्यम् । मूर्छितास्ताः प्रबोधयितुमाह यस्मादहमिदानीमागतस्तस्माद् यूयं मा खिद्यत किन्तु भवतीनां प्रेमपवित्राशयत्वं ज्ञात्वैवागतं मामात्मनायं विलोक्य आप्तकामा भरतेत्याश्वासनवचनम् । (३४) सर्वासामासां श्रयणेषु मधुधारा वमदिवेनद्वचनमाकर्ण्य श्रीकृ- णव्याहारमेव मन्वानाः सर्वाः पट्टराश्यः सद्य एव चशूपि समुन्मील्य सम्भूय प्रणिगदन्ति । सजलजलदवर्णमित्यादिविशेषणपञ्चकविशिष्टं कृष्णचन्द्र नत्वेत्य- श्रीकृष्णचन्द्राभ्युदयम् । अधरधृतसुवेणुं त्वां वयं कृष्णचन्द्रं हृदयदयित नत्वा स्वागतं व्याहरामः ॥ २३ ॥ (निपुणं निर्वर्ण्य) केयं माया क यातः श्रीकृष्णचन्द्रोऽद्य सत्वरम् ।। कैपा शिप्यान्विता भाति योगिनीव वियोगिनी ।। २४ ।। रुक्मिणी-(३५साञ्जलिबन्धम् ) किं रमासि परमाथवा शिवा योगिनी किमथवा सरस्वती ॥ (किञ्चित् सप्रत्यभिज्ञमिय) ज्ञातमास्त्वमसि राधिकाधिका प्राणतःप्रियतमा प्रियस्य नः ॥ २५ ॥ राधा-(साश्चर्यम् ) कदाप्यदृष्टे जने कथमेवमनुमासि ? न्तेन ध्यानायधानधृतस्वरूपानुवादतया निर्दिश्य नमनमनुविधाय च स्वागतं व्याह- राम इत्यत्र तुभ्यमिति शेषः। नेत्रोन्मीलने कृतेपि चिरानुध्यातवस्तुस्वरूपमेकपद एव नापैति तेन स्वागतं व्याहृतम् । यदातु निपुणनिवर्णनेन वस्तुतत्त्वमवधारितं सदा कृष्णमपश्यन्तीनाममे च सखीसमन्यितां राधामप्रत्यभिजानानानां ससम्भ्रमो भवति वाग्व्यापारः केयमित्यादि । इयं पुरोवस्थिता का ? क यातः कृष्णचन्द्रः? अयेत्यधुनैवागत्य सत्यरं क पलायित इति भावः । शिष्याभिरन्विता एपा का ? कृष्णस्थाने प्रतीयमानयाऽनया नूनं योगिन्या भाव्यं तथापि इयं वियोगिनीव- मुखमुद्राया ग्लानत्वेन काचिदस्मादृशेव लश्यते, परमनुत्कटवेषतया योगिनीति , अबोधि। (३५) योगिनी मत्वैव तत्र पूज्यबुद्धिपुरस्कारेण साञ्जलिबन्धं रुक्मिणी आत्मीयमावानुगुणमेव तर्कयन्ती पृच्छति किमिति । अत्रानवगततत्त्व. तया सम्बोधनाभावः स्थाने । किं रमासि १ अथवा शिवासि ? आहोस्विद् योगिनीभावमापन्ना सरस्वत्यसि ? त्रिमूर्तिकलत्रमन्तरेणैवंविधमहानुभावत्यादि नैव सम्भवेदिति तविष्टम्भः । अत्रान्तरे श्रीकृष्णनिर्मितस्त्वलीलाग्रहभित्तिचित्रा- वल्या पूर्वदृष्टराघाचित्रेण संवादिनीमाकृति प्रत्यभिज्ञाय किश्चित्सप्रत्यभिशमिवे- तीवपदाहितः संशयोपि निर्णयावसानो भवति । आः इत्येतद्विस्मयावसानबोधक- मव्ययम् । ज्ञातमित्यनेन संशयशान्तिरुच्यते । तदेवाहत्य निगदति, त्वमसि राधिका, या नः प्राणप्रियस्य (कृष्णस्य ) प्राणतोप्यधिका प्रियतमा । (३६) शाततत्त्वा रुक्मिणीमदृष्टपूर्वमात्मानं जानन्ती राधा साश्चर्य द्वितीयोऽङ्कः। रुक्मिणी-दृष्टपूर्वत्र भगवती मे ? राधा- -3°क कदा वा दृष्टा राधा देव्या ? रुक्मिणी-3'कालिन्दीपुलिने कदम्बकदलीकुश्खे रहस्तिष्ठतो- रन्योन्याननबद्धनेत्रयुगयोरानन्दमनात्मनोः ।। प्रेमालिवनलाभलब्धपरमप्रीत्योमनोहारिणो राधामाधवयोर्विलोक्य युगलं चित्रेऽपि मोदामहे ॥ २६ ॥ तत् चित्रदर्शनपरिचयेन श्रीराधामेव त्वां जानामि । राधा-( 3 स्वगतम् ) अहो ! रुक्मिण्याः स्वप्राणप्रियप्रेम्णा तदीयप्रे- यस्यामपि मयि प्रीत्यतिशयः। (प्रकाशम्) देवि ! अवितथमे. वानुमानं ते, सैवाऽहं राधा इमाश्च मे प्रियवयस्याः सन्ति । रुक्मिणी-देवि राधे ! कथमकस्मादेव श्रीमत्या अत्रागमनमिति ज्ञातुमीहामहे । पृच्छति-कयमेवमदृष्टपूर्व जनेऽनुमामि ? लिङ्गदर्शनाभावे ह्यनुमानानुदयादिति भाव:। (३७) यदाहि मक्मिण्या 'दृष्टपूर्वैव मे भगवती ' त्युक्तं तदाऽऽत्मनि रुक्मिण्या: परिचयमनास्मरन्ती, क कदा या दृष्टा राधा देव्या ? इत्यनेन कस्मिन् देशे कस्मिन्वा काले भवत्या राधा दृष्टा इति पृच्छति । अस्मिन्याक्ये स्वनामो- चारणं राधया नम्रभावप्रकटनायैव कृतम् । (३८) रुक्मिणी स्वानुमानस्य परामर्शविफलत्वं परिह कामा सादृश्यलिङ्गकमनुमानमवतारयति । कालिन्दीपुलिने इत्यादिना । श्लोकोयं प्रथमाके पूर्व चित्रदर्शनप्रसङ्गे व्याख्यात एव । यमुनाफूले रह: केलिमनुतिष्टतो राधामाधवयोश्चित्रं मया दृष्टं तत्परिचयेन त्वां राधामेवेत्येवकारेणायोगव्यवच्छे- दार्थकेन जानामीति च निगमनेन स्वानुमानं निगमितं रुक्मिण्या । (३९) राधा स्वगते, रुक्मिण्युदाहृतचित्रवर्णनपद्ये विशेषणाविगतं रुक्मिणीप्रेम यह मन्यमाना तत्र च श्रीकृष्णविषयकं रुक्मिणीप्रेमाणं परां कोटि- मारोपयन्ती 'अहो' इत्युक्त्या सविस्मयाऽपि तदीयप्रेयस्यां मयी। तिपदेन-न केवल रुक्मिणीप्रभृतीनां मयि प्रीत: प्रवृत्तिनिमित्तं कृष्णविषयकं तदीयं प्रेम- यापितु किञ्चिदन्यदपि, तच मद्विषयकश्रीकृष्णकर्तकप्रियतरत्वबोधकेयमुन्न- त्ययेन व्यझिदं स्वीय सौभाग्यातिशयमेव दर्शयन्ती रुक्मिण्या: प्रीत्यतिशय शंसति । प्रकाशं च अविनयमेवानुमानं ते इत्यादिना तत्कृतमनुमानमनुमोदते ।

श्रीकृष्णचन्द्राभ्युदयम् । श्रीराधा-४°कालिन्दीपुलिने निकुश्चकुहरे सत्स्फाटिक मन्दिरे . राधामाधवनाथसज्ञकमुमानाथं समादरात् ।। ध्यायन्ती क्षणनिद्रिताऽहमयलाः श्रीकृष्णचन्द्रं मुद्रा- ऽपश्यं क्स्कलवाससं धृतजटं रुद्राक्षभस्माङ्कितम् ॥ २६ ।। विलोक्यैव तत्क्षणं त्यक्तनिद्रा 'हा किमेतन्मया दृष्टम्' 'क राजाधिराजमण्डलमौलिमणिमचरीरखितचरण- युगलः श्रीद्वारकाधीशः' क चायं तपस्विवेशः; केनापि महता कारणेन भवितव्यं, न मे स्वप्नो मिथ्या भवति, ततः श्रीद्वारकां गत्वा तद्विपये निर्णयं करिष्यामीति विचार्य तद्दिन एवं गोकुलादेताभिः सह प्रस्थायैकेन मासा समासादिता श्रीद्वारावती; परमस्माकं सर्वासां जीवन- सर्वस्वं संसारसर्वस्वं सौभाग्यसर्वस्त्रं च श्रीकृष्णचन्द्रः धेदानी विराजत इति ज्ञातुमीहामहे भवतीभ्यो वयम् । (४०) रुक्मिण्या अकस्मादागमनस्य कारणं पृष्टा श्रीराधा स्वागमने प्रयोजकं प्रयोजनं च वर्णयति । 'कालिन्दीपुलिने, इत्यादिना । कालिन्दीतटे स्वप्रतिष्ठापितस्य श्रीराधामाधवनाथसज्ञकस्य शिवस्यार्चनं परमादरेण कृत्वा क्षणं ध्यायन्ती यावन्निद्रितकल्पाभवं तावन्मया स्वप्ने, हे अबलाः !(बलाधायकस्य नायकस्यासान्निध्यायुक्तैवाबला इति सम्बुद्धिः) मुदा नतु खेदहेतुतया वल्कलवाससं धृतजटं रुद्राक्षभस्माङ्कितं श्रीकृष्णचन्द्रमपश्यं तत्क्षण एव त्यक्तनिद्रा सती 'हा किमे- तद् । इति विचारयन्ती, राजाधिराजस्य तपस्विवेशे कारणजिज्ञासाकुला तदिन एव गोकुलात्प्रस्थायैकेन मासा द्वारकां प्राप्ता प्राताहामुहूत्तें उत्थाय यमुनास्नान- पूर्व शिवार्चनानुष्ठाने रात्रिशेपतया ध्यानावस्थाविघ्नविधायकतन्द्राख्यलयकाले स्वप्नस्य सुलभतया तत्कालागतस्वप्नस्य · अरुणोदयवेलायां दशाहालभते फलम्। इति स्वप्नाध्यायादिष्टप्रकारेण फलावश्यम्भावं मन्वाना, 'न मे स्वप्नो मिथ्या भवति ' इति स्वनिश्चयं पुरस्कृत्य ब्रूते । यद्यपि द्वारापती प्राप्ता तथापि यदर्थ- मत्रागमनं स श्रीकृष्णः केदानी विराजते, योऽस्माकं सर्वासां जीवनसर्वस्वं संसारसर्वस्वं सौभाग्यसर्वस्वं चास्तीति शेषः । तदेतद्भवतीनां सकाशाज्ञातुमी. हामहे । अत्र श्रीराधायाः शिवाराधनमुपनिबद्धं कविना सद्यो निश्चिन्तताप्तये । श्रीराधाप्रमृतिगोपीनां शिवभक्तत्वं शिवाराधनलब्धश्रीकृष्णसमागमत्वं च श्रीमद्भागवते दशमस्कन्धे श्रीकात्यायनीव्रतमहिमोपवर्णनेन सूपपादितम् ।

तृतीयोऽङ्कः। रुक्मिणी-४देवि राधे ! अस्माभिः सर्वाभिः सत्पुत्रप्राप्तये प्रार्थितः परममाहेश्वरोऽस्मत्प्राणनाथो 'न महेश्वरानुग्रहमन्तरा सत्पुत्र- रत्नप्राप्तिरिति तमेवाशुतोपं तपोभिः सन्तोप्य युप्माकं सर्वासा मनोरथान पूरयिष्यामी' त्युक्त्वा तपसे प्रस्थितः । तस्य च प्रस्थि- तस्य गत एको मासस्तथापि नास्ति कापि तत्प्रवृत्तिर्वयं तु वन- याणोत्तरदिवस एवानुतापतप्तास्तद्रक्षणाय तत्तपोमनशान्तये त्य- रिततरं तदीयदर्शनलाभाय च परित्यक्तसर्वमुखभोगा उपवनमिद- मपि तपोवनं विधाय तपोभिः श्रीपार्वतीपरमेश्वरौ परया भक्त्या- ऽऽराधयामः परं कदा स आशुतोपः सदाशिवः परितुष्यति, कदा च श्रीमहेश्वरात्सम्प्राप्तसर्वसिद्धिवरप्रदानस्य नः प्राणप्रि- यस्य श्रीकृष्णस्य दर्शनं भविष्यतीति न ज्ञायते । इदमस्माकं सर्वासां मूर्खताया अविमृष्यकारिताया अदीर्घदृष्टितायाश्च फलम् । (इति वदन्त्यभूणि मुञ्चति) सर्वाः-(४२साश्रुपातम् ) देवि ! त्वमिव त्यमेव, या न कदापि करिम- न्नपि श्रमे नियुक्तवती स्वामिनं, वयन्तु पुत्रलाभलुब्धास्तपोवन- प्रयाणायाप्यनुमति दत्त्वेदानीं तद्विरहदुःखदुःसहानतिविरसान् वासरान् कर्थकथमपि निर्गमयामः । यनः ' उमा कात्यायनी गौरी' इत्यमरानुशासनात्, समाराधने च ' भवानी भवसंयुताम् । इति श्रीमद्भागवतादिष्टदिशैव सर्वा उमामहेश्वराराधनापरपसंद- कात्यायनीरतदीक्षिता एवेति तासां सर्वासामपि मुमसिद्धमेव शिवमकत्वम् । गोपीश्वरश्च गोपीमि: प्रतिष्ठापितोद्यापि यमुनापरिसरे वृन्दावने वर्चत एवेति शानदशामनावृतमेव । (४१) रुक्मिणी राधाप्रश्नस्योत्तरव्याजेन श्रीकृष्णप्रवृत्तिनिवेदनेन साकं स्पानुशयहेतुभूतां स्वप्रवृत्तिमपि निवेदयति 'देवि' इत्यारभ्य 'प्रस्थित , इत्यन्तेन । इदानीं 'श्रीकृष्णचन्द्रः केदानी विराजते । इत्यवशिष्टप्रश्नांशमुत्तर- यति-प्रस्थितस्य तस्य मासे व्यतीतेऽपि प्रवृत्तिनासादिता । किञ्च क्यन्तु तद्वि- योगेन सर्वभोगपराङ्मुखास्तन्मनोरथसिद्धिमनु क्लयितुं प्ररथानानन्तरमेव पार्व- तीपरमेश्वरावाराघयामः परं कदा स प्राप्तेष्ट आगमिष्यतीति न ज्ञायते । ता- राधनोऽपि महेश्वर आशुतोषो न जायत इति चिन्तानिदानम् । (४२) इयमेवास्मदीयाऽविमृष्यकारिता मूर्वनाऽदीर्घदर्शिता चेवि -- ९८ श्रीकृष्णचन्द्राम्युदयम् । राधा- राधा-४अयि रुक्मिणीप्रमुखा देव्यो ! मा चिन्तां कुरुत, भक्तजन- भद्रङ्करः श्रीशङ्करः सर्वेषां श्रेय एव करिष्यति, परं किमप्या- श्चर्यमिव मे प्रतिभाति । रुक्मिणी-किन्तत् ? राधा-४४अप्रबुद्धहृदयेश्वराशया अश्रुतोद्धववचश्चया अहो । भाथ मेऽत्र सकलाः कुलाङ्गनाः कृष्णचन्द्रविरहव्यथाकुलाः ॥२७॥ रुक्मिणी-कथमिव ? -४५शृणुत प्राणनाथस्य वो हृदयरहस्यम् । गोकुलेऽस्मान् विहाय श्रीमथुरानिवासवता निजेन परममित्रेणोद्धवेन सहेदं सन्दिष्टम् । रुक्मिणी-किन्तत् ? राधा-भवतीनां वियोगो मे न हि सर्वात्मना कचित् ।। यथा भूतानि भूतेपु खं वाय्वग्निर्जलं मही ॥ तथाऽहं च मनःप्राणभूतेन्द्रियगुणाश्रयः ।। इति सञ्चिन्त्य पश्यन्त्यो नचिरान्मामवाप्स्यथ । दन्ती यावदश्रूणि मुञ्चति तावदेव मर्वाः स्वापराधप्रकाशनेन तादृशापराध- विमुखां राधा त्वमिव त्वमेवे । त्यनन्वयेन स्तुवन्ति । (४३) इदानीं राधा सर्वास्ता आश्वासयन्यपि भगवन्तरेणोपाल- भते । भक्तजनकल्याणकरस्य शङ्करस्य नामार्थान्वयेनैव श्रेयस्करता नियतेत्येव कारेण तासां मनसि विश्वासदायमाबध्नन्ती 'परं किमप्याश्चर्यमिव मे प्रति- भाती' ति वदति । (४४) रुक्मिण्याऽऽश्चर्यरूपं पृष्टा राधा, भवतीभिः श्रीकृष्णहाई नावबुद्धं नचोद्धयोपदेशः कदापि श्रुतो येन एवं कृष्णचन्द्रविरहव्यथाकुला भक्थेतीदमेवाश्चर्यमहोपदेन निर्दिशति । (४५) · अज्ञातहृदयेश्वराशया भाथे । ति वचनस्योपपत्तिमिव जिज्ञासमाना रुक्मिणी ' कथमिचे । ति पृच्छति-तदा राधा तदुत्तरव्याजेन मेज गोकुलवृत्तान्तं वर्णयति 'शृणुत प्राणनार्थस्य यो हृदयरहस्य । मित्यादिना 'उद्धवेन सहेदं सन्दिष्ट मित्यन्तेन । (४६) पुनरपि 'किन्तद् । इति रुक्मिण्या आतुरतायुतं वचनमु- तरयति राधा द्वाभ्या श्लोकाम्यामुद्धवोक्तसन्देशार्थ सहिप्य । भवतीनां वियोगो तृतीयोऽङ्कः । राधा- रुक्मिणी-ततः किम् ? -४"ततश्च सर्वत्र श्रीकृष्ण एव द्रष्टव्यो न तद्विहीनं तिलमात्रमपि स्थलं विद्यते । रुक्मिणी-४ भवतु किन्तथापि ? राधा--५°श्रीकृष्णः सकलं चराचरमिदं भूतं भविष्यत्तथा श्रीकृष्णः सकलं च साम्प्रतमिदं यदृश्यते श्रूयते ।। श्रीकृष्णोऽहमिमाश्च यूयमपि च श्रीकृष्ण एव स्थ तन् कस्मात्तद्विरहव्यथा भवति वरतन्नैव विद्मो वयम् ॥ २८ ॥ मे सर्वात्मना न हि कदापि भवति, सर्वान्तर्यामिणो मम न केनापि सर्वथा वियोगः सम्भवतीत्याशयः । तर्हि कथं न दृश्यसे इत्यत आह—यथाऽऽकाशा- दीनि शब्दादितन्मात्ररूपेण स्थूलभूतेषु तादात्म्येनैव वर्तमानानि न कुत्रापि ततः पृथग्भावमाप्नुवन्ति एवमेव अहम् अस्मत्प्रत्ययगोचरः साक्षी-मनः- प्राणभूतेन्द्रियगुणानामाश्रयोऽधिष्ठानमित्यर्थः । तथाचाधिष्ठानाध्यस्तयोवियोगा- योगादित्यम्भूतं मां सञ्चिन्त्य सम्यग्विचारेणावधार्य पश्यन्नः परमात्मत्वेन भावयन्त्यो नचिरादेव मां प्रत्यग्रूपेणैव अवाप्स्यथ ज्ञास्यथ । अयमेव भगवत आशयो यत्कारणमुपरिष्टात् 'मामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मुग्य: अहोऽज्ञजनताशता 1' इत्यादिवचनैः स्वयमेव विशदीकारात् । (४७) रुक्मिणी उद्धववचस आशयमनाकलयन्ती पृच्छति 'ततः किम् ?' इति । अनेन भवत्या अनूदितेनोद्धववाक्येन प्रकृते किमायात- . मित्यर्थः । (४८) राधा पूर्वोक्तमर्थ निगमयति---सर्वत्र श्रीकृष्ण एव द्रष्टव्यो न तद्विदीनं किमप्यरित जगति । (४९) केवलं पराग्दृष्टिमेवानुसन्दधाना रुक्मिणी-भवतु श्रीकृष्णः सर्वत्र तथापि यावदस्मन्नेत्रगोचरो न मवेत्तावत्कथं वयं प्रतीमस्तस्य सर्वत्रभावं, कथं वा दर्शनमनापन्ने तस्मिस्तविहीनस्थले तदृष्टिमुपपादयाम इत्याशयेन ब्रूते । (५०) राधान्द्धवोपदेशेनावगतभगवत्तत्वा स्वानुभवं प्रमाणयन्ती योधयति सर्वाः । इदं सकलं चरमचरं भूतं भविष्यत् सकलं साम्प्रतं वर्तमान यद् दृश्यते श्रूयते या तदखिलं कृष्ण एव । एवं 'यदिदं किञ्च जगत्सर्व दृश्यते भ्रयतेपि वा' इत्यादि कठयाक्यनिरूपितं सात्म्यमायणन्ती स्वत्या रुक्मि- १०० श्रीकृष्णचन्द्राभ्युदयम् । राधा- क्मिणीप्रमुखाः सर्वाः-(साधुपातम् ) देवि ! ५ तादृशी दिव्यदृष्टि- स्त्वादृशीभिः परमपुण्याशयाभिः कथमपि परमदयालोः परमेश्व- रस्य कृपयैव लभ्यते न सर्वाभिः । वयन्तु परिच्छिन्नदृष्टयः परि- च्छिन्नमेव श्रीकृष्णं पश्यामस्तेन तद्वियोगाग्निर्नक्तन्दिनं दन्दहीति नः । कुतस्तादृशं नः पुण्यं स्याद्येन पुण्या पवित्रा च सर्वत्र श्री. प्णदृष्टिः स्यात् । (इति वदन्त्यो निःश्वासं मुञ्चन्ति) (सकरुणं स्वगतम्) - यथारेकण्टकविद्धाको जन्तोनेच्छति तां व्यथाम् ' इतिन्यायेन मयाप्युद्धवमुखोद्गतश्रीकृष्णचन्द्रसन्देशवा- श्रवणात्पूर्व तादृश्येव तद्विरहव्यथानुभूतैव । ततो मया तासां विरहव्यथाविस्मरणाय प्रयत्नपरम्परा कार्यैव. (प्रकाशम्) प्रियस्व- सारो मे! मा चिन्तां कुरुत, शीघ्रमेव श्रीसाम्बसदाशङ्करः सन्तु- प्यति । तत्प्रदत्तानेकवरलाभसन्तुष्टः प्राणनाथोऽपि नः सद्य आग- मिष्यति, परं तदागमनपर्यन्तं वयमपि यूयमिव श्रीपार्वतीप्राणे- श्वरं श्रीपरमेश्वरं दुष्करैस्तपोभिराराधयिष्यामः, प्रतिरानं च श्रीकृष्णचन्द्रस्य बाललीला अभिनेप्यामो येन तत्तल्लीलाविलोक- नक्षणे श्रीकृष्णचन्द्रविरहव्यथाविस्मरणं भविष्यति । रुक्मिणी-महानयमुपकारभारोऽत्रभवत्या भवत्याः। ( इत्युक्त्या साञ्जलिबन्धं प्रणमति) प्यादीनामपि श्रीकृष्णरूपत्वमभिधाय, एवमात्मभूतस्य वस्तुनो वियोगासम्भ- वात् 'कस्मात्तद्विरहव्यथा वो भवतीति न वयं विद्मः' इत्यनेन विस्मयं दर्शयति । (५१) इदानीं राधोपदिष्टराद्धान्ते तलस्पर्शमलभमानाः सर्वाः परेश्वरकृपालम्या तादृशी दिव्यदृष्टिनारमाभिरधिगता वैराग्यादिसम्पन्नरुप- स्क्रियमाणा सा दृष्टिः परिच्छिन्नदृशामस्माक्रमनुपयोगावदेवेति कृष्णवियोगो दन्दहीत्येव नः | तादृशपुण्याभावादस्माकं सर्वत्र श्रीकृष्णदृष्टि१रधिगमेत्यर्थः। (५२) एवंवादिनीस्ता आलोक्य राधा स्वगवे-कण्टकविद्धान- न्यायेनात्मनो भूतपूर्वामवस्थामास्मृत्य तासा बोधानुदये स्वविस्मयमपाकरोति गधेत्यादि । तासां श्रीकृष्णविरहयथाविस्मारणाय सकरपे हदयति 'प्रयत्न- तृतीयोऽङ्कः । राधा-५३तर्हि वयमपि तपोवनभूतेऽस्मिन्नुपबने तपस्तयुं गच्छामः। ( इति यदन्ती निष्क्रान्ता) रुक्मिणी-सख्यो ! वयमपि सायंसमयकृत्यं कर्तुं गच्छामः । सर्वाः-यथेच्छा देव्याः ( इत्युक्त्वा ) इत इतो देवी (इति वदन्त्यो {" निष्क्रान्ताः) (ततः प्रविशन्ति चिरतपःप्रभावप्राप्तसाक्षाद्दर्शना उन्मत्तावस्थाः FOTE सर्वा राड्यो गोप्यश्च ) एका-कृष्ण कृष्ण परमेश्वर सर्वास्तावका वयमिह प्रतिवेलम् ।। त्वद्वियोगविपवारिधिमग्ना नैव कश्चिदपि विद्म उपायम् ॥ २९ ॥ त्वत्पदाम्बुरुहदर्शनसौख्यप्राप्तये प्रणयसागर तस्मात् ।। केवलं परशिवं परमेशं पार्वतीपतिमुपास्मह एकम् ।। ३०॥ यदि मनोवचनैरपि कर्मभिः प्रतिदिनं परिपूजितमीश ते ।। चरणपद्ममुमेश्वर तहि नः प्रियतमं परिपाहि रमापतिम् ॥ ३१॥ परम्परा कार्यवेति । प्रकाश च तदुपायद्वयमादिशति । अस्मत्कृततपसाऽऽरा- धितः शिवोऽवलासु कृपापरवशः श्रीकृष्णं वरैः सद्य एवोपच्छन्दयिष्यति ततश्च नचिरेणेव कृग आगमिष्यति-किञ्च प्रतिरात्रं श्रीकृष्णबाललीलाभिनयव्या- पारेण च विरहवेदनाव्यपोहः सुशको भविष्यति । (५३) उक्तविरहवेदनापनोदनप्रकारद्वये रुक्मिण्या सप्रणामाअलि- दत्तानुमोदने राधा ' तर्हि तपोवनभूतेऽस्मिन्नुपयने तपस्तप्तुं गच्छाम । इत्युक्त्वा यायनिष्कान्ता तावदेव सायंसमयकृत्यार्थ गन्तुकामां रुक्मिणीमनुसरन्यो निष्क्रान्ताः सर्वाः। (५४) 'सद्भावनानिषत्तौ तद्भावापत्तिरिति । योगशास्त्रात् तपप्रमा- येन प्राप्तसाक्षाद्दर्शना:-लब्धसाश्चात्कारकल्पा:-अत एव दर्शनविषयस्य भाव- नामात्रस्वरूपत्वेन तत्र च वास्तवता मन्वानानामुन्मत्तावस्थत्वं गोगीनां राजीना चेति तदवस्थानामेव प्रवेश उपनिवद्धः । (५५) इदानीं काचिद् राशी पद्यद्वयेन कृष्णमभिमुखावस्थितमिव सम्बोधयन्ती 'त्यद्वियोगविषयारिधिमना वयं तत्पारमातेरुपायं न विद्मः किन्तु त्वत्पदाम्बुरुयुग्मदर्शनमुखपातये केवलं पार्वतीपतिमुपास्महे । इत्युक्त्वा-शिवा- मिमुग्ख्यसमादनार्थ पूर्व शिवाराधनं यदिपदेन निमित्तवामानाद्य तत्पल- त्वेन सप्रियतम-श्रीकृष्णसंरक्षणमयते । यदि मनोवचरित्यादि ।

. १०२ श्रीकृष्णचन्द्राभ्युदयम् । अये गौरीनाथ ! प्रणतजनतावत्सल विभो ५कृपापारावार! प्रणयनिलयो नः प्रियतमः ।। अनन्यस्ते भक्तः सफलसकलार्थोऽत्र भविता कदा नः श्रीकृष्णो नयननलिनानन्दजनकः ।। ३२ ॥ ५७कति युगानि ययुर्जगदीश्वरं हृदयवल्लभमिन्दुमुखं विना ।। नयनयोरतिथिविता कदा स हि सदाशिवलन्धवरो हरिः ॥ ३३ ॥ ५"आशुतोप तव साशुतोपता काधुना वद विभो पलायिता ।। देवदेव ! यदुवंशभूपणे यत्तपस्विनि चिरान तुप्यसि ॥ ३४ ॥ ५हृदयदायित देवदेव मा मा ब्रज तपसेऽद्य तपोवनं दयाब्धे ॥ तनयसुखमिहास्तु मास्तु वा नः कथमिव नाथ विना त्वया भवेम ३५ अन्या-६°जगदम्ब दयामयाशये ! जगतामेकगुरुं महेश्वरम् ।। हृदयेश्वर आशु नः प्रिये परितुष्येत् स यथा तथा कुरु ॥ ३६ ।। (५६) पद्येऽस्मिन् गौरीनाथ इति सम्बोधनं सर्वदा गोर्या सना- थस्य तय नह्यविदितं वियोगदुःखमतः प्रणतजनतावत्सलोसि । किञ्च भक्त- कर्माद्यपेक्षणं ते नोचितमिति कृपापारावारपदेन सम्बोध्य प्रणयनिल्यस्तवा- नन्यभक्तश्चास्मत्प्रियतमः श्रीकृष्णः सफलसकलार्थः सन् कदाऽस्मन्नयनानन्द- जनको भवितेति स्वमौत्सुक्यमाह । (५७) कृष्णवियोगक्षणान्युगकल्पान्मन्याना प्रथमोक्तमोत्सुक्यमभरा- न्तरैरुद्रिति । कतियुगानीति । (५८) फलाविलम्बाय हठभक्तिमादर्शयति । हे आशुतोप विभो ! तव सा आशुतोषता काधुना पलायिता ? देवदेव ! तद्वद, यचिरात्-तप- स्विनि यदुवंशभूपणे नाऽद्यापि तुध्यसि; नैतत्ते नामानुगुणमित्यर्थः । (५९) पुनरपि श्रीकृष्णवियोगस्मृतौ तमुद्दिश्याह । हृदयदयित अद्य तपसे तपोवनं मा व्रज; चिरप्रस्थितस्यापि 'अद्य मा व्रजे' ति निरोधोक्तिरु- न्मादमूला । तनयसुखं त्वद्वियोगोपायसाध्यं नोऽस्माकमस्तु मा वाऽस्तु परन्तु त्वया विना हे नाय ! कथं भवेम; विद्विरहो दुःसह एवेत्यर्थः । (६०) अन्या काचिन्महेश्वरमनुकूलयितुं श्रीपार्वतीमर्थयते । दया- भयाशये हे जगदम्ब ! जगतामेकगुरुं ' सर्वाधिको रुद्रो महर्षिः । इति श्वेताच- तरश्रुतेः । विश्वगुरुं महेश्वरं तथा कुरु-प्रेरय-यथा नः प्रिये हृदयेश्वरे स आशु तुष्येत् ।

तृतीयोऽङ्कः। १०३ १क वा महेशो नहि सन्निधत्ते चराचरात्मा भगवन् परात्मा ।। इहैव तं तोपय तत्तपोभिस्तपोवनं मा ब्रज नाथ योरम् ।। ३१ ।। यदि हृदि दयिताग्रग्रहस्ते परतपसेऽद्य तपोवनं प्रयातुम् ।। सदयहृदय तर्हि देह्यनुज्ञां वयमपि नाथ सह त्वया प्रयामः ॥३८॥ इतरा -३२न मखैरखिलार्थदक्षिणैर्न तपोभिश्च सुदुष्करैस्तथा ।। परितुष्यति शङ्करो यथाऽमलभचयाऽखिललोकशङ्करः ।। ३९ ।। इति नाविदितं तवाप्यहो तदपास्याग्रहमात्महृद्दतम् ।। गृह एव सदा सदाशिव कुरु भक्तिं निखिलार्थसिद्धिदाम्॥४०॥ अपरा-शंभो शङ्कर ! भक्तवत्सल भवद्भक्ताग्रणीनां मणिः श्रीमान् श्रीयदुवंशमौक्तिकमणिः श्रीकृष्णचिन्तामणिः ।। त्यां सन्तोपयितुं तपोभिरधुनाऽरण्यं सुपुण्यं गत- स्तं त्वं पाहि कृपानिधे प्रतिपदं प्रेम्णेति मेऽभ्यर्थना ।। ४१ ।। (६१) सैव पुनरुन्मादावस्थावेशेनाह । भगवन् ! चराचरात्मा अत एष परात्मा महेशः क वा न सन्निधत्ते ? अपि तु सर्वत्रेत्याशयः। तदिहव स्थितः संस्तपोभिस्तं तोपय-हे नाथ घोरं तपोवनं मा ब्रज । यद्यत्रापि महेश्वरस्ताह तपोवनादिगमनं व्यर्थ किमर्थमूरीकरोपीति भगवद्वियोगभीरुभगवन्तं निरुन्धा- नापि ' तमत्रैव तोपये । ति वदन्ती स्वाभीष्टसिद्धये न प्रमाद्यतीत्यर्थः । अपि च यदि विक्षेपराहित्याय तपोवनगमनाग्रहस्तईि आज्ञां देहि, वयमपि त्वया सहैव प्रयामो वनमित्युपरितनेन सम्बन्धः । (६२) इतरा काचिद्रोपी-सर्वस्वदक्षिणैर्मखैर्दुष्करैस्तपोभिर्वा शङ्कर- स्तया न तुष्यति यथा निर्मलभक्त्या तुप्यति; इति तव नास्त्यविदितं तस्मादा- ग्रहमपास्य गृहे एव स्थितः सन् निखिलार्थसिद्धिदां सदाशिचे भक्ति सदा कुरु | चिरप्रयातस्य नैतत्तपोयनगमनवारणं किन्तु बहुलेदादं तपोवनयासमुत्सृज्य गृहा- नागच्छ, गृहगतस्यापि ते शिवाराधनेनेष्टसिद्धिर्भवित्र्यवेति भङ्गया विरहाती- काराम्यर्थ नेपा। (६३) अपरा राजी-दाम्भो इत्यादि. मम्बोधनैः कृपानिधित्वं शिव- स्वाबोप्य, तब भत्तागणी: तपोभिस्त्यां सन्तोषयितुमरण्यं गतस्ते त्वं पाहि- इत्याह । अत्र पाधानुवाच्यं रक्षणमिष्टसिद्धिसम्पन्नस्य कुशलनं सद्यः स्वगृहा- गमनपर्यन्तमर्थ गर्मीकरोति ।

१०४ श्रीकृष्णचन्द्राभ्युदयम्। अन्या-परमा चरमार्थनेति नः प्रणयिन् प्राणपते कृपानिधे ।। युगकोटिसमः प्रयाति नः क्षण एकोऽपि विना प्रिय त्वया ॥४२॥ यदि हृदि तव शम्मुः शम्भुचित्तेऽसि च त्वं यदि तव शिव आत्मा त्वं तथास्मा शिवस्य ।। प्रिय ! वद वद तर्हि प्राणनाथ ! प्रयासो घनवनमुपगन्तुं कान्त ! कार्यः किमर्थम् ॥ ४३ ॥ एका-६ करुणावरुणालयाशये ! जगदम्ब ! प्रणतात्तिहारिणि । हृदयप्रियमाशु दर्शय प्रणयापारपयोनिधिं प्रभुम् ।। ४४ ॥ मातर्मातगिरिवरसुते गौरि कारुण्यपूर्णे- ऽपणेऽपणे कुरु कुरु कृपापूरपूर्णान् कटाक्षान् ।। अस्मास्वस्मप्रियतम उमे चापि संसारसारे श्रीश्रीकृष्णे द्रुतमिह भवेद्यैः समस्तार्थसिद्धिः ॥ ४५ ॥ (एवं प्रार्थयन्त्यो मूर्छया पतन्ति सर्वाः) (ततः प्रविशति दयार्दा श्रीपार्वती) थीपार्वती-वत्सा ! वत्सा ! अलमलमिहानन्तया चिन्तया वः श्रीकृष्णस्य प्रणयवसतेः प्राणनाथस्य राइयः !॥ (६४) अत्र अर्थनापदं केवलं विज्ञापनापरं, प्रार्थनीयस्य वस्त्वन्तर- स्यानिर्देशात् । तथा च सद्य आगत्यास्मानानन्दयेति ध्वन्यते । तदेवाह्त्य परामृशति यदीत्यादिना । यदि शम्भोस्तव च परस्परहृदयाश्रितत्वं तर्हि पर- स्परात्मनोर्युवयोर्यत्र कुत्राऽपि सुशकमाराधनं तथा च तदर्थ वनमुपगन्तुं किमर्थ: प्रयासः कार्यो, व्यर्थ इत्यर्थः । (६५) एका काचिद्राशी-जातिसामान्यप्रयुक्तं पक्षपातमाकाङ्क्षमाणा स्वेटमभ्यर्थयते । करुणावरुणालयाशये प्रणतातिहारिणि जगदम्य इति सम्बो- धनत्रयेण स्वेष्टसिद्धावाभिमुख्यमापाद्य हृदयप्रियं प्रभुमाशु दर्शयेत्युक्त्या सद्य आगमनमर्थितं तच्च स्वेष्टसिद्धिविकलं नेष्टमित्याह ! मातरित्यादि । अत्र अपर्णे इति सम्बोधनस्य वीप्सा, यथा त्वमपर्णासि एवमस्मानप्यपणान्-अपाकृतानि ऋ- णानि यैस्ते तादृशान् कुरु 'प्रजया पितृभ्यः । इति पत्रकऋणापाकरणार्थ प्रजा- दानेन धन्यान् कुर्विति वनयितुम् । तदेवदुक्तम् । अस्मासु अस्मत्प्रियतमे च कृपापूर्णान्कटाक्षात् कुरु य: समस्तार्थसिद्धिर्दुतं भवेदिति । (६६) एवं प्रार्थयन्त्यो यावन्मूच्छिता: पतन्ति तावत् प्रविश्य तृतीयोऽङ्कः। भक्काभीष्णार्पणसुरतरुः शङ्करस्तन देवे यस्मान्नित्यं सदयहृदयो वर्तते देवदेवः ॥ ४६ ॥ सर्वाः-केनेदममृतं कर्णेपु नः सिक्तम् ? (इति वदन्त्यः किंचिन्नेत्राप्यु-- न्मील्य श्रीजगदम्बां च विलोक्य साश्चर्यानन्दमुत्थाय पुष्पहस्ताः ) जय जय जय मातर्विश्वमातर्नमस्ते जय जय जय विश्वाधीशकान्त ! नमस्ते ।। जय जय जय भक्तोद्धारधुयें ! नमस्ते जय जय जय नित्यानन्दमूर्ते नमस्ते ।। ४७ ॥ (इत्युक्त्या सर्वाः पुष्पाञ्जलीन् श्रीपार्वतीपदयोरर्पयन्ति) श्रीपार्वती वत्साः ! सर्वासां भवतीनां निजप्राणप्रियश्रीकृष्णचन्द्र- विरहविपादविपोदधिमग्नानां करुणकरुणानि प्रार्थनाशतानि निशम्य दयाहृदया श्रीकैलासावागताऽहं तद् द्यूत किं वः प्रियं करवाणि ? सर्वाः--६७मातः ! सर्वासामस्माकं ज्येष्ठा श्रेष्ठा च श्रीरुक्मिण्यत्र प्रार्थयिष्यति । ( इत्युक्त्वा तूणी स्थिताः ) दयाद्री पार्वती-हे यत्सा: राज्यः युष्माकं प्राणनाथस्य प्रणयवसतेः श्रीकृष्णस्य चिन्तया-श्रीकृष्णविषयिण्या चिन्तया अलं-चिन्ता नैव कार्येत्यर्थः । यतः स्वभक्तानामभीष्टापणे सुरतरूपः शङ्करः तत्र देवे-श्रीकृष्णे नित्यं सदयहृदय एव वर्तते । अतः स्वयमेवानुकूले देवदेवे चिन्ताभारोद्वहनं व्यर्थमेवेति भावः । श्रीपार्वतीवदनादुद्गतान्यवराणि मूच्छितानामपि तासां मनांसि चैतयन्ति तासां नेत्रोन्मीलने प्रयोजकभावमुपगम्य 'केनेदममृतं कर्णेषु नः सिक्त' मिनि शब्दोच्चारपूर्वमुत्यापयन्ति । सर्वा जगदम्यां विलोक्य साश्चर्यानन्दं जगदम्यां स्तुवन्ति । जयेत्यादिना । अत्र विश्वमातरितिपदं विश्वेशं मातुस्तव भक्तावने स्वत: सिद्धं वात्सल्यं, विश्वाधीशकान्ते इतिपदं समर्थकान्तयोगेन सर्वकार्यसामर्थ्य, भक्तोद्धारधुर्ये इतिपदं भवोद्धारकर्मणि प्रमादालस्यादिविरह, नित्यानन्दमूर्ते इति च पदं मक्तेषु परानन्दाविभावप्रवणत्वं क्रमेण बोधयतीति एवंविधायास्तव जये भवाभीष्टार्थसिद्धिर्न दुरवापेति ध्वनिः । (६७) सर्वामिः पुष्पाञ्जलिसमर्चितपादपद्मा पार्वती, कैलासादत्र श्रीकृष्णचन्द्राभ्युदयम् । . रुक्मिणी-मातः ! सर्वाभिरस्माभिर्मतिमान्द्यात् स्त्रीस्वभावसुलभ. लाघवाददीर्घदृष्टित्वाच सत्पुत्रलाभलोभेन प्राणसर्वस्वं हृदय- सर्वस्वं जीवितसर्वस्वं च प्राणेश्वरः श्रीकृष्णचन्द्रस्तपसे तपोवनं पितः। किञ्च तपोवनं प्रति प्रस्थितस्य च तस्य श्रीकृष्णस्य गताश्चत्वारो मासास्तथापि 'कुन तपोवने तपः कुरुते स भगवा- निति' नाद्यापि प्रवृत्तिरधिगता काचित् । तद् द्वारावतीतः प्रस्थि- तस्य नः प्राणनाथस्य चरित्रमद्यावधिकं द्रष्टुमीहामहे । क्यन्तु श्रीप्राणनाथस्य प्रस्थानक्षणोत्तरक्षण एवं निजनिजमतिमान्य- कृतापराधपश्चात्तापवत्यः श्रीकृष्णचन्द्रसंरक्षणाय सद्यस्तदीयतपः सिद्धये च यथाशक्ति तपः कत्तुं प्रवृत्ताः श्रीचन्द्रचूडामणि मनो- वाकायकर्मभिः समर्चयाम, इमाश्च श्रीराधाप्रमुखा प्रजवनिता अप्यस्माभिः सहैव तपः कुर्वन्त्यः समर्चयन्ति सकललोकशवरं श्रीशङ्करम् । तथाप्यस्मदीयमन्दभाग्यप्रावल्यादाशुतोपोऽपि भग. वान्नाद्यापि परितुष्यतीति विस्मयमयपयोराशिपूर निमजनोन्मन- नन्याकुलानामस्माकमत्रभवती भवत्येव परमं शरणं नान्यत् । (इत्युक्त्या गलद विरलाशुजालं प्रणम्य मौनमालाव्य तिष्ठति ) श्रीपार्वती-अयि वरसाः श्रीरुक्मिणीमुखाः! श्रीकृष्णधर्मपल्यः । श्रीराधाप्रमुखा प्रजवलन्यश्च ! निःसीमसौभाग्ययसतीनां मर्वासां भवतीनां यदि द्वारावतीतस्तपोवनं प्रस्थितस्य श्रीकृष्णचन्द्रस्य सर्व चरित्रं विलोकयितुं प्रवला वाञ्छा जागतितर्ग तहि सर्वमहं. ममागमने भवतीनो फरणप्रार्थनान्येव कारणमनो न कि यः प्रियं फरवाणी. स्यार तदा मर्या ज्येष्ठा श्रेठा च मक्मिणीमेव सर्वामा प्रतिनिधितया निगा तन्मुग्वेनैव प्रार्थना कारयन्त्यस्तूणी नियन्ति । (६८) अतिमरलार्य याक्यम् । अस्मिन् वाक्य-सपरो तपोवन प्रति বিনয মা সন্তান নময়াৰি যামীম इस्पतायान प्रार्थनांगः । कयमा पानी नायाः इति विरमगमागरे मान्तीनामरमा भायेर गरमियुक्त्या करणाराग्वागतापमाना. नामरमापमिदानी न तुरधिगमो विरमगादगार। (6.) निदनी निथ यास्मिनी गण्दपारा मौनमारमा frana पति पन्गा:! त्यादिना पासी ग्राम्गमाभाग मुराम तृतीयोऽङ्कः । दिन्यदृष्टिप्रदानेन दर्शयिन्यामि मा चिन्तां कुरुत; परमिदानी प्रत्यासीदति प्रदोपवेला । पध्यत- ७ "अयमुदयमुपैति चन्द्रचूडामणिकरुणाधिगतेष्टसिद्धिरिन्दुः । शिवविमुखमिवान्धकारमेतत् प्रतिपदमेत्यखिलं लयं समन्तात् ।। ४८ ।। अपिच- तरणिररुणवणों वारुणीसंवयाऽयं गतरुचिरतिभीतो गजतेजःप्रभावात् ।। पुनरुदयमवाप्तुं स्वर्णदीसङ्गताङ्गं यति शिवकरं श्रीरुद्ररूपं समुद्रम् ।। ४९ ।। तदहं समुद्रतीरे गत्या श्रीमहेश्वरं समाराध्यागमिष्यामि याव- त्तावदसण्डसौभाग्यवत्यो भत्रयोऽपि सन्ध्याचल्यं शिवपूजनादि परिसमाप्य स्वकीयप्राणप्रियस्य श्रीकृष्णचलस्य तपोवनवृत्तान्तं विलोकयितुं सना भविष्यन्ति । , * सर्वमहं दिव्यदृष्टिप्रदानेन दर्शयिधामीति भगवतीयाक्यं मा चिन्ता कुरुते त्यस्य हेतुत्वेनोपनिबद्धं श्रीपार्वत्या भक्तवात्सत्यमभिव्यनक्ति । (७०) प्रदोपवेलायाः प्रत्यासन्नत्वमेव वर्णयति अपमिति । अयं पुरस्तादिन्दुश्चन्द्रचूडागणे: करुणया अधिगतेप्रसिद्धिः उदयमुपैति । एतेनो- दयप्राप्ती परशिवप्रसादो हेतुरव्यभिचारीति बोधितम् । शिवविमुखमिव चैतद- खिलमन्धकारं समन्तात्प्रतिपदं लयमेति । तथा च शिवविमुखस्याशिवामि- मुग्यलक्षणो टप एव भवतीति ' यदुन्मेपो जगत्सर्गो निमेषो लय उच्यते । इति वाक्यबोधिनायुश्यलयो कथितौ । (७१) वारुणी पश्चिमा विक् मुरा च । तरणि: वारुणीसेवया अरुणवर्ण: गतरुचिरतिभीतश्च राजतेज:प्रभावात् । राजा चन्द्रो नृपश्च । पुनरुदयमवाप्नुं स्वर्णदीसङ्गताङ्गं शिवकर श्रीरुद्ररूपं समुद्र श्रयति । अष्टमूर्त: शिवस्य समुद्रो जलमूत्तिः । अत्र सूर्यास्लवर्णने लिविशेषणमहिना कस्यचित्मुरापः परिस्कृति. र्भवति स्वर्णदीसङ्गताइसमुद्रश्रयणेन च तत्प्रायश्चित्ताचरणरूपाचारस्फूर्तेधाऽत्र समासोक्तिमूलो घनिः । समासोक्तिः परिनिः प्रस्तुनेऽप्रस्तुतस्य चेदिति लक्षणात्। । .

श्रीकृष्णचन्द्राम्युदयम्। श्रीरुक्मिणी-(साञ्जलिबन्धम् ) यथा श्रीपरमेश्वर्या आज्ञा तथा करिष्यामः। श्रीपार्वती-तदेपाऽहं गच्छामि. (इति वदन्त्येवान्तहिता ) श्रीरुक्मिणी-श्रीराधाप्रमुखा ब्रजवनिताः! श्रीसत्यभामाप्रमुखाः नियस्वसारश्च! गता श्रीपरमेश्वरी श्रीपरमेश्वरस्य श्रीसदाशङ्करस्य प्रदोपपूजां विधातुं, वयमपि श्रीपरमेश्वर्या आगमनात्पूर्व स्वासु स्वासु पर्णकुटीपु स्थित्वा नित्यपूज्यानां स्वीयस्वीयशिवलिङ्गाना प्रदीपपूजाः परिसमाप्य पुनरत्रैव चन्द्रकान्तमणिमण्डपे सङ्घी. भूय स्थास्यामः । सर्या:-यथाह देवी नथैव करिष्यामः । ( इत्युक्त्वा निष्क्रान्ताः) इतिश्रीसद्गुरुवर्यकेशव-पाकल्पवलरी-पल्लवायमाने महामहोपाध्यायशीघ्रकविशङ्करलालकृती श्रीकृष्णचन्द्राभ्युदय-नाग्नि नाटके तृतीयोऽङ्कः ॥ (७२) पार्वती-समुद्रतीरे श्रीमहेश्वरं समाराध्य यावदागच्छामि ताव- धूयं सम्याहत्यं समाप्य श्रीकृष्णचन्द्रस्य नपोवनवृत्तान्तं विलोकयितुं सजा- भवति समयं दत्त्वा, श्रीरुक्मिण्या 'यथाजा श्रीपरमेश्वर्या । इति कृतानुनया- : अन्तर्हिता-तावद् सक्मिणी, राधाप्रमुखा गोपी: सत्यभामामुख्याः पट्टराशीश्च सम्बोध्य स्थासु स्वासु पर्णकुटीपु निजनिशिवलिङ्गेषु प्रदोषपूजा विधाय चन्द्रकान्तमणिमण्डपे सङ्घीभावसकतं दत्वा निकामति; तदनु साः 'यथाह देवी तथा करिष्याम । इति वदन्त्यो निष्क्रान्ताः । इति श्रीसद्गुरुवर्यकेशवपाकल्पवलीपलवायमान श्रीकृष्णचन्द्राभ्युदय-नाम्नो नाटकस्य टीकायां ज्योत्स्नाभिधायां तृतीयोऽङ्कः सम्पूर्णः । श्रीकृष्णचन्द्राभ्युदयाभिवस्य सन्नाटकस्योपरि निर्मितायाम् ।। ज्योत्स्नाभिवायां विवृतौ समाप्तिमातृतीयो व्यगमत्तु काश्याम् ॥

अथ चतुर्थोऽङ्कः। ('ततः प्रविशन्ति श्रीरुक्मिणीप्रमुखाः श्रीकृष्णचन्द्रस्य पट्टराज्यः श्रीराधामुख्या गोप्यश्च) धीराधा देवि रुक्मिणि ! प्रयातैकयामा यामिनीति में प्रतिभाति नाद्यापि मण्डपमेनमलकरोति भगवती परमेश्वरीति ताम्यन्ति नश्चेतांसि । रुक्मिणी-अयि प्रियस्वसारो मे ! स्मृतिमात्रसाध्यसान्निध्या सा' जगदम्वति नाविदितं वस्ततस्त्वरिततरं तदीयदर्शनाय तस्याः स्मरणं कुर्महे । धीराधा-उत्तमोत्तमोऽयं कल्पः (इत्युक्त्वा गायति ) स्वाश्रितापितसमस्तमङ्गले मङ्गलेष्टकार सर्वमङ्गले ॥ एहि देहि परमशि दर्शनं तावकीभ्य इह नः कृपानिधे ! ॥१॥ श्री: स्वयं रुक्मिणीत्वेनाऽवतीर्णाऽस्तु श्रिये सदा ॥ यदानन्देन सानन्दः स स्वयं नन्दनन्दनः ॥ १ ॥ (१) उपक्रममाण: कविश्चतुर्याकारम्भे, श्रीपार्वत्या गतावान्ते प्रतिश्रुत श्रीकृष्णतपोवनवृत्तान्तप्रदर्शनं मनसिकृत्य तामेव जगदम्बां प्रतीक्षमाणानां श्रीक्मिणीप्रमुखानां राधाप्रभृतीनां च प्रवेशमुपक्षिपति 'तत' इत्यादिना गोप्यश्च । त्यन्तेन । (२) यामातीतायामपि यामिन्यां नागता भगवतीति श्रीराधया 'ताम्यन्ति न श्वेतांसी । ति वदन्त्या धैर्यवैधुर्यमावेदितं तावदेव रुक्मिणी परदेवतापरतत्त्वस्वरूप संविदाना, देवतादर्शनं तत्प्रणिधानसाध्यं बोधयन्ती- 'याच स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ।। इति श्रीमार्कण्डेयोकं देवोपुष्टमुपायं पुरस्करोति 'स्मृतिमात्रसाध्यसा- निध्ये । ति । तस्याः स्मरणं कुर्महे । इति च तमनुतिष्टन्ति । (३) सचिवमुपायमूरीकृत्य सर्वमङ्गलापदेन जगदम्मा स्वीति राधा । सर्वमङ्गलापदं प्रायेण सार्वविभक्तिकं विग्रहमादधाति । सवा मगला, सर्वान् भक्कान् प्रति मगला, सः कल्याणगुणैर्मङ्गला, सर्वेभ्यो मङ्गला-ननु महिपामुरादिहन्त्री वेभ्यः कयं मलेति चेत्-' लोकान् मयान्तु रिपयोऽपि हि क श्रीकृष्णचन्द्राम्युदयम् । (तत आकाशमार्गेणाऽवतीर्य श्रीपार्वती) श्रीपार्वती- आगताऽस्म्यहमियं प्रियंवदाः ! भक्तिभाववशवर्तिनीह कः ॥ रुक्मिणीप्रभृतयो हरिप्रिया द्यूत किं प्रियहितं करोमि वः ॥ २॥ ("सर्वाः सानन्दमुत्थाय सपुष्पबद्धाञ्जलयः) सर्वाः-जय जय जय मातः श्रीमहेशप्रिये त्वं प्रणतजनमनोभीष्टार्पणैकप्रवीणे ॥ शत्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वीति । समादधता मार्कण्डेयेन देवमुखेनैव तेभ्योऽपि मङ्गलप्रदत्वमद्धाऽऽवेदितमेय; सर्वेभ्यो महामङ्गलमय- मूर्तिभ्यः शिवादिभ्योऽपि मङ्गला मङ्गलतमेत्यर्थः । यदाहुः पूज्यपादाः- विरश्चिः पञ्चत्वं व्रजति हरिराप्नोति विरर्ति विनाशं कीनाशो भजति धनदो याति निधनम् ॥ वितन्द्रा माहेन्द्री विततिरपि सम्मीलितहशा महासंहारेऽस्मिन् विहरति सति ! त्वत्पतिरसी ॥ तत्र हेतुरपि तैरेवोक्त:- सुधामप्यास्वाध प्रतिभयजरामृत्युहरिणी विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।। करालं यत् क्ष्येलं कवलितवतः कालकलना न शम्भोस्तन्मूलं जननि तव ताटकमहिमा । सर्वेषु देशेषु कालेषु भूतेषु प्राणिषु च मङ्गलेवेत्यर्थः । मङ्गलार्थनावसरे भग. वत्याः सर्वमङ्गलापदेन निर्देश: कवेरभिधानौचित्यज्ञता प्रणिगदति । स्यानि- तेभ्योऽर्पितानि समस्तानि मङ्गलानि यया, अतश्चाऽस्मभ्यमपि तावकीभ्यः कृपानिधे ! दर्शनं देहि । दर्शनदानं हि आगमनसाध्यमत उक्तमेहीति। अस्मि- पद्ये सप्तकृत्त्व आवृत्तेन शक्तिबीजेन तेनैव चान्ते सम्बोधनेन सद्योऽभीष्टसिद्धि- रुपस्थितेति रहस्यम्। (४) आकाशमार्गेण अवार्य श्रीपार्वती रुक्मिणीप्रमुखाः सम्बोध्य 'युष्माकं प्रियं हितं च किं करोमि ब्रूत' इति वराभ्यर्थनाये उपच्छन्दयति । आगतास्म्यहमित्यादिना । (५).सर्या यावञ् 'जय जये । त्यादि स्तुतिपूर्व जगदम्बाचरणयोः * चतुर्योऽङ्कः। मणिगणमयमेतद्देवि ! सिंहासनं ते चरणकमलयुग्मं चैर पुष्पातलिनः ॥ ३ ॥ (इत्युक्त्वा जगदम्बाचरणयोः पुण्याञ्जलीन् विकीर्य) यदुकुलतिलकश्रीकृष्णचन्द्रप्रवृत्ति भगवति ! करुणातो द्रष्टुमीहामहे ते ॥ श्रीपार्वती-(सिंहासनमधिरह्य) परमशिवकृपातो दृष्टिरानन्दवृष्टि- र्भवतु सपदि दिव्या कृष्णपन्योऽधुना वः ॥ ४ ॥ (इत्याशिपं यावद्ददाति तावदेव) सर्वाः-(परितोऽवलोक्य साश्चर्यम् ) देवि रुक्मिणि ! कोऽयं पर्वतो दृश्यते ? रुक्मिणी-~-प्रियस्वसारो मे ! यूयमिवाऽहमपि तत्रानभिज्ञा ततः श्रीपरमेश्वरीत एव सर्व ज्ञास्यामः । सर्वाः-रुक्मिणि ! सर्वास्त्रस्मासु ज्येष्ठया श्रेष्ठया च त्वयैव श्रीपर- मेश्वरी प्रष्टव्येति नः प्रार्थना । रुक्मिणी-प्रियस्वसारो में ! तथा करिष्यामि मा चिन्तां कुरुत (निपुणं निर्वर्ण्य ) (श्रीपार्वती प्रति) "मातः ! कोऽयं विविधविपिनालङ्कृताशेपदेश. शैलः शैलपवरतनये रम्यगम्यप्रदेशः ।। पुष्पाञ्जलीन्प्रक्षिप्यासनं निर्दिशन्ति, श्लोकार्थेन च भगवत्प्रवृत्तिजिज्ञासां वृणते तावदेव पार्वती सिंहासनमधिरुह्य 'परमशिवकृपातः' इत्यर्धश्लोकेनाशी- रूपवचनोचारपूर्वकं दिव्यदृष्टिं ददाति । (६) दिव्यदृष्टिलाभसमकालमेव सर्वाः पर्वतमने पश्यन्ति, रुक्मिणी च पृच्छन्ति 'कोऽयं पर्वत' इति । (७) रुक्मिण्या 'अहमप्यनभिज्ञे । त्युक्त्वा 'परमेश्वरीत: सर्व शा- स्यामः' इत्युक्तं तदा जिज्ञामाकुला: सर्वा रुक्मिणीमुखेनैव प्रभवन्ति, रुक्मिणी च श्रीर्वती पृच्छति 'मात' रित्यादिना । अत्र विविधविपिनालङ्कृताशेपदेशत्वं रम्यगम्यप्रदेशत्वे हेतुरिति परिकरालकृतिः । शैलः शैलेति रम्यगम्येत्यादि च वृत्त्यनुप्रासो नाम शन्दालङ्कारः ।

११२ श्रीकृष्णचन्द्राभ्युदयम्। श्रीपार्वती-सोऽयं वत्सा मणिमयमहाशृङ्गसम्भूपिताङ्गः सौराष्ट्रस्थाखिलमनुजनुर्दैवतं रैवताद्रिः ।। ५ ॥ सत्यभामा- आः प्रख्यात एवायं गिरिवयों यत्राऽनके सिद्धाः साधकाश्च निवसन्ति । नैतावदेव किन्तु तीर्थान्यप्यनेकानि तत्र सन्ति । पार्वती-वत्से ! सएवाऽयम् । रुक्मिणी-१°कस्यायमाश्रमवरो जगदम्ब यत्र सिंहैZगाश्च नकुलैः फणिनां गणाश्च ॥ अन्येप्यनेकपशवः सहजातिवैरा- विस्मृत्य वैरमखिलं सह संरमन्ते ॥ ६॥ किञ्च-कश्वाऽम्वाऽस्मिन् मुनिगणमणिभस्मरुद्राक्षमाला- धारी धीरो विलसति तपस्तेजसा राशिरेपः ।। यस्मिन् दृष्टेऽप्यमलममलं मानसं न: कृपाढ़े ! मातर्मातर्भजति पितरीवाऽद्भुतं भक्तिभावम् ॥ ७ ॥ । (८) सौराष्ट्रोद्भवमनुजानां देवतं सोऽयं रैवताद्रिरिति पार्वती प्रति बोधयति लोकोत्तरार्थेन । अन्नापि शृङ्ग अङ्ग दैवत रैवत मनु जनुरित्यादिवर्णा वृत्तिरनुप्रासः । (९) सत्यभामा सप्रत्यभिज्ञ 'आः' इत्याश्चर्यबोधकाव्ययव्याहारेण न केवलं गिरेः प्रसिद्धिमन्वाह किन्तु सिद्धसाधकनिवासयोग्यतामपि तीर्थस्थान- त्वनागदीत् । सिद्धस्थाने कोटिगुणमित्यभियुक्तोक्तेः । (१०) श्रीपार्वत्या ' स एवाय ' मिति सत्यभामोत्तेऽनुमोदितेऽने. मुनेराश्रमं पश्यन्ती रुक्मिणी पृच्छति । पशवोऽपि यत्र परित्यक्तसहजवैराः सह संरमन्ते तत्र मनुजाना तु वैखातापि दुरापास्ता, तादृशोऽयं कस्याश्रम ? इति । तस्मिन्नाश्रमे मुनिमवलोक्य वत्स्वरूपं वर्णयन्ती पृच्छति 'कथे। स्यादिना । दृष्टमाने एव यस्मिन् कृपाढ़ें-हे 'मात: मातः । इति वीप्सा विस्मयमूला,-नी मानसं अमलं सत् पितरीव भक्तिभावं भजते, एप:-- पुरोवस्थितः तपोजन्यतेजसां राशिभस्मरुद्राक्षमालाधारी धीरो मुनिगणे मणिरिष भासमानः को विलसतीति ।

चतुर्थोऽङ्कः । पार्वती–११व्यानपाद इति सन्मुनिवर्यः सम्बभूव शशिशेखरभक्तः ।। तस्य सूनुरुपमन्युरयं श्रीचन्द्रचूडचरणकनिकेतः ॥ ८॥ रुक्मिणी-(१२स्मृतिमभिनीय) श्रुतपीतापूर्व मया श्रीकृष्ण- चन्द्रमुखचन्द्रमण्डलाद् गलन्ती तत्कीर्तिसुधाधारा । बाल्येऽपि यः सुतपसा परितोष्य शम्भु क्षीरार्थमात्मजननीवचनानुवर्ती ॥ श्रीशङ्करस्य कृपयाऽऽमवशं चकार क्षीराधिमप्ययुतशिष्यगणाप्रभोजी ॥९॥ स एवायं भगवानुपमन्युः ? पार्वती- -अप किम् । रक्मिणी-धन्योऽयं दिवसो यदन वयं परमपुण्यदर्शनं पग्ममाहे- श्वरं मुनिवर्यमुपमन्यु पश्यामः । उपमन्यु:-( दक्षिणेक्षणस्फुरणमभिनीय) मयि शिष्याः ! पाद्यं पाद्य- मयमय॑म् । अद्य खल्वत्र- गवरो निखिललोकशङ्करः श्रीहरिः सरसिजासनोऽथवा ।। आगमिप्यति न संशयः क्षणाद्दक्षिणं स्फुरति मे यदीक्षणम् ॥१०॥ (११) पार्वती, यः पुरा व्याघ्रपादनामा शशिशेखरभक्तो मुनिः मम्बभूव तस्य सूनुरयमुपमन्युनामा, य: शिवभक्तात् पितुर्लब्धजन्मा स्वयं श्रीचन्द्रचूडचरणकाश्रयतया सतां मुनीनां मध्ये वर्य उत्कृष्टः । उत्कर्षश्च पैतृकानुहरणेन । (१२) उपमन्युवृत्तमनुस्मरन्ती रुक्मिणी श्रीकृष्णचन्द्रमुखचन्द्रादेव श्रुतामुपमन्युकीर्तिमुगिरति-'बाल्येऽपीत्यादिना । य: क्षीरार्थ बाल्येऽपि,-अत्र अपि शब्दस्वपोयोग्यवयोमावेऽप्रीत्यर्थक:-सुतपसा शम्भु परितोष्य-स्वजननी- अचनानुवत्ती, श्रीशङ्करस्य कृपया-ननु स्वयमम्यर्य-क्षीराब्धिमात्मवशं चकार, अयुतसख्यं शिष्यगणमग्रेमोजयतीति-ताच्छीलिको णिनिः-तादृशः स एव भयं भगवानुपमन्युरिति रुक्मिण्या पृष्टे 'अय किमि। त्युक्त्या श्रीपार्वती तमुक्तिमनुमोदमानोत्तरयति । (१३) रुक्मिणी, परममाहेश्वरमुनिवर्यस्योपमन्योः पुण्यप्रददर्शनेन तादृशदर्शनशालिदियमस्य धन्यत्यमाह तावदेव स्वदक्षिशणस्फुरणलिनेनानुमि- तमर्थमपावृण्वन् मुनिः, शिष्यानुपचारसम्भाराय प्रेरयति-' अयि शिष्या:, ११४ श्रीकृष्णचन्द्राभ्युदयम् । शिप्या:-(साक्षलिंबन्धम् ) श्रीपूज्यपादाः! यथायुप्मदाझं सजाः स्म । पट्टराश्यः-१ अहो अखिलजगद्वन्द्यस्यापि भगवतोऽतिथिसत्कार- सम्भ्रमशालिशीलता लोकोत्तरा । (नेपथ्ये) १५अयि मुनिवरशिष्य ! श्रीमुनीन्द्रं प्रणम्य प्रणतजनमनोभीष्टार्पणैकप्रवीणम् ।। जनमुपगतमेनं द्वारकातो निवेद्य प्रियवद वद् दाता दर्शनं श्रीगुरुमें ॥ ११ ॥ रुक्मिणी-( साश्चर्यानन्दम् ) अहो सजलजलधरध्वनिगम्भीरोऽतिधी- रोऽयं स्वरः प्राणनाथस्येव नः प्रतिभाति । सर्वाः-१६ययाह देवी रुक्मिणी । उपमन्यु:-(साश्चर्यानन्दमुत्थाय ) इत्यादिना । पाद्यमर्थ्य च सम्पाद्य सन्निहितमेव स्थापयत येनाविलम्बनयाई. णीयजनार्हन्ती सुकरा स्यात्तमेव च पुनः स्वदक्षिणाक्षिस्फुरणसूचितं विषय विवरीवरीति ' अद्य खल्वत्रे । त्यादिना । यतो में दक्षिणमक्षि स्फुरति ततो- मन्ये--निखिललोकराकर शङ्करः, श्रीहरिरथवा सरसिजासनो ब्रह्मा, प्रयाणामेक तमोऽद्याऽत्र निःसंशयमागमिष्यति । अत्र क्षणादिति पदमधुनेवागमिष्यतीत्यर्थ बोधयति । (१४) शिष्यैः 'श्रीपूज्यपादाः ! यथानिदेशमुपपादितसामग्रीका वयं सजाः स्मः । इत्यावेदिते पट्टराज्योऽखिलजगद्वन्द्यस्यापि मुनेर्लोकोत्तरामति- थिसत्कारसम्भ्रमशालितामालोक्य विस्मयन्ते । (१५) अयि इति शिष्योद्देश्यकमपि कोमलमामन्त्रणं श्रीकृष्णस्य विनयातिरेकमावहत्तपोवनमहिमानमावेदयति । अत्र-हे मुनिवरशिष्य ! प्रणतज- नमनोभीष्टार्पणैकप्रवीणं श्रीमुनीन्द्रं प्रणम्य-मत्कृतकप्रणामनिवेदनाय महीभाव मुद्रां प्रदर्य-द्वारकातः उपगतमेनं जनं निवेद्य है प्रियवद ! श्रीगुरुमें दर्शनं दाता ? किमिदानी दर्शनदानानुग्रहं करिष्यति ? इति तं पृष्ट्वा यद । (१६) रुक्मिण्या- सजलजलदध्यानगम्भीरः स्वरो नः प्राणनाथ- स्येव प्रतिमातीति । साश्चर्यानन्दमाशङ्किते-तत्र सर्वाः 'यथाह देवी रुक्मिणी तत्तयेचेति शेषार्थबोधवाक्येन स्वानुमोदनं निश्वायकतया प्रकटयन्ति ।

चतुर्थोऽ:1 ११५ . १७स्वागतं भगवतो जगत्पनेः पावितोऽद्य कृपयाऽयमाश्रमः ।।. कृष्णचन्द्र भवदीयदर्शनादद्यमे मुफलितं तपोऽखिलम् ।। १२ ।। (इति वदन हादभिगच्छति) (ततः प्रविशति भस्मरुद्राक्षभूषितः श्रीकृष्णः ) श्रीकृष्णः-परमशिवपदाजद्वन्द्वलीनात्मवृत्ते ! निरवधिकरुणाधे ! श्रीगुरो! हे महात्मन् ।। चरणकमलदासस्तावकः कृष्ण एपः प्रणमति कुरु हस्ताम्भोरुहं मूनि मे स्वम्।। १३ ।। (इति प्रणमति) (सर्वाः पट्टराज्य: श्रीराधामुख्या व्रजवासिन्यश्चोत्थाय ससम्भ्रमं प्रणमन्ति श्रीकृष्णम् ) श्रीपार्वती |---वत्साः ! व्यतीतमेतदलं सम्भ्रमेण । (१७) मगवद्वचनश्रवणाव्यवहितोत्तरकालमेव शिष्यागमनमप्रति- पालयन्नुपमन्युः स्वयमुत्थाय स्वागतं ब्याहरति । भगवत आगमनमतिशोभनं, मवनाऽऽगमनेन अद्य अयमाश्रम: पावितो, नैतावदेव हे कृष्णचन्द्र ! भव दर्शनेन मेऽखिलं तप: फलितमद्य । यद्दर्शनार्थमनेके महापुरुषास्तपश्चरन्ति तद्दर्श- नलाभेनैतावता कालेनानुष्ठितस्य तपसः साफल्यमजनीति हर्षप्रकर्षः । (१८) भस्मरुद्राक्षभूपितत्त्वं श्रीकृष्णचन्द्रस्यात्र दीक्षाङ्गम् । वाञ्छि- तार्थसिद्धः प्रतिबन्धप्रशमनार्थमिति तु तत्त्वम् । तथाच । अभियुक्तचरणा:- एतानि तानि शिवमन्त्रपचित्रितानि भस्मानि भूतदुरितक्षपणक्षमाणि ॥ भाले धृतानि हृदयस्थतमोऽपहानि टुपन्ति देवलिखितानि दुरक्षराणि ।। प्रणामपये-परमशिवपदा जवन्द्वलीनात्मवृत्ते ! इति सम्बोधनमभिगम्यतामाह ततश्च निरवधिकरुणान्धे ! इति सम्बोधन गुरुत्वोपपादक, तदेव ' श्रीगुरो !' इत्यनेन निगद्य, 'हे महात्मन् । इत्यनेन च चिरशुश्रूषणानपेशमसत्तिरुक्ता अनन्तरमेव च उपसत्तिगचकमात्मविशेषणं 'चरणकमलदासस्वावक इत्या. दिना । 'कृष्ण एषः प्रगमती' स्यन्तेन दीवायसरो वेदितः । स्व हस्ताम्मोकई में मूर्ति कुर-निहीत्यनेन च मन्त्रग्रहणोत्कता बोधिता । एतावता शिवमन्त्र प्रहणं शैवमुतादेव वं सद् मनत्यम्पस्तिमिति ध्वन्यते । .

श्रीकृष्णचन्द्राभ्युदयम्। सर्वाः-("सलजम् ) मातर्विस्मृतमेतदिदानीमरमाभिः । उपमन्युः-(२°सानन्दं श्रीकृष्णमूनि हस्तं निधाय उत्याप्यालिङ्गय च) शिष्याः ! पाद्यं पाद्यमय॑मय॑म् ( इत्याह्वयति) श्रीकृष्णा-गुरुवर्याः ! अलमलमत्युपचारेण स्वशिष्ये मयि । (इत्युक्त्वा शिष्यान् वारयति) उपमन्युः-शिप्याः ! स्वानि स्वानि कार्याणि कुरुष्वम् । शिया: यथाज्ञा गुरुचरणानाम् । (इति वदन्तो निष्क्रान्ताः) उपमन्युः-२ हरिकरिनरनौका नाधिरूढाः सुरम्या न च पतगपतिर्वा काञ्चनो नो रथो वा ॥ कथय कथय पझ्यामागतोतीव दूर कमलदलमृदुभ्यां नाथ करमादकस्मात् ॥ १४ ॥ श्रीकृष्णः-२२गुरुवर्याः ! मातापित्रोराज्ञया धर्मपत्नीनां च मे प्रार्थ- नया सत्पुत्ररत्नप्राप्तये दुष्करतरैस्तपोभिः परशिवमाराधयितु- मिच्छन् शिवमन्त्रदीक्षागुरुं त्वां प्रणम्य, क मया तपस्तप्तव्यं केन विधिना च पूजनीयः परमेश्वर इति प्रष्टुमागतोऽस्मि । (१९) यदा श्रीकृष्णमवलोक्य पट्टराज्यो बजाङ्गनाश्च ससम्भ्रममु- स्थाय प्रणमन्तिस्म तदा व्यतीतमेतत्सकलं नैतदिदानी प्रतीयमानमिव वास्तवं मन्तव्यमतः सम्भ्रमो न विधेय ' इति श्रीपार्वत्या योधिताः सत्यो वैदग्ध्यभङ्ग प्रयुक्तलजाकुला आहुतिः रित्यादि । (२०) श्रीकृष्णाभ्यर्थनामनुरुध्य तन्मूर्ध्नि हस्तं निधाय उत्थाप्य आलिङ्गय च पाद्यादिसामग्रीसमवधानाय शिष्यानाहूयति तावदेव 'स्पशिष्ये मयि अलमत्युपचारेणे' त्युक्त्या शिष्यान् वारयति । मुनिरपि श्रीकृष्णोक्तानु- सारेण शिष्यान् स्वस्वकार्यकरणाय विसृजति । (२१) भगवत्सङ्कल्पमजानानो मुनिः 'गरुडादियाइनान्यनुपयुज्य श्यद् दूरं पद्भ्यामेव करमादकस्मादागतोसीति पृच्छति । (२२) श्रीकृष्ण आर्जवेन निखिलमभिप्रेतं स्पष्टमेवाख्याति । माता- पित्रोराज्ञया धर्मपत्नीनां प्रार्थनया चेत्युक्त्याऽत्रागमने प्रयोजकीभूतं द्वयमपि निर्दिष्टम् । सत्पुत्ररत्नप्राप्तये परशिवं तपसाराधयितुमित्यनेन च शिवाराधन पुत्रप्राप्स्योरुपायोपेयभावोपि गदितः । पूर्वगृहीतदीक्षामनद्य तपोविधि चतुर्थोऽङ्कः । ११७ उपमन्युः-(२३ग्रहस्य ) आत्मैव त्वमसि महेश्वरस्य विष्णो ! आत्मा ते प्रियतम आन्तरो महेशः॥ इत्यैक्ये सति युवयोरहं वराकः कं पूजाविधिमिह वच्मि कृष्णचन्द्र ! ॥ १५ ॥ श्रीकृष्णः-२ यदि मयि करुणादृग् वर्तते चेत् त्वदीया यदि मदुदयसिद्धी प्रोत्सुकं मानसं ते ॥ कथय कयय तहीशानपूजाविधानं गुरुवर मयि तुष्येद् येन सद्यो महेशः ॥ १५ ॥ २५आत्माऽऽन्तरोऽहमभवं परमेशितुः श्री- भक्त्या यया स्वजनवत्सलतासुधाब्धेः ।। सा येन मे परमया कृपयोपदिष्टा स लं गुरो गुरुवरोऽसि निरन्तरं नः ।। १६ ।। किं बहुना-यदि मयि करुणादग् वर्तते ॥ तपोनुकूलदेशं च जिज्ञासमानः केन विधिना च पूजनीयः परमेश्वर । इति पृच्छति। (२३) निखिलार्थविद एवंविधं प्रश्नं निशम्य प्रहस्य मुनिराह । हे विष्णो ! त्वं महेश्वरस्यात्मा तव च महेश आत्मा इत्युभयोरक्ये तयात्मभूतस्य शिवस्य पूजाविधि वक्तुमहं वराकः कः १ नात्राहं भवत्प्रश्नोत्तरदाने प्रभुरस्मि, शिवतत्त्वं हरिवेत्ति हरितत्त्वं शिवस्तथा । मिथस्तयोरेक्यसिद्धावन्यः को नाम वेत्तुतदिति भवानेव तत्तत्त्वविदितिभावः । प्रहर्पिणीवृत्तम् । ( २४ ) 'आचार्यचान् पुरुषो वेद ' इति श्रुतिशासनमनुरुन्धानः श्रीकृष्ण आचार्यादघेवाधिगता विद्या साधीयसी भवतीति । साम्प्रदायिकवचो- ऽनुसरन् मुनिमुखादेवाधिजिगमिषुः परतत्त्वं मुनिमारहाति ' यदी त्यादिना । यदिपदं नात्र संशयाधायकं किन्तु सिद्धानुवादकं तेन-मयि भवदीया करुणा- एव, भवदीयं च मानसं मदुदयसाधनेऽस्त्येव समुत्मुकं तर्हि अत:- हे गुरुवर ! येन प्रकारेण महेशो मयि सद्यस्तुष्येत्तादृशमीशानपूजाविधानं कथय कथयेति वीप्सानुकम्पार्थनामातनोति । (२५) इदानी 'मात्मैव स्वमसि महेश्वरस्यग्लादि प्रागुक्तं मुनिवचन- मुत्सरयति । यया भक्त्या भक्तवत्सलस्य परमेशिनुरहमान्तर आत्माऽभवं सा . दृग् वर्तत श्रीकृष्णचन्द्राभ्युदयम् । (इति पूर्वोक्तं श्लोकं पुनः पठित्वा पादयोः प्रणमति ). उपमन्युः-२ हे कृष्णचन्द्र यदि वाञ्छसि देवदेवं श्रीमन्महेश्वरमुमाहृदयाधिनाथम् ।। सद्यः प्रसादयितुमिन्दुकलावतंसं तहि प्रयाहि यदुनन्दन ? पश्चिमाब्धिम् ॥ १७ ॥ अस्ति तत्र बटुकाचलाऽभिधः पर्वतोऽतिरमणीयदर्शनः ॥ कृष्णचन्द्र ! तदुपत्यकागतं पावनं लसति बिल्वकाननम् ।। १८ ।। भूपितं विमलविल्वगङ्गया- सङ्गयाततरलोत्तरङ्गया ॥ पक्षिमङ्गलनिनादनादित चित्तनेत्रसुखदं निरन्तरम् ।। १९ ।। युग्मम् ॥ तत्र शङ्कारमुपास्य यास्यसि स्वेप्सितानि सकलानि सत्वरम् ।। आशुतुष्टपरमाशुतोपणश्रीमहेश्वरमहाप्रसादतः ॥ २० ॥ तत्र स्थित्वा प्रतिदिनं चिन्तामणिसहस्रं विधाय लझसङ्ख्य- बिल्वदलैः सम्पूज्य कमलसहस्रं समर्प्य तपः कुर्वतस्ते स्वल्पनैवा- नेहसा मनोरथपूर्तिर्भविष्यतीत्यसंशयमवेहि । भक्तिरपि त्वयैवोपदिष्टेति सत्वमस्माकं सर्वथा गुरुरेवासीत्युक्त्वा पूर्वोक्तं ' यदि मयी । त्यादि लोकं पुनः पठित्वा पादयोः प्रणमति । (२६) अतः परं मुनिरनुग्रहपरस्तपश्चरणानुकूलं देशमुपदिशति । हे कृष्णचन्द्र देवदेवमुमाहृदयाधिनाथमिन्दुकलावतंसं श्रीमन्महेश्वरं यदि सधः प्रसादयितुमिच्छसि तर्हि हे यदुनन्दन ! पश्चिमाधि प्रयाहि । तत्र च पश्चिमा- ब्धेस्तीरे-अतिरमणीयदर्शनो बटुकाचलाभिधः (बरहा इति लोकप्रसिद्धः) पर्वतोऽस्ति तदुपत्यकायां पर्यंतभूमौ पावनं बिल्यकाननं लसति । बिल्यकानन मेव विशिनष्टि-सङ्गयाततरलोत्तरगया बिल्वगङ्गाख्यया नद्या भूपितं, पक्षि- मङ्गलनिनादनादितमत एव निरन्तरं चित्रनेत्रसुखद, प्रेक्षकाणामिति शेपः । तत्र स्थित्वेत्यध्याहार्य-शङ्करमुपास्य आशुतुष्टपरमाशुतोपणश्रीमहेश्वरमसादतः सत्वरं सफलानि स्वेप्सितानि यास्यसि-प्राप्स्यसीति सबन्धः । (२७) पूर्वोक्तं प्रकारं सविशेयमुपदिशन् मनोरथसिद्धिमदूरभाविनी चतुथोऽङ्कः। ११९ शंसन् प्रोत्साहयति मुनिः । तत्र बिल्यकानने स्थित्वा-यासं कृत्वा-प्रतिदिनं चिन्तामणि-सार्थिवलिङ्गसहस्रं लक्षबिल्वदले: सम्पूज्य कमलसहस्रं च श्रीमहा- भारतोक्तवेदसारशिवसहस्रनाममन्त्रैः समर्प्य तपः कुर्वतस्तेऽचिरेणैवेष्टं सेत्स्यतीति असंशयमवेहि । तथा चोक्तं महाशिवपुराणे ज्ञानसंहितायां ६९ अध्याये-- कदाचित् पर्वते रम्ये गत्वा रैवतके हरिः ।। उपमन्यु शिवगणं पप्रच्छ भृशमादरात् ॥ १० ॥ इष्टसिद्धिः कथं मे स्यात् कथं लोके जयाम्यहम् ॥ एवं वादिनं कृष्णं मुनिराह-- स्वमपि विष्णुरूपोऽसि कथं न भजसे शिवम् ॥ १२ ॥ ततो विज्ञापितेन मुनिना शिवमन्त्रोपदेशे कृते- इत्येवं च ततः प्राप्य मन्त्रमाराधने विधिम् ।। सेवयामास विप्रेन्दाः सतमासावधि स्वयम् ॥ १४ ॥ कमलेबिल्वपत्रैश्च शतपत्रैः कुशेशयः ॥ १५ ।। अग्रे च ७० तमेऽध्याये तथापि न यदा तुष्टः, सहरीनामभिस्तदा ॥ प्रत्येक कमलं तस्मै नाममन्त्रमुदीर्य च ॥ १४ ॥ समर्पयन् प्रभोर्मूनि प्रत्यहं परया मुदा ॥ कमलानां सहसात्तु हृतमेकं कुशेशयम् ॥ न ज्ञातं विष्णुना तच्च मायाकरणमद्भुतम् ॥ १६ ॥ न्यूनमेकं तदा ज्ञात्वा स्वकं नेत्रमुदाहरत् ।। तद् दृष्ट्या च प्रसन्नोऽभूच्छङ्करः सर्वदुःखहा ॥ १७ ॥ प्रसन्नोऽस्मि परं ब्रूहि नादेयं विद्यते तव ॥ हरिणा ' दैत्यैर्विश्वं पीड्यते । इत्यावेदिते- तदा तस्मै स्वयं शम्मुश्चक्र प्रादात्मुदर्शनम् ॥ बिल्वेश्वरश्च नाम्ना वै जातस्तत्र शिवः स्वयम् ।। इदमेव पूर्व ६१ तमेऽध्यायेऽपि- कृष्णेन च तदा नित्यं बटुके पर्वतोत्तमे ॥ पूजनं तु शिवस्यैव सतमासावधि कृतम् ॥ १७ ॥ प्रसन्नोभगवास्तस्मै वसन्यादादनेकशः । इत्यादि महता विस्तरेण निरूपितम् । .

श्रीकृष्णचन्द्राभ्युदयम् । श्रीकृष्णः-२"भगवन् ! मन्त्रस्योपदेशेनापि कृतार्थ कर्तुमर्हसीम चिरन्तनं शिष्यम् । उपमन्युः- वत्स ! प्रथममुपदिष्टैव शतरुद्रीयविद्या श्रीमहामृत्युञ्जय- विद्या पञ्चाक्षरीविद्या च तासामेकतमया समाराधितः श्रीमहे. श्वरः सद्य एव परितुष्येत् । श्रीकृष्णा-भगवन् ! एप मे प्रयाणप्रणामः । उपमन्युः-३०शिवासहायः शिव एव देवो देवाधिदेवः शिवदः सदा ते ॥ भूयाच्छिवोऽध्वा सरितः शिवास्ते वाताः शिवाः सन्तु शिवप्रसादात् ॥ २१ ॥ (इति वदन् श्रीकृष्णमूनि हस्तं निदधाति) श्रीकृष्ण:-अद्यैव प्रसन्नः परमेश्वर इति मन्येऽहम् । (इति ब्रुवन् निष्कामति) ( २८ ) यथा सिस्थाननिर्देशानुग्रहः कृत एवं मन्त्रोपदेशमपि कुर्वित्यपिपदस्वारस्य व्यञ्जयन् इमं मल्लक्षणं-चिरन्तनं-नविदानीन्तनं-शिष्य कृतार्थ कर्तुमर्हसीत्यनेन पूर्व कृतोपि मन्त्रोपदेश इदानीं पुनर्नवीभायमापादनीयो येन वैगुण्याशङ्का निवर्तेत । (२९) अत्रावसरे मुनिः पूर्वोपदिएविद्या नामग्राहमाभाष्य श्रीकृष्ण- चेतसि तिस्रोपि विद्या: संस्मार्य अवचनेनैव प्रोवाचे' तिवद्वेधदीक्षां कृतवान् वेनानेन संस्कारेण विशुद्धिमापादिताः प्रागुपदिष्टा विद्याः सद्यःसिद्धिदाः सजाता इति श्रीकृष्णार्थनामुनिवचनयोः परमं रहस्यम् । (३०) श्रीकृष्णेन 'भगवन् । इति ससद्भावमुपायनीकृवे प्रयाणसा- मयिके प्रणामे मुनिराशीमित वर्धापयते । स्वयं शिव एव देवोऽथापि शिवा- सहाय इति सर्वथा ते शिवदो भूयात् । किञ्च ते अभ्या शियो भूयात्-सरितः शिवाः सर्वदा निरुपद्रयाः, वाताच शिवा अनुकूला: शिवप्रसादात् सन्तु, येन निष्प्रत्यूहा तेऽभीष्टसिद्धिरस्तु ! एवं वदन् श्रीकृष्णमूनि हस्तं निदधाति । हस्तनिधानेन सकलप्रतिवन्धापासनं हाईम् । (३१)'गुरुरेव परं ब्रह्मेति तत्प्रसादे मनीषितोऽर्थः सिद्धप्राय एवेति मन्नान आह श्रीकृष्णः- अद्यैव प्रसन्नः परमेश्वर इति मन्येऽहमिति ॥

चतुर्थोऽङ्कः । ૨૨ रुक्मिणी-3'प्रणम्यास्मत्प्राणप्रिय इह शिव ! स्वं गुरुवरं प्रयाति श्रीकान्त: शिवदाशिवनामान्यभिवदन् ।। अनुव्रव्य प्रेम्णा गुरुपि निवृत्तोऽश्रुनयनो विचित्रं वात्सल्यं किमपि निजशिष्येपु हि गुरोः ।। २२ ।। श्रीपार्वती एवमेव वत्सा ! एवमेव, स्वौरसपुत्रनिर्विशेषवात्सल्यानि स्वशिष्येपु सद्गुरूणां स्वान्तानीति नाविदितं वः । सर्वा:--33 पद्भ्यामयं जननि याति सुकोमलाभ्यां छत्रं विनापि तपनातपतप्तमार्गे ॥ पश्याम्बिके ! किमिदमात्मजलाभलोभा- दस्माभिराचरितमज्ञतमाशयाभिः ॥ २३ ॥ (इति वदन्त्योऽभूणि मुञ्चन्ति) श्रीराधा-विरम विरम हे नाथ मे क्षणं मणिमयीमिमां पादुकां निजाम् ।। कुरु पदद्वये छत्रमप्यह शिरसि ते करोम्यागु किङ्करी ।। २४ ॥ (इति वदन्ती पादुकां छत्रं च गृहीत्वेव धावति) श्रीपार्वती-(हस्तं गृहीत्वा ) राधे ! राधे ! व्यतीतमेतद् विलोक्यते मा सम्भ्रमं गमः। (३२) अत: पर 'प्रणम्ये त्यादिना रुक्मिणी शिवनामाभिगृणनयुक्तं श्रीकृष्णगमनं, किञ्चिदनुव्रज्यापूर्वमश्रुनयनस्य गुरोनिवर्तनं च पश्यन्ती सद्गुरोः शिष्यवात्सल्ये विस्मयते । पार्वती पुनस्ताइक्सद्गुरुशिष्ययोगे इदमित्यमेव भवेदिति वस्तुवृत्तमभिदधाना तद्विस्मयमपनुदति । (३३) अनातपत्रं पद्भ्यामेव यान्तं भगवन्तं विलोक्य 'आत्मजलाम- लोभादज्ञतमाभिरस्माभिः किमिदमाचरित मिति सर्वाः सानुशयमश्रूणि मुश्चन्ति । (३४) अनायसरे श्रीराधा भक्त्यादेशविक्शामाया मगरन्तमुल्लाप- यति । ई मे नाथ! क्षणं विरम-मणिमयीमिमां निजां पादुको पदद्वये कुरु (पाव) फिकरी अह ते शिरसि छपमपि करोमि; इति वदन्ती छत्रपादुका हस्तेर धापति, तावदेव श्रीपार्वत्या 'व्यतीतविषयमेतन्मा सम्भ्रमं गम, दनि प्रतिबोधिता 'मानविस्मृतमेतदिति । यदन्ती भगवनस्लप:कष्टमनुध्यायन्ती न माथुनेत्रा पैदग्थ्यभेषप्रयुक्तलजयाऽयोमुग्नी विठति-- १२२ श्रीकृष्णचन्द्राभ्युदयम्। श्रीराधा-मातर्विस्मृतमेतन् मया (इत्युका साश्रुनेबाघोमुखी तिष्ठति) सर्वाः-३५सौवर्णदुर्गरुचिरा स्फटिकालयालि- रावतीव च परा नगरी नु कैपा । संलक्ष्यते जननि नीरनिधेः समीपे नानाविधागणितसन्मणिपूर्णपण्या ।। २५ ॥ कोयं च मातरित एवं गजाधिरूढो राजान्युपैति मघवेव शचीसहायः । जायायुतो जय जयेति च जीव जीवे त्याशीर्वचोभिरभिनन्दित आर्यलोकैः ।। २६ ॥ श्रीपार्वती-वत्साः! सर्वमेतद इसौभाग्यवतीनां भवतीनां प्राण- मियस्य श्रीकृष्णचन्द्रस्य निष्प्रतिमनिःसीमौदार्यचरित्रचित्रम् । सर्वा:-मातर्न सम्यगवगम्यतेऽस्माभिर्भगवत्या वचनानामाशयस्तत् कृपां कृत्वा स्पुटं कथय । थीपार्वती-3६(विहस्य) वत्साः ! तथैव वदामि शृणुत- सुदामा सन्मित्रं परमिव मनः श्रीयदुपते- द्धिजन्मा यः पूर्व निरतिशयदारिद्यनिलयः ॥ अभूत् प्रेम्णा दत्त्वा निखिलपतये तण्डुलकणान् स एवायं जावो यदुपतिकृपातो नरपतिः ॥ २७ ॥ (३५) सुवर्णविकारः सौवर्णः (सोऽस्य विकार इत्यम् ) तादृश दुर्गेण रुचिरा, स्फटिकानामालयास्तेषामालियस्यामेतादृशी परा-द्वितीया-द्वारा- वतीव का नु एपा नगरी नीरनिधेः समीपे संलक्ष्यते ? या नानाविधैरगणितः सन्मणिभिः पूर्ण पण्यं यत्र सादृशी अस्ति । हे मातः ! अयं च शचीसहायो-मध- वान् इन्द्र-इव गजाधिरूढो जायायुत: को राजा इत एथाभ्युपैति ? यः प्रजाज- नर्जयजीवेत्याद्याशीर्वचोभिरभिनन्धमानः (कौतुकं नश्चेतसिजनयतीत्यर्थः)। (३६) सर्वमेतद्भगवतो निःसीमौदार्यचरित्रचित्रमिति पार्वतीवचनं गूढार्थमपरिशायमानं विशेषविवेचनाई तत्त्वतोवगन्तुं 'मातर्न सम्यगवगम्यते- ऽस्माभिर्भगवत्या वचनाशयस्तत् स्फुट कथयितुं कृपां कुरु' इति सर्वासां प्रभे- पार्वती विहस्य स्पष्टं कथयति-श्रीयदुपतेः परमं मित्रं सुदामा नामको यो विप्रः पूर्व दारिद्रयनिलयोऽभूत स एवायं निखिलपतये तण्डुलकणान् दत्त्या यदुप- चतुर्थोऽङ्कः । १२३ सेयं तदीया नगरी सुदाम-पुरीति लोके प्रथिताभिधाना। अनेकमुक्तामणिरम्यहम्यारावंती या हसतीव भाति ॥२८॥ सर्वाः-39(साश्चर्यम्) जरानीर्णः शीर्णाखिलरदनताऽव्यक्तवचनः शतच्छिद्रां कन्यां कुकविकृतितुल्यां गतगुणाम् ।। वसानोऽस्त्रां राशिश्वलनवलनीवेक्षित इह प्रभोस्तुल्यं रूपं कथमिव स धत्तेऽद्भुततमम् ।। २९ ॥ श्रीपार्वती-अयि वत्सा:!- सालोक्य साटि-सारूप्य-मुक्तित्रयमनुत्तमम् । प्रदत्तं जीवते तस्मै श्रीकृष्णेन दयालुना ॥ ३० ॥ तेन न किञ्चिच्चित्रमिव मन्तव्यम् । सत्यभामा-3 ( सहासम् ) केवलं कैवल्यमुक्तिसमर्पणे किमिति लोभः स्वीकृतः श्रीकृष्णेन ? तिकृपातो नरपतिर्जातः, सोऽयमित्यर्थः । तदीया चेयं नगरी सुदामपुरी इति प्रसिद्धाभिधाना, या अनेकमुक्तामणिरम्यहा द्वारावर्ती हसतीव भाति । (३७) सर्वां जातप्रत्यभिज्ञास्तदीयं पूर्ववृत्तं स्मृत्वा साश्चर्य गृणन्ति । अत्र 'सा रत्यप्रेतननिर्देशाक्षितं य इत्यध्याहार्य । यः जराजीणः शीर्णाखिलरदन- तया चाव्यक्तवचनः कुकविकृतितुल्यां शतच्छिद्रां गतगुणां च कन्यां वसानः अस्थ्नां राशिश्चलनवलनी-अङ्गम इव पूर्वमिह द्वारकायामीक्षितः सः प्रभोर्भ- गवतः समानमद्भुततमं रूपं कथमिव धत्ते ? कथमस्येयं स्वरूपपरिवृत्तिर्जातेति मी विस्मयन्ते । (३८) तासां शङ्कामपनुदति श्रीपार्वती-अपि यत्सा इत्यादिना । दयालुना-केवलं दयापरतन्त्रेण-नत्पायनमाहात्म्याकृष्टेन श्रीकृष्णेन जीवत एव तस्म मुदाम्ने सालोक्य-समानलोकत्वं, सार्टि-समानवैभवत्वं, सारूप्यं-समा- नरूपत्वभित्येतदनुत्तमं मुक्तित्रयं प्रदत्तं तेनार्य भगवत्समानरूपस्तत्तुल्यलोक. वैभवश्व सम्पन्न इति नात्र किञ्चिचित्रम् । (३९) सत्यभामा दयालोर्भगवत: प्रशासविधया लोभमाभणति । यदि मुक्तित्रयं जीवन्मुक्तिकल्पमर्पितं तर्हि किमिति कैवल्यमुक्तिसमर्पणे एव लोभः स्वीकृतः कृष्णेन ? ।

१२४ श्रीकृष्णचन्द्राभ्युदयम्। श्रीपार्वती-४°न परमौदार्यमहोदधिना श्रीकृष्णन लोभः स्वीकृत: । किन्तु स एव न तामिच्छति । शृणुत- दासोऽहं दासोहं श्रीकृष्णस्यैव दासोहम् । इति मन्यते य एपः स कथं कैवल्यमुक्तिमभिवाञ्छन् ।। ३१ ।। तथापि प्रणतजनतापारिजातेन 'मा मे भक्तः कयाऽपि मुत्तया विमुक्तोऽभूद्' इति विचार्य स्वकीयसन्मित्रस्य सुदाम्न- श्वित्ते कैवल्यनाथश्रीकेदारनाथभक्तिरुत्पादिता तत्प्रभावाच तस्याऽन्ते कैवल्यमुक्तिरपि भविश्येव, न खलु परमेश्वरकृपापात्र- तामुपगतानां लोकानां लोके किमपि दुर्लभमिति मन्तव्यम् । रुक्मिणी-४१प्रियस्वसारो मे! प्रसङ्गान्तरमपास्याऽस्मत्प्राणनाथस्य सन्मित्रसमागमानन्दवृत्तान्तमवलोकयाम । सर्वा:- :–तथा कुर्मः (इत्युक्त्वा सावधानाः पश्यन्ति ) सुदामा-४२(दूरतो निपुणं निर्वर्ण्य) अहो कुत इयमनभ्रा वृष्टिः । . (४०) श्रीपार्वती भगवति सत्यभामारोपित कार्पण्यं परिहरति । परमौदार्यमहोदधौ भगवति लोभसम्भावनैव दुर्घटा किन्तु स मुदामैव तां कैवल्यमुक्ति नेच्छति-यो हि नित्यं दासोऽहं दासोऽहं श्रीकृष्णस्य दास एवाह- मिति मन्यते स एष: कैवल्यमुक्तिं कथं वान्छेत् ?–न कथमपीति भावः । तथापि प्रणतपारिजातेन-भक्तानामखिलमनोरथपूरकेण · मे भक्तः कयापि मुक्त्या वियुक्तो मा भूदिति ' विचार्य कैवल्यमुक्तिप्रदश्रीकेदारनाथस्य भक्ति- स्तस्य सुदाम्नश्चिते उत्पादिता यया भक्त्याऽन्ते स कैवल्यभागपि भविष्यति । परमेश्वरकृपापात्रतामुपगतानां किमिव दुर्लभं ? न किमपीत्यर्थः । (४१) रुक्मिणी-' प्रसङ्गान्तरं परिहाय प्राणनाथस्य सन्मित्रसमाग- मानन्दवृत्तान्तं पश्याम । इति सर्वा अनुरुन्धे, तदा ' तथा कुर्म' प्रति बद- न्यः सावधानाः सत्यः सर्वाः मुदामानं विलोकयन्ति । (४२) दूरतो निपुणं निर्वर्ण्य (भगवन्तमागच्छन्तं प्रत्यभिज्ञाय ) अहो इत्याश्चर्यचकितमुच्चारणं, यतः सर्वथा श्रीकृष्णस्य सुदामपुर्यामतर्कितमा- गमनमसम्भाव्यमेवेत्याह—कुत इयमनना वृष्टिः ? | प्राक्सूचनमन्तरेणैवागमन- स्थानभ्रवृष्टित्वेन निगीर्याध्यक्सानादतिशयोक्तिरलङ्कारः।

चतुर्थोऽङ्कः। १२५ ४३उपवेशयोपवेशय गजपक ! गनमेनमतिशीत्रम् । योगिभिरगम्यरूपो योगीन्द्रो योगिरूप आयाति ।। ३२ ।। (इत्युक्त्वा गजादवतीर्य प्रेग्णाऽभिधावति) श्रीकृष्णः-४४(प्रविश्य ) शिव शिव शिव शम्भो श्रीशिवाप्राणबन्यो ! भव भव भव भूत्यै भूयसां श्रेयसां नः। ./ हर हर हर दुःखं चाऽनपत्यत्वजन्यं कुरु कुरु करुणाद्रो दृष्टिवृष्टिं समन्तात् ॥ ३३ ॥ (इति गायन् परिकामति) सुदामा-भगवन् ! दीनबन्धो ! दयासिन्धो! योगीन्द्र ! दासोऽहन्ते मुद्दामाऽभिवन्दे ( एवं वदन् भगवत्पादयोर्दण्डवत्पतति ) श्रीकृष्णः-(अनाकर्णितकेन ) श्रीगैलराजतनया-हृदयाविनाय ! श्रीविश्वनाथ! करुणावरुणालयं त्वाम् । भक्ताभिवाञ्छितसमर्पणपारिजातं. वन्दामहेऽखिलमनोरथपूर्तिसिद्धथै ॥ ३४ ॥ सुदामा-४(स्वगतम् ) अहो परमेश्वर श्रीपरशिये भक्त्यतिशयो देवस्य. (प्रकाशम्) (पादौ गृहीत्वा ) भगवन् ! दासानुदासोऽई मुद्रामाऽभिवन्दे (४३) गजारूढः मुदामा आधोरणं प्रति ब्रूते । हे गजपक ! (मायन) एनं गतमतिशीघ्रमुपवेशय उपवेशयेति वीसा मन्भ्रमायहा, योगिभिरप्यग- म्यापो योगीन्द्रः स्वयं योगिरूपो-योगानुठानानुरूपवेपाकल्प: आयाति | गनप- केनोपवेशिते गजे सुदामा सद्यो गजादवरुह्य भगवन्तं प्रति प्रेग्गाऽभिधावति । (४४) श्रीकृष्णो प्यानस्तिमितहग्युग्मः प्रविशति, 'शिव शिवेत्यादि। गायन परिकामति; तावदेव पुरत आगत्य सुदामा-'मगवन्नि त्यादि चतु- भिर्विशेषणः सम्बोध्य 'दासोऽहन्ते मुदामाऽभिवन्दे । इति स्वनामग्राहमभि- वन्दते । श्रीकृष्णस्तु-अनाकर्णितकेन-प्रणिधानपारतन्त्र्येण तद्वचनानवहितत- येत्यर्थः; अश्रुत्वेति यावन् । प्रणिधानमेवानुसन्धत्ते-श्रीशैलराजतनयाहृदया- घिनाथ श्रीविश्वनाथ! असिलमनोरयपूर्तिसिद्धपै करुणायणालयमन एव मनाभिवान्छितममर्पणयारिजातं त्वां वन्दामहे । (४५) एवं प्रणिहितचेतसं श्रीकृष्णमालश्य मुदामा स्यगत चिन्तरनि- श्रीकृष्णचन्द्रामधुदयम् । श्रीकृष्णा-( नेत्रे समुन्मील्य साश्चर्यम् ) अहो परमं मित्रं मे सुदामा? परमानन्दपीयूपधारासारवी दिवसोऽद्यतनः । (इत्युक्त्या बाहुभ्यामुत्थाप्य गाढमालिद्गय ) सुधासिन्धुलयों वा सुधाकरकरास्तथा । नाहादयन्ति मां मित्र यथा मित्रसमागमः ।। ३५ ।। (इति वदन्तावुभावपि बाप्पयारां धारां मुञ्चतः) मुक्मिणी-४७मात: पार्वति ! प्रियस्वसारश्वमे ! श्रीकृष्णचन्द्रस्य मैत्रीधर्ममर्मज्ञता काप्यनिर्वचनीयैव- आर्ये न सोदरवरे बलवाग्नि रामे नैवानुजेषु च परेपु कदापि दृष्टम् । श्रीकृष्णसौहृदमिदं तु यत्र मित्रे विग्रे सुदामनि विलोक्यत आर्द्रचित्ते ॥ ३५ ॥ सर्वाः--एवमेव देवि! एवमेव. पार्वती-४"वत्साः! शृणुत- 'अहो श्रीपरशिवे भक्त्यतिशयो देवस्य'-इति । सौहादानुप्राणितान्त:करणाना- मनादराशङ्का नैव जायते प्रत्युत उद्विग्नमानसं मुहृदमुद्रीय तदुद्वेगकारणं ज्ञातुं तच्छमनायोपायान्वेपणं च कर्तुं सद्य एव यत्नास्थानम् । (४६) अनन्तरं सुदामा यावत्पादौ गृहीत्या 'दासानुदासोह। मित्यादि वदन्नभिवन्दते तावदेव समुन्मील्य नेत्रे साश्चर्य ' अहो परमं मित्रं मे भुदामा ? 'परमानन्दपीयूषधारासारवर्षी दिवसोऽधरान' इति वदन् कृष्णस्त- मुत्थाप्यालिङ्गति । हे मित्र! मुधासागरतरङ्गाश्चन्द्रकिरणा वा तथा मां न आह्लादयन्ति यथा त्वादृशमित्रसमागमः आह्लादयतीति शेषः । (४७) एवं वदन्ती साश्रुनेत्राबुभावपि यावन्मियो विलोकयतः ताव- द्रुक्मिणी 'श्रीकृष्णस्य मैत्रीधर्ममर्मज्ञता काप्यनिर्वचनीयेत्याह-हे आर्ये पार्वति ! (आर्या दाक्षायणी चैवेत्यमरः) यद् यादृशं श्रीकृष्णसौहृदमार्द्रचित्ते अत्र मुदामनि विप्रे विलोक्यते तादृशं तु सोदरवरे बलधानि रामे बलदेवे-परेषु वाऽनुजेषु कदापि न दृष्टम् । अत एव भ्रातृस्नेहादपिसौहार्दमतिरिच्यते । (४८) सर्वामिरेवमेवेत्यनुमोदिते श्रीपार्वती सर्वाः शृणुतेत्याकार्य मित्र पदार्थमवयोधयति । जनके मातरि सहोदरे च प्रत्येकमेकैको रसः, सुहृदि च चतुर्थोऽङ्कः। १२७ यस्मिन् रसा जनकमातृसहोदरस्थाः सर्वेपि, यसलवोऽपि नचाऽपरंपु । तस्मादभिन्नहृदयात् समदुःखसौख्यान्- मित्रात् परं किमिह वस्तु हितं नराणाम् ? ॥ ३६ ।। सुदामपत्नी-(प्रणम्य) दीनवन्धो योगीन्द्र ! वन्देऽहम् । श्रीकृष्णः-अखण्डसौभाग्यवती भूयाः । सुदामपत्नी-प्राणनाय ! कोटिकन्दर्पलावण्यदर्पलुण्टाकलावण्यः कोऽयं योगीन्द्रः? सुदामा-४९( साश्चर्यम्) प्रिये ! त्रिभुवनविख्यातमपीमं योगीन्द्रं नाभि जानासि किम् ? शृगु- यद्दयाहगवलोकलेशतो राज्यमेतदनुभूयते मया । कृष्णचन्द्र उदयद्दयोदयो योगिराजवपुपा विराजते ।। ३७ ॥ सर्वेऽप्यमी सहीभूता अनुभूयन्ते; सौहाईरसस्तु मुहृदमन्तरेण न कापि, तस्मा- कारणात् समदुःखसौख्याद् अभिन्नहृदयाद्-वपुर्भदे दृश्यमानेपि मनसोरभे. दात्-तादृशान्मित्रात् किमिव हि यस्तु नराणां परं श्रेष्ठं हितं क्षमावहं च ? स्यादित्यर्थः । न किमपी तिशेषः । (४९) अत्रान्तरे मुदामपत्नी 'दीनबन्धो योगीन्द्र ! वन्देऽहम् । इत्यभिदधाना यन्दते, श्रीकृष्णश्चतामखण्डसौभाग्यवती भूया' इत्याशिया संयुनक्ति, वावदेव सा स्वपतिम्-'कोटिकन्दर्पलावण्यदर्पलुण्टाकलावण्यः कोयं योगींद्र ? इति पृच्छति, तदा सुदामा--'त्रिभुवनविख्यातमपीमं योगीन्द्रं नामि- जानासि ? ' इति साश्चर्य जायामबजानान इव अज्ञानदूरीकरणाय प्रत्यभिज्ञामान- यति–'यदित्यादिना । यदीयदयाहगवलोकलेशमात्राद् एतद्राज्यं मयाऽनुभूयते उदयदयोदय: श्रीकृष्णचन्द्र एव सोऽयं योगिराजवपुपा विराजते । किञ्च है सति ! प्रियतमे ! तत्पूर्वकालिक-तार्ण-तृणनिर्मितं तदपि जीर्णमत एवातिशीर्ण सदनं क,कच इयं परिदृश्यमाना मणिगणचिता स्वर्णरचिता हम्यालि:-एतत्सकलं यस्य विमोदयादृष्टेविलसित स एवायं श्रीकृष्णो लसति, अस्मन्नयनान्यानन्द- यत्पुरस्ताद्वर्तते तमेत भक्त्या प्रणम 1 अपिच हे सति ! प्रतिसदनम् आसाय काल भ्रामं भ्राममपि भिक्षान्नैः स्वीयं जठरमपि मत्तुं योऽहं न समसकं सोहमि- दानी येन दयया सकलजगद्भरणसामथ्र्यवान् कृतः स एषः पुरोवस्थितः श्रीकृष्णो लसति तमेतं भक्त्या प्रणम ।

१२८ श्रीकृष्णचन्द्राभ्युदयम् । क तत् तार्ण जीर्ण सदनमतिशीण प्रियतमे ! क चेयं हालिमणिगणचिता स्वर्णरचिता। दयादृष्टेरेतद् विलसितमिदं यस्य तु विभोः स एव श्रीकृष्णः सति ! लसति भक्त्या प्रणम तम् ॥ ३८॥ अहं भ्रामं भ्रामं प्रतिसदनमाऽऽसायमपि यो न भिक्षान्नैः स्वीयं जठरमपि भत्तुं समशकम् । कृतो भी सोऽहं निखिलजगतां येन दयया स एप श्रीकृष्णः सति! लसति भक्त्या प्रणम तम् ।। ३९ ॥ सुदामपत्नी-५०( साश्चर्यानन्दम् )- कल्पवृक्षः कामधेनुः कोऽपि चिन्तामणिश्च यः । भक्तानामनुरक्तानां कृष्णचन्द्र नमोऽस्तुते ॥ ४०॥ ( इति वदन्ती श्रीकृष्णपादयोः पतति) श्रीकृष्णः-५१सौभाग्यवति! प्रजापति! अलमलमतिविवेकवाग्वल्ल- रीपल्लवितेन । अयं वयं तथैवान्ये येत्र दीनदयालुना । नमस्तस्मै कृता येन लोके लोकेश्वरा अमी ॥४१॥ अपिच-अहमपि गुरुदाराज्ञावशस्तेन तुल्य- श्चणककणकभोजी चेन्धनोद्धारवाही। अभवमपि च येन द्वारकेशः कृतोऽहं प्रणयवति! पतिस्ते निर्मितस्तेन राजा ॥ ४२ ॥ (५०) सञ्जातभगवत्स्वरूपभाना सुदामपत्नी साश्चर्यानन्दम्-'यः अनुरक्तानां भक्तानां कल्पवृक्षः कामधेनु: कोपि-स्वर्गस्थचिन्तामणितो विल- क्षण:-चिन्तामणिरसि, हे कृष्णचन्द्र ! तस्मै ते नमोऽस्तु । इत्युक्त्वा पादयोः पतति । (५१) श्रीकृष्णः शिवमहिमानमेव परां कोटिमारोपयन्नाह । हे सौमाग्यवति ! प्रजावति ! अतिविवेकवाग्वल्लरीपल्लवितेन अलम् । नायअनो- उन विवेकातिशयमईतीच्छति या यतस्तद्विषयकतत्त्वानभिज्ञा त्वमेवं वदसि । वस्तु वस्तु-अयं तय पतिः, वयं, तथैवात्र लोके अन्ये जना अपि येन दयालुना लोके माता नीतास्तस्मै नमः कुर्विति शेषः । गीतास्वपि 'ईश्वरः सर्वभूतानां हृद्देशे- र्जुन तिष्ठतिxxतमेव शरणं गच्छेत्यादि अर्जुनं बोधयताऽपि मगवताऽयमेव प्रकार चतुर्थोऽङ्कः। १२९ सुदामपत्नी-भगवन् ! तर्हि परमोपकारिणस्तस्यापि देवदेवस्य पवित्रं नाम श्रवणाभरणतां नेतुमिच्छामि । श्रीकृष्णः-५२देवि! जगत्प्रसिद्ध एव स देवदेवः । शृणु- देवः सेक्कवाञ्छितार्पणवियों चिन्तामणिर्गीयते सवैः श्रीनिगमागमैरनुदिनं श्रीपार्वतीवल्लभः । यस्येपत्करुणावलोकनवलालम्बन नारायणः प्राप श्रीशपद विधिविधिपदं रुद्रश्च रौद्रं पदम् ।। ४३ ।। मया तु मद्गृहागसाय परममित्रायापि चास्मै किमपि न दत्तम् । तदेतत्स्वयमेव जानाति। सुदामा-५३( सहर्षानन्दनम् ) अलमलमिदानी स्वकीयासीमौदार्यमहो दधिलहरीलीलापहवेन- कृपावलोकलेशेन कुचेलोऽपि कुवेरताम् । नीतो येन क्षणेनाहं वेत्ति तत् सकलं जगत् ॥ ४४ ।। उपयुक्तः । अपिच-अहमपि गुरुदाराशावशः तेन तव भत्री तुल्यः चणककणक भोजी इन्धनोद्धारवाही च, येन कृतः, द्वारकेशः अभवं, हे प्रणयवति ! तेन तव पती राजा निर्मितः। (५२) एवं श्रीकृष्णेन प्रतिबोधिता सुदामपत्नी स्वस्वाम्युदयहेतुं देवं जिज्ञासमाना परमोपकारिणस्तस्यापि नाम श्रवणाभरणतां नेतुमिच्छामि-श्रोतु- मिच्छामि (पर्यायोक्तालङ्कारः) इत्याह, तदा श्रीकृष्णः परशिवमहिमानमुपव. र्णयन्नाह । यद्यपि जगत्प्रसिद्ध एव स देवदेवः तथापि शृणु-सेवक । यान्छितार्पण- विधी यो देवः निगमागभैरनुदिनं चिन्तामणिर्गीयते स श्रीपार्वतीवल्लभः जयति- सर्वोत्कर्पण वर्तते । यस्य ईपत्करुणावलोकनबलाश्रयेण नारायणः श्रीशपदं, विधिििधपदं, रुद्रश्च रोई पदं प्राप, स एव सर्वानुग्रहे हेतुरस्ति; मया तु गृहागताय परममित्रायाप्यस्मै किमपि न दत्तमित्ययं स्वयं जानाति । इत्युक्त्वा विरमति । (५३) एतच्छ्रुत्वाऽसहमान श्व सुदामा सहानन्दमाह अलमिति स्वीयौदार्यमनपन्हवाई यतः कृपाक्लोकलेशेन कुत्सितवनवानप्यहं येन क्षणेनैव अचरतां नीतस्तदेतत्सकलं जगद्वेत्ति | अतः दयालुना त्वया दयावलोकमात्रेण सद्य: रक्षादपि रकोऽहं राजराजसमानतां नीतोऽस्मि इति जगत्प्रसिद्धमेय । अयापि श्रीकृष्णनिरूपितं महादेवहेतुत्वमपि न प्रत्याख्यानमस्तीत्याह-अथवा- श्रीकृष्णचन्द्राभ्युदयम् । दयावलोकमात्रेण त्वया सद्यो दयालुना । रङ्करकोऽपि नीतोस्मि राजराजसमानताम् ॥ ४५ ॥ इति जगत्प्रसिद्धमेव । अथवा- त्वमन्तरात्मासि महेश्वरस्य महेश्वरश्चापि तवान्तरात्मा । न भेदलेशो युक्योस्ततस्त्वद्दत्तं च तद्दत्तमिदन्तु युक्तम् ।। ४६ ।। श्रीकृष्णः-५४सखे!- रङ्करकान राजराजान् क्षणात् कर्त्त निजान् नरान् । शक्ता शक्तियेन मह्यं दत्ता सोऽयं महेश्वरः ॥ ४७ ॥ त्वया मया च सततं सेव्यः सेव्यगुणालयः । नास्ति देवो महादेवात् परः श्रेयःपदप्रदः ॥४८॥ सुदामा-भगवन् ! युक्तमुक्तमेतन्महामाहेश्वरेण श्रीमता । अहमपि भवानिव श्रीमहेश्वरस्यैव भक्तोमि ततः श्रीमन्मतं ममापि प्रियतममेव परमिदानी ममाभ्यर्थनां शृणु- श्रीकृष्ण:-अवहितोऽस्मि श्रोतुम् । त्वं महेश्वरस्य अन्तरात्मासि महेश्वरश्च तवाऽन्तरात्मास्ति ततश्च युवयोर्न भेदले. शोप्यस्ति अतस्त्वद्दत्तमपि तद्दत्तमेवेति युक्तमेवोच्यते भगवता । (५४) इदानीं श्रीकृष्णः सखायं सुदामानं परतत्त्वमुपदिशति-हे सखे ! रङ्करकानपि निजान् नरान् (भक्तजनान् ) क्षणादेव राजराजान् कत- शक्ता शक्तिर्येन मह्यं दत्ता सोऽयं देवो महेश्वर एव । किश्च-सेव्येऽपेक्षिता ये स्वजनवात्सल्य वदान्यतादयो गुणास्तेपामालयो मुख्याश्रय: स महादेव एव त्वया मया च सततं सेव्यः, यतो महादेवात् परः श्रेयःपदप्रदो देवो नास्ति, 'महादेवपदनिरुक्तिरेव तस्य सर्वाधिकत्वं 'विश्वाधिको रुद्रो महर्षि । रित्या- दिश्रुतिसिद्धमनुवदति । यदाह माहेश्वराग्रणीभट्टमाहेश्वरः । बालेन्दुरम्यमुकुटात् नुहिनाचलयमाच् श्रीशैलराजतनयाश्रितवामभागात् । श्रीकान्तनेत्रसरसीरुहपूज्यपादाच शम्भोः परं किमपि तत्त्वमहं न जाने ॥ (५५) इदानीं भगवदुक्तं शिवोत्कर्षमनुमोदमानः मुदामाह । भग- वन् भवानिवाहमपि शिवभक्त एवास्मि ततः श्रीमन्मतं ममापि, प्रियतममतो भवदुनं सर्व युक्तमेव, परमिदानी ममाभ्यर्थनां शृणु' इति यदोपक्रमते तदा चतुर्थोऽङ्कः ।। सुदामा-करुणाकर ! देवदेव हे ! गजमारोह रयादमुं निजम् । नगरी मम भूपयाऽधुना निमित्रं च कृतार्थयाशु माम् ॥४९॥ श्रीकृष्णः-प्रियसखे! त्वत्सहवासस्नु मे श्रीवलदेवसहवासनिर्विशेषा नन्दमन्दिरं परन्तु नेदानी तन् कर्तुं शक्यम् । सुदामपत्नी -नाथ! कथमधुना नाऽस्मान् कृतार्थान कत्तु शकोपि ? श्रीकृष्णः-५मात्रा च पित्रा गुरुभिर्नियुक्तः सत्पुत्रलाभायतपोविधातुम् । उल्लङ्घय तेषां वचनानि सौम्ये कथं वद त्वन्नगरीमुपैमि ॥ ५० ॥ सुदामा-५(सानन्दोत्साहम् ) एवं चेत् तर्हि- तपः करिष्याम्यहमेव मित्र ! त्वत्पुत्रलाभार्थमनन्यचित्तः । सन्तोप्य भत्त्याऽऽशुतमाशुतोपं त्वां पुत्ररत्नैः सुखिनं करिष्ये ॥५१ श्रोतुमवहितोऽस्मीति । भगरतोत्तरिते-दे करुणाकर ! अमुं निजं गर्ज रया- दारोह, मम नगरी भूषय, निजभित्रं च मामाशु कृतार्थय-इत्यभ्यर्थनात्रयमुप- दौकितवान् । (५६) मुदामाम्यर्थनाः श्रुत्या-त्यत्सहवासस्तु मे वलरामसहवास समानमुखदस्तथापि नेदानी तत्कनुं शक्यम्-इति भगवद्वचनाकर्णनमात्रेणैव कशाहतेव यहवा मुदामपत्नी सुशीला ' नाथ ! कथमधुना नास्मान् कृतार्थयि- प्यसीति सभ्रमणमिव काक्काह, तदा तां सानुनयमेव भगवानुत्तरयति-हे सौम्ये ! मात्रा पित्रा गुरुभिश्व सत्पुत्रलाभाय तपो विधार्नु नियुक्तः वेपो बच- नानि उलवथ स्पन्नगरी कयमुपैमि ? अत्र त्वमेव वद । (५७) सुदामपन्या असन्तोषपरिहारे दत्तेपि कारणज्ञानेन तत्रो पायान्तरसाध्यत्वमुपन्यत्यन् स्वेष्टमनुकूलयितुं मुदामा श्रीकृष्णं विज्ञापयति । हे कृष्णा ! एवं चेत्-मानाद्याज्ञया पुत्रप्राप्तये तपोनुष्ठानमेव चिकीपितं तर्हि- त्वत्पुत्रलाभार्यमहमेव अनन्यचिनः मन् तप: करिष्यामि । भक्त्या तमाशु- तोपमागु सन्तोष्य पुत्ररत्नस्त्वां मुग्गिनं करिष्ये । ततश्चिन्तां विहाय सुखं मे पुरी प्रयाहि तां च पवित्रा-पादन्यासादिभिरिति शेषः; मे प्राणसमाः प्रियाः प्रज्ञाः कृपया त्वं कृतार्याः कुरु । त्वं प्रजाः पालय यावदर तपः करोमीत्यभि- प्रायः । 'करिष्ये' इत्यात्मनेपदप्रयोगः मुम्पस्य श्रीकृष्णगामित्वेऽपि श्रीकृष्ण- मुग्वदर्शनजन्मसन्तोरस्य मुदागगाभिनया साधुरेव ।

१३२ श्रीकृष्णचन्द्राभ्युदयम् । चिन्तां विहायैव ततः सुखेन प्रयाहि हे कृष्ण ! सखे ! पुरी मे । पवित्रय प्राणसमाः प्रिया मे प्रजाः कृतार्थाः कृपया कुरु त्वम् ५२ श्रीकृष्ण:-पघटितमेव सखे! सकलं विदं वयि महेश्वरभक्तशिरोमणी! असुलभं किमिवान भवादृशां स्मरहरस्मरणैकपरात्मनाम् ॥५३॥ किञ्च-केदारकैलासमपास्य देवः केदारनाथोऽपि तवैकभत्तया । केदारकुण्डेन सहागतस्ते पुरी पवित्रामिति च श्रुतं नः ॥ ५४॥ ततः समर्थस्त्वमसि त्वदुक्तं सर्व विधातुं परमेशभत्तया । तथापि भित्राश्रितशङ्कराणामाज्ञा गुरूणामविलङ्घनीया॥५५॥ अतो नेदानी त्वदीयां पुरमागन्तुं शक्नोमि । सुदामा-५'अयि श्रीकृष्णचन्द्र ! तपरत्वमेवं यदि पूर्णभत्तया कुरुष्व चावां तव किङ्करौ स्वः । आज्ञापयाऽऽहर्तुमुभौ फलानि दलानि मूलानि जलानि चापि ५६ एतावताऽपि कृतार्थों भविष्यावः । श्रीकृष्णः-६°सखे ! मा खेदं कापीः । प्रयाणदिवस एव मयाऽनन्यस- (५८) सुदामोक्तमभिष्टुवन् स्वप्रति निवेदयति श्रीकृष्ण:-'घटित । मित्यादिना । हे सखे! महेश्वरभक्तशिरोमणी त्वयि इदं सकलं (मदर्थे तपो विधाय मदिष्टसाधनादिक) घटितमेव, युज्यत एव, (नात्र किञ्चिद्दुष्करं ते) यतः स्मर- हरस्मरणकपरात्मनां भवादृशां किमिवात्र असुलभं ? नकिमप्यसुलममित्यर्थः । किञ्च---केदारकैलासाकेदारनाथोऽपि केदारकुण्डेन सह तव भक्त्या ते पुरीमा- गत इत्यपि श्रुतमस्ति ततस्त्वं त्वदुक्तं सर्व परमेशभक्त्या विधातुं समर्थीसि (न का यत्र शङ्का ) तथापि हे मित्र ! आश्रितशङ्कराणां गुरूणामाशा अविलद्द- नीयेत्यतो नेदानीं त्वत्पुरीमागन्तुं शक्नोमीति । (५९) अनायासोपनत-श्रीकृष्णाराधनलाभलुब्धः सुदामा विकल्पद्वये परास्तः प्रकारान्तरमुपाकरोति । अयि श्रीकृष्णचन्द्र ! एवंचेत्-गुरुणामाशा यथावत्पाटनीयैव-तर्हि त्वमेव पूर्णमक्त्या तपः कुरुष्य, आवाञ्च तव किङ्करी स्व:- भवावः । उभाव यावा फलानि दलानि मूलानि जलानि चकारात्पुष्पादीन्यपि समाहर्तुमाज्ञापय । एतावतापि कृतार्थी भविष्याव इति अप्रत्याख्ययेयमर्थ- नेतिभावः। (६०) अवशिष्ट प्रतिज्ञांशमाश्रावयति श्रीकृष्ण:--सखे ! माखेर्द कार्थीः (अभ्यर्थनापत्याख्यानेन बिनो मारित्यर्थः) यत: प्रयाणदिवस एव चतुर्योऽङ्कः। हायेन तपः कर्त्तव्यमिति प्रतिज्ञातं ततो न तावन्मानमपि साहाय्यं कारयितुं शक्नोमि । परं तपःफलप्राप्त्यनन्तरं युवयो मनःसन्तोपाय त्वदीयनगरे निवासं करिष्यामि । इदानी विह स्थित एव श्रीविल्ववनमार्ग प्रदर्श्य स्वनगरी गत्वा स्वप्र- जायाः पालनपोपणलालनानि कुरुष्व, सैत्र मे परमा सेवा । सुदामा--(साञ्जलिबन्धम् ) गव्यूत्यन्ते वटतरुरितः पूर्वदिश्यस्ति रम्यो गव्यूत्यर्द्ध धनपतिदिशं याहि तस्मात् प्रदेशात् ।। तत्रैवास्ते नयनसुखदं मानसाहादवर्षि श्रीमद् भैरवं वनमतिघनं सिद्धिदं साधकानाम् ॥५७ ।। श्रीकृष्णः-सखे ! तथैव गमिष्यामि (इत्युक्त्वोत्तिष्ठति ) सुदामा-(सह पन्या प्रणमति) श्रीकृष्णः-E२श्रीकेदारेशकरुणा-दृष्टिकृष्टयानुवासरम् ।। अमन्दानन्दसन्दोही भूयास्तं दम्पती युवाम् ।। ५८ ॥ मयाऽनन्यसहायेन तपः कर्तव्यमिति प्रतिज्ञातमतस्तायन्मात्रमपि साहाय्यं कारयितुं न शक्नोमि । परं तप:सिद्धिलाभानन्तरं युवयोर्मनस्तोपाय तव पुर्या निवास फरियामीत्याश्वास्य-अधुना तु बिल्ववनमार्गमिहस्थित एव (न तु सद्दागत्य) प्रदर्य स्यनगरी गत्या प्रजापालनादि कुरु, सैव मे परमा सेवा । " यत्करोषि बदमासी ग्त्यादि गीतोकमत्र संवदितव्यम् । (६१) इदानीं मुदामा मिल्ययनमार्गमादर्शयति । इतः पूर्वदिशि गव्यूत्यन्ते-प्रोगयुगलान्ते घटतकरतिरम्योऽस्ति, तस्मात्मदेशात् पुनर्गव्यूत्यर्द्ध धनपतिदिशं प्रयाहि-मोशैकमात्रमुत्तरतो व्रज-तत्रैव नयनमुखदं, मानसा- हादयपि, साधकानां सिद्धिदं, श्रीमद्, अतिघनं, बैलं, वनमस्ति. (यत्र तप- श्वरणं करिष्यसि)। (६२)तयेर करिष्यामीत्युक्त्या प्रतिष्ठासौ श्रीकृष्ण सुदामपत्नी सुदामा च प्रामवस्तदा श्रीकृष्णः श्रीकेदारेशकरुणाष्टिया युवा दम्पती नित्यममन्दान- न्दसन्दोही भूयास्तमिति यावदाशिर्ष ददाति वावदेव तौ दम्पती,साञ्जलिवन्धम् -- 'सधस्सोयान्महेश्वरासयतमाफ प्राप दयानिधे ! सद्यः स्वदर्शनानन्द प्रदो • भव' इति गुमाशंसां ध्याहृत्य निष्क्रान्ती । अत्र त्रिपातो.पे सद्य:शब्दो रचना- विशेषेण सहृदयहृदयानि चमकुन्न पौनरुक्त्यमावहतीति विदान्तु मुधिरः। १२ श्रीकृष्णचन्द्राभ्युदयम् । दंमती--(साञ्जलिबन्धनम् ) सद्यस्तपःफलं प्राप्य सद्यस्तोपान् महेश्वरात् सद्यः स्वदर्शनानन्दप्रदो भव दयानिधे ! ॥ ५९॥ (इत्युक्त्वा प्रणम्य निष्क्रान्तो) श्रीकृष्ण:- :-ातः परमं मित्रं मे सुदामा ? E3मातापित्रोविरहजनितं सोडमेवातिदुःखं सत्पत्नीनां सकलसुहृदां सद्गुरूणां तथैव ।। सन्मित्रस्य प्रणयजलधेः श्रीसुदाम्नो वियोगः सोढुं शक्यो भवति नहि मे किं करोमि क यामि ॥६०॥ (इति चिन्ताकुलस्तिष्ठति) श्रीरुक्मिणी-राधे राधे पश्य प्राणनाथो नः स्वमित्रविरहव्यथाः कथा- पथातीता अनुभवति । श्रीराधा-देवि ! सतीर्थ्यतासम्बन्धबद्धो मैत्रीभाव: कोऽप्यन्यादृश एव भवति भव्यानाम् । गुरुकुले वसतां कृतिशालिनां भवति देवि किमप्यचलाचलम् ।। परमजय॑मनन्यसमक्रमं ब्रजति यन्जरसापि न जीर्णताम् ।।६१।। इति यदस्माभिः श्रुतं तदेवाऽस्मत्प्राणनाथेऽनुभूयते । (६३) इदानीं श्रीकृष्णो मित्रवियोगेन रणरणकाकुलो भवति । 'गतः परमं मे मित्रं मुदामा। इत्युक्त्वा खिन्न इव प्रगदति--मातापित्रोविरह जनितमतिदु:खं सोढमेव तथैव सत्पत्नीनां सकलमुहृदां सद्गुरूणां च वियोगः सोढ इति शेषः। परन्तु प्रणयजलधेः सन्मित्रस्य श्रीमुदाम्रो वियोग; सोहम शक्य एष भवति मे-अतः किङ्करोमि क यामि । इति चिन्ताकुलस्तिष्ठति । (६४) अत्रावसरे श्रीरुक्मिणी-राधे ! पश्य नः प्राणनाथ: कथा पथातीता:-क्रययितुमशक्या:-स्वमित्रविरहव्यथा अनुभवति–इत्याह, तदा राधा, रुक्मिणी मैत्रीमात्रमुपवर्ण्य श्रावयति । देवि ! सतीर्य्यतासम्बन्धबद्धो मैत्री भावः समान तीर्थ गुरुपासनं येषां ते सतीbः-तथा च केवलमैत्रीभावाट् विलक्षणोयं सहाध्यायितापरिपोपितो मैत्रीभावः सोऽपि पुनर्भव्यानां कोऽय. बाहश एव भवति । तमेव स्पष्टयति-हे देवि ! गुरुकुले (सह) वसतां कृति शालिना ( जनानां ) किमपि वर्णनातिगं, अचला-भूमिस्तद्वदचलं, परमुत्कृष्ट- मन-सगर्व भवति, यत्ररसापि न जीर्णतां ब्रजति, यतस्तदनन्यसमक्रम, तदीयः , चतुर्थोऽङ्कः। १३५ श्रीकृष्णः-५किमपि मा स्मर मा स्मर मे मनः ! क नु तवोत्सुकतेप्सितसिद्धिदा ॥ हृदय मे धर धैर्यमधैर्यनुन् । स्मर सदा स्मर शम्भुमुमापतिम् ॥ ६२ ॥ अथवा किमिवात्रोद्वेगकारणम्- मंत्री च मित्रं च सुहृत् प्रियश्च माता च तातश्च गुरुर्मतिश्च ।। गतिः पतिश्चेष्टद इष्टदेवः सर्व सदा साम्बसदाशिवो मे ॥ ६३.।। राधा -देवि! पश्य प्राणनाथेन नः श्रीपार्वतीप्राणनाथे सर्वस्वबुद्धिं निवध्य समुन्मूलिता सन्मित्रसङ्गजन्या समुत्सुकता । रुक्मिणी-देवि राधे ! योगीश्वरः खल्वयं, किन्नामाऽसाध्यं तस्य । श्रीकृष्णः-(सोत्साहं समुत्थाय ) इडानी गुरूपदिष्टं विल्लवनमेव गच्छामि । (इति वदन् नि'कान्तः ) (ततः प्रविशति मुदामा तत्पत्नी सुशीला च) श्रीसुदामा-(साश्रुपातं सोत्कण्ठञ्च ) क्रमो वृद्धिस्थैर्यादिलक्षणोऽन्येन केनापि पदार्थेन समो न भवति-अतर्यस्वरूप- मेव तद् इति यदस्माभिः श्रुतं तदेवाऽस्मत्प्राणनाथेऽनुभूयते । तादृशाजर्यस्य श्रीकृष्ण एवोदाहरणमिति भावः । अजय सङ्गतम् । पा० ३।२।१०५। 'मृगे- रजर्य जरसोपदिष्ट । मित्यत्रेव सङ्गतमध्याहार्यम् । (६५) श्रीकृष्णो मित्रवियोगवैकृष्यमपमाष्टिं । हे मे मनः ! किमपि मित्रादिकं मा स्मर-(सर्व विस्मरेत्यर्थः) ईप्सितसिद्धिदा सा तव उत्सुकता क नु ( गतेतिशेषः ) हे मे हृदय ! अधैर्यनुद्-धैर्य धर । किञ्च सदा उमापति शम्भुं स्मर, (विशेषविचारान्ते पुनः) अथवा ममात्र किमिवोद्वेगकारणम् ? न किम- पीति भावः, यतो-मन्त्री, मित्रं, प्रियः सुहृद्, माता, तातो, गुरुः, मतिः- विचारस्थानं, गतिः शरणं, पतिः-पालकः स्वामी, इष्टदः इष्टदेवश्चैतत्मर्व मम सदा साम्बसदाशियोऽस्त्येवेत्यर्थः । (६६) यदा राधया 'देवि पश्य नः प्राणनाथेन श्रीपार्वतीप्राणनाये सर्वस्वबुद्धि निवध्य सन्मित्रसङ्गजन्या समुत्सुकतोन्मूलिता-' इत्युक्तं तदा श्रीक- प्रात्य योगीश्वरत्वं निगद्य 'किन्नामासाध्यं तस्य । ति कथयन्ती रुक्मिणी कृष्ण- श्यामद्गत्वमप्याह । (६७) बिल्यवनं गन्तुं कृतमतिः सोत्साई समुत्याय निष्क्रान्तः श्रीकृष्णः।

श्रीकृष्णचन्द्राभ्युदयम् । “यो वाल्ये गुरुमन्दिरंपु निवसन् यध्वा गतः प्रेम यद्-. दीने स्वीयतया तया मयि महाराजाधिराजोऽपि सन् ।। तत्तादृक्परिपालयत्यनुदिनं प्रेमामृताम्भोनिधिः सोऽयं मेऽस्तु दयालयः प्रतिजनुः श्रीकृष्णचन्द्रः सखा ।। ६४ ॥ रुक्मिणी-जाम्बवति ! पश्य पश्यास्माकमिवेदानीं श्रीकृष्णचन्द्रपरम- मित्रस्य सुदानोपि दशा दृश्यते । जाम्बवती- देवि ! सत्यं, सकलजगदाहादिनः श्रीकृष्णचन्द्रस्य वियोगः कस्य न दुःखदो भवति ? सुदामा-७°कमलकोमललोलविलोचनः स्मितमुखः प्रणयामृतसागरः ।। नयनयुग्मपथातिथितां कदा पुनरुपैयति मे परमः सखा ॥६५॥ सुशीला-नाथ ! श्रीयदुनाथः श्रीबिल्ववनं प्रति प्रस्थितस्तदतः परं किं कर्तव्यमत्रैव स्थित्वा? । (६८) इष्टजनयियोगजन्यं दुःखमतितरामसह्यमेव भवतीति सुदामापि कृष्णवियोगे साश्रुपातमुत्कण्ठाकुलं च स्वगतं गदति । स य: श्रीकृष्णो बाल्ये गुरुमन्दिरेषु निवसन् दीने मयि तया ( अलौकिक्या) स्वीयतया यत् प्रेम बढ़ा गतः स पुनर्महाराजो भवन्नपि तत्ताहगेव प्रेम अनुदिनं पालयति सोऽयं दयात्रा आलयः प्रेमामृताम्भोनिधिः श्रीकृष्णचन्द्रः प्रतिजनुः-जन्मनिजन्मनि–में सखा अस्तु । एतेन सुदामः सख्यभक्तिप्रियत्वं स्फुटमवगम्यते । (६९) रुक्मिण्या-श्रीकृष्णचन्द्रपरममित्रस्य सुदाप्नोपि अस्माकमिवे- दानी दशा दृश्यते इति वियोगदशासाम्ये कथिते जाम्बवती-वियोगे दुःखप्र- योजकपतित्वापेक्षया मित्रत्वं न कयापि मात्रया न्यूनतामावति, तत्रापि सकल जगदाहादिनः श्रीकृष्णचन्द्रस्य वियोगः कस्य न दुःखदोऽपि तु सर्वस्येति चचोवैचित्र्येण तदुक्तं समर्थयति । (७०) सुदामा स्वीयामुत्कलिकामाभणति-कमलकोमललोलवि- लोचनः स्मितयुक्तमुखः प्रणयामृतसागरः स मे परमः , सखा (श्रीकृष्णः) पुनः कदा नयनयुग्मपथातिथिताम् उपैश्यति ? कदा पुनस्तं द्रक्ष्यामीत्यर्थः । पर्यायोक्तमलङ्कारः। प्रथमचरणे कमल कोमल इति वृत्त्यनुप्रासः । लकाराय- न्तस्यप्रायरचनया 'ललितं मालतीमाला लोलालिकलिला यथे। त्यादाविक सुकुमारता नामको गुणः । वेदी रीतिः।

चतुर्थोऽङ्कः । . --- सुदामा-"प्रिये ! मुशीले ! पद्भ्यां चलत्यमलपङ्कनकोमलांभ्यां श्रीकृष्णचन्द्र इह मे परमेश्वरोऽपि ।। प्राणप्रिये वद कथं गजराजमेन- मारा यामि नगरी निजराजधानीम् ।। ६६ ।। तत्त्वं गजेन्द्रमधिरुह्य पुरी प्रयाहि प्रेम्णा प्रजापि निखिला परिपालनीया । पोप्या त्वया प्रतिदिनं परिलालनीया यावन्मदागममियं हि ममैव सेवा ।। ६७ ॥ सुशीला-प्राणनाथेन पुनः किं कर्त्तव्यम् ? सुदामा-यावच्छ्रीकृष्णचन्द्रः श्रीमहेशपरितुष्टये ॥ करिष्यति तपस्तावत् तपस्तपस्याम्यहं प्रिये ॥६॥ धीरुक्मिणी-धन्योसि सुदामन ! धन्योसि, श्रीकृष्णचन्द्रपरम- मित्रस्य ते साम्प्रतमिदमेव साम्प्रतम् ॥ (७१) यदुनायो बिल्ववनं प्रति प्रस्थित इदानीमनस्थित्वा किं कर्तव्यमिति प्रियया पर्यनुयुक्तः मुदामा तत्कालमेव मनस्युद्भूतमात्मसङ्कल्प तस्यै निवेदयति-प्रिये ! इत्यादि । मे परमेश्वरोपि श्रीकृष्ण इह अमलपङ्कनकोम- लाभ्यां पद्भ्यां चलति (तर्हि ) एनं गजराजमारुह्य निजराजधानी कथं यामि ? तत्त्वमेय वद-मदीयं चेतोभारमपाकुरु, हे प्राणप्रिये ! श्रीकृष्णे पदाती मम गजारोहणमसुखाकरमेय । तत्तस्मात्कारणात् त्वं गजेन्द्रमधिरुह्य पुरी प्रयाहि, प्रेम्णा निखिलाऽपि प्रजा त्वया परिपालनीया पोध्या प्रतिदिनं मदागमनपर्यन्तं परिलालनीया च; इतीयं मे सेवा । मत्सेवाबुद्धया प्रजापालन विधेयमित्याज्ञार्थः । (७२) मुशीलया--'प्राणनाथेन (भवता) किं कर्त्तव्यं (सङ्क- ल्पितं)? इति पुनः पृष्टः सुदामा स्वमनीपितमर्यमाविष्फरोति यावत् श्रीमहे- चापरितुष्टये-श्रीमहेश्वरपरितुष्टि पर्यन्तं-श्रीकृष्णचन्द्रस्तपः करिष्यति तावदहमपि हे प्रिये ! तपस्तप्स्यामि-इतीयं मे माधीयसी सन्धेतिभावः । 'किं नाम वतं तप । इत्यादाविवात्रापि तपधातोरनुष्ठानार्थमात्रत्वे पर्यवसानं बोध्यम् । (७३) सुदामसङ्कल्पश्रवणेन मुप्रीता रुक्मिणी-धन्योसि मुदामन् ! श्रीकृष्णचन्द्रपरममित्रस्य ते साम्प्रतम्-(अत्रावसरे)-इदमेव-(तपश्चरणप्रति- ज्ञानमेव)-साम्प्रतम्-युक्तमित्यर्थः ।

१३८ श्रीकृष्णचन्द्राभ्युदयम् । सुशीला-कुत्र गत्वा तपः कर्त्तव्यं प्राणनाथेन ? सुदामा-"कृपयाऽस्मत्पुरं प्राप्त केदारेशं दयामयम् ।। अमिपिञ्चन् शिवमन्त्रस्तपः कास्मि दुष्करम् ।। ६९ ।। सुशीला-(सानन्दम्) ७*उत्तमः प्रिय ! विचार एप ते मित्रधर्ममनुतिष्ठतः परम् ।। सिद्धिरस्तु युवयोः पवित्रयोर्मित्रयोः शिवदयादृशा द्रुतम् ।।७०॥ स्वत्पदाम्बुरुहयुग्मकिङ्करी नाथ ! ते सहचरी भवाम्यहम् ।। राज्यपालनभरस्ततोग्रतां मन्त्रिणे मतिमतां वराय ते ॥ ७१ ।। (इत्युक्त्वा प्रणमति ) जाम्यवती-मुशीले ! धन्यासि, श्रीसुदाम्रो धर्मपत्न्या उचित- मेवैतत् । सुदामा-प्रिये ! ७७श्रीकेदारेश्वरमन्दिरमुपेत्य यथात्वदीयेच्छ करि- प्यामि। कोस्ति भोः? सेनानी:-(प्रविशन्नेव प्रणम्य ) एपोस्मि महाराजकिकरो भद्रसेनः । को निदेशो देवस्य ? (७४) 'किं मम प्राणनाथः सुदामापि श्रीकृष्णचन्द्रसमीपं गत्वा तपश्चिकीर्घत्यन्पन्न वे ति संशयाकुला सुशीला 'कुत्र गत्वा तपः कर्तव्यं प्राणना- थेन ?' इति पृच्छति-तदा मुदामा-'कृपया अस्मत्पुरं प्राप्तं दयामयं केदारेशं अभिषिञ्चन् दुष्करं तपःकर्तास्मि । इति स्वसङ्कल्समुद्घाट्य तत्संशयमपाकृतवान्। (७५) एतद् बुध्या मुप्रसन्ना सुशीला सानन्दं स्वसङ्कल्पमपि पत्यु रने प्रणिगदति-हे प्रिय ! परमुत्कृष्टं मित्रधर्ममनुतिष्ठतस्ते एप उत्तमो विचारः । युवयोः पवित्रयोमित्रयोः शिवदयादृशा द्रुतं सिद्धिरस्तु. हे नाथ! त्वत्पदा- म्बुरुह्युग्मकिङ्करी अहं ते सहचरी भवामि । ततो राज्यपालनभरो मतिमतां वराय ते मन्त्रिणेऽर्यतामित्यभ्यर्थ्य प्रणमति । (७६) सुदामपत्नीभावस्येदमनुरूपमेवाचरणमिति विभाव्य जाम्ब- वती मुशीलां धन्यां मन्यमाना प्रहृष्यति । (७७) सुदामा ' श्रीकेदारेश्वरमन्दिरमुपेत्य त्वदिच्छानुकूलं करिया. मीति। सुशीलामनुमान्य, कोऽस्ति भोः!' इत्याह्वयति तावत्सेनानीरागत्य निदेशमर्ययते, तं 'भद्रसेन ! सेनया सह त्वं राजधानी गच्छ; महामन्त्री च বুখ। सुदामा-भद्रसेन ! सेनया सह त्वं राजधानी गच्छ, महामन्त्री च. श्रीकेदारनाथमन्दिरे मत्समीपं प्रेषणीयस्त्वया । भद्रसेनः-यथाज्ञा देवस्य (इत्युक्त्वा निष्क्रान्तः) सुदामा-प्रिये गत: सेनानीस्तदेहि श्रीकृष्णचन्द्रस्य निर्विघ्नतपःसिद्धि- हेतवे श्रीकेदारेश्वरमुपास्महे । दर्शय मे श्रीकेदारेश्वरमन्दिर- मार्गम् । सुशीला-प्राणनाथ ! इत इतो देवः (इति वदन्ती सह सुदाम्ना निष्क्रान्ता) (ततः प्रविशति यद्धपद्मासनः परमशिवपूजानिममचेताः श्रीकृष्णः) रुक्मिणी-७८( निपुणं निर्वर्ण्य) अयि श्रीराधे ! अयमिह वढमूले पश्य चिन्तामणीनां ग्चयति सखि माला बिल्ववृक्षावृतेऽस्मिन् ।। विरचयति च पूजां पार्थिवानां पतिर्नः कलफलदलपुप्पैधूपदीपैश्च गन्धैः ।। ७१ ।। श्रीराधा-७९सत्यं देवि! सत्यम्। निमील्य स्वं नेत्राम्बुरुहयुगलं मन्मथहरं हरं ध्यानारूढं स्वहदि कुरुते नः प्रियपतिः ।। परं प्रेमासीमं जयति जगदीशेऽखिलगुरौ- महेशे श्रीगम्भौ प्रणयजलधेनः प्रियपतेः ।। ७२ ॥ श्रीकेदारनायमन्दिरे मत्समीपं प्रेषणीयः' इत्याज्ञप्य, गते च तस्मिन्सेनान्या, 'प्रिये ! गतः सेनानीलदेहि श्रीकृष्णचन्द्रस्य निर्विघ्नतपःसिद्धिहेतवे श्रीकेदारे- श्वरमुपास्महे, दर्शय में केदारेश्वरमन्दिरमार्गमिति बदन् मुशीलया च 'प्राण- नाथ ! इत इतो देवः । इत्येवं प्रदर्शितमागों धर्मपल्ल्या तया सह निष्क्रान्तः । (७८) बिल्वकानने बटमूले पद्मासनेनोपविष्टः परमशिवाराधनेक निष्ठः श्रीकृष्णचन्द्रः पुरोदेशे दृश्यते तमवलोक्य रुक्मिणी राधां प्रति वक्ति । अयि राधे !-अयं नः पनिरिह बटमूले (स्थित्वेत्ति शेषः) विल्यवृक्षावृतेऽस्मिन् प्रदेशे चिन्तामणीनां माला रचयति, नेपां च पार्थिवानां लिङ्गानां मनोरमैः फ्लैलें: पुष्पधूपदीपेर्गन्धेश्व पूना विरचयति तत् पश्य (समग्रवाक्यार्थस्य कर्मत्वम् ) ! (७९) राधा विलोक्य श्रीकृष्णावधानं वर्णयति, सत्यमित्यादिना । नः नियतिः स्वं नेत्राथुरुयुगलं निमील्य मन्मयहरं दरं स्वहृदि ध्यानारूढ़ श्रीकृष्णचन्द्राभ्युदयम् । उभे-(निपुणं निर्वर्ण्य श्रीपार्वती प्रति) मातः कोऽयमिन्द्रनीलमणिमय इव गण्डौलोऽस्माकं प्राणनाथस्य पर्णकुटीसमीपे दृश्यते ? श्रीपार्वती- प्रत्येकपत्रं शिवमन्त्रमुद्विरन् समर्पयत्येप महेश्वराय ॥ श्रीविल्वपत्राणि तुलझसङ्ख्या- न्यम्भोरुहाणां च सहस्रमेकम् ।। ७३ ।। निर्माल्यभूतामसपनपुनः श्रीशैलगण्डप्रतिमो विभाति अम्भोरुहाणां निचयस्तथाऽयं विभाति तत्पार्श्व इवाद्रिशृङ्गम् ॥ ७४ ।। रक्मिणी-~-अयम्- "अहो भीमे ग्रीष्मे तपति तपने तीवकिरणे चतुर्णामनीनामतुलतरकीलाविलसताम् ।। स्वयं मध्ये स्थित्वा रचयति सपो दुष्करतरं प्रियः प्राणेशो नः परमशिवसन्तुष्टय इह ॥ ७५ ॥ श्रीराधा-एवं देवि! एवम. कुरुते । एतेन, नः प्रियपते: प्रणयजलधेः जगदीशेऽखिलगुरी महेशे श्रीशम्भी परमसीम प्रेम जयति धनते (शायत इति शेषः) (८०) रुक्मिणीराधाभ्यो यदा-अस्माकं प्राणनाथस्य पर्णकुटी- समीपे कोऽयमिन्द्रनीलमणिमय र गण्डशेलो दृश्यते । इति पृष्टं तदा श्रीग- र्वती, एए (श्रीकृष्ण:) प्रत्येकपत्रं शिवमन्त्रमुनिरन्-लश्वसंख्यानि बिल्वप- प्राणि महेश्वराय समर्पयति, तु-पुनरम्मोपहाणा-पद्मानायकं सहसं (तदपि प्रत्येक शिवमन्त्रमुद्रिरन्नेय समर्पयतीति शेषः) तन्निर्माल्यभूतबिल्वपत्राणां पुञोऽयं श्रीशलगण्हसदृशो विभाति, तथाऽयच्च अम्भोरुहाणां निचयस्तापा अद्भिगृहमिय विभातीत्यन्वेन लोकयुग्मेनोत्तरयति । (८१) श्रीकृष्णस तप:प्रकारविरमेव रुक्मिणी पश्यन्ती वर्णयति-- अयमिति--पुरोदृश्यमानं कृष्णं निद्दिश्य-अहो इत्याभयंवद् भूते । भयङ्करे प्रीमतो, तीद्रकिरणे सपने तपति सत्यपि, अनुलतरकोलाभिज्यांगाभिपिल- सतां चतुर्णाममीना मध्ये स्वयं स्थित्या न: प्रियः प्राणेशः परमशिवसन्तुष्टये र दुपारवर को रचयति । (यहेर्डयोलमोला इत्यमरः)।

चतुर्थोऽङ्कः। पश्य पश्य जलदागमेप्ययं वर्षतीह जलदे जलान्यहो ।। इन्द्रनीलमणिशैलनिश्चलः श्रीशिवं भजति भक्तिभावत:७६ श्रीरुक्मिणी-अये मातर्मातः ! परमशिवसंलग्रहृदये ! शरत्प्राप्तौ सर्वा दिशि दिशि लताः सत्फलनताः ।। समन्ताद् दृश्यन्ते, किमिति फलिताऽद्यापि नहि नः प्रियस्यैवं रम्या परमशिवभत्तयेकलतिका ।। ७७ ।। श्रीपार्वती-वत्से ! सद्य एव फलिष्यति, मा चिन्तां कुरु । सर्वाः-(निपुर्ण निर्ण) विस्वीदलानि सकलानि समर्प्य भत्या किश्चिच्छ्रमात इव मीलितनेत्रपद्मः ॥ पद्मासनस्थ इह पश्यति पद्मनेत्रः पद्मापतिर्यदुपतिः शिवमेव चित्ते ॥ ७८ ॥ (८२) एवं यावद् प्रीष्मकालिकी तपोवस्थां विलोकयन्तिस्म तावदेव वी कालिकी तपोवस्या पर्यायोपस्थितां विलोक्य राधाऽऽह-पश्य पश्यति कुतु. कार्या विस्मयार्या वा वीप्सा; तत्कर्मभूतोवाक्यार्थः । अयं (श्रीकृष्णः) अहो जलदागमे जलद जलानि वर्षति सति इह इन्द्रनीलमणिशैल इव निश्चलतया विभाव्यमान: श्रीशिवं भक्तिभावतो भजति; एतेन तपोऽङ्गं तितिक्षातिरेक उक्तः । (८३) श्रीरुक्मिणी-शारदावस्थावर्णनव्याजेनोत्कण्ठां व्यक्ति अये मातः !। परमशिवसंलमहृदये है मात: ! शरत्यासी दिशि दिशि लता: सत्फ- लनताः समन्ताद् दृश्यन्ते, एवं नः प्रियस्य रम्या परमशिवमक्त्येकलतिका कि- मिति नाद्यापि फलिता!! (८४) श्रीपार्वती धैर्यमादधाति-वत्से सद्य एव फलिष्यति (तय प्रियस्य शिवमक्तिलताऽपि) मा चिन्तां कुरु' इत्याश्वासनावाक्यम् । (८५) सर्वाः श्रीकृष्णस्य ध्यानावस्यां विलोकयन्त्यो वर्णयन्ति । सक. लानि (सङ्कलितानि सक्षसंस्थानि) दिल्लीदलानि भक्का समर्थ फिश्चिच्छ्र- मार्त्त इव मीलित नेत्रपद्मः पद्मासनस्थ: पद्मनेत्रः पद्मापतिदुपतिरिह शिवमेव चित्ते पश्यति-ध्यायति-इत्येवं मन्यमाना यावदाशंसन्ते तावदन्यद् वृत्तान्त विलोक्य तदपि वर्णयन्ति-'हन्त इत: केसरी समागच्छति, इतश्च उन्मदः करीन्द्र आगच्छति, इतः पुना रोपोल्वणः उत्फणः फणी (आगच्छतीति शेष:) भयङ्करा (अमी) रात्रिचरा-राक्षसा:-प्रभु प्रति आगच्छन्तीत्यर्थः। भय- १४२ श्रीकृष्णचन्द्राभ्युदयम् । इतः समागच्छति हन्त केसरी करीन्द्र आगच्छति चेत उन्मदः । इतश्च रोपोल्वण उत्फणः फणी प्रति प्रभुं रात्रिचरा भयङ्कराः ।। ७९ ॥ सर्वाः-हा !! किमतः परं भविष्यति ? जय जय जय मातः पाहि पाहि प्रभुं नः शिव शिव शिव शम्भो ! पाहि नः प्राणनाथम् ।। हर हर हर हा हा !! ध्यानमग्नं पति नः स्मरहर हर भक्तस्ते त्वया रक्षणीयः ॥ ८०॥ (इत्युक्त्वा मूर्छया पतन्ति ) श्रीपार्वती-वत्साः ! मा चिन्तां कुरुत, व्यतीतविपयदर्शनमेतन् । समाश्वसित समाश्वसित । सर्वाः-(संज्ञामुपलभ्य परितः पश्यन्ति ) अहो गजमुखः स्वयं प्रणयतः समाराध्यते तपश्चरणसिद्धये भगवताऽनुवेलं तु यः ।। स एव भगवान् स्वयं प्रतिदिशं प्रभु रक्षति प्रचण्डपरशुस्ततः सकलमेव लीनं भयम् ।। ८१ ।। विक्लवाः सर्वाः सहवाहुः-'हा ! किमतः परं भविष्यति ? श्रीपार्वती प्रति- जयेति शिवेति हरेति च त्रिनिरावृत्तिः संभ्रमातिशयं बोधयति-हे मातः ! नो- ऽस्माकं प्रभु श्रीकृष्णं पाहि, हे शिव शम्भो ! नः प्राणनाथं पाहि, हे हर ! ध्यानममं नः पति पाहि, हे स्मरहर ! ते भक्तस्त्वया रक्षणीयः एवं जल्पन्त्यो मूर्छया पतन्ति । (८६) श्रीपार्वत्या-' वत्सा: ! समाश्वसित, व्यतीतविषयदर्शनमेत' दिति प्रतिबोधिताः सर्वाः संज्ञामुपलभ्य परितो बलोक्य वदन्ति अहो भगयता तपश्चरणस्य (निर्विन) सिद्धये अनुलं यो गजमुखो-गणपतिः-प्रणयतः समा- राध्यते, स एव भगवान् प्रचण्टपरशुः सन् प्रतिदिशं प्रभु रवति, ततः सालमेव भयं लीनम् । तदेव विवृण्वन्ति–स भयहरः करी व गतः, स च महान् केसरी क गतः, स रुषोत्फणः फणी च क गतः, क च ते रात्रिचरा: (गता इति शेषः) न विद्महे । अन्यच-भगवान् शपुरोगपतिः स्वयमपि कृतकार्यः पुनः स्वकी. यमूनों विशति । इतस्तु दह केवलं एक एव मुवर्णवर्णो बालमराल एए: 'प्रथि. .

चतुर्थोऽङ्कः। १४३ यतः क गतः स भयङ्करः करी कं गतो वा स च केसरी महान ।। क गतः सरूपोत्फणः फणी क च ते रात्रिचरा न विद्महे ।।८।। स्वयमपि भगवान् स्वकीयमूर्ती विशति पुनः कृतकार्य ईशपुत्रः।। इत इह तु सुवर्णवर्ण एपः प्रविशति वालमग़ल एक एव ॥८३।। शनैः शनैरेत्य स कृष्णचन्द्र-प्रभोः समीपं मृदुमजुचारी ।। आकृष्य चञ्च्या चरणेन नालमम्भोजमेकं हरतिस्म हर्षात् ॥४॥ श्रीकृष्णः-(समाधेः प्रबुध्य पुनः पूजां कुरुते ) सर्या:--(सहर्ष पश्यन्ति) श्रीकृाप्पा:-शशिशेखर ! ते नमो नमो मृड शम्भो भवते नमो नमः।। गिरिजाहृदयेश ते नमः शिव शूलिन् परमेश ते नमः ।। ८५॥ ( इति पठन् प्रतिमन्त्र कमलं श्रीमहेश्वराय समर्पयति ) रुक्मिणी-“प्रियस्वसारो मे ! पश्यत पश्यत, प्राणनाथो नः किमपि प्रणष्टमिव परिपश्यति, दुस्तरविचारवारिधिचारिचित्त इव लक्ष्यते । शृणुम, किमपि खेदाद्वदति । श्रीकृष्णः- तपःप्रारम्भान् मै कचिदपि न विनः समभवन् प्रसादाच् श्रीगम्भोरपि च गणनाथस्य कृपया ।। गाति । सः ( वालमरालः ) शनैः शनैः प्रभोः समीपमेत्य मृदुमन्जुचरणशील: चच्या नालमाकृष्य चरणेन एकमम्भोजं हरतिस्म हर्षात् । हरणानन्तरं हर्षपद प्रयोगेण हर्षस्य हरणनिमित्तत्वं सूचितम् । अत्रान्तरे श्रीकृष्णः समाधेः प्रयुध्य पुनः पूजा प्रवर्तयति, सर्वाश्च सहर्ष पश्यन्ति । (८७) श्रीकृष्णः सम्बुद्धयन्तनाममन्त्रः पद्मसहस्राणपूजां करोति- 'शशिशेखर ! ते नमोनमः, मृद ! शम्भो ! भव ! ते नमोनमः, हे गिरिजाह- दयेश ! ते नमः, शिव ! शूलिन् ! परमेश ! ते नमः' इत्यादिमन्त्रान् पठन् प्रतिमन्त्र कमलं समर्पयति । (८८) श्रीकृष्णो मृगयति किञ्चित्तद्विलोक्य पक्मिणी यदति-प्रियस्थ- मारो मे ! पश्यत प्राणनायो नः किश्चित्प्रगष्टमिव परिपश्यति, दुस्तरपिचार एव वारिधिस्तत्र चारि चित्तं यस्य तादृश इव लक्ष्यते । शृणुम । किमपि खेदाद्वदति । सर्वाः शृण्वन्ति । (८९) मे तपःप्रारम्भादारम्य अद्याववि कचिदपि विमो नामवत् १४४. श्रीकृष्णचन्द्राभ्युदयम्। इदानीमेकं मे कमलममलं हा !! क नु गतं कथं पूजा पूर्णा मम भवतु वा तेन हि विना ॥८६॥ असमाप्य महेशपूजनं न मयोत्थातुमितस्तु शक्यते ॥ असमर्प्य शिवाय पङ्कजं कथमेतत्परिपूर्णतां ब्रजेत् ।। ८७ ॥ कोयं घोरः श्रीशिवाराथनाई हत्तु पद्मं सम्र मे तार्णमाप्तः॥ आ हा ज्ञातं शम्बरो नष्टमायो रोपात्पद्मं हंसरूपोजहार ॥८॥ इत उत्थानेऽनुत्याने वा उभययापि मे तपसि विनं विघातुमेप तस्य प्रयासः । (किञ्चिदुच्चैः) शम्बर! शम्बर ! निष्फलप्रया- सोऽसि । श्रीमहेश्वरप्रसादान् निर्विनैव मे तपासिद्धिः (स्वगतम्) नयनकमलमेतदुज्ज्वलं मे सपदि निधाय महेशपादपो।। परशिवपरिपूजनं तु पूर्ण हृदय विधाय कृतार्थतां भजस्व ॥८९॥ (इत्युक्त्वा स्वं नेत्रमुत्पाट्य शिवोपरि अर्पयति) श्रीशम्भोः प्रसादाद् , गणनाथस्य कृपया च, तदेतद् द्वयं तु इदानीमप्यस्त्येव तथापि एक मे अमलं कमलं क नु गतं (स्यात् ) इति चिन्ताकुलः 'हा इति खेदार्थाव्ययेनोद्वेगं प्रकटयति । हि-निश्चित-तेन (एफेन कमलेन) बिना मम पूजा कथं पूर्णा भवतु; सर्वथा पूर्णा न भयेदित्याशयः । अपिच-महेशपूजनमम- माप्य तु मया इत उत्थातुं न शक्यते; शिवाय पङ्कज अममय च एतत् (पूजन) पूर्णतां कथं व्रजेत् ? इत्युभपयापि गतिरोधो भवति । परिगणितासनसमुदाया- देक पद्मं केनचिदुपात्तं स्यादिति मनस्युपोदा फल्पना निर्गतुं यावत्-दै मम ताण (नृणनिर्मितं) सम, शियाराधनाई पद्मं हर्ग कोऽयं चोर आत:-प्रातः स्यादिति ध्यानशा पश्यति-तावदेव उदाश:-'मा' 'हा' इति निगतदयेन जिशासितोपस्थिति दर्शयन् ‘शतम् । इत्यनेन निश्चयमाविरकरोत् । नष्टमायः शाम्बरो रोपात् पनं सरूपो भूत्वा जहारेत्येतत् समाधिदृष्टोऽर्थः । यदि फमल- मादानुभूमिमामि यदि या विनर कमले पूर्वा समारपालि उभरथापि सपोमा- नासम्मावना | सपोधिन विधानुमंप तस्य (माम्बरस्य) यः । (एपं सधिन्य) 'पप्रयासोऽसि शाम्वरेत्यादि फिविरुधार्य महेश्वरप्रमादान्मे तपःसिद्धि- नियर भविष्यतीति मनोनिश्चय प्रकटयन् (स्वगतम्) हे हदय ! एरादू उम्म्या मे नपनकमल सादि महेश्वरादपमे निधाय परशियपरिपूमन म पूर्ण विपाप क्वार्थता भमरस रवि यदमे स्यनुसाययिस्योपरि पनि ।

चतुर्योऽङ्कः।- रक्मिणी-९०(चकिवेव ) पश्यत पश्यत उद्धृत्य नेत्रकमलं कमलाहुदीशः श्रीशङ्करानिकमलेऽर्पयतिस्म यावत् ।। तावत्तु विल्वदलपुञ्जत आविरासीत् श्रीमान्महेश्वर उमासहितो दयालुः ।। ९० ॥ श्रीशियः-१'अलमलमलमेवं साहसेनाऽमुना ते नयमयनयन श्रीकृष्णचन्द्रास्मि तुष्टः ।। वद वद वद किं तेऽभीप्सितं वत्स ! कुर्या भवतु भवतु नेत्राम्भोरुहं ते सुशोभम् ।। ९१ ॥ त्वमसि किल ममात्माऽभ्यन्तरोऽनन्यभक्त- स्त्वमिव च मम कृष्ण ! त्वं प्रियोसीह लोके ।। कथय कथय कामः कस्तवापेक्षितस्तं निजकरगतमेवाऽवेहि मे सम्प्रसादात् ।। ९२ ॥ (९०) तद् दृष्टा चकितेय रुक्मिणी 'पश्यत पश्यतेग्त्याद्याह- यावत् कमलादीश: श्रीकृष्णः नेत्रकमलमुद्धृत्य श्रीशङ्करचरणकमलेऽपर्व- तिस्म वावदेव बिल्वदलपुञ्जनः सकाशात् उमासहित: दयाल: श्रीमहेश मावि- रासीदिति सम्बन्धः । तदुक्तं शिवपुराणे शानसंहितायां ७१ अध्याये । बिल्वखण्डात् स्वयं देवः सञ्जातोनुग्रहाय यत् । कृष्णार्थितस्ततस्तत्र तस्थी विल्वेश्वराख्यया ॥ कमलानां सहसात्तु न्यूनमेकं यदाभवत् । तद् ज्ञात्या विष्णुना तत्र नेत्रमेकं स्वमुद्धृतम् ॥ तद् दृष्ट्य प्रसन्नोभूच् शङ्करः सर्वदुःखदा । प्रसन्नोस्मि परं ब्रूहि नादेयं विद्यते तव ॥ इत्यादि । (९१) श्रीशिवः प्रादुर्भूय श्रीकृष्णमुत्साहयन्वरेणोपन्छ्न्दयते है नयमयनयन श्रीकृष्णचन्द्र! एवममुना ते साहसेन अलमलम् ; साहसं न कार्य- मित्यर्थः । अलं, यद, मवतु, कथयेत्यादिपदानां द्विधिरुपादानं शिवत्स भकानुग्रहपारवश्य गमयति । हे वत्स ! ते किमभीप्मितं कुर्क तदद । ते नेत्रा- म्भोरहं तदवस्यमेव सुशोभं भवतु । किच-हे कृष्ण ! त्वं किल मम आम्र- न्तर आत्मासि, अनन्यमतोऽसि मत्स्यरूप एवामीति मामनन्यमायन-आत्म- भारेन-भजमीयर्थः । ६६ लोके च त्वमिय वमेव मम प्रिपोसि ( त्वत्समत- श्रीकृष्णचन्द्राभ्युदयम्। श्रीकृष्णा-२( साश्चर्यानन्द साप्ताङ्गपातं दण्डवत् प्रणम्य) जय जय जय शम्भो! चन्द्रमौले ! दयाब्धे ! जय जय जय मातः श्रीशिवे विश्ववन्धे!। मयि निजपदभक्ते दृष्टयो वां दयार्द्राः प्रतिदिनमनुवेलं सन्तु चास्मन्कुलेपि ॥ ९३ ।। भक्तिरेव युवयोरभीप्सिता पादपद्मयुगलेऽनुवासरम् ।। तां समर्पयतमिष्टसिद्धिदां विश्वविश्वपितरौ दयामयौ ॥१४॥ श्रीशङ्करः-3एकैकस्यां दश दश हरे ! पुत्ररत्नानि भावी- न्यस्मद्दत्तान्यनुपमगुणान्युज्वलानीह कीर्त्या। तोऽधिको वाऽन्यो मम प्रियो नास्तीत्यनन्वयः) तत् कथय, 'कस्ते कामो- ऽपेक्षितः तं च कामममिलापं मत्प्रसादानिजकरगतमेव अवेहि सिद्धमेव जानीहीत्यर्थः । (९२) अधिगतशिवसाक्षात्कारः श्रीकृष्णः साश्चर्यानन्दं साष्टाङ्ग दण्ड- वत्प्रणम्य-जयजयेत्यादिना भक्तिमेव वृणोति-हे चन्द्रमौले. दयाब्धे शम्भो ! जय हे विश्ववन्ये मातः श्रीशिवे ! जय जय । निजपदभक्ते मयि अस्मत्कुले च वां-युवयोः-प्रतिदिन-नित्यं-अनुवेल-प्रतिक्षणं च दयाः दृष्टयः सन्तु । युवयोः पार्वतीपरमेश्वरयोः पादपद्मयुगलेऽनुवासरं नित्यं भक्तिरेव-मे अभी- प्सिता अतो हे दयामयो सकलजगन्मातापितरौ ! इष्टसिद्धिदा तामेव भक्ति समर्पयतं, मह्यमितिशेषः । (९३.) इदानीं श्रीशङ्करो भगवते वरानर्पयितुं स्वैरमुपक्रमते ' एकैक स्या मित्यादिना । हे हरे ! एकपत्नीव्रताना-पतिव्रतानां-ते सर्वांसां कुवलय- दृशां (निर्धारणे पृष्ठी) एककस्यां स्त्रियां अस्मद्दत्तानि-मया उमया च सम्भूय दत्तानि-अत एव कीर्त्या उज्ज्वलानि अनुपमगुणानि दश दश पुत्ररत्नानि भा- धीनि-भविष्यन्तीत्यर्थः १. किश हे कृष्ण ! गुणपणवती एकेका पुत्री च. ते, (कलत्रे) भाविनी । एवञ्च लक्षोत्तरसन्ततिको भवेति वरप्रदानेनानुजमाह महेश्वरः श्रीकृष्णचन्द्रम् । यद्यपि महाभारते आनुशासनिके पर्वणि १५ अध्याये। वृणे सुतानां च शतं शतानि । इति शिवाने, उमाग्रे च 'शतं सुताना मिति च कृष्णार्थना, तथापि तत्र शतपदस्य बाहुल्यार्थकत्वेन प्रतिपत्नि दश सुताः शिवदत्ता उमादत्ता चैकैका मुतेति टीकाककृतास्त्येव व्यवस्थेति सर्वमनवद्यम् ।

चतुर्थोऽका १४७ एकैका ते गुणगणवती भाविनी कृष्ण ! पुत्री सर्वासां ते कुवलयदृशामेकपत्नीव्रतानाम् ।। ९५ ।। रुक्मिणी-भातः! परमनुगृहीता वयं देवेन श्रीमहादेवेन श्रीभग- वत्या च । श्रीपार्वती-नेतन् श्रीकृष्णचन्द्रस्य तपोनुरूपं फलम् । श्रीपार्वतीपरमेश्वरी- १५श्रीकृष्णचन्द्र ! श्रीराधां निरावाधां करोम्यहम् ।। मास्तु ते विरहस्तस्याः कदाचिदपि च कचित् ॥ ९६ ॥ यतस्तया समागत्य गोकुलाद् द्वारकापुरीम् ।। तासां ते धर्मपत्नीनां साहाय्यमतुलं कृतम् ॥ ९७ ॥ ताश्चतस्त्रश्च तत्सख्यो वसन्तु तव सन्निधौ । शापाः सर्वेपि सङ्घीणाः प्रसादान्नौ मवन्तु च ।। ९८ ।। किञ्च-अष्टौ वरान् प्रदास्यामि वरान् पोडश तेऽम्बिका-11 तैर्वरैः प्रवर्युक्तो विष्णो विश्वजयी भव ॥ ९९ ।। (९४) रुक्मिण्या-'मातः ! परं. (अत्यर्थ ) अनुगृहीता वयं श्रीमहादेवेन श्रीमगवत्या चेति मनस्तोपे प्रकटीकृते, श्रीपार्वती--'श्रीकृष्ण चन्द्रस्य तपोनुरूपं नैतत् फलं । (नेतावदेव फलं श्रीकृष्णतपस: पर्याप्त मन्तव्यं, किन्तु अतोऽप्यधिक यदर्पयति तच्छृयताम् । अनुग्रहपरायणा हि नानुमायसेवा वैपुल्यमाकाइन्ते न चाकांक्षितमेय दत्त्वा. विरमन्ति किन्तु स्वप्रसादतुलासाम्यं यावदनुग्राह्य वररुपच्छन्दयन्त्येव (पयोमात्रार्थिने उपमन्यवे क्षीरसागरं ददद- यमेव महादेवोऽत्र निदर्शनम् ) (९५) हे श्रीकृष्णचन्द्र ! ते प्रियां राधामप्यहं निराबाधां करोमि (तदीयां बाधामपि निवारयामि) कदाचिदपि कचिदपि च तस्या विरहस्ते माऽस्तु । यतस्त्रया गोकुलाद् द्वारकापुरी समागत्य ते धर्मपत्नीनामतुलं साहाय्यं कृतम् । अपि च ताश्वतखो ललिताप्रभृतयस्तत्सख्यस्तव सन्निघावेव वसन्तु तासां सर्वेऽपि शापा आवयोः प्रसादात् संशीणा मयन्तु । अपिच हे विष्णो ! ते-तुभ्यम्-अटौ वरान् अहं प्रदास्यामि अम्बिका च पोडश वरान् (मदा- स्थति) तैरते: प्रेयरैर्वरैर्युक्तो विश्वजयी भवेति, वरवर्पणं कृत्वा पुनरपि 'मा काचिदपि न्यूनवा परिशिप्पता । मिति मनसि कृत्य 'अम्तीतः परं किमपि । प्रार्थनीय मित्यागाति-.

२४८ श्रीकृष्णचन्द्राभ्युदयम् । अस्तीतः परं किमपि ते प्रार्थनीयम् ? श्रीकृष्ण:-अस्ति मे प्रार्थनीयम् । अस्तिचेदाज्ञा निवेदयामि । श्रीशङ्करः-यथेच्छं निवेद्यताम् । श्रीकृष्णः-श्रीविल्वेश्वर इत्यस्मिन् श्रीविल्ववन उत्तमे ॥ स्थितिं कुरु महादेव ! कृपां कृत्वा ममोपरि ॥ १० ॥ यं प्रणम्य समभ्यर्च्य प्रेम्णाऽन्येपि च मानवाः ।। सिद्धाभिलापा भूयासुः सद्यो वयमिव प्रभो ! ॥१०॥ इत्येपा मे प्रार्थना । श्रीशङ्करः- श्रीकृष्णचन्द्र! तपसा परमेण भत्तया 'तुष्टोऽहमस्म्यतुलया तत एव तुभ्यम् ।। नैवास्त्यदेयमिह किश्चिदतोऽत्र नित्यं स्थास्याम्यहं मुररिपो! भवदुक्तनामा ॥ १०२॥ श्रीरुक्मिणी-सोऽयं शिवः सपदि षोडशहस्तदीर्घे लिङ्गे स्वयं भुवि तिरोहित इन्दुमौलिः ।। श्रीकृष्णचन्द्रवचनैकवशो वशीशो गौर्या सहाऽखिलजगजनताशिवाय ॥ १०३ ।। ९६) 'अस्ति मे प्रार्थनीयमाशा चेन्निवेदयामी श्युक्वा, 'यथेच्छ निवेद्यता मिति शिवेन दत्तानुज्ञ: श्रीकृष्णो वरातिभूमिमिव वृणोति-हे महा- देव ! ममोपरि कृपां कृत्वा अस्मिन् उत्तमे बिल्ववने बिल्वेश्वर इति (प्रसि- दाख्यः) स्थिति कुरु; यं प्रेग्णा सम्यक्प्रकारेण ( भक्तिमन्तः) अभ्यर्च्य हे. प्रभो ! अन्येऽपि मानवाः सद्यः सिद्धाभिलाषाः भूयासुः, इत्येषा मे प्रार्थनेति । (९७) हे श्रीकृष्णचन्द्र ! तव परमेण तपसा अतुलया, च भक्त्या- ऽहं तुष्टोस्मि ततस्तुभ्यमदेयं नाम इह न किञ्चिदस्ति, अतः हे मुररिपो ! भव. दुक्तं-विल्वेश्वर-इत्येतनाम यस्य सोहमत्र-बिल्ववने स्थास्यामि (इत्येवं श्रीकृष्णप्रार्थितो बटुकाचले (बरडा पर्वते) बिल्ववने बिल्वेश्वर इति प्रसि- द्धनामा बिल्वगगातटेऽद्यापि विराजते) (९८) सोयं विश्वेश्वरः शिवः सपदि . पोडशहस्तदी" स्वयम्भूलिने स्वयं वशीशोपि-श्रीकृष्णचन्द्रवचनैकवशः इन्दुमौलिगोर्या सह (पश्यतामेव सर्वेषां) अखिलजगजनसमुदायस्य कल्याणाय तिरोहितोऽन्तहितोऽभूदित्यर्थः।

चतुर्थोऽ. सर्वाः-(साश्चर्यम् ) 'कृष्णः स्वयं सहजयोगरलेन सद्यो रम्यं चकार शिवमन्दिरमत्र भक्त्या ॥ कैलासशैलशिखरोपममिन्दुशुभ्रं नानामणिप्रवरकाञ्चनमण्डिताङ्गम् ।। १०४ ॥ . समय॑ परमेश्वरं सपदि कल्पिते मन्दिरे प्रणम्य च मुहुर्मुहुः प्रणतवत्सलं शङ्करम् ।। तदीयविरहातुरश्चलदमन्दवाप्पाकुलो वनाद् वहिरुपैत्यहो हृदयदैवतं नः प्रभुः ॥ १०५ ।। (श्रीपार्वतीं प्रति ) प्रणतपारिजातमसरि! जगन्मातः कृतः परमोऽनुग्रहोऽस्मासु देव्या श्रीकृष्णचन्द्रस्य तपोवनवृत्तान्तप्रद- र्शनेन परमिदानीं तस्य साक्षादर्शनमुखानुभवभाजनतां कदा भजिप्याम इति भगवत्यैव वक्तव्यम् श्रीपार्वती-१०१अयि श्रीरुक्मिणीप्रमुखाः! श्रीकृष्णचन्द्रधर्मपत्न्यः । श्रीराधाप्रमुखाः श्रीब्रजवल्लव्यश्च ! (९९) ततः श्रीकृष्णेन निजयोगवलनिर्मित काश्चनमण्यादिमी रुचिर शिवमन्दिरं विलोक्य सर्वाः साश्चर्य ध्रुवन्ति-कृष्णः सहजयोगबलेन रम्य फैलासशैलशिखरोपमं चन्द्रगुभ्रं नानामणिप्रवरकाञ्चनमण्डिताङ्गं शिवमन्दिर अत्र सद्य एव मस्त्या चकार । एवं कल्यिते-निजसिद्धसङ्कल्पेन निर्मिते-- मन्दिरे सपदि परमेश्वरं सम्पूज्य प्रणतवत्सलं शङ्करं मुहुर्मुहुः प्रणम्य च तदीय- विरहानुरः, अत एव प्रतिष्टासाभिमुखतया चलदमन्दबाप्पेराकुलः, अहो नः हृदयदेवतं प्रभुपनाद् बहिरुपैति । (१००) दिव्यदृष्टिवितरणादारम्यैतावत्पर्यन्तमखिलवृत्तान्तावलोकन- मजातहर्षाः सर्वा इदानीं श्रीकृष्ण माशाद् दिदृशयः पार्वतीमर्थयन्ते । प्रण- वानां पारिजातमअरि-कल्पलताग्ररूपे जगन्मातः ! श्रीकृष्णस्य तपोवनवृत्तान्त- प्रदर्शनेन देव्या अस्मामु परमोऽनुग्रहः कृतः परन्तु इदानीं तस्य श्रीकृष्णस्य सवादर्शनसुखानुमवमाजनता फदा मजिष्याम इति मगवत्यैव (कृपया) वन्तव्यम्। (१०१) ततः श्रीपार्वती-अपि श्रीरुक्मिणीप्रमुखाः श्रीकृष्ण धर्मरन्यः श्रीराधामुख्या व्रजवलपश्चइति सम्बोथ्य---'स्मरहरस्य करपा- चलोकेन लब्या अखिलपुरुषार्थकलाना कलारास्तै: पूर्णः अयं कृष्णचन्द्रः पुर श्रीकृष्णचन्द्राम्युदयम् । स्मरहरकरुणावलोकलब्याऽखिलपुरुषार्थकलाकलापपूर्णः ॥ उदयमय मुपैति कृष्णचन्द्रः पुर इह पश्यत पश्यताशु वत्साः॥१०६ अपिच-१०२सन्तापान् शमयन् तमश्च दमयन् सर्वान् समाहादयन् स्वीयान् भक्तचकोरकांश्च रमयन पोप्यांश्व सम्पोपयन् ।। श्रीमत्साम्बसदाशिवातुल कृपादृग्लेशलब्धोदयः प्रेम्णाऽऽयात्ययमत्र पश्यत मुदा श्रीकृष्णचन्द्रः स्वयम् ॥१०७ ( सर्वाः साश्चर्य समुत्थाय प्रणमन्ति श्रीजगदम्बामनन्तरं च श्रीकृष्णम्) श्रीकृष्णः-१०३(.परमेश्वरी विलोक्य सभक्तपुद्रेकम् ) जय जय जगदम्ब देवि देवत्रयपरिपूजितपादपद्मयुग्मे ॥ नमति, तव पदाम्बुजं त्वदीयो जननि जनोऽयमनन्यभक्त एकः ॥१०८।। - . इह उदयमुपैति (सं) हे 'वत्साः पश्यत पश्यत इत्येवमभिदधाना श्रीकृष्ण पुरत आयान्तं दर्शयति । (१०२) अपिच-सन्तापान् शमयन् तमश्च दमयन् (हासं नयन्) सर्वान् समाहादयन् स्वीयान्-भक्ता एव चकोरास्तान् - रमयन् पोष्यवर्गाश्च सम्पोषयन्-(सर्वाणीमानि विशेषणानि चन्द्रसादृश्यपर्यवसायीनि) श्रीमतः .साम्बसदाशिवस्य अतुलेन कृपादृग्लेशेन लब्ध उदयो येन तादृशः (श्रीकृष्ण: चन्द्र, इवेत्युपमितसमास:) अयमत्र श्रीकृष्णचन्द्रः स्वयं मुदा (हर्षयुक्तः) आयाति तं प्रेम्णा पश्यत । अत्र सन्तापशमनं तमोदमनम् सर्वाहादनं पोप्य- पोषणं चेति चतुष्टयं समासोक्त्या श्रीकृष्णचन्द्रयोः समन्वेति । भक्तानां चकोरत्येनाध्यवसानात्तवारकेण श्रीकृष्णे चन्द्रत्वारोपणेन परम्परितरूपकम् । श्रीकृष्णस्येव चन्द्रस्यापि शिवकृपादृग्लेशेनैव लब्धोदयत्वं यतो गुरुशापमोक्षः सोमेश्वरकृपयैव जात इति पुराणप्रसिद्धिरित्यप्रस्तुतप्रशंसा । श्रीकृष्णचन्द्र इति चन्द्रस्य कृष्णत्वं विरोधामासमपि, भासयति । (११०३) ततः सर्वाः साश्चर्य समुत्थाय प्रथमं जगदम्बा मणमन्ति यतोऽस्या एवानुग्रहेण सर्वमेतत्सम्पन्न, ततश्च श्रीकृष्ण प्रणमन्ति । तदा श्रीकृष्णः परमेश्वरीं दृष्ट्वा समक्त्युद्रेक ' हे • जगदम्ब ! देवत्रयपरिपूजितपाद- पद्मयुग्मे देवि ! जय जय। हे जननि ! त्वदीयः एकः अनन्यभक्तो जनम्तव पदाम्बुज नमति, । इत्येवं गुणानः प्रणमति ।

चतुर्थोऽङ्कः। श्रीपार्वती - वत्स! श्रीकृष्णचन्द्र ! त्वं कलाभिराभिरात्मनः ।। अवियुक्तः सदानन्दाभ्युदयी विजयी भव ॥ १०९ ।। (इत्युक्त्वा श्रीकृष्णचन्द्रमूर्ति हस्तं दधाति ) श्रीकृष्णः परमोऽयमनुग्रहः (इत्युक्त्वा पुनः प्रणमति) श्रीपार्वती-१० राधेराधे त्वमेका जयसि हि परमा शक्तिरस्यादिविष्णो- रेताः सर्वाः कलास्ते नहि विरदलबस्तेन से युक्त इत्यम् ।। मत्वा शापानिवार्य प्रणतजनमनोऽभीष्टदः श्रीमहेशः संयोगं वां वियत्ते परमसुखकरं यावदकेंन्दुतारम् ।।११०॥ तदेहि परमप्रेमास्पदं ते प्राणप्रियं परमेण प्रेम्णा प्रणम्य सह सखीभिः सर्वाभिः कृतार्या भव ॥ (१०४) वत्स श्रीकृष्णचन्द्र! आमिरात्मनः कलाभिः सदा अवि. युक्तः सर्वदा सम्पृक्त एव--सन् आनन्दाभ्युदयी विजयी च भवेत्याशिषा श्रीकृष्णं श्रीपार्वती संयुनक्ति । अत्र स्खकलामिश्चन्द्रस्याभ्युदयित्वमिव आमिरि- तीदमा निर्दिष्टामी रुक्मिणीप्रमुखामी राधाप्रमृतिमिश्च सन्निकृष्टाभिः प्रिया- भिरेव कलारूपाभिः पुत्रादिलामलक्षणाम्युदये मान्तरीयकहेतुभूताभिरभ्युदयी विजयी-जगति सर्वोत्कग वर्तनं विजयस्तद्वांश्च मवेत्यभिसन्धिः 1 रूप- कालकार। (१०५) श्रीकृष्णचन्द्रमूर्ति निहितहस्ता श्रीपार्यती यदाशिर्ष ददा- ति स्म तदा 'परमोऽयमनुग्रहः' इति विनयवास्योचारपूर्व श्रीकृष्णः पुनरपि प्रणमति स्म । भय श्रीपार्वती राधामुद्दिश्य तामनुगृहत्यार । हे राधे राधे ! (बीप्रया सम्बोधनमनुग्राह्यतामूलकं ) हि यतस्त्वं एका अस्य आदिविष्णोः (इदानीं कृष्णत्वेनावतीर्णस्यापि आदिमावे साक्षाद्विष्णुरूपस्य) परमा शक्ति- जयसि-सर्वोत्कग वर्तसे, एताश्चान्याः सर्वास्ते कलाः 'त्वं वैष्णवी शक्तिरन- न्तवी , त्यादि मार्कण्डेयवाक्ये या वैष्णवी शक्तिरुदिता, तदमे 'विद्या: सम. सातय देवि मैदा: त्रियः समस्ताः सकला जगत्सु ' इत्यत्र सर्वासा विद्यानां सांसा श्रीणां च वदित्वमुक्तं, तत्र मीणां " समस्वा' इति विशेषणेन कात्स्न्य- बोधिवे पुनः सकला' इति विशेषणं न पुनरुक्तादुष्ट किन्नु 'स्वयेकया- रितमम्बयेतदि' वि पराशरेव सावात्म्ययोघश्याक्येनेऊकण्ठत्वलामाय * सकला इति पदे कलादान्देन पुरुषा एव विवक्षिवा अवगम्यन्वे, अन्यथा - श्रीकृष्णचन्द्राभ्युदयम् । . " श्रीराधा-यथाज्ञा जगदम्बायाः (इत्युक्त्या सर्वाभिः सह प्रणभ्य) दया मयाशये मातर्जगदम्बिके ! अन्या अपि ब्रजवल्लव्यो भग- वतीचरणाणोंजयुगलसेवासमासादितश्रीकृष्णचन्द्रमाणप्रिय- पदा वयमिवानुगृहीतत्र्या एव देव्येति में प्रार्थना । श्रीपार्वती-वत्से राधे ! परोपकारप्रवणान्तःकरणायै ते किमिव न. देयम् ? कुरुक्षेत्रे श्रीकृष्णचन्द्रदर्शनसुखमुपगम्य ता अपि सर्वाः अविरहदुःखलेशलयाः सदासान्निध्यश्रीकृष्ण- चन्द्रसमागमामृतानन्दानुभववत्यो भविष्यन्ति । श्रीराधा-महानयमनुग्रहः कृतः ( इति वदन्ती प्रणमति) श्रीपार्वती--१० श्रीकृष्णचन्द्र यदुवंशमहामणे त्वं सर्वामिराभिरनिशं निजका मिनीभिः ।। सत्पुत्रपौत्रपरिवारसुखामृताधौ मनः सदाभ्युदयवाञ्जयवांश्च भूयाः ॥ १११ ॥ पुरुषाणामग्रहणे तस्याः सार्यात्म्यमुच्यमानं नोपपद्येत, यतोऽये स्त्रियः पुरु- पत्वं प्रपेदिरे, चक्षुष्मन्तोऽनुपश्यन्ति । इत्यादि वचनजातमत्रैव लब्धान्वयं परिपोषकत्यमादधातीति तत्त्वम् । अत आह एता: परिदृश्यमाना उच्चायचास्ते 'तेन श्रीकृष्णेन तव विरहलवोपि न युक्तः । इत्थं मत्वा प्रणत- जनमनोभीष्टदः श्रीमहेशः शापान् निवार्य युवयोः परमसुखकरं यावद- न्दुतारं संयोगं विधत्ते । तदेहि ते परप्रेमास्पदं प्राणप्रियं परमेण प्रेरणा प्रणम्य -सर्वाभिः सखीभिः सह-युक्ता-कृतार्था भव । (१०६) अतःपरं राधा - यथाशा जगदम्बाया: । इत्युक्त्या सर्वाभिः सह प्रणम्य दयामयाशये मातर्जगदम्बिके ? अन्या अपि व्रजवल्लव्यो भग- यतीचरणकमलसेवासमासादितश्रीकृष्णचन्द्रप्राणप्रियपदा . वयमिवानुगृहीतव्या देव्या' इत्येवं प्रार्थयतिस्म तदा श्रीपार्वती--परोपकारप्रवणाय ते किमिव न देयम्-(सर्व देयमेव)-भतश्च 'कुरुक्षेत्रे श्रीकृष्णचन्द्रदर्शनसुखमुपगम्य ता अपि सर्वा विरहदुःखल्यलेशरहिता: सदा श्रीकृष्णसान्निध्यसमागमामृतानन्दा- नुभववत्यो भविष्यन्ती'त्युक्त्वा तासामप्यनुग्रहं कृतवती । • (१०७) राधया 'महानयमनुग्रहः कृत' इत्युक्त्वा कृतप्रणामा पुनः श्रीकृष्णं-श्रीकृष्णचन्द्र! यदुवंशमणे! त्वं. सर्वाभिराभिस्ते निजकामिनीमिः कला एवं .

चतुर्थोऽङ्कः। १५३ ( इत्याशिषमुक्त्वाऽऽकाशमार्गेण गच्छति) (सर्वेप्युत्याय प्रणमन्ति) श्रीकृष्ण:--देव्यः ! अहं श्रीमातृचरणानां श्रीपितृचरणानां च दर्शनं विधायाऽनन्तरं भवतीभ्यः सर्व तपोवनतपश्चरणवृत्तं निवेद- यिष्यामि । सर्वाः १०८यथेच्छा प्राणनाथस्य । श्रीजगदम्याप्रसादाद्विदितमपि वृत्त श्रीमन्मुखकमलाच्छ्रोतुं सोत्कण्ठा एव वयम् । इत इतो देव! मातृभवनमार्गः ( इति वदन्त: सर्वे निष्क्रान्ताः) इतिश्रीमत्केशवदेशिककृपाकल्पवल्लरी-पल्लवायभाने महामहोपाध्यायशीप्रकविशङ्करलालकृती श्रीकृष्णचन्द्राभ्युदय-नाग्नि नाटके चतुर्थोऽङ्कः ॥ अनिशं नित्यं सत्पुत्रपौत्रादिपरिवारसुखमेवामृतं तदधौ ममः सन् सदा अभ्युदयवान् जयवांश्च भूयाः' इत्याशिषा पद्धपियन्त्येव आकाशमार्गेण गच्छति श्रीपार्वती तदा सर्वेप्युत्यायतां प्रणमन्ति । (१०८) इदानीं 'देव्यः! श्रीमातापित्रोदर्शनं विधाय अनन्तरं भवतीभ्यः सर्व तपोवनतपश्चरणवृत्तान्तं निवेदयिष्यामी ति श्रीकृष्णः प्रतिश- णोति तदा सर्वा:--' यथेच्छा प्राणनाथस्य । इति विनयवाचमुच्चार्य 'श्रीजग- दग्नाप्रसादाद्विदितमपि वृत्तं श्रीमन्मुखकमलाच छोतुं सोत्कण्ठा एव वयमि । त्याहुः । अत्र 'विदितमपि श्रोतुं सोत्कण्ठा' इत्यत्र पुन: पदानुपादानान्न पौनरुक्त्याशङ्का अपितु जगदम्बाप्रसादाद्विदितं केवलमध्यशीकृतं तत्र कति- चिर्दशास्तु अनुमिता एवासन् , इदानीं श्रीमन्मुखात्तु यायातय्येन नि:संशयो वृत्तान्तोऽधिगतो भविष्यतीति उत्कण्ठाबीजम् । ततः परं 'इत इतो मातृभ- वनमार्ग ' इति वदन्तः सर्वे निष्क्रान्ता: । अत्र 'पुमान् खिये। त्येकशेषण सर्वे च साश्च सर्वे इत्येवं विग्रहण सर्वभनवधम् । मातृभवनमार्ग एक प्रय निद्दिष्टो द्वन्दे मातुः प्राथम्यादभ्यहिततमलाच प्रथमं तदन्दनं विघातुम् । इति श्रीमत्केशवदेशिककृपावल्पवहरीपच्यायमानस्य श्रीकृष्णचन्द्राभ्युदय-नानो नाटकस्य टीकायां ज्योल्लामिषायां चतुर्षाऽङ्गः सम्पूर्णः । , अथ पञ्चमोऽङ्कः। (ततः प्रविशतस्तपोनिष्ठौ दम्पती परितुष्टो महेश्वरश्च) श्रीमहेश्वरः-वत्स सुदामन् ! वत्से सुशीले ! वरं वृणीष्व । (उभावपि रुदसमाधी स्थाणुनिर्विशेष तिष्ठतः) श्रीमहेश्वर:-(स्वगतम् ) अहो अनयोढः समाधिः !! (प्रकाशम् ) भवतु योगवलेन मद्रूपं तदन्तःकरणा- दाकमि ( यावनिमृताङ्गस्तया करोति तायदेय) दम्पती-(साधर्य नेत्रे समुन्मील्य साक्षात्सदाशिवं विलोक्य ) जय जय जय देव ब्रह्मविष्ण्वादिदेव- प्रवररचितसेव श्रीमहादेव शम्भो ! ।। जय जय जय गौरीप्राणवन्धो परात्मन् ! सफलसकलकृत्यो दर्शनेनास्म्यहं ते ॥१॥ नमः शिवाय शान्ताय शुद्धसत्त्वस्वरूपिणे । शिवङ्कराय भक्तानां शङ्कराय नमो नमः ॥ १ ॥ (१)चतुर्याके सुदाम्ना तत्पल्या मुशीलया सह श्रीकृष्णतप:सिद्धे रविलम्बेन फलसम्बन्धाय शिवोपरि तपश्चरणमारब्धं तदिदानी फलपातिमासा- “दयति, तदर्थमेवाङ्कारम्भे दम्पत्योस्तपोनिष्ठयोः परितुष्टस्य च महेश्वरस्य प्रवेश- मुपनिबध्नाति कविः। (२) यदा ' सुदामन् । सुशीले ' इति पार्थक्येन सम्बोध्यमानी 'वरं वृणीष्वे । ति श्रीमहेश्वरेणोपच्छन्दितावपि समाधिस्थौ स्थाणुनिश्चलौ स्थिती तदा स्वगते ' अहो। इत्यादिना तयोईढसमाधित्वमाभाष्य तादृशसमाधिदशा- यास्तावुभावपि व्युत्थापयितुमिच्छुरुपायमातिष्ठते । 'निभृताङ्गस्तथा'करोति'- योगबलेन तदन्तःकरणात्स्वरूपमाकर्षति । (३) प्रत्यकेनानुभूयमानं शिवस्वरूपमपक्रान्तं यदा, तदा नेत्रे उन्मील्य परागिवोपस्थित सदाशिवं विलोक्य साश्चर्य स्तोतुमारभेते जयेति । ब्रह्मविष्ण्वा. दिदेवप्रवरै रचिता सेवा यस्येति त्रिपदबहुम्रीहिस्तत्सम्बोधनम् । अत एव है महादेव शम्भो ! जय । गिरिजायुतस्यैव ध्यानगोचरीकृतत्वेन तत्संस्कारानुवृत्येक गिरिजाप्राणबन्धो! इति कथनम् । क्षणात्पूर्वमेव स्वात्मनि साक्षात्कृततया है- .

पञ्चमोऽ श्रीमहेश्वरः-*धन्योति धन्योसि सदा सुदामन् धन्यासि धन्यासि सदा मुशीले ! । वरं वृणीष्वेष्टतम प्रमोदा- नाऽदेयमेनास्ति च मे युवाभ्याम् ॥२॥ सुदामा-कुरु कुरु कुरु सद्यः कृष्णचन्द्र कृपाब्धे ! सफलसकलवाञ्छावृन्दमानन्दममम् ।। वरमिममहमीहे नापरं देवदेव ! प्रणतजनमनोमीष्टार्पणस्वस्तरो! त्वत् ॥ ३ ॥ श्रीमहेश्वरः-सुशीले ! त्वमपि मनोनुकूलं वृणु सुशीला-"कमलादपि कोमलैनिनाद्वैः कुरुते हन्त तपांसि कृष्णचन्द्रः ।। स भवत्वचिराद् भवत्कृपातः कृतकृत्याग्रसरो, वरोऽयमयः ॥ ४ ॥ परात्मन् ! इत्याहानम् । एतावतानुष्ठितस्य तपमः साफल्यं भवदर्शनेनैव संवृत्त मित्यन्याह! सफलसकलकृत्य इत्यादि। (४) मुदामानं मुशीलाच तत्पनी 'धन्यासि । इत्यादि वीप्सया- ऽऽश्वास्य वरवरणाय प्रेरयति शियः 'प्रमोदादिष्टतमं वरं वृणीध्ये ति प्रोत्सा- यति च 'युवाभ्यामदेयं नैव किञ्चिदस्ती' त्यादिना । (५) पूर्वोनीमहेश्वरवाक्ये धन्यत्योक्तियन्मूला तदेव सौहाईमग्रे कुर्वन् मुदामा घरं वृणोति कुपित्यादिना । हे कृपाब्धे ! कृष्णचन्द्रं सद्यः सफलसकल- वान्छावृन्द, तेनैव निमित्तेन आनन्दमनं कुरु-इति विरुच्चारणं कृष्णचन्द्रविषयक- मुत्कण्टातिरेकमावेदयति । परस्तात्तदेवाह-हे देवदेव ! प्रणतजनानां मनोमी. एस्य भणे स्वस्तरी-कल्पवृक्ष ! स्वासकाशादिममेव वरमोहे नापरं किञ्चिदपि मदमित्याशयः । अस्मिन् पये प्रार्थितवरार्पणयोग्यसामर्य्यद्योतक-प्रणतेत्यादि सम्बुद्धयन्तविशेषणमहिना परिकालड्कृतिः प्रतीयते । (६) मुगीलामपि पृथग यरवरगायोपच्छन्दयति त्वमपीत्यादिना। (७) अप्र स इतिपदानितं य इति; तथाच यः कृष्णचन्द्रः कम- 'लदापि कोमलेरनैम्पलचितो 'हन्त इति स्वमनःशावेदन-तपामि कुमते पेलबरः कष्ट उपश्चरति स भवकृपातः कृतकृत्यानामप्रसरोऽचिराद् भवतु-- । अयमेव मे अंध्या-मुग्यः परः ।

श्रीकृष्णचन्द्राम्युयम् । श्रीमहेश्वरः-धन्यौ धन्यौ जगति जगतीनाथनाथे स्वनाथे श्रीकृष्णेन्दौ रचितपरमप्रेमबन्धौ युवां द्वौ ॥ श्रेयोमनौ भवतमधुनाऽभ्येति कारुण्यपूर्णो द्रष्टुं स्वीयौ सपदि च युवां पश्यतं पश्यतं तम् ॥ ५ ॥ (तत आकाशमार्गेण श्रीकृष्णः प्रविशति ) श्रीकृष्णः-१°हे महेश्वर महेश्वर शम्भो ! भक्तवत्सल कृपामृतसिन्धो!l त्वत्कृपार्पित सदाभ्युदयोऽयं कृष्ण आनमति ते पदपद्मम् ॥६ श्रीमहेश्वरः-११श्रीकृष्णचन्द्र ते भूयाद् भूयो भूयो भुवस्तले ।। अमन्दानन्दसन्दोहा परा श्रेयःपरंम्परा ॥ ७ ॥ (८) उभयोरपि दम्पत्योर्वरवरणप्रकारमभिनन्दन् श्रीमहेश्वरः कृता- यस्य श्रीकृष्णस्यागमनशंसनेन तावुभावग्यानन्दयन्प्रतिबोधयति । जगतीनाथाना- राज्ञामपि नाथे, स्वनाथे श्रीकृष्णचन्द्रे रचितः परः प्रेमबन्धो याम्यामेतादृशी युयां द्वौ जगति धन्यौ-द्विरुक्तिः संशयापोहाय । किञ्च युवामधुनाऽऽनन्दमग्री भवतं यतः कारुण्यपूर्णः स कृष्णचन्द्रः स्वीयौ-युवां-द्रष्टुं सपदि आगच्छति- वर्तमानसामीप्ये वर्तमानवद्वेति-आगमिष्यतीत्यर्थः । तं पश्यतं पश्यत-अनेन 'पश्यत । मिति पदानेहनेन युष्मदभ्यर्थनासिद्धिरियमचिरोपनता पुरोवस्थिता- ऽतस्तमेतं कृष्णं पश्यतमित्येवार्थो योध्यते । (९) चनुाके ' तपश्चर्यानन्तरं तव राजधानीमेप्यामीति । भगवता मुदाग्नोऽभे प्रतिश्रुतं, मध्ये च श्रीपार्वतीप्रभावात् तपश्चरणवृत्तान्तप्रदर्शनप्रसझे साशाद्दर्शनमाकासमाणाभी राशीमिः प्रार्थितायाः पार्वत्या इच्छयाः द्वारफामागत: श्रीकृष्णचन्द्रः स्वप्रतिज्ञापरिपालनाय पुनः मुदामपुरीमायावि-सदेतदुपन्यस्त तन आकाशमार्गण प्रविशति श्रीकृष्ण । इति । (१०) प्रविष्टमान एय श्रीकृष्णः श्रीमहेश्वरं प्रणमति महेश्वरेत्या- दिना । हे महेश्वर शम्भो भक्तवत्सल कृपामृतमिन्धो इति चतुभिरेतः सम्यु- पन्तविशेषण: क्रमेण सर्वधरत्य-कल्याणगुणत्य-भवानियत्य-मापारयस्यानि मरमार्य, त्वत्कृत्यापितमदाम्युदयोऽयं कृष्णस्ते पादपममानमतीनि पचनं सदा तनवाम्युदयस्य लाभेन कामारशेपचा प्रत्याचो।

पञ्चमोऽङ्कः । सुदामा-१२जय जय जय कृष्णचन्द्र चन्द्र- प्रभ! वसुवंशमणे कृपासुधाब्धे ॥ नमति तव पदाम्बुजं मुदामा तव पदपद्मपरा च तस्य पत्नी ॥८॥ श्रीकृष्णः-१युवयोः परमा भक्तिः परेश्वरपदाम्बुजे ॥ वरीयति शुभा या सा चरीकत शिवानि वाम् ।। ९ ।। (११) श्रीकृष्णेन प्रणतः श्रीमहेश्वर आशिषमाददाति-हे श्रीकृष्ण- चन्द्र ! ते भुवस्तले, अमन्दानन्दस्य सन्दोहो यत्र तादृशी, परा-अतिशयिता- श्रेयापरमरा भूयो भूयो भूयादिति । अत्र भूयो भूय इति वीप्सया, भुवस्सल इत्यधिकरणनिर्देशेन च " यदा यदा हि धर्मस्ये प्रत्यादि " सम्भवामि युगे- युग" इत्यन्तगीतोक्तप्रतिज्ञापरिपालनायासहद् भूतलेऽवतरतोऽवतारकृत्यस्य निष्प्रत्यूहता भक्ताभीपमाधनं चानायासेन भवस्विति श्रेयःपरम्परापदव्यङ्गयो- अर्थः प्रतीयते । यत्तु ' श्रेयश्च प्रेयश्च उभे नानार्थे पुरुपं सिनीत' इति कठ- वास्ये पारलौकिकाम्युदयस्य श्रेयःपदेन बोधनादापि तथा कल्पने पुत्रप्रा- यादिलक्षणाभ्युदयस्य प्रेय:पदयाच्यार्थमयादाविष्टनाऽऽयातीतिशङ्कगं, तदप्रासा- वसरमत्र; यतः प्रशस्यस्य श्रादेशसगनुशिष्टेयसुना कृल्नस्यापि पुत्रादेर्गीकारे- णाविरोधात् 'प्रजया पितृभ्य । इति श्रुत्या पुत्रलाभादेरपि श्रेयःपदार्थत्व- स्यापि मुवचत्वात्। (१२) अस्मिन् पये वगुवंशमणे ! इति सम्बोपने यमुपदं यमुद्देय याच 'नामैकदेशे नामग्रहण 'मिति महाभाप्योतन्यायेन ' सत्यभामा भामा । प्रत्याधुदाहृतानुमारात् । तव पदाम्बुजं सुदामा नमति, तब पदपद्मपरा तत्पत्नी च नमतीति चकारेण नमनानुकर्पणम् । तवेति पृथक् पृथक् सम्बध्यमानं द्विरसातमपि पदं न द्विात्तामादर्शयतीति पत्यम् । (१३) श्रीकृष्णः प्रथम क्रियाफलस्य कर्तृगामित्वं न्यायप्राप्तममि दधान एवं सपत्नीक सुदामानमाशिषा सयोज्य रात्तपश्चरणस्य स्याभ्युदयेऽपि सिद्ध प्रयोजकत्वमन्याद युवयोरित्यादिना। परेश्वरपदाम्बुजे युवयोनी परमा शुभा भक्तिर्यरीपति सा वो शियानि चरीकर्तुं । अत्र मृशार्थयट्टुगन्तवरीवर्तिपदेन मचेः प्रकारतायोगात्तत्साध्यफलेऽपि तदिभत्यानुसन्धानाय चरीकत्तपदप्रयोगः प्रयोगातिशयापं गुणमभिव्यनक्ति । ततः एषः-पुरोवस्थितः-श्रीपरेश्वरो ययो- युवो क्या तुष्टः करणार्णवः सन्मामसं-परिपूर्णतया कृतकृत्यं कृतवान् ।

श्रीकृष्णचन्द्राभ्युदयम् । ययोस्तु युवयोर्भत्तया तुष्टः श्रीपरमेश्वरः ॥ एपोऽलं कृतकृत्यं मां कृतवान् करुणार्णवः ॥ १०॥ श्रीशङ्करः--१ वत्स सुदामन् ! वत्से सुशीले ! श्रीकृष्णचन्द्रःप्राप्तसर्वार्थ- सिद्धिरतः परं भवद्यामपि वाञ्छितं वरणीयम् ॥ सुदामा-भगवन् ! प्रणतजनपारिजातस्य श्रीकृष्णचन्द्रस्य निष्प्रति- मासीमतमकृपाकल्पवल्लरीविलासेन पूरिताशेपवाञ्छितस्य न मे किञ्चिद्वाञ्छितं जगत्रयेऽपि विनाऽत्रभवतोर्भवतोश्चरणकमल- भक्तिचिन्तामणिमिति किं याचे ? श्रीकृष्णः--१६सखे सुदामन् ! निजजनचिन्तितचयपूर्णीकरणचिन्ता- मणे: श्रीचन्द्रचूडामणेरिदानी कैवल्यमुक्तिलक्ष्मी वृणु, सा खलु परमशिवस्यास्य श्रीमहेश्वरस्य कृपावलोकलहरीमन्तरेण दुर्लभा । अत्र 'तु' निपाताकर स्वाभ्युदयकारणत्वं सुदामदम्पत्योभक्तायावभन् स्वानुष्ठित तपोभक्त्यादेश्च तत्रोपसर्जनीभावमाबोधयन् मित्रधर्म परां काष्ठामारोपयति भगवान् । (१४) श्रीकृष्णोक्तं क्रियाफलस्य कर्तृगामित्वं नैयत्यमापादयन् 'वत्सः ! वत्से , ! इति पार्थक्येनोभावपि सम्बोध्य-भवदाचरिततपःप्रभावाच् श्रीकृ- प्णस्य सर्वार्थसिद्धौ जातायामपि तादृशोग्रतपसो भवतु भवद्गोचरयाञ्छितार्था- धायकत्वमित्याह ' भवद्यामपी ' त्यादि । अत्र यथा चीर्णतपसः श्रीकृष्ण- स्येष्टसिद्धौ भवदनुष्ठिततपसः सहकारित्वमेवं भवदनुष्ठिततपसा भवद्वाञ्छित- सिद्धौ भवतु श्रीकृष्णाचरिततपसोऽपि सहकारित्वमिति परस्परहेतुभावोपहितो वर्द्धतां वो मित्रधर्मप्रयुक्तो मियोभ्युदय इति भावः । (१५) अत्र श्रीकृष्णे पारिजातत्वारोपेण तत्रापि कृपाकल्ययालरी- विलासस्य जहपारिजाततो व्यतिरेकबोधनप्रयुक्तं स्वाशेषवाञ्छितपूरणमाभाष्य पार्वतीपरमेश्वरयोश्चरणभक्तिचिन्तामणि विना न किञ्चित् जगत्रयेऽपि मे वान्छितं वरणीयमस्तीति तमेव वृणे इत्यर्थः, अतः परं किं याचे ? किंशन्दो- यमाक्षेपार्थ:-किमपि याचितव्यं नास्तीत्यर्थः । अयाचितोपनतायां सर्वार्थसिद्धौ याचना हि केवलं लाघवमेव व्यनतीति नास्ति याचनावर इति यावत् । (१६) एवं कृतकृत्यम्मन्यं सुदामानं केवल्यमुक्तिमा सम्पादयितु- कामः श्रीकृष्ण: 'कैवल्यमुक्तिलक्ष्मी वृशु ' इति प्रेरयति, तत्र हेनुमपि मोध- , पञ्चमोऽङ्कः। १५९ . . यति ' सा खलु श्रीमहेश्वरस्य कृपावलोकमन्तरेण दुर्लभा । इत्यादिना । तदुक्तं सूतसंहितायां यज्ञवैभवखण्डे २५ अध्याये- जनार्दनोऽपि भगवान् सर्वभूतहिते रतः ॥ सत्यवागनसूयुश्च सम्यग्ज्ञानमहोदधिः ॥ ३६॥ प्राह गम्भीरया वाचा सत्यसन्धं प्रति द्विजाः ॥ ३७ ॥ विष्णुरुवाच । सत्यसन्ध महाभक मम सत्यपरायण ! ॥ श्रौतस्मातकनिष्ठानामुत्तमोत्तम सुव्रत ! ॥ ३८ ॥ नाहं संसारमनानां साक्षात्संसारमोचकः ॥ ब्रह्मादिदेयाश्चान्येपि नैव संसारमोचकाः ॥ ३९ ॥ शिव एव हि जन्तूनां महासंसारवर्तिनाम् ॥ संसारमोचकः साक्षात् सर्वज्ञः साम्ब ईश्वरः ॥ ४० ॥ मम ब्रह्मादिदेवानामपि तस्य प्रसादतः ॥ विज्ञानादित्रयं यस्मात् स एव भवमोचकः ॥ ४३ ॥ अहं ब्रह्मादिदेवाश्च प्रसादात् तस्य गुलिनः ॥ प्रणाव्यय हि संसारमोचका नात्र संशयः ॥ ४४ ।। नामतश्चार्यतश्चापि महादेवो महेश्वरः ।। तदन्ये केवलं देवा महादेवा न तेऽनय ! ॥ ५१ ॥ महादेवं विना यो मां मजते श्रद्धया सह ।। नास्ति तस्य विनिमोक्षः संसाराज जन्मकोटिभिः ॥ ५२ ॥ सर्वमुक्तं समासेन मम भक्तस्य तेऽनय ! ॥ तस्मादनन्यमनसा शिवं साम्यं सदा मज ॥ ५३ ॥ तत्रैव प्रझगीतायां चतुर्थेऽध्याये- प्रसादादेव रुद्रस्य शिवायाश्च तथैव च ॥ परमाद्वैतविज्ञान विष्णो: सशान्ममापि च ।। ७३ ॥ एष एव हि जन्तूनां परं शानं ददाति च ।। न विष्णु मन्यश्च सत्यमेव मयोदितम् ॥ ७९ ॥ स्वतन्त्रः शिव एवायं स हि संसारमोचकः ॥ तं विना न मर्योदतुं शक्यते संसृर्जनः ॥ ८१ ॥ विणुना च परेणापि महादेवं घृणानिधिम् ॥ चिना जन्नु समुदतुं शक्यते न हि सत्तमाः ॥ ८२ ।

श्रीकृष्णचन्द्राम्युदयम्। श्रीमहेश्वरः--१ सुदामन् ! नास्त्यदेयं ते मम किञ्चिदपि, त्वया ॥ यतो हरिहराभेदद्दष्ट्या भक्तिः कृता शुभा ॥ ११ ॥ सुदामा-१८गङ्गारोधसि निर्मले तरुतले स्वच्छे शिलामण्डले त्वां गाङ्गैः सलिलैः समर्चितवत: संयान्तु मे वासराः ।। शम्भो जन्मनि जन्मनि स्थिरतरा भक्तिश्च ते स्ताच्छुभा सा मे मुक्तिरनुत्तमाऽखलिरयं कैवल्यमुत्त्यै कृतः ॥१२॥ श्रीकृष्णः-"सखे सुदामन् ! मा चिन्तां काः । कैवल्यमुक्तौ श्री- साम्बशिवपूजनानन्दविरहान्न ते प्रीतिः, परं मुक्तेनापि भगव- दजनानन्दोऽनुभवितुं शक्यत एव । शृणु तावद- (१७) श्रीमहेश्वर: 'हे सुदामन् ! मम किञ्चिदपि ते-तुभ्यम्- अदेयं नास्ति । इति यदाह, तत्र हेतुमपि 'यतस्त्वया हरिहराभेदण्या भक्तिः कृतेति । निर्दिष्टवान् ; तेन च देघेषु भेदभावो हि सर्वानर्थमूलमिति सूचितम् । अभेदभावपूर्वकं भजनेन देवताप्रसत्तिरतिशयवती भवतीति तदेव देववचसा 'किश्चिदपि ते नास्त्यदेय मित्यनेन बोधितम् । यदाह व्यास:- कर्णस्त्वचं शिबिर्मासं जीवं जीमूतवाहनः ॥ ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ किमु वक्तव्यं देवतासार्वभौमस्य महादेवस्य दित्सोर्वरम् । (१८) भक्तावेव परमपुरुषार्थबुद्धिमुत्तरगयति मुदामा । हे शम्भो ! गगारोधसि निर्मले तरुतले स्वच्छे शिलामण्डपे गाडैः सलिलेस्वामचित्तपतो मम वासराः संयान्तु, किन्च मे जन्मनि जन्मनि-प्रतिजन्म-ते भक्तिः स्थिरतरा स्तादस्तु, सेव मे अनुत्तमा मुक्तिः, कैवल्यमुक्त्यै अयमअलिः यस्यां शिवभजना- ननुष्ठानं तस्ये कैवल्यमुक्त्यै ययं न स्पृहयाम इति भावः । (१९) केवल्यमुक्तायपि न भजनानन्दामाव इति मोषयति कृष्णः । यद्यपि शिवपूजनानन्दविरहात् कैवल्यमुचौ निराकासोसि पर मुनापि शिग- भजनानन्दोऽनुभवितुं शक्य इत्याह । यथाऽमिह लोके भृतलीलाविग्रहः मन् यथेच्छ परशियमभिषिञ्चामि एवं त्वमपि धृतलीलाविप्रहः गन् स्मरहरपरिचर्या- नन्द निल्य प्राप्यसि । अता मत्तिप्रियस्थ ते केवल्यमुक्तावरि मननानन्द सामनेयत्येन अनायासोपनतपरमपुरुषार्थपरित्यागोऽनुचित इत्यर्थः ।

पञ्चमोऽङ्कः । अहमिह धृतलीलाविग्रहः सन्यथेच्छं परशिवमभिषिञ्चाम्येव मुक्तोऽपि युक्तः ।। स्वमपि च धृतलीलाविग्रहः संस्तथैव स्मरहरपरिचर्यानन्दमाप्तासि नित्यम् ।। १३ ।। सुदामा-यद्येवं तर्हि- २°को नु मुक्तिपतेर्मुक्तिं न कार्लोन्मुक्तिदात् स्वयम् ॥ धन्योऽस्मि कृतकृत्योऽस्मि मुक्तिं यच्छति यच्छिवः ॥ १४॥ श्रीकृष्णः-२१भगवन् कृपयेदानी कुरुष्वोपदेशं भगवतोऽनन्यभक्ताया- ऽस्मै येन कैवल्यमुक्तिसुखमनुभूयादेपः । श्रीमहेश्वर:--२२श्रीकृष्णचन्द्र! त्वमेवाऽहमहं च त्वमिति वेत्स्येव निश्चयात् । त्वमेव तत्त्वं तत्तत् त्वन्मित्रायाऽस्मै समर्पय ॥ १५ ॥ श्रीकृष्ण:-( साञ्जलिबन्धम् ) यथाज्ञा जगद्गुरोः (इत्युक्त्वा) शृणु सखे सुदामन् ! श्रीजगद्गुरोराज्ञयाऽहमेव तुभ्यं तत्त्वमुपदिशामि। (२०) एवं श्रीकृष्णेन प्रतियोधितः सुदामा-स्वयं मुक्तिदान्मुक्तिपतेः को नु मुक्ति न काङ्केदपितु सर्व एव; अहमिदानी धन्योस्मि कृतकृत्यश्चास्मि यत्कारणं शिवः स्वयं मुक्तिं यच्छति-इत्याह । (२१) श्रीकृष्णः सुदाने कैवल्यमुक्तिदानाय शिवमर्थयते 'भगवन्नि त्यादिना । भगवतो भवतोऽनन्यभक्तायेति कथनेन अनन्यभावेन आत्मभावेन-- भक्ताय-भजमानाय-अस्मै उपदेशं कुरुष्वेत्यधिकारित्वमुक्तम् । (२२) इदानीं महेश्वरः श्रीकृष्णोक्तं सत्यापयन् कृष्णमाशापयति श्रीकृष्णचन्द्रेति । त्वमेवामित्यनेन त्वयि सति पार्थक्येन मन्नामगणनमनावश्यक- मेवेति ध्वनिः । अहं च त्वमित्यत्र चकार एवाथें, तेन अहमेव त्वमित्युभयोरे- करूपत्वमनूद्य तत्तस्मात् त्वमेव तत् तत्वं अस्मै समर्पय-उपदिश। अत्र हेतु- गर्भ विशेषणं त्वन्मिनायेति । मित्रे श्रद्धादीनामयत्नसिद्धत्वाद्रुपदेशस्य सद्यः फलाधायकत्वं सूचयति । आवयोश्चाभेदं निश्चयात् त्वं वेत्स्येव अतस्त्वमेव तत्वमुपदिशेत्याह महेश्वरः । (२३) श्रीकृष्ण: शिवाज्ञामूरीकुर्वन् मुदामानं तत्वोपदेशायाभिमुखी करोति शृष्यित्यादिना । अत्रापि 'जगद्गुरोराशयेत्युक्तिः कैवल्यमुक्तिदाने स्वस्य शिवाशसापेक्षतामय दोधयति ।

१६२ श्रीकृष्णचन्द्राभ्युदयम् । सुदामा-( साञ्जलिबन्धम् ) कृपासिन्यो ! श्रोतुमवहितोऽस्मि । श्रीकृष्णः-२ वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तत एव मुक्तः ।। तत्त्वं विदित्वाऽथ तमेव विद्वन् ! भवाशु मुक्तो न परोस्ति पन्थाः १६ सुदामा-२५भगवन् ! जगद्विदितः सुविदित एव देवदेवोऽयं सर्वेपां, कथमविदित्वा तद्भक्तिं कर्तुं प्रभवेत् ? (२४) यदा सुदामा 'कृपासिन्धो !' इति सम्बोध्य 'अवहितो- स्मीति श्रोतुमुत्सुकतामादर्य उपदेशाहमाभिमुख्यमुपेतस्तदा श्रीकृष्णस्तत्त्वोप- देशमुपक्रमते 'वेदाहमेत ' मित्यादिना श्रुत्यर्थानुवादिना पद्येन । अहमेतं महा- न्तमादित्यवर्ण पुरुषं वेद ज्ञातवान्-तत एव, तावता शानमात्रेणेवाहं मुक्तः; एय मेव हे विद्वन् त्वमपि तमेव (पुरुष) विदित्वा अय मुक्तो भवेति योजना । अत्राऽयमभिसन्धिः । अद्भयः पट्टच उत्तरनारायण । इत्यनुक्रमसूत्राद् वेदा- हमेत मिति मन्त्रो नारायणदृष्टः । तयाच-एतं महान्तमादित्यवर्ण तमस: पर- स्तात् (स्थितं ) पुरुष परमशिवाख्यमहं वेद-इत्येवमात्मनो गौरवमाख्या- पयन् नारायणः तमेव विदित्वा मृत्युमत्येति ( मोक्षमधिगच्छति ) अयनाय- मोक्षप्राप्तयेऽन्यः पन्या न विद्यते-इत्येवं सायधारणं ब्रूतेस्म । स एवार्थः सङ्ग- धात्र पद्येनोपदिष्टः श्रीकृष्णेन मुदाम्न इति । अमुमेवार्थ प्रकटीकृतवान् माहे. श्वरामणीहरदत्ताचार्यश्चतुर्वेदतात्पर्यदीपिकायाम्- 'वेदाहमेत मिति यन्महिमावबोध नारायणः स भगवानवदत्स्ववाचा । स्वस्यातिगौरवकर तमशेषमूल साम्ब शिवं प्रणमत प्रणताशुतोपम् ॥ पुरुषपदाभिलप्यत्वं मुख्य परशिवस्यैवोक्त सूतसंहितायां ब्रह्मगीताया एकादशेऽप्याये २७ लोके- पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः ॥ साम्बमूर्तिघरो नान्यो रदो विष्णुरजोऽपि या ॥ २७ ॥ 'शानादेय मु फेयल्यं, 'ज्ञानेन मुक्तिरित्येतत्सर्वदर्शनिना मत । नदि शानेन सह पविघमिह विधवे'शानी स्वात्मैव मे मतः । शानयान मां प्रपद्यते। ततो मा तत्त्यतो शात्वा विशते तदनन्तरं । शाला देव सर्व- पाशापहानिरित्यादि पररशतेः श्रुतिस्मृत्यादियचनेशीनस्येव केवल्यमुरिटेलना. यधारणभौय्यात् । ( २५ ) श्रीररचनाकृतमनाकलपनागततः प्रीतमर्थमामाठि .

पञ्चमोऽङ्कः। श्रीकृष्णः-सखे ! एतत्परोक्षज्ञानं भत्तयौपयिकमपरविद्याख्यम्- सचिदानन्दरूपो यो जगन्मूलं महेश्वरः ।। सोऽहमस्मीति यद् ज्ञानमपरोक्षं तदुच्यते ॥ १७ ॥ सुदामा-२"सर्वज्ञः सर्वशक्तिः श्रीमहेशः क महार्णवः ॥ क चाल्पज्ञोऽल्पशक्तिश्च वराकोऽम्बुकणोऽम्यहम् ।। १८ ।। ताशापरोक्षज्ञानलभ्यायै नमः पुनः कैवल्यमुक्त्यै, भक्तिरेव मे रोचते । मुदामा यं ज्ञानुमत्रभवानुपदिशसि स तु देवदेवः सुविदित एव सर्वेषां, न तम- विदित्वा तद्भक्तिः कत्तुं शक्यते । तमजानानाः कथं तद्भक्ति का प्रभवेमेति यावत्। (२६) भक्तिसाधनभूतं हि परोक्षज्ञानं तदपरविद्याख्यं; यदन्तरेण कस्य भक्ति । रित्याकासा नोपशाम्यति, इदं तु भक्तेरपि फलभूतं ' सचिदा- नन्दरूपो जगन्मूलं यो महेश्वरः सोऽहमस्मी । त्यपरोधानुभवरूपं ज्ञानं मोशहेतु- स्तदुच्यते । तस्यैतस्य ज्ञानस्य भक्तिः साधनतामञ्चति आशयविशुद्धयर्थत्वात- स्थः । तथा चोक्तम् । कयं विना रोमहर्ष व्यता चेतसा विना ॥ विनाऽऽनन्दाश्रुकलया शुद्धथेद् भक्त्या विनाऽऽशयः ॥ अत्र भक्त्या विना कथमाशयः शुद्धयेद्, भक्तिश्च कथं व्यता चैतसा विना स्यात् , द्रवचित्तं च कथं रोमहर्षमानन्दाश्रु च विना शायेवेत्यर्थः । अश्रु. पुलकयोरभिधानं स्तम्भस्वेदादीनामितरेषां साविकभावानामुपलक्षणम् । (२७) चिरकालासेवितभक्तिसंस्काराभिनिविष्टः मुदामाऽमेदभाव. प्रतिद्वन्द्विनं भेदभावनासंस्कारमापामरप्रतीतमन्द्य भक्तिमेव स्वीकृतामनाकुल- यन् केवल्यमुक्त्ये उदास्ते ।सर्वशः सर्वशक्तिश्च महार्णवोपमो महेश्वरः क, क चा. ऽहमम्बुकणोपमोऽल्पशोऽत्पशक्तिश्च वराक; नैतयोरभेदमावना मुलमा अतस्ताहशापरोक्षशानलम्या कैवल्यमुक्ति न काहे इति । नमः कैवल्य- मुक्त्ये' इत्यनादरो व्यचितः। 'भक्तिरेव मे रोचते। इत्यनेन च मक्ता. यादरभरपदनिन भक्तिप्रियत्वमात्मनः ख्यापितम् । भक्तिश्च निलस्य विषयाकारतापामनपूर्वक भगवदाकारतापादनमिति केचित्, तन्मन्दम् । मगवदाकारता हि चित्तस्य स्वाभाविकीति तस्य विषयाकारतापासन एय १६४ श्रीकृष्णचन्द्राम्युदयम् । श्रीकृष्णः-२८( किञ्चित्प्रहस्य श्रीशङ्करं प्रति) जगद्गुरो ! कैवल्यमुक्तिस- नप्रदातुः श्रीब्रह्मविद्यापरमगुरोः श्रीमतो मुखकमलाद्गलन्तीमुपदे- शामृतलहरीमन्तरा दुर्लभ एव कैवल्यमुक्तिसुखानुभवस्ततो भगवतैव कृपया तत्त्वोपदेशोऽस्मै विधेय इति मेऽभ्यर्थना । :- यत्लपर्यवसानं, चित्तकारणीभूतभूतसूक्ष्मकारणानिर्वचनीयविचित्रानेकशक्तिमन्मा- याधिष्ठानस्य नित्यस्य विमोः सर्वान्तर्यामिणः सर्वत्रानुगतत्वात् । यथा घटस्य जलादिपूर्णता कारणसाच्या आकाशपूर्णता तु स्वतः । तदुक्तं वार्तिकाचार्यैः- वियद्वस्तु स्वभावानुरोधादेव न कारकात् ॥ वियत्सम्पूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥ घटदुःखादिरूपत्वं धियो धर्मादिहेतुतः ॥ स्वतः सिद्धात्गसम्बोधव्याप्तिर्वस्त्वनुरोधतः ॥ इति ॥ चित्तस्य भगवदाकरत्वे स्वाभाविके हेत्वनपेक्षे शास्त्रस्य क्वोपयोग इति चेदन्याकारताविरोधिभगवदाकारतासम्पादने इति गृहाण । एवं च तादृशभ- क्तिविशुद्धचेतस आत्मलाभः सुगमो भवति । तथा चोक्तं भगवद्गीतासुभकया मामभिजानाति यावान् यथास्मि तत्त्वतः ॥ अत्र भक्त्योपयिकस्य शानस्य प्रथममपेक्षितत्वेपि भक्तिकरणकस्य तस्य, ' अभिजानाति' इत्यभिपदोपसष्टेन यावान् ( सर्वव्यापकः ) यश्च (सच्चिदानन्दलक्षण:)तत्त्वतोऽस्मि तादृशं माम्= (अस्मत्प्रत्ययगोचरं ) प्रत्यगात्मत्वेनानुभवतीत्यर्थयोधनेन विशेषः स्पष्टीकृतः । तदेवोक्तं श्रीमद्भागवते- यब्जिनाभचरणेषणयोक्भक्त्या चेतोमलानि विधमेद् गुणकर्मजानि ॥ तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद्ययामलदृशोः सवितृप्रकाशः ।। (२८) निरुक्कप्रकारेण भक्तेरपि शानोत्पादकत्वेन प्रशस्तत्वेऽपि कालविलम्बभावितया तदपेक्षया उपस्थितुशिवप्रसादसुलभायाः फेवल्यमुक्त रुपेक्षणं हि प्रज्ञापराध एवेति किञ्चित् प्रहस्य श्रीकृष्णः स्वयमनुष्ठितस्याप्युपायस्य यथेटफलाधायकले मन्दिहानः श्रीशङ्करमेव विशापयति । हे जगद्गुरो ! फेवल्यमुक्तिसत्रप्रदानु: श्रीब्रह्मविद्यापरमगुरोः श्रीमतो मुरसकमलाद् गलन्ती- मुपदेशामृगलहरी विना केयल्यमुक्तिमुखानुभयो दुर्लम इति भगयीय कृपया- ऽस्म तत्योपदेशो विधेय इति ।

पञ्चमोऽङ्कः। श्रीशङ्करः-२ वत्स सुदामन् ! श्रीकृष्णोऽहमहं कृष्णो न भेद आवयोर्यथा ॥ तथा सुदामस्त्वं चाहमहं च त्वमसंशयम् ॥ १९ ।। (एतद्वाक्यश्रवणोत्तरक्षण एव) सुदामा-°(श्रीकृष्णं प्रति साश्चर्यम् ) कोऽयं दृष्टिविपर्यासः ? जगदिदमखिलं शिवः शिवोहं शिवमयमेव समस्तमाविभाति ॥ नहि किल तिलमात्रमत्र मित्रप्रवर ! किमप्यशिवस्वरूपमस्ति।॥२०॥ श्रीकृष्णः-"एवमेव सखे ! एवमेव । लीलाविग्रहगृहीतभिन्नमावस्य ते श्रीमहेश्वरोपदेशवचनश्रवणमात्रेण पुनरुद्भिन्न एवामेदभावः । . (२९) एवं श्रीकृष्णेनाम्यर्थितः श्रीशङ्करो ' वत्स सुदामन् ' इत्येव मनुजिघृक्षामाविष्कुर्वन् औपनिषदात्मतत्त्वं सझिप्योपदिशति । यथा श्रीकृष्णो- ऽहमेव अहं च श्रीकृष्ण, एव नावयोमेंदः; तया हे सुदामन् त्वमेवाहमहमेव च त्यमित्यसंशयमवेहि । तत्त्वमस्यादि-सदृशमेतदुपदेशवाक्यं श्रुत्वैव सुप्तपति- बुद्धन्यायेन शाततत्वः सुदामाऽन्य एव संवृत्तः । (३०) यया वा 'अवचनेनैव प्रोवाच । इत्यत्र वचनानपेक्ष एवात्म- योधः एवमत्रापि श्रीमहेश्वरेण जगद्गुरुणा कृपाकटाक्षसंवलितमल्पाक्षरमप्यु- पदिशता वेघदीक्षयैवानुगृहीतः प्रतिबन्धकनिवर्तकशक्तिपातेन साधनान्तरनिर- पेक्षेण कृतः मुदामा कृतकृत्यः सम्यड् निवृत्ताविद्यावरणः शिवरूपतामात्मनोन्व- भूत् । तमेवानुमयं साश्चर्यः श्रीकृष्ण श्रावयति। कोयं दृष्टिविपर्यास इत्यादिना । दमखिलं जगत् शिव एव-शिवाधिष्ठानविवर्त्तत्वेन प्रतीतं न शिवादन्यद्-स एव शिवोऽहम्, समस्तमप्येतद् शिवमयमेव आविमाति । अत्र 'विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगदित्यव मयटस्तद्रूपत्वमर्थः । तदेव भङ्गयन्तरेण प्रस्तौति-हे मित्रप्रवर !-किचन्तान्मिनो हिंसाांन्मिस्पदसिद्धिः। च हिंसाशब्दार्याविशिष्टामननमरणादिलक्षणलेशात् त्रागकत्तृप्रवर ! अत्र तिलमात्रमपि किल किमपि अशिवस्वरूप-शिवस्वरूपातिरिकं नास्ति- नोपलश्यते । (३१) मुदामानुभवमुपोद्लयति श्रीकृष्णः । एवमेवेत्यादिना लीला- विग्रहग्रहणप्रयुक्तभेदभावस्य तात्त्विकाऽभेदभावबोधकवचनश्रवणसमकालमेय बाधादशमस्त्वमसीति वचनेनेर श्रीमदेश्वरोपदेशश्रवणमात्रेण सार्वात्म्यावगमो तथा श्रीकृष्णचन्द्राभ्युदयम् । पूर्णानन्दामृतनिधिरयं निस्तरङ्गान्तरङ्गो देशे देशे दिशि दिशि वहिः पश्य भात्यस्तसीमा । अन्तश्चापि प्रणयनिलयालोकय श्रीसुदामन् ! पूर्णानन्दः स्फुरति हृदये श्रीमहेशप्रसादात् ॥ २१ ॥ तथापीदं भगवतः प्रार्थनीयम् । सुदामा-३२किं तत् ? श्रीकृष्णः-33( कर्णे एवमेवम् ) सुदामा-३४तथा कुर्वः। उभौ-3"प्रणतजनपारिजात ! भगव॑श्चन्द्रचूडामणे ! सर्वात्मभाव इह यो भवतोपदिष्टः सोऽयं सदा स्फुरतु नौ भवतः प्रसादात् ॥ त्वत्पादपद्मपरिपूजनकाल एकः पूज्यो भवान् भवतु पूजकतावयोश्च ॥ २१ ॥ इति नौ चरमा प्रार्थना । जातस्तं प्रपञ्चयति शृण्वित्यादिना । अग्रे 'तथापि' इत्युपन्यासाद् यद्यपीति प्रथममध्याहार्यम् । यद्यपि निस्तरङ्गान्तरमः-अन्तर्विकल्पशून्यः-पूर्णा- नन्दामृतनिधिः-निरतिशयमुखधामा, अस्तसीमा—देशकालवस्तुपरिच्छेदर- हित:---देशे देशे दिशि दिशि इति वीप्साभ्यां यहिरन्तश्चेतिपदाभ्यां च सर्वत्र- व्यापको भाति, हे प्रणयनिलय ! श्रीसुदामन् ! आलोकय पश्य-तादृशमात्मा- नमनुभयगोचरं कुर्विति यावत् । फलितमाह-पूर्णानन्दः श्रीमहेशप्रसादाद् हृदये स्फुरति । मातः परं किमप्यभिलपणीयमवशिष्यते तथापि भगवतो महे- श्वरादिदं वक्ष्यमाणं-प्रार्थनीयम् । त्ययेति शेषः। (३२) श्रीकृष्णहाईमनाकलयन् पृच्छति, किं तदिति । (३३) श्रीकृष्ण उपाशु स्वाशयमायेदयति करें। (३४) सुदामा कृष्णोकमनीकुर्वन्नाह तथा कुर्व' इति । (३५) उभी दमती सम्भूय प्रार्थयेते । प्रगतजनपारिजात ! इति मम्बोधनं स्वामीप्सितसिद्धया अभिमुखीकरणार्थ, भगवन् ! चन्द्रचुदामणे !' इति च सम्बोधनद्वयं भगसशकपष्टिपेश्वर्यवतः श्रीशियास्वस्य नित्यनोध- नेन शियस्य चन्द्र चुहामणित्वेन विभ्रतो ध्येयरूपनिर्देशन स्वस्य मकिपिपल्य पञ्चमोऽङ्कः। १६७ श्रीशङ्कर:-तथास्तु । किञ्च श्रीकृष्णचन्द्र ! कैवल्यमुक्तेरपि मद्भक्तौ ते गरीयसी निष्टा तेन तुष्टोऽहं ते परमपि वरं प्रयच्छामि । श्रीकृष्ण:-अवहित एवायं भवद्भको भवदत्तं शिरसा धारयितुम् । श्रीशङ्करः-3"अहमिव भव मुक्तिदानदाता त्वमपि हरे ! यत आवयोन भेदः॥ त्वयि मयि समदर्शिनः सुलभ्या भवति नचैकतरद्विपः क्वचित्सा ।। २२ ।। (इत्यभिदधान एव श्रीकेदारनाथलिङ्गेऽन्तर्हितः) श्रीकृष्ण:- सुदामन् ! पश्य दयानिधेर्दयालुतां, स्वकीयमनन्यभक्त- मपि मां सर्वथा स्वसमानैश्वर्य, किंबहुना स्वस्वरूपमपि मां विधाय महाशयतयोपकारोपचारवचनान्यपि श्रोतुं न विलम्वितः । परि- तुष्यतु स भगवान् स्वकृत्येनैव, के वयं तत्कृत्यानि प्रतिकर्तुं विधातुरायुपापि (इति वदन् हर्पाभूणि मुञ्चति ) भक्तावभिनिवेशश्च सूचितः । तदेव विवृणोति 'सर्वात्मभाव' इत्यादिना । यः सर्वात्मभायो भवता उपदिष्टः सोयं सर्वदा भवतः प्रसादादाययोः स्फुरतु परन्तु त्यत्पादपूजनावसरे केवलं भवतः पूज्यत्वमावयोश्च पूजकवा सुस्थिरा स्फुरतु इतीयं नौ चरमाभ्यर्थनाऽस्ति । (३६) श्रीशङ्करः मुदाम्नो भक्तिप्रियत्वेन सातिशयं तुष्टस्तस्मै तथास्तु इत्युक्त्वा श्रीकृष्णायापि परमपि वरं दित्सति तत्रहेनुमप्याह यतः केवल्यमुक्तेरपि मद्भक्तो ते गरीयसी निष्टा तेन तुष्टोऽहमित्यादिना । (३७) श्रीकृष्णेन 'भयद्दस शिरसा धारयितुमवहित एकाऽयं भव- द्भक्त' इत्यभिहित शिय:--हे हरे ! अमिव त्वमपि मुक्तिदानदाता, कैवल्य- मुक्तिदो भय, यत आवयो)दो नास्ति किन्तु आवयोरभेददर्शिनः सुलभ्या सा (मुक्तिः ) न पुनरेकतरद्विषः सा कचिदपि लम्या । विष्णुद्विपः शिवभक्तस्य शिवद्विषो विष्णुभक्तस्य या मुक्तिलाभो न फयश्चनेत्यर्थः । (३८) यराक्षराणि व्याहत्यानन्तरमेव केदारनायलिङ्गे यावदन्तर्हितः 'शिवस्तावदेव श्रीकृष्ण सुदामानमाह-पश्य दयानिधेर्दयालुवा यत्स्वभक्तं मां न केवलं स्यसमानेश्वर्यमपिनु कैवल्यमुक्तिदातृत्वापणेन स्वस्वरूपमपि मा फला मदुक्तमुपवारखवः श्रोनुमान न विलम्बित: किन्तु सद्य एवान्तहित १६८ श्रीकृष्णचन्द्राम्युदयम्। सुदामा-3( सहपाश्रुपातम् ) श्रीकृष्णचन्द्र ! न केवलमिदानीमेव कृतेन तपसा परितुष्टस्य तस्य त्वयि प्रीत्यतिशयो जात इति मन्तव्यं, स्वाभाविक एव कोपि प्रीत्यतिशयो जागत्ति भवस्य भवति । श्रीकृष्ण:-कथं तद् भवता ज्ञातम् ? सुदामा-तदपि वदामि शृणु- श्रीकृष्ण:-श्रोतुमवहितोऽस्मि । सुदामा-४°भवद्भिः सहाध्ययनसुखमनुभूय गुरुकुलाद्विनिवृत्तेन मया प्रतिसंवत्सरं श्रीकेदारनाथदर्शनं विधेयमिति नियमो गृहीतः । श्रीकृष्णः-४'उत्तमतमं कल्याणकारणं गृहीतं; ततस्ततः ? सुदामा-एवं श्रीकेदारनाथदर्शनं नियमेन कृतवतो मे संवत्सरपष्टिः प्रयाता, ततः परितुष्टेन साक्षादत्तदर्शनेन भगवता केदारनाथेन- वत्स सुदामन् ! वलीपलितपरिकलितकायोस्यतीव जराजीणों- ऽसीति नातः परमत्रागन्तव्यं त्वया, यच्च ते वरणीयं तद् वृणु" इत्युक्तम् । " इत्यर्थः । परेशे तस्मिन्नुपचारवचोऽपि नाम कीदृशं स्यादित्याह 'परितुष्यतु स्वकृत्येनैव स भगवान् इति । यतस्तत्कृत्यानि प्रतिकतु विधातुरायुपापि वयं के ? नाऽलमिति भावः। (३९) पूर्वोक्तवचनान्ते हभूिणि मुञ्चन्तं श्रीकृष्णमनुमुञ्चन् हर्षाभूणि सुदामा वदति श्रीकृष्णचन्द्र ! इत्यादि । भैवं मँस्था यदिदानी कृतेन तपसा परितुष्टस्य त्वयि प्रीत्यतिशयो भवस्य जात इति, अपि तु स्वाभाविक एव प्रीत्य- तिशयो जागत्ति तस्य भवति पुरातन इति । (४०) 'कथं तद् भवता ज्ञात मिति सानुनयं पृष्ट 'स्तदपि वदामि शृण्विाति प्रतिशृण्वन् 'श्रोतुमवहितोऽस्मीति भगवत आभिमुख्यमवगम्य निवे. दयति सुदामा भवद्भिरित्यादि । यावद्वयं गुरुकुले सहोपितास्तावतः समयस्य वृत्तान्तस्तु श्रीमद्भिर्टात एव ततः परं यदाऽहं स्वगृहान् प्रतिनिवृत्तस्तदा प्रभृति प्रतिवर्ष श्रीकेदारनाथयात्रा कर्तव्येति मया नियमो गृहीत इति । (४१) विशेषजिज्ञासाकुल, श्रीकृष्णस्तदीयं सङ्कल्पमुपबृंयन् 'उत्तम- तमं कल्याणकारणं गृहीतामित्याभाष्य पृच्छति 'ततस्तत: इति ।

पञ्चमोऽङ्कः। श्रीकृष्णः-४२धन्या दयालुता श्रीमहेशस्य; ततस्ततः ? सुदामा -४३ततो 'भगवन् ! न मे आविञ्चिपदारकुत्रापि विषया- खेपु स्पृहा स्वप्नेऽपि, केवलं त्वमेव वरणीयस्तस्यापीदानीं साक्षा- दर्शनं जातं, तेन कृतकृत्यस्य न मे किञ्चिदपि वरणीयमवशि- प्यते । इति मयोफम् । श्रीकृष्णः-युक्तमेवोक्तं, ततस्ततः ? सुदामा-ततः पुनर्भगवता 'वत्स ! तथापि यत्ते नियतमं तद् वृणीय' इत्युक्तम् ।. श्रीकृष्णाः-४४अहो !! भगवतः स्वमतेपु वत्सलतातिगयः; ततस्ततः ? सुदामा-४५ततो न जाने तम्यैव प्रेरणयाऽयवा मदीयपुण्यपुखपाकेन-- भगवन् ! मम तु त्वमेव प्रियतमो वरणीयो दुर्लभतमश्चासि (४२) मुदाम्ना-पष्टिवर्षपर्यन्तमनुष्ठितया प्रतिसंवत्सस्यात्रया परितुष्टेन श्रीकेदारनायेन साभाद् दर्शनं दत्त्वा 'वत्स ! अतिवृद्धतया नानः परमत्राग- न्तव्यं यत्ने वरणीयं तद् वृणु' मत्युक्तम्-इति निवेदिवे श्रीकृष्णो महेशस्य दयालुतां धन्येतिपदेनाभिनन्द्य (सुदामा किं वृतथानिति ) नानुमुत्क आह वत- खत इति । (४३) वृतमेव वरं विवृगोति मुदामा-स्वेष्टदेवतसाक्षात्कारमात्रेण कृतल्यम्मन्यस्य मकस्य न किमपि वरणीयमवशिष्यत एलर्थः । त्वमेव साधा- करणीय इत्यतो न चास्ति कार्य गुरुयोगिनामपि इति मा श्रीकृष्णं प्रति नारदवचोऽप्यमुमेयार्थ दृढयति । (४४) श्रीकृष्णेन सुदामोक्तमनुमोदमानेन 'युक्तमेवोक्त मित्युक्त्वा ततस्तत' इति जिज्ञासाकुलता दर्शिता तदा यत्मेत्यामन्त्रणपूर्व- 'तयापियरणीयशेपामावेपि-यने मियतमं तद् वृणीष्व' इति मगवद्वचनमनुव- दतिम मुदामा, तच्छुत्वा शिवस्य स्वमतेषु वत्मलतातिशय 'महो' इति निपात- प्रयोगेणामाग्य मासानमरं मुदामोदितं यचनमरगन्तुं ताम्पन्निवाह ततस्तत इति । (४५) सयं याचितस्य वरस्य देवयोगादेवानम्तिोरनिपानित्यमिक व्यायनाइ भगवनिनि हेतुमुटते-दीपप्रेरणया मदीयपुमपुक्षपाकेन वेति । अनमोरकतरेणेवान हेतुना भपित नापरेणे यर्थ.। टुलंमतमस्य प्रियतमरस .

श्रीकृष्णचन्द्राभ्युदयम् । तथापि पुनः पुनः प्रेमप्रायल्यान्मां याचितुं प्रेरयसि तहि नाहं किमप्यन्यद्वेद्मि; यदि तथापि प्रियतमं वस्तु चेत्तर्हि तस्यापि तवेव साक्षाद्दर्शनमभियाचे' इति सप्रणाममुक्तं मया । श्रीकृष्णः-४ प्रियमित्र ! अतीवविचित्रमचिन्त्यं च किमपि याचितं भवता; ततस्ततः ? मुदामा-४७ततः परमानन्दप्रफुल्लितमनोलोचनो भगवान्- "जानासि द्वारकाधीश देवकीवसुदेवयोः । नन्दनं श्रीकृष्णचन्द्रं चन्द्रं त्रिजगतामपि?॥२३॥” इत्याह । श्रीकृष्णः- (स्वगतम् ) ४८अप्रसङ्के कोऽयं प्रश्नावसरो ! भवतु क्रमाञ् ज्ञास्यामि 1 (प्रकाशम् ) ततस्ततः ? सुदामा-ततो-४ जानामि तं महाराज बालमित्रं स मे प्रभो !!. तेन सार्द्ध मयाऽधीता विद्या एकगुरोहे ।। २४ ।' च वस्तुन एव वरणीयत्वं, तादृक् तु मम त्वमेवासि स च लब्ध एवेति वरणीयशे- पाभावः । मां प्रेमप्राबल्यात्प्रेरयसि वरं याचितुं तहि 'यत्तयापि त्यात् प्रियतमं यस्तु तस्य तवेदानीमिव साक्षाद्दर्शनमभियाचे' इत्युक्तवान् नुदामा । (४६) सुदामप्रार्थिते वस्तुनि विस्मयमावहन् ‘प्रियमित्र ! अतीव वि- चित्रमचिन्त्यं च किमपि याचितं भवतेति श्रीकृष्ण आह । वदुत परमेश्वरस्यापि प्रियतमं स्याद्वस्तु तन्ननमलौकिकमेवेति वैचित्र्यहेतुः, कीदृशं किमिय हि तद् भवेदित्यचिन्त्यताहेतुरिति । जिज्ञासाकुलः पृच्छति 'ततस्तत' इति । (४७) मनसो लोचनयोश्च प्रफुल्लितत्वे हेतुः परमानन्दस्तदुद्भवन प्रियस्य वस्तुनः स्मरणमित्याशयः । भगवान्-महादेव आहेत्यनेन सम्बन्धः । द्वारकाधीशमित्यनेन नवद्वारपुराधिष्ठानन्तर्यामिता, देवकीवसुदेवयोर्नन्दनमित्य- नेन मायामायिनोः साक्षिता, त्रिजगतामपि चन्द्रमाादकमित्यनेन निरतिशया- नन्दता च विशेषणत्रितयेन बोधिता । यद्येनं जानासि तत्वतो वेत्सि चेत् कृत- कृत्योसीत्याकृतम् । (४८) महादेवाशयमनाकलयन् सन्दिग्धे श्रीकृष्णः स्वगते--कोयम प्रसङ्गे प्रश्नावसर इति । स्वयमेव समाधत्ते भवत्वित्यादिना । प्रश्नाशयमवगन्तुं स्वराकुलः पृच्छति 'ततस्तत' इति । (४९) तं महाराज (श्रीकृष्णम्) जानामि; न केवलं मामान्यज्ञान- पञ्चमोऽङ्कः। सुदामा-ततो-५२० इति मया प्रोक्तम्। श्रीकृष्णः-सम्यगुक्तं; ततस्ततः ? सुदामा-ततो भगवतोक्तम् 'वत्स सुदामन् ! ५०स वै मूर्त इवात्मा मे हृदयं वा पुमाकृति ।। मूर्त्ता मे पालिनी शक्तिी तं तं मामवेहि भोः ! ॥ २५ ॥ स मे प्रियतम वस्तु कुरु तदर्शनं मुदा ॥ मैन्या तुष्टः स ते देवश्चिन्तारलं भविष्यति ॥२६।। इति । श्रीकृष्णः-(५१सहश्रुिपातं रोमाञ्चिनमकलगात्रः) ससे सुदामन् ! अहो भक्तवत्सलस्य भगवतो भक्तवत्सलता यया परतन्त्रः परमेश्वरः स्वकीयमनन्यभक्तं मां स्वसमानं कुरुते । ततस्ततः ? 'भगवन् ! यथाभवदाझं करिष्ये' इति मयोक्ते नात: परमत्रागन्तव्यं श्रीकृष्णचन्द्रदर्शनमेव मर्दानं मन्तव्य' मित्याह भगवान् । मंव अपितु परिचयोऽप्यस्ति यतः स मे बालमित्रम् । मित्रत्वमपि न यथा कथञ्चित् किन्तु निरूढमित्याह तेन (श्रीकृष्णेन ) सार्द्ध मया एकगुरोः (सान्दीपिनेः) गृहे विद्या अधीताः । तथा च सतीर्थ्यावायामिति चिरपरिचया- द्याथायन तं जानामीत्यर्थः । (५०) श्रीकृष्णस्तु विविदिपाक्रान्तान्तरङ्गः मम्यगुक्तमित्यनुमोदमान आह- ततस्तत ' इति । तदुत्तरयन् मुदामा महादेयोक्तमनुवदति 'स' इति । मः श्रीकृष्णचन्द्र: में मूर्त आत्मा इव, पुरुषाकारेण परिणतं हृदयमिव अस्तीति अंपः । किञ्च जगतां पालिनी मे मूर्ती शक्तिरपि स एव, अतो हेतोर्मा तमवेहि नञ्च मामबेहि । उभयोरप्यावयोः परस्पर भेदलैशापि नाशङ्कनीयः । अपिच स श्रीकृष्ण: मे प्रियतम वस्तु तस्मान्मुदा (नित्यं) तद्दर्शनं कुरु, स देव: मत्र्या- नुष्टः मन् ते चिन्तारत्नं भविष्यति, तव मनोभिलषितं सर्व पूरयिष्यतीत्यर्थः । (५१) परमशिवस्य स्वस्मिन्ननुग्रहातिरेकं विभाव्य हथुिरोमाञ्ची माविकमायावनुभवन् मुदामानमाह सम्वे इति । अहो इति निपातोच्चारण भक्तवत्सलतायां विस्मयं प्रकटयन् तत्प्रयुक्त स्वस्मिन् शिवस्य स्वामेदभायन- म कल्ला मनमि मुदमादधाति । (५२) मुदामा-भगवन् महेश्वर ! भवदाहामनतिक्रम्य नित्यं श्रीकृष्ण दर्शनं करिष्ये इति स्त्रोक्तमन्हा शिवोक्तमनुवदति-'नातःपामत्र प्रतिवर्ष .

१७२ श्रीकृष्णचन्द्राभ्युदयम् । श्रीकृष्णः-43मा मे वृद्धो भक्तो मदर्शनार्थ दूरदशाटनदुःखमनुभव' विति दययैव दयालोरियमुक्तिः । ततस्ततः ? (बदरिकाश्रमे ) आगन्तव्यं, श्रीकृष्णदर्शनमेव मद्दर्शनं मन्तव्य, यत आवयोर- भेद: पूर्वमेवोक्त इत्यर्थः । तथा च श्रीमद्भागवते श्रीभगवद्वचनम्-स्कन्धे ४ अपाये - अहं ब्रह्मा च शर्वश्व जगतः कारणं परम् ।। आत्मेश्वर उपद्रष्टा स्वयंहगविशेषणः ॥ ५० ॥ आत्ममायां समाविश्य मोहं गुणमयी द्विज! ॥ सृजन् रक्षन् हरन् विश्वं दधे सज्ञा यथोचिताम् ॥ ५० ॥ तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ॥ ब्रहारुद्रौ च भूतानि भेदेनाऽज्ञोऽनुपश्यति ॥ ५२ ॥ यथा पुमान् न स्वाङ्गेषु शिरःपाण्यादिषु वचित् ॥ पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३ ॥ त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ॥ सर्वभूतात्मनां ब्रह्मन् म शान्तिमधिगच्छति ॥ ५४ ॥ भेदशौ शियगृहाँ विनिन्दापि तत्रय चतुर्थेऽध्याय--- यद् द्वाक्षरं नाम गिरेरितं नृणां सकृत्यसद्गादधमाशु इन्ति तत् ॥ पवित्रकार्ति तमलवयशासनं भवानहो द्वेष्टि शिवं शिवतरः ॥ १४ ॥ किं वा गिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जाःस्मशाने ।। तन्माल्यभस्मनुकपाल्यवसत् पिशाचैर्ये मूर्द्धभिर्दधति तच्चरणावसृष्टम् ॥१६॥ शिवनिन्दाश्रवणे दोपस्तत्प्रतीकारश्च तत्रैवोक्त:-- कर्णी पिधाय निरियाद्यदकल्स ईशे धर्मावितर्यसृणिभिभिरस्यमाने ॥ छिन्द्यात् प्रमह्य स्पतीमसती प्रभुश्चेजिह्वामसूनपि ततो विसृजेत्स धर्मः॥१७॥ यतस्तत्रैव पठेऽध्याये-३६ तमे श्लोके- * उपविष्टं दर्भमव्या वृस्यां ब्रह्म सनातनम् । इति सनातनब्रह्मपदेन निर्देशाच् शिवस्यैव त्रिमूर्तिभावः शास्त्रसिद्ध एवानूदितः । (५३) शिवोपदेशाशयमन्यया वर्णयन् स्वोत्कर्पमपन्हुते श्रीकृष्ण:- 'मे वृद्धो भक्तो दूरदेशाटनदुःखं मद्दर्शनार्य माऽनुभवतु । इति दयया दया- लोदेवस्येयमुक्तिर्न परं मदुत्कर्षवर्णनाशयेनेत्यभिप्रायः ।

पञ्चमोऽङ्कः । सुदामा-ततो 'भगवन् ! यावन्नी हि केदारे केदारेश्वरदानम् ।। प्रतिसंवत्सरं कार्य-मिति में नियमो दृढः ।। २७ ।। इति मयाऽऽमसङ्कल्सो निवेदितः । श्रीकृष्णः ततो महादेवन किमुक्तम् ? सुदामा-"तत: क्षणं विचार्य- 'मुद्रामन् वाम ! मा चिन्तां कुरु, भक्तिवशाशयः ।। केदारकुण्डसहितोऽहमेष्यामि भवत्पुरम् ॥२८॥ स्वन्मन्दिगत् पश्चिमतः समसूत्रे हि मे स्थलम् ।। भविता येन ते गेहस्थिती दृश्यसि मां सदा ॥ २९ ॥" इत्युक्त्वा श्रीकेदारलिङ्ग एव श्रीकेदारेश्वरोऽन्तहिनः । श्रीकृष्णः-५सखे!त्वमेव खलु लोके भगवनोऽनन्यभको यक्तियों भगवान् केदारनाथोपि त्वन्नगरं प्राप्तः। नुदामा-नायं प्रसङ्गो मम भनवख्यापनाय मया प्रकाशितः किन्तु 'भवत्तपश्चरणान पूर्वमपि त्वयि सहजः प्रेमातिगयनद्चमैव इष्टर इति दर्शयितुमेव । (५४) श्रीकृष्णेन पूर्वाधान्ने ननस्ततः । इति पदाम्पा जिज्ञास- नमर्थमा मुदामा-नन इत्यादिना । मा यायत्री प्रतियप केदारेश्वरदर्शन शामिति मे दृढी नियम इति नदा निजमल्यो निदिनो मया । (५५) अथ महादेवन किमुक्त' मिति श्रीकृष्णेन पृटः नुदामाऽऽद्द । देवास मुदामन् चिन्ना मा कुरू, यतो भनियमान्तरङ्गोऽई केटारकुण्डसहित- स्वत्पुरमेध्यामि, त्यमन्दिरायश्चिमत: ममसूत्रस्थाने मे स्थल, येन त्वं स्थगृह-- स्थित एव सदा मां द्रध्यमि, इति यदन्नेव केदारलिङ्ते केदारेश्वगऽन्नहितः। (५६)वानी श्री मुडामनि गरिमाणमारापयनि-मन्वे ! त्वमेष भगवनोऽनन्यमतः यद्दतिवमा भगवान् केदारनाथाऽपि स्यनगर ग्रास इति किं वयामि तव शिवमतिमाहात्म्यम् । (५७) श्रीकृष्णप्रयुना सस्नुतिमनमरत्वकथनेनापीय प्रमगं रमार- पति । न हि माऽयं प्रमही मम शिवभकल्याख्यापनायोरन्यस्तः किन्तु त्वत्रि गरि तपश्चरणान्मदेशस्य महजः प्रेमानिशमः शिववचमेर दर्शयिमित्याशयः ।

१७४ श्रीकृष्णचन्द्राभ्युदयम् । श्रीकृष्ण:--"जानामि सखे!जानामि- नारायणत्वेपि तपःप्रतुष्टः स एव देवोऽभ्युदयाय मेऽभूत् ।। रामावतारेपि जयप्रदो मे श्रीरामनाथः समभूदयालुः ।। ३० ॥ कुत्र कुत्र भक्तवत्सलेन तेन स्वकीयस्यानन्यभत्तस्य मे साहाय्यं न कृतं ? तत्राप्यस्मिन् कृष्णावतारे तु प्रतिपदं साहाय्यं करोति- शृणु- कारागारे समजनि जनिर्गोकुले गृढवासो गोगोपीभिः सह विहरणं गोपालैश्च मैत्री • कावस्था सा पद वद सखे ! फेयमीशोपदिष्टा स्वीयं भक्तं स्वसममवनौ को हि कुर्याद्विनेशम् ॥ ३१ ॥ ( इत्यणि मुञ्चन्नेव पुनः सानन्दम् ) यया मया निर्मितया सुभक्त्या तुष्टोऽकरोन्मां स्वसमं महेशः ॥ सा येन मह्यं कृपयोपदिष्टा तस्यानृणोऽहं सुगुरोः कदा स्याम् ।।३२॥ (इति पुनरभूणि मुञ्चति) ॥ (५८) सुदामोक्तमगीकुर्वन्तस्मिन् स्वानुभवान् प्रमाणयन्नाह 'जाना- मीति ।। पुरा नारायणत्वेपि तपःप्रनुपः स एव देवो (महादेवः) मे अभ्यु- दयाय.अभूत् । एतच्चोपपादितं प्रथमाङ्कव्याख्यायां २० तमे पृष्ठे द्रोणपर्योक्न व्यासवचनैः 'योऽसौ नारायणो देव : इत्यादिनेति न पुनस्तन्यते । रामावता- रेऽपि दयालुः श्रीरामनाथो मे जयप्रद: समभूत् । तया चोक्तं रामायणे ' अत्र पूर्व महादेवः प्रसादमकरोन्मम । इति पुष्पकस्थितेन रामेश्वरस्थानं मीतायै निर्दिशता स्वयमेव श्रीरामचन्द्रेणेत्येतत्सर्व संस्मृत्यास्मिन् कृष्णावतारे तु प्रतिपदं साहाय्यं करोतीति सविशेपमुक्त्वा तदुपपादकप्रसङ्गानुपन्यस्यति शृण्वित्या- ! दिना । मम हि कारागारे जनिर्जना समजनि, तत एधारभ्य गोकुले गूढवाम: कंसभयात् , तत्र च गोभिर्गोपीभिश्च सह विहरणं, मैत्री च गोपबालैः, सा अवस्था छ, कचेदानीमीशेनोपदिष्टा अवस्था; त्वमेव वद वद, स्वीयं-निज- भक्तं मामवनौ स्वसम, लोके स्वसमानैश्वर्वत्वेन प्रसिद्धम्-त मीशं महादेवं- विना अन्यः कः कुर्यात् ? । एवं शिवानुग्रहं वर्णयित्वा तन्निदानभूतं गुरोरनु- ग्रहमपि वर्णयति । मया निर्मितया यया भक्त्या तुष्टो महेशो मा स्वममम. करोत् सा भक्तिर्येन मह्यमुपदिष्टा तस्य गुरोरहमनृणः कदा स्यामिति वदन्यु- नरश्रूणि मुन्नति ।

पञ्चमोऽङ्कः। मुदामा-(स्वगतम्) अतिभूमि गतोऽस्य शिवगुरुभक्तिरसावेश- स्तदन्यतो नयामि । (प्रकाशम् ) श्रीकृष्णचन्द्र ! अन्तर्हितो भग- वाँश्चन्द्रचूडामणिस्तदेहि, मे गृहं चरणकमलपत्या पवित्रं कुरु । श्रीकृष्ण:---(E°स्मृतिमभिनीय ) सुदामन् ! श्रीपरमशिवदयालुतावर्णन- प्रसनेन बहुलो व्यतीतः कालस्तद्दर्शय ते राजधान्या मार्गम् । सुदामा-(साञ्जलिबन्धम् ) यथाज्ञा नाथस्य । इत इतो देवः । (इति सकृष्णो निष्कान्तः) (ततः प्रविशन्ति मुधासभायामुग्रसेनो वसुदेयो बलदेवः श्रीकृष्णो भीमोऽर्जुनः सात्यकिः कृतवर्माक्रूर उद्धवश्व) भीमसेनः-राजन् ! श्रीकृष्णचन्द्रपत्न्यः सर्वा अन्तवल्यः सन्तीति श्रुत्वा महाराजेन युधिष्ठिरेण प्रहर्पप्रदर्शनायाभिनन्दनदानाय च (५९) भक्तिरसावेशविवशं श्रीकृष्णमालक्ष्य सुदामा स्वगते तमन्यतो नेनुमभिलप्य श्रीकृष्णं सम्बोध्य ' अन्तर्हितो भगवान् चन्द्रचूडामणिरित्यतो- ऽवेदानीमवस्थानप्रयोजनमवसितमतः प्रतिज्ञातानुरोधेन मे गृह चरणकमल (न्यास) पंक्त्या पवित्रीकुरु इत्यर्थयते । (६०) प्रतिज्ञामारमृत्य 'मुदामन् परमशिवदयालुतावर्णनप्रसझेन बहुल: कालव्ययो जातस्तदिदानी ते राजधानीमेव गच्छामस्तन्मार्ग दर्शयेत्याइ । (६१) सुदामा स्वेष्टसिद्धि मन्यानो 'यथाशा नायस्थे । त्युक्त्या 'इन इतो देव इति निजराजधानीमार्गमादर्शयन् सह श्रीकृष्णेन निफ्रान्तः । (६२) अतः परं वर्धापनाय वन्नाभूषणादिदानाय चागतानां युधि- टिरमहाराजप्रेपितानां भीमसेनादिवान्धवानां मुधर्माममायां प्रवेशमुपनिवभाति ऋषिः । सर्वासा श्रीकृष्णपत्नीनां गर्भवतीत्वख्यापनमत्र सूच्यार्थप्रतिपाद- नमेव तच्च- अर्थोपक्षेपकः सूच्यं पञ्चभिः प्रतिपादयेत् ॥ विष्कम्भचूलिकाऽकास्याऽशावतारप्रवेशकः ॥ इति दशरूपकोक्तप्रकारेण कर्तव्यं, तेषां प्रकाराणामनवमरत्वादन 'आनन्दो वाञ्छितावाप्तिरित्यानन्दाङ्गत्वेनोपन्यासो शेयः । (६३) भीमसेनः ममा युधिष्ठिरसन्देशं आवयंस्तदीयपत्रं दातुमु. गुइन् । श्रीकृष्णपल्यः मा अन्तर्वन्यः सन्तीति [अन्तर्वत्पतिवनौगिति नुगागाम:] श्रुत्वा महाराजेन युधिष्टिरेण प्रेषितायायां, धनञ्जयद्वितीयत्वाद १७६ श्रीकृष्णचन्द्राभ्युदयम् । प्रेषितावाबाम् । इदं महाराजस्य पनमिमाश्व वस्त्रालङ्कारम- जूपाः सर्वाभ्यः पृथक् पृथक् प्रदातुम् ( इतिवदन्पत्रं ददाति मजूपाश्च दर्शयति ) उक्तं च महारानेन 'मातुलबर्याणामस्माकं श्रीवसुदेवा भिख्यानां चिरेण फलितः सङ्कल्पकल्पपादपस्तेन मो. दामहे, भवतु सर्वासां पुत्ररत्नप्राप्तिरिति प्रार्थयामहे च परमे- श्वर मिति राजा उग्रसेनः-६ भीमसेन ! अर्जुन! आभ्यन्तराणां हि सम्बन्धिनां स्वकीयानामभ्युदयं वीक्ष्य परमानन्दप्राप्तिहि स्वाभाविको धर्मः । महागजो युधिष्ठिरो वसुदेवाभ्युदयं वीक्ष्य नाऽऽनन्दं प्राप्नुया- त्तहिं कोऽपरः प्राप्नुयात् ? घसुदेवः-मन्यामहे वयं निःसीमधर्मकर्मपरायणस्य महाराजधर्म- गजस्य धर्मकर्मप्रभावात्तदीयाभिः शुभेच्छाभिश्चायमत्यन्तमत- तिः परमाभ्युदयलाभ इति । भीमसेन:-कोऽयमुपचारातिशयः ? मातुलवयं ! श्रीमतामेव पूर्व- पुण्यपारिजातवनान्यगण्यानि चिग्ण फलितानि; को वेदानी भवादृशोऽगण्यपुण्यपुस्तकारिणामग्रेसरो वर्तते लोकत्रयेऽपि श्री- -डिवचन।'इदं पत्र मित्युक्त्या पत्रं ददाति 'इमाश्च मया' इत्युक्या पुरोनिहिता मनपाः प्रदर्शयति । सन्देशशेष श्रावयति 'उक्तं च महाराजे- नेत्यादि । (६४) उग्रसेनो युधिष्ठिरसन्देशं श्रुत्वा लौकिकसामान्यकथनेन युधि- विरकृतमुपचारवच उत्तरयति भीमसेन ! अर्जुन ! इत्युभावपि सम्बोध्य । अत्र 'आभ्यन्तराणां हि सम्बन्धिनां त्वकीयजनाभ्युदयं वीक्ष्य परमानन्दप्रातिः सा- भाविको धर्म' इति सामान्येन 'महाराजो युधिष्ठिरो वसुदेवाभ्युदयं वीक्ष्य नानन्दमाप्नुयातर्हि कोऽपरः प्राप्नुयादिति विशेषस्य समर्थनार्थान्तरन्यासः । (६५) वसुदेवः स्वाभ्युदये धर्मराजस्य धर्मकर्मणां तदीयशुभेच्छानां च हेनुस्वमुपनिवभन् परमाभ्युदयस्यातर्कितापनिपातिनस्तादृशानेकहेतूपबृंहितत्व- माबोधयति 'मन्यामहे । इत्यादिना । (६६) भीमसेनो वमुदेवोक्तं सर्वमुपचारवच एवेति निगदेनेवाभाष्य' सर्वस्थाभ्युदयस्य हेत्वन्तरानपेक्षभवदीयपूर्वपुण्यफलत्वमेव, यतो लोकत्रयेऽपि भवाहशोऽगण्यपुण्यकारिणामनेसरोऽन्यः को वाऽस्तीति, न कोपीत्यर्थः, इत्याह ।

पञ्चमोऽङ्कः। १७७ कृष्णचन्द्रसदृशलोकोत्तरप्रभावप्रकाशिसपुत्ररत्नजन्मैव श्रीमतां पूर्वपुण्यपुचमहिमानं निवेदयति । उग्रसनः-सत्यं सत्यं भीमसेन ! सत्यमेव भवदुक्तम् । अर्जुन:--सन्त्येव मातुलवर्याणां पुण्यपुक्षा ईदृशं परमाभ्युदयं दातुं समर्थास्तथापि श्रुतं मया 'श्रीकृष्णचन्द्रेण तपोवनं गत्वा दुष्क- रतरतपश्चरणपरितुष्टात्परमेश्वरान्महेश्वरात्तादृशः कश्चिद्वरोपि लब्ध' इति । वसुदेवः---"वत्स अर्जुन ! सत्यं श्रीमहेश्वरप्रसादानन्तरमेवायमभ्यु- दयाङ्कुरो दृश्यते । स्वोक्तसमर्थनाय चाह-लोकोत्तरप्रभावप्रकाशिश्रीकृष्णसदृशपुत्रलाभ एव पूर्व- पुण्यपुञ्जमहिमानमवगमयति । (६७) भीमसेनोत्तमनुमोदतै उग्रसेनः सत्यमित्यादिना । (६८) अर्जुनः पूर्वपुण्यपुञ्जस्य विद्यमानत्वेपि एतावत्पर्यन्तमभ्युद- यस्य मप्रतिबन्धत्वं विदन् तादृशप्रतिबन्धापनयायानुष्ठितमुपायान्तरं श्रुतमपि विशेषतो जिज्ञासमानः पृच्छति मन्त्येवेति । (६९) तदुक्तमूरीकुर्वन्नाह वमुदेवः 'वत्स अर्जुन ! सत्य (भवदुक्तम्) श्रीमहेश्वरप्रसादानन्तरमेव अयमभ्युदयाकुगे दृश्यते इति । अत्र हि कविना 'बीजागमः समाधानम् । इति लक्षणलक्षितं समाधानाख्यं नाटकाङ्गमुपक्षितम् । यथा रत्नावल्यामू--- चामवदत्ता-तेन हि, उपनय उपकरणानि । मागरिका--भर्तृदारिके ! सर्वमेतत् मत्रमेव । वासवदत्ता-(निरूप्य आत्मगतम् ) अही प्रमादः परिजनस्य, यस्वैव दर्शनप- थात् प्रयत्नेन रक्ष्यते तस्येय कथं दृष्टिगोचरं गता भवेत् (प्रकाशम्) चेटि सागरिके! कयं त्वमद्य पराधीने परिजने मदनोत्सवे सारिका मुत्तवा इहागता; तत्तत्रैव गच्छ। इत्युपगमे--- सागरिका-(स्वगतम् ) सारिका तावन्मया सुमलताया हस्तेर्पिता प्रेक्षितुं च मे कुतूहलं वदलभिता प्रेक्षिप्ये । इत्यनेन पासवदत्ताा स्नावलीवत्सरानयादर्शनप्रतीकाराल्मारियायाः मुसगना- १७८ श्रीकृष्णचन्द्राभ्युदयम् । अर्जुन:-आर्य मातुलबर्य ! ७°तुष्टे परेश्वर उमासहिते महेझे किं दुर्लभं भवति वस्तु जगत्रयेऽपि ॥ चिन्तामणिः सुरतरुः मुरभिश्च तस्या- धीना हि यत्र करुणा तरुणेन्दुमालेः ॥ ३३ ॥ अतः श्रीकृष्णचन्द्रस्य गृहे प्रातान्येव पुत्ररत्नानीति पश्यामि । (ततः प्रविश्य दास्यः) सर्वाः सहैव-७१मान्य महाराज ! आर्य तातवसुदेव ! आर्य बलभद्र ! श्रीपरमेश्वरप्रसादात् श्रीमक्मिणीसत्यभामाजाम्यवतीप्रमुखानां सर्वासां श्रीकृष्णधर्मपत्नीनां पुत्ररत्नानि समसमये जातानीति वर्धापिताः स्थः । श्रीपरशिवप्रसादात्सर्वाणि पुत्ररत्नानि सदा- ऽऽरोग्यवन्ति आनन्दवन्ति दीर्घायुष्मन्ति च भूयासुरिति भूयो भूयः प्रार्थयामहे परमेश्वरम् । (इति वदन्त्यः सानन्दाश्रुपातं सर्वा दास्यः प्रणमन्ति) र्पणेन अलभितप्रेक्षणेन च वत्सराजसमागगहेतो/जस्योपादानात् समाधानम् । यथा वा वेणीसंहारे- भीमसेनः-चञ्चद्भुजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ॥ स्त्यानावनद्धघनशोणितशोणपाणि- रुत्तंसयिष्यति कचाँस्तव देवि ! भीमः ॥ इत्यनेन वेणीसंहारहेतोःक्रोधबीजस्य पुनरुपादानात्समाधानमेवमत्र अभ्युदयहेतोः शिवानुग्रहरूपबीजस्य पुनस्पादानात्समाधानम् । (७० ३०) अर्जुनो वमुदेवं सिद्धाभिलापमाचक्षाणः प्रोत्साहयति-मातु- लवर्य ! उमासहिते परेश्वर महेशे तुष्टे जगत्रयेऽपि किं नाम वस्तु दुर्लभं भवेत् , न किमपीत्यर्यः । अतश्च श्रीकृष्णचन्द्रस्य गृहे पुत्ररत्नानि प्राप्तान्येव इत्यह पश्यामि । यतः-तरुणेन्दुमोलेयंत्र करुणा (जायते) तस्य चिन्तामणिः मुरतरः मुरभि:-कामधेनु:-इत्येते सर्व अधीना एवेति । (७१) अत्रान्तरे दासीनां पुत्रजन्मवृत्तान्त निवेदयितुं प्रवेशः । मा नाम काचिदपि वद्धापनप्रसादपारितोषिकलामे वैषम्यमुपेयादिति सर्वाः सहैव- पञ्चमोऽङ्कः। १७९ सर्वेपि-(सानन्दम् ) ७२अद्य श्रीकरुणार्णवस्य करणादग्वीचयो निस्तुलाः सर्वत्र प्रसृताः समस्तमुखदाः श्रीसाम्यशम्भोः शिवाः ॥ वृद्धानां फलितश्च पुण्यनिचयः सत्याशिपो देशिका यन् सत्पुत्रपरम्परा विलसति श्रीकृष्णचन्द्रालये ।।३३।। (इत्युक्वोत्याय प्रहपात्परस्परमालिङ्गन्ति परस्परं वनाभरणानि च प्रयच्छन्ति । मुहूर्तानिवृत्ते च तम्मिन्नानन्दकोलाहले) राजा-कृतवर्मन् ! ७३सिच्यन्तां राजमार्गाः सुरभिमुसलिलैः केतवस्तोरणानि वध्यन्तां सत्पताका: प्रतिमुरभवनं दीपमाला लसन्तु ॥ दासीनां या यदिच्छेद् दिशत विनयतस्तच तचाशु तस्यै विप्रेभ्यो गोमुवर्णान्यथ मणिवसनक्षेत्रभूमन्दिगणि ॥ ३४ ॥ मान्य महारान ! आर्य तात वसुदेव ! आर्य बलभद्र ! इति त्रीनपि एतान्वथा योग्यमनुक्रमेण मम्बोध्य ' श्रीरुक्मिणीप्रमुखानां सर्वासां समसमरे पुत्ररत्नानि नातानि' इति संश्राव्य 'पापिताः स्थ: । इति मङ्गलोदग्रं निवेदनम् । तानि च दीघायुरारोग्यानन्दभाञ्जि भूयागुः परशिवप्रमादशदेवेत्याशंसमानाः सानन्दा- मुख्यः सर्वाः प्रणमन्तीति । (७२) मगलोदन्तश्रवणेन जातानन्दाः सपि सम्भूयेव गृणन्ति अद्ये. त्यादि । श्रीकरुणार्णवस्य श्रीसाम्बशम्भोः ममस्तमुखदाः शिवा: कल्याण्यो- निस्तुला: करुणादृग्वीचय: सर्वत्र-अस्मट्टषु-प्रसृताः,क्रिञ्च वृद्धानां पुष्पनिच. यश्चाऽद्य फलितः, दैशिकाः अम्मकुलगुरवः-सत्या आशियो येषां तामा अद्य जानाः; यदद्य श्रीकृष्णचन्द्रालये सापुत्रपरम्परा विलसति । एवं वदन्तस्ते सर्य मिय आलिङ्गन्तो पत्राभरणानि च प्रयच्छन्तो हलांविर्भावमनुभवन्तिस्म । (७३) राजा उग्रसेनः कृतवाणं मगलमयसमयकर्नधान्यादिशति- सिच्यन्तामित्यादिना । मुरभिमलिले राजमार्गाः सिच्यन्ता, केतवः तोरणानि पताकाश्च बध्यन्ता, प्रतिदेवालयं दीपमाला: लमन्नु । किञ्च दामीना (निर्धा- रणे पष्टी) मध्ये या यदिच्छेत्तस्यै तद् वस्तु आशु दिशत; तच्च विनयतो, यतो. ऽनादरेण दनं मनोमग उनयेदिति विनयेन प्रतिपादयतेत्यर्थः । प्रामणेभ्यश्च गा: मुवांनि मीन् यसनानि क्षेत्रभुवो मन्दिराणि च विनयेन दिशनेति पूर्वेग सम्बन्धः।

श्रीकृष्णचन्द्राभ्युदयम्। किञ्च-७४न सन्ति चौरा भगवत्प्रभावा- च्छून्यासु कारास्विति पसरस्थाः ।। लीलाविहङ्गाः शुकसारिकाद्या विमुक्तवन्धा विहरन्तु सौख्यात् ।। ३५ ।। कृतवर्मा-यथामहाराजाज्ञ सर्व कर्तुं गच्छामि ( इत्युक्त्वा निष्कान्तः ) वसुदेवः-वत्स कृष्णचन्द्र ! श्रीगर्गाचार्यमाहूय जातकर्मविधीन यथा- विधि विधेहि। श्रीकृष्णः-"यथाज्ञा पितृचरणानाम् । (इत्युक्त्वा निकान्तः) राजा-अयि सभ्याः ! परमानन्दप्रसङ्गेन विस्मृतसर्वव्यवहाराणा- मस्माकमविदित एव भोजनसमयो व्यतीतस्तदेत भोजनाय गच्छामः । (इत्यासनादुत्तिष्ठति ) सभ्याः-(समुत्थाय) यथाज्ञा महाराजस्य । इत इतो देवः (निष्कान्ताःसर्वे) (ततः प्रविशन्ति--सपरिवारो राजा उग्रसेनः षष्ठीजागरणमहो- त्सवाय मिलिता नानादिग्देशागता नृपतयः पौरजानपदा यादवाश्च ) नृपतयः-("नानोपायनानि निवेद्य ) महाराज ! श्रीकृष्णचन्द्रस्य मन्दिरेषु पुत्ररत्नानां समुत्पत्तिं निशम्यास्माकं मनःसु य आनन्द- उच्छलति न तं वर्णयितुं शक्ता वयम् । परमकृपापारावारस्य श्रीमहेश्वरस्य कृपया सर्वेपि ते दीर्घायुष्मन्त आरोग्यवन्त आन- न्दवन्तश्च भूयासुरिति प्रार्थयामहे महेश्वरम् । (७५) यदा राज्ञाऽऽज्ञप्तं सर्वमनुष्ठातुं निर्गतः कृतवमा तदा श्रीकृ. Uणचन्द्रोपि श्रीवसुदेवेन- वत्स ! गर्गाचार्यगाहूय यथाविधि सर्वेषां पुत्राणां जात- कर्मविधीन्विधेही त्याज्ञतस्तथा कर्तु यथाना पितृचरणाना मिति वदन्निष्क्रान्तः । (७६) राजापि-परमानन्दप्रसङ्गेन व्यवहारान्तराणां विस्मरणं लोकाना स्वभावसिद्धमनुवदन् भोजनसमयात्ययं निमित्ती कृत्योतिष्ठति । तमनुमरन्तः सर्वे सम्या 'इत इतो देव । इति वंदन्तो निष्कान्ताः । (७७) इदानी पठीमहोत्सवप्रसङ्गेन समागतानां रामा पौराणां च, प्रवेशः पुत्राणां वनाभरणादिदानार्थम् । (७८) अनेकविधोपायनहस्ता राजानः 'महाराजे । त्यादि प्रार्थना- महे महेश्वर मित्यन्तेन वर्धापयन्ते ।

पञ्चमोऽङ्कः । १८१ उग्रसेनः-राजानो महाराजा राजाधिराजाश्च ! श्रीपरमेश्वरप्रसा- दाच् श्रीमतां च सर्वेषां शुभेच्छाभिः शुद्धाभिः परेश्वरप्रार्थना- भिश्च एप परमानन्दमयः समय आयात इति मन्यामहे । पौरा जानपदाश्च-(नानोपायनानि निवेद्य) "श्रीकृष्णेन वयं यथा तनयवत् सम्पालितालालिता- निःसीमात्मजनस्थवत्सलतया सम्पोपिताश्चानिशम् ।। तत्पुत्राश्च तथैव नः प्रियतमाः स्वीयाः प्रजा नश्चिरं प्रेमाः परिपालयन्विति वयं सम्प्रार्थयामः शिवम् ।। ३५॥ श्रीशङ्करस्य करुणामृतपूर्णसिन्धोः सम्प्रोच्छलत्करुणवीक्षणसत्तरङ्गैः ।। सर्वत्र शान्तिरतुला प्रबल: प्रमोश्वानन्द- मग्नमिह विश्वमिदं विभाति ॥ ३६॥ धन्या हि देवकसुताऽऽनकदुन्दुभिश्च पुण्यैरगण्यगणनैश्च ययोरिदानीम् ॥ श्रीकृष्णचन्द्र इह पुत्रमुखावलोक- निःसीमनिस्तुलसुखानुभवैकपात्रम् ।। ३७ ॥ इत्येवं स्मारं स्मारं प्रमोदामहे । (७९) उग्रसेनस्तदुत्तरं सविनयं ददाति 'राजानः ! श्रीपरमेश्वरप्र- सादाच् श्रीमतां युष्माकं च शुभेच्छाभिः शुद्धभावेन कृताभिः परमेश्वरार्थना- भिश्वैप समय आयात इति । (८०) पौरा जानपदाश्च उपायनानि पुरतो निवेद्य प्रार्थयन्ते-श्रीकृ- रणेन यथा वयं तनयवत् पालितालालिताश्च, असीमवात्सल्येन नित्यं सम्पोषिता भपि, तथैव तत्पुत्रा अपि स्वीयाः प्रियतमा: प्रजाः नः (प्रनारूपानस्मान् ) प्रेमााः सन्तश्चिरं पालयन्तु इति वयं शिवं प्रार्थयामः । किञ्च करुणामृतपूर्ण. सिन्धोः श्रीशङ्करस्य सम्प्रोच्छलत्करुणवीक्षणान्येव सत्तरशास्तैः सर्वत्र अनुला शान्ति: प्रबल: प्रमोदः (सर्वतः) आनन्दमममिदं विश्वमिह विमातीत्यन्वयः । अपिच-देयकमुता-देवकी-धन्या, आनकदुन्दुभिर्वमुदेवश्व धन्य इति लिन- 'विपरिणामेनान्ययः । ययोरगण्यैः पुण्यरिदानीं श्रीकृष्णचन्द्रः पुत्रमुखावलो- फनमुग्यानुभवपात्रमभूदित्यर्थः । एनं वृत्तान्तं पौनःपुन्येन स्मरन्तो वयं मो- दामहे इति पौरा जानपदाच जगदुः ।

१८२ श्रीकृष्णचन्द्राभ्युदयम् । राजा-पोरा जानपदाश्च! यथार्थमुच्यते भवद्भिः श्रीदेवकीश्रीवसुदेव- योरेवागण्यानां पुण्यानामयं परिणामः । किञ्च निजनरपतिप्रिय- हितमेव प्रतिदिनमभिकासन्तीनां भवादृशीनां सुप्रजानां शुभा- काडापि साम्प्रतं सम्प्राप्तस्यास्य महोदयस्य कारणं मन्यामहे । यत:-राज्ञां मनोवचःकायैः प्रजामेवाभिरक्षताम् ।। प्रजाभिराशिपो दत्ता मूर्ताः कामदुधा हि ताः ॥३८ ।। इति हि सिद्धान्तः। प्रजा:-८२शोभते श्रीमतामेवं वक्तुं महाराजानां, युष्माकं यालनिर्वि- शेषा वयं, कुतो युप्माभिः सह वक्तुं प्रतिवक्तुं वा शक्ताः । (इत्युक्त्वा प्रणमन्ति । ब्राह्मणाश्चाशीर्वादमन्त्रान् पठन्ति) ८३श्रीकृष्णचन्द्रतनयाः सनया भवन्तु श्रीकृष्णचन्द्रतनयाः सजया भवन्तु ।। श्रीकृष्णचन्द्रतनयाः सदया भवन्तु श्रीकृष्णचन्द्रतनया अभया भवन्तु ॥ ३९ ।। (८१) तानुत्तरयति उग्रसेनः--यथार्थमुच्यते भवद्भिरित्यादिना तदुक्त मनुमोदमान एव पौराणां मनांत्यावर्जयितुं 'निजनरपतेः प्रियं हितं चाभिकाङ्क्ष- न्तीनां भवादृशीनां सुप्रजानां शुभाशंसा अपि साम्प्रतिकस्य महोदयस्य कारण तामाभजन्त इति मन्यामहे इत्याह । स्वोक्तसमर्थनाय साधकमुपन्यत्यनि-मनो- पचःकायैः प्रजामभिरक्षतां राशा, प्रजाभिर्दत्ता आशियो, मूर्नाः कामदुधा एव, इति हि व्यवहारसिद्धः सिद्धान्त इत्यर्थः । (८२) अत्र भवतां महाराजानामेवं वक्तुं शोभते-प्रजासु राजोदयनि- मित्ततार्पणं श्रीमतामुचितमेवेत्यर्थः । वयन्तु युग्माकं बालनिर्विशेषा युष्माभिः सह यक्तुं प्रतिवक्तुं वा कुतः शक्ताः (भवेमेति शेषः) । (८३ ) ब्राह्मणाशीर्वादमन्त्राणां निष्कर्षस्तु-श्रीकृष्णचन्द्रतनया—स- नयाः सजयाः सदया: अभयाः गुणिनः सुखिनः नितरामरोगाः दीर्घायुषः प्रब- लबुद्धिबलाः सकलाः कलाज्ञाः श्रीमन्महेश्वरकृपादृष्टिवृष्टया श्रीकृष्णतुल्यबल- धुद्धिपराक्रमश्रीहीधीधराश्च, सन्तु इति सर्वत्र सम्बध्यते, यत्र भवनिवत्यादि पृथड्नोपात्तम् । अत्र श्रीकृष्णचन्द्रवनया पति पदमष्टकृत्व उच्चारितं हर्षोल्क- पेण । पूर्वस्मिन् वाक्ये 'प्रबलबुद्धिबला' इत्युक्तं परस्ताच श्रीकृष्णतुल्यबल- --- पञ्चमोऽङ्कः। १८३ श्रीकृष्णचन्द्रतनया गुणिनो भवन्तु श्रीकृष्णचन्द्रतनयाः मुखिनो भवन्तु ॥ श्रीकृष्णचन्द्रतनया नितरामरोगा दीर्घायुषः प्रबलबुद्धिबलाश्च सन्तु ॥ ४० ॥ श्रीमन्महेश्वरकृपामृतदृष्टिवृष्ट्या श्रीकृष्णचन्द्रतनयाः सकलाः कलाज्ञाः ॥ श्रीकृष्णतुल्यबलबुद्धिपराक्रम- श्रीह्रीधीधराश्व शिवभक्तिपरा भवन्तु ॥ ४१ ॥ ( सर्वेप्युत्थाय ब्राह्मणेभ्यः प्रणम्य वनालङ्कारान्सुवर्णदक्षिणासहितान् ममर्पयन्ति) ब्राह्मणा:-(प्रहृष्टवदना: ) सर्वेषां वः शिवमस्तु श्रीशङ्करदयादृष्ट्येति नः प्रार्थना । ( इति यदन्तो निष्कान्ताः) नृपतय:-महाराज ! महोत्सवप्रसनेन प्रभातप्राया रजनी तत्स्वानि स्वान्यवमोचनस्थानानि गन्तुमीहामहे महाराजस्यास्ति चेदाज्ञा । बुद्धिपराक्रमेत्यादि निर्दिष्टं तेन पौनरुक्त्यं न शङ्कनीयम् । यत: प्रबलं प्रभूतं बुद्धिबलं ज्ञानवैभवं येषामिति विवक्षितं, तदनन्तरं बलशुद्धिपराक्रमादि येषां श्रीकृष्णेन तुल्यमिति विवक्षयोक्तं, वेन प्रबलघुधियलादपि श्रीकृष्णसमानबुद्धि- बलपराक्रमादिमत्त्वमतिशाय्येवेति न पोनरुक्त्यलेशोऽपि । अपिच तस्मिन्नेव वाक्ये अग्रे श्रीहीधीधराश्चेत्यत्र धीपदेन पुनः पुनरुक्तशकोदय: सुलभो भवति तथापि तत्र लक्ष्मीलनासंबलिताया धियो विशिष्टपदार्यतया बुद्धिसामान्यल. क्षणानाक्रान्तत्वेन उचित एव पृथगुपन्यास इति सर्वमननधम् । ब्राह्मणाशीर्वा- दवाक्यान्ते 'शिवभक्तिपरा भवन्त्विति वचन, यथेदानीं श्रीकृष्णकृतशिवाराधनेन पुत्रलाभलक्षणोम्युदयो जात एवमायतापनि उत्तरोत्तराधिकाम्युदयाशंसीत्या- कृतम्। (८४) श्रीकृष्णाभ्युदयाधिगमेन सानन्दत्वेपि प्रहएयदनत्यं तु ब्राहाणा- ना यन्नालधारमुवर्णदक्षिणादिलाभप्रयुक्तमेवेति तदेवानृदितम् । श्रीशङ्करदया. दृष्टया सर्वेषां वः शिवमस्त्विति वदन्तो निष्कान्ताः । (८५) नृपतयोपि स्वान्यवमोचनस्थानानि गन्नुकामा राश आज्ञा मर्थयन्ते । महोत्सवप्रसनेन प्रभातमाया रजनीत्यादि निगदन्तः ।

१८४ श्रीकृष्णचन्द्राभ्युदयम्। राजा-भद्रमुखाः ! सुखं गच्छत ( सात्यकि प्रति ) सात्यके ! एता- न्सर्वान् हरिकरिनरनौकारथैः स्वानि स्वानि निवासस्थानानि प्रापय। सात्यकि:-(साञ्जलिवन्धमुत्थाय ) यथाज्ञा महाराजस्य (इत्युक्त्वा- ऽऽगन्तून्मति ) एत महाराजा एत, इत इतः सर्वे (इति वदन्सर्वं. नरेन्द्रः सह निष्कान्तः) (प्रजाः पौरा जानपदाश्च सर्वान् प्रणम्य निष्कान्ताः) श्रीकृष्ण:-(वामाशिस्फुरणमभिनीय स्वगतम्) कुतोऽनवसरे दुनि- मित्तम् ? अथवा श्रीमहेश्वरानुग्रहगृहीतानामस्माकं दुनिमित्त- मपि सुनिमित्तमेव । उग्रसेनः-("हृदयकम्पमभिनीय ) वसुदेव ! किमेतदानन्दमये समय निष्कारणं हृदयकम्परूपं दुनिमित्तं भवति ? वसुदेव:- आर्याः ! ममाप्यकस्मादेव हृदयकम्पो भवति । बलरामः-९°आयौँ ! ममापीदानी वामो भुजः स्फुरति ( सर्वे क्षणं सचिन्ता भवन्ति) वसुदेवः-आर्याः ! शृणुत मदीयं निश्चयम् । उग्रसेन:-अवहिताः स्मः श्रोतुम् । (८६) पष्ठीजागरस्य सिद्धप्रयोजनत्यादिदानीमनुजानाति राजा राशः स्वावसथान् गन्तुम् । 'सात्यके' इत्यादिना च तेषां वाहनादियोजनामप्या- दिशति । (८७) सात्यकिपुरोगा आगन्तुकनृपाः प्रजाः पौरा जानपदाश्च यदा निष्क्रान्तास्तदा आत्मना चतुर्थः श्रीकृष्णः स्वगतमाह-'कुतोऽनवसरे दुनिमित्तं? वामाक्षिस्फुरणरूपमित्यर्थः । अथ वेत्यादिना स्वयमेव समाधत्ते-श्रीमहेश्वरानु. ग्रहभाजा दुनिमित्तमप्यायतो सुनिमित्तमेव भवति; सर्वथा शुभोदर्कमेवेति- यावत् । (८८) उग्रसैनोपि हृदयकम्पलक्षणं दुनिमित्तमद्धा भगति । (८९) यसुदेवोपि तथाविधमेवापशकुनमावदति 'ममापीत्यादि । (९०) बलरामस्तु वामभुजस्फुरणमाभाथ्य सर्वे: साकं सचिन्तस्तिति ।

पञ्चमोऽङ्कः। वसुदेवः-९१किं निमित्तमनिशं शिवङ्करं किं निमित्तमथवाऽशिवङ्करम्।। वेनि नैतदिति, वैनि केवलं शङ्करस्मरणमेव शङ्करम् ॥ ४२ ॥ उग्रसेनः-(९२सहर्षम् ) वसुदेव ! सम्यक् स्मारिता दुनिमित्तप्रति- क्रिया, तथा कुर्मः। (इत्युक्त्वा सर्वे समुत्थाय सप्रणामम् ) शिव शिव शिव शम्भो श्रीशिवाप्राणवन्यो ! भव भव भव भूत्यै भूयसां श्रेयसां नः ॥ हर हर हर दैन्यं दुःखदारियजन्यम् कुरु कुरु करुणाी दृष्टिवृष्टीः समन्तात् ।। ४३ ।। लमपि च- शिवशतानि ततानि करोतु नः शिवदया शिवया सहितः शिवः।। यवलोकलवेन लवे लये नवनवा विकसन्ति शिवर्द्धयः॥४४॥ ( एवमुक्त्वा प्रणम्योपविशन्ति ) (९१) स्वाभिमायमाविष्कनुमनसो वचनं श्रोनुकामेनोग्रसेनेन 'अय- हिताः स्म: श्रोतुमित्युक्ते यसुदेवः स्वनिश्चयप्रकटनेन सर्वान् विगतचिन्तान् करोति । किं निमित्तं शिवङ्करं किञ्चाशिवङ्करमिति नाहं वेद्मि, केवलं शङ्करस्म- रणं शङ्करं कल्याणकरमित्येव वेद्मि । जातेपि दुनिमित्ते शङ्करस्मरणेन तन्निवृत्तिः सुकरैवेत्याशयः । (९२) दुनिमित्तप्रतिक्रियावगभेन सहर्षमुमसेनः समुत्याय सममे- चोस्थितैः सर्वैः सम्भूय शिव स्तौति । शिवेत्यादि द्विनिरुचारणं स्वयमास्थित- स्योपायस्य फलाविलम्बमाशासितुम् । भूयसां श्रेयसां भूत्यै-मम्पत्त्ये-भय, श्रेयासि सम्पादयेत्यर्थः। दुःखदारियजन्यं दैन्यं हर, दारियशब्दोत्र न्यूनता. पयांयः, कृपादद्धि इत्यादाविव । तथा च आकासितवस्तुप्राप्तिपतिवन्धक हरेति यावत् । शिवं ददातीति शिवदा, तादृश्या शिवयोमया सहितः शिवः शिवशतानि ततानि-विस्तृतानि करोतु । यदवलोकलवेन क्षणे क्षणे नवनवाः शिवर्द्धयः-- कल्याणसम्पदो विकसन्तीति योजना ।

१८६ श्रीकृष्णचन्द्राभ्युदयम् । (ततः प्रविशति सोद्वेगा भद्रशीला) भद्रशीला-(स्वगतम् ) किमिदमाश्चर्य ? वायुनापि दुःसञ्चारे श्री- कृष्णस्याप्यन्तः पुरे चोरप्रवेशः ! ! तत्रापि पुत्ररत्नस्य चौर्य- मिति नाल्पं खेदस्थानम् । निवेदयामि वावन्महाराजाय ( अग्र- तोऽवलोक्य ) अहो महाराजादयः सर्वेप्यस्मिन्नेवास्थानमण्डपे स्थिताः परमेश्वरं स्तुवन्ति प्रणमन्ति च । तद्गत्वा निवेदयामि । (किञ्चिदग्रतो गत्वा ) महाराज ! महाराज ! परित्रायस्व परि- त्रायस्व, श्रीकृष्णस्यान्तःपुरे कश्चिचोरः प्रविष्टः । राजा-(साश्चर्यम् ) भद्रशीले ! किमेतद्भवीपि ? श्रीद्वारकायां श्रीकृष्णचन्द्रप्रवलप्रभावाचोरशब्दोपि कुतः ? श्रीकृष्णगृहेषु पुत्र- परम्पराप्राप्तिदर्शनानन्देनोन्मत्तासि कि मत्तासि का ? भद्रशीला-(९५सालम् ) महाराज ! न मत्तास्मि न वोन्मत्तास्मि, सत्यं प्रवीमि । पष्ठीजागरणमहोत्सवागतानां सुहृदां सम्बन्धिनां सम्भावनायां व्यप्रावस्मासु देव्यां च श्रीरुक्मिण्यां जागरण- (९३ ) प्रविश्य सोढेगा भद्रशीला दासी स्वगतं ब्रूते-किमिदमाश्चर्य- मित्यादि । वायुनापि यत्र दुष्करः सञ्चारस्तत्र श्रीकृष्णस्यान्तःपुरे चोरप्रवेश इत्यार्थर्यनिदानम् । चौर्यमपि न यस्य कस्यचिद्वस्तुनः सुवर्णरत्नादेरपि तु पुत्र- रत्नस्येत्यपरमाश्चर्यकारणम् । महाराजाय निवेदयितुमनतोवलोक्य महाराजादी- नवलोक्य सम्बोध्य महाराज--'परित्रायस्वेति द्विरुक्तिः सम्भ्रमेण-श्रीकृष्ण- स्यान्त:पुरे कश्चिचोरः प्रविष्टः इति निवेदयति । (९४) वृत्तान्तमेनं वितथं मन्यमानो राजा-श्रीकृष्णप्रभावादन चोरशब्दोपि न श्रूयते; किं श्रीकृष्णगृहेषु पुत्रपरम्पराजन्मदर्शनेन उन्मत्तासि ?- इति भद्रशीलामधिक्षिपति । (९५) भद्रशीला-महाराजेत्यादिना प्रमाणमित्यन्तेन वृत्तान्तं निवेद- यति । न मत्तास्मीति वचनं वक्ष्यमाणे विश्वासार्जनार्थ । सत्यमेवब्रवीमि इति प्रतिज्ञाय, सकलजनानां व्यापारान्तरव्यग्रतया रुक्मिण्याश्च पठीजागरणान्तमु- लभनिद्रतया लब्धायकाशश्चोरः कुमारं जहार । प्रेस्रोलं शून्यमवलोक्य प्राप्त. मूझै रुक्मिणीमुपचरति परिजनः। अहमेनं वृत्तान्तं भवद्भयो निवेदयितुमागते. त्यतः परं यत्कर्तव्यं तत् कर्तुं प्रभवन्ति भवन्त इत्याशयो 'महाराजः प्रमाण । मित्यस्य ।

पञ्चमोऽ:1 श्रमप्राप्तनिद्रायां फश्चियोरो देव्याः श्रीरुक्मिण्या: कुमारं चोर- यामास । क्षणात् प्रयुद्धा च देवी यावत्प्रेसोले विलोकयतिस्म तावच्छून्यमेव प्रेझोलं विलोक्य 'हा कुमारः फ गतः' इति कृतार्तनादा मूळया शन्यायां निपतिता । तदीयार्त्तनादश्रवण- व्यमाः सर्वाः परिचारिका मूपिनयनोपचारान् कुर्वन्ति । अहं चात्याहितमतन्महाराजाय निवेदयितुमागतारिम, ततः परं महाराजः प्रमाणम् । (इत्युक्त्याऽभूणि मुञ्चति) महाराजः-(स्वगतम् ) हा ! ! दुनिमित्तपरिणामोऽयमागतः (प्रकाशम् ) भद्रशीले ! मा खेदं कुरु, गच्छ त्वरया, समाश्वा- सय देवीम् । न यो रक्षो देवो दानवो मानवो वा श्रीकृष्ण- चन्द्रस्यान्तःपुरे चौर्य कर्तुं शक्तः । आसन्नमरणेन केनचित्साह- समेतत् कृतमिति मन्येऽहम् । स चोरः सद्य एव मरणमाप्स्यति, कुदाली च कुमारः सद्यः समागमिष्यति; तन्मा चिन्तां कुरु । धसुदेव:--१ भद्रशीले ! परमानन्दविस्मृतविवेकानामस्माकमेवायं प्र- मादो यद्वालाहरक्षोपचारा आदित एव न कृता इति । इदानी प्रतिप्रसवमन्दिरं पवित्रतराह्मणद्वारा श्रीशिवकवचपाठान् श्रीदुर्गासप्तशतीपाठान् श्रीरुद्राभिषेकजलमार्जनानि श्रीमहा- मृत्युञ्चयमन्नाभिमन्त्रितभस्माभिवन्दनानि च कारय येन न कश्चिद् वालग्रहो भूतो वा प्रेतो वा पिशाचो वा डाकिनी वा (९६) पूर्ववृत्त-वामाचिस्पन्दनादि-दुनिमित्तमास्मृत्य तत्परिणामोय- मिति मन्यानो महाराजः खेदमवगृह्य-गच्छ स्वरया, देवीं समाश्वासय, श्रीकृ- ण्णान्तःपुरं प्रवेष्टुं देवादयोपि नालं किन्नु मृत्युकवलितेन येनैतत्कृतं स नचिरा- देव मरणमास्यति, कुमारश्च सद्य एव समागमिष्यति, तद्विपये चिन्ता न कार्येत्याह दासीम् । (९७) वमुदेवोऽपि पूर्वमेवानुष्ठेयं बालगृहरक्षादि प्रमादानानुष्ठित येनेतदेवं जातम् । इदानीमन्यदपि किञ्चिदेवविध मा भूदित्याशासान: शिव- कवचपाठादि कारयितुमादिशति भद्रशीलां, कुमारचोरस्य जगत्रयेपि न कोपि रक्षा इति सद्य एव सर्वमिष्टं भविष्यति अतश्चिन्तां विहायान्तःपुरे गत्वा सक्मिणीमावासयेति ।

१८८ श्रीकृष्णचन्द्राभ्युदयम् शाकिनी वा पुत्ररत्नानि द्रष्टुमपि शक्नुयात् । किञ्च कुमार कुशलिनं प्राप्तमेवावेहि । अस्मद्गृहचोरस्य जगत्रयेऽपि कोऽस्ति रक्षकः ? तत् समाश्वासय वत्सां रुक्मिणीम् । भद्रशीला-यथाज्ञा आर्याणां तथा सर्व करिष्यामि । (ततः प्रविशतः ससाभ्रमी भीमार्जुनी) उभौ-"महाराज ! महाराज ! मातुलाः ! अप्राप्तनिवासस्थानाभ्या. मेवावाभ्यां मध्येमार्ग श्रुतं यत् फेनचिदुष्टेन प्रेसोलाद देव्या रुक्मिण्याः कुमारोऽपहृत इति । उग्रसेनः r:-अथ किम् । ९९एपा भद्रशीलाऽधुनैवैतदत्याहितं निवेदयितु- मागतास्ति। वसुदेवः-वत्सौ ! १० मा चिन्तां कुरुतं, श्रीसदाशिवेन परमया कृपया प्रदत्तं पुत्रं कोऽपहर्तुं प्रभवेत् ? केवलं केनचिदासन्नमर- णेन स्वमरणायैवेदं चापलं कृतमिति मन्येऽहम् । उग्रसेनः-१० वत्सौ ! पूर्वस्यां दिशि चतुरङ्गया सेनया सहितोऽहं गच्छामि, दक्षिणस्यां वसुदेवः, पश्चिमायामक्रूर, उत्तरस्यामुद्धव इति निश्चयः कृतोऽस्ति । यामार्द्धयामाभ्यन्तर एव च चोरं निहत्य कुमारं कुशलिनमानयिष्यामः । क वराकः श्रीकृष्ण- चन्द्रगृहे चौर्यं कृत्वा गमिष्यति ? तद्युवाभ्यां यावदस्मदागमनं सर्वे समाश्वासनीया जनाः। भीमसेनः-१०२आर्याः! अलमार्याणां तादृशे कार्य ईदृशश्रमग्रहणेन, (९८) स्थितायामेव भद्रशीलायां भीमार्जुनौ प्रविश्य-'अप्राप्तनिवास- स्थानाभ्यां---अलब्धावसथाभ्यां, अधुनैवागताभ्यामितियावत्, श्रुतमावाभ्यां- यत् प्रेड्खोलाद् देव्या रुक्मिण्याः कुमारः केनचिदपहृत' इत्याहतुः । (९९) उग्रसेनो भद्गशीलोक्तेन तद्वचः प्रमाणयति अथ किमित्यादिना। (१००) वसुदेवस्तु शिवप्रदत्तवस्त्वपहारे न कोपि प्रभुरिति विश्वस्त स्थानिष्टमर्थयमानेन कृतमेतत्केनचिदित्याह वत्सावित्यादिना । (१.१) उग्रसेनः स्वनिश्चयं पाण्डवावाशाक्यति पूर्वस्यामित्यादिना । (१०२) सन्निहितेप्वरमागु उग्रसेनवसुदेवारोद्धयानां कुमारमार्ग- कार्य दिक्षु धावनमनुचितमिति बोधयन्नाह भीमसेनः-'आर्या' इत्यादि । एता- पञ्चमोऽङ्कः । १८९ अहं वाऽर्जुनो वा उभौ वाऽऽवां तं चोरं पातालतलाद्वा महेन्द्र- भवनाद्वा गृहीत्वा हत्वा च कुशलिनं कुमारमानयिष्यावः । श्रीकृष्णः-१० आर्याः! यथाहायों भीमसेनः । अलं श्रीमतामेतथि न्तया । भीमसेनार्जुनसात्यकिकृतवर्मभिर्दुष्टचोरान्वेषणाय चत- सुप्वपि दिक्षु गन्तव्यमिति मे युक्तं प्रतिभाति । उग्रसेन यथा श्रीकृष्णचन्द्र आज्ञापयेत्तथा कर्त्तव्यम् । स खलु वसुदेवौ। सद्विचारपारावारपारदृश्वा वरीवरीति । (ततो भीमसेनार्जुनसात्यकिकृतवर्माणः प्रवद्धाम्रा उग्रसेनवमुदेवी प्रणम्य) यथाज्ञार्याणाम् (इत्युक्त्वा च निष्क्रान्ताः) उग्रसन-1_१० वत्से भद्रशीले ! एहि वयमेव ब्राह्मणानाहूय सर्वोप- वसुदेवौ। द्रवशान्तिविधीन कारयामः । भद्रशीला-यथाज्ञार्याणाम् । इत इत आर्याः ! (इति वदन्ती सह ताभ्यो निकान्ता) वलभद्रः-१०५अयि श्रीकृष्णचन्द्र ! केयं ते गम्भीरता धीरता सहित प्णुता च! ! दुपश्चोरोऽन्तःपुरं प्रविश्य पट्टराड्या देव्या हरी कार्ये आय: श्रमो न गृहीतव्यः किन्तु वयमेय सर्व साधयिष्याम इत्यर्थः । यद्यपि अहमेक एव शक्त एतत्कर्नु तथापि तथाकथनमभिमानमातनोत्तीति 'या'-निपातान्तरितमर्जुनस्यापि केवलस्य तत्करणसामर्थ्यगुत्का 'उभी याऽऽवा' मित्यनेन कैमुतिकेनादूरभाविनीमर्थसिद्धिं गदति-'पातालतलाद्वेत्यादिना । (१०३) भीमसेनवचोनुमोदमानः श्रीकृष्णः स्वमतं प्रकटयन्नाह * आर्याः । इत्यादि । भीमसेनार्जुनसात्यकिकृतवर्मभिर्ययासङ्ख्यं प्राच्यादिषु चतसृष्वपि दिक्षु गन्तव्यमित्ययं कल्पः सम्मतो ममेत्यर्थः । (१०४) यदा खलु श्रीकृष्णोक्तमनुमोदितमुग्रसेनवसुदेवाभ्यां तदा भीमसेनप्रभृतय उग्रसेनवमुदेवी प्रणम्य 'यथाज्ञार्याणा' मित्युक्त्वा निष्क्रान्ताः । अनन्तरमुग्रसेनवसुदेवावपि भद्रशीलया दर्शितमार्गों, 'ब्राह्मणानाहूय सर्वोप- द्रवशान्तिविधीन् कारयामः इति निजसङ्कल्पं जल्सन्ती भद्रशीलया सहैव निष्फान्तौ । (१०५) इदानीं बलभद्रः श्रीकृष्णस्य निरुद्वेगतायां विस्मयमानः पृच्छति । का इयं ते गम्भीरता यन्नाल्पखेदस्याननिदाने दुष्टचोरस्यान्त:पुर. प्रवेशेऽपि न ते खेद उपलक्ष्यते । का च ते श्यं धीरता यत्पराज्या अन्तः १९० श्रीकृष्णचन्द्राभ्युदयम्। रुक्मिण्या एव कुमाररत्नमपत्य पलायित इति नासं खेदस्थानं नाल्पं ब्रीडास्थानं नाल्पं च परिहासास्पदं; सत्यपि तथा वं त्वपरिम्लानमुखमुद्रः पूर्ववदेव आनन्दमनो लक्ष्यसे, मम तु ताम्यन्त्यङ्गानि कथ्यत इवात्मा शुष्यतीवानन्दसमुद्रो न किञ्चि- द्रोचते, क कदा वा कुमारस्यापहरिमन्विप्य तं हत्वा, स राक्षसश्चेन्नीराक्षसं, स यक्षश्चेन्नियक्ष, स दानवश्चेन्निनवं स दै- त्यश्चेन्नित्यं च जगत्रयं करोमीति स्फुरति भुजयुगलम् । परं भवः दीया क्षमा भवदीया शान्तिर्भवदीया निरुद्वेगलेशता च मां विस्मयपयोराशी मजयति; ततः पृच्छामि-ईदृशेऽपि शत्रुकृते पराभवे कथं निरुद्वेगलेशोसीति ? श्रीकृष्णः- (१०६प्रहस्य) आर्य ! शृणु मे निरुद्वेगताकारणम्- श्रीशङ्करेण करुणामृतसागरेण प्रेम्णा स्वयं करुणया तनयाः प्रदत्ताः॥ पुरमर्यादाभङ्गेऽनल्पत्रीडास्पदरूपेऽपि न व्याकुलतागन्ध इति धीरतावधिः । केयं च ते सहिष्णुता यदपद्दत्य कुमाररलं पलायितेऽपि तस्मिश्चोरे--द्रव्या- पहारेपि राज्ञो राजकिंकराणाञ्च प्रमादपारवश्यमनुमिनोति लोकः किं पुनीत. मात्रापत्यापहारेऽप्यसञ्चेष्टत: कलत्रापहरणापदापकृप्यते ? इति लोकानामुपहासा- स्पदत्वेऽपि नामर्षोद्भव इति सहिष्णुताऽतिरेकः । इत्येवं श्रीकृष्णस्य अनन्या- दृशप्रकृतित्वमन्याह-त्वन्तु अपरिम्लानमुखमुद्रः पूर्ववदेवानन्दमग्नो लक्ष्यसे इति । अत्र 'कार्याजनिः कारणेऽपी' ति विभावनालंकृतिः । स्वाशयं प्रकटयति-मम तु ताम्पन्ति अङ्गानि इति यस्लुवृत्तोक्तिः । कथ्यत इवात्मेत्यत्र इयप्रयोगेण वस्तूत्प्रेक्षा । शुष्यतीत्यपि तथैव । न किञ्चिद्रोचते इत्युद्वेगदशावेदनम् | क क. देत्यादि स्फुरति भुजयुगलमित्यन्तं स्वोत्साहत्वरूपनिरूपणम् । एतावतापि क्षमा शान्तिनिरुद्वेगलेशतेति मां विस्मयपयोरागौ मजयति तत: पृच्छामि । प्रश्ना- क्षराणि निगदति ' ईदृशेऽपी ' स्यादि 'निरुद्वेगलेशोसी'त्यन्तम् । (१०६) श्रीकृष्णो बलभद्रम्यापातदर्शित्वं विभाव्य प्रहस्य तदी यविस्मयाफ्नोदनोपयोगि स्वनिरुद्वैगताकारणमाचष्टे । शुण्वित्यादिना । स्वभा- वत एव करुणासागरेण शङ्करेण, ततश्च करुणयेत्युक्तिः क्षीरसागरेण क्षीरस्येव' करुणासागरेण करुणाया यथेष्टं व्ययः सुकर इति बोधनाय, तत्रापि प्रेम्या सानन्दं स्वयं, नत्वन्यप्रेरणया प्रदत्ता:--पूर्वोक्तप्रकर्पण दत्ता:-ये तनयाः पञ्चमोऽङ्कः। ये तेषु चैकमपि कः परिहर्तुमीशो लोकत्रयेपि दनुजो मनुजोऽमुरो वा ? ॥ ४५ ।। भ्रातस्तथापि तनयोऽपहृतो यकस्मात फेनापि सापि परमशितुरेव लीला ॥ तस्याद्रिराजतनयाहृदयेश्वरस्य प्रायोऽस्मदीयमुदयं विविध विधातुम् ।। ४६ ॥ १० रक्षामणौ जगति जाप्रति विश्वरक्षा कर्ते शिवासहचरे परमेश्वरेऽस्मिन् ।। चिन्तैव का वद् तदीयपदाम्बुजैक- लग्नात्मनां न इह शङ्कररक्षकाणाम् ॥ ४७ ॥ किच-यद् यद् भवे भवति तन परमेश्वरेच्छा- मालम्ब्य सर्वमशुभं च शुभं च सर्वम् ।। तस्मादवाप्तमशुभं शुभमेव मन्ये- नेच्छा यतोऽस्य निजभक्तजनाशुभाय ॥ ४८ ॥ तेषु एकमपि तनयं ह दनुजमनुजामुरागामन्यतमोपि नेशः । लोकत्रयेपीत्यु- तिर्देवनागादीनां गर्मीकरणाय ॥ ४५ ॥ हे भ्रातः ! वनय: केनापि हृतस्तदपि अस्मदीयं विविधमुदयं विधातुं परमेशिनुः प्रायो लीलेयेति मन्ये इति शेषः । लीलाविहरणेषु अद्रिराजतनया- हृदयेश्वरत्वविशिष्टस्येव परशिवस्य हेवाकित्वेन तादृशविशेषणोपादाने परिकरा- लंकृतिः ।। ४६ ।। (१०७) स्वस्य निरुद्वेगवानिदानभूतमात्मनिश्चयं प्रणिगदति श्री- कृष्ण: रक्षामणाविति-परशिव रक्षामणित्वारोपेण द्रव्यस्य तैलादेः सांसिद्धिकद्र- चत्वादिगुणवद्यस्य जगद्रवणमयत्नसिद्ध नैसर्गिकमेवेति बोधितं-तादृशे शिवा- सहजरे-शक्तिरितस्य रक्षणवार्ताप्यनुपपन्नेति स्वशक्तिसहचरिते श्रीपरमेश्वरे अस्मिन्-ददि सन्निहिते-विश्वरक्षां कतु जगति जाग्रति सति तदीयपदाम्बुजेक- लनात्मनां, शङ्करो रक्षको येषां सादृशाणां च नोऽस्माकं चिन्तैव का? कीदृशीति बद । किञ्च अस्मिन् भवे संसारे शुभमशुभं वा भवति तत्सर्वं परमेश्वरेच्छामा लम्ब्य भवति, तस्मात् परमेश्वरात (सकाशाद्) अवाते प्राप्तमशुभमपि शुभमेव मन्ये, यतोऽस्य महेश्वरस्य निजभक्तजनत्याशुभं कर्तुमिच्छा नैवस्यादित्येष निश्चय एव मे निरुद्वेगवाकारणमित्याशयः ॥

१९२ श्रीकृष्णचन्द्राभ्युदयम् । एप निश्चय एव मे निरुद्वेगताकारणम् । चलभद्रः-श्रीकृष्णचन्द्र ! धन्योसि खलु श्रीमहेश्वरानन्यभक्तानामग्रे- सरोसि- १० सन्त्येव शङ्करपदाम्बुजयुग्मभक्ता लोकत्रयेपि शतशोथ सहस्रशो वा ॥ श्रीकृष्णचन्द्र भगवंस्त्वमिव त्वमेव श्रीमन्महेश्वरपदाम्बुजवद्धबुद्धिः ॥४९॥ तदतः परमावाभ्यामिदानी किं कर्त्तव्यम् ? श्रीकृष्णः-१०९आर्य ! आवाभ्यान्तु- शिवचरणसरोजद्वन्द्वमाधाय चित्ते गलितनिखिलचिन्तोद्वेगवेगाशयाभ्याम् ॥ निजजनसुखदः श्रीराजराजेश्वरोऽयो- ऽखिलजगदुपशान्त्यै श्रीशिवास्वान्तकान्तः ॥ ५० ॥ चलभद्रः साधु कृष्णचन्द्र ! साधु, तर्हि श्रीराजराजेश्वरमन्दिरमार्ग मे दर्शय । श्रीकृष्णः-इत इत आर्यः ( इति वदन बलभद्रेण सह निष्क्रान्तः) (ततः प्रविशत्युद्विमा मायावती) मायावती-११ अहो महेश्वरीमहेश्वरयोरपि वचनानि मिथ्या भवन्ति!! (१०८) इदानीं बलभद्रः श्रीकृष्णोक्तमाकर्ण्य तन्निश्चयं प्रशंसन्नाह धन्योऽसीत्यादि । लोकत्रयेपि शङ्करपदाम्बुजयुग्मभक्ताः शताः सन्त्येव तत्रापि भगवन् ! श्रीमन्महेश्वरपदाम्बुजबद्धबुद्धिस्तु त्वमिष त्वमेवेत्यनन्वयः । रवपरिक- पितयुद्धसन्नाहायनादरेण श्रीकृष्णमुग्यादुपायान्तरं जिशासमान इव पृच्छति- "तदतः परमावाम्यामिदानी किं कर्त्तव्यमिति । { १०९) उपायमेव विवृण्वान श्रीकृष्ण आह 'आर्य' इत्यादि । हे ज्येश्बन्धो ! आवाभ्यान्नु शिवचरणसरोजदन्द चिते आघाय गलितनिखिलचि- न्तोद्वेगवेगाशयाम्यां निजजनमुखदः श्रीशिवास्यान्तकान्तः श्रीराजराजेश्वरः (न केवलमात्मोदयमाप्रशमनाय किन्नु ) अखिललगदुपशान्त्य अचः; नान्य.. दुपायान्तरमनुष्टेयमिति योजना । (११०) श्रीकृणोत्तोपायानुठानाय स्परमाणो बलभद्रः श्रीहप्नेर पञ्चमोऽङ्कः १९३ नैवं घटते । परमानन्दमये श्रीमहेश्वरीपाणिग्रहणसमये मया सप्रणाम प्रार्थितः श्रीमहेश्वरः श्रीमहेश्वर्याः कर्णे प्रोक्तवान् । श्रीमहेश्वरी च श्रीमहेश्वरोक्तं मत्कणें प्रोक्तवती, तदनन्तरं च दयाईया दृझा मां विलोक्य श्रीमहेश्वरेणोक्तम् । 'यथैव प्रोच्यते देव्या तथैवाचरिते सति ॥ वत्से ! ते भविताऽवश्यं प्राणप्रियसमागमः ।। ५२ ॥ मायाशतविदं हन्तुं नाऽमायाशतविन् क्षमः ॥ मायाशतं त्वया तस्माज् ज्ञातव्यमसुरात् ततः ।। ५२ ।। तब त्वत्पतये देयं तत्र प्राप्ताय सत्वरम् ।। ततस्तं स्वरिपुं हत्वा प्राप्ता सुखपरम्पराः ॥ ५३ ॥ इति । १११मयापि तदानानुसारेण- भक्ष्यभोज्यचोप्यलेह्यविनिर्माणकला: कलाः ।। सादरं प्रतियच्छन्त्या झातं मायाशतं ततः ।। ५४ ॥ दर्शितराजराजराजेश्वरमन्दिरमार्गो भगवता सहैव निष्कान्तस्तदा कामकलत्रस्य रते रूपान्तरतापन्नाया मायावत्याः प्रवेशमुपनिबध्नाति कविः प्रसङ्गसङ्गत्ये । भायावल्या उद्वेगकारणन्नु शिवोदितसमयात्ययशङ्का, तां पुनः सा स्वयमेव समाधत्ते- अहो' इत्यादिना । महेश्वरीमहेश्वरपदोपादानेन तद्वचने मिथ्यामा- बासम्भव एयोक्तो नैवं घटते ' इति वचनेन । समयविशेपे प्रोनस्य वचनस्य समयविशेपसम्बन्धननितातिशयवत्वं स्मृतिमानयति । श्रीपार्वतीपाणिग्रहणसमये रवा प्रार्थितेन महेश्वरेण श्रीमहेश्वयोःकणे यदुक्तं, तदुपायतथैव च महेश्वरोक्तं महे- श्ररी रत्याः कर्णे प्रोक्तवती तदेव पुनमहेश्वरेण रति प्रति सूचितम् । यया देव्या मोच्यते तथा आचरिते ते प्राणप्रियसमागमोऽवश्यं भवितेति धृतिदानेनाश्वास्य- रहःकथितमुपायं मामात्सहेतुकमामणति-मायाविदं हन्तुं माय्येव प्रभवतीति स्वयाप्यमुरात्ततः मायाशतं ज्ञातव्यमिति । तच्च-मायाशतं त्वत्पतये देयमुपदेष्ट- व्यमित्यर्थः । ततः प्राप्तमायाशत: स (त्वत्पतिः) स्वरिपुं हत्वा-मायावलेन जित्वा-सुखपरमराः प्राप्स्यतीत्यवगमनम् | 'ब्रजन्ति ते मूढधियः पराभव भवन्ति मायाविषु ये न मायिनः । इति भारविवचोप्येतामेव नीतिमनुरुन्धे । (१११) इदानीं मायावती शातमायाशता पत्ये उपदेष्टुं त्वरमाणेव ब्रूते-तदाज्ञानुसारेण-शिवाज्ञामनुमृत्य-मयापि तत: अमुरात् , कला:-मनोहगः लेह्यादिनिर्माणकला: मादरं प्रतियच्छन्त्या (तिलेभ्यः प्रतियच्छति माषामिति.

श्रीकृष्णचन्द्राभ्युदयम् । परं कस्मै समर्पयामि ? नाद्यापि मे प्राणप्रियोऽत्राऽऽगतः । ११२कति युगानि गतानि महेश मे स्मरहर गर हे स्मरमन्तरा । त्रुटिरपि प्रणतप्रिय चाद्य मे युगशतायत एव विना पतिम् ।।५५।। तत् कृपां मयि विधाय कृपान्धे प्रेपय प्रणतपाल पतिं मे ।। आशुतोप कथमद्य न तुष्यस्यत्र ते पदपरेपि जनेऽस्मिन् ॥५६॥ अपराधशतानि विस्मर स्मरशत्रो ! स्मरनिर्मितानि चेत् ।। प्रणतप्रियतामवेक्ष्य ते प्रणतायां मयि माऽदयो भव ।। ५७ ॥ (इति वदन्ती मूर्छया पतति-क्षणादेव पुनः सज्ञामुपलभ्य) शिव११३शिव शिव शम्भो नात्र लब्धः पतिमें प्रवलतरकुकृत्यैर्मामकीनैर्महेश !॥ वत्प्रयोगसाधुता ) ज्ञात मायाशत; परं कस्मै समर्पयामि, नाद्यापि प्राणप्रियो मेऽत्रागतः इति विमृशति । एतायता कालप्रतीक्षणेनापि स्वप्राणपतेरनागमनमे- वेदं 'कथं महेश्वरीमहेश्वरयोरपि वचनानि मिथ्या भवन्तीति । शङ्काबीजम् । (११२) स्थमनोरथस्य सद्य: सिद्धये मायावती महेश्वरमभिष्टौति । हे स्मरहर ! स्मरं विना मे कति युगानि गतानि इति स्मर, पति विना अद्य में त्रुटिरपि युगायते, हे प्रणतप्रिय ! । तत् हे कृपाब्धे ! मयि कृपां कृत्या, कृपासमुद्रस्य कृपाकरणमलोभेनेव मुकरमित्यर्थः, मे प्राणपति प्रेपय, हे प्रणत- पाल आशुतोप! आभ्यां साधुद्धयन्तविशेषणाभ्यां विलम्यासहत्वमायेदितं भग- वतः । ते पदपरेऽपि अस्मिन्-मल्लक्षणे-जने अत्र समये कथं न तुष्यमि अद्य--अद्यापीत्यर्थः । स्मरनिमितानि अपराधशतानि चेत् स्युस्तथापि तानि विस्मर हे स्मरशत्रो ! अब रतिमुखेन स्मरशत्रो इति सम्बोधनोचारणं, स्वं स्मरस्य शत्रुरपि-ते प्रणतप्रियतामवेक्ष्य प्रणतायां मयि अदयो मा भवेत्योतन- वाक्येन शिवस्य सद्य आनुकूल्यापादनार्थम् । (११३) पूर्योक्तवचनान्ते रतिर्मुपतिता पुनरचिरेणेव सशामुपल- भ्य-मामीनेः प्रबलतरफुकृत्यैरप्रजन्मनि मया पविन लन्धः । शिवेति त्रिश्चारण खेदातिशयनिदयोोतकम् । अतः हे देवदेय ! हे अनाथनाथ! हे दया! परजन्मनि स पतिराशु देय इति मे चरमाऽभ्यर्थना । एपमुक्का प्राणत्यागाय कशेर्गले उन्धनं यावत् कर्तुमिच्छति तायदेय पामाधिपुरणेन भाविद्यमान मरणं तु यदा कदापि मुगाध्यमेय परन्तु एवेन मुनिमित्तेन फदा. - पञ्चमोऽङ्कः। परजनुपि दयाब्धे ! देवदेवाऽऽशु-देयः पतिरिति चरमा मेऽभ्यर्थनाऽनाथनाथ ! ।। ५८ ।। (इत्युक्त्या केदौर्गले उन्धनं कर्तुमिच्छति–तावदेव-वामाधिस्फुरणम- मिनीय) किमेतत् सुनिमित्तमस्यां वेलायां! सुलभं मरणं, दुर्लभः प्रियतमसमागमस्तत् क्षणं विलम्बमवलम्ब । (इत्युक्त्वा उद्वन्धनमु- न्मुञ्चति) (नेपथ्ये) मातर्मायावति ! कपाटमुद्घाटय ( इति कपाठमगुल्या प्रहरति ) मायावती-( नेत्रे चेलाञ्चलेन प्रमृज्य ) कोऽस्ति भोः ! (इति वदन्ती कपाटमुद्घाटयति) राजसेवकः-(प्रविश्य ) मातः ! पश्यैप महामत्स्यः केनचित् कैवर्तकेन १४महाराजायाधुनैवोपायनीकृतः । मायावती-उपायनयोग्य एवायं मत्स्यः । ततस्ततः ? सेवका–११५ततो महाराजेनाऽऽज्ञप्तोहम् ' एप मत्स्योऽधैव संस्कार्य' इति मायावत्यै कथयेति । मायावती-यथाऽऽज्ञा महाराजस्य तथा करिष्यामि (इत्युक्त्वा मत्स्य मुवर्णपात्रे गृह्णाति) सेवकः-देवि! गच्छामि (इत्युक्त्वा निष्फ्रान्तः) . चिन्नचिरेणैव प्रियतमसमागम: स्यात्तदुपेक्षणं न साम्प्रतमतः क्षणं प्रत्यवेक्षे । इत्युद्वन्धनमुन्मुच्य प्राणत्यागाध्यवसायाद्विरमति तावदेव नेपथ्ये कश्चिद्राजसेवकः कपाटमंगुल्या प्रहरन् 'मातर्मायावति ! कपाटमुद्घाटय । इति यदाऽऽह तदा मायावती कपाटमुद्घाटयति । (११४ ) कपाटे उद्घाटिते राजसेवकः प्रविश्य महामत्स्यमने निघाय निवेदयति मातरित्यादि । एए महामत्स्यः केनचिकैवर्तकेन अधुनैव महारा- जायोपायनीकृतः। (११५) मायावत्या तं महामत्स्यं पश्यन्त्या उपायनयोग्य एव अयं मत्स्य । इत्युक्ते, सेवक:--' एप मत्स्यः अद्यैव संस्कार्य, इति भवत्यै कथ- यितुमहमाशत इत्याह ।

श्रीकृष्णचन्द्राभ्युदयम् । मायावती ११६वामाङ्गयामाक्षिस्फुरणमभिनयन्ती छुरिकया महामत्स्य विदार्य तन्त्र च वालं विलोक्य) (स्वगतम्) मत्स्योदरेऽयमतसीकुसुमप्रभाभो वालो विलोक्यत इहामललोलनेत्रः ॥ जीवन् कथं नु चिरमत्र लभेत वृत्ति- मित्येप मे मनसि विस्मयमातनोति ॥ ५९ ॥ अहो!! कुतो महामत्स्यस्योदरे जीवतो बालकस्य सम्भवः!! किमेतदाश्चर्यम् ! कस्मा एतत् पृच्छामि ? को मे संशयमप- नुद्यात् । (आकाशे) पतिरयं तव नूतनविग्रहः सुखकरो भविता तव हे रते ! ॥ नहि महेश्वरवाग वितथा भवेन्न शिवभक्तिलताप्यफला भवेत् ६० तत एनं वालं पालय पोपय लालय, प्राप्तयौवनस्य चास्य माया शतं शिक्षय तेन तस्य विनयोऽभ्युदयश्च सेत्स्यति । (इत्युक्त्या विरमति) मायावती-(११७सानन्दम् ) नमोऽव्यक्तस्वरूपायै भगवत्यै गगनवाण्यै। (इत्युक्त्वा तं कुमार मणिमयमञ्जूपायां निधाय) (११६)' यथाराा महाराजस्य' इत्युक्त्वा मायावत्या यदा स महामत्स्यः मुवर्णपात्रे गृहीतत्तदा मायावतीमाछय सेवक गते तं महामत्स्य छुरिकया विदारयन्ती वामाक्षिस्पन्दनादि शुभनिमित्तं प्रकटयन्ती मत्स्योदरे दृश्यमानं कुमारं वर्णयति मायावती स्वगतम् । इह मत्स्योदरे अतसी- कुसुमप्रभयासदृशी आभा-देहकान्तिपर्य, अमले लोले च नेत्रे यस्य तादृशः अयं बालो विलोक्यते । अयं बालः अत्र मस्योदरे जीवन् मन् कर्य चिरं वृत्ति लभेत इत्येष बालो मे मनसि विस्मयमातनोति । विस्मयमेय प्रथ- यति-अहो महामत्स्योदरे जीवतो यालकस्य कुतः सम्भवः, किमेतदाश्चर्यमि- त्यस्य-कीहशमेतदाचर्यमित्यर्थः । करमे एतराष्छामि यो मे राशयमपाकुर्या- दिति यावद्विचारयति तायदाकाशवाणी-हे रते ! गतनविग्रहोऽयं ते पति- स्तव मुनकरो भविता, हि-यतो-महेश्वरवाग वितया न भवेत् नापि शिय- मक्तिलता विफला भवेत् । तत एनं बालं पालय पोषय लालय, प्रातयौवनस्त्र चास्य मायाशतं शिक्षय, तेन तस्य विजयः अभ्युदयच सेरस्पतीत्यादिश्याऽगरी- रिणी वागुगरता। (११७) तामेतामाकायाणी श्रुत्या प्रदृष्टा मापाती 'नमोऽध्यर..

पञ्चमोऽङ्कः। अधुना सन्निहितो भोजनावसरस्तन्महानसं गत्वा सूदान् माज्ञापयामि महामत्स्यमेनमुपस्कर्तुम् । (इत्युक्त्वा निष्फ्रान्वा ।) (११ ततः प्रविशति रुक्मिण्या सहित: श्रीकृष्णः) श्रीकृष्णः-११ देवि! किमित्यमन्दानन्दनिममेव लक्ष्यसे ? विधृत- दिव्यभव्यवस्खालङ्कारा च फुत्र गन्तुमिच्छसि ? रुक्मिणी-१२०( सहर्षम्) अद्यतनानन्देऽप्यनभिज्ञो मे प्राणनाथः ? आश्चर्यमाश्चर्यम् !! श्रीकृष्णः-१२ देवि रुक्मिणि ! परमशिवप्रसादेन नित्यानन्दममा- नामस्माकमद्यतनानद्यतनानन्दयोर्गणनैव कास्ति । रुक्मिणी-तर्हि शृणोतु मे प्राणनाथः । श्रीकृष्ण:---अवहितोऽस्मि श्रोतुम् । रुक्मिणी-१२२देव्या जाम्यक्त्याः पुत्रो वत्सः साम्बः स्वस्मिन्ननुरता कुरुकुलमहाराजस्य दुहितरं स्वयंवरे जहार । स्वरूपाये ( अत्र स्वपदेन वक्तव्यक्तिरुच्यते तथा च ) अदृष्टवक्तरूपाय (इष्टोदन्तश्रावणेन) भगवत्यै गगनवाण्यै नमः, इति नमस्कारेणाकाशवाणी सम्पूज्य तं च कुमारं मणिमयमंजूषायां निधाय 'अधुना मन्निहितो भोजनाव- सर' इत्यादि सापदेश व्याहरन्ती महामत्स्योपस्काराय सूदानादेष्टुं महानसं गन्तुं निष्कान्ता । (११८) एकतः श्रीकृष्णः अन्यतश्च सक्मिणी प्रविशतीत्यर्थः । (११९) दिव्यवनाभरणादिधारणनिमित्तमजानानः श्रीकृष्णः पृच्छति देवि ! इत्यादिना कुत्र गन्नुमिच्छसीत्यन्तेन । (१२०) अतिमहतोऽस्यानन्दावसरस्थानभिज्ञं श्रीकृष्णमाक्षिपन्तीवाद रुक्मिणी सहर्षम्--कृष्णाय आनन्दोदन्त निवेदयितुं लब्धावसराया युक्तमेव सहर्पत्वम्-अद्यतनानन्देऽपोत्सपिना एतादृशवृत्तान्तस्तु श्रीमता पूर्वमेव विदितो भवेदस्माभिस्तु श्रीमन्मुखादेवावगम्यतेत्याशयः । अत एवं आश्चर्यमाश्चर्यमिति धीप्सया विस्मयो द्योल्यते । (१२१) श्रीकृष्णलु रुक्मिणीमानन्दयशामुपहसन्निवाह--देवि ! पर- मशिवप्रसादेन नित्यानन्दमग्नानामस्मा तादृशशाश्वतिकानन्दलामे अद्यतनत्वा- नद्यतनवादिवैशिष्टयभाजः सातिगयानन्दस्य कैव गणना—न छाप्यस्तीत्यर्थः । (१२२) वर्हि शृणोतु मे प्राणनाथ इति रुक्मिण्या कृतार्थनाय 'अव- श्रीकृष्णचन्द्राभ्युदयम् । श्रीकृष्ण:-( सहर्षम् )१२३वत्सेन साम्बेन मत्पुत्रत्वं सफलं कृतम् । ततस्ततः? रक्मिणी -ततः कर्णदुर्योधनाद्यैर्महारथैः सह युद्धं साम्बस्य प्रवृत्तम् । श्रीकृष्णः-१२४ अन कः सन्देहः । भवेदेतदेवमेव । ततस्ततः ? रक्मिणी-ततो द्वन्द्वयुद्धे वत्सेन साम्बेन पराजितास्ते सर्वे सम्मील्या- न्यायेन साम्वं ववन्धुः। श्रीकृष्णः-१२५अधर्मयुद्धमेतत् । ततस्ततः ? रुक्मिणी-ततः कुरूणामन्यायं श्रुत्वा कुरून् विनेतुं सेनया सहिताः सजाः सर्वेपि यादवकुलमहारथाः । श्रीकृष्ण:---युज्यत एवैतन्निष्पतिमपराक्रमाणां यादवमहारथानाम् । ततस्ततः ? रुक्मिणी-तत१२६उभयेषां शान्तिमिच्छन्तः सरलतरस्वभावा आर्या बलभद्रा उद्धवादिभिः सह हस्तिनापुरं गताः । । हितोस्मि श्रोतु मिति दर्शिताभिमुख्याय कृष्णाय साम्बाचरितं लक्ष्मणाहरण- वृत्तान्तं कथयति । देव्या जाम्बवत्याः पुत्रः साम्बः स्वस्मिन्ननुरक्ता कुरुकुलम- हाराजस्य-दुर्योधनस्य-~-दुहितरं (लक्ष्मणां) स्वयंवरे (सम्प्रवृत्ते इत्यध्याहा- र्यम् )जहार । (१२३) साम्बेन मत्पुत्रत्वं सफलं कृतमित्यस्य-यथा त्वमपि मया भवानीमन्दिरादपहता एवं साम्बेनापि तां राजकन्यामपहरता पितरमनुसरता मम पुत्रता सफ्ला कृतेति भावः । पैतृकमनुहरन्ति पुत्रा मातृक दुहितर' इतिन्यायानुरोधिपुत्रधर्मावगमेन महर्षत्वम् । जिज्ञासाकुलः पृच्छति 'तत- स्तत' इति । (१२४) कर्णदुर्योधनाधैर्महारयः साम्बस्य युद्ध प्रवृत्तमिति रक्मिण्योक्ते 'एतदेयमेव भवेदत्र कः सन्देहः । इति वदतो भगवतः, कन्यापहारे फन्या- पितृपधीयानां समुत्थानं मदेवेत्याशयः । (१२५) इन्दयुद्ध हि अभिषणयितारमन्तरेणान्तरे न कोऽप्यतिपदि. ति समयमन्धस्तत्र सम्भूय सर्वेषामेकं मन्यभिपेणनमन्याय इत्यत उक्तमधर्मयुद्ध- भेतदिति धर्मादपेतमिति यावत् । (१२६) यदा 'कुरुगामलाई श्रुत्वा तान् गेर्नु यादवकुलमहारथाः सेनया सह सन्नदा' इति रुक्मिण्या कथितं तदा । युज्यत एथेत दित्यादि पञ्चमोऽङ्कः। श्रीकृष्णः-(सपरितोपम् )१२७सम्यगेतत् कृतमाय । परस्परं गाढस- म्बन्धवद्धानां कुरूणां यदूनाञ्च मिथो युद्धमेत्र न शोभते । ततस्ततः ? सक्मिणी-१२८नाथ! प्रथम मदान्धतयाऽनाहतार्यवचना अपि क्षणादाय: प्रदर्शिते प्रभावे प्रणम्य सवधूकं साम्बमार्येभ्यः समर्पयामासुः । श्रीकृष्ण:-को थाऽस्मदाचरणानां वचनानि नानीकुर्यात् ? ततस्ततः? रुक्मिणी-तत'२९ इदानीमायः परिरक्षितो बद्धमुक्तो वत्सः साम्यः सवधूकोऽत्र समागतोऽस्तीति परमानन्दसमुद्रो मनसि मे समु- क्षात्रधर्मानुरूपमाचरणमनुमोदमानेन कृष्णेन कथितं परन्तु युद्धवात श्रवणजन्यो- द्वेगवेगितान्त:करणोऽप्रेतनवृत्तनिशामुः पृच्छति 'ततस्तत) इति । तामेताम- स्याकुलतां शमयन्ती रुक्मिणी ब्रूते-उभयेषां कुरूणां यदूना त्यर्थः । शान्ति- मिच्छन्त इति हि स्वैरं हास्तिनपुरगमने निमित्तम् । न पुनर्निर्वलत्वादिहेतुनेत्य- भिप्रायः । सरलतरस्वभावत्वमेव शान्तीच्याप्रयोजकीभूतं तत्रापि मन्त्रपण्टिते. रुद्धवादिभिः सह तत्र गमनं स्वेटपरिणामस्य साधनसोकाय । आर्या बल- भद्राः इति रुक्मिणीमुखेन बहुवचनोचारणं ज्येष्ठत्वप्रयुक्तगौरवावेदकमिति । (१२७) गाढसम्बन्धवदानामित्युभयेपा हेतुगर्भ विशेषणम् , तादृश- सम्बन्धयतो मियो युद्धमेव न शोभते इत्युत्तरवचस उपपादनाय । सम्यगेतत् कृतमार्यमें बलभद्रेरिति परितोपावेदनम् । शेषावतारस्य मुलभकोपस्य रामस्य परकृतावहेलनासहिष्णुतया तदुक्तानगीकारे भवेत् कदाचिरपुनर्युद्धापत्तिरिति शङ्काकुलः पृच्छति 'ततस्तत इति । (१२८) तामाशङ्कां निवर्तयति रुक्मिणी- --नाथ! मदान्धतया प्रथम बलभद्रवचो नादृतं कौरवैस्तथापि यदा लागलव्यापारप्रावीण्यमार्यैः प्रदर्शित तदा प्रणम्य सवधूक साम्बमार्येभ्यः समर्पितवन्त इति । (१२९) अथापि श्रीकृष्णेन विशेषजिज्ञामुना 'ततस्तत' इति प्रेर्यमाणा रुक्मिणी स्वकीयहर्षहेतु विवृण्वती सती श्रीकृष्णमपि विनोदभागिनं कर्तुमर्थयते-तत इत्यादिना । इदानीमागतो वत्सः साम्बः सवधूक इति तमेव बिलोकयितुं गच्छागि----प्राणनाथोपि (भवानपि) मया सह तत्रागत्य मामधिकानन्दवतीं करिष्यतीत्याशासे--इत्यनेन एतादृशविजयिपुत्रमुखदर्शनाव- सरे दम्पत्योत्सहावस्थानं प्रमोदातिशयजनकं भवेदित्याशयः प्रकटितः । तत्रापि श्रीकृष्णचन्द्राभ्युदयम् । च्छलति । ततो देवी जाम्बवतीं सबधूकं च वत्सं साम्धं विलो- कयितुं गच्छामि । प्राणनाथोपि मया सह तत्रागत्य मामयिका- नन्दवती करिष्यतीत्याशासे। श्रीकृष्णः--अत्र कः सन्देहोऽवश्यमागमिष्यामि, दर्शय मे देव्या जाम्ब- वत्या मन्दिरमार्गम् । रुक्मिणी-(सहर्षम् ) इत इतः प्राणनाथः (इति वदन्ती सह श्रीकृष्णेन निष्क्रान्ता) (ततः १३०प्रविशति साधारणवस्त्रालङ्कारा औदास्यमन्ना जाम्बवती सवधूक: साम्बश्चम्पकमाला दासी च) जाम्बवती-१३१वत्स साम्य ! वत्से सौभाग्यवति ! प्रथमं श्रीराज- राजेश्वरमस्मत्कुलदैवतं प्रणम्य श्रीराजराजेश्वर्यै इयं गजमुक्ता- ऽर्पणीया। तदनन्तरं च देव्याः श्रीरुक्मिण्या मन्दिरं गत्वा तत्र- स्थितेभ्यस्ते तातचरणेभ्यः प्रणामान् कृत्वाऽयं हीरकहारस्तत्कण्ठे- सपत्नीभावेऽपि भगिनीनिर्विशेषां जाम्बवतीं निजतनयं सवधूकं वीक्ष्य ग्रहृष्टा- न्तरङ्गो पर्दापयितुं गच्छन्त्या रुक्मिण्याः श्रीकृष्णसार्थोऽतीव मनस्तोपाय भवेदिति भावः । बद्धमुक्त इति पीतप्रतिबद्ध इतिवत्समास: । आः परिर- क्षित इत्यनेन मध्येमार्ग कैरप्ययाधितः कुशलीति यावत् । (१३०) श्रीकृष्णेन 'अवश्यमागमिप्यामि । इति स्वीकृतप्रार्थना, 'दर्शय मे जाम्यवत्या मन्दिरमार्गमिति च प्रेर्यमाणा रुक्मिणी 'इत इतः प्राणनाथ । इत्येवं मार्गमादर्शयन्ती श्रीकृष्णेन सह निष्फान्ता । तत औदास्य मनाया जाम्बवत्याः प्रवेशः । सवधूकपुत्रमुखदर्शनासरे जाम्बवत्या औदास्य ममत्वमवीवासाम्प्रतं, तद्वीजमने स्फुटीभविष्यति । चम्पकमालाया दास्याः सदाग- मनं राजव्यवहारोचितम् । (१३१) इदानी जाम्बवती वधूयरावनुशास्ति वत्सेत्यादि चेत्यन्तेन । प्रथम श्रीराजराजेश्वरमस्मत्कुलदेवर्त परमशिवं प्रणम्य तत्र च श्रीराजरामेश्वर्य स्य गजमुक्ताऽर्पणीया, ततो रक्मिणीमन्दिरं गतेन स्यया तत्र नियतमा- निध्यं ते पितरं (श्रीकृष्णं) प्रणम्य अयं हीरकहारस्वत्कण्ठेऽपणीयः, पधादिय- मिन्द्रनीलमणिमाला ते माने रक्मिण्य अर्पणीयेति । अत्र मक्मिणीसम्मानने हेर्नु गृणाति-देवी सस्मिणी मत्तोऽप्यधिकं तेऽभ्युदयकाशिणीत्यादि । दासी महग- न्नुमादिशति चम्पकमाले! इति ।

पञ्चमोऽः। समर्पणीयः । पश्चात् ते मात्रे रुक्मिण्य प्रणम्येयमिन्द्रनीलमणि- मालार्पणीया । देवी श्रीरुक्मिणी स्वकीयनिःसीमवात्सल्य- त्रिवशाशया मत्तोऽप्यविकं तेऽभ्युदयकाटिणी विजयकाशिणी मङ्गलकाद्धिणी च । (दासी प्रति ) चम्पकमाले ! नमताभ्यां सह गच्छ। चम्पामाला-यथाज्ञा देव्या (इत्युक्त्योत्तिष्ठति ) जाम्यवती-वत्स १३२साम्ब! पुनरपि वदामि, त्वयि वत्सलत्वमाव- हन्तीपु सर्वासु ते मातृपु देवी रुक्मिणी तु रुक्मिण्येव, ततो- अतीव तस्यां भक्तिर्विधेया । शास्त्रेप्नप्युक्तं'-पितुः शतगुणं माता भक्त्याराध्या शिवेच्छुभिरिति तद् गच्छ मातुस्ते देव्याः श्रीरु- क्मिण्या मन्दिरं, यतो देव्याः श्रीरुक्मिण्या एवाशीर्वचनः परमेश्वराभ्यर्थनैः शुभेच्छाभिश्च त्वं कुशली सबधूकश्चात्रागतो. ऽसीति मन्येऽहम् । साम्बः-मातः! यथायुप्मदाझं श्रीराजराजेश्वरं प्रणम्य प्रथमं मातु:- श्रीरुक्मिणीदेव्या एव मन्दिरं गमिष्यामि । (तत: १३३प्रविशति रुक्मिणी श्रीकृष्णचन्द्रेण सहिता) (१३२) यावचम्पकमाला 'यथाज्ञा देव्या' इत्युक्त्वोत्तिष्ठति तावत् 'पुनरपि वदामि' इत्युपक्रम्य देव्या रुक्मिण्याः प्रीत्यतिशयं ब्रुवाणा जाम्यवती तस्यां बहुमानं सहेतुकं निगदति 'वत्से-त्यादि । यद्यपि सर्वास्ते मातर- स्त्वयि वात्सल्यं दधति तथापि रुक्मिणी तु रुक्मिण्येवेत्यनेन रुक्मिण्या वात्स- त्यमनुपममेवकारेणावेदयति । तथा च तस्यामतितरां भक्तिर्विधेयेत्याह । तन शानवाक्यं प्रमाणत्वेनोपक्षिपति 'पितुः शतगुणं मातेत्यादि । रुक्मिण्या- मनितरसाधारणसद्भावोत्पादनाय पुनरप्याह-रुक्मिण्या एवाशीर्वचनेस्तत्कृतपर- मेश्वराभ्यर्थनस्तदीयामिरेव शुभेच्छाभिश्च त्वं सवधूकः कुशली गृहानागत इत्यहं मन्ये, तस्याः पादयन्दनादि सद्भावपूर्वकं कुर्या इत्यर्थः । (१३३) यावत्साम्यः 'मातः! यथायुष्मदाशं प्रथमं राजराजेश्वर प्रणम्य श्रीरुक्मिणीमन्दिरमेव गमिष्यामीति । प्रतिज्ञाय निर्गन्तुमिच्छति तावदेव रक्मिणी श्रीकृष्णेन सह प्रविशति । अत्र श्रीकृष्णपदोपरि अप्रधाने तृतीयानि- देशेन रुक्मिण्या एवागमनं मुख्यं श्रीकृष्णस्य तु तदाग्रहेणैषति पूर्ववृत्तान्त श्रीकृष्णचन्द्राभ्युदयम्। रुक्मिणी-देवि जाम्बवति ! वयमेव ते मन्दिरं प्राप्ताः । वत्सं साम्यं सौभाग्यवती वधूं च विलोकयितुमातुरतरां मे दृष्टिः । जाम्बवती-( १३४साश्चर्यानन्दमुत्थाय विलोक्य च) अहो परमकृपापा- रावारः प्राणनाथोऽप्यलकरोति मे मन्दिरम् ! ! सुदिनमिदं सुवर्णसूर्यश्चाद्य मे प्रातःसमयः ( इत्युक्त्वा रत्नसिंहासने श्रीकृष्णं श्रीरुक्मिणी चोपवेश्य प्रणम्य राजोपचारैः सम्पूज्य-वधूवरौ प्रति) वत्सौ ! पूजयतं परया भक्त्या मातापितरौ वाम् । गृह एव श्रीगडा समागता। साम्बः-(१३५किञ्चिद्विलम्बमानो मातुर्मुखं विलोकयति) जाम्बवती-वत्सौ! मा विलम्ब कुरुतं, श्रीराजराजेश्वरीराजराजे- श्वरावेव ते मातापितृरूपेणागताववेहि । साम्बः यथाज्ञा श्रीमातुः ( इत्युक्त्वोभयोश्चरणकमलपूजां विधाय श्रीभग- वते हीरकहारं श्रीरुक्मिण्यै चेन्द्रनीलमणिमाला समर्प्य रायधूकः साष्टा- ङ्गपातं प्रणमति) उभौ-(उभयोः शिरसि कोमले करकमले निधाय सहर्षाश्रुपातम् ) स्मारणम् । अत एव प्रथमं रुक्मिण्येव ब्रूते--देवि जाम्बवति । वयमेव ते मन्दिरं प्राप्ताः, यतः साम्यं तद्वधू च विलोकयितुमातुरतरा मे दृष्टिरिति हेतुकथनम् । (१३४) श्रीकृष्णमागतं दृष्ट्वा ससम्भ्रमा जाम्बवती साश्चर्यानन्द विलोक्य उत्थाय च-परमकृपापारावारो मे प्राणनाथोऽपि मे मन्दिरमलक- रोति !! (मे इति पदं देहलीदीपवदुभयत्र सम्बध्यते ) मुदिनमद्य मे प्रातः समयश्राद्यतनः सुवर्णसूर्योदययानित्याधुपचारपर्चासि पदन्येव श्रीकृष्ण रुक्मिणी च रत्नासने उपवेश्य सम्पूज्य वधूवरावादिशति-~यत्सौ ! (पुमान् स्रियेत्येक शेषः) परया भक्त्या पूजयतं यां मातापितराविमो, गहे एव गला आयातेति । यन्नसाध्ये वस्तुनि अनायासोपनते गवाया गृहागमनं निदर्शनीक्रियते लोकः । (१३५) प्रथम जाम्यवत्यैवाशप्तं यदादौ श्रीराजराजेश्वरं प्रणम्यान न्तरं रुक्मिणीमन्दिरं गत्या तत्र स्थितयो रक्मिणीश्रीकृष्णयोर्वन्दनं विधाये. त्यादि-इदानी पुनः सेवाशापयति 'पूजयतं यो मातापितरा विति एवं पूर्या- परविरुद्धा मानाशामास्मृत्व यावत्साम्यो विलम्बते तावदेव पुत्राशयमाशाय तदी. याशवामपनिनीपुर्जाम्बवती-वत्सौ ! मा विलम्न कुरतं, यतः श्रीरानरागेश्वरी पञ्चमोऽङ्कः। २०३ १३६वत्स साम्ब ! सदा साम्बसदाशिवपदाअयात् ।। सवधूकोऽनुभूयास्त्वं पराः सुसपरम्पराः ।। ६१ ॥ (जाम्बवतीं प्रति ) देवि जाम्बवति! श्रीमहेश्वरप्रसादाद् वर्धा- पितासि । सवधूकस्य वत्सस्य साम्बस्य मुखकमलमवलोक्य मोदामहे । जाम्बवती--सोऽयं युवयोः प्रसादाद् वृद्धानां पुण्यप्रभावाद् गुरु- जनानामाशीभिश्चाभ्युदयो जात इति मन्येऽहम् ( इत्युक्त्वाधो-. मुन्सी अघस्तिष्ठति) रुक्मिणी-देवि देवि ! नेदं शोभते, मया सहैवान सिंहासने उपविश । (इत्युक्त्या बलानां सिंहासने उपवेशयति ) श्रीकृष्णः-प्रिये ३ जाम्बवति ! परमानन्दमयेऽप्यस्मिन् महामहोत्सव- समये कथमुदासीनेव लक्ष्यसे ? राजराजेश्वरावेव ते मातापितृरूपेणागतायवेहि ' इत्यादिशत् । मातापितरौ हि पार्वतीपरमेश्वरयोः प्रतिनिधित्वेनामाती शास्त्रेषु अतश्च स्वयमुपायातयोरेतयो राजराजेश्वरीराजराजेश्वरभावनेव पूजने कृते न मदुक्तपूर्वक्रमपरित्यागशङ्का- यकाश इति निःशकमनुष्ठीयतामुभयोः पूजनमित्याकूतम् । (१३६) 'यथाज्ञा श्रीमानु रिति मातृवचः सम्मान्य सम्पूज्य रुक्मिणीश्रीकृष्णो भगवते हीरकहारं माने चेन्द्रनीलमणिमालो समये सवधूक: साम्बः प्रणमति तदा उमयोः शिरसि करकमले निधाय उभावपि सहपाश्रु पूरमाशिपमुद्रितः 'वत्से 'त्यादिना । अत्राशीर्वचनेऽपि --सदा साम्बसदा- शिवपदाश्रयात् सवधूक: पराः मुखपरम्पराः त्वमनुभूया-इति कथनेन शिव- प्रसादलब्धोदयाय साम्बाय तादृशाभ्युदयस्य शाश्वतिकतासिद्धये सर्वदा माम्ब- सदाशिवपदाश्रयणमुपदिष्टं भगववेत्यभिसन्धिः । तदेव पुनर्जाम्बवतीवर्द्धापने- ऽपि व्याहरतः 'श्रीमहेश्वरप्रसादाद् प‘पितासीति । (१३५ ) 'युवयोः प्रसादा दिति भगवत्प्रसादमेव स्वाभ्युदये हेतु- मुक्त्वा वृद्धानां पुण्यचयस्य गुरुजनाशिपां च तत्र सहकारित्वमाभाषमाणा अधो- मुखी अस्तिष्ठति जाम्बवती, तावत्तां बलादाकृष्य रुक्मिणी 'देवि नेदं शोभते, इत्यादि वदन्ती सिंहामने एव वा तामुपवेशयति । (१३८) सोद्वेगमुखमुद्रां जाम्बवतीमालक्ष्य श्रीकृष्णस्वामुद्वेगकारणं पृच्छति-परमानन्दमयेऽप्यस्मिन् महोत्सवसमये कयमुदासीनेव लक्ष्यसे- इति ।

२०४ श्रीकृष्णचन्द्राभ्युदयम् । जाम्बवती-न किञ्चिन्नाथ ! न किञ्चिदपि ( इत्युक्त्वाऽभूणि मुञ्चति) रुक्मिणी-सखि सखि ! किमिदं कुरुपे ? असमये औदासीन्यमु- हाव्य प्राणनाथमप्यौदासीन्यमग्नं कुरुपे; किमेतदुचितं ते ? जाम्बवती--कल्याणि ! जानामि खलु नैतदुचितं, परं किङ्करोमि ? नाहमौदासीन्यमुद्भावयामि स्वयमेवैतदौदासीन्यमुद्भवति, तत्र को मेऽपराधः? श्रीकृष्ण:-( १४ साश्चर्यम् ) प्राणप्रिये मयि सति प्रगतप्रिये श्री- शम्भौ प्रसादसुमुखे विपुले च राज्ये ॥ पुत्रेषु साम्बसदृशेषु परःशतेषु प्राणप्रिये ! कुत इयं त उदासताऽहो ।। ६२ ।। रुक्मिणी-१४१६ "प्रियस्वसर्यथार्थमाह प्राणनाथः । जाम्बवती-१४२नाथोऽस्माकं त्वमसि भगवन् ! दैवतं श्रीमहेशः ( १३९) जाम्बवती पुनरपन्हुवानेव स्योद्वेगकारणं 'न किञ्चिन्नाथे' त्युक्त्या ' न किञ्चिदपि । इति पुनर्वदन्त्यभूणि मुञ्चति तदा तदाशयानभिज्ञा रुक्मिणी तामुपालभते--असमये औदासीन्यमुद्भाव्य प्राणनाथमप्यौदासीन्य- मनं कुरुपे; किमेतदुचितं ते ? सर्वथा नोचितमिति भावः । (१४०) प्रथमन्तु हर्षनिर्भरतया क्षुब्धा स्यात् जाम्बवतीति मेने भगवान् परन्तु यदा रुक्मिण्युक्तमनुमान्य जानामि खटु नैतदुचितं, परं किङ्क- रोमि ? नाहौदासीन्यमुद्भाययामि, स्वयमेवैतदीदासीन्यमुद्भवति, न तद् रोदु प्रभवामीत्याशयवत्या जाम्बवत्या ' तत्र को मेऽपराधः । इति निरुपाय- ताऽऽवेदिता तदा श्रीकृष्णः शङ्कितचित्तः माश्चर्य पृच्छति-प्राणप्रिये मयि, प्रणतप्रिये श्रीशम्भौ प्रसादमुमुखे, विपुले च राज्ये, माम्बसदृशेषु परस्महरले पुरेषु सत्सु ते यमुदासता अतः १ सर्वथा उदासतायकामो नास्तीत्यभिप्रायः । तथाप्यौदासीन्यमित्याश्चर्यमहोनिपावेन व्यञ्जितम् । (१४१) रुक्मिणी श्रीकृष्णोक्तमनुमाढते प्रियस्वसः ! यथार्थमार प्राणनायति । (१४२) इदानी स्वोद्वेगकारणं विवृणुने जामवती- भगयन् ! अस्माकं नायस्त्वममि, देवतं च श्रीमहेशः, किचनः माहाय्यदा फागण्याद्रा- .

पञ्चमोऽङ्कः। कारुण्याद्रा हिमगिरिसुताऽस्त्येव साहाय्यदा नः ।। सत्यप्येवं नहि नहि विभो ! रुक्मिणीनन्दनो यो वाल्ये नष्टो मिलति, किमयं स्वल्प औदास्यहेतुः? ॥३॥ किच-नाथस्त्वं भगवान् दयामृतमयः श्रीशङ्करो दैवतं देवी श्रीकरुणासरित् प्रतिदिनं साहाय्यदा पार्वती ।। सत्यप्येवमनन्यतुल्यशरणा श्रीरुक्मिणीनन्दनं द्रष्टुं न प्रभावामि, तर्हि बलवान् भाव्यर्थ एव ध्रुवम् ॥ ६४ ॥ ( एवं यदन्त्यभूणि मुञ्चति) रुक्मिणी-(१४३स्वगतम् ) अहो देव्या जाम्बवत्याः सौहार्दमप्रतिमं, या महुःखेन मत्तोप्यधिक दुःखं मनसि धारयति । (प्रकाशम् ) सखि सखि ! अलमलं चिरव्यतीतव्यसनस्मरणेन । भगवता वसिष्ठेनापि 'राम शान्ति न पश्यामि सर्वविस्मरणाहत । इति श्रीरामचन्द्र प्रति प्रोक्तम् । . गिरिसुता अस्त्येव-अत्र हिमगिरिसुतायाः कारुण्यातिविशेषणदानेन प्रार्थना- ऽनपेशवभक्तहितकरत्वं बोधितम् एतावति अनुकूलकारणकलापे सत्यपि हे विमो ! बाल्ये नष्टो रुक्मिणीनन्दनो नाद्यापि मिलति; किमयं स्वल्प औदास्य- हेतुः ? अनमवतोऽप्यत्र औदास्यं-उदासीनता-उपेशाप्रयणवेति यावत् इति काका बोधितम् । अत्र भवतोऽपि न स्वल्पा उपेक्षेतिभावः । अथ भगवन्त- मुत्तेजयितुमाह किञ्चेत्यादि । त्यं ह्यस्माकं नायो दयामृतमयः, देवतं च श्रीश- ङ्करः- नाम्नैव कल्याणकर:-प्रतिदिनं साहाय्यदा च श्रीकरुणासरित् पार्वती देवी; एवं सत्यपि-एकैकस्मिन् स्वाभितविपनियारणक्षमे कारणे, तादृशकारण- यसमवाये समुदितेऽपि-श्रीरुक्मिणीनन्दनं द्रष्टुं न प्रभवामि तर्हि ध्रुवं भाव्यर्थ एव बलवान् यत्प्रतिक्रिया एवंविधकारणैरपि कर्तुं न शक्यते इति वदन्त्य- श्रुणि मुञ्चन्ती स्वाशयमाविष्कृतवती । (१४३) मक्मिणी स्वगते, स्वदुःखेन दुःखातिशयं वहन्त्या जाम्बवत्या अप्रतिम सौहाई भावयन्ती धैर्यप्रदानाय प्रकाशं ब्रूते-सखि सखि इत्यादि । अत्र सखि ! इति द्विःसम्बोधनं जाम्बवत्या अधीरतावधारणाय | अलमलं चिरातीत- घ्यमनस्मरणेन यत् किल स्मृत सद् दुःखाकरोति, वरं तस्यास्मरणमेवेति मायः । अत्र वसिष्टोकं प्रमाणयति-शान्त्युपायस्य मनोलयस्य परमं साधनं सविस्मर- २०६ श्रीकृष्णचन्द्राभ्युदयम् । जाम्बवती-देवि १४५देवि! कथय कथमिव विस्मरामि तं, यो मे ज्येष्ठः साम्बः। श्रीकृष्णः-देवि! १४ अप्रतिक्रियायां विधिविधित्सायां धैर्यमेव पर- माधारः सर्वेपाम् । जाम्बवती-१६सत्यं, परं कथं धैर्य धार्यमित्यपि प्राणनाथ एव शिक्षयतु । श्रीकृष्णः-१४७प्राणप्रिये ! भवति यद्यदिहाशुभं तद् यद्वा शुभं भवतु लोकशा तथापि ॥ सर्व शुभं परिणती शिवभक्तिभाजां यच्छङ्करः सकलशङ्कर एव देवः ॥ ६५ ॥ एप निश्चयों धैर्यधारणोपायः । णमेवेत्याशयेन श्रीरामचन्द्र प्रति वसिष्ठेनोक्तं ' राम ! सर्वविस्मरणाद् ऋते शान्ति न पश्यामि-अत्र उत्तमपुरुषप्रयोगेण-मादृशोऽपि जनो यदि न पश्ये- का कथा पुनरन्येषामतो यदि शान्तिमिच्छसि तर्हि सर्वविस्मरणान्यासं कुर्वित्यु- पदिष्टं तद्वत् त्वमपि तदुःखनिदानं विस्मृतिपथमेव नयेत्याशयः । (१४४) देवि ! कथय कथमिव विस्मरामि तं ? यो मे ज्येष्ठः साम्नः इति वदन्ती जाम्बवती यत्पदपरामृष्टे प्रद्युम्ने ज्येष्ठसाम्बत्वारोपेण साम्बापेक्षया तस्मिन्नात्मनोऽधिकं ममत्वमुद्गणाति । न कथमपि विस्मर्तुं प्रभवामीत्याशयः । (१४५) या हि विधेर्विधित्सा प्रतिक्रियाशून्या तद्विपये सर्वेषां धैर्य- मेवाधारो नान्यदित्यर्थः । अतश्च भवत्या धैर्यमेवाश्रयणीयमित्याह श्रीकृष्णः । (१४६) जाम्बवती श्रीकृष्णोक्तं ' सत्य ' मित्युक्त्या सम्मान्य 'परं कथं धैर्य धार्यम्-इत्यपि भवतैव शिक्षणीयम् इत्याह । एवंविधप्रसङ्गे धैर्यधारणाय स्वयं न प्रभवामीत्याशयः । (१४७) श्रीकृष्णो धैर्यधारणोपायं व्याकरोति । हे प्राणप्रिये ! यद् यद् इह लोके अशुभं भवति यद् या लोकशा शुभ (भवति ) तद् भवतु सर्प तथैव, तथापि शिवमक्तिभाजां तु सर्व परिणवौ शुभमेव भयेत्-यत् कारणं शकरः स्वयं सकलानो शङ्कर:-कल्याणकर-एव । एतेन शिवसरणाना- मस्माकमिदानीमापातप्रतीतं दुःखमपि परिणतो मुखमेव भवेदित्याकारक-नि- श्रय एवं धैर्यधारणोपाय: परम इत्युपदिष्टम् ।- पञ्चमोऽङ्कः । २०७ १४९ जाम्बवती-प्राणनाथ ! परिणतेरप्यवधिश्चिन्तनीयः । १४ याताः पोडश वत्सराः प्रतिदिशं भीमादयो निर्भया भ्रामं भ्राममहो न हन्त विरता अन्वेष्टुमैनं शिशुम् ।। अद्यापि भ्रमणैकवद्धहृदया नो ब्रीडया तेऽन्तिके- ऽप्यायान्तीह कदा शुभा परिणतिर्भाव्येति नो वेश्यहम् ॥६६॥ श्रीदेवाधीने वस्तुनि किमस्माकं यलम् ? 'तथाप्येतावत्तु प्रष्टुमीहे-- पुत्रं गुरोर्यमगृहादपि चानयस्त्वं नारायणस्य निकटाद्दा विप्रपुत्रान् ।। यश्चाऽऽनयस्त्वरितमर्जुनसारथिः सन् ; सत्र कुमारममुमानयितुं न शक्तः ? ॥ ६७ ॥ श्रीकृष्णः-(१५० स्वगतम्) अहो जाम्बवत्याः श्रीरुक्मिणीदुःखेन दुःखिता परां काष्ठामारूढा । ईदृशीभिः कुलकामिनीभिरेवाह (१४८) अयापि धैर्यमलभमाना चिरकालावेक्षयापि अनासादिता- भिलपिता श्रीकृष्णमुल्लापयति-परिणवेरप्यवधिश्चिन्तनीयो नया? | तदेव विस्तार्य वर्णयति--पोश वत्सराः याता: (नष्टस्य बालकस्येति शेषः) प्रति दिर्श निर्भयाः भीमादयो (ये प्रेपितास्तेपि) एनं शिशुमन्येष्टुं भ्रामं भ्राम- दिगन्तराणि भ्रान्त्वा हन्त नाद्यापि विरताः साम्प्रतमपि भ्रमणे एव एके-- मुख्योद्देश्यतया--अद्धं (कृतसङ्कर्प) हृदयं येषां तादृशाः अलब्धप्रद्युम्ना बीया ते अन्तिकमपि नाऽऽयान्ति; अतश्च भवदादिष्टा शुमा परिणतिः कदा भाव्या--भवित्री-हत्यहं न वेभि । देवाधीने वस्तुनि किमश्माकं बलं १ न किमपीत्यर्थः। (.१४९) जाम्बयतीदानीं श्रीकृष्णं मार्मिकवचोभिरूपालन्धुमीदते तया- पीत्यादिना । यद्यपि देवायत्ते यस्तुनि निरुपायतेय शरणं तथापि साझादृष्टानेक- भवन्प्रभावाहमेतावद्-यश्यमाण-प्रष्टुमीहे । विषभितं प्रश्नयति- यस्त्वं गुरोः पुर्व यम यहादप्यानयः, यश्च पुननारायणसकागद् दश विसपुत्रानपि अर्जुनमाथि: समानयः, स त्वमk कुमारं प्रयुग्नमानयितुं न शक्तः।। (१५०) श्रीकृष्णः स्वगते आम्बवत्याः रुक्मिणीदुःसेन दुःखिता पर कारामारूदा इत्योपदेन सविस्मयमुक्त्या निजराशीना परस्परं सौहाईदर्श- २०८ श्रीकृष्णचन्द्राभ्युदयम् । भाग्यशाली । बहुभार्याणां पुरुषाणां येषां भार्यासु परस्परं स्नेह- सौहाईसान्द्रहृदयत्वं प्रतिदिनं वर्द्धते तेषामेव गृहेष्वभ्युदयनि- वासो विजयनिवासः कल्याणपरम्परानिवासश्च भवति। (प्रका- शम् ) प्रिये जाम्बवति ! परमशिवचरणमेव शरणीकृत्य निश्चि- न्तचित्ता भव, स एव सर्व शिवं करिष्यति । जाम्बवती-१५ 'प्राणनाथ ! श्रीरुक्मिणीकुमारापहरणदुःखादुन्मत्ता किमप्यविवेकेन वदामि तत् क्षन्तव्यम् । परशिवपदभक्तः प्राणनाथाऽस्यनन्यः कथमशिवमिदं सत्पुत्रचौर्यस्वरूपम् ? ॥ तव सदन, इयं या शल्यतुल्यास्तिशङ्का मम मनसि निषण्णा तां त्वमेवोजिहीथाः॥ ६८ ॥ रुक्मिणी-देवि देवि ! १५२अलमलमविवेकस्यातिभूमिकामारोहसि, यदस्माकं पूर्वकृतानपराधानविगणय्य सकललोकशिवङ्करं परम- शिवं परमेश्वरमुपालभसे तेनाऽस्मत्प्राणनाथो रोपमुपैष्यति । प्रारब्धमपरिहार्यमेवेति नाविदितं मे प्रियस्वना । नेन प्रीयमाणान्तःकरणो बहुभार्याणां भार्यासु स्नेहसौहार्द्रहृदयत्वप्रयुक्तं गृहेषु अभ्युदयविजयकल्याणपरम्परादीनां निवासं निगद्य प्रकाश जाम्बवतीमाह । परमशिवचरणमेव शरणीकृत्य निश्चिन्तचित्ता भव, स एव सर्व शिवं करिष्यति । (१५१) इदानी जाम्बवती श्रीकृष्णोक्तमधरोत्तरेण प्रतिब्रुवाणा कि- चिद्धाष्टमवलम्बवे-हे प्राणनाथ ! त्वमनन्यः परशिवभक्तोसि तयापि तव सदने सत्पुत्र चौर्यरूपमशिव कयम् १ इयं या मम मनसि शल्यतुल्या सहा निपण्णाऽस्ति तामेतामाशा त्वमेवोजिहीया:-निवारयेत्यर्थः । अत्र साक्षात् परशिवस्याप्या- क्षपच्छायाऽऽयाति तदेव मनसिकृत्य पूर्वमेव तया-श्रीरुक्मिणीकुमारापहरणदुः- खेनोन्मत्तप्रायाएं किमपि विवेकविधुरं वदामि तत् क्षन्तव्य'मिति वाक्यारम्भ- एव क्षमाभ्यर्थना कृतास्ति। (१५२) एतं जाम्बवत्या विवेकात्ययमसहमाना रक्मिणी-'देवि देवि । इति द्विरुकेन प्रतिरोधमिय कुर्वती-अलमलम्-न यतव्यमेपमित्यार। अविवेकस्य अविभूमिकामारोहसि या कारणादस्माकं माकनाशुभफस्टमनिए देयतमिव मन्याना देयेयपराप्यसि । अपि चैतेनारमप्राणनायो रोगमेश्यति ।

पञ्चमोऽ। जाम्बवती-देवि ! १५३प्रारब्धमपरिहार्यमेवेति नियमस्त्वशिवभक्तानां, शिवभक्तानां तु, प्रारख्यमुलक्षय नियतिं निराकृत्य देवं प्रतिहत्य परममेव शिवं परमशिवः करोतीति शाखसिद्धम् । प्राणना- थोऽस्माकं स्वेष्टदेवतोपालम्भेन रुप्यचेत्स्वेष्टदेवतां सम्मास्मिाकं शिवपरम्पराः कारयेत् ! नाहं त्वमिव सागरगम्भीरहृदयास्मि या त्वं क्षणे क्षणे कुमारापहारदुःखानि दुःसहान्यनुभवन्त्यपि नाणु- मात्रमपि प्राणनाथस्याले दर्शयसि, मयाप्यद्यावधि त्वयेव गुप्त दुःखं सोढम् । अन्या अपि सर्वाः 'माऽस्महुःखं विलोक्य प्राण- नाथस्यान्तःकरणं दुःखितं भूदिति निगूढमेव दुःखानि महन्ते । त्वदीयेनानेन दुःखेन का न दुःखबत्यो ? यदस्माकं शिरोरत्नं ज्येष्टा श्रेष्ठा च त्वमेवासि। १५४परमद्य तु वत्सस्य साम्बस्या- ऽभ्युदयविलोकनेन नवीभूतं कुमारापहरणदुःखम् । यदि तं नापाह- प्रारब्धापरिहार्यता तु भवत्या नाविदिताऽजो देवोपालम्भः सर्वथाऽनुचित इति भावः । (१५३) इदानी जाम्बवती श्रीकृष्णरोपमीतेय किश्चित्मान्त्ववाद प्रकारादरेण भगवद्पालम्म सन्तनुते---देवि! प्रारब्धापरिहार्यतानियमस्तु-- शिवमक्तभिन्नाना, शिवभक्तानां तु प्रारब्धमुल्लङ्ग्य नियति निराकृत्य दैवं निहत्य परमशिवः शिवमेव करोतीति शाम्रसिद्धम् । प्राणनाथोपि यदि स्वेष्टदेवतोपा- खम्भेन मध्येञ्चेत् स्वेटदेवता सग्मायुं कारयेदेयाऽस्माकं शिवपरम्पराः । इदानी रुक्मिण्या गाम्भीर्य दुःखसहिष्णुतां च भन्नथा बोधयन्ती ततः स्वस्था व्यतिरेक- माह--नाहं त्वमिवातिगम्भीरहृदया, या त्वं दुःसहानि कुमारापहारदुःखान्य- नुभयन्यपि प्राणनाथस्यामे नाणुमात्रमपि दर्शयसि | अद्यावधि तु मयापि त्ययेव गुप्त सोढं दुःखं, न केवलमहमेव किन्त्वन्या अपि 'अस्मदुःखावगमेन प्राणनाथ- स्यान्तःकरणं मा दुःखित भूदिति निगूढमेव दुःखानि सहन्ते । अनेन त्यहु:- खेन का न दुःखवत्यः ? सर्या अपि दुःखयत्य इत्यर्थः । यतस्त्वमेयास्माकं ज्येष्टा श्रेष्टा चेति---सर्वांसामस्माकं शिरोरत्नरूपासि तेनैव स्वय्यस्माकमात्म- मावस्तत्प्रयुक्तं च त्वदुःखेन दुःखित्वं सर्वासामुपपद्यत एवेत्यर्थः । (१५४) चिरातीवस्य दुःखस्येदानीमुद्रेके हेतु निगदति--परमद्य नु वत्ससाम्यस्याभ्युदयविलोकनेन नपीभूतं सत्युमारापहारदुःखमिति । दुःखोद्रेक- मेव हेनुनुमद्भावेन समर्थयति-यदि त कुमार कश्चिन्नापाहरिष्यत् तहिं सो- २१० श्रीकृष्णचन्द्राभ्युदयम्। रिष्यचेत् कश्चित्तर्हि सोऽप्यदा पूर्णपोडशवर्पवयस्कः सवधूकोऽ- स्मन्नेत्राण्यानन्दयिष्यत् साम्ब इवेति मनस्यौदासीन्यं निरवधि- कमुच्छलितं तत्समकालमेव समागतेन प्राणनाथेन "प्राणप्रिये कुत इयं त उदासताऽहो" इति पृष्टया मया सर्व निवेदितम् । सत्यं प्रवीमि देवि सत्यं प्रवीमि- १५५यावज्ज्येष्ठं कुमारं ते नहि द्रक्ष्यामि सोदयम् ।। तावत् साम्बोदयोऽप्येप न मे मनसि हर्पदः ।। ६९ ।। ( इत्युक्त्वाभूणि मुञ्चति) रुक्मिणी-सखि ! १५६जानामि सर्व, परं प्रहर्पमये समये प्रहर्पप्रदर्श- नायैव कृपयाऽस्मन्मन्दिरमलकुर्वत: प्राणनाथस्यान्तःकरणं चि. ख्यतीतदुःखं स्मारयित्वा नोद्वेजनीयमित्यस्माकं फुलकामिनीनां धर्म इत्यभ्यर्थ्यसे । जाम्बवती सरोपम् ) देवि ! क्षन्तव्यम् । नमः कुलकामिनी- १५७ - प्यद्य पूर्णपोडशवर्पवयस्कः साम्न इय सवधूकोऽस्मन्नेत्राण्यानन्दयिष्यत्--सोऽयं विचारः साम्बाभ्युदयदर्शनेन मन्मनसि समुद्भूतस्तेन निरवधिकोदासीन्यमुच्छ. लितं तावदेव गृहमुपयातेन प्राणनाथेन-'माणप्रिये ! कुत इयमुदासता इति पृष्टया मया सर्व निवेदितम् । अत्रावसरे दुःखोद्रेकपरवशेन दूयता हृदयेनोक्त न दोषापदं गणनीयमित्याशयेन व्रते-सत्य प्रवीमि देवि! सत्यं प्रवीमि नाश मम काप्यधीरता अविनीतता या गणयितुमुचितेति भावः । (१५५) स्वमनोगतमाशयं प्रकटयति जाम्यवती--यावत् सर्यज्ये ते कुमारं सोदयं न हि द्रक्ष्यामि तावदेष साम्बोदयोऽपि मे मनसि दो न भयतीत्यर्थः इत्येवं यदन्त्यभूणि मुयति । (१५६) जाग्यवतीगदितमवितयमनुमन्यमाना रिमणी स्वाशय प्र. टय्य दर्शयति । ससि जानामि सर्व ते हत तथाप्पानन्दमयेऽस्मिन् समरे प्रहर्षप्रदर्शनायेव कृपयारमन्मन्दिरमुपायातस्य प्रागनाथस्यान्तःकरण चिरातीत. तु:सस्मारणेन नोदेजनीयमेपोमा पुलकामिनीना धर्म इति देतोरम्पपगे. Sो विरमेति भापः। (१५७) किम मुकामिनीधर्म न जानामि पायमेपरमिशनीति रोतारणम् । देवि! शनाप्यम्-पात्र तथानुचित मापानसिपे सपः ।

पञ्चमोऽङ्कः । धर्माय, य एतावत्कालं पालितोपि न किञ्चिन् फलतिस्म । दीर्घया दशा विचार्यमाणे जन्मतः सप्तमेनि केनचिद्दष्टेनाप- हृतस्य कुमारस्याद्यापि प्रयत्नपरम्पराभिः प्रवृत्तिरेव नोपलभ्यते । एतद्विपये मूलकारणन्तु कर्तुमकर्तुमन्यथाकर्तुं समर्थस्यास्यास्म- प्राणनायस्योपेवास्तीति मन्येऽहम् । यदि स एव कुमारमन्वे- ध्रुमिच्छेत् तहि क्षणमात्रेण किं न कुर्यादिति त्वमेव विचारय । परं सकलमायाविगणमहेश्वरः कस्यां लीलायां खेलतीति न जाने । रुप्यतु वा तुष्यतु वा प्राणनाथो, यन्मे मनसि स्फुरति तद्भवीमि । रुक्मिणी-सखि ! स्वस्थमानसा भव । समाश्वस्ता भव । श्रीकृष्णः-(१५ स्वगतम् ) अहो जाम्बवत्याः परदुःखदर्शनासहि- ष्णुता, सपत्नीप्वपि प्रेमप्राबल्यं च। (प्रकाशम्) देवि रुक्मिणि! न मे रोपावकाशः । सा खलु दुःसहदुःखदूनहृदया खमनोगनं सर्व सरलतया प्रकाशयति, परं युवाभ्यामिदानीं ममापि निश्चयः श्रोतव्यः। । - कुलकामिनीधर्मानादर मभिनयति~-'नम: कुलकामिनीधर्मायेति' । अनादरे हेतु- मपि प्रणिगदतिय एतावत्कालं तूष्णीम्भावेन पालितोऽपि न किञ्चित् फल- वि। फलाभावे निदानं विवृणोति-कर्तुमकर्तुमन्ययाकर्तुं समर्थस्याऽस्य सम्मुखाय स्थितस्य पाणनाथस्योपेक्षेवेति मन्येऽहम् । स्वमन्तव्यमेव विशदयति- यदि स एव कुमारमन्वेष्टुमिच्छेत्तहि क्षणमात्रेण किं न कुर्यादिति त्वमेव विचारयेति रुक्मिणी पर्यनुयुक्ते । उपेक्षाहेनुमनाकलयन्ती भगवन्तमकरुणमिव व्यञ्जय- न्त्याह-सकलमायाविगणमहेश्वरः ( अयमस्मत्प्राणनाथ: ) कस्यां लीलायां खेलति–किमर्थमुपेक्षते, को वाऽत्रोपेक्षायां तस्य निमित्तभूतो हृद्गतः सङ्कल्प: स्यादिति न जाने । सभ्यतु वा नुष्यतु वेत्यस्मिन् विषयेऽनपेक्षयैव मया तु यन्म- मसि स्फुरितं तदुक्तम् । (१५८) रुक्मिण्या-~-स्वस्थमानसा समाश्वस्ता च भवेति कृतसान्त्वना यदा तूष्णींस्थिता जाम्बवती तदा श्रीकृष्णः स्वगते तस्याः परदुःखासहिष्णुता सपत्नीप्यपि प्रेममारल्यं च सविस्मयमाभाष्य रुक्मिण्या उद्भावित स्मिन् रोपावेषं प्रत्यारष्टे-देवि रुक्मिणि ! न मे रोशवकाशः, सा खलु (जाम्भवती) दुःसहदुःखदूनहृदया स्वमनोगतं सर्वम् (आधिहेतुम् ) सरलतया २१२ श्रीकृष्णचन्द्राभ्युदयम्। रुक्मिणी जाम्बवत्यौ त्राणनाथ ! अवहिते स्वः श्रोतुम् । श्रीकृष्णाः-१५९प्रिये जाम्बवति ! त्वमुन्मत्तासि, नाहमुन्मत्तोऽस्मि-- शृणु- श्रीशङ्करेण करुणामृतसागरेण प्रेम्णा स्वयं करुणया तनयाःप्रदत्ताः ।। ये, तेषु चैकमपि कः परिहर्जुमीशो लोकत्रयेऽपि दनुजो मनुजोऽसुरो वा ॥ ७० ॥ रुक्मिणी-(स्वगतम्) अहो !! प्राणनाथस्य परमशिवे श्रद्धातिशयः । जाम्बवती-१६°नाथ ! त्वमिव त्वमेव परमेश्वरे दृढ श्रद्धावान्, परं कुमारोऽपहृत इति तु जगत्प्रसिद्धम् । श्रीकृष्णः-जाये ! तथापि तनयोऽपहृतो ह्यकस्मात् केनापि सापि परमेशितुरेव लीला ।। तस्याद्रिराजतनयाहृदयेश्वरस्य प्रायो- ऽस्मदीयमुदयं विविधं विधातुम् ॥ ७१ ।। जाम्यवती--( स्वगतम् ) अनीहश: को वेदृशं वक्तुं शक्तः स्यात् । श्रीकृष्णः-१रक्षामणौ जगति जाग्रति विश्वरक्षा कर्ते शिवासहचरे परमेश्वरेऽस्मिन् ॥ प्रकाशयति अतो नात्र मे रोप: सर्वयोदयाईः । भगवान् स्यनिश्चयं भावयत्युभे अपि-परमिदानी युवाम्या ममापि निश्चयः श्रोतव्यः इति । श्रुत्वा च ममो. पेक्षा वाऽनादरोवेत्यादिनिधेतव्यमित्यर्थः । (१५९) रुक्मिणीनाम्यवतीम्याम् 'अवहिते स्यः श्रोतुमिति कपिने पूर्व बलभद्रकृतप्रश्नोत्तरे प्रकाशितमेव स्वनिधयं प्रकटयितुं 'स्वमुन्मताऽसि नाहनु- मतोऽस्मीति जाम्बयतीमुल्लाघयन् यदति श्रीकृष्णः-(श्लोकोऽयं (१०६) अधे व्याख्यातः) (१६) जाम्यवती 'त्यमिय त्यमेव परमेश्वरे हदभदावान् इत्य. मन्ययेन भगयन्त व्याजस्तुत्येव प्रशंसमानेर 'परं मुमारोऽपहन रवि गु जगत्प्र सिद्धम् । इत्यनेन भगवदनूदित स्वस्या उन्मतात्यं परिहरन्ती भगवत्युदे. क्षामापयति । (१६१) श्रीकृष्णेन 'जाये!" वि पधेन--अस्मत्रानयापहाणार महेश्वरस्यारमदीयमुदय विधा कापि ली येत्पर मन्पे-विनिवेदिने, जाग. । .

पञ्चमोऽङ्कः। २१३ चिन्तैव का वद् तदीयपदाम्बुजैक- मनात्मनां न इह शङ्कररक्षकाणाम् ।। ७२ ॥ अयं निश्चय एव मे निरुद्वेगकारणं निश्चिन्तताकारणं निरुदा. सताकारणमुपेक्षाकारणं च । रुक्मिणी-१६२प्राणनाथ ! सत्यं सत्यं परमशिवे परमेश्वरेऽस्माकमस्म-- द्वालानां च रक्षा कर्त्त जाग्रति सति किमर्थ कापि चिन्ता विधेया ? न त्वत्समः शम्भुभक्तो भक्तवश्यो न तत्समः ।। स्वत्वार्थितः किं न कुर्याच् शङ्करोऽखिलशङ्करः ।। ७३ ।। जाम्बवती-१६ यद्यहं ते प्रियतमा यदि मे वं वरप्रदः ।। तहि देव्याः कुमारं तं दयया दर्शयाशु नः ॥ ७४ ।। (इत्युक्त्वा साष्टाङ्गपातं प्रणमति) श्रीकृष्ण:-( १६ स्वगतम् ) अहो जाम्बवत्याः श्रीरौक्मिणेये कुमारे किमप्यकृत्रिमं वात्सल्यं वर्तते ततस्तस्या मनःसन्तोपाय प्रार्थ- वती-'अनीदृशः को वेशं वक्तुं शक्तः । इति पुनरपि भगवतः प्रपञ्चवचन. रचनापारवे गदिते पुनरपि भगवान् पूर्वोक्तमेव स्वनिश्चयमक्षरान्तरः प्रकट- यति--रक्षामणावित्यादि--(अयमप्रेतनश्च 'जाये। इति द्वावप्येतौ श्लोको (१०७) अङ्के व्याख्यातौ) फलितमाह भगवान्-अयमेव निश्चयो मम निरुद्वेगस्य, निश्चिन्तताया, अनुदासताया उपेक्षायाश्च कारणं; नान्यदित्यर्थः । (१६२) रुक्मिणी श्रीकृष्णोकमनुमोदते--सत्यमित्यादिना । यथा स्वत्सम: शम्भुभक्तो न, तथा शङ्करेण समो वश्योऽप्यन्यो नास्ति अत: किमर्थ चिन्ता विधेयेति । (१६३) रुक्मिणीवाक्यान्ते 'त्वत्प्रार्थितः किं न कुर्याच् शङ्करो लोकशकर' इति श्रुत्या यदि श्रीकृष्ण इच्छेत् रहदानीमेवेष्ट सिदोदिति. सञ्चिन्त्योदीर्णभावा जाम्बवती भगवन्तमागृहाति--यदि अहं ते प्रियतमा, यदि च त्वमिदानी मे वरप्रदः, तर्हि देच्या रुक्मिण्यास्तं कुमारं दयया आशु नोऽस्मान् दर्शय-इत्युक्त्वा प्रणमति । (१६४) भगवान् स्वगते, जाम्बवत्याः रौक्मिणेये तनयेऽकृत्रिमं वा- त्सल्य विभाव्य तस्याः मनस्तोपाय भगवन्तं चन्द्रचूडामणि प्रार्थयामीति पञ्चमोऽङ्कः। २१५ १६७ श्रीकृष्णः--(साञ्जलिबन्धम, नेत्रे निर्माल्य) यत्पदान्जमभिपूज्य सा रमा मामवाप परमप्रियं पतिम् ।। सोऽयमिष्टफलदः सदाशिवःप्रार्थितो भवतु नः सदा शिवः ॥७६|| यत्कृपाकणिकया कयाऽप्यहं श्रीरमां प्रियतमामवाप्तवान् ।। सोऽयमिष्टफलदः सदाशिवः प्रार्थितो भवतु नः सदा शिवः।।७।। यद्दयाहगवलोकलेशतो वेद वेदमखिलं पितामहः ।। सोऽयमिष्टफलदः सदाशिवः प्रार्थितो भवतु नः सदाशिवः॥७८|| यत्कृपेक्षणत एव चाप्तवानिन्द्र इन्द्रपदमुत्तमोत्तमम् ।। सोऽयमिष्टफलदः सदाशिवः प्रार्थितो भवतु नः सदा शिवः॥७९॥ निस्तुलां नवनिधीशतां गतो यत्कृपालवबलानिधीश्वरः ।। सोऽयमिष्टफलदः सदाशिवः प्रार्थितो भवतु नः सदा शिवः।।८०॥ यत्कृपालबत्रलाच लोकपा लोकपालपदवीमुपागताः ॥ सोऽयमिष्टफलदःसदाशिवः प्रार्थितो भवतु नः सदा शिवः।।८।। वीणां मृदङ्गं चादाय वादयतः । स्रीणां गीतवाद्यनृत्यकलासु प्रावीण्यं पूर्व- कालेऽभूदेवमद्यत्वेऽप्यवश्यमपेक्ष्यते, पुंसां विनोदो हि तादृशसहकारिकारण सापेक्ष एव । (१६७) श्रीकृष्णो नेत्रे निमील्य घ्यानावस्थः पुरत एव परमशियं भावयन् स्तौति । ' यत्पदान्ज मित्यादिना 'रुक्मिणीनन्दनं नः' इत्यन्तैनयो- दशभिः श्लोकः । यस्य पदाब्जमभिपूज्य सा रमा परमप्रियं मां पतिमवाप [लीलायाः स्वप्नतुल्यतया लिट्प्रयोगो नाऽसाधुः ] सोयं सदाशिव: प्रार्थितः सन् नोऽस्मभ्यं सदा शिवः इष्टफलदच भवतु, एतावानंशः सर्वत्र समान एव । कयापि यत्कृपाकणिकया अहं श्रीरमा प्रियतमामाप्तवान् ; यदीयदयाहगवलोक- लेशतः पितामहो-ब्रह्मा अखिलं वेदं वेद-शातवान् ; यत्कृपेक्षणत एवेन्द्र ऐन्द्रं पदमुत्तमोत्तममाप्तवान् ; यत्कृपालवबलानिरुपमा निधीशता निधीश्वर:- कुर:--प्राप्तः, यत्कृपालबबलालोकपा इन्द्रादयो लोकपालपदवीमुपागता:- यत्कृपातच उपमन्युर्बाल एव उत्तमा क्षीरसागरस्वामितामवाप; यत्कृपातश्चेह लोफे स्वल्पजीवी अपि मृकण्डनन्दनः कल्पजीवी अभूत् ; प्रोषितामुर्गतप्राणाऽपि मदालमा यत्कृपावशतो जीवितमाय; पञ्चोपास्य एष चन्द्रमा: अभयादसाध्य- तमात् क्षयमहामयादूरयान्मुक्तः सोयमिति पूर्ववत्सर्वत्र ।

श्रीकृष्णचन्द्राम्युदयम् । यरूपात उपमन्युमत्तमां क्षीरनीरनिधिनायतां गतः ।। सोऽयमिष्टपलयः सदाशियः प्रार्थितो भवतु नः सदा शियः।।८।। स्वल्पजीव्यपि मृकण्डनन्दनो यत्कृपात २६ कल्पजीव्यभून् । सोऽयमिष्टफलदासदाशिवः प्रार्थितो भवतु नःसदा शियः॥८॥ प्रोपितामुरपि सा मदालसा यरूपायशत आप जीवितम् ।। सोऽयमिष्टपारदः सदाशिवः प्राधितो भवतु नः सदा शिवः।।८४॥ गुरु एप यमुपास्य चन्द्रमा अक्षयझयमहामयाद रयान् ।। सोऽयमिष्टपलदः सदाशियः प्राधितो भवतु नःसदा शिवः।।८।। यत्प्रसादत हासवानहं पुत्ररत्ननिकरान् गुणाकरान् ।। सोऽयमिष्टपलदः सदाशिवः प्रार्थितो भवतु नःसदा शिवः।।८।। परणशरणमाप्य यस्य विष्णु- विधिरपि पाऽऽप परम्पराः शिवानाम् ।। अगरणगरणं स देवदेयो भयतु सदा शिवदः सदाशिवो नः ॥ ८७ ।। शिवद शिव दयादृङ् मय्यनन्ये त्वदीया यदि यदि च तवाहं भक्त ईशास्म्यनन्यः ।। फुरु शिवमखिलानां श्रीशिव श्रीशिवाल्यो वितर वितर नष्टं रुक्मिणीनन्दनं नः ॥ ८८॥ (त्युझ्या दण्डवत् प्रणमति) इदानी स्वानुग्रहपुरस्कारेण स्तौति—यस्य प्रसादत इह अहं गुणाकरान् पुत्ररत्ननिकरान् आतवान् , सोऽयं-हृदि ध्येयाकारेण सन्निकृष्टत्वादिदमा ‘निर्देश:--सदाशियः प्रार्थितः सन् अस्माकं सदासर्वदा-शिवः कल्याणकरः इटफ्लदश्च भवत्यिति पूर्ववत्सम्बन्धः । यस्य चरणशरणमाप्य विष्णुरपि विधिश्व शिवानी-कल्याणानाम्-परम्परा: आप, स: अशरणशरणं देवदेवः सदाशियः नः सदा शिवदः भवतु । इदानीं साक्षात् परशिवं सम्बोध्य प्रार्थयते--हे शिवद शिय ! अनन्ये मयि यदि ते दयादृग्, यदि च हे ईश! अहं तव अनन्यः भक्तः, (तर्हि) हे श्रीशिव ! अखिलानां शिवं कुरु; किञ्च श्रीशियया पार्वत्या आढ्यो युक्तः सन् नष्ट-चिरादलब्धप्रवृत्तिकै रुक्मिणीनन्दनं नो- उस्यभ्यं विवर । अत्र वितरेति द्विरुक्तिरातुरता बोधयति, सद्यो वितरेति यावत् । 7 पञ्चमोऽङ्कः। २१७ (ततः १६ प्रविशति आकासमार्गग श्रीपार्वतीसहितः शहरो रतिस- हितः कामो नारदश्च ) श्रीशङ्कर:-श्रीकृष्णचन्द्र ! तब भक्तिभरातितुष्टं नित्यं त्वदेकवशमेव हि मामवेहि ।। किं दुर्लभं तव मयीष्टद इष्टदेवे किं वच्मि वा त्वमसि मे परमोऽन्तरात्मा ॥ ८८॥ (इति वदन् पुष्पकादवतीर्य श्रीकृष्णशिरसि फरकमलं निधायोत्यापयति) श्रीकृष्ण:-( १६९सानन्दम्, नेत्रे समुन्मील्य श्रीपरमेश्वरीसहितं परमेश्वर विलोक्य च) रुक्मिणि रुक्मिणि ! जाम्यवति ! कृतार्थयतं लोचने परमशिवासमन्वितपरमशिवस्वरूपावलोकनमुखेन । (इ- त्युक्त्वा पुन: शिवयोश्चरणयुगले पतति ) जाम्मपाय }-( ससम्भ्रममुत्याप सहाश्रुपातं प्रणमतः) श्रीकृष्णः-१७०एतं देव्यौ ! एतं, जगतां मातापितरौ राजोपचारैः पूज- याम ! अलभ्योऽयमकस्माल्लाभ उपनतः । एतदलभ्यलाभप्राप्ती (१६८) एवं स्तुत्याऽन्ते च स्वाभिलषितं सम्प्रार्य यावद् दण्डवत् प्रणमति तायदेव देवदेवो महादेवो भक्तानुग्रहपरवशः श्रीकृष्णाम्युदयं पर कोटिमारोपयितुं श्रीपार्वतीसहित आकाशमार्गेण (विमानारूढः) प्रविशति; रतिसहित: कामो नारदश्व, प्रविशतीति प्रत्येकमभिसम्बध्यते । प्रविशन् विमाना- दनुत्तीर्ण एव श्रीशङ्करः-हे श्रीकृष्णचन्द्र! तव भक्तिमरेण अतितुष्टमत एव नित्यं त्वदेकवशमेव मा निश्चयेन अवेहि । अतश्च इष्टदे इएदेवे मयि तव किं दुर्लभं ? न किमपीत्यर्थः । वा-अधिकं-किं वच्मि, त्वं मे परमः साक्षादन्तरा- स्मासि, नातः परं किमपि वक्तव्यमवशिष्यत इति यावत् । एवं यदन् पुष कादयतीर्य प्रणनं श्रीकृष्णं शिरसि करकमले निधायोत्यापयति । (१६९) श्रीकृष्ण: सानन्द नेत्रे समुन्मील्य श्रीपार्वतीसहितं श्रीशिवं विलोक्य रुक्मिणी जाम्बवती च सम्बोध्य 'कृतार्थयतं लोचने' इत्याद्यादिश्य स्वयं पुनः प्रणमति । (१७०) रुक्मिणीजाम्बवतीम्यां यथोक्तमनुष्ठिते 'एतं देव्यो' पति निकटे आहूय 'जगतां मातापितरौ राजोपचारैः पूजयाम । इति चिकीर्षितं गृणाति । अलभ्योयमवसरोऽकस्मादतर्कित एवोपनतस्तस्यैतस्य लाभस्य जा- .

श्रीकृष्णचन्द्राभ्युदयम् । जाम्यवतीसदामह एव मूलमिति मन्ये । (एवमुक्त्वा उभौ सम्पूज्य रत्नासने संस्थाप्य नारदमपि सम्पूज्य रत्नासने निवेश्य ) देव्यौ ! प्रेप्यन्तां दास्य, आहूयन्तां सर्वेऽपि, श्रीपरमेश्वरीपरमेश्वरदर्शना- नन्दमनुभवन्तु आवालवृद्धा अन्तःपुरवासिनोऽनिवारितप्रवेशाः पौरा जानपदा आगन्तुका नरा नार्यश्च । रुक्मिणी- जम्मिपत्रीय } -यथाप्राणनाथाझं प्रेपिता दास्यो निवेदितश्च भगवन्नि- १७१रायः सर्वाः कुवलयदृशस्तावकीना महेशं दृष्ट्वा गौरीसहितममलैः पारिजातप्रसूनः ॥ वृष्टिं कुर्वन्त्यथ नृपवराः पूजयन्ति स्म रत्नैः पूर्ण सर्व सद् इदमहो नागरै राष्ट्रियैश्च ॥ ८९ ॥ मातापितृभ्यामभिपूजितोयं महेश्वरस्तौ बहुमानपूर्वम् ।। समीपतः स्थातुमथोप्रसेनमाज्ञापयच् श्रीबलदेवमार्यम् ।।१०।। . म्बवतीसदाग्रह एव मूलमित्यहं मन्ये । इति मध्ये जाम्बवत्या अपि सदाग्रहपद- प्रयोगेण हठाग्रहत्वमपाकृतम् । एवमुक्त्वा श्रीपार्वतीपरमेश्वरौ सम्पूज्य रत्नासने संनिवेश्य नारदमपि तथैव सम्पूज्य पृथगासने निवेश्य रुक्मिणीजाम्बवत्यावा- शापयति । देव्यावित्पादि । अत्र प्रथममायालवृद्धा अन्तःपुरजनास्ततश्च पौरा- जानपदा आगन्तुका नरा नार्यश्च आहूयन्ता ते च सर्वेऽनिवारितप्रवेशाः श्री- परमेश्वरीश्रीपरमेश्वरदर्शनानन्दमनुभवन्तु ' इति श्रीकृष्णस्य सर्यानुजिघृक्षा- फ्रान्तान्तरङ्गत्वमावेदितम् । (१७१) रुक्मिणीजाम्बवत्यौ 'प्राणनाथस्याशामनुसृत्य दासीः स. प्रेष्य भगवनिदेशो निवेदितः तदाशायैव स आयान्तीति 'पश्यनु प्राण- नाथ: । इत्येनेन सज्ञाप्य तदेव वर्णयतः-- हे भगवन्! तावकीनाः कुवलय- दृश: सर्वो राज्यो गौरीसहितं महेशं दृष्ट्वा अमलैः पारिजातप्रसूनः वृष्टिं कुर्वन्ति, अथ इमे नृपवराः रत्नेः पूजयन्ति स्म इत्थञ्च इदं सद:-सभास्थानं नागरे। राष्ट्रियैश्चपौर्जािनपदैश्च–सर्व पूर्णम् इत्याश्चर्येण अहो पदं प्रयुञ्जाते । भ. पिच मातापितृभ्या--देवकीयसुदेवाभ्यामभिपूजितोऽयं महेश्वरः तयोर्वहुमानात् तावुभावपि स्वसमीपत: स्थातुमाज्ञापयत् ; अथ च उग्रसेनमार्य बलदेवमपि स्वसमीपे स्थातुमाशापयदिति सम्बन्धः ।

पञ्चमोऽदः। २१९ श्रीकृष्णः-देव्यो ! सर्वेषां श्रीशिवयोर्दर्शनं जातमिति प्रमोदामहे । देव्यौ-१७२सोऽयं प्राणनाथस्य प्रेमलक्षणाया भक्तेः परिणामः । श्रीकृष्ण:-( रतिकामौ विलोक्य स्वगतम्१७३ ) काविमौ देवनिर्विशेष- स्वरूपी भगवता सह समागतो ? पृच्छामि तावद् भगवन्तमेव । (प्रकाशम् )- केयं कोऽयं कुत इह विभो ! नारदोऽयं कुतो वा कस्मात् स्थानात् सदयहृदयश्चागतोऽसीह शम्भो ! ॥ पुने केनाप्यपहृत इयं जाम्यवत्यापदब्धी मना तस्याः कृत इह विभो प्रार्थितोऽसि क्षमस्व ॥ ९१ ॥ जाम्यवतीदेवि रुक्मिणि! श्रीकृष्णचन्द्रनिर्विशेषस्वरूप इव लक्ष्यते । रुक्मिणी-देवि १७४जाम्बवति ! फेनचिदपहृतः कुमारो यदि फुल. चिन्जीवति तर्हि ईगवस्थ एव भवेत् । ममान्तरात्मा अरिमन्न- धिकं नियति, सुनिमित्तानि च दृश्यन्ते । (१७२) यदा श्रीकृष्णेन 'सर्वेषां श्रीशिवयोर्दर्शनं जातमिति प्रमो- दामहे । इत्येवमुक्तं तदा 'सर्वोऽप्ययमत्रभवतः प्रेमलक्षणाया भकेरेव परि- णाम । इति देवीम्यां प्रमोदनिदानमुपवर्णितम् । (१७३) श्रीकृष्णः स्वगते-रतिकामी विलोक्य 'काविमौ देवनि- विशेषस्वरूपी भगवता सहागताविति जिज्ञासाकुल:--'भगवन्तमेव पृच्छामि, इति स्वयमेव श्रीमहेशं प्रकाशं पृच्छति-हे विभो! का इयं ? कश्वाऽयं १ अयं नारदः कुतः (प्रातः) १ शम्भो! इह स्थाने स्वयमपि सदयहृदयः-अस्मदी. यप्रार्थनाश्रवणसमकालमेव सन्निहित इव-कस्मात् स्थानात् आगतोऽसि ? । मध्ये स्वकृतप्रार्थनानिमित्तं निगद्य क्षमामर्थयते--हे विभो! केनापि पुत्रे अपहते (रुक्मिण्या इति शेषः ) इयं जाम्बवती आपदधौ ममा-(सती चिरात् क्लिश्यन्ती रुक्मिणीसौहार्दाविष्टहृदया मामिदानीमतितरां प्रेरयतिस्म) तस्याः कृते प्रार्थितोऽसीति श्रमं दातुं प्रवृत्तस्य मे साहसं क्षमस्वेति उक्त्वा श्रीम- हेश्वरमुखात् स्वोक्तप्रश्नत्रयोत्तरं श्रोतुं प्रतीक्षवे। (१७४) जाम्बवती कामं निर्वर्ण्य वदति 'देयि रुक्मिणि! श्रीकृष्ण- चन्द्रनिर्विशेषस्वरूप हव लक्ष्यते । इति तच्छ्रुत्वा तत्र स्वमनोगतमुत्तरयति रु. क्मिणी-देवि जाम्बवति! केनचिदपहृतः कुमारो यदि वापि जीवति तर्हि .

२२० श्रीकृष्णचन्द्राभ्युदयम् । जाम्बवती-देवि ! १७५अधुना भगवानेव सर्वं कथयिष्यति, शृणु- वस्तावत् । श्रीशङ्करः-१७६कामो नाम वभूव देवतवरो विश्वयोजित्त्वरो यो मां मोहयितुं तपस्यभिरतं प्राप्तो हिमाद्रौ पुरा ।। मद्भालस्थलनेत्रवह्निशिखया यो भस्मशेपोऽभवत् तच श्रीयुतकृष्णचन्द्र सकलं नाऽज्ञातपूर्व हि ते ॥ ९२ ॥ रुक्मिणी-सखि १७७जाम्यवति ! अन्यदेवोपक्रान्तम् । कुतस्तादृशं मे भाग्यं स्यात् । जाम्यवतीदेवि ! १७८धैर्य सन्धार्य सर्व श्रोतव्यम् । न खलु प्रार्थ- नाश्रवणसम्प्राप्तस्य श्रीमहेशस्य दर्शनं निष्फलं भविष्यति । ईगवस्थ एव भवेत्-एतावद्वयस्क एव स्यादित्याशयः---अयमेव स स्यादिति गूढमाकूतम् । तदेव शंसति-ममान्तरात्मा अस्मिन् अधिकं स्निह्यति निमित्तानि च शोभनानि दृश्यन्ते इति । एतेन यो मत्पुत्रोऽपहृतः सोऽयमेव भवेदित्यनुकूलस्तर्कः । (१७५) जाम्बवती तत्वं ज्ञातुमातुराऽपि सधैर्यमेव रुक्मिणीमाह- देवि! अधुना भगवान् महेश्वर एव श्रीकृष्णकृतप्रश्नत्रयोत्तरं ददत्सर्वं व्यक्त कथयिष्यति, शृणुवस्तावत्- तच्छ्वणेनैव सन्देहोपनेष्यत इत्याशयः। ( १७६) श्रीकृष्णप्रश्नानामुत्तरमुपक्रमते श्रीशङ्करः--कामो नाम दैवतवरो बभूव (यो मादृशेष्वपि कृतव्यवसाय इति देवतवरपदाकूतम् ) यस्त- पस्यभिरतं मां मोहयितुं पुरा हिमाद्री प्राप्तः, यश्च मदालस्थलनेत्रवह्निशिखया भस्मशेष: अभवत् , इत्येतत्सकलं हे श्रीकृष्ण! ते न अशातपूर्व, किन्तु शातमेव स्यादिति मन्येहमित्यर्थः। (१७७) अत्रान्तरे कामपूर्वजन्मकथोपक्षेपेण स्वाभिलपितवार्तामन्त- रितामिव मन्याना रुक्मिणी नैराश्यमवलम्बते-ससि जाम्बवति ! अन्यदेवोप. फ्रान्तं श्रीशकरणेत्यर्थः । 'कुतस्तादृशं मे भाग्यं स्यात् । इत्येत्तद्वचनस्य 'अय. मेवसम्मुखावस्थितो मम पुत्रो भवेदित्यैर्वप्रकार मे कुतो भाग्य स्यादित्याशयः । (१७८) जाम्बवती सक्मिणीमाश्वासयति-देवि! सन्धार्य धैर्य सर्व श्रोतव्यम् । एकदेशभयणेन नैराश्यावलम्बनमनुचितं, सर्वं यास्य भुत्याऽनन्तर- मर्थोऽवधारणीय इत्यर्थः । धेर्पहनुमपावृणोति-प्रार्थनाभयगेन समासस्य भीम. हेश्वरस्य दर्शनं न खष्ठ सर्वथा निपल भविष्यति पञ्चमोऽधः। श्रीकृष्णः-१७ भगवन् ! पुराणेतिहासेषु प्रसिद्धमेवैतचरितं भगवतः- को वा सदपकन्दर्पदर्पनो जगतीतले ।। विना भवन्वं योगीन्द्रयोगिनां परमं गुरुम् ।।१३।। ततस्ततः? श्रीशङ्कर:-१८°तस्येयं रतिरस्त्यनन्यशरणा पत्नी सतीप्वप्रणीः पातिव्रत्यवतीपु सा समभजन्मां शुद्धया श्रद्धया ।। अस्याः श्रीगिरिराजराजदुहितु ते विवाहोत्सवे स्वप्राणप्रियसनमाय सरसा साऽभ्यर्थयन्मां मुहः ।। ९४ ।। श्रीकृष्णः-युज्यत एव, पतिव्रतानां खलु प्राणप्रिय एव सर्वस्वम् । ततस्ततः? धीशङ्करः--वत्से ! १८१शम्बरमन्दिरे कुरु मुदा वासं चिरं निर्भया मामेव प्रणयाद् भजन्त्यनुदिनं चेतोवचःकर्मभिः ।। ( १७९) श्रीकृष्णः शिवगदितं कामदावृत्तान्तं 'जानाम्येवेति बो- धयितुं तस्य प्रसिद्धत्वमाह-भगवन्! भगवतो भवत एतत्कामदाहलक्षणं चरित्रं पुराणेतिहासेषु प्रसिद्धमेति । श्रीमहेश्वरं चाटुकारेण स्तौति-योगीन्द्र योगि- नाञ्च परमं गुरुं योगशास्त्रस्यादिप्रवर्तकमित्यर्थः एतादृशं भवन्तं विना जग. तीतले सदर्पकन्दर्पदर्पतः अन्यः कः? न कोपीत्यर्थः । शिवादितरे सर्वपि कामवशङ्गवा एवेत्यर्थः। :-कः कामेन न निर्मितधिजगतां पुष्पायुधेनाऽप्यहो। • कः क्रोधेन वशीकृतो न, न च को लोमेन सम्मोहितः ॥ योपिल्लोचनभल्लभिन्नहृदयः को नाऽऽसवानापदं, को राज्यश्रियमाप्य नान्धपदवीं यातोऽपि सल्लोचनः ॥ ( १८०) श्रीकृष्णेन पूर्ववाक्यान्ते ततस्तत' इत्युच्चारणेन जिज्ञासि- तमवशिष्टांशं कथयति-तस्य (कामस्य) इयं-पुरोवस्थिता—पनी रति अस्ति, या अनन्यशरणा-मदेकशरणा–पातिव्रत्यवतीपु सतीषु अग्रणी: श्रेष्ठा सा विशुद्धया श्रद्धया मां सममजत् । अग्रेतनं सम्बन्धं बुबोधयिषुः प्रसङ्गमव- तारयति-अस्याः श्रीगिरिराजदुहितुर्विवाहोत्सवे जाते स्वप्राणप्रियस्य कामस्य सङ्गमाय सरसा, रसाकुला आतुरेति यावत् ; सा रतिः मां मुहुरनेकवारमभ्यर्थयत्। ( १८१) 'युज्यत एव । इत्युक्त्वा पतिव्रतानां खलु प्राणप्रिय एव सर्वस्वम् । इत्यनेन सम> ' ततस्तत' इति कृष्णेन दर्शितां जिज्ञासामुपशम- यितुमाह शङ्करः-हे वत्से-रते! शम्बरस्य दानवस्य मन्दिरे मुदा निर्भया सती यदाह भोजः- २२२ श्रीकृष्णचन्द्राभ्युदयम् । मायावत्यभिधा कयापि च महायुत्तयाऽऽशु मायाशतं ज्ञात्वा शम्बरतोऽसुरादथ निजं प्राणप्रियं प्राप्स्यसि ॥ ९५ ॥ इति मयाऽऽज्ञप्ता सा शम्बरपुर एव निवासमकरोत् । श्रीकृष्ण:-१८२दीनदयालना देवेन सम्यगुपदिष्टम् । स्वकीयकोपानि- दग्धाखिलाङ्गमपि कामं पुनः साङ्गं विधातुं परमानुग्रहं कृतवता भगवता न केवलं रतिरेवानुगृहीता किन्तु जगत्रय्यप्यनुगृहीता। ततस्ततः? श्रीशङ्करः -तत १८३एकदा-शिशुपालेन कृतसख्यो निसर्गत एव निष्का- रणवैरी सतां स शम्बर:-'सखे ! श्रीकृष्णः पुत्रप्राप्त्यर्थ तपो. वनं गच्छतीति श्रुतं मया, तत्तपोभङ्गमहमवश्यं करिष्यामि; तथापि यदि परमशिवकृपया लब्धसिद्धिर्भविता श्रीकृष्णस्तर्हि रुक्मिण्यास्तु सर्वान् पुत्रानहमपहरिष्यामि मदीयपरममित्रस्य ते मनःसन्तोपार्थमिति-प्रतिज्ञातवान् । चिर वासं कुरु । दानयगृहे निवासं कुर्वन्त्याः कथं मुद् भविष्यतीत्याशङ्कामपा- करोति-मनसा वचसा कर्मणा च मामेव प्रणयादनुदिनं भजन्ती सती । 'मायावती । इत्यभिधां दधाना-यासं कुरु इति सम्बधः । वत्र च फयाऽपि युक्या सम्बयमुरान्मायाशतं शात्वा निज प्राणप्रियं प्राप्स्यसीति मयाऽऽशप्ता सा शम्बरपुरे एव निवासमकरोदिति । (१८२) 'दीनदयालुना देवेन सम्यगुपदिष्टमिति । स्वोक्तस्योपपाद. नायवोत्तरवाक्यम् । स्वयमेव यस्याङ्गं दग्धं तमेव पुनः सान विधातुमनुग्रह कुर्वता रतिरेय केवलं नानुगृहीता किन्तु कामावष्टब्धा जगपयी अप्यनुग्रहीतेवि दयालुताऽवधिः। (१८३) एतावत्पर्यन्तं वटस्यतया भुतवता श्रीकृष्णेन ततस्तत । इत्यनेतनवृत्तावजिगमिपया नुन्नः श्रीशङ्करः श्रीकृष्णमिदानीमनिष्टमिय किधि. च्छापयति–सता (भया) निसर्गत एव निष्कारणवेरी स शम्परः शिशु- पालेन तसरख्यः-(शिशुपालाय दातुं प्रतिश्रुतो रुक्मिणी हरता श्रीरुणेन साकं शिशुगलस्य सख्युः शम्बरस्य रित्वप्रकटनायेदं विशेषण) एकदा गि- शुपालस्य सविधे---ससे!" इत्यादिना ते मनःसन्तोषार्थ। मित्यन्न यास्येन-प्रतिशो मृतवान् शम्परः । प्रविशा दायगी-एकस्तायन-पुत्रमार्ग पञ्चमोऽदः। २२३ धीकृष्णः-तर १८ जनमपकर्तु शम्बरो वा परो वा रचयतु शतशो वा लक्षशो वा प्रतिज्ञाः ।। निजजनपरिरक्षादीक्षिते जागरूके त्वयि सति शिव फरमात्तावकानां भयं नः ॥ ९६ ॥ ततस्ततः? श्रीशङ्करः-१५ततस्तपसि फूते विन्ने निष्फलस्वप्रयासो दुष्टः शम्बरः श्रीरुक्मिण्याः प्रथमं कुमारमपाहरत् समुद्रे चिक्षेप च । रक्मिणी-१८६वालस्य तस्य दुष्टेन तादृशी दशा कृता ? धिक् फर्म- चाण्डाल ! फ ते कल्याणं भविष्यति । हा महासमुद्रे निशि- तस्य यादोभिस्तक्षण एव भक्षितस्य फुतः पुनर्दर्शनाशापि । हृदय! मृपा मुदितमसि। श्रीकृष्णस्तपोयनं गच्छति तस्य तपसो मग-विमं करिष्यामि, तदेतत्पूर्यास्त हसरूपेण कमलसहसादेकस्य कमलस्यापहरणं वर्णितं यत्प्रतीकाराय भगवता स्वनयनमुत्पाटितम् । विघ्नोत्पादनेन मदीयमिष्टं सेत्स्यत्येवेति निश्चयाभावात्- 'तथापि यदि परमशिवकृपया लब्धसिद्धिर्भवितेति द्वितीयांशोपक्रमः । तर्हि रुक्मिण्याः पुत्रांस्तु ते (शिशुपालस्य) मनःसन्तोपार्थमहमपहरिष्यामीति प्रतिशाशेपः। (१८४) शम्बरप्रतिशावाक्यं श्रुत्वाप्यव्यथ एव श्रीकृष्णः स्वनिश्चय. माश्रावयति तयेति । हे शिव ! तव जनं भक्तमपकर्नु शम्परो वा ततोऽपि परोऽधिकमायावी शतशो लक्षशो या प्रतिज्ञाः रचयतु-करोतु तथापि निज- जनपरिरक्षादीक्षिते त्वयि जागरूके सति तावकानां नोऽस्माकं करमाद् भयं ? न कुतोपि भयलेशोपीति भाषः । (१८५) 'वतस्तत' इति चरमपदाम्या कृष्णेन जिशासितमर्थ फय- यति श्रीशङ्करः--ततस्तपसि कृते विने निष्फलप्रयासो दुष्टः शम्बरः श्रीरु- क्मिण्याः प्रथमं कुमारभपाहत्य समुद्धे प्रशिसवानिति । (१८६) श्रुत्यैवैतद्रुक्मिणी 'तस्य भालस्य दुष्टेन तादृशी दशा कृता !! इति सचिन्तयन्स्येय शपति 'पिक कर्मचाण्डाल ! क ते कल्याणं भविष्यति । एवंविधवालयधादिपातकमाचरतस्ते न कापि कल्याणाशेति भावः । स्वगत. मिवाह-समुद्रे क्षिप्तस्य तत्क्षण एव यादोभिर्भक्षणे पुनस्तद्दर्शनाशा नैवेति पुरोऽवस्थित कामं वीक्ष्य 'ममान्तरात्मास्मिन्नधिकं लिहती'त्यादि वदन्या २२४ श्रीकृष्णचन्द्राम्युदयम्। जाम्बवती-देवि ! १८७क्षणं प्राणनाथस्य पत्नीत्वं सफलं कुरुप्व अस्माकं प्राणनाथो वारं वारं वदति- त्वयि सति जगदीशे विश्वरक्षामणौ श्रीपरमशिव परेशे जागरूके दयाब्धौ ।। अवितुमखिलमेतद्विश्वमद्रीन्द्रकन्यासहित उपनतानां किं भयं तावकानाम् ॥ ९७ ।। इत्येतदपि न शृणोपि- ज्वलनज्वालाजालाच् शस्त्रास्त्रासारवर्षणान् महाब्धेश्च ॥ सिंहव्याघाहिभ्योऽप्यवितुं जनमात्मनः शिवः शक्तः ।। ९८ ।। तन्मा चिन्तां कुरु । श्रीकृष्ण:-दुष्टः स्वानुरूपमेव फुर्यात् । ततस्ततः ? . यो मनोरथ उदपादि तमिदानी समुद्रक्षेपवृत्तान्तश्रवणेन सञ्जिहीते---- हृदय ! मृषा मुदितमसि । 'सोऽयं स्यादिति । तपार्शसनं मृपेयेत्याशयः । (१८७) जाम्बवती तादृशं तस्या निराशाबोधक वचन श्रुत्वा सोपालम्भ तामाश्वासयति-देवि ! क्षणमात्रं तु श्रीकृष्णपत्नीत्वं सफल-सार्थक-पुरु ययाऽस्मत्प्राणनाथ: श्रीकृष्णः श्रीशङ्करे निहितसकलनिजकुशमचिन्ताभरोहदास्य- या सर्वदा निश्चिन्त एव वरीति एवं त्वमपि सुधीरा भव-तस्य पत्नी भूत्वा यदि त्वं क्षणे क्षणे एवं ताम्यसि तहिं कृष्णपत्नीत्वं पयसीत्यर्थः । श्रीकृष्णसङ्कस्यमय विवृणोति-हे परमशिव ! परेशे विश्वरक्षामणो दयाधो जगदीशे अद्रीन्द्रकन्या. सहिचे त्ययि अखिलमेतद् विश्वमdि जागरूके सति उपनताना--भयपरणगेय शरणं प्रपनाना-तारकानामस्माकं किं भयम् अत्र परमशिवेति सम्बोधनेन स्वरू- पेणैव कल्याणगुणत्वं, परेशे इत्यनेन सर्वाधिकलं, जगदीशे इत्यनेन स्वतन्मत्य, अद्रीन्द्रकन्यासहिते इत्यनेन शक्तिसम्पन्नत्व, दयाधावित्यनेन निरुपधिप्रवृत्तिमाय, विश्वरक्षामणावित्यनेन मृटाभिधानस्य सर्वदारसणवाहित्यमखिलमेव विश्वम पितु जागरूके इत्यनेन च विश्वायनव्यसनित्यमायेदितम् । तथा च वाहनमहादेय प्रश्नाना सर्वथा फुरोऽपि भयं नैव मवेदिति मुधैव स्यं स्वपुषलागे निराrat प्रकटपीति भाम्बयत्याावम् । इत्येतदपि न शृणोपि भीकृष्णेनाभीमा- पर्यमानमपि नायधारयसीपर्यः । शियस्य सोधिसत्यमेय मपथपति-न. ध्यान्मजालान, खायागामासारेण भविधिमधारापावेन पशाद, महा पञ्चमोऽ २२५ श्रीशङ्करः-१८८ततश्विरतरसमयसम्प्राप्तप्राणप्रियविरहदुःसदीनामाया- वती स्वकीयकेशपाशोद्वन्धनेन म प्रवृत्ता । श्रीकृष्ण:-कान्या गतिरवलाया अनाथायाः । ततस्तत: ? श्रीशङ्कर:-१८ तदवसरे शम्बरप्रेपितन राजसेवकेन महामत्स्यो माया- वत्यै अर्पितः-"इदानी भोजनावसरे संस्कार्य" इत्यस्ति शम्बर- महाराजस्याज्ञेत्युक्त्वा गते तस्मिन् सेवके, मायावत्या च स्वधि- तिना विदारित मत्स्ये तदुदरादयं निजः प्राणप्रियदेवः प्राप्तः । श्रीकृष्ण:-श्रीसाम्बसदाशिवपदाजभक्तिकल्पलता न कदापि निष्फला भवति । ततस्ततः ? पोतभनाधापन:--सिंहव्यामाहिभ्योऽपि आत्मनो जन-निजभकमवितुं शिवः शक्तः। तस्मात्समुद्रे शम्बरेण क्षिप्तस्य पुत्रस्य कयं पुनः प्रात्याशेति चिन्ता मा कुरु। अस्माभिश्चिन्तितुमशक्यमपि शिवःसम्पादयितुं प्रभवतीति चिन्ता जहीहीत्यर्थः । (१८८) 'दुष्टो हि जनः स्वप्रकृत्यनुगुणमेवाचरणं कुर्यादेवेति । मध्ये शम्बराचरितं वत्स्वभावानतिगमित्याभाष्य कृष्णेन 'ततस्तत' इत्यप्रेतनवृत्त युभुत्सिवं तदेव भावयति श्रीशङ्कर:-चिरतरसमयसम्प्राप्तप्राणप्रियविरहदुःख- दीना, अत एव दीर्घकालात्ययेपि पतिदर्शनालाभेन निराशयोद्विमा मरणाय कृतनिश्चया मायावती निजकेशपाशं गले उदय मर्तुं प्रवृत्ता—प्रियविरहदुःख घसह्यमबलानां ययाह कविकुलगुरु:- इष्टप्रवासजनितान्यबलाजनस्य दुःखानि तावदतिमात्रसुदुःसहानि । इति । इष्टप्रवासजनितदुःखस्यातिमात्रमसह्यत्वे किमु वक्तव्यमतिदीर्घकालनष्टस्य प्रियस्य प्रवृत्त्यनासादनेन प्रियानि इमानानां पतिव्रतानामिति युक्त एव तस्या- स्तादृशो मर्तुमप्यवसायः। (१८९) श्रीकृष्णेन 'अनायाया अबलायाः काऽन्या गति रिति कथनेन तस्या मरणमेव शरणमापद्यते इत्याशयवता 'ततस्तत' इत्यनेन-मृता केनचिदवष्टब्धा वेति शातुमातुरता प्रदर्शिता तो शमयन्नाह श्रीशङ्करः--तस्मि- नेवायसरे शम्बरप्रेपितो राजसेवकः आगत्य मायावत्यै महामत्स्यमेकमर्पितवान्, जगाद च यदेष मत्स्य इदानीमेव भोजनावसरे संस्कार्य इत्याज्ञप्तं महाराजेनेति । अनेन मत्स्यानयनोपन्यासेन तदीयो मरणसङ्कल्पो विनित इत्यावेदितम् । अन- न्तरं च तस्या अतर्कितसम्भवा स्वामिलपितसिादरुपनिपतितेत्यपि वर्णयति- . .

२२६ श्रीकृष्णचन्द्राभ्युदयम्। श्रीशङ्करः -१९°ततो मायावतीतः सम्प्राप्तमायाशतविज्ञानेन कामदेवेन कृतं शम्बरेण सह महाद्धम् । कीदृशं युद्धं कृतं तदेवलोकादाग- तेनापि विलोकितं प्राप्तसन्तोपेण च नारदेन । नारदः-१९१नाऽद्यावधि मया दृष्टं कदाचिद् युद्धमीदृशम् ॥ यादृशं कामदेवेन कृतमेकेन निर्भयम् ।। ९९ ।। श्रीकृष्णः-भगवतो नारदस्याप्याश्चर्यजनकं युद्धमिति विस्मयते मनो मे । ततस्ततः ? श्रीशङ्कर:: :--१९२ततो मायावतीभक्तिरसविवशौ मायावतीप्रार्थनया तस्याः प्राणप्रियरक्षणार्थ शम्बरनगरं गतावावाम् । श्रीकृष्ण:--अनन्यभक्तजनभक्तिभावाधीनावेव भगवन्तौ । ततस्ततः? तस्मिन् सेवके गते मायावत्या स्वधितिना विदारित तस्मिन् महामत्स्य तदुदरा. देय (पुरोयस्थितं काम निर्दिश्य ) अयं निजः प्राणपियदेवः प्राप्तः । (१९०) एतत्सकलं शिवभक्तरेव फलमिति 'श्रीसाम्बसदाशिवपदा- जभक्तिकल्पलता न कदापि निष्फला भवतीति । याक्यमनया निरभ्य तत- स्तत । इति पुनरपि जिज्ञासाकुलं श्रीकृष्णमाह धीशङ्कर:-मायावतीतः प्राप्त मायाशतविज्ञानं येन तादृशेन कामदेवेन, शम्बरेण सह महद् युद्ध कृतम् । इदानी नारदाय मध्ये वचनावसरं ददाति-फीदृशं युदं कृतं कामदेयेन सहे. वलोकादागतेन नारदेनावलोकित 'प्रारासन्तोपेणे ति फलरूप विशेषणं--अव. लोकनेन सन्तोपं मासो नारदः--इत्याशयः । तदेश नारद एव युद्धवर्णने भाव- यिष्यतीति भावः। (१९१) श्रीराकरेणेव प्रदत्तावसरो नारदो युद्ध वर्णयति-एफेन असहायेन कामदेवेन निर्भयं यथास्यात्तथा शम्वरेण सह या युद्ध सभीटन युद्धमयावधि कदाचिदपि कापि मया न हटमिति । (१९२) अनेकदेवामुरयुद्धप्रसनानवलोकितयतो नारदस्याप्पाअर्प जनके युद्ध निशम्य 'विस्मयते मनो मे। इति सहेतुकयिस्मयादर्शनपूर्वमने. तनवृत्तं शार्नु वाम्यनिवार श्रीकृष्ण:-'ततस्ततः । तदुतरम्यागेन भीश, हर-मायायस्याः भक्तिरसेन विशी-खेच्छापरित्यागपूर्वक सदिग्यागुरो. धेन प्रयर्तमानौ-~-भावामुमायपि मागायतीप्रार्थनया तरम: प्राणप्रिपात काम- देयस्यं रक्षणार्थ शम्पानगर गताविति पस्ति।

पञ्चमोऽङ्कः। २२७ श्रीशङ्कर:-तत १९३एकविंशत्या दिवसैनिहतः शम्बरः कामदेवेन । यो हि- न त्वया न च रामेण नाऽर्जुनेन परेण वा ।। वध्यो मायाशताज्ञेन हतो मायाशताम्बुधिः ॥ १०० ।। एकेन कामदेवेन शम्वरः सबलार्णवः ।। गृहीतं निखिलं राज्यं गृहीता निधयोऽखिलाः ॥ १०१ ॥ थीकृष्णः-१९४, १९४भगवन् ! भवत्कृपावलोके किं दुर्लभम् ? ततस्ततः ? श्रीशङ्करः-ततः कामदेवस्य जयं रते: परमानन्दप्राप्तिं विलोक्य सप- रितोषौ कैलासं गन्तुं मस्थितावावां यावत्तावत् त्वदीयाः प्रार्थना- शब्दा आवयोः श्रवणातिथितां प्राप्तास्ततः कैलासमार्ग परित्यज्य द्वारकां प्रति गन्तुमाज्ञप्तं पुष्पकम् । श्रीकृष्णः-अहो निरवधि भक्तवात्सल्यं भगवतः । ततस्ततः ? श्रीशङ्कर:-१९५ततः- कैलासमार्गमपहाय कुत्र गम्यते भगवता' इत्याभ्यां पृष्टेन मया प्रोक्तम्- ( १९३) 'अनन्यभक्तिभावाधीनावेव भगवन्ता । वित्यभिनन्द्य 'वत- स्ततः' इति परिणाम शातुमुत्केन श्रीकृष्णेन प्रेरितः श्रीशङ्करः—'वत: काम- देवेन एकविंशत्या दिवसैनिहतः शम्बर। इत्युक्त्वा कामदेवस्य तत् कर्म लाघतेन त्वया (स्वयं श्रीकृष्णेन) न च रामेण (बलभद्रेण) नाऽर्जुनेन नापि परेण वा केनचिदपि योऽमुः शम्बरो यध्यः-हन्तुं शक्यः; तर हेतुमाह मायाशताशेन इत्येतद्विशेषणं सर्यान्वयि; यतोऽसाचसुरः स्वयं मायाशताम्बुधिः । यो हि मायाप्रयोगकुशल: स्यात् स एव मायाविनं जेतुं प्रभवेन्नापर इत्याशयः । तादृशः शम्बर: सबलार्णव एकेन-एकाकिनाकामदेवेन हतः । नैतावदेव तदीयं निखिलं राज्यं गृहीतं, निधयोऽप्यखिला: गृहीताः स्वायत्तीकृता इत्यर्थः । ( १९४) सर्वमेतद् भगवतः कृपावलोकसम्पन्नमिति किं दुर्लभमिति कारका प्रत्योभ्य ततः किं वृतमि पति ' ततस्तत । इत्युक्त्वा जिज्ञासते श्रीकृष्ण स्तावदेव श्रीशङ्कर:-तत: कामदेवस्य जयं रतेश्च परमानन्दमाप्तिं विलोक्य- सपरितोषावावा केलासं गन्तुं प्रवृत्ती तावत्त्वदीयाः शन्दा आवयोः श्रवणाति- चिता प्राप्ताः। वत्क्षणमेच कैलासप्रस्थानोन्मुखं पुष्पक (विमान) व्यापर्य द्वार कामागन्तुमाशप्तम्-एपोऽस्माकमत्रागमनस्य सप्रयोजनो वृत्तान्त:- (१९५) अयापि सायशेषं याक्रमाकलयन् 'अहो निरवधि भक्त- २२८ श्रीकृष्णचन्द्राभ्युदयम् । चराचरात्मा पुरुषोत्तमः स्वयं यदोः कुले साम्प्रतमात्तजन्मा ।। श्रीकृष्णचन्द्रः स्मरणं मदीयं करोति तत् तं प्रतिगन्तुमीहे ॥१०२।। स मे परं मित्रमभेदभावं स मेऽन्तरात्मा सच मानसं मे॥ अशेषविश्वावनवद्धदीक्षा स एव मे शक्तिरवर्णनीया ।। १०३ ।। श्रीकृष्णः--१९६भगवन् ! भक्तवात्सल्यविवशतया भवदीयानन्यभक्त- गणपरमाणुरयं जनः पर्वतीक्रियते । अलमत्युपचारेण स्वकीये- ऽनन्यभक्तेऽपि मयि । ततस्ततः ? श्रीशङ्कर:-ततो मद्वचनं श्रुत्वा- 'श्रुत १९ श्रीकृष्णचन्द्रीय-यशोबलपराक्रमौ ।। आवां तं द्रष्टुमिच्छावो यद्याज्ञा श्रीमवोर्भवेत् ॥ १०४॥" यात्सल्यं भगवतः । इति स्तुवन्नेव 'ततस्तत ' इति पृच्छति श्रीकृष्णस्तं श्री- शङ्करः-तत आभ्यां रतिकामदेवाभ्यां 'कैलासमार्गमपहाय कुत्र गम्यते मग- वतेति पृष्टेन मया चराचरान्तर्यामी पुरुषोत्तमः स्वयं साम्प्रतं यदोः कुले आत्त- जन्मा श्रीकृष्णचन्द्रः मदीयं स्मरणं करोति, अतस्तं प्रति गन्तुमीहे-इत्युत्तरित मित्याह । अन्यदपि यत्तदानीमुत्तरावसरे उक्तं तदप्यनुवदति-स श्रीकृष्णो मे भेदभावरहितं परं मित्रं, स मे अन्तरास्मा, स च मे मानसं-हृदयं,-किं ब- हुना अशेषविश्वस्यावने रक्षणे बद्धदीक्षा-गृहीतव्रता मे अवर्णनीया शक्ति: स एवेत्यपि मयोक्तमिति शेषः । तथा च शैवे पार्वतीं प्रति शिववाक्यम्- 'अत: शरीरभूतोऽसौ मम जातस्त्वदात्मना ! यो हि नारायणः सा त्वं शक्तिः शक्तिमतो ममा इत्यादि। (१९६) केवलं दर्शनदानायैवागतमिव मन्यमानः श्रीकृष्णः शङ्करो- क्तमुपचारपरतयैव नयन्नाह---भक्तवात्सल्यवशतया भवदीयभक्तगणपरमाणु- मपि मां पर्वतीकरोषीत्यलमुपचारेण मय्यनन्यभक्ते, इत्युक्त्वा यदत: परमव शिष्यते वक्तव्यं तदेवोपक्रम्यतामिति ततस्तत' इत्यनेनावेदयति । (१९७) ततो मदीयं दारकागमनसङ्कल्सं विज्ञाय-'श्रुताः श्रीकृ- ष्णसम्बन्धिनो यशोबलपराक्रमा: याम्यामेतादृशावावा-(रतिकामदेवौ) यदि श्रीमत:-(शङ्करस्य) आशा भवेत् तर्हि तं श्रीकृष्णं द्रष्टुमिच्छावः इति ताभ्यां प्रार्थितोऽई प्रियं मे समारोहतं पुणकमि त्याशाप्य वाम्या - सह शम्बरनगरादन समागतः; अनयोर्दम्पत्यो रतिकामदेवयोश्च सर्व वृत्ता. न्तजातं निवेदितम् । एतस्मिन् वृपान्ते विस्मयावहान् मसङ्गान् परिगणयन् देवानुकूल्यमुत्तरगयति श्रीशङ्करः-विचार्यतामिदानीम् दिमादिशिखरे- . पञ्चमोऽङ्कः। २२९ इति ताभ्यां प्रार्थितोऽहं 'प्रियं मे, समारोहतं पुष्पकम् ' इत्युक्त्वा आभ्यां दम्पतीभ्यां सह शम्बरनगरादत्रागतोऽस्मि । दम्पत्योश्चा- नयोः सर्व वृत्तं कथितम् विचार्यतामिदानी-क हिमाद्रि- शिखरे भस्मावशेपभवन, क मत्स्योदरादुत्पत्तिः, क पूर्वजन्मप्रिय- तमासमागमः, क मायाशतविज्ञानसम्पादनं, क सुरासुरैरप्यजेयस्य सबलार्णवस्य शम्बरस्य पराकरणं, क तद्वाज्यापहरणं, क च मयैव पूर्व क्रोधेन्धनदग्धस्य तस्य रक्षणार्थ कैलासाच्छम्बरनगरगमन- मेतत् सर्व पतिव्रताशिरोमणिभूताया वत्साया रतेरनन्यभक्तरेय फलम् । न खलु कदापि भक्तिकल्पलता निष्फला भवति । म्बवती-(१९"उत्थाय साञ्जलिबन्धम् ) परमकृपापीयूपपार पर- मेश्वर ! अस्माकं प्राणनाथेनाबाल्यादनुदिनमनन्या प्रेमलक्षणा भवद्भक्तिः परिशील्यते सा कदा फलिष्यति ? भस्मावशेषभवन, (मद्भालनेत्रामिना ) क मत्स्योदरादुत्पत्तिः, क पूर्वजन्मप्रि- यतमया (रत्या ) समागमः, क मायाशतविज्ञानं (तस्या एव मायावतीभूतायाः सकाशात् ) क सुरासुरैः समुदितैरपि जेतुमसुकरस्य सबलार्णवस्य शम्बरस्य पराकरणं (पराजयः ), क तद्राज्यापहरणं, (पूर्वोक्तप्रसङ्गेभ्योऽप्यधिकविस्मय- हेर्नु प्रसङ्गमुपन्यस्यति ) क च मयैव पूर्व क्रोधेन्धनदग्धस्य तस्य (कामदेवस्य) रक्षणार्थ ममेव कैलासाच्छम्बरनगरागमनम्। इत्येतत् सर्व पतिव्रताशिरोमणी भूताया रतेरनन्यभक्तेरैव फ्लम् । भक्तरेय महिमानं दृढीकर्तुमाह-न खलु भक्ति- कल्पलता कदापि निप्पला भवतीति । इदं तद्विन्दुनामक पताकास्थानं नाट्या- गम्। यदाह धनञ्जयः- पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् । इति पूर्व प्रकृतस्य पुत्रप्रात्यादिलक्षणस्य श्रीकृष्णचन्द्राभ्युदस्य श्रीशङ्करमुखाद व्याकरणार्थ तन्मुखादेव प्रथम जाम्बवतीमनसि प्रार्थनाकरणाय न खलु भक्ति- कल्पलता निष्फला भवतीति बीजवदुद्भेदनादयं विन्दूपन्यासः । (१९८ ) एतच्छुत्वैव जाम्बवती उत्थाय साञ्जलिबन्धं व्यजिशपत्- हे परमकृपापीयूपपारावार ! परमेश्वर !-प्रथमसम्बोधनेन दयादरिद्रत्याभावो • द्वितीयसम्बोधनेन शक्त्यभावाभावश्च योधित:-एनाहशस्य तव भक्तिरस्मत्मा. नायेन पाल्यादारभ्याध यावदनुदिनमनन्या प्रेमलमणा या परिशील्यते मा कदा पलिम्पति ? पूर्वोक्तविशेषणदयविशिष्टस्य स्वानन्यभक्ताभीष्टमाघने विलम्बो नो. नित:, प्रत्युन स्वोत्तस्य न कदापि भक्तिकल्पलता निकले। त्यादिव्याहारस्य- . ३० २३० श्रीकृष्णचन्द्राभ्युदयम् । मदृष्ट्या न फलितास्ति! श्रीशङ्कर:-वत्से ! ननु फलितैव । जाम्बवती-१९९९ भगवन् ! भगवदृष्ट्या फलितापि श्रीशङ्कर:-कथमिव ? जाम्बवती-कमलदलविशाललोचनो में सुखयति नेत्रयुगं न रौक्मिणेयः ।। शिवकर शिव यावदन्न तावत् कथमिव ते फलितां वदामि भक्तिम् ॥ १०५ ॥ श्रीशङ्कर:-(सानन्दम् ) २००धन्यासि वत्से! धन्यासि । अयि देवकी- वसुदेवौ ! वत्स बलभद्र ! वत्स श्रीकृष्णचन्द्र ! वत्से रुक्मिणि ! वत्से जाम्बवति ! वत्से सत्यभामे ! वत्साः समस्ताः श्रीकृष्ण- चन्द्रराइयो ! वत्सोग्रसेन ! वत्सा उद्धवाक्रूरभीमार्जुनसात्यकिकृत- वर्माणः ! सर्वे पौरा जानपदाश्च शृणुत । व्यभिचारोपीति सर्वथा नात्रोपेक्षया चिरयितुं साम्प्रतमिति प्रबलप्रयोजकव्यापार- पारवश्यप्रयुक्तमत्यग्रप्रसादासादनध्वनिः। ( १९९) शिवाशयमजानानाया जाम्बवत्याः 'यत्से ! ननु फलितेव श्रीकृष्णास्त्र भक्तिकल्पलतेति' शङ्करवाक्यश्रवणेपि स्वाभीष्टलाभविरहमेव प्रक्ट- यति जाम्बवती-भगवन् ! भवदृष्ट्या (श्रीकृष्णचन्द्रराशीनां सर्वासां पुत्ररत्नरूप- फललाभेन ) फलितापि मदीयदृष्ट्या न फलितेत्याह-'कथमिवेति श्रीशङ्करेण पृष्टा च स्वमनोगतं भक्तेः फलितताभावसाधकं हेतुं विवृणोति । यावत् ( अत्र आगत्येतिशेप:) कमलदलविशाललोचनः रौक्मिणेयः-प्रद्युम्न:-मे नेत्रयुगं न मुखयति तावत् हे शिवकर शिव ! ते भक्ति कथमिव फलितां वदामिन कथमपीतिभावः । (२००) सपल्या अपि तादृशं मिथो दुःखसंविभागित्वमालक्ष्य प्रीतः शिवः सानन्दं स्वानुग्रहं विवरिनुकामो ‘धन्यासीति जाम्बवतीमभिनन्द्य 'देवकीवसुदेवौ !' इत्यारण्य पौरा जानपदाश्च !' इत्यन्तेन सर्वान् सम्बोध्य पुन ' इति एदेनाभिमुखीशल्य 'भगवन सर्षे (म) सावधाना: स्मो भग- बद्वचनामृतरसं पातु 'मिति दत्तावधानान् सर्वानालश्य आवयति-यः सूतिकासद- नत: अमुरेण अपहतः समुद्रे क्षितच रौक्मिणेयः प्रतिदिनं मया प्रणयात् संर- क्षितः सोऽयं नवकामदेवः पुरः सम्मुखावस्थित एव विजयते । येन नवकाम. देवेन समिति-समामे-उग्रवीर्यः शम्बर आहतः, येन च सपदि तदीय राज्य- पदं हतं, तमेनं काम पूर्वजन्मजायया रत्या अन्वितमिन्दुयत्कं रुक्मिणीतनयमवेत .

. पञ्चमोऽङ्कः। सर्व-(बद्धासलि ) भगवन् ! सर्वे सावधानाःरमो भगवद्वचनामृतरसं पातुम् । श्रीशङ्करः-यः सूतिकासदनतोऽपहृतोऽसुरेण क्षिप्तश्च हन्त जलधौ किल रौक्मिणेयः ॥ संरक्षितः प्रतिदिनं प्रणयान्मया यः सोऽयं पुरो विजयते नवकामदेवः ।। १०६ ।। येनाहतः समिति गम्बर उप्रतीयों येनाहृतं सपदि राज्यपदं तदीयम् ।। तं रुक्मिणीतनयमेनमवेत कामं तत्पूर्वजन्मवनितान्वितमिन्दुवक्रम ।। १०७ ।। (रोक्मिणेयं प्रति ) अयि वत्स ! प्रणम सबधूकरते पितामहीपिता- मही पितृव्यं पितरं मातृश्च सर्वाः । काम:-यथाज्ञा देवदेवस्य (इत्युक्त्या रत्या सहितः सर्वान् प्रणमति, सर्व च सानन्दाश्रुपातमालिगन्ति वधूवरी) (अत्रान्तरे श्रीराजराजेश्वरमन्दि- रात् प्रतिनिवृत्तः सवधूक: माम्बोपि सर्वान् प्रणमति) रुक्मिणी-( साश्रुपातम् ) २०"वत्स ! प्रथमं जाम्बवतीमेवैतां प्रणम, यया हठात् त्वदर्शनं श्रीकृष्णचन्द्रान् श्रीसाम्यशिवाय याचि. तम् । यस्या एवं हटेन वयं सर्वाः कृतार्थाः । एनं तम्यास्तनयं सवधूकं साम्बमाशिय सौहाईमुबासिन्धुमग्नो भव । काम:-यथाज्ञा श्रीमातृचरणानाम् (इत्युक्त्वा साम्बमालिगति) जानीत । आचारप्रतिपत्तये च रीक्मिणेयं प्रत्याह -अयि वत्म ! सवधूकस्त्वमुप- स्थिती ते पितामहीपितामद्दौ-देवकीवसुदेयो, पितृव्यं बलभद्रं, पिवर श्रीकृष्णं, मक्मिणीप्रमुखा: सर्या मातश्च प्रणाम । (२.१) शिवाशामनुमान्य यावत्सयधूक: कामः सन्यिथोक्तक्रमण प्रणमति, अत्रान्तरे राजराजेश्वरमन्दिरात् प्रतिनिवृत्तं मर्यान् प्रणमन्तं सवधूक • साम् दृष्ट्वा सहर्षाश्रुपावं यक्मिणी-परा! यया हलात्कारेण श्रीकृष्णचन्द्रात्साग्न. मदाशियाच त्वदर्शने याचितमासादितच्च तामेता जाम्बवती प्रथम प्रणम; यस्या एप हटेन वयं सर्वे कृतार्थाः जाता इति शेषः । साम्यं निर्दिस्य एनं तस्यास्तनयं माम्पमाशिष्य सौहादसुधामिन्धुममो भवेत्याद । अत्र साधूकमिति केवलमुद्देश्य विशेषणमेय न विधेयविशेषणम् , आश्लेष केवल साम्बम्यैवान्वययोग्यत्वात् ।

२३२ श्रीकृष्णचन्द्राभ्युदयम् । सर्वे (आकाशात् २०२पुष्पवृष्टिः पतति ) -जयतुजयतुभक्तवत्सलो भगवान् श्रीमहेश्वरः (इत्यानन्दकोलाहल:) ( शनैः शनैर्निवृत्ते तस्मिन्नानन्दकोलाहले सिंहासनादुत्थाय ) श्रीशङ्करः-२० श्रीकृष्ण ! तेऽभ्युदयवीक्षणदग्धचित्ता अन्तःकियन्त इति वैदयहमेव न स्वम् ।। तान् हन्तुमेतदवितुं जंगदुर्वराया भारं विनेतुमिदमद्य गृहाण चक्रम् ॥ १०८॥ ( एवमुक्त्वा श्रीकृष्णाय चक्रं ददाति) श्रीकृष्णः- ( सहर्षमुत्थाय ) महानयमनुग्रहः । (इति वदंश्चकं हस्ते गृहीत्वा प्रणमति) श्रीशङ्करः-२०४किन्ते भूयः प्रियं करोमि ? (२०२) मातुराज्ञामनुसृत्य यावत्साम्बमालिङ्गति प्रद्युम्नस्तावदाका. शात् पुष्पवृष्टिः पतिता, तदालोकनेन भगवतो महेश्वरस्य जयोद्घोपो लोककृतः । महेश्वरानुग्रहेणैव श्रीकृष्णस्यैतावदभ्युदयसिद्धेस्तस्यैव महेश्वरस्य जयोद्घोपर्ण प्रातावसरमिति भावः । (२०३) आनन्दकोलाहले विरते श्रीशङ्करः श्रीकृष्णमाधिकारिकव्य. क्तिभावभाजं मत्वाऽनुगृह्णाति-हे श्रीकृष्ण ! ते अभ्युदयवीक्षणेन दग्धचिताः अन्तस्त्वदीयोत्कर्षासहिष्णवः कति सन्तीति अहमेव वेझि, सर्वज्ञत्वात् , त्वं न वेसि इति शेषः । अत्र 'वं न वेत्सि' इति श्रीकृष्णस्य नाशत्वकथने तात्प- र्यमपितु सत्त्वस्वभावतयोपेशयाऽनादरेण वा तान् प्रति लक्ष्यदानाभावप्रयुक्त मवगणनमिति भावः । अथवा त्वदभ्युदयवीक्षणेनान्तर्दग्धाः कियन्तः सन्तीति केवलमहमेव न वेद्मि किन्तु त्वम् अपीति शेषः, सन्तियामित्वादित्यर्थः । तान् ते अहितान् हन्तुं-परिपन्यिपराकरणमन्तरा जातस्याप्यभ्युदयस्य सप्रत्यूहत्यमा- शक्यतेति तेषां पराभवोपायप्रदानेनाभ्युदयस्य शाश्वतिकपर्यवसितत्वं व्यजितम्। किञ्च एतद् जगद् अयितुं, जगद्रक्षणाधिकारस्यानायासेन निर्वहणार्थमित्यर्थः । अपिच उर्वराया धरित्र्या भारं, पृथिव्या भारभूतांश्च-विनेतुमपनेतुं नाशयितुमिति यावत् । एतच् चक्रं सुदर्शनाख्यं गृहाण । एवमुक्त्वा श्रीकृष्णाय चक्रमर्पयति । (२०४) श्रीकृष्णश्वकं प्रतिगृह्य 'महानयमनुग्रह । इत्युपचर्य प्रण- मति; ततः श्रीशङ्करः-'किन्तै भूयः प्रियं करोमीति सानुग्रहोद्रेकमुपच्छन्दयति । 'मराप्तिः काव्यसंहारः प्रशस्ति शुभसूचनम् ।

पञ्चमोऽङ्कः। २३३ श्रीकृष्णः-२०५प्राप्तः योडझवत्सरेऽत्र जनितो यः मप्तमे वासरे दैत्येनापहृतोऽप्यनन्यशरणः श्रीरुक्मिणीनन्दनः ।। हत्वा शम्बरमुग्रवीर्यमखिलं हृत्वा तदीयं धनं कान्तासंयुत एप ते करुणया, किंवा प्रियं स्यात्ततः ॥१०९।। किञ्च–साम्यो जाम्बवतीसुतोपि कुरुभिर्वद्धो निजे पत्तने जित्वा तान् कुरुराजराजतनयायुक्तः समभ्यागतः ।। एता आप्तसुपुत्ररत्नदशकाः सर्वा महिप्यो हि मे देव ! त्वद्दययोदयश्च विजयः किन्नः प्रियं स्यात्ततः ? ॥११०॥ चरणकमलरेखाचक्रतश्चक्रमुग्रं ॥ करनियुताभं संविधायाशु शम्भो ॥ सपदि करतले मेऽभ्यर्पितं विश्वरक्षा रचयितुमिह तस्मारिकपरं नः प्रियं स्यात् ? ॥ १११ ॥ तथापीदमस्तु भरतवाक्यम् । इति धनञ्जयोक्तलक्षणलक्षितः काव्यार्थस्य संहरणात् काव्यसंहार इति प्रसिद्ध चरमं नाट्यानमुपनिबध्नाति कपिन ट्यसम्प्रदायमनुरुन्धानः । (२०५) श्रीशङ्करोदीरितं बहुमन्यमानः श्रीकृष्णो वरणीयशेपाभाव- माभाष्य सिद्ध सकलं निजाभ्युदयमद्य निखिलजगतां कल्याणमाशास्ते-प्रात इत्यादिना । अत्र द्वारकायां जनितो यः सप्तम एव वासरे दैत्येनापहृतः श्रीश. करं भवन्तमन्तरेण अन्यशरणरहितः श्रीरुक्मिणीनन्दनः प्रद्युम्नः, उग्रवीर्य शम्बरं हत्या, अखिलं तदीयं धनं हत्या, एष: पुरोऽवस्थित: पोडशवत्सरे (समये- व्यतीते) ते करुणया प्राप्तः, ततः परमधिकं किन्नोऽस्माकमन्यत् प्रियं स्यात् । किश्व-साम्मो जाम्यवतीमुतोपि कुरुभिर्निजे पत्तने बद्धस्तद्वन्धनाद् विमुक्तस्तान् कुरून् जित्वा कुरुराजराजतनयया हरणप्राप्तया युक्तः समागतः, एताश्च सर्वा मे महिष्यो राज्यः प्रत्येकमातमुपुत्ररत्नदाका जाताः, सोयं सर्वापि हे देव त्यद्द- यथा उदयो विजयश्व वरीयति; तत: परमधिकं किनः प्रियं स्यात् । अपिच- हे शम्भो ! चरणकमलरेखाचक्रत उग्रं दिनकरनियुताभं आशु चक्रमुत्पाद्य मे तले सहसाऽभ्यर्पित । किमर्थमित्याह-विश्वरशा रचयिनुमिह लोके इति शेषः । तस्मात्परमधिकं नः प्रियं कि सात् ! न किमध्यवशिष्यत इत्यर्थः । तथापीदमस्तु भरतवाक्यम् । अम्बुधरा वर्षन्नु ययाकाममिति शेषः, धरा च यग बीजप्ररोहाद्य- नुकूलाऽत एव सतामुत्तमानां पान्यानां शाल्यादीनां सम्पदं धरतीति तथा .

२३४ श्रीकृष्णचन्द्राम्युदयम् 1 वर्षन्त्वम्बुधरा धराऽस्तु च वरा सद्धान्यसम्पद्धरा सन्तु श्रीसुखिनो नृपाश्च सुखिनी भूपालभता प्रजा ।। सर्वेषां शिवमस्तु विश्वमखिलं हृष्टं च पुष्टं सदा कारुण्यामृतसागरौ हरिहरावानन्ददौ स्तां च नः ॥ ११२ ।। -(निष्क्रान्ताः सर्वे) इति श्रीमत्केशवगुरुकृपाकल्पवहरीपल्लवायमाने महामहोपाध्याय- शीप्रकविशङ्करलालकृतौ श्रीकृष्णचन्दाभ्युदयनानि नाटके पञ्चमोऽङ्को नाटकं च समाप्तिमगमत् ॥ दीपोत्सवे पश्चिमरात्रभागेऽभवत्सुपूर्ण मम मानसे यत् । गुरोः प्रसादेन महेश्वरस्य श्रीकेशवस्यापि च मे दयाब्धेः ॥ १॥ पूर्ण पुनर्लेखविधौ तदेतद्धरेः प्रबोधाहनि सौम्यवारे । नन्दागनन्देन्दुमिते सुवर्षे कृष्णोदयं श्रीदयया गुरूणाम् || २ ॥ श्रीकृष्णचन्द्राभ्युदयाह्वयं नाटकमयंते । मया श्रीकृष्णचन्द्राय महेश्वरपरात्मने३॥ श्रीकृष्णचन्द्राम्युदयं दृष्ट्वा दृष्टया दयाया।श्रीकृष्णचन्द्रो भूयान्न: सर्वदाभ्युदयप्रदः आदिच्छकुलकभूपणमणे: पुत्रो महेशस्य यः श्रीमत्केशवशानिसद्गुरुकृपालोकैकपात्रं च यः ॥ यस्यात्मैव वपुर्द्धर: प्रियमुहूद्रत्नं जटाशङ्कर- स्तस्येयं कृतिराशु तुप्यतु तया श्रीशैलजीवल्लभः ॥ ५ ॥ विघास्तु; नृपाश्च श्रिया मुखिनः सन्तु, तदीया प्रजा च भूपालभक्ता सती मुखिनी भवतु, प्रजायाः मुखित्वे परमं कारणं राजभक्तिरिति सैवात्र पुरस्कृता; -सर्वेषां शिवमस्तु, अखिलं विश्वं सदा दृष्टं पुष्टं चास्तु, करुणामृतसागरी च हरिहरी नोऽस्माकमानन्ददोस्तां भूयास्तामित्याशीरर्थनान्तोऽपवर्गः। इति श्रीसद्गुरुवर्यकेशवकृपाकल्पवल्लरीपलयायमानश्रीकृष्णचन्द्राभ्युदय- नाप्नो नाटकस्य टीकायां ज्योत्माभिधायां परममाहेश्वरहरिशङ्करात्मज- पण्डितहाथीभाईप्रणीतायां पञ्चमोऽङ्कः समाप्तः ।। संवगुणाचनन्दन्दी माधशाष्टमीदिन । श्रीनामनगरीका भीमगारे समापिता ॥ . यः ख्यातो हरिशङ्करात्मज इति श्रेरियमोहद्विजो यथाऽकारि नरेन्द्रजामरणजिसिंहः सभापण्डितः॥ सम्राटपश्चमनोजतोपि लभते यः सन्कियां माना- हाथीभाइपदाभिषः कृतिरियं तम्याऽस्तु शापिता ॥

Shri Krishna Chandra Bhyudayam

Author
Shastri,haribhai
Title
Shri Krishna Chandra Bhyudayam
File name
Shri Krishna Chandra Bhyudayam
Text
OCR done
Citation
1917
Published
2012/08
Publisher
Mumbai.,manilal Gujarati News
Language
Sanskrit
Pages
245
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
312906
Barcode
99999990321647.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
Rp4qla3vmwP
Download PDF

Shri Krishna Chandra Bhyudayam