S.P College, Srinagar
Vetal Pancha Vinsati
Front matter
PRATAP
magitan
31
7709
FOR
S R !
L E G E
LIBRARY
Class No.
891.267
Book No.
J61V
Accession No
4285
No text on this page.
No text on this page.
ଆILMll
VETAL PANCHA VINSATI.
OR
: Twenty-five tales related by a Vampire to
R:a juh Vikramaditya. S.B.VII.
6
PANDIT JIBANANDA VIDYASACARA, B. A.
Superinteniini, Free Sinskrit College, Calcutta
THIRD EDITION.
CALCUITA.
PRINTED AT THE GOPARDHAN PRES
1907.
To be had from Pandit Jibananda Vidyasagara. B. A.
Superintendent, Free Sanskrit College.
No. 2, Ramanatha lajumdıra's Strict, Harrison-Rou P.O., Calcu.
No text on this page.
वेतालपञ्चविंशतिः।
पण्डितकुलपतिना
वि, ए उपाधिधारिणा
श्रीजीवानन्दविद्यासागरभट्टाचार्यण
विरचिता।
बतीवसंस्करणम्।
कलिकातानगरे
गोवईनयन्त्रे
मुद्रिता।
१८001
প্রকাশক–শ্রীজীবানন্দবিদ্যাসাগর বি, এ,
২ নং রমানাথ মজুমদারের স্ত্রীট কলিকাতা।
প্রিন্টার—শ্রীগােবর্দ্ধন পান,
৪৩ নং কটন ষ্ট্রীট কলিকাতা।
वेतालपञ्चविंशतिः। उपक्रमणिका । पस्ति गोदावरीतटे प्रतिष्ठानाख्यो जनपदः । सत्र विक्रम- सेनस्य भूपतेः पुत्रः शक्रपराक्रम: त्रिविक्रमसेनो नाम विख्यात- । कीर्त्तिरभून् नृपतिः। तस्य तस्य सभासीनस्य नृपस्य सेवार्थ प्रत्यहं क्षान्तिशीलो नाम भिक्षुः एकैकं फलमुपानयत्। सोऽपि सदा- दाय पासवचरस्य कोशाधिकारिणो हस्त प्रतिदिनं न्यक्षिपत् । इत्य हादशसु वर्षेषु गतेषु एकदा सभागतोऽसौ भिक्षुः रान्ने यथायथं फलं दत्त्वा सभाग्रहात् निरगात्। राजा तु तस्मिन्न- हनि दैवात् प्रविष्टाय रक्षिणां हस्तच्युताय क्रीड़ामर्कटपोताय तत् फलं प्रादात्। स मर्कट: यावत् तत् फलमश्राति तावत् तस्मात् फलात् विदलितात् अनर्घम् उत्तमं रत्न निरगात् । . तद् दृष्ट्वा राजा तदादाय तं भाण्डागारिकं पप्रच्छ भिक्षुणा उपनीतानि यानि फलानि मया तव हस्ते दत्तानि, तानि त्वया सदा क्व स्थापितानि ? तदाकस्य कोशाध्यक्षः सभयस्त व्यजिज्ञपत्, देव ! मया तानि अखण्डानि च गवाक्षतः क्षिप्तानि, यदि आदिशति देवः, तदा तानि साम्प्रतं गवेषये इत्वृचिवान् || स राजानुमतो मत्वा क्षणादेव प्रत्यावृत्य पुनः व्यन्नापयत्, देव ! तानि कोशे शोर्णानि फलानि तेषु च रश्मि- व्वालाकुलान् रत्नराशीन् पश्यामि, तदाकर्ण्य सन्तुष्टः तान् मणीन् कोशरक्षिणे दत्त्वा अन्येारागतं त भिक्षु पर्यपृच्छत् ॥ اور اس رد رل २० वेतालपञ्चविंशतिः। با در x भिक्षो! कथमेवं धनव्ययेन नित्यं मां सेवसे ? यावत् कारणं न वक्ष्यसि, तावत् ते फलं न ग्रहीये, इत्युक्तवन्तं त नृपं स भिक्षुः विजनं नीत्वाऽब्रवीत् वीर! किमपि साधनं साचिव्य- सापेक्षमस्ति, तत्र वीरेन्द्रेण त्वया क्रियमाण साहाय्यमर्थये । इति श्रुत्वा राजा तथेति तस्य साहाय्याय प्रत्यपद्यत। तन: स श्रमणस्तुष्टः पुनस्त नृपमवादीत प्रभो! अस्याम् आगा- मिन्यां कृष्णचतुर्दश्यां निशामने इतो महाश्मशानं गत्वा वट- तरोरधः स्थितस्य मे सकाशं त्वया गन्तव्यमिति। ततस्तेन रान्ना वाढ़मेवं करिष्यामीति अभिहिते स क्षान्तिशोलो भिक्षुः प्रहृष्टः स्त्र निलयं ययौ। अथागतायां कृष्णचतुर्दश्यां स महासत्त्वो नरपति: भिक्षोस्तां प्रार्थनां प्रतिपन्नां स्मरन् प्रदोष नीलवसनेन सम- लङ्कृतशिराः खगपाणिरलक्षितः, तत् महाश्मशानमगात्। गत्वा इतस्ततोऽन्विष्यन् वटतरोरध: स्थित तं मन्वन्यासं कुर्वाण भिक्षु दृष्ट्वा समुपेत्य च जगाद, भिक्षो! एषोऽस्मि आगतः किन्ते करवाणि वद। तदाकर्ण्य स भिक्षुनृपं दृष्ट्वा हृष्टः प्रोवाच, राजन् ! यदि प्रसादस्ते कर्त्तव्यः, तदा इतो दक्षिणा- मुखं गत्वा एकाको विदूरे यं शिंशपातरु द्रक्ष्यसि, तस्मिन् प्रलम्बितो मृतः कोऽपि तिष्ठति, तमिहानीय मे साहाय्यं कुरु । तदाकये स वोरो नृपतिस्तथेत्युत्ता सत्यसगर: दक्षिणादि- शमालम्बा तत्र प्रययौ। कथञ्चिच्च तेन श्मशानमार्गेण मच्छन् विदूरे तं शिंशपातरु' प्राप्य तदुपरि लम्बमानं शवमेकमद्रा- क्षीत्। । दृष्ट्वा तं तरुमारुह्य छिन्नरज्जु तं भूमौ अपातयत्। पातितश्च स: अकस्मात् जीवित इव भृश' चक्रन्द। ततोऽसौ राजा अवरुद्ध कपया तज्जीविताकाङ्क्षी यावत् तस्य अङ्गानि परामृषत् तावत् स शव: अट्टहासमकरोत्। ततः स राजा तं प्रथमकथा। ३ वेतालाधिष्ठितं मत्वा कथं हससि, एहि गच्छाव इति निर्भय याक्त् ब्रवीति, तावत् तं वेतालं न भूमौ समवेक्षत। ऐक्षत च तस्यैव तरोरुपरि यथापूर्वं लम्बमान ततो भूयोऽपि तरुमारुह्य स राजा यत्नतः तं शवमवारोहयत्, वीराणां चित्तं वच्चादपि अखण्डितम् अकम्पाम्। ततः तं वेतालाधिष्ठितं शवं स्कन्ध- मारोप्य मौनन गन्तुमुपचक्रमे । यान्तञ्च तं शवाधिष्ठितो वेतालस्त गजानमब्रवीत्, राजन् ! अध्वविनोदाय कथामा- ख्यामि शृणु। अथ प्रथमकथा । प्रस्ति वाराणसी नाम शङ्करवसति: पुरी। या कैलासस्य स्थलोव पुस्यजनसेविता। हारयष्टिरिव यस्याः खर्गतरङ्गिणी विभाति । तस्यां प्रतापानलनिर्दग्धविपक्षकुलकानन: प्रताप मुकुटो नाम नृपतिः प्रतिवसति स्म। तस्य च वचमुकुटो नाम तनयः स्मरस्य च जनस्य च रूपशौर्ययोर्दर्पदलन आसीत्। तस्य राजपुत्रस्य सखा महामतिः मन्त्रिपुत्रः कश्चिदास्त । कदाचित् स नृपात्मज: तेन सख्या सह क्रीड़न मृगयाप्रसङ्गेन अतिदूरमध्वानं जगाम। स तत्र सिंहानां मस्तकानां सटा- सानि शौर्यश्रीचामराणीव शनैश्छिन्दन् महावनमेकमाससाद । तत्र सरोवरमेकं दृष्ट्वा श्रान्तः स तेन सुहृदा मन्त्रिपुवेष तज्जलं पीत्वा प्रक्षालितकरचरण: कस्यापि तौरतरोर्मूले समुपाविशत् । अत्रान्तरे कापि सानार्थमागता दिव्यालति: सुपरिच्छदा पूरयन्तीव लावण्यनिझरेण सरोवरं दृष्टिपातैः सृजन्तीव तत्रोत्पलवनानि, प्रत्यादिशन्तीव मुखेन जितेन्दुना अम्बुजानि 20 वेतालपञ्चविंशतिः। कन्यका सेन ददृशे। दृष्टैव सा तस्य राजपुत्रस्य मनो जहार तत्क्षणम्। सोऽपि राजसूनुस्तस्या विलोचने अहार्षीत् । सा तु कन्या तद्दर्शनेन सञ्जातविकारा लज्जया किमपि वक्तुम- शक्न वाना हृद्गतमाकूतं सङ्केतेन बोधयन्ती एकमुत्पलं कर्णे गृहीत्वा दन्तरचनां विधाय पद्म शिरसि कृत्वा हृदये कर- मदात्। राजपुत्रस्तु तस्यास्तां संज्ञां न विवेद, मन्त्रिपुत्र एव केवलं बुद्धिमान् सर्वं बुबुधे क्षणेन च सा कन्या अनुगर्नीय- माना प्रययौ। गत्वा च स्व गृहं पर्यकनिषस्मा तस्थो। चित्तन्तु तस्यास्तस्मिन् नृपामजे एव स्थितम्। सोऽपि राज- सुत: कच्छ्रण स्वनगरौं गत्वा तया विना नितरां व्यथितो दिने दिने कृशतामवाप। सख्या च मन्त्रिपुत्रेण तेन रहसि साम- टुष्पापां शंसता पृष्टस्स्यक्तधैर्यः प्रोवाच सखे ! यस्या नाम न, ग्रामो न, अन्वयश्च नावबुध्यते, सा कथं प्राप्यते, तन्मृषा मां किमाखासयसि ? इति राजपुत्रेणोतो मन्त्रिपुत्रस्तमभ्यधात्, देव ! किं न दृष्टं त्वया, यत् यत् तया संज्ञया सूचितम् । यत्तया कर्णे उत्पलं न्यस्त तेन एतत् सूचितं कर्णोत्पलस्य राज्ञः राष्ट्र अहं निवसामीति। लता च या दन्तरचना, तबा एतत् सूचितं यथाहं तत्र दन्तघाटकस्य कन्येति। शिरसि पद्म धृत्वा एतत् सङ्केतितं यथाहं नाना पद्मावतीति हृदयार्पित-हस्तया च तया त्वयि मे प्राणा: स्थिता इति सङ्केतितम्। अस्ति च कलिङ्गदेश कर्णोत्पलो नाम नृपः । तस्य चित्तप्रसादक: महासमृद्दिमान् दम्तघाटक: संग्रामवर्डनो नाम प्रतिवसति। तस्य कन्यारत्नमियं पद्मावतो नाम प्राणा- धिकप्रियम्। एतत्लोकमुखात् मया विदितम्। तस्मात् मया तस्या देशादिसङ्गिनी संज्ञा ज्ञाता। इति तेन मन्त्रिपुत्रेणोतो राजपुत्रस्तस्मै सुधिये सुतोष जहर्ष च लब्धोपायः ।
प्रथमकथा। ५ अथ स तेन मन्त्रिपुत्रेण सम्मन्त्रा प्रियार्थी पुनम गयाव्या- जेन तत् सरोऽगमत्। अर्डमार्गे च वाताखवेगात् सैनिकान् पार्खचरानतीत्य तेनैव मन्त्रिपुत्रेण युतः कलिङ्गाभिमुख ययो प्राप्य तबगरं कर्णोत्पलनृपतेः, अन्विष्य च दन्तघाटकस्य भवनं दृष्ट्वा च तददूरे वासार्थ कस्याश्चित् वृद्धाया योषितो गृहं तो राजपुत्रमन्त्रिपुत्री प्राविशेताम्। तत्र च बाहौ यवसमलिलैः पूरयित्वा गुप्तमवस्थाप्य मन्त्रिपुत्र: तां वृद्धामपृच्छत् वृद्धे ! कञ्चित् अस्मिन् नगरे कमपि दन्तघाटकनामानं वेसि ? 'तदा- कर्ण्य सा जरती सादरं तमभाषत वत्स। सुष्ठ वेद्मि, तस्याहं धात्रो अस्मि, तेनैवाहं पद्मावत्या: स्वदुहितुः पार्थे स्थापिता, किन्तु अहं तत्राधुना अपहृताम्बरा न गच्छामि, जातु कुपुत्रः कितवो मे वस्त्रं दृष्ट्वैव सद्यः हरदिति। एवमुक्तवती तां दृष्टः मन्त्रिपुत्रः स्वात्तरीयादिदानेन सन्तोष्य पुनरब्रवीत् मातस्त्वम् आवाभ्याम् यद् यद् कथ्यते तत्तत् सुगुप्तं कुरुष्व। तां दन्त- घाटसुतां पद्मावतों गत्वा वद यस्त्वया सरसौतटे राजपुत्रो दृष्टः, सोऽत्र आगतः, तेनार्थिताह त्वदन्तिक प्रणयादायाता। तदा- कर्ण्य सा वृद्धा दानवशीकता तत्व पद्मावतीपार्श्व गत्वा अवसरं प्राप्य तां जगार वत्से ! तो राजसुतमन्त्रिसुतो त्वत्प्राप्तये अत्र समागतो, साम्प्रतं करणीयमादिश। इत्यभिहिता सा तां निर्भय पाणिभ्यां द्वाभ्यां कर्पूरलिप्ताभ्यां यो: कपोलयो- राहत। ततः सा परिमवार्ता रुदती गृहमागम्य तावभाषत पुत्रौ ! पश्यतं मुखे मे तया एता अङ्गुलिमुद्रा दत्ता:, एवं तयोक्ने नैराश्यविषस्म तं राजसुतं स ममवुद्धिर्मन्त्रिसुत: जना- न्तिकमवादीत् सखे ! मा विषादं गमः, मन्त्र रक्षन्त्या तया निर्भय यत् करिशुभा अत्या मुखे दश स्वाङ्गलयो निहिताः एतैरेतत् सूचितं यथा अस्मिन् शुक्ल पक्ष चन्द्रवतीरिमा दश aur वेतालपञ्चविंशतिः रात्रीः सङ्गमानौंः प्रतोक्षस्व इति। इत्येवं राजपुत्रं समाखास्य स मन्त्रिसुत: गुप्तं हस्तस्थं काञ्चनं किञ्चिद् अापणे विक्रीय तया वृदया महार्ह भोजनं साधयामास। ततस्तो हो सह तया वृद्धया बुभुजाते। इत्थं दशाहानि नीत्वा पुनर्जिज्ञामार्थ स मन्त्रिपुत्रस्तां वृद्धां पद्मावतोपाखं प्रेषितवान् । सापि मिष्टाव- पानादिलुब्धा तदनुरोधात् तस्या वासगृहं गत्वा प्रतिनिकृत्य च तो जगाद वत्सो! इतो मत्वाहं तत्पाखें कियन्तं कालं तूष्णी स्थिता, तया तु युष्भत्कथापराधं स्वयमुहिरन्त्या पुन: सालतका भिस्तिसृभिः कराङ्गलिभि: उरसि हता तदन्तिकात् अपमा- निता पुनरायाता। तदाकण्य स मन्त्रिपुत्रः तं राजपुत्रं स्वरमब्रवीत् सखे ! मान्य था शङ्का कार्षीः, अस्या हृदये तया यदलक्तकातम् अङ्गलिमुद्रात्रयं विन्यस्तं कौशलेन तेन रजस्वला. स्तिस्रो निशाः स्थिताः इति सूचितम् । एवं राजसुतमावास्य स मन्त्रिसुत: वाह गते पुनरपि तां वृद्धां पद्मावतीसकाशं प्राहि- णोत् । सा तस्मिन् दिने गता तया समादृत्य भोजिता । पाना दिभिश्च दिनं सर्व विनोदिता। यावत् सा सायं ग्रहमागन्तु मिच्छति तावत् तत्र बहि: भयङ्करः कोलाहल: समुदभूत् । हा हा अयं मत्त हस्ती स्वावासात् भ्रष्ट: जनान् मथन् प्रधाव- तोति जना अाक्रदन्तः पलायमानाः शुश्रुविरे। पद्मावती तां वृद्धामभाषत अम्ब ! साम्प्रतं हस्तिरुद्ध पथि त्वया न गन्तव्यं तत्त्वां पोठिका समारोप्य पालम्बनरज्जुभिर्बवा अनेम वहता गवाक्षेण अत्र ग्राहोद्याने प्रक्षिपामि, ततो वृक्षमारुह्य 'वलय च प्राकारम् अम्येन वृक्षेण स्वग्रहं व्रज इति । एवमुक्त्वा सा चेटिभिस्तां हां रज्जुपोठिकया गवाक्षात् उद्याने प्रक्षेपया- मास । सा च ग्रहं गला तत् सर्वं ताभ्यां राजपुत्रमन्त्रि- पुत्राभ्यां शशंस । तदा तदा स मन्तिपुत्रस्त राजपुत्रमभाषत ततः सा प्रधमकथा। सखे! सिद्ध ते अभिलषितं युक्त्या तया मार्गी दर्शितः, तद- यैव प्रदोषे त्वम् एतेनैव पथा तत् प्रियामन्दिरं गच्छ। इत्युक्ती स्त नैव मन्त्रिपुत्रेण युतः स राजपुत्रः तेनैव पथा वृक्या दर्शि- तेन तदुद्यानं ययौ। ददर्श च तत्र तां लम्बमानां सपीठिका मार्गोमुखाभिश्वेटोभिरुपरिष्टादधिष्ठितां रज्जुम् । स च तां दृष्ट्वैव याबदारोहति स्म तावत् ताभिः सखीभि: तया रज्जा गवाक्षेणाकष्टः प्रियान्तिकं प्राविशत्। तस्मिंश्च प्रविष्टे स मन्त्रिपुत्रस्तमेव वृद्धावासं प्रायात् राजपुवस्तु तां पद्मावती पूर्णेन्दुवदनां प्रसरत्कान्तिचन्द्रिका कृष्णपक्षात् गुप्त स्थितां राकाविभावरीमिव अद्राक्षीत्। सापि तं दृष्ट्वा तत्कालोचितैः कण्ठग्रहादिभिस्त स्त : प्रौढ़ाचारै रमयामास । ततस्तत्व गान्ध- वविधिना समूढ़या तया सह कान्तया गुप्त विहरन् कतिचित् दिनानि स्थित्वा कदाचित् तां प्रियामवदत् प्रिये ! मम सखा मन्त्रिपुत्त्र: मयैव सहायानः अत्र वृद्धाराहे एकाको तिष्ठति, तद् गत्वा तं सम्भाव्य पुनरेथामि इति तदाकर्ण्य सा धूर्ती पद्मावतो तं प्रियमाह स्म नाथ ! त्वामहं पृच्छामि, मत्कृतास्तास्ता: संज्ञास्त्वया ज्ञाता: ? उब ते तेन मन्त्रिपुत्रेण ? तयाभिदधतां तां राजपुत्रोऽब्रवीत्, प्रिये ! न जातं मया तत् सर्वं तेनैव मे मित्रेण दिव्यज्ञानवता सर्व विदित्वा मे समाख्यातम्। एतदाकण्य सा भामिनी विचिन्त्य तं प्रत्यभाषत नाथ ! तर्हि अयुक्तं कृतं त्वया चिरात् तदात्ती कथयता, यस्ते सखा, स मे भ्राता, तस्य प्रथममेव मया ताखूलादिसमाचारण सम्मानना कर्तव्यासीत् । इत्युक्तवत्या तयानुमतः राजपुत्रस्त नैव पथा तस्यां निशि सख्य- रन्तिकमागात्। अकथयञ्च तत् सर्व प्रियया कथितम् मन्त्रि- पुत्रस्तु तदयुक्तमिति न तब् सादरमभ्यसयत। इत्य परस्पर लिपतोस्तयोः सा विभावरी पयंगात् ।
८ वेतालपञ्चविंशतिः अथ तयोः साध्य विधौ निर्वृ त्ते पक्वान्नताम्बूलहस्ता पद्मा- वतीसखी तत्रागात्। सा समागत्य तं मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारा युक्तित: राजपुत्रस्य भोजनं निषेधुं सा तव प्रिया भोजनादौ तदागमं प्रतीक्षमाणा आस्ते इति आवेद्य क्षणात् तत: प्रायात्। ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत देव ! कौतुकमेकं पश्य त्वां दर्शयामि। इत्युक्त्वा स तस्मादेकं पक्वान्नमादाय सारमेयाय तत्र स्थिताय प्रादात्। स भुक्त्व व तत्क्षणात् व्यपद्यत । तदवलोक्य किमिदं चित्रमिति तं मन्त्रिपुत्रं राजपुत्रः पर्यपृच्छत् । स चैनं प्रत्यभाषत देव ! संज्ञाप्रकटनेन मां धूतं विदित्वा हन्तुकामया त्वदनुरक्तया तया अस्मिन् सति राजपुत्रो मदेकायत्तचित्तो न भवेत् एत- इशय मां विहाय स्वां नगरों व्रजदिति विचारयन्त्या सम भक्ष- णार्थं विषान्नं प्रहितम्। तस्मात् त्वमेतस्यां मन्धुं मुञ्च। अहं कामप्यत्र युक्ति पयालोचयामि। इत्युक्तवन्तं मन्त्रिसुतं स राजपुत्र: सव्य त्वं बुद्धिशरीर इति यावत् स्तौति तावत् सहसा टुःखाकुलजनैरुदीरितो हा धिक् राज्ञो बाल: सुतो विपन्न इति रव: श्रूयते स्म। तदाकर्णनेन हृष्टः स मन्त्रिपुत्रस्त नृपात्मनं जगाद, देव ! अद्य पद्मावतीगहं निशि व्रज, तत्र गत्वा तां तथा पाययः, यावत् पानमदेन सा नि:संज्ञा नष्टचेष्टा गत- जीवितेव स्यात्। ततस्तस्याः समिद्रायाः कटितटे शूलेन अग्नितप्लेन अङ्ग रत्त्वा आभरणानि ग्टहीत्वा गवाक्षेण तेनैव प्रकारेस आगच्छेः, ततःपरं यथा भद्र भवेत् तथा करिष्यामी- त्युवा कारयित्वा च त्रिशूलं तस्मे राजसूनवे प्रादात्। सोऽपि राजपुलस्तत् कुटिलकर्कशं कालायसदृढ़ कान्तावयस्ययो- श्चित्तमिव हस्ते गृहीत्वा पूर्ववत् रात्री पद्मावतोहमत्व शुचैः खमन्त्रिणो वाक्यं प्रभूणामविचार्यमिति मत्वा तत्र मद्यपान- ८ प्रधमकथा। मिश्चेष्टां सां अपने शूलेनावितां हृतालङ्करणाञ्च कृत्वा सख्युः रन्तिकमागात्। प्रशंसच्च पाभरणानि दर्शयित्वा तत् सर्वम् । सतः स मन्त्रि पुत्र: ख समोहितं सिहं मत्वा प्रात: श्मशानं गत्वा स्वयं तापसरूपभृदभवत् भकरोच राजपुत्रं शिष्यरूपि- णम्। अब्रवीच त्वं इतोऽलङ्कुरणात् इमां मुखावलौं नीत्वा विक्रेतुम् पापणं व्रज, यदि त्वां पुररक्षिणो रहीयुः तदा पत्य ब्रयाः, यदियं मे गुरुणा विक्रयार्थ दत्तेति, इति सन्दिष्टः स राजसुत: भापणं गत्वा तथैव मुक्तावली विक्रेतुमतिष्ठत् अग्यात च तथाभूतः पुररक्षिभिः। ते च दन्तघाटसुताया अलङ्करण- मोषान्वेषणार्थिनः तं राजसूतं तत्क्षण नगराध्यक्षान्तिकं निन्युः। स च नगराध्यक्ष स्तं तापसाकारं दृष्ट्वा साम्य न पप्रच्छ, भगवन् ! कुत इयं मुक्तावली प्रासादिता, दन्तघाट कन्याया इदमाभरण हृतम् । तदाकर्ण्य राजपुत्रस्तानवादीत् भद्राः ! गुरुणा ममैषा विक्रेतु दत्ता, तद्युभाभिरेत्य स पृच्च्यतामिति। ततस्त समुपेत्य नगराधिप: पप्रच्छ, भगवन् ! इयं मुक्तावली कुतस्तव शिष्यगता ? एतदाकर्ण्य स धर्ती मन्त्रिसुतः तं रहसि पवादोत्, भद्र ! अहं तपस्वी सदा अस्मिन् इतस्ततो भाम्यामि, सोऽहं देवात् अत्र श्मशाने स्थितो निशि समस्त योगिनोचक समागतमपश्यम् । तासु चैकया योगिन्या राजपुत्र एकः उहाटितवदयाम्भोजो भैरवाय निवेदितः । पानमत्ता च सा जपतो मे मोक्षमालिका हत्तु महामाया विविधविकारपूर्णमुखी यावत् प्रावर्त्तत तावत् अतिदर्पिता सा क्रुडेन मया जघनस्थले त्रिशूलेन मन्त्रप्रज्वलितास्रिणा पड्डिता, हृता च तस्या इयं मुक्तावली कण्ठात्। तदेषा तापसानहीं विक्रयायें प्रेषिता। तदाकर्ण्य स नगराध्यक्षो गत्वा राजानं तत् सर्वं व्यजिन्नपत्। भूपोऽपि आकर्ण्य तत् दृष्ट्वा च तां १० वेतालपञ्चविंशतिः । मुक्तावली प्रेक्षणप्रहिताया वृद्धाया आप्तवनिताया मुखात् दृश्य- शूलाङ्कां जघने तां पद्मावतों श्रुत्वा सत्यमेव ग्रस्तः सुतो मेऽनया डाकिन्या इति समुत्पन्बनिश्चयः स्वयं तस्य मन्त्रिपुत्रस्य तापस- बेशिनोऽन्तिकं गत्वा तस्याः पद्मावत्या निग्रहं पृष्ट्वा च तस्य वचसा पितृभ्यां शोच्यमानायाः तस्याः पुरात्रिर्वासनं दण्डं व्यधात् । सापि निर्वासिता अटवीस्था नग्नापि तत् सर्व मन्त्रिपुत्रकृतं सम्भाव्य तनु न अहौ। दिनान्ते तौ राजपुत्रमन्त्रिपुत्री तापसवेशं त्यक्ता अश्वारूढ़ी शोचन्तों तां प्रापतुः ।। मिन्यतुश्च अखमारोप्य स्वराष्ट्रम्। तत्र चागत्य स राजपुत्रस्तया साक सुनिवृतस्तस्थौ। दन्तघाटस्तु अरस्थ क्रव्याद्भिर्भक्षितां सुतां मत्वा शोकेन पञ्चत्वमगात्। भार्या च तस्य तमनुजगाम । इति कथामाख्याय वेतालस्तं नृपमपृच्छत्, राजन् ! एतयो- दम्पत्योर्बधात् राजपुत्रस्य मन्त्रिपुत्रस्य वा पद्मावत्याः पातक भवेत्, वं हि बुद्धिमतां वरो दृश्यसे, तदत्र मे संशयं छिन्धि, यदि आनन्नपि मे तत्त्वं न वदिथसि, तदा ते मूर्दा निश्चित शतधा स्फ टिष्यति यदि च सदुत्तरं दास्यसि तदाह पुनस्तव स्कन्धात् तमेव शिंशपातरुमाश्रयिष्थे इति। इत्युक्तवन्तं वेतालं राजा त्रिविक्रमसेनस्तं प्रत्यवादीत्, योगखर ! किन्ते अज्ञातम् ? नथापि वच्मि, एतेषां त्वयोक्तानां त्रयाणामपि नैव पातकं केवलं कर्पोत्पलस्य राज एव तत् पातकं भवति। वैताल: प्राहम्म राज्ञः को दोषः, ते त्रयः तत्कारकाः हंसैः शालिषु जम्थ षु काकाः किमपराध्यन्ति। ततो राआब्रवीत् ते त्रयोऽपि न दूष्यन्ति, मन्त्रिसुतस्य प्रभुकार्यमेव हितं, तदत्र सोऽपातको, पद्मावतीराजपुत्री हि कामशराग्निना निर्दन्धी अविचारजौ तस्मात् स्वार्थसम्पादनाददोषी, राजा तु नीतिशास्त्रेषु सुशि- क्षितोऽपि चारैः प्रनासु तत्त्वमनन्विथन् धूर्तचरितानि च जानन् द्वितीयकथा। ११ अविचारं कृतवानिति, स एवान पातकीति निशम्य म वैताल: तस्य राज्ञ: दाळ परीक्षितुं मायाबलात् तत्क्षणं तमेव शिंशंपातरुमशिश्रियत्। राजापि नि:शङ्कः पुनरमुमानतुं तत्रागात्। अथ द्वितीयकथा। अथ स राजा विक्रमसेन: पुनस्तं वेतालमानेतुं तं शिंशपा- तरुमूलमगमत् । यावत्तत्र प्राप्त: समन्तात् वोक्षत स्म तावत् तं वेताल भूमौ कूजन्तं पतितं ददर्श ददर्श। ततश्च तस्मिन् नृपे तं मृतदेहस्थं वेतालं स्कन्धमारोप्य जवात् तूष्णीमानतु प्रवृत्ते स्कन्धस्थितः स वेतालस्तमब्रवीत्, राजन् ! महति अनुचिते ले पतितोऽसि, तस्मात् तव विनोदाय पुन: कथामेकां कथ- यामि श्रूयताम् अस्ति कालिन्दीतटे ब्रह्मस्थलाभिधः कश्चिदग्रहारः। तत्र अग्निस्वामीति समभवत् कश्चित् वेदपारगो विप्रः । तस्य अति- रूपवती मन्दारवती नाम कन्यका अजनि। यां नवानर्घला- वण्यां निर्माय विधिनियतं निजं स्वर्गनारीपूर्वनिर्माणकौशलं जुगुप्सते। तस्यां शैशवातिक्रान्तायां कान्यकुन्नात् समसर्वगुणो- पेतास्त्रयो ब्राह्मणदारकाः समाययुः। तेषामेकैक: आमार्थ तत्पितरं तामयाचत। वत्पिता प्राणव्ययेऽपि तामन्यस्मै दातुम- निच्छन् तन्मध्यादेकस्मै दातु मतिमकरोत्। सा तु कन्या अन्ययोर्बाधात् भोता कियन्तं कालं न पाणिमग्राहयत्। ते च त्रयोऽपि तस्या मुखेन्दुनिक्षिप्तदृष्टयः चकोरव्रतमालम्बा दिवानिशं तत्रैव तस्थुः।
१२ वेतालपञ्चविंशतिः । अथाकस्मात् समुत्पनेन जुरदाहेन पार्ता सा मन्दारवती पञ्चतामवाप। ततस्ते विप्रकुमारास्तां परास दृष्ट्वा शोकार्ताः कृतप्रसाधनां श्मशानं नीत्वा अम्निसादकुर्वन् । ततश्च तेषामकः सत्र मठं निर्माय तदभस्मशय्यायां भक्ष्यण जीवनतिष्ठत् । द्वितीयोऽस्थीनि तस्या उपादाय भागीरथ्यां निक्षेप्नु जगाम । तृतीयस्तु तापसो भूत्वा देशान्तराणि भ्रमितुमगात्। स तु भधाम्यन् तापस: वजालोकाभिधं ग्रामं प्राप्य कस्यापि विप्रस्य रहे अतिथिरभूत् सेन च गृहपतिमा पूजितो यावत् तत्र भोक्त प्रावर्त्तत, तावत्तस्य एक: शिश: रोदितु प्रवृत्तोऽभवत् । स च शिशुः सान्यामानोऽपि यदा न व्यरंसीत् तदास्य ग्रहिणी सं बाहावादाय जलत्यग्नो क्रुधा प्राक्षिपत्। क्षिप्त एव स कोमलाङ्गस्तत्क्षणात् भस्मसादभूत्। तदवलोक्य स तापस: सञ्जातरोमाञ्चः प्राब्रवीत्, हा धिक् ! कष्ट प्रविष्टोऽहं ब्रह्म- राक्षसवेश्मनि तस्मात् मूर्त किल्विषमिदमन्नं नाधुना भक्ष- यामि। एवं वादिनं तमतिथिं स ग्राहस्थः प्रत्यवादोत्, ब्रह्मन् ! मृतसञ्जीवनी शक्तिम् । इत्युवा पुस्तकमुहाव्य तां विद्यां वहिस्कृत्य अनुवाच्य च तस्मिन् भस्मनि जलमक्षिपत्। क्षिप्तमात्रे च जले स पुत्रस्तथैव जीवनद- तिष्ठत्। ततः स तापस: सुनिर्वृतस्तत्र सहर्ष बुभुजे। गृहस्थोऽपि स नागदन्तके पुस्तकमवस्थाप्य भुक्क व तेन ताप- सेन सह रात्री शयनमभजत । अथ सुप्ते एहपती स तापस: स्वरमुत्थाय शशितः खप्रियाया मन्दारवत्या जीवनाथं तां पुस्तिकामग्रहोत्। गृहीत्वैव तस्मानिर्गत्य राबिन्दिवं व्रजन् शनैस्तत् श्मशानमासदत्। अद्राक्षीच सहसा तं द्वितीयम् उपस्थित यो हि गङ्गाम्भसि तदस्थि क्षेप्त मगात् । च तत्रस्थ तस्या भस्मनि शायिन हतीय निबदमठम् । प्राप्य द्वितीयकथा । १३ अथ स तापसः प्रोवाच मठिका त्यज्य तां भ्रातः। प्रियां तामहमुत्थापयामोति। ततस्ताभ्यां निर्बन्धत: परिपृष्टः पुस्ति- कामुराव्य मन्त्रमनुवाच्य मन्त्रपूतानि जलानि तस्मिन् भस्मनि प्राक्षिपत्। क्षिप्तमात्रेषु जलेषु सा मन्दारवतो जीवन्ती सहसा सभुत्तस्थौ। तदा सा कन्या वह्नि प्रणम्य निष्क्रान्तं पूर्वाधि- कद्युति काञ्चननेव निर्मितं वपुर्बभार। तादृशीं तां पुन- र्जीवितां निशम्य वयोऽपि ते स्मरातुराः तत्प्राप्तार्थमन्योऽन्यं कलहं चक्रुः । एकनोक्तम् इयं मन्मन्वबलात् जीविता ममैव भार्या। अपरोऽब्रवोत् मदीयेन तीर्थभ्रमणपुण्य न इयं जीविता, तदेषा ममैव भाऱ्या हतीयेनाभिहितं मया भस्मानि रक्षितानि, तत एवेयं जीविता, तस्मात् ममैवेयं प्रणयिनीति । हे महीपत ! तेषां विवादनिर्णये त्वमेव शक्तः, तत् वहि कन्यामो कस्य एतेषां भार्या भवितुमर्हति ? यदि जानन् मृषा वदिष्यसि तदा ते मूर्दा विदलिष्यति। इति वेतालादा- कर्य स राजा एवमभ्यधात् य: क्लेशेन मन्त्रमानीय एनस- जीवयत् स खलु पिटकार्यकरणात् न पतिः । अस्थौनि गङ्गायां क्षेप्त गत: स पुत्रकार्याकरणात् न पतिः । यस्तु तस्मशय्यां समाश्लिष्य तपश्चचार श्मशान एव, स एवास्याः प्रणयिकार्यकरणात् पतिर्भवितुमर्हतीति। इत्थं नृपात् त्रिवि- क्रमसेनादाकर्ण्य स वेतालस्तस्य स्कन्धादतर्कितः रूपदं प्रायात्। राजा च भिक्षुकार्यार्थ पुनस्त प्राप्त मनो वबन्ध । प्राणात्ययेऽपि महासत्त्वाः प्रतिपन्नमर्थम् असाधयित्वा न निवर्तन्ते यश्व तस्या २ अथ तृतीयकथा। अथ राजा पुनरपि तं वेतालमानेतु तं शिंशपातरुमभ्य- गच्छत्। प्राप्य च तत्रस्थ मृतदेहगतं तं स्कन्धे गृहीत्वैव तूष्णीं गन्तुं प्रावर्त्तत। अथ प्रयान्तं तं स वेताल: पुनरवोचत्, राजन् ! निशि गमागमं कुर्वन् नितरां खिद्यसे, अतस्त्वां विनो- दयन् पुनः वायां वर्णयामि शृणु । अस्ति पाटलिपुत्रं नाम भूमण्डलख्यातं नगरम् । पुरासीत् तत्र नृपतिः विक्रमकेशरी नाम। यं गुणानामिव रत्नानामा- अयं विधिय॑धात्। तस्य विदग्धचूड़ामणि म दिव्यविज्ञान- वान् सर्वशास्त्रवित् शापावतीर्ण एकः शुक आसीत्। तस्य नृपस्य आमजः शशी नाम शुकोपदेशेन मगधदेशनृवतिकन्यां चन्द्रप्रभां नाम उपयेमे । तस्या अपि राजपुत्रधाः तथाभूता ज्ञानविज्ञानशालिनी सोमिका नाम शारिकाभूत्। अथ तो शारिकाशुको एकपञ्जरस्थौ राजवेश्मनि आस्ताम् । एकदा साभिलाषः स शुकस्तां शारिकामब्रवीत्, सुभगे ! एक शय्यासनाहारविहारेषु मां भजेति। शारिकाब्रवीत् नाहं पुरुषसंसर्ग कर्तुमिच्छामि, यत: पुरुषा दुष्टाः कृतघ्नाश्च इति । तत: शुर्कन न पुमांसो दुष्टाः, स्त्रिय एव दुष्टा नृशंसहृदयाश्चेति कथित तयोविवादः समजनि। ततस्तो. पक्षिणी क्रीतदासत्व- क्रीतदासीत्वपणं कृत्वा परस्परं विवादनिष्यत्तये राजपुत्रमुपे- स राजपुत्रः पितुरास्थानगत: विवादपदं श्रुत्वा कथं पुरुषाः कृतघ्नाः, ब्रूहि तत्त्वमिति शारिकामपृच्छत्। ततः सा शृणोतु राजपुत्र इति समाख्याय स्वपक्षसमर्थनाय पुंदोषाख्या- यिनी कयां कथयितुमुपचक्रमे । यतुः।
तृतीयकथा। १५ अस्ति कामन्दको नाम विख्याता नगरी तस्याम् अर्थदत्तो नाम महाधनो बणिक् प्रतिवसति स्म। कालेन तस्य धनदत्तो नाम तनयः समुदपद्यत । अथ पितरि खगते स युवा द्यूतादि सङ्गेन भृशमुच्छङ्खलोऽभवत्। धूर्त्ताश्च मिलिताः, तं सर्वथा प्राभंशयन्। दुर्जनसङ्गतिरेव व्यसनवृक्षस्य मूलम्। अचि- रेण च व्यसनासततया क्षीणसर्वखः दारिद्रोण च लज्जितः खदेशं त्यक्ता भ्रमितु देशान्तराणि समाश्रयत्। गच्छंश्च चन्दनपुरं नाम नगरमाससाद। विवश च भोजनार्थी कस्यापि वणिज: सदनम्। स च वणिक् कुमार दृष्ट्वा पृष्ट्वा च कुलं ज्ञात्वा च कुलोनं सत्कृत्य च दैवयोगात् प्राप्तममन्यत अददाच्च तस्मै सधना रत्नवतों नाम सुताम् । ततः स धनदत्तः कृत. विवाहस्तस्मिन्नेव खशुरवेश्मनि तस्थौ । गच्छत्सु च दिनेषु सुखेन विस्मृतदुर्गति: पुनर्व्यसनोत्सुकः स्वदेशं गन्तुकामोऽभवत्। तत: स शठः कथमपि खशुर' तं तन्मात्रापत्यम् अनुनीय तामनसतां भार्या रत्नवतीमकया वृहया स्त्रिया सहितां गृहीत्वा स्वदेशाय प्रतस्थे। क्रमेण अटवीं प्राप्य दूरात् तस्करभयमुक्त्वा तस्या भाव्याः सर्वाणि अलङ्करणानि खीचकार। पश्यतु युवराज:. द्यूतावेशादिव्यस- निनां कृतघ्नानां हृदयं निस्त्रिंशकर्कशम्। स च पापात्मा अर्थार्थ तां गुणवतोमपि भायां हन्तु तया वृद्धया युतां क्वापि खभे न्यक्षिपत्। क्षिप्त व तस्मिन् प्रस्थिते दुरात्मनि सा वृद्धा सा तु रत्नवती कथञ्चित् तत्र तृण- गुल्मादिकमालम्बा करुण क्रोशन्ती सशेषत्वादायुषः समुत्विता विक्षताङ्गी पदे पदे मागं पृष्ट्वा यथागतेनैव पथा कच्चात् पितुः सदनमागमत्। कथमकस्मात् त्वमोदृशी प्रत्यावृत्तेति समम्भमं मात्रा पित्रा च पृष्टा सा साध्वी एवमभाषत मुषिता: स्म पथि तस्मिन्नेव व्यपद्यत ।
१६ वेतालपञ्चविंशतिः स तस्करैः, मीतश्च बलात् स मे पतिः। वृद्धा सा खभ्रे निपत्य मृता, अहं पुनर्दैवात् प्राणिसि । केनचित् कपालुना पथिकेनाह- मुद्धृता खनात्। एवमुक्तवती मात्रा पित्रा च शोचता समा श्वासिता सा भत्तं प्राणा रत्नवतो तस्थौ। अथ कालेनासी धनदत्त: बूतेन क्षपितसर्वधन: पुनरचिन्त- यत् गच्छामि, पुन: श्वशुरटहात् धनमानयामि, तत्र गत्वा तं श्वशुरं ग्टहे स्थिता कुशलिनी तव दुहितेति वक्ष्यामि। इति स मनसि सङ्कल्पा श्वशुरसदनं पुनरवाप । आगतञ्च तं दूरात् सा पतिप्राणा माया अद्राक्षीत् । दृष्ट्वैव धावित्वा च सा तस्य पापस्थ पादयोर्निपत्य तत् सर्व पिटभ्यां मृषा निवेदितम् व्यजिज्ञपत्, टुष्टेऽपि एत्यो साध्वीनां मानसं नान्यथावृत्ति भवति। तत: स टुरात्मा निर्भय: श्वाशुदं टहं प्रविश्य तं पादयोः प्रणनाम । च तं जामातरं दृष्ट्वा अध्यनन्दत अकरोच्च दिध्यायं मे जामाता जोवन चौरैमुक्त इति बन्धुभिः सह महोत्सवम् । ततः स धन- दत्तः सुखेन वाशुरौं समृद्धिं भुञ्जान: तया रत्नवत्या पत्नया सह रेमे । एकदा स पापीयान् रात्रौ यच्चकार तत् अवाच्यमपि कथा- भङ्गभयात् कथ्यते। शृणु, राजपुत्त्र ! असौ पापमति: विश्वस्त- सुप्तां तां रत्नपती निशि हत्वा तदाभरणसञ्चयं अपहृत्य अल- क्षित: स्वदेश प्रायात् । ईदृशा: पुरुषाः पापाः कृतघ्ना इति शारिकया कथिते राजपुत्र: हसन् त्वमिदानों वदेति शुक- मभाषत। तत: स शुक: प्रात्रवोत्, देव ! स्त्रिय: विषमसाहसा दुश्चरिता: पापास्तवाचात्र कथामेकां वर्णयामि शृणोतु कुमारः। अस्ति हर्षवती नाम नगरी। तत्राभूत् धन्मदत्तो नाम बहुकोटीखरो बरिणजामग्रणीः। तस्य वसुटत्ता नानी रूपम असामान्या प्राणभ्योऽपि प्रियतमा कन्याभवत्। सा तु तेन तृतीयकथा। १७ समानधनयौवनकुलशालिने नेत्रचकोरामृतरश्मये समुद्रदत्ता- ख्याय वणिक्पुत्वाय ताम्रलिप्तनिवासिने प्रदत्ता। कदाचित् सा स्वदेशस्थ पत्यौ, पिटरह स्थिता दूरात् कमपि पुरुषं युवानं कान्तविग्रहं ददर्श। दृष्ट्वैव सा चपला स्मरमोहिता गुप्तं सखीमुखेनानीत प्रच्छन्नकामुक त भेजे। इत्य प्रतिरात्रं सा तदेकासतमानसा तेन सह रममाणा सुखं बुभुजे ।' अर्थकदा स तस्याः पतिः स्वदेशात् आगतः श्वशुरयोः परां प्रीतिमवईयत्। दिने च उत्सवेनातिकान्ते सा वसुदत्ता मात्रा कृतभूषणा निशि वासरहं प्रेषिता शय्यास्थायिनं पतिं भजे । तेन च रतिं प्रार्थिता सा अन्यमानसा अलोकसुप्तिकामकरोत् । क्रमण सोऽपि पति: पानमत्तः अध्ववान्तश्च निट्रया जह। तत: सर्वस्मिन् भुक्तपीतजने क्रमेण सुप्ते कश्चित् चौरः सन्धि भित्त्वा तस्मिन् वासरहे प्राविशत्। सा च बणिक्नन्दिनी तत्काले तमपश्यन्ती समुत्थाय स्वजारकृतसङ्केता निभृत निर- गात्। तदालोक्य स चौर: विनिताभिलाषो व्यचिन्तयत् येषा- माभरणानामर्षे अहं प्रविष्टः, तेरेवाभरणेता एषा निशीधि निर्गता, तत् क गच्छतीति ट्रष्टव्य मिति पयालोच्य निर्गत्य च स चोरः तां बणिकसुतामनुययो। सापि पुष्पादिसम्भारहस्तया सख्या संयुता गत्वा वाह्यमुद्यानं नातिदूरगं प्रविवेश। ददर्श च तत्र सतस्थानमागतं नगररक्षिभिश्चौरवुया पाशं कण्ठ दत्त्वा निहत्य वृक्ष लम्बामानं तं प्रच्छन्नकामुकम् । सा तु तदवलोक्य वितला, हा! हतास्मीति वादिनी कृपणं विल. पन्ती भूमी पपात रुरोद च। अथ त निजकामुक वृक्षादव- तार्य उपवेश्य च गतासुम् अङ्गरागैरलङ्कारैः पुष्पैशालञ्चकार । यावञ्च सा तस्य मुखमुन्नमय कामार्ता परिचुम्बति, तावत् म निर्जीव: कामुकः वेतालानुप्रविष्टः सन् दन्तस्तस्या नातिका १८ वेतालपञ्चविंशतिः । चिच्छेद। तेन सा विह्वला तस्मात् प्रदेशात् सव्यथा अप- सतापि अहो किंस्वित् जीवत्यसाविति पुनरेत्य यावत् पश्यति स्म तावत् त वोतवेताल निश्चेष्ट पतित मृत निश्चित्व सा भोता परिभूता च रुदती शनै: मृह प्रत्याजगाम। स चाल- क्षित: प्रच्छन्नस्थितश्चौरः सर्वमेतत् व्यलोकयदचिन्तयच्च अहो ! किमिदं पापया अनया कृतम् ? हा स्त्रीणामाशयः कथमी- हक भीषण: ? तदिदानीमपि एषा कि नु कुयादिति विचिन्त्य कौतुकात् स चौर: भूयोऽपि दूरात् तामनुससार । सा च पापिनी गृह प्रविश्यैव उच्चकैः प्ररुदती एवमब्रवीत् परि- वायध्व माम् एतेन दुष्टेन भर्तृरूपण शत्रुणा मम निरपराधाया नासिका छिन्ना : इति। तत रोदनमाकये सहसा तत्परि- जना: सर्वे ससम्भममुदतिष्ठन्। पतिश्च प्रबुबुधे । अथ तत्यिता समेत्य तां छिन्ननासिकां दृष्ट्वा क्रुद्धस्त जामातर बन्धयामास । स च इतिकर्त्तव्यविमूढ़ स्तदानों बध्यमानोऽपि मूकवदतिष्ठत् न किमपि प्राब्रवीत् । अथ क्रमेण सर्वेषु विवुडेषु शृण्वत्स तस्मिंश्च चौरे सर्ववत्तान्तज्ञ तस्मादपस्ते, गतायां शनैः शर्वां स बणिक्सुत: तेन श्वशुरेण राजान्तिक नीतः। सा च छिन्न- नासा वसुदत्ता तत्रागता, राजा च सर्व वृत्तान्तं श्रुत्वा अय स्वदारद्रोहीति निर्णीय तस्य बणिकसूनोबंध समादिशत् । ततस्तम्मिन् निरपराध न किमपि विजानति वणिक्सुते सडि- ण्डिम बध्यभूमि नोयसाने स चौरः समुपगम्य राजपुरुषान- भाषत अकारणमय कथ बध्यभूमो नीयते ? यथावृत्तमह रावं वैद्मि, मां राजास्तिक नयत सर्वसह वदिष्यामि। इत्यु- नवन्तं त ते सर्व राजपुरुषा राजान्ति कमनयन्। स च चौरः आमूनात् सर्व रात्रिवृत्तान्तं राज न्यवेदयत अश्वीच देव ! न चेत् महचशि तव प्रत्ययः, तत् सा नासा तस्य शवस्य मुखे १८ चतुर्थकथा। अद्यैव निरीक्ष्य ताम्। तत् श्रुत्वा वीक्षितु भृत्यान् प्रेष्य तेषाञ्च मुखात् सत्यमवेत्य च स राजा त बणिक्पुत्र बधदण्डात् विमुच्य तां दुष्टां वसुदत्ता कर्णावपि छित्त्वा देशात् निरवास- यत्। तञ्च तत्पितर बणिज सर्वस्वमदण्डयत्। सुष्टश्च त चौर पुराध्यक्षमकरोच्च। राजपुत्त्र ! इत्थ निसर्गविषमाः शठा योषित इति वदन्नेव शुकः चित्ररथो नाम गन्धर्वराजो भूत्वा इन्द्रशापक्षयात् दिव्यरूपमास्थाय दिवमगात् । सा च शारिका सपदि सुराङ्गना तिलोत्तमा भूत्वा तथैव क्षीणशापा दिवमुदपतत्। तयोस्तु तस्यां सभायां विवादो न निर्णीतः । इत्याख्याय स वेतालस्तं नृपमपृच्छत् । राजन् ! वदतु भवान्, पापा: पुरुषा: उत योषितः? जानतस्ते अकथयतः शिरो खण्डश: पतिष्यतीति। एतत् स्कन्धवर्त्तिनो वेतालस्य वचन- माकये स भूपतिस्त योगीश्वर वेतालमवादीत् वेताल ! कोऽपि च ताक पुरुषः क्वचित् कदाचित् दुराचारः । स्त्रियस्तु प्रायश: पापा दृश्यन्ते श्रूयन्ते च इत्युक्तवतो नृपस्य स्कन्धात् प्राग्वत् स वेताल: क्वापि प्रनष्टोऽभूत्। राजा च पुनस्तदानयने यत्नमकरोत्। अथ चतुर्थकथा। ततः स त्रिविक्रमसेनो नृपतिः पुनस्तस्य शिंशपातरोमूल गत्वा निशि तं मुक्ताट्टहासं शवाधिष्ठितं वेतालं प्राप्य निष्कम्य: तघेव स्कन्धमारोप्य तस्य भिक्षोः सकाशमुदचलत् । चलन्तम् असंस्थ: स वेताल: पुनरब्रवीत् राजन् ! दुराचारस्य अस्य मिनो: ते कोऽयं ते प्रयास: ? निष्कले अभिन् प्रयत्न तञ्च २० वैतालपशविंशतिः। तव विवेको न दृश्यते ? यद् भवतु, त्वम त्या तवाध्वश्रम- विनोदिनीमपरामकां कयां कथयामि श्रूयताम् । अस्ति शोभावती नाम यथार्थनानी कापि नगरी। तस्यामभूत् शूद्रको नाम प्रभूतपराक्रमो महाप्रतापो नृपतिः । यस्य जयिन: प्रतापनलोऽनवरत वन्दोलतारिवनिताकृतेशामर- मारुतैः ज्वलति स्म। येन च अलुप्तधर्मचरणा स्फीता वसुन्धरा रामादीनपि भूपतीन् विसस्मार। कदाचित् तं महोपालं प्रियशूरं सेवितु मालवात् कश्चित् वीरवरो नाम दिजः समा- गात्। तस्य धर्मवती नाम भार्या, सत्यवरो नाम सुतः, वीर- वतीनाम्नी कन्या चासीत्। सेवापरिच्छदस्तस्य त्रयमेव कट्यां कृपाणिका, करे तरवारिः, अपर च करे चर्स, एतावन्मात्रपरि- च्छदपरीवारः स प्रत्यहं तं राजानं दीनारशतपञ्चक वेतनं प्रार्थयामास। राजा च तम् आकारसूचितोदारपौरुषं मत्वा तस्मै यथेप्सितां वृत्तिं ददाति स्म। स्थापयति स्म च कौतुकात् प्रच्छन्न चारान् तत्पृष्ठतः, किमेभि: प्रभूतैर्वेतनरेष किं करोतीत्यन्चेष्टुम् । स च वीरवर: प्रात: राजदर्शनं कृत्वा मध्याह्न कृतायुधः तस्य सिंहद्वारे स्थित्वा च स्ववत्तिलभ्यानां दीनाराणां शतं गार्हस्यनिहाय भाव्या हस्त भोजनार्थ प्रादात्। अपरेण च शतेन वस्तम् अङ्गरागं ताम्बूलादीनि च क्रोणाति स्म। अपरञ्च शतं स्वात्वा विष्णो: शिवस्य च पूजार्थ विनियुयोज। अन्यच्च शतहयं विप्रेभ्यः कृपणेभ्यश्च दरिद्रभ्यः प्रादात्। एवं विभज्य प्रत्यहं तानि पञ्चशतानि स व्ययोचकार । ततश्च अग्निकार्यादिकं विधाय भुक्त्वा च निशि एकाको तदेव सिंहहारं तकपाणचर्मा प्रत्यहं तस्थौ। एतत् सर्व चारमुखात् श्रुत्वा राजा शूद्रकः भृशं तुतोष, निवारयामास च तान् चारान् पुनस्तस्य मार्गणे। मेने च विशेषपूजाहं तं पुरुषातिशयम् ।
२१ चतुर्थकथा। अथ गच्छत्सु दिनेषु एकदा धारावर्षिणि दिवानिशं जलद- पटले गगनमावृखति जनरहित च समन्तात् राजमार्ग एकाको स वीरवरस्तस्मिन् सिंहहारे एवातिष्ठत्। स च राजा दिन- पतावस्तं गते तादृशे भोषणे तमसि विजृम्भिते सधारावर्षे तस्य वीरवरस्य भाव जिज्ञासुः निशि प्रासादाग्रमारुह्य नगाद कोऽत्र सिंहहारि स्थित इति, तदाकर्ण्य अहमेव स्थित इति वीरवरः प्रत्यवादीत् अहो महासत्त्वोऽयं वीरवर: मद्भक्त: तदेष मया अवश्यमेव महत् पदं प्रापणीयः । इति संचिन्त्य राजा प्रासादा- दवतीर्य अन्तःपुर प्रविश्य शयनमगात्। अन्येाश्च तचैव मेधेषु धारासारान् वर्षस निशायां भुवने कालतमसि विज- म्भिते राजा पुनश्च तद्भावं जिज्ञासुः प्रासादमधिरुद्ध सिंहहार मभि कोऽत्र स्थित इति व्याजहार । वीरवरेण च अहं स्थितो देव इति प्रोक्ते स राजा भृशं विसिसिये। शुश्राव च तावदतिदूरे सहसा रुदती कामपि स्त्रियं वामस्वरेण। व्यचि- न्तयज्ञ केयं विषादविकलेव सप्रलापकरुणं विरोति, राष्ट्र च मम पराभव: नास्ति, न दरिद्रः नापि कश्चित् दुःखितः, तदेषा का इति। आदिदेश च करुणा चेताः तं वीरवरमधःस्थितं, भो वौरवर! शृणु, एषा दूरे कापि रोदिति, किमर्थमसो रोदिति, काचेयं त्वया गत्वा एतत् निरुप्यतासिति। तदा- कर्ण्य स वोरवरस्तथेत्युक्त्वा निबद्धासिधेनुः करतलतकरबालश्श गन्तु प्रावर्त्तत। नागणयत् तत् स्थूलधारा शिलावपि ज्वल- विद्युहिलोचनं नवमेघान्धकारम् । तञ्च तादृश्यां निशायां प्रस्थितमेकाकिनं दृष्ट्वा करुणाकौतुकाविष्टो राजा प्रासादा- दवतीर्य ग्रहीतासि रेकाको अनुपलक्षित: तमनुजगास । च वीरवर: रुदितमनुसरन् नगया बहि: सरोवरमेक प्राप, ददर्श च तत्र हा शूर! हा कपालो! हा वदान्य ! स त्वया २२ वैतालपञ्चविंशतिः । एक शून्या कथमह वत्स्यामोत्येवं रुदतौं वारिमध्यवर्तिनों कामपि स्त्रियम्। स च वीरवरः का व कथ वा रोदिषि, इति विस्मित: सचकितमपृच्छत्। सा अभ्यधात् भो वीरवर! मां पृथिवौं जानीहि अस्याश्च मम इदानीं धार्मिकः शूद्रको नाम राजा भर्ता इतश्च टतीये दिने तस्य राज्ञो मृत्युभविष्थति, तादृशमन्यं पति कथमवाप्न यामिति शोकेन विधुरा शोचामि इति एतदाकर्ण्य स वीरवरस्त्रस्त इव सामब्रवीत, देवि ! अस्ति कश्चिदस्य प्रतीकारः ? येनास्य जगत्प्रभो रक्षा स्यात् ? इति तस्य वचनमाकर्ण्य सा वसुमती प्रत्यभाषत, वत्स ! एवास्य पाय: कर्तुञ्च शक्तो भवानिति। वीववरोऽवदत्, देवि! तहद द्रुतं यावत् शीघ्र तत् साधयामि । साधयामि। अन्यथा कोऽर्थः प्राणैरस्माकम्। तदाकण्य धरित्री प्राब्रवीत्, वत्स ! त्वदन्यः कोऽन्यतो मम प्रवरः स्वामिभक्तः तदस्य उपाय शृणु, .अस्य राजकुलान्तिके राज्ञानेन प्रतिष्ठापिता देवी चण्डिकास्ति, तस्यै चेत् सत्त्वर पुत्त्रमुपहारीकरोषि, तदा एष राजा न म्रियेत, अन्यत् शत समा जीवेत् । अद्यैव चेत् भवता एतत् क्रियते तदैव शिव नान्यथेति पृथिव्या तथाभिहितः स वीरो वीरवर- स्तदा यामि, देवि! करोमि अधुनैव एतत् इति प्रत्यवादीत् । वसुन्धरा च भद्र तेऽस्तु इत्यभिधाय तिरोदधे। गुप्तमनुसृतः स राजा तत् सर्वं शुश्राव। ततश्च गूढ़े तस्मिन् राजनि तडाव जिज्ञासमाने गच्छति स वीरवर स्वरित एहमगात्। आगत्य च तत्र पत्नों धर्मवती विबोध्य तत् सर्व वसुन्धराप्रोक्तमर्थं प्राब- वीत्। सापि तदाकर्ण्य त स्वामिन माहस्म प्रभो! शिव भाव्य चेत् तदा शिशुमेन प्राबोध्य भवानेव ब्रवीतु। तत: स वीरवर स्तं सुत बाल सुप्तप्राबोध्य वृत्तान्तमाख्याय सम- वोचत्, पुत्र! त्वयि चण्डिकादेव्या उपहारीकते राजासौ चतुर्थकथा। २३ जीवति, नोचेत् टतीयेऽति विपत्स्यते, तदाकर्ण्य बालोऽपि यथार्थं नाम दर्शयन् अकातरचित्तः सत्वर पितरमवदत् तात ! यदि राजा मम प्राणैर्जी वेत् तदाह कृतार्थः, भुक्तस्य च तदन्नस्य परा निष्क ति: प्रदत्ता स्यात् तत् कि विलम्बाते, शीघ्र मा नोत्वा भगवत्या उपहारीकुरुष्व, मज्जीवनेन राज्ञोऽमङ्गलशान्ति- भवतु। इति तेनोतो वीरवर: सहर्ष साधु सत्यं त्वं मत्पुत्र इति तमभ्यनन्दयत्। तस्य भार्या धर्मवती कन्या वीरवती च तस्यां रात्रौ ताभ्यां वीरवरसत्यवराभ्यां सह चण्डिकायहे ययतुः। राजापि छन्नवेश: तान् पृष्ठतोऽलक्षित: समनुससार । तत्र देव्याः पुरः पित्रा स्कन्धादवतारितः स सत्यवरः देवों प्रणम्य धैर्यराशिः कृताञ्जलिर्यवेदयत् देवि! मम शिरस उपहारेण राजासौ अन्यत् शत वत्सरान् जीवन् अकण्टक राज्यं करोतु इत्येव प्रार्थयतस्तस्य सूनो: सत्यवरस्य शिरश्छित्त्वा वीरवरः चण्डिकायै मत्पुत्लोपहारेण राजा जीवत्विति वदन् प्रददौ । तत्क्षण अन्तरीक्षात् वागुदचरत् कस्त्वदन्यः स्वामिभक्त: भो वीरवर! येन त्वया एकमात्रपुत्त्रेण तथाविधसत्पुत्चप्राण- व्ययिना अस्य भूपते: जीवन राज्यञ्च दत्तमिति। तच्च सर्व तस्मिन् नृपे पश्यति शृण्वति च तस्य वीरवरस्य कन्या वीरवती तस्य भ्रातुनिहतस्य मूर्द्धानमाश्लिष्थ शोकान्धा स्फ टितहृदया तत्क्षणात् व्यपद्यत। ततो भाया धर्मवतो वीरवर मब्रवीत् नाथ ! राजस्तावत् श्रेयः कृतम्। इदानीमह वदामि दृष्टा त्वया कन्चापि मे शोकात् मृता, तदिदानों नष्टापत्याया मे जीवितेन किम् ? प्रागेव मूढ़या मया राजः श्रेयार्थं स्वशिरः उपहर्त्तव्यमासीत्, तदधुना अनुज्ञां देहि अहं शीघ्रम् अनल प्रविशामि। इति आग्रहण वदन्तीं तां वीरवरोऽवदत् एवं कुरुष्व, अपत्यदुःखैकमये जीवितव्ये का प्रीतिः ? यच्च त्वयोक्त २४ वेतालपञ्चविंशतिः। पत्यः कि दत्तो मयात्मा इति तदत्र व्यथां मा कुरु, यदि अन्यसाध्य मेतत् राज्ञः श्रेयो भवेत् तदाहमपि कि आत्मान न दद्याम् । तत् प्रतीक्षष्व तावत् अमोभिरुभि स्ते चितां सञ्चयामि, इत्युत्ता चितायां तेन प्रस्तुतायां ज्वलन्त्यां धर्मवती पादयोः पतित्वा तां चण्डी देवों प्रणम्य व्यजिज्ञपत् देवि! जन्मान्तरे- ऽपि अयमेव मे पति भूयात्, अस्य च प्रभोः शूद्रकस्य मदीये- नात्मजैन शिवमिति समुदोर्य तस्मिन्नेव ज्वालामालिनि अनले देहं न्यक्षिपत्। ततश्च स वीरवरश्चिन्तयामास निष्पन्न मे राजकार्य दिव्यवाण्या विज्ञातं भुक्तस्य च राजान्नस्य साम्प्रत- मनृणोऽस्मि, तदिदानीमेकस्य मम केयं जीवनदृषा, भर- णोयं सर्व कटुम्बकं व्ययीकृत्य एकमात्मानं जीवयन् मादृशो न शोभते। तत् किं आत्मोपहारण अखिकां न प्रोम- यामि, इत्यालोच्य स वीरवर स्तां देवी प्रथमं स्तुत्या उपतस्थे, जयमहिषासुरमर्दिनि ! तारिणि ! दानवदारिणि ! त्रिशूल- धारिणि ! विवुधोत्सवकारिणि ! भुवनत्रयधारिणि ! जय माटवरे! जगदर्शितचरण निःश्रेयसकारिणि ! भताजनानां, कालि ! कपालिनि ! कङ्गालिनि ! शिवे ! नमोऽस्तु ते, प्रसोदेदानों शुद्रकस्य नृपतेरनन मदीयेन मस्तकोपहारण, इति स्तुत्वा स वीरवरः सद्यः तरवारेण व शिरश्चिच्छद। तदालोक्य स छन्नस्थितः शूद्रको नृपः व्याकुल: सदुःख: साश्चर्यश्च व्यचिन्तयत् अहो ! न मया ईदृशमन्यत्र दृष्ट वा श्रुतम्, साधुनानेन सपरि- वारण मदर्थे दुष्करं कृतम् । विचित्रेऽस्मिन् संसार कोऽन्यः अनेन समो धीरः, प्रभोरर्थे यः पुत्रादीन् स्वब जीवितं प्रादात् एतस्य उपकारस्त सदृशमुपकारं यदि अहं न कुर्याम् तदा मे प्रभुत्वेन किं जीवितेन वा पशोरिव किं ? सत्त्ववंशात् सर्वमेव मे अयशो भविष्यतीति संचिन्त्य स राजा कोशात् करवालमाक्ष्य समुपेत्य ! शरण्य चतुर्थकथा। २५ तो देवौं व्यजिन्नपत् देवि! सततमनुप्रपन्नस्य मम अधुना अनेन शरीरोपहारेण सुप्रीता सती अनुग्रहं कुरु। अयं नानागुण- युतो वीरवरः सपरिवारो मदर्थं त्यतकलेवरः साम्प्रतं जीवतु इति उदीर्य असिना यावत् स्वं शिरश्छ त्प्रावर्त्तत, तावत् गगनाद भारती उदभूत्, वत्स ! मा साहसं कथाः अनेन ते सत्वेन परितुष्टास्मि, प्रत्युज्जीवतु अयं सापत्यदारो हिजो वीरवरः। इत्युक्त्वा तस्यामन्तरिक्षवाचि विरतायामेव स वीरवर: पुत्त्रेण दुहिता पत्नया च सह अक्षतशरीरो जीवन्नु- तस्थौ। तदवलोक्य राजा पुनश्छन्न विग्रहः हर्षाश्रुपूरया दृष्ट्या तान् पश्यन् न टप्तिमाययौ सोऽपि वीरवर: सुप्तोत्थित इव तं पुत्व पत्नीं दुहितरच्च पश्यन् विभ्रान्तमानस: समभवत् अपृच्छच्च पृथङ्नामग्रहं तान्, कथं भस्मीकता यूयं जीवन्तः पुनरुत्थिताः ? । किमयं मे विभ्रमः ? आहोखित् स्वप्नो माया वा ? उत देव्या अनुग्रह: ?। एवं वदन् स दारापत्यैः देव्या- नुग्रहेणैव वयं जीवाम इति निजगदे। ततः म वोरवर स्तथेति मत्वा तां देवों प्रणम्य पुत्रदारानादाय कृतार्थो गृहं ययौ। तत्र च तं पुत्त्रं ताञ्च भा- दुहितरञ्च प्रवेश्य तस्यामेव रात्रौ राज्ञः सिंहहारमागमत् । राजा च शूद्रक एतत् सर्वं दृष्ट्वा अलक्षित एव गत्वा व प्रासादमारुरोह पप्रच्छ च कोऽत्र सिंहहारे स्थित इति। वीरवर: प्रत्यवादोत्, प्रभो! अहं वीरवरस्तिष्ठामि। देवादेशाच्च तां रुदती स्त्रियं प्रति गतश्चाहम् । सा कापि राक्षसी मम वचसा दृष्टदेव कापि प्रनष्टे ति। एतत्तस्य वचः श्रुत्वा राजा नितरां विस्मितो दृष्टोदन्तो व्यचिन्तयत् अहो। समुद्रगम्भीरधीरचित्ता मनखिनः, ये अनन्य सामान्यं कर्म कृत्वापि नोदगिरन्ति। इत्यालोच्य प्रासादादवरुह्य स राजा पन्तःपुरं गत्वा राविशेष मत्य वाहयत्। ३ २६ वेतालपञ्चविंशतिः। अथ प्रातरास्थानसमये दर्शनार्थ मुपगते वीरवरे स्थिते दृष्टो राजा सर्वेभ्यो मन्त्रिभ्यः अन्येभ्यश्च तस्य तं रात्रिवृत्तान्त- मवर्णयत्। सर्वे सविस्मया मोहिताश्च वीरवरगुणश्रवणेन तत्क्षणमभवन् प्रासशंसुश्च साधु साधु इति। ततो राजा वीरवरच अन्योन्यं तुल्यविभवो सुखमासतां इतिकथा माख्याय वेतालस्तं विक्रमसेनं नृपमपृच्छत्, राजन् ! एतेषु कोऽधिकस्ते मत: ? यदि जानन वक्ष्यसि, तदा पूर्व एव स शापः सेत्स्यति। एतदाकण्य स राजा तं वेतालमभाषत, देवयोने ! एतेषु सर्वेषु राजा शूद्रक एव समधिक: प्रवीर इति। वेतालोऽब्रवीत्, नृपते ! कथं वीरवरो न यस्य तुल्य : पृथिव्यां सेवको न विद्यते, तत्पत्नी वा कयौं समधिकेति न प्रशस्यते ? या सूनो: पशूपहारतां प्रत्यक्षं दृष्ट्वापि न धैर्य्यात् प्रच्युतासीत् स वा पुत्रः सत्य धरः कथं नाभ्यधिकः ? यस्य बालस्यापि बालस्यापि सतस्तादृशः सत्त्वोत्कर्षः । तत् कथमेकं शूद्रक नृपं त्वं प्रवरं भाषसे ? इत्युक्तवन्तं वेतालं स नृपः पुनरवादीत् कुलपुत्रो वीरवरस्तादृक न, तस्य प्राणे: सुतैः दारैश्च स्वामिसंरक्षणं कार्यम्। तस्य च पत्नी कुलजा साध्वी पतिप्राणा भर्तृवर्मानुसरन्ती धर्ममेव पालितवती। सत्य- धरोऽपि तयोर्जातस्तादृश एव, यादृशास्तन्तवः तादृश एव पटो जायते। येषां भृत्यानां प्राणैः नृपण आत्मा रक्ष्यते, तेषामधं प्राणां स्त्यजन् शूद्रक एव सर्वेषु विशिष्यते, इति वचः समाकण्य स वेताल: नृपतेरंसादलक्षितः सहसा निजावासं ययौ। राजापि तन्मायया अनुच्चलितोऽपि तस्यामेव निशि पुनस्तमानेतु मतिमकरोत् ।
अथ पञ्चमकथा। ततश्च स राजा विक्रमसेन: पुन: शिंशपातरोरन्तिकमभ्येत्य तथैव लम्बमानं नरशरीरग तं वेतालमवतायं तस्य बहुना वैकतेनापि निर्भीकः सत्वरमागन्तुं प्रववृते। आगच्छन्तं तूष्णीं पथि पूर्ववत् स वेताल: प्रावदत्, राजन् ! अभिनिविष्टोऽसि, दृष्टिप्रियोऽसि च तत्तव चित्तविनोदाय कथामपगं कथयामि ए। अस्य जयिनी नाम भुवनविश्रुता नगरी। तस्यां पुण्य- सेनो राजा अभूत् तस्य प्रियोऽनुजीवी अमात्यो हरिखामोति सद्गुणालङ्कतो विप्रः प्रतिवसति स्म। तस्य गृहपतेरनुरूपायां भार्यायां सुसदृश: देवस्वामी नाम पुत्रोऽजायत। एका च असामान्यरूपलावण्यविश्रुता सोमप्रभा नाम अन्वर्थनानी कन्या उदपद्यत। सा एकदा शैशवातिक्रान्ता रूपोत्कर्षाभिमानवती मातुर्मुखेन पितरं भ्रातरञ्च जगाद शूराय ज्ञानिने विज्ञानिने वा अहं देया, अन्यस्मै, दत्ताहं न जीवामीति। तदाकये पिता तस्था: तादृशं वरं चिन्वन् यावत् चिन्तामलमापेदे, तावत् स पुण्यसेनेन राज्ञा दाक्षिणात्यस्य कस्यचित् नृपस्य अन्तिकं सन्धिविग्रहाय दौत्ये प्रहितः। तत्र च कृतकार्य तं कश्चित् ब्राह्मणयुवा श्रुतत१हिटरूपसम्पद अभ्येत्य तां सुतामयाचत । स च तमब्रवीत् मत्सुता विज्ञानिनो ज्ञानिनो वा शूरात् अन्यं पति नेच्छति, तेषां मध्यात् भवान् कः, कथय इति। स ब्राह्मणोऽवदत् अहं विज्ञानं जानामि। तर्हि तद् दर्शय इति तेनोक्तः स विज्ञानी खयुक्त्या खेचरं रथं कल्पयामास । दर्शयामास च तत्र मायायन्वरथे तं हरिस्वामिनमारोप्य नीत्वा २८ वेतालपञ्चविंशतिः च स्वर्गादीन् लोकान्। आनिनाय च तुष्टं तं दाक्षिणात्यस्य नृपतेः कटकं यत्र स स्वकार्य्यार्थमायात इति। ततः स हरि- स्वामी तस्मै तां सुतां प्रतिशु याव सप्तमेऽहनि च वैवाहिकलग्नं निश्चिकाय। तस्मिंश्च काले उज्जयिन्यां अन्येन हिजकुमारण तत् पुत्रो देवस्वामी तत् स्वसारमयाच्यत । तेनापि ज्ञानि- विज्ञानिशूरेभ्यो नान्यं पतिं मे खसा कामयते इति विज्ञापितः स आत्मानं शूरमभ्यधात् ततो दर्शितशस्त्रास्त्रविद्याय तस्मै शूराय स देवस्वामी निजानुजां दातु प्रतिपदे। कृतनिश्चयश्च मातु:- परोक्षं गणकवचनात् सप्तमेऽगि विवाहं निर्णिनाय च । एतस्मिन्नन्तरे हरिस्वामिभार्या च केनाप्यपरेण विजयूना सुतां याचिता प्राब्रवीत्, वत्स ! ज्ञानी विज्ञानी शूरो वा मम कन्यां वोढुमर्हति नान्य इति तत् त्वमेतेषु कः, उच्यतामिति। सोऽ- ब्रवीत् अहं ज्ञानीति ततः सा भूत भविष्यञ्च पृष्ट्वा ज्ञानिनं निश्चित्य तस्मै सुतां दातुं तद्भिन्ने सप्तमेऽह्नि प्रत्यशृणोत् । अन्येद्युश्च हरिस्वामी समागत्य यथावतं सर्व पत्नर पुत्राय च समाचख्यो। स च सा च स्व व कृतं तत् सर्व पृथक् पृथक् तस्मै, अवोचत्। इत्य स हरिस्वामी त्रयाणां वराणां निमन्त्रणात् नितरां व्याकुल: समपद्यत। अथ सप्तमे दिने आगते ते त्रय एव वरा: हरिस्वामिनो एहमाययुः। चित्र महो! तत्कालं सा सोमप्रभा क्वापि गता। तदाकण्य ज्ञानी अवदत् राक्षसेनापहृत्य धम्रशिखाख्येन विन्ध्याटव्यां निंजा वसतिं नीता। इति ज्ञानिनाभिहितो हरिस्वामी भीत: तं विनानिनम् उपायं पप्रच्छ। स च पूर्ववत् मन्त्रिमंयुत्तं रथं कृत्वा तं हरिस्वामिनं तो च ज्ञानिशूरो तत्क्षणं बिन्ध्याटवी प्रापयामास । तत्र ज्ञानिना समाख्यातां तस्य राक्षमस्य वसति प्राप्य स शूरः हरिखामिना सह तं राक्षसं क्रुद्धं ज्ञातत्तान्त- पञ्चमकथा। २८ निर्गतं योधयामास । तदा तयोर्मानुषराक्षसयोचित्रास्त्रयोधिनो: रामरावणयोरिव स्व्यय महद् युद्धमवर्तत क्षणेन च स शूरः संग्रामदुर्डरस्यापि तस्य रक्षस: शिर: अर्डचन्द्रेण बाणनाच्छि- नत्। अथ रक्षसि हते तत् स्थानात् प्राप्तां तां सोमप्रभामादाय विज्ञानिरथेन ते सर्वे ततः उज्जयिनों प्रत्यागमन् । अथ हरिखामिण्टहप्राप्तानां तेषां त्रयाणां लग्न संप्राप्ते महान् विवादः प्रादुरभूत्। ज्ञानी अवदत् यद्यहम् इमां ज्ञान- बलेन न जानीयां तदा कथमियं गूढस्था प्राप्येत, अत: मह्यम- वैषा देयेति। विज्ञानी अवोचत् यद्यहं व्योमरथं न कुयां तदा देवानामिव तत्र गतागतं कथं तत्क्षण स्यात्, कथं वा तेन रघिना रथयुद्ध स्यात् तस्मान्मह्यमेवेयं दातव्येति। शूरोऽ- ब्रवीत् यद्यहं तं राक्षसं रणे न हन्यां तदा युवाभ्यां यत्ने कृतेऽपि क एनामानयेत्। तन्मह्यमेव कन्येयं दातव्येति तेषु विवद मानेषु हरिस्वामी क्षणमुग्धभ्रान्तमानसस्तूष्णीमासीत्। इति कयामाख्याय वेतालः राजानं पप्रच्छ राजन् ! एतेषु कस्मै सा देयेति भवान् वदतु, यदि जानन् न वदिथति, तदा ते मूर्ख शतधा स्फ टिथति इति वेतालवच: समाकर्ण्य राजा मौनं विहाय प्रत्यभाषत शूराय सा प्रदातव्या, येन देहपणोद्यमात् बाहुवलेन तं राक्षस' जित्वा कन्या समुपार्जिता, ज्ञानि- विज्ञानिनौ तु विधाना अस्य सहायौ नियोजितो। पश्य गणकतक्षाणौ किं परोपकरणाय न ? इति मनुजपते र्वाचं निशम्य स वेताल: सपदि तस्य स्कन्धात् निज निलयमगमत् । राजापि तमानेतु पुन: कृतोद्यमस्तमेव शिंशपातरुमभिजगाम ।
अथ षष्ठकथा। तया ततः स राजा प्राग्वत् शिंशपान्तिकमुपेत्य वेतालञ्चादाय मौनी तथैव तं भिक्षुमुद्दिश्य प्रतस्थे। तावच्च स वेताल स्त भूपमवादोत्, राजन् ! त्वं सुधीः सत्त्ववांश्च तेनासि मे प्रियः, तस्मात् त्वां विनोदयितु पुन: कथामाख्यामि प्रश्नञ्च शृणु । आसीत् पुरा यश:केतुर्नाम नृपः पृथिव्याम्। तस्य शोभा- वती नाम राजधानी। तस्यामुत्तम गौरीमन्दिरमभवत्। तस्य च दक्षिणत: गोरीतीर्थ नाम सरः। प्रतिवर्षम् आषाढ़शल- चतुर्दश्यां तस्य यात्रायां नानादिग्भ्यो महाजनगण: स्नातु- मायाति स्म। एकदा स्नानार्थ धवलो नाम कश्चित् रजक: ब्रह्मस्थलाच ग्रामात् तत्राजगाम । स युवा तत्र नातुमागतां शुद्धपटनानः कस्यचित् सुता मदनसुन्दरौं नाम ददर्श । तु इन्दोर्लावण्यहारिण्याहृतमानसः तत्र तस्या नामकुलमन्विय कामातॊ ग्रहमगात्। तत्र चागत्य अनवस्थः तया विना निराहारश्च तिष्ठन् मात्रा पृष्टो मनोगतं तस्यै समाख्याय तथा तस्थो। सापि गत्वा विमलनाने स्वभत्रे तन्यवेदयत् । चाभ्येत्य तथावस्थ तं दृष्ट्वा समम्यधात् पुत्र! किं विषौदसि, एतत्ते अभीप्सितं न दुष्पापं स हि शुद्धयटो मया याचितः अवश्यमेव सुतां तुभ्यं दास्यति। वयं कुलेन अर्थेन कर्मणा च तस्मादन्यूनाः, अहं तं वेद्मि, स च मां वैत्ति, तदिदं न दुष्करम् । इति पुत्रमावास्य भोजनादिक कारयित्वा च तेन सह अन्येारसो विमल: शुद्धपटस्य एहमगात्। अयाचत च तस्य धवलस्य पुत्रस्यार्थे तत् कन्याम् । स च सादरं तस्मै तां दातु प्रतिशुधाव। म षष्ठकथा। ३ अथ लग्न सम्प्राप्य स शुद्धपट स्तस्मै धवलाय तुल्यां सुन्दरों सुतां प्रादात्। स च कृतोहाहः दर्शनरतया तया भार्यया साकं कृतार्थः पितुर्गृहमागात्। कदाचित् सुखस्थितस्य तस्य खशुरात्मज: मदनसुन्दर्य्याः सहोदरः समागात्। स चागत्य सर्वेः पृष्ट कुशलोदन्तः स्वस्रा च समाश्लिष्य अभिनन्दित: विश्वान्तः प्रावदत् अहं मदनसुन्दा जामातुश्च निमन्त्रणार्थ तातेन प्रेषितोऽस्मि, अस्माकं रह पूजोत्सवो वर्त्तते इति । ततस्ते सर्वे सम्बन्धिन: तस्य तहाक्यं श्रद्धाय यथोचितैः पान- भोजन: तं तदहः समुपाचरन् । अथ प्रातः स धवल: तेन श्वशुरनन्दनेन मदनसुन्दा च महित: खाशर ग्रहं प्रति प्रस्थितः । ताच शोभावतों नगरों प्राप्य महद् गोर्या निकेतनं ददर्श। निजगाद च तां मदन- सुन्दरीं तद्भातरञ्च अवैतां देवतां पश्याम इति। प्रथममहं तावत् व्रजामि, युवामवैव तिष्ठतम् इति उक्वा धवल: तां देवी द्रष्टुं समुपागात्। मन्दिरं प्रविश्य च तां प्रणम्य अष्टादश- दोर्दण्डखण्डितोच्चण्डदानवां पादपद्मतलाक्षिप्तमहिषासुरमर्दिनों विभाव्य सहसा विधिनोत्पादितमतिरचिन्तयत् विविधैर्जीवोप- हार्जिन: इमां देवीमर्चयति, अहज्ञ सिद्धये आत्मोपहारेण किं नैनां प्रोणयामि ? इत्यालोच्यैव निर्जनात् गर्भगृहात् खड्न- मानीय स्वयमेव निज' शिरछित्त्वा भुव्यपातयत्। क्षणान्तरे कथमसो चिरयतीति तमन्वेष्टुस खाशोऽपि तत्र देवोभवने प्राविक्षत्। प्रविष्टश्च तं छिन्नशिरसं भगिनीपतिं दृष्ट्वा शोकन्या- मोहितः तथैव तेनासिना व शिरश्चिच्छेद। अथ यावत् स नायाति तावत् सा मदनसुन्दरी समुभ्रान्तमानसा तत् देवी- भवनमाययो। प्रविश्य च पतिं भ्रातरञ्च तथाविधं दृष्ट्वा हा ! किमेव हतास्मीति विलपन्ती भुवि न्यपतत्। क्षणेन चोत्थाय ३२ वेतालपञ्चविंशतिः । ! तो अकाण्डहती शोचन्ती किं मे अनेन जीवितैनेति पालोच्य देहत्यागोन्मुखी तां देवों व्यजिज्ञपत् देवि! सौभाग्यचारित्र- विधानकाधिदेवते ! माररिपुशरीराईहरे! अशेषललनाजन- शरण्य ! दुःखहारिणि ! एकपदे कथ मे भर्त्ता भ्राता च त्वया निहतः ? न युक्तमितत्ते, अहं हि त्वयि नित्यभक्ता, तदा- श्रिताया मे शरणं भवतो एक करुण वचः शृणोतु। एतां दोर्भाग्योपहतां तनु त्यजामि अत्रैव, देवि! यत्र कुत्रापि जनिष्थे, पर तत्र तत्रैव जन्मनि एतो मे भर्तृभ्रातरौ भूयास्ता- मिति संप्रार्थ स्तुत्वा नत्वा च तां देवों तत्रस्थे अशोकपादप पाशं विरचयामास। तत्र यावत् पाशे कण्ठमर्पयति तावत् तत्र गगनादशरीरिणी वागुदचरत् पुत्ति ! मा साहसं कथा:, बाला अपि ते अनेन सत्त्वोत्कर्षेण प्रोतास्मि पाशमेतं त्यज । संश्लेषय च स्वख शिर: भर्तृभ्राटकबन्धयोः, एतो जीवितो हावपि मत्यूसादादुत्तिष्ठतामिति। एतदाकण्य व पाशं त्यक्वा सा हर्षादुपेत्य अतिरभसादविभाव्य भ्रान्ता मदनसुन्दरी भत्त- शिरो भ्राटदेहेन भ्राटशिरश्च भर्तृदेहेनायोजयत्। ततश्न अक्षताङ्गौ तौ जीवन्तौ सुप्तोत्थिताविव उदतिष्ठताम् । ते अन्योऽन्योदितस्वस्ववृत्तान्ततोषिणः देवी प्रणम्य यथेष्ट प्रययुः। यान्ती च सा मदनसुन्दरी तयोः स्वततं शिरो- विनिमयं दृष्ट्वा उद्विग्ना किंकर्तव्यविमूढ़ा चासीत् इमा- माख्याय कथां वेताल: प्रपच्छ राजन् ! ब्रूहि कः सङ्कीर्ण यो- रनयोरस्या भर्ता भवितुमर्हति ? जानंश्चेत् न ब्रवीषि तदा पूर्वोक्त एव शाप: स्यात्। इति समाकर्ण्य राजा तं वेतालमवादीत् यस्मिन् कलेवर तत् पतिशिरः संस्थं स एवास्याः पतिर्भवेत् प्रधानं सर्वेषु अङ्गेषु शिर: तद्गता प्रत्यभिज्ञा च इत्युक्तवतो नृपतेः स्कन्धात् स वेतालस्तथैवा- अथ ?
सप्तमकथा। MY तर्कित: सहसा प्रययौ। राजा च भूयस्तमानेतु समुद्यतस्तत्रैव जगाम। अथ सप्तमकथा। ततः स राजा पुन: शिंशपान्तिकमेत्य तथैव वेताल स्कन्ध- मारोप्य प्रतस्खे। प्रस्थितञ्च तं वेताल: पथि समभाषत, राजन् ! पुनस्ते शान्तिविनोदिनों कथामकां कथयामि शृणु । अस्ति पूर्वाम्बुधितटे ताम्रलिप्तीति पुरी। तस्याञ्च चण्ड- सिंहो नाम राजाभूत्। यः परस्त्रोषु परमुख: पर संग्राम- भूमिषु न। शत्रुसङ्घानां हन्ता, परद्रव्यसम्पदान्तु न। एकदा तस्य भूपते: हारि दाक्षिणात्यः सत्त्वशीलो नाम जनप्रियः कश्चित् राजपुत्र: समभ्यगात् । तत्रागत्य स आत्मानमाविद्य नृपात् नैव काममवाप। ततश्च स यावत् यदि मे राजान्वये जन्म, तदीदृशं निर्धनत्वं किम् ? निर्धनत्वे च धात्रा कि मे महेच्छता विहिता ? अयं हि राजा सेवमानमेवं क्लिष्टपरिच्छदं चिरं क्षुधा अवसौदन्तं मां नाद्यापि पश्यति, इति ध्यायति तावत् स नृपः आखेटका) निरगात्। अग्रे च तस्मिन् कार्प- टिके राजपुत्रे लगुड़वाहिनि धावति राजा प्रभूताखपादातयुतः प्रायात्। तत्र च मृगान् समन्विष्यन् अारात् महान्तं शूकर- मनुधावन् अतिदूर वनान्तर प्रापत्। तत्र पर्णटणच्छन्नमार्ग- तया शूकरं तमपश्यन् वान्तः स राजा तस्मिन् वनान्तरे दिनोहमगमत् । एक एव स कार्पटिको राजपुत्र: प्राणान- पेक्षो पदाति: क्षुत्तृषापरीत: वाताखपृष्ठगं तं राजानमनुससार। स राजा तं तथानुयान्तं दृष्ट्वा समेहमवदत् भद्र! कञ्चित् यथा- ?
३४ वेतालपञ्चविंशतिः । गतं मागं वेसि ? तदाकर्ण्य स बद्दाञ्जलि: कार्यटिकोऽभ्यधात् देव ! वैद्मि पर इह क्षणं विश्राम्यतु देवः, एष खलु दिवो वध्वा मेखलामध्यमणि: स्फु रश्मिजालोऽन्जिनोनायकोऽतितरां देदी- प्यते। एतदाकण्य स राजा सनिर्बन्धं तमभाषत तर्हि क्वापोह भवता पानीयं दृश्यताम् । स च कार्पटिकस्तथेत्युक्त्वा तुङ्गं तरुमारुह्य समन्तात् पश्यन् नदीमेकां दृष्ट्वा अवरुह्य तं नृपं तत्र निनाय। नीत्वा च तदीयं वाहं विपर्याणीकृतं कृत्वा अम्बूनि शष्याणि च दत्त्वा विगतश्रममकरोत्। ततश्च स कृतस्रानाय राज्ञे वसनाञ्चलात् प्रोन्मुच्य आमलकानि फलानि प्रक्षाल्य तस्मै हृद्यानि उपानयत्। एतानि कुत: प्राप्तानि ? इति पृच्छन्तं भूपतिं स कृताञ्जलिजिज्ञपत्, देव ! एतद्वृत्तिरहं नित्यं व्यतीतदशवत्सर: देवमाराधयन् अनैकान्तमुनिव्रतं चरामि । इति श्रुत्वा राजा सत्त्वशील ! त्वं सत्यनामा, किमुच्यते इति अभिधाय कृपाक्रान्त: लज्जितश्चाचिन्तयत् धिक नृपान्, ये भृत्येषु क्लिष्टमक्लिष्ट न जानन्ति। धिक तत्परिवारान् ये प्रभुतत्तत् न ज्ञापयन्ति, इति संचिन्त्य स राजा हे आमलके कार्पटिकहस्तात् कथञ्चिदनुबन्धत: प्रतिजग्राह। विशश्राम च ते भुक्त्वा अम्बु च निपीय क्षण तेन जग्धामलकपोतजलेन कार्प- टिकेन सह। ततः तेन कार्पटिकेन सज्जीकृतं वाहमारुह्य तस्मिन्नग्रेसर गच्छति मार्गदर्शिनि राजाज्ञया हयस्य पश्चाद्भागा- सनस्थिते स राजा पथि सम्प्राप्तसैनिक: स्वां पुरौं प्रायात्। तत्रागत्य तस्य कार्पटिकस्य भक्तिं प्रख्याप्य वसुभिः कार्पटिक पूरयित्वापि निष्क तिं नामन्यत। ततः स कृतार्थ: चण्डसिंहस्य भूपतः पार्खचर: त्यक्तकार्पटिकाचारः सत्त्वशीलस्तस्थौ। एकदा राजा तं शत्त्वशीलं सिंहलेखरसुतामात्मार्थ याचित सिंहलद्दीपं प्रेषयत्। ततश्च स गच्छन् अभीष्टदेवतामर्चयित्वा सप्तमकथा। ३५ राजादिष्टैः हिजैः सह प्रवहणमारुरोह। तस्मिंच प्रवहणे मध्य- भागमशशितं गते सहसा तस्मात् जलधे: अनंलिहाग्रः सुमहान् जाम्बूनदविनिर्मित: विचित्रवर्णविचलद्वैजयन्तीविभूषित: गजः विस्मयं जनयन् उत्तस्थौ। तन्मिंथ काले समुन्नघनावली सहसा भृशं वर्षितुमारेभे, तीव्रो मारुतश्च ववौ। दिपः वर्ष- वातैर्बलादाकृष्य आधोरणैरिव तस्मिन् प्रवहणध्वजस्तम्भे आस- ज्यत। तावच्च तस्मिन् वीचिविप्ल ते वारिधी स ध्वजस्तेन वहनेन समं मजितु प्रावर्तत । ततस्ते विजाः तत्रस्थाश्चण्डसेनं खभूपतिमुद्दिश्यभयार्ता: अब्रह्मण्यमुदघोषयन्। तदाकये स सत्त्वशीलः स्वामिभक्त्यतिशयात् असहिष्णुः निस्त्रिंशहस्तः बद्धोत्तरीयक: अनुध्वजमात्मानं निरपेक्ष: वारणाशङ्गो उदधेः प्रतिविधित्सया प्रक्षिपत् । अथ तस्मिन् मम्ने वातोर्मिभिर्दू- राक्षिप्त तत् प्रवहणमभज्यत। तत्स्थाश्च सर्वे यादसां मुखे निपेतुः। स च सत्त्वशीलोऽम्बुधौ मग्नो यावत् निरीक्षते स्म तावत्तत्र दिव्यं पुर ददर्श न वारिधिम्। तत्र मणिमयस्तम्भ- भास्वरे हेममन्दिरे सद्भिः रत्न डसोपानवापीके उद्यानशालिनि नानामणि शिलाभित्तिरत्नचित्रोच्छितध्वज मेरुप्रोन्नतं कात्या- यनीमन्दिर प्रविश्य तां तत्रस्थां देवीं प्रणम्य स्तुत्वा अभ्यर्य च तदग्रत: किमेतदिन्द्रजालमिति सविस्मयमुपाविशत्। तावच्च सहसा कापि दिव्या इन्दीवराक्षी चन्द्रवदना कुसुमस्मिता मृणालमृदुकलेवरा स्त्रीसहस्रपरिवारा सहसा कवाटमुहाव्य देवीगर्भग्रहं सत्त्वशीलस्य च हृदयं समं विवेश। सा च तत्र देवीमभ्ययं तस्मात् गर्भगृहात् निरगात् न पुन: सत्त्वशीलस्य हृदयात् । प्राविशच तत्रैव प्रभामण्डलकान्तारे। सत्त्वशीलो- ऽपि तामनुजगाम। ददर्श च अन्यत् उत्तमं सर्वासां भोग- सम्पदा सद्देतोद्यानमिव भवनम्। तत्रान्तर्मणिपर्यकनिषसां वेतालपञ्चविंशतिः। तां विलोक्य समुपेत्य तत्याचे समुपाविशत्। श्रासोच तन्मुखासक्तलोचनो लिखित इव । इत्य सोल्क .. गुलकैरङ्गै- वंदनालोकनोत्सुकं त स्मराविष्ट दृष्ट्वा कापि तदीया चेटी तदिङ्गितज्ञा तमब्रवीत् भद्र ! अतिथिस्त्वमिह प्राप्त:, तदस्मत्स्वामिन्या कृतम् आतिथ्य भजस्व, उत्तिष्ठ, स्वाहि, भुव, तदाकण्य स आशां कथञ्चित् तदुक्तितः सम्प्राप्य तया दर्शितामेकामुद्यानवापीमगात् । उदतिष्ठच्च तस्यां निमग्नस्तत्क्षण ताम्रलिप्त्यां चण्डसिंहस्य नपतर्वापीमध्यात् । तत्राकस्मात् प्राप्तमात्मानं वीक्ष्य सोऽचिन्तयत् अहो ! किमतत क्व तदुद्यान दिव्यं क्व च तत्र अमृतसारमयं तस्या दर्शन, क्व चानन्तरमेव तडिश्लेषमहाविषमिदम् । स्वप्नोऽयं न, विनि- द्रोऽहं ननं तया चेट्या अहं विप्रलब्ध: विमूढ़ोऽस्मि। इति चिन्त- यन् तां कन्यां विना सोन्माद इव तस्मिन्नुद्याने भ्रमन् कामार्ती विललाप। तदवस्थञ्च पिशङ्गः पुष्परेणुभिर्वातो तैर्वियोगा- नलैरिव परीताङ्ग तं दृष्ट्वा उद्यानपाल: चण्ड सिंहं महीपतिं गत्वा व्यजिज्ञपत्। स च तदाकण्य उभ्रान्तः स्वयमेत्य तं ददर्श पप्रच्छ व सान्त्वयन् किमिदं ब्रहि सखे ! त्वं क्व प्रस्थितः, क्व च प्राप्तः क्व आस्थाः, क्व च पतित इति तदाकवं स तस्मै सर्व वृत्तान्तमशंसत् । राजा व्यचिन्तयत हन्त वीरोऽयं मत्पुण्य : कामनैष विड़म्बितः, तदिदानीमस्यानण्य लब्ध मयमवसरो इति चिन्तयित्वा स राजा तं जगाद सखे ! मुधा शोकं मुञ्च, अहं त्वां तेनैव मार्गेण नीत्वा तामसुरकन्यका प्रापयामि इति उक्त्वा स्नानादिना तं समाखासयत् । अथान्येद्युः स मन्त्रिविन्यस्तराज्यभारः तेन समं प्रवहणारूढ़: तद्दर्शितेन अम्बधिमार्गेण गच्छन् तन्मध्यभागे प्राग्वत् समुत्थितं सपताकं ध्वजं ददर्श। तदवलोक्य सत्त्वशीलो राजानमभ्यधात् ! मया प्राप्तः।
सप्तमकथा। देव ! सोऽयं दिव्यप्रभावो महाध्वजः समुत्थितः, मयि अत्र मग्न देवनानुध्वजं मज्जनीयम् इत्युक्ता अस्य निमज्जतो ध्वजस्य निकटं प्राप्य स सत्त्वशील: पूर्वमात्मानं तत्र न्यक्षिपत्। ततो राजापि तमनु आत्मानं निचिक्षेप। अन्तर्मग्नो च तो तत्र तत् दिव्यं पुरमवापतुः। तच्च दृष्ट्वा राजा सविस्मयो देवी तां पार्वतों प्रणम्य सत्त्वशीलेन सममुपाविशत् । तावच तत्र सा कन्या सखोजनसमन्विता रूपिणी प्रभव ततः प्रभामण्ड- लकात् निरगात्। इयं सा सुमुखीति सत्त्वशीले वदति स राजा तस्थामस्यानुरागो युक्त इत्यमन्यत। सापि तं राजानं दिव्य- शारीरलक्षणं वीक्ष्याचिन्तयत् कोऽयमपूर्वः पुरुषातिशयः विवेश च अम्बिकापूजार्थं तन्मन्दिरम्। सोऽपि नृपः तं सत्त्वशील- मादाय अवज्ञा प्रदर्शयन् उद्यानमाजगाम। क्षणेन च सा कन्यका कृतदेवीपूजा तस्या देव्याः सत्पतिलाभं याचित्वा तद्- गृहाभ्यन्तरात् निर्गत्य सखीमकां प्राब्रवीत् सखि ! क्कासी वोच्यतां यो मया इह दृष्टः, स महात्मा व तिष्ठति ? युभाभि- विचित्य आतिथ्यमेत्य गृह्यतां प्रसादो मे त्वया क्रियतामित्येवम् अभ्यर्थनीयः स हि पूज्यः कोऽपि उत्तमः पुमान्। एवं तयोक्ता मखौ तं विचित्य उद्यानवर्त्तिनं स्वस्वामिनीनिदेशं प्रह्वा व्यजिन- पत्। तदाकर्ण्य म वीरो नृपः सावन तामुवाच भट्रे ! वच- सैव कृतमातिथ्य • नान्यत् किमपि उपयुज्यते। एतदाकण्य तया सख्या गत्वा सा असुरनन्दिनी श्राविता तदा उदार तमसामान्यं कमपि अभ्यमन्यत । ततस्तेन मानुषायोग्येऽपि आतिथ्य नि:स्पृहण तेन राज्ञा धैर्यपाशनाकृष्यमाणा पत्यर्थपार्वती- सेवापरिपाकसमन्विता दैत्यकन्यका स्वयमुपेत्य उद्यानं प्राविशत् । प्रविश्वच राजानं तमभ्येत्य प्रश्रयान्विता आतिथ्यग्रहणाथं प्रार्थया- मास । ततः स नृपस्तौं सत्त्वशीलमुद्दिश्य तामुवाच भट्रे ! अनेन ? ४ ३८ वैतालपञ्चविंशतिः । कथितां देवीमिह द्रष्टुमहमागतः, दृष्टा च सा गोरो परमाइत- केतनं ध्वजपथं प्राप्य, तदनु त्वच। तदाकण्य सा कन्यका प्रत्यभाषत राजन् ! तर्हि कौतुकात् त्रिजगदग त पुर वीक्षितुमागम्यताम्। एवं वादिनों तां स नृपो विहस्यावदत् तदपि अनेन मे कथितं यत्र सा मानवापी अस्तीति। कन्यका- वादीत् देव ! मैवमादिश, नाहं विढम्बनशीला पूज्ये विडम्बना का ? विशेषतस्त्वहं युष्माकं सत्त्वोत्कर्षेण किङ्गरीकतास्मि । तन्मम प्रार्थनाभङ्ग मा कुरुष्व, एतदाकर्ण्य स राजा सत्त्व- शोलेन सहितः तथेत्युक्त्वा तया सह प्रभामण्डलोपान्तं ययो। अथ अपातकवाटे तस्मिन् प्रविष्टः अपरं दिव्यं नित्यं सर्वर्त्त- कुसुमफलशोभित रत्न काञ्चनैर्निर्मितमपर मेरुपृष्ठमिव पुर ददर्श । तत्र सा महाहे रत्नासने राजानमुपवेश्य यथोचित अादिकमानाय्य राजसुताब्रवीत् महाभाग ! अहमस्मि असुरेन्द्रस्य महात्मन: कालनमः सुता। चक्रिणा स मम पिता खगं प्रापितः । इदञ्च मे पैटकं पुरदय विश्वकर्मणा कृतं. सर्वकामदे अत्र न जरा न च मृत्युः बाधते। इदानीञ्च त्वं मे पिता सपुरावा इति समर्पितात्मसर्वस्वां तामवादीत् स राजा। यदि एतत् तहि त्वं मम सुता अस्मै सत्त्वशीलाय सुहृदे वीराय बान्धवाय च मया दत्ता, एवं देवीप्रसादेन मूर्ते- नैव नृपण सा उक्ता गुणज्ञा विनता त राजानं तथेति अन्व- मन्वत। ततस्तस्याः पाणिग्रह कृत्वा कृतार्थे तस्मिन् सत्त्व शोले राजा असुरैश्वर्यं सर्व दत्त्वा तं सत्त्वशीलमुवाच सखे ! भुक्तयोरामलकयोरेकमद्य मया तव संशोधितम् असंशोधितात् द्वितीयात् तेऽहं ऋणी तिष्ठामोति प्रणतं तमुक्त्वा तां दैत्यपुत्वीम- ब्रवीत् अद्र ! मागों मम दर्श्यतां येन खां पुरीं प्राप्न यामिति ततः सा अपराजितं नाम खङ्गम् एकञ्च जन्मजरामृत्यहर फल अष्टमकथा। ३८ दैत्यनन्दिनी तस्मै भूपाय प्रादात् । अथ स राजा ताभ्यां खनफलाभ्यामन्वितः तयोक्तायां तस्यामेव वाप्यां मग्नः स्वदे- शतः समुत्थाय सर्वकार्यसिद्धिमानभूत्। स च सत्त्वशीलः दैत्यस्त्रीपुरराज्य सुखेन शशास। इति कथामाख्याय वेतालो राजानमप्राक्षीत् राजन् ! कोऽनयोई योरब्धिपतने सत्त्वाधिक इति। तदाकर्ण्य राजा शापाद भीत: सटुत्तरमेव प्रत्यभाषन एतयोः सत्त्वशील एव अधिकः सत्ववान् मे प्रतिभाति, स हि पूर्वम् अविज्ञाततत्त्वः निराश एवाम्बुधौ पतित: । राजा तु तत्त्वं विज्ञाय अम्भोधिमाविशत् इति समाकर्ण्य रानो निरस्तमौनत्य वचन' स वेताल: स्कन्धात् पूर्ववत् अलक्षित: तमेव शिंशपातर- मगमत् । राजापि पूर्ववत् तमानेतु पुनरुद्योगमकरोत् । नहि प्रारधे असमाप्ते धीराः शिविलोभवन्ति । अथ अष्टमकथा। ततश्च स राजा भूयः शिंशपामूल गत्वा तं वेताल तथैव प्राप्य स्कन्धे कृत्वा भिक्षुमुद्दिश्य प्रातिष्ठत । प्रयान्तञ्च तं म स्कन्धवर्ती वेताल: सम्बोध्य प्राब्रवीत् राजन् ! श्रमविनोदाय पुनरिमां कथामाकर्णय अस्यङ्गदेशे महान् वृक्कवटाभिध: जनपदः। तत्र विष्णु- खामोति महान्, यज्वा महाधनी हिज: प्रतिवसति। तस्य खानुरूपायां पत्नयां क्रमात् त्रयः पुत्रा जज्ञिरे। कदाचित् ते तरुणा भोगवैदग्धाशालिन: कूर्महतो: पित्रा प्रारब्धयज्ञेन प्रेषिता: भ्रातरः अम्बुधिं ययुः तत्र कूर्समेकौं प्राप्य ज्यायान् ४० वैतालपञ्चविंशतिः। कनिष्ठावाहस्म युवयोरेक: कूर्ममिमं पितुः क्रत्वर्थं गृह्णातु अहमेनं विसं पिच्छिलञ्च ग्रहीतुं न शक्नोमि इत्युक्तवन्तं तं ज्येष्ठ कनिष्ठावूचतुः आर्य ! तवात्र चेत् विचिकित्सा, तदा वयोः कथं न स्यात् ? तदाकर्ण्य स ज्येष्ठोऽवादीत् युवां कच्छपं गृहीतम् अन्यथा युवाभ्यां कृते पितुर्यज्ञलोप: स्यात्, ततो युवयोस्तस्य च पितुः ध्रुव नरकपात: स्यात् । इति तेनोतावनुजौ विहस्य तमवोचताम् आर्य ! आवयोरेव समानं धर्म वेत्सि, नात्मन: ? ततो ज्येष्ठोऽवादीत् किं युवां मम भोजनचण्डतां न जानीथः अहं हि भोजनेषु चण्डः, कथमिमं बुगुप्सितं स्मृशामि ? एतत्तस्य वचः श्रुत्वा मध्यमोऽब्रवीत अहं हि अधिकश्चण्ड: नारीषु विचक्षण: तत् कथमिमं स्पष्ट- मामि। एवं मध्यमेनोते ज्येष्ठः कनीयसमवादीत् त्व' तावत् आवयोः कनीयान् कूर्म रहाण। ततः स कनीयान् भृकुटि विधाय ताववोचत् मूर्यो! अहं हि विशेषेण तूलिकाचण्डः । इत्थ ते कलहासत्तास्त्रयो भ्रातरः निर्णयाय अभिमानिनः त कूर्म विहाय प्रसेनजिदाख्यभूपतेनमर विटङ्गपुर ययुः। तत्र गत्वा प्रतीहारमुखेनावेद्य तेन च प्रवेशितास्त नृप तं वृत्तान्तं विज्ञापयामासुः। राजा च सर्व श्रुत्वाब्रवीत् तिष्ठत यूयमत्र परीक्षिथे व: क्रमात् इति। ततस्त तथेत्युक्त्वा सर्वे तत्रावत- स्थिरे। तत: स नृपः स्वाहारकाले तानानीय तेभ्यः अग्राणि आसनानि राजार्हाणि च षड्रसानि स्वादूनि अन्नादीनि दापया मास। तत: सर्वेषु भुजानेषु तेषामको विप्रः भोजनचण्डो नुगुप्साकलिताननो न बुभुजे। कथ न भोजन स्वाटु सुगन्थ्यपि न भुङ्क्त इति राज्ञा स्वय पृष्टः स शनैर्जगाद, राजन् ! अस्मिन् भक्त शवधूमदुरामोदो वासते, तेनाहमिट भोक्तु खाटु अपि नेच्छामि। इत्युक्त तेन सर्वेऽपि नृपानमा अष्टमकथा। ४१ तदाघ्राय कलमशाल्यवमिदं सुगन्धि चेति शशंसुः। स तु भोजनचतुरः पिहितनासिकस्तन बुभुजे । ततः स राजा सञ्चिन्त्य क्रमात् यावदन्विष्यति तावनियोजितजनमुखात् तदनं ग्रामश्मशाननिकटक्षेत्रसम्भवशालिज बुबुधे । ततोऽतिविस्मित- स्तुष्टश्च राजा तमभाषत ब्रह्मन् ! सत्य त्वं भोजनचण्डः तद- न्यत् भुज्यतामिति। ततो राजा कताहारान् तान् वासगृहेषु विसृज्य स्वामका गणिकोत्तमाम् आनयामास प्राहिणोच्च निशि तां सर्वाङ्ग- सुन्दरौं कृतमण्डनां तस्मै द्वितीयस्मै नारीचण्डाय भ्रात्रे। सा च राजभृत्येनान्विता तस्य द्वितीयस्य वासग्रहं प्रागात् । तस्याञ्च प्रभासितवेश्मचि प्रविष्टायां समुत्पनमोहः वामपाणिना संरुधनासाग्रोऽसौ नारोचतुरो राजभृत्यानत्रवीत् निष्काश्यता- मेषा, नो चेत् म्रियेऽहम्, अस्याश्छागलगन्धो निर्याति । इत्यक्ता राजपुरुषा समुद्दिग्नाः सविस्मयाश्च ततो राजान्तिक नीत्वा तं वृत्तान्तं तस्मै न्यवेदयन्। राजा तं नारीचण्डमानीय तदाब्रवीत् ब्रह्मन् ! येयं चन्दनकपुरकालागुरुभिः कृतदेह- विलेपना दिक्षु प्रसरचारुसौरभा वर्त्तते, तस्या वारविलासिन्या- श्छागलगन्धः कुतः ? इत्युक्तोऽपि स नारीचण्ड: यदा न प्रति- पेदे तदा राजा विचारकुतुकोऽभवत् अवुध्यत च तां तस्या एव मुखेन शैशवे माटवियोगात् अजाक्षौरविवड़िताम्। ततो राजा अतिविस्मितस्तस्य नारोचण्डस्य चण्डतां बहु प्रशंसन् तस्मै टतीयाय तूलिकाचण्डाय आशु शय्यामदापयत्। स च तूलिकाचतुरः पर्यङ्कोपरि सप्तसङ्ख्यतूलिकायां शय्यायां धौत लक्ष्णपटप्रच्छदवाससि सुष्वाप रातर्यामाई एव गते स सहसा पाणिना अवष्टब्धपाल: क्रन्दन् व्यथाकुल: तस्मात् शयनादुत्तस्थौ। तत्रस्थैश्च राजपुरुषैः तस्य पाखें गाढ़लग्नस्य ४२ वेतालपञ्चविंशतिः। । केशस्य कुटिलारुणामुद्रा च अदृश्यत । तैश्च तत्क्षण गत्वा निवेदितो राजा तानुवाच तूलिकानां तलेषु किञ्चित् स्यात् न वा वीक्ष्य ताम्। ततस्ते गत्वा यावदीक्षन्ते एकैक तूलिका- तलं तावत् सर्वतले स्थितमक बाल प्रापुः, दर्शयामासुश्च त नीत्वा तत्क्षण राजे स च राजा तं तूलिकाचण्डमानीय तस्याङ्गं तद्रूपमङ्कितं दृष्ट्वा परं विम्पयमवाप। सप्तभ्यस्तलिकाभ्य: अस्य तनी कथमयं बालो मग्नः इति चित्रीयमाणस्तां रात्रिमनेषोच्च। प्रातश्चोत्याय राजा अद्ध तवैदग्धासौकुमाया अमी इति परि- तुष्टः तेभ्यस्त्रिभ्योऽपि चण्डेभ्यो हेमलक्षत्रय ददो ततस्त सुखिता विस्मृतकच्छपा: पितुर्यज्ञविघ्न न उपार्जितपातकास्तत्र तस्थः। इति अद्भतां कथामाख्याय स्कन्धनिषस्म: स वेताल: तं राजानमपृच्छत् राजन् ! पूर्वोक्त शापं विचिन्त्य त्वं एषां त्रयाणां कोऽधिकश्चण्ड: इति ब्रूहि। तदाकण्य स धीमान् नृपतिस्त वेताल प्रत्यभाषत अहमेतं अकैतव तृलिकाचण्ड- मधिक मन्ये यस्याङ्ग बालप्रतिविम्ब प्रत्यक्षमुद्गत दृष्टम् । इतराभ्यान्तु कदाचित् तत्पूर्वमवगत सम्भवेत्। इत्युक्तवतो नरपतेः स्कन्धात् स वेताल: प्राग्वत् प्रययौ राजापि तमानेतु पुन: शिंशपातरुमूले तमन्वगात् । अथ नवमकथा। AX ततः स राजा पुन: शिंशपान्तिकं गत्वा तं वेतालं स्कन्धे- नादाय प्रस्थितस्तेन वेतालेन प्राग्वदभ्यधायि राजन् ! कथमस्मिन् श्मशाने निशि ते एतादृक् प्रयास: भूतसङ्कलं रात्रिभीषणं चिताधूमैरिव ध्वान्तनिरुद्धं पिटकानन कि नेक्षसे ? तस्य नवमकथा। ४३ भिक्षोरनुरोधतः कथमीदृशा प्रयासेन प्रात्मान' खेदयसि ? तदिमं मे प्रश्न मार्गविनोदकं शृणु । अवन्तीषु युगादी देवनिर्मिता शैवी तनुरिव उद्दामभोग- भूतिविभूषिता पद्मावती, भोगवती हिरण्यवतीति च कृतादिषु त्रिषु युगेषु पुरी क्रमश: आसीत्, कलौ च उज्जयिनीति पुरी अस्ति । तस्यामासीत् वीरदेवो नाम नृपतिः । तस्य पद्मरति- नाम्नी महादेवी आसीत्। एकदा राजा तया साकं मन्दाकिनीतटे पुत्रकाम्यया तपसा हरमाराधयामास, चिरञ्च तपश्चरन् कदाचित् परितुष्टशङ्करोदि- ताम् आकाशवाणों शुश्राव राजन् ! उत्पत्स्यते ते पुत्रः शूरः कुलोहहः। कन्या चैका लावण्यन जिताप्सराः। एतां नाभमों वाणों श्रुत्वा स भूपतिरभीष्टसिद्धिप्रहृष्टः महिथा समं स्वनगरी- माययो। तस्य प्रथम पद्मरत्यां देव्यां शूरदेवो नाम पुत्रः, तदनु च अनङ्गरतिर्नाम अनङ्गमोहिनी कन्या समजायत । क्रमेण च तस्यां वृद्धिं गतायां स राजा सदृशं वरं प्रेप्स : पृथिवी- मण्डलस्थान् सर्वान् नृपतीन् पटलिखितानानाययत् । यदा तेषु एकोऽपि तस्याः सदृशो न प्रत्यभासत, तदा स राजा वास- ल्यात् तां सुतामभाषत वत्स ! अहं तावत् ते सदृश वरं न पश्यामि, तत् सर्वान् नृपान् समानाय्य वयंवरं कुरुष्व । एतत् पितृवचनमाकये सा राजपुत्री जगाद तात! स्वयंवरमति- हपणं, तदहं नेच्छामि, यो हि युवा सुरूप: केवलं पूर्ण विज्ञानं वेत्ति, तस्मै त्वया अहं देया, न्यूनाधिकेन मे नास्ति प्रयो- जनम्। इति दुहितुर्वच: समाकर्ण्य यावत् स भूपतिस्तादृश वरम् अन्विष्यति, तावत् तत् लोकमुखात् विदित्वा चत्वारो वीरा विज्ञानिनो भन्या: पुरुषा दक्षिणपथात् तं राजानमाययुः । ते च राज्ञा सत्कृताः एकैकश: खं खं विज्ञानं राजसमक्षं ४४ वेतालपञ्चविंशतिः । शशंसुः । तेषामेको जगाद अहं तावत् शूद्रः नाम्ना पञ्चफुटिकः । एकोऽहमन्वहं पञ्च अग्रपाणि वसनयुग्मानि करोमि, तेषामेक देवाय प्रयच्छामि, एकं हिजाय, एकमात्मनः कृते परिग्यामि, एकञ्च भा-यै ( या मे भवति ) ददामि। पञ्चमञ्च विक्रीय आहारादिक विदधामि। तदेव विज्ञानिने मह्यम् अनङ्ग- रतिस्त दुहिता दीयतामिति। द्वितीयोऽब्रवीत् अहं तावत् वैश्यः, भाषाज्ञो नाम, सर्वेषां मृगपक्षिणां रुतं वेद्मि, तदेषा राजपुत्री मह्यं दीयतामिति। ततस्तृतीयोऽभाषत अहं खड्गधरो नाम भुजवीर्यशाली क्षत्रियः, खगविद्याविज्ञान अस्यां क्षिती मे प्रतिमलो नास्ति । हे राजन् ! तदेषा तनया ते मह्य दीय- तामिति। अतश्चतुर्थोऽब्रवीत् राजन् ! अहं तावत् जीवदत्तो नाम विप्रः, मम चैतादृश विज्ञानमस्ति यन्मृतानपि जन्तुन् आनीय आशु जीवतो दर्शयामि, तहौरचासिद्ध माम् एषा ते तनया पतिं प्रपद्यतामिति। एवं ब्रुवत: तान् दिव्यवेशाकतोन् पश्यन् राजा वीरदेवः सुतया दोलारूढ़ इवाभवत्। इति कथा- माख्याय वैताल: राजानमप्राक्षीत् राजन् ! पूर्वोक्त शाप स्मृत्वा ब्रूहि एतेषां कस्मै कन्यैषा देयेति। एतदाकर्ण्य राजा त वेतालं प्रत्यवादीत् भवान् केवलं कालक्षेपाय मां मौनं त्याज- यति अन्यथा कोऽयं गहन: प्रश्नस्तदुच्यतां शूद्राय कुविन्दाय कवं क्षत्रिया दीयते वैश्याय च, यच्च तहतं मृगादिभाषाविज्ञानं तत् कस्मिन् कार्ये उपयुज्यते ? विप्रेणापि तेन स्वकर्मप्रच्युतेन ऐन्ट्रजालिकेन पतितेन वीग्मानिना किम् ? तस्मात् क्षत्रियायैव खङ्गधराय विद्याशौर्यशालिने सा दयेति। एतत्तस्य वचो निशम्य स वेताल: योगबलात् स्कन्धदेशात् सहसा अलक्षितः क्वापि जगाम। राजापि तथैव तमनुययौ। सोत्साहपने हि वीरहृदये न जातु खेदोऽन्तरं लभते ।
अथ दशमकथा। ततश्च स राजा पुन: शिंशपामूलं गत्वा तं वेतालं तवैव स्कन्धमारोप्य सत्वर कृतमौन: समुच्चचाल । प्रयान्तञ्चत स्कन्धवर्ती स वेतालस्तमपृच्छत् राजन् ! श्रान्तोऽसि, तदिमां शान्तिहारिणों कथां शृणु । आसीत् वीरबाहु म सकलभूपालशिरःसमभ्यर्चितशासन: पाकशासन इवापरो नृपतिः। तस्यानङ्गपुरं नाम नगरवरमभ- वत्। तत्रार्थदत्तो नाम महाधन: सार्थवाहः प्रतिवसति स्म । तस्य धनदत्तो नाम ज्येष्ठः पुत्रः कनीयसी च कन्या मदनसेना नाम समजायत । एकदा धर्मदत्तो नाम कस्यचित् बणिक्यतेस्तनयः तां लावण्यरसनिर्भरां कुचकुम्भाग्रबलित्रितयरजितां यौवनहिरद- स्येव लीलामज्ननवापिकां वीच्य सद्यः स्मरबाणोघपातापहृत- चैतन: समपद्यत। अहो! मारेण धाराधिरूढेन अमुना रूपेण योतिता मल्ली मे हृदयं भेत्तुमिव निर्मिता। इत्येवं प्रासादान- मारूढ़ां तां दृष्ट्वा चिन्तयत: चक्रावस्येव तस्य वासरोऽतिचक्राम। तत: सा मदनसेना चित्तञ्च तस्य धर्मदत्तस्य तद्दर्शनदुःखाग्नि- सन्तप्त जुलत् ग्टहान्तरं विवेश । भाखांश्च तदर्शनजनितरागो- ऽपराम्बधी निपपात। ताञ्च सुमुखों नक्तम् अभ्यन्तरागतां दृष्ट्वा तन्मुखानविनिर्जितश्चन्द्रः शनैरुदगात्। धर्मदत्तश्च तावत् गृहं गत्वा तामनुचिन्तयन् शयने चन्द्रपादाहतो लुठन् निएत्य तस्थौ। यत्नेन सखिभिनन्धुभिश्च पृच्छामानो न किञ्चित् ४६ वेतालपञ्चविंशतिः। कथयामास। निशि च कृच्छ्रात् प्राप्तनिद्रः तथैव तां पश्यन् अनुनयंश्च समुत्सुकः किमिव नाकरोत्। प्रातश्च प्रवुद्धो गत्वा रहसि स सखौं प्रतीक्षमाणाम् उद्यानवर्तिनी मदनसेनां ददर्श । उपत्य च परिष्वङ्गलालस: प्रेमपेशलैर्वचोभिश्वरणानतः उप- च्छन्दयामास। साब्रवीत् अहं कन्या, साम्प्रतं ते परदाराश्च, यतोऽहं पित्रा समुद्रदत्ताय बणिजे वाचा दत्ता, कतिपयैरव दिनविवाहो मे भविता, तत् तूष्णीं गच्छ मा कश्चित् पश्येत् ततो दोषो भवेत्। इत्युक्तस्तया त्यक्तश्च स धम्मदत्तस्तां जगाद सुन्दरि! यदस्तु, त्वां विना नाहं जीवेयम् । तदाकर्ण सा बगिस्ता बलात्कारभयाकुला तमुवाच तर्हि विवाहो मे तावत् सम्पद्यतां पिता मे चिरकाक्षितं कन्यादानफलं लभता, ततो. ऽहं त्वां निश्चितं प्रणयेन समुपेष्यामि। तदाकर्ण सोऽब्रवीत् अन्यपूर्वा मम प्रिया नेष्टा, परभुक्ते कवले विमलेऽपि किं रतिर्जायते ? इति तेनाभिहिता सावादीत् तर्हि कृतोहाहैव पूर्व त्वामुपयास्यामि, ततः पतिमिति। एवमुक्तवतौं तां बस्पिक्- पुत्त्रों प्रत्ययार्थं शपथेन सत्येन स धम्मदत्त: सम्बबन्ध । ततस्तेनो- भिता सा समुद्विग्ना स्व मन्दिरं विवेश । अथ प्राप्ते लग्नदिवसे निवृत्तोद्दाहमङ्गला सा गत्वा पति- ग्रहं नीत्वा च उत्सवेन वासर निशि पत्या सम शयनीयग्रह- मध्यास्त । तत्र शय्यानिषमापि असम्मुवी समुद्रदत्तस्य तस्य पत्यु: परिष्वगं न प्रत्यपद्यत । तेनानुनीयमानापि सा यदा उदश्रु बभूव तदा स नाहमस्या प्राभमताऽस्मोति हृदाकरोत् । अवा- दोच्च सुन्दरि! यदि तेऽहं नाभिमत: तत्ते योऽभिमतः तं सेवितु गच्छ। तदाकर्ण सा नतमुखी शनैरवादीत् नाथ ! त्वं मे प्राणाधिक: प्रेयान्, किन्तु मे विज्ञष्मिकां शृणु, सहर्ष मे अभयं प्रयच्छ, शपथञ्च कुरुष्व, आर्यपुत्त्र ! अवक्तव्यमपि ते दशमकथा। ४७ वदामि। एवमुक्तवती सा तथेति कृच्छ्रात् प्रतिपद्यमान तं सविषादं सलज्जा सभयच्चावादीत् नाथ ! एकदा एकाकिनी गृहोद्याने मां दृष्ट्वा धर्मदत्तो नाम मम भ्रातुः सखा युवा स्मरातुरः मामरुणत्। . मया परीवादं पितुः कन्यादानफलञ्च रक्षन्त्या हठप्रवृत्तस्य तस्य वाक्संयम: पूर्व विवाहिता त्वामुपे- थामि तत: पतिमिति। तत् प्रभो! मे सत्यं प्रतिपालय अनु- मन्यख मां तदन्तिकगमनाय, तनिकटं गत्वा क्षणनागमिष्यामि, न हि आबाल्यसेवितं सत्यमतिक्रमितुं शक्नोमि, इति तस्या वचोवज्रपातेन सहसा हत: समुद्रदत्तः सत्येन बद्दः क्षणसचिन्त- यत् अहो ! धिक् इयमन्यरत्ता, एतया ध्रुवमेव गन्तव्यम्। तत् कषं सत्यं इन्मि, यातु इयं कोऽस्याः परिग्रहः ? इत्यालोच्य तां यथेष्टगमनाय अनुमने। सापि सहसा समुत्थाय तस्माद् वेश्मनो निरगात्। अथ सा यान्ती मदनसेना निशि मार्गे एकाकिनी केनापि चौरेण प्रधाव्य वसनाञ्चलात् रुरुधे। जचे च बिभ्यती सा, का त्वं सुभु ! क्व यासोति ? सावादीत् मुञ्च मां किं तवा- नेन प्रसङ्गेन, कार्यमस्ति मे। ततश्चौरोऽब्रवीत् सुन्दरि ! चौरात् मत्तः कथं त्वं मुच्यसे ? तदाकर्ण्य सावदत् गृहाण मे आभ- रणानि, ततश्वोरोऽभ्यधात् शोभने : किमेभिरुपले:, चन्द्रकान्ता- ननां जगदाभरणभूतां भवती नैवाहं त्यजामि, इति तेनोक्ता विवशा सा बणिक्नन्दिनो निजवृत्तान्तमाख्याय तमेवं प्रार्थया- मास भट् ! क्षणं अपेक्षस्व यावत् सत्यमनुपालयामि, इहस्थस्यैव ते पाच सत्वरमेष्यामि, नाहमिमां गिरमुल्लङ्घयिष्यामि । दाकर्ण्य चोरस्तां सत्यसन्धां मत्वा मुमोच, तस्थो च तत्र तदागमं प्रतीक्षमाणः । सापि तस्य धर्मदत्तस्य बणिजोऽन्तिकमाजगाम । स च धर्मदत्तस्तामभीष्टां प्राप्तां दृष्ट्वा यथावृत्तं पृष्ट्वा विचिन्त्य च क्षणमब्रवीत् सन्दरि ! सत्येन ते तुष्टोऽस्त्रि, त्वया परस्त्रिया मे ? ? एत- ४८ वेतालपञ्चविंशतिः पृष्टा नास्ति प्रयोजनम्, यावत्त्वां कश्चिबेक्षते तावत् यथागतं गम्यता- मिति तेन त्यक्ता सा तथेति तने हात् प्रत्यागमत्। अथ पथि चौरस्य प्रतिपालयतो निकटं प्राप्य ब्रहि कस्ते वृत्तान्तस्तत्र गताया इति पृच्छते तस्म सा तेन बणिजा यथोक्त तत् सर्वमाख्यातवती । तत: चौरस्तामवादीत् यद्येवं तत् मयापि सत्यतुष्टेन विमुक्तासि, साम्प्रतं साभरणा ग्राहं व्रज इति । एवं तेनापि सन्त्यक्ता रक्षिता अनृण अलुप्तशोलमुदिता पत्य रन्तिकमाययो । तत्र गुप्त प्रविष्टा प्रहृष्ट वागता तस्मै पत्य तत् सर्व यथावदवर्णयत्। सोऽपि अम्लान- मुखकान्तिस्तामसम्भोगलक्षणां अनष्टचारित्रां सत्यपालनगतां अदुष्टमानसां सम्भाव्य अभिनन्द्य च तया सह स समुद्रदत्तः यथासुखं तस्थौ इति कथामुक्त्वा स वेतालस्तं भूपं पृच्छति स्म राजन् ! पूर्वोक्तं शापमनुस्म त्य व हि एषां चौरबणिजां तदाकण्य स राजा मौनं विहाय तं वेतालमाह सा एषां चौरस्त्यागी न पुनरुभो तो बणिजौ, यो हि पतिस्तां अत्याज्यां विवाद्यापि अजहात् स कुलज: सन् अन्यासक्ता भाऱ्यां जानन् कथं वहति ? योऽपि अपर: स- भयात् अथवा कालेन जीर्णासक्तिवेगात् तमत्याक्षीत्। चौरस्तु गूढ़चारी निरपेक्ष: पापी, प्राप्त साभरणं स्त्रीरत्न यदमुञ्चत् तेन स एव त्यागीति। तदाकण्य व स वेताल: पूर्ववत् स्व पदमगात्, राजापि पुनस्तामानेतु सयनोऽभवत् । मध्यात् कस्त्यागीति । अथ एकादशकथा। ततः स राजा शिंशपासकाशं गत्वा तं वेतालं पुन: स्कन्धमधिरोप्य तं भिक्षु प्रति आगन्तुमाग्भे। गच्छन्तच्च तं स्कन्ध स्थित: स एकादशकथा। ४८ वैताल: प्राब्रवीत् राजन् ! विचिवामकां अमापहां कथा ने निवेदयामि शृणु। । पूर्वमासीत् उज्जयिन्यां धर्मध्वजो नाम नृपतिः। तिस्रः राजकन्यास्तस्यातिवल्लभा भाया आसन् । तासामेका इन्दुलेखा, द्वितीया तारावली, तीया मृगायावती। ताभिः राजीभिः सह विहरन् राजा जिताशेषरिपुः सुखमासाञ्चके। एकदा तत्र वसन्तोत्सवे समुपस्थिते ताभिः प्रियाभिः सह स राजा क्रीडितुम् उद्यानमगात्। तत्र अलिमालामौर्वीकाः पुष्यानता लताः अनङ्गस्य सन्जिताश्चापयष्टीरिव पश्यन् तत्रत्व- तरुपरिवर्त्तमानानां कोकिलानां गिरं सम्भोगैकरसस्य मनोजस्य प्राज्ञामिव शृखन् वासवोपम: स राजा अन्तःपुरिकाभि: साकं कन्दर्पजीवितस्थापि जीवितं मधु सिषेवे । तत्र तस्य राजः इन्दुलेखाया देव्याः केलिकचग्रहात् कर्णाग्रात् उत्सङ्ग उत्पलं पपात। तदभिघातेन च क्षते जाते अभिजाता सा महादेवी हा! हा! इत्युक्ता मुमूर्छ। तदवलोक्य विद्वलेन राज्ञा परिजनेन च शीताम्बुमारुतैः समाश्वासिता सा कथञ्चित् संज्ञा- मवाप। अथ राजा तां राजधानौं नीत्वा भिषा शतैर्विविधी- षधैः प्रियामुपाचरत्। ततः स राजा रात्री तां सुस्थितां दृष्ट्वा हितीयया तारावल्या सह चन्द्रप्रासादमारोह। तत्र तस्व राजः कोड़सुप्तायां तस्यां गवाक्षमार्गेण हिमकरत्विषः तदङ्गषु पेतुः। ततः क्षणात् प्रबुद्धा सा दग्धास्मीतिवादिनी सहसा शयनादुत्तस्थौ। अथ स राजा प्रवुद्धः किमेतदिति सम्भ्रान्तः समुत्थाय तस्या अङ्गेषु विस्फोटान् निर्गतानपश्यत्। किमेत- दिति पृच्छन्तं तं तारावली रात्री प्राइम नाम। अङ्गपतित- रिन्दो: किरणरेतत् मे कृतम्। इत्युक्तवत्याः रुदत्यास्तस्यास्ता- मातिं दृष्ट्वा राजा. विठ्ठलपरिजनमायत्, अकारयञ्च तेन ५ ५० वेतालपञ्चविंशतिः। परिजनन सजलैनलिनीदलैः शय्याम्, अदापयच्च अङ्गेषु आर्ट्स श्रीखण्डविलेपनानि । तावच्चास्य दृतीया महिषी मृगावती तत्या“मागन्तुमना निजमन्दिरात् निरगमत्। निर्गच्छन्ती च सा कापि नि:शब्दायां तस्यां रजन्यां विदूरे सुव्यक्तं धान्याव- घातज मुषलध्वनि शुश्राव। श्रुत्वैव सा हा! मृतास्मीति वदन्ती करो धुन्वती च व्यथिता च मार्गे एव उपाविशत् । तत: प्रतिनिवृत्यैव परिजनन स्वमेवान्तःपुर नीता सा बाला रुदती शयनं भेजे। तत्परिजनश्च किमेतदिति चिन्वन् साश्रुः आलीन- भ्रमरौ पद्माविव किणाशिन्तो तस्या हस्तौ ददर्श । उवाच च गत्वा तं वृत्तान्तं राजे। सोऽपि राजा सम्भान्तः समागत्य किमेतदिति तां प्रियां पप्रच्छ। सापि हस्तौ प्रदश्य व्यथिता प्रोवाच नाथ ! मुषलध्वनौ श्रुतमात्र एव मे एतौ किणौ जाता- विति। ततः स राजा दाहशमनमौषधं चन्दनविलेपनादिक तस्या हस्तयोरदापयत्। एकस्या उत्पलेनापि पतता क्षत- माहितं, द्वितीयस्याः शशिकरैरपि अङ्ग दग्धम्। टतीयस्या- श्वास्याः श्रुतेन मुषलशब्देन हस्तयोरीदृशाः किणा जाताः । अहो ! युगपत् एतासां मे प्रेयसीनां गुणोऽपि अभिजातत्व दोषायैव जातः । इति चिन्तयत: अन्त:पुरेषु भ्रमतस्तस्य नृपतेः सा त्रियामा शतयामेव कृच्छ्रात् विरराम। प्रातच स राजा शल्यहर्तृभिभिषग्भिः सह तथा विधानमकरोत् यथा अचिरात् स्वस्थान्तःपुरनिवृतोऽभवत्। इत्थमेतां कथामाख्याय वेताल: पप्रच्छ राजन् ! एतासां का सुकुमारतरा ? यस्याः मुषले अस्पृष्टेऽपि शब्देनैव किणा उहता: उत्पलेन्दुकरैः स्पर्शे जाते ययोव्रणविस्फोटा वृत्ताः, ते उभे तस्याः, समे न। इति रानो वचनमाकये स वेताल: यथास्थानमगात्, राजा च दृढ़निश्चयः पुनस्तमानतुं सत्वरो बभूव । ।।
अथ द्वादशकथा। अथ राजा तथैव तस्य शिंशपातरोरन्तिकं गत्वा तं वैताल स्कन्धमारोप्य पुनर्गन्तु प्रावर्तत। वेतालच भूयस्तमवादीत् राजन् ! इत्थमनुदिग्नः त्वं भृश मे प्रियोऽसि, तदेतां हृद्या- माख्यायिकां ते श्रमविनोदाय कथयामि, शृणु । पासीदङ्गदेशे यश:केतुरिति युवा खाजगुत्यर्थम् पदग्ध- स्तनुमाश्रितोऽपर इव सारो नरपतिः। बाहुवीर्येण पराजित- वैरिकुलस्य तस्व शक्रस्येव वृहस्पतिः दीर्घदर्शी नाम मन्त्री प्रभूत्। कदाचित् स राजा वयोरूपमदात् निहतकण्टक राज्यं तस्मिन् मन्त्रिणि विन्यस्य शनैः सुखासक्त: समजायत। केवल निरन्तर प्रमदास्पदे अन्तःपुरे तस्यौ, शबाव च तासां सानुरागगीतं न हितैषिणां वचनम् । रज्यति स्म स सतत जालवातायनेषु न पुनर्बहुच्छिद्रषु राजकार्येषु कदाचिदपि । दीर्घदर्शी तु तं राज्यचिन्ताभार समुहहन् दिवानिशमतन्द्रित- स्तस्यो। अथ पौरेषु नृपं व्यसने प्रक्षिप्य महामन्त्री दीर्घदर्शी साम्प्रतं राज्ञः श्रिय खय भुक्तो इति जनवादे समुत्थिते स मन्त्री खगेहिनों मेधाविनों प्राब्रवीत् प्रिये ! राजनि सुखासक्त तद्वार वहतोऽपि में राज्यं भक्षितमनेनेति महदयशो मे समुत्पब मनेषु। लोकवादो हि महतामपि दोषमावहति, रामोऽपि जनापवादेन जानकौं त्याजितो न किम् ? तन्मया किं कर्तव्य मधुनेति मन्त्रिणभिहिते भाया मेधाविनी धौरा अन्वर्थनानी तं पतिमभाषत नाथ ! तीर्थयात्रापदेशेन युक्त्या महीपति- ५२ वेतालपञ्चविंशतिः। मापृच्छस्व, कियन्तं कालं विदेश गन्तु मे वृद्धस्येदानी युक्त तदनुमन्यतामिति। एव हि नि:स्पृहस्य ते स जनवादो निव- स्यते। त्वयि चास्थिते राजा स्वयं राजधुरामुद्दक्ष्यति। ततश्च शनैरस्य व्यसनित्वञ्च शान्तिमष्यति। आगतस्य च पुनस्ते सा एव मन्त्रिता अनिन्द्या भविता। इति भार्ययानुशिष्टो महा- मन्त्री तथेति कथाप्रसङ्गेन तं नृपं यश:केतु व्यज्ञपयत् राजन् ! अनुजानीहि मां कांश्चिदपि दिवसानहं तीर्थयात्रार्थमितो व्रजामि, धर्मो हि मे परमो मतः। तदाकर्ण्य स राजाब्रवीत् मन्त्रिन् ! मा मैव तीर्थेविना अपरो दानादिः किं न धम्मः ? स्वग्रहेष्वपि तेन वर्गसाधनं किं न स्यात् ? अथ मन्त्री तमवो- चत् देव! दानादौ अर्थशयादिकं मृग्यते, तीर्थानि तु नित्य- शुद्धानि, यावच्च यौवनं तावदेव धीमता गग्यानि, नोचेत् अवि- श्वास्ये अस्मिन् शरीरे कुतस्तैः सह सङ्गमः ? इति तस्मिन् मन्विणि वदति राजि तत् निषेधति प्रविश्य प्रतीहारी तं राजानं व्यजिजपत् देव ! भगवानंशुमान् व्योमसरोमध्यमव- गाहते, तदुत्तिष्ठ, स्नानवेला तेऽतिवर्त्तते । एतदाकये राजा सहसा सातुमुदतिष्ठत् । यात्रोन्मुख: स मन्त्री च तं प्रणम्य गृहमगात्। तत्र तां भायामनुगन्तुमानसा निवार्य स्वभृत्यैरपि अतर्कित: स्वयुक्त्या यात्रामकरोत्। क्रमेण च एकाको तान् तान् देशान् तीर्थानि च भ्रमन् प्रोडविषयं प्रापत्। तत्राब्धे- रदूरे एक पत्तन प्राप्य तत्र चैक शैव मन्दिर' प्रविश्य तत्- प्राङ्गणे उपाविशत् तत्र तम् अर्ककरसन्तप्तं दूरावभ्रमण- धूसर निधिदत्तो नाम देवार्चनागत: कश्चिद बणिक् ददर्श। स तं तथाविधं दृष्ट्वा सयज्ञसूत्रं सुलक्षण हिजयेष्ठ सम्भाव्य पातिथ्याथै स्व एहमनयन् । अपूजयच्च स्रानभोजनाद्यैः। पप्राक्षीच्च विवान्तं कस्त्व' कुत प्रायातः, व यासीति। सोऽन्न- द्वादशकथा। ५३ वीत् अहं दीर्घदर्शी नाम विप्रः, अङ्गदेशादिह आयातस्तीर्थ- यात्रार्थीति। ततः स महाबणिक् निधिदत्तस्तमब्रवीत् अह बणिज्यया सुवर्णहीपं गन्तुमुद्यतः, त्वं तावदस्पदग्रहे तिष्ठ, यावदहम् आगमिथामि, तीर्थयात्रापरिधान्तोऽसि, अत्र कञ्चित् काल विश्रम्य ततो यास्यसीति । तदाकण्यं स दीर्घदर्शी प्रत्यवादीत् ममेह स्थित्या अलं, त्वयैव सह तत्राहमपि गन्तु- मिच्छामि । ततस्तेन साधुना एवमस्तु इति कथिते स मन्त्री चिरादपास्तशयनो निशां तामनेषोत्। अथान्येद्युस्तेन बणिजा साईं वारिधिं गत्वा तदभाण्डपूर्ण प्रवहण समारुरोह। तेन प्रवहणेन गच्छन् अद्भुतभीषणम् अम्भोधि विलोकयन् क्रमेण तत् स्वर्णहीपमुपाययो। तत्र च होपे तेन क्रयविक्रयौ कुर्वता बणिजा निधिदत्तेन सह कञ्चित् कालमुवास। ततश्च तेन सह प्रत्यागच्छन् प्रवहणेन, तस्मात् सागरात् सहसा समुत्थितम् प्रबालैः शाखासुभगे: जाम्बूनदो- ज्ज्वलैः काण्ड: मणिमयैः फलैः कान्तैश्च कुसुभैः सुशोभित कल्पवृक्षमट्राक्षीत्। तस्य च स्कन्धे सद्रत्नपयकोपरिस्थिताम् अत्यद्भताकारां कमनीयां कामपि कन्यकामैक्षत। अहो । किमेतदिति स मन्त्री यावत् ध्यायतिस्म तावत् सा कन्या वीणापाणि: गातुमुपचक्रमे। येन यत् कर्मवीजमुप्त स निश्चितं तत्फलं भुता, पूर्वकृतं हि कर्म विधिनापि अन्यथा कर्तुं न शक्यते, इति सङ्गीतार्थ प्रकटय्य क्षणादेव सा दिव्य कन्या कल्प- द्रुमपर्यनसहिता तत्रैव ममज्ज किमप्येतदपूर्वमद्य मयेह दृष्टं, क्क अब्धिः, क च दृष्टनष्टोऽयं दिव्याङ्गनासहितस्तरुः। यदि च अब्ध रोदृश एव शश्वदाकार:, तदा लक्ष्मीन्दुपारिजाताद्याः अस्मात् न किमुगताः इति सञ्चिन्तयन्तं दीर्घदर्शिन विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् भद्र! एवमेषा वरकन्यका ५४ वेतालपञ्चविंशतिः । सदैव इह दृश्यते, निमज्जति च क्षणेन, तव तु अस्या नव दर्शनम् इति तैरुक्तः स मन्त्री सविस्मयस्तेन निधिदत्तेन सम पोतात् सागरतीरमाससाद। तत्रोत्तारितभाण्ड न तेन बणिजा हृष्टभृत्येन सह स मन्त्री तद्ग्रह गत्वा बहन् दिवसान् तत्र सुखेन स्थित्वा तं निधिदत्तमुवाच सार्थवाह ! भवदर्गहे अहं चिरं सुखेन विथान्तः, इदानों स्वदेशं गन्तुमिच्छामि, भद्रमस्तु इत्युक्त्वा तमनिच्छन्तमपि बणिक्पतिमामन्त्रा स दीर्घदर्शी सत्त्वमात्रसहायस्तत: प्रतस्थे। क्रमेण नानादेशानतिक्रमन् निजम् अङ्गविषयं प्रायात्। तत्र यश:केतुना राज्ञा तदन्वेषणाय नियुक्ताबारा वहिनगरमागतं तं ददृशुः। ततस्तैर्विज्ञप्तो राजा तहिश्लेषसुदुःखितः स्वयं नगरात् निर्गत्य तमभ्यगात्। तत- पित्य परिष्वज्य अभिनन्द्य च अध्वयमक्षामधूसर तम् अभ्य- न्तरमनयत् अब्रवीच तं विद्यान्तं मन्विन् ! अस्मान् त्यक्ता त्वया किमयं यावच्छरीर नि:सहपरुषामिमां दशां मानसं नौतम् अथवा भगवतो भवितव्यस्य गतिं विचित्रां को विज्ञातुमर्हति । येन अकस्मात् ते तीर्थादिभ्रमणे मतिरेषाभवत् । तद्ब्रहीदानों के त्वयादेशा भ्रान्ता: किञ्च नवं वस्तु दृष्टमिति । तत: स क्रमावर्ण- यन् सुवर्णहीपान्तमध्वानम्, अब्धौ समुत्थितां गायन्ती त्रिजगत्- सारभूतां कल्पतरुस्थितां तां दिव्यकन्यकां तस्मै यथावदकथ- यत्, राजा तु तत् श्रुत्वैव तथा स्मरवशोऽभवत् यथा तया विना राज्यजीवित निष्फले असन्वत । अवदच्च तं मन्त्रिणं एकान्ते नीत्वा मन्विन् ! मयावश्यमेव सा द्रष्टव्या, नोचेत् मे जीवितं नास्तीत्यवधारय। भवितव्यतां प्रणम्य त्वटुक्तेन पथा गच्छामि, अहं ते न निवारणीयः नानुगम्यश्च, गुप्तमकाको गच्छामि, राज्यन्तु मे त्वया रक्ष्य इदश्च महचो नान्यथा कायं मया असुभिः शापितोऽसि इत्युक्वा तत्प्रतिवाद निरस्य तं मन्त्रिण ५५ हादशकथा। विससज। तदा स दीर्घदर्शी अनल्पोत्सवेऽपि विमना इव आसीत्, स्वामिनि असाध्यव्यसनासक्ते सन्मन्त्रिणां कुतः सुखम् ? अथान्येद्युः स राजा तस्मिन् मन्त्रिणां वरे न्यस्तराज्यभारः निशि तापसरूपधरः यश:केतुः स्वात् नगरात् प्रतस्थे। गच्छंश स पथि कुश नाम मुनिमपश्यत्, सोऽपि तं प्रणतं तापसकल्पं समादिशत् वत्स ! लक्ष्मीदत्तेन बणिजा साकं पोतन वारिधी गत्वा अभीष्टां कन्यां प्राप्स्यसि, निराकुलो व्रज इति तद्वचनं श्रुत्वा हृष्टः प्रणम्य च तं राजा गच्छन् देशान् नदोरट्रीशाति- क्रम्य तमम्बुधिमाससाद। तस्य च तोरे मुनियोक्तेन तेन . लक्ष्मीदत्तेन स्वर्णहोपं यियासुना बणिजा सहसा अस्य सङ्गतिर- जायत। तेन च चक्राङ्गपादमुद्रादिदर्शनात् प्रह्वेन सह नृपः प्रवहणमारुह्य अम्बुधौ प्रतस्थे । सम्प्राप्ते मध्यमब्ध स्तस्मिन् प्रवहणे, सहसा कल्पविटपिस्कन्धाधिरूड़ा सा कन्चका उदगात्। यावत् राजा चकोरश्चन्द्रिकामिव तां पश्यति तावत् सा तथैव वल्लकोवाद्यसङ्गतं गायति स्म। यत् कर्मवीज येन प्रागुप्तं • तत्फलं तेन निश्चितं भोक्तव्यं, पूर्वकृतं हि विधिरपि नान्यथा कत्तुं प्रभवति। तस्माद यत्र यथावत् यस्य यत् दैवयोगेन भवितव्यं तत्र तेन भवितव्येनासौ जन्तुर्विवशो नीयते इति सूचितभाव्यर्था गीतिका गायन्तीं तां पश्यन् राजा तत्क्षणं स्मरशराहतः निस्पन्द एवातिष्ठत्। हे रत्नाकर ! तुभ्यं नमोऽस्तु, येन त्वया इमां प्रच्छाद्य श्रिया हरिविप्रलब्धः, तत् त्वां शरणं प्रपत्रोऽस्मि, त्वं मे इष्टसिद्धिं विधत्स्व। यावदित्य स राजा समुद्र स्तौति स्म। तावत् सा कन्यका सपादपा तत्र न्यमज्जत्। तदवलोक्यैव स राजा तामनु आत्मानं सिन्धी प्राक्षिपत्। तहोय स सज्जन: लक्ष्मीदत्तः तं विनष्टं मत्वा दुःखात् देहं त्यक्तुं समुद्यतोऽभवत्। मा तावत् साहसं कार्षीः वैतालपञ्चविंशतिः। मग्नस्यास्य अम्बुधौ भयं नास्ति एष राजा यश:केतुर्नाम तापस- रूपभृत्। अस्या एव कन्याया अर्थे समायातः, इयं हि अस्य पूर्वभार्या, एतां प्राप्य पुनरसो अङ्गराज्य गमिष्यति इति गग- नादुह्रतया वाचा समाश्वासितोऽसौ सार्थवाहः यथाकाममिष्टं देशं स्वार्थसिद्धये जगाम । राजा यश:केतुश्च अम्बुधो मग्न: अक- स्मात् दिव्यमेकं नगरमद्राक्षोत्। सविस्मयश्च तत् नगरं भाव- न्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः मुक्ताजालगवाक्षकैः प्रासाद: विराजमानं नानारत्नशिलाबदसोपानवापिकः कामदैः कल्पवृक्षाव्यं रुद्यानरुपशोभितं दृष्ट्वा समृद्धेऽपि तत्र पुरे निर्जने यह ग्रहं प्रविश्य यदा तां प्रियां वापि न दृष्टवान् तदा विचि- न्वन् उत्तुङ्गमेकं मणिमन्दिरमारुह्य तहारसुवाट्य तत्र प्रवि- वेश। प्रविश्य च तत्र सङ्गनपर्यङ्कस्थितां वस्त्राच्छादितसर्वाङ्गां शयानाम् एककामैक्षिष्ट। किं स्यात् सेवेयम् इति सोत्कण्ठ यावत् तन्मुखसुद्घाटयति तावत् तामेव ईप्सितां कन्य- कामट्राक्षीत् । तदर्शनेन चास्य तदा कापि अवस्था ग्रीष्मां- मरुपान्थस्य सरिद्दर्शनेनेवाभवत्। सापि उन्मीलितलोचना तं कल्याणाकृतिलक्षणं काम्यं प्राप्त वीक्षा सम्भ्रमात् शयनम- जहात्। ततश्च कृतातिथ्या आनतमुखी फुल्लेक्षणोत्पलन्यासः पादयोः पूजयन्ती शनैरभ्यधात् महाभाग ! कथमिदमगम्य रसातल प्रविष्टोऽसि ? राजलक्षणानित- तनोस्ते तापसव्रतं किमिदम् ? महाभाग ! यदि ते मयि प्रसादस्तदा एतदाख्याहि। एवं तस्या वचः श्रुत्वा स राजा तां प्रत्युवाच सुन्दरि! अहमङ्गराज: यश:केतुर्नाम, प्राप्ता- ज्जनादिहाम्बुधौ दृश्यां त्वामथोष ततस्त्वदर्थम् इमं वेशं कृत्वा राज्यं विमुच्य आगत्य च अनुमार्गेण इह प्रविष्टोऽस्मि, तन्मे कासि त्वं कथय इति तेनोक्ता सा सलज्जा सानुरागा च तमभ्य- को भवान् ?
५७ हादशकथा। धात् महाभाग ! मृगानसेन इति श्रीमानस्ति विद्याधराधिपः । मां मृगासवतों नाम तस्यात्मजां विद्धि। स पिता मामस्मिन् नगरे एकाकिनों विमुच्य केन हेतुना सपौरजन: क्वापि गत इत्वहं न जाने। तेनाहं शून्यवसतेरस्मात् वारिधी उन्मज्य कल्पद्रुमारूढ़ा भवितव्यतां गायामि। एवमुक्तवती सा तस्य मुनर्वचः स्मरता तेन राज्ञा पेशलैः सुवचोभिः तथा अरज्यत यथा अनुरागविवशा तत्क्षण तस्य वीरस्य भार्यात्वम् अङ्गी- कृत्य समयमेकमभ्यधात् आर्यपुत्र ! प्रतिमासं शुक्लकृष्णचतु- र्दश्याम् अष्टम्याञ्च अनायत्ता चतुरो दिवसान् यत्र क्वापि दिनेषु गच्छन्ती अहं त्वया न निवाऱ्या नापि द्रष्टव्या, अत्र हि कारणं विद्यते इति । ततस्तथेति प्रतिपद्य स राजा गान्धर्वेण विधिना तां परिणीय तत्र तया सह दिव्यं भोगसुखं वुभुजे। . एकदा सा मृगावती दिव्यसम्भोगसुखावस्थितं तं भूपं प्राइ स्म। नाथ ! त्वमिहैव प्रतीक्षस्व, कार्यार्थ क्वापि अहं यामि, अद्य सा कृष्णचतुर्दशी मम सम्प्राप्ता, आर्यपुत्र ! इह- स्थच अमुस्फाटिक गृहं मास्म गमः । मा अत्र वाप्यां निप. तितो भव, तर्हि भूलोक तत्क्षण गमिष्यसि। इत्युक्त्वा तमा- मन्त्रा तस्मात् पुरात् सा वहिरगात्। राजापि गृहीत- खड़गस्तां जिज्ञासुरन्वगमत्। अद्राक्षीच्च तमाश्यामव्यात्त- वक्तविलं साकारमिव पातालमागच्छन्तं कमपि राक्षसम् । स च राक्षस: निपत्यैव घोरं रव कुर्वन् तां मृगासवतों वक्त्र निक्षिप्य निगोर्णवान्। तदवलोक्यैव स राजा अतिकोपेन सहसा ज्वलन् निर्मोकमुक्तभुजगश्यामलेन महासिना क्रोधा- कष्टेन धावित्वा रक्षसस्तस्य सन्दष्टोष्ठपुटं शिरश्चिच्छेद। ततो मोहनिशान्धे विनष्टगतिके कान्तावियोगातें नृपे अकस्मात् मेघमलिनस्य तस्य रक्षस: अङ्गं भित्त्वा उद्योतितदिक्चक्रा ५८ वैतालपञ्चविंशतिः। विमला चन्द्रमूर्तिरिव सा मृगावती जीवन्ती अक्षताङ्गी विनिर्ययो! तां तथा सङ्कटोत्तीर्णा कान्तां दृष्ट्वा राजा एहि एहि इति वदन् प्रधाव्यैव आलिलिङ्ग। प्रिये ! किमेतत् स्वप्रो- ऽयमुत मायेति तेन पृष्टा सा संस्मृत्य विद्याधरी प्रत्यभाषत पार्यपुत्व ! शृणु नायं स्वप्न: नापि माया, अयं हि विद्याधर- न्द्रात् स्वपितुर्मम शापोऽभूत्। स मे पिता बहुपुत्रोऽपि इह वसन् वात्सल्यात् मया विना आहारं नाकरोत्। अहच्च सर्वदा इह निर्जने शर्वपूजासक्ता चतुर्दश्याच इयोरेव पक्षयो- रागच्छम् । एकदा चतुर्दश्यामिहागत्य चिरं गौरौं समर्चयन्त्या में दैवात् समस्त दिनमवसितम्। तस्मिन् दिने स मम पिता मत्प्रतीक्ष: क्षुधितोऽपि मां प्रति कुपितः किश्चिदपि नाभुत नापि अपिवत् । ततो रायामुपेतायां सापराधां मामधोमुखों भवितव्यताबलात् असेहः शपति स्म। यथा त्वं मामवज्राय क्षुधात्तं सर्वं दिनं विस्मृतवत्यसि तस्मात् मासि मासि अष्टम्यो- चतुर्दश्योश्च हरार्चनरसात् पुरात् वहिर्यान्तों त्वां कतान्तसंत्रासो नाम राक्षसो निगरिष्यति । ततश्चास्य हृदयं भित्त्वा भित्त्वा निरे- प्थसि, शापं ताञ्च निगरणव्यथां न स्मरिथसि। एकाकिनी च अत्र स्थास्यसि इति शापं ददत् स मयानुनीतः ध्यात्वा शापान्त- मकरोत्। यदाङ्गपति: यश:केतुस्तव भर्ता भूत्वा राक्षसेन निगोर्णा त्वां दृष्ट्वा तं राक्षसं निहनिष्यति तदा त्वं तस्य हृदया. निर्गता शापात् मोक्षासे, संस्मरिष्यसि च शापादिसर्वा निजा विद्याः । इति सपरि- शापान्तमुक्का इह मामेकाकिनी मुना च्छदो निषधाद्रि गतः। अहं तदादेशेन शापमोहादिहाव- सम्। स शापश्चास्य मे क्षीणः, जाता च सर्वत्र स्मृतिः । तदद्य तातपार्श्वगमनाय निषधाद्रि व्रजामि, शापान्ते खगतिं हादशकथा। ५८ प्राप्सामीत्येष मे नियमः। त्वमिहास्त्र व्रज वा स्वराष्ट्र अव ते खातन्त्राम्। एवं तयोक्तो नृपतिर्दुःखितस्तामभ्यर्थयामास सुन्दरि! सप्ताहानि त्वया न गन्तव्यं सुमुखि ! प्रसीद, इह उद्याने त्वया सह क्रीड़न औत्सुक्यं विनोदयामि, ततस्त्वं पितुः स्थानं गमिष्यसि, अहच्च स्वस्थानं यास्यामि। ततः स तथेति प्रतिपन्नया तया कान्तया तस्मिन्ब्रुद्याने सजलोत्पलनेत्रासु मा स्म याहि अस्मान् विहाय इति हंससारसनिचयः रुवन्तीष्विव उत्क्षिप्तवीचिहस्तासु वापीषु षड़हं रेमे। तत: सप्तमेऽहनि स राजा युक्त्या यत्र भूलोकप्रापिणी हारवापिकास्ति तत्र गृहे तां कान्तामनयत् तत्र चागत्य तां कण्ठ गृहीत्वा तस्यां वाप्यां निपत्य सहसा तया स्वपुरोद्याने वापीमध्यादुत्तस्थौ। तत्र कान्तासमेतं प्राप्तं तं भूपं दृष्ट्वा उद्यानपालकाः प्रहृष्टा गत्वा मन्त्रिण दीर्घदर्शिनं जगदुः। सोऽपि आगत्य पादयोः पतित्वा तमानीतसिताङ्गनं सपौरोऽभ्यन्तरं प्रावेशयत् । अहो! कथं सैषा दिव्याङ्गन्ना अनेन राजा प्राप्ता, या व्योनि विद्युदिव क्षणदृश्या पतिषु यस्य यल्लिखितं तत्तस्य असम्भाव्यमपि अवश्य उपतिष्ठते । इति तस्मिन् मन्त्रिमुख्ये अन्यस्मिंश्च जने ध्यायति सा मृगासवती तं भूपतिं स्वदेशगतं दृष्ट्वा पूर्णसप्ताहा वैद्याधरौं गतिं गन्तुमियेष। परं तदा उत्पतनी विद्या स्मृती नाविरासीत्। तत: सा मुषितेव परं विषादमगमत्। कथ- मेवं विषमासि? प्रिये! वद इति राज्ञाभिहिता सा विद्या- धरो तमब्रवीत् अहं शापमुक्तापि यदियच्चिरं त्वत्प्रेहपाशसंय- मिता स्थिता, तेन मम विद्या दिव्या गतिश्च नष्टा। तदाकण्य राजा ममेयं विद्याधरी सिडेति प्रहृष्टः महान्तमुत्सवं चकार। तदवलोक्य स दीर्घदर्शी मन्त्री निशि गृहं गत्वा शयनीयं प्राप्य मया दृष्टा। धावा ललाटाक्षर- ६० वैतालपञ्चविंशतिः। च सहसा हृत्स्फोटेन व्यपद्यत। ततो राजा स्वयं धृतराज्य- भारः तया मृगावत्या सह चिरं स्वर्गसुखमनुभवन् तस्थौ । इति कथामाख्याय स वेताल: पर्यपृच्छत् राजन् ! खामिन- स्तथाभ्युदये सम्पन्ने तस्य महामन्त्रिण: हृदयं यत् स्फटितं तस्य को हेतुः किं दिव्याङ्गना मया नाप्ता इति शुचा वा राज्यार्थिन: पुन: राजागमनजेन दुःखेन ? यदि जानन्नपि एतत् मह्यं न वक्षासि, तदा ते धर्मो विनश्यति, यास्यति च ते शिरः शतधा खण्डितम् । इत्याकर्ण्य राजा तं वेताल अवादीत् योगीश्वर ! नैतत् इयमपि शुभचरिते मन्त्रिवरे सम्भवति, किन्तु येन भूभुजा स्त्रीमात्रानुरागात् राज्यमुपेक्षितम् अधुना तु दिव्यस्त्रीरक्तस्य तस्य अत्र का वार्ता ? तन्मे कष्टे कृतेऽपि प्रत्युत दोष एव समधिको जातः इति विभावयतस्तस्य मन्त्रिणो हृदयं स्फु टित- मिति मन्ये इत्यभिहितो वेताल: स मायी तत्क्षणात् निज- मेव निलयं जगाम। राजापि तमवाप्त पुनरुद्यत: तमेव शिंशपातरुमाससाद । अथ त्रयोदशकथा। - अथ राजा पुन: शिंशपामूल' गत्वा तं वेताल स्कन्धमारोप्य पूर्ववत् प्रातिष्ठत। गच्छन्तञ्च तं पुनर्वेताल: प्राब्रवीत् राजन् ! शृणु संक्षिप्तामेका कथाम् । अस्ति वाराणसी नाम पुरी। तत्र देवस्वामीति राजमान्यो हिजः कश्चित् प्रतिवसति स्म। तस्य महाधनस्य हरिस्खामोति सुतोऽभवत्। तस्य लावण्यवती नाम उत्तमा पत्नी आसीत्। यां तिलोत्तमादिसुराङ्गना निर्माणन शिक्षितकोशलो विधिरनर्घ- रूपलावण्य विनिर्ममे। कदाचित् स हरिस्वामी तया कान्तया त्रयोदशकया। ६१ चन्ट्रांशुशोतले इम्य रतिथान्तो निद्रा ययौ। तस्मिथ काले कामचारी मदनवेगो नाम विद्याधरकुमारः तेन पथा नभसि सञ्चरन् तत्र समायात् अपश्यच्च तां लावण्यवती पाखें पत्युः मुप्ताम्। स तु दृष्ट्वैव तां सुप्तामेव ग्रहीत्वा नभोमार्गण प्रायात्। क्षणेन च प्रबुद्धो हरिस्वामी तां प्राणखरीमपश्यन् ससम्भ्रमं शयनादुदतिष्ठत्। अहो! सा मम कान्ता व गता, कुपिता कि मयि, आहोस्वित् प्रच्छन्ना मच्चित्त जिज्ञासुः क्वापि स्थिता परिहसति ? इत्येव बहु वितर्कयन् व्याकुल: समन्तात् हर्म्यप्रासादवलभोषु अन्विष्यन् निशि अभ्रमत् । पर अाग्रहो- द्यानात् सर्वत्र चिन्वन् कुताऽपि तां न प्राप। तत: शोकाग्नि- सन्तप्त: सगद्गद विललाप हा ! चन्द्रमुखि ! हा! ज्योत्स्ना- मितानि ! हा प्रिये लावण्यवति : रावया तुल्यगुणद्देषात् अनया किन मोढ़ामि ? त्वया कान्त्या जितो योऽयं चन्द्रः चन्दन- शोतले: करैः मामसुखयत् सोऽय त्वया विना लब्धान्तर इव तैरेव ज्वलभिरङ्गारैरिव विषदिग्धराशगैरिव मां तुदति । इत्येव विलपतस्तस्व हरिस्वामिनः सा निशा कृच्छ्र ण व्यरंसोत् न तु विरहयथा। अथ प्रात: भावान् करें: विश्वस्य सन्तमसं बिभेद पर तस्य हरिवासिनो मोहान्धतमसं न भेत्तुं चक्षमे। तोणनिशैश्चक्रा- रिव वितीर्णस्तस्य करुणाक्रन्दितध्वनिः शतगुणत्वं भेजे । स स्वजनैः मान्त्वनानाऽपि वियोगानलदीपित: तां प्रेयसी विना धति न लेभे। इहानया स्थित इह स्नातं इह प्रसाधनं कृतं इह च विहृतमिति इतस्तत: रुरोद । बन्धवः सुहृदश्च तसेव प्राबोधयन् न तावत् सा मृता, कथं वा त्वया आत्मा हन्यते ? तदवश्यं तामवाप्तासि, धैर्यमवलम्बस्त्र, तां गवेषय च, धीरस्थ पट्यागिनोऽप्राप्यमिह नास्तीति । इत्येव बोधित: स हरिस्खामो वेतालपञ्चविंशतिः। कच्छ्रण कैश्चित् दिनैः तिं बबन्ध । अचिन्तयच्च सर्वस्वं ब्राह्मण- सात् कृत्वा तीर्थानि तावत् भ्रमामि, पापसञ्चयञ्च क्षपयामि, पापक्षये जाते जातु तां प्रियां भ्राम्यन्नवाप्न याम्। इत्यालोय स समुत्थाय स्नानादिकमकरोत् । अन्येाश्च सत्रे विविधान पानानि कृत्वा अवारित दिजन्मनामभ्यवहारमकारयत् धनानि च तेभ्यः सर्वाणि प्रादात् ब्रह्मण्यमानवित्तश्च स्वदेशानिर्गत्य प्रियां प्राप्तुं तीर्थानि भ्रमितुमगात्। भ्राम्यतश्च तस्य भीमो ग्रीष्मकुंकेशरी प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेशरः समाजगाम। समीरणश्च प्रियाविरहसन्तप्तानां पान्यानां नि:खासमारुतैयस्तोमा इव प्रत्युष्णो वहति स्म । जलाशयाश्च शुष्यदिपाण्डुपङ्का: धर्मलुप्ता- म्खुसम्पदः स्फु टितहृदया इव दृश्यन्ते स्म। पादपाश्च पक्षिणां चीत्कारमुखरास्तापम्लानदलाधराः मधुश्रीविरहिण इव सम- दृश्यन्त। तस्मिच काले अर्कतापेन कान्तावियोगेन क्षुधया टषया अध्वश्रमेण चातीव लान्तो हरिस्वामी भोजनार्थी भ्रमन् कञ्चिद्- ग्राममाससाद। तत्र च पद्मनाभनान: विप्रस्य रहे बहन विप्रान् भुञ्जानान् दृष्ट्वा हारशाखां समालम्बा नि:शब्दनिश्चल- स्तस्थो। तथा स्थितं तमालोका तस्य यातिकस्य विप्रस्य ग्रहिणी साध्वी सञ्जातदया व्यचिन्तयत् अहो! तुत् नाम गुर्वी कस्य लाघवं न कुर्यात् ? यदेष कोऽपि अवार्थी हारि अधो- मुखस्तिष्ठति। दृश्यते चासो दूरादभ्यागत इव म्रातः क्षीण- न्द्रियः। तदेष: अन्नदानपात्रमित्यवधायं सा साध्वी परमान- भृतं सप्तशर्कर पात्रमुत्क्षिप्य पाणिभ्यामानीय प्रश्वयवती तस्म ददौ। जगाद एनं भुङ क्ष्व इह क्वचित् वापीतटे गत्वा । सोऽपि तथेति तदनपात्रं गृहीत्वा नातिदूरतो गत्वा क्वापि वापीतटे वटतरोरधः स्थापितवान्। ततः स तत्र वाप्यां पाणि- त्रयोदशकथा । ६३ ? पाद प्रक्षाल्य आचम्य च यावत् भक्षयितुं सहर्षः परमात्रमुपैति तावत् कश्चित् श्येन: कुतचित् चच्चा पादहयेन च एक कृष्णसर्प गृहीत्वा तस्मिन् तरावुपाविशत् । तेन पक्षिणा आक्रम्य उद्य- मानस्य उत्क्रान्तजीवितस्य तस्य सर्पस्य प्रास्यात् विषलाला विनिर्ययौ। सा अधःस्थिते तस्मिन्नन्नपात्रे तदापतत्। हरि- स्वामी तु तददृष्ट्वा क्षुधातः आगत्यैव तत् सर्व भुक्तवान् । अथ तस्य भुक्तवत एव तीव्रा विषज्वाला प्रादुरभवत्। अहो विधी विपर्यस्ते किमिव न विपर्येति ? तत् सक्षीरसृतशर्करम् अन्नं मे विषोभूतमिति जल्पन् हरिस्वामी परिस्खलन् ता पत्रिणस्तस्य विप्रस्य गेहिनों गत्वा प्राब्रवीत् ब्राह्मणि ! त्वद्दत्तात् अन्नात् मे विष जातं तत् क्षिप्रं कञ्चित् विषमन्त्रिणम् अानय, नोचेत् तव ब्रह्महत्या भविता। इत्वाकर्ण्य सा साध्वो किमेतदिति विह्वखा यावत् विषमन्त्रिणमानायितु चेष्टते स्म तावत् स हरिस्वामी परावृत्तनेत्र: प्राणेळयुज्यत । तत: सा निर्दोषापि आतिथेयो अपि सत्रिणा तेन विप्रेण मिथ्यातिथिबधजनितकोपेन भाऱ्या निष्कासिता शुभादपि कर्मणः समुत्पन्नमृषापवादा जातावमाना च तपसे तीर्थमशिधियत् । इति कथामाख्याय वेताल: पृच्छति म्म राजन् ! एषां सर्पश्ये नान्नदातॄणां मध्ये कस्य विप्रबधो- ऽभूत् ? अस्य वादो धर्मराजसकाश अपि अभवत् परं न कोऽपि निर्णय: समजनि। तत् राजेन्द्र त्वमेव ब्रूहि, कस्य ब्रह्महत्या जाता ? मिथ्या ब्रुवतो जानतस्ते स एव शाप: स्मर्त्तव्य इति । तदाकर्ण्य राना समुज्झित मौनस्तं वेतालमब्रवीत् कस्य तत् पातकम् ? सर्पस्य तावदवशस्य शत्रुणा भक्ष्य माणस्य कोऽत्राप- राध: ? श्येनेनापि क्षुधितात्मना न किमपि दृष्ट तत्तस्यापि नावापराध: ! अकस्मात् प्राप्तमतिथिं भक्षण भोजयतोर्टम्पत्यो- रपि हयोर्वान्यतरस्य वा कथं दोषः ? यतस्तौ धर्मेकप्रवृत्ती । !
६४ वैतालपञ्चविंशतिः । नेममपराधमर्हतः। अहं तावत् तस्यैवैषा ब्रह्महत्या इति मन्ये योऽविचार्येव एषामन्यतरस्य तां ब्रूयादिति। इति वादिनो नृपस्य स्कन्धात् स वेतालस्तत्क्षणादलक्षित: तमेव शिंशपातरु- मवललम्बे। राजापि तथैव तमानेतु समुद्योगी तमन्वधावत्। अथ चतुर्दशकथा। अ सा अस्ति अयोध्या नाम नगरी। या रक्षःकुलकृतान्तस्य रामस्य राजधानी आसीत्। तस्यां वीरकेतुर्नाम राजा महा- बाहुः वसन् प्राकारो नगरोमिव इमां क्षोणों ररक्ष। तस्मिन् महीपतो शासति महीम् अस्यां पुर्या रत्नदत्तो नाम कश्चित् महाबणिक् प्रतिवसति स्म। तस्य नन्दयन्तीति समाख्यायां पत्नयां रत्नवती नाम देवाराधनलब्धा सुता समजायत । पिटवेश्मनि रूपलावण्यविनयैः सहजै:गुण: सह दिन दिन वृद्धि- मवाप। ताञ्च यौवनशालिनों वीक्ष्य केवलं महान्तो बणिजो न, राजानोऽपि तत् पितरं ययाचिरे। सा तु मनखिनो पुरुषहेषिणो वासवमपि भर्तारं न कामयते स्म। विवाहकथामपि शुत्वा प्राणान् त्यक्त यतते स्म। तेन तस्य पिता वात्सल्यदुःखित- स्तूष्णीं तस्थौ। स च प्रवादस्तस्यामयोध्यायां सर्वत्र पप्रथे । अत्रान्तरे चौरैर्मुश्रमाणाः समस्ता: पौरा: सम्भूय तं नृपं वोरकेतु व्यजिज्ञपन् प्रभो! प्रतिरावं चोररिह वयं मुष्यामहे, ते तु नास्माभिर्लक्षान्ते । तदिदानों देवः प्रमाणमिति पोरै- विज्ञप्तो राजा तां पुरीमभित: तस्कराणामनुसन्धानाय छन्नान् रात्रिरक्षकान् आदिशत्। ते च यदा समन्दिष्य न तान् ययौ । चतुर्दशकया। ६५ चौरानवापुः, तदा राजा स्वयं निशि एकाको गृहीतशस्तो भ्रमन् एकतः एक प्राकारपृष्ठेन यान्तं नि:शब्दपदसञ्चार- विचित्रगतिकौशलं सशङ्कलोलनयनं मुहुः पृष्ठतः पश्यन्तं कमपि पुरुषमपश्यत्। अयं स चौरो मे पुरों मुष्णाति एकचरः । इति मत्वा स नृपस्तस्यान्तिकमुपययो। ततः स चौरस्त नृपं दृष्ट्वा कोऽसीति पप्रच्छ। राजापि चौरोऽहमिति तं चौर प्रत्यवादीत् । तदाकये स चौर: सानन्द तमभ्यधात्। तर्हि दिध्या त्वं मे सुहृत्, तत् एहि मम गृहं मित्राचार तावत् करोमि इति। तदाकण्य स राजा तथेत्युत्वा तेनैव चौरेणु सह वनान्तः प्राकारवेष्टितम् अशेषभोगशोभाढ्य भास्खद्रन विराजितं नवीनं वलिराजानधिष्ठितं पातालमिव तद्ग्रह तत्र प्रविष्टे तस्मिन् कृतासनपरिग्रहे राजनि स तस्करः रहाभ्यन्तर प्रविवेश। क्षण च तम्मिन् कापि दासो समेत्य तं नृपमवादीत् महाभाग ! कथ त्वमिह मृत्यु मुखे प्रविष्टः ? एकचोरोऽसौ निर्गत्य त्वयि पापमाचरिष्यति । ध्रुवमयं विश्वासघातो तदितस्त्वरितं व्रज। इत्युक्तस्तया स राजा द्रुतं निर्गत्य राजधानीच गत्वा निशि सैन्यानि असज्जयत्। ससैन्य- श्वागत्य तस्य दास्या: तत् भूग्यहं तैर्बलैररुणत् अथ गृहं रुई दृष्ट्वा स चोरः वृत्त प्रति भेदमवगत्य मरणे निश्चितमतिः शूरो युद्धाय निर्ययो। निर्गतश्च रणे अमानुष विक्रम कुर्वन् करिणां करान्, वाजिनां जवान्, भटानाञ्च शिरांसि एक एव खड्ग- चर्मभृत् चिच्छेद। ततस्तक्षपितानीक नृपः स्वयमभ्यधावत्। स राजा खगविद्याभिज्ञः करयुक्तिमवलम्बा तस्य हस्तात् निस्त्रिंशं क्षुरिकाञ्च जहार। ततोऽशस्त्रं तं मुक्तशस्त्रो नृयो वायुद्धेन चौर धरण्यां जीवग्राहमग्रहीत्। प्रातच नीयमानं शूलारोपणाय बध्यभूमिं तं सडिण्डिमं चौर सा वणिक्वन्या वेतालपञ्चविंशतिः। हर्म्य पृष्ठतः रत्नवती ददर्श। तञ्च व्रणितं धूलिलिप्ताङ्गमपि दृष्ट्वा सा काममोहिता तत्क्षण' पितरमुपेत्य प्रोवाच तात ! योऽयं बध्यभूमि नीयते चोरः, अयमेव मया भर्त्ता वृत:, तदेनं नृपात् रक्ष, नोचेदहं एतमनुम्रिये। तदाकणं पिता ताम- वादीत् पुत्रि ! किमिदं भाषसे ? चोरोऽयौं पौराणां सर्वस्व- हृत् राजपुरुषैः बधार्थ नीयते कथमेनमहं नृपतेर्मोक्षयामि, कोशी च ते प्रवृत्तिरियमिति निर्भय मानापि यदा सा निर्बन्धं न तत्याज तदासौ बणिक् दुहिटवत्सल: राजानं समुपेत्य सर्वस्वेनापि तं चौर बधमोक्षमयाचत। राजा तु हेमकोटि- शतैः प्रलोभ्यमानोऽपि तं स्वशरीरपणानीतं सर्वापहारिण चौर न तत्याज। तत: पितरि विमुखे प्रत्यावृत्ते सा बणिक्सुता बन्धुभिर्वार्यमाणापि अनुमत्तुं कृतस्नाना शिविकामारुह्य तस्य दस्योर्बध्यभूमिमगात्। पितरो बान्धवाच रुदन्तस्तामन्वगच्छन् । सस्मिंश्च समये बधकैः स चौरः शूलमधिरोपित: गलत्प्राण- स्तथागतां स्वजनान्वितां दृष्ट्वा कथयतो जनात् वृत्तान्तं शृण्वन् क्षणमथूणि मुक्त्वा हसन् प्राणन् जहो। ततः शूलादवतारितं चौरकलेवरमादाय सा साध्वी बणिक्सुता चितामारुरोह। तस्मिंश्च क्षण श्मशाने कृतनिवास: भगवान् भैरवः अदृश्यः अन्तरीक्षात् वाचमिमामुवाच पतिव्रते ! अस्मिन् स्वयंवरपतो तव अनया भक्त्या तुष्टोऽस्मि, तत् मत्तो वर प्रार्थयस्व । तनि- शम्य सा वरदं देव प्रणम्य वर ववे। भगवन् ! अपुत्वस्य मे पितुः पुत्वशतं भूयात् येनानन्यसुतोऽय मां विना प्राणान् न जह्यात् इति वादिनी तां साध्वी देव: पुनरन्तरीक्षात् अब्रवीत् साध्वि ! पितुस्त पुत्त्वशतं भवतु, अन्यञ्च वर वृणीष्व, त्वादृशी दृढ़ सत्त्वा एतावम्मात्रं नार्हति तदाकण्य सा अवादीत् देव ! यदि मयि प्रसन्नोऽसि, तदेष मे भर्ता जीवतु धार्मिक पञ्चदशकथा। जातः इति कथा- सदा भवतु इति। एवमस्तु अक्षतशरीरस्तव पतिः उत्तिष्ठतु, धार्मिकश्च भवतु राजा वीरकेतुश्चास्य तुष्यतु इति उक्तावति अदृश्यमूर्ती शर्वे नभसि स्थिते. सहसा स चौरो जीवनक्षत- शरीरः समुत्तस्थौ। ततो विस्मितहृष्टो रत्नदत्तो बणिक् तां रत्नवतों.चौर जामातरञ्चादाय प्रहृष्टैर्बान्धवैः साई निजमन्दिर प्रविश्य लब्धपुत्ववर: स्वानन्दोचितमुत्सवमकरोत् । वृत्तान्ततुष्टश्च राजा तदेव तं चौरमेकवोरमानाय्य सेनापतिं व्यधात्। स च चौर्य्यात् निवृत्य तां बणिक्सुतां परिणीय धर्मरतः तया साक' सुखेन कालं निनाय माख्याय वेतालो दत्तपूर्वशापभयं भूपं पप्रच्छ राजेन्द्र ! हि सपिटकां समुपागतां तां नणिक सुतां दृष्ट्वा चोरण शूलपृष्ठ- वर्त्तिना रुदितं हसितञ्च किम् ? राजा प्रत्यवदत् चौरेण अस्य अकारणबन्धोः बणिज: नानृण्य लब्धमिति दुःखात् रुदितम्। किमियं कन्या नृपानपि विहाय चोरे मयि · अनु- रक्ता, अहो स्तीचित्तमतिविचित्रमिति सविस्मयेन हसितञ्च। इति वादिनस्तस्य महीपतेरंसात् स वेतालस्तत्क्षणमलक्षित: ख निलयं प्रत्यपद्यत। राजापि अविलुप्तधैर्य्यस्तमनुसरन् तं शिंशपातरुमाजगाम। अथ पञ्चदशकथा। ततो नृपः पुनस्तथैव गत्वा शिंशपामूलं, तं वेताल प्राग्वत् स्कन्धमारोप्य गन्तव्याभिमुखं गन्तुमारेभे। वेतालोऽपि यान्तं तं नपं कथामेतामाचचक्षे ।
देतालपञ्चविंशतिः। आसीत् नेपालराज्ये शिवपुरं नाम नगरम् । तत्र पुरा यश:केतुर्ना र नृपः यथार्थनामा प्रतिवमति स्म। स मन्त्रिणि प्रज्ञासागरनामके राज्यभार निवेश्य चन्द्रप्रभानाम्नवा महादेव्या समं भोगानसेवत । कालेन गच्चता तस्य तस्यां देव्यां शशिप्रभा नाम जगन्नेत्रशशिप्रभा कन्या समुदपद्यत । क्रमेण मा योवनस्था कदाचित् सधुमासे सपरिच्दा उद्याने यात्रोत्सव द्रष्टुपगमत् । अत्रान्तर कश्चित् प्राट्यपुत्रो मन:स्वामी नाम विजयुवा यात्रादर्शनार्थ मागत: तां कुसुमावचयोद्यताम् उत् क्षिप्तबाहुलतिकां लक्षितैकपयोधरां दृष्ट्वा मदनमोहितः तया हृष्टया सद्योहृतस्य मनस: स्वामी नैवाभवत् । किमियं मनो- भुवो रति: वसन्तसम्भृतानि पुष्याणि स्वयम् उञ्चिनुते ? कि वा स्वयं वनदेवता माधवमर्चयितुमागता इति चिन्तयन्तं तं सा नृपनन्दिनी ममपश्यत् । सा च दृष्टमात्रे साने नव इव स्मरे तस्मिन् समुत्सुका पुष्याणि च साङ्गानि च नास्मरत् । इत्येव यावत् तो अन्योऽन्यानुरक्तो चित्रलिखिताविवास्तां तावत् सहमा हाहेति रव: समुदभूत्। किमेतदिति समुत्- क्षिप्तकन्धर पश्यतोस्तयो: उपलब्धान्यमदगन्धोत्यया रुषा भग्ना- नालो मत्तो दिप: निर्गत्य मार्गदुमान् रुजन् पातिताधोरणो लम्बमानामुशस्तनागात् । ततश्च परिजने संत्रस्त विद्रुते स मन:स्वामी युवा ससम्भमं प्रधाव्य तां राजपुत्रीम् अङ्गैः किञ्चित् कृताश्लेषां भयप्रेमत्रपाकुला दोामादाय गजगोचरात् सुदूर- मनयत्। अथ कथमपि प्राप्तपरिजना तं युवानं पश्यन्तो माराग्निपुटपाकपच्यमाना सत्वर राजभवनमगात्। स तु युवा उद्यानात् तस्मात् स्वान्तःपुरप्रविष्टां तां दृष्ट्वा समुत्सको व्यचिन्तयत् एतां विना नाहं क्षणमपि स्थातु जीवितु वा समुत्सहे। तन्मम थीमूलदेवो नामात्र सिद्धो धूत्ती गुरुर्गतिः पञ्चदशकथा। ६८ इति सञ्चिन्त्य कथमपि अवसिते तस्मिन् दिने प्रातस्तस्य गुरो मूलदेवस्यान्तिकमगात्। अपश्यच्च तं मित्रेण शशिना नित्य- सङ्गतम्। ततश्च समुपेत्य तस्मै प्रणम्य तत् स्वमनीषितं न्यवे- दयत्। सोऽपि विहस्य तत् साधयितु प्रत्यपद्यत। तत: स धूर्तपति: मुखे योगगुलिका निक्षिप्य आत्मानं वृद्धब्राह्मणरूप- मकरोत् । द्वितीयां गुलिकां, तस्य मन:स्वामिनो मुखे निक्षिप्य तं सुकान्तकन्यकारूपं व्यधाच्च । अथ स धूर्तराज: तद्रूपं तं समादाय तं राजानमुपेत्य सभायां व्यजिज्ञपत् राजन् ! एक एवास्ति मे पुत्र: तत्कत दूरात् इयं कन्या याचित्वा पानीता परं स मे पुत्र: क्वापि गतः। तमन्वेष्टुमहं यामि, तदेषा कन्या त्वया रक्षाताम्। यावदहं सुतम् अन्वेषामि, त्वं हि विश्वास्यः रक्षिता। इति तच्छ्र त्वा शापभयेन स भूपतिस्तथेति प्रतिपद्य सुतां शशिप्रभा मानाययामास जगाद च तां पुत्रि! कन्या- मिमां स्वमन्दिर रक्ष, स्वपार्खमेवास्याः शय्यां प्रकल्पय। इति पित्रादिष्टया तया स कन्यारूप: हिजयुवा मन:स्वामी निज- मन्तःपुरं नीतः। अथ तस्मिन् मूलदेवे यथारुचि प्रयाते कन्यारूप: स मन:- स्वामी प्रियान्ति के अहर्निश तिष्ठन् कतिपयैः दिवसः सखो- मिव प्रीतिविसम्भशालिनी विदित्वा एकदा विरहक्षामां शय- नीयलुठत्तनु तां राजसुतां रात्री आसन्नशयनस्थित: पप्रच्छ मखि ! किं त्वं दिने दिने पाण्डुरकान्ति: क्षीयमाणा कान्ति- वियुक्तेव दुःखिता तिष्ठसि ? बेहि। स्निग्धमुग्ध सखोजने मयि कोऽविश्वास: ? न चेत् मम वदिष्यसि तदाहं न भोक्षेत्र। तदा- कख सा विनिखस्य शनैरत्रवीत् सखि! किं त्वयि अवि- खास: शृणु कथयामि। एकदाहं यात्रां द्रष्टुं मधूद्यानं गताभूवम्। अपश्यञ्च तत्र वेतालपञ्चविंशतिः। कञ्चित् सुभगं हिममुक्त न्दुसश्रीकं दर्शनोद्दीपितस्मरं मधुमास- मिवालङ्गतकाननं ब्राह्मणपुत्रम्। यावदिमे समुत्स के तन्मुखेन्दु- युतिसुधापायिनी लोचने मे चकोरायितु प्रवृत्ते, तावत् मद- सावी निरर्गल: अकालकालमेघनिभ: महागजो गर्जन् अकस्मात् तत्रागात्। तत्सम्भ्रमाच्च परिजने भयविद्रुते भयवितला अहं तेन विप्रपुत्त्रेण दोामुत्क्षिप्य दूरतो नीता तदा श्रीखण्ड- लिप्तेव सुधासिक्तेव न जाने तदा कामपि तदङ्गस्पर्शेन दशामन्व- भवम् । क्षणेन च परिजनन मिलितेन अवशाहमिहानीता स्वर्गादिव भुवस्तले निक्षिप्तासिम। तदा प्रभृति तैस्तैः सङ्कल्पः कल्पितसङ्गमं तं प्राणदं प्रियं पार्खस्थमिव सदा पश्यामि, सुप्तापि तमेवा आश्लिथामि, किंबहुना तमेव सततं चिन्तयन्ती कालं हरामोति। तमेष मां प्राणेखरविरहानलः दिवानिश दहति । इति तस्या वाक्सधया पूरितश्रवणविवरः स मन:- स्वामी सानन्दः आत्मानं कृतार्थं मन्यमान: आत्मप्रकाशनाव- सरोऽयमिति विविच्य मुखात् गुलिकां निष्कास्य स्व रूप प्रकटीचके। जगाद सुन्दरि ! स एवाहं यस्त्वया उद्याने दर्शन- क्रीतश्विरदासतां नीतः। त्वहिरहातुरोऽहमिदं कन्यारूपं गृहीत्वा त्वत्सकाशमागतोऽस्मि। तदिदानों कामसन्तप्तं मां प्रसाददृष्ट्या निर्वापय इति। एवं वदन्तं तं प्राणेखरं प्राप्त विलोक्य सा राजसुता क्षिप्रं स्नेहाश्चर्यात्रपाकुला सहसा किंक- र्तव्यविमूढ़ा समपद्यत । ततच गान्धर्व विवाहन कृतमङ्गली तौ प्रेम्णा परमेण तत्र निभृतं तस्थतुः । ततः स मन:स्वामी तत्र हिरूपभृत् तस्थौ। दिवा सगुलिक: कन्यारूपः, रात्री निष्कासितगुलिकः पुमान् । अथ मच्छत्स दिनेषु यश:केतो पस्य श्यालको मृगान्दत्तः मृगादत्तां नाम निजां सुतां विजातये महामन्त्रिण: प्रज्ञासा- ।
पञ्चदशकथा। ७१ गरस्य सूनवे महाडम्बरपुरःसरं प्रददौ। तस्मिन् मातुलपुत्वया विवाह सा राजपुची.शशिप्रभा निमन्त्रिता मातुलग्रहं प्रायात् । तया सह सोऽपि कन्यारूपी मनस्वी समायात्। तत्र तं कान्तं कन्यकारूपं मन:स्वामिनं दृष्ट्वा स मन्त्रिसुतः स्मरव्याधबा- ऐनितरां हतोऽभवत्। ततस्तया कपटकन्यया मुषितचित्तः स मन्त्रिसुत: स्वबधूसहितोऽपि शून्यमात्मानं मन्यमान: स्वगृहे जगाम। आगत्य च गृहं तन्मुखलावण्यध्यानासक्तो मोहमगात् । किमेतदिति सम्भ्रान्ते परिजने उत्सवोज्झिते स प्रज्ञासागरः पिता द्रुतं तत्रोपागमत्। तेन च पित्रा आखास्यमान: स मोहात् प्रवुध्य प्रलपन्निव सोन्मादं मनोगतमुज्जगार। तच्च पराधीनं मत्वा तत्पितरि नितरां व्याकुले विदितवृत्तान्तो राजा तत्रैवाययो। स राजा तं तधाविधं दृष्ट्वा सप्तमी मदनावस्था गतोऽयमिति मन्यमानो जगाद कथं ब्राह्मणनिक्षेपः कन्यास्मै दोयते तया च विना नियतमसो पश्चिमां दशां यास्यति । अस्मिंश्च विनष्ट अस्य पिता महामन्त्री अपि विनश्यति। अस्य च नाशे मे राज्यनाश: तदत्र का गति: ? इत्युक्ता: सर्वास्ता: प्रकवयः प्राब्रुवन् राजन् ! प्रजानां धर्मरक्षण राज्ञां परमो धर्मः, तस्य मूल मन्त्र विदुः स च मन्विष्ववस्थितः । मन्त्रिनाशे मूल- नाशात् कथं धर्मरक्षा ? अस्य च सपुत्वस्य मन्त्रिणो द्विजस्य बधात् पापच्च स्यात् तस्मादासन्नोऽयं धमविप्लवः भवता अवश्यं परिहर्तव्यः । मा विप्रन्यस्तकुमारिका मन्त्रिपुत्वाय दातव्या, अथ कालान्तरे विप्रः आगमिष्यति, तदा तस्य प्रतिविधान भविता इति एवं प्रकृतिभिरुतो' नृपतिस्तथेति तां कूटकन्यां मन्त्रिपुत्वाय दातु प्रत्यपद्यत । अथ लग्नं निश्चित्य राजसुता- राहात् आनीत: कन्यारूप: स मन:स्वामी तं महीपति जगाद राजन् ! अन्येन अन्यार्थमानीतां मां यदि अन्यस्मै ददासि, कामं ७२ वेतालपञ्चविंशतिः। तदस्तु, त्वं हि राजा, धर्माधर्मों तवोचिती। अहन्तु ईदृशेन समयेन विवाहमिच्छामि, तावदह बलात् पत्या एकशय्यां न नेतव्या, यावदसौ षण्मासान् तीर्थानि परिभ्रम्य न समायाति । नोचेत् दन्तैः कृत्तजिह्वां मामवधारय। इति तेन समये उक्त राज्ञा सम्बोधित: स मन्त्रिपुत्त्र: प्राप्तनिवृतिस्तथेति प्रतिपद्य पाशु तं परिणीय एकस्मिन् वासके वेत्रिरक्षिते तां मृगास- दत्तां ताञ्च कूटबधं स्थापयित्वा तीर्थयात्रायै प्रतस्थे । । स च मन:स्वामी स्त्रीरूपस्तया मृगाइन्दत्तया सह एकराहे समानशयनाशनस्तस्थो। तथास्थितं तं कदाचित् सा मृगाङ्ग- दत्ता निशि वहि:सुप्तपरिजने शय्याग्रह रहसि प्राब्रवीत् सखि ! कामपि कथामाख्याहि मे निद्रा नास्ति । तदाकण्य स स्त्रीरूपो युवा अस्यै कथामेकामकथयत् सखि ! पूर्वमासीत् इला नाम राजा सूर्यवंशभवः। गोरीशापेन स्त्रीत्वं प्राप्तस्य तस्य विश्व कमोहन रूपमासीत् तदवलोक्य देवोद्यानगतश्चन्द्र- तनयो बुधस्तां चकमे। तयोश्च सङ्गात् पुरूरवा: समजायत । इति का संक्षेपेणोक्त्वा स धृतः पुनरुवाच सखि ! इत्थ देवता- देशात् मन्त्रौषधिबलाच्च कदाचित् पुरुष: स्त्री कदाचन स्त्री च पुमान् स्यात् । तदेव महतामपि कासजा: संयोगा जायन्ते । श्रुत्वैतत् सा मुग्धा तरुणो मृगाङ्कदत्ता सहवासविसम्भात् प्राह सखि ! श्रुत्वा ते इमां कथां मे अङ्ग सिमिसिमायते, हृदयञ्चदं मोदतीव, तदेतत् कि बेहि। तटाकर्ण्य अङ्गनारूप: स: युवा तां प्रत्यवादीत् सखि ! एतानि ते अपूर्वाणि कामचिह्नानि, मया एतानि अनुभूतानि, अहं तव न निगुह्ये। इति तेनोक्ता सा पुनरवादीत् सखि ! त्वं मे प्राणसमा, तदहं त्वां किं न वच्मि, अपि केनापि उपायेन इह पुंसः प्रवेश: स्यात् ? एवमुक्तवतों तां स धूतपतेः शिष्यो युवा विप्रः प्राह यद्येवं तत्ते वदामि, सखि !
पञ्चदशकथा। ७३ तत: स नृपः अस्ति मे वैष्णव: प्रसादः, येनाहं खेच्छया निशि पुरुषः स्यां तदेषः अद्य त्वत्कृते पुमान् भवामि । इत्युक्त्वा स मन:स्वामी मुखात् गुलिकामवतार्य परमसुन्दरस्वरूपं तस्यै अदर्शयत्। ततस्तयो- स्तत्कालोचितरस: कोऽपि रतोत्सव: प्रावर्तत। ततय स तया मन्त्रिसुतभार्यया साक दिवा नारी रात्री पुमान् भूत्वा कञ्चित् कालमनयत्। अथ तं मन्त्रिसतमासन्नागमनकालं वुड्डा तां तदभा-- मादाय निशि खैर पलाय्य क्वापि प्रायात्। ततश्च तं वृत्तान्तं विदित्वा स मूलदेव: पुन: वृद्धहिजाकृति: शशिना मित्रेम सम्भय तं यश:केतुमुपेत्य सविनयमब्रवीत् देव! आनीतोऽयं मया पुचः, तद्देहि मे तां सुषामिति । सन्मन्त्रा शापभीत: समभ्यधात् ब्रह्मन् ! न जाने सा ते स्नुषा क गता ? तत् क्षमस्व, अस्माचापराधात् स्वसुतां तव सुताय ददामि। इत्युक्त्वा तं धूर्तराज क्रोधनिष्ठ र विब्रुवाण जरदिप्ररूपं कथ- च्चिदनुनीय तत्सख्ये कृततत्पुत्तव्यपदेशाय शशिने तां तनयां शशिप्रभां यथाविधि प्रादात्। ततः स मूलदेव: तथाभूती बधूवरी नीत्वा व निलय प्रायात् । तत स्तस्मिन् मन:- स्वामिनि उपस्थिते तस्य मूलदेवस्य अग्रत: तस्य शशिनश्च महान् विवादः समजायत। मन:स्वामी अब्रवीत् एषा शशि- प्रभा मह्यं दीयतां कन्यैवासी मया गुरोरनुग्रहात् प्राक परि. गीता इति। शशी प्रोवाच मूर्ख ! कोऽस्यास्त्व ममैवैषा भार्थ्या। अग्निसाक्षिकमेषा पित्रा मह्यं दत्ता। इत्थ' माया- बलप्राप्तराजपुत्वीनिमित्तं विवदमानयोस्तयोः कोऽपि निर्णयः नासीत्। तद्राजन् ! त्वं मम ब्रूहि, कस्येय भार्या उप- पद्यते ? एतं मे संशय छिन्धि, समयश्च त्वया मम स्मर्य ता- मिति। इति वेतालवचः श्रुत्वा राजा तं प्रत्यभाषत मन्ये- ।
७४ वैतालपञ्चविंशतिः। ऽहं शशिन एवासो न्याय्या भार्या, यस्मै तपित्रा सर्वजन- समक्ष अग्निसाक्षिकञ्च धर्येण वर्मना दत्ता। मन:स्वामी तां चौर्येण गान्धर्वधर्मतो भेजे चौरस्य परस्वषु स्वत्वं नैव कदाचित् न्याय्यमिति। एतत् राज्ञो वचनं निशम्य स वेताल; पुनस्तथैव स्व निलय प्राप। राजापि दृढ़प्रयत्नः पुनस्तत्र मत्वा तं स्कन्धमधिरोप्य गन्तु प्रवकृते । अथ षोड़शकया। अथ राजा तं वेतालं नीत्वा गच्छति स्म। वेतालश्च तम- ब्रवीत् राजन् ! शृणु अपूर्वामकां कथाम् । अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। यो हि गौरीगङ्गयोः हरभार्ययोस्तुल्यप्रभवः। यश्व कुलभूभृताम् अग्रणीः सूर्येणाप्यदृष्टपृष्ठदेश: अभिमानोन्नतः सर्वत्र गीयते । तस्य सानोरुपरि काञ्चनपुर नाम पुर रविणा न्यासीकृतं रश्मिवृन्दमिव विभाति । तत्र जीमूतकेतुरिति श्रीमान् विद्या- धरपति: पुरन्दर इव मेरी समध्य वास । तस्य ग्टहोद्याने कुलक्रमागतः कल्पतरुः स्थितः । स राजा जीमूतकेतुः तं देवस्वरूपं कल्पतरुमाराध्य तत्पसादात् जातिस्पर बोधिसत्त्वां शसम्भव दानवीर महासत्त्व सर्वभूतानुकम्पिनं गुरुशुश्रूषण- परं जीमूतवाहन नाम पुत्र प्राप । कालेन सम्प्राप्तयोवन तं स राजा सद्भिस्तद्गुणैः सचिवैश्य रितः यौवराज्ये अभिषिक्तवान्। कदाचित् योवराज्य स्थितः म जीमूतवाहन; हितैषिभिः पिटमन्विभिरुपत्य जगदे युव- ७५ षोड़शकथा। राज ! योऽय कल्पतरुः सर्वकामदः सर्वभूतानामध्ष्यश्च तवो- द्यान तिष्ठति, अयं तव सदा यूज्य: अस्मिन् अनुकूले स्थिते शकोऽपि नास्मान् बाधितुं शक्नुयात् किमुतापरः ? एतदा- कळ स जीमूतवाहनोऽन्तरचिन्तयत् अहो ! वत ईदृशममर- पादपं प्राप्यापि पूर्व: पुरुषैरस्माक तादृशं फल किमपि नामा- दितं केवल कैश्चिदपि लघणेस्तैः कचिदपि अर्थमर्थितः, तेन चात्मा च महात्मा श्रेषः उभो लाघव नीती। तदहमस्मात् मनोरयमभीष्टं साधयामि, इत्यालोच्य स महात्मा पितुरन्तिक- माजगाम। आगत्य च विहिताशेपशुश्रूषया परितोषितं सुख- मासीनं पितरमकान्ते व्यजिन्नपत् तात! त्वमेव जानासि यदेतस्मिन् संसारमागरे आशरीरसिदं सर्व धन' वीचिविश्चम- चञ्चलं विशेषण अचिरस्थायिनी प्रकाशपलायिनी सन्ध्याविद्य- दिव चला लक्ष्मी: न कुत्रापि कदापि स्थिरा। एकः परोप- कार एवास्मिन् संसारे अनश्वर: युगान्तशतसाक्षिणी धर्मयशसी प्रसूते। तात! तत् क्षणिकेषु एषु सर्वेषु अस्माभिरीदृशः । कल्पतरुः किमर्थ रक्ष्यते यैश्च पूर्वरयं मम ममेति आग्रहेगा रक्षितः, तैरिदानों कुत्र गतम् ? तेषां कस्यायम् अस्य वर ते के ? तस्मात् परोपकारैकफलसिद्धये वदाज्ञया इमं कामदं अल्पपादपम् आराथयामि । अथ पिता तथेति अभ्यनुज्ञात: स जीमूतवाहनः जलतर गवा उवाच देव ! त्वया अस्मत्पूर्वेषामभोष्टा: कामा: पूरिताः. तममैकमनन्यं कामं परिपूरय । यथा पृथ्व पटरिद्धां पश्यामि तवा करोतु देव:। भटूमन्तु ते, उज, लोकाय अर्थिने त्वं मया दत्तोऽमि। इति वादिनि हाताञ्जली जोमृतवाहने व्यक्त स्वया एषोऽहं यातोऽस्मि उति वाम तात्तरोरुदभूत्। चशेन च स कल्पतरुर्दिवः समुत्यत्य भुत्रि त्या वसूनि अवर्षत् यथा वैतालपञ्चविंशतिः। न कोऽपि दुर्गत आसीत्। ततस्तस्य तया सर्वजीवानुकम्पया वेलोक्ये यश: पप्रथे। अथ तद्गोत्रजाः सर्वे मात्सर्य्यात् असहिष्णव: कल्पपादप- रहितं तं जीमूतवाहन सपिटक सुजय मत्वा सम्भूय च तस्य राज्यापहरणाय योडु समनह्यन्त। तदवलोक्य जीमूतवाहनः पितरमवादीत् तात ! धृतायुधेन त्वया योडु कस्य शक्ति- रस्ति ? किन्तु अस्य पापस्य विनाशिन: शरीरस्य कृते बन्धून् हत्वा कोऽकृपणो राज्यमाकाङ्क्षति ? तत् कि नो राज्येन, अन्यत्र क्वचिद् गत्वा वयं धर्ममेव आचरिष्यामः। येन लोक- योरुभयोः सहति: स्यात्। कृपणा एते दायादा राज्य लोलुपा मोदन्ताम्। इति वादिन तं जीमूतकेतुरब्रवीत् पुच ! अहं त्वदर्थ राज्यमिच्छामि, त्वञ्चेत् कृपया तत् अहासि, तदा वृद्धस्य मे तेन किम् ? इत्य कृताभ्यनुज्ञेन पित्रा मात्रा च समन्वितः स जीमूतवाहन: राज्यं विहाय मलयाचलमगात्। तत्र स रचिताथम: पितरौ शुश्रूषमाणस्तस्थौ । एकदा स इतस्ततो भ्रमन् विश्वावसुनाम: सिद्धराजस्य तत्र निवासिन: पुत्रं मित्रावसु नाम दृष्ट्वा सम्भाष्य च मित्रम करोत्। ततश्चैकदा स जीमूतवाहन: उपवने स्थितं देव्या गोर्या आयतन दृष्ट्वा प्रविवेश। ददर्श च तत्र उपवीणयन्ती सखोजनपरिवृतां शैलबालाराधनार्थ स्थितां लोचनलावण्य- दर्शनेन लज्जितैरिव निश्चलमगैराकर्ण्य मानसङ्गीतवीणारवाम् अञ्जनेन कृष्णां कर्णमूल विमथती पाण्डवचमूमिव तारकां बिभ्रतों परस्परोपमर्देन मुखेन्दोरिव दर्शनमटप्तमभिवाब्छन्तो उन्मुखौ स्तनो दधतीं धातुः सृष्टवतो मुष्टिग्रहेणेव निपीड़िते वलीमम्नाङ्गलीमुद्र मध्ये, क्षाममनोरमां कामपि कन्यकाम् । तया च दृष्टया तन्वया स जोमूतवाहन: सद्यो दृष्टिमार्गप्रवि- सखीमपृच्छत् भट्रे ! षोड़शकथा। ट्या मुषितचित्तोऽभूत्। सापि तं भूषितोद्यानउत्कण्ठा- विकारप्रद कामानदाहवैराग्यात् वनमाश्रित मधुमिव दृष्ट्वा अनुरागविवशा तथा विहस्ततां भेजे यथा सखीनां व्याकुलता- मधात् । ततः स जीमूतवाहनस्तस्याः तव सख्याः कि धन्य नाम, को वा वंशोऽनया अलक्षातः ? तदाकये सखी प्राब्रवीत् महाभाग ! इयं हि नाना मलय- वती मित्रावसोः स्वसा सिद्धराजस्य दुहिता। एवमुक्त्वा सा सखी सहृदया तं जीमूतवाहन, सहागतं मुनिपुत्रं अस्य नामान्वयौ पृष्वा तां मलयवती स्मितमिताक्षरमवादोत् सखि ! विद्याधरेन्द्रस्यास्य किमातिथ्य न करोषि ? जगत्पूज्य एषः अतिथि: प्राप्तः इति तयोक्ते सा सिद्धराजसुता तूष्णीं लज्जा- वनतानना अभूत्। तत: सखी लज्जावतीय मत्तोऽची गृह्यता मिति वादिनी तस्मै साध्यां मालामुपानयत्। स च जीमूत- वाहन: प्रेमनिर्भरः तां मालामादाय तस्या मलयवत्याः कण्ठ समर्पयत्। सापि तिर्यक्प्रसृतया स्निग्धया दृशा नीलोत्पल- मयोमिव मालां तस्मै प्रत्यर्पयत्। इत्येवमन्योन्यकताशब्दखय वरयोस्तयोरेका सिद्धराजसुतां कापि चेटी समागत्य जगाद राजपुत्रि! जननी त्वां स्मरति, शीघ्रमागच्छ। तदाकण्य सा कामेषुकीलितामिव सोकां दृष्टि प्रियमुखात् कथञ्चित् प्राक्कथ कृच्छ्रण गृहमगात् जीमूतवाहनोऽपि तहतात्मा स्वमा- श्रममयासीत्। अथ सा प्राणेशविरहातुरा खां जननों दृष्ट्वा शयनीय गत्वा आशु तत्र पपात । अथ सा अन्तर्गतकामाग्निधूमेनेव आविलनेत्रा सन्ताप- क्वथिताङ्गी अश्रूणि प्रमुञ्चन्ती सखीभिश्चन्दनैर्लिप्ता पद्मिनीदलैश्च वीजिता शयने सख्या अङ्के भूतले च न शर्म लेभे। ततश्व वासरे रक्तया सन्ध्यया सह कापि गते, चन्द्रेच हसन्त्याः प्राच्या ७८ वेतालपञ्चविंशतिः। मुखं समाक्रम्य चुम्बति सा स्मरेणापूर्यमाणापि जीवितस्पृहा- शून्या दूतीसम्प्रेषणादिकं लज्जया कत्तुं नाशकत्। निनाय च कृच्छ्रण निशाम् । जीमूतवाहनोपि तबियोगातः शयनस्थोऽपि कामस्य हस्ते पतितः, नूतनोभिवरागोऽपि प्रोन्मिषत्पाण्डुरकान्तिः लज्जामूकोऽपि कामजां पीड़ां वदन् निशामनेषोत् । प्रातश्चोत्थाय नितान्तमुत्सुक: गौ- मन्दिरमगात्। तत्र तेन सख्या मुनिपुत्रेण पृष्ठतः आगत्य यावदसौ समाखास्यते तावत् मदनानलविह्वला सा मलयवती विरहासहा एकाकिनी राहा- निर्गत्य गुप्तं प्राणत्यागाय तत्र निर्जने समायात्। सा पादपा- न्तरितं कान्तमलक्षयन्ती उदथुलोचना देवौं गौरौं व्यजिजपत् देवि! तव प्रसादात् अस्मिन् जन्मनि यदि मे जीमूतवाहन: पति: न लब्धः, तदा अन्यस्मिन्नपि जन्मनि यथा स एव में पतिर्भूयात् तथा प्रसादः क्रियतामित्युक्त्वा सा स्वोत्तरीयेण तत्क्षणम् अशोकतरुशाखायां तस्या एव देव्या अग्रतः हा नाथ ! जीमूतवाहन! विश्वविख्यातकरुणेनापि त्वया कथ- मस्मि न परित्राता इत्युत्ता यावत् गले पाशं नियच्छति तावत् दिवि उदीरिता भारती अन्तरीक्षात् समुच्चचार। पुत्रि ! मा साहसं कार्षी:, भाविविद्याधरचक्रवर्ती जीमूतवाहनस्ते पतिर्भवि- ष्यति। इति देवीवाचमाकये सवयस्य: जीमूतवाहनः दृष्टां तां प्रियामुपाजगाम। एष ते देव्या वरः प्रदत्तः सत्यमेव इति तन्मित्रे मुनिपुत्रे तां बालां जल्पति जीमूतवाहनस्तत्तत् पेशलं ब्रुवन् स्वहस्तेनैव तस्याः कण्ठात् पाशममोचयत्। ततोऽकस्मात् तत्र पुष्याणि चिन्वतो कापि सखी तं व्यापारमवलोकयन्ती दृष्टा समेत्य तां सनीड़या दृशा भुवं लिखन्तों जगाद सखि ! दिट्या वर्चसे अभीष्टसिडितः, अयेव महाराजो विखावसुस्ते पिता मम सनिधी कुमारेण मित्रावसुना विज्ञप्तः तात! जग- षोड़शकथा। ७८ मान्यः कल्पतरुप्रदः योऽयं विद्याधरेन्द्रतनयो जीमूतवाहन इहागतः, स: अतिथित्वेन न: पूज्य:, तादृशश्चान्यो वरः न दृश्यते, तस्मादसौ मलयवत्या कन्यारत्ने न पूज्य ताम्। तथेति राजा अद्धिते नाता ते मित्रावसुः अस्य महाभागस्य प्राश्रम- मद्यैव गतः। मन्ये सद्य एव ते विवाहो भविता तत् स्व मन्दिरमागच्छ, एष च महाभाग: स्वमाश्रमं यातु। इति तया सख्याभिहिता सा शनैः प्रहृष्टा समुत्सुका च प्रायात् । जीमूतवाहनोऽपि शीघुमाश्रममाजगाम। आगत्य च मित्रावसो यथाभीष्टं कार्यं श्रुत्वा अभिनन्द्य च खां जातिं पूर्ववृत्तान्तञ्च तस्मै समाचचक्षे। ततो मित्रावसुः प्रीतः परितुष्टयोस्तत्पिता- रावेद्य गत्वा खग्राहं पितरी तहातावर्णनेन समनन्दयत् । अनयच्च तस्मिन्नेव दिने स्वं एहं जीमूतवाहनम्। ततश्च यथं महोत्सवं विधाय तत्रैव शुभे दिवसे तस्य विद्याधरेन्द्रस्य मलयवत्याश्च विवाहविधिं निरवर्त्तयत्। ततो जीमूतवाहन: सिहमनोरथ: तया नवोठ्या मलयवत्या सह तत्रैव कियन्तं कालं तस्थौ। एकदा कौतुकाक्षिप्तचिचः स मित्रावसुना सह मलयाट्रि भाम्यन् समुद्रवेलामाससाद । तत्रास्थिसङ्घातान् पतितान् दृष्ट्वा स तं मित्रावसुं केषामेते अस्थिसङ्घाः प्राणिनामिति पप्रच्छ। तत: श्यालको मित्रावसुः तं कारुणिकमब्रवीत् सखे! शृणु अत्र वृत्तान्तं संक्षेपेण ते कथयामि । पुरा नागमाता कद्रुः ताक्ष्य मातरं सपत्नीं विनतां सकपट- पणनिर्मितां दासतामनेषोत्। तेनैव वैरेण ताय स्तां मातरं दास्यान्मोचयित्वापि बलात् नागान् कद्रुपुत्रान् सदा पातालं प्रविश्य भक्षयितु कांश्चित् जघान, कांश्चित् ममर्ड च। इत्य क्रमेण सर्वनागेषु व्यापबेषु सर्वक्षयमाशय नागराट वासुकि;
वेतालपञ्चविंशतिः। प्रार्थनापूर्वं ताक्षण समयं व्यधात्। खगेन्द्र ! एकमेकं नागं ते आहारार्थ प्रत्यहं प्रेषयामि अत्र दक्षिणोदधे: पुलिने, त्वया तु पुन: कदाचन पातालं न प्रवेष्टव्यं, सर्वेषु नागेषु एकपदे निहतेषु तव क: स्वार्थः इति नागराजेनोक्ते स गरुड़: स्वार्थदर्शी तथेति प्रत्य पद्यत। तदा प्रभृति दिन दिने असौ गरुत्मान वासुकिप्रेषितमकैकं नागं अस्मिन् अम्बुधे: पुलिने भुतो, एते च तेषां भक्षामाणानां नागानामस्थिसञ्चया: कालक्रमात् गिरि- शृङ्गनिभाः समपद्यन्त। इति मित्रावसोर्मुखादुपश्रुत्य सान्त- दुःख: स जीमूतवाहन: निजगाद सखे ! शोच्यः स राजा वासुकिः यः स्वहस्तेन स्वाः प्रजा विहिषे उपहारीकरोति, स लीव: धृताननसहस्रोऽपि एकेन आननेनापि मामग्रत: भुच्च गरुत्मन् ! इति भाषितु नाशकत्। कथं वा निःसत्त्वः स्व- कुलक्षये ताक्षप्रमभ्यर्थयामास, कथं वा ताक्षय: कश्यपसुतो वीरः कृष्णवाहनः ईदृशं पापं कुरुते, अहो मोहस्य प्रागल्भ्यम् ? इति उक्वा स महासत्त्वः असारण देहेन अद्य एकस्यापि नागस्य जीवितरक्षणं कुयामिति मनसि सङ्कल्पा स्थिते तस्मिन् जोमूत- वाहने मित्नावसोः पितुराज्ञया कश्चित् प्रतीहारः तयोराह्वानार्थ- माजगाम। स तु जीमूतवाहन: व्रज त्वमग्रतः, अहं पश्चाद यास्यामीति तं मित्रावसु विसृज्य स्वयं तत्रास्थात् । तस्मिंश्व गते जीमूतवाहन: तत्र वाञ्छितार्थोन्मुखो भ्रमन् दूरात् करुणं रुदित- मशृणोत् गत्वा च उत्तुङ्गशिलातलसमीपगं एक दुःखितं युवानं सुन्दराकृतिं राजभटेनेव पुसा पानीय तत्क्षणं त्यक्तं रुदतों वृद्धां मातरं सानुनयं निवर्तयन्तं पुरुषमद्राक्षीत् । अथ कोऽयमितिजिज्ञासुः स यावदत्र करुणा चेताश्छन्नः शृण्वन् जीमूतवाहनस्तिष्ठति स्म तावत् सा वृद्धा दुःखभारातिपीड़िता स्त्री युवानं तं अनुशोचितु प्रावर्त्तत हा शङ्खचूड़ ! हा दुःख- कियडूरं षोड़शकथा । ८१ शतलालित ! हा गुणिन् ! हा कुलकतन्तो ! पुच ! क्वाहं त्वां पुनः शामि, वत्स ! त्वन्मुखचन्द्रे गते स तव पिता शोकान्ध- कारपतितः वृधः कथं जीविष्यति, अर्ककरस्पर्शादपि यत्तव अङ्ग दूयेत, कथं तत् ताक्षप्रभक्षणजां रुजां सोढुं शक्षाति । विस्तीर्स- नागलोकेऽपि विधाना नागाधिपेन च अभव्याया मे एकसुतस्त्व विचित्य किं लब्धः? इति विलपन्तों तां सयुवा तनयः प्राब- वोत् मातः! दुःखार्त्तमपि मां किं भृशं दुःखयसि ? गृहानव निवर्तस्व, एष ते पश्चिमः प्रणामः। आगमनवेला चेयं गरु- स्मतः । तदाकर्ण्य हा हतास्मि को मे पुत्तमिह पास्यतीति सा वृद्धा दिसु प्रक्षिप्तातलोचना भृशं चक्रन्द। एतत् सर्वमाकर्ण्य बोधिसत्वांशसम्भव: स जीमूतवाहन: दृष्ट्वा श्रुत्वा च सर्व गाढ़करुणो व्यचिन्तयत् हन्त ! अयशस- चूड़ो नाम नाग: वासुकिना आहाराय तााय प्रहितः, इयञ्चास्य जननी सेहेनान्वागता, एकसुता चेय दुःखिनो निता न्तमार्त्ता विलपति। तदेनमेवमातम् एकान्तनाशिना देहेन यदि न रक्षामि साम्प्रतं तन्मे निष्फल जन्म धिक । इत्या- लोय मुदा समुपगम्य जीमूतवाहन: वृद्धां तामुवाच । मात: ! अहं ते पुत्त्रं रक्षामि, मा रुद। इति श्रुत्वा सा हवा गरुड़शशिनी सन्त्रस्ता, तार्य ! मां भुव, इति जगाद । शडचूड़: प्राब्रवीत् मातः! नैषः तााः मा त्रास कार्षीः क्वाय चन्द्र इवान्तरिन्द्रियमाह्वादयति व चासौ तार्ता: भयमुत्पाद- यति। इति शङ्खचूड़ेनोक्त जीमूतवाहनोऽब्रवीत् अम्ब ! अहं विद्याधरः ते सुतं रक्षितुमायातः स्वमेतत् शरीरं वस्त्रच्छन्नं गरुत्मते क्षुधिताय दास्यामि त्वमेत सुत नीत्वा ग्रह व्रज । तदाकण्य वृद्धा अवदत् मा मैवं त्वं मम अधिकः पुत्रः, यस्य ईदृशेषु अस्मासु ईदृशी कपालुता। एतदाकये स जीमूत- नाग- ८२ वेतालपञ्चविंशतिः। वाहन: पुनरब्रवीत् मात: ! न त्वमस्य मे मनोरथस्य भङ्गं कत्तुः समि। आग्रहण एवं ब्रुवन्तं तं शसचूड़ोऽवादीत् महासत्त्व ! त्वया सत्यं कृपालुता दर्शिता, नाहन्तु त्वच्छरीरेण स्वशरीर रक्षितुमिच्छामि । रत्नव्ययेन को हि पाषाण रक्षति ? मादृशैः स्वमात्रानुकम्पिभिर्विश्वमापूर्ण, येषां जगदनुकम्पंय तादृशा भवादृशा अतिविरलाः। हे साधो! अहं कलङ्गः शशिविस्व- मिव शङ्गपालकुल शुचि कलङ्कयितुं न च शक्ष्यामि। इति तं प्रतिषिध्ये व शङ्खचूड़ः मातर पुनर्जगाद अम्ब ! अस्मात् कान्तारात् निवर्तस्व, अवैतत् नागानामसृभिरुक्षितं कृतान्त- लीलापर्यन्तरोट्र मध्यशिलातलं किन पश्यसि ? अहमिदानीम् अश्धितटं गत्वा गोकर्णाख्यमीश्वर नत्वा द्रुतमागच्छामि, यावत् ता| नागच्छति। इत्युक्त्वा मातरम् आपृच्छय च स शङ्ख- घृड़ो गोकर्णप्रणामार्थमगात्। अस्मिंश्चेत् समये ताक्षी भाग- च्छेत् तदा मे मनोरथ: सिद्ध: स्यात् इति जीमूतवाहनो यावत् मनस्य करोत् तावत् पासवपक्षीन्द्रस्य पक्षपवनान्दोलितान् निवारणपरानिव सरूम वीक्ष्य गरुड़ागमनवेलेयमिति मत्वा जीमूतवाहनः परार्थप्राणदित्सपा तां बध्यशिखामारुरोह। प्रारुढीव तं महासत्वं गरुड़: सहमा निपत्य तस्मात् शिला- तलात् चचा जहार। जवाञ्च स्रतशोणितधारम् उत्तातशिरा- रत्न तं नीत्वा मलयाद्रः शृङ्गे भक्षयितुमारेभे। एवमेव प्रति- जन्व मे परार्थो देहः स्यात्, परोपकृतिरहितो स्वर्गमोक्षौ मा भूतामिति ताण भक्षामाणस्य तस्यानुध्यायत: विद्याधरेन्द्र- स्योपरि जलस्तलात् पुष्यष्टिः पपात। अत्रान्तरे स रक्तधाराक्त- शिरोमणिः नत्पना मलयवत्याः पुरोऽपतत्। तत् चूड़ारत्न दृष्ट्वा सुविह्वजा व गुस्योरन्तिकस्था सास्रं ताभ्यामदर्शयत् । ती च दमानी खूनोतं चूड़ामगि विलोक्य सहसा किमेतदिति ८३ 4 षोड़शकथा। सम्भान्ती बभूवतुः। तत: स्वविद्यानुभावात् यथावृत्तमवेत्य राजा जीमूतकेतुः राज्ञी च बध्वा मानयवत्या मह द्रुतं तत्र यावत् गन्तु प्रावर्तेतां तावत् स शङ्खचूड़स्तं गोकर्ण शिवं प्रणम्य तवाययो। ददर्श च तत् शिलातल रुधिराट्रम्। दृष्ट्वैव हा हतोऽस्मि महापापः, ध्रुव तेन महात्मना कृपालुना मत्कृते गरुत्मते आत्मा दत्तः, तदन्वेषामि स महात्मा शत्रुणा क नीत:, तञ्चेत् जीवन्तमाप्न यां तदा अयश:पझे न मज्जेयम् । इति उदश्रुर्वदम् स निरन्तर सान्द्रां पतितां रतधारामनुसरन् ययो। अत्रान्तरे तं जीमूतवाहन भक्षयन् गरुड़म्तं दृष्टं विलोका व्यचिन्तयत् अहो! अपूर्वः कोऽपि अय महासत्त्वः, मया भक्षामाणोऽपि प्रहृष्यति, न तु प्रारणेवियुज्यते, बिभर्ति च लुप्त शेषेऽपि गाने रोमाञ्चकाञ्चुकम्। किञ्चास्य उपकारिणीव दृष्टि मयि प्रसीदति। तदेवः न नागः, कोऽप्येष महापुरुषः, तदनं पृच्छामि, न पुनर्भक्षयामि। इति विमृषन्तं तं ताक्षा जीमूत- वाहन: प्राह पक्षिराज ! कि निवृत्तोऽसि, अद्यापि मे देहे मांसशोणित वर्तते, न च ते टप्तिं पश्यामि, तत् पुनर्भुव । एतदतिविचित्रमाको स पक्षिराट् तं पप्रच्छ महात्मन् ! नैव त्वं नाग:, तद् बेहि को भवानिति । नाग एवास्मि, कोऽयं से प्रश्नः, प्रकृतमनुसर, को हि बालिश: प्रस्तुतार्थविरुद्धमाचरेत् ? इत्थ जीमूतवाहने ताहं प्रेरयति समुपेत्य स शङ्खचूड़: दूरात् तमुवाच विनतानन्दन ! मा महापापं साहसञ्च कथाः, कोऽय ते भ्रम: ? न होप नागः, नागोऽहमस्मि। इत्युक्त्वा द्रुतमेत्य तयोर्मध्ये विभ्रान्तं ताक्षय पुन: शङ्खचूड़ोऽब्रवीत् गरुत्मन् ! कस्ते भ्रमः, मे फणं हे च जिह्वे न पश्यसि ? किञ्चास्य सोम्या माशति न पश्यसि ? इत्य शङ्खचड़े वदति सा भार्या मलय- ८४ वेतालपञ्चविंशतिः । ? पञ्चत्वमवाप। वतो पितरौ च सर्वेऽत्र सत्वरमाययुः। तच्च विलुप्ताङ्ग पुत्रं दृष्ट्वास्य पितरौ हा पुत्त्र ! हा जोमूतवाहन ! हा कारुणिक ! हा वत्स ! हा परार्थप्रदत्तजीवित ! इति विलपन्तौ भृशं रुरु- दतुः। हा वैनतेय ! त्वया कथमिदमविमृष्य समाचरितम् । इति श्रुत्वा ताक्षी भृशमनुतप्तो व्यचिन्तयत् हा! कथ बोधि- सत्त्वांशसम्भवो मया मोहात् भक्षितः ? सोऽय जीमूतवाहनः परार्थप्राणदाता, यस्य कृत्स्रेऽत्र जगति कीर्त्तिघोषणा भ्रमति । तदस्मिन् मृते पापस्य मे अग्निप्रवेशनं युक्तम्। अधर्मविष- वृक्षस्य स्वादु फल कि पचते ? इत्येवं चिन्ताकुले तानें। स जीमूतवाहन: बन्धून् समागतान् दृष्ट्वा निपत्य व्रणव्यथया ततस्तत्र शोकदीनयोस्तत्पित्रोहिति विल- पतोः शङ्खचूड़े च आत्मान' निन्दति सा मलयवतो अश्रुगद्दं नभो दृष्ट्वा पूर्वप्रसन्नां तां वरदां देवीमम्बिकामिति उपालभत, मात: ! विद्याधर चक्रवर्ती .ते पतिर्भविता इत्यहं त्वयादिष्टा तन्मम भाग्येन त्वं मिथ्यावादिनी जातासि इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षीभूय, पुत्ति ! न मे वचो मृषा इत्युक्त्वा कमण्ड- लोरमृतेन तं जीमूतवाहन सिषेच। तेन च स: अक्षतसर्वाङ्ग: पूर्वाधिकतरद्युतिर्जीवन् सद्यः समुत्तस्थौ। अथ सा देवी सर्वेषु प्रणमत्सु उत्थित प्रणतं तं जीमूतवाहन प्राब्रवीत् पुत्व ! तुष्टास्मि ते अनेन देहदानेन, तदेषाहं निजेन पाणिना विद्या- धरचक्रवर्तिपदे त्वामभिषिञ्चामि। एवं वदन्ती देवी कल- साम्बुभिः तं जीमूतवाहनमभ्यषिञ्चत्, तेन च पूजिता तत्- क्षणात् तिरोदधे। अस्मिंश्च समये नभस: दिव्याः कुसुमवृष्टयः पेतुः, नेटुश्च सहर्ष दिवि देवदुन्दुभयः अथ गरुत्मान् विनतस्तं जीमूतवाहनमुवाच चक्रवर्त्तिन् ! अहं पुरुषातिशये त्वयि अतिप्रीतोऽस्थि, येन अपूर्वोदारमतिना ८५ षोड़शकथा। खया विजगत् कौतुकायहं ब्रह्माण्ड भित्तिलिखितम् इदं चित्रं छतम् । तमामानापय, मत्तश्चाभिमतं वरं वृणीष्व। इति वादिनं गरुडं स महासत्त्वः प्रावदत् गरुत्मन् ! सामुतापन त्वया पुनर्नागा न भक्ष्याः, ये चास्थिशेषा: पूर्व त्वया भक्षितास्ते जीवन्तु इति। एवमस्तु न भोक्षेत्रऽहमतः परं नागान् ये च प्राग्भुक्तास्ते च जीवन्तु इति तेन वरे दत्ते ये नागा अस्थिशेषाः पूर्वभक्षितास्ते च सर्वे सद्यः समुत्तस्थुः । तत: सर्वेषु सुरनाग- मुनिगणेषु सानन्देषु मिलितेषु स मलयाचल: लोकत्रयभूम्याख्या लेभे। तस्मिंश्च काले गो-: प्रसादात् सर्व विद्याधरेवराः तमद्भुतं जीमूतवाहनोदन्तं विविदुः । ततश्च ते सर्वे समेत्य चरणावनता: तं मुदितबन्धुसुहृत्समेतं गौरीखकरकतमहाभि- घेक हिमाद्रि निन्युः । तत्र गत्वा स जीमूतवाहन: पित्रा माना भार्यया मलयवत्या मित्रावसुना लोकोत्तरचरितेन शङ्ख- चुड़ेन च समं बहुरत्न शोभितां विद्याधरचक्रवर्त्तितां भुजान: सुखमध्य वास। इति महतौं विचित्रां कथामाख्याय वेताल: पर्यपृच्छत् राजन् ! ब्रूहि शङ्खचूड़-जीमूतवाहनयोः कोऽधिक: सत्त्वेन ? यदि जानवपि न वदसि, तदा पूर्वमेव दत्तः शाप: सम्भविता इति। राजा अब्रवीत् बहुजन्ममिदमेतत् जीमूत- वाहनस्य न चित्रं, श्लाघ्यस्त्वत्र शङ्खचूड़ा, यो मरणादुत्तीर्णोऽपि अन्यं प्राप्य सुदूर गताय शत्रवे तााय पश्चात् धावन् स्वं देह- मुपानयत्। एतत्तस्य नृपस्य वचनं निशम्य वेतालः शिंश- पान्तिकमगात्। राजापि तमानेतु पुन: प्रययौ। ८ अथ सप्तदशकया। अथ राजा पुन: शिंशपामूलमुपेत्य वेतालञ्च तं तथैव स्कन्ध- मारोप्य चलितुमुपचक्रमे। वेतालश्च तं पुनरब्रवीत् राजन् ! श्रमविनोदाय पुनरहमेकामाख्यायिकां कथयामि शृण । पुरा गङ्गाकूले कनकपुर नाम पुरमेकमासीत्, यस्मिन् धर्मस्य एकोऽपि पादः कलिना न विहतः। तत्राभवत् यशो धराख्यो यथार्थनामा महीपतिः। यो हि धीरो वेलाट्रिरिव क्षितिं विप्लवात् ररक्ष। यश्च जगदावादकश्चण्डप्रतापोऽखण्ड- मण्डलश्च विधिना चन्द्राविकीकृत्येव विनिर्मितः । जनता य पापभीरु यशोलुब्ध परस्त्रीषु षण्डं शौयौदार्यमय विदन्ति । तस्य राज्ञः पुरे कश्चित् महाबणिक् प्रतिवसति स्म। तस्व उन्मादिनी नाम कन्याभवत्। यस्तामद्राक्षीत् स मदनबाण- हत: उन्मादवानेवाभूत् । तस्यां यौवनस्थायां स बणिक नीतिविज्ञ: तं यशोधर राजानमुपेत्य व्यजिज्ञपत् प्रभो ! त्रैलोख्यरत्नभूता मे कन्यैका प्रदेयास्ति, तां देवस्य अनावेद्य अन्यस्मै न दातुमुत्सहे। अस्मिंश्च भूमण्डले देव एव सर्वरत्नानां प्रभुः, तत् तां स्वीकृत्य मामनुगृह्णातु देवः। इति तस्य वचन- माकर्ण्य स राजा निजान् ब्राह्मणान् तस्या लक्षणानि परी- क्षितुं व्यसृजत्। ते ब्राह्मणा गत्वा तां त्रिलोकसन्दरों दृष्ट्वा सद्यः क्षोभमगमन् व्यचिन्तयंश्च यदि राजा इमां परि णयेत् तदा राज्यमवसोदेत्, एतस्यामासक्तचित्त: स कदापि न हि राज्यमवेक्षिष्यते। तस्मादेषा सुलक्षणेति राज्ञ नाम्माभिः कथनीयेति । इत्येव मनसि सङ्गाल्पा ते राजान्तिकमा- जग्म : ऊचुश्च देव ! सा कुलक्षणेति, तेन च स राजा तां सप्तदशकथा। बणिकसुतां न स्वीचकार। ततस्तदाज्ञया स बणिक तां कन्यां बलधराख्याय सेनापतये प्रददौ । सा भर्तृग्टहे तेन भर्चा सुखेनास्थात् । अथ गच्छति काले हेमन्तहस्तिनं प्रफुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनं हत्वा लसत्पुष्पमञ्जरीकेसरावलि: चूताङ्गुर- नखः कानने कीड़न मधुकेसरी समाजगाम। तस्मिंश्च काले वसन्तोत्सव द्रष्टुं स राजा यशोधरः गजारूढ़: निर्जगाम । तद्रूपेण सम्भाव्यविप्लवा: कुलयोषितः अपसारयितु तदा उघुथ दत्तं डिण्डिमं श्रुत्वा सा उन्मादिनी परित्यागावमानिता स्वग्रह- हर्यतः तस्मै राज प्रात्मानमदर्शयत्। स च राजा सन्धु- क्षितस्य मधुना मलयानिलैः कामाग्न : ज्वालामिवोहतां तां दृष्ट्वा चुक्षुभे। तस्याश्च रूपं मनोभुवो जैनमस्त्रमिव हृदये गाढ़ प्रविष्ट निर्वणयन् क्षणात् मोहमगात् । अथ स भृत्यैराखासितो राजधानों प्रविश्य पृष्टेभ्यस्तेभ्यस्तां प्रागुपनतोज्झिताम् उन्मादिनों बुबुधे। तत: स राजा तान् कुलक्षणेयमिति वादिनो विप्रान् देशानिर्वास्य अनुदिन तामेव समुत्सुको दध्यो। अहो! जगनिष्कलङ्ग तस्या मुखे सति निर्लज्जो जड़ात्मा अयशशो नित्यमुदेति। कठोरी हेमकलसी गजकुम्भौ च कर्कशौ अस्याः पीनयोस्तुङ्गयोः पयोधरयोः सादृश्यं न लभेयाताम् । काञ्चीनक्षत्रमालया विराजितम् अस्या जघनस्थलं कन्दर्पमातङ्गमस्तकनिभं कं न विलोभयेत्। इत्येवं तामन्तश्चिन्तयन् राजा कामाग्निपुटपाकेन पच्यमान: दिवानिशं क्षीयते स्म। ह्रिया निगूहमानश्च पृच्छदभ्यः प्राप्तेभ्यः तत् पोड़ाकारसं पप्रच्छ। अल सन्तापन, स्वाधीनां तां किं न भजसे? इति तैरभिहितः स धार्मिक: नरपति:: नैव तदनु- मेने। ततो बलधरो नाम सेनापतिः तद विदित्वा उपत्य वेतालपञ्चविंशतिः। ? उत्तमसत्वा चकार। च चरणानतः प्रभुमभ्यर्थयामास। देव ! दासस्वी सा तव दास्येव, न पराङ्गना। अहञ्च खयं प्रयच्छामि, तदेनां मे भार्या ग्रहाण, अथवाहं तां इह देवकुले त्यजामि, तर्हि तस्या ग्रहणे न दोषः, इति सेनापतिना निर्बन्धेन अभ्यर्थमानो- ऽपि सान्तःकोप तमुवाच अह राजा भूत्वा कथमीदृशमधर्म कुर्य्याम्। मयि धर्ममतिकामति कः स्ववर्मनि तिष्ठेत् ? भक्तोऽपि त्वौं कथं मां पापे परलोकमहादुःखहेतौ क्षणमुखा- वह नियोजयसि ? यदि त्वं धर्मपत्नी विहास्यसि सदा त्वां न क्षमिथे। मादृशः को हि तादृश धर्मविप्लव सहेत ? तहर मृत्युरिति उक्त्वा स राजा तं निषिषेध हि प्राणानपि त्यजन्ति न सत्पथम् । तथैवार्थयमानान् सर्वा- नपि पौरजानपदान् मिलितानपि स राजा सुदृढ़निश्चयो निरा- ततः क्रमेण तेनैव समरज्वरभवोषणा अभीक्षणं प्रक्षीणदेहः स राजा यशोधरः यश:शेषतां प्रययौ। सेनापतिय प्रभोस्तथा विलयमसहिष्णुः अम्नि विवेश, अनिर्वचनीय हि भक्तचेष्टितम्। इति कथामाख्याय स्कन्धस्थितो वेताल: तं पप्रच्छ राजन् ! एतयो: सेनापतिमहीमृतोः कोऽधिको मतः ! त्वया पूर्वदत्तशापमनुस्मृत्य वक्तव्यम् । राजा प्रवदत् अहं राजानमधिकं मन्ये । तदाकर्ण्य वेताल: साक्षेपमब्रवीत्, राजन् ! सेनापतिः कथं नाभ्यधिकः ? य: स्वामिने तथा- विधां स्वभार्या सुचिरेण ज्ञाततद्भोगसुखास्वादोऽपि समुपानयत् प्रभौ च पञ्चत्वमागते तदभल्या पात्मानमग्निसादकरोच, राजा तु अनाखादिततभोगस्तस्य भायां जही। वेतालेनैवमुक्तः स राजा विहस्य पुनरब्रवीत् यद्यप्येतत् तदपि मातिचित्रं तत् कुलपुत्वो हि सेनापतिः, स भक्त्या यत्तथाकरोत्। प्राणैरपि भृत्यानां स्वामिरक्षण व्रतम् । राजानस्तु मदामाता गजा ।
अष्टादशकथा। ८८ एव निरङ्कुशा विषयोमुखा धर्ममर्यादाशृखला छिदन्ति। तेषां हि उट्रिक्तचित्तानां अभिषेकाम्बुभिः समं विवेको विगलति चलचामरमारुतैरुडूय तेषां वृहोपदिष्टशास्त्रार्थरजांसि उत् क्षिप्यन्त इव। आतपत्रेण च सत्यं सूर्यालोक इव निवत्त्य से। विभूतिवात्यया चोपहता दृष्टिः मार्ग नेक्षते। जगहिजयिनो- ऽपि ते ते नहुषादयो राजान: मारमोहितचेतसः तां तां विपदं प्राप्तवन्तः । एष राजा पृथिव्यामेकच्छतोऽपि यत्तया उन्मा- दिन्या चपलया लक्ष्ममा इव विमोहितोऽपि प्राणानपि तत्याज न पुन: प्रमार्गे पदं निदधे, तेनासौ वीरः मे अधिको मतः । इत्याकर्ण्य नृपतेर्वाक्य स वैतालः स्कन्धवर्ती पुनः स्वमेव पदं मायया प्रायात्। राजापि अचलचित्तस्तं तथैवानुससार । प्रारब्ध सुदुष्करेऽपि महतां मध्ये विरामः कुत एव इति । अथ अष्टादशकथा। A ततः स राजा क्रव्याद्भिः परिवृते ज्वालाविलोलरसन तै- रिव चिताग्निभिः समन्तादतिरौद्र तस्मिन् पिटवने तस्यां क्षपायां तं शिंशपातरुमुपेत्य तत्र वेतालविकृतान् सदृशाकृतीन् तस्मिन् तरौ लम्बमानान् सुबइन् प्रेतकायान् अशङ्कितमद्रा- क्षीत्। अहो! किमेतत् किंवा अयं मायो वेतान्नो मे काल क्षिपति, येन इह भूयसां एषां क ग्राह्यं न वेद्मि, यदि असि- डार्थस्य मे रात्रिरियं गच्छति, ततोऽहं वह्नि प्रवेच्यामि, न तु हास्यतां सहिथे। इति चिन्तयतस्तस्य राज्ञो निश्चय ज्ञात्वा सत्त्वतुष्टः स वैताल: तां मायां संजहार। ततोऽसौ एकमेव ८० वेतालपञ्चविंशतिः। नरकलेवर स्थितं वेताल दृष्ट्वा तथैवावतार्य असेन गृहीत्वा पुन: प्रतस्थे। प्रस्थितञ्च तं स वेताल: प्राब्रवीत् राजन् न विरज्यसि चेत् तदिमां कथां कथयामि शृण। अस्ति गोर्या तपसा परितुष्टकृतेन शम्भुना असामान्य- गुणोत्कर्षलुब्धे नेव स्वय निर्मिता भोगवत्यमरावत्योस्तृतीया उज्जयिनी नाम पुरी। यस्थामुदारसक्लतिनः नानाभोगेन उपह हिताः स्वर्गसपि न कामयन्ते। यस्यां वरयोषितां कुचेषु कार्कश्यं, लोचनेषु चापलं, भूष भङ्गिः । यस्वाञ्च निशासु तमः, कविवक्रोक्तिषु वक्रत्वं, दन्तिषु मदो, मुक्ताचन्दनशशाङ्केषु जाड्यमासीत्। तस्याञ्च चन्द्रप्रभो नाम राजा अभवत्। देव- खामोति विश्रुतो बहुधनसम्पन्नः बहुयन्नः बहुश्रुतश्च कश्चिहिप्रः तस्य अमात्य आसीत्। तस्य तनयश्चन्द्रस्वामी नाम कदाचित् कामपि विक्षिप्तः कृष्णसाराभैनेरिवानिरन्तरम् अत्र कम् आश्लिष्याम इति विपद्भिरिव वौक्षितां कोऽसौ अस्ति, यस्य अलकापतेरपि श्रिय न हरामि इति द्यूतकृतां कलहस्वनैरुच्चै- वदन्तीमिव द्यूतकारमहागोष्ठी द्यूतेन क्रीड़ित ययौ। तां प्रविश्य स क्रमात् तैः कितवैरर्दीव्यन् वस्त्रादिक हारयित्वापि अन्यत् धनमहारयत्। यदा तु तद्धन तैर्याच्यमान नादात् तदा सभिकेन सोऽवष्टभ्य लगुडैरतायत। लगुड़ाहतसर्वाङ्गः स विप्रसुतः पाषाणमिव निश्चलम् आत्मान मृतमिव कृत्वा तस्थौ। तथैव च हिवान् दिवसान् तस्मिन् तत्र अवस्थिते क्रूरः स सभिक: तान् कितवानभाषत अनेन पाषाणक श्रितं, तदेनं क्वचित् अन्धकूपे नीत्वा क्षिपत, अहं युमाकं एतद्देयं धन दास्यामि। इति तेनोक्ता: कितवास्तं चन्द्रस्वामिनम् उत्- क्षिप्य कूपगवेषिण: दूरम् अरण्य निन्युः। तत्रागत्य कश्चित् वृहः कितवस्तानन्यान् एवमब्रवीत् अयं तावत् प्रायशो मृतः अष्टादशकथा। ८१ तत् किसनेनाधुना कूपे क्षिप्तेन, तदिहैव एनमुभित्वा गत्वा कूप उझितं वक्षयामः । इति तस्य वचस्ते सर्वे तथेति प्रति- पद्य तथैव तं त्यक्त्वा गताः । अथ गतेषु तेषु कितवेषु स चन्द्रस्वामी समुस्थितः तत्र शून्य- मेक शिवमन्दिर विवेश। तत्र किञ्चित् समाश्वस्य सुदु:- खितश्चिन्तयामास हा कष्ट ! विश्वस्तोऽहं धूतः कितवै: मायया मुषितः, तदीदृश: नग्न: पांशुधूसराङ्गः क्व यामि, पिता बन्धुः सुहापि दृष्ट्वा किं मां वदेत् । तदिहैव साम्प्रतं स्थितोऽस्मि, नक्तञ्च क्षुत्प्रशान्तये निर्गत्य कथमपि भोजन' प्रति यतिष्ये। इत्यालोचयतस्तस्य क्लान्तस्य दिगम्बरस्य मन्दीकृतातपो रवि- स्त्यताम्बरो अस्ताचलमगात् । तावच्च भूतिलिप्ताङ्ग: महाव्रती शूलधरो हर इवापरः कश्चित्तापस: तत्राजगाम । स चन्द्र- स्वामिन दृष्ट्वा कोऽसीति पृष्ट्वा तस्मात् वृत्तान्तं श्रुत्वा च प्रणतं तमवादीत् भद्र ! त्वं ममायमं प्राप्त: क्षुत्लान्तोऽतिथि:, तदुत्तिष्ठ कृतस्रानो मम भिक्षाभागमाहर। इति तेनोक्तश्चन्द्र- खामी तमब्रवीत् भगवन् ! विप्रोऽहं कथ तव भिक्षाभाग भो ? तदाकण्यं स सिडस्तापस: निजां मठिकां प्रविश्य अतिथिवात्सल्येन इष्टसम्पादिनी विद्यां सस्मार। स्मृतोप- स्थिताच्च तां कि करोमीति वादिनीम् अमुष्य अतिथे- रातिथ्य कुरुष्वेति शशास। तया तथेत्युक्त सहसा तत्र सोप- वनम् अङ्गनाजनसहितं सौवर्णं पुरमुत्पन्नं स चन्द्रस्वामी ददर्श । विस्मितं तचाभ्येत्य तस्मात् पुरात् विलासिन्यः तं भद् ! उत्तिष्ठ, एहि माहि भुइव भज न: स्वामिनीम् । इति उक्त्वा अभ्यन्तरं नीत्वा सापयित्वा अनुलिप्य परिधाप्य च अन्यत् वासमन्दिर निन्युः। तत्र च प्रविश्य स युवा एकां सर्वाङ्गसन्दरों धात्रा कौतुकादिव निर्मितां कामपि वरारोहां ददर्श। तया च समु.
८२ वैतालपञ्चविंशतिः। स्थाय अर्हासनोपवेशित: दिव्यमाहार विविधानि फलानि भुक्त्वा गृहीतताम्बूल: पर्यङ्गशय्यायां तत्सम्भोगसुखेन निशामनयत् । प्रात: प्रबुद्धश्च तत्र तमेव शिवालयं ददर्श, न तां दिव्याङ्गना, नापि पुर तत् तथाविधपरिच्छदयुतम् । तत: स समुहिम्नो निगत्य मठिकायां स्मिताननं पृष्टरात्रिवृत्तान्तं तं तापसं व्यजि- ज्ञपत् भगवन् ! त्वत्प्रसादात् रजन्यामहं सुखमुषित:, किन्तु तया दिव्याङ्गनया विना मे प्राणा यास्यन्तीति। तदाकये स तापमो हसन्नववीत् इहैव तिष्ठ, पुनर्नत तथैव ते सुखं भवि- ष्यति । इति तेन वतिना अभिहित स चन्द्रस्वामी तस्य तापसस्य प्रसादात् प्रतिक्षपं तान् तान् भोगान् अभुङ्क्त । शनैश्च तस्य तं विद्याप्रभावं विदित्वा विधिचोदितः स चन्द्रवामी तं तापस प्रसाद्य एकदा ययाचे भगवन् ! यदि सत्यं शरणागते मयि ते कृपा जाता, तदेतां विद्यां मे देहि, यस्या अयमीदृशः प्रभावः । इति निबन्धात् प्रार्थयमानं तं स तापस: प्रत्यवादीत् भद्र ! एषा विद्या तव असाध्या, असी अन्तर्जले साध्यते। तत्र चैषा जपतः साधकस्य विमोहाय तथा मायाजालं सृजति, यया स सिडि न लभेत। स हि जापकस्तत्र पुनर्जातं बालकमात्मानम् ईक्षते, ततो युवानं कृतदार जातात्मजम्। तत: सुहदयं मे, शत्रुरय मम इति मिथ्या प्रपश्यति। न च इद जन्म, नापि विद्या- साधने प्रवृत्ति स्मरति यस्तु चतुर्विंशतिवर्ष तथा जपन् जन्म व स्मृत्वा तत्तत् मायाविजृन्धितं विदित्वा तद्वशो वह्निप्रवेशं कुरुते स एव परमार्थतो जलोत्तीर्णः सिद्धविद्यां पश्यति। एषा च सुशिष्यस्यैव सिध्यति, अस्थानार्पणात् गुरोरपि विनश्यति । मत्- सियव ते फले सिद्धे किं ते अमुनाग्रहेण । मम सिद्धिहानी एषा तदैव विनाति। एवं तपस्विनोक्त ऽपि स चन्द्रस्वामी शक्ष्यामि सर्व मा तावदत्र भगवन् ! चिन्ताभूः, इति तं तापस- ८३ भष्टादशकथा। मब्रवीत्। ततः स तापसः तस्मै तो विद्यां दातु प्रतिपेदे । प्राश्रितानुरोधेन किहि न कुर्वन्ति साधवः। ततो नदीतीर गत्वा स तापसस्तमब्रवीत् बत्स ! विद्यां जपन् यदा तां मायां मुखसि, तदा मम विद्यया बोधितो मायाम्निमेव प्रविशेः। अहं हि तवैव जपतो नदीतटे स्थास्यामि तावत्। इत्युका शुचि- स्तमाचान्तं शचिं चन्द्रस्वामिनं तां विद्यामध्यापयामास। तस- स्तस्मिन् गुरौ तौरस्थिते स चन्द्रस्वामी तं मूहा प्रणम्य सरभसं तां नदीमवततार। अवतीर्णश्च तस्यामन्तर्जले तां विद्यां जपन् सहसैव तन्मायया विमोहितो मिथ्या सर्व जन्मवृत्तान्तं विस्मृत्य अन्यस्यां पुरि कस्थापि विप्रस्य पुत्वत्वेनोत्पन्न: शनकैडिं गतः कतोपनयनोऽधीतविद्यः कृतदारश्च दुःखसुखसम्भिन्न: क्रमात् सच्चातापत्यः समभवत् । ततश्चात्र पुत्रदारनेहासक्तस्तत्तदा- चरन् बहरतिः पिटभ्यां बान्धवैश्च सह कियन्तं कालं तस्थौ । इत्य मिथ्याजम्मान्तरले शमनुभवतस्तस्य कालप्रबोधिनों विद्या कारुणिको गुरुरसौ प्रायुत । स चन्द्रस्वामी जन्मान्तरगत: तविद्याप्रयोगेण सद्यः प्रबोधित: प्रात्मानं तञ्च गुरु स्मृत्वा तच्च मायाजालमवेत्य विद्यासाध्यफलमाप्तुम् अग्निप्रवेशाय उद्यतस्तै- निषेधनि हाप्तगुरुबन्धुभि: पर्यवारि। तेश्च बहुधा वार्यमायो- ऽपि दिव्यसुखलोलुप: स सबान्धवः सज्जितचितं नदीतीरमगात् । तत्रागत्य च सधौ पितरी भायां बालापत्यानि च रुदन्ति दृष्ट्वा मोहात् पुनरचिन्तयत् कष्ट अनलं विशतो मे सर्वे इमे स्वजना नियन्ते, न च गुरोस्तहचनं सत्यं वा मृषा जानामि, तत् कि अम्नि प्रविशामि, उत एहम् ? अथवा गुरोस्तद्दचः कथं मिथ्या तादृशप्रभावशालिनः १ तदग्निमेव प्रविशामि काममिति पर्या- लोथ स चन्द्रखामी अम्निमेव प्राविशत्। प्रविश्य च अनुभूत- हिमस्पर्शी विस्मितः वः शान्तभयः तस्मात् नदीतोयात् उत्थाय ८४ वेतालपञ्चविंशतिः। तटमवाप। तत्रोत्थाय स्थितं तं गुरु दृष्ट्वा पादयोनिपत्य पृच्छन्तं तं अग्निशैत्यान्तं सर्व वृत्तान्तमवर्णयत्। ततः स गुरुस्तमुवाच वत्स ! मन्ये त्वया कश्चिदत्र अपचारः कृतः, अन्यथा अग्निः कथं ते शीतो जातः ? एतस्या विद्यायाः साधने एतदि अदृष्टम् । तदाकये स चन्द्रस्वामी प्रावदत् भगवन् ! नात्र कश्चिन्मया- पचारः कृतः स्मर्य्यते। तत: स तद्गुरुः जिज्ञासुस्ता विद्यां सस्मार। न च सा तस्य वा तच्छिष्यस्य आविरभूत्। अथ तौ नष्टविद्यौ विषयौ ततो जग्मतुः। इति कथामाख्याय वेतालस्तं भूपं पप्रच्छ राजन् ! संशयमेतं मे छिन्धि केन हेतुना विहितेऽपि यथोद्दिष्टे कर्मणि विद्या तयोर्नष्टा ? एतदाकख स राजा तं वेतालं प्रत्यवोचत् योगेखर ! जाने, भवान् मे कालं एवं क्षिपति, तदपि ते ब्रवीमि। टुष्करेणापि कर्मणैव पुरुषस्य न सिद्धिर्लभ्या, शुडेनैव कर्मणा। तत्रास्य मन्दस्य विप्रयून- श्चित्तं प्रबोधितमपि यत् विकल्पते स्म, तेनास्य विद्या सिडि न गता, अस्थानदानाच्च गुरोविनष्टा। इति तस्य नृपस्य वाचं निशम्य स वेताल: पुन: खं निलय प्रत्यपद्यत। राजापि अशिथिलयन: तमन्वष्टुं धावति स्म । अथ ऊनविंशकथा। अथ राजा पुन: शिंशपातलं गत्वा वेतालं स्कन्धे आरोग्य तथैव प्रातिष्ठत, वेतालोऽपि तं गच्छन्त न्यगादीत् राजन् ! अपरां हृद्यां कथां ते आख्यामि श्रूयताम् । अस्ति वक्रोलकं नाम सुरपुरोपमं पुरम् । तस्मिन् सूर्यप्रभो ऊनविंशकथा। ८५ सा नाम इन्द्रसमः भूपतिरासीत्। यः सौक-द्यतया मूर्त्या दत्ता- नन्दो हरिरिव वसुन्धरा मिमां समुद्धृत्य चिर भुजे बभार । अस्य च प्रभोः धूमासङ्गेषु अश्रुपात: शृङ्गार मारसंलाप: हास्थेषु हेम- दण्डा: राष्ट्रषु आसन्। इत्य सर्वसम्पदाधारस्य तस्यैका अनिवृतिरासीत् यदन्तःपुरिकासु स्थिताखपि पुत्त्रो नोदपद्यत । अत्रान्तरे ताम्रलिप्त्यां पुरि धनपालो नाम धनवतामग्रणीमहा- बणिक् प्रतिवमति स्म। तस्य धनवतो नाम एका कन्या विद्या- धरोव शापात् सुरलोकाद्दिच्युता समजनि। तस्यां योवनस्थायां स बणिक् पञ्चतामवाप। तदनं सर्व राजसाहाय्यात् तत्गोत्र- जैराक्रान्तम्। ततो हिरण्यवतो नाम तस्य बणिजो गहिनी अप्रकटस्थितानि रत्नाभरणानि गृहीत्वा तया दुहिता धनवत्या साकं दायादभयात् पलाय्य गुप्त निशि गृहात् निर्ययो। बहिरन्तश्च ध्वान्तेनान्धकारिता सुताइस्तावलम्बिनी कृच्छ्रात् पुरात् बहिः प्रायात्। तत्र सन्तमसे यान्तो विधियोगात् अल- क्षितं शूलाग्रारोपितस्थितं चौरम् अंसेन अताड़यत्। स चौर: मम जीवस्त्वदंसाग्रघट्टनया अधिकपीड़ितः, हा! क्षते क्षार- मतन्मे केन दत्तमित्यभाषत । तत: सा बणिग्बधूः कोऽसीति भयात् पप्रच्छ। ताञ्च चौर: प्रत्युवाच अहं चौर इति सूचितः । अद्यापि शूले स्थितस्यापि पापस्य मे असव: नोत्क्रामन्ति । यदायें ! ब्रूहि मे का त्वं क्व च प्रयासोति। तदाकर्ण्य सा बणिकपत्नी सर्व खोदन्तं तमाह स्म। तावच्च भगवान् खेत- भानु: प्राचीमुखमुदभासयत्। ततो दिक्षु प्रकाशासु स चौरस्तां बणिक्सुतां धनवतों दृष्ट्वा तां तम्मातरमुवाच आये ! शृणु मे एकां प्रार्थनां काञ्चनसहस्रं ते दास्यामि, त्वमिमां ते सुतां मह्यं देहि। किमतया दत्तया ते इति सस्मितं वदन्त्या तया अभि- हिते स चौरः पुनरब्रवीत् नास्ति मे गतायुषः पुत्रः, न चापुचो ८६ वैतालपञ्चविंशतिः। - लोकाननु ते, तदेषा मदान्जया कुतश्चित् पुत्र जनयेत्, स मे क्षेत्रजः पुत्त्रो भविता। इत्यहमेतां प्रार्थये, तन्मे मात: ! सफल- याभीप्सितम्। तदाकर्ण्य सा बणिग्योषित् लोभात् तथेति प्रतिपद्य कुतोऽपि सलिलमानीय चौरस्य तस्य पाणी सुतेयं मे तुभ्यं दत्तेति अपातयत्। अथ स तदुहितरि यथोक्तामाज्ञां दत्त्वा तां बणिग्योषित- मवादीत् गच्छ मातः ! अमुष्य वटस्य अध:खनित्वा तन्मे रक्षितं स्वर्णसहस्रं गृहाण। गतासोश्च मे देहं युक्त्या दाहयित्वा अस्थीनि तीर्थे निक्षिप्य च ससुता वक्रोलकं पुरं व्रज, तत्र सूर्यप्रभे राजनि सौराज्यसुखिते जने निरुपद्रवनिश्चिन्ता यथेच्छ स्थास्यसि। इत्युक्त्वा दृषित: तयोपाहृतं जलं पीत्वा शूलव्यथया समुत्क्रान्तजीवितः समभवत् । ततः सा बणिकपत्नी गत्वा तस्मात् वटवृक्षतलात् स्वर्ण गृहीत्वा ससुता सुगुप्त भर्तुः सुझ्दो ग्रहमगात्। तत्र स्थित्वा च युक्त्या तच्चौरकलेवरं दाहयित्वा तदस्थीनि च तीर्थेषु क्षेपयामास । अथान्येद्युगृहीतगुप्तार्था ससुता प्रयान्ती क्रमेण वक्रोलक पुरमाससाद। तत्र वसुदत्तनाम्रो बणिजः सकाशात् गृहमक क्रीत्वा तया धनवत्या सुतया सह तस्मिन्ब्रुवास। तस्मिंश्वावसरे विष्णुस्वामीति कश्चिदुपाध्यायस्तत्र वसति स्म। तस्य मन:स्वामी नाम अतिरूपवान् कश्चिद विप्रः शिष्योऽभवत्। स विद्याभि- जनसम्पब्रोऽपि यौवनमत्तः तवत्यां हंसावलौं नाम विलासिनी चकमे। सा च सौवर्णदीनारशतपञ्चकं भाटिम् अन्वहमग्रहीत् । तावन्ति च धनानि अप्राप्य असो विप्रयुवा नितरां क्षामवपु- चिन्ताकुलोऽभवत्। एकदा सा बणिस्ता हर्म्यस्था तादृश क्षामकलेवरमपि अभिरामं तं युवानं दृष्ट्वा तद्रूपेणाकृष्टचित्ता भत्तुंचौरस्य प्रादेशं स्मरन्सी मातरमुवाच अम्ब ! विप्रसुतस्वास्थ जनविशकथा। रुपयौवने विश्वस्य नयनामृतवर्षिणी पश्य। एतदाकर्ण्य सा तस्मिन् बदभावां तामवेत्य सा बणिकपत्नी व्यचिन्तयत् दुहिता मे भर्तुराजया कश्चित् सुतार्थं वरणीयः, तस्मादेष एव किं नाभ्ययं ते ? इत्यालोच्य कामपि चेटौं तमानेतु व्यसृजत् । सा च चेटी विजने गत्वा तस्मै सत्सन्देश शशंस। स च विजयुवा व्यसनी तदाकर्ण्य तामभाषत यदि हंसावलीहेतो: दीनारशतपञ्चकमा दीयते, तदा एकां यामिनों गच्छामि । इति तेनोक्तया चेव्या आगत्य तथैवोक्ता बणिस्त्री तस्या हस्तेन तस्मै तदनं प्राहिणोत्। तदादाय मन:स्वामो तस्या दुहितुरा- वास ययौ। आगत्य च स चकोर इव ज्योत्स्रां तां ददर्श ननन्द च। तया समं सम्भोगलीलया तां रात्रि नीत्वा प्रात: सुगुप्त निर्गत्य यथागतमगात्। सापि बणिक्सुता तस्मात् सगर्भाभूत्। अथ कालेन सा सुलक्षण पुत्त्रमसूत । तां सुतोत्पत्त्या परितुष्टां समाटकां निशि हरः स्वप्न प्रदर्शितवपुरादिदेश हेम- सहस्रेण युक्तम् इमं शिशु राज्ञः सूर्यप्रभस्य द्वारि नीत्वा मञ्चस्थं कृत्वा त्यज। एवं ते क्षेमं भवितति समादिष्टा हरण सा बणिक्सता तन्माता च प्रबुध्य अन्योन्यमूचतुः तत्यजतुश्च भगवत्प्रत्ययात् तं राजहार नीत्वा बालकम् । तावञ्च तमपि सूर्यप्रभं पुत्तचिन्तासमुत्स क नृपं स्वप्न भगवान् वृषध्वजस्तथैव समादिशत् राजन् ! उत्तिष्ठ सिंहहारि सकाञ्चनो बालकः तिष्ठति केनापि स्थापितोऽतिसुलक्षण: मनस्थितः। तं द्रुतं गृहाण। इति शम्भुनादिष्टः स राजा प्रात: प्रबुध्य तथैव हास्थैः प्रविश्य विज्ञप्तः स्वयं निर्ययौ। दृष्ट्वा सिंहहार सहमचय मञ्चस्थ शिशु रेखाच्छवध्वनाङ्गपाणिपाद शुभारुति शम्भुना दत्तोऽयं समुचितः पुच इति सानन्दं ब्रुवन् स्वयं बाहुभ्यां वेतालपञ्चविंशतिः। गृहीत्वा अन्तःपुर विवेश। महोत्सव कृत्वा च हादशेऽहनि पुत्त्रं नाना चन्द्रप्रभमकरोत् । इत्य स राजपुत्रश्चन्द्रप्रभः क्रमेण वपुषेव गुणोघेनापि आश्रितानन्ददायिना सर्वान् समनु- रञ्जयन् शनैयुवा सन् शौर्योदाय॑श्रुतादिभिरावर्जितप्रकृति- मण्डल: पृथिवीभारवहनक्षम: समजायत । अथ सूर्यप्रभः पिता तादृश तं दृष्ट्वा राज्ये अभिषिच्यैव वृद्धो वाराणसों ययो। ततश्च तस्मिन् नयशालिनि तनये पृथ्वों शासति स राजा तत्र वाराणस्यां तोव्रतपसा तनुमजहात्। ततः स धार्मिको नरपति: चन्द्रप्रभ: पिटनिधनं श्रुत्वा अनुशोय कृतक्रियः सर्वान् सचिवान् अभ्यधात् तातस्य केनापि नाह- मनृणो भवितु क्षमः, तथापि स्वहस्तेन अस्य एकां निष्क ति ददामि, गङ्गायामस्य अस्थोनि नीत्वा क्षिपामि, गयाञ्च गत्वा सर्वपिटभ्य: पिण्ड ददामि। एतत्प्रसङ्गेन च मे तीर्थयात्रा भविष्यति । इत्युक्तवन्तं राजानं मन्त्रिणो व्यजिज्ञपन् देव ! न तावदिदं ते कत्तुं युक्त राज्यं हि बहुच्छिद्र पित्रुवपक्रिया च ते पुरोहितेनापि सम्पद्यते। स्वधर्मपालनात् तीर्थयात्रा न ते साधीयसी, बहुपापं क्व पान्यत्व नित्यगुप्तः पार्थिवश्च क्व? इति मन्त्रिणां वच: समाकण्यं चन्द्रप्रभोऽब्रवीत् अलं विकल्पेन, पित्रर्थे अवश्यमेव मया गन्तव्यम्। तीर्थानि च मया गन्तव्यानि यावत् अहं शक्नोमि पश्चात् क्षणविनखरे शरीर को वेत्ति किं भावि, यावदहमागच्छामि तावत् युष्माभि: राज्य रक्ष्यमिति । इत्य राज्ञो निश्चय श्रुत्वा मन्त्रिणस्तूष्णीमासन्। तत: स भूपति: सर्व प्रयाणसञ्चार सज्जं चक्र । अथ शुभेऽहनि स राजा नातो हुताग्निः ब्राह्मणान“यित्वा सज्जितं रथमास्थाय प्रयतः शान्तवेग: सामन्तान् राजपुत्वान् पौरजानपदानपि आसीमान्तानुयायिनः सनिवर्त्य सम्भाष्य च ब्राह्मणैर्बाहनारूढ़ेः ऊनविंशकथा। तत्र पुरोहितेन च सह प्रतस्थे गच्छंश्च पथि विचित्रदेशभाषादि- विलोकनविनोदितः क्रमात् बहन् देशान् क्रामन् जाह्नवौं प्राप । ददर्श च तां जलकल्लोलपतिभिः जीवानां त्रिदिवारोह- सोपानपद्धति सृजतीमिव हिमवत्प्रभवां गौरों प्रतीर्थया शम्भोः क्रीड़या कतकेशग्रहां देवर्षिगणवन्दिताम्। ततश्च राजा रथा- दवरुह्य यथाविधि कृतस्नानविधिः पितुः सूर्यप्रभस्य अस्थीनि गङ्गाम्भसि निचिक्षेप। तत्र च यथाविधि दानानि दत्त्वा कृत- शाडो रथमारुह्य प्रस्थितः क्रमेण प्रयागं तीर्थमवाप । चोपोथ कृतम्रानो बाडदानादिकञ्च यथाविधि कृत्वा वाराणसी जगाम। तस्वाञ्च त्रीणि दिनानि उपोष्ण वृषभध्वजमर्चयित्वा गयां प्रति प्रययो। क्रमेण नानाविधानि वनानि गिरीन् नदी- शातिक्रम्य गयाशिरः प्राप। तत्र विधिवत् भूरिदक्षिण' थाई विधाय गयाकूप पिण्डं ददतोऽस्य पिण्डमादातुं त्रयो मानुष- पाणयः समुत्तस्थुः । तदवलोक्य स राजा विभ्रान्तः किमेत- दिति विमूढ़मति: कस्मिन् पाणी पिण्ड क्षिपामोति निजान् ब्राह्मणानुवाच देव ! अय तावदेकचौरस्य पाणिनिश्चितं यस्मिन् लोहमयः शङ्ख श्यते, द्वितीयश्च करोऽय ब्राह्मणस्य, यतो धृतपवित्रो दृश्यते, टतोयश्चायं पाणिमहाराजस्य साङ्गुलीयः सुलक्षणो विभाव्यते। तब विद्मो वयं क्वाय पिण्डो निक्षेप्यः, किमिदं भवेदिति। इति तैहिजैरुतो राजा निश्चय कत्तुं नाश कत्। इति विचित्रां कथामाख्याय वेताल: स्कन्धस्थित एव पप्रच्छ राजन् ! कस्मिन् हस्ते स पिण्डो देय इति संशयं छिन्धि, सार्यतां त्वया प्राक्तनः समय इति समय इति। राजाब्रवीत् वेताल! यतोऽसौ राजा चन्द्रप्रभः क्षेत्रजः चौरस्यैव पुत्रः, नान्ययोः, तस्मात् चौरहस्ते एव स पिण्डो देयः । विप्रस्थ जनकस्यापि स पुत्रो न भवितुमर्हति, तेन हि धनेन एकां J १०० वैतालपञ्चविंशतिः। रजनीम् आत्मा विक्रीता। राज्ञः सूर्यप्रभण्यापि संस्कारदान- वईनादिभिः भसौ पुत्चो भवेत्। यदि सत्तते मञ्चस्थस्यास्य स्वर्णसञ्चयो न प्राप्येत। राजा सूर्यप्रभो न्यस्तधनेनास्य वई- नादिकमकरोत्। तन्माता यस्य हस्ते समर्पिता, यस्या- जया राजस्तस्य चन्द्रप्रभस्य जननं, यस्य च तत् निखिलं धनं तन्मात्रा समासादितं, तेनैव विप्रसुतात् वीज क्रोतं, तस्यैव चौरस्य स क्षेत्रजः पुत्रः, तस्मात् तस्यैव हस्ते पिण्डो देय इति मे मतिः। इत्याकण्यं स वेताल: पुनर- लक्षितः नृपस्कन्धात् तमेव शिंशपातरुमाश्रयत्। राजापि तथैव निश्चलप्रतिजस्तमत्वसरत् । अथ विंशकथा। ततः स राजा शिंशपान्तिकं गत्वा पुनस्त वेतालं स्कन्धे अारोप्य मौनी तथैव चचाल वेतालोऽपि स्कन्धवर्ती तं मोनि नमवलोक्य प्रोवाच। राजन् ! कस्तेऽयं निर्बन्धः, ग्रह मच्छ, रात्रिसुखं सेवख, कुभिक्षोस्तस्यान्तिकं मां नेतुन ते युक्त, आग्रहातिशयश्चेत् तव, तदा पुनरिमां कथामाख्यामि शृणु। अस्ति चित्रकूटं नाम नगरम्। तत्रासीत् प्रणयिचक्षुवाम- मृतासारवर्षी राजशिरोमणिवन्ट्रालोको नाम । विहांस: यं शौर्यकरिण: पालामं दानस्थोत्पत्तिनिकेतन रूपस्य च विलास- भवनं वदन्ति स्म। सर्वसम्पत्पूर्णस्वापि तस्य सदृशैं भार्याम- प्राप्तवतस्तस्य हृदि महानुद्देम: समभक्छ । एकदासौ राजा उगविनोदाय चखोयसैनिकपरिहतो विशकथा। १०१ मृगयाथ महाटवौं जगाम। तत्र निरन्तरैः शरैः वराहवृन्दानि खामलानि तमांसीव रविः करैः भिन्दन् समरदुर्मदान् सिंहान् शरशय्यास शाययन् शरभांश्च पर्वतोपमान् कुलिशकर्कशप्रास- पातेः पातयन् विचचार। इत्य मृगानन्विष्यन् तीव्रपाणि प्रहा- रण वाजिनं भृशं ताड़यामास । स च वाजी कशाघातेन पाणि- घातेन च गाढ़ ताड़ितो विषसं समञ्चागणयन् क्षणात् वाताधिक- जवेन तं भूपं वनान्तर नयन् दश योजनानि अतिक्रमयामास । इत्य वाहे गलिते राजा दिमोहमुपत्य भ्रम थान्तः आरात् एकं विपुलं सरो ददर्श। तत्र गत्वा च तुरगं विपर्याणं कृत्वा सात- पोतं तरुच्छायासु कतिपयान् यवसान् तस्मै दत्त्वा च स्वयं कृत- सान: सलिलं पिबन् विगत यमो रम्येषु तत्तत्प्रदेशेषु दृष्टिं निक्षिपन् एकस्मिन् अशोकतरोरधस्तात् कामपि आमुक्तपुष्या- भरणां वल्कलांशकशोभिनों बद्धमुग्धजटाजूटसविशेषमनोरमां सम्वोदितीयाम् अाश्चर्य्यरूपां मुनिकन्यां ददर्श। चिन्तयामास च कामशराहतः, केयम् ? किंस्वित् सावित्री सरसीषु सातुमा- गता ? आहोस्वित् स्वामिविभ्रष्टा गौरी पुनस्तपः कर्तुं प्रवृत्ता ? किंवा दिवातनों कान्तिं प्रेप्सम् इन्दो: थियं धृतव्रताम् ? तदेनामुपसृत्य वार्तामुपलप्से इत्यालोच शनैस्तस्याः समीप- माययौ। सापि तमायान्तं दृष्ट्वा तद्रूपण समाकृष्टचित्ता प्रारब्ध- पुष्यस्रक्सन्नहस्ता व्यचिन्तयत् कोऽयमीदृक् अस्मिवरण्य, विद्याधरः कोऽपि वा, चरितार्थे ममाद्य दृशौ, इत्य वितयं त्रपया तिर्यक् पश्यन्ती उत्थाय सोरुस्तम्भापि गन्तु प्रावर्तत। अथ राजा तामुपेत्याब्रवीत् सुन्दरि! प्रथमदृष्टस्य दर्शनमात्रा- र्थिन: दूरागतस्य जनस्य स्वागतादिकमास्तां कोऽयमाश्रमिधर्म: यदेतस्मात् पलाय्यते। इति तेन राज्ञाभिहित विचक्षणा तदीया सखी तत्र राजानमुपवेश्य अतिथिसक्रियामकरोत्। अथ ?
१०२ वेतालपञ्चविंशतिः। ? - राजा तां सविनयमप्राक्षीत् भने ! अनया तव सख्या कः पुण्य- वान् वंश: अलंक्रियते ? कानि वास्याः कर्णरसायनानि नामा- क्षराणि ? कथं वा अनया कुसुमसुकुमारमिदं वपुः ईदृशे वयसि तापस्या वृत्त्या विजने कदर्थीक्रियते ? एतत् राजवचनमाकये सखी तं प्रत्यभाषत महाभाग! एषा महर्षेः कण्वस्य कन्यका मेनकासम्भवा आश्रम एव वर्द्धिता इन्दीवरप्रभा नाम। अस्मिन् सरसि पितुरनुज्ञया स्नातुमागता। इतो नातिदूर अस्याः पितु- राश्रमः। इत्यभिहितो राजा सम्प्रहृष्टः तुरङ्गममारुह्य तां कन्यां याचितुं महर्षेः कण्वस्याश्रममगात्, प्राविशञ्च विनीत- वेशस्तमाश्रमं बहिःस्थापितवाहः । प्रविश्य च राजा जटावल्कल- धरैः पादपरिव तापसैः परिवृतं तेजसा चन्द्रमिव आह्वादिन तम् ऋषि कण्वमद्राक्षीत्। दृष्ट्वं वोपेत्य तं पादयोर्ववन्दे। सो ऽपि ज्ञानी मुनि: लतातिथ्य विश्रान्तं तमभाषत वत्स ! चन्द्रा- लोक ! शृणु यदहं वच्मि ते हितम् । संसारऽस्मिन् प्राणिनां मृत्युभयं यादृक् तदहं जानामि। तत् निरर्थकं कथमिमान् मृगादीन् हंसि ? भीतरक्षार्थमेव धात्रा क्षत्रस्य शस्त्रं सृष्टं, तत् धर्मेण प्रजा रक्ष, कण्टकान् समुन्मूलय। हस्त्यश्वादिभिः साधनैः चलां लक्ष्मी साधयितु यतस्व, राज्यसुख भुच्च, दानं देहि, दिक्षु यशांसि विकिर, कृतान्तबोडितं मृगयाव्यसन परित्यज यत्र हन्तुहन्यमानस्य च तुल्यप्रमादितास्ति, तेन बबनर्थेन अनेन व्यापारण किम् ? पाण्डोनूपस्य वृत्तं त्वया किं न श्रुतम् ? एतदाकर्ण्य मुनिवचन कार्यज्ञो नृपः सम- भिनन्य प्रत्यभाषत भगवन् ! अनुशिष्टोऽस्मि, महान् अनुग्रहो मे क्लतः अनेन अनुशासनेन । अद्य प्रभृति मृगयानिवृत्तो- ऽभव, प्राणिनो निर्भयाः सन्तु । तदाकर्ण्य मुनिरब्रवीत् तुष्टोऽस्मि तवामुना प्राणिष्वभयदानेन, तदीप्सितं वर वृणीष्व विशकथा। १०३ इति। ततः स कालज्ञो नृपतिरब्रवीत् भगवन् ! प्रसवोऽसि चेत्, सुप्तामिन्दोवरप्रभां मह्यं देहि। इत्यर्थित: स मुनिस्तसौ सातागतां तामप्सर:सम्भवां कन्यां प्रददौ। ततः कृतविवाह: मङ्गलालङ्गत: तां मुनिपत्नीकृतप्रसाधनाम् उहाष्पैस्तापसैरानि- जाश्रमात् कृतानुयात्रां तामिन्दीवरप्रभां भार्यामादाय वाजि- नमारुह्य राजधानों प्रतस्थे । एतस्मिन्नन्तरे दूराध्वगमनक्लान्तं तं नृपं वीक्ष्य भगवान् सहस्ररश्मि: खिन्न इव अस्ताचल शिरसि समुपाविशत्। ददृशे च रात्रभिसारिका मृगनेत्रा क्रमादुट्रिक्तमन्मथा ध्वान्तनोल- पटप्रावृता। तस्मिंश्चावसरे राजा जलाशयतीरवर्तिनं शाखा. पल्लवप्तंच्छन्न गादलश्यामलस्थलम् अश्वत्यपादपं दृष्ट्वा इह रात्रि वसामि इति मनसि अकरोत् । ततस्तुरगादव तीर्य तस्मै वाजिने रणोदकं दत्त्वा वाप्यास्त स्याः सलिलानि पीत्वा प्रियया सह विशवाम। तत्कालञ्च शशलाब्छन: सराग: तिमिरां- शुकहारी समाक्रम्य प्राच्या मुखौं चुचुम्बे चन्द्रकिरण: समाश्लिष्य प्रसाधिता वीतमानावकाशा: शेषाश्च दिशो विरेजुः। अत्रा- न्तरे लतागुल्मविवरप्रसृतैरैन्टवैः रत्नदीपाभैः करस्तरमूले अवभासिते स राजा तामिन्दीवरप्रभा नवसङ्गमरसोल्लासामा- श्लिष्य सुरतोत्सव सिषेवे। विस्रंसयामास च तस्यास्त्रपामिव नोवीम्। खण्डयामास च दशनैस्तस्या मुग्धभावमिवाधरम् । रचयामास च यौवनदिपकुम्भयो: तस्या: कुचयो: सद्रत्ननव- नक्षत्रमाला इव नखक्षतानि। चुचुम्ब च मुहुः सर्वतो लावण्या- मृतनिस्यन्दमिव पिबन् मुखं कपोलो नयने च । इत्य सह निधुवनक्रीड़या तत्र तां निशां क्षणमिवानयत् । अथ प्रात: समुत्थाय तसाध्यविधिः स्वसैन्यानुसन्धानाय तया कान्तया सह प्रयातुमुत्सुकोऽभवत्। तावच्च रजन्यां 1 तया १०४ वेतालपञ्चविंशतिः । विलुप्तकमलिनीशोभं भियेव अस्ताचलकुहरप्रलीनं ध्वस्ततेजस मिशापतिं हन्तुकाम इव क्रोधादाताम्रतररोचिषि प्रसारितकर- रुत्क्षिप्तचन्द्रमण्डले विवस्वति अकस्मात् विद्युत्पिशङ्गजट: कज्जलश्यामल: कालमेघ इव कश्चित् अन्त्र मालाकृतोत्तंसः केशयज्ञोपवीती ब्रह्मराक्षस: नरशिरोमांसं खादन् कपालेन शोणितं पिबंश्च समाजगाम। स अट्टहासं विमुच्य क्रुधा अग्निं वमन्निव दंष्ट्राकरालो राजानं तं निर्भत्सन्नब्रवीत् पाप ! ज्वाला- मुख नाम मां ब्रह्मराक्षसं विद्धि ! एष चाखत्थो मे निवास: देवैरपि न लङ्घयते। सोऽयं त्वया स्त्रिया सह समाक्रम्य परि- भुक्तः, सदविनयमिदानों भुव, दुराचार ! एषोऽहं कामोप- हतचेतसः ते हृदयमुत्पाव्य भोक्षेत्र शोणितञ्च पास्यामि । तदा- कर्ण्य तञ्च घोर राक्षसमबध्यमवेक्ष्य दृष्ट्वा च कान्तां भय- विह्वलां, भयात् राजा सविनयमवादीत् अजानता मया ते अप- राई तत् क्षमस्व, तवाश्रमेऽहमतिथिस्त्वां शरण गतः । दास्यामि च ते ईप्सितं पुरुष पशुम् । येन ते दृप्तिर्भविता, तत् प्रसीद क्रोधं परिहर इति राज्ञो वचनमाकण्यं स ब्रह्म- राक्षस: शान्तकोपः अस्तु को दोष इति विविच्य प्रत्यभाषत राजन् ! यः सप्तवर्षीय: महासत्त्वः विवेकवान् ब्राह्मणपुत्रः खेच्छया त्वदर्थमात्मानं दद्यात्, यञ्च हन्यमान तन्माता हस्तयोः तत्पिता च पादयोः सुदृढ़ महीतले सन्निवेश्य अवष्टभाति, सप्तदिनाभ्यन्तरे तादृशं पुरुष स्वयं खङ्गप्रहारप मह्यमुपहारी- करोषि चेत् तदा ते इमं न्यकार क्षमिष्णे, अन्यथा त्वां सपरि- कुद सद्यो माशयिष्यामि। श्रुत्वैतत् स राजा भयात् तथेति प्रतिपदै। सोऽपि ब्रह्मराक्षस: तत्क्षणात् तिरोबभूवे । अब राजा चन्द्रालोकस्तया इन्दीवरप्रभया सह हयारुढ़ः सुदुर्ममा इतस्ततः सैन्यानि विचिन्वन् प्रायात् । महो! अहं विंशकवा। १०५ मृगयया मदनेन च विमोहितः प्रकाण्डे पाण्डुरिव विनाश गतः, अस्य रक्षस: तादृशः उपहारः कुतो लभ्यते ? तदिदानी निजमेव नगर यामि, पश्यामि किं भावि। इति ध्यायन् स: समन्तात् अन्विष्यन् स्वसैन्यं स्वनगर चित्रकूटच्च प्राप। तत्र अनुरूपभा-लाभेन परितुष्टाभिः प्रतिभिः महोत्सवे विहिते- ऽपि अन्तर्गतविषादस्य तस्य दुःखदुःखेनैव दिनशेषो व्यपगमत्। हितीयेऽहनि स रहसि मन्त्रिभ्यः तं सर्व वृत्तान्तमाचचक्षे। तेषाच्चैकः सुमतिमन्त्री प्रत्यत्रवीत् देव ! विषादस्ते माभूत, अहमन्विष्थन् तादृशमुपहारमानथामि, विचित्रा हि मेदिनी। एवं राजानमावास्य स मन्त्री सौवर्णी शिशुप्रतिमामकरोत्। य: सप्तवर्षदेशीयः विप्रपुचः सत्त्ववान् आत्मान' मातापित्रो- रनुजया ब्रह्मरक्षस: उपहाराय प्रयच्छति, यश्च इन्धमानस्ताभ्यां मातापित्तभ्यां हस्तपादे प्रग्यते, राजा तत्पित्रोरुप- कारार्थं ग्रामशतसहितां रत्नयुक्तामिमां सौवर्णी' प्रतिमां तसी दास्यति। इति तां शिशुप्रतिकति भ्रामयन् स मन्त्री अजस्रं पटहोदधोषणमकारयत् । एतदाकर्ण्य एकस्मिन्नग्रहार कश्चित् हिजशिशुः सप्तवर्ष- देशीयोऽपि अतिधोरः अद्भुताक्वति: बाल्येऽपि सदा परहिते रतः प्रजानां पुण्यपरिपाक इव मूर्तिमान् उद्घोषकान् प्रोवाच भद्राः ! युमदर्थे अहमात्मानं ददामि, तिष्ठत, पितरो बोधयित्वा द्रुतमा- मच्छामि। इति तानभिधाय तैसाबुमतः स बाल: गृह मत्वा रचिताञ्जलि: पितरावब्रवीत् पम्ब ! तात! मह सर्वसत्त्वार्थ एत विनखर देह ददामि, तम्मामनुजानीतं, इमाश्च राजदत्तां हेमरवमयों ग्रामशतान्वितां प्रात्मप्रतिक्कति एहीत्वा वां वित- रामि, एव' सति मम युष्मदानण्य परार्थच सिध्यति । युवाल चिरमदरिद्री बइन् पुत्रानबासाथः। इति वादिन त सहसा वेतालपञ्चविंशतिः। तो पितरौ अवोचतां पुत्व ! किमेतद् भाषसे ? वातेन कि क्षुभितोऽसि, किंवा ग्रहग्रहीतोसि अन्यथा कथमेवं प्रलपसि । को हि अर्थ: शिशुं घातयेत् । कश्च शिशु: देहं दद्यात् । एतत् पित्रो- वच: श्रुत्वा स बाल: पुनरुवाच नाहं बुद्धिमोहात् ब्रवीमि, शृणुतं मे अर्थवत् वचनम् । अवाच्याशुचिपूर्ण जुगुप्सितं दुःखक्षेत्रं शरीर- मिदम् अचिरात् विनाशि, तदेतेन अत्यसारेण यदि किञ्चित् सुक्तमुपायंते, तदेव अस्मिन् संसारे सारमिति बुधैरुच्यते सर्वभूतोपकारादन्यत् किमस्ति सुकृतम् ? तत्रापि पित्रोभक्ति- श्वेत् माध्यते तदा देहादन्यत् किमिव अधिकं सम्पत्स्यते'? इत्येव धीरवचनैः सुदृढ़निश्चयः स शिशुः शोचन्ती पितरी स्वमनीषितमङ्गीकारयामास। गत्वा च राजभृत्येभ्यः तां हिर- एमयों शतग्रामशासनसहितां आनीय ताभ्यां पिटभ्यां प्रददी। अथ तान् राजभृत्यानग्रतः कृत्वा स बालकः पिटभ्याम- न्वित: चित्रकूटं नगर प्रति प्रायात्। तत्र प्राप्तं अखण्डित- तेजसं तं बालक रक्षारत्नमिव दृष्ट्वा नृपतिः भृश ननन्द, तञ्च रचितमाल्यविलेपनं गजपृष्ठमारोप्य सपिटक तत् ब्रह्मरक्षस: सदनं निनाय। तत्र तस्याश्वत्थस्य पाखेतः मण्डलमालिख्य पुरोहितेन कृतपूजेन वह्नो हुते स ब्रह्मराक्षस: मुताट्टहास: स्वाध्याय पठन् घूर्णन् रक्तासवक्षीव: मुहुः श्वसन् जृम्भमाण: नेत्रैर्व्वलन् दिश: देहच्छायया अन्धकारिताः कुर्वन् ज्वालामुखी महारोद्रदर्शन: प्रादुरभूत् । तं दृष्ट्वा विनीत: प्राब्रवीत् भगवन् ! अय तव अभिमतो नरोपहारः समानीतः, अद्य स सप्तमो दिवसस्त प्रतिज्ञायाः। तत् प्रसीद ग्रहाण इममुपहारं यथाविधि। इति राज्ञार्थित: स ब्रह्मराक्षस: जिह्वया मुक्कणी लिहन् तमुपहारभूतं विप्रसुतमवलोकयामास । क्षणे च तस्मिन् स बालो महासत्त्वो दृष्टो व्यचिन्तयत् अनेन खदेहदानेन यन्मया ततो राजा विंशकथा। १०७ सकतम् अर्जितं तेन में स्वर्गी वा निरुपक्रियो मोक्षो माभूत्, जन्मनि जन्मनि मे परार्थो देहो भूयात्। इति तस्मिन् चिन्तय- त्येव क्षणात् पुष्पवृष्टिमुचां देवानां विमानैः नभस्तलमापूर्यत । अथ तस्य ब्रह्मरक्षसः पुरतः स्थापितं तं बालं माता करयोः पिता चरणयोरग्रहीत्। ततो यावत् खनमाकृष्ण राजा त जिघांसति तावत् स शिशुस्तथा जहास यथा सब्रह्मराक्षसास्त सर्वे व स्व कर्म त्यक्त्वा तन्मुखप्रेक्षिण: कृताञ्जलय: प्रवाश्चा- भवन्। इति विचित्रां कथामाख्याय स वेतालस्त पुनरब्रवीत् राजन् ! तेन बालकेन तादृशे तस्मिन् प्राणान्तसमये यत् हसितं तस्य को हेतुः ? महदत्र कौतुक मम यदि न वक्षामि जान- बपि, तदा ते मूर्खा दशधा विदलिष्यति। एतदाकण्यं स राजा तं प्रत्यभाषत शृणु तस्य शिशोर्हासे अभिप्रायम् । यो हि दुर्बलो जन्तुः भये प्रत्युपस्थिते प्राणार्थं मातर पितर तदभाव राजानं त्राणार्थ विधात्रा निर्मितम् एषाञ्चालाभ देवतामा- क्रन्दति, तस्य एकोऽपि एतेषु आश्रयो भवेत्, अस्थ तु सर्वमेव अन्यथा जातम् । पिटभ्यां हस्तपाद रुद्ध तयोरर्थटप्णया राजा च आत्मानं त्रातुं स्वयं हन्तुमुद्यतः। ब्रह्मरक्षः दैवत- मपि तस्य भक्षणार्थमुपस्थितम्। अध्रुवस्य अन्तविरसस्य प्राधि- व्याधियुक्तस्य देहस्यार्थे विमूढ़ानामोहक विडम्बनं यत्र ब्रह्म- विष्णुरुद्रादयोऽपि अवश्यं विनाशिन: तत्रैषाम् ईदृशानां शरीर- स्थैर्यवासना कापि ? एतत् मोहवैचित्रामेषां दृष्ट्वा वाञ्छितं सिद्धच्च मत्वा आश्चर्यहर्षोदयात् स हिजशिशु हास। इति राजवचनमाकर्ण्य स वेताल: तस्य स्कन्धात् भूयोऽपि स्वकं निलयमाससाद। राजापि दृढ़सङ्कल्पस्तमनुययो अम्भो- निधीनामिव सतां हृदयमोभ्यं हि।
अथ एकविंशकथा। प्रदत्ता। अथ राजा पुन: शिंशपामूलगत्वा तं वेताल स्कन्धेनादाय सत्वरं प्रतस्थे। तञ्च प्रस्थितं दृष्ट्वा स्कन्धवर्ती स वेताल: प्राब- वीत् राजन् ! उगाढ़कन्दमिका कथां शृण कथयामि । अस्ति अमरावतीव पुरा सुकृतिनां दिवश्चातानां कृते धात्रा विहिता विशाला नाम पुरी। तस्यामासीत् सञ्चक्रनन्दनः श्रीमान् आक्रान्त बलिराजकः पद्मनाभ इति विश्रुतो नृपतिः । तस्मिंश्च राजनि तस्यां नगर्यौं महाबणिक् अर्थदत्तो नाम धन- विजित-धनपतिः प्रतिवसति म्म। तस्य अनङ्गमञ्जरीति एका सुता उदपद्यत। यया सुरसुन्दरीप्रतिकतिर्धात्रा दर्शिता। तेन बणिजा तासलिप्ति-निवासिने मणिवर्म नाम्न बणिजे सुता सा एकापत्यतया चातिवत्सलः स बणिक् तां भर्तृयुक्तां कन्यामनङ्गमञ्जरौं न तत्याज। स तु मणिवर्मा रोगिण: कटुतिक्तमौषधमिव तस्या अनङ्गमञ्जा: द्देष्यो बभूव। भर्तुस्त तस्य सा सुन्दरी जीवितादपि कृपणस्य सुचिरसञ्चिता समृद्धि- रिव प्रियतराभूत्। एकदासौ मणिवर्मा उत्कण्ठया पित्रोरन्तिकगमनाय ताम्र- लिप्ति प्रातिष्ठत। सतो दिनेषु गच्छत्स तीक्ष्णसूयांशुसायकैः प्रोषितानां निरुद्धमार्गः निदाघकाल: समुपस्थितः। वसन्त- विरहात् ककुभा मुखनि:श्वासा व मल्लिकापाटलामोदमेदुरा मरुतो वान्ति स्म। पवनोडूता रेणुराजयः तप्तया भुवा घना- गमायेव गगन प्रहिता दूत्य इव समुत्पतुः। दिवसा अपि कठोरातपतापिता आकाङ क्षिततरच्छायाः पथिका इव चिरेण एकविंशकथा। १०८ यान्ति स्म। निशा च चन्द्रांशपाण्डुरच्छाया: गाढ़ाश्लेषसुखप्रद हेमन्तं विना अतिदुर्बलतां ययुः । एतस्मिन् समये चन्दनानु. लिप्ताङ्गी परिहिततनुवसना स्वग्रहवातायनस्थिता अनङ्गमतरी कमपि आप्तेन सुदा सहितं भव्यं युवानं रतिप्राप्तये सच्चरन्तं नवोत्पन्न स्परमिव कमलाकर-नामानं राजपुरोहितसुतं ददर्श । सोऽपि कमलाकरः इन्दोरिव मूर्तिमुपरिस्थितां तां कान्तां दृष्ट्वा सानन्दः कुमुदाकरतामभजत। तदा तयोनोरन्योन्यावलोकन स्मरस्य गुरोरनुज्ञया अचूर्ण मनःसंवलनमभूत्। इत्थं तां दृष्ट्वैव स कमलाकरः सद्यो मदनाविष्टः सुहृदा तेन कथञ्चित् खं भवन- मनीयत सा चानङ्गमञ्जरी तथैव मन्मथमोहिता संख्या मुखात् तन्नामधामनी श्रुत्वा तयैव सह शनै: वासकं विवेश । तत्र तं कान्तं सञ्चिन्तयन्ती कामज्वरातुरा शयनोये केवल लुठन्ती किमपि नापश्यत् नाप्यशृणोत् । इत्य गतेषु हित्रेषु दिनेषु सत्रपा सभया विरहेण कश- पाण्डुरा दुष्यापप्रियसम्भोगनिरास्था नक्तमेकदा गवाक्षप्रेरित- करेणन्दुना आकृष्टेव सुप्त परिजने निर्गत्य मरणनिश्चया स्व- ग्टहोद्यानवापों तरुतलवर्तिनीमगात्। तत्र पित्रा कतप्रतिष्ठां कुलदेवतां चण्डों समुपेत्य प्रणम्य स्तुत्वा च व्यजिज्ञपत् देवि ! अस्मिन् जन्मनि चेत् न मया कमलाकरः पतिः प्राप्तः, तदा अन्यस्मिन् जन्मनि स मम पतिर्भयादिति प्रार्थ तस्या देव्याः पुरत: अशोकपादप स्वोत्तरीयेण पाशं विरचयामास। तावच्च तस्याः सा आप्ता सखो प्रवुध्य वासके तामदृष्ट्वा चिन्वती दैवात् तदुद्यानमगात्। तत्र चागत्य तां गले पाशं योजयन्ती दृष्ट्या मा मा इत्युक्ला प्रधाव्यैव तस्यास्त पाशमच्छिनत्। सापि तां इतपाशां निजां सखों प्राप्तां दृष्ट्वा अतिदुःखिता भूमौ पपात । ततश्च सख्या तया समाश्वासिता पृष्टा च दुःखहेतुं समुत्थाय १० ११० वेतालपञ्चविंशतिः । तामकथयत् सखि मालति ! दुर्लभ तस्मिन् प्रियसङ्गमे पित्रादि- परतन्त्राया मे मरणात् परं सुखं नास्ति । इति ब्रुवाणा भृशमन- ङ्गशराग्निज्वलिता नैराश्य निश्चयवती मोहं जगाम। हा कष्टं स्मरस्य शासनं तथा दुर्लय यथा इयमेतां दशां नीता इति विल- पन्ती सा मालती सखी तां शीताम्बुपवनादिभिः शनैराश्वासया- मास । चकार चास्या: तापोपशान्तये नलिनोदलै: शय्याम् । ददौ हृदये तुहिनशीतल हारम्। ततः सा अनङ्गमञ्जरी लब्धसंज्ञा शनै: तां सखीम् उहाष्पां प्रोवाच सखि ! हारादिभि: नायं मे अन्तर्दाहः प्रशाम्यति । यदि मां जीवितामिच्छसि तदा सुयुक्त्या तेन कान्तेन मां योजय। एवं वादिनों तां रीहार्दा मालती प्राब्रवीत् सखि ! प्रायेणाद्य निशा गता, तत् प्रातरेव इह तं ते प्रियतमं सतेन आनेष्यामि । तस्मादालम्बा तिमधुना व निवेशनं गच्छ। इत्युक्तवत्यै सख्यै सानङ्गमञ्जरी तुष्टा कण्ठादा- कथ हारं पारितोषिक दत्तवती। गच्छाव इदानों स्वरह, ततः प्रातः कार्यसिद्धये गन्तव्यं स्वया इति तां सखीमुपदिश्य सा स्वमावासं प्राविशत्। अथ प्रातः स मालतिका केनाप्यनुपलक्षिता तस्य कमला- कररय भवनं चिन्वती गत्वा तत्रोद्यानतरुमूले चन्दनाः पद्मिनी- दलशय्यायां स्थितम् एकेन रहस्यविदा सहृदा कदलौदलवोज- नैराखास्यमानं कामाग्निना दंदयमानं तं कमलाकरमद्राक्षीत् । सा तु मम सख्या विना एतस्य इट्टशी कामावस्था स्यात् न वेति वेदितु प्रच्छन्द्रा विनिश्वयं तस्थौ। तावत् सुहृत् स कमलाकर- मवादीत् मित्र ! क्षणमत्र मनोरमे उद्यान दत्तदृष्टिरन्तःकरणं विनोदय, मा भृशं व्याकुलतां गमः। तदाकये स सुहृद तं जगाद मम अनङ्गमञ्जया मनो हृतं तदिदं मदीये शरीर एव नास्ति कुतो विनोदयामि। स्मरणाहं शून्यहृदयो बाणतूणी- एकविंशकथा। १११ कृतोऽस्मि, तत् यथा तां मनश्चौरों प्राप्नोमि तथोपायं विधत्व । इति तेनोक्ते सा मालती निःशङ्का सम्प्रहृष्टा समुपेत्य आत्मानं प्रदर्य तमुवाच सुभग ! अनङ्गमञ्जा तवान्तिकं प्रहितास्मि, निसृष्टाहं ते सन्देशं ब्रवीमि । क एष शिष्टधर्मः, यत् हठात् हृदयं प्रविश्व मुग्धाया मन: मुषित्वा गम्यते । चित्रमिद तथापि वामदृशा तया अधुना मनोहराय तुभ्यं देहोऽपि प्राणः सह दातुमिष्यते। सा हि सन्तप्तान् दिवानिशं हृदि ज्वलितस्थ कामाम्नेधूमानिव नि:श्वासान् विमुञ्चति, मुहुश्चास्या: साजना वाष्पविन्दवः वदनाभोजसौरभलुब्धा मधुकरा: इव सम्पतन्ति । तद् यदीच्छसि तत् उभयो: शिवं वच्मि । इति मालत्या तथोक्त: कमलाकरः प्रोवाच भट्रे ! तवेयं वाक् विधुरावस्था बदभावाञ्च मे प्रियां वदन्ती भयं करोति पाखासयति च । तदेका त्वमेवात्र गतिः, तत् यथोपायं कुरुष्व। इति तेनोले मालती प्रत्यवोचत् अद्य तामनङ्गमञ्जरौं गुप्तं नक्त स्वभवनोद्यानं प्रापयिष्यामि त्वं तत्र वाह्यतः तिष्ठः। ततस्त्वां सुयुक्त्या तत्र प्रवेशयिष्यामि, इत्यं युवयो: समागमो भविता। इति कय- यित्वा तं विप्रपुत्त्रमानन्द्य मालतो कृतार्था गत्वा तामनन- मञ्जरीम् अभ्यनन्दयत्। प्रथाझा सह दिनपतौ सन्ध्यानुरागिणि क्वापि गते, वासवा- शया खानने इन्दुतिलकेन प्रसाधिते प्रभाकर त्यत्वा श्रीरिदानों मां प्राप्त ति हर्षात् उत्फुल्लवदने विशदे तुमुदाकरे इसति स कामी कमलाकरः प्रसाधितानः समुत्सुक: स्वैरं कान्तायास्तस्या राहोद्यानहारि समुपागमत् । मालती च तामनङ्गमञ्जरों शस्त्रात् गमितवासरां युक्त्या तद राहोद्यानमानिनाय। प्रानीय सां चूतशाखिनां तलेषु समुपवेश्य मिर्गत्य तत तं कमलाकर प्रावधयत् । स च प्रविश्य पान्य इव पत्रौघघनपादपमध्यवर्तिनों ११२ वेतालपञ्चविंशतिः। समभवञ्च। छायामिव तामनङ्गमञ्जरीमद्राक्षीत् । यावच्च स तामुपैति तावत् सा दृष्ट्वैव प्रधाव्य कामावेशहतबीड़ा कण्ठ तं सहसा- ग्रहोत्। कयासि लब्धोऽसि मया मनस्तस्कर ! इत्यालपन्ती तत्क्षण सा अतिहर्षभरस्तब्धनि:खासा पञ्चतामगात् पपात महोपृष्ठे वातरुग्णा लतेव, विचित्रं वत कामस्य विषमः क्रमः । तदश निपातमुग्रदृष्ट्वा स कमलाकरः सद्यः हा! हा! किमत- दित्युक्त्वा मूर्छितो निपपात। क्षणेन च लब्धसंज्ञस्तां प्रिया- मसमारोप्य आलिङ्गन् परिचुम्बन् बहु विलपंश्च तथा दुःखाति- भारेण प्रसह्य न्यपोड्यत यथा तस्यापि तदा हृदयमस्फ टत्। पथ तौ तथा क्षोणौ दृष्ट्वा रजनी हिया भिया च क्षोणेवाभवत् । अथ प्रातरुद्यानपालेभ्यस्तं वृत्तान्तं ज्ञात्वा तयोर्बन्धुजन: वपाश्चयंदुःखमोहाकुलः तत्रागात् कर्त्तव्यमूढ़श्व चिरमवामु खः हा! कष्ट कुयोषितः कुलखलीकारहेतवः । तस्मिंशावसरे तस्याः पतिः मणिवर्मा अनङ्गमञ्जयां सोत्कण्ठः ताम्रलिप्तित: पिटगृहात् समाययो। स श्वाशर ग्रहं प्राप्य तं व्यापारमवेच्छ च वाष्यान्धलोचनो ध्यायन् तदेवोद्यानमागत्य भायां तामन्यसहितामपि गतासु दृष्ट्वा शोकाग्निज्वलिताङ्गः सद्यः प्राणान् विजहौ। ततः सर्वस्मिन् जने कोलाहलाकुले क्रन्दति ज्ञातवृत्तान्ताः सर्वे पौरास्तत्र समाययुः। अथानङ्ग- मजाः पित्रा पूर्व प्रतिष्ठापिता सब्रिहिता देवी चण्डी निजैः गणैः सक्तपः विज्ञप्ताभूत् मात: ! त्वदाकारप्रतिष्ठापयितायमर्थ- दत्तः सदैव ते भतो बणिक, तदस्य अस्मिन् दुःखे दयां वितरतु भगवतीति। एतद गणेभ्यः श्रुत्वा शरण्या सा शङ्करी शान्ता- नङ्गास्त्रयोऽपि एते जीवन्तु इति समादिशत्। अथ सर्वेऽपि सुप्त- प्रबुद्धा इव क्षणात् तत्प्रसादात् जीवन्तो गतमन्मथाः समुत्तस्थुः । सतो दृष्ट्वा तव्यापार सानन्दे तवत्ये सर्वम्मिन् जने कमलाकरः
हाविंशकथा।
११३
लज्जावनतमुखः खाटई प्रायात्। अर्वदत्तोऽपि तां झोला
* सुतामनङ्गमञ्जरौं भर्तृसहितामादाय सोत्सवं यह प्रविवेश ।
इति कयां कथयित्वा तस्यां रात्रौ पथि स वेतालः तं क्षौणी-
पतिमगदत् राजन् ! लस्यैतेषु अनुरागमरणे मोहातिरेकः ?
जानंश्च न चेत् वदसि, तदा स पूर्वोक्त एव शाप: स्मरणीयः
तदाकर्ण्य राजा तं प्रत्युवाच
योगेश्वर !
एतेषु मणिवर्मा
एवातिमूढ़ो, यो हि भार्सामन्य पुरुषासक्तमृतां दृष्ट्वैव कोपकाले
प्रत्युत रक्त: शुचा प्राणानमुञ्चत्। इति निगदितवतस्तस्य
नृपते: स्कन्धात् स वेताल: सहसा स्वं निलय प्रतस्थे। राजापि
भूयस्तथैव कृतप्रयत्नस्तमन्वधावत् ।
अथ द्वाविंशकथा।
अथ राजा तमेव शिंशपातरु गत्वा तञ्च वेतालमादाय
स्कन्धे आरोग्य च गन्तव्यभूमिमभिप्रतस्थ ।
तव प्रस्थितं
पथि पुन: वेताल: प्राक्रमत वक्त राजन् ! साधु सुसत्त्वस्त्व
तदपूर्वामिमामपरां कयां कथयामि श्रूयताम् ।
अस्ति कुसुमपुर नाम नगरम् । तत्रासीत् धरणीवराहो
नाम भूपतिः। तस्य ब्राह्मणभूयिष्ठे राज्ये ब्रह्मस्थलाभिधो
ग्रहारोऽभवत्। तत्र विष्णुस्वामी नाम कोऽपि विजः प्रति-
वसतिस्म।
तस्य हविर्भुज इव स्वाहा नाम भार्याभूत् ।
तस्यां तस्य चत्वारः सुता जजिरे। ते च कालक्रमेण पितरि
वर्गसे जातिभिहतसर्वस्वा मिथो मन्वयाचक्रुः इहास्माकं गति-
र्नास्ति तदन्बत्र वय' व्रजाम इति मन्त्रयित्वा यज्ञस्थलाभिधे
११४ वेतालपविंशतिः । प्रामि मातामहावास' बहुभिर्दिनैरंगमन्। तब मातामहा- भावात् मातुलै: सुसत्काता: स्वाध्यायतत्परास्तस्थुः । कालक्रमेय ते अकिञ्चना: भोजनाच्छादनादिषु तेषां मातुलानामवन्नाभाज- नतां जग्मुः। ततः स्वजनजेनावमानेन हतात्मनां तेषां ज्येष्ठः रहसि तानब्रवीत् भ्रातरः! किं क्रियते, सर्वे विधिकृतमव- धारयत । पुरुषस्येह कस्यचित् क्वचित् किमपि कत्तुं न शक्यम्। अहं हि उहेगेन भ्राम्यन् काननं प्राप्तः, अद्य विपनस्थित स्रस्ताङ्गं पुरुष भुवि अद्राक्षमचिन्तयञ्च तां गर्हि स्पृहयन् । श्रयं हि धन्यः, यः दुःखभार' विमुच्य स्थितः। इति संचिन्त्य तत्कालं मरण निश्चय कृत्वा वृक्षाग्रलम्बिना पाशेन आत्मानमुद तम्बयम्। यावच्च विसंजस्य मे असवो न निर्यान्ति, तावत् त्रुटितपाशोऽहं महीतले पतितोऽस्मि । लब्धसंज्ञश्च केनापि कपालुना पुंसा तत्क्षणमागतेन पटमारुतैराखास्थमानमपश्यम् । ततः स मामब्रवीत् सखे। कथय विद्वानपि के प्रति एवं खिद्यसे ? सुकृती सुखमाप्नोति, दुष्क तो दुष्क तादेव दुःख- माप्नोति नान्यतः। दुःखात् यदि तवेदृश: समुदयोगः, तत् सुक्कतं समाचर। आत्मघातेन कथं नारकदुःखमभिवाञ्छसि। इत्युक्त्वा मां समाखास्य स पुमान् क्वापि गतः। अहच्च तादृशं मरणोद्यमं त्यक्ता इहागतः। तदेवं विधौ अनिच्छति मरण. मपि न लभ्यते। इदानीं तपसा तीर्थे तनु दाहयामि, येन पुनरहं निर्धनतादुःखभागी न स्याम्। इत्युक्तवन्तं तं ज्येष्ठ कनिष्ठाः प्राब्रुवन् आर्य अविना कथ प्राज्ञोऽपि दुःखेन बाध्यते ? किं न जायते ? यदर्थानां शरदनचना गतिः । पाहत्य रयमाणापि यत्नेन, अन्तविरसा अन्यत्री च वेश्या श्रीच कस्य कदा स्थिरा ? तदुट्योगिना सनखिना स गुण: च कोऽपि उपाननीयः, येन हठात् बड्डा अर्थहरिणः मुखमानीयते । ?
साविंशकथा। इति माहभिरुतो ज्येष्ठः क्षणात् धैर्य्यमवलम्बा उवाच को गुणस्तादृक् अर्जनोयो भवेदिति। ततः सर्वे ते विचिन्त्य पर- स्वरं वदन्ति स्म, पृथ्वों विदित्य किमपि विज्ञान वयं शिक्षा- महे। एवं निश्चित्य सर्वे समागमे सङ्केतस्थानमुक्त्वा एकैकश: ते चत्वारो भ्रातरश्चतस्रो दिश: प्रययुः । अथ गच्छति काले सर्वे सन्तनिकेतने मिलिताः केन किं शिक्षितमिति अन्योन्यमपृच्छन् । अथैषामकोऽब्रवीत् मया ईट्टक विज्ञानं शिक्षितं येन अस्थिशकलं प्राप्य यस्य कस्यचिदपि प्राणिनः तस्मिन् तदुचितानि मांसानि उत्यादयामि। एतदा- कर्ण्य तेषु द्वितीयोऽवदत् अहं तथा विज्ञानमशिक्ष यथा सञ्जातमांसे अस्थिशकले तत्प्राणिसम्भवलोमानि त्वचश्च जन- यितुं पारयामि। दृतीयोऽवदत् मया ईदृशं विज्ञानमधिगत येन जातत्वङ्मांसलोमनि प्राण्यवयवान् चक्षुरादीन् स्रष्टुं जाने। चतुर्थोऽवादीत् अहम् उत्पन्नावयवं प्राणैर्युक्त कर्तुं शक्नोमि । एवं ते परस्परमुक्ता विज्ञानपरीक्षणाय चत्वारोऽपि अस्थिखण्ड- मानेतुमटवौं ययुः। विधिवशाच्च ते तत्र सिंहस्य अस्थिखण्डं प्रापुः। जग्टहुश्च अविज्ञातविशेषास्तदेव। एकस्तत्समुचिते- मांसैस्तदस्थिखण्डमयोजयत्। हितोयस्तस्य त्वचो लोमानि च उदपादयत्। दृतीयोऽपि समग्रेरिन्द्रियैस्तदपूरयत्। चतुर्थस्तु यदा तस्य सिंहीभूतस्य जीवितमदाद तदा उद्भूतसटाभारोऽति- भयङ्करः दंष्ट्राकरालवदन: खरनखाङ्कुशः समुत्तस्थौ। सच खोत्पादकान् तान् चतुरोऽपि समुत्याय अबधीत् प्राविक्षच सद्योऽरण्यम् । एवं ते विजपुत्त्राः सिंहनिर्माणदोषात् सर्व एव विनाशं गताः। दुष्ट नन्तुमुत्थाप्य कस्य वा सुखं भवेत् । इत्थं प्रतिकूले विधौ यत्नेनोपार्जितो गुणः न सम्पत्तये, प्रत्युत विप- तये एव भवति। मूले दैवे पविक्वते प्रज्ञानवारिणा मिला:
११६ वेतालपञ्चविंशतिः। पौरुषपादपः नवालवाल: प्रायः फलति। इति कथां समाख्याय निशि गच्छन्तं तं भूपतिमपृच्छत् राजन् । पूर्वकृतं शापं स्मृत्वा पद क एषां सिंहनिर्माण विशेषेण अपराध्यति ? इति श्रुत्वा राजासौ मौनी व्यचिन्तयत् अयं पुनर्गन्तुमिच्छति, यातु, पुन- रहमेनमानेष्यामि, इति निश्चित्य तमवादीत् यस्तेषां मध्ये सिंहस्य प्राणदाता स एव पापलत्। प्राणिविशेषम बुड्डा युक्ति- बलात् यैमांसत्वग्लोमावयवनिर्माण हातं तेषामज्ञानात् नैव दोषोऽस्ति । येन तु सिंहाकारं दृष्ट्वापि विद्याप्रकाशकामिन प्राणास्तस्य दत्ताः तेनैव ता ब्रह्महत्याः कृताः । इति राजो वचनं निशस्य स वेताल: स्वमेव धाम प्रायात्। राजापि पुन- स्तमनुसरन् शिंशपान्तिकमगात् । अथ त्रयोविंशकथा। X9 ततः स राजा शिंशपातरुमुपेत्य मौनी दर्शितानेकवैक्त तं वेतालं स्कन्धे नीत्वा प्रातिष्ठत। वेतालोऽपि स्कन्धे स्थितस्तम- मब्रवीत् राजेन्द्र ! अकार्येऽप्येतस्मिन् ते दुर्वारो ग्रहः, तत्ते श्रम- विनोदाय कथामिमां कथयामि शृणु। आसोत् कलिङ्गदेश शोभावतो नाम पुरी। यस्यां दिवीव सुक्कतिन: प्रतिवसन्ति स्म। प्रद्युम्न इव ऐश्वर्य्यदो-तिशयेन वित: प्रद्युम्नो नाम नृपतिः समूर्जितगासनस्तां शसास । यस्मिंश्च राजनि चापेषु गुणापकर्षः, मुरजेषु कराहतिः, युगेषु कलि: प्रजासु च तीक्ष्णता अश्रूयत । तस्याथ पुन: क्वचित् प्रदेशी यजस्खलाभिधानो बहुद्दिजः कश्चिदग्रहारः नृपेण प्रतिष्ठापितः ।
वयोविंशकथा। ११७ पत्र कश्चित् वेदपारगो महाधनो अग्निहोत्री पूजितातिथिदेव: यज्ञसोमो नाम ब्राह्मण: समवात्सीत्। तस्य वाईके अनुरूपायां भाव्याम् एक एव सुतः समुदपद्यत। स च बालः पितुः प्रय- बात् दिने दिने वईमानः शुभलक्षणयुतः देवसोम इति पित्रा कृतनामधेयः पित्रोरतिस्नेहपात्रतामगात् अथ प्राप्त षोड़श वर्षे स बालकः विद्याविनयादिभिरावर्जितसमस्तजनः सहसा ज्वरेणाकान्तः पञ्चतामवाप। ततः परासुं तं दृष्ट्वा समाश्लिष्य च हाहेति रुदन् यज्ञसोम: भार्यया सहित: स्नेहात् दाहाय न जही। ब्रह्मन् ! गन्धर्वनगरस्येव संसारस्य गतिं परावरज्ञोऽपि किं न वेसि ? ये हि राजानः अमरम्मन्या अस्मिन् भूलोके व्यससन् तेऽपि एकैकश: श्मशानेषु रुदत्प्रेतानुयायिपूर्णेषु चिता- धिरूढ़ाः क्रव्यात् क्वशानुना दग्धाः, शिवाभिश्च कालेन कवली- कता: कैश्चिदपि न रोडुं शकिता: का कथा अन्येषां, हे विहन् ! तदेतं प्रेतमाश्लिष्य किं करोषि वद। इत्येवं वृद्धा बन्धव: मिलि- तास्तं प्राबोधयन् । ततः कथञ्चित् तेन मुक्त तं सुतं शिविका- मारोप्य ते बान्धवाः कोलाहलसमाकुलाः श्मशानं निन्युः । पत्रान्तरे तत्र श्मशान कोऽपि तापसः पाशुपतव्रती मठि- कायां कृतनिवास: वयसा तपसा चातिभूयसा कृशां तनु बिभ्राण: भङ्गभीत्येव शिराभिः परिवेष्टित: विद्युत्पिशङ्गजट: द्वितीयो महेखर इव प्रतिवसति स्म। तस्मिंच काले स तापस: तं जनकोलाहल श्रुत्वा दृप्तोपासम्भवहितं भिक्षाफलधरमन्तिक- वर्त्तिनं शिथं जगाद वत्स ! कथमयं जनकोलाहल: श्रूयते, गत्वा वहिर्विज्ञाय सत्वरमागच्छ, कुतोऽयमनुतपूर्व: तुमुलो रवः । इति तेन गुरुणोक्ल: स शिष्यस्तं प्रत्युवाच नाई यामि, वं खयमेव याहि, मे भिक्षासमयोऽतिकामति। तदाकण्य स गुरुरब्रवीत् धिक् मूर्ख ! उदरम्भरे ! अङ्गः अईप्रहरे यात का ११८ वेतालपञ्चविंशतिः । तव भिक्षावेला ? श्रुत्वैव क्रुद्धः स कुशिष्यस्त तापसं प्रत्यवदत् धिक् जराजीर्ण ! नाहं ते शिष्यः, त्वच मे न गुरुः, अहमन्यत्र यास्यामि, त्वं स्वयम् इदं पात्रं वह। इत्युत्ता स क्रुद्धः अग्रे दण्डकुनिकां त्यक्त्वा समुत्थाय प्रायात्। ततः स तापस: विहसन् तस्मात् मठात् निर्गत्य तत्रागात्, यत्र दाहार्थं स मृतो विजा- भंकः समानीतः। तं जनतया शोच्यमानाग्रयौवनं दृष्ट्वा जरा- दित: स योगी तदेह प्रवेष्टुं मतिमकरोत् । तत: एकान्ते गत्वा मुक्तकण्ठ प्ररुद्य च यथोचितैरङ्गहारेननर्त। ततः क्षणेन स तपस्वी पुनः यौवनसुखमनुवुभूषुः योगात् स्वां जीणं तनु विहाय तत् हिजपुत्रकलेवरं प्राविशत्। क्षणे च तस्मिन् स दिजयुवा रचितायां चितायां सहसा लब्धजीवः समुत्तस्थौ । तद- वलोक्य बन्धुवर्गस्य सर्वस्य दिष्ट्यायं बालको जीवति जीवतीति सहर्षनिनादः समुदचरत्। अथ विप्रपुत्रशरीराम्तःस्थ: स योगे- खर: तान् बन्धूनब्रवीत् लोकान्तरगतस्य मम शर्वेण जीवितं दत्त्वा महापाशुपतव्रतं त्वया धार्यमिति समादिष्टम् अधुनैव मया एकान्ते गत्वा तव्रतं ग्राचं नोचेत् मे जीवितं नास्ति, तदयूयं गृहं यात, अहमपि यामि इति सर्वान् तान् तत्रस्थान संबोध्य दृढ़निश्चय: हर्षशोकाकुलान् तान् स्वग्रह प्रेषयामास । स्वयञ्च गत्वा तत् पूर्वकलेवरं खभ्रे क्षिना ग्रहीतव्रतो युवोभूय अन्यतो ययौ। इति कथां समाख्याय वेतालः निशि पथि यान्तं तं त्रिविक्रमसेनं नृपं पुनरब्रवीत् राजन् ! ब्रूहि स योगीन्द्रः परदेह प्रविशन् कथं वा पूर्व प्रारुदन् किमर्थं वा अनृत्यत् अत्र मे महत् कौतुकं वर्त्तते। इति बेतालात् श्रुत्वा शापशङ्को गजा मौनं विमुच्य तमवादीत् शृणु वेताल! सिद्धिकारकं बाल्ये पिटभ्यां लालितम्, अद्य इदं त्यजामीति दुःखितः दुस्त्यजदेहि- कसेहात् प्रथमं रुरोद। नवं देह प्रविश्य अधिकं व्रतं साध- चतुर्विशकथा। ११८ यिष्यामि इति यौवनलाभहर्षात् ननत च। एतत्तस्य रामः वचनं निशम्य स वेताल: पुन: सहसा तं शिंथपापादपमगमत् । राजापि अविचलितोत्साहः पुनस्तमन्वसरत् । अथ चतुर्विंशकथा। अ तत: स राजा तां तिमिरश्याम चिताग्निज्वलितेक्षणां घोरा रजनिराक्षसीमगणयन् वीरः तस्मिन् भीषण श्मशाने तां शिंशपां गत्वा तं वेतालं स्कन्धमारोप्य पूर्ववत् प्रातिष्ठत। वेतालोऽपि गच्छन्तं तं नरदेवमुवाच भो राजन् ! अहं गतागते शमुहिम्नः, न पुनस्त्व, तदेकं मे महाप्रश्न कथयतः समाकर्णय । आसीत् पुरा दक्षिणापथे धर्मो नाम मण्डलेश्वरः साधूनां धुरन्धरः बहुगोत्रज: नरपतिः । तस्य चन्द्रावती नाम मालव- देशभवा भायासीत् । तस्यां कन्यैका प्रसूता। तस्याञ्च कन्यायो प्रदेयायां स धर्मनरपति: राष्ट्रभदिभिर्दायादैर्मिलितैरुन्मूलितः पलाय्य सदृशा भार्यया तया च दुहिता सह रात्रौ संग्रहीतरत्न- सञ्चयः खराष्ट्रात् निगरात् । मालवे श्वाशरं गृहं प्रति खैरं मच्छन् स तया पत्नया सुतया च सह विध्याटवीमासमाद। तस्यां कथ- श्चित् थान्तया भार्यया सुतया च परिखिन्नः निशामनयत् । अथ प्रात: भगवान् विभावसुः करान् प्रसारयन् मागाचौराटवीमेता- मिति तं राजानं वारयन्निव पूर्वी दिशमारोह। ततो रामा पदातिः वसन्या सुतया जायया च सह कुशकण्टकैः क्षताडि भिमानां परेषां प्राणसर्ववहारिभिः पुम्भिराहतां धार्मिकजनरहितां कतान्तनगरीमिव दुगी पल्लीमगत्। तत्रागच्छन्तं वसनाभरणा- १२० वेतालपञ्चविंशतिः। न्वितं तं दूरात् दृष्टव बहवो दस्यवः सायुधा मुषितु प्राधावन् । राजा तानागच्छतो विलोक्य भार्यासते जगाद म्लेच्छा इमे मा युवां स्मृशन्तु एतद् गहनं वनं विशतम् इति राजाभिहिता राज्ञी तया लावण्यवत्या तनयया सह भयात् वनमध्य विवेश। वोर: स राजा तु अभिमुखायातान् शरवर्षिणस्तान् शबरान् खगचर्मधर: बहून् न्यबधीत्। तत: पल्लोपतिनाज्ञप्ताः सर्वे दस्यवः निपत्य प्रहारक्षतसर्वाङ्गं तमेककं नृपं निजघ्नुः । तत: गृहीताभरण दस्युसैन्ये प्रयाते सा राज्ञो वनगुल्मा- न्तरस्थिता भर्तारं निहतं दृष्ट्वा सुतया सह विह्वला पलायमाना अन्यत् दूर गहनमरण्य विवेश। तत्र मध्याह्नभानुतापितषु अध्वगेषु शाखिनां छायासु निषा षु एकदेशे कस्यचित् पद्म- सरसस्तोरे अशोकतरुतले सा राजमहिषो चन्द्रावती सुतया लावण्यवत्या नितरां श्रान्तया भयशोकव्याकुल्या सह समुपा- विशत् । तावदभ्यर्ण निवासी कोऽपि महामनुष्यः चण्डसिंहो नाम सपुत्रः अश्वारूढ़ः मृगयार्थं तद्दनमभ्यागात् । स सिंह- पराक्रम नाम पुत्रं तयोः राजभा-सुतयोः पदपद्दती दृष्ट्वा प्रोवाच पुत्र! एते सुरेखे सुभगे पदपद्धती अनुसृत्य यदि स्त्रियो प्राप्न व: तदा तयोरेका यथारुचि स्वीकुरुष्व। इत्युक्तवन्तं तं पुत्रः सिंहपराक्रम: प्रोवाच तात ! यस्या: सूक्ष्मौ पादौ रेखया नया दृश्येते सा भाया ममैव प्रतिभाति। वृहती या पदपद्धती दृश्यते एषा ज्येष्ठवयास्तव योग्या। इति सूनोर्वचनमाकप स चण्डसिंहरत जगाद पुत्र ! कैषा कथा तव, जननी तव प्रत्यक्ष मेव दिवंगता। तादृशे सुकलो गते अन्यवासना से कैव तदाकणं सोऽपि तं पितरमुवाच तात! मैवम्, अभायं हि ग्राहपतेः ग्रह शून्यम्। अन्यञ्च, मूलदेवोक्ता कथा त्वया कि न श्रुता ? यत्र घनस्तनजघना मार्गावलोकिनी कान्ता नास्ते, ?
चतुर्विशव 'शकथा। १२१ कः अजड़ः तत् अनिगडं रहसन्नकं दुर्ग प्रविशति ? तत् तात! मम जीवितेन शापितोऽसि यदि मदभीष्टाया द्वितीयां भायां वं न स्वीकरिष्यसि। एतत् पुत्रवचः श्रुत्वा स चण्डसिंहः तथेति प्रतिपद्य ससुतः तां पदपद्धतिमनुसरन् शनैः ययौ । प्राप्य तत् सरःस्थान तां श्यामां चन्द्रावती रानौं रूपलावण्य- विभासिनी ददर्श। उपाययो च सकौतुकः सह पुत्रेण ताम् । सापि तं दृष्ट्वा चौरशशिनी विवस्ता समुत्तस्थौ। अलं वासेन नौ, एतौ चौरी न, सौम्याक्ती सुवेशानी कौचित् आखेटकते नूनमिहाद्य प्राप्तौ। इति सुतया बुद्धिमत्याभिहिता रानी यावत् दोलायते, तावदश्वावतीर्णश्चण्डसिंहः पुरोवर्ती तामुवाच सुन्दरि ! अलं सम्भमेण, पावाम् इह मृगयार्थमागतो, तदि- खस्य निराश वदतं के युवां ? हरनेत्रानलज्वालादग्धमन्मथ- दुःस्थिते रतिप्रीती इव अरण्यमेवमुपागते ? कथ वा इह अमानुषे वने प्रविष्टेस्थः इदं हि युवयोर्वपुः रत्नप्रासादवासाह, किमिति वराङ्गनविचरणयोग्यौ चरणो कण्टकिनीमिमां भुव- मवतारितौ ? चित्रमिदम्, एषा युवयोरानने पतन्ती वातोड़ता धूलिरावयोमुखं हतच्छायं कुरुते। भवत्योरङ्गेऽस्मिन् चण्डां- शोरुचण्डः किरण: पतन् अस्मान् दहति । तदात्मवृत्तान्त ब्रूतं, आवयोर्हृदयं भवत्यौ एतावस्थां गते दृष्ट्वा भृशं दूयते । अस्मिन् खापदावृतेऽरण्ये वां स्थितिं द्रष्टुं न शक्न वः। इति चण्ड सिंहेनोक्ता राजी नि:श्वस्य लज्जाशोकाकुला शनैः स्व वृत्तान्तमवर्णयत्। ततश्चरडसिंह: नि:स्वामिकां तां मत्वा समावास्य च मधुरैर्वाक्यैरनुरज्जयन् ससुतां स्त्रीचकार। सपुत्री तां पुत्र: स: अश्वयोरारोप्य वित्तपपुरीसमृहां निजां पुरों निनाय । सापि जन्मान्तरगतव अवशा अनाथा कच्छपतिता अङ्गीचकार किं करोतु तपखिनी। ततस्तस्या राजयाः सूक्ष्म- ११ १२२ वेतालपञ्चविंशतिः । पादत्वात् चण्डसिंहसुतः सिंहपराक्रमः राजौं चन्द्रावती भार्या व्यधात्। तत्सुताञ्च लावण्यवती राजकन्यां पादयोवृहत्वात् चण्डसिंहो भाउञ्चकार। पूर्वप्रतिज्ञातं हि सत्यं कोऽति- वर्त्तते ? एवं पादविपर्यासात् तयोः पितापुत्वयोः ते दुहिता- मातरी भार्ये तदा खस्नुषे जाते, कालेन च तयोः ताभ्यां पतिभ्यां योरेव पुत्रा दुहितरश्च क्रमात् जग्मिरे। इति कथा- माख्याय स वेताल: तं नृपं पप्रच्छ राजन् ! अनयोर्माता- दुहितोस्ताभ्यां पिटभ्यां पितापुत्त्राभ्यां ये जन्तवो जाता: ते अन्योऽन्यं के किं सम्बन्धाश्च भवन्ति ? यदि जानन ब्रवीषि, तदा पूर्वोक्त एव स शापः स्मरणीयः। इति वेतालवचः समा- कर्ण्य बहु विमृषन् राजा किमपि वनुमशन वन् तूष्णीक एव प्रययौ। ततः स वेताल: तं प्रश्नोत्तरदाने असमर्थ दृष्ट्वा हृदि हसन् समचिन्तयत् अयं राजा अस्मिन् महाप्रश्न उत्तर दात न हि शक्नोति, तेन तूषणों व्रजत्येव, न चाय मां वञ्चयितुं शक्त: शापस्य प्रभावात्। तत्प्रीतोऽस्मि अस्य महासत्त्वस्य सत्त्वाति- रेकेण, तदद्य तं दुरामान वञ्चयित्वा उपागतां तसिद्धिं भावि- कल्याण अस्मिन् राजनि निवेशयामि । इत्यालोय स वेतालस्तं नृपमक्दत् राजन् ! कृष्णनिशाघोरेऽस्मिन् श्मशाने गतागतैः क्लिष्टस्त्व सुखीव दृश्यसे, कोऽपि ते विकल्पो न विद्यते, तदाश्चर्येण धैर्येण च ते तुष्टोऽस्मि, त्वमिम शव नोवा इदानों व्रज, अहमतो निर्गच्छामि, इदञ्च तव हितं यत् वदामि तत् कुरुष्व। यदर्थे भवता एतत् नृकलेवर नीयते, कुभिक्षुः सः अद्य अस्मिन् मामाय अचयिष्यति, त्वाञ्च उपहारी- चिकीर्षुः भूमौ साष्टाङ्गं प्रणमं कुरु इति वक्ष्यति। महाराज ! स दुरामा तावत् त्वया एवं वक्तव्यः, नाहं तथा प्रणाम जानामि, प्राक् त्वं दर्शय, ततोऽहं तथा करिष्यामीति।
पञ्चविंशकथा। १२३ मतो निपत्य भूमौ यावत् स त्वां प्रणाम दर्शयिथति तावत्त्व- मसिना तस्य शिरश्छिन्द्याः। ततो विद्याधरैवयंसिडिया तस्थ वाञ्छिता, तां त्वमेव प्रासासि। अन्यथा तु स भिक्षु. स्त्वामुपहारोक्कत्व खष्टसिहिं करिथति। एतदर्थं तव एता- वान् विलम्बः कतो मया, तत्ते सिद्धिरस्त मच्छेदानी, इति उला वेतालः तस्य स्कन्धात् निर्गत्य प्रययौ । अथ स नरपतिबेतालवचसा तं क्षान्तिशील भिक्षु तथा खाहिताय समुद्यन्तं विविच्य तत् नृकलेवर गृहीत्वा प्रदृष्टः सत् वटतमतलं प्रतखे। अथ पञ्चविंशकथा। ततः स राजा त्रिविक्रमसेनः शव स्कन्धे वहन् शान्ति- शीलस्व श्रमणस्य पार्ख प्राप, ददर्श च तं मार्गावलोकिनमेकं कृष्णपक्षरात्रयां श्मशानतरुमध्यगम् । स राजा असुलिप्तस्यले गौरण अस्थिचूर्णेन निर्मिते विन्यस्तपूर्णशोणितकुम्भे महातैल- सतंप्रदीपे कृतानलहोमे सम्भृतोचितसम्भारे कृतेष्टदेवतपूजने मण्डले समुपविष्टं तमुपागात्। भिक्षुश्च तमानौतमृतकं वृष समुत्थाय प्रोवाच राजन् ! त्वया अन्यदुष्करो महान् अनुग्रहो मै विहितः, त्वादृशाः क, क च इयं चेष्टा, कच वा ईदृशौ देशकालो। सत्यमेव त्वां कुलभूभुजां मुख्यमाहुः, एबमात्मानपेक्षेण येन परार्थः साध्यते । एतदेवं महतां महत्त्वमुञ्चते प्रतिपबादचलनं प्राणानामत्ययेऽपि । इति ब्रुवन्स भिक्षुः सिद्धार्थमानी तस्व सन्धात् तं शवमवतारयामास। ततस्तं वापयित्वा बदमात्यं १२४ वेतालपश्चविंशतिः। विधाय तस्य मण्डलस्य अन्तः स्थापयामास । ततः भस्मालेपित- गात्र: केशयज्ञोपवीतो प्रावृतप्रेतवसनः भूत्वा क्षणं ध्याननिमृत स्थितः । अथ ध्यानबलात् तम्मिन् नृकलेवर प्रविष्टं तं वेतालं स भिक्षुः क्रमेण पूजयामास। प्रथमं तस्मै कपालेन पात्रेण अर्ध्य ततः सुनिर्मलैर्नवदन्तै: पुष्य सुगन्धिविलेपनं मानुषनेत्रं धूपं मांसानि च नैवेद्यानि दत्त्वा पूजनं यथाविधि समाप्य पार्ख में राजानं प्रोवाच राजन् ! इहास्य मन्त्राधिराजस्य कृताविर्भावस्य अष्टाभिरङ्गः निपत्य भूतले प्रणामं कुरु । येनाभीष्टसिद्धिं तेऽयम् वरप्रदो दास्यति। श्रुत्वैतत् स्मृतवेतालवचन: स राजा तं भिक्षुमब्रवीत् भगवन् ! नाहं तादृशं प्रखामं वेझि, तत् पूर्व भवान् प्रदर्शयतु, ततस्तवाहं करिष्ये इति। ततः स भिक्षुः यावत् तथा प्रणामं दर्शयितुं भुवि पतितः, तावत् स राजा खनप्रहारणास्य शिरः अच्छिनत्, आकर्षञ्चास्य हृत्पद्म पाठि तम्। तत: तशिरः तच हृत्पद्म वेतालाय प्रददौ। ततः समन्तात् भूतगणैः दृष्टः साधुवादे प्रदत्ते स वैताल: परितुष्ट- स्तस्मात् नृकलेवरात् तं नृपमब्रवीत् राजन् ! भिक्षोरस्य यत् विद्याधरेन्द्रत्वमीप्सितमासीत् तत्तावत् भूमिसाम्राज्यभोगान्ते ते भविष्यति । इत्युक्तवन्तं तं वेताल स राजा प्रत्यवादीत् योगीन्द्र ! स्वञ्चेत् प्रसन्नः, तदा को नाम अभीष्टो वरः न सिध्यत्, तथापि अमोघवचनं त्वां इदमभ्यर्थये, एतास्ते नानाख्यानमनोरमा प्रश्नकथाः चतुर्विशतिः पञ्चविंशतिसमाप्तिगाः भूतले ख्याता: पूजनीयाय भवन्तु। इति तेन राज्ञार्थितो वेताल: प्रत्यभाषत राजन् ! एवमस्खु, विशेषच्च वच्मि शृण याश्चतुर्विंशतिः पूर्वा: या च एषा कामदायिनी, यः प्रस्थाकाशमानमपि सादरः कथयिष्यति वा थोष्यति स सद्यो मुक्तपापो भविष्यति। यत्रैषा कथा कीर्णते तत्र यक्षराक्षसडाकिनी वेतालकुष्माण्डब्रह्मराक्षसा
पञ्चविंशकथा।
१२५
दयो न प्रभविष्यन्ति
इत्युक्षा स वेतालस्तस्मात् कलेवरान्
निर्गत्य यथारुचि योगमायया स्वं धाम प्रायात् ।.
वतस्तत्र सर्वेदेवगणैः सह महेखरः परितुष्टः तत्राविरभूत,
प्रणतच तं नृपमादिक्षत् साधु वत्स ! यत् त्वयायं विद्याधरमहा-
चक्रचक्रवर्त्तिताहठकामुकः कूटतापस: निहतः । त्वं मया
खांशतः विक्रमादित्यः सृष्टः म्लेच्छरूपावतीर्णानाममुराणां
शान्तये, उद्दामदुर्वृत्तानां दमनाय च। अत: सहीपपाताला
मही वशे स्थापयित्वा विद्याधराणामधिराजो भविष्यसि । तत्र
च चिरं दिव्यान् भोगान् भुक्ता खेच्छया च तान् त्यस्ता अन्ते
ममैव
सायुज्यमवाप्सासि
। एतच्च अपराजितं नाम खन मत्तो
राहाण, पस्यैव प्रसादात् यद् यदुक्तं तत् सर्वं ते सेत्स्यति ।
इत्युक्ता
तं खड्गरत्न तस्मै दत्वा वाक्पुष्पैठ तेनार्चितः शत्रुः
देवैः सह तिरोदधे।
इति वि, ए उपाधिधारिणा यौजीवानन्दविद्यासागरभाषाय्यक
विरचिता देतालपञ्चविंशवि: समाता।
به هر
filenanda vidyasagana 1.a.
Totah fawram
5 39WTI freymir
No text on this page.