Svi-ksri-chennai

Ghat'akaparakaavyn'

Abhinavagupta

PDF Proofread

Front matter

No text on this page.

GHATAKHARPARA-VIVRITI
BY
ABHINAVAGUPTA

K.S.R.I. LIBRARY
ACCESSION NUMBER
4912

.
THE KASHMIR SERIES
OF
TEXT.' AND STUDIES.

No text on this page.

KASHMIR SERIES OF TEXTS AND STUDIES.
No. LXVII.
THE
GHATAKARPARA KĀVYA
OF
KALIDĀSA
With the Commentary of
ABHINAVAGUPTA
EDITED BY
PANDIT MADHUSUDAN KAUL SHASTRI,
SUPERINTENDENT RESEARCH DEPARTMENT
HIS HIGHNESS' GOVERNMENT,
JAMMU & KASHMIR.
SRINAGAR
Published under the authority of the Government of
His Highness Rājarājesvara Mahārājādhiraja
Sri MAHĀRĀJĀ HARISINGHJI BAHADUR,
G.C.S.I., G.C.I.E., K.C.1.0.. LL.D.
MAHĀRĀJĀ OF JAMMU & KASHMIR.
SRINAGAR.
Printed at the Mercantile Press
1945 A.D.

No text on this page.

कश्मीरसंस्कृतग्रन्थावलिः | ग्रन्थाङ्क: ६७ महाकविकालिदासकृतं घटकपरकाव्यं श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपाद- रचितविवृत्युपेतम् । श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र- श्रीहरिसिंहजी-बहादुराज्ञया रिसर्वकार्यालयाध्यक्ष-पण्डितमधुसूदनकौलशास्त्रिणा उदिष्टकार्यालयस्थेतरपण्डितसहायेन संशोधनादिसंस्करणोत्तरं संपाद्य श्रीनगरे 'मर्कण्टाइल' मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतम् । संवत् २००२ कश्मीर-श्रीनगर मेस्ताम्दः १६४५ (अस्य ग्रन्थस्य मुद्रापखाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति )

! All rights reserleid )
Published by
Pandit Madhusudan Kaul Shastri,
for the Research Department,
Jammu & Kashmir Government,
Srinagar

GHATAKARPARA KAVYA. INTRODUCTION. The poem which is presented in the following pages is called Ghatakarpara and consists of twentyone stanzas in all. It is called Ghatakarpara because in the concluding stanza the word Ghatakarpara is used by the author who takes a vow that he would voluntarily accept the service, even so mean as that of bearing water in a broken pot, of him who defeats him in the art of writing alliterative verses. The author of the poem according to Abhinavagupta whose commentary accompanies the text in the present edition, is the famous poet of India, namely, Kálidāsa. The present In the Bombay edition of the Ghatakarpara the number exceeds by one stanza, although strictly speaking even the twentieth stanza is an interpolation on the authority of Abhinavagupta. edition differs also from the Bombay edition matter of the arrangement of the stanzas. The former begins with the stanza giza etc. and the latter with farea etc. The poem describes the sad plight of a young lady whose husband is away from her during the rainy season. The stanzas 2,3,4,5,8,9,10,11,12,13 and 14 are put in the mouth of the young lady and the 6th and the 7th in the mouth of the female messenger from the husband. In the last two stanzas there appears the poet himself as a speaker. The author of the Vivriti or the commentary is Abhinavagupta as is mentioned above. He refers to his famous teacher in the poetics, Induraja.

In the exposition of the text Abhinavá has tried
his best as an advocate of the Dhvani School of
the Rhetoricians to lay stress more on the implied
sense than on the denotation of the words.
The edition in question forms the 67th issue
of the Kashmir Series of Texts and Studies, and is
based on the transcript, prepared by the copying branch
of the Research Department, from the Manuscript
of the Raghunātha Temple Library, Jammu, which
is detailed below :-
Leaves
Lines
Letters
Manuscript Title of the
Author's name
No: Manuscript.
809 Bhatakarpara- Abhinavagupta
vivriti.
10
13
46
:o:

महाकविकालिदासकृतं
घटकपरकाव्यं
श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादरचित-
विवृत्युपेतम् ।
अपूर्वः कोऽयं ते वरद शिरसः शेखरविधि.
ननु शातं प्लुष्टं सरधनुरिदं मूर्धनि धृतम् ।
यदालोकालोके विषमविशिखः स्फूर्जतितरा.
मिति प्रोक्त देव्या गलितनियमः शम्भुरवतात् ॥
इदं प्रोषितप्रमदया हेतुभूतया प्रोषितप्रमदामुद्दिश्य
कथ्यते कुलकम् । तत्र किश्चित् कविनिबद्धप्रमदावक्त.
कम् , किञ्चित् कविनिबद्धतत्सखीभाषितम् , किञ्चित् कवि-
निबद्धदूतीभाषितम् , अन्यत् कविप्रकटितप्रतिदूतीवचनम् ,
इतरत् स्वतन्त्रकविकथितम , इति बहुप्रकारं दर्शयिष्यामः;
नतु सैव एका कथनकी । प्रोषितः प्रमदो वल्लभो हर्ष.
श्व यस्याः; अथच प्रोषिता वल्लभेन वियुक्ता, प्रकृष्टेन यौ.
वनेन शृङ्गारजनितेन मदेन च युक्ता । अन्यदेशतया वियु.
कत्वमेव प्रोषितत्वेन लक्ष्यते
छादिते दिनकरस्य भावने
खाजले पतति शोकभावने
मन्मथे च हृदि हन्तुमुद्यते
प्रोषितप्रमदयेदमुद्यते ॥१॥

घटकपरकाम्यम् । दिनं करोतीति दिनकरस्तस्य भावने रश्मिपुजे छा- दिते तिरस्कृते सति तासां तमःप्रतिपक्षतया सुप्रसिद्धा. नामपि न न सति तन्मनाः १ स सुर्यो यत्र आच्छाद्य. ते तत्र कथं हर्षालोकोऽपि मानसोऽस्तु. अथव विरहि- णीनां रजनिसमयजनितरणरणककलुषितहृदयानां कदाचित् दिनमपि विविधविनोदनालोकवितरणेन बन्धुतां यायात् ; अद्यतु यत्प्रसादात तादृशदिनमुपजायते तस्य अपि कश्चि. दात्मीयः सहजः स्वभावः, सोऽपि आच्छादित इति सा तिशयं भाग्यहीमत्वं धातितम् । तथा जले च आकाशात पतति । कोहशि | शाकं भावयति । जलं हि निकटव. तिना पार्थिवरजसा पार्थिववरजन्तोरात्मानं भाषयति एक- तया योजयतीति श्रुतमिदम , अद्य तु अपूर्व वर्तते शो केन विरहिणीर्भावयति शोकमय्य एव सम्पाद्यन्ते ताः । नहि तासां प्रावट्समयमध्ये प्रियागमनशङ्कामात्रमपि अ स्तीति तावत्काल नैराश्यमेव । खात् पततीत्यनेन अमुष्य दुष्प्रसहस्य अप्रतीकारतया सातिशयोऽनुतापः सूच्यते । तथा मन्मथो हदयप्रहरणं प्रति ससंरम्भः । अथच बाह्यो यः कश्चित् हन्ता तस्मादुपायैः पलाय्यतेऽपि, अयं पु. नहृदयावस्थित एव अन्तहननं प्रति ससंरम्भः । चशब्द एककालतासूचकः । यथा कश्चित् दुर्जनो निर्जने निरा. लोके दुर्दिन एव सशोकं जनमत एव निरुभ्यमानमेकाकिन प्राप्यैव लब्धच्छिद्रो प्रहरति, तथैव अमुध्मिन् काल ईदृ शमिब कामिनीजनं मदनस्ताडयतीत्यर्थः ॥ १ ॥ सर्वकालमतिबान तायदा आगताः स्थ दयितो गतो यदा । .

३ श्रीमदभिनवगुप्तपादरचितविमृत्युपेतम् । निर्दयेन परदेशसेविना मारयिष्यथ हि सेन मां बिना ॥२॥ इयं नायिकाया एवं उक्तिः । तोय! मच्छो. कभावकजलवितरयोपता यत्र वयं प्रियवियुक्ता न अभूम, तादृशं कालमतिवाझ यत्र कवित् यापयित्वा यदा अद्य दयितो गतस्तदा यूयमागताः; तथा सर्व कालं दिष्टम- थच कृतान्तरूपं येषां ते तथा मतिबाला अमनोवमनसः पीडकत्वात् ते च तोयदाश्चेति विग्रहः । अतश्चमांमार- यिष्यथ, काका उक्तिः । एवं नाम पुण्यभागिनी भूयासं, येन दयितजनविरहिता भीषणभवदीयचरितावलोकनपरि- खिन्नहृदया जीवितत्यागेन अपि सुखमासीना; अथच द. यितेन विना या जीवति सा अवश्यवधाव । यश्च नि. दयः सन् परदेशं सेवते, स चेत् दयिताया वृदयं प्रविष्टः, तत्करतलोपनतमेव मरणम् । नहि असौ जलधरसमये कि. मपि कार्य कर्तुं समर्थ इति अवश्यमेक एव कचन चिर मास्ते इति । तस्मादस्मासु उपरि प्रेम तावदास्ताम् । दयामपि यदि अकरिष्यत् , तदवश्यमिहेव आगमिष्यदित्ये. तावती कष्टपरम्परेति अनेन विश्वासपरिपाटीजनितदोखि- त्यसूचकेन ध्वन्यते ॥२॥ प्रियतम प्रति निजावस्थां जिज्ञापयिषुभीषणजलदविज- म्भामसहिष्णुर्युक्त्या कथंचिद्वचनात् यदि अमी देशान्तरं बजेयुस्तत् सर्व संपत्स्यते । प्रियतमोऽपि च तद्देशमाप्त. जलधरवानाकर्णनेन कदाचित् मदीयामवस्थां स्वयं वा अनुभवेदपि,-इत्यभिप्रायेण नापिका इदमाह .

४ घटकपरकाव्यम् । . ब्रूत तं पथिकपांसुलं घना यूयमेक पथिशीघ्रलचनाः । अन्यदेशरतिरद्य मुच्यतां साथवा तव वधूः किमुच्यताम् ॥३॥ हे घना! मेघाः, अथच प्रतिनिविडाः, अत एव हननशीलाः, तं पथिकानां मध्ये पांसुलं निर्मर्यादं निर्दयं ब्रूत । एतदेव तस्य अभिक्षानं यत् पथिकेषु मध्ये स एव निर्दय इत्यर्थः । यतो यूयमेव पथः शीघ्र लक्यथे- त्यनेन कथमितः क्षिप्रमेव व्रजेयुरिति प्रोत्साहना ध्वन्य- ते । ब्रूतेति च अध्यषणा इयम् . लञ्चनं च चिरवजितस्य अपि झगिति प्रासादनम् । प्रियतमो हि चिरकालं प्रो षितः, स कथं यो मार्ग लवयितुं न शक्तस्तेन अद्य इत- चलितेन लभ्येतेति भावः । किं ब्रूत । अन्यस्मिन् देशे या इयं रतिविना अपि कार्यमासक्तिः, अथच वल्लभान्त. रेण सह प्रेमविनम्भो नहि अन्यथा अम्बुधरकालोऽति- वाह्य इति, सा रतिर्मुच्यताम् । अवश्यं हि तया रत्या भवान् अथित पवेति उपालम्भगर्भा उक्तिः । अचेति श्र. चैवेत्यर्थः । अथ कथं प्रेम सविसम्भं शिथिलयितुं शक्क. स्तर्हि सा तव वधून पुनः प्रियतमा, अपितु शास्त्रसम. यपत्नी । किं कथ्यतां. न वयमप्रियमावेदयामः, निश्चितं तु प्राणान् नैव धारयेत् । अथवा साथवा तव वधू- रित्येतावत् सन्देशवचनममिधाय किमहं कथं वा भवेय. मिति किमलीकविकत्थनेनेति अवश्यमेव न जीवामी. त्यर्थः ॥ ३ ॥ .

, श्रीमदभिनवगुप्तपादरवितविवृत्युपेतम् । हंसपङ्क्तिरपि नाथ संप्रति प्रस्थिता वियति मानसं प्रति । चातकश्च तृषितोऽम्बु याचते दुःखिता पथिक सा प्रिया च ते ॥४॥ यदि पुनरद्य मार्गे गमनमागमनं च न युज्यते इति शक्यते, तदेवं ब्रूतेति नायिका आह-हे पथिक ! नहि भवान् नित्यं पथा गच्छति, अतो यदा तद्देशगतोऽभूत् तदा सा प्रिया श्रूयते स्म । अतश्चातकस्तृषाकान्तो जलं यावते, सा च तव याच्यां करोति । अनेन चातकया. नां प्रति जलस्य कारकता । त्वं तु तदीययाच्यांप्रति न कारकः । स हि याच्या प्रति कारको भवति, यः कदाचिदाशापूरणं करोति । त्वं तु सर्वकालमेवंविधप्रति कूलाचरणचञ्चुरेव । तथापि तु याच्यसे । अत एव श्राह न प्रभुः पर्यनुयोगार्हः । हंसानां सम्बन्धिनी पङ्क्तिर- तिबहवोऽपि हंसा अद्य श्राकाशमार्गे मानसं प्रति प्रच- लिताः । एकोऽपि हि यत्र गच्छति, तत्र अवश्यमपरस्य अपि अनिरुद्धेन पा भाव्यं; किं पुनर्बहवः । यतश्च ज. लधरमुक्तजलपटले ता वियतो भुवि सञ्चरन्ति तस्य यदेकायतनमाकाशं तदेव हंसानां मार्गत्वेन वर्तते । भूमौ मार्गे को भयसम्भवः । यत्र च अतिदूरं मानसं गन्तुं निर्बुद्धीनामपि हंसानामुद्यमः, तत्र परिमितदेशनिवृत्तिमात्र एव न किमिति सा प्रिया भवतो याचते ॥४॥ नीलशष्पमभिमाति कोमलं वारि विन्दति च चातकोऽमलम् ।

. घटकपरकाव्यम् । अम्बुदैः शिखिगयो विनायते का रतिः प्रिय मया विनाय ते ॥५॥ नीलं शष्पास्यं तृणं सर्वतो भाति, चातको निर्मलं जलं विन्दति जलं लभते, मयूरकुलं च मेधैः केकायुक्तं क्रियते, इत्येतैर्वाक्यैः प्रत्युत इह पागच्छतस्तव किमपि पथि मनोहरत्वमिति ध्वन्यते । नीलं च शष्पमवलोकय तस्तत्सुकुमारतरस्पर्शानुभवसुखितचरणयुगलस्य गगननिप. तितामबजलदलितकमस्य मुदितमयूररचितकेकाकरणनिर्भर विकस्वरकर्णदयस्य अवश्यं सर्वमेव सुखम् । अथ तु तूपी स्थितस्य मया विना का रतिः, न काचिदिति स्वात्मसौ. भाग्यसंभावनागर्भा इयमुक्तिः । अथच मम ईरशी अवस्था यतो वर्तते, ततो मां प्रति शष्पं नीलं मलिनस्वभावमपि कोमलं करुणामिव भाति । चातकच यो नाव प्रिय. गगनजलः प्रसिद्धः, सोऽपि जलमिह लमते, न तथा पिव. तीति प्रतीयमाना उत्प्रेक्षा । अम्बुदैश्च विरविहदयस्फो. टनपटुतरगर्जितैरपि ममोपरि करुणावशात् निजसुहत्कुल माकन्दवत् सम्पाद्यते । का पुनर्मया विना मम अभावे का भरतिः कः खेदः, न कश्चित् । तथा मम अभाव भवतःका इयं रतिः कोऽयमनुबन्धः, सा नियतामिति । अथच प्राङ् मया विना तव रतिर्न कदाचिदभूत, अद्यतु कथं सा रतिः । अयेत्यनेन प्रागत्यन्तप्रेमरसमानसतां कप. टेन किल प्रकटितवानसीति ध्वन्यते । अत एव सोत्प्रासं प्रियेति मामन्धणमिति उपालम्भगर्मा भणितिः ॥५॥ मेषशब्दमुदिताः कलापिनः प्रोषिताहृदयशोकलापिनः । .

. श्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् । तोयदागमकशा च साद्य ते दुर्घरेण मदनेन साधते ॥६॥ अमी ये भवता पुरः परिरश्यन्ते कलापिनस्ते मेवानां सेवनप्रधानानां सम्बन्धिना शब्देन मुदिताः केकाप्रिय- स्वात् , तथाच प्रोषितानां कान्तानां सम्बम्बिनि दृश्ये शोकं लापयन्ति सम्यक् श्लेषयन्ति अवश्य, तथा प्रोषि. तानां हृदये शोकं लपन्ति तेषु हि कूजत्सु अवश्यं विर- हिण्यः शोकवत्य इति निश्चीयते, तथा प्रोषिताहदयं शो. केन लापयन्ति द्रषीकुर्वते । सा च ते प्रिया तावकी प्रिया अथच तब दुर्घरेण कामेन पूर्व हि कामभयभीता. यास्त्वमेव शरणमभः, अब तु इह स्थितस्य तव मदनो दुर्घर इति दुर्निवारः । सम्बन्धमात्रे षष्ठी, नतु कर्तरि खल०' (२।३ । ६६) इति प्रतिषेधात् । तथा तवैव सनिहितस्य सा तोयदागमे कशा अभूत् । आगमिष्यति जलघरसमयः प्रवत्स्यति च प्रियतमः इति रणरणकवती भवत्सन्निधाने कृशा बभूव । अद्य तत्र मध्ये भूयान् कालो गत इति अस्या अद्य हितेन भवितव्यमिति कविनिवद. दूतीवचनमिदम । नहि मेघानां स्वयमेव 'मेघशब्दमुदि. ताः' इति 'तोयदागम०' इति च स्वातन्त्र्येण कथ. यितुमुचितम् । 'अम्बुदैः शिखिगणो विनाद्यते' इत्यत्र तु प्राकनश्लोके मेघमुखसञ्चारिताक्षरा नायिका एव कविना वक्तृत्वेन उपनिबद्धा, इह तु नैवम् ॥ ६॥ किं समापि तव नास्ति कान्तया पाण्डुगएडपतितालकान्तया । १ घटकपरकाव्यम् । शोकसागरजले च पातितां त्वद्गुणस्मरणमेव पाति ताम् ॥ ७॥ सख्या एव दूतीत्वेन प्रेषिताया इयं भणितिः । प्रास्तां तावत् प्रेमानुबन्धः । तादृशी अपि या कान्ता लावण्याद्यसाधारणभूता, सा यदि ईदृशवत् जायते, तत् किं तया हेतुभूतया क्षमा अपि नास्ति । पाण्डुरच्छाययोः कपोलयोः पतिता अलकान्ता यस्याः, तदीयकपोलतलपा- ण्डिमानं मलिनस्वभावा अलका अपि प्रेक्षितुं न पारय- न्तीत्यर्थः । अथच कान्तेति आमन्त्रणमपि । त्वं यदि तस्या वल्लभस्तया ईदृश्या जनमात्रकृपाभाजनभूतया अपि या सामान्यजनस्य कृपा भवति, सापि न अस्ति तव आत्मनि इयतापि पुरुषगुणं बहुमानं वहतोऽपि । तथापि सा शोकार्णवपानीये मेघसमयवारिणा पातिता भवदीयगु: णस्मरणेन एव रक्ष्यते । अथच त्वत्तस्तव सकाशात् प. तिता शोके. भवद्विप्रयुक्ता व जाता, शोकजलधौ च नि. मना सम्पनेत्यर्थः । चकारादेतत् ध्वन्यते , वस्तुतस्तु त्वद्गुणानामेव सातिशयसम्भोगादीनां स्मरणेन एव शोके पतिता । अद्यतु तथा कृपापात्रतां प्राप्ता, यदुत तेन नि. करुणेन पातिता अपि त्वद्गुणस्मरणेन एव रक्ष्यते । मम किल स प्रियतमोऽपगतो निर्बहुमानो मां प्रति च दृढतरप्रेमपवित्रितान्तःकरणो नूनं मामेव तदवस्थां यथ, पूर्व त्रातवांस्त्वां तथा त्रास्यते इति त्वद्गुणानां स्मर न्ती सा जीवतीति यावत् । तथा योऽयं सागरे पतितः, सोऽपि अवश्यं गुणस्मरणवृत्त्या एव रक्ष्यते दृढगुणविर चितरज्ज्ववलम्बनेन जातुचिदुत्तरेयमपि,-इत्यर्थः ॥७॥ , श्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् । कुसुमितकुटजेषु काननेषु प्रियरहितेषु समुत्सुकाननेषु । द्रवति च कलुषं जलं नदीनां किमिति च मां समवेचसे न दीनाम् ॥८॥ इयं विलापावस्थां यातायाः स्वयमेव नायिकाया उक्तिः । पुष्पितानि कुटजानि येषु बनेषु याः समुत्सुका उत्कण्ठिता मादृश्यस्तासां यानि आननानि प्रियतमवियु. कानि तेषु तद्विषये नदीनामपि कलुषं जलं गलति प्र. स्मारशीनां विरहिणीनामाननानि अवलोक्य जडभावाना मपि कलुषं जलं गलति, अस्मादृशीनां विरहिणीसरितां शोकाबिलं जलं गलतीत्यर्थः । त्वं मां दीनां किमिति समवेक्षसेऽपि न । चकारावपिशब्दार्थो भिषक्रमी, एको दीनामित्यस्य अनन्तरम् , अपरस्तु समवेक्षसेशन्दस्य । मार्गेषु मेघसलिलेन विनाशितेषु कामो धनुः स्पृशति तेन विना शितेषु । गम्भीरमेघरसितव्यथिता कदाहं जयां सखि प्रियवियोगजशोकदाहम् ॥६॥ विसृष्टायामपि दूत्यां तवचनाकर्णनादपि न मागत इति शोकाकुलमनसि नायिकायां यदा कदाचित् सखी तत्समाश्वासनाय इत्थमभिहितवती-मार्गाणां दुःसधरत्वा. दसौ न प्राप्तः, तदा पुनरपि नायिकायाः सखी प्रति इय- मुक्तिः-सखि! पश्य, मार्गा मेघसलिलेन नाशितास्तथाप. रोऽयं दोष:-अप्रत्ययेषु मार्गेषु शिता इषवो यत्र तारक धनुः स्पृशति, शितं शरं सन्धाय आकर्णाकष्टं मोक्तुमि-

पटकपरकान्यम् ।
कतीत्यर्थः । तेन विना तवियुकायाः अपर यदि अहं
तमाभिसरेयं, तत् मार्गा दुर्वानाः, तथाविधेषु अपि तेषु दुःसहं
स्मरशरभयं स्मरथ तर्ज शरान् सन्धते मामेव ताड.
यति, अन्यथा कदाचित् तस्यैव गमनमिह सम्भाव्येत ।
अथ हस्था एवं अलदसमयमतिबाहयामि , तत् गम्भी.
रेण धनगार्जितेन जातत्रासा. तिष्ठामि । अतो सखि!
मदा नई प्रियवियोगजं शोकदाहं जह्याम् । अहं च मेष.
शब्दम्ययिता, मदनध निशितशरपातनोद्यत इति अवश्यं
मम जीवितान्तेन माध्यम् । तब कदा भवेत् , यत्र अहं
सकलशोकनिर्मुला सम्पद्ययेति । केचित् सखीप्रियेति पठ-
तः सहदयाः कथमध अपि सनी दूतीत्वेन विस्था सा
अपि न मागता तत् नूनं तत्सम्भोगरसलालसया तया
माध्यमिति सम्माचयम्त्यां नायिकायां कयाचित् वयस्यया मा.
गदौरोस्ये सदागमनविनकारिणि उपन्यस्ते स्वयं नायिका-
या इदं सक्तमिति अम्यूचुः । मार्गास्तावत् नष्टाः, तेन व
विना मदनः प्रहरतीति तभिकटात चलितुं न युज्यतेऽ.
स्याः । अथच तत्सम्भोगरसवृत्तिस्मरखेनैव मदनकदर्थना-
ही अतोऽहं साध्या । प्रियेण च सह वियोगः, तथा तस्य
साध्या । इदानीं यः प्रियस्तेन सह वियोगः, तजं शोक-
दाहं कदा जीवितान्तेन अपि जह्याम् ॥ ६ ॥
सुसुगन्धितया वने जितानां
स्वनदम्भोघरवातवीजितानाम् ।
मंदनस्य कते निकेतनानां
प्रतिमान्त्यब वनानि केवमानाम् ॥१०॥

. श्रीमदभिनवगुप्तपादरविताविवृत्युपेतम् । यदा विनादनार्थ साध्या उद्यानोपवनं नीता, तदा त. दर्शनद्विगुणतरोपचितविलापावस्थाया नायिकाया इदं सू. क्लम् । केतननाम्नां तरूणां वनानि अद्य विराजन्ते । कीर शानाम् । सुष्टु सौरभेण वनमध्ये केनचिदजितानां, तथा गर्जतां मेघानां पवनेन वीजितानां प्रबोधितानाम् । अत एव कामस्य कृते निकेतनानां सङ्केतघानाम । श्रयमभि- प्रायः-केतनवनानि मदननिवेशनस्थानानीति अति- सुकुमाराणि , जलधररसिततद्विमुक्तशीकरासारसहितश्च पवनस्तेषामेव प्रबोधनहेतुतया सुकुमारतामाप्त इति किमत्र जलदसमय मार्गवैषम्यम , तत् नूनमेव केतनवनावलोकनप्रबो. घितमदनस्थानसुखसंस्कारः प्रियतम श्रागमिष्यतीति सम्भा- वयन्त्या नायिकाया भणितिः प्रतिभातीति । अपरे तु वन- शब्दपौनरुक्तयममृष्यमाणा मदनस्य अवने रक्षणे कृते अजि. तानां केतनानां वनानि शोभन्ते इति श्राहुः । अथवा सौर- भेण ये वन एकान्ते यत्र अपरः परिवाता न सम्भाव्यते तत्र जिता अपहृतधैर्यवृत्तयः कृता विमोहिताः केचन वि. रहिजनाः, तेषां दैववशात् जलधरशिशिरपवनप्रबोधिताना. मपि पुनरपि एतानि केतनवनानि कामस्य कृते करणाय प्रतिभान्ति । मदनातङ्ककरणाहते न एतेषां किमपि प्रयो. जनमिति यावत् । स्यनशब्देन करुणावशात् शब्दायमान ता ध्वन्यते । यदा स्वनन्तो गर्जन्तोऽम्भोधरा यत्र संजा. तकृपाः संवृत्ताः, तत्र अमीषां केतनवनानां का इयं नि- करुणता ॥१०॥ तत्साधु यत्त्वां सुतरं ससर्ज प्रजापतिः कामनिवास सज ।

१२ घटकपरकाव्यम् । . त्वं मञ्जरीभिः प्रवरो वनानां नेत्रोत्सवश्वासि सयौवनानाम् ॥ ११ ॥ इयमनन्तरवदेव उक्तिः । हे सर्जनामधेय ! प्रजापति- र्यत् त्वां ससर्ज शोभनं तरुं, तत् साधु, यतस्त्वं कामस्य निवासः । काकुरियमेवं ध्वनति-प्रजानां किल पत्या श्रव- श्यं प्रजाहितकारिणा भवितव्यम् , एवंविधहृदयदाहवितर- गनिःशेषितनिखिलजन्तोः कामस्य निवासभूतं भवन्तं निर्मि- माणेन प्रजापतिना सुष्ठु प्रजापतित्वमुद्दर्शितं, त्वयि दृष्ट मात्र एव मम कापि व्यथा विजृम्भते इत्यर्थः । अथ एव- मपि जानती किमिति मामवलोकितवत्यसीति यदि, तत् किल मञ्जरीभिर्भवान् सकलवनमध्ये श्रेष्ठो बहीभिः कान्ता भिस्तु परिवृत इति शृङ्गारिणि भवति बहुमान इत्यर्थः , तथापि सयौवनानां युवतीनां तु नेत्रोत्सवः । यदा किल अहं युवतिः प्रियसंयुक्ता त्वामवलोकितवती, तदा लोकोत्त. रनयनानन्दवती अभूवम् , अद्य त्वमेवंविधबहुतरवल्लभाप. रिवृतो भूत्वा कथं मां प्रियवियुक्तां त्रातव्यां दर्शनमात्रेण अपि मदनपरवशां करोषीति वाक्यार्थः ॥ ११ ॥ नवकदम्ब शिरोऽवनतास्मि ते वसति वो मदनः कुसुमस्मिते । कुटज किं कुसुमैरवहस्यते प्रणिपतामि च दुष्प्रसहस्य ते ॥ १२ ॥ यदा सर्जतरोरपक्रान्ता नायिका झगिति कदम्बमव लोकयति, तदा प्राक्तनमदनभयभीतिमती झगिति प्राह- १३ श्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् । हे नवकदम्ब! इदानीमेव अवलोकिताननुभूतत्वदीयप्रतापा अहं तुभ्यं शिरसा अवनता अस्मि । एवं यावत् भणति, ता. वत् तदीयकुसुमविलोकनजनितरणरणका आह- युष्माकं पुष्पविकासे कामो वसति, मया शातं सर्जस्यैव इदं वै. षम्यं यावता त्वमपि एवमेव, सर्वेषामेकयोगक्षेमतेति सर्व. था मम हताशाया नयनविषयताक्षम न किञ्चित् समस्तीति व इति बहुवचनेन ध्वन्यते । इत्थमाकारयन्ती एव नायिका यदा कुसुमितं झगिति कुटजमवलोकयति, तदा मन्यते नूनं मामयं सर्वतो हि हतभागधेयामपहसतीति तत श्राह-हे कुटज! किमिति अवाङ्मुखं कृत्वा हस्यते । कुसुमितोऽपि प्रदेशोऽवश्यं धराभिमुखः; यश्च सन्निहित एव परमपह- सति, सोऽपि अवाङ्मुख एव । अतश्च त्वयि उपचीय. माने बहुतरव्यथा । ते दुःसहस्य प्रणाम एव शोभन इति काकुः । अत एव ईप्सिततमत्वाभावः सम्बन्धषष्ठ्या व्य. ज्यते । किंकुसुमैरिति कुत्सितैः परातङ्कवितरणचतुरैः पुष्पै- रवहस्यते इति सोत्प्रासं काका ध्वनितोऽर्थः ॥ १२ ॥ तरुवर विनतास्मि ते सदाहं हृदयं मे प्रकरोषि किं सदाहम् । तव पुष्पनिरीक्षितापदेहं विसृजेयं सहसैव नीप देहम् ॥ १३ ॥ हे नीपाभिधान तरुश्रेष्ठ! तव सर्वकालमहं प्रणता, तत् किमद्य मम हृदयं दाहयुक्तं प्रकर्षेण करोषि । अन्ये. ऽपि तरवो न एवं मां दहन्ति यथा त्वं सर्वकालमभिष्टु.

" घटकपरकाव्यम् । तोऽपि. सर्वथा अयं भागधेयविपर्ययः । अथच तव सदा महं प्रणता येन ईदृशः उपकारस्त्वत् सम्भाव्यते, त्वदी- यपुष्पैर्निरीक्षिता देहं विसृजेयम् । कीदृशम् । अपदेऽका. एड एव ईहा दूतीविसर्जनतत्प्रतिपालनमुधाविनोदनप्रभृतयो यस्य तम् । अहं तावत् ताहगुपकारिभवदीयकुसुमावलो. कनेऽपि असमर्था, तानि तु यदि महापुरुषतया एवंविधा मवस्थां प्राप्तां मामवलोकयेयुः, तत् चिरवाञ्छितजीवितत्या. गमनोरथेन अपि झगिति युज्येयम् । अतस्तव सदा नता अस्मि । नच एवं सम्भावनीयम् -- अहितो हृदयदा- हकारी कथं प्रणम्यते इति यतः किं त्वं हृदयं सदाहं करोषि, काका न एवमित्यर्थः । निजेन एव विरहहुतव- हेन मम दह्यते हृदयं, तदिदानी दाहकेन अपि दग्धस्य किं दह्यते इति सम्बन्धः । यदि तु अहंशब्दपौनरुक्त्यं सहदयाः क्षमन्ते तदा एवं व्याख्या श्रापदे -विषमविप. द्वहनार्थमेव केवलं यो मम देहस्तं त्यजेयमिति । तथा नीप तरुवर तव नता अस्मि । एवमुक्त्वा दुःसहतया द्वितीयवाक्यमाह-दाहयुक्तं मम हृदयं प्रकरोषि, पुनरपि विलापवशात् विचिन्त्य ब्रूते-किं यथा अद्य, तथा सर्व- कालं त्वत्पुष्पेक्षिता अहमकाण्ड एव देहं त्यजेयं, काका नैवेत्यर्थः ॥ १३ ॥ कुसुमैरुपशोभितां सितै- घेनमुक्काम्बुलवप्रहासितैः ।

१५ श्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् । मधुनः समवेक्ष्य कालतां भ्रमरश्चुम्बति यूथिकालताम् ॥ १४ ॥ अयं भ्रमरो भ्रमणशीलो यूथिकां चुम्बति, मदीयप्रि- यतमस्तु पथिक एकत्र एव कचित् स्थितो मम नाम अपि न अवेक्षते इति । तां कीदृशीं यूथिकाम । सितैर्बद्धैर्न तावत् विकसितैः, ततोऽनन्तरं तु धनैर्मुकास्त्यक्ता येऽम्बु- लवास्तैः करणभूतैः प्रहासितैः कुसुमैरुपलक्षिताम् । अथच धना मुक्ताफलसदृशा ये जलकणाः, तत्कृतानि यानि प्रहा- सितानि प्रहासितत्वोत्पादितानि निजछायास्फुरणानि यैः पी- तानि अपि सन्ति शुक्लानि जातानि कुसुमानि । किं कृत्वा । मधुनो मकरन्दस्य कालतामत्यन्तपरिपाकरसोत्पन्नां विलो- क्य; अथच यो नायकश्चिरात् कान्तामुपमुक्ते, सोऽपि मधुनः पानगोष्ठ्याः कालतामवसरप्राप्तिमवलोक्य परिचु- म्बति । काल इति मत्वर्थीयाकारान्तोऽपि, तथा सा अपि कान्ता धम्मिल्लपुष्पैर्धनैर्मुक्ताफलैर्विरहस्मरणानन्दादिकोत्प- श्व अम्बुलवैर्वाष्पैर्हर्षचाट्वादिजैः प्रहसितैः सिद्धा- मिश्ररूपतया स्थितैः परस्परसंश्लिष्टरुपलक्षिता भवति कि- लकिश्चितचेष्टालङ्कारयोगिनी भवति विशेषतः पानगोष्ठ्य- वसरे । यदुक्तं शुष्कं मुहुः प्ररुदितं क्षणमपातः क्रोधा मुहुर्हसितमाशु इत्यादि । अत ईदृशी कदा अहं प्रियेण परिचुम्ब्यमाना भूयासमित्यर्थः ॥ १४ ॥ निचितं खमुपेत्य नीरदैः प्रियहीनहृदयावनीरदैः । ..... ।

घटकपरकव्याम् । सलिलैर्विहतं रजः पितौ रविचन्द्रावपि नोपलचितौ ॥१५॥ इदं नायकविसृष्टायाः प्रतिदूत्या वचनम् । मा त्वमा धृति कार्षीः, मार्गवैषम्यादेव प्रसाषियन्तं कालं न श्राग- तः । तथाहि नीरदैमेधैरुपेत्य सर्वतोदिक्कं सबट्य खं गगनं निचितम् । कीदृशैः । प्रियैः प्रियामिश्च ये विहीना वियु. कास्तेषां दयावनी मनोभूमि रदन्ति विलिस्खन्ति । एवं तावत् सर्वतोदिकं दुष्प्रेक्षं क्षितौ भूमौ रजः सलिलैर्विहः तम् । आस्तां तावदन्यत् सलिलेन अभिभूयते रजोमात्र- मपि न अवशिष्टमित्यर्थः ॥ १५ ॥ हंसा नदन्मेघभयाद्र्वन्ति निशामुखान्यद्य न चन्द्रवन्ति । नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति ॥ १६ ॥ हे कुन्दकुसुमसदृशदशने ! परिवर्जितताम्बूलादिस. म्भोगे! प्रतिदूत्याश्चैव इयं नायिकां प्रति उक्तिः -एवं नाम मेघाः शब्दायन्ते यत् हंसा अपि पलायन्ते, रात्रा- वपि न सञ्चरणं युज्यते यतश्चन्द्रयुक्तानि तन्मुखानि न भवन्ति, एते च शिखिनो मयूरा उद्गतप्रहर्षवशात् शब्दा यन्ते । एतेन तत् प्रत्युक्तं यत्तु नायिकया पूर्वमुक्कं हंसपंक्तिरपि नाथ सम्प्रति ।' (४) इत्यादिना मार्गसौकुमार्य, तदेव हि प्रत्युत रणरणकप्रदी. पकं मार्गसङ्कटतां करोतीत्यर्थः ॥ १६ ॥ मेघावृतं निशि न माति नभो वितार निद्राम्युपैति च हरिं शुभसेवितारम् ।

श्रीमदभिनवगुप्तपादरचितषिवृत्युपेतम् । सेन्द्रायुधश्च जलदोऽद्य रसविमानां संरम्ममावहति भूधरसनिमानाम् ॥१७॥ रात्रिसमयेऽपि गमनागमने न युज्यते, यतो रात्रि- समये वितारं विगततारापटलं नभो न भाति यतो मेघा- वृतम् । यञ्च तया उक्तं 'पथिकपांसुलोऽसौ मामुपेक्षते' इति, तदपि न युक्तं; शुभसेवितारमकलुषचरितमपि मग- वन्तं हरिं निद्रा अभ्युपैति अशक्नुवती विरहं सोढुं ना. यकमभिसरति प्रत्युतेत्यर्थः । इन्द्रायुधयुक्तजलदो रसन् शब्दायमान इभानां करिणां पर्वतसदृशानां संरम्भं संरब्ध- तामावहति समन्तात् दर्शयति । यः किल अतिसुकुमार. तया सुप्रसिद्धो जलदः, सोऽपि अन्यानुल्लङ्घनीयेन शक्रायुधेन वज्रेण सातिशयभीषणः सम्पन्नः सादिना हतानां करिणां सादृश्यमुद्वहतीत्यर्थः । अथवा मेघः शब्दायमान इभानां करिणां पर्वतसदृशानां संरम्भं जनयति प्रतिगर्जनशङ्कयेति तेऽपि दुभिताः सम्पन्ना इति सर्वथा सुसङ्कटाः पन्थानः ॥१७॥ सतडिजलदार्पितं नगेषु नददम्भोधरभीतपन्नगेषु । परिधीररवं जलं दरीषु प्रपतत्यद्भुतरूपसुन्दरीषु ॥ १८॥ प्रतिदूत्या एव इयमुक्तिर्नायिका यदा एवमाह ननु अहमेव तत्र यास्यामीति, तदा तां प्रति । दरीषु गुहासु अपि अन्तःस्थिता था अद्भुतरूपसुन्दर्यस्तासु अपि उपरि जलं पततीति व्यधिकरणसप्तम्यौ । कीडक जलम् । सह विद्युद्भिर्जलं ददति ये, तैर्मेधैरर्पित, न ते जलमा ददति, .

घटकपरकाव्यम् । यावत् विद्युतोऽपि अतिभीषणा अर्पयन्तीति । क्व । नगेषु गिरिषु गर्जन्मेषत्रस्तसपेषु । अपरस्य ये त्रासदायिनस्ते. ऽपि यतो जलधररसितात् त्रस्यन्ति, तत्र का वार्ता भवा- दृशीनां मालतीकुसुमसुकुमारमनसामिति तात्पर्यार्थः । अ- न्यश्च किं भूतं जलम् । दरीषु अन्तः परितः समन्तात् धीरो गम्भीरो रवो यस्य, कन्दरासु अन्तः प्रतिशब्देन द्विगुणी. भूत इत्यर्थः। तेन एषा अपि आशा न अस्ति- तोयदजल. पटलं गगनात् निपतत् कचन गुहामुखेऽतिवाह्य पुनरपि गमिष्याम इति ॥ १८ ॥ चित्रं प्रसादयति सम्प्रति कोऽपि तानि कान्तामुखानि रतिविग्रहकोपितानि । उत्कण्ठयन्ति पथिकान जलदाः स्वनन्तः शोको विवर्धति च तद्वनितास्वनन्तः ॥१६॥ परमेताभिरुक्तिभिः प्रियतमागमनं दुर्घटमिति अवगते प्रास्थाबन्धो नायिकाया विजाघटीतीत्यभिप्रायेण सा एव पुनराश्वाससम्पादनाय अस्य माध्यस्थ्ये विशेषानुद्देशात् तदीयहदयशोकशिखिशमनशकामुक्तिमभिधत्ते-कोऽपि अनि- वर्णनीयपुण्यसम्भारहितः सम्प्रति जलदसमये तानि का. न्तामुखानि निरतिशयसौन्दर्यवन्ति रतिविग्रहेण प्रणयकुपितेन सातरोषाणि तथा यानि तदीयवियोगजनितपाण्डिन्ना अद्य असाधारणधर्मसुन्दराणि क्षिप्रमनायासेन एव प्रसादयति स्वामवश्यं प्रसादयतीति यावत् । ननु न अद्यापि असावा. गतस्तस् कथमेतत् । प्राह शब्दायमाना हि जलघराः पथि- कान् रणरणकवतः कुर्वन्ति निश्चितं दिनाहिनमुपचीयमान.

१६ श्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् । जलधरध्वानाकर्णनेन परिवर्धितोत्कण्ठः प्रियतमस्तावदाग- च्छतीति यावत् । ननु प्रियतमाः कथं शीघ्रं प्रसीदेयुः । आह तद्वनितासु पथिकदायितासु तथा शोको विवर्धति वि. वृद्धवदाचरति यथा अनन्तः संपद्यते । चकारेण एवं ध्व. न्यते तदेव रसितं तासां शोकविवृद्धौ कारणमिति ॥ १६ ॥ अत्र केचिदिति पठन्ति तासामृतुः सफल एव हि या दिनेषु सेन्ध्रायुधाम्बुधरगर्जितदुर्दिनेषु । रत्युत्सवं प्रियतमैः सह मानयन्ति मेघागमं प्रियसखि श्वसमानयन्ति ॥२०॥ अयं श्लोकोऽत्रत्य इव न लक्ष्यते, पुस्तकेषु केन कार- णेन गत इति न विनः । तथाहि पूर्वश्लोकौचित्यं ताव- दर्थेन न भजते तासामेव सफल ऋतुर्वर्षाख्यो याति या सेन्द्रायुधैरम्बुदैर्दुर्दिनेषु प्रियतमैः सह रत्युत्सवं मानयन्ति । अन्यथा किल हे प्रियसखि ! मेघागमं श्वसमाः सारमः यप्राया अपि नयन्ति,-इति व्याख्यायां प्राक्तने नवे ? यम. कमेव दुर्लभम् । दिनदुर्दिनशब्दाभ्यामर्थपौनरुक्त्यमपि दुर्घ- रम् । यान् अस्तं गच्छन्निनो मार्तण्डो येषु दुर्दिनेषु,-इत्यपि व्याख्याने तासामिति अपेक्षितो यदर्थो दुरुपपादः । तासा. मिति तु अनपेक्षितयदर्थे पदव्यङ्गथे ध्वनौ व्याख्यायमाने उत्तरवाक्यं स्खण्डं गच्छेत् चर मारेचा न्यथेति ? मध्ये शानन्यायोचितः काव्यामृतकालुष्यैककारणमध्येतारः कव- यः श्वसमा मेघागमं नयन्तीति परमनौचित्यम् । नच एवंविधेन अनौचित्येन कुलकपरिसमाप्तिः क्रियमाणा स.

२० घटकपरकाव्यम् । हृदयचेतःसु रोमन्थाहते किञ्चित् विदध्यात् । श्वसितीति श्वासस्तद्वदाचरतीति - विप् ततोऽपि ताच्छील्यादिविवक्षा. यां चानश् । ततः प्रियसखीशब्देन सम्बन्धः प्रागेव वा तथापि न किञ्चिदर्थस्य पौष्कल्यम् , कष्टकल्पनायासं सत् । क । प्रियसखिष्विति सप्तम्या समास इति बहुवचनान्ते. ऽपि न कश्चित् कृतः सम्बन्धः । अन्यथापाठकरणमपि क्लेशमात्रफलमेव । किञ्च अत्र कर्ता महाकविः कालिदास इति अनुश्रुतमस्माभिः । नच अस्य काव्ये तृणमात्रमपि कलङ्कपात्रमुत्प्रेक्षितवन्तो मनोरथेऽपि सुप्तेऽपि सहृदयाः । तस्मात् प्राक्तन एव परिसमाप्तिश्लोकः । साच सख्या प्रतिदूतीभूतया नायिकाया श्रास्थाबन्धदायोत्पादना युज्य- ते । उत्पन्नसमाश्वासा हि हृदयं स्थापयन्ती विप्रलम्भयि- तुं शक्या स्यात् 'प्रास्थाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ।' (मे० दू०१०) इतिदृष्ट्या । तेन अस्य परिसमाप्तिधुरोद्वहस्य अपि धु. रन्धरत्वमविकलमेवेति । तदिदं युक्तमयुक्तं वेति स्वयमेव विदारुत सहृदयाः ॥ २० ॥ भावानुरक्तललनासुरतैः शपेय- मालभ्य चाम्बु, तषितः करकोशपेयम् । जीयेय येन कविना यमकैः परेणं तस्मै वहेयमुदकं घटकपरेण ॥२१॥ कविना औद्धत्यप्रकटनाय सहृदयजनमानसनञ्जराय प्र.

मया तथा श्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् । २१ तिक्षा इयमुपनिबध्यते । सञ्जातपिपासः करकोशेन हस्त. सम्पुटेन पेयं पानाह तावदवसरप्राप्तमपि जलमत्यन्ताभि- लापौत्सुक्ये पातुमद्रोहयोग्यमपि प्रत्युत आलभ्य दुग्ध्वा सहजप्रेमप्रणयिनीसम्भोगरसैश्च शपेयम् । अत्र शरीरस्पर्श- नाख्यस्य उपालम्भस्य न अतीव स्पष्टतेति 'शप उपालम्भने' (वा० ६११) इति आत्मनेपदाभावः । येन परेण कविना यमकैर्जीयेय, तस्मै घटकपरेण जलं वहेयम् । कर्परशब्देन सातिशयक्लेशसमुदहत्वमात्मनि उच्यते । अत्र च यमकानां विप्रलम्भशृङ्गाररसातिशयविघ्नभूतानामपि अपृथग्यत्ननिर्वर्त्यतया निबन्धः कृतः, येन प्रत्युत रस. परिपोषकविशिष्टव्याख्याभिधायिपदपरम्परालाभो यमकैः सम्पन्नः । तदुक्तं 'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यत्लनिर्वर्त्यः सोऽलङ्कारो ध्वनौ मतः ॥' (ध्व०२।१७) इति । एतया च प्रतिज्ञया एतत् परिहृतं 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धने । शक्तावपि प्रमादित्वं विप्रलंभे विशेषतः ॥' इति । नहि इयं राजाबा, अपितु रसबन्धविनकारित्वप्रमादः परिहार्यः । अत्र च प्रत्युत आत्मपरिपोषकत्वमेव उक्लेन प्रकारेण यमकानामिति । कवीनां शक्तिरेव बलीयसी, सा एव लोकोत्तरा व्युत्पत्तिरिति अभिधीयते; नतु अन्या क- विशक्तेयुत्पत्तिर्नाम काचित् । यदुक्तं मया एव रौरवे विचारे 'न वै दोषा दोषा नच खलु गुणा एवच गुणा निबन्धस्वातन्त्र्यं सपदि गुणदोषान् विभजते । + घरकपरकान्यम् । इयं सा वैद्रग्धी प्रकृतिमधुरा तस्य सुकवे- यंदवोत्पादण्यतिसुभगभावः परिणतः ॥' इति शिवम् ॥ २१ ॥ प्रमाणपदमीमांसागगनं चै विराजते । समुच्छलाति यत्स्पृष्टः साहित्यामृतसागरः ॥१॥ कवीन्दोरिन्दुराजस्य ले मश्चित्तविकासकाः । बोधांशवो विगाहन्तां भूर्भुवःस्वस्त्रयीमपि ॥२॥ तस्परामर्शधवलमनःकोकनदो मनाक् । काव्येऽभिनवगुप्ताख्यो विवृति समरीस्चत् ॥३॥ समाप्ता इयं घटकर्परकुलकविवृतिः । कृतिमहामाहेश्वरराजानकश्रीमदभिनवगुप्तपादानाम् ॥ THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE.

No text on this page.

Ghat'akaparakaavyn'

Author
Abhinavagupta
Title
Ghat'akaparakaavyn'
File name
Ghat'akaparakaavyn'
Text
OCR done
Citation
1945
Publisher
The Mercantile Press,srinagar
Language
Sanskrit
Pages
34
Library
Svi-ksri-chennai
Classification
Fiction. Prose Narrative
DLI number
369054
Barcode
5010010078758.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
RxXIbHdEPlk
Download PDF

Ghat'akaparakaavyn'