University Library,gurukul Kangri Vishwavidyalaya
अद्भुतांशुकम
Front matter
vw....PILE
॥ श्रीः॥
॥ अद्भुतांशुकम ॥
नाम नाटकम ।
श्रीयदुशैलवासि-बालपन्वि-जम्मू-
श्रीवकुळभूषणकवि
विरचितम्।
Adbhutamsuka-Natakam
BY
Sri-Jaggu-Vakula-Bhushanarya
OF MELUKOTE
BANGALORE:
PRINTED BY V. B. SOOBBIAH & SONS
AT THE M, B. D. ELECTRIC PRINTING & LITHO WORKS
M
1932.
All Rights Reserved.
Price Re. Rabatt
Presoto by na Ministry
83
88
Jaggu Sri Vakulabushana
Author.
॥ श्रीः ॥ विज्ञप्तिः विज्ञापनामिमामधारयन्तु सहृदयोतमाः । विदितमेव भवता यदष्टोत्तरशतस्यानमारभूने यादवाचले परमपुरुषो भगवान् श्रीमन्नारायग- स्ववरण कमलसमाधिनाया जनतायास्तान हमार्यवितरणबद्धहीलो वरीपर्ति -इति ॥ तम्या भावतो नारायण यानुप्रहादामनारोगा कुरितामविगतकला- नवद्यविद्यानामस्मदार्याणामनुप्रहामृतले कफन्दळितां कवितानां सालयितु- कामो वीररसप्रधानं नाटकं विरळप्रचारं मन्वानश्च श्रीकृष्णभक्तपराधीनता- प्रतिपादकं भारतवस्वविकृत्य वीररमप्रवाना हुतांशुकं नाम नाटकमिदं महा कवि-श्रीभट्टनारायणकास्य वेगी नहारस्य पूर्वरङ्ग पेन व्यरोरचम् । अत्र च रमपरिपोषणाय यथामति तत्र तत्र वस्तुविनिमयं परिकस्थ्य पाण्डवानामुत्को तत्र तत्र युक्या प्रादर्श पम् । “आपरितोगाधिदुपां न माधु मन्ये प्रयोग विज्ञानम् "-इति महाकवि कालिदामोक्तिमनुरुध्य च विदुषामग्रतस्मभग्रं श्रवणपथमिद-मनीनयम् । एतदवलोकनेन परितुष्टैस्तेः पण्डितवरैःप्रोत्साहितोऽहं मुद्रणद्वारा प्राचीकशमिदम् । एतन्मुद्गार्य द्रविगप्रदानादिना साह्यं कृतवतामुदारहृदयानों मुद्रण- सनये च परिष्करणादिमिरुपकावतां महात्मनां च सन्निवौ सादरमर्पयामि कृतज्ञतापरस्परान् धन्यवादान् । श्रीमतां महामहोपाध्यायेत्यादिविदारिता नामर्यशास्त्रविशारदानां आर्-शा पशास्त्रिगामाङ्गलभाषाशिकामनारिको कृपयाऽनुगृहीतामादौ संयोन्य, तेषामुपकृतिमनवरतमपि सादरं मरामि ॥
2 किश्च-श्रीमत्परमहंसेत्यादिविरुवालकतैः श्रीपगिरियतिगनमठदिव्य- सिंहासनाविरूद्वैः सकलशास्त्रग्रन्थारिशीलननिष्णातैः श्रीसम्पत्कुमाररामानुज- यतिवरैरस्य नाटकस्य सरसरमणीयोऽयमुपोद्धातः परमकृपयाऽनुगृहीत इति तपा चरणारविन्दसन्निधौ प्रगतिपूर्वकमाबेदयामि मम कृतज्ञताम् । गुणैकपक्षपातिन्यः परार्थकृतनिश्चयाः । जयन्ति काक्षिदेवात्र मूर्तयः कीर्तिभूषणाः ।। जग्गू श्रीवकुलभूषणः- जग्गू अळवारग्यशार ) INTRODUCTION BY Mahamabopadhyaya Arthas 29tra-Vigarada, Dr. R. Shama Sastry. So sweet is the Sanskrit tongue and so charming are the ctcries of the great Indian Epics, the Mahabharata and the Rama. yapa, that no Sanskrit scholar with some poetical talent can supfress his desire to versify or dramatise one or the other of the thrilling anecdotes narrated in them. He finds the plots ready made for him there ; and all that he las to do is to arrange tho matter with or without some modification of his own into scenes and acts. The feelings of sympathy or antipathy, of disinterested friendship or virtuous indignation, ani of virtue's triumph over wickedness or its meek submission to fate for the time being aroused in the breast of the reader or the spectator of the drama are so genuine and natural that no effort is needed on the part of the dramatist to change the original plot and bring it to culmina. tion. Notwithstanding the supernatural occurrences with which the story abounds, it by no means loses its value of human interest. Divine intervention is made to play its part only where frail na. ture is evidently anticipated to fail miserably in its struggle against wickedness, and submit itself to the inevitable catastrophe. Such a turn makes human interest in the event all the more intense than dull and stupifying. It also teaches the sure support of the supernatural to virtue in its struggle against evil. This is why Indian poets, truly religious in their heart, are not tired of repeating the stories of the Indian Epics in prose, poetry, and drama over again and again. Nor is the skill of originality in narrating the old tales lost sight of. To make the narration attractive and impressive, the poet bestows more of his skilful labour and care on the elegancy of diction and arrangement than on devising a plot anew, What need is there for a new form of plot, when it is a story of the struggle of virtue against evil and when the human breast, how. ever prone to evil at first it might be for some temporary success ii or pleasure, ultimately takes delight in seeing virtue triumph over evil? It is this which forms the centre of human interest in stories and histories with or without the supernatural interference. Accordingly with no necessity for making an apology for the selection of his subject matter from the Mahabharata, the young poet, Mr. Vakulabhushanı, young in age, but aot in thought, has made a successful atteinpt in dramatising the Epic story, as nar. rated in the Sabha and Vani Parvas. The introduction of the golden deer and the shortening of the period of the Pandavas' forest-life with conditions other than those mentioned in the Epic are his own modifications made to suit the drama, The drama is called "Adbhulamsuka," "The Astonishing Garment," and the astonishment lies in the endless length which the garment worn by Draupadi, the queen of the Pandavas, had on the day of Dussäsana's attempt to outrage her modesty. It con. tains six Acts and affords an interesting reading with no trace of any tedious description. Soinetimes the dialogue is so humorous that the absence of a Vidushaka in the drama to cause mirth is scarcely felt. The style is simple and lucid ; the verses are elegant and run smooth. I have no hesitation in saying that he is a promising young poet and can rise to our expectations of him with due encouragement. He deserves congratulation on the success he has attained in his first attempt. R. SHAMA SASTRY Mahamahopadhyaya, Arthasastra.Visarada.
॥ श्रीः॥ श्री. उ. परमहंसपरिव्राजकेत्यादिविरुदालतैर्यदुगिरि- यतिराजसंपत्कुमार-स्वामिभिरनुगृहीतः ॥ * उपोद्धात: * श्रीयादवाचलाभिजनस्य कौशिकान्वयस्य जग्गूश्रीवकुळभूषणशर्मणः कवेः कृतिरद्भुतांशुकं नाम नाटकमङ्कषट्कपरिमितं समग्रमस्माभिरवालोक्यत । अवाभोधि च तत्र तत्र कविमुखादेव साक्षात्स्वाशयाविष्करणपूर्वक समग्र- स्सन्दर्भः । वस्तु च प्रधानमत्र नाटके द्रौपद्या वस्त्राहरणम् । उपनायको भीमः । राजसूये भीमकृतदुर्योधनपराभवो मुखसन्धौ निवेशितः । अंशुका- हरणात्प्राक्तनस्सभापर्ववृत्तान्तशेषः, पाण्डवानां वनप्रवेशसमयबन्धोऽर्जुन- स्येन्द्रलोकगमनम् , भीमस्य सौगन्धिकाहरणं, दुर्वाससो युधिष्ठिरसमीपागमन मित्येषोऽरण्यपर्वकथाभागः, कीचकवधः, उद्योगपर्ववृत्तान्तब्य समाकृष्य प्रति- मुखादिसन्धिष्वंशकाहरणरूपनिहिणस-धेः पूर्वाङ्गतया यथायोगं विनिवेशितः। धनवाससम यबन्धेऽज्ञातवासस्य पूर्ववृत्तत्वमितरवनवासस्थोत्तरवृत्तत्वञ्च कविना- ऽन्यथैव प्रकल्पितम् । वनवासे दुर्वाससस्सकाशाद्रहसि कृष्णेन कृतस्य पाण्डव परित्राणस्य कथाभागः, कृष्णस्य रूपान्तरपरिग्रहेण दुर्वाससश्शिष्यत्वं परिकल्प्य मायामृगत्वपरिकल्पनेन प्रधानवस्तुनोऽङ्गतां नीतः । युद्धारम्भस्य प्राक्तनः- कृष्णेन कृतस्य क्रौरवपाण्डवसन्धिसन्धानस्य वृत्तान्तोऽस्मिन्नाटके “चिरप्ररूढ वैरण कौरवेणास्माकं यत्सन्धि कल्पयसीति ततोऽन्यस्ति किं प्रियमन्यत्' इत्यनेन युधिष्ठिरवाक्येन निर्वहणसन्धावुपक्षिप्तः । भट्टनारायणकृत-वेणी- संहारस्य पूर्वरङ्गत्वेनेदं रूपकं कृतवता कविनोभयोरलक्षितसन्धिबन्धत्वं षष्ठा. कावसाने युक्त्या प्रतिपादितम् । संविधानवैचित्री च कवेरवधानविशेष. स्पष्टयति । भीमसेनोक्तपद्येष्वारभटी वृत्तिस्योतिता। कवितासरणिश्च पथे गये च ललितरमणीया सुखावगाहतां प्रकटयति । उक्तिभङ्गीषु "राजसूया ध्वर" इत्यत्र "राजाऽसूयाध्वर" इति, मृगरूपधारिणः कृष्णाय "कृष्ण, - मृगत्व" मित्याद्यास्सहृदयामोदं न खलु नाम न विदधते । यदन्यदत्र वक्तव्य तत्सहृदयानां नाटकमवधारयतां हृदयमावर्जयतीति त एवात्र साक्षिण इति-शम् ॥ कवेरन्वयाभिजनादिकं किश्चित्प्रदर्यते। आसन्किल यादवाचलाभिननाः कौशिकान्वयभूषणं सरसकविताविलासलास्यमन्दिरं सुगृहीतनामानो विद्वद्वतंसाः तेषां द्वौ मनोजवसौ कुमारी । ज्येष्टो नारायणार्यः, अन्यो वेङ्कटार्य इति । अयन्तु कनीयान् साङ्ख्य साहित्य-वेदान्त-निष्णातो निनकविता- मोदितविपश्चिद्वर्गस्सांप्रतं तमेव. यादवाचलमधितिष्ठति । नारायणाचार्यस्य पुत्रेषु त्रिषु ज्येष्ठः पितामहसनामधेयश्शिङ्करायनामा चित्रकूटोदन्तादि- प्रबन्धस्य कर्ता समिन्धे॥ कनीयान् धकुळभूषणनामा तु-अनेनाडुतांशुकनाटकेनैव समावेदित- साहितीसार इति नाषडक्षीणं सहृदयानाम् ॥ एवमियं त्रिपूरुषी कवितावितानप्रतानित-विपश्चिदपश्चिम-सम्मोदेत्य- पर्याप्तयं पाचोयुक्तिः ॥ अस्य तु कवेः पितामहानामस्मत्साहित्यगुरूणां सुगृहीतनाम्नां मूर्तिः पश्चाशद्वर्षेभ्यः प्रागेवान्तरिताऽपि-नेपथ्यान्तरिता परिवादिनी विभिन्नस्वर- मण्डलतन्त्रीपरम्परयेव, यमुनानिकुअनिलीन-वल्लवपल्लवमुरली सुषिरपरंपरा- विर्भवनादधारयेव-स्वसन्तानपरंपरयाऽस्माकं श्रुतिं चक्षुषी चाहादयन्ती अस्य कवेर्मूर्तिद्वारा प्रत्यक्षीभूय तद्गुणग्रहणेन रसनां स्नपयतीति परां काष्ठामानन्दस्यानुभवामः ।। सम्प्रत्यायुष्मतः कवेरिदमेकमभिधीयते- उद्याने कलकण्ठ ! कण्ठमधुना मा कुण्ठयोत्कण्ठया सर्वस्सादरमाश्रवस्तव गिरी सीमासु दत्तश्रवाः । उन्मीलन्मुफुलप्ररूडवकुलव्यालीनमृङ्गीकुल- ध्यामर्दानुकलस्फुरत्परिमलः कालोऽयमालोक्यताम् ॥ प्रजोत्पत्ति सं-मार्गशीर्ष- शादशमी भन्दवासरे। } श्री रामानुजः ॥ श्रीरस्तु॥ ॥ श्रीमते हयग्रीवाय नमः ।। ॥ अद्भुतांशुकम् ॥ (प्रथमोऽङ्कः) श्रीमान् विष्णुः परात्मा निनभुजमथितप्रोच्चलन्मन्दराद्रि- दैत्यान् भ्रान्तान् विमोह्याप्यमृतविभजने लब्धनारीविलासः । क्षीराब्धेरुद्दतां य रिश्रयमधिगतवान्वर्धयन् संश्रिताना- मानन्दं दिव्यमाद्यो वितरतु भगवान् मङ्गलं सन्ततं वः ॥ १ ॥ जीयाद्रामानुज श्रीमान् संश्रितानन्दवर्धनः । प्राप्तकिङ्करभावोऽपि दर्शिताद्भुतवैभवः ॥ २ ॥ (नान्धन्ते सूत्रधारः समन्तादवलोक्य--आनन्दमभिनीय) (अञ्जलिं बवा) यदुगिरिमणिदीप श्रीनृसिंह श्चकास्ति श्रितजनपरिपाता भाति नारायणोऽपि । शठरिपुमुनिरास्ते तस्य पादाब्जभृङ्गो वकुलधवलमालाभूषण स्सत्कवीन्द्रः ॥ ३ ॥ ( सरभसं प्रविश्य नटी) (क) अळं अळं सुक्मणिदेण । (छाया) [क] अलमलं शुष्कभाणतेन. .
२ अद्भुतांशुकम् । सूत्रधारः ॥ (सावेगं पार्श्वमवलोक्य) प्रिये ! किमिति माममन्दानन्द।- देवं विघटयसि? नटी ॥ (क) किं अज्ज सन्तोसस्स काळणं ? किं तुए धणं ळद्धं ? सूत्रधारः ॥ (सस्मितं) आम! लब्धमेव धनं पश्याच खलु यदु- शिखरिशेखरस्य श्रीभूनीळावल्लभस्य भगवतस्सम्पत्कुमारस्य हीरकिरीटोत्सव- दिक्षया समन्तात्समागतेदेशिकैः पण्डितवरेराज्ञप्तोऽस्मि, अदृष्टपूर्व वीररस- प्रधानं किमपि नाटकमभिनेतव्यमिति । तदिदमेव धनं हि, यतो भरतशास्त्रे ऽस्मत्पाण्डित्यप्रदर्शनायावसरः प्राप्तो देवात् ॥ नटी ॥ (दीर्घ निश्श्वस्य) (ख) बरे दरिदत्तणेण बुहुक्किा पुत्तआ रोइन्दि, तुम उण सन्तुट्ठो एत्थ कीळसि । (विचिन्त्य) होदु दाव, तारिस णाडअं केण कइणा किदं वढेइ ? सूत्रधारः ।। एतदर्थमेव प्रथमं तावन्मयोपक्रान्तम् “ यदुगिरिमणि दीपः " इति । तावता भवत्या प्रतिबद्धोऽहम् ॥ नटी ॥ (सस्मित) (ग) ता कहेदु भवं । सूत्रधारः ॥ अवहिता शृणु तावत् । अस्ति हि श्रीयादवाद्रिवासिना बालधन्विकुलकलशार्णवकलानिधेः सुगृहीतनाम्नो जग्गू-श्रीशिङ्गरार्यस्य पौत्रेणा- नवरतमपि भगवद्भजनाधिगतामन्दानन्दस्य जग्गू-श्रीनारायणार्यस्य तनूजेन जग्गू-श्रीवकुलभूषणेन कविना विरचितमद्भुतांशुकं नाम नाटकम् ॥ नटी ॥ (घ) तहिं णाडए किं वत्थु कइणा णिवद्धम् ? सूत्रधारः ॥ ननु भारतकथा हि तत्र । (छाया) [क] किमद्य सन्तोषस्य कारणं, किं त्वया धनं लब्धम् ? [ख] गृहे दारिद्येण बुभुक्षिताः पुत्रका रुदन्ति, त्वं पुनस्सन्तुष्टोऽन्न क्रीडसि । भवतु तावत्, ताहशं नाटकं केन कविना कृतं वर्तते ? (ग) तहि कथयतु भवान् । (घ) तस्मिनाटके किं वस्तु कविना निबद्धम् ?
प्रथमोऽङ्कः । da- नटी ।। (क) ता तं महाकइभट्टगाराभणेग वेणी रहारणाडए पुवं एम कि हि । किं पुणोवि तं वत्थुणिमाणे किदुजोओ एसो कई ? सूत्रधारः ॥ (विहस्य) प्रिये ! मन्दप्रज्ञाऽसि, शृणु तावत्- यद्भट्टनारायणनिर्मित प्राग वेण्यां महाभारतवस्तु रम्यम् । तत्पूर्वभाव्यत्र विधाय वण्या मंयोजितं श्रीकविना त्वनेन ॥ ३ ॥ नटी (ख) ॥ अमहे । कइणो बुद्धिविहां सुणिअ अचरिअसमुद्दे मग्गं मह हिअअम् ॥ (नेपथ्ये) राजानः प्रविशन्तु सौधमुचितं तैराहतैः पूर्यतां कोशागारमनल्प-रत्नकनकैरथैश्च पट्टांशकैः । नानादेशममागताश्च रुचिरा गावो विशन्त्वजसा गोष्ट तत्परिरक्षणैकनिरतास्सन्तु प्रबुद्धा जनाः ॥ ४ ॥ नटी ॥ (कर्ण दत्वा) (ग) किं एवं ? सूत्रधारः॥ [स्वगतं हन्तास्मदााज्ञानुयायिभिनंटेरसमारब्धमेव नाट्यम् । (प्रकाशं) प्रिये ! किं न जानासि युधिष्ठिरेण राजसूयाध्वरः करिष्यत इति ? तत्कृते देशान्तरादागतैर्नरपतिभिरुपायनीकृतानां धनकनकादिसम्भाराणां रक्षणाद्यादेशशब्दोऽयम् ॥ नटी ।। (सहर्ष) (घ) किं तत्त धगकण आइ देदि ? (छाया) (क) तर्हि तन्महाकविभट्टनारायणेन वेणीसंहारनाटके पूर्वमेव कृतं हि । किं पुनरपि तद्वस्तुनिर्माणे कृतोद्योग एष कविः ? (ख) अहो! कर्बुद्धिविभवं श्रुत्वा आश्चर्यसमुद्र मनं मम हृदयम् ।। (ग) किमेतत् ? (प) किं तत्र धनकनकानि ददाति।
अद्भुतांशुकम् ।
सूत्रधारः ।। (स्वगत) आशापोषिता खलु स्त्रीबुद्धिः (प्रकाश)
अथ किं १ ददात्येव धार्मिको महाराजो युधिष्ठिरोऽर्थिभ्यः ॥
नटी ॥ (मानुनयं) (क) ना तत्त गदुअ तुए आणिजयं अहिअंधणं।
सूत्रधारः ॥ (स्वगत) भवतु तावदस्यास्पद्यस्तौहित्य सम्पादयामि
[प्रकाशं] प्रिये ! साधु मन्त्रितम् ; हतमेवं मे दारिद्रयं ; पश्य ! एषोऽधिकृतः
पुरुष इत एवाभिवर्तते, तद्गच्छावः (इति निष्क्रान्तौ) ॥
इति प्रस्तावना.
(ततः प्रविशत्यधिकृतः पुरुषः)
पुरुषः ॥ राजानः प्रविशन्तु सौधमिति-पूर्वोक्तमेव पठति.
(सत्वरं प्रविश्य विप्र-)
विप्रः ॥ भो भो ! अधिकारिन् ! अपि नाम युधिष्ठिरण समारब्धो यज्ञः?
पुरुषः ॥ नद्यारब्धः ॥
विप्रः ॥ किमर्थम् ?
पुरुषः ॥ जै यात्रार्थ गतो भीमसेना नाद्याप्यागतः ।
विप्रः ॥ किमर्जुनादयस्समागताः ?
पुरुषः ॥ अथ किम् ? ते तु विजितनिग्विलति
बलदिङ्गण्डला वशीकृतभूपाला
स्समाहृनरत्ननिकरा देवपादमूलमागताः ।।
विप्रः ॥ तर्हि जेतव्यं किमतशिष्ट, यजिगीषया भीमो गतः ?
पुरुषः ॥ सुमहदवशिष्टम् ।
विप्रः ॥ किं तत् ?
पुरुषः ॥ हास्तिनपुरम् ; तजयाय गतो भीमः ।
विप्रः ॥ तर्हि नाहूतः किमु मपरिवारो दुर्योधनो युधिष्ठिरेण ?
(क) तर्हि तत्र गत्वा त्वया आनतव्यं अधिक धनम् ।
प्रथमोऽङ्कः । पुरुषः ॥ महाराजेन पादरं राजसूयाध्वराय सपरिवारं भवता समा- गन्तव्यमिति पत्रिका प्रेषिता । अनुगदमेव निनभुजबलावलेप-विस्मृत-पाण्डव- भुजबलेन तेन दुर्योधनेन “मापनित्वा कथं वा त्वया राजसूयाध्वरस्समा- रभ्यते?" इति प्रतिपत्रिका प्रेषिता । तन्महाराजेन युधिष्ठिरेण समाज्ञप्तस्त. जिगीपया प्रस्थितोऽसौ भीमसेनः ।। विप्रः ॥ तर्हि स तु भीमसेनो जेष्यत्येव तम् ।। (नेपथ्ये रथनेमिध्वनिः) पुरुषः ॥ (नेपथ्याभिमुखमवलोक्य-सहर्षम् ) हन्त ! रथवरस्तम्भसंयतबाहृयुगळं सुयो वनमानीय संयतकरचरणैः कर्णा- दिभिरित एवाभिवर्तते भीमसेनः । तदारम्भ एवाध्या: । तद्नतु भवानध्वराय । अहमपि राजनियोगमनुतिष्ठामि [इति निक्रान्तः] विप्रः ॥ ( महर्ष) अहमप्यध्वरे ऋत्विक्पदमलङ्करोमि (इति निष्क्रान्तः) इति शुद्धविष्कम्भः ॥ (ततः प्रविशति यथा निर्दिष्टो भीमसेनः ) भीमः ।। (स्थादवरा) (लज्जावनतमुखं सुयोधनं सकृद्दी च वीक्ष्य- सस्मितम्) चम्चत्पीवरबाहुतोलनरणदण्टासहस्रोद्गिर त्प्रोच्चण्डारवदारितारिहृदया सौवर्णपट्टाञ्चिता । एकैवेयमलं गदा मम यतो युद्धाङ्कणे लीलया सम्पाद्यार्पयतीदृशामपि मुहुर्दुर्योधनानां शतम् ॥ ५ ॥ दुर्योधनः ॥ (स्वगत) स्वयंकृतापराधस्य फलमिदं मम यदश्राव्य- मिदानीं श्रोतव्यं संवृत्तम् । यदि युधिष्ठिरप्रेषितां पत्रिकामवलोक्य सपरिवार- स्समागतोऽहं तदा नैतादृशी ममावस्था स्यात् ॥
अद्भुतांशुकम् । . भीमः ॥ (समन्तादवलोक्य) कः कोऽत्र भोः ? प्रविश्य पुरुषः ॥ (क) आणवेदु कुमारो । भीमः ॥ वेदानीं वर्गत महाराजो युधिष्टिरः ? पुरुषः ॥ (ख) कुमार ! जण्णमाळाए बद्धदिको अणुजेहिं ममं अण्ण. सेणीए अ वट्टेदि ॥ भीमः ॥ तर्हि यज्ञशालामार्गमादेशय ॥ कर्णः ॥ (शकुनिमुखमवलोक्य-जनान्तिक) न कदाऽप्यनुभूताऽवस्था. ऽस्माभिरेताहशी; किं पुनरितोऽप्यधिकमवहे ळनं मानशालायां ममापति- ष्यतीति न जाने ॥ पुरुषः॥ (ग) इदो इदो कुमारो । भीमः ॥ सारथे ! प्रेषय रथमध्वरशालाद्वारदेशं [इति परिक्रामति] [ततः प्रविशति बद्धदीक्षो विनयावनतेरनुजैः परिवृतो लज्जा- वनतमुखकमलया द्रौपद्या सह बस्यामुपविष्टा युधिष्ठिरः] युधिष्ठिरः ॥ ( अर्जुनमुखमवलोक्य ) किमद्यापि नागतो वत्सो भीमः ? दुर्योधनम्य गदया किमु पीडितस्स्या- द्वत्सोऽथवा शकुनि-कर्णशरानुविद्धः । जेतुं गतः प्रकुपितः कुरुराजधानी नाप्यागतोऽद्य सुचिरं नगराद्रि पोर्यत् ॥६॥ द्रौपदी ॥ (घ) ( मोद्रेग ) तं सच्चं एव अजउत्तेण जं भणिदं दुज्जोहणो गदाजुद्धे समत्थोत्ति, कण्णो वि धणुजुद्धे किदहत्यळाहवोत्ति अ सुणीअदि। (छाया) (क) आज्ञपयतु कुमारः (ख) कुमार, यज्ञशालायां बद्धदीक्षोऽनुजैस्ममं याज्ञसेन्या च वर्तते । (ग) इतइतः कुमारः। घ] तत्सत्यमेवार्यपत्रेण यद्भणितं दुर्योधनो गदायुद्धे समर्थ इति ? कर्णोऽपि धनुर्युरे कृतहस्तलाघव इति च श्रूयते ! + प्रथमोऽङ्कः । अर्जुनः ॥ न चिन्तनीयमेवमार्येण ; स त्वनित्वा परबलं नैव परा- वर्तते, तदचिरेणैव विजित्य शत्रुमागमिष्यत्यार्यः ।। प्रविश्य पुरुषः॥ [क] जेदु जेदु महाराओ। कुमारभीमसेणो आणीअ दुजोहणं दुवारे चिट्टदि । युधिष्ठिरः ।। (सानन्द) सत्वरं प्रवंशय । पुरुषः । (ख) जे देवो आणवदि , (इति निष्क्रान्तः) [ततः प्रविशति गदापाणिस्सविनयं भीमसेनः] भीमः ॥ आर्य ! अभिवादये विजितदुर्योधनो भीमसेनोऽहम् । (इति प्रणमति) युधिष्ठिरः॥ वत्स ! चिरं जीव [इत्युत्थापयति] (अर्जुननकुलसहदेवाम्सत्वरं भीममुपसृत्य) आर्य ! प्रणमामः (इति प्रणमन्ति) भीमः ।। वत्साश्चिरं जीवत [इति ताननुगृह्णाति] द्रौपदी ॥ (सलजं सस्मितं च ) [ग] ॐ जडत्त वन्दागि [इति प्रणमति] भीमः ॥ यज्ञवेदीसम्भवे ! अलमलमायासेन (इत्युत्थापयति) युधिष्ठिरः॥ वेदानीं दुर्योधनः ? भीमः ॥ शृणोतु देवः- आनीतोऽयमनीतिवर्धितमदो दुर्योधनस्स्यन्दन- स्तम्भस्तम्भितवाहुदण्डयुगळो मित्रैश्च कर्णादिभिः । जेतव्यो न हि कोऽपि सम्प्रति नृपो विश्वम्भरामण्डले तद्देवेन यथाविधि प्रियतमैरारभ्यतामध्वरः ॥ ७ ॥ --- (क) जयतु जयतु महाराजः, कुमारभीमसेन आनीय दुर्योधनं द्वारे तिष्ठति । (ख) यदेव आशापयति. (ग) आर्यपुत्र वन्दे.
८ अद्धतांशुकम् । [इति संयतकरयुगळं रथाहर्योधनमानीय ] कस्कोऽत्र भोः ? (प्रविश्य द्वारपालः) द्वारपालः ॥ (क) आणवेदु कुमरो । भीमः ॥ मोचितचरणबन्धं वैधेयं राधेयमुपनय । द्वारपालः ॥ (ख) नं कुमरो आणवेदि [इति निष्क्रम्य कर्गेन पुनः प्रविश्य] एसो आणीदो । भीमः ॥ उल्लकृितास्मच्छासनं दुश्शासनमानय । द्वारपालः ॥ (ग) तह (इति निष्क्रम्य--दुश्शासनन पुनः प्रविश्य) एसो आणीदो। भीमः ॥ शकुनिमपि कुनीतिनिपुणभुपनय । द्वारपालः ।। (घ) तह (इति निष्क्रम्य-शकुनिना पुनः प्रविश्य) एसो आणीदो। भीमः ॥ (तान् सर्वान् युधिष्ठिर चरणयोः पातयित्वा क्रमशस्स्थापयित्वा गदया निर्दिश्य च-सस्मितम ) देवः पश्यतु साधूना- मस्माकममितौजसाम् । कञ्चनैः क्लेशदानक- सक्तं दुष्टचतुष्टयम् ॥ ८ ॥ द्रौपदी ॥ (सस्मितं स्वशिरो नमति-सर्वे विहसन्ति) (दुर्योधनादयो लज्जावनमितमुखास्तिष्ठन्ति) युधिष्ठिरः ॥ वत्स ! अलमवहेळनन, तान्मोचय बन्धनात् । (छाया) (क) आशापयतु कुमारः। (ख) यत्कुमार आज्ञापयति ; एप आनीतः. (ग) तथा, एष आनीतः। (घ) तथा, एष आनीतः। , .
प्रथमोऽङ्कः । भीमः ॥ (गत) बाल्य एव विषदानेन समूलं मां नाशयितु- मुद्युक्तेष्वतेषु न पर्याप्तमिदमवहेळनम् । [प्रकाशं] यदाज्ञापयति देवः (पश्चा- द्विलोक्य) कः कोऽत्र भोः ? (प्रविश्य द्वारपालः) द्वारपालः ॥ (क) आणवेदु कुमरो। भीमः ॥ (तान् गदया निर्दिश्य) विस्त्रंसय हस्तग्रन्थिमेतेषाम् । (द्वारपालस्तथा करोति.) दुर्योधनः ॥ (स्वगत) यदि भवयं भीमगदाभिघातेन प्रमीतस्तदा जीवितकल्पस्स्याम् , अद्य तु मृतकल्प एव यतः कश्चन द्वारपालो मन्निगळं मोचयति । कर्णः ॥ (दुश्शासनमवलोक्य-जनान्तिकं अपि नाम छुरिकया विदार्य मदीयं हृदयं त्यजेयं प्राणान् ? दुश्शासनः ॥ (जनान्तिक) किमिदानीमस्माभिः परवशैः कर्ते शक्यम् ? युधिष्ठिरः ॥ वत्स! यूयं मम यथा भीम ! तथेते भ्रातरो मताः । भीमः ॥ स्यान्नाम, तर्हि किमद्य कुर्मः १ युधिष्ठिरः ॥ तत्कुरुष्व धनाध्यक्ष सुयोधनमिहाध्वरे ॥ ९ ॥ भीमः ॥ यदाज्ञापयति देवः [इति विकटं परिक्रम्य-दुर्योधनमवलोक्य] आगच्छतु महाराजदुर्योधनः। द्रौपदी ॥ स्मयते । दुर्योधनः ॥ अवनमितमुखो भीममनुसरति । अर्जुनः ॥ आर्य ! अयं शकुनिः । (क) आज्ञापयतु कुमारः। 2 अहुतांशुकम् । भीमः ॥ (ससम्भ्रमं) व डीयते शकुनिः १ गृहाण तं पञ्जरे स्थापयामः (इति गगनमवलोकयति)। (सर्वे विहसन्ति-शकुनिश्शिरो नमयति) अर्जुनः ॥ (स्वगत) हन्त ! कथमिव कटुवचनेनार्यः पीडयत्येतेषां मनांसि ? अथवा जतुगृहोद्दीपनेन प्रकटितहृदयकाटवेष्वेतेषु न पर्याप्तमिदम् । (विहस्य-शकुनिमङ्गुळ्या निर्दिश्य-प्रकाशं) एनं महाराजदुर्योधनस्य मातुलं ब्रवीमि न तु पतगम् । भीमः ।। (सशीर्षान्दोलनं) किमेनं ब्रवीषि १ समागच्छतु महाराज- दुर्योधनस्य मातुलश्शकुनिरानः (इति परिक्रामति) दुर्योधनः ॥ (स्वगत) हन्त ! मन्नामगन्धमेव बान्धवजनमामन्त्रयति वृकोदरः। (शकुनिः ॥अवनमितमुखो भीममनुसरति) अर्जुनः ॥ आर्य ! अयं कर्णः। भीमः ॥ (ससम्भ्रमं परिक्रम्य) पश्य ! गृह्णामि (इति शकुनिकर्ण गृहीत्वा समाकर्षति) (शकुनिः ॥ वेदनामभिनयन् वेष्टते) (सर्वे विहसन्ति) अर्जुनः ॥ आर्य ! महाराजदुर्योधनमित्रं राधेयं ब्रवीमि । भीमः ॥ (सशीर्षान्दोलनं सस्मितं च) किमेनं वैधेयं ब्रवीषि १ एहि रथकारकुलप्रदीप ! (इति गदया कर्ण परिनुद्य-निजमस्तकमान्दोलयन्) हन्त ! किमि त्ये कत्र विधात्रा सङ्घटिता इमे ? आकर्ण्य शकुनिप्रोक्तं वचः कर्णादुपहरे । प्रलोभयति राजाऽयं साधून शाकुनिको यथा ॥१०॥ (इति परिक्रामति) युधिष्ठिरः ॥ (स्वगत) किमयं प्रतिबोधितोऽपि नाथापि विरमति ?
प्रथमोऽङ्कः । अर्जुनः ॥ आर्य ! दुश्शासनमपि । भीमः ॥ (सत्वां) वत्स! किमेतेषु कुर्वित्यावेदयसि ? अर्जुनः ॥ नहि , नहि । दुर्योधनानुनं दृश्शासनमपि प्रस्थापय तस्साकमिति निवेदितं मया ॥ भीमः ॥ किमेनं ब्रीषि १ (इति दुश्शासनमामस्तकादापादमूलं निर्वर्ण्य-सस्मितं मस्तकमान्दोलयन् ) वत्सार्नुन! दुशासनमेने सशरीरं दुर्योधनस्य दुश्शासनं मन्ये । अयमेक एवालं जगति साधुनाशाय ॥ युधिष्ठिरः ॥ वत्स! भीम! किमिदमभ्यर्थितोऽपि पुतःपुनरेतेषा- मुपजनयसि हृदयपीडामवहेलनेन ? समुचिते कर्मणि नियोनय दुर्योधन- सहचरानेतानपि। भीमः ॥ (सविनयं) यदाज्ञापयत्यार्यः (इति परिक्रम्प) आगच्छतु महाराजदुर्योधनानु नो दुश्शासनः (इति तेन सह गन्तुमिच्छति) ॥ (प्रविश्याधिकृतः पुरुषः) पुरुषः ।।। (प्रगम्य सविनयं) देव ! वासुदेवो चलदेवेन सम्प्राप्तः । युधिष्ठिरः ॥ (ससम्भ्रममुत्थाय) द्वारदेशमेव गत्वा तं भगवन्तं पश्यामः (इति तैस्पह परिक्रम्य-नेपथ्याभिमुखमवलोक्य सहर्ष) प्रिये ! यमनदीपभो ! १श्य पश्य योगिध्येयो नवघनरुचिः पुण्डरीकायताक्षो रक्षादीक्षावहननिरतः पीतवस्त्राञ्चिताङ्गः ॥ लक्ष्मीकीडामरकतगिरिभक्तकल्पद्रुमोऽयं श्रीकृष्णो मे हरति नयने कोऽस्ति धन्यो मदन्यः ? ॥११॥ (आनन्दमभिनीय) किमण्यनुलपन् स्मेरमुखाब्जस्तीरपाणिना। अंसस्त्रस्तांशुकं कन्निभ्येति गरुडध्वजः ॥१२॥ - [ततः प्रविशति यथानिर्दिष्ठः कृष्णस्पाग्रज ] कृष्णः ॥ (बलभद्रमवलोक्य) पश्यत्वार्यः- मदाशया बद्धनिजप्रवृत्तयो दिगन्तविश्रान्तविचित्रशक्तयः । मदीयपञ्चायुधवत् सुविग्रहास्तभक्ति पञ्चेह विभान्ति पाण्डवाः ॥१३॥ बलभद्रः ॥ कृष्ण ! पश्य ! यद्यज्ञवेदीसम्भवेति विश्रुता द्रुपदतनया तत्तथ्यमेव । यतस्वतेजःप्रकरणाभिभवति नयनयुगळम् ॥ आगामिन्यध्वरे हव्ययात्रार्थ धर्मनन्दनम् । विनयादनुगच्छन्ती वहिन्वालेव भात्यसौ ॥१४॥ कृष्णः ॥ अथ किं ? आर्य ! अत्यास्मौ नन्यं किं ब्रवीमि ? शृणु तावत्- इयं मूर्तिमती शान्तिरस्मद्भक्ताग्रगामिनी । असिधारेव दुष्टानां राज्यकार्यधुरन्धरा ॥ १५ ॥ (किञ्च) एकवल्लभमनोऽनुवर्तनं योषितस्तु भुवि दुष्करं किल । पश्चभर्तृहृदयानुसारिणी तान् गशीकृतवती सतीमणिः ॥ १६ ॥ (इत्युपसृय) देव ! कगः प्रणमति (इति युधिष्ठिरं प्रणमति) युधिष्ठिरः ।। (सत्वरं कृष्णं भुनाभ्यामुद्धृत्य) आर्य! युधिष्ठिरः प्रणमति (इति बलभद्रचरणयोनिपत्य) अपि कुशलं सीरपाणिचक्रपाण्योः १ बलरामः ।। आम्। कृष्णः ॥ भादनुग्रहात् । इत्यप्रतोऽवलोक्य) हन्त ! महाराजदुर्योधनो ऽन्यत्रैव (इत्युपसृत्य) कदा महाराजाधिराजेन यज्ञभूमिरियमलता ? (दुर्योधनो लज्जावनमितमुखो निस्तरस्तिष्ठति प्रथमोऽयः । कृष्ण ॥ (भीममुखमवलोक्य सस्मितं) किमयं लज्जित इव दृश्यते ? भीम ॥ (उअसून्य) कृष्ण! महारानयुधिष्ठिरवितथा पत्रिका नायमानीतस्सार्वभौमः। कृष्ण ॥ स्वातं]-परस्परं कोऽपि विशेष प्रवृत्तः स्यात्, मातु, भीममुखेनैव प्रकाशयामि । (प्रकाशं) तर्हि कया ? भीमः ॥ मत्प्रेषितयाऽनया (इति गहों पुरः प्रसार्य प्रदर्शयति) कृष्ण ।। (मस्मित) तर्हि किमयं पराजितम्सार्वभौमः ? भीमः ।। अथ किम् दुर्योधन ॥ [स्वातं] यदि कहाऽपि मदायत्तो भो हीमहतकोऽयं तदा विमईयेयं पुत्रिकान. नयेयं च । नहि भाति मदवीनः । कथं वा वशीकरोम्येनं पापम् ? कदा वा मदधीनो भविष्यति, न जाने (इति दीर्घ निश्श्वसिति) युधिष्ठिर ॥ [स्वातं] किपयापि भीमोऽयं दुर्योक्नावहेलनान्न विरमति [प्रकाशं] वन्स भी समुचित प्रौवे हलायुवेत म भानमेन- मवतारय । वयमपि प्रकृतकार्यमनुतिष्ठामः ॥ भीमः ॥ तथा (इति तैस्सह निष्क्रान्तः) युधिष्ठिरः ॥ प्रिये! शृणु तावत्- कर्ता कारयिता भोक्ता योऽध्वरस्य स माधवः । समायातः करुणया किमितोऽप्यस्ति वैभवम् ? ॥ १७ ॥ तत्साधयामस्तावत्प्रकृतकार्य करणाय (इति निष्क्रान्तास्सवे) ॥ इति श्रीयदुशैलवासि-बालधन्वि-जग्गू-चकुळभूषणकवि- विरचिते अद्भुतांशुकनाटके प्रथमोऽङ्कः ॥
॥ श्रीः ॥ द्वितीयोऽङ्कः॥ (ततः प्रविशति धनभस्त्रिकामुद्वहन् शिष्यः) शिष्यः ।। (श्रममभिनीय) न हि कुत्रापि प्राप्ता मया च्छाया। तपनस्तु परितपति माम् । अयं पुनर्दव्यभारो नमयति मम कन्वराम् । किं करोमि ? सब्रह्मचारिणां पुनर्मुखमपि पञ्चषैदिवसैन मया दृष्टम् । आचार्यस्तु-“मामनुपदमेव समागतमोहि" इति द्रव्यभारमेनं मच्छिरसि निधाय प्रेषितवान् । नायाप्या- यातः (इति समन्तादवलोक्य) भवतु । नातिदूरे महाननोकहः परिदृश्यते, तत्र प्रच्छाये प्रथमं तावद्धनमारमवतारयामि (इति नाट्रेन परिक्रम्य-वृक्षमूले धन- भारं मन्दं निधाय, कन्धरां परिमर्दयन् परितो विलोक्य-सहर्षे) हनन ! समायाता स्मब्रह्मचारिणः ॥ एकस्स्कन्धे धान्यभारं दधानः कुर्वन्नन्यो मस्तके वस्तु नातम् । कक्षे वस्त्रं निक्षिपन्नूनमन्यो ऽध्यायान्त्येते मन्धराः कुक्षिभारात् ॥ १ ॥ (ततः प्रविशन्ति यथानिर्दिष्टास्तवमचारिण :) एकः ।। (श्रममभिनीय) भोश्शतमालिन् ! अलमध्वरेण, न दृष्टपूर्वोऽयं नापि श्रुतपूर्वः । अन्य ॥ भो दीर्घर्ग ! कदाऽमदुट नपरिसरप्ररूरैः कन्दमूलफलै- जिह्वानडनामपमयेयं न जाने । अद्य तु हय्यङ्गवीनमयैर्भक्ष्यैर्मोन्यैश्च शक्ति- विकला मदीया रसना । अपरः ।। नूनं न गृहात्या रसं निला, जातमद्य निरर्यकं नाम रसजेति ॥
द्वितीयोऽङ्कः । अन्यः ॥ भोश्चिप्रजट ! म्या पुनर्दिक्षु विदिक्षु च पौरोगवा वल्वाः कान्दविकाश्च घृतभरितबृहजीषेषु पच्यमानानि विविधानि भक्ष्याणि च दृश्यन्ते ॥ एकः ॥ किंबहुना ? तपःप्रभावसम्भूतं ससैन्याय भरताय भरद्वाजेन कृतमातिथ्यमणुमात्रमप्यस्य न साम्यमावहति ॥ अपरः ॥ मम पुनर्जगदखिलमपि धनकनमयमिव परिणतम् । अन्यः॥ आस्तां तावदिदम् । व गतोऽस्मत्सब्रह्मचारी पिङ्गकेशः १ अपरः ॥ (सानुतापं) हन्त ! स तु गुरुवचोनिगळितस्तद्वनपरिरक्षणैक- निरतो बन्दीकृत इवैकत्रैव तूष्णीमासीत् । नैकमपि पदं ततो निरगात् ॥ अन्यः ।। तेन स्वादुतरं भक्ष्यमोज्यादिकं भुक्तं वा न वा, न जाने ॥ अपरः ॥ (विहस्य) चक्षुषाऽपि न दृष्ट मिति प्रतिभाति ।। अन्यः ॥ (सस्मितं) तद्गन्धगन्धोऽपि नानुभूत इति प्रतिभाति ॥ एकः ॥ (अग्रतोऽवलोक्य) हन्त ! स त्वत्रैव महीरहमूलं प्रच्छाय- शीतलमधितिष्ठति । तदुपसर्पामः ॥ (सर्वेऽप्युपसर्पन्ति) पिङ्ककेशः ॥ (सहर्ष) मद्भाग्यवशायं समुदितास्संप्राप्ताः । किमु नाद्याप्यस्मद्गुरुचरणा भवतां दृष्टिपथमारूढाः ? सर्वे ।। सप्ततन्तुवैभवमनुभवद्भिरस्माभिर्नैव दृष्टा गुरुचरणाः ॥ पिङ्गकेशः ॥ हन्त ! मन्दमाग्येन मया गुरुधनरक्षणनिरतेन यज्ञशालाद्वारदेशोऽपि नावलोकितः ॥ सर्वे ॥ हन्त ! ते निरर्थक जातमिदानीं जन्म, यतो नानुभूतं भवता यागवैभवम् ॥ पिङ्गकेशः ॥ (सदैन्यं) यदि यूयमपि विवक्षवः, तर्हि श्रोतुकामो- ऽस्मिअध्वरे किं किं संवृत्तमिति ॥
१५ भडतांशुकम्। शतमाली ॥ भोः पिङ्गकेश ! असमर्थोऽहं तद्वत्तुमपि वैभवम् । तद्दीर्घकर्ण एव कथयतु ॥ दर्घिकर्णः ॥ वक्तव्यबाहुल्यादहमपि तथैवासमर्थः । तथाऽपि स्मारं स्मारं कथयामि, शृणु तावत् ॥ पिङ्गाकेशः ॥ अवहितोऽस्मि । दीर्घकर्णः ॥ ऋजीषाणि घृतपच्यमानभक्ष्यतया निपतद्वर्षपृथुलपृष. गणदन्तुरितानि समुद्गलद्ववदतारकितानि सरांसीव प्रतिमहानसं समदृश्यन्त । चित्रजटः ॥ प्रणीतानां तु स्वादुतां किं ब्रवीमि ? शतमाली ॥ पर्याप्तम् तेमनमेकं, तस्मिन्निमज्जितानामपूपानां स्वादुता- ऽद्यापि ज्योत्स्ना चन्द्रकान्तशिलामिव मे रसनामातनोति ।। दीर्घकर्णः ॥ हन्त ! कति शर्कराभरितमस्त्रिकाराश्.यः, कति वा घृतभाजनानि कुलाचनतिकामन्ति स्म । चित्रजटः ॥ हन्त ! चक्षुपि निखातानीव दृश्यन्तेऽधुनाऽपि तत्रतत्र दुह्यमानानि गवां कुलानि । शतमाली ॥ (सह) व्यं तु प्लाविताः क्षीरदाधिप्रवाहेषु मजिता हय्यकवीनेषु ॥ शतमाली ॥ किं बहुना ? शतसहरूमोत्तवर्गभोजनसूचकरसव दुण्टानादः :: प्रतिकलमुदचरत् । चिन्त्यतां भवतैव कति भोक्तार इति । चित्रजटः ॥ स्यादेतत् । न चित्रमिदं ; यदनवरतमपि सर्वेषामभ्या. गतानां द्विजोत्तमानां मुनीनां च चरणप्रक्षाळनादिपरिचर्यानिरतोऽभूद्भगवान् वासुदेव इति , तदत्यद्भुतं हि । पिङ्गकेशः ।। (साश्य) हन्त ! भगवान् वासुदेवस्तस्मिन् वर्मणि किं नियोजितो युधिष्ठिरेण? चित्रजटः ।। (विहस्य) को वा तं नियोजयति ? स्वयमेवासीद्भागवत- चरणपरिचर्यासक्तः। स तु भक्तपरवशः किल ।
शतमाली ॥ (सानन्दं विहस्य) पिङ्गकेश ! स्यानाम भगवतो वासु-
देवख्य कार्य; शृणु तावत्प्रतिदिनमस्मत्कार्यम् । स्मात्वा समादित्सयां
बक्षिणानां यागशालायां तत्रतत्र पर्यटन्तः कदा वा परिवेषणकालस्समा-
पतिष्यतीति चिन्तयन्तश्च प्राप्ते च भोजनावसरे पिपीलिकापििक्तमदृशीषु
भोक्तृपििक्तत्वभवाम सज्जाः ॥
पिङ्गकेशः ॥ (सहास) ततस्ततः ।
शतमाली ॥ ततश्च तत्र यथेच्छ भुक्त्वा उदरभारासहिष्णवो
महणतरे धरणीतले निपत्य परिलुठन्तः कालमासायमत्यवाहयाम ॥
पिङ्गकेशः ॥ हन्त ! क्वापि लीनं व्रताचरणं, विस्मृतं नियमाध्ययनं,
महानस एव भवतां पावकप्रतिष्ठेति दृश्यते ॥
जित्रजटः ॥ (विहस्य) किंबहुना ? सन्ध्यावन्दनमपि कदाऽपि लुतं
स्यात् , का पुनर्वतादीनां लोपवार्ता ?
दीर्घकर्णः ॥ किमु वक्तव्यं दानविषये ; युधिष्ठिरसहोदरैरुत्स्थाय
दोनार्थ मेरुरेव समानीत इति ज्ञायते ॥
शतमाला ॥ स्यादेतत् । कोशागारं सत्वरं शून्यं भवत्विति धना-
ध्यक्षेण सुयोधनेन समत्सरं विप्रेषु यथेच्छ धनकनकवृष्टिः पातिता, तथाऽपि
वासुदेवानुग्रहात् सततसम्पूर्णमेव तत् ॥
चित्रजटः ॥ (सौदासीन्य) किं फलमनेन बहुना कृतेन १ सर्वमन्ते
निष्ठुरे कर्मणि पर्यवसितम् ॥
पिङ्गकेशः ॥ (ससम्भ्रमं) किं तत् ?
चित्रजटः ॥ शिशुपालवधः ॥
पिङ्गाकेशः ॥ (साश्चर्य) अपि नाम सत्यम् ?
चित्रजटः ॥ किमनृतमपि ब्रवीमि ?
8
-- १८ भडमांशुकम् । पिङ्गकेशः॥ (सादरं) तर्हि कथय कथय कयं स हतः कुतो वा केन हत इति च ॥ चित्रजटः ॥ अवभृथानन्तरं युधिष्ठिरेण महती सभा कारिता; तत्र तावत्प्रथमं को वा सभाजयितव्य इति समुदचरचर्चा || पिङ्गकेशः ॥ (विहस्य) कुतो वाऽत्र चर्चा ! यश्च सार्वभौमो नृपकुलचूडामणिर्वा स एव समाजयितव्यः ॥ जित्रजटः ॥ (सस्मितं) हुं ! भवानेव धीमान् खलु, तर्हि कथयतु तत्र को वा सभाजयितव्यः को वा सार्वभौमः १ नृपकुलचूडामणिश्च कः ? (पिंकेशबुक निहिताळिगगनदत्तदृष्टिस्तम्भीभूय सुचिरविचिन्तयति)॥ शतमाली ॥ (विहस्य सशीर्षान्दोलनं सोल्लुण्ठनं ष) कुतो वाऽत्र चिन्ता ? सत्वरं कथय । अल्पीयान् खलु विषयः ॥ पिङ्गकेशः ॥ (विचिन्त्य) कौरवेश्वरो धृतराष्ट्रस्सार्वभौमः। तत्स एव सभा- जयितव्यः । चित्रजटः ॥ (सस्मितं सशीर्षान्दोलमं) हन्त ! केन वा दत्ता तस्य सार्वभौमपदवी ? किमु भवता? तस्यान्धत्वान्नास्ति हि राजत्वमेव ।। पिङ्गकेशः ॥ (सलज्जं विचिन्त्य) शिशुपालस्सार्वभौमः । तत्स एव सभाजयितव्यः ॥ शतमाली ॥ तर्हि तत्र नास्त्येव कोऽप्यन्यो नृपचके १ ॥ चित्रजटः ॥ (विहस्य) पश्यात्रैव चर्चा समुत्पन्ना ॥ पिङ्गकेशः ॥ भवतु किमनया चर्चया ? प्रकृतं भूहि । ततस्ततः ॥ चित्रजटः ॥ ततस्समुत्थाय धीमता कुशलिना सहदेवेन सर्व- अगत्पतिश्रियःपतिर्भगवान् वासुदेवस्सभाजयितव्य इति समुद्घष्य निर्धारितम् । भनुपदमेवारपूजा कर्तुमपि प्रयतितम् ।
द्वितीयोऽयः। १९ पितः ॥ सौनय] अहो ! वै तय; अहो ! बुदिभाम् । स एव ज्ञानी; यतः पुरुषान्तरं विहाय यज्ञपुरुष पुरुषोतममाराधयितुमुयुक्तो- ऽभवत् । हन्त! न करति म मोदं ततस्ततः ॥ चित्रजटः ॥ (महिपतं) कयं वा ता परिकुरेत् । हु। भानु, शृगु नावत् । ततश्च प्रकुपितरिशशुपालो झउिति ममुत्थाय पाणिमुरमि निवाय- "मयि सति नृपनाथे पिहपीठेऽप्रपूजा भमति कथमिवैनं राज्यलक्ष्म्या विहीनम् । विलसति मृगराजे मत्तमातङ्गकुम्भे अनति किमु सृगालं कुम्भसंस्था त मुक्ता १ ॥२॥ (अपिच) गोमयवहने दक्षो जारः परकन्यकापहर्ता च । सिंहासनानधीशः स तु पूज्योऽभूत्सभामध्ये" ॥ ३ ॥ इत्यादिरीस्या बहून्यश्रुतपूर्वाण्यवचनीयानि जल्तिवान् ॥ पिङ्गाकेशः ॥ तदा भगवता वासुदेवेन किं व्यवसितम् । चित्रजटः ॥ (सवैलक्ष्य) मन्दस्मितमधुरमधुरमुखारविन्दो भगवान् वासुदेवस्पपाममितः प्रेरितनपनमूगीमासीत् ॥ पिाकेश ॥ (साथ) हनन ! महानुपावता भगवतः ! शान्तिरस्य पुलकितमातनोति मद्गात्रम् । ततः । चित्रजटः ॥ सहदेवेन पुनरनुपदमेव वासुदेवाय समर्पिता सपर्या ॥ पिङ्गाकेशः ॥ अहो ! तस्य धैर्यम् । ततरिशशुपालेन किं व्यवसितम् चित्रजटः ॥ ततः कृष्णवर्न सहदेवं युधिष्ठिरं चोपालन्धुं समारमत सपेदिराजः ॥ पिडकेशः ॥ (समय); हन्त ! किमिति ?
अहुतांशुकम् । चित्रजटः ॥ “भवतु । न निन्धोऽयं गोपः। किमनेन क्रियते ? अत्रासमीक्ष्यकारी युधिष्ठिरो निन्यः, इतिकर्तव्यतामूढो बालो बालिश- स्सहदेवश्व; यतस्सहदेवस्सत्सु बहुषु रानाधिराजेषु तानन्तरा' हालिकलाल- नीयमेकं गोपालकमभ्यास्माकं मनःक्षोभमापादितवान्' इति ॥ पिङ्गकेशः ॥ किं तावत्ताभ्यां तदा कृतम् ? चित्रजटः ॥ ताभ्यां तु न किमप्याचरितम् । तूष्णीमेव स्थितम् । भगवान् वासुदेवः परं भक्तपराधीनः क्रोधद्विगुणितारुणिमशोभिनयनारविन्दः प्रस्फुरदरुणावरबिम्बस्सरभसमुत्थाय "एतावन्तं कालं मामुद्दिश्याश्रुतपूर्वाण्यव- हेळनगर्भाणि वचनानि जल्पितान्यनेन वालिशेनाबलाजनेनेव । तैस्तावन्न मे मनःखेदस्समजनि; यन्मद्भक्तानां पाण्डवानामवहेळनं तद तेतरां मनः खेदयति । तदिदानीं न सहे' इत्युक्त्वा सुदर्शनमस्मरत् ॥ चित्रजट. ॥ ततो भास्करसहस्रभासुरं सुदर्शनमचिरादेव व्यतानी- लानिध्यं श्रीकृष्णपाणिालो । नःक्षग- "हन्त ! निपतितश्चेदिराजः हा हतश्शिशुपाल:"- इति हाहाकारपरिता सभा ।। पिङ्गकेशः ॥ हन्त ! तद्वृत्तं श्रोतारमेव कम्पयति, द्रष्टृणां तु तदा कथं वाऽभूत् । ततस्ततः । चित्रजटः ॥ अनुपदमेव तननी मुखेन परिभ्राम्य तच्चक्रं शिशुपालन कन्धरां प्रति प्राहिणोत् । पिङ्गकेशः । ततः किं प्रष्टव्यम् ? अप्रतिहतं हि तदिव्यायुधम् । चित्रजटः ॥ वक्तव्यमपि न । तत्कन्धरां कदळीलावं लूत्वा न्यपा- तयदेव तस्य शिरः क्षितितले । शतमाली । चित्रमेतत् । तत्क्षणमेव तत्कण्ठतः कोऽपि तेजस्समुदय- स्पमुत्थाय श्रीवासुदेवचरणसरसिजसन्निधिं प्राप्नोत् । पिङ्गकेशः ॥ (साश्चर्य) हन्त ! स एव धन्यः , यतो योगिजनप्य- लभ्यं श्रियःपतिचरणारविन्दमलमत ।
१ १६ अरा द्वितीयोड | चित्रजटः ॥ (सहासं सहस्तताळं च) भवत्येतत् । सभायां महाराम दुर्योधनस्य भ्रान्ति किं ब्रवीमि १ स्थले जलभ्रान्तिः, मले स्थलभ्रमः, द्वारे भित्तिभ्रान्तिः, मित्तौ द्वारभ्रमश्च । पिङ्गकेशः ।। (मवैलक्ष्यं सादरं च) कथय कथय कथं तत् । चित्रजटः ॥ शृणु तावत् । सतु दुर्योधनासभामध्ये युधिष्ठिरेण सादां समाहूतस्तत्सकाशं निगमिषुरुन्थाय- क्षोणी नीलोपलाढ्यां सलिलमितिधिया मन्दमुत्क्षिप्य पेलं स्पृष्ट्वा पावेन सहीस्सरसि सकमले भूधिया निर्ममज्ज । उत्थायान्यत्र यातुं त्वरिततरगतिद्वारमत्याऽथ भित्ति द्वारं भित्तिभ्रमेण द्युविचलितभुनः काणवचालिलिङ्गः ॥४॥ सदा सर्वेषामपि तत्रत्यानामुदरम तिहसितेन व्रणितमभवत् । पिङ्गकेशः ॥ (मताळहाम) हन्त ! किमिदं तादृशस्य धीमतोऽपि तस्यैवं मतिविभ्रमः। चित्रजट । किं न जानासि यस्य मात्सर्यकलुषित हृदयं, मयनिर्मिता सा तु सभा प्रतिभाति तस्य विपरीते ति ? पिङ्गकेशः ॥ (नेपथ्याभिमुखमवलोक्य सभयं) पश्यन्तु भवन्तः, अस्मदाचार्य पिङ्गळपादाः कमपि मारमुवहन्त इत एवाभिवर्तन्ते । तदलानया वार्तया । (ततः प्रविशति यथा निर्दिष्टः पिङ्गळगुरु) पिङ्गाळः ॥ (दीर्घ निश्श्वस्य-श्रममभिनीय) धिगन्तवासिनः याने मत्सायार्थ पञ्चषारिशष्याः पृष्ठतस्समानीतास्तेषां बालिशानां स्वेकोपि न मे दृष्टिपथमारूढः कार्य करणीयमितिभयात् । (विहस्य) हन्त ! सर्वेऽपि घोराप्रगामिनः । भवतु क्वापि प्रच्छाये भारमेनमवतारगामि । (इति कति सिल्पदानि गत्वा खामूलगतान् शिष्यानवलोक्य) भये। सर्वे मिति भडतांशुकम् । रिशव्या अत्रैव वर्तन्ते । भवतु तावद्यस्य कब बिदुपरि भारमेनं पातयामि (इति सहनोपसु.य सक्रो] ओ! व वा कालमेतावन्तं प्रळीनाः १ न यूयमन्तेवासिनः किन्तु चोराः ॥ (सर्वे भिया तूष्णीमासते) पिङ्गळः ॥ भवतु नाम, भारमेनं कोऽप्यवतारयतु मन्मस्तकात् । (चित्रनटः सहसोपस्य-भारमवतारयति) पिङ्गळः ॥ (दी निश्श्वस्य तत्रैवोपविश्य पिङ्गाकेशमवलोक्य) अपि नाम मया निहितं धनमखिलमपि रक्ष्यते त्वया? पिङ्गाकेश ॥ (सभयं सविनयश्च) आम् । सुरक्षितम् । पिः ॥ (अणमिव विश्रान्तिसुखमनुभूय) नायमवसरोऽत्र समुपोष्टुम् । इदानीं मध्येमार्ग दुर्योधनस्समनुभूतपराभवो विमनायमान इत एव मन्दमागच्छन् दूरतस्पमदृश्यत । तदत्रैव समाग छेदपि (अग्रतोऽवलोक्य) हन्त ! समायात एव, तत्साधयामः (इति सत्वरमुत्थाय भारमादाय निष्क्रान्तास्सवे) ॥ (इति शुद्धविष्कम्भः) (तत प्रविशति यथानिर्दिष्टस्सुयोधनः) सुयोधनः ॥ हन्त ! विङ्माम् , किमिति सुधांशुवंशे कला व समुत्पन्नोऽसि ? किं वा भारावहेनानेन जन्मना ? शत्रुसम्पदमपरिमिता ददर्श कथमिवाद्यापि प्राणिमि ? हन्त ! असङ्ख्यातनरपतिसमलंकृताया संभायां संवृत्ता त्वमानना कुकलानलबहन्दह्यते मे हृदयं (विचिन्त्य) अनेन वृथा अन्मना न किमपि प्रयोजनं पश्यामि । तत्सन्त्यस्यामि यत्र कुत्राप्यरण्ये प्रळीनः प्राणान् । (पुनरपि विचिन्त्य सविमर्श) क्षत्रियकुलोत्पन्नस्य मे नार्य समुचितो व्यापारः, तथाकथञ्चिन्मया ते पाण्डवपशवो वशीकृत्य निष्ठचतसाराः द्वितीयोगा। करणीयाः । किं करोम्यच ? [अग्रतोऽवलोक्य सहर्षम् एते कर्णदुरशासन- शकुनयोऽनामन्य समागतं मामन्विष्यन्त इत एवाभिवर्तन्ते । तत्प्रकुपित- इवास्मिन्ननोकहप्रच्छाये समुपविशामि । ततो मिळितैरस्माभिर्दुमन्त्रबलाते धर्मादयो वशीकरणीयाः (इति तथोपविशति) ॥ (ततः प्रविशन्ति दुश्शासन-कर्ण-शकुनयः) दुश्शासनः ॥ व गतो महाराजदुर्योधनः १ नाचाप्यस्मन्नयनगोचरः । हन्त ! स तु मानी खलु क्वापि पराभवमसहमानस्त्यक्तप्राणो भवेत् । कर्णः ॥ तात! दुश्शासन ! अलं सम्भ्रमेण ; सतु त्यक्तप्राणो न स्यात् । अन्विष्यनिरस्माभिर्लभ्येतैव । तन्मा कातरो भव; धैर्यमवलम्बस्व । शकुनिः ॥ (किंतितलमवलोक्य) वत्स ! दुश्शासन ! पश्यात्र नरपतिचरणलक्ष्मेव दृश्यते ; तदनेनैव पथा महाराजः प्रचलितो भवेत् । तदत्रैवान्विष्यामः । दुश्शासनः ॥ (सगद्गदम्) मातुल ! किमत्र वने कार्य तस्य ? यदि किमपि स्थादस्माकमनिवेद्य न कदाऽप्येकाकी स गच्छेत् खलु । शकुनिः ।। (सशिरश्चालन) तत्तु सत्यं ; इदानीं पुनरनुभूताभिषयो- इन विविक्ते क्वापि प्रलीनस्स्यात् । पश्यामः । (पुरतः कतिचित्पदानि सर्वे गच्छन्ति) कर्णः ॥ (अग्रतोऽवलोक्य सहर्ष) सात दुरशासन ! अलं चिन्तया । पश्यतु भवान् भवदन वृक्षप्रच्छाये निषण्णं महाराजदुर्योधनम् (हत्याळ्या निर्दिशति) (सर्वे सहर्ष समुपसर्पन्ति) दुश्वासनः ॥ (प्रणम्य) मार्य । सति रान्ये गजरथपत्तिवाहे । कुतो वा भवानेकाकी समुपविशत्यत्र ! .
10 (दुर्योधनशिशरसि निधाय पाणियुगळं मूक इस तूष्णीमास्ते) दुश्शासनः ॥ (सविनयं) आर्य ! किमिदमुचितं ते १ मयि प्रार्थय- माने तूष्णीमास्यते भवता ? तन्मधुरया गिरा मदीयं श्रवणयुगळमानन्दयतु भवान्। कर्णः ॥ (दुर्योधनहस्तं गृहीत्वा) महाराज ! शशिकुलतिलंक ! भवद्विषये केन वा कृतोऽपराधः १ मयि सुहृदि स्थिते कुतस्तेचिन्ता ? किं न जानासि माम् ? एकेन बाणेन नयामि मृत्यु महेन्द्रमप्याशु कृतापराधम् । किं चिन्तया खेदयसि स्वचित्तं ? यम्तेऽपराधी स गतायुरेव ॥ ५ ॥ दुर्योधनः ॥ (दीर्घ निश्श्वस्य-दुश्शासनमवलोक्य) वत्स ! किमुक्तं भवता ? “सति गम्ये गजरथपत्तिवाहे च कुतो वा भवानेकाकी समुपविशत्य- " इति खलु । शृणु तावत् - किं राज्येन ? पदातिवारणरथप्रोद्दण्डवाहेन किं कोशागारनिरन्तरार्जितधनैः किं वा १ प्रभुत्वेन किम् ? कि प्राणैः १ किमु बन्धुभिः किमनुजैः १ किं वा सुहृद्धिश्चमे ? तानालोक्यतः कृतामितपरीभावान् रिपूनीश्वरान् ॥ ६ ॥ (कर्णमवलोक्य) सुहृद्वर्य ! जानाम्येव भवन्तमङ्गरानं राधेयं, जानामि च विपुलरिपूकूलबलमूलोत्पाटनेऽतुलबलशालिनम् (सोल्लुण्ठन) बाणः क्व लीनस्तव पौरुषं वा तदा! क्व लीनं ननु ! मित्रवर्य । यदा गदाघातनिबन्धनादि- भीमेन पीडा महती कृता नः ॥ ७ ॥ किमनेन विकस्थनेन? तदलं द्वितीयोऽयः । २५ (कर्णोऽअनमितमरत कस्तूष्णीमुपविशति) शकुनिः ॥ तात ! सुयोधन ! किमिदम् ? पर्यत मृदुलतरोपधानभोग्यं मिष्टान्नं वररमणीकरोपनीतम् । त्यक्त्वा त्वं कटु फलकण्टकोपलान्ये दुर्गे वा ! कथय कथं निवत्ससीह ॥ ८ ॥ दुर्योधनः ॥ मातुल ! अलं निर्बन्धेन । विपिनमिदं विहाय न पदात्पदमपि प्रचलेयम् । जीवत्सु विपक्षेषु महोत्रतां सम्पदमनुभवत्सु भवदुक्तम खिलमपि मे तृणकल्पम् ॥ दुश्शासनः ॥ (सबाष्पं) आर्य ! यद्ये भवदेकनीवितं तातं धृतराष्ट्र प्रति किं वदेयम् ? दुर्योधनः ॥ वत्स ! एवं निवेदय- वनं राज्यं वृक्षो नृपभवनमासीकिसलयं सुतल्पं पाकाढ्यं फलमशनमेवं मृगगणः । सुहृत्पत्रिप्रोद्यन्मधुरविरुतिर्गानमनिशं रिपुप्राप्तावज्ञाविकलमनसस्त्वत्तनुभुवः ॥ ९ ॥-इति।। शकुनिः ॥ (स्वगत) हन्त ! वनवास एवानेन निर्धारित इव लक्ष्यते । किमद्य करणीयम् ? (विचिन्त्य) ज्ञास्यामि तावदाशयमस्य । (प्रकाश) वत्स ! सुयोधन ! किं कृतं चेत्त्वमागमिष्यसि नगरम् ? दुर्योधनः ।। (सौदासीन्य) मातुल ! न कोऽपि शक्नोति तत्कर्तुं , किं तेन विचारेण ? शकुनिः ॥ वत्स ! न हि तथा । अहं पुनश्शक्तस्तत्कर्तु, तन्निवेदय, कि पिहितेन ? 4 २६ भद्भुतांशुकम् । दुर्योधनः ॥ तर्हि शृणु तावत्-- पाण्डवानां वशीकृत्य सर्वी सम्पदमद्भुताम् । मद्वशे दासभावं च तेषां कल्पय मातुल ! ॥ १० ॥ शकुनिः ॥ (स्वगतं) हन्तास्य महती सङ्कल्पपरम्परा । यद्यस्य मनोरथं नाहं पूरयेयं, तदाऽयं नायायान्नगरम् । किमद्य करोमि ? (विचिन्त्य-सहर्ष) उपायस्समुपलब्धः ; (प्रकाश) वत्स ! भवन्मनोरथं पूयामि ॥ दुर्योधनः ॥ कथमिव ? शकुनिः ॥ युक्तिश्चिन्तिता ; शृणु तावत्--- धर्मोऽधिपस्तदनुजास्तमनुव्रनन्ति युक्त्या तदद्य सुषिरे स तु पातनीयः । युक्त्या गजान् गहनगानपि सङ्ग्रहीतुं गर्ने हि यूथपतिमाशु निपातयन्ति ॥ ११ ॥ तद्द्यूतप्रियो युधिष्ठिरः; किं च तेन “येन केनापि यद्यहं समाहूतः स्याम् कैतवविहाराय, तदागमिष्याम्येव" इति प्रतिज्ञातम् । तद्युधिष्ठिरमाहूय समारभ्यतां भवता कैतवम् । अहं पुनरक्षप्रक्षेपणनिपुणो धर्मराजेन पणीकृतं सकलमपि भवते दापयामि । भवत्सकाशे तस्य दास्यमपि सम्पादयामि । तदनु तदनुजा वशीकृता एव भविष्यन्ति । अत्र न कोऽपि सन्देहः । दुर्योधनः ॥ (महर्ष) साधु ! मातुल ! साधु; प्रबलान् रिपूननायासेन वशीकरोषि । तथाऽपि किञ्चिद्वक्तव्यमस्ति । शकुनिः ॥ कथय कथय किं तत् दुर्योधनः ॥ दासभावे पञ्चसु यः कोऽपि प्रकुपितः प्रतीपो यदि भवेत्तदा तेषां हायनमेकं वनवासो विधेयः॥
द्वितीयोऽङ्कः। शकुनिः ॥ (विहस्य) स्वान्नाम । कोऽत्र विचारः १ . दुर्योधनः ॥ (स्वातं) हन्त ! संवत्सरानन्तरं पुनरपि ते राज्यमा. ऋमिष्यन्त्येव ; अतस्तेषामनवरतमपि वनवासो दासभावो वा स्थिरीकरणीयः । तस्मादेवं ब्रवीमि (प्रकाशं) मातुल ! अन्यदपि वक्तव्यमस्ति । शकुनिः ॥ ब्रूहि वत्स ! दुर्योधनः ॥ नियतैकहायनाभ्यन्तरे तरस्मदेशाबहिः क्वापि सम्पाद्य द्रविणनिचयं तेनास्मत्कोशागारं पूरणीयम् । नोचेत्पुनरपि दास्यमेव तेषाम् । यदि दास्ये यः कोऽपि प्रकुपितस्स्यात्पुनरपि वनवासः ; वनवासेऽपि स एव पूर्ववन्नियमः ॥ शकुनिः ॥ तथैवास्तु; उत्तिष्ठ कर्तव्यसाधनाय ॥ दुर्योधनः ॥ (सविमर्श) अत्र कश्चन मे संशयः ॥ शकुनिः ॥ (सभ्रूभङ्गं) किमिदं संशयस्संशय इति संशयास्तोऽसि ? किं न श्रुतं भवता- “संशयात्मा विनश्यति"- इति ? दुर्योधनः ॥ तत्सत्यमेव ; तथाऽन्यस्मत्तातपादा अनुमन्वते वा न वेति मे सन्देहः ॥ शकुनिः ॥ क्त्स ! मा भैषीः । तदनुमतिमपि कथञ्चित्सम्पादयामि ॥ (नेपथ्ये स्थव्वनिः) दुश्शासनः ॥ (नेपथ्याभिमुखमवलोक्य) आर्य ! अस्मत्तातपादा भान्तमन्वेषमाणा रथेनेत एवाभिवर्तन्ते ।। शकुनिः ॥ (ससम्भ्रमं) वत्स ! तीदानीमेवमाचर । अस्माभि- रभ्यर्थ्यमानोऽपि वनवासे कृतनिश्चय इव प्राग्वद्विषण्णहृदयः पित्रा प्रार्थितो- ऽपि. तूष्णीमुपविश । ततश्च करिष्याम्यहमनन्तस्करणीयम् ॥ दुर्योधनः ।। (सहर्षे) मातुल ! तथाऽस्तु ॥
२४ अहुतांशुकम् । ! (ततः प्रविशति यथानिर्दिष्टो धृतराष्ट्रः) धृतराष्टः ॥ सारथे ! वाहान् सत्वरं प्रेरय ॥ सूतः ॥ आयुष्मन् ! समुद्दिष्टां भूमिमागतौ स्वः ॥ धृतराष्ट्रः ॥ सारथे ! राजसूयनिवृत्तेभ्यः कतिपयेभ्यो विप्रेभ्य- श्श्रुत्वा सुयोधनमत्रत्यमागतोऽस्मि । किमत्र वर्तते वत्सः ? सूतः ॥ आयुष्मन् ! नात्र दृश्यते कुमारः ।। धृतराष्ट्रः ॥ (सबाप्पं) सारथे ! अभिभवमनुभूय शत्रुवर्गात् स तु विपिने विमना विसृज्य राज्यम् । मुनिजनसदृशो भवेद्धि मानी किमुत निजासुजिहासया गतस्स्यात् ॥ १२ ॥ न सहे तद्विरहम् । तद्भवान् रथादवरुह्य गुहासु कासारतटीषु वत्सं लतादिगुल्मेषु महीधश्रृङ्गे । अनोकहानामथ मूलदेशे परिभ्रमन् पश्यतु सावधानम् ॥ १३ ॥ सूतः ॥ यथाऽज्ञापयत्यायुष्मान् (इति रथादवरुह्य कति चित्पदानि गत्वा-अग्रतोऽवलोक्य सहर्ष) हन्त ! दिष्ट्या समुपलब्धः कुमारः । किमपि तत्र ते सर्वेऽपि वदन्ति । (इति कर्ण दत्वा) हन्त ! धृतराष्ट्राय तावन्नि- वेदयामि (इति प्रतिनिवृत्य धृतराष्ट्रमुपसृत्य) आयुष्मन् ! दिष्ट्या वर्धसे, दृष्टः कुमारः। धृतराष्ट्रः ॥ (सहर्ष सत्वरं) कुत्र दृष्टो वत्सः ? किं करोति । कथं वर्तते १ क्षिप्रमावेदय ॥
अजुतांशुकम् ।
२९
भूतः ॥ आयुष्मन् ! दुश्शासनराधेयशकुनिभिः प्रार्थ्यमानोऽपि नगर-
गमनाय, विपिनमिदं विहाय न पदात्पदमपि प्रचलेयमिति कृतनिश्चयो
विषण्णहृदयः पादपप्रच्छाये नातिदूरे निषण्णो वर्तते ॥
धृतराष्ट्रः ॥ (सबाष्प) हन्त !
तेषामेव मुतो वाचं
न शृणोति यदीह नः ।
कथं शृणोति वाचं वा?
न जाने मूर्खनिर्णयम् ॥ १४ ॥
(दीर्घ निश्श्वस्य) तथाऽप्यभ्यर्थयामहे । सारथं ! स्यन्दनं सत्वरं नय
तं देशं, यत्र मे वत्सस्तिष्ठति ॥
सूतः ॥ तथा (इति सुयोधनान्तिकं रथं नीत्वा) रथान्मन्दमवतरत्वा.
युष्मान् (इति हस्तं गृहीत्वा मन्दं रथादवतारयति) ॥
धृतराष्ट्रः ॥ (सत्वरं) वत्स ! भवद्विरहदुःखितस्य मे गात्रमाश्लिष्य
पीवरभुजाभ्यां सन्तापमपाकुरु (इत्यङ्गराजं कराभ्यां परामशति)।
अङ्गराजः ॥ देव ! कर्णोऽस्म्यहम् (इत्यपसरति) ।
धृतराष्ट्रः ॥ क्वासि वत्स ! सुयोधन ? (इति गगने प्रसारितकरी-
ऽन्वेषणं नाटयति)।
दुश्शासनः ॥ तात ! अयं सुयोधनः; (इति धृतराष्ट्रपाणिमवलम्ब्य
सुयोधनं स्पर्शयति)
धृतराष्ट्रः ॥ (सहर्ष) वत्स ! सुयोधन !
राज्यं त्वराजकमभूदधुना विना त्वां
तथाहि मद्वचनतः प्रियमातनोमि ।
यद्याशयं प्रकटयेस्तदनु प्रवृत्ति-
स्तत्पूरणे ननु भविष्यति मौनतः किम् १ ॥ १५ ॥
द्वितीयो। - तसिष्ठ, निवेदय निजाशयम् ॥ (इत्याचूडपादं परामृशन्) निवेदय वत्स ! कर्तु सिद्धोऽस्मि ॥ (दुर्योधनस्तूष्णीमास्ते) शकुनि ॥ (धृतराष्ट्रं विलोक्य) शृणोतु देवः; महाराजोऽयं सुचिर- मस्माभिर्बहुधाऽभ्यर्थित एवमन्तेऽभिहितवान् ----- "पाण्डवानां वशीकृत्य सर्वां सम्पदमभृताम् । मद्वशे दासभावं च तेषां कल्पय मातुल !"--इति ॥ धृतराष्ट्रः ॥ वत्स! सुयोधन ! शृणु तावत् । ते तु धीराश्शूराः प्रगुणविनयव्याहृतिप्राप्तरागा भूमिस्सर्वा जलधिवलया तद्वशे वर्ततेऽद्य । तेष्विन्ध्र वा निमभुनवलाज्जेतुमेकस्समर्थ- स्तत्तान् जेतुं प्रभवसि कथं १ नैव चिन्त्यं तदेतत् ॥१॥ तदलं तद्यत्नेन ॥ दुर्योधनः ॥ (सक्रोध) भवतामनवरतमपि तेषां गुणकयन-पराक्रम- वर्णन-सौजन्यविस्तरण-वैभवाभिभाषणान्येव कालयापनोपायः । तत्त एव राजानस्सन्तु, नाहं राना । अत एव विपिनशरणोऽस्मि । गच्छन्तु भवन्तः- पाण्डवानां सकाशम् ॥ धृतराष्ट्रः ॥ वत्स ! कोपं मा कृथाः । तेषामधुनातनी स्थिति- मनुरुध्य मया कथितं, न तु प्रीत्या । ते तु युक्त्या वशीकरणीयाः, न पुनः पराक्रमेणेत्यत उक्तम् । शकुनिः ॥ देव ! युक्तिस्ताक-मया चिन्तिता ।। धृतराष्ट्रः ।। का युक्तिः १ कथय ॥
अताशुकम् । शकुनिः ॥ शृणोतु देवः-- "धर्मोऽधिपस्तदनुजास्तमनुव्रनम्ति युक्त्या तदद्य सुपिरे स तु पातनीयः । युक्त्या गजान्गहनगानपि सङ्ग्रहीतुं गर्ने हि यूथपतिमाशु निपातयन्ति ॥ १८ ॥ युधिष्ठिरोऽपि “धूनविहारार्थ केनाप्याहूतो न परावर्ते' इति प्रतिज्ञा- तवान् । तदद्यानेन तव पुत्रेण दुर्योधनेन समाहूतस्समागमिष्यत्येव । ततश्चैता- भ्यामारब्धे च द्यूते धर्मपुत्रेण पणीकृतं सकलमपि क्षणादक्षप्रक्षेपणनिपुणोऽहं भवत्तनयवशं करिष्यामि । सर्वस्मिन्नपि वस्तुनि पणीकृते पणेयवस्त्वन्तरा- भावादनुनानपि द्रौपदी वान्ततस्त्रात्मानमपि धर्मरानः पणीकरिष्यति । तस्मिन्पराजिते सत्येवं नियमः कार्यः-दासमावे पञ्चसु यः कोऽपि प्रकुपितः प्रतीपो यदि भवेत्तदा हायनमेकं तेषां वनवासो विधेयः । नियतकहायनाभ्यन्तरे अस्मद्देशाबहिः वापि सम्पाद्य द्रविणसम्भारं तेनामकोशागारं पूरणीयम् । तथा नो चेत्पुनरपि दासभाव एव । एवमेव चक्रवत्परिभ्रमः कार्यः । इत्थं नियते च नियमे भात्तनयस्य स्थिरीभविष्यति सार्वभौमपदवी"- इति ॥ धृतराष्ट्रः ॥ (सप्रमोदं) साधु; शकुने ! साधु; नीतिज्ञोऽसि । ममापि हीदमुचितमिव प्रतिभाति । किं चात्र ममायमाशयः-"तं तु शक्ताः कुबेरं वा विनित्यास्माकं कोशागारं द्रविणेन पूरयिष्यन्त्येव । ततश्च पुनरपि तद्वशा भविष्यन्ति सर्वास्सम्पदः । अतस्तैराजितानां द्रविणानामन्यथा परिच्यवनं कार्यम् । तदानीं तेषां वनवास एव स्थिरीकृतो भविष्यति । तदद्य दुर्वाससं सपर्यया तोषयित्वा वने वसद्भिस्तैराजितनां द्रविणानामादानार्थमभ्यर्थयामहे" -इति ।।
३२ द्वितीयोऽङ्कः। (सर्वे-सप्रमोदं) प्रियं नः प्रियं नः (इत्युत्तिष्ठन्ति) ॥ धृतराष्ट्रः ॥ अपि नाम दुर्योधनोऽप्युदचलत् ? दुश्शासनः ॥ अथ किम् ? धृतराष्ट्रः ॥ तर्हि सर्वेऽप्यारोहन्तु स्यन्दनम् ॥ दुश्शासनः ॥ आरोहतु भवान् (इति धृतराष्ट्रमारोप्य सुयोधन- शकुनि-गैस्सह स्वयमप्युपविशति) ।। दुर्योधनः ॥ (स्वगत)- कैतवे तन्त्रजालेन वशीकृत्य वृकोदरम् । यथेच्छे मर्दयाम्यद्य " नः प्राकृतपराभवम् ॥ १० ।-इतिः। (निष्कान्तास्सर्वे) इति दुशैलवासि-बालधन्वि-जग्गू-वकुळभूषणकवि- विरचिते अद्भुतांशुकनाटके द्वितीयोऽङ्कः ॥
|| श्रीः ॥ तृतीयोऽङ्कः॥ (ततः प्रविशत्युद्यानभवनगत एकासनोपविष्टया द्रौपद्या सह भीमसेनः) भीमः ॥ (सस्मितं प्रियामुखमवलोक्य ) प्रिये ! कर्त्तव्यं सर्वमपि कृतमेव हि। राजानो विजिताः प्रसिद्धयशसोऽप्यायस्य निनाः कृता- स्सख्यं मद्दया प्रकल्प्य निखिलक्ष्माभृद्ता श्रीरपि। अंसं सेव मदीयमुच्चमचिरादारोपिता चादरा- निष्प्रत्यूहमिहाध्वरोऽपि विधिवन्निवर्तितो धी करिष्यति (किञ्च) कोऽपि - आर्ये दृढं भुजलतापरिरम्भणेन } लक्ष्मीस्स्वकं प्रकटयत्यधुना ऽनुरागम् ।। आज्ञान्तु तस्य वयमप्यनुजा विधातुं सर्वात्मना परिजना इव बद्धदीक्षाः ॥ २ ॥ द्रौपदी ॥' (सलज्ज) अजउत्त ! तुइ ठिदे किंवा स्म होइ; इदो वरं करणिजं कर्ज ण किंवि बट्टेदि । वप्तीकिदा समुद्दमेहळा पुढवी ; णिव्वट्टिदो जण्णो; ता दाणि रज्जसोचं अणुहोन्तेहिं तुम्हेहिं होदव्वं ॥ (प्रविश्य कंचुकी) (कल्चुकी) (सबाप्पं) हन्त ! कुतो वा पाण्डवानां राज्यसौख्यं ; नायं धर्मस्य कालः ; बचपक्षपाति खलु दैवं; हन्त ! दुरोदरकैतवेन सर्वस्वमप्यपहृत्य (छाया) 1 आर्यपुत्र ! त्वयि स्थिते किंवा न भवति । इतःपरं करणीय कार्य न किमपि वर्तते । वीकृता समुद्रमेखला पृथिवी; निवर्तितो यशः; तस्मादिदानी राज्यसौख्य- 'मनुभवद्भिर्युष्माभि भवितव्यम् ।। 6 - अद्भुतांशुकम् । दुर्योधनहतकेन शोचनीयदशां प्रापितो युधिष्ठिर इति कथमद्यानेन वक्त्र- हतकेन निवेदयामि वृकोदराय । भवतु नामैतत् । स तु दुर्योधनहतको अनुभूय परिभवं गतः । कथं वा पुनरपि निर्लज्ज इन्द्रप्रस्थमे- वासाद्याक्षदेवनाय युधिष्ठिरमाहूतवान् । स्यान्नामैतदपि । स तु महारान- युधिष्ठिरः कथं वा भीमेऽन्यसन्निहिते तेन समाहूतो देवनाय गतः । (सशीर्षचलन) हुँ ! किं बहुना, सर्वमिदं विधिविलसितं हि ; यदि कुमार- भीमस्सन्निहितो भवेत्तदा नैवावकाशस्स्यादीदृशस्यानर्थस्य । हन्त ! न पारयामि निवेदयितुं । प्रभोराज्ञा परं बलवती। किं करोम्यद्य जीवनकृत विक्रीतशरीरोऽहं । धिगीदृशदुःखजननी सेवाम् । सर्वधा गर्हितस्सेवकश्शुनकवत् । तथाहि- जगतीह सेवकजनस्य तु प्रभु- हृदयेन साकमखिलेन्द्रियाणि च । अपहृत्य नर्तयति पुत्रिकामिव स्ववशे निधाय तमतस्स गर्हितः ॥३॥ किं बहुना जल्पितेन ; अस्मत्प्रभुनियोगमनुतिष्ठामि । वादनीं स्या- त्कुमारवृकोदरः-(इतिपरिक्रम्य सहर्ष)। प्रमदसूचकलोचनपङ्कजः प्रमदया लसतीह वृकोदरः । मदभरादरकोरकितेक्षण- स्ववशया वशयेव मतलजः ॥ ४ ॥ हन्त ! कथमीहशस्य हृदयमस्याशनिसङ्काशनाननोदन्तेन कलुषीकरोमि पापोऽहम् (सबाष्पं,- कण्ठान्न निस्सरति हन्त ! कठोरवाणी नेत्रात्तरं पतति बाष्पझरी कवोष्णा । आज्ञा प्रभोर्बलवती किमिहाचरामि हा पातितोऽस्मि विधिनाऽद्य तु सङ्कटेऽस्मिन् ॥ ५ ॥ - ।
तृतीयोऽङ्कः। ३५ (इत्युपसृत्य) जयतु (इत्यर्थोक्ते वस्त्रेण मुखमाच्छाद्य रुदस्तिष्ठति) भीमः ॥ (सत्वरमवलोक्य) अये ! आर्ययुधिष्ठिरप्रियकमन्चुकी माण्डविकः ; भो माण्डविक ! किमिदममन्दानन्दतुन्दिलहृदयेषु परिजनेषु त्वमेको दुःखाकुलितोऽसि १ निवेदय मे दुःखकारणम् ।। कंचुकी ।। (सगद्गदम्) कुमार ! कथं वा निवेदयामि, न मे निस्सरति वदनाद्वाणी ॥ द्रौपदी ॥ ' (सकरुग) माण्डविअ ! अजउत्तस्स भणाहि, दुर्ल णिवारेदि एसो॥ कञ्चुकी ॥ कथमसौ निवारयति ? यन्न शक्नोति निय तेरपि निवार- यितुम् ॥ भीमः ॥ माण्डविक ! मैव मंस्थाः, निवारयाम्यहं, निवेदय तावत् । कञ्चुकी ॥ (उच्चैल्दन्)। देवनमक्षविन- मतिदुर्गमकाननाय युष्माकम् । दास्ये वृत्तिस्ते तु त्वहु नदत्तिवस्तुभोक्तारः ॥ ६ ॥ भीमः ।। (ससम्भ्रमम् ) कथं कथं, विशदं निवेदय ; कैस्साकमक्षदेवनं, केन कृतं १ किमर्थं वा अस्माकं वनवासः, दासभावो वा १ म जदत्तवस्तु. भोक्तारश्च के १॥ कञ्चुकी ॥ (सगद्गदम ) शृणोतु कुमार:---- युधिष्ठिरस्समाहूतो धार्तराष्ट्रेण कैतवे । भवद्भिराजितं सर्व प्रायच्छत्तेन निर्जितः ॥७॥ भीमः ।। (सविमर्शम् ) माण्डविक ! किं युधिष्ठिरदुर्योधनावुभावेवा- क्रीडताम् उतान्येऽपि ? (छाया) माण्डविक ! आर्यपुत्राय भण; दुःखं निवारयत्वेषः ।
भडतांशुकम् ।
कञ्चुकी ॥ कुमार ! भवत्पक्षे महाराजयुधिष्ठिर एक एव, तस्य पक्षे
तु पाशकप्रक्षेपणार्य शकुनिनियुक्तः ।।
भीमः ॥ हन्त ! स तु वश्चकः (विचिन्त्य) माण्डविक ! प्रथमं किं
पणीकृतं देवेन १॥
कञ्चुकी ॥ शृणोतु कुमारः---आदौ कोशः ॥
भीमः ॥ हन्त ! प्रथममेव कोशः पणीकृतः ?
कञ्चुकी ॥ अथ किम् ॥
भीमः ॥ ततः ॥
कञ्चुकी ॥ तदनु करिणः ॥
भीमः । तेन तेऽप्यपहृता एव स्युः १
कञ्चुकी ॥ अथ किम् ॥
भीमः ॥ ततः ॥
कञ्चुकी ॥ स्यन्दनाः ॥
भीमः ॥ (मशिरश्चालन) भवतु नाम । ततस्ततः ॥
कञ्चुकी । वाजिबृन्दम् ॥
भीमः ॥ तदप्यपहृतं स्यात् !
कञ्चुकी । आम ||
भीमः ॥ ततः ॥
कञ्चुकी ॥ पृथ्वी सर्वा जलधिरशना ।।
भीमः ॥ हन्त ! साऽप्यपहृता
कञ्चुकी ।। अपहृतैव ॥
भीमः ॥ आः, कष्टम् । ततस्ततः ॥
कञ्चुकी ॥ छत्रसिंहासने च ॥
भीमः ॥ (सावेगं) किं ? ते अप्यपहृते ?
कञ्चुकी ॥ अप किम् ॥
तृतीयोऽदः । ३७ भीमः ॥ (दीर्घ निश्श्वस्य) माण्डविक ! अलमितःपरं न पारयामि श्रोतुम् ॥ द्रौपदी ॥ (सवाष्प) ' अह्महे ! छत्तसीहासणाइ वि किं दिण्णाइ अजउत्तेण । माण्डविअ ! कहं विअ अह्माणं रण्णगमणं कहेहि, तं वि सुणिअ देवदंसिंदं मग्गं अणुगच्छम ॥ भीमः ॥ प्रिये ! किं श्रुतेन ॥ द्रौपदी ॥ (रुदन्ती) अजउत्त! तह ण हि । भणादु एसो ॥ भीमः ॥ माण्डविक ! तहि कथय । ततः ॥ कञ्चुकी ॥ (सगद्गदं) यूयं शूराः प्रथितयशसो दासभावे नियुक्ताः ॥ भीमः ॥ आः ! कथं वयं दासभावे नियुक्ताः ? कञ्चुकी ॥ अथ किम् ॥ भीमः ।। स्यान्नाम । ततस्ततः ॥ कञ्चुकी ॥ (सबाष्पं) साध्वी भार्या द्रुपददुहिता ।। भीमः।। (सावेगं) किं किं इयमपि दासीकृता ? कञ्चुकी ॥ कृतैव ॥ द्रौपदी॥ हा देवहदअ ! (इति मूर्छिता पतति) भीमः ॥ प्रिये ! समाश्वसिहि समाश्वसिहि (इत्यंशुकेन वीजयति)। द्रौपदी ॥ (लब्धसंज्ञा मन्दमुत्थाय सवाष्पं) हद्धि मं मन्दभाइणिं । पुढम एच सो दुजोहणहदओ मइ दिण्णदिट्ठी दाणिं किं. करेदित्ति ण जाणामि ॥ (छाया) 1 अहाँ ! छलसिंहासने जीप किं दत्ते आर्यपुत्रेण ।माण्डविक ! कथमिवालाक- मरण्यगमनं कथय, तदपि श्रुत्वा दैवदर्शितं मार्गमनुगच्छामः । (छाया) आर्यपुत्र ! तथा नहि । भणत्वेषः । (अया) हा दैवहतक॥ (या) हा विख्या भन्दभागिनी; प्रथममेव स दुर्योधनहतको मयि दत्तदृष्टिरिदानी किं करोतीति न जाने। 9 अद्भुतांशुकम् । भीमः ॥ माण्डविक ! किमवशिष्टं वर्तते ? कञ्चुकी ॥ शृणोतु कुमारः-हन्त हन्त स्वमेव ॥ भीमः ॥ (सवैलक्षा) किमात्मानमपि दास्ये नियुक्तवानार्यः ? कञ्चुकी ॥ अथ किम् ॥ भीमः ॥ माण्डविक ! कथं कथं क्रमो ग्लहस्य ? आदौ कोशस्तदनु करिणस्स्यन्दना वाभिबृन्द पृथ्वी सर्वा जलधिरशना च्छत्रसिंहासने च । ततस्ततः कन्चुकी ॥ यूयं शूराः प्रथितयशसो दासभावे नियुक्ता. स्साध्वी भार्या द्रुपददुहिता हन्त हन्त स्वमेव ॥४॥ भीमः ॥ (सक्रोधं गदाशिखरं भूमौ सवेगं निधाय श्मश्रुकलाप- मङ्गुळिमुखेन परामृशन् ) आः पाप ! दुर्योधनहतक! विस्मृता । भवता मद्दा ? निर्भिद्य वक्षो गदयाऽद्य पाप! निरगळोद्गच्छदमुक्छटाभिः । गदाम्मदीयां परितर्पयामि समर्पयाम्यार्यवशे धरित्रीम् ॥ ९ ॥ (इति साटोपमुत्तिष्ठत) कञ्चुकी ॥ कुमार ! अलमलममर्षेण । तेन दुर्योधनहतकेनैको नियमः कृतः ॥ भीमः ॥ (उद्धतं परिक्रम्य) किं नियमोऽपि कृतः १ को वा नियमः ? कचुकी.॥ युष्मासु पञ्चसु दास्यकाले, यः कोऽपि प्रकुपितः प्रती- पो यदि भवेत्तदा हायनमेकं सर्वेषामपि वनवासो निर्धारितः ॥
तृतीयोऽङ्कः। ३९६ भीमः ।। (सौदासीन्य) किमियानेव नियमः १ भवतु भाम ।। कन्चुकी ॥ कुमार ! नैतावानेव अन्योऽपि वर्तते । एकहायना- भ्यन्तरे संपाद्यास्मद्देशाबहिः क्वापि द्रविणमारं तेन कोशागारं पूरणीयं ; नोचत्पुनरपि दास्यमेव-इति च ॥ भीमः ॥ (दीर्घ निश्श्वस्य) आः; सर्वधा निगडितोऽस्मि दैवेन ।। उत्खाताशीः फणिपतिरिव प्रोन्छितोचण्डदंष्ट्रः पञ्चास्यो वा करिवर इव प्राप्तवारीकुगतः । निश्श्रीकोऽद्य प्रथितबलवानप्यहो ! भीमसेनो दुर्दैवेन प्रमुषितबलो योजितो दास्यकृत्ये ॥१०॥ (इति गदां करात्क्षितितले च्यावयति) द्रौपदी ।। (सबाष्पं) 'हा णाह ! जसजोण्हाधवलिअदिसाअक्को सुउमारकराहिणदिअसअळराअउळो, जहिट्ठिलचन्दो, अन्ज दुजोहणराहु- गहीदो । इदोवरं अह्माणं कहवा रजसोवं हविस्सइ ? (प्रविश्य चेटी) बेटी ॥ भहिणि ! (इत्य/क्ते सिचयाञ्चलेन मुखमाच्छाद्य रुदन्ती तिष्ठति) द्रौपदी। हले ! वासन्तिए ! कहेहि, कहेहि सुणिदव्वं सुदं मए । किं पिहिदेण ! इदोवरं मन्दभाइणि मं भहिणित्ति मा भणाहि । दासी कह विअ भट्टिणी हविस्सइ । (इति रोदिति) चेटी ॥ (सगद्गदं) - मट्टिणि ! महाराअदुजोहणो आणवेदि, "इदोवरं तु मह दासी संउत्ता। ता दाणि एच एहि"त्ति ॥ (छाया) 1 हा नाथ! यशोज्योत्स्नाधवळितदिवचकरमुकुमारकराभिनन्दितसकलराजकुलो सुधिष्ठिरचन्द्रोऽद्य दुर्योधनराहुगृहीतः । इतः परमस्माकं कथंवा राज्यसौख्यं भविष्यति । भदिनि । ३ हजे वासन्तिके ! कथय कथय श्रोतव्यं श्रतं मया, किं पिहितनेतःपरं मन्दागिनी मां भट्टिनीति मा भण, दासी कथमिव भट्टिनी भविष्यति । भावनि! महाराजदुर्योधन आज्ञापयति "इत-परं त्वं मम दासी संवृत्ता, तदिदानीभव पहि" इति। ।
१ अधुतांशुकम् । द्रौपदी ॥' (सवाष्पं भीमसेनचरणयोर्निपत्य सदैन्यं) अजउत्त! गाह ! ससिउळतिळअ ! पवणतणअ ! अमळा अणाहा हं इदोवरं तुए एवं रणिज्जाः॥ भीमः ॥ (सामर्ष सकंपञ्च) आः कष्टं भोः कष्टं । प्रिये ! नूनमना- थाऽसि ; नूनं नूनं ; धिगस्मान्पञ्च वल्लभान् । किं करोम्यद्य (इति हस्तेन हस्तं निष्पीड्य सशीर्षान्दोलन) हुं ; भवतु तावत्- युधिष्ठिरमहावचोनिगडगाढसंयन्त्रिता भवन्तु स इवानुजा मम तु तस्य दासास्सदा । अहं पुनरमोघया घुसृणवञ्च निष्पिध्य तं सुयोधनमिहानया विवशयामि विश्वम्भराम् ॥११॥ (इति साटोपं गदामादायोद्धत परिक्रामति) द्रौपदी ।। (सवाष्पं) अजउत्त ! कहं विअ अज दुजोहणहदअस्स सआसे दासीहविअ वट्टेमि । णाहं पारेमि । ता परित्ताअदु अजउत्तो । काचुकी ॥ (सदैन्यं) कुमार ! कोपं मा कृथाः वने द्रविणार्जन- मायापतिष्यति ॥ भामः ॥ (दीर्घ निश्श्वस्य) प्रिये ! नाहमिदानी परित्राणदक्षः ; वागुरासंयतः केसरीव संवृत्तोऽस्मि ॥ (पटाक्षेपण प्रविश्य सहदेवस्सदैन्यम् ) सहदेवः ॥ आर्य ! विलम्बासहिष्णुमहाराजदुर्योधनस्समाज्ञापयति संस्चरमिदानीमेव समागन्तव्यमिति । तदागच्छत्वार्यः ॥ (छाया) 1 आर्यपुत्र ! नाथ ! शशिकुलतिलक ! पवनतनय ! अबलाऽनाथाऽहमितः पर त्वयैव रक्षणीया। 2 आर्यपुत्र ! कथमिवाथ दुर्योधनहतकस्य सकाशे दामीभूत्वा वर्ते १ नाह पारयामि । तत्परित्रायतामार्यपुत्रः । ॥
तृतीयोऽयः । ४१ -- भीमः ॥ (सामर्ष परिपूर्णिततारकः) अरे! मूर्ख ! किं किमुक्तं १ महा- राजदुर्योधन इति ? को वा महाराजः ; कं वाऽऽज्ञापयति १ स तु नियोजकः त्वं तु नियोज्यः किं ? (सशीर्षान्दोलनमङ्गुळिमुखेन श्मश्रुकलापं परामृश्यो- श्रीमवलोक्य च) ओ ! पुरुषापसद ! कुरुकुलाधम ! दुर्योधनहतक ! चूर्णयाम्याशु पापं त्वां पादाघातेन सम्प्रति । किं किमुक्तं पुनर्वृहि नामशेषं करोम्यहम् ॥१२॥ (इति गदां परिभ्रामयन् साटोपं परिकामति) सहदेवः ॥ (प्रणम्य साञ्जलिबन्ध) आर्य ! आर्ययुधिष्ठिरो भवन्त- मब्रवीत् । शान्तात्मना भवता भवितव्यमिति ॥ भीमः ॥ आः ! सर्वधा मद्वेगस्य सेतुवदयमार्यः । हुँ ! भवतु नाम । मार्गमादेशय ॥ कचुकी ॥ इतइतः कुमारः ।। (भीमः-दीर्घ निश्श्वसन्परिका नति) चेटी ॥ इदो इदो भट्टिणी ॥ (द्रौपदी-सबाष्पमवनमितमुखी भीममनुसरति) (ततः प्रविशत्यवनमितमुखैयुधिष्ठिरा-र्जुन-नकुलैः परिवृतो दुश्शासन-शकुनि-कर्णैश्चासने समुपविष्टैस्सह दुर्योधनः) दुर्योधनः ॥ (सस्मितं भरतकमान्दोलयन् श्मश्रुपल्लवमङ्गुळिमुखेन पराश्य) राजाधिराज ! महाराजयुधिष्ठिर ! शकुनिकर्णविकर्षणपण्डित- स्सुहृदि दर्शितबाहुपराक्रमः । मदनुजे रचितात्यवमाननः क्वनु ममानुचरोऽद्य वृकोदरः १ ॥१३॥ (छाया) 1 इतइतो भट्टिनी । 6 ४२.. अद्भुतांशुकम्। भीमः ॥ (दूरादेव दुर्योधनवत्तनमत्रकर्ण्य सामर्षे) आः ! दुरात्मन् ! किमुक्तं त्वया ? "कनु ममानुचरोऽद्य वृकोदरः" इति । आयातोऽहं ; ' तवानु- चरणार्थमेव । (इति गदामुद्यम्य साटोपं सत्वरमागन्तुमुद्युङ्क्ते) सहदेवः ॥ (सहसा भीमपाणिमवलम्ब्य) आर्य ! नायमवसरोऽमर्षस्य । तच्छान्तो गच्छतु भवान् । किमु विस्मृतमार्ययुधिष्ठिरवचनम् ? "शान्तात्मना भवता भवितव्यं"इति ॥ भीमः ॥ (बलादमर्षमुपसंहृत्य पाणिना पाणि निश्पिष्य) आः ! सर्वधा निगडितोऽस्म्यार्यवचनेन (इत्युपसर्पति) युधिष्ठिरः ॥ (भीममवलोक्य स्वगत) हन्त ! कदा वा क्रुधा दुर्योधन- मभिपतति वत्स इति न जाने (सबाष्पं) धिङ्माम् । कथमद्य पापोऽहं वत्सं पश्यामि ? अयन्तु वत्सः- निजबलेन तृणीकृतवासवो भुनवशीकृतसर्वमहीश्वरः । मम वचोदृढशृङ्खलिकावृतः कथमिवास्य भवत्परिचारकः १ ॥१४॥ (द्रौपदीमवलोक्य सानुतापं) हन्त ! इयम्---- .शोकार्ता विनमितवक्त्रपूर्णचन्द्रा पाणिभ्या नयनयुगं पिधाय साश्रु । आयोन्ती मम हृदयं विलाप्य कान्ता दुःखाब्धि नयति नदीव नीरमन्यत् ॥१९॥ भीमः ॥ (उपसृत्य) आर्य ! भीमः प्रणमति (इति युधिष्ठिर प्रणमति) 1 तव भक्षणार्थमेवेत्यर्थः।
तृतीयोऽकः। - युधिष्ठिरः ॥ (सबाष्पं सगद्दं च)- व्यसनैकरताय गर्हिताय प्रबलाघानतत्पराय वत्स ! । श्रितदुःखकृते वृकोदराद्य प्रणति मा कुरु दुर्गताय मह्यम् ॥१६॥ भीमः ॥ भीमोऽहमागतोऽस्मि । आज्ञापयत्वार्यः । युधिष्ठिरः ॥ (सगद्गदं) वत्स ! न मेऽद्य दासस्याज्ञाशक्तिः ; तन्महाराजदुर्योधनस्समाज्ञापयति । भीमः ॥ (स्वगतं) हन्त ! अस्य धार्तराष्ट्रापसदस्याज्ञानुवर्तनमपि विधिना मदीये ललाटे विलिखितम् (कृच्छ्राद्दर्योधनस्याभिमुखीभूय-प्रकाशं) भीमोऽहमागतोऽस्मि । समाज्ञापयतु महाराजदुर्योधनः ॥ दुर्योधनः ॥ (सस्मितं) मद्वचनाद्रौपदीमित आह्वय ॥ युधिष्ठिरः ।) (स्वगतं) हन्त ! किमयमिदानीमाचरतीति न जाने ॥ अर्जुनः॥ (सवाष्पं स्वगत)- यस्यै नभस्स्थलनिबद्धमनन्यभेद्य क्षित्यर्पिते मकरयन्त्रमृजीपतैले । पश्यन् न्यपातयमहं विशिग्वेन कष्टां सैवेशीमनुभवत्यधुना दशां हा ॥१७॥ भीमः ॥ (सवाष्पं सगद्गदं) प्रिये ! यज्ञवेदीसम्भवे ! सत्वरमायाहि, महाराजदुर्यो-(इत्य|क्ते मूर्छितः पतति) (ततः प्रविशति विदुरपाणिमवलंब्य धृतराष्ट्रः) धृतराष्ट्रः ॥ वत्स ! विदुर ! वत्सेन सुयोधनेनानुचितमाचरितं कर्म ; हन्त !- अद्भुतांशुकम् । तान्कैतवे मम सुतोऽनुनपाण्डुपुत्रा- निनित्य सर्वमपहृत्य च दास्यकृत्ये । श्रुत्वा न्ययूयुजदिति प्रबलेऽद्य शोक- सिन्धौ निमग्नमचिराद्धृदयं मदीयम् ॥१८॥ तदद्य तान् दासभावान्मोचयामस्तावत् । तन्नय मां तं देशं ; यत्र मे वत्सो वर्तते ॥ 'विदुरः ॥ मन्दमागच्छत्वार्यः-(इति परिक्रामति) (सर्वेऽप्युत्तिष्ठन्ति) धृतराष्ट्रः ॥ (निपतिते भीमे पदस्स्वलनममिनीय सरभसमुपविश्य) कोऽयं ? कोऽयं ? (इति पाणिभ्यां परामशति) विदुरः ॥ (सबाध्यं सगद्दं च) आर्य ! भीमसेनोऽयं मूर्छितः सितितले शेते ॥ धृतराष्ट्रः ॥ (स्वगत) किमु भीमोऽयं १ (सहर्ष) बलावलिप्तोऽनुभवतु नाम (प्रकाशं-कृतकदुःखमभिनीय) कथं ! कथं ! भीमसेनोऽयम् । हा वत्स ! मृदुलोपधानशयनोचितां तनु कथमङ्ग ! रूक्षधरणीतलेऽकरोः । कृतराजसूयसवनस्य तेऽधुना कुत ईदृशी च महती विसंज्ञता ? ॥१९॥ (इति वस्त्राञ्चलेन वीजयति) भीमः ॥ (मन्दं लब्धसंज्ञ उत्थाय धृतराष्ट्रमवलोक्य ससम्भ्रमम्) आर्य ! भीमोऽहमभिवादये। दुर्योधनः ॥ (स्वगतं) हन्त ! अस्मत्कार्यस्य मूर्तः प्रत्यूहस्संप्राप्तः । (सर्वेऽप्युपसृत्य धृतराष्ट्र प्रणमन्ति) धृतराष्ट्रः ॥ वत्स ! भीम ! वेदानीं वत्सो धर्मपुत्रः १ स्मर्शय तं मत्पाणिना ॥
तृतीयोऽतः। ॥ भीमः ॥ अयमार्यः (इति युधिष्ठिरं धृतराष्ट्रपाणिना स्पर्शयति) धृतराष्ट्रः ॥ वन्स ! धन्योऽसि निवर्तितराजसूयाध्वरतया। महती भवता समार्जिता कीर्तिः । (इति पाणिना युधिष्ठिरं परामृशति) युधिष्ठिरः ॥ (सगदगदं)- यत्कृते सोदराः कष्टां दशामनुभवन्त्यमी । याज्ञसेन्यपि दुःखार्ता तं मां मा स्पृश पापिनम् ॥२०॥ (इत्यवनमितमुखस्तिष्ठति) विदुरः ॥ (स्वगत)- व्यसनं वदन्ति विबुधास्तु कैतवं मृगयां यदासवनिषेवणं तथा । अखिलं कदाऽपि तदृतं भवे दुवं तदिहाद्य हन्त ! फलितं मयेक्षितम् ॥२१॥ (सनिश्श्वास) भवतु नाम । को वा शक्नोति भवितव्यतां निवारयितुं ; अयं पुनः मूल् दुरात्मा दुर्योधनः ॥ अस्मिन्सुयोधने प्रोक्तो झुपदेशो निरर्थकः । जगद्धितैषिणा करसर्पऽर्पितपयो यथा ॥२२॥ धृतराष्ट्रः ॥ (ससंभ्रम) कथं कथं, याज्ञसेन्यपि दुःखार्ता ? (इति सनिश्श्वासमासनं पाणिनाऽन्विष्य समुपविश्य) वेदानी मा साध्वीशिरोमणि- र्याज्ञसेनी १ ॥ द्रौपदी ॥ (मन्दमुपसृत्य सगद्गदम्', अज्ज वंदामि । (इति प्रणमति)। धृतराष्ट्रः ॥ सशोकं सगद्दश्च भाषमाणेयं का वा प्रणमति १ ॥ युधिष्ठिरः ॥ इयमेव याज्ञसेनी ॥ (छाया) आर्य! वन्दे ।
४६ अद्भुतांशुकम् । धृतराष्ट्रः ॥- . 1 लक्ष्मीरिवासि सदनस्य ममायि ! वत्से ! दुःखं कुतो वद १ तवाद्य निवारयामि । को वा सतीमणिमिमां भवतीं निपात्य शोकाम्बुधौ सुखमुपैति निवेदयेह १ ॥२३॥ द्रौपदी ॥ (सबाष्पं, ' अज्ज ! हं वि अबळा दासीकिदमि ! धृतराष्ट्रः ॥ वत्स ! सुयोधन ! सुयोधन ! ॥ दुर्योधनः ॥ (स्वगत) हन्त ! इदानींत्वहमुपदेश्यम्संवृत्तः ? (उपमृत्य प्रकाश) आगतोऽस्म्याज्ञापयन्तु तातपादाः १ ॥ धृतराष्ट्रः ॥ कासि १ वत्स! सकाशमायाहि (इति दुर्योधनपाणि- मवन्दव्य) वत्स ! कथयामि ते कुशलिनीमेकां वार्ताम् । अपिनाम शृणोषि ? दुर्योधनः । यदि कुशलिनी श्रोतुमहमपि सिद्धोऽस्मि ।। धृतराष्ट्रः ॥ वत्स ! तर्हि, कदाऽप्यकुशलं ते किमु भावयेयम् १ ॥ दुर्योधनः ॥ तर्हि ! कथयन्तु भवन्तः (इत्युपविशति)। धृतराष्ट्रः ॥ (स्वगत) अपिनाम वत्सोऽयं ज्ञास्यति मदाशयम् ? भवतु, जानात्येव धीमानयम् । किमनया विचिकित्सया? तदेनमादिशामि । (प्रकाशं) वत्स! विमोचय दास्यादेतान्पाण्डुपुत्रान् । साध्वीमेनां याज्ञ- सेनीञ्च । अनुभवन्त्वतेऽपि राज्यसौन्यम् ।। दुर्योधनः ॥ (उच्चैर्विहस्य) इयमेव वा कुशलिनी वार्ता १ । स्यान्नाम विमोचयामः ! यद्यनुमन्येत नीतिज्ञो धर्मराजः ।। युधिष्ठिरः ॥ महाराज! धर्मच्युतंरिदं श्रेयो दास्यमस्माकमस्तु तत् । न त्यनामि प्रतिज्ञां तां न विभेमि च दास्यतः ॥२४॥ (छाया) "1 आर्य ! अहमप्यबला दासीकृताऽस्मि ।
तृतीयोऽङ्कः । भीमः ॥ (स्वगत) किमयमनवरतमपि “धर्मो धर्मः" इति धर्मपाश. निगडितो दुःखसमुद्रे निमग्नसस्वयम् , अस्मानपि मज्जयति ॥ धृतराष्ट्रः ॥ (सहर्ष स्वगतं) तात! धर्मपुत्र ! पुनरप्येवं कथय । (सानन्द) भवतु नाम ; रढीकरोम्येतदेव । (प्रकाश) वत्स ! युधिष्ठिर ! कथय तावत् प्रव्युतप्रतिज्ञोऽस्मीति ततस्स्वयमेव विमोचयति दास्याधुष्मान् ॥ (युधिष्ठिरः-धर्मव्युतरिति पूर्वाक्तमेव पठति) भीमः ॥ तर्हि किमु निरवधिकमस्माकं दास्यं, आहोस्त्रि सावधिकम् ? विदुरः ॥ अवधिरवश्यं कर्तव्यः ; नोचेको वा यावज्जीवं दास्य- माचरेत् ॥ दुर्योधनः ॥ (सक्रोध) किमुक्त ? “को वा यावज्जीवं दास्यमाचरेत्" इति ? यः पराजितो द्यूते स एव समाचरति ; किंमप्रसक्तयाऽनया चर्चया; पूज्यानामनुचिताऽत्र वाक्प्रवृत्तिः ; तज्जोपं तिष्ठन्तु भवन्तः ॥ धृतराष्ट्र ॥ वत्स! अलं कोपेन । चिन्तयतु भावानेव धर्मम् । अनुचित हि तेषां यावज्जीवं दास्यम् । तदवधिमादिशतु ॥ दुर्योधनः ।। (स्वगत) नायमवसरश्शाट्यस्य ; तदेवमादिशामि ; (प्रकाशं) तर्हि ; पञ्चहायनावधिकमतेषां दास्यं ; तन्मध्ये यदि भवेद्यः कोऽपि प्रकुपितः प्रतीपः, तदा तु-एकहायनमज्ञातवासः, ततश्च वनवासः, तत्र च नियमः पूर्ववत्-इति निर्धारितः । अत्र न कस्याप्युपदेशार्थमर्गळीभूतस्य वचनं वयं श्रोष्यामः--(इति साटोपमु थाय) कस्कोऽत्र भोः ! ।। (प्रविश्य कञ्चुकी) कञ्चुकी॥ अयमहमस्मि । दुर्योधनः ॥ प्रापय द्रौपदीमेनामवरोधम् । भो भीम ! त्वं ताव- दस्मच्छयनागारद्वारपालो भव । (इति साटोपं परिक्रम्य दुश्शासन-कर्ण- शकुनिभिस्सह निष्क्रान्तः) अद्भुतांशुकम् । काचुकी ॥ (दीर्घ निश्श्वस्य) अम्ब ! द्रौपदि ! समायाहि महाराजदुर्योधनान्तःपुरम् ॥ (द्रौपदी सबाष्पं भीमं पश्यन्ती मन्दं कञ्चुकिना सह निष्क्रान्ता) धृतराष्ट्रः ।। वत्स ! विदुर ! कथं गत एव सुयोधनः १ ॥ विदुरः ॥ अथ किम् ? ॥ धृतराष्ट्रः ॥ क्व याज्ञसेनी ? विदुरः ॥ सुयोधनावरोधं प्रवेशिता ॥ धृतराष्ट्रः ॥ कथं साऽपि गतैव १ (स्वगत) हन्त ! मूर्खस्सुयोधनः सतीमणिं तां कदाऽपि स्पृशेत् । तदनाय । तदिदानीमेव प्रबोधयामि तम् । (प्रकाशं) कथमस्मद्वार्ताऽप्यतिक्रान्ता तेन शठेन १ भवतु ; पुनरपि कथयामि ; (इत्युत्थाय) वत्स ! विदुर ! मार्गमादेशय ; (इति विदुर पाणिमवलंब्य निष्क्रान्तः) सत्वरं प्रविश्य दुश्शासनः ॥ महाराजदुर्योधनस्समाज्ञापयति- "युधिष्ठिरो धृतराष्ट्रपरिचर्यानिरतो भवतु । अर्जुनः कर्णानुचरः । नकुल- श्शकुनिमनुसरतु । सहदेवोऽवरोधद्वारपालस्तिष्ठतु"-इति । तन्महाराज- नियोगमशून्यं कुर्वन्तु भवन्तः ॥ युधिष्ठिरार्जुन-नकुल-सहदेवाः ॥ बद्धपरिकरास्सिद्धास्स्मः । (इत्यवनमितमुखा दुश्शासनेन सह निष्क्रान्ताः) भीमः ॥ (असे समारोप्य गदा दीर्घ निश्श्वस्य) अहो ! विधि- विलसितम्! जन्ये विजितराजन्यो विधिनाऽद्य वृकोदरः । दुर्योधनगृहद्वारपालकत्वे नियोजितः ॥१५॥ (इति निष्कान्तः) इति श्रीयशैलवासि-चालधन्वि-जग्गू-बकुळभूषणकवि- विरचिते अद्भतांशुकनाटके तृतीयोऽङ्कः ॥
॥ श्रीः ॥ चतुर्थोऽङ्कः॥ (ततः प्रविशत्यसतले समारोप्य गदा तत इतः पर्यटन द्वारपालो भीमः) भीमः ॥ (दीर्घ निश्श्वस्य क्षणमिव निश्चलं स्थित्वोमवलोक्य च) हन्त ! विधिविलसितम् ॥ सौधद्वारे महति सुचिरं यस्य सन्दर्शनार्थ भीताः प्रापुर्धरणिपतयस्सौचिदल्लत्वमत्र । सोऽयं भीमः पवनतनयो हन्त ! दुर्योधनस्य द्वारे शय्याभवनभितस्स्थापितोऽस्म्यद्य कष्टम् ॥१॥ (विचिन्त्य) म्यान्नामैतत ॥ तदा भर्तृत्यक्ता परपुरुषसेवासु वाटिता प्रिया दीर्घापाङ्गा निजगणविमुक्तव हरिणी । अपश्यद्दष्टया मां यदिति सभयं साश्रु च मुहु- स्सदैन्यं तन्मे हा हृदयमनिशं हन्त ! तुदति ॥२॥ हन्त ! वज्रसारनिर्मितमिव दृश्यते हृदयमार्यस्य वीक्ष्य दुःखजलधौ विनिमग्नां तां शिलाऽपि भवति स्म विलीना। आर्यचित्तमतिदारुणमारं नो विलीनमत एव कथञ्चित् ॥३॥ कष्टम् , धर्मपिशाचाक्रान्ततया जडस्य तस्य माहचर्यादस्माकमपि वज्रसारीकृतं हृदयं । हु ! अथवा किं तदुपालम्भेन, एवं स्थिते दैवदुर्विपाके । (विचिन्त्य) नास्माभिः कृतो राजसूयाध्वरः, किन्तु राजासूयाध्वरः । अत 7 १० अद्भुतांशुकम् । एवापतितैतादृश्यनर्थपरम्परा । भवतु नाम भवितव्यता । न किश्चिदपि चाञ्चल्यमावहति मे हृदयं (परितो विलोक्य) हन्त ! प्राप्तनिशीथतया गाढ- निद्रालिनिता आदिवसं विरचितकार्यकलापतया विस्मृत्यात्मदेहमपि तत्र- तत्र स्वपन्ति परिजनाः- स्तम्भोच्चमूलभसृणोपलदत्तशीर्षा नासाऽऽस्यगह्वरगळद्धरुघोररावाः । लालाजलाङ्कितकपोलतला निषण्णा उष्णीषगूढवदना भुवि शेरते हि ॥४॥ (वातायनेन गगनमवलोक्य) हन्त ! चन्द्रोऽप्युदित एव-तथाहि -- नभसि विभात्यसितेऽस्मिन् शरदिन्दु धवलमेघपिहिताङ्गः । मरकतसंपुटनिहित. स्सितलघुतूलावृतोऽन्छहीर इव ॥५॥ ममापि तावत्परिकर्षति पक्ष्मणी निद्रा । तन्निषण्ण एव क्षणमिव निद्रासुखमनुभवामि । (इति वीरासनोपविष्टो गदामवलम्ब्य पाणिना अपर करतलशायितचुबुको द्वारि निद्रां नाटयति) (नेपथ्ये नूपुरनादः) भीमः ॥ (मन्दमुन्मृज्य पाणिभ्यां नयनयुगळमुन्मील्य) अये ! कोऽयं निशीथे नूपुरनादः ? (इति नेपथ्याभिमुखमवलोक्य सविमर्शम् ) विरळदीपतया नातिस्फुटाङ्गलावण्या--. नीवीकलापमवनौ परिलम्बमान- मुद्धृत्य किञ्चिदिन वामकराम्बुजेन । आयाति मस्तकनिचोळितनीलचल- प्रान्तं परेण परिगृह्य च कास्विदेषा १॥६॥ अपिनाम द्रौपदी १॥
चतुर्थोऽ। (ततः प्रविशति यथानिर्दिष्टा द्रौपदी) द्रौपदी ॥ (मवाष्पं समावसं च परितो विलोक्य) ' अह्महे । जहुहिलेण दुरीकिदमि । अजुणो वि ण में पेक्वदि । णउळ-सहदेवा वि जेहभादुणो वअणगित्वहणे दिण्णमाणसा । ता केण वा अण्णेण कहइस्सं पवणतणअं विणा । होदु तं एव्व पेक्किसं । जइ सोवि कुष्पेदि तदा विसं वा गेण्हिअ उझिअपाणा हविस्सं (इते परिक्रम्य भीममवलोक्य) अह्महे ! सूरो वि एद्ध दुजोहणहदअस्प दुवारे अणिदो चिट्ठइ । ता उत्सप्पेमि । (इत्युपमृत्य सदैन्यं प्रणमति)॥ भीमः ॥ (निवl) कथं द्रौपदी ! प्रिये ! किमिदं निशीथे त्वमे- काकिनीह समागताऽमि ? नेदमुचितं दास्यास्ते, तद्गच्छ, यःकोऽपि प्रबुद्धः पश्येत् ॥ द्रौपदी ॥ (संस्कृतमाश्रित्य सबाप्प) नाथ ! पाहि मां । न पार- यामि दुर्योधनहतकहिंमां सोढुम् ।। भीमः ।। (सावेगं) किं दुर्योधनस्त्वां पीढयति १ ॥ द्रौपदी । (सबाष्पं) नाथ ! भानुमत्या दत्तं "शय्यागारे निधेहि" इति स्रक्चन्दनायुपभोगसामग्रीपरिपूर्ण भाननमादाय मयि गतवत्यां, पापस्स- दुर्योधनहतकः (इत्य/क्ते अवनमितबदना रुदती तिष्ठति) भीमः ॥ ततः किं १ कथय कथय । तेन किं कृतं? अपिनाम स्पृष्टाऽमि १ ॥ द्रौपदी ॥ (सगद्गदं) नाय ! नहि नहि । “ननु ! मुतनु ! कल- भाषिणि ! चन्द्रानने ! (छाया) 1 अहो ! बुधिष्ठिरण दूरीकृताऽस्मि । अर्जुनोऽपि न मां पश्यति । नकुलसहदेवा बपि ज्येष्ठभ्रानुर्वचननिर्वहणे इतमानमी । तत्केनान्येन कथयिष्यमि पवनतनयं विना । भवतु तमेव द्रक्ष्यामि । यदि भोऽपि कुप्यति ततो विषं वागृहीत्वोज्झित- प्राणा भविष्यामि । अहो ! शूरोऽप्यत्र दुर्योधनहसकस्य द्वारे अनिद्रस्तिष्ठति । सदुपसामि।
अद्भुतांशुकम् । पराजिताः पाण्डुसुताः प्रियास्ते दासीकृता स्तेषु कुतोऽनुरागः । ममेश्वरस्यायि ! विशालमङ्क- मलङ्कुरुष्वाद्य तवास्मि दासः" ॥७॥ इति निगदन्मन्मार्गस्यागळीभूय स्प्रष्टुमुद्यतोऽभवत् । भीमः ॥ (सक्रोधं) आः, अपिनाम स्पृहयति नृशंसो भवत्यै १ । प्रिये याज्ञसेनि!- मागास्त्वमद्य तस्याङ्क मादीया यात्वियं गदा । मत्पाणिलालिता स्वर्ग- सुखदा भवतीव या ॥८॥ (सशीर्षान्दोलन) हुं ! अथवा खपिति व ! युधिष्ठिरः प्रभुः विनिपात्यातिनिहीनदास्यकृत्ये । ननु ! गच्छ निवेदयाद्य तस्मै तव दुःखं स निवारयिष्यति द्राक् ॥९॥ द्रौपदी ॥ (सदैन्यमञ्जलिं बच्चा) नाय! अलममर्षेण । त्वयि प्रकुपित को वाऽन्यो मां रक्षिष्यति ॥ भीमः ।। (हस्तेन हस्तं निष्पिध्य स्वगतं) आः ! किं करोमि । हन्त ! अद्यामर्षकार्य कर्तुमपि त्यक्तुमप्यनीशोऽस्मि । हन्त ! उभयतः पाशः । किमेतत्सर्वमप्यार्ययुधिष्ठिरहृदयं नाधिरोहति ? भवतु नाम । (प्रकाश) ततः किं कृतं तेन दुरात्मना ? द्रौपदी ॥ तत्रान्तरे गान्धारी तत्रागत्य प्राहिणोन्मां निज- स्थानमेव ॥
चतुर्थोऽङ्कः । भीमः ॥ स्वादेतत् । ततःपरमेतावन्तं कालं तस्मान्न काऽपि किमु भीतिः ॥ द्रौपदी ॥ नाथ ! महती भीतिस्समुत्पन्ना। तत एव नाथं त्वां शरणं भजामि ॥ भीमः ॥ कथय किं तत् ? द्रौपदी ॥ नाथ ! दुर्योधनहतकलब्धप्रसादा काचिञ्चेटी मत्सकाशमासाद्याब्रवीत् । "महाराजदुर्योधनस्त्वामाज्ञापयति “श्वः पुन धृतमङ्गळवेषया मन्दारोद्यानं गत्वा मन्दारकुसुमान्यपचित्य तैरेव गुम्भितां हृदयङ्गमा स्रनं कनकभाजने निधाय तत्रैव भवत्या भवितव्यम् । अहं पुनरनुपदमेव तत्र मन्दिरे विराजमानस्य चक्रपाणेस्सपर्यायै समागमिष्यामि" इति । तदुषस्येव त्वया मन्दारोद्यानं गन्तव्यं” इति । तन्मया मन्दारोद्यानं गन्तव्यं संवृत्तम् । तत्र च स नृशंसः किं वा करिष्यतीति न जाने। तत्पाहि माम् । (इति रुदती चरणयोः पतति) ॥ मीमः ॥ (सामर्षमरुणतरं नयनयुगळं परिभ्रामयन् ) आः ! पाप नरापसद ! पश्येदानीं न भवसि । (इति संवेगं शय्याभवनद्वारार्ग पाणि निक्षिपति) ॥ द्रौपदी ॥ (ससम्भ्रमं) मा कवाटगद्धाट्य । अत्याहितमापतेत् । (इति भीमपाणिं गृह्णाति) ॥ भीमः ॥ (मक्रोध) प्रिये ! मुञ्च पाणिं । मा निवारय । पर्यङ्के शयान मद्य मत्कुगवनिष्पिष्य वामचरणाङ्गुष्ठेन निष्ठुरहृदयं नामशेषं करोमि । किं न नानासि मां जगत्प्राणप्राणपुत्रं १ शृणु तावत्- विदार्य गदयाऽनया परवधूजनाकांक्षिणं सुयोधनमिहाधमाधममहं धराया धुरम् । भरामि भुनपीठयोः कमठवद्धठान्निष्ठुरं युधिष्ठिरमनः परत्वनुसरन्तु तत्सोदराः ॥१०॥ (इति अडियगळं पाणिनोत्पाट्य गृह्णाति) अद्भुतांशुकम् । द्रौपदी॥ (अञ्जलिं बध्वा) नाथ ! अलममर्षेण । नायमवसरः कोपस्य । प्रदर्य तावदोषं तस्मिंस्ततः प्रतीपगमनं समुचितमिति प्रतिभाति मे । भीमः ॥ नर्हि किं कुर्मः ॥ द्रौपदी ॥ अहं तावदुषस्येव गमिष्यामि मन्दारोधानं तदा वृक्षान्तर्हितेन तत्र भवता भवितव्यम् । यदि स पापः प्रदर्शयेन्निमां नृशंसतां तदा मवानपि प्रदर्शयत्वमर्षकार्यम् ॥ भीमः ॥ प्रिये ! तर्हि स्त्रीवेषमहमेव परिगृह्य मन्दारोद्यानं गमि. ध्यामि । तत्र तदा मन्दालोकतया मयि न पुरुषत्वधीरुदेष्यति तस्य । स तु तदा चित्त चापल्यकार्य दर्शयिष्यत्येव । ततश्चानन्तरकरणीयं करिष्यते मया, तदवृक्षान्तरिता पश्य ॥ द्रौपदी ॥ (सलजं सस्मितं न) आर्यपुत्रस्य स्त्रीवेषोऽतीव हृदयङ्गमो भद्धि१॥ भीमः ॥ प्रिये ! किम्मां स्थूलकाय इति परिहामविषयं करोषि ? शृणु तावत---- स्त्रीवेषं परिगृह्य यद्ययमहं गच्छेयमस्माइहिः दृष्ट्वा विभ्रममस्य मे तु मुनयन्त्यक्ताखिलाशा अपि । कन्दर्पोरुशरानुविद्धहृदया मजेयुरुन्मत्तव- द्रागाब्धौ धृतराष्ट्रसूनुविषये का वा कथा कथ्यताम् ॥११॥ तद्गच्छ, सत्वरमपानय स्त्रीवेपसमुचितान्युपकरणानि ।। द्रौपदी ॥ तथाऽस्तु, (स्वगतं) मया चिन्तितमिदानीमुपनतम् । (इत्यवनमितमुखी सस्मितं निष्क्रान्ता) ॥ भीमः ॥ (सशीर्षान्दोलनं श्मश्रुकलापमङ्गुनिमुखेन परामृशन्गगने दत्तदृष्टिः) अरे ! रे! धार्तराष्ट्रपशो ? मन्दारोमानदेवतायै तावद्वध्यपशुतां नीतोऽसि । अथ हि- पतुः । परिरमणकैतवेन दोभ्या सुदृढं त्वां परिगृह्य मर्दयामि । दशदिक्षु विनिक्षिपन्तमक्षि शुभितं द्रक्ष्यति में प्रिया स्फुरन्तम् ॥१२॥ (स्त्रीवेषसमुचितोपकरणपाणिः प्रविश्य द्रौपदी) द्रौपदी ॥ (सस्मितं सलज्जं च) आर्यपुत्र ! समानीतान्युपकरणा न तदनुका भवत्वार्यपुत्रः (इत्युपकरणान्यर्पयति) ॥ (भीमश्चण्डातकोपरि परिचाय दुकूलमवगुण्ठितमस्तको वलयधारणं नाटयति) (द्रौपदी-मुक्तामालाभिर्भीमकन्धरामलङ्करोति) ॥ भीमः ॥ प्रिये ! सत्वरमुपनय दर्पणं, पश्यामस्तावन्मुखसौन्दर्यम् ।। (द्रौपदी-सस्मितं दर्पणमानीयार्पयति) ॥ भीमः ॥ (मुखमवलोक्य) हन्त ! पोटा संवृत्ताऽस्मि (इति श्मश्रु कलापं पाणिना पारामृशति) (द्रौपदी स्मयते) ॥ भीमः ॥ (विचिन्त्य) हुं! भवतु, दुकूलेन मुखमाच्छाद्य गच्छामि । (परितो विलोक्य) प्रिये ! पश्य सन्निहित उषःकाल:- तारुण्यव्यतिकरकान्तकायकान्ते- मुग्धाया नततनु ! पारशीकनार्याः । ऐद्रीय दिगनुकरोति गण्डभित्ति कान्त्याऽद्य प्रसमरशोणिमाऽवदाताम् ॥१३॥ तत्साधयामो मन्दारोद्यानमार्गमादेशय ! द्रौपदी ॥ (सस्मितं) इत इत एहि ॥ (भीमः-परिकामति)। द्रौपदी ।। आर्यपुत्र ! इदं मन्दारोयानं, पश्यत्वार्यपुत्रः ॥ !
अहुतांशुकम् ।। भामः ॥ (स्पर्शसुखमभिनीय) प्रिये! विकसत्तामरसकषायगन्ध कन्दळितदळितमन्दारकुसुभपरिमळ मिळित पराग भारमन्धर स्समूद्यमानप्रालेय शीतलशीकरस्समीरस्तनयवात्सल्यादिव मामालिङ्गति । (समन्तादवलोक्य) पतत्रिणोऽपि प्रबुद्धा एव, पश्य- निषण्णाश्शाखायां पवनचलितात्पत्रपटलात् क्षरद्भिः प्रालेयैस्सुतनु ! पतगास्सिक्तगरुनः । विधुन्वन्तः पक्षौ विवलितगळाखोटिपुटतः समीकुर्वन्त्येते निजनिजकुलायस्य पुरतः ॥१४॥ (नेपथ्ये) इत इतो देवः भीमः ॥ (आकर्ण्य नेपथ्याभिमुखमवलोक्य) प्रिये ! संप्राप्तो- धार्तराष्ट्रापसदः ॥ तद्वदामेनामादाय वृक्षान्तरिता भव । अहं पुनर्मन्दार- कुसुमान्यपचिनोमि । (इति तां संप्रेष्य पुष्पापचयं नाटयति) ॥ (ततःप्रविशति वनपालप्रदर्थमानमार्गो दुर्योधनः) दुर्योधनः ॥ गच्छ मन्दारक! मन्दारोद्यानस्य द्वार सावधान भवता स्थातव्यं, अन्तः कमपि मा प्रवेशय! ॥ वनपालः ॥ यथाऽऽज्ञापयति देवः (इति निष्क्रान्तः) दुर्योधनः॥ अपिनामेदमुपवनमलङ्कृतं स्यात्पक्ष्मलाक्ष्या ? (क्षितित- लमत्रलोक्य सहर्ष) आयातेव दृश्यते, यतः-- प्रालेयबिन्दुधवळीकृतशाद्वलेऽस्मि- चम्ये स्थले तुहिनशैत्यभियाऽतिमन्दम् । न्यस्ताऽपि नुन्नहिमबिन्दुतया स्फुटाङ्का सन्दृश्यतेऽतिहरिता पदपद्मपतिः ॥ १५ ॥ तदनेन विटपिवाटेनान्तर्हितगात्रो गत्वा पश्यामि तावकि करोति सा मृगाक्षीति (इति परिक्रामति) .. -- M चतुर्थोला। 1 (भीमः-स्तनमाच्छादयन्नभीक्ष्णं दुकलेनावगुण्ठितमस्तकः कुसुमगु- म्भनं नाटयति) द्रौपदी॥ (सस्मित स्वगत) ' अम्हहे! इद्धिआजणविन्ममं सुई दंसेदि अजउत्तो॥ दुर्योधनः ॥ (विलोक्य सहर्ष)- एकैकशः कनकभीजनतः प्रसून- मादाय कोमलकरेण मुहुर्नताङ्गी । वृन्ताहिताचलविशालविलोचनाब्जा मालां नवां रचयति स्पृहणीयशोभाम् ॥ १६ ॥ -तदुपसर्पामि (इत्युपसर्पति)॥ (भीमः-अर्धरचितां मालां विहाय सत्वरमुत्थाय सलजं सविभ्र- ममन्यतो गच्छति), दुर्योधनः ॥ (सादरं) प्रिये! कथे वा प्रालेयव्यतिकरजडे शादपटले निधायांघ्रि कान्ते ! किसलयनिभं याप्ति ? सुतनु । गृहाणैनां मालां रचय परिपूर्णामुपयम स्रगेषा नः कण्ठे कलयतु भवत्या विनिहिता ॥ १७ ॥ (इत्यसमग्रां मालामादायानुगच्छति)। भीमः ॥ (स्वगतं सस्मितं) साधु, दुर्योधन ! साधु, सम्यगमिहितं भवता “ उपयमं" इति तत्सत्यमेवाचिरादेव त्वां स्त्रगियं नयति यमसमीपम् ।। (द्रौपदी-स्मयते) (भीमः-भयं नाटयति) (1) (छाया) अहो! स्त्रीजनविभ्रमं सुष्ट दर्शयति-आर्यपुत्रः। 8 1 १८ महुतांशुकम् । - दुर्योधनः ॥ मयि सति तव भीतिब्रूहि कमान्मृगाक्षि ! प्रकटय मुखचन्द्रं न्यक्कृताम्भोजशोमम् । असमशरशरौ धैर्जातमत्यन्तता मम हरतु भवत्यास्त्वङ्कपाळि: कृशाङ्गि १ ॥१८॥ प्रिये ! अलं साध्वसेन- कुसुमापचयश्रान्तां ननु ! बाहुलतां तव । संवाहयामि दासोऽहं मददं तदलङ्कुरु ॥ १९ ॥ (इत्यगळीभूय ग्रहीतुमिच्छति)। (भीमः-सभयमन्यतो गच्छति)। दुर्योधनः ॥ कलक्वणितमञ्जुलैर्विविधपक्षिभिर्दन्तुरं मनोहरसुमावळिप्रसृतमन्दगन्धाञ्चितम् । समीरपरिनर्तितव्रततिजालदोलायितं लतागृहमुपैहि मद्भयविलोलरम्येक्षणे ! ॥२०॥ भीमः ॥ (सविभ्रमं सलज्जं स्त्रीसमुचितकण्ठेन) जइ मह वळूह- जणो एवं उत्तंतं सुणोदि तदा कुप्पेदित्ति वेवइ हिअअं ॥ द्रौपदी॥ (स्वगतं सस्मितं) अजउत्त! तं सच्चं एव्व । तुह तत्तो महदी भीदी खु१॥ दुर्योधनः ॥ (स्वगतं सहर्प) इयमायातेव मदीयं पन्थानम् । यतो मधुरमधुरया गिरा प्रकाशयति निनाशयं (प्रकाशं) कलभाषिणि !~ दासेभ्यः पाण्डुपुत्रेभ्यः कुतोऽद्यापि भयं तव ।। आत्तधैर्या कृपां कान्ते ! दासेऽस्मिन्नाशु दर्शय ॥२१॥ (अया) 1 यदि मम वल्लभजन एतं वृत्तांतं शृणोति तदा कुप्यतीति वेपते हृदयं । आर्यपुत्र ! तत्सत्यमेव, तव तस्मान्महती भीतिः खलु ।
चतुर्थोऽः । भीमः ॥ जइ एवं, ता एद्ध किवि पुच्छिस्सं ॥ दुर्योधनः ॥ (सानुनयं) पृच्छ सुन्दरि । धन्यो भवेयम् ॥ द्रौपदी ॥ (स्वगतं सस्मित) - अजउत्तो किं वा पुच्छइ । सुंणोमि दाव॥ भीमः ॥ ता भाणुमदीए ठाणं तुए मह देदव्वम् ।। द्रौपदी ॥ (विहस्य स्वगत) — साहु, णाह ! साहु, सुहु मंतिदं । होदु, एदस्स एसो किं वा उत्तरं देदि । पेकिस्सं ॥ दुर्योधनः ॥ (सत्वरं) किमुक्तं १ प्रिये ! “भानुमत्यास्थानं त्वया दातव्यं"इति । शृणु तावत्- त्वत्पादसंवाहनसक्तपाणौ मयि प्रिये ! भानुमती तदा सा । करे दधाना व्यजनं नताङ्गी दासीव ते स्थास्यति पार्श्व एव ॥२२॥ तदेहि- - गाढा लिङ्गनभुग्नचूचुककनद्वक्षोजकुम्भाऽधुना मत्कण्ठार्पितदीर्घबाहुलतिका प्रोद्भिन्नरोमाञ्चिता । कान्ते ! स्वर्गसुखं तवावरसुधादानेन दीनाय मे कन्दर्पोरुशरानुविद्धहृदयायापादय द्रौपदि ! ॥२३॥ (इत्यालिङ्गति) (भीमः-सरभसं स्वोङ्गं धुनोति) (या) 1. यथेवं तर्हि अत्र किमपि प्रक्ष्यामि । 2. आर्यपुत्रः किं वा पृच्छति । शृणोमि तावत् । 3. तार्ह भानुमत्यास्थानं त्वया मद्यं दातव्यं । 4. साधु, नाथ ! साधु, सुष्टु मन्त्रितं भवत्वेतस्य एष किंवोत्तरं ददाति द्रक्ष्यामि ।
अनुतांशुकम् । दुर्योधनः ॥ (सुदूरे निपत्य सवैलक्ष्यं सशकं सत्रासं स्वगत) हन्त ! किमिदराबलाया ईशी शक्तिः १ (सविमर्श) स्यादपि क्षत्रियपुत्री खल्वियं (प्रकाश) प्रिये ! किमिदमभ्यर्थिताऽप्येवं मयि निघृणाऽसि ! (इति गाढा- लिंगनमुग्नेति पूर्वोक्तमेव पठन्पुनरप्युपसर्पति) ॥ द्रौपदी ॥ (स्वगत) 1 अह्महे ! अज्जवि वम्महसरग्गिढज्जतहिअएण एदेण अजउत्तो ण ण्हादो । ता एव एव्वं पुणोवि जण्णसेणीबुद्धीए अजउत्तं उक्सप्पेइ एसो॥ भीमः ॥ (सक्रोधं गाढतरमालिङ्गय) अरे! धार्तराष्ट्रापसद ! पर वधूजनबद्धादर ! नराधम ! किमुक्तं भवता ? "गाढालिङ्गनभुग्नचूचुककनद्वक्षोजकुम्भाऽधुना मत्कण्ठार्पितदीर्घबाहुलतिका प्रोद्भिन्नरोमाञ्चिता । कान्ते ! स्वर्गसुखं तवाधरसुधादानेन दीनाय मे कन्दर्पोरुशरानुविद्धहृदयायापादय द्रौपदि !" ॥२३॥ इति खलु ? अरे मूर्ख ! नाहं द्रौपदी, भीमोऽस्मि, पश्या- धुनैव स्वर्गसुखं ददामि ते (इत्यधः पातयति)। दुर्योधनः ॥ (सत्वरमुत्थाय स्वगत) हन्त ! वञ्चितोऽस्मि तया । करोम्यद्य (विचिन्त्य सहर्ष) स्मृतमिदानी (प्रकाशं) कःकोऽत्र भोः ॥ (प्रविश्य वनपालः) वनपालः ॥ आज्ञापयतु देवः ॥ दुर्योधनः॥ सत्वरं मद्वचनादाह्वय युधिष्ठिरार्जुन-नकुल-सहदेवान् ।। वनपालः ॥ यदाज्ञापयति इति निष्क्रान्तः)॥ दुर्योधनः ॥ (सक्रोध) अरे ! वैधेय ! दासस्य ते कियद्विकत्थनं ? विस्मृता किं दास्यवृत्तिः? पश्य तावदधुना कालयामित्वामरण्यम् ॥ (गया) 1. अहो ! अद्यापि मन्मथशरामिदह्यमानहृदयेनैतेनार्यपुत्रो न झातः । तस्मादेवं पुनरपि यासेनीबुध्याऽर्यपुत्रमुपसर्पत्येषः ।
चतुर्थोऽः। -- (ततः प्रविशन्ति युधिष्ठिरार्जुन-नकुल-सहदेवाः) युधिष्ठिरः ॥ (स्वगत) किमर्थ दुर्योधनेन समाहूतास्स्मः १ अपि- नामाभ्यपतवृकोदरः प्रकुपितो दुर्योधनम् १ ॥ (सर्वेऽप्युपसृत्य भीममवलोक्य विहसन्ति) युधिष्ठिरः ॥(सस्मितं) वत्स! भीम! किमिदं १ कोऽयं वेषः १ ॥ भीमः ।। (सामर्ष) आर्य ! भवन्माहात्म्यकारितोऽयं स्त्रीवेषः ।। युधिष्ठिरः ॥ वत्स ! कोपं मा कार्षीः, शान्तिमवलम्बस्व ॥ भीमः ॥ (सामर्ष सोत्कंपं च) कथं मनसि शान्ति, भवत्यार्यातिनिष्ठुरम् । परस्त्रीसङ्ग्रहासक्तं विलोक्यैनं नराधमम् ॥२४॥ (इति कृतमुष्टिदुर्योधनमनुधावति) दुर्योधनः ।। (सक्रोध) अरे ! मूर्ख ! अयं न भवसि (इति भीम- मभिपतति) ॥ युधिष्ठिरः ॥ (उभावपि निवार्य) वत्स! भीम ! कथय किमिदानी- ममर्षस्य कारणम् ? ॥ भीमः ॥ याज्ञसेनी कथयति, (पाश्चमवलोक्य) ननु ! याज्ञसेनि ! इत एहि ॥ द्रौपदी ॥ (उपसृत्यावनमितमुखी सवाष्प) अजउत्तो एव भणा- दि । णाहं तं भणिदुं वि पारेमि ॥ दुर्योधनः ।। (स्वगत) हन्त ! इयमप्यत्रैव (सकोध) स्यानाम । विलोभनशीलाया अस्याः करिष्याम्यनुरूपामवज्ञाम् ।। युधिष्ठिरः ॥ (स्वगत) हन्त ! इयमप्यत्रैव (प्रकाश) वत्स ! प्रभाते किमर्थमियमिहागता? ॥ भीमः ॥ (सामर्ष) आज्ञप्ता च दुरात्मनाऽनेन ॥ (छाया) 1. आर्यपुत्र एव भणति नाहं तद्भणितु मपि पारयामि ।
६२ अद्भुतांशुकम् । - युधिष्ठिरः ॥ (स्वगत) आः ! कई सुन्दरीणां तरुणीनां सती- नामवलानां परगृहे दास्य कृत्यं (प्रकाश) कथय किमर्थमाज्ञप्ता १ ॥ भीमः ॥ (सक्रोध) निर्लजो दुरात्माऽयं (इति वक्तुमारभते) दुर्योधनः ॥ (सक्रोधं) अरे ! मूर्ख! तिष्ठ तावदलं विकत्थनेन । दासस्य कियद्वा वचोरिजृम्भगम् (युधिष्ठिरमवलोक्य)- अयं दुरात्माऽद्य मम प्रतीपो यतोऽत्र तस्माद्विपिनं भवन्तः । आसाद्य संवत्सरमेकमर्थ- प्रदानतस्स्युः परिमुक्तदास्याः ॥२५॥ युधिष्ठिरः ॥ यथाऽऽज्ञापयति महाराजः (इति गन्तुमुथुते) ॥ दुर्योधनः ॥ हन्त ! विस्मृतम् । प्रथमं तावद्वत्सरमेकमज्ञातवासो हि भवताम् ॥ युधिष्ठिरः ॥ तथा (स्वगतं) हन्त ! सर्वधा विधिनाऽधः पातितास्स्स्मः (इति सभार्योऽनुजैस्सह निष्क्रान्तः) । दुर्योधनः । दुर्वाससं सपर्यया तोषयित्वा पाण्डवैरान्तिानां द्रवि- णानां सङ्ग्रहणार्थ प्रेषयामि तावत्। (श्मश्रुकलापमङ्गुळिमुखेन परामृशन्गगने बवा) अरे ! द्रौपदि ! किं मां न जानासि दुर्योधनम् १ ॥ द्रव्याभावात्पुनरपि पतीन् दासभावे नियोज्य प्रागल्भ्यात्ते प्रकटितमहावञ्चनायास्सभायाम् । राज्ञां मध्ये सपदि वसनं कर्षयित्वा पतीना- मग्रेऽवज्ञां सुतनु ! महतीं कारयिष्याम्यहन्तु ॥२६॥ (इत्युद्धतं परिक्रम्य साटोपं निष्क्रान्तः) । इति श्रीयदुशैलवासि-बालधन्त्रि-जग्गू-वकुळभूषणकवि- विरचिते अद्भुतांशुकनाटके चतुर्थोऽङ्कः ॥
॥ श्रीः ॥ पञ्चमोऽङ्कः॥ ! (ततः प्रविशति वनोचितवेषो भुजशिखरविनिहितगदो भीमसेनः) भीमः ॥ (नेपथ्याभिमुखमवलोक्य)- तरोश्शाखा दीर्घा सुतनु ! भवतीवात्र विनता धरेयं गर्ताढ्या ललितगमने ! कण्टकचिता । इतस्तस्मादेहि क्षितिनिहितदृष्टिस्तु पुरतो निधायाङ्किं मन्दं मृदुलतरशादे वनपथे ॥१॥ (ततः प्रविशति क्षितितलविनिहितदृष्टिद्रौपदी) द्रौपदी ॥ णाह ! दुक्करं खु रणगमणं ।। भीमः ॥ (सानुतापं) प्रिये ! किं कुर्मः १ अज्ञातवासार्थमस्माभिः- उषितं विराटभवने तु हायनं पिहितात्मपौरुषमनोहराकृति । ननु शौर्यनुग्रहबलात्करग्रहोऽ- प्यभिमन्युमत्स्यसुतयोरभूत्तदा ॥२॥ द्रौपदी॥ (सोत्कंपं) अह्महे ! अजवि तं जिंस कीअभं सुमरिअ वेवइ मह हिअअं ॥ भीमः ॥ प्रिये ! किमद्यापि तस्माद्रीतिः ? प्रचण्डमुष्टयाहतिघूर्णिताक्षं करात्करे कन्दुकवन्निपात्य । गतासुमेवाकरवं नृशंसं तं कीचकं सुन्दरि ! ते समक्षम् ॥३॥ (छाया) 1. नाथ ! दुष्करं खल्वरण्यगमनम् । 2. अहो! अद्यापि तं नृशंसं कीचकं स्मृत्वा वेपते मम हृदयम् ।
६४ अद्भुतांशुकम् । द्रौपदी ॥ (सवाष्पं) - महकए अज्जउत्तेण महत दुवं अणुहूद इदोवरं रणे वि किं किं अणुहोदव्वं ण जाणामि ॥ भीमः ॥ प्रिये ! अलं चिन्तया । तस्यैव भगवतः कृष्णस्यानुग्रहाद्वन- वासोऽपि सुसुखं प्रचलिष्यति ॥ द्रौपदी॥ (नासाविकासमभिनीय) को एसो ? अपुव्वो दियो पुप्फामोओ एत्थ पसरेइ १ ॥ भीमः ॥ प्रिये ! सौगन्धिककुसुमामोदोऽयम् ॥ द्रौपदी ।। (सहर्ष) अह्महे ! कआवि ण मए एआरिसो पुप्फ- गन्धो अणुहूदपुव्वो ॥ भीमः ॥ पक्ष्मलाक्षि ! दिव्यभूप्ररूढानि तानि कुसुमानि स्पृहणीय- वर्णानि च ॥ 4 द्रौपदी ॥ (सानुनयं) अजउत्त ! तात मह आणीअ देहि। भीमः ॥ (सस्मितं) मुग्धे ! किमु मन्यसे तानि चैत्ररथरूढानि कुसुमानि सुसंपादानीति १ ॥ द्रौपदी ॥ (सस्मितं) ' अज्जउत्त! तुए दाणिं धणं आणे, धणदेण जुद्ध करणिजं खु । ता काळणं विणा उआसीणेण सह ण करणिज्ज जुद्धं । ता मए दाणिं काळणं विण्णाबिदं । जइ तुर ओहरीअदि तं पुष्कं तदा कुवि दो धणदो जुद्ध कादं आअच्छइ ॥ भीमः ॥ (सहर्ष) प्रिये! साधु मन्त्रितं । ते तु सचिवतासमुचिता धीरापादयत्यपरिमितमामोदम् । तदद्य- (छाया) 1. ममकृते आर्यपुत्रेण महदुःखमनुभूतं । इतःपरमरण्येऽपि किं किमनुभवितव्यं न जाने. 2. क एषः? अपूर्वो दिव्यः पुष्पामोदोऽत्र प्रसरति ? 3. अहो! कदाऽपि न मया एतादृशः पुष्पगन्धोऽनुभूतपूर्वः. 4. आर्यपुत्र! तहि तन्मद्यमानीय देहि. 5. आर्यपुत! त्वयेदानी धनमानेतुं धनदेन युद्धं करणीयं खलु । तहि कारणं विनोदासीनन सहन करणीयं युद्धं, तस्मान्मयेदानी कारणं विज्ञापितं । यदि त्वयाऽपहियते तत्पुष्षं तदा कुपितो धनदो युद्ध कर्तुमागच्छति. -.
पञ्चमोऽङ्कः । ६५ कौबेरान गदया विदार्य समरे वीरान्कराळानहं रोपारब्धनियुद्धमजनयने ! यक्षाधिपं क्ष्मातले । क्रीडाकन्दुकवन्निपात्य सुहृदा दत्तस्सुमैस्तेन तै- श्शीर्ष ते द्रविणैश्च धर्महृदयं चामोदयाम्यञ्जसा ॥४॥ तदत्रैव तिष्ठ तावदचिरेण विनित्य कुबेरमहमागमिष्यामि ।। द्रौपदी ॥ (सहर्ष) 'जेदु अज्जउत्तो । एत्थ एव्व चिहिअ तुह आअमणं पेक्किसं ॥ भीमः ॥ प्रिये ! मामागतमवेहि । अवहिता भव तावदत्र विपिने दुर्योधनहतकपक्षीयो यः कोऽप्यापतेत् । (इति निष्क्रान्तः) ॥ (द्रौपदी-परितः पश्यन्ती शिलातले समुपविशति) (ततः प्रविशति जयद्रथः) जयद्रथः ॥ आज्ञप्तोऽस्मि महाराजदुर्योधनेन, “कथमपि बला- द्रौपदीमपहृत्योपनय” इति । विपिनेऽस्मिन्पर्यटता मया युधिष्ठिरपर्णशालाया. मन्विष्टाऽपि न दृष्टा। अयमेवावसरस्तामपहर्तु, यतो न सन्निहितौ भीमार्जुनौ । सा पुनर्न लब्धा । क वा स्यान्मृगाक्षी? । (दीर्घ निश्श्वस्य) हन्त ! निरर्थक जातमिदानीन्त्वटवीपर्यटनं । किं करोमि । (इति परिक्रम्य द्रौपदीमवलोक्य सहर्ष) ॥ किसलयमपचित्य वन्यवल्लया नखरमुखेन मुहुर्विपाटयन्ती। अवनमितमुखीह निर्निमेषा द्रुपदसुता वनदेवतेव भाति ॥६॥ (सवैलक्ष्य) हन्त ! एनामवलोक्य कस्य वा नोदेति स्पृहा ? ॥ नूनमस्यास्तु सौन्दर्यलोलुपैः पाण्डुनन्दनैः । एकैव पञ्चभिर्भार्या कृतेयं सुन्दरीमणिः ॥६॥ (छाग) 1. जयत्वार्य पुलः । अतैव स्थित्वा तवागमनं द्रक्ष्यामि । 9 ६६ भहुतांशुकम् । -- भवतु नाम पृष्ठतो गत्वाऽ त्यायते लोचनकुवलये पिधाय पाणिभ्या क्षणमिव क्रीडामि (इति मन्दमुपसर्पति)। (द्रौपदी-शुष्कपर्णशब्दश्रवणमभिनीय सभयं झडित्युत्थाय परितः पश्यति) जयद्रथः ॥ (सत्वरं वृक्षान्तरितो भूत्वा)- प्रतिवृक्षमियं भियाऽतिलोलं नयनेन्दीवरमाशु निक्षिपन्ती। तरळायतफालकुन्तलाळि- नवनीलोत्पलमातनोति कान्त्या ॥७॥ तनिवारयामि तावद्भयमस्याः । (इत्युपसृत्य) भीरु ! न भेतव्यं न भेतव्य- नितम्बभरमन्धरे! नमितकन्धरे ! सुन्दरि ! क्षणं रणरणाकुलक्वणितकङ्कणालकताम् । प्रवेष्टयुगळी तव प्रसवमालिकासन्निभां निधेहि भुजपीठयोश्चरणदासदासस्य मे ॥८॥ (इति स्प्रष्टुमुपसर्पति)। द्रौपदी ॥ (समय) ' हा अजउत्त ! परित्ताअदु परित्ताअदु । एसो दुलो मं गहीदुकामो उक्सप्पेइ । (इत्यन्यतो गच्छति)। जयद्रथः ॥ (अर्गळीभूय) प्रिये ! मा मैषीः । क्व गच्छति ?- पार्श्व गर्तस्सुतनु ! निशितैः कण्टकैर्दन्तुरेयं वन्या भूमिस्स्थपुटितमहाग्रावकूटोऽग्रतस्ते । वल्मीकोऽयं चरणनिकटे पृष्ठदेशे निकुञ्जः पादाम्भोज कथमिव महाकाननेऽस्मिन्निधत्से १ ॥९॥ तदेहि । मृदुलास्तरणं मदीयं स्यन्दनमलङ्करु । (छाया) 1. हा आर्यपुत्र ! परित्रायता । परित्रायतां एष दुष्टो मां ग्रहातुकाम उपसर्पति ! ।
पञ्चमोऽङ्कः। १७ द्रौपदी॥ (संस्कृतमाश्रिय) अरे ! रे ! मूर्ख ! मा स्पृश मां। गच्छ दूरम् ॥ जयद्रथः ॥ प्रिये ! मा कुप्य तावत् । क्रूरसत्वाकरे घोरे कानने सुन्दरानने ! तापसीव कथं बाले ! निवत्ससि ! निवेदय ॥१०॥ तदेहि मदङ्कम् । नयामि भवतीं सौधम् । द्रौपदी ॥ (सकोव) अरे ! नराधम ! नयति त्वां पवनतनयत्त . पनतनयम् (इति धावितुमुद्युते ) ॥ जयद्रथः ॥ मानिनि ! व गन्छसि ? यदि नारोहसि मदीयं स्यन्दनं, बलाद्धम्मिल्ले कृतकरोऽहमारोपयामि । तदेहि सामोक्त्त्यैव । द्रौपदी॥ (सभयं) हा नाथ ! बकनिषूदन ! क वर्तसे १ नराधमोऽयं- मां बलात्स्पृशति । तत्पाहि (स्वगत) हन्त ! अर्जुनोऽपि न सन्निहितो दुष्टमेनं दमयितुम् ॥ (ततः प्रविशति रथाधिरूढोऽर्जुनः) अर्जुनः॥ मातले ! काननेऽस्मिन्योषित आर्तनाद इव श्रूयते । तदेहि, पश्यामः । (इति रथादवतीर्य मातलिना कतिचित्पदानि गच्छति) मातलिः ॥ आयुष्मन् ! पश्य पश्य, द्रौपदी नराधमोऽयं जयद्रथो निरुणद्धि ।- यतो यतो भिया साध्वी याति सोऽपि ततस्ततः । अनुयाति स्थिरो लोहोऽप्ययस्कान्तमणिं यथा ॥११॥ अर्जुनः॥ (सामर्ष) अरे! नराधम ! अयं न भवसि । (इति गाण्डीव- मादायानुधावति) (जयद्रथस्सभयं निष्क्रान्तः) अर्जुनः॥ आः पाप ! नृशंस ! व गच्छसि ?- अद्भुतांशुकम् । पातालं विशसि किमु ? त्रिविष्टपं वा ? यक्षेशं शरणमुपैषि १ शङ्करं वा । एते ते नहि शरणं भवन्ति तस्मा- न्मबाणो यमशरणं नयत्ययं त्वाम् ॥१५॥ (इति धनुर्नियोजितसायको निष्क्रान्तः) मातलि ॥ (नेपथ्याभिमुखमवलोक्य) अहो ! भिया जयद्रथो- ऽर्जुनं शरणं प्रपन्नः, (विहस्य) हन्त ! चरणे निपतितस्य कृपया तस्य मुण्डं मुण्डितत्रिपट्टकं कृत्वा तं ज्यासंयतकरयुगळं केशपाशे गृहीत्वा प्रति. निवृत्त एवार्जुनः ॥ (ततः प्रविशति यथानिर्दिष्टोऽर्जुनः) अर्जुनः ॥ (सैन्धवं स्यन्दने निपात्य) प्रिये ! कुतस्त्वमेकाकिनीह समायाताऽसि ॥ द्रौपदी ॥ (सबाष्प) | अज्ज उत्त ! अजउत्तेण पवणणदणेण आअदा ॥ अर्जुनः ॥ तर्हि वेदानीमायः १ द्रौपदी॥ मए पत्थिदो सोअंधिअपुष्पं आणेदुं में एआइणिं एत्थ उझिअ धणदं जेतुं गदो ।। अर्जुनः ॥ (सोल्लुण्ठन)- आशापाशनिबद्धस्य मोहाविष्टस्य च प्रिये ।। कृत्याकृत्यविवेको यन्नवोदेतीति तद्भवम् ॥१३॥ यतस्त्वदाशापूरणमेव परमलाभं मन्यमानस्सत्वार्यो भवतीमेकाकिनी- मरण्ये विहाय गतः । यतश्च त्वमपि कुसुमाशया निर्भीकाऽत्र स्थितवती । (द्रौपदी-सलजं शिरो नमयति) ॥ (छाया) 1 आर्यपुत्र ! आर्यपुत्रेण पवननन्दनेनागता । 2. मया प्रार्थितस्सौगन्धिकपुष्पमानेतुं मामेकाकिनीमतोज्झित्वा धनदं जेतुं गतः।
पञ्चमोऽः | १९ अर्जुनः ।। भवतु नाम । रथमारोहतु भवती ॥ (द्रौपदी-रथारोहणं नाटयति) ॥ अर्जुनः ॥ (रथे समुपविश्य) मातले ! प्रेरय वाहान् ॥ (मातलि:-वाहान्प्रेरयति)॥ द्रौपदी।। (सभयमर्जुनबाहुमवलम्ब्य) अजउत्त ! कआ वि ण मए एआरिसो रहवेओ दिट्ठो। णीसासूमासं काहुँ वि ण पारेमि ॥ अर्जुनः ॥ भीरु ! पाकशासनप्रेषितो दिव्योऽयं रथः, पश्य वियति धावति-- जीमूता नबतूलशुद्धलघवश्वकोत्यवातैरिमे विक्षिप्ताश्च सुदूरमाशु शकलीभूता जवात्स्यान्दनात् । वाहानां रसनाखलीनचलनव्याघर्षणात्सृक्वतो निर्गच्छतिसतफेनपिण्डपटलभ्रान्ति समातन्वते ॥१४॥ मातलिः ॥ (अधो विलोक्य) आयुष्मन् ! आयातस्स्यन्दनोऽयं युधिष्ठिरपर्यशालोपकण्ठम् । तदवतारयाम्येनं (इति रथावतरणं नाटयति) ॥ द्रौपदी॥ (भूमिमवलोक्य । : अञ्चरिअं ! अच्चरिअं ! अजउत्त ! पुढम एमा पुढवी तुहिणंदरिदा विअ ठिदा । दाणि सपन्वदपाअवा विसाळा सुट्ठ-दीसदि ॥ अर्जुनः॥ प्रिये ! पश्य, पश्य- यथा यथा शताङ्गोऽयं वेगादवतरत्यधः । तथा तथा समीपं नः क्षमाऽऽयान्तीव दृश्यते ॥ १५ । मातलिः॥ आयुष्मन् ! अवतीर्णोऽयं रथः । (छाय) 1. आर्यपुत्र ! कदाऽपि न मयतादृशो रथवेगो दृष्टः । निश्वासोच्छ्वासं कर्तुमपि न पारयामि ।। 2. आश्चर्यमाश्चर्य ! आर्यपुत्र! प्रथममेषा पृथिवी तुहिनान्तरितेव स्थिता इदानी सपर्वतपादपा विशाला सुष्ठु दृश्यते ।
अद्भुतांशुकम् । (ततः प्रविशति पर्णशालाभ्यन्तरोपविष्टो वनोचितवेषो नकुल-सहदेवाभ्यां सह युधिष्ठिरः) युधिष्ठिरः॥ वत्स! नकुल ! कन्दमूलफलाहरणाय प्रियया सह गतो वत्सो भीमः, नायाप्यागतः । पश्य, नभोमध्यमधिगतवानुष्णरश्मिः- गाहन्ते तपनातपेन नितरां तप्ता वराहास्सर- स्सारङ्गयस्सहसा विशन्ति विटपिप्रच्छायमात्माकैः । मल्लूका विवृतास्यगह्वरगळल्लाला निकुञ्ज स्थिता- श्रूयन्ते गवयोच्चकाहळगळध्वानास्सुदूरे वने ॥१६॥ तत्पश्य तं भीमसेनम् ॥ नकुलः ॥ यथाऽऽज्ञापयत्यायः, (इति द्वारदेशमागत्यार्जुनमवलोक्य सहर्ष प्रणम्य मातलिद्वितीयं द्रौपद्याऽन्तः प्रवेशयति अर्जुनः॥ वत्स ! नकुल ! नराधममेनं सैन्धवं रथादानय । नकुलः ॥ तथा (इति परिकामति)। अर्जुनः ॥ आर्य ! अर्जुनोऽयं प्रणमति (इति प्रणमति) युधिष्ठिरः ॥ (मातलिमवलोक्य सहर्पमुत्थाय) अपिकुशलं भवतः ? (इत्याप्सनं ददाति)। मातालः ॥ उपविशत्वार्यः । (युधिष्ठिरः-उपविशति) (मातलिस्सहार्जुनेनासने समुपविशति) । युधिष्ठिरः ॥ कुशलमपि सुराणा ? वज्रिणस्सानुजस्य ? प्रबलतरबलेभ्यो दानवेभ्यो न भीतिः । किमु कथय सकाले भूसुरैर्दीयते वा हविरनघ ! ततस्त किं प्रसन्ना नरेषु १ ॥१७॥ मातलिः ॥ आर्य ! मूर्तिमति धर्मे त्वयि स्थिते कथं वा न भवत्ये- तत्सर्वम् १॥ - ५ पञ्चमोऽE: युधिष्ठिरः॥ मातले ! जितमनस्कानामपि भुनीनां चित्तचाञ्चल्य- जननी खल्वमरावती । अपिनामोपात्तविवेकोऽयं स्वकार्यैकनिरतः पाकशासन प्रसादपात्रमासीत् ? मातलिः ॥ (विहस्य) शृणोत्वार्यः-- ज्योतिष्टोममखान्विधाय विधिवत्स्वर्ग गतानामितो यस्या दर्शनमेकदा क्षणमपि स्या?लभं सा पुनः । चञ्चद्दिव्यविभूषणाश्चिततनू रम्यांशुका वशी शश्वदर्शितविभ्रमा त्वदनुजे प्रादर्शयत्स्वाशयम् ॥१८॥ युधिष्ठिरः॥ (सावेगं स्वगत) तरुणस्यास्य स्वर्गवासोऽनर्थहेतुरिति प्रागेव निर्धारित मया । (प्रकाशं) अपिनाम पतितमनेन तस्या विभ्रमवागु रायाम् ॥ M- मातलिः ॥ (कौं पिधाय) शान्तं पापं, शान्तं पापं । आर्य ! कथं वा निपतेदयं नियतेन्द्रियाणां प्रथमो विवेकी धृतिमान् ? । तत्क्षणमेव प्रणम्य तस्यै सविनयमभ्यवादीत् “ अम्ब! पितो मे सुरनाथोऽयं तस्य त्वं प्राणवल्लभा । तद्वन्द्या ननु माताऽद्य पुत्रे मयि कृपां कुरु ॥ १९ ॥ किंच-अस्मद्वंशमूलपुरुषस्य पुरूरवसः कळत्रं हि भवती" इति । युधिष्ठिरः ॥ (सप्रमोदं स्वगत) साधु वत्स! साधु, इतः परं जितमेव भवता सर्वमपि जगत् (प्रकाश) ततस्ततः । मातलिः ॥ ततश्च तयोक्तम्- " वाराङ्गनाऽस्मि मनुजेन्द्र ! ततो न दोषः पुण्यैकलभ्यमनुभुक्ष्व सुख मयाऽत्र । रूपं मदीयमवलोक्य जहाति को वा ? तत्सुन्दराङ्ग! कुरु मय्यधुनाऽनुकंपाम्" ॥२०॥ इति ।।
७२ aupamr- अद्भुतांशुकम् । युधिष्ठिरः॥ (विहस्य) प्रायशो जगति कामिन्यस्स्वार्थसाधनपरा स्वभावचतुराः, तत्रापि वारवनिताः, तत्राप्यप्सरसः, किं वा वक्तव्यमूर्व- श्याम् ? । ततस्ततः ॥ मातलिः ॥ ततश्चानेन नम्रोत्तमाङ्गेन गभीरतरवचसा--- "अम्ब ! वाराङ्गना वा वीराङ्गना वा भव । न मे नयनयुगळं मनसा समं त्वच्चरणमरसिज विहायोलमारोहति" इत्युक्तम् ॥ युधिष्ठिरः ॥ (खगत) साधु वत्स ! साध्वनुष्ठितमसिधारावत - यस्या वीक्ष्य पुरूरवास्तु नितरां लावण्यमत्यद्भुतं मग्नो रागगभीरसिन्धुजठरे रेमे यया वत्सरान् । सा दिव्याभरणाश्चिता स्वयमहो ! वाराङ्गनाऽप्यागता सन्त्यक्ता भवतेति यद्वितनुते तन्मेऽधिकं सम्मदम् ॥२१॥ द्रौपदी ॥ (स्वगत) ' अह्महे ! अच्चरिअं ! अञ्चरिअं ! उव्वसीवि से सुंदेरदसणेण मोहं उवगदा १ ॥ युधिष्ठिरः ।। (प्रकाशं) ततस्ततः ॥ मातालः ॥ ततश्चास्येन्द्रियजयं विलोक्त्य सन्तुष्टहृदयया तया दत्तेयं कनकमालिका “ वत्स ! सन्तुष्टाऽस्मि, गृहाणैनाम् । यत्रयं वर्तते तत्र धन. समृद्धिः" इति ॥ युधिष्ठिरः ॥ (सहर्ष स्वगत) पूरितमेव द्रविणैः कोशागारं दुर्यो- धनस्य ॥ (नकुलः-सम्मितं सैन्धवं केशपाशे गृहीत्वा युधिष्ठिर चरणयोः पातयति) युधिष्ठिरः ॥ वत्स! किमिदं। दुश्शलानानि सैन्धवमिहानीतवानसि ? अर्जुनः ॥ दुराचारोऽयं निनदुर्विधिनवानीतः ॥ जयद्रथः ।। (स्वगत) हन्त ! मया स्वामिनि दुर्योधने कृतस्याति- सन्धानस्य फलमिदमनुभूयते ॥ (छाया) 1 अहो ! आश्चर्यमाश्चर्य ! ऊर्वश्यप्यस्य सौन्दर्यदर्शनेन मोहमुपगता। -- पञ्चमोऽङ्कः । ७३ (पटाक्षेपेण प्रविश्य भानुमती) भानुमती ॥ परित्ताअदु परित्ताअदु अज्जो । मंधनेण बंधिभ कळचळणं अजउत्तो णीअदि । (इति युधिष्ठिरचरणयोः पतति) । युधिष्ठिरः ॥ किं किं, वत्सो दुर्योधनो गन्धर्वण नीयते ? कुतो वा तेन निबद्धः १ ॥ भानुमती॥ अज तस्स सरे कीळंतो परिकुविअस तस्म वसओ आसि । युधिष्ठिरः॥वस ! अर्जुन ! अधुनैव पाकशासनसकाशानुपार्जिताया अवविद्यायाः परीक्षावात स्पन्निधापितो देवेन । तद्गच्छ । सत्वरमुपाहर वत्स सुयोधनं, विजित्य गन्धर्वराजम् ॥ अर्जुनः ॥ यथाऽऽज्ञापयत्यार्यः (इति प्रणमति) ॥ युधिष्ठिरः ॥ वत्स ! विजयी भव ।। अर्जुनः ॥ (मातलिमवलोक्य) मातले ! सारथ्यार्थ भवन्तमभ्यर्थये ।। मातलिः ॥ सिद्धोऽस्मि । आयुष्मन् ! गन्धर्वानात्तगर्वान्वियति विचरतः कर्णपर्यन्तकृष्ट- ज्यानुन्नैः प्राज्यभल्लैःक्षतनिजवपुषस्सव्यसाचिन् ! विधाय । तभ्यो भीत्या नतेभ्यो निगडितचरणं धार्तराष्ट्रं सकर्ण तूर्ण तं मोचयित्वा भयतरळदृशे भानुमत्यै प्रयच्छ ॥२२॥ अर्जुनः ॥ (सविनयं) सर्व च भवदनुग्रहात्संपत्स्यते ॥ मातलिः॥ आयुष्मन् ! रथमलङ्करोतु भवान् ॥ (अर्जुनः-रथमविरुह्य निष्क्रान्तः)। युधिष्ठिरः ॥ प्रिये ! याज्ञसेनि ! किमद्यापि निरयति भीमसेनः ? 1 परित्रायता परित्रायतामार्यः । गन्धर्वेण बध्वा करचरणमार्यपुत्रो नीयते । 2 अद्य तस्य सरमि क्रीडन्परिकुपितस्य तस्य वशग आसीत् । - 10 ७४ अद्भुतांशुकम् । द्रौपदी ॥ धणदं जेतुं गदो “अचिळेणेच आअमिस्सं" ति ॥ भानुमती ॥ (स्वगत) * अलहे ! एको धणदं वसीकरेइ। अण्णेण महेन्दो वसीकिदो । सूरेहिं किं वा ण करीअदि ॥ (सर्वे नासाविकासं नाटयन्ति) युधिष्ठिरः ॥ प्रिये ! कोऽयमपूर्वो दिव्यकुसुमामोदः १ ।। द्रौपदी॥ (सहर्ष स्वगत) तं पुप्फ अजउत्तण आणीदं विध पहाअइ (प्रकाश) सोअंधिअपुष्फस्स गन्धो हवे ॥ युधिष्ठिरः ॥ तायातो भवेन्मारुतात्मजः ॥ (ततः प्रविशति पुष्पकाधिरूढो भीमसेनः) भीमः॥ अस्मिन्महारण्ये मयाऽन्विष्टा याज्ञसेनी । न छापि लब्धा । (सामर्ष) यो वाऽपहर्ता द्रुपदात्मजाया लोकत्रयेऽप्यप्रतिमप्रतापः । अद्यानुभूतां नरवाहनेन दशां ददात्याशु गदा तु (ऊर्ध्वमवलोक्य) अरे ! मत्प्रियापहारिन् ! न जानासि किं मददा. महिमानम् १ शृणु तावत् प्रचण्डघण्टारवदारितारि- वक्षस्थली वैश्रवणस्य जेत्री । दम्भोळिदम्भाऽपनयेऽपि शक्ता भात्यंसपीठेऽद्य गदा मदीया ॥२४- (इति झडिति विमानादवरोहति) । (छाया) 1. धनदं जतु गतः “अचरिणवागामध्यामीति । 2. अहो! एको धनदं वशीकरोति । अन्यन महेन्द्रो वशीकृतः ? शूरैः किंवा नक्रियते । 3. तत्पुष्पमार्यपुत्रेणानीतमिव शायते । सौगन्धिक पुष्पस्य गन्धो भवेत् । तस्मै ॥२३॥ Pa- पञ्चमोऽङ्कः । द्रौपदी॥ (उटजाहिरागत्य भीममुपसृत्य सस्मितम् ) ' अजउत्त! तुए आणीदं तं पुष्फ १॥ भीमः ॥ (सहर्ष स्वगत) दिष्टयाऽत्रैव प्रिया । (प्रकाशं) प्रिये ! कथमेकाकिनीहागताऽसि ॥ द्रौपदी ॥ (सबाष्पं पादाङ्गुष्ठेन क्षितितलमालिखन्त्यवनमितमुखी) अज्जउत्त ! णिसंसो दुस्सळावळहो एआइणि म पेक्किम गही आअदो भीमः ॥ (सक्रोध) आः किं ? सैन्धवाधमस्त्वां ग्रहीतुमागतः १ पश्याय गत्वा तं नराधमं करोमि नामशेष (इति साटो परिकामति) । द्रौपदी॥ अज उत्त ! अळं अमरिसेण । सो दुबो एत्थ एब उडए वढेइ ॥ भीमः ॥ क स पापी ? (इत्युद्धतं द्रौपद्या सह प्रविश्याभ्यन्तरं सैन्धवं शिरसि गृहीत्वा सस्मित) अरे ! कोऽयं वेषः १ ॥ (सर्वे विहसन्ति) (जयद्रथा-वेपमानस्तिष्ठनि) भीमः ॥ (सक्रोध) अपिनाम स्पृहयसि याज्ञसेन्यै १ (इति सदन्त- पीडं गदामुद्यम्य प्रदर्शयति) (जयद्रथः-पिण्डीकृतगात्रो बद्धाञ्जलिपुटरसमुपविशति) युधिष्ठिरः ॥ वत्स! भीम ! मञ्च दुश्शळानानि, आसीदस्यार्जुन एव शास्ता । किमिदमपूर्व कुसुमम् ? भीमः॥ (स्वगत) हन्त ! विस्मृतमस्य दुरात्मनश्शिक्षणासक्तेन मया प्रकृतकार्यमेव (प्रकाश) आर्य ! (छाया) 1. आर्यपुत्र ! किं त्वयाऽनीतं तत्पुष्पम् ? 2. आर्यपुत्र ! नृशंसो दुश्शलावल्लभ एकाकिनी मां दृष्टवाग्रहीतुमागतः । ३. आर्यपुत्र ! अलममण, सदुष्टोऽत्रैवोटजे वर्तते ।
. अद्भुतांशुकम् । देवा मा यो कामानहमहमिकयाऽभ्यागतान् यक्षकारान् भूमौ तान्पातयित्वा प्रचलितगदया तत्क्षगादापतन्तम् । संक्रुद्धं किन्नरेशं रणशिरसि वशीकृत्य नृत्यन्निवेशः कल्हारं तेन दत्तं द्रविणमपि समानीतवान्पुष्पकेऽस्मिन् ॥२५॥ (इति नकुलमवलोक्य) वत्स ! सहदेवेन समं पुयकाइविणभारमानय । प्राप्नोतु वैहायस विमानं वैश्रवणम् ॥ नकुलः ॥ तथा (इति सहदेवेन सह गच्छति) भीमः ।। (द्रौपदीमवलोक्य) याज्ञसेनि !-- प्रालेयपर्वततटीसरसीपयस्सु स्थित्वा चिरेण कमलाक्षि ! रविप्रतीक्षम् । घोरं तपः कृतबदद्य तवोत्तमाङ्ग- लाभात्सुमं सफलतां लभतां नितान्तम् ॥ २६ ॥ (इति पुष्पमर्पयति) (द्रौपदी मास्मितं सलज्जं चादाय पाणिभ्यां सविनयं- साकूतं च युधिष्ठिरं पश्यति) युधिष्ठिरः ॥मत्तकाशिनि ! उत्तमाङ्गमलङ्कुरु कुसुमैरेतैः । लभतां ताव त्साफल्यं वत्सस्य परिश्रमः । (द्रौपदी ससितं तथा करोति) भानुमती ।। (साभ्यसूयं स्वगत) ' भण्णा खु एसा, जा एआरिसेहि देवमोग्गेहिं विसएहिं अणुहोइ लोक्खं ।। भीमः ॥ वेदानीं वत्सोऽर्जुनः ? युधिष्ठिरः ॥ गन्धर्षवर्गवशगं धृतराष्ट्रसनु- मानेतुमद्य दृढबन्धनतो विमोच्य । पार्था युयुत्सुरचिरात्पुरुहूतदत्त- मारुह्य दिव्यरथमात्तधनुः प्रयातः ॥२७॥ (छाया) 1. धन्या खल्वेषा या एतादृशैदेवयोग्यविषयै रनुभवीत सौख्यम् ।
पञ्चमोऽ
७७
भीमः ॥ (सक्रोध).
गरळमयकदन्नदानदक्ष
रहसि निकेतनदीपनप्रगल्भम् ।
अपहृतविमवं च कैनवेन
प्रब रिपुं स कथं विमोचयेत्तम् ॥२८॥
(ततः प्रविशत्यजुनो दुर्योधन-कर्ण-दुश्शासनस्सह)
अर्जुनः ॥ (नकुलमवलोक्य) वत्स ! कथमत्र पुष्पक ? किमा
यातोऽलकाया आर्यभीमसेनः।
नकुलः॥ बाढम् । (इति सहदेवद्वितीयो धनभस्त्रिका आदायान्तः
प्रविशति)
दुर्योधनः ॥ (कर्ण विलोक्य जनान्तिकम) हन्त! कुबेरमपि विनित्य
द्रविणभारम्समार्जितस्स्यादीमेन ?
अर्जुनः।। (अन्तः प्रविश्य) आर्य ! अभिवादये (इति युधिष्ठिर
भीमौ प्रणम्य दुर्योधनादीन्युधिष्ठिर चरणयोः पातयति)
जयद्रथः ॥ (स्वगत) हन्त ! कथमिदानीं मुण्डितत्रिपट्टकदूषित-
गुण्डं मुखं प्रदर्शयाम्येतेषां १ (इति पराङमुखरितष्ठति)।
दुर्योधनः ॥ (स्वगत) धिगेनं मां, क्षत्रियकुले किमिति ननितोऽस्मि
विधिना १ । हन्त ! परबलादबलाजनवदन्येन क्षत्रियवीरेण तत्रापि विपक्षेणा-
नेन मोचितोऽस्मि । स्यान्नामैतत् -
शयनभवनपालने नियुक्त-
शकुनिविलोभितचेतसा मया यः ।
कथमिव मुखमद्य दर्शयेयं
प्रथितबलाय वृकोदराय तस्मै ॥२९॥
- अद्भुतांशुकम् । (इति पाश्चमवलोक्य) हन्त! दुश्शळानानिरप्यत्रैव मुण्डितमुण्डो वर्तते । आः ! भानुमतीसमक्षं यदेतादृशी परिभवपरंपरेति, तदतीव लज्जावहम् । सर्वधा न केलं पाण्डवानामवहेलनपात्रं कौरवाः, अपितु सर्वस्य लोकस्य ।। भीमः ॥ (मक्रोधं) अरे ! कुरुकुलाधम ! अपिनाम स्मरसि ? "शकुनिकर्णविकर्षणपण्डित- स्सुहृदि दर्शितबाहुपराक्रमः । मदनुजे रचितात्यवमाननः क्वनु ममानुचरोऽद्य वृकोदरः॥"-इति ॥२०॥ अरे! साधुजनातिसन्धानै फनिरत ! निस्त्रप! किमित्ययापि धृत- प्राणोऽसि ? (सशीर्वान्दोलनमर्नुनमुखमवलोक्य) वत्सार्जुन ! कुतो वा गन्धर्वसकाशादमूमुचस्त्वमेनं दुरात्मानम् १ ॥ यत्ता प्रबलबाहुबलार्जितां मे राज्यश्रियं कुरुसुताय ददावमुष्मै । गन्धर्वराजवशगं समरे नृशंस- मेनं तदेव किमु नैव विमोचयेद्वा १ ॥३०॥ युधिष्ठिरः॥ वत्स ! भीम ! किमिदं ? अट्टालकादधःपतितस्योपरि लगुडाघात इव पराजितेऽस्मिन्परुपमाषणखड्गः पात्यते भवता ? तदलमव- हेलनेन । पश्य भगवानंशुमाली निजरथतुरगवरखरतरखुरनिकरपुटकोटिकुट्टन- त्रुटितचरमगिरिसानुधातुधूळीपटलर लरञ्जित इव पाटलमण्डलः प्रयाति मिमंहरिव जलनिधिम् - तेजस्सवित्रा निहितं दिनान्ते हुताशनोऽपि प्रतिपद्य वेद्याम् । तपोधनानामुटजेषु शिष्य स्सन्धुक्षितः प्रज्वलति प्रकामम् ॥३१॥ तदेतेऽपि गच्छन्तु निजनगरमेव ॥
पञ्चमोऽः । दुर्योधनः ॥ (स्वगत) हन्त ! कथमरण्येऽपि नियतिरनुकूला कलयति सकलामपि संपदमेतेषाम् । भवतु नाम । एतान्निष्ठ्यूतसारा कर्तु दुर्वासा एव प्रभवति । तदभ्यर्थये पुनरपि तमेव । (इति लज्जावनमितमुखैव- न्धुभिस्सह निष्क्रान्तः)॥ युधिष्ठिरः ॥ वत्स ! भीम ! वयमपि सन्ध्यामुपासितुं सरसी गच्छामः ॥ (इति निष्कान्तास्सर्व) इति श्रीयदुशैलवासि-चालधन्वि-जग्गू-बकुळभूषणकवि- विरचिते अद्भतांशुकनाटके पञ्चमोऽङ्कः ॥
॥ श्रीः ॥
षष्ठोऽङ्कः॥
-
(ततः प्रविशति वटुवेषधारी कृष्णः)
कृष्णः॥ (पाणिभ्यां नयनयुगळं परिमृज्य प्राची दिशमवलोक्य)
हन्त ! उदित एव भगवान्भास्करः प्रकुपित इवारुणप्रभः । तथाहि-
आसायं रविरम्बरे निनकरैर्गन्धवलोकच्छला-
च्चित्रं रम्यतरं विलिख्य विविधैर्षणैस्समुद्रं गतः ।
रात्र्या गाढतमोमपीकलुषितं निर्वर्ण्य रोपारुणो
रङ्गाजीव इवापरेधुरचिरादायाति कर्तुं पुनः ॥ १ ॥
अहो! छात्रवृत्तिजगति क्लेशकरी खलु, तत्रापि रोषकपायितस्वा.
न्तस्य गुरोस्सकाशे । अद्य तु पाण्डवानां कृते मया दूर्वाससस्सकाशेऽन्तेवा-
मित्वमङ्गीकृतम् । अहो ! कष्टं तदनुवर्तनम् । स तु--
पृष्टेन दत्ते प्रतिभाषणे मया
वाचाट इत्युद्भटचक्षुरीक्षते ।
मौने कृते बालिश इत्यतिक्रुधा
हुंकारगर्भ परितर्जयत्यहो ! ॥ १ ॥
तथापि बदरिकाश्रमे पुरा नरावतारेऽनु छेतशिष्याचारतया मयेदानी
साहस क्रियते कर्म ।--
तत्तत्कालकलोचितामनुमतां "चालनन क्षणात्
शुश्रूषां विनयेन साधु मधुरस्मेराननोऽस्म्याचरन् ।
आरुण्यं प्रतिघोद्गतं नयनयोरत्युग्रमत्युज्वलं
सान्ध्यं सूर्य इवाद्य तस्य नितरां निर्वापयाम्यञ्जसा ॥३॥
अखतांशुकम् । X; तदिदानी "सन्ति वा न वा पाण्डवाः पर्णशालायामिति ज्ञात्वा मे नि- वेदय” इति दुर्वाससाऽऽजप्तोऽस्मि । तत्तन्नियोगमशुन्यं करोमि (इति परि. क्रम्य नेपथ्याभिमुखमवलोक्य) हन्त ! अत्रैवात्रिपुत्रस्समायातः । अयं हि विलम्बासहिष्णुः प्रकुपित इव दृश्यते पिशङ्गतटिदुज्वलोद्भटजटाच्छटाभीषणः क्षणक्षुभितमीक्षण क्षरदिवासृगुद्धामयन् । कमण्डलुकरश्चलत्पृथुलघोरशोणाधरः स्फुरत्स्फटिकमालिकावलयितप्रकोष्ठो मुनिः ॥४॥ (ततः प्रविशति यथानिर्दिष्टो दुर्वासाः) दुर्वासाः ॥ (परितो विलोक्य) अहो! उदितप्राय एव भगवान्भा- स्करः । नाद्यापि विदितपाण्डवोदन्तो मदन्तेवासी श्यामलकः प्रतिनिवृत्तः । (सश्लाघ) अमर्षपरिस्फुरत्स्फुलिङ्गालिङ्गितं मन्नयनयुगळमवलोक्य न कोऽपि वटुः-मुहूर्तमात्रमपि मामनुवर्तते । अयं पुनश्श्यामलकस्साधुशीलोऽविदित- कृत्रिमव्यापारोऽमन्दानन्दमातनोति मे। साधु ! श्यामलक ! साधु सुशि- क्षितोऽसि सच्छात्रवृत्तौ । तथाहि- शुश्रूषुश्शरणं गतो नतिपरस्त्यक्ताभिमानस्सुधी- दर्दान्तश्शान्तिगुणाञ्चितस्समुचितव्यापारसक्तस्सदा । पृच्छाकालनिरीक्षणैकनिरतस्तत्वाभिलाषी ततो लोके प्राथमिकोऽसि सगुणगणैस्सच्छिष्यमध्ये मम ॥ ५ ॥ (इति परिक्रम्य कृष्णमवलोक्य स्वगत) किमद्याप्यत्रैव श्यामलकः ? (प्रकाशं) भोश्श्यामलक ! किमलस इव मन्धरोऽसि ? तदविलम्बितं याहि युधिष्ठिरोटजोपकण्ठम् (स्वगतं) किमपि निदानमन्तरा तदार्जितद्रविणापहरण- मनुचितं हि । तदद्य किं करोमि ? (विचिन्त्य) भवतु तावत्तपःप्रभावेन स्पृहणीयरूपं कनकहरिणं विधाय श्यामलकमेनं प्रेषयामि (प्रकाशं) तात ! श्यामलक ! मत्सङ्कल्पात्कनकहरिणोऽसि । तद्गच्छ युधिष्ठिरोटजपरिसरे पर्यटस्तेषु येन केनचित्संस्पृष्टः प्रमीतकल्पो भव । अहं पुनरनन्तरकरणीयं करिष्यामि ॥ 11 पटोशः -- श्यामलकः ॥ यदाज्ञापयन्त्याचार्यपादाः (स्वगत) हन्त । रामत्वे यादृशेनाहं वञ्चितः कानने पुस । तादृशं गृह्यते रूपं हरिणस्य मयाऽधुना ॥ ६ ॥ (इति कनकमृगरूपं गृहीत्वा) अद्य खलु कृष्णमृग इत्यभिधानं सार्थमा सीत्, यतः कृष्णेन मया मृगरूपमासादितम् । (इति निष्क्रान्तः) ॥ दुर्वासाः ॥ अहमपि धर्मरानपर्णशालोपकण्ठे वृक्षवाटान्तरितो भवामि । (इति परिक्रम्य) अयमेवोठजो युधिष्टिरस्य । (इति वृक्षान्तरितस्तिष्ठति)। (ततः प्रविशत्युटजाजिरोपविष्टस्सातुजो याज्ञसेन्या सह युधिष्ठिरः) युधिष्ठिरः ॥ प्रिये ! हायनमेकं विपिनऽस्माभिरुषित, आर्जितश्च भीमादिभिर्द्रविणभारः । पञ्चषाः परं दिवसाः-वनवासेनालिवाहयितव्याः ततश्चोत्तीर्णसङ्गरमहार्णवप्रान्ततया कृतार्था वयम् ।। द्रौपदी ॥ (दीर्घ निश्श्वस्य) ' अजउत्तेण उण सञ्चं एव्व भणिदं, जइ तेसु दिअहेसु मज्झे ण कोवि हवे अंदराओ। (इति पार्श्वतोविलोक्य सहर्ष) अह्महे ! एत्थ हाडअमओ मओ पत्रळेइ। इमर स सुंदे रं पेक्खिअ मह हिअअं विम्हअं अणुहोदि । (ततः प्रविशति तत्रतत्र तृणाङ्कुरखादनमभिनयन् हरिणः) युधिष्ठिरः ॥ (निर्वर्ण्य) प्रिये ! प्रकृतिमधुरमम्बुजाक्षि ! रूपं जगति मृगस्य तु चञ्चलेक्षणस्य । तदपिच हरिणे सुवर्णवर्णे किमु पुनरस्ति निवेदनीयमस्मिन् ॥ ७ ॥ दुर्वासाः॥ (स्वगत) अभिनयप्रकटितम्गप्रकृतिकेऽस्मिन् न भवत्यन्यथा प्रतिपत्तिः- (अब) 1. आर्यपुत्रेण पुनस्सत्यमेव मणित, यदि तेषु, दिवसेषु मध्ये न कोऽपि भवे दन्तरायः । अहो ! अत्र हाटकमयो मृगः प्रचलति । अस्य सौन्दर्य दृष्टया मम हृदयं विस्मयमनुभवति। -- .
अद्भुतांशुकम्। क्वचिद्वास जिघ्रन् दरविवृतनासापुटमसौ मियोदग्रीवस्स्तब्धश्रवणयुगळण्यश्चलदृशा । सहुंकारं पश्यन्विपिनमभितश्शष्पकबळं सफेनं सृक्वभ्यां कनकहरिणः पातयति यत् ॥६॥ पर्णमर्मररुते सति भीत्या डीयते क्यिति पक्षिवदाशु। तत्रतत्र तरुमूलनिषण्णान् जिघ्रतीह हरिणांश्चलवालः ॥९॥ (द्रौपदी--मन्दमुत्थाया तं ग्रहीतुमुपसर्पति) (मृगसमयमन्यत स्सवल्गितं धावति) द्रौपदी ॥ (सानुनयं) अज्ज उत्त ! तं गेण्हिअ देहि मह । युधिष्ठिरः ॥ जानकी हरिणमेवमीदृशं शातकौम्भमभिलष्य वञ्चिता । ःखमाप तदलं मृगेक्षणे! स्वर्णवर्णहरिणे त्यन स्पृहाम् ॥१०॥ दुर्वासाः ॥ (स्वगत) अपि नाम ज्ञातोऽयमेतैश्श्यामलक इति १ भव त्वग्रे द्रौपदी किं वक्ष्यतीति शृणुमस्तावत् ॥ द्रौपदी ॥ अज्जउत्त! मुहत्तमेत्तं विअ इमस्स मअस्स फरिसमुह अणु होदुकामम्हि । ता. गेण्हिअ णं देहि मह । एत्थ तुह को वा वंचणं कार्यु आअच्छइ ॥ दुर्वासाः॥ (स्वगत) मत्तः को बाऽन्यः ॥ (छाय) 1. आयतु ! तं गृहीत्वा देहि मश्यम् । 2. आर्यपुत्र ! मुहूर्तमात्रीमवास्य मृगस्य स्पर्शसुखमनुभावतुकामाऽस्मि । तद्गृहीं त्वैनं देहि मनम् । अन्न तव को वा वञ्चनां कर्तुमागच्छति ।।
८४ षष्ठोऽरः । युधिष्ठिरः॥ (स्वगत) बहुधा बोषिताऽपि स्त्रीसमुचितमतिरियं न शृणोति मम वचः । (प्रकाश) वत्स ! भीम ! मन्दं गृहीत्वा हरिणमेनं देहि याज्ञसेन्यै ॥ दुर्वासाः ॥ (स्वगतं सहर्ष) मम तावदपूपः पतितो हय्यङ्गवीने ॥ भीमः ॥ यदाज्ञापयत्यार्यः । (इति मन्दमुपसृत्य झडिति हरिणकण्ठे पाणिमर्पयति)। (हरिणः- सार्तनादं मृतकल्पः क्षितितले निपतति) भीमः ॥ (सोद्वेगं) हन्त ! किमिदं ? मत्पाणिपातमात्रेण प्रमीतोऽयं मृगः। -- युधिष्ठिरः ॥ (सावेगं) किं प्रमीत एव ? (सानुतापं) भीम ! भवत्पाणिपातवेगहतिञ्जभितगळनाळः प्रमीतो भवेदयम् ॥ द्रौपदी ॥ (ससम्भ्रममुपसृत्य समुपविश्य च) ' कहं गओ एव ? (सबाप्प) हा वच्छ ! मअसावअ ! कहं विअ अजउत्तकरफरिसमेत्तेण उन्झि- अप्पाणोसि । दाणि पआवणो सिट्टिकजकोसळ मुहा जादं । तुम दाव कहंविअ मसिणथळथळंतसुहअविग्गहोवि रण्णे णिवडिदोसि || (प्रविश्य दुर्वासाः) कः कोऽत्र भोः ! अपिनाम मदीयः कनकहरिणो भवद्भिदृष्टः ? श्रृण्वन्तु भवन्तस्तदभिज्ञानम् ॥ सौवर्णमङ्गं हरिणस्य तस्य चञ्चत्पृथुस्थासकशोभित च । कण्ठे तटित्सन्निभदीप्ररेखाः लसन्ति नेत्रे शिखिचन्द्रकाभे ॥११॥ (छाया) 1. कथं गत एव? हा वत्स! मृगशावक! कथमिवार्यपुत्रकर करस्पर्शमात्रेणीशित- प्राणोऽसि ? इदानीं प्रजापतेः सृष्टिकार्यकौशलं मुधा जातम् । त्वं तावत्कथमिव मसणथळथळायमानमुभगविग्रहोऽप्यरण्ये निपतितोऽसि ।
अद्भुतांशुकम् । युधिष्ठिरः ॥ (विलोक्य स्वगत) अहो ! दुर्वासाः। हन्त ! किं करोमि ? न मेऽद्य किमपि स्फुरति । अशनिपातेनेवाम्य दर्शनेन विकलतामापन्नं मे हृदयम् (प्रकाश) प्रिये ! कथित खलु मया प्रागेव कनकमृगे स्पृहा मा भूदिति । पश्येदानीं फलं तस्याः ॥ (द्रौपदी-समयमुत्थायापसरति) । भीमः ॥ (अर्जुनमवलोक्य जनान्तिकम् ) प्रथममेवास्य दुर्वाससस्सौ- जन्यं सौशील्यं च स्गृहणीयं लोकविदितं च । इदानीं पुनः किमु वक्तव्यम् ? न जाने किं वा करोत्ययमिति ॥ अर्जुनः ॥ (जनान्तिकम् ) सर्वधा पाण्डवानां ललाटे निवृतिगन्धो- ऽपि न लिखितो विधिना ॥ दुर्वासाः ॥ (उपसृत्याधः पतितं मृगमवलोक्य) आः ! कथं मदीयो मृगः प्रमीतोऽत्र निपतितः। हा, केन वा मारितः १ (सबाप्पमुपविश्य) हा ! वत्स ! बाल्यात्प्रभृति मदङ्क एव वर्धितो हि । हन्त ! नृशंसैरेतैर्तबकैरिव गृहीततापसारितोऽसि ; हा ! वत्स ! बाल्यात्-- तथा तथा मयि प्रीति चेष्टाभिस्त्वमदर्शयः । यथा यथा मम स्वान्तं विलीय द्रवतां व्रजेत् ॥१२॥ क याता तव चेष्टाऽद्य तादृशी हृदयङ्गमा । मय्यागतेऽप्यनुत्तिष्ठन् पतितोऽसि महीतले ॥१३॥ तपसा किमितस्त्वयि प्रयाते किमनेनापि वनेन पावनेन । जपमालिकया किमु ? त्रयीभि- स्सकलं यातु समं त्वयैव वत्स ! ॥१४॥ युधिष्ठिरः ॥ (सविनयमञ्जलिं बवा) मृष्यन्तु भवन्तः, स्पृहणीय. रूपोऽयमिति गृहीतः, न तु जिघांसया। तावतैव प्रमीतोऽयम् ॥ - ८६. पेष्ठोऽङ्कः -- दुर्वासाः॥ (सामर्प) अरे ! मूर्ख ! किमत्र मर्षणम् । भमर्ष एव । (इति झडित्युत्थाय पाणिमुरसि निधाय विकटं स्थित्वा)- दुर्वासा इति विख्यातमत्रिपुत्रं न वेत्सि माम् । अमर्पज्वलनज्वालावशीकृतजगत्त्रयम् १ ॥१५॥ अरे ! नराधमाः ! ज्वलजालनमन्निमः क्षतनरूक्षवीक्षाक्षर- हरीक्षणविलक्षणक्षुमितकोगशोगद्युतिः । दवानल इवाधुना दहति पादपान्दारुणो दुरोदरपरांश्च वः प्रतिभटानमर्पो मम ॥१६॥ युधिष्ठिरः॥ (अञ्जलिं बवा) मध्यन्तु भवन्तः । नेयं बुद्धिपूर्विका क्रिया । अस्य तु कनकमृगस्य स्पृहणीयसौन्दर्यविलोभितहृदयायै द्रुपददुहित्रे दातुं निवृक्षया दत्तो भीमेन पाणिः कण्ठतले, तावतैवैतादृशीं दशामापन्नोऽ यम् । तदनागसे जनाय मा कुप्यन्तु ।। दुर्वासाः ॥ (स्वगतं) अयमेव सुसमयो भवदर्जितमर्थमपहर्तुम् । (प्रकाशं दीर्घ निश्श्वस्य) हा कष्टं, भोः कष्ट, भोस्सत्यवादिन् ! युधिष्ठिर ! कथं वा सहे शोकमत्युल्वणमाशैशवान्मदङ्कलालितेऽस्मिन् परलोकं गते । हुँ, भवतु नाम । (सबाष्पं) तात! युधिष्टिर ! चलितं तु चलितमेव । बहिश्वरो ममाय वात्सल्यग्रन्थिः । (सगद्गदम्) तद्यथा कथंचिदपि मृगमेनं जीवयिष्यामि। युधिष्ठिरः ॥ (सबाष्पं) भवद्भयो यथा रोचते । दुर्वासाः ॥ तदद्य पुण्यतीर्थतीरे महान्यज्ञः कार्यः । तदा श्रोत्रि- येभ्यो यथेच्छ वसूनि दातव्यानि, यथा ते लभेरन्सौहित्यम् । तेषामनुग्रहबला- दयं त्पुनरपि लब्धप्राणो भविष्यति ॥ युधिष्ठिरः ।। भगवन् ! अलं शोकेन । दीयते तावन्मया द्रविणं, यावत्प. र्याप्तम् । (भीममवलोक्य) वत्स! सत्वरमुटजाभ्यन्तराद्भवदानितं द्रविणभार- मखिलमप्युपाहर ॥
अद्धतांशुक्म् । भीमः ॥ यदाज्ञापयत्यार्यः ।। (इति धनभस्त्रिका दुर्वाससः पुरो निक्षिपति) युधिष्ठिरः॥ (सविनयं) भगवस्तपोधनेन्द्र ! कुबेरादार्जितं द्रव्यमिदं पवनसूनुना । यत्सुयोधनकोशस्य पूरणायैव, गृह्यताम् ॥१७॥ दुर्वासाः ॥ (अर्जुनकण्ठलम्बिनी कनकमालिकां विलोक्य स्वगतं) इयमप्यपहर्तव्या (प्रकाश) धर्मसूनो ! कियदिदं दित्सोममोदारतातृषा या मरीचिकाकल्पम् ॥ (अर्जुनः--कनकमालां कण्ठादवतार्य सविनयं समर्पयनि) युधिष्ठिरः॥भगवन् ! सौन्दर्यसारविलोडितविश्रुतजितेन्द्रियवर्गधैर्यसा रया पाकशासनवल्लभयोर्वश्या साभिनन्दनमस्येन्द्रियजयं विलोक्य दत्तय मालिका-'वत्स ! यत्रेयं वर्तते तत्र धनानां महर्द्धिः' इति । बदनवरतमपि ददातीय द्रविणं यावत्पर्याप्तम् ।। दुर्वासाः ॥(स्वगतं) कर्तव्यं कृतं । (प्रकाश) भीम ! मदुटजमुपनय धनभस्त्रिकाः ।। भीमः॥ यदाज्ञापयति भगवान् (इति निजांसपीठे धनभस्त्रिका निधाय निष्क्रान्तः)। युधिष्ठिरः ॥ (ससंभ्रम) भगवन् ! मृगमेनमादाय भवन्तमनुसरामि (इति मृगजिक्षया पाणिं प्रसारयति) दुर्वासाः॥ (ससंभ्रम) मा स्पृश, ब्राह्मणकरवर्धितोऽयम् । लदहमेवा- दाय यास्यामि (इति कराभ्यां मृगमादाय स्वगतम्) हन्त ! सम्यगभिनयत्ययमुपरतत्वम् ॥ तथाहि -- उद्धृतोऽपि मया सोऽयं लम्बितायतकन्धरः । अर्धमीलितदीर्घाक्षो धत्ते शैथिल्यमङ्गकैः ॥१८॥ (इतिनिष्क्रान्तः) षष्ठोड युधिष्ठिरः ॥ (दीर्ध निश्शवस्य) अहो । विधिविलसितम् । वत्सार्जुन ! वनीपका वयं क्षिप्रं भविष्यामोऽवनीपकाः । सुयोधनधनागारपूरणांदिति निश्चितम् ॥१९ ॥ हन्त ! नैवात्र नियतेराशयः । यथाप्रतिज्ञं नियतः कालोऽप्यतिवा हितः । तदद्य दुर्योधनपक्ष्यो यःकोऽप्यापतदाहयितुमस्मान् ।। (ततः प्रविशति रथाधिरूढो दुश्शासनः) दुश्शासनः॥ अपिनाम दुर्वासमा समुपात्तं स्यात्पाण्डवानामखिलं नम् १ (इत्युपसृत्य) महाराजदुर्योधनस्समाज्ञापयति “यापार्जितं द्रविणं तर्हि तेन पूर्यता कोशागारं, नोचेद्दास्यमङ्गीक्रियताम्'- ॥ इति ॥ युधिष्ठिरः ॥ सिद्धास्स्मः । दुश्शासनः ॥ क्व न्वपरः । युधिष्ठिरः ॥ दुर्वाससो वित्तभारमुहंस्तमेवानुप्रयातः। (नेपथ्याभि- मुखमवलोक्य) पश्य सोऽप्यायातः ॥ (ततः प्रविशति भीमः) भीमः ॥ (दीर्घ निश्श्वस्य) अहो ! विधिविलसितम् । मूर्ताः क्लेशा एवं पाण्डवाः । स्यादेतत् । स तु तापसो यत्क्रोधानलेन पुटपाकं नास्मा- न्पचतिस्म स एव महाननुग्रहो हि । (अग्रतोऽवलोक्य) अहो ! दुरात्मा नियतैकहायनावसानसूचनाय दुश्शासनहतकस्संप्राप्तः (इत्युपसर्पति)। युधिष्ठिरः॥ वत्स ! भीम ! यथासङ्गरं यास्यामस्सुयोधनसकाशम् ॥ भीमः ॥ सिद्धोऽस्मि || द्रौपदी॥ (स्वगत) - अह्महे ! पुणोवि दासत्तणदिढपासणिवद्धह्म । सो उण महाणुहावो इसी मह पाणधणं वा ओहरिअ जइ गओ हवे तदा सुहिआ हुवमु॥ (छाया) 1. अहो! पुनरपि दासत्वदृढपाशनिबद्धाऽस्मि । स पुनमहानुभावो-ऋषिर्मम प्राणधनं वाऽपहृत्य यदि गतो भवेत्तदा सुखिता मवेयम् ।
अद्भुतांशुकम् । दुश्शासनः ॥ सर्वेऽपि रथमधिरोहन्तु सत्वरम् ॥ (सर्वे स्थाधिरोहण नाटयन्ति) (सूतो वाहान्प्रेरयति) द्रौपदी॥ (अर्जुनमवलोक्य जनान्तिक) — का गई । दुजोहण- हदअम्स णअरं सण्णिहिंदं विअ दीसदि । अर्जुनः ॥ (जनान्तिकम् ) प्रिये ! रथोऽयमतिवेगात्प्रचलति । पश्य ! दुर्योधनस्योपवनोपकण्ठमायातः बहुतरवर्णसुमाढ्या सस्याळिस्स्यन्दनातिनवात् । इन्द्रधनुवल्लीव प्रतिभात्युया समैकरेखात्मा ? ॥२०॥ सतः॥ आयुष्मन् ! सौधद्वारमागतास्मः ॥ (सर्वे रथावरोहणं नाटयन्ति)- द्रौपदी ॥ " अजउत्त ! अज्ज अहं उण इद्धिआनणजोग्गे परे चिद्विस्सं ॥ युधिष्ठिरः ॥ प्रिये ! तथैव कुरु तावदिदानीं । ततश्च महाराज- दुर्योधनो यथाऽऽदिशति तथा कुरुष्व ॥ द्रौपदी ॥ तहा (इति निष्क्रान्ता) (सर्वे परिकामन्ति) ॥ (ततः प्रविशत्यात्मसमुचितासनोपविष्टैीष्मादिभिः परिवृतस्सपरिच्छद सिंहासनोपविष्टो दुर्योधनः दुर्योधनः ॥ (स्वगत) किं नाद्यापि वत्सो दुश्शासनस्समायातः १ ॥ दुश्शासनः ॥ (उपमृत्य) आर्य ! पाण्डवास्संप्राप्ताः ॥ 1. का गतिः। दुर्योधनहतकस्य नगरं सन्निहितमिव दृश्यते । (छाया) 2. आर्यपुत्र ! अथाहं पुन स्स्त्रीजनयोग्ये गृहे स्थास्यामि । 3. तथा। 12 १० षष्ठोऽदः । -- - विदुरः॥ (पाण्डवानवलोक्य स्वगतम्) जटाजटिलमौळ्योऽप्युटजवासिनो वल्कलै- रलङ्कृतसुविग्रहा धरणिमात्रशय्या अपि । कलाशनधृतासवोऽप्यमिततेजसा भासुरा युधिष्ठिरमुखा इमे त्वभिभवन्ति चक्षुर्मम ॥२१॥ (पाण्डवाः :-उपमृत्य भीष्मादीन्प्रणमन्ति) भीष्मादयः ॥ वत्सास्सत्वरं राज्यलक्ष्मीमाप्नुत । दुर्योधनः ॥ (सस्मित स्वगतं) यदि मया दीयेत ।। युधिष्ठिरः॥ (दुर्योधनमुपसृत्य) यथानियममागतास्स्मः ।। दुर्योधनः ॥ (आसनानि प्रदर्श्य) उपविशन्तु भवन्तः ॥ (सर्वेऽप्युपविशन्ति)- दुर्योधनः ॥ अपिनाम कोशागारपूत्यै पर्याप्तं धनमार्जितम् ? युधिष्ठिरः॥ काकणिकाऽपि नास्मासु । दुर्योधनः ॥ (स्वगतं) दुर्वाससा सर्वमप्यपहृतं स्यात् । भवतु । अननैव प्रकटीकरोम्यनुयोगमुखेन । (प्रकाशं) धनदादिभिर्दत्तं पाण्डवेभ्यो वित्तमिति हि किंवदन्ती॥ युधिष्ठिरः ॥ तत्सर्वमपि वसु दुर्वाससे समर्पितमस्माभिः । धृतराष्ट्रः ।। (सहर्ष स्वगत) अहो ! मयोप्तं बीजमिदानी फलितम् दुर्योधनः ॥ (स्वगत) भगवरतपोधनेन्द्र ! साधु समाचरितं भवता कदाऽप्यविस्मरणीय कर्म ॥ धृतराष्ट्रः ॥ (प्रकाशं) वस !. युधिष्ठिर ! भवतस्त्वचिरणव राज्य- प्राप्तिर्भूयादित्याशयेन कोशागारपूरणं तावत्सानुनस्य ते सुकरमित्ययं नियमः कृतः । हन्त ! विधिविलसितम् ! तदपि न नियूंढम् ॥ दुर्योधनः ॥ तर्हि प्रागिव दास्यमेव भवताम् ॥ युधिष्ठिरः ।। अथ किम् ? ॥
अद्भुतांशुकम । दुर्योधनः ॥ (जनान्तिकम्) कर्ण! निवर्तयामि तावदिदानीमत्र दौपदीदुकूलाकर्षणेन पूर्व कृतां प्रतिज्ञाम् । (प्रकाश) केदानी द्रौपदी १ ॥ युधिष्ठिरः ।। “स्त्रीजनयोग्ये गृहे तिष्ठामि" इति गता ॥ दुर्योधनः ॥ कः कोऽत्र भोः १ ॥ (प्रविश्य चेटी) चेटी ॥' आणवेदु महाराओ ॥ दुर्योधनः ॥ कुलपालिके ! मद्वचनात्पाश्चलीमित आय ॥ कुलपालिका ॥ ज देवो आणवेदि (इति निष्क्रान्ता)। युधिष्ठिरः ॥ (स्वगतं) अहो ! पुनरपि दुर्योधनकरजालके निपतिता पाञ्चाली शफरीव ॥ भीमः ॥ (स्वगतं) इनानीमहं पुनर्न सहे, यथयं दुरामा प्रागिव द्रौपद्यां दौरात्म्यमाचरेत् ॥ (प्रविश्य कुलपालिका) कुलपालिका ॥ देव ! सा उग मन्दारुज्झाणे पुष्पिणी कदा विअ निठुइ । णाहं आअमिस्संत्ति भणादि । दुर्योधनः ।। कुलपालिके ! महाराजदुर्योधनस्समाज्ञापयति दिन- रपूरितकोशागारतया दासी संवृत्ताऽसि, तदविलम्बितमायाहीत्याहय ॥ कुलपालिका || · नं देव्यो आणवेहि (इति निष्क्रान्ता)। विदुरः ।। (स्वगतं) हन्त ! कोऽयं धर्मः १ पुष्पवती कथमिव प्रविशति सभाम् ॥ (छाया) 1. आशापयतु महाराजः । 2. यदेव आज्ञापयति । 3. दवे ! सा पुनर्मन्दारोबाने पुष्पिणी लव तिष्ठति । नाइमागमियामीति भणति। 4. यदेव आशापयति।
९२ षष्ठोऽङ्कः ! (प्रविश्य कुलपालिका) कुलपालिका ॥ देव! सा भणादि "एआरिसाए दसाए कहं विअ अहं महानणमंडलभरिअंसहं पइसामि ? ता णाहं आअमिस्स"त्ति ।। दुर्योधनः॥ (सक्रोधं) आः ! दास्याः कति वार्ताः १ वत्स ! दुरशासन ! क्षिप्रमेव धम्मिल्लग्राहमानय ॥ दुश्शासनः ॥ यदाज्ञापयत्यार्यः (इति निष्क्रान्तः) ॥ भीष्मः ॥ (स्वगत) कृष्ण ! कृष्ण ! आः ! कष्टं, शान्तं पापम् । शान्तं पापम् । (इति की पाणिभ्यां पिदधाति) ॥ कृपद्रोणौ ॥ (स्वगत) राम ! राम ! शान्तं पापम्, शान्तं पापं । क्षिप्रमेव स्वमूलनाशाय यतते मूर्योऽयं (इति पाणिम्भां की पिधत्तः)॥ विदुर॥ (स्वगत) हन्त ! शान्तं पापं, शान्तं पापं, अविलम्बितमेव तस्यास्साळ्या दुःखभरान्नयनयुगल वेगलिता बाष्पबिन्दवः कुरुकुलं समूलं प्रचण्डचण्डकिरणकिरणशोषितजरबंशनिकरमिव, विशकलितलप्तरतूलराशि- मिव चाश्रयाशस्फुलिङ्गा नाशयन्ति ॥ धृतराष्ट्रः ॥ (स्वगत) हन्त ! मूर्खस्यास्य कोऽयमारम्भः १ ॥ अश्वत्थामा ॥ (स्वगतं) आः कष्टं, कुरुकुलमहाशाखिनः कुठार इव समुत्पन्नोऽयम् ॥ सम्याः ॥ (नासातले पाणिमाधाय स्वगतं) आः ! कष्टम् ।। भीमः ॥ (सामर्ष परिपूर्णिततारकस्समुत्थाय) भोभोस्सभ्याः शृण्वन्तु मक्तः ("विदार्य गदयाऽनया"-इति पूर्वोक्तमेव पठित्वा साटोपं गदां पुरः प्रसार्य " चश्चत्पीवरबाहुतोलन''-इति पूर्वोक्तमेव पठति)। युधिष्ठिरः ॥ (दीर्घ निश्श्वस्य) वत्स! कोपं मा कार्षीः (इति भीमबाहुमाकृष्य समुपवेशयति) ॥ नेपथ्ये ॥ ' अल्बम्मण्हं अब्बम्मण्हं परित्ताअदु परित्ताअदु ॥ 1. देव ! सा भणति “एतादृश्य दशया कथमिवाहं महाजनमण्डलभरितां सभा प्रविशामि, तस्मानाहमागमिष्यामि इति । 2. अब्रह्मण्यमब्रमण्यं । परित्रायता परित्रायताम् ।
-- भहतांशुकम् । पाण्डवाः ॥ (स्वगतं) अहो ! कठोरा वाणीयं तप्तशलाकेव प्रविशति कर्णविवरम् ॥ विदुरः ॥ (नेपथ्याभिमुखमवलोक्य स्वगतं) आः ! कष्टं कष्टम् ॥ शश्वद्वक्षसि चेलकर्षणकृते तेनाहित पाणिम- प्युद्भूयात्मकरेण बाष्पकलिता नीवीं गृहीत्वा दृढम् । एकेनैव करेण विश्लथ चलद्वेणीं दधाना भिया क्रन्दन्ती कुररीव धेनुरिव च व्याधानिके वेपते ॥२२॥ अयं पुनर्भुगत्मा बलाद्वेणी गृहीत्वा पुरो नुदति ।। ततः प्रविशति यथानिर्दिष्टा द्रौपदी) द्रोपदी ।। (सबाष्पं परिता विलोक्य संस्कृतमाश्रित्य) आर्या न सन्ति किमिहाद्य सुनीत्यभिज्ञा धर्मकसक्तहृदया धरणीशमध्ये १ । कर्षत्ययं शिरमि मामबलां गृहीत्वा सूनापशुं गतदयस्तु यथा शरारुः ॥२३॥ (सबाष्पं पाण्डवानवलोक्य) हे नायाः ! किमनाथामिवपञ्चापि मामुपेक्षन्ते भवन्तः ? पश्यन्तु भवदेकशरणामबलां दुरात्मनोऽस्य कर पञ्जरगतां मां कराळव्याघ्रदंष्ट्राभयानकवदनकुहरगतामिव हरिणीम् ।। अर्जुनः ॥ (युधिष्ठिरमवलोक्थ सकोधं जनान्तिक) आर्य ! न महे संप्रति--- भर्तारः पञ्च शूरा नृपसदसि तथा दुष्टदुश्शासनेन प्रागल्भ्यात्कृष्यमाणां भयतरलशं नाथनाथेत्युदश्रु । क्रन्दन्तीं वीक्षमाणा द्रुपदतनुभुवं पाण्डवाषण्डकल्पा- स्स्तब्धा मूका यतिष्ठन्निति जगति जनाः कीर्तयन्त्यार्कतारम् ॥२४॥ तदधुनैव शराग्निना भस्मसात्करोम्येनं दुरात्मानम् । (इति गाण्डीवे म्यामारोपयितुमुगुत)॥
षष्ठोऽकः । युधिष्ठिरः ॥ (जनान्तिकं) वत्सार्जुन ! सन्ति हि सभायां वेत्तारो गुरवः । पश्यामस्तावत्ते किं कथयन्तीति । तदलममर्षेण ॥ (अर्जुनः-दीर्घ निश्श्वस्य कोपमुपसंहरति) ॥ दुर्योधनः ॥ (पाणिना निनाङ्कमास्फाल्य) द्रौपदि ! ममेदं सार्व- भौमस्याङ्कमलङ्कुरु ॥ भीष्मः ॥ (पाणिभ्यां कौँ विधाय स्वगत) हा कृष्ण कृष्ण प्रतिहतममङ्गलम् ॥ द्रौपदी ॥ (सबाष्प) हा नियते ! पश्चस्वपि भर्तृव्वेवं धर्मपरेष्वयं दुरात्म। किमन्यन्न कथयेत् ॥ भीमः-सामर्षमुस्थाय “ मागास्त्वमद्य” इति पूक्तिमेव पठित्वा गदां परिभ्रामयति) युधिष्ठिरः॥ (भीमं गृहीत्वा) वत्स ! शान्तिमवलम्बस्व ॥ भीमः ॥ आर्य ! नेदं स्थानमस्माकं शालीनतायाः । तन्मुश्च माम् । (इति स्वाझं धुनोति) युधिष्ठिरः॥ वत्स ! मद्वचनादुपविश, (इत्युपवेशयति) दुर्योधनः ॥ वत्स ! दुश्शासन ! यदीय मदत नायाति तदाऽऽकर्ष दुकूलमस्याः । सर्वे ॥ हा ! हा ! (स्वगत) किमिदं ? विनाशितयाऽस्य समुत्पन्ना म्यादीदृशी धीः ॥ (दुश्शासनः-दुकूलं कर्षति) द्रौपदी ॥ (सोद्वेगं सरभसं च दुकूलेनाङ्गमाच्छाधाच्छाद्य तारतारं रुदती) हे धर्मराज-पवमान-सुरेन्द्र-इस्राः ! वन्याः कृपैकनिलया भक्तां स्नुषां हा! । दुश्शासनेन सदसीह विकृष्यमाणां त्यक्तां प्रियैश्च परिपालयताबलां माम् ॥२५॥ !
--- अद्भुतांशुकम् । दुर्योधनः ॥ वत्स ! दुश्शासन ! मा भैषीः । नीवीकलापमधः पातय । द्रौपदी ॥ (स्वगत) हा ! हा ! का गतिः ? दुश्शासनः॥ तथा (इति नीवीकर्षणायोधुळे)। द्रौपदी ।। (वेष्टमाना पाणिभ्यां नीवीं दृढं गृहीत्वा) अहो ! किमिह सर्वऽप्यन्धाः १ अथवा सर्वधाऽप्यन्धा एव भवन्तु ! किमेतैरौपाधिबन्धुभि- शक्यते कर्नु ? तदद्य क्रन्दामि तावद्भगवन्तं वासुदेवम् । (इति बाहुयुगलमुद्यम्या बिद्ध्वा) हे ! लोकनाथ ! आश्रितवत्सल ! सौशील्यादिगुणगणपरिपूर्ण ! कमलालङ्कृतवक्षस्थल! निरुपाधिकबन्धुरित्यभिज्ञ ननु ! नारायण! गीयसे तदद्य । निखिलैरपि बन्धुभिर्विमुक्तां परिपाह्याश्रितवत्सलाबलां माम् ॥२६॥ हे ! पुण्डरीकनयनाच्युत ! चक्रपाणे ! त्वामेव रक्षकतया शरणं प्रपन्नाम् । कृष्णामनन्यगतिकां करुणैकसिन्धो ! रक्षाद्य मां विवसनीक्रियमाणगात्रीम् ॥२७॥ (दुश्शासनः-विवर्धमानविविधदुकूलाकर्षणश्रममभिनीयाधोमुखः पतति) सर्वे ॥ (सहस्तताळं साश्चर्य च) अहो ! अद्भुतांशुकमभिवर्धते । (गगनात्पुष्पवृष्टिः पतति) (ततः प्रविशति कृष्णः) कृष्णः ॥ येन यः पाण्डवसकाशादपहृतो द्रविणभारः, शुश्रूषाप्रसन्नस्य वरप्रदानोन्मुखस्य तस्यैव दुर्वाससस्सकाशात्तमेवाहमादाय तेनैव दुर्योधन- धनागारमपूरयम् । स्यान्नामैतत् । हन्त ! न सहे तादृशीं तपस्विनी पश्यन्तो ये निर्व्यापारा गाव इवातिष्ठन् , तानधुनैव हन्मि पाण्डवान् । (इति साटोपं परिक्रम्य सविमर्श) हुँ! अथवा मद्भक्ताया द्रौपद्या मङ्गलसूत्रकृते जीवन्तु ते । (द्रौपदी दूरादवलोक्य सबाष्पं)-- !
षष्ठोऽकः ।
बाष्पप्रवाहपरिषिक्तसमस्तचेला
बद्धाञ्जलिहरिणशाबकलोलदृष्टिः ।
आश्रित्य मामपि यदीदृशदुःखसिन्धौ
मग्नेति तत्तुदति हन्त । ममाद्य चित्तम् ॥२८॥
(सगद्गदं) हन्त ! मुनिवरिवस्यासक्ततया दूरे स्थितेन मया तदैव ताव
न रक्षितेयमिति प्रदग्धं भवति मे हृदयम् । (इत्युपसृत्य) अरे मूर्ख ! तिष्ठ तावत् ।
सर्वे ।। (समय) हन्त ! कृष्णस्संप्राप्तः ।
धृतराष्ट्रः ॥ (सभयं-स्वगत) कथं कृष्णः १, हन्त ! स तु पाण्डव-
पक्षपाती वत्सं किं वा करोतीति न जाने (प्रकाश) क्षमस्व कृष्ण ! मूर्खेनानेन
कृतमपराधम् ॥
विदुरः ॥ (सबाष्पं–सानन्दं) अम्ब ! द्रौपदि ! धन्याऽसि,
(अञ्जलिं बद्ध्वा)--
भक्ताधीनः कृपाळुस्सरभसमचिरादेत्य पाश्चालिकाया
रक्षार्थ पीतचेलं क्षितितलगळितप्रान्तमसैकलग्नम् ।
कर्षन्नुच्छ्वासलोलं मरकतफलकस्फीतनीलं दधानो
वक्षश्श्रीवासुदेवश्शिशिरयति दृशौ भाग्यतो मे यथेन्दुः॥२९॥
कृष्णः ॥ भो! दुर्योधन ! पाण्डवैरेवार्जितेन धनराशिना पूरितं
तावत्तव कोशागारं, तदेतेषां नैव दास्यम् । तद्दीयतां राज्यम् ॥
भीमः ॥. (सामर्षमुत्थायोरसि पाणिमाधाय) स्वतन्त्रसंवृत्तोऽस्मीदानीम् ।
भोभोः ! सभास्ताराः ! सावधानं शृण्वन्तु भवन्तः । (इति गदया
दुशासनं निर्दिश्य)---
अस्य क्षीरस्य वक्षः प्रणिहितगदया वेणुदारं विदार्य
क्षुभ्यत्कोष्णं क्षरत्तत्क्षतजमभिनवं बुद्बुदाढ्यं कराभ्याम् ।
पायं पायं नृपाणां धुरि रणशिरसि क्रोधवहिं ज्वलन्तं
भीमोऽयं क्षिप्रमेव प्रशमयति तदा वार्यतां धैर्यतोऽन्यैः ॥३०॥
भांशुरुम् । (टोपी-मानमितमुखी वेणीमुपसंहर्त मधुके)। भीमः ॥ (सरभस) प्रिये ! तिष्ठ तावत् । मा संहर वेणीम् । शृणु। तावत् । अयं जनः-- हल्लकेन परिमण्डितां वने .. धार्तराष्ट्रपशुनाऽद्य गर्हिताम् । रकपाणियुगळेन वल्लभे ! वेणिकां तव तु संहरिष्यति ॥३१॥ किंच । शृण्वन्तु भवन्तः । (दुर्योधनं गदया निर्दिश्य) ।। प्रचण्डहतिखण्डितप्रलुठितानुजानां शतं निरीक्ष्य तव तत्क्षणं क्षुभितपूर्णिताक्षस्य तु । कठोरगिरिकूटवत्कठिनसक्यियुग्मं द्विधा, विदार्य गदया रणे शिरसि वामपादोऽर्प्यते ॥३२॥ (इति साटोपं वामचरणेन क्षितितलं प्रघट्टयति) दुर्योधनः। (साट्टहासं) भीम ! अलमलं विकत्यनेन । तिष्ठ तावत् । इयन्तं कालं क्वापि लीनं पौरुषं कृष्णदर्शनमात्रेण पुनरिदानीमुद्भिन्नम् । (सक्रोध) कयं वा स्वतन्त्रोऽसि ? किं तद्धनं भवदार्जितं ? द्यूते तावत्कृष्णो, न पराजितो हि, तदद्य कृष्णेन पूरितमपि कोशागारमपूरितकल्पमेव । न वयमीश्या विभीषिकाया बिभीमः । तद्यूयं दासा एव ।। भीष्मः ॥ तात ! दुर्योधन ! कोपं मा कार्षीः । “पाण्डवार्जितैरेव धनमया पूरितं कोशागार"मित्युक्तं हि वासुदेवेन । तदेतेषां नैव दास्यम् । तबीयतां राज्यम् ॥ दुर्योधनः ॥ अनुचिता हि वृद्धानां भवतामत्र वाक्प्रवृत्तिः । न वयं श्रद्धधीमहि कृष्णवचनम् । (इति सत्वरमुत्याय कर्णदुरशासनशकुनिमि. स्सह साटोपं निष्क्रान्तः) ॥ द्रौपदी ॥ (सवाष्पमुपसृत्य) ' मभवं ! सरणागअवच्छळ ! पंचाळी हं वन्दामि (इति प्रणमति)॥ (छाया) 1. भगवन् ! शरणागतवत्सल! पात्रात्यहं वन्दे । 13 षष्ठोऽङ्कः । । कृष्णः॥ (सवाष्पं सगद्गदं च) अम्ब । सतीमणे ! क्षिप्रमेवानुभुंश्व वेणीसंहारम् । (युधिष्ठिरमुपसृत्य) आर्य । अलं चिन्तया । कथमपि युषयो- स्सन्धि करिष्यामि । यदि स दुर्योधनो निनशाठ्यमेव प्रदर्शयेत् , तदाऽनन्तरकरणीयं करिष्यामः ।। युधिष्ठिरः ॥ वासुदेव ! परस्परं कथमपि सौहार्दमेव कल्पय । स तु साकल्येनास्मदार्जितं प्राज्यं राज्यं नैव ददातु । किन्तु ग्रामपञ्चकेन सावदलम् । तावतैव सौहित्यमाप्यतेऽस्माभिः ।। कृष्णः ॥ आर्य ! तथैवास्तु । किमन्यत्ते प्रियमुपहरामि ? युधिष्ठिरः ।। चिरप्ररूढवरेण कौरवणास्माकं यत्सन्धि कल्पयसीति, ततोऽप्यस्ति किं प्रियमन्यत् १ तथापीदमस्तु भरतवाक्यम् - भूपालाः परिपालयन्तु भुवनं न्याय्येन सम्यक्पया स्याद्गोब्राह्मणमण्डलाय कुशलं लोकोऽस्तु नित्यं सुखी। कासारा रसपूरिता विटपिनः पुष्पैः फलैस्सम्भृता- स्सस्यात्या धरणिश्च सन्तु समये वर्षन्तु धाराधराः ॥३३॥ (इति निष्क्रान्तास्सवे) इति श्रीयदुशैलवासि-बालधन्वि-जग्गू-वकुळभूषणकवि- विरचिते अद्भुतांशुकनाटके षष्ठोऽङ्कः ॥ (षष्टोऽ: सम्पूर्णः) सम्पूर्णमिदं नाटकम् ॥ भद्रमस्तु॥ ----- शुद्धाशुद्ध पत्रिका पतौ पुटे (अशुद्धं) (शुद्ध) १५ ३ दाज्ञा, हतमेवं दाज्ञा, हतमेव .... ४ प्रस्तावना प्रस्तावना .... .... २१ ar .... १३ ७ ...." ... २० ९ १० १० १६ १५ १६ ३ आज्ञपयतु वन्दायि नहाराज दुर्योधनः पिङ्ककेशः दर्धिकर्णः जित्रजटः दर्षि जित्र शोमि परिता आज्ञापयतु वन्दामि महाराज दुर्योधनः पिङ्गाकेशः दीर्घकर्णः चित्रनटः दीर्घ चित्र शोभि पूरिता ११ १३ १७ १८. ..... २० .... .... २० १४ 44. .... घान्तत चान्तत १० ११ ... १२ ...... .... योद्धत कचुकी आर्य भावानेव योद्धतं कचकी आर्य भवानेव .... १४ २५ .... अद्रत .... अद्धता 2 पतो पुटे ११ ११ ... (अशुद्ध) घाटिता पिहिताङ्गः उझिम कथयिष्यमि मादीया ar ५१ ...... ... (शुद्ध) घटिता पिहिताङ्गः उन्झि कथयिष्यादि मदीया तवृक्ष ऐन्द्रीय २३ ५१ ९ १० .... १९ ear तदवृक्ष ऐद्रीय भांजन प्रालेयव्यंति पाणिभ्या भाजन .. १४ १७ प्रालेयव्यति पाणिभ्यां ६६ .... १२ १६ ६१ ७ ८२ लङ्कताम् समयं वोठजो युधिष्टि भणित लड़ताम सभयं वोटनो युधिष्ठि भणितम् ८२ २४ ८२ १० मुत्याय मुत्थाया थळंत १५ ८४ थळाअमाण २२ ८१ त्पुन पुन तुषाया तृषाया ८ नम् धनम् 3 -- Sri U. P B. Annangaracharya Swami-Principal, Sanskrit College, Little Conjeevaram:- यदुगिरिनिवासरसिकैः कवितावनितास्वयङ्ग्रहैकान्तः । जग्गुशठनिक्वीन्द्र- रचिता बह्वीः कुतीः पठन् मोदे ॥१॥ अद्भुतांशुकसमाख्यमनन्तै- रहुतैस्सुललितैर्मधुराषैः वाग्भरैरतिमनोहरमेत- नाटकं सुमनसां निधिरेव ॥२॥ अनायातमुपद्धिरत्यकुला- गिरां सन्निवेशगंभीरं मनोज्ञम् । सुधीभाग्यरूपं तमेतं निबन्धं निरीक्ष्याहमानन्दसिन्धौ न्यमज्जम् ॥३॥ इति काञ्चीपुरीवासी प्रतिवादिभयङ्करः । अण्णारार्यदासोऽयं प्रशशंस प्रहृष्टधीः ॥४॥ (२५-४-३१.) Praktana Vimarsa Vichakshana, Karnataka Prachya Vidya Vaibhava Malleswaram, Rao Bahadur BANGALORE R. Narasimhacharya, M.A., M.R.AS. 10--2-1932 Sriman Vidvan Jaggu Alvar Iyengar has written a drama in Sanskrit styled "Adbhutamsukam." He read out portions of the work to me. Though the author' is II young the work has to be looked upon as a very credi. table performance The verses run smoothly and the style adopted is appropriate to the characters of the drama. This is intended by the author to form the preliminary portion of the famous drama, the Venisamhara". The young poet deserves every encourage ment. R. NARASIMHACHAR, Retd. Director of Archäology in Mysore Un..
अस्य कवेः प्रबन्धा अमुद्रिताः ॥ WORKS BY THE SAME AUTHOR (UNPUBLISHED.) 1. BARISA778** (Syamantakam-Drama.) 2. जयन्तिका-कथा (Jayantika-Prose Fiction ) 3. SUITE fruit (Karuna.rasa tarangioi) 4. tit-fa-99 (Lakshmi-stuti.manjari) 5. यतिराज-स्तवः (Yatiraja stava) 6. पथिकोक्तिमाला (Pathikokti'mala) AND OTHER WORKS Apply to- Sri Jaggu Alwar Iyengar, (Sahitya-Vidvar) MELUKOTE, (Via French Rocks)
No text on this page.