Sringeri Sharada Peetham
Advaita Vidyatilakam
Front matter
GHOSH
THE
PRINCESS OF WALES
STORE
SARASWATI BHAVANA TEXTS
* 24
NO. 31.
(PART I)
NO
EDITED BY
GOPI NÄTHA KAVIRAJA
THE
ADVAITA VIDYATILAKAM
( PARTI I)
Printed boy Jrvi Krislau Das (
oppta
At the Vidya Vilas Press, Gopal Manulir Lane,
Benores City
1930
श्रीसमरपुङ्गवदीक्षितकृतम्-
अद्वैतविद्यातिलकम्
श्रीधर्मय्यदीक्षितकृत 'दर्पण' नामकटीकासहितम्
पण्डित श्रीगणपतिलाल झा शर्मणा संशोधितम्
THE
ADVAITA VIDYATILAKAM
By
SRĪ SAMARAPUNGAVADĪKSITA
WITH A COMMENTARY BY
S'ri Dharmayya Dilsita
Eliteid vrith Introduction, te
By
GANAPATILAL JHA, M, A.,
SADHOLAL RESEARCH SCHOLAR,
(tovernment Sanskrit Library,
BEYARLS.
19:30.
PREFATARY NOTE. a on The following edition of the Advaitavidyātilaka by Samara Purgava Dikşita and its Commentary, called Darpana, by Dharmayya Dikṣita, is based upon single manuscript of the work existing in the Sarasvati Bhavana Library of the Government Sanskrit College, Benares. The work is it Commentary the Bralımasūtras of Bādarīyang, written after the manner of Sakarā hārva, in the form of ealogistic verses addressed to S'iva. The adhikaranas are arranged in proper sequence and carefully sumined up in the text. It is presented to the public for the first time in the hope that it may afford some facilities for understanding the true import of the Vedanta Sūtras in the light of Sajkaracharya. The age and personal details of the authors of the Text and Commentary will be fully discussed in the Introduction which will appear in the second part of the work. Sarasvati Bhaviwa, Benares. GANPATI LAL JHA.
ॐ - श्रीसमरपुङ्गवदीक्षितकृतम्- अद्वैतविद्यातिलकम् । श्रीधर्मय्यदीक्षितकृत 'दर्पण' नामकटीकासहितम् । दक्षिणोरुनिहितं पदाम्बुजं वेदबोधितमिदं परं पदम् । मुद्रयेति विबुधान् विबोधयन् पाटवं दिशतु मे धियः शिवः ॥१॥ दद्यादप्पययायकतिलकश्रीसूक्तिभागीरथी मीमांसापदमानहंसविलसचक्राहनक्रोज्ज्वला । गन्तव्येशसरित्पतिः प्रतिबुधप्रान्तद्रुमैः पातिभि- तिप्रौढरया सहस्रसराणिः सा मे धियः पाटवम् ॥२॥ अस्ति प्रशस्तचरितो भुवि मित्रमिश्रः शाण्डिल्यगोत्रकलशाम्बुधिलब्धजन्मा । पुंसः परस्य हृदयङ्गमकौस्तुभोऽसौ सर्वासु दिक्षु विततोर्जितकीर्तिराशिः ॥ ३ ॥ विकासयति पङ्कजं जगति धर्मरश्मिः स्फुटं विरिश्चिशिवकेशवप्रमुखदेवपूजापरः ।
अद्वैतविद्यातिलकदर्पणम् । कराम्बुरुहकुड्मलः सरलमित्र मिश्रस्य भो विकासि करनीरज कलयतेतरामर्थिनाम् ॥४॥ अद्वैत विद्यातिलकाभिधाना. शम्भोः स्तुतिः सामरपुङ्गवीया । तनोति टीका बुधमित्र मिश्र. सम्प्रेरितो धर्मयदीक्षितोऽस्याः ॥ ५ ॥ यद्यपि-'निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्', 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा', 'यत्र त्वस्य सर्वमात्मैवाऽभूत् तत्केन कं पश्येत', 'प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंजि- तम् ॥'-इत्यादिश्रुतिस्मृतिसन्दोहसम्पतिपन्न निरस्तसमस्तक कर्मादिभेदप्रपञ्चम् अखिलवाअनसपथातीदं निर्गुणं शिवतत्वं न स्तुतिगाचकिर्तुं शक्यं, तथाऽपि-'मायां तु प्रकृति विद्यान्मा- यिनं तु महेश्वरम्', 'उमासहायं परमेश्वरं प्रभु.त्रिलोचनं नीलकण्ठं प्रशान्तम्', 'अमूर्तं यत्परं ब्रह्म सादरश्रुतिचोदितम् । सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम् । तस्येदमैश्वरं रूपं खण्डचन्द्राव- तंसकम् । तमालश्यामलगलं लसद्भालविलोचनम्'-इत्यादिश्रु- तिस्मृतिशतप्रतिपन्नं स्वाधिष्ठिताऽनिर्वचनीयमायाकल्पितगुणा- दिविभागम् अजाव्ययाद्यनन्तमङ्गल्यगुणमणिगणरत्नाकरं नी. लकण्ठत्वविरुपाक्षत्वादिविशिष्टशुद्धतत्त्वमयविविधविग्रहविभ्राज- मानम् उन्मनान्तसकलभुवनातीतसोमलोकाख्यपरशिवपुरनि- यतविहिताविर्भावम् उमासहायं परशिवशद्वितं फलाध्यायतुरी.
प्रथमाध्याये प्रथमः पादः- ३ यपादतृतीयाधिकरणे 'ब्राह्मण जैमिनिरुपन्यासादिभ्यः' इत्यत्र बद्धपुरुषापेक्षया सगुणं मुक्तपुरुषापेक्षया निर्गुणं प्रतिपादित तमेव परमेश्वरं स्तोतुकामः आदौ शिष्टाचारपरिप्राप्तं मङ्गलं श्लोकद्वयरूपेण कृतं प्रबन्धादौ निबध्नाति- - कल्याणानि करोतु वः स भगवान् कात्यायनीनन्दनो यस्याभ्यन्तरमम्बिकाजनकयोर्यातस्य लीलाविधौ ॥ साकं भाति तदाननैर्मुखततिः छायाधि स्पर्धया स्वात्मानं बहुधेव संभृतवतश्चन्द्रस्य बिम्बावलिः॥१॥ पुत्रोमाविशिष्टशिवानुसन्धान तत्क्रतुन्यायेन स्वस्थाऽपि तादृशगुणप्राप्त्यर्थमिति कवेहृदयम् । 'तस्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवम् । तेषां शाश्वतिकी सिद्धिर्नेतरेषामिति श्रुतिः ॥ इति ॥१॥ 'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षि तमसः परस्तात् इत्यादिश्रुतिभिः उमाविशिष्टशिवानुसन्धानस्य परमपुरुषार्थ- हेतुत्वावगमात् गुरुरूपेण शिवानुसन्धान शास्त्रार्थस्फूर्तिहेतुरिति शक्तिविशिष्टशिवरूपं गुरुमनुसन्धत्ते- अङ्कस्थायाः किमपि वलता हैमवत्याः कुचाग्रे व्याचक्षाणं मदननिगमान् वामहस्ताम्बुजेन ।
४ अद्वैतविद्यातिलकदर्पणम् । अन्येनार्थानकृतकगिरामञ्चता बोधमुद्रा- मी साक्षादखिलजगतामीशमाचं गुरूणाम् ॥ २ ॥ इति ॥ २॥ सकलनिगमा अपि त्वां स्तोतुं चकितचरिताः सन्त: कथश्चन त्वां स्तुवन्ति माहशस्य का गतिरिसाशझ्य स्तोत्रेण सम्भावितापराधं परमेश्वर एव दूरीकरोत्विति प्रार्थयते- -- क्वाऽहं जडः क्व च कुलाद्रिसुतापते त्वं निर्धारणीयमहिमा निगमैरनन्तः ॥ तस्य स्तुति तव विधातुमभीप्सतो मे डिम्भस्य चापलमिदं धिनुतान्मनस्ते ॥३॥ [१ जिज्ञासाधिकरणम् ] अथातोब्रह्मजिज्ञासा । (बसू०१।१।१) 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासित- व्यः' इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनश्रवणं विधीयते । श्रवणं नामाऽद्वितीये ब्रह्मणि वेदान्तानां तात्पर्यावधारणानुकूलो व्यापारविशेषः । ब्रह्मविचारात्मकं शास्त्रपारभ्यं न वेति विषय- प्रयोजनसद्भावाभावाभ्यां संशये पूर्वपक्षः । 'तत्त्वमसि', 'अयमा- स्मा ब्रह्म', 'सत्यं ज्ञानमनन्तं ब्रह्म' इसादिवाक्यौनिश्चितत्वात् ब्रह्म प्रथमाध्याये प्रथमः पाद:- णः सन्देहाभावान विचारविषयत्वं, प्रयोजनाभावाच्च तत्वमसि' 'अयमात्मा ब्रह्म' इति वाक्यैर्ब्रह्मनिर्णये सत्यपि अविद्यानिवृत्तिरू. पफलाऽदर्शनादिति प्राप्ते सिद्धान्तयति- - प्रत्यक्तया वदति वेदशिखा भवन्त- मन्यात्मना कलयते तमहंप्रतीतिः । आत्मस्वरूपमवधारयितुं त्वदीयं धन्यो वृषाङ्क तनुते श्रवणं विमुक्त्यै॥ ४ ॥ वेदान्ताः हे वृषाङ्क त्वां 'अयमात्मा ब्रह्म' इति जीवाभि- नं वदन्ति । प्रत्यक्षं तु नाऽहमीश्वर इति तद्विरुद्धमर्थं विषयी. करोति । अतः प्रमाणद्वयबलाबलानिरूपणात् संशये साधनचतु- ष्टयसम्पन्नः मुक्तिफलाय श्रवणं तनुते इत्यर्थः । स्थूलोऽहं, कृशोऽहं, गौरोऽहं, काणोऽहं, बधिरोऽहम् , इत्याग्रहप्रत्ययानां दृष्टविसंवादतया पूतिकूष्माण्डायमानोऽहमीश्वराद्भिन्न इति प्रत्ययो बाध्यते श्रुत्येति । न चैवं 'अयमात्मा ब्रह्म' इत्यादिवाक्यार्थ- ज्ञाने सत्यपि अज्ञाननिवृत्त्यदर्शनेन प्रयोजनाभावादिदमनारम्भ- णीयमिति वाच्यम् , असम्भावनाविपरीतभावनारूपप्रतिबन्धक- सत्त्वान्न तेन तन्नित्तिः, न हि प्रतिबन्धदशायां तृणायदाहकस्य वहेस्तद्दाहकत्वं हीयते । मनननिदिध्यासनाभ्यां तन्नित्तावविद्या निवर्तत एवेति सप्रयोजनं च शास्त्रमारम्भणीयमेवेति । विषयसं- शयपूर्वपक्षसिद्धान्तसङ्गतीनामाधारोऽधिकरणम् ॥ ४ ॥ , ६ अद्वैतविद्यातिलकदर्पणम् । [२ जन्माधिकरणम् ] : जन्माद्यस्य यतः । (ब्र०सू०१।१।२) 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जी- वन्ति, यत्प्रयन्त्याभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति', 'सत्यं ज्ञानमनन्तं ब्रह्म', 'यो वेद निहितं गुहायां परमे व्योमन्', 'सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते स. र्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणानां ध्याता का- रणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरः शंभुः' इत्या- दिविषयः । प्रयन्ति म्रियमाणानीत्यर्थः । इह श्रूयमाणं लक्षणं घटते न बेति संशय: । जन्मादिकं वा जन्मादिकारण- त्वं वा तटस्थलक्षणं न संभवति । जन्मादीनां जगन्निष्ठत्वेन ब्रह्मसम्बन्धाभावात् । द्वितीयं तु कल्पितं ब्रह्माण वर्तते तथाऽपि कल्पितेन कथं सत्यं ज्ञापनीय काऽप्यदर्शनात् । स्वरूपलक्षणमपि न घटते, लोकमसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न मिद्ध्येत् । अप्रसिद्धस्य सत्यादेर्लक्षणत्वमयुक्तं तस्माल- क्षणद्वयमप्यनुपपन्न मिति प्राप्त सिद्धान्तयति- आशीविषो य इह रज्जुरसावितीव यत्कारणं स शिव इत्युपपचिलाभात । सत्यादिशब्दनिकरैरपि चैत्यसिद्धे- रकद्धयं तव न दुर्घटमङ्गजारे ॥ ५ ॥ m- प्रथमाध्याये प्रथमः पादः- न जन्मादिकमन्यनिष्ठमपि शाखाग्रं चन्द्रमसमिव ब्रह्म लक्षयेत् । जगत्कारणत्वं ब्रह्मणि कल्पितं ब्रह्म ज्ञापयेदेव, योऽयं सर्पः सैव रज्जुरित्यत्र मिथ्याभूतस्यापि सत्यज्ञापकत्वदर्शनात् । यजगत्कारणं तद्ब्रह्मति लक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुतभ्रातृजामात्रादिशद्वानामेकदेवदत्तपर्यवसायित्वे यथा विरोधस्तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशद्वानामखण्डब्रह्मप- यवसायित्वे स्वरूपलक्षणसिद्धिरिति लक्षणद्वयमप्युपपन्नम् । श्लोकार्थः स्पष्ट एव । इह देशे यो भोगीति ज्ञातः स एवं रज्जुरिति मिथ्याभूतस्य सर्पस्य सत्यरज्जुज्ञापकत्वदर्शना- दिति ॥ ५॥ [३ शास्त्रयोनित्वाधिकरणम् ] शास्त्रयोनित्वात् । (व सू०१।१३) 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः' इति श्रूयते विषयः यदृग्वेदादिकम- स्ति तदेतस्य नित्यसिद्धस्य ब्रह्मणो निश्वास इवाप्रयत्नेन सिद्धमित्यर्थः । ब्रह्मणो वेदकर्तृत्वं युक्तं न वेति संदेहे न युक्तमिति पूर्वः पक्षः । वाचा विरूपानित्य येत्यादेर्वाचो नि. त्यत्वप्रतिपादिकायाः श्रुतेविरोधात , वेदानां ब्रह्मकार्यत्वे पौरुषेयत्वेनाप्रामाण्यप्रसङ्गाच । तस्मात् ब्रह्मणो न वेदकर्तृत्वमिति मासे सिद्धान्तपति- - अद्वैतविद्यातिलकदर्पणम् । सर्वज्ञतां वहसि यत्नसमुत्थितेन विश्वावभासकरखेदनिबन्धनेन । पूर्वोक्तश्रुतेर्निश्वसितबद्वेदराशेरप्रयत्नेन ब्रह्मणः प्रादुर्भावा- वगमात् , 'ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति श्रुतेश्व, वेदकर्तृत्वसिद्धिः। स्वात्मनि विलीनानां वेदानां पूर्वपूर्ववर्णानुपू- य॑नुरूपरचनया पुनः कर्ता भवति सर्वज्ञः परमेश्वरः । अत एवं वेदानामपौरुषेयत्वमीश्वरकार्यत्वं च। अतो निरस्तसमस्तदो- पस्यावाप्तसमस्तकामस्य परमेश्वरस्य वचनं प्रमाणमेव । अतः सर्ववस्त्ववभासकानां वेदानां कर्तृतया परमेश्वरस्य सर्वज्ञता निश्चीयते, अज्ञातस्य वक्तुमशक्यत्वादिति ब्रह्म सर्वज्ञमिति सिद्धम् । अत्र वर्णिकान्तरमुच्यते- अत्र जगत्कारणं ब्रह्म शास्त्रैकगम्यमुत प्रमाणान्तरेणापि वेति सन्देहः । सावयवत्वेन जगतः कार्य प्रसाध्य कार्यत्वेन प्रपञ्चः स्वोचितकर्तृक इति कश्चित् कल्पनीयः सर्वज्ञत्वादिमान् । नासौ शास्त्रैकगम्य इति नास्मिन् शास्त्रस्य प्रामाण्यं, शास्त्रस्य प्रमाणान्तरामाप्तविषयत्वात् , इति पूर्व पक्षे सिद्धान्तयति- - . रूपादिमत्त्वविरहादाप लोचनादि- सीमातिगश्रुतिशिरोनिकरैकवेद्यः ॥ ६ ॥ जगत्कारणं ब्रह्म वेदान्तशास्त्रैकगम्यम् । 'नावेदचिन्मनुते प्रथमाध्याये प्रथमः पादः- - तं बृहन्तम्' इत्यादौ शास्त्रमन्तरेण ब्रह्मणो बोधासंभवश्रव- णात् । यदुक्तमनुमानेन कर्तृसिद्धिरिति तदसत् , विचित्ररचनस्य गोपुरमासादादेवहुकर्तृकत्वदर्शनेन नानुमानेनैककर्तृकत्वसिद्धिः । व्याप्तिबलेन तस्य कर्मवश्यत्वादिकमपि सिद्ध्येत् । विलक्षणैककर्तृ- सिद्धावपि निमित्तोपादानशक्तियुक्तककर्वसिद्धिस्ततो नास्येव । तस्माद्वेदान्तैकगम्यं ब्रह्मेति सिद्धम् । श्लोकार्थस्तु-निःश्वाम- वदयनसिद्धेन सर्वविषयज्ञानजनकेन त्वत्कर्तृकवेदप्रबन्धेन सर्व- ज्ञत्वं तव सिद्धम् । ब्रह्म रूपादिहीनत्वात् प्रत्यक्षं न भवति, तद्व्याप्तलिङ्गाभावान्नानुमानगम्यमतः श्रुत्येकवेद्य- मित्यर्थः ॥ ६ ॥ ४ समन्वयाधिकरणम् ] तत्तु समन्वयात् (ब्र सू०१२११४) अत्र सर्वाणि वेदान्तवाक्यानि विषयाः । सर्वे वेदान्ताः ब्रह्म स्वप्राधान्येन प्रतिपादयन्ति न वेति संशयः। न प्रतिपा- दयन्ति । जीवप्रकाशकवाक्यानि कपराणि, ब्रह्मप्रकाशकवा- क्यानि देवतापराणि, सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति । ब्रह्मपरते त्वनुष्ठानासंभवात् निःप्रयोजनत्वं स्यात् । तस्माद्वेदान्ताः कत- देवतासाधनप्रतिपादनपरा इति प्राप्ते सिद्धान्तयति- अद्वैतविद्यातिलकदर्पणम् । हे वाकलिङ्गनिवहेन भवन्तमेव प्राचीनवागवधयः प्रतिपादयन्तः। ब्रह्मपराः वेदान्ताः, भिन्नप्रकरणपठितानां तेषां कर्तृत्वादि- प्रतिपादकतया कर्मशेषत्वासंभवात् , तात्पर्यनिश्चयहेतुभिः षड्भि- लिङ्गैब्रह्मपरत्वसंभवाच्च । तानि च-'उपक्रमोपसंहागद्यभ्यासोऽ. पूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये' इति । 'सदेव सोम्येदमग्र आसीत्' इत्युपक्रमः । 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि' इत्युपसंहारः । तयोब्रह्मवि- षयत्वेनैकरूप्यमेकं लिङ्गम् । असकृत्तत्त्वमसीत्युक्तरभ्यासः । मानान्तरागम्यत्वमपूर्वता । एकविज्ञानेन सर्व विज्ञानं फलम् । मृ- ष्टिस्थितिप्रलयप्रवेशनियमनप्रतिपादकानि वचनान्यर्थवादाः। मृ. दादिदृष्टान्ता उपपत्तिः। एतैलिङ्गैः स्वातन्त्र्येण [वेदान्ताः] ब्रह्म- परा एव । न चानुष्ठानमन्तरेण प्रयोजनाभावः, 'नायं सर्पः' इत्यादाविव बोधादनर्थनिवृत्तः संभवात् । वर्णकान्तरमेकदेशी मन्यते- ब्रह्मपरत्वेऽपि न वेदान्ता ब्रह्मण्येव पर्यवस्यन्ति, पारो- क्ष्येण ब्रह्मतत्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा च सति वेदान्तानां शासनाच्छास्त्रत्वमुपपद्यते । किञ्च, 'श्रोत- व्यः' इति श्रवणं शादज्ञानात्मकं विधायाथ 'मन्तव्यो निदिध्या- सितव्यः' इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेत्र विधीयते ।
प्रथमाध्याये प्रथमः पादः- तस्मात् प्रतिपत्तेर्विधातारो वेदान्ता इति प्राप्ते सिद्धान्तयति- कार्येतरग्रहविधौ विमुखा भजन्ते त्वय्येव पर्यवसितुं तुहिनांशुमौले ॥ ७ ॥ न प्रतिपत्तिविधिः संभवति, कर्तुमकर्तुमन्यथाकर्तुमशक्यत्वे. नापुरुषतन्त्रत्वात् । शास्त्रत्वं तु नानुष्ठयशासनादेव नियतं, सिद्धवस्तुशंसनेनापि तदुपपत्तेः । शादज्ञाने जाते पश्चात्तदनुभवा- त्मकं मननादिकं विधीयते इति वक्तुं न युक्तं, दशमस्त्वमसी• तिवत शद्धस्यैवापरोक्षानुभवजनकत्वेन शाबोधात्पुरैवासंभा- वनाविपरीत भावनानिवृत्तये व्यापाररूपस्य कर्तृपरतन्त्रस्य. मननादेविधानात् । तस्मात्तत्त्वमसीत्यादयो वेदान्ताः ब्रह्मणि व्य. वस्थिता इति । श्लोकार्थस्तु, वेदान्तास्तात्पर्यलिङ्गै भवन्तमेव प्रति. पादयन्तः पुरुषकृत्य साध्यज्ञानविधौ विमुखाः सन्तश्च हे तुहिनां- शुमौले त्वय्येव पर्यवसितिं भजन्त इति ॥ ७ ॥ [५ ईक्षत्यधिकरणम् ] ईक्षतेन शब्दम् । (बसू०११।५) छान्दोग्ये श्रूयतेऽस्य विषयः । 'सदेव सोम्येदमग्र आसी. देकमेवाद्वितीयम्' इति प्रस्तुत्य 'तदक्षत बहु स्यां प्रजायेयेति तत्तेजोऽस्जत' इति । सांख्या मन्यन्ते-सच्छद्ध- वाच्यं सर्वजगत्कारणं प्रधानं न तु ब्रह्म, प्रधानस्य सत्वगुणयु.
अद्वैतविद्यातिलकदर्पणम् । an. - क्ततया परिणामितया च ज्ञानक्रियाशक्तिसम्भवात् , निर्गुणस्य कूटस्थस्य तदसंभवादिति प्राप्ते सिद्धान्तयति- निध्यातृभावकथनादपि नामरूप- व्याकर्तृदैवतपरादपि चात्मशब्दात । छान्दोग्यवाक्यगतसत्पदवेदनीयो हेतुस्त्वमेव जगतामसि चन्द्रमौले ॥८॥ ईक्षितृत्वश्रवणाच्चेतनं ब्रह्म सच्छब्दवाच्यम् । अचेतनस्य प्रधानस्येक्षितृत्वासम्भवात् । ज्ञानक्रियाशक्ती तु ब्रह्मणि मा. यया सम्भविष्यतः । किञ्च 'अनेन जीवेनात्मनानुप्रविश्य नाम- रूपे व्याकरवाणि' इति नामरूपव्याकी जगत्कारणदेवता स्ववाचकेन शब्देन चेतनं जीवं व्यपदिशति, तथा 'तत्वमसि' इति चेतनस्य श्वेतकेतोजेगत्कारणतादात्म्यं गुरुरुपदिशति । तदुभयमपि अचेनतस्य प्रधानस्य जगत्कारणत्वे विरुद्ध्यते । 'पुरु वै रुद्रः सन्महो नमोनम' इति श्रुतौ शिवस्य सच्छ हवा. च्यत्वं दृश्यते । तस्माच्चेतनं ब्रह्म सच्छदवाच्यं कारण मिति सिद्धम् ॥ ८॥ [६ आनन्दमयाधिकरणम् ] आनन्दमयोऽभ्यासात् । (बसू०१।१।१२) 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमय' इसा- प्रथमाध्याये प्रथमः पादः- - रभ्य 'तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तर: पक्ष, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा,' इति श्रूयते विषयः । तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमयपाण- मयमनोमयविज्ञानमयानन्दमयसंज्ञिताः पञ्चपदार्थाः क्रमेण एकै. कस्मादान्तराः पठिताः । तत्र सर्वान्तरस्यानन्दमयस्य 'ब्रह्म पुच्छं प्रतिष्ठा' इति ब्रह्मानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं प्राधान्यतः प्रतिपाद्यत इति संशये सति, आनन्दमयस्यावयवत्वे- नेति तावत्प्राप्तम् । लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्ध. त्वादिति प्राप्ते सिद्धान्त:- पुच्छोक्तिलक्ष्यपुरुषाश्रयभावशालि- ब्रह्मावबोधजनिका भणितिः पुराणी। स्वदगोचराम्यसनतस्त्वदुपक्रमाच्च प्राधान्यतः शिव भवत्प्रतिपादयन्ती॥९॥ उच्यते-न पुच्छशब्दोऽवयववाची किन्तु लांगूलवाची । नचानन्दमयस्य लांगूलमस्ति, लांगूलस्य गवादिलक्षणत्वात् । अतः पुच्छशब्दस्य मुख्यार्थासम्भवे सति योग्यतावशादत्राधारो लक्ष्यते । आनन्दमयस्य ब्रह्माधारः, तत्कल्पनाधिष्ठानत्वात् । न चानन्दमयः परमात्मा । प्राचुर्यार्थस्य स्वीकारेऽपि अल्पदुःखस- द्भावप्रतीतेः । तस्माजीचाघारो ब्रह्म प्राधान्येन प्रतिपाद्यते । तथा, अद्वैतविद्यातिलकदर्पणम् । 'असन्नेव स भवति असह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इत्यादौ ब्रह्माभ्यासो 'ब्रह्मविदाप्नोति परमिति' ब्रह्मोपक्रमश्चानुकूलो भवति । पञ्चावयवयुक्तपक्षि. त्वेन कल्पनं प्रतिपत्तिसौकर्याय, अपेक्षितविषयदर्शनजन्य सुखं प्रियं, तल्लामजन्यं मुखं मोदः, तद्भोगजन्यं सुखं प्रमोदः, भा- समानमज्ञानोपहितं सुखसामान्यमानन्द इति विषयवाक्यपदाना- मर्थ इति ज्ञातव्यम् ॥ ९॥ [७ अन्तरधिकरणम् ] अन्तस्तद्धर्मोपदेशात् । (ब्र०सू०१।१।२०) 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृष्यते हिर- ण्यश्मश्रुर्हिरण्यकेश आपणखात्सर्व एव सुर्वणस्तस्य यथा क- प्यासं पुण्डरीकमेवमक्षिणी' इति श्रूयतेऽस्य विषयः । अत्रा- दित्यमण्डलान्तः श्रूयमाणः कश्चिजीवो वा परमेश्वरो वेति सन्देहे देवताविशेषो जीव एव, ऐश्वर्यमर्यादाया आधारस्य शरीरस्य च श्रवणा-'ये चामुष्मात्पराञ्चो लोकास्ते. पां चेष्टे देवकामानां च' इति, 'अन्तरादित्य' इति च, 'हि- रण्मयः पुरुष' इति च । नहि सर्वेश्वरस्य सर्वाधारस्य नीरू- पस्य परमेश्वरस्य ऐश्वर्यमर्यादाधाररूपाणि सम्भवन्ति । तस्माद देवताविशेष इति प्राप्त सिद्धान्तयति--- प्रथमाध्याये प्रथमः पादः- १५ ऋमुख्यसर्वभुवनाश्रयतोपदेशा- निःशेषदोषरहितत्वविशेषणाच्च । मन्यामहे मिहिरमण्डलमध्यभाज त्वामेव भर्ग तपनीयमयं पुमांसम् ॥ १० ॥ : सा. उच्यते-हिरण्मयः पुरुष ईश्वरो भवेत् । कुतः, सर्वात्मत्व. श्रवणात्-'सैव ऋक् तत्साम तदुक्थं तद्यजुः' इत्यादि- वाक्येन तच्छद्वैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सा• मावशेषजगदात्मकत्वमुपदिश्यते । तच्चाद्वितीयपरमेश्वरे मुख्यमुप- पद्यते नतु सद्वितीयायां देवतायाम् । तथा 'स एष सर्वेभ्यः पा- मभ्य उदित' इति श्रूयमाणं सर्वपापराहियं ब्रह्मणः धारणं लिङ्गम् । यद्यपि देवतायाः कर्मण्यनधिकारात् क्रियमाणकरिष्यमाणपापयोरभावः तथाप्यमुरादिनिमित्तजनित- दुःखसद्भावात तुभूतजन्मान्तरसंचितदुरितमनुवर्तत एव । म. दिाधाररूपाणि तु उपाधिधर्मत या सोपाधिके परमात्मन्यु. पास्ये वर्तितुमर्हन्ति । ननु मण्डलान्तर्वर्ती न परमेश्वरः 'पुण्डरी. कमेवमक्षिणी' इति अक्षिद्वयकथनानुपपत्तेरिति चेत् , त्रिपुत्रं ब्राह्मणं प्रति द्वौ पुत्रावस्याग्निकल्पावित्युक्ते द्विसंख्याग्रहणं न शेषपुत्रनिषेधपरं किन्तु पुत्रद्वयस्याग्निसादृश्यपरम् , तद्वदत्रापि कमुदकं रश्मिभिः पिवतीति कप्यः सूर्यः तेनासितं विकसित पुण्डरीकं यथा स्फुरति तथा परमेश्वरस्य लोचनद्वयं, तृतीयलो.
१६ अद्वैतविद्यातिलकदर्पणम् । चनं तु मुकुलितस्वभावमिति तथोक्तिः । “आदियो वा एष एतन्मण्डलम्' इत्यादित्यमण्डलमुक्त्वा, तत्र ‘य एष एतन्मण्ड लेऽर्चिद्दीप्यते' इति. मण्डलप्रभामुक्त्वा, 'य एतस्मिन्मण्डलेऽचिंषि पुरुषः' इति मण्डलाभिमानिनं सूर्यमभिधाय य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इति हिरण्मयं पुरुषमादित्यान्तर्यामिणमुक्त्वा, पुनः 'आदि- त्यो चै तेज ओजो बलम्' इत्यादिना तस्यादित्यरू. पस्य विभूतिमभिधाय, 'एष पुरुष एष भूतानामधिपतिः' इति भूतपतित्वेन निर्दिश्य, पुनः कीदृशः पुरुष इत्याका. कायां 'सर्वो वै रुद्रः' इत्यारभ्य 'हिरण्यवाहवे हिरण्यपतये- ऽम्बिकापतय उमापतये' इत्युपसंहृतं बाहुग्रहणस्योपलक्षण- त्वात् हिरण्यरूप इति तात्पर्यम् । 'असौ योऽवसति नी- लग्रीवो विलोहितः । उत एनं । गोपा अदृशन्नदृशन्नुद- हार्यः । उत एनं विश्वाभूतानि स दृष्टो मृडयाति नः' इत्यादि वचनजातैरादित्यान्तर्यामी शिव इति सिद्धम् । श्लो- कार्थस्तु-सैवसामेत्यादिना सकलभुवनाश्रयतोपदेशात् ‘स एष सर्वेभ्यः पाप्मभ्य उदितः' इति सर्वपापरहितत्वाच हे भर्ग त्वा- मेवादित्यान्तामिणं पुरुषं हिरण्मयं मन्यामह इति ॥ १० ॥ [८ आकाशाधिकरणम् ] आकाशस्तल्लिमात् । (बसू०१।१।२२) प्रथमाध्याये प्रथमः पादः- - १७ 'आकाश इति होवाच सर्वाणि हवा इमानि भूतान्याका. शादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्याकाशो ह्यवैभ्यो ज्या. यानाकाशः परायणम्' इति छान्दोग्येऽस्य विषयः श्रूयते । शालावत्येन ब्रह्मर्षिणा सर्वलोकाधारे वस्तुनि पृष्टे सति प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत् । काशशब्दवाच्यो भूताकाशो ब्रह्म वेति संशये रूढत्वाद्वियदिति प्राप्तम् । 'आकाशाद्वायुः वायोरग्निः' इत्यादिना वायवादीनां वि. यत्कार्यत्वश्रवणादिति प्राप्ते सिद्धान्तयति- तत्रा- वेदप्रतीतिदृढरूढिवियत्समेत- भूतावलीजनकतासहकृत्वरीभ्याम् ॥ ज्यायस्त्वकर्मफलदानसमर्थताभ्या- माकाशवागभिदधाति भवन्तमेव ॥ ११॥ ब्रह्मैवाकाशशब्दवाच्यम् , 'सर्वाणि ह वा' इत्यत्रासंकुचित- सर्वशब्देन वियत् + + हि सर्वभूतोत्पत्ति हेतुत्वश्रवणात् । नच वियतो वियद्धेतुत्वं सम्भवति । रूढिस्तु लौकिकी वियत्येवास्तु, श्रौती तु ब्रह्मण्यपि 'आकाशो ह वै नाम नामरूपयोर्निहिता' इति प्रयोगदर्शनात् । किंचाकाशादेवेत्येवकारः कारणान्तरं निरस्यति । न चैतद्वियत्पक्षे सम्भवति, घटादिषु वियद्यति. रिक्तानां मृदादिकारणानामुपलम्भात् । ब्रह्मपक्षे ब्रह्मणः स. ३ १८ अबैतविद्यातिलकदर्पणम् । दूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते । ज्याय- स्त्वपरायणत्वे श्रुत्यन्तरे ब्रह्मणि श्रूयते, 'ज्यायानन्तरिक्षात्' 'विज्ञानमानन्दं ब्रह्म रातेतुः परायणम्' इति कर्मफलं दातुं समर्थमित्यर्थः । तस्माद्ब्रह्मैवाकाशशब्दवाच्यमिति । श्लोकार्थस्तु-'आकाशो वा' इत्यादि वैदिकप्रयोगेण ज्ञातरूढ्या- काशादिपदेन भूतजनकत्वेन च सहकृताभ्यां ज्यायस्त्वफलदा- स्वाभ्यां हे शिव आकाशपदं त्वामेवाभिदधातीति ॥ ११ ॥ [९ प्राणाधिकरणम् ] अत एव प्राणः । (व्र०सू०१।१।२३) छान्दोग्ये प्रस्तावनाम्नः सामभागस्य देवतायां प्रस्तोत. पृष्टायामुपस्तिरुत्तरं ददौ । तद्वाक्यमेतत्-'प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणम- भ्युजिहते सैषा देवता प्रस्तावमन्वायत्ता' इति । तत्र प्राण- शद्वार्थो मुखबिलान्तर्वर्तिवायुभवेत् , सर्वभूतलयस्य तत्र मुसंपा- दितत्वात् , सुषुप्तिकाले भूतसाराणामिन्द्रियाणां वायो प्रविलया. दिति प्राप्ते सिद्धान्तयति- सर्वप्रपञ्चविलयाश्रयतामनन्य- साधारणीमपदिशन्नवधारणेन ।
प्रथमाध्याये प्रथमः पादः- १९ प्राणाख्यया पशुपते पृथिवीसुरस्त्वां प्रस्तावदैवतमवोचदुपस्तिनामा ॥ १२ ॥ इन्द्रियमात्रविलयपरत्वे व्याख्यायमाने 'सर्वाणि हवा' इत्यत्रामौ सर्वशदः सङ्कुचितार्थः स्यात् । অন আন্ধাহাহা- ब्दवत्प्राणशद्धोऽपि श्रौतरूढ्या ब्रह्मवाचकः । अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, 'प्राणस्य प्राणम्' इत्यत्र ब्रह्मविवक्षया द्वितीयमाणशब्दप्रयोगात् । तस्मादीश्वरः प्राण इति । श्लोकार्थस्तु-सर्वप्रपञ्चलयकारणत्वमेव कारणेनानन्यसा- धारणमुषस्तिनामा द्विजः त्वामेव प्रस्तावदैवतमवोचदिति ॥१२॥ [१० ज्योतिश्चरणाधिकरणम् ] ज्योतिश्चरणाभिधानात् । (बसूशश२४) 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मि- नन्तः पुरुष ज्योतिः' इत्यादि । अत्र सकललोक- व्याप्तता(?)न्यादिविश्रयमाणमपरज्योतिः परमेश्वरो वा तदन्यो वेति संशयः । योशद्धस्याकाशवाचित्वात् 'परो दिव' इत्या. काशवर्ती सूर्य एवात्र प्रतिपाद्यते ज्योतिरिति, अथवा 'अन्तः पुरुष ज्योतिः' इति पुरुषान्तर्वर्तितया जठराग्निरिति वा, पूर्व ब्रह्मणोऽसन्निहितत्वात् तेन वाक्यस्य ब्रह्मपरत्वायोगात् , तेजः- २० अद्वैतविद्यातिलकदर्पणम् । परत्वं तु लिङ्गसद्भावादिति प्राप्ते सिद्धान्तयति- त्वामादितः प्रकृतमेव निजैकदेश- विश्रान्तविश्वमधिकृत्य यदित्यनेन । छान्दोग्यनाम्नि समुदीरितमागमान्ते ज्योतिःपदं निविशतां त्वनु शूलपाणे ॥ १३॥ असिद्धोऽसन्निधिः । पूर्वस्मिन्गायत्रीखण्डे 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् , तस्य चात्र प्रकृतवाचिनाऽथशद्वेनानुवर्तनादस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पादत्रयोपलक्षितमनन्तं स्वरूपं, घुनामके स्वस्मिन्नवतिष्ठत इत्यर्थः । न चैतत्संभवति जठराग्निसूर्ययोः। नच ज्योतिःशदस्य ब्रह्मणि वृत्त्यनुपपत्तिः, ब्रह्मणो जगद्भासकत्वात् । तेजाोलङ्गं त्वौपाधिके ब्रह्मण्यपि कल्पते । तस्माज्ज्योतिर्ब्रह्म । श्लोकार्थस्तु-पादोऽस्य सर्वा भूतानी- त्यादौ प्रकृतीनजैकांशसमाप्तनिखिलप्रपञ्चं त्वामेव 'यदतः परः' इत्यत्र यच्छ द्वेन परामृश्य छान्दोग्यनाम्नि तदुपरि पठितं ज्योति पदं कुत्र वान्वेतु त्वां विना न कुत्रापत्यिर्थ इति ॥१३॥ [११ प्रतर्दनाधिकरणम् ] प्राणस्तथानुगमात् । (ब०स०१।१।२८) प्रथमाध्याये प्रथमः पादः- - कौषीतकोपनिषदीन्द्रप्रतर्दनोपाख्यायिकायां प्रतर्दनं प्रती- न्द्रो वक्ति-'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व' इति तत्र चतुर्विधलिङ्गवशाच्चतुर्धा संदिह्यते-इदं शरीरं परि- गृह्मोत्थापयतीति माणलिङ्गम् , अस्मीति वक्तुरिन्द्रस्याइंकार- वाद इन्द्रस्य लिङ्गम् , वक्तारं विद्यादिति वक्तृत्वं जीवस्य लिङ्गम् , आनन्दोऽजरोऽमृत इति ब्रह्मलिङ्गम् । तत्र प्राबल्य- दौर्बल्यविवेकाभावादनिर्णय इति प्राप्ते सिद्धान्तयति- वाक्ये कृतान्तविजयिन्बलशासनस्य कौषीतकोपनिषदन्तरधीयमाने । प्राणाभिधा हिततमे भजतामघौघ- संहर्तृबोधविषये त्वयि जाघटीति ॥ १४ ॥ सन्त्यत्र ब्रह्मणोऽनेकानि लिङ्गान्यनन्यथासिद्धानि । तद्यथा-'त्वमेव वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति हिततमत्वमेकं लिङ्गम् , 'यो मां विजानीयानास्य केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन' इति ज्ञानमात्रेणैव महापातकाद्यश्लेष इति परं लिङ्गम् । एवमन्यान्यपि लिङ्गानि ज्ञातव्यानि । न चैतानि माणे- न्द्रजीवपक्षेषु कथंचिदप्युपपादयितुं शक्यन्ते । प्राणादिलिङ्गानि तु ब्रह्मण्युपपद्यन्ते प्राणादीनां ब्रह्मबोधद्वारत्वात् ।' तथा च २२ अद्वैतविद्यातिलकदर्पणम् । ब्रह्मलिङ्गानामनेकत्वादनन्यथासिद्धत्वाच्च प्रावल्यं, तपाही वात्र प्रतिपाद्यमिति सिद्धम् । श्लोकार्थस्तु-हे कृतान्तशत्रो कौपीतकोपनिषदि पछ्यमाने 'प्राणोऽस्मीति' वाक्ये पाणशब्द: सकलपापनिवर्चकज्ञानविषये त्वय्येव वर्तत इति ॥ १४ ॥ इति श्रीमत्परशुराममिश्रात्मजामित्रमिश्रप्रेरितस्य वेङ्कट भट्ट- मनुधर्मय्यदीक्षितस्य कृती अतविद्यातिलकदर्पणे प्रथमाध्यायस्य प्रथमः पादः ॥ [१ सर्वत्र प्रसिञ्चधिकरणम् ] सर्वत्र प्रसिद्धोपदेशात् । (बसू०१।२।१) भारूप: छान्दोग्ये श्रूयतेऽस्य विषयः- मनोमयः प्राणशरीरो सत्य सङ्कल्प आकाशात्मा सर्वकर्मा सर्वकाम: सर्वगन्धः' इत्यादि । अत्र अत्र मनोमयत्वादिधर्मकश्रूयमाणः पुरुषः परमेश्वरो वा जीवो वेति संशयः । जीव इति पूर्वः पक्षः, मनस्सम्बन्धादीनां जीवे सम्भवात् । मनसो विकार इति मन- ससम्बन्धः । पाणः शरीरस्येति माणसम्बन्धः । न चेदमीश्वरे सम्भवति । 'अपाणी ह्यमनाः शुभ्रः' इति निषेधात् । सथा 'एष आत्मान्तहृदयेऽणीयान्' इति श्रूयमाणमणीयस्त्वं प्रथमाध्याये द्वितीयः पादः- हृदयेऽवस्थानं च निराधारस्य सर्वगतस्य न सम्भवति । सत्यसङ्कल्पत्त्वमपि सति ब्रह्मण्यसङ्कल्प इति जीवेऽपि योजनी- यमिति प्राप्त सिद्धान्तः- : सर्वप्रसूतिलयजीवनकारणत्व- संसिद्धकृत्स्नजगदात्मकतैकहेतोः । देषाभिलाषविषयापगमेन शान्त- स्त्वामन्तरचति मनोमयतादिधर्मः ॥१५॥ 'सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्ये. तस्मिन् शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म तदेव 'मनो- मयः' 'प्राणशरीर' इत्येताभ्यामपेक्ष्यते विशेष्यत्वेन । श. मवाक्यस्यायमर्थः-यस्मात् सर्वमिदं ब्रह्म, तज्जत्वात तल्लयत्वात् तदनत्वाच्च तज्जलात्, तस्मात् सर्वात्मके ब्रह्मणि रागद्वषविषय- वासम्भवादुपास्तिकाले शान्तो भवेदिति तद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति । न च ब्रह्मणो मनम्सबन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्ताव- पि सोपाधिकस्योपास्यचिन्तनार्थतया तदुपपत्तेः । तस्मात्सर्वेष्वपि वेदान्तवाक्येषु यद्ब्रह्म उपास्यत्वेन प्रसिद्धं तदेवात्राप्युपास्यम् । न हि कचिदपि वेदान्तेषु जीवस्योपास्यत्वं प्रसिद्धम् । ततो छ- देवेति सिद्धम् । अथर्वशिरस्यपि सर्वस्य शिवात्मकत्वमुक्तम्-'दे- २ ४ अबैतविद्यातिलकदर्पणम् । वा ह वै स्वर्गलोकमगमन् देवा रुद्रमपृच्छन् को भवानिति । सोऽब्रवीदहमेकः प्रथममासं वामि च भविष्यामि च नचान्यः कश्चिन्मत्तो व्यतिरिक्त इति' । उक्तं च शिवपुराणे-'वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा । शिवस्य पूजया तद्वत्पुष्य- त्यस्य वपुर्जगत् । सर्वोपकारकरणं सर्वानुग्रहणं तथा। सर्वाभय- प्रदानं च शिवस्याराधनं विदुः । देहिनो यस्य कस्यापि निग्र- हः क्रियते यदि । अनिष्टमष्टमूर्तेस्तन्नात्र कार्या विचारणा'। सर्व स्थापि शिवात्मकत्वात् शान्त एवोपासीतेति ॥ १५ ॥ [२ अत्रधिकरणम् ] अत्ता चराचरग्रहणात् । (बसू१।२।९) .. कठवल्यामाम्नायतेऽस्य विषय; । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति । अस्यार्थः-मृत्यूपसेचनमिलितब्रह्मक्षत्रोप- लक्षितनिखिलचिदचित्मपञ्चकवलभोक्तृतया यः पुरुषः स पुरुषो यत्र वर्तत तत्स्थानमिदमित्थमिति को वेद न कोऽपि जानातीति मृत्यूपदंशमिलिताखिलविष्टपानभोक्ता प्रतीयमा. नो जीवोऽनिरीशो वेति त्रिकोटिकसंदेहे जीव इति 'तयो- स्न्यः पिप्पलं स्वादत्ति' इति जीवस्यात्तृत्वश्रवणात् अथवाग्निर्भवेत् 'अग्निरबादः' इति श्रवणादिति प्राप्ते सि- प्रथमाध्याये द्वितीयः पादः- २५ TE द्धान्तमाह धर्माद्यतीतमहिमांशतनूभवस्य वाणीमुखादवगतं कठवल्लिकायाम् । मृत्यूपदंशमिलिताखिलावष्टपान- भोक्तारमिन्दुधर निश्चिनुमो भवन्तम् ॥१६॥ मृत्यूपदंशमिलितसकलजगदिह भोज्यत्वेन प्रतीयते । न हि तादृशस्य भोज्यस्येश्वरादन्यो भोक्ता संभवति । किञ्च 'अ. न्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भ. व्याञ्च यत्तत्पश्यसि तद्वद'इति धर्माधर्मकार्यकारणकालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति 'यस्य ब्रह्म च' इति वाक्येन यम उत्तरं ददौ । तस्मादीश्वरोऽत्र प्रतिपाद्यः । 'अनश्नन्नन्यो अभिचाकाशीति' इति ईश्वरस्य भोत्कृत्वं निषिध्यत इति चेत्, तहत्तृत्वं नाम संहर्तृत्वं भविष्यति । तच्चेश्वरस्य सर्ववेदान्तेषु म. सिद्धम् । अथर्वशिरसि श्रूयते संहर्तृत्वभावः परमेश्वरस्य-'त स्मादुपसंह महागासाय वै नमो नमः' इति । सन्सिंहृत्य यः प्रलयकाले वर्चते संहा स शिव एवेति प्रतिपादयति श्वे. ताश्वतरमन्त्रः-'यदा तमस्तन्न दिवा न रात्रिन सन्न चास. च्छिव एव केवलः' इति । तस्मात्सर्वसंहा शिव इति सिद्धम् ।। १६॥ .
२६
अद्वैतषिद्यातिलकदर्पणम् ।
[३ गुहाप्रविष्टाधिकरणम् ]
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।(ब सू०१।२६११)
'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराः ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चायो ये च त्रिणाचिकेता'
। इति कठवल्लीषु श्रूयतेऽस्य . विषयः । अस्यायमर्थः-मुकृत
स्य फलभूतं यह्राह्मणादिशरीरं तत्परस्याई परब्रह्मण उपल
ब्धिस्थान, सच परमं विद्याधिकारहेतुशमदमाद्युपेतत्वात्, ता.
शस्य शरीरस्य मध्येऽवस्थितं हृदयपुण्डरीकं गुहा तां प्रविष्टी
अनशब्दवाच्यं कर्मफलं पिबन्तौ छायातपवत्परस्परविलक्षणों
वेदविदो वदन्तीति । तौ द्वौ बुद्धिजीवी जीवेश्वरौ वेति संदेहे
बुद्धिजीवाविति प्राप्तं, तयोः परिच्छिन्नयोः गुहाप्रवेशसंभवात् ,
जडाजडरूपत्वेन छायातपवलक्षण्यसम्भवाच्च, ईश्वरस्य सुकृत.
फलभोक्तृत्वासंभवाच्च । बुद्धिजीवयो गस्तु प्रसिद्ध एवेति प्राप्त
मिद्धान्तः-
।
-
--
पुण्यार्जिते त्वदुपलम्भभुवि द्विजाति-
गात्रे हृदम्बुजगतौ परमे शमायैः ।
स्वामिन्नुभौ फलभुजावसमस्वभावौ
जीवं भवन्तमपि वक्ति चिरंतनोक्तिः॥१७॥
प्रथमाध्याये द्वितीयः पादः- २७ पिबन्ताविति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते । अतश्चेत- नाविह जीवेश्वरौ भवतः । सर्वगतस्यापीचरस्य हृदयेऽवस्थान- मुपलब्बौ वयते । द्वयोश्चेतनत्वेन साम्येऽपि सोपाधिकत्वनि- रुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते । यदुक्तं मुकृतफलभोक्तृत्वं न संभवतीति, तन्न युज्यते । सुकृतफलं तत्तदृत्तिपरिच्छिन्नं सुखं, जीवस्य परिच्छिन्नसुखानुभववत्त्वमीश्वरस्थानवच्छिन्नाखण्डान- न्दविषयमायावृत्तिरूपसुखानुभवसंभवात् । एवं च तयोर्भोगस्य साधारण्येन श्रवणेऽपि तत्र विशेषः समाश्रीयते, भोक्तृविशे- पात् । यथा राजभृत्यावन्नं भुञ्जात इयत्र तत्तदुचितान्नविशेष इति : पुण्यार्जित इत्यनेन सुकृतस्य लोक इत्यस्यार्थः, त्वदु- पलम्भभुवीत्यनेन परार्ध इत्यस्याः, हृदम्बुजगतावित्यनेन गुहां प्रविष्टावित्यस्यार्थः, स्वामिन्नुभौ फलभुजावित्यनेन ऋतं पिवन्तावित्यस्यार्थः संगृहीतः । श्लोकार्थः स्पष्टः ॥ १७ ॥ [४ अन्तराधिकरणम् ] अन्तर उपपत्तेः । (ब०सू. १।२।१३) छान्दोग्य उपकोसलविद्यायामुपकोसलं शिष्यं प्रति सत्य. कामेन गुरुणोपदिष्टवाक्पमध्यगतमेतत्-‘य एपोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मति' इति श्रूयतेऽस्य विषयः । इहामृतत्वादिलक्षणोऽक्ष्यन्तः श्रूयमाणः पुरुषः ईश्वरी.
२८ अद्वैत विद्यातिलकदर्पणम् ।। ऽन्यो वेति संशये परमेश्वरादन्य इति वदामः । परमेश्वरस्य दहरं विपाप्म पद्मकोषप्रतीकाशमित्यादिषु दहरपुण्डरीकवच्च क्षुषि सन्निधानाश्रवणात् । जीवस्य तु रूपादिग्रहणदशायां चक्षुषि स निधानं प्रसिद्धमेवातः स एवाक्षिपुरुषः । अथवा छायापुरुषः, अक्ष्याधारत्वदृश्यत्वयोस्तत्र संभवात् । अथवा आदियदेवता स्यात् , आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशदितिश्रवणात् । सर्वथा न परमात्मा, तस्याधारदृश्यत्वासंभवात् । तस्माच्छायाजीवदेवेषु कोऽप्यस्त्विति प्राप्ते सिद्धान्त माह- आनन्दरूपममृताभयमभ्रपूर्ण कामावहं भुवनभासकमाप्तकामम् । अन्तर्विलोचनमनगरिपो भवन्त- मुद्भावयत्यकृतकोक्तिरुपासनीयम् ॥ १८ ॥ 'कं ब्रह्म खं ब्रह्म' इति सुखरूपमाकाशवत्परिपूर्ण यद्ब्रह्म पूर्ववाक्येनोक्तं तदेव ‘य एषोऽक्षिणि' इति प्रकृतवाचकैनैतच्छ. ब्देन परामृश्य, अक्षिण्युपास्यत्वेनोपदिश्य वामनीतभामनीत्व. संयद्वामत्वगुणानुपासनायोपदिशति । वामनीत्वं कामपाप- कत्वं, भामनीत्वं जगद्भासकत्वं, संपदामवं प्राप्तकामत्वम् । एतैर्गुणैरुपास्यस्य ब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शा- स्त्रदृष्ट्या दृश्यत्वं च न विरुध्यते । छायाजीवमूषु अमृ.
प्रथमाध्याये द्वितीयः पाद:- - २२ तत्वाभयत्वादीनि न संभवन्ति । 'एतदमृतमभयम्' इत्यत्राम- तशब्देन शिव एवोच्यते । जाबालोपनिषदि 'भगवन् किं ज. पेनामृतत्वं ब्रूहीति' प्रश्नानन्तरं 'शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि' इति शतरुद्रियेणेत्युत्तरम् । तत्र शिवनामा- नि श्रीरुद्रपदानि शिवस्य नामधेयानीति वक्तव्ये, अमृतस्य ना. मधेयानीत्युक्त्या, अमृतपदं शिवस्य नामेति निश्चीयते ॥ १८ ॥ [५ अन्तर्याम्यधिकरणम् ] अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात्। (ब्र०सू०१।२।१८) अन्तर्यामिब्राह्मणेऽस्य विषयः श्रूयते यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' इति । एवं पृ. थिवीमारभ्य प्रतिपर्यायमव्यक्तात्मतत्त्वपर्यन्तपखिल वस्त्वन्त र्यामितया श्रूयमाणः परमेश्वरः जीवः प्रधानं वेति संदेहे स्वो- पार्जितविचित्रकर्मफलभोगाय सकलभूतेन्द्रियानुपवेशो जीवस्य युज्यते । अथवा महदादिरूपेण परिणतत्वात्प्रधानस्य सर्वव्या- पकत्वमुचितम् । ततः परमेश्वरमन्तरेण जीवो वा प्रधानं वा स्या- दिति प्राप्ते सिद्धान्तयति- त्वामेव कामविजयिन्नमृतत्वजीव- तादात्म्यतन्नियमनप्रमुखैः प्रकारैः ।
. अद्वैतविद्यातिलकदर्पणम् । अन्तर्नियामकमशेषपदार्थपङ्क्त- रारण्यकोपनिषदाकालतं प्रतीमः ॥ १९ ॥ 'एष त आत्मान्तर्याम्यमृतः' इति अन्तर्यामिणो जीवता. दात्म्यममृतत्त्वं च श्रूयते । तथा अन्तरिक्षादिषु सर्ववस्तुष्वन्तर्या मित्वोपदेशे सर्वव्यापित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमे इवरः । प्रधानस्यान्तर्यामित्वं न संभवति, 'अदृष्टो द्रष्टाऽश्रुत:श्रोता' इति श्रोतृत्वाधवगमात् । नापि जीवस्य,कायाः माध्यन्दिनाश्च 'यो विज्ञाने तिष्टन', 'य आत्मनि तिष्ठन्' इत्यादिना जीवादन्ती मिणं भेदनाधीयते । अतो जीवनियामकत्वादमृतशब्दवाच्य। त्वाच्चान्तर्यामी शिव एव । 'यम्बकं यजामहे । सुरभिं पुष्टिव- धनं । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्' इति शिव मन्त्रत्वेन प्रसिद्ध तत्रामृतशब्दवाच्यत्वं शिवस्य निश्चितम् । ननु 'मृत्योर्मुक्षीय माऽमृतात्' इत्यत्र मृत्योर्मोचनं यथा पार्शाते तथा अमृतस्य मोक्षस्य मोचनाभावः प्रार्थ्यते इति न तत्रामृतश. ब्दार्थः शिव इति चेत् , मृत्योः प्रसक्तत्वेन तन्मोचनं प्रार्थ्यते मो. क्षस्य नित्यपुरुषार्थत्वेन तन्मोचनमप्रसक्तमिति तदभावो न प्रार्थ- नीय इति वामिष्ठे मृत्युञ्जयको वसिष्ठेनैवामृतशब्द: शिवपर इति प्रतिपादितम् । यद्वा अम्बकानि चापि त्रीण्यस्येति यम्बका त्रिलोचनं त्रिलोकेशं तं वयं पूजयामहे । यो लोके दृश्यते गन्धः शोभनः सर्ववस्तुषु ।
प्रथमाध्याये द्वितीयः पादः- H स शवस्यैव देवस्य सुगन्धिः कथ्यते ततः ॥ अथवा शोभनैर्गन्धैः पुष्पैश्चापि मनोहरैः । धूपदीपादिभिश्चैव पूजनीयो महेश्वरः ।। सर्वेषामेव देवानां गन्धर्वोरगरक्षसाम् । उपासकानां सर्वेषां पुष्टिहेतुरुमापतिः ।। उर्वारुकं यथापकं स्वयं मुच्येत बन्धनात् । अहमेवं प्रसादेन देवदेवस्य शूलिनः । अनायासेन मुच्येयं मृत्योलोकलयंकरात् ।। ततः प्राप्यामृतं देवं तमेव परमेश्वरम् । माऽभूवं तद्वियुक्तोऽहमिति मन्त्रार्थयोजना ॥ वेदार्थों यः स्वयं ज्ञातस्तत्राज्ञानं भवेदपि । ऋषिभिनिश्चितेह्यर्थे का शङ्का स्यान्महात्मनाम् ।। इत्युपबृंहितत्वात्पुरुषबुद्धिकल्पितार्थो न ग्राह्य इति । तस्मा- दन्तर्यामी शिव इति सिद्धम् ॥ १९ ॥ [६ अदृश्यत्वाद्यधिकरणम् ] अदृश्यत्वादिगुणको धर्मोक्तेः । (ब० सू० ११२।२१) 'अथ परा यया तदक्षरमधिगम्यते', 'यत्तदद्वेश्यमग्राह्यम- मोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सु. सूक्ष्म तदव्ययं यद्भूतयोनि परिपश्यन्ति धीराः' इत्यादि मुण्ड- कोपनिषदि श्रुयतेऽस्य विषयः । अत्राक्षरं प्रधानं जीवः पर.
अद्वैतविद्यातिलकदर्पणम् ।
मेश्वरो वेति संदेहे प्रधानमत्राक्षरं, तस्य महदादिपरिणामिनो
भृतयोनित्वसंभवात् । अथवा जीवः, तस्य क्षरं प्रधानममृताक्ष-
रमिति श्रुतेरक्षरशब्दवाच्यत्वमुचितं, स्वकर्मवशेन महाभूतयोनि
वं च । अतस्तयोरन्यतर दक्षरशब्दवाच्यमिति प्राप्ते सि.
द्धान्तयति-
--
सार्वइयमक्षरपरत्वमशेषवस्तु-
बाह्यान्तरत्वमजनित्वमितीरितैषा ।
न्यायच्छटा त्वयि नियच्छति भूतयोनि-
शब्दं त्रिशूलधर मुण्डकशाखयोक्तम् ॥२०॥
'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' इति सामान्याका-
रेण सर्वज्ञत्वं विशेषाकारेण सर्ववित्वं पर्यालोचनात्मकं तपश्वे.
त्येतादृशस्य ब्रह्मलिङ्गस्य कीर्तनात् भूतयोनिरक्षरं परमं परमे
श्वरः । न चाचेतनासर्वज्ञयोः भृतयोनित्वं युक्तं सामाभा.
वात, 'अक्षरता परः' इति प्रधानात्परत्वेन भूतयोनेरभिधानाच्च ।
'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' इति बाह्याभ्य-
न्तरव्यापित्वजन्मादिराहित्ययोः श्रुतत्वात् , परिच्छिन्नस्य ज
मादिमतो जीवस्य तदसंभवात् , सर्वज्ञपदस्य 'कुशानुरेताः
मर्वज्ञः' इत्यमरकोशादिषु शिवनामत्वेन प्रसिद्धत्वाद , जीवप्र.
धानयोरेतद्वाक्यप्रतिपाद्यत्वं नास्तीति ॥ २० ॥
प्रथमाध्याये द्वितीयः पादः- [७ वैश्वानराधिकरणम् ] वैश्वानरः साधारणशब्दविशेषात्। (ब्र० सू० ०२।२४) 'यस्त्वेतमेवं प्रादेशमात्रमाभविमानमात्मानं वैश्वानरमुपास्ते' इत्यादि छान्दोग्येऽस्य विषयः श्रूयते । तत्रोपास्यतयोक्तो वैश्वा: नरः अन्यो वेति संशये वैश्वानरशब्देन जाठराग्निरुच्यते । 'अयमाग्निवैश्वानरो-येनेदमन्नं पच्यते-तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति' इति जाठराग्नौप्रयोगदर्शनात् । महाभूततृतीयोऽग्निवी स्यात् , 'एष वा अग्निर्वैश्वानर' इत्या. दौ वैश्वानरशब्दस्य तत्र प्रसिद्धत्वात् । देवता वा स्यात् , 'वैश्वानरं द्वादशकपालं निर्वपेत् पुढे जाते' इति पुत्रेष्टिदेवतात्वेन फलदातृत्वश्रवणात् । न परमेश्वरः प्रादेशमात्रमिति परिच्छेदा. वगमादिति प्राप्ते सिद्धान्तयति- - चन्द्रावतंस वियदादिजगत्स्वरूप- शीर्षप्रधानविविधावयवोपदेशात् । ब्रह्मश्रुतेरापि परत्वविबोधिकाया वैश्वानरः स तु भवानिति वर्णयामः ॥ २१॥ परमेश्वर एव वैश्वानरः । कथं-'को न आत्मा किं 'आत्मानमेवेमं वैश्वानरं सम्पत्यध्येषि तमेव नो ब्रह्म', अवैतविद्यातिलकदर्पणम् । - ब्रूहि' इत्यादिषु परमेश्वरा साधारणब्रह्मशब्दादिभिर्विशेष्यमाण: स्वाद , जाठराग्न्यादेस्तदसम्भवात् । किञ्च तस्य ह वा एतस्या- त्मनो वैश्वानरस्य मूढैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वा- स्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ' इसत्र प्रतिपाद्यमानं प्रपञ्चशरीरित्वं ब्रह्मणोऽन्यत्र न सम्भवति वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते-विश्वश्चासौ नरश्च विश्वानर एव वैश्वानरः, तं परमेश्वरमस्मिन्नुपासक- शरीरे प्राणाहुतिवेलायां भोक्तृत या 'शिवो मा विशापादाहाय ईशः सर्वस्य जगतः प्रीणातु विश्वभुक्' इत्यामनन्ति तैत्तिरीयाः । हे शिव उ निपातः सम्बोधनार्थः मा मामित्यर्थः । हे शिव माम् अप्रदाहाय विशेत्यर्थः । छान्दसः सन्धिः । 'अंगुष्ट- मात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य' इति श्रुताविव ईशः सर्वस्य जगत इति वाक्यप्रतिपाद्यः शिवः विश्व भुक् सर्वसंहा प्राणाहुत्या प्रीणात्विति द्वितीयवाक्यार्थः । तस्माजाठराग्निर्महाभूत तृतीयानिरिष्टिदेवताविशेषो वा वैश्वानर- विद्याविषयो न भवति किन्तु शिव एवेति सिद्धम् ।। २१ ॥ इति श्रीमत्परशुराममिश्रात्मजमित्र मिश्रप्रेरितस्य वेङ्कट भट्टमूनु धर्मय्यदीक्षितस्य कृतौ अद्वैतविद्यातिलकदर्पणे प्रथमाध्यायस्य द्वितीयः पादः । .
प्रथमाध्याये तृतीयः पादः [१ धुभवाद्यधिकरणम् ] धुभ्वाद्यायतनं स्वशब्दात् । (ब्र०सू०१।३।१) 'यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वः। तमकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' इति मुण्डकोपनिषदि श्रूयमाणं वाक्यं विषयः । युभवाद्यायतनं श्रूयमाणं परमेशरोऽन्यो वेति संशये सूत्रात्मा स्यात् । 'वायुना चै गौनम सूत्रेणायं च लोकः पाश्च लोकः सर्वाणि च भूतानि सं- दृब्धानि भवन्ति इतिवायोः सूत्रात्मनो धुवावाधारत्वावगमात् । अथवा प्रधानं वा स्यात् , तस्य सांख्यमते सर्वोपादानत्वेन सर्वाधारत्वावगमात् । 'तमेवैकं जानथ आत्मानम्' इयात्मशब्द श्रवणात् जीवो वा स्यादिति प्राप्ते सिद्धान्त यति सर्वज्ञतादिगुणसंकथनात्त्वयैव योगादपक्रमविधेरुपसंहृतेश्च । आत्मेत्यधीतमलिकेक्षण मुक्तगम्यं स्वामेव धाम कलये धुमहीमुखानाम् ॥ २२ ॥ mmmmmu न तावत्सूत्रात्मजीवप्रधानानि मुण्डकोपनिषत्प्रतिपाद्यानि भवन्ति, 'यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्र. मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरअनः परमं साम्यमुपैति' इति युभवाद्यायतनस्य मुक्तप्राप्यत्वश्रवणात्, जीव- अद्वैतविद्यातिलकदर्पणम् । प्रधानवायूनां तदभावात् । 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति एकविज्ञानेन सर्वविज्ञानमुपक्रान्तं 'ब्रह्मवेद ब्रह्मैव भवति' इत्युपसंहृतं, तथा च मुण्डकोपनिषदः कात्स्न्येन ब्रह्मपरत्वात् 'यः सर्वज्ञः सर्ववित्' इयादि सर्वज्ञश्रुया युना. द्यायतनं शिव एव, 'कतारमीशम्' इतिशब्दश्रवणादपि शिव एव युभवाद्यायतनमिति । श्लोकार्थस्तु-उपक्रम एव विधिः प्रेरक: कृत्स्नं वाक्यं वायुप्रधानजीवाव्य वच्छिद्य ब्रह्मणि वाक्यं नियु. के इति उपक्रम विधिशब्दः प्रयुक्तः, सर्वज्ञत्वादिगुणकथनात् । उपक्रमोपसंहाराभ्यां 'तमेवैकं जानथ आत्मानाम्'इसात्मत्वेनाधीतं 'निरञ्जनः परमं साम्यमुपैति' इति मुक्तप्राप्तं द्युमहीप्रभृतीनामायतनं स्वामेव जानीम इति ॥ २२ ॥ [२ भूमाधिकरणम् ] : भूमा सम्प्रसादादध्युपदेशात् । (बसू०१।३।८) छान्दोग्येऽस्य विषयः श्रूयते, 'नान्यत्पश्यति नान्यच्छ्. णोति नान्यद्विजानाति स भूमा' इति । तत्र संदेहः भूमशब्द. वाच्यः प्राणो वा परमेश्वराचेति । तत्र भूमशब्दार्थः प्राण एव । नारदं प्रति सनत्कुमारो नामादीन्युत्तरोत्तरमुत्कृष्टानि बहूनि तच्चान्युपदिश्यान्ते निरतिशयं भुमानं प्रश्नपतिवचनं विनवोपदि- देश । तथाहि पूर्वेषु नामादितत्त्वेषु 'अस्ति भगवो भूयः' इति नारदः पदे पदे पृच्छति, सनत्कुमारस्त्वस्तीति प्रतिवदति ।
प्रथमाध्याय तृतीयः पाद:-
३७
एवं च प्रश्नपतिवचनपूर्वकतया नामादीनि प्राणान्तानि बहूनि
तत्त्वान्युपदिश्य प्राणस्योपरि विनैव प्रश्नप्रतिवचने भूमानमुप.
दिदेश । अतः प्राणभूम्नोमध्ये विच्छेदकाभावात्माण एव
भूमा । किञ्च प्राणतत्वमुपदिश्य प्राणोपासकस्यातिवादित्वरू-
पमुत्कर्षमुक्त्वा प्रकरणविच्छेदशङ्कानिवृत्तये तदेवातिवादमनुवर्त्य
भूमानमुपदिशन्माणभूम्नोरभेदं दर्शयति । तस्मात्प्राणो भूमेति
प्राप्त सिद्धान्तयति-
तत्वानि पूर्वमभिधानपुरःसराणि
प्राणावधीनि कतिचित्प्रतिपाद्य शम्भा ।
विच्छिद्य तत्प्रकरणं च तुना विभो त्वा-
माख्याति भूमवचसा श्रुतिरद्वितीयम् ॥ २३ ॥
भूमा परमेश्वर एव । कुतः । 'एष तु वा अतिवदति यः
सत्येनाति वदति' इत्यत्रातिवादित्वहेतुं प्राणोपासनं तु शब्देन
व्यावर्तयन्मुख्यातिवादित्वहेतोर्ब्रह्मणः सत्यशब्देन पृथगुपक्र.
मात् । तथा परमात्मोपक्रमे वेद्यतया 'तरति शोकमात्मवित्' इति
परमात्मोच्यते । तथा च यत्र नान्यत्पश्यति' इति द्वैतनिषेधेन
भूम्नो लक्षणमभिधीयते । तस्मादद्वैतः परमात्मा भूमशब्दार्थ
इति ॥ २३ ॥
अद्वैतविद्यातिलकदर्पणम् । [ ३ अक्षराधिकरणम् ] अक्षरमम्बरान्तधृतेः । (बसू०१।३।१०) १ 'एतद्वै तदक्षरं गार्गि ब्राह्मणा आभिवदन्त्य स्थूलमानण्वहस्व- मदीर्घमलोहितमस्नेहमच्छायम्' इत्यादि बृहदारण्यकवाक्यं वि. पयः । अवाक्षरशब्दार्थः प्रणवः परमेश्वरो वेति संशये प्रणव इति प्राप्तम् , अक्षरशब्दस्य वर्णपर्यायत्वात् । प्रणव एवाक्षरश. ब्दार्थ इति पूर्वपक्षे सिद्धान्तयति- .. अव्याकृतास्पदममानविगाहनीय मात्मीयशासनधृताखिलविश्वतन्त्रम् । अस्थूलतादिभिरनुज्झितमक्षरं त्वां गााः स्वयं कथयतिस्मस याज्ञवल्क्यः ॥२४॥ अत्राक्षरशब्दवाच्छ परं ब्रह्मैव । कुतः, 'यदृर्श्व गार्गि दि. वो यदवाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवञ्च भविष्यचेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति' सर्वविकाराधारतया निर्दिष्ट आकाशः कस्मिन्नोतश्च प्रोतश्चेति गार्या पृष्टे 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति' इत्या. दिना 'एतस्मिन्नु खल्वक्षरे गार्याकाश ओतश्च प्रोतश्च' इत्य- न्तेन याज्ञवल्क्यवचनेन निर्दिष्टस्याक्षरस्थाकाशाप्रपञ्चधृ.
प्रथमाध्याये तृतीयः पादः- ३९ वा अक्षरस्य तिरगम्यते । कथमेतदन्यत्र परमेश्वरात्सम्भवति । ततः परमेश्वर एवाक्षरपदार्थ इति किश्वास्थूलमनण्व स्व. मित्यक्षरे सर्वसंसासरधर्मा निषिध्यन्ते, तथा 'एतस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतो तिष्ठतः', इत्यक्षरस्य जगच्छासितृत्वमुच्यते । शासनं शिवस्यैव, 'एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशिनीभिः' इत्यथर्वशिरोवचनादवगम्यते । किञ्च 'तद्वा एतदक्षरं गायेह- ष्टं द्रष्ट्रश्रुतं श्रोत्रमतम्', इत्यादिना द्रष्टुत्वादिप्रमाणाविषयं चाम्ना- तम् । तचैतत्सर्वं ब्रह्मण्येव सम्भवति । तदेवाक्षरम् । श्लो. कार्थस्तु-अपञ्चीकृताकाशाधारं पूर्वोक्तरीत्या मानाविषयं स्व. कीयशासनविघृतपपश्चं स्थूलत्वादिधर्मरहितमक्षरं त्वां याज्ञ वलयः गायों अकथयदिति ॥ २४ ॥ . [४ ईक्षतिकर्माधिकरणम् ] ईक्षतिकर्मव्यपदेशात्सः । (ब्र०सू०१।३।१३) 'य: पुनरेतं त्रिमात्रेणामित्येतेनैवाक्षरण परं पुरुषमभिः ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनि. मुच्यते एवं ह वै स पाप्मना विनिमुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्ष- ते', इति प्रश्नोपनिषदि श्रूयते विषयः । तत्र ध्यानकर्मत्वेन श्रूयमाणः परमेश्वरोऽन्योवेति संशयः । नासौ परमेश्वरः, हि.
अवतविद्यातिलकदर्पणम् । रण्यगर्भ एव 'स सामभिरुन्नीयते ब्रह्मलोकमिति' तल्लोकप्राप्ति- श्रवणादिति प्राप्त सिद्धान्त यति Hamani आमेडितेन पुरुषं परमित्यनेन प्रत्यायिते पदयुगेन विधेः परस्मिन् । त्रय्यन्तवागभिहितं प्रणवाक्षरण ध्येयत्वमीश घटते भवतीक्षितव्ये ॥ २५ ॥ परमेश्वर एव ध्येयः, ईक्षतिकर्मत्वेन प्रत्यभिज्ञानात् , 'जीव- घनात् परात्परं पुरिशयं पुरुषमीक्षते' इति व्यष्टिजीवापेक्षया परात् जीवधनात् परमीश्वरमीक्षत इति शिवविषयमीक्षणं श्रूयते । ध्यानेक्षणयोः ममानविषयत्वात् परं पुरुषमभिध्याथी- त'इति ध्यानकर्मापि परमेश्वर एव । उत्तरत्र 'तमोंकारेणैवायत. नेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयामिति' शिवासा. धारणामृतशब्दात् शिव एवोपास्य इति । ब्रह्मलोको हि तत्र गुणशिवलोकपरः परं पुरुषमीक्षत इति ।। २५ ॥ [५ दहराधिकरणम् ] दहर उत्तरेभ्यः । (ब्र० सू०१।३।१४) 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो. ऽस्मिन्ननाराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासि- प्रथमाध्याये तृतीयः पादः- ? तव्यम्' इति छान्दोग्ये श्रूयतेऽस्य विषयः । ब्रह्मण उपल- धिस्थानं शरीरं ब्रह्मपुरं तत्राल्पं हृदयपुण्डरीकं वेश्म तस्मिन्वे. पनि दहराकाशो वर्तत इत्यर्थः । ननु 'दहरोऽस्मिन्नन्तराका- शस्तस्मिन्यदन्तः' इत्यत्र तस्मिन्निति तत्पदेन अव्यवहितदहरा- काशपरामर्शः किं न स्यान् ? अव्यवहितपरामर्शे 'दहरं पुण्ड- रीकं वेश्म दहरोऽस्मिन्नन्तराकाशः' इतिवत् 'अस्मिन् ब्रह्म पुरे' इतिवच्चास्मिन्निति पदं प्रयुज्येत । अतस्तस्मिन्निति तच्छन्दो व्यवहितपरामर्शीति ज्ञायते । अत्र दहराकाशः परमेश्वरो वाऽऽन्यो वेति संशये भृताकाश इति प्राप्तम् , आका. शस्य तत्र रूढत्वात् । अथवा दहरशब्देनाल्पत्वोक्तेः परिच्छि- भो जीवो भविष्यतीति प्राप्ते सिद्धान्तयति- आधारमस्य जगतोऽपहताघसंघ- मात्मानमभ्रवददभ्रमशेषसेतुम् । ब्राह्मे पुरे हृदयपङ्कजवेश्मभाज- माकाशमीश दहरं त्वदभिन्नमाहुः ॥ २६ ॥ ब्रह्मवात्राकाशशब्दवाच्यम् , 'उभे अस्मिन्द्यावापृथिवी अन्तरव समाहिते' इत्यादिना द्यावापृथिव्याधशेषजगदाधार- त्वं दहराकाशस्य श्रूयते । तथा 'एष आत्मापहतपाप्मा' इत्या- त्मत्वमपहतपाप्मत्वं च, 'य आत्मा स सेतुर्विधृतिः' इति जग- मर्यादानामसाङ्कर्याय विधारकत्व लक्षणं सेतुत्वं च जगधृतिश्च ६
अद्वैतविद्यातिलकदर्पणम् ।
शिवस्य महिमा 'एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष
सेतुर्विधरणः' इति श्रुतेः । 'हृत्पुण्डरीकं विरजम्' इत्यारभ्य
'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिगच्छति भृतयोनिम्', इयादि कैवल्योपनिषदि
च दहरपुण्डरीकमध्यवर्ती दहराकाश उपास्य उमासहितः
शिव एवेत्युक्तम् ॥ २६ ॥
उत्तराच्चेदाविभूतस्वरूपस्तु । (ब्र०सू०१।३।१९)
दहरबिंद्योपरि प्रजापतिविद्यायामिन्द्रविरोचनप्रजापतिसं.
वादे श्रूयतेऽस्य विषय:-'य एषोऽक्षिणि पुरुषो दृश्यते एक
आत्मेति होवाच' इति । तत्र जीवात्मेति प्राप्तमवस्थात्रयोप-
न्यासात् , 'य एषोऽक्षिणि पुरुषो दृश्यते' इति, य एष स्वप्ने म.
हीयमानश्वरति' इति, 'सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजा.
नाति' इति वाक्यत्रयेण एवमवस्थात्रयोपन्यासे सति अवस्था-
वान जीको ग्रहीतुमुचितम्(?), ईश्वरस्यावस्थाराहित्यादिति प्रा-
मे सिद्धान्तयति-
-
व्यावृण्वतोरजनिमत्सुलभान्विशेषा-
नाद्यन्तयोस्तनुशासितरैकरूप्यात ।
सोऽसि त्वमक्षिपुरुषः सुरनायकादि-
संवादमध्यगतसूक्तिसमर्पणीयः ॥ २७ ॥
प्रथमाध्याये तृतीयः पाद:- इश्वर एवाक्षिपुरुषः । कुनः, 'य आत्माषहतपाप्मा विज- रो विमृत्युः' इति परमात्मानमुपक्रम्य 'स उ तमः पुरुषः' इत्य- नेन परमात्मन एवोपमहासत् । न चैवं सति जागरणायुप- न्यामानुपपत्तिः, शाखाग्रचन्द्रन्यायेन परमात्मबोधोपक्षीणत्वात् । अवस्थात्रयोपन्यासान्ते पर्यायत्रयेऽपि 'एतदमृतमभयमेत ब्रह्म' इति अक्षिपुरुषस्य ब्रह्मत्वप्रतिपादनात् , अमृतमिति पदस्य शिववाचकत्वस्य पाक्स्थापितत्वात् इदं शिवपरमेव ॥ २७ ॥ [ ६ अनुकृत्याधिकरणम् ] अनुकृतस्तस्य च । (बसू०१।३।२२) मुण्डकोपनिषदि श्रूयतेऽस्य विषयः-'न तत्र सूर्यो भाति न चन्द्रनारकं नेमा रिद्युतो भान्ति कुतोऽयमग्निः । तमेव भा. न्तमनुभाति सर्वं तस्य भामा सर्वमिदं विभाति' इति । अस्या- यमर्थः-तत्र 'ज्योतिषां ज्योतिः' इति पूर्वप्रकृते ज्योतिषि सूर्य- चन्द्रादयो न भान्ति, किन्तु तमेव ज्योतिषां भासकं पुरतो भा. समानं पदार्थमनु पश्चात् सर्वं जगद्भाति । भासनदशायां चन्द्रा. दिकं स्वतन्त्रण (?) न भासते । किं तर्हि ? तस्य भासकस्य तेज. सा सर्व विभातीति । अत्र वाक्ये श्रूयमाणं सूर्यादिसदृशं जग- द्भासकं चाक्षुषं तेजोऽन्तरमुतेदं चैतन्यमिति संशये तेजोऽन्त- रमिति वदामः । कस्मात् । भूर्यादितेजोऽभिभावकत्वात् । महत. स्तेजसः सन्निधौ स्वल्पं तेजोऽभिभुय ते, यथा सूर्य सन्निधौ दी.
अद्वैतविद्यातिलकदर्पणम् । - पः । तथा च सूर्यादीनामभिभावकमन्यत् तत्सूर्यादिभ्योऽधिकं तेजोऽन्तरमेवेति प्राप्त सिद्धान्तयति- अर्कादिदीप्त्यविषयस्य महोऽन्तरस्य तेजस्तदन्यसकलार्थविभासकस्य । प्राग्भासुरस्य जगतः परमप्रसिद्ध चैतन्यमेव तव तादृशमित्यवमि ॥ २८ ॥ सूर्यादिभिरभास्यमानतया श्रूयमाणं वस्तु चैतन्यमेव । सू- यद्यभिभावकस्य महतस्तेजोऽन्तरस्याप्रसिद्धत्वात् । किञ्च 'त- मेव भान्तमनुभाति सर्वम्' इति सर्वस्माजगतः प्राग्भासमानत्वं चैतन्यस्यैवेति ॥ २८॥ [७ प्रमिताधिकरणम् ] शब्दादेव प्रमितः (ब्र०सू०१।३।२४)। कठवल्ल्यामस्य विषयः श्रूयते-'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते' इत्यादि । इहाङ्गुष्ठपात्रतया श्रूयमाणः पुरुषो जीवः परमेश्वरो वेति संशये जीव इति वक्तुमुचितम् । 'स विश्वरूपस्त्रिगुणास्त्र- वा प्राणाधिपः संचरति स्वकर्मभिः । अङ्गुष्ठमात्रो रवितुल्य- रूपः संकल्पाहंकारसमन्वितो यः' इति तस्याङ्गुष्ठमात्रत्वप्रसिद्धेः, 'मध्य आत्मनि तिष्ठति' इति देहान्तर्वर्तित्वावगमाच्चेति प्रथमाध्याये तृतीयः पादः- प्राप्त राद्धान्त यति- अल्पीयसो हृदयवारिरहादुपाधे- रङ्गुष्ठसम्मितमतीतपुरस्सरेशम् । एवं विधं पुरुषमिन्दुशिखामणे त्वां जानीमहे जनिमतः परमीशितव्यात् ॥ २९ ॥ परमेश्वर एवाङ्गुष्ठमात्र इति ब्रूमः : । 'ईशानो भूतभव्यस्य इति परमेश्वरलिङ्गशब्दात् । 'सर्वैश्वर्य संपन्नः सर्वेश्वरः शम्भु- राकाशमध्य' इति तस्यैव सर्वेश्वरत्वश्रवणात् व्यापकस्यापि पर- मेश्वरस्योपासकहृदयापेक्षयाङ्गुष्ठमात्रत्वमिति ॥ २९ ॥ : 1 [ ८ देवताधिकरणम् ] तदुपर्यपि बादरायणः संभवात् । (ब्र०सू०१।३।२६) परमेश्वरोपासने देवानामधिकारोऽस्ति न वेति संशये, नास्ति तेषामधिकारः । अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तश्च वैदिके कर्मण्यधिकारीत्यर्थित्वमेव तावन्नास्ति, तेषां परमेश्वर- स्य च लोकभेदाभावात् । 'देवा ह वै स्वर्ग लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति' श्रुत्या स्वर्ग एव लोको रुद्रस्य सगुणब्रह्मणः पदमत्रगम्यते । स एव देवानामपि पदम् । एकपदत्वात् तत्पदार्थत्वमपि नास्ति । सामर्यमपि नास्ति, शरीराभावात् । शरीरिणो हि कस्यचित् स्तुतिध्याना- अद्वैतविद्यातिलकदर्पणम् । । : दिषु समर्थाः । 'इन्द्रो वृत्राय वज्रमुदयच्छन्' इत्यादीनां प्रामा- प्यातेषां विग्रहत्त्वमिति चेन, विध्येकवाक्यतापनानामन्यत्र तात्पर्याभावात् । वैदुष्यमपि तेषां नास्ति उपनयन संस्कारपू. वकस्य वेदाध्ययनस्याभावेन वेदान्तविचाराभावेन ब्रह्मबोधा. नुपपत्तेः । तत एव तेषां शास्त्रपर्युदासश्च । तस्मादेवानां नास्ति ब्रह्मोपासनेऽधिकार इप्ति प्राप्ते सिद्धान्त यति- मन्त्रादिसिद्धतनवो मरुतस्तपोभि- स्फीतैर्विनापि नियमं प्रतिभातवेदाः । ऐश्वर्यतातिशयिता सुघटार्थिभावा विद्यासु ते मदनजेतरधिक्रियन्ते ॥ ३०॥ ब्रह्मोपासने देवानामप्यधिकारोऽस्ति । कुतः, तेषामर्थि- स्वसंभवात् । नच परमेश्वरस्य देवानां च पदं समानं, यतः सामान्येन मुखवाचकोऽपि स्वः शब्दः प्रकरणादिना विशेष मभिधत्ते । यथेश्वरशब्दः स्वामिमात्रवाचकः प्रकरणवशात् 'उपे. यादीश्वरं चैव योगक्षेमार्थसिद्धये' इत्यादिषु जनपदाधिपत्य- मात्रयाची राजविषयः, ब्रह्मणः प्रकरणे पुनरयं निरतिशयै- वयवाची तद्विषयो भवति, तथा सुखमात्रवाचकः स्वर्गशब्दः प्रकरणेन प्रमाणान्तरोपपत्त्या च देवानां पदमतिस्वल्पकालब- ति स्वल्पसुखरूपमभिधत्ते, सगुणब्रह्मणः शिवस्य पदं तु तद- पेक्षयाधिककालस्थायि महासुखमभिधत्ते । अतः स्वल्पसुखप- ..
प्रथमाध्याये तृतीयः पाद:- दवर्तिनामधिकसुखरूपब्रह्मपदं प्रत्यर्थित्वमस्त्येव । सामर्थ्य चा. स्ति, 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यार्थिवादानां स्वर्गार्थ. वादवत् भूतार्थवादत्वेन स्वार्थे प्रामाण्यसम्भवात् , 'आदित्यो यूपः', 'अग्निर्हिमस्य भेषजम्' इत्यर्थवादयोरिव मानान्तरविरो. धमानान्तरप्राप्त्योरभावात् । शक्त्यतिशयेन स्वयंप्रभातवेदार्थ त्वात् पूर्वाधीतवेदार्थविस्मरणाभावाच्च तेषां वैदुष्यं च सम्भव ति । शास्त्रस्य साधारण्ये नोपासनाविधायकत्वात् अधिकारस्य दुर्निवारत्वेन दूरतस्तत्पयुदासः । तस्माद्ब्रह्मविद्यायामधिका- रिणो देवाः । अत एव देवानां परमेश्वरविषयमुपासनं श्रूयते अथर्वशिरसि-'ते देवा रुद्रं ध्यायन्तीति' ॥ ३०॥ [९, अपशूद्राधिकरणम् ] शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । (ब.सू०१।३।३४) छान्दोग्ये श्रूयतेऽस्य विषयः-'आजहारेमाः शुद्रानेनैव मुखेनालापयिष्यथा' इति । अत्राचार्यः शिष्यं प्रति शूद्रेत्या- मन्त्रयते । अनः शूद्राणामपि ब्रह्मविद्यायामधिकारोऽस्ति न वेति संदेहे तेषामधिकारोऽस्ति, अर्थित्वादिसम्भवात् । न च त्रैवर्णिकाना मेवेति नियमः । अत्रैवर्णिकानापि देवानां तदद- र्शनात् । न च देवानामुपनयनाध्ययनादेरभावेऽपि स्वयं प्रभा. तवेदार्थतया युज्यते वैदुष्यं कथं शूद्राणामिति शङ्ख्यं, तेषामपि १८ अद्वैतविद्यातिलकदर्पणम् । - पुराणश्रवणादिना बोधोपपत्तेः । निषादस्थपतिन्यायेन महा. वाक्यश्रवणेऽधिकारसम्भवाच्च । तस्माच्छूद्राणामपि ब्रह्मवि- द्यायामधिकारोऽस्तीति प्राप्ते सिद्धान्तयति- जानश्रुति त्रिपुरशासन तावकीन. विद्यापरिश्रमविनाकृतिजातशोकम् । क्षत्रप्रचोदनपुरस्सरभूतिमत्त्वा- द्राजानमभ्यधित शूद्रपदेन सैवः ॥ ३१ ॥ नास्ति शूद्राणामधिकारः। तेषामध्ययनाभावेनोपासनो- पायभूतोपास्यतद्गुणादिज्ञानासम्भवात् । इतिहासपुराणानि वेदोपहणं कुर्वन्ति सन्त्येवोपायभावमनुभवन्ति न स्वातन्त्र्येण । शूद्राणामितिहासपुराणश्रवणानुज्ञाने तु तस्य पापक्षयः फलम् । विदुरधर्मच्यासादीनां जन्मान्तरसिद्धज्ञानाममोपात् ब्रह्मनिष्ठता । कथं ब्रह्मविद्योपदेशे शूद्रेत्यामन्त्रणमिति चेन्न, तत्र जातियोगेन न शूद्रेत्यामन्त्रणम् । किन्तु ब्रह्मज्ञानाप्राप्त्या शुगस्य संजातेति 'सयुग्वानमिव रैकमास्थ' इति हंसानादरश्रवणात् ज्ञायते । शुचा द्रवतीति शूद्रः इत्यर्थः । उपाख्यानोपक्रमे 'जानश्रुतिई पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽत्स्यन्तीति' इति जानश्रुतेदी- नपतित्वबहुतरपक्कानदायित्वं चोक्त्वा मध्ये च 'संजिहान एवं सत्तारमुवाच' इति क्षत्रं औषणं चावगम्यते । एतलिङ्गानश्रुतेः प्रथमाध्याये तृतीयः पादः- क्षत्रियत्वमवगम्यते । तस्मान्न शूद्रस्याधिकार इति ॥ ३१ ॥ [१० कम्पनाधिकरणम् ] कम्पनात् (ब्र०सू०१।३।३९) कठवल्ल्यांश्रूयतेऽस्य विषयः- 'यदिदं किञ्च जगत्सर्व प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भव. न्ति' इति । अस्यायमर्थः-निःमृतमुत्पन्नं यदिदं जगत्सर्व प्राणे निमित्तभूते मति कम्पते तच्च प्राणशब्दवाच्यं वस्तु उद्यतं वज्र. मिव महाभयहेतुः । एतत्प्राणशब्दवाच्यं ये विदुः ते मरणरहिता भवन्तीति । अत्र जगत्कम्पन हेतुः प्राणपदार्थः परमेश्वरोऽन्यो वेति संशये अशनिरिति तावत्प्राप्तम् । कुतः, महद्भयमिति भय हेतु- त्वश्रवणात् । वायुर्वा भविष्यति, प्राण एजति' इति प्राणशब्दवा- च्यस्य देहादिचालनकर्तृत्वादेरवगमादिति प्राप्ते सिद्धान्तयति- संचालकस्त्रिजगतोऽखिलशक्तियोगा- दन्तर्नियामकतया भयहेतुरस्य । आत्मीयवेदनवताममृतत्वदायी प्राणश्रुतेस्त्वमसि भाजनमन्तकारे ॥ ३२ ॥ ईश्वरः प्राणशब्दवाच्यः । 'य एतद्विदुरमृतास्ते भवन्तीति' तदनस्यामृतफलकत्वोक्तेः। भयहेतुतादि अन्तर्यामितया ईश्व- रस्य भविष्यति । 'भीपास्माद्वातः पाते । भीषदिदिERHBN .
अद्वैतविद्यातिलकदर्पणम् ।
भीषास्मादग्निश्रेन्द्रश्च । मृत्युर्धावति पञ्चमः' इति श्रुयन्तगद्दे-
हादिचालकत्वं च सर्वशक्तित्वादीश्वरम्पोपपद्यते । 'यदा चर्म-
वदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो
भविष्यति' इति श्रुतेः शिवज्ञानस्यैव मुक्तिहेतुत्वप्रतिपादनाद
प्राणशब्दवाच्यः शिव एवेति सिद्धम् ॥ ३२ ॥
[११ ज्योतिरधिकरणम् ]
ज्योतिर्दर्शनात् । (ब्र०सू०१।२।४०)
शेषः
'एष संप्रसादोऽस्माच्छरी रात्समुत्थाय परं ज्योतिरुपस-
म्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम पुरुषः' इति । सम्यक्
पप्तीदत्यस्यां सुषुप्त्यवस्थायामिति मम्प्रसादो जीवः,
सुगमः । ज्योतिःशब्दवाच्यं ब्रह्म वा आदित्य मण्डलं वेति संशये
रविमण्डलमेव । कस्मात् । 'शरीरात्ममुत्थाय परं ज्योतिरुपस.
म्पद्यते' इति देहान्निगत्य पश्चाज्ज्योतिः प्राप्नोतीत्युच्यमानत्वात् ,
ब्रह्मपाप्तौ निर्गमाभावात्, प्राप्तप्राप्तव्य भेदानुपपत्तश्चेति प्राप्त
राद्धान्तः
देहद्वयादतिविविक्ततयैव जानन्
प्रत्यक्पदार्थममुना पुनरश्चितैक्यम् ।
ज्योतिःपरं पशुपते पुरुषोत्तमं त्वां
पश्यनिजां प्रकृतिमृच्छात संप्रसादः ॥३३॥
प्रथमाध्याये तृतीयः पादः- ज्योतिःशब्दवाच्यं ब्रह्मैव । कस्मात् । 'उत्तमः पुरुषः' इत्यु. त्तमपुरुषसंकीर्तनात्, रविमण्डलस्य तदयोगात् । यदुक्तं 'शरी. रात्समुत्थाय परं ज्योतिरुपसम्पयने' इत्येतद्वयं ब्रह्मपक्षे न स. म्भवतीति तदसत् । न बत्र समुत्थानं निर्गमनम् । किं तर्हि ? त्वं पदार्थस्य ब्रह्मत्वेन बोधनम् । अग्रे 'एतदमृतमभयमेतद्ब्रह्म'इति वाक्यं त्रिरुक्तमिति तत्रामृतपदाभ्यासात् इदं वाक्यस्थज्योतिःपदं शिवपरमेवेति । अन्ये तु-जीवः अस्माच्छरीरद्वयात्समुत्थाय अ- चिरादिमार्गेण सगुणब्रह्मलोकं गत्वा 'परं ज्योतिः' सगुणं ब्रह्म तदुपसम्पद्य तत्समीपे स्थित्वा तत्क्रतुन्यायेन तत्समानगुणभोगो भृत्वा 'ब्रह्मणा सह ते सर्व संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृ. तात्मानः प्रविशन्ति परं पदम्' इति प्रमाणानुसारेण पश्चात्स्वे- न रूपेणाभिनिरुपद्यत इति सर्वोपाधिविनिर्मुक्तस्वरूपमात्रतया- वस्थानं श्रुत्या प्रतिपाद्यत इति वदन्तीति ॥ ३३ ॥ [१२ अर्थान्तरत्वव्यपदेशाधिकरणम् ] आकाशोऽर्थान्तरत्वादिव्यपदेशात् । (ब्र०सू०१।३।४१) प्रजापतिविद्यान्ते श्रूयतेऽस्य विषयः । 'आकाशो वै नाम नामरूपयोनिहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा' इति । अत्राकाशपदार्थः जगदूपयो मरूपयोनिर्वाहकः । ते च नामरूपे यस्मादाकाशात् भिन्ने अथवा यस्याकाशस्यान्तरेव ते वर्तते अद्वैतविद्यातिलकदर्पणम् । - तदाकाशं मरणरहितं ब्रह्म तच्च प्रत्यगारमेति । तत्राकाशपदवा- च्यं ब्रह्म वा भूताकाशो वेति सन्देहे भूनाकाश एव, नामरूप- योर्निर्वहितेत्युक्तस्य निर्वाहकत्वस्यावकाशप्रदातरि वियति सम्भ- वादिति प्राप्त सिद्धान्त:- एकैव हेमगिरिकार्मुक नामरूप- निर्वाढता निखिललोकनियन्तृभूते । आकाशनाम विनिवेशयितुं त्वयीष्टे ब्रह्मामृतात्मपदसाद्यवती तु सा किम् ॥ ३४ ॥ अत्र निर्वाह कत्वं नाम नावकाशप्रदानमात्रं, किन्तु निया- मकत्वं, सर्वप्रकारनिर्वाहकस्य नियन्तृत्वात् । नह्य चेतनं सर्वान् प्रकारान् ज्ञात्वा नियन्तुं शक्नोति । अन्तर्यामिब्राह्मणे चेतनस्यैव नियन्तृत्वकथनात् वाक्यशेषे तद्ब्रह्म तदमृतं स आत्मा' इति श्रूय- माणानां ब्रह्मामृतात्मपदानामाकाशे असम्भवात् ब्रह्मेवाकाशशब्द- चाच्यं, तदमृतमित्युक्त्या शिवपरमिति स्पष्टमेव ॥ ३४ ॥ [ १३ सुषुप्त्युत्क्रान्त्यधिकरणम् ] सुषुप्त्युत्कान्त्यो देन । (ब.सू०१।३।४२) बृहदारण्यके श्रूयते, 'योऽयं विज्ञानमयः प्राणेषु हृयन्त- ज्योतिः पुरुषः स समानः सन्तुभौ लोकावनुसञ्चरति' इति । अस्यार्थ:-विज्ञानमयो लिङ्गशरीरमयः, तेन स्थूलदेहव्यतिरि- प्रथमाध्याये तृतीयः पादः - क्तः सिद्धः पाणेषु चक्षुरादीन्द्रियेषु प्राणादिवायुषु च हृदि अन्तःकरणे सप्तम्या आधारत्वनिर्देशात् आधेयस्य पुरुषस्य इन्द्रि- यवायुमनोव्यतिरिक्तत्वं सिद्धम् । अन्तःशब्देन धीवृत्तिभ्यः कामसङ्कल्पादिभ्यो व्यतिरिक्तः, बुद्धिपरिणामरूपाणां तासां वृत्तीनां वहि नत्वात् । एवं च स्थूलदेहादीन्द्रियेभ्यः प्राणवा- युभ्यः अन्तःकरणात्तद्वृत्तिभ्यः कामसङ्कल्पादिभ्यो व्यतिरिक्त- स्तेषां साक्षित्वेन चित्ज्योतिःस्वरूपः पुरुष इत्युक्तं भवति । स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सनिहलोकपरलोकावनुमञ्चरतीति । तत्र विज्ञानमयो जीवो भ. वितुमर्हति, ज्योतिब्राह्मणशारीरब्राह्मणयोरादिमध्यावसानेषु संमारस्यैव प्रपंच्यमानत्वात् । आदौ तावदुभी लोकावनुसञ्च- रतीति संसारोक्तिः । प्तप्रसादस्वमान्तजागरप्रतिपादकैरग्रिम- भागैरवस्थात्रयं प्रपञ्च्यते । अन्तेऽपि ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः' इत्यादिना सोपाधिकस्वरूपव- णनेन संसार एवोच्यते । तस्माज्जीव इति पूर्वपक्षे सिद्धान्तः- आदौ विवेक्तुमसुगन्धवहाद्युपाधे- र्जाग्रन्मुखैस्कृतसङ्गतयान्तरेऽपि । श्रीकण्ठ दर्शयितुमुक्तमनद्य जीव- मस्य त्वदैक्यमवधौ निगमोऽभिधत्ते ॥ ३५॥ जीवः प्रतिपाद्यो न भवति । कस्मात् । लौकिकादहम्प्रत्यया- - अद्वैतविद्यातिलकदर्पणम् । देव तस्य सिद्धः। किमर्थं तर्हि जीवाद्यभिधानमिति चेत्, प्राणा- धुपाधिभ्यो विवेक्तुमादावभिधानं मध्येऽप्यवस्थात्रयसङ्गराहिसं दर्शयितुमभिधीयते । अन्ते तूक्तजीवस्वरूपमन्द्य तस्य ब्रह्मत्वं प्रतिपाद्यते । तस्य मानान्तरेणामाप्तत्वात् । तस्माद्ब्रह्मात्र प्रति- पाद्यम् ॥ ३५ ॥ इति श्रीमत्परशुरापमिश्रात्मजमित्रपिश्रमेरितस्प वेङ्कटभट्ट- सनुधर्मय्यदीक्षितस्य कृतौ अद्वैतविद्यातिलकदर्पणे प्रथमाध्यायस्य तृतीयः पादः । -- -- [१ आनुमानिकाधिकरणम् ] आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त- गृहीतेर्दर्शयति च । (ब.सू.१।४।१) 'इन्द्रियेभ्यः परा ह्यर्थी अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सापरा गतिः' ॥ अत्रा- व्यक्तशब्देन सांख्याभिमतं प्रधानमभिधीयते । कस्मात् । प्रत्य- भिज्ञानात् । महदव्यक्तपुरुषाः सांख्यशास्त्रे परापरभावेन यथा प्रसिद्धाः तथैव श्रूयन्ते । प्रत्यभिज्ञानाचाव्यक्तशब्दवाच्यं पधा- प्रथमाध्याये चतुर्थः पादः ६५ न मिति प्राप्ते सिद्धान्तयति- अव्यक्तमत्र शशिशेखर पूर्ववाक्ये विन्यस्तरूपकशरीरपरं वदामः । पूर्वोक्तयावदभिधेयविमर्शनेन सांख्यधानवचसोज़ कथं प्रसङ्गः ॥ ३६ ।। अव्यक्तशब्दवाच्यं वपुरेव पूर्ववाक्योक्तशरीरस्य प्रत्यभि. ज्ञानात् । तथाहि पूर्वस्मिन्वाक्ये शरीरादीनि स्थादित्वेनोक्ता- नि--'आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथि विद्धि मनः प्रग्रहमेव च ।। इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान्'इति तानि पूर्वोक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते। स्मार्तप्रत्यभिज्ञानादपि श्रोतं प्रत्यभिज्ञानं प्रबलं प्रत्यास नत्वात् । नन्वेवमपि बहूनां प्रत्यभिज्ञायमानत्वात् शरीरमेवाव्यक्तशब्द- वाच्यमिति कुतोऽवसीयत इति चेत् , परिशेषात् । तथाहि पूर्व- स्पिन्धाक्ये इन्द्रियार्थमनोबुद्धिशब्दनिर्दिष्टाः पदार्थाः उत्तर- म्मिन्नाक्ये तैरेव शब्दनिर्दिश्यन्ते । पूर्वत्रात्मशब्दनिर्दिष्टं वस्तु उत्तरत्र पुरुषशब्देनैव निर्दिष्टम् , पूर्ववाक्ये बुद्धिशब्देन यनिर्दिष्टं तदुत्तरवाक्ये महच्छब्देन सङ्ग्रहीतम् । बुद्धिहि द्विविधा-अस्म- दादीनां बुद्धिरेका तत्कारणभूना हिरण्यगर्भबुद्धिरपरा महच्छ- ब्दवाच्या । तयोः पूर्वत्रैकत्वेनोक्तयोः उत्तरत्र भेदेन निर्देशः । एवं च पूर्ववाक्ये शरीरमेकं परिशिष्टमुत्तर वाक्ये चाव्यक्तमिति । न अद्वैत विद्यातिलकदर्पणम् । चैवं परिशेषेऽपि शरीरस्य स्पष्टत्वादव्यक्तशब्दवाच्यत्वानुपप. त्तिरिति वाच्यम् , कारणावस्थापन्नस्य शरीरस्य सूक्ष्मत्वेना. व्यक्तशब्दाईत्वात् अव्यक्तशब्दवाच्यं शरीरमेव ॥ ३६ ॥ [२ चमसाधिकरणम् ]] चमसवदविशेषात् । (ब-सू०१८) 'अजामेको लोहितशुक्लकृष्णां बह्वीः प्रजाः मृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहत्येनां भुक्तभोगामजोऽन्यः' इति श्वेताश्वतरोपनिषदि श्रूगतेऽस्य विषयः । सर्वप्रजाकारणत्वेन श्रूयमाणा अजा सांख्यसिद्धप्रधानमीश्वरपरतन्त्रा प्रकृतिर्वेति विशये प्रधानमिति बदामा, अजामिति जन्माभाववचनात् , सर्वप्रजाजनकत्वाञ्च, लोहितशुक्लकृष्णामिति वर्णोपलक्षितगुण- त्रयावगमाञ्चेति प्राप्ते सिद्धान्तयति-- सूतां त्वया गिरिश लोहितशुक्लकृष्णां तेजोजलाशनमयीं जननी प्रजानाम् । एकामजामुपनिषत्प्रथितस्वरूपा सांख्याः प्रधानमिति संकथयन्ति मूढाः ॥३७॥ 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदनस्य' इति छान्दोग्ये तेजोऽबन्नात्मिकायाः प्रकृते लोहितशु- क्लकृष्णरूपाणि श्रुतान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रौतप्रत्य- प्रथमाध्याये चतुर्थः पादः- भिज्ञायाः प्राबल्यात् लोहितादिशब्दानां मुख्यार्थसम्भवाच्च तेजोऽवन्नात्मिकाप्रकृतिरजेति गम्यते । ताजेति कथमुच्यते ? छागे रूढस्याजाशब्दस्य बहुप्रजाजनकत्वसाम्येनाग्निमाणवक इतिव. दगौणोऽयं प्रयोगः, प्रकृतेस्तेजोऽबन्नात्मिकायाः ब्रह्मणो जा. तत्वात ॥ ३७॥ . [ ३ संख्योपसंग्रहाधिकरणम् ] न संख्योपसंग्रहादपि नानाभावाद- तिरेकाच्च । (ब्र.सू.१।४।११) 'यस्मिन्पश्च पञ्चजना आकाशश्व प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्' इति बृहदारण्यके षष्ठाध्याये(?) श्रूयतेऽस्य विषयः । तमेवाश्रयमात्मानममृतं ब्रह्म मन्ये इत्थं विद्वानहममृतो भवामीति मन्त्रार्थः । अत्र 'पञ्च पञ्चजनाः' इति श्रीताः पदार्थाः किं वा सांख्यशास्त्रप्रसिद्धानि तत्वानि वेति संशये सांख्यतत्त्वान्येव । कस्मात् ? पञ्चविंशतिसंख्यायाः सांख्य- शास्त्रमसिद्धाया अत्रावभासनात् । तथाहि पश्चपञ्चेति शब्दद्वयं श्रूयते । तत्रैकपञ्चशब्देन तत्र गता पञ्चसंख्या विवक्षिता, द्वितीयेन पञ्चसंख्याविषया परा पञ्चसंख्या विवक्षिता । तथा च पञ्चसंख्याविशिष्टानि तत्वपश्वकानीत्युक्तं भवति । ततः पञ्च- भिः पञ्चकैः पञ्चविंशत्यवभासनात सांख्यतत्वान्येवेति प्राप्त
अद्वैतविद्यातिलकदर्पणम् ।
सिद्धान्त:-
MIRRIAL
आख्याति पञ्चजनवाक्यमगेशय त्वां
प्राणेक्षणश्रवणभक्तमनःप्रतिष्ठाम् ।
प्राणादिवाचकपदैर्भगवन् द्वितीय-
स्तत्साक्षितां तव गृणाति यदीयशेषः ॥३८॥
--
पञ्च संख्याविषया परा पञ्चसंख्या श्रूयतां, तथापि पञ्चविं.
शतितत्वमानं श्रूयते, पञ्चविंशतितवानां तदाश्रयस्यात्मनोऽपि
प्रतीतेः । न चात्मा (पञ्च?) विंशत्यन्तःपातीति वाच्यम् । तथा
सति एकस्यैवाधारत्वमाधेयत्वं चापतेत् । 'आकाशश्च प्रति
ष्ठितः' इत्याकाशश्वाधिकः श्रूयते । पूर्वोक्तः समुच्चयार्थशब्दश्च ।
अत आत्माकाशाभ्यां सप्तविंशतिसंपत्तेः न सांख्यपदार्थानामत्र
प्रसङ्गः। तर्हि 'पश्च पञ्चजनाः' इतिवाक्यार्थो वक्तव्यः। उच्यते--
पञ्चजनशब्दोऽयं समस्तः कस्यचित्संज्ञा 'दिक्संख्ये संज्ञायाम्'
इति संज्ञायां समासविधानात् । ततः पञ्चजनसंज्ञकाः पदार्थाः
पञ्चसंख्या इत्युक्तं भवति । संज्ञिनस्तु वाक्यशेषात्पाणादयो-
ऽवगन्तव्याः। 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रो.
त्रमुतान्नस्यानं मनसो ये मनो विदुः' इति द्वितीयैः प्राणा-
दिशब्दैः पञ्चानां साक्षी चिदात्मेत्यभिधीयते । तस्माद्वाक्यशेषा-
पाणादयः पञ्चजना भवेयुः ॥ ३८ ॥
प्रथमाध्याये चतुर्थः पादः-
-
[४ कारणत्वाधिकरणम् ]
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
(ब्र० सू० ११४।१४)
ननु वेदान्तानां समन्वयो युक्तो न भवति । कस्मात् ? वेदा.
न्तानां बहुशो विरोधदर्शनात् । परस्परविरुद्धानामप्रमाणत्वात् ।
तथाहि-'आत्मन आकाशः सम्भूतः' इति तैत्तिरीयके वियदा.
दीन्प्रति स्रष्टुत्वं श्रूयते आत्मनः । छान्दोग्ये 'तत्तेजोऽसृजत'
इति तेजआदीन्प्रति । ऐतरेयके 'स इमाँल्लोकानसजत' इति
लोकान्पति । मुण्ड के 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि
च' इति प्राणादीप्रति । कारणस्वरूपोपन्यासेऽपि विरोधः ।
'सदेव सोम्येदमग्र आसीत्' इति छान्दोग्ये सद्रूपं कारणमवग
म्यते । अन्यत्र 'असदेवेदमग्र आसीत्' इत्य सद्रूपत्वम् । ऐतरेयके
'आत्मा वा इदमेक एवाग्रमासीत्' इति । ततो विरोधात्समन्वयो
न सम्भवतीति प्राप्ते सिद्धान्तः--
व्योमादिमृज्यविसरस्तदनुक्रमो वा
भूयाद्विवादविषयो भुवनैकहेतुम् ।
त्वामेव वक्ति निगमोक्तिरनामरूप -
मात्मस्वरूपमसदात्मपदवयेन ।। ३९ ॥
...-
भवतु नाम सृज्येषु वियदादिषु तत्क्रमे च विवादः, वि.
६० अद्वैतविद्यातिलकदर्पणम् । यदादिषु तात्पर्याभावात् । अद्वितीयबोधायैव हि तदुपन्यासः । तात्पर्यविषये हि जगत्स्रष्टार ब्रह्माणि न कापि विवादोऽस्ति, कचित्सच्छब्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरूपविवक्षया आत्मशब्देनाभिधानात् । यत्वसच्छब्देनाभिधानं तदव्याकृत- स्वाभिमानाभिमायं न त्वसन्ताभावाभिप्रायम् , 'कथमसत: स- ज्जायेत' इति श्रुत्यन्तरेणाभावस्य कारणत्वनिषेधात् । तस्मा- देकवाक्यतायाः सुसम्पादत्वाद्विरोधाभावाद्यक्तो जगत्कारणे वे. दान्तानां समन्वयः॥ ३९ ॥ [५ बालाक्यधिकरणम् ] जगद्वाचित्वात् । (ब्र० स० १।४।१६) कौषीतकिब्राह्मणोपनिषदि श्रूयतेऽस्य विषयः । 'ब्रह्म ते ब्रवाणि' इत्युपक्रम्य 'यो चै बालाक एतेषां पुरुषाणां कर्ता यस्य वै तत्कर्म स वेदितव्यः' इत्यादि । तत्र परमेशरोऽन्यो चेति संशये एतेषां पुरुषाणां कर्ता जीव एव कर्मशब्दस्यापूर्व- वाचित्वात् , तहारा तत्कर्तृत्वसम्भवात् । निर्धूतसकलकर्म- सम्बन्धे परमेश्वरे तदभावात् जीव एवायमिति पूर्वपक्षः । सि. द्धान्तस्तु-- ब्रह्मेति षोडश रविप्रमुखान्वदन्त बालाकिमुक्तमनृतं भवतेत्युदीर्य ।
प्रथमाध्याये चतुर्थः पाद:- त्वामन्तरेण कथयेकिमु यस्य चैत- कर्मेत्यनेन वचसान्यमजातशत्रुः ॥ ४० ॥ कर्मशब्दस्य एतच्छब्दसामानाधिकरण्येन जगद्वाचित्वात क्रियत इति कर्म कार्यमात्रवाचि न तु चलन मात्रवाचि । तथा सति पोडशपुरुषचलनात्मककर्ममात्रकर्ता प्रतिपाद्यः स्यात् । तथा सत्यजातशत्रोरपि बालाकिनं प्रत्युक्तदोषः स्यात् ॥ ४० ॥ [६ वाक्यान्वयाधिकरणम् ] वाक्यान्वयात् । (ब्र०सू०१।४।१९) 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासि. तव्यः' इति बृहदारण्यकेऽस्य विषयः । अत्र श्रोतव्यत्वेन प्रती. यमान आत्मा जीवो वा परमात्मा वेति सन्देहे जीवात्मैव । क- स्मात् ? 'न वा अरे पत्युः कामाय पतिः मियो भवति आत्म- नस्तु कामाय पतिः प्रियो भवति' इसादिवाक्यैः भोगपीतियु. क्तस्यात्मनः संसारित्वसूचनात् । अयमस्यार्थः-पत्यो प्रीति कु. वन्ती जाया न पत्युः सुखाय प्रीतिं करोति किन्तु स्वसुखायैव । एवं पुत्रादयोऽपि सवयोगायवेतरत्र प्रीति कुर्वन्तीति भोग प्रीतियुक्तमात्मानमुपक्रम्प 'आत्मा वा अरे द्रष्टव्यः' इति श्रव. णात् संसारीति प्राप्ते सिद्धान्त यति - ६२ अद्वैतविद्यातिलकदर्पणम् । मैत्रेय्यभीकमुनिसूक्तमुपक्रमोप- संहारयोरमृतभावमहानिरीक्ष्य । जीवं पुरोदितमनूद्य शिव त्वयास्य श्रोतव्यवाक्यमभिदां वदतीति मन्ये ॥ ४१ ॥ एतद्वाक्योपक्रमे मैत्रेयी वित्त साध्येन कर्मणा किममृतं स्यादिति पप्रच्छ । याज्ञवल्क्यस्तु 'अमृतत्वस्य तु नाशास्ति वित्तेन' इत्यमृतत्व प्रत्याशापि कर्मणा नास्तीत्युत्तरमाह । उप- संहारेऽपि 'एतावदरे खलामृतत्वम्' इत्युपसंहृतम् । अत उप क्रमोपसंहारवशादमृतत्वसाधनमात्मज्ञानमत्र प्रतिपाद्यम् । जीवा- त्मज्ञानं च नामृतत्वसाधनम् । तस्माद् भोगप्रीतिमज्जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते । इलोकार्थस्तु-उपक्रमोपसंहारा पाममृत- त्वसाधनमात्मज्ञानमात्रमित्यहं ज्ञात्वा मैत्रेय्यभीकमुनिसूक्तं य- दस्ति तत्रोपक्रमोपसंहाराभ्यां पुरोदितं जीवं चानूय जीवस्या. स्य हे शिव त्वदभेदम् 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' इति वाक्यं वदतीति मन्ये इति ॥ ४१ ॥ [७ प्रात्यधिकरणम् ] प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । (ब्र०सू०१।४।२३) जगत्कारणत्वपतिपादकानि सर्वाणि वाक्यानि विषयः ।
प्रथमाध्याये चतुर्थः पादः अत्र किं ब्रह्म निमित्तमेवोपादानमपीति वा इति सन्देहे निमि. त्तकारणमेव 'तदक्षत' इति स्रज्यकार्यविषये पर्यालोचनश्रवणात्। पर्यालोचनं च कुलालादिनिमित्तकारणे दृष्टं नोपादाने मृदादौ । तस्मानिमित्तकारणमिति प्राप्ते सिद्धान्तयति निःशेषकार्यविषयेण निमित्तहेतु- रालोचनेन जगतामसि चन्द्रमौले । भूभूधरप्रभृतिभूरिपदार्थभाव- संकल्पसंघटनया प्रकृतिश्च तेषाम् ।। ४२ ॥ 'तदैक्षत बहु स्यां प्रजायेय' इति ईक्षितुरेव प्रकर्षणोत्पत्या बहुभावः श्रूयते । तत उपादानमपीति । 'यस्मिन्विज्ञाते सर्व- मिदं विज्ञातं भवति' इति सर्वविज्ञानप्रतिज्ञानं च ब्रह्मण उपा. दानवे घटते । उपादानब्रह्मव्यतिरेकेण कार्याणामभावात् त. दुपपादयितुं शक्यम् । केवलनिमित्तत्वे तु सर्वेषु ब्रह्मव्यतिरि. तेषु सत्सु एकविज्ञाने सर्व विज्ञानं कथं प्रतिपाद्यताम् ? तस्मा. निमित्तोपादानं ब्रह्मेति ॥ ४२ ॥ [८ ८ सर्वव्याख्यानाधिकरणम् ] एतेन सर्वे व्याख्याता व्याख्याताः। (व०सू०१।४।२८) अत्र वेदान्ता विषयाः। ब्रह्मण इव परमाणुशून्यादीना. मपि जगत्कारणत्वं श्रौतमस्ति । अथवा ब्रह्मण एव नियतं का.
अद्वैत विद्यातिलकदर्पणम् । रणत्वमिति संशयः। अण्वादीनामपि कारणत्वं श्रुतं वटधानादि- दृष्टान्तश्रवणात् । तथाहि छान्दोग्ये षष्टाध्याये श्वेतकेतुं प्रत्युप. दिशन्नुहालकः सूक्ष्मे तत्त्वे स्थूलस्य जगतोऽन्तर्भाव प्रतिपादयि: तुमाह । वृक्षगर्भितानि वटबीजानि दृष्टान्त त्वेनोदाजहार । अत- स्तादृशाः परमाणवो दार्शन्तिकाः श्रुता भवन्ति । शून्यस्य स्वसदेवेदमग्र आसीदिति कारणत्वं श्रुतम् । साक्षादेवाभावमेके कवयो वदन्ति कालं तथान्ये इत्यभावकालपक्षौ श्रौतौ । तस्मात् परमाणवादीनामपि श्रौतं कारणत्वमिति पूर्वपक्षे सिद्धान्तमाह- - अव्याकृतत्वहृदयादखिलप्रमाण- वेद्येतरप्रकृतिताविषयाच्च भावात् । किं ते विरुद्धमभिधानमसत्पदेन विश्वेश सूक्ष्मवटवीजनिदर्शनं च ॥ ४३ ॥ एकविज्ञानेन सर्वत्रिज्ञानं शून्यादिमते नोपपद्यते, शून्या- दिभिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञातत्वात् । धानादि- ष्टान्तस्तु ब्रह्मण्यपीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते । च्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः । अ- भावकालपक्षौ तु पूर्वपक्षश्रुत्योपन्यस्तौ । श्लोकार्थस्तु --अव्या- कृतत्वहृदयादिति । हे विश्वेश असत्पदस्य नामरूपरहितब्रह्म- तात्पर्येण प्रयुक्तत्वादखिलप्रमाणप्रत्यक्षादिप्रमाणागम्यतया ब्र. ह्मणोऽपि सूक्ष्मत्वात् ब्रह्मण्यसत्पदं वटधानदृष्टान्तश्चोभयमुपप- अस- प्रथमाध्याये चतुर्थः पाद:- ६५ द्यते। प्रत्यक्षादिप्रमाणवेद्येतरा प्रकृतिः स्वभावो यस्य स त. थोक्तः तस्य भावस्तत्ता तद्विषयात् भावादभिप्रायादित्यर्थः ॥४३॥ ननु प्रथमाध्यायप्रतिपादितन्यायः तत्तदधिकरणविषयवा. क्यानामेवार्थस्य निर्णीतत्वात् शाखान्तरगतानां वाक्यानामर्थ- निर्णयः कथमित्याशय सूत्रकारेणैवेयमाशङ्कानेनैव सूत्रेण प- रिहतेत्याह- न्यायवजैः कतिपयश्रुतिमस्तकानां तात्पर्यनिर्णयकृते कथितैरमीभिः । कृत्स्ना मृषेतरगिरामवसानवाचः पञ्चानन त्वयि भवन्ति समन्वितार्थाः ॥ ४४ ॥ एतेन सर्वे व्याख्याता व्याख्याताः । एतेन प्रथमाध्या. यमदर्शितेन न्यायसमूहेनेवानन्तशाखागतवाक्यानामनिर्णय इति सर्वज्ञशिरोमणिना व्यासेनैवातिदेशः कृत इति नानुपप- त्तिवर्णकान्तरमिदमिति । श्लोकार्थस्तु स्पष्ट एव ॥ ४४ ॥ इति श्रीमत्परशुराममिश्रात्मजमित्रमिश्रप्रेरितस्य वेङ्कटभट्ट- मनुधर्मयदीक्षितस्य कृतौ अद्वैतविद्यातिलकदर्पणे प्रथमाध्यायस्य चतुर्थः पादः ।। aba समाप्तश्चाध्याय: प्रथमः ॥
अद्वैतविद्यातिलकदर्पणम् । [ १ स्मृत्यधिकरणम्] स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाश- दोषप्रसङ्गात् । (ब्रसू० २।१।१ ) अस्मिन् पादे समन्वयमाक्षिप्य समाधीयते । तत्रास्मिन्न. धिकरणे वैदिकस्य समन्वयस्य सांख्यस्मृत्या सोचोऽस्ति न वेति संशयः । सङ्कोचोऽस्ति । कुतः । सांख्यस्मृतेरनवकाश. त्वेन प्रबलत्वात् । सांख्यस्मृतिरिह वस्तुतत्वनिरूपणाय प्रवृत्ता न तु अनुष्ठेयधर्म कचिदपि प्रतिपादयति । यदि तस्मिन्नपि वस्तु. न्यसौ वायेत तदा निरवकाशा स्यात् । वेदस्तु धर्मब्रह्मणी प्रतिपादयन् ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः । तस्मादनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्त इति प्राप्ते सिद्धान्तयति- . त्वत्कारणत्वकथने पटुभिः प्रसिद्ध- वेदैकमूलकतयातिपटीयसीभिः । मन्वादिसूक्तिभिरमूलतया प्रधान- हेतुत्ववादिकपिलस्मृतिरेव बाध्या ॥ ४५ ॥ सांख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः । कुतः । मन्वा. दिस्मृतिभिः ब्रह्मकारणवादिनीभिः बाधितत्वात् । प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदमूलत्वात् । न तथा कपिलस्मृतेः द्वितीयाध्याये प्रथमः पादः प्रधान कारणवादिन्या मूलभूतं कश्चन वेदमुपलभामहे । दृश्यमा- नवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात् । तस्मान्न सांख्यस्मृत्या वेदस्य सङ्कोचो युक्तः । श्लोकार्थस्तु स्फुट एच ॥ ४५ ॥ [२ योगप्रत्युक्त्यधिकरणम् ] एतेन योगः प्रत्युक्तः । (ब्र०सू०२।११३) योगस्मृत्या वेदस्य सङ्कोचोऽस्ति न वेति संशये तया वेद- स्य सङ्कोचोऽस्त्येव । योगस्मृतिः पातञ्जलशास्त्रम् । तत्राष्टाङ्ग- योगः प्रतिपादितः। स च प्रत्यक्षवेदेष्वप्युपलभ्यते, श्वेताश्व- तरोपनिषदि सांख्ययोगस्य अपश्चितत्वात् । किञ्च, अयं योगस्त- वज्ञानोपयोगी दृश्यते । 'त्वग्रया बुध्येति' योगसाध्यस्य चित्त- काग्यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात् । ततः प्रमाणभूतं योगशास्त्रं, तच्च प्रधानस्यैव जगत्कारणत्वं वक्ति । तस्माद्योग- स्मृत्या वेदस्य सङ्कोचोऽस्तीति मासे सिद्धान्त यति --- स्थाणो भवत्प्रमितिसाधनयोगचिन्ता- भागे प्रमाकरणभावमुपागतापि । पातञ्जलस्मृतिरसौ भवति प्रमाणं नैव प्रधानमुखतत्वनिरूपणांशे ॥ ४६ ॥ अष्टाङ्गयोगतात्पर्यवत्त्वात् प्रमाणभूतापि योगस्मृतिरवैदि- -- अद्वैतविद्यातिलकदर्पणम् । के प्रधानादौ न प्रमाणं, तत्र तात्पर्याभावात् । तथाहि 'अथ योगानुशासनम्' इति प्रतिज्ञाय 'योगश्चित्तवृत्तिनिरोधः' इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रे प्रपञ्चयामास इति न तत्त्वनिरूपणे तात्पर्यम् । प्रधानादीनि तु न प्रतिपाद्यतया प्रति- ज्ञातानि । किं तर्हि ? द्वितीयपादे यमनियमादिसाधनप्रतिपादन हानहेतुं च विवेचयन् प्रसङ्गात्सांख्यस्मृतिप्रसिद्धानि प्रधाना- दीनि व्याजहार । ततो न तत्र तात्पर्य्यम् । तस्मान्न योगस्मृत्या वेदस्य सङ्कोचः ॥ ४६॥ [३ विलक्षणत्वाधिकरणम् ] . न विलक्षणत्वादस्य तथात्वं च शब्दात् । (ब्रसू०२।१०४ ) अचेतनं जगचेतनाजायते न वेति संशये अचेतनं जग- न जायते चेतनाद्ब्रह्मणः ब्रह्मविलक्षणत्वात् । यद्येन विलक्षणं तत्तस्मान्न जायते, यथा गोर्महिष इत्यनेन तर्केण समन्वयो बाध्यत इति प्राप्ते सिद्धान्तयति-- जन्तौ शकृज्जनुषि वृश्चिकनाम्नि देह- जन्ये च कुन्तलभरे व्यभिचारशाली । विश्वकनायक विलक्षणभावहेतु- लोके भवत्प्रभवतां नहि रोद्धमीष्टे ॥ ४७॥ --
द्वितीयाध्याये प्रथमः पादः-
६९
विलक्षणभावहेतुर्वैलक्षण्यहेतुरित्यर्थः । यद्येन विलक्षणं
तत्तस्मान्न जायते इति व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते,
अचेतनात् गोमयान् चेतनस्य दृश्चिकस्योत्पत्ते, चेतनात्पुरु:
पादचेतनानां के शादीनामुत्पत्तेः । अतो वेदनिरपेक्षशुष्कतर्को न
बाधकः ॥४७॥
[४ शिष्टापरिग्रहाधिकरणम् ]
एतेन शिष्टापरिग्रहा अपि व्याख्याताः। (ब्र०सू०२।१।१२)
तर्हि कणादबुद्धादिस्मृतिभिस्तदीयतश्च समन्वयो बाध्य
ताम्। कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं सस्मार,
तकं च सस्मिन्नर्थे प्रोवाच-विमतं व्यणुकादिकं स्वस्मात् न्यूनपरि-
माणेनारब्धं कार्यद्रव्यत्वात् यथा तन्तुभिः पटः । बुद्धश्च भगव.
तो विष्णोरवतारः अभावं जगद्धेतुं वदति स्म। तर्क तदनुकू-
लमाह-विमतं भावरूपं जगदभावपुरस्सरं भवितुमर्हति भाव-
रूपत्वात् यथा सुषुप्तिपुरस्सरः स्वप्नप्रपञ्च इति । ततः प्रबलैः
कणादादिमतेधि इति प्राप्ते सिद्धान्तयति--
वन्यूनहेतुजनितत्वकथा न कार्या
द्रव्यस्य देव जगतीह भवदिवत्तें ।
दूरस्थिताचलमहाविटपिप्रसृत-
दूर्वाङ्कुरप्रकरविभ्रमदर्शनेन ॥ ४८॥
अवैतविद्यातिलकदर्पणम् । स्वप्नप्रपञ्चजनिपूर्वसुषुप्तिकाले प्राज्ञात्मनः पशुपते तव वर्त्तनेन। वाक्यैः सपक्षविरहाभुवनस्य भाव- कार्यस्य दुर्वचमभावपुरस्सरत्वम् ॥ ४९॥ यदा वैदिकशिरोमणिना पुराणका तत्र तत्र प्रसङ्गादुदाहृता प्रकृतिपुरुषादिप्रतिपादिका सांख्ययोगादिस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता तदा निखिलैः शिष्टैरुपेक्षितानों कणादा- दिमतानां दौर्बल्यमिति किमु वक्तव्यम् । न खलु ब्राह्मपामादि- पुराणेषु कचिदपि प्रसङ्गात् घणुकादिपक्रियोदाहृता प्रत्युत 'हतुकान् बकवृत्तींश्च वाआत्रेणापि नार्चयेत्' इति बहुशो नि. न्दोपलभ्यते । यस्तु न्यूनारभ्यत्वनियम उक्तः, नासौ वि- वर्तवादेऽस्ति पुरःस्थितपर्वताग्रस्थितमहावृक्षरल्पदुर्वाङ्कुरप्रकरवि- भ्रमस्य जन्यमानत्वात् । यदप्यभावपुरस्सरत्वानुमानं तत्रापि 'साध्यविकलो दृष्टान्तः सुषुप्तेरवस्थात्वेनात्मनः सद्रूपस्याङ्गीक- रणीयत्वे सति स्वप्नस्याभावपुरस्सरत्वाभावात् । तस्मादेतैर्मतै- नास्ति बाधः । प्रथमश्लोकेन न्यायमतस्य द्वितीयेन बौद्धमतस्य निरासः ॥ ४८ ॥ ४९ ।। क [५ भोक्रापत्यधिकरणम् ] भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् । (ब•सू०२।१।१३) द्वितीयाध्याये प्रथमः पादः- समन्वयेनावगम्यमानमद्वैतं प्रत्यक्षादिसिद्धेन भोक्तभोग्य- भेदेन बाध्यत इति चेत्- भूतेशितस्त्वदभिदां नहि भोजकादे- मेंदो निषेधति समन्वयतः प्रतीताम् । फेनोमिबुबुदपृषद्धपुषा प्रसिद्धः सोऽयं मिषन्नपि यथा जलधेरभेदम् ॥ ५० ॥ तरङ्गादिरूपेण भेदस्य समुद्ररूपेणाभेदस्य च दृष्टत्वेन भेदा. भेदयोर्विरोधाभावात् , भेदाभेदविरोधव्यवहारस्याकारभेदेनापि रहिते अत्यन्त मेकस्मिन्नपि वस्तुनि सावकाशत्वात् , तस्मात् ब्रह्माकारेणाद्वैत भोक्तभोग्याकारेण द्वैतमिति आकारभेदाधव- स्थासिद्धौ न विरोधः ।। ५० ॥ , [६ आरम्भणाधिकरणम् ] तदनन्यत्वमारम्भणशब्दादिभ्यः। (ब.सू०२।१।१४ ) ब्रह्मणः प्रपञ्चस्य च भेदाभेदौ तात्विको व्यावहारिको वेति संशये समुद्रतरङ्गयोरिव तयोर्भेदाभेदौ तारिखको बाधामा- वादिति प्रा सिद्धान्त:-- कल्लोलिनी विट इव त्वाय कामवैरिन् आकारभेदविरहादविशेषगन्धे ।
७२ अद्वैतविद्यातिलकदर्पणम् । भेदाभिदे परमिह व्यवहारसिद्ध स्वामागमो वदति तात्त्विकमद्वितीयम् ॥ ५१ ।। भेदाभिदे न तात्त्विके श्रुसियुक्तिभ्यां बाधात् । तथाहि 'नेह नानास्ति किञ्चन' इति श्रुतिर्भेदं बाधते, युक्तिश्च परस्परो- पमर्दात्मकयोर्भेदाभेदयोरेकत्रासम्भवात् एकस्मिन् चन्द्रमसि द्वित्वासम्भवात् । यदुक्तं पूर्वाधिकरणे आकारभेदाढ़ेद इति तदप्यसत् , अद्वैतवस्तुन्याकारभेदस्यैवासम्प्रतिपत्तेरिति । समु- द्रादौ तु दृष्टत्वादभ्युपगम्यते । न हि दृष्टेऽनुपपत्तिरस्ति । अत्रापि ब्रह्माकारजगदाकारौ दृष्टाविति चेन्न, ब्रह्मणः शास्त्रैकसमधिग- म्यत्वात् । तस्मात् श्रुतियुक्तिबाधितत्वात् व्यावहारिको भेदाभेदौ । किं तर्हि तत्वमिति चेत्, अद्वैतमेव तत्त्वमिति वदामः । कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात् । तथा श्रुतिर्मत्तिकादिदृष्टान्तः कारणस्यैव सत्यत्वं प्रतिपादयति । 'यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद्वाचार- म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्-एवं सोम्य स आ- देशो भवतीति । तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकार- शन्दन श्रुतिस्तानुदाहरति । मृद्वस्तुनो विकाराः संस्थानवि. शेषा घटादयो न पृथग्वस्तु भूताः, यथा देवदत्तस्य बाल्य यौ- वनस्थाविरादयस्तद्वत् । एवं सति घटाकारप्रतिभासदशायाम- पि मृन्मानं स्वतन्त्रं वस्तु । ततो मुद्यवगतायां घटादीनां यत्तावि- कं स्वरूपं तत्सर्वमवगतम् । आकारविशेषा न ज्ञायन्त इति द्वितीयाध्याये प्रथमः पादः- matsARA ७३ चेत् , मा ज्ञायन्तां नाम तेषां वस्तुभूतानां जिज्ञासानहत्वात् । चक्षुषा प्रतिभासमाना विकाराः निरूपिताः सन्तो मृद्ध्यतिरेकेण न स्वरूपं किञ्चिल्लभन्ते, घटोऽयं शरावोऽयमिति वादं निष्पा. द्यमानं नामधेयमात्रं लभन्ते । अतो निर्वस्तुकत्वे सति उपल. भ्यमानस्वरूपेण मिथ्यात्वलक्षणेनोपेतत्वात असत्या विका- राः । मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभत इति सत्या । तथा ब्रह्मोपदेशोऽवगन्तव्यः । ब्रह्मणि मृत्तिकान्यायः स्य जगति घटादिन्यायस्य योजयितुं शक्यत्वात् । तस्माज्जगतो ब्रह्माभेदात् अद्वैतं ब्रह्म तात्त्विकम् । एवंविधविचारशून्यानां पुरुषाणामापातदृष्टया वेदेनाभ्युपेताद्वितीयब्रह्मपतिपत्तेः प्रयक्षा. दिभिर्भेदप्रतिपत्तेश्च सद्भावात् समुद्रतरङ्गन्यायेन भेदाभे. दाववभासेते । तस्माद्यावहारिकाविति स्थितिः ।। ५१ ॥ ७ इतरव्यपदेशाधिकरणम् ] इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । (ब्र०सू०२।१।२१) परमेश्वरो हि केषांचित् जीवानां संसारासक्तानां वैराग्या. दिकं हितं न निर्मिमीते अहितं च नरकहेतुमधर्म निर्मिमीते । निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति । तस्मात् स्व. स्यैव हिताकरणमाहितकरणं च प्रसज्येयाताम् । एतच्च न युक्तं, नहि लोके प्रेक्षावान् कश्चिदपि स्वस्य हितं न करोति अहितं १० अद्वैतषिद्यातिलकदर्पणम् । च करोति । तस्माद्धिताकरणादिदोष इति प्राप्ते सिद्धान्तः स्वाभिन्नजीवसुखदुःखभरे मृषात्वं पश्यनिजात्मनि च लेपविमुक्तभावम् । शम्भो शरीरिगतशर्मविषादजातै न स्पृश्यसे नलिनपत्रमिवाम्बुलेशैः ॥ ५२ ॥ सर्वज्ञत्वादीश्वर : जीवसंसारस्य मिथ्यात्वं स्वस्य निर्ले- पत्वं च पश्यति । तस्मान्न हिताहितभाक्त्वदोषः ॥ ५२ ॥ [८ उपसंहारदर्शनाधिकरणम् ] उपसंहारदर्शनान्नेति चेन्न क्षीरवाद्धि । (ब्रसू०२।१०२४ ) अद्वितीयब्रह्मणः सकाशात् विचित्र गगनादिक्रमिकसृष्टिः सम्भवति न वेति संशये न सम्भवतीति ब्रूमः । कुतः। 'एकमे. वाद्वितीयम्' इति ब्रह्मणः स्वगत सजातीयविजातीयैर्भेदैः शून्य त्व. मवगम्यते । स्रष्टव्यानि चाकाशवायवग्न्यादीनि विचित्राणि । न ह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम् , अन्यथैकस्मादपि क्षी. राधिौलाधनेकविचित्रकार्यप्रसङ्गात् । क्रमश्वाकाशादीनां श्रु. त्यावगम्यते । न च तस्य व्यवस्थापकं किञ्चिदस्ति । तस्मादने. ककार्याणां क्रमेण जन्म अद्वितीयब्रह्मणो न सम्भवतीनि पा.
द्वितीयाध्याये प्रथमः पादः- ७५ - ते सिद्धान्तः- किं चित्रमत्र गगनादिविचित्रशिल्प- मेकादयप्रकृतिकोऽपि यदातनोषि । अन्यादृशी निगमशक्त्यनुभूतिगम्या साचिव्यमाचरात चेत्तव शाम्बरी सा ॥५३॥ यद्यपि तत्त्वतो ब्रह्माद्वैतं, तथापि श्रुत्यनुमानानुभवगम्या माया । तस्माद्विचित्रगगनादिक्रम स्टष्टिकारणं भवति ब्रह्म । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्' इति श्रुतिः । मायैवाविद्या, उभयो. र प्यनाग्रुपादानज्ञाननिवय॑त्वात् । न च मायाङ्गीकारेऽद्वैतक्षतिः, वास्तवस्य द्वितीयस्याभावात् , न जानामीत्याद्यनुभवेनानुमानेन च तस्याः सिद्धेः । अत एकमपि ब्रह्माविद्यासहायवशात् ना. नाकार्यजनकं भवति । न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात् । तस्मादद्वि. तीयब्रह्मणो विचित्रक्रमिकनानाकार्याणां सृष्टिरुपपद्यते ॥५३।। , [९. कृत्स्नप्रसक्त्यधिकरणम् ] कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा । ( ब्र० सू० २।१।२६ ) आरम्भणाधिकरणे कार्यकारण योरभेदः प्रतिपादितः । अना न वैशेषिकादिवदारम्भवादो ब्रह्मवादिनोऽभिमतः । त.
अद्वैतविद्यातिलकदर्पणम् । स्मात् क्षीरदधिन्यायेन परिणामो वक्तव्यः । तत् किं ब्रह्म का- स्न्येन परिणमते उतैकदेशेन वा ? नाद्यः, कात्स्न्येन परिणामे ब्रह्मणोऽनित्यत्वप्रसङ्गात् क्षीरवत् । द्वितीये, सावयवत्वप्रसङ्गात् । तस्मान्न परिणाम इति प्राप्ते सिद्धान्त:- स्यातां न तो भवति शंकर माययैव व्योमादिरूपविकृति प्रतिपद्यमाने । कृत्स्नैकदेशपरिणत्युररीक्रियायां सम्भावितौ विलयसावयवत्वदोषौ ॥ ५४॥ 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतेः ब्रह्मणो मा. याशक्तिभिः जगद्रूपेण विवर्तः । न त्वसौ वास्तवः । तेन कृत्स्नै- कदेशविकल्पयोनात्रावकाशः । तस्मायुज्यते विचर्तरूपजगदुषा- दानत्वं ब्रह्मणः ॥ ५४॥ [१० सर्वोपेताधिकरणम् ] सर्वोपेता च तदर्शनात् । ( ब्र० स०२।१।३०) लोके मायाविनामैन्द्रजालिकानां शरीरित्वदर्शनादशरीर. स्य ब्रह्मणो न माया सम्भवतीति प्राप्ते सिद्धान्तः-- रूपं विनापि तव लोकविलक्षणस्य मायाविनो भुवनसृष्टिरविद्ययैव ।
द्वितीयाध्याये प्रथमः पाद:- ७७ धामादिकर्म तृणदारुमृदो विनापि माहेन्द्रजालिकजनस्य यथा जगत्याम् । ५५॥ गृहादिनिर्मातॄणां निर्मात्त्वे स्वव्यतिरिक्तमृद्दारुतृणादिवा- ह्य माधनकर्मसापेक्षत्वदर्शनेऽपि ऐन्द्रजालिकस्य तृणदारुमृदो विनापि बाह्यसाधन नरपेक्ष्येण यथा गृहादिनिर्मातृत्वं तथाऽलौ- किकमायाविनः। शरीरसापेक्ष्येण निर्मातृत्वे प्रत्यक्ष प्रमाणमिति चर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण जगन्निर्मातृत्वमस्तु । माया- सद्भावेऽपि 'मायिनं तु महेश्वरम्' इति श्रुतिः प्रमाणमस्तु ॥१५॥ ११ प्रयोजनववाधिकरणम् ] न प्रयोजनवत्त्वात् । (ब्र० सू०२।१।३२) 'आनन्दो ब्रह्म' इति शास्त्रेण नित्यतृप्तः परमेश्वरः । ता- दृशस्य सृष्टिविषयेच्छायामभ्युपगम्यमानायां नित्यतृप्तता व्या- हन्येत । अनभ्युपगम्यमानायामबुद्धिपूर्विकां मुष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येत इति प्राप्ते सिद्धान्तयति- प्रस्तृयते मुहुरियं भवता कपर्दिन् अर्थ विनाप्यखिलविष्टपसृष्टिलीला । मेधाविभिर्विहृतयो मृगयादिरूपाः कस्मै फलाय जगतीपतिभिः क्रियन्ते ॥५६।।
अद्वैतविद्यातिलकदर्पणम् । बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजन लीलया मृगया. दिप्रवृत्तिः क्रियते, श्वासोच्छ्वासन्यवहारस्तु सार्वजनीना, व्य- थचेष्टाश्च बालैः क्रियमाणाः बढ्यो दृश्यन्ते, तद्वन्नित्यतृप्तोऽपीश्व- रः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन् अशेषं जगत् सृजतु ॥५६ ।। [१२ वैषम्यनैघृण्याधिकरणम् ] वैषम्यनैपुण्ये न सापेक्षत्वात्तथाहि दर्शयति । (ब्र०सू०२।१।३४ ) ईश्वरो देवादीनत्यन्तं मुखिनः सनति, पश्वादीनयन्तदुः खिनः, मनुष्यांश्च मध्यमान् । एवं तारतम्पन पुरुषविशेषेषु सुखदुःखे सृजनीश्वरः कथं विषमो न स्यात् ? कथं च नीचैर. यन्तं जुगुप्सितं देवत्तिर्यल्पनुष्याशेषजगदुपसंहरान्निधू गो न भ वत् ? तस्माद्वैषम्पनैपे प्रमज्येयातामिति प्राप्ते सिद्धान्तः- ? - तत्तक्रियासमुचितोत्तममध्यमादि- भावार्पणान्न विषमो भवसि प्रजानाम् । जन्तून् समाजयितुमेव महासुषुप्त्या निर्मन्थितो गिरिश निघणता कुतस्ते ॥५७॥ न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति, प्राणिनामुत्तममध्य. माधमानां लक्षणवैषम्ये तत्तत्कर्मणामेव प्रयोजकत्वात् । न
द्वितीयाध्याये प्रथमः पादः
७९
cis
तावता ईश्वरस्य स्वातन्त्र्यहानिः, अन्तर्यामितया कर्माध्यक्ष-
त् । नन्वेवं सति घट्टकुटीप्रभातवृत्तान्तन्याय आपद्यते,
वरे वैषम्यं परिहत्तुं कर्मणो वैषम्यं हेतुमुक्त्वा पुनरपीश्वरस्य
वातन्त्र्यसिद्धये तत्कर्मनियामकत्वे अभ्युपगम्यमाने पुनरीश्व-
स्यैव वैषम्य प्रसङ्गात् । नायं दोषः । नियामकत्वं नाम तत्तद्र-
तुशक्तीनामव्यवस्थापरिहर्तृत्वमात्रत्वम् । शक्तयस्तु मायाशरीर
ताः । न तासामुत्पादक ईश्वरः। ततश्च स्वशक्तिवशात् कर्म-
। वैषम्यहेतुत्वेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः ।
हारस्य सुषुप्तिवत् दुःखाजनकत्वात् प्रत्युत सर्वक्लेशनिवर्तक-
वात् सघृणत्वमेव । तस्मान्न कोऽपि दोष इति ॥ ५७ ॥
[ १३ सर्वधर्मोपपत्त्यधिकरणम् ]
सर्वधर्मोपपत्तेश्च । ( व्र० सू० २।१।३७ )
प्रकृनित्वं नाम कार्याकारण विक्रियमाणत्वम् । तच्च सगुण
श्व लोके मृदादी दृष्टम् । ततो निर्गुणस्य ब्रह्मणो न प्रकृतितेति
पाते सिद्धान्तयति-
गंगावतंग गुणगन्धविवर्जितोऽपि
त्वं जायमे त्रिजगदध्यमनकभूमिः ।
मालिन्यदृषितमहामुरभाजि जातो
शभ्रमः किम जनस्य न बोभवीति ॥ ५८ ॥
अबैतविद्यातिलकदर्पणम् । यद्यपि प्रक्रियतेऽनयेति प्रकृतिरिति व्युत्पत्त्या विक्रियमाणत्वं प्रतीयते तथापि तद्विक्रियमाणत्वं द्वेधा सम्भवति-क्षीरादिव त्परिणामित्वेन पा रज्ज्वादिवभ्रमाधिष्ठानत्वेन वा । अत्र निर्गुणस्य परिणामित्वासम्भवेऽपि भ्रमाधिष्ठानत्वमस्ति । दृश्यते निर्गुणेऽपि जात्यादौ भ्रमाधिष्ठानता, मालिनं ब्राह्मणं दृष्ट्वा शूद्रोऽयमिति भ्रान्तव्यवहारदर्शनात् । तस्मात् निर्गुणमपि ब्रह्म प्रकृतिरिति ॥ ५८ ॥ इति श्रीमत्परशुराममिश्रात्मजमित्रामिश्रपोरितस्य वेङ्कटभट्टसूनु. धर्मय्यदीक्षितस्य कृतौ अद्वैतविद्यातिलकदपणे द्वितीयाध्यायस्य प्रथमः पादः । पूर्वोक्तसमन्वयः परमतदूषणेन स्थिरी क्रियते इत्याह- एतावता प्रकरणेन यदभ्यधायि सर्वागमान्तवचसां त्वाय सामरस्यम् । व्यासोदितेन विमतस्थितिदूषणेन दाक्षायणीधव तदत्र दृढीकराति ॥ ५९ ॥ [१ रचनानुपपत्त्यधिकरणम् ] रचनानुपपत्तेश्च नानुमानम् । (ब्र० स०२।२।१) प्रधानं जगतो हेतुर्न वेति संशये, सांख्यास्तु-सुखदुःखमो- द्वितीयाध्याये द्वितीयः पाद:- ८१ हात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखदुःखान्वयदर्शनात् । घटादयो लभ्यमानाः सुखदा भवन्ति उदकाहरणादिकार्यका- रित्वात् । त एवान्यैरपहियमाणास्तस्यैव दुःखदा भवन्ति । यदा उदकाहरणादिकं नापेक्षितं तदा न मुखदुःखे जनयन्ति केव. लमुपेक्षणीयत्वेनावतिष्ठन्ते । तदिदमुपेक्षाविषयत्वं मोहः, मुह- वैचित्य इति धातोमोहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्त- त्यनुदयात् । अतः सुखदुःखमोहान्वयदर्शनात् प्रधानं जगतः प्रक- तिरिति वदन्तीति प्राप्ते सिद्धान्तयति- संदृश्यमाननियताकृतिसन्निवेश- वैचित्र्यवम्मितचराचरसंविधायै । विज्ञानशेवधिमृते विषमेक्षण त्वां कल्पेत किन्नु कपिलाभिमतं प्रधानम् ॥६०॥ न प्रधानं जगतो हेतुः, देहेन्द्रियमहीधरादिरूपस्य विचि. त्रस्य प्रतिनियतसनिवेशविशेषस्य च जगतो रचनायामचेतन- स्य प्रधानस्य योग्यत्वासम्भवात् । लोकेऽपि प्रतिनियतकार्य- स्य विचित्रप्रासादादेरतिबुद्धिमत्कर्तृत्वोपलम्भात् । आस्तां ताव- दियं रचना तत्सिद्धयर्थप्रवृत्तिरपि नाचेतनस्योपपद्यते, चेतना. नधिष्ठितशकटादौ तददर्शनात् । अथ चेतनस्य प्रकृत्याधिष्ठातृ- त्वमभ्युपगम्यते, तसङ्गत्वं पुरुषस्य हीयेतेत्यपसिद्धान्तः । यदुक्तं सुखदुःखमोहान्विता घटादय इति तदसत् , मुखादी- अद्वैतविद्यातिलकदर्पणम् । नामान्तरत्वात् घटादीनां बाह्यत्वान्न प्रधानं जगतो हेतुः ॥६०॥ [ २ महद्दीर्घाधिकरणम् ] महदीर्घवदा हस्वपरिमण्डलाभ्याम्। (ब्र०सू०२।२।११) पूर्वस्मिन् पादे चेतनात् ब्रह्मणो विलक्षणमचेतनं जगत् जायत इत्यत्र सांख्यान प्रति लोकसिद्धं गोमयश्चिकादिनिद- र्शनमभिहितम् । तावता सांख्यैः क्रियमाणस्याक्षेपस्य परिहतत्वात स्वपक्षसाधनं संपन्नम् । परपक्षदूषणं चास्मिन् पादे प्रक्रम्य पू. वाधिकरणे सांख्यमतं दृषितम् । इतः परं वैशेषिकमत दूषयि- तव्यम् । तन्मतस्य प्रक्रियाबहुलत्वात् तद्वासनावासितः पुरुषः स्वमतीसद्ध दृष्टान्ताभावेन विलक्षणात् ब्रह्मणः प्रपञ्चोत्पत्रिन बहु मन्यते । अत्तो विसदृशोत्पत्तौ कणादमतसिद्धदृष्टान्तोऽस्ति न चेति विचार्यते । नास्तीति तावत्याप्तं, यतः शुक्लपटः शुक्लेभ्य एव तन्तुभ्यो जायते न तु रक्तेभ्यः । तस्मानास्तीति प्राप्त सिद्धान्तः- . उन्मत्तचूडपरिमण्डलपीलुयुग्मात दृष्टान्तयाम्यहमणुव्यणुकप्रसूतिम् । अप्यायतत्र्यणुकसिद्धिमणुत्रयेण त्वत्तो वृषाङ्क विषमाज्जनुषस्त्रिलोक्याः ॥६१॥ अस्यैव विसदृशोत्पत्तौ दृष्टान्तः। तथाहि परमाणवः पा.
द्वितीयाध्याये द्वितीयः पादः--
रिमाण्डल्यपरिमाणयुक्ताः न त्वणुपरिमाणयुक्ताः, द्वाभ्यां पर-
माणुभ्यामणुपरिमाणरहिताभ्यामणुपरिमाणैरुपेतं घणुकमुत्प•
द्यते। इदमेकं निदर्शनम् । तथा इस्वपरिमाणोपेतं दीर्घपरिमा
णरहितं घणुकं, तादृशेभ्यः त्रिभ्यो ब्यणुकेभ्यो दीर्घपरिमाणो-
पेतमणुपरिमाणरहितं पणुकमुत्पद्यते । इदमपरं निदर्शनम् ।
एवमन्यत्राप्युदाहर्तव्यानि ॥६१ ॥
[३ परमाणुंजगदकारणत्वाधिकरणम् ]
उभयथापि न कर्मातस्तदभावः ।
( ब्र० स० २।२।१२)
सृष्टेः पूर्व निश्चलेषु परमाणुषु यदा परमेश्वरस्य सिमृक्षा
भवति तदा प्राणिकर्मवशान्निश्चलेषु परमाणुष्वाद्यं कर्मोत्पद्यते ।
तस्मात्कर्मणः एकः परमाणुः परमाण्वन्तरेण संयुज्यते । तस्मा-
दाद्यसंयोगाच घणुकमारभ्यते । तेभ्यो ब्यणुकेभ्यस्त्रिभ्यस्त्रय.
णुकमित्यादिक्रमेण कृत्स्नजगदुत्पत्तौ बाधकाभावात् संयुक्ताः
परमाणवो जगज्जन यन्तीति प्राप्ते सिद्धान्तयति-
सर्गादिकालपरमाणुसमाश्रिताद्य-
कर्मोद्गतैर्दुरपवादतया विपक्षः ।
तन्मूलविश्वजननाघटनादगत्या
तैरीशितुः प्रकृतितैव तवाभ्युपेया॥ ६२ ॥
अबैतविद्यातिलकदर्पणम् । यदेतदायं कर्म तनिनिमित्तं सनिमित्तं वा । निनिमित्तत्वे नियामकाभावात् सर्वदा तदुत्पत्तौ प्रलयाभावप्रसङ्गः । सनिमि- तत्वेऽपि तन्निमित्तं दृष्टमदृष्टं वा। न तावत् दृष्टं, प्रयत्नस्याभि- घातस्य वा शरीरस्योत्पत्तेः प्रागसम्भवात् , ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काधकर्म प्रत्यनियामकत्वात् । नाप्यदृष्टमाघ- कर्मनिमित्तम् , आत्मसमवेतस्यादृष्टस्य परमाणुभिरसम्बन्धात् । तथा चाधकर्मासम्भवात् संयुक्तेभ्यः परमाणुभ्यो जगदुत्पत्यसं- भवात् ब्रह्मोपादानमेव जगदिति ॥ ६२ ॥ [४ समुदायाधिकरणम् ] समुदाय उभयहेतुकेऽपि तदप्राप्तिः । (ब्र०सू०२।२।१८) बाह्यास्तित्ववादिनो मन्यन्ते बौद्धाः-दो समुदायो बाह्य आभ्यन्तरश्चेति । तत्र बायो भूनदीसमुद्रादिकः । आन्तरश्चि. त्तचैतन्यात्मा । तदेतत्समुदायद्वयमेव समस्तं जगत् । तत्र बाह्य- समुदायस्य परमाणवः कारणम् । ते च परमाणवश्चतुर्विधाः-के. चित् खराः पार्थिवाख्याः, अपरे स्निग्धा आप्याः, अन्ये चो- ष्णास्तैजसाख्या:, अन्ये चलनात्मकाः वायवीयाः । तेभ्यः श्चतुर्विधेभ्यः परमाणुभ्यः युगपत्पुजीभूतेभ्यः बाह्यसकल- समुदायो जायते । आन्तरस्य च समुदायस्य स्कन्धपञ्चकं का. रणम्-रूपस्कन्धो, विज्ञानस्कन्धो, वेदनास्कन्धः, संज्ञास्कन्धः संस्कारस्कन्धश्चेति । तत्र चित्तेन निरूप्यमाणाः शन्दस्पर्शादयो रूपस्कन्धाः, तद्विषयकं ज्ञानं विज्ञानस्कन्धः, तज्जन्यं दुःखं वे. :
द्वितीयाध्याये द्वितीयः पाद:- ८५ दनास्कन्धः, देवदत्तादिनामधेयं संज्ञास्कन्धः, एतेषां वासना संस्कारस्कन्धः। पुञ्जीभूतेभ्यः पञ्चस्कन्धेभ्यः आन्तरः समुदायो जायते । तस्मायुज्यते समुदायद्वयमिति प्राप्ते सिद्धान्तयति- - नाथ त्वदभ्युपगमं न वितन्वते ये जल्पन्ति चेतनमपि क्षणिकस्वभावम् । रूपादयः खरमुखाः परमाणवश्व तेषां मते समुदयौ कथमारभन्ताम् ॥ ६३ ॥ : ? किमणूनां स्कन्धानां संघातोत्पत्तौ निमित्तभूतः चेतनो. ऽन्योऽस्ति किंवा स्त्रयमेव संहन्यन्ते ? आये अपि स चेतनः स्थायी क्षणिको वा ? स्थायित्वे अपसिद्धान्तः, क्षणिकत्वे प्रथम स्वयं लब्धात्मकः पश्चात्संघातापत्तिं करोतीति वक्तव्यम् । द्वितीये त्वचेतनाः स्कन्धाः अणवश्च नियामकं चेतनमन्तरेण प्रतिनि. यताः कथं संहन्यन्ते ? तस्मान्न युक्तं समुदायद्वयम् ॥ ६३ ॥ ? [५ अभावाधिकरणम् ] नाभाव उपलब्धेः । (ब्रसू०२।२।२८) केचिद्वौद्धाः बाह्यार्थमपलपन्तः विज्ञानमात्र तत्त्वमित्याहुः । न च तत्र व्यवहारानुपपत्तिः स्वप्ने बाह्यपदार्थाननपेक्ष्य केव. च्या बुद्ध्या व्यवहारदर्शनात् । तथैव जाग्रब्यवहारस्याप्युपपत्तेः।
अवैतविद्यातिलकदर्पणम् । तस्माद्विज्ञानस्कन्धमात्रत्वं युज्यत इति प्राप्ते सिद्धान्तयति- ये नाम सर्वमिदमान्तरमेव दृश्य- जालं बहिर्वदवभासत इत्युशन्ति । बाह्योपमानवच एव महेश तेषां मानं बहिस्त्रिजगतीह भवत्प्रणीते ॥ ६४ ॥ विषमो हि स्वप्नदृष्टान्तः प्रबोधदशायां स्वप्नस्य बाध्य. मानत्वात । जाग्रयवहारस्य न क्वचिद्वाचं पश्यामः । न च बाह्यार्थसद्भावे प्रमाणाभावः उपलब्धेरेव प्रमाणत्वात् । उपल- भ्यन्ते हि घटादयो बहिष्ट्वेन । अथोच्यते बुद्धिरेव बाह्या घटाः दिवदवभासते तथाहुः ‘यदन्त यतत्त्वं बहिर्वदवभासते' इति, एवं तर्हि त्वदुक्तिरेव बाह्यार्थ सद्भावे प्रमाणमिति ब्रूमः । कचिदपि बाह्यार्थाभाचे तत्र व्युत्पत्तिराहित्यात् बहिर्वदित्युपमानोक्तिर्न सङ्गच्छते । तस्मात् बाह्यार्थसद्भावात् विज्ञानमात्रत्वं न युक्तम् ॥६४॥ [६एकस्मिन्नसंभवाधिकरणम् ] नैकस्मिन्नसंभवात् । (ब्र०सू०२।२।३३) आहता मन्यन्ते । जीवोऽजीवश्चेति द्वौ पदार्थों । जीवश्चे- तनः शरीरपरिमाणः सावयवः । अजीवः षड्विधः । तत्र मही. धरादिरेकः । आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च । आस्रव द्वितीयाध्याये द्वितीयः पादः- ८७ इत्यनेन जीवो विषयेष्वत्याश्रव इन्द्रियसंघातः । संवृणोति विवेकमिति अविवेकादिः संवरः । निश्शेषेण जीर्यत इति का. मक्रोधादिरिति केशोल्लुञ्छनं तप्तशिलारोहणादिकं तपः निर्ज- रः । कर्माष्टकेनापादिता जन्ममरणपरंपरा बन्धः । चत्वारि घा- तिकर्माणि पापविशेषरूपाणि चत्वारि चाघातिकर्माणि पुण्य. विशेषरूपाणि । शास्त्रोक्तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्ग- तस्य सततोर्ध्वगमनं मोक्षः । त एते सप्तपदार्थाः सप्तभाङ्गि- रूपेण न्यायेन व्यवस्थाप्यन्ते । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्य श्च, स्यान्नास्ति चावक्तव्यश्व, स्यादस्ति च नास्ति चावक्तव्यश्चेति सतभङ्गि- न्यायः। अस्यायमर्थः-स्यात्स्याच्छब्द ईषदर्थवाची निपातः । प्रतिवादिनश्चतुर्विधाः-सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिनश्चेति । पुनरप्यनिर्वचनीयमतेन सम्मिश्रि. तानि सदादीनि मतानीति त्रिविधा वादिनः । तानेतान् स. सविधानवादिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः । तद्यथा सद्वादी समागत्याह तं प्रति किं त्वन्मते मोक्षोऽस्तीति पृष्टे सति तत्राहोत्तरं ब्रूते ईषदस्तीति। एवमन्यानपि वादिनः प्रति स्याना- स्तीत्यायुत्तराणि उदाहर्तव्यानि | तावता वादिनः सर्वे निर्वि- ण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गिरूपस्य माधकन्यायस्य सद्भावात् जीवादीनां सप्तपदार्थानां सिद्धौ कि- माश्चर्यमिति प्राप्त सिद्धान्तः- अद्वैतविद्यातिलकदर्पणम् । एकार्थ एव सदसत्वविभावनादि- दोषातिरेकहतयापि च सप्तमङ्गया । जीवास्वप्रभृतिसप्तपदार्थसिद्धिं त्वदञ्चिताः कतिपये कथयन्ति शम्भो ॥६५॥ सप्तभङ्गिरूपोऽयमपन्यायः, एकस्य जीवपदार्थस्य स- द्वादिनं प्रति सद्रूपत्वमसदादिनं प्रससदूपत्वमित्येवमादिविरुद्धधर्म- प्रतिपादकत्वात् । न च जीवस्य सावयवत्वं युज्यते, अनित्य- स्वप्रसङ्गात् । तदा नित्यमोक्षः कस्य पुरुषार्थः स्यात् । तस्मा- न्यायाभासेन सप्तभङ्गया न जीवादीनां सिद्धिरिति ॥६५॥ [७ पत्यधिकरणम् ] पत्युरसामञ्जस्यात् । (ब्र० सू० २।२।३७) पूर्वाध्याये परमेश्वरस्य प्रपथं प्रति निमित्तत्त्वमुपादानत्वं च प्रतिपादितम् । तदिदमसहमानास्तार्किकशैवादयः केवलनिमि- तत्त्वमीश्वरस्य वदन्ति, युक्तिं चाहुः यथा कुलालोऽनुपादानभूतो मृदादि नियच्छन् की भवति तथा तटस्थ ईश्वर इति प्राप्त सिद्धान्तयति- ताटस्थ्यमास्थितवतां तव तान्त्रिकाणां वैषम्यानिष्करुणताविनिवृत्तिहेतोः । t द्वितीयाध्याये द्वितीयः पाद:- ८९ कर्मानुगत्वपरवेदगवेषणाया कामं समापतति घट्टकुटीप्रभातम् ॥ ६६ ॥ न युक्तं केवलनिमित्तत्वं वैषम्यनैघृण्यदोषस्य दुष्परिहर त्वात् । कथं तर्हि दोषः परिहियत इति चेत् , माणिकर्मसापेक्ष- स्वादिति ब्रूमः । तथात्वे चागमोऽस्माकं प्रमाणम् । त्वयाप्यन्त- तो गत्वा आगमश्चेदङ्गीक्रियते तटस्थत्वमीश्वरस्य परित्याज्यं, 'बहु स्यां प्रजायेय' इत्युपादानश्रुत्या विरोधात् । तस्मान्न तद- स्थेश्वरवादो युक्तः ॥ ६६ ॥ [८ उत्पत्त्यसम्भवाधिकरणम् ] उत्पत्त्यसम्भवात् । (ब्र० सू० २।२।४२) पाश्चरात्रागमे नारायण पूजाप्रतिष्ठातत्फलानां सर्ववैदिकै. रङ्गीकारात् भगवानेको वासुदेवस्तस्माद्वासुदेवात्संकर्षणाख्यो जीवो जायते तस्मात्प्रद्युम्नाख्यं मनो जायते मनसश्चानिरुद्धा. ख्योऽहङ्कारः। त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मका इ. ति पाश्चरात्रिका वदन्तीति प्राप्ते सिद्धान्तयति- नामान्तरात्तव नदीधर वासुदेवात संकर्षणस्य कतिचिज्जानिमाद्रियन्ते । किं ते भवन्ति कृतहान्यकृतागमाख्य- दुर्वारदोषयुगलीतरणे प्रवीणाः ॥६७॥ - १२ अवैतविद्यातिलकदर्पणम् । श्रुतियुक्तिविरुद्धार्थोऽभ्युपगम्यते । जीव उत्पद्यते इत्ययुक्त कृतहान्यकृताभ्यागमप्रसङ्गात् । पूर्व सृष्टौ यो जीवः तस्योत्पत्तिम- वेन प्रलयदशायां विनष्ट सति तत्कृतयोधर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्यते । तस्मिन्कल्पे उत्पद्यमानस्य नूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह मुखदुःखप्राप्तिर्भवतीत्य- कृताभ्यागमः प्रसज्येत, तस्मान्न जीव उत्पद्यते ॥ ६७ ॥ . इति श्रीमत्परशुराममिश्रात्म जमित्रमिअमेरितस्य वेङ्कटभट्टस्नु धर्मय्यदीक्षितस्य कृतौ अद्वैतविद्यातिलकदर्पणे द्वितीयाध्यायस्य द्वितीयः पादः । . [१वियदधिकरणम् ] न वियदश्रुतेः । (ब्र० सू०२।३।१) तैत्तिरीयके 'आत्मन आकाशः संभूतः' इति श्रूयते । तत्रा- काशो जायते न वेति संशये स न जायते, कारणत्रयासंभ- वात् । 'संभूतः' इति जनिश्रुतिस्तु शौर्यादिगुणयोगेन माणवके सिंदशब्दवत् संपतिपन्नब्रह्मकार्यभूभूधरादिगतसत्ताजातिरूपगु. योगेनाकाशे गौणी । तस्मादनाधनन्तं व्योम न जायते इति द्वितीयाध्याये तृतीयः पादः ९१ - प्राप्ते वदति- चन्द्रार्धभूष भवतोऽवगमादशेष- विज्ञानमित्यखिलवेदशिखैकवादः । संबोभवीति स किमम्बरनित्यताया- मातस्त्वदेतदुपजायत इत्यवैमि ।। ६८ ॥ एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु प्रसिद्धम् । तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपाद- यितुं शक्यते नान्यथा । यत्तु कारणत्रयासंभव इत्युक्तं तन्न । आरम्भवादे तदपेक्षायामपि विवर्त्तवादे तदनपेक्षणात् । तस्मा. दविद्यादिसहकृतब्रह्मणः कारणात् आकाशो जायत इति ॥६८॥ [२ मातरिश्वाधिकरणम् ] एतेन मातरिश्वा व्याख्यातः। (व० सू० २।३।८) तैत्तिरीयके च 'आकाशाद्वायुः' इति श्रूयते । सेयमुत्पत्ति श्रुतिः गौणी, बृहदारण्यके 'सैषाऽनस्तमिता देवता यदायुः' इति वायोर्विनाशप्रतिषेधात्, उत्पत्तिमत्वे च तदयोगात् । तस्मान जायते वायुरिति प्राप्ते सिद्धान्तयति- वायोः प्रसूतिमुपसंहृततत्तिरीय- वाक्यान्विता वदति कौथुमसर्गसूक्तिः ।
९२
अद्वैतविद्यातिलकदर्पणम् ।
व्योम्ना विशिष्टवपुषो भवतः सकाशाद्
गौणी ततो मरुदनस्तमितत्ववाणी ॥ ६९ ॥
छान्दोग्ये वायोजन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्ति-
रीयकवाक्यस्य इतरत्रोपसंहारे सति श्रुतमेव छान्दोग्ये वायुजन्म ।
अनस्तमितत्वश्रुतिस्तु न मुख्या उपासनाप्रकरणे पठितत्वेन स्तु.
त्यर्थत्वात् । आकाशोत्पत्तिहेतवश्चात्रानुसन्धेयाः । न च वायो-
राकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावात् ब्रह्मज्ञानेन वायुज्ञानं न सि-
द्ध्येत् इति शङ्कनीयम् , पूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्य:
हेतुत्वस्य वक्ष्यमाणतया वियदापन्नस्य ब्रह्मण एव वायुकारण-
त्वात् । तस्माद्वायुर्जायते ।। ६९ ॥
[३ असंभवाधिकरणम् ]
असंभवस्तु सतोऽनुपपत्तेः । ( वसू०२।३।९)
'सदेव सोम्येदमग्र आसीत्' इति छान्दोग्ये श्रूयमाणं जग.
कारणं सद्रूपं ब्रह्म जायते कारणत्वाद्वियदादिवदिति प्राप्ते
सिद्धान्त:-
यत्कारणं जननशालि तदित्यमुष्य
हेतोरजश्रुतिनिराकृतसाध्यकत्वात् ।
तत्कारणस्य च विवेक्तुमशक्यभावा-
दुत्पद्यते नहि भवानुडुराजमौले ॥ ७० ॥
द्वितीयाध्याये तृतीयः पादः-
सदूपं ब्रह्म न जायते तज्जनकस्य दुर्निरूपत्वात् । न ता-
वदसत्कारणं, 'कथमसतः सज्जायेत' इति निषेधात् । नापि स.
देव सतः कारणं, 'पुरुषो वै रुद्रः सन्मह' इत्यादिवाक्येनावग-
तस्य सच्छब्दार्थस्य शिवस्य 'अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।
रुद्र यत्ते दक्षिणं मुखम्' इत्यादिश्रुत्या जन्माभावश्रवणात् । नापि
वियदादिकं तज्जन्यं तत्कारणम् । यत्कारणं तज्जायत इति व्या.
प्तिः पूर्वोक्तश्रुत्या 'स वा एष महानज आत्मा' इति श्रुया च
वाध्येति, ततः सत् ब्रह्म न जायते ॥ ७० ।।
[४ तेजोऽधिकरणम् ]
तेजोऽतस्तथाह्याह । (बसू० २।३।१०)
ब्रह्मणो जायते तेजः ब्रह्मसंयुक्ताद्वायोर्वा इति संशये छा.
न्दोग्ये 'तत्तेजोऽसृजत' इति श्रुत्या तेजसः ब्रह्मजनित्वं श्रूयते,
तैत्तिरीयके वायोरग्निः' इति वायुजत्वं श्रूयते तेजसः । तत्र वा.
योरिति पञ्चम्या आनन्तर्यार्थस्यापि सम्भवात् केवलं ब्रह्मज-
न्यं तेज इति प्राप्ते सिद्धान्त:-
संभूतशब्दसहभूतसपञ्चमीक-
वायुश्रुतिव्यतिकरात्प्रकृतित्वासिद्धेः ।
संभूय वेदयुगलीगतवाक्ययुग्मं
जन्माह वायुसहिताद्भवतः कृशानो ॥ ७१ ॥
९४ अद्वैतविद्यातिलकदर्पणम् । अनुवर्तमानेन संभूतशब्देनान्विताया वायोरिति पञ्चम्या उपपादनार्थत्वस्यैव मुख्यत्वाद उभयोः श्रुत्योरेकवाक्यत्वे सति वायुरूपापन्नात् ब्रह्मणस्तेजो जायत इति लभ्यते ॥ ७१ ॥ [५ अबधिकरणम्] आपः । ( ब्र० सू० २।३।११) अपां जन्म ब्रह्मणो वा वति विषये 'तदपोऽमृजत' 'अग्ने- रापः' इत्युभयोः छान्दोग्यतैत्तिरीययोः तेजोरूपब्रह्मजन्यत्व- मेवापां श्रूयते, तथापि न तद्युक्तम्। निवर्त्यनिवर्तकयोरग्निजल- योर्जन्यजनकभावो नेति प्राप्ते सिद्धान्त:- पञ्चीकृतेतरपयोदहनाविरोधात् स्वेदाम्बुवर्षजलसंभवतश्च तापैः । आसेदुषा हुतवहोपहितामवस्था- माधीयते गिरिश सृष्टिरपां त्वयैव ॥ ७२ ।। पञ्चीकृतयोर्वहिजलयोविरोधेऽपि अपञ्चीकृतयोः श्रुत्येक- समधिगम्ययोर्विरोधकल्पनानुपपत्तेः, तापाधिक्ये स्वेदष्ट्योर्द- शनाच श्रुतिद्वयानुसारेण तेजोरूपापन्नात् ब्रह्मणः अपां जनि- रिति ॥ ७२ ॥ - ६ पृथिव्यधिकाराधिकरणम् ] पृथिव्याधिकाररूपशब्दान्तरेभ्यः । (ब्र०सू०२।३।१२) द्वितीयाध्याये तृतीयः पादः- ९५ छान्दोग्ये 'ता अन्नमसृजन्त' इत्यद्भ्योऽन्नस्य जन्म श्रूयते । तत्रानशब्दस्य लोकप्रसिद्ध्या ब्रीहियवादिकमर्थ इति प्राप्ते सिद्धान्तयति- भूताधिकारपठनादसितत्वरूप- संकीर्तनाच्छ्रवणतः पृथिवीपदस्य । हन्ता पुरामवनिमन्नगिरा प्रतीतां पाथोमयत्वमधिगत्य भवान् प्रसूते ॥ ७३ ॥ पृथिव्यनशब्दार्थः पञ्चमहाभूतसृष्टेरधिकृतत्वात् । किंच 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यत् शुक्लं तदपां यत् कृष्णं तदन्नस्य' इति कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते नतु ब्रीहि- यवादौ । तथा 'अद्भयः पृथिवीति तैत्तिरीयकश्रुत्यैकवाक्यताब- लात् अन्नं पृथिवीति । न चान्नशब्दस्य तत्र प्रवृत्यनुपपत्तिः का- यकारणयोरन्नपृथिव्योर भेदविवक्षया तदुपपत्तेः । तस्मादन्नं पृथिवी ॥ ७३ ॥ [७ तदभिध्यानाधिकरणम् ] तदभिध्यानादेव तु तल्लिङ्गात्सः । (ब०स०२॥३॥१३) पूर्वाधिकरणेषु पूर्वपूर्वोपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्प- त्तिरिति यदेतत्सिद्धवत्कृय सिद्धान्तितं तदयुक्तम् । 'आकाशा- द्वायुः' 'वायोरग्निः' इत्यादौ ब्रह्मनिरपेक्षत्वात् केवलायो- अबैतविद्यातिलकदर्पणम् । मादेरुत्तरोत्तरकार्योत्पत्तिश्रवणात् इति प्राप्ते सिद्धान्तयति-- - आलोचनात्मकनिरीक्षणपूर्विकायां सृष्टौ परं जडतया स्वयमक्षमायाम् । व्योमादिकारणततेस्त्वदधिष्ठितायाः स्थाने समीरमुखसाधकता पुरारे ॥ ७४ ॥ :: 'आकाशमन्तरो यमयति' 'यो वायुमन्तरो यमयति' इत्या- दिना अन्तर्यामिब्राह्मणेन व्योमादेः स्वातन्यं निवारितं, तथा 'तत्तेज ऐक्षत ता आप ऐक्षन्त' इति तेज आदेरीक्षणपूर्वक स्रष्तृत्वं श्रूयते तच्चेक्षणं चेतनब्रह्मणो निरपेक्षाणामचेतनानां न संभवति । तस्मात् व्योमायुपाधिकस्य ब्रह्मण एव कारणत्वम्।।७४॥ [८ विपर्ययाधिकरणम् ] विपर्ययेण तु क्रमोऽत उपपद्यते च । (ब्र०सू०२।३।१४) प्रलये सृष्टिक्रमो वा विपरीतक्रमो वेति विशये, आकाशा- दिक्रमः सृष्टौ क्लुप्तः प्रलयेऽपि स एव क्रमः इति प्राप्ते सि- द्धान्तयति- - उत्पत्त्यनुक्रमविपर्ययतः पिनाकि- न्नुत्तोलयस्त्वयि महीमुखसृज्यराशेः ।
द्वितीयाध्याये तृतीयः पादः- कार्यस्य कञ्चिदपि कालमवस्थितिः स्या- त्पश्चादपि प्रथमतो विलये प्रकृत्याः ॥ ७५ ॥ प्रथमतः कारणे विलीने सति रूपादीनां कार्याणां किञ्चि. स्कालमवस्थानं प्रसज्येत । किञ्च 'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते' इति विप. रीतक्रपस्योक्तत्वात् क्लप्त एवायं क्रम इति ॥ ७५ ॥ [९ अन्तराविज्ञानाधिकरणम् ] अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्ना- विशेषात् । (ब्र० सू० २।३।१५ ) 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायु. ज्योतिरापः पृथिवी विश्वस्य धारिणी' इति श्रूयते मुण्डकोप- निषदि । तत्र प्राणादीनां वियदादिभ्यः पूर्व श्रूयमाणत्वान प्राणवावादिसृष्टिक्रमो वियदादिसृष्टिक्रम निरसितुं शक्नोति न वेति प्राप्त सिद्धान्तयति- प्राणादिकस्य भवदेकभुवो यथार्ह- मन्तर्गमादलिकलोचन भूतसंघे । क्षेप्तुं क्षमा नहि भवत्यममारुतादि सृष्टिक्रमो वियदुपक्रमसर्गशैलीम् ॥ ७६ ।। - १३ १
अवैतविद्यातिलकदर्पणम् ।
'आकाशाद्वायुयोरग्निः' इत्यादाविव क्रमस्याश्रूयमाणत्वा-
दुत्पत्तिमात्रं तु केवलं श्रूयते । तस्मान्नानया श्रुत्या पूर्वोक्त-
क्रमभङ्गोऽस्तीति प्राणमनइन्द्रियाणां भूतेष्वन्तर्भावं कृत्वा खं
वायुरित्यादिना पूर्वक्रममेव श्रुतिर्वदतीति ॥ ७६ ॥
[१० चराचरव्यपाश्रयाधिकरणम् ]
चराचरव्यपाश्रयस्तु स्यात्तव्यपदेशो भाक्तस्तद्भाव-
भावित्वात् । (ब्र० सू० २।३।१६ )
लोके जातो मे पुत्र इति व्यवहारात् , शास्त्रे जातकर्मादिसं.
स्कारोक्तेश्च जन्ममरणे जीवस्येति प्राप्ते सिद्धान्तयति-
क्लृप्ताहाण्यविहितागमनप्रसक्त्या
भाक्तौ परं भवलयौ भवतः प्रतीचः ।
त्वं च ब्रवीषि वपुषो भगवन्निनाश-
मेतन्निषेधसि च तस्य शरीरभाजः ॥ ७७ ॥
.
जीवस्य मुख्यजन्ममरणाङ्गीकारे कृतनाशाकृताभ्यागम.
प्रसङ्गस्य दुर्वारत्वात् देहगते एव जन्ममरणे जीवस्योपचयेते ।
औपचारिके एते अपेक्ष्य लोकव्यवहारकर्मशास्त्रयोः प्रवृत्तिः ।
उपनिषच्छास्त्रं तु 'जीवापेतं वाव किलेदं म्रियते न जीवो म्रि-
यते' इति जीववियुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय जी-
वस्य तन्निराचष्टे । तस्मादपुषो जन्ममरणे ॥ ७७ ॥
द्वितीयाध्याये तृतीयः पादः- mpanon ९९ [११ आत्माधिकरणम् ] नात्माऽश्रुतेनित्यत्वाच्च ताभ्यः। (ब० सू० २।३।१७) 'यथाऽने क्षुद्राः विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्व प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मानो व्युच्चरन्ति' इति तस्मात्कल्पादौ वियदादिवब्रह्मणो जीवो जायते इति प्राप्ते सिद्धान्त यति-- पुष्पेषुशासन पुरैव विधाय च त्व- मातन्वतस्तदनु ते तदनुप्रवेशम् । पूर्व प्रपञ्चजनुषः श्रुतिबोध्यमाना- मद्वैततां किमपि न क्षमते विभङ्क्तम् ॥७८॥ यदद्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण प्रविशति, 'त. सृष्ट्वा तदेवानुपाविशत्' इति श्रुतेः । 'नित्यो नित्यानां चेतन- श्वेतनानामिति' तस्मात्कल्पादौ जीवा नोत्पद्यन्ते ॥ ७८ ॥ [१२ ज्ञाधिकरणम् ] ज्ञोऽत एव । ( ब्र० स० २।३।१८ ) जीवश्चिद्रूपः अचिद्रूपो वेति संशये तार्किका वदन्ति-सुषुप्ति- मूर्छासमाधिषु चैतन्याभावादचिद्रूपो जीवः । जागरणे त्वात्म- मनस्संयोगाच्चैतन्याख्यो गुणो जायते इति माते सिद्धान्तयति-
अद्वैतविद्यातिलकदर्पणम् ।
जीवात्मना हृदयसीमनि सन्निविष्टे
जाग्रत्यापि त्वयि चिदेकरसस्वभावे ।
मध्ये सषप्तिमिति सचमपनुवानः
स्वापावधौ किमु सुखाद्यनुसन्दधीत ॥ ७९ ॥
चिदूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात् न चैत-
न्यं मुषुप्त्यादौ लुप्यते सुषुप्त्यादिसाक्षित्वेनावस्थानात् । अन्य
था सुषुप्त्यादिपरामर्शायोगात् । कथं तर्हि सुषुप्त्यादौ द्वैताप्रती-
तिरिति चेत् द्वैतलोपादिति ब्रूमः । तथा च श्रुति:--'यद्वै तन्न
पश्यति पश्यन्वै तन्न पश्यति-नहि द्रष्टुष्टविपरिलोपो विद्यते.
ऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यविभक्तं यत्पश्येत्'
इति । अस्यायमर्थः-तत्र सुषुप्तजीवः किमपि न पश्यतीति
यल्लौकिकैरुच्यते तदसत् पश्यन्नेव जीवस्तदानीं न पश्यतीति
भ्रान्या व्यपदिश्यते । कथं दर्शनमित्यत्र हेतुरुच्यते-द्रष्टुरा.
स्मनः स्वरूपभूताया दृष्टेर्लोपो नहि विद्यते विनाशरहितस्वभा-
वत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य
वक्तुमशक्यत्वात् । कथं तर्हि लौकिकानां भ्रम इत्यत्र हेतुरुच्यते-
ब्रह्मचैतन्यादन्यत् क्रियाकारकफळरूपेण विभक्तं जगदाख्यं यत्
द्वितीयं वस्तु तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जाग-
रणवद्रष्दृदृश्यदर्शनव्यवहाराणामभावात् न पश्यतीति लौकि-
कानां भ्रम इति । तस्माचिद्रूपो जीवः ॥ ७९ ॥
द्वितीयाध्याये तृतीयः पादे:- - [१३ उत्क्रान्ति गत्यधिकरणम् ] उत्क्रान्तिगत्यागतीनाम् । ( ब्र० सू० २।३।१९) जीवोऽणुवी सर्वगो वेति सन्देहे 'एषोऽणुरात्मा चेतसा चेदितव्यः' इत्यणुत्वं श्रुतम् । 'अस्माच्छरीरादुत्क्रामति' इत्युत्क्रा. न्तिः । 'चन्द्रमसमेव ते सर्वे गच्छन्ति' इति गतिः। 'तस्माल्लोका. पुनरैति' इत्यागमनम् । नैतव्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते मध्यमपरिणामस्य तदुपपत्तावपि अणुश्रुतिर्विद्यते । अनियत्वं च दुर्निवारम् । तस्मादणुजीव इति प्राप्ते सिद्धान्तयति- - * देहाच्च निःसृतिरथ त्रिदिवं गतिश्च प्रत्यागतिश्च निगमप्रतिपाद्यमाना। अस्त्येव चित्तमुकुरोदरमाश्रयन्त्याः जीवाकृतेः शिव भवत्प्रतियातनायाः ॥ ८० ।। चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता । तदुपाधिकत्वात् जो. वस्योत्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वाद 'सर्वगतम्', 'स वा एष महान आत्मा', 'सर्वव्यापी सर्वभूतान्त. रात्मा' इत्यादिषु सर्वगतत्वं श्रुतम् । तस्मात्सर्वगतो जीवः ॥८॥ - [१४ कत्रधिकरणम् ] कर्ता शास्त्रार्थवत्त्वात् । ( ब्र० सू० २।३।३३ ) १०२ अद्वैतविद्यातिलकदर्पणम् । जीवः कर्ता वा न वेति संशये, सांख्यास्तु बुद्धेः परिणा- मित्वेन क्रियावेशात्मकं कर्तृत्व संभवति न त्वसङ्गत्यात्मन इति प्राप्ते सिद्धान्तयति- कर्तृत्वमस्ति करणत्वजुषो न बुद्धेः सत्त्वे परं तु करणं परिकल्पनीयम् । कतैव मास्त्विति नहि श्रवणादिकं ते सापेक्षमत्र पशुव ततः स कर्ता ॥ ८१ ॥ करणत्वेन क्लुप्तशक्तिकायाः बुद्धः कर्तृशक्तिर्न कल्पयितुं शक्या, कुठारादावदर्शनात् । बुद्धेः कर्तृत्वे करणान्तरस्य कल्प. नीयत्वात् । न च माभूत्कतैवेति वाच्यम् । पूर्वकाण्डोक्तयागादि- व्यापाराणामुत्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिकव्यापा- राणां च कर्तृसापेक्षत्वान् । तस्माज्जीवः कर्ता ॥ ८१ ।। [१५ तक्षाधिकरणम् ] यथा च तक्षोभयथा । (ब्र० स० २।३।४०) कर्तृत्वं वास्तवं कल्पितं वेति संशये कर्तृत्वस्य बाधाभावा- द्वास्तवमिति प्राप्ते सिद्धान्तयति- प्रत्यक्तनोस्तव यजेतिपदार्पितोऽपि निःसंगतैकपरवाक्यनिवार्यमाणः :॥
द्वितीयाध्याये तृतीयः पादः भास्वन्मणेररुणिमेव जपानुबन्धा- दीसन्निधे किमपि दीव्यति कर्तृभावः ॥८२॥ 'असङ्गोधयं पुरुषः' इति श्रुया कर्तृत्वसम्बन्धो बाध्यते । अतो जपाकुसुमसन्निधिवशात्स्फटिके रक्तत्वं यथाध्यस्तं तथा अन्त:करणसनिधिवशात्कर्तृत्वमात्मन्यध्यवस्यते ॥ ८२ ॥ [१६ परायत्ताधिकरणम् ] परात्तु तच्छ्रुतेः । ( ब्र० सू० २।३।४१) लोके कृषीबलादीनां रागद्वेषावेव प्रवर्तको दृष्टौ । तदनुसा. राद्धर्माधर्मकजीवस्यापि तावेव प्रवर्तको अभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान् धर्मे प्रवर्तयति कांश्चिदधर्म इति वैष- म्यं दुर्वारम् । तस्मान्नेश्वरः प्रवर्तक इति प्राप्ने सिद्धान्यति- A साधारणो गिरिश हेतुरसि प्रवृत्तौ बध्नाति कर्म जनिमत्फलतारतम्यम् । वर्षे समेऽपि सति शालियवादिबीज- वैषम्यतो भवति सित्यविशेषसिद्धिः ॥ ८३ ।। ईश्वरस्य न वैषम्यप्रसङ्गः वृष्टिवत्साधारणनिमित्तत्वात् । यथा दृष्टेः सस्याभिद्धिहेतुत्वेऽपि व्रीहियवादिवैषम्ये बीजाना- १०४ अद्वैतविद्यातिलकदर्पणम् । मेव निमित्तत्वं तथेश्वरस्य यथा यथा जीवाः प्रवर्तन्तामित्यनुज्ञया साधारणप्रवर्तकत्वेऽपि न वैषम्यं, पूर्वकृतकर्मणां वासनानां च वैष- म्यहेतुत्वान् । कर्मणां फलहेतुत्वमेव न कर्मान्तरहेतुत्वमिति चेत् सत्यम् । सुखदुःखस्वरूपस्य च फलस्य प्रदानाय जीवं व्यापारय. कर्म ह्यर्थात्कर्मान्तरमपि निष्पादयतीति दुरिं तद्वैतुत्वम् । वास- नानां तु साक्षादेव कर्महेतुत्वम् । तथा चेश्वरस्य कुतो वैषम्यप्रस- ङ्गः ! यतोऽनुरागस्य प्रवर्तकत्वमुक्तं तत्तथास्तु । तावतेश्वरस्य प्र- वर्तकत्वं न हीयते । सर्वान्तर्यामिणेश्वरेण रागोऽपि नियम्यते । तस्मादीश्वरो जीवस्य प्रवर्तकः ॥ ८३ ।। [१७ अंशाधिकरणम् ] अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वम- धीयत एके । ( ब्रसू०२।३।४३) तत्वमस्यादिश्रुतिः जीवेश्वरयोरभेदं प्रतिपादयति । 'आ. स्मा वारे द्रष्टव्यः' इत्यादिना ट्रष्टद्रष्टव्यरूपेण भेदः प्रतीयते । तथा सति भेदश्रुतिबलात् जीवो नास्तीत्यपलपितुं न शक्यते । अभेद. श्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते। तस्माद्विद्यमान- स्य जीवस्य ईश्वरेण सांकर्य दुर्वारं, परस्परं च जीवनामीश्वरा- भेदशब्दात् सांकर्यमानुषङ्गिकम् । तस्माजीवब्रह्मव्यवस्था न घटत इति प्रासे सिद्धान्तः:--- -- --- THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS. Edited by GOPINATH KAVIRAJ, M. A, No. 1-The Kiraņāväli Bhāskara, a Commentary on Udayava's Kiraņāvali, Dravya section, by Padmanabha Miśra. Edwith Introduction and Index by Gopinath Kaviraj, M.A. Rs. 1-12 No. 2-The Advaita Chintamani, by Rangaji Bhatta, Ed, with Introduction etc. by Nära yana S'āstri Khiste Sähityācharya. Rs. 1-12 No. 3-The Vedānta Kalpalatikä, by Madhusudana Sarasvati. Edited with Introduction etc, by Rämājñā Pāņdeya Vyakaraṇācharya. Rs. 1-12 No. 1-The Kusuminjali Bodhani, a Commentary on Udayana's Theistic Tract, Nyaya Kusumāñjali, by Varadarāja. Ed. with Introduction ote. by Gopinath Kaviraj, M.A,Rs. 2-0 No. 5 - Tho Rasasāra a Commonrayan Udayana's Kiraņāvali, Guņa Section, by Bhatta Vädindra. Ed, with Introduction etc.by Gopinath Kaviraj, M.A. Rs. 1-2 No, -(Part 1)-The Bhävana Viveka by Mananı Miśra, with a Commentary hy Bhatta Umbeka. Ed, with Introduction etc. by M.M. Gangānātha Jhi, M. 1., D. Litt. Rs. 0-12 No. (-(Part II)--Dittu Rs. 0-12 No. 7-(Part 1)-The Yoginihrdayn dipikā, by mytänanda Nātha, being it Commentary on Yozginilırdaya, a part of Vāmakeśvara Tantra, Ed.with Introduction ote by Gopinath Kaviraj, M.A. Rs. 1-8 Vo ( Part II ) Ditto Ditto Rs 1-4 No S.Tho Kävyadäkini, by Gangänında Karindrii. Ed. with Introduction etc. hy Jagn nätha S'āstri Hoshing Sahityopadhyāya Rs. 0-10 ( 2 ) No. 9--(Part I)-The Bhakti Chandrikā, a Commentary on Sandilya's Bhaktisūtras, by Mārāyaṇa Tirtha. Ed.with a Prefatory Note by Gopinath Kaviraj,M.A. Rs. 0-15 No. 10-(Part I)-The Siddhāntaratna, by Baladeva Vidyā bhūşaņa. Ed. with a Prefatory Note by Gopinath Kaviraj, M.A. Rs. 1-2 No. 10-(Part II)-Do. Do. Rs. 2-12 No. 11-The S'rī Vidyā Ratna Sūtras, by Gauda pāda, with a Commentary by S'ankarāranya. Ed. with Introduction etc. by Nārāyaṇa S'astri Khiste Sāhityāchārya. Rs. 0-9 No. 12-The Rasapradipa, by Prabhākara Bhatta. Ed. with Introduction etc. by Nārāyaṇa S'āstri Khiste Sāhityāchārya. Rs. 1-2 No. 13-The Siddhasiddhānta Sangraha, by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M. A Rs. 0-1.4 No. 14-The Trivoņikā, by Aśādhara Bhatta. Ed. with Introduction by Batukanātha S'armā Sāhityo. pādhyāya, M. A. and Jagannātha S'āstri Hoshing Sāhityo. pādhyāya. Rs. 0-14 No. 15-(Part I)-The Tripurārahasya. (Jnāna Khanda) Ed.with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.0-14 No. 15- Part-II )-Do. Do. Rs. 2-4 No. 15- Part III - Do. Do. Rs. 2-0 No. 16-The Kāvya Vilāsa, by Chiranjiva Bhattacharya. Ed. with Introduction etc. by Batukanātha Sarmá Sāhityopädhyāva, M A. and Jagannatha S'ästri Hosing Sāhityopādhyāya. Rs. 1-2 No. 17-The Nyāya Kalikā, by Bhatta Jayanta. Id. with Tntroduction by M, M. Ganginātha Jhi, M.A, 1). Litt.
( 3 ) No. 18-(Part I)-The Goraksa Siddhanta Sanyraha. Ed. with a Prefatory Note by Gopinath Kaviraj, M. A. Rs, 0-14 No. 19-( Part. I )-The Prākrita Prakāśa by Vararuchi with the Prākṣita Sanjivani by Vasantarāja and the Subodhini by Sadānanda. Ha. with Profatory note etc. by Batuk Nath S'armā, M. A. and Baladova Upadhyāya, M. A. Rs 2-4 No. 19-( Part.II ) Ditto Ditto Rs. 2-12 No 19-( Part. III ) Introduction etc. (In Preparation. ) No, 20- The Mānsatattvaviveka by Viśvanātha Nyāyapanchānana Bhattacharya. Edited with Introduction. etc. by P. Jagannatha S'āstri Hoshing Sāhityopādhyāya, with a Foreword by Pandit Gopi Nath Kavirāja, M. A., Principal, Government Sanskrit College, Benares. Rs. 0-12 No. 21-- Part I) The Nyāya Siddhānta Māla by Jayarāna Nyaya Panchānana Bhattāchārya, Edited with Introduction etc. by Mangal Deva S'āstri M. A., D. Phil. ( Oxon ), Librarian, Govt, Sanskrit Library, Sarasvati Bhavana, Benares. Rs. 1-2 No. 21-( Part-II) Ditto Ditto Rs. 2-0 No. 22-The Dharmānubandhi S'lokachaturdasi by Sri S'eșa Krsna with a Commentary by Rāma Pandit. Edited with Introduction etc. by Nārāyana S'astri Khiste Sahityachārya, Assistant Librarian, Government Sanskrit Library, Saraswati Bhavana, Benares, No. 23-Navarātrapradipo by Nanda Pandit Dharmādhikari. Ed, with Introduction etc. by Vaijanātha S'āstri Varakale, Dharmaśāstra-S'ästri, Sādholal Research Scholar, Sanskrit College, Benares, with a Foreword by P. Gopinath Kaviraj, M, A., Principal, Government Sanskrit College, Benares. No. 24-The Sri Rāmatäpiniyopan işad with the Commentary called Rama Kāśikā in Pūrvatāpini and Anandanidhi in Uttaratăpini by Anandavana.
( Ed. with Introduction etc. by Anantarāma S'ästri Vetāla Sāhityopādhyāya, Post-Acharya Scholar, Govt Sanskrit College, Benares, with a Foreword by Pandit Gopi Nātha Kavirāja, M. A., Principal, Government Sanskrit College, Benares. Rs 3-12 No. 25-The Sāpiņdyakalpalatikā by Sadāśivadeva alias Apadeva with a commentary by Nārāyaṇa Deva. Edited with Introduction etc. by Jagannatha S'istri Hośinga, Sahityopādhyāya, Sâdholal Research Scholar, Govt. Sanskrit Collove, Benares. Rs. 1-4. No. 26-The Mrgārkalekhā Nātikā by Viſvanatha Deva Kavi. Edited with Introduction etc. by Nārāyana Sastri Khisto Sahityacharya, Asst. Librarian, Government Sanskrit Library, Benares. Rs. 1-0 No. 37--The Vidvachcharita Panchakan By Nārāyana S'āstri Khiste, Sāhityacharya, Assistant Librarian, Govt. Sanskrit College, Llibrary, Sarasvati Bhavani, Bonares. With an Introduction by Gopinath Kaviraja, M. A., Principal, Govt. Sanskrit Colleco, Benares, Rs 2-0 No. 28-The Vrata Kos'a by Jayannatha Sāstri Hosinga Sāhityopādhyảya, lato Sudholal Resourch Scholar, Sanskrit College, Benaros. With a Horoword by Sri Gopinätha Kaviraju, M.A., Principal, Govt. Sanskrit Collego, Benaros. Rs 40 No 29-The tritti dipikä By Mauni Sri Krşna Bhatta. Edited with Introduction etc. by kt. Gangadhara S'astri Bhāradväja, Frofessor, Govt. Sanskrit College, Benares. No. 30-The Fadārtha Mandanam By Sri Venidatta. Edited with Introduction eto by Pandit Gopāla s'āstri Nene, Professor, Govt, Sanskrit College, Bonares. No. 31 (Part 1)-The Tantraratna by Partha Sārathi Mis'ra. Edited by M.M. Dr. Ganganatha Jha, M. A., D. Litt, Vice-Chancellor, Allahabad University, Allahabad. No. 32-The Tattvasära by Rakhäldasa Nyåyaratna, Edited with Introduction etc. by Harihara S'astri, Benares Hindu University. No. 33-The Nyaya Kaustubh (Part I) by Mahadeva Puntamkar. Edited with Introduction etc. by Umes'a Miśra, M. A. Allahabad University, Allahabad.
THE PRINCESS OF WALES SARASVATI BHAVANA STUDIES : Edited by GOPINATH KAVIRAJ, M. A. Vol. I (a) Studies in Hindu Law (1): its Evolution, by Gangānātha Jhă. (b) The View-point of Nyāya Vaišeşika Philosophy, by Gopi nath Kaviraj. (c) Nirmāņa Kāya, by Gopinath Kaviraj. Rs. 1-12 Vol. II- (a) Paraśurāma Miśra alias Vāņi Rasāla Rāya, by Gopinath Kaviraj. (b) Index to S'abara's Bhāşya, by the late Col. G. A. Jacob. (c) S'tudies in Hindu Law (2):-its sources, by Gangānāth Jha (d) A New Bhakti Sūtra, by Gopinath Kaviraj. (6) The System of Chakras according to Gorakṣa nātha, by Gopinath Kaviraj. (f) Theisın in Ancient India, by Gopinath Kaviraj. (g) Hindu Poetics, by Batuka nātha S'armā. b) A Seventeenth Century Astrolabe, by Padmākara Dvivedi (i) Some aspects of Vira S'aiva Philosophy, by Gopinath Kaviraj (j) Nyaya Kusumāñjali ( English Translation ), by Gopinath Kaviraj. (k) The Definition of Poetry, by Nārāyaņā S'āstri Khiste. (1) Sondala Upādhyāya, by Gopinath Kaviraj. Rs. 5 Vol. III- (a) Index to S'abara's Bhāsya, by the late Col. G. A. Jacob. (b) Studies in Hindu Law (3): Judicial Procedure: by Gangānātha Jha. (c) Theism in Ancient India, by Gopinath Kaviraj. (d) History and Bibliography of Nyāya Vaišeșika Literature, by Gopinath Kaviraj. () Naişadha and S'ri Harsa by Nilakamala Bhattāchārya. (f) Indian Dramaturgy, by P. N. Pātankar. Rs, 5 aviraj. (¿) Vol. IV. (a) Studies in Hindu Law (4): Judicial Procedure: by Gangā nātha Jha. (b) History and Bibliography of Nyāya Vaiseșika Literature, by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda-Prātiśākhya, by Mangala Deva S'āstri, (d) Nārāyaṇa's Gaạita kaumudi, by Padmākara Dvivedi. (0) Food and Drink in the Ramayanic Age, by Manmatha natha Roy (f) Satkāryavāda: Causality in Sänkhya, by Gopinath Kaviraj (g) Discipline by Consequences, by G. L. Sinha. (h) History of the origin and expansion of the Aryans. by A. C. Ganguly. (i) Punishments in Ancient Indian Schools, by G.L. Sinha. Rs 5 Vol v (a) Ancient Home of the Aryans and their migration to India, by A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mehr. (c) An Estimate of the Civilisation of the Vanaras as depicted in the Ramayana, by Manmatha nátha Roy. (d) A Comparison of the Contents of the Rgveda, Vajasaneya, Tait tiriya & Atharvaveda Prātišākhyas, by Mangala Deva S'āstri, (e) Formal Training and the Ancient Indian Thought, by G.L Sinha. (f) History and Bibliography of Nyāya Vais'eşika Literature, by Gopinath Kavirāj. (8) A Descriptive Index to the names in the Rāmāyaṇa, by Manmatha nātha Roy. (h) Notes and Queries, (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5 Vol. VI- (a) Index to S'abara's Bhāşya, by the late Col. G. A. Jacob.. (b) So!ne Aspects of the History and Doctrines of the Nathas, (0) An Index'etc. the Ramayana, by Manmatha nātha Roy. ed) Studies in Hindu Law by M, M. Ganganatha Jha. (0) The Mimamsa manuskrip in the Govt. Sanskrit Library v... (Benares', by Gopinātha Kavirăj. (f) Notes and Queries, hy Gopinatha Kaviraj. .
(3) Vol. VII. (a) Bhamaha and his Kavyalankara, by Batukanatha S'arma and Baladeva Upadhyaya. (b) Some variants in the readings of the 'ais'esika Sutras, by Gopinātha Kavirāj. (c) History and Bibliography of Nyâya Vais'eșika Literature, by Gopinātha Kavirāj. (d) An attempt to arrive at the Correct meaning of some obscure Vedic words, by Sitāram Joshi. (0) A comparison of the contents of the Rig Veda, Vajasaneya, Taittiriya, and Atharva Voda ( Châturadhyāyika ) Prātis'ākhyas, by Mangal Dova Shastri. (f) An Index to the Ramayana, by Manmatha Nāth Roy. (9) An Index to Sabara's Bhäşya, by the late Col. J. A Jacob, (h) Gleanings from the Tantras, by Gopinātha Kavirāj. (i) The date of Madhusudana Saraswati, by Gopinatha Kaviraj. (j) Descriptive notes on Sanskrit Manuscripts, by Gopinātha Kaviraj. (k) A note on the neaning of the torm Parärdha, by Umes'a Mis ra. VI. VIII. (In progress) (a) Indian Philosophy, hy Taraknath Sanyal. (b) An Index to the Rămayana, by Manmatha Nath Roy. To be had of The Superintendent Government Press, U.P., Allahabad.