Bharatiya Vidya Bhavan Library, Mumbai
Vadavali
Front matter
॥श्रीः॥ पण्डितप्रकाण्डश्रीमत्पुरुषोत्तमादिगोखामिचरण- विरचिता वादावलिः। श्रीमदाचार्यचरणान्ववायसुधोदधिसुधाकराणां, विद्यानुरागिगोखामियणश्रीब्रजरनलालमहाराज- चरणानामर्थसाहाय्येन गोखामिवुलकौस्तुम- विद्वन्महाराजश्रीगोकुलनाथचरणानां सर्वविधप्रवन्धाश्रयेण च लब्धावतारा ANSAR भट्टश्रीरमानाथशर्मणा शुद्धाद्वैतभूषणेन दिप्पण्या परिष्कृत्य संशोधिता। वृहन्मन्दिरपुष्टिमार्गसिद्धान्तकार्यालयाप्रकाशिता । सन् १९२०] मू० १॥ [संवत् १९७६
Published by Pandit Shri Ramanath Shastri,
Third Bhoiwada, Badamandir, Bhuleshwar, Bombay
Printed by Ramchandra Yesu Shedge, 'Nirnaya Sagara' Press,
No 23, Kolbhat Lane, Bombay.
॥ श्रीहरिः॥ इदमत्र प्राप्तकालम् । , दुःखनिवृत्तिपूर्षिका सुखप्राप्तिरिह सर्वसापि जीवजातस्याका- सितेति नास्ति कस्यापि संशयः । सा च यद्यपि लौकिकैरुपा- यैर्मणिमन्त्रीपधिसक्चन्दनवनिताप्रभृतिभिः कदाचित्केनचिल्लभ्यते, तथापि नात्यन्तिकी, न च नित्या । नित्यामेव च तां वाञ्छन्ति केचिन्मनीषिणः । ततस्तदुपायं भगवग्निश्वासरूपोऽपि तद्रूपो वेद उपदिशति । यद्यपि तत्र मन्दमध्यमाधिकारिभिरसंभावनाविपरी- तभावनाव्यामोहितबुद्धिभिर्यथावत्क्रमेण व्यवस्थया च फलं साघ- नानि च नाऽवगन्तुं शक्यन्ते, तथापि 'इतिहासपुराणाभ्यां वेदं समुपये दित्यायुक्तदिशा, वेदेनैव वेदत्वेनोक्तानामितिहासपुरा- णानां सर्वसन्देहनिरासकवाक्यैरुपबृंहितेन तत्तान्यवगन्तुं शक्यन्त एव । वेद एव च 'नान्यः पन्था विद्यतेऽयनाये' त्यादिश्रुतिभि- भगवत्साक्षात्कारेण सर्वदुःखनिवृत्तिः स्यान्नान्येनोपायेनेत्युक्तम् । उपायाश्च 'आत्मा वा रे द्रष्टव्यः श्रोतव्यो पन्तव्यो निदिध्यासि- तव्यः' 'कुर्वनेवेह कर्माणि' इत्यादिश्रुतिमिः, 'ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कर्हिचित्' 'तच्छद्दधाना मुनयो ज्ञानवैराग्ययु- क्तया। पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतिगृहीतये त्यादिभि- श्योपदणशास्त्रैरुच्यन्ते । अत्र श्रीसुघोपिन्यामाचार्यचरणाः साधन- फलकममेवमुपदिशन्ति–'तच साक्षात्कार इति पर्यवसितम् । तत्र विचारसहितममाणेन यद्यपि निर्विचिकित्सं शाब्दज्ञानं भवति पुष्टि. १ २ तथाप्यन्तःकरणदोषान्न साक्षात्कारः सिद्ध्यति । तदर्थ प्रथम धर्मः । ततोऽन्त.करणशुद्धौ वेदादिसप्रमाणे श्रद्धा। ततस्तदर्थस्य मननम् । ततो निदिध्यासनेन साक्षात्कार इव ज्ञानम् । ततो विषयेषु वैराग्यम् । ततः श्रवणादिसाधनभक्तिः । ततः परमभक्तिः । ततः सर्वत्र भगवत्साक्षात्कारो हृदि बहिरपीत्यर्थः । युक्तं चैतत्- सत्यपि माहात्म्यादिगुणज्ञाने यथा यावत्लेहो न स्याचावन्न राजलोकः साक्षाद्दर्शनं ददाति तथैव भगवानपीत्येवम् । वेदविधिबोधितं श्रेयःसाधनं कर्मैव धर्मः । स च साधनं सुखस्य । ज्ञानसहकृतश्च मोक्षस्यापि । तदुक्तमाचार्यचरणैः-'यागश्च धर्मः : कामसाधनम् । ज्ञानसहितो मोक्षसाधनञ्चेति । एतदुक्तं भवति-'अमिहोत्रं जुहुयात्स्वर्गकामः प्रजाकामः पशु- कामः' 'यावज्जीवममिहोत्रं जुहोति' 'अथ य एतदेवंविद्वानमिहोत्रं जुहोति' 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' । 'यावज्जीवं दर्श- पूर्णमासाभ्यां यजेते'त्यादयो बयः श्रुतयो यागरूपं धर्ममादिशन्ति । तत्र भवति सन्देहः श्रुतौ, कामनाशब्देन काम्य एव यागः सर्वत्र गृह्यता, यावज्जीवशब्देन नित्यो वा एप सर्वत्र गृह्यताम् । निखिल- जीवनकालवाचकेन यावज्जीवशब्देन सूचितस्य कालस्यामिहोत्रादि- यागेषु पूर्वमप्राप्तत्वाद्यजति जुहोतीत्यादिशब्दैरभ्यासस्य घोतित- वाच श्रुत्या काम्ययागे स कालो विधीयते। न च सकृयज्ञानुष्ठानेनैव फलसिद्धौ सत्यां कालागीकारो व्यर्थ इति वाच्यम् । फलस्य काम्यवाक्येनैव सिद्धत्वे यावज्जीववाक्ये कालाऽनगीकारे पुनर्वि- घिवयात् । अतः काम्यकर्मणोऽभ्याससिद्धये यावजीववाक्या- .
-- दावयं कालरूपधर्मविधिरिति, तेन च श्रुतौ काम्य एक एव यागो . विधीयते न पुनर्नित्य इति पूर्वः पक्षः । सिद्धान्तस्तु-सर्वजीवनवाचकस्य यावजीवशब्दस्य काललक्षक- स्वमेव, न तद्वाचकत्वम् । यजतिजुहोतीत्यादिशब्दानां चाभ्यासल- क्षकत्वमेव, न तद्वाचकत्वमपि । व्यर्थलक्षणा चान्याय्या । किञ्च पुरुषधर्मो हि जीवनम् । तच्च न कर्मधर्मतया विधातुं शक्यते । भतो यावजीवादिवाक्येषु जीवनं पुरुषध निमित्तीकृत्य प्रयोगभेद एव विधीयते । ततश्च काम्यनित्यप्रयोगी मिन्नावेच, न पुनः कर्मणी। तत्रापि विशेष:--कामनायाः पुरुषेच्छावशीभूतत्वाच्छुत्या विधातु- मशक्यत्वाच नित्य एव यागः श्रुत्याशयगोचरः। पश्चादयस्तु तदङ्ग- फलं, तेन विकृतफलम् । किञ्च पश्चादीनां फलत्वं खेप्टत्वरूपेण । इष्टिश्च ममेदं भवत्वित्येषा । तेन चाविद्याकार्याया ममतायास्तत्राऽभि- निविष्टत्वादनर्थरूपत्वाचसंबंधेन पश्चादीनामपि तथाविधत्वाचान- र्थफलकस्य काम्ययागस्य धर्मतैव न सिध्यति । तस्मादपि तस्य न श्रुत्याऽऽशयगोचरत्वम् । नन्वेवं व्यर्थ एव श्रुत्युक्तः काम्यो यागः । प्रयोगभेदाङ्गीकारश्चेति चेत् । न । काम्ययागस्य नित्यकर्मप्रवृत्तिः प्रयोजनम् । तदुक्तं रोचना फलश्रुतिरिति । श्रेयो भैषज्यरोचन- मिति च । नन्वेवं चेफलानां मिथ्यात्वमेवाऽस्त्विति चेत् । न । तथा सत्यसद्गुणस्य सद्बोधनेन श्रुतेः प्रतारकत्वाऽऽपतिः । तथा सर्वत्राप्यविश्वासप्रसङ्गेन नित्यकर्मण्यपि प्रवृत्तिः कुण्ठिता स्यात् । सर्वविप्लवश्व स्यात् । तस्मान्नित्ययागविधानमेव श्रुत्याशयगोचरः । पश्चादीनि फलानि तु कामनायां सत्यामेव नित्येभ्योपि सियन्ति । तस्मात्प्रयोगमात्रभेदो न कर्मभेदः ।
तथा च सिद्धमेत प्रवृत्तिधर्माणा निवृत्तिधर्मपवृत्त्यर्थकत्वान्नि- तिधर्मविधानमेव पूर्वकाण्डविषय । न चैव कदाचित्प्रवृत्तिधर्माणा- मभावे सृष्टयुच्छेदप्रसङ्ग शङ्कनीय । भिन्नप्रकृतीनामधिकारिणा सर्वदा जागरूकरवारकाम्यकर्मप्रवृत्त्रविच्छिन्नत्वात् । निवृत्तिधर्मे च निवृतिस्त्यागार्थी । त्यागश्च सङ्गस्य फलस्य च, न पुन कर्मण । कर्मत्यागस्य कर्तुमशक्यत्वात् । ततश्चोक्त गीतासु भगवता 'न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्' 'सदृश चेष्टते खस्या प्रकृतेर्ज्ञानवानपि' 'एतान्यपि तु कर्माणि सङ्ग त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । अन्यै श्वान्यत्र 'यदिद वेदवचन कुरु कर्म त्यजेति च । तस्माद्धर्मानिमा- सर्वाजाभिमानात्समाचरेत्' 'एपा पूर्वतरा वृत्तिामणस्य विधी. यते । ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति । गृहेप्चाविशता चापि पुसा कुशलकर्मणाम् । मद्वार्तायातयामाना न बन्धाय गृहा मता' इति च । अत एवोक्तमाचार्यचरणे 'ज्ञानसहितो मोक्षसा- धन'ञ्चेति । तत्सिद्धमेतद्भगवत्स्नेह फलम् । तत्साक्षात्कारश्च । वयोश्च क्रमेण साधन श्रवणादिर्यागादिश्च धर्म । तत्सहकारि ज्ञा- नमपि धर्म । श्रवणयागादिविषयफसाधनफलादि जगत् न मिथ्या । किन्तु सत्यम् । केवल भेदबुद्धिरब्रह्मताज्ञानमेव मिथ्या । कामना- यामेव तथाधिकारिण सत्य वर्गलोक फलम् । निष्कामेनाधिका- रिणा ज्ञानसहित कृतो धर्मो यज्ञाविर्भावसमर्थ । ततश्चारमसुख चित्तशुद्धिरित्यादय सिद्धान्ताश्चतुर्वेदाशयगोचरा । तदेतत्सर्वमपरे न क्षमन्ते । तेषा मते 'दु खाभाव एव परम- पुरुषार्थ । रोगरूपे दु खे निवृत्ते यथा लौकिकाना 'मुख मे जात- मिदानी मिति वाचस्तथा दुःखनिचिरेव सुखशब्देनोच्यते, न पुन-. रस्ति वस्तुभूतं सुखं नाम किञ्चित् । ज्ञानमेव च ब्रम, नानन्दरू- पम् । तच्च निर्विशेपम् । निराकारश्च । तस्य च न प्राप्तिः किन्तु लब्धिः। यतो हि आत्माभिन्नमात्ममात्रं वा ब्रह्म, तच्च व्यापकं, ततश्च व्यापकस्य प्राप्तिः कथं नाम का नाम च स्यात् । लब्धिस्तु स्यात् । कण्ठमणिन्यायेन तत्त्वाऽन्यत्वाभ्यामनिर्वचनीयेनाज्ञानेन विस्मृत आत्मनि वेदशास्त्रादिज्ञानेनाहं ब्रह्मासीतिज्ञाते तसिन्नात्मा मया लव्य इति वक्तुं शक्यते । वेदशास्वतदर्थगुरुगुरूपसचीत्या- दयः सर्वपि पदार्था अज्ञानकल्पिताः । यज्ञादयोपि चित्तशुद्धिमा- त्रमादयति न तैः कश्चिन्नारायणप्रादुर्भावो भवति । न वा वास्तवः कश्चन खर्गोऽस्ति । फलश्रुती रोचनार्था । बालानामौषधपानाय यथा उड्डुकदानं प्रतिज्ञायते मात्रा, पीते तस्मिन्पुनर्यथा लड्डकं ते वत्स पिशाचो गृहीत्तयानित्येवं वश्यते, तथा वेदोऽपि चित्तशुद्ध्यर्थमज्ञा- न्सर्गादिलोभ दत्वा कर्म कारयति फलं तु तेन चित्तशुद्धिरेवे'त्यादयः सिद्धान्ताः। तदेवं वेदाशयविष्ठावन विदुपां मतखण्डनाय दैवजीवानां वेदाशयप्रकाशनाय च श्रीमदल्लभाचार्यचरणानां प्रादुर्भावः । अपरेपां च तद्वंश्यानां गोसामिचरणानां तन्मतवर्तिविदुषां च प्राकट्यम् । मसिमन्यादस्तबके तैम्तैस्तद्वंश्यगोस्लामिचरणैर्विद्वद्विश्चान्यैर्नास्ति- कार्धनास्तिकमतखण्टनाय विविधा वादाः समारब्धाः । विशेषतस्तु गृहप्रविष्टचौरनिबर्हणन्यायेन सर्वविप्लववाद्यप्यौपनिषन्मताभिमानी मायावादी प्रथम खण्डनीय इति तन्मतमेव समालोच्य खण्ड्यते ।
६ ननु 'यस्तःणानुसंघत्ते स धर्म वेद नेतरः' 'मीमांसान्यायवि. स्तर' इत्यादौ काणादादिशास्त्राणामपि धर्मोपयोगितोच्यते प्रशस्यते च, तत्कथमेतत्खण्डनायाचार्यावतारः । नैतत्सारम्-नाऽन न्यायतर्क- शब्दाभ्यां काणादशास्त्रं गृह्यते किन्तु विचारापरपर्यायो ब्रह्ममी- मांसाशास्त्र मिह गृह्यते । काणादादिशास्त्राणि तु दूरतः परिहेयानि श्रेयस्कामेनेति स्मृतिपूच्यते । तथाचार्यचरणानां वचनम्- सन्देहवारकं शास्त्रं बुद्धिदोपात्तदुद्भवः । विरुद्धशास्त्रसम्भेदादश्चिाशक्यनिर्णयः ॥ विरुद्धशास्त्राणि काणादजैमिनीयादिग्रन्था इत्यन्यत्र विस्तरः । भवतु प्रकृतमनुसरामः। वादावल्याः कर्तार अनेके गोखामिचरणा अपरे विद्वांसश्च । अस्या ग्रन्थकर्तृवंशपरिचयः। सन्ति दक्षिणापथे वीजापुरादिनगरप्रान्ते कृष्णयजुवेंदतैचिरीया- दिशाखाध्येतार आपस्तम्चीया वेलनाटिबामणाः प्रसिद्धतमाः । तेवान्देशीयकाकरवाडग्रामवासिनो बहुसोमयाजिनः श्रीमतो भट्ट श्रीलक्ष्मणदीक्षितस्य गृहे भगवन्मुखवैश्वानरावताराः श्रीमद्वल्लभाचार्या वैक्रमे पंत्रिंशोचरपञ्चदशशतके (१५३५) वैशाखकृष्णैकादश्या मादुरभवन् । पितृपादैःसह काशी गतास्तत्रैवायेन वयसा कृष्णयजुषः साझा एकादशशाखाः पइदर्शनादीनि च शास्त्राणि गुरोरपीत्य सता.
तपादैःसह पुनः खदेशमागन्तुं प्रचक्रमुः। मध्यमार्ग खतातपादे भग- वत्सायुज्यं गतवति मात्रा मातृचरणान् खदेशं प्रापय्य वयं तुङ्गम- द्राकूले विद्यानगरे सायणमाधवेन वेदभाष्यकारयितुवावुकदेव- महीपतेः पौत्रस्य कृष्णदेववर्मणो राज्ञः सभायां वैष्णवमार्गविप्लायन- दक्षान्यादिविपक्षान्वैदुष्यवेगेनोरिक्षप्य, तत्रैवाभिषिच्य दत्तमाचार्य- पदं चोररीकृत्य तीर्थपरिक्रमणमिपेण त्रीन्दिग्विजयानकुर्वन् । तीर्थे- चैकन विल्वमंगलयोगिराजेनोपायनीकृत विष्णुखामिमताचार्यकं सी- चक्रुः । भगवता च पुरुषोत्तमेनाऽऽज्ञप्तं मन्त्रराजम् । मध्ये मध्ये च दिग्विजयेषु शुद्धाद्वैतपुष्टिमार्गोपाख्यं भक्तिमार्ग प्राचारयन् । दिग्विजयेप्वेव च वाराणस्यां खसजातीयस्य कस्यचिट्विजवरस्य सुगुणां सुतां ब्राह्मविधिना पर्यणेषुः । एतस्मिन्नेवाऽभ्यन्तरे वयसः पूर्वमीमांसाभाप्यं चैयाससूत्रभाष्यं श्रीमद्भागवतटीकां तद्भाष्यभूतां श्रीमुबोधिनी च व्यरचयन् । अन्यांश्च पोडशमन्थादीन प्रकरण- ग्रन्थान् । एवं धर्मोत्तरमर्थकामौ जुषतामाचार्यपादानां श्रीगोपीना- थदीक्षितः श्रीविठ्ठलनाथदीक्षितश्चेति द्वौ मुतावमूताम् । तत्र ज्यायःसुतानां वंशो न परम्परां लेभे । कनिष्ठश्रीविट्ठलदीक्षितानां तु वंशोऽद्यावधिका परंपरां लभते । श्रीविठ्ठलदीक्षितप्रभुचरणाः श्रीमदाचार्या इव विद्वन्मौलिमणयो विविधवादिविजेतारोऽभवन् । एतैपिद्वन्मण्डनमक्तिहंसप्रभृतयो भूयांसो ग्रन्था निरमीयन्त । श्रीमप्रभुचरणवंशभवाः सर्वेऽपि पुरातनगोखामिचरणा विद्वन- काण्डा आसन्निति तैस्तैस्तद्रचितैर्ग्रन्थरलैरवगम्यते । ये पुनर्भमहाशयाः साम्प्रदायिकमन्थनिर्मातारस्तेपि कृष्णयजुर्वे दाध्यायिनो वेलनाटिब्राह्मणाः श्रीमद्वल्लभाचार्यसजातीया एव । .
किंपुनः सजातीयोएव प्रत्युत तत्सम्बन्धिनः। तेऽपि विद्वत्तमा एवेति न परोक्षं परीक्षावतां विदुपाम् । ग्रन्थकर्तृपरिचयः तत्रैतद्वादावल्या वादस्तबकस्य वा निर्मातारो बहवो गोरखामि- चरणा भट्टमहोदया अन्ये च विद्वप्रकाण्डाः । तत्र प्रथमेऽवगतसकलवेदादिशाबाशयाः प्रस्फुटार्धमधुरपदशा- लिलेखसार्वभौमाः ख्यातिविवेककर्तारो लालभट्टोपनामानः श्रीवाल- कृष्णशर्माणः । एते हि महाशयास्तैलङ्गदेशीयाः कृष्णयजुष आप- स्तम्बतैत्तिरिशाखाध्यायिन आसन् । इमे श्रीमत्पुरुषोत्तमचरणसमये वैक्रमे चतुर्विशत्युत्तरे सप्तदशशतके (१७२४) आसन्निति साम्प्र- दायिक विद्वत्प्रसिद्धिः । स्थितिस्त्वेतेषां राजपुत्रप्रदेशे कोटानगरे आसीत् । सम्प्रत्यपि तेषां श्रीमद्वालकृष्णप्रभुमन्दिरं तत्रास्ति । वैदुप्यमहिना चैते जयपुरपुरन्दरादिविविधमहाराजेभ्यः सम्मानम- वापुः । एतस्कृताप्टीकाः प्रायः सर्वेष्वप्याचार्यचरणकृतभाप्यादिग्रन्थ- रलेषु विद्यन्ते । खतन्त्राश्च प्रमेयरत्नार्णवादयो बहवो अन्थाः । एतद्वैदुष्यविषये तु कृतमनेनैव यद्यदि नाऽभविष्यन्प्रमेयरलार्णवादय एतत्कृता ग्रन्थास्तहिं नाऽलप्स्यन्तैव पुष्टिसम्प्रदायसिद्धान्तं विदुषां मतयः। द्वितीये भेदाभेदस्वरूपनिर्णयकर्तारः सर्ववादिविजयविदितवै- १ अत्र समयप्राक्त्वेन वैदुष्यमहत्त्वेन वा अन्यनिवेशक्रमो युक्त आसीत् किन्तु यथायथा लब्धास्तथा तथा मुद्रणाय दत्ता ग्रन्थाः सद्यो मुद्रणकार्यप्रचा- लनाय । अयमेतत्कृतः ख्याति विवेकः शुद्धो लिखित एवासीदिति प्रथमं निवेशितः।
दुषीविभवा बहुलक्षमन्थनिर्मातारः श्रीमवल्लभाचार्यचरणेभ्य सप्तमी परम्परामधिष्ठिताः श्रीपीताम्बरगोखामितनुजनुपः श्रीपुरुपोचमच- रणाः । सर्वेपि गोखामिचरणाः श्रीमद्वल्लभाचार्याणां वंश्या एवेति तैलङ्गदेशीया वेल्लनाटिब्राह्मणाः कृष्णयाजुपीमापस्तम्बतैत्तिरीयां शाखामधीयाना आसन्सन्ति चेत्येतेऽपि तथा । एतेषां प्रादुर्भावस- मयस्तु वैक्रमाव्दे चतुर्विशत्युत्तरे सप्तदशशतके (१७२४) भाद्रशुक्कैका ११ दशी। एतन्निर्मितोऽणुभाप्यप्रकाशस्तत्वदीपनिवन्धावरणमनः सुबोधि- नीप्रकाशश्चेति त्रयो ग्रन्थाः प्रधानतमाः । अपरेच पोडशग्रन्थ- टीका अवतारवादावली प्रस्थानरलाकर इत्यादयो भूयांसो लब्धाः । निवासस्थानं त्वेतेषां सौराष्ट्रेषु सुरतपुरमासीत् । यत्र सम्प्रति भगवान् श्रीवालकृष्णः पुनाति निजदर्शनेन निरीक्षकेऽक्षियुगलीम् । यत्र च गोखामिपदे गुणवशीकृतलोका गो० श्रीवजरत्नलालमहोदयास्तिष्ठन्ति । अस्मिन्वादस्तबके चैतन्निमिता ग्रन्थास्त्वेते- १ भेदाभेदस्वरूपनिर्णयः। १० भक्त्युत्कर्पवादः। २ भगवत्प्रतिकृतिपूजनवादः । ११ खलालपनविध्वंसवादः। ३ सृष्टिभेदवादः। १२ नामवादः। ४ ख्यातिवादः। १३ मूर्तिपूजनवादः। ५ अन्धकारवादः। १४ ऊर्ध्वपुण्ड्धारणवादः। ६ ब्राह्मणत्वादिदेवतावादः । १५ शङ्खचक्रधारणवादः। ७जीवप्रतिविम्बत्वखण्डनवादः। १६ मालाधारणवादः । ८ आविर्भावतिरोभाववादः। १७ उपदेशविपयशङ्कानिरास- ९ प्रतिविम्यवाद। बादः।
अवतारवादावली स्वेतत्कृताऽस्माभिर्भारतमार्तण्डश्रीगढूलालपुस्त- कालयालब्धा किन्त्वपूर्णेति प्रतिदत्ता । न पुनः प्रयस्यद्भिरप्यन्यतो लब्धेति चतुर्विंशतिग्रन्थेषु सप्तदशग्रन्था एव मुद्रापणमलभन्त । एतद्वैदुष्यपरीक्षणविषये तु किमस्माभिरेतदक्षरावलोकनाऽक्षमै- वक्तव्यम् । केवलमिदमेवाऽभिधीयते भगवद्वदनावतारवाक्स्वयं ज्ञेयैवाऽभविष्यद्यदि नेमे खजन्मना तद्वंशमलमकरिष्यन् । अव- तीर्य चैतैराचार्यवाणी प्रस्फुटार्थरहस्या प्रदर्शितलोकोत्तरगुणगणा गहनापि सरलाऽकारि। तृतीये च 'प्रपञ्चसंसारभेद'नामकलेखनिर्मातारः श्रीमद्विट्ठ- लदीक्षितप्रभुचरणानामात्मजा वल्लभेत्यपरनामधेयाः श्रीगोकुलनाथ- चरणाः 1 इमे श्रीमद्वल्लभाचार्यतस्तृतीयपुरुषाः । एते क्रमपोडश- शतकस्यारम्भ एव प्रादुरभूवन् । स्थितिरेषां गोकुले मथुराप्रान्ते । श्रीवल्लभ इति नाम त्वेषां मन्ये पितामहस्वरूपाऽऽनुरूप्येण वाऽति- प्रियतया वा तत्सदृशवैदुप्येण वा 'त्रिपुरुषसम्बद्ध'मिति शास्त्राज्ञया वा धृतं स्यात् । एते बाल्य एवं प्रकटितवैदुष्या यौवने महामहा- वादिविजेतारो विद्वत्तमा आसन् । दृश्यते च तदेतद्रचितेषु ग्रन्थ- रक्षेपु । बैदुष्यप्रतापेनैव सम्राडपि तेषां पूजामकरोदिति साम्प्र- दायिकेष्वैतिह्यम् । प्रायः सर्वेप्चपि श्रीमदाचार्यकृतप्रकरणमन्थे- प्वेषा विवृतयो लभ्यन्ते । वाणीसरणिश्चैषां प्रस्फुटार्थरहस्सा गम्भीरापि सरलमधुरा । चतुर्था 'पादकथा' कर्तारः श्रीयोगिगोपेश्वरचरणाः। एते वैक्रमे पञ्चत्रिंशदुत्तराष्टादशशतके (१८३५) ज्येष्ठ शुक्लाष्टम्यां मुनस्तल- मलंचकु: । पितृचरणास्त्वेतेषां गोसामिश्रीगोकुलोत्सवपादाः । एते श्रीप्रभुचरणप्रथमसुतश्रीगिरिधरचरणवंश्याः श्रीमद्वल्लभाचार्यतो दशमी परम्परामधिगताः । एतेपि विद्वन्मौलिमणयोऽभूवन् । एत- स्कृता रश्मिनाम भाप्यप्रकाशविवृतिः सहसावधिर्विराजते । सत्य- मेते योगिप्रवरा एव । को खन्यथा महामाहात्म्यमन्तरा सर्वामपि प्रभुसेवा निर्वयन्नेतावद्विलेखितुं प्रभवेत् । प्रायेण श्रीनाथद्वार एवैतेषां स्थितिरासीदिति मन्ये । अस्यां वादावल्यां 'वादकथा' 'आत्मवाद'थेति द्वावेतत्कृतौ ग्रन्थी समपादिपाताम् । पञ्चमाः प्रपञ्चवादकर्तारो गोस्वामिश्रीगिरिधरचरणाः। एतत्क- तेऽस्मिन्प्रन्थे समाप्तिसूचकेतिधीचिह्नस्याभावतः किंकर्तृकमेतद्वाद- रलमित्येव न ज्ञायते, किं पुनरेतपितृपितामहादीनां निर्देशादयः । केवलं तु समाप्तिश्लोकेनैकेन संभावना क्रियते श्रीमद्विट्ठलदीक्षित- प्रभूणां प्रथमसुता एत इति । सोयं श्लोकः- श्रीविठ्ठलपदसरसिजनतिततिमुक्ताखिलाज्ञानः । विद्वन्मण्डनसरणिरचीकृपगिरिधरः किश्चित् ॥ ३ ॥ - अयं च एतेनासत्पतियोऽस्ति प्रमुः श्रीद्वारकेश्वरः । स एव हि प्रसन्नोऽस्तु किं घृथा बहुभापणैः ॥ १ ॥ एतेपि विद्वताकाण्डा इत्येतत्कृतमन्थदर्शनेन प्रतिभाति । पठाः श्रीरघुनाथसुताः श्रीव्रजरायगोस्वामिचरणाः । एते श्रीमद्वल्लभाचार्येभ्योऽष्टमी परम्परामवापुः। श्रीमद्विट्ठलदीक्षितसुतश्री- निरिभराणा श्याः । एतकृतस्याऽस्य ब्रह्मवादस्यैकमेव पुस्तकमा- १२ मिर्लब्धम् । तच लेखकममादादशुद्धिमयमेवाऽऽसीत्तथाप्येतद्दर्शने- नैते सार्वदेशिकपण्डितप्रकाण्डा अभूवन्निति प्रत्ययो भवति । मन्ये वैक्रमेऽष्टादशशतकमध्य एते प्रादुरभवन् । सप्तमाः श्रीयदुपतिगोखामिसुताः श्रीपीताम्बरगोखामिचरणा यत्कृतोऽस्यां भक्तिरसत्ववादः । एतेऽपि षष्ठी परम्पराम धिश्रिताः अमुचरणतृतीयसुतश्रीबालकृष्णगोसामिनां चश्याः । एते वैक्रमे सप्तदशशतकप्रारम्भे पोडशशतकसमाप्तौ वाऽऽसन्निति ज्ञायते । पोडशग्रन्थेषु कतिपयानामेतत्कृता अपि टीकाः समुपलभ्यन्ते । अष्टमा भदृश्श्रीरामकृष्णशर्माणः । एते हि तैलङ्गदेशीया वेल्लनारिब्राह्मणाः कृष्णयजुषस्तैत्तिरीयां शाखामधीयानाः काश्यां गोपालमन्दिरे श्रीमद्विरिधरगोखामिचरणसन्निधौ न्यवसन् । प्रायो चैक्रमाऽष्टादशशतकसमाप्तावभूवन्निति ज्ञायते । विद्वद्धरीणा एवैत इति त्वेतत्कृतशुद्धाद्वैतमार्तण्डादिटीकाग्रन्थावलोकनेन विजानीमः । ग्रन्थपरिचयस्तत्सूची च। ख्यातिविवेकः। १. १. सामान्यज्ञानं प्रति मनइन्द्रियाणां, विशेषज्ञाने तु बुद्धेरेव कारणतेति व्यवस्थापनम् । पृ. २-३ २. 'शुक्काविदं रजत'मित्यादिनमज्ञानेषु सर्ववादिमतान्यपा- स्याऽन्यख्यातित्वस्थापनम् । ३-४ - । ३. 'पीतः शङ्ख शुक्तौ रजतमित्यनयोः पदार्थज्ञाने परस्परं भेदनिरूपणम् । ५-६ १. निरुपाधिके अमे मिनर ज्ञानव्यवस्था, औपाधिके अमे तु भिन्नैव ज्ञानव्यवस्था । -५ ५. लौकिकैः सामान्यदृष्ट्या गृह्यमाणं जगत् द्विविधम् । अन्त- रागतं विषयतारूपं, सद्रूपं चेति । एवं सांसारिकशुद्धजीव- योरपि भेदः। -७ ६. आधिदैविकः प्रपञ्चो भगवद्रूपः प्रतीयमानस्तु मिध्येति • मतस्य निरासः । -९ ७. बुद्धिकल्पितमेव रजतं मायादोपादिवशाबहिनिःसृतं चक्षुपा गृह्यते ततश्चक्षुर्ग्रहीतस्यापि तस्य मिथ्यात्वं कुतो नेति प्रश्नस्योचरम् । १०-११ ८. श्रीभागवतनवमस्कंधीयनवयोगीश्वरप्रसङ्गे कतिचिद्वचनानि जगन्मिथ्यात्वप्रतिपादकानीति केपांचिद्धमनिवारणम् । १२-१३-१४ ९पटितपूरितपात्रवत्पौराणिकवैदिकजगतोर्मेदनिरूपणम्१४-१५ गो० श्रीपुरुषोत्तमचरणरचितो भेदाभेदखरूपनिर्णयः। १. 'अभेदो भेदाऽसहन' इति केपाश्चिन्मतेन पूर्वपक्षनिरूप- णम् । तत्र मतान्तरनिरूपणञ्च । १६-१७ १४ २. 'उच्यते' इत्यनेन पूर्वपक्षनिरासः । भेदसहनक्षम “एवाऽमेद इति स्थापनम् । एवं जीवब्रह्मणोरपि भेदसहिष्णुरभेद एवेति निरूपणम् । -१८ ३. जगतः पूर्व सत्त्वाटूहुभवनव्युच्चरणश्रुत्योर्विरोधः स्पादित्याश- कानिरासः । तत्र श्रुत्यादीनां व्यवस्थापनम् । काणादादि- मतानि निरस्य श्रुत्युक्तभेदनिषेधादीनाञ्च व्यवस्थापनम् । १९-२०-२१ १. भेदसहिष्णुरभेदरूपं तादात्म्यमेवाद्वैतम् । तच्च जगद्ब्रह्मणो- र्जीवब्रह्मणोश्च, परं तत्र विशेषः कश्चनेति निरूपणम् । २२-२३ गो० श्रीमदल्लभविरचितः प्रपञ्चसंसारभेदः । ३. १. अत्र प्रपञ्चसंसारयोर्भेद एवेति श्रुतिस्मृतिनिबन्धादिवच- नैर्व्यवस्थाप्यते । २४-२५-२६ . M गो० श्रीगोपेश्वररचिता वादकथा। १. अत्र ग्रन्थे श्रीमद्विट्ठलप्रभुचरणानां पद्यव्याख्यानरूपेण परम- तखण्डनं समतप्रदर्शनञ्च । तन 'प्राकृतधर्मानाश्रयमि'त्यस्य व्याख्यानं तेन परमतनिरासश्च । २८-२९ २. 'अप्राकृतनिखिले'त्यादिपदव्याख्यानं तेनैव समतनिरूप- णपरमतनिरासौ । ३०-३१-३२ ३. 'इति निगमप्रतिपाद्यमि'त्यस विवरणं तेन च परमतनिरा- सपूर्वकं खमतनिरूपणम् । ३३-३४ १. 'शुद्ध'मित्यस्य विवरणेन खमतप्रदर्शनपरमतखण्डने । ३५-३ यां पशिमारभ्य ५ मी समाप्य । ५. 'साकृती'ति पदविवेकस्तेन च परमतखण्डनखमतनिरू- पणे । ३५-३६-३७-३८-३९ गो० श्रीमद्विारिधरचरणरचितः प्रपञ्चवादः। १. अत्र हि प्रपञ्चस्य ब्रह्मरूपत्वेन नित्यत्वसमर्थनम् । तत्रा- ऽसत्त्वखण्डनं विकल्पासहत्वहेतुना । ४०-४१ २. अद्वैताभिमानिनो मतेऽविद्या माया वा युक्त्याऽपि न सियतीति विकल्पप्रतिक्षेपैः प्रदर्शनम् । स्वमतेन च तत्समर्थनम् । ४१-४२-४३-१४ ३. जगतोऽनिर्वचनीयत्वमाशय खण्डनम् । तदनित्यत्वख- ण्डनश्च । ४४-४५-४६ ४. प्रत्यक्षस्य शब्दोपजीवकत्वम् । अनुमानस्य च प्रत्यक्षोपजीव- कत्वम् । श्रुतेश्च शब्दात्मकत्वात्सर्वोपजीव्यत्वेन बलवत्त्वम् । तत्प्रमाणेनापि जगतो नानित्यत्वम् । ४७-४८ पुष्टि०२
५. जगतो ब्रह्मरूपत्वे किञ्चिदाशक्ष्य तस्य ब्रह्मरूपत्वप्रसा-
धनम् । ४८-४९
६ श्रुतिसूत्रादिभिस्तव्याख्यानेन च प्रपञ्चस्य ब्रह्मरूपत्वं ब्रह्मणश्च
सर्वधर्मवत्त्वं तत्त्वेपि च निर्गुणत्वं समर्थितम् । ४९-५०
-५१-५२-५३
गो० श्रीव्रजरायचरणरचितो
ब्रह्मवादः।
१. अन्न हि ब्रह्मणोऽप्राकृतनिखिलधर्मयुक्तत्वं साधितम् । तत्र
प्रपञ्चस्य ब्रह्मधर्मत्वसाधनम् । तेन ब्रह्मणः सधर्मकत्वम् ।
पराभिमतनिधर्मकत्वनिरासश्च । ५४-५५-५६-५७
२. 'उपासनार्थ धर्मवैशिष्टयं श्रुतिर्योधयती'त्येतत्परमनिरासः।
ब्रह्मधर्माणां मायिकत्वखण्डनञ्च । -५८
३. मायाया अनादिसान्तत्वखण्डनम् । अभावाः स्वमते न
सन्ति । परमते च न सिध्यन्तीति प्रदर्शनम् । आविर्मावति-
रोभावाभ्यां सर्वकार्यसिद्धिः । ५९-६०
४. सर्वोपनिषद्वेद्यत्वं ब्रह्मणः । परविकल्पानां निरासश्च ।
६१-६२-६३
गो० श्रीमत्पुरुषोत्तमचरणरचितः प्रतिकृतिपूजनवादः। १. पूर्वपक्षसमर्थनम् । ६४-६५-६६-६७-६८ २. उत्तरपक्षः । द्वैताद्वैतमतयोः प्रतिकृतिपूजनस्य हीनत्वं ब्रह्म- वादिमतेन चोत्कर्ष इति समर्थनम् । ६९ ३. अवज्ञादोपपरिहारः । प्रतिमाखन्तर्यामितया न स्थितिरि- त्याशक्ष्य तत्समर्थनम् । ७०-७१-७२-७३-७४ ४. प्रतिमापूजनस्याल्पबुद्ध्यधिकारत्वखण्डनम् । कर्मज्ञानदृष्टि- भ्यामपि प्रतिमापूजनस्य वरीयस्त्वम् । ७४-७५-७६- ७७-७८ प्रमा- ५. स्वमते श्रीकृष्णप्रतिमामहे श्रुतिस्मृतियुक्तयः णानि । ७९-८०-८१ गो० श्रीपुरुषोत्तमचरणरचितः सृष्टिमेदवादः। ८. १. अत्र सृष्टिकर्तृत्वे परस्परमनेकेषां मतभेदः प्रतिपादितः । अन्ते च ब्रह्मवादरीत्या भगवति सर्वविधकारणता स्थिरीकृता। २. तत्र परमाणुजन्यं जगदिति वदन्तो भेदवादिनोऽर्धनास्तिका आक्षपादाः । तन्मतेनाशक्य तत्खण्डनम् । ८२-९१ ३. अनीश्वरसांख्यमतमुद्भाव्य तन्निरासः । ९२-९५ १. प्रच्छन्ननास्तिका अद्वैताभिमानिनो मायावादिनो मायाम- निर्वचनीयां तत्कार्यमेव च जगदिति वदन्ति । तैः परिणा- मवादस्य द्विविधस्याऽपि मीमांसफसांख्यप्रतिपन्नस्य खम- तेन खण्डनं क्रियते । ९६-१०० ५. मायावादिनां मतमुद्भाव्य श्रुतिसूत्रयुक्तितद्वाक्यैनिपुणतरं खण्डनम् । १००-११३ ६. एवं सर्वमतानि निरस्य श्रुतिस्मृतिपुराणयुक्तिशतनिप्पन्नं खमतं ब्रह्मवादरूपं प्रतिपाद्यते । ११३-११८ गो० श्रीपुरुषोत्तमवादरचितः ख्यातिवादः। ९. १. अनान्यमतानि पराकृत्य स्वमते ख्यातिनिरुच्यते । शुक्तिर- जतादिस्यले मायया बहि क्षिप्ताया बुद्धवृतिरूपं ज्ञानमे- वार्थाकारेण ख्यायते (भासते) इत्यापादनम् । आत्म. ख्यातेः खण्डनञ्च । १२०-१२१ २. तत्र दोषोपहतेनेन्द्रियेण सबद्धं शुक्त्यादिकमेव रजता- धात्मना गृह्यत इत्यादिकं काणादमतमाशय निरस्यते । १२२-१२३-१२४ ३. मादृप्रामाकरमतं सक्षेपेणोकर निवार्यते । १२५ १. मायावादिस्सीकृताया अनिर्वचनीयख्यातेः खण्डनम् । १२६-१२७ ५. सांस्यमाध्यरामानुजमतसमालोचनम् । तत्र रामानुजमतं कैनचिद्विशेपेण समतेप्यभीष्टम् । यतो हि योगिनां पूर्ण- ज्ञानिनाञ्च सर्वत्र सर्वावमानतया ज्ञानस्य अथाऽर्थत्वादख्या- तिरेवेति । अन्येषामज्ञानिनां त्वन्यख्यातिरेव ॥१२७-१३० गो श्रीमत्पुरुषोत्तमविरचितः अन्धकारवादः। १. अत्र तमसो द्रव्यत्वप्रतिपादनम् । तत्रानेकवादिनां मतानि च । १३७-१३६ २. तत्सर्वमतान्यपास्य सिद्धान्तसमर्थनम् । १३७-१४१ गो० श्रीगोपेश्वरविरचित आत्मवादः। ११. १. अत्र प्रत्यक्षानुमानादिप्रमाणैः परमात्मा ब्रह्म वा नाऽवगन्तुं शक्यः शक्यं वेति युक्तिभिर्विचार्यते । केवलचतिमि- रेवाऽलौकिकं ब्रह्म ज्ञातुं शक्यमिति प्रतिपाद्यते । तार्किक- पक्षपातिभिरिह विशेषतो दृष्टिातव्या । १४२-१५८ गो० श्रीपुरुषोचमचरणरचितो ब्राह्मणत्वादिदेवतावादः। १२. १. अत्र ब्राह्मण्यं काचिद्देवतेति प्रतिपाद्यते । तत्र पूर्वपक्षसम र्धनम् । १५९-१६० २. सिद्धान्तप्रकाशनम् । खाचार्यवागुपजीवकरवचेति निरूप- णम् । १६१-१६९ गो० श्रीपुरुषोत्तमचरणनिर्मिती जीवप्रतिबिम्बत्वखण्डनवादः। १३. १. अत्र मायावाद्येकदेशिनां जीवप्रतिबिम्बत्वमतं खण्ड्यते । तत्र पूर्वपक्षे षट्पक्षनिरूपणम् । १७०-१७१ २. तत्खण्डनम् । ध्वनेः शब्दप्रतिविम्बमानिमतं तत्खण्डनश्च । १७२-१७५ ३. वृतिस्वरूपविचारे प्रतिबिम्बत्वादिखण्डनम् । १७६ ४. 'एक एव हि भूतात्मे'त्यादिश्रुतिस्मृतीनां वास्तवोऽर्थः । जीवस्य ब्रह्मणोंऽशत्वेऽपि न सावयवत्वापत्तिः। १७७-१८१ गो० श्रीपुरुषोत्तमचरणविरचित आविर्भावतिरोभाववादः। १४. १. अत्राऽऽक्षपादादीनां मतान्यपाकृत्य भगवच्छक्ती ह्याविर्मा- बतिरोभावाविति ताभ्यामेव च सर्वकार्यसिद्धिरिति च निरूप्यते । १८२-१९२ २१ गो० श्रीपुरुषोचमचरणरचितः प्रतिबिम्बवादः। १५. १. अत्र स्वमतेन प्रतिबिम्बपदार्थस्वरूपं विचार्यते १९३-२०१ गो० श्रीपीताम्बरचरणविरचितो भक्तिरसत्ववादः। १. अत्र भक्ते श्रुतिसूत्रस्मृतियुक्त्यनुभवैः प्रकटी क्रियते । भक्तिनिरूपणम् । अनुग्रहसरूपनिरूपणश्च । २०२-२०६ गो० श्रीपुरुषोत्तमचरणरचितो भक्त्युत्कर्पवादः। १. अत्र भक्तिरेव सर्वसाधनफलेभ्य उत्कृष्टा, तत्रैव च वेद- तात्पर्यमिति प्रतिपाद्यते । २०७-२१२ गो० श्रीपुरुषोत्तमचरणोद्भावितः खलालपनविध्वंसवादः। १. केचिद्भान्ताः परोत्कर्षासहिष्णवो वा भगवनपूर्तेः शृङ्गारादिपु खीभूषाद्यवलोक्य शक्तित्वं, तेन च वैष्णवानां शाक्तलं २२ प्रलपन्ति । क्रिञ्च स्वामिनीस्तोत्रादिना, नवरात्रे सरखती- स्थापनादिना च यथा तथा शङ्कत इति तेषामन मुखविध्वंसः क्रियते श्रुतिसूत्रस्मृतियुक्तिभिः । २१३-२२३ गो० श्रीपुरुषोत्तमचरणविरचितो नामवादः। १. अत्र नाम्नी ज्ञातेनाज्ञातेन वा फलं भवतीत्याशङ्कय ज्ञातेनैव भगवन्नाम्ना मुख्यफलं भवतीति निरूप्यते । २२४-२३५ गो० श्रीपुरुषोत्तमचरणरचितो मूर्तिपूजनवादः । २०. १. अत्र साम्प्रदायिकेन केनचिद्विशेपेण परात्परस्य भगवतः श्रीकृष्णस्य मूर्तरेव सेक्नं वैष्णवैः करणीयमिति श्रुतिस्मृ- तियुक्त्यादिप्रमाणैः प्रतिपादितम् । २३५-२४९ . गो० श्रीपुरुषोत्तमचरणरचित ऊ पुण्ड्धारणबादः। २१. १. अर भगवत्प्रसादिचन्दनादिद्रव्येणोद्धपुण्ड्धारणमेव वैष्ण- वानां चिहं धर्मश्चेति प्रतिपाद्यते श्रुतिस्मृत्यादिभिः । .
१३
२. तत्र पूर्व पराभिमतं भलधारणमाशय तत्पाशुपतं व्रतमिति
न वैदिकधर्मों वैदिकानान्तूर्ध्वपुण्ड्धारणं धर्म इति प्रतिपा-
दितम् । २५०-२६०
३. वैष्णवानां त्रिविधत्वम् । तद्धारणद्रव्यमानादिकं चोच्यते ।
२६२-२६३
गो० श्रीपुरुषोत्तमचरणरचितः
शङ्खचक्रधारणवादः।
२२.
१. तत्र धारणनिषेधान्पूर्वपक्षे कृत्वा निषेधाः केवले, भगवत्पू-
जासेवादौ तु नित्यं धार्यमिति सिद्धान्तितम् ।
२. किच्च पूर्वमीमांसादृष्टान्तेन निषेधास्तप्तधारणे पर्यवसन्नाः।
न मृदो धारणे इत्यपि समाहितम् २६८-२८१
गो० श्रीपुरुपोत्तमचरणनिर्मितो
मालाधारणवादः।
१. अत्र वैष्णवैस्तुलसीकाष्ठमाला धार्येति प्रतिपादितम् ।
ये पुनरत्राक्षेपाः प्राचामभिनवानां च ते निपुणतरं स्मृतियु-
पत्यादिप्रमाणैर्निरस्ताः । २८२-२८६
२४
भश्रीरामकृष्णशर्मविरचितः
शुद्धाद्वैतपरिष्कारः।
२४.
१. अत्र प्रथमं परिष्कृतं शुद्धाद्वैतस्य लक्षणं निरूपितम् ।
ततश्च शुद्धपदनिवेशहेतुर्बोधितः । तदन्तरमव्यास्यतिव्याप्ति-
निवारणं कृतम् । २८७-२८९
गो० श्रीपुरुषोत्तमचरणनिर्मित
उपदेशविषयशङ्कानिरासवादः ।
१. अत्र प्रथमतो गायत्र्या सर्वकार्यसिद्धिः स्यान्नान्यमन्त्रदीक्षा-
क्ष्यते त्रैवर्णिकैरित्यादिपूर्वपक्षः कृतः । २९९-२९३
२. ततश्च सर्वानपि पूर्वपक्षविकल्पानिरस्य गायत्र्या कर्माधि-
कारद्विजत्वमानसम्पादकत्वनिरूपणम् । शाक्तत्वञ्च गायत्री-
प्रतिपाद्यब्रह्माऽनभिज्ञानामेव । २९४-२९५
३. भगवद्भक्तेर्जीवस्याऽऽवश्यकत्वं, भक्त्यधिकारसम्पादकत्वं च
साम्प्रदायिकमन्त्रोपदेशस्येति तस्याप्यवश्यग्राह्यता । भक्तेः
श्रुतितात्पर्यगोचरत्वम् । २९६-२९७
४. भक्तिमार्गानुसारेण शरणमन्त्रोपदेशः सर्वार्पणमन्त्रोपदेश
एव च युक्तः । शरणमन्त्राकारानुसंधानं श्रीभागवते ।
ऊश्च शास्त्रीयः पन्थाः। श्रुतावपि, 'यत्र योगेश्वर' इति
गीतापद्येऽपि च शरणमन्त्राकारानुसंधानम् । २९८-३०१
२५ ५. मन्त्रदीक्षाया आवश्यकत्वम् । विनियोगाद्यभावेऽपि मन्त्रत्वं नाऽपैति । समर्पणमन्त्रस्य जपाचारे व्यवस्था । दम्पत्यो- रेकगुरुत्वे न दोपः । भक्कानामनेकविधत्वम् । तेषु शुद्ध- भक्तानां मुख्यत्वम् । साम्प्रदायिकी परिस्थितिः! शास्त्राध्ययनाध्यापनपरिशीलनादौ चिरादेव साम्प्रदायिकर्षिमुक्ते साम्प्रदायिकसिद्धान्तः सर्वैरेव प्रायो विस्मृतः । सविशेषन्तु प्रमा- णभागज्ञानन्तूत्सन्नप्रायमासीरिकन्तु शारदामठाधिपतिना माधवतीर्थ- महाशयेन सरुशतीशतमाक्षिप्ते सम्प्रदाये पुनरुन्मीलित इव मदालसे लोचने प्रायः सर्वेषाम् । प्रारब्धं ततः कैश्चन तात्कालिकमसलायं कार्यजातम् । ततः पूर्वत एव श्रीमद्गोकुलनाथचरणैस्तु शनैः शनै- रध्यापनादिकार्य प्रकामितमेवासीत् । तत एव च कतिपयैर्वैष्ण- वैरेते प्रार्थिता भवन्मण्डलादेतदाक्षेपोत्तरेणाऽवश्यं भाव्यमिति । अस्माभिस्तु कार्यमेवोत्तरं न पुनः पत्रेषु कालाक्षरलेपनं वा रुश- तीवाचो वोत्तरमिति कृतसिद्धान्तै' ' दुव्यवहितं तेजो भोक्तुमर्थान्प्र- कल्पत' इत्यादिनीतिमनुसरद्भिश्च जोपमेवाऽस्थायि । 'यथा यक्ष- स्तथा बलि'रिति न्यायेन सभासम्मेलनाभियोगादिकर्त्तव्यन्तु प्राप्त- कालत्वान्न विस्मृतमेव । एवं शान्त्या कार्यमेवाचरद्भिरस्माभिः किमपि कृतम् । साम्प्रदायिकविदुपामधीत्याध्यापनादिकार्यसम- र्थानां सजीकरणं श्रीसुबोधिनीप्रथमस्कंधादिप्रलसंस्कृतग्रन्थानामा- दर्शशोधनसम्पादितानां प्रकाशनम् । यच्छोधनमिदानीमल्पज्ञानामपि व्युत्पादनं शोभनादर्शधाऽभूद्धवति च । शुद्धाद्वैतदर्शनादीनामभि- २६ नवसरण्याऽभिनवग्रन्थानां निर्मापणञ्च । तेनैव च यदक्षोभ्यवैदु- प्यकर्तव्यं तदाचरितमिति परीक्षावन्तः सुजनाः प्रमाणम् । भवन्ति लोके असन्तमपि सन्तमिव, किश्चिदिव बहुतरमिव च प्रदर्शनचञ्चलाः । ततश्च तैर्न सन्तुष्टमपि तु तद्याजेन वाशयविव- रीतुकामैन सदपि वैदुष्यं प्रकटयद्भि'नते त्वरया कार्य कुर्वन्ति न च समीचीनं, मूल्यं च बहु रक्षन्ति पुस्तकानां, यत्कुर्वन्ति तत्सर्व- मस्सप्रेरणय कुर्वन्ती'त्यादि बहु जस्पितं गृहमासिकपत्रेषु । न ततोप्यस्माभिरुद्विमम् । केषु नामोद्वेगः कर्तव्यः । ततश्च तैगृही- तपरवैदुप्यलाभैः कार्यमपि नाऽपेक्षितमिव प्रारब्धम् । पौनःपुन्येन दुःप्रेरणलेखखेदितैर्महाराजचरणैः खकीय एव महतिव्यये सत्यपि मुद्रापणकार्य द्विधा विभक्तम् । एकत्राहं पाठशालातोऽवकाशं दत्वा - नियोजितः । मया चाकस्सादेवाज्ञां शिरसि कृत्वा कार्य तु प्रारब्धं किन्तु नाऽसीदेकमपि पुस्तकं मुद्रापणशोधनाय । ततश्च बलदेव- मन्दिराध्यक्षाः नीद्वारकेशलालगोखामिचरणाः प्रतिफलकपुस्तकदा- नाय प्रार्थिताः । तैराज्ञानुग्रहे दत्ते तत्पण्डितभानुशंकरत्रिभुवनसाहा- ययेन तत्पुस्तकालयात्संगृहीतानि बहुशः पुस्तकानि । शोध्यपुस्तकानि त्वसद्वालकृष्णपुस्तकालय आसन्कतिचन । कतिचन श्रीगढूंलाल- महोदयपुस्तकालयात्रिभुवनदासश्रेष्ठिवरानुज्ञया मूलचन्द्रगुप्तमहाशय- साहाय्येन लब्धानि । ततश्च लेखकद्वयमास्थाप्य वादावलीमुद्रा- पणकार्य भाप्यटीकामुद्रापणकार्यञ्चेति द्वयं सममेवाऽऽरब्धम् । भाष्यत्रिसूत्रीटीकाद्वयमसत्सुहृच्छीवलभद्रशर्मपुस्तकसंग्रहादानीतम् | नाभूत्तत्र कष्टं गृह्यमेवेति । कार्य हि कालमपेक्षते । भवतु नाम त्वरा । इतश्च मध्ये .. - श्रीनाथद्वारयात्राऽभून्महाराजचरणानां तदहमपि तैः सहागमम् । तत आगत्य च यत्रालये इन्सुएझाप्रभृतिरोगाकुले कार्यकृताम- भावात्सर्वथैव शिथिलमभून्मुद्रापणम् । किं क्रियतां दैवे प्रतिवन्धे । एकमासेनेकफार्म प्राप्यते स । एतावत्कालपर्यन्तं संघद्रव्यव्यवस्थापूतिर्न यथावजातेति महा- राजचरणैः कार्यालययन्त्रालयादिव्ययः स्वयमेव सोढः । तत्सर्वम- नपेक्ष्यैवोपालम्भपण्डितैः पुनस्त्वराकोलाहल आरब्धः । ततश्च खिन्नै रस्मन्महाराजचरणैरन्यत्र व्यवस्थापकसमित्यामेतद्धारो दतः । युक्तं चैतत् । कार्यकृत एव श्रमं कालव्ययं द्रव्यव्ययं च विदन्ति न पुन- रुपालम्मपण्डिततमाः। किञ्च वराटिकामा कालत्रुटिमपि चाऽदत्वैव ये शान्त्याकार्यकृतोऽसानेतावत्सेदयन्ति किं पुनः संघद्रव्ये संगृ- होते । ततोऽप्यन्यत्र दत्ता व्यवस्था। अहो कार्यकृत्सु साम्प्रदायिकानां प्रसादः । इदानीं श्रीनाथद्वारीयदव्यं संघद्रव्यं चैकीकृत्य तद्र्व्यव्यव- स्थाऽपरत्र समित्यां दत्तेति पश्यामः किमियं प्रपद्यते । मन्ये द्वित्रि- दिनैरेव सर्वसाम्प्रदायिकपुस्तकानि मुद्रितानि स्युः । पुस्तकसंग्रह- चन्तो निजपुस्तकसूचीमपि न ददति । कुत्रचन पुस्तकानां सूची नास्ति साप्यस्माभिरेव संपाद्य तानि संग्राह्यानि । अपरे पुस्तकानि चास्मदीयानि तदालयावहिर्न गच्छन्तीति सष्टमूचुः । द्रव्यव्यवस्था पर्याप्ता नास्ति । कार्यकृताममावः । ये निपुणकार्यक- तस्ते लोकैः पुनः पुनः पर्यनुयोज्य विपादिताः । यन्त्रालयशैथि- त्यम् । एवं सत्यपि 'कदा पुस्तकं निष्कामति' 'भूमा कालो जात' इत्यादिप्रसादवांसि प्रचलन्त्येव । सन्तु । श्रीमद्वालकृष्णप्रभुकृपया साम्प्रदायिक विद्याप्रथमाश्रयदायिगोखामिकुलकौस्तुभश्रीमद्गोकुलना- २८ थचरणानामसीमानुग्रहेण च सम्पूर्णमिदानीमुल्लक्ष्य सर्वानपि प्रत्यू- हपाशानेतसुस्तफशोधनप्रकाशनम् । अमे च माप्यटीकापञ्चकमपि प्रकाशितं स्यानिर्विप्रमिति भयोमयः प्रार्यते श्रीनन्दनन्दनः । उपकारस्मरणम् !! अत्रत्यश्रीवलदेव (दाऊजी) मन्दिराध्यक्षैः गो० श्रीद्वारकेश- लालमहाराजचरणैः पुस्तकदानेन प्रथमसाहाय्यं विहितमिति तैरु- पकृतास्तेषु धन्यवादाशतश उपहारीकुर्मः । लीलाप्रविष्टै!० श्रीवा- गधीशलालमहाराजैरपि कतिपयपुस्तकदानेनानुग्रहो विहित इति तानपि धन्यवादैः स्मरामः । सुरतपुरवास्तव्यैर्विद्वदनुरागिभिः श्रीन- जरललालमहाराजैरवसितप्राये शोधनेऽपि दत्तैः पुस्तकैर्बहु कार्य सिद्धमिति तेषु धन्यवादानुपायनीकुर्मः । अत्रत्यमाघवारामाध्यक्षेण श्रेष्ठिवर्येण माननीयत्रिभुवनदासवरजीवनदासमहाशयेनापि भारतमा- तण्डश्रीगठ्ठलालपुस्तकालयादपेक्षितपुस्तकदानानुज्ञया महदुपकृतमिति तत्रापि धन्यवादान्वितरामः । तत्पुस्तकालयकार्यावक्षिणा बी. ए. पदघृता मूलचन्दतुलसीदासगुप्तेनापि पुस्तकगवेपणदानादिना साहाय्यं विहितं खीयान्यपि कतिचित्पुस्तकानि प्रतानीति तस्मै धन्य- वादान्प्रदाः । वैष्णवधर्मपताकालेखकेन पं० वसन्तरामशास्त्रिणा पुस्तकसाहाय्यं विहितमिति सोपि धन्यवादाहः । निर्णयसागरयन्त्रालयशास्त्रिवरैः श्रीवासुदेवपणशीकरैः शोध्यफ- लकेषु दृष्टिदोषावशिष्टाशुद्धिशोधनेन महदुपकृतमिति तानपि धन्यवादैर्वर्द्धयामः।
२९ अन्यदनुकरणीयं प्रेक्षणीयञ्च !! सुरतपुरालंकारैर्गोखामिभूषणश्रीवजरनलालमहाराजचरणैरेतत्पुस्त- मुद्रणे मुद्रणव्ययो दत्त इति प्रशंसनीय एवैतेषां साम्प्रदायिक- विद्योत्साहः । गोखामिकुलकौस्तुभश्रीश्रीगोकुलनाथमहाराजचरणाश्रितो भश्रीरमानाथशर्मा शुद्धाद्वैतभूषणः ।
॥ श्रीः॥ श्रीगिरिधरस्तनोतु मंगलानि । पुष्टिमार्गसिद्धान्तवाचालायां श्रीमल्लालूभट्टोपनामकश्रीवालकृष्णभट्टविरचितः ख्यातिविवेकः । प्रथमोमाणिः। श्रीमद्गोवर्धनाधीशं गोपिकाप्राणवल्लभम् । रासक्रीडारतं वन्दे भजनानन्दलब्धये ॥१॥ पोपसीमन्तिनीनेत्रचकोरचयचन्दिरम् । वन्दे श्रीबालकृष्णाख्यं प्रभुमानन्दमन्दिरम् ॥२॥ वन्दे श्रीवल्लभाचार्यान्पुष्टिमार्गप्रवर्तकान् । श्रीविट्टलेशचरणानाश्रये कृष्णतुष्टये ॥३॥ ये संक्षेपेण पूर्वार्द्ध पदार्था विनिरूपित्ताः । तन्यासं कर्तुमारब्धमुत्तरार्द्ध मयाऽधुना ।। ४ ।। तत्र पूर्वा पूर्वप्रपञ्चविवेक उक्तस्तद्दााय स्थातिखरूपनिरु- पणमावश्यकम् । ख्यातियोधं विना प्रपंचखरूपस्याऽऽकलयितुमश- १ प्रन्योऽयं प्रमेयरमार्णवोत्तराद्धोऽन्तर्गत इति तयाऽस्योचितं गुदणं तथापि तस्य दुर्मिलखादस्य च गमीरलादुपयोगिलादिद मुद्रापितः।
२ श्यत्त्वात् । अतस्तृतीयस्फन्यमुबोधिनीमदर्शितपद्धत्या पूर्व स्त्याति- विचार्यते । तत्र मनःसंयुक्तचक्षुरिन्द्रियेण शुक्तेः संयोगे तज्जन्य सामान्यज्ञानमुत्पद्यते । इदं सामान्यज्ञानमिन्द्रियार्घसंयोगजन्यं संश- यादीनां सर्वेषां ज्ञानानां पूर्व सम्मवति । तत उद्भूतसत्त्वगुणस्य बुद्ध्या साहित्ये प्रमात्मकं ज्ञानं निश्चयशब्दवाच्यमुद्भवति । अत एव निबन्ये सर्वनिर्णय उक्तम्-'सचसहिता बुद्धिः प्रमाण- मिति । 'संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं धृत्तितः पृथगिति कपिलवाक्येन संदाया- दिज्ञानानां बुद्धिवृत्तित्वेन गणनात् । भागवतमते बुद्धेरेव विशिष्ट- ज्ञानजनकत्वम् । 'द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रह' इति बुद्धिलक्षणात् । अतो मनःसंयुक्तचक्षुपा सामान्यज्ञाने जनिते पश्चात्सत्त्वादिगुणसहितया बुद्ध्या तारतम्येनाऽनेकप्रकारकं जायमानं ज्ञानं संशयाधुच्यते । अत एव सुबोधिन्यामुक्तं-द्रव्यस्स घटादेः स्फुरणे सति शब्देन संस्कारेणाऽऽलोकेन घा, यद्विशिष्टज्ञानं यसाकेवलं चक्षुपा ज्ञाने तारतम्यं न स्यादिति (?)। अत एव लक्ष्मीतन्ने त्रयोदशाध्याय उक्तम्-'चक्षुपालोच्य वस्तूनि विकल्प्य मनसा तथा । अहम्मत्याप्यहंकारादुद्धीव ह्यध्यवस्थ- तीति । अन्ये तु प्रत्यक्षज्ञानमात्र प्रति भनइन्द्रियविषयाणां कारणता, न तत्र बुद्धेनिवेश' इत्याहुः । असन्मते तु मागवततृतीयस्कन्धी- यवाक्यात्संशयादीनि ज्ञानानि बुद्धिरुत्पादयति । अतः प्रत्यक्षज्ञाने भनइन्द्रियविषयाणां सामान्यज्ञानोत्पादकत्वम् । वुद्धिस्तु विशेषाका. रेण संशयादिशब्दवाच्यानि ज्ञानानि जनयतीति तेभ्योऽयमितरो- ऽस्माकं पन्थाः । तत्र-चक्षुःशुक्तिसंयोगे सामान्यज्ञानोचरं माया मम.
वतः शक्तिस्तमोगुणोद्भवेन बुद्धिं व्यामोहयति तदेयं शुक्तिरिति बोधो न अन्यते । 'प्रमादमोही तमसो भवतोऽज्ञानमेव चेति भगवद्वाक्याचमसा यज्ञानस्योत्पादितत्वात् । तथा च पदार्थयाथात्म्यस्फुरणाभावान्मायामोहिता बुद्धी रजत- संस्कारप्रावल्याच्चाकचक्यादिधर्मसादृश्यमादाय रजतं तत्र निर्माति । तदिदं बौद्धमेव रजतं बुद्ध्या विषयीक्रियते । न तु सामान्यज्ञाने चक्षुर्विषयीभूतमिति विवेकः । तदानीं रजतस्याभावात्सामान्यज्ञाना- नन्तरंबुद्ध्या रजतोत्पादनात् । विशेषज्ञाने तु रजतस्य कल्पितत्वेनाss. न्तरत्वाहृयैव ग्रहणम् । नरिवन्द्रियैः । अतः सामान्यज्ञाने तु शुक्तिरेव विषयीभूता। तस्या एव सामान्यज्ञानम् । विशेषज्ञानं तु वुद्धिकृतमिति तत्र बौद्धमेव रजतं विषयीभवतीति-निष्कर्षः। तदुक्तम्-"अनु- मितमन्तरा त्वयि विभाति मृपैकरस' इत्यस्य सुबोधिन्याम् । 'रजतं तु तदनन्तरं युद्ध्या जन्यते । विषयीक्रियते । तत्र सा बुद्धिरेव कारणम् । इन्द्रियार्थयोर्मध्ये भाति तन्मृति निरूपितम् । अतएव प्रथमस्कन्धे 'तेजोवारिमृदां यथा विनिमय' इत्यस्य सुबो- घिन्यां 'तेजसि पारिद्धिर्मरीचितोये' इत्यारभ्य, 'शुक्तिरजतादि' चित्यन्तेन, नानाप्रमानुक्त्वा भ्रमविषयाणां बुद्धिजन्यतोक्ता 'यथा जीवानां बुद्धिकल्पिता' इत्यनेन । निश्चयात्मके ज्ञाने विन्द्रियार्थ एव बुद्ध्या गृह्यते । न तत्र बुद्धिकल्पितो विषयः । इन्द्रियतदर्थ- योर्मध्ये यहुद्धावन्यदेव भाति तन्मृपा । तादृशं ज्ञानम्त्रमात्मकम् । एवं सति इन्द्रियेण गृह्यमाणाद्विपयाच्छुक्त्यादिरूपादन्यस्य रज- तादेः ख्यातिरन्यख्यातिरित्युच्यते । तदिदं प्रमात्मकं ज्ञानं बुद्धि- वृत्तिरूपं विपर्यासशब्दवाच्यम् । अत एव 'विपर्यासो मिन्नार्थ- 12 प्रतिपादक' इत्युक्तं सुबोधिन्याम् । 'भिन्नार्थ इत्यनेन्द्रियसंयुक्ता द्विन्नोऽर्थ इत्यूह्यम् । एतावता निरुपाधिम्रमे इन्द्रियाणि सन्तमे. वार्थ विपयीकुर्वन्ति, नत्वसन्तम् । अत एवोद्धयं प्रत्युक्तं भग- वता 'मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः । अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसे'ति । बुद्धिस्तु प्रमात्मके निश्चयाऽ. परपर्याये ज्ञाने सन्तं विपयीकरोति । विपर्यासज्ञाने तु सकल्पितं रजतादिकं मायिकमेव विषयीकरोति । अत इन्द्रियविषयो बाह्य एव । अत एव 'सर्व पुरुष एवेद'मिति द्वितीयस्कन्धश्लोकव्या- ख्यान उक्तम् । 'इदमपि परिदृश्यमानं जडात्मकं सर्वं पुरुष एवेति । इन्द्रियतद्विषययोर्मध्ये मायादूपितवुद्ध्या यो विषयीकि- यते स त्ववास्तव एव बुद्धिकल्पित इति ज्ञेयम् । मायावादिनस्तु शुक्तिरूपाधिष्ठाने उत्पन्नेनाऽनिर्वचनीयेन रजतेन चक्षुःसन्निकर्षे रजतमिदमिति प्रमो भवेत् । न तत्र शुक्तिसामान्यज्ञानस्य हेतुत्वं प्रयोजनाभावादित्याहुः । तन्मन्दम् । शुक्तेश्चाकचक्यादितिबुद्धेरुत्पा- दितत्वात् । शुक्तिसामान्यज्ञानकारणताया अनिर्वचनीयत्वात् । केचित्तु माययाऽनिर्वचनीयमुत्पादितं रजतं चक्षुषोपलभ्यतेऽतो न रजतम्रमेऽधिष्ठानसामान्यज्ञानस्स हेतुत्वमिति वदन्ति । तदप्ययुक्तम् । मायोत्पादितरजतस्य विद्यमानले तस्कृतशुक्तिज्ञानप्रतिबन्धाकदापि शुक्तिज्ञानं न भवेत् ।' रजतनाशहेतोरन्यस्याऽभावात् । कदापि रज- तध्वंसाऽभावात् । रजतज्ञाने सत्यपि शुक्तिज्ञानमिति त्वनुभवविरु- द्धत्वान्नाद्रियते विद्वद्भिः । तथा चाधिष्ठानरूपशुक्तिविषयकविशे- पज्ञानाऽभावात्कदापि रजतध्वंसो न स्यात् । एवं सति सदैव रजत- प्रत्यय आपद्येत । यदि तु मायया विरचितं माययैव ध्धस्यत त इत्युररीक्रियेत, तदा तु दान्तिके प्रपंचे तथैव खोकार्यत्वान्मा- याघटितः मपंचो माययैव नष्टो भविष्यतीति व्यर्थो ज्ञानप्रयासो वेदान्तशास्त्रवैयर्थं च । ज्ञाननाश्यः प्रपंच इति भवसिद्धान्तोऽपि नाशं प्रापेत्याकलनीयम् । अत एवामनापायनं हरेरित्यस्य व्याख्याने 'मायया कृतो योऽन्तरासर्गः स त्वपार्थ एवाभासन्तराभाना- तत्र स्पर्शे च ब्रह्माऽयभानात्तदैव गच्छतीति निर्मूलत्वमित्याधु- तम् । मध्यस्थमात्रानुवादो वा मायावादिवदित्यप्युक्तम् । अतो ज्ञायत इन्द्रियविषययोः सम्बन्ध सामान्यज्ञानानन्तरं यहुद्धौ माया मायिकं पदार्थ निर्माय बुद्धिविषयीकारयति तद्वौद्धं ज्ञानं भ्रमात्मकम् । तद्विषयश्च मायिको बौद्धो घटादिः । अयमेव बुद्धौ मातः पदार्थ आन्तरालिकी सृष्टिरित्युच्यते । तस्यैव मिथ्यात्वम् । न तु भगवत्कृतप्रापंचिकपटपटादेरतो महता यलेन परिदृश्यमानप्रपंचस्य मिथ्यात्वं दूरीकृतवान्भगवान्भाष्यकारः। औपाधिके 'घटो भ्राम्यति' 'शंखः पीत' इत्यादिनमे तु चक्षुह्ये घटशंखादी अमरिकाकाम- लाद्युपाधि पुरस्कृत्य भ्रमणपीतत्वादिरूपो मायिको ध विषयता- रूपो मायया सृज्यते । स च धर्मो धर्मिणां घाशंखादीनां चाक्षुपे चक्षुषा गृह्यते । अत एवोक्तं सुबोधिन्याम्---'विषयता माया- जन्या विषयो भगवानिति । विपये विषयता काचित्खीक- तच्या। अन्यथा भ्रमदृष्टिनिर्विपया स्वादिति । विषयताजनितं ज्ञानं भ्रमात्मकम् । विषयजनितं प्रमेति च । तथा च तं भ्रमण- पीतत्वादिरूपं मायिकं धर्ममवलोक्य मायया मोहिता बुद्धिर्मिणं शंखादिमिव पीतत्वादिकमपि वस्तुभूतं निर्धार्थ तद्विशिष्टं शंखें खीकरोति । तदा तन्द्रमात्मकं ज्ञानं भवति । एवं सति बुद्ध्या ६ पीतत्ववैशिष्टयेन कल्पित एव शंखो मायिकः । न तु चक्षुर्गृहीतः । न च चक्षुपा गृहीतस्य घटस्य भगवत्त्वं न सम्भवति । भगवत इन्द्रियाग्राह्यत्वादिति वाच्यम् । 'न चक्षुषा गृह्यते' इत्यादिश्रुतीनां मूलरूपपरत्वाद्गृह्यमाणघटस्य भगवतः सदशत्वाद्राहकस्येंद्रियस्यापि भगवत्सदंशत्वेनाऽदोषाच्च । ग्राह्यस्य घटस विपयतावैशिष्टयेन शुद्ध- त्याभाववाहक्स्पेन्द्रियस्यापि विषयतावैशिष्टोन तुल्यत्वाच्च । सोऽय- मौपाधिकधर्मो रजतादिभ्रमवन्नाधिष्ठाननाश्यः । कामलादिदोषो अमरिकादोषश्च यदा नश्यति तदैव नश्यति । प्रमरिकादशाया 'घटे भ्रमणं नास्तीतिज्ञानवतोऽपि नाम्यतीतिप्रतीतेः सर्वजनीनत्वात् । एवं च निरुपाधिके रज्जुभुजंगादिप्रमे चक्षुपा सद्रूपैव रजु- गुंह्यते । भुजंगस्तु " बुद्धिकल्पितो बुद्ध्या-विषयीक्रियते । न चक्षुषा । बुद्धिकल्पितस्य भुजंगस्य बाह्यस्वाभावात् । दशमस्कन्धज- न्मप्रकरणचतुर्थाध्यायसुबोधिन्यां 'यथाऽनैवंविदो भेद' इत्यस्य विवरणे 'वुझ्या बहिर्विषयोत्पादनासम्भवादि'त्युक्तल्यात् । औपाधिकश्रमे तु चक्षुपा सद्रूपो घटो; मिथ्याभूतो विषयतारूपो प्रमणधर्मश्चेत्युभयं विषयीक्रियते । तदनन्तरं सदोषदुद्या 'घटो भ्रमणवा' निति स्थाप्यत इति विशेषः । इमामेव विषयतां भ्रमणा- दिरूपा विपयेण सह गृह्यमाणामवमृश्येन्द्रियग्राह्यस्यापि मिथ्यात्वं क्वचिद्भागवते, सुबोधिन्यां चोक्तम् । विषयेण घटेन ‘सह विषयता- रूपप्रमणस्यापि चक्षुर्गायत्वात् । अत्रापि बौद्ध एव- घटो मिथ्या, न-तु-अपंचान्तर्वर्तीति निष्कर्षः । इदमत्र ज्ञेयम् । प्रपंचविचारे भ्रमणवद्धट एव दृष्टान्तः । तत्र यथा घटस्य सत्यत्वं भ्रमणस्य १ योग्य स्यादिति शेषः।
-मायिकत्व एवं प्रपंचस्थापि - सत्यत्वं तद्गतानां भेदकुत्सितलोत्पति- नाशादीनां मायिकत्वम् । अत एवोद्धवं प्रत्युक्तं भगवता 'यदिदं मनसा वाचा चक्षुभ्यो श्रवणादिमिनश्वरं गृह्यमाणं च विद्धि मायामनोमय मिति । 'नश्वर मितिपदाद्यन्नश्वरं गृह्यते तदेव मा- यामयमितस्तु परं सत्यमेवेत्यर्थः स्फुटति। एतच्चीपाधिकामे स्फुटम् । मत एव 'नाशोत्पत्तिप्रतीतिर्धान्त'ति विद्वन्मण्डने प्रभुचरणैनि- रूपितम् । अतो न प्रपंचस्य शुक्तिरजतादिदृष्टान्तः । अत एव शास्त्रार्थप्रकरणे 'वाचारम्भणवाक्यानी'तिकारिकाव्याल्याने 'नत मिथ्यात्वं शुक्तिरजतवान् । अन्यथा शुक्तिरजतादिकमेव दृष्टा- न्तीक्रियत' इति श्रीमदाचार्यरुक्तम् । अन्यञ्च यथा घटावच्छिन्नग- गनमहाकाशयोर्वस्तुतो भेदाभावेऽपि घटोपाधिकृतो अवास्तवो भेद- स्तथा विषयताविशिष्टतद्रहितजगतोरिति ज्ञेयम् । दृष्टान्ते घटाका- शश्चलतीतिप्रतीतावपि चलनं- वस्तुतो घटधर्मः । न तु तदवच्छि- नस्य । एवं विपयताविशिष्टे जगति उत्पत्त्यादिमतीतावपि उत्प. त्यादि विषयताया एव-धर्मः। न तु तदवच्छिन्नस्य । घटाकाशम- हाकाशयोरमेदवद्विषयताविशिष्टतद्रहितयोरभेदेन वस्तुतस्तदवच्छिन्न- जगतोऽपि । ब्रह्मरूपत्वात् । अत एव श्रीमदाचार्यर्द्वितीयस्कन्धसु- बोधिन्यां 'वस्तुतो मूलभूतं जगत्प्रतीतितो मायिक मित्ययादि। एवं संसारिजीवशुद्धजीवयोरप्यवास्तवो भेदः संसाररूपोपाधिकृत एव । शुद्धजीवस्य भगवदंशत्वेन संसारिजीवस्यापि तदभेदेन शुद्धत्र- झरूपत्वात् । मिथ्यात्वं तु संसाररूपोपाधिपर्यवसन्नम् । अत एव निबन्ध उक्तं 'जीवसंसार उच्यत' इति । 'उच्यते न तु जायत इति । असत्वेनाऽस गणनादिति व्याख्यातञ्च । अत ८ एव य एव पद्धस्तस्यैव साधनसम्पत्ती मुक्तिरिति बन्धमोक्षव्यवस्था च सम्यगुपपद्यते । न च जगत्कर्तृत्वादिविशिष्टतद्रहितवाणोर- प्योपाधिकभेदाङ्गीकारे स्वसिद्धान्तविरोध इति-वाच्यम् । 'यतो वा इमानि भूतानि जायन्ते' 'तसाद्वा एतसादात्मन आकाशः सम्भूतः' 'एतसाज्जायते प्राणो मनः सर्वेन्द्रियाणि च 'स आत्मान स्वयमकुरुत' इत्यादिश्रुतिसिद्धस्य जगत्कर्तृत्वादेनित्य- सिद्धस्य धर्मस्योपाधित्वामाषात् । अतो जगत्कर्तृत्वादिश्रौतधर्मवि- शिष्टं निरुपाधिकमेव, न तु सोपाधिकमिति । न ब्रमणि सोपाधि- कत्वनिरूपाधिकरवकल्पनेत्यन्यत्र विस्तरः। तथा च सिद्ध विषयतावैशिष्टयेन प्रपंचस्य सत्यत्वं मिथ्यालञ्च । एवं समते प्रपंचस्य पारमार्थिकविचारे ब्रह्मात्मकत्वेन सत्यत्वम् । परमते तु व्यवहारे सत्यत्वं पारमार्थिक मृपात्वमिति भेदो ज्ञेयः । ननु 'निरुपाधिके शुक्ताविदं रजत'मिति अमे पूर्वमुत्पन्नसामा- न्यज्ञानानन्तरं बुद्ध्या रजतमुत्पाद्य विषयीक्रियते । तथा दार्श- न्तिके भगवदात्मकमपंचश्चक्षुषा गृह्यते, मायामोहितबुद्धिकल्पितो- ऽन्तरासर्गो विषयीक्रियत' इति यदुक्तं तन्न सम्भवति । रजतसं- स्कारवदान्तरालिकपदार्थसंस्कारोपलव्ध्यभावादिति चेत् । न । पूर्व- कल्पमारभ्याऽऽन्तरालिकपदार्थानुभवसत्त्वेन तत्सस्कारस्म सुचच- खात् । अत. सुखेन रजतवदन्तरालिको बौद्धो घटादिरुत्प- द्यते । किं च दृष्टान्ते यथा रजतश्रमानन्तरं, धर्मविशेषज्ञाने शुक्ति- रूपाधिष्ठाने ज्ञाते रजतं बौद्धं विलयमेति । तथाऽत्र चक्षुःसयुक्त- मपंचविषयके ब्रह्मत्वज्ञाने उत्पन्ने चौद्ध एव-प्रपंचो नश्यति । न तु चक्षुर्ग्रहीतोऽयमित्यर्थः । दशमस्कन्धप्रक्षिप्ताध्यायतृतीयाध्याये 'रज्यामहेभॊगमवाभवौ यथे' त्यस्य सुबोधिन्यां 'भवाभवायुत्प- तिनाशौ । सर्पोऽयं, नायं सर्प इति । स्वबुद्धिकल्पितस्यैव नाशो नान्यस्ये'त्युक्तत्वात् । अत एवाऽयं प्रपंचो न प्राकृतः । नापि परमाणुजन्यः । नापि विवर्तात्मा । किन्तु परमकाष्ठापन्न- वस्तुकतिसाध्यः । तादृशोऽपि भगवद्रूप' इति निबन्धोक्तियु- ज्यते । 'विपयो भगवानि'त्युक्तिश्च । यत्तु 'आधिदैविकः प्रपंचो भिन्नः स भगवद्रूपः । अयं प्रतीयमानस्तु ततो भिन्नो मृपैवे'- त्याहुस्तन्न । आधिदैविकस्यातीन्द्रियत्वेन चक्षुरादिग्राह्यत्वाभावादधि- ष्ठानचाक्षुपसामान्यज्ञानाभावेन चाक्षुषभ्रम एव न स्यात् । चाक्षु- पभ्रमं प्रति चाक्षुपसामान्यज्ञानस्य कारणत्वात् । तस्मादयमेवास- दादीन्द्रियैह्यमाणः प्रपंचो ब्रह्मात्मकः । अस्मिन्नेव प्रपंचे माया- मोहितबुद्ध्या मायिकः प्रपंचः कल्प्यते । तस्यैव मिथ्यात्वम् । स हि आन्तरो न बाह्यः । न त्वस्य । अन्यथा सिद्धान्तमुक्तावल्या. 'अपरं तत्र पूर्वमिन्यादिनो बहुधा जगुरित्युक्त्वा, 'मायिक सगुणं चेत्यादिना परमतान्युपन्यस्य 'तदेवैतत्प्रकारेण भवती'त्य- तोक्तिरपि विरुध्येत । एवं तस्य मिथ्यात्वाऽङ्गीकार आधिदैवि- कस्य चक्षुराद्यविषयीभूतस्य सत्यत्वाऽङ्गीकारेण परमतवमतयोभिन्न- विषयत्वेन निराकरणाऽनर्हत्वात्। न हि परे आधिदैविकं प्रपञ्च मृपा वदन्ति, यदुपरि दूषणानि स्युः । अपि च परिदृश्यमानस्याऽऽविभी. वतिरोभायौ स्वीकृत्य भावविकारप्रतीतेर्मिथ्यात्वमंगीकृत्यैतस्य प्रपं- चस्य ब्रह्माऽभिन्नत्वं भाप्यनिबन्धविद्वन्मण्डनादौ सर्वत्र स्वीकृतं तदपि विरुध्येत । प्रतीयमानप्रपञ्चस्य मृपाल्वाङ्गीकारेण तादृक्प्रपञ्चे १ मिथ्याखमिति शेषः।
१० . जायमानानां नाशोत्पत्त्यादिप्रतीतीनामधान्तत्वेन आन्तत्वकथनस्यैव दूप्यत्वापत्तेः । परिदृश्यमानस्य मिथ्यात्वाऽनीकारे दूप्यग्रन्थस्वग्रन्थ- योरैक्यापत्तेश्च । अन्यच 'मुक्तिः कल्पितवाक्यत' इत्यादि निवन्ध- वाक्यैर्वादीनां कल्पितत्वयाऽऽपयेतेत्यादिदूषणपुलानां परमत आ- पादितानां स्वमत आपत्तिरतोऽस्य परिदृश्यमानजगतो मायिकत्वं नाऽऽदर्तव्यं सुधीभिः । पुराणेपु-कचिदान्तरालिकी-सृष्टि, कचिद्विप- पयतां, कचिदहन्ताममतात्मकं संसारमवलम्व्य मायिकत्वोक्तिः । क्वचिद्वैराग्यार्थश्च । न वस्तुस्वरूपनिरूपणायेति स्थितमाकरे । अतोऽयं प्रपंचो ब्रह्मात्मक इति सिद्धान्तो निर्दुष्ट एव । न च बुद्धिकल्पितमेव रजतं मायादोपादिवशाहहिनिःसृतं चक्षुषा गृह्यते ततश्चक्षुर्माद्यस्यापि रजतस्य मिथ्यात्वं कुतो नेति वाच्यम् । मुजङ्गा- धिष्ठानकरज्जुस्पार्शनप्रमे व्यभिचारात् । तथाहि-तमःसंघाते हस्तेन मुजंगस्पर्शे स्पार्शनसामान्यज्ञानानन्तरं तमोगुणोद्रेकेण माया जीवबुद्धि व्यामोहयति । तदा भुजंग इति बोधो नोत्पद्यते । ततो रज्जुसंस्का- रेण बुद्धी रज्जु निर्माति । तद्वौद्धी रज्जुहिश्चेनिस्सरेचर्हि करेण गृह्येतैय । भुजंगस्य तु हस्तस्पर्शो न स्यात् । रज्ज्वा व्यवधानात् । तथा सति को वा दशेत् । लोके तु तादृशस्थले भुजंगस्पर्शस्त- कृतो दंशश्च श्रूयते । अतो बुद्धिकल्पिताया रज्जोरन्तःस्थिताया बुद्धिविपमत्वमेव । नेन्द्रियविषयत्वम् । इन्द्रियविषयस्त्वधिष्ठानरूपो भुजंग एवेति ज्ञेयम् । अत एव दशमषष्ठाध्याये 'यथोरगं सुप्त मबुद्धिरज्जुधी रित्यस्य व्याख्याने 'रज्जुबुधा गृहीतः सर्पः स्वस्पर्शेऽपि न ज्ञानं जनयती'त्युत्त्याऽधिष्ठानरूपसर्पस्पर्श उक्तः । एवं शुक्तिरजतादिस्सलेऽपि बोध्यम् । एतेनं शुक्त्याद्यधिष्टाने माय- योत्पादितमनिर्वचनीयं रजतादिकं चक्षुरादीन्द्रियप्राथमितिवद- न्तोऽपि प्रत्युक्ताः । भुजंगाधिष्ठानफरजुपार्शनम्रमे घनिर्वचनीयाया रजोस्त्वगिन्द्रियेण ग्रहणादधिष्ठानरूपेण व्यालेन त्वक्सम्बन्धाऽभावा- द्भुजङ्गकृतदंशाभावनियमापत्तेः । त्वगिन्द्रियगोलक्योरेकवस्तुसम्बन्ध- नियमात् । त्वगिन्द्रियगोलकाभ्यां रज्जोः सम्बन्धात्तस्या व्यावहा- रिकसत्तास्वीकारेणाऽर्थक्रियाकारितया तद्रज्जुकृताधिष्ठानव्यवधाना- दिति दिक् । न च सर्पस्पर्श स्पार्शनरज्जुनमे यावद्धममनिर्वचनी- यया रज्वा सह पुरुषहस्तादिसम्बन्धेऽपि भ्रमनिवृत्त्युत्तरं सर्पस्पर्शा- उत्कृतदंशे को दोप इति वाच्यम् । रजुज्ञानोत्पत्त्यव्यवहितसमये भ्रमनिवृत्तेरसम्भवात् । अन्यथा अमनिवृतिरनुभूयेत । न च सूक्ष्म- काले जायमाना भ्रमनिवृत्तिर्नानुभवयोग्या तत्कालस्य शतपत्रवेधय- दुर्लक्ष्यत्वादिति वाच्यम् । अमनिवृत्तेरधिष्ठानज्ञानसाध्यत्वेन वद्विरहे तस्या एवाऽसम्भवात् । न च दंशाऽतिरिक्तकारणेनाधिष्ठाने ज्ञाते भ्रमनिवृत्तौ रज्जो शादधिष्ठानसंयोगे दंशः सुवच इति वाच्यम् । यत्र दंशहेतुफमधिष्ठानज्ञानं तत्र दंशात्पूर्व प्रमनिवृत्तेर्वक्तुमशक्य- त्वेन भ्रमसमय एव दंशस्वीकार्यत्वाइंशस्य त्वधिष्ठानसम्बन्धहेतुक- त्वाद्रमाऽवसर एवेन्द्रियाऽधिष्ठानयोः सम्बन्धप्राप्तेर्भवद्राद्धान्तविरो- धात् । एवं मायामोहितबुद्धिकल्पितो मिथ्याभूतः प्रपंचोऽपि तादृश- बुद्धेरेव विषयो नेन्द्रियविषय इति विद्वद्भिर्विभावनीयम् । एवं साधितेऽपि स्वसिद्धान्त एकादशस्कन्धोदितनवयोगिप्रसं- गीयप्रश्नोत्तरवाक्येषु पदार्थशोधनाभावाश्रमः सम्भवति । तथा सति साधितोऽपि राद्धान्तः शिथिल इव प्रतिभायादतः साधितराद्धान्तदा- .
१२ , याय नवयोगिप्रसङ्गीयप्रश्नोतरवाक्यानां तत्रत्यसुबोधिनीवाक्याना- श्वाऽर्थः पूर्वपक्षोचरपक्षनिरूपणपूर्वकं विमृश्यते । तथा हि-एकादशे निमिनवयोगिप्रसंगे 'परस्य विष्णोरीशस्य मापिनामपि मोहिनीम् । मायां वेदितुमिच्छाम इति निमिना मायाखरूपे पृऐऽन्तरिक्षण 'एमिभूतानि भूतात्मेत्यादिना सृष्टि- निरूपिता । तेन मायायाः खरूपप्रभातदनुरूपमेवोत्तरेण भाव्यम् । इह तु प्रपंचोत्पतिरुत्तरे निरूपिताऽतो ज्ञायते प्रपंचो मायाकार्यः। अन्यथा मायाप्रश्ने कृते प्रपंचमुतरे न वदेत् । तथा च प्रपंचनि- रूपणे माया निरूपिता भवतीति मायायाः कार्यलक्षणं सिध्यति । एवं सति प्रपंचस्स मायिफत्वमायाति, न ब्रह्मतेति, पूर्वपक्षे खसि- द्धान्तं वक्तुं प्रपञ्चस्य भगवदात्मकत्वसाधनाय श्रीमदाचार्यचरणा अ- न्तरिक्षदचोत्तराशयं विशदयितुं मायाशब्दस्य शक्ति निरूपयन्ति- 'मायाशब्दः शास्त्रेष्वि'त्यारभ्य तथा प्रयुक्तः शब्द' इत्यन्तेन । तथा च, भगवतः सर्वभवनसामर्थ्यरूपा माया, व्यामोहिका माया, ऐन्द्रजालिकविद्या, कापल्यादि चेति चत्वारो मायाशदार्थाः । नन्वत्र भगवतः सर्वभवनसामर्थ्यलपा माया, व्यामोहिका माया च पृथग्गणिता । व्यासः समाधौ तु 'अपश्यत्पुरुषम्पूर्ण मायां च तदुपाश्रयाम् । यया सम्मोहितो जीव' इति वाक्यायामोहिकैव मायां दृष्टवान् । समाधेश्च मुख्यं प्रामाण्यम् । तथा च मायाया व्यामोहकत्वमेव । न सर्वभवनसामर्थ्यरूपतेत्याशंक्य समादधते- 'समाधावपी'त्यादिना । सर्वभवनसामर्थ्यरूपाया-मायाया एव-रूपा- न्तरं व्यामोहिका मायाऽतो व्याससमाधावेकस्सा एकोक्तिस्तयैव द्वितीयाऽध्यायातीति न कश्चिदोषः। नन्वत्र तु प्रपंचसृष्टिरुत्तरे निरू- - .
१३ - पिता । न तु पूर्वोक्तेपु चतुर्धन्यतरदित्याशंक्याहुः-'प्रवाह'. स्त्विति । तुगन्दः प्रकारान्तरबोधकः । तथा चात्र मायाशब्देन सर्वभवनसामर्थ्यरूपमायाकरणकः सृष्टिप्रवाह उच्यत इत्यर्थः । अतश्चतुर्दैवान्तर्भाव इति भावः । तस्य प्रवाहस्य स्वरूपमाहुः- 'स च भगवळतो भगवद्रूपवेति । 'आत्मान खयमकुरुते'- त्यादिश्रुतिः । अत एव निवन्ध उक्तं 'प्रपञ्चो भगवत्कार्यस्तद्रूप' इति । नन्वेवं प्रपञ्चस्य भगवद्रूपत्वे तत्र. मायाशब्दप्रयोगो नोचित इत्या क्याहु:-~'विपर्यश्च व्यामुग्धाः सर्वे भवन्तीति । तथा च विपयरूपस्य प्रपंचस्स विचित्रत्वेन व्यामोहकत्वाठापंचे मायाशब्दः प्रयुक्तो न तु मायिकत्वमभिप्रेत्येत्यर्थः । एवं सर्वभवनसामर्थ्य, व्यामोहिका माया, ऐन्द्रजालिकविद्या, कापट्यं, मायाकरणको भग- वदात्मकः-प्रपञ्चश्चेति पञ्चमु पदार्थेषु मायागदं शिष्टाः प्रयुजन्ते । तेप्चत्र कोऽर्थो वाच्यत्वेन युक्त इत्याहुः--'अतोन चेति । सिद्धान्तमाहुः-माया शक्तिर्भगवत इति । 'मम माया दुरत्य- 'यति गीतोपनिषद्भ्यः । अत एवाहुः-'नात्र कार्येति । तर्हि 'विचारस्य कोपयोग इत्याशंक्याहुः-'समाधौ स्वित्यादि । व्यास- कृतसमाधौ तु व्यामोहकत्वेन मायाया दर्शनाचत्र तादृश्यां व्यामो. हिकायां शत्यां मायाशब्दप्रयोग उचितः । अन तु सृष्टिप्रवाहे मायाशब्दप्रयोगः किम्प्रयोजक: फिनिवन्धन इति विमृश्यत इत्यर्थः । 'विचार' इति । विचारे क्रियमाणे 'भगवद्वाक्यं 'ऋतेयं यत्प्र- तीयते'ति वाक्यमित्यर्थः । 'लक्षण'मिति । व्यामोहिकमायाया ज्ञापक्रमित्यर्थः । लक्षणस्य स्वरूपमाहुः-~-'कार्यमोचर मिति । कार्यलक्षणमित्यर्थः । एवं व्यामोहिकामायायाः कार्यलक्षणमुक्तम् ।
नन्वेतस्या व्यामोहिकाया एव कार्य जगदित्येव मन्तव्यम् । बहुमि- राहतत्वात् । ततश्चैतस्स विश्वस्य मिथ्यात्वमेवोररीकार्यमित्याशक्य, नेदं जगध्यामोहिकायाः कार्यमपि तु खसर्वभवनसामर्थ्यरूपमायाय भगवानेव खात्मस्वरूपं जगनिर्मिमीत इत्याहु:-'सुवर्णजलवका- येति । यथा सञ्चायकप्रतिमां मृदा निर्माय तत्र सुवर्णजलं निःक्षि. प्यते ततः सञ्चायकप्रतिमाकारा सुवर्णप्रतिमाऽनायासेन सिध्यति । तथा सर्वप्रकृतिरूपांमायां सञ्चायकस्थानापन्नां कृत्वा खात्मरूपं जग- द्भगवान्विरचयत्यतो न मायिकं किन्तु ब्रह्मात्मकमेवेत्यर्थः । एवं सति वपुराणेऽपि जगतो भगवत्त्वमुक्तं परन्तु प्रकारभेदेनेत्याचा- र्यवर्याणामाशयः । तत्र पुराणे यः प्रकारः सोऽयं सञ्चायकदृष्टान्तेन 'सुवर्णजलवदितिकारिकया स्फुटीकृतः । तथा च मायायाः संचाय- कत्वेन सृष्टौ भगवताऽङ्गीकृतत्वात्सृष्टिप्रवाहे मायाशब्दः प्रयुज्यते । तथा सतीह निमिनवयोगीश्वरप्रसंगे मायाशब्देन सृष्टिप्रवाह उच्यत इति निष्कर्षः। एवं च सुबोधिन्यामतोऽत्र किं युक्त- मिति पूर्वमुक्तया फक्किकया कृतस्य प्रश्नस्य सृष्टिप्रवाहो मायाशब्द- वाच्यत्वेनाऽसिन्प्रसंगे युक्त इत्युचरं सम्पन्नम् । इत्थं मायाशब्दवा- च्यस्य सृष्टिप्रवाहस्य संचायकरीत्या निर्माणाद्भगवत्त्वम् । एतदभि- सन्धायैव पूर्वमुक्तम् । स च भगवत्कृतो भगवद्रूपश्चेत्तीति । बेदे तु मायारूपसाधननैरपेक्ष्येण भगवान्खात्मखरूपं जगत्करोतीति विभेदः । एतदेव प्रथमस्कन्धे 'सदसद्रूपया चासावित्यस्य सुबो- धिन्यां स्फुटमकारि । 'घटितपूरणपात्रभेदचद्वैदिकपौराणिकजग- तोर्मेंद' इत्यनेन । तत्रैव सुबोधिन्यां सर्वप्रतिकृतिरूपत्वं मायाया १पुराणवाक्येऽपीत्यर्थः। - १५ निरूपितम् । तथा च घटितसुवर्णप्रतिमा यथा सुवर्णात्मिका तथा पूरितप्रतिमापि सुवर्णात्मिकैव । संचायकरीत्या जगन्निर्माणप्रयोजन- मनैव सुबोधिन्यामुक्तम् । एवं सति सृष्टिः सुगमा भवतीति । संचायकरीत्या प्रतिमानिर्माणे सौफर्य लोके स्फुटम् । एवं मायासा- धननिरपेक्षतया वेदे निरूपितम् 1 जगन्मायासंचायकत्वेन पुराणे निरूपितम् । जगच भगवदात्मकमेव । एवं श्रुतिपुराणसिद्धोऽस- सिद्धान्त इति मनुलमखिलम् ।। इति श्रीमदोवर्धनधरश्रीवल्लभाचार्यश्रीविट्टलेश्वरचरणाऽनुचर- लालूभट्टोपनामयालकृष्णभट्टविरचिते प्रमेयरनार्णव उत्तरार्धे ख्यातिविवेकः समाप्तः ॥
॥ श्रीः ।। श्रीगोपीजनवल्लभाय नमः। पुष्टिमार्गसिद्धान्तवाद्यालायां गोस्वामिश्रीमत्पुरुषोत्तमविरचितो भेदाभेदुखरूपनिर्णयः। - द्वितीयो मणिः। ब्रह्माभेदोपासनाज्ज्ञानतो या ब्रह्मात्मैश्येऽप्यंशतामत्यजन्तः । यस्वैश्वर्यादासते यनियम्यास्तं श्रीकृष्णं देवदेवं नमामि ॥१॥ ननु ब्रह्मात्मैक्यस्स भेदाऽत्यन्ताऽभावरूपत्वादशवाऽत्यागो मग. वनियम्यत्व च यदुक्तं तत्कथमितिचेत् । उच्यते- ब्रह्मात्मैक्येऽप्यभेदोऽस्य किं भेदसहनक्षमः । किं वा तदक्षमः श्रुत्या सिद्ध्यत्येतद्विचार्यताम् ॥१॥ अनाह-तदक्षम इति । कुतः। अद्वैतश्रुत्या शुद्धस्याऽभेदस्यैव बोधनात् । 'मृत्योः स मृत्युमानोति य इह नानेव पश्यतीति नानात्वदर्शनेऽनिष्टश्रवणाच । सिद्धे ब्रह्मणोऽद्वितीयत्वे भेदस्याऽश- क्यवचनत्वात् । न च नानात्वं न भेदः, किन्तु सस्येति शवयम् । 'बगुस्सा'मितिश्रुत्या तस्या उपादेयतया भगवदिच्छागोचरत्वेन नि- न्दानहत्वात् । 'स्या मिति क्रिययैकत्व विशिष्टस्याऽहं पदयोधितस्य - कर्तृत्वश्रावणेन तस्या एकत्वाऽविरुद्धत्वनिश्चयात् । न चैवमेकत्यबहु- खयोरविरोघे एकत्वेनैव बहुत्वकार्यसंभवातद्वैयर्थ्य मिति शङ्कलम् । अन- यैव श्रुत्यैकत्वेन बहुत्वकार्यासम्भवस्य निश्चयात् । अन्यथा तद्वैय- •पत्तेः । न च भेदं विना नानात्वाऽसम्भवात्तस्यापीच्छागोचरत्व- मिति शक्ष्यम् । 'यदा वैप एतस्मिन्नुदरमन्तरं कुरुते अथ तस्स भयं भवतीतिभुत्येपदपि भेददर्शने निन्दाश्रवणेन तसेच्छावि- रुद्धत्वनिश्चयात् । अन्यथा भेदनिन्दाश्रुतिवैयपित्तेः । तस्माद्भेदस्य सर्वथाऽभेदविरुद्धत्वात्सृष्टिदशायामेवाऽभेदस्य भेदसहिष्णुत्वमिति न मुक्तिदशायां तथात्वमतस्तदानी जीवब्रह्मणोर्मेदाभावरूप एवा. उमेदः । स चोभयोविरुद्धधर्मसद्भावे सर्वथा न सम्भवतीति भाग- त्यागलक्षणया जीवब्रह्मणोर्धर्मान्निरस्य केवलं खरूपेणैव सिद्ध्यती- त्येकः पक्षः। यद्वा 'एकमेवाद्वितीय'मित्यादिश्रुतौ द्वितीयनिपेघेन प्रति- पायमानमेकत्वमभेद एव पर्यवस्यति । स च सृष्टिपूर्वदशायामेव । सृष्टिदवायां तु 'आत्मा वारे श्रोतव्य' इत्यादी जीवब्रह्मणोः श्रवणादिकर्तृकर्मत्वबोधनाद्भेद एव । अत एव 'अधिकं तु मेद. निर्देशा'दित्यत्र व्यासचरणैर्भेदः प्रतिपादितः । एवं जगतोपि भेद एवं । 'बहु स्यामितिश्रुतौ 'इद सर्वमसजते'त्यनेन सृज्यसष्टभा- वश्रवणात् । स च यावत्सृष्टि सत्यः । यत्तावत्तत्वमसि' 'अय- मात्मा ब्रह्मे त्यादौ जगतो ब्रह्मत्वश्रवणं तत्तु 'तद्गुणसारत्वात्तद्य- पदेश' इति सूत्रा'चजलानितिश्रुत्युक्तयुक्तेश्चौपचारिकः । भोगादि- व्यवस्थया कार्याणां परस्परवैलक्षण्यप्रमया च भेदस्यैव निश्चायनात् । अन्यथा 'श्रीवव्य' इत्यादिसाधनयोधकश्रुतिविरोधेन मुस्युच्छेद- २ १८ प्रसन्नात् । एवं जगतोऽपि कार्यत्वबाघप्रसन्नाच । तस्मात्सृष्टिदशाया- मभेद औपचारिक एव । एव 'मनुच्छित्तिधर्मा' इत्यनेन श्रावितं धर्माणां नित्यत्वमपि देवाऽमरन्यायेन यावत्सृष्टि । खरतीच्छायां प्रलये जीवाना सर्वेषां लीनत्वेन श्रोतॄणामभावे श्रोतव्यत्वस्य जगल्लये जगत्कर्तृत्वस्यापि तिरोधानात् । एवमन्येपामपि बोध्यम् । एवं रमणादिलीलानामपि तथात्वम् । 'स चै नैव रेम' इति श्रुत्या सृष्यारम्भकाले रमणा- भावनवणात् । एवमनित्यत्वे - सर्वेषां सिद्धे प्रलयदशायां केवलं ब्रह्मैवाऽद्वितीयमिति सिध्यति । तथा जीवस्य मुक्तिदशायां ब्रह्मभावा- सव केवलं सिध्यति । तथा चाऽभेदप्रतियोगिना जीवानां जगतश्च लयाालयदशाया मुक्तिदशायां च निवृत्ते भेदे केवल एवाऽभेदः पर्यवस्पतीतिमाप्ते- उच्यते । मेदसहनक्षम इति । कुतः । सत्कार्यवादस्यैव श्रौत. त्वेन सृष्टिपूर्वदशायामपि सर्वसत्त्वात् । तथाहि-'सदेव सौम्येद- मग्र आसी'दिति श्रुताविदमा पुरोवर्तिनं प्रपञ्चं निर्दिश्य, पूर्वकाले तस्य सद्पतामुक्त्वा, सतो ब्रह्मरूपत्वं जगत्कारणत्वं च बोधयित्वा, तस्याऽद्वितीयत्वं वक्ति । ततस्तद्वैक आई रित्यादिनाऽसत्कार्यया- दमाशय, 'कुतस्तु खलु सौम्यैवं स्था'दित्यादिना तन्निषेधति । एवं सत्याकारकार्यत्वप्रभृतयो धर्मा यदि ब्रह्मणि पूर्व न स्युस्त- दाऽसत्कार्यनिरासिका सत्कार्यबोधिका च श्रुतिः पीध्येत । यदि कार्याणां भिन्नतया स्थितिः स्यात्तदाऽद्वैतश्रुतिः पीच्येत । अतो युभयसामञ्जस्याथै तत्तद्धर्मादिविशिष्टमेकमेव ब्रह्म कारणमिति मन्त- व्यम् । तथासति यथेदानी कार्याणा तत्तद्धर्माणां तदाकाराणांच 4 १९ परस्परं भेदः, कारणेन सह चाऽभेदः, कार्यत्वादिरूपेण सदश्च, लोके करककुण्डलसुवर्णप्रभृतीनां दृश्यते तथा ब्रह्मजगतोरपि मन्तव्यः । एवमंशांशिनोर्जीवब्रह्मणोरपि सुवर्णशकलसुवर्णयोरिव सृष्टिपाकाले मन्तव्यः । न चैवं सति सर्वस्य सत्त्वाचबहुभवनव्युच्चरणश्रुत्योर्विरोधः शक्ष्यः । प्राकट्यरहिर्भावाभ्यामेव तदुपपत्तेः । अन्यथाऽव्याकृतिश्रुति- विरोधापत्तेः । पुरुषविधब्राह्मणे हि सृष्टिमुक्त्वाऽने 'तद्धेदं तीच्या- कृतमासीत्तनामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिद रूप इति' 'तदिदमप्येवहि नामरूपाभ्यामेव व्याक्रियत असौ ना- माध्यमिद रूप इति । अत्र हि नामरूपव्याकरणे लौकिकमेवो- दाहरणं तत्साधनायाह । लोके हि सिद्धमेव वस्तु. नामरूपाभ्यां व्याक्रियत इति सृष्टिपूर्वदशायामपि तस्य सिद्धत्यमेव व्यक्तीभवतीति नासत्कार्यवादः प्रामाणिकः । तृतीयस्कन्धे च 'विश्वं चै ब्रह्म तन्मा. त्रं संस्थित विष्णुमायया । यथेदानी तथा चाग्रे पश्चादप्येवदी: दृश मिति कालत्रय एकरूपामेव सर्वस्य स्थितिमाह । इदमेवाऽविरो- धाऽध्यायेऽसद्यपदेशाधिकरणे व्यासपादैरपि व्युत्पादितम् । 'असद्वा इदमग्र आसी'दिति श्रुतौ सृष्टिपूर्वदशायां यो जगतोऽसत्त्वेन व्यप- देश: सोऽव्याकृतत्वेन धर्मान्तरेण विद्यमानत्वेऽपि व्याहत्तत्वेनाऽवि- द्यमानत्वात् । 'तदात्मानं स्वयमकुरुते तिवाक्यशेपेण तथाऽवगमात् । इदमिति पदप्रयोगादासीदिति प्रयोगाच्च । अन्यथा तद्विरोधापत्तेः। नित्यस्य समवायसम्बन्धस द्विनिहत्वेन, कार्याऽभावे तदमावाऽऽप- तेस्तन्नित्यताहानेश्च । असम्बद्धोत्पत्तौ -जगदृष्टान्तेन घटादीनामपि कार्याणा नियताऽवधिकत्वहानेश्च । न च 'यत्र यत्मागभावस्तदेव कार्य ततः कारणादुत्पद्यत इति नियमान नियताऽवधिकत्वमङ्ग इति वाच्यम् । कारणावस्यातिरिक्तस्य प्रागभावस्यैव वक्तुमशक्य- स्वात् । कपालावस्था पश्यत एव 'इह कपाले घटो भविष्यतीति प्रत्ययेन तथानिश्चयात् । तदवसाव्यावस्य तदतिरिक्तस्य भागमा- यस्याऽनीकारे-गौरवाच । न चोत्पतेः पूर्व कार्यस्य सत्त्वे कर्तृव्यापार- बाघप्रसक्तिरिति शट्यम् । कार्याभिव्यञ्जनार्थतया सार्थक्यात् । सवे. टितपटमसारणादौ तथानिश्चयात् । न चैवमनुद्भूतसत्ताङ्गीकारेऽदृश्य- प्रेतादिजनितदुःखवत्ततः क्वचिदर्थक्रियापचिरिति शक्यम् । अनुभूतग- न्यरूपादौ व्यभिचारात् । योगेन प्राणादिनियमने जीवनमात्रस्य, नियमनत्याग आकुञ्चनादिरूपकार्यस्य च दर्शनेनाऽनुद्भूतदशाया. मर्थक्रियाकारित्वाऽभावस्योद्भतदशाया चाऽर्थक्रियाकारित्वस्म दर्शनेन तथानिश्चयादिति । एवं स्थिते सत्कार्यवादे सृष्टिदशायामपि जगजीवयोः सत्त्वा देकमेवाद्वितीयं ब्रह्मेत्याधुक्तोऽभेदस्तद्भिन्नतया जगज्जीवप्रतीत्वभावे पर्यवस्यन् भेदसहनक्षममेवाऽभेद साधयतीति सृष्टिदशाया जगहमणोः कार्यकारणभावाजगजीवयोरंशाशिमा- वाचौपचारिको भवन्नपि न वास्तवाऽभेदं निहन्ति । तेनेदानीमपि भेदसहिष्णुरेवाऽभेदः । एवं सति नानात्वभेददर्शनयोर्भेदनिन्दाश्रवणमप्यभेदविरुद्धभेदद. र्शन एव पर्यवस्यतीति बोध्यम् । 'य एष एतसिनुदरमन्तरं कुरुत' इतिश्रुतौ 'कुरुतः इतिपदेन क्रियारब्धस्यैव निन्दनात् । आरम्भस्य चासतः सत्तायामेव पर्यवसानात् । अभेदविरुद्ध एवं क्रियमाणे भेद एवं पर्यवस्थतीत्यभेदाऽविरुद्धभेददर्शने तु न निन्दा- त्वलेशोऽपीति बोध्यम् । एवं च परममुक्तिदशायामपि 'यथोदकं शुद्धं शुद्धे निषिक्तं ताडगेव भवति एवं मुनेर्विजानत आत्मा T". . .
२१ भवति गौतमति काठकश्रुत्याऽऽत्मनो ब्रह्मसाम्यश्रयणादिनमतीत्य- भावरूप एवाऽभेदो न तु भेदाभावरूप इति सिद्ध्यति । अत एव मैत्रेयीबाह्मणे 'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन के पश्ये दित्या- दिना यदितराऽज्ञानधावणं तदपि द्वैतदृष्टिनिवृचावेव पर्यवस्पति । न तु द्वैतामावे । एतदने 'यद्वैतन्न पश्यति पश्यन् वै तद्रष्टव्यं न पश्यति । न हि द्रष्टुईटेविपरिलोपो विद्यतेविनाशित्वान्न तु तद्वितीयमस्ति ततोन्यद्विभक्तं यत्पश्येदि त्यादिभिरन्याऽदर्शने पश्यत एवाऽदर्शनस्य द्वितीयत्वाऽभावस्य विभागाऽभावस्सान्यत्वाऽमा- वस्यैव हेतुतया श्रावणेन तथानिश्चयात् । अग्रे च 'यत्रैवाऽन्यदिव स्था'दित्यादिना वैलक्षण्यहेतुकमन्यदर्शनमनूद्य 'यत्र त्वस्य सर्व- मात्मैवाभूदित्यादिना खस्स द्रष्टविभागेन विज्ञातारं तं विज्ञानेन केन विजानीयादित्यनेन ज्ञानकरणाभावं हेतुत्वेन वक्ती यतोपि तथानिश्चयात् । अन्यथा पूर्वब्राह्मण एव मैत्रेयीमोहनिवृत्त्या पुनर्द्वि- तीयब्राह्मणं न वदेदतस्तत्र यः सदिग्धोऽर्थस्तन्निश्चायनार्थमेव द्विती. यतामणमितिमेददर्शनाऽमावरूप एवाभेदो न तु भेदाऽभावरूप इति- भेदसहिष्णुरेवाऽभेदः । यत्तु 'बहुस्सा मिति श्रुतौ सध्यारम्भे एकस्स बहुत्वथायणापूर्व जगदाधभाव एव श्रुत्यभिमतो, न तु कार्यस्यापि सत्त्वम् । तथासती'द सर्वमसूजते'तिश्रुतिविरोधापत्तेः । अतः सृष्टेः पूर्व- मसत्त्वादभेदविरोध्येव स इत्यर्धवैनाशिकमतमेव साघीयः । तन्मन्दम् । 'तद्धैक आहुरसदेवेदमन आसी'दित्यादिनाऽनूध 'कुतः खल, सौम्यैवं सादितिश्रुत्यैव तनिषेधात् । न-च तत्र कारणसत्ताया एव निषेयो न तु-कार्यसत्तायाः 'कथमसतः सजा- ima... F...'
२२ येते'तिशुत्या तथानिश्चयादितिवाच्यम् । पूर्व कार्यस्याऽसत्त्वे तदं तहन्याकृतमासी'दिति विरोधापचेः । अत्र 'तही'त्यनेन -सृष्टिपूर्व- फालं लक्षीकृत्येदमा निर्दिष्टस्य जगतस्तदानीमव्याकृतत्वं वदति । यद्यसत्त्वमभिप्रेयादिदमा न निर्दिशेत् । अव्याहतत्वमपि न वदेत् । खरूपस्यैवाऽभावात् । अतो 'बहुस्सा'मित्यनेन व्याकृतत्वमेवोच्यते । न त्यसतः सत्ता । सृजनमपि नामरूपव्याकरणमेव । अन्यथा प्रागिव सृष्टिदशायामपि व्यवहाराऽभावप्रसङ्गात् । एवं सिद्धे सर्वदा सत्त्वे द्वैतश्रुत्यविरोधाय तदानीमपि परापरभावघटित एव ब्रह्मत्वेन रूपेणे- वाऽविरोध इदानीमिवेति मन्तव्यः । एतावान् परं विशेषः । यदिदानीमविद्याऽवलिप्साऽल्पबुद्धित्वान्न प्रतीयेत । तदानीं तु करणग्रामलयादिति । एवं परममुक्तावपि परा:- परभावघटितो भेदसहनक्षम एवाऽभेदः । ब्रह्मवरूपस्यैव तथात्वात् । अतएव दशमस्कन्धे यत्र भगवता श्रीवसुदेवं प्रत्यखण्डब्रह्मज्ञानो- पदेशः कृतस्तत्र वसुदेवोक्तमङ्गीकृस्ये 'अहं यूयमसावर्या' इत्यनेन सर्वेषां तथात्वमुक्त्वा ब्रह्माण्डाऽऽनन्त्यमारोपितज्ञानदृष्टिं च निवार- यितु'मात्मा का स्वयंज्योति रित्यनेन सर्वत्राऽऽत्मैक्यं, नाना- स्वदृष्टेश्योपाधिकत्वेन आन्तत्वं, निरूप्य 'खं वायुयोतिरापो भूरि- ति द्वितीये खादिपञ्चमूतदृष्टान्तेन नानात्वस्य वास्तवत्वमुपाधिय- भयत्वं च गदति । अन्यथा पूर्वश्लोक एव नानात्वदृष्टेर्गुणोपाधिक- स्वेन भ्रान्तत्वे वाघिते तत एव • नानात्वस्य निवृत्तत्वात्खादिपञ्चम- हाभूतदृष्टान्तेन पुनर्नानात्वप्राप्ति न स्थापयेदतोऽखण्डब्रह्मवादेऽप्यंशा- दिनानात्वस्य विधमानत्वात्परापरभावादिभेदसहिष्णुरेवामेदो भगर- दभिमत इति बोध्यम् । किञ्च 'इदं सर्वं यदयमात्मे'त्यन्तेन सर्वस्य २३ ब्रह्मत्वे बोषिते कयं सर्वस्य ब्रह्मत्वमित्याकालायां दुन्दुभ्यादिदृष्टान्त- रवान्तरशदाऽग्रहणं दुन्दुभ्यादिशब्दग्रहणेनैवाऽवान्तरसर्वशब्दमहण- वदात्मग्रहणेनैव तदभिन्नावान्तरसर्वग्रहणममिधूमदृष्टान्तेन ब्रह्मणः सकाशाद्वेदादिसर्वोत्पत्ति चोक्त्वा, स यथा सर्वासामपां समुद्र एकायन' मित्यादिभिर्बहुभिदृष्टान्तैः सर्वाऽऽधारत्वं निरूपयति । यदि सृथ्वभावदशायां सर्वस्यैकरूपत्वमेव स्याचदा दुंदुभिदृष्टान्तादी- न्समुद्रादीनानादृष्टान्तान्न वदेदेकेनैव-दुंदुमिशब्ददृष्टान्तेन सर्वस्य ब्रह्मरूपताया, एकेनैव समुद्रदृष्टान्तेन ब्रह्मणः सर्वाधारतायाश्च सिद्धेः । अतः सृश्यमावदशायामपि नानात्वाऽविरुद्धमेव स्वरूपैक्यं बोधयति । पुनःसैन्धवघनदृष्टान्तेन सृष्टिदशायामपि नानात्वाऽविरुद्ध- मेव स्वरूपैक्यम् । 'एवं वा अरे इदं महद्भूत'मित्यादिना प्रेत्य- संज्ञामावकथनेन पूर्वसंज्ञानस्यैव बोधनात् । तच्च ज्ञानं भेदाऽवि- रुद्धसपदात्मकमभेदमेव बोधयतीति प्रागुपपादितमतो न कोपि संशयः । एवंसति तद्गुणसारत्वादिति ब्रह्मांशे जीवे ब्रह्मत्वव्यपदेश औपचारिकः । स च मुक्तायपि तुल्यः । पूर्वोक्तसत्कारणतावादसिद्धस्य भेदस्याऽनपायादिति । एवं प्रलयदशायां जडस्यापि बोध्यम् । एवं ब्रह्मणो निरंशत्येपि साशत्वं विरुद्धधर्माश्रयत्वादुपपन्नम् । एवं जगतो ब्रह्मत्वेपि कार्यत्वमपीति सबै सुस्थम् । इति श्रीमहलमनन्दनचरणदासदासेन पीताम्बरतनुजपुरुषोत्तमैन श्तोऽचतारवादावल्यां भेदाभेदस्वरूपनिर्णयो नाम पष्ठो वादः संपूर्णतामगात् । 7 ॥ श्रीः॥ श्रीहरिः। पुष्टिमार्गसिद्धान्तबामालायां गोस्वामिधीमद्वल्लभविरचितः । प्रपञ्चसंसारभेदः । - तृतीयो मणिः। ननु प्रपञ्चसंसारयोः सत्यत्वाऽसत्यत्वाभ्यां भेदो नाङ्गीकर्तव्यः । मानाऽभावात् । नाशोत्पत्तियुक्तप्रपञ्चवदाविर्भावतिरोभावावेव । तथाच श्रुतिः 'सत्यं चानृतं च सत्यमभव'दिति । एतदर्थस्तु सत्यं घटपटादिरूपं जगदनृतं ससाररूपं, सत्यं ब्रह्मैवाऽभवदित्येवं प्राते- उच्यते । संसारस्य सत्यत्वाऽभाव एव । भगवत्कार्यत्वाऽभावात् । 'प्रपश्चो भगवत्कार्यस्तद्रूपो माययाऽभवत् । तच्छक्याऽविद्यया स्वस्य जीवसंसार उच्यते' इतिनिबंध उक्तम् । 'वन्धोस्यावि- धयानादि रितिवचनाच ! मायाशत्यविद्याकार्यत्वमेव तस्य । तत्रा- प्युच्यते न तु जन्यते । कथनमात्रेणैव सत्त्वम् । न वस्तुतः । जीवा- भिमानात्मकत्वात्। 'अहङ्कारविमूढात्मा काऽहमिति मन्यत्र' इति- श्रीगीतावाश्यात् । एवं सत्याविर्भावतिरोभावावप्यसङ्गतौ । सत्यत्व एव तयोरङ्गीकारात् । न खलीकरवे तौ सम्भवतः । किश्चाऽहंममाभिमानस्य जीव एव ससारपदवाच्यत्वम् । अविद्याकार्यत्वात् । नहि देहो जीवः । 'वासांसि जीर्णानि यथेति 'देही नित्यमवध्योय 'न २५ आयते या कदाचिदितिवाक्यैर्मेदनिरूपणात् । तत्र चेदहम्बुद्धिः साऽलीकैव । पदार्थेप्वपि-ममताबुद्धिः । सापि तथैव । नहि सर्वे पदार्था एतदीयाः । भगवत्क्रीडार्थकत्वात् । 'क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते खाम्यं तु तत्र कुधियो पर ईश कुर्यु:' 'क्रीडाभाण्डं विश्वमिदं यस्य भूम' इतिश्रीभागवतोतः । परवस्तुनि साम्यमलीकमेव । संसरति ज्ञाने सति गच्छतीति संसारः। स जीवाधिकरणक एवं अन्यथा 'अहं सर्वस प्रभवः' 'अहमात्मा गु- डाकेश' 'अहं भक्तपराधीन!' 'न मे भक्तः प्रणश्यति' 'मम योनिर्महद्ब्रह्म' 'ममैवांशो जीवलोक' इत्यादिवाक्यैरहंताममतयोः श्रवणाद्भगवत्यविद्यासम्बन्धः स्यात् । न त्वेवम् । स आत्मानमेवा- वेदहं ब्रह्मासी'त्यहन्ताशब्दो भगवद्धर्मज्ञानरूप एव । सबै भगवत एवेति ममता तथैव । न तत्र संसारप्रयोगः । वास्तवत्वात् । जीव- स्यापि 'भगवान् मम प्रभुरहं दास' इति ममताहन्ता शुद्धज्ञानरूपैव । भगवत्सम्बन्धित्वात् । तथा च 'सत्सं चानृतं चेति'श्रुत्यर्थस्तु-सत्यं घटपटादिरूपं, अनृतं तस्मिन्नेव विषयताग्राह्यनाशोत्पतिप्रतीतिवि- पयो मायिक जगदनृतशब्देनोच्यते । नटवदन्यथारूपप्रदर्शनादि- त्यर्थः। खस्मिन्मायया अन्यथाभावं दर्शितवान् । अत एवोक्तं निबन्ध 'तद्रूयो माययाऽभव दिति। तथा च श्रुतिः 'सर्वस्य वशी सर्वस्ये- शान' इति । 'जीवा ब्रह्मदासा ब्रह्मकितवा' इति । 'अंशो नानान्य- पदेशादन्यथा चापि दाशक्तिवादित्वमधीयत एके' इति व्यास- सूत्रम् ।'धर्मः प्रोज्झितकैतयोऽत्र परम' इति भागवतं च। तेन भग- वजनमेव मुख्यो धर्मो नेतरः। देहान्तरे धर्मे वा तत्त्यागात् । नहि नित्यः कदापि त्यागमर्हति । देवो सुरोऽमनुप्यो वेति वाक्यात् । .
२६ ननु पधादिदेहे कथं भजनमितिचेचत्राह-'धन्यास्त्वित्यत्र 'पूजा दधुर्विरचितां प्रणयावलोकै' रिति । 'गावस्तु कृष्णमुसनिर्गत:- मित्यत्र 'गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्य' इति । 'प्रायो बताङ्ग विहगा' इति । 'तत्र भृण्वन्त्यमीलितहशो विगतान्य- पाच' इति । 'प्रणतभारविटपा मधुधाराः प्रेमदृष्टतनवः समजुः सेत्याधनेकप्रमाणैर्भगवद्गजनमेव नित्यो धर्मः सर्वयोनिपु । तस्मा- अपञ्चसंसारयोर्भेद एव ब्रह्मवादाभिमत इति सिद्धम् ॥ इति श्रीविठ्ठलरायात्मजश्रीवल्लभतोयं लेखः सम्पूर्णः ॥
।। श्रीः ।।
श्रीकृष्णाय नमः।
4
पुष्टिमार्गसिद्धान्तवानालायां
गोस्वामिश्रीमद्गोपेश्वरकता
वादकथा।
चतुर्थो मणिः।
विशेपैः प्राकृतैः शून्यमप्राकृतविशेषवत् ।
अशेपोपनिपद्वेधं परं ब्रह्म वयं स्तुमः ।। १ ।।
निरस मतमासुरं श्रुतिशतैः सुतकरपि
खकीयहरिवर्मना निजजनोवृतान्मनाः।
कृपाजलधिराज्ञया ब्रजपतेरिहाध्यातर-
त्स कोऽपि हरिवाक्पतिः स्फुरतु मे सदा सिद्धये ॥२॥
इह खलु निखिलनिगमस्मृतिपुराणादिप्रमाणगणप्रतिपादितपरम-
पुरुषार्थत्वपुरुषोत्तममक्तितत्त्वप्रत्यनीकसर्वाऽलीकवादिप्रणीतमायावाद-
महातमिस्रविसंसनसहस्रकिरणायितकरुणायितशालि श्रीवल्लभाचार्या-
विर्भावितरादातरहस्यरूपब्रह्मरूपनिरूपकपतिमटविघटनपटुतरथीम-
दसत्यभुचरणरचितानवद्यपद्यमालम्ब्य विरुद्धवादिव्युदस्तये पाद-
कथा प्रस्तूयते ।
प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति ।
निगमप्रतिपाद्यं यत्तच्छुद्धं साकृति तौमि ॥१॥
२८ . तब्रह्म स्तौमि । स्तुतिगोचरं करोमीत्यन्वयः। किंमूतं तत् ! । प्राकृतधर्माणामविद्याकल्पितानामनाथयमूतम् । अमाकृते ब्रह्माणि प्राकृतधर्माणामभावात् । भावे दोपः क इतिचेत् । न । जीवतुल्यत्व- स्यैव तत्त्वात् । 'न तत्समचाभ्यधिकच दृश्यत' इत्यादिश्रुतिभि- स्तनिषेधश्रवणात् । किञ्च ते घविद्याकल्पिता याच्याः । एवं च सत्यविद्या, जीवाश्रिता तत्कल्पिका : ब्रह्माश्रिता वा । नायः । असमानाश्रयधर्मकल्पने तस्याः शच्यभावात् । शक्तावतिप्रसङ्गाच । न द्वितीयः। परब्रह्मणि तदभावात् । 'एफस्सैव ममांशस्य जीवस्यैव महामते । बन्धोस्साऽविद्ययाऽनादिर्विद्यया च तथेतर' इतिवा- क्याच्च । किञ्च, तस्याः सत्वमुताऽसत्त्वं सदसत्वं वान प्रथमः। विकल्पासहत्वात् । तथाहि-सा किं नित्या, न वा । नेतरः। अप- 'सिद्धान्ताऽऽपातात् । न प्रथमः । तथात्वे ब्रह्मणः सकाशाद्देदे 'एक- मेवे त्यादिश्रुतिविरोधावतारात् । ततोऽभेदे, तस्य भेदपूर्वकत्वनिय- मेन तदभ्युपगमापतेः । अभावस्य प्रतियोगिप्रतिपत्त्यायत्तप्रतिपचिक- वात् । नन्वप्रामाणिको भेदोऽभ्युपगतो बाध्यतया न दोषमावहतीति चेत् । न । तस्याऽप्यप्रामाणिकत्वेन वैपरीत्यमेव किं न स्यात् ।। श्रुतिरेव तयोरभेदे मानमितिचेत् । न । तथाभूतश्रुतेरनुपलम्भात् । अ. भेदोऽपि किमेकत्वमेत भेदाभावः। प्रथमेऽपि सङ्ख्या वा, धर्मान्तरो वा। नोभौ । तत्रापि भेदाभेदविकल्पेनात्माश्रयाऽनवस्थाद्यापातात् । अत एव नेतरोपि । न द्वितीयः । असतः कारणत्वनिराकरणेन ततो ब्रह्मधर्मानुत्पत्तिप्रसङ्गात् । नन्वस्तु तर्हि सदसद्विलक्षणत्वपक्षस्तृतीयः । पूर्वयोर्दोपादिति चेत् ? । न । तस्यास्वथामावे मानाभावात् । सत्त्वाऽस- त्त्वव्यतिरिक्तस्याऽस व्याहतेश्च । परस्परविरोधे हि न प्रकारा न्तरस्थिति'रितिन्यायात् । अपि च साऽनादिरुत सादिरभिधीयते ।। नाधः । अनादित्वकल्पने मानाऽभावात् । नापरः । सादित्वस्य वन्म. तेऽनङ्गीकारात् । नन्वेवं प्रपञ्चानुदयप्रसङ्गोऽविद्याकारणाभावादिति चेत् । न । ब्रह्मण एव तदुत्पत्तेरुपपत्तेरिति चेत् । न । कार्यकारणयो- रैकजात्यमङ्गप्रसङ्गात् । प्रपञ्चरूपकार्यस्य तुच्छत्वेन तथाविधकार- णाऽवश्यम्भावात् । तथा च सिद्धान्तः, कारणतयाऽविद्येति चेत् । नैवम् । जगतो भगवत्कार्यत्वाभ्युपगमात् । न च कार्यकारणयोरैकजा- त्याभावः । कार्यस्याऽक्षरात्मकत्वेनैकजातीयत्वाऽविरोधात् । कार्यका- रणात्मता च 'सर्व सल्विदं ब्रह्म' 'स हैतावानास' 'ऐतदात्म्य- मिदं सर्वे' 'तत्सत्यं' 'पुरुष एवेदं सर्व यद्भूतं यच्च भव्यं' 'यदिदं किंच तत्सत्यमित्याचक्षते' 'स आत्मानं स्वयमकुरुत' 'स वै सर्वमिदं जगदित्यादिश्रुतिसहस्रसिद्धत्यन्यत्र विस्तरः । वर्णितं चैतच्ट्रीमदाचार्यचरणैः 'तदेवैतत्प्रकारेण भवतीतिनुतेर्मत'- मिति । किञ्च, प्रपञ्चब्रह्मणोरभेदं मनसि कृत्वैव तदनन्यत्वमारम्भ- णशब्दादिभ्य इतिव्यासचरणाः सूत्रयाञ्चक्रुः । अत एव 'स राष्ट्र- ममवदित्यादिवैदिकप्रयोगाः सन्दृश्यन्ते । एतेन श्रुतितत्त्वसूत्रादिप्र- माणसहस्रमथनाकलयमाना(८) जगदन्तर्गतभगवन्मूर्तिभजनाचसहमाना जगदसत्यमिति कथयमानाः प्रच्छन्ननास्तिका निरस्ता वेदितव्याः। नन्वेवं सत्यविधैव किं नाङ्गीक्रियते । न । अनाधनिर्वचनीय- तदनङ्गीकरणेऽपि भगवच्छत्त्यात्ममतदुररीकरणात् । न च तस्यास्त- यात्वे मानाऽभावः । 'श्रिया पुष्टये तिवाक्यस्यैव प्रमाणत्वात् । पूर्वपक्षिण शलैयम् ।
न च भेदाऽमेदसत्वाऽसत्वादिविकल्पावतारः । शक्तिशक्तिमदभिन्न- मिन्नत्वयोः प्रमाणसिद्धत्वात् । अतः सिद्धं प्राकृतधर्मानाश्रयत्वं ब्रह्मणः । तथाचोक्तम् । 'अज्ञत्वं पारवश्यं च विधिमेदादिकं तथा । तथा प्राकृतदेहत्वं देहत्यागादिकं तथा । असुराणां विमोहाय दोपा विष्णोर्न हि कचिद् इति । नन्वेवं प्राकृतामाकृतधर्माऽभावेन निर्धर्मके भजनाभाव इत्ये- वमाशय समाधानमाहुः । अप्राकृताः । प्रकृतिसम्बन्धशून्या आनन्दरूपाः धर्माः करचरणादयो रूपभूता यस्येति । ननु धर्माणां खरूपात्मकत्वमसम्भवि । विकल्पासहत्वात् । तथाहि । ब्रह्मधर्मस्ततो भिन्ना न वा: । नायः । नित्यत्वेनाऽद्वैतश्नुति- व्याकोपात् । किञ्च ब्रह्मणा समं धर्माणां यो भेदः स किं तत्स्वरूपं आहोखिदन्योन्याभाव उत वैध→मितरद्वा । आयेऽपि किं प्रत्यक्षगम्यः प्रमाणान्तरगम्यो वा ! । नाद्यः । प्रत्यक्षेण धर्मभेदप्रहे धर्मिणः प्रतियोगित्वेन धर्मान्तनिवेशनेऽभेदावगाह- नेन वैपरीत्यापतेः । अनुयोगिनि प्रतियोग्यनिवेशने च स्वरू- पभेदत्वस्य परिभापितत्वप्रसक्तेः । नित्यं प्रतियोग्युपश्लिष्टस्यैव तस्य प्रमाणसिद्धत्वेन निष्प्रतियोगिक प्रमाणानाविर्भावात् । अथ प्रतियो- गिभूतं ब्रह्म निरूपणीयं धर्माणां सरूपं भेद इत्युक्तौ नोक्तदोष इति चेत् । न । विकल्पासहत्वात् । तथाहि-धर्मान्प्रति प्रतियोगित्वं ब्रह्मणः कश्चिद्धर्मों वा स्वरूपं वा । नान्त्यः । तावतोऽर्थस्य ब्रह्मवरूपतया धर्माणां ब्रह्मणश्चाऽभेदपर्यवसानप्रसङ्गात् । नापि प्रथमः । धर्मान्प्रति प्रतियोगित्वं यत्तस्य ब्रह्मधर्मत्वेन तसिन् .
तरवेशांदेक्यापचेः । किञ्च, धर्मस पर्मिसम्बन्धाऽऽवश्यकत्वेन परम्परायामनवस्वितेस्तदसत्त्वेऽत्यापचेरप्यन्ततः स्वभावसम्बन्धखी- कार्यतया धर्मपर्मिणोः परस्परसभावमवेशेनाभेदस्याऽनिरस्यत्वात् । न द्वितीयः । अन्योन्याभावो यतोभिधेयस्तस्योक्तरीत्या तत्स्वरू- पान्तःपातात् । किञ्च, ब्रह्मधर्माऽन्योन्यामावस्य तचादात्म्यप्रति- योगिकत्वेन तासिद्धाश्त्यन्ताऽसत्प्रतियोगित्वदोपात् । तसिद्धी च भेदाशक्यत्वप्रसङ्गात् । न चात्यन्ताऽसप्रतियोगिता न दोप इति वाच्यम् । शशविषाणाधभावस्याऽपि सुग्रहत्यापतेः । नापि तृतीयः । वैधर्म्यपक्षे कचित्तच्छृहलाऽऽविश्रान्त्यनवस्थित्यननुभूत्यादी- नामनुवरणीयत्वात् । तसिंतदनगीकारे भेदस्याऽऽत्माश्रयत्वापतेश्च । नापि चतुर्थः । तस्यादर्शनात् । न द्वितीयः। धर्मत्वव्याघातात् । अभेदः किं भेदाभाव उतैकत्वमित्याद्युक्तविकल्पदोपव्याकुलत्वाच । अभेद आधाराऽऽधेयभावानुपपचिरिति तु चिन्त्यम् । घटाभावे घटा- भाव इत्यत्रेय तदुपपत्तेः । एवं च सति धर्माणामेकविज्ञानेन सर्व- विज्ञानोपपत्तये प्रपञ्चतुल्ययोगक्षेमतया निर्धर्मकमेव ब्रह्म प्रतिपत्तव्य- मिति चेत्- उच्यते । सवित्रालोकस्य तदाश्रयधर्मत्वेपि तद्रूपत्ववद्धर्माणां तदाश्रयत्वेऽपि तदात्मकत्वोपपतेः । न च भेदपक्षीयाऽऽशकाव- तारः । अद्वैतागमैरेव भेदस्य क्षारीकृतत्वात् । न चाऽभेदकल्पोक्त. विकल्पादिदोषः । तादात्म्यस्य प्रमाणसिद्धत्वात् । ननु तस्यापि ध- माऽन्तराकाहायामनवस्था गौरवं च स्यादिति चेत् । न । धर्मान्तरस्य प्रमाणेन सिद्धाचनपस्थितेरदूषणत्वात् । असिद्धावाश्रयासिद्धेरापाद- नाऽसम्मवात् । गौरवाभावाच । नन्वेयमाश्रयायिभावानुपपचिरिति ३२ चेत् । न । दनोत्तरत्वात् । न च सूर्यजन्यमालोकान्तरमेव तन्न तद्रूप-. मिति वाच्यम् ।। भेदकल्पने मानाऽभावागौरवाच्च । तरणितेजसो भागवतत्वेन नित्यत्वाच्च । 'यदादित्यगतं तेज'इतिवाक्यात् । अत एवैतदन्तर्निधाय 'प्रकाशाश्रयवद्वा तेजस्त्वादितिसूत्रितं सूत्रकारैः। तस्माद्ब्रह्मधर्मास्तद्भिन्ना अभिन्नाश्चाभ्युपेयाः । 'परास्य शक्तिरित्या- दिभेदश्नुते रकमेवे'त्याधभेदश्रुतेश्च । तथा चोभयविधश्रुतिबलेन वादृशमेव तद्वस्तूत्पचिसिद्धमुररीकरणीयमिति न पूर्वोक्तदूपणगणा- वकाशः । अत एव श्रीवल्लभाचार्यचरणैर्य आत्मनो दृश्यगुणेषु सन्निति व्यवस्थते खव्यतिरेकतोऽयुधः। विनानुवाद न च तन्म- नीपितं सम्यग्यतस्त्यक्तमुपाददत्पुमानि'त्यत्राऽऽत्मनो भगवतो दृश्येषु गुणेषु केशलोमनखरूपपर्शादिप्वेको गुणः । खसात्स- चिदानन्दात्मकभगवत्स्वरूपाव्यतिरेकतः । ल्यब्लोपे पश्चमी तथा च व्यतिरेकं प्राप्यैव सन् । अन्यथैकरसे ब्रह्मणि विविध- रूपभानं न स्यादिति यो व्यवस्थते सोऽबुधः। धर्मिग्राहकमा- नेन शुद्धस्यैव ब्रह्मणस्तथैव सिद्धेः एतदेवाह-'विना' इति वस्तुन एव तथात्वादाकारदर्शनाऽनन्तरं यो भक्तकृतः 'कराम्बुज' मित्यादिरूपो वादः सोनुवादस्तं विना तत्कराम्बुजादिकं खरूपव्यतिरिक्तत्वेन मनीपितं मनसा सत्वेनाऽऽकलिन भवति । ननु प्राकृतेष्वपि भगवत्सम्बन्धात्सत्त्रोत्पत्त्या तथा प्रतीतौ न दोप इत्यत आह-सम्यगिति । स यथा सैन्धव- पनोऽनन्तरोबाह्यः कृत्लो रसघन एवायं अरे अयमात्मानं. तरो बाह्यः कृत्तः प्रज्ञानघना' 'असंगो ह्ययं पुरुष' 'अथात आदेशो नेतिनेती'त्यादिश्रुतिविचारदशायां त्यक्तप्राकृतधर्मmy मुपाददद्भवतीत्यर्थः । तैः सह सम्बन्धे सति हि तेषु सचोप- तिसम्भावनाप्तस्यैवासम्भवात्तदसम्भव इति भाव' इत्येवं व्याच- क्षाणैरयमेवार्थः समर्थितः । अतः सिद्धमप्राकृतधर्मरूपत्वं ब्रह्मणः । ननु तथाप्यश्रीतमेतद्भविष्यतीत्याशक्य परिहारमाहुः इति नि- गमनतिपाद्यमिति । इति अनेनोक्तेन प्रकारेण, निगमैः वेदैः प्रति- पायं निरूपणीयमित्यर्थः । निगमस्तु 'पराश्चि खानि व्यतणत्व- यंभूः' 'अद्रेश्यमग्राह्य' 'न तत्र सूर्यो भाति' 'अपाणिपादो जबनो ग्रहीता पश्यत्यचक्षुः स भृणोत्यकर्ण' 'स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अमिवदन्त्यस्थूलमनण्वहसमित्यादि । 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यंतरो ह्यजः । अप्राणो घमनाः शुनः' । 'असङ्गो ह्ययं पुरुषः' 'निष्कलं निष्क्रिय शान्तं निर- वयं निरञ्जनं' 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत्' 'स ईक्षाश्चक्रे' 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशंति' 'विश्वंतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति संपतत्रै-वाभूमी जनयन्देव एकः । 'सर्वकामः सर्वरस' 'यः सर्वज्ञः सर्वशक्तिः 'परास्य शक्ति- विविधय श्रूयते स्वाभाविकी ज्ञानवलक्रिया च' 'मनसैवानुद्र- एव्यमित्यादिराकलनीयः । तथाच सति नोक्तदोष इति भावः । गन्वेवं धर्मप्रतिपादफतअतीतिनिपेयकातीनां परस्परविरोधो दु- प्परिहर इति चेत् । मैवम् । ब्रह्मणि विशेषाणां विधिनिषेधयोः प्रमा- णसिद्धत्वस्य साधितत्वेन विरोधाभावात् । न चाऽनेकाऽऽगमैकवाक्य. तया सविशेषश्रुतेरप्रमाणत्वमितिवाच्यम् ! । अवेदबाझेन वेदमामा- ३ । . प्यस्य त्यक्तुमशक्यत्वात् । विरोधपरिहारस्याऽन्यथासिद्धेश्च । अपि च, श्रुतित्वाऽविशेषादन्यत्रापि तथात्वस्याऽवर्जनीयत्वाऽऽपातात् । किञ्च, विशेषा. किं कल्पिता न वा नाद्य । कल्पितत्वाऽसम्भवस्य प्रदर्शि- तत्वात् । तत्त्वे तदापादकवेदविप्रलम्मकत्वप्रसङ्गाच्च । नेतर । ईशधर्मा- णामनन्यत्वस्य शरणीकरणीयत्वात् । अन्यच्च कश्चन विरोधोऽभिधी- यते, धर्मविधिनिषेधयोः सहाऽनवस्थानमिति चेत् । न । आधारभेदेन विरुद्धयोरपि सहावस्थानदर्शनात् । आधाराऽभेदोपि वक्तव्य इति चेत् । पार्तमेतत् । अव्याप्यवृत्तितावादिमते संयोगादौ तथाप्यनुपपत्ते । देशाऽभेदेपि प्रकारभेदेन विरोधस्वीकारात् । नन्वव्याप्यवृत्तिाऽन- म्युपगन्तृमते देशाभेदेन सहाऽनवस्थान, तदभ्युपगन्तृमते प्रका- राऽभेदेन तद्विरोध इति चेत् । न । तत् ितद्वयाऽवस्थानसाहित्य- प्रतिक्षेपो वा, । तवयाऽनवस्थानप्रतिक्षेपसाहित्य वा । न प्रथम । तदुमयावस्थितिसाहित्यस्य प्रमित्यविषयतया प्रसिद्धप्रमि- तयौगिकत्वाऽऽपातात् । न चेष्टापचि । शशशृङ्गे प्रतिपेघेऽपि शशे शृङ्गप्रतिषेधात्मतोपगमेन प्रसिद्धप्रतियोगिकत्वक्रोडीकरणात् । नान्त्यः। तहपावसानसाहित्यसद्भावस्यैवोपपत्ते. । तवयाभावयोस्तहयात्मकभी- व्यात् । अन्यथाऽनवस्थाया दुर्निवारत्वात्। अस्तु वा य कश्चिद्विरोध- स्तथापि नेहासौ। प्राकृतप्रतिषेधाऽप्राकृतविधानाभ्या तदयोगात्। तत्सत्वेऽपि ब्रह्मणि विरुद्धसर्वधर्माश्रयत्वस्याऽऽश्रयणीयतया तस्या- ऽदोषत्वात् । नचाऽन मानाऽभाव । श्रुतिस्मृत्यायनेकतत्सत्वात् । तथाहि-'आत्माऽवा रे द्रष्टव्यः श्रोतव्यो मन्तव्यः' 'यतोवाचो निवर्तन्ते 'तदेजति तन्नैजति' 'अपाणिपादो जवनो ग्रहीता पश्यत्वचक्षुः स शृणोत्यकर्ण' 'सर्वतः पाणिपादान्तं' 'अणोर- - णीयान्महतो महीयान्' 'समो मशकेन समो नागेन' 'अस्थू- लमनण्यास्वमित्यादि । अतः सुटुक्तमितिनिगमप्रतिपाद्यमिति । नन्वेवं सत्यन्यत्र विकारित्वदर्शनेनाऽत्रापि तथात्वं स्यादित्याश- कायामाहुः-'शुद्धमिति । अविकृतमित्यर्थः सच्चिदानन्दरूपे ब्रह्मणि विकाराणामभावात् । 'सत्वं विज्ञानमानन्दं ब्रह्मेति श्रुतेः। तदेतत्सकलमन्तर्निधाय निफलितमाहुः-'साऽऽकृतीति । साकारमित्यर्थः । नन्वाकाराणां प्राकृतत्वादतथाभूते तस्मिन्ननवका- शाचदलौकिकत्योक्तौ मानाभावात् । गौरवात् । निराकारश्चतिव्याको- पादुपासनार्थायाः साकारश्नुतेरौपाषिकतत्परत्वाचदानन्त्येनाऽद्वैतभङ्गा- सविशेषस्य सावित्राद्यालोकभास्यत्वव्यवहार्यत्वचाक्षुषत्वक्रियामयत्वा- दिनाऽब्रह्मतापातात् । तस्य चाऽऽगमसूत्राधसम्मतत्वादिदमनुपपन्न- मिति चेत् । न । आकाराणामलौकिकत्वात् । न च प्रमाणामावः शङ्करः । 'विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वत- स्पात्' 'सत्यं विज्ञानमानन्दं ब्रह्म' 'सर्वतः पाणिपादान्तं सर्व- तोक्षिशिरोमुख आनन्दमात्रकरपादमुखोदरादिः' 'आनन्दमयो- अभ्यासादित्यादिसहस्रपमाणसद्भावात् । प्रमाणवलाचस्य तस्याऽतथा- त्वाच्च । निराकारश्रुतेलौकिकतदमाववचाप्युपपादनपरत्वेनाऽप्युपपत्ते- रविरोधात् । अन्यथा साकारश्रुतेः का गतिरायुष्मताऽध्यवसिता । यतस्तद्विरोधो न स्यात् । नाप्यन्यतरवाधो युक्तः । विनिगमनाविरहेण तन्न तस्य दुर्वचत्वात् । न चाद्वैतानुरोधेन सविशेपश्रुतिबाधः साधु- रिति वाच्यम् । अयाधेन गतौ सत्यां बाघस्याऽन्याय्यत्वात् । अन्यथा सर्वांशेन वेदप्रामाण्यमपेयात् । अथाऽऽकारप्रतिपादिकाः श्रुत्यस्तुरी- यनिर्विशेषतदवगतय अविद्याकल्पिताऽऽकारवादिन्य उपासनार्थ चेति गतौ नोक्तदोपावतार इति चेत् । अत्राहुः-निर्विशेष खतो दुरवगममिति । सविशेषस्य भावना- मुकरत्वेन तसिंश्चितनिश्चलवे ततस्तप्रतिपचिरिति हि तवाभि- प्रायः। सचायुक्तः । अन्योन्याश्रयात् । तथाहि-निर्विशेषत- सिद्धौ सविशेषश्नुतेस्तदर्थमवास्तवतत्परत्वसिद्धिस्तस्यां च सत्यां सेति । न च श्रुतिबलातसिद्धिरितिवाच्यम् । तस्याऽन्यत्रापि समानत्वात् । नन्वेवं निराकारव्यवहारस्योच्छेदः स्यादिति चेत् । न । कतिपयविशेषप्रतिपेधेन तदनुच्छेदस्य सम्भवात् । ननु नि- षेधार्थ विशेषाऽनुवादो वेदेषु । निषेधस्य निषेध्यप्रतिपत्त्यधी- नप्रतिपत्तिकत्वादित्यमत्यूहमविशेषतत्सिद्धिरिति चेत् । मैवम् । विकल्पासहत्त्वात् । तथाहि-अनुवादः किं श्रुतिसिद्धानामुत लोकसि- द्वानाम् ! । न प्रथमः । तेषां निषेधानहत्वेनाऽस्य नैरर्थक्यप्रसङ्गात् । अन्यथा सत्यत्वादयोपि ब्रह्मणि न संसिद्ध्येयुः । तेषां तादात्म्यान्न कोऽपि दोष इति चेत् । इतरेपामपि तथात्वादेव न दोपलेशोपीति परिमावय। न द्वितीयः। विकल्पानुपपत्तेः । तथाहि-लोकसिद्धयाव- धर्मानुवादो यत्किश्चिद्धर्मानुवादो वा । नायः । इष्टाऽऽपादनात् । लोकपसिद्धानां दुःखित्वाऽनीशत्वादीनामनुवादपूर्वफनिषेधसम्भवे- ऽप्यतथाभूतानां सर्वेश्वरलाऽऽनन्दमयत्वादीनां तदयोगात्। अत एव च न द्वितीयः। यदप्यास्मोपासनाकथनाचदर्थश्रुतिपु सदाकारकथन- मन्यथा तद्नुपपत्तेरिति परमार्थतस्तथात्वमितिमतम् । तदप्याका- राणां पारमार्थिकत्वात् । अन्यथा तदुपासनायाः फलाजनकत्वापतेः । अन्यथाप्रपोनिदितत्याच्च । 'योन्यथा सन्तमात्मानमन्यथा प्रति- पद्यते। किं तेन न कृतं पापं चारेणात्मापहारिणे त्यादिवाफ्यात् । उपास्याऽवास्तवत्वे समस्तोपास्तिवचसामप्रामाण्यप्रसक्तेश्च । यस्तु कश्चिदवास्तवब्रह्मतत्वोपास्तेः फलास्तित्वं मण्यादिप्रभामण्डल- तद्बुद्धिरूपसंवादिनमदृष्टान्तेनाऽऽचष्टे । तदसत् । दृष्टान्तदान्तिक- यौपम्यस्य स्पष्टतरत्वात् । दृष्टान्ते प्रमादर्थक्रियाऽसम्भवेपि दान्तिके श्रुतिपुराणवाक्यसन्दर्भरुपास्यत्वप्रमिततया तदसम्भवात् । एतेन दारु- शिलादिषु देवताम्रमेण भजनात्कलंन मवेदित्यपि निराकृतम् । तत्रापि सत्यभगवत्स्वरूपोपासकानामेव फलदर्शनात् । निजविपये प्रमाया विपरीतबुद्धिवाधकत्वेन दारुशिलादिप्रमितिदशायां देवतात्वमस्य नाशितुमशक्यत्वात् । नन्वेवमुपासनानां नानाविधफलश्रवणेन ब्रह्मणो- ऽनन्तरूपताऽभ्युपगताचद्वैतभङ्गो गौरवं च प्रसज्येतेति चेत् । न । एकस्यैव भगवतो यदृच्छया कार्यार्थमाविर्भाविताऽविभिन्नाऽनेकमू- त्विस्य प्रमाणप्रतिपनत्वेन तदनवकाशत्वात् । 'अतः परं नान्यद- पीयसंहि' 'परात्परं यन्महतो महान्तं यदेकमव्यक्तमनन्त- रूपं । विश्वं पुराणं तमसः परस्तादितिश्रुतेः । तदेतदमाणि श्रीवल्लभाचार्यचरणैस्तत्वदीपनिवन्धे 'अनन्तमूर्ति तद्ब्रह्म ह्यविभक्तं विभक्तिम'दिति । एतेन तदाऽऽनन्त्येनाऽद्वैतमग इति निराकृतम् । यदपि सावित्राद्यालोकमास्यत्वादिना सविशेषत्वेऽब्रह्मत्वापात इति आशक्षितम् । तन्मन्दम् ।. सावित्राद्यालोकस्य भागवतत्वेन खेनावमतेन स्वावमानाविरोधात् । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यचाग्नौ तत्तेजो विद्धि मामक मितिगीतावाक्यात् । सर्वव्यवहारविषयत्वस्यापि भगवत्कृतस्याऽभ्युपेतव्यत्वात् । 'तत्वोप- निपदं पुरुपं पृच्छामीत्यादिश्चतेः । 'प्रकाशयचायात्' इति- सूत्राच । व्यवहाराविषयताश्रुतेविसामयेन तथात्वे तात्पर्यस्य वर्णनीयत्वाच । चाक्षुपत्वस्य च श्रुतिस्मृत्तिसूत्रपुराणसिद्धस्य प्रतिपे- द्रुमशक्थत्वात् । तथाहि-'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षु- रमृतत्वमिच्छन्' 'ज्ञानप्रसादेन विशुद्धसत्यस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' 'भक्या त्वनन्यया शक्य अहमेवंविधो- र्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप 'अपिसंराधने प्रत्यक्षानुमानाभ्यां' 'शृण्वन्ति गायन्ति गृणन्त्यमीक्ष्णश: सरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रयाहोपरमं पदाम्बुज'मित्यादि । नन्वेतेषां दृश्यत्वा- दिविधायकवाक्यानां 'पराश्चि सानि' 'अद्रेश्यमग्राह्य' 'न चक्षुपा गृह्यते नापि वाचा' 'न तत्र सूर्यो भाती'त्यादितन्निपेषकवाक्यैः समं विरोधादेकान्ततः कथमित्थं निर्णय इति चेत् । नैवम् । भगवत्सामर्थ्यजीवेन्द्रियसामर्थ्याभ्यां तदृश्यत्वाऽदृश्यत्वयोः : सम्भवेन वाक्यानां मिथोविरोधाऽभावात् । अत एव गीतायां 'मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्' 'दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वर'मित्यादिना खसामर्थ्यादिनैव सदृश्य- त्वमर्जुनं प्रति भगवानभिदधे । एवं क्रियादिमत्त्वमपि 'परास्य शक्तिद्विविधैव श्रूयते सामाविकीज्ञानबलक्रिया चे'त्यादिश्रुत्य- नुरोषादवधारणीयम् । पतेनाऽऽगमसूत्राद्यसम्मतत्वं व्युदस्त वेदितव्यम् । अत एव सकलमहर्षिमण्डलीशिरोमण्डनायमानासधरणैः 'प्रकृततावचं प्र- तिपेधति ततो ब्रवीति च भूयः' 'आनन्दमयोऽभ्यासान्' 'आह च तन्मात्र'मित्यादिसूत्रैरानन्दाऽकारत्वमेव ब्रह्मणो निरणायि ।
अतः सिद्धं साकृतित्वं ब्रह्मणः । एतेनोदीरितश्रुतिस्मृतिसूत्रपुराण- मानभिज्ञनिर्धर्मफब्रह्मवादिनो भगवदादिएखण्डपरशुप्रमुखोपदिष्ट- पापण्डपद्धतिश्रद्धालवाऽनभीष्टभक्तिवर्मद्वेष्टारः शिष्टैः प्रत्यादेष्टव्याः । तस्माआकृतधर्मानधिकरणमनन्ताप्राकृतधर्मनिरूपिताऽऽधेयतानिरूपि- ताऽऽधारताशालिसामानाधिकरण्याऽनधिकरणसकलधर्माधिकरणं स- भवनसमर्थ न्यायोपहितनिखिलवेदवेदान्तवेद्यं सच्चिदानन्दा- ऽऽकारं तत्परं ब्रह्म पुरुषोत्तमाख्यं परमकाष्ठापन्नं स्तोमोतिपर्यवसितः श्लोकार्थो हृदयालभिरायगृह्यः परिभावनीय इत्यलमतिपल्लवितेन ।। तातस्य नत्वा चरणाम्बुजं श्रीकल्याणरायस्य कृपाम्बुराशेः। ब्रह्मस्वरूपे स्वमतानुरूपां गोपेश्वरो वादकथामकाीत् ॥ १ ॥ एतां समेतां सत्तकैः स्वसिद्धान्तानुसारिणीम् । कृष्णान्तःकरणाः संतो मीमासन्तां मुईमुईः ॥२॥ इति श्रीमद्गोपेश्वरं विरचिता चादकथा संपूर्णा ।।
॥ श्रीः॥ श्रीकृष्णाय नमः। រ पुष्टिमार्गसिद्धान्तवाङ्मालायां गोखामिश्रीमगिरिधरविरचितः प्रपञ्चवादः। पञ्चमो मणिः। नमामि श्रीमदाचार्यान्सर्वसामर्थ्यसंयुतान् । चैरिदं प्रापितं सर्व नित्यतां ब्रह्मरूपताम् ॥ १॥ कमलाधिपतिं कृष्णं शरणागतवत्सलम् । ब्रजरत्नकटाक्षेण श्यामं वन्दे चतुर्भुजम् ॥२॥ ननु किमिदमुन्मत्तमलपितबद्वदसि, यदिदं नित्यं ब्रह्मरूपमिति । प्रपञ्चस्स मिथ्यात्वेन तस्याऽसत्त्वेनाङ्गीकारात् । तथाहि-'एकमे- वाद्ध्यं ब्रह्म' 'नेह नानास्ति किश्चने त्यायभेदयोधकश्रुतिभिया भेदरूपं द्वितीयं तु त्वयापि न खीकार्यम् । तथा चैतस्य तद्वत्परि- दृश्यमानत्वाच्छ्रुतौ चाऽभेदस्योक्तत्वादुमयाऽविरोधार्थ वासनया जीवाविद्यया वा भिन्नत्वेन प्रतीयमानत्वेन तथात्वात् । अतएव 'एक- मेवे तिश्रुतावद्वयपदम् । अत एव ज्ञानिनां शुद्धब्रह्मज्ञानादविद्यानाशे तत्कल्पितप्रपञ्चस्याऽपि नाश्यत्वेनोपादेयत्वमिति चेत् । खस्यापि सर्वज्ञत्वं मत्वैवं वदन् विदूषकः प्रष्टव्यः । प्रथमं तावदसत्त्वं किं त्रैकालिकाऽभावरूपं सीक्रियत, उत भ्रमकल्पितम् ? । नाद्यः । अह- इयत्वापत्तेः । किंचाऽभावस्य चातुर्विध्येन प्रागभावादित्रयाणाम- आऽकल्पनीयत्वेन परिशेषेणाऽत्यन्ताभावस्योर्वरितत्वेन तस्यापि सप्र- तियोगित्वेनास्याप्यसत्त्वेन तदभावाभावात् । 'भूतले घटात्यन्तामाव' इत्यादौ तु संयोगेन प्रत्यक्षं दृष्ट प्रतियोगिनं घटमारोप्य निषेधः । ननु शशशृङ्गादौ का गतिः । शशे शृङ्गात्यन्ताभाव इत्येव । गोमहिपादिदृष्टं प्रतियोगि शृङ्गं संयोगेनाऽऽरोप्य तथो । घटात्य- .न्ताभाव इतिवत् । अथवा न तद्धर्मावच्छिन्नप्रतियोगिताकोऽत्य- न्ताभावो वक्तुं शक्यः । गवादिपु प्रत्यक्षत्वात् । तेन तस्मिन् तदी- यत्वाभाव इत्यपि साधु । नान्त्यः । तस्य पूर्वप्रमादृष्टपदार्थगतध- मंसदृशयत्किधिद्धर्मग्रहणजन्यत्वात् । तथाहि-'शुक्ताविदं रजत'- मित्यादी पूर्वकालीनप्रमादृष्टहत्स्यरजतत्ववद्रजतधर्मसदृशयत्किञ्चिचा- कचक्यादिधर्मसारूप्येण हि भ्रमः संभवति । प्रकृते तत्कालीनप्र- मादृष्टयत्किश्चिदधिकरणस्यैतदसंभवेन कगतधर्मसारूप्येण हि कुत्र कस्य भ्रमः संभवति ? । नन्वेतस्मिन्नेव पूर्व तांत्वमवधार्य पुनर- तात्वमिति युक्तमेवेति चेत् । अनभ्यासवशादेव कत्थसे । अरे कुत्र गतं तदवधार्य निषेध इतीत्याकारकं द्वितीयमित्यपि धीश्चेत्प- रिदर्शय । नन्वविद्यामात्रेण प्रतीयमानत्वार्तयेति चेत् ।। अथेदं विचा- यते-का सा अविद्या । किमधिकरणिका चेति प्रश्नद्वयम् । प्रथमपक्षे किमज्ञानरूपा! उत तद्भिन्ना जवनिकावद्यथार्थज्ञान- १. मालिकाभावरूपः, २. निषेधः. ३. भ्रमः. ४. पूर्वकालीन. ५.प्र. पञ्चे. ६. सत्यलम्, ७. मिथ्यावा. ८. मिथ्या.
४२ प्रतिवन्धरूपा ? आहोखिददृष्टविशेषजन्या वा ? नाद्या । कारणजि- ज्ञासाया ब्रह्मणस्तव निर्गुणत्वेनेच्छावत्त्वाभावेन तदिच्छा तदिति वक्तुमशक्यत्वेनाऽविद्यैव तदित्याहत्योचरतस्तस्यास्तत्कारणत्वेन तद्- पत्वाभावात् । न हि दण्डो घटो भवति । नन्वनायेव तदिति चेत् । तत्कृत इति पदं भवतामेवाऽनर्थकं स्यात् । ननु समवायिकारणत्वं तस्यौं इति तत्कारणत्वं तद्रूपत्वमपि । तन्नाशे तन्नाशोऽपि । मृद्व- द्धटोऽमृदित्यपि प्रतीतेरिति चेत्। सम्प्रति न्यायरीत्यैबोच्यते । एव- मास्तां वा, यद्यविद्याया द्रव्यत्वं स्वीक्रियेत कैरपि । अन्यथा रूप- नाशेऽपि पटनाशः । तस्मात्समवायिकारणत्वं द्रव्यस्यैवेति नियमः । न चासमवायिकारणत्वमपीति वक्तुं शक्यम् । तवाऽग्रहव्याघातात्। तथाहि-अज्ञानरूपा सेति वदतस्तवाऽज्ञानमेव सेति प्रतिफलि- तम् । तथाच नाऽज्ञानोत्पत्तौ तस्यैव कारणत्वं, घटे त्वाऽनङ्गीकरणात् । अन्यथा रूपोत्पत्तावपि तस्य कारणत्वस्य दुर्वार- त्वमेव । नच द्रव्यविशेषस्य कारणत्वं यथा तथाऽत्रापीति चेत् । न । पूर्वोक्तेन निराकृतत्वात् । न च निमित्चत्वम् । तत्त्वे त्वागत- मतद्रूपत्वम् । न हि दण्डो घटो भवति । न द्वितीया । ज्ञानस्य सविषयकत्वेन स्वीकारात्तेपां च तवाऽसत्त्वेनाऽभिमतत्वात्किविषयक यथार्थज्ञानप्रतिवन्धं करोतीति विचार्य वक्तव्यत्वात् । निर्विपयत- रखीकारे मानाभावात् । न तृतीया । तत्त्वेन जीवेत्यादितवाऽऽप्र- हव्याघातात् । १. झानकारणजिज्ञासायाम्. २. अज्ञानरूपसाभावात्. ३.भविद्याया.. ४. किश्च तस्य समवायिकारणसापेक्षलाद तवैतदतिरिकस्य तथालाऽभावात तस्यास्खयालस्य यत्तुमशक्यखात् अभावात्मकतयापि कारणद्वयस्यापि बक्तम. घटकारण- शाक्यलात्।
४३ किञ्च, दर्पणादौ विम्बप्रतिबिम्बवज्जीवानामविद्यायां तव ब्रह्म- प्रतिविम्बत्वमिति खीकाराप्रतिविम्बस्य दर्पणाधीनत्वेन तद्ग- तविशेषाणां च तदधीनत्ववत्तेपामविद्याधीनत्वेन तद्गतादृष्टविशेषस्य सुतरां तदधीनत्वाचजनकत्वाऽभावात् । न हि घटो दण्डजनकः दण्डाधीनत्वात् । नन्वेतत्रयव्यतिरिक्तैव सेति चेत् । किंलक्षणि- केति वदख ? । तच्छून्यैव चेत् । मैचम् । प्रमाणाऽभावात् । ननु भवतां जीवाऽज्ञाने किं कारणमिति चेत् । भगवदिच्छैच । 'मत्तः स्मृति नमपोहनं चेत्यादिना । अत एव 'बुद्धिर्ज्ञानमसंमोह' इत्यारभ्य 'मत्तः एव पृथग्विधा' इत्यन्तमप्युक्तं श्रीमद्यदुपुरपुर- न्दरेण । अत एव 'बुद्धिप्रेरककृप्णय पादप- प्रसीदत्वि'ति- वाक्पतेर्वाक् । किञ्च सा सती वाऽसती वा ? । नाद्या । द्वैतापत्तेः । न द्वितीया। नेत्येव प्रतिफलितत्वात् । नन्वस्तु सदसद्विलक्षणैव सेति चेत् । न । मानाभावात् । 'परस्परविरोधे ही तिन्यायाच । न चानादिसान्ता भावरूपेति वाच्यम् । ब्रह्मज्ञाननाश्यत्वमिति हेतोस्तदाभासत्वेन अनुमानाऽसंभवात् । अन्वयव्यतिरेकव्यभिचा- रात् । साध्यामाववद्वृत्तित्वाच । द्वितीयपक्षे 'तुप्यतु दुर्जनन्याये- ना'ऽस्तु तवाऽविद्या तथा च सा ब्रह्मगता जीवगता वा । नाद्या । तस्य शुद्धत्वव्याहतेः । किञ्च, तवाऽभिमते जीवतुल्यतापत्तौ 'गौण- चनात्मशब्दा' 'तनिष्ठस्य मोक्षोपदेशात्' 'हेयत्वावचनाचे'- तिसूत्रविरोधात् । न द्वितीया । जीवस्य त्वन्मते प्रतिबिम्बागीका- रात् । आधेयस्य चाऽऽधाराऽधीनत्वात् प्रतिविम्बस्य दर्पणाऽऽधा- रकत्वेन तदधीनत्ववतस्साऽप्यविद्यारूपाऽऽधाराऽधीनत्वेन, दर्पण गतः प्रतिबिम्बो न तु प्रतिबिम्बगतो दर्पण इतिवदविद्यागतो जीवो, न ४४ तु तद्गता सेति वक्तव्यत्वात् । किञ्च, जीवगतत्त्वेन ब्रह्मगतधर्मक- रूपने सामर्थ्याभावात् । तथाहि-ब्रह्मगतास्तेऽविद्या कल्पिता इति तु तव मतम् । तथा चाऽसमानाधिकरणत्वात्तथा । ननूच्छेद एव तस्याः । त्वदभिमतत्वेनेष्टापत्तिः। भगवच्छक्तित्वे नाऽस्त्येव । दशमस्कन्धे मथुरालङ्करणप्रसङ्गेऽङ्करदर्शने 'श्रिया पुष्टया गिरा कान्त्या कीर्त्या तुष्वेलयोर्जया। विद्ययाविद्यया शक्त्या मायया च निषेवित मितिवाक्यात् । तस्मात्पूर्वोक्तेन प्रती- यमानत्वादसत्त्वमिति वदतस्तवाऽऽविद्यत्वमेव । ननु वासनयैव प्रतीयमानत्वेन तत्तथाऽस्त्विति चेत् । न ! पूर्वोक्तदूषणेनैव परि- हृतत्वात् । नच खमवत्सत्त्वेऽप्यसत्त्वमिति वाच्यम् । तस्य पूर्वा- नुभूतिविषयविशेषजन्यत्वेन तेपामसत्त्वेन तदसभवात् । वैधाच्च न स्वप्नादिवदितितत्त्वसूत्रविरोधाच्च । तथा सत्यपि जगदसदिति बदन्तो वाह्या एव । ननु सदसतोः परस्परं विरुद्धत्वादनिर्वचनीयं जगदिदमेव मिथ्या- स्वम् । किञ्च, श्रुतिरपि तथात्वं ब्रूते 'नेह नानास्ति किञ्चनेति । तस्मान्मिथ्यात्वखण्डनमयुक्तमिति चेत् । न । अनिर्वचनीयस्स मि- थ्याल्वे प्रमाणाऽभावात् । ऊरीक्रियते चेह्मणोऽप्यनिर्वचनीयत्वेन मिथ्यात्वमापद्यते । यतोऽनिर्वचनीयत्वञ्च निर्वचनीयत्वरहितत्वम् । तथाहि 'अपाणिपादो जयनो ग्रहीता पश्यत्यचक्षुः स शृणो- त्यकर्णः' । नत्वेवम् । न वा पाणिपादसहितत्वम् । न वाऽजवन- स्वापार त्वम् । शेषं पूर्ववत् । अत एव महाभारते पैशम्पायन- सहलनाममोरे 'अणुहकृशः स्थूलो गुणभृनिर्गुणो महा- निति । फिच, नहि 'नेहनानास्तीति श्रुतिमिध्यावं वदति । किन्तु ."
१५ द्वैतप्रतिषेधम् । यतः 'पुरुष एवेदं सर्वं 'स आत्मानं स्वयम- कुरुत' 'स वै सर्पमिदं जगद' 'सर्व खल्विदं ब्रह्म 'तत्सत्य- मित्याचक्षते । विष्णुपुराणे प्रथमेशे 'तदेतदक्षयं नित्यं जगन्मु- निवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्' । गीतायां च 'नासतो विद्यते भावो नाभावो विद्यते सत' इत्या- रभ्य 'न कश्चिद्वतुमर्हती त्यन्तम् । सूत्रकारोऽपि 'असदिति चेन . प्रतिपेधमात्र (पर)त्वाद' 'असद्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेपा' 'सत्वाचावरसे'त्यादिना तथैवाह । ननु अनिर्वचनीयस्य मिथ्यात्वे प्रमाणाऽभावादिति चेत् । न । अनुमानस्य प्रमाणत्वात् । तथाहि-जगदनिर्वचनीयं सदसभ्यां वत्तुमशक्यत्वात् । शुक्तिरजतवदिति । अत्र हि हेतोः साध्यावि- शिष्टत्वेनानुमानस्याप्रयोजकत्वात् । अस्तु वा 'तुप्यतु दुर्जनन्या- येन' । तथापि जगदनिर्वचनीयत्वसाध्ये । नत्वनिर्वचनीयस्य मि- ध्यात्वे । ननु यदुक्तं ब्रह्मणोऽप्यनिर्वचनीयत्वेन मिथ्यात्वमिति । तदसत् । अनिर्वचनीयत्वं नाम सदसन्यां वक्तुमशक्यत्वं, ब्रह्म तु सत्त्वेन वक्तं शक्यत्वादिति चेत् । न । 'न सत्तन्नासदुच्यते । 'नायं गुणः कर्म न सन्नचाऽसन्नितिगीतापुराणवाक्यैर्न ब्रह्म सन्मात्रेणापि प्रतीयमानम् । इदमेव तस्य अनिर्वचनीयत्वम् । अत एव 'यतो वाच' इतिश्रुतिः । किञ्च प्रपञ्चो न विकारः। विचारक्षमत्वात् । तथाहि-कस्य विकारः। न ब्रह्मणः । तस्य अविकृतत्वात् । नेतरस्य । त्वन्मते ब्रह्मभिन्नस्य सर्वस्य तद्रूप- त्वात् । ननु ब्रह्ममिन्नं सर्व मिथ्या । ब्रह्ममिन्नत्वात् । शुक्तिरज- तेन दृष्टान्तसिद्धिः । तेन ब्रह्मभिन्ननिखिलप्रपंचमिथ्यात्यसिद्धिरिति ४६ चेत् । न । पक्षतावच्छेदकहेतोरेक्येनांशतः सिद्धसाधनात् । दृष्टा- न्तासिद्धेश्चेति। स्यादेतत् । ननु माऽस्त्वसत्त्वमनित्यत्यमेवास्तु । तथाहि-- तत्त्वं ध्वंसप्रतियोगित्वे सति प्रागमावप्रतियोगित्वमित्याकारकत्वं च जगन्मध्यपातिघटपटादिपदार्थे दृष्टम् । 'घटो भविष्यति भूतल' इत्यादिप्रतीतिवलादिति चेत् । न । किन्नाम भावित्वं भूतत्वं धर्म- विशेष एव ? । तथा च धर्मस्य धर्मिणि समवायसंबन्धसंबद्धत्वेना- ऽभिन्नत्वात्तस्य भाविभूतसमयासत्त्वान्निराश्रयत्वेन स्थित्यनुपपत्त्या तत्समये तस्वीकारस्याऽवश्यवक्तव्यत्वात् । नन्वन्यथानुपपतिभियैव तथात्वं चेत्काल एव सास्तु इति चेत् । मैवम् । कालस्तथेतिमती- तेर्दुर्वारत्वात् । एवं च सति तत्तत्समयेऽपि धर्मखीकार आवश्यकः । ननु घटादेः सदा सत्त्वेन भावित्वादि वक्तुमशक्यमिति तत्रापि तथात्वं चेद्विलक्षणकालेऽपि तथाप्रतीतिर्दुरिति तवैवोक्तिर्दूषण- अस्तेति चेत् । न हि शूकरसमूहजनितभयेन कदाचित् केसरी विभेति । तथाहि-'पुरुष एवेदं सर्वं । यद् भूतं यच्च भव्य- मितिश्रुत्या तयोरपि सत्त्वं सदात्मकत्वेनाऽवगम्यत इति श्रुति- सिद्धम् । तस्यास्तु सतःप्रामाण्यम् । तथा च स्वतःप्रामाण्ये तत्सको- चेन धर्मधर्मिणोरपि सत्त्वं यथा मन्तव्यं, तथैतत्सङ्कोचेनैव तस्मि- न्कालेऽवर्तताऽनाविर्भूतः स इत्यपि मन्तव्यम् । तथा सति पदा- र्थसत्त्व एव माविर्भूत इत्यादिप्रतीतिर्नत्वसत्त्वेऽनित्यत्वेऽपि । तत- कालेऽसत्त्वमेव । अवर्तमानत्वात् । अस्माकं खदर्शनमात्रं न तु सत्त्वम् तस्योपजीवकोपजीवकत्वात् । १ असलम् । ।
४७ तथाहि-ननु तासां न खतःप्रामाण्यम् । किवीश्वरोक्तत्वात्तस्य चा- नुमेयत्वात् । तथा च तादृशं तदुक्तत्वात् तैथात्वं, न खत इति चेत् । न । मन्त्रादीनां सर्वज्ञत्वे मानाऽभावेन पूर्वपूर्वसर्गव्यवहाराऽनुपपत्त्या तदन्यत्वकल्पने गौरवेण च तव सिद्धो हीश्वरः प्रयोज्यप्रयोजकरूपेण व्यवहरति 'घटमानय गां नये'त्यादिना । सर्वतो बलवती ह्यन्यथानुप- पतिः । ततश्च तत्रत्यो बालस्तच्छब्दश्रवणानन्तरं तद्व्यवहारात्संकेत- ग्रहणं करोति नयनानयनाभ्यां कृतिविषयात्मकम् । ततो घटादिपदं घटत्वाद्यवच्छिन्ने शक्तमित्यपि। तदनन्तरं भूयो दर्शनेन तत्तत्कृतिवि- पयसादृश्यं वस्तुषु पश्यतीति शब्दोपजीवकत्वमध्यक्षस्येति सिद्धम् । अतएवाऽऽधुनिकस्याऽऽपि बालस्याऽयं पिता मातेत्यादिवाक्यश्रवणा- नन्तरं तस्य तथा तथा दर्शनं ऋते जनन्याः। भगवदिच्छाधीनया- वत्कालं जीवनादृष्टस्य विद्यमानत्वात् । अन्यथा तदसभवात् । एवं च तथाविधवहिधूमज्ञाने कचिन्महानसादाविन्धनसयोगादिना फूत्का- रद्वारा तज्जन्यत्वं तस्मिन्पश्यति । तदनन्तरं यो यजन्यः स न तयभिचारी यथा कपालजो घट इति जानस्तत्राऽपि तजन्यत्वेना- व्यभिचारित्वं जानाति । ततश्च कदाचित्पर्वतादावनवच्छिन्नमूलं तं पश्यस्तजन्यत्वेनाऽव्यभिचारित्वज्ञानेन वहिं सरति । पूर्वदृष्टसं. स्कारस्यापि विद्यमानत्वात् । सैवानुमितिरित्युच्यते तार्किकैः । तेन च दर्शनोत्तरकालीनत्वेन प्रत्यक्षोपजीवकत्वमनुमानस्येति सि- द्धम् । तस्मादुपजीव्योपजीव्यत्वाच्छब्दस्य स्वतःप्रामाण्यम् । कारणान्त- राऽनपेक्षणात् । तथा च शब्दात्मकत्वात् तासां तथात्वं नियूंढमित्य- वेहि । ननु भावी नष्ट इत्यादिप्रतीतेः का गतिरिति चेत् । यथाधात्वर्थ १ ईश्वरोकलात् । २ प्रामाण्यम् । ३ प्रत्यक्षस्येति युज्यते।
४८ खीकार्येत्येव । एवञ्च पदार्थानामदर्शनदशायामनाविर्भूतत्वं, तद्भिन्ने वद्भिन्नत्वमित्यागतम् । अयं भाव्ययं भूत इत्यादिप्रतीत्यनुरोधात् । एतेनाऽनित्यानुचराणां वर्तमानप्रागभावेत्यादिलक्षणं निरस्तम् । स- र्वेषा नित्यत्वात्पूर्वोक्तलक्षणञ्च । ननु सर्वस्य नित्यत्वाद्भाविभूतवर्त- मानानामपि तथात्वाद्युगपदुपलम्भस्य दुर्निवारत्वमिति चेत् । मैवम् । भगवदिच्छाधीनत्वात् । तथाहि-पृथिवीजलयोस्तदात्मकत्वेनैक- स्वेऽपि तस्या गन्धो न तु तस्मिन्नित्यत्र किं नियामकम् । इच्छैन । तथाऽनाऽपीति तथात्वेनैकरूपत्वेऽपि न तथा । विष्णु- पुराणे चोपपादितमाविस्तिरोभाववत्त्वं जगतस्तदेतदित्यनेन । विस्तरस्त्वाविर्भावतिरोभाववादे प्रतिपादितः प्रभुचरणैः । किञ्चाऽर्जु- नावनाय कृतसारथ्येन सर्वज्ञेन भगवतैवोक्तं 'नासतो विद्यते भाव', इत्यारम्य, 'न कश्चित्कर्तुमर्हती'त्यन्तम् । तस्मान्नाऽनित्यत्वम् । स्यादेतत् । ब्रह्मण एकविधत्वेन जगतश्चाऽनेकविधत्वेन कथं तदू- पत्वमिति चेत् । अवधेहि-'यतो या इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यमिसंविशन्तीति 'आनन्दाद्येव खल्लिमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आ- नन्दं प्रयन्त्यभिसंविशन्तीति' 'प्रजापतिरकामयत प्रजाः सृजे- येति स तपोऽतप्यत स सर्वानसृजत' 'अहं सर्वस्य प्रभवः' 'यस्यान्तः स्थानि भूतानि' 'यथाकाशः स्थितः' 'पिताहमस्य जगतः' 'गतिर्भः प्रभुः साक्षी' 'मम योनिर्महदू नाय' 'जन्मा- यस यत' इत्यादिश्रुतिस्मृतिसूत्रैब्रह्मणः सर्वकर्तृत्वं समवायिकार- णत्वं तदधिकरणत्वं चागतं तथा सति । न हि कार्य समयायि- कारणादिनं मृद्धटवत् । तथा च घटानामनेकविधत्वेऽपि मृद एक- ४९ विधत्वेऽपि न तद्भिन्नत्वम् । किन्तु परिणामे तद्रूपत्वमेव । मधेव पर्यवसानात् । तथैतस्य तथात्वे तस्य च तांत्वेऽपि न तथात्वम् । तत्रैव पर्यवसानात् । अत एव समयायिकारणनाशे कार्यनाशस्तस्मा- त्तदभिन्न मिति तार्किकाः । इह तु तद्वैपरीत्येनैव व्याप्तिरिति गृहाण । नन्वत्र को वा परिणामः? । भगवदिच्छाधीनाज्ञाननिवृत्तिरेव । अत एव निवृत्ताऽज्ञानानां ब्रह्मविदां सर्वं तदात्मकमिति मतिः । ननु तर्हि विकार्यत्वं मृद्वदिति चेत् । स्यादेव । स्याद्यदि समवायि. कारणत्वमधिकरणत्वमानं चेत् । नत्वेवम् । कर्तृत्वस्यापि सत्त्वात् । न हि मृदि कर्तृत्वम् । जडत्यात् । तर्हि दृष्टान्तवैपम्यमिति चेत् । न । दार्टान्ते दृष्टान्तीययत्किञ्चिद्धर्मग्राह्यत्वात् । अन्यथा मुखेऽपि चन्द्रगतकलङ्कित्वापत्तिरिति महद्दाक्षिण्यं तव । यद्वा स वै सर्वमिदं जगत्' 'पुरुप एवेदं सर्व' 'सर्व खत्विदं ब्रस' 'ऐतदात्म्यमिदं सर्व' 'वासुदेवः सर्वमि- त्यादिश्रुतिस्मृतिभिरेवेति सुगमः पन्थाः । अत एव 'अखण्डं कृष्णवत्सर्व' 'जगत्कर्ता जगन्मय' इति वागधीशचरणैः । स्यादेतत् । ब्रह्मणो निर्गुणत्येऽमुप्य सगुणत्वे, कथं तद्रूपत्व- मिति ? । तथाहि 'अथात आदेशो नेति नेति' 'अस्थूल- मनणु' 'अप्राणो झमनाः' 'यतो वाचो निवर्तन्ते' 'सर्वे- न्द्रियविवर्जितं' 'न सत्तन्नासदुच्यते' 'अव्यक्तोयमचिन्त्योयं' 'सवै न देवासुरमर्त्यतिर्यक् 'अरूपवदेव हि 'प्रकृतैतावत्वं ही' त्यादिश्रुतिस्मृतिपुराणतत्त्वसूत्रः तथात्वप्रतिपादनात् । युक्तं चैतत् । ३ ब्रह्मणः । ४ एकविधत्वेऽपि । १जगतः । २ भनेकविधत्वे । ५ मिमलम् । ६ उक्तमिति शेषः ।
च यद्येवं न स्यात्तदासात्सगुणस्य परिच्छिन्नत्वादव्यापकत्वमेव । तसा- दिदमेव साध्विति चेत् । वयं न सहामहे । मूर्खजल्पितत्वात् । तथाहि----ब्रह्मणोऽलौकिकत्वेन श्रुत्येकसमधिगम्यत्वाचासां 'अस्थूलमनणु' 'सहस्रशीर्पा पुरुष' इत्यादिनोभयविधप्रतिपादफ- त्वात्परस्पराविरोधाय किमादृतम् । उपजीव्योपजीवकभावेनकतरवा- धस्तु वक्तुमशक्यः । तत्त्वेनैव तौल्यात् । सन्देहादलक्षणमित्यपि तथा । तव शून्यवादाऽऽपत्त्योद्भूतनास्तिकत्वाऽऽपत्तेः । तथा सति तेष्वेवान्तर्भावेन चारितायें किमर्थमेतावद्गौरवमधिकमत्तस्तथेत्यप्यव- . धारय । तस्माद् व्याख्यानतो विशेषप्रतिपत्तिरिति मन्तव्यम् । तथा च शृणुप्वावहितः । सन्देवारणार्थ शास्त्राणां प्रवृत्तिः । से च तत्त्वाज्ञानादेव । तज्ज्ञानं च शास्त्रादेव । तत्रैव सन्देह उत्तरोचर- शास्त्रतस्तद्तयुक्तिमिश्च व्यवस्था कर्तव्या । तथाहि । श्रुतिपूभयविध- प्रतिपादनात् किंलक्षणं तदिति निर्गुणब्रह्मजिज्ञासाया'मथातो ब्रह्म- जिज्ञासे' त्यनन्तर, 'जन्माद्यस्य' इत्यवदत्सूनकार एव । अन्यथा जगत्कर्तृत्वं न स्यात् । स्वातन्त्र्याभावात् । नन्वौपाधिकपरमेव तदिति चेत्। 'गौणश्चेन्नात्मशब्दात्तनिष्ठय मोक्षोपदेशाद्धेयत्वा- वचनाचे तिसूत्रविरोधः । न ह्यौपाधिकनिष्ठस्य मोक्ष. । किञ्चौपा- धिकत्वे तवैव जीवतुल्यतया प्रत्युत हेयत्वमित्यग्रिमविरोधः। व्या- सस्याऽसर्वजत्व च तजिज्ञासाया इति, तस्यापि तथात्वं मन्यानो १-अभावनिरूपणस्य प्रतियोगिनिरूपणाधीनलात्सधर्मप्रतिपादकश्रुतीनाम- प्युपजीव्यसमिति तीत्यमित्यर्थ । -सन्देह ।
. व्यग्र एव, । तेषां भगवदवतारत्वात् । अत एव 'अरूपवदेव ही' ति 'प्रकृतवायचं हीति, अयमर्थः । रूप्यत इति रूपं व्यवहारविपयः । तद्वत्सर्वम् । इदं वितो विलक्षणम् । व्यवहारविषयवन्न भवतीति यावत् । अनेनेतिव्युत्पत्त्या करादिभिन्नं, तद्वान् भिन्न, इति लोके यथा तथा नात्र । किन्तु करादितोऽभिन्नमित्यपि । तेषामेव तद्रूप- त्वात् । रूपस्यापि रूपम् । अन्यथा 'अरूपमेव ही त्युचितम् । ननु गुणानां कथं तद्रूपत्वमिति चेत् । कलय । 'तत्प्रधानत्वा' दित्यग्रिमेणावगम्यत्वात् । एतेन परम्परया ब्रह्मप्रतिपादकत्वात् सगुणनिरूपकाणामुपजीयफत्वमित्यपि निरस्तम् । रूपरूपप्रतिपाद- कत्वात् । तस्याऽभेदेन ब्रह्मत्वात् । प्रत्युत तासां तथात्वनि- पेधमकृत्य प्रतिपादकत्वात् । एतदपि त्वदुपरि । अस्माकं तु सर्वासां तत्प्रतिपादकत्वेनैव सर्वत उपजीवकत्वमेव । अत एव 'प्रकृततावचं ही ति । प्रकृते लोके यदेतावत्त्वं स्थूलत्यादि । अथवा लौकिकमेतावत्त्वं तदादि, तस्य निपेधः । अन्यथा प्रकृतपदस्यैतावत्पदस्य च सर्व- मित्यर्थकत्वात्प्रकृतैतावत्त्वमित्यत्रैकमेवोक्तं सात् । प्रयोजनाभावा- गौरवाच्च । एवं सति निर्गुणत्वं लौकिकगुणाऽनधिकरणत्वमित्या- गतम् । अत एवा'ऽऽनन्दमात्रकरपादमुखोदरादि' रित्यानन्द- मानत्वेन लोकभिन्नत्वम् । करादिमत्त्वेन सगुणत्वम् । ननु तथात्वे परिच्छिन्नत्वादव्यापकत्वमिति चेत् । न । तद्विशिष्टस्यैर तथात्वेन श्रुतिप्रतिपादितत्वात् । १-अरूपवदेवेति सूनार्थ इत्यर्थः । २-सगुणत्वे ।
' ५२ तथाहि-'यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मा अन्तर्याम्यमृत' इति 'सहस्रशीर्षा पुरुषः सहस्राक्ष: सहस्रपात् । स भूमि विश्वतो वृत्त्वाऽत्यतिष्ठदि'त्यादिना । अत एव 'प्राकृतधर्मानाश्रयमग्राकृतनिखिलधर्मरूपमिति नि- गमप्रतिपाद्यं यत्तच्छुई' मित्यग्निकुमारैः । ननु श्रुत्युक्तेनैव तथात्वमिति पे । तहिं तदुक्तास्तेऽपि लौकिका एवेति चेत् । न । अहो ब्राह्मण्यं विशदीभवति । पूर्वोक्तश्रुतिप्रणीताऽनेकल- क्षणलक्षितो लोके व्यापकत्वेन कश्चिद् दृष्टश्चेन्मामप्युपदर्शय । तथा चावधारय । कलिकालक्रमानुसारेण विकलत्वमवाप्स्यसि । भगवत्प्रेरिता वुद्धिस्तवेत्याकारिका यतः । नन्वप्रसिद्धानपि बोधनार्थ निपेति सेति चेत् । न । जगदप्रतीतेः। तथाहि-धर्मप्रतिपाद- कश्रुत्यनुरोधेन धर्मानारोप्य निषेधतीति तवाभिमतम् । नहि तच्छ्रुति- सिद्धं यदारोप्य निषेधति । न च लोकसिद्धमेव तदनूद्य निषेध- यतीति वाच्यम् । तवैव वदतो व्याघातात् । बाधितविषयत्वाऽऽप- तेश्च । 'प्रक्षालिताद्धी' तिन्यायाच । अन्योन्याश्रयाच । एतेन निर्धर्मकत्वं लौकिकतदाहित्यमित्यपि ज्ञेयम् । तस्मादनेन पथा निर्गुणत्वं सगुणत्वं व्यापकत्वं च ब्रह्मणः । न तु त्वदुक्तेन । यद्वा 'तदेजति तन्नजति तद्रे तदन्तिक 'अपाणिपादो । २-उसमिति शेषः । ३-करीलसापयिक व पाठो माति यतः-- कालकमाऽनुगारेण विक्टलमवाप्स्यसि । भगवत्प्रेरिता युनिसचेतरावारिका यतः ॥ १॥ एपमिदं पा मारी।
जवनो ग्रहीता' 'अणोरणीयान्महतो महीयान्' 'असक्तं सर्वभू- चैव निर्गुणं गुणभोक्तृ च । पहिरन्तश्च भूतानामचरं चरमेव च' 'आकाशमिव केवलं' 'नाभिर्नभोग्नि'रित्यादिश्रुतिस्मृतिपुराण- वाक्योक्तविरुद्धसर्वधर्माधारस्वेनाऽपि । अत एव 'अनन्तमूर्ति तुद् ब्रह्म ह्यविभक्तं विभक्तिमदिति श्रीमदाचार्यः । एतेन लौ- किकालौकिकत्वेनाऽप्येतच्छा निरस्ता । सर्वस्य तद्रूपत्वात् । तथा चाऽस्मिन् भगवहुद्धिविपरीतबुद्धिमत्त्वमेव लौकिकत्वमिति जानीहि । एतदपि त्वत्समाधानाय । वस्तुतस्तु सर्वसामर्थ्यसहिते सर्वरूप ब्रह्मणि न कोऽपि विरोधः । 'न हि विरोध उभयं भगवतीति सूत्रकारोक्तत्वात् । विस्तरस्तु विद्वन्मण्डनेऽनुसन्धेय इति दिक् । ब्रह्मरूपे प्रपञ्चेऽस्मिन्वादिना परिकल्पिता। . खभ्रमात्कियती शङ्का यथामति निवारिता ॥ १॥ विभाव्य दूपणीयं चेत्सन्तोपं प्राप्स्यसे बुध । . अन्यथा मम का हानिः परं सा यास्यति त्वयि ॥२॥ श्रीविठ्ठलपदसरसिजनतिततिमुक्ताखिलाऽज्ञानः । विद्वन्मण्डनसरणिरचीकृपगिरिधरः किञ्चित् ॥ ३ ॥ एतेनासत्पतिर्योऽस्ति प्रमुः श्रीद्वारकेश्वरः । स एव हि प्रसन्नोऽस्तु किं वृथा बहुमाषणैः ॥ ४ ॥ . १-सगुणनिर्गुणलादिक्मस्तीति शेषः । २ उत्तमिति शेषः। ३-एतेन गोखामिश्रीमगिरिधराणां कृतिरियमिति ज्ञायते । पुस्तके तु समाप्तीतिश्रीचिह्न- विरहात्कर्तुनाम न प्राप्तम्।
॥ श्रीः॥ श्रीकृष्णाय नमः। पुष्टिमार्गसिद्धान्तवामालायां गोस्वामिनीमाजरायविरचितो ब्रह्मवादः। पष्टो मणिः। विशेपैः प्राकृतैः शून्यमप्राकृतविशेषवत् । अशेपोपनिपढेद्यं परं ब्रह्म वयं स्तुमः ।। १॥ ननु कथम् ! । इत्थम् । पूर्वनिखिलप्रमाणसिद्धत्वात् । इति चेत् । न सर्वागमविरुद्धत्वात् । तथाहि-'सर्वं खल्विदं ब्रह्म 'सर्व तज्जलानिति' 'अहंबहुस्याँ' 'सहेतावानास' 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा' 'जन्मायस यतः शास्त्रयोनित्वा'दि- त्यादिश्रुतिस्मृतिसूत्रः सर्वस्यापि जगतो ब्रह्मात्मकत्वमवधारितमित्येत- दन्तःपातिनामपि तेषां तत्त्वमेवेति कथं विशेषाणां प्राकृतत्वं कथं वा तन्निषेध इति चेत् । सत्यम् । ‘स एकाकी न रमते स द्वितीयमै- च्छन् । 'अहं बहु स्यामितिश्रुत्येकवाक्यतायां रमणार्थमेव नामरूप- वैचित्र्येण साविर्भावेच्छां कृतवानित्यर्थो लभ्यते । वैचित्र्यं चोचाव- चत्वकृतम् । तच्च न्यूनाधिकांशमन्तरा न सम्भवतीत्यनन्तशक्तित्वा- सच्चिदानन्दांशानेव यथानुरूप्येण तिरोभाय जडजीवान्तर्यामिरूपेण , - खयं प्रादुर्भूतः । 'आविर्भावस्तु विद्यमानस्य वस्तुनोऽनुभववि- पयतायोग्यत्वम्' 'तदयोग्यत्वं च तिरोभावः ।' अत्राऽनुमवस्तु जैवो ग्राह्यः । जीवान्तर्यामिसाधारणो वा । तत्र तिरोहितचिदानन्दत्वे जडत्वम् । तिरोहितानन्दत्वे हि जीवत्वम् । प्रतिबिम्बत्वादिरूपमपीदमेव ज्ञेयम् । आविर्भू- तानन्दत्वे ब्रह्मत्वम् । तदेतदुक्त'माभासप्रतिविम्वत्वमेवं तस्ये- त्यादिनाऽऽचार्यचरणैनिबन्धे । अतिरोहितसच्चिदानन्दाशयत्वम- न्तर्यामित्वमिति । एवमेव भगवच्छब्दवाच्यानामैश्वर्यादिपण्णा- मपि धर्माणां तिरोभावमविद्यासम्बन्धेन जीवे कृतवान् । तथैव बन्धो जन्ममरणदेहादिरागरूपं विपरीतज्ञानञ्चाविद्ययैव । 'वन्धो- ऽस्याविद्यये तिवाक्यात् । जीवस्यैव नान्ययोः । प्रयोजनाभा- वात् । 'पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविप- यया विति वैयाससूत्रादपि तथा । जडे तु चितिरोमावादेवै- श्वर्यादीनामपि तथा । चेतनधर्मत्वाचेपाम् । तथा चैताहशस्य जीवस्याऽविद्यकं ब्रह्मस्वरूपे तद्धर्मेषु च विपरीतज्ञानं भवति । तच्च जडजीवरूपे ब्रह्मण्यब्रह्मत्वेन ज्ञानम् । इदमेव स्वरूपाज्ञा- नम् । सत्यत्वाद्यनेकाऽलौकिकधर्मेषु चासत्यत्वविकारित्वाद्यनेकलौ- किकत्वेन ज्ञानम् । एवं च सत्यविद्यासम्बन्धेन विपयीक- तालौकिका ये जडजीवधर्मास्त एवं प्राकृतविशेषाः । तेषामनाश्रय- वात्तैः शून्यमित्यर्थः । प्रकृतिसम्बन्धसहकृतेन्द्रियज्ञानविपय- त्वं प्राकृतत्वमिति लक्षणं सिद्धम् । प्रमाणश्चात्र निपेषिका एव श्रुतयः । अयं वन्धोऽप्राप्तनो. धस्तातीयः । नाऽत्र दाशमिको न्यायः (१) । 'विशेपैः प्राकृतैः ५६ . शून्य मितिपदेनतेन निषेधश्चतयोऽपि निषेघविपयाः प्राकृतवि- शेषविषयप्रदर्शनमुखेन व्याख्याता ज्ञेयाः । यद्यप्येतादृशनिपेधेनैव वक्ष्यमाणार्थसिद्धिस्तथापि विशेषत्वावच्छिन्नस्य प्राकृतस्यादितर- धर्माणां चाऽप्रसिद्धविधायकक्षुतेश्चान्यपरत्यानिर्विशेषमेव ब्रह्म सि- यतीति मतान्तरल्युदस्तये विशेपणान्तरमाह-अप्राकृतेति । न प्राकृता 'अप्राकृताः । प्रकृतिसम्बन्धसहितेन्द्रियाऽविपयाः। ईट्ट- मिशेपवदित्यर्थः । प्रमाणं चाऽन पूर्वोदाहृतश्नुतयः । श्रुत्या- युदाहृतधर्माणामपि मायिकत्वात्कथं तथात्वमिति चेत् । वम् । तेषां समायिकत्चे प्रमाणाऽभावात् । ननु निषेधश्नुत्यनुरोधात्तथा कल्प्यते? । नैतद्युक्तम् । निषेध- श्रुतेः प्राकृततद्विपयत्वात् । अन्यथा पाणिपादादिमत्त्वं निषिध्य 'ज- वन इत्यादिना 'पराऽस्य शक्तिरित्यादिना च क्रियाज्ञानविधानवै- यापत्तेः । नन्वन्तःकरणशुद्धिहेतूपासनार्थत्वाचेपां न वैयर्थ्य ? | 'अपाणी'त्याद्युक्तनिर्विशेषस्य ध्यातुमशक्यत्वात् । उपासनार्थमलौ- किकानामेव तेषां विधानमिति चेत् । न । लोकप्रसिद्धत्वेन तेषां लौकिकत्यादिति चेत् । नैवम् । पादादिसाधनाहेतुजवनादिक्रियाया अलौकिकत्वादेव । स्वरूपज्ञानार्थ निर्धर्मकत्वविधानमुपास्त्यर्थन्तु धर्मविधानमितिवाक्यभेदापत्तेश्च । भ्रान्तिप्रतिपन्न विषयवैशिष्ट्येनो- पासनया तच्छुद्धरेवाऽजननाच । 'अन्यथा सन्तमित्यादिनिन्दा- श्रुतेः । नचाऽसतोऽपि वैशिष्ट्यस्य ज्ञानं 'शाखाचन्द्र'न्यायेन खरूपावगतिसाधनमिति नैतदोषावसर इति वाच्यम् । दृष्टान्त- वैपस्यात् । नहि शाब्दं ब्रह्म प्रत्यक्षम् । यसिंश्चन्द्र इव धर्मा आरोप्यन्ते । नापि पाणिपादराहित्येऽपि जवनग्रहीतृत्वादयो ५७ पनाः कचित्प्रत्यक्षाः । तथा चाऽधिष्ठानाधिष्ठेययोरुभयोरप्यप्रत्यक्ष- स्वात्तदृष्टान्तोऽपि निरस्तः । किञ्चाऽऽरोपोऽन्यधर्मस्यान्यत्र स्थापनम् । इत्थं च सति स्वनिरूप्यधर्माणां लोकाप्रसिद्धतयाऽन्यदीयत्वाभावा- दारोपलक्षणाऽसगते रोपोऽपि वक्तुं शक्यः । अत एव न निषेध- विपयत्यमपि तेषाम् । प्रतीनस्यैव निषेधात् । न च लोके मद्गविषयत्वेऽपि श्रुतिदृष्टिगोचरत्वेनारोपनिषेधौ ना. नुपपन्नाविति वाच्यम् । लोके मूर्ताऽमूर्तविलक्षणरूपसत्त्वे 'देवायेति श्रुतिविरोधात् । न चेदमस्मज्ञानानुवाद इति वाच्यम् । तथापि तयोरनुपपत्तेः । ननु कथमिति चेत् । इत्थम् । श्रुतिर्हि दोषदुष्टदृष्ट्या किं तान्विषयीस्रोति शुक्तिरजतवत् । किंवा गुणदृष्ट्या रजते रजत- स्ववत् । नायः । रजतवदन्यत्राऽदर्शनाचक्रमानुपपत्तेः । नचास्म- दादिवचासामविद्यावशाद्विपरीतज्ञानम् । जीववत्तासामविद्यावशाद्वि- परीतज्ञानम् । सम्बन्धानुक्तेः । द्वितीये तनिषेधाऽनुपपत्तेः । ब्रह्मणः सदैकरसत्वान्नाऽवस्था- मेदः । किंचोपासनार्थमसदुपदेशे प्रतारकत्वापत्तेश्च । उपासना- र्थत्वे तु तेपा सर्वतः पाणिपादत्वादिधर्माणा ब्रह्मवदलौकिकत्वेन मनसाऽप्याकलयितुमशक्यत्वेन तद्वत्वेन, त उपासनाया एवा- ऽसिद्धेस्तन्निरूपणाऽऽनर्थक्यापत्तेश्च । निराकारोपासनवत्साकारो- पासनस्याऽप्यशक्यतया भक्षितेऽपि लशुने न शान्तो व्याधिरिति दोषतादवस्थ्याच । ननु चोपासनाया हि वैशिष्यज्ञानमपेक्षितम् । तच 'नद्याः कच्छे गावश्चरन्तीतिवत्सौन्दर्यस्य तरंगिणी' त्यादि- यद्वा तद्विपयकं श्रौतं शादमस्त्येव । तेनैव च निराकाक्षा सा । न तत्साक्षात्कारमपेक्षितमिति नाऽनर्थक्यमिति चेत् । नैतद्युक्तम् । तथा- हि । उपासनादिकमिच्छा, क्रिया, ज्ञान, तद्विशेपो वा तन नाय.। सा किं तावद्धर्मविशिष्टस्य दर्शनेच्छा'तत्मातीच्छा वा । तजि- ज्ञासा वा । तिसृणामपि तासा, वस्तुनो निर्गुणत्वाचस्य त्वन्म- तेऽसम्भवात् न द्वितीय । सापि किंतदुद्देश्यकहोमतादिरूपा क्रिया । किंवा द्रव्योपचारैस्तदर्चनादिरूपा । आये तागविधेरे- चाऽभावान्न सा । द्वितीयेऽनिर्देश्ये तदसम्भवान्न तद्रूपापि सा । तृतीये तु मननरूप तत्तद्वक्तव्यम् । तथा सति निर्गुणस्यापि मननाचद्वैशिष्टयज्ञानमकिंचित्करमेव । नियमेन तत्कारणत्वाऽभावात् । ननु नाऽकिंचित्करत्वम् । बुद्धिस्थैर्यद्वारा निर्गुणमननार्थमेव तन्म- ननाङ्गीकारादिति चेत् । न । सविशेपमनने या निर्विशेषमननेऽपि, तत्प्रतिपादकवाक्यार्थयोधातिरिक्तसाधनान्तराऽनपेक्षणात् । दृश्यतेऽपि चेदानीन्तनपरिव्राजकेपु विनैवोपासना तत एव मननम् । अथ मायाजन्यत्वमेव मायिकत्वमिति चेत् । तन म । मायाया समवायित्वमसमवायित्व वा । नाद्य । मायाधर्मत्वापत्ते । समवे- ताना समवायिकारणे ब्रह्मणि कार्येकार्थकारणैकार्थप्रत्यासत्त्योरमा वात् । तृतीये तु दडचकादिवत्तत्त्वे ब्रह्मणि वस्तुतस्तादृशधर्मसिध्या निर्विशेषत्वाऽसिद्धे । किञ्च दडादिवन्मायाया अपि, 'कर्तृप्रयो- जकत्वनियमेन' तु प्रयोजकत्वस्याऽपश्य वाच्यत्वेन तस्य च मायाया सम्बन्धात्पूर्वमपि सत्वाऽवश्यकत्वाद्धर्माणा मायिकत्वा ऽसिद्धेश्च । अथोपरागलानवजन्यतोच्यते करणस्य कर्तृप्रयोजकत्व- नियमाभावपक्षेऽपि । तदानित्या, कादाचित्की वा । नित्यत्वे द्वैतहा- नि । धर्माणा च तनित्यत्वेन नित्यत्वाऽऽपत्ते । निषेधानुपपत्तिश्च । पादाचित्क्त्वे तु तस्य सनिमित्चत्वात्तदभावे न तत्र तद्वक्तु शक्यम् ।
५९ नन्वस्तु प्रागभाववदनादिसान्तत्वपक्षस्तृतीय इति चेत् । न। अनादित्वे प्रमाणाऽभावात् । ननु सादित्वस्याऽदृष्टत्यादेवानाऽदि- त्वमनुक्तसिद्धमेव । बन्धोऽस्या विद्ययेति वाक्याच्च । तथेति चेत् । सत्यम् । यद्यप्यस्सदादिदृष्टं न सादित्वं तथापि नाऽनादित्वम् । तत्त्वे ब्रह्मतुल्यतापत्तेः । तथापि च 'न तत्सम' इति श्रुतिवि- रोधः। 'सदेवे'त्यादिश्रुतिविरोधश्च । ननु सातत्वान्न तौल्यम् । न । सर्वथाऽनादिसिद्धस्य सान्तत्वाऽभावात् । ब्रह्मवत् । जन्यस्यैव भा- वस्स सान्तत्वनियमात् । ननूक्तः प्रागभावदृष्टान्तः । चलेनाऽऽत्म- नोऽपि सान्तत्वाऽऽपत्तेः। दृष्टान्तस्याऽप्यसिद्धेः । नन्विह कपाले घटो भविष्यतीति प्रतीत्यन्यथानुपपत्तिसिद्ध स इति चेत् । नैवम् । भविष्यकालावच्छिन्नघटसत्ताविषयत्वात्तत्प्रतीतेः । स्यादेतत् । 'इह कपाले नेदानी घट' इति प्रत्ययबलावसिद्धि- रिति । नद्ययमत्यन्ताभावं ध्वंस वाऽवगाहते । पूर्वस्य नित्यत्वात्ततः परिशेपाचत्सिद्धेरिति चेत् न ! तिरोभावावगाहित्वात्तत्प्रत्ययस्य । नहि तिरोभाव ४ । ननु कस्य ह्ययं तिरोभाव.: । अत्र ब्रूमः । विद्यमानस्य वस्तुनो दर्शनाऽयोग्यत्वं तत् । तच्च भगवदैच्छिकम् । नन्वीश्वरीयेच्छाया नित्यत्वाचन्नित्यतापत्तिः । सिमक्षासंजिहीर्पयोनित्यत्वात्तयोरपि नित्य- त्वापत्तेः । नन्विष्टापत्तिस्तयोरुभयोर्नित्यानुवृत्तेरिति चेत् । मैवम् । तयोरेकवस्तुविषयत्वेन तत्सर्गप्रलययोर्नित्यत्वाऽऽपत्त्या तयोरन्यतर- १-श्रीमहालष्णपुस्तकालयस्थमस्पदीयमेतदन्यस्य पुस्तक्मेकमेव लब्धम् । ततच भूयस्योऽशुद्धय स्वव्युत्पत्त्यैव शोधिता । अशुद्धिमयमिवाऽऽसीत्पुस्तक- मेतत् । यदि तथाप्यवशिष्टा स्युर्बुधा क्षाम्यन्तु । २-ननु कोऽय तिरोभाव इति कदाचित्स्यात् ।
स्याऽप्यशक्यनिरूपणाऽऽपत्ते । अथवा 'नेदानी घट' इति प्रत्ययो- ऽत्यन्ताऽभावविपयोऽस्तु । न चेदानीमित्यस्यानुपपतिस्तस्य नित्यत्वा- दिति वाच्यम्! । त्वन्मतीयप्रागभावस्याऽपि तदानीमुत्पत्त्यभावेन तदनुपपत्तेस्तौल्यात् । अनादित्यभड्गप्रसङ्गाच्च । ध्वसापसरणे च तथा प्रतीतेश्च । ननु तर्हि घटोत्सवावपि तागभावप्रत्ययापत्तिरिति । तन्न । घटवत्ताबुद्धे प्रतिबन्धकत्वात् । किंच घटाऽत्यन्ताऽभावस्य घट- त्यावच्छेदकाऽच्छिन्नप्रतियोगिताकत्वादेतद्धटात्यन्तामावस्य तत्रापि सत्त्वातद्विपयफत्वेनैव तादृशप्रतीत्युपपत्तेन तदनुरोधेनातिरिक्ता । गौरवात् । ननु तहिं तादृशाभावस्य नित्यत्यादटानुत्पचिप्रसग इति घटाऽन्तरीयाऽत्यन्ताभाव एव, नत्वेतत् घटात्यन्ताऽभावस्त- वेति तस्यैव परिशेषारिसद्धि । । फरमुखस्य गौरवत्याऽदुष्टव्यात् । न च तद्वत्तावुद्धेस्तदभावबुद्धिप्रतिबन्धक्त्वान्न निर्वाह इति वा- च्यम् । नात्र प्रतीतिमानस्यैव विचार । किन्तूत्पतेरपि । एव सति नित्य प्रतिबन्धकस्य सत्त्वेन तदुत्पत्तेरेव वक्तुमशक्यत्वेन तद्वचावु- ढेरेवाऽनुदयात् । अन्यथा वायुरूपाद्युत्पत्तिप्रसगादिति चेत् । न । घटत्वसमानाधिकरणेन तत्र तदभावग्रहणे घटत्वाऽप्रच्छिन्नाना सर्वेषा कार्यत्वेनैवोत्पत्तिमचया तदभावस्य त्रैकालिकत्वाऽसिद्धेतदत्यन्तामा- वाऽसिद्धिप्रसगात् । स्यादेतत् । पूर्व घटामाश्वद्भूतलमितिबुद्धि । तन्न च घट आनीते घटवद्भूतलमितिबुद्धिस्तत्र न तदभावबुद्धि । तहु- द्धिपतिबन्ध्यत्वात् । तथा च प्रतिबन्ध्यबुद्ध्यन्यथानुपपत्त्यैव तत्सि- द्विध्वस्त इति बुद्ध्यभावान्न ध्यसो विषय.। सत्यम् । किं तत्र तत्सामानाधिकरण्येन तदभावग्रह , किंवा तदवच्छेदेनः । आये, यत् किंचिद्धटवचाबुद्धिप्रसंगः । द्वितीयश्चेत्सर्वत्राऽपि स एवाऽस्तु, कृतं तत्सामानाधिकरण्येन तदभावग्रहणप्रयासेन । न च तस्य प्रति- वन्धकत्वम् । घटरूपेणाविर्भावेच्छायामभावरूपस्य तिरोधानात्सर्व- स्यैव व्यवह्रियमाणत्वात् । सर्वव्यवहारार्थमेव तत्प्राकट्यात् । न चैवम् । विद्वदाभरणे नित्यलक्षणे दोषप्रदर्शनात् । वस्तुतो भावाप्रतियोगित्वं तत्त्वमित्यत्रैव तात्पर्यात् । न चैवं ब्रह्मणो नित्यत्वप्रसंगः । तयोः कार्यधर्मत्वात् । प्रकृतमनुसरामः । तथा च धर्माणां मायिकत्वाऽभावारिस- द्धमप्राकृतधर्मत्वं ब्रह्मणः । अत्रैव हेतुगर्भविशेषणमाह-'अशे- पोपनिपद्वेद्यमिति । न विद्यते शेपो यासु ताः । ततः कर्म- धारयः । ततस्तत्पुरुषः । सर्वोपनिषत्प्रतिपाद्यमित्यर्थः । अस्य तत्त्वं त्वित्थं बोध्यम् । तथाहि-यदि धर्माः प्राकृताः स्युस्तर्हि तद्विशिष्टं ब्रम न भवेत् । तथा सति तत्प्रतिपादकवेदान्तानामब्रह्मपरत्वे 'सर्वे वेदा यत्पदमित्यादिवाक्यानि व्याकुप्येरन् । औपनिषद- त्वमपि साधारणं स्यात् । अत ईदृशयास्याऽन्यथानुपपतिरेव विशे- पाणामप्राकृतत्वं साधयतीति सुधीभिरवसेयम् । अथेयं न दूषणसं- गतिः । अतात्त्विकत्वं ह्यौपाधिकत्वमायुप्मता वाच्यम् । तत्रोपा. धिर्मायैव तथा । तत्र सा किं सर्व ब्रह्माभिव्यामोत्युत तदेक- देशम् । आयेऽभिव्याप्तेरेवाऽसम्भवः । परिच्छिन्न एव तत्सम्म- वात् । उत्तरे सांशत्वापत्तिः । 'असंगो ह्ययमित्यादिविरोधश्च । ननु 'घटावच्छिन्न आकाश' इत्याकाशवन्मायावच्छिन्नत्वेऽपि न सांशत्वापचिरिति चेत् । मैवम् । वैलक्षण्येन तस्य दृष्टान्तत्वा- ऽसिद्धेः । तस्य कार्यत्वेन सांशत्वात् । सांशत्वादासतापप्तिरिति चेत्।
.६२ वायुवदग्राह्यत्वान्न सापत्तिः । ननु कचिद्वायोरपि ग्राह्यत्वं निरूप्यत इति चेत् । न । व्यणुफस्य ग्राह्यतापत्तेः । अयोग्यत्वान्न तहह इति चेत् । अत्रापि तथा । महत्त्वाभावनिवन्धनं हि तत्राऽयोग्यत्वम् । तत्रापि स्पर्शाऽभावनिवन्धनं तदिति समाधिः । नच सांशत्वे तन्नाशापतिरिति वाच्यम् । इष्टापतेः । अन्यच्चाऽवच्छेदकं हि व्यवच्छेदकम् । यथा घटत्वं पटा- द्यावच्छेदकम् । तधात्रापि घटायुपाधिरूपमवच्छेदकं महाकाश- रूपमशं परिच्छिनचीति घटावच्छिन्न आकाश इति प्रत्ययस्तू- पपन्नः । ब्रह्मणि तु तथा वक्तुमशक्यत्वात्कथं मायावच्छिन्नतेत्यव- धार्यम् । फिंच ब्रह्ममाययोः कः सम्बन्धः । न तावत्संयोगः । अजसंयोगनिषेधात् । संयोगलक्षणाभावाच । उभयोरन्यत्रास्थितः । अनाश्रितत्वादुभयोर्न समवायः । नापि स्वरूपलक्षणः । विशेषण- विशेप्यादिभावाभावेन तस्य वक्तुमशक्यत्वात् । नन्वस्त्येव विशेषण- विशेप्यभावः । दोपाऽभावात् । नैवं शक्यं वक्तुम् । तथाभावे ब्रह्मणः सधर्मकत्वापत्तेरेव दोपत्वात् । अथ कर्तृत्वादिधर्मवद्विशेष्यत्यमपि मायिकमिति न तदाप- त्तिर्वास्तवत्वाभावात् ? । तन्न । विकल्पासहत्वात् । तथाहि- तन मायिकत्वं मायाजन्यत्वम् ! । मायासम्बन्धेन प्रतीयमानत्वं वा: । आये ब्रह्मणः सद्धर्मकलापत्तिः । सदैकरसत्वव्याघातश्च । द्वितीयेऽसंगश्रुतिविरोधः । ननु न ब्रह्मणि मायासम्बन्धं बमोऽपि तु जीचे। तथा च जीवनिष्ठया तयादोपरूपया विचित्रा धर्माः प्रत्याय्यन्त आरक्ताद्युपनेत्रवदिति चेत् । न । जीवस्य ब्रह्माभिन्नत्वेन तथा वक्तुमशक्यत्वात् । तादृशोपनेत्रवन्मायायाः तद्धमत्वापत्तेश्च ।
६३ तथा च मायासम्बन्धस्य वक्तुमशक्यत्वेनौपाधिकभेदाऽसम्भवाद- प्राकृताऽनेकधर्मवत्या सर्वोपनिपद्वेद्यत्वं सिद्धं ब्रह्मण इति दिक् । उक्तविशेषणविशिष्टं वस्तु, विशेष्यत्वेन निर्दिशति 'परमिति । सामान्येन परत्वस्येन्द्रियादिप्वपीन्द्रियाणि पराण्याहुरि तिवाक्येनो- क्तत्वाड्रह्मेति । सर्वेभ्यो यत्परब्रह्म तदित्यर्थः । न च ब्रह्मत्वेनैव परत्वे प्राप्ते परपदानर्थक्यमिति वाच्यम् ? । इन्द्रियादिपरत्वस्य ज्ञेये ब्रह्मण्यपि सत्वात् । ततोऽपि परत्ववोधनेन सार्थक्यात् । ननु 'महतः परमव्यक्तं सा काष्ठा सा परा गतिरितिश्रुत्या, 'इन्द्रि- याणि पराण्याहुरिति स्मृत्या च ब्रह्मणोऽन्यस्य न परत्वमिति चेत् । अत्रोच्यते । उक्तश्रुतेस्तत्र वाक्ये, पुरुपपदं न परब्रह्मवाचक किन्त्वक्षरब्रह्मपरम् । स्मृतेश्च । तदनुयायित्वायापि (१) बुद्धिपरत्वेना- ऽक्षरं ब्रह्मैव ज्ञेयम् । न चाऽत्र प्रमाणाभावः । 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव चेति प्रमाणसद्भावात् । तथा च द्वाविमाविति वाक्यानुरोधाक्षरस्य परत्वाऽसम्भवाचाऽक्षरपरमेव तन पुरुषपदम् । 'उत्तमः पुरुपस्त्वन्य' इति परमात्मपदेन तत्पृथक्परमब्रह्मनिर्देशश्च । अन्यच्च । 'ब्रह्मविदामोति पर मित्यत्र ज्ञेयाऽक्षरब्रह्मण एव परस्य, ब्रह्मणः पुरुषोचमस्यैवाभिधानाच । अत्र ब्रह्मेत्यादिपदार्थचतुष्टय- विचरणभूतायां 'सत्यं ज्ञानमनन्त'मित्युचि ब्रह्मविपश्चिच्छब्दाभ्यां विवृतत्वाचेति संक्षेपः । तथा चैतादृशं ब्रह्म वाञ्छितप्रदानेन ते मुदा प्रीतयेऽस्त्वित्याशीर्वचनम् । इति श्रीमद्रधुनाथात्मजगोस्वामिश्रीब्रजरायविरचितो ब्रह्मयादः समाप्तिमगमत् ।।
॥ श्रीः ।। श्रीगोपीजनवल्लभाय नमः। पुष्टिमार्गसिद्धान्तबामालायां श्रीमत्पुरुषोत्तमविरचितो भगवत्प्रतिकृतिपूजनवादः। सप्तमो मणिः। सर्वः सर्चान्तरो देवो यो गुरुः प्रतिमादिपु । भक्त्या भक्तैर्विशेषेण पूज्यस्तं कृष्णमाश्रये ॥ १॥ नन्विदमसगतमिवाभाति । कुतः । 'स्थानतौल्यात्स्थितेः साम्यादवज्ञादिपु दोपतः । निन्दनाचाऽन्यथा भक्तेस्तुल्यं सर्वत्र पूजनम् ॥ २॥ तथाहि-ब्रह्मवादिनां भगवान्सर्वात्मकः । विशिष्टाद्वैतवादिनां सर्व- शरीरविशिष्टः सर्वोत्तरः । केवलद्वैतिनां सर्वान्तर एव । शरीरं तु मिन्नमेव । मायावादिमते शरीराणां सर्वेषां कल्पितत्वात्सर्वाधिष्ठा- नम् । नानाविधाना शिवभागवतादीनां शिवादिरूप इति । वस्तु- खरूपविचारे तत्तन्मतानुसारेण सर्वेषां शरीराणा तौल्या 'ब्रह्म- दाशा ब्रह्मेमे कितवा उतेति श्रुतौ । 'विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिन' इति गीतायां 'सूर्योग्निाह्मणा गावो वैष्णवः खं मरुज्जलम् ।
भूरात्मा सर्वभूतानि भद्र पूजापदानि म' इत्येफादशेऽन्यत्र च सामान्यत एव निर्देशेनापि तन्निश्चयाच, न कोऽपि कापि विशेषः । किश्च । अन्तर्यामिवामणे 'यः पृथिव्यां तिष्ठन्यः पृथिवीमन्तर' इत्यादिना पृथिव्यादिप्वात्मान्तेषु तुल्यतयैवाऽऽन्तरत्वश्रावणात् । 'अप्स्वनी हृदये सूर्ये स्थण्डिले प्रतिमासु च । शालग्रामे च चक्राङ्के पटे मुद्रासु देवताः । नित्यं सन्ति हिरण्ये च ब्राह्म- णेषु च गोषु चेति स्मृत्यर्थसारेऽपि तुल्यतयैव सन्निधानकथनाच । अन्तर्यामित्वेन स्थितौ देवतान्तरवदावेशप्रकारेण वा तेनं तेन रूपेण भगवतः स्थितौ न कोऽपि विशेपः । न चाऽऽचारमाधवे- ऽर्चनं सम्प्रवक्ष्यामि विष्णोरमिततेजसः । यत्कृत्वा मुनयः सर्वे परं निर्गुणमानयुरिति परमफलार्थम् । अप्स्वनौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । पट्स्वेतेपु हरेः सम्यगर्चनं मुनिभिः स्मृतम् । अग्नौ क्रियावतां देवो दिवि देवो मनी- पिणाम् । प्रतिमाखल्पबुद्धीनां योगिनां हृदये हरिः। तस्य सर्वगतत्याच स्पंडिले भावितात्मना'मित्यामेये तं तं प्रति विशे- पतः स्थितिकथनान्न स्थितेस्तौल्यमिति शङ्यम् । तस्य तस्य तत्र तत्र श्रद्धासद्भावात्तस्याः फलमुसाङ्गत्वेन फलशैध्याथै तदतिशयोत्पाद- नाय तथा कथनात् । तावताऽपि साम्यावाधात् । अन्यथा सर्व- गतत्त्वाचेति विशेषणवैयर्यप्रसक्तेः । किंच । यद्येवं नाङ्गीक्रियते तदोत्कृष्टस्यैव पूज्यत्वादेकत्र विशिष्यार्चतोऽन्यन्नाऽवज्ञादायपि दोषाऽभावप्रसङ्गः। 'अहं सर्वेषु १-श्रद्धाया । २-तं तमधिकारिणं प्रति स्थितिविशेषकयनात्। ३-चेति ५ भूतेषु भूतात्माऽवस्थितः सदा । तमवज्ञाय मां मर्त्यः कु. रुते विडम्बनम्' । 'अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नया- नये । नैव तुष्ये चितोर्चायां भूतग्रामावमानिनः ।' 'म- नसा सर्वभूतानि प्रणमेद्वहु मानयन् । एतेपु जीवक- लया प्रविष्टो भगवानिती'त्यादिजातीयाऽनेकपुराणवाक्यविरो- धापत्तिश्च स्यात् । फिंच । यो मां सर्वेषु भूतेषु सन्तमात्मान- मीश्वरम् । हित्वार्ची भजते मौट्याद्भमन्येच जुहोति स' इत्यादिप्यन्यथा भजनस्य निन्दनात् । 'यस्यात्मबुद्धिः कुणपे नि. धातुके स्पर्धा कलत्रादिषु भौम इज्यधीः । यस्तीर्थबुद्धिः सलिले न कर्हि चिजनेवभिनेषु स एव गोखर' इति योगे- श्वरान्प्रति दशमस्कन्धीये भगवद्वाक्ये तादृशवुद्धेः पूजकस्यापि निन्दनाच्च । अतः पूजा सर्वत्र सभेवोचिता । न तु प्रतिमादिविशे. घेणाऽन्यत्र न्यूनत्वेनेति । अथारम्भदशायामेवम्भावस्याऽशक्यत्वाद- शक्योपदेशत्वं विभाव्यते । तदापि पुरुषेषु ब्राह्मणेषु साधुपु स्थिते. राधिक्यमङ्गीकार्यम् । 'एकद्वित्रिचतुःपादो बहुपादस्तथाऽपदः । चयः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिये'त्येकादशे । 'न ब्राह्मणान्मे दयित रूपमेतचतुर्भुजम् । सर्ववेदमयो विप्रः सर्व- देवमयो ह्यहम् । तसाह्म ऋपीनेतान्ब्रह्मज्ञाञ्च्छ्रद्धयाऽर्चय। एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिरिति चुतदेवं प्रति । 'न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरु- कालेन दर्शनादेव साधवः । भजन्ति ये यथा देवान्देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सला'- इत्यङ्करं प्रति च भगवद्वाक्यात् । नारदं प्रति श्रीवसुदेयवाक्याच्च । ।
न चैवं सति गुरापपीतरसाम्यापाताचदाधिक्यबोधकाना 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।.तस्सैते कथिता धर्थाः प्रकाशन्ते महात्मन' इत्यादि श्रुतीना 'गुरौ वसति यस्त्वन्य- माश्रयेत्पूजयेत्कुधीः । न तस्स क्लेशनिस्तारो वर्तते मुनिसत्त- में'ति । तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत् । अमेदेनार्च- येद्यस्तु स भक्तिफलमानुया'दिति । 'यत्र यत्र परीवादो मात्स- च्छ्रियते गुरोः । तत्र तत्र न वस्तव्यं निर्यायात्संसरन्हरिम् । यैः कृता च गुरोनिन्दा विभोः शास्त्रस्य नारद । नाऽपि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चनेति वाराहविष्णुरहस्यपञ्चरात्र. स्मृतीना 'सोऽहं भगवतो विदेशान्ददामि मां चापि सह दास्सा- येति गुरावात्मसमर्पणबोधिकाया श्रुते. । 'इयदेव हि संच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यदै विशुद्धभावेन सर्वार्थात्मार्पणं गुरा'विति 'एतापत्यात्मजैीर कार्या ह्यपचितिर्मुरा'विति तृती- यस्कन्धोक्तेश्च विरोधः शङ्कनीयः । तत्र स्त्रोपकारकत्वोपाधि धर्मा. धिक्य चादाय तथा बोधनात् । 'त्वं हि नः पिते'त्यादि श्रुतेः । "नैनोपयन्त्युपचितिं कायस्तवेश ब्रह्माऽऽयुपापि कृतमृद्धमुदः सरन्तः। योऽन्तर्गहिस्तनुभृतामशुभं विधुन्वन्नाचार्यचैत्यवपुषा स्वगतिं व्यनक्ति' इत्येकादश उद्धववाक्यात् । 'ज्ञानी प्रियत- मोऽतो मे ज्ञानेनासौ विभर्ति मा मिति भगवद्वाक्याच तथा निश्चयात् । तावता खरूपेऽतिशयाऽसम्भवात् । प्रतिमापूजनन्त्व- सङ्गतमेव । 'न तस प्रतिमाऽस्ती'तीति श्रुत्या ब्रह्मप्रतिमानिषेधात् । पिशामिति प्रापम् । मच्छिम्दौरीति कपुररूपम् ।।
६८ अधेदानी पूर्वोक्ताधिकारादपि जघन्याधिकार इत्याफ्योपदेश- समेतस्याऽपि विभाव्यते, तदापि शवलस प्रतिमा स्वीकृत्य 'शिवं भास्करमग्निं च केशवं कौशिकीमपि । मनसाऽनर्चयन्याति ब्रह्मलोकादधोगति'मित्यादि पञ्चायतनपूजाविधायकवाक्यैः पञ्च- स्वपि तौल्यं वोध्यम् । यत्पुनरेतदन्यतमस्य मध्ये स्थापनं तदपि तस्य तस्य तत्र तत्र श्रद्धातिशयप्रयुक्तमितिवाक्यान्तरादवसीयते । अन्यथा सर्वेपामेव नियमनकस्सा एव देवताया मूर्तेमध्ये स्थापन- मुक्तं स्यात् । अतो वस्तुविचारे सर्वत्र स्थितिविचारेऽवादिषु सम- स्तचेतनेपु वाऽऽधिक्यविचारे पुरुपेपु ब्राह्मणेषु साधुप्वाधुनिका- धिकारविचारे पञ्चायतनेषु तौल्यात्केवलश्रीकृष्णप्रतिमायामेव पूजनं न प्रामाणिकपदवीमधिरोढुमर्हतीति प्राप्ते । अनोच्यते । स्थानस्थित्योः समत्वेपि तद्धर्मादेविचारतः। गुरी मूर्ती विशेपोक्तेः पूजासाम्यं न युज्यते ॥ १ ॥ यदायुप्मता स्थानसाम्यमुक्तं तत्तु ब्रह्मवादाऽनुसारेणाऽनुजानीमहे । शेषेषु वादेषु यथायथं, खल्पतदधिकाऽनेकश्रुतिविरोधेनोत्तरोत्तरम- पकर्पस्याऽऽकारेषु सूचितत्वात् । तथाहि । मायावादिमत 'इन्द्रो मायामिरित्यादिवाक्यामासं, कार्यस्य जडत्वादिना तत्कारणमपि ताडगेवानुमातव्यमिति युक्त्यामासं चाऽऽश्रित्य प्रपञ्चस्य ब्रह्मणि कल्पि- तत्वाऽङ्गीकारेण शुक्तिरजतकल्पत्वात्सर्वं खल्विदं ब्रह्म 'इदं सर्वे यदयमात्मे त्यादीनां सर्वस्य ब्रह्मात्मकत्वबोधिफानो 'ऐतदात्म्य मिदं सर्व तत्सत्यं' 'सत्सं चानृतं च सत्यमभवत्' 'यदिदं किंच तत्सत्यमित्याचक्षत' इत्यादीनां प्रपञ्चसत्यत्वबोधिकानां निर्गुण- १ परिवारसहितस्य। - ६९ स्योपादानत्वाऽनङ्गीकारेण 'यथा सौम्यकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यादित्यादीनां कारणताप्रकारबोधिकानां 'यतो वा इमानी'त्यादीनां निर्गुणमेव ब्रह्म प्रकृत्य पठितानां ब्रह्मकारण- त्वबोधिकानां श्रुतीनां तदुपहणानां 'तदनन्यत्वमारम्भणशब्दा- दिभ्यः' 'आत्मकृतेः परिणामा'दित्यादीनां न्यायानां विरो- धात् । तथा निर्गुणमेव प्रकृत्य पठिताना मेप आत्मा अपहतपात्मा विजरो विमृत्युविजिघत्सोपिपास'सत्यसंकल्प:' 'स या अयमात्मा सर्वस्य वशी सर्वस्पेशानः' 'सर्वस्याधिपतिः सर्वमिदं प्रशास्ती'त्यादीनां शरीरादिदोपनिषेधमुखेन निर्दुष्टतदात्मकब्रह्मस- रूपनिर्दोपतद्गुणप्रतिपादकानां सोपबृंहणन्यायानां निराकारत्वाङ्गी. कारेणोपासनस्य कल्पितत्वाङ्गीकारा'चदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत' इत्यादीनां निर्गुणोपास्यत्वयोधकानां लक्ष्यवाही कारेणाऽन्यासां च किम्बहुनोपाख्यानानां कारपनिकत्वाङ्गीकारे- णाऽनेकश्रुतिविरोधाच्चात्यन्तमपकर्षात् । भेदवादिमते चाऽद्वैतसमवायित्वकारणताप्रकारबोधकानां प्रपञ्च- विशेषमायिकत्वबोधकानाञ्च विरोधेनाऽन्यासामविरोधेन ततोऽल्पाप- कर्पात् । विशिष्टाद्वैतवादिमते च सर्वरूपत्वबोधकश्रुत्यतिरिक्त- श्रुत्यविरोधेन ततोऽप्यल्पापफर्षात् । ब्रह्मवादे तु ब्रह्मण उभयव्यपदेशाधिकरणन्यायेन विरुद्धधर्मा- श्रयतयाऽचिन्त्यानन्तमहिमत्वेन कस्या अपि श्रुतेर्विरोधाऽभावेन सर्वत उत्कर्षाचदनुसरणस्यैवौचित्यात् । तथैवाऽन्तर्यामिब्राह्मणाद्यनुरो- धेन स्थितिसाम्यमप्यनुजानीमहे । यत्पुनः सर्वत्र पूजासाम्यं भवता प्रतिपादित तत्तु न मृप्यामहे । पूजायास्तत्तम्मतभेदेन भगवतक्ति- भगवत्तोपचितशुद्धिकारणत्वाद्ययाशास्त्र तत्करण एव तत फलसि- द्धेनिश्चये पूर्वोक्तवाक्येपु पुरुपादौ भगवत्रियत्वोपाधेराधिक्यात् । श्रुतदेव प्रति वाक्ये च ब्रह्मर्षिपूजाया स्वपूजासाम्ल्यफलफताबो- धनादिदानी भगवदागमनादीना तत्पूर्वोचरपूजयो प्रतिमादिविप- यक्त्वस्यैव सिद्ध्या तदाधिक्यस्यैव लाभादक्रूर प्रति वाक्ये शीघ्रफ- लकलोपाघेर्नारद प्रतिवाक्ये च दीनवत्सरत्वोपाघेराधिस्याद्गुरावा- धिक्यस्य भगवतैवोपपादितत्वाच्च । तथा 'सूर्ये तु विद्यया नव्या हविपानौ यजेत माम् । आतिथ्येन तु विप्राय्ये गोप्पड्ग यर- सादिना । वैष्णवे बन्धुसत्कृत्या हृदि से ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रवैस्तोयपुरस्कृतैः । स्थंडिले मन्त्रह- दयोंगरात्मानमात्मनि । क्षेत्रनं सर्वभूतेषु समत्वेन यजेत मा- मिति तत्र तत्र प्रकारबोधनेन वस्तुस्थितिसाम्ययो पूजासाम्याऽप्र. योजकत्वस्य सिद्धत्वात् । ताशबुद्धिमात्रेणैवाऽवज्ञादिदोपपरिहार- सिद्धौ तेषामपि पूजासाम्याऽप्रसञ्जकत्वाच । एव पूर्वोक्तहेतूनामन्यथासिद्धत्वे पूर्वोक्तप्रमाणसिद्धप्रियत्वोपका- रकत्वादिविचारेण गुरौ प्रतिमाया च विशेषत पूजा कार्येव । न च प्रतिमास्थले विप्रतिपत्तव्यम् । 'न तस्य प्रतिमाऽस्तीति' श्रुते साम्यनिषेधपरत्वात् । 'न तपेशे कश्चन, तस्य नाम महद्यशः' 'न तत्समचाभ्यधिकश्च दृश्यत' इति श्रुत्यन्तरेण तथा निर्ण यात् । वैशम्पायनसहस्रनामध्यात्याया शकराचार्यैरपि तथा व्याख्यानात् । गुणातीतस्य साकारताया 'कृत्ला प्रज्ञानधन' १ मन्यामह इति खपुस्तकम् ।
इति श्रुतौ कृत्सपदाऽन्यथानुपपत्त्या प्रथम एव वादे साधितत्वात् । 'शिलाघुद्धिर्न कार्या च तत्र नारद कहिंचित् । 'ज्ञानानन्दा- स्मको विष्णुर्यत्र तिष्ठत्यचिन्त्यकृत् । 'तीर्थक्षेत्रस्थिते विप्णी शिलाघुद्धि करोति यः। स याति नरकं घोरं पुनरावृत्तिव- र्जितम् । 'अत्र सामान्यतो मूढा हैतुकाः पापबुद्धयः । प्रतिमेति विकल्पन्ते दृष्ट्वाऽऽनन्दात्मकं वपुरिति स्कान्दसह्याद्रिखण्डोत्तरसं- हितास्थपांडुरंगमाहात्म्यवचनादपि तन्निर्णयात् । उत्कलखण्डे च पुरुषोत्तममाहात्म्ये-'अदो यद्दारु प्लवत' इति मंत्रस्य दारुब्रह्मपरत्वेन, व्यासचरणैर्वेदभाष्ये च विद्यारण्यखामिभि- र्व्याख्यानात् । वायवीयादिपु गयामाहात्म्ये गदाधरजनार्दनादि- खरूपाणामनुभवसाक्षिकस्य माहात्म्यदर्शनाच्च । न चानादिसिद्धासु देवादिकृतासु न विप्रतिपद्यामहे । वाचनिकत्वात् । तावता कथं सर्वत्राऽविप्रतिपत्तिरिति शक्यम् । एकादशस्कन्धे सर्वत्रैवाऽविशेषण तथा प्रतिपादनात् । 'महापुरुषमभ्यर्चेन्मूाभिमतयाऽऽत्मन' इति जनकं प्रति योगेश्वरवाक्यात् । सप्तविंशाध्याये भगवतापि निःश्रेयसार्थ महता प्रवन्धेन तद्विस्तारभूतस्य प्रतिमापूजनरूप- क्रियायोगस्यैवोपासका प्रतिपादनात् । तत्र 'मदर्चा संप्रतिष्ठाप्येति उदासाऽध्याहने न स्तः स्थिरायामुद्धवार्चने । अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेवयमित्यादि वाक्यदर्शनेऽनादि- प्रतिमाया वक्तुमशक्यत्वात् । एकादशेऽध्यायेऽपि 'भक्तिस्त्वय्युप- युज्येत कीदृशी सद्भिरातेति सदाहताया भगवदुपयोगिन्या मक्तेः प्रने, 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मित्यादिना 'गीसताण्डववादिनगोष्ठीमिर्महोत्सवः । यात्रा बलि विधान ७२ च सर्ववार्षिकपर्वसु । वैदिकी तात्रिकी दीक्षा मदीयत्रतधा- रणम् । ममा स्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्या- नोपवनाक्रीडपुरमन्दिरकर्मणि । सम्मार्जनोपलेपाभ्यां सेकम- ण्डलवर्तनः । गृहशुश्रूपणं मह्यं दासवद्यदमायया। अपि दीपावलोकं मे नोपयुड्यानिवेदितम् । यद्यदिष्टतमं लोके यचा. तिप्रियमात्मनः । तत्तनिवेदयन्मयं तदानन्त्याय कल्पत' इत्यन्तैस्तस्या एव भक्तार्थमपि महता प्रपञ्चेन कथनात् । अष्टविंशेऽध्याये ब्रह्मवादे सम्यक् प्रतिपादिते तदनुगुणजडच- र्यायाः साम्यबुद्धेश्वानधिकार बुधोनत्रिंशे श्रीमदुद्धवेनोपायान्तरे पृष्टे 'हन्त ते कथयिष्यामी'त्यादिना पुनस्तस्या एवोक्तेश्च । अतो भक्तोपासकज्ञानिभेदेन त्रिविधानामप्यधिकारिणामर्थे तस्या एवोक्त- स्वातत्राऽनादिप्रतिमाप्रतिपादकपदवाक्याभावादविशेषस्यैव प्रतीतेन शङ्कालेशोऽपि । ननु प्रतिमालु भगवतो नान्तर्यामिरूपेण स्थितिः । अन्तर्यामि- ब्राह्मणे शरीरत्वेन तदगणनात् । न वा जीवरूपेण । चैतन्यादर्श- नात् । नापि विभूतिरूपेण । ताखप्यसक्ष्यानात् । न च 'नान्तोऽस्ति मम दिव्याना मिति वाक्यादसहयानेऽप्यदोष इति वाच्यम् । विभूतिप्रसिद्ध्यभावात् । तथापि 'प्राधान्यतः कुरुश्रे- ठेति वाक्यान्तासु प्राधान्याभावेनाऽप्रयोजकत्वाच्च । किन्तु सन्नि- धानाऽपरपर्याया वन्हेस्यसीवावेशरूपा वाच्या। सापि न सार्वदिकी प्रतिष्ठावाहनादिबोधकशास्ववैयऱ्यांपत्तेः । 'खण्डिते स्फुटिते दग्धे भ्रष्टे मानवियर्जिते । यागहीने पशुस्पृष्टे पतिते दुष्टभू. मिषु । अन्यमवाचिते चैव पतितस्पर्शपिते । दशस्खेतेषु नो चकुः सन्निधानं दिवौकस' इति ब्राह्मे निमित्तवशादसन्निधान- स्याप्युक्तत्वात् । 'सण्डिता स्फुटिता दग्धा यस्मादर्चा भयावहा । तसात्समुद्धरेत्तां तु पूर्वोक्तविधिना नर' इति पश्चराने जीर्णोद्धा- रस्याप्युक्तत्वाच । 'दशपञ्चाङ्गुला मुख्या मध्यमा द्वादशाङ्गुला । अष्टाङ्गुलाधमा प्रोक्तान्यूनाधिक्यं न कारयेत् । प्रतिष्ठा विफला तस्य पूजनं तस्स निष्फलम् ! मानाङ्गुलिविहीना तु प्रेतिमा यत्र तिष्ठति' इति गौतमीयतन्त्रे लक्षणवैकल्येऽपि प्रति- ठावैफल्यकथनाच । एवं सति प्रतिमापेक्षया शालग्रामादिपूजनमेव ज्यायः । नित्यसन्निधानादिति चेत् । प्रतिमायामपि तौल्यात् । विष्णुधर्मो- चरतृतीयकाण्ड आवाहनप्रयोजनाध्याये 'विष्णुः सर्वगतो देवो महोऽपि महत्तरः । सूक्ष्मेभ्यश्चाति सूक्ष्मस्तु सर्वव्यापी जगन्मयः । नास्ति किश्चिजगत्यसिन् यत्र नास्ति जनार्दनः । सदसच महाभाग तेन व्याप्तं महात्मना । आवाहनेन किं कार्य तस सर्वगतस्सविति राज्ञा( वज्रेण )पृष्टे 'आवाहनमथा- त्रापि क्रियते यजगत्पते । नित्यसन्निहितस्यापि सर्वत्र परमे- टिनः । केवलं कारणं तत्र स्वमनस्तुष्टिकारणम् । आवाहितो मया देवस्तत्र सन्निहितोऽपि चेति मार्कण्डेयेन तथा निर्णीत- त्वात् । न च प्रतिष्ठावाहनादिवोधकशास्त्रवैयर्थ्यापत्ति. । मन्दमध्य- मानुपासकांच प्रति बौद्धसन्निधानार्थत्वेन सार्थक्यात् । एवमेव खण्डितत्यादीनामसन्निधायकत्वाभावेऽपि जीर्णोद्धारबोधकस्य सण्डि- ता स्फुटिवा दग्धा यसादर्चा भयावहा । तसात्समुद्धरेत्तांतु १ प्रतिष्ठति सपुस्तकम् ।
७४ पूर्वोक्तविधिना नर' इति पथरावस्मरणस्यापि तान्प्रत्येय साथ- वत्वं ज्ञेयम् । 'पण्डिता स्फुटित' इति वाक्ये दिवीफःपदबहु- वचनाभ्यां भगवयतिरिक्तविषयत्वनिश्चयाच । नन्वे सति 'यः शूद्रस्थापितं लिङ्गं विष्णुं वा विनमे- द्विजः । स याति नरकं घोरं यापदाभूतसंप्लवमिति । 'य: शूद्रेणाचितं लिझं विष्णुं या विनमेन्नरः । न तस्य निष्कृतिदृष्टा प्रायश्चित्तायुतरपी'ति । 'नमेद्यः शूद्रसंस्पृष्टं लिङ्गं वा हरि- मेव वा । स सर्वयातनाभोगी यावदाचन्द्रतारकमिति स्कान्द- नारदीयादिवाक्येषु मृगकृतस्थापना मार्चनस्पर्शादी नमने दोपयोधनस्य का गतिरिति चेत् । न । उक्तैव. । न चात्र विनिगमकाभावः शक्ष्मः । ज्ञानाधिकारिणः सर्वत्र भगवद्धावं हृदि कृत्वैव विष्णुधर्मो- क्तप्रश्नोतरवास्ययोः सर्वगतनित्यसन्निहितपदकथनात् । नन्वेवं सति सर्वत्र तौल्या प्रतिमायां को विशेष इति चेत् । न। नृसिंहरूपेण प्रल्हादमिव जगन्नाथरूपेणेन्द्रद्युम्नादीनिवैनमनेन रूपेणो- द्धरिप्यामितीच्छया प्रादुर्भूतत्वमेव विशेष जानीहि । नचात्र शिल्पिनियापि व्याप्रियत इति कथमिच्छारारोऽवधेय इति शक्यम् । श्रीजगन्नाथदृष्टान्तेनैव तस्या अपि प्रकारविशेषतयेच्छाशरीर- प्रवेशस्य साधितत्वेन दत्तोत्तरत्वात् । न चात्र तथेच्छाकारे माना- भावः शल्यः । ऊनत्रिंशाध्यायस्थसन्दर्भसिद्धत्वात् । 'येनाञ्जसा पुमान्सिद्धयेत्तन्मे ह्यजसाऽच्युतेति प्रश्नोत्तरत्येन खधर्मात्मक- पूजनस्यानुवादेन तथा निश्चयात् । नन्वम्व्वमिसूर्यगोब्राह्मणाना हिरण्यस्य च साधारण्यान्माऽस्तूक्तो विशेषः । स्थण्डिलेऽपि बहूपचा- रानुक्तेर्मास्तु स. । तथापि शालग्रामचक्राङ्कपटमुद्राखाधिक्यस्य वचनत्वात् (१) । हृदये च ध्याननिष्ठया सर्वेषामुपचाराणां कर्तुं शक्य- त्वात् , ध्यानस्य च ज्ञानत्वेन, ज्ञानसमानाकारत्वेन वा, ज्ञानकोटि- पातित्वात् , 'श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतपे'त्यनेन तत्तु- तेश्च शालग्रामादौ वा द्रव्येण हृदि वा ध्यानेन पूजा कार्या, न तु प्रतिमायामेवेत्याग्रहः कार्य इति चेत् । मैवम् । ज्ञानयज्ञस्य श्रेयस्त्वे. ऽप्यत्र तथात्वाऽभावात् । अञ्जसा सिद्ध्यर्थ द्रव्ययज्ञस्यैवाऽत्रोक्तत्वात् । 'पृथक सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् । कारयेन्नृत्य- गीताधर्महाराजविभूतिभिरि' त्यादिवाक्यैस्तथानिश्चयात् । हृद- येऽपि मनोमयी प्रतिमां कृत्वैव तत्करणे तस्या आवश्यकत्वाच्च । शालग्रामादिप्वसाधारणत्वस्य शक्यवचनत्वेऽपि भवता तदनुक्ते - नावासोलारोपचाराणामशक्यत्वाद्यथाकथञ्चित्करणेऽपि. तत्तत्रादेशेषु तस्य तस्यादर्शनेन तथाङ्गीकारबुद्ध्यनुदयात्साकारस्य परब्रह्मणस्तत्र ध्यानसौकर्याभावाप्रतिकृतौ च तस्य सौकर्याद्वन्हिवदावेशेन बहि- स्तत्तदवयवानां सत्त्वे तेषु साक्षादेव तन्दुपयोगाद्भगवता तदुक्तेश्च तदामहस्यैवौचित्यात् । नन्यस्त्वेवं तथाप्यल्पबुद्ध्याधिकारत्वमेव तस्येति चेत् । कि तावता । अपकर्ष एवेति चेत् । न । महारोगग्रस्तखास्थ्यसम्पाद- करुच्युत्पादकोषघवदरुपबुद्धीनामपि फलसाधकत्वेन सुकरत्वेन चो- त्कर्षस्यैव सिद्धेः । 'पूजनं प्रतिमायां तूत्तमं परिकीर्तितमिति कालनिर्णयदीपिकास्थविष्णुधर्मवाक्य उत्तमत्वस्य कण्ठत एवोक्तः 'प्रातमध्यन्दिने सायं विष्णुपूजां समाचरेत् । यथा सन्ध्या तथा नित्या विष्णुपूजा स्मृता बुधैः । अशक्तौ विस्तरेणैव प्रातः संपूज्य केशवम् । मध्यान्हे चैव सायं च पुप्याञ्जलि- .
मपि क्षिपेत् । मध्यान्हे च विस्तरेण संक्षेपेणाध्यया हरिम् । संपूज्य भोजनं कुर्यादन्यथा नरक बजेदिति तत्रैव नारदीये कर्मिणामपि नित्यत्वोक्तेश्च । न चेदमवैदिकपरमिति वाच्यम् । विनिगमेशाऽभायात् । स्मृत्यर्थसारे 'नित्यं सन्तीति वाक्योत्तरं 'पौरुपेण च सूक्तेन गायत्र्या मणवेन वा । तल्लिङ्गारेच वा मौरचयेद्गुर्वनुज्ञयेति वाक्येन वैदिकत्वस्यैव स्फुटीभावाच । न च नित्यस्य प्रत्यवायप्रागभावपरिपालनमात्रार्थत्वाकर्मिणः प्रति पूर्वोक्तदृष्टान्तो न युज्यत इति शवयम् । 'श्रुतिस्मृती ममैवाजे इति वास्याद्विधेनियोगार्थताया एवौचित्यात् । तदकरणे राजद- ण्डवत्प्रत्यवायस्य तत्करणे तद्वदेवत्वस्य शक्यवचनत्वेन नित्यस्य ताव- न्मात्रार्थताया अप्रयोजकत्वात् । अन्यथा यावजीवाधिकारकामि- होत्रादौ स्वर्गाद्यभावप्रसक्तेस्तबोधकखर्गकामादिपदवैयर्थ्यप्रसक्तेश्च । न च 'यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वा- ऽ! भजते मोठ्याद्भमन्येव जुहोति स' इत्यादि तृतीयस्कन्धोक्त- निन्दाया निर्विपयत्वापचिरिति वाच्यम् । 'अर्चादावर्चयेद्यो मां पृथग्भावः स राजस' इत्यादि जातीयवाक्योक्तपृथग्भावपूजायां सावकाशत्वात् । प्रकरणेन वाक्यस्याऽवरुद्धत्वात् । तत्र 'भक्तियोगो बहुविधो मार्गर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां 'भावो विभिद्यत' इत्युपक्रमे भक्तिमार्गस्य नानात्वं प्रतिज्ञाय 'अभिसन्धाय यो हिंसां दम्भ मात्सर्यमेव वेत्यादित्रिभिनवविधा सगुणभक्तेरेव निरूपणात् । 'मौढ्या'दिति विशेषणेनाऽप्रामाणि- क्यामेव तथात्वव्यञ्जनाच । अन्यथा 'अर्चादावर्चयेचावदीश्वरं ७७ मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूप्तेववस्थितमिति कालनियमवैयर्यप्रसक्तेश्च । एतेनैव 'अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भ- क्तेषु चान्येषु स भक्तः प्राकृतः स्मृत' इत्यपि व्याख्यातं ज्ञेयम् । एकत्र पूजाकरणेनाऽन्यत्र तदज्ञानेनाऽज्ञानित्वस्याऽ ऽय॑योर्भेदनि- देशेन, पातिप्रत्यधर्मभिन्नत्वस्य च स्फुटीकरणेन पृथग्भावत्वस्य तत्र बोधनात् । तथैव 'गोखर' इति वाक्येऽपि देहात्मवुद्यादिमि- रनभिज्ञत्वस्यैव वोधनान्न कोऽपि शङ्कालेशः । इदमपि कर्माधिकृतविचारेणोक्तम् । ज्ञानाधिकृतविचारे तु 'चतुर्विधा भजन्ते मामि'त्यत्र चतुर्णा सुकृतित्वकथनात् । तत्रापि जिज्ञासोः पूर्व ज्ञानार्थ, पश्चाच्च जाते ज्ञानेऽतिशयेन भजनात् । प्रकृते च 'तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तममिति 'अजि- ज्ञासितमद्धर्मो गुरुं मुनिमुपाबजेदिति योगीश्वरैर्भगवता चोप- क्रमे तादृशस्यैवाधिक्रियमाणत्वान्न निकर्षसम्भावनापि । 'यावत्सर्वेपु भूतेषु मद्भायो नोपजायते । तावदेवमुपासीत मनोवाकाय- वृत्तिभिरि'ति भगवता सर्वत्र ब्रह्मभावोदयाऽवध्यस्यैवाऽऽवश्यक- त्वकथनाच्च । न चाने त्यागप्राप्त्या निकर्ष इति वाच्यम् । साधना- न्तरेऽपि तौल्यात् । प्राप्ते फले साधनमात्रस्यैव त्यागात् । विवक्षित- भक्त्यधिकृतविचारे तु सुतरां न तत्सम्भायना । 'मद्गुणश्रुतिमा त्रेण मयि सर्वगुहाशये । मनोगतिरविच्छिन्ना यथा गङ्गाम्म- सोऽम्बुधौ । लक्षणं भक्तियोगस्य निर्गुणस्याप्युदाहृतम् । सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृण्ह- १ अचाइयोरिति स पुस्तकम् ।
७८ : न्ति विना मत्सेवनं जनाः। स एव भक्तियोगाख्य आत्य- न्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यत इति रक्षणकभक्तिद्वयान्यतरार्थिनामपि 'निषेविता निमित्तेने त्यादि- नोच्यमानेषु 'मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवादनः । भूतेषु मन्दावनया.सत्वेनाऽसङ्गमेन 'त्यन्तेन तृतीयस्फन्धेऽपि धिप्पथ- पूजादीनामेवोक्तत्वात् । ऊनविंशेध्याये 'पुनश्च कथयिष्यामि मद्भक्तेः कारणं परमि'त्युपक्रम्य 'श्रद्धाऽमृतकथायां मे शवन्म- दनुकीर्तनम् । परिनिष्ठा तु पूंजायां स्तुतिभिः स्तवनं मम । • आदरः परिचर्यायामित्यादिना 'एवं धर्मनुष्याणासुद्धवा- त्मनिवेदिनाम् । मयि संजायते भक्तिः कोन्योऽर्थोऽसावशि- प्यत' इत्यन्तेन पूर्वोक्तमुस्यभक्तियोगकारणत्वेनाइस्वोक्तत्वात । तादृशस्य 'तसान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'त्येकादशे भगवद्वाक्येन ज्ञानस्योपेक्षणीयत्वाचाल्पवुद्ध्यधिकारस्याऽदुष्टत्वात् । न चैकादशोक्तपूजायां निर्गुणादिपदाभावान्न निर्गुणत्वमिति शयम् । 'वनं तु सात्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मनिकेतं तु निर्गुणमिति स्वस्थाने निर्गुणत्व- कथनेन सर्वगतस्य प्रतिमादिसितिं विनैकत्र निकेतस्य वक्तुमश- क्यत्वेन तदधिष्ठितमन्दिरत्वादेव निर्गुणत्वे तत्संबन्धिपूजाया निर्ग- णत्वस्याऽर्थादेव सिद्धत्वात् । अग्रिमे 'मत्सेवायां तु निर्गुणेति सेवाविषयकश्रद्धाया अपि निर्गुणत्रोक्तेश्च । अतोऽल्पबुद्धीनामित्यत्र गड्वादिसमासेऽन्यस्मिन्वा व्यधिकरणपदे दोषो, न तु समानाधिकरणबहुव्रीहाविति निश्चयः । ननु भवत्वेवं तथाप्याधुनिकानामेवंभावाऽभावात्कथं गुणातीतत्वं शक्यवचनम् । तथा सत्यस्त्येव दोप इति चेत् । सत्यमस्ति । परमुपदेशाऽननु- सरणे, न तु तदनुसरणेऽपि । 'अहरहः सन्ध्यामुपासते ति विधिमजानतापि बालेन पित्रादेः शिक्षया कृतस्य सन्ध्यावन्दना- देर्वेधत्ववदुपदेशाऽनुसारेण तत्करणे भक्तिमार्गीयप्रथमसोपानत्वे. नादोपात् । अतः पूजा तदधिकारिणोर्विवक्षितखरूपविचारे कथ- श्चिदपि न निकर्षसम्भावनेति दिक् । नन्वेवमस्तु । तथापि परमात्मावेशस्य प्रतिमान्तरेऽपि तौल्याच्छी- कृष्णप्रतिकृतावेवाऽऽप्रहे बीजं न पश्याम इति चेत् । अत्रापि वदामः । सर्वासु प्रतिमासु परमात्मावेशो नैकेन रूपेण । तथा सति नानालिङ्गकप्रतिष्ठामन्त्रादीनां नानाकाराणां च वैयपित्तेः । किन्तु 'यदेकमव्यक्तमनन्तरूपमिति 'श्रुत्या 'सहस्रपादेकमूर्धी 'विश्वतश्चक्ष:' 'नृकेसरिविग्रह' 'गोपरूपो हरिः साक्षादि'त्यादिपु नानारूपश्रावणेन च तासु तासु मूर्तिपु तेन तेन रूपेणाऽऽवेश इति निश्चीयते । तत्तदुपासनौकट्ये तत्र तत्र तत्तत्साक्षात्कारेण च । रूपाणि च न सर्याणि तुल्यानि । 'यो यो यां यां तनुं भक्त' इत्यादिना फलपर्यन्तबोधकेन वाक्यत्रयेण तथा निश्चयात् । तत्र 'अथर्वशिरःशिसाध्यायिशतमेकमेकेन मत्रराजजापकेन तत्सममिति नृसिंहपूर्वतापनीये विद्यावदुत्कर्पमुखेन तद्विद्याम- तिपाद्यरूपस्य शिवरूपत उत्कर्षाद्भास्कराम्योश्च ब्रह्मपुराणे 'अन्यदे- वेषु या भक्तिरि'त्यादिना शिवादपकर्षप्रतिपादनात् । गणपतिता- पनीये 'अवेहि मां भार्गव वक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवमिति त्रिगुणात्मकत्वकथनात् । शक्तेत्रिगुणात्मकत्वस्य सुन्द- ८० रीतापनीयर्माकण्डेयपुराणादिषु सुप्रसिद्धत्वाचन्मूर्तिपु तादृपेण, 'कृष्णोऽयं कामदेवोऽयं वरेण्यं भर्ग उच्यत' इत्यायुक्तविष्णु- ब्रह्मरूपस्यापि प्रकृतौ संक्रात्या शवलत्वाचादृग्रूपेण श्रीमूर्तावपि चिच्छक्तिरूपेणैवाऽऽवेशः । तथा कल्पभेदेन शुद्धभगवदवतारविचारेऽपि श्रीभागवते पुरु- पावतारमुपक्रम्य 'आद्योऽवतारो यत्रासौ भूतग्रामो विभाज्यते । 'एतनानावताराणां निधानं वीजमव्ययमित्यादिना 'एते चांश- कलाः पुंस' इति पुरुषांशत्वकथनाच्च, छन्तरित एवाऽऽवेशः । तथा 'रामकृष्णाविति भुवो भगवानहरगरम्' । 'वृष्णीनां वासुदेवोऽसि' 'वासुदेवो भगवतामि'त्यादिपूच्यत इत्यवतारविचारे कृष्णावतारेऽपि द्यन्तरित एव । अतो यो गीतायुपदेशकर्ताऽश- रादप्युत्तमः 'कृष्णस्तु भगवान् स्वयमि'त्यनेनोक्तस्तापनीये च तुरीयातीतत्वेनोक्तः स एव भक्तोद्धाराय प्रकटो यत्राऽऽविशति तत्राऽनन्तरितः । एवं सत्यवताराणां मध्ये श्रेष्ठोऽवतारः को भवि- तेत्यादिप्रश्नोतराभ्यां गोपालतापनीये कृष्णावतार एव श्रेष्ठवपति- पादनाचद्रूपप्रतिकृतावेव भगवानांविशति । भवति च सुबोध इत्ये- तदेव तादृशप्रतिकृत्याग्रहे वीजमिति जानीहि । वस्तुतस्तु तस्याः खरूपाऽनतिरिक्तत्वाद्भगवतो विभुत्वाच्च, प्रभोस्तत्र भावनासौकर्यात्त- त्सहकृतया भक्त्या तदनुग्रहाय शीघ्रमाविर्भाव इति गुराविवाना- प्युपकारकत्वमेव बीजम् । एवं च स मानसीन आत्मा जनाना मिति श्रुत्या मनःसंबन्ध्येव भावोत्कट्ये 'रसो वै सइति श्रुत्युक्तरसरूपो यथा मनस्याविर्भवति तथा बहिरपि तत्र । न च वैयधिकरण्यात्तदनुपपत्तिः शङ्ख्या । चन्द्रोदयेन सागरोतरलत्ववद्- , पपत्तेः । ततोऽपि भावोत्कट्येन विगाढसर्वात्मभावे 'स एवाधस्ता- । दि'त्यादिश्रुत्युक्तरीत्या ब्रजभक्तानामिव सर्वत्रेति न किञ्चिदनुपप- नमिति सहृदयविभावनीयम् । एवं सति 'यथा तरोमलनिपेचनेन प्यन्ति तत्स्कन्धभुजोऽपि शाखाः । प्राणोपहाराश्च यथे- न्द्रियाणां तथैव सर्वार्टणमच्युतेज्ये 'त्येकादशस्कन्धे 'यथा हि स्कन्धशाखानां तरोर्मूलनिपेचनम् । एवमाराधनं विष्णोः सर्वेपामात्मनश्च ही त्यष्टमस्कन्धे पञ्चमाध्याये चोक्तत्वाद्भगवति पूजिते सर्वे पूजिता भवन्तीत्यनन्यैस्तत्पूजनमेव कार्यमिति सिद्धम् । यत्पुनः शीघ्रपावनत्वदीनवत्सलत्वाद्युपाधिना साधुप्वाधिक्यं तद्- प्येकादशस्कन्धोक्तसाधुलक्षणविचारे भगवद्भक्केष्वेव पर्यवस्यति । तत्र च 'मद्भक्तपूजाभ्यधिके त्यनेन पूजाधिक्यं भगवताप्युक्तम् । तथापि पूजापरिकरत्वेन न तु वतन्त्रतया । ताग्भिश्व भगवत्पूजै- वोपदिश्यते । यथा योगेश्वरैर्जनकाय । अत एवं विचारेऽपि गुर्वा- ज्ञानुसारेण सैव करणीया फलतीति पूर्वोक्तं सर्वमविवादमिति शुभम् । इत्येकादशसिद्धा गूढा या सर्वनिर्णये सौम्यात् । वाचार्यचरणकृपया रीतिर्विशदीकृताऽसाभिः ॥१॥ इति श्रीवल्लभाचार्यमतपर्तिश्रीपीताम्बरतनुजपुरुषोत्तमविरचितो भगवत्प्रतिपूजनः पञ्चदशो बादः सम्पूर्णतामगात् ॥ ६ ॥ श्रीः॥ नमः श्रीकृष्णाय । -od200- पुष्टिमार्गसिद्धान्तवाङ्मालायां गोस्वामिश्रीमत्पुरुषोत्तमविरचितः सृष्टिभेदवादः। अष्टमो मणिः। यो लीलया किल गवामवनाय गोत्रं हस्तेऽतिकोमलतमे कृपया दधार । यद्रूपमेतदखिलं यत आस यस्मा- त्सद्वद्विभाति तमजं शरणं प्रपद्ये ॥१॥ नन्वस्य जगतो भगवद्रूपत्वमन्न यदुक्तं तदनुपपन्नम् । कार्यद्र- व्यत्वात् । सावयवत्वेन तदनुमानात् । न च भगवत्समवेतत्वेन तदुपपत्तिः । तत्समवेतत्वस्यैवाऽसम्भवात् । प्रत्यक्षवाधात् । न च सर्वस्य जगतः प्रत्यक्षाऽभावात्तद्बाध एव पराहत इति वाच्यम् । अनुमानेनाऽपि बाधात् । सबै जगत्सावयवसमवेतं कार्यद्रव्यत्वाद्ध- स्वदिति प्रयोगात् । न च खावयवसमवेतत्वेऽपि घटादीना पार्थि- वत्ववद्ब्रह्मसमवेतत्वं न दुर्घटमिति वाच्यम् । असम्भवात् । परमा- गुप्वेव पर्यवसानात् । तथाहि-प्रपञ्चः स्वल्पपरिमाणद्रव्यारब्धः । महत्त्वे सति कार्यद्रव्यत्वाद्धटवदित्यनुमानेन सिद्धे खल्पपरिमाण- द्रव्यारव्यत्वे तदवयवानामपि त्रसरेणुपर्यन्तानां तेनैव न्यायेन खल्पपरिमाणद्रव्यारब्धत्वसिद्धिः । तथा तदारम्भकानां अणुका- नामपि महव्यारम्भकत्वेन खल्पपरिमाणद्रव्यारब्धत्यसिद्धिः । तदा- रम्भकास्तु परमाणवोऽनारब्धा एव । तदारम्भसाधकन्यायाऽभावात् । सिद्ध एवं परमाणुजन्यत्वे जगत्सर्वं स्वस्खावयवेवेव समवैष्यति । न ब्रह्मणि । तस्यैषा प्रक्रिया । अनादौ संसारे जीवात्मनां भोग्याऽह- प्टेन द्वयोः परमाण्वोः क्रियया संयोगे सति घणुकमुत्पद्यते । तस्य परमाणू समवायिकारणम् । तत्संयोगोऽसमवायिकारणमदृष्टादि निमित्त- कारणम् । ततो घणुकानां त्रयाणां क्रियया संयोगे सति त्र्यणुक- मुत्पद्यते । तस्य व्यणुकानि समवायिकारणं शेषं पूर्ववत् । एवं व्यगुफैश्चतुरणुक, ततः स्थूलं, तैः स्थूलतरं, तैः स्थूलतममेवं क्रमेण महती पृथिवी, महत्य आपो, महत्तेजो, महांश्च वायुरुत्पद्यते । न च परमाणूनां ब्रह्मांशत्वमपि शक्यवचनम् । व्यापकत्वव्याकोपात् । निष्फलश्रुतिविरोधाच्च । कार्यगतरूपादयस्तु समवायिकारणगतेभ्यो रूपादिभ्यो जायन्ते । 'कारणगुणा हि कार्यगुणानारम्भन्त' इति न्यायात् । आमाशादयस्त्वसमवेता एव । तदारम्भकाऽवयवानामश- क्यवचनत्वेन तदुत्पतेरपि तथात्वात् । अतः कालदृष्टान्तेनाऽपि न सांशत्वसिद्धिः । 'सर्वे निमेपा जज्ञिर' इत्यादिश्रुतिस्तूपाधौ पर्य- वस्यन्त्युपचरितार्थव । किंच द्रव्यारम्भकत्वं स्पर्शवत्वेन मूर्तत्वेनाऽपि केचिदाहुः । ब्रह्मणि तु नोभयमित्यनारम्भकलादुपादानत्वमपि तत्राऽशक्य- वचनम् । अतो जगत्स्वरूपविचारे ब्रह्मखरूपविचारे च न कथमपि जगतो भगवद्रूपत्वम् । एवं च कार्यस्थितिरपि खखावयवेष्वेव ।
८४ , तेपामेव तत्तयागभावोऽधिकरणत्वात् । अत एव तत्तद्धटादिक प्रति तसकपालत्वादिना विशिप्यकार्यकारणभावोऽपि युज्यते । प्रत्ये तु प्रागमावदशायामिव कार्यस्याऽसत्त्वमेव । प्रल्योऽपि भोग्याऽदृष्टो- परमे सजिहीर्पोरीश्वरस्य सजिहीर्पया परमाणुषु विभाजिकया क्रियया । विभागात्सयोगे नष्टे द्यणुस्नाशात्तन्नाशे च व्यणुकादि- नाशक्रमेण पृथिव्यादिनाशात् । 'इदं सर्वं यदयमात्मेत्या'दय श्रुतयस्त्वयोग्यत्यादबोधिका सत्य ईश्वरस्य जगद्विष्टम्मरलेनाऽऽत्म- विष्टभ्यपुरुपदेवदमिजगत्यात्मत्व, ब्रह्मणि देहावष्टम्भकाऽऽत्मय- त्सर्गत्व वोपचरन्ति । तस्माद्वा एतसादित्या'दयोऽपि तथा । तस्मान्नास्य भगवद्रूपत्व मुख्यवृत्त्या शक्यवचनम् । नापि भगवदु- पादानरुत्वम् । अत एव च न सद्वदवभास्यत्वमपि । ईश्वरजन्यत्व तु स्यात् । जन्यकृत्यजन्य(१) क्षित्यादिक समर्तृक न वेति सन्देहे तथाभूत क्षित्यादि सर्तृक | जन्यत्वात् । यद्यजन्य तचत्सर्तृकम् । यथा घट । सकर्तृकत्यव्याप्यजन्यत्ववचेदम् । तस्मात्सकर्तृकम् । इत्यनुमानसिद्धत्वात् । न च तथाभूत क्षित्यादिक न सकर्तृकम् । शरीराऽजन्यत्वात् । यद्यच्छरीराऽजन्य तत्तन्न सकर्तृक्म् । यथा गगनम् । प्रत्यग्रजाय- मानाङ्कुरादिक वा । शरीरानन्य च क्षित्यादि । तस्मान्न सकर्तृक मिति प्रतिपक्षसद्भावात्पूर्वोक्तमयुक्तमिति शङ्कनीयम् । जन्यत्वेन कर्तृजन्यत्वेन य कार्यकारणभावस्तस्य, श्रुतीनाश्चानुकूलतत्वेनाs. डरादावपि तथात्वेन दोषाऽभावात् । जन्यत्वादेव च गगनदृष्टान्तेन पतिपक्षाऽनुत्थानात् । सिद्धे चैव कर्तृजन्यत्वेन तदुपादानगोचराऽप- २ इद नास्ति क पुस्तके । १दिकारणलादिति क पाठ ।
रोक्षज्ञानचिकीर्षाकृतिमानीश्वर एवेति तन्निमित्तकत्वमात्रं साधीय इति कणभक्षाक्षचरणानुयायिनो वदन्ति । तत्रोच्यते । भवेदेतदेवं चेत्परमाणुपु कारणत्वं सम्भवति । तदेव तु न सम्भवति । तथाहि-भौतिकत्वे सति नित्यो गतिमा- न्परमाणुरिति हि परमाणुलक्षणम् । तत्र किन्नाम भौतिकत्वम् । न च भूतसम्बन्धित्वम् । तत्सर्गादौ तदितरस्य पृथिव्यादिभूतस्याऽभावेन लक्षणाऽसम्भवात् । आकाशमादाय समर्थने मनस्यतिव्याः । सर्गाधनङ्गीकारे परमाणुनामेवाऽसम्भवेन सिद्धान्तभङ्गाच्च । न च भूतसमवायित्वं तत् । सर्गादौ तदितरभूताऽभावेनाऽसम्भवनासस्यो- तत्वात् । योग्यतामादाय लक्षणसमर्थने भवतु वा तथा, तथापि पुराणेषु योगशास्त्रे न मानसमृप्टेः स्मरणान्मनसोऽपि तथात्वेन तत्राऽतिव्यातेर्दुरित्वात् । इष्टापत्तौ परमाणूनां पञ्चविधत्वापतेः । पूर्ववन्मनसोऽपि साऽवयवत्वापत्तौ तस्यापि नित्यत्वमझाच । अन्यथा तद्विरोधात् । इष्टापचौ शब्दमामाण्यत्यागेन सिद्धान्तभापत्ते श्वेत्यु- भयत.पाशा रजुः । अथ कणादस्मृतिश्रद्धाजाड्यावस्तु या यत्किमपि लक्षणं, तथापि ब्यणुरुवन्मध्यमपरिमाणद्रव्यारम्भकत्वेन तेपामप्यारब्धत्वमनिवार्य- मेवेति नित्यत्वं दुर्वचमेव । न च यत्र विश्रान्तिः स एव परमाणुः । सिद्धान्तभङ्गापत्तेः । अनवस्थाभयाचदादरणे तत एवाऽऽरम्भवादत्या- गस्सौचित्याच्च । किं च कार्यस्य शरीरादेः पाञ्चभौतिकत्वेन जला- दयः सयुक्ता अपि भवन्तीति पञ्चत्वदशाया तेऽपि पृथग्भूताः परमा- गुल्यमापोरन् । तथा सति मृतकादिर्न दृश्येत । अतः परमाणुका- १ मृत्तिकादिरिति ख पाठ.।
८६ रणवादः प्रत्यक्षविरुद्धः । किं च द्रव्यारम्भकलमपि न रूपवत्त्वेन । वायुपरमाणुपु व्यभिचारात् । नाऽपि मूर्तत्वेन । मनसि व्यभिचारात् । किन्तु स्पर्शवत्वेनेति भवतां मतम् । तदाऽपि मनसि व्यभिचारो दुर्वारः । संयोगस्य मनस्यङ्गीकारात् । तस्य च स्पर्शाऽनतिरेकात् । लोके स्मृतौ च संयुक्त एव स्पृष्टव्यवहारदर्शनात् । शब्दे च तथा । हृदयाऽवच्छेदेन महागुलीयंत्रशब्दजन्यस्पर्शस्याऽनुभवादित्यन्यत्र वि. स्तरः । अतः स्पर्शवत्वेनाऽऽरम्भकत्वमपि तथा । न च परमाणुलक्षणाऽसम्भवः । सद्विशेषचरमत्यस्य तल्लक्षणस्य सत्वात् । विभाजकाऽऽघाताऽसहिप्ण्वणुत्वस्य चरमपदार्थत्वात् । न चाऽत्र मानाभावः । 'चरमः सद्विशेपाणामनेको संयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यत' इति तृतीयस्कन्धवा- क्यस्यैव मानत्वात् । अत एव न तत्संयोगाद्व्योत्पत्त्यङ्गीकारः । दूपणान्तरस्य तर्कवाद उपपादनाच्च । तर्हि कुतः कथं चोत्पत्तिः । स्थूलादेव कारणाद्विभागेनोत्पत्तिरिति बदामः । श्रुतिपुराणादौ तथैव दर्शनात् । न चानुगतकार्यकारणभाव विरहः । जन्यद्रव्यत्वेन खयोग्याऽवयवस्थूलांशत्वेन कारणताऽनुगमात् । न च पटादौ सूभरेव तन्तुभिः स्थूलस्य कार्यस्य दर्शनाट्यभिचारः शङ्कयः तत्राऽपि समुदायस्यैवोपादानत्वेन तं छित्त्वा यंत्रात्पट उद्भियत इति तन्नापि स्थूलादेव । सूक्ष्मस्य समानस्य वोत्पत्तेस्तदभावात् । एवं सूत्रादावपि कार्पासादेः स्थूलस्यैव दीर्घाऽवस्थाप्राप्त्यर्थ, तत आकृतिविशेपसम्पादनार्थ च खण्डशोऽवयवयोजने तत्संघा ज्ञेयाः । १ तोप बन्दूक इतिभापा । २ अयं वादोऽस्माभिर्न लब्धः । ख पुखके नास्ति। ३ स्वेति' ८७ . ते चाऽवयवाः स्थूलादेव फार्पासादेविभज्य ततः संयुज्यन्ते । तथैव कुण्डलपतिमादावपि सुवर्णमण्यादिसमुदायस्यैव कारणत्वम् । यत्र पुनर्लोहदारुदन्तनिर्यासादिभिः पर्यायेणाऽवयवयोजनं मंजूपादौ गृहादौ चेप्टकादिभिस्तत्रापि तत्तदवयवान्समुपादायाऽवान्तराऽवयव्युत्प- चिस्तत्समुदायाच महावयव्युत्पत्तिरिति पटन्याय एव । एवमेव कञ्च. कादयो विज्ञेयाः। यत्र तु घटादिभङ्गेन दन्तशृंगादीनां, तक्षणेन वा पात्रीचपकादीनामुत्पत्तिः । तत्र विभाग एवं व्यापारो निमित्तस्य । उपादानन्तु संश्लिष्टावयवसमाज एव । एवं च गर्भादिप्वपि बीजरजःसमुदायस्यैवोपादानता मांधात्रादा- वपि पुंसवननीरादिकमेव रजःस्थानीयमित्यदोपः । एतेनाऽण्डजो- द्विज्जा अपि व्याख्याताः । खेदजास्तु स्थूलादेव खेदादुत्पद्यन्ते । अत एव प्रथमं सूक्ष्मत्वम् । वृद्धिरपि सजातीयसंचलनामिका स्थू- लादेव । अत एवाऽऽहारे परिणते तसद्योग्यावयवसमुदायादेव तद्धातूत्पत्तिः । श्रुति'श्वाऽन्नमशितं त्रेधा भवतीत्या दिः । वृद्धम- पक्षीणं च न द्रव्यान्तरम् । तत्त्वेनाऽप्रत्ययात् । प्रत्यभिज्ञाऽनुपपत्तेश्च । पातिव्रत्यादिहान्यापत्तेश्च । विपरिणतं तु दध्यादि दुग्धान्तं च न समुदायजमिति द्रव्यान्तरमेव । तथैव पुत्रादिरपि । रजतादियोगजे दनि तु रजतादिकं निमित्तमेव । तत्रापि कारणतौल्यमेव, नतु सूक्ष्मादुत्पत्तिरिति न दोपः । समुदायस्तु न द्रव्यान्तरम् , तथात्वेन प्रत्ययाऽभावात् । अत एकस्यैकमेवोपादानमिति निश्चयः । अन्य- थाऽनेक कार्य स्यात् । कारणगुणानामेव कार्यगुणजनकत्वेन कर. णगतकरवे प्रत्येकमेकत्याऽऽरम्भेणाऽनेकैकत्वानां शक्यवचनत्वात् । अनारम्भे हेत्वभावात् । अन्यथा द्वित्वादेरप्यनुत्पत्तिप्रसमात् ।
८८ .. न चाऽत्र पुञ्जात्पुञ्जोत्पत्तिरिति अमितव्यम् । सामुदायिकस्य पुजरूपत्वाऽभावात् । ननु स्थूलात्सूक्ष्मोत्पत्तौ विभागादुत्पत्तिरिति, नाशः कुतः स्यादिति चेत् । संयोगादितिवदामः । पाकजप्रक्रियायां तेजःसंयोगेनैव द्यणुकादिनाशस्य भवताऽप्यङ्गीकारात् । मुद्रख- शादिसंयोगेन घटशरीरादिनाशस्य प्रत्यक्षसिद्धत्वाच । वस्तुतस्तु प्रथममन्तिमं च कार्य विभागात् । 'असतः सद्ये ततक्षुरिति श्रुतेः । विभाजकाघाताऽसहिप्णोः परमाणुत्वाच । अवान्तरं तु यथासम्भवमुभाभ्यामुत्पद्यते । नश्यति च । अत एव जलसंयोगा- द्वहिनाशः कपालविभागाद्धटनाशस्तक्षणाद्दान्तचपकाद्युत्पत्तिस्तन्तुसं- योगाच पटस्थति न कोऽपि कापि शंकालेशः । तस्मान्न परमाणु कारणवादः साधीयान् । तथैवाऽऽरम्भवादोऽपि । असतः सत्तापादक- त्वात् । न च सा न दुष्टेति वाच्यम् । कार्यस्याऽनियतावधिकत्व- प्रसङ्गात् । तथाहि-यदि घटादिकं पूर्वमसदेव पश्चात्कारणेनाऽऽर- भ्यते तदा प्रागभावदशायां तस्य शशशृंगादितुल्यत्वादुत्पतिरेव न स्यात् । यतः कुतश्चन वोत्पद्येत । वटबीजादिक्षवोऽप्युत्पोरन् । न च गोमयादृश्चिकोत्पत्तिदर्शनाददोष इति वाच्यम् । अतिप्रसङ्गाऽऽपत्त्या पापाणादावनुद्भूतगन्धादेरिव गोमयादौ वृश्चिकादेरनुद्भूतसत्ताया आवश्यकत्वात् । अन्यथा मयूरादेरप्युत्पत्त्यापत्तेः । न चोपादान- निष्ठस्य कार्यप्रागभावस्य तनियामकत्वान्न तदावश्यकत्वमिति वाच्यम् । कार्योत्पत्त्यनुकूलया कारणावस्थयैव नियमसम्भवे तद- तिरिक्तप्रागभावसत्तायामेव मानाऽभावात् । न च कपाले घटो नास्तीति प्रतीतिरेव तत्र मानमिति वाच्यम् । तस्या घटत्वावच्छिन्नप्रतियोगिताकाऽभावविषयतया घट- ८९ . संसर्गाऽभावसामान्यत्वेन प्रागभावात्मकविशेषाऽनवगाहितत्वात् । नाऽपीह कपाले घटनागभाव' इति प्रतीतिस्तत्र मानम् । तस्या एवाऽभावात् । तथाऽऽग्रहेऽप्यसार्वजनीनत्वेन प्रतिवाद्यनादरणीय- त्वात् । किञ्चोक्तप्रतीत्याऽऽपाद्यमानः प्रागभावः, किं घटत्वावच्छिन्न- प्रतियोगिक एक, उत तचटप्रतियोगिकोऽनैकः । नाद्यः । सर्वेषु घटोपादानेषु तत्सत्त्वात्सर्वेभ्यः कपालेभ्यः सर्वघटोत्पत्त्या नियमभङ्गापत्तेः । न द्वितीयः । अभावज्ञानस्य धामप्रतियोगिज्ञाना- ऽधीनतया तदानी प्रतियोगिज्ञानाऽभावेन तत्प्रतीत्यनुदयाऽऽपत्तेः । न च घटत्वेन रूपेण प्रतियोगिज्ञानसत्त्वाचदुदयो निर्बाध इति वाच्यम् । तथा सतीह घटत्वावच्छिन्नप्रागभाव इति तस्या आका- रामागभावस्याऽपि सामान्यत्वाऽऽपत्त्या पूर्वविकल्पीयदूपणापचेः । अतस्तद्राहकमानाऽभावात्सामयिकाऽत्यन्ताभावेनापि प्रतीतिनिर्वाहाच न तत्सिद्धिः। ननु कारणावस्थयापि न नियमसिद्धिः । तथाहि-कारणावस्था नाम कारणस्य फलोपधानदशा । तथा च येभ्यः कारणेभ्यो यत्का- र्यमुत्पद्यते तत्कार्य प्रति तेषां यदि कारणत्वेन फलोपधानं तदा वटवीजादपीक्षुत्पचिप्रसङ्गः । यदि च कारणविशेपरूपेण कपाल- त्वादिना तथात्वं, तदाप्येतेभ्यः कपालेभ्य एतद्धटोत्पचिनियमा- ऽसम्भवः । तज्जातीयं प्रति तस्याऽपि सामान्यत्वात् । अथैतत्कपालत्वा. दिना तथात्वम् , तदा विनिगमनाविरहो, बहुकपालजन्यं घटं प्रति तावत्सु तथात्वं कल्पनीयमिति गौरवग्रासश्चेति न तथापि नियम- सिद्धिरिति चेत् । मैवम् । सत्कार्यवादे कार्यस्य कारणे सत एव ततोऽभिव्यक्तर्यत्र यत्कार्यसत्ता तत एव तदुत्पत्तिरिति सुखेनैच नियमसम्भवात् । न च बहुकपालजन्ये घटादौ गौरचनासः । समु- दायस्यैव तत्र कारणत्वात् । एकस्यैकमेव कारणमिति मागेवोक्तत्वात् । न च प्रागभावाऽनङ्गीकार उत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः । कार्यस्थि- तावपि कारणावस्थायां सत्यादिति वाच्यम् । कालोपाधीनं क्रमि- कत्वेन निमित्तसामग्रीप्रविष्टस्य कालोपाधेस्तदानीमभावेन निमिच- सामग्री विघटनादेव तदभावसिद्धेः । ननु यत्र पक्के घटे स्पर्शरूपर- सगन्धानां पाकजानामुत्पचिस्तत्रोपादानस्य निमित्तसामग्र्याश्च विद्य- मानत्याद्विलक्षणस्पर्शरूपादिप्रागभावं विना न निर्वाह इति चेत् । न । तादृशविपरिणामस्य स्पर्शादिखभावादेव सिद्धेः । ननु यत्र पके (1) खभावस्य धर्मत्वेन तत्कल्पनेऽपि प्रागभावापेक्षया लाघवात् । एव. मव्याप्यवृत्तिसंयोगादेसचदवच्छेदेनोत्पचावपि स्वभावव नियाम- कत्वं बोध्यम् । ननु प्रागभावाऽनङ्गीकारे कारणशरीरप्रविष्टस्य पूर्ववर्तित्वस्य कथं ग्रहणम् । तस्य प्रागभावावच्छिन्नसमवर्तित्वरूपतया प्रागभावग्रहा- धीनत्वादिति चेत् । मैवम् । कार्यविषयकाग्रिमजननज्ञानेनैव तद्- हणसम्भवात् । तादृशज्ञानस्य च लोकप्रवाहादेव सम्भवात् । प्राग- भावग्रहाधीनत्वाङ्गीकारे तु प्रागभावस्यापि कारणत्वेन तन्निष्ठपूर्वव- तित्वस्यापि प्रागभावघटिततया प्रागमावताज्ञानाधीनज्ञानकत्वेना- ऽऽमाश्रयापत्तेः । 'तसान कारणावस्थातिरिक्तः प्रागभावो न वा ध्वंसोऽप्यतिरिक्तः । कार्यस्थितिप्रतिकूलां कारणावस्था पश्यत एवेह घटो ध्वस्त इत्यादिप्रत्ययात् । न चाऽभावमुखप्रतीतिर्वाधिकेति याच्यम् । तमसि भावमुखप्रतीतेरिवाऽत्राऽभावमुखप्रतीतेरप्यबाधक- खात् । न च ध्वंसाऽनङ्गीकारे नष्टस्य पुनरुन्मज्जनापत्तिरिति 1 ..
वाच्यम् । ताहगवस्थायाः सत्वेन निमिचविघटनेन च तथाऽऽपा- दयितुमशक्यत्वात् । यत्र चावस्थातिरोभावो निमिचान्तरसमवधानं वा सनोन्मज्ज- नेऽपि बाधकामावः । अत एव ताम्रादिघटेपु भङ्गोत्तरमपि निमि- चान्तरेण पुनः सन्धानमपि युज्यते । न च तद्धटान्तरमेवेति युक्तम् । प्रत्यभिज्ञाबाधापत्तेः । आश्रमवासिकपर्वस्थकुरुपाण्डवसैन्यस्य, कश्यपकृततक्षकदग्धयटतरूज्जीवनस्य, भारतादौ दर्शनाचाशस्थले प- दार्थान्तरत्वामीकारे 'एकां रात्रि विहृत्यैवं ते वीरास्ताश्च योपितः। आमच्याऽन्योन्यमाश्लिप्य ततो जग्मुर्यथागत'मित्यादिवाक्योक्त- विहारादीनां विरोधापत्तेः । तक्षककृतकश्यपनिवर्तनस्याऽपि धैयर्था- द्यापत्तेश्च । न च प्रागभावध्वंसादिशब्दामिलापयाधः । कार्यकारणा- दिशब्दवदेतयोरपि सापेक्षवृत्तिकत्वेनाऽवस्थामपेक्ष्य मुखेनवाऽभिला- पोपपत्तेः । तसाद्धंसोऽपि नाऽवस्थातिरिक्तोऽतो ध्वंसदशायामपि कार्यस्य सचमेव नत्वसत्त्वम् । प्रतीत्यभावस्तु सौदम्यादेवेति नाऽऽरम्भवादोऽपि युक्तिसहः । आविर्भावतिरोभाववादे वक्ष्यमाणेनोत्पत्तिखरूपविचारेणाऽपि तथा । तेन निर्मूल एव । अतः 'सदेव सौम्येदमग्र आसीदि'त्यादिश्रुतेर्ब- ह्मण एव मूलकारणत्वम् । ततश्च 'एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयोतिरापः पृथिवी विश्वस्य धारि- णीति श्रुतेः साक्षाद्वा, 'एतसादात्मन आकाशः सम्भूत' इति श्रुतेः परम्परया वा, ब्रह्मण एव जगदुत्पद्यते । न चाकाशोत्पत्तिर्न सम्भवति निरवयवत्वादिति वाच्यम् । वुद्धिकर्मादिवदुपपत्तेः । न च द्रव्यत्वे सतीति विशेषणान दोप इति वाच्यम् । परमाणा- ९२ वुक्तरीत्या व्यभिचारात् । आकाशकालदिङ्मनःपरमाणवो जन्याः। विकारत्वात् । विकाराः । लौकिकपृथक्व्यवहारविषयत्वात् । आत्माऽन्यत्वे सति विभक्तत्वाद्वा । पटादिवदिति प्रत्यनुमानसत्त्वाच । एतेनैवाऽस्पर्शद्रव्यत्वात्यथिव्यादिविधर्मद्रव्यत्यादिति प्रतिसाधनमपि निरस्तम् । अप्रयोजकत्वात् । अवयवचिन्ता तु न कार्यव । स्थूला- देव सूक्ष्मोत्सते. । श्रुतिसिद्धत्वात् । तस्स चाऽवयवित्यात् । न च निष्कलादिश्रुतिविरोधः । विरुद्धधर्माश्रयत्वात् । उत्पत्ति- प्रलयौ च कूमीगन्यायेन सचरपतिसचराविति सदेव कार्यमुत्पद्य- मान च भगवत्येव तिष्ठतीति भगवानेव समवायी । समवायोऽपि तादात्म्यमेव न त्वतिरिक्तः । तस्य सम्बन्धत्वेन द्विनिष्ठत्वाप्रतियो- ग्यन्तराऽभावेन सृष्ट्यादौ त्वया तस्य वक्तुमशक्यत्वात् । तस्याऽपि धृत्तिनियामकसम्बन्धसापेक्षत्वेन तदभावादप्यशक्यवचनत्वाच । अनपेक्षत्वे तद्वकार्यस्याऽपि तं विना शक्यवचनत्वाच्च । अत्राऽनीश्वरसाख्या -मास्तु परमाणुभ्यः सृष्टिस्तथापि भगवतो न सम्भवति । 'प्रधानाजगज्जायत इति श्रुते । ब्रह्मादिपदानामपि प्रकृतिवाचकत्वात् । 'एतसाज्जायते प्राण' इति स्वहकारपरा । प्राणाधुत्पत्तेस्तत एवाऽङ्गीकारात् । पुराणादिप्वपि तथैव दर्शनात् । एव चाऽजामेकां लोहितशुक्लकृष्णां बद्दीः प्रजा जनयन्तीं सरू पाः1 अजो ोको जुपमाणोऽनुशेते जहात्येना भुक्तभोगामजोन्य' इति श्रुतेोहितशुक्लकृष्णवर्णोपलक्षितरज सत्त्वतम.साम्यावस्थारूपा प्रकृतिरेव की । उपादानमपि सैवेत्यनुमानासिद्ध्यति । तथाहि- कार्यस्य भौतिकत्वात्तत्कारणाना भूताना तद्गुणाना च सिद्धिर्वादिष- १ इत आरभ्यात्मान्यल इत्यादि पाठ ख पुस्तके नास्ति ।
तिवादिनोस्तुल्या। तानि स्थूलान्येव । नतु परमाणुरूपाणि जन्यानि चे- त्यप्युक्तरीत्यैव सिद्धम् । आकाशोऽपि जन्यः । उक्तश्रुतेः । कालस्तु नोपाधिभिन्नः । चिरक्षिप्रादिव्यवहारस्य तत एव सिद्धेः । दिशस्तु श्रोत्राधिष्ठातृत्वादिन्द्रियान्तर्गताऽऽकाशान्तर्गता वा । 'दिकालावाकाशादिभ्य' इति सूत्रात् । मनोऽपि जन्यमाकाशवत् । इन्द्रियाण्यपि तथा । नश्वरभावत्वेन वादिविप्रतिपत्त्यभावाच्च । गुणानां तन्मात्रात्वं, तद्भूतजनकत्वं च पुराणादिभ्यः सिद्धम् । इन्द्रियाणि गोलकाद्भिन्नानि कार्यलिंगकानुमानसिद्धानि । रूपादि- ग्रहणं सकारणकम् । कार्यत्वात् । कार्यजन्यत्वात् । जन्यमनित्यत्वा- टवदित्यनुमानेन रूपादिग्रहणस्य कारणसिद्धौ गोलकसद्भावेऽपि तत्तदिन्द्रियाऽन्वयव्यतिरेकानुविधानादिन्द्रियसिद्धिः । मनसोऽपि संकल्पात्कार्यात्सिद्धिः। एतेषां सकारणकत्वं चाऽनुमानादेव सिद्धम् । द्विविधेन्द्रियाणि तन्मात्राणि च सकारणानि । कार्यत्वात् । यदेवं तदेवम् । घटवत् । यन्नैवं तन्नैवम् । खखमतप्रतिपन्ननित्यवस्तुवदिति प्रयोगात् । एवं बाह्याभ्यन्तरेन्द्रियैस्तन्मात्रैश्च कार्यः सामान्यतः कारणे सिद्धे तस्याऽहंकारत्वेन परिस्थितिः पुराणादिभ्यः। तेन च तथैव महतः । तेन च प्रकृतेः । यद्वा महदादिकार्य सुखदुःखमोहगुण- कद्रव्यजन्यम् । कार्यत्वे सति सुखदुःखमोहगुणकत्वात् । स्यादिवत् । न च सुखादेरन्तरेवाऽनुभवात्रुयादीनां सुखादिगुणकत्वे माना- भावः शक्यः । चन्दनसुखं स्त्रीसुखमित्यादिप्रत्ययात् । एवं सिद्धे सुखादीनां चाह्यत्वे गुरुत्ववसेषां कार्यगुणरूपेण स्थितेनिधित्वात् । १ कार्य जन्यसादिति स पाठः। २ इति सुसादिकल इति स पाठः ।
- विपयेषु त्रिगुणकार्येषु सुखादिसिद्धरमत्यूहत्वाच । न च ख्यादीना सुखादिनिमित्त्वमेव न तु तदात्मरत्व प्रतीतेस्तथापि सम्भवादिति वाच्यम् । विमता , सुखदु खमोहात्मा । मुसदु समोहनिमि- चत्वात् । यदेव तदेवम् । यथैका स्त्री रूपयौवनशीलादिशालिनी भर्तुर्मनस सुखस्य, सपनीमनसो दु सस्य, काम्यन्तरमनसो मोहस्य, निमिचम् । तचटाति तेन तेन रूपणोद्भूतत्वात् । तद्वत् । यन्नैव तन्नैवम् । केवलचेतनवदित्यनुमानेनापि तेषु सुसादिसिद्धे । एव च सिद्धे तेपा त्रिगुणकार्यत्वेऽनवस्थामयेन कचिदवस्थिते- रावश्यकत्वाठावृतौ पर्यवसानम् । सृष्टेर्गुणवैपम्यजन्यत्वाद्वैषम्यस्य च प्रकाशसुखादिफलोपहित सत्त्वादिव्यवहारयोग्यो य कारणगु- गपरिणामस्तद्रूपत्वादविषमा गुणा एव प्रकृति । एतेषु सयोगवि- भागादिमत्तयोपादनतया च व्यत्वेऽपि पुरुषोपफरणत्वेन पारार्थ्या- द्गुणेन पारााद्गुणत्वव्यवहार । तथा च प्रयोग । विमत परा- र्थम् । सघातत्यात् । घटादिवत् । यन्नैव तन्नैवम् । पुरुषवत् । न च प्रकृत्यनित्यत्वापत्ति । अजाश्रुत्यैव वाधात् । अस्या च प्रक्रि याया पूर्वोक्ता श्रुतयो मन्वादिस्मृतय पुराणानि च । अनुग्राहक- स्तर्क । पुरुषस्तु न कर्ता । असङ्गत्वाऽकर्तृत्वयोतन्त्र श्रुतिस्मृतिसि- द्धत्यात् । तस्मान्न भगवत सृष्टिरित्याहु । तन्न युक्त श्रुतात्मत्वचेतनत्वविरोधनात् । प्रकृती मूलहेतुत्वस्याऽसिद्धेरनुमानत ॥ तयाहि-'आत्मैवेदमन आसी'दित्यादि श्रुतिप्वात्मादिपदण्या- कोपेन प्रकृतौ मूलकारणत्वस्याऽशक्यवचनत्वात् । न चात्मपदम- हकाराद्यन्यतरदिति शयम् । तनिष्ठस्य मोक्षोपदेशविरोधात् ।
'तदक्षते'त्यादिसृष्टिप्रकरणसचेतनलिङ्गबोधकश्रुतिविरोधाच । केव- लानुमानेन साधने तन्मात्रादिमहदन्तानां कथमप्यसिद्धेः । श्रुति- स्मृत्योः प्रक्रियाऽनुग्राहकत्वेन प्रामाण्याऽङ्गीकारे ताभ्यामेव सिद्धा- याश्चेतनकारणतायास्त्यागाऽयोगात् । 'आसीज्ज्ञानमथो ह्यर्थ एक- मेवाऽऽविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगे युगे । तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वामनोगोचरातीतं द्विधा समभवबृहत् । तयोरेकतरो ह्यर्थः प्रकृतिः सोमया- त्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयत' इति । 'प्रकृतिर्यस्योपादानमाधारः पुरुषः परः । सतोऽभिव्यंजकः कालो ब्रह्म तत्रितयं त्वहमिति चैकादशस्कन्धीयभगवद्वाक्ये स्वस्यैव तत्तद्रूपत्वकथनात् । न च 'प्रधानाज्जगजायत इति श्रुति- विरोधः । श्रुतेः सावधारणत्वाऽभावान्महत्तत्त्ववदवान्तरकारणत्वे. नाऽप्युपपत्तेः। एतेनैवा'ऽजामेकामि'त्यपि व्याख्याता ज्ञेया । तत्राऽपि प्रकर- णेन भगवच्छतेरेवानुमहात् । श्वेताश्वतरे शक्तिमुपक्रम्याऽस्य पाठात् । वाक्यस्य साधारणत्वात् । न चात्र मानाभावः । 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्तं तदपां यत्कृष्ण तदन्नति श्रुत्यन्तरे तेषां तेजआदिरूपत्वकथनात्तपत्रयवतः सत एवेक्षितु- स्तत्राभिप्रेतत्वादत्रापि तदुक्तेः शक्यवचनत्वात् । बृहदारण्यकेऽपि 'अणोरणीयान्महतो महीयानात्मेत्युपक्रम्याऽस्य पाठात् । कर्तृ- त्वस्य चैतन्यसामानाधिकरण्यं लोके दृष्टमित्यनुमानेनाऽपि साधने चेतनस्वैव तथात्वसिद्धे डायां तस्यां तदमावस्यैव सिद्धरुपादानव- रूपत्वति स पाठ।
मपि न सर्वदा तस्याः । फालस्याप्युपादानवात् । पालमुपक्रम्य 'गुणयतिकराकारो निर्विशेपोऽयतिष्ठितः' । 'पुरुपस्तदुपादा- नमात्मानं लीलया राजदिति तृतीयस्कन्धवाक्यात् । अत एव कालोऽप्यतिरिक्तः । 'प्रकृतेर्गुणसाम्यस्य निर्विशे- पस्य मानवि । चेष्टा यतः स भगवान्काल इत्युपलक्षित' इति तृतीयस्कन्धे कपिलवाक्याच काल उपाधिभ्योऽतिरिक्तः गुणक्षो- भकत्वादपि सिद्ध्यति । सृष्ट्यादावुपाधीनां सूर्यपरिस्पन्दादीनाममा- वात् । सतो वा स्वमायतो वा क्षोभे तस्य सार्वदिकापतेः । संचर- प्रतिसचराऽपलापप्रसङ्गात् । जन्यत्वन्नु कालस्यापि वाक्यादेव सिद्धम् । अत एव तस्य प्रलयोऽपि व्यवहारमात्रशरणस्य । तदभावे तत्सत्तायामपि मानाऽभावात् । न च 'सदेव सौम्येदमग्न आसी. दिति श्रुतावग्रपदेन कालस्याप्युक्तत्वाचस्य नित्यत्वं शश्यम् । वोधनार्थमेव तथोक्तेः । अन्यथा 'सोनुवीक्ष्य नान्यदात्मनोऽ- पश्यदिति श्रुत्यन्तरविरोधापतेः । तसाह्म चेतनं जगत उपादानं निमित्तं कर्ट चैति श्रुतिभ्य एव मन्तव्यम् । अत्र केचिदेकदेशिनो जगतो ब्रह्मरूपत्वं तत्परि- णामत्त्वं वाऽसहमाना मायावादमगीकुर्वन्तः सत्कार्यवादं पूर्वचष- यित्वा परिणामवादस्याऽपि विकल्पाऽसहत्वमेवं मन्यन्ते । तथाहि- स द्वेधा मीमांसकप्रतिपन्नः प्रयाहाऽनादित्वमादायकः । प्रकृति- नित्या पुरुषसम्बन्धेन परिणमतीति सादित्वमादायाऽपरः । तत्र नाद्यः । सत्कार्यवादानुरोधेन हेतौ कार्यसत्ताया अवश्यमङ्गीकार्य- त्वात् । तथा सति पूर्वापरभावाऽभावेन कार्यकारणभावस्याऽनिर्वा- च्यतया व्यवस्थाविरहप्रसङ्गात् । .
न च कार्यस्य सत्त्वेऽपि निमित्वशाहिर्भावे प्रतीतिविशेष- मादाय कार्यस्य सादित्वे कार्यकारणभावोपपत्तेर्नाऽव्यवस्थेति वाच्यम् । एकस्मात्फलादनेकबीजोत्पत्तौ तेभ्यश्चानेकफलोत्पत्वावेकस्मिन्फले ता- वतां बीजानां फलानां च सत्त्वात्तत्तत्फलत्वेन तत्तद्वीजत्येन कार्यका- रणभावे नियामकाऽभावात्कमाऽसद्गत्या एकस्याऽनेकफलोत्पत्तावेक- स्याऽनेकतायां सूक्ष्मस्य स्थूलतायां हेतोनिर्वतुमशक्यत्वेन च तस्या दुरुपपादत्वात् । यदि च वीजफलयोहेतुत्वे हेतुहेतुमत्ता, तदा तन्निर्वाहाय पूर्वाऽपरभावोऽवश्यमभ्युपेयः । अन्यथा सव्येतरगो- विपाणवद्धेतुहेतुमत्ता न स्यात् । अङ्गीकृते च क्रमे फलपाकोत्तरं तत्र वीजदर्शनात्फलत्वेन बीजत्वेन कारणकार्यभावनिश्चयो न तु वीजत्वेन फलत्वेनाऽतः कार्यकारणभावाऽसिध्या बीजावापोत्तरञ्च भूयसाऽनेहसा फलसम्भवान्मध्ये सन्देहेन फचियभिचारदर्शनेन च फलार्थिना न बीजमुप्येत । यदि च व्यभिचारस्य काचिकत्वाद्वीजावापस्य दर्शनाच बीजफ- लयोरपि हेतुहेतुमद्भावः प्रसिद्ध एवेत्यङ्गीक्रियते, तदापि पूर्वोक्ता- रीत्या क्रमवैपरीत्यापत्तिरन्योन्याश्रयादनुत्पत्तिप्रसङ्गः । इष्टापत्तौ च प्रत्यक्षबाधः प्रसज्येत । किंच शक्तस्य शक्यकरणं हि सत्कार्यवादे युक्तिः । साप्यनुपपन्ना । पश्चाद्भाविनः शक्यस्य कार्यस्य शक्ते कारणे पूर्व सत्त्वेन सिद्धत्वाच्छक्तस्य शस्यकरणाभावेऽशक्तिरसक्तेः । ततश्च कार्यानुसादस्याऽसत्कार्यवादस्य वा प्रसङ्गात् । एवं सहजैश- त्यभावे कार्यकारणभावाऽभावात्कारणादिपदेषु न तचदभिधायि- १अन हि सपुखरे बहुतरमशुद्धं पड़ीनां यतीनामसत्वं च । असामि- सपाठः परित्यक.। व्यर्थप्रयासात् । २ शक्येति सपाटः।
फायाः पदशक्तेरप्यपायात् । तथा च सति लौकिकवैदिकव्यवहा- रोच्छेदापनी प्रयोजनामावादाधेयशक्तेरपि मुधात्वाऽऽपाताच । न च पूर्वपूर्वफर्मणां नियामफत्याहीकारेण क्रमादिसम्पत्त्या न फश्चि. होप इति वाच्यम् । तेषामपि जडत्वेन नियामकान्तरसापेक्षत्वात् । न च जीवात्मनां नियामकत्वम् । तथा सति दुःसजनकानां विषा- दीनामनुत्पचिप्रसझात् । अतस्तन्मत ईश्वरानङ्गीकारान्नियमनस्याऽसम्भवदुक्तिकत्वम् । शके तुमशक्यत्वं च । न च फलहेतुमवाहोऽनादिः । भवाहत्वात् । घीजाश्रय दित्येवं क्रमस्याऽनादित्वं साधयितुं शक्यम् । तदापि हेतोः साध्यसमत्वादनादित्वाऽसिद्धेः । कथं साध्यसमतेति चेदु- च्यते । यत्र गोधूमादिवीजनाशे वेणुगोधूमैर्गोधूमानां लुलायशृंगाक- दल्याः काशादिक्षोभ्याकुरोत्पचिस्तादृशगोधूमादिभ्यश्च पुनर्वशाङ्करा- द्यनुत्पत्चिदृष्टा तत्र हेतुत्वसन्देहसम्भवात् । न च व्यतिरेकव्याप्तिमा- दाय सन्देहनिवृत्तिः । यन्नाऽनादित्वाभावः क्षुद्रनदीप्रवाहादौ तत्र वर्षासु प्रवाहदर्शनेन प्रवाहत्वाऽभावस्याऽशक्यवचनत्वात् । अथा- ऽन्यथानुपपत्त्या तथाङ्गीक्रियत इति चेचर्हि वादान्तरेऽपि तौल्यादा- वस्थाभावपसको दुर्वार एव । अथोत्पत्तिर्न वहिर्भावः । किन्तु मृदो घटरूपेण भवने मृद- वस्था गता पिण्डावस्था जाता सा गता घटावस्या जातेत्येव प्रतीतेः । पटे च तन्त्ववस्थाऽनुपमर्दैनाऽपि पटावस्थाप्रतीतेरवस्थाविशेषसम्बन्ध एवोत्पत्तिरिति कार्यस्य कारणभेदात्वरूपाऽनादित्वं चेदङ्गीक्रियते । असङ्गतमेतदपि । तथा सति पुत्रेऽपि पित्रवस्थान्तरत्वं स्यात् । १ अतीतेति खपावः।
९९ तथा च पितुर्नाशः स्यात् । पिण्डावस्थावत् । तन्तुवदनाशाङ्गीकारेऽपि सर्वो व्याप्रियेत । न च तथा । अतः पुत्रोंऽश एव पितुः । एवं वीजमप्यंश एवं नत्ववस्थान्तरम् । समानन्यायात् । तथा च विभा- गद्वारा हेतुत्वमानं फले सेत्स्यति । नतु स्वरूपाऽनादित्वमपि । पूर्वममावस्याऽध्यक्षसिद्धत्वात् । किंच पिता खयमनश्यन्पुत्रं प्रति विभागेन हेतुर्नतु संयोगेन । तथा फलमप्यनश्यदेव हेतुः स्यात् । अवयवसंयोगादवयव्युत्पत्तिसिद्धान्तश्च व्याहन्येत । एवमुचरावस्था- रूपताऽप्यशक्यवचनैव । तथाप्रतीत्यभावात् । संसारमवाहस्य भावरूपस्याऽनादित्वाङ्गीकारेऽनिर्मोक्षप्रसंगश्च । अनादिभावस्याऽनन्त- त्वनियमात् । आत्मनि तथा प्रसिद्धेः । अतो नाऽयमपि वादो युक्तिसहः। एवं प्रकृतिपरिणामवादोऽपि । तथाहि-प्रकृतिपरिणामो हि महदादितृणस्तम्बान्तोऽङ्गीकार्यः । तत्र पृच्छ्यते । महदादिर्भावः किं पूर्वमजात एव पश्चाजन्यत, उत जातो जन्यत इति । नायः । खमावत्यागेनाऽजातत्वमङ्गप्रसङ्गात् । अजातस्याऽमृतत्वनियमात्त- स्याऽनाशापत्तेश्च । अन्यथा प्रकृतिपुरुपयोरपि मर्त्यत्वापत्तेर्दुरित्वात् । अथ प्रकृतिपुरुषमात्रविषय एवायं नियमो न सामान्य इत्यदोप इति वाच्यम् । तदपि न साधीयः । अभ्युपगमाऽतिरिक्तमानाऽभावात् । एवमजत्वेनाऽविकारित्वेनापि व्याप्तेः पुरुषेऽशीकाराव्यकृतेरविकारित्वं पुरुषे वैपरीत्यमपि शक्यवचनम् । अन्यथा खभावमङ्गप्रसङ्गात् । अथ प्रकृतेर्विकारित्वमेव खभावः पुरुपस्याऽविकारित्वमेव स इत्यजत्वेऽपि खभावभेदाददोष इति चेत् । न । तथापि सांसिद्धि- कखाभाविक्रसङ्जाकृतप्रकृतीनां खभावाऽपरित्यागित्वस्य योगिव १०० हिपक्षिजलादिषु दृष्टत्वात्स्यप्रकृतित्वरूपं समावं परित्यज्य महदा- दिरूपेण विकृतित्वे प्रकृतेः प्रकृतित्वहानि विकृतित्वापत्त्योर्दुर्दार- त्वात् । हान्यनहीकारे च सृष्टयुच्छेदप्रसगात् । अथाऽमृतापि प्रकृतिरंशतो विकरोतीत्येवं तस्याश्चल एव स्वभाव इति चेत् । न । पर्यायेणैकदा या सर्वाशविकारे प्रकृतिसभावहानेर्दुर्वारत्वात् । चलखमावपरित्यागे प्रलयोच्छेदप्रसाच्च । किंच परिणामवादे कार्यस्य कारणाऽभिन्नत्वात्कारणस्यापि कार्यादभेद इति कार्यरूपेण जनने प्रकृतेरजत्वमङ्गप्रसङ्गः । कार्यस वाऽजत्यप्रसनः । अंशतो विकारे विभागादुत्पचिरित्युपमृद्य प्रादु- र्भावान्नित्यत्वमङ्गप्रसङ्गः । अजस्य जन्माङ्गीकारो दृष्टान्तेन शून्य इत्ययमपि वादो न युक्तिसहः । जातो जन्यत इति प्रकारस्तु प्रवा- हादित्वपक्षोक्तरेय दूपणैर्मत इत्यकिंचित्करः । एवं क्षीणेपु सर्ववादेपु सत एव मायया जन्मेत्येवरूपो माया- वादोऽवशिष्यते । स विचार्यमाणः समदृष्टान्तेन जगतो मिथ्या- त्वमेव द्रढयतीति पूर्व खाग्निकानां मिथ्यात्वमुपपाद्यते । तथाहि- खामिकाः सर्वे भावभेदाः शरीरान्तःस्थाः । शरीरसंवृतत्वात् । यद्य- संवृतं तत्तदन्तःस्थम् । गृहकुम्भवत् । अथवा यच्छरीरसंवृतं तच्छरीरान्तःस्थम् । नाडीवदिति न्यायेन खामिकानां शरीरा- न्तःस्थत्वसिद्धिः । न च खामिका न शरीरान्तःस्थाः। किन्तु बाद्याः। तद्वाह्यत्वेन महत्त्वादिना चाऽऽभासमानत्वादिति सत्प्रतिपक्ष- सत्वात्पक्षे हेत्वसिद्धेहेतोः साध्यसमत्वं या शङ्कनीयम् । ते अबाधाः। अदीर्धकालदर्शनकत्वात् । दृश्यमानदेशगमनाऽनपेक्षलौकिकदर्शनक- त्वोद्वा । यन्नैवं तनैवम् । जामदृश्यघटादिवदितिन्यायाभ्यां वाह्य- त्वसाधकहेतोरेव साध्यसमत्वसिद्धेः प्रतिपक्षत्वस्याऽशक्यवचनत्वात् । यदि गत्वा पश्येत्तं देशं पश्यन्प्रतिबुद्धस्तत्रैव तिष्ठेत् । बहुकालेन च पश्येत् । यतश्चाऽगत्वा लौकिकपत्यासत्त्यभिमानेन पश्यत्यतोऽन्त. रेव पश्यतीति तर्केणापि प्रतिपक्षनिरासाच्च । किं च वाजसनेयिनां बृहदारण्यके श्रूयते । 'न तत्र रथा न स्थयोगा न पन्थानो भवन्त्यथ स्थान् रथयोगान्पथः मृजत इति' 'स्वमान्त उचावचमीयमान' इति मन्त्रेऽनेकरूपकरणम् । 'तन्नायतं बोधये(भैंपज्यं हासै भवतीति सुप्तस्य निर्बन्धेन जागरणे कष्टं च श्राव्यते । यदि जाग्रदृष्टमेव तत्र स्याचदा न तत्रेत्यादिना तदभावं, ततः करणे, दुभैषज्यं च न वदेत् । यत्र सुप्तस्तत्रैव स्त्रिया रममाणः स्खलिते जाग्रस्तां वहिः यदि पश्येत् । यतो न पश्यति ततः शोकं करोति । यतः करोति ततो रथाद्यमाव इत्यतोऽपि तेपामान्तरत्वसिद्धिः । न च चिन्तामण्यादिसिद्धसृष्टिन्या- येन समेऽनुपादानिका सत्यासृष्टिाद्यैव भवतीति वाच्यम् । पूर्वो- कन्यायानां तत्प्रतिपक्षत्वात् । अनुपादानकत्वेऽवयवादिविघटनेऽपि नाशाऽसम्भवाऽऽपत्त्या चिन्तामण्यादिसिद्धसृष्टावपि तथात्वस्य विप्र- तिपक्षत्वाच । न्यग्रोधधानादाविव तत्राप्यमूर्तसकलपदार्थाङ्गीकारे बाधकाभावाच्च । चिन्तामण्यादिसृष्टेर्जाअदनुभववदस्याः स्वामिकस- टेरननुभवेन सानिका मिथ्याभूता बाह्यधर्मत्वेन प्रतीयमानत्वे सत्यन्तदृष्टत्वात् । यदेवं तदेवम् । करतलदृष्ट मायागजवत् । यत्नवं तन्नैवम् । सत्यगजवदिति साधनेन च तत्सत्यताया अशक्यवचन- स्वात् । सन्ध्याविकरणविरोधाच्च । अतस्तत्र मायिक्येव सृष्टिरिति १ धान्यादिति खपाठः। २ जाप्रत्यनुभवेति कपाठः। ३ मायिकवादति सपाठः।
निश्चीयते । सा च मिथ्येव भवितुमर्हति । दृश्यमानस स्थूल- स्थाऽन्तर्मातुमशक्यत्वात् । एवं सिद्ध सानिकस मिथ्यात्वे यधेयं गजतुरसमनुष्यादिरू- पेण मिथ्या, तथा मनोध्यातापि सा शेया। तत्राऽयं प्रयोगः । जामति मनोध्याता भावभेदा यामरूपेण मिथ्याभूताः । तथा प्रतीयमानत्वे सत्यान्तरत्वात् । यदेवं तदेवम् । स्वामिकवदिति । न च ध्यानस्य स्मरणपर्यायत्वात्लरणे च महिष्ठस्य सत एवं संस्का- रद्वारा गोचरत्वमात्रं भवतीति दृष्टान्तविरोघ इति वाच्यम् । अती- तस्याऽसतोऽपि गोचरत्वात् । हेत्वन्तरेण च दृष्टान्तसंगतेः । तथा च प्रयोगः । मनोध्याता गजादयो वर्तमानत्वेनाऽनुभूयमानत्वेऽप्य- सन्तः । आद्यन्तयोरसत्त्वात् । यदेवं तदेवम् । खामिफवत् । यन्नैवं तत्तैयम् । समतप्रतिपन्ननित्यवस्तुवदिति । न च विमता वर्त- मानत्वेनाऽनुभूयमानाः पदार्थाः सन्तः । आचन्तयौरसत्त्वात् । यदेवं तदेवम् । घटादिवदिति साधारणो हेतुरिति वाच्यम् । विमता घटादयो वितथाः । वितयसदृशत्वात् । यदेवं तदेवम् । ऐन्द्रजालिकयदिति साधने घटादीनामप्यसत्त्वसिद्धिदृष्टान्तविरहात् । न च विमताः सत्याः । अर्थक्रियाकारित्वादिति साधनान दोष इति वाच्यम् । असन्तः, अर्थक्रियाकारित्वात् । स्खलनजनकला- मिक्रममदास्पर्शवदिति प्रयोगेणाऽस्यापि साधारणस्वनिश्चयात् । न च जाग्रदृत्तिगम्यत्वे सतीति विशेषणे दचे हेतोर्न साधारणत्या पतिरिति वाच्यम् । तथापि मायाहस्त्यादौ व्यभिचारस्य दुर्वार- त्वासाधारणस्याऽनिवृत्तेः । एवं प्रपञ्चसत्तासाधकानां हेतूनामाभासत्वे सिद्धेऽसतो गगनकुसुमादेस्तत्त्वनो मायातश्च जन्माऽदर्शनात्सत एव मायातो जन्म वाच्यम् । सच ब्रह्मैव । अभेदश्रुत्यनुरोधात् ।
-- एवं सति ब्रह्मैव प्रपञ्चाकारेण मायया विवर्तत इति सिद्धो मायावादः । अत एव छान्दोग्यश्रुतिरपि 'वाचारम्भणं विकारो नामधेयमिति विकारस्य वाचारम्भणत्वमुक्त्वा मृत्तिकेत्येव सत्यमिति कारणस्य सत्यत्वं वदति । तेन दृष्टान्तेन कार्यस्य जगतो मिथ्यात्वं, कारणस्य ब्रह्मण एव सत्यत्वमाह । 'अनृतापिधाना' इति च । बृह- दारण्यकेऽपि 'इन्द्रो मायाभिः पुरुरूप ईयते' इति परमेश्वरस्य मायाभिर्बहुरूपत्वमाह । 'अतोऽन्यदातमिति च । श्वेताश्वतरेऽपि 'मायां तु प्रकृति विद्यादिति । इममेवाथै पुराणान्युपप्रश्नन्ति । यथा ोकादशस्कन्धे 'यदिदं मनसा वाचा चक्षुभ्यॊ श्रवणा- दिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयमिति । अत्र च नश्वरमिति हेतुगर्भ विशेषणम् । तेनेदं मनआदिमिर्गृह्य- माणं मायामनोमयम् । नश्वरत्वादित्यनुमानं फलति । एवं 'त्वय्युद्ध'त्यत्रापि विकारस्य मायात्व आदावन्ते चास- स्वादिति हेतुः फलति । तेन च जन्मादयो देहस्यैवेति तयैव धर्मद्वारा मायिकत्वमुक्तं भवति । द्वादशाध्याये च 'स एप जीव' इत्यारभ्याऽऽसमाप्ति प्रपञ्चस्य मायामयत्वं वेदार्थत्वं चोक्तम् । हंसगीतायां च । 'असचादात्मनोऽन्येषां भावानां तत्कृता मिदा। गतयो हेतवश्वास मृपा स्वप्नदृशो यथेति । 'ईक्षेत विभ्रम- मिदं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञा- नमेकसुरुधेव विभाति माया स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्प' इति । एवं योगेश्वरादिवचनेऽपि । एवमेव विष्णुपुरा- णादिपि । तस्मान्मायिक एव प्रपञ्चो ब्रह्मसत्तयैव सदिति प्रतीयत १-विवर्तित इति ख पाठ.।
१०४ इत्येव मन्तव्यम् । ततश्च न ब्रह्मरूपत्वं न वा ब्रह्मपरिणामत्व- मिति प्राप्त अत्रोच्यते न सर्वोऽपि प्रपञ्चो मायिकोsपि तु । नवरो मायिकतेन सत्यो युक्यापि सिद्ध्यति ॥२॥ तथाहि-भवदभिमतो व्यावहारिकः प्रपञ्चः कस्यचिदुत्कृष्ट- सत्ताकस्य प्रतिकृतिः । अनन्तरोत्पन्नश्च । मायिकत्वात् । यदेवं तदेवम् । आभासादिवत् । यत्नैवं तन्नैवम् । ब्रह्मवत्खपुष्पवच्च । एवमुत्कृष्टसचाकप्रतिकृतित्वेऽनन्तरोत्पन्नत्वे च सिद्धे ततः पूर्वसि- द्धस्य पारमार्थिकं सत्यत्वं सिद्यति । न च प्रतिविम्वस्य मायिक- त्वादादर्शद्वयसाम्मुख्ये तदनवस्थादर्शनाचस्सिन्दृष्टान्तिमे सत्यत्वं न सिद्यतीति वाच्यम् । तत्रापि सत्यस्यैवादर्शद्वयबिम्बस्य पूर्वावधि- त्वात् । अन्यथा तदभावात् । एवं च व्यावहारिकसत्तापेक्षयो- स्कृष्टा सत्ता पारमार्थिक्येवेति तत्सत्ताकत्वं पूर्वसिद्धस्य निरावाधम् । 'आत्मैवेदमग्र आसीत्स आत्मान स्वयमकुरुत । सत्यं चाऽनृतं च तत्सत्यमभवत् यदिदं किंच तत्सत्यमित्याचक्षते' 'पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम्' 'स वै सर्वमिदं जगत्तत्स- म्भूतं सृस() भव्य मित्यादिश्चत्यनुगृहीतत्वाच । न चाऽनाप्यकुरुतेति श्रवणाजन्यत्वे पूर्वोक्तदोपप्रसङ्ग इति वाच्यम् । तथाऽऽविर्भावेनाऽदोषात् । तस्य वादान्तरे व्युत्पाद्यत्वात् । न च सत्कार्यवादोक्तदूषणग्रासः । श्रौतत्वेनाऽलौकिकेऽर्थे तदनव- सरात् । अन्यथा तौल्यात् । नन्वेवं सत्युपन्यस्तानि पुराणवाक्यानि । १-अनाऽप्यशुद्धबहुल. 3. पाटो न्याडम्बरमिया न रक्षितः ।
१०५ श्रुतिवाक्यानि च कथं सङ्गच्छन्त इति चेदेवं सङ्गच्छते । यदिदं पौराणिकवचनकदम्बकमुपन्यस्तं तदपि मतान्तरसृष्टिरूपं तदभिम- तमेवादाय वैराग्यार्थमुच्यते । न तु सृष्टिमात्रमिथ्यात्वाय । 'विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया । यथेदानी तथा चाग्रे पश्चादप्येतदीदृशमिति तृतीयस्कन्धविरोधात् । अवान्तरप्रकर- णेन वैराग्यार्थत्वनिश्चयाच्च । तथा-एकादशस्कन्धे सप्तमाध्याये 'त्वं तु सर्व परित्यज्य स्नेहं स्वजनयन्धुपु । मय्यावेश्य मनः सम्यक्समदृग्निचरख गामि'त्यनेन बन्धुस्नेहत्यागः स्वमिन्स- म्यड्मनोनिवेशनं चेत्यगद्वयविशिष्टसमदृक्तया गोविचरणमुपदि- शतो मगवतो 'यदिदं मनसा वाचे स्यादिवाक्यपंचक, तत्तु समहक्त्वस्य पूर्वाङ्गं यः स्नेहत्यागस्तदर्थमान्तरालिकसृष्टिमादाय भवति । 'सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः । पश्यन्मदा- स्मकं विश्वं न विपजेत वै पुनरि'त्युपसंहारे । पश्यन्मदात्मकं विश्वमिति समक्त्वविवरणात् । अन्यथा पश्यन्मायात्मकमित्येवं विवृणुयात् । एतस्यैव विस्तारोऽग्रे प्रश्नानुरोधेन । एवं सति तदग्रिमप्रश्ने 'सोऽहं ममाह'मितिश्लोके 'त्वन्मायया विरचिते' यत्तदपि सोहं ममाहमित्यारिकाया अन्तरासृष्टिविष- यिण्या मूदबुद्धेविशेषणम् । तथा च तदिति ल्यग्लोपापंचमी लुप्ता । तां बुद्धि त्यतया विगाढो दृढोऽहं भवनिगदितं यथा संसाधयामि तथा शाधीत्यन्वयो ज्ञेयः । दशमाऽध्याये तु 'सुप्तस्य विषयालोको इति श्लोके भेदात्मबुद्धेरेवाऽफलत्वमुक्तम् । न तु प्रपञ्चस्य मिथ्यात्व- मिह । 'वैशारदी सातिविशुद्धथुद्धिरित्यत्रापि विद्यया विक- ल्पबुद्धिरूपायाः सकार्याऽविद्याया नाशे तन्नाशिकायाः सात्त्विकज्ञा- .
१०६ नरूपाया विद्याया अप्यनिदृष्टान्तेन नाश्यनाशे खतो नाशमात्रमु- च्यते । तावता न काचित्क्षतिः । सात्त्विकत्वेन तस्या अपि मनो- वस्थारूपत्वात् । एतदने 'अथैयामि'त्यारभ्य 'मुह्यन्ति शुचार्पिता' इत्यन्तेन कर्ममागीयमेदवादिनिन्दनं 'काल आत्मे'त्यनेन नाना- वाद चाह । तत्त्वनुकूलमेव । एवमग्रे द्वादशाध्याये 'तस्मात्त्वमुद्ध- वोत्सृज्ये ति द्वाभ्यां सर्वत्यागपूर्वफपुष्टिमार्गीयशरणगमनोपदेशो- तरमुद्धवसंशयनिवर्तनाय, 'स एप जीवो' इत्यारभ्य 'अथ त्य- जास्त'मित्यन्तेन यदुक्तं तत्रापि संशयोत्पादकचांचल्यनिवृत्यर्थ मनोनिग्रहस्यावश्यकत्वात् । विहितप्रतिपिद्धादिभेदबोधनेन चित्तचा- चल्यजनकस्य वेदस्य 'स एष' इत्यादि 'वाणी'त्यन्तेन खव्यक्ति- रूपं खरूपं सपरिकरमुक्त्वा तदर्थस्य रूपप्रपञ्चस्याऽपि वेदाऽतिदेशेन स्त्रव्यक्तिरूपतामुक्त्वा त्याज्यांशं बोधयितुं य एष' इत्यादिना प्रकृ- तिपुरुषवीजस कर्मात्मफस्य भेदप्रपंचस्स खरूपं वदन्प्रतिषिद्धन्यायन 'हेयमेतं मायामयं यो वेद स वेदं वेदे'त्युपसंहृत्य ‘एवं गुरू- पासनये'त्येकेन मनोनिग्रहप्रकारमाह । अतोऽत्रापि वैराग्याथै मता- न्तरसृष्ट्यनुवादः पूर्ववदेवेति न चोद्यावकाशः । एवमेव त्रयोदशे योगबोधनार्थ हंसगीतामुपक्षिप्य तत्र भेदस्य वाचारब्धत्वमुक्त्वा 'यदिदम्मनसे त्यनेन सर्वस्यात्माऽभेदेन ज्ञान- भुपदिश्य जीवदेहखरूपा ये गुणाश्चितं च, तदुभयत्यागार्थ जीवस्य मनोवस्थाविलक्षणत्वं साक्षित्वं च नृसिंहोत्तरतापनीयवदुक्त्वा 'तही त्यादिद्वाभ्यां त्यागोपायमुक्त्वा यावन्नानार्थे' त्यादिना नाना- स्वस्य प्रांतिकल्पितत्वाद्धार्द नानात्वमनुमानादिना संछिद्य 'मां भ- जते'त्युपदिशनीक्षेत विम्रममित्यनेन त्रिविधस्य जाग्रदादिप्वन्तरा सृष्टस्यैव मनोविलासत्वं ममत्वं चाऽऽह । 'ततो दृष्टिं तत' इत्यादि त्रयेण जीवदेहस्य पूर्वोक्तस्यैव नश्वरत्वादिकं वदन्सांख्ययोगगुह्यमुप- संहरति । तेनेदमपि वैराग्यार्थमेव भेदवायभिमतां गुणविसर्गदृष्टि- मेव तादृशीं वदतीति पूर्ववदेव । अत एव चतुर्दशपञ्चदशाध्यायद्वये एकस्यैव वेदस्याऽध्येतॄणां प्रकृतिवैचित्र्यानानार्थवक्तृत्वं खमाययोक्त्या, तुच्छफलभोक्तृत्वं च तेपामुक्त्वा, विंशकविंशाभ्यामध्यायाभ्यां सप्रपञ्चं वेदार्थ संग्रहे- गोक्त्या, 'किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन । मां विधत्तेऽभिधत्ते मां विकल्प्यापोहते ह्यहम् । एतावान्सर्ववेदार्थः शब्द आस्था- य मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिपिध्य प्रसीदती'त्य- न्तेन शब्दस्य खाऽऽख्यानेन भिदामायिकतावक्तृत्वमुक्तम् । तेन पूर्वोक्त एवार्थो निर्णीत इति निगर्वः । एवं सत्येकोनर्विशे यदुक्तं 'त्वय्युद्धवाथयती'त्यनेन तदपि 'मायामात्रमिदं ज्ञात्वेत्युपक्रमो- क्तसन्यायांगवैराग्यसियर्थ पूर्वोक्तसृष्टिं लक्षीकृत्यैवोक्तमतोऽत्रापि न चोद्यावकाशः । एवमेवाष्टाविंशे 'छाया प्रत्यायाऽऽभासा असन्तोऽप्यर्थकारिणः । एवं देहादयो भावा यच्छन्त्या मृत्यु - तो भयमि'त्यनेन पूर्वोक्तरूपाणामेव देहादीनामर्थक्रियाकारित्वे- ऽप्यसत्त्वं बोधयित्वा तदनुपमेवा'ऽऽत्मैव तदिदं विश्वं मुज्यते सृजति प्रभुः । प्रायते त्राति विश्वात्मा हियते हरती- श्वर' इत्यनेन सर्वस्येश्वरात्मकत्वमुक्तमिति भेद एव मिथ्यानं पर्य- वस्यति । समाप्तौ 'चैप तेऽभिहितः कृत्लो ब्रह्मवादस्स संग्रह' इति कथनात्सर्वस्य ब्रह्मात्मकत्वमेव सिध्यतीत्यलं प्रसक्तानुपसक्त्या ।
एवमेव वैष्णवादिपुराणेष्वपि ज्ञेयम् । तदेतदक्षयं नियं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्प- चदिति प्रथमांशे पराशरीयवाक्यात् । याः पुनश्छान्दोग्यादिश्रुतय उक्तास्तासान्त्वयमर्थः । तथाहि-छान्दोग्ये तावदेकविज्ञानेनाऽविज्ञा- तविज्ञानं प्रतिज्ञाय 'यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं साद्वाचारम्भणं विकारो नामधेयं मृत्तिकत्येव सत्यमित्यादिना मृत्पिण्डलोहमणिनखनिकृन्तनदृष्टान्तैरेकोपादानक कायैकदेशमुदाहृत्य तस्मिन्नेकदेशे यद्विकारत्वरूपो यो धर्मों निश्चितः स एव तु तज्जातीयेषु कार्यान्तरेप्वप्युपलभ्यमानसामान्यो भवतीति सामान्यलक्षणप्रत्यासत्त्यैव सर्वज्ञानं भविष्यतीति तद्वार- णाय प्रकृते मृत्तिकेत्येव सत्यमित्यादिना कारणरूपेण सत्यत्वकथ- नान्मृदादिरूपेण ज्ञानस्यैव विवक्षितत्वं न तु मृण्मयत्वादिरूपेणेति । ततोऽपि वैलक्षण्यवोधनात् । दृष्टान्ते कार्यकारणयोः कारणता- प्रकारस्य च प्रत्यक्षत्वात् । दान्तिके च कार्यस्य प्रत्यक्षसिद्धत्वं न तु कारणस्य, कारणताप्रकारस्य चेति प्रतिज्ञा सिद्धये तयोः कार्य- कारणाभेदस्य च बोधनीयत्या वस्तु यस्यादिरन्तश्च स वै मध्य च तस्य तत् । विकारो व्यवहारार्थों यथा तैजसपार्थिवा' इत्येकादशस्कन्धवाक्ये पार्थिवतैजसपदाभ्यां मृत्पिण्डलोहमण्यादि- गोचरीकरणेनेतच्छृत्युपबृंहणादपि घटः पट इत्यादीनां कार्यमकाराणां व्यवहारार्थ वाचासकेतितत्त्वम् । न तु तेन रूपेण तेषां वस्तुत्वम् । किन्तु मृदादिरूपेण । तथा प्रकृते कार्यप्रकाराणां कारणाऽनन्य त्वेन सत्यत्वमेव श्रुत्या योध्यते, नतु मिथ्यात्वम् । शुक्तिरजतादि- वत् । अन्यथा तदेव दृष्टान्तीक्रियेत । नाऽपि तत्र सामान्यलक्षणा सम्भवति । प्रमाणामनन्तरूपत्वात् ।
अत एव सूत्रकारोऽपि तदनन्यत्वमारम्भणशब्दादिभ्य इत्ये- चाऽसूत्रयत् । यत्तु 'तदनन्यत्वसूत्रे भेदव्यासेध एवं क्रियते नत्य- भेदो वोध्यत' इति कैश्चिदुक्तं तदपि दृष्टान्तोपरोधादेव परास्तम् । व्यासेधिते च भेदेऽभेद एव पर्यवसानादभेदपर्यन्तत्वमेवाचार्याशय- गोचरम् । नो चेत्सन्देहनिराकरणाथै प्रवृत्तत्वाचन्मिथ्यात्वमेव ब्रूयात् । 'पुरुषस्य चैतन्यं' 'राहोः शिर' इत्यादौ या नामधेयमा- अता सापि ज्ञाता सती तयोरभेद एव पर्यवस्यति । नतु भेदस्य कल्पनामात्रतां गमयित्वा निवर्तते । यदि तावदेव कृत्वा निवर्तेत तीर्थस्यामिलापमात्रत्वाद्वन्ध्यासुतादिवचैतन्यराहू कदाचिदपि न प्रती- येयाताम् । 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पात- अलस्यापि तादृशो भेद एवाऽत्र लक्ष्यः । तस्यैवाऽवस्तुत्वात् । रज्जुसर्पमृगतृष्णोदकादिषु यद्यासेधमात्रे पर्यवसानं, तत्तु तत्व- रूपस्याऽवस्तुत्वात् । न चेह तथा । अवाधितप्रतीतिसिद्धत्वात् । 'तद्वैतत्पश्यन्नृपिर्वामदेवः प्रतिपेद' इत्यादिश्रवणात् । प्रकृतश्रुति- रपि वाचारम्भणरूपाया विकियाया एव नामधेयतां विधते चाचारम्भणं विकारो नामधेयमिति । यदि कार्यस्वरूपस्याऽपि वाड्मा- व्रतामभिप्रयाद्वाचारम्भणं नामधेयमिति पदद्वयं न ब्रूयात् । एके- नैव चारितार्थ्यात् । अतो वाक्संकेतस्यैवाऽनृतत्वमेव फलतीति खरूपं कारणादभिन्नमेव । अतो दृप्टनप्टस्वरूपत्वं स्वरूपेणानुपा- ख्यत्वं च सृष्टयन्तरविषयकं न तु विपयश्रुतिगोचरमिति कल्पित- मेवैतत् । एवमेव दार्टान्तिकवाक्ये प्यैतदात्म्यमिदं सर्वमित्युक्त्वाने तच्छन्देन सर्व परामृश्य तस्य सत्यत्वं विदधती श्रुतिर्यदात्मक- मिदं सर्व सत्यमुक्तं तत्वरूपमाह--'स आत्मेति । जड़वजीव- स्थाऽपि तदात्मकत्वमाह 'तत्वमसीति । यदि जीवस्य परब्रह्मात्म- कत्वमभिप्रेयात्तत्पदं पुनर्न ब्रूयात् । स आत्मा त्वमसीत्येतावतैव चारितार्थ्यात् । अतो दार्टान्तिकेऽप्यनभिप्रेतमेव मिथ्यात्वम् । अनृताभिसन्धबन्धनादिकं त्वनेकान्तिवादिनामेव भीपर्क नत्वेकान्ति- वादिनाम् । वृक्षशाखोदधितरंगवन्नानात्वाऽनङ्गीकारात् । 'अपागाद- नरग्नित्वमि'त्यादावपि वाचारब्धामित्वादेरेवाऽपायो न कारणाऽभेद- स्यापि । त्रीणि रूपाणीत्येव सत्यमितिकथनात् । यदि कारणाभिन्नस्याऽज्यादिवरूपस्याऽपि मिथ्यात्वमभिप्रेयाची- ग्यादित्वमपोद्य नेदमित्येव सत्यमित्येव ब्रूयात् । 'स वा एप महा- नज' इत्यादिश्रुतयस्तु विरुद्धधर्माधारत्वबोधनेन माहात्म्यमेव पर- ब्रह्मणो गमयन्तीति व्युत्पादितमन्यत्र । अतो. यदविद्यात्मकत्वं नामरूपजीवव्याकरणादीनामङ्गीकृत्येश्वरस्य नामरूपसम्बन्धाचादृश- तत्कारणत्वादिसमर्थनं तत्त्वप्रज्ञाविलसितमात्रमिति निपुणवीमिर- वधेयम् । 'आकाशो वै नामरूपयोनिहिता'। ति यदन्तरा तोति श्रुतिस्तु तन्निर्वाहकत्वं ब्रह्मणो वंक्ति । न तु तयोराविद्यकत्वम् । एवमेव 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिव- दन्यदास्त' इत्यपि तयोः कार्यत्वमात्रं वक्तीति पूर्वतुल्यैव । कार्य- खरूपस्य ब्रह्मात्मकता तूपपादितैवाघस्नात् । आत्मैकत्वदर्शनस्साभयमिव परिणतसर्वभूतब्रह्माभेददर्शनस्य फलमपि श्रूयत एव । 'तदिदम- प्येतहि य एवं वेद प्रदाहमसीति स इदं सर्वं भवति तस्स ह न देयाश्चर्पयथ नाभूत्या ईशत आत्मा पेषां सम्भवतीति । भार्गव्यां च विद्यायां 'य एवं वेद प्रतितिष्ठती'त्यादि । न च फलजा. घन्यं शक्ष्यम् । पुनेप्टिकारीर्यादिवद्विद्वदौन्मुख्यजननार्थत्वेनाधिकार- सम्पादकत्वात् । अस्तु वा तथा । तथाप्यफलत्वं गतमेवेति दिया- त्रमत्रोक्तम् । विशिप्यतु भाष्यविभागे प्रतिविधास्यामः। एव- 'मनृतापिधाना' इत्यपि छान्दोग्ये दहरविदः कामानुपक्रम्य पठि- तम् । 'त एते सत्याः कामा अनृतापिधानास्तेपां सत्याना- मनृतमपिधानमिति । तदप्यन्तरासष्टावेव पर्यवस्यति । तस्सा एवाऽपिधायकत्वात् । वस्तुतस्तु 'सत्यं चानृतं च सत्यमभवदिति श्रुतेः स्वस्यैव बहुभवनमुपक्रम्य पाठनात्तत्र च मायादिशब्दाभावा यदिदं किंच तत्सत्यमित्याचक्षत' इत्युपसंहाराच्चानृतशब्दोऽप्यत्र न मिथ्याव- चनः किन्तु द्वैरूप्यकथनप्रस्तावादाधिदैविकसृष्टिविलक्षणमात्रपर इति तत्र सिद्धत्वात्प्रकृतेऽपि प्रस्तुतलक्षणापिधानपरो नतु मिथ्या. परः। खपुप्पतुल्येन पिधानाऽसम्भवात् । शुक्तिरजतादावपि बुद्धेः सत्याया एव तेन रूपेणाख्यानाद्भूतवत्तया पिधानाविरोधः । एते- नैवा'ऽनृतं चै वाचावदति' 'अनृतं मनसा ध्यायतीत्या'द्यपि व्याख्यातप्रायम् । 'इन्द्रो मायाभिरिति तु मायाभिः पुरुरूपद- र्शनं वक्ति, न तु तया तथा भवनम् । तया तथा भवने विवक्षिते पूर्वार्ध एव माययेति वदेत् । न च मायापुरुरूपपदयोः सम- भिव्याहारवलात्तथार्थों लप्स्यत इति वाच्यम् । एतस्य पूर्वोक्तानु- वादत्वेन पुरोवादवलक्षण्यस्याऽशक्यवचनत्वात् । न च तदर्थनिश्चा- यनार्थमेवात्र समभिव्याहार इति वाच्यम् । विनिगमकाऽभावात् । १ वस्तुवेति प्रतिभूपुस्तकद्वयेभ्यशुद्धपाटो लब्धः ।
- किंच इदं हि वाक्यं मधुब्राह्मणस्थम् । तत्र च मैत्रेयीब्राह्मण- प्रतिपादितस्याऽऽत्मनः पृथिव्यादिपु विद्यमानत्वममृतब्रह्मसर्वात्म- कत्वं चोपक्रमे प्रतिपाद्यते । द्रष्टा ऋपिमैत्रः पुरा करणं, पक्षिरूपेण तासु प्रवेशं, चोक्त्वा सर्वस्य तत्संवृतत्वमुवाद । तेन प्राप्ते भेदे पूर्व प्रतिपादितसर्वरूपत्वहानिमालोक्य तन्निरासेन सर्वरूपत्वसमर्थनाय 'रूपं रूपमिति मन्त्रः पठ्यते । 'यं वै हरयो यं वै दश च सह- साणि बहूनि चानन्तानि चे त्यनेन विप्रतीयते। ततो यस्यैवं हर्यादिरूपताऽत्रोक्ता ब्राह्मणोपक्रमे चामृतब्रह्मखरूपतोक्ता तस्यैव 'तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमित्यनेन खरूपमुक्त्वा 'य आत्मा ब्रम सर्वानुभूरित्यनुशासनमि'त्युपसंहृतम् । तत्रोपक्रमो. पसंहाराभ्या ब्रह्मणः सर्वरूपता मायां विनैव चोधिता, मंत्रव्या- ख्याने च तथैव हर्यादिरूपतेत्यात्मन एव च सर्वरूपताऽभ्य- स्तेति सर्वानुमूरित्युपपत्त्या च मायावाद्यभिमताया मायाया वा- क्यार्थविरुद्धत्वादत्र मायाशब्देनेन्द्रियवृत्तिरेवोच्यते । 'सान्माया शांवरी कृपादम्भो बुद्धिश्च'त्यनेकार्थकोशे मायापदस्स बुद्धि- वाचकतावोधनाच्च । अतो नानेनापि प्रपंचस्यात्रोक्तस्य मायिकत्व- सिद्धिः । 'अतोऽन्यदातमिति तु ईश्वरातिरिक्तस्य रूपस्य जीव- जडात्मकस्य दुःखित्वं बोधयति न मिथ्यात्वम् । ब्रह्माभेदस्य श्रुत्य- न्तरसिद्धत्वात् । दुःखं चानन्दतिरोभाव एवेति । तत्रापि न भव- दिष्टसिद्धिः। श्वेताश्वतरीये तु मायायाः प्रकृतित्वं बोध्यते । तस्याश्च सत्यत्व- मेकादशस्कन्यादवगम्यते । 'तन्मायाफलरूपेण केवलं निर्विक- ल्पितम् ! वाग्मनोगोचरातीतं द्विधा समभवदृहदित्युपक्रम्य ११३ 'प्रकृतिर्यस्योपादानमाधारपुरुपः । परः सतोऽमिव्यञ्जका कालो ब्रह्म तत्रितयन्वहमिति कथनात् । न च नृसिंहतापनीये 'सपाऽविद्या जगत्सर्वमिति प्रतिज्ञाय 'तस्यास्तमोरूपत्वमप्यनुभाव्य 'सैपा वटवीजसामान्यवदनेकवट- शक्तिस्तद्यथा वटवीजसामान्यमेकमनेकान्स्याऽव्यतिरिक्तान्वटा- न्स्यबीजानुत्पाद्य तत्र तत्र पूर्ण सन्तिष्ठत्येवमेवैपा माया स्वा- व्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावामा- सेन करोति माया चाविद्या च स्वयमेव भवतीति कथनान्मा- यिकत्वमेव सर्वस्य जगत इति शङ्कनीयम् । तस्याऽन्तरासृष्टिपर- त्वात् । 'मायया त्वन्यदिवेत्युपक्रमेण 'तस्मादात्मन एव त्रैविध्यं सर्वत्र योनित्वमपी'त्युपसहारेण च तथा निश्चयात् । अत एव दृष्टान्तो व्याख्यानेन दार्शन्तिके दर्शनमादायैव योजितो नतु जननमादाय । वटबीजं तूत्पाद्य वटेषु पूर्ण सन्तिष्ठति । एषा तूत्पादने तत्र स्थाने चासमर्थत्वात्ताहशानि क्षेत्राणि दर्शयित्या स्वयं माया- विद्यारूपाऽऽदर्शद्वयस्थानीया सती जीवेशावाभासेन करोतीति । तथा च यस्मादियमाभासाधारभूता ब्रह्मादित्रिरूपवती तस्मादाभा- स्यस्यात्मन एव त्रैविध्यम् । आमासाभास्ययोः समानाकारत्वनि- यमात् । यस्माचेयं दर्शयिव्येव न तु जनयित्री । दर्शनं च जननं विनाऽनुपपन्नं तस्मादात्मन एव सर्वत्र योनित्वमिति । तत एव जातमिति सिद्ध्यतीत्यनेनापि न जगन्मात्रमायिकत्वसिद्धिः । अत एवोपक्रमेप्यन्यदिवेत्युक्तं न त्वन्यदेवेति । नापि मिथ्यैवेति । एवं चान्तराष्टिं प्रति विवर्तोपादानत्वमात्मसृष्टिं प्रति परिणा- भ्युपादानत्वं ब्रह्मण इति निश्चयः । इममर्थमाचार्योऽ'प्यात्मकृतेः ८ परिणामात्' 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' 'योनिश्च हि गीयत' इत्यादि सूत्रयन्ननुमेने । अतो ये मायिकमेव प्रपञ्चमा- हुस्ते प्रतारका एव । अज्ञा वा । यो यादृशं पश्यति स तादृशं वदति । 'मायेत्यसुरा' इत्यसुराणां मायोपासफत्वात्तदनुगृहीतास्ते यथा पश्यन्ति तथा वदन्तीति तेपामपि न दोपः। ननु वेदान्तानां ब्रह्मप्रतिपत्त्यथै प्रवृत्तत्वेन सृष्टौ तात्पर्याऽभावा- तत्सत्यत्वं न वेदान्तैः सिच्यतीति युक्तिसिद्धं मिथ्यात्वमेवाङ्गीक्रिय- तामिति चेत् । न । सत्यस्यानुकार्यस्य तादृग्रूपस्याऽभावे खपुष्पादि- बन्मायिकस्याप्यसिद्धेस्तसिद्ध्यर्थं तापस्य प्रपञ्चान्तरस तत्पूर्वसि- द्धस्यावश्याङ्गीकार्यत्वात् । सिद्धे चैवं तस्मिन्प्रतिज्ञादृष्टान्तानुपरोध- चलेन ब्रह्मप्रकृतिकस्यैव सिद्धेस्तात्पर्याभावं वदतोऽपि श्रुत्यैव तत्सि- द्धेरप्रत्यूहत्वात् । उपपादितं चैतदधस्तात् । एतेनैयाध्यारोपापवादपक्षोऽपि प्रत्युक्तः । वास्तविकाभावेऽध्या- रोपस्याप्यभावेन प्रतीत्यभावापातेऽध्यारोपस्स दूरापेतत्वात् । न च ब्रह्मणो निराकारत्वान्नेदं साधीय इति वाच्यम् । उभय- लिङ्गाधिकरणसिद्धस्य विरुद्धधर्माश्रयत्वस्य पूर्ववाद एव व्युत्पादि- तत्त्वात् । एतेनैवाऽकर्तृत्वादेरपि दत्तोचरत्वात् । विकृतत्वस्यापि श्रौतत्वादेव परिहारात् । न च द्वैतापत्तिः । तदनन्यत्वादेव तन्नि- रासात् । प्रतीयमानद्वैतस्य श्रुत्याऽवास्तविकत्वबोधनाच्च । अतो 'बहुसां प्रजायेयेती'च्छया ब्रह्मैव स्वभावतो लीलयोचनीचप्रपञ्चा. कारं भवतीति वास्तविकभेदभानेऽपि नाद्वैतहानिः । अत आग- न्तुकस्वेऽपि घृतद्रवत्ववद्वस्तुधर्मत्वेन धर्मधर्मिणोश्चाऽभेदेनाऽदोषास्यू- .
वोक्त निळलीकम् । इच्छा च सर्वभवनसमर्थ ब्रह्मैव धर्मरूपेण भवचेन रूपेणापि भवतीति खरूपाऽनतिरिक्ता। न च सा सर्वदा भवतीति शङ्कनीयम् । आपादकहेतुभूतस्य कालस्याऽभावात् । तस्य भगवच्चेष्टारूपत्वेन पाश्चात्यत्वात् । 'योऽयं कालस्तस्य ते व्यक्तबन्धोश्चेष्टामाहुश्चेष्टते येन विश्वमिति वाक्यात् । 'ऐक्षताऽकामयते'त्यादिश्रौतमयोगानुरोधात्सहभवन- पक्षेऽपि कालस्य सर्वानियामकत्वादिच्छामपि नियमयिप्यतीति न सर्वदा भविष्यति । तत्रैया प्रक्रिया । भगवान्सच्चिदानन्दरूपो धर्मरूपेण भवन् सद- शशक्ति क्रियां चिदंशशक्ति व्यामोहिकां मायामानन्दरूपस्य जगत्का- रणभूतां मायां च भिनत्ति । तेन धर्माः सचिदानन्दाः स्वयंभिद्य- मानाः खखाश्रयं भिन्दन्ति । तदा भगवान्सर्वतः पाणिपादान्तो भवति । साकारताश्चाऽऽपद्यते । एवं भिन्नोऽपीच्छया मिलितः सन्न भिन्न इवाखण्डो भवति । तदपेक्षया कार्यरूपस्याऽल्पत्वात् । 'पूर्णमदः पूर्णमिदमित्यादावयमेव गीयते । अत एव सद्पस कार्येषु प्रत्येकपर्यवसायित्वम् । प्रजायेयेतीच्छयोकोपकर्षरूपेण जातत्वादानन्द उत्कृष्टः । अत एवान्तर्यामिषु भगवदाकारत्वं नेत- रेषु । तदेतरौ तं सेवमानौ भवतः । तदा सचितोधर्मी ज्ञान- क्रिये आनन्दधर्मरूपेण तिष्ठतः । तदाऽऽनन्दो ज्ञानक्रियाशक्तिमान् भवति । तदा चिदंशशक्तिनिधर्मस्याऽऽनन्दे गतत्वाच्चिदंशं मोहयति। तदा स प्राणधारणप्रयत्नं कुर्वजीवो भवति । सदंशस्तु क्रियाशक्ते- र्गतत्वाजडत्वमापद्यते । ततो मूलभूतक्रियांशाभिः क्रियाभिर्यथायथं १-सर्वभवनसामग्ररूपा। .
महदादिक्रमेण वाऽन्येन श्रौतेन क्रमेण वाभिव्यज्यते । तस्यास्त- स्कृतधर्मस्य या तिरोभवतीत्यादिरूपा सुबोधिनीतोऽवगन्तव्या । सेयं प्रक्रिया सर्वश्चतिवाक्यानुरोधेन श्रुतार्थापत्तिसिद्धा सर्वत्रै- वोपयुज्यते । अन्यथाप्रक्रिया तु वाक्यानि वाधते । पाक्यानि तु गौरबमयासुबोधिनीविवृतौ लिखितत्वाचात्र न लिख्यन्ते । तथा क्रमभेदाश्च । तस्माद्ब्रह्मणः सकाशाजगदुत्पत्तौ न कोऽपि दोषः । वस्तुतस्तूभयलिङ्गाधिकरणरीत्या ब्रह्मणः खत एव सर्वाकारत्वस्य पूर्ववाद एव साधितत्वात्वतन्त्रं ब्रह्म क्रीडद्यदायदा यद्यद्रूपं बुद्धेः शब्दस्पेन्द्रियाणां वा गोचरीकरोति तदा तदा तत्तदाऽऽविर्भूतं लोकशास्त्रादिव्यवहारविषयं भवति । यच्च यतस्तिरोभावयति तन्न भवतीति मुख्यसिद्धान्ते परिणामोऽपि न विचारविषयः । युक्त्य- गोचरत्वस्य भूपणत्वात् । अत एव 'नायमात्मेत्यादि श्रुतिभि- भगवत्सामर्थ्य नैव भगवान्प्रकाशो नेतरसामर्थ्येनेति न कोपि चोद्या- वसरः । अत एव वृत्तसूक्ते इयं विमृष्टियत आरभूव यदि वा दधै यदि वा न । यो असाध्यक्षः परमे व्योमन् सो अंग वेद यदि या न वेदे'त्युक्तम् । तथा च यद्यादधे तदोक्तरीत्या ततो जाता । यदि च नादधे तदा खयमेव तथा विर्भूत इत्यर्थः । न च सूक्तारम्मे तमस उक्तत्वान्मायिकत्वं शक्यशक्षम् । तत्रापि 'तम आसीत्तमसा गूढमिति कर्मफर्तृव्यपदेशात्सदेवेति साव- धारणश्रुत्यनुरोधात्पूर्ववाद ब्रह्मणः सर्वशब्दवाच्यत्वव्यवस्थापनेन शानिरासाच्च । तसापूर्वोक्तमवियादमिति दिक् । एवं च प्रपञ्चः सामान्यतश्चतुर्घा सिद्धः । ब्रह्मणः खत एव सर्याकारत्वाद्ब्रह्मरूपो गुणातीत एकः । केनापि श्रौतेन पौराणा- दिना वा क्रमेणेच्छया मुख्यशत्तया वा निर्गमितोऽनेकविधो धृत- द्रवत्ववहाधर्मात्मकविकारशाली ब्रह्मपरिणामो द्वितीयः । तत्र श्रौतो घटितपात्रवदिच्छया कृतः । पौराणस्तु मायां प्रतिकृतिरूपां संचायिकां विधाय तन्मध्ये पूरितपात्रवत्कृतो मायोपदिग्ध इति तयोर्मेंदः । एतदुपदेहभूतो मायोपादानकः प्राकृतविकारशालि- व्यावहारिको ब्रह्मविवर्तात्मा तृतीयः । तथा अविद्याया निद्राचि- न्तादिभेदेनानेकत्वात्तन्निमित्तकस्तदुपादानको वा शुक्तिरजतखाग्नि- कादिरूपोऽन्तःकरणविकारात्मा व्यवहारदुष्टेन्द्रियादिगोचरस्तुरीयः । एतौ द्वावपि मायिको प्रपञ्चौ विपयधर्मत्वाद्विषयताशब्देनाऽत्र परिभाष्येते । मायिकत्वेऽपि विषयनिष्ठतया भासमानत्वात् । यथा सदृशधर्माभिन्ननिष्ठा अपि तद्गतत्वेनोच्यन्ते । तद्भिन्नत्वे सति तद्ग- तभूयोधर्मवत्त्वमिति तद्वत् । अत्राऽऽद्या विषयता व्यामोहकमाया- कार्यत्वान्मायानिष्ठापि मायया विषयोपदेहाद्विषये प्रतीयत इति मायावादिनो विपयं मायिकमित्यभिमन्यन्ते । बुधास्तु निर्विचि- कित्से शास्त्रज्ञाने जाते उपदेहात्मिकां विपयतां घटप्रमवत्पश्य- न्तोऽपि तां न्यकृत्य विषयं ब्रह्मात्मकं वदन्ति । जातसाक्षात्काराः शुकादितुल्यास्तु यथाऽस्मदादयः प्रतिविम्बमेवमतिरिक्तामेव विप- यतां पश्यंतीति तादृक्ताहगधिकारिषु तथा तथा वदन्ति । 'विश्व वै ब्रह्मतन्मात्रमिति 'सर्वम्मायेति तर्केणेति च । भगवानपि 'यदिदं मनसा वांचा गृह्यतेऽन्यैरपीन्द्रियैः। अहमेव न मत्तोऽ- न्यदिति बुद्ध्यध्वमञ्जसेति 'यदिदं मनसा वाचा चक्षुभ्यो श्रवणादिभिः। नश्वरं गृह्यमाणं च तद्धि मायामनोमय'मिति वदति शुक्तिरजतादिसंग्रहाय ।
शुक्तिरजतादिकश्चान्तःकरणादिगतमेव । जीवव्यामोहिकया तया तदन्तःकरणबहिःकरणयोरेव तदुत्पादनात् । विषयदेशे प्रतीतिस्तु संस्कारादिप्राबल्यतया व्यत्यासात् । न च व्यत्यासो न शक्यवचन इति शक्यम् । भ्रमदृष्ट्या घटादिदर्शने तथानिश्च- यात् । चक्षुरादिनिष्ठाया एव अमेघटादौ भानात् । अन्यथा सर्वे- पामपि तथा भानप्रसंगात् । न चेन्द्रजालादौ सर्वेषां तथा भानाद्वि- पयदेश एव सा विषयतोत्पद्यत इति व्यत्यासो न युक्तिसह इति वा- च्यम् । तत्रापि सामाजिकचक्षुःप्वेव तदुत्पत्तेः। अन्यथा दूरादागतस्या- ऽपि तददर्शनाभावप्रसक्तः । 'जित्वा बलान्निवद्धाक्षानटो हरति तद्धनमिति वाक्याचथा प्रसिद्धेश्चेति न कोऽपि कापि शंकांशः । नन्वस्त्वेवं तथापि नाशोत्पत्तिभेदेष्टानिष्टशुद्धाशुद्धादिप्रती- तीनां जायमानत्वाद्वादिप्रतिवादिनोः प्रापश्चिकप्रतीतावापाततो न कोपि विशेष इति चेत् । किमेतावता । वस्तुतस्त्वस्ति विशेषः । यथा चतुरतरतक्षनिर्मितो यन्त्रेण संचरन्नपि काष्ठकेशरी भुजंगमो वा ज्ञाततत्वस्य न भयादिकं जनयितुं शक्नोति । प्रत्युत कुतुकम् । निर्मातृमाहात्म्यमेव च ख्यापयति । तथा प्रकृतप्रतीतिरपि विस- यमुत्पादयन्ती भगवतोऽप्यलौकिकं माहात्म्यमेव व्याचष्टे । नत्वित. रवत्ससारयतीति । एतेन भगवन्मूर्तिदर्शनादौ भक्तामक्तादीना विष- यविषयतयोरेव यथायथं वोध इति न कोऽपिक्कापि शंकांश इति दिक।। इति श्रीवष्ठभाचार्यचरणाम्बुजचेतसा । निबन्धाद्युक्तमार्गेण सृष्टेमेंदो निरूपितः॥ इति श्रीमदल्लभाचार्यमतवर्तिश्रीवल्लभनन्दनचरणकतान. श्रीपीताम्बरतनुजपुरुषोत्तमविरचितः पञ्चमः सृष्टिमेदयादः सम्पूर्णतामगात् ॥ १शंकारेश इति यपुस्तकम् ।
॥ श्रीः॥ ॥ श्रीकृष्णाय नमः॥ पुष्टिमार्गसिद्धान्तवाङ्मालायां गोस्वामिश्रीमरपुरपोचमविरचितः ख्यातिवादः। नवमो मणिः। यन्मायया बहिःक्षिप्ता ख्यायते बुद्धिरर्थवत् । निवर्तते च यदोधात्तं नमामि जैनार्दनम् ॥१॥ ननु किमिदमपूर्वमुच्यते बुद्धेः ख्यानम् ।। तस्यास्त्रिक्षणाव- स्थायित्वनियमेनाऽमूर्तत्वेन च वहिःक्षेपनिवृत्त्योरशक्यवचनत्वेन तख्यानस्य सुतरां तथात्वात् । न च सा स्थिरेति वाच्यम् । मानाऽभावात् । न च ज्ञानधाराया अपि दर्शनातस्याः स्थैर्य शङ्कनी- यम् । उपेक्षाबुद्ध्यादौ व्यभिचारात् । धारावाहिकस्थले सजातीय- ज्ञानान्तरोदयेन तथा बुद्धेः सूपपादत्वात् । अन्यथा शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वनियमभङ्गप्रसङ्गात् । न चाऽनन्तबुद्धितागभाव- ध्वंसादिकल्पनागौरवमप्रामाणिकमिति वाच्यम् । धारावाहिकव्यति- १ द्वितीयस्कंधनवमाध्यायीयतेऽर्थ प्रतीयेते'ति लोकसुबोधिनीखारस्या- न्माययेत्यस्य समानीतखविपयेत्यर्थ. । २ अर्थाऽभावेप्यर्थवद्भासत इत्यर्थः । ३ एतेन सिद्धान्तेऽख्यातिरप्यङ्गीकृतेतिबोध्यम् । तत्प्रकारस्त्वप्रे स्फुटीभविष्यति । ४ जना मायामर्दयत्तीति व्युत्पत्तेः । ५ अशक्यवचनत्वादित्यर्थः ।
१२० रिक्तस्थले तथात्वस्य निश्चयात् । अन्यथा सर्वत्र ज्ञानधाराऽऽपत्तेः । मायाया आमोक्षमनुवर्तमानत्वेन स्थिरत्वपक्षे तवाऽपि सर्वदा प्रमा पत्तेः। अतो बुद्धिस्थैर्यमायाकृतव्यत्याससर्वदातदभावकारणादिकल्प- नाऽपेक्षया युक्त्यन्तराणामेव ज्यायस्त्वाख्यात्यन्तरमेवाऽऽदरणीयम् । नतु कल्पनागौरवग्रस्ता विक्षिप्तबुद्धिरूपाऽन्यख्यातिरिति प्रावे । उच्यते। यथार्थताऽन्यथाख्यातौ मुष्टतत्तास्मृतावपि । स्मरणानुव्यवसितिः साद्गृहसरणात्मके ॥१॥ ज्ञानद्वये चैकज्ञानतुल्यत्वस्य विरोधनम् । संस्कारादेर्बलिष्ठत्वान्नापेक्षा रजतस्य च ॥ २॥ अनिर्वाच्यसात एव नासत्ख्यातिः सदाता । सर्वदा तत्प्रसङ्गाच्च सदसत्ख्यातिरर्थतः ॥३॥ अंतएव चामिनवाऽन्यथाख्यातिन युज्यते । बुद्धिस्तत्वान्तरं तेन नात्रात्मख्यातिसंशयः ॥ ४ ॥ कार्यः सर्वजनीनत्वात्तत आद्रियतामियम् । आत्मा हि निर्षिपयज्ञानात्मकः । बुद्धिस्तु विशिष्टज्ञानाकारा तत्त्वान्तरम् । 'घुद्धिर्विज्ञानरूपिणी ति वाक्यात् । अतो नाऽत्म- ख्यातिवादापचिः । सा च न ज्ञानम् । यो बुद्धिमांस्तस्य पदार्थज्ञानं भवति । सुबुद्धिरय पदार्थान् जानातीति ज्ञानकरणत्वेन लोके व्यपदेशात् । बुधमावे वालस्य सम्यक्पदार्थज्ञानाऽभावदर्शनाच । किन्तु ज्ञानजनिका अस्स शक्तिस्तादृशोऽहंकारभेदः सा । 'ज्ञान- १ अन्ययास्याविरेवाऽऽदरणीयेत्यर्थ.। २ संस्कारादेवलिष्टस्यादेव ।
१२१ शक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्तु तैस' इति द्वितीयस्कन्धेऽहं- कारभेदेषु गणनात् । अतएव च स्थिरा । तेन मूर्तीयास्तद्वृत्तेर्मा- यया बहिःक्षेपादिकं न दुर्घटम् । इदमेव च युक्तम् । त्रिक्षणाव- स्थायित्वनियममात्रैकशरणानां तज्ज्ञानतागभावध्वंसकल्पनाऽपेक्षया ज्ञानस्थैर्यफल्पनस्य, विरुद्धवृत्तितिरोभाव्यत्वकल्पनस्यैव च लघुत्वात्। उपेक्षाबुद्यादौ शीघ्र विरुद्धवृत्त्युदयेन पूर्वज्ञानतिरोभावेऽप्यन्यत्र तिरोभावाऽदर्शनेन त्रिक्षणावस्थायित्वनियमस्याऽप्रयोजकत्वाच । न च मूर्तत्वाऽभावः । अर्थदर्शनोत्तरं नेत्रनिमीलनेन तदाकारस्या- ऽनुमवेनाऽविवादत्वात् । अतः शुक्तिरजतादिस्थले मायया बहिःक्षिप्तबुद्धिवृत्तिरूपं ज्ञान- मेवाऽर्थाकारेण ख्यायत इति मन्तव्यम् । न चेदानी मायायाः सर्वदा सत्वात्सर्वदा भ्रमापत्तिः । संस्कारप्रावल्यस्याऽपि सहकारि- त्वात् । अतिरिक्तसंस्काराऽनङ्गीकारपक्षे तूहोधकैरेवान्तःशयानाया बुद्धिवृत्तेरुद्धोध इति तदा सदृशाऽदृष्टचिन्तादिरूपोद्बोधकसामग्रीप्रा. वल्यस्यैव सहकारित्वात् । अतः प्रबलसंस्कारेण प्रबलोद्बोधकसा- मत्र्या वा सहकता माया बुद्धि बहिः क्षिपति, नेतरथेति, न सर्वदा तदापत्तिरिति । आत्मनः ख्यानं त्वसङ्गतमेव । तस्याऽहं. वित्तिवेद्यत्वागौरोऽमितिवदहं रजतमिति प्रतीत्यापत्तेः । तदभावे आत्मनः ख्यान एव मानाऽभावाच । तस्मादन्यख्यातिरेव सर्वजनीना। अत्र नैयायिकाः । मायाकृतबुद्धिव्यत्यासकल्पनापेक्षया चाकच- क्याऽऽद्युडुद्धसंस्कारसहकृतेन दोषोपहतेन्द्रियेण संप्रयुक्तं शुक्त्या- दिकमेव रजताद्यात्मना गृह्यत इति कल्पनस्य लधुत्वात्संप्रयुक्त- राजसाहंकारविशेष इल।
१२२ स्याऽन्यथामानेनाऽन्यथाख्यातिरेवाऽऽदरणीयेत्याहुः । तन्न । अन्य- थात्वे यथार्थतापत्तेः । तथाहि । किमिदमन्यथात्वं नाम आरम्भो विपरिणामस्तादात्म्यविशेषो वा! । सोपि विशिष्टस्य वा, विशेषणस्य वा, विशेष्यस्य वेति । तत्र नाऽऽद्याः । संप्रयुक्तस्य शुक्त्यादेम॒दो घटस्येव रजतस्यारम्भे दुग्धस्य दधिरूपेणेव रजताद्याकारेण परिणामे चा लोहादीनां स्पर्शमणिस्पर्शे सुवर्णाद्यात्मकत्ववद्जतात्मकत्वे वा घटदधिवत्सुवर्णवच्चार्थानतिक्रमाद्रजतमेव स्यात् । तज्ज्ञानस्य च यथार्थत्वं स्यात् । तथा सति भ्रम एवोच्छिद्येत । अर्थक्रियाऽपि तेन सिद्ध्येत् । नाऽन्ये । विशेषणस्याऽऽरम्भे परिणामे च शुक्तित्वस्य द्रव्यरूपतापतिर्जातिताहानिश्चेत्यधिकदूषणद्वयापतेः । तादात्म्यपक्षे च तादात्म्यकारणाऽनिर्वाच्यतापत्तेरेवाधिकत्वात् । नेतरे । विशेष्य- स्पैच पूर्वोत्तरीतिकाऽन्यथात्वपक्षेऽपि दग्धपटन्यायेन यथार्थत्वाप- तेरेव दूषणत्यात् । विशेपदर्शनोत्तरमपि दुष्टरजतप्रतीत्यापवेश्च । अथाऽन्यत्र सतस्तत्रालव्यसत्ताकत्वेपि प्रभारीभावोऽन्यथात्वमि- त्युच्यत इति चेत् । न । तत्राऽलब्धसत्ताकेन तेन लव्यसत्ताक- शुक्तित्वादितिरस्कारस्याऽशक्यवचनत्वात् । अतिप्रसङ्गात् । अर्थस्मू- त्योपनयोत्तरं लब्धेसचाकस्येति विशिष्यत इति चेत् । न । अन्य- तरेणाऽन्यतरतिरस्कारापुरुपभेदेन तत्र युगपद्रमप्रमानुपपवेः । अतिरस्कारे तूमयोर्दण्डकुण्डलवानितिवदुभयशवलज्ञानापतेः । अथ गुणदोपयोस्तत्र नियामकत्वमिति नै ज्ञानमिति चेत् । न । १ अलब्धसत्तावन पटत्यादिना घटलतिरस्काराऽऽपत्त्या पटलप्रकारकं ज्ञानं २ तथा चाऽन्यत्र सतस्तनार्थस्मृत्योपमयोत्तर उन्धसत्ताकस्य प्रकारी- भाषोऽन्ययात्वमिति क्रियते चेदित्यर्ष । ३ भ्रमप्रमयोरित्यर्थ । स्पात्।
१२३ गुणदोषयोर्विपयनिष्ठत्वे तयोरुभयं प्रति साधारणत्वेनोक्तदोषताद- वस्थ्यापत्तेः । तयोस्तत्तत्करणनिष्ठत्वे चैकस्य रजतशकलयो रङ्गरज- तभ्रमप्रमासमूहालम्बनाऽनुपपत्तेः । आत्मनिष्ठत्वेऽपि तदनुपपर्दा- रत्वान्न किंचिदेतत् । अथेदं रजतमित्यत्र रजताऽमिन्नपुरोवर्तीतिप्रतीत्या रजतभेदाऽमाव एव प्रकारीभूय भासते स च व्यापक इति न कोपि दोष इति यदि विभाव्यते । तदपि न मञ्जुलम् । रजतभेदाऽभावस्याऽभावप्रति- योगिकाभावतया भावरूपप्रतियोग्यात्मकत्वेनाऽतिरिक्तपक्षेऽपि प्रति- योगिमात्रनिष्ठत्वेन प्रतियोगिव्यतिरिक्त तस्य प्रकारीभवितुमनहत्वा- चादृशाऽभावस्य व्यापकत्व एव मानाऽभावात् । प्रतियोगिनो रजत- भेदस्य व्यापकत्वे तदभावस्यैवाऽसम्भवाच्च । अव्यापकत्वेऽपि प्रति- योगिमात्रव्यावृत्तत्वेन तदितरत्र सत्वाप्रतियोग्यभावयोः सहानव- सानविरोधस्य दुर्वारत्वात् । अहिलतया सहस्थितिकल्पनापक्षेऽपि तत्र तस्य सत्तालाभकल्पनं, सहस्थितिकल्पनं, तेन च रजतभेदा- भिभवकल्पन, कालान्तरे च भेदेनाभिभवादिकल्पनमिति कल्पना- चतुष्टयगौरवस्स दुप्परिहरस्थाप्रमाणविरहाच नेदमतिरम्यम् । किंच । भेदाऽभावस्याऽतिरिक्तत्वपक्षे भेदाभावस्य योऽभावस्त- दभावो रजतभेदाऽभाव इति रजताऽभिन्नभिन्नभिन्नः पुरोवांति प्रतीत्यापतिरप्यधिका ज्ञेया । ननु मास्तु विषयस्याऽन्यथात्वं तथापि १ व्याप्यवृत्तिरित्यर्थः। २ अव्याप्यत्तिलप्रयुक्चभ्रमप्रमासमूहालम्बनात्मक इत्यर्थः । ३ रजतमेदाऽभावस्य रजतात्मक्त्वे रजतमेदप्रकारत्वं रजता- 'ऽतिरिकत्वे. घटमेदाऽभावस्येव रजतप्रकारत्वं स्थान तु पुरोवर्तिप्रकारत्वेन भा- नमित्यर्थः। ४ शुक्सादाविसर्यः।
१२४ रजताकारग्रस्तं ज्ञानं शुक्तिमालम्बत इत्याकारके ज्ञानस्याऽन्यथात्व- पक्षे किं बाधकमिति चेत् । न । तादृशज्ञानस्य शुक्त्यालम्बकत्वाचत्र शुक्त्या स्वाकारसमर्पणे 'रजतमहमनुभवामी' स्यनुव्यवसायो न स्यात् । शुक्तिं रजतत्वेन जानामीति च स्यात् । असमर्पणे तु शुक्त्यालंबन एव प्रमाणविरहः । विरुद्धाऽनुव्यवसायादिति । अथ रजतज्ञानं खप्रयुक्तव्यवहारविषयां शुक्तिं करोतीदमेवाऽलंबकत्वमिति चेत् । न । यत्र रजतज्ञानोत्तरं संघ एवं बाधो विषयान्तरज्ञान वा तदा शुक्तेस्तायुक्तव्यवहाराऽविषयत्वाज्ज्ञानस्य तदनालम्बकत्वे रजता- कारग्रस्तस्यापि तस्य प्रमात्वापत्तेः । न चेष्टापत्तिः । संघातात्मज्ञान- स्याऽपि प्रमात्वापत्तेः । आत्मनः संघातात्मज्ञानप्रयुक्तव्यवहाराऽवि. पयत्वात्संघातात्मज्ञानस्य तदनालम्बकत्वेन संघातात्माकारग्रस्तताऽन- पायात् । न चेदानीं तस्याऽप्यस्तु प्रामाण्यमिति वाच्यम् । तथा सति समर्थप्रवृत्तेः पूर्व सर्वत्रवाआमाण्याऽग्रहेणोकतुल्यत्वाद्रमो- च्छोदापत्तेः । यदपि सौरालोकतदभावाभ्यां कमलविकासमुकुलीभावाविव दो- पतदमावाभ्यां रजतशुक्तिभावी समर्थितौ । तदपि मतं प्रतिनिय- तसमकालिकविरुद्धप्रतीत्योर्दर्शनादेव ग्रन्थान्तरे परास्तमित्यन्यथा- ख्यातिवाद एवाऽसाधुरिति दिक् । ननु पूर्वोत्पन्ने प्रमारूपे रजतादिप्रत्यक्षे देशकालादीनामपि विशेपणनेन भानाबहिःक्षितेऽपि तसिंस्तद्विशिष्टमेव रजतं भास- तामिति चेत् । न । संस्कारादेः शब्दस्य च पदार्थमात्राऽपेक्षत्वेन तद्वैशिष्टयस्याऽनियामकत्वात् । स्मृत्युपनीतं संस्कारोपनीतं वा रजतं भासत इति वदतः प्रतिवादिनोऽपि पूर्वोक्तदूषणोद्धाराय सादृश्या- १२५ धुझुद्धः संस्कारः पदार्थमात्रमपेक्ष्यैव स्मृति जनयत्युपनयति वा तं, नतु देशादिवैशिष्ट्यमप्यपेक्षत इत्यस्याऽऽवश्यवाच्यत्वेन समाधेः समत्वाच्च । अत्र शब्दग्रहणं तु श्रुतपदार्थविषयकस्यापि भ्रमस्य संग्रहायेति ज्ञेयमतो न कोऽपि दोषः । भाट्टास्तु श्रमस्थलेऽपि रजतादिज्ञानस्य संस्कारमन्तरेणाऽसम्भ- वातज्ज्ञानं स्मृतिरूपमेवाङ्गीकार्यम् । न च ततास्फुरणाऽऽपतिः । कर्तृगतदोपेण तामोपात् । दोषाऽभावे तु रजतसादृश्यस्फूर्तिः शुक्तिस्फूतिर्वा स्यात् । दोषाश्च कचिद्रागादयः। कचिवलालोका- दिना विवेकाऽसामर्थ्यम् । कचिदन्यचिचतेत्येवमादयोऽननुगता- स्तथा तथादर्शनादुन्नेयाः । तस्मात्प्रमुष्टतत्ताका स्मृतिरेवाङ्गीकार्य- त्यख्यातिमाहुः । तन्न । 'रजतमहमनुभवामी'त्यनुव्यवसायबाधा- पत्तेः । स्मरामीत्यनुव्यवसायापत्तेश्च । प्राभाकरास्तु-मास्तु केवला स्मृतिस्तथा, किन्तु ग्रहणस्मरणात्मकं ज्ञानद्वयमेवाऽनाऽख्यातिरूपमङ्गीकार्यम् । स्मृतिप्रमाणभेदेन ज्ञानस्य द्वैराश्यात् । न चाऽनुव्यवसायद्वयापत्तिः । स्मरणाऽभिमानस्य दोषप्र- मुस्तित्वात् । अतोऽविविक्तज्ञानद्वयाऽङ्गीकारेण न कोऽपि दोष इत्याहुः । तन । एकज्ञानतुल्यत्वेन ज्ञानद्वयस्य वक्तुमशक्यत्वात् । न च न तौल्यमिति वाच्यम् । यद्यगृहीताऽससर्गकं ज्ञानद्वयं स्यात् । एकज्ञानतुल्यता न स्यात् । यदि सा न स्याद्यवसायाऽनुव्यवसाय- यो!पलभ्येतेति, तण तन्मूलभूतव्यवसायाऽनुव्यवसायाभ्यां चैक- ज्ञानतुल्यत्वनिश्चयात् । किञ्च, ज्ञानद्वैराश्याग्रहेणाऽत्र ज्ञानद्वया- श्रीकारे सर्वत्र विशिष्टज्ञानोच्छेदापत्तिः । घटोऽयमिति प्रमायामप्य- १२७ रजताङ्गीकारस्य व्यर्थत्वात् । न च संस्कारस्य बहिःपदार्थोपस्थाप- कत्वममयोजकमिति वाच्यम् । खमे त्वयाऽपि तन्मात्रेणैव पदार्थो- पस्थित्यङ्गीकारात् । न च तत्स्मरणमेवेति वाच्यम् । तथाऽनुव्यव- सायाऽभावात् । स्वमसृष्टिश्रुतिविरोधाच्च । न च दोपं विनैकेनैव संस्कारेण कथं स्मृतिभ्रमयोरुपपचिरिति वाच्यम् । अप्मस्पर्शापा-, वल्यप्रावल्याभ्यां शीतनिवृत्तित्वग्दाहयोरिव संस्काराद्यप्राबल्यप्राब- त्याभ्यां स्मृतिभ्रमयोरपि सुखेनोपपत्तेः । प्राबल्येनैव वाऽनुभवसामग्र्या तस्य तिरस्कारः । इदमेव वाऽप्राबल्यं ज्ञेयम् । अतएव नैयायिका- नामेकेन खेहेन प्रकर्षाऽप्रकर्षवैशिष्ट्याद्वविनाशोद्दीपनयोरङ्गीकारोऽपि युज्यते । न चैवं दोषाऽनभ्युपगमे पीतभ्रमजनकसंस्कारोबोधकस्य शोऽभावात्पीतः शङ्ख, इति भानाऽनुपपतिरिति वाच्यम् । बहिःक- रणे कामलवदन्तःकरणे संस्कारादिप्रावल्यस्यैव तत्त्वात् । एतादृश- अमेपु बहिःकरणदोपाङ्गीकारस्तु घटपटादिप्रमोत्पत्त्या प्रत्यक्षविरुद्ध- त्वाच जघन्य एव । निर्गमेण चैतन्यत्रयाऽभेदाङ्गीकारोऽपि व्याप- काऽऽत्मवादमेवाऽऽत्मवादं च निरुणद्धीति नेतरविद्वदादरभाजन भवतीति दिक् । एवं संस्कारादिप्राबल्यादेवाऽसख्यातिरप्यपा- स्तेति ज्ञेयम् । सांख्यास्तु सदसैख्यातिरत्र । सत इदंत्वस्याऽसतो रजतत्वस्य च मानात् । अतएव चैकस्य वाघोऽन्यस्याऽवाध इत्याहुः । तन्न । असल्यातस्याऽन्यथाख्यातावेव दूपितत्वात् । अभिनवाऽन्यथाख्या- १चाऽपावत्यमिति सपुस्तकम् । २ इदं यथा तयोपपादितं प्राणाधिकर. पस्थ 'तस्य च निसलादिति सूत्रस्य भाध्यप्रकाशे। ३ सदसख्याति - भ्यबाधाचे'ति सांख्यसूत्रात् । .
१२८ । तिवादिनो माध्वास्तु प्रमस्थलेऽत्यन्ताऽसत एवं रजतादेः प्रतीति- महीकृत्य वल्मीके घटाऽऽरोपस्स शुक्तौ रजतारोपस्य च नियमना- याऽनुभूयमानचाकचक्यादेरारोप्यनिष्ठत्वाऽभावेऽप्यारोप्यरजतसाह- श्यस्याऽधिष्ठानाऽसत्वेन शुक्तौ रजताऽऽरोपो वल्मीके घटाऽऽरोपो नान्यस्येत्येवं नियममाहुः । तन्न । अत्यन्ताऽसतः प्रतीतेरसङ्गत- त्वात् । तादृशस्य चाक्षुषापतीतिगोचरतायाः काऽप्यसिद्धत्वात् । अथाऽत्राऽत्यन्ताऽसत इति विशेष्यत इति चेत् । न । सादृश्य- स्योभयप्रतियोगिकत्वनियमेन तत्सादृश्यस्याऽत्रैवैतत्सादृश्यस्य तत्राऽपि वक्तुं शक्यत्वातस्याऽत्यन्ताऽसत्येन सादृश्यस्याऽऽधाराऽभावेनाऽसि. ध्याऽत्रापि नियामकस्य पूर्वोत्तरीतिकाऽसत्सादृश्यस्य वक्तुमशक्य- त्यादभिमताऽसिद्धेः । तद्भिन्नत्वे सति तद्गतम्योधर्मवत्त्वस्यैव सादृश्यत्वेनाऽसह्राहधर्माणामसत्त्वादेव तत्सजातीयत्वस्याऽशक्यवच- नत्वात् । यदि च तेनाऽयं सदृश इति ज्ञानजनकीभूतज्ञानोल्लि- स्यमानो यो रजतादिशब्दः तद्विपयत्वमेवात्र सादृश्यप्रतियोगित्वमिति' विभाव्यते । तदापि तत्सादृश्यप्रतियोगित्वं शाब्दं सदृशज्ञानं निय' मयिप्यति, नतु चाक्षुपं सदृशज्ञानम् । नापि भ्रमम् । अधिष्ठा- नाऽसन्निकर्षेऽपि रजतमिति शब्दप्रयोगमात्राद्रजतसदृशचाक्षुपरजत- अमयोः प्रसङ्गादिति न हृदयंगमम् । श्लेपाऽलङ्कारादौ चमत्काराऽना- धानप्रसन्नादनुभवविरोधाचेति । - रामानुजाचार्यास्तु सर्वं ज्ञानं यथार्थमेव । त्रिवृत्करणश्चतः। 'श्यात्मकत्वात्तु भूयस्त्वादिति वैयाससूत्राचत्त्वसंघातपोषकपुरा- पाच सर्वस्य सर्वात्मकस्यनिश्चयात् । पूर्वतन्त्रेऽपि त्रीहिप्रतिनिधित्वेन नीवारग्रह्ण नीद्यारम्मकावयवानामेव नीवारे सत्वाऽशीकाराच । . .
१२९ अतः शुक्त्यादावपि रजतादेः सत्त्वात्तत्राऽपि ज्ञानं यथार्थमेवेत्य- ख्यातिरेवोचिता । शुक्तिरजतादिनिर्देशभेदस्तु भूयस्त्वादिहेतुक इत्युपपद्यते । तथा व्यवहारव्यवस्थाऽप्युपपद्यत एव । एवं सति कर- णदोपवशेन शुक्त्यशाऽग्रहणे रजतम् । शुक्तिज्ञाने तन्निवृत्तिरित्याहुः। तदस्माकमभीष्टम् । परं कश्चिद्विशेपोऽस्ति । तथाहि । श्रुति- सूत्रयोस्तेजोबन्नविषयत्वेन पुराणानां च संघातविषयत्वेन कारणात्मकं तत्तत्सत्तावोधकतया तैस्तत्र तत्र कार्यभूतरजतादिसत्तायाः प्रमातु- मशक्यत्वात् । पूर्वतन्त्राऽनुरोधेन तदगीकारेऽपि नीवारे त्रीहिका- रणीभूताऽवयवसत्त्ववच्छुक्त्यादावपि रजतकारणीभूताऽवयवसत्तामा- सिद्ध्या रजताद्यसिद्धेः । अथाऽस्तु 'सर्व सर्वमयमि'तिश्रुत्या सर्वत्र सर्वसत्ता । तथापि प्रमस्थले शुक्त्यंशाऽग्रहणवद्विशेषदर्शनो- चरं प्रमास्थले रजताऽग्रहणेऽपि कश्चिद्दोष एव नियामको वक्तव्यो, नतु गुणः । सन्निकृष्टस्य सतः पदार्थस्याऽग्रहणे सर्वमतेपु दोपस्यैव नियामकत्वात् । तथैव सर्वजनीनप्रसिद्धेश्च । एवं सति भ्रमप्रमयो- रविशेषाऽऽपत्तिः । दोपजन्यत्वस्योभयत्र तुल्यत्वात् । न च रज- ताऽग्रहणेऽल्पत्वमेव नियामकमिति वाच्यम् । तस्स श्रमदशायामपि तुल्यत्वात्तदाऽप्यग्रहणाऽपतेः। अतः सर्वत्र सर्वसत्त्वेऽपि भ्रमप्रमाभेदनिहाय प्रसिद्धाऽतिरि- कस्स तिरोभाव एव सर्वथाऽभ्युपेयः । अन्यथा सर्वत्र सर्वपती- तेर्वारत्वाऽपतेः । खोपगतव्यवहारविभागभङ्गाऽऽपचेश्च । ततश्च शुक्त्यादौ रजतादिसत्त्वेऽपि तेपा तिरोहितत्वान्न प्रतीतिगोचरत्व- सिद्धिः । अतस्तादृशसले रजतादिज्ञानं प्रत्यस्मदुपगतैव सामग्र्य- वश्यमभ्युपेया । भवद्भिरपि सामग्र्यां दोपस्यैव निवेचित्तत्वात् । एवं १३० । सति 'ऋतेऽर्थ यत्प्रतीयेते'ति भगवद्वाक्यस्य पूर्वोक्तश्रुतेश्याऽप्य- विरोधः । अन्यथाऽन्यतरविरोधस्य दुर्वारत्वाऽपत्तेः । तस्माद्ये पूर्णज्ञानिनः पूर्णयोगिनो वा तेषां सर्वत्र सर्वप्रत्यक्षम् । 'अनागतमतीतं चेत्यादि वाक्यात् । अतस्तेषां ज्ञानस्य यथार्थ- त्वाचत्रोक्ताऽख्यातिरुचिता, न सर्वत्र । अन्येषां तु संस्कारप्राबल्येन मायया बुद्धिरेव बहिः क्षिप्यत इति रजतादिधर्माणामेव प्रतिभान- मित्यन्यख्यातिरेवोचिता । अन्यपदस्य सदृशवाचकत्वेनाऽनुभूतसह- शधर्माणामेव ख्यानात् । तस्मादख्यात्यन्यख्याती विभागेन मन्तव्ये इति । अतः ख्यात्यन्तरेषु युक्तिशैथिल्यात्सप्रयुक्तादम्यख्यानस्य सर्व- जनीनत्वाच पूर्वोक्तरूपाऽन्यख्यातिरेवाऽविद्वद्दशायां सुधीभिरादर- णीयेति निष्कर्षः। एवं सुबोधिनीप्रोक्तप्रकारस्थाऽनुसारतः । यथाबुद्धि मयाऽप्येष ख्यातिवादो निरूपितः ॥१॥ इति श्रीमदल्लभनन्दनचरणकतानपीताम्बरतनुजपुरुषोत्तम- विरचितः ख्यातिवादः सम्पूर्णतामगात् ॥
॥ श्रीः॥ श्रीकृष्णाय नमः। पुष्टिमार्गसिद्धान्तबामालायां गोस्वामिश्रीमत्पुरुषोत्तमविरचितः अन्धकारवादः। दशमो मणिः। दर्शय नाथ गुहायां तमोवृतायां स्वतः समागत्य । मुचकुंद इय शयाने मयि कृपयाऽनेहसाऽपि वपुः ॥१॥ नन्विदमयुक्तम् । अभावरूपेण तमसा गुहावरणस्याऽसंभवदुक्ति- कत्वात् । नव भावमुखप्रत्ययेन तस्य भावरूपत्वं शङ्कनीयम् । तस्य भ्रमरूपत्वात् । तादृशमत्ययेनाऽपि तस्य सिद्ध्यङ्गीकारे मरुमरीचि- कायां जलप्रत्ययेन जलमपि सिद्ध्येत । नच बाघाऽभावाचस्य प्रमा- त्वमेवेति शङ्कनीयम् । आकाशनल्यवदप्रयोजकत्वात् । अंत्र भेदाः । तमस्तावत्सामान्यविशेपसमवायेभ्योऽतिरिक्तम् । खाश्रयाऽविपयलौकिकमत्यक्षविपयत्वात् । वाय्वानीतचंपकाऽवयव. समवेतगंधादिवत् । कर्मणोऽप्यतिरिक्तम् । संयोगाथसमवायिका- रणताऽभावात् । गुणेभ्योऽप्यतिरिक्तम् । द्रव्यासमवेतत्वात् । गग- नादिवदित्यनुमानेन द्रव्याऽतिरिक्तपदार्थमेदसिद्धिः। नच गुणभे- दहेतुः सरूपाऽसिद्ध इति शक्ष्यम् । तमसो द्रव्यसमवेतत्वाऽसंभवात् ।
१३२ तमो न दिकालाऽत्ममनोव्योमवायुपु समवेतम् । लौकिकचाक्षु. पविपयत्वात् । रूपादिवत् । न तेजःसमवेतम् । तेजोऽविपयक- लौकिकप्रत्यक्षविषयत्वात् । पीतादिवत् । न भूजलसमवेतम् । आलो. काजन्यलौकिकचाक्षुषविषयत्वादित्याद्यनुमानैर्द्रव्यासमवेतत्वसाधना- त् । नापि कृप्तद्रव्यान्तःपाती । पृथिव्यादिनवकविरुद्धधर्माध्या- सात् । तथाहि । नाऽवनिः । गन्धहीनत्वात् । अशुक्लत्वाच्च नोद- कम् । न तेजः । कृष्णरूपत्वात् । रूपवत्त्वाच्च नेतरदित्येवं पृथि- व्यादिवैधय रूपवत्त्वाद्र्व्यान्तरमेव तमः । नन्विदं समवेतमसमवेत वा। नाऽऽद्यः । जन्यद्रव्यत्वावच्छिन्नं प्रति पर्शवत्त्वेन हेतुत्वात्तम- सश्चाऽस्पर्शत्वात्तदवयवेऽपि स्पर्शाऽभावाऽनुमानस्य शक्यत्वात् । न द्वितीयः । समवेतखरूपद्रव्यस्याऽणुत्वनियमेनाऽप्रत्यक्षत्वाऽऽपरिति चेन्न । द्वितीयनियमे मानाभावात् । तमसोनित्यद्रव्यत्वाऽभ्युपगमे लाघवाच । नित्यद्रव्यस्यैव कल्पनालाघवात् । अन्यथा ध्वंसप्रागभा- वकल्पने गौरवप्रसंगात् । नचैवं दिवसेऽपि तच्चाक्षुपाऽऽपतिः।। तस्यालोकाभावव्यंग्यत्वात् । तमोभिन्नद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येवा- ssलोकस्य सहकारित्वकल्पनादित्याहुः । तदेकदेशिनस्तु, 'छाया चलतीति प्रत्ययेन, क्रियावत्त्वा'नीलं तम' इति प्रत्ययेन, रूपवत्त्वात्परमपरं चेति' प्रत्ययेन, परत्वाऽपरत्न- यत्वादनित्यमेव तमः । आलोकानपेक्षचक्षुर्माह्यञ्च । तत्समवायिनश्च वमःपरमाणव एव । नच निःस्पर्शत्वं वाधकमुक्तमिति वाच्यम् । उद्भूतरूपे भूमेऽनुभूतस्पर्शवदिहाऽप्यनुद्भूतस्पर्शस्य कल्पयितुं शक्य- स्वात् । नच गोलफाऽवच्छेदेन धमीयस्पर्शस्योपलमान सस्पर्शस्स सर्वत्राऽनुगतत्वं, तमःस्पर्शस्य तु फचिदपि नोपलम्भ इति तदनुः , १३३ तस्पर्श मानाभाव इति शङ्यम् । धूमस्पर्शानुभवस्य भ्रमत्वात् । अन्यथा वज्रनि?पादौ जायमाने हृदयगोलक आघाताऽनुभवाच्छ- देऽपि स्पर्शवताऽऽपत्तिः । अतः पृथिवीत्वेनेवाऽऽरम्भकत्वेन स्पर्श- वत्त्वेनाऽपि व्याप्तेरारम्भार्थमत्राऽनुद्भूतस्पर्शाहीकारे न कोपि दोपः । नचाऽऽरम्भकत्वस्पर्शवत्त्वयोप्तिावन्योन्याश्रय इति वाच्यम् । 'चलती'ति प्रत्ययेनाऽन्धकारस्याऽनित्यत्वे निश्चिते तेन चारभ्यत्वे निश्चिते तेन तदवयवेप्वारम्भकत्वज्ञानात् । अन्ये त्यनुभूतस्पर्श मानाऽभावाप्रमाया अनारभ्यत्वाऽऽपत्तेज- न्यद्रव्यत्वाऽवच्छिन्नं प्रति मूर्तत्वेन हेतुतामेतदर्थमाहुः । मनस आरम्भकत्वे चेष्टमभ्युपगच्छन्ति । अत एव पुराणेषु मानसी सृष्टियो गशास्त्रे च मनःकल्पितं विश्वं मर्यत इति प्रमाणयन्ति चेति नित्यं द्रव्यान्तरमेव तमः। काणादास्तु तन्न द्रव्यान्तरम् । तमोऽभिधानाऽतिरिक्तद्रव्यागी- कार आलोककार्यताऽवच्छेदककोटौ तमोभिन्नत्वनिवेशे तमश्चाक्षुषं प्रत्यालोकाऽभावस्य हेतुत्वे च गौरवात् । नच द्रव्यचाक्षुपं मत्यालो. करवेनेति द्वयमतो न दोप इति वाच्यम् । वैजात्याऽवच्छिन्ननियाम- कस्याऽशक्यवचनत्वात् । तथाहिन तारद्विजातीयक्रिया निया. मिका। यत्रैकयैव चक्षुःक्रिययाऽऽलोकसयुक्ते घटे तदयुक्ते च पटे चक्षुःसयोगद्वयमुत्पाद्यते, तत्र क्रियावनात्याऽभावादुभयोश्चाक्षुप- त्वाऽऽपत्तेः । नच तदुत्तरदेशरूपविषयस्यैव नियामकत्वामति वाच्यम् । यत्रालोकसहकृतचक्षुःसयोगेन पूर्व घटचाक्षुपमुत्पा. दितमनन्तरञ्चालोकनाशस्तन विषयनियतसंयोगवैज्ञात्यसत्त्यातदापि घटचाक्षुषाऽऽपत्तेः । एवं भवन्मते तमश्चक्षुःसयोगोतर चाक्षुषे १३४ जाते तत आलोकसमवधानेऽपि तमसो नित्यत्वेन तच्चक्षुःसंयोगस- त्त्वात्तच्चाक्षुपाऽऽपत्तेश्च । न च तदानीं तादृशसंयोगनाशान्न दोष इति वाच्यम् । नाशे हेत्वभावात् । यत्तु तमोद्रव्यं न चाक्षुष- मपि तु तामसेंद्रियान्तरग्राह्यम् । न चाऽधिष्ठानाऽभावे तत्कल्पन- मशक्यमिति शक्यम् । चक्षुःश्रवसामेकगोलके इन्द्रियवदत्रापि चक्षुरिन्द्रियगोलके तस्याऽपि शक्यकल्पनत्वात् । चक्षुरन्वयाऽनुवि- धानेन तथा निश्चयात् । न चैवं सत्याऽऽलोकसमवधानकालेऽपि तमसि तामसेंद्रियसंयोगसत्त्वेन तमसस्तामसप्रत्यक्षाऽऽपत्तिः । तम- सोऽनित्यत्वाभ्युपगमेनाऽऽलोके तन्नाशे नाऽदोषादिति । तन विचारसहम् । तमस्तामसत्वाऽवच्छिन्नं प्रति तामसेंद्रिय संयोगहेतुतायास्तथाविधेन्द्रियाऽन्तरस्य तमोद्रव्यस्स तयागभावध्वं- सानाञ्च कल्पनेनाऽतिगौरवग्रासात् । क्रियावतो रूपवतो महतो द्रव्यस्याऽऽलोकजन्यचाक्षुषविपयत्वनियमेन तथाविधकल्पनाया अश- क्यत्वाच्च । तस्मातमो न द्रव्यं, किंतूभृताऽनभिभूतरूपप्रकृष्टमह- तेजसामान्याऽभाव एव । तथा च सूत्रं 'द्रव्यगुणकर्मनिष्प- तिवैधाद्भावाऽभावस्तम' इति । निप्पत्तिः सामान्यविशेपसम- वायाभावः । उक्तविधं तेजः । वैधये भेदः । तथा च द्रव्यादि- पटुभेदादुक्तविधतेजोऽभावस्तम इति सूत्रार्थः । अत्राऽनुद्भूतरूपचक्षुरात्मकतेजसस्तमस्यपि सत्त्वाव्याशिवारणाs- यो'भूतपदम् । वालुकाप्रविष्टरविरश्मिसत्वादव्याप्तिवारणायाऽनमि- भूतपदम् । तेजःपरमाण्वादिसत्त्वादव्याप्तिवारणाय प्रकृष्टमहत्सदम् । यस्तुतस्तु, प्रभात्वाऽवच्छिन्नप्रतियोगिताकाऽमावस्तमः । न तु पूर्वो- काऽमावः । मौरवात् । प्रभात्वं चाऽनुगतप्रतीतिसाक्षिका जा- १३५ तिरिति । नच चाक्षुपत्याऽवच्छिन्न प्रत्यालोकसंयोगस्य हेतुत्वा- त्तदमावे तमश्चाक्षुपानुपपत्तिरिति वाच्यम् । तेजःसामान्या- ऽभावाद्यतिरिक्तचाक्षुपत्वावच्छिन्नं प्रत्येवाऽऽलोकस्य सहकारिताड- भ्युपगमादित्याहुः । अत्र प्रत्यक्तत्वदीपिकाकारः। क्षितेस्तावद्रूपरसगन्धसंख्याप- रिमाणपृथक्त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्रवत्वसंस्काराख्यचतु- दशगुणकत्वेन, सलिले गंधराहित्येऽपि स्नेहसाहित्यादुक्ततावद्गुणकत्वे- नाऽत्मनश्च संख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेष- प्रयत्लधर्माऽधर्ममावनासंस्काराख्यचतुर्दशगुणकत्वेन, तेजसो रूपस्स- संख्यापरिमाणपृथक्त्वसंयोगविमागपरत्वाऽपरत्वद्वत्वसंस्काराख्यै- कादशगुणकत्वेन, वायोश्च रूपद्रवत्वराहित्यादुक्तनवगुणकत्वेन, मनसः स्पर्शराहित्यादुक्ताऽष्टगुणकत्वेन, व्योम्नः शब्दसंख्यापरिमा- णपृथक्त्वसंयोगविभागाख्यपद्गुणकत्वेन दिकालयोः शब्दस्याऽपि रा- हित्यात्संचयादिपञ्चगुणकत्वेनाऽविनाशित्वेन च तेषु तमसोऽन्त- र्भावाङ्गीकारे तावद्गुणकत्वप्रसङ्गान्नतेप्वन्तर्मावः । नाऽपि गुणेषु, नीलप्रतीत्या रूपेऽन्तर्भावे तत्सहचरितगंधादिगुणाऽन्तरस्याऽप्युप- लन्धिप्रसङ्गात् । सलिलतेजसोः शुक्लत्वाच्च । नमोनमखतोरपि रूप- वत्त्वाच । नाऽपि कर्मणि । सयोगविभागसमवायित्वाऽभावात् । नाऽपि सामान्यविशेषसमवायेपु, तेपा व्यक्त्याश्रयसंबंध्युपलब्धिसापेक्षोपल- ब्धिकत्वात् । तमस आधारभूतानां व्यक्त्याश्रयसंबन्धिनां चाऽनुप- लम्मादनुपलम्भप्रसगात् । नाप्यमावे 'तमालश्यामं तम' इति रूप. वत्त्वप्रतीतेः। एवं तृप्तेप्वनन्त वाद्रव्याऽन्तरमेव तमः । न च द्रव्य- चाक्षुषत्वाऽवच्छिन्नं प्रति आलोकसंयोगस्य सहकारित्वाचदमावे ..
चक्षुषा जायमानं तमोज्ञानं निमीलितनयनस्य 'तमः पश्यामी ति प्रत्ययवदभिमानमात्रमिति वाच्यम् । चेतनव्यवहारस्य ज्ञानपूर्वकत्व- नियमाचदभावे तादृशव्यवहारवाधापचेः । न च शौक्ल्यज्ञानाऽभावे पटादौ नीलव्यवहारवदालोकज्ञानाs- भावविषयकविषयज्ञानमेव तादृशव्यवहरहेतुरिति वाच्यम् । तस्याऽ- चाक्षुषत्वेन 'नीलं तम' इति चाक्षुषव्यवहारानुपपादकत्वात् । तस्मा- दालोकविरोधिनस्तमस आलोकाऽभावव्यंग्यत्वात्तमोज्ञानमालोकनिरपे- क्षचक्षुषा जायमानमपि न भ्रमः । सामर्थ्यस्य कार्यगम्यत्वात् । अ- न्यथाऽऽलोकाऽभावस्यापि रूपवदभावतयाऽऽलोकनिरपेक्षचक्षुरग्राह्य- त्वप्रसङ्गात् । अत्रावग्रहस्य सर्वत्र योग्याऽनुपलब्धिसहकृतप्रतियो- गिग्राहकसामग्रीमाधत्वदर्शनात् । आलोकविरोधितयाऽऽलोकनर- पेक्ष्यस्य प्रकृतेऽपि तौल्यात् । नचाऽलोकाऽभावस्याऽपि तमोव्यंजकत. यापेक्षणीयत्वे तावतैव तमःपदसार्थक्यादनर्थकं तस्य द्रव्यान्तरक- रुपनमिति वाच्यम् । कल्पनाऽभावात् । प्रत्यक्षसिद्धे तमसि तद्गहस्य प्रमात्वायाऽत्रोद्योगस्य तेनाऽपर्यनुयोज्यत्वात् । न चाऽस्य ज्ञानस्य प्रमत्वमिति वाच्यम् । बाधकप्रत्यक्षान्तराऽभावात् । अनुमानं बाधकमिति चेत् । न । प्रत्यक्षविरोधे तस्य बाधितत्वात् । नच- मीलितनयनस्य चक्षुर्व्यापाराऽभावेऽपि तमस उपलम्भावच्चाक्षुप- मेव न भवतीति वाच्यम् । तत्राऽपि पक्ष्मपटलाऽन्तवर्तितमसश्चक्षु- ापारादेवोपलव्धेः । न च रूपवदन्तरग्रहप्रसङ्गः । तत्राऽ5- लोकस्य सहकारित्वात् । न चेन्द्रियाणामन्तःप्रवृत्यदर्शनानेदं साधीय इति वाच्यम् । पिहितकणंपुटस्य श्रोत्रेन्द्रियव्यापारादेव प्राणपोपभवणात् ।
१३७ न च श्रोत्रंद्रियस्य स्वसमवेतशब्दग्राहकत्वान्न व्यापारवत्त्वमिति वाच्यम् । तस्य बहिरपि प्रवृत्तिदर्शनात् । अन्यथा सुरसरितीरे शब्द इति देशप्रतीतिवाधाऽऽपत्तेः । न च गन्धाऽभावे तद्याप्तं नील- रूपमपि न स्यादिति वाच्यम् । अनुप्णाशीतरपर्शस्य पृथिव्यां गन्धादिव्याप्तस्याऽपि गन्धाऽभाववति वायौ प्रतीतिवलेनैवाऽगी. कारवदिहाऽपि तथा नीलरूपस्योपगन्तुं शक्यत्वात् । न च पाकजा- नुप्णाशीतस्पर्शस्यैव गन्धादिव्याप्तत्वं नेतरस्येत्यदोष इति वाच्यम् ! इहाऽपि पाकजनीलरूपस्यैव तयाप्तत्वमित्यदोषसाम्यात् । न च पाफजनीलरूपमेवाऽसिद्धमिति वाच्यम् ? । सद्भावग्राहिणः प्रत्यक्ष- स्योभयत्र तौल्यात् । न च तमो रूपरहितं, स्पर्शरहितत्वात् । आका- शवदित्यनुमानविरोधातमसि रूपमेव नाऽस्तीति वृथैवेयं चिन्तेति वाच्यम् ? । रूपग्राहकप्रत्यक्षविरोधे हेतोः कालात्ययापदिष्टत्वात् । अन्यथा वायुः स्पर्शरहितः, रूपरहितत्वादाकाशवदितिसाधनेन वायावपि रूपापत्तेर्दुर्वारत्वात् ।। तस्मान्नाऽभावरूपं किन्तु मनो- वदस्पर्शपरमाण्वारब्धं तम इति । अत्रोच्यते न तन्यायसौत्रत्वान्नान्यो नामादिभेदतः। मायेत्युक्तेः पुराणे सान्मायाकार्यान्तरं तमः ॥ १ ॥ यदिदं द्रव्यान्तरत्वं तमस उपगतं तदनालम्बितमेव । भग- वता बादरायणेन जैमिनिना च खशास्त्रेऽनुक्तत्वात् । पुराणादि- प्वपि सृष्टिप्रक्रियादौ द्रव्यत्वेन न तदुक्तेः । न च सूत्रकारस्य लौकिकपदार्थशोधनायाऽप्रवृत्तत्वाचदनुक्तिर्न दोषायेति वाच्यम् ! । . १ याषितलादित्यर्थः । अन्यहेलाभासलादा।
१३८ तथा सति विरोधाऽभावात्काणादस्मृत्युक्ताहीकारेऽप्यदोषात् । अथ शिष्टाऽपरिग्रहसूत्रादौ तन्मतदूषणादिदमपि नाऽऽद्रियते तर्हि नियतपदार्थवादोऽप्यनादरणीय इति व्यर्थ एव दशमद्रव्यत्वप्र. वादः । युक्तिसिद्धस्य यस्य कस्याप्यादरणीयत्वात् । नन्वस्त्वेवं तथापि समवायिकारणत्वाद्गुणाश्रयत्वाच द्रव्यत्वमाद्रियत इति चेत् । मैवम् । आरम्भकसिद्धरारभ्यसियधीनत्वात्प्रतियोगिप्रतिवद्धपती- कतयाऽपि क्रियावत्त्वादिप्रतीतिनिर्वाहे तदारभ्यताया एव वादक- लितत्वेनाऽऽरम्भकाऽसिद्धौ समवायिताया दुर्वचत्वात् । गुणाश्रय- त्वेन साधनेऽपि पृथिव्यामनिवेशं वदता नीलरूपाऽतिरिक्तगुणा- नङ्गीकारादाद्यक्षणे तदभावेन तस्यैवाऽसिध्या द्रव्यत्वस्य दूरनिरस्त- त्वात् । अतो भट्टानुसरणं हृदादियाचितमंडनवदाडम्बरमानमेव । यत्तु नीलरूपत्वात्पृथिव्यामन्तर्भावः कैश्चिदुच्यते । तदप्यसङ्ग- तम् । सामान्यलक्षणाऽनाक्रान्तत्वेन । न पृथिवी, निर्गन्धत्वादिति प्रतिपक्षेण तद्वाधात् । नाप्यदर्शनेन । अनुद्भूतगन्धस्याऽशक्यवच- नत्वात्साकाप्रसिद्ध्या पाकजानुप्णाशीतपर्शस्याऽपि तथात्वादिति । यत्तु कंदलीकारः 'नीलं रूपमेव तम' इत्याह । तदपि न । तदाऽपि पृथिवीगुणत्वस्यैव वाच्यत्वेऽञ्जनादिनैल्यपत्तेजःसमवधानेऽपि तच्चा- क्षुपाऽऽपत्तेः । अन्यथाऽनाधारत्वेन गुणत्वव्याघाताचव्याप्यरूपत्वस्या- ऽशक्यवचनत्वाच्च । एवमभावत्वमप्यसंगतमेव । कोटगे प्यन्धकारोत्रियां ध्वांतं तमिस्र तिमिरं तमः । ध्यांते गादेऽधतमसं क्षीणेऽवतमसं तमः । विष्वक्सन्तमसमित्यादौ तन्नामा, तदवांतरभेदनाम्नां, पाटात् । 'अविद्याऽहंमतिः खियामितिववेजोऽमावोऽतेजाऽप्रभे- त्याद्यपाठाच । तेजोऽभावत्वेऽवान्तरनामपाठवदेतन्नामपाठप्रसंगात- देव भेदान्तराऽकथनप्रसंगाच्च । किं च प्रतियोगितदभाक्योः सर्वत्र भावाऽभावविरोध एव नाऽन्यः । तेजस्तमसोस्तु वध्यधात. विरोधः। 'तेजसा नष्टं तम' इति प्रतीतेः। 'यथाहि भानोरुदयो नृचक्षुपं तमो विहन्यान्न तु तद्विधत्ते' 'यदाधसे गुहाध्वान्तं प्रदीपः प्रभया यथेति । सृष्टौ मूल तेजसाऽपिबत्तीवमात्मप्रस्था- पनं तमः' । प्रलयेऽपि 'हृतरूपं तु तमसा वायौ ज्योतिः प्रली- यत' इत्यादि पुराणप्रयोगाच । 'अहाय तावदरुणेन तमो निर- स्तमिति वाक्येपि प्रयोगाच्च । 'लोकालोकं तथाऽतीत्य विवेश सुमहत्तम' इत्यादौ प्रवेशपरिमाणयोः कथनाञ्च । किं च छायायास्तमोभेदत्वकथनं जरतामत्यसङ्गतम् । 'दीपमंच- कयोश्च्छाया बोधिच्छाया तथा निशि । तथा नीचजनच्छाया हंति पुण्यं पुराकृत'मित्यादिपु प्रतियोग्यन्तरकथनाचाण्डालादिच्छा- यास्पर्शे प्रायश्चित्तकथनाच । न च 'छायायनात कांताविति कोशादातपाऽमाव एव च्छायेति वाच्यम् । अनेकार्थत्वात्तथोक्तेः । अ. न्यथैतद्विरोधप्रसगात् । 'छायाप्रत्याहयाभासा असन्तोऽप्यर्थका. रिण' इत्यत्राऽसत्त्वकथनविरोधाच । छायामागं... "च्चेति- दिक । अतो द्वितीयस्कंधे भगवता 'ऋतेऽर्थे यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथा भासो यथा तम' इति कथनान्मायापरिणामविशेपरूपं भावातिरिक्तं तेच तेजोऽभावे मायया मनुष्यादीन्प्रत्येव जन्यते । न सर्वान्प्रति । अत एवोलकविडालादयस्तजोभावमेव गृहन्ति । न तमः। १ शीघ्रमित्यर्थः। २ तत्तिमिरम् । र्थान्तरमेव तमः।
अत एव वैशेषिकदर्शनस्योळकरू पिणा कणादेन कृतत्वात्तस्य तमश्चाक्षुपाभावेन तत्सूत्रे 'भावाभावस्तम' इत्युक्तिरपि युज्यते । तथाऽसदादिदृष्टीनां तमोवृतत्वात्तमस एव ग्रहो न तु विषयान्तर• ग्रहः । तथा तदृष्टेः कोमलवाहलवतेजसा प्रतिघातस्तदभावे च सुखेन तेषां विषयग्रहः । न चाऽस्माकमपि तचाक्षुषाय कार्यका- रणभावान्तरापेक्षा ।। चाक्षुषत्वावच्छिन्नं प्रति दूरत्वव्यवधानादीनां प्रतिबन्धकतायाः क्लुप्तत्वेन सर्वसम्मतत्वेन च कल्पनाऽभावात् । तमस आवरकत्वस्य च 'तमसा चावृता दिश' इत्यादि पुराणप्र. सिद्धत्वात् । व्यवधानामावविशिष्टविषयचक्षुःसंयोगत्वेन चाक्षुषत्वे- न यः कार्यकारणभावश्चाक्षुषत्वावच्छिन्नं प्रत्यनावृतत्वेन वा या घटादौ विषयता तत एव सर्वनिर्वाहात् । एवं च विषयालोकसंयो. गतदभावयोः कारणकोटावप्रवेशेन प्रत्युत लाघवं ज्ञेयम् । न चैवं सति गृहादौ त्रसरेणुचाक्षुपाऽऽपत्तिरिति वाच्यम् । तुल्यत्वात् । न च तत्र विलक्षणाऽऽलोकसंयोगाऽभावान्न तथेति वाच्यम् ? । गृहादौ च्छायारूपाऽल्पतमसा त्रसरेण्यावरणस्य संभवदुक्तिकत्वात् । न चैवं सति गाढतेजसि तच्चाक्षुषाऽऽपतिः। तौल्यात् । तेजसैवाऽऽवर- णस शक्यवचनत्वाच । न च तेजोऽभावस्यैव व्यवधायकत्वं लाघ- चादगीकार्यमिति वाच्यम् । नीलप्रतीतियाधाऽऽपत्तेः । नच स प्रम इति वाच्यम् । तथापि.................."विषय. सापेक्षत्वातदाकांक्षायां च मावाऽभावान्यतरस्य तत्त्वेन यतुमशक्य. त्वात् । तादृशनमविषयत्वेन विपयतास्यपदार्थान्तररूपस्य तमसः सिद्धरप्रत्यूहत्वात् । ननु प्रमस्य विशिष्टयोधरूपत्वेन विशेपणज्ञा- नजन्यत्वावरतेऽपि प्रमो विशेषणज्ञानविशेप्यमानसामग्रीविशे- षणविशेप्यासंसर्गाग्रहरूपैनौलज्ञानचक्षुःसंयुक्तविशेषणतानीलतेजोऽ- भावासंसर्गाग्रहैरेव सेत्स्यतीति न नीलतमोरूपविषयताऽभ्युपगम आवश्यक इति चेत् । मैवम् । विशेषणीभूतनीलज्ञानस्य चाक्षुपरू- पत्वे पूर्वोक्तयुक्त्या तद्विपयस्य तमस आवरकत्वात् । स्मरणरू- पत्वेऽपि तस्य संस्कारजन्यत्वात्तेजोऽभावे तद्वति सुधाधवलित- गृहादौ च संस्कारोबोधकस्यानुभूतनीलसदृशस्य विषयतारूपनीलत- रस्य नीलसादृश्यस्य चाऽभावे संस्कारानुहोघे मरणस्याप्यशक्यो- दयात् । तदुदयार्थमपि संस्कारोबोधकस्य तस्य तत्राऽऽवश्यकत्वात् । अदृष्टस्योद्बोधकत्वेऽपि दृष्टसामग्री विना तस्याऽकिञ्चित्करत्वात् । दृष्टसामग्रीषटकत्वेनाऽपि तस्योपेक्षणात् । उपनीतभानरूपत्वेऽप्यु- पनायकस्य स्मरणस्योदयार्थ पूर्वोक्तयुक्त्या तस्याऽपेक्षितत्वात् । एते- नैव मर्यमाणाऽऽरोपस्याऽपि प्रत्युक्तत्वात् । चाक्षुषोपनीतभानस्य अनुभूयमानाऽऽरोपस्य च पूर्वोक्तयुक्तिभिरेव दत्तोचरत्वात् । यत्तु प्रामाकरा:-तेजोज्ञानाऽभाव एव तमः । सत्यपि तेजसि तदज्ञाने तमःप्रत्ययादित्याहुः । तत्फल्गु । ज्ञानाभावज्ञानस्य मान- सत्वान्नीलं तम'इतिचाक्षुषव्याघातात् । 'तेजोऽभावमुपलभामह इत्यनुव्यवसायानुपपतेश्च । तसान्मूलशक्तेर्मायायाः कार्यभूतमा- वरणात्मकमर्थान्तरमेव तम इति निश्चयः ।। इति श्रीवल्लभाचार्यचरणाम्युजचेतसा । सुबोधिन्युक्तमार्गेण तमस्तत्वं समर्थितम् ॥ १॥ इति श्रीवल्लभाचार्यमतवर्तिश्रीमदल्लभनंदनचरणनलिनपरा- गप्राप्तसकलसिद्धेः पीतांवरतनुजपुरुषोत्तमस्य कृताय. बतारवादावल्यां नवमोऽन्धकारवादः समाप्ति- मगात् ॥ श्रीरस्तु॥
॥ श्रीः ॥ श्रीकृष्णाय नमः पुष्टिमार्गसिद्धान्तवानालायां गोस्वामिश्रीमगोपेश्वररचित आत्मवादः। एकादशो मणिः। प्रत्यक्षादिप्रमाणैर्यदगम्यं श्रुतिवाक्यतः । स्वतः प्रमाणभूतायद्गम्यं ब्रह्म समाश्रये ॥१॥ नन्विदमसाम्प्रतम् । ईश्वरस्याऽनुमानगम्यत्वात् । तथाहिन तत्र चाक्षुपं प्रत्यक्षम् । रूपाऽऽभावात् । नाऽपि मानसम् । परात्मनः परेण मनसा प्रत्यक्षवारणायाऽऽत्मप्रत्यक्षं प्रति परात्मन्यावृत्तविजा- तीयमनःसंयोगत्वेन हेतुत्वस्यावश्यकतया ईश्वरे तस्याऽभावात् । नाऽपि श्रुतिः । तत्प्रामाण्यस्येश्वरसिद्ध्यधीनत्वं, तत्सिद्धेस्तयामाण्या- धीनत्वमित्यन्योन्याश्रयात् । नाप्युपमानम् । तत्सदृशाऽभावात् । तथा च परिशेपादनुमानगम्यमिति । तदुक्तम्- कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः। वाक्यात्संख्याविशेषाच साध्यो विश्वविदव्ययः ।। इति । अनुमानानि तु । क्षित्यकुरादिकं फर्तृजन्य कार्यत्वाद्धटवत् । अन्ये तु जन्यत्वादित्यपि प्रयुञ्जते । सर्गायकालीनट्यणुकप्रयोजक कर्म प्रयत्नजन्यम् । कर्मत्वात् । अस्मदादिशरीरजन्य क्रियावत् । गुरुत्व- चतां ब्रह्माण्डादीनां पतनाऽभावः पतनप्रतिबन्धकप्रयत्नप्रयुक्तः । धृतित्वात् । वियति विहंगमधृतिवत् । ब्रह्माण्डादि, प्रयत्नवद्विना- श्यम् । नाशित्वात् । पाट्यमानपटवत् । घटादिव्यवहारः खतन्त्र- पुरुषप्रयोज्यः । व्यवहारत्वात् । आधुनिककल्पितलिप्यादिव्यवहार- वत् । वेदजन्यप्रमा वक्तृयथार्थवाक्यार्थज्ञानजन्या । शाब्दप्रमात्वात् । धर्मादिरूपं पूर्वोतं ज्ञान करणगुणजन्यम् । प्रमात्वात् । प्रत्यक्षादि- प्रमावत् । वेदोऽसंसारिपुरुषप्रणीतः । वेदत्वात् । वेदः पौरुषेयः । वाक्यत्वात् । घणुकपरिमाणजनिका संख्या अपेक्षावुद्धिजन्या । एकत्वाऽन्यसंख्यात्वात् । घणुकपरिमाणं संख्याजन्यं परिमाणप्रच- याऽऽजन्यत्वे सति जन्यपरिमाणत्वात् । तुल्यपरिमाणकपालद्वयार- ब्धघटपरिमाणवदिति चोध्यानि । तस्मादनुमानमेव प्रमाणमिति प्राप्ते । उच्यते। श्रुतिवृन्दैः सदा जुष्टं श्रुतिवृन्दैः सदाऽद्भुतम् । थुतिवृन्दे सदा सन्तं श्रौतं श्रीकृष्णमाश्रये ॥२॥ नहि तत्राऽनुमानस्य प्रमाणता वक्तुं शक्या । त्वदभिमतस्याऽप्य- सिद्धेः। कार्यत्वलिंगकानुमानेन ईश्वरसिद्धौ ज्ञानादिमत्त्यस्येव शरीरि- त्वस्याप्यन्वयव्यतिरकसिद्धत्वात् । तथाहि-यत्र कुलादिषु कर्तृत्वं तत्र शरीरित्वम् । यत्र च मुक्तात्मस्वशरीरित्वं न तत्र कर्तृत्वम् । अत ईश्वरः शरीरी । कर्तृत्वात् । असादादिवत् । यनैवं तनैवम् । मुक्तात्मवदित्यनुमानेनेश्वरस्थापि कर्तृत्वाच्छरीरित्वमवश्यमहीफर्त- १ अपेक्ष्येति खपाठः । २ आईश्वरनिधीनादिमत्वेत्यादि खपाठः । ३ यनैवं तन्नेचामिति सपाठः।
१४४ व्यम् । अन्यथेच्छादिकमपि सियेत् । अविशेषात् । ननु चेष्टां विनापि प्रयत्नमात्रेण कार्यकरणसमर्थत्वादीश्वरस न चेष्टाधिकरण- तदपेक्षेति चेत् । न । ज्ञानमात्रेणैव सर्वकरणसमर्थस्वेच्छादिमत्त्वस्या- प्यसिद्धेः । ननु शरीरं परिच्छिन्नम् । शरीरत्वात् । असदादि शरीरवत् । शरीरमनित्यम् । कार्यत्वात् । पटवदित्यनुमानाभ्यां शरीरस्य परिच्छिन्नत्वेनाऽनित्यत्वेन च युगपत्सकलदेशगतकार्याऽनु- सतिप्रसंगः । ब्रह्मधर्मतानुपपतिश्चेति चेत्। न । अन्यथानुपपत्तिबला- त्सियच्छरीरस्य यावताऽनुपपत्तिपरिहारस्तावत एव सिद्धेः । तथा ईश्वरशरीरं नित्यम् । सर्गाधकालीनध्यणुकारम्भपूर्वकालीनद्रव्य. खात् । परमाण्वादिवत् । यन्नैवं, तन्नैवम् । अस्मदादिशरीखदिति प्रत्यनुमानेन पूर्वोक्तानुमानस्य सटप्रतिपक्षत्वात् । अनुकूलतर्कश्च, यदि शरीरित्वं न स्यात्कर्तृत्वमेव न स्यादित्याकारको बोध्यः । न च पूक्तिनाऽस सत्प्रतिपक्षत्वं शक्ष्यम् । अप्रयोजकत्वात्पूर्वोक्तानुमा- नस्य । अन्यथेश्वरज्ञानादीनामप्यनित्यतापत्तेः । ननु शरीरस्य महत्त्वेनोद्भूतरूपत्वेन च ईश्वरशरीरं चाक्षुपम् । महत्वे सत्युद्भूतरूपत्वादित्यनुमानेन प्रत्यक्षं स्यादिति चेत् । ईश्वर- शरीरमचाक्षुषम् । लौकिकपत्यक्षाऽविषयत्वात् । इन्द्रादिशरीरवदिति प्रत्यनुमानापूर्वोक्तानुमानस्य लौकिकप्रत्यक्षविषयत्वरूपोपाधिमस्त्र- त्वात् । स्यादेतत् । ईश्वरे यच्छरीरं साध्यते तच्छरीरं किमीश्व- रादिन्नमभिन्नं वा । नान्त्यः । आत्माभिन्नस्याऽपि तस्याऽसिद्धत्वात् । अंती भिन्नं नित्यं नित्यसम्बन्धं चाङ्गीकार्यम् । तथा सति, यथा १धिकरणलादिति सपाठः। ४ एवेति रापुस्तके नास्ति । १प्रलयेति सपाठः। पाठः। ३ सिध्यति ख १४५ कार्यत्वेन कर्तृपूर्वकत्वसाधनं कुर्वतश्चेतनकार्यत्वे शरीरिजन्यत्वसा- हचर्यस्य भूयो दर्शनेन शरीरजन्यत्वविशिष्टकार्यत्वस्य व्याप्यत्वात्सा- ध्यतावच्छेदकशरीरनिविष्टकर्तरि ! ईश्वरे तादृशशरीराऽसिद्धिः । तदसिद्धौ च कर्तृत्वासिद्धिः । एवं वायुरनित्यः । कार्यत्वात् । घट- बदित्यनुमानेऽपि रूपसाहचर्य लिंगस्य दृष्टमिति रूपविशिष्टस्य तस्य व्याप्यत्वेन रूपाऽभाववति वायौ कार्यवासिद्धिस्तित्कार्यत्वाड- सिद्धौ]तसिद्धौ च रूपस्यापि सिद्धिः स्यात् । नत्वेवम् । प्रत्य- क्षबाधात् । तस्मात्साहचर्यमात्रमप्रयोजकम् । व्याप्तिरेव प्रयोजिका । सा च कार्यत्वाऽनित्यत्वयोरेवेति वायौ तसिद्धी रूपासिद्धिश्च । एवं कृतेऽपि कर्तृत्वप्रयोजकं ज्ञानेच्छाप्रयत्नवत्त्वमेवेति शरीरित्वस्य तत्साहचर्यत्वेऽपि न तत्प्रयोजकत्वमतो नेवरे तत्सिद्धिः । अन्यथा दृष्टान्तीयाऽशेषधर्मापत्तिः पक्षे स्यात् । तथा च घटदृष्टान्तेन जले नित्यत्वसाधने पृथिवीत्यादिकमपि सियेदिति । मैवम् । किमिदं साहचर्यमात्रेत्यत्र मात्रपदं यावत- त्परमुत भूयोदृष्टतत्परम् । अन्त्ये त्वोमिति घूमः । लोहलेख्या पृथि- धीत्वादित्यादौ भूयः साहचर्यस्याप्यप्रयोजकत्वदर्शनापूर्वोक्तदोपा- पत्तेश्च । आये तु व्याप्तेरप्यप्रयोजकत्वाऽऽपत्त्याऽनुमानस्यैवोच्छेदा- दिच्छादेप्यसिद्धेस्त्वन्मतस्याऽप्यसिद्धेः । तस्साच्छंकानामन्यथाऽनुप- पत्तिवलासिध्यत्सर्वानुपपत्तिपरिहारपूर्वकं सचिदानन्दात्मकमीश्वरा- भिन्नमेव सिद्धमिति सिद्धिव्याहतत्वान्नोदयः । एतेनैव कार्यस्य शरीरादिमत्कर्तृपूर्वकत्वनियमः प्रत्यग्रजायमानाङ्कुरादावेव शरीरिणः कर्तुरनुपलम्मानिरस्त इति मीमांसकमतमपि निरस्तम् । किञ्च । १ इत आरभ्य, मैवमित्यन्तो अन्यः कपुस्तके नास्ति । १० पुष्टि.
१४६ जीवसाधने प्राणधारणप्रबलवत्त्वेन प्राणसिद्धिवदत्राऽपि तादृशप्राण- साधकत्वेनाप्यप्रयोजकत्वमस्य । कथं जीवस्य प्राणत्वमिति चेत् । इत्यम् । तथाहि निरात्मवादिनां बाह्यानां मते तनापां मदशक्ति- वत्पुञ्जधर्मत्वं यथा केवलैः खदिरचूर्णताम्बूलपर्णपूर्वमरैः सुगदिवै- स्तुपरः तथा न केवलपरमाणूनापवेतनत्वं विविधपरमाणुपुञ्जमपेतन- त्यनिनिः तत्रान्यं व इति । केनपुञ्जन्मेतनाधर्म उतांतरः । तत्रा- न्वयव्यतिरेकाम्यां प्राणधारणप्रयत्नवत्त्वमेव जीवलक्षणत्वेन सिद्धः । तत्राऽबाह्यपुञ्जः आत्मा । प्राणधारकत्वाद्यन्नैवं तन्नैवम् । घटवदित्यनु- मानं न शरीरावच्छिन्नबाह्यजस्य प्राणधारणप्रयत्नवतसाधनेन तद्धारकः बाह्यमततृतरावदिति प्रत्यनुमानेन हेतोः सत्प्रतिपक्षत्वात् । न वान्तरः पुंजस्तथा आन्तरपुंजो न तद्धारकः । आन्तरत्वात् । मृत- पश्चान्तरपिंडवदित्यनुमानेन हेतोः साधारणत्वात् । नापि च सुरामा- प्राणधारकत्वात् । आत्मनप्रथलाधारत्वाद्वा परेवन्तरे । न श्रोत्रादि नदि- त्यंत प्रत्येकमिन्द्रियेषु आत्मत्वसाधनं युक्तम् । विनिगमनाविरहात् । अन्धादिप्यपि प्राणधारणप्रयत्नदर्शनेनैकसिमन्व्यतिरेकव्यतिचाराच हेतोः सरूपासिद्धत्वात् । अतस्तत्समुदीयस्यात् । बलसाधनेऽपि यत्र सकलगोलकहीनदताइरो पिंडहे रनकार्पइर्शना तद्वारेकलमंतः- फरणम्पर्यवस्पति । न तु समुदायेन | गोलकनारो तन्नाशप्रसंगात् । १चेतनानामिति स्यात् । २ इतःपरं 'मनो मूर्त क्रियायत्त्वा' दित्यन्तः पंचदशपलयात्मको प्रयः पुस्तद्वितये नास्ति । पुस्खपत्रितये चास्ति । किन्तु पारसीकभाषाऽऽग्लभाषा मागधीभाषा स्वगाया वा वागिति न निधेतुं शक्यते दतथ पुस्खनितयप्रामाण्यात्तथैवाक्षरशो धृतः । यदि लमस्तहि मुस्यन्तु विद्वासः । ययादि च मध्ये मध्ये शोषितोऽपि भगवनुद्धिशोधनीय इत्यन्यत्र परित्यकः १४७ नापि त्वगिन्द्रियैः । आशतस्तस्यपि न्मरगदिति अन्तःकरणे पुनसेनानुगानेन तयात्वसाधनेपि ताल्हिमणुनिमतिनाडीमनः- संतुपयोगकर्मजन्यः यावत्प्रतियोगिसत्त्वेऽपि कादाचित्कत्वात् । स्थाणुपुरुषसंयोगवत् । यन्नैवं तत्रैवम् ।। स्थाण्वाकाशसंयोगवत् । मनो मूर्त क्रियावत्त्वाद्वायुवदित्यनुमानेनाऽगुणत्वेन, सुखसाक्षात्कारः सफरणकः जन्यसाक्षात्कारत्वाच्चाक्षुषसाक्षात्कारवदित्यादिना करणत्वेन च, सिद्धस्य मनसो भावादिकं नाणुगुणः । प्रत्यक्षत्वात् । घटरूपादिवत् । यन्नैवं तन्नैवम् । परमाणुरूपादिवदित्यनुमानेन ज्ञानादेस्तथात्वनिश्चयेन, ज्ञानाद्यनाधारत्वे सिद्धे तेनाऽनात्मत्व- सिद्धिः । ततः प्राणोऽवशिष्यते । तस्याऽऽत्मभिन्नत्वसाधनं दुर्घटम् । प्राणसत्त्वे जीवत्वस्य, तदसत्त्वे तदभावस्य च दर्शनात् । ज्ञानप्रयत्नाधारत्वस्य तत्रैव पर्यवसानात् । न च सुपुप्तौ ज्ञानाऽभावे तस्मिज्ञानाद्यनाधारत्वे निश्चिते, प्राण आत्मभिन्नः । ज्ञानाद्यनाधारत्वात् । देहादिवदित्यनुमानेनाऽऽत्मभे- दसिद्धिरिति शंक्यम् । श्वासोच्छासक्रियादर्शनेन तदानीमपि तस्य प्रयत्नवत्ता निश्चयात् । ज्ञानाऽभावस्य मनःसंयोगाऽभावजन्यत्वेन ज्ञानाधारस्वयोग्यताविघटनाभावात् । अतो ज्ञानाद्याधारत्वेनाss- स्मत्वसाधने तदभावस्य दर्शनात्माणस्यैवात्मत्वेन सिद्धिर्न तु ततो- ऽप्यतिरिक्तस्याऽऽत्मनः । देहमाणवियोगस्यैव मृत्युत्वेन जीवद्देहे तस्याऽऽवश्यकत्वात् । अतिरिक्तात्माऽनभ्युपगमेन पदार्थलाघवाच । यदि च योगिनां श्वासनिरोधेऽपि जीवनज्ञानदर्शनात्तदतिरिक्त १ पुस्तकचतुष्टयेऽशुद्धतमाः पाठा उपलभ्यन्ते किन्तस्मामिय॑थाऽऽहम्वर- मिया परित्ययाः । पञ्चमेऽपि कुन चित्तथैव । तदधिष्टानेति खगघ पाठः।
एवात्मेति विभाव्यते । तदाऽपि निरुद्धवृत्तिपाणस्य तदेहे सत्त्वान्न तदतिरिक्ताऽऽत्मसिद्धिः । यदि च निरोधजनकस्य प्राणाऽतिरिक्तत्वं विभाव्यते । तदापि चेतनाधर्मकस्स तस्यैव लाघवासिद्धिरिति, न कथमपि प्राणभिन्नाऽऽत्मसिद्धिरिति । एवं क्षित्यादिकर्तृत्वाद्या- श्रयत्वेन व्यापकप्राणसिद्धर्नाऽनुमानस्पेश्वरसाधकत्वम् । एतेनाऽहं वितेरप्यप्रयोजकत्वमुक्तप्रायमिति श्रुतिरनुसरणीयैव । अन्न सांख्यास्तु प्रकृतेः कर्तृत्वमगीकृत्येश्वरं न मन्यन्ते । तथाहि-प्रत्यक्षेणाऽनवगम्यमानस्येश्वरस्य कार्यत्वादि लिङ्गकानुमान नेन कर्तृतया साधने तादृशप्रकृतिसिद्धयाऽर्थान्तरत्वेन तदसिद्धिः । तस्य कर्तृतानिर्वाहकमादायैव सिद्ध्यङ्गीकारे तु तुल्ययोगक्षेमत्याच्छ. रीरस्याऽपि सिद्धिः । सशरीरेश्वराङ्गीकारे तु शरीरवद्रागस्याऽप्य- न्वयव्यतिरेकसिद्धत्वाद्रागिण ईश्वरस्य सिद्ध्या तस्य जीवतुल्यतापति- नित्यमुक्तत्वहानिश्च । न च प्रकृतेर्जडत्वेन कर्तृत्वाऽनुपपत्तौ तदधिष्ठा- तृत्वेन विवक्षितस्यैवेश्वरस्य सिद्धिरिति शङ्ख्यम् । अधिष्ठातृत्वस्मैव विचार्यत्वम् । तथाहि-किन्नामाधिष्ठातृत्वम् । प्रकृतिनियामकत्वं वा: । तत्सन्निहितत्वं वा! । तस्यां प्रतिबिम्बितत्वं वा । नाद्यः । चेष्टां विना ज्ञानादिमात्रेण तथाङ्गीकारे जीवानामपि तथात्वा- ऽऽपचेः । तथा सत्यनेकेश्वरापत्तेः । न द्वितीयः। तदाऽप्युक्तदोषा- पत्तेः । तत्सन्निधानस्य सर्वेषु तौल्यात् । न तृतीयः । प्रतिविम्बिते शरीरे मणौ च चलति शरीरमणिचलनमतीतिवत्प्रकृतिकर्तृत्वेनैव तस तस्मिन्कर्तृत्वाभिमानात्वातन्त्र्याऽसिया परिमाषिकत्याऽऽपौ विवक्षितरूपेश्वराऽसिद्धः। किञ्च । ज्ञानादिमात्रेणाऽऽत्मनो जडनि- १खस्मिमिति कस पाटः ।
१४९ अतः यामकत्वाङ्गीकारे मृतशरीरेप्याहारादिक्रियाऽऽपत्तिः । तदभावा- तस्याः प्राणबुद्ध्यादिकार्यत्वेन, मृतशरीरे च तेपामभावाजीवच्छ- रीरेऽपि तेपामेव नियामकत्वसिद्ध्याऽन्मनि तदभावात् । अतः पुरुपच्छायापातेन चेतनत्वाऽऽपन्नस्य बुध्यादेरन्तःकरणस्वैवाधिष्ठातृत्व न तु तटस्थस्याऽऽत्मनः । अमिसम्बन्धेन लोहस्य दाहकत्ववत् । अतो नैवमपीश्वरसिद्धिः। किंच । तस्य खातब्येण कर्तृत्वेऽकृताभ्यागमादिपसक्तिः । कर्म- सहकारित्वेऽनीश्वरत्वाऽऽपत्तिः । तथा स्वार्थजगत्करणेऽनाप्तकाम- त्वाऽऽपतिः । परार्थकरणे वैपम्यनैघण्यादिप्रसक्तिः प्रकृतिरेव की । 'प्रधानाजगज्जायत' इति श्रुतेः । न च 'स हि सर्ववित्सर्वकर्ते'ति श्रुतेरीश्वरस्य कर्तृत्वं शंक्यम् ? । एतस्य मुक्तात्मोपासासिद्धात्माऽन्यतरप्रशंसापरत्वादित्याहुः । रामानुजाचार्यश्च क्षित्यादिपु सावयवत्वेन कार्यत्वमपि नानुमातुं शक्यम् । अकार्यम् । अशक्यत्वात् । अशक्योपादानविज्ञानत्वात् । महाभूतशब्दवाच्यत्वाच्च । आकाशवदिति भट्टमास्करोक्तैः प्रत्यनुमान- स्तस्य सत्प्रतिपक्षत्वात् । यदि चाकाशे निरवयवत्वस्यानुकूलतर्कस्य सत्त्वेन क्षित्यादिवायुपर्यन्तेषु तदभावेनोक्तहेतूनामप्रयोजकत्वं विभा- व्यते ? । तदापि कार्यत्वेन हेतुना बुद्धिमत्कर्तृपूर्वकत्वमात्रसिध्या तादृशक्षेत्रज्ञानामेव कर्तृत्वेन सिद्धिरिति हेतोरर्थान्तरसाधकत्वान तेनेश्वरसिद्धिः । न च क्षित्यादिवायुपर्यन्तस्य पक्षीकरणेन तदुपा- दानगोचराऽपरोक्षज्ञानादिमत्त्वस्य क्षेत्रज्ञेप्वशक्यवचनतया पक्षधर्मता- बलात्तत्सिद्धिः! । विवादाध्यासितं क्षित्यादिकं खोपादानगोचरा- उपरोक्षज्ञानादिमदनेककर्तृपूर्वकम् । कार्यत्वात् । विचित्रसन्निवेश.'
१५० सार्वमौमसदनवदितिदृष्टान्तेनाऽनेकफर्तृसिद्ध्या पक्षधर्मताया दुर्बल- त्वात् । महीमहार्णवादीनां कार्याणामनेकत्वात्तेपां सर्वेषामेकदैकेन निर्मितवे प्रमाणभूतस्य हेतोरभावात्पृथग्भूतेषु कार्येषु फाल- भेदकर्तृभेदयोः प्रत्यक्षसिद्धत्वेन प्रत्युत बाधात् । न च जीवानां ताशनिर्माणशक्त्यदर्शनेन तन्निवृत्तौ कार्यत्वबलेनैव तत्सिद्धिरिति बाच्यम् । पूर्वमशक्तानामपि पश्चात्पुण्यविशेषोपचयेन शक्तिदर्शनात् । पुण्यविशेपोपचयेनाऽतिशयिताऽदृष्टसम्भावनया च तादृशविलक्ष- णकार्यकर्तृत्वस्याऽपि सम्भवात् । इदमेवोक्तं कपिलाचार्यैः । 'मुक्तात्मनः प्रशंसावाक्यमुपासासिद्धस्य वेति' सूत्रे । इदं योगिनोप्युपलझकम् । किं च युगपत्सर्वोत्पत्तिस्थिती न प्रमाणपदधीं व्रजतः । लोके क्रमेणैव तयोर्दर्शनाधुगपत्कल्पकस्य हेतोरशक्यवचनत्वात्क्रमेण तल- रूपने विरोधाभावाच्च अतः क्षित्यादिकं बुद्धिमदेककर्तृकं कार्यत्वाबूटवदित्यत्र, तन्नैकफर्तृ कार्यस्वाद्धटपटस्तम्भादिसमूहबदि- तिदृष्टान्तेन हेतोः साधारणत्वम् । तथा भूभूधरादिनिष्ठं कार्यस्त्वं न बुद्धिमदेफकर्तृकत्वसाधकम् । समूहनिष्ठत्वात् । घटपटस्तम्भादि- समूहनिष्ठकार्यत्ववदित्यनुमानान्तरादपि तथा । किञ्चेदं दिविक्ष- त्यादिगतं कार्यत्वं युगपदुत्पद्यमानसर्वगतं वा ! क्रमिकोत्पद्यमानस- चंगतं या: । आये आश्रयासिद्धत्वम् । द्वितीये तु विरुद्धत्वम् । तस्मान्न कार्यवलिशिकाऽनुमानेनेश्वरसिद्धिः । नापि जगदेकचेतना- , १ चतुर्ध्वपि पुस्तकेषु प्रायः प्रतिपतयशुद्धयो भूयस्यः । किन्तु व्यर्थप्रपधभ यादखिटेऽपि मन्थे तर्शनं परित्सफमसामिः । पधर्म प्रायः शुद्धम् ।
धीनम् । अचेतनाऽऽरब्धत्वात् । नीरोगखशरीरवदित्यनुमाना- सिद्धिः। तथाहि-किमिदमेकचेतनाधीनत्वम् ? । एकचेतनाऽऽयत्तोत्पत्ति- स्थितिकत्वमिति चेन्न । नीरोगस्याऽपि शरीरस्य पितृपुत्राद्यनेकचे- तनादृष्टजन्यत्वेन तदुत्पतिस्थित्योस्तदधीनत्वेनैकचेतनाधीनत्वाऽमा- वात् । दृष्टान्ते साध्यवैकल्येन हेतोरसाधारणत्वापत्तेः । किञ्च । शरीरस्थितिरपि किं खावयवसमवेतता ! उत प्राणनम् । आयेऽव- यवाधीनत्वान्न चेतनाऽधीनत्वम् । घटादिवत् । द्वितीये क्षित्या- दीनां शरीरत्वाभावेन पक्षेऽसम्भव इति पक्षसपक्षानुगतस्थित्यनुप- लम्भः । नाप्येकचेतनाधीनप्रवृत्तिकत्वम् । पक्षान्तर्भूतेषु गुरुतररथशि- लामहीमहीरुहादिष्वनेकचेतनाधीनप्रवृत्तिकत्वदर्शनेन व्यभिचारात् । नाऽपि चेतनमात्राधीनत्वम् । सिद्धसाधनत्वादर्थान्तरापत्तेश्च । किञ्चेश्वरः कर्ता न भवति । प्रयोजनशून्यत्वात् । अशरीर- त्वाच्च । मुक्तात्मवदिति बाधकानुमानादपि नेश्वरे कर्तृत्वसिद्धिः । किंचाऽत्यन्ताऽपरिदृष्टेश्वराख्यपुरुषस्य, तस्सिन्सामर्थ्यविशेषस्य च कल्पनेऽत्यन्तगौरवादकृप्तानां जीवानामेव तपोयोगयागादिलब्धसा- मानामेवं कर्तृत्वेन कल्पनं लघीय इत्यचेतनारब्धखलिहकानु- मानेनापि नेश्वरसिद्धिरित्याहुः । १ एवकारेणोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं व्यतिकरिष्यते गौर. वात् । कारणताक्षियंकुरादेर्योध्यार्य कारणाभावात् । अमुया तत्र च स्वके अन्यथेच्छावान्यनरत्त्वात् । ज्ञानवानिच्छाववादित्यन घटादिविषयकज्ञानादि. मत्त्वे साध्ये पटादिकमारभ्य पक्षकुलादौ हेतो साधारण्यं स्यात् । कर्तृवादिसाध- कानुमानेकचरापरोक्षज्ञानचिकीर्षाकृतिमान्यस्यादृष्टद्वारकर्जज्ञस्य सम्बन्धात् । ख. कर्तृवमादिना वजन्यलम् । कचिपुस्तक एवमशुद्धबहुलोधिक. पाठो लब्धः। ..
यत्तु 'कार्यायोजनेत्यादि कारिकाव्युत्पादने भवदेवमिङ्करन्न प्रथमे प्रयोगे कर्तृजन्यत्वं तु खोपादानगोचरापरोक्षज्ञानचिकीर्पा- कृतिमददृष्टाद्वारकजन्यत्वम् ।। अत्राऽदृष्टाद्वारकेति विशेषणान्न जीवात्मनिरूपिताऽदृष्टाद्वारकजन्यत्वेन सिद्धसाधनमर्थान्तरं वा । जीवानां क्षित्याद्युपादानीभूतपरमाण्यादिगोचराऽपरोक्षज्ञानाऽमावेन तज्जन्यत्वे वाधान्न तदपि तथा । न च क्षितिघटादिसाधारणस्यै- कस्य साध्यस्याऽभावेन खपदार्थाऽननुगमात्कथं व्याप्तिग्रह इति वाच्यम् ? । खपदार्थाऽननुगमस्याऽदोपत्वात् । अन्यथेच्छादिना ज्ञानाद्यनुमानं न स्यात् । खविशेप्यफखत्वप्रकारकज्ञानत्वादिनैव तत्र कार्यकारणभावात् । अत्र च स्वकर्तृकत्वादि साध्यकानुमाने कर्तृ- त्वेनैव कारणता । ज्ञानजन्यादिसाध्यके च ज्ञानत्वादिना । एवं कार्यताऽपि कार्यत्वेन जन्यत्वेन च । न च शरीरगौरवेणाऽप्रयो- जकत्वं शक्यम् ? 1 अवच्छेदककोटौ घटात्वादीना प्रवेशे आनन्त्य- गौरवात् । ध्वंसस्य जन्यत्वेन, तस्य च जन्याभावत्वेनाऽवच्छेदकतया प्रवेशे शरीरगौरवाच । एवं तु विवक्षितविवेके जन्याऽभावत्वैक- देशस्य जन्यत्वस्यैव प्रवेश इति शरीरलाधवात्सामान्यलाघवादे- १न चाकुरादौ हेतोविपक्षियंकुरादिकलानवज्जन्यं चिकीर्षावजन्यं कीर्य- खात् । घटवदित्येव ज्ञानाजन्यार्थादसायके चेत्यर्थः । अन ज्ञानादिकारणता- वच्छेदकेन कारणतेत्यर्थः । ज्ञानजन्यादिसायके च ज्ञानलादिनेतिपाठे ज्ञान- जन्य चिकीपीजन्यं कृतिमजन्यं कीर्यलादित्सनुमीनोति । कारणानि ज्ञानेच्छा- प्रयनानि लाघवाद्यज्ञानाधाक्षिप्तकारस्तेन ज्ञानवत्त्वेच्छावत्त्वयत्नवत्वानि कार. पतावच्छेदकानि गौरवात् । किन्तु ज्ञानेच्छाप्रयनानि कारणानि कारणताव- ठेकत्वं च ज्ञानलादिमेत्यर्थः । असाध्यसन्देहस्यानरखाद्याहितत्वेनन्याहित. स्वेन तस्य पक्षसमसात् । न च शरीरजन्यलस्यो क्षियं कुरादिपक्षकेऽनुमाने । भयमपि कचित्पुस्तकेऽशुद्धिबहुलः पाठ.।
१५३ . कत्वलाघवात्कल्पनालाघवादुपस्थितिलाघवाच्च जन्यत्वेनैव कार्यता, न घटत्वादिना । कार्यत्वं च ससमवायिजन्यतात्येन परम्परासम्ब- न्धेन कृतित्वमेवेति न तत्रापि गौरवम् । नच विशिप्याऽन्वयव्य- तिरेकाभ्यां घटत्वकुलालत्वादिना विशिष्यकार्यकारणभावस्यावश्य- कत्वात्सर्वमेव तद्विरुद्धमिति वाच्यम् ? । कार्यमात्रवृविजातीनां कार्यतावच्छेदकत्वमिति सिद्धांतसमुद्घोपात् । न च शरीरजन्यत्वस्यो- पार्विद्यमानत्वाच्छरीराजन्यत्वस्य प्रतिसाधनस्य सत्त्वाच साध्यस- न्देहस्याऽन्याहितत्वेनाऽनैकान्तिकत्वं सिद्धमिति शङ्यम् ? । कादि- जन्यतायामपि गुरुभूतस्य शरीरजन्यत्वस्याऽनवच्छेदकत्वाल्लघुभूतस्य जन्यत्वमात्रस्यैवाऽवच्छेदकत्वेन तस्य च साधनव्यापकत्वेनाऽनुपा- पित्वे हेलोरदुष्टत्वात् । नचाऽकुरादौ हेतोर्विपक्षणामित्वेनैकान्ति- कत्वं शक्यम् । तत्र साध्यसन्देहस्याऽनन्याहितत्वेन तस्य पक्षस- मत्वात् । एवं च कादिजन्यतायामिव शरीरजन्यतायामपि जन्यत्वस्यै- वाऽवच्छेदकत्वादीश्वरे नित्यज्ञानादिकमिव नित्यशरीरवत्त्वस्याऽप्य- ङ्गीकारेण प्रतिसाधनदोपस्याऽप्यभावात् । अनुमानं च क्षित्यादिकं शरीरजन्यम् । जन्यत्वात् । घटवत् । ईश्वरः शरीरी । कर्तृत्वात् । कुलालवदिति । अनुकूलतर्कश्वाऽन्न कर्तृत्वजन्यत्वाभ्यामिव शरीरि- त्वजन्यत्वाभ्यामपि पूर्वोक्तयुक्तितुल्ययुक्तिक एव । कार्यकारणभावश्च । श्रुतिश्च । 'यतो वा इमानि भूतानि जायन्त' इत्यादि । 'सहस्र- शीर्पापुरुष' इत्यादि । 'आकाशशरीरं ब्रह्मेत्यादि चोक्तम् (१)। यदपि श्रुतीनां चानुकूलतर्कविधया खतन्त्रतया च ब्रह्मणि प्रागाध्यमिति नवीनमतम् । साम्प्रदायिकमते, शरीरम्य. कुहालसर- १५४ रीरत्वादिनैव कारणत्वं, नतु शरीरत्वेनेतीश्वरस्य नित्यशरीरं लोका- मुग्रहेण व्यवहारप्रवर्तनार्थम् । अतोऽस्मदाद्यदृष्टजनिते रामकृष्णा- दिनामके शरीरे भूतावेशन्यायेनाऽवेशः । कार्यकरणानन्तरं च त्याग इति । अभिनवमते तु महेश्वरस्य विश्वमेव शरीरम् । तच्च नित्यपुजयटितमित्यनित्यांशविरामेऽपि नित्यांशमादाय नित्यमेव । आकाशात्मकं च नित्यमेव । रामकृष्णादिनामकं त्वाविर्भावतिरोभा- वशालि भक्तानुग्रहेण कदाचित्कचिदाविर्भवति तिरोभवति च । अत एव तत्त्ववादिभिर्मूर्तमपि तन्नित्यं विभु चेत्यङ्गीक्रियते । सर्वत्र सर्वदा तथामूतभक्तभावनया भक्तैः साक्षास्क्रियमाणत्वात् । तादृश- साक्षात्कारस्य प्रमात्वे सम्भवति, प्रमत्वकल्पनस्याऽन्याय्यत्वात् । तदुक्त मात्सर्गधियां प्रमात्वमिति। विश्वात्मकन्तु योगिप्रत्यक्षगम्य- मपि विश्वरूपदर्शनादौ श्रूयत एव सहस्रशः । एवं श्रुत्यादिभिः शरीरेऽङ्गीकृते तदनुसारिकर्तृकत्याऽनुमान निर्दष्टमेव । एवमेकेनेश्वरेण सकलक्षित्यादिकार्यसम्भवे सति प्रमा- णाभाषागौरवाच नानेकेश्वरसिद्धिः । किं चाऽनेकेश्वराङ्गीकारे तेषामैकमत्यं वैमत्यं वा स्यात् ! । तत्राऽये स्वातन्त्र्याऽभावेनैश्चर्य- हानिः। द्वितीये तु कार्यासिद्धिरिति कार्यदर्शनादिकमेवाद्वितीयं ब्रह्मेत्यादि श्रुतिभ्यस्तादृशैः पुराणैश्चैकेश्वरसिद्धिरिति न पूर्वोक्त किमपि दूषणम् । एवमेकेश्वरसिद्धौ कर्मत्वादिलिङ्गकानुमानान्यपि तमेव साधयन्तीति न कोऽपि कापि दोप इति । तत्सर्वमप्यविचारचारु । रामानुजाचार्योक्तसार्वभौमसदनदृष्टा- न्तस्य महीमहार्णवेत्यादिपूर्वोक्तदोषाणामनुद्वारेण सिद्धसाधनादिदो- पाणा हेतोरामासतायाश्चाऽनिवृतेः । एवं शरीरित्वसाधकाऽनुमा- ..
१५५ नेऽपि कपिलोक्तानां रागादीनां दोषाणामनपगमाजीवतुल्यत्वाऽऽप- त्यनुद्धार एव । एवमेव जन्यत्वलिङ्गकज्ञानजन्यत्वादिसाधकानुमाने- •ऽपि द्रष्टव्यम् । अतः श्रुतिसाहाय्यं विना कथमपि न निर्वाहः । एवं कर्मत्वलिंगकानुमानमप्याश्रयासिद्धम् । अतः 'सधेततक्षुरि'त्यादि श्रुतिपु 'तन्मायाफलरूपेण केवलं निर्विकल्पितं । वामनोगोचरा- ऽतीतं द्विधा समभवद्धृहदित्यादि भगवद्वाक्येऽन्यत्रापि विभागादेव सृष्टिकअनेन पक्षतावच्छेदकस्य पक्षेऽभावात् । एवं धृतिपक्षकानु- मानेऽपि धृतेर्ब्रह्मांडादिपतनात्यन्ताऽभावरूपत्वं वा तागभावरू- पत्वं या वक्तव्यम् । । तयोरुभयोरप्यनादित्वेन चेतनप्रयतपूर्वक- त्वाऽभावाद्वाधितत्वम् । अतो धृतिशब्दार्थों विष्टम्भात्मकसंयोगवि- शेपो वक्तव्यः । तदापि चेतनप्रयत्नपूर्वकत्वे साध्ये तादृशाऽनेक- जीवप्रयत्नेन सिद्धसाधनमर्थान्तरं वा । एकचेतनप्रयत्नपूर्वकत्वसाध्ये तु गुरुतररथशिलादिदृष्टान्तेन हेतोः साधारणत्वं दुरपोहम् । एवं ब्रह्माण्डादेपक्षकानुमानेऽपि सिद्धसाधनादिकम् । एकप्रयत्नवद्विना- श्यत्वसाधने तु खन्यमानमहाभवनदृष्टान्तेन हेतोः साधारणत्वं द्रष्टव्यम् । एवं व्यवहारपक्षकेऽनुमानेऽपि लिप्यादिव्यपहारसांकेतिकप्रयो- गदृष्टान्तेनोक्तदोषादिकं द्रष्टव्यम् । तथा धर्मादिज्ञानपक्षकानुमा- नेऽपि चेदापौरुषेयवादिनं प्रति सिद्धसाद्धनादिदोषदुष्टत्वम् । एवं वेदत्वलिंगकानुमाने हेतोः धारणत्वम् । तथा वाक्यत्वलिंगका- नुमानेऽप्याकाशवाणीदृष्टान्तेन हेतोरसाधारणस्वम् । एवं झणुकपक्ष- कानुमानेऽपि ताशसंख्याज्ञानस्स योगिनामपि सम्मवात्तैरान्तर- मिति सर्वाण्येवामासरूपाणि ।
एवं नवीनमते यदीश्वरस्य शरीरमङ्गीकृतं तदपि युक्तिमूलत्वे रागादिमत्त्वप्रयोजनवत्त्वाद्यापत्त्यपरिहाराढुष्टमेव । श्रुतिमूलत्वे तु श्रुतिपु सच्चिदानन्दात्मकतदभिन्नशरीराङ्गीकारात्कर्तृत्वस्याऽपि तस्यो- क्तत्वात् । आसां श्रुतित्वेनैव प्रामाण्यं न तदनुगत्वेनेति । यद- प्यभिनवमते ईश्वरस्य विश्वात्मकं शरीरमङ्गीकृतम् । यच्च नित्यानि- त्यपुजघटितत्वेऽपि नित्यांशमादाय नित्यमाकाशादिरूपं च नित्य- मेवेत्युक्तम् । तदपि फल्गु । कर्तृत्वनिर्वाहकत्वेनाङ्गीक्रियमाणस्य तस्य विश्वपूर्वभावित्वस्याऽवश्यकत्वेन विश्वात्मकत्वाऽनुपपचेः । नित्यांशमादाय तस्य पूर्वभावित्वाङ्गीकारे तस्य परमाण्वादिरूपत्वेन कर्तृतानिर्वाहकत्वविरहप्रसङ्गात् । नच नित्यानित्यपुञ्जात्मकमेव तदित्यपि युक्तम् । यस्य पृथिवी- शरीरमित्यादिश्रुतिगतप्रत्येकपर्यायैकत्वविरोधप्रसगात् । 'सर्वतः पाणिपाद तत्सर्वतोक्षीत्यादि अतिविरोधापत्तेश्च । तसाच्छाबै- कसमधिगम्यं ब्रह्मेति सिद्धम् । तदुक्तं बृहदारण्यके शाकल्यब्रा- मणे याज्ञवल्क्येन 'स एप नेतिनेत्यात्मा' 'अगृह्यो नहि गृह्यते अशीर्यो नहि शीर्यतेऽसंगो न सज्जते न व्यथते इत्येता- न्यष्टावापतनान्यष्टौ पुरुषाः स यस्तान्पुरुपान्व्युदुह्य प्रत्युह्या- फ्रामीत्तं त्यौपनिषदं पुरुषं पृच्छामी'ति वाक्ये मूर्तामूर्तबाह्मण- चदेव निषेधपूर्वकं करणाद्यग्राह्यो नित्योऽसंगो निर्दुःखः शारीरा- दीनष्टपुरुषान्पृथिव्याद्यायतनेषु तचल्लोकेषु च विशेषेणोःस्थाप- यित्वा, तत उपसंहृत्य योऽतिकान्तवानेतादृश उपनिषद्वेधः पुरुषः पृष्टः । तत्र यद्यनुमानवेद्यत्यं भवेत्तदाऽप्रायपदेन न सामान्यतो निषिध्येत् । औपनिषदमिति वाऽऽनुमानिकमिति प्रतिमसूयेत ।
१५४ , तस्मादपनिपदतिरिक्तप्रमाणाऽगोचरत्वमेव भुत्यभिप्रेतमिति ज्ञायते। नचाऽग्राह्यपदेनेन्द्रियाऽग्राह्यत्वमुच्यत इति शक्यम् । तथा सत्यनु मानादिनाऽपि वेद्यत्वसिद्धाचौपनिपत्पदस्याऽनतिप्रयोजनत्वाऽपत्तेः । अतोऽग्राह्यपदेन यावत्प्रमाणाऽगोचरत्वमावेदयदीपनिपदपदमु- पनिपत्प्रतिप्रसवं साधयत्केवलोपनिपद्वेद्यत्वमावेदयति । स्यादेतत् । 'सर्वे वेदा यत्पदमामनन्ति' इति श्रुत्युक्तमधि- कवेद्यत्वं 'मनसैवाऽनुद्रष्टव्यमिति श्रुत्युक्तमनोवेद्यत्वम् । तथा योगिप्रत्यक्षगम्यत्वम् । 'अनागतमतीतं च वर्तमानमतीन्द्रियम् । विनकृष्ट व्यवहितं सम्यक्पश्यन्ति योगिन' इति वाक्यात् । तथा विश्वरूपदर्शनम् । किं 'चोपपत्तेश्च'त्यादि सूत्रे युक्त्युपन्यासः । 'आचारदर्शनादिति सूत्रं च विरुध्येतेति चेत् । मैवम् । 'सर्वे वेदा' इत्यस्यौपनिषदत्वेन सर्ववेदवेद्यत्वस्याऽप्युपनिपन्मात्रवेद्यत्वात् । एवं मनसोऽप्यौपनिषदत्वेनाऽदोपात् । तथा योगिप्रत्यक्षविषयत्वमपि न । 'विदूरकाष्ठाय मुहुः कुयोगिना'मितिवाक्यात् । 'यमेवैप घृणुते' 'धातुः प्रसादादिति श्रुतेश्च । एवं चाऽनागत'मित्यत्र ब्रह्मभिन्नमिति वाच्यम् । एवं विश्वरूपदर्शनमपि 'मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगादि' त्यौपनिषदप्रसादादेव । 'उपपत्तेथे त्यत्र यदुपपत्युपन्यसनं तदपि न ब्रह्मखरूपज्ञापकतया किन्तु हेत्वाभासैः परान्तराऽऽशंकानिरासकतया । 'आचारदर्श- नादितिसूत्रस्य तु कर्मविषयः। न ब्रह्मविषय इति न किंचिदे- तत् । ननु 'मन्तव्य' इतिश्रुत्या युक्तिभिरनुचिन्तनरूपं मननं विहितम् । युक्तयश्चानुमानरूपा इति श्रुत्यनुकूलाऽनुमानस्य प्रामाण्यं १ तथालमित्यधिकः पाठः खगयोः।
१५८ श्रुतिसूचितमिति कथमनुमानमप्रमाणमिति चेत् । न वयमनुमा- नस्याऽभामाण्यं वदामः, किन्तु करणत्वं निषेधाम इति मननादेः अवणाहत्वेनाऽनुमानादेः सहकारित्वमनुमोदामहे । एतेनापत्र मां मार्गयन्त्यद्धा युक्ता हेतुमिरीश्वरम् । गृह्यमाणगुणैर्लिंगै- रग्राममनुमानत' इति श्रीभागवतवाक्यगतमनुमानमपि व्याख्यातं बोध्यम् । अतः श्रुतिमन्तरेण नाऽनुमानं ब्रह्मणमितिजननायालमिति मुधीमिरवधेयम् । न चाऽन्योन्याश्रयस्य बाधकत्वं वक्तव्यम् । मनधिगतार्थगन्तृत्नेनैव प्रामाण्यस्वीकारात् । नैयायिकमतादरसु नास्तिकादिदूपकरनेन शिष्टानां भूषणधारणार्थ लाक्षाधारणवत् । इदमभिसन्धायोक्तमाचाथैर्जन्मादिसूत्रमाप्य इतरमतमनूद्य 'तत्तु त- न्चौपनिषदंपुरुषम्पृच्छामीति केवलोपनिपवेद्यत्वादुपेक्ष्य मिति । उदेत्तनिवन्धे निष्ण 'वेदाः श्रीकृष्णचाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस प्रमाणं वचतुष्टयम् । उत्तरं पूर्वसन्देहवारकं परिकीतितमि'त्यनेन । अत एव 'न च वेदा- हते किंचिच्छासं ब्रह्माभिधायफमिति फौथै उक्तमिति सर्व गुमम् । सर्वसाधनहीनेन कृपामानारलम्बिना । मृतनानेन प्रमास्तुप्यन्तु मयि ते मदा ॥ पति भीपिदमण्यनगोपुलोत्मपात्मजगोपेश्वरयिरचितोऽयमा मिपादः समाप्तः ॥
॥ श्रीः।। ॥ श्रीकृष्णाय नमः॥ पुष्टिमार्गसिद्धान्तवाट्यालायां गोस्वामिश्रीमत्पुरुपोत्तमविरचितो ब्राह्मणत्वादिदेवतावादः। द्वादशो मणिः। यच्छासनाऽनुसारेण ब्राह्मणत्वादिदेवताः। देहे तिष्ठन्ति लोकस्य तं हरिं सर्वदाऽऽश्रये ।। १ ।। नन्विदमयुक्तम् । लोके ब्राह्मणत्वादीना जातित्वेन प्रसिद्धे - धमाऽभावेन च तेपा जातित्वोपगमस्य युक्ततया देवतात्वकल्पन- स्याऽन्याय्यत्वात् । वाधकानि तु 'व्यक्तेरभेदस्तुल्यत्वं सकरोऽथाऽनघ- स्थितिः । रूपहानिरसम्बन्धो जातिबाधकसमह' इति । तत्र व्यक्तय- भेद आकाशत्वादेर्जातिबाधकः । अनेकाऽननुगमात् । तत्र जाति- कल्पने प्रयोजनाऽभावात् । तुल्यत्वं च घटत्वकलशत्वादेर्जात्यन्तर- त्वबाधकम् । एकव्यंजकव्यंग्यत्वेन मेदग्रहाऽसम्भवात् । गौरवाच्च । संकरस्तु भूतमूतत्वादेर्जातित्ववाधकः परस्पराऽत्यन्ताऽभावसमाना- धिकरणयोरेकत्र समावेशः। उभयोर्दुप्परीक्ष्यत्वात् । अनवस्याऽपि तथा । अतएव सचाया सदितिप्रत्ययेऽपि न तत्र सचाऽन्तराऽभ्यु. पगमः । रूपहानिस्तु विशेषत्वादेर्जातित्ववाधिका । तत्र विशेष- त्वाऽऽकारेणानुगमेऽपि न तत्र सामान्यवान् । गुणोगुण इति गुण:
। १६० लक्षणाऽऽक्रान्ततया गुणत्वापत्तौ विशेषाणां विशेषरूपताहानिप्र- सङ्गात् । असम्बन्धश्चाऽभावत्वस्य जातित्वबाधकः । अभावे समवा- याऽभावात् । प्रकृते च न किंचिदपि बाधकमतो ब्राह्मणत्वाऽदिकं जातिरेव । न च क्षत्रियत्वाऽभाववत्सु ब्राह्मणेषु ब्राह्मणत्वस्य सत्त्वाद्राह्मण- त्वाऽभाववत्सु क्षत्रियेपु क्षत्रियत्वस्य सत्त्वात्परस्पराऽत्यन्ताऽभावसमाना- ऽधिकरणयोस्तयोरेकस्मिन्विश्वामित्रशरीरे समावेशादस्त्येव सार्यम् । यद्वा ब्राह्मणत्वाऽभाववति क्षत्रियविश्वामित्रशरीर इति साङ्कर्यमत उभयथा दोपाद्राह्मणत्यादेर्न जातिवं युक्तमिति शङ्कनीयम् । ब्राह्मण- त्वक्षत्रियत्वव्याप्यविश्वामित्रत्वस्य क्षत्रियदशायामभावेन विश्वामि- नत्वमादायाऽपि सांकर्याऽभावादिति । न च विश्वामित्रत्वव्याप्य- विरुद्धभेदेन ब्राह्मणत्वद्वैविध्याङ्गीकारेऽपि सार्यनिवृत्तेविश्वामित्र- द्वैविध्यानीकारोऽनुचित इति शक्ष्यम् । न । अतिकल्पनाऽधिक्य. प्रसङ्गात् । तथाहि-एकं ब्राह्मणत्वं विश्वामित्रव्याप्यमपरं च तद्विरुद्धम् । एवं तुल्ययुक्त्या क्षत्रियत्वमपि द्विविधम् । अन्यथा विश्वामित्र- त्वमादाय साकर्यापत्त्या क्षत्रियत्वस्याऽपि जातिवाऽनुपपत्तेः । तथा च ब्राह्मणत्वद्वयं क्षत्रियत्वदयं विश्वामित्रत्वं चैकमित्येवं पञ्चजा. तयः । विश्वामित्रत्वद्वैविध्ये तु ब्राह्मणत्वं क्षत्रियत्वं तचद्याप्यं विश्वामित्रत्वद्वयं चेति चतस एव जातय इति लाघवाचथा कल्प- युक्तम् । दोपाऽभावात् । न च व्याप्यव्यापकभावे माना- ऽभावः शयः। तदनगीकारे घटत्वपृथ्वीत्वादीनामपि मृद्धटादी निवेशेन सादर्यप्रसझे जातेदवतिलालित्वाऽऽपात इत्यन्यथाऽनु नमेव पपतेरेव मानत्वादिति । अन्ये तु संकरो न नातेधकः । श्रीनृ- सिंहकिंपुरुपादावुमयसत्वात् । पट्टकार्पाससूत्रनिर्मिते पटे तमाभूत- जातिद्वयोपलम्माचेत्याहुः । तस्माद्राझणत्वादिकं जातिरेव नाक्षण- स्वादीनां देवतात्वकल्पनमन्याम्यमेवेति प्राप्ते-उच्यते । न जाति ह्मणत्वादि व्यक्तित्वव्यज्यनिर्गमात् । अन्यागमाच सम्बन्धस्याऽशक्यवचनत्वतः ।। नियतव्यंजकाऽभावाद्वाक्यानां च विरोधनात् । ततः स्फुटं देवतात्वं प्रमाणानां समन्वयात् ।। तथाहि-ब्राह्मणत्वादिकं यदि जातिः स्यात् व्यक्तिमपहाय नापे- यात् । पूर्व सिद्धायां व्यक्तौ पश्यात्किञ्चित्कालानन्तरं नाऽऽगच्छेच्च । एवं निश्चिते गमाऽऽगमे तत्सम्बन्धस्याऽयुतसिद्धत्वाऽभावात्तत्र सम- वायरक्षणाऽभावेनाऽसम्बन्धदोषाच । ब्राह्मणत्वादौ जातित्वस्य वक्त- मशक्यत्वात् । न च गमागमयोर्मानाऽभावः शक्यः । विश्वामित्र- स्थले सार्यवारणाय जातिचतुष्टयादिकं स्वीकुर्वता भवतैव क्षत्रिय- सतयाप्यविश्वामित्रत्वयोर्गमनस्य ब्राह्मणत्वतव्याप्यविश्वामित्रत्वयोः पश्चादागमनस्याऽङ्गीकारात् । न च क्षत्रियत्वनिवृत्तौ सा व्यक्तिरपि निवर्तते, ततो ब्राह्मणत्वे व्यस्यन्तरमेवोत्पद्यतेऽतो न गमनाऽऽगमनदोष इति वाच्यम् । पूर्वव्यक्त्यारम्भकाऽवयवविघटनं विना तद्यक्तिनाशस्याऽवयवाऽन्त- रागमनं विना व्यक्त्यन्तरोत्सचेश्च प्रमाणशून्यत्वात् । न च तपोव- लेनैव विघटनाऽऽगमनयोः सम्भव इति वक्तुं युक्तम् । तथा सति रेशम इति भाषा पुष्टि. ११ - - ब्राह्ममैत्रावरुणवाशिष्ठमिश्वामित्रे गोत्रान्तरस्यापातात् । नच न तद्वक्तुं शक्यम् , 'यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेफस्तु भार्गव' इति , ब्राह्मणविश्वामित्रपुत्राणां गाधिगोत्रत्वकथनस्य, 'एवं कौशिकगोत्रं तद्वैश्वामित्रैः पृथक् कृ- तम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितमिती'ति कौशिक- गोत्रत्वकथनस्य विरोधापत्तेः । ब्राह्मणविश्वामित्रस्य गाधिगोत्रत्वादिक विना तत्पुत्रेषु तद्गोत्रत्वस्य वक्तुमशक्यत्वात् । अतः पूर्वव्यक्ति- निवृत्त्यादेरमामाणिकत्वात्क्षत्रियत्वब्राह्मणत्वयोरेव गमाऽऽगमाव- वश्यं वक्तव्यौ । 'ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् । अशपत्तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जना' इति पश्चा- शतानां ज्यायसा, शापेन म्लेच्छत्वकथनाच । तस्मादसगवैषा कल्पना। ननु कालकृतस्य नित्यप्रळयस्य पुराणेऽप्यङ्गीकारेण प्रतिक्षणं व्यक्त्यन्तरस्य प्रमाणसिद्धत्वादत्राऽपि व्यक्त्यन्तराऽङ्गीकारे को दोप इति वाच्यम् । तत्राऽवस्थाभेदेन व्यक्त्यन्तरत्वेऽप्यवयवसन्तानक. स्पैकजातीयत्वेन सोऽयमित्यादि प्रत्यभिज्ञाया एकत्वज्ञानस्य चोप- पत्त्या दोपाऽभावात् । प्रकृते च क्षत्रियत्वविरुद्धब्राह्मणत्वाङ्गीका- रेणाऽवयवसन्तानस्याऽपि वैजात्ये प्रत्यभिज्ञाऽभावकत्वज्ञानाऽभावयो- रापतेरेव दोपत्वात् । यदि चात्रापि मनुष्यत्वादिना केनचिद्धर्मेणाs. वयवसन्तानसाजात्यमङ्गीकृत्य प्रत्यभिज्ञादिकमुपपाद्यते । तदा नित्यप्रलयघवाल्याचवस्थामा भेद्यते नत्वन्यदिति सांकर्याऽभावो- दुरुपपाद एवेति सूक्ष्मेक्षिकया विभावनीयम् । ननु तर्हि मास्तां गमाऽऽगमौ । तथा सति सांकर्यस्याऽबाधकला- १६३ सुसिद्ध तेपां जातित्वमिति चेत् । न । नवमस्कन्थे 'गाधेरभून्म- हातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेमे ब्रह्मवर्चसमित्यत्र तपसा क्षत्रियत्वोत्सर्गस्य ब्राह्मणत्वप्राप्तेश्चोक्त- त्वेन तद्गमाऽऽगमयोः प्रामाणिकत्वात् । 'शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । तस्यां तनयमुत्पाद्य ब्राह्मण्यादेव हीयत' इति वाक्येऽपि ब्राह्मण्यहानिकथनाच्च । न च तत्र गर्भा- धाने वीर्यरूपान्तराहान्या रेतः सेक्तुळक्त्यन्तरत्वात्पूर्वव्यक्तिनाशेन तत्समानकालमेव ब्राह्मणत्वाऽपगमान्न व्यक्तिसद्भावे तदपगम इति तस्याऽपगमस्य जातित्ववाधकत्वमिति वाच्यम् । तथासति रेतः- सेक्तुः प्रत्यहं मिन्नत्वाअत्यहमुपनयनापतेः । घटघटत्वादिसम्बन्धव- छरीरव्राह्मणत्वयोः सम्बन्धस्य स्वाभाविकत्वाऽभावात् । अन्यथा उपनयनस्य वैयर्थ्यापत्तेः । 'दशाऽस्यां पुत्रानाधेहि पतिमेकादशं कृषी'त्येकवि(१)श्रुतिविरोधने तादृशयोगस्याऽप्रयोजकत्याच्च । नन्वि- तऊर्ध्व पतन्त्येते सर्वधर्मवहिष्कृताः । सावित्रीपतिता पात्या' इत्यादौ ब्राह्मणकर्मानधिकारस्यैव प्रत्ययाप्रकृतेऽपि ब्राह्मणकर्माधिका- राद्धीयत इत्येवाऽर्थो न तु ब्राह्मण्यहानिरिति चेत् । न । लक्षणापत्तेः । । ननु 'गुणवचनब्राह्मणादिभ्यः कर्मणि चेति सूत्रेण कर्मण्यपि व्यविधानान्नात्र लक्षणेति चेत् । सत्यम् । तथापि भावपक्षे रूढे. रपि सत्यागृत्तिद्वैगुण्येन बाधकाऽभावे भावार्थग्रहणस्यैवौचित्यात् । न च हानिकथनमेव बाधसमिति वाच्यम् । तस्य नातिबाधकत्वेन भावाऽबाधकस्यात् । न च जातिरेव भाव इति युक्तम् । माकाश- त्वादो व्यभिचारात् । अतोऽत्र तत्कर्माधिकारसम्पादको धर्म एव भावत्वेन प्रायः । जातित्ववाधकानां पूर्वमुपपादितत्वादिति । किञ्च १६९ नियतव्यनकाऽभावादपि न ब्राह्मणत्वादीनां नातित्वम् । नच पद्मरागादिषु नियतव्यंनकाऽभावेपि पद्मरागत्वादेर्जातित्वस्वीकारा- नैवमिति वाच्यम् । प्रमाविशेषस्य व्यंजकस्य तत्रापि नियतत्वात् । न चाऽत्राऽप्यक्रोषतेजःप्रभृतीनां व्यंजकत्वमिति वाच्यम् । दुर्वा- साप्रमृतिषु व्यभिचारात् । न च ब्राह्मणो जाताविति प्रत्युदाहरणकिंगाजातित्वं वक्तुं शक्यम्। 'मातुर्यदने जायन्ते द्वितीयं मौजिवन्धनादिति मार्तजननमादाय जननं जातिरीति व्युत्पत्त्या देवतानिवेशेनाऽपि तत्संगतेः। ननु ख- ण्डोपाधिरेवाऽस्तु । तथासति ब्राह्मण्या ब्राह्मणाजन्यत्वं वा, सवर्णा- यामूढायां सवर्णजनितत्वं वा, विशुद्धमातृपितृकत्वं वा, खदृष्टाकृष्ट- भूताभेदसमारब्धत्वं वा, तल्लक्षणं भविष्यति । उपाधिरेव ब्राह्मण- स्वादिव्यंजको भविष्यतीति चेत् । नाद्यौ । चतुर्मुखे तत्पुत्रेषु मानसेपु चाऽव्याप्तेः । ऋषभपुत्रे वेकाशीतिर्ब्राह्मणा बभूवुरिति वाक्याचेष्वप्यव्याप्तेः । न तृतीयः । विशुद्धपदार्थस्याऽनिर्वाच्यत्वात् । तथाहि । न तावत्पर्मनिरतवं ज्ञानित्वं योगित्वं वा तत् । तदितरेष्वव्याप्तेः । नाऽपि तदन्यतमत्वम् । जनकादिप्यतिव्याप्तेः। नापि चोदनागोचरपटुर्माधिकारित्वं तत् । प्रामणपत्नीप्वव्याप्तेः । न च तासु स्त्रीत्वरूपस्याधिकारप्रतिबन्धकस्य सत्वात्ता न लक्ष्या इति वाच्यम् । ब्राह्मणीपदप्रयोगबाधापत्तेः । न च तासु ब्राह्मणपुत्रीत्व: मेव पदप्रवृचिनिमित्तमिति वाच्यम् । तज्जन्याखन्याखपि तअयो- गाऽऽपत्तेः । नाऽपि तत्पत्नीत्वं तथा । असवर्णपत्नीप्वपि तत्पयो- गाऽऽपत्तेः । यदि तत्रेष्टमापद्यते तदापि न तस्य स्त्रीपुंससाधारण त्वमिति न तेनेष्टसिद्धिः । अथ विभज्योभयं तदिति विभाव्यते तदापि जात्ये तदभावान्न तावतेष्टसिद्धिः । न चोक्ताऽधिकारस्वरूप- योग्यत्वमेव तदिति युक्तम् । ब्राह्मणजन्यत्वादिकं विना तस्यैव दुई- यत्वात् । तेषां च तज्ज्ञानसाधनतायाः प्रागेव निरस्तत्वात् । नाऽपि चतुर्थाश्रमाधिकार्यत्वं तत् । अविरक्त ब्रामणेऽव्याप्तेः । तथैव पितृप- क्षेऽपि दूपणं ज्ञेयम् । पौण्ड्रसुझविदुरादिप्वतिव्याप्तेः । महापथम- वृतयुधिष्ठिरेऽतिव्याप्तेश्च । नचात्र प्रमाणाभावः । 'अथ वैकोऽह- मेकाहमेकैकसिन्वनस्पतौ । चरन् मैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेबरमित्यारभ्य 'देहं सन्यासयिष्यामि निर्भयं मार्गमा- स्थितः' इत्यन्तं राजधर्मे युधिष्ठिरेण खसंकल्पकथनात् । श्रीभाग- वते तथाकृतिकथनाच्च । एतेनैव विशुद्धमातृकत्वं ब्राह्मण्यां जातत्वं च निरस्तं वेद्यम् । चाण्डालादावतिव्याप्तेः । नचैवं सति तुरीयमेव लक्षणमादर्तव्यमिति वाच्यम् । प्रात्यादिप्वतिव्याप्तेः। एतेनैव तेषां व्यंजकताऽपि दूरनिरस्ता वेदितव्या । गोत्वादेः सामादिमत्त्वादि- बदसाधारणधर्मस्यैव व्यंजकत्वनियमात् । एवं चादृष्टविशेपजन्यतावच्छेदकं सर्वब्राह्मणसाधारणमेकं ब्राह्म- णत्वम् । अदृष्टविशेषजन्यायब्राह्मणव्यावृत्तं ब्राह्मणजन्यताऽवच्छेदकं, ब्राह्मणजन्यसर्वब्राह्मणाऽसाधारणं चापरमिति ब्रामणत्वद्वैविध्या- श्रीकारोऽपि फल्गुरेव । तवदसाधारणधर्मात्मकव्यंजकभेदाऽभावे ब्राह्मणत्वभेदस्य प्रमातुमशक्यत्वात् । नचाऽदृष्टविशेषवत्वस्य विशुद्धमातापितृजन्यत्वस्य च यथायथं व्यंजकत्वमिति युक्तम् । मायेऽदृष्टविशेपवत्त्वज्ञानस्य ब्राह्मणत्वज्ञानाधीनत्वेन ब्राह्मणत्वज्ञा- नस्य च व्यंजफाऽदृष्टविशेपत्वज्ञानाधीनत्वेन ज्ञप्तावन्योन्याश्रयात् । द्वितीये च मात्रपराधस्य सम्भाक्तित्वेन विशुद्धत्वज्ञानदौर्घध्ये १६६ व्यंजकज्ञानस्यैवाऽभावात् । अत एव जैमिनिनाऽपि सूत्रितम् । 'त्यपराधात्वर्तुश्च पुत्रदर्शनमिति । महाभारतेऽपि उपनीतस्य पित्राज्ञया ध्ययनार्थ गच्छतो मतंगस्य मध्ये देवगर्दभीवचनात्समातरि व्यभिचारिणीत्वज्ञाने स्वस्य चाण्डालत्वज्ञानम् । ततो मातापितरी त्यस्त्वा तपोऽथ गमनम् । बहुकालं तपःकरणेन प्रसन्नादिन्द्राद्रा- ह्मणत्वप्राप्तिरित्युक्तम् । तस्सायंजकाऽभावेन प्रसिद्धिमानाजाय- मानं लौकिकं ब्राह्मण इति ज्ञान प्रायशः प्रमाभास एव | कचिदेव तु प्रमेति निश्चयः । तथा ब्राह्मणत्वादिकं न नातिरित्यपि । विश्वामित्रत्वं तु गाधिना द्वादशेऽहनि नामकरणे तदुत्तरं सृज्य- मानत्वादुपाधिरेव । अतो नियतव्यंजकाऽभावाड्राह्मणत्वादिकं न नातिः । किन्तु देवतैव । यथाहुराचार्या:--'ब्राह्मण्यं नाम काचिद्देवता सा यति- न्देहेभिव्यक्ता भवति ते ब्राह्मणा इत्युच्यन्त' अतएव शापा- दिना शूद्रत्वं चाण्डालत्वमनुग्रहेण ब्रह्मत्वम् । सा चोपनयनेन देहे समायाति । तदा बहूनि वाक्यानि सङ्गच्छन्ते । एवं क्षात्रम् । अत एव परशुराम उभयनिवेश इति । तदुक्तमुद्योगपर्वणि भीष्मेण रामं प्रति 'ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् । तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् । ब्राह्मणाः क्षत्रियत्वं हि यांति शस्त्रसमुद्यमादिति । अत्र उपनयनेत्युपलक्षणम् । वाल्मी- किप्रभृतिष्वनुग्रहेण नामोच्चारणेन मतंगादिषु तपसा च तदुक्तेः । बहूनि वाक्यानि तु 'जन्मना जायते शूद्रः संस्कारात् द्विज उ- च्यते । वेदाऽभ्यासाद्भवेद्विनो ब्रह्मणो ब्राह्मणः स्मृत' इत्यादीनि ज्ञेयानि । ननु सगर्भदहने सद्वर्णजं वधपातकमिति गर्भेऽपि तचन्- १६७ गत्वस्मरणाचदानीमुपनयनायभावेन देवतासमागतेरशक्यवचनस्वा- तज्जातिरूपमेव मन्तव्यमिति चेन्न । 'अंगादंगात्संभवसी'ति श्रुत्या गर्भस्थपित्रंशत्वेन तद्वर्णस्य सिद्धत्वात् । न चोपनयनवैयर्थ्यापत्तिः । शद्दत्वाऽऽख्यदेवताशावल्यनिवार- कत्वेनाऽऽवश्यकत्वात् । 'सवर्णेभ्यः सवर्णासु जायन्ते हि सजा- तयः । अनिन्द्येषु विवाहेपु पुत्राः सन्तानवर्द्धनाः' इति याज्ञ- वल्क्यादिभिरुक्तप्वपि । 'ब्राह्मण्यां ब्राह्मणाजातः संस्कृतोब्राह्मणो भवेत । एवं क्षत्रियविदशूद्रा ज्ञेयाः खेभ्यः खयोनिजा' इत्ति देवलेन संस्कृतत्वविशेषणमुक्तम् । एवं चोपनयनस्य यथासम्भवं कचिच्छावल्यनिवृत्तौ कचित्समागमे हेतुत्वमिति न काचिदनुप- पत्तिः । सा च देवता बृहदारण्यकीयपुरुषविधव्राह्मणे 'ब्रह्म वा इदमग्र आसी'दित्यारभ्य 'वैश्येन वैश्यः शूद्रेण शूद्र' इत्यन्त. ग्रन्थे । तैत्तरीयके च 'ब्रह्मणे ब्राह्मणमालभते क्षत्राय राजन्यं मरुद्भ्यो वैश्यं मरुतो वे देवानां विश' इत्यादिषु स्फुटम् । एवञ्च ब्राह्मणीत्वमपि 'विवाहस्तु समत्रक' इति वाक्याद्विवा- हाऽनन्तरमेव । पूर्वतु ब्राह्मणकन्यात्वमेव । तत्राऽव्यभिचारादावपि पापप्रायश्चित्तयोस्तारतम्यं ज्ञेयम् । अतएव तादृकरणे आशौचता- रतम्यमपि युज्येत इति सुष्टूक्तं बहूनि वाक्यानीति । क्षात्रमित्युप- लक्षणं शूद्रत्वादेरपि । 'वेदाऽक्षरविचारेण ब्राह्मणीगमनेन च । कपिलाक्षीरपानेन शूद्रश्वाण्डालतां व्रजेदि'त्यादिलिङ्गेन निय- तव्यंजकाऽभावेन चाऽजातित्वात् । न च शूद्रापदे टावभावापत्तिः, जननमेवाऽऽदाय तत्राऽपि निर्वाहात् । एवं यद्वनपर्वण्याजगरे 'ब्राह्मणः को भवेत् राजन्' इति प्रश्ने सति 'सत्यं दानं क्षमा १६८ . शीलमानृशंस्यं तपो घृणा । दृश्यन्ते यत्र राजेन्द्र स बामण इति स्मृत' इति युधिष्ठिरेण लक्षितम् । ततश्चातुर्वण्र्ये प्रमाण च 'सत्यं च ब्रश चैव हि । शूद्रेप्वपि च सत्यं चेत्यादिना सर्पण लक्षणेऽतिव्याप्तावव्याप्तौ च दर्शितायां, 'शूद्रे तु यद्भवेलक्ष्म द्विजे तब न विद्यते । न चै शूद्रो भवेच्छुद्रो ब्राह्मणो न च ब्राह्मणः । पत्रैतल्लक्ष्यते सर्प स ब्राह्मण इति स्मृतः। यत्रैतन्न भवेत्सर्प देशद्रमिति निर्दिोदित्यनेन तेषां लक्ष्यकुक्षिनिक्षेपलक्ष्यबहिश्या- राभ्यामव्यातावतिव्याप्तौ च निवारितायां प्रमाणसमर्थनेन च लक्ष- णादौ वर्तते । 'यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः। वृथाजातिस्तदायुप्मन् कृतिर्यावन्न विद्यत' इत्यनेन नियतव्यं- ग्यायां जातौ खीकृताया, 'जातिरत्र महासर्प मनुप्यत्वे महामते । संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः । सर्वे सर्वास्वपत्यानि जनयन्ति सदा नरा' इत्यनेन सांकर्य दूषणं जातावुक्त्वा दुप्परीक्ष्ये- त्यनेनाऽनियतव्यंग्या न जातिः, किन्तु नियतव्यंग्यैव जातिरिति सूचयित्वा, 'इदमा प्रमाणं चे'त्यारभ्य 'यत्रेदानी महासर्प संस्कृतं वृत्तमिष्यते । तं ब्राझणमहं पूर्वमुक्तवान्भुजगोत्तमे'त्यनेन संस्कारवृत्ताभ्यां ब्राह्मण्यमुक्तम् । तेनाऽपि तस्य देवतात्वमेव स्फुटीक्रियत इति । यनोभयं तत्र पूर्णों निवेशो यत्राऽन्यंतरत्तत्र न्यून इति सियतीति तदप्येतदविरो- थीति ज्ञेयम् । किमेवं किन्नरकिम्पुरुषादिप्वपि तादृशाकृतिव्यंग्य जात्यन्तरमेव । नतु संकरः। श्रीनृसिंहत्वं तु न जातिः । व्यक्त्य- भेदात् । खेच्छया तदा तदा तस्यैवाऽऽविर्भावात् । अन्यथा उपा- सकदर्शनगोचरस्याऽप्यन्यत्वाऽऽपत्तेः । कादाचित्कत्वस्य तुल्यत्वात् । ।
१६९ पट्टकार्पाससूत्रनिर्मितपटे पटत्वमेव जाति तु पात्वादिकम् । पाहादिनिर्मितत्वस्य तत्रोपाधित्वात् । तस्मात्संकरस्याऽपि बाधकत्वेन ब्राह्मणत्वादिकं न नातिः । न चाऽनुगताऽऽकारप्रतीतिवाधः । संस्कारवृत्ताधुपाधिना तसिद्धेः । तदभावेऽपि या प्रतीतिः सा तु सादृश्यनिवन्धना प्रान्तिरेवेति निश्चयः । तसाह्राह्मणत्वादिकं देवतैवेति दिक् । पुरुषोत्तमदासेन श्रीपीताम्बरस नुना। सुबोधिन्युक्तरीत्यैवं ब्राह्मणत्वं विचारितम् ॥१॥ इति श्रीवल्लभाचार्यमतवर्तिश्रीमदल्लभनन्दनचरणदास. दासेन पुरुषोत्तमेन कृतो ब्राह्मणत्यादिदेयतावा- दो दशमः सम्पूर्णतामगात् ॥
॥ श्रीः॥ श्रीकृष्णाय नमः "b0- पुष्टिमार्गसिद्धान्तवाट्यालायां श्रीमत्पुरषोत्तमस्तो जीवप्रतिविम्बत्वखण्डनवादः। एकादशो मणिः। यचिदेशेषु जीवेषु प्रतिबिबादिरूपताम् । वदन्ति मतभेदैस्तं श्रीकृष्णं सर्वदाऽऽश्रये ॥१॥ ननु जीवानामशत्वकथनमयुक्तम् । श्रुत्यादिविरोधात् । तथाहि-- 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचंद्रवदिति ब्रह्मविंदूपनिपदि जलचन्द्रदृष्टाते- नैकस्य भूतात्मनो बहुधा दर्शन कथनात् । 'यथा ह्ययं ज्योतिरा- स्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेप्वेवमजोयमात्मेति स्मृतौ चोपाधिना भेद- रूपकथनात् । व्यासपादैरप्य'त एव चोपमा सूर्यकादिवदिति सूत्रेण तदर्थबोधनाच्च ब्रह्मप्रतिबिंबत्वस्यैव निश्चयात् । न च 'ममैवांशो जीवलोके जीवभूतः सनातन' इति गीतावाक्यादंशो नानाव्यपदेशादिति सूत्राचाशत्व सभावनीयम् । । गौण्याऽप्यु- 16पकरण सगपाठ ।
१७१ पपत्तेः। अन्यथा जीवस्वरूपविचारे भगवान्बादरायण 'आभास एव चेति न सूत्रयेत् । तस्मात्प्रतिबिंब आभासो वा जीवः । न च भूतानां क्षेत्राणां चाखच्छत्यादुपाघेरनिर्वाच्यत्वेनाऽसांप- तत्वं शंकनीयम् ! । मायादीनामेवोपाधित्वात् । तथाहि-- अत्र पट्पक्षाः । तत्राऽनादिरनिर्वाच्या भूतप्रकृतिश्चिन्मात्रसंवन्धिनी माया । तस्यां चित्प्रतिबिंब ईश्वरः। तस्या एव मायायाः परिच्छि- नाऽनन्तप्रदेशेष्वावरणविक्षेपशक्तिमदविद्याऽभिधानेपु चियतिथियो जीव इत्येकः पक्षः । त्रिगुणात्मिकाया मूलप्रकृते'माया चाविद्या च स्वयमेव भवतीति श्रुतिसिद्ध रूपद्वयम् । तत्र रजस्तमोऽनभिमू- तशुद्धसत्वप्रधाना माया । तस्यां चिटप्रतिबिंब ईश्वरः । तदभिभूत- मलिनसत्वप्रधानाऽविद्या । तस्यां चित्प्रतिबिंबो जीव इत्यपरः । विक्षेपशक्तिप्राधान्येन मायाशब्दितायां तस्यामेव चिप्रतिबिंयो जीव इति तृतीयः । भविद्यायां चित्प्रतिबिंब ईश्वरः । अंतःकरणे चिटातिर्वियो नीव इति तुरीयः । घटाकाशजलाफाशमहाकाशमे- घाकाशवत् कूटस्थजीवब्रह्मेश्वरभेदेन चैतन्यचातुर्विध्यवादिनां मते ब्रह्माश्रितमायातमसि स्थितासु सर्वप्राणिनां धीवासनासु प्रतिबिंबितं चैतन्यमीश्वरः । स्थूलसूक्ष्मदेहावच्छिन्नचैतन्यस्थिते मायाकल्पि- तेऽतःकरणे प्रतिषिवितं चैतन्यं जीव इति च पञ्चमः । एवं प्रति- विंबेश्वरवादिनां पञ्च पक्षाः । विम्बेश्वरवादिमते तु जीवोपाधिना- ऽन्तःकरणादिनाऽवच्छिन्नं चैतन्यमीश्वरो विम्बभूतः। अज्ञाने तत्प्र- तिविंचो जीवस्तनाऽप्यज्ञानपरिणामभूतमंतःकरणं जीवस्य विशे- पाऽभिव्यक्तिस्थानमिति पष्ठः । एवं नानापरुषाधेर्निरुक्तत्वादीश्वर. रूपेणेकधा जीवरूपेण च बहुधा दर्शनोपपत्तेः प्रतिबिंबपक्ष एव १७२ . साधीयान् । अथवा, घटसंवृत आकाशे नीयमाने घटे यथा । घटो नीयेत नाऽऽकाशं तद्वजीवो नमोपम' इति श्रुतावच्छि- जवादस्याऽऽप्युक्तत्त्वादविद्यावच्छिन्नं ब्रझैव वा जीवोस्तु । न वंश इति प्राप्ते । उच्यते । युक्तियाध्या न युक्तयं प्रतिविवादिरूपता । श्रुतेः सम्पग्विचारे च तसा अपि विरोधतः ॥१॥ तथाहि, येऽत्राऽऽयुष्मता पट्पक्षा उक्तास्त्रेषु येनाऽऽचरण- विक्षेपशक्तिरहितायामीश्वराख्यः प्रतिषिवः सीकृतस्तन्मते ईश्वरांs- सिद्धिः । अतिस्वच्छायां प्रतिविम्बाऽसंभवात् । स्फटिकादौ तथा निश्चयात् । न च किंचितो मलिनशक्तिसंबंधेन वक्रितोपनेत्रादा- विवोपपद्यत इति वाच्यम् । सृष्टेः पूर्वमाकाशादेरनुत्पन्नत्याक्कार- णेऽप्यंतःसत्वेन बहिरवकाशाऽसत्वाद्दूरभावस्याऽशक्यवचनत्वेन दोप- सादवस्थ्यात् । न च बहिरप्यवकाशोभ्युपगम्यत इति वाच्यम् । ईश्वरस्य चितश्च प्रादेशिकत्वाऽऽपचापकत्वहानेराकाशसंभवश्रुति- विरोधाच तदङ्गीकारस्य अघन्यत्वात् । योऽप्यावरणादिशक्तिमत्सु तदेशेषु जीवात्यः प्रतिबिंवः, सोऽपि दुरुपपादः । तस्मिन्मत आवरणशक्तिरान्तरालिकत्वेन व्यवधानात् । अनान्तरालिकत्वे च बदससर्गे जीवस्याऽज्ञत्वाऽनुभवो दुरुपपादोऽवकाशाभावादिदूषण- प्रासश्च । अतो न भूतप्रकृतेस्तनदेशाना वोपाधित्वं साधीयः । मत एव न द्वितीयपक्षीयमायाऽविद्ययोरपि । किञ्च उमयोर्मायाविद्ययोर्व्यापकत्वे रजस्तमोऽनभिभूतत्वाभिमू- सत्वयोः सार्वत्रिकत्वेन मायाविद्याऽविवेकाऽसंभवात्प्रतिबिंबयोरप्य- १ सिद्धरिति कगपाठ 1 २ कगयोरेका पहिर्नास्ति।
१७३ विवेकेन जीवेश्वरविभागस्य दुरुपपादत्वम् । अव्यापकत्वे जीवेश्वर- योर्व्यापकताहानिप्रसंगश्च । अथ मायाया व्यापकत्वं यहिः सर्वतः खच्छत्वमविद्यायाश्च तदंतःस्थाया मलिनखच्छत्वमुपगम्यते तदापि व्यापके प्रतिबिंबाऽदर्शनादीश्वरो दुरुपपादः । मायायास्मिगुणत्या- इहिष्ठायाश्चितो मायांशरजस्तमोभ्यामविद्याव्यवधाने तमतिर्विवाऽसं- भावाजीवोपि तथा । निकटचितस्तु नैकट्यादेव तदसंभव इति तथा । किंचित्वाऽवकाशादिकल्पने तु पूर्वोक्तदूषणाऽऽपतिः । तमाद्वितीयोपि न साधीयान् । तथैव तृतीयोपि । पूर्वोक्तानामेव दोषाणामत्राऽपि संचारात् । पञ्चमे पक्ष आकाशदृष्टान्तेन यद्यपि चैतन्यस्य द्विगुणीकृत्य वृत्तिरुक्ता, तथापि दृष्टान्ताऽनुरोधादुपाध्य- संसृष्टस्यैव प्रतिबिंयोऽशीकार्यः । तथा सत्यान्तरालिकमायातमसो धनावयवादिमत्त्वेन धीवासनाव्यवधायकत्वादीश्वराऽसंभवः । विरला- चयवादिरूपताङ्गीकारे च हेतोरनिर्वाच्यत्वम् । तादृक्खभावताङ्गी- कारे च स्वभाववादाऽऽपत्तिः । प्रतिबिंबसिद्धौ तादृक्स्वभावसिद्धि- स्तसिद्धौ च प्रतिबिंबसिद्धिरित्यन्योऽन्याश्रयश्च । एवमन्तःकरण- स्याऽपि मायाव्यतिरेकेणाऽस्थितेः पूर्वोक्ता एव दोषाः । ये च मायायां चित्प्रतिविमीश्वरं परिकल्प्याऽविद्यायां मलि- नसत्वायां तादृशेऽन्तःकरणे वा ईश्वरप्रतिविम्ब जीवं कल्पयन्ति, तेषामपि मते मायाया व्यवधायकत्वादीश्वरद्वारकः प्रतिबिंबो दुरु- पपादः । पूर्वोक्तदोपप्रसंगात् । यदि च मायाया बहिः सर्वतः खच्छत्वं, तदाप्यस्वच्छांशस्य तदंतःस्थत्वादंतःकरणाऽविद्ययोध तद्याप्यत्वात्स एव दोपः । यदि च मायाशुद्धसत्वान्तरशुद्धसत्वम- विद्याधीकृत्य रजस्तमश्च तदंतरङ्गीक्रियते, तदा त्वतिखच्छायामि- १७४ 1 त्यादिनोक्ताः पूर्वोक्ता एव दोषाः । एवं पठे विवेश्वरवादेऽपि जीवोपाध्यवच्छिन्नस्येश्वरस्योपाधिसंसृष्टत्वादन्तरालाऽमावेनैव प्रतिबि- चाऽसंभवः । ईश्वरस्य विम्वत्वाऽसंभवश्च । अन्तरालकल्पने च व्यापकत्वहानिरित्ययमपि तथा । अथ तुरीयोऽवशिष्यते । सोऽपि पूर्वोक्तयुक्तिभिरेव निरस्तो भवतीति न युक्तिक्षमः । किश्च । विबस्वरूपविचारेणाऽप्येते पक्षा न संगताः । सर्वत्र चक्षुर्योग्य- स्मैव विंबखदर्शनात् । चितश्च चक्षुरयोग्यत्वेन विंबल्याइसंमवात् । ननु सर्वदा चक्षुरयोग्यस्य शब्दस्य कूपादौ प्रतिध्वनिदर्शनात्तस्य च शब्दप्रतिरूपत्वान्न सार्वत्रिकश्चक्षुरयोग्यस्य प्रतिबिंबाऽभावनि- यमोऽतो न दोप इति चेत् । अत्र केचित् । प्रतिध्वनिर्न पूर्वशब्द- प्रतिबिंबः । पञ्चीकरणप्रक्रियया पटहादिशब्दानां क्षितिसलिलादि- शब्दत्वेन प्रतिध्वनेरेवाऽऽकाशीयशब्दतया तस्याऽन्यशब्दप्रतिबिंब- त्वाऽयोगात् । नाऽपि वर्णरूपः प्रतिशब्दस्तथा । वर्णाभिव्यंजकध्व- निनिमित्तकप्रतिध्वनेः प्रथमध्वनिवदेव वर्णाभिव्यंजकत्वोपपत्तेः । पूर्ववर्णप्रतिबिंबत्वकल्पनाऽयोगादित्याहुः । वस्तुतस्तु प्रतिध्वनेः शब्दप्रतिबिंबत्वं मानाऽभावग्रस्तमेव । न च साजात्यानुभव एव मानमिति वाच्यम् । तस्य शब्दाऽन्तरेपि तुल्यत्वात् । बिंबस्थित्य- धीनस्थितिकत्वस्य प्रतिबिंबताविनिगमकस्याऽत्राऽसत्वात् । न च विवरूपपूर्वशब्दस्थितिः शक्यवचना । शब्दस्य विक्षणावस्थायित्वेन तदानीं नाशात् । आमासताया अप्यत एवाऽशक्यवचनत्वात् । १ स्थितेरिति क ग पाठः । एवं सर्वत्र प्रतिपतिभूयानशुद्धभूयिष्ठः पाठो उभ्यते । अस्मामिस्तु साधीयासमात्रिमाऽपरे टिप्पण्यामपि न धृताः । व्यथाऽऽहम्बर इति । शोमा ।
चिरकालस्थायित्वपक्षाभ्युपगमेनेष्टसाधने कूपस्थवायुना प्रतिध्वनि- वद्धन्यानयनस्याऽपि संभवदुक्तिकत्वाद्धनिद्वयश्रवणाऽऽपत्तेः । ध्वन्य- नानयने नियामकाऽभावात् । अनानीते च ध्वनौ प्रतिबिंबता- निश्चयस्साऽशक्यत्वात् । न च 'छाया प्रत्याव्हयाभासा असं- तोप्यर्थकारिण' इति भगवद्वाक्ये प्रतिध्वनेरसत्वस्योक्तत्वात्साह- श्यस्य चोपलभ्यमानत्वाप्रतिविंयत्वं करप्यत इति वाच्यम् ! | नट- कल्पितपारावतादिरुतवदुक्तहेतुभ्यां मायाजन्यशब्दान्तरत्वस्याऽपि शक्यवचनत्वात् । नाऽपि वर्णरूपप्रतिशब्दस्य पूर्ववर्णप्रतिबिंब- स्वम् । व्यंजनाक्षराऽश्रवणात् । न च स्वराक्षरस्यैव प्रतिबिंब इति वाच्यम् ! । नियामकस्याऽश- क्यवचनात् । युगपदुभयखरग्रहणाऽभावेन पूर्वध्वनिवद्वितीयस्य प्रतिध्वनेरपि पूर्ववर्णव्यंजनकतायाः शस्यवचनत्वेन संदेहाऽनपा- यात् । नाऽपि ध्वनेर्वर्णप्रतिबिंबत्वं । मानाभावात् । व्यंजकतया सन्निधिमात्रेण वधर्माणामुदात्तादीनां वर्णेवारोपस्य शक्यत्वादैक्य- वदेव ग्रहणाच । यत्तु-आकाशस्य शब्दसमवायिनः पादौ सत्वेनाऽस्मदादिज. न्यशब्दपरंपराजनितस्तथ्यः शब्दविशेष एव प्रतिध्वनिरिति केचि- दाहुः । तन्न । अश्रवणाऽऽपत्तेः । वीचीतरंगादिन्यायेन तत्रोत्पन्न- स्यध्वनेः पुनर्वैपरीत्येन तत उत्पादकस्साऽशक्यवचनत्वात् । कूपादि- प्रतिबद्धस्स वायोस्तथात्वकल्पनेपि तत्तथ्यतागमकस्याऽभावात् । समाचारोपलंभयोर्च्यभिचारित्वात् । अतो मायिकमेव प्रतिक्विातिरिक्तं शब्दांतरं तदिति निश्चयः । नाऽप्याकाशदृष्टांतेन सिद्धिः । तत्प्रतिबिंबे मानाभावात् ।
न च विभक्तांगुलिद्वयमाध्यमिकावकाशप्रतिनिदर्शनानैवमिति वाच्यम् । तत्र तदासस्य प्रमामंडलस्यैव प्रतिबिंबात् । तद्बाहुल्या. देवावकाशबाहुल्यमतीतेरपि निर्वाहात् । अन्यथा यायोरपि प्रति- विंबाऽऽपत्तेः । न च तत्राऽदृष्टं प्रतिबंधकमिति वाच्यम् । तस्याऽपि रष्टसामग्रीसापेक्षतया तत्त्वेनाप्ययोग्यत्वस्यावश्यकत्वाते- नैव सिद्धावदृष्टकल्पनस्य गुरुत्वादप्रामाणिकत्वाच्च । न चाऽऽका- शनीलिम्न आदर्शे दर्शनादयोग्योऽपि प्रतिबिंबत इति वाच्यम् । नैल्यप्रतीतिवत्तत्प्रतीतेरपि अमत्वात् । प्रमात्वपक्षे च योग्यताया एवेष्टत्वेन भवदभिमताऽसिद्धेः । किश्च । वृत्तेः खरूपविचारेऽप्येते पक्षा न संगताः । तथाहि- यो यत्र व्याप्य वर्तते स तत्र न प्रतिवियते । तथा च चितः सर्व- गत्वेन मायाया भविद्यायाश्च सर्वगतत्वेन कथं बिंबः स्यात् । तथा चेवराऽऽसिद्धिः । तदसिद्धौ च चित्प्रतिबिंबरूपजीवस्याप्यसिद्धिः । भीवासनासु प्रतिबिंबपक्षेऽनेकेश्वरापत्तिश्च । आश्रयनानात्वस्य प्रति- विमानात्वनियामकत्वात् । किंच प्रतिबिखरूपविचारेपि तथा । प्रतिबिंबस्य बिंबवैयधिकरण्यनियमात् । विवस्थितिसजातीयस्थि- तिकत्वनियमाच्च । विवसामानाधिकरण्यं बिंबस्थितिविजातीय- स्थितिकत्वं च बाधितम् । तदुभयं 'द्वासुपर्णा' इत्यत्र, पिबन्ताचि'त्यत्र च श्राव्यत इति तदनुरोधादपि तथा । अन्यथा तद्विरोधाऽऽपत्तेः । वसाप्रतिबिंबपक्षो न युक्तिक्षमः । ने चोक्तपक्षाऽनभ्युपगमे अलचंद्रादिदृष्टांतबोधकश्चत्यादिवि- रोघः शनीयः! तत्रैकस्य ब्रह्मणो नानात्व एव दृष्टांतपर्यव. सानात् । तथाहि-अत्र पूर्व 'मनो हि द्विविध प्रोक्तमित्युप- 'ऋतं १७७ - कम्य शुद्धमनसः स्वरूपं, शुद्धे मनसि ब्रह्मसंपत्तिरूपं फलं चोक्त्वा तादृशमनःसिद्धर्थ खस्य ब्रह्मात्मभावनारूपं साधनमुपदिशन्ती श्रुतिः 'स्वरेण संधयेद्योगमित्यादिमत्रत्रयेण ज्ञेयब्रह्मसंरूपमुक्त्वा तद्विरुद्धधर्मवतो ज्ञातुः कथमुक्तरूपब्रह्मणा सहाऽभेदो भावयितुं शक्य इत्याकालायां 'न निरोधो न चोत्पत्तिरिति मन्त्रेण ज्ञातु- विरुद्धधर्माध्यासं निवार्यत्वायोक्त्वा 'एक एवात्मा मन्तव्य' इति मन्त्रेण ज्ञातुः स्वरूपंजन्माद्यमावायोक्त्वाऽविरुद्धधर्माभावेऽस्तु साजात्यं नत्वभेद इत्यभेदभावना न युक्तेति शङ्कायां जीवस्य तदभिन्नत्वाय ब्रह्मखरूपं वदति- 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकथा बहुधा चैव दृश्यते जलचन्द्रवदिति । अर्थस्तु-एक एव हि भूतात्मा परमेश्वरो भूतेभूते प्रतिशरीरं व्यवस्थितः । विशेषाकारणांऽशेनाव- स्थितः सन् । एकघा बहुधा चैव दृश्यते । एकस्याऽनेकधाऽवस्थाने दर्शने च दृष्टान्तमाह---'जलचन्द्रवदिति । यथा जले चन्द्रमा अंशुरूपेणांऽशेन स्थित एकधा चन्द्ररूपेण, बहुधाऽनेकसंख्यः कंपा. दिविशिष्टरूपेण, च दृश्यते तथेति । तथाच नानात्वदर्शनेप्यंशां. शिनोरभेदात्साजात्याच ब्रह्माऽभेदभावना जीवस्य युक्तेत्यर्थः । एवं सत्यत्रैकस्य नानात्वमेव दृष्टान्तार्थः सिध्यति । किश्चैतन्मन्त्रोचरमन्त्रे जीवस्य नमोपमत्वमुक्तम् । तदपि प्रतिबिम्बरूपतायां न संग- च्छेत । तस्याऽलीकत्वात् । न चाऽवच्छिन्नवादस्य तन्मन्ने सिद्धे- रंशत्वकथनमप्यसगतमिति वाच्यम् । तस्मिन्मन्ने जीवस्य स्थानत्र- यातीततायां ब्रह्मभावापन्नतामात्रपरामर्शात् । पूर्वमन्त्रेण तथा निश्च- यात् । अन्यथा विरोधाऽऽपातात् । प्रदेशत्वाऽऽदरणे श्रुत्यन्तर- पुष्टि० १२ १७८ विरोधात् । 'प्रदेशादिति चेन्नाऽन्तर्भावादिति सूत्रफारेणैव प्रदेशपक्षाऽनङ्गीकरणात् । कृतहान्यादिदूपणमासाच । उत्क्रान्त्यादि- सूत्रोक्तदूषणापत्तेश्च । जीव इति नामान्तरनिर्देशाच । प्रतिबिंबप- क्षेऽपीदं दूपणं ज्ञेयम् । अवच्छेद्यस्य प्रतिपिंत्रस्य च काऽपि नामान्तरा- ऽदर्शनात् । अतोऽत्र ब्रह्मण एकस्य नानात्वमेव दृष्टान्तार्थ इति निश्चयः । एवमपि द्रष्टव्यम् । नन्वस्त्वंशप्रवेशस्तथापि तत्र मण्डलफलकादेरप्रवेशामातीतिकानां तेषां त्वलीकतैवेति सैव दृष्टान्ताऽर्थोऽस्त्विति चेत् । सुबुद्धिरसि । तावताऽपीदानीमायुप्मता युक्त्या व्यवस्थाप्यमानानां व्यापकत्वादीनां केपांचिद्धर्माणामेव तथात्वं सेत्स्यति । न तु जीवखरूपस्याऽपीत्यनुसंधत्तेति दिक् । एतेनैव 'यथा ह्ययं ज्योतिरात्मा विवस्वानपोमिन्ना बहुधै- कोनुगच्छनिति स्मृति'रत एव चोपमा सूर्यकादिवदिति सूत्र च व्याख्यातं ज्ञेयम् । नन्विदमसङ्गतम् । श्रीभागवते 'नैवात्मनः प्रश्रयं निजलाभपूर्णो मानं जनादविदुपः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तचात्मने प्रतिमुखस्स यथा मुखश्री'रिति मुखदृष्टान्तस्याऽप्युक्तत्वात् । पुराणस्य श्रुत्यर्थनि- र्णायकत्वेन तदनुसृत्यैव श्रुतितात्पर्यकथनस्यौचित्यादिति चेत् । न । अत्रापि मुखश्रियः प्रतिमुखश्रीप्रयोजकत्वमात्रमुच्यत इति, न जीवस्य प्रतिबिंबत्वमत्राऽप्यर्थः । पूर्वपादत्रयेण तथार्थनिश्चयात् । 'आभास एव.चेति सूत्रं तु यथा ब्राह्मणब्रुवे ब्राह्मणाऽऽभासप्रयोगो निखिलतद्धर्मामावतस्तथाऽखिलब्रह्मधर्माऽभावाचित्त्वेन साजात्याच १ नवित्त्यादित्स्वेत्यन्ता पतिः खगपुस्तकयो स्ति।
ब्रह्माभास इतिपरंम् । अतः श्रुत्यर्थविचारेऽपि प्रतिविपक्षोऽवच्छि- नपक्षश्चेति द्वावप्यसङ्गतौ। तर्वस्तु कौन्तेयस्य राधेयत्ववदविकृतस्य ब्रह्मण एव खाऽवि- घया जीवभावः । तथा च खाऽविद्यया प्रान्तं संसरद्रौव जीवः ।। इदं च सूत्रकारस्याऽपि संमतम् । 'अवस्थितेरिति काशकृत्ल' इति सूत्रे तथानिर्णीतत्वात् । एवं सति तत्वमसि' 'अयमात्मा ब्रह्म विज्ञानमय' इत्यादि वाक्यान्यपि संगमिष्यन्तीति चेत-- असङ्गतमेतदपि । अविद्याया अनादित्वोपगमाद्ब्रह्मणः सर्व- स्याऽविकृतस्य जीवभावे ब्रह्माऽपलापाऽऽपत्तेः । अतोऽवस्थान्तरमङ्गी- कुर्वाणेनाऽपि प्रदेशभेदेनैवाङ्गीकार्यम् । तथा सति पूर्वोक्तदूषणा- पत्तेः । अथाऽवास्तवत्वान्जीवभावस्योपदेशेन तन्निवृत्तौ न ब्रह्माऽप- लाप इति चेत् । न । उपदेशेन जीवभावनिवृत्तेरेव दुर्लभत्वात् । खाऽविद्यया जीवभावमापनस्यैव सर्वप्रपञ्च कल्पकत्वेनोपदेशवाक्य- स्याऽपि तत्कल्लितत्वे तेन तदज्ञाननिवृत्तिदौर्लभ्यात् । खाऽज्ञान- कल्पितरनतादेः खवाक्येन निवृत्त्यदर्शनात् । तदनिवृत्तौ च जीव- भावाऽनिवृत्तेः । वाक्यस्योक्तरूपत्वात्तदुक्तब्रह्मस्वरूपेऽप्यनाश्वासप्रस- ड्रेन सर्वविप्लवापत्तेश्च- नन्वंशत्ववादोऽप्यसाधुः । अंशपदार्थस्य विचारे तेनाऽप्यनिर्वा- हात् । अंशो नाम कारणमवयवो वा भागो वा कार्य वा । नाद्यः । पटांशस्य तन्तोः पटकारणत्ववज्जीवस्यापि ब्रह्मकारणतापत्तेः । न द्वितीयः । शरीरवद्रह्मणः सावयवत्वाऽऽपत्तेः । न तृतीयः । परिशेप्याद्रव्यैकदेशस्यैवाऽत्र भागरूपत्वे ब्रह्मणोऽपि नश्वरत्वाऽऽपत्तेः । न तुरीयः । जीवस्याऽनित्यत्वाऽऽपचेः । अतो मुख्यार्थग्रह्णस्याऽश- १८० क्यत्वान्ममैवांशो जीवलोके जीवभूतः सनातन' इत्यादावीपचा- रिक एवांशपदार्थो प्रायः । तथा सति घट्टकुट्यामेव प्रभास्यतीति चेत् । न मास्सति । अवयवरूपार्थस्य ग्रहणात्। 'पादोस्स विश्वा भूतानीति' श्रुताववयववाचिपादपदोपादानेन तथानिर्णयात् । न च निष्फलादिश्रुतिव्याकोपः । विरुद्धधर्माश्रयत्वेन निरवयवत्व- सावयवत्वयोखत्राऽविरोधात् । अक्षणः श्रुत्येकसमधिगम्यलात् । तत्र 'निष्कलं निष्क्रियमिति 'यथाः क्षुद्रा विस्फलिंगा घ्युच. रन्त्येवमेवासादात्मनः सर्वे प्राणा' इत्याद्युपक्रम्य 'सर्व एवा- मानो व्युचरंती'त्युमयथाऽपि निरूपणात् । एकतरामहे वाक्यान्तरे लक्षणाप्रसङ्गात् । संभवत्यामेवं तात्पर्योपपत्तौ तदनुप- पत्तिमुद्भाव्य लक्षणामाश्रयतो निष्प्रमाणकानुपपत्तिकल्पनमुख्यार्थ- बाधयोरापत्तेश्च । न चात्यन्ताऽमेदबोधकश्रुतिविरोधः । 'बहुस्या- मितीच्छयैव भेदात् । यत्तु जीवस्य व्यापकत्वमङ्गीकृत्य भेदाभेदश्रुत्युपपादनाया - दश्रुतिप्वविभागलक्षणामेदं व्युच्चरणश्रुतौ च विमागेनाऽभिव्यक्त्या जीवब्रह्मणोः पितापुत्रवत्कार्यकारणभावं खपारं खूढत्वं चाभि- व्यक्तिपदाथै केचिदाहुः। तदपि पूर्वोक्तरीत्या शुद्धाऽभेर्दै ततो बहुस्यामितीच्छया सृष्टौ व्युञ्चरणेन भेदे, मुक्तौ च 'ब्रह्म वेद ब्रह्मैव भवतीति सावधारणश्रुत्या चाऽभेदे संभवति सत्यन्याय्य- मेव । पितापुत्रन्यायोपि तथा । श्रुतौ विस्फुलिङ्गदृष्टान्तेन क्षुद्रा इति विशेषणेन गत्यर्थधातुप्रयोगेण च दान्तिकेषु प्राणाद्यात्म- पर्यन्तेष्वणुत्वस्य पृथग्देशवचित्वव्यङ्ग्यविभागस्य गतेश्च विवक्षितत्वा- १८१ ऽवगमात् । अन्यथा प्राणादिपूत्पत्रात्मसु च खव्यापाराविष्टत्व. रूपाभिव्यक्तरङ्गीकारे कल्पनावैरूप्यापचेः । युगपद्वृत्तिद्वयाङ्गीकारा- पचेश्च । किञ्च पितापुत्रस्थलेऽपि न चेतनयोरंशांशिभावोऽपि तु शरीरयोरेव । 'अंशादङ्गात्संभवसि हृदयादधिजायसे | आत्मा चै पुत्रनामासि स जीव शरदः शतमिति मंत्रेण तथा निश्च- यात् । इतरे तु जीवस्य ब्रह्मांशत्वमेकदेशरूपमिच्छन्ति । एकव- स्त्वेकदेशत्वं वंशत्वमिति । तचैवं व्याकुर्वतो यथा भामाखतोर्गो- स्वगवोर्देहदेहिनो गोत्वदेहा भास्वद्गोदेहिनां विशेषणत्वेनांशाः 'विशेपणांशो विशेष्यांश' इति विवेचकव्यवहारसिद्धास्तथा जीवोपि 'यस्थात्मा शरीरमिति श्रुतेर्ब्रह्मविशेषणत्वेन ब्रह्मांशः । एवं च विशेषणत्वविशेष्यत्वकृतं खभाववैलक्षण्यमाश्रित्य भेदनि- देशाः पृथस्थित्यनह विशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य चाऽभेदनिर्देशाश्च मुख्यत्वेनैवोपपद्यन्त इति । तदपि पूर्वोक्त- रीत्या ब्रह्मणि परिच्छेदत्रयातीतत्वस्य जीवे चांशत्वस्य सिद्धौ सर्व- श्रुतीनां मुख्यवृत्त्यैव बोधकत्वसिद्धेर्नामभ्यं रोचते । अन्ये तु 'चन्द्रमण्डलाच्छतांशो गुरुमण्डल.' 'सूर्याश: कर्ण' इत्यादौ तद्भिन्नत्वे सति वत्सदृशत्वं, तत उत्पन्नत्वं वाऽऽदाय यथांशत्वव्यवहारस्तथा जीवेपि ब्रह्मांशव्यवहारं समर्थयन्ते । ततु अभेदश्रुति जीवनित्यत्वश्रुति चोपचारितां करोतीत्युपेक्ष्यम् । तस्मा- दुभयविधश्रुतिबलाद्मावयवरूपत्वेनैव जीवो ब्रह्मांशः । न च जीवदुःखादिना ब्रह्मणो दुःखित्वाद्यापतिः । ब्रह्मणः सर्वात्मकवे- नाभिमानाऽभावात् । किंबहुना 'एतरहवाव न तपति किमहं १अन्यापारानि, इति खगपाठः।
१८२ साधु नाकरवं किमहं पापमकरवमिति स य एवं विद्वानेतेना- स्मान स्पृणुत' इति श्रुतेर्विदुपो जीवस्याऽपि यत्र दुःखाद्यमावस्तत्र ब्रह्मणः का शक्षा । नामेहि तापो न हिमस्स तत्स्यादिति न्याया- चेति सर्वमनवद्यम् ॥ इति श्रीवल्लभाचार्यवाचामाशयगोचरम् । प्रतिबिंवादिरूपत्वखंडनं विशदीकृतम् ॥१॥ इति श्रीवल्लभाचार्यमतपर्तिथीमदल्लभनन्दनचरणपद्मपराग- पूरितहृदयश्रीपीताम्बरतनुजपुरुषोत्तमकृतायतारवादा. वल्यां द्वादशः प्रतिबिंवत्वखंडनवादः समाप्तः ॥ ॥ श्रीः॥ ॥ श्रीकृष्णाय नमः॥ पुष्टिमार्गसिद्धान्तवाङ्मालायां गोस्वामिधीमत्पुरुषोत्तमविरचित आविर्भावतिरोभाववादः। यदाविर्भाव आनन्द आविर्भवति सर्वतः । तिरोभवन्ति सन्तापास्तं श्रये गोकुलेश्वरम् ॥१॥ नन्विदमनुपपन्नम् । कार्योत्पत्तिनाशावनुपगच्छता कार्याऽऽवि- वितिरोभावयोरपि दुर्निरूपत्वात् । तयोरनुभवयोग्यतातदयोग्यता- त्मकत्वात् । उत्पत्तिमन्तरेण कार्यवर्तमानतायाश्चाशक्यवचनत्वात् । अन्यथा प्रागभावदशायामपि तत्प्रत्यक्षप्रसङ्गात् । न च प्रागभाव एव प्रतिवन्धक इति वाच्यम् । तस्य कारणत्वात् । न च निय. ताऽवधिकत्वेन कार्यस्य कारणे सचाऽनुमातुं शक्येति वाच्यम् । तयागभावसत्तथैव नियताऽवधिकत्वसिद्धेः। किच, कारणे कार्यसत्तायां तत्पश्चादावित्वेनाऽभिमतस्याऽपि कार्यस्य कारणात्पूर्व सत्वेन सिद्धत्वाद्दर्शनयोग्यत्वमानं वाच्यं, न तु तज्जननम् । तथा सति शक्तस्य शक्यकरणाऽभावादशक्तिप्रसक्तेः । ततश्च कार्याऽनुत्पादस्याऽऽकस्मिकवादस्य वा प्रसङ्गः। एवं सहजश- क्त्यसिद्धौ कार्यकारणभावस्याऽप्यसिद्धेः कारणादिपदेषु तत्तदभि- धायिकायाः पदशरप्यपायः । ततश्च लौकिकवैदिकव्यवहारो- च्छेदापचौ प्रयोजनस्याऽप्यभावे प्रसक्ते आघेयशक्तेरपि वैयाप- त्तिश्च । न च कारणाद्वहिर्भाव उत्पत्तिरभ्युपेयत एवेति न दोष इति वाच्यम् । यत्रैकस्मिन् फले बहूनि बीजानि तेभ्यश्चाऽनन्तानि फलानि, तेभ्यश्च तथैव वीजानीत्येवं परम्परा, तत्रैकस्मिन् मूलभूते फले वा बीजे वा तावतां सत्वाद्युगपद्दर्भािवापतेः । क्रमाऽसङ्गत्या. पत्तेश्च । न च निमित्तान्तरसमवधानाऽभावान्न तदा कार्यकारणप्र- वाहः । नाऽपि विमतः प्रवाहोऽनादिः प्रवाहत्वाद्वीजाङ्कुरवदित्यनु- मानेनाऽनादित्वमुपगम्य क्रमोपपत्तिरिति वाच्यम् । हेतोः साध्य- समत्वात् । अस्यैव प्रवाहरूपताया विचार्यत्वात् । यत्र गोधूमादिबी- जनाशे वेणुगोधूमैर्गोधूमानां लुलायशृङ्गात्कदल्याः काशादिक्षोश्वाङ्कु- रोत्पत्तिस्ततस्तेभ्यो गोधूमादिभ्यो वेण्वाद्यनुत्पतिस्तत्रादौ पश्चाच व्यभिचारात् । विमतः प्रवाहः सादिः प्रवाहत्वात् वैणवगोध- मप्रवाहवदिति हेतोः साधारणत्वाच । न च व्यतिरेकदृष्टान्तेन निर्वाहः ।.क्षुद्रनदीप्रवाहादावनादित्वाऽभावेऽपि प्रवाहत्वदर्शनेन । व्यतिरेकव्यभिचारात् । न च महत्त्वेन हेतौ विशेपिते न कोऽपि दोष इति वाच्यम् । गङ्गादृष्टान्तेन तत्र व्यभिचारात् । पुराणादौ गनोत्पत्तिस्मरणात् । शब्दस्य प्रमाणत्वात् । तस्मान्न क्रमसङ्गतिः । अथोत्पतिर्न बहिर्भावः । किन्तु मृदवस्था गता पिण्डाऽवस्था जाता, सा गता घटावस्था नातेत्यादिप्रतीतेस्तन्त्ववस्थाऽनुपम- देंन पटावस्थादर्शनाचावस्थाविशेष एव सेति विभाव्यते । तदा- प्यवस्थाविशेषस्य कादाचित्कत्वाजन्यत्वं वाच्यमेव । तत्सुतरामेव दुर्वचम् । उत्पत्तेरनिरुक्तत्वात् । अवस्थान्तरं कार्यमित्यप्यसङ्ग- तम् । तथा सति पुत्रोऽपि पित्रवस्थान्तरं स्यात् । तथा च पिण्डाव- स्थावपितुर्नाशः स्यात् । तन्तुवदनाशाङ्गीकारेऽपि सर्वो व्याप्रि- येत । अतोऽश एव पुत्रः। एवमश्रादिरपि बीजांश एव । नत्व- वस्थान्तरम् । समानन्यायात् । तथा च विभागेन बहिर्भावद्वारा हेतुत्वमानं बीजादौ सेत्स्यति । तावताऽपि नाऽभिमतसिद्धिः । बहि- र्भावरूपाया उत्पत्तेः पूर्वमेव दूषितत्वात् । अतो वैशेषिकप्रतिपन्न उत्पत्तिवाद एव साधीयान् । अथाऽस्तु या काचिदुत्पत्तिस्तथापि भवद्रीत्या तावाविर्भावति- रोभावौ दुर्वचौ । तथाहि-तौ नित्यावनित्यौ वा । नाद्यः । घटा- दिवस्तूपलम्भाऽनुपलम्भयोः सातत्यप्रसङ्गात् । न चेष्टापत्तिः । तयोविरुद्धत्वेन सहावस्थानाऽयोगात् । अहिलतया तथाङ्गीकारे वस्त्वनिर्वाच्यत्वप्रसङ्गात् । घटाद्याविर्भावनाय तिरोभावनाय च सापने प्रवृत्तिदर्शनेन प्रत्यक्षविरोधात् । तादृग्विरुद्धधर्माश्रयम्- वस्य धर्मिणोऽसिद्धौ तयोरप्यशक्यत्वेन शून्यवादापत्तेश्च । न च घटाधुपलम्माऽनुपलम्भयोः कादाचितवं तचकारणस्तोमपरम्परा- १८५ कादाचित्कत्वेन समर्थनीयमिति वाच्यम् । अन्तत ईश्वरेच्छापर्यन्तं धावने तस्या अपि नित्यत्वेन तद्दोपतादवस्थ्यात् । एकतरपक्षपात इतरोच्छेदप्रसङ्गाच । तयोर्घटादिवस्तुधर्मत्वेन धर्मिणां कादाचि- कत्वे धर्ममूतयोस्तयोनित्यत्वस्य गन्धादिवदशक्यवचनत्वाच्च । न च जातिवददोप इति वाच्यम् । तद्वदेव सामान्यधर्मत्वप्रसङ्गात् । न चेष्टापत्तिः । सर्वस्य युगपदृश्यत्वाऽदृश्यत्वप्रसगात् । न चेच्छया निर्वाहः । दत्तोत्तरत्वात् । न द्वितीयः ! कार्यान्तरवतयोरपि खकारणाद्वहिर्भावस्य खका- रणेऽन्तर्भावस्याऽवश्यवाच्यत्वेन पुनस्तदीययोरपि तयोस्तथात्वेना- ऽनवस्थापातात् । नचाऽनादिरनवस्था न दोष इति वाच्यम् । तथाप्यनिर्वाहात् । तेषामनित्यत्वेन कार्यत्वादाद्यक्षणसम्बन्धस्याऽव- श्यवाच्यत्वेन क्षणानां चोपाधिसम्बन्धाज्जायमानत्वेन तत्राप्युक्तवि- कल्पैस्तेषां क्षणघटकताया एव दुर्निरूपत्वात् । तेषां च खस्त्रका- रणादेव बहिर्भावादेर्वाच्यत्वेन कारणानां चानुपलभ्यमानत्वेनामा- माणिकत्वाच । अनादित्वस्य 'बहुस्सामि'त्यादि श्रुतिविरुद्धत्वाच्च । अतः सत्कार्यवादमालम्ब्याऽऽविर्भावतिरोभावसमर्थनं न कथमपि सुघटमिति प्राप्ते-- उच्यते, तौ हरेः शक्ती नियताविच्छया ततः। धर्माधर्मस्य संसिद्धेः कारणं च न दुर्वचम् ॥ २॥ तथाहि कारणगतौ शक्तिविशेषावेतौ । न चातिरिक्तशक्तिक- रुपने मानाघभावः शक्यः । तन्तुतुरीवेमादिभ्यः पटोत्पत्तिदर्शना- न्मृद्दण्डचक्रादिभ्यश्च घटोत्पचिदर्शनात्तत्र तत्र तज्जननशक्तेनिश्चयात् । सा च न खभावो, नाऽपि खरूपम् । तथा सति तस्य सार्वदिक- . वाच्छीणेभ्योऽपि तन्त्वादिभ्यो घटाद्युत्पत्तिप्रसङ्गात् । भर्जितवी- जेभ्योऽप्यकुरोत्पत्तिप्रसङ्गाच । मणिसमवधानेऽपि वन्हेस्तृणादिदा- हप्रसङ्गाच्च । अतः कालेन, मर्जनेन, च नाश्या मणिसमवधान- प्रतिवध्या च काचित्स्वभावात्वरूपाचातिरिक्तैव साङ्गीकार्या । ननु तन्त्वादीनामविशीर्णत्वेन बीजानां चाऽभर्जितत्वेन रूपेणैव कार्यजननदर्शनाद्रूपभेदमात्राऽऽङ्गीकारेण निर्वाहेऽतिरिक्तशक्तिकल्पन गुरुभूतम् । एवं च वहिस्थलेऽपि मणेः प्रतिबन्धकत्वेन तदमा- वस्य प्रतिबन्धकाऽभावरूपत्वात्तस्य सहकारित्वेन निर्वाहाच ज्ञेयम् । न च प्रतिबन्धकत्वं नाम कारणीभूताऽभावप्रतियोगित्वं तदमावस्य च करणत्वमिति कल्पनाद्वयेन गौरवमिति वाच्यम् । अतिरिक्त शक्तिवादेऽपि तनाशकतप्रतिबन्धकयोस्तवाऽप्यावश्यकत्वेन च तौल्यात् । वस्तुतस्तु न मण्यादीनां प्रतिबन्धफत्वं न का तदमावस्य कारणत्वम् । किन्तूचेजकाऽभावविशिष्टमण्यभावविशिष्टवहित्वेन वहेरेव कारणत्वमित्येकेनैव कार्यकारणभावेन निर्वाहालाघवमेवेत्य- तिरिक्तशक्तिकल्पनाऽजागलस्तनप्रायैवेति चेत् । मैवम् । गुरुशरीर- कारणतावच्छेदकप्रवेशेनाऽत्रापि गौरवाऽनपायात् । अवच्छेदकश- रीरे मण्यभावस्थ प्रतिबन्धकाऽभावत्वेन प्रवेशे प्रतिबन्धकस्य च पूर्वोक्तलक्षणकत्वेऽनाऽपि कार्यकारणभावद्वयकल्पना, प्रतिबन्धक- रुपना चेति कल्पनानयाऽऽपत्तेः । कि सामाग्रीहेतुत्वं प्रतिबन्ध- कत्वमिति लक्षणकत्वेऽपि कल्पनाद्वयेन पूर्वोक्ततौल्यात् । मण्यभाव- लेन प्रवेशे तु नानाकार्यकारणभावकल्पनापत्याऽत्यन्तमेव गौरवात् । मंत्रौषधादिभिरपि दाहाऽभावदर्शनात् । यत्किञ्चिन्मणेः सद्भावे वाहदर्शनेन व्यभिचाराऽऽपत्तेश्च । एवमुत्तेजकानामपि नानात्वेन १८७ तत्त्वरूपेण प्रवेशे पूर्ववदेव गौरवात् । यत्किञ्चित्त्वेन प्रवेशे यावत्तदभावविशिष्टमण्यभावविशिष्टवहेर्दाहं प्रत्यकारणत्वाचतो दाहा. भावमसक्तेः । यावत्वेन प्रवेशे च यत्किञ्चिदुत्वेजकविशिष्टमणिसत्त्वे- ऽपि दाहामावापत्तेः । तादृशतद्विशिष्टव हिना दाहदर्शनाचथात्वेन वा, यावत्तदभावविशिष्टमण्यभावविशिष्टवहित्वेन वा कारणतेति सन्देहाऽनपायेन कार्यकारणभावशरीरस्य तावदुत्तेजकतदभावमणि- तदभावतत्तद्वैशिष्टयज्ञानाधीनतया तादृशतच्छरीरज्ञानस दौर्षट्वेन कारणतामहस्यैव दुर्लभत्वाच । अतो दाहं प्रति वहिल्वेनैव कार- णता । लाघवात् सर्वजनीनत्वाच । अतो मणिप्रतिबध्या खभावा- दतिरिक्ता शक्तिः काचिदभ्युपेयैव । एवं वीजानामप्यमर्जितत्वेनैव न कारणता । दावाग्निदग्धेभ्योऽपि वेत्रबीजेभ्यः कदलीकाण्डजन- नस्य भामतीनिवन्धे प्रदर्शितत्वात् । वराहशोणितमेदःसेचितक- दल्या दाडिमफलजनकत्वस्य तरुचिकित्साग्रन्थे चित्रीकरणे प्रसि- द्धत्वाच्च । अतस्तत्राऽपि भर्जनेन काचिन्नाश्यते काचिदाधीयत इत्य- वश्यं मन्तव्यम् । वस्तुतस्तु कार्यकारणभावपक्षेऽपि प्रसिद्धरूपाऽति- रिक्तरूपान्तरस्योत्पत्त्यादिशालिनोऽवश्यकल्पनीयतया कार्यकारण- भावशरीरस्य तावन्नामन्येव कलहः पर्यवस्यति, नतु खरूप इति मुधैवाऽयमाग्रह इति दिक् । अतो बीजादिपरिणामस्थलेऽपि सैव मन्तव्या । न चोक्तदूपण- प्रासः । उक्तरीत्या सिद्धाया अपि तस्या भगवदिच्छया नियतत्वात् । न च तस्या अपि नित्यत्वाचद्दोषतादवस्थ्यम् । इदमस्मिन् काले- ऽस्सिन्देशे एवमस्साहहिर्भवविदं चासिन्नन्तर्भवत्विति तदाकारस्य फलबलेन कल्पनीयत्वात् ।
१८८ नन्वेवं सतीश्वरेच्छया वस्तूत्पत्तिरेवाऽङ्गीक्रियतामिति चेत् । मैषम् । असत्कार्यवाद उत्पन्चेरशक्यवचनत्वात् । तथाहि उत्पत्ति- नाम प्रागभावो वा धर्मान्तरं वा । नाऽद्यः । तस्याजन्यस्य कार्य- पाकालयतित्वेनेदानी घटोत्पत्तिर्भविष्यतीति प्रतीत्यभिलापयो प. प्रसङ्गात् । नान्त्यः । तस्यैकनिष्ठत्वे कार्यानुत्पाददशायां कार्यस्या- ऽसत्वात्कारणादिनिष्ठत्वमेव तस्य वाच्यं, तथा सति तद्विपयिण्युत्पद्यत इति मतीतिः स्यात् । द्विनिष्ठत्वेऽपि संयुक्ताविमावितिवदुत्पद्यते इमाविति प्रतीतिः स्यात् । आद्यक्षणे घटादिरूपप्रतियोग्यभावेन संयोगाऽभावप्रतीतिवदुत्पद्यत इति प्रतीतिश्च न स्यात् । न च 'दशदिनान्यतीयुः, पड्भिः रहोमिर्गन्ते'त्यादौ मूतभव्यदिवसेप्य- सरस्वपि संख्यारूपो धर्मों यथोपेयते तथोत्पत्तिरप्यनुत्पन्नघटाद्याधा- राऽभ्युपेयेति वाच्यम् । तेषां दिनानामपि कालचक्रे सूर्यपरिस्प-, न्दवशेन तत्तद्वत्सर गततया पुनः पुनः परिवर्तमानानां सतामेव संस्कारादिनोपनये तनाऽपेक्षाबुद्या संख्याकल्पनस्य शक्यत्वेऽप्यु- त्पत्तेरफाल्पनिकत्वेनात्र तथा वक्तुमशक्यत्वात् । अथाऽपेक्षाबुद्ध्या तत्र संख्या जन्यत एव न कल्प्यत इति चेत् । न । समवायिनं विना केवलनिमिचेन कार्यजननस्य काप्यसिद्ध- त्वेनात्र तथा वक्तुमशक्यत्वात् । न च चिन्तामण्यादौ निरुपादान- कदाधिवसनसुवर्णादिजननस्य दृष्टत्वान्न दोष इति वाच्यम् । अवि- क्रियमाणानां तेषामेवोपादानत्वात् । योगिवत्सामर्थ्य विशेषेण दध्या- दिजनकभूतमेदाकर्षणस्य तत्र शक्यवचनत्वाच्च । अनुपादानकसू- अङ्गीकारे 'सर्वस्व समयाय्यसमवामिनिमित्तजन्यत्वमिति वैशेषिकादिसिद्धान्तहानेश्च ।
किञ्च संख्याया इवोत्पत्तेरपि जन्यत्वात्तस्या अप्युत्पत्तिः खीकार्या । तथा सति निष्प्रमाणिकाऽनवस्थापत्तिस्तत्तत्कारणादि- कल्पनागौरवग्रासश्च । न चोत्पत्तिर्जातेत्यादि प्रत्ययाऽनुरोधादुत्पचे- रुत्पत्तिमजीकृत्य विशेषाणां सतो व्यावर्तकत्ववत्सा खत एवेति वाच्यम् । आत्माऽऽश्रयाऽऽपत्तेः । विशेषाणामप्युपगमाऽतिरिक्तप्र- माणरहितत्वेन दृष्टान्ताऽभावाच्च । न च वर्तमानप्रागभावप्रतियोगि- त्वमेव सेति वाच्यम् । तस्य पूर्ववाद एव दूषितत्वात् । कारणा- वस्थाविशेषेणैव निर्वाहात् । प्रतियोगित्वस्य स्वरूपसम्बन्धविशेष- त्वेन स्वरूपद्वयात्मकत्वाद्धटखरूपस्य तदानीमभावेन तस्याऽपि वक्तु- मशक्यत्वात् । न च भाविनी सत्तामादाय तत्र प्रतियोगित्वं शक्यवचनम् । धर्मिणोः सत्वेन भाविसत्ताया निश्चयाऽभावेन तथा वक्तुमशक्यत्वात् । नाऽप्याऽऽद्यक्षणसम्बन्धः सेति वाच्यम् । प्रतियोगिसतां विना क्षणसम्बन्धस्याऽशक्यवचनत्वात् । तस्याऽप्याद्यक्षणसम्बन्ध एवोत्पति- पदार्थ इतिज्ञप्तावात्माश्रयाच्च । न चेश्वरेच्छयाऽसदेवोत्पद्यत इति वाच्यम् । मानाऽभावात् । मायिकत्वाऽऽपाताच । घटो भवतीति प्रयोगाऽनुपपत्तेश्च । प्रथमान्तविशेष्यकशाब्दबोधस्य तदभिमतत्वात् । क्रियाश्रयत्वस्य च कर्तृत्वाद्भवनक्रियाश्रये घट एवाऽऽख्यानाऽभिहिते लडर्थस्य कालस्य समानपदोपात्तत्वेनान्वयाचदानी घटाऽनङ्गीकारे तस्याऽशक्यवचनत्वात् । न च व्यापारस्याऽपि समानपदोपात्तत्वेन कालाऽन्वयस्य तत्र शक्यवचनत्वान्न प्रयोगाऽनुपपचिरिति वाच्यम् । एवमप्याश्रयवर्तमानत्वमन्तरेण व्यापारवर्तमानताया अनुत्पाद्यमान- त्वाद्धटादिसत्ताया अर्थादेव सिद्धेः । पदान्तरोपाचफलान्वयपक्षेपि १९० सत्तारूपस्योत्पत्तिरूपस्य वा यस्य कस्याऽपि फलस्य धर्मनेन धर्मिणं विनाऽसिद्ध्या घर्मिणोऽपि सत्ताया अर्थादेव सिद्धः। न च कालस्य कर्यन्वये उत्पद्यमानोत्पत्त्यनन्तरमपि कालाऽन्वितस्य कर्तुर्घटस्थ सत्या'दुत्पद्यते घट' इति प्रयोगापचिरिति वाच्यम् । व्यापारादि- द्वारैयाऽन्वयानीकाराद्यापारादितिरोभावाद्वारामावेन कालान्वयाऽमा. चाचाहशप्रयोगामावस्याऽनायासेन सिद्धेः । तस्मादसत उत्पत्तिर्न युक्तिमधिरोहति । अतो धर्मी पूर्वसिद्धः सर्वथैवाऽभ्युपेयताम् ॥ १॥ तथा नष्टो घट इति व्यवहारस्य सिद्धये । वदाप्युपेयस्तेनाऽयं धर्मी सिद्धः सनातनः ॥ २ ॥ एवं च धर्मिनित्यत्वे ब्रह्मतादात्म्यमस्य च । योध्यं 'पुरुष एवेदं स वै सर्वमिदं जगत् ॥३॥ 'इदं सर्वं यदयमात्मे त्यादि श्रुतिदर्शनात् । तथा सति स भूतं स भव्यमेतच्छुतेर्बलात् ॥ ४ ॥ तादृशन्यवहारेऽपि न क्षतिस्तस्य काचन । शक्तिस्तु सिद्धा प्राक् तेन शक्ताद्धेतोर्वहिः स्थितिः ॥५॥ आविर्भावस्तिरोभावस्तमिन्नेव स्थितिर्मता। अयं जनी प्रादुर्भावे नश चादर्शने इति ॥ ६ ॥ धात्वर्थदर्शनादर्थः पुष्टस्तेनाव कार्यता । कारणत्वं च सुघट तत्प्रकारोऽधुनोच्यते ।। ७॥ तथाहि-'परास्स शक्तिर्विविधैव श्रूयते इति श्रुते'मयूरा श्चित्रिता येन शुकाव हरितीकृताः । हंसाथ श्वेतगरुतः स मे विष्णुः प्रसीदत्वि'ति वाक्याच पूर्वोक्ता अपि शक्तयो भगवत एव । भगवतैव च विभज्य प्रजायेयेतीच्छया तत्र तत्र रूपे स्थापिताः। किञ्च आविर्मावतिरोमावावपि भगवतः शक्ती । 'आविर्भावति- रोमाची शक्ती चे मुरवैरिण' इतिवाक्यात् । आविर्भावतिरोभा- वशब्दौ च करणव्युत्पन्नौ, भावव्युत्पन्नौ च । तत्राऽऽये पक्षे-आविः प्रकटं भावयति, उपादानान्तःस्थं कार्य बहिः प्रकटं करोति या निमित्तगता उपादानाता च शक्तिः सा आविर्भावशब्दवाच्या । एवं तिरः अप्रकटं भावयति बहिष्ठं कार्य उपादानान्तः स्थापयति या शक्तिर्नाशकगता सा तिरोभावशब्दवाच्या । द्वितीयपक्षे-आवि- भवनमाविर्भावस्तिरोभवनं तिरोभावः । तच्चाऽऽस्मिन् सृष्टिकाला- स्मके स्थूलोपाधौ तदवयवात्मकतत्तत्कालोपाधिनिमित्तके तस्य तस्य तथा तथा तत्तदुपलम्भो भवविति तदा तत्र तस्य तथा तन्मा भववितीच्छाविषयत्वमिति फलति । तदपि त्रिविधम् । अनित्ये जननं नित्ये परिच्छिन्ने समागमः । नित्यापरिच्छिन्नतनौ प्राकट्यं चेति सा त्रिधा ॥१॥ 'अनित्ये उत्पत्तिनाशरूपम् । तदुपपादितम् । न चोत्पन्ने बहिर्भूत- प्रतीत्यमावः शङ्कयः । अडरादौ तथा प्रत्ययात् । न्यायसामान्येना- न्यत्रापि शक्यवचनत्वाच्च । नित्ये परिच्छिन्ने जीवादौ गमाऽऽगम- रूपम् । नित्याऽपरिच्छिन्ने मगवति प्राकट्यरूपम् । तेषां सर्वेषां खरूपमेदेऽप्यनया दिशा आविर्भावतिरोभावपदाभ्यां संग्रहः । एवं च यनिष्ठाऽऽविर्भावशक्तिरूपाद्धर्माद्यस्याऽऽविर्भवनरूपमिसिद्धिस्तस्य १'अनित्सेजनन'मित्यादि विद्वन्मण्डनकारिकाविवरणसमये उपपादितमित्यर्थः। । m+ - ५ १९२ तत्कारणमित्युच्यते । यनिष्ठतिरोभावशक्तिरूपधर्माद्यस्य तिरोभवन- रूपधर्मसिद्धिस्तस्य तन्नाशकमित्युच्यते । एतेनैव कार्य माश्यं च व्याख्यातम् । तथैवोक्तरीतिकान्त ववहिावाख्यनाशोत्पतिशालित्य- मेवाऽनित्यत्वमित्यपि । अनेनैव न्यायेनाऽऽविर्भावतिरोभावयोनि- त्यत्वं सदातनत्वं भगवद्रूपत्वं चावसेयम् । इच्छायाश्च नियामक- सान्न तयोरुत्पत्त्याद्यर्थ कारणान्तरादेरपेक्षा । कालस्यापि तन्नियत- त्वाद्यथायोग्यमेव विशेषणत्वमिति । यत्परिस्पन्दाऽवच्छिन्ने काल- उत्पत्ति शश्च तस्य परिस्पन्द." "तिरोभावे तद्विशिष्टयोरुत्पत्ति- नाशयोरपि तिरोभावादुत्पन्ने नष्टे च घटे नोत्पद्यते नश्यतीति प्रयोगोत्पतिः । एवं ब्रह्मवादे वृद्धिरपि कृशत्यतिरोमावसहित. स्थूलत्वप्रादुर्भावः । अपक्षयस्तद्विपरीतः । विपरिणामोऽपि पूर्वरूपर- सादितिरोभावसहकृतो रूपरसान्तरादिप्रादुर्भाव एव । सत्ता तु नैस- निक्येवेति । ब्रह्मोपादानकसृष्टिस्त्ववस्था । मुख्याया लीलास्टेस्तु नित्यत्वेनाऽभिन्नत्वात्याकृताप्राकृताभ्यां लीलासम्पत्तिः । तृतीयस्या ब्रह्मविवर्तभूतायाः प्राकृतत्वेन विकारित्वात्प्रथमसमयसंसर्गी भाव- विकार उत्पत्तिः । चरमसमयसंसर्गी भावविकारो नाशः । अस्त्या- दयोऽपि तथा । तादृश्येव तत्रेच्छेति । चतुर्थी तु ख्यातिरूपाः सर्वा इति न काचिदनुपपत्तिः । इति श्रीवल्लभाचार्यवाणीमुचितया दृशा । आविर्भावतिरोभावप्रपञ्चोऽयं विचारितः ॥१॥ इति श्रीवल्लभाचार्यचरणपरागप्रभावाऽधिगतसर्वसिद्धेः पीताम्बरसुतस्य पुरुषोत्तमस्य कृतावाविर्भापतिरो. भाववादः सम्पूर्णः॥
॥ श्रीः॥ श्रीकृष्णाय नमः पुष्टिमार्गसिद्धान्तवामालायां गोस्वामिश्रीमत्पुरुषोत्तमरुतः प्रतिबिम्बवादः। ज्योतिस्तमालनीलं करुणाशीलं मुदा स्तौमि । हरति तमोनिकुरम्यं यत्ातिविम्ब स्वकीयानाम् ॥१॥ नन्वेतदयुक्तम् । प्रतिबिम्यपदार्थस्यैवाऽभावात् । दर्पणादिसन्नि- धानदोपप्रतिहतपरावृत्तनायनकिरणस्य स्वमुखदर्शनमात्रेण दर्पणादौ प्रतिबिम्बाऽभिमानात् । न च प्राङ्मुखादेः प्रत्यनुसादेः प्रत्ययु- खत्यादिदर्शनान्नैवमिति वाच्यम् । दर्पणोपाधिसन्निधानदोषजन्यस्ये- दृशज्ञानस्य प्रमत्वात् । न च विम्बभेदानुभवान्नैवमिति वाच्यम् । तस्यापि प्रमत्वात् । दर्पणे मन्मुखं भातीति स्वमुखाऽभेदप्रत्यभिज्ञा- नेन तद्वाधात् । न च दर्पणे मन्मुखं नास्तीति ज्ञानादभेदज्ञानं अम इति वाच्यम् । दर्पणे मुखसंसर्गमात्रबाधेऽपि ताज्ञानसंभ- वात् । न च दर्पणाधुपाधिभिनयनकिरणप्रतिहतस्य तत्परावृत्तेश्च कल्पने गौरवमिति वाच्यम् । अतिरिक्तप्रतिविम्बकल्पनाऽपेक्षयाऽस्य धर्मकल्पनस्य लघुत्वात् । न च दृष्टान्ताभावः । लतावदुपपत्तेः । नचोपाधिप्रतिहतनयनकिरणानां परावृतप्रतिविम्वग्राहकत्वनियमक- पुष्टि. १३ रुपने प्रमाणाऽभाव इति वाच्यम् । प्रतिबिम्बवादिनापि नयनरश्मि- परावृत्तिमन्तरेण दर्पणे स्वमुखप्रत्यभिज्ञायाः समर्थयितुमशक्यत्वात् । पूर्वमनुभवाऽभावात् । न च नासादिदेशावच्छिन्नपूर्वानुभवादेव सं- स्कारोपपचिः । तावतापि नयनगोलकादिविषयकसंस्कारानुपपत्तेः । तटविटपिसमारूढादृष्टचरपुरुषप्रतिविम्बभ्रमस्थले पूर्वानुभवस्याऽसक्यो- पादानत्वाच । एवं चोपाधिप्रतिहतनयनरश्मीनां परावृत्तप्रतिबिम्बग्रा- हकत्वेऽवश्यवक्तव्ये फलवलार्पणादिप्रतिहतानामेव परावृत्तप्रति- विश्वमाहकत्वं न शिलादिप्रतिहतानाम् । अनतिखच्छताम्रा- दिप्रतिहतानां मलिनोपाघिसंवन्धदोषान्मुखसंस्थानविशेषा. इलाहकत्वम् । साक्षात्सूर्यप्रेप्सूनामियोपाधिसम्बन्धात्परावृत्तानां तेज- साल्पप्रतिघातः । प्रतिहतपरावृत्त्या सूर्यावलोकने च साक्षाचदव. लोकनइव नाशक्तिर्जलाधुपाधिसनिक केपांचिदवहतिः केपानि- चापतिहत्या जलाघातस्य सिकतादिग्राहकत्वमिति कल्पनीयम् । कार्यलिगकानुमानसिद्धत्वाच न प्रमाणाभाव इति सर्वथातिरिक्त- प्रतिविम्बकल्पनं न साधीय इति । अत्र केचित् चैत्रमुखानेदेन तत्सदृशत्वेन पार्धखितः सर्ट निरीक्ष्यमाणे दर्पणे तत्प्रतिबिम्बस्ततो भिन्न एव । स्वरूपतश्च मिथ्यैव । शुक्तिरजतवत् । न च दर्पणे स्वमुखप्रत्यभिज्ञाविरोधः। सप्टभेदद्वि. खपत्यमुसत्वादिज्ञानविरोधेन प्रत्यभिज्ञायाः सजातीयविपयत्वात् । दर्पणे मम मुखमिति व्यपदेशादिभेदज्ञानसाप्यर्थक्रियाकारित्वास- च्यायमुसे समुसव्यपदेशवगौणत्वात् । न च भेदज्ञानविरोधारे- दव्यपदेशस्यैव गौणत्वं शकनीयम् । बालानां जिवासोपादित्सापर्य- न्तस्स पुरपान्तरपतिविम्बविषयकसमस्याऽपलपिनुमशक्यत्वात् । ..
१९५ नचार्थक्रियाकारित्वं न व्यपदेशमुख्यत्वनियामक प्रेक्षावतामपि समु- खविशेपपरिज्ञानाय दर्पणाद्युपाधिदर्शनादभेदज्ञानस्याऽप्यक्रियाका. रित्वादिति वाच्यम् । भेदेपि प्रतिबिम्बस्य विम्बसमानाकारत्मानिय- मपरिज्ञानादेवोपपत्तेः । यत्तु दर्पणे मुखं नास्तीत्यत्र संसर्गमावस्यैव बाघो न संसर्गिण इत्युक्तम् । तदसङ्गतम् । नेदं रजतमित्यत्रापि राजततादात्म्यमानस्यैव बाघापत्तेः । नचात्रेदमंशे रजतस्य तादात्म्ये- नाऽध्यस्तत्वान्नेदं रजतमित्यत्र तादात्म्येन रजतस्यैव बाधो न तादात्म्यमात्रस्य । इह तु मुखस्य सिद्धत्वादर्पणे तत्संसर्गमात्रस्यै- वाऽध्यासातन्मात्रस्यैव चाध इति वाच्यम् । इहापि दर्पणसंसर्गितया मुखाध्यासस्य शक्यवचनत्वान्नेदं मुखमित्यपि तत्संसर्गितया मुख- वाघस्यापि तुल्यत्वात् । न च धर्म्यध्यासकल्पनागौरवदोपादसाम्प्र. तत्वं संभाव्यम् । रजताभासकल्पनागौरववदस्यापि प्रामाणिकत्वात् । यश्च स्वनेत्रगोलकप्रतिबिम्बस्थले विम्यापारोक्ष्योपायकल्पनाडम्बरः । सोपि गुरुर्दृष्टविरोधोऽप्रामाणिकश्च । जलादिसंसर्गे केपांचिप्रति- हतिः केपांचिन्नेत्यत्र हेतोरनिर्वाच्यत्वात् । जलसम्बन्धेनापि प्रति- हन्यमानानामतिमृदूनां सकलनयनरश्मिपतिघातिकिरणसमूहजयपुरः- सरं तन्मध्यगतस्यैव मण्डलदर्शनसामर्थ्यस्याऽपि दुर्वचत्वाच्च । जलस. म्बन्धेनाऽपि प्रतिहन्यमानानां शिलासम्बन्धेनाप्रतिघाते प्रतिहत्य चापरावृत्तेः । परावृत्य च पृष्टस्यासंसर्गे । संसृज्य च तदसाक्षात्का- रेपि हेतोस्तथात्वाच्च । न च दोपवशात्तदुपपत्तिः । दोपेणामि विशे- पांशग्रहणमात्रप्रतिबन्धने सैनिकृष्टधर्मिग्रहाप्रतिबन्धात् । शुक्तिरज- तादौ तथा निश्चयात् । अन्यथा तत्रापि प्रतीत्यभावस्यैवाऽऽपातात् । किञ्च अवनतमौलिना सलिलं पश्यतः सलिलप्रतिहतनयनर- ..
, इमीना मुद्धमुतहम्य (1) साक्षादिव सूर्यबिम्बग्राहकत्वात् । तिर्यगतव- लोकपिरोकयतो मजुचक्षुपा दर्पणालोकने तातिहतररमीना चक्षु- विक्षेपमन्तरेणापि पार्श्वस्यमुखग्राहकत्व, तच बदनसाक्षीकरणाभा- वेऽप्युपाधिप्रतिहताना प्रष्टाभाव्यवहित()ग्राहकत्वमपि दुर्वारम् । उपाधिपतिहतनयनरमीना प्रतिकृलतया निवृत्तिनियम विहाय यत्रैव बिम्ब तत्रैव गमनोपागमात् । तथा मलिनदर्पणे गौरस्यापि श्यामतया भानाद्विद्यमानस्यापि विश्वगतगौररूपस वा चाक्षुषज्ञानानुपयोगितया पीतशमन्या- येनारोप्यरूपनैपिध्येनैव बिम्बमुसस्य चाक्षुपत्वनिर्याह इति नीरूप- स्थापि श्यामलवैशयेन चाक्षुषप्रतिविम्बनमविषयत्व दुर्वारम् । खतो नीरूपस्यापि नभसोऽध्यस्तनैल्यवेशयेन चाक्षुषत्यसप्रतिपचे । तस्मात्स्वरूपत प्रतिमुखाध्यास एव श्रेयानित्याहु । अगोच्यते- तनं तु प्रतिविम्बोऽस्ति शब्दात्प्रत्ययतस्तथा। विलक्षणत्वाशिन्नोयमन्येभ्यो मायिकलतः ॥१॥ सकिन्नरान्किपुरुपान्प्रत्यात्मेनासृजत् प्रभुः । मानयनात्म- नात्मानमात्माभास विलोकयन् । ते तु तजगृहू रूपं त्यक्तं य परमेष्ठिना । मिथुनीभूय गायन्तस्तमेयोपसि कर्मभिरिति तृती- यस्मन्ये सृष्टिप्रकरणे प्रत्यात्मेन सृष्टिरुता । प्रत्यात्मशब्दश्च प्रतेर्वी प्साया सादृश्ये वा वर्तमानत्वे निष्पन्न । वीप्सा चावात्माभासाबलोक- नादेव । आमासश्चात्र प्रतिबिम्ब एव । अङ्गुल्यादिसम्पर्केण चन्द्राद्या- भासवदात्माभासावरोकनस्याऽशक्यवचनत्वात् । तथा सति मुखाय- भानात् सादृश्यार्थकत्वेपि पदार्थान्तरमन्तरेण तस्याऽशक्यवचनत्वाच । अतःप्रत्यात्मपदेन प्रतिविम्बसिद्धिः। उत्तरार्धे आत्माभासारलोककथ- नाञ्च । अनतिरेक आभासपदवैयापत्तेः । आत्मानमवलोकयन्नि- त्यापत्तेश्च । अग्रिमश्लोके रूपत्यागकथनात्तत्प्रयुक्तमिथुनीभावस्य व्याख्यानाच्च । एवं 'यथा जलस्थ आभासः स्थलस्थेनावगृह्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितमित्यादावपि स्थल- स्थत्वजलस्थत्वादिकथनात् । स्वाभासपदाच । 'प्रतिमुखस्य यथा मुखश्री'रित्यादौ भेदनिर्देशाच । छायादानविधानाच । तस्मादति- रिक्त एव बिम्बामतिविम्बः । प्रतीतितस्तु तत्सिद्धिः परेरेवोपपादिता । सापि न्याय्या युक्तिमत्वान्नाधिकोऽतस्तदुद्यमः ॥१॥ किश्चाऽऽदर्शविशेपेपि चातुर्येण विनिर्मिते । प्रत्यस्त्रं स्वमुखं भाति तत्रोक्तोपयिकं तथा ॥२॥ यतोऽस्त्रेभ्यः प्रतिहताः परावृत्य गंशवः । संसृष्टाः स्वमुखेनैकमीक्षेरनवदूनिते ॥ ३ ॥ न च नेत्रगोलकानुभवाद्यनुपपतिः । आवरणशक्त्या तमस इव विक्षेपशक्त्या तादृग्गोलकादियुक्तमुखस्य मूलशक्त्या मायया तत्रो- त्पादनात्खकीयत्वाभिमानसूप्णीपकुण्डलकेशादीनां खानुभूतानां सा- हुचर्यदर्शनादेवोपपन्नः । किञ्चेतरेतरसंमुखयोर्मुकुरयोरन्तरं मुकु- राऽनवस्था। सर्वान्तःसे च मुकुरे मुखादेः प्रतिबिम्बो दृश्यते । तत्र हतिपरावृत्त्योर्मुखपतीतेश्वातिदुर्घटत्वाद्दर्पणद्वयातिरिक्तस्स पति- घातकस्याऽभावात् । एकतः प्रतिहत्य परावृत्य पुनरन्यतः प्रतिहत्य परावर्तनेऽपि तयोः पुनः पुनः प्रतिघातकत्वस्य दुर्वचत्वेन तदाद- शद्वयातिरिक्तस्य प्रतिपातकस्स चाभावेन दर्पणद्वयातिरिक्तानां दर्पणानां तदन्तसमुखस्य यद्दर्शनं तस्य प्रतिविम्यमन्तरेण सर्वथैव दुरुपपादत्वात् । किंचाऽदर्शोपरि केशादिस्थापने मुखं तावता विभक्तं दृश्यते । परावृत्तौ सत्सर्वथैवाऽनुपपन्नम् । मुखे व्यवधा- नाऽभावेन परावृत्तानामविभक्तमहस्याऽनिचायात् । न च केशादि- प्रतिहतरश्मीनामग्राहकत्वानुपपचिरिति वाच्यम् । तथा सति हस्तादिना मुद्वितकनयनस्यार्द्धमुखदर्शनप्रसङ्गात् । कतिपयरश्मीना- मग्राहकत्वस्याऽपि तौल्यात् । तावतामेव पूर्णग्राहकत्वकल्पने चार्द्धस्स मुखस्स दर्पणसाम्मुख्ये पूर्णमुखदर्शनप्रसङ्गात् । शलाका- व्यवहिते स्थाल्युदके सण्डितमुखाऽवलोकनोत्तरं शलाकायास्तदुद- कान्तःस्तलभागे प्रवेशने मुखमखण्डितमवलोक्यते । शलाकाचाऽन्तः सिकतादिवत् । तेनान्तर्जलमध्यदेशे प्रतिविम्वोद्भव इति निश्चा- य्यते । परावृत्यग्रहणे तु तन्न स्यात् । किं वहुना परादिण स्वप्रति- विम्वदर्शनात्स्वाक्षण्यपि तथैवेति निश्चयात् । प्रतिविम्वोत्तरमेव सर्वस्य चक्षुर्गोचरीभाव इत्यपि सुधीभिरवधेयम् । नचाऽप्रतिबिम्ब- स्याऽङ्गीकारे तद्भानस्याऽध्यासत्वाऽनुपपत्तिः । तस्य भ्रमपर्यायत्वात् । लक्षणस्य त्वव्याप्तिग्रस्तत्वेनोपेक्षणीयत्वात् । न च लक्षणाऽभावे प्रति- बिम्बज्ञानस्य प्रमात्वापत्तिः । मायिकेतरविषयाऽजन्यत्वे सशयेऽति- व्याप्तिवारणाय पूर्व सति मायिकविषयजन्यज्ञानत्वस्य भ्रमत्वात् । न च तम.स्थस्य बहिष्ठादर्शे प्रतिविम्वाऽदर्शनाद्वहिष्ठपुरुषस्य तमःस्था- १ अस्य ग्रन्थस्यैक्मेव पुस्तकं मुम्बईस्थ गो. श्रीद्वारकेशमहाराजानामुपल- धम् । ततश्च प्रतिपुस्तराभावादशुद्धिबाहुल्यारस्वयुद्ध्या शोधनाच्च भूयानशुद्धो भाग उर्वरित ।
दर्श प्रतिविम्वदर्शनासरावृत्तिरपि युक्तिसहेति वाच्यम् । तेजोऽभावे मायया तमोजननात्तेन विम्वाऽवरणे प्रतिबिम्बाऽनुद्भवाद्दर्शनाभाव- सिद्धौ आलोकवति बिम्बस्यान्तरालिकतमसानावरणान्त उद्धवेऽज्ञानस्प विक्षेपानुकूलत्वात् । तमसोऽपि तदनुकूलत्वेन दर्शनस्य च सिद्धौ परावृत्तिर्युक्तेर्वाधितत्वात् । अतः प्रतीतितोप्युचितैव प्रतिबिम्ब- सिद्धिः । न चादर्शादिप्रतिहतसूर्यरश्मीनां परावृत्तिदर्शनाच्चक्षुरि- न्द्रियस्याऽपि तैजसत्वेन तद्रश्मिपरावृत्तिरप्युचितैवेति वाच्यम् । इन्द्रियमात्रस्य राजसाहंकारकार्यत्वेन चक्षुपोऽतैजसत्वात् । तैजस- त्वपक्षेऽपि प्रौढत्वाऽभावेन परावृत्त्यभावात् । अन्यथा तैजसत्रसरे- ण्वादिरश्मेरपि परावृत्तिकल्पनाप्रसद्वात् । पूर्वोक्तदूपणापत्तेश्चेति दिक् । केचित्तु दर्पणादिषु प्रतिविम्वं मुखच्छायाविशेषरूपत्वात्सत्यमे- वेत्याहुः । तन्न । 'छायाप्रत्यादयाऽभासा असन्तोऽप्यर्थका- रिणः' इत्येकादशस्कन्धे तस्याऽसत्यत्वकथनात् । न च घृते प्रतिबिम्बमवलोक्य दाने च्छायादानव्यपदेशात्प्रतिबिम्बोपि छा- यैवेतिशयम् । कान्तिमादाय तथा व्यपदेशात् । अन्यथा पूर्वो- क्तवाक्यस्य भेदनिर्देशविरोधात् । नचात्राङ्गुल्यादिसंपर्कजाऽऽभासो विवक्षित इति वाच्यम् । अर्थकारित्वलिङ्गविरोधात् । तेन कस्याप्यर्थस्याऽभावात् । इतरेतु प्रतिविम्बस्य छायारूपत्वमयुक्तम् । शरीरावयवैः कियद्देशवर्तिन्यालोके निरुद्धे तत्र देशे छायात्मकस्य तमस एव छायात्वात्तस्य च नीलरूपत्वेन मौक्तिकमाणिक्यादिप्रतिबिम्बस्य सितलोहितरूप[वसुमोरूप]छायात्वस्याऽयुक्तत्वात् । तमोरूपछायारहि- तस्य तपनादिपतिविम्बस ताक्छायात्वाऽयोगाचेल्याहुः । तदप्य- २०० सहतम् । छायापदस्य कान्तावपि रूढत्वात् । तां विहाय तमो- रूपच्छायात्वस्य चक्षुप्मता वक्तुमशक्यत्वेन तमोरूपत्वमादाय दूप- णस्याऽप्ययुक्तस्यात् । सत्यत्वदूपणं तु युक्तम् । इपीकाद्वयमा- वस्थूले निविडावयव आदर्शादानेतावस्थूलसमुखादेनिनोन्नतल स्थातुमशक्यत्वात् । यदा यत्रैकेन प्रतिबिम्बो दृश्यते तदैव तद्देशावच्छेदेनान्यैर्न दृश्यत इतोपि सत्यत्वस्याऽशस्यवचनत्वाच । द्रव्यत्वोद्भवनमपि छायायाः कान्तिरूपत्वादेव निरस्तम् । आरम्भ- कपरिणामिनस्तदुत्पत्तिनाशादेरपि निर्वक्तुमशक्यत्वाच । न च 'सकिन्नरानि तिस्मृतौ प्रतिविम्वेन सृष्टिकथनाचस्य सत्यत्वं श- क्यम् । प्रतिबिम्बम्य व्यापारताया एव तत्र विवक्षितत्वात् । स्वस्योपादानत्वात् । प्रकरणेन तथा निश्चयात् । तातयिायाश्च हेतावप्यनुशासनाच्च । तेन रूपात्मक गुणसमुदायरूपत्वं च तथा । आदर्शादौ तादृपाभावाद्वत्यांतरं () केवलानां • रूपादीनाम- शक्यवचनत्वाच्च । तस्मान्मायिक एव सः । सर्वविलक्षणत्वाच । तथाहि-खाधारस्वभावानुविधायित्वे सति सन्मुखस्थितार्थाऽनुवि- धायित्वेन प्रतीतियोग्यो हि प्रतिबिम्बः । न हीदृशत्वमन्यस्मिन्नस्ति । सत्यन्तरूपतायाः स्फटिकादौ, द्वितीयदलोक्तरूपतायाश्च छायादौ सत्वेऽपि समुदितरूपत्वस्य काऽप्यभावात् । न च स्वपदमनर्थकम् । यत्किञ्चिदाधेयनिरूपिताऽऽधारतायाः सन्मुखस्थितार्थेऽपि सत्वेन तत्स्वभावानुविधायित्वस्य च छायायां सत्वेन पुनस्तत्राऽतिव्याप्तेः । नचाऽऽमाश्रयः । प्रतिबिम्बस्य प्रत्यक्षतो गृह्यमाणत्वात् । नाप्याधा- रपदं तथा । असम्भवात् । खस्वभावानुविधानाङ्गीकारस्याऽनुभववि- रुद्धत्वात् । स्वस्वभावमनुविदधातीति प्रयोगाऽदर्शनात् । अहिल- २०१ तयाऽङ्गीकारेऽपि छायायामतिव्याप्तेस्तादवस्थ्यात् । नचाधारत्वनिया- मकसम्बन्धे विवक्षिते पूर्वदलस्य नातिव्यापकत्वमिति शक्ष्यम् । तदाऽपि तन्त्यादिप्वतिव्याप्तेः । आदर्शादौ प्रतिबिम्बाधारत्वस्य विशेप्यतासम्बन्धनियतत्वात् । प्रतिबिम्बे तादृशाधारस्वभावानुवि- धायित्ववत्पटे तन्त्वन्तरादिप्रतीतेः। पटादावपि तन्त्वाद्याकारत्वस्य तथात्वेन तत्वभावस्य प्रावरकत्वादिरूपस्य तन्त्वादिभिरनुविधानेन तेप्चतिव्याप्तेः । नाऽपि योग्यपदं तथा । अप्रतीतप्रतिबिम्बेऽव्याप्तेः । सुष्टु । केचितु तदधीनत्वे सति तत्सदृशत्वं प्रतिबिम्ब- त्वमित्याहुः । तन्न । छायायामतिव्याप्तेः । न च तदधीनप्रतीति- कत्वे सति तथात्वे विवक्षिते न दोप इति वाच्यम् । आभासेऽति. व्याप्तेः । तस्मात्पूर्वोक्तमेव लक्षणम् । अतः पदार्थान्तरमेव प्रति- विम्बः । मायिकत्वं चास्य 'यथाभासो यथा तमः' इति द्वितीय- स्कन्धीयभगवद्वाक्यादेव सिद्धम् । तस्मान्न कोपि चोद्यावसरः । इति विद्यलेशकृपया तत्त्वदीपप्रकाशनम् । प्रतिविम्ब निश्चितवांस्तदासः पुरुषोत्तमः ॥ ४ ॥ इति श्रीमहल्लभनन्दनचरणैकतानश्रीपीताम्बरतनुजपुरुपोत्तम- कृतोऽष्टमः प्रतिविम्यवादः। अतः सर्व ॥ श्रीः॥ ॥ श्रीगोपीजनवल्लभाय नमः ।। पुष्टिमार्गसिद्धान्तवामालायां गोस्वामिश्रीमत्पीताम्बरविरचितो भक्तिरसत्ववादः। Dow श्रीमदल्लभनन्दनचरणरजापुञ्जकृपयाऽऽतः । भक्तिरसस्य स्थायी स्नेहो मन्मानसे जयति ॥१॥ नन्यपूर्वमिदं कुत उच्यते । कथम् । अश्रुतत्वादसिद्धत्वादनुभूतेरभावतः । अन्तर्भावाचाऽतिरिक्तो रसो भक्तिर्न कुत्रचित् ॥ २॥ तथाहि-न हि वेदपुराणकाव्येषु कचन भक्तिरसः श्रूयते । किच । 'विभावादिभिरभिव्यज्यमानः स्थायीभावो रस इति रसशास्त्रे प्रसिद्धम् । भक्तिस्त्वाराध्यत्वेन ज्ञानं वा निदिध्यासनरू- पमुपासनं वा श्रवणादिनवकं वा तत्र तत्र स्थितम् । तत्राऽऽद्ययोः स्थायिभावो न कचित्सिद्धः । ज्ञानस्य त्रिक्षणावस्थायित्वात् । नान्यः । अनेकेपामेकस्य स्थायिनो विरुद्धत्वात् । कीर्तनवन्दना- दीनां वागादिधर्मत्वेन भावत्वाऽभावेन रसत्वस्याऽशक्यवचनत्वाच्च । नापि ले हो भक्तिः । तस्येच्छाविशेषरूपत्वेन तत्र भक्तित्वस्याऽप्र- १ श्रवणादिनवपक्ष।
२०३ सिद्धेः । न चातिरिक्त एव स्नेह इति वाच्यम् । इप्यमाण एव सिग्ध इति प्रयोगदर्शनेन तत्र तथात्वनिश्चयात् । अतो न नेहा- ऽतिशयो भक्तिरसः । नाप्यनुभूयते रसिकैः । न च परमप्रियाया- मनुभूयत एव स्नेह इति वाच्यम् । तस्य स्त्रीपुम्प्रतियोगित्वेन नायि- कानायकाऽऽलम्बनकत्वेन शृङ्गार एवाऽन्तर्भावात् । पिनादिनेहस्य तु तदभावेन तद्भक्ते रसत्वस्याऽशक्यवचनत्वाच्च । नापि भगवद्भक्तेस्त- थात्वम् । उक्तवाधकस्य तत्रापि तौल्यात् । पुंसामपि तस्या दर्शनाच । 'गोप्यः कामाद्भयात्कंसो द्वेपाचैद्यादयो नृपाः । संवन्धाह- प्णयः स्नेहायूयं भक्या वयं विमो' इति सप्तमस्कन्धीये नारद- वाक्ये नेहमक्त्योर्मिन्नतया निर्देशाच्च । अतः कंसादिभयस्य भया- नकस्थायिनीय गोपिकादिकामस्य शृङ्गारस्थायिनि रत्याख्येऽन्तर्भावात् । तदितरस्या रतेस्तु 'रतिर्देवादिविपया भाव इत्यभिधीयते' इत्य- भियुक्तोक्त भावेऽन्तर्भावाद्भरतादिप्रणीते नाट्यशास्त्रे शृङ्गारादीनाम- प्टानां निरूपणादभियुक्तैः शान्तस्यापि नवमस्याङ्गीकारावादशरस- वादिनो भोजस्यापि मते भक्तेरगणितत्वातावन्त एव रसा न त्वति- रिक्तो भक्तिरसोऽपीति प्राप्ते-अभिधीयते । श्रुतत्वाल्लोकसिद्धत्वादनुभूतेश्च भेदतः। तेभ्योऽतिरिक्तो मन्तव्यः साङ्गो भक्तिरसो वुधैः ॥१॥ तथाहि-भक्तिस्तावद्गोपालतापनीये श्रूयते । भक्तिरस भजनं तदिहामुत्र फलभोगनैराश्येनास्मिन्मनःकल्पन'मिति । तन्मनः- कल्पनं किंवरूपमिति जिज्ञासायां नारदपञ्चरात्रे तनिष्कृप्यते । 'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति १ दिमिरिति सपाठः। .
प्रोक्तस्तया मुक्तिन चान्यथेति । शाण्डिल्यसूत्रेऽपि । 'अथातो भक्तिजिज्ञासेति प्रतिज्ञाय 'सा परानुरक्तिरीश्वर' इति तस्या लक्षण क्रियते । अनुरक्तिश्च स्नेह एव । लिग्ध एवानुरक्त इति प्रयोगदर्शनात् । लेहश्च नेच्छाविशेष । विशेषस्य निर्वस्तुमशक्य- त्वात् । न च सुखविपयिणी सा स्नेह इति युक्तम् । वर्गकामनायामपि तथावप्रसङ्गात् । पुत्रादिविषयकलेहम्येच्छारूपत्वाऽभावेन तस्य स्नेहत्वाऽभावप्रसद्भाच्च । ननूक्तमिष्यमाणविपरिणी सा सेह इति । तन्न । स्वर्गस्य शत्रुहननादेश्वेप्यमाणत्वात् । तद्विपयकेच्छाया सेहादि- पदप्रयोगस्य काप्यदर्शनात् । विद्यामि प्रीणाम्यनुरज्यामि नेच्छामीति विरुद्धानुव्यवसायाच्च । अत एव नाराध्यत्वेन ज्ञानं ज्ञानान्तर वा स । अत एव न यत्नोऽपि स । अनुकूलबुद्धिवेद्यत्वाच्च न द्वेपादिरपि । सविपयकत्वान्न लौकिकसुखरूपोऽपि । प्रत्यक्षत्वाचा- दृष्टरूपोऽपि न । अतो मनोधर्मान्तरमेव स इति निश्चय । सोऽपि न क्षणिक कालान्तरे तत्कार्यस्य दर्शनाचद्विपयकसस्कारे मानाभावाच स्था- य्येव । अत एव काव्यादायप्युच्यते-'आविर्भावदिने न येन गणितो हेतुस्तनीयानपि क्षीयेताऽपि न चाऽपराधविधिना नत्या न यद्वर्धते । पीयूपप्रतिवादिनस्त्रिजगतीदुःखद्गृह, साम्प्रतं प्रेम्णस्तस्य गुरो किमद्य करवै वादिष्टताराघव' मित्यादी। एव स्थायित्वे तम्य सिद्धे मातु पुनदर्शनादौ तदभिव्यक्तिरु- स्कर्पश्च भवतीति रसत्वमपि तम्य सुघटमेव । अत एव तत्स्मरणादौ दुग्धसावो यथासम्भवं व्यभिचारिणश्च तन प्रसिद्धा एव । अत २०५ एव श्रीमदुद्धवागमन उक्त 'यशोदाऽऽकण्य नामानि कृष्ण- स्वाऽऽचरितानि च । शृण्वन्त्यथूणि चानाक्षीनेहसुतपयोध- रेति । एवमेव पितृमातृमिनादिप्वपि द्रष्टव्यम् । अत एव श्रीन- न्दादीना तादृशानि तत्र तत्र वचासि । शौनकस्य च । 'तदश्मसार हृदयं यतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो ने जलं गावरहेषु हर्प इति । भक्ते रसत्व कण्ठतोऽप्यु- कम् । 'निगमकल्पतरोगलितं फलं शुकमुसादमृतदनसंयुतम् । पित भागवतं रसमालयं मुहुरहो रसिका भुपि भाउका' इति । अतो भागवते रसो भक्तिरस एव । 'अस्सां वै श्रूयमाणाया कृष्णे परमपूरुपे । भक्तिरुत्पद्यते पुंसः शोकमोहतमोप- हेति भरत्यर्थमेव भागवतसहिताप्रणयनकथनात्तत्र प्रतिपाद्यमानस्य भागवतरसस्य भक्तिरूपताया एव सिद्धेरिति । अत एव शृङ्गारा- दिन्नतयानुभूयत एव रसिकै । यत्तु शृङ्गारस्यैव द्वावप्यवस्थाभेदौ सयोगो विप्रलम्भश्चेति सरच्यते । तत्त्वविचारितरमणीयम् । मानादिप्यप्यनिपिद्धसयोगमुखविप्रलम्भयोरुपलव्धे । अत स्नेहस्यैव तौ भेदौ । वस्तुतस्तु रतिरपि स्नेहविशेप एव । एव सति शृङ्गारस्यैव रसत्व न केवर स्नेहस्येत्या विनिगमकाऽभावात्तदुभयो पार्थक्येन रसत्व स्वीकार्यम् । तथा च नायिकाया नायकस्य, तस्मिंस्तस्याश्च या रति सा शृङ्गार । मात्रादीना पुत्रादौ तेपा च तेषु या रति स देवरस्नेहरस इति सिद्धम् । भगवद्विपयकाया निरुपाधिकाया द्विविधाया अपि रतेरलौक्किनेन मुख्यरसरूपत्वम् । 'रसो वै स' इति श्रुतेर्भगवतो रसरूपत्वात् । लोकिरस्य तूपाधिजन्यत्वाचदाऽऽ- भासत्वमिति ज्ञेयम् । तेन भक्तिरसस्य तेभ्योऽतिरिक्तत्वं निष्पत्यू- हम् । श्रवणादिनवके तु तजनकत्वात्तत्र योगो भाक्तः । अतो न शङ्कालेश इति दिक् । इति श्रीमल्लीलार्णवचरणकाश्मीरजरजो- नुरागारक्तश्रीवजपतिरतिप्राप्तनिखिलः। पयोदःश्रीहारिद्युतिहरित्तडित्तुल्यबसना- भिधावान्नेहस्य खभजनरसत्वं व्यरचयत् ॥ १॥ इति श्रीमद्यदुपतितनयश्रीपीताम्बरविरचित्तो भक्ति- रसत्ववादः सम्पूर्णः ॥
॥ श्रीः ॥ श्रीगोपीजनवहभाय नमः । पुष्टिमार्गसिद्धान्तमामालायां गोस्वामिश्रीमत्पुरपोत्तमविरचितो भक्त्युत्कर्पवादः। VL2XGMT मुक्तैरप्यभिलपितामतिशयिताऽनुग्रहात्प्राप्याम् । आनन्दधर्मभूतां रसरूपां नौमि हरिभक्तिम् ॥ १॥ ननु सर्वमिदमसङ्गतमिव प्रतीमः । तथा हि-'यदा सर्ने प्रलीयन्ते कामा येऽस्य हृदि स्थिताः । अथ मोऽमृतो भवत्या ब्रह्म समश्नुत' इति यावत्कामप्रलयेऽमृतत्वश्रावणेन मुक्तात्मना तदभाववोधनात् । सत्यभिरापे मुक्तत्वस्यैवाऽसम्भवात् । विचाऽनुग्रहो नाम प्रसादो वा दया वा' । तत्राऽये 'तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशमिति, 'मो- क्षमिच्छेज्जनार्दनादिति श्रुतिस्मृतिभ्या दर्शनमुक्त्योरेव प्रसा- दलभ्यत्वकथनेन प्रसादातिशयस्य तत्रैव पर्यवसानात् । दयाप- क्षेऽपि तस्या निरुपधिपरदु खप्रहाणेच्छारूपत्वाद्यावहु सनिवृत्तेस्तत्रैव सम्भवेन तंत्र पर्यवसानौचित्याच्च । १ तस्याऽभिगपस्याऽभाव । २ दयाया। ३ दशनमुक्त्यो ।
२०८ किच्च भक्तिहि स्नेहरूपत्वेन भवतामभिमता । तस्य च मनोध- मत्वमेव भावरूपत्वात्सिद्धमिति दूरनिरामानन्दधर्मत्वम् । किश्चा- ऽऽनन्दपदेन सुखं वा विवक्षितं, ब्रह्म वा । उभयथापि स्थायिभावात्मकत्वाऽभावाद्रसरूपत्वहानिः । किञ्च ब्रह्मधर्मत्वेन नित्यत्वमवश्यं वाच्यम् । तदपि न युज्यते । तत्कादाचित्कत्वस्य प्रत्यक्षसिद्धत्यात् । 'पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेष्विति प्रार्थनावाक्याच । श्रुतिपुराणादिपु ब्रह्मधर्म- त्वेनाऽनुक्तत्वाच । अतः कारिकोक्तं सर्वमेवाऽसगतमिति प्राप्ते- अभिधीयते । निरुपाधिनियत्वस्य निर्णीता ब्रह्मधर्मता । वाक्यान्बयाधिकरणेऽन्यच्छीभागवते स्थितम् ॥ तथाहि-मैत्रेयीब्राह्मणेऽपि । 'येनाऽहं नाऽमृता स्यां किमहं तेन कुर्यामि'त्यादिनोपक्रमेऽमृतत्वार्थ'मात्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्याऽऽत्मदर्शनं, तत्सा- धनं, चोपदेष्टुं 'न वा अरे पत्युः कामाय पतिः प्रियो भव- ती त्यादिनाऽऽ मनि निरुपाधिप्रीतिविषयत्वाभ्यासेन तत्तत्र परिचा- यितम् । उपसंहारे 'चैताचदरे सल्लमृतत्व'मित्यनेन तैद्विपयक- ज्ञानस्यैवाऽमृतत्वमुच्यते । तत्र स्वप्रतीत्याऽपत्यादि सर्यापेक्षया प्रियवलितका खात्मैव भवतीत्युपरमोपसंहाराभ्यासैरिदं वाक्यं जीयोधकम् । यत्पुनरत्राऽऽत्मज्ञानादीनां सर्ववेदनरूपफल सिद्ध्यर्थ. मात्मनः सर्वरूपत्वं धाव्यते । यच्च समुद्रादिदृष्टान्तैः सर्वाधारत्वं, १निसलमपि । २ तस्य मुसस्य तद्रूपलाद्भवी । ३ भाग्मविषयक ४ पूर्वपक्षिणोऽनुमादः।
२०९ . या च श्रुत्यन्तरे तस्य ब्रह्मता, तत्सर्वं तस्योत्कर्षार्थम् । जीवा- ऽदृष्टस्यापि जगदुत्पत्तौ सहकारित्वात् । अतो जीव एवाऽत्राभि- धीयत इति पूर्वपक्षे, तन्निरासाय वाक्यान्वयादिति हेतुळसपा- दैब्रह्ममीमासायामुक्त । तत्राऽयमर्थः । अत्रोपक्रमेऽमृतत्वायाऽऽत्मदर्शन तत्साधनानि चोपदिश्यन्ते । अमृतत्वं च ब्रह्मज्ञानादेवेति निर्णीतम् । 'तमेव विदित्वातिमृत्युमेति नाऽन्यः पन्था विद्यतेऽयनाय' 'तमेवं विद्वानमृत इह भवति नाऽन्यः पन्था अयनाय विद्यत इति सावधारणयाऽन्यमार्गनिपेधिकया श्रुत्या । तेनेहांऽपि तैमेवात्मत्वेन परामृश्य दर्शनादिवाक्यानामन्वयो वक्तव्य । अन्यथा तद्विरोधा- ऽऽपत्ते । एव चोपसहारवाक्यमपि युज्यते । उपमश्चाऽसजातवि- रोधित्वाप्रवर । किञ्चैव नफलादिवाक्यान्यन्येप्यन्ति । तस्यैव सनत्वात्सर्वाऽऽधारत्वाच । अन्यथा तु नि प्रयोजनकाऽसदुत्कर्षपो- धनानान्वीयु । न च प्रियत्ववाक्यानामनन्वय शङ्कय । आनन्द आनन्दजनक एव च प्रियत्वप्रतीतेस्तदर्थमानन्दस्वरूप आनन्दजनके च विचार्यमाण 'आनन्दो ब्रह्मेति व्यजानात्' 'आनन्दायेव सल्लिमानि भूतानि जायन्ते' 'यो वै भूमा तत्सुखं नाऽल्पे मुसमस्ति' इत्यादिश्रुतिर्ब्रह्मण आनन्दरूपत्वे भूतशब्दवाच्याना सशरीरजीवाना तरकार्यत्वे, 'सर्व एमाऽऽत्मानो व्युचरन्तीति श्रुत्या केवलानामशत्वे च सिद्धे, यज्जीवस्य परमप्रियत्व तद्ब्रह्मगतमेव, ब्रह्मणोऽविपयत्वे तदशत्वात्सम्बन्धनैकट्याच जीवे भासते । जीवस्य १ पूर्वाक्तश्रुत्यादौ । २ मैनेयोनाह्मणादौ । ३ परमात्मानमेव । ४ मैनयी- ब्राह्मणस्थवाक्यानाम् । ५ 'तमेर विदित्वे त्यादिवास्यानि । ७ मैत्रेयीब्राह्मणस्थवाश्याना जीवपरत्वे । ८ ब्रह्मवायत्व। पुष्टि०१४ ६ज्ञानस्पस्य ब्रह्मण।
२१० विपयत्यात् । तथा 'एप घनानन्दयातीति सावधारणश्रुत्या ब्रह्मण एवाऽऽनन्दजनकत्वाद्ब्रह्मैवानन्दजनकमिति योऽन्यत्र प्रियवाऽध्यास सोऽपि तत्सबन्धादेवेति पियत्ववाक्यानामपि तत्रैवाऽन्वय । एप चाऽभ्यासोऽपि तस्यैवाऽनुगुण इति साक्षात्परम्परया च सपा वाक्याना तत्रैवाऽन्वयादि ब्रह्मवाक्यमिति सिद्धान्तित व्यासचरणै । तेन निरुपधिप्रियत्तस्यानन्दधर्मत्व तत्र सिद्धम् । प्रियत्नमेव च ह । 'प्रेमा ना प्रियता हार्द प्रेम स्नेहोऽथ दोह दम् । मुत्प्रीतिः प्रमदो हर्प' इति च । लेह एव च भगति भक्ति ! 'माहात्म्यवानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति गोक्तस्तया मुक्तिर्नचाऽन्यथेति पचरानात् । अत्र दृढ इति ब्रह्मधर्मत्वनोधकम् । सर्वतोऽधिक इति निरुपधित्वनोधकम् । तथा 'सा पराऽनुरक्तिरीश्वर' इति शाण्डिल्यसूत्राच । अनाऽपि परपद निस्पधित्ववोधकम् । नन्वेव भक्तेन धर्मले नित्यत्वात्पुनश्च भूयाद्भगनत्यनन्ते रति'रित्यादिप्रार्थनापाक्याना 'दानवततपो- होमजपस्वाध्यायसंयमैः । श्रेयोभिविनिर्धश्चान्यैः कृष्णे भक्तिहि नाध्यत' इत्यादीना सावधानवाक्याना, 'भक्तिरस्य भजनं तदि- हामुनफलभोगनैराश्येनाऽसिन्मनःकल्पनमिति ' भक्तिरक्षणभु तेश्च विरोध इति चेत् 1 मैयम् । तस्याऽनित्यत्वेऽपि 'ज्ञान परमगुह्य मे यद्विज्ञानसमन्वितम् । सरहस्यं तदनं च गृहाण गठित मयेत्यत्रोक्तमगवद्दत्तज्ञानव द्युक्तं भगैः सरितरत्र चाधु रिति भगबद्दने बर्यवच भगवद्विचारिताऽनुपूा मगसि तत्म १ ग्रह्मराम्य धादेव। २ प्रमप्येव । ४ 'आत्मा वा रे दव्य' इत्यादि मैत्रेयीवामणवाक्यम् । HT ३ ब्रह्मण्यन ।
मागमनेन तत्वरूपनित्यत्वस्याऽवाधात् । अत एव प्रार्थनावाक्ये पुनःपदमपि संगच्छते । विद्यमानस्यैकस्मिन्सम्बन्धे निवृत्ते कालान्तरे तस्स सम्बन्धान्तर एव पुनःपदप्रयोगात् । यथा पुनरागत इति। तेन पुनर्भवनप्रार्थनादिवाक्यानां कादाचित्काऽनुभवस्य च न विरोधः । यथा च 'स मानसीन आत्मा जनाना'मित्यत्र मनस्याचिर्भा- वाद्भगवान्मानसीन इति श्राव्यते । तथा भगवत्सम्बन्धनैकट्यान्मन- साविर्भवन्ती भक्तिरपि मनोधर्म इति व्यवहियते । यथा वन्हि नैक- ट्यतारतम्येनोप्णवर्गानुभवतारतम्यं तथैव भगवन्नैकट्यतारतम्येन भक्त्यनुभवतारतम्यम् । तेन लक्षणश्रुतेरपि न विरोधः । किं च 'रसो वै स' इति रसत्वेन श्रावितोऽपि भगवारसशास्त्रोक्तपणाड्या हृद्याविभूत एव रसतां स्वस्मिन्ननुभावयतीति भूप्रवालेत्यत्र स्थितम् । तथा भक्तिरपि तया प्रणाड्या हृदि स्थायित्वेनाऽविर्भवन्ती ततो हेवन्तरैरुत्कृप्यमाणत्वेन चाऽनुभूयमाना रसरूपतामपि धत्त इति न तद्विरोधः । तदाविर्भावश्चाऽत्यनुग्रहादेव । 'भगवान्भजतां मुकुन्दो मुक्ति ददाति कहिचित्म न भक्तियोग'मिति वाक्यात् । न चैवं सर्वथा तददानमिति शक्यम् । 'कृपिरुत्कृष्टव- चनो णश्च सद्भक्तिवाचकः । अश्वापि दातृवचनस्तेन कृष्णं विदुर्बुधा' इति वाश्ये दानस्याऽप्युक्तत्वात् । अतोऽत्यनुग्रह एव ददातीति निश्चयः । अनुग्रहध न फलदित्सा । न वेच्छान्तरम् । 'यसानुग्रहमिच्छा- मीति भगवद्वाक्य इच्छाविषयत्वेनोल्लेखात् । 'फलदित्सादेस्त- थात्वाऽभावादिति भक्तिहंसे स्थितम् । दयादिरप्येतस्यैव पर्यायः । 'भवन्तायनुगृहीतां याता वोऽनुग्रहादिव'मित्यादिपु दयामार्थनाथा- २१२ क्येपु तथा प्रयोगेणैतन्निश्चयात् । अत एव 'सालोक्यसार्टिसा- मीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्से- वनं जनाः' 'मत्सेवया प्रतीतं च सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुत'मिति तादृशा मुक्त्यनङ्गीकारोऽपि सङ्गच्छते । इयं च मुक्तानामप्मभिलपितैव । आत्मारामाश्च मुनयो निम्रन्था अप्युरुक्रमे । कुर्वन्त्यहेतुकी क्तिमित्यंभूतगुणो हरिः । परिनिष्ठितोऽपि नैर्गुण्य उत्तम- श्लोकलीलया । गृहीतचेता राजर्षे आख्यानं तदधीतवानि'- त्यादिप्रथमद्वितीयस्कन्धादिवाक्यैस्तथा निश्चयात् । न च 'यदा सर्वे प्रलीयन्त' इति श्रुतिविरोधः । इतः पूर्व कामयमानस्य पुनरागतिमुक्त्वा अथाऽकामयमान इतिवव्ययस्या- कथनं प्रतिज्ञाय 'योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्मात्प्राणा उक्रामन्त्यत्रैव समवनीयन्त' 'ब्रह्मैव सन्ब्रह्माप्येती'त्युक्त्वा तत्सग्रहोऽस्मिन्मंत्र उच्यते । तत्र सग्रा- साऽर्थे असणे अकामस्याऽप्यात्मकामत्वश्रावणेन तदर्थसग्राहकेऽस्मि- न्मत्रेऽपि तदतिरिक्तानां सर्वेपा कामानामेव सर्वपदे विवक्षिततया- ऽऽत्मकामातिरिक्तकामानामेव लयस्य मुक्त्यधिकारवेन विवक्षित- त्वात् । भक्तेश्चात्मधर्मत्वेन तनापकत्वेन च तदमिलापस्याऽत्मकामा- ऽनतिरेकात् । अतः कारिकोक्तं सर्वमवदातमिति दिकू । श्रीमदाचार्यकृपया श्रीपीताम्बरानुना । सुबोधिन्युक्तया रीत्या भक्त्युत्कर्षः समर्थितः ॥ १॥ इति श्रीपीताम्बरतनुजगोस्वामिश्रीपुरुषोत्तमविरचितो भक्त्युत्कर्षवादः सम्पूर्णः॥ १ मुतानामप्यमिलपितेति ।
॥ श्रीः॥
श्रीकृष्णाय नमः।
पुष्टिमार्गसिद्धान्तवामालायां
गोस्वामिश्रीमत्पुरुषोत्तमकृतः
खलालपनविध्वंसवादः।
पादाङ्गुलीयमञ्जीरनासिकाभूपणाञ्जनः ।
स्खलङ्कृतं हरिं वीक्ष्य शाक्ताः शङ्काकलङ्किताः ॥ १ ॥
मार्गन्तः शाक्तताम्रान्ति कृत्वा वल्गन्ति वैष्णवः ।
तादृशां जारजातानां मुखध्वंसं विदध्महे ॥२॥
'सहस्रशीप पुरुषस्तथैव 'पुरुषो ह वै ।
नारायण'इति श्रुत्योस्तादृशीवितरासु च ॥ ३॥
सिद्धः पुमान्हरिस्तद्वत् पुराणेप्वपि दृश्यते ।
श्रीभागवतवाराहपामगारुडकादिपु ।। ४ ।।
'स एव वासुदेवोऽयं साक्षात्पुरुप उच्यते ।
स्त्रीप्रायमितरत्सर्वं जगहमपुरःसरम् ।। ५ ।।
स एव वासुदेवोयं पुरुषः प्रोच्यते बुधैः ।
प्रकृतिस्पर्शराहित्यात्स्वातन्याद्वैभवादपि ॥६॥
इत्युक्तं नारसिंहेऽत्र सातव्याद्वारितः शिवः ।
जगत्कारणतापन्नः शिवया मुनिपुङ्गवाः ॥ ७॥
२१४ सा तस्याऽपि भवेच्छक्तिस्तया हीनो निरर्थकः । यत्सूतसंहितान्तःस्थैः पञ्चविंशद्भिरीदृशैः ॥ ८ ॥ वाक्य. सर्वाखवस्थासु शक्त्यधीनः स्मृतः शिवः । 'अनिच्छतोपि यस श्रीरङ्गान्न च्यवते कचित् ॥ ९ ॥ 'अनन्वितं ते भगवन्नित्यादौ शक्त्युपेक्षणम् । 'हरिहिं निर्गुण'इति नैर्गुण्यं च हरेः स्फुटम् ॥ १० ॥ तत्साक्षात्पुरुपः कृष्णः परं ब्रह्म च स स्फुटम् । परं ब्रह्म परं धाम पवित्रं परमं भवान् । आहुस्त्वामृपयः सर्वे देवपि रदस्तथा । असितो देवलो व्यास' इति गीतासु दर्शनात् ॥ ११ ॥ तापनीयश्रुतिपु च तथात्वप्रतिपादनात् । तथा 'स वै नैव रेम' इति काण्वश्रुतावपि ॥ १२ ॥ खद्विधाकरणाजायापती स्वयमभूदिति । उक्तस्तस्य तथाभाव एवं माध्यन्दिनेऽपि च ॥ १३ ॥ पुराणे ब्रह्मवैवर्ते खण्डे श्रीकृष्णजन्मनः । गर्गेण नामकरण इदमेवोपबृंहितम् ।। १४ ॥ 'वर्धते सा ब्रजे राधा शुक्ले चन्द्रकला यथा । श्रीकृष्णतेजसोऽर्थेन सा च मूर्तिमती सती ॥ १५ ॥ एका मूर्तिद्विधा भूता भेदो वेदे निरूपितः । इयं स्त्री स पुमान् किं वा सा या कान्ता पुमानयम्'१६ 'पिताहमस्य जगतो माता धातेति गीतया । पौराणैर्वचनैश्चान्यैरन्यत्राप्युपहितम् ॥ १७ ॥ अतः कृष्णस्तथा तेनालङ्कतियुज्यते द्विधा ।
२१५ किञ्च-- सत्कार्यवादिना कार्य तत्सर्व कारणे स्थितम् ॥ १८ ॥ हेतुभिर्बहिरायातं भासते कच्छपाङ्गवत् । 'अहं सर्वस्य प्रभव' इत्युक्तेः कारणं हरिः ॥ १९ ।। तदन्तःस्यद्वयं तस्माचद्विदां रुचितो द्विधा । भूपणानि दधत्कृष्णस्तेनैवं राजते न च ॥२०॥ कृष्णे सर्वस्य सद्भावात् सर्व शृङ्गशरादिकम्() । तत्र धार्यतया शङ्का स्वाध्यायस्येतिसूत्रतः ॥ २१ ॥ उपसहारनियमाद्भक्तच्छापूरणादपि । अभिसन्धानपूर्ववाक्रियाया नाऽत्र संशयः ॥ २२ ॥ अतोऽल इतिरेतावत्येव युक्तेति बुध्यताम् । किञ्च- 'वक्षस्यधिश्रितमधूः' 'श्रीर्वधूः साक' मित्यतः ॥ २३ ॥ श्रीसाहित्यं सदा तस्मादर्धनारीश्वरो यथा । द्विविधाभरणैः पूज्यस्तद्वदनापि बुध्यताम् ॥ २४ ॥ 'किश्चार्थकामधर्मेषु कृष्णेन श्रद्धितात्मना । इत्युक्तं नारदे वीक्ष्य योगमायोदय गते ॥ २५ ॥ श्रीशुकैस्तत्र मन्तव्यं कामुकानुकृतानिदम् । कामुका यन्न सज्जन्ते धृत्वा तन्मुद्रिकादिकम् ॥ २६ ।। तिष्ठन्ति सर्वदा तद्वचदासको हरिस्तथा । तद्भूषणं धारयति प्रभुत्वान्नैव शङ्कते ॥ २७ ॥ 'अपि चानुकृतस्तस्य चेति सूत्रे विचारितम् । सर्वस्यैवानुकारित्व तथा तद्विषयश्रुतौ ।। २८ ॥
२१६
तेन ये कामुकास्तेपि तत्कृतेरनुकारकाः ।
अतो न्यायविचारेऽपि तस्कृतिर्न विरुध्यते ॥ २९ ॥
तथा रसविचारेपि शृङ्गारो विष्णुदैवतः ।
रसश्च स्थायिभावात्माऽऽलम्बनद्वयसंस्थितः ॥ ३० ॥
'रसो वै स' इति श्रुत्या रसात्माऽप्युच्यते तथा ।
अभेदवादः श्रौतानां महतां स मतस्ततः॥ ३१ ॥
तदालम्बनताभावे स्वरूपप्रच्युतो भवन् ।
रसत्वादेव हीयेत तस्मादुभयधारणम् ॥ ३२ ॥
विद्वद्भियोधकं ज्ञेयं रसत्वाऽभेदवादयोः ।
आधिदैविकवादोपि द्वैरूप्यादेव युज्यते ॥ ३३ ॥
प्राक् सृष्टा वितराभावाचदुक्तं पूर्वमेव हि ।
तेनावस्थाविशेषे या नायिकाधीनता खतः ॥ ३४ ॥
विरुद्धधर्माधारत्वात्मा न सातन्यवाधिका ।
पश्चाध्याय्युदितान्तर्धेर्मानत्वं तत्र युध्यताम् ।। ३५ ॥
अतः प्रकृत्यसम्बन्धादत्राऽऽशक्षा न कापि हि ।
किञ्च प्रभुः प्रगल्भोऽपि यशोदोत्सगलालितः ॥ ३६ ॥
तासां स्तनन्धयो भाति तेनाऽप्येवं सुशोभनम् ।
वार्धक्यलब्ध एकोऽयं वालः कन्येव जीवतु ।। ३७ ॥
दति भावेन करणमपि नाऽत्र विरुध्यते ।
अतोऽत्र लोकशास्त्राभ्यां ये विद्वांसो बुमुत्सवः ॥ ३८ ॥
ते विदित्वैवमितरान्योधयन्तः सदुक्तिमिः ।
खलानां वक्राविध्वंसं कुर्वन्त्येतत्पथद्विपाम् ॥ ३९ ॥
२१७ नन्वेवं यदि तर्हि श्रीस्वामिनीस्तोत्रमष्टकम् । तासां कुतः कृतं श्रीमप्रभुभिर्विट्ठलेश्वरैः ॥ १०॥ अत आचार्यवाक्येषु तदभावाचदुत्तरम् । तथात्वं तेन संपत्तेराधिक्यमपि युज्यते ॥ ११ ॥ अलंकृतिर्भगवतस्तत आरभ्य तादृशी । पूर्व तु गुञ्जामुकुटश्रीगोपीचन्दनैः श्रुता ॥ ४२ ॥ अतः पाश्चात्यशाक्तत्वं वारितुं नैव शक्यते । 'इति चेदुच्यते मूढ' सम्पत्तिर्यदि शक्तितः ॥ १३ ॥ तदा न ते भिक्षुकाः स्युः सदा ये तामुपासते। कदाचित्काचन श्रीः स्यात्तेषां तान्न त्यजेत्पुनः ।। ४४ ॥ पूर्व दीनास्ततश्चाट्यास्ततश्चात्यन्तदुःखिताः । शाक्ताः सहस्रशो दृष्टा अधुनाऽपि त्वदादिभिः ॥ ४५ ॥ एकविंशतिपर्यायैस्तामुपास्याऽपि यत्नतः । न लेभे माधवाचार्यों भग्नामपि कपर्दिकाम् ॥ ४६॥ ततः प्रबजितो विद्यारण्यनामाथ पर्यटन् । तमसि स्खलितो दृष्ट्वा तां सुवर्णशिलां ततः ॥ १७ ॥ क्रुद्धः शप्तुं समारेमे शक्तिं सा गोचरा दृशोः । भूत्वोचे त्वज्जन्ममध्ये सम्पन्नैव हि दिसिता ॥ १८ ॥ विधेरतोऽधुना दीत्युक्तः कस्याऽभ्यदापयत् । इति प्रसिद्धं तलासा भाग्यादेव न शक्तितः ॥ १९ ।। १ सर्वत्र पुस्तकेषु इत. पर खामिन्यष्टकविषयकशङ्कानिरासवाद इति मिन्नं नाम दृश्यते ।
अपत्यं द्रविणं दारा हारा हम्य हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥ ५० ॥ ईदृशैर्हरिवंशादिवाक्यैर्गोपालमन्त्रतः । सर्व वाञ्छितससिद्धेस्तचन्ने कथनादपि ॥ ५९॥ सम्पत्ति. सर्ववाञ्छाप्तिर्भक्त्या तद्वदुपासया । भवतीति स्थिते शक्या शाक्तता नैव शङ्कितुम् ॥ ५२ ॥ 'यत्कर्मभिर्यतपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ५३ ॥ सर्व मद्भक्तियोगेन मद्भक्तो लभतेजसा । खर्गापवर्ग मद्धाम कथञ्चिद्यदि वाञ्छति ॥ ५४ ॥ न किंचित्साधवो धीरा भक्त्या ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम्' ।। ५५ ।। एवमेकादशे विशेऽध्याये भगवतोदिता । स्वभक्तिः कल्पतरुवद्भक्ताश्चोक्ता अनिच्छयः ॥ ५६ ॥ 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेपां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्' ।। ५७ ।। 'मर्वधर्मान्परित्यज्य मामेकं शरणं ब्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' ।।५८॥ इति गीतामु चाऽतोऽपि तादृशामच्युतात्मनाम् । भक्तिहिरिश्च सम्पति ददाति तेन सा तया ॥ ५९॥ रिच प्रभ्वान्याचार्यस्थ्यं कृतमित्यपि । प्रसिद्ध सन्लोरेषु ततस्तेनैव सा म्फुटा ।। ६० ।।
अतः पूर्व तथैवेच्छा पश्चादेवमलंकिया। ततः पूर्व तथा पश्चादेवं तस्मान्न दुप्यति ॥ ६१॥ एवं निवृत्ते शाक्तत्वे स्तोत्रं च न ततो यतः । गुरुत्वमेतन्मार्गस्य ताखेव प्रतिपादितम् ॥ ६२ ॥ कौण्डिन्यो गोपिकाः प्रोक्ता गुरवः साधनं च तत्' । इति सन्यासनिणातौ सुयोधिन्यामपि स्फुटम् ।। ६३ ।। तञ्च मार्गप्रकटनान्न तु तस्योपदेशनात् । एवमेकादशस्कन्धद्वादशाध्यायवाक्यतः ॥ ६४ ॥ ज्ञेयं तत्र यत. सर्वसाधनाना निषेधनम् । कृत्वा ततश्च सत्सङ्गात्वाप्तिमुक्त्वा तदग्रिमे ॥ ६५ ॥ केवलेन हि भावेन सिद्धानां साप्तिमञ्जसा । उक्त्वा मावस्य परमा काष्ठा ताखेव दर्शिता ॥६६॥ ततस्तेनैव भावेन प्रपत्तिमुपदिष्टवान् । अतः प्रणेभ्यस्ता एव हरिरेवोपदेशकः ॥ ६७ ॥ एवमत्रापि बोध्य तत्तत्स्वरूपविचारकैः । अतः परोक्षवादेन स्तोत्र तत्खीयमित्यपि ॥ ६८ ॥ निञ्च- पुराणे ब्रह्मवैवर्ते खण्डे श्रीकृष्णजन्मनः । रुक्मिण्युपयमे जाते पृष्टेन श्रीयशोदया ॥ ६९ ॥ १ ये केचिद्धान्ता ब्रजभफेषु गुरुखमुपदेशेन मत्त्वतदईश्लोक पुष्टाक्षरैर्मुद्र- यित्वा सतुष्टास्तेपा मुखमर्दन ग्रन्थकारेणैवाऽस्मिन् ग्रन्थे कृतमिति विस्फार्य लोचने तैर्दष्टव्यम् । २ एवमिति स पुस्तरे नास्ति ३ एतेन अन्यखारस्येन शुद्धौर्ग युपदिष्टे श्रीगुरुसमारोपयन्तो विष्णुखामिपरम्पराममहमाना ना. स्तिका उपमर्दिता वेद्या ।
२२० 'भक्त्यात्मकं च यज्ज्ञानं तुभ्यं राधा प्रदास्यति । नन्दाय दत्तं यज्ज्ञानं तच्च तुभ्यं प्रदासति ॥ ७० ॥ एवमुक्तं भगवता श्रीयशोदां प्रति स्वयम् । खामिन्या उपदेष्टुत्वं तदने दृश्यतेपि च ॥ १॥ 'यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथितार्थाः प्रकाशन्ते महात्मनः' ।। ७२ ॥ श्वेताश्वतरशाखायां मत्रोपनिपदि श्रुतिः । एपा प्रगीयते सर्वैरतः स्तोत्रं ततो मतम् ॥ ७३ ॥ किञ्च- शक्तिससर्गमात्रेण न शाक्तत्वमिति स्फुटम् । पञ्चायतनपूजायां विमूतौ तन्निवेशनात् ॥ ७४ ॥ यदि सा देवता मुख्या इतरे च विभूतिषु । तदा तथात्वं तन्नात्र तस्मादपि न तत्तथा ॥ ७५ ।। अतस्तासां गुरुत्वे या शक्तित्वे वा न दूपणम् । मार्गस्येति बुधैर्तेयं श्रीमदाचार्यसश्रितैः ॥ ७६ ॥ नन्येवं चेत्सरस्वत्याः स्थापनं किंनिबन्धनम् । तेनाऽन्याश्रयदोपश्च कथं नेत्यपि कथ्यताम् ॥ ७७ ।। न च तस्या विभूतित्वान्न दोप इति साम्प्रतम् । गौर्यादावपि तत्तौल्यात्तत्पूजाप्यापतेचदा ।। ७८ ।। पातिव्रत्यनती किञ्च पाम उत्तरसण्डके । 'गोविन्दं परमानन्दं माधनं मधुसूदनम् ॥ ७९ ॥ १ पूर्वपक्ष । अत्रापि पुस्वरेषु सरस्वतीस्थापन विषयकशाशनिरासवा इति निनं नान सते।
२२१
हित्वा नान्यं विजानीते पातिव्रत्यव्रतः स च ।
इत्युक्तलक्षणः सिद्धः स चेदन्यं कथंचन ॥ ८॥
भजेद् व्रतारखाद्धीयेत नो चेद्वाक्यं वृथा भवेत् ।
न चैवं सति यज्ञादेनिवृत्तिरिति शंक्यताम् ॥ ८१ ॥
'यज्ञो वै विष्णु रित्येतच्छ्रुत्या तस्याच्युतात्मता ।
बोधिता तत्र ये देवास्ते चाङ्गत्वेन सस्मृताः ॥ ८२ ।।
'अग्निर्मुखं त' इत्यादि श्रीभागवतवाक्यतः ।
यजिश्च देवपूजायां स्मृतस्तेन तदिज्यया ॥ ८३ ॥
द्वारेण भगवानेव पूज्यतेऽतो न दूपणम् ।
तत्रान्तः स न दृष्टान्तो वक्तुमन्यत्र शक्यते ॥ ८४ ॥
क्रिञ्च मुख्यतया पूज्या तेन नाऽत्र विभूतिता।
अतोऽन्याश्रयदोपस्य दुर्वारत्वान्न साध्विदम् ॥ ८५ ॥
सा च स्यतः शक्तिरेव किंच दीपा नवैव हि ।
तस्या आरातिके पैप्टा नवरात्रेण ते समाः॥ ८६ ॥
रुद्रयामलसम्प्रोक्तं तस्मिन्काले तदर्चनम् ।
'मूलेनाबाहयेद्देवीं श्रवणेन विसर्जयेत् ॥ ८७ ॥
इति वाक्यादतस्तस्याः स्थापनं तन्निवन्धनम् ।
'सर्वे शाक्ता द्विजा जात्या न शैवा न च वैष्णवाः ८८
यस्सापासवे नित्यं गायत्री वेदमातरम् ।
गायत्रीकल्प एवं हि विश्वामित्रो द्विजाजगौ ॥ ८९ ॥
२२२ गायत्र्युपासया शाक्ता ततोत्रापि तथैयताम् । इति चेदुच्यते वाक्यं गायत्रीकल्पसम्भवम् ॥ ९० ॥ गायत्र्युपासने वक्ति शाक्तत्वं न तु वै तया। हरेरुपासने तत्त्वं तदर्थस्तु हरिःखयम् ॥ ९१ ॥ 'न भर्गो नापि सवितेति प्रहस्ते प्रपञ्चितम् । उपदेश विचारेपि वाक्यमेतद्विचारितम् ॥ २२ ॥ मया तदेतदुभयं ताभ्यां बोधं बुभुत्लुभिः । अतो न तेन तन्नापि सरस्वत्याश्च पूजनात् ॥ ९३ ।। तथाहि सा ब्राह्मणानामाजीव्या निधिभावतः । 'विद्या ह वै ब्राह्मणमाजगामे'त्यत्र तच्छ्रुतेः ॥ ९ ॥ 'आजीव्यैकतरं भावं यस्त्वन्यमुपधावति । न तस्माद्विन्दते क्षेम जारान्नार्यसती यथा ॥ ९५ ॥ वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः' । इत्यादिभिर्निजाऽऽजीव्यपूजा भगवतोदिता ॥ ९६ ॥ किश्च 'प्रचोदिता येन पुरेति शुकवाक्यतः । 'वेदो नारायणः साक्षात्स्वयंभू रित्यतोऽपि च ।। ९७ ॥ भगवल्लक्षणा तस्मादभिन्नेत्यवगम्यते । एवं सति यथा यागोऽद्रेसथेदमपि स्फुटम् ॥ ९८ ।। तहवतं तदाजहं तत्कालं तप्रियं च तत् । तत्कर्तृपु तदीयत्वदायायवेति बुद्ध्यताम् ।। ९९ ।। रत्तरपक्षः।
२२३ किञ्च कात्यायनी यद्वद्भगवत्प्रापिका तथा ! एपाऽपीति न दोषस्य लेशोऽप्यत्रेत्यलं गिरा ॥ १०० ।। इति श्रीवल्लभाचार्यचरणानप्रसादतः। शङ्काः शाक्तत्वविपया यास्ताः सर्वा निराकृताः ॥ १०१ ॥ इति श्रीवल्लभाचार्यचरणाम्बुजचिन्तया । खलालपनविध्वंसं कृतवान्पुरुषोत्तमः ॥ १०२ ॥ इति श्रीपीताम्बरतनुजश्रीपुरुषोत्तमकृतः खलालपन विध्वंसवादः सम्पूर्णः ॥
॥ श्रीः॥ श्रीकृष्णाय नमः। पुष्टिमार्गसिद्धान्तवामालायां गोस्वामिश्रीमत्पुरुषोत्तमविरचितो नोमवादः। यन्नामानि यथावज्ज्ञातान्येवार्पयन्ति मुख्यफलम् । नत्वन्यथा तमेव श्रीकृष्णं गृणत सर्वदा भक्त्या ॥१॥ ननु नामयति उच्चारयितुरग्रे स्वाभिधेय वश्यतया स्थापयतीति नामपदस्यार्थी निरुच्यते । इदमेव 'नामभिर्दामभिः सितमिति श्रुत्या 'यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः । वाक्त- न्त्यां नामभित्रद्धा हरन्ति बलिमीशितुरिति स्मृत्या च निश्ची- यते । एव सति स्वशक्त्या सार्थोपस्थापकत्व नामत्वमिति सिद्ध्यति । शक्तिश्च नित्यस्स गवादिशब्दस्य नित्येन गोत्वादिरूपेणार्थेन सह याच्यवाचकभावरूपः सबन्ध । पदार्थान्तरमिति मीमासका । ताहशेन व्यक्तिसरूपेण तत्प्रवाहेण वा सह तादृशस्सवन्ध इति वेदान्तिन । सकेतापरनाम्नी अस्मात्पदादयमों योद्धव्य इत्यामा रिकेश्वरेच्छैव विषयता सबन्धेन शब्दे वर्तमाना जातिविशिष्टार्थ- १ नामपलादिप्रसारवाद इलपि पुखकान्तरेऽस्य वादस्य नाम हश्यते । २ पयमस्वधे प्रयोदशाध्यायस्मृतिवाश्यादिति सपुस्तकऽधिक पाट ३ पियितेति रापुस्तकम् ।
२२५ अत बोधिकेति नैयायिकाः । इदं च स्वार्थीपस्थापनरूपं कार्य वर्णात्म- कत्वेन ज्ञातैर्नामभिर्गृहीतशक्तिके पुरुपे श्रवणमात्रेण खत एवं क्रियते । यौगिकानि तु पाठकपाचकेत्यादीनि नामानि । तेषामव- यवशक्त्या सार्थोपस्थापकत्वेन स्वशक्त्या तथात्वाऽभावात् । योग- रुस्त्ववयवशक्ति द्वारीकृत्य सहकृत्य चा सशक्त्यैवार्थोपस्थापन क्रियत इति तान्यपि नामानि । एवं सत्याकृतौ वा विशिष्टे या प्रवाहे वा व्यक्ती वा शक्तैर्वर्णसमुदायात्मकत्वेन ज्ञातर्भगवन्नामभि- रपि गृहीतशक्तिकेपूचारयितृपु श्रोतृषु च खार्थप्रत्यायनेन खफलं संपादनीयमेव । एव सहस्रनामस्तोत्रादिषु 'वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्' इत्यादीनि फलान्युच्यन्ते । तत्तदर्थ तैस्तैः पठ्यमानानि स्तोत्राणि फलन्तीति प्रत्यक्षतोऽनुभू- यते च । किं बहुना 'साङ्केत्यं पारिहार्य वा स्तोमं हेलनमेव वा । वैकुण्ठनामग्रहणमशेपाघहरं विदुरि ति पुरुपान्तरे सङ्केति- तानामन्येपाश्च नाम्नां फलवत्त्वमुच्यते । तथा 'नियमाणोऽपि यन्नाम गृहन्पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणनिति वाक्ये पुत्रोपचारितस्यापि नारायणनानो यम- पाशनिवर्तकत्वमजामिलोपाख्याने श्रूयते । विष्णुपुराणे यमगीतासु नारसिंहे च तथोच्यत इति यथाकथञ्चिन्नामग्रहणस्यापि फलवत्त्वारिक यथावज्ज्ञानेन । अथ 'विदुपः कर्मसिद्धिः स्याचथा नाऽविदुपो भवेत् । 'अज्ञश्वाश्रद्दधानश्च संशयात्मा विनश्यतीत्यादि वाक्ये- प्वज्ञनिन्दया ज्ञानस्यापि नामोचारणाद्यङ्गत्वमिति विभाव्यते । तदापि भगवत्त्वेनार्थखरूपेण वर्णात्मकत्वेन पदस्वरूपेण कादाचि- स्कगुणक्रियामयुक्तयोगाख्यावयवशक्ति द्वारीकृत्य सहकृत्य पुष्टि. १५ वा २२६ समुदायशच्या तत्वजातिविशिष्टरूपोपस्थापनरूपेण तादृशरूप- प्रवाहोपस्थापनरूपेण तादृशव्यक्त्युपस्थापनरूपेण वा कार्येण स्वार्थी- पस्थापकत्वरूपे नामस्वरूपे च शास्त्रप्रनाड्या ज्ञाते किन्नामावशिष्टं नाम्नां यथावज्ज्ञाने येनेतरनिषेधपूर्वकं भक्त्या यथावज्ज्ञानं भगवन्ना- नामत्र मुख्यफलसाघकत्वेन प्रतिपाद्य इति चेत्-अत्र ब्रूमः । भक्त्यैव तत्वतो ज्ञेयो हरिभक्त्येति वाक्यतः । नामापि तादृग्गर्गोक्तस्तथाज्ञाने हि तत्फलम् ॥१॥ तथाहि । 'भक्त्या मामभिजानाति यावान्यथासि त. चतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमिति गीतायां भगवता भक्त्या साभिज्ञानमुक्तम् । एकादशे च 'यावा. न्यश्वासि यादृश' इति। अमिज्ञानश्च शब्दतोऽर्थतश्चेत्युभयतो ज्ञेयम् । तत्रापि यावानित्यादिपदत्रयेण परिमाणखरूपप्रकारा उक्ताः । एकादशे च यादृश इत्यनेन प्रकार उक्तः। एवं सति यावत्परिमाणो यत्स्वरूपको यप्रकारकोऽहं तावत्परिमाणं तत्स्वरूपं तटरकारकं मां शब्दमर्थश्च द्वारीकृत्य भक्त्या जानाति । ततो भक्त्या शब्दार्थाभ्यां मां तत्त्वतोऽनारोपितानागन्तुकरूपेण झाला तदनन्तरं विशते । यथाधिकार लीलायां स्वरूपे वा प्रविशति । नित्यलीलान्तःपाती भवति । सायुज्यं वा प्रामोतीत्यर्थः संपद्यते । तथा गर्गाचार्येणापि 'वहूनि सन्ति नामानि रूपाणि च सुतस ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जना' इत्य- नेन भगवतो बना सतामेव रूपाणां नानां च साधारणजन- पेदनाविषयवस्खवेदनविषयत्वयोः कयनापां यहूनां सत्त्वं सस- २२७ दृशवेदनविषयत्वं च स्फुटीकृतम् । तत्सदृशाश्च भक्त्या शब्दार्थ-, विचारपूर्वकं खरूपज्ञातार एव प्रकरणवशादवगन्तव्याः । तत्र विचाराकारस्त्वेवं योध्यः । तथा हि-भगवन्नाम्नां नाकृतौ विशिष्टे प्रवाहे वा संबन्धः । आकाशवद्रूपाणामेव नित्यत्वात् । 'यदेकमव्य- तमनन्तरूपमिति श्रुत्या तथैव सिद्धत्वात् । ब्रह्मणः शब्दकसम- धिगम्यत्वात् । आनन्त्यं चात्र देशकालादिपरिच्छेदरहितत्वमेव । न तु लोकवठाबाहरूपत्वेन सध्याशून्यत्वमात्रम् । अनुक्तसिद्धत्येनानु- वादप्रसङ्गात् । 'सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तश्रुतिविरोधापत्तेश्च । नृसिंहहंसादिपु खेच्छामात्रेणैव प्राकट्याजीवाऽदृष्टजन्यत्वाऽभावेन स- दैकरूपत्वाकालपरिच्छेद्यत्वरूपवैशिष्टयाभावेन च तप्रवाहस्याऽशक्य- वचनत्वाच्च । न च तत्तत्क्षणवैशिष्ट्यस्य प्रतीयमानत्वात्कथं तदभाव इति शवयम् । तत्कृतविशेषाऽभावे वैशिष्टयमात्रस्याऽपरिच्छेदकत्वात् । अन्यथा आकाशादिप्वपि तदापत्तेः । तथा 'सर्वे निमेपा जज्ञिरे विद्युतः पुरुपादधि' । योऽयं कालस्तस्य तेऽव्यक्तबन्धोश्चेष्टामाहु- श्रेष्टते येन विश्वम्' । 'कालसंज्ञां तदा देवीं विभ्रच्छक्तिमुरुक्रम' इत्यादिश्रुतिस्मृतिभिः कालस्य भगवत्परिच्छेद्यत्वेनं न भगवद्रूपेषु तत्परिच्छेद्यत्वम् । बाल्यपोगण्डकैशोरादिहेतुकपरिमाणभेददर्शनावत्परि- च्छेद्यत्वं शवयम् । तादृशदर्शनस्य भगवदिच्छाहेतुकत्वेन वयोहेतु- कत्वाऽभावात् । न चात्र मानाभावः । मृत्साभक्षणजृम्मादिलीलासु वयःपरिच्छेदकस्य ज्योतिश्चक्रादेः सान्तःप्रदर्शनस्यैव मानत्वात् । न चेदं मायया प्रदर्शितमिति वाच्यम् । 'किं स्वम एतदुत देव- माया किंवा मदीयो बत्त बुद्धिमोहः । अथो अमुष्पैच ममा- न २२८ भंकस्य यः कथनात्पत्तिक आत्मयोगः । अथो यथावन्न वित- गोचरं चेतोमनःप्राणवचोभिरजसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतासि तत्पदमिति पक्षान्तरनिरास- पूर्वकं भगवतः सकाशादेव प्रतीतिकथनस्य विरोधापत्तेः । अतो भगवद्रूपेषु कालपरिच्छेद्यत्वाभावान्न तेषु प्रवाह इति । 'समो मशकेन समो नागेन समः प्लपिणा सम एतैत्रिभिलोंकरित्या- दिपु हेत्वन्तरमन्तरेणैव ब्रह्मणो नानापरिमाणवत्त्वमेकस्य श्राव्यते । तेनापि तावत्तावप इति सिध्यति । एवञ्च भक्त्यैव स्फुरति । 'यस देवे पराभक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन' इति श्रुतेः । पूर्वोक्तगीतावाक्याच । एवं शब्दतः । अथार्थतो विचारः । भगवता स्वल्पेनापि रूपेण पूतना- मारणशकटभङ्गादिरूपक्रियाकरणातादृशसामय सर्वदा भगवति यद्यपि वर्तते तथापि तत्तत्कायै तावता तावता रूपेण यक्रि- यते तेन ज्ञायते भगवतस्तचद्रूपं तावत्तावत्परिमाणकमिति । न च तंदानीन्तनभक्तानुरञ्जनाय तावत्परिमाणप्रदर्शनमिति युक्तम् । तथा सत्यन्यदाऽन्येपु तावद्रूपं न प्रदर्शयेत् । सर्वेषामेकरूपभावाऽभावात् । किश्च । दर्शनं हि प्रसीदन्ददाति । प्रसादश्च यथावद्भावनेनैव । नत्वन्यथा । 'योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणे ति दोपश्रवणात् । तसा- त्वमेयं रूपमेव तादृशमिति मन्तव्यम् इत्यर्थतो यावत्त्वाभिज्ञा- नम् । एवं स्वरूपस्यापि 'सत्यं ज्ञानमनन्तं ब्रह्म' 'कृपिभूवाचकः शब्दो णश्च निवृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यमि- नन्विति खपाठः। २ प्रमेयमिति कपाठः।
२२९ घीयत' इति श्रुत्या तदुपणभूतैः 'कृष्णस्तु भगवान् स्वयमि'- त्यादिवाक्यैः प्रसन्नस्य दर्शनेन च सच्चिदानन्दात्मकत्वेन 'परास्य शक्तिरित्यादिश्रुतिभिः खरूपसाधनविरुद्धलीलाभिश्च सर्वसाम- र्यसयुतत्वेन च यत्त्वाभिमानम् । एवं प्रकाराणामपि तापनीयादि- श्रुतिभिः पूर्वोकाभिरन्याभिस्वचल्लीलानिरूपकैः पुराणवात्यैस्तवल्ली- लाविशिष्टरूपदर्शनेन च यादृशत्वाभिज्ञानम् । एवं स्वरूपपरिमा- णप्रकारेषु भक्त्या विचारेण ज्ञातेषु योगरूढभगवन्नाम्ना सबन्धोऽपि नित्यगुणक्रियाविशिष्टेषु नित्येषु तेषु तेषु रूपेषु विचारितो भवति । गुणक्रिययोः कादाचित्कत्वे तु तत्सवन्धेन प्राप्त नामाऽन्यदा संवन्ध- रहितत्वादवाचकमेव भवेत् । योगेन वाचकं सत् पाचकपाठका- दिवन्नामत्वादेव हीयेत । छत्रिन्यायतौल्येनौपचारिकत्वं चापधेत । सहस्रनामादिपु प्रवेशं च न लभेत । एवं रूपाणामपि कालपरिणा- मेन प्रतिक्षणमन्योन्यभावेऽन्यस्मिन् सबद्धं सत् घटशब्दः पटमिव कालपरिणतं रूपान्तरं न वदेत् । तथा सत्यन्यदासबन्धरहितत्वा- दनर्थकमेव भवेत् । पूर्ववदौपचारिक वा स्यात् । तथा सति सह- सनामादिप्रवेशोऽपि न स्यात् । अतो नामकार्यविचारेऽपि प्रका- राणा प्रकारिणा च नित्यत्वमेव । किञ्च । एतयो मरूपयोर्न वाच्यवाचकभाव • एव संबन्धः । किन्त्वाश्रयायिभावोऽपि । 'अर्थाश्रयत्वं शब्दस दृष्टलिङ्गत्वमेव चेति तृतीयस्कन्ध अर्थाश्रयत्वस्य शब्दलक्षणत्वेनोक्तत्वात् । द्वादश- स्कन्धे च 'ततोऽभूनिवृदोङ्कार इत्योङ्कारं प्रकृत्य 'यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मन' इत्योङ्कारस्य भगवल्लिङ्गशरीरत्वेनो- ततया तद्विकृतीनां वर्णपदादीनामपि वाच्यखरूपाधारताया औचि- २३० त्याच्च । अतो लौकिके बाधाद्वैदिकस्याधिदैविकस्यैवाऽर्थस्य वेदादिश- ब्देप्वेव च तथात्वम् । अत एव नाम्नामपि नित्यत्वम् । न च नाम्नां वर्णात्मकत्वेन तेषां चोत्पतिनाशप्रतीत्या नश्वरत्वेन कथं नित्य- त्वमिति शङ्यम् । तद्वर्णप्रत्यभिज्ञया उत्पत्त्यादिप्रतीतेवर्णाभिव्यञ्जक- वायुविषयत्वेन तदंशे भ्रमत्वात् । न च प्रत्यभिज्ञायाः सजातीय- विषयत्वेन तत्रांश एव भ्रमत्वं शङ्क्यम् । त्रिक्षणावस्थायित्वे वीची- तरङ्गवदुत्पद्यमानस्याऽन्यान्यतया ज्ञातसंबन्धपुरुषोचारितस्यार्थवतः शब्दस्य नष्टतयाऽनर्थकात्तत्सन्तानाच्छक्तिग्रहशाब्दबोधयोरनुदयप्रस- झात् । न च सादृश्यात्तदुभय इति शश्यम् । आशुतरविनाशित्वेन सादृश्यमहस्यैव दौलभ्यात् । अतः शक्तिग्रहादिरूपकार्यानुरोधेन प्रत्यभिज्ञायास्तन्मानविपयत्वं जैमिनीयोक्तरीत्या निश्चेयम् । तथैव पदविषयिण्या अपि । अतस्तेषामपि नित्यत्वम् । न च पदानां घो- चरटत्वादिरूपेण प्रतीतेः पुरुपबुद्ध्यादिजन्यानुपूर्वीकतया न नित्य- त्वमिति शक्ष्यम् । सिद्धे नित्यत्वे घज्ञानोत्तरटज्ञानविषयत्वादिरूप- तया तदयाघात् । न च तथापि गोवर्द्धनोद्धरणधीरगोवर्द्धनधारी- त्यादिपदानुपूर्वीविशेषविशिष्टोच्चारणस्य पुरुपेच्छाधीनतयोचारण- विषयाणामनित्यत्वं शभ्यम् । यथासम्भवं क्रमन्यूनातिरिक्तत्वैस्तत्र पदाना भिन्नानामेवेच्छयोचारणविषयत्वात् । ननु प्रकृतिप्रत्ययविभागानुशासनादनित्यत्वमेवेति चेन्न । तस्य व्युपछिमात्रात्यात् । व्याकरणेऽव्युत्पत्तिपशव सिद्धान्तत्येनानी- फारात् । अतस्तेपामपि नित्यत्वमप्रतिक्षेप्यमेव । ततश्च पदानामप्य- सण्डत्वम् । तेपां केवलवर्णसदृशावयवत्वेन वर्णघटितत्वाऽभावात् । 1उपारणस्पतिरापाट।
२३१ ताशावयवविशिष्टानामेव नित्यत्वात् । अतः 'स एप जीवो विवरप्रसूतिरित्येकादशस्कन्धोक्तरीत्या शब्दब्रह्मात्मकत्वमेव । एवं सति भत्त्या विचारपूर्वकं नाम्नां तदर्थस्स प्रकारादेश्च स्वरूपं ज्ञात्वा यदोच्चारणं क्रियते तदा तानि तादृशमर्थ बोधयन्ति फलं ददति । अन्यथा तु तानि निरर्थकान्यर्थमपत्यापयन्ति फलदातुर्भ- गवतः संवन्धराहित्यान्न फलन्ति । 'फलमत उपपत्तेरि'ति न्यायेन फलस्य भगवदेकसाध्यत्वात् । लौकिकपुरुषे सङ्केतितानि तु भगव- नामान्येव न भवन्ति ! अर्थभेदेन पदभेदस्य वाक्याधिकरणे सिद्ध. त्यात् । तेषां डित्थकपित्यादिवत्पुरुषबुद्धिकल्पितत्वाच । किन्तु तत्सदृशं पदान्तरम् । अतो घटादिपदवत्तस्य पदान्तरत्वारापास्ता ततः फलसिद्धिः न च वर्णानुपूर्वीभेदाभावात्पदैक्यमिति शवयम् । सिद्धे स्वरूपभेद आनुपूर्वीभेदस्याऽप्रयोजकत्वात् । अत- स्तत्र प्रत्यभिज्ञायाः सजातीयविषयत्वमेव । तत्तद्वर्णज्ञानोत्तरतचद्वर्ण- ज्ञानविषयत्वरूपसाधर्म्यस्य तत्रापि सत्वात् । ननु यथा पितामह- नामसिद्धमेव पौत्रे ध्रियते तथा भगवन्नाम लौकिके पुरुष इत्यख- ण्डस्य पदस्यैव तत्र सङ्केतितत्वेन डित्थादिवत्कल्पितत्वाभावात्कथं पदभेद इति चेन्न । लौकिकाइलौकिकभेदादिति वदामः । न चान मानाभावः। एकादशे 'स एप जीव' इत्यत्र नादस्यैव मात्रादिरूप- त्वमुक्त्वा तादृशवैखरीरूपस्य वेदस्य 'मे व्यक्तिरियं हि वाणीति खव्यक्तिरूपत्वमुपदिश्य एवं गदिरित्य'नेन लौकिकवाण्या खव्य- क्तित्वस्य भगवताऽतिदिष्टतया तयोर्भेदस्य बोधनात् । न झुपदेशा- तिदेशयोरुद्देश्यैक्यम् । प्रकृतिविकृतिभावस्य जागरूकत्वात् । न च लोकवेदाधिकरणे लौकिकवैदिकपदवर्णयो दाऽनङ्गीकारानेदै साम्प्र- २३२ तमिति वाच्यम् । जैमिनिनाऽऽकृत्यधिकरणस्यैव प्रणीतत्वेन तद- नुक्तस्य वर्णकान्तररूपस्य लोकवेदाधिकरणस्य वार्तिककारकल्पित- त्वेनाऽप्रामाणिकत्वात् । न च भगवन्नाम्नां वेदोक्तत्वाभावेन लौकि- कत्वं शक्यम् । पुराणसिद्धत्वात् । 'इतिहासपुराणं वेदानां पञ्चम वेद मिति श्रुत्या तस्यापि वेदत्वात् । अतो भगवन्नामानि शब्दब्रह्म- रूपाणि । लोके सङ्केतितानि तु तद्भिन्नानीति निश्चयम् । नन्वस्तु भेदस्तथाप्युच्चारणप्रयत्नतौल्यात्कथं लौकिके वाच्ये लौकि- कमेव मुखतो निर्गच्छत्यलौकिके चालौकिकमिति विभाग इति चेत् । शब्दस्य पश्यन्त्यवस्थायां तत्प्रयोजकवुद्धिभेदादिति ब्रूमः । तत्तदनुसन्धानेन तथोचारणादिति । न चैवं सति साकेत्यादि- वाक्यवैयर्थ्यमिति शक्यम् । ईदृशं भगवन्नाम यत्सरूपं शब्दान्तर- मपि वक्तृणामपं हरतीति नाममाहात्म्यवोधनार्थत्वेनाऽप्रवर्तमान- प्रवर्तनार्थत्वेन च तदभावात् । अत एव पुने सक्केतितस्यापि नारा- यणनाम्न उपचारितत्वमुक्तम् । अन्यथा सकेतितस्य वाचकत्वेन तद्वाच्ये वालेपद्विधस्यापि सादृश्यस्याऽभावेनोपचारितमेव न वदेत् । एवं तु पुत्रेण नामसारूप्यरूप उपचारः संजातोऽस्य नाम इति पुत्रोपचारितमिति सद्गच्छते । न च जीवात्मन्यपि चेतनत्यादि- रुपनासारूप्यस्य साजात्यस्य या विद्यमानत्वाचत एव नाम उप- चारितत्वं त्वम् । तथा सति सक्षेतितानां भगवन्नामामवाचक- त्वापत्त्या साङ्केत्यपदविरोधापत्तेः । अत उभयसामञ्जस्यार्थमेवमेव सीकार्यमिति निश्चयः । अतोऽपि लौकिफालौकिकयो सर्भेद एव सिद्ध इति तथोधारणेऽजामिलस्यापि न तदानीमेव मुक्तिरित्यपि युज्यते । नन्वस्त्येत्तथापि सर्वेषामेवंप्रकारेण भगवत्स्वरूपनामसरूप- १३३ योआनाभावेऽपि यत्सहस्रनामादिपाठफलमनुभूयते तत्कथमिति चेत् । उच्यते । न हि तत्पाठादिनापि तदानीमेव फलम् । यथा गोविन्देति पाञ्चाल्याः कोशनमात्रेण चीरपूरणम् । यथा च गजे. न्द्रस्य तदानीमेवोद्धारः । प्रहादस्य च क्लेशनिवृत्तिः। किन्तु यथा- कथञ्चित् कालान्तरे । अतस्तत्रापि पुरुपज्ञानतारतम्यमवश्यमनुस- न्धेयम् । दृष्टशाखयोरनुरोधात् । एवं सति यस्योक्तरीत्या यथावज्ज्ञानं तस्य सकृदुच्चारणेनैव फलम् । अर्थस्य शब्दाश्रितत्वेन तदानीमेवाऽनाविर्भूयाविर्भूय वा दानात् । यस्य ततः किश्चिदंशेन न्यूनं तस्य नाना चित्तशुद्धि सपाद्य किञ्चिद्विलम्बेन । यस्य ततोऽपि न्यूनं तस्य नामावर्तनेनाधि- दैविकोहोधे ततोऽपि विलम्बेन । येपा च न चित्तशुद्धिस्तेषा फलाभायो दोपसबन्धनिवृत्तिश्च । न च कालादिनैव स इति वाच्यम् । 'नेपां वयं न च वयः प्रभवाम दण्ड' इति यमवाक्ये तेपा तनाऽसामर्थ्यबोधनविरोधात् । अतोऽज्ञानेनैव विलम्बादिरिति निश्चयः । एवं सति यथा निकटस्थ उपाशूचारणे श्रुत्वाऽऽयाति मध्यस्थस्तारोचारणे दूरवर्ती त्वतितारोचारणेऽसदुच्चारणे च तद्वत् । यद्यपि भगवान् व्यापकस्तथापि 'हृदिस्योऽप्यतिदूरस्थः कर्मविक्षि- प्रचेतसाम्' । 'विदूकाष्ठाय मुहुः कुयोगिनामि'त्यादिवाक्य'ने तं विदाथ य इमा जजानान्यधुप्माकमन्तरं भवातीति' श्रुत्या चाज्ञानेन व्यवधानाद्भगवतो दूरत्वमपि वर्तत इति यथा यथा तनि- वृत्तिस्तथा तथा नैकट्यमिति । तच्चातिशयितं भक्त्यैवेति पूर्यो- तेऽथै न किञ्चिदनुपपन्नम् । अथाधिकारितारतम्यादिबोधनार्थ पष्ठस्कन्धसिद्धाऽवस्था भद- २३४ यते । तथाहि-तत्राऽऽरम्भे राज्ञा लोकानां नरकगमनाऽभावायो- पाये पृष्टे श्रीशुकैः पूर्व कर्मरूपं प्रायश्चित्तमुक्तम् । ततो राज्ञा तस्य कुजरशौचन्यायेन धैयर्थे योधिते कर्मरूपप्रायश्चित्तस्याऽविद्वदधि- कारकत्वं बोधयित्वा, तत उत्कृष्टं देहात्मभेदाऽलोचनात्मकं विम- र्शनं भगवद्भक्तिश्चेति द्वयमुक्तम् । तत्र 'नाश्नत' इत्यादि श्लोकत्र- येणाऽऽयम् । 'केचिदि' त्यादिभिः पञ्चभिर्द्वितीयम् । ततो द्वितीय- दाायाऽजामिलोपाख्यानं शिवभक्तागस्त्योक्तमुक्तवान् । तत्र प्रथमे पथ्यभोजनदृष्टान्तपूर्वक 'एवं नियमकृद्राजन् शनैः क्षेमाय कल्पत इति कथनेनाग्रिमश्लोके तपःप्रभृतीनां तदङ्गानां च कथ- नेन तत्सममा धर्मज्ञस्य श्रद्धालोः कर्तुबहुकालेन नाशयति । तत्रापि 'वेणुगुल्ममिवानल' इत्यमिदृष्टान्तेन सावशेषमेव नाशयति । वेणुगुल्मस्य दाहे मूलस्य भूमौ दर्शनाद्वहिनिवृत्तौ पुनः प्ररोहदर्श- नाच । द्वितीये तु 'अपं धुन्वन्ति कायेन नीहारमिव भास्कर' इति सूर्यदृष्टान्तेन निरवशेषनाशकत्वम् । ततो 'न तथायघवाना- जनिति श्लोके कृष्णार्पितप्राण इति कर्तृविशेषणेन परमलेहात्मकं भक्तिस्वरूपम् । ततो 'प्रायश्चित्तानि चीर्णानि' इत्यनेन भगवद्धि- मुसं न निप्पुनन्तीति भगवद्विमुखा एव चाविद्वांस इति बोधयित्वा 'सकृन्मनः कृष्णपदारविन्दयोरि' त्यनेन सत्तायाः खल्पायाः केवलाया अपि भक्तेनिःशेषपापनाशकत्वं बोधयितुं यमाद्यदर्शन- मुक्त्वा तथात्वदाायाऽजामिले तिहास उक्तः । तेन श्रपणादिरूप- मात्या सर्वात्मना पापनाशः कृष्णार्पितमाणानामेव । तादृशां पाप- ---- शी रोऽधिका पाट.. १ प्रगतीनां तदनाना च क्यनेन त समना धर्मज्ञस्य श्रद्धामेव नाशयति २ भजामिलोपाख्यानमुपन्यसमिति सपाट ।
२३५ सम्भवस्तु खधर्मकरणस्योत्कर्षमावनारूपाहोपात् । एवमेव 'स्वपाद- मूलं भजत' इत्यत्रापि चोध्यम् । ये पुनर्भक्तः सहकारित्वं ज्ञात्वा कर्मणि वा ज्ञाने वा पापनाशनाय प्रयतन्ते तादृशां ताभ्यां साव- शेषः पापक्षयः । ये पुनः सहकारित्वमपि भक्तेर्न मन्यन्ते तेषु केव- लकर्मिणां प्रायश्चितं कुञ्जरशौचवदपार्थम् । ये पुनस्तादृशाः केव- लज्ञानिनो 'येऽन्येऽरविन्दाक्षेत्या'दिपूक्तास्तेपां केवलज्ञानेन साङ्गेन शनैः पापनाशेऽप्यपथ्याशनेन रोगस्येव किश्चिदन्यथाकरणेन पाप- मूलस्य सतः पुनः प्ररोहः । तेन भक्तानामेव नामोच्चारणेन श्रव- णादिभिश्च निश्शेपपापक्षयः । तत्रापि 'तत्पूरुपनिपेक्येति द्वारस्य सहकारिणो वा कथनात् । येपामजामिलादिसदृशां प्रतिबन्धकवा- हुल्यं तेषां सत्सङ्गरूपद्वारादिना निरवशेषपापनाशो नामोच्चारणादि- नेति । तेनाऽऽधुनिकानां भक्तसझे सति यथा यथा विश्वासदाय तथा तथा शीघ्र नामफलम् । नोचेद्विलम्बेनेति । येषां च न विश्वा- सस्तेषां तु नेति । तेन साङ्केत्यादिनापि नामग्रहणं प्रनाड्या दूरवि- प्रर्पण कथञ्चित् पापनाशकमिति तद्वाक्यमप्येवमुपसहरणीयमि- तिहासबलात् । अतो नेह कोऽपि कापि विरोध इति भगवन्नाम्नां नामत्वं भक्त्यैव प्रकटीमवतीति सिद्धम् । इत्थं सुबोधिनीतो विद्वन्मण्डननिवन्धाभ्याम् । विदितो नामफलादेः प्रकार उक्तोऽधिकारी च ॥१॥ इति श्रीमद्वल्लभनन्दनचरणैकतानश्रीपीताम्बरात्मजश्रीपुरुषोत्त- मविरचितो नामफलादिप्रकारवादः समाप्तः। १ कर्मणा ज्ञानेनेति खपाठ ।
r ॥ श्रीः॥ श्रीमद्वृन्दावनविहारिणे नमः। पुष्टिमार्गसिद्धान्तवामालायां गोस्वामिश्रीमत्पुरुषोत्तमविरचितो मूर्तिपूजनवादः। . अथेदं विचार्यते--मूत्तौं भगवत्पूजनं जघन्यमितरसमं श्रेष्ठ वेति। किं तावत्प्राप्तम् ।। जघन्यमेवेति। कुतः। पुराणेषु तथैवोक्तः । तथा हि । तृतीयस्कन्धे, 'यो मां सर्वेषु भूतेषु सन्तमात्मान- मीश्वरम् । हित्वाची भजते मौढ्याद्भमन्येव जुहोति स' इत्यादिवाक्येषु । 'यस्सात्मयुद्धिः कुणपे त्रिधातुके स्वधीः कल- त्रादिपु भौम ईज्यधीः । यस्तीर्थबुद्धिः सलिले न कर्हि चि. जनेष्वमिक्षेषु स एव गोखर' इति दशमस्थभगवद्वाक्ये च निन्दास्मरणात् । एकादशस्कन्धे च सूर्योऽनिर्ब्राह्मणा गावो वैष्णवः खं मरुजलम् । भूरात्मा सर्वभूतानि भद्र पूजापदानि में' इत्यत्र पूजापदेषु प्रतिमाया अनुक्तेश्च । न च 'अप्स्वनौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । शाल- ग्रामे च चक्राङ्के पटे मुद्रासु देवताः । नित्यं सन्ति हिरण्येषु बामणेषु च गोपु चेति स्मृत्यर्थसारे वचनादितरसाधारम्पमिति वाच्यम् ।
२३७ आचारमाधवे, 'अर्चनं सम्प्रवक्ष्यामि विष्णोरमिततेजसः। यत्कृत्वा मुनयः सर्वे परं निर्गुणमानुयुः । अप्स्वनौ हृदये सूर्य स्थण्डिले प्रतिमासु च । पट्खेतेषु हरेः सम्यगर्चनं मुनिमिः स्मृतम् । अग्नौ क्रियावतां देवो दिवि देवो मनीपिणाम् । प्रतिमाखल्पबुद्धीनां योगिनां हृदये हरिः। तस्य सर्वगतत्वाच्च स्थण्डिले भावितात्मनामि'त्यानेयवचने प्रतिमार्चनस्याल्पबुद्ध्य- धिकारोक्तेः । एवं चेत्समत्वस्याप्यशक्यवचनत्वेन श्रेष्ठ्यस्य दूरा- पास्तत्वाजघन्यमेव प्रतिमायां पूजनमिति प्राप्ते । उच्यते-- जिज्ञासोरधिकारिवाज्ज्ञानदोपाप्रसाधनात् । त्रेधा हरित्वान्मूर्ते श्रीकृष्णो भक्त्येह सेव्यताम् ॥१॥ गीतायां चतुर्विधा भजन्ते मामित्यत्राादीनां चतुणी भजनेऽधि- कार उक्तः । तेप्वार्तार्थिनी यावत्फलं भजनं कृत्वा ततस्त्यजत इति जघन्यौ । जिज्ञासुस्तु पूर्व ज्ञानाथ भजन्नपि जाते ज्ञाने पुन- रतिशयेन भजतीति ताभ्यामुत्तमः । ज्ञानिनो भजनं त्वत्रैवोक्तमिति नात्र सन्देहः। एवं सति जिज्ञासोरल्पबुद्धिताया अदुष्टत्वाचाहशा एकादश- स्कन्धीयोनविंशाध्यायोक्तरीत्याऽऽत्मनिवेदिना कृतानां पूजादीनां भक्तिपरमकारणत्वं ज्ञात्वा भक्त्यर्थिना वाऽज्ञेनापि सेवने तद्विशेषस्य प्रतिमापूजनस्य न जघन्यत्वं सम्भवति । प्रत्युताऽन्येषां जघन्याधिका- रिणां, फलसाधनत्वाचैरपि सेवने पूजनं श्रेष्ठमेव महारोगग्रस्तखा- स्थ्यसम्पादकौषधवत् । न च 'प्रातमध्यन्दिने सायं विष्णुपूजां समाचरेत् । यथा सन्ध्या तथा नित्या विष्णुपूजा स्मृता १. तृतीयान्तं विशेषणमिदम् । २. परकारणमिति ख पुस्तकम् ।
२३८ बुधैः । अशक्तौ विस्तरेणैव प्रातः सम्पूज्य केशवम् । मध्याहे चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् । मध्याहे च विस्तरेण संक्षेपेणाथवा हरिम् । सम्पूज्य भोजनं कुर्यादन्यथा नरकं व्रजेदिति फालनिर्णयदीपिकायां नारदीयान्नित्यायास्तस्याः प्रत्य. वायमागमावपरिपालनमात्रार्थत्वान्न फलसाधफत्वमिति दृष्टान्तवैप- म्यान श्रेष्ठ्यमिति वाच्यम् । नित्यस्य तावन्मानार्थताया अप्रयोज- कत्वातथा सति यावज्जीवाधिकारकामिहोत्रादपि स्वर्गाद्यभावप्रसक्तेः । तहोधकवर्गकामादिपदवैयर्थ्यप्रसक्तध । किन्तु पूर्वोक्तगीतावा- क्येऽधिकारिमुखेन फलसम्बन्धबोधनात् 'श्रुतिस्मृती ममैवाझे यस्त उछंध्य वर्तते । आज्ञाच्छेदी मम द्वेपी मद्भक्तोऽपि न वैष्णव' इति वचनाद्विधेनियोगार्थताया एवौचित्यादतस्तदुक्ताकरणे राजदण्डवत्प्रत्यवायः । करणे तु तद्वदेव फलमिति दृष्टान्तवैषम्या- भावान श्रेष्ठ्यहानिः । 'पूजनं प्रतिमायां च उत्तमं परिकीर्ति. तमिति, कालनिर्णयदीपिकायां प्रातःकालस्थले विष्णुधर्मोचरवाक्ये- नोत्तमत्वस्य कण्ठोक्तत्वाच । न चेदमवैदिकपरमिति वाच्यम् । विनि- गमकाभावात् । प्रत्युत स्मृत्यर्थसारे 'अप्स्वनौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । शालिग्रामे च चक्राङ्के पटे मुद्रासु देवताः। नित्यं सन्ति हिरण्ये च ब्राह्मणेषु च गोषु च । पौरुपेण च सूक्तेन गायच्या प्रणवेन वा । तल्लिईरेव वा मत्रैरर्चयेद्गुर्वनु- ज्ञयेति वाक्येन वैदिकपरत्वप्राप्तेश्च । न च 'न तस्य प्रतिमा अस्ति तस्य नाम महद्यश' इति माध्य- न्दिनथुतौ ब्रह्माप्रतिमानिषेधात्वत्पूजनमसाम्प्रतमिति वाच्यम् । श्रुतेः १. न च किन्विति ख पुखकम् ।
२३९ साम्यनिपेयपरत्यात् । वैशम्पायनसहस्रनामव्याख्यायां-शंकराचार्य- स्तथा व्याख्यानात् । 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुत्य- न्तरेऽपि तथा निर्णयाच । किञ्च पूर्वोक्तामेयवाक्ये पसु सम्यक्पूजनं स्मृतमिति पूजनस्य पटसूत्तमत्वमुक्त्वा 'अनौ क्रियावतामित्यादिना तत्तच्छद्धानुरोधेन पूजार्थ भगवस्थितिरित्यत्राध्याहृत्योच्यते नतु स्थितौ वैपन्यबोधना- यैवमुक्तिः । तस्य सर्वगतत्वाच्चेति हेत्वन्तरस्य, श्रद्धानुरोधस्य च तेषु तेषु तौल्यात् । अतः कथं जघन्यसम्भावनाऽपि । श्रद्धावैप- म्यकृतवैषम्यं तु सर्वत्र समानम् । श्रेष्ठ्यं तूपपादितमेवेति जघन्यता- वादिन एव जघन्या इति दिक् । ननु यद्येवं तर्पकादशस्कन्धे 'सूर्योऽनिरि'त्यत्र प्रतिमापि कुतो- नोक्तेति चेत् । उच्यते । पूर्वोत्तरग्रन्थमजानन्नेवं वदसि । पूर्व हि 'भ- क्तिस्त्वय्युपयुज्येत कीदृशी सद्भिराहते'त्युद्धवप्रश्ने भक्तिं वक्ष्य- 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनमित्यादिना भक्तिसाधनानि वदगीतताण्डववादिवगोष्ठीमिर्मगृहोत्सवः । यात्रावलिवि- धानं च सर्ववार्पिकपर्वसु । वैदिकी वात्रिकी दीक्षा मदीयत्र- तधारणम् । ममा स्थापने श्रद्धा खतः संहृत्य चोद्यमः । उद्या- नोपरनाक्रीडपुरमन्दिरकर्मणि । सम्मार्जनोपलेपाभ्यां सेकमण्ड- लवर्तनः । गृहशुश्रूषणं मह्यं दासवद्यदमायया । अमानित्व- मदम्मित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं में नोप- युयान्निवेदितम् । यद्यदिष्टतम लोके यचातिप्रियमात्मनः । तत्तनिवेदयेन्मह्यं तदानन्याय कल्पत' इत्यन्तैमूर्तिपूजां सपरिका रामुक्त्वा पश्चात्सूर्योऽग्निरि त्यनेनैकादश पूजास्थानानि, ततो २४० जघन्यानि, सर्वत्र खस्थितिबोधनायाऽमानित्याय भेददृष्टिवारणाय चाऽवदत् । अत एव 'सूर्ये तु विद्यया त्रय्या हविषामो यजेत माम् । आतिथ्येन तु विप्राग्ये गोप्पङ्ग यवसादिना । वैष्णवे वन्धुस- स्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यघिया तोये द्रव्य- स्तोयपुरस्कृतैः। स्थण्डिले मत्रहृदयोंगरात्मानमात्मनि । क्षेत्र सर्वभूतेषु समत्वेन यजेत मामि'त्येकं साधनमुक्तवान् । नतु पूर्ववन्नानोत्सवादिपूर्वकाणि नानासाधनानि । तेन मूर्तिपूजनमेव मुख्यं भक्तिसाधनमभिप्रेतमिति निश्चीयते । ध्यानसौकर्याच । 'धिष्ण्येषु तेषु मद्रूपं शङ्खचक्रगदाम्बुजैः । युक्तं चतुर्भुज शान्तं ध्यायनर्चेत्समाहित' इति वाक्ये ध्यानस्याधिकारत्वेन कथना- तस्यात्र सौकर्यात् । एवमेव सप्तविंशे महापुरुपपूजाघ्याये भगवता मूर्तिपूजैव महता प्रबन्धेन वैदिकतान्त्रिकमिश्रभेदैZरूपि । अतोऽयं प्रान्तानां मूर्तिद्वेष्टणामेव पर्यनुयोगः । नन्वेवं सति तृतीयस्कन्धोक्तनिन्दाया निर्विषयत्वापत्तिरिति चेत् । न । पृथग्भावेन कृतायाः पूजाया विषयत्वात् । प्रकरणेन तथा निश्चयात् । तथा हि-'भक्तियोगो बहुविधो मार्ग मिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो विभिद्यत' इत्युपक्रमे भक्तिमार्गस्य नानात्वादिकं प्रतिज्ञाया'ऽभिसन्धाय यो हिंसा मित्यादित्रिमिनवविधां सगुणभक्तिं वदता राजसभक्तौ या प्रतिमा पूजा-अर्चादावर्चयेयो मां पृथग्भावः स राजस' इत्यनेनोक्ता, सैवाऽहं सर्वेषु भूतेषु भूतात्माऽवस्थितः सदा । तमवज्ञाय मां मर्त्यः कुरुतेचा विडम्बन मिति द्वाभ्या निन्द्यते । तादृशतत्कर्ता २४१ च 'द्विपन्तः परकायेपु मानिनो भिन्नदर्शिनः । भूतेषु बद्धवै- रस्य न मनः शान्तिमृच्छत्तीति । 'अहमुच्चावचैर्द्रव्यैः क्रिययो- त्पन्नयाऽनघे । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिन' इत्यनेन निन्यते । तादृशा_विधायकवाक्यवैयर्थ्य परिजिहीर्पया- उर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितमिति तादृश्या एव कालश्च नियम्यते । खक- मकृदिति विशेषणेन धर्मरूपतापि तस्या ज्ञाप्यते । न तु केवलम- क्तिरूपता । तत्कर्तुरेव चाऽऽत्मनश्च परस्यापि यः करोत्यन्तरो- दरम् । तस्य भिन्नदृशो मृत्युं विदधे भयमुल्वणमिति भयं चोच्यते । एवं सत्युपक्रमे पृथग्भावपदादने निन्दायामयज्ञादिपदेभ्यश्च सगुणं पृथग्दृशा पूजनं यत्क्रियते तदेव सपरिकरं निन्द्यत इति सिच्यति । या पुनर्मद्गुणश्रुतेत्याधुक्तलक्षणकनिर्गुणभक्तिसाधनाय सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह- न्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्य- तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यत' इत्यनेनोच्यते, तस्यास्तु 'निपेविता निमित्ते'त्यादिनोच्यमानेषु साध. नेपु 'मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवादनैः । भूतेषु मगाय- नया सत्त्वेनासङ्गमेन चे'त्यनेन धिष्ण्यपूजादीनां सर्वेषु भगवद्भा- वनस्य चोक्तेः पृथग्भावपदानुक्तेः सर्वगुहाशयपदोक्तेश्च नैकादश- बैसम्मत्यम् । अत एव-'यो मां सर्वेषु भूतेषु' इत्यस्य सुबोधिन्यामाचार्य- १ सायुज्यकत्वेति खपाठः। पुष्टि. १६ १२ चरणैरुक्तं भजने प्रमाणाभावमाह मौढ्यादिति' । न तु स्वतत्रो भगवन्मार्गो निषिद्धः । स गुणातीत इति यस्यते 'ममिकेत तु निर्गुणमित्यादिभिः । प्रकरणेन च यापयानि सम्बद्धानि तत्प्रकरणसमेव गुणदोपं वदन्ति । तत्र पृथग्भावस्तु नोक्तः । द्वादशानुसारेण या पुरुषोत्तमनारायण ईज्यः । उमयत्रापि भेदगुणयोरभावाचतानि दपणानि सम्बद्वानि भवन्ति । किन्त्वत्रैचैतानि पूर्वोक्तसगुणभक्तिद्पकानी'ति । यद्यपि 'धने तु सात्त्विको वासो ग्रामे राजस उच्यते । तामसं द्यूतसदनं मनिकेतं तु निर्गुणमिति स्थानमेव निर्गुणत्वेनोक्तं तथापि प्रतिमास्थितिमन्तरेण भगवन्निकेतव्यवहाराऽदर्शनातन मूर्जिस्थितिस्त- दर्थमङ्गीकार्या । अन्यथा भगवतः सर्वगतत्वेन सर्वस्यैव भगवन्नि- केतत्वात्मनिकेतमिति पृथग्वदेत् । एवं सति यत्र भगवन्मूर्त्यधिष्ठितमन्दिरस्यापि निर्गुणत्वं तत्र प्रतिमायास्तत्पूजनस्य च निर्गुणत्वे कः सन्देहः । अत एवाग्रिमे सेवाविषयकश्रद्धाया अपि निर्गुणत्वमुक्तम् । 'मत्सेवायां तु निर्गु- य'ति । अत एव चैतादृशाया मूर्तिपूजायाः फलं भक्तिरुक्ता । 'मामेव नरपेक्ष्येण भक्तियोगेन विन्दति' । 'भक्तियोग स लभते एवं यः पूजयेत मामिति । अतोऽत्र न चोद्यावकाशः । 'अ यामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृत' इति तु न भक्तिमार्गीयभक्तविषयकम् । एकत्रायं भगवन्तं जानाति पूजाकरणात् । न तु - भक्तेष्वपि । नापि पातिव्रत्यधर्मा, नापि ज्ञानी । अर्चाहयों दनिर्देशात् । अन्येषु भावाभावात् । चकारेण भक्ताभक्तयोस्तुल्यताज्ञानवान् । तेन यता- २४३ दृशः स एव प्राकृतत्वेनात्रोच्यत इत्यदोषः । एतेनैव दशमस्क- न्धीयमपि व्याख्यातं ज्ञेयम् । देहात्मबुद्धिसत्त्वसाधनादिना भिन्न- दृक्त्ववोधनादिति । नन्याधुनिकानामेवं भावाभावाचकृतपूजादीनां निन्धत्वं दुर्यार- मिति चेत् । न । पित्रादिशिक्षया कृतसन्ध्यावन्दनादेरिवोपदेशा- नुसारेण तथाकरणे पूनायामपि तदप्रसङ्गात् । अत एव भक्ति मायित्वमपि । तदुपपादितं भक्तिहंसे प्रभुचरणैः । 'भक्तिमार्गी- यभजनप्रकारेप्वि'त्यारभ्य 'नात्र लिख्यत' इत्यन्तेन । किञ्च । सूर्यादिप्यपि 'ध्येयः सदा सविठमण्डलमध्ये त्यादिना 'धिष्ण्येप्येतेपु मदूपमि' त्यादिना च ध्यानस्याऽऽवश्यकत्वेनोक्तस्तस्स च मानसीमूर्तिकल्पनमन्तरेणाऽसिद्धेर्मुर्तिः सर्वेषामेव पूज्येति शैल्यादिपु मूर्तिषु कदर्य एव प्रद्वेपो भवताम् । तथा चोक्तं स्कान्दे उत्तरसंहितायां पाण्डुरङ्गमाहात्म्ये 'शिलावुद्धिर्न कार्या च तत्र नारद कर्हि चित् । ज्ञानानन्दात्मको विष्णुर्यत्र तिष्ठत्यचिन्त्य- कृत् । तीर्थक्षेत्रे स्थिते विष्णौ शिलावुद्धिं करोति यः । स याति नरकं घोरं पुनरावृत्तिवर्जितम् । अत्र सामान्यतो मूढा हेतुकाः पापबुद्धयः । प्रतिमेति विकत्थन्ते दृष्ट्वाऽऽनन्दात्मकं वपुरिति । उत्कलखण्डे च पुरुषोत्तममाहात्म्ये 'अदो यद्दारु प्लयते सिन्धोः पारे अपूरुपम् । तदा लभस्य दुर्हणो तेन गच्छ पर- स्तरमिति मन्त्रे दारु ब्रह्मपरत्वेन व्यासचरणैरुक्तम् । विद्यारण्येन च वेदभाप्ये तथा व्याख्यातमिति मूर्तिद्वेष्टारो भगवद्वेपित्वादन्त्यजा एव । 'अवैष्णवस्तु यो विप्रः स पापण्डी प्रकीर्तितः । अन्त्यजो भगवद्वेषी देवि तत्रैव निर्णय' इति पाझोचरखण्डे शिववाक्यात् ।
२४४ न चोक्तवाक्यानां तचक्षेत्रसस्वरूपपरत्वादन्यप्रतिमापदेपे न दोय इति वाच्यम् । 'ज्ञानानन्दात्मको विष्णुर्यत्र तिष्ठत्यचिन्त्य- कृदिति हेतूक्तिसामान्योत्त्योर्विरोधात् । अतो मूर्तेभगवत्त्वं ज्ञात्वा तत्पूजने भत्तया क्रियमाणे न कोऽपि दोपप्रसङ्गः । ननु मूर्भगवत्त्वे विशेपेण तत्र भगवत्स्थितिः प्रयोजिका । सा चाइनादिसिद्धासु देवादिकृतासु च तास्वस्तु । त्रिविक्रमभट्टादिभि- स्तत्र जीर्णोद्धाराऽनङ्गीकारात् । अन्यासु तु 'सण्डिते स्फुटिते दग्धे अष्टे मानवियर्जिते । त्यागहीने पशुस्पृष्टे पतिते दुष्टभूमिपु । अन्यमन्त्रार्चिते चैव पतितस्पर्शपिते । दशस्त्रेतेपु नो चक्रुः सन्निधानं दिवौकस' इति ब्रह्मवाक्ये निमित्तवशादसन्निधान- स्याऽप्युक्तत्वात् । त्रिस्थलीसेतो 'स्त्रीणामनुपनीतानां शूद्राणां च नरेश्वर । स्थापने नाधिकारोऽस्ति विष्णोर्वा शंकरस्य वा । यः शद्रसंस्कृत लिङ्गं विष्णुं वा विनमेन्नरः । इहैवात्यन्त दुःसानि पश्यत्यामुष्मिके किमु' इति । ब्रह्मनारदीयस्कान्दवाक्येपु 'यः शूद्रस्थापितं लिङ्गं विष्णुं या विनमेट्विजः । स याति नरकं घोरं यायदाभूतसम्प्लवमिति वाक्ये । 'यः शुद्रेणार्चित लिङ्ग विष्णु वा विनमेन्नरः । न तस्स निप्कृतिदृष्टा प्रायश्चित्तायुतैरपि। नमेयः शूद्रसंस्पृष्टं लिङ्गं वा हरिमेव वा । स सर्वयातनाभोगी यावदाचन्द्रतारकम् । योपिद्भिः पूजितं लिझं विष्णुं वा विनमे- भरः । स कोटिकुलसंयुक्त आकल्पं रौरवं वसेदिति निस्थली- सेती नारदवाक्येपु नमनेऽपि दोषस्मरणात् । तत्रैव 'शूद्रो वाऽनु- पनीतो वा स्त्रियो वा पतितोपि वा । केशवं वा शिवं वाज्य १ साधनादित्यादि खपुस्तक पाठ ।
२४५ स्पृष्ट्वा नरकमश्नुत' इति शूद्रादीनां सर्शस्यापि पातकस्मरणात् । सन्निधाने च तैदयोगात्तासु न स्थितिरित्यङ्गीकार्यम् । तथा च सादृश्याः पूजने कथं न दोष इति चेत् -- उच्यते। मूर्तावस्ति त्रेधा भगवत्त्वम् । सर्वस्य भगवद्रूपत्वेन तस्या अपि भगवद्रूपत्वात् । साकारब्रह्मणस्तत्र स्थितत्वात् । मन्त्रादिमि- रावाहनेन सन्निधानाधानाचेति । तत्र 'खण्डिते स्फुटित' इति वास्याघदसन्निधानखरूपं दूपणमायुष्मतोक्तं तत्तु देवान्तरविषय- कम् । दिवौकस इति पदाद्वहुवचनाच । न तु भगवन्मूर्तिविषयकम् । भगवतः सर्वत्र सन्निहिततयाऽऽवाहनस्य सन्निधायकत्वाभावेन खण्डि- तत्यादीनामसन्निधापकत्वाभावस्याऽप्यर्थादेव सिद्धेः । अत एवोक्तं विष्णुधर्मोचरे तृतीयकाण्डे आवाहनप्रयोजनाऽध्याये । 'वन उवाच । विष्णुः सर्वगतो देवो महद्भ्योऽपि महत्तरः । सूक्ष्मे- भ्यश्चातिसूक्ष्मश्च सर्वव्यापी जगन्मयः । नास्ति किश्चिज्जगत्य- सिन्यत्र नास्ति जनार्दनः । सदसच्च महाभाग तेन व्याप्त महात्मना । आवाहनेन किं कार्य तस्य सर्वगतस्य तु । मार्क- ण्डेय उवाच । आवाहनमथाघ्रापि क्रियते यजगत्पतेः । नित्यं सन्निहितस्यापि सर्वत्र परमेष्ठिनः । केवलं कारणं तत्र स्वमनस्तुष्टिकारणम् । आवाहितो महादेवस्तत्र सनिहितोऽपि वेति । अत एव 'दशपञ्चाङ्गुला मुख्या मध्यमा द्वादशाङ्गुला। अष्टाङ्गुलाऽधमा प्रोक्ता न्यूनाधिक्यं न कारयेत् । प्रतिष्ठा विफला तस्य पूजनं निष्फलं भवेत् । मानागुलि विहीना या प्रतिमा यत्र तिष्ठतीति गौतमीतन्त्रवाक्योक्तो मानहीनत्वादिदो- १ दृष्ट्वेति सपाठः। २ आमुयादिवि कपाठः । ३ तदनुयोगादिति पाठः ।
२४६ पोऽपि न । नापि 'हन्त्यर्थहीना कर्तारं मनहीना तु ऋत्वि- जम् । खियं लक्षणहीना तु न प्रतिष्ठासमो रिपुरि ति नार- दोक्तः प्रतिष्ठादोपः । तदुद्धारार्थ तथाप्राकय्यात् । प्रतिष्ठाया विश्वासदार्धित्वाच । एवं सति ये उपासनामार्गीयास्तत्राप्यता अढविश्वासास्तेषां हृदि तथा स्फुरतीति तान्प्रत्येवैपा व्यवस्था विभीपिका का । न भक्ता-ज्ञानिनो या प्रत्यकिश्चित्करा । अत एव प्रतिष्ठानमनादिकृ. तोऽपि न तेषां दोपः । नापि 'सण्डिता स्फुटिता दग्धा यसा- दर्चा भयावहा । तस्मात्समुद्धरेतां तु पूर्वोक्तविधिना नर' इति- नारदपञ्चरानोक्तो जीर्णोद्धारः । भक्तिमार्गविरुद्धत्वात् । भक्तेः स्नेह- रूपत्वात् । स्निग्धस्य तादृशत्व उपचारफरणस्यैवौचित्यात् । रागस्य भयप्रतिपक्षत्वाच । प्रतिमाया अपि न भयावहत्वम् । दुष्टस्पर्शादौ तु वस्त्ययनादिकरणं पञ्चामृतलानं महाऽभिषेकादिकं च भत्त्यङ्ग- तया प्राप्तं मेहमावेन कार्यम् । श्रीनन्दकृतजातकर्मादिवत् । तावता 'द्रव्यवस्कृतशौचानां देवता_नां पुनः प्रतिष्ठापनेन शुद्धिरिति विष्णुयाक्यमप्यनुकूलं भवतु नाम । प्रतिमामङ्ग उपचासोऽपि स्नेहानुसारेणैव कार्यः । न राज्ञो विलचेऽश्नीयात्सुरा विप्लवे तथेति विष्णुधर्मवाक्यमपि तेनैवाऽनुकूलं भवतु नाम । विरुद्ध- वाक्यानि त्वभक्तपराणि । यद्यपि तद्रूपादिहेतुद्वयस्य सर्वसाधारणत्वं तथाऽपि शालिग्रामा- दिपूजामनुक्त्वा भगवता प्रतिमापूजैव यन्महता प्रपञ्चेन निरूपिता तेन तत्र कश्चिद्विशेषोऽस्तीति ज्ञायते । स च ज्ञानिभक्तमेनमुद्ध- १ज्ञानिमकं प्रतीति कपाठः।
. । २४७ रिप्यामीतीच्छया मृदादेः प्रादुर्भूतत्वरूप एकः । यथा सम्भाप्रहा- दार्थम् । जीवक्रिया तु श्रीजगन्नाथस्वरूप इवोऽभिव्यक्त्यर्थ व्याय- तापीच्छाशरीर एव प्रविशतीत्यकिश्चित्करा । एनं जीवमेवमाविर्भू- योद्धरिप्यामीत्याकारा, ब्रह्मणः साकारव्यापकतया मुखे मुखस्य हस्ते हस्तस्यै स्थितिरित्यपरः । तेन सर्वेषां कटककुण्डलायुपचाराणां साक्षाद्विनियोग इति । न चाधेयत्वेन स्थितौ कथं साक्षाद्विनियोग इत्याशकनीयम् । भगवतः सर्वान्तरत्वात् । 'यः पृथिवीमन्तर' इत्यादिश्रुतेः । अन्तरयतीत्यन्तरः । अतो यत्रैवं विशेषतो भगवतो भगवत्वं तत्पूजातद्वेष्टारो लघुतमा एवेति दिक् । नन्यस्त्वेवं तथाऽपि सर्वासु मूर्तिपु विशेषाच्छीकृष्णमूर्तिरेव सेव्येति कोऽयं निर्बन्धः । उच्यते । भजनं हि मूलरूप एव मुख्यम् । फलनान्तरीयकत्वात् । मूलरूपता च 'कृष्णस्तु भग- वान्स्वयम्' 'कृपिभूवाचकः शब्द' इत्यादिवाक्यैस्तत्रैव सिद्धा । इतरत्र त्यवतारादिरूपा । तदुपपादितमाचार्यैः सुबोधिनीमाप्यादिपु- 'मूर्ती च स्थितिरावेशरूपा । वन्हेरयसीव ।' एवं सति मूर्त्य- न्तरे य आवेशः सोऽवतारादिरूपस्य । तच भगवदंशभूतमिति द्वयन्तरितत्वं मूर्तेः । श्रीकृष्णमूर्ती तु मूलरूपेणेति साक्षात्त्वमि- त्यतोऽयं निर्बन्धः। अथ मूर्त्यन्तरेऽपि भक्तिविशेषेण खयमेव चेदाविर्भवेत् । भवतु नाम । तथाऽपि साधनदशायां तीतिरेव पूर्व भवतीति ट्यन्तरितत्वमवाघम् । एतेनैव पञ्चायतनपक्षोऽप्यपास्तः । 'यथा १ इह सपुस्तकेऽशुद्धबहुलोऽन्य एव माठ उपलभ्यते स च व्याडम्बरमिया परित्यक्त। २ विशेषत इति सपुस्तके नास्ति ।
२४८ हि स्कन्धशासानां वरोर्मूलाऽवसेचनम् । एवमाराधनं विष्णोः सर्वेपामात्मनथ ही'त्यष्टमस्कन्धपञ्चमाध्यायवचनेन, 'यथा तरो- मूलनिपेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहा- राच यथेन्द्रियाणां तथैव सर्वार्टणमच्युतेज्येति चतुर्थसमाप्ती वचनेन च, तेनैव सर्वसिद्धेरक्तत्वाघ । नाऽपि तस्य पक्षस्य वैय- र्थ्यम् । अनन्यभिन्नान्साधारणान्प्रतिकृतार्थत्लादिति । ननु प्रतिमायामेवमावेशः, सर्वदा, कदाचिद्वा । सोऽपि सर्या- प्रति, कश्चित्प्रति वा । अविशिष्टो विशिष्टो वेति विचार्यताम् । तत्र कक्षात्रयाद्यपक्षास्तु न भवन्ति । सर्वदा सर्वेषामेकरूपानुभ- वात् । द्वितीया एव तु साधीयांसः । तथा सत्ययमपि तस्यावे. शेऽयःस्थापनवत् । अत्र भक्तिरेव तस्य तादृशी निमित्तभूता वाच्या । सा च रत्याख्यमनोविकाररूपत्वादान्तरा, व्यधिकरणा वेति न बहिरावेशयितुं शक्नोति । तथा सति साधितमपि मूर्ती भगव. स्वमकिश्चित्करमिति चेत्---- उच्यते । 'भक्त्या तुतोप भगवान्गजयूथपाय भन्यैव तुष्टि- मभ्येती'त्यादिवाक्यैर्मक्तेर्भगवदोपहेतुत्वमविवादम् । तोपे चाऽवि- र्भावोऽप्यविवादः । सामानाधिकरण्यात् । स चाऽरणौ बहेरिव सत एवेति न पूर्वोक्तानुपपत्तिगन्धोऽपि । आविर्भावादेव चानुभावा- नुभवो भक्तानाम् । आरम्भदशायां तदभावेऽपि भावनासौकर्य त्वविवादमेव । सा च गुरूपदेशमन्तरेणानुपपन्ना । स च तद्भ- क्तिमन्तरेण तथा । साऽपि यस देवे पर भक्तिर्यथा देवे तथा १ भगवत्पूजनेनैवेत्यर्थः।
२४९ गुराविति श्रुतेरुकैटैवाऽपेक्षितेति तारतम्येऽपि न किञ्चिदनुप- पन्नम् । इदं च सर्व सपरिकरं निवन्धे सेवाप्रकरणे 'तद्रूपं तत्र च स्थितमित्यादिना प्रकटीकृतमाचार्यः । सेवनप्रकारश्च दशम- स्कन्धसिद्धो ब्रजस्थानां गृह्यते । 'केवलेन हि भावेने त्यादिना तेषां प्रशंसनात् । 'देशान्पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान् । देवासुरमनुष्येषु मद्भक्ताचरितानि चेत्यनेन भक्ताचरिताश्रय- णाऽऽज्ञापनात् । 'गायन्ननुसरन्कर्म जन्म चाभिनयन्मुहुरि' त्याज्ञापनाच्च । पञ्चायतनपूजादिकं त्वनन्यताज्ञापनादेव निरस्त- मिति न कोऽपि शङ्कालेशः। एवं च 'यथा तरोर्मूलनिपेचनेन तृप्यन्ति तत्स्कन्धभुजोप- शाखाः। प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्टणमच्युते. ज्येति चतुर्थस्कन्धसमाप्तिस्थनारदवाक्यम् । सभापर्वदशमस्कन्ध- स्थभीष्मसहदेववाक्यं च सङ्गतं भवति । फलं च सेवाफलविवरणे । साधनभक्तीनां स्वरूपं भगवतः प्रेमैकलभ्यत्वादिकं च प्रभुचरणैर्भ- क्तिहंसविद्वन्मण्डनादौ प्रपञ्चितमित्युपरम्यते ॥ इति श्रीगोस्वामिश्रीपुरुपोत्तमविरचितो मूर्तिपूजनवादः समाप्तः। १ रेकर्दवाऽपेक्षितेति स पाठः ।
॥ श्रीः॥ श्रीकृष्णाय नमः। पुष्टिमार्गसिद्धान्तयामालायां गोस्वामिधीमत्पुरुषोत्तमविरचित ऊईपुण्ड्धारणवादः । श्रीकृष्णसेवनरसैस्तिरस्कृतरसान्तरान् । तदेकभावनपरानूर्द्धपुण्डूधरान्नुमः ॥१॥ नन्विदमहृदयङ्गमम् । अमिरित्यादिना भस्म गृहीत्वा विमृज्या- सानि सस्पृशेदिति प्रकारकस्य, 'प्रतमेतत्पाशुपतं पशुपाशवि- मोक्षणाये'त्यथर्वशिरसि श्रावितस्य भलोद्भूलनस्य पाशुपतविद्या- प्रकरणाऽऽग्नातत्वेन तदवरुद्धत्वेऽपि यथोपनयनमध्ययनविध्येऊवाक्य- तापनविधिविहितत्वादध्ययनाङ्ग सदधिकारापादकत्वेन सर्वकर्मा- र्थमेव पाशुपतविद्यागमपि भस्मोद्धूलन चित्तशुध्यापादकत्वेन सकलविद्याङ्गमिति भट्टोजिदीक्षितैर्महता प्रपञ्चेन व्यवस्थापितमत- स्तदपेक्षयोद्धपुण्डधारणस्याधिक्याभावादिति चेत्-मैवम्। तस्य सकल- ब्रह्मविद्याचित्तशुद्ध्यापादकत्वे मानाऽभावात् । न च 'पापं नारायते कृत्स्नमपि जन्मशतार्जित'मिति जागल श्रुतिरेव मान- मिति वाच्यम् । पापनाशमानस्यैवाऽत्र श्रावणेन तस्य चित्तशुद्धि- २५१ जनकताया अनुतत्वात् । 'अन्तःकरणशुद्धा ये तान्विभूति: पवित्रयेत् । पावनाः किं प्रकीर्त्यन्ते रासभा भसधूसरा' इति काशीखण्डपञ्चत्रिंशाऽध्यायीयस्कन्दवाक्ये चित्तशुद्ध्युत्तरकाली- नपावित्र्ययोधनेनाऽस्य तदुत्तरकालीनपापनाशकत्वाऽनिश्चयाच । न च काशीखण्डस्य भस्मस्नानविपयत्वान्नैतत्परत्वमिति वाच्यम् । भस्मसाने 'अमिरित्यादि पाशुपतमन्त्राणामेव मार्तः पाठात् । न चैवं सति श्रौतकृत्स्नपदे सङ्कोचाऽऽपत्तिरिति वाच्यम् । निरवकाशस्मृ- तिवाधाऽपेक्षया सोचस्याऽल्पदूपणत्वात् । श्रुतौ सन्देह उपहण- मूतपुराणस्यैव निर्णायकत्वेन तन्नैर्बल्यस्याऽप्यशक्यवचनत्वात् । सप्तम्यां कक्षायां स्वयमपि तथाङ्गीकाराच । न चायं ब्राह्ममानस्तु- त्यर्थोऽर्थवाद इति सानेन तस्य चित्तशोधकत्वनिवृत्तिरिति वाच्यम् । वाक्यार्थवाधप्रसङ्गात् । छागादिपु पशुत्वस्य प्रत्यक्षसिद्धत्वेन 'अन्ये त्वपशव' इत्यत्र गौणीवदत्र पुरुषान्तःकरणनिष्ठस्य पावित्र्यस्या- ऽप्रत्यक्षत्वेन तन्न्यूनताया दुर्जेयतया गोण्या वक्तुमशक्यत्वात् । एवं सिद्धेऽस्योपबृंहणत्वे 'अग्नि'रित्यादिमन्त्रविधेयं भस्मोद्धूलनं सकलब्रह्मविद्याङ्गम् । विद्याङ्गत्वे सति सकलब्रह्मविद्यापेक्षितोपकार- जनकत्वात् । शमदमादिवदित्यनुमानमपि निरस्तम् । खवुद्धि- कल्पितन्यायापेक्षयोपबृंहणभूतपुराणस्यैव ज्यायस्त्वात् । ननु बाह्य- पापनिवर्तकत्वेनैव सर्वविद्याङ्गत्वं तस्त्विति चेत्-किमेतजन्मी- यतन्निवर्तकत्वं विवक्षितमुतजन्मान्तरीयतन्निवर्तकत्वम् । नाद्यः । 'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भसच्छन्नो भसशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैरिति शातातपस्मृत्युक्तप्रायश्चिचे प्रवेशाद्विद्याङ्गत्वदानेः ।
२५२ न द्वितीयः । 'द्विपन्तः पापकृत्या मिति श्रुतेः पापसत्वेऽपि विद्योत्पत्त्या पापनिवृत्तेरप्रयोजकत्वात् । ननु जाबालश्नुतेरुपनिषनिष्ठत्वेन तदुक्तोलनस्य विद्याभूत- पापक्षयहेतुत्वे सिद्धे काशीखण्डवाक्यस्य शातातपोक्तप्रायश्चित्ताङ्ग- भूतोद्भूलनादिपरत्वेनाऽप्युपपवेर्नास्यैतदुपबृंहणत्वमिति चेत्-न । उपनिषन्निष्ठतामात्रस्य विद्याङ्गत्वाऽनिश्चायकत्वात् । अन्यथा बृहदार- पयकीयपञ्चाग्निविद्योक्तायाः गर्भधारणभावादिसाधनक्रियाया अपि तथात्वाऽऽपत्तेः । किञ्च । काशीखण्डीयवाक्यस्याऽन्यपरत्वेऽप्यु. तोद्भूलनस्य सकलविद्याङ्गभूतपापक्षयहेतुत्वं न शक्यवचनम् । अर्थ रात्रावग्निहोत्रभसना 'अग्नेर्भस्सासीदं विष्णुस्त्रीणि पदेति मत्रै विष्णुगायत्र्या प्रणवेनोलनं कुर्यादिति वासुदेवोपनिप- दुक्तगोपीचन्दनधारणाङ्गभूतोलनविधियैवर्थ्यापत्तेः । न च तस्या- पक्षयाऽतिरिक्तफलफमिति वाच्यम् । एतदनन्तरमेव-'एवं विधिना गोपीचन्दनं यो धारयेद्यस्त्वेतदधीते वा स सर्वपातकेभ्यः पूतो भवति । पापबुद्धिस्तस्य न जायत' इति फलश्रुतिविरोधात् । अतोऽत्रैव चित्रशुद्धिलिङ्गदर्शनादसैव तथात्वं, न जाबालोक्तस्येति जापालोक्तोटूलने चित्तशोधकत्वस्य निवृत्तौ सकलनझविद्यापेक्षि- तोपकारजनकत्वस्य विशेषणस्याऽभावाद्धेतुः स्वरूपासिद्धः । एव च जाबालोक्तोद्भूलनस्य विद्यान्तरेप्वपेक्षाभावे सिद्धेऽपेक्षाया लिङ्गप्रमाणेन्तर्भावमपि महता प्रयासेन साधयित्वाऽपेक्षितत्वेनानुमा- नस्याप्रयोजकत्वनिरासोऽपि काकदन्तविचारमेवानुसरति । अत- श्चित्तशुद्धेः सर्वविद्यापेक्षितत्वमिच्छद्भिः खोक्तानुमाने खरूपाऽसि- २ खरूपासिद्धेरिति कपुस्तकम् । विशेप्यस्पेति सपुतकम् । -- २५३ द्धिवारणाय 'अमिरित्यादिमन्त्रविधेयमिति पक्षविशेषणं विहाय, अग्नेर्भस्मासीत्यादिमन्त्रविधेयमिति विशेषणं दातव्यमिति युक्तम् । ननु 'व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति श्रुतौ विमोक्षपदेन करणव्युत्पत्त्या विमोक्षसाधनभूतं विद्यामात्रमुच्यते । एतावदरे खत्वमृतत्वमित्यत्राऽमृतत्वपदेनाऽमृतत्वसाधनवत् । अतः श्रुतिर- म्येपा शैवानुमाने न प्रमाणमिति नाप्रयोजकत्वं नापि खरूपासिद्धिरिति चेत्-न । दृष्टान्ते केवलामृतविमोक्षपदेन दान्तिके केवला- ऽमृतविमोक्षपदाभावेनोभयोवैषम्यात् । विमुक्तेर्नित्यनिरतिशयसुख- रूपत्वेन पशुपाशविमुक्तेर्दुःखाभावरूपत्वेन भेदात्पशुपाशविमोक्ष- पदस्स श्रुत्या सर्वसाधारणत्वाऽभावात् । विमोक्षपदस्य करणव्यु- त्पत्तावपि पशुपाशपदविशिष्टतया तत्सान्निध्येन वाचकत्वे निय- त्रिते पशुपाशविमोक्षरूपफल करणभूतपाशुपतविद्याया एव बोधसम्भ- वेन विमुक्तिसाधनीभूतविद्यान्तरपरत्वे निवृत्ते सर्वविद्यापरत्वस्या- ऽशक्यवचनत्वाञ्च। नापि 'तेपामेवैतां ब्रह्मविद्यां वदेत शिरोवतं विधिवद्यैस्तु चीर्ण मिति मुण्डकवाक्यं तत्र प्रमाणम् । शिरस्यगारधारणरूपस्य मुण्डकाध्ययनागभूतव्रतस्य तत्राभिप्रेतत्वेनोद्भूलनस्य तत्राऽशक्य. वचनत्वात् । ननु सौरसंहितायामथर्वशिरःप्रसिद्धं पाशुपतत्रतमेव शिरोनतपदेनोच्यते । 'इदं शिरोवतं चीर्ण विधिवद्युद्धिजा- तिमिः। तेषामेव परां विद्यां वदेदज्ञानवाधिकाम् ।' शिरोतं नाम शिरस्याऽथर्वणश्रुतेर्यदुक्तं तद्धि, नैवान्यचत्पाशुपतसंहितमि- त्याद्युक्त्वा 'अग्निरित्यादिमिर्मत्रैः पद्भिः शुद्धेन भसना । सर्वा- १ शैवानुमान इति खपुस्तकम् । २ विमोक्षमा कपुस्तके।
२५४ . गोलनं कुर्याच्छिरोव्रतसमाहय मिति । ब्रह्मोत्तरखण्डेऽपि 'उद्भूलनं त्रिपुण्डू च मायापाशनिवृत्तये । आमनन्ति मुनि- श्रेष्ठा अथर्वशिरसि स्थित मिति । पूर्वोक्तवते तु शिरोवतपदमध्यापकप्रसिद्धम् । तत्प्रसिधपेक्षया पुराणमसिद्धेवलिष्ठत्वादिदमेव शिरोवतत्वेन ग्राह्यम् । अन्यथैतद्वा- क्यविरोधापत्तरिति चेत् नै । पूर्ववाक्ये, समः समान आहयो यस्येति समाह्वयः । शिरोवतं समाहयो यस्य तच्छिरोव्रतसमाहृय- मिति समासादुद्भूलनस्य शिरोव्रतसमाननामकत्वबोधनात् । द्वितीय- वाक्ये पूर्ववत्तस्यैवाऽथर्वशिरःस्थितत्वकथनेन शिरःसबन्धि अतं शिरो- प्रतमिति योगबोधनादृढिर्योगमपहरतीत्यतोऽस्यानुपहणत्यानुसन्धा- नेन पुरःस्फूर्तिकं तद्विरोधमनाढत्यैव व्यासचरणैः, 'स्वाध्यायस तथात्वेन समाचारेधिकाराचेति सूत्रेऽध्यापकप्रसिद्धस्य समाचार- ग्रन्थोक्तस्यैव शिरोव्रतस्याऽऽदरात् । अन्यथा 'स्मृतेश्थे' त्यादिसूत्रप्र- णयने पुराणमुपजीवतः पुराणप्रणेतुस्तदनादराऽनुपपचेः। तत्सूत्र- व्याख्याने सर्वेरेव भाप्यकारैर्वेदव्रतविशेषरूपस्य तस्याऽऽदरणानुप- पत्तेश्च । अत एवाऽध्यापकपसिद्धिनैर्बल्यमपि परिहृतम् । अन्यथा- ऽन्धपरम्परात्वाऽऽपत्त्या तदाचारविप्लवप्रसङ्गात् । न च कृत्वा- चिन्तार्थमेतन्नादृतमिति वाच्यम् । असति वाधके कृत्वाचिन्ता- गीकारस्य जघन्यत्वात् । अत एवान्यैस्तदनादरात् । यदपि 'तेपा- मेवां ब्रह्मविद्यां चदेते ति ब्रह्मविद्यापदस्य ब्रह्मविषया विद्या बालविधेति योगेन सकलब्रह्मविद्यापरत्वसिद्ध्या ब्रह्मविषयत्वरूपहे- तुसाधारण्यासर्वासु विद्यासद्गत्वेनाऽथर्वशिरःसिद्धशिरोमतप्राप्तिहेतु- . १ तमेति कपुरसम् ।
२५५ राधारयन हेतुमति विधेयमासेरर्थवलसिबत्वादित्युक्तम् । तदप्यनुप- पन्नम् । 'ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस गोप्ता । स ब्रह्मविद्या सर्व विद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय पाहे' युपक्रम्य मुण्डकोपनिषद्रूपनमविद्यापाठेन तस्यां ब्रह्मविद्यापदस्य रूढत्वनिश्चयादुपसंहारगतेऽपि ब्रह्मविद्यापदे 'एतामिति प्रकृत- परामर्शिपदसान्निध्येन तस्या एव स्फूर्तेरवयवशकस्तत्राऽभावेन हेतु- मत्त्वस्यैव तत्राऽभावात् । न च 'निर्मन्थ्य'न्यायेन योगरूढत्वं शक्यम् । तथा सति समाचारग्रन्थोक्तस्यैव सर्वत्राऽऽपत्त्या युप्मदभीष्टासिद्धेः । आचार- विरोधेन तस्याऽनिष्टत्वावदभिमतस्याऽपि तथावाच । तमादिदं वाक्यमपि न तत्र प्रमाणम् ।. एवं तदुक्तश्रुतिवाक्ययोस्तत्राऽप्रामाण्ये अपेक्षाभावेन लिस्या- ऽप्यभावे, सत्यामपि तस्यां लिङ्गस्यान्यपरत्वेनाऽपि तत्राऽप्रामाण्ये सिद्धे तदुक्तन्यायस्याऽप्रयोजकत्वात् । असिद्धत्वाञ्च । तत्र वैष्ण- वस्योक्तं भस्मोद्धूलनं न सकलविद्याङ्गम् । विद्याविशेषप्रकरणनिय- वितत्वात् । पूर्वोऽतिथिभ्योऽश्नीयादिति ! वैश्वानरविद्योक्ताति- थिमाग्मोजनवदित्यनुमानस्य प्रत्यनुमानत्वमपि दुर्वारमेव । विद्या- विशेषप्रकरणनियन्त्रितत्वं च प्रकरणीयविद्यावशीकृतत्वम् । न च तस्यासिद्धत्वम् । शैवोपन्यस्तश्रुतिलिङ्गवाक्यानामन्यपरत्वस्योपपादि- तत्वेन तैः सर्वविद्याङ्गत्वापादनाशक्तौ प्रकरणस्यैव प्रमाणत्वेन इतावसिद्धिपरिहारात् । एवं त्रिपुण्ड्स्यापि कालामिरुदोपनिषदुः- तस्य शैवविद्यागत्वमेव । व्रतमेतच्छाम्भवमिति तत्रैवोक्तः । प्रक- रणसमाख्याभ्यां तन्नियमनात् । बृहज्जाबालश्रुतौ तस्यापि पाशुप- २५६ तविद्योक्तभस्मोद्धूलनतुल्यफलत्येन अपश्चिततया कालानिरुद्रस्यापुनर्भ- चपदसापि पशुपाशविमोक्षरूपार्थस्यैवादरणीयत्वाच । एवं सिद्ध तयोः शैवविद्याङ्गत्वे 'ततोधिकाराखनुपनीतशतमेकेनोपनीतेन तत्सम मित्यादिना'ऽथर्वशिर:शिखाध्यायी शतमेकमेकेन मन्त्ररा- जजापकेन तत्सममित्यन्तेन श्रावितविद्यावदुत्कर्षविश्रान्तिसाधिन, तपरमोत्कर्षासु तापनीयरूपाऽथर्वणस्य रहस्यायुक्तविद्यासु तदनुफ्यो- गान तयोरुद्धपुण्ड्रादाधिक्यमिति सिद्धम् । अतः परं तागत्युत्कृष्ट विद्योपयुक्तमूर्द्धपुण्डूं विचार्यते । तच वासुदेवोपनिषद्युक्तम् । ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वर वासुदेवं पप्रच्छ भगवन्नू पुण्ड्रविधि द्रव्यमत्रस्सानादियुतं मे घूहीति । त होवाच भगवान् वासुदेवो वैकुण्ठस्थानोद्भवं मम प्रीतिकरं मद्भक्तब्रह्मादिभिर्धारित'मित्युपक्रम्य गोपीचन्दनाख्यं द्रव्यं प्रथमकण्डिकायामुक्त्वा द्वितीयकण्डिकायां । अथ गोपीचन्दनं नमस्कृत्योद्धृत्य, गोपीचन्दन पापन विष्णुदेहसमुद्भव । चक्रा- कित नमस्तुभ्यं धारणान्मुक्तिदो भव । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्णिया । असिनिया मरु- दृधे वितस्तयार्जीकीये शृणुह्यासुपोमया । इति जलमादाय विष्णोर्नुकमिति मर्दयेत् । अतो देवा अवन्तु न इत्येताभि- स्तत्पुरुषाय विद्महे वासुदेवाय धीमहि । तनो विष्णुः प्रचो. दयादिति विष्णुगायच्या त्रिवारमभिमन्य शङ्खचक्रगदापाणे द्वार- कानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागत- मिति, मां ध्यात्वा गृहस्थो ललाटादिद्वादशस्थानेषु अनामिकया- १ अयं मंत्र. पुस्तके नास्ति । २ अयं मंत्रः कपुस्तके नास्ति ।
२५७ झुल्या विष्णुगायत्र्या केशवादिभिर्द्वादशनामभिर्वा धारयेत् । ब्रह्म- चारी 'वानप्रस्थो वा ललाटकण्ठहृदयबाहुमूलेषु वैष्णवगायच्या कृष्णादिपचनामभिर्वा घारयेत् । यतिस्तु तर्जन्या शिरोललाटहृद- येपु प्रणवेन धारयेत् । ब्रह्मादयस्तिस्रो व्याहृतयस्त्रीणि छंदांसि त्रयो वेदास्त्रयः स्वरास्त्रयोऽग्नयो ज्योतिप्मन्वस्त्रयः कालास्तिस्रोऽवस्थात्रय आत्मानः पुण्ड्रास्त्रय ऊर्दाकारा अका- रोकारमकारा एते सर्वे प्रणवमयोर्ध्वपुण्ड्रत्रयात्मकाः। तदेत- दोमित्येकत्वं संभावयन् परमहंसो ललाटे प्रणवेनैकमूर्द्धपुण्; धारयेदिति तद्विधेरुकत्वात् । न च प्रसिद्धशाखासु तस्या उपनिषदोऽनुपलम्मादप्रामाण्य शङ्कयम् । संप्रदायाध्ययनरहितानामपि खिलशाखास्थमन्त्राणां शिव- सङ्कल्पादीनां तत्र तत्र कर्मणि शिष्टकृतविनियोगदर्शनवदस्या अपि तचद्देशस्याऽद्वैतब्रह्मतत्त्ववादिसगृहीतपुस्तकेप्ववगम्यमानत्वेन काला- मिरुद्रोपनिषददादरदर्शनात् । तैतिरीयशाखाश्रितवैखानसाख्यगृख- सूत्र 'इति भूति सेति मस्म गृहीत्वा ललाटहृदयवाहुकण्ठादी- 'नादित्यः सोमो मेन इत्यूङ्गिमालिप्यापोहिष्ठे'ति संग्रोदय 'ते अग्ने तेने त्यादिरग्नि मुद्वयं तमसस्परीत्यादित्यमुपतिष्ठत' इत्युप- स्थानाङ्गत्वेन तद्विहितम् । तदेवाऽऽश्रित्य द्रविडदेशस्थैर्याज्ञिकैरमि- होत्रानन्तरं तदीयमस्मनोईपुण्डूं धियमाणं दृश्यते । तथा तलनिव- न्धलिखितेषु पुराणेप्वपि दृश्यते । तचावत्रिविधम् । जातिप्रयुक्तं, कर्मानमूर्त, सम्प्रदायानुरोधि च । तत्राऽऽयं मदनपारिजाते ब्राझे १इत आरभ्य यतिस्वित्यन्तः पूर्वतनो भागः खपुस्तके नास्ति । सपुलके भूपालनमः पाठः । अति सपाय नम इति कपुस्तकम् । पुष्टि. १७ २थन ૨૮ 'ऊर्ध्वपुण्डूं द्विजः कुर्यात् क्षत्रियस्तु त्रिपुण्डूकम् । अर्द्धचन्द्रं तु वैश्यानां वर्तुलं शूद्रजातिविति । धर्मप्रवृत्ती शाफलश्च । 'त्रिपुण्डू सुरविप्राणां वर्तुलं नृपवैश्ययोः । अर्द्धचन्द्रं तु शूद्रा- सामन्येपामूर्ध्वपुण्ड्रक मिति । द्वितीयमानारमाधये ब्रह्माण्डे "पूजाकाले जपे होमे सायंग्रातः समाहितः । नामान्युचार्य विधिना धारये पुण्ट्रक'मिति । मदनपारिजाते च ब्राझे 'यागो दानं तपो होमः स्वाध्यायः पितृतर्पणम् । मसीभवति तत्सर्व- भूर्ध्वपुण्ई विना कृतम्' । स्कान्दे मार्गशीर्षमाहात्म्येऽपीदमेव वाक्यम् । धर्मप्रवृत्तौ च स्मृतिसारसमुच्चये 'खाध्यायजपहोमादि सन्ध्यादानादिकं च यत् । ऊर्ध्वपुण्ड्रं विना कुर्यात्चत्सर्वं निष्फल भवेदिति । आचारमयूखे च ब्रह्माण्डे 'मृत्तिकां चन्दनं चैव भस तोयं चतुर्थकम् । एमिद्रव्यैर्यथाकालमूर्ध्वपुण्डूं मवेत्सदा । खात्वा पुण्इं मृदा कुर्याद्धुत्वा चैव तु भसना । देवानभ्यर्च्य गन्धेन सर्वपापापनुत्तये । जलेन तिलकं कुर्याजलान्तः कर्मसि- द्धय' इति । तृतीयं धर्मप्रवृत्तौ स्मृतिसारसमुच्चये ऊर्द्धपुण्ड्रविधि प्रक्रम्य 'ललाटे तिलकं कृत्वा कुर्युः शैवाथ वैष्णवाः । तर्पण- वापि वै श्राद्धमन्यथा निष्फलं भवेत् । आचारमयूखे च शौनकः । 'ऊर्ध्वपुण्डूं शिवस्यैवं विष्णोः कुर्युश्च वा बुधाः । मूर्ध्नि मूलेन मन्त्रेण शेपं द्वादशनामभिरिति । 'ऊर्ध्वपुण्डू तु सर्वेषां न निषिद्धं कदाचन । धारयेयुः क्षत्रियाया विष्णुभक्ता भवन्ति य' इति पाद्मोत्तरखण्डे ऊर्द्धपुण्ड्राध्याये चोक्तम् । एवं प्रकारत्रयमध्ये तृतीय एवं प्रबलः । जातिपयुक्त्या पुण्ड्रा- इत भारभ्य मतिद्वयात्मको भाग खपुस्तके नास्ति ।
२५९ न्तरस्यापि स्मरणाद्विकल्पप्राप्तौ सम्प्रदायवाक्यस्य व्यवस्थापकत्वात् । 'संयोगपृथक्त्वेन' कर्माहत्वाद्यसिद्धेश्च । पूर्वात्परवलीयस्त्वमिति न्यायानुगृहीतत्वाच । न चेदमप्रयोजकम् । पूर्वादेव सिद्धौ पर- विधानवैयर्थ्यापातात् । न च सम्प्रदायवाक्यस्याऽन्यत्र सावकाश- स्वेन ब्राह्मणेतरपरत्वं शक्ष्यम् । शौनकवाक्यस्थब्राह्मणलिङ्गविरो- धात् । वाक्यान्तरेषु ब्राह्मणस्यैव द्वादशपुण्ड्वधानात् । नाप्यवैदि- कपरत्वम् । पूर्वोक्तब्राह्मस्कान्दादिवाक्यविरोधात् । यतु 'वेद- मार्गकनिष्ठानां वेदोक्तेनैव वर्मना । ललाटे भसना तिर्यक् त्रिपुण्डूं धार्यमेव हि । ललाटे भसना तिर्यक् त्रिपुण्ड्रस तु धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन् परति क्षणादिति सूतसंहितावाक्यं, तत्तु शैवपरम् । प्रकरणेन तथा निश्चयात् । पूर्वग्रन्थे शिवमाहात्म्यादिकथनेन तदीयस्सैव प्रस्ता- वाऽवगमात् । कर्मजडपरं या तत् । एकपदेन वेदान्तविचारशून्य. वत्खरूपयोधनात् । वेदपदस्य फर्मकाण्ड एव प्रचुरमयोगाद । 'वेदाः साङ्गोपनिपद' इत्यादौ तथा निर्णयात् । वस्तुतस्तु पूर्वोक्ताशौनकवचसा वैदिकावैदिकशैवानामपि माप्त- स्योर्द्धपुण्ड्रस्यावैदिकशैवपरतां योधयन्ती वैदिकौवे तन्निवारणफलि- केयं परिसंवया । जातिप्रयुक्तपुण्ड्रस्य वैदिकौवे नियमो वाऽयं पूर्ववाक्ये । तेन द्वितीयमपि तादृशव भसात्रिपुण्डोपरि पुण्ड्रा- १लादिसिद्धेश्चेति खपाठः। २ रागमाप्ते विषये तनिवृत्तिहेतुकः संकोच. फलको विधिः परिसंख्या । यथा पचपचनखा भक्ष्या इत्यन । यथा वा माती भार्यामुपेयादित्यत्र । अनहि रागतः प्राप्तं सर्वमासभक्षणं, सर्वकाले सर्वासु च बीघु प्राप्तं च गमन पञ्चपचनसमक्षणविधानेन परिणीतपश्या ऋतावेव.गमन. विधानेन च संकोच्यते।
२६० न्तरधारणपरम् । 'विने'त्यन्तेन पूर्वार्द्धन तथानिश्चयात् । यतु कौमें 'सर्वेपामेव भक्तानां शम्भोलिङ्गमनुत्तमम् । सितेन भसना कार्य ललाटे तु त्रिपुण्डूकमिति वाक्यं, तदपि शैवपर- मेव । 'यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत्सर्वदा शूलं ललाटे गन्धवारिभिः । प्रपन्ना ये जगद्वीजं ब्रह्माणं पर- मेष्ठिनम् । तेषां ललाटे तिलकं धारणीयं तु सर्वदे'त्यो दर्श- नात् । अतो न केवलवैदिकाः वैदिकवैष्णवा वाऽस्य विषयाः । अन्यथा 'विप्राणां नैव धार्य साचिर्यपुण्ड्रादिधारणम् । नारायणात्परब्रह्मादन्येपामर्चनं न हि । ब्राह्मणः कुलजो विद्वान् भसधारी भवेद्यदि । वर्जयेचादृशं देवि मयोच्छिष्टं घटं यथा । त्रिपुण्डूं शूद्रकल्पानां शूद्राणां च विधीयते । त्रिपुण्ड्रधारणाद्विप्रः पतितः स्थान संशय' इति पायोचरखण्डी- योईपुण्ड्धारणाध्यायवाक्यत्रयविरोधात् । 'शोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनया भृतम् । आनिम्लुच: शकदेको अपाभरत्किस्वित्पुत्रेभ्यः पितरावुपावतुरिति' ऋक्- शाखास्थचमसविभागप्रकरणीयश्रुतिविरोधापाताच्च । अत्र हि श्रुतौ द्रव्यान्तरस्य पितृकृतोपस्थानस्य च श्रावणेन शिष्टाचारप्राप्तरक्षण- स्यैव बोधनात् । एवं सति 'ऊर्ध्वपुण्ड्रमृनुं सौम्य ललाटे यस्स दृश्यते । चण्डालोऽपि विशुद्धात्मा पूज्य एव न संशय' इत्याचारमाधवे सत्यवतवचनेनोईपुण्ड्स्पातिमाहात्म्यबोधनादपिशब्देन 'कैमुतिक बोधनान्माघवेन पुण्ड्रान्तरस्याविचारणाच । धर्मप्रवृत्तौ स्मृतिसार- १मुदाहृतमिति खपुस्तकम् । २ केवलवैष्णवा इति खपुस्तकम् ।
२६१ समुच्चये 'ऊर्ध्वपुण्डूं द्विजातीनामग्निहोत्रसमो विधिरिति कथ- नात् । स्कान्दे मार्गशीर्षमाहात्म्ये 'मत्रेणैवामिमन्याथ ललाटा- दिषु वैष्णवः । धारयेदूर्ध्वपुण्ड्राणि यथासङ्ख्यमतन्द्रितः । ब्रह्मन् द्वादश पुण्ड्राणि ब्राह्मणः सततं धरेत् । चत्वारि भूभृतां पुत्र पुण्ड्राणि द्वे विशां स्मृते । एक पुण्डू च नारीणां शूद्राणां च विधीयत' इति वाक्यैः पूर्वोक्तपाद्मवाक्यैश्च वैष्णवानां सर्वेपा- मूर्द्धपुण्डमेव धार्यम् । न च कूर्मोक्केन त्रिशूलेन विकल्प इति वाच्यम् । तस्य सगुणोपासकपरत्वात् । 'यत्तत्प्रधानं त्रिगुण ब्रह्म- विष्णुशिवात्मकम् । धृतं तु शूलधरणाद्भवत्येव न संशय' इति तत्र वाक्यान्तरात् । अतः पूर्वोक्त एव निर्णयः। वैष्णवास्तु त्रिविधाः । 'न कामकर्मवीजानां यस्य चेतसि स- म्भवः । वासुदेवैकनिलयः स वै भागवतोचम' इत्येकादशस्फ- न्योक्ता उत्तमाः । 'जगद्धातुर्महेशस दिव्याज्ञाचरणा वयम् । इह नित्यक्रियां कुर्मः स्निग्धास्ते वैष्णवाश्च ते' इति गारुडविष्णु- भक्त्यध्यायोक्ताश्च । मध्यमास्तु, सात्विकादिभेदभिन्नास्त्रिधा 'यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृति विद्यात् स्त्रियं पुरुषमेव वा । यदा आशिप आशाय मां यजेत स्वकर्मभिः । तं रजाप्रकृतिं विद्यादिसामाशास ताम- समित्येकादशस्कन्धवाक्योक्ताः । प्राप्तवैष्णवदीक्षोपदेशान्यतरास्त- दनुसारिणः शेषाः । पूर्वोक्तधर्माभावेऽप्यनुसारित्वात् । 'स्वयं समु- चीर्येति गर्भस्तुतौ 'किरातहूणान्धे ति द्वितीयस्कन्धे च तादृशा- नामपि संसारोत्तरणशुद्ध्योः कथनात् । अतस्तान्त्रिकमिश्रपरमिदं धारणमिति न अमितव्यमिति दिक् ।
२६२ एवं वैष्णवानां सिद्धे उ पुण्डू तत्र द्रव्यादिकमुच्यते । आचा- रमाधवे ब्रह्माण्डे 'पर्वताग्रे नदीतीरे मम क्षेत्रे विशेषतः । सिन्धु- तीरे च वल्मीके तुलसीमूलमाश्रिते । एता मृदः सुसम्पा- द्या वर्जयेत्चन्यमृत्तिका' इति । पामोत्तरखण्डे तु 'यसिन्कसिन्म- हाभागा वैष्णया धारयन्ति वैः। तस्मिन्वै मृत्तिका ग्रामा ऊर्ध्वपुण्ड्रस्य धारणे' इत्यप्युक्तम् । मदनपारिजाते तु 'जाह्नवी- तीरसम्भूतां मृदं मी विभर्ति यः । विभर्ति रूपं सोऽर्कस्य तमोनाशाय केवलमिति व्यास आह । तत्रैव सत्यतपाः 'गो- मतीतीरसंभूतां गोपीदेहसमुद्भवाम् । मृदं मूर्ना बहेग्रस्तु सर्वपापैः प्रमुच्यत' इति फलमाह । धर्मप्रवृत्तौ स्मृतिसारसमुच्चये तु 'अभ्यङ्गे सूतके चैव विवाहे पुत्रजन्मनि । माङ्गल्येषु च सर्वेषु न धार्य गोपिचन्दनमिति निषेधोऽप्युक्तः । तेन भग- वासादशेपचन्दनेन वैष्णवाना करणे कदापि न निषेधः । स्कान्दे मार्गशीर्षमाहात्म्ये तु द्रव्यान्तरमप्युक्तम् । 'शृणु वत्स प्रवक्ष्यामि पुण्डु च त्रिविधं स्मृतम् । तुलसीमृत्स्नया सार्द्ध श्रीगोपीच- न्दनेन च । हरिचन्दनेन च ततः कार्य तत्र विचक्षण'रिति । धर्मप्रवृत्तौ तु विशेषः कालभेदेन । 'सात्वा पुण्इं मृदा कुर्या- द्धोमं कृत्वा तु भसना -। अभ्यङ्गोत्सवकाले तु कस्तूरीचन्द- नादिनेति । आचारमयूखे तु देवार्चनोत्तरमपि गन्धेनोक्तं जला- न्तर्जलेन च । वचनं तूक्तमधस्तात् । पामोत्तरखण्डे तु कामना- भेदेनापि द्रव्यभेद उक्तः सोऽनावश्यकत्वान्न लिस्ल्यते । वर्णाहुलि- भेदेन फटभेदोऽभ्याचारमाधवे ब्रमाण्डे 'श्याम शान्तिकरं प्रोक्तं रक्तं पश्यकरं भवेत् । श्रीकर पीवमित्याहुवैष्णवं चेतमुच्यते ।
२६३ अगुष्ठः पुष्टिदः प्रोक्तो मध्यमाऽयुष्करी भवेत् । अनामिका- अदा नित्यं मुक्तिदा च प्रदेशिनी । एतैरहुलिभेदैस्तु कारयेन नसं स्पृशेत् । मानभेदोऽपि तत्रैव 'दशाङ्गुलप्रमाणं तु उत्तमो- तममुच्यते । नवाङ्गुलं मध्यमं स्वादशाङ्गुलमतः परम् । सप्त- पट्पञ्चभिः पुण्र्दू मध्यमं परिकीर्तितम् । चतुविद्यगुलैः पुण्डूं कनिष्ठं त्रिविधं स्मृत'मिति । आचारमयूखे त्वेतदने 'ऊर्ध्व- पुण्ड्रमृजें सौम्यं कनिष्ठाहुलियत्स्मृतम् । नासादिकेशपर्यन्तं प्रयत्नाद्धारयेद्विज' इति चोक्तम् । इदं च कनिष्ठं मानम् । तेन नासादिब्रह्मरम्भ्रान्तं मुख्यमित्येवं फलति । परिणाहस्त्वगुलिकृत- त्वादगुलेरेव । इदं च सान्तरालं कार्यम् । 'ऊर्द्धपुण्डू त्रिपुण्ड्रं वा मध्ये शून्यं प्रकल्पयेत् । शृणु पण्मुस तन्मध्ये उमयाई श्रिया हरिरित्याचारमयूखे चतुर्षिशतितमव्याख्याया च प्रयोगपारि- जाते सङ्घहात् । एकान्तिनो महाभागाः सर्वभूतहिते रताः । सान्तरालं प्रकुर्वन्ति पुण्डूं हरिपदाकृतिम् । ऊर्द्धपुण्ई मृर्जु सौम्यं सुपार्श्व सुमनोहरम् । दण्डाकारं सुशोभाढ्यं मध्येछिद्रं प्रकल्पयेत् । ऊर्द्धपुण्ड्स मध्ये तु विशाले सुमनोहरे । सान्त- राले समासीनो हरिस्तत्र श्रिया सह । निरन्तरालं यः कुर्या- दूर्द्धपुण्इं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति । अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजातयः। ते ललाटे तु सततं शुनः पादं न संशय' इति पानाच । केचितु 'सुदर्शनं धारयत्यू पुण्ड्रं द्विरेखं भवति ब्रह्मणः सायुज्यतां सलोकतां जयति य एवं वेदेति काण्वशतपथीयां श्रुतिमप्याहुः । एतदारम्भश्च नासामूलात् भ्रूमध्याच कार्यः । न २६४ 'आरभ्य नासिकामृलं ललाट बिलिखेन्मृदा । समारभ्य भुवो- मूलमन्तरालं प्रकल्पयेदिति पानात् । मृदेत्युपलक्षणम् । द्रव्या- न्तरस्यापि तत्रोक्तत्वात् । कैमो मन्त्राश्च पाझे स्कान्दे च । 'ललाटे केशवं विद्यानारायणमथोदरे। माधवं हृदि विन्यस्य गोविन्द कण्ठकूपके । उदरे दक्षिणे पार्थे विष्णुरित्यभिधीयते । तत्पार्थे बाहुमध्ये तु मधुसदनमनुस्मरेत् । दक्षिणबाहावित्यर्थः । 'त्रिवि- क्रम कन्धरे तु वामनं वामपार्थके। श्रीधरं याहुके वामे हृषी- केशं तु कर्णयो' । साम्प्रदायिकास्तु कर्णमूले कुर्वन्ति । 'पृष्ठे तु पद्मनाभं च ककुद्दामोदरं सरे । ककुत्रिकम् । 'तत्प्रक्षालन- तोयेन वासुदेवेति मूर्द्धनि' इति । आचारमाधवे ब्रह्माण्डे तु 'द्वादशैतानि नामानी ति पाठः । क्षत्रियादौ तु विशेषः पाझे । 'चत्वारि भूभृतां प्रोक्त पुण्ड्राणि द्वे विशां स्मृते । एकं पुण्डं तु नारीणां शूद्राणां च विधीयते । ललाटे हृदि बादोश्च चतुःपुण्डाणि धारयेत् । ललाटे हृदये द्वे तु भाले वेकं विधीयते । ऊर्द्धपुण्डूं तु सर्वेपा ललाटे प्रथम स्मृतम् । ललाटादिक्रमेणैव धारणं तु विधी- यते । मृर्तयो वासुदेवायाश्चतुःपुण्डेषु धारयेत् । बासुदेवस- इर्पणानिरुद्धप्रथुझा इत्यर्थः । 'द्वयोगांविन्दकृष्णौ तु एक नारा- यणं घरै दिति । आकारान्तरमप्याचारमाधवादी सर्यते । 'वर्ति- दीपाकृति वापि वेणुपत्राकृति तथा । पयस्य मुकुलाकारं तथैव कुमुदस च । मत्सकूर्माकृति वापि शङ्खाकारमतः परमिति । पाये तु फलविशेषः 'अश्वत्थपत्रसङ्काशो वेणुपत्रसमाकृतिः । मोऽपमिति सपाटः ।
२६५ पद्मकुण्डलसङ्काशो मोहनं त्रितयं स्मृतम् । महाभागवतः शुद्धः पुण्; हरिपदाकृतिम् । दण्डाकारं तु वा देवि धारयेर्ध्वपुण्ड्र- कमिति । उपरि किञ्चिद्विस्तीर्णत्वे पदाकृतिज्ञेयः समत्वे दण्डा- कृतिः । निवन्धे तु स्थानविशेषो नियमितः । 'दण्डाकारं ललाटे स्यात्पनाकारं तु वक्षसि । वेणुपत्रनिमं बाहोरन्यद्दीपाकृति- वेदिति । इदं चादर्शादि दृष्ट्वैव कार्यम् । 'वीक्ष्याऽऽदर्शे जले वापि यो विदध्यात्प्रयत्नतः । ऊर्द्धपुण्डु महाभाग प्रयाति परमां गति- मिति स्कान्दे मार्गशीर्षमाहात्म्यवाक्यात् । 'वर्तुल तिर्यगच्छिद्रं हवं दीर्घ तनुं ततम् । वक्र विरूपं वक्राग्रं छिन्नमूलं पदच्यु- तम् । अशुभं रूक्षमासक्तं तथा नाङ्गुलिकल्पितम् । विगन्धम- वसा च पुण्ड्रमाहुरनर्थक'मिति पाझे वक्रादेनिन्दनाच । दीर्घ- मिति नासाग्रमारभ्य कृतम् । यथा चेदिदेश्यानाम् । ततं बहु- परिणाहं यथा विरोगिणाम् । तथैव तनुं छिन्नमूलम् । दण्डाका- रादिकरणोचरं प्रोञ्छितमूलम् । रूक्षं जलेन विनैव कृतम् । अवसह्यमसह्यम् । शेष स्फुटम् । यस्तु 'न पादुकास्थो नादर्श न जले स्ववलोकयेत् । न प्रावृतशिराः कुर्याचिलकं धर्मसाधन- मिति धर्मप्रवृत्तौ विष्णुवाक्य आदर्शादिनिषेधः, स पुण्ड्रान्तरपरः । होमोतरं तु ललाटादौ विन्दुरेव विधेयः । 'न कदाचिन्मृदा तिर्यक् न्यसेदूर्द्ध न मस्सनेति सङ्ग्रहे भसोर्द्धपुण्डूनिषेधात्पूर्वोक्तपाद्मवच- नेषु वैष्णववैदिकस्य त्रिपुण्ड्स्यापि निषेधात् । स्कान्दे त्रयोविंशा- ध्याये 'ऊ पुण्ढे त्रिपुण्डूं यः कुरुते स नराधमः । मङ्त्वा १ वीतरागिणामिति सपाठ.।
विष्णुगृहं पुण्यं स याति नरकं ध्रुवम् । त्रिपुण्डूं यस्य विनय ऊर्द्धपुण्डू प्रदृश्यते । तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमा चरेत्' इत्युपुण्डोपर्यपि तद्धारणे निन्दास्मरणाच । न च बिन्दोर्वर्तुलत्वादानर्थक्यं शङ्कयम् । पाझे वर्तुलानर्थकवा- चोधकस्य तिर्यगादिसमभिव्याहृतत्वेन प्रयाविशेष निष्पाद्य तदा- नर्थक्यपरत्वात् । अन्यथा होमान्ते भस्मपुण्ड्वाधापत्तेः। अतो यथा भसोईपुण्ड्स्य विहितप्रतिषिद्धत्वं खीकृत्य नृसिंहमट्टीये शिष्टाचारात् व्यवस्थापितो विकल्पस्तथा शिष्टाचारादपि बिन्दु- प्राधिः। अत एव कात्यायनगृधे'च्यायुपाणि करोति भसना ललाटे ग्रीवायां दक्षिणेऽसे हृदि चेत्यनेन विहिते घ्यायुपकरणे, शिष्टा विन्दूनेव विदधति । तथैव तैचिरीयाश्च । तस्मादेपैव व्यवस्येति दिक् । पित्र्ये कर्मण्यपि ऊ पुण्डू न त्याज्यम् । 'ऊर्द्धपुण्ड्धरं विप्रं यः श्राद्धे भोजयिष्यति । आकल्पकोटि पितरास्तस तुष्टा न संशयः । ऊर्द्धपुण्ड्धरो यस्तु श्राद्धं कुर्याच्छुभानने । कल्पकोटिसहस्राणि गयाश्राद्धफलं लमे- दिति पाद्मात् । 'मत्प्रियार्थ शुभार्थ च रक्षार्थ चतुरा- नन । मत्पूजाहोमकाले च सायं प्रातः समाहितः । म- द्भक्तोद्धारयेन्नित्यमूईपुण्डू भयापहमिति स्कान्दाच । यत्तु 'उर्द्धपुण्डूं द्विजातीनामग्निहोत्रसमो विधिः । श्राद्धकाले तु संप्राप्ते कर्ता भोक्ता च तत्यजे दिति धर्मप्रवृत्तौ स्मृतिसमु. चयवाक्यं, सदवैष्णवपरम् । यच्च 'निद्रासमयमासाद्य ताम्बूलं वदनायजेत् । पर्यशात्प्रमदां मालात्पुण्ई पुष्पाणि मस्तका- दिति विष्णुवाक्यम् । तदपि तथा । विशेषानुल्लेखात् । पुण्ड्रान्त- २६७ रपरं वा । एतावान्परं विशेषः । रात्रौ खेदादिना निवृत्ते पुण्ड्रे भगवत्कर्मायभावे सति न कार्यम् । साय प्रातरितिवद्रात्राववि- धानात् । शिष्टाचाराऽभावात् । रक्षादीना मरणेनापि सम्भवा- च्चेति दिक् । मतान्तराण्यपाकृत्य श्रुतिस्मृतिसयुक्तिभिः । सछिद्रमा तिलकं निणीतं वैष्णवोचितम् ॥ १॥ इति श्रीवल्लभाचार्यमतपर्तिश्रीपीताम्बरतनुजश्रीपुरुषोत्तमवि- रचित ऊईपुण्ड्रधारणवाद समाप्तः॥
॥ श्रीः॥ श्रीकृष्णाय नमः। पुष्टिमार्गसिद्धान्तवामालायां. गोस्वामिश्रीमत्पुरुपोत्तमविरचितः शङ्खचक्रधारणवादः। कृष्णं भजन्ति ये प्रेम्णा तदङ्गत्वेन तन्मृदा । शङ्खादिचिहितांस्तान्वै ब्राह्मणान्प्रणमाम्यहम् ॥१॥ अत्रेदं विचार्यते । शङ्खचक्रादिधारण ब्राह्मणादीनां सर्वेषां कर्तव्यं शुदाणामेव वेति । किमत्र युक्तम् । शूद्राणामेवेति । कुतः 'शसच- काग्रकनं च नृत्यगीतादिकं तथा । एकजातेरयं धर्मो न जातु साद्विजन्मनः । शङ्खचक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा । स शूद्रपदहिप्कार्यः सर्वसाहिजकर्मणः । यथा सशान काठमनर्ह सर्वकर्मसु । तथा चक्राङ्कितो विप्रः सर्वकर्मसु गर्हित' इति विष्णुवाक्येषु शहादिधारणस्य शूद्रधर्मताव्यवस्थापन- पूर्वकं द्विजातिधर्मतानिषेधात् । धारणे कर्मवहिष्कारगईयोः सर- णाच्च । न च 'शङ्खादिचितरहितः पूजां यस्तु समाचरेत् । निष्फलं पूजनं तस्य हरिथापि न तुष्यतीत्यादिवाक्येप्वपधा- रणे प्रत्यवायसरणाचन्नित्यमिति विहितप्रतिपिद्धत्वादैच्छिको विकल्प इति वाच्यम् । ईदृशां सामान्यवचसामेकजातेरयं धर्म इत्यनेनोपसं. हारादस्वैच्छिकविकल्पाऽप्रसञ्जकत्वात् । न च निषेधस्स प्रातिपूर्वक- २६९ वाद्विधि विना च तदयोगादुपजीव्यविरोधेन 'न तो पशौ करो- ती'तिवदनिवार्यो विकल्प इति वाच्यम् । 'भूमावनिश्चेतन्यो नान्तरिक्षे न दिवी तिवन्निपेधस्स नित्यानुवादरूपत्वात् । न च 'चक्रलाञ्छनहीनस्य विप्रस विफलं भवेत् । क्रियमाणं च यत्कर्म वैष्णवानां विशेपत' इति स्कान्दमार्गशीर्षमाहात्म्यवाक्या- द्विपस्यापि धारणविधिप्राप्ते न निघस्य नित्यानुवादत्वमिति वाच्यम् । एतस्याऽवैदिकतान्त्रिकपरत्वात् । 'विष्ण्यागमादितत्रेषु दीक्षितानां विधीयते । शहुचक्रगदापभैरङ्कनं नान्यदेहिनाम् । वेदमार्गकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देह- स्तथा पुण्ड्रान्तरादपि । नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमा- श्रितः। पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेदिति सूत- संहितावाक्येन तथानिश्चयात् । तस्माच्छूद्वैस्वात्रिकैश्चावैदिकैः शङ्ख- चक्रादिकं धार्य, न तु कथमपि वैदिकैवर्णिकैः शिष्टैरिति प्राप्ते-उच्यते नित्यत्वे सति पूजाङ्गत्वोपवीताऽतिदेशतः। केवले सेघतः शिष्टैर्धार्य शह्वादिकं मृदा ॥१॥ तथाहि-शहादिचितरहितः पूजां यस्तु समाचरेत् 1 नि- प्फलं पूजनं तस्स हरिश्चापि न तुष्यतीति चकलान्छनहीनस्पे- त्यादिवाक्येषु पूजाङ्गत्वेन नित्यत्वं शहादिधारणस्पोक्तम् । 'प्रातर्म- ध्यंदिने सायं विष्णुपूजां समाचरेत् । यथा सन्ध्या तथा नित्या विष्णुपूजा स्मृता बुधैरिति कालनिर्णयदीपिकायां नारदीयात् । १ माहात्म्ये वाक्यादिति गपाठः। २प्राप्तेर्नेति गपाठः। कयोधीयत इत्यशुद्धः पाठः। . ३ कखपुस्त- २७० n 'न विष्ण्वाराधनात्पुण्यं वर्तते कर्म वैदिकम् । तसादनादिम- ध्यान्तं नित्यमाराधयेद्धरिम् । तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण त्वि'त्याचारमाधवे कौर्माच, ब्राह्मणादीनां विष्णुपूजापि नित्या । एवं सति नित्यायाः पूजाया नित्यमिदमङ्गमिति तस्या व्यङ्ग- त्वपरिहारायेदं सर्वेषामावश्यकम् । पौराणिकधर्मस्य श्रौतस्मार्तधर्मा- अत्वाच । जन्माष्टम्यादिपूजानां पौराणत्वेन तस्यावश्यकत्वाच्च । तेन पूजाअयोधकवाक्यानां सामान्यत्वेऽपि शुदादिविषयत्वेनोपसं- हारोऽनवधानरमणीय एव । न चेदमप्रयोजकम् । निषेधनिन्दादि- वाक्येषु केवलधारणस्यैव निषेधनिन्दयोर्दर्शनात्तयोः पूजाकर्तरि पाखण्डतासम्पादनाऽशक्तत्वात् । अन्यथा तादृशमपि क्वचिन्निन्देत् । अतः शूद्धमताव्यवस्थापनं द्विजातिधर्मतानिपेधनं धारकगर्हादिकं च केवलस्यैवेति निश्चयम् । किञ्च । 'गोपीचन्दनमृत्लाया लिखितं यस्य विग्रहे । शङ्ख चक्रगदापन तस्य देहे भवाम्यहम् । सौवर्ण राजतं तानं कांसं मृण्मयमेव वा । चक्रं कृत्वा तु मेधावी धारयेत विचा क्षणः । उपवीतादिवद्धार्याः शङ्खचक्रगदादयः । ब्राह्मणस वि- शेपेण चैष्णवस्य विशेषतः । उपवीतं शिखाबई चक्रलाञ्छनसं- युतम् । विनत्वं सफलं तस्य वैष्णवत्वं विशेषतः । चक्रलाञ्छ- नहीनस विप्रस्य विफलं भवेत् । क्रियमाणं च यत्कर्म वैष्णवानां विशेपत' इति स्कान्दमार्गशीर्षमाहात्म्यतृतीयाध्यायवाक्यं च । 'ये मृदा' शङ्खादिधारणमुपक्रम्योपवीतादिवत्तदतिदिश्यते । उपवीतं च देवलक्ष्म कर्मानभूतं नित्यं च । 'उपवीतं च देवानामुपन्ययते भौतस्मातेति गपाठः। २गरवेति सपाठः।
२७१ देवलक्ष्ममेव तत्कुरुते इति । तसाद्यज्ञोपवीत्येवाधीयीत याजये- घजेत वा यज्ञस्य प्रसृत्या' इति श्रुतेः । 'सदोपवीतिना भान्यं सदा बद्धशिखेन च। विशिखो व्युपवीतश्च यत्करोति न तत्क- तमिति स्मृतेश्च । शिखा चाऽऽकुमारमात्रिदण्डि नित्या । तद्वदिदमपि देवलक्ष्म कर्माचं नित्यम् । तदेतदातिदेशिकं नित्यत्वादिकमुपवीतं शिखेत्यादिवाक्यद्वयेन दृढीक्रियते । ब्राह्मणपदं विप्रपदं च कण्ठ- तोऽत्र पठ्यते । तेनाऽस्य वैष्णवद्विजातिधर्मत्वसिद्धौ तन्निधो न नित्यानुवाद इति निश्चीयते । वस्तुतस्तु चैयासे दर्शने देवानां कर्माधिकाराङ्गीकाराचेषां योगा- दिवलेनाऽन्तरिक्षादावपि करणसम्मवाप्राप्तिपूर्वक एवं तत्रापि निपेघः । 'न कलशं भक्षयेदितिवत् । व्यासस्य गुरुत्वेन तद्वि- रुद्धानां जैमिनीयानामनादरणीयत्वात् । नापि तात्रिकपरत्वम् । विप्रपदात् । 'वेदाभ्यासाद्भवेद्विप्र' इति तनिर्वचनात् । वस्तुतस्तु निषेधादिवाक्येप्वङ्कनपदात्तप्तधारणस्यैव निपेघस्तान्त्रिकपरत्वं च । अङ्कनपदेन तथानिश्चयात् । अझनपदस्य वृपोत्सर्गादौ दाहन एवं प्रसिद्धत्वात् । अन्यथा पुण्डू इवात्रापि धारणपदमेव वदेत् । अत- एव 'यस्तु संतप्तशवादिलिगचिइतनुर्नरः । स सर्वयातना- भोगी चण्डालो जन्मकोटिषु । द्विजं तु तप्तशहादिलिङ्गादि- वतनुं नरः । संभाष्य रौरवं याति यावदिन्द्रावतुर्दशेति पृथ्वीचन्द्रोदयस्से बृहन्नारदीयवाक्ये तप्तादिपदोक्तपूर्वकमेव निन्दा- सरणम् । १ यज्ञोपवीतेति गपुस्तकपाठ.। २ न्युपवीतेथेति सपाठ.। ३ तनुर्नर इति खपुस्तकम् ।
२७२ न च विष्णुना मृदा धारणस्यापि निषिद्धत्वान्नेदं साम्प्रतमिति वाच्यम् । तत्र तन्निपेघस्याऽविवक्षितत्वात् । यथा श्रुतौ 'निर्यासस्य नाश्यं ब्रह्महत्यायै पि एव वर्ण' इत्युपक्रम्याने 'यो लोहितो यो वा वचनानिर्येपति तस्य नाश्यमिति पर्यवसानवचनात्तस्यैव निषेधो विवक्षितो न निर्यासमात्रस्येति निर्णयस्तथा प्रकृतेऽपि तप्तायसे पर्यवसानातन्निषेधस्यैव विवक्षितत्वनिर्णयेन मृदा धारणनिषेधस्याऽवि- वक्षितत्वनिश्चयात् । न च श्रुतौ सामान्यविशेपभावप्रतीतेयुक्तो विशेषनिषेधोपसं- हारः । प्रकृते तूभयत्र विशेषोल्लेखाद्वैरूप्यमिति वाच्यम् । अवोधात् । भक्षणस्य रागतः प्राप्तेस्तत्र तथाकथनस्य युक्तत्वात् । प्रकृते तु सदभावादुल्लिखितोऽपि विशेषोऽस्स शास्त्रीयत्वज्ञापनायेति सामा- न्यताऽनपायेन वैरूप्याऽभावात् । एतेनैव 'चक्राङ्किततनुर्यस्तु मृदा कार्णायसेन वा । स शूद्रवदहिष्कार्य' इति पराशरमाघ- वीयपाठोऽपि देतोत्तरो ज्ञेयः । किञ्चाङ्कनपदस साधारणत्वाङ्गीकृतौ पूर्ववाक्ये सामान्यनिषेधस्येहापि सत्त्वान्न वैरूप्यं प्राप्तावसरम् । 'लोहितान्वृक्षनिर्यासानि'तिवद्वाक्यान्तरे मृद्धारणनिषेधाऽदर्शना- सत्त्वेऽपि, केवले सावकाशत्वात्कथमपि पूजालस्य मृदा धारणस्य निधो न संभवदुक्तिकः । किञ्च । ब्राह्मणस्य निषिद्धं वैष्णवस्य विहितम् । तत्र ब्राह्मणश्चेद्वैष्णवो भवति तदा 'पूर्वात्परवलीयस्त्वं' न्यायादपि तत्प्राप्तनिषेधो न शक्यवचनः । किं पुनर्ब्राह्मणा: पुण्या भक्ता' इति वाक्याद्भक्तिप्रयुक्तस्य ब्राह्मणवैष्णवत्वस्याऽति- पर्वण इति पुस्तकम् । २ इतः परं अशुदपागः परित्यज्यन्ते टिप्प. प्यामपि । यतो हि खपुस्तके शुदबहुलाः पाटाः ।
२७३ प्रशंसनात् । सिध्यति पूर्वस्मात्कार्य परविधानवैयाऽऽपाताच । वैष्णवत्वस्य च संस्काररूपत्वेन परत्वात् । मक्तेरपि पुंस्त्वादिवत्स- त्या अप्युत्तरकाल एव प्रादुर्भावात् । तत्र वैष्णवत्वमूर्द्धपुण्ड्धारणवाद एव विवेचितम् । न च तस्य ब्राह्मणत्वापेक्षया पूर्वत्वं सम्भवति ब्राह्मणत्वस्य वर्णत्वेन साहजिकत्वात् । 'दैव्यो वै वर्णो ब्राह्मण इति श्रुतेः। इदमपि त्वरीत्योक्तम् । यदि च ब्राह्मणपदेन ब्रह्मज्ञोऽभिप्रेयते तदा तु निषेधगन्धो नोपैति । निपेघादिवाक्येषु ब्राह्मणपदाऽमा- वात् । प्रत्युत विधिवाक्य एव ब्राह्मणपदात् । एतेनैव 'शिवकेश- वयोथिद्वान् शूलचक्रादिकान् द्विजः। न धारयेत मतिमान्चै- दिके वर्त्मनि स्थित' इत्याश्वलायनवचनमपि प्रत्युक्तम् । ब्राह्मण- पदाभावात् । द्विजपदस्य वर्णवाचकत्वाऽऽदरणेऽपि शिवकेशवप- दात्समुञ्चितोभयलिङ्गधारणस्य कुत्राप्यविधानेन प्रान्तप्रतिपन्नत्या- तथाधारण एवं निषेधसक्रमेण केवलकेशवचिधारणे निपे- धाऽप्रसक्तेः । अन्यथोपजीव्यविरोधेन विकल्पप्रसक्तेर्दुरित्वात् । सप्ताऽधारणे निपेधोपसहारस्य शक्यवचनत्वाच्च । न च निषेधानामु- पसहारो नास्तीति वाच्यम् । वृन्ताकश्वेतवृन्ताकनिषेधे माधवहेमा- द्विभ्यां तदङ्गीकारात् । उक्तश्रुतेश्च । ननु भवत्वेवं तथापि तप्तधारणमितोऽपि प्रशस्तम् । पामोत्तरखण्डे सुदर्शनमाहाल्याध्याये 'शङ्खचक्राङ्कनं कुर्यादुभयो_हुमूलयोः । हुतामिना तु संतप्य सर्वपापापनुत्तये । यहिनैव तु संतप्तं चक्रमादाय वैष्णवः । धारयेत्सर्यवर्णानां हरिसालोक्यका- म्यया । तथा 'चक्रचिहविहीनस्तु यः पूजयति केशवम् । पुष्टि. १८ २७४ तत्सर्व निष्फलं याति पूजामन्त्रजपादिकम् । चक्रं वा शङ्खचके वा तथा पञ्चायुधानि वा । धारयित्वैव विधित्सर्वकर्म समा- चरेत् । अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् । न तस्स किश्चिदश्नीयादपि क्रतुसहस्रिण' इत्यादिवाक्यैः । तथा सति विहितप्रतिपिद्धत्वाप्राप्ते विकल्प स्मार्तवैष्णवपरत्वेनोभयव्यव- स्थापनमुचितम् । 'तस्साचक्रादिहेतीनामङ्कन वैष्णवं स्मृतम् । चक्रादिचिह्नहीनत्वाद्वैप्णवत्वं न लभ्यते' इति तत्रैव वाक्यात् । वृहन्नारदायाश्वलायनवाक्यविरोधस्तु मृदा धारणविचार एव सिद्धा- न्तिना परिहृतः । उचितश्चासौ । रुद्रसाधारणबुद्ध्या भगवन्तं जानत एव शूलादिधारणसम्भवात् । तादृशबुद्धिमतश्च 'यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाखण्डी भवेत्सदेति पाद्मोत्तरखण्डे पाखण्डोत्पत्तिकथनाध्याये पार्वती प्रति शिववाक्यादिति चेत् । नेदं युक्तम् । विष्णुवाक्यविरोधस्य दुप्परिहरत्वात् । न च विकल्पो युक्तः । पुराणाऽपेक्षया स्मृतेर्बलवत्त्वात् । 'श्रुतिस्मृति- पुराणानां विरोधो यत्र दृश्यते । तत्र श्रौतं यलिष्ठं स्यात्तयो- द्वैधे स्मृतिवरे'ति लघुव्यासस्मरणात् । किश्च । पाझे मुदर्शनमा- हात्म्यतृतीयाध्याये 'सर्वेपामेव देवानां ममापि पुरुषोत्तमः । पूजनीयो हरिनित्यं ब्राह्मणानां विशेषतः । तसात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् । तचिरिद्वितः श्रीशपदं प्राप्नोत्य- संशय' इत्युपक्रमात् । 'तसाचनादिहेतीनामङ्कन वे'त्युपसंहारा- न्मध्ये च 'द्विविधं वैष्णवं प्रोक्तं बाह्यमाभ्यन्तरं तथा । शहच- क्रादिभिधमान्तरं वीतरागता । बाह्याभ्यन्तरसाम्यं यत्त २७५ द्वैप्यायमुदाहृतमिति वाक्याच चक्रादिधारणस्य पूजागाद्यावं वैष्णवीयबाह्यचिहत्वं च सिध्यति, न तु मुख्यत्वम् । तच्च मृदा धारणेऽपि तुल्यम् । यत्तु नृसिंहपरिचर्याया शिवलिङ्गाङ्कितवृषवदन- न्याऽधीनतायै तप्तचक्रादीनि धारयेदित्युक्तम् । तदप्येतेनैव निरसं ज्ञेयम् । अनन्याधीनताया अप्याऽऽन्तःकरणिकाया एव मुख्य- त्वात् । भेदवादस्य श्रुत्यनभिमतत्वाच । लोकसङ्ग्रहार्थानां कर्मणां संन्यासात्पूर्वमादरणीयत्वाद्भक्त्यविरुद्धत्वाचेति । किञ्च । कालोऽयं कलिङ्घच्यादयश्चान्नादिवशा इति बुद्धविपर्यासे तावन्मात्रेण सिद्ध्य- भावादगिभूतायाः पूजायाः कालादिवशादकरणे पाक्षिकदोपस्यापि प्रसक्ति. । अतोऽपि मृदैव धारणमुचितम् । केचित्तु शङ्खचक्रधारण हारीतेनोक्तमित्याहुः । यदि तत्तथा। तदापि विकल्पप्रसक्तेः पूर्वोक्तरीत्यैव व्यवस्थापनमुचितम् । तदा शिष्टाचारप्राप्तत्वातौल्यमेव पक्षद्वये । यत्तु पुराणेपु ध्रुवाम्बरीपा- दीना तप्तधारणमुक्तं तदपि सेवकानां 'करौ हरेमन्दिरमार्जना- दिग्वि'त्यादिवाक्यैः पूजकत्वेन प्रसिद्धानामेवोक्तम् । न तु पूजा- रहितानामिति न तेनापि तप्तधारणस्याऽऽधिक्यसिद्धिः । यत्तु रामा- र्चनचन्द्रिकाया 'अतप्ततनून तदामो अनुत' इति श्रुतिमुप- न्यस्य धारणस्य श्रौतत्वमुक्तम् । तन्न । अत्र विध्यभावात् । 'ऐन्या गार्हपत्यमुपतिष्टत' इतिवदेतद्विनियोजकश्रुत्यन्तराऽभावाच्च । किञ्च । इयं श्रुति. 'पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येएि विश्वत' इत्यस्योचरार्द्धभूता पचगानसोमदेवताके पोडशे पञ्चर्चसूक्तेऽस्ति । तेन तमेव प्रकाशयति । 'सर्चे वेदा यत्पद- १ अधीनतयैवेति कपुस्तकम् । २ धिकासिद्धिरिति संपुस्तकम् ।
मामनन्ती'तिश्रुतिमादाय भगवत्परत्वेन व्याख्याने तु ससस्थ- वृत्तान्त वक्तीति नाऽत्र युज्यते । तथाहि-हे ब्रह्मणस्पते अक्षर- खामिन् । 'प्रभुत्वेन हरे स्फूतौ लोकत्वेन तदुद्भव' इति । ते वितत विस्तार । कृत्वा तावन्तमात्मानमित्यादिरूप । पवित्र कामादि- शबलनिवर्तकम् । तत्र हेतु प्रभु । समर्थो भवान् । गात्राणि भक्ताना शरीराणि । विश्वत पयेपि अन्तर्वहिप्नोपि । यत एवमतस्ता अपि वह्ययोगोलन्यायेन व्याप्ता निष्कामा भवन्तीति तथा । एव तत्स्तुत्वा तस्य दुर्लभस्वमाह-अतप्ततनू विरहताप- रहित तत्पूर्वोक्त नाश्नुते न विशेषेणामोति । कथमेव ज्ञायत इत्याकाझाया वैधर्म्यदृष्टान्तमाह । शृतास सिंचातेंत्युक्तप्रकारेण पक्का वहन्त सप्रापयन्त तत्समासत प्राप्तवन्त इत्यवधारणतम्त- थेत्यर्थ । 'तयोः पवित्रमित्यग्रिम तु तदग्रिममगारम्भ इति न किश्चिदेतत् । एवमेव हरिवल्लभमुधोदयेऽपि मन पूर्वोक्तसूक्तीया शकच- क्रादिधारणपरत्वेन लिखिता । 'चमूपच्छयेनः शकुनो विभृत्वा गोविंदु ईप्स आयुधानि विभ्रत् । अपामृमि सचमान: समुद्र तुरीयं धाम महिपो विवक्ति' । सापि नरकासुरवधोद्युक्तस्य भगवतो वृत्तान्त वक्ति । तथा हि-चम्पत् , चमू नरकसेना अवसादयन् । श्येन शसनीय शूरैर्युद्धे । द्रष्टभिर्देवादिभिर्वा । शकुन शक्त । हेतुगर्भ विशेषणम् । विमृत्वा, युद्धहतै मुरा- दिदेहै विशेपेण पूरयित्वा । गोविन्दुर्भगवान् । उप्रत्ययान्तो निपात । ईप्स सेनाविद्रावणशील । अन्तर्भावितण्यर्थ । आयु- १खप्रापयत इति सपुस्तकम् । २ इदिति सपाट ।
२७७ तेन धानि विनत्सुदर्शनादीनि धारयन् । हेतुगर्भ विशेषणम् । अपा- मुदकानामूर्मि प्रेरकम् । समुद्रमुदधिम् । अन्तरिक्षं वा सचमानः सेवमानः। महिपः महीयान् । तुरीयं संकर्षणं, चतु!हेप्यन्यतमम् । घाम स्वतेजः । विवक्ति विशेषेण वक्ति । तादृशपराक्रमेण ज्ञाप- यतीत्यर्थः । 'चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृ- तानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमराति तरेमे ति तैत्तिरीयश्रुतिस्तु पवित्रत्व लिनेन त्रिविक्रमचरणं बोधयन्ती, ब्रह्मणा प्रक्षालनाच्छुद्धेन सता यत्पवित्रं गागमम्भस्तेन पूता इति वक्तीति बोध्यम् । पवित्रचरणपदयोरन दर्शनासुदर्शनपक्षे पुनरु- पत्यापत्तेश्च । 'सुदर्शनं सहस्रारं पवित्रं चरणं पविरिति निघण्टौ 'पवित्रं चरणं नेमिहरेश्चक्रं सुदर्शनम् । सहस्रारं प्राकृतनं लोक- द्वारं महौजसम् । नामानि विष्णुचक्रस्य पर्यायेण निबोध म' इति पाझे श्रीशास्त्रे च पर्यायताकथनात् । तथापि तप्तलिङ्गादर्श- नाच्च । तथा चानयापि न निर्वाहः । या तु 'प्रतद्विष्णो अजचके सुतसे' इति, या च 'धृतोद्धपुण्ड्र: कृतचक्रधारी'ति कचिल्लिखिते ते श्रुती इदानीमप्रसिद्यमाने अपि पाने सुदर्शनाध्याये 'तथैव साम्नि यजुपि ऋपि प्रोक्तं शुभा- नने' इत्युक्त्वा किञ्चित्पादवैप-येणोक्ते, ताभ्या श्रौतं भवतु । एता- भ्यामेवान्या अपि श्रुतयो व्याख्याता ज्ञेयाः । भगवच्छास्त्रोपाच- त्वेन कल्पाद्युपात्यज्ञोपवीतादिमन्त्रयामाण्येऽपि तेपामुपक्रमा. दिसन्दंशपतितत्वात् । तत्राप्युपक्रमे पूजाङ्गतामेवोक्त्वा धारणस्य फलान्तरस्य चोक्तत्वाचदात्वेनैव धारणं फलावहं नतु केवलम् ! अझे फलश्रुतिरर्थवाद' इति न्यायात् । एवं सति पूजादि- , २७८ व्यगतापरिहारो वैष्णवबाह्यचिहता फलानुकूलता च मृदा धारणेऽपि तुल्या । अतः कालदोपसंसर्गभियेदमेव कार्यम् । नन्वस्ति भगवानेव रक्षक इति न कालभीतिरिति चेत्-सत्यम् । परं तत्र तादृशी भक्तिरपेक्ष्यते । तस्याश्च ज्ञापको देहगेहादिपु रागाद्यभाव इति यावन्न तथा तावदिदमेव साधीयः । ये पुनर्धा- रणं तप्तः पूर्वमाग्रहेण कुर्वन्तः पूजादिकं कदाचिकुर्वन्ति च तेषा- माशयं त एव विदन्तीत्यलमुक्त्या । एवं च पूजागधारणोचरं श्राद्धे प्राप्ते तत्स्थापनमुचितमेव । तथोक्तं स्कान्दे मार्गशीर्षमाहात्म्ये मृदा धारणं प्रकृत्य 'शहायुधाङ्कितो भक्त्या श्राद्धं यः कुरुते सुतः । विधिहीनं तु संपूर्ण पितृणामक्षयं भवेदिति । शड्डा- विततनुपिनो भुते वै यस वेश्मनि । तदन्नं स्वयमश्नाति पितृभिः सह केशव' इति च । शङ्खपदमायुधान्तराणामप्युप- लक्षणार्थकमिति तु प्रकरणादेव स्फुटति । एवमेव पाने तप्तचक- धारणं प्रकृत्य 'विष्णुचक्रविहीनं तु यः श्राद्धे भोजयिष्यति । व्यर्थ भवति तत्सर्व निराशाः पितरो गता' इति । अग्रे च 'अचक्रधारिणं विषं दूरतः परिवर्जयेत् । श्वपाकमिव नेक्षेत लोके विनमवैष्णवम् । वैष्णवो वर्णवाह्योऽपि पुनाति भुवनत्र- यमि'त्युक्तम् । तेन श्राद्धेऽपि वैष्णव एव ब्राह्मणः शड्सचकोर्द्ध- पुण्ड्वानेव भोजनीयः। यानि निषेधनिन्दावाक्यानि तााने शैव- सार्तादिपराणीति दिक् । तद्धारणप्रकारस्तु कान्दपामादिपु नैकः । तथापि सारसङ्घहे जाने 'यस नारायणी मुद्रा देहं शहादिचिह्नितम् । सर्वाङ्गं मृतारण इति सपाटः। मृदारण इति कपाठ. ।
२७९ चिहितं यस शस्नारायणोद्भवैः । प्रवेशो नास्ति पापस कवचं तस्य वैष्णवम् । चक्रं च दक्षिणे चाही शव वामेऽपि दक्षिणे । गदां वामे गदाधस्तात्पुनश्चक्रं च धारयेत् । शहो- परि तथा पद्म पुनः पगं च दक्षिणे । उभयो ममुद्रां तु संप्रदायानुसारत' इति सनत्कुमारवाक्येनोपसहारायथासप्रदाय व्यवस्था । स च प्रकारः स्फुट एवेत्युपरम्यते । यतु भट्टोजिदीक्षितास्तत्राधिकारिणो निरूप्य 'तप्तमुद्रा ह्यन्त्य- जाय हरिणा निर्मिता पुरा । भूदेवस्तप्तमुद्रां तु चिहं कृत्वा विमूढधीः । इह जन्मनि शूद्रः स्यान्मृतः श्वा चाऽभिजायत' इति ब्राह्मदशमाध्यायवाक्यं, 'शृणु राम महाबाहो लिङ्गचक्रादि- धारिणाम् । शुद्रधर्मरतानां हि तेपां नास्ति पुनर्भवः । विन- स्यैतद्विगीत्वात्प्रायश्चित्तमुदीरितमिति पानं वाक्यं, 'शिवके. शवयोश्चिरं शूलचक्रादिकं द्विजः । न धारयेत मतिमान्दै- दिके वर्त्मनि स्थितः । त्यक्तवैदिककर्माणो नास्तिका नटन- काः। ते धारयेयुश्चिह्नानि शिवयोर्भिन्नवुद्धयः । वेदाक्षर- विहीनानां नास्तिकानां द्विजन्मनाम् । विहितं धारणं नित्यं चिहाना केशवेशयोः । तेषां मिनधियां किञ्चित्सुगत्यर्थे शिवः पुरा । कृपया तचकारेह पुराणेपूदितं च तदि'त्याश्व- लायनपटाध्याययाक्यानि, 'वेदमूलतया नित्यं प्रवृत्ता अपि सत्तम । कचित्कदाचित्मारस्तवार्थ च ध्रुवन्ति वै । कचि- तत्रानुरोधेन धर्म पौराणिका अपि । वदन्ति तादृशोंशस्तु ग्राह्यस्तत्रावलम्बिना । पुराणे धर्मशास्त्रे च योऽशः श्रुत्या विरुद्धयते । स तत्रार्थस्तु विज्ञेयः समासेन मनीपिभिरिति २८० , पराशरीयपुराणदशमाध्यायवाक्यानि, 'तत्रावलम्बनेनैव पुरा- पानि च कानिचित । साक्षाद्वेदविरुद्धार्थ प्रवदन्ति कचित् कचित् । अधिकारिविभेदेन नैव वेदपरं प्रतीति स्कान्दवाक्यं चोदाहृत्य, अत एव वैदिकान्प्रति तप्तमुद्रादिनिषेधक, तद्धारणे प्रायश्चित्तविधायकं प्रायश्चित्ताऽननुष्ठाने नरकादिबोधकं वचन- सह्स्र तत्र तत्रोपलभ्यत इति चोक्त्वा बृहन्नारदीयसूतसहिता- वायवीयलैङ्गाऽऽदित्यामेयकोर्मवामनोपपुराणपराशरोपपुराणवाक्यानि, पूर्वोक्त विष्णुस्मृतिवाक्यं, 'अङ्गेपु नाङ्कयेद्विषो देवतायुधला- । अङ्कयेद्यदि वा मोहात्पतत्येव न संशय' इति शाता- तपीय, 'रागसंदग्धगात्राणां न स्यात्पारत्रिकं शुभमिति हारीतं, 'नानाय दहेदेहं दहेच्चकामकारतः। नाधिकुर्वन्ति दग्धाङ्गाः श्रौतसातेषु कर्मखिति बौधायनीयं, तादृश याम्यं पराशरमाधवीयं चोदाहृतं । अष्टादीनामेवागमोक्तदीक्षायामधिकारः । तप्तमुद्रादिविधिप्रशंसादिकमपि तद्विषयो, निषेधास्तु वैदिकविषयका इत्युक्तवन्तः । तदिदं श्रीमतो रुसमानदस्य प्रतारणार्थमेव । ग्रन्थप्रतिज्ञायां श्रीमतो रुक्माङ्गदस्य पीतये पञ्चरात्राधिकारी निरूप्यत इति कथनात् । उपसहारदशायां सर्वागमेप्वपि वेद- विरद्धाशस्यैव स्वरसमाप्तस्यैव चाप्रामाण्यव्यवस्थापनेन प्रकृते तद- भावात् । प्रत्यक्षश्रुतिषु मुद्राधारणनिषेधाउनुपलम्भेन श्रुतिविरुद्धत्व. स्याऽशक्यवचनत्वात् । पौराणिकत्वेन धारणे खारसिकत्वाऽभावाच । नचेदमप्रयोजकम् । उक्तस्कान्दे साक्षात्त्वेन तच्छुत्तेविशेपितत्वात् । नच साक्षात्वमर्थविशेषणमिति शक्यशङ्कम् । उक्तस्कान्दे साक्षा- पेयांपातात् इसनेन रपाठ ।
२८१ द्वैयर्थ्यापातात् । 'असूर्यपश्या राजदारा' इत्यादौ पदार्थः पदा- थेनान्वेति नतु पदार्थंकदेशेनेति मर्यादाया भगस्य सर्ववादिसम्म- तत्वेनागापि शक्यवचनत्वात् । अतः पूर्वोक्तैव व्यवस्था सदादर- णीयेति दिक। इत्येवं भगवत्पूजाशेपं शहादिधारणम् । निवन्धोक्तपथोवाच(?)निश्चित्य पुरुषोत्तमः ॥ १॥ इति श्रीमद्वल्लभाचार्यमतवर्तिश्रीमद्वल्लभनन्दनचरणैकतान- श्रीपीताम्बरतनुजश्रीपुरुपोत्तमविरचितः शङ्खचक्रधा- रणवादोऽष्टादशः समाप्तिमगमत् ॥
श्रीहरिर्जयति । पुष्टिमार्गीयसिद्धान्तवाङ्मालायां श्रीमत्पुरुषोत्तमविरचित- स्तुलसीमालाधारणवादः। तुलसीकाठमालाभिः सर्वदा भूपितान्नरान् । हरिनामाक्षरमुखानमामि भगवत्परान् ॥१॥ ननु तुलसीमालावदन्यासामपि धारणस्य विहितत्वात्को विशे- पस्तद्धारण इति चेत्-भगवत्प्राप्युपायत्ववैष्णवचिह्नत्वपुग्यजनकत्व- नित्यत्वादिरिति वदामः । तथा हि-स्कान्दे मार्गशीर्पमाहात्म्ये 'अतः परं प्रवक्ष्यामि तुलसीमालाफलं बहुः । अन्यासामपि माहात्म्यं शृणु ब्रह्मन् सुशोभनम् । तुलसीकाष्ठजां माला कण्ठस्थां वहते तु य: । अप्यशौचोऽप्यनाचारो मामेति न संशयः । धात्रीफलकता माला तुलसीकाष्ठसम्भवा । दृश्यते यस देहे तु स वै भागवतोत्तमः । तथा 'तुलसीदलजां मालां ममोत्तीर्णा वहेत्तु यः । पत्रे पत्रेश्वमेधानां दशानां लमते फलम् । तथा-तुलसीकाष्ठसम्भूतां यो मालां वहते नरः । फलं यच्छाम्यहं तस्य प्रत्यहं द्वारकोद्भवम् । तथा-तुलसीका- टमालाभिभूपितः पुण्यमाचरेत् । पितॄणां देवतानां च पुष्यं कोटिगुणं कलौ । धारयन्ति न ये मालां हैतुका पापयुद्धयः।
२८३ नरकान्न निवर्तन्ते दग्धाः कोपाग्निना ममेति भगवद्वाक्यात् । अधारणे प्रत्यवायवोधनाच्च नित्यत्वम् । न च 'ये कण्ठलग्नतुलसीनलिनाक्षमाला ये बाहुमूलपरि- शोभितशवचक्राः । ये वा ललाटफलके लसदूर्द्धपुण्डास्ते वैष्णवा भवनमाशु पवित्रयन्तीति पामोत्तरखण्डे दशमाध्याये शिववाक्ये पूर्वोक्तस्कान्दयाक्ये च मालान्तराणामप्युक्तेः सर्वासा तौल्यमिति वाच्यम् । स्कान्दे 'तुलसीकाष्ठसम्भूतं शिरसो बाहु- भूपणम् । धारयेत्कण्ठदेशे तु तस्य नैवास्ति पातकमिति वाक्यात् । तथा पामोत्तरखण्डे कार्तिकमाहात्म्ये नारदवाक्याच । ब्रह्मवैवर्तप्रकृतिखण्ड ऊनविंशाध्याये तुलस्युपाख्याने 'तुलसीका- ठनिर्माणमालां गृह्णाति यो नरः । पदे पदेऽश्वमेधस्स लभते निश्चितं फलमिति वाक्याच, तुलसीकाष्ठजा माला सर्वथा धार्या । तुलसीकाष्ठमालामेव प्रस्तुत्याऽनुपदमेवाऽधारणे प्रत्यवायबो- धनादेतद्धारणस्यैव नित्यत्वनिश्चयाचदौर्लभ्य एवान्यासां धात्रीफला- दिकृतानां धार्यता । तिलकवद्वैष्णवचिह्नत्वाच । यत्तु निर्णयसिन्धौ 'निवेद्य केशवे मालामि'त्यादीनामनाकर- त्वमुक्तम् । तदपि ब्रह्मवैवर्तस्कान्दपद्मादिवचसां साकराणां दृश्य- मानत्वादकिञ्चित्करमेव । तबस्तु पूजादिसमय एव तद्धारणं न सर्वदेति चेत् । न । तद्धारणस्य सर्वदा आवश्यकत्वात् । पूर्वोक्त- वाक्येभ्यस्तथा निश्चयात् । 'हरिनामाक्षरमुखं भाले गोपीमृदा- ङ्कितम् । तुलसीमालिकोरस्कं न स्पृशेयुर्यमोटा' इति फाशी- खण्ड एकोनविंशाध्यायवाक्याच । उचितं चैतत् । देहस्य क्षण- भगुरत्वात् । 'न जह्यातुलसीमालां धात्रीमालां विशेषतः ।
२८४ महापातकसंही धर्मकामार्थदायिनीमिति वाक्यस्यापि पान- स्थस्य क्वचिदृश्यमानत्वात् । हरिवल्लभसुघोदयादावन्येषामपि तादृशा वचसा दृश्यमानत्वात् । न च 'नागन्यां सज धारयेदृते हिरण्यस्रजमिति श्रुतेर्षा- रणवचसा निर्वरत्व शक्यम् । श्रुतेोहान्तरपरत्वाकत्वर्थताबोधक- त्याद्वा । एतस्य वाक्यस्य मिताक्षराया पाठभेदेन दर्शनात् । श्रुति- नालिखनाच्च । श्रुतित्वस्याप्यत्र सन्दिग्धत्वात् । एतस्या सर्वपर- त्यादरे रुद्राक्षधारणस्यापि भवता निषिद्धत्वापचेः । अगन्धत्वस्य तुल्यत्वात् । अनुभूतगन्धस्य तुलसीकाठेऽपि सत्त्वात् । न च द्राक्षधारणाभावो ज्ञानानुत्पचिकारणमिति सूतसहिता- वाक्याज्ज्ञानेच्छोस्तद्धारणमावश्यकमिति वाच्यम् । तस्य शैवपर- लात् 'रुद्राक्षदेहसंस्थो यः कुकुरो म्रियते यदि । सोऽपि रुद्रपदं याति कि पुनर्मानवो गुह । सप्तविंशतिरुद्राक्षमालया देहसं- स्थया । यः करोति नरः पुण्यं सर्वं कोटिगुणं भवेत् । हस्ते चोरसि कण्ठे च शिरसा च धारयेत् । अवश्यं सर्वभूतानां रद्राद्विचरेन्महीम् । सुरामुराणां सर्वेषां चन्दनीयो यथा शिवः । उछिटोऽपि विकर्मस्थो युक्तो या सर्वपातकः । मुच्यते सर्वपापेभ्यो रुद्राक्षस च धारणात् । शिपायां वाहु- कण्टे च कर्णयोथापि यो नरः । रुद्राक्षं धारयेद्भक्त्या स शव लोकमाप्नुया'दिति सदाचारचन्द्रोदयसगियपातिक्यसवादन तथा निश्श्यात् । ननु वैष्णवस तदारणनिषेधाऽदर्शनाचद्धारणे को दोप इति दिप्यमप्यानिशी राठ । १रमवारवि सपाट । पनि रापाट ।
२८५ चेत् । अविहितत्वमेवेति जानीहि । नन्वेवं सति मौक्तिकादिप्वपि तौल्यमिति वाच्यम् । ओमिति ब्रूमः । रागविशेषादेव तद्धार- णात् । अतो ज्ञानस्य स्वतःपुरुषार्थत्वा'न्मोक्षमिच्छेज्जनार्दनादिति वाक्येन ज्ञानफलस्य भगवदधीनत्वाच्च भगवत्राप्तीच्छोस्तुलसीधार- णस्यैवावश्यकत्वात् । 'मामेवेति न संशय' इति पूर्वोक्तवाक्यात् । 'श्रेयःसुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलयोधल- ब्धये । तेपामसौ क्लेशल एव शिप्यते नान्यद्यथा स्थूलतुपाव- घातिनामिति श्रीभागवतवाक्येन भक्त्यपेक्षया ज्ञानस्य जघन्यत्वात् । अतो भगवदीयानां तुलसीकाष्ठमालाधारणमेवोचितम् । ये च तुलसी- धारिणं दृष्ट्वा निन्दन्ति तेषां खरूपं गारुडाज्ज्ञेयम् । 'कृष्णायु- धाङ्कितं विप्रं तुलसीकाष्ठभूपितम् । दृष्ट्वा निन्दापरो यस्तु स चौद्धो न तु वैष्णव' इति । तथा 'धारयन्ति न ये माला हेतुकाः पापबुद्धयः। नरकान्न निवर्तन्ते दग्धाः कोपामिना हरेः । तुलसीकाष्ठमालोक्य कण्ठे या मस्तके करे । निन्दा कुर्वन्ति ये मूढा म्लेच्छजास्ते न संशयः । अत्रातिशयमा- लोक्य तुलसी द्वैपयन्ति ये । बहुनोक्तेन किं पार्थ सर्वे ते अन्यरेतजाः । तुलसीकाष्ठग्धिप्रान् वैष्णवान् दूपयन्ति ये । सर्वे ते रौरवं यान्ति संशयो नास्ति नारदेति हरिवल्लभसुधो- दयस्य वाक्येभ्यश्च । जपोऽपि तन्मणिभिरेव साधीयान् । तुलसी- काष्ठघटितर्मणिभिर्जपमालिका । सर्वकर्मणि सर्वेपामीप्सितार्थ- फलप्रदेति रामार्चनचन्द्रिकावाक्यात् । तुलसीसम्भवा या तु मोक्षं वितनुते चिरादिति गौतमीतन्त्रसप्तमाध्यायवाक्यात्पुरश्च- रणचन्द्रिकायां वैष्णवे 'तुलसीमालेति वाक्यात् । तत्र धर्मप्रवृत्ती न्धस्याऽपि मायिकत्वमिति चेत् । लक्ष्यत्वरूपधर्मवत्त्वेन दोषस्त- दवस्थः । लक्ष्यत्वमपि तथैव मायिकं चेत् । भद्रं लक्षणावैयर्थ्यम् । किं च । लक्ष्यस्य तीरस्याऽगगाववत्सत्यादिलक्ष्यस्याऽसत्यत्वादि- अथ च, सम्भवव्यभिचाराभ्यां साद्विशेषणमर्थवदिति न्यायेन विशेपणस्येतरभेदकत्वेन मायासम्बन्धराहित्याभावादेव २८८ त्वापातः । उपाधिवादस्य च श्रीमदाचार्यचरणादिभिः खण्डितत्वा- नेह तन्यते। व्यावाऽभावादपार्थमिदं विशेषणमिति चेत् । न । दत्तोत्तरत्वात् । बोधाय निरूपणीयत्वेनेतरमतजन्यज्ञानस्य निरसनीयत्वात् । किञ्च । सन्ध्याधिकरणाऽनुरोधेन सामिकसृष्टेमायिकत्वेन तव्या- वृत्त्यर्थ वा तत् । खामसृष्टेरवास्तविकत्वेनाऽस्याः सृष्टेच वास्तवि- करवेन भेदो, 'वैधाच न समादिवदिति सूत्रादिभिर्व्यासच- रणैरेव प्रतिपादितः । इतरसम्बन्धविशषणं तु ब्रह्मणो धर्मधर्मिमा वसम्बन्धावच्छिन्नतया । तस्यापि निरासे शङ्करमतप्रवेशवारणाय । तहि धर्मभिभावसम्बन्धाशीकारे द्वित्वप्रकारकजौनप्रतियोगिता- काऽभावाऽभावादव्याप्तिरिति चेत् । धर्मभिभावस्याऽभिन्नत्वस्य, 'प्रकाशाश्रयवद्वा तेजस्त्यादि'त्यादिसूत्रैनिर्णीतत्वात् । 'परास श- तिरि त्यादिप्यभेद एव षष्ट्यगीकारात् । एतेन भेदाऽभेदयादिनौ निम्बार्कभास्कराचायौं प्रत्युक्तौ । तत्रा- ऽऽद्यस्य वास्तविकभेदाऽभेदत्वेन मध्वाचार्यस्यैव भेदस्य वास्तविकतया द्विप्रकारकेत्यादिना निरस्तत्वात् । द्वितीयस्य त्वौपाधिकभेदाभेदेन भेद- १६तर इति सम्बन्धलादि सपाट.. नेनि नासि।
२८९ . स्यौपाधिकत्वेनेतरसम्बन्धेनेत्यादिना व्यावर्तितत्वात् । तर्हि अवच्छि- नान्तमेव तदिति चेत् । शङ्करमताऽऽपत्तिः । अतः कार्यादीति । तर्हि रामानुजाचार्यमतेऽपि मायासम्बन्धाऽभाववत्कार्यकारणयो- रद्वैततया तन्मतप्रवेश इति चेत् । शृणु । तन्मते हि चिदचिद्वि- शिष्टस्य सूक्ष्मस्य स्थूलस्य कारणस्य कार्यस्य च सत्त्वेन, स्वमते, 'आत्मैवेदमग्र आसी'दित्यादिश्रुत्याऽचितः कारणावस्थायां निपे- धात् । केवलात्मनः कारणतया ततो वैलक्षण्यम् । कार्यावस्थाया- मपि तेषां मते परसरभेदस्य वास्तविकत्वेन खमतेऽभेदस्य वास्त- विकत्वेनाऽपि वैलक्षण्यम् । न च घटपटादीनामभेदो न सम्भवतीति वाच्यम् । एवेषां ब्रह्मोपादानस्यैकत्वेन तस्यैवाऽवस्थान्तरत्वेन चाऽभे- दात् । यथा सुप्त उस्थित उपविष्टे च पुरुपेऽवस्थाभेदेऽपि न पुरुप- भेदः। किञ्चेतरसम्बन्धाऽनवच्छिन्नत्वेनाऽचितो, वास्तविकमिन्नचितश्च निरासेन न तत्रातिव्यातिः। किञ्च विशिष्टाद्वैतमित्यस्य विशेषणविशिष्टत्वेन विशेषणस्य चेतरव्यावर्तकत्वेन सम्भवोऽपेक्षितोऽत्र व्यावोभावतया वैशिष्ट्य. कथनं नोपपद्यत इति । एतेन शैवोऽपि दत्तोतरः। भिक्षुस्त्वविभागाद्वैतवादमवलम्व्यौपाधिककर्तृत्वादिकगङ्गीचकार । १तत्रापि व्याप्तिरिति सपाटः । एवमशुद्धा अपि पाठा अस्मामिष्टिप्पण्यां धृता इति मासभूदाश्चर्य पश्यताम् । यतो हि पुस्तकानामशुद्धतमतया शोधने कियान्प्रयासस्तयापि पुस्तकसग्रहवन्तः शोधनाय न ददतीति दर्शनाय काचिको- ऽयमाडम्बरः । पुस्तकमेकमेवाऽस्य सम्प्राप्तम् । तदपि च सर्वनाशुद्धम् । २ विशिष्टाद्वैतवादिरामानुजमतस्य चौरलात् । पुष्टि- १९ २८६ च 'तुलसीमणिभिश्चैव गणितं चाक्षयं भवेदिति । अगस्त्यसं- हितायां पठेऽध्याये 'यः कुर्यात्तुलसीकाष्टैरक्षमालां सुरूपिणीम् । कर्णमाला प्रयत्नेन कृतं स्यादक्षयं भवेदित्यादिवाक्येभ्यः । यद्यपि 'रुद्राक्षैश्वानन्त'मिति शिवपुराणेऽस्ति । तथापि तरस- कामपरं, शैवपरं वा वाक्यं प्रकरणवशाबोध्यम् । वैष्णवपुरा- णादिपु वैष्णवनिबन्धेषु च तदादरस्याऽदर्शनादिति । अथ प्रासद्भि- कमुच्यते । जपमालामणिसहयामाहाऽऽचारमाधवे प्रजापतिः । 'अष्टोत्तरशतं कुर्याचतुःपञ्चाशकं तथा । सप्तविंशतिकाः कार्यास्ततो नैवाधिका हि ताः । अटोत्तरशता माला उत्तमा परिकीर्तिता । चतुःपञ्चाशिका वत्स मध्यमा परिकीर्तिता । अधमा प्रोच्यते नित्यं सप्तविंशतिसङ्ख्ययेति । गौतमीयतन्त्रेऽपि 'अष्टोत्तरशतमणिमिनिर्मिता या तु मालिका । राज्यं वितनुते नृणां देहान्ते मोक्षमाप्नुयादि' त्यलं प्रसक्तानुपसक्या । तसाव- प्णवसाम्प्रदायिकैस्तुलसी काष्ठमालैव धार्या तदभावे धात्रीफलादि- सम्भवा । वैप्णवैकचिहत्वात् । अपेऽपि तस्या एव प्रशस्ततरत्वाच । न च रुद्राक्षादिसम्भवेति निश्चयः । इति नानानिवन्धानां वैष्णवाचरितस च । दर्शनादति निष्कृष्ट तुलसीकाष्ठधारणम् ॥१॥ इति श्रीमद्वल्लभाचार्यमतवर्तिश्रीमद्वल्लभनन्दनचरणकतान. श्रीपीताम्बरतनुजपुरषोतमविरचितः सप्तदशस्तुल- सीमालाधारणवादः संपूर्णतामफाणीत् ॥
श्रीगोपीजनवल्लभाय नमः । पुष्टिमार्गसिद्धान्तबामालायां भश्रीरामकृष्णविरचितः शुद्धाद्वैतपरिष्कारः। शुद्धाद्वैतप्रचारेण मायावाद निवर्तकान् । श्रीमदाचार्यचरणान्प्रणमामि पुनः पुनः॥१॥ अथ शुद्धाद्वैतस्य किं लक्षणमिति चेत् । इतरसम्बन्धाऽनवच्छि- न्नकार्यकारणादिरूपद्वित्वप्रकारकज्ञानप्रतियोगिताकाऽभाववत्त्वमिति गृहाण । अत्र हि द्वित्वप्रकारकजानप्रतियोगिताकाऽभाववत्त्वमित्य- नेनैवेतरसम्बन्धाऽनवच्छिन्नत्वप्रतीतेरनवच्छिन्नाऽन्तविशेषणस्य किं प्रयोजनमिति चेत् । सत्यम् । कार्यकारणादिद्वित्वप्रकारकपदा- र्थस्य मायिकत्वाऽभावाय तद्विशेपणम् । शंकराचार्याणां मते मायाऽविद्योपाध्यवच्छिन्नेश्वरजीवादिरूपकारणकार्ययोरशुद्धत्वात् । अन्यथा तेपां मते कार्यकारणयोः शुद्धत्वे द्वैताऽऽपत्तिः । अत एव सरूपलक्षणे सत्यादिपदलक्ष्यमेव ब्रह्म । सर्वत्रैच हि वाक्यार्थी लक्ष्य एवेति च स्थित इत्युक्तेः । तत्राऽपि वदामः । लक्षणायाः शश्यसम्बन्धरूपत्वात्तस्य च द्विनिष्ठत्वाद्ब्रह्मणि सत्त्वेन वान्ताशित्वाऽऽपातः । अथ च सम्ब- १ विचारेणेति सपाठः । २ अभावलमिति सपाठ. । ३ हीति नास्ति से।
२८८ न्धस्याऽपि मायिकत्वमिति चेत् । लक्ष्यत्वरूपधर्मवत्त्वेन दोषस्त- दवस्थः । लक्ष्यत्वमपि तथैव मायिकं चेत् । भद्रं लक्षणावैयर्थ्यम् । किं च । लक्ष्यस्य तीरस्याऽगहात्ववत्सत्यादिलक्ष्यस्याडसत्यत्वादि- त्वापातः । उपाधिवादस्य च श्रीमदाचार्यचरणादिभिः खण्डितत्वा- न्नेह तन्यते । अथ च, सम्भवव्यभिचाराभ्यां स्थाद्विशेपणमर्थवदिति न्यायेन विशेषणस्तरभेदकत्वेन मायासम्बन्धराहित्याभावादेव व्यावर्त्याऽभावादपार्थमिदं विशेषणमिति चेत् । न । दत्तोतरत्वात् । बोधाय निरूपणीयत्वेनेतरमतजन्यज्ञानस्य निरसनीयत्वात् । किञ्च । सन्ध्याधिकरणाऽनुरोधेन सामिकसृष्टेमायिकत्वेन तव्या- वृत्त्यर्थ वा तत् । सामसृष्टेरवास्तविकत्वेनाऽस्याः सृष्टेश्च वास्तवि- करवेन भेदो, 'वैधाच्च न स्वमादिवदिति सूत्रादिभिर्व्यासच- रणैरेव प्रतिपादितः । इतरसम्बन्धविशपणं तु ब्रह्मणो धर्मधर्मिभा- वसम्वन्धावच्छिन्नतया । तस्यापि निरासे शङ्करमतप्रवेशवारणाय । ताई धर्मपर्मिभावसम्बन्धाङ्गीकारे द्वित्वप्रकारकज्ञानप्रतियोगिता- काऽभावाऽभावादव्याप्तिरिति चेत् । धर्मधर्मिमावस्याऽभिन्नत्वस्य, 'प्रकाशाश्रयवद्वा तेजस्त्वादित्यादिसूत्रैनिणीतत्वात् । 'परास श- क्तिरित्यादिप्वभेद एव पष्ठ्यङ्गीकारात् । एतेन भेदाऽभेदवादिनौ निम्बार्कभास्कराचार्यों प्रत्युक्तौ । तत्रा- ऽऽद्यस्य वास्तविकभेदाऽभेदत्वेन मध्याचार्यस्यैव भेदस्य वास्तविकतया द्विप्रकारकेत्यादिना निरस्तत्वात् । द्वितीयस्य त्वौपाधिकभेदाभेदेन भेद- १३तर इति सम्बन्धेत्यादि रापाठः । २ ज्ञानेति से नास्ति।
२८९ क स्यौपाधिकत्वेनेतरसम्बन्धेनेत्यादिना व्यावर्तितत्वात् । तर्हि अवच्छि- बान्तमेव तदिति चेत् । शङ्करमताऽऽपतिः । अतः कार्यादीति । तर्हि रामानुजाचार्यमतेऽपि मायासम्बन्धाऽभाववत्कार्यकारणयो- रद्वैततया तन्मतप्रवेश इति चेत् ।। शृणु । तन्मते हि चिदचिद्वि- शिष्टस्य सूक्ष्मस्य स्थूलस्य कारणस्य कार्यस्य च सत्त्वेन, समते, 'आत्मैवेदमग्र आसी'दित्यादिश्रुत्याऽचितः कारणावस्थायां निपे- धात् । केवलात्मनः कारणतया ततो वैलक्षण्यम् । कार्यावस्थाया- मपि तेषां मते परस्परभेदस्य वास्तविकत्वेन खमतेऽभेदस्य वास्त- विकत्वेनाऽपि वैलक्षण्यम् । न च घटपटादीनामभेदो न सम्भवतीति वाच्यम् । एवेषां ब्रह्मोपादानस्यैकत्वेन तस्यैवाऽवस्थान्तरत्वेन चाऽभे- दात् । यथा सुप्त उत्थित उपविष्टे च पुरुषेऽवस्थाभेदेऽपि न पुरुप- भेदः। किञ्चेतरसम्बन्धाऽनवच्छिन्नत्वेनाऽचितो, वास्तविकभिन्नचितश्च निरासेन न तत्रातिव्याप्तिः । किञ्च विशिष्टाद्वैतमित्यस्य विशेषणविशिष्टत्वेन विशेषणस्य चेतर यावर्तकत्वेन सम्भवोऽपेक्षितोऽत्र च्यावाभावतया वैशिष्ट्या- कथनं नोपपद्यत इति । एतेन शैवोऽपि दत्तोत्तरः। भिक्षुस्त्वविमागाद्वैतवादमवलम्ब्यौपाधिककर्तृत्वादिकमशीचकार । १ तत्रापि व्याप्तिरिति खपाठः । एवमशुद्धा अपि पाठा अस्मामिटिप्पण्यां धृता इति मास्मभूदाश्चयं पश्यताम् । यतो हि पुस्तकानामशुद्धतमतया शोधने कियान्प्रयाससयापि पुस्तकसंग्रहवन्त शोधनाय न ददतीति दर्शनाय क्वाचित्को. ऽयमाडम्बरः । पुस्तकमेकमेवाऽस्य सम्प्राप्तम् । तदपि च सर्वनाशुद्धम् । २ विशिधद्वैतवादिरामानुजमतस्य चौरलात् । पुष्टि०१७ २९० तदपीतरसम्बन्धानवच्छिन्नाऽभावत्वेन निरस्तम् । द्वित्वप्रकारकाध- भावत्वाऽन्तेन मध्वाचार्यमतस्य निरासः । लीलाखभावस्य बाधामा- वाय कार्यकारणादिरूपमिति ज्ञानस्य विशेषणम् । द्वित्वप्रकारक- प्रतियोगिताकामावस्य मायावादमतेऽपीष्टत्वाचन्निवारणाय ज्ञानस्पति प्रतियोगिनि विशेषणमिति सुष्छु । अत्र शुद्धाद्वैतपंदे कोऽसौ समास इति चेत् । शुद्धं च तद- द्वैतं चेति कर्मधारयः । अत्रेतरसम्बन्धाऽनवच्छिन्नत्वे सतीत्येवं योज्यम् । उक्तलक्षणं तु शुद्धयोः कार्यकारणयोरिति पष्ठीतत्पुरुषपक्षे बोध्यम् । अत्र नरसिंहतापिन्यां योनित्वं ब्रह्मणः समर्थयित्वा, 'सर्व सर्वमयं सर्वे जीवाः सर्वमयाः सर्वाऽवस्थासु तथाऽप्यल्पा' इत्याद्युक्त्वा, 'सन्मानो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निर- अनो विभुरद्वय आनन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवग- म्यते' इति वाक्य पठितम् । अग्रे च, 'सर्वमत एव शुद्धोवा- ध्यस्वरूपः सुसरूप आत्मेति निरूपितम् । 'सर्व सल्विदं ब्रह्मे त्यादिश्रुतिषु शुद्धाद्वैतं सप्टमेव प्रतीयत इति बोध्यम् । विस्तरस्तु मत्कृतशुद्धाद्वैतमार्तण्डप्रकाशे योध्यः । श्रीमगिरिधराधीशपादाम्बुजपरागभृत् । व्यलिसद्रामकृष्णोऽसौ शुद्धाद्वैतपरिष्कृतिम् ॥१॥ रति श्रीरामकृष्णमट्टविरचिता शुद्धाद्वैतपरिष्कृतिः समाप्ता ॥ १ मत इति सपाट ।
श्रीकृष्णाय नमः। पुष्टिमार्गसिद्धान्तवामालायां श्रीमत्पुरुषोत्तमविरचित उपदेशविपयशङ्कानिरासवादः। यथाधिकारं शरणभक्तिमार्गोपदेशतः। य उधार सर्वास्तं वन्दे श्रीवल्लभं प्रभुम् ।। ननु सर्वपदं त्रैवर्णिकभिन्नपरत्वेनात्र व्याख्यातव्यम् । यतः 'सर्वे शाक्ता द्विजा जात्या न शैवा न च वैष्णवाः । यसा- दुपासते नित्यं गायत्रीं वेदमातरमिति विश्वामित्रवाक्ये सर्वेषा द्विजाना जात्या शाक्तत्वकथनात्रैवर्णिकानां शाक्तत्वं साहजिकम् । शैवत्ववैष्णवत्वादिकं तु पारिभाषिकत्वात्कृत्रिमम् । गायत्र्युपदे- शापेक्षयाऽन्यस्य जघन्यत्वात् । किश्च द्विजातीनां कर्मार्थत्वात्कर्मणां च श्रौतस्मातभेदेन द्वैवि- ध्यादन्येषां चेतो जघन्यत्वाच्छौतस्मातकर्माधिकारस्थ गायञ्युपदेशा- देव सिद्धावुपदेशान्तरस्याऽनर्थकत्वात् । न च 'वद्विज्ञानार्थे स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमित्यादिश्रु- तिमि 'स्तसागुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयमित्यादिश्रीभागवतमायैश्च अमितीति खपाठः। २ भगवद्वाक्यैरिति पाठः ।
२९२ गुरूपसत्तिबोधनाद्ब्रह्मज्ञानार्थमेव च तदुपसचेरुपदेशस्य तदेव प्रयो- जनमिति नानर्थकत्वमिति चाच्यम् । एवमपि तदतिरिक्तोपदे- शानर्थक्यस्य दुर्वारत्वात् । ब्रह्मण औपनिषदत्वात् । अथ 'अदीक्षितस्य वामोरु कृतं सर्वमनर्थकम् । पशुयोनि- मवाप्नोति दीक्षाहीनो नरो मृतः । विना श्रीवैष्णवी दीक्षां प्रसादं सद्गुरोविना । विना श्रीवैष्णवं धर्म कथं भागवतो भवेदित्यादिपायोत्तरखण्डीयवाक्येभ्यस्तस्यावश्यकत्वं विभाव्यते । तदापि श्रीवैष्णव्या दीक्षायास्तथात्वमस्तु । न त्वन्यस्या अपि । भवाचनिकत्वात् । न च 'कृते श्रुत्युक्तमार्गः सात्रेतायां स्मृ- तिभावितः । द्वापरे तु पुराणोक्तः कलावागमसम्भवः । अशुद्धाः शूद्रकल्पा हि ब्राह्मणा: कलिसम्भवाः । तेषामाग- ममार्गी स्थाच्छुद्धिर्न श्रौतवमना । अभावे वेदमत्राणां पञ्च- रातोदितो विधिः । चैदिकी तात्रिकी दीक्षा द्विविधापि हि सिद्धिदेति विष्णुयामलवाक्यातान्त्रिक्यास्तथात्वं शंक्यम् । एतस्या- ऽवैदिकपरत्वात् । अभावे वेदमन्त्राणामिति कथनात् । इदानीं च कलेरारम्भावेदादिसत्त्वे तस्याप्रयोजकत्वात् । अत एव कौमें यामलादीनां मोहकत्वमुक्तम् । तथाहि-पूर्वभागे द्वादशाध्याये हिमाचलं प्रति देवीवाक्ये । 'न च वेदाहते किञ्चिच्छास्त्रं ब्रह्मामिघायकम् । यानि शास्त्राणि दृश्यन्ते युगेऽसिन्विवि- धानि तु, । श्रुतिस्मृतिविरुद्धानि तेषां निष्ठा हि तामसी । कापालं पाश्चरात्रं च यामलं याममार्गजम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु । ये कुशाखामियोगेन मो- हयन्तीय मानवान् । मया सृष्टानि शाखाणि मोहायैपां २९३ भवान्तर' इति । तथा तत्रैव पोडशाध्याये देवदारुवनस्थानां गौतमशप्तानां मुनीनां प्रसङ्गे शिवं प्रति नारायणवाक्यम् । 'न वेदवाखे पुरुपे पुण्यलेशोऽपि शंकर । संगच्छति महादेव धर्मो वेदाद्विनिर्वभौ । तथापि भक्तवात्सल्याद्रक्षितव्या महे- श्वर । असाभिः सर्व एवैते गन्तारो नरकानपि । तसाढे वेदवाह्यानां रक्षणार्थाय पापिनाम् । विमोहनानि शास्त्राणि करिप्यावो वृपध्वज । एवं सम्बोधितो रुद्रो माधवेनासुरा- रिणा ! चकार मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं लागलं वामभैरवी पूर्वपश्चिमाम् । पाश्चरात्रं पाशुपतं तथाs- न्यानि सहस्रश' इति । यदि च वाममार्गव्यतिरिक्तताणामदुष्टत्वं विभाव्यते । त- दापि दीक्षायाः सार्थकत्वमस्तु । एवं सत्युपदेशानर्थक्यं तु दुर्वा- रमेव । दीक्षापदात् 'मन्त्रमार्गानुसारेण साक्षात्कृत्वेष्टदेवताम् । गुरुश्चेद्धोधयेच्छिष्य मन्त्रदीक्षेति सोच्यत' इति तन्ने तल्लक्षणात् । न चोपदेशे मन्त्रमार्गानुसारित्वम् । 'नराणां स्वल्पवित्तानां कु- याद्वित्तानुसारतः । महामण्डपयोगेन वित्तार्थानां तथा भवेत् । वित्तलामाद्विमुक्तस्य स्वल्पवित्तस्य देहिनः । संसारभयभीतस्य विष्णुभक्तस तत्चतः। अमावाज्यान्वितै जैः सतिलैः केव- लैस्तु वा । द्रव्यहीनस्य कुर्वीत वचसानुग्रहं गुरुरिति नारद- पञ्चरात्रे विज्ञानोपनिषत्सहितायाः पोडशे पटले दीक्षात्रैविध्यमुप- क्रम्य मन्त्रमार्गानुसारस्वरूपकथनात् । 'ब्राह्मणान्क्षत्रियान्वैश्या- १ तथेति कपुस्तके नास्ति । २ तथा कालाम्मति कपुस्तकम् । ३ बेति ४ मार्गमध्येति पाठः। फपाठः।
२९४ न्सच्छूद्रान्सत्त्रियोऽपि वा । विष्णुभक्तिरतान्साधून्दीक्षयेद्वि- घिना गुरुः । गुरुः परीक्षयेच्छिष्य संवत्सरमतन्द्रितः। निय- मान्विहितान्वाश्रावयेच चतुःशतमित्यादिविष्णुयामलेऽपि कथनाच । उपदेशस्य वितो वैलक्षण्यं स्फुटमेव । 'चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्नकथनमुपदेशः स के- भ्यत इति रामार्चनचन्द्रिकायां रुद्रयामलवचनात् । अथ यथाकथंचिदुपदेशसार्थक्यं विमाव्यते, तदाप्यवैदिका- प्रत्यस्तु । अतः शिष्टान्प्रति गायत्र्याद्यतिरिक्त उपदेशः सर्वथा नोचित एवेति प्राप्ते-उच्यते । येन शाक्तत्वस्य साहजिकत्वं ब्रूपे सा जातिः किं सामान्यभेद- रूपा भवतोऽभिमता । उत देहसम्भवरूपा। किं वाऽतिशयरूपा । नाऽऽद्या । पुंसो म्लेच्छादिभावे तस्या व्यक्तिपरित्यागाजातित्वस्स वक्तुमशक्यत्वात् । परित्यागाऽनङ्गीकारे म्लेच्छत्वेन सांकर्यान्नि- यतव्यंजकाभावाच्च । नाऽपि धर्मान्तरमुपाधिरूपम् । जातिपदस्य विरोधात् । न द्वितीया । उत्तरार्धस्य, 'जन्मना जायते शूद्र इत्यादिवाक्यानां च विरोधापातात् । तृतीया चेत्, तथा सति न शाक्तत्वस्य साहजिकत्वम् । संस्कारोत्तरभावित्वात् । उत्तरार्ध उपा- सनोक्तेश्च । एवं सति वाक्यान्तरे 'जन्मना जायते शूद्र' इति प्रथम शूद्वत्वस्योक्तत्वाच्छैवायुपदेशैस्तदनपायात्मातफर्मायधिकाररू- पद्विजत्वसम्पादको गायत्र्युपदेशस्तत उत्तम इत्येवं स्तुत्वोत्तरार्थे तयेसधिक पुस्तके। २ स काम्यत इति कपाठः। ४ प्रामाम्येति पाठः। ५ इत्यादिवाक्यविरोधादिति सपाठः । ३ शिष्यानिति २९५ तदेव दृढीक्रियते । तावता सातकर्माधिकारसम्पादकत्वमस्स सिध्यति, न तु वैष्णवत्तादीनां जघन्यत्वमैपि । नहिनिन्दान्या- यात्। किंच । पारिभाषिकत्वं तदा भवति यदा स धर्मस्तनासन्नपि किधिकार्यकरणाथै वचनादारोप्यते । यथा, मादित्योदयमान- व्यापिन्यास्तिथेः पूर्णत्वम् । नहि वैष्णवत्वादिकं तथा। उपदेशादिना तसिद्धेः । अन्यथा द्विजत्वस्याऽपि पारिभाषिकत्वापत्तेः । अतः खर्गादिसम्पादकज्योतिष्टोमार्थ सौमिकदीक्षावन्मोक्षाधर्थकनिवृत्ति- धर्मार्थ वैष्णवाद्युपदेशस्ततोऽधिक एव । वस्तुतस्त्वमिन्वाक्ये वेदमातृपदाद्गायत्रीपतिपाद्यब्रह्माऽनभिज्ञस्यैव शाक्तत्वमत्र सिध्यति, न तु ज्योतिश्चरणाधिकरणोक्तरीत्या जन्मा- द्यस्य यतोऽन्वयादितिवाक्योक्तरीत्या वा प्रतिपाद्यब्रह्मस्वरूपाभि- ज्ज्ञस्य । अतस्तथा तदुपासनेऽपि न शाक्तत्वमिति न किञ्चि- देतत् । न चौपनिषदोपदेशेन गतार्थत्वं शक्यम् । इदानीं तदनधिकारात् । निर्वेदाधभावादाहारशुद्ध्यभावाच्च । यथाकथंचि- तत्सम्मवेऽपि ज्ञानस्य विलम्बेन साधकत्वात् । 'वेदान्तविज्ञाने ति श्रुत्या तथानिर्णयात् । नाऽपि श्रीवैष्णव्या दीक्षया । तस्या अपि प्रावाहिकमक्तावे- वान्तःपातात् । मोक्षफलकत्वेन तथानिर्णयात् । नाऽपि तान्त्रिक्या । उपासनामार्गीयत्वात् । न चोपासनैव भक्तिरिति वाच्यम् । रूप- भेदफलमेदकाण्डभेदधर्मभेदैस्तस्या भक्तिभिन्नत्वस्य भक्तिहंसे निपु- णतरमुपपादितत्वात् । अतः खतप्रभक्तीच्छूनां खतन्त्रभक्तानुसा- १ तदेव हेतुनेति कपाठ, । २ मस्तीति सपाठः । ३ तस्य तथेति कपाठः।
रिणां च साधनभक्तो फलमुखाधिकारसम्पादकत्वाद्भक्तिमार्गीयोप- देशः सर्वान्मत्यावश्यकः । 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन्मुकुन्दचरणं स्वस्तिमान्स्याद्यथा बयमिति सप्तमे प्रहादवाक्ये खरूपयोग्यत्वस्य सर्वत्र तुल्यत्वात्फलमुखाधिका- रस्य तदर्थिनामपेक्षणात् । अत एव शुकवसिष्ठादीनां परीक्षिदुप- वर्हणाशुपदेष्टुत्वं श्रीमागवतब्रह्मवैवर्तादिषु युज्यते । न च 'भक्त्या माममिजानातीति वाक्यादतर्ज्ञान एवोपक्ष- यादुपनिपच्छ्वणेनैव ज्ञानसिद्धौ भक्तेरनावश्यकत्वात्तदर्थमुपदेशा- दिप्रयासोऽपार्थ इति वाच्यम् । उपनिषच्छ्वणमात्रेण ज्ञानाऽनुद यात् । प्रत्यक्षबाधात् । मननादिविधिवयाऽपाताच । अतो- ऽधिकारिविशेषस्य तत्राऽपि मृग्यत्वेन मन्दमध्यमाञानाधिकारिणः प्रत्यपि भक्तेरावश्यकत्वाचदर्थमुपदेशो नाऽपार्थः । वस्तुतस्तु 'निर्विष्णानां ज्ञानयोगः कर्मयोगस्तु कामिनाम् । न निर्विष्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिद' इत्ये कादशे भगवताऽधिकौरिभेदेन साधनभेदनिरूपणात्पृथक्फलसाधकत्वमिति न भक्तर्ज्ञानोपक्षीणत्वम् । 'यो भद्भक्तः स मे प्रिय' इति भग- पत्प्रियत्वसम्पादकत्वाच,। 'तपस्विभ्योऽधिको योगीति वाक्य- सन्दर्भ भक्तस्य सर्वोत्कर्षमुखेन ज्ञानापेक्षयापि भक्त्युत्कर्षबो- घनाच्च। न च 'ज्ञानी त्वात्मैव मे मतमिति वाक्याज्ज्ञानिन उत्कर्षः शलः । 'नवात्मा च यथा भवानि'त्येकादश उद्धवं प्रति, १ भययार्थ इति सपुस्तकम् । रेति सपुतकम् । २प्रवणेनेति पुस्तकम् । ३ अधिका- २९७ नाऽहमात्मानमाशास' इति नवमे दुर्वाससं मति च भगवद्वा- क्यस्य विरोधात् । 'भन्या माममिजानाती'त्येतत्तु फलात्मकज्ञान- परम् 'समासेनैव कौन्तेयेति वाक्यसन्दर्भ ज्ञाननिष्ठाकथनेन ब्रह्म- भावानन्तरं भक्तिलामकथनाच्च । सज्जन्यस्य ज्ञानस्याऽपि नान्त- रीयकत्वेन तदभिन्नत्वात् । भक्तेरपि पर्यवसानदशायां फलत्वमेव । 'सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृहन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्यन्तिक उदाहृत' इति तल्लक्षणात् । न च भक्केरौतत्वान्नैपल्यं शक्यम् । माहात्म्यज्ञानाथै सृष्ट्या- दिवाक्यानि सुदृढनेहार्थमात्मवाक्यानि च वदन्त्याः श्रुतेर्माहात्म्य- ज्ञानपूर्वकसुदृढस्नेहवरूपिकायां भक्तावेव तात्पर्यात् । तदर्थमेव च , कर्मादीनां निरूपणात् । 'भगवान्ना कात्स्येन निरन्वीक्ष्य मनीपया । तदध्यवस्थत्कूटस्थो रतिरात्मन्यतो भवेदिति द्विती- यस्कन्धवाक्यादित्युपपादितं तत्त्वदीपे । अतो भक्तेरावश्यकत्वाचद- धिकारसम्पादक उपदेशः शिष्टानां वैदिकमुख्यानामत्यावश्यक इति सिद्धम् । 'मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारत । पूर्वैध कोटिपुरुपैः परैः सार्धं हरेरहो । कोटिजन्मार्जितात्पापान्मंत्रन- हणमात्रतः । मुक्ताः शुद्ध्यन्ति यत्पूर्व कर्म निर्मूलयन्ति च । पुत्रान्दारांश्च शिष्यांच सेक्कान्यान्धवांस्तथा । यो दर्शयति सन्मार्ग सद्गतिस्तद्भवेद्रुवम् । यो दर्शयत्यसन्मार्ग शिष्ये वि- श्वासिते गुरुः । कुम्भीपाके स्थितिस्तस्य यावचन्द्रदिवाकरा'- विति ब्रह्मखण्डाप्टमाध्याये ब्रह्माणं प्रति नारदवाक्य उपदेशमात्रेण सद्गतिकथनाद्विमार्गोपदेशे दुर्गतिकथनाच्च । चतुर्थस्कन्धद्वादशा- २९८ ध्याये 'ज्ञानमज्ञाततच्चाय यो दद्यात्सत्पथे स्थितः । कृपालो. र्दीननाथस देवास्तस्सानुगृह्नत' इति वाक्याचापि तथा । किञ्च । विज्ञानोपनिषत्संहितायां यथोक्तप्रकारेण दीक्षाकरणे शिष्येण गुरवे खीयधना? तुरीयांशो वा सर्वयार्पणीय इत्युक्त्वा तदकरणे दोपो दर्शितः । तदिदानीन्तनानां शिप्याणां लुब्धत्वाद्गुरुणा तथोक्तौ तस्यापि लुब्धत्वसम्भावनया हेयतापतेश्च तदशक्यमत उपदेश एव दोपाऽजनकत्वादुचित इति । एतेनैवे श्रीवैष्णव्या एव दीक्षाया आवश्यकत्वमित्यपास्तम् । ब्रह्मवैवर्ते रासेश्वरमन्त्रस्याने नारदायोपदेक्ष्यमाणस प्रस्तावेन तदभावाच । अतस्तेषु तेषु पुरा- गेषु तत्तन्मन्त्रोपदेशकथनात्तदुक्तभक्तो फलमुखाधिकाराय च तदु- पदेश आवश्यक इति सिद्धम् । एतेनैव 'वैष्णवं हि समुद्दिश्य एकादश्यादि कथ्यते । ब्रह्म नानापुराणेषु जपपूजादिकर्मसु । न चानाविकता यूयं दीक्षाभावादवैष्णवाः । अदीक्षितो वैष्णवश्च कथ्यते भवतां नये । अकृताधानकर्मापि आहिता- मिनिंगयतामि'त्यादिरूपो दुर्जनप्रलापोऽपि परिहतो बोध्यः । न चैवं. सति सर्वेषां -मन्त्राणां तौल्याच्छ्रीकृष्णमन्त्रोऽपि वैष्णवेन मन्त्रान्तरेण विकरप्यतामिति वाच्यम् । 'गाणपत्येषु वेषु तथा शाक्तेपु मुव्रत । सर्वेषु मत्रवर्गेषु वैष्णवं श्रेष्ठमु. यते । वैष्णवेषु च मधेपु कृष्णमन्त्राः फलाधिका' इति गौत- मीयत प्रमथमाध्यायवाक्येन फलेप्सूनां त एवाऽऽवश्यफाः । अस्तु या तपदधिकारिभेदाद्विकल्पः । तथापि कृष्णमन्त्राणामुत्कर्षस्तु न विहानति रापुरुषम् । २ दोपः प्रदर्शित इति पपुस्तकम् । ३ एटे- नापीत पुचकम् । ४ सर्वश्चिति कपुराकम् ।
२९९ क्षुयते । इदमप्युपासनामार्गविचारेणोक्तम् । भक्तिमार्गविचारे तु शरणोपदेश आत्मनिवेदनोपदेश एव च यथाधिकारमावश्यकः । न तु मन्त्रादीनाम् । भगवता भक्त्युपायोपदेशेऽधिकारिविशेषणत्वेन तयोरेवोक्तत्वात् । तथा हि एकादश एकादशाध्याये पूर्व ज्ञान- मार्गमुपसंहृत्य तत्राऽशक्तौ तत्फलाय भक्तिं वदिष्यता भगवता 'यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचदिति फलापेक्षारहितस्य खसिन्कर्मार्पण भक्त्यर्धमुपदिश्य, तत्कथं कार्यमित्यपेक्षायां 'श्रद्धालुमें कथा: भृण्वन्सुमद्रा लोकपावनीः। गायन्ननुसरन्कर्म जन्म चामिनय- न्मुहुः । मदर्थे धर्मकर्मार्थानाचरन्मदपाश्रयः । लभते निश्चलां भक्तिं मय्युद्धव सनातन' इति द्वाभ्यां प्रकारानुवादात्वाश्रितस्य खकथनश्रवणखजन्मकर्मगानस्मरणतदभिनयनपूर्वकं धर्मकामार्था. आचरणीया इति तप्रकार उक्तः । तत्राऽपाश्रयपदेन शरणगमन- मेवाऽधिकारिविशेषणत्वेनोक्तम् । शरणपदं च रक्षितरि रूढम् । 'शरणं गृहरक्षित्रोरिति कोशात् । तथा च सर्वतो भगवानेव रक्षक इत्यनुसन्धानमेव शरणगमनमिति । वक्ता चात्र सयमेवेति मच्छब्देनैव श्रीकृष्णनामनि प्राप्त श्रीकृष्णः शरणं ममेत्येवानुसन्धानाऽऽकारः सिद्ध इति तस्यैवो- पदेशः सिद्यति । अत एव वाक्यान्तरे 'तसाचमुद्धयोत्सृज्य नोदनां प्रतिनोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुत- मेव च । मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्ससे ह्यकुतोभयमिति शरणपदमुक्तम् । गीता- यामपि 'मां हि पार्थ व्यपाश्रित्येति, 'मामेकं शरणं ब्रजे'त्यु- क्तम् । उपदेशावसर उभयत्राऽपि खस्य प्रत्यक्षत्वादुपदेशस्यापि तथात्वान्मामित्यस्य मध्यमपुरुषस्य च प्रयोग इति परोक्षदशायां पूर्वोक्त एवकारः । न तावता शब्दस्य कस्याऽपि लौकिकत्वं महाप्रस्तुतमित्यर्थः । 'पंदपदैकदेशादिप्रक्षेप ऊह' इति हि जैमिनी- यतन्त्रे तल्लक्षणम् । स च स्वयममन्त्रोऽपि खघटितवाक्यस्य मन्त्र- त्वनिर्वाहक एव, न तु विघटकः । अन्यथा 'सूर्याय जुष्टं, निर्व- पामी'त्यादावपि तथात्वापत्तेः । श्रुतावमय इत्यपि पाठात् । न च शरण एवोपदेष्टव्ये श्रीमन्मुकुन्दचरणै., 'सदा शरणमहं प्रपद्य इति 'शरणागतगोपाल' इत्यष्टादशार्णाऽष्टार्णयोरन्यतरः कुतो वा नाहत इति शक्यम् । उपासनामार्गीयत्वादियुक्तम् । ननु तदादरे को दोप इति चेत् । अत्रोक्तस्य फलस्याऽभाव एवेति ब्रूमः । अत एव जैनदयाया अनादरोऽपि युज्यते । अन्यथा 'ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यतेन संरक्षेदिति श्रुतिच्छायायास्तत्रापि शक्यवचनत्वात्तस्या अपि उपादेयत्वापत्तिः । मत एव माधवाचार्यः स्मृतिपाद उक्तं 'शाक्योक्ताहिंसनं धर्मो न या धर्मः श्रुतत्वतः । न धर्मो न हि पूतं सादो- क्षीर वरती भृतमिति । पिंच । नुतिविचारेऽपि गोपालपूर्वतापनीये 'यो प्रमाण विद्- घाति पूर्व यो विद्यास्तसै गोपयति कृष्णः । यस्तं देवमारम- प्रतिप्रकाशं मुमुक्षु शरणमनुब्रजेदिति शरणगमनं विहितम् । आरम्भे प 'श्रीकृष्णो वे परमदेवतमिति श्रावितम् । एवं २परदेशादप्रक्षेप इति पुसकम् । ३ खपत ४ यूपनिशी रापुरारम्। १ कपुमयम् । स्टिारिकपुरम् ।
सति तदनुसन्धाने प्रथमान्तश्रीकृष्णपदोपस्थितौ भावनायां शर- णपदस्यापि विशेषणतया प्रथमान्तसामानाधिकरण्येनैवोपस्थितौ खवा- चकपदस्य पछ्यन्तस्यैवोपस्थितिः । श्रुत्यन्तरे 'मुमुक्षुः शरणमहं अप' इत्यहम्पदादलच्छब्दस्यैव चोपस्थितिरिति विभक्तिमा- त्रस्यैवार्थवलाद्विपरिणाम इति न कस्याप्यश्रौतत्वम् । न च मन्त्रेषु विपरिणामोऽनुचित इति शंक्यम् । नवमस्य प्रथमपादे ककारस्तटाघाने स्यादित्यधिकरणे 'अयं यजमान आयुराशास्त' इत्यादिरूपे फलप्रकाशके सूक्तवाकमन्ने 'सत्रिणामेते यजमाना आशासत' इत्यादिरूपस्य विभक्त्यन्तस्याऽङ्गीकारात्तस्य च विप- रिणाम एव प्रवेशाप्रतीयमानेऽर्थे तात्पर्यनिर्वाहाय पदैकदेशा- ऽन्यथात्वकल्पनस्यैव विपरिणामत्वान्न कोऽपि शंकालेशः । केचित्तु सहसनामादौ भीष्मवैशम्पायनाविवात्राऽपि सञ्जय न्यस्य व्यासचरणानामेवपित्वमभिसन्दधाना 'यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीविजयो भूतिधुवा नीतिमति- ममेति वाक्यादुद्धारमाहुः । तथा हि -~-यत्र योगेऽन्वये, ईश्वरो मुख्यः कृष्णस्तत्र श्रीः । ब्रह्मवैवर्ते श्रीप्णजन्मखण्डद्विपंचाशदध्याये राधाकृष्णेत्युच्चारणमसझे 'जगन्माता च प्रकृतिः पुरुपश्च जग- पिता । गरीयसी त्रिजगतां माता शतगुणैः पितुरिया- दिभिः श्रीनाम्नः पूर्वकथनस्योक्तत्वाप्रथमान्तश्रीकृष्णपदोद्धारः । यत्र पार्थः, पातीति पा रक्षकोऽर्थोऽभिध्येयो यस्य तादृशो धनु- धरः । धनुः धरो यस्याऽसौ धनुर्धरः शरः । स च शृणाते रक्षा- कर्मणो ल्युडन्तस्यैव प्रसिद्धः । 'शरणं गृहरक्षित्रोरिति कोशात् । १ भक्तिमात्रेति खपुस्तकम् । २ सन्दधानेति कपुस्तकम् ।
३०२ . तथा च यत्र सः तत्र ममेति । एवं च यत्तदोर्नित्यसम्बन्धादु- भयत्र तत्रेत्यस्य प्राप्तौ मूलसं तनेति पदं विजयादिपदैरन्वेति । तथा सति यत्र श्रीकृष्णः शरणं मम तत्र विजयो मूतिर्नीतिमति- (वेति फलयोधनार्थत्वात् । अत्र विजयादिपदैरैहिक, मतिपदेन ज्ञानं ध्रुवमुच्यते । भक्तिरभयं च पूर्वमेवोक्तम् । शरणागतौ पाप- मोचनं च सर्वधर्मान्परित्यज्येत्यत्रैवोक्तम् । तथा 'नाम्नां मुख्या- न्तरं नाम कृष्णाख्यं यत्परंतप । प्रायश्चिचमशेषाणां पापानां मोचनं परमिति प्रायश्चित्तमयूखे स्कान्दप्रभासखण्डीये भगव- द्वाक्ये नाममावस्यापि तथात्वमुक्तम् । मतः सर्वफलदत्वमेतस्यैतदेवाभिसन्धायाभियुक्तैरुक्तम् । कि मत्रैर्बहुमिर्विनवरफलैरायाससाध्यैर्मखैः किश्चिल्लोपविधानमात्रविफलैः संसारदुःखावहै । एकः सन्नपि सर्वमंत्रफलदो लोपादिदोपोज्झितः श्रीकृष्णः शरणं ममेति परमो मन्त्रोऽयमष्टाक्षरः॥ इति । केचित्त्वेन मन्त्रमिमं श्लोक च नारदपंचरात्रोक्तमाहुः । तदपि नासाकं रोचते । आकृतितौल्ये स्वरूपमेदस्य, लोकवेदाधि- करणखण्डननिवन्धे विद्वन्मण्डने च 'बहूनि सन्ति नामानी'त्येत- द्वाक्यार्थविचारे भक्तिहंसे च प्रपंचितत्वेन भक्तिमार्गीयस्य ततो भिन्नताया एव युक्तत्वात् । किश्च । शिष्टाचारविचारेऽप्ययमेवोपदेश आवश्यकः । 'वर्को प्रतिष्ठः श्रुतयो विमिन्ना नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस तचं निहितं गुहायां महाजनो येन गतः स पन्या' २ त्वोमिति ब्रूम इत्यधिका सपुस्तके । मोचमिति पुस्तकम् ।
.. इति भारत आजगरे युधिष्ठिरवाक्यात् । 'साधूनां समयथापि प्रमाणं वेदवद्वेदिति मिताक्षरादिसर्वनिवन्धलिखितम् । प्रक्षा- ण्डवाक्ये कलौ तस्य विशेषतः प्रामाण्यबोधनाथ । अत एव प्रथ- ममुबोधिन्यां श्रीमदाचार्यचरणैः 'दत्वाज्ञां च कृपावलोकनपटु- रिति, 'वैश्वानराद्वाक्पतेरिति खानुभवः स्वस्वरूपं चोकम् । ननु तादृशतदनुभवे तादृक्खरूपत्वे च किं मानमिति चेत् । 'आचार्यत्वमेवेति धूमः । दृश्यन्ते हि सर्वेष्वेव प्रसानेषु प्रस्थान- प्रवर्तकानां स्वखानुभवबोधकानि वाक्यानि । तथाहि-माध्वसम्प्र- दाये 'विष्णोः पदे परमे मध्य उत्स' इति श्रुतौ मध्वपदेन मध्वाचार्या व्याख्यातास्तथा मरुदवतारत्वं च तेषामुच्यते । जय- तीर्थश्च बलीवर्द आचार्याशयोत्पन्नो भाप्यव्याख्याता जात इति । तथा रामानुजसम्प्रदाये रामानुजाचार्याः शेषावतारा इति । माया- वादिसम्प्रदायेऽपि व्यासशङ्करयोर्विचारतत्र गणेशस्य साक्षित्वम् । तत्र गणेशेनोक्तो 'व्यासो नारायणः साक्षाच्छङ्करः शङ्करः खयम् । तयोर्विवादे सम्प्राप्ते किकारः किं करोम्यहमिति श्लोकश्च प्रसिद्धः । गौडेषु कृष्णचैतन्या भगवदवतारत्वेन प्रसिद्धाः। सौन्दर्यलहयो 'तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पय:- पारावारः परिवहति सारस्वत इव । दयावत्या दत्तं दुहिण- शिशुरासाद्य तव यत्कवीनां प्रौढानामजनि कमनीयः कवयि- तेति खानुभव उक्तः । अत आचार्यत्वादेव न तद्वाक्ये शो- दयः । किन्तु वेदविरुद्धत्व एवापामाण्यम् । अतो मन्त्रलक्षणाधि- करणे शियानां मत्र इति प्रसिद्धरेय सिद्धान्तलक्षणत्वादानुपूर्त्या मत्रत्वमनयापि रीत्या निर्बाधम् ।
३०४ 111 । , अथया । असिन्वाक्ये श्रीकृष्ण इति नामैव मन्नः । नानो मन्नत्वं च सर्वशास्त्रप्रसिद्धम् । शेषस्तु शरणोपदेशः । अत एवं नामद नाममाप्तं नामधारीत्येव प्रसिद्धिरिति न कोऽपि शङ्कालेश इति दिक् । एवमेव 'वैष्णवानां हरेरा तपस्या च श्रुतौ श्रुता। वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम् । अन्तर्याय हरि- यस्य तस्य किं तपसा सुत । नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसा तथा । तपसा हरिराराध्यो नान्यः कश्चन विद्यते । यत्र तत्र कृतं कृष्णसेवनं परमं तप' इति ब्रह्मवैवर्तब्रह्मखण्डीयैकाद- शाध्याये नारदं प्रति ब्रह्मवाक्यात् । 'वत्से चतुर्पु वेदेषु धर्मेपु संकलेषु च । पुराणेष्वितिहासेषु पञ्चरात्रादिकेषु च । अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुबते । सर्वेष्टं सारभूतं च मंगलं कृष्ण- सेवन मिति ब्रह्मवैवर्तप्रकृतिखण्डे सावित्री प्रति ब्रह्मवाक्याच कृष्णसेवनस्यैव परमतपस्त्वेन सर्वेष्टादिरूपत्वेन कथनाचदेवावश्य- कम् । तस्य च फायिकादिव्यापाररूपस्य 'भज इत्येप वै धातु: सेवायां परिकीर्तितः । तसात्सेवा बुधैः प्रोक्ता भक्ति स्नेहेने भूयसेति गारुडसमाप्तिदशास्सविष्णुभक्त्यध्यायवास्याद्भक्ति- रूपत्वेऽपि मुस्यताऽऽत्मसमर्पणमन्तरेण न भवति । एकादशीयैको- नविंशाध्याये 'पुनश्च कथयिप्यामि मद्भक्तेः कारणं परमिति मेममक्तिपरमकारणकथनं प्रतिज्ञाय 'श्रद्धामृतकथायां में इत्यादिना यवणकीर्तनादीनुपदिशता भगवता समाप्ती 'एवं धर्मनुप्याणा- सवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोऽन्यो?- 1 संहितामु पेति कपुसकम् । २ साधनभूयसीति सपुस्तकम् ।
३०५ ऽस्यावशिष्यत इत्यात्मनिवेदनस्याधिकाररूपताबोधनातदभावेन कृतस्याऽपि श्रवणादेर्मुखत्वस्याऽशक्यवचनत्वात् । एवं च तस्य नवमत्वं यहादवाक्ये उक्तं तदपि संख्यापूर- णायैव न त्वन्तिमकक्षात्वाय । वन्दनदास्ययोः कक्षाव्यभिचाराच्च । न । न हि श्रवणादिपञ्चकोत्तरमेव वन्दनादिकं कार्यमिति नियमः कापि सिद्धोऽस्ति । न च सख्यादेरुभयकृतिसापेक्षत्वेन भगवत्य- शक्यकरणत्वादविधेयत्वं शक्यम् । सख्यस्य तद्विश्वासादिरूपत- याऽऽत्मनिवेदनस्स विक्रीतगवाश्वादिषु खत्वाऽभावानुसन्धानबहे- हादौ तथानुसन्धानरूपतायाः श्रीधरीये व्याख्यानेन तस्याऽशक्य- करणत्वामावाद्विधेयत्वस्य सुखेन सम्मवादिति । किञ्च तथा गौतमीयतन्त्रे 'कृष्णेति यक्षरो मत्र' इति पाझे । 'कृष्णेति वैष्णवं मंत्रं श्रुत्वा मुक्तो भवेन्नर' इति । ब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे 'गृहाण मम मनं च कृष्ण इत्यक्षरद्वयम् । सर्वेपामेव मत्राणां सारात्सारतरं परमिति वाक्यात् । ब्रह्मा- ण्डात्मरामायणे युद्धकाण्डे 'सकृदेव प्रपन्नाय तवामीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्रतं ममें ति विभीषण- मुद्दिश्य सुग्रीवं प्रति रामवाक्यम् । सकृदेव प्रपन्नो यस्तवालीति च यो वदेत् । अभयं सर्वभूतेभ्यो दद्यादेतद्रतं हरेरिति गारुडे विष्णुभत्यध्यायवाक्ये चाऽभयसाधकत्वकथनान्मन्त्रस्यापि । 'नष्टो मोह' इति वाक्ये 'अच्युते ति सम्बोधनेन कृष्णनाम्न एव सरणा- १ पतिद्वयात्मको अन्यः पुस्तके नास्ति । २ अभयकत्वकथनादिति कपुस्तकम्। पुष्टि. २० तत स्तवास्मि स्थितो गतसन्देहो वचनं करिप्य' इति वचनव्यक्त्या गीतास्थत्वात्पौराणत्वेन भक्तिमार्गीयत्वादुपासनामार्गीयतागन्धस्या- प्यभावात् । किन्छ । बृहदारण्यके मधुविद्याया यथा 'अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ रथ- नेमौ चाराः समर्पिता एवमेवासिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एवात्मानः समर्पिता' इति सर्वेपा समर्पितत्वमुपदिष्टम् । अत्र प्रथम भूतपदं जडपरम् । महाभूतेषु तथा प्रसिद्धत्वात् । श्रौते सर्वेषा जडाना पञ्चीकृतभू- तोपादेयत्वात् । द्वितीयं देहविशिष्टजीवपरम् । 'न हिंस्यात्सयो- भूतानी'त्यादौ तथाप्रयोगात् । तथासत्यत्र जडाधिपतित्वं जीव- राजत्वं च सिध्यति । तत्र राजवाक्यं जीवेचनुग्रहबोधनाय । अन्य- थाऽधिपतिवाक्यादेव चारितार्थ्यादेतद्वैयर्थ्यापतेः । तद्यथेत्यादि- दृष्टान्ते च प्राणाद्यात्मान्तानामुभयोरवध्योः सयुक्तत्वेन तद्विष्टब्ध- त्वम् । तेनाऽयमुपदेश एतावदनुसन्धानार्थः । तेन प्राणाद्यात्मा- न्तेषु स्वीयत्वादिबुद्धिं त्यक्त्वा तदीयत्वतद्विष्टभ्यत्वबुद्धिः कर्तव्येति फलति । ईदृशवुद्धिकरणमेव चासच्छास्ने ब्रह्मसम्बन्धकरणमित्या- त्मनिवेदनमिति च व्यवहियते । एतस्य च गुरुणा श्रौत- त्वेनोपदेशे श्रौतत्वमागमोक्तत्वेनोपदेशे च ताप्रिकत्वम् । 'एवं धर्म- मनुष्याणामि' स्यादिभगवदुक्तत्वेनोपदेशे भक्तिमार्गीयत्वमिति शास्ला- दिभेदात्फलभेद इति । एतेनैव . 'कृष्ण तवासी' त्यस्य लौकिकत्वं १ कपसारभ्य निरस्ता बोध्या इति अथदशपदयात्मको प्रन्य सपुस्तके नास्ति।
३०७ वदन्तोऽतिप्रान्ता अपि निरस्ता बोध्याः । इदमैपि बहिर्मुखानां पर्यनुयोगनिरासायोक्तम् । वस्तुतस्तु साक्षाद्भगवता श्रीगोवर्धनेश्वरेणैतौ मन्त्रावाचार्येभ्य उपदिष्टाविति सिद्धान्तरहस्यवाक्यात्सम्प्रदायाचावसीयते । अत एव च सर्वेषामेवाधिकार इति । यत्तत्सृष्ट्याद्यभावात्कथं मन्नत्वमित्युक्तं तदप्यसङ्गतम् । छन्दादिज्ञानस्य फलपौष्कल्यादिसाधकतया मन्त्रत्वज्ञानाय तदनुपयोगात् । केचित्तु शारदातिलकादी लक्ष्मीमादीनामृप्याद्यनुक्त्या व्यभि- चाराद्यथास्थितानामेव तेषां जपासिद्धिरित्याहुः । यदपि 'कृष्ण तवासी'त्यत्र दासादिपदसापेक्षत्वमुक्तं तदपि मौर्यम् । अत्राऽऽत्मन एव समर्थत्वेन तस्य चास्मीति क्रियाध्य- वसिताऽहम्पदादेव प्राप्तेः शङ्काया एवानुदयात् । आत्मनिवेदन- स्याश्रौतत्वं तु प्रागेव निरस्तम् । वाजसनेयिनां बृहदारण्यके 'इमे विदेहा अयमहमसीति जनककृतस्य गुरौ याज्ञवल्क्ये आत्मस. मर्पणस्य श्रवणाद्भगवति समर्पणस्याऽर्थादेव सिद्धेश्च । यत्तु देहः स्त्रीणां, धनं पुत्राणामतः परखत्वनिवेदनं कथं कार्यमिति लौकिकाः शकते, तत्कदर्यमेव । 'क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते खाम्यं तु तत्र कुधियोऽपर ईश कुर्युरि'त्यादि- वाक्यैः सर्वस्य भगवदीयत्वेन लौकिकखामिकताविचारस्यैव प्रान्ति- मूलकत्वात् । किञ्च । तथा मन्यानानां भटानां युद्धार्थगमना- १ इदमित्यारभ्य उक्तमित्यन्ता पतिः कपुस्तके नास्ति । २ यत्वित्सारभ्य यत्तु देहः स्त्रीणामित्यन्ता दशपतयः खपुस्तके न सन्ति । ३ उत्सृष्टिविनि- योगादयः ।
देदीनादेश्चापि बाधापचिः, परसत्वादिति न कोऽपि शङ्कालेशः । एतेन ब्रह्मसम्बन्धकरणखरूपमप्युक्तप्रायम् । तेन 'देहादेब्रह्मस- म्बन्धकरणं नाम किं मतम् । ब्रह्माध्यासोच देहादौ तदध्या- सोऽथवा परे । संयोगो वार्थान्तरं वेत्यादिरूपा एतत्पथप्रद्वे- पिणां शङ्का निरस्ता वेदितव्याः । यदपि समर्पिते गवाश्चादौ न ममेति यथा मतिः । यथा देहार्पणे तेऽस्ति न वेत्येतद्विमृष्यताम् । नास्ति चेन्नार्पणं जात- मस्तीत्युक्तिस्तु वै मृपा । लोकानुभवबाधेन किश्च कर्तुं न शक्यते । स्वत्वाविनाशाद्देहस्य चार्पणे जातिनाशनादि'त्युक्तम् । तत्तु जनकोपाख्यानश्रुत्यैव दचोत्तरम् । आहाया एव न ममेति बुद्धस्तत्राभिप्रेतत्वात् । खस्मिन्नाहायब्रह्मदृष्टेरिवाहार्याया न ममेति बुद्धेरपि फलजनकत्वे वाधकाभावाच । अग्रे यज्ञादिकरणाद्युक्तेर्जा- तिनाशनस्याप्यभावाचेति । नन्वत्र प्रणवः कुतो न पठित इति चेत्-गोपालादिमन्त्रेषु तमपश्यन्सर्वमनेषु प्रणवपाठनियमाभावमननुसन्दधानो प्रान्तः शकते, तथापि वदामः । शूद्रायुद्धारकत्वाय केवलभक्तिमार्गीयत्वेन सेहप्राधान्यबोधनाय चेति बुध्यत । न च भक्तेर्माहात्म्यज्ञानाङ्ग- त्वात्प्रणवस्य सृथ्वन्तःस्थितिबोधकस्य कथनेऽप्यदोष इति शक्यम् । भनत्यमाहात्म्यस्य लोकोदोदितविलक्षणत्वेन मूलना तस्यापि सिद्धे- १ एतेनेत्यारभ्य आतिनाशनस्याप्यभावाचेतीत्यन्ताः पतयः सपुस्तके न २ तथेत्युचितं स्यात् । अस्ति तु द्वयोः पुस्तकयोर्यथेति । ३ पुस्तक- द्वयम् । अशुद्धयश्च विलक्षणा भूयस्यः खोपशोधनं तु बहुतरे न रोचते मह्यम् । ततध स्वधिया शोधितेऽपि बहुतरस्थले कुहचनाऽवशेपिता एव ता एता इति विद्वांसः प्रमाणम् । सन्ति।
रित्याकरेपूपपादितत्वात् । भक्तिमार्गीयत्वादेव च जपेऽपि न भूत- शुद्धिमुद्रान्यासाद्युपयोगः । मार्गस्य शास्त्रस्य च भेदात् । किश्च । यथा 'य एवं विद्वान्महारान उपस्युदिते व्रजस्तिष्ठ- नासीनः शयानोऽरण्ये ग्रामे वेति श्रुत्या नित्यमध्ययनं स्वाध्या- यस्य ब्रह्मयज्ञरूपस्य । तथा 'गच्छता तिष्ठता वापि स्वपता जाग्रता तथा । शयानेनोपविष्टेन जप्यो नारायणः सदे'ति काशीखण्डैकविंशाध्यायवाक्याद्गवन्नामापि सर्वदा सर्वत्र जप्तव्य- मतोऽपि तथा । 'प्रायश्चित्तान्यशेषा'णीति गरुडपुराणध्यानस्तुत्य- ध्यायस्य सूतवाक्यादजामिलोपाख्यानाच नाम्न एवाऽसहायशूरत्वाव- गमात् । एतेनैव 'जपसंख्या तथा होमद्रव्यं किमनयोर्मतमिति प्रश्नोऽपि दत्तोत्तरः । 'प्रत्यगाशिपो मन्त्राञ्जपत्यकरणानिति कल्पेन प्रत्यगाशीर्मत्राणां होमादिकरणतानिपेधात् । शरणमन्त्रे तथात्वस्य स्फुटत्वात् । समर्पणमन्ने च गम्यत्वादिति । न च नानोऽसहाय- शूरत्वे सेवाद्यनुपयोगः । अधिकारिभेदेन सार्थक्यात् । अत एव 'काश्चिन्ममानुध्यानेन नामसंकीर्तनाच म' इति भगवतोक्तम् । तेन 'सांकेलं पारिहास्यं वा स्तोभं हेलनमेव वा । चैकुण्ठनामग्रहण- मशेपाघहरं विदुरि'त्यत्राप्यशेपपदे संकोचो ज्ञेय इत्यलम् । वस्तुतस्तु नायं जपः । किन्तु कीर्तनमेव । सारणं वा । अत एव प्रथमस्कन्धे 'अतः पृच्छामि संसिद्धि योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्य नियमाणस्य सर्वथा । यच्छ्रोत व्यमयो जाप्यं यत्कर्तव्यं नृभिः प्रभो । सर्तव्यं भजनीय वा प्रूहि यद्वा विपर्ययमिति राजा पृष्टे श्रीशुकेन द्वितीयस्कन्धे १ उपपादितमेवेति सपुस्तकम् ।
३१० 'तसाभारत सर्वात्मे'त्यनेन, 'तं सत्यमानन्दनिधिं भजेते'त्यनेन च श्रवणकीर्तनस्मरणभजनान्येवोक्तानि न तु जपः । एकादशे गीतासु च शरणगमनमेवोक्तम् । तच्चानुसन्धानरूपमेवातोऽपि तथा । यस्तु मौनेनैकाग्रस्थित्यादिः, स तु युगस्य दुष्टत्वेन बाध- कतया बहुकालैकाग्र्याऽभावात्किञ्चित्कालं तु निर्बन्धेनाप्यैकाम्यं विधेयमित्याशयेन साम्प्रदायिकैः समयः कृतः । तेन धर्मसाम्यद- र्शनालोके जपव्यपदेशः । परं न तावता तद्धर्माणामपि प्राप्तिः। खरूपभेदादित्युक्तम् । अत एव श्रीमदाचार्यैरपि नवरत्ने 'तस्मा- त्सर्वात्मना नित्य मनेन सर्वदा वदनमेव शरणमनस्योक्तम् । निवे- दनस्सरणं च 'निवेदनं तु सर्तव्यमित्यनेन । न तु कापि जपस्याप्याज्ञापनं कृतम् । अत एव 'सर्तव्यः सततं विष्णुरि- त्यादीन्यपि वाक्यानि संगच्छन्ते अतो न शङ्कावकाश इति दिक् । ननु भवतु मन्त्रस्य भक्तिमार्गीयत्वं, तथाप्युपदेष्टणां शिष्यपरीक्षा त्वावश्यकीति चेत्-सत्यम् । परं शिष्ये किंवा परीक्षणीयम् । श्रद्धेति चेदोमिति ब्रूमः । परं तस्या मनोधर्मत्वेन तजैरेव बहिधर्म- स्तस्या उन्नयत्वेऽपि तत्परीक्षायाः पुत्रोपनयनादिवदनावश्यकत्वात् । 'मन्त्रोपदेशमात्रेणे' त्यादि ब्रह्मवैवर्तवचनेन तथानिश्चयात् । उप- सन्नत्यापि श्रद्धाया अनुमातुं शक्यत्वाच्च । दम्भादिनोपसन्नतावपि गुरौ दोपासंचारस्योक्तवाक्येनैव सिद्धेः । किञ्च । 'दुर्लभे सद्गुरूणां तु सातत्सङ्ग उपस्थिते । तद्नुज्ञा यदा लब्धा स दीक्षावसरो महान् । ग्रामे वा यदि वापरण्ये क्षेत्रे वा यदि वा निशि । आगन्छति गुरुदेवान्मुदा दीक्षा तदाज्ञया । यदैवेच्छा तदा १ अयं लोकपाद. सपुस्तके नास्ति । २ शरणमिसेव सपुस्तकम् ।
दीक्षा गुरोराज्ञानुरूपतः । न तिथिर्न तथा होमो न स्नानं न जपक्रिया । दीक्षायाः कारणं किन्तु खेच्छावासे तु सद्गुरौ । इति शुद्धिस्तु सर्वस्य ज्ञात्वा दीक्षेत सद्विधिरिति तत्त्वसागरे । गुरुशिष्ययोरिच्छौत्कट्ये दीक्षायामपि धर्मान्तरपरीक्षाया अनावश्य- कताव्यवस्थापनेनोपदेशे सुतरां तथात्वस्य ताग्निकाणामप्यभिमत- तया भक्तिमार्गस्य मुतरामपर्यनुयोज्यत्वात् । न च 'राज्ञि चामात्यजा दोपाः पत्नीदोपाश्च भर्तरि । तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितमिति वाक्या- होपसंचारः । एतस्य शिप्यपापोपेक्षया तदत्यागपरत्वात् । अन्यथा 'मत्रोपदेशमात्रेणे'त्यादिपूर्वोक्तब्रह्मवैवर्तवाक्यविरोधमसात् । एवं च 'चैत्रे बहुविधं दुःखमित्यादीनि मासपक्षतिध्यादिशोध- नबोधकवाक्यानि गुरोः सादृश्ये गुरुणा तदनुमोदने बोध्यानि । 'तदनुज्ञा यदा लब्धे'त्यादिवाक्यात् । भक्तिमार्गीयत्वादेव च खस्याऽन्यस्यैकमन्त्रत्वेऽप्यदोपः । 'स्वमत्रो नोपदेष्टव्यो वक्तव्यश्च न संसदी'त्यस्य निषेधस्य पाश्चरात्रिकत्वेन तत्परत्वात् । अत एवं भगवता शिवायोपदिष्टं मन्त्रकवचादिकं शिवेन नारदायोपदिष्ट- मिति ब्रह्मवैवोक्तं संगच्छते । नन्वेवं शास्त्रान्तराऽननुरोधेन तन्त्रोक्तस्य सम्प्रदायगुर्वनुरोधस्या- प्यकर्तव्यत्वाद्यस्य कस्यचन यथाकथंचन यतःकुतश्चन मप्रग्रह- णमायातीत्यसमंजसमिति चेत् । न । विरुद्धस्यैव शास्त्रान्तरस्या- ऽनादरणीयत्वेनेहापि सम्प्रदायस्य सद्गुरोश्च सर्वथैवाऽनुरोद्धव्यत्वात् । 'आसीनमुन्यौँ भगवन्तमाद्यमित्यादिपु पौराणिकोपदेशेषु 'दध्य- १ पापापेक्षयेति पुस्तकम् ।
३१२ काथर्वणाभ्यामृ'त्यादिषु श्रौतेष्वपि गुरुपरम्परायाः प्रदर्शनेन तथा निश्चयात् । 'धर्मार्थकाममोक्षाणामालयः साम्प्रदायिकः । सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मता' इति गौतमीयत- फोनविंशाध्यायवाक्यस्याप्यविरुद्धत्वेनाऽऽदरणीयत्वात् । एवं च गुर्वनुज्ञायां क्षत्रियादीनामप्यानुलोम्येनोपदेष्मृत्वमदुष्टमेव । 'क्षत्रविट्शूद्रजातीनां क्षत्रियोऽनुग्रहे क्षमः । क्षत्रियस्यापि च गुरोरभावादीदृशो यदि । वैश्यः स्यात्तेन कार्यश्च द्वयोनित्य- मनुग्रहः । सजातीयेन शूद्रेण तादृशेन महामते । अनुग्रहाभि- पेकौ च कार्यों शूद्रस्य सर्वदा । उपायो न भवेल्लोभान्मुक्त्वा सर्वद्विजोत्तममिति । 'क्षत्रविदशूद्रजातीयप्रातिलोम्यं न दीक्ष- येदिति नारदपञ्चरात्रीयविज्ञानोपनिषत्संहिताप्टादशपटलवाक्यस्या- प्यविरुद्धत्वेन शिष्टादृतत्वात् । पञ्चाग्निविद्यादौ यच्छृतिषु क्षत्रि- यैाह्मणोपदेशनं तदपि नोपदेशरूपम् । 'व्येवतु ज्ञापयिष्यामी ति विज्ञापनश्रुतेः । अतः सम्प्रदायस्याऽनुरोद्धव्यत्वानासमंजस इति दिक् । अत एव 'यदृच्छया श्रुतं वापि च्छन्नेनापि च्छलेन वा । पत्रे स्थितं वा गाथायां वर्जयेत्तदनर्थवदिति तांत्रिकमपि शिष्टै. राद्रियत एव । यत्तु राज्ञीप्रभृतिषु पत्रद्वारोपदेशनं तत्तु तासामसूर्य- पश्यत्वेनाल् गुरोर्दयोत्पत्तौ तदभ्यनुज्ञायां प्रतिनिधिद्वारकत्वाददो- पावहमेव । ननु भवत्येवं तथापि दम्पत्योः सतीर्थ्यत्वं त्वनुचितमेव । सती- येयोतृत्वस्य लोके प्रसिद्धत्वात् । अतः साम्प्रदायिकैः कथं तावुपदिश्येत इति चेत् । उच्यते । धर्माधर्मों हि शास्त्रगम्यौ न ..
। लोकान्निर्णतुं शक्यौ । शास्त्रं तु न निषेधति । यदि निषेधश्चेदृश्येत प्रायश्चिचं वा सार्येत । 'चवस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिमी च विशेषेण मुंगितोपगता च येतिवत्सती- यंगमने स्त्रिया वा त्यागः स्मर्येत । भगिनीगमने गुरुतल्पाति- देशवत् । शिष्यस्त्रीगुरुपुत्र्योश्च गमने तदतिदेशवत् । सतीर्थ्या- गमनेऽपि तदतिदिश्येत । अंगम्यात्वं चा सतीर्थ्यायाः स्मर्येत । तद्ग- मनस्योपपातकता वा मर्येत । क्रोधाद्भार्यो मात्रादिसशीमगम्या- मुक्त्वा पुनर्गमनेऽपि पराशरेण प्रायश्चित्तं स्मृतम् । तद्वलाकीर्णेषु या स्मर्यंत । अतो निषेधाद्यभावान्नानुचितो दम्पत्योः सतीथ्यभावः । प्रत्युत पुराणेषु दृश्यते दम्पत्योः सतीर्थ्यत्वम् । तथा हि-ब्रह्मवैवर्ते ब्रह्मखण्ड एकोनविंशाध्याय उपबर्हणजीवनोत्तरं 'महापुरुषस्तोत्रं च पूजां च कवचं मनुम् । विस्मृतं वोधयामास स्वयं रहसि सुव्रत । पुरा दत्तं वसिष्ठेन स्तोत्रपूजादिकं हरेः। गन्धर्वाय च मालत्यै मत्रमेकं च पुष्कर' इति दम्पत्योर्वसिष्ठोपदिष्टत्वं कण्ठादुक्तं सूतेन । तदने शौनकेन च पृष्टं 'किं स्तोत्रं कवचं विष्णोर्मत्रपूजाविधिः पुरा । ददौ वसिष्ठस्ताभ्यां च तद्भवा- न्वक्तुमर्हतीति । अन्यत्र च 'आचारो धर्ममार्गश्च गुरुमंत्रश्च देवता । दम्पत्यपत्यभृत्यायैरेकीकृत्य महत्फलमि'त्युक्तम् । अतः सतीर्थे दोषसम्भावनापि न । किञ्च । नारदपञ्चरात्रे विज्ञानोपनिषत्संहितायां पोडशे पटले 'विष्णुतत्वं परिज्ञाय एक चाऽनेकभेदवत् । दीक्षयेन्मेदिनी सर्वो किं पुनथोपसन्नतानि'ति सामान्यतः सर्वेषां दीक्षणमुक्तम् । अतो दम्पत्योरेकेनोपदेशदानेपि न दोपः । एतेनैव 'स्त्रियाः केवलाया दीक्षा नोचिते'ति ये वदन्ति तेऽपि निरस्ताः । 'मां हि पार्थ व्यपाश्रियेत्या दिरूपे भगवतत्त्व- ज्ञानोपदेशे क्रियमाणे उपसन्नतिमात्रस्यैव प्रयोजकत्वादिति । किञ्च । यदि सतीर्थ्याया भगिनीत्वं स्वासुतायाः सुतरां स्याचथा सति शिष्याय न तामृपयो दद्युः । धर्मस्थापकत्वादृषीणाम् । दानं च मर्यते । भारत आश्वमेधिक उत्तकोपाख्याने गौतमेनोचकाय खशिष्याय वपुत्री परिणायितेत्युक्तेः । 'इत्थं च परितुष्टं मां विजानीहि भृगह । युवा पोडशवो हि यदद्य भविवा भवान् । ददामि पुत्री कन्यां च स्वां ते दुहितरं द्विज । एता- मृतेऽङ्गनां नान्यां त्वत्तेजोऽर्हति सेवितुम् । ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीमि'ति । तदुत्तरमहल्यां प्रति 'आज्ञाप- यस्व मां मात'रिति मातृत्वमुक्तम् । कार्तिकमाहात्म्ये च 'अपुत्र: स च शिष्याय चन्द्रनाम्ने ददौ सुतामि'त्युक्तम् । या तु देवयान्या भगिनीत्वमङ्गीकृत्य कचेन तदुक्तिर्नादृता । सा त्वेकोदरनिवासिताप्रयुक्तत्वेन नात्र दोषमाधातुं शक्नोति । 'यत्री- पितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुपितो भद्रे कुक्षौ काव्यस्य भामिनी'ति कचेन शुक्रोदरे निवासकथनात् । पाहोशिके (1) देहेऽस्थ्यादित्रयस्स पित्र्युपादेयत्वात् । अत एव व्यभिचार एव गुरुतल्पातिदेशो गुरुपुयामिति दिक् । किश्च । 'अन्नदाता भयत्राता पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो मृणामिति ब्रह्मवैवर्ते ब्रह्मसण्डीयदशमा- ध्याये सूतवाक्यादन्नदानादीनामपि पितृत्लेन श्वसुरपोप्यले, दम्प- त्योरेकपोप्यत्वे, एकेन भयात्राणे च, मातृभगिनीभावापतिरिति विवाहो मुधैव स्यादिति न किश्चिदेतत् । अतः पुत्रवत्याः पत्या ३१५ मातृत्वमिव सतीर्थ्ययोर्धातृत्वमप्यनवज्ञेयत्वायैव, न तु व्यवहारा- न्तरविरोधायेति दिक् । ननु भवत्वेवं तथापि सद्गुरुमातेरिदानी दुर्लभत्वात्पूर्वोक्त सर्वे साधितमप्यसाधितप्रायमेव । 'यः समः सर्वभूतेषु विरागी गत. मत्सरः । जितेन्द्रियः शुचिर्दक्षः सर्वाङ्गावयवान्वितः । कर्मणा मनसा वाचा भीतेष्वभयदः सदा । समवुद्धिपदप्राप्तस्तत्रापि भगवन्मय' इति नारदपञ्चरात्रीयविज्ञानोपनिषत्संहितापोडशपटली- यवाक्ये तस्य लक्षितत्वात् । अविरुद्धस्य शास्त्रान्तरस्याप्यादरणी- यत्वादिति चेत् । सत्यमेवम् । तथापि मार्गमूलभूतानाचार्यानादाय न दौर्लभ्यमिति वदामः । अन्यथा कर्मोपासनादिमा प्वप्यस्स दोपस्य तुल्यत्वान्मार्गाः सर्व एवोच्छिोरन् । युगस्य सार्वत्रिकत्वात् । अतो भगवदनुग्रहे तेषामेव नियामकत्वादिदानीन्तानानां द्वारत्वान्न कोऽपि दोपः । तेनेदानीन्तनेषु सम्प्रदायानुसारित्वमेव सद्गुरुत्व- मिति द्वारभूतगुर्वतिक्रमेऽपि दोपो ने स्यादिति न वाच्यम् । तस्या- प्यनुल्लङ्घयताया आवश्यकत्वात् । अत एवाऽऽदित्यपुराणे 'अविद्यो वा सविद्यो या गुरुरेव जनार्दनः । स्वमार्गस्थोऽप्यमार्गस्थो गुरुरेव सदा गतिः । हरौ रुटे गुरुस्खाता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेदि'त्युक्तम् । वाराहे प्रागिति- हासे, रुद्रगीतासु च 'यस्त्विमं सरहस्यं तु समत्रं चोपपाद- येत् । विधानं तस्य चै दर्च कोटिकोटिगुणोचरम् । गुरौ वसति यस्त्वन्यमाश्रयेत्पूजयेत्कुधीः । स दुर्गतिमवाप्नोति दत्तमस्य च निष्फलम् । प्रयत्नेन गुरौ पूर्व पश्चादन्यत्र दापयेत् । अविद्यो १निरोधेति कपुस्तकम् २ एवकारो नास्ति खपुस्तके।
वा सविद्यो वा गुरुरेव जनार्दनः । मार्गस्थो वाप्यमार्गस्यो गुरुरेव परा गतिः । प्रतिपद्य गुरु यस्तु मोहाद्विप्रतिपद्यते । स कल्पकोटि नरके पच्यते पुरुषाधम' इति । अन्यथा पूर्वोक्तलक्ष- णके गुरावमार्गस्थत्वाद्यमावादेवं न वदेत् । तस्मान्नैष दोषः । अत एव द्वारभूतानामपि गुरुत्वेनादरणमप्युचिततरम् । अत एव, 'अपि मन्तः शपन्तो वा विरुद्धा अपि ये क्रुधा । गुरवः पूजनी- यास्ते गृहं गत्वाऽऽनयेत तानि ति ब्रह्मवैवर्त उक्तम् । सप्तमस्कन्धे च 'यस साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । भक्तिर्न स्यात्कृतं तस्य मन्ये कुञ्जरशौचवत्' इत्युक्तम् । एकादशे च 'आचार्य मां विजानीयानावमन्येत कर्हिचित् । न मर्त्यबुद्ध्यायेत सर्वदे- वमयो गुरुः' । नारदोक्तौ च 'गुरौ सन्निहिते यस्तु पूजयेद- न्यमग्रतः । स दुर्गतिमवाप्नोति पूजनं तस्य निष्फलमिति । अगस्त्यसंहितायां च 'यैः शिष्यैः शश्वदाराध्या गुरवो खवमा- निताः । पुत्रमित्रकलत्रादिसम्पयः प्रच्युता हि ते । ये गुर्वाज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः । न तेषां क्लेशनिस्तारो वर्तते मुनिसत्तमे'त्युक्तम् । मनौ च 'अन्यो भवति वै बालः पितान्यो मंत्रदायक' इति । वामनकल्पे च 'यो मंत्रः स गुरुः साक्षायो गुरुः स हरिः स्मृतः । गुरुयस भवेत्तुष्टस्तस्य तुष्टो हरिः स्वय- मिति । विष्णुरहस्से च तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत् । अभेदेनार्चयेद्यस्तु स भक्तिफलमानुयादि' स्युक्तम् । पञ्चरात्रे च 'यत्र यत्र परीवादो मात्सर्याच्छ्यते गुरोः । तत्र तत्र न वस्तव्यं निर्यायासंसरन्हरिम् । यः कुता च गुरोनिन्दा विभोः १ सेपेठेवि सपाठः।
शास्त्रस्य नारद । नापि तैः सह वस्तव्यं वक्तव्यं वा कथंचन' ईदृशेषु च गुरुषु सर्वदानुवृत्तिरेव विधेया। 'इयदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यद्वै विशुद्धभावेन सर्वदात्मार्पणं गुराविति तृतीयस्कन्धात् । 'इमे विदेहा' इत्यादिबृहदारण्यकी- याऽऽत्मसमर्पणश्नुतेश्च । द्वारत्वं च साम्प्रदायिकस्यैव ज्ञेयम् । 'यो चक्ति न्यायरहितं विना न्यायं शृणोति यः । तावुभौ नरकं घोरं बजतः कालमक्षयमिति । 'महाकुलप्रसूतोऽपि सर्वयज्ञेषु दीक्षितः । सहस्रशास्त्राध्यायी च न गुरुः स्यादवैष्णवः' इति । 'अवैष्णवोपदिष्टेन मत्रेण नरक ब्रजेत् । पुनश्च विधिना सम्यग्वैष्णवाग्राहयेद्गुरोरिति च पञ्च- रात्रात् । अवैष्णवोपदिष्टं तु पूर्वमत्रवरद्वयम् । पुनश्च विधिना सम्यग्वैष्णवाद्वाहयेद्रोरिति पायोचरखण्डद्वात्रिंशाध्यायाच्च । एवं सति 'प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते । स कल्प- कोटि नरके पच्यते पुरुषाधम' इति जातीयकाः पूर्वोक्तदोपा अपि तन्त्रपुराणादिषूपलभ्यमानाः साम्प्रदायिकगुरुत्यागविषया एव बोध्याः । अत एव ब्रह्मवैवर्ते ब्रह्मखण्डीयचहुर्विशाध्याये 'देहि मे कृष्णमन्त्रं च यन्मनोवाञ्छितं मम । तत्सम्बन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनमिति नारदेन विज्ञापितो ब्रह्मा, 'पत्युर्मत्रं पितु- मंत्र न गृह्णीयाद्विचक्षणः । विरक्ताश्रमिणां चैव न पुत्रसुख- दायक' इत्यादिकं हेतुपूर्वकमुक्त्वा, 'महेश्वरस्तव गुरुः प्राक्त- वीतः(१)पुरातनः। गच्छ वत्स शिवं शान्तं शिवदं ज्ञानिनां गुरुम् । तत्रैव भगवन्मत्रं ज्ञानं लब्ध्वा पुरातनात् । नारायण- १ पूर्वदोषा इति कपुस्तकम् । २ पूजनीय इति कदाचित्स्यात् । .
३१८ कथां श्रुत्वा शीघमागच्छ मद्गृहमि'स्युक्त्वा ब्रह्मा शिवं प्रति नारदं प्रेषयामासेत्युक्तिरपि सङ्गच्छते । तस्माद्गुरुः सर्वथा नातिक्रमणीयः । स च साम्प्रदायिक एवैक एवं कर्तव्य इति निश्चयः । एवं च 'गुरुषकाद्विष्णुमत्रो यस्स कर्णे प्रविशति । तं वैष्णवं महापूतं जीवन्मुक्तं बदेविधिरिति ब्रह्मवैवर्ताद्यखण्डैकादशाध्यायवाक्ये मन्त्रश्रवणमात्रेणाऽपि वैष्णवतायाः स्तुतत्वाचादृशेनापि भाव्यम् । तेन चाद्यसोपानेनाग्रे सत्सनादिना श्रीभागवतसेवनेन भक्तिमार्गीयसाधनेषु श्रद्धायां तत्करणे खतन्त्रभ- क्तिर्भवति । तया च भगवत्रियत्वमिति परमसाधनकक्षेति दिक् । केचित्तु वैष्णवपदं योगेन विष्णुसम्बन्धिपरं सत्सर्वस्य विष्णु- सम्बन्धित्वेन सबै संगृहृदपि स्मृतिपुराणादिषु शैवसाादिशब्दा- नामपि दर्शनात्तद्यावृत्त्यर्थ स्वार्थसिद्धये च शास्त्रे किञ्चिद्विशेषम- पेक्षते । स च दीक्षाविशेषजनित एव भवितुमर्हति । नारदपञ्च- रात्रपामादिपु दीक्षायाः स्तुतत्वाददीक्षितस्य निन्दितत्वाच । दीक्षा द्विविधा । एका, आगमोक्ता गोपालादिमन्त्रदीक्षा । द्वितीया पामोत्तरखण्डोक्ता श्रीवैणवी दीक्षा । तयोर्मध्ये द्वितीयैव मुख्या। भगवदन्तरङ्गत्वसाधकत्वात् । 'विना श्रीवैष्णवी दीक्षां प्रसाद सद्गुरोविना । विना श्रीवैष्णवं धर्म कथं भागवतो भवेदिति पामोचरखण्डोक्तः । तत्र च न्यासो नारायणाष्टाक्षरदीक्षा चेति द्वयं मुख्यम् । अन्यच तदङ्गम् । एवं सति तापपुण्डूनाममन्त्रयागाख्य- पञ्चसंस्कारवत्त्वमेव मुख्य वैष्णवत्वम् । तत्र तापो नाम तप्तमुद्रा- २ प्रवेश्यतीति छन्दोऽनुरोधे । ३ श्रुतलादिति रापाट । ४ अदीक्षितनिन्दनाचेति कपुस्तकम् । ५ श्रीवैष्णवदीक्षेति कपाठ. । १ तीनमिति सपुस्तकम् ।
धारणम् । पुण्ड्रं प्रसिद्धमेव । नाम कृष्णदासगोविन्ददासादि। मंत्राः पूर्वोक्ताः । यागः पूजा । एवं पञ्चसंस्कारा ज्ञेयाः। पूर्वोक्तपाझेन तत्रत्यसन्दर्भान्तरेण च तथैव सिद्धेः । अन्येषु त्वौपचारिकम् । 'सदीक्षाविधि सन्यासं समनं द्वादशाक्षरम् । अष्टाक्षरमथान्यं वा ये मंत्रं समुपासते । ज्ञेयास्ते वैष्णवा लोके विष्ण्यर्चनहिते रता' इत्यादौ विष्ण्वर्चनाद्युपाधिना तदुक्तेः । एतदभावे भागवत- त्वाभावकथनाच । औपचारिकाश्च वैष्णवा द्विधा । उपासकशुद्ध- भक्तमेदात् । तत्र मंत्रशास्त्रोक्तश्रीरामादिमन्त्रजपपुरश्चरणादिना तद- धिष्ठातृभजनकर्तोपासकः । तदनपेक्षः शुद्धश्रवणादिना भजनकर्ता शुद्धभक्त इति । एभ्यः सर्वेभ्यः श्रीवैष्णवा एव मुख्या इत्याहुः । तन्न । शुद्धभक्तस्यैव मुख्यत्वात् । 'यो मद्भक्तः स मे प्रिय' इत्यादि 'अहं भक्तपराधीन' इत्यादिभगवद्वाक्यात् । 'त्वं तु सर्वे परित्यज्ये ति, 'कवलेन हि भावेने त्यादिभगवद्वाक्येषु भाव- मात्रेणाऽकुतोभयप्राप्तिस्वप्राप्त्योः कथनाच । 'कथं भागवतो भवे- दिति तु साधनदशायां भगवत्सम्बन्धमात्रबोधकं नाऽन्तरङ्गताबो- धकम् । तथैव तद्वचनव्यक्तेः । एकादशे सप्तविंशे 'क्रियायोगं समाचक्ष्व भवदाराधनं प्रमोरि'त्युपक्रम्य, 'एतद्वदन्ति मुनय' इत्यादिना 'देव्यै च भगवान्मव' इत्यन्तेन नारदपश्चरात्राद्युक्तस्य पामादौ देव्यै शिवेनोक्तस्य च क्रियायोगत्वकथनेन भक्तिमार्गतो जघन्यताबोधनाच । एतदुत्तरग्रन्थे भगवता पूजात्वकथनादपि तथा । भत्तयतिरिक्तस्य भगवदन्तरगतासाधकत्वाऽभावात् । 'न तथा मे प्रियतम आत्मयोनिन शङ्करः । न च संकर्षणो न श्री वात्मा १ शुभत्यतिरिक्तस्येति कपाठ.।
च यथा भवानित्सुद्धवं प्रति भगवद्वाक्येन तथावगमात् । भक्तेश्व परमसाधनत्वमेकादश ऊनविंशाध्याये 'पुनश्च कथयिष्यामि मद्भक्त। कारणं परमिति प्रतिज्ञाय, 'श्रद्धामृतकथायां में इत्यादिना, 'एवं धर्मनुष्याणामुवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोऽन्योर्थोऽस्यावशिष्यत' इत्यनेन भगवतोक्तम् । तेन तदेव मुख्यमिति निश्चयः । इदमेव भक्तिहंसे 'प्रेमात्मकभक्तिसाधनत्वेत्यादिना प्रभुच- रणैर्निरूपितम् । न चात्रोपदेशाऽकथनात्तस्याकारणत्वं शक्ष्यम् । इतः पूर्व 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघे'त्यनेना- नूदिते सुगोप्ये 'न रोधयति मां योग' इत्यादि 'यास्यसे ह्यकुतो. भयमि'त्यन्ते अन्थे सर्वात्मकभावपूर्वकस्य शरणस्य पूर्वमुपदिष्टत्वेन तस्य सद्गृहीतस्वात् । आत्मनिवेदिनामित्यनेन तत्पूर्वकताया अपि सूचनाच । न चैकादशाध्याये 'वैदिकी तात्रिकी दीक्षेति कथना- चस्या अपि कारणत्वमेतद्वच्छक्ष्यम् । मुख्यकारणकोटौ तदप्रवेशात् । 'अर्थतत्परमं गुह्यमित्यनेन ततः पूर्वोक्तस्स व्यवच्छेदात् । आत्म- निवेदनवत्पुनरत्राऽसंग्रहाच । एतेनैवान्येऽपि भक्तिपन्थानो व्याख्याता ज्ञेयाः । शक्कापकान्तरपरिहारश्च साक्षाद्भगवदुक्तिसलिलधारामिरेव विभाव्य साधनीय इत्यलं विस्तरेण । इति श्रीवल्लभाचार्यदासदासेन निर्मितः । उपदेशादिविषयो वादोऽयं प्राप पूर्णताम् ॥ १ ॥ इति श्रीमाभनन्दनचरणदासदासेन पीताम्बरतनुजश्रीपुरुषोत्तमेन तो भविभागीयोपदेशादिविषयशानिरास. सम्पूर्णतामगमत् ॥ हरिशम् ।