Scl
The Udayavarma Charita
Front matter
No text on this page.
TRIVANDRUM SANSKRIT SERIES
No. CXXXIII.
Śrī Citrodayamanjari.
No. XXII.
THE
UDAYAVARMACARITA
EDITED BY
K. SAMBAŠI VA S ASTRI,
Curator of the Department for the Publication
of Oriental Manuscripts, Trivandrun.
PUBLI IED UNDER THE AUTHORITY OF THE GOVERNMENT OF
IS HIGHNESS TEE MAHARAJA OF TRAVANCORE,
"RIVANDRUM:
PB INTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1938.
(All Rights Reserved.)
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः।
-1
ग्रन्थाङ्क: १३३.
श्रीचित्रोदयमञ्जरी।
ग्रन्थाङ्कः २२.
उदयवर्मचरितम् ।
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षण
के. साम्बशिवशास्त्रिणा
संशोधितम् ।
अनन्तशयने
महोन्नतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रायित्वा प्रकाशितम् ।
कोलम्बाब्दाः १३. ऊस्ताब्दाः १९५८.
No text on this page.
.
॥श्रीः ॥
श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव
श्रीसूलात्मजनिस्तथा सहजया लक्षया च सम्भावितः ।
स्वातिज्योतिरिवादितः समुदितचित्रावतार: स्वयं
नाताण्डाप्रसरो विराजति महाराजः स रामाभिधः ।।
भास्वर्णभणिः प्रवालमृदुला श्रुत्याधलङ्कारिणी
श्रीलदञ्चिवसुन्धरानवयशाराशिप्रकाशामिका !
उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदाड्डिण्डिमा
श्रीषित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जम्भताम् !!
के. साम्बशिवशास्त्री.
No text on this page.
PREFACE. Udayavarmacaritam, occurring in Kolarāştravarnana, an episode in Keraļamābātmya, the context being the consecration of several divinities and Brahmins in the land of heraļa, is dialogued as one between a Drija and a Sūta, to pass for a legend. The King Udayavarman inviced Brahmins from afar, bestowed on them rich presents to the chagrin of the indigenous Brahmins wbo turned hostile towards him, to abscive himself of tht sin of the slaughter of Brahmins in baltle and thus caused the land of Kerala to overflow with Brahmin community. The succeeding verses, "कोळम्बाब्दे क्षमाखने (E... $.) ततो बहुतिथे काले गते कोळम्बवत्सरे । वचोरो कुम्भमासे सौरेऽह्नि सुरगायक!॥" (पृ... लो. ७५.) "कोळम्बाब्दे भातिरने कुम्भमासे सुरेऽहनि । विद्यारण्ययतीन्द्रश्च षोडशग्रामिणो द्विजाः ॥" (पृ ९.श्लो, ९१.) disclose the date of that event is the latter half of the 11th ceutury thereby bringing the time of a certain Vidyāraṇyayati close to that period. The lines below: 'तदा त्रिग्रामिणो विप्राः प्राप्य माधवपण्डितम् । पृ. ५. श्लो. ४३.) महदाश्चर्य माधवपण्डितम् । माधवाचार्य इत्यासीद् व्योनि वागशरीरिणी ॥" (q. 4. .) betoken that Vidrāraṇya must have been a different appellation of Madharācārya. Be that as it may, a doubt may crop up as to whether he was the same Madhavācārya of the 14th century A. D., lo whon Sarradarsanasangraha, Dhatuvftti and Rgbhăşya owe their origin, or another individual of that denomination who must have flourished earlier than the former. Mahakavi Rao Sahib Ulļūr S. Parameávara Aiyar holds the riew that another l'dayavarmacarita, a Sanskrit composition consisting of 11 chapters originated from the pen of one kavi Varmā, the celebrated Ling of Kola Kingdom in the 8th century. Warnar in the text determines the date of Udayavarmā as the latter "तद् दृश्वा O ü half of the 8th century. Again the term ' Tot lends support to the belief that this land was blessed by the universal preceptor the great Sarkarācārya of world-wide repute. But others do not see any connection between Vidyāraṇyayatīndra alias Mārlhava pandita who showered his choicest blessings on Udayavarină ini hence the conjecture, in con. sonance with the chronogram Vacor atna suggestive of the Malabar Erul, that Udaya Varınā of the latter half of 11th century, the hero of this production, could never be contemporaneous with Mādhavācārya, otherwise kuown as Vidyaraṇya of the 14th century. Thus both the views are illogical. The eniinent research workers on ancient history have made startling discoveries towards this end. Some shreds of evidence are plausible in this work to fix the date of one Madhavācārya, in or about the 8th century A. D. A discussion has been attempted in the following verse : 'स्कन्दस्वामी नारायण उद्गीथ इति ते क्रमात् । चक्रुः सहैकमृग्भाष्यं पदवाक्यार्थगोचरम् ॥" One Madhava paņạita, son of Nārāyuņi, the commentator on Sāmaveda is proved to have been devoutly attached to the King Udayavarmā, from the facts that Nārāyaṇil, the contemporary of Skandasvāmin was his father and that he was a compatriot of Haribarasvīmin of the 8th century, a disciple of Skandasvāmin and a commentator ou Satapat ha. Brāhmaṇa, However, this theory is acceptable till it is refuted by contrary evidence. Somehow he must huvo won the title of Vidyāraṇya since one's period of existence is not a criterion for one's celebrity: Notwithstanding these contradictions, an incient historical treatise of this stamp should never pass unnoticed. A clear evidence furnished by the following lines: "वल्लभेशार्चनाद् प्राम- त्यागाचते हि देशिनः ।" (पृ. ११. श्लो. १२४.) may be advanced from the text to show that Brahmins styling themselves Embrāntiris made this place their perinanent habitation. Several eminent poets busing their arguments on similar facts adduced from this work ascribe its authorship to a Brahmin of Tiruvalladeśa as is evident froin the following stanza : "भीमस्कोलक्षितीशोदयनृपचरितं देशिकानीतिरूपं तवंश्येनान केनाप्यभिहितमतिविस्तीर्णमध्याययुग्मम् ।" (T. 14. 01. 10.)
iii Again the closing Khanda and the introductory verse: "श्रीराघवं प्रणम्याहं कृशाध:क्षेत्रवासिनम् । कोलभूपोदयोदन्तं ब्राह्मणस्थापनं ब्रुवे ॥" (g. 9. 1. 9.) bear out that he was a poet belonging to STIVT (Cerutā - lattu). The Vahākavi also subscribes to this view. Some believe that he migl:t be another Brahmin hailing from Tiruvalla. References to many places and individuals are noticed in thu course of the work. The unique original manuscript scd for this publication belongs to the revered Kāśava Valiattāu, a native of Tiruvalla in Travajicore, to whom I extend my heartfelt thanks. I have great pleasure in presenting this work to the enlightened public. [rivandrun, 4-2-1113 K, SAMBAŠIVA ŚĀSTRI.
No text on this page.
॥ श्रीः॥ निवेदना। इदम् उदयवर्मचरितं किमप्यन्यतममङ्गं श्रीकेरलमाहात्म्यस्य, यत् कोलराष्ट्रवर्णने प्रकृतं देवत्रमप्रतिष्ठाधिष्ठितं पुराणच्छायामापादयितुं द्विजसूत- संवादमर्यादया संगुम्फितम् । अयमत्र चरितसंग्रहः परिसमाप्तौ दशश्लोक्या सचितः । युद्धे ब्रह्महत्यया प्रस्तस्य उदयवर्मणो राज्ञस्तत्परिहाराय विदेशाद् ब्राह्मणानानाय्य स्वदेशाचारेण तानभ्युपगत्य स्वदेशीयब्राह्मणैरनभ्युपेतस्य तत्तदानस्य प्रतिमाहणं, ततो मुक्तस्य शुद्धस्य च चिरायुषावस्थानं, कालेन प्रवहता तेषां विदेशीयानां ब्राह्मणानामिह केरलक्षेत्रेषु पूजकतया प्रतिष्ठापनं चेत्यसौ तस्यापि सङ्घहस्य कोऽपि सङ्ग्रहः समर्प्यते । 'कोळम्बाब्दे क्षमाखने (पृ० ७. श्लो० ६९.) "ततो बहुतिथे काले गते कोळम्बवत्सरे । वचोरले कुम्भमासे सौरेऽहि सुरगायक ! ॥" (पृ. ८. श्लो. ७५.) कोळम्बाब्दे भातिरत्ने कुम्भमासे सुरेऽहनि । विद्यारण्ययतीन्द्रश्च षोडशग्रामिणो द्विजाः ॥ (पृ० ९. श्लो० ९१) इत्यादिभिः सम्भवोऽयं क्रिस्त्वब्दीयैकादशशतकस्योत्तरार्धे सम्पन्न इत्यूपं भवति । कश्चन विद्यारण्य यतीन्द्रश्च तदात्वे प्रतिपत्तव्यो भवति । "तदा त्रिग्रामिणो विप्राः प्राप्य माधवपण्डितम् ।" (पृ. ५. लो० ४३.) 'तद् दृष्ट्वा महदाश्चर्य स्तुत्वा माधवपण्डितम् । माधवाचार्य इत्यासीद् व्योम्नि वागशरीरिणी ॥ (१० ५. श्लो. १९) इत्यादिभिः स च विद्यारण्यो माधवाचार्यापरपर्यायः सम्पद्यते । सत्येवं सोऽयं माधवाचार्यः सर्वदर्शनसहधातुवृत्तिऋग्भाष्यादिबहुनिबन्धकर्ता श्री- सायणमाधवाचार्यो वान्यो वेति शङ्कायां क्रिस्त्वब्दीयचतुर्दशशतकजीविनः सायणमाधवाचार्यादन्य एव सम्भाव्यः, कल्प्यो वा कश्चिदन्योऽपि विद्या- रण्यनामा माधवपाण्डतस्ततः प्राक् । अत्र विषये महाकवि-रावुसाहिब् श्रीपरमेश्वरार्या एवं मन्यन्ते - आस्ति किमपि संस्कृतकाव्यम् उदयवर्म- चरिताभिधमेकादशाध्यायीसम्मितं केनापि रविवर्मनाम्ना कोलभूपतिना क्रिस्त्वब्दीयाष्टमशतकोत्तरार्धजीविना विरचितम् । 'वृद्धिदाम्बे'ति कलिवत्सरा- नुगुण्येन उदयवर्मणो जीवितविजयः क्रिस्त्वब्दीयाष्टमशतकोत्तरार्धं भवति । 'तुङ्गो धूली'ति कलिसङ्ख्यामर्यादया तदात्वे श्रीमत्परमहंसपरिव्राजकजगद्गुरु- श्रीशङ्करभगवत्पादाचार्येण तदनुग्रहश्च सुतरां सम्भाव्यते । परन्तु विद्यारण्य. यतीन्द्रः कोऽपि माधवपण्डित इहोदयवर्मानुग्राहकः प्रतिपाद्यमानो न घटते । अतो 'वचोरल' इत्यादिकोळम्बवत्सरक्रमेण प्रस्तुतकृतिनायक उद- यवर्मा क्रिस्त्वब्दीयैकादशशतकोत्तरार्धजीवी क्रिस्त्वब्दीयचतुर्दशशतकवर्तिना माधवाचार्येण विद्यारण्येन कथङ्कारं घटताम् । तस्मादुभयमिदमसङ्गतमि- त्यादि । मन्ये प्राक्तनचरित्रविज्ञानशा सम्यगुपकृतं महाभागैः । परन्तु क्रिस्त्वब्दीयाष्टमशतके कस्यचन माधवपण्डितस्य लगन्ती काचिदुपपत्तिस्त- दशे ग्रन्थमिम प्रमाणं कर्तुमलमिति तत्रेदं विचार्यते "स्कन्दस्वामी नारायण उद्गीथ इति ते क्रमात् । चक्रुः सहैकमृग्भाष्यं पदवाक्यार्थगोचरम् ॥" इति सहजीविषु भाप्यकर्तृषु अन्यतमस्य नारायणस्य सूनुः कोऽपि माधव- पंण्डितः सामवेदभाष्यकारः स्कन्दस्वामिसहचरनारायणपुत्रतया शतपथ- ब्राह्मणभाष्यकर्तृहरिस्वामिनः स्कन्दस्वामिशिष्यस्य क्रिस्त्वब्दीयाष्टमशतक- जीविनः सहचरतया च महानुभावः काममस्य उदयवर्मणः प्रसादानुग्रह- कारी सम्पद्यमानो न विना प्रमाणान्तरोपमर्द निषेधमहति । विद्यारण्य- ख्यातिश्च सम्भवदार्हन्तीप्रयुक्ता न समयविशेषजीवितामन्वयव्यतिरेकाभ्याम- पेक्षते इति । सर्वथा प्रतियोगिमर्यादयापि प्राचीनचरितगुम्फनमेतादृशमविरलप्र- शंसामईति । - "वल्लभेशार्चनाद् ग्रामत्यागाचैते हि देशिनः ।" (पृ० १२. श्लो० १२४.) इत्यादिभिः तिरुवल्लादेशिनः एम्मातिरिसंज्ञिता ब्राह्मणा इह प्रतिष्ठापिता इत्यादिभागेषु नैकेषु महाकविसम्मतिरेतग्रन्थप्रामाण्यमुपोद्वलय-जी सुतरा- मनुप्राहिका विजयते । अस्य च खण्डकाव्यस्य कर्ता कश्चित् तिरुवल्ला. देशीयो द्विजः श्रीमत्कोलक्षितीशोदयनृपचरितं देशिकानीतिरूप तद्वंश्येनात्र केनाप्यमिहितमतिविस्तीर्णमध्याययुग्मन् । (पृ० १६. श्लो० १०.) इति संग्रहोपान्त्यपद्यखण्डेन, "श्रीराघवं प्रणम्याहं कृशाधाक्षेत्रवासिनम् । कोलभूपोदयोदन्तं ब्राह्मणस्थापनं ब्रुवे ॥" (पृ० १. लो० १.) इति प्रतिज्ञापद्येन च कृशाधःक्षेत्र (D) 218009000) देशवासी कोऽपि कवि- रित ज्ञायते । अत्र च महाकवीनामुद्देशोऽनुकूलः । विशिष्य ते तं कवि कमप्यन्यतमं कुशाधःक्षेत्रवासिनं द्विजं च तिरुवल्लादेशीयं मन्यन्ते । अत्र च बहवो देशाः दोशनश्च नाममाहं गृहीताः । भस्य चैतादृशस्य प्रसिद्धीकरणस्याधारभूत आदर्शोऽद्वितीयः श्रीव- चिराज्यान्तर्गतविरुवल्लाप्रदेशवास्तव्यमहामहिमश्रीकेशवचल्यचान्ग्रन्थाल- यादधिगत इति तेषु बहुमानमसमानमाकलयन् कृतज्ञतामनुस्मरश्चरितमिदं महाजनसमक्षमवतारयामि कृतकृत्यः ॥ अनन्तशयनम् ४-२-११३. के. साम्बशिवशास्त्री.
No text on this page.
॥ श्रीः॥ उदयवर्मचरितम् श्रीराघवं प्रणम्याहं कृशाधक्षेत्रवासिनम् । कोलभूपोदयोदन्तं ब्राह्मणस्थापनं ब्रुवे ॥१॥ साधु निर्मत्सराः सन्तु शोधयन्तु वचो हि नः । दूषयन्तु हसन्त्वन्ये सासूयान् नाद्रियामहे ॥२॥ ऋषभाद्रौ महाक्षेत्रे स्वाधीनं सूतमागतम् । सत्कथा श्रोतुमिच्छन्तः पर्यपृच्छन्त तं द्विजाः ॥ ३ ॥ द्विजा ऊचुः साधु सूत ! महाभाग! सर्वज्ञोऽ(स्मि ? सि) महामते!। सत्कथां श्रोतुमिच्छामो वद नो वदतां वर! ॥ ४ ॥ सूत उवाच साधु पृष्टं द्विजश्रेष्ठाः! सत्कथां श्रोतुमिच्छुभिः । देवब्रह्मप्रतिष्ठा वो वक्ष्ये शृणुत सादरम् ॥५॥ गन्धर्वाय पुरा प्रोक्तं सुप्रभाय सुरर्षिणा । तदहं साम्प्रतं वक्ष्ये पुण्यं सच्चरितं द्विजाः!॥६॥ कदाचित् केरली सर्वो व्योमयानेन पर्यटन् । यदृच्छया कोलंराष्ट्र प्राप्तस्तत्र नवान् द्विजान् ॥ ७ ॥ सुप्रभो नाम गन्धर्वः समालोक्य महामुनिम्। गत्वा संशयमापन्नो नारदं पर्यपृच्छत ॥ ८ ॥ G. P. T.840. 500. 164.1112, R
२
उदयवर्मचरिते
सुप्रभः
क इमे ब्राह्मणश्रेष्ठा नात्र पूर्व विलोकिताः।
केन नीताः कोलराज्यं कस्माद् देशात् कुतो मुने!॥ ९ ॥
सुप्रभेणैवमादिष्टो नारदः स महामुनिः।
तत्कथामादितो वक्तुमारेभे तं मुदा हसन् ॥ १० ॥
नारद उवाच
चेरपादमहाराजः पूर्व शास्त्रपरीक्षणे ।
बौद्धशास्त्रेऽतिविश्वस्तो मकं गन्तुमियेष सः॥ ११ ॥
गमिष्यन् चेरपादोऽयं विभज्यादात् स केरलम् ।
स्वस्त्रीयेभ्यश्च पुत्रेभ्यः प्रभुभ्योऽपि दशाष्टधा ॥ १२ ॥
माटेशः कोटिलिङ्गेशः पशः पुरलीपतिः ।
निम्बेशवेति पञ्चासन् स्वस्रीयास्तस्य भूपतेः ॥ १३ ॥
कोलेशः कूपकेशश्च पोरलेशेरलेश्वरौ ।
महोदयः कुरुम्बेशो वेणेशोऽवाब्धि(व? प.) सुताः ॥१४॥
प्रभवः पञ्च शूद्राधेत्यासन्नष्टादशाधिपाः।
सर्वेषामेव कोलेशः करग्राह्यभवद् बली ॥ १५ ॥
एवं चिरगते काले कोलभूपस्य सुप्रभ!।
शत्रुभिः कलहस्त्वासीद् दुर्बलस्य महाबलैः ॥ १६ ॥
तस्मिन् युद्धे ब्रह्महत्यापापस्तस्य ह्यजायत ।
शत्रुभियुध्यमानस्य कोलेन्द्रस्य विधेधलात् ॥ १७ ॥
निवृत्ते समरे तत्र ब्रह्महत्याघशान्तये ।
देवब्रह्मप्रतिष्ठार्थदाने चिचमकल्पयत् ॥ १८ ॥
३ ब्रह्मप्रतिष्ठा । ब्रह्महत्यानिवृत्त्यर्थ क्षेत्रदानादि कल्पितम् । लक्ष्मीप्रामादिविप्रेन्द्रा नागृह्णन् पापभीरवः ॥ १९ ॥ ततो विषण्णः कोलेशो ब्रह्महत्यार्तधीश्विरम् । उवासोदयवासौ विप्रानन्विष्य सुप्रभ! ॥ २० ।। श्रीवल्लीग्रामिणो विप्रा गण्डक्या उद्धृतं तदा। प्राप्ताः श्रीवल्लभे बिम्बं दिव्यं स्थापयितुं हरेः ॥ २१ ॥ गोकर्णनद्यां तन्मग्नं मध्येमार्ग विधेबलात् । नोर्तुं तेऽशकन् साह्यं कर्णाटास्तावदर्थिताः॥ २२ ॥ कर्णाटास्तौलवाश्चैते बिम्बमुद्धृत्य तं क्षणात् । श्रीवल्लभे स्थापयित्वा समं सम्पूज्य च स्थिताः ॥ २३ ॥ पाञ्चरात्रं च का(वा १ पा)लं विधिमाश्य नित्यशः । गन्धर्व ! वल्लभेशं तं पूजयन्ति स्म चोभये ॥ २४ ॥ इडुकुञ्चिविलक्कूरगुणवत्याख्यग्रामिणः । श्रीवल्लीग्रामिणश्चैव पूजकाश्चोभये हरेः॥२५॥ दूतैरानाय्य तान् विप्रान् ब्रह्महत्यैनसा समम् । ददौ क्षेत्रदयं राजा तेभ्योऽसौ बहुदक्षिणम् ॥ २६ ॥ कृशाधक्षेत्रमत्रैकमर्हस्थं नाम चेतरत् । तेभ्योऽदाद् बहुदेवस्वं प्रामाण्यं चोदयो नृपः ॥ २७ ॥ नररत्नसमायां सागरान् दिजान् । भानाय्य तेभ्यो ददिवान् क्षेत्राण्युदयभूपतिः ॥ २८ ॥ पाञ्चरात्राद्यागमोक्तविधिना पूजनाडरोः । प्रहणाद् ब्रह्महत्यादे झणैस्ते बहिष्कृताः॥ २९ ॥ प्राक् कोलम्बे ४ . उदयवर्मचरिते बहिष्काराद् द्विजेन्द्राणां कर्णाटा दीनमानसाः । ब्रह्महत्याभिभूताश्च कोलराज्ये चिरं स्थिताः ॥ ३० ॥ नित्यानन्दमहायोगी बदर्याश्रमतस्तदा । शिष्यैश्चतुर्भिः सहितः कृशाधक्षेत्रमाययौ ॥ ३१ ॥ क्षेत्रान्तरे स्थितो योगी देवकार्याणि सोऽकरोत् । तदा निष्कासितो दुष्टैबहिः शिष्यैः स चाशपत ॥३२॥ यूयं सर्वेऽपि दुर्वृत्ता देवब्राह्मणवैरिणः । दुर्ब्राह्मणाः कलहिनो मिथः सन्तु बहिष्कृताः ॥ ३३ ॥ एवं शप्त्वा गते तस्मिन् वृद्धाः केचन तद्विदः। तं नत्वा समनुज्ञाप्य शापमोक्षं ययाचिरे.॥ ३४॥ तेभ्यस्तुष्टः स योगीन्द्रः शापमोक्षं ददौ तदा। वर्षादीग् दिव्ययोगी कश्चिदत्रागमिष्यति ॥ ३५ ॥ तं प्रणम्य प्रसाचैतद् यूयं प्रार्थयत द्विजाः! । मोक्षयिष्यति वः शापात् सह संयोज्य स द्विजान्॥३६॥ इत्येषां शापमोक्षं च दत्त्वा शिष्यैः स निर्ययौ । दृष्ट्वा माधवभट्टरतं सशिष्यं गृहमानयत् ॥ ३७॥ . विधिवत् सत्कृतात् तस्मात् प्रसन्नात् स तु माधवः । दिव्यं स भगवद्ध्यानं मन्त्रतन्त्रादि चाग्रहीत ॥ ३०॥ गतेऽस्मिन्नुत्तरामाशां तदुक्तविधिना ततः । भक्त्या गुणवतीनाथं सिषेवे परमेश्वरम् ॥ ३९ ॥ प्रीते गुणवतीनाथे सर्वज्ञे परमेश्वरे । अष्टैश्वर्य च तस्यासीद् विद्याश्चाष्टादश स्वयम् ॥ ४॥ ,
ब्रह्मप्रतिष्ठा।
ततो वाक्कूरकक्षेत्रसभायोग स(सा?मा)गतः ।
मानितस्तत्र विद्वद्भिरासीन्माधवपण्डितः ॥ ४१ ॥
भूताग्रवाहां शिविकामारुह्यामलकस्थलीम् ।
सङ्गन्छन् पितृपिण्डार्थी स चोदयपुरं ययौ ॥ ४२ ॥.
तदा त्रिग्रामिणो विप्राः प्राप्य माधवपण्डितम् ।
न्यवेदयन् स्ववृत्तान्तं शापदानुग्रहादिकम् ॥ १३ ॥
क्षेत्रदानं च भूयोऽपि ब्रह्महत्याप्रतिग्रहम् ।
आदातुं भूपनिर्बन्धं विशिष्यावेदयन्त ते ॥ १४ ॥
यूयं तु ब्रह्महत्यायाः क्षेत्रस्यापि प्रतिग्रहम् ।
न गृहीत पुनर्विप्रा यावदागमनं मम ॥ ४५ ॥
श्रीधावीक्षेत्रतो गत्वा पित्र्यपिण्डार्पणात् परम् ।
मोक्षयिष्यामि वः शापाद् मा खिद्यत महीसुराः॥ ४६॥
इत्युक्त्वामलकक्षेत्रं प्राप्य पिण्डशिलान्तरे ।
दृष्ट्वा श्वानं मृतं योगाज्जीवयन पिण्डमप्यदात् ॥४७॥
प्राधान्यमप्यमूल्यत्वं कर्णाटानामकल्पयत् ।
तदादि तत्र हैकानां पिण्डे तदधिकारिणः ॥४८॥
तद् दृष्ट्वा. महदाश्चयं स्तुत्वा माधवपण्डितम् ।
माधवाचार्य इत्यासीद् व्योम्नि वागशरीरिणी ॥ १९ ॥
ततोऽस्मिन् माधवाचार्ये गते श्रीशम्बरालयम् ।
शिविकाग्रवहौ भूतौ त्यक्त्वा तं जग्मतुर्दुतम् ॥ ५० ॥
पतिते शिबिकाग्रे तत्कारणं विमृशन्नसौ।
चक्षुषा तत्र दिव्येन व्यजानात् तद्विचेष्टितम् ॥ ५ ॥
उदयवर्मचरिते
तत्रत्यस्वकुलोद्भूतदुष्पतिग्रहणादिकम् ।
पुनश्च ब्रह्महत्यायाः क्षेत्रस्यापि प्रतिग्रहम् ।। ५२ ॥
स्वकुलीनकृतं पापं स्वात्मन्यपि विबाधितम् ।
बुद्ध्वा तान् माधवाचार्यः शशापानाश्रवान् क्रुधा॥५३॥
न राज्ञः प्रतिगृह्णीयादिति स्मृतिवचो विदन् ।
यो दुष्प्रतिग्रही मूढः स सद्यः पतति ध्रुवम् ॥ ५४ ॥
दुर्वृत्ताः सागराः सर्वे लोकोपद्रवकारिणः ।
अनुष्ठानवतां नित्यमन्तराया भवन्ति ते ॥ ५५ ॥
एतत् सर्व समालोच्य सगरः सर्ववित् प्रभुः।
देवेन नाशिता दुष्टा इत्युवाचातिहर्षितः ॥ ५६ ॥
माता वा जनको वापि भ्राता वा तनयोऽपि वा ।
अधर्म कुरुते यस्तु स एव परिशुष्यते ॥ ५७ ।
यस्त्वधर्मेषु निरतः सर्वधर्मविरोधकृत् ।
तं रिपुं परमं विद्याच्छास्त्राणामेष निश्चयः ॥ ५८ ॥
सगरः पुत्रनाशेऽपि न कदाचिच्छुशोच सः ।
दुर्वृत्तशमनं यस्मात् सतामुत्साहकारणम् ॥ ५९ ॥
इति शप्त्वा महायोगी तत्र श्रीशम्बरालयात् ।
कुदः श्रीमाधवाचार्यः कृशाधक्षेत्रमाययौ ।.॥
तावत् स कोलभूपोऽपि तत्रत्या ब्राह्मणाश्च ते।
अनुगम्य महात्मानं माधवाय ववन्दिरे ॥ ६१ ॥
बहुधा तमनुज्ञाप्य परिक्रम्य प्रणम्य च ।
दौर्बाह्मण्यं शापमोक्षं चासकृत् ते ययाचिरे ॥६॥
ब्रह्मप्रतिष्ठा।
हे राजन् ! कोलभूपाल ! साधुब्राह्मणवश्चनात्।
दुर्दानात् ते नातिचिराद् राज्यभ्रंशो भविष्यति ॥६॥
योगीश्वरापमानाच्च तदनुष्ठानरोधतः ।
ब्रह्महत्यादिपापानी दुर्दानानां प्रतिग्रहात् ॥१४॥
दुर्ब्राह्मणा भविष्यन्ति भवन्तः सर्वनिन्दिताः ।
इत्युक्त्वा तान् द्विजान् योगी निर्गन्तुमुपचकमे॥६५॥
तदानुगम्य राजा च विप्राश्च बहुशोऽपि ते ।
शापमोक्षमयाचन्त खिन्नाः सन्तोष्य सुप्रभ! ॥ ६६ ॥
गोकर्णे सत्सभायोगे समागच्छत हे द्विजाः!
तावत् त्वच्छापमोक्षादि समालोच्य करोम्यहम् ॥ १७ ॥
इत्युक्त्वा तान् समाश्वास्य राजानं च स सुप्रभ! ।
गोकर्ण प्राप्य संन्यासी विद्यारण्यमुनिबभौ ॥ ६८ ॥
ततश्विरगते काले कोलम्बाब्दे क्षमाखने ।
वाक्कूराख्य महाक्षेत्रे सत्सभा मिलिताभवत् ॥ ६९ ॥
चतुःषष्टितमग्रामब्राह्मणानां च योगिनाम् ।
राज्ञामपि महायोगः संबभूव महात्मनाम् ॥ ७० ॥
विद्यारण्ययतीन्द्रस्तु संसद्यग्रासनस्थितः ।
तत्र तावन्नृपो विप्राः शापमोक्षं जिघृक्षवः ॥ १ ॥
महाजनैः सम्मिलितां सभा सम्प्राप्य सादरम् ।
पूर्ववत् प्रणिपत्यैतान् शापमोक्षं ययाचिरे ॥ २ ॥
श्रुत्वा तद्वचनं + + समालोच्य सभासदः ।
गोकर्णाख्ये महाक्षेत्रे सभायां प्राप्तुमादिशन् ॥ ७३ ॥
८
उदयवर्मचरिते
सभायां निर्गतायां तु कोलभूपश्च ते द्विजाः ।
खिन्नाः सुप्रभ! सर्वेऽपि प्रतिजग्मुर्यथागतम् ॥ ७ ॥
ततो बहुतिथे काले गते कोलम्बवत्सरे ।
वचोरत्ने कुम्भमासे सौरेऽह्नि सुरगायक!।। ७५ ॥
गोकर्णाख्ये महाक्षेत्रे सङ्गतातीन्महासभा ।
तत्र पूर्वोक्तवद् राजा विप्रास्ते च समाययुः ॥ ७६ ॥
चतुष्षष्टितमग्रामब्राह्मणाश्च यतीश्वराः ।
राजानश्च महात्मानस्तत्राभूवन् सभासदः ॥ ७७ ॥
महासभान्तरं प्राप्य प्रणिपत्य सभासदः।
शापमोक्षाधयाचन्त पुनःपुनरपि हिजाः ॥७८ ॥
राज्ञश्व शापदुष्टानां विप्राणां च निवेदनम् ।
श्रुत्वा सभासदः सर्वे समालोच्यैवमब्रुवन् ॥ ७९ ॥
ख्यापनेनानुतापेन प्रशस्ताध्ययनेन च ।
पापकृन्मुच्यते पापात् तथा दानेन चापदिः ॥ ८ ॥
इति स्मृतिवचो विप्रान् श्रावयित्वा यथाविधि ।
परिषत्ख्यापनं सानुतापं चित्तमकारयन् ।। ८१॥
चतुर्वेद(?) स्वाध्ययनं सभ्या(सै साध्य ? स्तैः साध्व)कार-
[यन् ।
दानानि शास्त्रदृष्टानि पापनिर्मोचनानि च ॥ ८२ ॥
इत्थं निकृतिनिर्दोषैाह्मणैस्तैरयोजयन् ।
शुद्धान विप्रोत्तमानन्यान् सकुटुम्बान सभासदः ॥ ८३ ॥
सप्तत्रिंशाधिकशतहयसङ्ख्यैश्च सागरैः ।
चत्वारिंशाधिकशतद्वयसलयान् हिजान् वरान् ॥ ८४ ॥
ब्रह्मप्रतिष्ठा।
संयोज्य नवरत्नाख्यान् सकुटुम्बान् सभासदः ।
कृतार्थयित्वा राजानं विप्रांश्चाप्रीणयन्नमून् ॥ ८५ ॥
सप्तसप्तत्यधिकया चतुःशत्या द्विजोत्तमैः ।
पूर्वस्माच्छुशुभे राजा कोलेशः सत्सभाख्यया ॥८६॥
विशेषविहिस्तत्त्वज्ञैः सर्वमालोच्य तत्त्वतः ।
सागरे नवरत्नं च योजनीया च सत्सभा ॥ ८७ ॥
त्रिग्रामिणः सागरास्ते चतुर्दशगृहा द्विजाः।
त्रयोदशग्रामिणोऽन्ये नवरत्ना दशौकसः ।। ८८ ॥
यजुर्वेदविदः सर्वे बौधायनिकसूत्रिणः ।
षोडशंग्रामिणोऽप्येते कर्णाटा हैकका मताः ॥ ८९ ॥
महाबलस्य गोकर्णमहाक्षेत्राधिवासिनः।
सन्निधौ सत्यमकरोत् सत्सभेयं सभान्तरे ॥ ९ ॥
कोलम्बाब्दे भातिरत्ने कुम्भमासे सुरेऽहनि ।
विद्यारण्ययतीन्द्रश्च षोडशग्रामिणो द्विजाः ॥ ९१ ॥
कोलभूपोऽन्यभूपाश्च नानादेशमहाजनाः।
गोकर्णाख्ये महाक्षेत्र तत्र सम्मिलिता सभा ॥ ९२ ॥
सर्वे वयममी नित्यं श्रौतस्मादिकर्मसु ।
विवाहोपनयायेषु भवाम सहकारिणः ॥ ९३ ॥
परस्परं हि कुर्वाणा विवाहाद्यात्तबान्धवाः ।
निर्मत्सरा भविष्यामः श्राद्धे पित्र्यादिकर्मणि ॥ ९४ ॥
पूर्ववत् प्रतिवत्स्यामो दौर्ब्राह्मण्यादिपातकम् ।
वयमुल्लङ्घयिष्यामो यावत्सत्यमिदं कृतम् ॥ ९५ ॥
१०
उदयवर्मचरिते
सतां समक्षं सर्वेषां महाबलपुरःस्थिताः ।
घण्टा स्पृशन्तः प्रत्येकं सत्यं ते सागरा व्यधुः ॥ ९ ॥
देवदुन्दुभयो नेदुरासीद् वागशरीरिणी।
कोलेशं प्रति विप्रांश्च सर्वेषां तत्र शृण्वताम् ॥ ९७ ॥
साधूदयमहाराज ! साधु हे ब्राह्मणाश्चिरम् ।
समं तिष्ठत नोचेद् वः पूर्वपापं भवेदिति ॥ ९८ ॥
तावत् प्रमुदिताः सन्तः सत्सभा स च पार्थिवः ।
विस्मिताश्च प्रशंसन्तो जग्मुः सर्वे यथागतम् ॥ ९९ ॥
स राजोदयवर्माथ महाबलपुरो बहु ।
उपहत्य धनं भक्त्या तुष्टावेत्थं तमीश्वरम् ॥१०॥
नमस्ते पार्वतीनाथ! नमस्ते करुणानिधे !।
नमस्ते त्रिजगन्नाथ! नमस्ते परमेश्वर! ॥ १०१ ॥
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
सच्चिदानन्दरूपाय प्रत्यग्रूपाय ते नमः ॥ १०२॥
नमस्ते त्रिदशेशाय नमस्ते विश्वयोनये।
ब्रह्मादिस्तम्बपर्यन्तजगज्जीवात्मने नमः ॥ १०३ ॥
ओङ्कारार्थाय ते विश्वतैजसे प्राज्ञरूपिणे ।
ब्रह्मविष्ण्वीशरूपाय बिन्दुनादात्मने नमः॥१०४ ॥
विश्वात्मने विश्वसृजे विरारूपाय साक्षिणे ।
प्रणवाद्याक्षरार्थाय तेऽकाराय नमो नमः ॥ १०५ ।।
विष्णवे सूत्ररूपाय साक्षिणे तैजसात्मने ।
ते द्वितीयाक्षरार्थाय ह्युकाराय नमो नमः ॥ १०६ ॥
ब्रह्मप्रतिष्ठा।
११
रुद्राय प्राज्ञरूपाय साक्षिणे तेऽन्तरात्मने ।
तृतीयाक्षरवाच्याय मकाराय नमो नमः ॥ १०७ ॥
सार्धमन्तिकया शक्त्या सर्गस्थित्यन्तकारिणे ।
नमस्ते बिन्दुरूपिण्या शिवायाखण्डमूर्तये ॥ १०८ ॥
निर्मायो निर्गुणो नित्यो निष्कलो यो निरञ्जनः ।
तुरीयाय परस्मै ते तस्मै नादात्मने नमः॥ १.९ ॥
सत्यं ज्ञानमनन्तं यद् गुहायां निहितं परम् ।
सर्वज्ञं देवमीशानं प्रपद्येऽहं सदाशिवम् ॥ ११ ॥
सपुत्रं सगणं साम्बं त्वां शिवं परमेश्वरम् ।
सर्वात्मनापि शरणं प्रपद्येऽहं कपर्दिनम् ॥ १११ ॥
दीनबन्धो! दयासिन्धो! देव! शम्भो! नमोऽस्तु ते ।
जानताजानताप्यागः क्षमस्वात्र मया कृतम् ॥ ११२ ॥
इति स्तुत्वा प्रसाधेशमुदयोऽथ महाबलम् ।
उपहृत्य यतेश्वार्थ सर्वानप्रीणयज्जनान् ॥ ११३ ॥
सागरैर्नवरत्नैश्च तया सत्सभया समम् ।
ययौ सर्वाननुज्ञाप्य कोलराज्यं मुदा नृपः ॥ ११४ ॥
उदयः प्राप्य राष्ट्रं स्वं हृष्टपौरं स्ववार्तया ।
भ्रातरं रविवर्माणं मन्त्रिणोऽष्टाप्यतोषयत् ॥ ११५ ॥
चतुरो नवरत्नानां सागराणां तु पञ्च च ।
देशान् गृहादिक्षेत्रादीन् ब्रह्मस्वं च ददौ नृपः॥ ११६ ॥
नीलेश्वराद् दक्षिणतो बालशैलात् तथोत्तरे ।
लक्ष्मीग्रामात् पश्चिमतः पय्यन्नूराच पूर्वतः ॥ ७ ॥
१२ उदयवर्मचरिते तद्देशनवकस्येयं सीमा विप्राः सुरोपमाः । सम्पद्भिः स्वर्गतुल्यासीत् कोलभूः शृणु सुप्रभ!॥ ११८॥ भाषावेषादिकं सर्वमाचारं चोदयो नृपः । लक्ष्मीग्रामद्विजश्रेष्ठस्तुल्यं तेषामकल्पयत् ॥ ११९ ॥ स्माताश्च वैदिकांश्चैषां स्वानीतानां द्विजन्मनाम् । कल्पयामास भूपोऽयं लक्ष्मीग्रामद्विजोत्तमान् ॥ १२ ॥ यज्ञ हैरण्यगर्भ च महादानानि धर्मवित् । यथाविधि वितन्वानो बहुधर्मसमार्जनात् ॥ १२१ ॥ लक्ष्मीग्रामद्विजश्रेष्ठैः स्वानीतैस्तैहिजैरपि । भुक्त्वा भोगांश्चिरं राजा चोदयोऽपि दिवं ययौ ॥ १२२ ॥ ततः कोलद्विजास्त्वेते स्वर्गते चोदये नृपे । सर्वतः केरले व्याप्ता उपजीवन्ति देवलाः ॥ १२३ ॥ वल्लभेशार्चनाद् ग्रामत्यागाच्चैते हि देशिनः । स्वग्रामेषु न गृह्यन्ते शिष्टग्रामद्विजोत्तमैः ॥ १२४ ॥ कोलभूपोदयकृतं विप्रस्थापनमुत्तमम् । मयोक्तं सुप्रभाशेषं यत् पृष्टोऽहमिह त्वया ॥ १२५ ॥ इत्युक्त्वा नारदोऽगच्छत् सत्यलोक महामुनिः। सुप्रभो विस्मितः सोऽपि ययौ चित्ररथालयम् ॥ १२६ ।। एवं सूतवचः श्रुत्वा विप्रा बेदपरायणाः । विस्मितास्तं प्रशंसन्तो जग्मुस्तेऽपि यथागतम् ॥ १२७ ॥ इति श्रीकेरलमाहाल्ये कोलराष्ट्रवर्णने. उदयवर्मचरिते ब्रह्मप्रतिष्ठा नाम प्रकरणं सम्पूर्णम् ॥
उदयवर्मचरितसङ्ग्रहः । १३ पूर्व कोलक्षितीशो नयविदुदयक- मामिधः श्रीमदान्धो लक्ष्मीग्रामद्विजेन्द्रानपि तदधिपति राजराजेश्वरं च। प्राज्ञोऽवज्ञाय तावद् विहितसकलस- कर्मलोपोऽनपत्यो दूचात्मा मन्त्रिवर्यैरपि रविसहजे. नाथ सम्मन्थ्य कार्यम् ॥ १॥ मत्त्वा काशी स गाङ्गे पयसि मलहरे स्नानकृद् गण्डकाया: सालगायाष्टसाहस्रकमपि परिगृ- ह्याप्य गोकर्णसत्र। कृत्वा नव्यं मयूराभिधनृपतिगिरा कोटितीर्थ प्रतोय क्रीत्वा कर्णाटविप्रांश्चतुरधिकदशौ- कास्थितान् प्राप राज्यम् ॥२॥ सप्तत्रिंशातिरिक्तद्विशतकसकुटु- म्बद्विजांस्तान् कृशाध- क्षेत्रे देशेषु पञ्चस्वथ रचितगृ- हेषु प्रतिष्ठाप्य राजा।
१४ उदयवर्मचरितसङ्ग्रहः । माषावेषादि सर्व भृगुपतिविहितं त्याजयन् कैरली कृत्वा वृत्त्यर्थमेषामुचितधनमदात् स्थानमानादिकं च ॥ ३ ॥ सालग्रामाष्टसाहस्रकमपि रघुना- थालये स्थापयित्वा भट्टाध्वर्याठ्यसाभाहितिकमुखसस- केतकैाह्मणैस्तैः । नित्यं तत् पूजयित्वा पुनरपि सुबहून् क्षेत्रवर्यान् विधाय स्कन्देशादीन् प्रतिष्ठाप्य च विधिवदयं दत्तवान् ब्राह्मणेभ्यः ॥ ४॥ श्रीरामेशार्कदुर्गागुहपवनसुता- द्यालयाध्यक्षकांस्तान् सर्वातिथ्या(स्य ? य) विप्रानुदयनृपतिरा- कल्प्य (हे ? गो)ब्राह्मणा(र्धा ?र्था)न् । यज्ञं हैरण्यगर्भ तदुदितविधिना- धाय भूयोऽप्युपेतान् तहन्धून स्थापयामास च तदनुमत- स्तच्चतुर्देशवासान् ॥ ५॥ देशेष्वेतान् द्विजातीनिति नवसु समा- स्थाप्य दत्त्वालयादीन भाषावेषादिभिन्नान् पुनरपि सुखमा- कर्ण्य गोकर्णदेशात् ।
१५ : उदयवर्मचरितसङ्ग्रहः । प्राप्तान् कर्णाटविप्रान् स्वयमथ निजरा. ज्येऽखिले स्थापयित्वा प्राग्वत् तैरेव विप्रैः : कृतसकलविधि- स्तस्थिवान् कोलभूपः ॥ ६ ॥ विप्राये स्थापितेऽपीश्वरधराणिसु- रावज्ञयासन्ततिः सन् वेषे तुल्ये स्वनीते क्षितिसुरबिततेः केरलाचारहान्या । खिन्नोऽयं प्राप्य लक्ष्मीपुरमथ विधि- वन्निष्कृति सत्समक्षं कृत्वा सन्तोष्य विप्रानलभत शिवम- प्याशिषं संन्ततिं च ॥ ७ ॥ लक्ष्मीग्रामद्विजेन्द्रानयमुदयनृपः स्मातकान् वैदिकांव स्वानीतानां द्विजानामतनुत परिक- ल्प्यतदाचारमेषाम् । विप्रेन्ड्रैस्तैः स्ववित्रैरथ सुकृतनिधिः स्वार्जयन् सर्वधर्मान भुक्त्वा भोगांश्चिरायुः स्वरगमदवनी साधु संरक्ष्य सोऽन्ते ॥ ८ ॥ कालेन प्रस्थितास्ते धुतनिजविषयाः सर्वतः केरलेऽस्मिन् व्याप्ताः क्षेत्रेषु विप्रादिभिारह विहिताः पूजकाः केरलीयैः।
उदयवर्मचरितसङ्ग्रहः । गोकर्णात् तत्सजात्याः स्वंयमिह पुन- रप्यागतास्तैर्मिलन्त- स्तत्कन्यामुहहन्तो विदधति हि तदा- चारमद्यापि तेऽन्ये ॥ ९ ॥ श्रीमत्कोलक्षितीशो(न ?)दयनृपचरितं देशिकानीतिरूपं तइंश्येनात्र केनाप्यभिहितमतिवि- स्तीर्णमध्याययुग्मम्। देवब्रह्मप्रतिष्ठार्थकभिदमुदितं सम्यगालोच्य केना- प्युर्वीदेवेन संक्षेपत इह बुधमा- दाय पद्याष्टकं स्यात् ॥ १० ॥ शुभं भूयात् ।
LIST OF SANSKRIT PUBLICATIONS FOR SALE Rs. As. 1'. Af Bhaktimanjari (Stuti) by H. H. Syāti Śrī liāma Varma Mahārāja. 100 स्यानन्दूरपुरवर्णनप्रबन्धः Syanandurapuravarnanaprabandha (Kavya) by H. H. Svāti Śrī Rāma Varmá Mahārāja, with the commentary Sundari of Rājarāja Varma Koil Tampurān. 2 0 0 Trivandrum Sanskrit Series. No. 1-a Daiva (Vyakaraṇa) by Deva with Puruşakāra of Krşnalīlāśukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ Abhinavakaustubhamala and Daksinamurtistava by Krşņalīlāšukamuni (out of stock). O % 0 No. 3–4: Nalabhyudaya (Kavya) by Vāmana Bhattil Bāņa (second edition). 04 0 No. 4-foreretaria: Sivalilarnava (Kavya) by Nilakanța Dīkşita (rret of stock). 2 0 0 No. 5- Eufladen Vyaktiviveka (Alankāra) hy Mahima-Bhatti with commentary (out of stuck). 2 12 0 No. 6-aceia: Durghatavrtti (Vyakarana) by Sranadeva (out of stock). 2 0 0 No 7-ब्रह्मतत्त्वप्रकाशिका Brahmatattvapraka.. sika (Vedānta) by Savāśivencirasamasvall (out of stock). % of O No. 8-quarjata Pradyumnadh yule ya (Nātakul) liy Kavi Varma Dhupa (out of suik). 1 0 0 RS. AS. P, No. 9-SV Virupaksapancasika (darby Virūpākşınātha with ihe commentary of Vidyā cakra- Fartin (out of stock). 0 8 0 No. 10-15 Matangalila (Gajalakşaņa) by Nīlakanțlia (out of stock) 0 8 0 No 11- aucietiacere Tapatisamvarana (Nītaka) by Gulasekhara Varma with the commentary of Sivarāma (out of stock). 2 40 No. 12--TEATRICE Paramarthasara (Vedānta) by Adiščşu with the commentary of näyhavānanda (out of stock). 0 8 0 No. 13-THET9739 Subhadradhananjaya (Nățaka) by Kulasekhara Varma with the commentary of Siparāma (out of stock). 200 No. 14-aert: Nitisara (Níti) by Kūmandaka, with the commentary of Sankarārya (out of stock). 3 8 0 No. 15--Fare Svapnavasavadatta (Națaka) by Bhāsa (second edition). 1 8 0 No. 16-afari FRUTH Pratijnayaugandharayana (Nā taka) by Bhāsa (out of stock). 1 8 0 No. 17—9905e. Pancaratra (Nātaka) by Bhāsa (out of stock). 1 0 0 No. 18-ATTITURCIA Narayaniya (Stuti) by Närāyana Bhatta with the commentary of Desarnangalavārya 4 0 0 (second edition) No. 19-AGÈTICS: Manameyodaya (Ilīmāmsā) by Narāyaṇa Bhatta and Nārāyaņa Paņdita (vut of stock). 1 4 0 No. 20-acron Avimaraka (Nāțaka) by Bhāsa (out of stock). 1 8 0 No. 21-alsafah Balacarita (Nā taka) by Bhāsa (out of stock) 1 0 0 0 RS, A8. P No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो. 45ta Madhyamavyayoga-Duta - vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nāțaka) by Bhāsa (out of stock). 1 8 0 No. 23-aerturacaq: Nanartharnavasam ksepa (Kosa) by Kuśnvastamin (Part I, 1st and 2nd Kandas). (oui vf stuck). 1 12 No. 24-greatertura: Janakiparinaya (Kavya) by Cakra Kavi (out of' stik). 1 0 0 No. 25-Turgere Kanadasiddhantacandrika (Nyāya) by Gangāılharasūri (out of stock). 0 12 0 No. 2631 Abhisekanataka by Bhasa (out of stock). 0 12 0 No. 27 ATCEFha: Kumarasambhava (Kūvya) by Kaļidāsa with the two commentaries, Prakāsikā of Arunagirinātha and Vivaraņa of Narāyaṇa Pandita (Part I, 1st and 2nd Sargas) (out of stuck). 1 12 0 No. 28-TAAT: Vaikhanasadharmaprasna (Dharmasātra) by Vikhanas (out of stock). O 8 0 No. 29-drapetuiasiat: Nanartharnavasam - ksepa (Kosa) by Keśavasvamin (Part II, 3rd Kāņda) (out of stock). 2 4 0 No. 30-areglan Vastuvidya (Silpa) (out of stock). 0 12 0 No. 31-erivaciat: Nanartharnayasam ksepa (Kośa) by Kośayasyāmin (Part III, 4th, 5th and 6th Kāņdas). 1 0 0 No. 32-Hrafia: Kumarasambhava (Kūvya) by Kālidāsa with the two commentaries, Prakāśikā of Arunngirinātha and Vivaruņa of Nārāyaṇa Pandita (Part II, 3rd, 4th and 5th Sargas) (out of stuct). 2 8 0 RS. AS. P. No. 33-area: Vararucasangraha (Vrakaraṇn) with the commentary Dipaprabhā of Nārāyaņa (out of stock). 0 8 0 No. 24-Hroncov: Manidarpana (Nyāya) by Rājacũļāmaņimakhin. 1 4 0 No. 35-FTTETT: Wapisara (Nyāya) by Gopinātha. 1 8 0 No. 36-ATTERYE: Kumarasambhava (Kāvya) by Kāļidāsa with the two commentaries, Prakāśikā of Arunagirinātha and Viramaņa of Nārāyaṇa Pandita (Part III, 6th, 7th and 8th Sargas). 3 0 0 No. 37-aara Asaucastaka (Smrti) by Vilnilci with commentary. 0 4 0 No. 38-aheigh Namalinganusasana (Kosa) by Amarasimha with the commentary Tīkāsarvasva of Vandyaglatīya Saryānanda (Part I, 1st Kāņda). 200 No. 39-TOGETH Carudatta (Naţaka) by Bhāsa (out of stock). 0 12 0 No. 40_TERKETA Alankarasutra by Rājāuaka Ruyyaka with the Alankārasarvasva of Mankhūka and its commentary by Samudrabar.dha (second edition) 2 80 No. 41-EYTHYEOH _Adhyatmapatala (Vedānta) by A pastamba with Vivaraya of Sri Sankara-Bhagavat-Pāda (out of stock). 0 4 0 No. 42-afara Pratimanataka by Bhāsa (out of stock). 180 No. 43-AAFIGRETH Namalinganusasana (Kośa) by Aniarasimha with the two commentaries, Amarakośodghatana of Kşīrasvāmin and Tīkāsarvasva of Vandraghatīya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 8 No. 44-Yeh Tantrasuddha by Bhattāraka Vedottama (out of stock). 04 0 5 RS. AS. P. No. 45–19TEET Prapancahrdaya. 1 0 C No. 46–CHTELIT: Paribhasavrtti (Vyakaraña) by Nīlakantil Dīkşita. 0 8 0 No. 47—fografag774 Siddhantasiddhanjana (Vedānta) by Krsņānandu Sarnsvati (Part I.) 1 12 0 No. 48—fetare Do. Do. (Part II). 2 0 0 No. 49- Trottent Goladipika (Jyotişa) by Paramešvara. O do No. 50 -Trga: Rasarnavasudhakara (Alankara) by Singa Blūpāla. 3 0 0 No. 51-नामलिङ्गानुशासनम् Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakošodghātana of Kşīrasyāmin and Tikāsarvasva of Vandyaghatiya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No. 52-नामलिङ्गानुशासनम् Namalinganusasana (Kośa) by Amarasimha with the commentary Tikâsarvasva of Vandyaghațiya Sarvånanda (Part IV, 3rd Kấnda). 1 8 0 No. 53-15 area: Sabdanirnaya (Vedânta) by Prakâśâtmayatîndru. 0 12 0 No. 54-FERigerifeert: Sphotasiddhinyayavicara (Vyakaraña). 04 0 No. 55-मत्तविलासप्रहसनम् Mattavilasaprahasana. (Nâtaka) by Mahendravikramavärinan. (out of stock) .0 80 No. 56_ARTIST Manusyalayacandrika (Šilpa) (out of stock), 0 8 0 No. 57-terarah Raghuviracarita (Kavya). 1 4 0 No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedânia) by Krşņånanda Sarasvati (Part III). 2 0 0 6 RO. AS. P. 0 No. 59-arch Nagananda (Nâ taka) by Harşadeva with the commentary Vimarsinſ of Sivarâma (out of stock). 3 4 0 No. 60-ggegra: Laghustuti by Laghubhattâraka with the commentary of Raghavananda. ( 8 No. 614 -सिद्धान्तसिद्धाअनम् Siddhantasiddhanjana (Vedânta) by Krşņânanda Sarasvati (Part IV). 1 4 0 No. 62-FHCHE: Sarvamatasangraha. (out of stock). 0 8 0 No. 63-fasciatar Kiratarjuniya (Kavya) by Bharavi with the commentary Sabdârthadīpika of Citrabhânii (1, 2 and 3 Sargas). 2 8 0 No. 64–19: Meghasandesa by Kálidāsa with the commentary Pradīpa of Dakşiņâvartanātha. 0 12 0 No. 65-44HH Mayamata (Šilpu) hy Mayamuni (out of stock). 3 4 0 No. 66—HETSAS Maharthamanjari (Darsana) with the commentary Parimala of Maheśvarananda. % 4 0 No. 67-tart: Tantrasamuccaya (Tantra) by Nârâyaņa with the coinmentury Vimarsinſ of Sankara (Part I, 1-6 Patalās) (out of stock). 3 4 0 No. 68-724an: Tattvaprakasa (Agama) by Sri Bhojadeva with the commentary Tâtparyadſpikā of Sri Kumāra 1 12 0 No. 69-Salatigrayoquefa: Isanasivagurudevapaddhati(Tantra)by Isảnaśivagurudevamiára Part I, Sâmānyapâda). 1 0 No. 70-34Rfgericht: Aryamanjusrimula: kalpa (Part I). 28 0 RS. AS. P. No. 71—FTET: Tantrasamuccaya(Tantra) by Nûrîyana with the cominentary Vimarsint of Sankara (Part II, 7--12 Patalās) (out of stock). 3 8 0 No. 72–daragatya ayefa: Isanasivagurudevapaddhati (Tantra) by Isanasiragurudevamisra (Part II. Mantrapāda) 4 0 0 No. 73-Patinafagett: Isvarapratipattiprakasa (Vedānta) by Madhusudanasarasvati. 0 4 0 No. 74-treara : Yajnavalkyasmrti with the commentary Balakridâ of Viśvarûpâcârya. (Part I - Acara and Vyavahâra Adhyâyās). 3 4 0 No. 75-fatereah Silparatna (Śilpa) by Srikumara (Part I). 2 12 0 No. 76—prinsgata 4: Aryamanjusrimulakalpa (Part II). 3 0 0 No. 77-nagradna refa: Isanasivagurudevapaddhati (Tantra) by Isänasiyagurudevamiśra (Part III, Kriyāpāda 1-30 Patalās). 3 0 0 No. 78-317ACTUATIETEETH Asvalayanagrhyasutra with the commentary Anāvilā of Haradattācārya. 2 6 0 No. 79-Tetra Arthasastra of Kautalya with commentary by Mahāmabopādhyāya T. Ganapati Sastri (Part 1, 1 & 2 Adhikaraņās). 3 12 0 No. 80-37efaretą Do. Do. (Part II, 3—7 Adhikaraņās). 4 0 0 No, 81-Pirata:Yajnavalkyasmrti with the commentary Balakrīda of Viévarūpā cārya (Part II. Prayascit. tadhyaya). 200 No. 82-fattery Arthasastra of Kautalya with commentary by, Mahamabopā. dhyāya T. Ganapati Sāstri (Part III, 8--15 Adhikaraņās), 3 4 0 S RS. AS. P. o So. 83--Raftagnayefa: Isanasivagurudevapaddhati (Tantra) by Itānaśivagurudevamiśra (Part IV, Kriyapāda 31–64 Patalās and Yogapāda). 3 8 No 87-347fasstaften: Aryamanjusrimulakalpa (Part III). 2 0 0 No 85-featurear Visnusamhita (Tantra). 2 8 0 No. 86--aartay Bharatacarita (Kavya) by Krşnnkavi. 1 8 0 No. 87- सङ्गीतसमयसारः Sangitasamayasara (Sangſta) of Sangitakara .Pârsvadeva. 1 20 No. 88-16h: Kavyaprakasa (Alankâra) of Mammaţabhattal with the two commentaries the Sampradāyaprakāśinſ of Śrī Vidyācakravartin and the Sâhityacândâmaņi of Bhattagopala (Part I, 1-5 Ullâsās). 3 0 0 No. 89-Tefale: Sphotasiddhi (Vyākaraña) by Bharatamiéra. 0 8 0 No. 90-FtHieraile Mimamsaslokavartika with the courmentary Käsikä of Sucaritamiśra (Part I). 2 80 No. 91-re, Horasastra of Varāhamihirä. cārya with the Vivarana of Rudra. 3 0 0 No. 92-chana Rasopanisat. 2 0 0 No. 93-वेदान्तपरिभाषा Vedantaparibhasa (Vedānta) of Dharmarājādhvarindra with the commentary Prakāśika of Peddadīkşita. 1 8 0 No. 94eat Brihaddesi (Sangita) of Matangamuni. 1 80 No. 15--Turetit I Ranadipika (Jyotişa) of Kumāragaņaka. 0 4 0 9 RS. AS. P. No. 96-Hiieat Rksamhita with the Bhāşya of Skandagvāmin and the commentary of Venkatamādhavārsa (Part I, 1st Adhyâya in 1st Aştaka). 1 8 0 No. 97—ATTEITAgritear Naradiyamanusamhita (Smrti) with Bhāsya of Bhavasvā min. 2 0 0 No. 98- Pencah Silparatna (Śilpa) by ŚrIkunāra. (Part II.) 2 8 0 No. 99—AATETUT Mimamsaslokavartika (Mīmāmsā) with the commentary Kāśikā of Sucaritamisra (Part II). 200 No. 100% FREE1: Kavyaprakasa (Alankära) of Maminatabhutta with the two coinmentaries, Sampradāyaprakāsinf of Śrīvidyācakravartin and Sahityacudāmaņi of Bhattagopäla. (Part II, 6-10 Ulāsās). 5 0 0 No. 101–pretera Aryabhatīya (Jyotişa) of Aryabhatācārya with the Bhāşya of Nīlakanthasomasutyan (Part I. Gapitapăda). 2 8 0 No. 102m Dattila (Sangīta) of Dattilamuni, 0 4 0 No. 103-crerest: Hamsasandesa (Vedānta) with cominentary. 080 No. 104-alaleht Sambapancasika (Stuti) with commentary. 100 No, 105–Afactu: Nidhipradipa of Siddha- Srikanthasambhu. 0 4 0 No. 106-SITETET Prakriyasarvasva (Vyakaraṇa) of Sri Nārāyaņa Bhatta with commentary (Part I.) 1 0 0 10 RS. As, P. No. 107-BTCE Kavyaratna (Kavya) of Arhaddas. ( 12 0 No. 108-athraivETEGRI Balamartandavijaya Națaka) of Devarājakavi, 1 8 0 No. 109 TITETT: Nyayasara with the commentary of Vasudevasūri. 8 0 No. 110-TRICE Aryabhatiya (Jyotişā) of Aryaislıçīcārya with the Dhāşyat of Nilakuluasomalsuti:32.(Pius II. Kalikriyāpāda) 1 0 0 No. 111-ig: Hridayapriya (Vairlyaka) by Paramešvara, 3 00 No. 112-कुचेलोपाख्यानम् अजामिलोपाख्यानं च । Kucelopakhyana and Ajamilopakhyana (Saigita) by H. H. Svāti Sri Rama Varma Mahîrāja. 0 4 0 No. 113-astagat: Sangitakrtis (Gana) of H. H. Svāti Sri Rānu Varma Mahārāja. 1 0 0 No. 114-EIERTHTHIET Sahityamimamsa (Alavkāra) 1 0 0 No. 115--TEAT Rksamhita (with the Bhāşya of Skandasvāinin and the commentary of Venkatamādhavārya) (Part II 2nd Adhyāya in Ist Astaka.) 1 8 0 No. 116-aprIT Vakyapadiya (Vyākaraņa) with the cominentary Frakīrņakaprakāka by Kelarāja son of Bhatirāja. (Part I). 1 8 0 11 RS. AS. P. No. 117–Ecrania UTHRUTH Sarasvatikantabharana (Výākaraṇa) by Bhojadeva with the commentary of Śrī Nārāyana Dandanātha, (Part I). 1 8 0 No. 118--are CTH Balaramabharata (Nātya) by Balarāma Varma Vanci Māhāraja. 2 8 0 No. 119 --facciatus: Vivekamarthanda (Vedānta) of Visvara padeva 0 8 0 No. 120-qatra Saunakiya. (Smộti) 0 8 0 No 121-LETAMTA: Vaikhanasagama (Tantri) -f Marici, 2 0 0 No. 122– TETTETAPI Prabodhacandrodaya (Nāțaka) by Kșşņamiśrayati with the commentary Natakıbbaraña of Śrī Govindāmſtabhagavän. 2 0 0 No. 123-ASTRICT: Sangramavijayodaya(Jyotişa) 2 0 0 No. 124-HEST Haramekhala (Vaidyaka) of Māhuka with commentary (Part I. chapters 2, 3 & 4) 1 8 0 No. 125-treet: Kokasandesa (Kavya) by Vişņutrātā, 0 8 0 No. 126_ordela: Karanapaddhati (Jyotişa). 0 4 0 No. 127-Fcfardi, USTHCUTH Sarasvatikantabharana (Vyakarana) by Bhojadeva with the coinmentary cf Śrī Nārāyana Dandanātha. (Part II) 1 8 0 No. 128-FT: Bhringasandesa (Kavya) by Väsudeva. 0 6 0 No. 129-JERT: Hamsasandesa (Kavya) 0 4 0
12
RS. AS. P.
S
| 80
No. 130-ESTEETT: Mahanayaprakasa
(Vedānta) by Abhinasaguptärirya.
No. 131- Vritavartika
(Chandas) by Rainapāņirāda.
No. 132-te Tantropakhyana
(Kāvga)
No. 133-aarat Udayavarmacarita.
0 6 0
I 0) ()
Apply to:
The Superinčendent.
Government Press,
Trivandrum.
.
No text on this page.
IN THE PRESS,
1. Arthaćāstra of Kautalya, with commentary in Mala.
yālam. (Part II)
2. Asvala ayanagſhyamantravyakhyā
of Haradattácărya.
3 Skāndaśārīraka (Palmistry) with commentary.
4. Yogayajavalkya,
5. Saktiratnahāra by Kalingarājasürya.
6. Prakriyāsarvasva, with the commentars, Sancika, by
K. Sāmbasiva Sastrī, Curator. (Part II)
7. Saryadarśanakaumudi of Madhavabhārati.
8. Haramekhala (Vaidyaka) of Mābuka, with cmmentary,
(Part II)
9. Sarasvatikanthabharana (Vyakarana) of Bhoja with
the Vrtti of Nårāyaṇa Dandanatha. (Part III)
No text on this page.