Central Archaeological Library_asi_new Delhi
The Harshacharita Of Banabhatta 1912
Front matter
OF BF THE DIRECTOR GENERAL THE HARSHACHARITA OF 89.12 BÂNABHATTA WITH The Commentary (Sanketa) S'ANKARA EDITED BY KÂSINATH PÂNDURANG PARAB. Third Edition. SRÎNIVAS VENKATRÂM TOPPÚR. Sa8AK PUBLISHED Banor TUKÂRÂM JAVAJÍ, PROPRIETOR OF JÂyAJÎ DÂDÂJi's " NIRNAYA-SÂGAR" PRESS, Bombay: 1912. CENTRAL (New Delhi LERARY Rulettimet REVISED BY wa Dzoss BY OF Price 2 Arpellibrary ieg N No.228 Sweet INDIA.
CENTRAL ARCHAEOL). IGAO
LIBRARY NEW DEL:il.
Aco. No. ....8.3.1.2...
Date......20.
Call Nomor 8
Banje.T.
(Registered according to Act XXV of 1867.)
( All rights reserved by the publisher.)
PUBLISHER:-Tukaram Javaji,) the “ Nirnaya-sagar" Press,
PRINTER:—B. R. Ghanekar, 23, Kolbhat Lane, Bombay.
॥ श्रीः॥
महाकविश्रीबाणभट्टकृतं
हर्षचरितम् ।
महाकविचूडामणिशंकरकविरचितया संकेताख्यया
व्याख्यया समेतम् ।
Dohoka
काशीनाथ पाण्डुरङ्ग परब
इत्यनेन संशोधितम् ।
श्रीनिवास वेंकटाम तोप्पूर
इत्यनेन संस्कृतश्च ।
तृतीयं संस्करणम् ।
तच्च
शाके १८३४ वत्सरे
मुम्बय्यां
निर्णयसागरयन्त्रालयाधिपतिना मुद्रयित्वा प्राकाश्यं नीतम् ।
मूल्यं रूप्यकद्वयम् ।
Tumln
S
Rices
PUBI Pein
॥ श्रीः ॥
हर्षचरितम् ।
शंकरकृतया संकेताख्यया व्याख्यया समेतम् ।
మరిక
प्रथम उच्छासः।
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥ १॥
हरकण्ठग्रहानन्दमीलिताक्षी नमाम्युमाम् ।
कालकूटविषस्पर्शजातमूर्छागमामिव ॥ २ ॥
संकेतः।
श्चोतन्मदाम्बुभरनिर्भरचण्डगण्डशुण्डाप्रशौण्डपरिमण्डितभूरिभृङ्गान् ।
विघ्नानिवानवरतं चलगण्डतालैरुत्सारयजयति जातघृणो गणेशः ॥
शंकरनामा कश्चिच्छ्रीमत्पुण्याकरात्मजो व्यलिखत् ।
शिष्टोपरोधवशतः संकेतं हर्षचरितस्य ॥
'सर्वकर्माणि कुर्वीत प्रणिपत्येष्टदेवताम्' इति शिष्टाचारमनुपालयन् 'अपारे का-
व्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥' इति का-
व्यलक्षणामपूर्वी सृष्टिं स्थिरां प्रवर्तयनेष कविः शिवं बहुशक्तियुतमपि नियतशक्त्या-
त्मकमेव स्तौति-नमस्तुङ्गेत्यादिना । न क्वचित्प्रणतो यो मूर्धा तत्स्पर्शी चन्द्र
एवं सितवालतुल्यप्रभाप्रसरतया स्वेदादिविनाशाद्विशिष्टस्थानस्थितश्च चामरम् । त्रै-
लोक्यमेव नानाभङ्गिशोभिवान्नगरं तदारम्भे मूलस्तम्भः। नगरारम्भे हि मूलस्तम्भो
भवति । तत्र च पट्टबन्धादिवदुत्प्रेक्षणानन्तरमुन्नते पृष्ठदेशे चन्द्रतुल्यं श्वेतं चामरं
क्रियत इति स्थितिः। केचित्पुन:- त्रैलोक्यनगरस्यारम्भे मूलं मूलकारणं परमाणव-
स्तेषामुपाश्रयेण मूलकारणवात्स्तम्भ इव । ते हि तद्वशात्कार्यमारभन्ते । तस्य नि-
मित्तकारणखादित्याहुः । 'स्वयंभूः शंभुरादित्यः' इति नामसहस्र दृष्टलाद्धरेः, 'शंभू-
ब्रह्मत्रिलोचनौ' इत्यभिधाकोशदर्शनाच्च ब्रह्मणोऽपि नमस्कारोऽयमित्यन्ये वद-
न्ति । व्याकुर्वते च हरिपक्षे त्रैलोक्याक्रमणकाले । यद्वा 'यस्याग्निरास्वं द्यौर्धा
खं नाभिश्चरणौ मही' इत्यभिप्रायेण तुङ्गमुच्छ्रितं युलक्षणं यच्छिरस्तचुम्बि चन्द्र
एव चामरं तेन चारवे । ब्रह्मपक्षे-चन्द्रः स्वर्ण तन्मयं चामरमिव चामर केशकला-
पः । हिरण्यकेशो हि ब्रह्मा त्रैलोक्यादीनि सर्वत्र तुल्यमिति ॥ १ ॥
हरेत्यादिना प्रियं प्रति गाढस्नेहादि सौकुमार्य चोमयोच्यते । कालकूटविषेति
प्रशंसार्थः सामान्यपदप्रयोगो मेरुमहीधरचूतवृक्षादिवत् । आगमः प्रारम्भः ॥ २ ॥
२ हर्षचरिते नमः सर्वविदे तस्मै व्यासाय कविवेधसे चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ३ ॥ प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः । कोकिला इव जायन्ते वाचालाः कामकारिणः ॥ ४ ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । । संप्रत्युत्कृष्टकविलाभिमानेन तादृशमेव कविवरं स्तौति-नमः सर्वत्या- दिना । सर्वा वेदादिका विद्या गीतादिकलाश्च वेत्ति यस्तस्मै । तदुक्तम्- 'नासौ शब्दो न तद्वाच्यं न सा विद्या न सा कला । जायते यन्न काव्याङ्गमहो भारो महाकवेः ॥ इति कविरेव वेधाः । उक्तं च-'अपारे काव्यसंसारे कविरेव प्र- जापतिः' । कवीनां वेधाः । कविशब्दोऽत्रोपचारात्कविबुद्धिषु वर्तते । तेन कविबुद्धीनां श्रेष्ठ इत्यर्थः । तथा चाह मुनिः-'इतिहासोत्तमादस्माज्जायन्ते कवि- बुद्धयः' इति । यद्वा व्युत्पत्त्युत्पादनद्वारेण कवय एवंभूताः सन्तः क्रियन्ते। मुख्य एव कविशब्दस्यार्थः । यदुक्तम्-'इदं कविवरैः सर्वैराख्यानमुपजीव्यते' इति । पुण्यं पावनम् । यदुक्तम्-'भारताध्ययनात्पुण्यादपि पादमधीयतः। श्रद्दधानस्य पू- यन्ते सर्वपापानि देहिनः ॥ इति । सरखती वाणी तस्या लताया इव पुष्पादि. हेतुलाद्वर्षे वृष्टिमिव । वर्षे वा स्थानविशेषः । यतोऽसौ तत्रास्ते। यदुक्तम्-'यदि- हास्ति तदन्यत्र यत्नेहास्ति न तत्वचित्' । भरतानधिकृत्य कृतो ग्रन्थो भारत- स्तम् । यद्वा भारतं वर्षमिव । भरतः कश्चिद्राजा तस्य निवासं भारतं वर्षे भूभाग- कदेशस्तदिव । उक्तं च-'स्यादृष्ट्यां लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम्' इति । यद्वा भारतवर्षान्तरस्था भावा मनुष्येषु सुलभास्तद्वन्महाभारतस्था सरखती। एतदपि सरखत्याख्यया नद्या पुण्यम् ॥ ३॥ एवं सर्वज्ञतागुणकथनेन कविप्रशंसां कृला काव्यप्रशंसामाह-प्राय इत्या- दिना । काव्यमेवं नाम स्वभावसुभगम् । येनेदृशा अपि कवयः प्रायः प्राचुर्येण कोकिला इव जायन्ते वल्गुवाचः संपयन्ते । किं पुनः संविशिष्टा न जायेरन् । के- चित्युनभूयसा कुत्सिता कवयो जायन्त इति कुकविनिन्दैवेयमिति व्याख्यातवन्तः । रागो द्वेषपूर्वकोऽनाभिनिवेशस्तेनाधिष्ठिता दृष्टिबुद्धिर्येषाम् । वाचाला असंबद्धप्र- लापिनः । कामेन स्वेच्छया, न खलंकारकृद्दर्शितनीया, कुर्वन्ति ये ते। कोकिल- पक्षे-कुकन्ति गृह्णन्ति चेतांसीति कुकाः । ते च ते वयो मयूरप्रवराः पक्षिणः । रागो लौहित्यम् । दृष्टिश्चक्षुः । वाचा भारत्या आला आ समन्ताल्लान्त्यावर्जयन्ति यतस्तादृशाः सन्तः । कामं व्यसनं कुर्वन्ति तच्छीलाः । कामोद्दीपनविभावतां यान्तीत्यर्थः यद्वा अवाचालाः । अकारप्रश्लेषोऽत्र ॥४॥ सन्तीत्यादि । असंख्या अगणनाहीः । जाति स्वरूपवर्णनामात्ररूपां वक्रो- क्तिशून्यां मजन्ते । 'गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः' इत्यादिवत् ।
प्रथम उच्छासः। ३ उत्पादका न बहवः कवयः शरभा इव ॥ ५ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगृहनैः। अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते ॥ ६॥ श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्बरः ॥ ७ ॥ नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । । । श्वानोऽप्यसंख्या नास्ति संख्यं संग्रामो येषां ते। जातिशब्देनात्र श्वजातिसमवेता अमेध्यभक्षणादयो गृहीताः। यद्वा श्ववं नाम जातिस्तत्प्रतिपादनं प्रयोजनान्तरशू- न्यतामावेदयति । उत्पादका नवनिर्माणकारिणः, ऊर्ध्वपादाश्च । शरभा हि प्राणि भेदाः । अष्टपादा एते । श्वजातीया इति केचित् ॥ ५॥ अन्येति । कविश्चौरः सहृदयानां मध्येऽनाख्यातः कथितोऽपि न ज्ञायते । न आ समन्तात्ख्यातः, अपि तु किंचित्प्रथितो वा । अन्ये पूर्वकविनिबद्धविलक्षणा ये वर्णा अक्षराणि तेषां रचनेन बन्धचिन्हं श्रीलक्ष्मीप्रभृतिरचनालिङ्गम्। अन्ये तु भा- षालंकारप्रभृतिबन्धचिह्नमाहुः । अथ च सतां साधूनां मध्ये चौरो लक्ष्यते। कीदृक् । न ना अना कापुरुषः, अख्यातोऽप्रसिद्धः । केन । अन्यः प्राक्तनच्छायाव्यतिरि- क्तस्त्रासकृतः पाण्डिमादिर्वर्णो मुखरागविशेषस्तत्परिवर्तनेन । यद्वा शूद्रत्वे सति द्विजादिवर्णाश्रयेण । स्वजात्युचितस्य स्वभावस्य त्यक्तुमशक्यत्वाद्भावप्रकटनमव- श्यमेव भवति । यतो बन्धः शृङ्खलादिकृतो ग्रन्थिस्तचिह्नं त्वग्दूषणादि ॥ ६ ॥ श्लेषेत्यादि । मात्रकपदेन श्लेषयमकाद्यलंकारशून्यत्वं दर्शयति । अक्षरेत्या- दिनार्थविशेषाभावं प्रसादादिगुणगुम्फनाभाव चाख्याति । एतदुक्तं भवति-क्वचि- कश्चिद्गुणोऽपि भवति । स च भवन्नपि न सहृदयजनावर्जक इति । अमुनैवाभि- प्रायेण नव इत्यादीनि प्रत्येकं विशेषणपदानि वक्ष्यति ॥ ७ ॥ नव इत्यादि। नव आद्यैः कविभिरनिबद्धः, चमत्कारी च। जातिः स्वभावोक्तिः। अग्राम्येति, न तु 'गतोऽस्तमर्कः' इत्यादिरूपा । सधर्मेषु तन्त्रप्रयोगः । श्लेषः । अक्लिष्टः सम्यगनेकार्थप्रतिपादनक्षमः। स्फुटो दुर्बोधभणयादिभिरदूषितो रसः शृङ्गारादिः । विकट उदारतालक्षणबन्धयुक्तः । यत्र सति नृत्यन्तीव पदानि प्रतिभासन्ते ॥८॥ किमित्यादि । वृत्तानि वर्णमात्रागणसमार्धसमविषमरूपाणि तदन्तगमनं तद्वि- रचनक्षमत्वम् । भारती वाणी । न व्याप्नोति । अदृष्टमपि दृष्टमिव जगत्रयं प्रतिभानव- शाद्वयुत्पत्तेश्च तथात्वेन प्रकाशयति । यद्वा जगत्रयप्रथिता भवतीति स्फुट एवार्थः । भरतानधिकृत्य प्रथिता भारती कथेव । सापि सर्वे ये वृत्तान्ताः सत्पुरुषचरितान्यु- ।
हर्षचरिते ४ कथेव भारती यस्य न व्याप्नोति जगत्रयम् ॥९॥ उच्छ्रासान्तेऽप्यखिन्नास्ते येषां वक्रे सरस्वती । कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥ १०॥ कवीनामगलहों नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ११ ॥ पबन्धोज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥ १२ ॥ अविनाशिनमग्राम्यमकरोत्सातवाहनः । । । याख्यानानि च तान्गमयति बोधयति । तथा सर्वत्र ज्ञेया भवति । तथा च- नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥' इत्युक्तम् ॥ ९ ॥ अधुना स्वगुरुतः स्वप्रभृतिभिः कृतानाख्यायिकादीन्काव्यभेदान्स्तुवन्ननौद्धा- थै सर्वत्र नमस्कारमाह-उच्छासान्त इति। उच्छ्वास इवोच्छासो विधान्तिस्था- नं सर्गादिवत्कथासंधिस्तस्यान्तेऽप्यखिन्ना उच्छासान्तरकरणक्षमाः । अविच्छिन्नप्र- तिभाना इति यावत् । गुरुत्वाद्बहुवचनम् । 'नाद्यान्तो ह्यम्बुधेर्वक्रम्' इति वक्रलक्ष- णम् । वक्रे सरखती । वृत्तविशेषयोगिनीत्यर्थः। एतस्मिन्नाख्यायिकाकृद्भिर्भाविवस्तु- संसूचनाय वाग्विरच्यते । तथा चाह भामहः-'वक्रं चापरवत्रं च काव्ये काव्या- र्थशंसिनि' इति । आख्यायिकाः कुर्वन्तीत्याख्यायिकाकाराः । यद्वा आख्यायिके- वाकारो येषाम् । अथ 'कविं पुराणम्' इति न्यायेन कवयश्च त ईश्वरा हरिहरब्रह्माणः। उच्छ्सन्ति भूतान्यस्मिन्नित्युच्छ्रासः कल्पस्तदन्ते संहारेऽपि तेऽखिन्नाः कल्पान्त- रजननोद्योगिनस्तेषां मुखे वागीशी । उक्तं च-'सरखतीवाग्बलमुत्तमोऽनिलः' इत्यादि । आख्यायिकाभिराख्यानैराकारो येषाम् । सर्वस्य हि शास्त्रागमसमधिग- म्याः, न पुनः प्रत्यक्षलक्ष्याः । ते च वन्द्याः सर्वस्य ॥ १०॥ कवीनामिति । वासवदत्ता कथा, वासवेन शक्रेण दत्ता च । कर्णः श्रवणम्, राधेयश्च । कवीनां काव्यकर्तृणाम् ' द्रोणादीनां च ॥ ११ ॥ पदेत्यादि । पदानां सुप्तिङन्तानां बन्धः, प्रकृष्टा रचना । रीतिरित्यर्थः । स्व- मण्डलावष्टम्भश्च । हारी हृद्यः• हारयुक्तश्च । अहारीति वा । न कस्यचिदपि यो हरति । कृता वर्णानामक्षराणां क्रमेण भामहादिप्रदर्शितनीत्या स्थितिरवस्थानं यत्र, कृतयुगवद्वर्णानां द्विजादीनां क्रमेण मन्वादिस्मृतिकारप्रकाशितमार्गेण स्थितिः पा- लनं यस्मिन्सतीति च । भट्टारेति पूजावचनम् ॥ १२ ॥ अविनाशिनमित्यादि । अविनाशिनं प्रसिद्धम् , अनश्वरं च । अग्राम्यं वैद- रध्ययुक्तम् , अग्रामभवं च । जातिः खभावोक्तिरूपोऽलंकारः । कोशः समुच्चयः, ।
प्रथम उच्छासः। विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ १३ ॥ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ १४ ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ १५ ॥ निगासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ १६ ॥ समुद्दीपितकंदर्पा कृतगौरीप्रसाधना । गञ्जश्च । सुभाषितैः सूक्तिभिः, शोभनं च भाषितं प्रभावर्णनं येषां तैः ॥ १२ ॥ कीर्तिरित्यादि । प्रवरसेनः कश्चित्कविः प्रवे प्लुते रसो येषां ते प्रवरसा वानरास्तेषामिनः स्वामी । प्रवरा च सेना यस्य स सुग्रीवश्च । कुमुदवत्कैरववत् । यद्वा कुर्भूमिस्तस्या मुत्प्रहर्षस्तयेति, कुमुदेन वानरसेनापतिना च । सेतुः प्राकृ- तकाव्यग्रन्थः, सेतुश्च ॥ १४ ॥ सूत्रेत्यादि । सूत्रधारः पूर्वरङ्गस्य प्रवक्ता चार्चिक्यः, स्थपतिश्च । भूमिकाः पात्राणि रामाद्यनुकार्यावस्थाभूमयः, उपभोगनिमित्तान्युत्पत्तिस्थानानि । पताका अर्थप्रकृतिः । उक्तं च-'बीजं बिन्दुः पताका च प्रकरीकार्यमेव च । अर्थप्रकृतयो ह्येताः पञ्च सर्वप्रयोगगाः ॥' इति । यद्वृत्तं तु परार्थ स्यात्प्रधानस्योपकारकम् । प्रधानवच कल्पेत सा पताकेति कीर्त्यते ॥' वैजयन्ती च पताका ॥ १५ ॥ निर्गताखिति । निर्गता उच्चारितमात्राः । आस्तां तावदर्थावगतिः, आपात एव गीतध्वनिवकिमपि श्रोत्रहारिण्यः । यदुक्तम्-'अपर्यालोचितेऽप्यर्थे बन्धसौ न्दर्यसंपदा । गीतवद्धृदयाह्लादं तद्विदां विद्धाति यत् ॥ तत्काव्यम्' इत्यादि । तथा निर्गताः सर्वदेशप्रतीताः अन्यत्र निर्गता अभिनवोद्भिनाः । न वा कस्ये- त्यनेनैतदुक्तम् । आसतां तावत्काव्यतत्त्वविदः सहृदया विवेकारः, येऽपि शास्त्रा- प्रहितबुद्धयो दुर्दुरूढा मत्सरप्रायास्तेषामपि या हृदयमालादयन्ति । तथा चोक्तम्- 'असुणिअ परमन्थाण वि हरेइ वाआमणं कइन्माण । आणाणजकुवलअवणमलद्ध- गन्धाण वि सुहाइ ॥ इति । मधुराश्च ताः सान्द्राः सरसाः । अन्यत्र मधुना मक- रन्देन किंजल्केन रसेन सान्द्राः सुगन्धयः ॥ १६ ॥ समुदित्यादि । बृहत्कथा कस्य न विस्मयाय । अपि तु सर्वस्यैव गर्वविना- शाय भवतीत्यर्थः । अद्भुतकथावर्णनाद्वाश्चर्याय । समुद्दीपितो वृद्धिं नीतः कंदो यस्याम् । कामजननानां बहूनां वृत्तान्तानां वर्णनादुद्बोधितः स्मरो ययेति वा । काव्यसेवया हि शृङ्गाररसः समुद्भवति। तथा चोक्तम्-'ऋतुमाल्यालंकारप्रिय- जनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥' यद्वा समुद्दीपितः प्रकाशितः ख्याति नीतः कंदो नरवाहनदत्तो यस्यामिति । स हि ६ हर्षचरिते हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १७॥ आढ्यराजकृतोत्साहैहृदयस्थैः स्मृतैरपि ॥ जिह्वान्तः कृष्यमाणेव न कवित्वे प्रवर्तते ॥ १८ ॥ तथापि नृपतेर्भक्त्याभीतो निर्वहणाकुलः । करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम् ॥ १९ ॥ सुखप्रबोधललिता सुवर्णघटनोज्वलैः । शब्दैराख्यायिका भाति शय्येव प्रतिपादकैः ॥ २० ॥ जयति ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः। कामांश इत्यागमः । कृतं गौर्या विद्याभेदस्याराधनं यस्याम् । सा हि नरवाहनद. त्तेनेशारूपाराधितेति तत्रोक्तम् । यद्वा गौरी प्राति पूरयति गौरीप्रः। साधनं परि- करबन्धो यथाप्रस्तावो यस्याम् । गौरीप्रेरितेन हि हरेण तथा तस्यां परिकरबन्धः कृतो यथा सातीव पिप्रिये । हरलीलापि समुत्सहर्षा दग्धकामा च । कृतं गौर्याः प्रसाधनं मण्डनं यस्याम् । क्व कामं प्रति तादृग्द्वेषः, क्व च कान्तां प्रति प्रसाधन- मिति कृखा विस्मयमाश्चर्यम् ॥ १७ ॥ आढ्येति । आब्यराजः कश्चित्कविः। उत्साहो नृत्ते तालविशेषः । उदीर्य- माणगीसाधारभूतपदोपचारात्काव्यमप्युत्साह इति केचित् । यत्र पूर्व श्लोकेनार्थ उपक्षिप्यते, पश्चात्स एव गयेन वितन्यते, मध्ये वृत्तनिबन्धश्च भवति, स परिस- माप्तार्थ उत्साह उच्यत इत्यन्ये । अपिः समुच्चये । यद्वा आढ्यराजहृदयस्था अप्यन्तर्जिह्वां नाकर्षयन्ति, तत्कथं त एव स्मृता इत्यपिशब्दार्थः ॥ १८ ॥ एवमनौद्धत्यमुक्लाह-तथेत्यादि । तथापीत्थं जाननपि जिह्वाप्लवनलक्षणं चापलं करोमि । यतो नृपतेर्भक्त्याहमभि इतः समन्तायुक्तः। निर्वहणे समाप्तावा- कुलः । जिह्वा चाब्धावकालवातस्तत्र वहन्त्यां कश्चिद्यथाप्लवनरूपं चापलं करोति । अत्र पक्षे-अभीतोऽत्रस्तः । निर्वहणं पारप्राप्तिः । “कृत्ये च' इति णखम् ॥ १९॥ सुखेत्यादि। सुखेन जायासंमितत्वेन हृदयाह्नादनपूर्वम्, न तु वेदेतिहासादिवत, यः प्रबोधः प्रकृष्टं बोधनं धर्मादिसाधनव्युत्पत्तिः । उक्तं च-'कटुकौषधिवत्काव्य- मविद्याव्याधिभेषजम् । आह्वाद्यमृतवत्काव्यमविवेकगदापहम् ॥' इति । सुवर्णघटना शोभनाक्षररचना । प्रतिपादकैर्विवक्षिताभिधायकैः । शय्यापक्षे-सुखं यः प्रबोधः खापादुत्थानम् । सुवर्णघटना हेमयोजना । प्रतिपादकैः खट्वाया उन्नामकैः । तदा- पादानां प्रतिच्छन्दाः प्रतिपादकाः पुरुषयत्नोत्थापिताः पादमुद्रास्तैः । अत्र च शोभनो वर्णोऽलक्तादिकृतः ॥ २० ॥ इदानीं यमुद्दिश्येयमाख्यायिका क्रियते तस्य 'तथापि नृपतेर्भक्त्या' इत्यनेन नृप- तिशब्देन सामान्येन निर्देशं कृत्वा विशेषेणाह-जयतीत्यादि । ज्वलन्दीप्रतया- प्रथम उच्छासः। सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ २१ ॥ एवमनुश्रूयते--पुरा किल भगवान्स्वलोकमधितिष्ठन्परमेष्ठी विकासिनि पद्मविष्टरे समुपविष्टः सुनासीरप्रमुखैर्गीर्वाणैः परि- वृतो ब्रह्मोद्याः कथा: कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीर्भाव- यन्कदाचिदासांचक्रे । तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचा- क्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा महर्षयः सिषे- विरे । केचिदृचः स्तुतिचतुरा: समुदचारयन् । केचिदपचिति- भाजि यजूंष्यपठन् । केचित्प्रशंसासामानि जगुः । अपरे विवृत- जगति रक्षा । । शेषौ स्तः, । प्रसरन्प्रताप एव ज्वलनस्तं प्राति पूरयति य आकारस्तेन कृता येन सः । सकलानां प्रणयिनां ये मनोरथास्तत्सिद्धौ श्रियां पर्वतो गिरिः । श्रियस्तत्र कूटीभूता इव स्थिता इति यावत् । यद्वा यथा पर्वतस्थः कश्चिदुरभिभवः, तद्वद्धर्ष- स्था श्रीरिति । अथ च श्रीपर्वताख्यो गिरिरीगेव । तथा च ज्वलत्प्रकृष्टतापो यो ज्वलनो जठराग्निः स एव निषेधकत्वात्प्राकारः सालस्तेन कृता मुक्तर्विघ्नहेतुतया जगतो भूलोकस्य रक्षा येन सः । अन्यत्रोत्सादनं तद्यावत् । अन्ये तु-त्रिपुरदाहे यो विघ्नमकरोद्गणेशस्तदा हरेण ज्वलत्प्रकृष्टतापो ज्वलनप्राकारो निर्मितः । तेन च तत्र रक्षा विधीयत इत्याहुः । ज्वलत्प्रतापो ज्वलनप्राकारश्च द्वौ मुद्रारूपो मन्त्रवि- ताभ्यां कृतजगद्रक्ष इति केचित् । प्रणयिनः सिद्धिकामाः। हर्षः कथा- नायकः । इतरत्र हर्षकारितया हर्षः । सर्वत्र च परमार्थतो हर्ष एव जयति । तस्यैवाभिलषणीयत्वात्स एव काव्येन क्रियत इति ध्वनति ॥ २१ ॥ एवमिति । अनुश्रूयते पारम्पर्येणाकर्ण्यते । किलेल्यत एवागमसूचनाय । भग- वानिति केवलनिर्देश उल्लुण्ठनपरिहारार्थम् । ब्रह्मलोकमित्युक्ते सत्युत्कर्षदायिन्या- त्मीयताप्रतिपत्तिर्न स्यादिति खग्रहणं साभिप्रायम् । अधितिष्ठन्बहुमानेन तद्योग- क्षेमादिकमुद्वहन् । परमे पदे तिष्ठतीति परमेष्ठी। विकासिनीति नित्ययोग इनिः। विष्टरमासनम् । सुनासीर इन्द्रः । गिरः स्तुतिरूपा वणन्ति भजन्तीति गीर्वाणा देवाः । गीरेव बाणः शरो येषामिति । परिवृतश्चतुर्दिकं वृतः परिवलितः। तस्य चतुर्मुखत्वात् । ब्रह्म वदन्तीति ब्रह्मोद्याः । 'वदः स्वपि क्यप्च' । ब्रह्मणा वेदेन, ब्रह्मणि परमात्मनि वा वेदितव्या ब्रह्मोद्याः । उक्तं च ब्रह्मोद्या सा कथा अस्या- मुच्यते ब्रह्म शाश्वतम्' इति । सामान्यविशेषभावेन 'उष्ट्रासिकामासते' इतिवत् । ब्रह्मवदनरूपा वा कथास्तासां वक्ष्यमाणगोष्ट्यभिप्रायेण प्राधान्यात्वयंकरणम् । निरवद्या दोषरहिताः । तथा च वात्स्यायनः-'या गोष्ठी लोकविद्विष्टा या च स्वै- रविसर्पिणी । परहिंसात्मिका या च न तामवतरेढुधः ॥ लोकचित्तानुवर्तिन्या क्री- डामात्रैककार्यया । गोष्ठ्या संह चरन्विद्वांल्लोकसिद्धिं नियच्छति ॥' समानविद्या- वित्तशीलबुद्धिवयसामनुरूपैरालापैरेकत्रासनबन्धो गोष्ठी । प्रतीक्ष्यः पूज्यः । सम्य- ।
८ हर्षचरिते । क्रतुक्रियातन्त्रान्मन्त्रान्व्याचचक्षिरे । विद्याविसंवादकृताश्च तत्र रे षामन्योन्यस्य विद्याविवादाः प्रादुरभवन् । अथातिरोषण: प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्धाता नाम्ना दुर्वासा द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमान: साम गायन्क्रोधान्धो विस्वरमकरोत् । सर्वेषु च शापभयप्रतिपन्नमौ- नेषु मुनिष्वन्यालापलीलयावधीरयति कमलसंभवे भगवती कुमारी किंचिदुन्मुक्तबालभावे भूषितनवयौवने नवे वयसि वर्तमाना, गृही- तचामरप्रचलद्भुजलता पितामहमुपवीजयन्ती, निर्भर्त्सनताडनजा- तरागाभ्यामिव स्वभावारुणाभ्यां पादपल्लवाभ्यां समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालितचरणा, मदन- नगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्, सलीलमुत्ककल- हंसकुलकलालापप्रलापिनि मेखलादाग्नि विन्यस्तवामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसावलम्बिना ब्रह्मसूत्रेण प- वित्रीकृतकाया, भास्वन्मध्यनायकमनेकमुक्तानुयातमपवर्गमार्गमिव । गुदात्तादित्रैस्वर्यादिप्राधान्यादुदचारयजगुः । अपचितिः पूजा । सामानि जगुरिति साम्नां गानमेवोचितम् । विद्याविसंवादकृता इति, न तु मात्सर्यादिना । प्रादुरभव- नित्यनौचित्यशङ्कया तत्कर्तृत्वपरिहारः । प्रकृत्येति । अन्यथा ब्रह्मसंनिधानेन कथमीदृगाक्षेपः । कथमीदृशोऽवकाश इत्याह--महातपा इति । मुनिरित्यनेनास्य ज्ञानप्राधान्यात्तुल्यतोद्भासनमतीवाप- कारः । अत्रेस्तनय इति न केवलं महातपस्त्वेन, यावदत्रितनयत्वेन ब्रह्मलोकप्राप्ति- रस्य । ततस्तारापतेरित्यादिना तथाभूतपरमप्रजापतिसंबन्धयोग्यत्वमस्याख्यायते। द्वितीयेनेति तत्समत्वमुच्यते । कथं सामगानेऽप्यनवहित इत्याह-क्रोधान्ध इति । सर्वेष्वित्यादौ देवी सरस्वती श्रुत्वा जहासेति क्रियाप्रतिपत्तिरस्य मा भूदि- त्युत्तमप्रकृतित्वादन्येत्यायुक्तम् । अन्येन सहालापलीलाकथाक्रीडया। कुमारीति। कुमारीत्वेनास्या हास्यादिकं नानुचितमिति दर्शयति । भूषितेत्यनेन दर्शनीयलमाह। पितामहमिति। सर्वप्राधान्यमनेनोक्तम् । निर्भर्त्सनताडनं तेन तदर्थ वा यत्ताडनं रोषाद्भूमिहननं तद्वशाच्च जातरागाभ्यामिव पादपल्लवाभ्यामित्यनेनारुणत्वं सौकुमायें चाह । अतएव गाढताडनेन रक्तत्वमुत्प्रेक्षितम् । ताडितो वायं ताडितस्तत्तुल्यो रागो जातो ययोरिति व्याख्येयम् । पदक्रमं पादन्यासपरिपाटी । अन्यत्र च पदानि च क्रमश्च तत्पदक्रमम् । चरणौ पादौ चरणाश्च विशिष्टशाखापाठकता वाचालिताः क्षो- भिता ययेति । उत्का उत्सुकाः। मेखलादानि रशनागुणे । मानसं चित्तम् , सरोविशे- षश्च । गुणा अपि भास्वन्दीम्रो मध्यनायकः पदकं यत्र तत् । अथ च भास्वतो मध्यं ।
प्रथम उच्छ्वासः । हारमुद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तकरसेनेव पाटलेन स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमलासनकृष्णाजिनप्रतिमां म- धुरगीताकर्णनावतीर्णशशिहरिणामिव कपोलस्थली धाना, तिर्य- क्सावज्ञमुन्नमितैकभ्रूलता, श्रोत्रमेकं विस्वरश्रवणकलुषितं प्रक्षाल- यन्तीवापाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसि- तसितसिन्धुवारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयि- भिः प्रणवैरिव कर्णावतंसकुसुममधुकरकुलैरुपास्यमाना, सूक्ष्म विम- लेन प्रज्ञाप्रतानेनेवांशुकेनाच्छादितशरीरा, वाङ्मयमिव निर्मलं दिक्षु दशनज्योत्लालोकं विकिरन्ती देवी सरस्वती श्रुत्वा जहास । दृष्ट्वा च तां तथासन्तीं स मुनिः 'आ: पापकारिणि, दुर्ग- हीतविद्यालवावलेपदुर्विदग्धे, मामुपहससि' इत्युक्त्वा शिरःकम्प- शीर्यमाणबन्धविशरारोरुन्मिपत्पिङ्गलिम्नो जटाकलापस्य रोचिषा सिञ्चन्निव रोषदहनद्रवेण दश दिशः, कृतकालसंनिधानामिवान्ध- कारितललाटपट्टाष्टापदामन्तकान्तःपुरमण्डनपत्रभङ्गमकरिकां भ्र- तेन नयति सः । यदुक्तम्-'परिव्राज्योगयुक्तश्च शूरश्चाभिमुखं हतः। द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ॥” इति । मुक्ता मौक्तिकानि, मोक्षगामिनश्च । हारं मुक्ता- कलापश्च, अपवर्गमपि । हारं हरसंबन्धिनं तत्प्रसादप्राप्यत्वात् । 'अलक्तकरसेनेव पाटलेन' इति वा पाठः । स्फुरतेति रोषात् । भगवतीकपोले शशिहरिणस्यैवावतारः संभाव्यत इति शशिपदम् । अत्र हि कपोले ब्रह्मकृष्णाजिनसंक्रान्तिः, तत्र कामसं- भावना सामान्यहरिणस्यावतरणे । कलुषितं प्रक्षालयन्तीवेति । सलिलस्य क्षालनमेव युक्तमिति समुचितेयमुक्तिः । श्रुतिप्रणयिभिरिति । श्रूयते इति श्रुतिर्ध्वनिस्तया प्रणयः प्रशंसातिशयो येषां तैः । यद्वा श्रुती श्रोत्रे तत्कर्तृकः प्रणयः प्रार्थना मधुरध्वनिलाद्येषां तैः । कर्णसंबन्धैरिति तु व्याख्याने कर्णावतंसेत्यादिना पौनरुक्त्यमपरिहार्यम् । श्रुतिर्वेदोऽपि । सूक्ष्मार्थदर्शितत्वात्सूक्ष्मस्तीक्ष्णः, विमल- स्तत्त्वग्राही । अन्यत्र सूक्ष्मं तनु, विमलं शुक्लम् । प्रतानः प्रसरः । दृष्ट्वैत्यादौ स मुनिस्तां तथाहसन्तीं दृष्ट्वा शापजलं जग्राहेति संबन्धः । तथेति पादताडनभ्रूक्षेपादिपूर्वम् । स मुनिरिति प्राग्वर्णितस्वरूपः । आः इत्यक्षमायाम् । मामिति योऽहं त्रैलोक्यप्रख्यातरोषणस्तमेवेति । समीप एव विशीर्यते तच्छीलो विशरारुरितश्चामुतश्च । अत एवोन्मिषत्पिङ्गलिमारोचिषा दीप्त्या। रोषदहनो द्रवो रस इव द्रवलंच यद्यपि विशिष्टस्यैवं तेजसः सुवर्णादि संभवति, तथाप्यत्रोपचारात्सा- दृश्यम्। कालः कृष्णो गुणो यमश्च । अन्धकारितं संकुचितत्वाददर्शनीयमेव चकितं ललाटपट्टमेवाष्टापदम् । यथा प्रतिपति अध्यै पदान्यसेत्यष्टापदं चतुरङ्गफलकम् । ह. २ - ।
१० हर्षचरिते कुटिमावघ्नन् , अतिलोहितेन चक्षुषामर्षदेवतायै स्वरुधिरोपहारमिव प्रयच्छन् , निर्दयदृष्टदशनच्छदभयपलायमानामिव वाचं रुन्ध- न्दन्तांशुच्छलेन, अंसावत्रंसिनः शापशासनपट्टस्येव प्रश्नन्ग्रन्थि- मन्यथा कृष्णाजिनस्य, स्वेदकणप्रतिविम्बितैः शापशङ्काशरणागते- रिव सुरासुरमुनिभिः प्रतिपन्नसर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण प्रसादनलग्नामक्षरमालामिवाक्षमालामाक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह । अत्रान्तरे स्वयंभुवोऽभ्याशे समुपविष्टा देवी मूर्तिमती पीयूषफे- नपटलपाण्डरं कल्पद्रुमदुकूलवल्कलं वसाना, बिसतन्तुमयेनांशुके- नोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, तपोबलनिर्जितत्रिभुवनजयपता- काभिरिव तिसृभिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्क- न्धावलम्बिना सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रोत- सेव योगपट्टकेण विरचितवैकक्ष्यका, सव्येन ब्रह्मोत्पत्तिपुण्डरीकमु- कुलमिव स्फटिककमण्डलु करेण कलयन्ती, दक्षिणमक्षमालाकृतप- रिक्षेपं कम्बुनिर्मितोर्मिकादन्तुरितं तर्जनतरङ्गिततर्जनीकमुत्क्षिपन्ती अत एवानेन भ्रूसमुन्नमनमव्यक्तीकृतरेखवत्तया विस्पष्टव्यलीकमेतत् । 'ललाटमुप- गीयते । ध्रुवोर्मूलसमुत्क्षेपाभृकुटि परिचक्षते' । सुब्शब्दः सुतरां नैरपेक्ष्यसूचनाय वा चोभयसंबन्धः । अंसावत्रंसिन इति । संरम्भाच्छासनपट्टः शुक्लत्वाल्लिपि- कााच सितासितवर्णसंवलितमध्यः पर्यन्तशुक्लश्च भवति । अत एव ते विन्दु- चित्रत्वादुपान्तशुक्लत्वाच्च कृष्णाजिनमुत्प्रेक्षते । यथा शासनपट्टे सति क्वचिद्रामादा- वधिकारो भवति, तद्वच्च जनसमूहः प्रार्थनां करोति । सहस्तपादादिके सर्वस्मिन्नङ्गे गलति । कोपेत्यादौ कम्पग्रहणं रोषः। शरीरं बाधत इति यावत् । संनिवेश- साधादुक्तम्-अक्षरमालामिवेति । सरस्वतीसंबन्धतया चोक्तम्-प्रसा. दनलग्नामिति । विक्षिप्यन्ते । यश्च विरुद्धपक्षः प्रसादयति स विक्षिप्यते तिर- स्क्रियते । कामण्डलवेन मुनिकरकभवेन । समुपस्पृश्याचम्य । अत्रान्तर इत्यादौ मूतॆश्चतुर्भिर्वेदैः सह सावित्री समुत्तस्थाविति संबन्धः । अ- भ्याशे समीपे । गात्रिकाग्रन्थिम्रन्थिविशेषः खस्तिकाकारः स्त्रीणामुत्तरीयस्य स्त- नोद्देशे भवति । तिलकं पुण्ड्रकं स्कन्धावंसौ वायुस्थानानि च स्कन्धाः । फेनैस्तद्वच्च धवलेन । 'तिर्यग्वक्षसि विक्षिप्तं वैकक्ष्यकमुदाहृतम्' । सव्येन वामेन । पुण्डरीकमु- कुलं मुकुलितं पद्म । कलयन्ती क्षिपन्ती, धारयन्ती वा । परिक्षेपः परिवलनम् क- म्बुः शङ्खः । ऊर्मिका वालिका । दन्तुर इव दन्तुरो व्याप्तस्तम्। तर्जनं निर्भर्त्सनम् । । । - । - प्रथम उच्चासः। करम् , 'आः पाप, क्रोधोपहत, दुरात्मन् , अज्ञ, अनात्मज्ञ, ब्रह्म- बन्धो, मुनिखेट, अपसद, निराकृत, कथमात्मस्खलितविलक्षः सु- रासुरमुनिमनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवती सरस्वती शप्तुमभिलषसि' इत्यभिधाना, रोषविमुक्तवेत्रासनैरोंकारमुखरित- मुखैरुत्क्षेपदोलायमानजटाभारभरितदिग्भिः परिकरबन्धभ्रमित- कृष्णाजिनाटोपच्छायाश्यामायमान दिवसैरमर्षनिःश्वासदोलाप्रेडो- लितब्रह्मलोकैः सोमरसमिव स्वेदविसरव्याजेन स्रवद्भिरग्निहोत्रप- वित्रभस्मस्मेरललाटैः कुशतन्तुचारुचामरचीरचीवरिभिराषाढिभिः प्रहरणीकृतकमण्डलुमण्डलैमूतॆश्चतुभिर्वेदैः सह वृषीमपहाय सावित्री समुत्तस्थौ । ततो 'मर्षय भगवन् , अभूमिरेषा शापस्य' इत्यनुनाथ्यमानो. ऽपि विबुधैः, 'उपाध्याय, स्खलितमेकं क्षमस्व' इति बद्धाञ्जलि- पुटैः प्रसाद्यमानोऽपि स्वशिष्यैः, 'पुत्र, मा कृथास्तपसः प्रत्यूहम्' इति निवार्यमाणोऽप्यत्रिणा, रोषावेशविवशो दुर्वासाः “दुर्विनीते, व्यपनयामि ते विद्याजनितामुन्नतिमिमाम् । अधस्ताद्गच्छ मर्त्य- लोकम्' इत्युक्त्वा तच्छापोदकं विससर्ज । प्रतिशापदानोद्यतां सावित्रीम् 'सखि, संहर रोषम् । असंस्कृतमतयोऽपि जात्यैव द्वि- जन्मानो माननीयाः' इत्यभिधाना सरस्वत्येव न्यवारयत् । तरङ्गिता तर्जिता चलिता । तर्जनी प्रदेशिन्यङ्गुष्ठनिकटाङ्गुलिः । क्रोधोपहतेत्यात्म- विनाशायैव ते क्रोध इत्युक्तं भवति । ब्रह्मबन्धो निकृष्टब्राह्मण । अपसदो नीचः। निराकृतोऽस्वाध्यायः। विलक्षो लज्जितः। सुरासुरमनुजाश्च परस्परविरुद्धानुष्ठानाः । अत्र पुनरीदृशामपि न विप्रतिपत्तिरिति भावः । अभिलषसीति । इच्छामात्र- कमपीदं महत्साहसमित्यर्थः । ॐकार एव मुखरितं मुखं येषां तैः । परिकरबन्धः पर्यवन्धः । स चोत्थितस्यापि संरम्भभाजो भवति । आटोपो वक्षः प्रदेशे श्यामा- यमानो रात्रिरिवाचरदिवसा यैहेतुभिरित्यर्थः । अमर्षनिःश्वासैःलावत्प्रेडोलि- तश्चलितो ब्रह्मलोको यैः । कुशतन्तूनां चामरमिव चामरं गुच्छः । कुशतन्तुचा- मरं दर्भपिरम्, चीरचीवरं वृक्षत्वग्वस्त्रं ते विद्यते येषां तैः । 'आषाढसंज्ञो दण्डस्तु पालाशो व्रतचारिणाम् । तत इत्यादौ शापोदकं जग्राहेति विससति संबन्धः । मर्षय क्षमख । अनुना- थ्यमानः प्रार्थ्यमानः । प्रत्यूह विघ्नम् । उन्नतिमिति । उच्चदेशस्थश्चाधस्तानी- यत इति समुचितेयमुक्तिः । असंस्कृतमतयः संस्काररहिताः । । - - । - हर्षचरिते । अथ तां तथाशप्तां सरस्वती दृष्ट्वा पितामहो भगवान्कमलोत्प- त्तिलग्नमृणालसूत्रामिव धवलयज्ञोपवीतिनीं तनुमुद्बहन , उद्गच्छद- च्छाङ्गुलीयमरकतमयूखलताकलापेन त्रिभुवनोपप्लवप्रशमकुशा- पीडधारिणेव दक्षिणेन करेण निवार्य शापकलकलमतिविमलदीधैं- र्भाविकृतयुगारम्भसूत्रपातमिव दिनु पातयन् , दशनकिरणैः सर- स्वतीप्रस्थानमङ्गलपटहेनेव पूरयन्नाशाः, स्वरेण सुधीरमुवाच-ब- ह्मन्, न खलु साधुसेवितोऽयं पन्थाः, येनासि प्रवृत्तः । निह- न्त्येष परस्तात् । उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुष- यति दृष्टिमनक्षजिताम् । कियडूरं वा चक्षुरीक्षते । विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वाननसतः सतो वा । निसर्गवि- रोधिनी चेयं पयःपावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः । आलो- कमपहाय कथं तमसि निमज्जसि । क्षमा हि मूलं सर्वतपसाम् । परदोषदर्शनदक्षा दृष्टिरिव कुपिता बुद्धिर्न त आत्मरागदोषं प- श्यति । क महातपोभारवैवधिकता । क पुरोभागित्वम् । अतिरोष- णश्चक्षुष्मानन्ध एव जनः । नहि कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा । कुपितस्य प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः । अथेत्यादौ भगवान्पितामहः सुधीरमुवाचेति संबन्धः । तथेति । तेन प्र. कारेण । निरपराधां सरखतीमित्यर्थः । धवलयज्ञोपवीतिनीमिति । प्रशंसायां नित्ययोगे वा मत्वर्थीयः। 'बिसकिसलयच्छेदपाथेयवन्तः' इतिवत् । अन्यथा कर्म- धारये कृते मत्वर्थीय एकबुद्ध्यनुमितौ बहुव्रीहौ प्रतिपत्तिर्भवतीति । इतरत्र तु बुद्धिद्वयमिति लधुत्वात्प्रक्रमस्येत्युक्तम् । उद्गच्छन्नच्छाङ्गुलीयमरकतस्य मयूखलता- कलापो यस्य तेन करेण । आपीडः समूहः । पातं विन्यासम् । पातयन्कुर्वन् । अत्र हि धात्वर्थगतानुष्ठानमात्रवृत्तिः क्रिया । यथा-'संवस्त क्षालिते वस्त्रे' इति । पन्था व्यवहारः, मार्गश्च । निहन्ति पातयति । प्रसूतानि गन्तुं प्रवृत्तानि, प्रसूता च जङ्घा । रजो रागः, धूलिश्च । कलुषयति कार्याकार्यदर्शनासमर्थो करोति । दृष्टिं बुद्धिम्, नेत्रं च । अक्षाणीन्द्रियाणि, रथाङ्गं चाक्षः। तेन च रथो लक्ष्यते। कृतबुद्धयः संस्कृ- तमतयः। असदविद्यमानम्। निसर्गः स्वभावः। आलोको विवेकः, प्रकाशश्च । तमः, अज्ञानमपि । दोषाः, सव्यमण्डलवादीनि च । कुपिता क्रुद्धा, धातुवैषम्यदूषिता च । आत्मरागदोषमिति । आत्मभूतगुणदर्शनम्, लौहित्यलक्षणं च विकारम्, 'वोढा भारस्य धीमद्भिर्जनैवैवधिकः स्मृतः। दोषैकग्राहिहृदयः पुरोभागी निगद्यते॥' ।
। प्रथम उच्छ्वासः। आरम्भे तपो गलति, पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फुरति, अनन्तरमधरः । कथं लोकविनाशाय ते विषपादपस्येव जटावल्क- लानि जातानि । अनुचिता खल्वस्य मुनिवेशस्य हारयष्टिरिव वृ- त्तमुक्ता चित्तवृत्तिः । शैलूष इव वृथा वहसि कृत्रिममुपशमशू - न्येन चेतसा तापसाकल्पम् । अल्पमपि न ते पश्यामि कुशलजा- तम् । अनेनातिलघिम्नाद्याप्युपर्येव प्लवसे ज्ञानोदन्वतः । न खल्व- नेलमूकाः एडा जडा वा सर्व एते महर्षयः । रोषदोषनिषद्ये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसं सरस्वतीम् । एतानि तान्यात्मप्रमादस्खलितवैलक्ष्याणि, यैर्याप्यतां यात्यविदग्धो जनः' इत्युक्त्वा पुनराह-'वत्से सरस्वति विषादं मा गाः। एषा त्वामनुयास्यति सावित्री । विनोदयिष्यति चास्मद्विरहदुःखि- ताम् । आत्मजमुखकमलावलोकनावधिश्च ते शापोऽयं भविष्यति' इति । एतावदभिधाय विसर्जितसुरासुरमुनिमनुजमण्डल: ससंभ्र- मोपगतनारदस्कन्धविन्यस्तहस्तः समुचिताहिककरणायोदतिष्ठत् । सरस्वत्यपि शप्ता किंचिद्धोमुखी धवलकृष्णशारां कृष्णाजिनले- खामिव दृष्टिमुरसि पातयन्ती सुरभिनिःश्वासपरिमललग्नैमूतः शा- पाक्षरैरिव षट्चरणचक्रैराकृष्यमाणा शापशोकशिथिलितहस्ताधो- मुखीभूतेनोपदिश्यमानमर्त्यलोकावतरणमार्गेव नखमयूखजालकेन रागोऽभूतगुणादिनन्दनम्, रक्तता च । जटाः शिखाः, मूलानि च । वल्कलानि मुनि- वस्त्राणि, त्वचश्च । वृत्तमुक्ताशीलेन त्यक्ता, परिवर्तुलमौक्तिका च । 'जायोपजीवी हि जनः शैलूषः कथितो बुधैः' । आकल्पो वेषः । जातं प्रकारः । अतिलघिमानु- पादेयता तुच्छतमम् । उपर्यवेत्यन्तःप्रवेशाभावात् । लघुश्च जलोपरि प्लवते । 'क- थिता अनेलमूकाः श्रोतुं वक्तुं च खलु न ये शक्ताः । एडास्तु श्रुतिहीना जडास्तु मूर्खा बुधैः प्रोक्ताः' । रोष एव दोषस्तस्य निषद्या नियमेनावस्थितियत्र तस्मिन्बह- दये ते । यद्वा रोषदोषस्य निषद्या आपणस्वं तस्यामन्त्रणम् हे रोषदोषनिषद्ये इति व्याख्येयम् । निगृहीतवान्प्राप्तवान् । 'आगः पापापराधयोः । वैलक्ष्यं ल. नितम् । याप्यो गर्यः । पुनराहेति । अविश्रान्तेऽप्युक्तिक्रमे पुनरित्युपादानं वाच्यतापरिहाराय । वत्से इति प्रसादाविष्करणार्थम् । एषेति । या तवैव स्निग्धा । विनोदयिष्यति सुखयिष्यति। सरखतीत्यादौ सरखत्यपि शप्ता गृहमगा- "दिति संबन्धः । शारशबलां धवलकृष्णामित्येव वक्तव्ये शारग्रहणं संवलितवर्ण- द्वयप्रतीत्यर्थम् । अधोमुखीभूतेनेति । योऽधिकरणवशादनिष्टमुपदिशति । । ।
१४ हर्षचरिते नूपुरव्याहाराहूतैर्भवनकलहंसकुलैब्रह्मलोकनिवासिहृदयैरिवानुगम्य- माना समं सावित्र्या गृहमगात् । अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुं मध्यमं लोकमव- ततारांशुमाली । क्रमेण च मन्दायमाने मुकुलितविसिनीविसर- व्यसनविषण्णसरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलक- टाक्षक्षिप्यमाण इव क्षेपीयः क्षितिधरशिखरमवतरति तरुणतर- कपिलपनलोहिते लोकैकचक्षुषि भगवति, प्रस्नुतमुखमाहेयीयू- थक्षरत्क्षीरधाराधवलितेष्वासन्नचन्द्रोदयोद्दामक्षीरोदलहरीक्षालिते- विव दिव्याश्रमोपशल्येष्वपराक्प्रचारचलिते, चामरिणि चामीकर- तटताडनरणितरदने रदति सुरस्रवन्तीरोधांसि स्वैरमैरावते, प्रसृ- तानेकविद्याधराभिसारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रक- टयति च तारापथे पाटलताम् , तारापथप्रस्थितसिद्धदत्तदिनकरा- स्तमयार्ध्यावर्जिते रजितककुभि, कुसुम्भभासि स्रवति पिनाकिप्र- णतिमुदितसंध्यास्वेदसलिल इव रक्तचन्दनद्रवे, वन्दारुमुनिवृन्दा- रकवृन्दबध्यमानसंध्याञ्जलिवने, ब्रह्मोत्पत्तिकमलसेवागतसकलक- मलाकर इव राजति ब्रह्मलोके, समुच्चारिततृतीयसवनब्रह्मणि ब्र- मणि, ज्वलितवैतानज्वलनज्वालाजटालाजिरेष्वारब्धधर्मसाधनशि- बिरनीराजनेष्विव सप्तर्षिमन्दिरेष्वघमर्षणमुषितकिल्बिषविषगदो- । - । । । स लजादिनावश्यमधोमुखी भवति । जालकं समूहः । व्याहार उक्तिः । मध्यमं लोकं भूमिम् । अंशुमाली रविः। क्रमेणेसादावस्मिन्सति सावित्री सरखती- मवादीदिति संबन्धः। विसरशब्द औणादिकः षण्डपर्यायः। मुदिताः संजातमन्मथाः। कामिन्यः शृङ्गारिण्यः। संभोगान्तरायकारी कथमयमद्यापि नास्तमेतीत्यतः कोपः क्षिप्यमाणश्चातिलरितं पतति।क्षेपीयस्तूर्णतरम् । लपनं वदनम्। लोकेल्यादिना संभो- गविघ्नकारित्वमेव प्रकाश्यते । माहेयी गौः । उद्दामः प्रवृद्धिं गतः । उपशल्यं समी- पम् । चामीकरं सुवर्णम् । रदना दन्ताः। रदति विलिखति । सुरस्रवन्ती गङ्गा । रोधस्तटम् । खैरं खेच्छम् । 'या दूतिका गमनकालमपाहरन्ती सोढुं स्मरज्वर- भरातिपिपासितेव । निर्याति वल्लभजनाधरपानलोभात्सा कथ्यते कविवरैरभिसा- रिकेति ॥' तारापथो नभः । आवर्जिते प्रकीर्णे । ककुभो दिशः । कुसुम्भ पद्मकम् । रक्तचन्दनद्रवे स्रवति सतीति योजना । वन्दारु वन्दनशीलम् । वृन्दा- रकशब्दः प्रशंसायाम् । सवनं प्रातर्मध्याह्ने सायं च सोमयागैकदेशः स्नानमि- सन्ये । ब्रह्म वेदः । वैतानो यज्ञभवः । जटालानि व्याप्तानि । अजिराण्यङ्गनानि । आरब्धे धर्मसाधने शिबिरे पुण्योपकरस्कन्धावारे नीराजनाख्यं शान्तिकर्म येषु । धर्मोपकरणविषये मा दोषाः प्रादुरभवनिति । 'शमनं सर्वपापानां जप्यं त्रिष्वघ- । ।
प्रथम उच्छ्वासः। १५ ल्लाघलघुषु यतिषु संध्योपासनासीनतपस्विपतिपूतपुलिने प्लवमान- नलिनमोनियानहंसहासदन्तुरितोमिणि मन्दाकिनीजले, जलदेव- तातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे, निजमधुमधुरामोदिनि कृत- मधुपमुदि मुमुदिषमाणे कुमुदवने, दिवसावसानताम्यत्तामरसम- धुरमधुसपीतिप्रीते सुषुप्सति मृदुमृणाल काण्डकण्डूयनकुण्डलितकं- धरे धुतपक्षराजिवीजितराजीवसरसि राजहंसयूथे, तटलताकुसु- मधूलिधूसरितसरिति सिद्धपुरपुरंध्रिधम्मिल्लमल्लिकागन्धग्राहिणि सायंतने तनीयसि निशानिःश्वासनिभे नभस्वति, संकोचोदश्चदुच्च- केसरकोटिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्चरणचक्रे, नृ- त्तोद्भूतधूर्जटिजटाटवीकुटजकुमलनिकरनिभे नभस्थलं स्तबकयति तारागणे, संध्यानुबन्धताने परिणमत्तालफलत्वक्त्विषि कालमेघमे- दुरे, मेदिनी मीलयति नववयसि तमसि तरुणतरतिमिरपटलपाटन- पटीयसि समुन्मिषति यामिनीकामिनीकर्णपूरचम्पककलिकाकद- म्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकिरणलावण्यालोकपाण्डुन्या- श्याननीलनीरमुक्तकालिन्दीकूलबालपुलिनायमाने शातक्रतवे, कृ- मर्षणम्' । गदो रोगः । उल्ला, खस्थीकरम् । यतयश्चतुर्थाश्रमिणः । सद्यो जलत्यक्तं तटं पुलिनम् । नलिनयोनिर्ब्रह्मा । हंसानां हासः शौक्ल्यं हंसा एव वा शुक्लतया हासः। दन्तुरा एव दन्तुरिताः । ये च सहासास्ते च लक्ष्यमाणदन्तद्वया दन्तुरा इव दृश्यन्ते । आतपत्रं छत्रम् । पत्ररथाः पक्षिणः । कलत्रं दाराः । मधु मकरन्दः, मद्यं च । मधुपा भ्रमराः, मद्यपाश्च । मुमुदिषमाणे विचकिसिषति। अ- न्यत्र मोदितुमिच्छति । प्रारिप्स्यमानगीतादिगोष्ठीबन्ध इति यावत् । 'मञ्चाः को- शन्ति' इतिवत् । ताम्यदिति । ताम्यन्ति, न तु तान्तानि, प्रदोषस्य न तावत्प्र- वृत्तवात् । मधु, मद्यमपि । सपीतिस्तु सहपानम् । अनेन तु प्रेमातिशय आवेद्यते। सुषुप्सति निद्रासति । मृद्विति । कण्डूयनं विक्रियाविशेषणम् । कुण्डलिता च- क्रीकृता । राजीवं पद्मम् । राजहंसा इत्यत्रैकशेषः । तटशब्दः प्रत्यासत्त्युपलक्ष- णार्थः । पुरंघ्रिरुत्तममहिला। धम्मिल्लाः संयताः कचाः । मल्लिका भूपदी । एषा च सायमेवोन्मिषति । सायंतने दिनान्तभवे । कोशः कुड्मलम् । कोटरमभ्यन्तरम्। कुटी गेहम् । शयनमत्र विश्रमणम्, न तु वापः । पौनरुक्त्यापत्तेः अटवीति विवक्षितम् । तत्रैवाकृत्रिमकुसुमसंबन्धात् । कुटज गिरिमल्लिका । कुझ्मलं कलिका। निकरः समूहः । अनुबन्धः संस्कारः । परिणमज्जरठीभवत् । तालस्तृणराजः। मे- दुरं धनम् । मीलयति स्थगयति । नववयसि प्रत्यग्रे । चम्पको हेमपुष्पकः । आ- श्यानमीषच्छुष्कम् । नीरं जलम् । कालिन्दी यमुना । नीलिमाभिप्रायेणैतत्पदम् । यस्तटभागो बारिणा त्यतस्तत्पुलिनम् । कूलं ततोऽन्यत् । कृशयति तनूकुर्वति । - । । । ।
हर्षचरिते शयति तिमिरमाशामुखे खमुचि मेचकितविकचितकुवलयसरसि शशधरकरनिकरकचग्रहाविले विलीयमाने मानिनीमनसीव शर्व- रीशबरीचिकुरचये चाषपक्षत्विषि तमस्युदिते, भगवत्युदयगिरि- शिखरकटककुहरहरिखरनखरनिवहहेतिनिहतनिजहरिणगलितरु- धिरनिचयनिचितमिव लोहितं वपुरुदयरागधरमधरमिव विभाव- रीवध्वा धारयति श्वेतभानौ, अचलद्युतचन्द्रकान्तजलधाराधौत इव ध्वस्ते ध्वान्ते, गोलोकगलितदुग्धविसरवाहिनि दन्तमयमकर- मुखमहाप्रणाल इवापूरयितुं प्रवृत्ते पयोधिमिन्दुमण्डले, स्पष्टे प्र- दोषसमये सावित्री शून्यहृदयामिव किमपि ध्यायन्तीं सास्रां सरस्वतीमवादीत्-'सखि, त्रिभुवनोपदेशदानदक्षायास्तव पुरो जिह्वा जिह्वेति मे जल्पन्ती । जानास्येव यादृश्यो विसंस्थुला गु- णवत्यपि जने दुर्जनवनिर्दाक्षिण्याः क्षणभङ्गिन्यो दुरतिक्रमणीया न रमणीया देवस्य वामा वृत्तयः । निष्कारणा च निकारकणि- कापि कलुषयति मनस्विनोऽपि मानसमसदृशजनादापतन्ती । अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति । अतिसुकुमारं च जनं संतापपरमाणवो मालतीकुसुम- मिव म्लानिमानयन्ति । महतां चोपरि निपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनायालम् । सहजस्नेहपाशग्रन्थिबन्धनाश्च बा- खमुचि त्यक्ताकाशे । भूभागमवलम्बमान इत्यर्थः । मेचकितं निर्विभागतां नीतम् । शशधरकरैः स्वीकारेण करम्बितेऽत एव क्षयं गच्छति । अन्यत्र चन्द्ररश्मीनां धारणेन सेवनेन किंकर्तव्यतामूढ एवमधिगलल्यातां भजमाने । केशपाशपक्षे तु विस्रंसमाने। चाषः किकोदिविः पक्षी । हरिः सिंहः । नखरा नखाः । हेति- रायुधम् । विभावरी रात्रिः । श्वेतभानुश्चन्द्रः । अचलो.दुदयाचलः, गोलोको रश्मिसमूहो वा मकरमुखमिव मुखमग्रमस्येति समासः । विसंस्थुला निर्मर्यादाः । दुर्जनवनिर्दाक्षिण्याः क्रूराः । क्षणभङ्गिन्य इत्याश्वासनगर्भेयमुक्तिः । वामाश्च स्त्रिय ईदृश्य एव । निकारः परिभवः। कणिका लेशः, शर्करिका च । कलुषयति दूषयति । कालुष्यं नयति च । मानसं चेतः, सरश्च । अनवरतमश्रुणा सिच्यमानः। अनवरतं घटसारणीप्रणालादिना नयनं प्रापणं यस्य तादृशा जलेनोक्ष्यमाणश्च । विपल्लव आपल्लेशः, विगतपल्लवश्च । प्ररोहति स्थिरीभवति । तरुपक्षे प्ररोहा वि- बन्ते यस्य स प्ररोहः, स इवाचरति प्ररोहतीति व्याख्या। संतापः खेदः, ऊष्मा च । मालतीकुसुमं सुमनःपुष्पमतिसुकुमारम् । महान्त उत्तमाः द्राधीयांसश्च । मु. णिरङ्कुशः। मातरोऽपि जन्मभूमयः । दारुणो विषमः, काष्ठस्य च । क्रकचः कर- । । ।
प्रथम उच्छ्वासः। न्धवभूता दुस्त्यजा जन्मभूमयः । दारयति दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः । सा नार्हस्येवं भवितुम् । अभूमिः खल्वसि दुःखक्ष्वेडाङ्करप्रसवानाम् । अपि च पुराकृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रष्ठे पृष्ठतश्च कोऽवसरो विदुषि, शुचाम् । इदं च ते त्रिभुवनमङ्गलैककमलम- मङ्गलभूताः कथमिव मुखमपवित्रयन्त्यश्रुबिन्दवः। तदलम् । अधुना कथय कतमं भुवो भागमलंकर्तुमिच्छसि । कस्मिन्नवतितीर्षति ते पुण्यभाजि प्रदेशे हृदयम् । कानि वा तीर्थान्यनुग्रहीतुमभिलपसि केषु वा धन्येषु तपोवनधामसु तपस्यन्ती स्थातुमिच्छसि । सज्जो- ऽयमुपचरणचतुरः सहपांशुक्रीडापरिचयपेशलः प्रेयान्सखीजन: क्षितितलावतरणाय। अनन्यशरणा चाद्यैव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्वविद्याविधातारं दातारं च श्वःश्रेयसस्य चर- णरजःपवित्रितत्रिदशासुरं सुधासूतिकलिकाकल्पितकर्णावतंसं देव- देवं त्रिभुवनगुरुं त्र्यम्बकम् । अल्पीयसैव कालेन स ते शापशो- कविरतिं वितरिष्यति' । इति । एवमुक्ता मुक्तमुक्ताफलधवललोचनजललवा सरस्वती प्रत्यवा- दीत्-'प्रियसखि, त्वया सह विचरन्त्या न मे कांचिदपि पी- डामुत्पादयिष्यति ब्रह्मलोकविरहः शापशोको वा । केवलं कमला- सनसेवासुखमायति मे हृदयम् । अपि च त्वमेव वेत्सि मे भुवि धर्मधामानि समाधिसाधनानि योगयोग्यानि च स्थानानि स्था- तुम्' इत्येवमभिधाय विरराम । रणरणकोपनीतप्रजागरा चा- चानिमीलितलोचनैव तां निशामनयत् । पत्रम् । हृदयं चित्तम्, मध्यं च । संस्तुतः परिचितः । सेति । सर्वनामपदं जा- नासीत्यादि पूर्वोक्तार्थगर्भीकारेण । अभूमिरस्थानम् , अक्षेत्रं च । श्वेडो विषम् । शुभेऽशुभे वेत्यादि । सप्रतिपक्षा लोकोक्तिरियम् । 'अव्युत्पन्नमतिः कृतेन न सता नैवासताप्याकुलः', 'गतासूनगतारांश्च नानुशोचन्ति पण्डिताः' इत्यादिवत् । अधिष्ठातरि खामिनि । प्रष्ठेऽग्रगामिनि । अपवित्रता नयन्ति, न तु शोभा त्या- जयन्ति । धामसु स्थानेषु । तपस्यन्ती तपश्चरन्ती । सज्जः प्रगुणः । आज्ञाकार्य- यमिति दृष्टवरूपः । निःसामान्यविस्रम्भभाजनतामभिव्यनक्ति सखीजनशब्दः । श्वःश्रेयसस्य कल्याणश्च दातारम् । सुधासूतिश्चन्द्रः । कलिका तरिका । शापविर- तिर्ब्रह्मणैवोक्ता । अतस्तत्र किमन्यापेक्षयेत्याशङ्कयाह-अल्पीयसैव कालेनेति। आर्द्रयति स्नेहयति । धर्मधामानि मध्यदेशादीनि । समाधिश्चित्तैकाग्र्यम् । । ।
१८ हर्षचरिते - अपरेधुरुदिते भगवति त्रिभुवनशेखरे खणखणायमानस्खल- त्खलीनक्षतनिजतुरगमुखक्षिप्तेन क्षतजेनेव पाटलितवपुष्युदयाचल- चूडामणौ जरत्कृकवाकुचूडारुणारुणपुरःसरे विरोचने नातिदूरवर्ती विविच्य पितामहविमानहंसकुलपालः पर्यटन्नपरवक्रमुच्चैरगायत्- 'तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते। अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम्॥२१॥ तच्छ्रुत्वा सरस्वती पुनरचिन्तयत् 'अहमिवानेन पर्यनुयुक्ता। भवतु । मानयामि मुनेर्वचनम्' इत्युक्त्वोत्थाय कृतमहीतलाव- तरणसंकल्पा परित्यज्य वियोगविक्लवं स्वपरिजनं ज्ञातिवर्गमवग- णय्यावगणा त्रिः प्रदक्षिणीकृत्य चतुर्मुखं कथमप्यनुनयनिवर्तिता- नुयायिव्रतिव्राता ब्रह्मलोकतः सावित्रीद्वितीया निर्जगाम । ततः क्रमेण ध्रुवप्रवृत्तां धर्मधेनुमिवाधोधावमानधवलपयोधराम्, योगे हि तदुक्तम्-'आदौ समाधिमासीत पश्चाद्योगमुपाचरेत्' इति । रणरणको दुःखमरतिकृतम् । अपरेारपरस्मिन्नहनि । एते च कालाः संख्यादयो व्यवहारा इहत्या ब्रह्मलोक उपचरिताः । शेखर इव शेखरो मुण्डमालकः । खलीनं कविका । क्षत रक्तम् । कृकवाकुः कुक्कुटः । चूडा मांसमयी शेखरिका । विविच्य विचार्य । विमानपाल: स्वप्रस्तावे हंसी यदाह तेन सरस्वती पर्यनुयोजितेवाभूत् । अपरवक्राख्यं वृत्तमाख्यायिकासु प्रयोज्यम् । तथा चाह भामहः-'वकं चाप- रवकं च काव्ये काव्यार्थशंसिनि' इति । तरलयसीत्यादि । अकलुषं मानसं यस्य स निर्मलचेता ब्रह्मा, मानसाख्यं च सरः । लालिता शीलिता । वापिका- पुष्करिणी उप्यन्तेऽस्यां तानि कर्माणीति वापिका मर्त्यभूमिरपि । पङ्कजमा- लयो यस्य स ब्रह्मा, सरश्च । पर्यनुयुक्ता उपपत्त्या बोधिता । अवगणा केवला सावित्रीव्यतिरेकेण नान्यपरिवारा । कथमपीति । न भृत्यादिवत् । व्रतिव्रा- तस्तपखिसमूहः। तत इत्यादावीदृशं मन्दाकिनीमनुसरन्ती सरखती मर्त्यलोकमवततारेति संब- न्धः। ध्रुवं नित्यं वियत् । तस्मात्प्रवृत्ताम् । ध्रुवस्तारकविशेषो ध्रुवान्नित्यस्थानाद्वा विष्णोर्वा ध्रुवावूरू पश्चाद्भागौ सक्थिनी ध्रुवे वा तयोःप्रकर्षेण वृत्तां परिवर्तुलां वा। अध इति पदेन धावनक्रियासहत्वाज्जलस्य ग्रहणं सूच्यते । अत एव धवलाःशुक्लाः पयोधरा मेघा यस्यास्ताम् । इतरत्राधोधावमानाः पयःपूर्णत्वालम्बमानाः क्षीरसुते- श्व धवलाः स्तना यस्याः । अधोधावमानं वेगेन प्रसरद्धवलं पयो धारयति या ताम्, अघोधावमानो धवलो यः पयोधो वत्सस्तं राति ददाति या ताम् , स्तस्मै पयो धारयति या तां वेत्यादिकाः कुव्याख्या एव । उद्धर उद्भटः । अन्ध- । । । धवलो वृष- १ ९ प्रथम उच्छासः । उद्धुरध्वनिमन्धकमथनमौलिमालतीमालिकाम्,आलीयमानवालखि- ल्यरुद्धरोधसमरुन्धतीधौततारवत्वचम्, त्वङ्गतुङ्गतरङ्गतरत्तरलतर- तारतारकाम् , तापसवितीर्णतरलतिलोदकपुलकितपुलिनाम्, आप्ल- वनपूतपितामहपातितपितृपिण्डपाण्डुरितपाराम्, पर्यन्तसुप्तसप्तर्षि- कुशशयनसूचितसूर्यग्रहसूतकोपवासाम् , आचमनशुचिशचीपतिमु- च्यमानार्चनकुसुमनिकरशाराम् ,शिवपुरापतितनिर्माल्यमन्दारदाम- कामनादुरदारितमन्दरदरीदृषदम् , अनेकनाकनायकनिकायकामि- नीकुचकलशविलुलितविग्रहाम् , ग्राहग्रावग्रामस्खलनमुखरितस्रोतसं, सुषुम्णात्रुतशशिसुधाशीकरस्तबकतारकिततीराम्, धिषणाग्निकार्य- धूमधूसरितसैकतां, सिद्धविरचितवालुकालिङ्गलङ्घनत्रासविद्रुतवि- द्याधराम्, निर्मोकमुक्तिमिव गगनोरगस्य, लीलाललाटिकामिव त्रि- विष्टपविटस्य, विक्रयवीथीमिव पुण्यपण्यस्य, दत्तार्गलामिव नर- कनगरद्वारस्य, अंशुकोष्णीषपट्टिकामिव सुमेरुनृपस्य, दुगूलकदलि- कामिव कैलासकुञ्जरस्य, पद्धतिमिवापवर्गस्य, नेमिमिव कृतयुगस्य, सप्तसागरराजमहिषी मन्दाकिनीमनुसरन्ती मर्त्यलोकमवततार। अ- पश्यच्चाम्बरतलस्थितैव हारमिव वरुणस्य, अमृतनिर्झरमिव चन्द्रा- चलस्य, शशिमणिनिष्यन्दमिव विन्ध्यस्य, कर्पूरद्रुमद्रवप्रवाह मिव दण्डकारण्यस्य, लावण्यरसप्रस्रवणमिव दिशाम्, स्फाटिकशिलाप- दृशयनमिवाम्बरश्रियाः, स्वच्छशिशिरसुरसवारिपूर्ण भगवतः पि- तामहस्यापत्यं हिरण्यवाहनामानं महानदम्,य जनाः शोण इति कथ- कमथनः शिवः । आलीयमानाः श्लिष्यन्तः। वालखिल्या मुनिभेदाः। रोधस्तटम्। खच्चरत् । आप्लवनं स्नानम् । पितरो देवविशेषाः, आज्यपाः, सोमपाः, बर्हिष- धश्च । आचमनेत्यादिना पितामहवन्न स्नानादिनिष्ठावमस्योच्यते । अत एव शची- पदेन संभोगासक्तत्वमिव पोषितम् । निकायः समूहः । सुषुम्णाख्योऽमृतमयो र- विरश्मिः । धिषणो बृहस्पतिः । सिद्धकृतत्वेन लिङ्गेषु भगवत्संनिधानमावेद्यते । निर्मोकः सर्पकञ्चकः । विस्रंसतया शुक्लत्वेन लहरिकावलीत्वेन च निर्मोकमुक्तिमि- वेत्युप्रेक्षा । गगनमिवोरगः कृष्णतया । ललाटिका ललाटालंकारः । विटो भुजङ्गः। उष्णीषं शिरोवेष्टनं दिक्षु प्रसिद्धम् । दुगूलशब्दो दुकूलसमानार्थः। पद्धतिर्मार्गः । अ- पवर्गों मोक्षः। कृतयुगस्य रचितयुगकाष्टस्य रथस्येत्यर्थः। यथा नेमिवशाद्रथग्रहणं तथा तद्वशात्कृताख्यस्य युगस्य । सप्तसागरराजः क्षीरसमुद्रः। चन्द्राख्यः पर्वत इति के- चित् । शशिमणिश्चन्द्रकान्तः । पितामहस्येति । तद्भक्त्या तदाश्रयणम् । सिकता विद्यन्ते यस्य स सिकतिलः । मत्तशब्देन सशब्दत्वम् , वेणीपदेन च तन्त्रीसंनिवेश- । .
२० हर्षचरिते । यन्ति । दृष्ट्वा च तं रामणीयकहतहृद्या तस्यैव तीरे वासमरचयत्। उवाच च सावित्रीम्-'सखि, मधुरमयूरविरुतयः कुसुमपांशुपट- लसिकतिलतरुतलाः परिमलमत्तमधुपवेणीवीणारणितरमणीया रम- यन्ति मां मन्दीकृतमन्दाकिनीद्युतेरस्य महानदस्योपकण्ठभूमयः । पक्षपाति च हृदयमत्रैव स्थातुं मे' इति । अभिनन्दितवचना च तथे- ति तया तस्य पश्चिमे तीरे समवातरत् । एकस्मिंश्च शुचौ शिलातल- सनाथे तटलतामण्डपे गृहबुद्धिं बबन्ध । विश्रान्ता च नातिचिरा- दुत्थाय सावित्र्या सार्धमुचितार्चनकुसुमा सनौ । पुलिनपृष्ठप्रति- ष्ठितसैकतशिवलिङ्गा च भक्त्या परमया पञ्चब्रह्मपुरःसरां सम्यङ्मु- द्राबन्धविहितपरिकरां ध्रुवागीतिगर्भामवनिपवनवनगगनदहनतप- नतुहिनकिरणयजमानमयीमूर्तीरष्टावपि ध्यायन्ती सुचिरमष्टपुष्पि- कामदात् । अयत्नोपनतेन फलमूलेनामृतरसमप्यतिशिशयिषमाणेन च स्वादिना शिशिरेण शोणवारिणा शरीरस्थितिमकरोत् । अति- वाहितदिवसा च तस्मिल्लतामण्डपशिलातले कल्पितपल्लवशयना सुष्वाप । अन्येधुरप्यनेनैव क्रमेण नक्तंदिनमत्यवाहयत् । एवमतिक्रामत्सु दिवसेषु गच्छति च काले याममात्रोद्गते च रवावुत्तरस्यां ककुभि प्रतिशब्दपूरितवनगह्वरं गम्भीरतारतरं तुर- गहेषितहादमशृणोत् । उपजातकूतूहला च निर्गय लतामण्डपा- द्विलोकयन्ती विकचकेतकीगर्भपत्रपाण्डुरं रजःसंघातं नातिदवी- । - सादृश्यमाह । वेणी पतिः । लिङ्ग्यतेऽनेनेति लिङ्गमाकारः । पञ्च ब्रह्माणि सद्योजा- तः, वामदेवः अघोरः, तत्पुरुषः, ईशानश्चेति । मुद्राबन्धो विशिष्टः कराडलिसंनि- वेशः। ध्रुवाख्या विशिष्टा गीतिः । वनं तोयम् । यजमान उग्रः । अष्टौ पुष्पाण्येवाटपु- ष्पिका । तत्र प्रभृति गन्धप्रधानं पार्थिवम् , अर्घस्नानादिकं रसप्रधानमाप्यम्, प्रदीपा भरणप्रभादिरूपप्रधानं तैजसम् , अनुलेपनप्रभृति स्पर्शप्रधानं वायवीयम्, सुषिरातो- द्यगीतादिकं शब्दप्रधानमाकाशीयम्, अनुध्यानं मानसम्, अस्ति सर्वत्रैवेश्वर इति निश्चयो बौद्धम् , अहमेवेश्वर इत्याहंकारिकम् । यद्वा आसनवर्गप्रभृतिष्वष्टसु प्रत्ये- कमष्टपुष्पिका । अतिशेतुमभिभवितुमिच्छतातिशिशयिषमाणेन । खादिम्ना मृष्ट- त्वेन । शरीरस्थितिमिति । न खातृप्तिभोजनम् । अन्येयुरन्यस्मिन्नहनि । यामः प्रहरः । नक्तंदिनशब्देन तत्कालनिवर्तनीयं कर्मैव लक्ष्यते । गम्भीर- चिरकालस्थितः । तारतरो दूरदेशश्रूयमाणः । हेषितमश्वशब्दः, तद्रूपो ह्रादो ध्व- निस्तम् । क्रमेणेसादावश्ववृन्दं संददर्शेति संबन्धः । शफरा मत्स्याः। तदुदरवत्तै- श्च धूसरे। प्रलम्बेत्यादिना सज्जवमुक्तम् । कचाः केशाः। सौकुमार्यात्पल्लवानीव ।घ- प्रथम उच्छासः । २१ यसि संमुखमापतन्तमपश्यत् । क्रमेण च सामीप्योपजायमाना- भिव्यक्ति तस्मिन्महति शफरोदरधूसरे रजसि पयसीव मक- रचक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्बकुटिलकचपल्लवघटितल- लाटजूटकेन, धवलदन्तपत्रिकाद्युतिहसितकपोलभित्तिना, पि- नद्धकृष्णागुरुपङ्ककल्कच्छुरणकृष्णशबलकषायकञ्चुकेन, उत्तरीय- कृतशिरोवेष्टनेन, वामप्रकोष्ठनिविष्टस्पष्टहाटककटकेन, द्विगुणपट्ट- पट्टिकागाढग्रन्थिग्रथितासिधेनुना, अनवरतव्यायामकृशकर्कशश- रीरेण, वातहरिणयूथेनेव मुहुर्मुहुः खमुड्डीयमानेन, लचितसमवि- यमावटविटपेन, कोणधारिणा, कृपाणपाणिना, सेवागृहीतविवि- धवनकुसुमफलमूलपर्णेन, 'चल चल, याहि याहि, अपसर्पाप- सर्प, पुरः प्रयच्छ पन्थानम्' इत्यनवरतकृतकलकलेन युवप्रायेण, सहस्रमात्रेण पदातिबलेन सनाथमश्ववृन्दं संदर्श । मध्ये च तस्य सार्धचन्द्रेण मुक्ताफलजालमालिना विविधरत्न- खण्डखचितेन शङ्खक्षीरफेनपाण्डुरेण क्षीरोदेनेव स्वयं लक्ष्मी दातु- मागतेन गगनगतेनातपत्रेण कृतच्छायम्, अच्छाच्छेनाभरणद्युतीनां निवहेन दिशामिव दर्शनानुरागलग्नेन चक्रवालेनानुगम्यमानम् , आनितम्बविलम्बिन्या मालतीशेखरस्रजा सकलभुवनविजयाजि- तया रूपपताकयेव विराजमानम्, उत्सपिभिः शिखण्डखण्डिका- पद्मरागमणेररुणैरंशुजालैरदृश्यमानवनदेवतांविधृतैर्बालपल्लवैरिव प्रमृज्यमानमार्गरेणुपरुषवपुषम् , बकुलकुड्मलमण्डलीमुण्डमालाम- ण्डनमनोहरेण कुटिलकुन्तलस्तबकमालिना मौलिना मीलितातपं टितललाटजूटता दाक्षिणात्येषु वेशः । दन्तपत्रिका कर्णाभरणभेदः । पिनद्धों बद्धः । कृष्णागुरुणः पङ्को निघृष्टं कृष्णागुरुः, तस्य शुक्लस्य सतः कल्कचूर्णः, तच्छु- रणात्कृष्णेन गुणेन शबलं कषायं साधिवासितं कञ्चकं वारबाणं यस्य । उ- त्तरीयेत्यादिना संनद्धतां वर्मादिप्रसङ्गं चाह । वामेत्यनेनाश्रमिस्वभाववर्णना शृङ्गारिता चोक्ता । 'प्रकोष्ठमन्तरं विद्यादरनिमणिबन्धयोः' । हाटकं स्वर्णम् । यदेव द्विगुणात एव गाढग्रन्थिसहत्वम् । ग्रथितावित्रंसिनी । असिधेनुश्छुरिका । वातहारिणो यो वाताभिमुखं धावति । अवट उन्मार्गः । कोणो लगुडः । मध्य इत्यादौ तस्य च मध्येऽष्टादशवर्षदेशीयं युवानमद्राक्षीदिति संवन्धः । क्षीरोदस्याप्यर्धचन्द्रादि सर्व योज्यम् । छाया कान्तिरपि । चक्रवालेन समूहेन । नितम्बशब्दो मुख्यार्थः । 'पश्चानितम्बः स्त्रीकय्याः' इत्यर्थः । शिखण्डखण्डिको चूडाभरणम् । प्रमृज्यमानेति । वर्तमानकालोऽत्र विवक्षितः । बकुलेल्यादिना २२ हर्षचरिते न्तम्, पिबन्तमिव दिवसम् , पशुपतिजटामुकुटमृगाङ्कद्वितीयशकलघटि- तस्येव सहजलक्ष्मीसमालिङ्गितस्य ललाटपट्टस्य मनःशिलापङ्कपि- गलेन लावण्येन लिम्पन्तमिवान्तरिक्षम्, अभिनवयौवनारम्भाव- ट्रम्भप्रगल्भदृष्टिपाततृणीकृतत्रिभुवनस्य चक्षुषः प्रथिम्ना विकचकु- मुदकुवलयकमलसरःसहस्रसंछादितदशदिशं शरदमिव प्रवर्तय- आयतनयननदीसीमान्तसेतुबन्धेन ललाटतटशशिमणिशि- लातलगलितेन कान्तिसलिलस्रोतसेव द्राधीयसा घोणावंशेन शो- भमानम्, अतिसुरभिसहकारकर्पूरककोललवङ्गपारिजातकपरिम- लमुचा मत्तमधुकरकुलकोलाहलमुखरण मुखेन सनन्दनवनं वस- न्तमिव वसन्तम् , आसन्नसुहृत्परिहासभावनोत्तानितमुखमुग्ध- हसितैर्दशनज्योत्स्नानपितदिङ्मुखैः पुनःपुनर्नभसि संचारिणं च- न्द्रालोकमिव कल्पयन्तम् , कदम्बमुकुलस्थूलमुक्ताफलयुगलमध्या- ध्यासितमरकतस्य त्रिकण्टककर्णाभरणस्य प्रेक्षतः प्रभया समुत्स- पन्त्या कृतसकुसुमहरितकुन्दपल्लवकर्णावतंसमिवोपलक्ष्यमाणम् , आमोदितमृगमदपङ्कलिखितपत्रभङ्गभास्वरम् , भुजयुगलमुद्दामम- कराक्रान्तशिखरमिव मकरकेतुकेतुदण्डद्वयं दधानम्, धवलब्रह्मसूत्र- सीमन्तितं सागरमथनसामर्षगङ्गास्रोतःसंदानितमिव मन्दरं देह- मुद्वहन्तम्, कर्पूरक्षोदमुष्टिच्छुरणपांशुलेनेव कान्तोच्चकुचचक्रवा- कयुगलविपुलपुलिनेनोरःस्थलेन स्थूलभुजायामपुजितम्, पुरो वि- स्तारयन्तमिव दिक्चक्रम्, पुरस्तादीषदधोनाभिनिहितैककोणकम- नीयेन पृष्टतः कक्ष्याधिकक्षिप्तपल्लवनोभयतः संवलनप्रकटितोरुत्रि- भागेन हारीतहरिता निबिडनिपीडितेनाधरवाससा विभज्य- मानतनुतरमध्यभागम्, अनवरतश्रमोपचितमांसकठिनविकटमक- निपीयमानातपतुल्यवस्तुनिर्देशः। कुन्तलः केशहस्तः स एव स्तबकः । पुष्पस्तबकः पुष्पसंघातः। सहजाकृत्रिमा, सहोत्पन्ना च। लक्ष्मीः शोभना, श्रीश्च । लावण्यमत्र कान्तिः । अवष्टम्भो गर्वः । द्राधीयसा दीर्घतरेण । सहकारः सुगन्धद्रव्यभेदः सह- कारफलेनेव क्रियते । पारिजातकोऽनेकद्रव्यसंस्कृतः मुखवासविशेषः, देववृक्षश्च । वसन्तश्चैवंविधेनैवं मुखेन प्रारम्भेनोपलक्षितो भवति । रत्नत्रितयेन कृतं त्रिकोणक- ण्टकाख्यं कर्णाभरणम् । मृगमदः कस्तूरिका । संदानितं बद्धम् । वेष्टितमित्यर्थः । कुचावत्र कान्तासंबन्धिनावेव । चक्रवाकयुगलं तस्य कृते पुलिनसदृशम् । कोणः पल्लवः पृष्ठतः पश्चाद्भागे कक्ष्यायाः परिवलनादधिकश्रुतिरित्युक्तः । क्षिप्तो लम्ब- मानः पल्लवो यस्य तत् । संवलनं संकोचनम् । हारीतः पक्षिभेदः । हरिता नीलेन । ।
प्रथम उच्छासः । २३ अग्रतः रमुखसंलग्नजानुभ्यां विशालवक्षःस्थलोपलवेदिकोत्तम्भनशिलास्त- म्भाभ्यां चारुचन्दनस्थासकस्थूलकान्तिभ्यामूरुदण्डाभ्यामुपहस- न्तमिवैरावतकरायामम् , अतिभरितोरूभारवहनखेदेनेव तनु- तरजङ्घाकाण्डं कल्पपादपपल्लवद्वयस्येव पाटलस्योभयपाविल- म्बिनः पाद्वयस्य दोलायमानैर्नखमयूखैरश्वमण्डनचामरमालामिव रचयन्तम्, अभिमुखमुच्चैरुदञ्चद्भिरतिचिरमुपरिविश्राम्यद्भिरिव वलितविकटम्, पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्त-- खणखणायितखरखलीने दीर्घघ्राणलीनलालिकललाटलुलितचारु- चामीकरचक्रके शिञानशातकौम्भजयनशोभिनि मनोरंहसि गोलाङ्गूलकपोलकालकायलोग्नि नीलसिन्धुवारवणे वाजिनि महति समारूढम्, उभयतः पर्याणपट्टश्लिष्टहस्ताभ्यामासन्नपरिचारकाभ्यां दोधूयमानधवलचामरिकायुगलम्, पठतो बन्दिनः सुभाषितमुत्कण्टकितकपोलफलकेन लग्नकर्णोत्पलकेसरपक्ष्मशक- लेनेव मुखशशिना भावयन्तम्, अनङ्गयुगावतारमिव दर्शयन्तम् , चन्द्रमयीमिव सृष्टिमुत्पादयन्तम्, विलासप्रायमिव जीवलोकं जनयन्तम्, अनुरागमयमिव मार्गान्तरमानयन्तम्, शृङ्गारमय- मिव दिवसमापादयन्तम्, रागराज्यमिव प्रवर्तयन्तम्, आकर्ष- णाञ्जनमिव चक्षुषोः, वशीकरणमन्त्रमिव मनसः, स्वस्थावेशचूर्णमि- वेन्द्रियाणाम्, असंतोषमिव कौतुकस्य, सिद्धयोगमिव सौभाग्यस्य, मकरमुखं जानुनोरुपरिभागः । उत्तम्भनं धारणम् । स्थासकश्चन्द्रकः । आयामो दैर्घ्यम् । न केवलमायाम शुक्लवमप्युपहसन्तम् । धर्मयोरेकनिर्देशोऽन्यसंवित्सा- हचर्यात् । 'अतिभरितोरूभारवहनेन' इति पाठः । ऊरू एव भारः । प्रशस्ता जंघा जंघाकाण्डम् । कल्पपादपसंबन्धितया न केवलं लौहित्यं सौकुमार्याद्युच्यते । यावत्सकलसंपत्फलप्रदत्वादिप्रकर्षान्तरम् । अतिचिरमित्यादिनानाकुलवमुच्यते । यदुक्तम्-'आवृता कुञ्चिता स्थूलदलपाल्यग्रसंस्थिताः । विवाश्चाकुलपदन्यासेन गमनेन च॥' इति । विकटं चित्रम्। खुरैरिति । तद्व्यापारवैचित्र्याबहुलमग्रिमयो- रेव । एवंविधसंनिवेशसंभवात् । खलीनं कविका । लालिका कविकाशेखरम् । जयनं हयमण्डनमाला । गोलाङ्गलः कृष्णमुखो वानरः । नीलेत्यादौ कुमुदकुन्दमृणालगौर इत्यादिवन पौनस्क्त्यम् । महतीति । उक्तं च-'सर्वलक्षणहीनोऽपि महाकायः प्रशस्यते' इति । आसन्नेत्यनेन विश्वसनीयत्वमुक्तम्। अनङ्गयुगेति । अनङ्गजन्मना यदुपलक्षितं युगं कालविशेषस्तस्य नूतनमदनसादृश्यात् । यद्वा अनङ्गयोयुगं तद- वतारमिव । द्विवसंख्यापूर्वकत्वात्। चन्द्रमयीमिवेति कान्तिमयत्वेन । आकर्षणाञ्जनं वशीकरणार्थं कज्जलम् । असंतोषमिवेति । यस्यैनं प्राप्य कौतुकं न निवर्तते, , ।
हर्षचरिते पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौवनस्य, एकराज्यमिव रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य, मूलकोषभिव लावण्यस्य, पुण्यकर्मपरिणाममिव संसारस्य, प्रथमाङ्कुरमिव कान्तिलतायाः, सर्गाभ्यासफलमिव प्रजापतेः; प्रतापमिव विभ्रमस्य, यशःप्रवाह- मिव वैदग्ध्यस्य, अष्टादशवर्षदेशीयं युवानमद्राक्षीत् । पार्श्वे च तस्य द्वितीयमपरसंश्लिष्टतुरङ्गम्, प्रांशुमुत्तप्ततप- नीयस्तम्भाकारम्, परिणतवयसमपि व्यायामकठिनकायम्, नीचनखश्मश्रुकचम्, शुक्तिखलतिम्, ईषत्तुन्दिलम्, रोमशोर:- स्थलम्, अनुल्बणोदारवेशतया जरामपि विनयमिव शिक्षयन्तम्, गुणानपि गरिमाणमिवानयन्तम्, महानुभावतामपि शिष्यतामिवा- नयन्तम्, आचारस्याचार्यकमिव कुर्वाणम्, धवलवारवाणधारि- णम्, धौतदुकूलपट्टिकापरिवेष्टितमौलिं पुरुषम् । अथ स युवा पुरोयायिनां यथादर्शनं प्रतीत्य विस्मितम- नसां कथयतां पदातीनां सकाशादुपलभ्य दिव्याकृति तत्कन्या- युगलमुपजातकुतूहलः प्रतूर्णतुरगो दिक्षुस्तं लतामण्डपोदेशमाज- गाम । दूरादेव च तुरगादवततार । निवारितपरिजनश्च तेन द्वि- तीयेन साधुना सह चरणाभ्यामेव सविनयमुपससर्प । कृतोपसं- तस्य संतोष एव नास्ति । केषांचिदेव द्रव्याणां संबन्धी यो न कदाचित्कार्ये व्यभि-.. चरति स सिद्धयोगः । सौभाग्यं तावत्सर्वे किंचन वशीकुरुते, एवं चास्य तदेव सिद्धयोग इव तदाश्रयणतनिःशेषलोकवशीकरणक्षमत्वम् । जन्मदिवसमिति तद्गो- चरपतितानां कामोत्पत्तेः । रसायनमिवेति । यथा रसायनक्शात्कश्चित्परि- पूर्णश्च स्थिरश्च भवति, तद्वदेतदाश्रयेण यौवनम् । ईषदसमाप्तोऽष्टादशवर्षोऽष्टाद- शवर्षदेशीयस्तम् । न परेण संश्लिष्टस्तुरङ्गो यस्य तम् । दधीचस्य तु पर्याणश्लिष्टा- युक्तम् । परिणतवयस्त्वेन सत्यवादिना सावित्रीसरस्वत्यौ प्रति च विस्रम्भकारिख- मुच्यते । अन्यथोपक्रम एव संभाषणमात्रं न प्रवर्तते । शुक्तिखलतिं शुक्लाकारखल्वाटम् । तुन्दिलं लम्बोदरम् । अत एवास्य विकु- क्षिरिति नाम । अनुल्बणोऽनुद्धतः । उदारः श्रेष्ठः । जरामिति । जरा किल सर्व विनयं शिक्षयति । महानुभावता महाशयता । अनुभावयति कार्यमकार्य वा बोधयतीत्यनुभावः । शिष्यतामिति । परशासनदक्षकर्म महानुभावतया तत एवावसीयत इत्युक्तं भवति । आचारः शास्त्रकारप्रदर्शिता विशिष्टा नीतिः । सच सर्वस्मिन्नाचार्यकमवलम्बते । संस्कारातिशयमापादयतीत्यर्थः । वलक्षः शुक्लः । वारबाणः कञ्चकः । मौलेयाः केशाः। अथेति । नतु गतागतिकतया सर्वचेतनाभिप्रायेण सौन्दर्यमेतयोरभिव्यज्यते । प्रतीत्य न पुनः प्रसङ्गत उपेत्य । कन्यकालादेतन्नानुचितम् । प्रतूर्णो वेगगामी । - प्रथम उच्छ्रासः। २५ ग्रहणौ तौ सावित्री समं सरस्वत्या किसलयासनदानादिना सकु- सुमफलार्ध्यावसानेन वनवासोचितेनातिथ्येन यथाक्रममुपजग्राह । आसीनयोश्च तयोरासीना नातिचिरमिव स्थित्वा तं द्वितीयं प्रव- यसमुद्दिश्यावादीत्-'आर्य, सहजलजाधनस्य प्रमदाजनस्य प्र- थमाभिभाषणमशालीनता, विशेषतो वनमृगीमुग्धस्य कुलकुमारी- जनस्य । केवलमियमालोकनकृतार्थाय चक्षुषे स्पृहयन्ती प्रेरयत्यु- दन्तश्रवणकुतूहलिनी श्रोत्रवृत्तिः। प्रथमदर्शने चोपायनमिवोप- नयति सज्जनः प्रणयम् । अप्रगल्भमपि जनं प्रभवता प्रश्रयेणा- र्पितं मनो मध्विव वाचालयति । अयत्नेनैव चातिनने साधौ धनुषीव गुणः परां कोटिमारोपयति विस्रम्भः । जनयन्ति च वि- स्मयमतिधीरधियामदृष्टपूर्वा दृश्यमाना जगति स्रष्टः सृष्ट्यति- शयाः यतस्त्रिभुवनाभिभावि रूपमिदमस्य महानुभावस्य । सौज- न्यपरतन्त्रा चेयं देवानांप्रियस्यातिभद्रता कारयति कथां न तु यु- वतिजने सहोत्था तरलता। तत्कथयागमनेनापुण्यभाक्कतमो वि- जृम्भितविरहव्यथः शून्यतां नीतो देशः । क वा गन्तव्यम् । कस्य वायमपहृतहरहुंकाराहंकारोऽपर इवानन्यजो युवा । किं- नाम्नः समृद्धतपसः पितुरयममृतवर्षी कौस्तुभमणिरिव हरेर्हृदय- माह्लादयति । का चास्य त्रिभुवननमस्या प्रभातसंध्येव महतस्ते- जसो जननी । कानि वास्य पुण्यभाजि भजन्त्यभिख्यामक्षराणि । । । - । साधुना विनीतेन । 'उपसंग्रहणं धीराः कथयन्त्यभिवादनम्। आतिथ्यमेवोपजग्राहा- पूजयत्। 'प्रवयाः स्यात्परिणतः' । अशालीनता धृष्टता। वनशब्देन मृगीसामान्येऽपि जनसंपर्काद्यभावमाह । उपायनं दौकनिका । उपनयति ढोकयति । प्रगल्भमि- त्यादि । मनः कर्तृ अप्रगल्भमपि जनं वाचालयति । कीदृशम् । प्रभवता खामिना प्रश्रयेण प्रत्यर्पितं दत्तमेवंविधमस्मदीयं युष्मासु मन इति बहिःप्रकाशितं यश्च परतश्च केनापि प्रभावशीलेन दौकितं मध्वप्रगल्भमपि जनं कुलयोषित्प्रायं वाचा. लयति किंचन जल्पयति । अनापि प्रश्रयेणेति साभिप्रायम् । तथा च 'अन्य- थान्यवनितागतचित्तं चित्तनाथमभिशक्षितवत्या । पीतभूरिसुरयापि न मोदे निव- तिर्हि मनसो मदहेतोः ॥' इत्युक्तम् । नम्रे प्रह्वे, कुब्जे च । गुणो विनयादिः, ज्या च । कोटिः प्रकर्षः, धनु:शिखा च । देवानांप्रियस्येति पूजावचनम् । षष्ठ्या अलु- क् । अत्रागमनेत्यादिना ब्रह्मोक्तशापबुद्ध्या दधीचस्य तद्भर्तृयोग्यतया कतम इति देशोत्कर्षकुलादिकं पृच्छति । कस्येति । देवस्य । सिद्धा देवाः।अनन्यजः कामः। महतस्तेजस इति । महश्च तेजः सूर्याख्यम् । अभिख्या नाम । अयमेव २६ हर्षचरिते । आर्यपरिज्ञानेऽप्ययमेव क्रमः कौतुकानुरोधिनो हृदयस्य' इत्यु- क्तवत्यां तस्यां प्रकटितप्रश्रयोऽसौ प्रतिव्याजहार-'आयुष्मति, सतां हि प्रियंवदता कुलविद्या। न केवलमाननं हृदयमपि च ते चन्द्रमयमिव सुधाशीकरशीतलैरानन्दयति वचोभिः । सौजन्य- जन्मभूमयो भूयसा शुभेन सज्जननिर्माणशिल्पकला भवादृश्यो जायन्ते । दूरे तावदन्योन्यस्यालापनमभिजातैः सह दृशोऽपि मिश्रीभूता महती भूमिमारोपयन्ति । श्रूयताम्-अयं खलु भूषणं भार्गववंशस्य भगवतो भूर्भुवःस्वत्रितयतिलकस्य, अभ्रप्र- भावस्तम्भितजम्भारिभुजस्तम्भस्य, सुरासुरमुकुटमणिशिलाशयन- दुर्ललितपादपङ्केरुहस्य, निजतेजःप्रसरप्लुष्टपुलोम्नश्च्यवनस्य बहि- वृत्तिजीवितं दधीचो नाम तनयः । जनन्यस्य जितजगतोऽने- कपार्थिवसहस्रानुयातस्य शर्यातस्य सुता राजपुत्री त्रिभुवनकन्या- रत्नं सुकन्या नाम । तां खलु देवीमन्तर्वनी विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पार्थात्स्वगृहमानाययत् । असूत च सा तत्र देवी दीर्घायुषमेनम् । अनेहसावर्धत तत्रैवायमानन्दितज्ञा- तिवर्गो बालस्तारकराज इव राजीवलोचनो राजगृहे । भर्तृभवन- मागच्छन्त्यामपि दुहितरि नासेचनकदर्शनमिमममुञ्चन्मातामहो मनोविनोदनं नप्तारम् । अशिक्षतायं तत्रैव सर्वा विद्याः सकलाश्च कलाः। कालेन चोपारूढयौवनमिममालोक्याहमिवासावप्यनुभवतु मुखकमलावलोकनानन्दमस्येति मातामहः कथंकथमप्येनं पितुर- । क्रम इति । यथास्योत्पत्त्यादिकं तद्वद्भवतोऽपीत्यर्थः । कला उपायः । भूरिति रेफान्तो भूवाची । भुव इति रेफान्तः पातालवाची । भूश्च भुवश्च खश्च भूर्भुवःस्वः । एषां त्रयमिति समासः । अदम्रोऽनल्पः । जम्भारिरिन्द्रः। स ह्यश्विभ्यां यज्ञभागभुजौ कुर्वावामिति चिरं प्रार्थितः । तथेति प्रतिपद्य ताभ्यां भागं दददिन्द्रेणोद्यतवज्रेण रोषितः । ततस्तेनास्य सवज्रः स्तम्भितो भुज इति । दुर्ललितोऽलभ्यविषयः । प्लुष्टपुलोम्न इति । अनवरतं रुदत्यां दुहितरि कोपा- न्मात्रा गृहाणेमामिति पुलोन्नो राक्षसस्योक्तम् । ततस्तां प्रतिगृह्य तत्रैव स्थाप- यित्वा क्वापि गते रक्षसि सा भृगुणा विवाहिता। ततः सगर्भा सती पुलोनागल्या- पह्रियमाणतया च्यवनं गर्भमत्याक्षीत् । तेन चान्वर्थनाना तद्रक्षो दृष्ट्वैवादह्यत । अन्तर्वनी गर्भिणीम् । वैजनने मासि प्रसवमासे । दीर्घायुषमिति साभिप्रायम् । रूपकुलाद्युत्कर्षे वर्णिते सत्येतदेव वरगुणवर्णनमवशिष्यते । अनेहसा परिपूर्णेन कालेन । 'न जायते यत्र तृप्तिस्तदासेचनकं विदुः' । नप्तारं पौत्रम् । । - ।
प्रथम उच्छ्वासः। । । । न्तिकमधुना व्यसर्जयत् । मामपि तस्य देवस्य सुगृहीतनानः शर्या- तस्याज्ञाकारिणं विकुक्षिनामानं भृत्यपरमाणुमवधारयतु भवती। पितुः पादमूलमायान्तं मया साभिसारमकरोत्स्वामी । तद्धि नः कुलक्रमागतं राजकुलम् । उत्तमानां च चिरंतनता जनयत्यनुजी- विन्यपि जने कियन्मात्रमपि मन्दाक्षम् । अक्षीणः खलु दाक्षि- ण्यकोशो महताम् । इतश्च गव्यूतिमात्रमिव पारेशोणं तस्य भग- वतश्यवनस्य स्वनाम्ना निर्मितव्यपदेशं च्यावनं नाम चैत्रर- थकल्पं काननं निवासः। तवधिश्वेयं नौ यात्रा । यदि च गृ- हीतक्षणं दाक्षिण्यमनवहेलं वा हृदयमस्माकमुपरि भूमिर्वा प्रसा- दानामयं जनः श्रवणा) वा, ततो न विमाननीयोऽयं नः प्रथमः प्रणयः कुतूहलस्य । वयमपि शुश्रूषवो वृत्तान्तमायुष्मत्योः । नेय- माकृतिदिव्यतां व्यभिचरति । गोत्रनामनी तु श्रोतुममिलषति नौ हृदयम् । तत्कथय कतमो वंशः स्पृहणीयतां जन्मना नीतः । का चेयमत्रभवती भवत्याः समीपे समवाय इव विरोधिनां पदा- र्थानाम् । तथा हि । संनिहितबालान्धकारा भास्वन्मूर्तिश्च, पुण्ड- रीकमुखी हरिणलोचना च, बालातपप्रभाधरा कुमुदहासिनी च, कलहंसवना समुन्नतपयोधरा च, कमलकोमलकरा हिमगिरिशि- लापृथुनितम्बा च, करभोरुविलम्बितगमना च, अमुक्तकुमारभावा स्निग्धतारका च' इति । सा त्ववादीत्-'आर्य, श्रोष्यसि कालेन । भूयसो दिवसानत्र स्थातुमभिलषति नौ हृदयम् । अल्पीयांश्चायमध्वा । परिचय एव प्रकटीकरिष्यति । आर्येण न विस्मरणीयोऽयमनुषङ्ग- साभिसारं ससहायम् । मन्दाक्षमुपरोधम् । गव्यूतिः क्रोशद्वयम् । यात्रा प्रस्था- नम् । गोत्रं वंशः । समवाय एकत्रस्थितिः। बालेषु केशेष्वन्धकारं तम इति यस्या बालं प्रत्ययम् । भाखती मूर्तिमती । भाखत आदित्यस्य च मूर्तिः । न कदाचित्संनिहितबालान्धकारा भवतीति विरोधः। पुण्डरीकं पद्मम् , सिंहश्च यस्या मुखं तत्र कथं हरिणस्य विलोचने स्त इति विरोधः । पयोधरौ स्तनौ, मेघाश्च पयोधराः। कलहंसानां खनो यस्यां सा। सरित्कथं प्रावृड् भवतीति विरोधः । करो हस्तः, रश्मिश्च । शिला वातवज्रीभूतं हिमम् । यत्र च हिम- गिरिशिलाभिः पृथुर्मध्यभागस्तत्र कथं पद्मकोमलकान्तिः । हिमस्पर्शे पद्मना- शात् । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' । करभश्चोष्टः । विलम्बित सवि- लासम् । लम्बितश्च करभो यस्याः । करभोरु कथं विगतकरभगमनेति बिरोधः । कुमारभावो बाल्यम् , कुमारे च भावो भक्तिः । स्निग्धो रम्यः, प्रतीतश्च । तारका क्ष्णः कनीनिका, दैत्यभेदश्च तारकः स्कन्देन यो हतः। परिचयः संस्तवः । अनुषङ्गः । - २८ हर्षचरिते दृष्टोजनः' इत्यभिधाय तूष्णीमभूत् । दधीचस्तु नवाम्भोभरगम्भीरा- म्भोधरध्वाननिभया भारत्या नर्तयन्वनलताभवनभाजो भुजगभुजः सुधीरमुवाच----'आर्य, करिष्यसि प्रसादमार्याराध्यमाना । पश्या- मस्तावत्तातम् । उत्तिष्ठ । बजामः' इति । तथेति च तेनाभ्यनुज्ञातः शनकैरुत्थाय कृतनमस्कृतिरुञ्चचाल । तुरगारूढं च तं प्रयान्तं सरस्वती सुचिरमुत्तम्भितपक्ष्मणा निश्चलतारकेण लिखितेनेव च- क्षुषा व्यलोकयत् । उत्तीर्य शोणमचिरेणैव कालेन दधीचः पि- तुराश्रमपदं जगाम । गते च तस्मिन्सा तामेव दिशमालोक- यन्ती सुचिरमतिष्टत् । कृच्छ्रादिव च संजहार दृशम् । अथ मुहूर्तमिव स्थित्वा स्मृत्वा च तां तस्य रूपसंपदं पुनः पु- नय॑स्मयतास्या हृदयम् । भूयोऽपि चक्षुराचकाङ्क तद्दर्शनम् । अवशेव केनाप्यनीयत तामेव दिशं दृष्टिः। अप्रहितमपि मनस्ते- नैव सार्धमगात् । अजायत च नवपल्लव इव बालवनलतायाः कुतोऽप्यस्था अनुरागश्चेतसि । सालस्येव शून्येव सनिद्रेव दि- वसमनयत् । अस्तमुपयाति च प्रत्यक्पर्यस्तमण्डले लाङ्गलिका- स्तबकताम्रविषि कमलिनीकामुके कठोरसारसशिरःशोणशो- चिषि सावित्रे त्रयीमये तेजसि, तरुणतरतमालश्यामले च मलि- नयति व्योम व्योमव्यापिनि तिमिरसंचये, संचरत्सिद्धसुन्दरी- प्रसङ्गः । विकुक्षिप्रार्थितयापि सावित्र्या कौतुकनिर्वृत्तिर्मा भूदिल्यात्मस्वरूपं नोक्तम् । अत एवोत्तरत्र तदनुबन्ध एवोक्तः-भूयसो दिवसानित्यादिना । स्वरूपो- तौ च ज्ञातसरस्वतीकलेनापत्यजननकार्यभङ्गो भवेत् । भारती वाक् । भुजगभुजो म- यूरान् , भुजग इव भुजावस्येति च । उच्चचाल गन्तुं प्रवृत्तः । उत्तम्भितान्युत्क्षिप्तानि । कुतोस्मि कस्मादपि न ज्ञायत इत्यर्थः । मनुष्यतस्तथाविधस्तादृश्याः कथम- नुराग इति । कथमेतदस्या उपपद्यत इति न वाच्यम् । यदाह मुनिः–'शापभ्रं. शात्तु दिव्यानां तथा चापत्यलिप्सया । कार्यों मानुषसंयोगः शृङ्गाररससंश्रयः ॥' इति । अन्यत्र कुतः शितेर्नवपल्लवोऽनुरागहतो लतार्थों जायत इत्येवमभिलाषरू- पं प्रथमं दशान्तरमालभ्येत्यादिना द्वितीयचिन्तनरूपमाह । अनयत्कष्टेनात्यवाह- यत् । अस्तमित्यादौ पल्लवशयने तस्थाविति संबन्धः। प्रतीच्या पश्चिमायाम् । ला- झलिका फलिनी । मयूरशिखौषधिरित्यपरे, रक्तिकेत्यन्ये । कमलिनीकामुक इति सरस्वतीदयिताभिप्रायेणोक्तम् । कठोरो जरठः। सारसो लक्ष्मणः । शोणो लोहितः। शोचिर्दीप्तिः । 'ऋग्यजुःसामनामानि त्रयो वेदात्रयी स्मृता। वेदे च पठ्यते सैषा'। ।
प्रथम उच्छ्रासः । २९ । नूपुररवानुसारिणि च मन्दं मन्दं मन्दाकिनीहंस इव समुत्सर्पति शशिनि गगनतलम्, कृतसंध्याप्रणामा निशामुख एव निपत्य वि- मुक्ताङ्गी पल्लवशयने तस्थौ । सावित्र्यपि कृत्वा यथाक्रियमाणं सा- यंतनं क्रियाकलापमुचिते शयनकाले किसलयशयनमभजत । जा- तनिद्रा च सुष्वाप । इतरा तु मुहुर्मुहुरङ्गवलनैर्विलुलितकिसलयशयनतला निमी- लितलोचनापि नाभजत निद्राम् । अचिन्तयच्च-'मर्त्यलोकः खलु सर्वलोकानामुपरि, यस्मिन्नेवंविधानि संभवन्ति त्रिभुवनभूषणा- नि सकलगुणग्रामगुरूणि रत्नानि । तथा हि । तस्य मुखलावण्य- प्रवाहस्य निष्यन्दबिन्दुरिन्दुः । तस्य च चक्षुषो विक्षेपा विकच- कुमुदकुवलयकमलाकराः। तस्य चाधरमणेर्दीधितयो विकसितबन्धू- कवनराजयः । तस्य चाङ्गस्य परभागोपकरणमनङ्गः । पुण्यभाजि तानि चढूंषि चेतांसि यौवनानि वा स्त्रैणानि, येषामसौ विषयो दर्शनस्य । क्षणं नु दर्शयता च तमन्यजन्मजनितेनेव मे फलित- मधर्मेण । का प्रतिपत्तिरिदानीम्' इति चिन्तयन्येव कथंकथमप्यु- पजातनिद्रा चिरात्क्षणमशेत । सुप्ता च तं दीर्घलोचनं ददर्श । त्रय्येव विद्या तपतीति । 'कृत-'इत्यादिना 'तस्थौ' इत्यन्तेन क्रियान्तरत्यागेन वैमन-. स्यमावेद्यते। 'वेपते श्वसते चैव मनोरयविचिन्तनैः। प्रद्वेषेणान्यकार्याणामनुस्मृतिर- पीष्यते॥' निशामुख एवेति । न पुनरुचिते शयनकाले विमुक्ताङ्गीत्यनेन निः- सहाङ्गलमस्या दर्श्यते । तस्थाविति । न पुनर्निद्रामलभत । यथाक्रियमाणमित्य- नेन च सरखतीतोऽस्या व्यतिरेकं दर्शयन्सरखत्या एवानझावस्थामाह । विलुलितं विपर्यासितम् । मर्त्यलोक इत्यादिना गुणकीर्तनम् । चतुर्थमवस्था- विशेषमाह । तदुक्तम्-'अङ्गप्रत्यङ्गलीलाभिर्वाञ्चेष्टासहितेक्षणैः । नास्त्यन्यः सदृशस्तेन तदेतद्गुणकीर्तनम् ॥ इति । गुणा वैदग्ध्यादयः, सूत्राणि च । तद्वशेन गुरूणि बहुमानभाजि । इतरत्र तु तिष्टतु तावदेकः । गुणग्रामस्यापि गुणिरूपिते- नापि दुर्वहानीति यावत् । तस्येति । पूर्वानुभूतस्य बिन्दुरिति न केवलं लावण्य- प्रवाहाभिप्रायेण यावत्संनिवेशसादृश्यात् । विक्षेपाः परतः प्रेरणानि । कुमुदेत्यायु- क्तम् । शुक्लकृष्णरक्तरुचिलाचक्षुषो दीधितय इति मणिशब्दाभिप्रायेण । विकसित्त- शब्देन लौहित्यातिशयमाह । अङ्गानि विद्यन्ते यस्य तदङ्गं शरीरम् । परभागो वर्णस्य वर्णान्तरेण शोभातिशयः। स्त्रैणानि स्त्रीसंबन्धीनि । का प्रतिपत्तिः किमनुष्ठेयम्।म- दन-' इत्यादिनोद्वेगरूपं पञ्चममवस्थाभेदमाह । यदुक्तम्-'आसने शयने वापि न हृष्यति न तुष्यति। नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ चिन्तानिःश्वासखे- देन हृद्दाहाभिनयेन च । कुर्यात्तदेवमत्यन्तमुद्योगाभिनयेन च ॥ इति । दश किल - हर्षचरिते . । स्वप्नासादितद्वितीयदर्शना चाकर्णाकृष्टकार्मुकेण मनसि निर्दय. मताड्यत मकरकेतुना । प्रतिबुद्धाया मदनशरताडितायाश्च तस्या वार्तामिवोपलब्धुमरतिराजगाम । तथा हि । ततः प्रभृति कुसुमधू. लिधवलाभिर्वनलताभिरताडितापि वेदनामधत्त । मन्दमन्दमारुत- विधुतैः कुसुमरजोभिरदूषितलोचनाप्यश्रुजलं मुमोच । हंसपक्ष- तालवृन्तनातवातविततैः शोणशीकरैरसिक्ताप्यार्द्रतामगात् । प्रेख- त्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकमलिनीकल्लोलदोलाभिः । वि- घटमानचक्रवाकयुगलविसृष्टैरस्पृष्टापि श्यामतामाससाद विरहनिः- श्वासधूमैः । पुष्पधूलिधूसरैरदृष्टापि व्यचेष्टत मधुकरकुलैः । अथ गणरात्रापगमे निवर्तमानस्तेनैव वर्मना तं देशमागत्य तथैव निवारितपरिजनश्छत्रधारद्वितीयो विकुक्षिर्बुढौके । सरस्वती तु तं दूरादेव संमुखमागच्छन्तं प्रीत्या सम्यक्समुत्थाय वनमृगी- वोद्रीवा विलोकयन्ती मार्गोपरि श्रान्तमनपयदिव धवलितदश- दिशा दृशा । कृतासनपरिग्रहं तु तं प्रीत्या सावित्री, पप्रच्छ- 'आर्य, कञ्चित्कुशली कुमारः' इति । सोऽब्रवीत्-'आयुष्मति, कुशली । स्मरति च भवत्योः। केवलममीषु दिवसेषु तनीयसीमिव तनुं बिभर्ति । अविज्ञायमानां चानिमित्तां शून्यतामिवाधत्ते । अपि कामावस्थाः । तदुक्तम्-'प्रथमे खभिलाषः स्याद्वितीये चिन्तनं भवेत् । अनु- स्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे प्रोक्तः प्रलापः षष्ठ उच्यते । उन्मादः सप्तमश्चैव भवेद्व्याधिस्तथाष्टमे ॥ नवमे जडता प्रोक्ता दशमेमरणं भ- वेत् ॥' इति । अरतिर्दुःखासिका हि । कामवधूप्रतिपक्षभूतेति तदागमनाभिधा-- नम् । हंसपक्षा इव तालवृन्तं व्यञ्जनम् । आर्द्रतां सस्नेहताम् , क्लिन्नतां च । प्रेल- दोलायमानम् । कादम्बाः कृष्णहंसाः । श्यामता शृङ्गाररसाविष्कारिवैवर्ण्यम् । यदुक्तम्-'शृङ्गारदेवो भगवान्मुरारिः संगीयते श्यामवपुर्मुरारिः । श्यामो मना- विनम्धतरश्च तेन शृङ्गारशंसी मुखराग उक्तः ॥' अथ श्यामतासधूमता। सधूमता इति विरोधाभासः। गणरात्रं निशाबह्वयः । तेनैव वर्त्मनेति । अनेन तस्य यदृच्छया तदाश्रयमा- ममनमिति दर्शयति । प्रधानप्रकृतेः स्थवीयसस्तथाविधव्यापारविनियोगादिनौचि- त्यात् । अत एव वक्ष्यति-'यथाभिलषितं देशमयासीत् । डुढौके इत्यनेन निमित्त- परतन्त्रया संनिकृष्टमेवैनमालुलोकेति प्रदर्शितम् । यदुक्तम्-'पटुता धार्यतामि- गिताकारज्ञानं प्रतारणे देशकालज्ञता कार्येषु विषह्यबुद्धिवं लघ्वी प्रतिपत्तिः सापा- या च इति दूतीगुणाः' । भरतमुनिरपि-विज्ञानगुणसंपन्ना कथिनी लिङ्गिनी तथा। रजोपजीविनी. चापि प्रतिपत्तिविचक्षणा ॥ प्रोत्साहनैककुशलेल्यादिदूतीगुणैर्युता।'
प्रथम उच्छ्वासः । ३१ च। अन्वक्षमागमिष्यत्येव मालतीति नाम्ना वाणिनी वार्ता वो वि- ज्ञातुम् । उच्छृसितं सा कुमारस्य' इति । तच्छ्रुत्वा पुनरपि सावित्री समभाषत-'अतिमहानुभावः खलु कुमारो यदेवमविज्ञायमाने क्षणदृष्टेऽपि जने परिचितिमनुबध्नाति । तस्य हि गच्छतो यह- च्छया कथमप्यंशुकमिव मार्गलतासु मानसमस्मासु मुहूर्तमा- सक्तमासीत् । अशून्यं हि सौजन्यमाभिजात्येन वः स्वामिसूनोः । अलसः खलु लोको यदेवं सुलभसौहार्दानि येनकेनचिन्न क्री- णाति महतां मनांसि । सोऽयमौदार्यातिशयः कोऽपि महात्मना- मितरजनदुर्लभो येनोपकरणीकुर्वन्ति त्रिभुवनम्' इति । विकुक्षि- रुच्चावचैरालापैः सुचिरमिव स्थित्वा यथाभिलषितं देशमयासीत् । अपरेचुरुद्यति भगवति घुमणावुद्दामद्युतावभिद्रुततारके तिर- स्कृततमसि तामरसव्यासव्यसनिनि सहस्ररश्मौ शोणमुत्ती- र्यायान्ती, तरलदेहप्रभावितानच्छलेनात्यच्छं सकलं शोणसलिल- मिवानयन्ती, स्फुटितातिमुक्तककुसुमस्तबकसमत्विपि सटाले मह- ति मृगपताविव गौरी तुरंगमे स्थिता, सलीनमुरोवधारोपि- तस्य तिर्यगुत्कर्णतुरगाकर्ण्यमाननूपुरपटुरणितस्यातिबहलेन पि- ण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरणयुगलस्य प्र- सरद्भिरतिलोहितैः प्रभाप्रवाहैरुभयतस्ताडनदोहदलोभागतानि कि- सलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवलोकहृदयह- ठहरणाघोषणयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनि- मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुलता, इति । अत एवागृह्णाच्चाकारतः प्रभृतीत्यादि वक्ष्यते । अन्वक्षं प्रत्यक्षम् । वाणिनी दूती । उच्छृसितमित्यनेनेति विनम्भवत्ता ख्याता । उच्चसितं प्राण इति वा । यदृच्छया यथाकथंचित् । यश्च तथागच्छति तस्य निरवधानतया क्वचिदंशुकादि गलति । आभिजन्यत्वेन महाकुलीनत्वेनोपकरणीकुर्वन्त्यायततां नयन्ति । उच्चा- वचैः प्रकृतवस्त्वसंस्पर्शिभिः, विचित्रैरिति वा । अपरेयुरित्यादावीदृशी मालती समदृश्यतेति संबन्धः । दिवि मणिरिव द्युमणिः । वियद्भूषणं सूर्यः । अभिद्रुता न्यकृता । तामरसं पद्मम् । व्यासो विकासः । अति- मुक्तकं पुष्पभेदः । केचिन्मालतीलताकुसुममाहुः । सटास्ति यस्येति । 'प्राणिस्था- दातो लजन्यतरस्याम्' । गौरी गौराङ्गी, पार्वती च । सजलतुरङ्गाङ्गस्पर्शपरिजिही- र्षयोरोवध्रेत्यायुक्तम् । प्रियमधुरशब्दवादश्वानामाकर्ण्यमानेत्युक्तम् । पिण्डाल- क्तकः कथितोऽलक्तकरसः । दोहदोऽभिलाषः । वाद्यविशेषानुगतायघोषणा । रशना मेखला । शिक्षानं शब्दायमानम् । निर्मोकः सर्पलक् । आप्रपदं प्राप्नोत्या- । । । ।
३२ हर्षचरिते छातकञ्चुकान्तरदृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छसलि- लाभ्यन्तरविभाव्यमानमृणालकाण्डेव सरसी, कृसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकमन्तःस्फुटं स्फटिकभूमिरिव रत्ननिधा- नमादधाना, हारेणामलकीफलनिस्तुलमुक्ताफलेन स्फुरितस्थूला- हगणशारा, शारदीव श्वेतविरलजलधरपटलावृता द्यौः, कुचपू- र्णकलशयोरुपरि रत्नप्रालम्बमालिकामरुणहरितकिरण किसलयिनी कस्यापि पुण्यवतो हृदयप्रवेशवनमालिकामिव बद्धां धारयन्ती, प्रकोष्टनिविष्टस्यैकैकस्य हाटककटकस्य मरकतमकरवेदिकास- नाथस्य हरितीकृतदिगन्ताभिर्मयूखसंततिभिः स्थलकमलिनीभि- रिव लक्ष्मीशङ्कयानुगम्यमाना, बहलताम्बूलकृष्णिकान्धकारि- तेनाधरसंपुटेन मुखशशिपीतं ससंध्यारागं तिमिरमिव वमन्ती, विकचनयनकुवलयकुतूहलालीनयालिकुलसंहत्या नीलांशुकजा- लिकयेव निरुद्धार्धवदना, नीलीरागनिहितनीलिन्ना शितिगल- शितिना वामश्रवणायिणा दन्तपत्रेण कालमेघपल्लवेनेव विद्युदिव द्योतमाना, बकुलफलानुकारिणीमिस्तिसृभिर्मुक्ताभिः कल्पितेन बालिकायुगलेनाधोमुखेनालोकजलवार्षिणा सिञ्चन्ती- वातिकोमले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाश- लेखया रजनिकरजिह्वालतयेव लावण्यलोभेन लिह्यमानक- पोलतला, तमालश्यामलेन मृगमदामोदनिष्यन्दिना तिलक- बिन्दुना मुद्रितमिव मनोभवसर्वस्वं वदनमुद्वहन्ती, ललाट- लासकस्य सीमन्तचुम्बिनश्चटुलातिलकमणेरुञ्चता चटुलेना- शुजालेन रक्तांशुकेनेव कृतशिरोवगुण्ठना, पृष्ठप्रेझेदनादरसं- यमनशिथिलजूटिकाबन्धा, नीलचामरावचूलिनीव प्रपदीनः पादं यावत् । छातस्तनुः । कुसुम्भं पद्मकम् । नानावर्णबिन्दुन्यासः पु- लकबन्धः, मणिविशेषाश्च पुलकाः । चण्डातकमोरुकम् । कुचावेव कस्यापि पुण्यवत इवेति वक्ष्यमाणाभिप्रायेण पूर्णकलशौ। कस्यापीत्यलौकिकस्य । वनमाला पत्रपुष्पयोजिता सक् । सापि पूर्णकलशयोरुपरि बध्यते । प्रकोष्टः प्रकुञ्चनकः । वेदिका रत्नप्रतिष्ठापीठिका । बहलं पौनःपुन्येन कृतम् । कृष्णिका कृष्णलेखा। मुखमेव तमःपारप्रतिपिपादयिषया शशी । ताम्बूलकारणत्वेन लौहित्यमेव संभव- तीति ससंध्यारागमित्युक्तम् । नील्योषधिभेदः । शितिर्नीलः । पल्लवः पिण्डः । बालिका कर्णोपवेधेऽलंकारः । अधोमुखेन घटादिना जलवर्षिणा लता सिच्यते । मृगमदः कस्तूरिका । तिलकबिन्दुः परिवर्तुलस्तिलकः । लासको नर्तकः। 'सुवर्ण- ।
प्रथम उच्छवासः। । । डामणिमकरिकासनाथा, मकरकेतुकेतुपताका, कुलदेवतेव, चन्द्रम- सः, पुनःसंजीवनौषधिरिव पुष्पधनुषः, वेलेव रागसागरस्य, ज्यो- स्लेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गति- रिव सुरततरोः, बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृति- रिव धैर्यस्य, गुरुशालेव गौरवस्य, बीजभूमिरिव विनयस्य, गो- ष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिरिव तारु- ण्यस्य, कुवलयदलदामदीर्घलोचनया पाटलाधरया कुन्दकुमल- स्फुटदशनया शिरीषमालासुकुमारभुजयुगलया कमलकोमलक- रया वकुलसुरभिनिःश्वसितया चम्पकावदातया कुसुममय्येव ताम्बूलकरङ्कवाहिन्या महाप्रमाणाश्वतरारूढयानुगम्यमाना, क- तिपयपरिचारकपरिकरा मालती समदृश्यत । दूरादेव च दधी- चप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्र- त्युद्गतेवोत्कलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव शृङ्खलाबद्धो नानारत्नौघमण्डितः । ललाटलम्ब्यलंकारश्चटुलातिलको मतः ॥' अ- वचूलं चिह्नम् । मकरिका मकराकारं रूपम् । वेला यथा सागरं क्षोभयति तद्वदेव रागम् । क्षोभेन यथा सागरो दुरुत्तर एवमेतयापि रागः । यथा। ज्योत्स्नया विना चन्द्रोदयो भवन्नपि न क्वापि विलसन्विभाव्यते तथैतया विना यौवनं सविलासम- न्यत्र न दृश्यते । रतिप्रधानो रसः शृङ्गार एव । माधुर्यातिशययोगित्वात्प्रकृष्टत्वाच्च । हादनममृतम् । यदुक्तम्-'शृङ्गार एव परमः परः प्रह्लादनो रसः'इति। संप्रयोगो रतं रहःशयनं मोहन मिति पर्यायाः । बालविद्या न कंचन मुञ्चति, तद्वदेष वै- दग्ध्यम् । कौमुदीति । तथाविधकान्त्यतिशयसंभवात् । ध्रियते येन धृतिः । अस्यां सत्यां धैर्यमपि । यद्वा धृतिः प्रवेशरक्षणम् । यथा प्रविशन्कश्चिद्वाजनिकटं ध्रियते केनचित्तथा धैर्य तावत्प्रसरति । यावदेषा न दृष्टा एतस्यां दृष्टायां सर्वे धैर्यशू- न्या इति। समानविद्या वित्तशीलबुद्धिवयसामनुरूपैरालापैरेकत्रासनबन्धो गोष्ठी ।म- नविता' इत्यनेनैतस्या महानुभावताया व्यभिचारित्वमुच्यते । यस्माद्यत्र मनस्विता तत्र महाशयखमेवावश्यं संभावयतीति स्थितमेव । तृप्तिरिवेति । यथा कश्चि- संजाततृप्तिर्नान्यत्किंचित्पुनरपेक्षते तद्वदासादितमालतीकं तारुण्यम् । एतदाश्र- यणेन परिपूर्णवैषयिकोपभोगप्राप्तिस्तारुण्यस्येत्यर्थः । कुसुममय्येवेति । कुवल- यादिभिर्नयनादीनां विधानम् । तरुणोऽश्वोऽश्वतरः। 'वत्सोक्षावर्षभेभ्यश्च तनुलम्' इति तनुत्वे तरम् । अत्र च व्याख्यातम्-'तनुवं द्वितीयवयःप्राप्तिः' इति । अ- श्वतरो वा गर्दभेनाश्वायां जातः । मालतीति । एवं दधीचपरिवारभूतया मा- लल्या गुणवर्णनद्वारेण सरखत्या एव निःसामान्यगुणातिशयो ध्वन्यते । लुण्ठिते- वेति । वक्ष्यमाणं प्रार्थनादि । तया मनोरथैरुत्प्रेक्ष्य खीकृतमित्यतस्तैलुण्ठितेवे- ह०४ । ।
४ हर्षचरिते । हृदयेन, स्नपितेवानन्दाश्रुभिः, विलुप्रेव स्मितेन, वीजितेवोच्च- सितैः, आच्छादितेव चक्षुषा, अभ्यर्चितेव वदनपुण्डरीकेण, स- खीकृतेवाशया सविधमुपययौ । अवतीर्य च तुरगाइरादेवावन- तेन मूर्धा प्रणाममकरोत् । आलिङ्गिता च ताभ्यां सविनयमुपा- विशत् । सप्रश्रयं ताभ्यां संभाषिता च पुण्यभाजमात्मानमम- न्यत । अकथयञ्च दधीचसंदिष्टं शिरसि विनिहितेनाञ्जलिना नमस्कारम् । अगृहाचाकारतः प्रभृत्यग्राम्यतया तैस्तैरपि पेशलै- रालापैः सावित्रीसरस्वत्योर्मनसी। क्रमेण चातीते मध्यंदिनसमये शोणमवतीर्णायां सावित्र्यां स्नातुमुत्सारितपरिजना साकूता मालती कुसुमप्रस्तरशायिनी स- मुपसृत्य सरस्वतीमाबभाषे-'देवि, विज्ञप्यं नः किंचिदस्ति र- हसि । अतो मुहूर्तमवधानदानेन प्रसादं क्रियमाणमिच्छामि' इति । सरस्वती तु दधीचसंदेशाशकिनी किं वक्ष्यतीति स्तनविनिहितवा- मकरनखकिरणदन्तुरितमुद्भिद्यमानकुतूहलाङ्कुरनिकरमिव हृदयमु- त्तरीयदुकूलवल्कलैकदेशेन संछादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव धावमानेनानवरतश्वाससंदोहदोलायितां जीविताशा- मिव समासन्नलतामवलम्बमाना, समुत्फुल्लस्य मुखशशिनो लाव- ण्यप्रवाहेण शृङ्गाररसेनेव प्लावयन्ती जीवलोकम् ,शयनकुसुमपरिम- ललग्नैर्मधुकरकदम्बकैमदनानलदाहश्यामलैर्मनोरथैरिव निर्गत्य मूर्ते- रुत्क्षिप्यमाणा, कुसुमशयनीयात्स्मरशरसंज्वरिणी, मन्दं मन्दमु- द्गात् । 'उपांशु कथय' इति कपोलतलप्रतिविम्बितां लज्जयेव कर्णमू- लं मालती प्रवेशयन्ती मधुरया गिरा सुधीरमुवाच-'सखि मालति किमर्थमेवमभिदधासि । काहमवधानदानस्य शरीरस्य प्राणानां वा । सर्वस्याप्रार्थितोऽपि प्रभवत्येवातिवेलं चक्षुष्यो जनः । सा न त्युक्तम् । लुण्ठनं च पाथेयाभिवितरणमेवमन्यत् । उत्कलिका रुहरुहिका । सविधं समीपम् । अपि च यः स्निग्धो दूरात्स विधमायाति, तस्य लुण्ठनादिसर्वमर्चनाव- सानं क्रियत इति ध्वनिः । पेशलैहृयैः । आकूतमभिप्रायः । रहस्येकान्ते । सरखतीत्यादौ सरखती कुसुमशयनीयादुद- गादुदतिष्ठदिति संबन्धः । अवतंसपल्लवेन गलतेतीत्थंभूतलक्षणे तृतीया । संदोहः समूहः । संज्वरः संतापः । उपांश्वनुक्तम् । अतिवेलमतिमात्रम् । 'अतिपेशलः' इति पाठे पेशलः सुन्दरः । चक्षुष्योऽनुकूलः । खमिव व्यक्तम् । चक्षुष्य इति भया दधी- प्रथम उच्छासः। । काचिद्या न भवसि मे स्वसा सखी प्रणयिनी प्राणसमा च । नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसो गरीयसो वा शरी- रकमिदम् । अनवस्करमाश्रवं मे त्वयि हृदयम् । प्रीत्या प्रतिसरा विधेयास्मि ते । व्यावृणु वरवर्णिनि, विवक्षितम्' इति । सा त्ववादीत्-'देवि, जानास्येव माधुर्य विषयाणाम् , लोलु- पतां चेन्द्रियग्रामस्य, उन्मादितां च नवयौवनस्य, पारिप्लवतां च मनसः । प्रख्यातैव मन्मथस्य दुर्निवारता । अतो न मामुपा- लम्भेनोपस्थातुमर्हसि । न च बालिशता चपलता चारणता वा वाचालतायाः कारणम् । न किंचिन्न कारयत्यसाधारणा स्वामिभक्तिः । सा त्वं देवि, यदैव दृष्टासि देवेन तत एवा- रभ्यास्य कामो गुरुः, चन्द्रमा जीवितेशः, मलयमरुदुच्छास- हेतुः, आधयोऽन्तरङ्गस्थानेषु, संतापः परमसुहृत् , प्रजागर आप्तः, मनोरथाः सर्वगताः, निःश्वासा विग्रहानेसराः, मृत्युः पार्श्ववर्ती, रणरणकः संचारकः, संकल्पा बुद्ध्युपदेशवृद्धाः । किं वा विज्ञा- । च इति ध्वनति । खसा भगिनी । प्रणयिनी विश्वता । अतिशयेन क्षुद्रमल्पं क्षोदीयः। 'ज्ञेयं गुह्यमवस्करम् । आश्रवं वचसि स्थितम् । प्रतिसरानुकूला। विधेया वश्या । व्यावृणु प्रकटय । वरवर्णिनि वरारोहे । लोलुपतां साभिलाषलम् । 'चला. थंको निगद्यते पारिप्लवपरिप्लवौं' । बालिशोऽज्ञः । चारणता धूर्तता । असा- धारणानन्यसदृशी । देवी देवेनेति च परस्परसमगुणयोगिलमभिव्यनक्ति । गुरुगरीयान् , उपदेष्टा वा । तद्वशवर्तिलात् । यश्च देवस्तस्य गुरुराचार्यः कश्चि- दवश्यं संभवति । जीवितस्येश्वरः खामी जीवितेशः । शिशिरतया मदनदा- हप्रशमनहेतुत्वात् । अमृतमयत्वेन च जीवितसंधारणसक्तवात् । अथ च जी- वितेशो मृत्युः । चन्द्रादयो ह्यापातत एव तापं शमयन्ति, अनवरतं सेव्यमानाः पुनः कामोद्दीपकत्वेन मृत्यु दिशन्ति । राजपक्षे जीवितेशः कश्चित्पुरोहितप्रायः । उच्चसनमुच्छ्ासस्तत्र हेतुः । अथ च श्वासोत्क्रान्तौ कारणम् , इतरत्र सचिवप्राया विश्वसनीयाः। आधयश्चितपीडाः । अत एवान्तरङ्गमन्तः शरीरं यानि स्थानानि तेषु, इतरत्रान्तरङ्गान्तवैशिकस्तत्स्थानेषु विश्वसनीयजनाधिकारेषु । परं प्रकृ. टम् । असुहरोऽमित्रो वा, अन्यत्र परमसुहृन्मित्रं च आप्तः प्राप्तो बान्धवप्रायः कश्चित् । सर्वगताचारा अपि संस्थाख्याः । विग्रहो विरोधः, देहश्च । मृत्यु- रिति । बदनङ्गीकारेण निश्चितं म्रियते । राज्ञोऽपि पार्श्वे मृत्युस्तिष्ठत्येव । रणर- गको दुःखमरतिकृतम् । अत एव संचारक एकत्र नरे संभवदितरत्र संचारयति, चरितं वस्तु यः प्रापयते सः । द्विविधा हि चाराः-संस्थाः, संचारकाश्च । । । । - ३६ हर्षचरिते । पयामि । अनुरूपो देव्या इत्यात्मसंभावना, शीलवानिति प्रक्रमवि- रुद्धम्, धीर इत्यवस्थाविपरीतम् ,सुभग इति त्वदायत्तम् , स्थिरप्रीति- रिति निपुणोपक्षेपः, जानाति सेवितुमित्यस्वामिभावोचितम्, इ- च्छति दासभावमामरणात्कर्तुमिति धूर्तालापः, भवनस्वामिनी भ- वसीत्युपप्रलोभनम , पुण्यभागिनी भजति भर्तारं तादृशमिति स्वा- मिपक्षपातः, त्वं तस्य मृत्युरित्यप्रियम् , अगुणज्ञासीत्यधिक्षेपः, स्व- नेऽस्य बहुशः कृतप्रसादासीत्यसाक्षिकम् , प्राणरक्षार्थमर्थयत इति कातरता, तत्रागम्यतामित्याज्ञा, वारितोऽपि बलादागच्छतीति परिभवः । तदेवमगोचरे गिरामसीति श्रुत्वा देवी प्रमाणम्' इत्यभिधाय तूष्णीमभूत् । अथ सरस्वती प्रीतिविस्फारितेन चक्षुषा प्रत्यवादीत्-'अयि, न शक्नोमि बहु भाषितुम् । एषास्मि ते स्मितवादिनि वचसि स्थिता । गृह्यन्ताममी प्राणाः' इति । मालती तु 'यदाज्ञापयस्य- तिप्रसादः' इति व्याहृत्य प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणम् । अगाञ्च दधीचमानेतुं च्यवनाश्रमपदम् । इतरा तु सखीस्नेहेन सावित्रीमपि विदितवृत्तान्तामकरोत् । उत्कण्ठाभार- भृता च ताम्यता चेतसा कल्पायितं कथंकथमपि दिवसशे- षमनैषीत् । अस्तमुपगतवति भगवति गभस्तिमति, स्तिमिततर- मवतरति तमसि, प्रहसितामिव सितां दिशं पौरंदरी दरीमिव केसरिणि मुञ्चति चन्द्रमसि, सरस्वती शुचिनि चीनांशुकसुकु- मारे तरङ्गिणी दुगूलकोमले शयन इव शोणसैकते समुपविष्ट- स्वप्रकृतप्रार्थनापादपतनलग्नां दधीचचरणनखचन्द्रिकामिव लला- टिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बितेन 'चारुहासिनि, अयम- सावाहृतो हृदयदयितो जनः' इति श्रवणसमीपवर्तिना निवेद्यमान- वृद्धा महान्तः, स्थविराश्च । अनुरूप इत्यादिनेदमिदं तत्रास्तीति वक्रोक्त्या साति- शयं मालती वैदग्ध्येनाह । प्रक्रम आरम्भः । निपुणोपक्षेपो बुद्धिमत्प्रक्रमः । धूर्तालापः प्रतारणावचनम् । वारित इति । भवत्येवेत्यर्थात् । प्रजविनेति साभिप्रायम् । अस्तमित्यादौ सरस्वती प्रतिपालयामासेति संबन्धः । गभस्तिमान्रविः । पौरंदयेन्द्री। दरी खदा । चीनेत्यादि सैकतविशेषणम् । उपमानस्य तु दुगूलकोमल इत्युक्तम् । तरङ्गिणी प्रतिदिनं क्षीयमाणेन वारिणा कृतलेखे भङ्गियुक्ते च चन्द्रिका कान्तिरत्र । ललाटालंकारो ललाटिका ।
प्रथम उच्छासः। ३७ मदनसंदेशेवेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन बालव्यजनी- कृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम्, 'अत्र धीचाहते न केनचित्प्रवेष्टव्यम्' इति तिरश्चीनं चित्तभुवा पातितां विलासवेत्रलतामिव बालमृणालिकामधिस्तनं स्तनयन्ती कथमपि हृदयेन वहन्ती प्रतिपालयामास । आसीच्चास्या मनसि-'अहमपि नाम सरस्वती यत्रामुना मनोजन्मना जघन्येव परवशीकृता। तत्र का गणनेतरासु तपस्विनीष्वतितरलासु तरुणीषु' इति । आजगाम च मधुमास इव सुरभिगन्धवहः, हंस इव कृतमृ- णालधृतिः, शिखण्डीव घनप्रीत्युन्मुखः, मलयानिल इवाहित- सरसचन्दनधवलतनुलतोत्कम्पः, कृष्यमाण इव कृतकरकचन- हेण ग्रहपतिना, प्रेर्यमाण इव कंदर्पोद्दीपनदक्षेण दक्षिणानिलेन, उह्यमान इवोत्कलिकाबहलेन रतिरसेन, परिमलसंपातिना मधुप- पटलेन पटेनेव नीलेनाच्छादिताङ्गयष्टिः, अन्तःस्फुरता मत्तमदनक- रिकर्णशङ्खायमानेन प्रतिमेन्दुना प्रथमसमागमविलासविलक्षस्मि- तेनेव धवलीक्रियमाणैककपोलोदरो मालतीद्वितीयो दधीचः । आ- गत्य च हृदयगतदयितानूपुररवमिश्रयेव हंसगद्गदया गिरा कृतसं- भाषणो यथा मन्मथः समाज्ञापयति, यथा यौवनमुपदिशति, य. थानुरागः शिक्षयति, यथा विदग्धताध्यापयति, तथा तामभिरामां चक्रवालं समूहः बालव्यजनं चामरम् । स्तनमध्ये प्रवेशाभावात्तिरश्चीनमि- त्युक्तम् । यश्च वेत्री प्रवेश निषेधननिमित्तं वेत्रलतां पातयति स तिरश्चीनं स्त- नयोरधिस्तनम् । विभक्त्यर्थेऽव्ययीभावः । कुचपृष्ठ इत्यर्थः । स्तनयन्ती कलयन्ती। स्तनिः शब्दार्थश्चौरादिकः । 'स्तनन्ति' इति वा पाठः । तपस्विनीषु वराकीषु । आजगामेत्यादावाजगामेति संवन्धः । सुरभिगन्धवहो वातः सुरभिगन्धं च यो वहति । धृतिर्धारणम्, प्राणयात्रा च । घनः । सरसं सान्द्रं यच्चन्दनं तेन धवलया तनुलतयाहितत्रप उत्कम्पः कामधर्मो यस्य । अन्यत्र चन्द- नांश्च धवांश्च लान्ति श्रयन्ति यास्तन्व्यो लतास्तासामाहित उत्कम्पः क. म्पनं येनेति । कृष्यमाण इत्युद्दीपनकारणखात् । करा रश्मयः, हस्तश्च करः । हस्तस्य कर्षणं समुचितम् । ग्रहपतिश्चन्द्रः । प्रेर्यमाण इति । अनिलस्योचितमे- तत्कर्म । उह्यमान इति । जलस्योचितमेतत् । उत्कलिका रुहरुहिका, ऊर्म- यश्च । रसोऽभिलाषः, जलं च । परिमल आमोदः। पटलं समूहः । प्रतिमा प्राति- च्छन्दकम् । यथा मन्मथ इति । मन्मथस्य प्रभवनशीलत्वेनाज्ञादानमुचितम् । एवं सर्वत्रोपदिशतीतीत्थमित्थं वर्तखेत्युपदेशः । देवताविषयं संभोगशृङ्गारवर्ण- नमनुचितमिति न तत्र विस्तरः प्रवर्तते । कुमारीत्वे च गान्धर्व विवाहो विस्तरेण ।
३८ हर्षचरिते - रामामरमयत् । उपजातविसम्भा चात्मानमकथयदस्य सरस्वती। तया तु सार्धमेकं दिवसमिवानयत्संवत्सरमधिकम् । अथ दैवयोगात्सरस्वती बभार गर्भम् । असूत चानेहसा स- लक्षणाभिरामं तनयम् । तस्मै च जातमात्रायैव 'सम्यक्सर- हस्याः सर्वे वेदाः सर्वाणि च शास्त्राणि सकलाश्च कलाः म- त्प्रसादात्स्वयमाविर्भविष्यन्ति' इति वरमदात् । सद्भर्तृश्लाघया दर्श- यितुमिव हृदयनादाय द्धीचं पितामहादेशात्समं सावित्र्या ब्र. ह्मलोकमारुरोह । गतायां च तस्यां दधीचोऽपि हृदये हादिन्येवा- मिहतो भार्गववंशसंभूतस्य भ्रातुर्ब्राह्मणस्य जायामक्षमालामि- धानां मुनिकन्यकामात्मसूनोः संवर्धनाय नियुज्य विरहातुरस्तपसे वनमगात् । यस्मिन्नेवावसरे सरस्वत्यसूत तनयं तस्मिन्नेवाक्षमा. लापि सुतं प्रसूतवती । तौ तु सा निर्विशेषं सामान्यस्तन्या शनैः शनैः शिशू समवर्धयत् । एकस्तयोः सारस्वताख्य एवाभवत् , द्वि- तीयोऽपि वत्सनामाभवत् । आसीच तयोः सोदर्ययोरिव स्पृह- णीया प्रीतिः। अथ सारस्वतो मातुर्महिम्ना यौवनारम्भ एवाविर्भूताशेषविद्या- संभारस्त स्मिन्सवयसि भ्रातरि प्रेयसि प्राणसमे सुहृदि वत्से वाङ्मयं समस्तमेव संचारयामास । चकार च कृतदारपरिग्रहस्यास्य तस्मिन्नेव प्रदेशे प्रीत्या प्रीतिकूटनामानं निवासम् । आत्मनाप्या- षाढी, कृष्णाजिनी, वल्कली, अक्षवलयी, मेखली, जटी च भूत्वा तपस्यतो जनयितुरेव जगामान्तिकम् । अथ तस्मात्प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिनिर्गतप्रघोषः, परमेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यो । । न तथा वर्णितः शापनिर्वाहणमात्रपरत्वादिति । वृत्तस्यान्यथानिजभर्तृयागो दो- पावहः किमर्थ कृत इत्यादिकाः कुविकल्पा उत्पद्येरनिति । अनेहसा कालेन । रहस्यं ज्ञानभागः । हादिनी वज्रम् । वाक्प्रस्तुता यत्र तद्वाड्मयम् । 'आषाढसंज्ञो दण्डः स्यात्पालाशो व्रतचारिणाम्। वृक्षवनिर्मितं वस्त्रं वल्कलं समुदाहृतम् ॥' मेखला मुञतृणादिरचितं कटिसूत्रम् । जटा रूक्षसंहतकेशाः । अथेत्यादौ वत्सात्प्रावर्तत विपुलो वंश इति संबन्धः । प्रवर्धमानाः संतानादिना प्रथम उच्छ्वासः । विपक्षक्षोभक्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागी- रथीप्रवाह इव पावनः प्रावर्तत विपुलो वंशः । यस्मादजा- यन्त वात्स्यायना नाम गृहमुनयः, आश्रितश्रौता अप्यनाल- म्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्यबैडालवृत्तयः, वि- वर्जितजनपतयः, परिहृतकपटकीरकुचीकूर्चाकूताः, अगृहीतग- ह्वराः, न्यकृतनिकृतयः, प्रसन्नप्रकृतयः, विगतविकृतयः, परप- रिवादपराचीनचेतसः, वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरधिषणा- वधूताध्येषणाः, असङ्कसुकस्वभावाः, प्रणतप्रणयिनः, शमितसम- स्तशाखान्तरसंशीतयः, उद्घाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, सरसभाषितव्यसनिनः, विदग्धपरिहास- वेदिनः, परिचयपेशलाः, नृत्यगीतवादित्रेष्वबाह्याः, ऐतिह्यस्या- वितृष्णाः, सानुक्रोशाः, सत्यशुचयः, साधुसंमताः, सर्वसत्त्वसौ- । - वृद्धिं गच्छन्तो य आदिपुरुषाः पूर्वबान्धवाः शुक्राद्यास्तैः कृताः खेषां चरणानां कठादिशाखाध्यायिनामुन्नतिरुत्कर्षों यस्य सः । अन्यत्र प्रवर्धमानस्तु वामनरूपो य आदिपुरुषो हरिस्तेन जनिता स्वपदोन्नतिर्माहात्म्यं यस्य स इति । किल त्रैलोक्या- क्रान्तिकाले ब्रह्मलोकप्राप्ताद्विष्णुपदाब्रह्मणा कमण्डलुजलक्षालिताद्गङ्गा समभवदिति वाता । प्रदोषो यशः, शब्दश्च । परमेश्वरो राजा, हरश्च । सकलानां कलानां वृत्ताद्या- नामागमस्तेन सह कलकलेन च सकलकलं यदागमनं तु न च । महामुनिर्जगुरपि। विपक्षाः शत्रवः, शैलाश्च । चीनां पक्षिणां वा पक्षच्छेदेषु सहिष्णुः। आयतिः। प्रतापः, विस्तारश्च । स्खलितं वाचारच्युतिः । प्रवृत्तः प्रकृष्टवृत्तः । अस्खलितं असंरुद्धं कृत्ला गतश्च । श्रौतं वेदभवम्, चिरवृत्तं च । 'भिन्नो भयाद्वा शोकाद्वा ध्वनिः काकुरुदाहृता'। अत्र च छद्म लक्ष्यते। बकस्य काकुः बकच्छद्म यैश्च चिरवृत्तमाश्रितं ते छद्मचा- रिवादाश्रितबककाकवो भवन्त्येव । अमी तु न तथेति विरोधः । कुकुठव्रतं नियम- विशेषः । यत्र कुक्कुटाण्डप्रमाणग्रासभोजनम् । न बैडाली हिंसावृत्तिर्येषां तैः । विरोधे तु कुक्कुटानां व्रतं भक्षणं येन कृतं स कथं बिडालवृत्तिर्न स्यात् । पकिर्लोकप्रसिद्धो व्यवहारः, पाको वा । कपटो व्याजवृत्तिः । कूचीः स्फुटाः । आत्ममहिम्ना व्य. वहारः, समूह इत्यन्ये । एतेष्वाकूतं परिहृतं यैः । गहरं पापम् । निकृतिः शाट्यम्। प्रकृतिः खभावः । पराचीनं पराङ्मुखम् । अन्धोऽन्नम् धीरा स्थिरा । धिषणा बुद्धिः । अध्येषणा याञा । असङ्कसुकः स्थिरः, मृदुर्वा । शाखाः कठाद्याः । सं- शीतिः संशयः । ग्रन्थिदुर्बोधः प्रदेशः । परिहासं विदन्ति, न तु खयं कुर्वन्ति । परिचयः संस्तवः । सुकुमाराः अद्वन्द्वकूटा इत्यर्थः । अबाह्याः, न तु तदेकनिष्ठाः । ऐतिहमागमः । अनुक्रोशो दया । संमता इष्टाः । सौहार्द प्रीतिः । सर्वे गुणा धै- । - । । - हर्षचरिते । हार्दद्रवाहृदयाः, तथा सर्वगुणोपेता राजसेनानभिभूताः, क्षमा- भाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्याधराः, अनडा: कलावन्तः, अदोषास्तारकाः, अपरोपतापिनो भावन्तः, अनु- ष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलुप्तक्रतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः। तेषु चैवमुत्पद्यमानेषु, संसरति संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, बजत्सु वासरेषु, अतिक्रामति च काले, प्रसवपरम्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाती द्विजो जन्म लेभे । तस्याभवन्नच्युत ईशानो हरः पाशुपतश्चेति चत्वारो युगा- रम्भा इव ब्राह्यतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्डा इव सच्चक्रनन्दकास्तनयाः । तत्र पाशुपतस्यैक एवाभवद्भूमार इवा- ाद्याः। राज्ञां सेनया चानभिभूता ये च सर्वैर्गुणैः सत्त्वरजस्तमोभिर्युक्तास्ते कथं राजसेन गुणेनानभिभूता भवन्तीति विरोधः । एवमुत्तरत्र विरोध उद्भावनीयः। क्षमा शान्तिः, भूश्च । आश्रितानां नन्दना नन्दयितारः, देवोद्यानं नन्दनं च । न निलिंशा अक्रूराः । विद्यां धारयन्तीति विद्याधराः पण्डिताः, निस्त्रिंशाश्च खड्गा एव । ये च विद्याधरा देवभूतास्ते सखड़ा एव। नखनिस्त्रिंशा इति मालाखड्गगुलि- काञ्जनादिना भेदेन भिन्नानामपि विद्याधराणां खड्गहस्तत्वं न व्यभिचरति । अजडा अमन्दधियः अशीताश्च । कलावन्तो गीताभिज्ञाः, कलावांश्चन्द्रः स चाजडोऽशीत इति विरोधः । दोषा द्वेषाद्याः, रात्रिश्च । तारयन्तीति तारका आचार्याः, नक्ष- त्राणि च । उपतापः पीडा, उष्णत्वं च । भाखन्तस्तेजखिनः, आदित्याश्च । ते परांस्तापयन्ति । ऊष्मा स्मयः, दाहिकाशक्तिश्च । हुताशशब्देन हुतमिष्टमुच्यते । हुतं भुञ्जते हुतभुजः, आहिताग्नयो वयश्च । कुमृतिः शाट्यम्, कौ भूमौ सृतिः स. रणम् । भोगिनः सुखिनः, साश्च । स्तम्भः स्तब्धता, सालिको भावभेदश्च, अप्र- णतिर्वा, गृहधारणकाष्ठं च । पुण्यालयाः सुकृतिनः, मठादिस्थानानि च । दक्षाश्च- तुराः, प्रजापतिभेदश्च दक्षः । स च लुप्तक्रतुक्रियो हररोषजेन वीरभद्रेण । व्यालाः शठाः, सश्चि । कामजितः संतुष्टाः, हरश्च कामजित् । असाधारणाः सर्वोत्कृष्टाः। द्विजातयो विप्राः । येषां च द्वे जाती तेषां कथं नासादृश्यम् । काल इति। पूर्वोक्के । अन्यथैतत्पुनरुक्तं स्यात् । पक्षपातो भक्तिर्यस्यास्ति सः पक्षश्च यो याति सः। द्विजो विप्रः विधुः, पक्षी च । युगारम्भा अपि चखारः । ब्रह्म वेदादि, स्रष्टा च ब्रह्मा । सच्चक्रस्य साधुवृन्दस्य नन्दकास्तोषयितारः । चक्र - ।
प्रथम उच्छ्वासः। ४१ । । चलकुलस्थितिश्चतुरुदधिगम्भीरोऽर्थपतिरिति नाम्ना समग्राग्रज- न्मचक्रचूडामणिमहात्मा सूनुः । सोऽजनयद्धृगुं हंसं शुचिं कविं महीदत्तं धर्म जातवेदसं चित्रभानुं त्र्यक्षमहिदत्तं वि. श्वरूपं चेत्येकादश रुद्रानिव सोमामृतरसशीकरच्छुरितमुखा- न्पवित्रान्पुत्रान् । अलभत च चित्रभानुस्तेषां मध्ये राज- देव्यभिधानायां ब्राह्मण्यां बाणमात्मजम् । स बाल एव विधेर्ब- लवतो वशादुपसंपन्नया व्ययुज्यत जनन्या । जातस्नेहस्तु नितरां पितैवास्य मातृतामकरोत् । अवर्धत च तेनाधिकतरमे- धीयमानधृतिर्धाग्नि निजे । कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चतुर्दशवर्षदेशीयस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्य- जातं कालेनादशमीस्थ एवास्तमगात् । संस्थिते च पितरि महता शोकेनाभीलमनुप्राप्तो दिवानिशं दह्यमानहृदयः कथंकथमपि कति- पयान्दिवसानात्मगृह एवानैषीत् । गते च विरलतां शोके शनैः शनैरविनयनिदानतया स्वातंत्र्यस्य, कुतूहलबहलतया च बाल- भावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्य- नेकानि चापलान्याचरन्नित्वरो बभूव । अभवंश्चास्य वयसा समानाः सुहृदः सहायाश्च । तथा च । भ्रातरौ पारशवौ चन्द्र. सेनमातृषेणौ, भाषाकविरीशानः परं मित्रम्, प्रणयिनौ रुद्रनारा- यणौ, विद्वांसो वारबाणवासबाणी, वर्णकविर्वेणीभारतः, प्राकृतक- त्कुलपुत्रो वायुविकारः, बन्दिनावनङ्गबाणसूचीबाणौ, कात्यायनिका सुदर्शनं च। नन्दकः खड्गश्च । बाहवोऽपि चत्वारः।अचलकुलस्थितिरभिन्नवर्षमर्यादः। अचलानां गिरीणां कुलवृन्दैः स्थितिर्यस्य । चतुरुदधिवत्तैश्च गम्भीरः । अग्रज- न्मानो द्विजाः। सोमस्तृणभेदः, इन्दुश्च । उपसंपन्ना मृताः। निजे धाम्नि खे गृहे । उपनयनं मेखलादानम् । समावृत्तो निष्पादितवृत्तः । स्नातक इत्यर्थः । वेदवे- दाङ्गपाठक इत्यन्ये । ईषदसमाप्तश्चतुर्दशवर्षश्चतुर्दशवर्षदेशीयः । 'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' । दशामुपेतो दशमीस्थ उदाहृतः, न दशमीस्थः। अपूर्णायुरित्यर्थः । संस्थितो मृतः । आभीलं कष्टम् । इखरो गमनशीलः । 'अभयंश्च' इत्यादिनात्मनस्तथाभूतकला वित्संपर्कमैश्वर्यातिशयं दर्शयति । पारशवो द्विजः शूद्रायां जातः । 'परस्त्रीपरश्वम्' इति विद्याद्यञ् । परश्वादेशश्च । भाषागे- यवस्तुवाचस्तेषु कविः । गाथादिषु गीतिद इत्यर्थः । अपभ्रष्टगीतविद्यः । 'पञ्चाश- ४२ हर्षचरिते चवाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकश्चण्डकः, भि- पक्पुत्रो मन्दारकः, पुस्तकवाचकः सुदृष्टिः, कलादश्वामीकरः, हैरिकः सिन्धुषेण:, लेखको गोविन्दकः, चित्रकृद्वीरवर्मा, पु- स्तकृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिलग्रहा. दियौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकरपारावतो, गान्धर्वोपा- ध्यायो दुर्दुरकः, संवाहिका केरलिका, लासकयुवा ताण्डविकः, आक्षिक आखण्डलः, कितवो भीमकः, शैलालियुवा शिखण्डकः, नर्तकी हरिणिका, पारशरी सुमतिः, क्षणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः मत्रसाधकः करालः, असुरविवरव्य- सनी लोहिताक्षः, धातुवादविद्विहंगमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चकोराक्षः, मस्करी ताम्रचूडः । स एतैश्चान्यैश्वानुग- म्यमानो बालतया निन्नतामुपगतो देशान्तरालोकनकौतुकाक्षिप्त- हृदयः सत्वपि पितृपितामहोपात्तेषु ब्राह्मणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहानिरगात् । अगाच निरव- ग्रहो ग्रहवानिव नवयौवनेन वैरिणा मनसा महतामुपहास्यताम् । अथ शनैः शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्षमाणः, निरवद्यविद्याविद्योतितानि च गुरुकुलानि सेवमानः, महार्हालापगम्भीरगुणवद्गोष्ठीश्वोपतिष्ठमानः, स्वभावगम्भीरधीर्ध- द्वर्षदेशीयां वीरां संस्थितभर्तृकाम् । वदन्ति कात्यायनिकां धृतकाषायवाससम् ॥' जाङ्गुलिको गारुडिकः । भिषग्वैद्यः । 'स्वर्णकारः कलादः स्यात्तदध्यक्षस्तु हैरिकः'। पुस्तकृल्लेप्यकारः । 'प्रसाधनोपचारज्ञा सैरन्ध्री खवशा स्मृता' । संवाहिका या पादादिमर्दनं विधत्ते । लासको नर्तयति यः। युवेत्यादिना वयसः समानलमु. च्यते । अझैभव्यतीत्याक्षिको द्यूतकारः। कितवो धूर्तः । शैलाली स्वयं यो नृ- त्यति नटः । पारशरी भिक्षुः । असुरविवरव्यसनी पातालाभिलाषी । धातुवाद- विद्रसवादज्ञः । मस्करी परिव्राट् । निघ्नतामखातन्त्र्यम् । कौतुकेति । न पुन- राभिलिप्सया । एतदेव सत्खपीत्यादिना प्रकाशयति । निरवग्रहः खतन्त्रः । ग्रहवान्भूतगृहीतः । खैरिणा स्वतन्त्रेण । अत्युदारेत्यादिप्रकृतोपयोगी यस्मात्कविना तथाविधवस्तुवेदिनावश्यमेव भवि- तव्यम् । वीक्षमाण इत्यनेनात्मनः किमपि प्रकृष्टमुत्कर्षातिशययोगिखमाह । अथ च वीक्षमाणो न तु गुरुकुलवत्सेवमानः । गाहमान इत्यनेन तेजखित्वमाहात्मनः । वै- पश्चित्तीं विद्वजनोचिताम् । संस्तव आदरः। ज्ञातीनां कर्म ज्ञातेयं बन्धुलम् । कवि- । 1 । ।
प्रथम उच्छासः । नानि विदग्धमण्डलानि च गाहमानः, पुनरपि तामेव वैपश्चिती- मात्मवंशोचितां प्रकृतिमभजत् । महतश्च कालात्तामेव भूयो वात्स्यायनवंशाश्रयामात्मनो जन्मभुवं ब्राह्मणाधिवासमगमत् । तत्र च चिरदर्शनादभिनवीभूतस्नेहसद्भावैः ससंस्तवप्रकटितज्ञातेयैरा- प्रुत्सवदिवस इवानन्दिताभिगमनो बालमित्रमण्डलस्य मध्यगतो मोक्षसुखमिवान्वभवत् । इति श्रीवाणभट्टकृतो हर्षचरिते वात्स्यायनवंशवर्णनं नाम प्रथम उच्छ्रासः । । ज्ञात्योष्टक् । आप्तैरिति । बन्धुभिर्योगिभिश्च । योगिपक्षे बाल इत्र बालो मित्रो रविर्निस्तेजस्वात् । उक्तं च-'तपस्यन्तं रविं दृष्ट्वा निस्तेजा जायते रविः । मोक्षमार्गप्रयत्ने तु तेजो नैवास्य विद्यते ॥' इति । मित्रं सखा, सूर्यश्च मित्रः । मण्डलं समूहः, बिम्बम् । मोक्षसुखमपि सूर्यबिम्बगतैरनुभूयत इति । आख्या- यिकासु कविभिर्निजवंशवर्णनं कानने तथा वंशः ख्यापितः स्यादिति । आत्मनश्च विटवर्णनम् । सकलकलाकौशलं ममास्तीति । हर्षस्य चरिते च वर्णयितव्ये नाम प्रस्तुतं चैतदिति शिवम् ॥ इति श्रीशंकरकविरचिते हर्षचरितसंकेते प्रथम उच्छासः ।
हपचारत । द्वितीय उच्छ्वासः। अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ १ ॥ रागिणि नलिने लक्ष्मी दिवसो निद्धाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् ॥ २ ॥ अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्ड्रकपाण्डुरल- लाटैः कपिलशिखानालजटिलैः कृशानुभिरिव क्रतुलोभागतै- बटुभिरध्यास्यमानानि, सेकसुकुमारसोमकेदारिकाहरितायमान- प्रघनानि, कृष्णाजिनविकीर्णशुष्यत्पुरोडाशीयश्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारबलीनि, शुचिशिष्यशतानीयमानहरित- कुशपूलीपलाशसमिन्धि, इन्धनगोमयपिण्डकूटसंकटानि, आमि- क्षीयक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवलयैर्विलिखिताजिरवित- र्दिकानि, कामण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीश- ङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि, वैश्वदे- अतीत्यादि । यस्य क्रोधादिभावगण इङ्गितादिना परेण न चेयते स गम्भीरः। उक्तं च-'यस्य प्रसादादाकारात्क्रोधहर्षभयादयः।भावस्था नोपलभ्यन्ते तद्गाम्भी- यमुदाहृतम् ॥' इति । अगाधश्च । अवतरणमवतारः,प्रवेशनम् । अवतरन्ति येने- त्यवतारः, सोपानादिश्च । समीहितसिद्धिं राजगृह आत्मनः प्रवेशलक्षणम् , जल- ग्रहणलक्षणं च । गुणा औदार्यादयः, आकर्षणरज्जवश्च । पार्थिवा राजानः, पृथ्वी- विकाराश्च । घटयन्ति वाञ्छितेन प्रयोजयन्तीति घटकाः, कुम्भाश्च । अनेन तादृशे राज्ञि बाणस्य कृष्ण एव समीहितसिद्धीराध्यास्यत इति सूचितम् ॥ १ ॥ रागिणि रक्ते, विषयाभिषङ्गिणि च । लक्ष्मी शोभाम् , समृद्धिं च । अत्र नलिनादिकमप्रस्तुतम्, बाणाद्यास्वप्रस्तुताः । अनेन कृष्ण ईदृशे बाणे राजप्रभवां श्रियं निधास्यतीत्युक्तम् ॥ २॥ अथेत्यादि । बाणो बान्धवानां भवनानि भ्रमन्सुखमतिष्टदिति संबन्धः। शिखा चूडा, ज्वाला च । सोमो यज्ञियं द्रव्यम् । केदारिकं स्वल्पं क्षेत्रम् । प्रघटनेषु तथो- चितलात् । अहरिता हरिताः संपद्यमाना हरितायमानाः । लोहितादित्वात्क्यप् । प्रघनान्यङ्गनानि । 'उशन्ति प्रधनाभिख्यामेकदेशे तु वेश्मनः' । पुरोडाशीयेत्यादि सहितेऽर्थईयः । बालिकाः कुमार्यः । नीवारा अकृष्टपच्या व्रीहयः । कूटो राशिः। आमिक्षीयमिति तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा। 'आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः' इति । तस्यै हितमा मिक्षीयम् । आमिक्षाप्रकृतित्वमस्य च योग्यत्वात् । अग्निहोत्रेषु तस्या अनाम्नातत्वात् , यद्वा यदन्नस्य जुहुयादिति । तस्या ।
। बपिण्डपतिपाण्डुरितप्रदेशानि, हविधूमधूसरिताङ्गनविटपिकिसल- यानि, वत्सीयवालकलालितललत्तरलतर्णकानि, क्रीडत्कृष्णशा- रच्छागशावकप्रकटितपशुबन्धप्रबन्धानि, शुकशारिकारब्धाध्ययन- दीयमानोपाध्यायविश्रान्तिसुखानि, साक्षात्रयीतपोवनानीव चिर- दृष्टानां बान्धवानां प्रीयमाणो भ्रमन्भवनानि, सुखमतिष्ठत् । तत्रस्थस्य चास्य कदाचित्कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः संफुल्लमल्लिकाधवलाट्टहासो महाकाल: । प्रत्यानि- र्जितस्यास्तमुपगतवतो वसन्तसामन्तस्य बालापत्येष्विव पयःपा- यिषु नवोद्यानेषु दर्शितस्नेहो मृदुरभूत् । अभिनवोदितश्च सर्वस्यां पृथिव्यां सकलकुसुमबन्धनमोक्षमकरोत्प्रतपन्नुष्णसमयः । स्वयम- तुराजस्याभिषेकार्दाश्चामरकलापा इवागृह्यन्त कामिनीनां चिकुर- अपि हवनं संभवत्येव । वलयैः समूहैः । वितर्दिका वेदिका । कमण्डलुर्मुनिकरकस्तस्मै हिताः कामण्डलव्याः। यत्। 'उगवादिभ्यो यत्' । यतीनां निष्किचनवादादरखाच खयंकरणम् । वितानो यज्ञः । तत्र भवा वैतानी यज्ञाग्निकार्यभूः । शङ्खः कीलकः। तस्मै हितः शङ्कव्यः । औदुम्बरीणामिति । तासां यज्ञियत्वात् । वत्सेभ्यो हिता वत्सीयाः । वत्सपरिचर्याश्चतुराः। तर्णकाः सद्योजाता वत्साः । कृष्णशारेति छाग- विशेषणम् । तदुक्तम्-'लोहितसारङ्गः कृष्णासारङ्गो वा' इति सारङ्गशब्दः शबले वर्तते । कृष्णशारा मृगा इति केचित् । तत्तु न तेषां तदानुपयुक्तखात् । पशु- बन्धा यज्ञाः । कुसुमसमयो वसन्तः स एव युगं कल्पस्तल्लक्षणं वा युगं मासद्वयम्। समुत्फु. लमल्लिकाभिर्धवला अट्टा विक्रयस्थानानि तेषां विकासो यत्र । अन्यत्र तद्वदट्ट- हास उद्धतं हसितं यस्य । शब्दशक्तिमूलानुरणनव्यङ्ग्यरूपो ध्वनिश्च । प्रकृतवर्णने ह्यन्यदप्यत्र प्रतीयते । न वाच्यतया । तथा च-महाकालः साट्टहासः कल्पमु- पसंहरञ्जभते मुखं च विदारयति । महान्कालो ग्रीष्माख्यः, भैरवश्च । पयो जलम् , क्षीरं च । बालापत्यपक्षे-नवमुद्यानमुद्गमनं येषां तेषु । इदं प्रथमतयागमनप्रवृत्तेष्वि- त्यर्थः । दर्शितस्नेह इत्यनेनास्य विजिगीषुव्यवहार आरोपितः । निर्जितस्य च पुनः प्रतिष्ठापनमेव युक्तम् । स्नेहः आर्द्रता, प्रीतिश्च । मृदुरकठोरः, सदयश्च । अभिन- वोदित इति । साधारणं विशेषणम् । वासन्तिकपुष्पाभिप्रायेण सकलपदबन्धनं वृन्तकारी च प्रतपन्प्रकर्षेण तपन् , अन्यत्र शत्रुहृदयेषु प्रतापं जनयन् । अभिन- वोदितश्च राजा बन्धनमोक्षं करोति । उक्तं हि-'युवराजाभिषेके वा परचक्रावरो- पणे । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥' इति । आदरप्रतिपादनाय स्व- यंशब्दः । अभिषेकः स्नानम् । अन्यत्र मङ्गलजलपातनं तत्संपर्कवशाच्चाईलम् । ।
चयाः कुसुमायुधेन । हिमदग्धसकलकमलिनीकोपेनेव हिमाल- याभिमुखी यात्रामदादंशुमाली । अथ ललाटंतपे तपति तपने लिखितललाटिकापुंण्डूकैरलकची- रचीवरसंवीतैः वेदोदबिन्दुमुक्ताक्षवलयवाहिभिर्दिनकराराधन- नियमा इवागृह्यन्त ललनाललाटेन्दुभिः । चन्दनधूसराभिरसूर्य- पश्यामिः कुमुदिनीभिरिव दिवसमसुप्यत सुन्दरीभिः । निद्राल- सा रत्नालोकमपि नासहन्त दृशः, किमुत जरठमातपम् । अशि- शिरसमयेन चक्रवाकमिथुनाभिनन्दिताः सरित इव तनिमानमा- नीयन्त सोडुपा: शर्वर्यः । अभिनवपटुपाटलामोदसुरभिपरिमलं न केवलं जलम् , जनस्य पवनमपि पातुमभूभिलाषो दिवसकरसं- तापात् । क्रमेण च खरखगमयूखे, खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रोतसि, मन्दनिर्झरे, झिल्लिकाझांकारिणि, कातरकपोतकूजि- चिकुराः केशाः । ते हि तदा स्नानार्द्रतया संयमनात्सुन्दरतया विशेषतः शृङ्गार- मुद्दीपयन्ति । तथा च महाकवेः कालिदासस्य-स्नानामुक्तेष्वनुधूपवासं विन्य- स्तसायंतनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे रतिमङ्गनानाम् ॥' यथा वा । राजशेखरस्य–'तदात्वे स्नातानां दरदलितमल्लीमुकुरिणाम् इत्यादि। हि- माभिप्राये च हिमालयग्रहणम् । अंशून्मलति धारयतीत्यनेन हिमं प्रति भवन- शीललमस्योच्यते । ललाटं तपतीति ललाटंतपः इति खश् । खरतर इत्यर्थः । ललाटेऽलंकारो ल- लाटिका । 'कर्णललाटात्कनलंकारे'। ललाटिकैव पुण्ड्रकं तिलकमिति सर्वत्र रूप- कम् । संवीतैः प्रावृतैः । चन्दनेन च तद्वदूसराः । असूर्यपश्याभिरिति । आ- तपासहिष्णुतया । अन्यत्र खभावात् । दिवसं सुप्यत इति द्रव्यकर्मणि लादिवि- धानात्कर्मणि द्वितीयैव । भावे लः । यदा तु कर्माप्याख्याततया विवक्ष्यते, तदा दिवसः सुप्यत इति । भाव्यमिति निर्णीतम् । खापो निद्रा, मुकुलता च । जरठं कठोरम् । यतो ग्रीष्मेण तनूकृता अत आह-चक्रवाकेत्यादि । रात्रौ किल चक्रवाकानां वियोगो भवतीत्यल्पतया तैस्ता अभिनन्द्यन्ते । सरितश्च वृत्तिकारि- कास्तेषामिति तदभिनन्दनम् । उड्डुपः शशी, प्लवश्च । क्रमेण चेत्यादावेवंविधे निदाघकाले कठोरीभवति सत्युन्मत्ता मातरिश्वानः प्रावर्तन्तेति संबन्धः । खगो रविः । शुष्यदिति साभिप्रायम् । स्रोतसच प्रस- रणधर्मवादाह-सीददिति । समन्तादावेगगामिनः । झिल्लिका चीरीनामकः प्राणी यो वर्षासु तरुषु सीत्कारमुच्चैः करोति । कातरेति । कपोता हि मेदोम- - । - । .
द्विताय उच्छ्वासः । तानुबन्धबधिरितविश्वे, विश्वसत्पतत्रिणि, करीषंकषमरुति, विर- लवीरुधि, रुधिरकुतूहलिकेसरिकिशोरकलिह्यमानकठोरधातकी- स्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महामहीधरनितम्बे, दूयमा• नद्विरददीनदानाश्यानश्यामिकालीनमूकमधुलिहि, लोहितायमान- मन्दारसिन्दूरितसीम्नि, सलिलस्यन्दसंदोहसंदेहमुह्यन्महामहिष- विषाणकोटिविलिख्यमानस्फुटत्स्फाटिकदृषदि, धर्ममर्मरितगर्मुति, तप्तपांशुकुकूलकातरविकिरे, विवरशरणश्वाविधि, तटार्जुनकुररकू- टज्वरनिवर्तमानोत्तानशफरशारपङ्कशेषपल्वलाम्भसि, दावजनित- जगन्नीराजने, रजनीराजयक्ष्मणि, कठोरीभवति निदाघकाले, प्रतिदिशमाटीकमाना इवोषरेषु प्रपावाटकुटीपटलप्रकटलुण्ठकाः, । यत्वानितान्तं घर्मासहाः । अत एव पतत्रित्वेऽपि पृथगुपादानम् । पतन्त्रिवाभि- प्रायेण श्वासमित्येतावदेव समुचितम् । एषां तथाभूतरुजाभावात् । करीषो गोमयम् । वीरुत्सपर्णशाखाजटिलं कुप्यकादि । किशोरकेति । बालत्वेन तृष्णाद्यसहि- ष्णुता, मुग्धतातिशयश्च द्योत्यते । धातकी लताभेदः। स्तबकः पुष्पगुच्छः । स्तम्बे- रमो हस्ति । वमथुः करिकरशीकरः। तिम्यन्त आद्रीभवन्तः । नितम्बाः सानवः । द्विरदाः करिणः । दीनं क्षीणम् । आश्याना अप्रसरणधर्मकलादीषच्छुष्कश्यामिका मदलेखासंबन्धिनी । लीना अतितर्षाच्छुिष्टाः । मूका गुजितहीनाः । अलोहिता लोहिता भवन्तो लोहितायमानाः । मन्दाराः पारिभद्रद्रुमाः। सिन्दूरिता आहितसि- न्दूरा इव । लोहितवात्। ग्रामस्य नामान्तरेण मर्यादा सीमा। स्यन्दः श्रुतिः । विलि- ख्यमाना विपाट्यमानाः । मर्मरिताःशुष्कत्वेन शब्दायमानाः। गर्मुतो लताः। कुकूलं तुषाग्निः । विकिराः कुक्कुटाद्याः । इवाविधः शललाः सेहिकाख्या हिंसाः प्राणिनः । तटशब्देन नैकट्यमाह । अर्जुनाः ककुभवृक्षाः । कुरराः क्रौञ्चपक्षिणः । कूटः शब्द एव संतापकारिवाज्ज्वरस्तेन स्फुरन्तः शफरा मत्स्यास्तैः । शारं सितोद- रत्वात् । पल्वले नडले । कुररास्तटस्था यदा कूजन्ति तदा मत्स्याः पीडिताः सन्त उल्लवन्तीति वस्तुधर्मोऽयम् । नीराजनमिति । नीराजनं शान्तिकर्म। राजयक्ष्मा क्षयव्याधिः । शनैः शनैरपचयकारिखातू । मातरिश्वानः कीदृशाः प्रावर्तन्तेत्या- ह-प्रतिदिशमित्यादि। आटीकमाना उच्चभ्रमन्तः। साभिप्रायमेतत् । रजो. वशादेतेषां तथाविधसंनिवेशात्। ग्रीष्मे ह्येवंविधा मारुताः प्रावर्तन्तेति कालधर्मः। उन्मत्तपक्षे-आटीकमाना इत्यादि सर्व वक्ष्यमाणयोग्यतया योजनीयम् । उद्धतत्र- मणाचा छुन्मादस्यानुभावाः । तदुक्तम्-'अनिमित्तहसितरुदितोत्कृष्टाबद्धप्रलापश- यनोत्थितप्रधावितवृत्तगीतपठितस्मितपखिवधूनननिर्माल्यचीरघटवक्रशरावाभर• णस्पर्शनोपभोगैरन्यैश्चाव्यवस्थितचेष्टानुकारणादिभिरनुभावैरभिनयेत्' इति । ऊपरं हर्षचरिते प्रपक्ककपिकच्छूगुच्छच्छटाच्छोटनचापलैरकाण्डकण्डूला इव कर्ष- न्तः शर्करिलाः कर्करस्थलीः, स्थूलहपञ्चूर्णमुचः, मुचुकुन्दकन्द- लदलनदन्तुराः, समन्ततः पतन्मुखरचीरीगणमुखशीकरशीक्यमा, नतनवः, तरुणतरतरणितापतरले तरन्त इव तरङ्गिणि मृगतृ- ष्णिकातरङ्गिणीनामलीकवारिणि, शुष्यच्छमीमर्मरमारवमार्गलङ्घन- लाघवजवजङ्घालाः, रैणवावर्तमण्डलीरेचकरासरसरभसारब्धनत- नारम्भारभटीनटाः, दावदग्धस्थलीमषीमलनमलिनाः, शिक्षितक्ष- पणकवृत्तय इव वनमयूरपिच्छचयानुच्चिन्वन्तः, सप्रयाणगुञ्जा इव । - सिकताबहुलो रूक्षो देशः। प्रपा सत्रम् । वाटः कुनालम् । पटलं छदिः । कपिकच्छूः कण्डूदायको द्रव्यभेदः । अत एवाह-कर्षन्त इति । शर्कराः पाषाणकणिका विद्यन्ते यासु ताः शर्करिलाः । पिच्छादित्वादिलच् । कर्करस्थली ऊषरभूः, पा. षाणभूः । अत एवाह-स्थूलेत्यादिना । मुचुकुन्दं पुष्पभेदः । कन्दलं नवना- लम् । दन्तुरा इति । कपिकच्छूस्पर्शचालनेन च ये कण्डूलास्तादृशाश्चूर्णमुचो प्रकटदन्ताः परुष कषन्ति । शीक्यमानाः सिच्यमानाः। तरुणतरः प्रौढः । तर- णिरादित्यः। तरन्त इवेति । वालुकावशात्तथा लक्ष्यमाणत्वात् । मृगतृष्णिका मरीचिका । तृषितमृगाणां रविरश्मिखचितासु सिकतासु नीलत्वदर्शनाज्जलबुद्धिः। वारिणीति । सतरङ्गे वारिणि ये सभीकास्ते सतायं देशं तरन्ति । उन्मत्तपक्षेऽपि विचित्तत्वेनैवंकारित्वम् । शम्योऽग्निगर्भा वल्लीभेदाः । लाघवं नैपुणम् । सव्या यामाश्च विषमं मार्ग लाघवेन तरन्ति । जङ्घाला वेगवन्तः। रैणवावर्ताः पांसुसंबन्धिन आव- निरूपाः संनिवेशास्तेषां मण्डली समूहः । रेचयति पृथकरोतीति रेचकम् । रैणवावर्तमण्डल्या रेचकं तथा रासे रसिते यो रसस्तेन यो रभसस्तदशेनारब्धं यन्न- निमिव नर्तनं तदारम्भे विषय आरभटीनटा इव । आरभटीनटाः । इयरतेति अराः । अराश्च ते भटा अरभटाः । तेषामियमारभटी नटजातिविशेषो वीररसप्र- धानः । उक्तं च-'प्लुष्टावपातप्लुतगर्जितानि च्छेद्यानि मायाकृतमिन्द्रजालम् । चि- त्राणि यूथानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ॥' इति नृत्तपक्षे-आवर्ता आवृत्तयः । यदाह मुनिः-'यदा नृत्तवशादङ्गं भूयोभूयो निवर्तते । तत्राद्यमभिनेयं स्थाच्छेषं नृत्ते नियोजयेत् ॥' इति । मण्डलीनृत्तं हलीमकम् । यदाह-'मण्डलेन तु यन्नृत्तं हलीमकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥ इति । रेचकास्त्रयः-कटीरेचकः, हस्तरेचकः, ग्रीवारेचकश्चेति । रासलक्षणम्-'अष्टौ षोडशद्वात्रिंशद्यत्र नृत्यन्ति नायकाः । पिण्डीबन्धानुसारेण तन्नृत्तं रासकं स्मृतम् ॥' इति । अस्यैव तु हलीमकाद्या विशेषाः । क्षपणकवृत्तय इवेति । क्षपणकाश्च मषीमलिना बर्हिपिच्छानि शास्त्रचोदनया वहन्ति । उन्मत्तपक्षे-निर्विवेकतया मयूरपिच्छचय इत्युक्तं प्राक् । गुञ्जन्तीति गुञ्जा ढंकाभेदाः । उन्मत्तानां नृत्ताव- ।
द्वितीय उच्छासः । ४९ शिजानजरत्करञ्जमञ्जरीबीजजालकैः, सप्ररोहा इवातपातुरवन- महिषनासानिकुञ्जस्थूलनिःश्वासैः, सापत्या इवोडीयमानजवनवात- हरिणपरिपाटीपेटकैः, सभ्रुकुटय इव दह्यमानखलधानबुसकूटकु- टिलधूमकोटिभिः, सावीचिवीचय इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः, दद्रुणा इव शुष्कपत्रप्रक- राकृष्टिभिः, सिराला इव तृणवेणीविकिरणैः, उच्छश्रव इव धूय- माननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशललसूची- शतैः, जिह्वाला इव वैश्वानरशिखाभिः, उत्सर्पत्सर्पकञ्चुकचूडाला ब्रह्मस्तम्भरसाभ्यवहरणाय कवलग्रहमिवोष्णैः कमलमधुभिरभ्य- स्यन्तः सकलसलिलोच्छोषधर्मघोषणापटहैरिव शुष्कवेणुवनास्फो- टनपटुरवैस्त्रिभुवनविभीषिकामुद्भावयन्तः, च्युतचलचाषपक्षश्रेणी- शारितसृतयः, विषिमन्मयूखलतालातप्लोषकल्माषवपुष इव स्फुटि- । सरे सर्व एव करतलादि वादयन्ति। शिजानाः शब्दायमानाः करञ्जो वृक्षभेदः । प्ररोहोऽङ्कुरः । उन्मत्ता अपि खेदान्निःश्वसन्ति । सापत्या इवेति । उन्मत्ता अपि श्वभ्रादिपतनभयादपत्यानि न त्यजन्ति । पेटकैयूँथैः सभु- कुटय इवेति। दह्यमानाभिप्रायेणोक्तम् । उन्मत्ता अपि क्रोधप्राया एव । क्रोधस्य भृकुट्यादयोऽनुभावाः । खलधानं क्षोदादिदेशः । क्षुद्यमानं धान्यमित्यन्ये। सस्यस्य ज्वालाभावाबूमवर्णनं समुचितम् । कुटिलपदेन च भ्रुकुटीसादृश्यमाह । अवीचिर्नरकभेदस्तस्य वीचय इव वीचयो ज्वालाः । महोष्मेति । उन्मत्ता अपि खेदादिवशादूष्मायन्ते । लोमशा इवेति । उन्मत्ता अपि क्षुरकर्मविना लोमशाः। तूलं कर्पासः । दद्रूः कुष्ठविकारः । सास्यास्तीति दद्रुणः। 'दवा ह्रखवं च' इति नः। उन्मत्ता अप्युद्वर्तनं विना द्रूयुक्ता भवन्ति । सिरालाः प्रकटस्नायवः । उन्मत्ता अपि कृशतात्सिराला भवन्ति । वेणी पतिः । सिरासादृश्यप्रतिपादनाय वेणीपदम् । श्मश्रुः कूर्चः। शुकाः किंशारवः । उन्मत्ता अपि केशवपनाभावाद्दीर्घश्मश्रवः दंष्ट्रा बहिर्निर्गता दन्ताः। शललः श्वावित् । सूची दीर्घकण्टकरूपाणि रोमाणि । अन्ये तु- दंष्ट्रालाः शललाः, श्वाविधः पक्षाश्च शलला उच्यन्ते । तथा च-'श्वाविधः शललै- रिव' इति महाभारते दृश्यत इत्याहुः । उन्मत्ता अप्येवमादिविकारेण सर्व भीषयन्ते । एवं जिह्वाला अपि । एवमेव स्नानादिना विनोन्मुक्तचूडलादुत्सर्पदित्यादि। कञ्चकस्व- क् । ब्रह्मस्तम्भो ब्रह्माण्डः। रसाभ्यवहरंणं शोषणम् । रसानां च मधुरादीनां भोजनम् । 'असंचार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा'। अभ्यस्यन्तीति । एवमिदं शोषयिष्याम इति । धर्मो ग्रीष्मः । घोषणा श्रावणा । विभीषिकामिति । ये सगर्वा जगद्- सनशीलास्ते त्रिभुवनेऽपि भयमुत्पादयन्ति । चाषः किकीदिविः पक्षिभेदः । उन्मत्त- पक्षे--विस्मरणशीलवायुतेखादि योज्यम् । सृतिर्मार्गः । विषिमानविः । अलातमु- ।
हर्षचरिते तगुजाफलस्फुलिङ्गाङ्गाराङ्किताङ्गाः, गिरिगुहागम्भीरझांकारभीष- णभ्रान्तयः, भुवनभस्मीकरणाभिचारचरुपचनचतुरा रुधिराहु- तिभिरिव पारिभद्रद्रुमस्तबकवृष्टिभिस्तर्पयन्तस्तारवान्वनविभा- वसून् , अशिशिरसिकतातारकितरंहसः, तप्तशैलविलीयमानशिला- जतुरसलवलिप्तदिशः, दावदहनपच्यमानचटकाण्डखण्डखचिततरु- कोटरकीटपटलपुटपाकगन्धकटवः, प्रावर्तन्तोन्मत्ता मातरिश्वानः। सर्वतश्च भूरिभस्त्रासहस्रसंधुक्षणक्षुभिता इब जरठाजगरग- म्भीरगलगुहावाहिवायवः, कचित्वच्छन्दतृणचारिणो हरिणाः, कचित्तरुतलविवरविवर्तिनो बभ्रवः, क्वचिजटावलम्बिनः कपिलाः क्वचिच्छकुनकुलकुलायपातिनः श्येनाः, क्वचिद्विलीनलाक्षारसलो- ल्मुकम् । कल्माष रक्तकृष्णम् । गुञ्जा रक्तिकोत्पलानि लोहितकृष्णानि भवन्ति। स्फु- लिङ्गा अग्निकणाः । अङ्गारांकितानीवाङ्गाराङ्कितानि दग्धान्यज्ञानि।येच साङ्गारास्ते च मलिनशरीरा भवन्ति । उन्मत्ता अप्यग्निशस्त्रशुभ्रादिषु बलादतिपतन्ति । झां. कारभीषणा भ्रमन्ति च । अभिचार उच्चाटनम् । अभिचारिणश्वोच्चाटनमारणाद्यर्थ चरुपचनं कुर्वन्ति । रक्तेन चानीन्प्रीणयन्ति । पारिभद्रा निम्बाः । मदना इत्यन्ये। उन्मत्ता अपि निर्विवेकतया रक्तादि यत्किचिदशुचिप्रायमग्निषु निक्षिपन्ति, तत एव विश्वस्य दोषाय पर्यवस्यन्ति । तारकितमिव रहो वेगो येषां ते। शिलाज- तुरश्मसः। दावदहनेन पच्यमानानि यानि चटकाण्डानि तेषां विदारणवशात्स्फुटिता ये खण्डाः कपालानि तैः । दोलावदुपरिपतितैः खचितानि कचायमानानि यानि तरुकोटरेषु कीटपटलानि क्रिमिसमूहास्तेषामतिपेशलत्वेन यत एव तप्तैः ख- ण्डैरुपर्याच्छादकतया स्थितैः पुटपाकैः प्रसूतधूमोऽभ्यन्तरपातस्तद्गन्धेन कटव उद्वेजकाः । अत्राग्निपाकेन खण्डलं खण्डेभ्यो रसनिःसरणात्खचितवं कीटानाम् । उन्मत्ता इति । ये चोन्मत्तास्ते सिकताव्याप्ताः कर्दमविलिप्तदिशो गन्धकटवः शाटीकराद्याः पूर्वोक्ताः क्रियाः प्रायेण कुर्वत इति । सर्वत्रात्र महावाक्ये ध्वनि- च्छायान्वेष्या । मातरिश्वानो वायवः । सर्वतश्चेत्यादौ दावाग्नयः प्रत्यदृश्यन्तेति संबन्धः । भस्वा दृतिः। संधुक्षण- मुद्दीपनम् । जरठाजगरा वृद्धसर्पाः । गला एव गुहा गलगुहाः । खच्छन्दमपविग्नम् , यथारुचि । चरणं भक्षणम्, गमनम् । हरिणाः शुक्लाः, मृगाश्च । वभ्रवः कपिलाः, नकुलाश्च । इतरत्र जटामूलानि च कपिलाः पिङ्गलाः । कपिलाख्यमुनिव्रतग्रहणा- न्मनुष्या एवाभेदोपचारेण कपिलाः। एते च जटावल्कलधारिणः। कुलाया नीडाः। श्येनाः शुक्लाः, पाजिकाश्च । अधरा धर्तुमशक्याः, अधोभवा वा । लाक्षाया वि- लीनतयापीतत्वात् । ओष्ठाश्चाधराः । आ समन्तात्सादिता आहताः, खी- ।
द्वितीय उच्छासः। हितच्छवयोऽधराः, क्वचिदासादितशकुनिपक्षकृतपटुगतयो वि- शिखाः, क्वचिद्दग्धनिःशेषजन्महेतवो निर्वाणाः, कचित्कुसुमवा- सिताम्बरसुरभयो रागिणः, क्वचित्सधूमोद्गारा मन्दरुचयः, क्वचि- त्सकलजगद्वासघस्मराः सभस्मकाः, कचिद्वेणुशिखरलग्नमूर्तयो- ऽत्यन्तवृद्धाः, क्वचिदचलोपयुक्तशिलाजतवः क्षयिणः, क्वचित्सर्व- रसभुजः पीवानः, कचिद्दग्धगुग्गुलवो रौद्राः, कचिज्वलितने- बदहनदग्धसकुसुमशरमदनाः कृतस्थाणुस्थितयः, चटुलशिखानत- नारम्भारभटीनटाः शुष्ककासारमृतिभिः, स्फुटन्नीरसनीवारबी- जलाजवर्षिभिर्जालाञ्जलि भिरचर्यन्त इव धर्मघृणिम् , अघृणा इव हठहूयमानकठोरस्थलकमठवसावित्रगन्धगृघ्नवः, स्वमपि धूमम- म्भोदसमुद्भूतिभियेव भक्षयन्तः, सतिलाहुतय इव स्फुटद्वहलबाल- कीटपटलाः कक्ष्येपु, वित्रिण इव प्लोषविचटद्वल्कलधवलशम्बूक- कृताश्च । स्निग्धतया नीरसतया च । शकुनीनां पक्षेषु कृतपटुगतयः । निःसारतया कालस्थापितत्वात् । विगता शिखा ज्वाला येषां ते, विविधशिखाः शराश्च । निःशेषाः समस्ताः, प्राक्तनजन्मान्तरसंचिता अपि । जन्महेतवस्तृणाद्याः, कर्माणि च । निर्वाणाः शान्ताः, मोक्षगामिनश्च । कुसुमं धूमः, पुष्पं च, अम्बरं नमः, वस्त्रं च । रागिणो लोहिताः,शृङ्गारिणश्च । अजीर्णकृतोऽपि धूमोद्गारः। रुचिर्दीप्तिः,भोज- नाभिलाषश्च । जगदेव ग्रासः कवलं तद्भक्षणशीलाः । भस्मभूरिकश्चात्यशनव्या- धिः वृद्धा वृद्धिं गताः, स्थविराश्च । ते वेणुशिखरमवलम्बन्ते यष्टिं गृह्णन्ति । अचलाः पर्वताः । अन्यत्र क्षयस्य दीर्घकालपर्यवसायित्वादचलम विच्छिन्नं भक्षितशिलाह्वयाः। उक्तं च-'शिलाधातुप्रयोगाद्वा प्रसादाद्वाथ शांकरात् । अजामूत्रप्रयोगाद्वा क्षयः क्षीयेत च नान्यथा॥'इति।क्षयो विनाशः, व्याधिभेदश्च यक्ष्माख्यः। रसः सलिलादिः। अत एव पीवानः । अन्यथा कथं सलिलादिभक्षणशक्तिलममीषां प्रसज्येत । ये च मधुरादिसर्वरसानुपभुजते ते स्थूला भवन्ति । रौद्रा भीषणाः, रुद्रभक्ताश्च । नेत्रा- णां मूलानां दहनेन दग्धाः सकुसुमाः काण्डानि मदना वृक्षभेदाश्च यैः । स्थाणु- श्छिन्नशाखो वृक्षः, शिवश्च । स्थितिः स्थानम् , व्यवहारश्च । स्थाणुनापि नयनाग्निना सकुसुमशरः कामो दग्धः । चटुललेन नर्तनाम्भः, रवश्च । शुष्कत्वाचटुलादेरार- भटीग्रहणम् । कासाराणि नड्कलास्तेषु याः सृतयः । क्वचित् ‘स्मृतयः' इति पाठः। इतरत्र तु-शुष्ककं शुष्कगीतं झण्ठुमादि । आसार्यन्त इत्यासाराः। आसारितानि यद्यपि गीयन्त एव, तथापि 'वर्धमानमथापीह ताण्डवं यत्र योज्यते' इति । ताण्डवं ह्यारभटीप्रधानम् । अर्चयन्त इवेति । तेषां तदभिमुखलात् । धर्मघृणिः सूर्यः। अघृणा अजुगुप्साः। कमठः कूर्मः। 'वित्रं स्यादामगन्धि यत्' । नवो लम्पटाः। समुद्भूतिः संभारः । धूमात्किल मेघोत्पत्तिर्मेघाः शमयन्ति । कीटाः कृमयः । प्लोषो 8912 । - ૨ हर्षचरिते शुक्तयः शुष्केषु सरःसु, खेदिन इव विलीयमानमधुपटलगोलग- लितमधूच्छिष्टवृष्टयः काननेषु, खलतय इव परिशीर्यमाणशिखा- संहतयो महोषरेषु गृहीतशिलाकवला इव ज्वलितसूर्यमणि- शकलेपु शिलोच्चयेषु, प्रत्यदृश्यन्त दारुणा दावाग्नयः । तथाभूते च तस्मिन्नत्युने ग्रीष्मसमये कदाचिदस्य स्वगृहावस्थि- तस्य भुक्तवतोऽपराह्नसमये भ्राता पारशवश्चन्द्रसेननामा प्रविश्या- कथयत् —'एष खलु देवस्य चतुःसमुद्राधिपतेः सकलराजचक्र- चूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणेः सर्वचक्रव- तिनां धौरेयस्य महाराजाधिराजपरमेश्वरश्रीहर्षदेवस्य भ्राता कृष्ण- नाना भवतामन्तिकं प्रज्ञाततमो दीर्घाध्वगः प्रहितो द्वारमध्यास्ते' इति । सोऽब्रवीत्-'आयुष्मन् , अविलम्बितं प्रवेशयैनम्' इति । अथ तेनानीयमानम् , अतिदूरगमनगुरुजडजङ्घम् , कार्दमिकचे- लचीरिकानियमितोचण्डचण्डातकम् , पृष्टप्रेङ्खत्पटच्चरकर्पटघटितग- लितग्रन्थिम् , अतिनिबिडसूत्रबन्धनिनितान्तरालकृतव्यवच्छेदया लेखमालिकया परिकलितमूर्धानम् , प्रविशन्तं लेखहारकमद्राक्षीत् । अप्राक्षीच दूरादेव-'भद्र, भद्रमशेषभुवननिष्कारणवन्धोस्तत्र- भवतः कृष्णस्य' इति । सः 'भद्रम्' इत्युक्त्वा प्रणम्य नातिदूरे समु- पाविशत् । विश्रान्तश्चाब्रवीत्-'एष खलु स्वामिनो माननीयस्य लेखः प्रहितः' इति विमुच्य चार्पयत् । अथ बाणः सादरं गृही- दाहः । वल्कलशब्दस्त्वगुपलक्षणार्थः । शम्बूकाः शुक्तिमन्तः प्राणिभेदाः । मधुपटल- गोलो माक्षिककरण्डः । मधूच्छिष्टं सिक्थकम् ।खलतयः खल्वाटाः । शिखा ज्वाला, चूडा च । ऊषरं सिकताबहलो रूक्षो देशः । शिलोच्चयो गिरिः । 'दावो वह्निगतो वह्निीवश्च वनमुच्यते'। तथाभूतदेश इत्यादिनात्मानं प्रति तेषामादरातिशयं दर्शयति-आकुर्वत इति । न खप्रस्तावे । एतेन स्वस्य किमपि माहात्म्यमाह । खयमवसरमन्तरेण वा तस्य तदा प्रवेशाभावात् ।एतदेव देवस्येत्यादिविशेषणसंदर्भमुखेन द्वारमध्यास्त इत्यनेन पोषयि- ष्यते। पारशवः शूद्रापुत्रः। शाणो मणिकषणम् । कोणोऽश्रिः। चक्रवर्तिनः सार्वभौमाः। धौरेयो मुख्यः । प्रज्ञाततमोऽतिप्रतीतः । एतेन च बाणं प्रति बहुमान एव गम्यते। जडा गमनाशक्ताः । कर्दमेन रक्तंकार्दमिकम् । चेलं वस्त्रम् । चीरिका ख- ण्डिका । उच्चण्डमुच्चम् । गाढमित्यन्ये । चण्डातकमोरुकं वासः । पटच्चरं जीर्णवस्त्र- म् । निम्नितं नमितम् । लेखमालिकेति । अन्यैरपि तद्धस्ते लेखः प्रहित इति प- रागतः संबन्धः। परिकरित-'इति पाठे वेष्टित इत्यर्थः । तत्रभवतः पूज्यस्य । नाति- । । ।
द्वितीय उच्छ्वासः । । च त्वा स्वयमेवावाचयत्-'मेखलकात्संदिष्टमवधार्य फलप्रतिबन्धी धीमद्भिरपहरणीयः कालातिपात इत्येतावत्रार्थजातम् । इतरद्वा- संवादनमात्रकम् । अवधृतलेखार्थश्च समुत्सारितपरिजनः संदेश पृष्टवान् । मेखलकस्त्ववादीत्-‘एवमाह मेधाविनं स्वामी- येव मान्यः यथैकगोत्रता वा, समानजातिता वा, समं संवर्ध- नं वा, एकदेशनिवासो वा, दर्शनाभ्यासो वा, परस्परानुराग- श्रवणं वा, परोक्षोपकारकरणं वा, समानशीलता वा, स्नेहस्य हेतवः । त्वयि तु विना कारणेनादृष्टेऽपि प्रत्यासन्ने बन्धाविव बद्ध- पक्षपातं किमपि स्निह्यति मे हृदयं दूरस्थेऽपीन्दोरिव कुमुदा- करे। भवन्तमन्तरेणान्यथा चान्यथा चायं चक्रवर्ती दुर्जनैाहित आसीत् । न च तत्तथा । न सन्येव ते येषां सतामपि सतां न विद्यन्ते मित्रोदासीनशत्रवः । शिशुचापलापराचीनचेतोवृत्तितया भवतः केनचिदसहिष्णुना यत्किंचिदसदृशमुदीरितम् । इतरो लोकस्तथैव तद्गृह्णाति वक्ति च । सलिलानीव ग- तागतिकानि लोलानि खलु भवन्त्यविवेकिनां मनांसि । 'ब- हुमुखश्रवणनिश्चलीकृतनिश्चयः किं करोतु पृथिवीपतिः तत्त्वान्वेषिभिश्चास्माभिर्दूरस्थितोऽपि प्रत्यक्षीकृतोऽसि । वि- ज्ञप्तश्चक्रवर्ती त्वदर्थम्-यथा प्रायेण प्रथमे वयसि सर्वस्यैव चा- पलैः शैशवमपराधीति । तथेति च प्रतिपन्नं स्वामिना । अतो भ- वता राजकुलमकृतकालक्षेपमागन्तव्यम् । अवकेशीवादृष्टपरमेश्वरो बन्धुमध्यमधिवसन्नासि मे बहुमतः । न च सेवावैषम्यविषादिना वा परमेश्वरोपसर्पणभीरुणा भवता भवितव्यम् । यतो यद्यपि- दूर इति । अपि तु दूर एवेति सर्वत्रैव स्वस्य प्रभावातिशयं प्रतिपादयति । फलं प्रतिबध्नाति रुणद्धीति फलप्रतिबन्धी। कालातिपातः कालात्ययः। अर्थजातमभिधे- यप्रकारः । अवधृतो ज्ञातः। एकेत्यादि कारणमुत्तरोत्तरमप्रधानम्। अन्यथा चान्यथा चेति । एतेन किंचिदेव संभवतीति दर्शयति । अत एवाहन च तत्तथेति । तथात्वे तु बाणस्य दुर्वृत्तता प्रसज्येत । कृष्णस्यापि तादृशः पक्षपातः खामिप्रतार- णादि च दोषायैव भवेत्। अत एव वक्ष्यति-तत्त्वान्वेषिभिरित्यादि। ग्राहित इत्येतावति वक्तव्य आसीदित्यनेन दुर्जनाः संपत्तिनिरवकाशा इति प्रतिपादितम् । अत एव वक्ष्यति-तथेति च प्रतिपन्नंस्वामिनेति।सतां साधूनामपि । सतां भवताम् । उदासीनो मध्यस्थः । अपराचीनापराङ्मुखी चेतोवृत्तिर्यस्याः । अवकेशी -- । । । ।
हर्षचरिते । खेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात्समाक्षिपति जीवनमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥ ३ ॥ तथाप्यन्ये ते भूपतयः, अन्य एवायम् । न्यकृतनृगनलनिषधन- हुषाम्बरीषदशरथदिलीपनाभागभरतभगीरथययातिरमृतमयः स्वा- मी । नास्याहंकारकालकूटविषदिग्धदुष्टा दृष्टयः, न गर्वगुरुगर- गलग्रहगदगद्दा गिरः, नातिस्मयोष्मापस्मारविस्मृतस्थैर्याणि स्थानकानि, नोद्दामदर्पदाहज्वरवेगविक्लवा विकाराः, नाभिमान- महासंनिपातनिर्मिताङ्गभङ्गानि गतानि, न मदार्दितवक्रीकृतौष्ठनि- ष्ठयूतनिष्ठुराक्षराणि जल्पितानि। तथा च । अस्य विमलेषु साधुषु रत्न- बुद्धिः, न शिलाकलेषु । मुक्ताधवलेषु गुणेषु प्रसाधनधीः, नाभ- रणभारेषु । दानवत्सु कर्मसु साधनश्रद्धा, न करिकीटेषु । सर्वाग्रे- सरे यशसि महाप्रीतिः, न जीवितजरत्तॄणे । गृहीतकराखाशासु निष्फलतरुः । स चादृष्टरविस्तरुमध्यगो न कस्यचिप्रियः। खेच्छोपजाता विषया मण्डलानि यस्मात्तादृगपि देहि प्रयच्छेति वक्तुं न पार्यते । इतरत्र खेच्छया ख- संकल्पेनोपजात उत्पनो विषयो गोचरो यस्य । तथा चोच्यते--'काम जानामि ते मूलं संकल्पात्किल जायसे' इति । अथ च खेच्छाया उपजाता विषया यस्यायं देही च शरीरवानिति वक्तुं न याति। न शक्यत इति विरोधः । कामश्चानङ्गत्वाद्देही शरीरवानिति वक्तुं न युज्यत इत्यन्यार्थः । मार्गणा याचकाः, शराश्च मार्गणाः । जीव्यतेऽनेनेति जीवनम् , प्रामादि जीवितं च । ईश्वरो राजा, हरश्च । दुर्विदग्धो दुरूढः, दुष्टत्वाद्विशेषेण दग्धश्च । अमृतेत्यादि साभिप्रायम् । यस्मादहंकारादि काल- कूटादिना रूपयति, अतश्चाहंकारादीनामत्यन्ताभावप्रकाशनेच्छयामृतमयमस्य दर्शयति । अमृतमयस्य च कालकूटादिभिर्न योगः। गरं विषम् । स्मयो गर्वः। स्था- नकानि स्थितयः। अर्दितं वातव्याधिभेदः । तस्मिन्सति मुखं वकं भवति। तथा चो- कम्-'वायुः प्रवृद्धस्तैस्तैश्च वातलैरूर्ध्वमाश्रितः । वक्रीकरोति वक्तारमुक्तं हसि- तमीक्षितम् ॥ इति निष्ठयूतानि निर्गतानि । विमलेष्वपापेषु, अन्यत्र सुच्छायेषु । पद्मरागादिष्विति वक्तव्ये शिलेत्यादिपदमादरार्थम् । एवमुत्तरत्रापि वाच्यम् । मुक्तवत्ताभिश्च धवलास्तेषु गुणेष्वौदार्यादिषु च, सूत्रेषु च । प्रसाधनं प्रकृष्टं सा- धनम्, अर्जनम्, भूषणं च । दानं धनत्यागः, मदश्च । साधनं संपादनम्, सैन्यं च । साभ्यतेऽनेनेति कृत्वा । करो दण्डः, पाणिश्च । आशा दिशः, चेतः, वाञ्छा । ।
द्वितीय उच्छासः । । प्रसाधनताभियोगः, न निजकलत्रचर्मपुत्रिकासु । गुणवति धनुषि सहायबुद्धिः, न पिण्डोपजीविनी सेवकजने । अपि च । अस्य मित्रो- पकरणमात्मा, भृत्योपकरणं प्रभुत्वम् , पण्डितोपकरणं वैदग्ध्यम् , बान्धवोपकरणं लक्ष्मीः, कृपणोपकरणमैश्वर्यम् , द्विजोपकरणं सर्व- स्वम् , सुकृतसंस्मरणोपकरणं हृदयम् , धर्मोपकरणमायुः, साहसोप- करणं शरीरम् , असिलतोपकरणं पृथिवी, विनोदोपकरणं राजक- म् , प्रतापोपकरणं प्रतिपक्षः । नास्याल्पपुण्यैरवाप्येत सर्वातिशायि- सुखरसप्रसूतिः पादपल्लवच्छाया' इति । श्रुत्वा च तमेव चन्द्रसेनं समादिशत्-'कृतकशिपुं विश्रान्तसुखिनमेनं कारय' इति । अथ गते च तस्मिन् , पर्यस्ते च वासरे, संघट्टमानरक्तपङ्कज- संपुटपीयमान इव क्षयिणि क्षामतां व्रजति बालवायसास्यारुणेऽप- राहातपे, शिथिलितनिजवाजिजवे जपापीडपाटलेऽस्ताचलशिखर- स्खलिते खञ्जतीव कमलिनीकण्टकक्षतपादपल्लवे पतङ्गे, पुरः । । च । प्रसाधनं संपादनम् , दण्डश्च । गुणो ज्या, शौर्याद्याश्च गुणाः । उपक्रिय- न्तेऽनेनेत्युपकरणमुपयोगः । आत्मेति । नहि मित्राणि मित्रव्यतिरेकेण बान्धवादिव लक्ष्यादि किंचिदपेक्ष्यन्ते । प्रभुत्वमिति । तस्य प्रभुवं सेवका- दीनां दानसंपादनादि । यथाह-'यथाकालं प्रवर्तन्ते पण्डिताः' इत्यादिवैदग्ध्य- मात्रापेक्षया पण्डितानां क्षपणादिवदादनपेक्षितया हि तेषामौचित्यं न प्रतीयते। अनेन पण्डितसामान्यात्तदभिप्रायेण खस्य समुचितमेव हेवाकमभिव्यनक्ति वैदग्ध्यापेक्षिवं दर्शयतीति यावत् । बान्धवाः कुल्याः । लक्ष्मीश्छत्रचामरादिप्र. तिपत्तिरूपा छत्रादिवत्तुल्या एव । लभन्तेऽन्येषामनहत्वात् । कृपणेत्यादि । कृपणानां पोषणमेव समुचितम् । तत्र चैश्वर्यमेव हेतुः । ऐश्वर्यमर्थवत्ता । न तु द्विजातिवदेते सर्वस्वमर्हन्ति । सर्वशब्देन दारा अप्युच्यन्ते एवमादि तु द्विजा एव लभन्ते । तद्वयतिरेकेणान्येषामनहलात् । एवं हृदयादि तत्तदभिप्रा- येण विचारणीयम् । सुखमेवास्वाद्यतया रस एव । रसः सुखरसः । छाया कान्तिः । यद्वा छायावत्त्वमेषां सर्वस्य कस्यचिदाश्रयणीयत्वादुपचर्यते । अल्पेत्या- द्यभिप्रायेण पादयोः कल्पवृक्षतुल्यत्वमभिव्यज्यते । पुण्यवशात्तदवाप्तेः । एत- त्पक्षे छायातपप्रतिपक्षजातिः। 'भोजनाच्छादने सद्भिरुभे कशिपुरुच्यते । वायसः काकः । जपा रविप्रियं पुष्पम् । आपीडः स्तबकः । कोऽत्रास्तेत्या- दिखरूपकथनं क्षतपादपल्लवलादुत्प्रेक्षणम् । खञ्जतीवेति । यश्च खञ्जति स शिखरप्राये विषमे पथि । ये पुनरस्ताचले शिखरस्खलनकारणकं खजनमित्युत्प्रे- क्षयन्ते तान्प्रति कमलिनीत्यादि निरर्थकम् । खञ्जतीव स्खलतीव । पुरः पूर्वस्यां - हर्षचरिते परापतति प्रेतदन्धकारलेशलम्बालके शशिविरहशोकश्याम इव श्यामामुखे, कृतसंध्योपासनः शयनीयमगात् । अचिन्तयञ्चैका- की-किं करोमि । अन्यथा संभावितोऽस्मि राज्ञा । निर्निमित्त- बन्धुना च संदिष्टमेवं कृष्णेन । कष्टा च सेवा । विषमं च भृत्यत्व- म् । अतिगम्भीरं महद्राजकुलम् । न च तत्र मे पूर्वजप्रवर्तिता प्रीतिः, न कुलक्रमागता गतिः, नोपकारस्मरणानुरोधः, न बाल- सेवास्नेहः, न गोत्रगौरवम् , न पूर्वदर्शनदाक्षिण्यम् , न प्रज्ञासंवि- भागोपप्रलोभनम् , न विद्यातिशयकुतूहलम् , नाकारसौन्दर्यादरः, न सेवाकाकुकौशलम् , विद्वद्गोष्ठीबन्धवैदग्ध्यम्, न वित्तव्यय- वशीकरणम्, न राजवल्लभपरिचयः । अवश्यं गन्तव्यम् । सर्वथा भगवान्पुरारातिर्भुवनगुरुर्गतस्य मे सर्व सांप्रतमाचरिष्यति' इत्य- वधार्य गमनाय मतिमकरोत् । अथान्यस्मिन्नहन्युत्थाय, प्रातरेव स्नात्वा, धृतधवलदुकूलवा- साः, गृहीताक्षमालः, प्रास्थानिकानि सूक्तानि मन्वपदानि च बहु- शः समावर्त्य, देवदेवस्य विरूपाक्षस्य क्षीरस्नपनपुरःसरां सुरभिकु- सुमधूपगन्धध्वजबलिविलेपनप्रदीपकबहुलां विधाय पूजाम्, परम- या भक्त्या प्रथमहुततरलतिलत्वग्विचटनचटुलमुखरशिखाशेखरं प्राज्याज्याहुतिप्रवर्धितदक्षिणार्चिषं भगवन्तमाशुशुक्षणिं हुत्वा, दत्वा द्युम्नं यथाविद्यमानं द्विजेभ्यः, प्रदक्षिणीकृत्य प्राङ्मुखीं नैचिकीम् , शुक्लाङ्गरागः, शुक्लमाल्यः, शुक्लवासाः, रोचनाचित्रदुर्वाग्रपल्लवन- थितगिरिकर्णिकाकुसुमकृतकर्णपूरः, शिखासक्तसिद्धार्थकः, पितुः कनीयस्या स्वस्रा मात्रेव स्नेहार्द्रहृदयया श्वेतवाससा साक्षादिव दिशि । श्यामा रात्रिः, योषिच्च । मुखमारम्भः, वदनं च । निनिमित्तेत्याद्यभि- प्रायेण वक्ष्यति । अवश्यं गन्तव्यं चेत्यादि । 'काकुः स्त्रियां विकारो यः शोक- भीत्यादिभिर्वनेः' । इह च लक्षणया वक्रोक्तिः । सांप्रतं युक्तम् । अथेत्यादावन्यस्मिन्नहनि प्रीतिकूटानिरगादिति संबन्धः । प्रस्थानं प्रयोजन येषां तानि प्रास्थानिकानि सूक्तानि, वेदोक्ता मन्त्रविशेषाः । विरूपाक्षस्त्र्यक्षः । प्रा- ज्यं भूरि । आज्यं घृतम् । द्युम्नं धनम् । यथाविद्यमानमित्यनेन निर्लोभतोक्ता । नैचिकी वराङ्गीम्, होमधेनुं वा, शुक्लां वा । गिरिकर्णिकाश्वखुरी मङ्गल्यौषधिः । सिद्धार्थकानि सर्षपाः । खस्रा भगिन्या । महाश्वेता देवताविशेषः । रविस्थदेवते । ।
द्वितीय उच्छ्वासः । ५७ भगवत्या महाश्वेतया मालत्याख्यया कृतसकलगमनमङ्गलः, दत्ता- शीर्वादः, बान्धववृद्धाभिरभिनन्दितः, परिजनजरन्तीभिर्वन्दितच- रणैरभ्यनुज्ञातः, गुरुमिरमिवादितैराघ्रातः शिरसि, कुलवृद्धैवधि- तगमनोत्साहः, शकुनैमौहूर्तिकमतेन कृतनक्षत्रदोहदः, शोभने मुहूर्ते हरितगोमयोपलिप्ताजिरस्थण्डिलस्थापितमसितेतरकुसुममा- लापरिक्षिप्तकण्ठं पिष्टपञ्चाङ्गुलपाण्डुरं मुखनिहितनवचूतपल्लवं पूर्ण- कलशमुदीक्षमाणः, प्रणम्य कुलदेवताभ्यः कुसुमफलपाणिभिर- प्रतिरथं जपद्भिनिजद्विजैरनुगम्यमानः, प्रथमचलितदक्षिणचरण:, प्रीतिकूटान्निरगात् । प्रथमेऽहनि धर्मकालकष्टं निरुदकं निष्पत्रपादपविषमं प- थिकजननमस्क्रियमाणप्रवेशपादपोत्कीर्णकात्यायनीप्रतियातनं कमपि पल्लवितमिव तृषितश्वापदकुललम्बितलोलजिह्वालतास- इलैः पुलकितमिवाच्छभगोलाङ्गललिद्यमानमधुगोलचलितसरघा- संघातै रोमाञ्चितमिव दग्धस्थलीरूढस्थूलाभीरुकन्दलशतैः श- नैश्चण्डिकाकाननमतिक्रम्य मल्लकूटनामानं ग्राममगात् । तत्र च हृद्यनिर्विशेषेण भ्रात्रा सुहृदा च जगत्पतिनाम्ना संपादितसपर्यः सुखमवसत् । अथापरेधुरुत्तीर्य भगवतीं भागीरथीं यष्टिग्रहक- नाम्नि वनग्रामके निशामनयत् । अन्यस्मिन्दिवसे स्कन्धावार- मुपमणितारमन्वजिरवति कृतसंनिवेशमाससाद । अतिष्ठच्च तिदूरे राजभवनस्य । । ना- त्यन्ये । दत्तेत्यादि । बान्धववृद्धाभिप्रायेण समुचित एवम् अभिनन्दित इति । प्रतिपदं द्वयमूह्यम् । जरत्यो वृद्धाः । आघ्रातः शिरसि चुम्बितः । मौहूर्तिका गणकाः । नक्षत्रदोहदं प्रति नक्षत्रप्राशनम्, नक्षत्रविषयोऽभिलाषो वा । अजिरमङ्गनम् । स्थण्डिलं भूः । परिक्षितो वेष्टितः । पिष्टपञ्चाङ्गुलमाजको- ताभिः । पञ्चभिरङ्गुलीभिर्मङ्गल्याय दीयते । अप्रतिरथं प्रास्थानिकं मन्त्रम् । निजेत्यादिना खस्य दातृवमुक्तम् । उत्कीर्णा निखाता । कात्यायनी दुर्गा । प्रतियातना प्रतिमा । काननखात्पल्ल- वितमिवेत्युत्प्रेक्षा । जिहैव लता । दीर्घलात् । गोलाङ्गूलः कृष्णमुखो वानरः । मधुगोलं माक्षिककरण्डः । सरघा मधुमक्षिकाः । अभीरुः शतावरी । कन्दलानि नवनालानि । प्रात्रेति चन्द्रसेनेन । हृदयेत्याद्यभिप्रायेण सुखमित्युक्तम् । मणितारं यत्तनभेदम् । अन्वजिरवति नदीभेदनिकटे । संनिवेशो गृहादिरचना ।
५८ हर्षचरिते दू- निर्वर्तितस्त्रानाशनव्यतिकरो विश्रान्तश्च मेखलकेन सह याम- मात्रावशेषे दिवसे भुक्तवति भूभुजि प्रख्यातानां क्षितिभुजां बहू- शिबिरसंनिवेशान्वीक्षमाणः शनैः शनैः पट्टबन्धार्थमुपस्थापितैश्च डिण्डिमाधिरोहणायाहृतैश्चाभिनवबद्धैश्च विक्षेपोपार्जितैश्च कौश- 'लिकागतैश्च नागवीथीपालप्रेषितैश्च प्रथमदर्शनकुतूहलोपनीतैश्च तसंप्रेषणप्रेषितैश्च पल्लीपरिवृढढौकितैश्च स्वेच्छायुद्धक्रीडाकौतुका- कारितैश्च दीयमानैश्चाच्छिद्यमानैश्च मुच्यमानैश्च यामस्थापितैश्च सर्वद्वीपजिगीषया गिरिभिरिव सागरसेतुबन्धनार्थमेकीकृतैर्वजप- टपटुपटहशङ्खचामराङ्गरागरमणीयैः पुष्याभिषेकदिवसैरिव कल्पि- तैर्वारणेन्द्रैः श्यामायमानम्, अनवरतचलितखुरपुटप्रहतमृदङ्गैर्नर्त- यद्भिरिव राजलक्ष्मीमुपहसद्भिरिव सृक्कपुटप्रसृतफेनाट्टहासेन ज- वजडजवां हरिणजातिमाकारयद्भिरिव संघट्टहेतोहर्षहेषितेनोच्चैःश्र वसमुत्पतद्भिरिव दिवसकररथतुरगरुषा पक्षायमाणमण्डनचामर- मालैर्गगनतलं तुरङ्गैस्तरङ्गायमानम्, अन्यत्र प्रेषितैश्च प्रेष्यमाणैश्च प्रेषितप्रतीपनिवृत्तैश्च बहुयोजनगमनगणनसंख्याक्षरावलीभिरिव वराटिकावलीभिर्घटितमुखमण्डनकैस्तारकितैरिव संध्यातपच्छेदैर- रुणचामरिकारचितकर्णपूरैः सरक्तोत्पलैरिव रक्तशालिशालेयैरनव- रतझणझणायमानचारुचामीकरघुरघुरुकमालिकैर्जरत्करञ्जवनैरिव रणितशुष्कबीजकोशीशतैः श्रवणोपान्तप्रेतत्पञ्चरागवर्णोर्णाचित्र- सूत्रजूटजटाजालैः कपिकपोलकपिलैः क्रमेलककुलैः कपिलायमानम् । निर्वर्तितेत्यादी राजद्वारमीदृशमगमदिति संबन्धः । निर्वर्तितेत्यादि राज- दर्शनेऽकातरलमात्मनः प्रतिपादयति । वारणेन्द्रैः श्यामायमानमिति राजद्वार- विशेषणम् । डिण्डिमःपटहः । विक्षेपः करः। नागवीथीहस्तिभूः । पल्ली शबरवसतिः। परिवृढः स्वामी । आकारितैराह्वानैः । आच्छिद्यमानैरपिह्रियमाणैः । यत्र दिने पुष्यनक्षत्रे राजा नाति तद्दिनं पुष्याभिषेकाख्यम् । श्यामायमानं कालखमाप- द्यमानम् । अथ च दिवसः श्यामायति रात्रिवदाचरतीति वक्रोक्तिः । अभि- षेकदिनानि च ध्वजादिरम्याणि ।अनवरतेत्यादौ तुरङ्गैस्तरङ्गायमानमिति संबन्धः । मृदोऽङ्गं मृदङ्गश्च मुरजः । सृक्किण्योष्ठपर्यन्तौ । अन्यत्रेत्यादौ क्रमेलककुलैः कपिलायमान मित्यन्वयः । वराटिकाः श्वेतिकाः । शालीनां भवनं क्षेत्रं शाले. यम् । 'शालिनीह्योर्डक्' । बीजकोशी शिम्बिका । क्रमेलका उष्ट्राः अन्यत्रे- त्यादिनातपत्रखण्डः श्वेतायमानमित्यन्वयः । सद्य इत्यायभिप्रायेण शर- - - द्वितीय उच्छासः। अन्यत्र शरज्जलधरैरिव सद्यःस्रुतपयःपटलधवलतनुभिः कल्पपादपै- रिव मुक्ताफलजालकजायमानालोकलुप्तच्छायामण्डलैर्नारायणना- भिपुण्डरीकैरिवाश्लिष्टगरुडपक्षैः क्षीरोदोद्देशैरिव द्योतमानविकटवि- दुमदण्डैः शेषफणाफलकैरिवोपरिस्फुरत्स्फीतमाणिक्यखण्डैः श्वेत- गङ्गापुलिनैरिव राजहसोपसेवितैरभिभवद्भिरिव निदाघसमयमुप- हसद्भिरिव विवस्वतः प्रतापमापिवद्भिरिवातपं चन्द्रलोकमयमिव जीवलोकं जनयद्भिः कुमुदमयमिव कालं कुर्वद्भिर्योत्स्नामय मिव वासरं विरचयद्भिः फेनमयीमिव दिवं दर्शयद्भिरकालकौमुदीसह- स्राणीव सृजद्भिरुपहसद्भिरिव शातक्रतवीं श्रियं श्वेतायमानैरातप- त्रखण्डैः श्वेतायमानम्, क्षणदृष्टनष्टाष्टदिङ्मुखं च मुष्णद्भिरिव भु- वनमाक्षेपोत्क्षेपदोलायितं दिनं गतागतानीव कारयद्भिरुत्सारयद्भि- रिव कुनृपतिकलङ्ककाली कालेयी स्थितिं विकचविशदकाशव- नपाण्डुरदिशं शरत्समयमिवोपपादयद्भिबिसतन्तुमयमिवान्तरिक्ष- माविर्भावयद्भिः शशिकरशुचीनां चलतां चामराणां सहस्रैर्दोलाय- मानम्, अपि च हंसयूथायमानं करिकर्णशङ्खः, कल्पलतावनाय- द्रहणम् । सुतं निर्गतम् । पयः क्षीरम्, जलं च । पटलवत्तेन च धवला तनुराकारो येषाम् । अन्यत्र धवलाश्च ते तनवः, क्षीणाश्च ते । पुण्डरीकग्रहणे- नाकारसदृशत्वमप्युच्यते । गरुडपक्षा रत्नभेदाः, गरुडस्य चाङ्गरुहाः । क्षीरोदेति । शुक्लतया । राजहंसाः प्रख्यनृपाः, रक्तचञ्चुचरणा राजहंसाः । निदाघस्य तिरस्करणादभिभवद्भिरिवेत्युक्तम्-उपहसद्भिरिवेति । प्रतापस्यो- पहास एव समुचितो वैयर्थ्यात् । अथ च प्रतापपदेन भझ्या विवखत आरोपि- तविजिगीषुव्यवहारलाच्छत्रुमनःसंतापकारि यश उक्तम् । आतपं प्रकाशम् । आपिबद्भिरिति । तस्य सर्वत एवातिदर्शनात् । जीवलोकमिति । यश्च जी- वानां लोकस्तत्र कथं चन्द्रलोक इति विरोधः । कुमुदमयमिवेति । कुमुदमय- लाच्छुक्लं भवति । न तु कालम् । कुमुदमयं च समयं कार्तिकादि। ज्योत्स्नेति । वासरे ज्योत्स्ना न संभवतीति विरोधः । एवं च दिवः फेनमयीलम् । जलदे हि फेनानामभावः । कौमुदी कुमुदिनी, कार्तिकी च ज्योत्स्ना । पूर्व सामान्येनोक्ता इति । विशेषेण श्वेता इवाचरन्तः श्वेतायमानाः । तैस्तत्र तेषां खत एव श्वेत- त्वाच्छेतपदेन कथमुपमानतेत्युच्यते । श्वेतगुणा इवाचरन्तः श्वेतायमानाः । तेन यथा श्वेतगुणयोगादन्यत्किंचिच्छेतते तद्वदेतद्योगात् । राजद्वारमिति श्वेताः स्फ- टिका इत्यन्ये । केचित्तु 'श्वेतमानैः' इति पठन्ति । क्षणेत्यादौ चामराणां सहस्रैर्दो- लायमानमित्यन्वयः। कलेरियं कालेयी। सर्वनाग्निकालभ्यां ढक्। पद्मरागा इव बाला ।
६० हर्षचरिते मानं कदालिकाभिः, माणिक्यवृक्षकवनायमानं मायूरातपत्रैः, म. न्दाकिनीप्रवाहायमानमंशुकैः, क्षीरोदायमानं क्षौमैः, कदलीवना- यमानं मरकतमयूखैः, जन्यमानान्य दिवसमिव पद्मरागवालातपैः, उत्पद्यमानापराम्बरमिवेन्द्रनीलप्रभापटलैः, आरभ्यमाणापूर्वनिश- मिव महानीलमयूखान्धकारैः, स्यन्दमानानेककालिन्दीसहस्रमिव गरुडमणिप्रभाप्रतानैः, अङ्गारकितमिव पुष्परागरश्मिभिः, कैश्चि- त्प्रवेशमलभमानरधोमुखैश्चरणनखपतितवदनप्रतिबिम्बनिभेन लज्ज- या स्वाङ्गानीव विशद्भिः कैश्चिदङ्गुलीलिखितायाः क्षितेर्विकीर्यमाण- करनखकिरणकदम्बकव्याजेन सेवाचामराणीवार्पयद्भिः कैश्चिदुरः- स्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामिप्रकोपप्रशमनाय क- ण्ठबद्धकृपाणपट्टैरिव कैश्चिदुच्छाससौरभभ्राम्यद्भमरपटलान्धका- रितमुखैरपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिरिवान्यैः शेखरोड्डीयमा. नमधुपमण्डलैः प्रणामविडम्बनाभयपलायमानमौलि भिरिव निर्जि- तैरपि संमानितैरिवानन्यशरणैरन्तरान्तरा निष्पततां प्रविशतां चा- न्तरप्रतीहाराणामनुमार्गप्रधावितानेकार्थिजनसहस्राणामनुयायिनः पुरुषानश्रान्तैः पुनः पुनः पृच्छद्भिः 'भद्र, अद्य भविष्यति भुक्त्वा स्थाने दास्यति दर्शनं परमेश्वरः, निष्पतिष्यति वा बाह्यां कक्ष्याम् इति दर्शनाशया दिवसं नयद्भिर्भुजनिर्जितैः शत्रुमहासामन्तैः स- मन्तादासेव्यमानम्, अन्यैश्च प्रतापानुरागागतैर्नानादेशजैर्महीपा- लैः प्रतिपालयद्भिर्नरपतिदर्शनकालमध्यास्यमानम् , एकान्तोपविष्टै- श्व जैनैराहतैः पाशुपतैः पाराशरिभिर्वणिभिश्च सर्वदेशजन्मभिश्च जनपदैः सर्वाम्भोधिवेलावनवलयवासिभिश्च म्लेच्छजातिभिः सर्व- देशान्तरागतैश्च दूतमण्डलैरुपास्यमानम्, सर्वप्रजानिर्माणभूमिमिव । तपास्तैः । महानीला गरुडमणयः । पुष्परागाश्च मणिभेदाः । कैश्चिदित्यादौ शत्रु- महासामन्तैः समन्तादासेव्यमानमित्यन्वयः । सेवेत्यादि । खयेदानी चामर- ग्रहणेन सेवनीय इति तेषां हि क्षितिः कलत्रमतस्तद्वारेण सेवनेच्छा । 'हारस्य यो मध्यमणिस्तरलः स प्रकीर्तितः' । चपलो वा शेखरं मुण्डमालिकम् । मौलयः केशाः । निर्जितैः पुरस्कृतन्यकृतैः, राजसेवाप्राप्तैः, संमानितैः पूजितैरिव। अनुयायिन इति। तेषां स्वयं सुलभत्वात् जैनैः शाक्यैः । आर्हतैनग्नक्षपणकैः । पाशुपतैः शैवभेदैः । पराशरेण प्रोक्तमधीयन्ते पाराशरिणो यतयस्तैः । वर्णिभिर्ब- ह्मचारिभिः । सर्वप्रजेति । अत्र हि स्थित्वा यदि प्रजापतयो न सृजेयुः, । .. - ।
द्वितीय उच्छासः। निवेशनेन कृशमवलग्नं मध्यं यस्य तेन । हिमशैले हिमग्रह नष्यते । प्रजापतीनां लोकलयसारोच्चयरचितं चतुर्थमिव लोकम् , महाभा- रतशतैरप्यकथनीयसमृद्धिसंभारम्, कृतयुगसहस्ररिव कल्पितसं- निवेशम् , स्वर्गार्बुदैरिव विहितरामणीयकम् , राजलक्ष्मीकोटिभि- रिव कृतपरिग्रहं राजद्वारमगमत् । अभवच्चास्य जातविस्मयस्य मनसि-'कथमिवेदमियत्प्रमाणं प्राणिजातं जनयतां प्रजासृजां नासीन्महाभूतानां वा परिक्षयः, परमाणूनां वा परिच्छेदः, कालस्य वान्तः, आयुषो वा व्युपरमः, आकृतीनां वा परिसमाप्तिः' इति । मेखलकस्तु दूरादेव द्वारपाल- लोकेन प्रत्यभिज्ञायमानः तिष्ठतु तावत्क्षणमात्रमत्रैव पुण्यभागी' इति तमभिधायाप्रतिहतः पुरः प्राविशत् । अथ स मुहूर्तादिव प्रांशुना, कर्णिकारगौरेण, वीघ्रकञ्चुकच्छन्न- वपुषा, समुन्मिषन्माणिक्यपदकबन्धबन्धुरशस्तबन्धकृशावलग्नेन, हिमशैलशिलाविशालवक्षसा, हरवृषककुदकूटविकटांसतटेन, उरसा चपलहृषीकहरिणकुलसंयमनपाशमिव हारं बिभ्रता, 'कथयतं यदि सोमवंशसंभवः सूर्यवंशसंभवो वा भूपतिरभूदेवंविधः' इति प्रष्टुमानीताभ्यां सोमसूर्याभ्यामिव श्रवणगताभ्यां मणिकु- ण्डलाभ्यां समुद्भासमानेन, बृहद्वदनलावण्यविसरवेणिकाक्षिप्यमा- गैरधिकारगौरवादीयमानमार्गेणेव दिनकृतः किरणैः प्रसादल- ब्धया विकचपुण्डरीकमुण्डमालिकयेव दीर्घया दृष्ट्या दूरादेवा- नन्दयता, नैष्टुर्याधिष्ठानेऽपि प्रतिष्ठितेन पदे प्रश्रयमिवावनम्रेण, तत्कथं सर्वे भावाः कारणभूता इव तत्र लक्षेरन् । अर्बुदं दश कोटयः। कोटिर्ल- क्षशतम् । इव तु बहुसंख्योपलक्षणार्थावर्बुदकोटिशब्दौ । परिसमाप्तिरनारम्भः । तिष्ठत्विति । विद्यायुक्ते कदाचिदनादरशङ्केत्येतदर्थ- माह-पुण्यभागीति। अथेत्यादावीदृशपुरुषेणानुगम्यमानो निर्गत्यावोचदिति संबन्धः । अन्तराले वस्त्वन्तरादिवर्णनाभावादथेत्यादिना समनन्तरमेव निर्गमनेन पुनरादर एव प्रती- यते । अत आह-मुहूर्तादिवेति । पुरुषानुगतत्वेन चादर एव पोष्यते । वीभ्रं निर्मलम् । बन्धुरं शोभनम् । शस्तं सुवर्णपट्टिकाकटिसूत्रम् । तस्य बन्धेन हरग्रहणं जराशौक्ल्यप्रतिपादनाय पूर्ववत् । हृषीकाणीन्द्रियाणि । आनीताभ्या- मिति । आनयने तस्य प्रभविष्णुता ध्वन्यते। यश्च स्रष्टुमानीयते स स्रवणं ६२ हर्षचरिते मौलिना पाण्डुरमुष्णीषमुबहता, वामेन स्थूलमुक्ताफलच्छुरणद- न्तुरत्सरं करकिसलयेन कलयता कृपाणम् , इतरेणापनीततरलतां ताडितीमिव लतां शातकौम्भी वेत्रयष्टिमुन्मृष्टां धारयता पुरुषे- णानुगम्यमानो निर्गत्यावोचत्-'एप खलु महाप्रतीहाराणामनन्त- रश्चक्षुष्यो देवस्य पारियात्रनामा दौवारिकः । समनुगृहात्वेनमनुरू- पया प्रतिपत्त्या कल्याणाभिनिवेशी' इति । दौवारिकः समुपसृत्य कृतप्रणामो मधुरया गिरा सविनयमभाषत-'आगच्छत । प्रवि- शत दर्शनाय । कृतप्रसादो देवः' इति । बाणस्तु 'धन्योऽस्मि, यदेवमनुग्राह्यं मां देवो मन्यते' इत्युक्त्वा तेनोपदिश्यमानमार्गः प्राविशदभ्यन्तरम् । अथ वनायुजैः, आरजैः, काम्बोजैः, भारद्वाजैः, सिन्धुदेश- जैः, पारसीकैश्च, शोणैश्च, श्यामैश्च, श्वेतैश्च, पिञ्जरैश्च, हरिद्भि- श्व, तित्तिरिकल्माषैश्च, पञ्चभद्रैश्च, मल्लिका:श्च, कृत्तिकापिञ्ज- रैश्च, आयतनिर्मासमुखैः, अनुत्कटकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटि- तघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्रग्रीवैः, उपचयश्वयत्स्कन्ध- - गच्छति । वेणिका प्रवाहाः । वामेनेति । तदा तस्य व्यापारानुपपत्तेः। अप- नीतेत्यादिनास्य नियमविधायित्वं पोष्यते । उन्मृष्टामुत्तसिताम् । अनेन भाख- रतैव पोष्यते । अनन्तरः प्रधानम् । चक्षुष्यः प्रियः । आगच्छतेत्यादौ बहुख- निर्देशेनादर एवास्यापाद्यते । अथेत्यादावेवंविधैस्तुरङ्गैरारचितां मन्दुरां विलोकयन्दूरादिभधिष्ण्यागारमप- श्यदिति संबन्धः। वनायुजादीनि देश विशेषेणाश्वानां नामानि । शोणैरित्यादि- वर्णविशेषवर्णनम् । 'शोणः पद्मारुणः स्मृतः' । पिञ्जरैरीषत्कपिलैः। हरिच्छुक- निभो वर्णः । तित्तिरिः पक्षिभेदस्तद्वच्चित्रैः । 'सिताश्च यस्य वाजिनः शफाः समस्तकं मुखं स पञ्चभद्रनामको नृपस्य राज्यसौख्यदः' । शुक्लपर्यन्ते असिततारके नयने येषां ते मल्लिकाक्षाः। उक्तं च-'पृथुस्निग्धा समा चैव मल्लिकाकुसुमप्रभा। राजी यस्य तु पर्यन्ते परिक्षिप्ये तु लोचने ॥ सह यो मल्लिकाक्षस्तु दृष्टिपर्यन्त- तारकः॥' इति तारका कदम्बककल्पानेकविन्दुकल्माषितत्वचः। कृत्तिकापिञ्जराः। यतः । आयतेत्यादि । तदुक्तम्-'मुखं तन्वायतनतं चतुरङ्गं समाहितम् । जु चैवोपदिष्टं च परिपूर्ण च शस्यते ॥ इति । कृष्णेनाप्युक्तम्-'उज्जा अतुङ्ग- अन्य णिम्मं संवाहिराण अचअणम्' इति । अनुत्कटो हखः । कोशो मध्यम् । शिरसो ग्रीवायाश्च यन्मध्यं च घण्टिकाबन्धः । यो निगाल इत्युच्यते। तस्य सुवृत्तादि शस्यते । यदाह-'ग्रीवाशिरोऽन्तरश्लिष्टो दीर्घवृत्तः समाहितः । - द्वितीय उच्छ्वासः । संधिमिः, निर्भुग्नोरःस्थलैः, अस्थूलप्रगुणप्रसृतैर्लोहपीठकठिनखुर- मण्डलैः, अतिजवत्रुटनभयादनिर्मितान्त्राणीवोदराणि वृत्तानि धारयद्भिः, उद्यद्रोणीविभज्यमानपृथुजघनैः, जगतीदोलायमानबा- लपल्लवैः, कथमप्युभयतो निखातदृढभूरिपाशसंयमननियन्त्रितैः, आयतैरपि पश्चात्पाशबन्धप्रसारितैकाशिमिरायततरैरिवोपलक्ष्यमा- गैः, बहुगुणसूत्रग्रथितग्रीवागण्डकैरामीललोचनैः, दूर्वारसश्यामल- फेनलवशबलान्दशनगृहीतमुक्तान्फरफरितत्वचः कण्डूजुषः प्रतीका- न्प्रचालयद्भिः, सालसवलितवालधिभिः, सालसवलितवालधिभिः, एकशफविश्रान्तिस्रस्त- शिथिलितजघनाधैः, निद्रया प्रध्यायद्भिश्च, स्खलितहुंकारमन्दम- न्दशब्दायमानैश्च, ताडितखुरधरणीरणितमुखरशिखरखुरलिखित- क्ष्मातलैर्घासममिलषद्भिश्च, प्रकीर्यमाणयवसग्रासरसमत्सरोद्भूतक्षो- भैश्च, प्रकुपितचण्डचण्डालहुंकारकातरतरतरलतारकैश्च, कुङ्कुमप्र- मृष्टिपिञ्जराङ्गतया सततसंनिहितनीराजनानलरक्ष्यमाणैरिवोपरि- नोद्वतॊ नाधितो नातिदुर्नाहोऽतिविधानतः ॥ सुदिग्धोऽनुपदिग्धश्च निगालो गदितः शुभः ॥' इति । यूपो यज्ञचिह्नम् । तस्यैवानुपूर्वी यस्याः। तथा वक्रा आयता उदग्रा उद्धरा ग्रीवा येषाम् । तदुक्तम्-'ग्रीवा भूलम्बिनी वृत्ता दीर्घा च सुसमाहिता । गले बद्धा विदौत्ता तथा शिरसि चोद्यता ॥ निगाले स्याच निमासा मृद्वी साकुञ्चिता भृशम् । श्लिष्ठमांसाग्रबद्धा च तुरगस्य प्रशस्यते ॥' इति । उपचयेत्यादि । तदुक्तम्-'स्कन्धः सुपरिपूर्णः स्याद्यक्तमांसः पृथुत्रिकः । वहुमांसाङ्गसंश्लिष्टः स्थिरमांसश्च पूरितः ॥ इति । निर्भुग्नं स्थूलवाहिनिःसृ- तम् । उक्तं च-'स्थूलास्थिमहदच्छिद्रं पृथुलं यच्च निर्बलि । उर ईदृक्प्रशंसन्ति स्थूलकोडं महत्तरम् ॥' इति । निर्भुग्नमुत्पन्नद्रोणिकमिति केचित् । अस्थूलप्रगुण- प्रस्थितैर्निर्मासऋजुजङ्घः । उक्तं च-'जचे वृत्ते दीर्घ निर्मासे पूजिते निगूढसिरे' इति । मण्डलशब्देन वृत्तवमुच्यते। तदुक्तम्-'खुरास्तुरङ्गे वृत्ताश्च हखाश्च सुदृढा घनाः' इति । तथा शिलातलनिभैः खुरैरिति । उदराणीति । तदुक्तम्-'उदरं वृत्तमगुरु मृगस्योपचितं तथा । अच्छिद्रहववृत्ताल्पसमकुक्षि च पूजितम् ॥' इति । द्रोणी शोभाविशेषः। यदाह-पृष्ठोरःकटिपार्श्वस्य मांसोत्कर्षणनिर्मिता । द्रोणि- केति प्रशंसन्ति शोभा वाजिनि पञ्चमी ॥' इति । बाला एव पल्लवाः । उभयत इति । अत्युद्दामवेगवत्त्वादुभयत्र पाशबन्धः । गण्डको भूषणभेदः । फरफरिताः पुनः पुनरीषत्कम्पिताः । वालधिः पुच्छः । शफः समुद्गयुक्तः पादः । खुरधरणी खुराधःकाष्ठपटाच्छादिता भूः। चण्डालोऽश्वपालः । प्रमृष्टिः प्रमार्जनम् । विता- नकं रक्तकम् । देवतात्र गोविन्दः । आरचितां भूषिताम् । हस्तवामशब्दो भाष्य- - हर्षचरिते विततवितानैः, पुरः पूजिताभिमतदैवतैः, भूपालवल्लभैस्तुरङ्गैरार- चितां मन्दुरां विलोकयन् , कुतूहलाक्षिप्तहृदयः किंचिदन्तरमति- क्रान्तो हस्तवामेनात्युञ्चतया निरवकाशमिवाकाशं कुर्वाणम् , मह- ता कदलीवनेन परिवृतपर्यन्तं सर्वतो मधुकरमयीभिर्मदस्रुतिभि- नदीभिरिवापतन्तीभिरापूर्यमाणम् , आशामुखविसर्पिणा बकुलव- नानामिव विकसतामामोदेन लिम्पन्तं घ्राणेन्द्रियं दूरादव्यक्तमि- भधृष्ण्यागारमपश्यत् । अपृच्छच्च---'अव देवः किं करोति' इति । असावकथयत्-'एष खलु देवस्यौपवाह्यो वाह्यं हृदयं जात्यन्तरित आत्मा बहिश्वराः प्राणा विक्रमक्रीडासुहृदर्पशात इति यथार्थनामा वारणपतिः। तस्यावस्थानमण्डपोऽयं महान्दृश्यते' इति । स तमवादीत्-'भद्र, श्रूयते दर्पशातः । यद्येवमदोषो वा पश्यामि तावद्वारणेन्द्रमेव । अतोऽर्हसि मामत्र प्रापयितुम् । अ- तिपरवानस्मि कुतूहलेन' इति । सोऽभाषत-'भवत्वेवम् । आग- च्छतु भवान् । को दोषः । पश्यतु तावद्वारणेन्द्रम्' इति । गत्वा च तं प्रदेशं दूरादेव गम्भीरगलगजितोर्जितैवियति चा- तककदम्बकैर्भुवि च भवननीलकण्ठकुलैः कलकेकाकलकलमुखर- मुखैः क्रियमाणकलकोलाहलम् , विकचकदम्बसंवादिमदसुरासौर- भमरितभुवनम् , कायवन्तमिवाकालमेघकालम् , अविरलमधुबि- कृता वामहस्तमार्ग इत्यर्थे । बकुलेत्यादिना प्राशस्त्यमेव पोषयति । तदुक्तम्- 'मालतीमुक्त'नागवकुलोपमसौरभम् । दानं पिष्टाम्बुसदृशं मुञ्चच्छेतं तु शीत- लम् ॥' इति । श्लैष्मिका दानलक्षणम् । एवं च धर्मलक्षणे तु प्रकोपसमयेऽपि तथाविधमदवर्णनया श्लेषप्रकृति प्रकाशयति-श्लेषप्रकृतिकं श्रेष्ठं भद्रजाति तथैव च' इति च शास्त्रकृता दर्शितम् । धिष्ण्यं मण्डपम् । औपवाह्यः क्रीडा हस्ती । यस्मात्केचन संनाह्याः केचिद्भद्रजातीया उभयस्वभावा भवन्ति करिणः । अस्य च यद्यपि विक्रमक्रीडासुहृदित्यनेन दर्पशात इति यथार्थनामा वारणपति- रित्यनेन च सांनह्यत्वमेवोक्तम् तथा ह्यौपवाह्या इति कथनेऽर्धद्वयेऽपि योग्य- खाद्भद्रजातीयं चास्य निश्चीयते । जात्यन्तरितो द्वितीयां जातिं हस्तिरूपां प्राप्तः । यद्यवमिति । यदि सत्यं दर्पशातोऽयमदोषो वेति । वाशब्दश्चार्थे । यदि च न दोष इत्यर्थः । यतो रसदानादिभयेन केनचिद्रष्टुं न लभ्यते । कुतूहलेन पर- वान्कुतूहलायितः । गत्वेत्यादौ दूरादेवं दर्पशातमपश्यदिति संबन्धः । गर्जितं वृंहितम् । चातकाः स्तोककाः । नीलकण्ठा मयूराः । केका मयूररुतानि । मेघकाल- - ।
द्वितीय उच्छासः । ६५ न्दुपिङ्गलपद्मजालकितां सरसीमिवाभ्यवगाढां दशां चतुर्थीमुत्सृ- जन्तम् , अनवरतमवतंसशङ्खरामन्द्रकर्णतालदुन्दुभिध्वनिभिः प- ञ्चमीप्रवेशमङ्गलारम्भमिव गायन्तम् , अविरतचलनचित्रलिपदील लितलास्यलयैर्दोलायमानदीर्घदेहाभोगतया मेदिनीविदलनभयेन भारमिव लघयन्तम् , दिग्भित्तितटेषु कायमिव कण्डूयमानम् , आह्वायोदस्तहस्ततया दिग्वारणानिवाह्वयमानम् , ब्रह्मस्तम्भमिव स्थूलनिशितदन्तेन करपत्रेण पाटयन्तम् , अमान्तं भुवनाभ्यन्तरे बहिरिव निर्गन्तुमीहमानम् , सर्वतः सरसकिशलयलतालासिभि- लेशिकैश्चिरपरिचयोपचितैर्घनैरिव विक्षिप्तसशैवलबिसविसरशब- लसलिलैः सरोभिरिव चाधोरणैराधीयमाननिदाघसमयसमुचितो- पचारानन्दम् , अपि च प्रतिगजदानपवनादानदूरोक्षिप्तेनानेकस- मरविजयगणनालेखाभिरिव वलिवलयराजिभिस्तनीयसीभिस्तरङ्गि- तोदरेणातिस्थवीयसा हस्तार्गलदण्डेनार्गलयन्तमिव सकलं सकुल- शैलसमुद्रद्वीपकाननं ककुभां चक्रवालम् , एक करान्तराप्तेिनोत्प- लाशेन कदलीदण्डेनान्तर्गतशीकरसिच्यमानमूलम् , मुक्तपल्लवमि- व परं लीलावलम्बिना मृणालजालकेन समररसोञ्चरोमाञ्चकण्ट- कितमिव दन्तकाण्डं वहन्तम् , विसर्पन्त्या च दन्तकाण्डयुगल- कस्य कान्त्या सर:क्रीडास्वादितानीव कुमुवनानि बहुधा वमन्तम् , । । मिति | मेघकालश्च चातककदम्बनीलकण्ठकुलकदम्बकसौरभादियुक्तः । अविरला घना ये मधुबिन्दव इव मधुबिन्दवो माक्षिककणास्तद्वत्पिङ्गलानि पद्मजालकानि संजातानि यस्याम् । 'पद्मकं बिन्दुजालं स्याद्गात्रकं करिणामिति' । यथा- 'पद्मवस्तिकसंस्थानो बिन्दुभिश्च कवैस्तथा । खङ्किताङ्गस्तुषाराभः शावः शक्तिकरः करी ॥' इत्युक्तम् । अन्ये मधुबिन्दवो मकरन्दकणास्तैः पिङ्गलानीति व्याख्ये- यम् । महत्सरः सरसी । अभ्यवगाढामिति। परिणताम्। दशां कालावस्थाम् । चतुर्थीमिति । 'चतुर्थ्यामवगाढायां लेखाविन्दुभिराचितः' इत्युक्तम् । शङ्खः । शङ्खशब्दरित्यर्थः । कर्णेत्यादि । कर्णौ च दुन्दुभिध्वनितौ । 'कौ च करिणः कार्य- कारिणौ सत्प्रशंसिनौं' इति । पञ्चमी दशा त्रिपदी। एकपदोत्क्षेपे पादत्रयावस्थितिः । लयो लीलाः । आहवः सङ्ग्रामः । ब्रह्मस्तम्भो ब्रह्माण्डम् । करपत्रं क्रकचम् । स्थू- लनिशितदन्तं भवति । तच्च भेदयति स्तम्भम् । अमान्तमवर्तमानम् । लेशिकैर्घा- सिकैः आधोरणैर्गजारोहैः । वलयाकारा वलिर्वलिवलयम् । अर्गलयन्तं सना- टकं कुवार्णम् । कुमुदवनानीत्युत्प्रेक्षा । दन्तयोर्वर्णप्राशस्त्यमाह---'पयःकुमुदकु.
हर्षचरिते निजयशोराशिमिव दिशामर्पयन्तम्, कुकरिकीटपाटनदुर्ललि- तान्सिहानिवोपहसन्तम् , कल्पद्रुमदुकुलमुखपटमिव चात्मनः क- लयन्तम् , हस्तकाण्डदण्डोद्धरणलीलासु च लक्ष्यमाणेन रक्तांशुक- सुकुमारतलेन तालुना कवलितानि रक्तपझवनानीव वर्षन्तम् , अभिनव किसलयराशिमिवोद्गिरन्तम् , कमलकवलपीतं मधुरसमिव स्वभावपिङ्गलेन वमन्तम् , चक्षुषा चूतचम्पकलवलीलवङ्गकक्कोल- वन्येलालतामिश्रितानि ससहकाराणि कर्पूरपूरपूरितानि पारिजा- तकवनानीवोपभुक्तानि पुरः करटाभ्यां बहलमदामोदव्याजेन वि- सृजन्तम् , अहर्निशं विभ्रमकृतहस्तस्थितिभिरर्धखण्डितपुण्ड्रेक्षुका- ण्डकण्डूयनलिखितैरलिकुलवाचालितैदीनपट्टकैबिलभमानमिव स- वेकाननानि करिपतीनामविरलोदबिन्दुस्यन्दिना हिमशिलाशकल- मयेन विभ्रमनक्षत्रमालागुणेन शिशिरीक्रियमाणम् , सकलवारणे- न्द्राधिपत्यपट्टबन्धबन्धुरमिवोच्चैस्तरां शिरो द्धानम् , मुहुर्मुहुः स्थ- गितापावृतदिङ्मुखाभ्यां कर्णतालतालवृन्ताभ्यां वीजयन्तमिव भ- र्तृभक्त्या दन्तपर्यङ्किकास्थितां राजलक्ष्मीमायतवंशक्रमागतेन गजा- न्दाभौ केतकी कुमुदद्युती। मृगाङ्ककिरणालोको कीर्तिकल्याणकारकौ ॥' इत्य क्तम् । रक्तांशुकेति । उक्तं च-रक्तोष्ठतालुरसनम्' इति। स्वभावपिङ्ग- लेनेति । उक्तं च–'शशिसूर्यसमाभासे कलविङ्काक्षसंनिभे । प्रसन्नमधुपिङ्गे च स्थिरे चामीलने तथा ॥ अपरिस्राविणी चैव कुशाग्निनिभभास्वरे । नेत्रे शस्ते समे स्निग्धे दीर्घ चाविलपक्ष्मणी ॥' इति । चूतेत्यादिना प्रशस्यत्वमाह। यदाह-'उ. भय तिरप्येष विवर्णो हर्षवर्जितः । यदि स्यादपगन्धश्च तदासो न सतां मतः ॥' इति । करटाभ्यां गण्डाभ्याम् । अर्धेत्यादिनेक्षुकाण्डकस्य लेखनीसादृश्यमाह । लिखितैः कृतलेखैरप्यालकुलेषु सत्सु वाचालितशब्दयोगो येषामित्यनेनालिकुलस्य लिप्यक्षररूपतां ध्वनति । लिप्यक्षरेषु च सत्सु पाठ्यमानेषु वाचालता। दानपट्ट- कलिखितैः किंचिद्धि लभ्यते । अक्षरपाटिकैश्च तेषां हस्तस्थितिनं क्रियते । तानि च वाच्यन्ते। यद्वा वहस्तेनाक्षरकरणं हस्तस्थितिः । हिमशिला वातवजीभूतं हिमम् । केचित्तु 'हिमानि हिमशकलानि चन्द्रकान्ताः' इत्याहुः। हिमस्य च तदा वर्णनानुचितत्वात् । पर्वतेभ्यो हिमानयनं सुलभमेवेति पूर्वोक्तमेव श्रेष्ठम् । यतश्व. न्द्रकान्तानां दिवा त्रुतिर्न भवतीति । नक्षत्रमाला हस्त्याभरणभेदः । उच्चैस्तरा- मिति । उच्च हि शिरः करिणः शस्यते । यदुक्तम्-'समं महच्च पूर्ण च नातिस्तब्धो बमस्तकम् । नावाग्रं नातिपृथुलं वितानावग्रहं मृदु॥'इति । दन्तावेव तदवस्थानस- मुचितत्वात् । पर्यविका च दन्तमयःपर्यः आस्त इति श्लेषः। आयतवंशः, वक्रवंशः, द्वितीय उच्छासः । धिपत्यचिह्नन चामरेणेव चलता वालधिना विराजमानम्, स्वच्छ- शिशिरशीकरच्छलेन दिग्विजयपीताः सरित इव पुनःपुनर्मुखेन मुञ्चन्तम्, क्षणमवधानदाननिस्पन्दीकृतसकलावयवानामन्यद्विरद- डिण्डिमाकर्णनाङ्गवलनानामन्ते दीर्घशूत्कारैः परिभवदुःखमिवावे- दयन्तम्, अलब्धयुद्धमिवात्मानमनुशोचन्तम, आरोहाधिरूढिप- रिभवेन लजमानमिवाङ्गुलीलिखितमहीतलं, मदं मुञ्चन्तम्, अव- ज्ञागृहीतमुक्तकवलकुपितारोहारटनानुरोधेन मदतन्द्रीनिमीलितने- त्रत्रिभागम्, कथं कथमपि मन्दमन्दमनादरादादानम्, कवला- नवजग्धतमालपल्लवस्त्रुतश्यामलरसेन प्रभूततया मदप्रवाह मिव मु- खेनाप्युत्सृजन्तम्, चलन्तमिव दर्पण, श्वसन्तमिव शौर्येण, मूर्च्छ- न्तमिव मदेन, त्रुट्यन्तमिव तारुण्येन, द्रवन्तमिव दानेन, वल्ग- न्तमिव बलेन, माद्यन्तमिव मानेन, उद्यन्तमिवोत्साहेन, ताम्य- न्तमिव तेजसा, लिम्पन्तमिव लावण्येन, सिञ्चन्तमिव सौभाग्येन, स्निग्धं नखेषु, परुषं रोमविषये, गुरुं मुखे, सच्छिष्यं विनये, मृदु शिरसि,, दृढं परिचयेषु, हृखं स्कन्धबन्धे, दीर्घमायुषि, दरिद्रमुदरे, सततप्रवृत्तं दाने, बलभद्रं मदलीलासु, कुलकलत्रमायत्ततासु, जिनं क्षमासु, वह्निवर्षे क्रोधमोक्षेषु, गरुडं नागोद्धृतिषु, नारदं शरवंशः, बालवंशश्चेति चत्वारो वंशाः । तेषु बालवंश आयत एव शास्त्रकृतामभि- प्रेतः। तथा च-'यावत्पूरितपाशश्च वंशश्चापलता कृतिः । शुभो ज्ञेयो गजेन्द्राणामा- यतः कुरुते सुखम् ॥' इति तैरुक्तम् । आयताद्वंशात्तत्क्रमेण गोपुच्छवदायत इति विग्रहः । समानार्हो हि वालधिः शोकं करोति । यदुक्तम्-'वर्क स्थूलं च हृखं च पुच्छं कचविवर्जितम् । समानार्ह हि नागस्य भर्तुः शोककरं स्मृतम् ॥' इति । वंश पृष्ठ- नाभि, कुलं च ।क्रम आनुपूर्वी, पारम्पर्य च। वालधिः पुच्छम् ।लजमानमिति। यश्च लज्जते स भूमिं लिखति, दपं चोज्झति । अङ्गुली करिकराग्रावयवः, कर- शाखा च । तन्द्री आलस्यम्, गाढनिद्रा वा । चलन्तमित्यादि दाधिकारणसमुचि- तक्रियाप्रतिपादनसाभिप्रायं व्याख्येयम् । स्निग्धमिति । उक्तं च-'नखाः स्निग्धाः सिताःशस्ताः' इति । पुरुषं निष्कृपम् । यश्च स्निग्धः प्रीतिमान्स कथं परुषः प्रीतिशून्यो भवतीति विरोधः । एवं गुरुर्विस्तीर्णः, आचार्यश्च । विनय इति । उक्तं च-विनये मुनिभिस्तुल्याः क्रुद्धा नागाश्च राक्षसाः । निस्त्रिंशस्याधिकलाच शस्त्रं नागा महीपतेः ॥' इति । स्कन्धबन्धे ग्रीवामूले । दरिद्रः कृशः, दुर्गतश्च । दानं मदवारि, वितरणं च । बलभद्रो हलधरः । मदो दानम्, सुराकृतश्च । नागाः करिणः, सश्चि । कलहो रणोऽपि । अविदितशत्रुसैन्ये पातोऽवस्कन्दः । मकरं । ।
हर्षचरिते कलहकुतूहलेषु, शुष्काशनिपातमबस्कन्देषु, मकरं वाहिनीक्षोभेषु, आशीविषं दशनकर्मसु, वरुणं हस्तपाशाकृष्टिपु, यमवागुरामरा- तिसंवेष्टनेषु, कालं परिणतिषु, राहुं तीक्ष्णकरग्रहणेषु, लोहिताङ्गं वक्रचारेषु, अलातचक्रं मण्डलभ्रान्तिविज्ञानेषु, मनोरथसंपादकं चिन्तामणिपर्वतं विक्रमस्य, दन्तमुक्ताशैलस्तम्भनिवासप्रासादमभि- मानस्य, घण्टाचामरमण्डनमनोहरमिच्छासंचरणविमानं मनस्वि- तायाः, मद्धारादुर्दिनान्धकारं गन्धोदकधारागृहं क्रोधस्य, सका- ञ्चनप्रतिमं महानिकेतनमहंकारस्य, सगण्डशैलप्रस्रवणं क्रीडापर्व- तमवलेपस्य, सदन्ततोरणं वज्रमन्दिरं दर्पस्य, उच्चकुम्भकूटाट्टाल- कविकटं संचारि गिरिदुर्ग राज्यस्य, कृतानेकवाणविवरसहस्रं लो- हप्राकारं पृथिव्याः, शिलीमुखशतझांकारितं पारिजातपादपं भून- न्दनस्य, तथा च संगीतगृहं कर्णतालताण्डवानाम् , आपानमण्डपं मधुपमण्डलानाम् , अन्त:पुरं शृङ्गाराभरणानाम् , मदनोत्सवं मद- लीलालास्यानाम् , अक्षुण्णप्रदोषं नक्षत्रमालामण्डलानाम् , अकाल- प्रावृटकालं मदमहानदीपूरप्लवानाम् , अलीकशरत्समयं सप्तच्छद- कूर्मम् । वाहिनी सेना, नदी च । दशनकर्म दन्तव्यापारः, दशनरूपा च क्रिया। हस्त एव पाशाः, प्रशस्तहस्तो हस्तपाश इति वा । हस्ते च पाशः । वागुरा जालम् । परिणतिषु दन्तविदारणकर्मसु । कालं यमम् । शुभाशुभादिकर्मविपाकेषु च काल- महरादिरूपम् । तीक्ष्णं कृत्वा करेण हस्तेन ग्रहणम् । रविश्च तीक्ष्णकरः । लोहि- ताङ्गोऽङ्गारकः । वकं कुटिलम् । पश्चाच मण्डलाकृत्या प्रान्तेभ्रमणस्य विज्ञानानि कौशलातिशयगतिः । गोमूत्रिकामण्डले त्रिविधा हि गतिः । तत्रालातचक्रमुल्मु. कचक्रं भ्रमणं करोति । मनोरथसंपादकमिति । शेषे षष्ठीसमासः। 'कर्मण्यण्' इति वाणिकृते स्वार्थे कः । दन्तौ मुक्ताशैलस्य श्वेतपाषाणस्य स्तम्भाविव यस्य । अन्यत्र दन्तस्य मुक्ताशैलानां च स्तम्भा यत्र । प्रतिमा दन्तकोशः, देवताकृ. तिश्च । महानिकेतनं साधुदेवगृहम् । गण्डावेव शैलौ तत्र प्रस्रवणं दाननिर्यासः । सह तेन वर्तते निझरश्च 'महतो मुक्तपाषाणान्गण्डशैलान्प्रचक्षते'। संचारी जङ्गमः । यदाह कौटिल्यः-'हस्तिनो हि जङ्गमं दुर्गम्' इति । कृतान्यनेकानि बाणौर्विवरसहस्राणि यस्य तम् । प्राकारेषु बाणानुत्स्रष्टुं विवरसहस्राणि क्रियन्ते, य इन्द्रकोशा इति चाणक्यादिषु प्रसिद्धाः । भूनन्दनो राजा । 'देवोद्यानं च नन्दनम्। कर्णतालानां ताण्डवानीव ताण्डवानि । अन्यत्र लाभप्रधानानि ताण्ड- द्वितीय उच्छ्वासः । । वनपरिमलानाम् , अपूर्वहिमागमं शीकरनीहाराणाम् , मिथ्याज- लधरं गर्जिताडम्बराणां दर्पशातमपश्यत् । आसीच्चास्य चेतसि-'नूनमस्य निर्माणे गिरयो ग्राहिता: पर- माणुताम् । कुतोऽन्यथा गौरवमिदम् । आश्चर्यमेतत् । विन्ध्यस्य दन्तावादिवराहस्य करः' इति विस्मयमानमेतं दौवारिकोऽब्रवी- त्-‘पश्य। मिथ्यैवालिखितां मनोरथशतैनिःशेषनष्टां श्रियं चिन्तासाधनकल्पनाकुलधियां भूयो वने विद्विषाम् । आयातः कथमप्ययं स्मृतिपथं शून्यीभवचेतसां नागेन्द्रः सहते न मानसगतानाशागजेन्द्रानपि ॥ ४ ॥ तदेहि । पुनरप्येनं द्रक्ष्यसि । पश्य तावदेवम्' इत्यभिधीयमानश्च तेन मदजलपङ्किलकपोलपट्टपतितां मत्तामिव मदपरिमलेन मुकु- लितां कथमपि तस्मादृष्टिमाकृष्य तेनैव दौवारिकेणोपदिश्यमान- वा समतिक्रम्य भूपालसहस्रसंकुलानि त्रीणि कक्ष्यान्तराणि च. तुर्थे भुक्तास्थानमण्डपस्य पुरस्तादजिरे स्थितम् , दूरादूर्ध्वस्थितेन प्रांशुना कर्णिकारगौरेण व्यायामव्यायतवपुषा शत्रिणा मौलेन शरीरपरिचारकलोकेन पङ्किस्थितेन कार्तस्वरस्तम्भमण्डलेनेव परि- । चानि । मधुपा भ्रमराः, विटाश्च । शृङ्गारः सिन्दूरादिदानम् , रसभेदश्च । अक्षुण्णः परिपूर्णः, अभ्रादिनानावृतः, अपूर्वो वा । ग्राहिताः प्रापिताः। मिथ्यैवेति । तस्या निःशेषनष्टत्वात्पुनरभावप्रसङ्गा- निःशेषेत्याद्यभिप्रायेणाह-मनोरथशतैरिति । तस्यां व्यापाररहितत्वाच्छून्य- मनस्कलादेवाह-सहत इत्यादि । मानसं मनः, सरोभेदोऽपि । आशा दिशः, अभिलाषोऽपि । 'देवमिति'इत्यादौ चक्रवर्तिनं हर्षमद्राक्षीदिति संबन्धः । मदजलेन पङ्किले कपोलपट्टे पतिताम् । मत्तामिवेति । मत्तश्च पतति, मुकुलितदृष्टिश्च भ- वति, गतिवैकल्यादन्येन कृष्यते । भोजनं भोक्तव्यम् । भुक्ते सत्यास्थानं लोक- दर्शनं तदर्थ मण्डपस्तस्य । ऊर्ध्वस्थितेत्यादि साधारणम् । प्रांशुनोन्नतेन, अन्यत्र प्रकृष्टा अंशवो यस्य तेन । कर्णिकारमारग्वधपुष्पम् । व्यायामः श्रमः । व्यायत विभक्तावयवम् , विशेषेण दीर्घ च । शस्त्रिणा सायुधेन, स्तम्भा अपि शस्त्रेण बध्यन्ते मौलभृतकश्रेणिमित्रामित्राटविकभेदेन षट्प्रकाराः सहाया भवन्ति । अन्यत्र मूले बुध्ने भवं मौलम् । बुध्नप्रतिष्ठमित्यर्थः। पतिस्थितेनेति साधारणम् । कार्तखरं हर्षचरिते वृतम्, आसन्नोपविष्टविशिष्टेष्टलोकम् , हरिचन्दनरसप्रक्षालिते तु- पारशीकरशीतलतले दन्तपाण्डुरपादे शशिमय इव मुक्ताशैलशिला- पट्टशयने समुपविष्टम् , शयनीयपर्यन्तविन्यस्ते समर्पितसकलवि- ग्रहभारम् , भुजे दिङ्मुखविसर्पिणि देहप्रभाविताने विततमणिमयूखे धर्मसमयसुभगे सरसीव मृदुमृणालजालजटिलजले सराजकं र- ममाणम् , तेजसः परमाणुभिरिव केवलैनिर्मितम् , अनिच्छन्तं बलादारोपयितुमिव सिंहासनम् , सर्वावयवेषु सर्वलक्षणैर्गृहीतम् , गृहीतब्रह्मचर्यमालिङ्गितं राजलक्ष्म्या, प्रतिपन्नासिधाराधारणत्रतम- विसंवादिनं राजर्पिम् , विषमराजमार्गविनिहितपदस्खलनभियेव सुलग्नं धर्मे, सकलभूपालपरित्यक्तेन भीतेनेव लब्धवाचा सर्वात्मना सत्येन सेव्यमानम् , आसन्नवारविलासिनीप्रतियातनाभिश्चरणनख- पातिनीभिर्दिभिरिव दशभिः प्रणम्यमानम् , दीर्धेर्दिगन्तपातिभि- दृष्टिपातैर्लोकपालानां कृताकृतमिव प्रत्यवेक्षमाणम् , मणिपादपी- सुवर्णम् , यस्योद्धृष्यमाणस्य सतः कुङ्कुमस्येव रागो जायते । सौगन्ध्यं च तद्ध- रिचन्दनम् । शशिमय इति वक्ष्यमाणाभिप्रायेण तुषारेत्यादिना शीतलममुष्य द- शयति । दन्ते तद्वच्च पाण्डुरे पादे । रश्मयोऽपि पादाः । मुक्तेत्यादिना शुक्लतयापि शशिमय इवेत्येतदेव पोषयति । विग्रहः कायः, रणश्च । धर्मत्यादि । मणीनां ख- भावत एव शीतखात्तदीया मयूखा अपि हादयन्ति । यो हि बलवानारोप्यते स स- ङ्गेिषु गृह्यते । गृहीतब्रह्मचर्यमिति । खदारसंतुष्ट ऋतुकालगामी । 'गृहस्थो- चितव्यापारो ब्रह्मचार्येव' इति श्रुतेः। या त्वेवमनुश्रूयते। यावन्मया न सकला जिता भूमिस्तावन्मे ब्रह्मचर्यम्' इति श्रीहर्षः प्रतिज्ञातवान् । द्वादशभिश्च वर्जित्वा तां महिषीमब्रवीत्-'प्रतिज्ञा मे नियूंढा' इति । ततो रोषात् 'अहमपि द्वादशवर्षे त्र- ह्यचर्य चरामि' इति सा प्रतिज्ञामकरोत् । इति ब्रह्मचर्येणाज्ञाकालोऽतिवाहितः । यश्च गृहीतब्रह्मचर्यः स कथं योषितालिङ्गयत इति विरोधः । असिधारा खड्ग- धारा, व्रतविशेषश्च । यत्र स्त्रीपुंसावकपटौ ब्रह्मचर्येण तिष्ठतः । यश्च प्रतिपन्नेषु विश्वासितेषु खड्गधारां पातयति स कस्मान्न विसंवदते । नान्यथा भवति । कथं च राजर्षिरसावुच्यत इति विरोधः । यश्च राजर्षिरुत्तममुनिहीतासिधारो ब्रह्म- चारी च, स कयाचिदालिङ्ग्येत । विषमोऽशक्यानुष्ठानो नतोन्नतरूपः । मार्गो व्यवहारः, पन्थाश्च । विषमे पथि च स्खलति येन क्वचित्सुलग्नेन भूयते । लब्धवाचेति । सत्यस्य वागेवाश्रयणीयश्च । सर्वैस्यक्तः सन्भीतः संस्त्वां त्यजामीति वाचं लब्ध्वान्यं सेवते । वारविलासिनी शरीरोपचारचतुरा मुख्य- ललनाप्रतिबिम्बम् । दशभिरिति । नखानां दिशां च दशसंख्याकत्वात् । । -- ।
द्वितीय उच्छासः। BE ठपृष्ठप्रतिष्ठितकरेणोपरिगमनाभ्यनुज्ञां मृग्यमाणमिव दिवसकरेण, भूषणप्रभासमुत्सारणबद्धपर्यन्तमण्डलेन प्रदक्षिणी क्रियमाणमिव दि- वसेन, अप्रणमद्भिगिरिभिरपि दूयमानं शौर्योष्मणा, फेनायमान- मिव चन्दनधवलं लावण्यजलधिमुद्वहन्तम् , एकराज्यौर्जियेन नि- जप्रतिबिम्बान्यपि नृपचक्रचूडामणिधृतान्यसहमानमिव दर्पदुःखा- सिकया चामरानिलनिभेन बहुधेव श्वसन्ती राजलक्ष्मी दधानम् , सकलमिव चतुःसमुद्रलावण्यमादायोत्थितया श्रिया समुपश्लिष्टम्, आभरणप्रभाजालजायमानानीन्द्रधनुःसहस्राणीन्द्रप्राभृतप्रहितानि विलभमानमिव राज्ञां संभाषणेषु परित्यक्तमपि मधु वर्षन्तम्, का- व्यकथास्वपीतममृतमुद्वमन्तम्, विस्रम्भभाषितेष्वनाकृष्टमपि हृदयं दर्शयन्तम्, प्रसादेषु निश्चलामपि श्रियं स्थाने स्थाने स्थाप- यन्तम्, वीरगोष्ठीषु पुलकितेन कपोलस्थलेनानुरागसंदेशमिवोपां- शु रणश्रियः शृण्वन्तम्, अतिक्रान्तसुभटकलहालापेषु नेहवृष्टि- मिव दृष्टिमिष्टे कृपाणे पातयन्तम्, परिहासस्मितेषु गुरुप्रताप- भीतस्य राजकस्य स्वच्छमाशयमिव दशनांशुभिः कथयन्तम्, स- कललोकहृदयस्थितमपि न्याये तिष्ठन्तम्, अगोचरे गुणानामभूमौ सौभाग्यानामविषये वरप्रदानानामशक्य आशिषाममार्गे मनोरथा- नामतिदूरे दैवस्यादिश्युपमानानामसाध्ये धर्मस्यादृष्टपूर्व लक्ष्म्या महत्त्वे स्थितम्, अरुणपादपल्लवेन सुगतमन्थरोरुणा वज्रायुधनि- । । मणिपादेति । माणिसंबन्धप्रतिष्ठानमेव पोषयति । करो हस्तोऽपि । फेनाय- मानमिति । जलं संतापेन सफेनं भवति । असहमानमिवेति । कथं सामान्येन समान इति । सकलमित्यादि । सकलपदेन, चतुःशब्देन च शौरेरस्य विशेषमाह । यतो लवणलस्य तत्राद्यापि शिष्यमाणलात् । अलं लाव- ण्यमादाय । एकस्माच समुद्रादुत्थाय लक्ष्म्याः शौरिः समुपश्लिष्टः । लावण्यं लवणता, सौन्दर्य च । प्रामृतं ढौकनिकम् । मधु मद्यम् , अमृतं च । विस्रम्भ आश्वासः । उपांश्वप्रकटम् । अतिक्रान्ते कलहे रणे शस्त्राणां स्नेहो दीयते । रुधि- रादिसलिलनिवारणाय । स्वच्छं निर्मलम् । सुप्रसादमाशयं भावं प्रकृष्टतापभीतस्य च खच्छो निर्मल आशयो जलाधारो दृश्यते । अत्र प्रतापेत्यादिप्रकरणसाहचर्या- त्खच्छतान्यथानुपपत्त्या च। जलशब्दं विना जलाशय एव प्रतीयते।न्याये तिष्ठन्त- म् । न्यायममुञ्चन्तमित्यर्थः । यः सर्वेषां हृदयस्थितः स एकस्मिन्नेव तिष्ठतीति विरो- धः । अरुणो लोहितः, अनूरुश्च । शोभनं गमनं ययोस्तौ मन्थरावूरू यस्य । बुद्धश्च - ૭૨ हर्षचरिते तुरप्रकोष्ठपृष्ठेन वृषस्कन्धेन भास्वद्विम्बाधरेण प्रसन्नावलोकितेन च- न्द्रमुखेन कृष्णकेशेन वपुषा सर्वदेवतावतारमिवैकत्र दर्शयन्तम्, अपि च मांसलमयूखमालामलिनितमहीतले महति महाहे माणि- क्यमालामण्डितमेखले महानीलमये पादपीठे कलिकालशिरसीव सलीलं विन्यस्तवामचरणम् , आक्रान्तकालियफणाचक्रवालं बाल- मिव पुण्डरीकाक्षम् सौमपाण्डुरेण चरणनखदीधितिप्रतानेन प्रसरता महीं महादेवीपट्टबन्धेनेव महिमानमारोपयन्तम्, अप्रणतलोकपा- लकोपेनेवातिलोहितौ सकलनृपतिमौलिमालास्वतिपीतं पद्मरागरत्ना- तपमिव वमन्तौ सर्वतेजस्विमण्डलास्तमयसंध्यामिव धारयन्ताव- शेषराजकशखरकुसुममधुरसस्रोतांसीव स्रवन्तौ समस्तसामन्त- सीमन्तोत्सस्रक्सौरभभ्रान्तैर्धमरमण्डलैरमित्रोत्तमाङ्गैरिव मुहूर्त- मप्यविरहितौ संवाहनतत्परायाः श्रियो विकचरक्तपङ्कजवनवास- भवनानीव कल्पयन्तौ जलजशङ्खमीनमकरसनाथतलतया कथित- चतुरम्भोधिभोगचिह्नाविव चरणौ धानम् , दिङ्नागदन्तमुसला- भ्यामिव विकटमकरमुखप्रतिबन्धवन्धुराभ्यामुढेललावण्यपयोनि- धिप्रवाहाभ्यामिव फेनाहितशोभाभ्यां चन्दनद्रुमाभ्यामिव भोगि- मण्डलशिरोरत्नरश्मिरज्यमानमूलाभ्यां हृदयारोपितभूभारधारण- माणिक्यस्तम्भाभ्यामुरुदण्डाभ्यां विराजमानम् , अमृतफेनपिण्ड- पाण्डुना मेखलामणिमयूखखचितेन नितम्वबिम्बव्यासङ्गिना विम- लपयोधौतेन नेत्रसूत्रनिवेशशोभिनाधरवाससा वासुकीनिर्मोकणेव । सुगतः । वज्राख्यमायुधं तद्वनिष्टुरं कठोरं प्रकोष्ठस्य पृष्ठं यस्य तेन। इन्द्रश्चास्य वज्र- मायुधम्। 'प्रकोष्ठमन्तरं विद्यादरलिमणिबन्धयोः' । वृषो दान्तः, धर्मश्च। भाखद्भा- खरम् ,रविश्वभावान् । बिम्बं फलभेदः, मण्डलं च। अवलोकितं वीक्षितम् , बुद्धि- भेदश्चावलोकितः । कृष्णः कालः, हरिश्च कृष्णः। कलिकालेति । कलि- कालस्य मलिनलादेवमुत्प्रेक्षा । वामपादेन पराभवनीयत्वमेव पोष्यते । कालियो नागभेदः । पुण्डरीकाक्ष मिति राज्ञो विशेषणम् । तेजखिनो वीराः, आदि- त्याश्च । जलजेत्यादीनि महाराजविशेषणानि लक्षणानि । एवमादि च संभवति । मकरमुखं जानुसंधिः, मकरमुखचिह्नितान्तकपोलश्च । उद्वेलतया लावण्यस्य समुच्छलद्रूपत्वमाह । फेनो रससंतानः, डिण्डीरश्च । भोगिनो नृपाः, सश्चि । फेनवत्तैश्च पाण्डु । मेखला रशना, पर्वतमध्यभूमिश्च । पयो जलम् , क्षीरं च । नेत्रसूत्रं पट्टसूत्रम्, मन्थनरज्जुश्च । अघनेन छातेन, अनभ्रेण च। ताराः सूत्रबि- - ।
द्वितीय उच्चासः। ७३ मन्दरं द्योतमानम् , अघनेन सतारागणेनोपरिकृतेन द्वितीयाम्बरेण भुवनाभोगमिव भासमानम् , इभपतिदशनमुसलसहस्रोल्लेखकठि- नमसृणेनापर्याप्ताम्बरप्रथिम्ना विविधवाहिनीसंक्षोभकलकलसंमर्द- सहिष्णुना कैलासमिव महता स्फटिकतटेनोरुणोरःकवाटेन राज- मानम् , श्रीसरस्वत्योरुरोवदनोपभोगविभागसूत्रेणेव पातितेन शे- षेणेव च तद्भुजस्तम्भविन्यस्तसमस्तभूभारलब्धविश्रान्तिसुखप्रसु- सेन हारदण्डेन परिवलितकंधरम् , जीवितावधिगृहीतसर्वस्वमहा- दानदीक्षाचीरेणेव हारमुक्ताफलानां किरणनिकरेण प्रावृतवक्षः- स्थलम् , अजजिगीषया बालै जैरिवापरैः प्ररोहद्भिर्बाहूपधानशा- यिन्याः श्रियाः कर्णोत्पलमधुरसधारसंतानैरिव गलद्भिर्भुजजन्मनः प्रतापस्य निर्गमनमार्गेरिवाविर्भवद्भिररुणैः केयूररत्नकिरणदण्डैरु- भयतः प्रसारितमणिमयपक्षवितानमिव माणिक्यमहीधरम् , सक- ललोकालोकमार्गार्गलेन चतुरुदधिपरिक्षेपखातशिलाप्राकारेण सर्व- राजहंसबन्धवज्रपञ्जरेण भुवनलक्ष्मीप्रवेशमङ्गलमहामणितोरणेना- तिदीर्घदोर्दण्डयुगलेन दिशां दिक्पालानां च युगपदायतिमपहर- न्तम् , सोदर्यलक्ष्मीचुम्बनलोभेन कौस्तुभमणेरिव मुखावयवतां गतस्याधरस्य गलता रागेण पारिजातपल्लवरसेनेव सिञ्चन्तम् , दि- ड्मुखान्यन्तरान्तरा सुहृत्परिहासस्मितैः प्रकीर्यमाणविमलदशन- शिखाप्रतानैः प्रकृतिमूढाया राजश्रियाः प्रज्ञालोकमिव दर्शयन्तम् , मुखजनितेन्दुसंदेहागतानि कुमुदिनीवनानीव प्रेषयन्तम् , स्फुटध- वलदशनपतिकृतकुमुवनशङ्काप्रविष्टां शरज्ज्योत्स्नामिव विसर्ज- यन्तम् , मदिरामृतपारिजातगन्धगर्भेण भरितसकलककुभा मुखा- मोदेनामृतमथन दिवसमिव सृजन्तम् , विकचमुखकमलकार्णका- न्दवः, नक्षत्राणि च । अम्बरं वासः, नभश्च । इभपतीत्यादि साधारणम् । अप- याप्तमम्बरं वासो यस्य ताहप्रथिमा यस्य, अम्बरं च खम् । वाहिनी सेना, नदी च । अन्यपर्वतसाधारण्येऽपि छायावत्त्वादुन्नतत्वाच्च कैलासमिवेत्युक्तम् । हारेत्यादिना उरुत्वं काठिन्यमाह । परिवलिता । परिवेष्टित-' इति पाठे व्याप्तेत्यर्थः । अजो हरिः । भुजेत्यादिना सेनादिकृतं नयादिकृत च प्रतापं व्यव- च्छिनत्ति । माणिक्यमुत्कृष्टो मणिः । चतुर्णामुदधीनां संबन्धी परिक्षेप एव खातं परिखा यस्य स तादृग्दााच्छिलाप्राकार इव तेन । परिखां कृलान्तरे प्राकारो दीयते इति स्थितिः । राजहंसा राजोत्तमाः, हंसभेदाश्च । आयतिदैर्घ्यम्, प्रता- ।
७४ हर्षचरिते कोशेनानवरतमापीयमानश्वाससौरभमिवाधोमुखेन नासावंशेन च. क्षुषः क्षीरस्निग्धस्य धवलिम्ना दिङ्मुखान्यपूर्ववदनचन्द्रोदयोद्वेल- क्षीरोदप्लावितानीव कुर्वाणम् , विमलकपोलफलकप्रतिविम्बितां चा- मरग्राहिणी विग्रहिणीमिव मुखनिवासिनी सरस्वतीं दधानम् , अरुणेन चूडामणिशोचिषा सरस्वतीाकुपितलक्ष्मीप्रसादनलग्नेन चरण लक्तकेनेव लोहितायतललाटतटम् , आपाटलांशुतन्त्रीसंतान- वलयिनी कुण्डलमणिकुटिलकोटिबालवीणामनवरतचलितचरणानां वाद्यतामुपवीणयतामिव स्वरव्याकरणविवेकविशारदम् , श्रवणा- वतंसमधुकरकुलानां कलक्कणितमाकर्णयन्तम् , उत्फुल्लमालतीमयेन राजलक्ष्म्याः कचग्रहलीलालग्नेन नखज्योत्स्नावलयेनेव मुखशशिप- रिवेशमण्डलेन मुण्डमालागुणेन परिकलितकेशान्तम् , शिखण्डा- भरणभुवा मुक्ताफलालोकेन मरकतमणिकिरणकलापेन चान्योन्य- संवलनवृजिनेन प्रयागप्रवाहवेणिकावारिणेवागत्य स्वयमभिषिच्य- मानम् , श्रमजलविलीनबहलकृष्णागुरुपङ्कतिलककलङ्ककल्पितेन कालिम्ना प्रार्थनाचाटुचतुरचरणपतनशतश्यामिकाकिणेनेव नीला- यमानललाटलेखाभिः क्षुभितमानसोद्गतैरुत्कलिकाकलापैरिव हा- रैरुल्लसद्भिरवष्टभ्यमानाभिर्विलासवल्गनचटुलैर्भूलताकल्पैरीय॑या श्रियमिव तर्जयन्तीभिरायामिभिः श्वसितैरविरलपरिमलैर्मलयमा- रुतमयैः पाशैरिवाकर्षन्तीभिर्विकटबकुलावलीवराटकवेष्टितमुखैबें- । । पश्च । कर्णिका कोशः, चक्रं च । आपीयमानं श्वाससौरभं यस्य तम् । अधो- मुखेनेति । अनेन सुलक्ष्यलं सौरभस्य तथापीयमानानुमितिं दर्शयति । अंशुरेव तन्त्रीसंतानः । स एव वलयाकारत्वाद्वलयं विद्यते यस्यास्ताम् । कुण्डलमणिकु- टिलकोटिमेव बालवीणां सप्ततन्त्रीकां विपञ्ची वादयताम् । अनवरतेत्यादिना व्यापारसादृश्येनोक्तम् । वद(वादयतामिति । वीणयोपगायतामुपवीण- यतामिति गानस्य प्राधान्यं प्रतिपादयति । स्वरव्याकरणं विशालादिकमित्या- दिना गानं दर्शयति । परिवेशः परिधिः । वृजिनेन शकलेन, कलुषेण वा । प्रयागो गङ्गायमुनासंगमः । तत्प्रवाहस्य वेणिकारूपेण वारिणेव । श्रमजलेत्यादौ वारविलासिनीभिः सर्वतो विलुप्यमानसौभाग्यमिवेति संबन्धः । प्रार्थनाचाटि- त्यादौ प्रार्थनादीनि सर्वाणि श्रीहर्षविषयाणि ज्ञेयानि । मानसं सरः, चेतश्च । उत्कलिका रुहरुहिकाः, वीचयश्च । अविरलेत्यादिना धारणम् । आकर्षणं वशीक- रणम्, समीपप्रापणं च । विकटेत्यादिनोद्दीपनभावमेव पोषयति । वराटको रज्जुः। बृहद्भिरिति । बृहत्त्वेन हृद्यत्वमेषामाह । बृहत्त्वादेव च वक्ष्यति-अशेष- । ।
द्वितीय उच्छासः । हद्भिः स्तनकलशैः खदारसंतोषरसमिवाशेषमुद्धरन्तीभिः कुचो- कम्पिकाविकारप्रेङितानां हारतरलमणीनां रश्मिभिराकृष्य हृदय- मिव हठात्प्रवेशयन्तीभिः प्रभामुचामाभरणमणीनां मयूखैः प्रसा- रितैर्बहुभिरिव बाहुभिरालिङ्गन्तीभिजृम्भानुबन्धबन्धुरवदनारवि- न्दावरणीकृतैरुत्तानैः करकिसलयैः सरभसप्रधावितानि मानसानी- व निरुन्धतीभिर्मदनान्धमधुकरकुलकीर्यमाणकर्णकुसुमरजःकणकू- णितकोणानि कुसुमशरशरनिकरप्रहारमूर्छामुकुलितानीव लोच- नानि चतुरं संचारयन्तीभिरन्योन्यमत्सरादाविर्भवद्भङ्गुरभ्रुकुटिवि- भ्रमक्षिप्तैः कटाक्षैः कर्णेन्दीवराणीव ताडयन्तीभिरनिमेषदर्शन- सुखरसराशिं मन्थरितपक्ष्मणा चक्षुषा पीतमिव कोमलकपोल- पालीप्रतिबिम्बितं वहन्तीभिरभिलाषलीलानिनिमित्तस्मितैश्चन्द्रोद- यानिव मदनसाहायकाय संपादयन्तीभिरङ्गभङ्गवलनान्योन्यघ- टितोत्तानकरवेणिकाभिः स्फुटनमुखराजुलीकाण्डकुण्डलीक्रियमा- णनखदीधितिनिवहनिभेनाकिंचित्करकामकार्मुकाणीव रुषा भञ्ज- तीभिर्वारविलासिनीभिर्विलुप्यमानसौभाग्यमिव सर्वतः, स्पर्शस्ति- नवेपमानकरकिसलयगलितचरणारविन्दां चरणग्राहिणी विहस्य कोणेन लीलालसं शिरसि ताडयन्तम्, अनवरतकरकलितकोण- तया चात्मनः प्रियां वीणामिव श्रियमपि शिक्षयन्तम्, निःस्नेह इति धनैरनाश्रयणीय इति दोषैर्निग्रहरुचिरितीन्द्रियैर्दुरुपसर्प इति क- लिना नीरस इति व्यसनैर्भीरुरित्ययशसा दुहचित्तवृत्तिरिति चित्तभुवा स्त्रीपर इति सरस्वत्या षण्ढ इति परकलः काष्ठामुनि- रिति यतिभिर्धूर्त इति वेश्याभिर्नेय इति सुहृद्भिः कर्मकर इति मिति । स्तनकलशैरिति । स्तनैः किल रज्जुवेष्टितमुखै रसो जलमुद्रियते रसोऽभिलाषः, जलं च । बन्धुरं हृद्यम् । कूणितः संकोचितः । मदनादिशब्दे विद्यमानेऽपि मदनान्धेत्यभिप्रायेण कुसुमशरग्रहणम् । अत्र पक्षे कर्णपदं त्यज्यते । अनिमेषदर्शनसुखरसराशिमिव श्रीहर्षम् । प्रतिविम्बितमिति । अथ च रसो जलादिः । विमले मणिभाजनादावन्तर्वपि प्रतिबिम्बितो लक्ष्यते । करवेणिका परस्परानुवन्धस्थितकरद्वयाङ्गुलिविन्यासः । विलुप्यमानसौभाग्यादिना ताः सुभगा इत्यर्थः । कोणो वीणादिवादनभाण्डम् । प्रियामिति । वीणायाः श्रियाश्च विशे- अणम् । निःस्नेह इत्यादावेतैरेकमप्यनेकधा गृह्यमाणमिति संबन्धः । षण्डः प्रज- ननाक्षमः । काष्ठा पराधारा तत्प्रधानो मुनिः काष्ठामुनिरतिशयवांस्तपस्वी ।
हर्षचरिते विप्रैः सुसहाय इति शत्रुयोथैरेकमप्यनेकथा गृह्यमाणम्, शन्तनो- महावाहिनीपतिम्, भीष्मान्जितकाशिनम्, द्रोणाचापलालसम्, गुरुपुत्रादमोवमार्गणम्, कर्णान्मित्रप्रियम्, युधिष्ठिराद्वहुक्षमम्, भीमादनेकनागायुतबलम् , धनंजयान्महाभारतरणयोग्यम्, कारण- मिव कृतयुगस्य, बीजमिव विबुधसर्गस्य, उत्पत्तिद्वीपमिव दर्पस्य, एकागारभिव करुणायाः, प्रातिवेशिकमिव पुरुषोत्तमस्य, खनिपर्व- तमिव पराक्रमस्य, सर्वविद्यासंगीतगृहमिव सरस्वत्याः, द्वितीयामृ- तमथनदिवसमिव लक्ष्मीसमुत्थानस्य, बलदर्शनमिव वैदग्ध्यस्य, एकस्थानमिव स्थितीनाम्, सर्वस्वकथनमिव कान्तेः, अपवर्गमिव रूपपरमाणुसर्गस्य, सकलदुश्चरितप्रायश्चित्तमिव राज्यस्य, सर्वबल- संदोहावस्कन्दमिव कन्दर्पस्य, उपायमिव पुरंदरदर्शनस्य, आवर्तन- मिव धर्मस्य, कन्यान्तःपुरमिव कलानाम्, परमप्रमाणमिव सौ- नेयः परवशः । शन्तनु म राजा भीष्मस्य पिता वाहिन्या गङ्गायाः पतिः । अयं तु तस्मादपि महतीनां वाहिनीनां सेनानां पतिः शन्तनुरिति । 'पञ्चमी विभक्ते' इति पञ्चमी । भीष्मो जितकाशी जितेन्द्रियः । यतस्वयि त्वत्पुत्रे वा सत्यस्म- दौहित्रस्य कुतो राज्यमिति यदा हि दाशाधिपतिना खसुता मत्स्योदरोद्गता मात्स्यावती नामास्मै पित्रर्थमर्थयते न दत्ता, तदैतेन प्रतिज्ञातम्-'नाहं राज्यं विवाहं वा करिष्यामि' इति । अत एव ब्रह्मचार्यवाभूत् । राजा च ततोऽपि जितकाशितमः, जितकाशी वा । जितेन जयेन काशते शोभते यः । तथा हि भीष्मेण रामो जितः । सर्वराजमहितं च काशिराजं च जित्वा भ्रात्रर्थमम्बादिक- न्यात्रयमनैषीत् । राजा तु ततोऽपि जितकाशितमः । द्रोणश्चापाचार्यः । स चापे धनुषि लालसः। चपलं न करोतीत्यर्थः । यद्वा चः समुच्चये। अपगता लालसा यस्य सोऽपलालसः। निरभिलाष इत्यर्थः । गुरुपुत्रोऽश्वत्थामा तस्य सफलश- रता । तथा शस्त्रोपसंहारोऽक्षमयाचितोऽपि कस्यचिदेकस्य मारणमन्तरेण न तदुपसंजहार । तत उत्तराया उदरस्थे परीक्षिति पाटिते तस्मिंस्तदुपसंहृतवान् । अन्यत्रामोधा मार्गणा याचका यस्येति। मित्रः सूर्यः, सुहृच्च मित्रम् । क्षमा क्षान्तिः, भूश्च । अनेकानि बहूनि, अनन्यसदृशानि च । एकशब्दस्य च साधारणार्थ तृच् । बलं सामर्थ्यम्, सैन्यं च। धनंजयोऽर्जुनः। महाभारतानां कुरूणां यो रणः सङ्ग्रामः । अन्यत्र महतो भारस्य कार्यधुरायास्तरणं निर्वाहणम् । प्रातिवेशिकं प्रतिबिम्बम् । खनिराकरः । अपवर्गः समाप्तिः। संदोःह समूहः । अवभृथो यज्ञान्तः । गम्भीरं प्रसन्नं चेति परस्परापेक्षं बोद्धव्यम् । तथा च सति गम्भी- रत्वे प्रसन्नवं ऋजुलं चेन्न स्यात्ततो जिह्मप्रकृतित्वं, प्रसज्येत । एवं त्रासेत्यादौ । - द्वितीय उच्छ्वासः। ७७ । भाग्यस्य, राजसर्गसमात्यवभृथस्नानदिवसमिव सर्वप्रजापतीनाम् , गम्भीरं च, प्रसन्नं च, वासजननं च, रमणीयं च, कौतुकजननं च, पुण्यं च, चक्रवर्तिनं हर्षमद्राक्षीत् । दृष्ट्वा चानुगृहीत इव निगृहीत इव साभिलाष इव तृप्त इव रो- माञ्चमुचा मुखेन मुञ्चन्नानन्दबाष्पवारिबिन्दून्दूरादेव विस्मयस्मेरः समचिन्तयत्-'सोऽयं सुजन्मा, सुगृहीतनामा, तेजसा राशिः, चतुरुदधिकेदारकुटुम्बी, भोक्ता ब्रह्मस्तम्भफलस्य, सकलादिराजच- रितजयज्येष्ठमल्लो देवः परमेश्वरो हर्षः। एतेन च खलु राजन्वती पृथ्वी । नास्य हरेरिव वृषविरोधीनि बालचरितानि, न पशुपते- रिव दक्षोद्वेगकारीण्यैश्वर्य विलसितानि, न शतक्रतोरिव गोत्रवि- नाशपिशुनाः प्रवादाः, न यमस्येवातिवल्लभानि दण्डग्रहणानि, न वरुणस्येव निस्त्रिंशग्राहसहस्ररक्षिता रत्नालयाः, न धनदस्येव नि- फलाः सन्निधिलाभाः, न जिनस्येवार्थवादशून्यानि दर्शनानि, न चन्द्रमस इव बहुलदोषोपहताः श्रियः । चित्रमिदमत्यमरं राज- बोद्धव्यम् । तथा च कालिदासः 'भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाधिगम्यश्च यादोरत्नैरिवार्णवः ॥ इति दिलीपं प्रति वर्णितवान् । कौतुक- जननमपुण्यलादपि संभाव्यते । अत आह-पुण्यमिति । गम्भीरं च प्रसन्नं चेत्यादौ सर्वत्र विरोध उद्भाव्यः । गम्भीरं सतमित्रं प्रसन्नं निर्मलं न भवतीति । अनुगृहीत इवेत्यादि । एवंविधमहीपतिप्रसादवशात् । निगृहीत इ- वेति । संकोचवशात् । साभिलाष इवेति । तस्य दर्शनीयत्वात् । तृप्त इ- वेति । तथैव तस्य कृतार्थलात् । विरोधो ह्यत्र सुबोधः । केदारं क्षेत्रम् । ब्रह्म- स्तम्भं जगत् । फलं रत्नादि । यच्च स्तम्भस्य फलं धान्यादि तद्भोक्ता कर्षको भ- वति । राजन्वती प्रशस्तराजयुता। वृषो धर्मः, अरिष्टासुरो दान्तरूपश्च । बालेति। बाला हि विवेकहीनत्वाद्धर्मविरुद्धमाचरन्ति । अस्य तु तस्यामपि दशायां धर्मवि- रोधाभावः । दक्षः कुशलः, प्रजापतिभेदश्च । महेश्वरपक्ष ऐश्वर्यशब्दो मुख्य- वृत्तिः, इतरत्र गौणः । गोत्रं कुलम्, कुलपर्वता गोत्राः । अतिवल्लभानीति । अतिशब्देन युक्तदण्डलमाह । दण्डः करः, यमायुधं च । निस्त्रिंशग्राहाः खड्ग- हस्ताः, तत्र जलचरभेदाश्च । रत्नालया भाण्डागाराणि, समुद्राश्च । निष्फला ऐश्वर्यादिफलप्राप्तिशून्याः, दानादिविनाकृताश्च । सन्निधिः सन्निधानम् । एतस्य दर्शन सर्वस्य फलदायि भवतीत्यर्थः । अन्यत्र संनिधयः शोभनानि निधना- न्यस्य । दर्शनानि जिनस्येवार्थवादशून्यानि । अर्थों धनं तस्य वादः, अनेनेदं लब्धमिति, तेन शून्यानि । सर्वे तद्दर्शिनोऽर्थेन युज्यन्ते । जिनस्य पुनरर्थवा- । । ।
हर्षचरिते ७८ । । त्वम् । अपि चास्य त्यागस्यार्थिनः, प्रज्ञाया: शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहसस्थानानि, उत्साहस्य व्यापारा:, कीर्तेर्दि- मुखानि, अनुरागस्य लोकहृदयानि, गुणगणस्य संख्या, कौशलस्य कला, न पर्याप्तो विषयः । अस्मिंश्च राजनि यतीनां योगपट्टकाः, पुस्तकर्मणां पार्थिवविग्रहाः, पट्पदानां दानग्रहणकलहाः, वृत्तानां पादच्छेदाः, अष्टापदानां चतुरङ्गकल्पना, पन्नगानां द्विजगुरुद्वेषाः, वाक्यविदामधिकरणविचाराः' इति समुपसृत्य चोपवीती स्वस्ति- शब्दमकरोत् । अथोत्तरे नातिदूरे राजधिष्ण्यस्य गजपरिचारको मधुरमपर- वक्रमुच्चैरगायत्- 'करिकलभ विमुञ्च लोलतां चर विनयवतमानताननः । मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः' ॥ ५ ॥ राजा तु तच्छ्रुत्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण ख- रेण पूरयन्निव नभोभागमपृच्छत्-'एष स बाणः' इति । 'यथा- ज्ञापयति देवः । सोऽयम्' इति विज्ञापितो दौवारिकेण । 'न ता- दशून्यानि महायानयोगाचारमाध्यमिकदर्शनानि । बहुलाः प्रभूता दोषा रागाद्याः । बहुलदोषाश्च कृष्णपक्षरात्रयः । श्रियः समृद्धयः, शोभाश्च । पर्याप्तः परिपूर्णः । योगपट्टका यतीनामुपकरणं पर्यवन्धनार्थम् । ते यतीनां चतुर्थाश्रमिणामेव । न पुनर्योगेन युक्ताः पट्टकाः कूटप्रधानानि लेख्यपत्राणि केषांचित् । एवमन्य. त्रापि । पुस्तकर्म लेप्यम् । पार्थिवविग्रहा मृण्मयशरीराणि, राजभिः सह वैराणि च । दानग्रहं मदजलम्, दानमृणव्यवहारश्च । वृत्तानां गुरुलघुनियमात्मकानां समाश्च सम विषमानां पादच्छेदा भागविरामाः, चरणकर्तनानि च । अष्टापदानां चतुरङ्गफलकानाम् । 'चलायङ्गानि सेनाया हस्त्यश्वरथपत्तयः । तेषां कल्पना रचना । चतुर्णामङ्गानां पाणिपादस्य च छेदः । द्विजगुरुर्गरुडोऽपि, वाक्यविदां मीमांसकानामधिकरणविश्रान्तिस्थानानि । राज्ञां च धर्मनिर्णयस्थानानि । अधिकवलो वारणः सङ्ग्राम इति केचिन् । उपवीती दक्षिणावीती करः । उक्तं च-'उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः' इति । गजपरिचारक इति । अन्यगजपरिचारकस्य खजातिसमुचितं वस्तु राज्ञः प्रकृतस्मारकं जातम् । तत्र करिणां स्वभावत एव रागिलादस्यापि रागवत्त्वा- दुर्जगतास्मृतिः संजातेति । भङ्गुरो वक्रः । मृगपतिनखकोटिवद्वक्र इति स्पष्टा व्याख्या । गुरुर्भारः, शासिता च । उपरि पृष्ठदेशे, प्रभुभावे च । अङ्कुश इवाङ्कुश इत्यपि । अत आह-तच्छ्रुत्वेति। बृंहितं गर्जित्तम् । अंशव एवांशुकाः । । ।
द्वितीय उच्छासः। ७९ वदेनमकृतप्रसादः पश्यामि' इति तिर्यङ्नीलधवलांशुकशारां ति रस्करिणीमिव भ्रमयन्नपाङ्गनीयमानतरलतारकस्यायामिनी चक्षुषः प्रभां परिवृत्य प्रेष्ठस्य पृष्ठतो निषण्णस्य मालवराजसूनोरकथ- यत्-'महानयं भुजङ्गः' इति । तूष्णींभावेन त्वगमितनरेन्द्रवचसि तस्मिन्मूके च राजलोके मुहूर्तमिव तूष्णीं स्थित्वा बाणो व्यज्ञाप- -'देव, अविज्ञाततत्त्व इव, अश्रद्दधान इव, नेय इव, अवि- दितलोकवृत्तान्त इव च कस्मादेवमाज्ञापयसि । वैरिणो विचित्रा- श्व लोकस्य स्वभावाः प्रवादाश्च । महद्भिस्तु यथार्थदर्शिभिर्भवि- तव्यम् । नार्हसि मामन्यथा संभावयितुम विशिष्टमिव । ब्राह्मणोऽस्मि जातः सोमपायिनां वंशे वात्स्यायनानाम् । यथाकालमुपनयनादयः कृताः संस्काराः । सम्यक्पठितः साङ्गो वेदः । श्रुतानि यथाशक्ति शास्त्राणि । दारपरिग्रहादभ्यगारिकोऽस्मि । कामे भुजङ्गता । लोकद्वयाविरोधिभिस्तु चापलैः शैशवमशून्यमासीत् । अवानपला- पोऽस्मि । अनेनैव च गृहीतविप्रतीसारमिव मे हृद्यम् । इदानीं तु सुगत इव शान्तमनसि मनाविव कर्तरि वर्णाश्रमव्यवस्थानां समवर्तिनीव च साक्षाद्दण्डभृति देवे शासति सप्ताम्बुराशिरशनाम- शेषद्वीपमालिनी महीं क इवाविशङ्कः सर्वव्यसनबन्धोरविनयस्य मनसाप्यभिनयं कल्पयिष्यति । आसतां तावन्मानुष्यकोपेताः । त्वत्प्रभावादलयोऽपि भीता इव मधु पिबन्ति । रथाङ्गनामानोऽपि लज्जन्त इवाभ्यनुवृत्तिव्यसनैः प्रियाणाम् । कपयोऽपि चकिता इव चपलायन्ते । शरारवोऽपि सानुक्रोशा इव श्वापद्गणाः पिशितानि -- । अंशुकं च वस्त्रम् । तिरस्करिणी जवनिका । प्रेष्ठस्यातिप्रियस्य । नेयः परवशः। खैरिणः : स्वतन्त्राः। सोमपायिनां सोमपानाम् । शिक्षा कल्पो व्याकरणं ज्यो- तिषं निरुक्तं छन्दो विधिः' इति षडङ्गानि वेदस्य । अभ्यागारिको गृहस्थः, सम्यग्वृत्तिस्थितो वा । कामे भुजंगतेति कामभुजंगता शृङ्गारित्वम् । कामे मदने भुजंगता ज्ञेया, न मादृशेषु । नहि मे काचिद्भुजं बाहुं गता प्राप्तेत्यर्थः । लोक- द्वयेत्यादिना त्रिवर्गस्यानुपघातं दर्शयति । शास्त्रविरोधप्रसङ्गात् । शतायुर्वं पुरुषः कालमन्योन्यानुबद्धं परस्परस्यानुपघातेन त्रिवर्ग सेवत इत्यत एवाह-शैशव- मिति । अशून्यमिति । अनेन तदेकासक्तलं परिहरति । अनपलापो निरप- हवः । विप्रतीसारः पश्चात्तापः । सुगतो बुद्धः । समवर्ती यमः। मनुष्यस्य भावो मानुष्यकम् । रथाङ्गनामानश्चक्रवाकाः चपलायन्ते चपलखमाचरन्ति । शरारवो - । शा ८० हर्षचरिते - । भुजते । सर्वथा कालेन मां ज्ञास्यति स्वामी स्वयमेव । अनपाची- नचित्तवृत्तिग्राहिण्यो हि भवन्ति प्रज्ञावतां प्रकृतयः' इत्यभिधाय तूष्णीमभूत् । भूपतिरपि 'एवमस्माभिः श्रुतम्' इत्यभिधाय तूष्णीमेवाभवत् । संभाषणासनदानादिना तु प्रसादेन नैनमन्वग्रहीत् । केवलममृत- वृष्टिभिः स्नपयन्निव स्नेहगर्भेण दृष्टिपातमात्रेणान्तर्गतां प्रीतिमक- थयत् । अस्ताभिलापिणि च लम्बमाने सवितरि विसर्जितराजलोको ऽभ्यन्तरं प्राविशत् । बाणोऽपि निर्गत्य धौतारकूटकोमलातपत्विषि निर्वाति वासरे, अस्ताचलकूटकिरीटे निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि मरीचिमालिनि, अतिरोमन्थमन्थरकुरङ्गकुटुम्ब- काध्यास्यमानम्रदिष्ठगोष्ठीनपृष्ठावरण्यस्थलीपु, शोकाकुलकोकका- मिनीकूजितकरुणासु तरङ्गिणीतटीषु, वासविटपोपविष्टवाचाटचट- कचक्रवालेष्वालवालावर्जितसेकजलकुटेषु निष्कुटेषु, दिवसविहृति- प्रत्यागतं प्रस्नुतस्तनं स्तनंधये धयति धेनुवर्गमुद्गतक्षीरं क्षुधिततर्ण- कवाते, क्रमेण चास्तधराधरधातुधुनीपूरप्लावित इव लोहितायमान- महसि मज्जति संध्यासिन्धुपानपात्रे पातङ्गे मण्डले, कमण्डलुजल. शुचिशयचरणेषु चैत्यप्रणतिपरेषु पाराशरिषु, यज्ञपात्रपवित्रपाणौ प्रकीर्णबर्हिष्युत्तेजसि जातवेदसि, हवींषि वषट्कुर्वति यायजूकजने निद्राविद्राणद्रोणकुलकलिलकुलायेषु कापेयविकलकपिकुलेष्वाराम- तरुषु, निर्जिगमिषति जरत्तरुकोटरकुटीकुटुम्बिनि कौशिककुले, मु- हिंस्राः । श्वापदगणाः प्राणिसमूहाः । पिशितं मांसम् । अनपाचीनामृष्टा । अवि. परीतेत्यर्थः । निर्दोषा वा । बाणोपीऽत्यादौ बाणोऽप्यस्मिन्सति निवासस्थानमगादिति संबन्धः। 'रीतिः स्त्रियामारकूटम्' इत्यमरः। निर्वाति शाम्यति । निचुलो वेतसवृक्षः । भुक्तोगी- र्णाहारचर्वणं रोमन्थः । म्रदिष्ठं मृदुतमम् । गोष्ठीपूर्व गोष्टीनम् । 'गोष्ठात्खञ्भूत- पूर्वे' । उक्तं च–'गोष्टं गोस्थानकं तत्तु गोष्टीनं भूतपूर्वकम्' इति । कोकाश्चक्र- वाकाः। तरङ्गिणी नदी। आलवालमावापः । कुटा घटाः । निष्कुटाः स्वगृहा- रामाः । स्तनंधयस्तर्णकश्च वत्सः । धुनी नदी। सिन्धुः समुद्रः । शयः करः । चैत्यमायतनम् । पाराशरिषु भिक्षुषु । वींषि कुशाः। वषडिति दानक्रियासु मोच- नमन्त्रः । वषट्कुर्वति । जुबतीत्यर्थः । यायजूकोऽत्यर्थे यजनशीलः । विद्राणोऽलसः द्रोणः काकः । कलिला आकुलाः । 'कुलायो नीडमस्त्रियाम्' । कापेयं चाप- । । ।
द्वितीय उच्छासः । ८१ निकरसहस्रप्रकीर्णसंध्यावन्दनोदबिन्दुनिकर इव दन्तुरयति तारा- पथस्थली स्थवीयसि तारकानिकुरम्बे, अम्बराश्रयिणि शर्वरीशब- रीशिखण्डे, खण्डपरशुकण्ठकाले कवलयति बाले ज्योतिःशेषं सां- ध्यमन्धकारावतारे, तिमिरतर्जननिर्गतासु दहनप्रविष्टदिनकरकर- शाखाविव स्फुरन्तीषु दीपलेखासु, अररसंपुटसंक्रीडनकथितावृ- त्तिष्विव गोपुरेषु, शयनोपजोषजुषि जरतीकथितकथे शिशयिषमाणे शिशुजने, जरन्महिषमषीमलीमसतमसि जनितपुण्यजनप्रजागरे विज़म्भमाणे भीषणतमे तमीमुखे, मुखरितविततज्यधनुषि वर्षति शरनिकरमनवरतमशेषसंसारशेमुषीमुषि मकरध्वजे, रताकल्पार- म्भशोभिनि शम्भलीभाषितभाजि भजति भूषां भुजिष्याजने, सैर- न्ध्रीबध्यमानरशनाजालजल्पाकजघनासु जनीषु, वशिकविशिखा- विहारिणीष्वनन्यजानुप्लवासु प्रचलितास्वमिसारिकासु, विरलीभ- वति वरटानां वेशन्तशायिनीनां मञ्जुनि मजीरशिक्षितजडे जल्पिते, निद्राविद्राणद्राधीयसि द्रावयतीव च विरहिहृदयानि सारसरसिते, भाविवासरबीजाङ्कुरनिकर इव च विकीर्यमाणे जगति प्रदीपप्रकरे निवासस्थानमगात् । अकरोच्च चेतस्यतिदक्षिणः खलु देवो हर्षः- “यदेवमनेकबालचरितचापलोचितकौलीनकोपितोऽपि मनसा स्नि- ह्यत्येव मयि । यद्यहमक्षिगतः स्याम् , न मे दर्शनेन प्रसादं कुर्यात् । इच्छति तु मां गुणवन्तम् । उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्यु- पपादनेन वाचा विनापि भर्तव्यानां स्वामिनः। अपि च धिङ्मां स्वदो- षान्धमानसमनादरपीडितमेवमतिगुणवति राजन्यन्यथा चान्यथा च चिन्तयन्तम् । सर्वथा करोमि तथा, यथा यथावस्थितं जानाति मामयं कालेन' इत्येवमवधार्य चापरयुनिष्क्रम्य कटकात्सुहृदां बा- । । लम् । कौशिका उलूकाः। स्थवीयसि स्थूलतरे । शिखण्डो जूटकः । खण्डपरशुः शिवः । करा एव शाखास्तदाकारत्वादडलयश्च करशाखाः । अररः कपाटः । संक्रीडनं शब्दः । आवृत्तिः स्थगनम् । 'गोपुरं स्यात्पुरद्वारं द्वारमात्रेऽपि गोपु- रम्' । उपजोषः सुखम्, तूष्णींभावो वा। जरती वृद्धा । शिशयिषमाणे सुषु- प्सति । 'यक्षाः स्युः पुण्यजनाः' । तमी रात्रिः। शेमुषी बुद्धिः । आकल्पो वेशः। शम्भली कुट्टनी । भुजिष्या दासी । सैरन्ध्री प्रसाधनोपचारज्ञा । जनी । वशिका शून्या । विशिखा रथ्या। अनन्यजः कामः । अनुप्लवः सहायः । 'कान्तार्थिनी ।
हर्षचरिते न्धवानां च भवनेषु तावदतिष्ठत् , यावदस्य स्वयमेव गृहीतस्वभावः पृथिवीपतिः प्रसादवानभूत् । अविशच्च पुनरपि नरपतिभवनम्। स्व- स्पैरेव चाहोभिः परमप्रीतेन प्रसाद जन्मनो मानस्य प्रेम्णो विस्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिमानीयत नरेन्द्रेणेति । इति श्रीबाणभट्टकृते हर्षचरिते राजदर्शनं नाम द्वितीय उच्छ्वासः। तु या याति संकेतं साभिसारिका' । 'हंसस्य योषिद्वरटा' । वेशन्तः पल्वलम् । कासारमत्यल्पसरः । मञ्जीरं नूपुरम् । दक्षिणोऽनुकूलः । कोलीनं जनापवादः । अक्षिगतो द्वेष्यः । विनम्भस्याश्वासस्य । द्रविणस्य धनस्य । नर्मणः परिहारस्य ।। इति श्रीशंकरकविविरचिते हर्षचरितसंकेते द्वितीय उच्छासः समाप्तः ॥
तृतीय उच्छासः। ८३ तृतीय उच्छ्वासः । निजवर्षाहितस्नेहा बहुभक्तजनान्विताः । सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥ १ ॥ साधूनामुपकर्तुं लक्ष्मी द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥२॥ अथ कदाचिद्विरलितबलाहके, चातकातङ्ककारिणि, कणत्का- दम्बे, दुर्दुरद्विषि, मयूरमदमुषि, हंसपथिकसार्थसर्वातिथौ, धौता- सिनिभनभसि, भाखरभास्वति, शुचिशशिनि, तरुणतारागणे, गलत्सुनासीरशरासने, सीदत्सौदामनीदाग्नि, दामोदरनिद्राद्रुहि, द्रुतवैदूर्यवर्णार्णसि, घूर्णमानमिहिकालघुमेघमोघमघवति, निमी- लन्नीपे, निष्कुसुमकुटजे, निर्मुकुलकन्दले, कोमलकमले, मधुस्य- न्दीन्दीवरे, कहाराह्लादिनि, शेफालिकाशीतलीकृतनिशे, यूथिका- मोदिनि, मोदमानकुमुदावदातदशदिशि, सप्तच्छधूलिधूसरितस- मीरे, स्तबकितबन्धुरबन्धूकाबध्यमानाकाण्डसंध्ये, नीराजितवा- । । निजेति । निज आत्मीयः । वर्षों लोकः, वृष्टिश्च । वर्षे वर्षमपि निजं समु- चितकालप्राप्तम् । स्नेहः प्रीतिः, आर्द्रता च । भक्ताः अनुरक्ताः, ओदनाश्च । भक्तं भक्तरूपाणां भूभृतां सुकालानां च प्रजापुण्यं हेतुः । अनेन महानुभाव- पुष्पभूतिवर्णना सूचिता ॥ १ ॥ साधूनामित्यादिनापि भैरवाचार्योपकारकरणम् , स्वयं लक्ष्मीदर्शनम् , विहायसा गमनं भैरवाचार्यस्य, महात्मचरितश्रवणकुतूहलं च निजभ्रात्रादीनां सूचितम् ॥ २॥ अथेत्यादावेवंविधे शरत्समयारम्भे बन्धून्द्रष्टुं बाणो ब्राह्मणाधिवासमगादिति संबन्धः । विरलिताः, न पुनरेकान्ततोपगताः । बलाहका मेघाः । चातकाः स्तोककाख्याः पक्षिणः । कादम्बाः कृष्णहंसाः । दर्दुरा मण्डूकाः । हंसा एक पथिकसार्थाः, तेषां निर्मलजलदानादिना स्यात्सर्वातिथित्वम् । शुचिर्निर्मलः । सुनासीर इन्द्रः । सौदामनी विद्युत् । दामोदरो हरिः । अस्य निद्रां द्रोग्धि यस्त- स्मिन् । तदा किल हरिविबुध्यत इति वार्ता । अर्णो जलम् । घूर्णमाना भ्रमन्ती या मिहिका नीहारस्तद्वलघवस्तुच्छा ये मेघास्तैर्मोघो निष्फलो मघवानिन्द्रो यत्र तस्मिन् । वर्षाभावादिन्द्रस्य मोघखम् । इन्द्रादेशेन हि मेघा वर्षन्ति । मेघवद्ग- र्जितमित्यन्ये । नीपाः कुटजाः । कन्दलाश्च वृक्षभेदाः । कलाराणि सौगन्धिका- परनामानि श्वेतोत्पलानि । जलकुसुमपत्रिकेत्यन्ये । शेफालिका पुष्पभेदः । रात्रावेव विकसति । यूथिका हरिणिका । मोदमानानि विकसन्ति । सप्तच्छदाः । ।
हर्षचरिते जिनि, उद्दामदन्तिनि, दर्पक्षीबौक्षके, क्षीयमाणपङ्कचकवाले, वाल- पुलिनपल्लवितसिन्धुरोधसि, परिणामाश्यानश्यामाके, जनितप्रिय- गुमञ्जरीरजसि, कठोरितत्रपुसत्वचि, कुसुमस्मेरशरे, शरत्समयार- म्भे राज्ञः समीपाद्वाणो बन्धून्द्रष्टुं पुनरपि तं ब्राह्मणाधिवासमगात् । समुपलब्धभूपालसंमानातिशयपरितुष्टास्तस्य ज्ञातयः माना निर्ययुः । क्रमेण च कांश्चिदभिवादयमानः, कैश्चिदभिवाद्य- मानः, कैश्चिच्छिरसि चुम्व्यमानः, कांश्चिन्मूनि समाजिघ्रन् , कै- श्चिदालिङ्ग्यमानः, कांश्चिदालिङ्गन् , अन्यैराशिषानुगृह्यमाणः, प- राननुगृह्णन् , बहुबन्धुमध्यवर्ती परं मुमुदे । संभ्रान्तपरिजनोप- नीतं चासनमासीनेषु गुरुषु भेजे। भजमानश्चार्चा दिसत्कारं नितरां ननन्द । प्रीयमाणेन च मनसा सर्वांस्तान्पर्यपृच्छत्-'कश्चिदेता- वतो दिवसान्सुखिनो यूयम् । अप्रत्यूहा वा सम्यक्करणपरितोषित- द्विजचक्रा कातवी क्रियते क्रिया । यथावदविकलमत्रभाजि भुञ्जते हवींषि हुतभुजः । यथाकालमधीयते वा बटवः । प्रतिदिनमवि- च्छिन्नो वा वेदाभ्यासः । कच्चित्स एव चिरंतनो यज्ञविद्याकर्म- ण्यमियोगः, तान्येव व्याकरणे परस्परस्पर्धानुबन्धावन्ध्यदिवसद- र्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातनी परित्यक्ता- न्यकर्तव्या प्रमाणगोष्टी, स एव वा मन्दीकृतेतरशास्त्ररसो मी- मांसायामतिरसः । कञ्चित्त एव वाभिनवसुभाषितसुधावर्षिणः काव्यालापाः' इति । अथ ते तमूचुः–'तात, संतोषजुषां सततसंनिहितविद्याविनो- - । सप्तपर्णाख्या वृक्षभेदाः । बन्धुरा हृद्याः । बन्धूका बन्धुजीवाख्या वृक्षभेदाः । नीराजिताः कृतशान्तिविधानाः । क्षीबाणीवौक्षकानि दान्तसमूहा यत्र तस्मिन् । चक्रवालं समूहः । वालं तत्क्षणस्रुतजालम् । सिन्धवो नद्यः । श्यामाको नीवारः। प्रियङ्गुहिभेदः । पुस लाडुकम् । संभ्रान्तः सलरः । सत्कारं पूजाम् । कच्चिदितीष्टप्रश्ने । प्रत्यूहो विघ्नः । सम्यकरणं यथाशास्त्रं संपादनम् । ऋतूनां यज्ञानामियं कातवी। अधीयत इति। वेदपाठो बालानामेवोचितः । प्रमाणं तर्कविद्या । मीमांसा ब्रह्मनिदर्शनम् । अत एवाह-अतिरस इति। तात इति पूजावचनम्। वैतानः कातवः। कौसीद्यमालस्यम् । निष्प्रयत्नतेत्यर्थः। ।
तृतीय उच्छासः । ८५ । । । दानां वैतानवह्निमात्रसहायानां कियन्मानं नः कृत्यं सुखितया स- कलभुवनभुजि भुजङ्गराजदेहदीर्चे रक्षति क्षितिं क्षितिभुजो भुजे । सर्वथा सुखिन एव वयम् , विशेषेण तु त्वयि विमुक्तकौसीधे पर- मेश्वरपार्श्ववर्तिनि वेत्रासनमधितिष्ठति । सर्वे च यथाशक्ति यथा- विभवं यथाकालं च संपाद्यन्ते विप्रजनोचिताः क्रियाकलापाः' इत्येवमादिभिरालापैः स्कन्धावारवार्ताभिश्च शैशवातिक्रान्तक्रीडानु- स्मरणैः पूर्वजकथाभिश्च विनोदितमनास्तैः सह सुचिरमतिष्ठत् । उत्थाय च मध्यंदिने यथाक्रियमाणाः स्थितीरकरोत् । भुक्तवन्तं च तं सर्वे ज्ञातयः पर्यवारयन् । अत्रान्तरे दुगूलपट्टप्रभवे शिखण्ड्यपाङ्गपाण्डुनी पौण्ड्रे वाससी वसानः, स्नानावसानसमये बन्दितया तीर्थमृदा गोरोचनया च रचिततिलकः, तैलामलकमसृणितमौलिः, अनुच्चचूडाचुम्बिना नि- बिडेन कुसुमापीडकेन समुद्भासमानः, असकृदुपयुक्तताम्बूलविम- लाधरकान्तिः, एकशलाकाञ्जनजनितलोचनरुचिरचिरभुक्तः, वि- नीतमार्य च वेषं दधानः, पुस्तकवाचकः सुदृष्टिराजगाम । नाति- दूरवर्तिन्यां चासन्यां निषसाद । स्थित्वा च मुहूर्तमिव तत्काला- पनीतसूत्रवेष्टनमपि नखकिरणैर्मृदुमृणालसूत्रैरिव वेष्टितं पुस्तकं पु- रोनिहितशरशलाकायत्रके निधाय, पृष्ठतः सनीडसंनिविष्टाभ्यां मधुकरपारावताभ्यां दत्ते स्थानके प्राभातिकप्रपाठकच्छेदचिह्नीकृत- मन्तरपत्रमुत्क्षिप्य, गृहीत्वा च कतिपयपत्रलध्वी कपाटिकाम् , क्षा- लयन्निव मषीमलिनान्यक्षराणि दन्तकान्तिभिः, अर्चयन्निव सित- -- अत्रेसादौ सुदृष्टिः पुस्तकवाचक आजगामेति संबन्धः । दुगूलेति । एक- स्माङगूलपट्टाद्दीर्घाच्छिवा गृहीते, शिखण्ज्यपाङ्गपाण्डुत्वेन कार्कश्यमपि दर्शितम् । पौण्ड्रे पुण्ड्रदेशजे । गोरोचना रक्षाद्रव्यभेदः। मौलयः केशाः। अनुच्चेति ।अदीर्घ- तया कुसुमापीडकस्य श्रोत्रियलं विनीतलं चास्य दर्शितम् । निबिडेन संहतपुष्पेण । रुचिरं नैर्मल्यम् । भोजनं भुक्तमचिरं भुक्तं यस्य सः। अनेन तस्यानवलिप्तवमुक्तम् । आसन्धां वेत्रपीठिकायाम् । स्थित्वेत्यादौ पुराणं पपाठेति संबन्धः । सनीडे समीपे । प्रपाठको वाचकः, प्रपठनं वा । तस्य तत्र वा छेदः । इयन्मानं वाचितं नान्यदिति तेन चिह्नीकृतं लक्षीकृतम् । गमयन्ति रागस्वरूपमिति गमकाः ।
हर्षचरिते कुसुममुक्तिभिर्ग्रन्थम् , मुखसंनिहितसरस्वतीनूपुररवैरिव गमकैर्म- धुरैराक्षिपन्मनांसि ओहणां गीत्या पवमानप्रोक्तं पुराणं पपाठ । तस्मिंश्च तथा श्रुतिसुभगगीतिगौं पठति सुदृष्टौ नातिदूरवर्ती बन्दी सूचीवाणस्तारमधुरेण गीतिध्वनिमनुवर्तमानः स्वरेणेदमार्या- युगलमपठत्- 'तदपि मुनिगीतमतिपृथु तदपि जगद्व्यापि पावनं तदपि । हर्षचरितादभिन्नं प्रतिभाति हि मे पुराणमिदम् ॥ ३ ॥ वंशानुगमविवादि स्फुटकरणं भरतमार्गभजनगुरु । श्रीकण्ठविनिर्यातं गीतमिदं हर्षराज्यमिव ।' तच्छ्रुत्वा बाणस्य चत्वारः पितामहमुखपद्मा इव वेदाभ्यासपवित्रि- तमूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारापतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृही- तवाक्याः, कृतगुरुपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यास- । असाधारणानि खराणां निमीलनानि यानि लक्ष्येष्वान्तरमार्ग इति प्रसिद्धास्तैर्ग- मकैः खरयतिविशेषैः । पवमानो वायुः । बन्दी स्तुतिपाठकः । पृथुरा दिनृपोऽपि । पवमानं वायुप्रोक्तमपि । गीतपक्षे- वंशेन वेणुनानुगमो ययोस्तौ विवादिनौ खरौ विश्रुत्यन्तरौ गान्धारनिषादौ खरौ यत्र तत् । करणमपदः । सताल आविद्धः स्वरसंनिवेश उच्चारणस्थानं वा। भारतं भरतमुनिकृतो ग्रन्थः । श्रीकण्ठः श्रीयुक्तः कण्ठः । वैखर्यादिदोषाभावात् । यद्वा श्रीकण्ठो हर एव । सर्व विद्यानां तत एवोत्पत्तेः । हर्षराज्यमपीदृशमेव । तथा च वंशं कुलमनुगच्छत्यनुसरति यत्तद्वंशानुगम् । तथाविद्यमाना विवादिनो यत्र तदविवादि सौराज्यं । न केचित्तत्र विवदन्ते । करणमधिकरणं यत्र विद्यापरीक्षा धर्मनिर्णयो वा क्रियते, व्यापारो वा । भरतो नाम पूर्व राजाभूत् । श्रीकण्ठो देशभेदः । गीतमपि हर्षस्य प्रमोदस्य राज्यमिव । तस्य विजृम्भमाणलात्। तच्छु- त्वेत्यादौ बाणस्य चखारो भ्रातरः परस्परस्य मुखानि व्यलोकयन्निति संबन्धः। तच्छु- त्वेसादिनास्य प्रकरणस्य प्रकृतानुगुणवं दर्शितम् । तेषां च ते प्रस्ताववेदिलम् । मुखपद्मा अपि चत्वारः सामवेदभेदाः । सान्वं च सुखमारम्भोऽपि । प्रसन्ना शुद्धा, सुबोद्धा च । वृत्तिवर्तनम् , सूत्रविवरणं च । गृहीतमाहतम् , ज्ञानार्थ च । वाक्यं विवरणम्, वार्तिकं च । यत्कारणात्कात्यायनो वार्तिककार उच्यते । कृतो गुरूणां संबन्धिनि पदे स्थाने न्यासः स्थितिर्येषां ते । सर्वेणोपदेष्टुपदे स्था- पितास्त इत्यर्थः। यद्वा कृतो गुरुणि पदे न्यासो यैः । महति पदे स्थिता इत्यर्थः । अन्यत्र कृतोऽभ्यस्तो गुरुपदे दुर्बोधशब्दे न्यासो वृत्तिर्विवरणं यैः । न्यायो युक्तम्, । ।
तृतीय उच्छ्रासः॥ गुरवः लब्धसाधुशब्दाः, लोक इव व्याकरणेऽपि सकलपुराणराज- र्षिचरिताभिज्ञाः, महाभारतभावितात्मानः, विदितसकलेतिहासाः, महाविद्वांसः, महाकवयः, महापुरुषवृत्तान्तकुतूह लिनः, सुभाषित- श्रवणरसरसायनाः, वितृष्णाः, वयसि वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वमेव कृतसंगराः, विवक्षवः, स्मितसुधाधवलितकपोलोदराः, परस्परस्य मुखानि व्यलोकयन् । अथ तेषां कनीयान्कमलदलदीर्घलोचनः श्यामलो नाम बा- णस्य प्रेयान्प्राणानामपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशन- ज्योत्स्नास्नपितककुभा मुखेन्दुना बभाषे----'तात बाण, द्विजानां राजा गुरुदारग्रहणमकार्षीत् । पुरूरवा ब्राह्मणधनतृष्णया दयितेना- युषा व्ययुज्यत । नहुषः परकलत्राभिलाषी महाभुजङ्ग आसीत् । - उपपत्त्यनुपपत्तिविचारश्च । सुकृतं पुण्यम् , सुष्ठ विहितं च । संग्रहः संचयः । व्याकरणं व्याडिकृतो ग्रन्थश्च । गुरवो महान्तः, उपाध्यायाश्च । साधुशब्दः साधुवादः, साधवोऽमी इत्येवंरूपो वा । साधवः संस्कृताः, शब्दाश्च । पाण्डि- त्यप्रकटनेनानेन द्रष्टुमिष्टस्य वस्तुन उत्कृष्टतोच्यते । सकलेत्यादिविशेषणत्रयेण द्विजराजादिवृत्तान्तेऽभिज्ञतोच्यते । महापुरुषेत्यादि । हर्षचरिते शुश्रूषाया हेतुः । सुभाषितेत्यादि खकाव्यप्रशंसासूचनपरम् । सदसि सभायाम् । संगरं संकेतः । कनीयानिति । अनेन प्रियवचनत्वमस्य दर्शितम् । ब्रूहीति दत्तसंज्ञः । तात बाणेत्यादिना पूर्वराजदोषोद्भावनद्वारेण हर्षस्य गरीयस्तां ख्यापयति । अत्र क्वचि- च्छब्दद्वारेण क्वचिच्चार्थद्वारेण यथायोग्यं दोष उद्भाव्यः । चन्द्रादिशब्दाभिधा- नेन राजलप्रतीतिर्न स्यादिति द्विजानां राजेत्युक्तम् । गुरुबृहस्पतिः, पित्राद्याश्च गुरवः । अत्र कथा-पुरा पूर्णचन्द्रमुदितं वीक्ष्य कामयमानां गुरुपत्नी ताराख्या- ममिगच्छत् । तदसहमानेन च बृहस्पतिना यदेन्द्राद्याः प्रोत्साहितास्तदानयनाय, तदा चन्द्रेण शुक्रः शरणमाश्रितः । ततः शुक्रप्रेरितैर्दैत्यैः सह तेषामन्योन्यं दिव्यं वर्षसहस्रं युद्धमासीत् । तारापि नारदबोधिता सगर्भा सती पुनर्गुरुमेवामिगतेति । दयितेनायुषा प्रियेण जीवितेन पुत्रेणायुर्नान्ना । कथा चात्र-पुरूरवाः पूर्वी दिशं जेतुं गच्छन्केनाप्याहृतप्रभूतधनेन विप्रेण यज्ञे निमन्त्रितो लोभाक्षिप्तस्तद्धनं जिहीर्घतच्छापानष्टः । तस्मिन्मृते स विप्रो नृपं विना प्रजा निवर्तत इति ज्ञाला तदायुषा राजर्षिमायुर्नामानमजीजनदिति । भुजङ्गो विटोऽपि। पुरा वृत्रं हवा ब्रह्म- हत्यया शकः पलाय्य मृणालच्छिद्रान्तरे यदातिष्ठत्तदा नहुषो यज्वा शूरैश्च देवैरि- न्द्रलं नीतो दर्पाच्छची प्रार्थयमानो बृहस्पत्युपदेशात्तयोक्तो यथा-'यानेनापूर्वेणा- गच्छ' इति । ततो ब्रह्मर्षीन्वाहनीकृत्य व्रजन्कामवशात्स्वरमाणः पादेनाताड्य 'सर्प हर्षचरिते ययातिराहितब्राह्मणीपाणिग्रहणः पपात । मुद्युम्नः स्त्रीमय एवाभ- वत् । सोमकस्य प्रख्याता जन्तुवधनिघृणता। मांधाता मार्गणव्य- सनेन सपुत्रपौत्रो रसातलमगात् । पुरुकुत्सः कुत्सितं कर्म तपस्य- अपि मेकलकन्यकायामकरोत् । कुवलयाश्वो भुजङ्गलोकपरिग्रहाद- श्वतरकन्यामपि न परिजहार । पृथुः प्रथमपुरुषक: परिभूत- वान्पृथिवीम् । नृगस्य कृकलासभावे वर्णसंकरः समदृश्यत । । । सर्प' इति चोदयनगस्त्येन 'सो भव' इति शप्तः सोऽभवत् । पपातेति नरकगामी बभूव, खाचारभ्रष्टवात्पतितश्चाभूत् । वृषपर्वणोऽसुरराजस्य दुहित्रा शर्मिष्ठया कल- हायमाना 'अस्मद्धृत्यसुता वराकी भूला स्पर्धते' इत्युक्त्वा कूपान्तः पातितां शुक्र- सुतां देवयानी ज्ञाला ययातिर्वनविहारी पाणिं गृहीवोजहार । गते ययाती परिभवो- द्विग्ना वन एवावसत । अथ नारदाद्यथावृत्तं ज्ञाला वृषपर्वा शुक्रस्य प्रार्थनामक- रोत् । संदिष्टा च-'कुमारी शतपरिचारवतीयं शर्मिष्ठा यदा मे दास्यं करोति तदागच्छामि' इति । शुक्रशापभीतेन वृषपर्वणा संपादितमनोरथा देवयानी पुन- रपि दासीभूतया शर्मिष्ठया सह वने क्रीडन्ती ययातिमायान्तं दृष्ट्वा बभाषे- 'वाद्य मां त्यक्त्वा पाणिग्राहो महानुभावो गतोऽभूत्' इति । ततो ययातिाह्म- णीलादनङ्गीकुर्वस्तत्पित्रा शोकविधुरेण शुक्रेण 'पापं मास्तु, क्रियतामयं विधिः' इति बुद्धा तां खीचक्रे । कालेन चासौ पपातेति । सुद्युम्नो राजा, शोभनं द्युम्नं बलमस्येति च । स्त्रीमयो महिलाकृतिः, कान्तानुरक्तश्च । योत्र तोयमुपयोक्ष्यति स स्त्रीलमापत्स्यत इति भगवता भवान्याभ्यर्थितेन भवेन शप्तः सन्सरसः पीला तोयं सुद्युम्नो मृगयाविहारी स्त्रीमयोऽभूदिति । जन्तुर्नाम सोमकस्य राज्ञः पुत्रः, जन्तवः प्राणिनश्च । सोमकस्य राज्ञो जन्तु मैकः पुत्रोऽभूत् । स चैकपुत्रला- दपुत्रलं वरमिति जाननुद्विग्नः पुरोधसाभ्यधायि–'बहून्पुत्रांश्चेदिच्छसि तदस्य सुतस्य वपया होमः क्रियताम् । ततो यावत्यो धूममाजिघ्रन्ति ताः पुत्रैर्युज्यन्ते' इति । स चापि घृणामपहाय तथा कारितवानिति । मार्गणं याच्या, शराश्च मा- गणाः। मार्गणेषु व्यसनं युद्धं व्यसनम् ।रसातलमगमदधस्ताजगाम । विनष्ट इत्यर्थः । रसातलं पातालं च । मांधाता च भुवं जिला खगै जेतुं गतः । शक्रेणोक्तम्- 'पातालं जिलागतस्य तव दास्यं यास्यामि' । स च तद्वचनादविचार्यैव रसातलं गतस्तत्र हरप्रसादासादितत्रिशूलेन लवणनाम्ना दानवेन ससुतसैन्योऽन्तमनीयत इति । मेकलकन्यका नर्मदा । पुरुकुत्सः पुरा तपश्चरनर्मदायां स्नानं कुर्वन्काम- प्यङ्गनामालोक्य कामाविष्टो नीतिमुत्ससर्जेति । भुजङ्गा विटा अपि । अश्वतर- कन्यां वडवामपि । कुवलयाश्वो राजा मृगयाक्रीडाप्रसङ्गेन धर्मातुरो मज्जनरभसेन सरसीमवतीर्णो रसातलं प्राप्तोऽश्वतराभिधां नागकन्यामूढवानिति । प्रथम आद्यः, प्रधानश्च । कुत्सितः पुरुषः पुरुषकः । पृथुरादिनृपो भूधराकान्तां सर्वो गां विलोक्य । ।
तृतीय उच्छ्वासः। 1 सौदासेन नरक्षिता पर्याकुलीकृता क्षितिः । नलमवशाक्षहृदयं कलिरभिभूतवान् । संवरणो मित्रदुहितरि विक्लवतामगात् । दश- रथ इष्टरामोन्मादेन मृत्युमवाप । कार्तवीर्यों गोब्राह्मणातिपीडनेन निधनमयासीत् । मरुत्त इष्टबहुसुवर्णकोऽपि देवद्विजबहुमतो न चापकोट्या भुवः पर्यन्तेषु चिक्षेप । धरणकारणभूतभूभृत्परिभवाद्भवो विभवः । अत एवास्य कापुरुषत्वम् । विष्णुपुराणे तु-आकृष्टकार्मुकेन पृथुना 'देहि मे भर्तव्यभरणोपायम्' इत्यनुबध्यमाना भूर्भुवनानि बभ्राम । ततः शरणमलब्ध्वा सास्य सर्वाः सस्यसंपदोऽजनयदिति वर्णितम् । एतस्मात्परिभूताभूदिति । कृक- लासः प्राणिभेदः । तद्भावेऽपि तस्यां दशायामपि किं पुना राज्यस्येति निन्द्य- खम् । वर्णः शुक्लादिः, ब्राह्मणादिश्च । नृगो राजा दानप्रस्तावे कस्यचिद्विपस्य संबन्धिनी गामविज्ञायैव द्विजय ददौ । कदाचिच तस्या गोः स्वामी तां गां परिज्ञाय तं ययाचे । न च तस्माद्गां लेभे । ततस्तौ द्वावपि राजद्वारं राजविज्ञा- पनाय गतौ । ग्राम्यभोगासक्तराजदर्शनमलभमानौ च क्रोधात् 'कृकलासो भव' इति राज्ञः शापं दत्त्वा कस्मैचिद्गां वितीर्य यथागतं प्रतिजग्मतुरिति । नरान्क्षि- गोतीति-नरक्षिता, न पालिता च । सौदासो नाम राजा मृगयाखिन्नः पथि गच्छन्कदाचिन्मुनि शक्रनामानं मार्गमध्ये स्थितम् 'अपसर्प' इत्यवदत् । 'पन्था देयो ब्राह्मणाय' इति वचनान्यायमनुवर्तमानो यावन्न चलितस्तावद्राज्ञा कशया- भिहतः । अथ रोषावेशात् 'गच्छ मनुष्यभक्ष्यो राक्षसो भव' इति तं शशाप । वशमायत्तमक्षहृदयमक्षज्ञानम्, अक्षाणीन्द्रियाणि हृदयं च । तच्च नलो राजा द्यूतव्यसनी तत्स्वरूपानभिज्ञश्च कलिनाभिभूत इति प्रसिद्धम् । मित्रो रविः, सुहृच्च मित्रम् । तपती नाम मित्रस्य रवेर्दुहिताभूत् । तस्यां संवरणो नाम राजा व्यसनी बभूव । रामो दशरथसुतः, राना स्त्री च । दशरथो मृगयासक्तो घटपूरणरवं श्रुला बंहितशङ्कया शब्दपातिना शरेण मुनिपुत्रं व्यापादयत् । तेन च बोधितान्वयः पित्रोः समीपं तं निनाय । तद्वचनाच्छल्यमुद्धरति नृपे शिशुम॒तः । अथ च 'सदारेण वृद्धतापसेन पुत्रादहमिव लमपि प्राप्स्यस्यन्तम्' इति शप्तो रामवि- योगात्प्राणांस्तत्याजेति । गोनिमित्तं ब्राह्मणस्य जमदग्नेरतिपीडनम् । निधनमया- सीत् । जामदग्न्येन हत इत्यर्थः । कार्तवीर्यो गवां कोटेरप्यधिकतरां धेनुमपहर- जमदग्निं व्यापादितवान् । अथ च तत्सुतेन रामेण क्रोधात्परशुच्छिन्नबाहुसह- स्रोऽसौ सर्वक्षत्रियैः सह मृत्यु लेभे । इष्टः कृतः, अभिमतश्च । देवद्विजो बृह- स्पतिः, अन्यत्र देवाश्च द्विजाश्चेति द्वन्द्वः । मरुत्तो नाम राजा बहुसुवर्णकाख्येन ऋतुनापि यक्ष्यमाणो देवपुरोधसम् 'मां याजय' इति याचमानस्तेन 'मनुष्योऽय- मेव दृष्टः' इति । स चोपहसति धिषणे नारदेनोक्तो यथा-'गच्छ । अस्यैव भ्राता संवर्तको नाम प्रहगृहीत छद्मना• बाराणस्यां स्थितः। तं प्रार्थयख' इत्यु- क्ला च नारदोऽग्निं विवेश । स च नारदोक्तचिदस्तं भगवत्प्रणामं कृला निर्यान्तं ।
९० हर्षचरिते बभूव । शंतनुरतिव्यसनादेकाकी वियुक्तो वाहिन्या विपिने वि- ललाप । पाण्डुर्वनमध्यगतो मत्स्य इव मदनरसाविष्टः प्राणान्मु- मोच । युधिष्ठिरो गुरुभयविषण्णहृदयः समरशिरसि सत्यमुत्सृष्ट- वान् । इत्थं नास्ति राजत्वमपकलङ्कमृते देवदेवादमुतः सर्वद्वीप- भुजो हर्षात् । अस्य हि बहून्याश्चर्याणि श्रूयन्ते । तथा हि-अत्र बलजिता निश्चलीकृताश्चलन्त: कृतपक्षाः क्षितिभृतः । अत्र प्र- जापतिना शेषभोगिमण्डलस्योपरि क्षमा कृता । अत्र पुरुषोत्त- । - परिज्ञाय बहुशो गालीददतमप्यनुद्विजमानो याजनाय प्रार्थयामास । संवर्तकेन कथितं च-'नेदं तवोक्तम् । यावत्तं वक्ष्यामि । देवेभ्यश्च श्रुला यज्ञभागो न दातव्यः' इति । राजा यथोक्तमनुतिष्ठंस्तेन याजितो देवद्विजस्य नाभिमतोऽभ- वदिति । अतिव्यसनादत्यन्तसङ्गात् । वाहिनी नदी, सेना च । महाभिषः पुरा ब्रह्मसदसि गङ्गायाश्चामरग्राहिण्याश्चलितवाससोऽङ्गदर्शनहृतहृदयः शृङ्गारपदानि वदन्ब्रह्मणा शप्तः । पतित्वा क्षत्रियगृहे शन्तनु नाभूत् । गङ्गापि 'मत्कृतेऽयमिमां दशां प्राप्तः' इति मत्वा सखेदमवतरन्ती धेनुहरणकुपितवसिष्ठशापसंपन्नमनुष्य- लोकावतरणदुःखितैर्वसुभिर्विदितवृत्तान्तैरभ्यधायि-'तत्र नृपे चेत्तव प्रीतिः, तद्वयं त्वय्येवोत्पत्स्यामहे। जातमात्राश्च वयं त्वया खजले क्षेप्तव्याः' इति । सा तु तथेत्यङ्गीकृत्य वने विहरन्तं प्रार्थयमानं शन्तनुमवोचत् । 'यदहं करोमि तत्र त्वया निर्बन्धो न विधेयः । न चाहं त्वया जन्म प्रष्टव्या' इति । तथेति तेना- ङ्गीकृतवता बहुतरं कालमरंस्त । अथ यः कश्चित्सूनुरुदपादि सर्वस्तया खजले क्षिप्तः । एवं सप्तखतीतेषु गङ्गामासेव्य निःसंतानोऽयं मा भूदिति मन्वानः सप्त- भिरेव वसुभिः कृतात्मसंनिधिर्भीष्मो जातः । ततस्तमपि जले क्षिपन्ती शन्त- नुना निषिद्धा । 'सापराधो भवाचू' इत्युक्त्वा सा प्रतिजगाम । ततस्तद्वियोग- विधुरधीबहु विललापेति व्यसननिमित्तकः सेनया वियोगेन च विलापो विजि- गीषोरनुचित एव । वनं तोयम् , विपिनं च । मदनः कामः फलविशेषश्च मदनम्। पाण्डुर्वने मृगरूपया ब्राह्मण्या सह सुरतकर्मसक्तं मृगरूपं कर्दमाख्यं मुनि शरेण जघान । तेन च म्रियमाणेन त्रीसंभोगस्थो मरिष्यसि' इति शप्तो माया सह स्मरातः क्रीडन्विपन्न इति । गुरोर्दोणाचार्यस्य भयेन गुरुणा, महता च त्रासेन । युधिष्ठिरो बलानि दग्धुमुद्यतं द्रोणाचार्य रणमूर्ध्नि 'अश्वत्थामा हतः' इत्युक्त्वा पुत्रशोकाकुलमसत्येनासूनत्याजयदिति । इत्थमिति । इत्थं कृतयुगादारभ्य कलिप्रारम्भपर्यन्तं राज्ञां नास्त्यपकलङ्क राजत्वमिति । बलजित्प्रजापतिमुखाः शब्दा राज्ञि यथार्था वेदितव्याः । बलं सैन्यम् , बलाख्यश्चासुरः । निश्चलीकृता इति सहायाभावाच्छत्रुषु यानं न विदधिर इति । अन्यत्र स्थावरत्वं लम्बिताः । पक्षः सहायाः, पतत्राणि च । क्षितिभृतो राजानः, गिरयश्च । प्रजापतिना राज्ञा, - तृतीय उच्छ्रासः । ९१ । मेन सिन्धुराज प्रमथ्य लक्ष्मीरात्मीकृता । अत्र बलिना मोचि- तभूभृद्वेष्टनो मुक्तो महानागः । अत्र देवेनाभिषिक्तः कुमारः । अत्र स्वामिनैकप्रहारपातितारातिना प्रख्यापिता शक्तिः । अत्र नर- सिंहेन स्वहस्तविशसितारातिना प्रकटीकृतो विक्रमः । अत्र पर- मेश्वरेण तुषारशैलभुवो दुर्गाया गृहीतः करः । अत्र लोकनाथेन दिशां मुखेषु परिकल्पिता लोकपालाः सकलभुवनकोशश्चाग्र्यज- न्मनां विभक्त इति । एवमादयः प्रथमकृतयुगस्येव दृश्यन्ते महा- समारम्भाः। अतोऽस्य सुगृहीतनाम्नः पुण्यराशेः पूर्वपुरुषवंशा- नुक्रमेणादितः प्रभृति चरितमिच्छामः श्रोतुम् । सुमहान्कालो नः शुश्रूषमाणानाम् । अयस्कान्तमणय इव लोहानि नीरसनिष्ठु- राणि क्षुल्लकानामप्याकर्षन्ति मनांसि महतां गुणाः, किमुत स्व- भावसरसमृदूनीतरेषाम् । कस्य न द्वितीयमहाभारते भवेदस्य चरिते कुतूहलम् । आचष्टां भवान् । भवतु भार्गवोऽयं वंशः । । ब्रह्मणा च । शेषस्यावशिष्टस्य भोगिमण्डलस्य राजसमूहस्योपरि विषये क्षान्तिः कृता । अन्यत्र शेषाख्यस्य भोगिनो नागस्य मण्डलमाभोगस्तत्पृष्ठे भूमिर्निहिता । पुरुषोत्तमो नरोत्कृष्टो राजा, हरिश्च । सिन्धुराजो सिन्धुदेशाधिपतिः, क्षीरोद- धिश्च । लक्ष्मीश्छत्रचामरादिरूपा, देवताकृतिश्च । बलिना बलवता, असुरेश्वरेण च । भूभृद्राजा श्रीकुमाराख्यः । श्रीकुमारो नाम राजा किल दर्पशातेनापजात- मदेन हस्तिना वेष्टितः । ततः श्रीहर्षेणाकृष्य खड्गं तस्मान्मोचितोऽसौ दन्ती च रोषाहने परित्यक्त इति वार्ता । भूभृच्च पर्वतो मन्दराख्यः । महानागो दर्पशातः, वासुकिश्च । मोचितभूभृद्वेष्टनोऽमृतमन्थनार्थे । मन्थनार्थे कुमारः कुमारगुप्ताख्यः कुमारो वा यो दर्पशातान्मोचितः । कुमारो गुहः, पुत्रश्च कुमारः । खामी प्रभुः, कुमारश्च । अरातयः शत्रवः, तारकश्चासुराधिपतिः । शक्तिः सामर्थ्यम् , आयुध- भेदश्च । नरसिंहः उत्तमनरः, नृसिंहरूपो हरिश्च । स्वहस्तेनेति । न तु साध- नबलेन । अन्यत्र तु चक्रादिनिजायुधेन परमेश्वरेण सार्वभौमेन । न तु मण्डल- मात्रस्य भोक्रा हरेण । दुर्गाया दुर्गमायाः, गौर्याश्च । करो दण्डः, पाणिश्च । लोकनाथो राजा, हरिः, बुद्धश्च । दिशां मुखेषु सीमासु । लोकनाथाः (लोक- पालाः) सीमापतयः, इन्द्राद्या दिक्पालाश्च । कोशो गञ्जम् , मध्यम्, ग्रन्थभेदश्च। अग्र्यजन्मानो द्विजाः, आदिनृपाः, श्रमणाश्च । एवमादय इति । न त्वेतावन्त एव । प्रथमकृतयुगस्येवेति । पर्वतपक्षशातनादयो वृत्तान्ता अभवन् । मणय इवेति । मणिशब्देनोपमेयानां गुणानां रत्नत्वमुक्तम् । लोहान्यपि नीरसनिष्ट- । ।
९२ हर्षचरिते । शुचिनानेन राजर्षिचरितश्रवणेन सुतरां शुचितरः' इत्येवमभिधाय तूष्णीमभूत् । बाणस्तु विहस्याब्रवीत्-'आर्य, न युक्त्यनुरूपमभिहितम् । अघटमानमनोरथमिव भवतां कुतूहलमवकल्पयामि । शक्याश- क्यपरिसंख्यानशून्याः प्रायेण स्वार्थतषः । परगुणानुरागिणी प्रि- यजनकथाश्रवणरसरभसमोहिता च मन्ये महतामपि मतिरपहरति प्रविवेकम् । पश्यत्वार्यः क परमाणुपरिमाणं बटुहृदयम् , क समस्तब्रह्मस्तम्भव्यापि देवस्य चरितम् । क परिमितवर्णवृत्तयः कतिपये शब्दाः, क संख्यातिगास्तद्गुणाः । सर्वज्ञस्याप्ययमविषयः, वाचस्पतेरप्यगोचरः, सरस्वत्या अप्यतिभारः, किमुतास्मद्विधस्य । कः खलु पुरुषायुषशतेनापि शक्नुयादविकलमस्य चरितं वर्णयि- तुम् । एकदेशे तु यदि कुतूहलं वः, सज्जा वयम् । इयमधिगत- कतिपयाक्षरलवलघीयसी जिह्वा क्वोपयोगं गमिष्यति । भवन्तः श्रोतारः । वय॑ते हर्षचरितम् । किमन्यत् । अद्य तु परिणत- प्रायो दिवसः । पश्चाल्लम्बमानकपिलकिरणजटाभारभाखरो भग- वान्भार्गवो राम इव समन्तपञ्चकरुधिरमहादे निमज्जति संध्या- रागपटले पूषा । श्वो निवेदयितास्मि' इति । सर्वे च ते 'तथा' इति प्रत्यपद्यन्त । नातिचिरादुत्थाय संध्यामुपासितुं शोणमयासीत् । अथ मधुमदपल्लवितमालवीकपोलकोमलातपे मुकुलितेऽह्नि कम- लिनीमीलनादिव लोहिततमे तमोलिहि रवी लम्बमाने, रविरथ- राणि । क्षुल्लकाः खलाः । वाला इत्यन्ये । आचष्टामाख्यातु । भार्गव इति भृगु- गोत्रखम् । अवकल्पयामि निश्चिनोमि । शक्तमिदमित्येवंरूपेण परिसंख्यानेन गणनया खार्थतृषो गृधवः शून्याः । शक्याशक्य विवेकं गृनवो न जानन्तीत्यर्थः । बटु- जिशिशुः । ब्रह्मस्तम्भं जगत् । पुरुषायुषेत्यादिना योग्येऽपि मयि वर्णयितरि वर्णनीयस्य भूयस्वम्, अल्पीयस्त्वाच्चायुषः सामस्त्येन वर्णनं न घटत इति प्रति- पादितम् । अत एवाह-एकदेश इति । संज्ञा (सज्जा) वर्णनाभिमुखा इति भवन्त इति । न तु यादृशतादृशाः । हर्षचरितमिति । न तु यदेव किंचित् । समन्तपञ्चकं कुरुक्षेत्रम् । तथेत्येवमस्त्विति । प्रत्यपद्यन्ताङ्गीकृतवन्तः । अथेत्यादावस्मिन्नस्मिन्सति बाणस्तयैव गोष्ट्या तस्थाविति संबन्धः । कपो- लकोमलो गण्डसदृशः । मुकुलिते प्राप्तसंकोचे । कुटीरं जरगृहम् । पटलं छाद- । ।
तृतीय उच्छासः । तुरगमार्गानुसारेण यममहिष इव धावति नभसि तमसि, क्रमेण च गृहतापसकुटीरकपटलावलम्बिषु रतातपच्छेदैः सह संहृतेषु वल्कलेषु, कलिकल्मषमुषि पुष्णति गगनमग्निहोलधामधूमे, सनियमे यजमानजने मौनव्रतिनि, विहारवेलाविलोले पर्यटति पत्नीजने, विकीर्यमाणहरितश्यामाकशालिपूलिकासु दुग्धासु हो- मकपिलासु हूयमाने वैतानतनूनपाति, पूतविष्टरोपविष्टे कृष्णाजि- नजटिले जटिनि, जपति बटुजने, ब्रह्मासनाध्यासिनि ध्यायति यो- गिगणे, तालध्वनिधावमानानन्तान्तवासिनि अलसवृद्धश्रोत्रियानु- मतेन गलगन्थदण्डकोद्गारिणि संध्यां समवधारयति वठरविटबटु- समाजे, समुन्मज्जति च ज्योतिषि तारकाख्ये खे प्राप्ते प्रदोषारम्भे भवनमागत्योपविष्टः स्निग्धैर्बन्धुभिश्च सार्धं तयैव गोष्ठया तस्थौ । नीतप्रथमयामश्च गणपतेर्भवने परिकल्पितं शयनीयमसेवत । इत- रेषां तु सर्वेषां निमीलितहशामप्यनुपजातनिद्राणां कमलवनानामिव सूर्योदयं प्रतिपालयतां कुतूहलेन कथमपि सा क्षपा क्षयमगच्छत् । अथ यामिन्यास्तुर्ये यामे प्रतिबुद्धः स एव बन्दी श्लोकद्वयम- गायत्- 'पश्चादङ्गिं प्रसार्य विकनतिविततं द्रापयित्वाङ्गमुच्चै- रासज्याभुग्नकण्ठो मुखमुरसि सटा धूलिधूम्रा विधूय । घासग्रासाभिलाषादनवरतचलत्योथतुन्दस्तुरङ्गो मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण।।५।। कुर्वन्नामुग्नपृष्ठो मुखनिकटकटिः कंघरामातिरश्ची नम् । विहारो वह्निसंधुक्षणमग्निहोत्रार्थम् । पूलिको वरण्डः, परिमाणभेदः । तनून- पाद्वह्निः । विष्टरमासनम् । तालध्वनिरङ्कुलिजः शब्दः । अन्तेवासिनः शिष्याः। श्रोत्रियो वेदोपाध्यायः । तदनुमतेन संध्यां स संधारयति । वदनव्यग्रलाद्गलतो विस्मरतो ग्रन्थदण्डका ऋग्गणा उद्गिरति यस्तस्मिन् । वठरा मूर्खाः । विटा भुजङ्गप्रायाः । बटवो बालाश्च । गृहश्रोत्रियैालाः संध्यावन्दनाय प्रवर्त्यन्ते निर्विवेकत्वात्। तुर्यश्चतुर्थः । त्रिकं पृष्ठकटीसंधिः । द्राघथिला दीर्घतरीकृला । आभुमो नमितः कण्ठो यस्य तत् । मुखमुरस्यासज्यं कृला। धूम्रा धूसराः। प्रतानस्यो- परि प्रोथः प्रतानमुत्तरोष्ठमध्यम् । 'वास्ये वदनं तुण्डमाननं लपनं मुखम् ।
हर्षचरिते लोलेनाहन्यमानं तुहिनकणमुचा चञ्चता केसरेण । निद्राकण्डूकषायं कषति निबिडितश्रोबशुक्तिस्तुरङ्ग- स्त्वङ्गत्पक्ष्मायलग्नप्रतनुबुसकणं कोणमक्ष्णः खुरेण ॥ ६॥ बाणस्तु तच्छ्रुत्वा समुत्सृज्य निद्रामुत्थाय प्रक्षाल्य वदनमुपास्य भगवती संध्यामुदिते भगवति सवितरि गृहीतताम्बूलस्तवैवाति- ष्ठत् । अत्रान्तरे सर्वेऽस्य ज्ञातयः समाजग्मुः, परिवार्य चासां- चक्रुः । असावपि पूर्वोद्घातेन विदिताभिप्रायस्तेषां पुरो हर्षचरितं कथयितुमारेभे- श्रूयताम्-अस्ति पुण्यकृतामधिवासो वासवावास इव वसु- धामवतीर्णः, सततमसंकीर्णवर्णव्यवहारस्थितिः कृतयुगव्यवस्थः, स्थलकमलबहलतया पोत्रोन्मूल्यमानमृणालैरुद्गीतमेदिनीसारगुणै- रिव कृतमधुकरकोलाहलैहलैरुल्लिख्यमानक्षेत्रः, क्षीरोदपयःपायिप- योदसिक्ताभिरिव पुण्ड्रेलुवाटसंततिभिर्निरन्तरः, प्रतिदिशमपूर्व- पर्वतकैरिव खलधानधामभिर्विभज्यमानैः सस्यकूटैः संकटसी- मान्तः, समन्तादुद्धातघटीसिच्यमानै रकजूटैटिलितभूमि:, उर्वरावरीयोभिः शालीयैरलंकृतः, पाकविशरारुराजमाषनिकरकि- मर्मीरितैश्च स्फुटितमुद्गफलकोशीकपिशितैर्गोधूमधामभिः स्थलीपृष्टैर- धिष्ठितः, महिषपृष्टप्रतिष्ठितगायद्गोपालपालितैश्च कीटपटललम्पट- चटकानुसृतैरवटुघटितघण्टाघटीरटितरमणीयैरटद्भिरटवी हरवृ- षभपीतमामयाशङ्कया बहुविभक्तं क्षीरोदमिव क्षीरं क्षरद्भिर्बाष्प- - तुहिनमवश्यायः । केसराणि ललाटतटस्थाः केशाः, अश्वकृकाटिकालम्बनः केश- पाशो वा । कषायमापिङ्गलम् । वनदुच्चम् । कोणं प्रान्तम् । उद्घातः कथाप्रस्तावः। अस्तीत्यादौ श्रीकण्ठनामा जनपदोऽस्तीति संबन्धः । पुण्यकृतो देवा अपि । अधिवासो वसतिः । वासवावासः स्वर्गः । पोत्रं हलमुखम् । सारा उत्कृष्टाः । अतिमाधुर्यात्क्षीरोदेत्याद्युत्प्रेक्षा । निरन्तरो निर्विवरः । तदैव कल्पितलादपूर्वखम्। खलघानधामभिः खलपालैः । उद्घातोऽरघट्टः । जीरकोऽजाजी। जूटः समूहः । उर्वरा सर्वसस्याझ्या भूः । वरीयोभिरुरुतरैः । शालीयैः शालीक्षेत्रैः । युगपत्पा- कसंभवाद्विशरारुत्वम् । किर्मीरैः शबलैः । कोशी शिम्बिका । गोधनस्य क्षतपृष्ठ- खाकीटसंभवः । अवटुर्गीवा । घण्टैव घटी । आमयोऽजीर्णम् । हरवृषभेन पीतं संतमजीणे संभावनया बहुधा विभक्तम् । बाष्पच्छेद्येति सौकुमार्यकथनपरम् । । - ।
तृतीय उच्छ्वासः। ९५ च्छेद्यतृणतृप्तर्गोधनैर्धवलितविपिन:, विविधमखहोमधूमान्धशतम- न्युमुक्तैर्लोचनैरिव सहस्रसंख्यैः कृष्णशारैः शारीकृतोद्देशः, धव- लधूलीमुचां केतकीवनानां रजोभिः पाण्डुरीकृतैः प्रमथोद्भूलनधू- सरैः शिवपुरस्येव प्रवेशैः प्रदेशैरुपशोभितः, शाककन्दलश्याम- लितग्रामोपकण्ठकाश्यपीपृष्ठः, पदे पदे करभपालीभिः पीलुपल्लव- प्रस्फोटितैः करपुटपीडितमातुलुङ्गीदलरसोपलिप्तैः स्वेच्छाविचितकु- कुमकेसरकृतपुष्पप्रकरैः प्रत्यग्रफलरसपानसुखसुप्तपथिकैर्वनदेवता- दीयमानामृतरसप्रपागृहैरिव द्राक्षामण्डपैः स्फुरत्फलानां च बीजल- नशुकचञ्चुरागाणामिव समारूढकपिकुलकपोलसंदिह्यमानकुसु- मानां दाडिमीनां वनैर्विलोभनीयोपनिर्गमः, वनपालपीयमानना- रिकेलरसासवैश्च पथिकलोकलुप्यमानपिण्डखजूरैर्गोलाङ्गूललिह्य- मानमधुरामोदपिण्डीरसैश्चकोरचञ्चुजर्जरितारुकैरुपवनैरभिरामः, तुङ्गार्जुनपालीपरिवृतैश्च गोकुलावतारकलुषितकूलकीलालैरध्वग- शतशरण्यैररण्यधराबन्धैरवन्ध्यवनरन्ध्रः, करभीयकुमारकपाल्य- मानेरौष्ट्रकैरौरभ्रकैश्च कृतसंबाधः, दिशि दिशि रविरथतुरगवि- लोभनायेव विलोठनमृदितकुङ्कुमस्थलीरससमालब्धानामुत्प्रोथपु- टैरुन्मुखैरुदरशायिकिशोरकजवजननाय प्रभञ्जनमिव चापिब- न्तीनां वातहरिणीनामिव स्वच्छन्दचारिणीनां वडवानां वृन्दैवि- चरद्भिराचितः, अनवरतक्रतुधूमान्धकारप्रवृत्तहसयूथैरिव बाणैर्ध- वलितभुवनः, संगीतगतमुरजरवमत्तैर्मयूरैरिव विभवैर्मुखरितजी- वलोकः, शशिकरावदातवृत्तैर्मुक्ताफलैरिव गुणिभिः प्रसाधितः, पथिकशतविलुप्यमानस्फीतफलैर्महातरुभिरिव सर्वातिथिभिरभि- विपिनं गहनम् । मुक्तैः पतितैः । लोचनान्यपि कृष्णशाराणि सहस्रसंख्यानि च । कृष्णशारा मृगभेदाश्च । प्रमथा गणाः । प्रवेशैर्मागैः । काश्यपी भूः । करभपा- लीभिः । इत्थंभूतलक्षणे तृतीया । करभो बालोष्ट्रः । पीलुव॒क्षभेदः । प्रस्फोटितै- नीराजनीकृतैः । प्रपा पानीयशालिका । उपनिर्गमनानि निर्गमनमार्गाः । उद्या- नानीति केचित् । अर्जुनाः ककुभवृक्षाः । कीलालं तोयम् । धराबन्धास्तडाकानि । करभेभ्यो हिताः करभीयाः । औष्ट्रकैरुष्ट्रसमूहैः । कृतसंबाध आवृतः। किशोरका वत्साः । प्रभञ्जनं वातम् । वडवा अश्वाः । धूमान्धकारप्रवृत्तैर्बाणैर्वर्धितभुवन इति विरोधच्छाया । हंसानामप्यन्धकारप्रवृत्तत्वं तमसि प्रचारात् । वृत्तैराविर्भूतैः । हंसपक्षे-पलायितैः । वृत्तं चरितम्, परिवर्तुलं च । गुणिभिः शौर्यादिगुणयुक्तैः, । - । - हर्षचरिते गमनीयः, मृगमदपरिमलवाहिमृगरोमाच्छादितैर्हिमवत्पादैरिव म- हत्तरैः स्थिरीकृतः, प्रोदण्डसहस्रपत्रोपविष्टद्विजोत्तमैारायणना- भिमण्डलैरिव तोयाशयैर्मण्डितः, मथितपयःप्रवाहप्रक्षालितक्षि- तिभिः क्षीरोदमथनारम्भैरिव महाघोषैः पूरिताश: पूरिताशः श्रीकण्ठो नाम जनपदः । यत्र तेताग्निधूमाश्रुपातजक्षालिता इवाक्षीयन्त कुदृष्टयः । पच्यमानचयनेष्टकादहनदग्धानीव नादृश्यन्त दुरितानि । छिद्य- मानयूपदारुपरशुपाटित इव व्यदीर्यताधर्मः । मखशिखिधूमजल- धरधाराधौत इव ननाश वर्णसंकरः। दीयमानानेकगोसहस्रशृङ्ग- खण्ड्यमान इवापलायत कलिः । सुरालयशिलाघट्टनटङ्कनिकरनि- कृत्ता इव व्यदीर्यन्त विपदः । महादानविधानकलकलाभिद्रुता इव प्राद्रवन्नुपद्रवाः । दीप्यमानसत्रमहानससहस्रसंतापिता इव व्यलीयन्त व्याधयः । वृषविवाहप्रहतपुण्यपटहपटुरवलासिता इव नोपासर्पन्नपमृत्यवः । संततब्रह्मघोषबधिरीकृता इवापजग्मुरीतयः । धर्माधिकारपरिभूतमिव न प्राभवहुर्दैवम् । । । ससूत्रैश्च । फलमैश्वर्यमपि । अभिगमनीयः सेव्यः । मृगमदः कस्तूरिका । मृग- रोमशब्देन तत्कृतवस्त्रमुच्यते । यस्य राङ्कवमिति संज्ञा । तथा च-रावं मृगरोमजम् । अन्यत्र मृगाणां रोमाणि। पादाः प्रत्यन्तपर्वताः । महत्तरैर्वृद्धैः विपुलैश्च । सहस्रपत्राणि पद्मानि । द्विजोत्तमाः पक्षिश्रेष्ठाः, ब्राह्मणाश्च द्विजो- त्तमाः । मथितं तक्रम्, विलोडितं च । पयः क्षीरम् । उभयत्रापि मथनमन्था- क्षीरोदस्य । घोषो गोष्ठः, शब्दश्च । आशा आशंसा, दिशश्च । 'दक्षिणाग्निर्हपत्याहवनीयास्त्रयोऽग्नयः । अग्नित्रयमिदं त्रेता' इत्यमरसिंहः । अनेकार्थवर्गेऽपि त्रेताग्नित्रितये युगे' । त्रेताग्निरूपोऽग्निरित्यग्निप्रकर्षार्थ त्रेता- पदम् । अन्यथा तादृशस्याग्नेग्रहणं प्रसज्येत । कुत्सानि लोकायतादीनां वेदवि- रुद्धानि दर्शनादीनि । कुत्सिताश्च दृष्टयः कुदृष्टयः । यत्र त्रेतामयो हूयन्ते तत्र क्षालिता आविर्भावादृष्टिर्निर्मला भवति । चयनं चित्याविशिष्टाग्निस्थानम् । घन- धाराधौतो ह्यवश्यं संकीर्णवर्णो नीलादिर्नश्यति । वर्णाश्च विप्राद्याः । टङ्कः पाषाण- दारणः । सत्रं सदादानम् । महानसं पाकस्थानम् । वृषविवाहो नीलवृषोत्सर्गः । यत्र चतसृभिर्गोभिः सह दान्तोऽरण्ये खैरविहाराय परित्यज्यते । ब्रह्मघोषो वेदध्वनिः । 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेत ईतयः स्मृताः ॥ इति ।
तृतीय उच्छ्वासः। तव चैवंविधे नानारामाभिरामकुसुमगन्धपरिमलसुभगो यौव- नारम्भ इव भुवनस्य, कुङ्कुममलनपिञ्जरितबहुमहिषीसहस्रशोभि- तोऽन्त:पुरनिवेश इव धर्मस्य, मरुदुद्भूयमानचमरीबालव्यजनधव- लितप्रान्त एकदेश इव सुरराज्यस्य, ज्वलन्मखशिखिसहस्रदी- प्यमानदशदिगन्तः शिबिरसंनिवेश इव कृतयुगस्य, पद्मासनस्थि- तब्रह्मर्षिध्यानाधीयमानसकलाकुशलप्रशमः प्रथमोऽवतार इव ब्रह्म- लोकस्य, कलकलमुखरमहावाहिनीशतसंकुलो विपक्ष इवोत्तरकुरू- णाम्, ईश्वरमार्गणसंतापानभिज्ञसकलजनो विजिगीषुरिव त्रिपु- रस्य, सुधारससिक्तधवलगृहपतिपाण्डुरः प्रतिनिधिरिव चन्द्रलो- कस्य, मधुमत्तमत्तकाशिनीभूषणरवभरितभुवनो नामाभिहार इव कुबेरनगरस्य, स्थाण्वीश्वराख्यो जनपदविशेषः । यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीत- शालेति लासकैः; यमनगरमिति शत्रुभिः, चिन्तामणिभूमिरित्य- थिभिः, वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थि- भिः, गन्धर्वनगरमिति गायनैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वैदेहकैः, द्यूतस्थानमिति बन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वातिकैः, शाक्या- तत्र चेत्यादौ स्थाण्वीश्वराख्यो जनपदविशेष इति संबन्धः । आरामा उपव- नानि, रामाश्च भार्याः । गन्धस्य परिमलस्याभोगोऽनुभवः, संस्कारः । मलनं निवर्तनम्, समालम्भनं च । महिषी मुख्या जायापि । मरुतो वाताः, देवाश्च । शिबिरसंनिवेशः कटकबन्धः । कृतं प्रतिसमा हितं युगं द्वयं स्वपक्षपरपक्षरूपं येन स राजोच्यते । कृतं युगं वाद्यो युगभेदः । पद्मासनमासनभेदः, पद्ममेवासनं च। ब्रह्मर्षय उत्तमद्विजाः । ब्रह्मा चासावृषिश्च । यद्वा पद्मासनस्थितो ब्रह्मा च ऋष- यश्चेति द्वन्द्वः । वाहिन्यो नद्यः, सेना च । विपक्षो बलम् । मेरुसमीपवासिनो जना उत्तरकुरवः । ईश्वरमार्गणो राजदण्डसाधनयाच्ञा, हरशरश्वेश्वरमार्गणः । संतापानभिज्ञेति । ईश्वरशरेण हि सस्त्रीकं त्रिपुरं दग्धम् । योधजनास्ते हि युद्धे देवैर्हता इत्याहुः । जेतात्र विजिगीषुः । 'मुधा मक्कोलामृतयोः' । मत्तका- शिनी मुख्या स्त्री, यक्षिणी च । नामाभिहारः पर्यायान्तरम् । लासकैनटैः । वैदेहकैर्वणिग्भिः । द्यूतस्थानमिति साधुभागो दीयते तत्र । बन्दिभ्योऽभिवाञ्छितसंपत्तेः सुकृतपरिणामता। वातिकैर्विवरव्यसनिभिराचार्यैः । शाक्यो बौद्धः । चारणैः कुशीलवैः । वसुधारा धनप्रवाहः । ।
९८ हर्षचरिते श्रम इति शमिभिः, अप्सर:पुरमिति कामिभिः, महोत्सवस- माज इति चारणैः, वसुधारेति विप्रैरगृह्यत । यत्र च मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्या- मा: पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदिश्वसनाच, चन्द्रकान्तवपुषः शिरीषकोमलाङ्ग्यश्च, अभुजङ्गगम्याः कञ्चुकिन्य- श्व, पृथुकलवश्रियो दरिद्रमध्यकलिताश्च, लावण्यवत्यो मधुरभाषि- ण्यश्च, अप्रमत्ता: प्रसन्नोज्वलरागाश्च, अकौतुका: प्रौढाश्च प्रमदाः। यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारः कुव- लयदलदामानि। अलकप्रतिबिम्बान्येव कपोलतलगतान्यक्लिष्टाः श्र- वणावतंसाः पुनरुक्तानि तमालकिसलयानि । प्रियकथा एव सुभ- गाः कर्णालंकारा आडम्बरः कुण्डलादिः । कपोला एव सततमा- लोककारका विभवो निशासु मणिप्रदीपाः । निःश्वासाकृष्टमधुकर- कुलान्येव रमणीयं मुखावरणं कुलस्त्रीजनाचारो जालिका । वा- ण्येव मधुरा वीणा बाह्यविज्ञानं तन्वीताडनम् । हासा एवाति- । मातङ्गेसादयो विरोधाः । मातङ्गो हस्ती, चण्डालश्च । याः प्रमदाश्चण्डाला- नपि गच्छन्ति ताः कथं शीलवत्य इति विरोधः सर्वत्र ज्ञेयः । गौर्यो गौराक्यः । विभव ऐश्वर्ये रक्ताः । यत्र विगतो भवस्तत्र कथं गौरी रतेति । विगतं भवे रतं यस्या वा। श्यामाः श्यामलाइयः। पद्मरागिण्यो लोहितमणिभूषणाः । श्यामा रात्रयः कथं पद्मरागिण्यः । रात्रौ पद्मानां संकोचात् । द्विजैर्दन्तैः । शुचिवदना मदिरावन्मदिरया वा । आमोदी श्वसनो मुखमारुतो यासां धवलद्विजवच्छुद्ध- ब्राह्मणवच्छुचि वदनं ताः कथं मदिरामोदिश्वसनाः । चन्द्रवत्कान्तं वपुर्यासाम् शिरीषपुष्पवत्सुकुमाराग्यश्चन्द्रकान्तस्य वपुर्यासां ताः कथं शिरीषकोमलाङ्ग्यः । भुजङ्गा विटाः । कञ्चुकं स्त्रीणां वासः, वारबाणाख्यः । याश्च कञ्चुकिन्यः सर्पि- ग्यस्ताः कथं भुजङ्गैर्न गम्याः । कलत्रं जघनम् । दरिद्रं क्षामं मध्यमुदरं यासाम् । कलत्रस्य परिवारस्य पृथ्वीः श्रीस्ताः । कथं दरिद्राणां निर्धनानां मध्ये कलिताः संख्याता भवन्ति । लावण्यं सौन्दर्यम् । मधुरं हृद्यम् । लावण्यरसवतीनां मधुर- भाषितं विभाव्यते । अप्रमत्ताः प्रमादशून्याः । प्रसन्नो मनोहरः । उज्जवलो मनो- हारी । प्रसन्ना च सुरा तयोज्वलो मुखरागो यासां ताः । कथमप्रमत्ता अक्षीबा अकौतुका अकरकङ्कणाः । विवाहितानां हि करकङ्कणोऽवबध्यते । 'रुद्राक्षदर्पसि- द्धार्थशिखिपक्षोरगत्वचः । कङ्कणौषधयश्चेति कौतुकाख्याः प्रकीर्तिताः॥' 'मुण्डमालारूपं मण्डनं मुण्डमालामण्डनम् । सहजमकृत्रिमम् । अनेककुवलय- दलदामाभ्यासोत्कर्षः, न तु कुवलयदलदामसंभवेऽपि प्रतिनिधिरूपतापादनम् । ।
तृतीय उच्चासः। - शयसुरभयः पटवासा निरर्थकाः कर्पूरपांसवः । अधरकान्तिवि- सर एवोज्ज्वलतरोऽङ्गरागो निर्गुणो लावण्यकलङ्कः कुकुमपङ्कः । बाहव एव कोमलतमाः परिहासप्रहारवेत्रलता निष्प्रयोजनानि मृ- णालानि । यौवनोष्मस्वेदबिन्दव एव विदग्धाः कुचालंकृतयो हा- रास्तु भाराः । श्रोण्य एव विशालस्फाटिकशिलातलचतुरस्रा रा- गिणां विश्रमकारणमनिमित्तं भवनमणिवेदिकाः। कमललोभनि- लीनान्यलिकुलान्येव मुखराणि पदाभरणकानि निष्फलानीन्द्रनी- लनूपुराणि । नूपुररवाहूता भवनकलहंसा एव समुचिताः संचर- णसहाया ऐश्वर्यप्रपञ्चाः परिजनाः । तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः, मेरुमय इव कल्याणप्रकृतित्वे, मन्दरमय इव लक्ष्मीसमाकर्षणे, जलनिधि- मय इव मर्यादायाम् , आकाशमय इव शब्दप्रादुर्भावे, शशिमय इव कलासंग्रहे, वेदमय इवाकृत्रिमालापत्वे, धरणिमय इव लोक- धृतिकरणे, पवनमय इव सर्वपार्थिवरजोविकारहरणे, गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुयात्रस्तेजसि, सुमत्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, निषधो व- । । . भार इत्यनेनैष एवार्थः प्रकटितः । एवम क्लिष्टा इत्यादौ बोद्धव्यम् । आडम्बरः स्फुटः । जालिका शिरोवस्त्रभेदः । चतुरस्रा रम्याः। विश्रमकारणमिति गुरुवात् । तत्र चेत्यादौ तत्र पुष्पभूतिर्नाम राजासीदिति संबन्धः । वर्णा विप्राद्याः, शुक्लाद्याश्च । कल्याण श्रेयः, सुवर्ण च । मन्दरेण श्रीराकृष्टामृतमन्थने, पुष्पभू- तिना भैरवाचार्यवेतालसाधने । मर्यादाचारः, सीमा च । शब्दो यशोऽपि प्रादुर्भावः प्रकाशता । कला गीताद्या, लेखाश्च । अकृत्रिमः सत्ययुक्तः, अपौ- रुषेयश्च । धृतिधैर्यम् , धारणं च । पार्थवो राजा, पृथिवीसंबन्धी च । रजोवि- कारा रागाद्याः, रेणुकार्याणि । गुर्वित्यादिना वक्रोक्त्याङ्गानां गुर्वादिमयलं सूच- यति । गुरुरुपदेष्टा, गुरुर्महान् । गभीरशब्दत्वाद्वृहस्पतिश्च । पृथुर्विपुलः, आदि- राजश्च कश्चित् । विशालो विस्तीर्णः, विशालाद्याश्च नृपा अभवन् । अथ विशालो नाम बोधिसत्त्वः स एव शान्तः शान्तमना इत्यपि प्रतीतिरस्ति । जनको जन- यिता, जनक इव तपखी च । सुयात्र इति । शोभना यात्रा यस्य सोऽपि । कर्तव्यावधारणं मन्त्रः स शोभनो यस्येति च । बुधः पण्डितः, ग्रहश्च । अर्जुनः शुक्रोऽपि । भीष्मो भयानकः, गाङ्गेयश्च । निषेधो धर्षणीयः, कठिनो वा, नलस्य हर्षचरिते पुषि, शत्रुघ्नः समरे, शूरः शूरसेनाक्रमणे, दक्षः प्रजाकर्मणि, स- ादिराजतेजःपुञ्जनिर्मित इव राजा पुष्पभूतिरिति नाना बभूव । पृथुना गौरियं कृतेति यः स्पर्धमान इव महीं महिषीं चकार । निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति हि महतां मतिः । यत- स्तस्य केनचिदनुपदिष्टा सहजैव शैशवादारभ्यान्यदेवताविमुखी भगवति, भक्तिसुलभे, भुवनभृति, भूतभावने, भवच्छिदि, भवे यसी भक्तिरभूत् । अकृतवृषभध्वजपूजाविधिर्न स्वप्नेऽप्याहारमक- रोत् । अजम् , अजरम् , अमरगुरुम् , असुरपुररिपुम्,अपरिमितगण- पतिम् , अचलदुहितृपतिम् , अखिलभुवनकृतचरणनतिम् , पशुपति प्रपन्नोऽन्यदेवताशून्यममन्यत त्रैलोक्यम् । भर्तृचित्तानुवर्तिन्यश्चा- नुजीविनां प्रकृतयः । तथा हि । गृहे गृहे भगवानपूज्यत खण्डपर- शुः । ववुरस्य होमालवालविलीयमानबहलगुग्गुलुगन्धगीः स्नप- नक्षीरशीकरक्षोदक्षारिणो बिल्वपल्लवदामदलोद्वाहिनः पुण्यविषयेषु वायवः । शिवसपर्यासमुचितैरुपायनैः प्राभृतैश्च पौराः पादोपजी- विनः सचिवा भुजबलनिर्जिताश्च करदीकृता महासामन्तास्तं सि- षेविरे । तथा हि । कैलासकूटधवलैः कनकपत्रलतालंकृतविषाण- कोटिभिर्महाप्रमाणैः संध्याबलिवृषैः सौवर्णैश्च स्नपनकलशैरर्घभा- जनैश्च धूपपात्रैश्च पुष्पपट्टैश्च मणियष्टीप्रदीपैश्च ब्रह्मसूत्रैश्च महा- हमाणिक्यखण्डखचितैश्च मुखकोषैः परितोषमस्य मनसि चक्रुः । अन्तःपुराण्यपि स्वयमारब्धबालेयतण्डुलकण्डनानि देवगृहोपलेपन- लोहिततरकरकिसलयानि कुसुमग्रथनव्यग्रसमस्तपरिजनानि तस्या- भिलषितमन्ववर्तन्त । तथा च । परममाहेश्वरः स भूपालो लोकत: च पिता, गिरिभेदो वा । शूरो विक्रान्तः, यदूनां राजा च । दक्षश्चतुरः, प्रजापतिश्च । महिषीं महादेवीमपि । निसर्गः खभावः। खैरिणी खवशा। खण्डपरशुः शिवः। वधुरवहन् । होमालवालमग्निकुण्डम् । सपर्या पूजा । उपायनं ढौकनिका खय- मानीयते । प्राभृतं कौशलिका सखिभिः प्रहीयतें । करदीकृता दण्डजाः कृताः । कूटं शृङ्गम् । यत्र वस्त्रेषु पुष्पाणि सूत्रैः क्रियते स पुष्पपट्टः । ज्वलन्मणिशिखरा स्वर्णयष्टिर्यष्टिप्रदीपा । ब्रह्मसूत्रैर्यज्ञोपवीतैः । मुखयुक्ताः कोषा मुखकोषाः । ये लिङ्गोपरि दीयन्ते । बलये हिता बालेयाः। 'छदिरुपधिबलेर्ड' । प्रथनशब्दश्चि- नत्यः । अन्धनमिति भाव्यम् । अभिलषितमन्ववर्तन्तेत्यनेन चित्तानुवृत्तिः । ।
तृतीय उच्छवासः। - - शुश्राव भुवि भगवन्तमपरमिव साक्षादक्षमखमथनं दाक्षिणात्यं बहुविधविद्याप्रभावप्रख्यातैर्गुणैः शिध्यैरिवानेकसहस्रसंख्यैयाप्तम- यलोकं भैरवाचार्यनामानं महाशैवम् । उपनयन्ति हि हृदयमह- ष्टमपि जन शीलसंवादाः । यतः स राजा श्रवणसमकालमेव त- स्मिन्भैरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगतेऽपि गरी- यसी बबन्ध भक्तिम् । आचकाङ्क च मनोरथैरप्यस्य सर्वथा दर्शनम् । अथ कदाचित्पर्यस्तेऽस्ताचलचुम्बिनि वासरेऽन्तःपुरवर्तिनं रा- जानमुपसृत्य प्रतीहारी विज्ञापितवती-'देव, द्वारि परिव्राडास्ते कथयति च भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मि' इति । राजा तु तच्छ्रुत्वा सादरम्-'क्कासौ। आनयावैव । प्रवेशयैनम्' इति चाब्र- वीत् । तथा चाकरोत्प्रतीहारी । न चिराच्च प्रविशन्तं प्रांशुमाजा- नुभुजम् , भैक्षक्षाममपि स्थूलास्थिभिरवयवैः पीवरमिवोपलक्ष्यमा- णम् , पृथूत्तमाङ्गमुत्तुङ्गबलिमङ्गस्थपुटललाटम्, निर्मासगण्डकूपकम् , मधुबिन्दुपिङ्गलपरिमण्डलाक्षम् , ईषदावक्रघोणम् , अतिप्रलम्बैक- कर्णपाशम् , अलाबुबीजविकटोन्नतदन्तपतिम् , तुरगानूकश्लथा- धरलेखम् , लम्बचिबुकायततरलपनम् , अंसावलम्बिना काषा- येण योगपट्टकेन विरचितवैकक्षकम् , हृदयमध्यनिबद्धग्रन्थिना च रागेणेव खण्डशः कृतेन धातुरसारुणेन कर्पटेन कृतोत्तरासङ्गम्। पुनरुक्तबालप्रग्रहवेष्टननिश्चलमूलेन बद्धमृत्परिशोधनवंशत्वक्तित- उना कौपीनसनाथशिखरेण खजूरपुटसमुद्गकगीकृतभिक्षाकपाल- केन दारकफलकत्रयत्रिकोणलियष्टिनिविष्टकमण्डलुना बहिरुपपा- शुद्धान्तानां वर्णिता । भुवीति । भूस्थत्वेऽप्यसुलभत्वदर्शनमस्योक्तम् । शीलसं- वादाश्चारित्रसादृश्यानि । कपर्दिनि शिवे । न चिराच्चेत्यादौ मस्करिणमद्राक्षीदिति संबन्धः। प्रांशु दीर्घम् । जानुरूरु- पर्व । उक्तं च-'जङ्घा तु प्रसृता जानूरुपष्टिीवदन्त्रियाम् । पीवरं स्थूलम् । स्थपुटं निम्नोन्नतम् । ललाटमलिकम्, गोधिः। गण्डकूपोऽक्ष्णोरघोदेशः । घोणा नासिका। अलाबुस्तुम्बी । उक्तं च-'तुम्ब्यलाबू उभे समे' । तुरगानामधस्ता- दोष्ठोऽनूकः । 'अधोऽधरस्य चिबुकम्' । लपनं मुखम् । उत्तरासङ्गमुपरिप्रावर णम् । पुनरुक्तं पौनःपुन्येन कृतम् । प्रग्रहो रज्जुः । तितउश्चालनी । परिपवन- शब्दवाच्यः । कौपीनं गुह्यदेश उपचारातू , तदाच्छादनं च । खजूराख्यस्य वृक्षस्य च संबन्धिभिः पुटैः क्लिष्टः, पत्रैश्च । समुद्कः कपालभङ्गः । भिक्षायै क्रियते दारवे १०२ हर्षचरिते । दितपादुकावस्थानेन स्थूलदशासूत्रनियत्रितपुस्तिकापूलिकेन वा- मकरधृतेन योगभारकेणाध्यासितस्कन्धम् , इतरकरगृहीतवेवा- सनं मस्करिणमद्राक्षीत् । क्षितिपतिरप्युपगतमुचितेन चैनमाद- रेणान्वग्रहीत् । आसीनं च पप्रच्छ—'क्क भैरवाचार्यः' इति । सा- दरनरपतिवचनमुदितमनास्तु परिव्राट् तमुपनगरं सरस्वतीतटव- नावलम्बिनि शून्यायतने स्थितमाचचक्षे । भूयश्चाबभाषे-'अ- चयति हि महाभागं भगवानाशीर्वचसा' इत्युक्त्वा चोपनिन्ये योगभारकादाकृष्य भैरवाचार्यप्रहितानि रत्नवन्ति बहलालोक- लिप्तान्तःपुराणि पञ्च राजतानि पुण्डरीकाणि । नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानो ग्रहणलाघवं च लवयितुमसमर्थों दोलायमानेन मनसा स्थित्वा कथं कथमप्यतिसौजन्यनिघ्नस्तानि जग्राह । जगाद च-'सर्वफ- लप्रसवहेतुः शिवभक्तिरियं नो मनोरथदुर्लभानि फलति फलानि । येनैवमस्मासु प्रीयते भगवान्भुवनगुरुभैरवाचार्यः । श्वो द्रष्टास्मि भगवन्तम्' इत्युक्त्वा च मस्करिणं व्यसर्जयत् । अनया च वार्तया परां मुदमवाप । अपरेद्युश्च प्रातरेवोत्थाय वाजिनमधिरुह्य समुच्छ्रितश्वेतात- पतः समुद्भूयमानधवलचामरयुगलः कतिपयैरेव राजपुतैः परि- वृतो भैरवाचार्य सवितारमिव शशी द्रष्टुं प्रतस्थे । गत्वा च किं- चिदन्तरं तदीयमेवाभिमुखमापतन्तमन्यतमं शिष्यमद्राक्षीत् । अ- प्राक्षीच-'क भगवानास्ते' इति । सोऽकथयत्-'अस्य जीर्ण- मातृगृहस्योत्तरेण बिल्ववाटिकामध्यास्ते' इति । गत्वा च तं प्रदे- शमवततार । प्रविवेश च बिल्ववाटिकाम् । अथ महतः कार्पटिकवृन्दस्य मध्ये प्रातरेव स्नातम् , दत्ताष्ट- काष्ठसंबन्धिनि फलकत्रये त्रयः कोणास्तेषु यास्तिस्रो यष्टयस्तासु निविष्टः कम- ण्डलुयंत्र तेन । योगभारकेण मात्राभारिकया । मस्करिणं परिव्राजकम् । राज- तानि रौप्यानि । लवयितुमुत्सोढुम् । निन्नः खवशः। । अन्यतममपरम् । उत्तरेणोत्तरस्यां दिशि । अथेत्यादौ भैरवाचार्य ददशेति संबन्धः । कार्पटिका व्रतिनः। अष्टपुष्पिका - तृतीय उच्छ्रासः । १०३ , पुष्पिकम् , अनुष्ठिताग्निकार्यम् , कृतमस्मरेखापरिहारपरिकरे हरि- तगोमयोपलिप्तक्षितितलवितते व्याघ्रचर्मण्युपविष्टम् , कृष्णकम्बल- प्रावरणनिभेनासुरविवरप्रवेशाशङ्कया पातालान्धकारावासमिवा- भ्यस्यन्तम् , उन्मिषता विद्युत्कपिलेनात्मतेजसा महामांसविक्रय- क्रीतेन मन:शिलापकेनेव शिष्यलोकं लिम्पन्तम् , जटीकृतैकदेश- लम्बमानरुद्राक्षशगुटिकेनोवंबद्धेन शिखापाशेन बध्नन्तमिव वि- द्यावलेपदुर्विदग्धानुपरि संचरतः सिद्धान्धवलकतिपयशिरोरुहेण व- यसा पञ्चपञ्चाशतं वर्षाण्यतिक्रामन्तम्, खालित्यक्षीयमाणशङ्खलोम- लेखम् , लोमशकर्णशष्कुलीप्रदेशं पृथुललाटतटम् , तिरश्च्या भस्म- ललाटिकया बहुशः शिरोर्धधृतदग्धगुग्गुलुसंतापस्फुटितकपाला- स्थिपाण्डुरराजिशङ्कामिव जनयन्तम् , सहजललाटवलिभङ्गसंको- चितकूर्चभागां बभ्रूभासं भ्रूसंगत्या निरन्तरामायामिनीमेकामिव भ्रूलेखां बिभ्राणम् , ईषत्काचकाचरकनीनिकेन रक्तापाङ्गनिर्गतांशु- प्रतानेन मध्यधवलभासेन्द्रायुधेनेवातिदीर्पण लोचनयुगलेन परितो महामण्डलमिवानेकवर्णरागमालिखन्तम् , सितपीतलोहितपताका- वलीशबलम् , शिवबलिमिव दिक्षु विक्षिपन्तम् , ता_तुण्डकोटि- कुब्जाग्रघोणम् , दूरविदीर्णमृक्कसंक्षिप्तकपोलम् , किंचिदन्तुरतया सदाहृदयसंनिहितहरमौलिचन्द्रातपेनेव निर्गच्छता दन्तालोकेन धवलयन्तं दिशां जालकम् , जिह्वाग्रस्थितसर्वशैवसंहितातिभारेणेव मनाक्प्रलम्बितोष्ठम् , प्रलम्बश्रवणपालीप्रेखिताभ्यां स्फाटिककुण्ड- लाभ्यां शुक्रबृहस्पतिभ्यामिव सुरासुरविजयविद्यासिद्धिश्रद्धयानुब- ध्यमानम् , बद्धविविधौषधिमन्त्रसूत्रपङ्गिना सलोहवलयेनैकप्रको- ठेन शङ्खखण्डं पूष्णो दन्तमिव भगवता भवेन भग्नं भक्त्या भूष- । प्रागुक्ता । परिहारोऽत्र मर्यादा शर्के ललाटास्ति । उक्तं च-'शङ्को निधौ लला- टास्नि' । गुटिका खण्डिका । उपरीत्याद्यभिप्रायेणोक्तम्-ऊर्ध्ववद (बद्ध)- नेति । प्रशस्ता शिखा शिखापाशः । अवलेपोऽहंकृतिः । खालित्यं खल्वाटता। शङ्खो ललाटास्थि । शष्कुली कुहरम् । 'कूर्चमस्त्री भ्रुवोर्मध्यम्' । काचरा पीत- वर्णा । तुण्डं मुखम् । कोटिः प्रान्तः, चञ्चवनम् । 'प्रान्तावोष्ठस्य सकिणी' । 'प्रको- ष्टमन्तरं विद्यादरनिमणिबन्धयोः' । पूष्णो रविभेदस्य पुरा दक्षयज्ञगतस्य हरं निन्दतः मय्यनागते किमर्थमागतोऽसि' इति मुष्टिप्रहारेण हरेण दन्ता भन्नाः ।
हर्षचरिते णीकृतं कलयन्तम् , अखिलरसकूपोदञ्चनघटीयन्त्रमालामिव रुद्रा- क्षमालां दक्षिणेन पाणिना भ्रमयन्तम् , उरसि दोलायमानेनापिङ्ग- लाग्रेण कूर्चकलापेन संमार्जयन्तमिवान्तर्गतं निजरजोनिकरम्, अ- तिनिबिडनीललोममण्डलविचितं च ध्यानलब्धेन ज्योतिषा दग्ध- मिव हृदयदेशं दधानम् , ईषत्प्रशिथिलवलिवलयबध्यमानतुन्दम्, उपचीयमानस्फिङमांसपिण्डकम्, पाण्डुरपवित्रक्षौमावृतकौपीनम्, सावष्टम्भपर्यङ्कबन्धमण्डलितेनामृतफेनश्वेतरुचा योगपट्टकेन वासु- किनेवाप्रतिहतानेकमन्त्रप्रभावाविर्भूतेन प्रदक्षिणीक्रियमाणम् , अरु- णतामरससुकुमारतलस्य पादयुगलस्य निर्मलै खमयूखजालकैर्जर्जर- यन्तमिव महानिधानोद्धरणरसेन रसातलम्,तोयक्षालितशुचिना धौ- तपादुकायुगलेन हंसमिथुनेनेव भागीरथीतीर्थयात्रापरिचयागतेनामु- च्यमानचरणान्तिकम्, शिखरनिखातकुब्जकालायसकण्टकेन वैण- वेन विशाखिकादण्डेन सर्वविद्यासिद्धिविघ्नविनायकापनयनाङ्कुशेनेव सततपार्श्ववर्तिना विराजमानम्, अबहुभाषिणं मन्दहासिनं सर्वो- पकारिणं कुमारब्रह्मचारिणम्, अतितपस्विनं महामनखिनं कृशको- धम् , अकृशानुरोधम्, महानगरमिवादीनप्रकृतिशोभितम्, मेरुमिव कल्पतरुपल्लवराशिसुकुमारच्छायम्, कैलासमिव पशुपतिचरणरज:- पवित्रितशिरसम्, शिवलोकमिव माहेश्वरगणानुयातम्, जलनिधि- मिवानेकननदीसहस्रप्रक्षालितशरीरम्, जाह्नवीप्रवाहमिव बहुपु- ण्यतीर्थस्थानशुचिम्, धाम धर्मस्य, तीर्थ तथ्यस्य, कोशं कुशल- स्य, पत्तनं पूततायाः, शालां शीलस्य, क्षेत्रं क्षमायाः, शालेयं शा- । तत्करस्पर्शेन पावनखात्तत्र भक्तिः । अखिलस्य रसस्य कूपादुदञ्चनाय घटीयत्र- मालापि भ्रम्यते । दोलायमानवेन संमार्जनसंभावना । कलापग्रहणं मार्जनीसा- दृश्यार्थम् । रजो रागः, रेणुश्च । विचितं व्याप्तम् । तुन्दमुदरम् । स्फिजावुभ इति प्रसिद्धे । 'स्त्रियां स्फिजौ कटीग्रोथौ' इत्यमरः । फेनवत्तैश्च श्वेता। वासुकिनेवेति । न सामान्येनेति प्रभावपरिशोधकम् जर्जरयन्तं खण्डशः कुर्वाण । तोयेत्यादि । हंसमिथुनस्यापि विशेषणम् । शिखरेत्यादिनाङ्क- शसादृश्यं विशाखिकादण्डस्योक्तम् । निखात उत्कीर्णः । कालायसं शस्त्रभेदः । विशाखिका खनित्रिका । विघ्न इव विनायको गजाननः । प्रकृतिः स्वभावः, मायादिका च । राशिवत्तेन च सुकुमाराः । गणाः समूहाः, प्रमथाश्च । नदनदीत्येकशेषो युक्तः । सहस्रेषु तैः प्रक्षालितशि(शरी)राः । तीर्थेषु यत्स्थानं । - तृतीय उच्छासः । १०५ लीनतायाः, स्थानं स्थितेः, आधारं धृतेः, आकरं करुणायाः, नि- केतनं कौतुकस्य, आरामं रामणीयकस्य, प्रासादं प्रसादस्य, आगारं गौरवस्य, समाजं सौजन्यस्य, संभवं सद्भावस्य, कालं कलेः, भ- गवन्तं साक्षादिव विरूपाक्षं भैरवाचार्य ददर्श । भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा शशिनमिव जलनिधिश्च- चाल । प्रथमतरोत्थितशिष्यलोकश्चोत्थाय प्रत्युज्जगाम समर्पित- श्रीफलोपायनश्च । ज[कर्णसमुद्गीर्यमाणगङ्गाप्रवाहहादगम्भीरया गिरा स्वस्तिशब्दमकरोत् । नरपतिरपि प्रीतिविस्तार्यमाणधवलिन्ना चक्षुषा प्रत्यर्पयन्निव बहुतराणि पुण्डरीकवनानि ललाटपट्टपर्यस्तेन चोदंशुना शिखाम- णिना महेश्वरप्रसादमिव तृतीयनयनोद्गमेन प्रकाशयन्नावर्जितकर्ण- पल्लवपलायमानमधुकरः शिवसेवासमुन्मूलिताशेषपापलवमुच्यमा- न इव दूरावनत: प्रणाममभिनवं चकार । आचार्योऽपि --'आ- गच्छ । अत्रोपविश' इति शार्दूलचर्मात्मीयमदर्शयत् । उपदर्शित- प्रश्रयस्तु राजा मत्तहंसकलगद्गदस्वरसुभगां मधुरसमयीं महानदी- मिव प्रवर्तयन्वाचं व्याजहार-भगवन् , नार्हसि मामन्यनृप- स्खलितैः खलीकर्तुम् । अशेषराजकोपेक्षिताया हतलक्ष्म्याः खल्वयं शीलापराधो द्रविणदौरात्म्यं वा यदेवमाचरति मयि गुरुः। अ- भूमिरयमुपचाराणाम् । अलमतियत्रणया । दूरस्थितोऽपि मनोर- थशिष्योऽयं जनो भवताम् । माननीयं च गुरुवन्नोल्लङ्घनमर्हति गुरोरासनम् । आसतां च भवन्त एवात्र' इति व्याहृत्य परिज- नोपनीते वाससि निषसाद । भैरवाचार्योऽपि प्रीत्यानतिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनमभजत । आसीने च सराजके परिजने शिष्यजने च समुचितमा- वसनं तेन शुचिम् । तीर्थस्नानैः कनखलाद्यवस्थितिभिश्च शुचिः । शालीनता विनीतलम् । निकेतनं गृहम् । तत्र हि सर्वस्य कौतुको जायते । शश्यपि राजा, तं च दूरादेव दृष्टा जलनिधिश्चलति । गाम्भीर्याच्च जलनि- धिरेवेत्युक्तम् । बिल्वं श्रीफलम् । गजेत्या दिना पवित्रलमाह । धवलिम्नेत्यनेन पुण्डरीकानां धवलत्वमाह । प्राभृतपुण्डरीकानां राजतखात् । आवर्जितं नमितं खरवच तेन सुभगात् । शार्दूलो व्याघ्रः । ह. १० १०६ हर्षचरिते प्राणाः । दिकं चक्रे । क्रमेण च नृपमाधुर्यहृतान्तःकरणः शशिकरनिकर- विमला दशनदीधिती: स्फुरन्तीः शिवभक्तीरिव साक्षादर्शयन्नु- वाच-'तात, अतिनम्रतैव ते कथयति गुणानां गौरवम् । सक- लसंपत्पात्रमसि । विभवानुरूपास्तु प्रतिपत्तयः । जन्मनः प्रभृत्य- दत्तदृष्टिरस्मि स्वापतेयेषु । यतः सकलदोषकलापानलेन्धनैर्धनैर- विक्रीतं क्वचिच्छरीरकमस्ति । भैक्षरक्षिताः सन्ति दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि । भगवच्छिवभट्टारक- पादसेवया समुपार्जिता क्रियत्यपि संनिहिता पुण्यकणिका । स्वी- क्रियतां यदत्तोपयोगार्हम् । प्रतनुगुणग्राह्याणि कुसुमानीव हि भवन्ति सतां मनांसि । अपि च । विद्वत्संमताः श्रूयमाणा अपि साधवः शब्दा इव सुधीरेऽपि हि मनसि यशांसि कुर्वन्ति । विवरं विशतः कुतूहलस्य फेनधवलैः स्रोतोभिरिवापह्रियमाणो गुणगणैरा- नीतोऽस्मि कल्याणिना' इति । राजा तु तं प्रत्यवादीत्-भगवन् , अनुरक्तेष्वपि शरीरा- दिषु साधूनां स्वामिन एव प्रणयिनः । युष्मदर्शनादुपार्जितमेव चापरिमितं कुशलजातम् । अनेनैवागमनेन स्पृहणीयं पदमारो- पितोऽस्मि गुरुणा।' इति विविधाभिश्च कथाभिश्चिरं स्थित्वा गृहमगात्। अन्यस्मिन्दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ। तस्मै व राजा सान्तःपुरं सपरिजनं सकोषमात्मानं निवेदितवान् । स च विहस्योवाच-'तात, क विभवः, क च वयं वनवर्धिताः। अन्तःकरणं मनः । गौरवमुत्कर्षः, भारवत्त्वं च । अदत्तदृष्टिरिति । न तु मया धनान्यलभ्यानि । खापतेयेषु धनेषु । संरक्षिता इति यदि कदाचित्क्वचि- दुपयोगं यास्यन्तीति । अनेन प्राणादिदानमेवोचितमित्युक्तम् । सकलसंपत्पात्र- स्येयतः कियती वसुसंपत्तिर्भविष्यतीत्याशङ्कथाह-प्रतन्वित्यादि । गुणा उत्कर्षाः, तन्तवश्च । कुसुमानीवेति । कुसुमसादृश्येन मनसः सौकुमार्यमप्यु- क्तम् । साधवः शिष्टाः, शब्दा इव साधवः । संस्कृता विद्वत्समताश्च । फेनवत्तैश्च धवलैर्गुणगणैः स्रोतोभिश्च । स्वामिन एव प्रणयिन इति। अनुक्तान्यपि शरीरादीनि प्रणयिनां स्वायत्तानीत्यर्थः । ।
तृतीय उच्छासः। १०७ । । धनोष्मणा म्लायत्यलं लतेव मनस्विता । खद्योतानामिवास्माक- मियमपरोपतापिनी राजते तेजस्विता । भवाहशा एव भाजनं भूतेः' इति स्थित्वा च कंचित्कालं जगाम । परिव्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्युपा- यनीचकार । एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत् । उपविश्य च पूर्ववस्थित्वा मुहूर्तमब्रवीत्-'महाभाग, भवन्तमाह भगवान्यथास्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः । तेन ब्रह्म- राक्षसहस्तादपहृतो महासिरट्टहासनामा । सोऽयं भवद्भुजयोग्यो गृह्यताम्' इत्यभिधायापहृतकर्पटावच्छादनात्परिवारादाचकर्ष श- रद्गगनमिव पिण्डतां नीतम् , कालिन्दीप्रवाहमिव स्तम्भितजलम्, नन्दकजिगीषया कृष्णकोपितं कालियमिव कृपाणतां गतम्, लो- कविनाशाय प्रकाशितधारासारम्, प्रलयकालमेघखण्डमिव नभ- स्तलात्पतितम्, दृश्यमानविकटदन्तमण्डलं हासमिव हिंसाया:, हरिबाहुदण्डमिव कृतदृढमुष्टिग्रहम्, सकलभुवनजीवितापहरण- क्षमेण कालकूटेनेव निर्मितम्, कृतान्तकोपानलतप्तेनेवायसा घटि- तम्, अतितीक्ष्णतया पवनस्पर्शेनापि रुषेव वणन्तम्, मणिसभा- कुट्टिमपतत्प्रतिबिम्बच्छद्मनात्मानमपि द्विधेव पाटयन्तम्, अरि- शिरश्छेदलग्नैः कचैरिव किरणैः करालितधारम् , मुहुर्मुहुस्तडिदु- न्मेषतरलैः प्रभाचक्रच्छुरितैर्जर्जरितातपम् , खण्डशश्छिन्दन्तमिव दिवसम् , कटाक्षमिव कालरावेः, कर्णोत्पलमिव कालस्य, ओंकार- मिव क्रौर्यस्य, अलंकारमहंकारस्य, कुलमित्रं कोपस्य, देहं दर्पस्य, खद्योताः कीटमणयः । महाभागेति प्रस्तुतानुगुणमामन्त्रणम् । परिवारादाचकर्ष कृपाणमिति संबन्धः पिण्डं शस्त्रम् । उक्तं च-'लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी' इति; स्तम्भितं धृतं रक्षितमन्तर्जलं यस्य तम् । किल कृपाणस्य वा पानीयं यन्त्रेण क्रियते । नन्दको विष्णुखड्गः। कालियो नागभेदः । धाराणामासारः, धारारूप- श्वासारः । दन्तमण्डलं दन्तचक्रवालम् , दशनसमूहश्च । मुष्टिस्त्सरः, असुरभेदश्च । अतितीक्ष्णतयेति । तैक्ष्ण्यं तानवाद्भवति । तनु च परस्परस्पर्शन कणति । तथा चातितीक्ष्णोतिदण्डप्रकृती रोषेण हुंकरोति । कचैः केशैः । करालिता व्याप्ताः। ।
१०८ हर्षचरिते सुसहायं साहसस्य, अपत्यं मृत्योः, अपत्यं मृत्योः, आगमनमागै लक्ष्म्याः, निर्ग- मनमार्ग कीर्तेः, कृपाणम् । अवनिपतिस्तु तं गृहीत्वा करेणायुधप्रीत्या प्रतिमानिभेनालिङ्ग- न्निव सुचिरं ददर्श । संदिदेश च-वक्तव्यो भगवान्परद्रव्यग्र- हणावज्ञादुर्विदग्धमपि हि मे मनो युष्मद्विषये न शक्नोति वचन- व्यतिक्रमव्यभिचारमाचरितुम्' इति । परिवाट तु गृहीते तस्मि- न्परितुष्टः 'स्वस्ति भवते । साधयामः' इत्युक्त्वा निरयासीत् । नृपश्च प्रकृत्या वीररसानुरागी तेन कृपाणेनामन्यत करतलवर्तिनी मेदिनीम् । अथ ब्रजत्सु दिवसेष्वेकदा भैरवाचार्यों राजानमुपह्वरे सोप- ग्रहमवादीत्-'तात, स्वार्थालसाः परोपकारदक्षाश्च प्रकृतयो भ- वन्ति भव्यानाम् । भवादृशां चार्थिदर्शनं महोत्सवः प्रणयनमारा- धनमर्थग्रहणमुपकारः । भूमिरसि सर्वलोकमनोरथानाम् । येनाभि- धीयसे । श्रूयताम् । भगवतो महाकालहृदयनाम्नो महामन्त्रस्य कृ- ष्णस्रगम्बरानुलेपेनाकल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि । तस्य वेतालसाधनावसाना सिद्धिः । असहायै- श्च सा दुरवापा । त्वं चालमस्मै कर्मणे । त्वयि च गृहीतभरे भ- विष्यन्त्यपरे सहायास्त्रयः । एकः स एवास्माकं टीटिभनामा बा- लमित्रं मस्करी यो भवन्तमुपतिष्ठते । द्वितीयः स पातालस्वामी । अपरो मच्छिष्य एव कर्णतालनामा द्राविडः । यदि साधु मन्यसे ततो नीयतामयं दिङ्नागहस्तदीर्घो गृहीताट्टहासो निशामेकामेकदि- मुखार्गलतां बाहुः।' इति कृतवचसि च तस्मिन्नन्धकारं प्रविष्ट इव दृष्टप्रकाशः प्राप्तोपकारावकाश: प्रमुदितेनान्तरात्मना नरेन्द्रः समभाषत-'भगवन, परमनुगृहीतोऽस्म्यनेन शिष्यजनसामा- न्येन निदेशेन कृतपरिग्रहमिवात्मानमवैमि' इति । ननन्द च तेन साधयामः खकर्मसिद्धिं विदध्मः । मङ्गलबागच्छाम इति नोक्तम् । उपहरे प्रच्छन्ने । सोपग्रहं साभ्यर्थनम् । प्रणयनं याचनम् । मनोरथाना- मिति । रथाश्च भूमौ वहन्ति । आकल्पेन वेशेन । इतिकर्तव्यताकलापोपदेशको ग्रन्थः कल्पः । अलं पर्याप्तः । उपतिष्ठत इति संगतिकरणे तङ् । परिग्रहणं । । खीकार ।
तृतीय उच्चासः। १०९ - नरेन्द्रव्याहृतेन भैरवाचार्यः । चकार च संकेतम्-'अस्यामेवागा- मिन्यामसितपक्षचतुर्दशीक्षपायामियत्यां वेलायाममुष्मिन्महाश्म- शानसमीपभाजि शून्यायतने शस्त्रद्वितीयेनायुष्मता द्रष्टव्या व- यम्' इति । अथातिकान्तेष्वहःसु प्राप्तायां च तस्यामेव कृष्णचतुर्दश्यां शैवे- न विधिना दीक्षितः क्षितिपो नियमवानभूत् । कृताधिवासं च सं- पादितगन्धधूपमाल्यादिपूजं खड्गमट्टहासमकरोत् । ततः परिणते दिवसे केनापि कर्मसाधनाय कृतरुधिरबलि विधानास्विव लोहिता- यमानासु दिक्षु, रुधिरबलिलम्पटासु च वेतालजिह्वाविव लम्बमा- नासु च रविदीधितिषु, नरेन्द्रानुरागेण गृहीतापरदिशि स्वयमिव दिक्पालतां चिकीर्षति सवितरि, यातुधानीष्विव वर्धमानासु तरु- च्छायासु,पातालवासिषु विघ्नाय दानवेष्विवोत्तिष्ठत्सु तमोमण्डलेषु, नभसि पुञ्जीभवति, रौद्रं कर्म दिदृक्षमाण इव नक्षत्रगणे, विगा- ढायां शर्वर्याम् , सुप्तजननिःशब्दस्तिमिते निशीथे, राजा सान्तःपुरं परिजनं वञ्चयित्वा वामकरस्फुरत्सरुदक्षिणकरेणोत्खातं खड्गमट्ट- हासमादाय विसर्पता च खड्गप्रभापटलेन नीलांशुकपटेनेव दर्शन- भयादवगुण्ठितनिखिलगात्रयष्टिरनादिष्टयाप्यनुगम्यमानो राजल- क्षम्या पृष्ठत: परिमललग्नमधुकरवेणिव्याजेन केशेष्विव कर्मसिद्धि- माकर्षन्नेकाकी नगरान्निरगात् । अगाच्च तमुद्देशम् । अथ प्रत्युजग्मुस्ते त्रयो द्रौणिकृपकृतवर्माण इव सौप्तिके संन- द्धाः स्नाताः स्त्रग्विणो गृहीतविकटवेशाः, कुसुमशेखरसंचारिभिः क्रियमाणमत्रशिखाबन्धा इव गुञ्जद्भिः षट्चरणैरुष्णीषपट्टकांल्लला- टमध्यघटितविकटस्वस्तिकाग्रन्थीन्महामुद्राबन्धानिव धारयन्तः, मूर्धभिरेकश्रवणविवरविततविमलदन्तपत्रप्रभालोकलेपधवलितक- । दीक्षितः कृतनियमः । अधिवासो नियमदिवसादाद्येऽहनि । यथाशास्त्रं विधिना मन्त्रन्यासादिः । पर्वपूजेति यावत् । तत इत्यादौ ततोऽस्मिन्सति । राजा नग- रान्निरगादिति संबन्धः । यातुधानीषु राक्षसीषु । पुचीभवतीति । कृष्ण- रात्र्यां नक्षत्रगतपुञ्जीभावो लक्ष्यते। दिदृक्षवोऽपीतस्ततः पुञ्जीभवन्ति । विगा- ढायां धनायाम् । निशीथेऽर्धरात्रे । नीलेत्यादि सहोपमेयम् । सुप्तेषु भवं सौप्तिकम् । 'धृष्टद्युम्नाधिष्ठिताक्षौहिणीविनाशाय दुर्योधनप्रेरितदि- वार्जुनाधिष्ठितानां न किंचिदेषां शक्यमिति रात्राववस्कन्दमयच्छनिति वार्ता ।
हर्षचरिते । पोलैर्मुखैरापिबन्त इव निशाचरापचयचिकीर्षया शार्वरमन्धकार- मितरकर्णावलम्बिना रत्नकुण्डलानामच्छाच्छया रुचा गोरोचनयेव मन्त्रपरिजप्तया समालब्धाः, स्वप्रतिबिम्बगर्भान्कर्मसिद्धये दत्तपुर पोपहारानिवोल्लासयन्तः, निशितान्निस्त्रिंशान्नित्रिंशांशुसंतानसीम- न्तिततिमिरामात्मीयात्मीयदिग्भागसंरक्षणाय विधेव त्रियामां पा- टयन्तः, सार्धचन्द्रैः कलाधौतबुद्बुदावलितरलतारागणैर्निशाया इव परुषासिधारानिकृत्तैः खण्डैगृहीतैश्चर्मफलकैरकाण्डशर्वरीमपरां घ- टयन्तः, काञ्चनशृङ्खलाकलापनियमितनिबिडनिष्प्रवाणयः, बद्धा- सिधेनवः, टीटिभकर्णतालपातालस्वामिनो निवेदितवन्तश्चात्मानम् । अवनिपतिस्तु-'कोऽत्र कः इति त्रीनपृच्छत् । आचचक्षिरे च खं खं नाम त्रयोऽपि ते । तैरेव चानुगम्यमानो जगाम तां बलिदी- पालोकजर्जरितगुग्गुलुधूपधूमगृह्यमाणदिग्भावतया विक्षिप्यमाण- रक्षासर्षपार्धदग्धान्धकारपलायमाननिशामिव समुपकल्पितसर्वोप- करणां नि:शब्दां च गम्भीरां च भीषणां च साधनभूमिम् । तस्यां च कुमुधूलिधवलेन भस्मना लिखितस्य महतो मण्डल- स्य मध्ये स्थितं दीप्ततरतेजःप्रसरम् , पृथुपरिवेशपरिक्षिप्तमिव श- रत्सवितारम् , मध्यमानक्षीरोदावर्तवर्तिनमिव मन्दरम् , रक्तचन्द- नानुलेपिनो रक्तस्रगम्बराभरणस्योत्तानशयस्य शवस्योरस्युपविश्य- जातजातवेदसि मुखकुहरे प्रारब्धाग्निकार्यम् , कृष्णोष्णीषम् , कृ- संनद्धः सकवचः । उक्तं च-'संनद्धो वर्मितः सज्जो दंसितो व्यूढककटः' । अप- चयो हानिः । गोरोचनयेवेति सहोपमेयम् । उल्लासयन्तश्वालयन्तः । सार्धच- न्ट्रैरिति । निशायां खङ्गेषु चन्द्रखण्डस्य संभाव्यमानखादेवमुक्तम् । न तु वस्तु- वृत्तेन । कृष्णचतुर्दशीक्षपायां चन्द्रः संभवतीति । कलधौतं हेमरौप्यं वा । बुबुदा वलिबिन्दुपतिः । चर्मफलकैः स्फटकैः । एकस्या वर्तमानलादाह-अपरा- मिति । निष्प्रवाणि नवं वस्त्रम् । उक्तं च-'अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे' । असिधेनुः कृपाणम् । कोऽत्र क इति वाक्यैकदेशोऽयम् । अत्र कः कः स्थित इत्यर्थः । बलील्या- दिनार्धदग्धवसंभावनम् । अर्धदग्धस्य पलायनमुचितम् । न च बहुदग्धस्य । पलायंश्च दिग्भागान्गृह्णाति । सर्षपो गौरसिद्धार्थः । तस्यां चेत्यादौ भैरवाचार्यमपश्यदिति संबन्धः । पृथुपरिवेशेत्यादिना भीष- पीयत्वमुक्तम् । परिवेशः परिधिः । परिक्षिप्तं परिवलितम् । शरदि सविता दीप्त- । ।
तृतीय उच्छ्रासः। । ष्णाङ्गरागम्, कृष्णप्रतिसरम्, कृष्णवाससम्, कृष्णतिलाहुतिनि- भेन विद्याधरत्वतृष्णया मानुषनिर्माणकारणकालुष्यपरमाणूनिव श्यमुपनयन्तम्, आहुतिदानपर्यस्ताभिःप्रेतमुखस्पर्शदूषितम् , प्रक्षा- लयन्तमिवाशुशुक्षणिं करनखदीधितिभिर्धूमालोहितेन चक्षुषा क्ष- तजाहुतिमिव हुतभुजि पातयन्तम्, ईषद्विवृताधरपुटप्रकटितसि- तदशनशिखरेण दृश्यमानमूर्तमन्त्राक्षरपङ्गिनेव मुखेन किमपि ज- पन्तम्, होमश्रमस्वेदसलिलप्रतिबिम्बिताभिरासन्नदीपिकाभिर्दहन्त- मिव सिद्धये सर्वावयवान्, अंसावलम्बिना बहुगुणेन विद्याराजे- नेव ब्रह्मसूत्रेण परिगृहीतं भैरवाचार्यमपश्यत् । उपसृत्य चाकरो- नमस्कारम् । अभिनन्दितश्च तेन स्वव्यापारमन्वतिष्ठत् । अत्रान्तरे पातालस्वामी शातक्रतवीमाशामङ्गीचकार । कर्णता- लः कौबेरीम् । परिव्राट् प्राचेतसीम् । राजा तु त्रैशङ्कवेन ज्योति- षाकितां ककुभमलंकृतवान् । एवं चावस्थितेषु दिक्पालेषु दिक्पालभुजपञ्जरप्रविष्टे विस्रब्धं कर्म साधयति भैरवं भैरवाचार्येऽतिचिरं कृतकोलाहलेषु निष्फलप्रय- नेषुप्रत्यूहकारिषु शान्तेषु कौणपेषु गलत्यर्धरात्रसमये मण्डलस्य ना- तिदवीयस्युत्तरेणाकस्मात्प्रलयमहावराहदंष्ट्राविवरमिव दर्शयन्ती क्षि- तिरदीर्यत। सहसैव च तस्माद्विवरादाशावारणोत्क्षिप्त इवालानलोह- तरतेजःप्रसरो भवतीति शरग्रहणम् । जात उत्पन्नः, न तूत्क्षिप्तः । प्रतिसरो हस्तसूत्रम् । दिक्षु काण्डसूत्रप्रतिबन्ध इति । अन्या तिलानां कृष्णत्वात्परमा- शूनामपि कालुष्यकथनम् । क्षतजेति । प्रस्तावनानुगुण्येन रक्ताहुतिः संभा- व्यते । जपवशादीषदित्यायुक्तम् । ईषद्विवृतत्वादेव शिखरग्रहणम् । प्रतिबिम्बा- दानोपपादनार्थमासन्नपदम् । गुणास्तन्तवः, गुणनं गुणः । पौनःपुन्यमावर्तनं च। उत्कर्षा वा गुणाः । विद्याराजो मन्त्रविशेषः । शातक्रतवीं पूर्वाम् । अङ्गीचकारेत्यनेन सर्वेषां खरुचिपरिगृहीतत्वमुक्तम् । कौबेरीमुत्तराम् । प्राचेतसी पश्चिमाम् । त्रिशङ्कुरिक्ष्वाकुवंश्यः शापाच्चण्डालतां प्राप्तो यज्ञेन वर्गमारुरुक्षुरर्धपथे देवैर्निवारितो दक्षिणस्यां दिश्युदेति । तेन त्रैशङ्कवेन ज्योतिषाङ्कितां ककुभं दिशं दक्षिणाम् । दक्षिणस्यामित्युक्तेऽनिष्टप्रती- तिरिति त्रैशङ्कवेनेत्युक्तम्। विस्तब्धमिति । एतदर्थमेव राजादीनां परिग्रहः । प्रत्यूहो विघ्नः । कोण- पेषु राक्षसेषु । सहसेत्यादौ कुवलयश्यामलः पुरुष उज्जगामेति संबन्धः । लोह- ११२ हर्षचरिते स्तम्भः, महावराहपीवरस्कन्धपीठो नरकासुर इव भुवो गर्भादुद्भूतः, बलिदानव इव भित्त्वोत्थितः पातालम्, इन्द्रनीलप्रासाद इवोपरिज्व- लितरत्नप्रदीपः, स्निग्धनीलघननिविडकुटिलकुन्तलकान्तमौलिरु- न्मीलन्मालतीमुण्डमालः, गद्गदतया स्वरस्य स्वभावपाटलतया च चक्षुषः क्षीब इव यौवनमदेन वल्गद्गलदामकः, करसंपुटमृदितया मृदा दिङ्गागकुम्भाभावंसकूटौ पुनः पुनः पङ्कयन्सान्द्रचन्दनकर्द- मदत्रव्यवस्थास्थासकैरतिसितजलधरशकलशारित इव शारदाका- शैकदेशः, केतकीगर्भपत्रपाण्डुरस्य चण्डातकस्योपरि क्षामतरीकृत- कुक्षिः, कल्यावन्धं विधाय विलासविक्षिप्तेन धवलव्यायामफाली- पटान्तेन धरणितलगेन धार्यमाण इव पृष्ठतः शेषेण स्थिरस्थूलोच्च- दण्डः, भूमिभङ्गभयेनेव मन्थराणि स्थापयन्पदानि निर्भरगर्वगुरु कथमपि शैलमिव गात्रमुद्वन्दर्पण मुहुर्मुहुरुरसि द्विगुणिते दोष्णि वामे तिर्यगुत्क्षिप्ते च दक्षिणे जङ्घाकाण्डे कुण्डलिते चण्डस्फोटन- टांकारैः कर्मविघ्ननिर्घातानिव पातयन्नेकेन्द्रियविकलमिव जीवलो- कं कुर्वन्कुवलयश्यामलः पुरुष उज्जगाम । जगाद च विहस्य नरसिं- हनादनिर्घोषघोरया भारत्या-'भो विद्याधरीश्रद्धाकामुक किमयं विद्यावलेपः सहायमदो वा यदस्मै जनायाविधाय बलिं बालिश इव सिद्धिमभिलषसि । का ते दुर्बुद्धिरियम् । एतावता कालेन क्षेत्रा- धिपतिरस्य मन्नान्नैव लब्धव्यपदेशस्य देशस्य नागतस्ते श्रोत्रोपकण्ठं श्रीकण्ठनामा नागोऽहम् । अनिच्छति मयि का शक्तिर्ग्रहगणस्यापि गन्तुं गगने । भूनाथोऽप्ययमनाथस्तपस्वी यस्त्वादृशैः शैवाप- सदैरुपकरणीक्रियते । सहस्वेदानीं सहामुना दुर्नरेन्द्रेण दुर्नयस्य स्तम्भ इति । लोहशब्देन सारता कृष्णता चोक्ता । गर्भान्मध्यात्, उदराच । वना निबिडाः । निबिडकुटिला अतिकुञ्चिताः । कुन्तलाः केशाः । मौलिञ्चूडा, किरीटं च । उक्तं च-'चूडा किरीटं केशाश्च संहता मौलयस्त्रयः' । स्थासकैश्च- न्द्रकैः । फाली कक्ष्याबन्धः । शेषेणेति । शेषो धवलः, धरणितलगतश्च । पटान्तेनापि विशेषेणावतिष्ठते । आस्फोटनं बाह्वादिशब्दाः । एकेन्द्रियम् । अर्था- च्छ्रोत्रम् । निर्घोषो दिक्षु व्याप्तिः । अत्र विद्याधरीत्यादि हेपणार्थमामन्त्रणम् । श्रद्धाग्रहणं फलाभावप्रतिपादनाय । अस्मायित्यादि सर्वगर्भयमुक्तिः । बालिशो मूर्खः । अभिलषसीति फलाभावसूचनपदम् । अपसदोऽधमः । दुर्नरेन्द्रेण । - ।
तृतीय उच्छासः। ११३ फलम्' इत्यभिधाय च निष्ठुरैः प्रकोष्ठप्रहारैस्त्रीनपि टीटिभप्रभृती- नभिमुखं प्रधावितान्सशरीरावरणकृपाणानपातयत् । अथापूर्वाधिक्षेपश्रवणादशस्त्रव्रणैरप्यमर्षस्वेदच्छलेनानेकसमर- पीतमसिधाराजलमिव वमद्भिरवयवैरपि रोमाञ्चनिभेन मुक्तशर- शतशल्यनिकरभरलघुमिवात्मानं रणाय कुर्वद्भिरट्टहासेनापि प्रति- बिम्बिततारागणेन स्पष्टदृष्टधवलदन्तमालमवज्ञया हसतेव कथ्य- मानसत्त्वावष्टम्भः परिकरबन्धविभ्रमभ्रमितकरनखकिरणचक्रवा- लेन व्यपगमनाशङ्कया नागदमनमत्रमण्डलबन्धेनेव रुन्धन्दश दिशो नरनाथः सावज्ञमवादीत्-'अरे काकोदर काक, मयि स्थिते राजहंसे न जिह्वेषि बलिं याचितुम् । अमीभिः किं वा परुष- भाषितैः । भुजे वीर्य निवसति, न वाचि । प्रतिपद्यस्व शस्त्रम् । अयं न भवसि । अगृहीतहेतिष्वशिक्षितो मे भुजः प्रहर्तुम्' इति । नागस्तु-'अनाहततरमेहि । किं शस्त्रेण । भुजाभ्यामेव भनज्मि भ- वतो दर्पम्' इत्यभिधायास्फोटयामास । नरपतिरपि निरायुधसायु- धेन युधि लज्जमानो जेतुमुत्सृज्य सचर्मफलकमट्टहासमसिमोरु- कस्योपरि बबन्ध बाहुयुद्धाय कक्ष्याम् । युयुधाते च निर्दयास्फोटन- स्फुटितभुजरुधिरशीकरसिच्यमानौ शिलास्तम्भैरिव पतद्भिर्बाहुदण्डैः शब्दमयमिव कुर्वाणौ भुवनं तौ । न चिराच्च पातयामास भूतले भुजंगं भूपतिः । जग्राह च केशेषु । उच्चखान च शिरश्छेत्तु- मट्टहासम् । अपश्यच्च वैकक्षकमालान्तरेणास्य यज्ञोपवीतम् । उपसं- हृतशस्त्रव्यापारश्चावादीत्—'दुर्विनीत, अस्ति ते दुर्नयनिर्वाहबी- जमिदम् । यतो विश्रब्धमेवाचरसि चापलानि' इत्युक्त्वोत्ससर्ज तम् । अनन्तरं च सहसैवातिबहलां ज्योत्स्नां ददर्श। शरदि विक- कुराज्ञा । दुर्नरेन्द्रो मन्त्रतन्त्रानभिज्ञः । सशरीरेत्यादि । न तु नरेन्द्र- वदशस्त्रान् । अथेत्यादौ नरनाथः सावज्ञमवादीदिति संबन्धः । कथ्यमानेत्यादि । अश- स्त्रव्रणैश्चावयवैश्चैवाहासेन च । मण्डलं गारुडशास्त्रप्रसिद्धमैन्द्रादिकम् । काकोदरः सर्पः । काकेति निन्दायाम् । काकस्य च बलियाचनमुक्तम् । राजहंसो नृपवरः, हंसभेदश्च । हेतिरायुधम् । आस्फोटयामास बाहौ करघातमकार्षीत् । असिमिति प्रशंसार्थः सामान्यपदप्रयोग इति रुद्रटः । वैकक्षमालान्तरितत्वेन पूर्वमदर्शनं यज्ञोपवीतस्याह। । - ११४ हर्षचरिते । G सतां कमलवनानामिव च ब्राणावलेपिनमामोदमजिघ्रत् । झटिति च नूपुरशब्दमशृणोत् । व्यापारायमास च शब्दानुसारेण दृष्टिम् । अथ करतलस्थितस्याट्टहासस्य मध्ये तडितमिव नीलजलधरो- दरे स्फुरन्तीं प्रभया पिबन्तीमिव त्रियामाम् , तामरसहस्ताम्, कोमलाङ्गुलिरागराजिजालकानि च चरणलग्नानि वेलाबालविद्रु- मलतावनानीवाकर्षन्तीम् , करपङ्कजसंकोचाशङ्कया शशाङ्कमण्डल- मिव खण्डशः कृतं निर्मलचरणनखनिवहनिभेन बिभ्रतीम् , गु- ल्फावलम्बिनूपुरपुटतया स्थितनिबिडकटकावलिबन्धनादिव परि- भ्रश्यागताम् । बहुविधकुसुमशकुनिशतशोभितात्पवनचलिततनुतर- ङ्गादतिस्वच्छादंशुकादुद्धिसलिलादिवोत्तरन्तीम् , उदधिजन्मप्रेम्णा त्रिवलिच्छलेन त्रिपथगयेव परिष्वक्तमध्याम् , अत्युन्नतस्तनमण्ड- लाम् , दृश्यमानदिमागकुम्भामिव ककुभम् , मदलग्नैरावतकरशी- करनिकरमिव शरत्तारागणतारं हारमुरसां दधानाम् , धवलचा- मरैरिव च मन्दमन्दनिःश्वासदोलायितैहारकिरणैरुपवीज्यमानाम् , खभावलोहितेन मदान्धगन्धेभकुम्भास्फालनसंक्रान्तसिन्दूरेणेव क- रद्वयेन द्योतमानाम् , हरशिखण्डेन्दुद्वितीयखण्डेनेव कुण्डलीकृतेन ज्योत्स्नामुचा दन्तपत्रेण विभ्राजमानाम् , कौस्तुभगभस्तिस्तबकेने- व च श्रवणलग्नेनाशोककिसलयेनालंकृताम् , महता मातङ्गमद- मयेन तिलकेनादृश्यच्छत्रच्छायामण्डलेनेवाविरहितललाटाम् , आ- पादतलादासीमन्ताच्च चन्द्रातपधवलेन चन्दनेनादिराजयशसेवध- वलीकृताम्, धरणितलचुम्बिनीभिः कण्ठकुसुममालाभिः सरिद्भि- रिव सागराधिष्ठाभिरधिष्ठिताम्, मृणालकोमलैरवयवैः कमलसं- भवत्वमनक्षरमाचक्षाणां स्त्रियमपश्यत् । असंभ्रान्तश्च पप्रच्छ- 'भद्रे, कासि । किमर्थ वा दर्शनपथमागतासि' इति । सा तु स्त्री- जनविरुद्धेनावष्टम्भेनाभिभवन्तीवाभाषत तम्-'वीर, विद्धि मां अथेत्यादावट्टहासस्य मध्ये स्फुरन्ती स्त्रियमपश्यदिति संबन्धः । तामरसं पद्मम् । बहुविधेति । प्रकृते कुसुमानि शकुनयश्च सूत्रमयानि । तरङ्गा मुष्टि- दानक्षता भङ्ग्यः, वीचयश्च । अतिखच्छवमंशुकस्योदधिसलिलेन । उत्तरन्ती- मिति । अंशुकाच्छादितयोदश्चन्त्या उत्तरणमिवांशुकालक्ष्यत इति । वाभि- प्रायेण त्रिपथगेति नाम । मदे दाने लग्नः सक्तः । समद इत्यर्थः । श्रीहस्तिपृष्ठेन - तृतीय उच्छासः । । । नारायणोरःस्थलीलीलाविहारहरिणीम् , पृथुभरतभगीरथादिराजवं- शपताकाम् ,सुभटभुजजयस्तम्भविलासशालभञ्जिकाम् , रणरुधिर- तरङ्गिणीतरङ्गक्रीडादोहद्दुर्ललितराजहंसीम् , सितनृपच्छत्रषण्ड- शिखण्डिनीम्, अतिनिशितशस्त्रधारावनभ्रमणविभ्रमसिंहीम्, अ- सिधाराजलकमलिनीं श्रियम् । अपहृतास्मि तवामुना शौर्यरसेन याचस्व । ददामि ते वरमभिलषितम्' इति । वीराणां त्वपुनरुताः परोपकाराः। यतो राजा तांप्रणम्य स्वा- र्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे । लक्ष्मीस्तु देवी प्रीततर- हृदया विस्तीर्यमाणेन चक्षुषा क्षीरोदेनेवोपरि पर्यस्तेनाभिषिञ्चन्ती भूपालम् 'एवमस्तु' इत्यब्रवीत् । अवादीच्च पुनः–'अनेन सत्त्वो- स्कर्षेण भगवच्छिवभट्टारकभक्त्या चासाधारणया भवान्भुवि सूर्या- चन्द्रमसोस्तृतीय इवाविच्छिन्नस्य प्रतिदिनमुपचीयमानवृद्धेः शुचि- सुभगसत्यत्यागधैर्यशौण्डपुरुषप्रकाण्डप्रायस्य महतो राजवंशस्य क- र्ता भविष्यति । यस्मिन्नुत्पत्स्यते सर्वद्वीपानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती त्रिभुवनविजिगीषुर्द्वितीयो मांधातेव य- स्यायं करः स्वयमेव कमलमपहाय ग्रहीष्यति चामरम्' इति वचसोऽन्ते तिरोबभूव । भूमिपालस्तु तदाकर्ण्य हृदयेनातिमात्रमप्रीयत । भैरवाचार्यो- ऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादितेन सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली मुद्गरी खड्गी च भूत्वावाप विद्याधरत्वम् । प्रोवाच च-'राजन् , अदूरव्या- पिनः फल्गुचेतसामलसानां मनोरथाः । सतां तु भुवि विस्तार- यातीति मदान्धेत्यायुक्तम् । हस्तिवाहिलालक्ष्म्या एवमुक्तम् । धरणितलचुम्बि- नीभिर्मालाभिः, सरिद्भिश्च । हरिणीमिति । हरिणी किल स्थाल्या लीलया विह- रति । वंशोऽन्वयेऽथ वंशे वेणौ पताकोत्क्षिप्यते । सुभटेत्यादि विशेषणेन वीरा- नुरागिलमस्या दर्शितम् । स्तम्भे च शालभञ्जिकोत्कीर्णपुत्रिका क्रियते। षण्डो वनम् , तत्र शिखण्डिनी मयूरी। अपुनरुक्ता भूयो भूयः क्रियमाणापि चेत्यर्थः । परोपकारकरणपरत्वेन प्रीतत्वम् । अभिषिञ्चन्तीति । अभिषेको राज्ञ उचितः । शौण्डः प्रसक्तः । प्रकाण्डशब्दः प्रशंसावाची । द्वितीयः स्पर्धावान् । । ।
हर्षचरिते वत्यः स्वभावेनैवोपकृतयः । स्वप्नेऽप्यसंभावितां दातुमिमां दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय । संपत्कणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति । त्वदीयैर्गुणैरुपकरणीकृतस्य त्वत्त एव च लब्धात्मलाभस्य निर्लज्जतेयमस्य मूढहृदयस्य । तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयितुमात्मानम्' इति । प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृदयावष्टम्भाः। यतस्तं राजा भवत्सिद्ध्यैव परिसमाप्तकृत्योऽस्मि । साधयतु मान्यो यथासमीहितं स्थानम्' इति प्रत्याचचक्षे । तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्गय टीटिभादी- न्कुवलयवनेनेवावश्यायशीकरस्राविणा सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच-'तात, ब्रवीमि यामीति न स्नेहसदृशम् । त्वदीयाः प्राणा इति पुनरुक्तम् । गृह्यतामिदं शरीरकमिति - तिरेकेणार्थकरणम् । तिलश: क्रीता वयमिति नोपकारानुरूपम् । बान्धवोऽसीति दूरीकरणमिव । त्वयि स्थितं हृदयमित्यप्रत्यक्षम् । वद्विरहकारिणी कारणेयं न सिद्धिरित्यश्रद्धेयम् । निष्कारणस्तवो- पकार इत्यनुवादः । स्मर्तव्या वयमित्याज्ञा । सर्वथा कृतघ्नालापे- ध्वसज्जनकथासु च चेतसि कर्तव्योऽयं स्वार्थनिष्ठुरो जनः' इत्य- भिधाय वेगच्छिन्नहारोच्छलितमुक्ताफलनिकरताडिततारागणं गग- नतलमुत्पपात । ययौ च सीमन्तितग्रहग्रामः सिद्ध्युचितं धाम । श्रीकण्ठोऽपि-'राजन् , पराक्रमक्रीतः कर्तव्येषु नियोगेनानुग्राह्यो ग्राहितविनयोऽयं जनः' इत्यभिधाय राजानुमोदितस्तदेव भूयो भूविवरं विवेश। कुण्डलं कर्णवेष्टनम् । हारो मुक्ताहारः । केयूरमङ्गदम् , दोभूषा । फल्ग्वसारम् । प्रत्याचचक्षे पर्यहार्षीत् । यामीत्यादिवक्रोक्त्या चेतःस्थितं सर्वं व्याहरति । न स्नेहसदृशमिति । स्नेहानुरूपनिषेधेन स्नेह इव सुतरामाविष्कृत एव । उक्तं हि-'प्रतिषेध इवेष्टस्य यद्विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥' इति एवं खदीयाः प्राणा इत्यादौ । व्यतिरेकः पृथग्भागः। आवां किलैक एवार्थः । तिलश इति । यावान्किलायमुपकारो बहुगुणस्तावन्तो नावयवास्तिलशो विभागेनास्मा- कम् । कारणा यातना । सीमन्तितो द्विधाकृतः । ग्रामः समूहः । । । ।
तृतीय उच्छ्वासः। ११७ नरपतिस्तु क्षीणभूयिष्ठायां क्षपायां प्रवातुमारब्धे, प्रबुध्यमानक- मलिनीनिःश्वाससुरभौ, वनदेवताकुचांशुकापहरणपरिहासखेदिनी- व सावश्यायशीकरे, परिमलाकृष्टमधुकृति कुमुदनिद्रावाहिनि, नि- शापरिणतिजडे, तुषारलेशिनि वनानिले, विरहविधुरचक्रवाकचक्र- निःश्वसितसंतापितायामिवापरजलनिधिमवतरन्त्यां वियामायां सा- क्षादागतलक्ष्मीविलोकनकुतूह लिनीष्विव समुन्मीलन्तीषु नलिनीषू- निद्रपक्षिणि, क्षरति कुसुमविसरमिव तुहिनकणनिकरं मृदुपवनला- सितलते कानने, कमललक्ष्मीप्रबोधमङ्गलशङ्केष्विव रसत्स्वन्तर्बद्ध- ध्वनन्मधुकरेषु मुकुलायमानेषु कुमुदेषूजिहानरविरथवाजिविस- हैः प्रोथपवनैः प्रोत्सार्यमाणाविव वारुण्यां ककुभि, पुजीभव- न्तीषु श्यामालताकलिकासु तारकासु, मन्दरशिखराश्रयिणि मन्दा- निललुलितकल्पलतावनकुसुमधूलिविच्छुरित इव धूसरीभवति सप्त- र्षिमण्डले, सुरवारणाङ्कुश इव च्युते गलति तारामये मृगे बीनपि टीटिभादीन्गृहीत्वा नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवा- पीपयसि प्रक्षाल्याङ्गानि नगरं विवेश । अन्यस्मिन्नहनि तेषामा- त्मशरीरानन्तरस्नानभोजनाच्छादनादिना प्रीतिमकरोत् । कतिपयदिवसापगमे च परिव्राटू भूभुजा वार्यमाणोऽपि वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषेवाते । संपादितमनोरथातिरिक्तविभवौ च सुभटमण्डलमध्ये निष्कृष्टम- ण्डलाग्रौ समरमुखेषु प्रथममुपयुज्यमानौ कथान्तरेषु चान्तरा- । । वनेत्यादावस्मिन्नस्मिन्सति नरपतिनगरं विवेशेति संबन्धः । क्षीणभूयिष्ठायां बहुतरं क्षीणायाम् । तुषारस्य शीतलेशाः सन्ति । तत्र तस्मिन्नीषच्छीतले । सं- तापितायामिवेति । संतापितश्च शीतलं स्थानमवतरति । कुसुमविसरमिवेति समोपमा । लासिता नर्तिताः । उजिहान उद्गच्छन् । श्यामा रात्रिः, सैव लता व्रततिः । प्रियङ्गुलतिका मकरिका । तारामयो मृगशीर्षस्त्रितारोऽङ्कुशाकारः । आत्मशरीरानन्तरं स्वानेति । आत्मशरीरमनन्तरं यस्य तादृशेन स्नानभो- जनाच्छादनादिना । तेषु कृत्वा पश्चादात्मनः करोतीत्यर्थः । ॥ ।
हर्षचरिते न्तरा समादिष्टौ विचित्राणि भैरवाचार्यचरितानि शैशववृत्तान्तांश्च- कथयन्तौ तेनैव साधू जरामाजग्मतुरिति । इति श्रीवाणभट्टकृते हर्षचरिते राजदर्शनं नाम तृतीय उवासः। शौर्यानुरक्ताविति न भोगलोलुभौ । अतिरिक्तोऽधिकः । मण्डलायः खड्गः। अन्तरान्तरा मध्येमध्ये । कथयन्ताविति स्थिरप्रीतिसिद्धये ॥ इति श्रीशंकरकविरचिते हर्षचरितसंकेते तृतीय उच्छासः । S चतुर्थ उच्छासः । ११९ चतुर्थ उच्छवासः योगं स्वप्नेऽपि नेच्छन्ति कुर्वते न करग्रहम् । महान्तो नाममात्रेण भवन्ति पतयो भुवः ॥ १ ॥ सकलमहीभृत्कम्पकृदुत्पद्यत एक एव नृपवंशे । विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥ २ ॥ अथ तस्मात्पुष्पभूतेर्द्विजवरखेच्छागृहीतकोषो नाभिपद्म इव पुण्डरीकेक्षणात्, लक्ष्मीपुरःसरो रत्नसंचय इव रत्नाकरात्, गुरु- बुधकविकलावत्तेजस्विभूनन्दनप्रायो ग्रहगण इवोदयस्थानात्, म- हाभारवाहनयोग्यः सागर इव सगरप्रभावात्, दुर्जयबलसनाथो हरिवंश इव शूरान्निर्जगाम राजवंशः । यस्मादविनष्टधर्मधवला: प्रजासर्गा इव कृतमुखात्, प्रतापाक्रान्तभुवनाः किरणा इव तेजो- निधेः, विग्रहव्याप्तदिङ्मुखा गिरय इव भूभृत्प्रभवात्, धरणिधार- योगमित्यादिना प्रसिद्धात्प्रत्युद्गतवैलक्षण्यमुच्यते । भूपतीनां योगो युक्तिः। गूढप्रत्याहाररसादनादिच्छ त्यर्थः, संबन्धश्च । करग्रहो दण्डग्रहणम् , विवाहश्च । नाममात्रेणेति । नामैव तेषां श्रुखा भुवनं कम्पत इत्यर्थः । अर्थशून्येन सकले- नेत्यादिना भाविनी हर्षोत्पत्तिः सूचिता ॥ १॥ महीभृद्भिरपि कम्पो वेपथुः, चलनं च । पृथुरादिराजः, विस्तीर्णश्च । प्रतिमा सादृश्यम्, दन्तकोशश्च । दन्त इवेति । दन्तोऽप्येको गणाधिपस्य मुखे, समू- हाधिपत्यप्रदाने च ॥२॥ अथेत्यादौ राजवंशो निर्जगामेति संबन्धः । द्विजवरा विप्रोत्तमाः । ब्रह्मा च द्विजोत्तमः । कोषो गञ्जः, कर्णिका च । पुण्डरीकेक्षणः कमललोचनः, विष्णुश्च । लक्ष्मीः पुरःसरा यस्य लक्ष्मीपुरःसरः। 'जातौ जातो यदुत्कृष्टं तद्रत्नमभिधीयते'। मणयश्च रत्नानि । गुरव उपदेष्टारः । वुधाः पण्डिताः । कवयः काव्यकृतः। कलावन्तो गीतादिज्ञाः । तेजस्विनः शूराः । भूनन्दनाः राजानः । इतरत्र गुरुर्ब्रह- स्पतिः। उदयः प्रभावोऽपि । महाभारो भूपालनरूपो विजयरूपो वा । तस्य निर्वहने योग्यः । सगरवत्प्रभावो यस्य तस्माद्राज्ञः, सगराणां च यः प्रभावस्तस्मात् । 'प्रभ- वात्' इति पाठे सगरवत्प्रकृष्टो भव उत्पत्तिर्यस्य तस्मात्, अन्यत्र सगरस्य यः प्र- भवस्तस्मादिति व्याख्या । दुर्जयो दुरभिभवः । बलं प्राणाः: सैन्यं वा। तेन युक्तः। ततः कर्मधारयः।अन्यत्र दुर्जयो जितो विष्णुः, बलो हलधरः, ताभ्यां सनाथः। शू- राद्विक्रान्तात्, शूरश्च यदूनां राजा तस्मात् । अविनष्टेन पूर्णेन । धवलाः शुक्लाः । अविनष्टधर्मान्धवांल्लान्तीति वा कृतमुखात्संस्कृतात्, कृतयुगादेश्च । प्रताप आतपः, । । ।
१२० हर्षचरिते णक्षमा दिग्गजा इव ब्रह्मकरात्, उद्धीन्पातुमुद्यता जलधरा इव घनागमात्, इच्छाफलदायिनः कल्पतरव इव नन्दनात्, सर्वभूता- श्रया विश्वरूपप्रकारा इव श्रीधरादजायन्त राजानः । तेषु चैवमुत्पद्यमानेषु क्रमेणोदपादि हूणहरिणकेसरी सिन्धुरा- जज्वरो गुर्जरप्रजागरो गान्धाराधिपगन्धद्विपकूटपाकलो लाटपाट- वपाटचरो मालवलक्ष्मीलतापरशुः प्रतापशील इति प्रथितापर- नामा प्रभाकरवर्धनो नाम राजाधिराजः । यो राज्याङ्गसङ्गीन्य- भिषिच्यमान एव मलानीव मुमोच धनानि । य: परकीयेनापि कातरवल्लभेन रणमुखे तृणेनेव धृतेनालज्जत जीवितेन । यः कर- धृतधौतासिप्रतिबिम्बितेनात्मनाप्यदूयत समितिषु सहायेन रिपूणां पुरः प्रधनेषु धनुषापि नमता । यो मानी मानसेनाखिद्यत । यश्चान्तर्गतापरिमितरिपुशल्यशङ्कुकी लितामिव निश्चलामुवाह रा- जलक्ष्मीम् । यश्च सर्वासु दिक्षु समीकृततटावटविटपाटवीतस्तृणगु- ल्मवल्मीकगिरिगहनैर्दण्डयात्रापथैः पृथुभिर्भृत्योपयोगाय व्यभजते- व वसुधां बहुधा । यं चालब्धयुद्धदोहदमात्मीयोऽपि सकलरिपुसमु- त्सारकः परकीय इव तताप प्रतापः । यस्य च वह्निमयो हृदये- रिपुभयजननी वार्ता च । विग्रहो विरोधः, देहश्च । भूभृतां राज्ञाम् , भूभृत्प्रभवो ब्रह्मा च । धारणं पालनम् , उद्वहनं च । ब्रह्म करोतीति ब्रह्मकरस्तस्मात् । सामानि गायतो ब्रह्मणः करात्कारण उत्पन्ना इति वार्ता । पातुं रक्षितुम् , अासीकर्तुं च । घन आगम उपदेशो यस्य, धनागमश्च वर्षाकालः । नन्दयतीति नन्दनः, देवोद्यानं च सर्वेषां भूतानां प्राणिनामाश्रया आश्रयणीयाः, सर्वस्य बा भूतस्याश्रयाः, सर्वेषां वा भूताः पारमार्थिका अत एवाश्रयणीयाः । श्रीधरो हरिरपि । हूणादयो जनपदभेदाः । प्रजागरो निद्राक्षयः। 'खेदं मूत्रं पुरीषं च मजां चैव मतङ्गजाः। यस्याघ्राय विमाद्यन्ति तं विद्याद्गन्धहस्तिनम्॥' कूटपाकलो हस्तिज्वरः। यतो हूणाद्युन्मूलकोऽत एव प्रथितापरनामा राजा। राज्याङ्गान्यमात्याद्याः । अभि- षिच्यमानो राज्ये प्रतिष्ठाप्यमानो यस्याभितः सिच्यते सोऽङ्गसङ्गीनि मलानि मुञ्चति कातरेति । तृणं कातरैर्मुखे ध्रियते । तृणेनेति सहोपमा । मुखे तृणधारणमनौचि- त्यमेव पोषयति । धौतपदेन बिम्बस्वीकारसामर्थ्यमुक्तम् । समिदिन्धनं सङ्ग्रामश्च । निश्चलामनपायिनी समीकृतास्तटावटा यैर्विटपाटवीयुक्तैस्तरुभिस्तथा तृणादिभिश्च गहनैः। विटपाः शाखाः । अटवी समूहः । गुल्मा जालकानि । वल्मीकः पिपी- लककृतो मृत्कूटः दण्डश्चतुरङ्ग बलम् । तस्य यात्रापथैर्गमनमागैः । सीमास्थानीयै- । - ।
चतुर्थ उच्छासः। सुरालय- १२१ षु जलमयो लोचनपुटेषु मारुतमयो निःश्वसितेषु क्षमामयोऽङ्गेषु आकाशमयः शून्यतायां पञ्चमहाभूतमयो मूर्त इवादृश्यत निहत- प्रतिसामन्तान्तःपुरेषु प्रतापः । यस्य चासन्नेषु भृत्यरत्नेषु प्रति- विम्बितेव तुल्यरूपा समलक्ष्यत लक्ष्मीः । तथा च यस्य प्रतापा- ग्निना भूतिः शौर्योष्मणा सिद्धिरसिधाराजलेन वंशवृद्धिः शस्त्रत्र- णमुखैः पुरुषकारोक्तिर्धनुर्गुणकिणेन करगृहीतिरभवत् । यश्च रमुपायनं विग्रहमनुग्रहं समरागमं महोत्सवं शत्रु निधिदर्शनम- रिबाहुल्यमभ्युदयमाहवाह्वानं वरप्रदानमवस्कन्दपातं दिष्टवृद्धिं शस्त्रप्रहारपतनं वसुधारारसममन्यत । यस्मिंश्च राजनि निरन्तरै- यूंपनिकरैरङ्कुरितमिव कृतयुगेन, दिङ्मुखविसर्पिभिरध्वरधूमैः पला- शिखरोद्भूयमानैर्धवलध्वजैः : पल्लवितमिव धर्मेण, बहिरुपरचितवि- कटसभासनप्रपानाग्वंशमण्डपैः प्रसूतमिव ग्रामैः, काञ्चनमयस- र्वोपकरणैविभवैर्विशीर्णमिव मेरुणा, द्विजदीयमानैरर्थकलशैः फ- लितमिव भाग्यसंपदा । तस्य च जन्मान्तरेऽपि सती पार्वतीव शंकरस्य, गृहीतपरहृद- या लक्ष्मीरिव लोकगुरोः, स्फुरन्तरलतारका रोहिणीव कलावत:, सर्वजनजननी बुद्धिरिव प्रजापतेः, महाभूभृत्कुलोद्गता गङ्गेव वा- य॑भजत खण्डशो व्यलभत । भूशय्यादिवशेन पांसुभृतत्वात्काठिन्याच्च क्षमामयः शुन्यतायां निश्चेष्टत्वे। आसन्नेविति । आसन्नानि प्रतिविम्बं गृह्णन्ति ।भूतिः सं- पत् , भस्म च । ऊष्मा चान्नदाहिका शक्तिः। सिद्धिः पाकोऽपि वंशो वेणुरपि । व्रणा- नां मुखान्यग्राणि । गुणान्येव वा मुखान्याननानि । मुखैः किलोक्तिर्भवति । करगृही. तिर्दण्डग्रहणम् । किणश्च व्यायामहस्त एव भवति । अज्ञातः शत्रुष्वभिगमोऽवस्क- न्दः । दिष्टवृद्धिरानन्दवर्धनम् । धूमेनोत्प्रेक्षाकाात् । सुधा मक्कोलम् ,अमृतं च । सभा सदः । उक्तं च--'समज्या परिषद्गोष्ठीसभासमितिसंसदः । आस्थाने क्लीब- मास्थानं स्त्रीनपुंसकयोः सदः ॥' सत्रं सदादानम् । 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्युक्तम् । प्रपा यत्र तोयदानम् । प्राग्वंशः पत्नीशाला । उक्तं च- 'प्राग्वंशः प्राग्यविर्गहात्' इति । बहिरुपपादिता विकटाः सभासत्रप्रपाप्राग्वंशरूपा - - -- यैस्तैः। । तस्येत्यादौ तस्य च महादेवी यशोवती नामाभूद्यास्य वक्षसि ललासेति संबन्धः । सती साध्वी, शोभना वा । जन्मान्तरे श्यामाया संज्ञेषा । शंकरस्येत्यादीनि महा- मुनिशब्दान्तानि राज्ञि योज्यानि । गृहीतमावर्तितम् । परहृदयं चेतः, वक्षश्च । लो- थसिद्धिरिव रामणीयकस्य, देवसंपत्तिरिव लावण्यस्य । १२२ हर्षचरिते हिनीनायकस्य, मानसानुवर्तनचतुरा हंसीव राजहंसस्य, सकल- लोकार्चितचरणा वयीव धर्मस्य, दिवानिशममुक्तपार्श्वस्थितिररुन्ध- तीव महामुनेः, हंसमयीव गतिषु, परपुष्टमयीवालापेषु, चक्रवाक- मयीव पतिप्रेम्णि, प्रावृण्मयीव पयोधरोन्नती, मदिरामयीव वि- लासेषु, निधिमयीवार्थसंचयेषु, वसुधारामयीव प्रसादेषु, कमलम- यीव कोषसंग्रहेषु, कुसुममयीव फलदानेषु संध्यामयीव वन्द्यत्वे, चन्द्रमयीव निरुष्मत्वे, दर्पणमयीव प्रतिप्राणिग्रहणेषु, सामुद्रम- यीव परचित्तज्ञानेषु, परमात्ममयीव व्याप्तिषु, स्मृतिमयीव पु- ण्यवृत्तिषु, मधुमयीव संभाषणेषु, अमृतमयीव तृष्यत्सु, वृष्टिम- यीव भृत्येषु निर्वृतिमयीव सखीषु, वेतसमयीव गुरुषु, गोववृद्धि- रिव विलासानाम् , प्रायश्चित्तशुद्धिरिव स्त्रीत्वस्य, आज्ञासिद्धिरिव मकरध्वजस्य, व्युत्थानबुद्धिरिव रूपस्य, दिष्टवृद्धिरिव रतेः, मनोर- वंशोत्पत्ति- रिवानुरागस्य, वरप्राप्तिरिव कान्तेः, सर्गसमाप्तिरिव सौन्दर्यस्य, आयतिरिव यौवनस्य, अनभ्रवृष्टिरिव वैदग्ध्यस्य, अयश:प्रमृष्टि- रिव लक्ष्म्याः, यश:पुष्टिरिच चारिखस्य, हृदयतुष्टिरिव धर्मस्य, सौभाग्यपरमाणुसृष्टिरिव प्रजापतेः, शमस्यापि शान्तिरिव, विन- यस्यापि विनीतिरिव, आभिजात्यस्याप्यभिजातिरिव, संयमस्यापि संयतिरिव, धर्यस्यापि धृतिरिव, विभ्रमस्यापि विभ्रान्तिरिव यशो- - । कगुरोर्हरेश्च । तारका कनीनिका, नक्षत्राणि च तारकाः । जननी मात्रा, जन्य- तेऽनयेति जननी च । भूभृगिरिरपि । कुलं समूहोऽपि । वाहिनी सेना, नदी च। मानसं चेतः, सरश्च । चरणौ पादौ, कडादिशाखाश्च चरणाः। धर्मोऽस्ति यस्य स धर्मः । अर्शआदिलादच् । यद्वा साक्षादेव धर्मः। महामुनी राजर्षिः, वसिष्ठश्च । प्रावृट् वर्षा । पयोधरौ स्तनौ । मेघाश्च । पयोधराः वसुधरा धनवृष्टिः कोषो गञ्जः, कर्णिका च । ऊष्मा गर्वः, औष्ण्यं च । प्राणिनि प्राणिनि प्रतिप्राणि सर्वजन्तुवि- षये ग्रहणेष्वावर्जनेषु, प्रतिबिम्बोत्पादनेषु च। सामुद्रं समुद्रकृतं शास्त्रम् । येनान्यस्व- भावो ज्ञायते । परमात्मनि व्याप्तिः सर्वगतत्वमनुष्ठेयकार्यम् , ज्ञानं चान्यत्र । अमृतं सुधा, तोयं च । वेतसमयीवेति नम्रतात् । प्रायश्चित्तशुद्धिरिति । स्त्रीलं तयोज्ज्वलितं पवित्रितं वेत्यर्थः । व्युत्थानं समाधेश्चालनम् । आयतिः प्रतापः । अनभ्रवृष्टिरिवेति । यथा ह्यनभ्रवृष्टिराश्चर्यहेतुः । तथा वैदग्ध्यं तस्यामाश्चर्यम् । शमस्यापीति । हि शमे कश्चाशान्तो भवति । शमं संप्राप्य लब्धात्मलाभो जा- चतुर्थ उच्छ्रासः । १२३ वती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य धर्मस्य सुखस्य च भूमिरभूत् । यास्य वक्षसि नरकजितो लक्ष्मीरिव ललास । निसर्गत एव च स नृपतिरादित्यभक्तो बभूव । प्रतिदिनमुदये दिनकृतः स्नातः सितदुकूलधारी धवलकर्पटप्रावृतशिराः प्राङ्मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कुमपङ्कानुलिप्ते मण्डलके पवित्रपद्मरा- गपातीनिहितेन स्वहृदयेनेव सूर्यानुरक्तेन रक्तकमलषण्डेनार्चा ददौ । अजपञ्च जप्यं सुचरितः प्रत्युषसि मध्यंदिने दिनान्ते चापत्यहेतोः प्राध्वं प्रयतेन मनसा जञ्जपूको मन्त्रमादित्यहृदयम् । भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि । यतः। स राजा कदाचिद्रीष्मसमये यहच्छया सितकरकरसितसुधाधव- लस्य हर्म्यस्य पृष्ठे सुष्वाप । पार्श्वे चास्य द्वितीयशयने देवी यशो- वती शिश्ये । परिणतप्रायायां तु श्यामायाम् , आसन्नप्रभातवेला- विलुप्यमानलावण्ये, लिलम्बिषमाणे सीदत्तेजसि तारकेश्वरे, क- राग्रस्पृष्टकुमुदिनीप्रमोदजन्मनि शशधरस्वेद इव गलत्यतिशीत- लेऽवश्यायपयसि, मधुमदमत्तप्रसुप्तसीमन्तिनीनिःश्वासाहतेषु सं- क्रान्तमदेष्विव घूर्णमानेष्वन्तःपुरप्रदीपेषु राजनि च विमलनख- प्रतिबिम्बिताभिः संवाहमानचरण इव तारकाभिर्विस्रब्धप्रसारि- तैर्दिगङ्गनानामिवार्पितैरङ्गैर्मधुसुगन्धिभिः स्वहस्तकमलतालवृन्तवा- तैरिव श्वसितैर्मुखश्रिया वीज्यमाने विमलकपोलस्थलस्थितेन सित- कुसुमशेखरेणेव रतिकेलिकचग्रहलम्बितेन प्रतिमाशशिबिम्बेन वि- राजिते स्वपति देवी यशोवती सहसैव 'आर्यपुत्र, परित्रायस्व प- रिवायख' इति भाषमाणा भूषणरवेण व्याहरन्तीव परिजनमुत्क- म्पमानाङ्गयष्टिरुदतिष्ठत् । । यते। इत्येवमुत्तरत्रापि व्याख्याक्रमः। आभिजात्यस्य कुलोचितवस्य । नरको नामा- सुरः, यातनास्थानानि च नरकाः। खहृदयेनेवेति । खहृदयमपि सूर्यानुरक्तम् । प्राध्वं प्रहः । जञ्जपूकशब्दो जपासक्ततां लक्षयति । द्वितीयेत्यादिनास्य सदाचारनिष्ठोक्ता । उक्तं हि-'नाश्नीयाद्भार्यया साकं न च सुप्यात्तया समम्' इति । परिणतेत्यादावस्मिन्सति देवी यशोवत्युदतिष्ठदिति संब- न्धः। तारकेश्वरे । करा रश्मयः, हस्तश्च करः सीमन्तिनी ललना। संवाह्यमानानुप- पद्यमाना । अङ्गैरितीत्थंभूतलक्षणे तृतीया । मधु मद्यम् । तद्वत् । मधु मकरन्दः तालवृन्तमुत्क्षेपकः । सितग्रहणेन चन्द्रसादृश्यमाह ।
१२६ हर्षचरिते तुम् । आस्तां नूपुरभारखेदितं चरणयुगलं मनसापि नोदसहत सौ- धमारोढुम् । अङ्गान्यपि नाशक्नोद्धारयितुं दूरे भूषणानि । चिन्त- यित्वापि क्रीडापर्वताधिरोहणमुत्कम्पितस्तनी तस्तान । प्रत्युत्थाने- धुभयजानुशिखरविनिहितकरकिसलयापि गर्वादिव गर्भेणाधार्यत् । दिवसं चाधोमुखी स्तनपृष्ठसंक्रान्तेनापत्यदर्शनौत्सुक्यादन्तःप्रविष्टे- नेव मुखकमलेनैवं प्रीयमाणा ददर्श गर्भम् । उदरे तनयेन हृदये च भर्ना तिष्ठता द्विगुणितामिव लक्ष्मीमुवाह । सख्युत्सङ्गमुक्त- शरीरा च शरीरपरिचारिकाणामङ्केषु सपत्नीनां तु शिरःसु पादौ चकार । अवतीर्णे च दशमे मासि सर्वोर्वीभृत्पक्षपाताय वज्रपर- माणुभिरिव निर्मितम् , त्रिभुवनभारधारणसमर्थं शेषफणामण्ड- लोपकरणैरिव कल्पितम्, सकलभूभृत्कम्पकारिणं दिग्गजाव- यवैरिव विहितमसूत देवं राज्यवर्धनम् । यस्मिजाते जातप्रमोदा नृत्यमय्य इवाजायन्त प्रजाः। पूरितासंख्यशङ्खशब्दमुखरं प्रहत- पटहशतपटुरवं गम्भीरभेरीनिनादनिर्भरभरितभुवनं प्रमोदोन्मत्त- मर्त्यलोकमनोहरं मासमेकं दिवसमिव महोत्सवमकरोन्नरपतिः । अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले कन्दलिनि कुड्मलितक दम्बतरौ तोक्मतृणस्तम्बे स्तम्भिततामरसे विकसितचातकचेतसि मूकमानसौकसि नभसि देव्या देवक्या इव चक्रपाणिर्यशोवत्या हृदये गर्भे च सममेव संबभूव हर्षः । शनैः शनैश्चास्याः सर्वप्र- जापुण्यैरिव परिगृहीता भूयोऽप्यापाण्डुतामङ्गयष्टिर्जगाम । गर्भा- रम्भेण श्यामायमानचारुचूचुकचूलिको चक्रवर्तिनः पातुं मुद्रिता- विव पयोधरकलशौ बभार । स्तन्यार्थमानननिहिता दुग्धनदीव दीर्घस्निग्धधवला माधुर्यमधत्त दृष्टिः । सकलमङ्गलगणाधिष्ठितगा- जो वृक्षा भवन्ति । निदर्शनं निमित्तम् । समृद्धाः परिपूर्णाः । परिगृहीता अङ्गीकृता। उर्वीभृतो राजानः, पर्वताश्च । पक्षाः समूहाः, पतत्राणि च । पातः पतनम् , शातनं च। कन्दलानि लताभेदाः। नीरं तोयम् । मानसौकसो हंसाः। नभसि श्रावणे । यशो- वत्या देव्याः । चक्रपाणिः कृष्णः । रेखाकारं च चक्रं पाणौ यस्य । देवक्या अपि य- शोवत्याः । प्रमोदो हर्षः । पुण्यैरिवेति । पुण्यानां स्वभावशुद्धिवात् । स्तनयो- भवं स्तन्यं क्षीरम् । अपाश्रयः पर्यङ्कः । उन्माथः खेदः । चन्द्रशाला धवलगृहस्यो- । । - । । ।
चतुर्थ उच्छासः । १२७ गरिम्णेव गतिरमन्दायत । मन्दमन्दं संचरन्त्या निर्मलकुट्टिमनि- मग्नप्रतिबिम्बनिभेन गृहीतपादपल्लवा पूर्वसेवामिवारभे पृथिव्यस्याः । दिवसमधिशयानायाः शयनीयमपाश्रयपबभनपुत्रिकाप्रतिमा वि- मलकपोलोदरगता प्रसवसमयं प्रतिपालयन्ती लक्ष्मीरिवालक्ष्यत । क्षपासु सौधशिखराग्रगताया गर्भोन्माथमुक्तांशुके स्तनमण्डले सं- क्रान्तमुडुपतिमण्डलमुपरि गर्भस्य श्वेतातपत्रमिव केनापि धार्यमा- णमदृश्यत । सुप्तया वासभवने चित्रभित्तिचामरग्राहिण्योऽपि चा- मराणि चालयांचक्रुः । स्वप्नेषु करविधृतकमलिनीपलाशपुटसलिलै- श्चतुर्भिरपि दिक्करिभिरक्रियताभिषेकः । प्रतिबुध्यमानायाश्च चन्द्र- शालिकासालभजिकापरिजनो जयशब्दमसकृदजनयत् । परिज- नाह्वानेष्वादिशेत्यशरीरा वाचो निश्चेरुः । क्रीडायामपि नासहता- ज्ञाभङ्गम् । अपि च चतुर्णामपि महार्णवानामेकीकृतेनाम्भसा स्नातुं वाञ्छा बभूव । वेलालतागृहोदरपुलिनपरिसरेषु पर्यटितुं हृदयम- भिललाष । आत्ययिकेष्वपि कार्येषु सविभ्रमं धूलता चचाल । सं- निहितेष्वपि मणिदर्पणेषु मुखमुत्खाते खड्गपट्टे वीक्षितुं व्यसनमा- सीत् । उत्सारितवीणा: स्त्रीजनविरुद्धा धनुर्ध्वनय: श्रुतावसुखाय- न्त । पजरकेसरिषु चक्षुररमत । गुरुप्रणामेष्वपि स्तम्भितमिव शिरः कथमपि ननाम । सख्यश्चास्याः प्रमोदविस्फारितैर्लोचनपुटै- रासनप्रसवमहोत्सवधियेव धवलयन्तो भवनं विकचकुमुदकमलकु- वलयपलाशवृष्टिमयं रक्षाबलिविधिमिवानवरतं विदधाना दिक्षु क्ष- णमपि न मुमुचुः पार्श्वम् । आत्मोचितस्थाननिषण्णाश्च महान्तो वि- विधौषधिधरा भिषजो भूधरा इव भुवो धृतिं चक्रुः । पयोनिधीनां हृदयानीव लक्ष्म्या सहागतानि श्रीवासूत्रग्रन्थिषु प्रशस्तरत्नान्यब- । । ध्यन्त। - - परि प्रासादिकायामन्तर्धारणीत्युच्यते । गर्भस्थजनचित्तवृत्त्यनुसारेण गर्भिण्या अपि चित्तवृत्तिर्भवति । यतो वार्ता श्रूयते । ततश्चतुर्णामित्युक्तम् । परिसरः पर्यन्तः । आत्ययिकेष्ववश्यकर्तव्येषु । महान्तः प्रभाविताः, उन्छ्रिताश्च । विविधा ओषधी- र्धारयन्ति ये ते विविधा ओषधयो यासु ताः धरा भूमयो येषां ते च । धृति- धैर्यम्, धारणं च । लक्ष्म्या सहेति । लक्ष्मीर्हि पयोधिसुता । प्रशस्तरत्नानीति कर्मधारयः, अन्यत्र बहुव्रीहिः । ।
१२८ हर्षचरिते ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुलपक्षद्वादश्यां व्य- तीते प्रदोषसमये समारुरुक्षति क्षपायौवने सहसैवान्तःपुरे समुद- पादि कोलाहलः स्त्रीजनस्य । निर्गत्य च ससंभ्रमं यशोवत्याः स्व- यमेव हृदयनिर्विशेषा धात्र्याः सुता सुयालेति नाम्ना राज्ञः पाद- योनिपत्य 'देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना' इति व्याहर- न्ती पूर्णपात्रं जहार । अस्मिन्नेव च काले राज्ञः परमसंमतः शतशः संवादितातीन्द्रि- यादेशो दर्शितप्रभावः संकलिती ज्योतिषि सर्वासां ग्रहसंहितानां पारदृश्वा सकलगणकमध्ये महितो हितश्च त्रिकालज्ञानभाग्भोज- कस्तारको नाम गणकः समुपसृत्य विज्ञापितवान्-'देव, श्रूयताम् । मांधाता किलैवंविधे व्यतीपातादिसर्वदोषाभिषङ्गरहितेऽहनि सर्वे- पूच्चस्थानस्थितेष्वेवं ग्रहेष्वीदृशि लग्ने भेजे जन्म । अर्वाक्ततो- ऽस्मिन्नन्तराले पुनरेवंविधे योगे चक्रवर्तिजनने नाजनि जगति क- श्चिदपरः । सप्तानां चक्रवर्तिनामग्रणीश्चक्रवर्ति चिह्नानां महारत्ना- नां च भाजनं सप्तानां सागराणां पालयिता सप्ततन्तूनां सर्वेषां प्रवर्तयिता सप्तसप्तिसमः सुतोऽयं देवस्य जातः' इति । अवान्तरे स्वयमेवानाध्माता अपि तारमधुरं शङ्का विरेसुः । ज्येष्ठामूलीयो मासो ज्यैष्ठः । बहुलासु कृत्तिकासु । बहुलपक्षः कृष्णपक्षः । पूर्ण- पात्रं यथापरिहृतवस्त्रादि । उक्तं च-'आनन्ददोहि सौहार्दादेत्य वस्त्रादिकं बलात्। अजानतो हरत्येव पूर्णपात्रं तु तत्स्मृतम् ॥' इति । संवादितः प्रत्यक्षीकृतः। अतीन्द्रियादेशो भाविकथनम् । संकलिती गणनाज्ञः। पारदृश्वा पर्यन्तदर्शी । भोजको रविमर्चयिला पूजका हि भूयसा गणका भवन्ति। ये मगा इति प्रसिद्धाः । भागवता इत्यन्ये । व्योनि चन्द्राकौं राशिषट्के यदैकमार्ग- स्थितौ भवतः स व्यतीपातः। उक्तं च लाटाचार्येण-'गगने हि हिमकराको युग- पत्स्यातां यदैकमार्गस्थौ ।भगणार्धेऽर्कश्च यदा शशी स भवेद्वयतीपातः॥इति । अ- भिषङ्गः संबन्धः। अर्वाक्पश्चात् । चक्रवर्तिनामिति । 'भरतार्जुनमांधातृभगी- रथयुधिष्ठिराः। सगरो नहुषश्चैव सप्तैते चक्रवर्तिनः ॥ कूर्मोर्णो जालहस्तिवं पद्मादि जालचरणलमित्यादि चक्रवर्तिचिह्नानि। 'मण्यश्वकारचक्राणि वरा स्त्री परिनायकः। षडेतानि तु रत्नानि कीर्तितानि मनीषिभिः ।।' परिनायकः सेनापतिः। गृहनायको गजाध्यक्षः । सप्ततन्तूनां यज्ञानाम् । सप्तसप्तिः सूर्यः । अनाध्माता मुखानिलेनापूरिताः । दुन्दुभिरानकः । तूर्याणि वादित्राणि । घोषणा । ।
चतुर्थ उच्छ्वासः । १२९ । अताडितोऽपि क्षुभितजलनिधिजलध्वनिधीरं जुगुजाभिषेकदुन्दु- भिः । अनाहतान्यपि मङ्गलतूर्याणि रेणुः। सर्वभुवनाभयघोषणापटह इव दिगन्तरेषु बभ्राम तूर्यप्रतिशब्दः । विधुतकेसरसटाश्च साटोप- गृहीतहरितदूर्वापल्लवकवलप्रशस्तैर्मुखपुटैः समहेषन्त हृष्टा वाजिनः। सलीलमुत्क्षिप्तैर्हस्तपल्लवैर्नृत्यन्त इव श्रवणसुभगं जगर्जुर्गजाः। ववौ चाचिराञ्चक्रायुधमुत्सृजन्त्या लक्ष्म्या नि:श्वास इव सुरामोदसुरभि- दिव्यानिलः । यज्वनां मन्देिरषु प्रदक्षिणशिखाकलापकथितकल्या- णागमाः प्रजज्वलुरनिन्धना वैतानवह्नयः । भुवस्तलात्तपनीयशृङ्ख- लाबन्धबन्धुरकलशीकोशाः समुदगुर्महानिधयः । प्रहतमङ्गलतूर्य- प्रतिशब्दनिभेन दिक्षु दिक्पालैरपि प्रमोदादक्रियतेव दिष्टवृद्धि- कलकलः । तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः कृतयुगप्रजाप- तय इव प्रजावृद्धये समुपतस्थिरे द्विजातयः। साक्षाद्धर्म इव शा- न्त्युदकफलहस्तस्तस्थौ पुरः पुरोधाः । पुरातन्यः स्थितय इवादृश्य- न्तागता बान्धववृद्धाः । प्रलम्बश्मश्रुजालजटिलाननानि बहलमल- पङ्ककलङ्ककालकायानि नश्यतः कलिकालस्य बान्धवकुलानीवाकु- लान्यधावन्त मुक्तानि बन्धनवृन्दानि । तत्कालापक्रान्तस्याधर्मस्य शिबिरश्रेणय इवालक्ष्यन्त लोकविलुण्ठिता विपणिवीथ्यः। विलस- दुन्मुखवामनकबधिरवृन्दवेष्टिताः साक्षाज्जातमातृदेवता इव बहु- बालकव्याकुला ननृतुर्वृद्धधात्र्यः। प्रावर्तत च विगतराजकुलस्थिति- रधःकृतप्रतीहाराकृतिरपनीतवेविवेत्रो निर्दोषान्तःपुरप्रवेशः सम- स्वामिपरिजनो निर्विशेषबालवृद्धः समानशिष्टाशिष्टजनो दुर्जेयम- त्तामत्तप्रविभागस्तुल्यकुलयुवतिवेश्याविलासः प्रनृत्तसकलकटक- लोकः पुत्रजन्मोत्सवो महान् । अपरेधुरारभ्य सर्वाभ्यो दिग्भ्यः स्त्रीराज्यानीवावर्जितानि, अ- सुरविवराणीवापावृतानि, नारायणावरोधानीव प्रचलितानि, अ- श्रावणा । ग्रीवारोमवल्लयस्त एव सटाः। कवलं प्रासः। यज्वनां यज्ञयाजिनाम् । विताने यज्ञे भवा वैतानाः। तपनीयं सुवर्णम् । बन्धुरो हृद्यः । कोश आवरणम् । ब्रह्ममुखा वेदवदना अपि। पुरोधाः पुरोहितः। विपणिवीथ्यो वणिक्पथपतयः । जातमातृदेवता मार्जारानना । बहुपुत्रपरिवारा सूतिकागृहे स्थाप्यते । अवरोधोऽन्तःपुरम् । अपरेकुरित्यादा विदमिदं बिभ्राणेन परिजनेनानुगम्यमानानि सामन्तान्तःपुरस- हस्राण्यदृश्यन्तेति संबन्धः। स्त्रीराज्यानीति बहुलखम् । असुरविवराणीवेत्यु. । - । ह०१२ १३० हर्षचरिते च, सि- प्सरसामिव महीमवतीर्णानि कुलानि, परिजनेन पृथुकरण्डपरि- गृहीताः स्नानीयचूर्णावकीर्णकुसुमाः सुमनःस्रजः, स्फटिक शिला- शकलशुक्लक'रखण्डपूरिताः पानी:, कुङ्कुमाधिवासभाजि भाजना- नि च मणिमयानि, सहकारतैलतिम्यत्तनुखदिरकेसरजालजटिला- नि चन्दनवलपूगफलफालीदन्तुरदन्तशफरकाणि, गुञ्जन्मधुक- रकुलपीयमानपारिजातपरिमलानि पाटलानि पोटलकानि न्दूरपात्राणि च पिष्टातकपात्राणि च बाललतालम्बमानविटकवीट- कांश्च ताम्बूलवृक्षान्बिभ्राणेनानुगम्यमानानि चरणनिकुट्टनरणि- तमणिनूपुरमुखरितदिङ्मुखानि नृत्यन्ति राजकुलमागच्छन्ति सम- न्तात्सामन्तान्तःपुरसहस्राण्यदृश्यन्त । शनैः शनैर्व्यज़म्भत च क्वचिन्नृत्तानुचितचिरंतनशालीनकुलपु- त्रकलोकलास्यप्रथितपार्थिवानुरागः क्वचिदन्तःस्मितक्षितिपालापेक्षि- तक्षीवक्षुद्रदासीसमाकृष्यमाणराजवल्लभः क्वचिन्मत्तकटककुट्टनीक- ण्ठलग्नवृद्धार्यसामन्तनृत्तनिर्भरहसितनरपतिः कचित्क्षितिपाक्षि- संज्ञादिष्टदुष्टदासेरकगीतसूच्यमानसचिवचौर्यरतप्रपञ्चः क्वचिन्म- दोत्कटकुटहारिकापरिष्वज्यमानजरत्प्रव्रजितजनितजनहासः कचि- दन्योन्यनिर्भरस्पोद्भुरचेटकपेटकारब्धावाच्यवचनयुद्धः क्वचिन्नृ- पावलाबलात्कारनय॑माननृत्यानभिज्ञान्तःपुरपालभावितभुजिष्यः, सपर्वत इव कुसुमराशिभिः, सधारागृह इव सीधुप्रपाभिः, सन- न्दनवन इव पारिजातकामोदैः, सनीहार इव कर्पूररेणुभिः, साट्ट- हास इव पटहरवैः, सामृतमथन इव कलकलैः, सावर्त इव रास- कमण्डलैः, सरोमाञ्च इव भूषणमणिकिरणैः, सपट्टबन्ध इव चन्द- ज्ज्वललात् । नारायणेत्यादिगौरववत्त्वाद्वहुलखाच । स्नानीयं स्नानहितम् । खदिरकेसरं खदिरसारम् । फाली रवाता। शफरुकाणि समुद्गाः । पारिजातं सुगन्धिद्रव्यचूर्णम् । 'पिष्टातः पटवासकः' इत्यमरसिंहः । स च मङ्गलार्थः । विटक- वीटकं पञ्चाशत्ताम्बूलपत्रैः क्रियते। शनैः शनैरित्यादौ व्यजृम्भतोत्सवामोद इति संबन्धः । शालीनमधृष्टता । दास्या अपत्यं दासेरकः। क्षुद्राभ्यो वा' इत्यारक्। सचिवो मन्त्री।रत सुरतम् । कुटहारिका कुम्भदासी । गायकनर्तकभुजिष्याजनरचितः समूहश्चेटकः । अवाच्यवचना गाल्यः। माविताः कथं नृत्यन्तीत्यवलोकिताः । भुजिष्या दास्यः। रासकमण्डलैख्यश्रभ्रान्त- ।
चतुर्थ उच्छासः । १३१ नललाटिकाभिः, सप्रसव इव प्रतिशब्दकैः, सप्ररोह इव प्रसाद- दानैरुत्सवामोदः । स्कन्धावलम्बमानकेसरमालाः काम्बोजवाजिन इवास्कन्दन्त- स्तरलतारका हरिणा इवोडीयमाना: सगरसुता इव खनिर्निर्द- यैश्चरणाभिघातैर्दारयन्तो भुवमनेकसहस्रसंख्याश्चिक्रीडुर्युवानः । कथमपि तालावचरचारणचरणक्षोभं चक्षमे क्षमा । क्षितिपालकु- मारकाणां खेलतामन्योन्यास्फालैराभरणेषु मुक्ताफलानि फेलुः । सिन्दूररेणुना पुनरुत्पन्नहिरण्यगर्भगर्भशोणितशोणाशमिव ब्रह्मा- ण्डकपालमभवत् । पटवासपांशुपटलेन प्रकटितमन्दाकिनीसैकतस- हस्रमिव शुशुभे नभस्तलम् । विप्रकीर्यमाणपिष्टातकपरागपिञ्जरि- तातपा भुवनक्षोभविशीर्णपितामहकमलकिजल्करजोराजिरजिता इव रेजुर्दिवसाः । संघट्टविघटितहारपतितमुक्ताफलपटलेषु चस्खा- ल लोकः। स्थानस्थानेषु च मन्दमन्दमास्फाल्यमानालिङ्गयकेन शिञान- मञ्जवेणुना झणझणायमानझल्लरीकेण ताड्यमानतन्त्रीपटहिकेन वा- द्यमानानुत्तानालाबुवीणेन कलकांस्यकोशीकणितकाहलेन समका- लदीयमानानुत्तालतानकेनातोद्यवाद्येनानुगम्यमानाः, पदे पदे झ- णझणितभूषणरयैरपि सहृदयैरिवानुवर्तमानताललयाः, कोकिला इव मदकलकाकलीकोमलालापिन्यो विटानां कर्णामृतान्यश्ली- नृत्तवृन्दैः । ललाटेऽलंकारो ललाटिका । 'कर्णललाटात्कनलंकारे' । प्ररोहोऽङ्कुरः। केसराणि बकुलानि, ग्रीवारोमवल्यश्च । काम्बोजा बाह्निकदेशजाः । आस्कन्दन्त आक्रमन्तः । तालैरवचरन्ति तालावचराः । तालावचरमुक्तं भ्रमणम् । स्फुटितालि- काशतैर्युक्तं चारणजनस्य कैश्चिद्रमणम् । तत्कांस्यतालिकयाराडाशिष्टापञ्चकुलमारि- वकाः । दक्षिणापथे तालावा इति प्रसिद्धाः । खेलतां क्रीडताम् । फेलविभिदुः । शोणाशं लोहितदिकम् । स्थानस्थानेष्वित्यादावेवंविधेनातोयेनानुगम्यमानाः पण्यविलासिन्यः प्रानृत्यन्नि- ति संबन्धः। आलिङ्गयको मुरजभेदः। तन्त्री पटहिका, पटहभेदः । न उत्ताला अनु- त्ताला अनुगटशब्दाः। कांस्यकोशी शय्या। काहलेन व्याप्तेन । काहलं कांस्यद्वयाभि- घातः । आतोद्यमिति। उक्तं च-'ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वं- शादिकं तु सुषिरं कांस्यतालादिकं धनम्। चतुर्विधमिदं वाद्यं वादिनातोयनामकम्।।' इति । लयशब्देन ताल एव माननिधानं यतीनामवच्छेदेन विधि निवर्तयमानो द्रुतम- ध्यविलम्बिताख्यमानवर्तनविधौ । स एव तालस्तु छेदमलङ्घमानः स्यात् । व्यपदेशो ।
१३२ हर्षचरिते लरासकपदानि गायन्त्यः, समुण्डमालिकाः, सकर्णपल्लवाः, सच- न्दनतिलकाः, समुच्छ्रिताभिर्वलयावलीवाचालाभिर्बाहुलतिकाभिः सवितारमिवालिङ्गयन्त्यः, कुङ्कुमप्रमृष्टिरुचिरकायाः काश्मीरकि- शोर्य इव वल्गन्त्यः, नितम्बबिम्बलम्बिविकटकुरण्टकशेखराः प्र- दीप्ता इव रागाग्निना, सिन्दूरच्छटाच्छुरितमुखमुद्राः शासनपट्ट- पतय इवाप्रतिहतशासनस्य कंदर्पस्य, मुष्टिप्रकीर्यमाणकर्पूरपटवा- सपांसुला मनोरथसंचरणरथ्या इव यौवनस्योद्दामकुसुमदामता- डिततरुणजनाः प्रतीहार्य इव तरुणमहोत्सवस्य, प्रचलत्पत्रकुण्डला लसन्त्यो लता इव मदनचन्दनद्रुमस्य, ललितपदहंसकरवमुखराः समुल्लसन्त्यो वीचय इव शृङ्गाररसस्य, वाच्यावाच्यविवेकशून्या बालक्रीडा इव सौभाग्यस्य, घनपटहरवोत्कण्टकितगात्रयष्टयः के- तक्य इव कुसुमधूलिमुद्गिरन्त्यः, कमलिन्य इव दिवसमुत्फुल्लान- नाः, कुमुदिन्य इव रानावनुपजातनिद्राः, आविष्टा इव नरेन्द्रवृ- न्दपरिवृताः, प्रीतय इव हृदयमपहरन्त्यः, गीतय इव रागमुद्दीप- यन्त्यः, पुष्टय इवानन्दमुत्पादयन्त्यः, मदमपि मदयन्त्य इव, राग- मपि रजयन्त्य इव, आनन्दमपि आनन्दयन्य इव, नृत्यमपि नर्त- यमाना इव, उत्सवमप्युत्सुकयन्य इव, कटाक्षितेषु पिबन्त्य इवा- पाङ्गशुक्तिभिः, तर्जनेषु संयमयन्त्य इव नखमयूखपाशैः, कोपामि- नयेषु ताडयन्त्य इव भ्रूलतादिभागः, प्रणयसंभाषणेषु वर्षन्त्य इव लय इति ख्यात इति।मदेन कलो हृष्टः । काकली कलसूक्ष्ममधुरगीतध्वनिः । अश्ली- लानि ग्राम्यानि । कुङ्कुमेन परिमृष्टिः परिमार्जनमुद्वर्तनादि । अन्यत्र कुङ्कुमप्रमृष्टिः कुङ्कुमस्थलीषु लोठनात् । कुरण्टका आम्लातकानि । तेषां रक्तलमाह-प्रदीप्ता इति । मुखमुद्रा वक्रटङ्कः। शासनपटानां मुखेऽग्रे या मुद्रा दीयन्ते ता अपि ससि- न्दूराः। मनोरथेत्यादि । रथाश्च रथ्यासु संचरन्ति तद्वशात्पांसुला अपि भवन्ति । उद्दामेति । प्रतीहार्यश्च ता अप्येवंविधा भवन्ति । प्रचलन्ति नृत्तवशादोलायमा- नानि पत्त्राणि विशेषकानि तथा कुण्डलानि यासाम् । अन्यत्र पत्राणि पल्लवाः । कुण्डलानि समूहाः। ललितेषु पदेषु हंसका नूपुराः। पदाङ्गदं तुलाकोटिर्मजीरो नूपुरो- ऽस्त्रियाम् । हंसकाः पादकटकाः' इति । यद्वा ललितानि पदानि यासां ताश्च ता हंसकरवमुखराश्च । ललितपदाश्च ते हंसा एव हंसकाश्चेति वा । बालक्रीडाश्च विवेकशून्याः। घनो निरन्तरम्, मेघश्च । केतक्योऽपि सकेतकरजस्काः । निद्रा खापः, संकोचश्च । आविष्टा भूतादिगृहीताः। नरेन्द्रो राजा, मन्त्री च । रागो- ।
चतुर्थ उच्छासः। १३३ सर्वरसान् , चतुरचक्रमणेषु विकिरन्त्य इव विकारान् , पण्यवि- लासिन्यः प्रानृत्यन् । अन्यत्र वेत्रिवेत्रवित्रासितजनदत्तान्तरालाः, ध्रियमाणधवलात- पत्रवना वनदेवता इव कल्पतरुतलविचारिण्यः, काश्चित्स्कन्धोभय- पालीलम्बमानलम्बोत्तरीयलग्ना लीलादोलाधिरूढा इव प्रेवन्त्यः, काश्चित्कनककेयूरकोटिपाट्यमानपट्टांशुकोत्तरङ्गास्तरङ्गिण्य इव त- रच्चक्रवाकसीमन्त्यमानस्रोतसः, काश्चिदुद्भूयमानधवलचामरसटा- लग्नत्रिकण्टकवलितविकटकटाक्षाः, सरस्य इव हंसाकृष्यमाणनीलो- त्पलवनाः, काश्चिञ्चलच्चरणच्युतालक्तकारुणस्खेदशीकरसिच्यमानभ- वनहंसाः, संध्यारागरज्यमानेन्दुबिम्बा इव कौमुदीरजन्यः, काश्चि- त्कण्ठनिहितकाञ्चनकाञ्चीगुणाञ्चितकञ्चुकिविकाराकुञ्चितभ्रवः, कामवागुरा इव प्रसारितबाहुपाशा राजमहिष्यः प्रारब्धनृत्या विलेसुः। सर्वतश्च नृत्यतः वैणस्य गलद्भिः पदालक्तकैररुणिता रागम- यीव शुशोण क्षौणी । समुल्लसद्भिः स्तनमण्डलैर्मङ्गलकलशमय इव बभूव महोत्सवः । भुजलताविक्षेपैर्मृणालवलयमय इव रराज जी- वलोकः। समुल्लसद्भिविलासस्मितैस्तडिन्मय इवाक्रियत कालः । चञ्चलानां चक्षुषामंशुभिः कृष्णशारमया इवासन्वासराः । समु- ल्लसद्भिः शिरीषकुसुमस्तबककर्णपूरैः शुकपिच्छमय इव हरितच्छा- योऽभूदातपः । विस्रंसमानैर्धम्मिल्लतमालपल्लवैः कजलमयमिवाल- क्यतान्तरिक्षम् । उत्क्षिप्तैर्हस्तकिशलयैः कमलिनीमय्य इव बभासिरे ऽभिष्वङ्गः, हिङ्गुलकादिश्च । मदमपि मदयन्त्य इवेत्यादि । मदेन हि सर्वो मत्तो भवति, मदस्तु ता आश्रित्य मत्तः । एवमुत्तरत्र । अन्यत्रेत्यादौ राजमहिष्यो विलेसुरिति संबन्धः । ध्रियमाणधवलातपत्रवना इत्यादौ वाक्यार्थोपमा विचार्या । पाली पतिः । कनककेयूरेणेति । कनक- ग्रहणेन चक्रवाकसादृश्यमाह । तरङ्ग उत्तरीयम् । सीमन्त्यमानानि द्विधाक्रियमा- णानि । त्रिकण्टकः कर्णाभरणभेदः । 'त्रिकण्टकस्तु त्र्यश्रः स्यात्रिभी रत्नश्च भूषणम्' । कौमुदी कार्तिकज्योत्स्ना। तयुक्ता रजन्यो रात्रयः । आकुञ्चित आकृष्टः । विलेसुश्चिक्रीडः। स्त्रीणां समूहः स्त्रैणं तस्य । शुशोण शोणोऽभूत् । कालो होरादिलक्षणः, कलश्च कृष्णः । कथं तडिन्मयो रक्तवर्ण इति विरोधच्छाया। धम्मिल्लाः संयताः केशाः । बभासिरेऽशोभन्त । माणिक्यमुत्कृष्टं रत्नम् । किङ्किण्यः सूक्ष्मघण्टाः । शिशिजिरे । - ।
१३४ हर्षचरिते । सृष्टयः । माणिक्येन्द्रायुधानामर्चिषा चापपत्रमया इव चकाशिरे रविमरीचयः। रणतामाभरणगणानां प्रतिशब्दकैः किङ्किणीमय्य इव शिशिजिरे दिशः । जरत्योऽप्युन्मादिन्य इव रमण्यो रेणुः । वर्षीयांसोऽपि ग्रहगृहीता इव नापनेपिरे । विद्वांसोऽपि मत्ता इ- वात्मानं विसस्मरुः । निनर्तिषया मुनीनामपि मनांसि विपुस्फुलुः। सर्वस्वं च ददौ नरपतिः। दिशि दिशि कुबेरकोषा इवालुप्यन्त लोकेन द्रविणराशयः। एवं च वृत्ते तस्मिन्महोत्सवे शनैः शनैः पुनरप्यतिक्रामति का- ले, देवे चोत्तमाङ्गनिहितरक्षासर्षपे, समुन्मिषत्प्रतापाग्निस्फुलिङ्ग इव गोरोचनापिञ्जरितवपुषि, समभिव्यज्यमानसहजक्षात्रतेजसीव हा- टकबद्धविकटव्याघ्रनखपतिमण्डितग्रीवके, हृदयोद्भिद्यमानदीङ्कुर इव प्रथमाव्यक्तजल्पितेन सत्यस्य शनैरोंकारमिव कुर्वाणे, मुग्धस्मि- तैः कुसुमैरिव मधुकरकुलानि बन्धुहृदयान्याकर्षति, जननीपयोधर- कलशपयःशीकरसेकादिव जायमानैर्विलासहसिताङ्कुरैर्दशनकैरलं- क्रियमाणमुखकमलके, चारित्र इवान्तःपुरस्त्रीकदम्बकेन पाल्यमाने, मत्र इव सचिवमण्डलेन रक्ष्यमाणे, वृत्त इव कुलपुत्रकलोकेनामु- च्यमाने, यशसीवात्मवंशेन संवर्यमाने, मृगपतिपोत इव रक्षिपुरु- षशस्त्रपजरमध्यगते, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्र- यच्छति हर्षे, षष्ठं वर्षमवतरति च राज्यवर्धने देवी यशोवती गर्भेणाधत्त नारायणमूर्तिरिव वसुधां देवीं राज्यश्रियम् । पूर्णेषु च प्रसव दिवसेषु दीर्घरक्तनालनेत्रामुत्पलिनी मिव सर- सी, हंसमधुरस्वरां शरदमिव प्रावृट् , कुसुमसुकुमारावयवां वन- राजिमिव मधुश्री:, महाकनकावदातां वसुधारामिव द्यौः, प्रभा- सशब्दा अभवन् । रेणुः स्तनितवत्यः। वर्षीयांसो वृद्धतराः । अपत्रेपिरे लज्जा- मभजन्त । पुस्फुलुश्चेरुः । एवं चेत्यादौ देवी यशोवती राज्यश्रियमधत्तेति संवन्धः । हाटकं सुवर्णम् । ओंकारम् । ओमिति यावत् । पयोधरौ स्तनौ, पयोधराश्च मेघाः । पयः क्षीरम् , जलं च । पञ्च वा षड् वा पञ्चषाणि । पूर्णेष्वित्यादौ देवी दुहितरं प्रसूतवतीति संबन्धः । रक्तनाले रक्ते नेत्रे यस्याः, रक्तानि नालानि नेत्राणि मूलानि च यस्याः। हंसवत्तैश्च मधुरः । अवयवा अङ्गानि, विभागाश्च । माधवो वसन्तः । महाकनकं तिलसुवर्णम् । वसुधारा धन- चतुर्थ उच्छ्रासः। १३५ वर्षिणी रत्नजातिमिव वेला, सकलजननयनानन्दकारिणी चन्द्रले- खामिव प्रतिपत् , सहस्रनेत्रदर्शनयोग्यां जयन्तीमिव शची, सर्व- भूभृदभ्यार्थतां गौरीमिव मेना, प्रसूतवती दुहितरम् । यया द्वयोः सुतयोरुपरि स्तनयोरिवैकावलीलतया नितरामराजत । अस्मिन्नेव तु काले देव्या यशोवत्या भ्राता सुतमष्टवर्षदेशीय- मुद्भूयमानकुटिलकाकपक्षकशिखण्डं खण्डपरशुहुंकाराग्निधूमलेखा- नुबुद्धमूर्धानं मकरध्वजमिव पुनर्जातम् , एकेनेन्द्रनीलकुण्डलां- शुश्यामलितेन शरीरार्धेनेतरेण च त्रिकण्टकमुक्ताफलालोकधवलि- तेन संपृक्तावतारमिव हरिहरयोर्दर्शयन्तम् , पीनप्रकोष्ठप्रतिष्ठित- पुष्पलोहवलयं परशुराममिव क्षलक्षपणक्षीणपरशुपाशचिह्नितं बालतां गतम्, कण्ठसूत्रप्रथितभङ्गुरप्रवालाङ्करं हिरण्यकशि- पुमिवोर:काठिन्यखण्डितनरसिंहनखरखण्डम् , गृहीतजन्मान्तरं शैशवेऽपि सावष्टम्भं बीजमिव वीर्यद्रुमस्य भण्डिनामानमनुचरं कुमारयोरर्पितवान् । अवनिपतेस्तु तस्योपरि पुत्रयोस्तृतीयस्य नेत्रयोरिवेश्वरस्य तुल्यं दर्शनमासीत् । राजपुत्रावपि सकलजीवलोकहृदयानन्ददायिनौ तेन प्रकृतिदक्षिणेन मधुमाधवाविव मलयमारुतेनोपेतौ नि- तरां रेजतुः । क्रमेण चापरेणेव भ्रात्रा प्रजानन्देन सह वर्ध- मानौ यौवनमवतेरतुः स्थिरोरुस्तम्भौ च पृथुप्रकोष्टौ दीर्घभुजार्ग- वृष्टिः। इयं च महाभ्युदयसूचनाय दिवा पतति । वेला जलविकृतिः। इन्द्रोऽपि सहस्र-- नेत्रः । जयन्तः शक्रपुत्रः। भूभृतो राजानः, पर्वताश्च । मेना हिमवन्महिला । यये- त्यादौ यया दुहित्रा। द्वयोः सुतयोरुपरि जातया यशोवती नितरामराजतेति संबन्धः। अस्मिन्नित्यादौ देव्या यशोवत्या भ्राता स्वतनयं भण्डिनामानं कुमारयोरनुच- रमर्पितवानिति संबन्धः । काकपक्षकचूडा एव शिखण्डः पिच्छम् । पुष्पलोहं मणिभेदः। मृताग्निहोत्रं रथचक्रमिति केचित् । रणहतवीरकाय शातनवशात्परशोः पाशावशेषता। भङ्गुरः कुटिलः । बीजमिवेति । शैशवाद्वीजावस्थोत्प्रेक्षते । 'न तु द्रुमावस्था । अवनीत्यादाववनिपतेस्तु तस्योपरि पुत्रयोस्तुल्यं दर्शनमालोकनमिति संबन्धः। अन्यत्र दर्शनं दृष्टिः । तृतीयस्येति च । ईश्वरस्येति साधारणम् । सकलेत्यादि साधारणम् । दक्षिणोऽनुकूलः, दाक्षिणात्यश्च । मधुमाधवौ चैत्रवैशाखौ। ऊरुस्त- म्भाविव उरवः महान्तश्च स्तम्भाः। 'प्रकोष्ठमन्तरं विवादरनिमणिबन्धयोः'। । । ।
१३६ ३ हर्षचरिते लौ विकटोर:कवाटौ प्रांशुसालाभिरामौ महानगरसंनिवेशाविव सर्वलोकाश्रयक्षमौ बभूवतुः । अथ चन्द्रसूर्याविव स्फुरज्ज्योत्स्नायशःप्रतापाक्रान्तभुवनावभि- रामदुनिरीक्ष्यौ, अग्निमारुताविव समभिव्यक्ततेजोबलावेकीभूतो, शिलाकठिनकायबन्धौ हिमवद्विन्ध्याविवाचलौ, महावृषाविव कृतयुगयोग्यौ, अरुणगरुडाविव हरिवाहनविभक्तशरीरौ, इन्द्रोपे- न्द्राविव नागेन्द्रगतौ, कर्णार्जुनाविव कुण्डलकिरीटधरौ, पूर्वापरदि- ग्भागाविव सर्वतेजस्विनामुदयास्तमयसंपादनसमर्थों, अमान्तावि- वातिमानेनासन्नवेलार्गलनिरोधसंकटे कुकुटीरके तेज: पराङ्मुखी छायामपि जुगुप्समानौ, स्वात्मप्रतिबिम्बेनापि पादनखलग्नेन लज्ज- मानौ, शिरोरुहाणामपि भङ्गेन दुःखमवतिष्ठमानौ, चूडामणिसं- क्रान्तेनापि द्वितीयेनातपत्रेणापत्रपमाणौ,भगवति षण्मुखेऽपि स्वा- मिशब्देनासुखायमानश्रवणौ, दर्पणदृष्टेनापि प्रतिपुरुषेण दूयमान- नयनौ, संध्याञ्जलिघटनेष्वपि शूलायमानोत्तमाङ्गौ, जलधरधृते- नापि धनुषा दोदूयमानहृदयौ, आलेख्यक्षितिपतिभिरप्यप्रणमद्भिः संतप्यमानचरणौ, परिमितमण्डलसंतुष्टं तेजः सवितुरप्यबहुमन्य- । . - स्थानविशेषो वा । कवाटो द्वारपट्टः । सालो वृक्षभेदः, प्राकारश्च । सर्वलोकेत्यादि- साधारणम् । अथेत्यादौ तौ सर्वस्यामेव पृथिव्यां प्रकाशतां जग्मतुरिति संबन्धः । स्फुर- ज्योत्स्नाजालं यद्यशस्तथा प्रतापस्ताभ्याम्, अन्यत्र ज्योत्स्नायश इव भुवनाक्रमणस- मर्थत्वम् । प्रताप आयतिः, आतपश्च। तेजस्तैक्ष्ण्यम् , प्रकाशश्च बलं सामर्थ्यम् । उभयत्राप्येकीभूतावन्योन्यानुवर्तिनौ, मिलितौ च । शिलावत्ताभिश्च कठिनः । अच- लावकम्पो, गिरी चाचलौ । कृतयुगमाद्ययुगभेदः, मूर्धन्यकाष्ठं च । योग्यावुचितौ योग्या च शिक्षा । यद्वा कृतयुगे तत्र शकटादौ समर्थों । हरयोऽश्वाः, सूर्यविष्णू च हरी । उक्तं च-'यमानिलेन्द्रचन्द्रार्कविष्ण्वीशसिंहाखुवाजिषु । शुकाहिकपि- भेकेषु हरि! कपिले त्रिषु ॥' इति । विभक्तं स्कन्धमध्यादिविभागेन स्थितम् , परिकल्पितं च । नाग ऐरावणः, शेषश्च । नागेन्द्रवद्गतं ययोः, नागेन्द्रे वा गतावा- रूढौ । तेजस्विनो वीराः, आदित्याश्च । उदयो वृद्धिः, आविर्भावश्च । अस्तमयो नाशः, तिरोधानं च । अमान्ताववर्तमानौ । वेला जलनिधिः, जलमर्यादा । कुर्भूमि- रेव कुटीरकं जरद्गृहम् । भङ्गः कुञ्चितत्वम् , युद्धे पलायनं च । अपत्रपमाणौ ल- ज्जन्तौ । खामी कुमारः, प्रभुश्च । प्रतिपुरुषेणेति । स्पर्धायां प्रतिशब्दः । दोदूयमानं संतप्यमानम् । मण्डलं बिम्बम् , विषयश्च । तेजः प्रकाशः, तैक्ष्ण्यं च ।
चतुर्थ उच्छासः। १३७ मानौ, भूभृदपहृतलक्ष्मीकं सागरमप्युपहसन्तौ, बलवन्तमकृ- तविग्रहं मारुतमपि निन्दन्तौ, हिमवतोऽपि चमरीबालव्यजन- वीजितेन दह्यमानौ, जलधीनामपि शङ्खः खिद्यमानौ, चतुःसमु- द्राधिपतिमपरं प्रचेतसमप्यसहमानौ, अनपहृतच्छत्रानपि विच्छा- यानवनिपालान्कुर्वाणौ, साधुष्वप्यसेवितप्रसन्नौ, मुखेन मधु क्ष- रन्तौ, दुष्टराजवंशानूष्मणा दूरस्थितानपि म्लानिमानयन्तौ, अ- नुदिवसं शस्त्राभ्यासश्यामिकाकलङ्कितमशेषराजकप्रतापाग्निनिर्व- पणमलिनमिव करतलमुद्वहन्तौ, योग्याकालेषु धीरैर्धनुर्ध्वनिभिर- भ्योपभोगादिग्वधूभिरिवालपन्तौ, राज्यवर्धन इति हर्ष इति सर्वस्यामेव पृथिव्यामाविर्भूतशब्दप्रादुर्भावौ, स्वल्पीयसैव कालेन द्वीपान्तरेष्वपि प्रकाशतां जग्मतुः । एकदा च तावाहूय भुक्तवानभ्यन्तरगतः पिता सस्नेहमवादी- त्-'वत्सौ, प्रथमं राज्याङ्गं दुर्लभाः सद्धृत्याः । प्रायेण परमाणव इव समवायेष्वनुगुणीभूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः। क्रीडा- रसेन नर्तयन्तो मयूरतां नयन्ति बालिशाः । दर्पणमिवानुप्रवि- श्यात्मीयां प्रकृति संक्रामयन्ति पल्लविका; । स्वप्ना इव मिथ्याद- । । - भूभृदत्र प्रकरणान्मन्दरः, राजानश्च भूभृतः । लक्ष्मीः समृद्धिरपि । विग्रहं वैरम् , देहश्च । अनपहृतेत्यादि वर्ण्यमानवयोऽवस्थाभिप्रायेणोक्तम् । छाया कान्तिः आतपप्रतिपक्षजातिश्च । सति छत्रे विच्छायत्वं न भवतीति विरोधः । साधु- विति । साधूनां सेवाव्यतिरेकेण प्रसादायोग्यवम् । प्रसन्नौ प्रसादवन्तौ, सुरा अपि प्रसन्ना । मधु माधुर्यम् , मद्यं च । असेवितप्रसन्नश्च कथं मुखेन मधु क्षरतीति विरोधः । ऊष्मा स्मयः, तापश्च । ऊष्मणा च दाहशक्त्या । वंशा वेणवः । नि कटस्थो म्लानीक्रियते । न तु दूरस्थ इति विरोधः । निर्वपणं शमनम् । योग्या अभ्यासः । अभ्यर्णः प्रत्यासन्नः शब्दः । प्रादुर्भावः ख्यातिः । प्रथमं प्रधानभूतम् । प्रायेणेति । क्षुद्राः प्रायेण समवायेषु मन्त्रेष्वनुगुणी- भूय यथा क्षुद्रा अल्पपरिमाणाः परमाणवः पार्थिवं पृथिव्यादिजातीयं घटादि- द्रव्यं कुर्वन्ति । कथं समवायेष्वनुगुणीभूयायुतसिद्धानामाधाराधेयभूतानामिह प्र. त्ययहेतुः । संयोगः समवायः । यथा तन्तुषु पट इति । कार्यस्य द्रव्यस्यावयविन आरम्भं प्रतियोगीभावोऽनुगुणवम् । मयूरो धूर्तजनयोग्यो हासो वा, शिखण्डी च । बालिशा धूर्ताः, कुमाराश्च । बालका हि क्रीडारसेन मयूरं नर्तयन्ते । अनु- प्रविश्य चित्तरञ्जनां कृत्वा, आसाद्य च । प्रकृति स्वभावम्, शरीरं च । पल्लवि. का विटाः, किसलयानि च । मिथ्यादर्शनैरसदागमैः, अलीकवस्तुप्रकाशनैश्च । । । । ।
हर्षचरिते । शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः । गीतनृत्यहसितैरुन्मत्तता- मावहन्त्युपेक्षिता विकारा इव वातिकाः । चातका इव तृष्णवन्तो न शक्यन्ते ग्रहीतुमकुलीनाः । मानसे मीनमिव स्फुरन्तमेवाभि- प्रायं गृह्णन्ति जालिका: । यमपट्टिका इवाम्बरे चित्रमालिखन्त्यु- द्रीतकाः । शल्यं हृदये निक्षिपन्त्यतिमार्गणाः। यतः सर्वदोषा- भिषङ्गैरसंगतौ बहुधोपधाभिः परीक्षितौ शुची विनीतौ विक्रान्ता- वभिरूपौ मालवराजपुत्रौ भ्रातरौ भुजाविव मे शरीराव्यति- रिक्तौ कुमारगुप्तमाधवगुप्तावस्माभिर्भवतोरनुचरत्वार्थमिमौ निर्दि- ष्टौ अनयोरुपरि भवद्भयामपि नान्यपरिजनसमवृत्तिभ्यां भवि- तव्यम् इत्युक्त्वा तयोराद्वानाय प्रतीहारमादिदेश । नचिरावारदेशनिहितलोचनौ राज्यवर्धनहर्षों प्रतीहारेण सह प्रविशन्तम् , अग्रतो ज्येष्ठमष्टादशवर्षवयसं नात्युच्चं नातिखर्वमति- गुरुभिः पदन्यासैरनेकनरपतिसंचरणचलां निश्चलीकुर्वाणमिवो- मिनवरताभ्यस्तलङ्घनघनोपचयकठिनमांसमेदुरादूरुद्वयान्निष्पतते- वानुल्बणजानुग्रन्थिप्रसूतेन तनुतरजङ्घाकाण्डयुगलेन भासमानम् , उल्लिखितपार्श्वप्रकाशितक्रशिम्ना मन्दरमिव सुरासुररभसभ्रमि- असतीमशोभनां बुद्धिम् , असत्यविद्यमाने च बुद्धिः । विप्रलम्भकाः प्रतारकाः । वातिका धूर्ताः, वातोत्थिताश्च । तृष्णा धनगर्धा, पिपासा च । ग्रहीतुमावर्जितुम्, अवष्टब्धं च । अकुलीना अकुलोद्गताः । को भूमौ न निलीनाश्चाकाशचारित्वम् । मानसे चित्ते, सरोभेदे च । स्फुरन्तमुत्पद्यमानम् । अनुत्पन्नाभिभवमिति यावत् । सति कार्ये हि सर्व एवाभिप्रायं लक्षयति । एतेऽत्र प्रागेव । अन्यत्र च चलन्तम् । जालिकाः कौसृतिकाः, कैवर्ताश्च । यमपट्टिका गृहीतपट्टलिखितसपरिवारधर्मरा- जाः । अम्बर आकाशे, वस्त्रे चाम्बरे। चित्रमालिखन्तीति । असंभाव्यमाना- नानारभन्त इति यावत् । अन्यत्र चित्रमालेख्यम् । उद्गीतकादुच्चरित्वादुच्चैर्गी- तं येषां ते च । शल्यमिव शल्य पीडा, फलिका च । अतिमार्गणा अतिक्रम्य ये संश्रयन्ते, अन्यथा महाभागिनोऽस्य वक्तुरनुचितेयमुक्तिः स्यात् । तेनानुरूपसं- भवम विच्छिन्नं च । मार्गमतिमार्गणम् , मार्गणाः शराश्च । हृदये शल्यं फलिका- मर्पयन्ति । अभिषङ्गः संपर्कः । उपधा भृत्यस्य धर्मादिविषयः परीक्षणोपायः। उक्तं च-'उपेल्याधीयते यस्मादुपधेति ततः स्मृता । उपाय उपधा ज्ञेया तया भृत्यान्परीक्षयेत् ॥ इति । विक्रान्तौ शूरौ । अभिरूपौ सुन्दरौ। नचिरादित्यादौ राज्यवर्धनहर्षों प्रतीहारेण सह प्रविशन्तमग्रतो ज्येष्ठं कुमार- गुप्तं पृष्ठतश्च तस्य कनीयांसं नीतिमत्त्वं प्रकाशितम् । खर्व वामनम् । मेदुरात्पु- ष्टात् । अनुल्बणोऽनुद्धतः । उल्लिखितमिवोल्लिखितं तनूकृतम् । रुरुमंगभेदस्तस्येयं । ।
चतुर्थ उच्छ्रासः। १३९ तवासुकिकषणक्षीणेन मध्येन लक्ष्यमाणम्, अतिविस्तीर्णेनोरसा स्वामिसंभावनानामपरिमितानामवकाशमिव प्रयच्छन्तम्, म्बमानस्य भुजयुगलस्य निभृतललितैर्विक्षेपैरतिदुस्तरं तरन्तमिव यौवनोदधिम् , वामकरकटकमाणिक्यमरीचिमञ्जरीजालिन्या स- मुद्भिद्यमानप्रतापानलशिखापल्लवयेव चापकिणलेखयाङ्कितपीवरप्र- कोष्टम्, आलोहिनीमुच्चांसतटावलम्बिनीमस्त्रग्रहणव्रतविधृतां गैर- वीमिव त्वचं कर्णाभरणमणेः प्रभां विभ्राणम् , उत्कोटिकेयूरपत्र- भङ्गपुत्रिकाप्रतिविम्बगर्भकपोलं मुखं चन्द्रमसमिव हृदयस्थितरो- हिणीकमुद्वहन्तम् , अचपलस्तिमिततारकेणाधोमुखेन चक्षुषा शि- क्षयन्तमिव लक्ष्मीलाभोत्तानितमुखानि पङ्कजवनानि विनयम् , स्वाम्यनुरागमिवाम्लातकमुत्तंसीकृतं शिरसा धारयन्तम्, निर्दयया कङ्कणभङ्गभीतसकलकार्मुकार्पितामिव नम्रतां प्रकाश- यन्तम् , शैशव एव निर्जितैरिन्द्रियैररिभिरिव संयतैः शोभमानम्, प्रणयिनीमिव विश्वासभूमि कुलपुत्रतामनुवर्तमानम् , तेजस्विन- मपि शीलेनालादकेन सवितारमिव शशिनान्तर्गतेन विराजमानम् , अचलानामपि कायकार्कश्येन गन्धनमिवाचरन्तम् , दर्शनक्रीत- मानन्दहस्ते विक्रीणानमिव जनं सौभाग्येन कुमारगुप्तम् , पृष्ठत- स्तस्य कनीयांसमतिप्रांशुतया गौरतया च मनःशिलाशैलमिव संचरन्तम् , अनुल्बणमालतीकुसुमशेखरनिभेन निर्जिगमिषता गु- रुणा शिरसि चुम्बितमिव यशसा परस्परविरुद्धयोविनययौवन- योश्चिरात्प्रथमसंगमचिह्नमिव भ्रूसंगतकेन कथयन्तम् , अतिधी- रतया हृद्यनिहितां स्वामिभक्तिमिव निश्चलां दृष्टिं धारयन्तम् , अच्छाच्छचन्दनरसानुलेपशीतलं संनिहितहारोपधानं वक्षःस्थ- रौरवी ताम् । अम्लातकं पुष्पभेदम्, करण्टिकापुष्पभेदं वा । उत्तंसीकृतं शेखरतां नीतम् । शीलेनाप्यन्तर्गतेन । एतेन चास्या दाम्भिकत्वमुक्तम् । गन्धनं मर्दनम् , उद्वाहनं वा । दृष्टमेव जनं वश्यमेव सर्व करोतीति दर्शनक्रीतता। क्रीतमावर्जि- तम् । पुनश्चानन्दोत्पादनद्वारेणानन्दवन्तं तच्छरणं करोतीति । तत्र विक्रियोले- क्षा-यत्तु वस्तु केनचिदर्थेन क्रीतं तदप्यन्यस्य विक्रीयत इत्युक्तम् । विक्री- णानमिति । गौरतयेतीत्थंभूतलक्षणे तृतीया। शेखरस्यानुल्बणलं विचयं वक्ति। गुरुणा भूयिष्ठेन । चुम्बितमधिष्ठितम् । गुरुणा च पित्रा निर्गच्छता पुनः शिरसि चुम्ब्यते । भ्रूसंगतकं विनयम्, उपधानं गण्डकम् । विशालं प्रशस्तम् । विशाले हर्षचरिते लमनन्तसामन्तसंक्रान्तिश्रान्तायाः श्रियो विशालं शशिमणिशि- लापट्टशयनमिव बिभ्राणम् , चक्षुः कुरङ्गकै?णावंशं वराहैः स्कन्धपीठं महिषैः प्रकोष्ठबन्धं व्याप्रैः पराक्रम केसरिभिर्गमनं मतङ्गजैगयाक्षपितशेषैर्भीतैरुत्कोचमिव दत्तं दर्शयन् माधवगुप्तं दहशतुः । प्रविश्य च दूरादेव चतुर्भिरङ्गैरुत्तमाङ्गेन च गां स्पृशन्तौ नमश्चक्रतुः । स्निग्धनरेन्द्रदृष्टिनिर्दिष्टामुचितां भूमि भेजाते । मुहूर्त च स्थित्वा भूपतिरादिदेश तौ--'अद्यप्रभृति भवद्भ्यां कुमाराव- नुवर्तनीयौ' इति । 'यथाज्ञापयति देवः' इति मेदिनीदोलायमान- मौलिभ्यामुत्थाय राज्यवर्धनहाँ प्रणेमतुः । तौ च पितरम् । ततश्चारभ्य क्षणमपि निमेषोन्मेषाविव चक्षुर्गोचरादनपयान्तावु- च्छासनिःश्वासाविव नक्तंदिवमभिमुखस्थितौ भुजाविव सततपा- श्ववर्तिनौ कुमारयोस्तौ बभूवतुः। अथ राज्यश्रीरपि नृत्यगीतादिषु विदग्धासु सुखीषु सकलासु कलासु च प्रतिदिक्समुपचीयमानपरिचया शनैः शनैरवर्धत । परिमितैरेव दिवसैयौवनमारोह । निपेतुरेकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृष्टयः । दूतप्रेषणादिभिश्च तां ययाचिरे राजानः । कदाचित्तु राजान्तःपुरप्रासादस्थितो बाह्यकक्ष्यावस्थितेन पुरु- षेण स्वप्रस्तावागतां गीयमानामार्यामशृणोत्- "उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले । सरिदिव तटमनुवर्षे विवर्धमाना सुता पितरम् ॥ ५ ॥' तां च श्रुत्वा पार्श्वस्थितां महादेवीमुत्सारितपरिजनो जगाद- 'देवि, तरुणीभूता वत्सा राज्यश्रीः । एतदीया गुणवत्तेव क्षण- मपि हृदयान्नापयाति मे चिन्ता । यौवनारम्भ एव च कन्य- कानामिन्धनीभवन्ति पितरः संतापानलस्य । हृदयमन्धकारयति मे दिवसमिव पयोधरोन्नतिरस्याः । केनापि कृता धा नाभि- चाङ्गानि प्रसार्यन्ते । शीतललाञ्चाङ्ग निर्वृतिः। घोणा नासिका एव । स्पष्टलाई- शस्तम् । उत्कोचमिवेति । दण्डमित्यर्थः । चतुर्भिरङ्गैरिति । जानुभ्यां हस्ताभ्यां चोत्तमाङ्गेन भूमिम् । तौ च । पि- BSN ।
चतुर्थ उच्छ्रासः। मता मे स्थितिरियं यदङ्गसंभूतान्यङ्कलालितान्यपरित्याज्यान्यपत्य- कान्यकाण्ड एवागत्यासंस्तुतैर्नीयन्ते । एतानि तानि खल्वङ्क- नस्थानानि संसारस्य । सेयं सर्वाभिभाविनी शोकाग्नेर्दाहशक्ति- र्यदपत्यत्वे समाने जातायां दुहितरि दूयन्ते सन्तः । एतदर्थ जन्मकाल एव कन्यकाभ्यः प्रयच्छन्ति सलिलमश्रुभिः साधवः । एतद्भयाद्कृतदारपरिग्रहाः परिहृतगृहवसतयः शून्यान्यरण्या- न्यधिशेरते मुनयः । को हि नाम सहते विरहमपत्यानाम् । यथा यथा समापतन्ति दूता वराणां वराकी लज्जमानेव चिन्ता तथा तथा नितरां प्रविशति मे हृदयम् । किं क्रियते । तथापि गृहगतै- रनुगन्तव्या एव लोकवृत्तयः । प्रायेण च सत्स्वप्यन्येषु वरगुणेष्व- भिजनमेवानुरुध्यन्ते धीमन्तः । धरणीधराणां च मूर्ध्नि स्थितो माहे- श्वरः पादन्यास इव सकलभुवननमस्कृतो मौखरी वंशः । तत्रापि तिलकभूतस्यावन्तिवर्मणः सूनुरग्रजो ग्रहवर्मा नाम ग्रहपतिरिव गां गतः पितुरन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते ततस्तस्मै दातुमिच्छामि इत्युक्तवति' भर्तरि दुहि- तृस्नेहकातरतरहृदया साश्रुलोचना महादेवी प्रत्युवाच-'आर्य- पुत्र, संवर्धनमात्रोपयोगिन्यो धाबीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । दाने तु प्रमाणमासां पितरः । केवलं कृपाकृतविशेष: सुदूरेण तनयस्नेहादतिरिच्यते दुहितृस्नेहः । यथा यावज्जीवमावयोरार्तिता प्रतिपद्यते तथार्यपुत्र एव जाना- ति' इति । राजा तु जातनिश्चयो दुहितृदानं प्रति समाहूय सुतावपि विदितार्थावकार्षीत् । शोभने च दिवसे ग्रहवर्मणा कन्यां प्रार्थ- यितुं प्रेपितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलस- तरमिति।तौ च राज्यवर्धनहर्षों लब्धानुचरावभिवन्दनाय पितरं प्रणेमतुरित्यर्थः। विदग्धासु प्रवीणासु, ग्राम्यासु च । उद्वेगो मानसी पीडा तस्यावर्तनमावर्ती जलभ्रमणम् । तत्र पयोधरशब्दः स्तनमेघयोः । अनुवर्षे वर्षे, प्रावृषि च । असंस्तुतैरपरिचितैः । दौःशील्यं चिह्नम् । वराकी तपखिनी । अभिजनं कुलम् । सकलेत्यादि साधारणम् । आर्तिता मनःपीडालम् । जातमुदीत्यादावेवं राजकुलमासीदिति संबन्धः । ग्रामीणा ग्राम्याः । राजादै- - ।
१४२ हर्षचरिते मक्षं दुहितदानजलमपातयत् । जातमुदि कृतार्थे गते च तस्मि- नासन्नेषु च विवाह दिवसेषुद्दामदीयमानताम्बूलपटवासकुसुमप्र- साधितसर्वलोकम् , सकलदेशादिश्यमानशिल्पिसार्थागमनम् , अ- वनिपालपुरुषगृहीतसमग्रग्रामीणानीयमानोपकरणसंभारम् , राज- दौवारिकोपनीयमानानेकनृपोपायनम् , उपनिमन्त्रितागतबन्धुव- र्गसंवर्गणव्यग्रराजवल्लभम् , लब्धमधुमदप्रचण्डचर्मकारकरपुटो- ल्लालितकोणपटुविघट्टनरणन्मङ्गलपटहम् , पिष्टपञ्चाङ्गुलमण्ड्य- मानोलूखलमुसलशिलाद्युपकरणम्, अशेषाशामुखाविर्भूतचारण- परम्परापूर्यमाणप्रकोष्ठप्रतिष्ठाप्यमानेन्द्राणीदैवतम् , सितकुसुमवि- लेपनवसनसत्कृतैः सूत्रधारैरादीयमानविवाहवेदीसूत्रपातम् , कूर्चककरैश्च सुधाकर्परस्कन्धैरधिरोहिणीसमारूढैर्धवैर्धवलीक्रि- यमाणप्रासादप्रतोलीप्राकारशिखरम् , क्षुण्णक्षाल्यमानकुसुम्भक- संभाराम्भ:प्लवपूररज्यमानजनपादपल्लवम् , निरूप्यमाणयौतकयो- ग्यमातङ्गतुरङ्गतरङ्गिताङ्गनम् , गणनाभियुक्तगणकगणगृह्यमाणल- नगुणम् , गन्धोदकवाहिमकरमुखप्रणालीपूर्यमाणक्रीडावापीसमू- हम् , हेमकारचक्रप्रक्रान्तहाटकघटनटाङ्कारवाचालितालिन्दकम् , उत्थापिताभिनवभित्तिपात्यमानबहलवालुकाकण्ठकालेपाकुलालेप- कलोकम् , चतुरचिवकरचक्रवाललिख्यमानमङ्गल्यालेख्यम् , लेप्य- कारकदम्बकक्रियमाणमृण्मयमीनकूर्ममकरनारिकेलकदलीपूगवृक्ष- कम् , क्षितिपालैश्च स्वयमाबद्धकक्ष्यैः स्वाम्यर्पितकर्मशोभासंपाद- नाकुलैः सिन्दूरकुट्टिमभूमीश्च मसृणयद्भिर्विनिहितसरसातर्पण- हस्तान्विन्यस्तालक्तकपाटलांश्च चूताशोकपल्लवलाञ्छितशिखरानु- द्वाह वितर्दिकास्तम्भानुत्तम्भयद्भिः प्रारब्धविविधव्यापारम् , आ- सूर्योदयाच्च प्रविष्टाभिः सतीभिः सुभगाभिः सुरूपाभिः सुवेशा- चारिका दूताः । संवर्गणमावर्तनम् । पिष्टमातर्पणम् । चारणाः कुशीलवाः । प्रको- ठं बहिारम् । सूत्रधारैः स्थपतिभिः । अधिरोहिणी निःश्रेणिः । धवैः पुरुषैः । क्षुण्णश्चर्णितः । कुसुम्भकं पद्मकम् । प्लवः पूरः । यौतकं सुदायः। प्रणालं वाप्या- दिपूरणार्थ मकरमुखं कुर्वन्ति । लग्नो मेषादिः । अलिन्दो बहिरकोष्ठः । क- ण्ठकाः कणाः । आबद्धकक्ष्यः कृतोद्योगैः । मसृणयद्भिश्चिकणीकुर्वद्भिः । आतर्पणं पिष्टम् । उत्तम्भयद्भि/कुर्वद्भिः । गोत्रं नाम । दिग्धा उपलिप्ताः । शीतलम- प्रक्वम् । शाराजिरं शारवम् । अभिन्नपुटो वंशादिमयश्चतुष्कोणः पाटलाकृतिर्जाल- चतुर्थ उच्छासः। १४३ भिरविधवाभिः सिन्दूररजोराजिराजितललाटाभिर्वधूवरगोत्रग्रह- णगर्भाणि श्रुतिसुभगानि मङ्गलानि गायन्तीभिर्बहुविधवर्णकादि- ग्धाङ्गुलीभिर्गीवासूत्राणि च चित्रयन्तीभिश्चितपतलतालेख्यकुश- लाभिः कलशांश्च धवलिताशीतलशाराशिरश्रेणीश्च मण्डय- न्तीभिरभिन्नपुटकर्पासतूलपल्लवांश्च वैवाहिककङ्कणोर्णासूत्रसंनाहांश्च रञ्जयन्तीभिर्बलाशनाघृतघनीकृतकुङ्कुमकल्कमिश्रितांश्चाङ्गरागांल्ला- वण्यविशेषकृन्ति च मुखालेपनानि कल्पयन्तीभिः कक्कोलमिश्रा: सजातीफलाः स्फुरत्स्फीतस्फाटिककर्पूरशकलखचितान्तराला लव- ङ्गमाला रचयन्तीभिः समन्तात्सामन्तसीमन्तिनीभिर्व्याप्तम् , बहुविधभक्तिनिर्माणनिपुणपुराणपौरपुरंध्रिबध्यमानैर्बद्धैश्वाचारच- तुरान्तःपुरजरतीजनितपूजाराजमानरजकरज्यमानै रक्तैश्चोभयप- टान्तलग्नपरिजनप्रेङ्खोलितैश्छायासु शोष्यमाणैः शुष्कैश्च कुटिलक्र- मरूपक्रियमाणपल्लवपरभागैरपरैरारब्धकुङ्कुमपङ्कस्थासकच्छुरणैरप- रैरुद्भुजभुजिष्यभज्यमाणभङ्गुरोत्तरीयैः क्षौमैश्च बादरैश्च दुकूलैश्च लालातन्तुजैश्चांशुकैश्च नेवैश्च निर्मोकनिभैरकठोररम्भागर्भकोमलै- नि:श्वासहार्यैः स्पर्शानुमेयैर्वासोभिः सर्वतः स्फुरद्भिरिन्द्रायुधसहस्र- रिव संछादितम् , उज्ज्वलनिचोलकावगुण्ठ्यमानहंसकुलैश्च शयनी- यैस्तारामुक्ताफलोपचीयमानैश्च कञ्चुकैरनेकोपयोगपाट्यमानैश्चाप- रिमितैः पट्टपटीसहस्रैरभिनवरागकोमलदुकूलराजमानैश्च पटवि- तानैः स्तवरकनिवहनिरन्तरच्छाद्यमानसमस्तपटलैश्च मण्डपैरुच्चि- त्रनेत्रपटवेष्ट्यमानैश्च स्तम्भैरुज्ज्वलं रमणीयं चौत्सुक्यदं च मङ्गल्यं चासीद्राजकुलम् । देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृतप्रत्यवेक्षणेषु, कैः क्रियते । तच्छिद्रान्तरपूरणाय कोसतूलपल्लवा रज्यन्ते । कङ्कणः प्रतिसरः । बलाशना पुष्पाख्यौषधिः तत्पक्कं घृतं रक्षार्थ क्रियते । स्फाटिककर्पूराख्यः कर्पू. रभेदः । भक्तिविच्छित्तिः । कुटिलः क्रमो येषां तैः । भुजिष्यैश्चेटैः । भज्यमा- नवं मुष्टिदानम् । क्षौमैः क्षुमाविकारैः। बादरैः कार्पासैः । लालातन्तुजैः कौशेयैः। नेत्रैः पृङ्गः । निचोलकैर्वस्तुरूपकविशेषैः । स्तवरकं वस्त्रभेदः । वितानकं करकम् । पटलं छादनम् । उज्ज्वलं भ्राजिष्णु । । । ।
हर्षचरिते आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभवत् । भूपतिरप्यु- पर्युपरि विसर्जितोष्ट्रवामीजनितजामातृजोषः सत्यप्याज्ञासंपादनद- क्षे मुखेक्षणपरे परिजने समं पुत्राभ्यां दुहितृस्नेहविक्लवः सर्व खयमकरोत् । एवं च तस्मिन्नविधवामय इव भवति राजकुले, मङ्गलमय इव जायमाने जीवलोके, चारणमयेष्विव लक्ष्यमाणेषु दिङ्मुखेषु, पटह- मय इव कृतेऽन्तरिक्षे, भूषणमय इव भ्रमति परिजने, बान्धव- मय इव दृश्यमाने सर्गे, निर्वृत्तिमय इवोपलक्ष्यमाणे काले, ल. क्ष्मीमय इव विजृम्भमाणे महोत्सवे, निधान इव सुखस्य फल इव जन्मनः परिणाम इव पुण्यस्य यौवन इव विभूतेयौँवराज्य इव प्रीतेः सिद्धिकाल इव मनोरथस्य वर्तमाने, गण्यमान इव जनाङ्गु- लीभिः, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान इव मङ्ग- ल्यवाद्यप्रतिशब्दकैः, आहूयमान इव मौहूर्तिकैः, आकृष्यमाण इव मनोरथैः, परिष्वज्यमान इव वधूसखीहृदयैराजगाम विवाह दिव- सः। प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्त- मक्रियत राजकुलम् । अथ प्रतीहारः प्रविश्य नृपसमीपम् 'देव, जामातुरन्तिकात्ता- म्बूलदायकः पारिजातकनामा संप्राप्तः' इत्यभिधाय स्वाकारं युवा- नमदर्शयत् । राजा तु तं दूरादेव जामातृबहुमानाद्दर्शितादरः 'बालक, कच्चित्कुशली ग्रहवर्मा इति पप्रच्छ । असौ तु समाक- र्णितनराधिपध्वनिर्धावमानः कतिचित्पदान्युपसृत्य प्रसार्य च वाहू सेवाचतुरश्चिरं वसुंधरायां निधाय मूर्धानमुत्थाय 'देव, कुशली यथाज्ञापयस्यर्चयति च देवं नमस्कारेण' इति व्यज्ञापयत् । आग- तजामातृनिवेदनागतं च तं ज्ञात्वा कृतसत्कारं राजा 'यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषः' इति संदिश्य प्रतीपं प्राहिणोत् । उष्ट्रवाम्युष्ट्रभार्या । केचिद्वामीद्वयमन्ये वेसरीमन्ये गुर्वीमाहुः । जोषः सुखम् । एवमित्यादावस्मिन्सत्याजगाम विवाहदिवस इति संबन्धः । निधान इव सुखस्येत्यादौ वर्तमान इत्यनेन संगतिः । मौहूतिकैर्गणकैः । अनिबद्धो बाह्यः । यथा न भवति दोष इत्यत्र तथा कार्यमित्यर्थलभ्यम् ।
चतुर्थ उच्छ्वासः। १४५ अथ सकलकमलवनलक्ष्मी वधूमुख इव संचार्य समवसिते वा- सरे, विवाह दिवसश्रियः पादपल्लव इव रज्यमाने सवितरि, वधूव- रानुरागलघूकृतप्रेमलजितेष्विव विघटमानेषु चक्रवाकमिथुनेषु, सौ- भाग्यध्वज इव रक्तांशुकसुकुमारवपुषि नभसि स्फुरति संध्यारा- गे, कपोतकण्ठकबुरे वरयात्रागमनरजसीव कलुषयति दिङ्मुखानि तिमिरे, लग्नसंपादनसज्ज इवोजिहाने ज्योतिर्गणे, विवाहमङ्गलक- लश इवोदयशिखरिणा समुत्क्षिप्यमाणे वर्धमानधवलच्छाये तारा- धिपमण्डले वधूवदनलावण्यज्योत्स्नापरिपीततमसि प्रदोषे वृथोदि- तमुपहसत्स्विव रजनिकरमुत्तानितमुखेषु कुमुवनेष्वाजगाम मुहु- मुहुरुल्लासिंतस्फारस्फुरितारुणचामरैभनोरथैरिवोत्थितरागाग्रपल्लवैः पुरो धावमानैः पादातैरुत्कर्णकटकहयप्रतिहेषितदीयमानस्वागतैरिव वाजिनां वृन्दैश्चापूरितदिग्भागश्चलकर्णचामराणां चामीकरमयसर्वो- पकरणानां वर्णकलम्बिना बलिनां घण्टाटाङ्कारिणां करिणां घटाभिः घटयन्निव पुनरिन्दूदयविलीनमन्धकारं नक्षत्रमालामण्डितमुखीं करिणी निशाकर इव पौरंदरी दिशमारूढः प्रकटितविविधविह- गविरुतैस्तालावचरचारणैः पुरःसरैर्वालो वसन्त इवोपवनैः क्रि- यमाणकोलाहलो गन्धतैलावसेकसुगन्धिना दीपिकाचक्रवालस्या- लोकेन कुङ्कमपटवासधूलिपटलेनेव पिञ्जरीकुर्वन्सकलं लोकमुत्फु- लमल्लिकामुण्डमालामध्याध्यासितकुसुमशेखरेण शिरसा हसन्निव सपरिवेशक्षपाकरं कौमुदीप्रदोषमात्मरूपनिर्जितमकरकेतुकरापहृ- तेन कार्मुकेणेव कौसुमेन दाम्ना विरचितवैकक्ष्यकविलासः कुसुम- सौरभगर्वभ्रान्तभ्रमरकुलकलप्रलापसुभगः पारिजात इव जातः श्रि- या सह पुनरवतारितो मेदिनी नववधूवदनावलोकनकुतूहलेनेव कृष्यमाणहृदयः पतन्निव मुखेन प्रत्यासन्नलग्नो ग्रहवर्मा । अथेत्यादावेतस्मिन्नेतस्मिन्सत्याजगामेति संबन्धः । कपोतेयसाधारणम् । कर्बुर आपाण्डुरे । रजसीवेति । रजोऽपि मुखानि कलुषयति । लग्नेत्यादि साधारणम् । उज्जिहान उद्गच्छति । ज्योतिर्गणैस्तारानिकरैः, गणकैश्च । वर्धमा- नेत्यादि संध्यारागरहितत्वात् । वर्धमानं शरावः। तेन च धवलच्छायम् । तद्धि मक्कोललिप्तं विवाहे क्रियत इत्याचारः । स्फारः स्फोटकः । पुरो धावमानैरिति साधारणम् । पादातैः पदातिसमूहैः ।
हर्षचरिते राजा तु तमुपद्वारमागतं चरणाभ्यामेव राजचक्रानुगम्यमानः ससुतः प्रत्युजगाम । अवतीर्ण च तं कृतनमस्कारं मन्मथमिव माधवः प्रसारितभुजो गाढमालिलिङ्ग । यथाक्रमं परिष्वक्तराज्य- वर्धनहर्षे च हस्ते गृहीत्वाभ्यन्तरं निन्ये । स्वनिर्विशेषासनदाना- दिना चैनमुपचारेणोपचचार । न चिराच गम्भीरनामा नृपतेः प्रणयी विद्वान्द्विजन्मा ग्रहव- र्माणमुवाच–'तात, त्वां प्राप्य चिरात्खलु राजश्रिया घटितौ ते- जोमयौ सकलजगद्गीयमानबुधकर्णानन्दकारिगुणगणौ सोमसूर्यवं- शाविव पुष्पभूतिमुखरवंशौ । प्रथममेव कौस्तुभमणिरिव गुणैः स्थितोऽसि हृदये देवस्य । इदानीं तु शशीव शिरसा परमेश्वरे- णासि वोढव्यो जातः' इति । एवं वदत्येव तस्मिन्नृपमुपसृत्य मौहूर्तिकाः 'देव, समासीदति लग्नवला । ब्रजतु जामाता कौतुकगृहम्' इत्यूचुः । अथ नरेन्द्रेण 'उत्तिष्ठ । गच्छ' इति गदितो ग्रहवर्मा प्रविश्यान्तःपुरं जामातृ- दर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचनसहस्राणि विकचनी- लकुवलयवनानीव लङ्घयन्नाससाद कौतुकगृहद्वारम् । निवारितप- रिजनश्च प्रविवेश । अथ तत्र कतिपयाप्तप्रियसखीखजनप्रमदाप्रायपरिवाराम् , अ- रुणांशुकावगुण्ठितमुखी प्रभातसंध्यामिव स्वप्रभया निष्प्रभान्प्रदी- पकान्कुर्वाणाम् , अतिसौकुमार्यशङ्कितेनेव यौवनेन नातिनिर्भरमु- पगूढाम् , साध्वसनिरुध्यमानहृदयदेशदुःखमुक्तैनिभृतायतैः श्वसि- तैरपयान्तं कुमारभावमिवानुशोचन्तीम् , अत्युत्कम्पिनी पतन- भियेव वपया निष्पन्दं धार्यमाणाम् , हस्तं तामरसप्रतिपक्षमास- नग्रहणं शशिनमिव रोहिणी भयवेपमानमानसामवलोकयन्तीम् , राजश्रिया नृपतिलक्ष्म्यापि । घटितौ योजितौ, मुक्तौ च । बुधको पण्डित- श्रोत्रे, सोमसूर्यसूनू च । गुणैरुत्कः, तन्तुभिश्च । हृदये चेतसि, वक्षसि च । देवस्य राज्ञः, विष्णोश्च । परमेश्वरेण राज्ञा, हरेण च । कौतुकगृहं विवाहमङ्गलवेश्म । अथेत्यादौ तत्र वधूमपश्यदिति संबन्धः । अरुणांशुकं लोहितं वस्त्रम् । अरु- णस्याल्ऽशवोंऽशुकाः । निभृतैर्गुप्तैः । प्रतिपक्षस्तुल्यः, शत्रुश्च । ग्रहणं हस्तस्य खीकारः । शशिनश्च ग्रहणं समासन्नं भवति । उद्गमनं सौरभमित्यन्ये । प्रभा- चतुर्थ उच्छासः। १४७ चन्दनधवलतनुलतां ज्योत्स्नादानसंचितलावण्यात्कुमुदिनीगर्भा- दिव प्रसूताम् , कुसुमामोदनिर्झरिणीं वसन्तहृदयादिव निर्गताम् , निःश्वासपरिमलाकृष्टमधुकरकुलां मलयमारुतादिवोत्पन्नाम् , कृत- कंदर्पानुसरणां रतिमिव पुनर्जाताम् , प्रभालावण्यमदसौरभमा- धुर्यैः कौस्तुभशशिमदिरापारिजातामृतप्रभवैः सर्वरत्नगुणैरपरामिव सुरासुररुषा रत्नाकरेण कल्पितां श्रियं स्निग्धेन बालिकालोकेन सितसिन्धुवारकुसुममञ्जरीभिरिव मुक्तादीधितिभिः कल्पितकर्णा- वतंसाम् , कर्णाभरणमरकतप्रभाहरितशाद्वलेन कपोलस्थलीतलेन विनोदयन्तीमिव हारिणी लोचनच्छायाम् , अधोमुखं वरकौतुका- लोकनाकुलं मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं सखीजनं हृदयं च नि- भर्सयन्ती वधूमपश्यत् । प्रविशन्तमेव तं हृदयचौरं वध्वा समर्पितं जग्राह कंदर्पः । परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत्कार्यते जामा- ता तत्तत्सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेशपरिग्रहां गृ- हीत्वा करे वधू निर्जगाम । जगाम च नवसुधाधवलां निमत्रि- तागतैस्तुषारशैलोपत्यकामिव त्र्यम्बकाम्बिकाविवाहाहृतैर्भूभृद्भिः परिवृताम् , सेकसुकुमारयवाङ्करदन्तुरैः पञ्चास्यैः कलशैः कोमल- वर्णिकाविचित्रैरमित्रमुखैश्च मङ्गल्यफलहस्ताभिरञ्जलिकारिकाभि- रुद्भासितपर्यन्ताम् , उपाध्यायोपधीयमानेन्धनधूमायमानाग्निसंधु- क्षणाक्षणिकोपद्रष्टुद्विजाम् , उपकृशानुनिहितानुपहतहरितकुशाम् , संनिहितदृषदजिनाज्यस्रुक्समित्पूलीनिवहाम् , नूतनसूार्पितश्या- मलशमीपलाशमिश्रलाजहासिनी वेदीम् । आरुरोह च तां दिव- मिव सज्योत्स्नः शशी । समुत्ससर्प च वेल्लितारुणशिखापल्लवस्य -- दीनां कौस्तुभादिभिर्यथासंख्यम् । बालिका ऊर्मिका, कौमारी च । विनोदयन्ती प्रथयन्तीम् । हारिणी रम्याम् , मार्गी च । मृगलोचनच्छायां नीलशाद्वलेन स्था- लीतले क्रीडति । कौतुकालोकनाकुलं द्वयमपि साधारणम् । वध्वा राज्यश्रिया । अथ वेदी जगामेति संबन्धः । उपत्यकाद्रेः समासन्ना भूः । भूभन्नृपः, गिरिश्च । वर्णिका खटिका । अमित्रमुखै रूप्यमयैः, शत्रुमुखैश्च । अञ्जलिकारिकाभिर्मृण्मयप्रतिमाभिः, सालभजिकाभिर्वा । अक्षणिको व्यग्रः । उ- पद्रष्टा साक्षी । उपदेश्य इति केचित् । सुग्घोमभाण्डम् । वेल्लिता वलिताः । शिखा ज्वाला, शिखाग्राणि च । पल्लवाः प्रान्ताः, किसलयानि च । शिखिनो बृ- १४८ हर्षचरिते शिखिन: कुसुमायुध इव रतिद्वितीयो रक्ताशोकस्य समीपम् । हुते च हुतभुजि दक्षिणावर्तप्रवृत्ताभिर्वधूवदनविलोकनकुतूहलिनीभिरिव ज्वालाभिरेव सह प्रदक्षिणं बभ्राम । पात्यमाने च लाजाजलौ नखमयूखधवलिततनुरदृष्टपूर्ववधूवररूपविस्मयस्मेर इवादृश्यत वि- भावसुः। अत्रान्तरे स्वच्छकपोलोदरसंक्रान्तमनलप्रतिबिम्बमिव निर्वाप- यन्ती स्थूलमुक्ताफलविमलबाष्पबिन्दुसंदोहदर्शितदुर्दिना निर्वदन- विकारं रुरोद वधूः । उदश्रुविलोचनानां च बान्धववधूनामुदपा- दि महानाक्रन्दः । परिसमापितवैवाहिकक्रियाकलापस्तु जामाता वध्वा समं प्रणनाम श्वशुरौ । प्रविवेश च द्वारपक्षलिखितरतिप्री- तिदैवतं प्रणयिभिरिव प्रथमप्रविष्टैरलिकुलैः कृतकोलाहलम् , अलिकुलपक्षपवनप्रेडोलितैः कर्णोत्पलप्रहारभयप्रकम्पितैरिव मङ्ग- लप्रदीपैः प्रकाशितम् , एकदेशलिखितस्तबकितरक्ताशोकतरुतलभा- जाधिज्यचापेन तिर्यकूणितनेत्रत्रिभागेण शरमृजूकुर्वता कामदे- वेनाधिष्ठितम् , एकपार्श्वन्यस्तेन काञ्चनाचामरुकेणेतरपार्श्ववर्ति- न्या च दान्तशफरुकधारिण्या कनकपुत्रिकया साक्षालक्ष्म्येवो- दण्डपुण्डरीकहस्तया सनाथेन सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम् , शयनशिरोभागस्थितेन च कृतकुमुदशोभेन कुसुमा- युधसाहायकायागतेन शशिनेव निद्राकलशेन राजतेन विराजमानं वासगृहम् । तत्र च ह्रीताया नववधूकायाः पराङ्मुखप्रसुप्ताया मणिभित्ति- दपणेषु मुखप्रतिबिम्बानि प्रथमालापाकर्णनकौतुकागतगृहदेवता- ननानीव मणिगवाक्षकेषु वीक्षमाणः क्षणदां निन्ये । स्थित्वा च श्वशुरकुले शीलेनामृतमिव श्वश्रूहृदये वर्षन्नभिनवाभिनवोपचारै- रपुनरुक्तान्यानन्दमयानि दश दिनानि स्थित्वा दत्त्वा राजदौ- वारिकमिव राजकुले रणरणकं यौतुकनिवेदितानीव शम्बलान्या- क्षस्यापि । उक्तं च--'अग्निः शिखीति च प्रोक्तः शिखी वृक्षो निगद्यते । बर्हि- णश्च शिखी प्रोक्तः क्वचित्स्यात्कुक्कुटः शिखी ॥' इति च । निर्वापयन्ती गमयन्ती। प्रविवेशेत्यादौ जामाता वासगृहमिति संबन्धः। पक्षः पार्श्वम् । कूणितः संकोचितः । क्षणदां रात्रिम् । दश दिनानि स्थित्वेति संगतिः। यौतकं सुदायः। इति श्रीशंकरविरचिते हर्षचरितसंकेते चतुर्थ उच्छ्वासः ॥
चतुर्थ उच्छ्रासः ।
१४९
दाय हृदयानि सर्वलोकस्य कथं कथमपि विसर्जितो नृपेण वध्वा
सह स्वदेशमगमदिति।
इति श्रीबाणभट्टकृतौ हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम
चतुर्थ उच्छ्वासः।
।
१५० हर्षचरिते पञ्चम उवासः। नियतिर्विधाय पुंसां प्रथमं सुखमुपरि दारुणं दुःखम् । कृत्वा लोकं तरला तडिदिव वज्रं निपातयति ॥ १॥ पातयति महापुरुषान्सममेव बहूननादरेणैव । परिवर्तमान एकः कालः शैलानिवानन्तः ॥ २॥ अथ कदाचिद्राजा राज्यवर्धनं कवचहरमाहूय हूणान्हन्तुं हरिणानिव हरिहरिणशकिशोरमपरिमितबलानुयातं चिरंतनैरमा- यैरनुरक्तैश्च महासामन्तैः कृत्वा साभिसरमुत्तरापथं प्राहिणोत् । प्रयान्तं च तं देवो हर्षः कतिचित्प्रयाणकानि तुरङ्गमैरनुवत्रा- ज। प्रविष्टे च कैलासप्रभाभासिनी ककुभं भ्रातरि वर्तमानो वयसि विक्रमरसानुरोधिनि केसरिशरभशार्दूलवराहबहुलेषु तुषारशैलोपकण्ठेषूत्कण्ठमानवनदेवताकटाक्षांशुशारितशरीरकान्तिः क्रीडन्मृगयां मृगलोचनः कतिपयान्यहानि बहिरेव व्यलम्बत । चकार चाकर्णान्ताकृष्टकार्मुकनिर्गतभासुरभल्लवर्षी स्वल्पीयोभिरेव दिवसनिःश्वापदान्यरण्यानि । एकदा तु वासतेय्यास्तुरीये यामे प्रत्युषस्येव स्वप्ने चटुलज्वा- लापुञ्जपिञ्जरीकृतसकलककुभा दुर्निवारेण वहुतभुजा दह्यमानं केसरिणमद्राक्षीत् । तस्मिन्नेव च दावदहने समुत्सृज्य शावकानु- त्प्लुत्य चात्मानं पातयन्ती सिंहीमपश्यत् । आसीच्चास्य चेतसि- 'लोके हि लोहेभ्यः कठिनतराः खलु स्नेहमया बन्धनपाशाः, यदाकृष्टास्तिर्यञ्चोऽप्येवमाचरन्ति' इति । प्रबुद्धस्य चास्य मुहुर्मु- नियतीत्यादि । नियतिर्दैवम् । लोकं जनम् । तडिद्विद्युत् । तडिदपि तर- लालोकं कृत्वा वज्र निपातयति ॥ १ ॥ अनन्तः पर्यन्तरहितः शेषभधारकश्च ॥ २॥ आर्यायुगलेनानेन भाविनी राजविपत्तिः सूचिता। कवचहर इति वयसि नित्यम् । बलं सैन्यम्, सामर्थ्य च । साभिसरं ससहायम्। केसरिणः सिंहाः । अष्टपादाः प्राणिविशेषाः शरभाः। शार्दूला व्याघ्राः। वराहाः सूकराः । क्रीडन्मृगयामिति । 'कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति भावार्थरूपाया मृगयायाः कर्मभावः। वासतेयी रात्रिः । तुरीये चतुर्थेऽहनि । संवाह्यमानं भ्राम्यमाणम् । ललितं व्याप्तम् । - ।
पञ्चम उच्छासः । १५१ हुर्दक्षिणेतरमझि पस्पन्दे । गात्रेषु चाकस्मादेव वेपथुर्विप्रपथे। निनिमित्तमेवान्तर्बन्धनस्थानाच्चचालेव हृदयम् । अकारणादेव चाजायत गरीयसी दुःखासिका । किमिदमिति च समुत्पन्नवि- विधविकल्पविमथितमतिरपगतधृतिश्चिन्तावनमितवदनः स्तिमि- ततारकेण चक्षुषा समुद्भिद्यमानस्थलकमलिनीवनामिव चकार चकोरेक्षणः क्षणं क्षौणीम् । अह्नि च तस्मिशून्येनैव च चेतसा चिक्रीड मृगयाम् । आरोहति च हरितहये मध्यमह्नो भवनमाग- त्योभयतो मन्दमन्दं . संवाह्यमानतनुतालवृन्तः क्षितितलवितता- मतिशिशिरमलयजरसलवलुलितवपुषमिन्दुधवलोपधानधारिणीं वे- त्रपट्टिकामधिशयानः साशङ्क एव तस्थौ । अथ दूरादेव लेखगर्भया नीलीरागमेचकरुचा चीरचीरिकया रचितमुण्डमालकम् , श्रमातपाभ्यामारोप्यमाणकायकालिमानम् , अन्तर्गतेन शोकशिखिनाङ्गारतामिव नीयमानम् , अतित्वरागम- नद्रुततरपदोद्भूयमानधूलिराजिव्याजेन राजवार्ताश्रवणकुतूहलिन्या मेदिन्येवानुगम्यमानम् , अभिमुखपवनप्रेङ्खत्मविततोत्तरीयपटप्रा- न्तवीज्यमानोभयपार्श्वमतित्वरया कृतपक्षमिवाशु परापतन्तम् , प्रेर्यमाणमिव स्वाम्यादेशेन कृष्यमाणमिव पुरस्ता- दायतैः श्रमश्वासमोक्षैः स्विद्यल्ललाटतटघटमानप्रतिबिम्बकेन कार्यकौतुकादपह्रियमाणलेखमिव भास्वता संभ्रमभ्रष्टैरिवेन्द्रियैः शून्यीकृतशरीरम् , लेखार्पितप्रयोजनगौरवादिव समेऽपि वर्त्मनि शून्यहृदयतया स्खलन्तम् , कालमेघशकलमिव पतिष्यतो दुर्वा- वज्रस्य, धूमपल्लवमिव ज्वलिष्यतः शोकज्वलनस्य, बीजमिव फलिष्यतो दुष्कृतशालेरनिमित्तभूतदीर्घाध्वगं कुरङ्गकनामानमा- यान्तमद्राक्षीत् । दृष्ट्वा च पूर्वनिमित्तपरम्पराविर्भावितभीतिरभिद्यत हृदयेन । कुरङ्गकस्तु कृतप्रणामः समुपसृत्य प्रथममाननलग्नं विषादमु- पनिन्ये, पश्चाल्लेखम् । तं च देवो हर्षः स्वयमेवादायावाचयत् । लेखार्थेनैव च समं गृहीत्वा हृदयेन संतापमवग्रहरूपोऽभ्यधात्- अथेत्यादौ दूरादेव कुरङ्गकनामानमध्वगमापतन्तमद्राक्षीदिति संबन्धः। नीली नामौषधिः । बर्हिकण्ठसमानो मेचकः । आरोप्यमाणः क्रियमाणः । इन्द्रियै- रिति । शून्यलं तेषां जडखाप्तेः । पल्लवं खण्डम् । पृष्ठतः - १५२ हर्षचरिते 'कुरङ्गक, किं मान्द्यं तातस्य' इति । स चक्षुषा बाष्पजलबिन्दु- भिर्मुखेन च खञ्जाक्षरैः क्षरद्भिर्युगपदाचचक्षे- 'देव, दाहज्वरो महान्' इति । तच्चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल । कृताचमनश्च जनयितुरायुष्कामोऽपरिमितमणिकनकरजतजातमा- त्मपरिबर्हमशेषं ब्राह्मणसादकरोत् । अभुक्त एवोच्चचाल । 'दा- पय वाजिनः पर्याणम्' इति च पुरःस्थितं शिरःकृपाणं बिभ्राणं बभाण युवानम् । वेपमानहृदयश्च समंभ्रमप्रधावितपरिवर्धकोप- नीतमारुह्य तुरङ्गमेकाक्येव प्रावर्तत । अकाण्डप्रयाणसंज्ञाशङ्खक्षुभितं तु संभ्रमात्सज्जीभूतमुद्भूतमु- खरखुररवभरितसकलभुवनविवरमागत्यागत्य सर्वाभ्यो दिग्भ्यो धावमानमश्वीयमढौकत । प्रस्थितस्य चास्य प्रदक्षिणेतरं प्रयान्तो विनाशमुपस्थितं राजसिंहस्य हरिणाः प्रकटयांबभूवुः । अशिशि- ररश्मिमण्डलाभिमुखश्च हृदयमवदारयन्निव दावशुष्के दारुणि दारुणं रराण वायसः । कज्जलमय इव बहुदिवसमुपचितबहलमल- पटलमलिनिततनुरभिमुखमाजगाम शिखिपिच्छलाञ्छनो नग्नाटकः। दुनिमित्तैरनभिनन्द्यमानगमनश्च नितरामशङ्कत । हृदयेन पितृस्ने- हाहितम्रदिन्ना च तत्तदुपेक्षमाणस्तुरङ्गमस्कन्धबद्धलक्ष्यं चक्षुरवि- चलं दधानो दुःसमवसितहसितसंकथस्तूष्णीभूतेन भूपाललोकेना- नुगम्यमानो बहुयोजनसंपिण्डितमध्वानमेकेनैवाहा समलङ्घयत् । उपलब्धनरेन्द्रमान्द्यवार्ताविषण्ण इव नष्टतेजस्यधोमुखीभवति भगवति भानुमति भण्डिप्रमुखेन प्रणयिना राजपुत्रलोकेन बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । पुरःप्रवृत्तप्रतीहारगृह्यमाणग्रामी णपरम्पराप्रकटितप्रगुणवा च वहन्नेव निन्ये निशाम् । पफाल पुस्फोट । जातेति शब्दः प्रकारे । परिबर्हो भोजनादिपरिच्छेदः ब्राह्मणसाब्राह्मणाधीनम् । न भुक्तमस्येत्यभुक्तः। शिरोदेशे स्थापितः कृपाणः । परिवर्धकोऽश्वपालः प्रावर्ततेत्यर्थाद्गन्तुम् । अश्वीयमश्वसमूहः । सिंहशब्दः प्रशंसायाम् । हरिणा इति । मृगा हि खैरं चरन्तः सिंहस्य विनाशमभावं सूचयन्ति । नग्नाटको नमक्षपणकः। तुरङ्गमेति चक्षुर्विशेषणम् । दुःखेन समवसिता निवृत्ता संकथा कथनं यस्य सः। संपि- ण्डितं संकलितम् । प्रगुणं स्पष्टम् । वहनविश्रान्ति गच्छन् ।
कृ- पञ्चम उच्छ्वासः । १५३ अन्यस्मिन्नहनि मध्यंदिने विगतजयशब्दम् , अस्तमिततूर्यनाद- मुपसंहृतगीतम् , उत्सारितोत्सवम् , अप्रगीतचारणम् , अप्रसारि- तापणपण्यम् , स्थानस्थानेषु पवनबलकुटिलाभिः कोटिहोमधूमले- खाभिरुल्लसन्तीभिर्यममहिषविषाणकोटिभिरिवोल्लिख्यमानम् , तान्तपाशवागुराभिरिव वेष्ट्यमानम् , उपरि कालमहिषालंकारका- लायसकिङ्किणीभिरिव कटु कणन्तीभिर्दिवसम् , वायसमण्डलीभि- भ्रमन्तीभिरावेद्यमानप्रत्यासन्नाशुभम् , क्वचित्प्रतिशायितस्निग्ध- बान्धवाराध्यमानाहिर्बुध्नम् , कचिद्दीपिकादह्यमानकुलपुत्रकप्रसा- द्यमानमातृमण्डलम् , कचिन्मुण्डोपहाराहरणोद्यतद्रविडप्रार्थ्यमा- नामदर्कम् , क्वचिदान्ध्रोद्भियमाणबाहुवप्रोपयाच्यमानचण्डिकम् , अन्यत्र शिरोविधृतविलीयमानगुग्गुलुविकलनवसेवकानुनीयमान- महाकालम् , अपरत्र निशितशस्त्रीनिकृत्तात्ममांसहोमप्रसक्ताप्तवर्ग- म्, अपरन प्रकाशनरपतिकुमारकक्रियमाणमहामांसविक्रयप्रक्रम- म् , उपहतमिव श्मशानपांशुभिरमङ्गलैरिव परिगृहीतम् , यातुधा- नैरिव विध्वस्तम् , कलिकालेनेव कवलितम् , पापपटलैरिव संछा- दितम् , अधर्मविक्षेपैरिव लुण्ठितम् , अनित्यताधिक्कारैरिवाक्रान्तम् , नियतिविलासैरिवात्मीकृतम् , शून्यमिव सुप्तमिव मुषितमिव वि- लक्षितमिव छलितमिव मूर्छितमिव स्कन्धावारं समाससाद । प्रविशन्नेव च विपणिवर्त्मनि कुतूहलाकुलबहलबालकपरिवृतमू- यष्टिविष्कम्भवितते वामहस्तवर्तिनि भीषणमहिषाधिरूढप्रेतना- थसनाथे चित्रवति पटे परलोकव्यतिकरमितरकरकलितेन शर- काण्डेन कथयन्तं यमपट्टिकं ददर्श । तेनैव च गीयमानं श्लोकम- शृणोत्- 'मातापितृसहस्राणि पुत्रदारशतानि च । युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् ॥३॥' इति' अन्यस्मिनित्यादौ स्कन्धाकारं समाससादेति संबन्धः । आपणेषु हटेषु पण्यं विक्रेयं वस्तु । कालो यमः । कालायसं लोहजातिभेदः किङ्किण्यः सूक्ष्मघ- ण्टिकाः । प्रतिशायिता उपोषिताः । अहिर्बुध्नो हरः । मुण्डं शिरः । द्रविडा आन्ध्राश्च जनपदभेदाः । आमर्दको वेतालः । रौद्रदेवताभेद इत्यन्ये । विष्कम्भोऽवष्टम्भः । वितताः प्रसारिताः । व्यतिकरो वृत्तान्तः । यमपट्टेन जीवति यमपट्टिकः । मन्दं मन्दमित्यादौ राजकुलं विवेशेति संबन्धः । अमृत- ह० १४ हर्षचरिते तेन चाधिकतरमवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्धसकल- लोकप्रवेशं ययौ। तुरगावतीर्णश्चाभ्यन्तरान्निष्क्रामन्तमप्रसन्नमु- खरागं मुक्तमिवेन्द्रियैः सुषेणनामानं वैद्यकुमारमद्राक्षीत् । कृतन- मस्कारं चाप्राक्षीत्-'सुषेण, अस्ति तातस्य विशेषो न वा' इति । सोऽब्रवीत्-'नास्तीदानीं यदि भवेत्कुमारं दृष्ट्वा' इति । मन्दं मन्दं द्वारपालैः प्रणम्यमानश्च दीयमानसर्वस्वम् , पूज्यमान- कुलदेवतम् , प्रारब्धामृतचरुपचनक्रियम् , क्रियमाणषडाहुतिहोम- म् , हूयमानपृषदाज्यलवलिप्तप्रचलदूर्वापल्लवम् , पठ्यमानमहाम- यूरीप्रवर्त्यमानगृहशान्तिनिवर्त्यमानभूतरक्षाबलिविधानम् , प्रयत- विप्रप्रस्तुतसंहिताजपं जप्यमानरुद्रैकादशीशब्दायमानशिवगृहम् , अतिशुचिशैवसंपाद्यमानविरूपाक्षक्षीरकलशसहस्रस्नपनम् , अजि- रोपविष्टैश्वानासादितस्वामिदर्शनदूयमानमानसैरभ्यन्तरनिष्पतित- निकटवर्तिपरिजननिवेद्यमानवातेर्वार्तीभूतस्नानभोजनशयनैरुज्झि- तात्मसंस्कारमलिनवेशैलिखितैरिव निश्चलैनरपतिभिर्नीयमाननक्तं- दिवं दुःखदीनवदनेन च प्रघणेषु बद्धमण्डलेनोपांशुव्याहृतैः केन- चिचिकित्सकदोषानुद्भावयता, केनचिदसाध्यव्याधिलक्षणपदानि पठता, केनचिहुःस्वप्नानावेदयता, केनचित्पिशाचवार्ता विवृण्वता, केनचित्काान्तिकादेशान्प्रकाशयता) केनचिदुपलिङ्गानि गायता, अन्येनानित्यतां भावयता, संसारं चापवदता, कलिकालविलसि- तानि च निन्दता, दैवं चोपालभमानेनापरेण धर्माय कुप्यता, राजकुलदेवताश्चाधिक्षिपता, अपरेण क्लिष्टकुलपुत्रकभाग्यानि गर्ह- यता, बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश । अविरलबाष्पपयःपरिप्लुतलोचनेन पितृपरिजनेन वीक्ष्यमाणो विविधौषधिद्रव्यद्रवगन्धगर्भमुत्कथतां काथानां सर्पिषां तैलानां च पच्यमानानां गन्धमाजिघ्रन्नवाप तृतीयं कक्ष्यान्तरम् । । । चरुः शान्त्यर्थे चरः । 'प्रजापतये स्वाहा' इति षण्णां देवतानां नाम गृहीला षण्णामेवाहुतीनां प्रक्षेपः षडाहुतिहोम उच्यते । दधिघृते एकीकृत्य पृषदाज्यम् । 'पृषदाज्यं सदध्याज्ये' इति कोशः। महामायूरी बौद्धविद्या । शैवमन्त्र इति केचित् । संहिता वेदपाठः संहितरूपः । रुदैकादशी शिवमन्त्रः । वातांत आगतं वाभूतम् । प्रघनो बहिरैकदेशः । कार्तान्तिको दैवज्ञः । उपलिङ्गान्युत्पाताः । अपवदता निन्दता। - - पञ्चम उच्छ्रासः। १५५ तत्र चातिनिःशब्दे गृहावग्रहणीग्राहिबहुवेत्रिणि, त्रिगुणतिर- स्करिणीतिरोहितसुवीथीपथे, पिहितपक्षद्वारके, परिहृतकवाटरटिते, घटितगवाक्षरक्षितमरुति, दूयमानपरिचारके, चरणताडनस्वनत्सो- पानप्रकुपितप्रतीहारे, निभृतसंज्ञानिर्दिश्यमानसकलकर्मणि, नाति- निकटोपविष्टकङ्कटिनि, कोणस्थिताबानचकिताचमनवाहिनि, च. न्द्रशालिकालीनमूकमौललोके, महाधिविधुरबान्धवाङ्गनावर्गगृही- तप्रच्छन्नप्रग्रीवके, संजवनपुजितोद्विग्नपरिजने, प्रविष्टकतिपयप्रण- यिनि, गम्भीरज्वरारम्भभीतभिषजि, दुर्मनायमानमन्त्रिणि, मन्दा- यमानपुरोधसि, सीदत्सुहृदि, निद्राणविपश्चिति, संतप्ताप्तसामन्ते, विचित्तचामरग्राहिणि, दुःखक्षामशिरोरक्षिणि, क्षीयमाणप्रसादवि- त्तमनोरथसंपदि, स्वामिभक्तिपरित्यक्ताहारहीयमानबलविकलवल्ल- भभूभृति, क्षितितलपतितसकलरजनीजागरूकराजपुत्रकुमारके, कु- लक्रमागतकुलपुत्रनिवहोह्यमानशुचिशोकसंकुचितकञ्चुकिनि, नि- रानन्दवन्दिनि, निःश्वसन्निराशासन्नसेवके, निःसृतताम्बूलधूसरा- धरवारयोषिति, विलक्षवैद्योपदिश्यमानपथ्याहरणावहितपौरोगवे, अनुजीविपीयमानोच्चषकधारावारिविनोद्यमानास्यशोषरुजि, राजा- भिलाषभोज्यमानबहुभुजि, भेषजसामग्रीसंपादनव्यग्रसमग्रव्यव- हारिणि, मुहुर्मुहुराहूयमानतोयकर्मान्तिकानुमितधोरातुरतृषि, तु- षास्परिकरितकरकशिशिरीक्रियमाणोदश्विति, श्वेताकर्पटार्पितक- पूरपरागशीतलीकृतशलाके, नाश्यानपङ्कलिप्यमाननवभाण्डगतग- ण्डूषग्रहणमस्तुनि, तिम्यत्कोमलकमलिनीपलाशप्रावृतमृदुमृणाल- के, सनालनीलोत्पलपूलीसनाथसलिलपानभाजनभुवि, धारानिपा- द्रवो रसः। तत्रेत्यादौ तत्र चैवंविधे धवलगृहे स्थितमीदृशं पितरमद्राक्षादिति संबन्धः । गृहावग्रहणी देहलीद्वारारम्भदेशः । वेत्रिणो द्वाःस्थाः । तिरस्कारणी जवनिका । सुवीथी धवलगृहस्याभ्यन्तरीकृता । 'प्रच्छन्नमन्तरं यत्पक्षद्वारं तदुच्यते'। घटितो रक्षितः । निभृतं गुप्तम् । आचमनवाही पानीयहारकः । चन्द्रशालिका धवलगृहस्योपरि प्रासादिका । 'आधिर्ना मानसी पीडा' । 'संजवनं चतुःशाला' । विपश्चित्पण्डितः । आप्ता आश्वस्ताः । प्रसादेन वित्ताः प्रख्याताः प्रसादवित्ताः । जागरूका जागरणशीलाः । विलक्षो लज्जितः । पौरोगवो महानसाध्यक्षः । उच्च- षकमपगतपानभाजनम् । भेषजमौषधम् । तोयकर्मान्तिका तोयकर्मशाला। करको जलभाण्डम् । शलाकाः पाषाणकणिकाः । मुखपूरणं गण्डूषः । निर्वाप्यमाणं । -- १५६ हर्षचरिते तनिष्प्यमाणकथिताम्भसि, पटुपाटलशर्करामोदमुचि, मञ्चकाश्रि- तसिकतिलकर्करीविश्रान्तान्तरचक्षुषि, सरलशेवलवलयितगलगोल- यन्त्रके, गल्वर्कशालाजिरोल्लासितलाजसक्तुनिपीतमसारपारीपरिगृ- हीतकर्कशर्करे, शिशिरौषधरसचूर्णावकीर्णस्फटिकशुक्तिशङ्खसंचये, संचितप्रचुरप्राचीनामलकमातुलुङ्गद्राक्षादाडिमादिफले, प्रतिग्राहि- तविप्रविप्रकीर्यमाणशान्त्युदकविप्रुषि, प्रेष्यापेष्यमाणललाटलेपोप- दिग्धषदि धवलगृहे स्थितम्, परलोकविजयाय नीराज्यमानमिव ज्वरज्वलनेनानवरतपरिवर्तनस्तरङ्गिणि शयनीये शेषमिव विषो- मणा क्षीरोदन्वति विचेष्टमानम् , मुक्ताफलवालुकाधूलिधवलितं जलधिमिव क्षयकाले शुष्यन्तम्, कालेन कैलासमिव दशानने- नोद्भियमाणम् , अविरतचन्दनचर्चापराणां परिचारकाणामत्युष्णा- वयवस्पर्शभस्मीभूतोदरैरिव धवलैः करैः स्पृश्यमानं लोकान्तरप्र- स्थितम्, स्थास्नुना स्वयशसैव चन्दनानुलेपनच्छलेनापृच्छय- मानम्, अविच्छिन्नदीयमानकमलकुमुदेन्दीवरदलम् , कालकटा- क्षपतनशबलमिव शरीरमुद्वहन्तम् , निबिडदुकूलपट्टनिपीडितकेशा- न्तकथ्यमानकष्टवेदनानुबन्धं मूर्धानं धारयन्तम् , दुर्धरवेदनोन्नम- नीलशिराजालककरालेनच कालाङ्गुलिलिख्यमानलेखाख्यातमरणा- वधिदिवससंख्यानेनेव ललाटफलकेन भयमुपजनयन्तम् , आसन्न- यमदर्शनोद्वेगादिव च किंचिदन्तःप्रविष्टतारकम्, शुष्यद्दशनपति- प्रसृतधूसरदीधितितरङ्गिणी मृगतृष्णिकामिवोष्णां निश्वासपरम्प- रामुद्वहन्तम् , अत्युष्णनिश्वासदग्धयेव श्यामायमानया रसनया निवेद्यमानदारुणसंनिपातारम्भम्, उरःस्थलस्थापितमणिमौक्तिक- हारचन्दनचन्द्रकान्तम् , कृतान्तदूतदर्शनयोग्यमिवात्मानं कुर्वाण- म् , अङ्गभङ्गवलनोत्क्षिप्तभुजयुगलम् , पर्यस्तहस्तनखमयूखैर्धारागृ- हमिव तापशान्तये रचयन्तम् , नेदिष्ठसलिलमणिकुट्टिमादर्शोदरेषु निपतद्भिः प्रतिबिम्बैरपि संतापातिशयमिव कथयन्तम् , स्पृशन्तीं प्रणयिनीमिव विश्वासभूमिं मूर्छा बहु मन्यमानम्, अन्तकाद्वाना- शीतलीक्रियमाणम् । पाटला शर्कराविशेषः। मञ्चक आधारभेदः। कर्करी वारिधानी। गोलयन्त्रकं बहुच्छिदं जलभाण्डम् । उल्लासिता विस्तारिताः । प्रतिग्राहिताः प्रतिग्रहं ग्राहिताः । प्रेष्या दासी । कालेन यमेन, कृष्णेन च । दशाननो व्याध्विः, राक्षसश्च । आपृच्छयमानं ज्योक्रियमाणम् । रसना जिह्वा । नेदिष्ठमन्तिकतर सम् । ।
पञ्चम उच्छासः। १५७ क्षरैरिव सभयभिषग्दृष्टेररिष्टैराविष्टम् , महाप्रस्थानकाले स्वसंता- पसंतानमाप्तहृदयेषु संचारयन्तम् , अरतिपरिगृहीतमीर्ण्ययेव छायया मुच्यमानम् , उद्योगमिवोपद्रवाणाम् , सर्वास्त्रमोक्षमिव क्षा- मतायाः, हस्तीकृतं विहस्ततया, विषयीकृतं वैषम्यण, क्षेत्रीकृतं क्षयेण, गोचरीकृतं ग्लान्या, दृष्टं दु:खासिकया, आत्मीकृतमस्वा- स्थ्येन, विधेयीकृतं व्याधिना, क्रोडीकृतं कालेन, लक्ष्यीकृतं द- क्षिणाशया, पीतमिव पीडाभिः, जग्धमिव जागरेण, निगीर्णमिव वैवर्येन, ग्रासीकृतं गात्रभङ्गेन, ह्रियमाणमिव विपद्भिः, वण्ट्य- मानमिव वेदनाभिः, लुण्ठ्यमानमिव दुःखैः, आदित्सितं दैवेन, निरूपितं नियत्या, घ्रातमनित्यत्वेन, अभिभूयमानमभावेन, परि- कलितं परासुतया, दत्तावकाशं क्लेशस्य, निवासं वैमनस्यस्य, स- मीपे कालस्य, अन्तिकेऽन्त्योच्छासस्य, मुखे महाप्रयासस्य, द्वारि दीर्घनिद्रायाः, जिह्वाग्रे जीवितेशस्य वर्तमानम् , विरलं वाचि, च- लितं चेतसि, विह्वलं वपुषि, क्षीणमायुषि, प्रचुरं प्रलापे, संततं श्वसिते, जितं जम्भिकाभिः, पराधीनमाधिभिः, अनुबद्धमनुबन्धि- काभिः, पार्थोपविष्टयानवरतरोदनोच्छूननयनया गृहीतचामरिक- यापि निश्वसितैरेव वीजयन्या विविधौषधिधूलिधूसरित- शरीरया मुहुर्मुहुः 'आर्यपुत्र, स्वपिषि' इति व्याहरन्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितरमद्राक्षीत् । दृष्ट्वा च प्रथमदुःखसंपातमथ्यमानमतिराशङ्कित इव भागधे- येभ्यः समभवत् । अन्तकपुरवर्तिनमेव च पितरममन्यत । निरा- कृत इव चान्त:करणेन क्षणमासीत् । अवधूतश्च धैर्येण, क्षेत्रीकृतः शोभेण, रिक्तीकृतो रत्या, विषयीकृतो विषादेन, पावकमयमिव हृ- दयमुद्बहन् , विषमविषदूषितानीव मुह्यन्तीन्द्रियाणि बिभ्राणः, त- मसा रसातलमपि विशेषयन् , शून्यत्वेनाकाशमप्यतिशयानो नावि- न्दत कर्तव्यम् । पस्पर्श च हृदयेन भियमुत्तमाङ्गेन च गाम् । अवनिपतिस्तु दूरादेव दृष्ट्वातिदयितं तनयं तदवस्थोऽपि निर्भर- अरिष्टैर्दुर्लक्षणैः । अरतिरेकत्रानवस्थितिः । छाया कान्तिः । विहस्तो क्षमः । लक्ष्यीकृतम् । आघ्रातमित्यर्थः । वण्ट्यमानं भागीक्रियमाणम् । जीवितेशो यमः । अनुबन्धिका गात्रसंधिपीडा । भागधेयेभ्यो देवेभ्यः । अन्तःकरणेन मनसा । । ।
१५८ हर्षचरिते । स्नेहावर्जितः प्रधावमानो मनसा प्रसार्य भुजौ 'एह्येहि' इत्याह्व- यशरीरार्धेन शयनादुद्गात् । ससंभ्रममुपसृतं चैनं विनयावनम्र- मुन्नमय्य बलादुरसि निवेश्य, विशन्निव प्रेम्णा निशाकरमण्डल- मध्यम् , मज्जन्निवामृतमये महासरसि, नानिव महति हरिचन्दन- रसप्रस्रवणे, अभिषिच्यमान इव तुषाराद्रिद्रवेण, पीडयन्नङ्गैरङ्गानि, कपोलेन कपोलमवघट्टयन , निमीलयन्पक्ष्मायग्रथिताजस्रानवि- स्राविणी विलोचने विस्मृतज्वरसंज्वरः सुचिरमालिलिङ्ग कथं कथमपि चिराद्विमुक्तमुपसृत्य कृतनमस्कारं प्रणतजननीकमुपागत- मासीनं च शयनान्तिके पिबन्निव विगतनिमेषनिश्चलेन चक्षुषा व्यलोकयत् । पस्पर्श च पुनः पुनर्वेपथुमता पाणितलेन क्षयक्षाम- कण्ठश्च कृच्छ्रादिवावादीत्-'वत्स, कृशोऽसि' इति । भण्डि- स्त्वकथयत्-'देव, तृतीयमहः कृताहारस्यास्याद्य' इति । तच्छ्रुत्वा बाष्पवेगगृह्यमाणाक्षरं कथं कथमप्यायतं निःश्वस्यो- बाच-'वत्स, जानामि त्वां पितृप्रियमतिमृदुहृदयम् । ईदृशेषु विधुरयति धीमतोऽपि धियम् । अतिदुर्धरो बान्धवस्नेहः सर्वप्रमा- थी। अतो नार्हस्यात्मानं शुचे दातुम् । उद्दामदाहज्वरदग्धोऽपि दो खल्वहमधिकतरमनेनायुष्मदाधिना। निशितमिव शस्त्रं तक्ष्णो- ति मां त्वदीयस्तनिमा । सुखं च राज्यं च वंशश्च प्राणाश्च त्वयि मे स्थिताः । यथा मम तथा सर्वासां प्रजानाम् । त्वद्विधानां पीडाः पीडयन्ति सकलमेव भुवनतलम् । न ह्यल्पपुण्यभाजां वंशमलंकु- वन्ति भवादृशाः । फलमस्यनेकजन्मान्तरोपार्जितस्याकलुषस्य कर्म- णः । करतलगतमिव कथयन्ति चतुर्णामप्यर्णवानामाधिपत्यं ते ल- क्षणानि । त्वज्जन्मनैव कृतार्थोऽस्मि । निरभिलाषोऽस्मि जीवि- तव्ये । भिषगनुरोधः पाययति मामौषधम् । अपि च सर्वप्रजापु- ण्यैः सकलभुवनतलपरिपालनार्थमुत्पत्स्यमानानां भवादृशां जन्म- ग्रहणोपायः पितरौ । प्रजाभिस्तु बन्धुमन्तो राजानः, न ज्ञातिभिः । तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रियाः । कृताहारे च त्वय्यहमपि स्वयमुपयोक्ष्ये पथ्यम्' इत्येवमभिहितस्य चास्य धक्ष्यन्निव हृदयमतितरां शोकानलः संदुधुक्षे । क्षणमात्रं च स्थित्वा पिता । । । प्रसवणे निम्ने । द्रवो रसः । संज्वरः संतापः । सूची शलाका।
पञ्चम उच्छ्रासः । पुनराहारार्थमादिश्यमानो धवलगृहादवततार । चकार च चेतसि- 'अकाण्डे खल्वयं समुपस्थितो महाप्रलयो व्यभ्र इव वज्रपातः । सामान्योऽपि तावच्छोकः, सोच्छासं मरणम् , अनुपदिष्टौषधी महाव्याधिः, अभस्मीकरणोऽग्निप्रवेशः, अनुपरतस्यैव नरकवासः, नियोतिरङ्गारवर्षमशकलीकरणं क्रकचदारणमत्रणो वज्रसूचीपा- तः । किमुत विशेषाश्रितः। किमत्र करवाणि' इति । राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम धूममयानिव कृताश्रुपा- तान् , अग्निमयानिव जनितहृदयदाहान , विषमयानिव दत्तमू- छोवेगान् , महापातकमयानिवोत्पादितघृणान् , क्षारमयानिवानी- तवेदनान्, कतिचित्कवलानगृह्णात् । आचमंश्च चामरग्राहिण- मादिदेश-विज्ञायागच्छ कथमास्ते तातः' इति । गत्वा च प्र- तिनिवृत्य च 'देव, तथैव' इति विज्ञापितस्तेनागृहीतताम्बूल ए- वोत्ताम्यता मनसास्ताभिलाषिणि सवितरि सर्वानाहूयोपहरे वैद्याः क्रिमस्मिन्नेवंविधे विधेयमधुनेति विषण्णहृदयः पप्रच्छ । ते तु व्यज्ञापयन्-'देव, धैर्यमवलम्बस्व । कतिपयैरेव वासरैः पुनः खां प्रकृतिमापन्नं स्वस्थं श्रोष्यसि पितरम्' इति । तेषां तु भिषजां मध्ये पौनर्वसवो युवाष्टादशवर्षदेशीयस्तस्मि- नेव राजकुले कुलक्रमागतो गतः पारमष्टाङ्गस्यायुर्वेदस्य भूभुजा सुतनिर्विशेषं लालितः प्रकृत्यैवातिपटीयस्या प्रज्ञया यथावद्विज्ञाता व्याधिस्वरूपाणां रसायनो नाम वैद्यकुमारकः सास्रस्तूष्णीमधो- मुखोऽभूत् । पृष्टश्च राजसूनुना-'सखे रसायन, कथय तथ्यं यद्यसाध्विव पश्यसि' इति । सोऽब्रवीत् -'देव, श्वः प्रभाते यथावस्थितमावेदयितास्मि' इति । अत्रैव चान्तरे भवनकमलिनीपालः कोकमाश्वासयन्नपरवत्र- मुच्चैरपठत्- 'विहग कुरु दृढं मनः स्वयं त्यज शुचमास्व विवेकवर्त्मनि । सह कमलसरोजिनीश्रिया श्रयति सुमेरुशिरो विरोचनः ॥ ४ ॥' धूममयानिवेति । धूमः किलाश्रु मोचयति । घृणा जुगुप्सा । उपहरे रहसि । स्वां प्रकृतिममन्दवम्, अव्यक्तरूपलं च । पृथिव्यादिषु वा लयवस्थं व्याधिविनिर्मुक्तम्, वर्गस्थं च । यतः-'जातस्य हि ध्रुवो मृत्युर्बुवं जन्म मृतस्य । च । तस्मादपरिहार्येऽर्थे न वं शोचितुमर्हसि ॥' इत्युक्तम् ।
हर्षचरिते तच्चाकर्ण्य वानिमित्तज्ञः पितरि सुतरां जीविताशां शिथिलीचकार । गतेषु च भिक्षुषु स्तधृतिः क्षपामुखे क्षितिपालसमीपमेव पुनरा- रुरोह । तत्र च---'दाहो महान् । आहर हारान्हरिणि, मणिद- पणान्मे देहे देहि वैदेहि, हिमलवैलिम्प ललाटं लीलावति, घनसा- रक्षोदधूलीनिधेहि धवलाक्षि, निक्षिप चक्षुषि चन्द्रकान्तं कान्ति- मति, कपोले कलय कुवलयं कलावति, चन्दनचर्चा रचय चारु- मते, पाटय पटमारुतं पाटलिके, मन्दय दाहमिन्दुमति, अर- विन्दैर्जनय जलाया मुदं मदिरावति, समुपनय मृणालानि मा- लति, तरलय तालवृन्तमावन्तिके, मूर्धानं धावमानं बधान बन्धु- मति, कंधरां धारय धारणिके, उरसि सशीकरं करं कुरु कुरङ्गव- ति, संवाहय बाहू बलाहिके, पीडय पादौ पद्मावति, गृहाण गा- ढमङ्गमनङ्गसेने, का वेला विलासवति नैति निद्रा, कथाः कथय कुमुद्वति' इत्येवंप्रायान्पितुरालापाननवरतमाकर्णयन्दूयमानहृदयो दुःखदीर्घा जाग्रदेव निशामनैषीत् । उपसि चावतीर्य राजद्वारदेशोपसर्पिणा परिवर्धकेनोपस्थापि- तेऽपि तुरङ्गे चरणाभ्यामेवाजगाम स्वमन्दिरम् । तत्र च त्वरमाणो भ्रातुरागमनार्थमुपर्युपरि क्षिप्रपातिनो दीर्घाध्वगान्प्रजविनश्चोष्ट्रपा- लान्याहिणोत् । प्रक्षालितवनश्च परिजनोपनीतमपि प्रतिकर्म ना- ग्रहीत् । अग्रतः स्थितानां राजपुत्रयूनां विमनसां 'रसायनो र- सायनः, इति जल्पितमव्यक्तमौषीत् । पर्यपृच्छच्च तान्-'भ- द्राः' किं रसायन:' इति । पृष्टाश्च ते सर्वे सममेव तूष्णींबभूवुः भूयोभूयश्चानुबध्यमाना दुःखेन कथंकथमप्याचचक्षिरे-'देव, पावकं प्रविष्टः' इति । तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विव- पुनर्वसोरपत्यं पौनर्वसवः । पुनर्वसुना मुनिना प्रोक्तमायुर्वेदमधीते पौनर्वसव इति । अष्टाङ्गमिति । उक्तं च-'कायबालग्रहो;ङ्गशल्यदंष्ट्रजरावृषान् । अष्टावङ्गानि तस्याहुश्चिकित्सा तेषु संश्रिता ॥' इति । आयुर्वेदस्य वैद्यशास्त्रस्य । कोकश्चक्रवाकः । विरोचनो रविः । तत्र चेत्यादौ तत्र च क्षितिपालसमीप इत्यादीन्भृत्यकलालापानाकर्णयन्निशामनैषीदिति संबन्धः । धनसारः कर्पूरः। पाटय पहुं कुरु । कंधरां ग्रीवाम् । संवाहय मर्दय । कुमुद्वतीत्यादयः शब्दला- साधवः । परिवर्धकोऽश्वपालः । प्रतिकर्म प्रसाधनम् । कार्तखरं हेम । तदपि ज्वल- पञ्चम उच्छासः। १६१ । , र्णतामगात् । उत्पाट्यमानमिव च न शशाक शोकान्धं धारयितुं हृदयम् । आसीञ्चास्य चेतसि कामं स्वयं न भवति न तु श्रावय- त्यप्रियं वचनमरतिकरमितर इवाभिजातो जनः । कृच्छ्रे च यथा- नेनानुष्टितमुज्ज्वलीकृतमधिकतरं ज्वलनप्रवेशेन कल्याणप्रकृति का- तस्वरमिव कौलपुत्रमस्येति । पुनश्वाचिन्तयत्-'समुचितमेवाथवा स्नेहस्येदम् । किमस्य तातो न तातः, किंवाम्बा न जननी, वयं न भ्रा- तरः। अन्यस्मिन्नपि तावत्स्वामिनि दुर्लभीभवति भवन्त्यसवो ध्रि- यमाणा ह्रीहेतवो लोके किमुतामृतमयेऽनुजीविनां निर्व्याजबान्ध- वेऽवन्ध्यप्रसादे सुगृहीतनाम्नि ताते । संप्रति सांप्रतमाचरितमनेना- त्मानं दहता । किं वास्याकल्पमवस्थितस्य स्थेयसो यशोमयस्य द- ह्यते । पतितः स केवलं दहने । दग्धास्तु वयम् । धन्यः खल्वसाव- ग्रणीः पुण्यभाजाम् । अपुण्यभाक्त्विदमेव राजकुलं कुलपुत्रेण यत्ता- हशा वियुक्तम् । अपि च ममापि कः खल्वेतेषां प्राणानां कार्या- तिभारः कृतशेषो वा, का वा व्यापृतता, येन नाद्यापि निष्ठुराः प्रा- णाः प्रतिष्ठन्ते । को वान्तरायो हृदयस्य येन सहस्रधा न दलती- ति। दुःखार्तश्च न जगाम राजसद्म । समुत्ससर्ज च सर्वकार्या- णि । शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्गमात्मानमवगु- ण्ठ्यातिष्ठत् । इत्थंभूते च देवे हर्षे राजनि च तदवस्थे सर्वस्य लोकस्य क- पोलेषु कीलिता इव कराः, लोचनेषु लेप्यमय्य इवाश्रुस्रुतयः, नासाग्रेषु प्रथिता इव दृष्टयः, कर्णेपूत्कीर्णा इव रुदितध्वनयः, जिह्वासु सहजानीव हाकष्टानि, लपनेषु पल्लवितानीव श्वसितानि, अधरेषु लिखितानीव परिदेवितपदानि, हृदयेषु निधानीकृतानीव दुःखान्यभवन् । उष्णाश्रुदाहभीतेव नाभजत नेत्रोदराणि निद्रा। निःश्वासतातविधुता इव व्यलीयन्त हासाः । निरवशेषदग्धेव च संतापेन न प्रावर्तत वाणी । कथास्वपि नाश्रूयन्त परिहासाः। कागमन्निति नाज्ञायन्त गीतगोष्टयः। जन्मान्तरातीतानीव नास्म- र्यन्त लास्यानि । स्वप्नेऽपि नागृह्यन्त प्रसाधनानि । वार्तापि नाल- । । नप्रवेशेनाधिकतरमुज्ज्वलम् । सांप्रतं युक्तम् । अतिशयेन स्थिरं स्थेयस्तस्य । व्यापृतता व्यग्रता। प्रष्ठा अग्रगामिनः । प्रतिष्ठन्ते प्रतिष्ठां कुर्वते ।
१६२ हर्षचरिते । भ्यतोपभोगानाम् । नामापि नाकीर्त्यताहारस्य । खपुष्पप्रतिमान्या- सन्नापानमण्डलानि । लोकान्तरमिवानीयन्त बन्दिवाच: । युगा- न्तर इवावर्तन्त निर्वृतयः । पुनरिवादह्यत शोकाग्निना मकरकेतुः। दिवापि नामुच्यन्त शयनानि । शनैः शनैश्च महापुरुषविनिपात- पिशुनाः समं समन्तात्समुदभवन्भुवने भूयांसो भूपतेरभावाय भ- यमुत्पादयन्तो भूतानां महोत्पाताः । तथा हि दोलायमानसकलकुलाचलचक्रवाला पत्या सार्ध कामेव प्रथममचलद्धरित्री । धन्वन्तरेरिवान्तरे तस्मिन्स्मरन्तः प- रस्परास्फालनवाचालवीचयो विजुघूर्णिरेऽर्णवाः। भूभृदभावभी- तानां विततशिखीकलापविकटकुटिलाः केशपाशा इवो:बभूवु—- मकेतवः ककुभाम् । धूमकेतुकरालितदिङ्मुखं दिक्पालारब्धायुष्का- महोमधूमधूम्रमिवाभवद्भुवनम् । भ्रष्टभासि तप्तकालायसकुम्भबभ्रु- णि भानुमण्डले भयंकरकबन्धकायव्याजेन कोऽपि पार्थिवप्राणि- तार्थी पुरुषोपहारमिवोपजहार । ज्वलितपरिवेशमण्डलाभोगभाव. रो जिघृक्षाजृम्भमाणस्वर्भानुभयादुपरचिताग्निप्राकार इव प्रत्यदृश्य- त श्वेतभानुः । अवनिपतिप्रतापप्रसाधिता:प्रथमतरकृतपावकप्रवेशा इवादान्तानुरक्ता दिशः । स्रुतशोणितशीकरासारारुणिततनुर- नुमरणाय प्रावृतपाटलांशुकपटेवादृश्यत वसुधावधूः । नराधिप- विनाशसंभ्रमभीतैर्लोकपालैरिव कालायसकवाटपुटैरकालकालमेघ- पटलैररुध्यन्त दिग्द्वाराणि । प्रेतपतिप्रयाणप्रहताः पटवः पटहा इवारटन्तो हृदयस्फोटनाः पस्फायिरे निर्घातानां घोरा निर्घोषाः । निकटीभवद्यममहिषखुरपुटोद्भूता इव द्युमणिधाम धूसरीचक्रुः क्र- मेलककचकपिलाः पांशुवृष्टयः । विसरविराविणीनामुन्मुखीनां शिखिनो ज्वालाः प्रतीच्छन्त्य इव पतन्तीरुल्का नभसो ववाशिरे शिवानां राजयः। राजधामनि धूमायमानकबरीविभागविभावित- विकाराः प्रकीर्णकेशपाशप्रकाशितशोका इव प्राकाशन्त प्रतिमाः कुलदेवतानाम् । उपसिंहासनमाकुलं कालरात्रिविधूयमानवृजिनवे- शिखी मयूरोऽपि । धूमकेतव उत्पातशंसिनः, अग्नयश्च । करालितानि भी- षणीकृतानि, व्याप्तानि च । बभ्रु कपिशम् । श्वेतभानुश्चन्द्रः । प्रसाधिता आव- र्जिताः, भूषिताश्च । कचाः केशाः । शिवानां मृगादीनाम् । कबरीशब्देनात्र कचा लक्ष्यन्ते । व्याक्रोशी परैराहानशब्दः । वायसानां काकानाम् । बयाAMRITASTEEAMINISTRAMNANDEMIRMIRATRINA १ । पञ्चम उच्छासः। १६३ णीबन्धविभ्रमं बिभ्राणं बभ्राम भ्रामरं पटलम् । अटतामन्त:पुर- स्योपरि क्षणमपि न शशाम व्याक्रोशी वायसानाम् । श्वेतातपत्र- मण्डलमध्याज्जीवितमिव राज्यस्य सरसपिशितपिण्डलोहितं चञ्च- चञ्चुरुच्चैरुच्चखान खण्डं माणिक्यस्य । कूजञ्जरगृध्रो महोत्पातदू- यमानश्च कथमपि निनाय निशाम् अन्यस्मिन्नहनि समीपमस्य राजकुलाद्रुतगतिवशविशीर्यमाणा- लंकारझांकारिणी विजयघोषणेव विषादस्याकुलचरणचलत्तुलाको- टिक्कणितवाचालिताभिरुद्रीवाभि:, किं किमिति पृच्छ्यमानेव दू- रादेव भवनहंसीभिः, स्खलितविशालश्रोणिशिञानरशनानुरावि- णीभिश्च बाष्पान्धा समुपदिश्यमानमार्गेव गृहसारसीभिः, अदृष्ट- कवाटपट्टसंघट्टस्फुटितललाटपट्टरुधिरपटलेन पटान्तेनेव रक्तांशुक- स्य मुखमाच्छाद्य प्ररुदती, संतापबलविलीनकनकवलयरसधारामि- व वेवलतामुत्सृजन्ती, मुखमरुत्तरङ्गितामुत्तरीयांशुकपटी स्फुरन्ती फणिनीव निर्मोकमतरीमाकर्षन्ती, नम्रांसस्रंसिनानिलविलोलेन नीलतमेन तमालचीरचीवरेणेव शोकोचितेन धम्मिल्लरचनारहितेन शिरोरुहसंचयेन चञ्चता प्रावृतकुचा, कुचताडनपीडया समुच्छूना- ताम्रश्यामतलं मुहुर्मुहुरत्युष्णाश्रुप्रमार्जनपदग्धमिव करकिशलयं धुनाना, चक्षुर्निर्झरे शीर्यति नपयन्तीव शोकाग्निप्रवेशाय स्वकपो- लतलप्रतिबिम्बितमासन्नलोकं लोललोचनप्रवृत्तैस्तरलैस्तारकांशुभिः श्यामायमानमात्मदुःखेन दिवसमपि दहन्तीव 'क कुमारः, क कु- मारः' इति पुरुषं पृच्छन्ती, वेलेति, नाम्ना यशोवत्याः प्रतीहार्या- जगाम । विषण्णलोकलोचनप्रत्युद्गता चोपमृत्य कुट्टिमन्यस्तहस्तयु- गला गलन्तीभिः सिञ्चन्तीव शुष्यन्तं दशनदीधितिधाराभिराधूस- रमधरमधोमुखी विज्ञापितवती-देव, परित्रायस्व परित्रायस्व । जीवत्येव भर्तरि किमप्यध्यवसितं देव्या' इति । ततस्तदुपरमाकर्ण्य च्युत इव सत्त्वेन, द्रुत इव दुःखेन, आचा- न्त इव चिन्तया, तुलित इव तापेन, अङ्कीकृत इवातङ्केनाप्रतिप- त्तिरासीत् । आसीच्चास्य चेतसि--'प्रतिपन्नसंज्ञस्य बहुशोऽपि हृ- अन्यस्मिनित्यादौ समीपस्था यशोवत्याः प्रतीहार्याजगामेति संबन्धः । तुलाकोटिनूपुरम् । चीरचीवरं वृक्षवक्, चीरवासः । अप्रतिपत्तिः किंकर्तव्यतामूर्खः । हृदयेऽतिकठिने । अनुक्रोशो दया । तत्रे- हर्षचरिते । दये दुःखाभिषङ्गो निपतन्नश्मनीव लोहप्रहार: कठिने हुतभुजमु- त्थापयति न तु भस्मसात्करोति मे निरनुक्रोशस्य कायम्' इति । उत्थाय च त्वरमाणोऽन्तःपुरमगात् । तत्र च मर्तुमुद्यतानां राज- महिषीणामशृणोदूरादेव 'तात चूत, चिन्तयात्मानं प्रवसति ते जननी । वत्स जातीगुच्छ, गच्छाम्यापृच्छस्व माम् । मया वि- नाद्यानाथा भवसि भगिनि भवनदाडिमलते । रक्ताशोक, मर्षणी- या: पादप्रहाराः कर्णपूरपल्लवभङ्गापराधाश्च । पुत्रक अन्तःपुरबाल- बकुलक वारुणीगण्डूषग्रहणदुर्ललित, दृष्टोऽसि । वत्से प्रियङ्गुल- तिके, गाढमालिङ्ग मां दुर्लभा भवामि ते । भद्र भवनद्वारसह- कारक, दातव्यो निवापतोयाञ्जलिरपत्यमसि । भ्रातः पञ्जरशुक, यथा न विस्मरसि माम् , किं व्याहरसि दूरीभूतास्मि ते । शा- रिके, स्वप्ने नः समागमः पुनर्भूयात् । मातः, मार्गलग्नं कस्य स- मर्पयामि गृहमयूरकम् । अम्ब, सुतवल्लालनीयमिदं हंसमिथुनं म- न्दपुण्यया मया न संभावितोऽस्य चक्रवाकयुगलस्य विवाहोत्स- वः । मातृवत्सले, निवर्तस्व । गृहहरिणिके, समुपनय सौविदल्ल- वल्लभवल्लकी परिष्वजे तावदेनाम् । चन्द्रसेने, सुदृष्टः क्रियतामयं जनः । बिन्दुमति, इयं तेऽन्या वन्दना । चेटि, मुश्च चरणौ । आर्ये कात्यायनिके, किं रोदिषि नीतास्मि दैवेन । तात कञ्चुकि- न्, किं मामलक्षणां प्रदक्षिणीकरोषि । धात्रेयि, धारयात्मानं किं पादयोः पतसि । भगिनि, गृहाण मामपश्चिमां कण्ठे कष्टं न दृष्टा प्रियसखी मलयवती । कुरङ्गवति, अयमामन्त्रणाञ्जलिः । सानुम- ति, अयमन्त्यः प्रणामः । कुवलयवति, एष तेऽवसानपरिष्वङ्गः। सख्यः, क्षन्तव्याः प्रणयकलहाः' इत्येवंप्रायानालापान् । दह्यमानश्रवणश्च तैः प्रविशन्नेव निर्यान्ती दत्तसर्वखापतेयां गृ- हीतमरणप्रसाधनाम् , जानकीमिव जातवेदसं पत्युः पुरः प्रवेक्ष्य- न्तीम्, प्रत्यग्रस्नानादेहतया श्रियमिव भगवतीं सद्यः समुद्रादु- त्थिताम्, कुसुम्भबभ्रुणी वाससी दिनमिव तेजसी सांध्ये दधाना- म्, ताम्बूलदिग्धरागान्धकाराधरप्रभापटलपाटलं पट्टांशुकमिव वि- धवामरणचिह्नमङ्गलग्नमुद्वहन्तीम् , रक्तकण्ठसूत्रेण कुचान्तरावल- त्यादौ राजमहिषीत्येवंप्रायानालापानशृणोदिति संबन्धः । आपृच्छस्व ज्योत्कुरु । वारुणी सुरानिवापोऽमृतमुद्दिश्य दीयते जलादिकम् ।
काम् , पतिव्रतापताकामिव पतिप्रासयष्टिमिष्टामुपगृहमानाम् , ब- पञ्चम उच्छ्रासः । १६५ म्बिना स्फुटितहृदयविगलितरुधिरधाराशङ्कां कुर्वतीम् , तिर्यकुटि- लकुण्डलकोटिकण्टकाकृष्टतन्तुना हारेण वलितेन सितांशुकपाशेनेव कण्ठमुत्पीडयन्तीम् , सरसकुङ्कुमाङ्गरागतया कवलितामिव दिध- क्षता चितार्चिष्मता चितानलार्चनाकुसुमैरिव धवलधवलैरश्रुबि- न्दुभिरंशुकोत्सङ्गमापूरयन्तीम् , गृहदेवतामन्त्रणबलिमिव वलयै- विगलद्भिः पदे पदे विकिरन्तीमाप्रपदीनाम् , कण्ठे गुणकुसुममालां यमदोलामिवारूढाम् , अन्तर्गजन्मधुकरमुखरणामत्र्यमाणलोचनो- त्पलामिव कर्णोत्पलेन प्रदक्षिणीक्रियमाणमिव मणिनूपुरबन्धुभिर्ब- दमण्डलं भ्रमद्भिर्भवनहंसैः संनिहितप्राणसमं मरणाय चित्तमिव चित्रफलकमविचलं धारयन्तीम् , अर्चाबद्धोद्धूयमानधवलपुष्पदाम- न्धोरिव निजचारित्रधवलस्य नृपातपत्रस्य पुरो नेत्रोदकमुत्सृजन्ती- म्, पत्युः पादपतनसमुद्वमभ्यधिकबाष्पाम्भःप्रवाहप्रतिरुद्धशः कथमपि प्रतिपन्नादेशान्सचिवान्संदिशन्तीम् , अनुनयनिवर्तितवि- धुरवृद्धबन्धुवर्गवर्धमानध्वनिभिर्गृहाक्रन्दैराकृष्यमाणश्रवणाम् , भ- तृभाषितनिभैः पञ्जरसिंहबृंहितैह्रियमाणहृदयाम् , धात्र्या भर्तृभ- त्या च निजया प्रसाधिताम् , जरत्या मूर्च्छया च संस्तुतया धार्य- माणाम् , सख्या पीडया च व्यसनसंगतया समालिङ्गिताम् , परि- जनेन संतापेन च गृहीतसर्वावयवेन परीताम् , कुलपुत्रैरुच्छ्रसितैश्च महत्तरैरधिष्ठिताम् , कञ्चुकिभिर्दुःखैश्चातिवृद्धैरनुगताम् , भूपाल- वल्लभान्कौलेयकानपि सास्रमालोकयन्तीम् , सपत्नीनामपि पाद- योः पतन्तीम्, चित्रपुत्रिका अप्यामत्रयमाणाम् , गृहपतत्रिणाम- प्यञ्जलिं पुरस्तादुपरचयन्तीम् , पशूनप्यापृच्छयमानाम् , भवनपा- दपानपि परिष्वजमानां मातरं ददर्श। दूरादेव च बाष्पायमाणदृष्टिरभ्यधात्-'अम्ब, त्वमपि मां मन्दपुण्यं त्यजसि । प्रसीद । निवर्तख' इत्यभिधान एव च स- स्नेहमिव नूपुरमणिमरीचिभिश्चुम्ब्यमानचूडश्चरणयोन्यपतत् । देवी तु यशोवती तथा तिष्ठति पादनिहितशिरसि विमनसि क- । । आपृच्छयमाना ज्योत्कारयन्ती। बाष्पायमाणा बाष्पमुद्वमन्ती । देवी बाष्पोत्पतनं धारयितुं न शशाकेति सं- बन्धः । बाष्पोत्पतनमथुप्रवाहम् । ह० १५ हर्षचरिते । नीयसि प्रेयसि तनये गुरुणा गिरिणेवोद्वेगवेगेनावष्टभ्यमाना, मू- न्धितमसं रसातलमिव प्रविशन्ती, बाप्पप्रवाहेनेव चिरनिरोध- संपिण्डितेन स्नेहसंभारेण निर्भराविभूतेनाभिभूयमाना, कृतप्रय- नापि निवारयितुं न शशाक बाष्पोत्पतनम् । उत्कटकुचोत्कम्पप्र- कटितासह्यशोकाकूता च गद्गदिकागृह्यमाणगलविकला नि:सामा- न्यमन्युतरलीक्रियमाणाधरोद्देशा पुनरुक्तस्फुरणनिबिडितनासापुटा निमील्य नयने नयनाम्भःसेकप्लवेन प्लावयन्ती विमलौ कपोलौ संछाद्य करनखमयूखमालाखचिततनुना तन्वन्तरनिर्गच्छदच्छात्र- स्रोतसेवांशुकपटान्तेन किंचिदुत्तानितं वदनेन्दु दूयमानमानसा स्मरन्ती प्रस्रुतस्तनी प्रसवदिवसादारभ्य सकलमङ्कशायिनः शैश- वमस्य ज्ञातिगृहगतहृदया ' अम्ब, तात, न पश्यतं पापां पर- लोकप्रस्थितां मामेवमतिदुःखिताम्' इति मुहुर्मुहुराक्रन्दती पितरौ, 'हा वत्स, विश्रान्तभागधेयया न दृष्टोऽसि' इति प्रेष्ठं ज्येष्ठं तन- यमसंनिहितं क्रोशन्ती, 'अनाथा जाता' इति श्वशुरकुलवर्तिनी दुहि- तरमनुशोचन्ती, 'निष्करुण, किमपराद्धं तवामुना जनेन' इति दैवमुपालभमाना, 'नास्ति मत्समा सीमन्तिनी दुःखभागिनी' इति निन्दन्ती बहुविधमात्मानम्, 'मुषितास्मि नृशंस, त्वया' इत्यकाण्डे कृतान्तं गर्हमाणा मुक्तकण्ठमतिचिरं प्राकृतप्रमदेव प्रारोदीत् । प्रशान्ते च मन्युवेगे सस्नेहमुत्थापयामास सुतम् । हस्तेन चा- स्य प्ररुदितस्य पक्ष्मपालीपुजमाननखकिरणनिवहां द्रुतामिवाधि- कतरं क्षरन्तीं दृष्टिमुन्ममार्ज । स्वयमपि कठोररागपरिपीयमानेन धवलिम्ना मुच्यमानोदरे कथदस्रश्वयत्पर्यन्ते शुक्लशीकरतारतारकि- तपक्ष्मणी सूक्ष्मतराश्रुबिन्दुपरिपाटीपतनानुबन्धविधुरे लोचने पुनः पुनरापूर्यमाणे प्रमृज्य बाष्पार्द्रगण्डगृहीतां च श्रवणशिखरमारोप्य शोकलम्बामलकलतामधःस्रस्तविलोलबालिकाव्याकुलितां च समु- सार्य तिरश्ची चिकुरसटामश्रुप्रवाहपूरितमाई च किंचिच्च्युतमुरिक्ष- प्य हस्तेन स्तनोत्तरीयं तरङ्गितमिव मग्नांशुकपटान्ततनुताम्रलेखा- लाञ्छितलावण्यकुञ्जिकावर्जितराजतराजहंसास्यसमुद्गीर्णेन पयसा प्रक्षाल्य मुखकमलं कलमूकलोकविधृते वासःशकले शुचिनि समु- न्मृज्य पाणी सुतवदनविनिहितनिभृतनयनयुगला चिरं स्थित्वा पुनः पञ्चम उच्छ्वासः। १६७ । पुनरायतं निश्वस्यावादीत्-'वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा । स्तन्येनैव सह त्वया पीतं मे हृदयम् । अस्मि- श्व समये अभूतप्रभुप्रसादान्तरिता त्वां न पश्यति दृष्टिः । अपि च पुत्रक, पुरुषान्तरविलोकनव्यसनिनी राज्योपकरणमकरुणा वा नास्मि लक्ष्मीः क्षमा वा । कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता। किं विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रका- ण्डस्य केशरिण इव केशरिणीं गृहिणीम् । वीरजा वीरजाया वीर- जननी च मादृशी पराक्रमक्रीता कथमन्यथा कुर्यात् । एवंविधेन पित्रा ते भरतभगीरथनाभागनिभेन नरेन्द्रवृन्दारकेण गृहीतः पा- णिः । आसेवितः सेवासंभ्रान्तानन्तसामन्तसीमन्तिनीसमावर्जित- जाम्बूनद्घटाभिषेक: शिरसा । लब्धो मनोरथदुर्लभो महादेवी- पट्टबन्धसत्कारलाभो ललाटेन । आपीतौ युष्मद्विधैः पुबैरमित्रकल- बन्दीवृन्दविधूयमानचामरमरुञ्चलचीनांशुकधरौ पयोधरौ । सप- नीनां शिरःसु निहितं नमन्निखिलकटककुटुम्बिनी किरीटमाणिक्य- मालार्चितं चरणयुगलकम् । एवं कृतार्थसर्वावयवा किमपरमपेक्षे क्षीणपुण्या । मर्तुमविधवैव वाञ्छामि । न च शक्नोमि दग्धस्य भर्तुरार्यपुत्रविरहिता रतिरिव निरर्थकान्प्रलापान्कर्तुम् । पितुश्च ते पादधूलिरिव पथमं गगनगमनमावेदयन्ती बहुमता भविष्यामि शूरानुरागिणीनां सुराङ्गनानाम् । प्रत्यग्रदृष्टदारुणदुःखदग्धायाश्च मे किं धक्ष्यति धूमध्वजः । मरणाञ्च मे जीवितमेवास्मिन्समये साहसम् । अतिशीतल: पतिशोकानलादक्षयनेहेन्धनादस्मादनलः। कैलासकल्पे प्रवसति जीवेश्वरे जरत्तृणकणिकालघीयसि जीविते लोभ इति क धटते । अपि च जीवन्तीमपि मां नरपतिमरणावधी- रणमहापातकिनी न स्प्रक्ष्यन्ति पुत्र, पुत्रराज्यसुखानि । दुःखद- ग्धानां च भूतिरमङ्गला चाप्रशस्ता च निरुपयोगा च भवति । वत्स, विश्वस्तानां यशसा स्थातुमिच्छामि लोके न वपुषा । तद- हमेव त्वां तावत्तात, प्रसादयामि न पुनर्मनोरथप्रातिकूल्येन कद्- र्थनीयास्मिा' इत्युक्त्वा पादयोरपतत् । जाम्बूनदं सुवर्णम् । पाधूलिरिवेति । सापि प्रथमगतागमनमावेदयति । धक्ष्यति भस्मीकरिष्यति । धूमध्वजोऽमिः । भूतिः समृद्धिः, भस्म च । विश्वस्तानां विधवानाम् ।
१६८ हर्षचरिते स तु ससंभ्रममपनीय चरणयुगलमवनमिततनुरुभयकरविधृ- तवपुषमवनिगतशिरसमुदनमयन्मातरम् । दुर्निवारतां च शुचः समवधार्य कुलयोषिदुचितां च तामेव श्रेयसीं मन्यमानः क्रियां कृतनिश्चयां च तां ज्ञात्वा तूष्णीमधोमुखोऽभवत् । अभिनन्दति हि स्नेहकातरापि कुलीनता देशकालानुरूपम् । देव्यपि यशोवती परिष्वज्य समाघ्राय च शिरसि निर्गत्य चरणा- भ्यामेव चान्तःपुरात्पौराक्रन्दनिर्भराभिरुध्यमानेव दिग्भिः स- रस्वतीतीरं ययौ । तत्र च स्त्रीखभावकातरैदृष्टिपातः प्रविकसित- रक्तपङ्कजपुजैरिवार्चयित्वा भगवन्तं भानुमन्तमिव मूर्तिरैन्दवी चित्रभानु प्राविशत् । इतरोऽपि मातृमरणविह्वलो बन्धुवर्गपरिवृतः पितुः पार्श्व प्रायात् । अपश्यच्च स्वल्पावशेषप्राणवृत्तिं परिवर्यमा- नतारकं तारकराजमिवास्तमभिलषन्तं जनयितारम् । असह्यशो- कोद्रेकाभिद्रुतश्च त्याजितः स्नेहेन धैर्यम् । आश्लिष्यास्य सकलदु- मदमहीपालमौलिमालालालितौ पादपद्मावन्तस्तापान्मुखचन्द्रमिव द्रवीभवन्तं दशनज्योत्स्नाजालमिव जलतामापद्यमानं लोचनलाव- ण्यमिव विलीयमानं मुखसुधारसमिव स्यन्दमानम् । अच्छाच्छम- श्रुस्रोतसां संतानं महामेघमयविलोचन इव वर्षन्नितरवद्विमुक्तारा- वश्चिरं रुरोद। राजा तु तमुपरुध्यमानदृष्टिरविरतरुदितशब्दाश्रितश्रवणः प्रत्य- भिज्ञाय शनैः शनैरवादीत्-'पुत्र, नाहस्येवं भवितुम् । भवद्विधा न ह्यमहासत्त्वाः । महासत्त्वता हि प्रथममवलम्बनं लोकस्य पश्चा- द्राजवीजिता । सत्त्ववतां चाग्रणी: सर्वातिशयाश्रितः क भवान् , क वैक्लव्यम् । 'कुलप्रदीपोऽसि' इति दिवसकरसदृशतेजसस्ते लघू. करणमिव । 'पुरुषसिंहोऽसि' इति शौर्यपटुप्रज्ञोपबृंहितपराक्रमस्य निन्देव । 'क्षितिरियं तव' इति लक्षणाख्यातचक्रवर्तिपदस्य पुन- रक्तमिव । 'गृह्यतां श्रीः' इति स्वयमेव श्रिया गृहीतस्य विपरी- तमिव । 'अध्यास्यतामयं लोकः' इत्युभयलोकविजिगीषोरपुष्कल- मिव । 'स्वीक्रियतां कोषः' इति शशिकरनिकरनिर्मलयशःसंचयै- । । अमावस्यायामिन्दुर्भानुमन्तं प्रविशतीति प्रसिद्धम् । चित्रभानुमग्निम् । तारक- राजं चन्द्रम् । असोलादौ चिरं रुरोदेति संबन्धः । उद्रेक आधिक्यम् । उपरुध्यमाना उपरोधवती दृष्टिर्बुद्धिर्यस्य सः । अवलम्बनमाश्रयः । राज पञ्चम उच्छासः । १६९ । । । काभिनिवेशिनो निरुपयोगमिव । 'आत्मीक्रियतां राजकम्' इति गुणगणात्मीकृतजगतो गतार्थमिव । 'उह्यतां राज्यभारः' इति भु- वनत्रयभारोचितस्यानुचितनियोग इव । 'प्रजाः परिरक्ष्यन्ताम्' इति दीर्घदोर्दण्डार्गलितदिङ्मुखस्यानुवाद इव । 'परिजन: परिपा- ल्यताम्' इति लोकपालोपमस्यानुषङ्गिकमिव । 'शस्त्राभ्यासः कार्यः' इति धनुर्गुणकिणकलङ्ककालीकृतप्रकोष्ठस्य किमादिश्यते । 'निग्रा- ह्यतां चापलम्' इति नूतनतरवयसि निगृहीतेन्द्रियस्य निरवका- शेव मे वाणी। 'निरवशेषतां शत्रवो नेयाः' इति सहजस्य तेजस एवेयं चिन्ता ।' इत्येवं वन्नेवापुनरुन्मीलनाय निमिमील राज- सिंहो लोचने । अस्मिन्नेवान्तरे पूषाप्यायुषेव तेजसा व्ययुज्यत । ततश्च लज्ज- मान इव नरपतिजीवितापहरणजनितादात्मापराधादधोमुखः सम- भवत् । भूपालाभावशोकशिखिनेवान्तस्ताप्यमानस्ताम्रतां प्रपेदे । मन्दं मन्दमप्रियप्रश्नार्थमिव स्थितिमनुवर्तमानो लौकिकीमवातर- दिवः । दित्सुरिव जनेशाय जलाजालिमपरजलनिधिसमीपमुपससर्प। सद्योदत्तजलाञ्जलिर्दुःखदहनदग्धमिव करसहस्रमालोहितमधत्त । एवं च महानराधिपनिधननिधीयमानविपुलवैराग्य इव शान्त- वपुषि, विशति गिरिगुहागह्वरं गभस्तिमालिनि, समुपोह्यमानमहा- जनाश्रुदिनार्दीकृत इव निर्वात्यातपे, रोदनताम्रसकललोकलोच- नरुचेव लोहितायति जगति, उष्णायमानानेकनरनिश्वाससंतापप्लुष्ट इव च नीलायमाने दिवसे, नृपानुगमनप्रचलितयेव लक्ष्म्या मु- च्यमानासु कमलिनीषु, पतिशुचेव परिवृतच्छायायां श्यामायमा- नायां भुवि कुलपुत्रेष्विव परित्यक्तकलत्रेषु, कृतकरुणप्रलापेषु व- नान्तानाश्रयत्सु दुःखितेषु चक्रवाकेषु, छत्रभङ्गभीतेष्विव निगूढ- वीजिता राजान्वयिता । कुलप्रदीपोऽसीत्यादौ पूर्ववदाक्षेपाभ्यूहः । आनुषङ्गिक प्रस्तावागतम् । अपुनरुन्मीलनाय पुनरप्रबोधनाय । निमिमील प्रत्यपद्यत प्राप्तः। पूष्ण आत्मजो यमः। एवं चेत्यादावस्मिन्सति नरेन्द्रो हुताशनसक्रियया यशःशेषतामनीयतेति संबन्धः । गभस्तीन्रश्मीन्मलते धारयतीति गभस्तिमाली सूर्यस्तस्मिन् । समुपो- ह्यमानं वर्धमानम् । निर्वात्य शाम्यति सति यश्चाीकृतः । सोऽवश्यं निर्वाति शीतलीभवति । छायातपप्रतिपक्षजातिः, कान्तिश्च । श्यामा रात्रिः,नायिका च । वनं तोयम्, विपिनं च । छत्रभङ्गो राजदण्डः, पत्राणां च छत्राकारताभेदः ।
१७० हर्षचरिते कोशेषु कुशेशयेषु, स्फुटितदिग्वधूहृदयरुधिरप्लव इव गलिते रक्ता- तपे, क्रमेण च लोकान्तरमुपगतवत्यनुरागशेषे जाते तेजसामधीशे, गगनतलवितन्यमानबहलरागपटलायां प्रेतपताकायामिव प्रवृत्ता- यां संध्यायां, शवशिबिकालंकारकृष्णचामरमालास्विव स्फुरन्तीषु दर्शनप्रतिकूलासु तिमिरलेखासु, असितागुरुकालकाष्ठायां केनापि चितायामिव रचितायां रजन्यां, दन्तामलपत्रप्रसाधितकर्णिकासु, केसरमालाकल्पितमुण्डमालिकासु, अनुमतुमिवोद्यतासु प्रहसितमु- खीषु कुमुदलक्ष्मीषु, अवतरत्रिदशविमानकिङ्किणीकणित इव श्रू- यमाणे, शाखिशिखरकुलायलीयमानशकुनिकुलकूजिते, नाकपथप्र- स्थितपार्थिवप्रत्युद्गतपुरुहूतातपत्र इव पूर्वस्यां दिशि दृश्यमाने च- न्द्रमसि, नरेन्द्रः स्वयं समर्पितस्कन्धैर्गृहीत्वा शवशिबिकां शि- बिसमः सामन्तैः पौरैश्च पुरोहितपुरःसरैः सरितं सरस्वती नीत्वा- नरपतिसमुचितायां चितायां हुताशसक्रियया यशःशेषतामनीयत । देवोऽपि हर्षः पुजीभूतेन सकलेनेव जीवलोकेन लोकेन राज- कुलसंबद्धेनाशेषेण शोकमूकेन परिवृतोऽन्तर्वर्तिनापि शोकानलत- प्लेन स्नेहद्रवेण बहिरिव सिच्चमानो निर्व्यवधानायां धरण्यामुप- विष्ट एव तां निशीथिनी भीमरथीभीमामखिलां सराजको जजा- गार । अजनि चास्य चेतसि ताते दूरीभूते संप्रत्येतावान्खलु जी- वलोकः, लोकस्य भग्नाः पन्थानः, मनोरथानां खिलीभूतानि भूति- स्थानानि, स्थगितान्यानन्दस्य द्वाराणि, सुप्ता सत्यवादिता, लुप्ता लोकयात्रा, विलीना बाहुशालिता, प्रलीना प्रियालापिता, प्रोषिताः पुरुषकारविहारविकाराः, समाप्ता समरशौण्डता, ध्वस्ता परगुणप्री- तिः, विश्रान्ता विश्वासभूमयः, अपदान्यपदानानि, निरुपयोगानि शास्त्राणि, निरवलम्बना विक्रमैकरसता, कथावशेषा विशेषज्ञता, ददातु जनो जलाञ्जलिमौर्जियाय, प्रतिपद्यतां प्रव्रज्यां प्रजापाल- कोशो गञ्जः, कर्णिका च । अनुरागो भक्तिः, लौहित्यं च । तेजसामधीशो राजा- पि । शवशिबिका मृतयानम् । चामरमाला अपि दर्शनप्रतिकूलाः । काष्ठा दिशः, दारु च । काष्ठदन्तवत्तस्य चामलं पत्रम् । कर्णिका कर्णाभरणं च केसरशब्दः किंजल्कबकुलयोः । शिबिर्नाम राजर्षिरभूत् । निशीथिनीं रात्रिम् । भीमरथी नरकनदी, कालरात्रिर्वा । अन्ये तु सप्तस- प्तत्या वर्षैस्तत्संख्यैश्च मासैदिनैश्च तावद्भिर्गतैरेका रात्रिीमरथी. भवति तामति- १ न । पञ्चम उच्छ्रासः। ता, बध्नातु वैधव्यवेणी वरमनुष्यता, समाश्रयतु राजश्रीराश्रमप- दम् , परिधत्तां धवले वाससी वसुमती, वहतु वल्कले विलासिता, तपस्यतु तपोवनेषु तेजखिता, प्रावृणोतु चीवरे वीरता, क गम्यतां पुनस्तस्य कृते कृतज्ञतया, क पुनः प्राप्स्यति तादृशान्महापुरु- षनिर्माणपरमाणून्परमेष्ठी, शून्याः संवृत्ता दश दिशो गुणानाम् , जगज्जातमन्धकारं धर्मस्य, निष्फलमधुना जन्म शस्त्रोपजीविनाम् । तातेन विना कुतस्त्या दिवसमसमसमररससमारब्धकलहकथाक- ण्टकितसुभटकपोलभित्तयो वरिगोष्टयः। अपि नाम स्वप्ने अपि दृश्येत दीर्घरक्तनयनं पुनस्तन्मुखसरोजम् , जन्मान्तरेऽपि पुनः परिष्व- ज्येत तल्लोहस्तम्भाभ्यधिकगरिमगर्भ भुजयुगलम् । लोकान्तरेऽपि पुत्रेत्यालपतः श्रूयेत सा सुधारसमुहिरन्ती मथ्यमानक्षीरसागरो- गारगम्भीरा भारतीति । एतानि चान्यानि च चिन्तयत एवास्य कथमपि सा क्षयमियाय यामिनी ततः शुचेव मुक्तकण्ठमारटत्सु कृकवाकुकुलेषु, गृहगिरितरु- शिखरेभ्यः पातयत्वात्मानं मन्दिरमयूरेषु परित्यक्तनिवासेषु च व- नाय प्रस्थितेषु पत्ररथेषु सद्यस्तनूभूते ताम्यति तमसि मन्दीभूता- त्मस्नेहेष्वभावमभिलषत्सु प्रदीपेषु, स्फुरदरुणवल्कलप्रावृतवपुषि प्र- बज्यामिव प्रतिपन्ने नभसि, प्रभातसमयेन समुत्तीर्यमाणासु पार्थि- वास्थिशकलकलास्विव कलविङ्ककंधराधूसरासु तारकासु, भूभृद्धा- तुगर्भकुम्भधारिषु विविधसरःसरित्तीर्थाभिमुखेषु प्रस्थितेषु वनक- रिकुलेषु, शावशुचिसिक्थपटलपाण्डुरे, पिण्ड इवापरपयोनिधिपुलि- नपरिसरे, पात्यमाने शशिनि, क्रमेण नृपचितानलघूमविसरधूसरी- कृततेजसीव, नरपतिशोकपावकदाहकिणकलङ्ककालीकृतचेतसीव, प्रोषितसमस्तान्तःपुरपुरंध्रिमुखचन्द्रवृन्दोद्वेगविद्राणवपुषीव, प्रथ- मास्तमितरोहिणीरणरणकविमनसीव चास्तमुपगते रजनिकरे, रा- जतीव देवे दिवमारूढे सवितरि, परिवृत्ते राज्य इव रजनीप्रबन्धे, क्रान्तो वर्षशतजीवी नरो भवतीति प्राहुः । जीवलोकः : संसारः । खिलीभूतानि शून्यानि । लोकयात्रा व्यवहारः । प्रावृणोतु परिदधातु । कलहो रणः । ततः शुचेत्यादौ चचाल स्नानाय देवों हर्ष इति संबन्धः । शुचेवेति । गृहे गिर्यादौ योज्यम् । स्नेहः प्रेम, तैलं च । अरुणो रविसारथिः, लोहितं चारुणम् । कलविको ग्रामचटकः । भूभृगिरिः, राजा च । धातवो लघून्यस्थीनि, गैरिकाद्या- - १७२ हर्षचरिते प्रबुद्धराजहंसमण्डलप्रबोध्यमानः पङ्कजाकर इव चचाल देवो हर्षः। ततश्च नूपुररवविराममूकमन्दमन्दिरहंसेषु, शोकाकुलकतिपयक जु- किमावावशेषेषु शुद्धान्तेषु, पतितयूथप इव वनगजयूथे, कक्ष्या- न्तरवर्तिनि पितृपरिजने, विषादिन्युपरिरुदन्निषादि नि च स्तम्भनि- षण्णे, निष्पन्दमन्दे राजकुञ्जरे, मन्दुरापालकाक्रन्दकथिते चाजि- रभाजि, राजवाजिनि विश्रान्तजयशब्दकलकले च शून्ये च महा- स्थानमण्डपे दह्यमानदृष्टिनिर्जगाम राजकुलात् । अगाच्च सरस्व- तीतीरं तस्यां स्नात्वा पित्रे ददावुदकम् । अपस्नातश्चानिष्पीडित- मौलिरेव परिधायोद्गमनीयदुकूलवाससी निश्वासपरो निरातपत्रो निरुत्सारणः समुपनीतेऽपि सप्तौ चरणाभ्यामेव नासाग्रासक्तेन रक्ततामरसतानेण चक्षुषा हृदयावशेषस्यापि पितुर्दाहशङ्कया शो- काग्निमिव उद्गिरन्नताम्बूलस्यापि सुचिरप्रक्षालितस्य कल्पतरुकि- शलयस्येव स्वभावपाटलस्याधरस्याधरपल्लवस्य प्रभया मांसरुधिरक- वलानिव हृदयाभिघातादुद्वमन्नुष्णनिश्वासमोक्षैर्भवनमाजगाम । राजवल्लभास्तु भृत्याः सुहृदः सचिवाश्च तस्मिन्नेवाहनि निर्गत्य प्रियं पुत्रदारमुत्सृज्योद्वाष्पैर्बन्धुभिर्वार्यमाणा अपि बहुनृपगुणगण- हृतहृदयाः केचिदात्मानं भृगुषु बबन्धुः, केचित्तत्रैव तीर्थेषु तस्थुः, केचिदनशनैरास्तीर्णतृणकुशा व्यथमानमानसाः शुचमसमामशम- यन् , केचिच्छलभा इव वैश्वानरं शोकावेगविवशा विविशुः, के- चिद्दारुणदुःखदहनदह्यमानहृदया गृहीतवाचस्तुषारशिखरिणं शरणं ययुः, केचिद्विन्ध्योपत्यकासु वनकरिकुलकरशीकरासारसिच्यमा- नतनवः पल्लवशयनशयिनः संतापमशमयन् , केचित्संनिहितानपि विषयानुत्सृज्य सेवाविमुखाः परिच्छिन्नैः पिण्डकैरटवीभुवः शून्या जगृहु:, केचित्पवनाशना धर्मधना धमद्धमनयो मुनयो बभूवुः, के- श्व । कुम्भौ कपाटौ, घटश्च कुम्भः । शावे धूसरे शवसंबन्धिनि च । सिक्थं भक्तम् , मधूच्छिष्टं च । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' । राजहंसा इव राजानः, हंसाश्च । ततश्चेत्यादावस्मिन्सति दह्यमानदृष्टिर्निर्जगाम राजकुला- दिति संबन्धः । निषादी हस्तिपकः । अपनातेत्यादौ भवनमाजगामेति संबन्धः । अपस्नातो मृतस्नातः। मौलयः केशाः। 'तत्यादुद्गमनीयं यद्धौतयोर्वस्त्रयो- युगम् । सप्तौ हये। भृगषु प्रपातेषु । कुशोऽत्र संध्या । पिण्डकैः शरीरैः धमनयो नाड्यः ।
पञ्चम उच्छ्वासः। १७३ चिद्गृहीतकाषायाः कापिलं मतमधिजगिरे गिरिषु, केचिदाचोटितचू- डामणिषु शिरःसु शरणीकृतधूर्जटयो जटा जघटिरे । अपरे परिपा- टलप्रलम्बचीवराम्बरसंवीताः स्वाम्यनुरागमुज्ज्वलं चक्रुः । अन्ये तपोवनहरिणजिह्वाञ्चलोल्लिह्यमानमूर्तयो जरां ययुः। अपरे पुनः पा- णिपल्लवप्रमृष्टैराताम्ररागैर्नयनपुटैः कमण्डलुभिश्च वारि वहन्तो गृहीतव्रता मुण्डा विचेरुः देवमपि हर्ष तदवस्थं पितृशोकविह्वलीकृतम् , श्रियं शाप इति, महीं महापातकमिति, राज्यं रोग इति, भोगान्भुजङ्गा इति, नि- लयं निरय इति, बन्धुं बन्धनमिति, जीवितमयश इति, देहं द्रोह इति, कल्यतां कलङ्क इति, आयुरपुण्यफलभिति, आहारं विष- मिति, विषममृतमिति, चन्दनं दहन इति, कामं क्रकच इति, हृ- दयस्फोटनमभ्युदय इति च मन्यमानम् , सर्वासु क्रियासु विमु- खम् , पितपितामहपरिग्रहागताश्चिरंतनाः कुलपुत्राः, वंशक्रमाहि- तगौरवाश्च ग्राह्यगिरो गुरवः, श्रुतिस्मृतीतिहासविशारदाश्च जर- द्विजातयः, श्रुताभिजनशीलशालिनो मूर्धाभिषिक्ताश्चामात्यां रा- जानो, यथावदधिगतात्मतत्त्वाश्च संस्तुता मस्करिणः, समदुःखसु- खाश्च मुनयः, संसारासारत्वकथनकुशला ब्रह्मवादिनः, शोकापन- यननिपुणाश्च पौराणिकाः पर्यवारयन् । अस्वतन्त्रीकृतश्च तैर्मनसापि नालभत शोकमनुप्रचरितुम् । अ- नुनीयमानश्च कथं कथमप्याहारादिकासु क्रियास्वाभिमुख्यमभजत । भ्रातृगतहृदयश्चाचिन्तयत् -अपि नाम तातस्य मरणं महाप्रलयस- दृशमिदमुपश्रुत्य आर्यों बाष्पजलस्नातो न गृह्णीयाद्वल्कले । नाश्रयेद्वा राजर्षिराश्रमपदम् । न विशेद्वा पुरुषसिंहो गिरिगुहाम् । अस्रस- लिलनिर्भरभरितनयननलिनयुगलो वा पश्येदनाथां पृथिवीम् । प्र- थमव्यसनविषमविह्वलः स्मरेदात्मानं वा पुरुषोत्तमः । अनि- अनेन काश्य लक्ष्यते । अधिजगिरे अध्येषत । आचोटित उत्खातः । धूर्जटिः शिवः । वारि अश्रु, उदकं च । देवमित्यादौ देवमपि हर्षमेवंविधा जनाः पर्यवारयनिति संबन्धः। कल्यता- मरोगिताम् । ग्राह्यगिर आदेयवाचः । अध्यात्ममात्मज्ञानम् । तत्त्वमितिकर्तव्य- ता। मस्करिणः परिव्राजकाः । सनाभयः सगोत्राः । शौचानुप्रवणं शरीरबाधादि । बाष्पजलनातो न गृह्णी- हर्षचरिते त्यतया जनितवैराग्यो वा न निराकुर्यादुपसर्पन्ती राज्यलक्ष्मीम् । दारुणदुःखदहनप्रज्वलितदेहो वा प्रतिपद्येताभिषेकम् । इहागतो वा राजभिरभिधीयमानो न पराचीनतामाचरेत् । अतिपितृपक्ष- पाती खल्वार्यः। सर्वदा तातश्लाघया मामभिधत्ते-'तात हर्ष, क- स्यचिदभूद्भविष्यति वा पुनः काञ्चनतालतरुप्रांशु कायप्रमाणमि- दम् । ईक्च दिवसकरप्रीत्या दिवसमुन्मुखविकसितं मुखमहाक- मलम् । एतौ च वज्रस्तम्भभाखरौ भुजकाण्डौ । एते च हसित- मदालसहलधरविभ्रमा विलासाः कोऽन्यो मानी विक्रान्तो वदान्यो वा' इति । एतानि चान्यानि च चिन्तयन्दर्शनोत्सुकहृदयो भ्रा- तुरागमनमुदीक्षमाणः कथं कथमप्यतिष्ठदिति । इति श्रीबाणभट्टकृतौ हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छासः। यावल्कल इति प्रतीपमानता बोद्धव्या । अत्र च सर्वत्र नेत्याशङ्कायाम् । पुरुषो- त्तमो हर्षः, हरिरपि । पराचीनता पराड्मुखत्वम् , अनानुकूल्यं वा । मुखकमलस्य दिवसकरप्रीतिः प्रतापित्वम् । वदान्यो दाता ॥ इति श्रीशंकरकविरचिते हर्षचरितसंकेते पञ्चम उच्छासः ॥
षष्ठ उच्छासः १७५ षष्ठ उच्छ्ासः। उञ्चित्योच्चित्य भुवि प्रहितनिगूढात्मदूतनीतानाम् । विजिगीषुरिव कृतान्तः शूराणां संग्रहं कुरुते ॥ १ ॥ विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । नवतरुमङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥ २॥ अथ प्रथमप्रेतपिण्डमुजि भुक्ते द्विजन्मनि, गतेषूद्वेजनीयेष्वशौ- चदिवसेषु, चक्षुर्दाहदायिनि दीयमाने द्विजेभ्यः शयनासनचामरा- तपत्रामत्रपत्रशस्त्रादिके नृपनिकटोपकरणकलापे, नीतेषु तीर्थस्था- नानि सह जनहृदयैः कीकसेषु, कल्पितशोकशल्ये सुधानिचयचिते चिताचैत्यचिह्न, वनाय विसर्जिते महाजिजिति राजगजेन्द्रे, क्रमेण च मन्देष्वाक्रन्देषु, विरलीभवत्सु च विलापेषु, विश्राम्यत्यश्रुणि, शिथिलीभवत्सु श्वसितेषु, अविस्पष्टेषु हाकष्टाक्षरेषु, उत्सार्यमाणासु च व्यसनशय्यासु, उपदेशश्रवणक्षमेषु श्रोतेषु, अनुरोधावधानयो- ग्येषु हृदयेषु, गणनीयेषु, नृपगुणेषु, प्रदेशवृत्तितामाश्रयति शोके, कृ- तेषु कविरुदितकेषु, जाते च स्वप्नावशेषदर्शने हृदयावशेषस्थाने, चि- तावशेषाकृतौ काव्यावशेषनाम्नि नरनाथे देवो हर्षः कदाचिदुत्सृष्ट- व्यापारः पुजीभूतवृद्धबन्धुवर्गाग्रेसरेणावनतमूकमुखेन महाजनेन उच्चित्येति । कृतान्तोऽन्तकः शूराणां संग्रहं कुरुते । किं कृत्वा । उच्चित्यो- चित्य यथा प्रधानं प्रहितनिगूढाः खभावप्रच्छन्ना यमदूता यमकिंकरास्तैर्नीतानां विजिगीषुर्यथान्विष्यान्विष्यात्मदूतानां शूराणां संग्रहं कुरुते । अनेनोच्छ्रासार्थः संगृहीतः। तथा हि कृतोऽन्तो विनाशो येन स शशाङ्कनामा गौडाधिपतिः । शूराणां राज्यवर्धनानुचराणां प्रधानराजपुत्राणां तत्सहितानां संग्रहमकरोत् । कथम् । उचित्योच्चित्यान्विष्यान्विष्य । कीदृशानाम् । प्रहितनिगूढात्मदूतानाम् । तथा हि तेन शशाङ्केन विश्वासार्थ दूतमुखेन कन्याप्रदानमुक्ला प्रलोभितो रा- ज्यवर्धनः स्वगेहे सानुचरो भुञ्जान एव छद्मना व्यापादितः ॥ १ ॥ अत एव चाह–विस्तब्धेत्यादि । खलोऽत्र गौडापसदः शशाङ्कः । वी- रश्च हर्षः ॥२॥ अथ प्रथमेत्यादावस्मिन्नस्मिन्सति देवो हर्षों मौलेन महाजनेनात्मानं सकलं वेष्टयमानमद्राक्षीदिति संबन्धः । भोजनं भुक्तं तदस्यास्तीति । 'अर्शआदिभ्यो- ऽच्' । अमत्राणि पात्राणि । पत्राणि वाहनानि । कीकसेष्वस्थिषु । चितायां चै- त्यचिह्नस्थमाकारं चिह्नम्, श्मशानदेवगृहं वा । कविरुदितकेषु दुःखोद्दीपनकालेषु लोकोत्तरो जनसमूहः । मन्युः शोकः । । । । । ।
१७६ हर्षचरिते me मौलेनाकाल आत्मानं वेष्ट्यमानमद्राक्षीत् । दृष्ट्वा चाकरोन्मनसि- 'किमन्यदार्यमागतमावेदयत्ययं शोकपराभूतो लोकाकरः' इति । वेप- मानहृदयश्च पप्रच्छ प्रविशन्तमधिकतरप्रचारमन्यतमं पुरुषम् 'अङ्ग, कथय । किमार्यः प्राप्तः' इति । स मन्दमब्रवीत्-'देव, यथादिशसि द्वारि' इति श्रुत्वा च सोदर्यस्नेहनिहितनिरतिशयमन्युमृदूकृतमनाः कथमपि न ववाम बाष्पवारिप्रवाहोत्पीडेन सह जीवितम् । अनन्तरं च द्वारपालमुक्तेन प्रथमप्रविष्टेन परिजनेनेवानन्देन कथ्यमानम्, दूरद्रुतागमनमुषितबाहुल्येन विच्छिन्नच्छत्रधारेण लम्बिताम्बरवाहिना भ्रष्टभृङ्गारग्राहिणा च्युताचमनधारिणा ता- म्यत्ताम्बूलिकेन खञ्जत्खड्गग्राहिणा कतिपयप्रकाशदासेरकप्रायेण, बहुवासरान्तरितस्नानभोजनशयनश्यामक्षामवपुषा परिजनेन परि- वृतम् , अविरलमार्गधूलिधूसरितशरीरतया शरणीकृतमिवाशरणया क्रमागतया वसुंधरया हूणनिर्जयसमरशरवणबद्धपट्टकैर्दीर्घधवलैः समासन्नराज्यलक्ष्मीकटाक्षपातैरिव शबलीकृतकायम् , अवनिपति- प्राणपरित्राणार्थमिव च शोकहुतभुजि हुतमांसैरतिकृशैरवयवैरावे- द्यमानदुःखभारम् , अपगतचूडामणिनि मलिनाकुलकुन्तले शेख- रशून्ये शिरसि शुचमारूढां मूर्तिमतीमिव दधानम् , आतपगलि- तखेदराजिना रुदतेव पितृपादपतनोत्कण्ठितेन ललाटपट्टेन लक्ष्य- माणम् , प्रथीयसा बाष्पपयःप्रवाहेनाभिमतपतिमरणमूच्छिता- 'मिव महीमनवरतं सिञ्चन्तम् , अनन्तसंतताश्रुप्रवाहनिपतननि- म्नीकृताविव दुःखक्षामौ कपोलावुद्वहन्तम् , अत्युष्णमुखमारुत- मार्गगतेन द्रवतेव गलितताम्बूलरागेणाधरबिम्बेनोपलक्षितम् , वित्रिकामावावशेषेन्द्रनीलिकांशुश्यामायमानमचिरश्रुतपितृमरण- महाशोकाग्निदग्धमिव श्रवणप्रदेशमुद्वहन्तम्, अस्फुटाभिव्य- क्तव्यजनेनाप्यधोमुखस्तिमितनयननीलतारकमयूखमालाखचितेन शोकप्ररूढश्मश्रुश्यामलेनेव मुखशशिना लक्ष्यमाणम् , केशरिण- मिव महाभूभृद्विनिपातविह्वलनिरवलम्बनम् , दिवसमिव तेज:प- तिपतनपरिम्लानश्रियं श्यामीभूतम् , नन्दनमिव भग्नकल्पपादपं अनन्तरमित्यादौ प्रविशन्तं ज्येष्ठं भ्रातरमद्राक्षीदिति संबन्धः । परिजनेनापि प्रथसप्रविष्टेन द्वारपालप्रमुक्तेन च । आचमनं पतगृहः । प्रकाशा अतुरङ्गखानि- श्वीयमानाः। दासेरका दासीसुताः। शेखर आपीडः । अधरबिम्बेनापीतीत्थंभूतल- प- A षष्ठ उच्छासः। १७७ विच्छायम् , दिग्भावमिव प्रोषितदिकुचरशून्यम् , गिरिमिव वज्रपातदारितं कम्पमानम् , क्रीतमिव ऋशिम्ना, किंकरीकृतमिव कारुण्येन, दासीकृतमिव दौर्मनस्येन, शिष्यीकृतमिव शोचितव्येन आत्मीकृतमिवाधिना, मूकीकृतमिव मौनेन, पिष्टमिव पीडया, स्विन्नमिव संतापेन, उच्चितमिव चिन्तया, लुप्तमिव विलापेन,घृतमि- व वैराग्येण, प्रख्यातमिव प्रतिसंख्यानेन, अवज्ञातमिव प्रज्ञया, दूरीकृतमिव दुरभिभवत्वेन, अबोध्येन वृद्धबुद्धीनाम् , असाध्येन साधुभाषितानाम् , अगम्येन गुरुगिराम् , अशक्येन शास्त्रशक्ती- नाम् , अपथेन प्रज्ञाप्रयत्नानाम् , अगोचरेण सुहृदनुरोधानाम्, अ- विषयेण विषयोपभोगानाम् , अभूमिभूतेन कालक्रमोपचयानां शो- केन कवलीकृतं ज्येष्ठं भ्रातरमपश्यत् । आवेगोद्गतकृत्स्नस्नेहोत्क- लिकाकलापोक्षिप्यमाणकाय इव च परवशः समुदगात् । अथ दूरादेव दृष्ट्वा देवो राज्यवर्धनश्चिरकालकलितं बाष्पवेगं मुमुक्षुः सुदूरप्रसारितेन संकल्पयन्निव सर्वदुःखानि दीर्घेण दोर्द- ण्डद्वयेन गृहीत्वा कण्ठे मुक्तकण्ठं पुनः पतितक्षौमे क्षामे वक्षसि पुनः कण्ठे पुनः स्कन्धभागे पुनः कपोलोदरे निधाय तथा तथा रुरोद यथा सबन्धनानीवोदपाट्यन्त हृदयानि । स्मृतनृपतिना राजवल्लभेनापि प्रतिशब्दनिभेन निर्भरमिवारुद्यत । सुचिराच्च कथं कथमपि निर्वृष्टनयनजलः पर्जन्य इव शरदि स्वयमेवोपशशाम । उपविष्टश्च परिजनोपनीतेन तोयेन तत्करनखमयूखपुञ्जतया महा- जलप्लवजायमानफेनलेखमिव पुन: पुनः प्रमृष्टमपि पक्ष्माग्रसंगल- द्विन्दुवृन्दमन्दोन्मेषमुषितदर्शनं कथं कथमपि चक्षुरक्षालयत् । ता- म्बूलिकोपस्थापितेन च वाससा चन्द्रातपशकलेनेवोष्णोष्णबाष्प- दग्धं वदनमुन्ममार्ज । तूष्णीमेव च चिरं स्थित्वोत्थाय स्नानभू- मिमगात् । तस्यां च स्थित्वा विभूषं विवस्तव्यस्तकुन्तलं मौलिमना- । क्षणे तृतीया । अभिव्यञ्जनं श्मश्रु । भूभृद्राजा, गिरिश्च । तेजःपति पतिः,सूर्यश्च । श्यामः कृष्णः, श्यामा च रात्रिः । कल्पपादपो राजापि । छाया कान्तिः, आत- पाभावश्च । प्रत्याख्यातं त्यक्तम् । प्रतिसंख्यानेन विवेककुशलया बुद्ध्या । कलितं धृतम् । बन्धनं लाभम्। पर्जन्य इन्द्रः । पर्जन्यौ रसदभ्रेन्द्रौ' इत्युक्तेः । स हि मेघान्वर्षयति । वित्रस्ता ऊर्ध्वं क्षिप्ताः। निर्गता इत्यन्ये । व्यस्ता विक्षिप्ताः। कुन्तलाः केशाः। उक्तं च-'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ।
१७८ हर्षचरिते दरान्निष्पीड्य सावशेषमन्युस्फुरितेन जिजीविषतेव जलधौतसुभ गमात्मानमपि चुचुम्विषतेवाधरेण क्षालितस्य चक्षुषः श्वेतिना च शारदशशिकरविकसितविषद्कुमुदवनदलावलिबलिविक्षेपैरिव दि- ग्देवतार्चनकर्म कुर्वाणश्चतुःशालवितर्दिकायां नीचापाश्रयविनि- हितैकोपबर्हायां पर्यङ्किकायां निपत्य जोषमस्थात् । देवोऽपि हर्षस्तथैव स्नात्वा धरणितलनिहितकुथाप्रसारितमूर्ति- रदूर एवास्य तूष्णीमेव समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानमानस- मग्रजन्मानं समस्फुट दिवास्य सहस्रधा हृदयम् । औरसदर्शनं हि यौवनं शोकस्य । लोकस्य तु नरपतिमरणदिवसादपि दारुणः स बभूव दिवसः । सर्वस्मिन्नेव नगरे न केनचिदपाचि न केनचिद- स्नायि नामोजि सर्वत्र सर्वेणारोदि । केवलमनेन क्रमेणातिचक्राम दिवसः । स च प्रत्यग्रत्वष्टृटतष्टतनुरिव वहदहलरुधिररसमांस- च्छविरपरपारावारपयसि ममज मजिष्ठारुणोऽरुणसारथिः । मु- कुलायमानकमलिनीकोषविकलं चकाण चञ्चरीककुलं कमलसरसि । सविधविरहव्याधिविधुरवधूबाध्यमानं बबन्ध बन्धाविव विबुद्धब- न्धूकभासि भावति सास्रां दृशं चक्रवाकचक्रवालम् । संचरन्त्याः समधुकररवं कैरवाकरं कलहंसरमणीरमणीयं माणिक्यकाञ्चीकिङ्कि- णीजालमिवाचकाण श्रियः । प्रकटकलङ्कमुदयमानं विशङ्कटविषा- णोत्कीर्णपङ्कसंकरशंकरशकुरशक्करककुदकूटसंकाशमकाशताकाशे शशाङ्कमण्डलम् । अस्यां च वेलायामनतिक्रमणवचनैरुपसृत्य प्रधानसामन्तैर्विज्ञा- प्यमान: कथं कथमप्यभुक्त । प्रभातायां च शर्वर्या सर्वेषु प्रविष्टेषु राजसु समीपस्थितं हर्षदेवमुवाच-'तात, भूमिरसि गुरुनियो- इति । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्युक्तम् । अत्र तूपचारान्मौलि. शब्देन शिर उच्यते। वितर्दिका वेदिका । उपबहणमुपधानम् । जोषं तूष्णीम् । कुथो वर्णकमलः । औरसो भ्राता । खष्टा विश्वकर्मा । तस्य टङ्कश्छेदनशस्त्रम्। तेन तनूकृता तनुर्यस्य सः । पुरा खभर्तृतेजोविसरोद्विग्नया सूर्यभार्ययावमानितः सूर्यस्त्वष्टारमवोचन्मम तेजस्तनु कुरु । तेनाप्यारोप्य चक्रभ्रमं टङ्केनासौ तष्ट इति वार्ता । अपरः पश्चिमः । पारावारः समुद्रः । चकाण जुगुञ्ज । चञ्चरीका भ्रमराः । 'कादम्बः कलहसः स्यात्' । आण चुकूज। कैरवाकरं संचरन्त्याः श्रियः किङ्किणी- जालमिव चुकूजेत्युलोक्षा । विशङ्कटो विशालः । शकुरो दान्तः।
। षष्ठ उच्छासः १७९ गानाम् । शैशव एवाग्राहि गुणवत्पताकेव भवता तातस्य चित्त- वृत्तिः । यतो भवन्तमेवंविधं विधेयं विधिविधानोपनतनैपुण्यमिदं किमपि विभणिषति मे हृदयम् । नावलम्बनीया बालभावसुलभा प्रेमविलोमा वामता । वैधेय इव मा कृथाः प्रत्यूहमीहितेऽस्मिन् । न खलु न जानासि लोकवृत्तम् । लोकत्रयतातरि मांधातरि मृते किं कृतं पुरुकुत्सेन भ्रूलतादिष्टाष्टादशद्वीपे दिलीपे वा रघुणा म- हासुरसमरमध्याध्यासितविदशरथे दशरथे वा रामेण गोष्पदीक- तचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन । तिष्ठन्तु तावदेते तातेनैव शतसमधिकाध्वरधूमविसरधूसरितवासववयसि सुगृहीतनानि त- वभवति परासुतां गते पितरि किं नाकारि राज्यम् । यं च किल शोकः समभिभवति तं कापुरुषमाचक्षते शास्त्रविदः । स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि । स्वभावस्य सेयं कापुरुषता वा स्त्रैणं वा यदेवमास्पदं पितृशोकहुतभुजो जातोस्मि । मम हि भूभृति पर्यस्ते निरवशेषतः प्रस्रवणानीव नुतान्यश्रूण्यस्तमिते महति तेजस्य- न्धकारीभूतदशाशस्य प्रनष्टः प्रज्ञानलोकः प्रज्वलितं हृदयम् , आत्म- दाहभीत इव स्वप्नेऽपि नोपसर्पति विवेकः, बलीयसा संतापेन जा- तुषमिव विलीनमखिलं धैर्यम् , पदे पदे दिग्धरोपाहतेव हरिणी मुह्य- ति मतिः, पुरुषद्वेषिणीव दूरत एव भ्रमन्ती परिहरति स्मृतिः, अम्बे- व तातेनैव सह गता धृतिः, वार्द्धषिकप्रयुक्तानीव वित्तानि प्रतिदिव- सं वर्धन्ते दुःखानि, शोकानलधूमसंभारसंभूताम्भोधरभरितमिव वर्षति नयनवारिधाराविसरं शरीरम् । सर्वः पञ्चजनः पञ्चत्वमु- परतः प्रयाति वितथमेतद्वदति बालो लोकः । ततो हुताशनतामे- व केवलमापन्नो येनैवं दहति माम् । इदमसांपरायिकमिव हृद- । । भातुं प्रवृत्ता प्रभाता तस्याम् । नियोग आदेशः । विधेयमायत्तम् । विभणि- षति कथयितुमिच्छति । विलोमानुकूलता । वामता प्रतिकूलता । वैधेयो मूर्खः । धूमेन मलिनीक्रियते । स्त्रैणे स्त्रीत्वे । परासुता मरणम् । मम हीत्यादिवाक्यद्वये श्लेषो व्याख्येयः । प्रस्रवणानि निर्झराः । जतुनो विकारो जातुषम् । 'त्रपुजतुनोः घुक् । पदे शब्दे, क्रमे च । दिग्धो विषलिप्तः शरः । उक्तं च-'बाणे विषाक्ते दिग्धलिप्तकौ' इति । मेरुर्महीधरवद्रोपशब्दः प्रशंसार्थः । वृद्ध्या जीवति वार्द्ध- षिकः वणिग्वृद्धव॒धुषीभावः । पञ्चजनः पञ्चमहाभूतानि, मनुष्यश्च । उक्तं च- 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः' इति । पञ्चत्वं मरणम् । वितथ- -१८० हर्षचरिते यमवष्टभ्य व्युत्थितः शोको दुर्निवारः वाडव इव वारिराशिम् , पविरिव पर्वतम् , क्षय इव क्षपाकरम् , राहुरिव रविम् , दहति दा- रयति तनूकरोति कवलयति । न शक्नोति मे हृदयं तादृशस्य सु- मेरुकल्पस्य महापुरुषस्य विनिपातमश्रुभिरेव केवलैरतिवाहयितुम् । राज्ये विष इव चकोरस्य मे विरक्तं चक्षुः । बहुमृतपटावगुण्ठनां रञ्जितरङ्गां जनंगमानामिव वंशवाह्यामनायो श्रियं त्यक्तुमभिलषति मे मनः । क्षणमपि दग्धगृहे शकुलिरिव न पारयामि स्थातुम् । सो- ऽहमिच्छामि मनसि वाससीव सुलग्नं स्नेहमलमिदममलैः शिखरि- शिखरप्रस्रवणस्वच्छस्रोतोऽम्बुभिः क्षालयितुमाश्रमपदे । यतस्त्वम- न्तरितयौवनसुखामनभिमतामपि जरामिव पूरुराज्ञया गुरोर्गृहाण मे राज्यचिन्ताम् । त्यक्तसकलबालक्रीडेन हरिणेव दीयतामुरो ल- क्ष्म्यै । परित्यक्तं मया शस्त्रम् ।' इत्येवमभिधाय खगग्राहिणो ह. स्तादादाय निजं निस्त्रिंशमुत्ससर्ज धरण्याम् । अथ तच्छ्रुत्वा निशितशिखेन शूलेनेवाहतः प्रविदीर्णहृदयो देवो हर्षः समचिन्तयत्-किं नु खलु मामन्तरेणार्यः केनचि- दसहिष्णुना किंचिद्राहितः कुपितः स्यात् । उतानया दिशा परी- क्षितुकामो माम् । उत शोकजन्मा चेतसः समाक्षेपोऽयमस्य । आहो- विदार्य एवायं न भवति किं वार्येणान्यदेवाभिहितमन्यदेवाश्रावि मिति । पञ्चसु पृथिव्यादिषु लयात्पुरुषस्ताद्रूप्यं प्रतिपद्यत इत्यलीकम् । यतस्तत इत्याद्यग्निमात्रप्रतिबद्धकायं दर्शनादित्यर्थः । आपत्कष्टम् । क्लेश इत्यर्थः । संपरायः सङ्ग्रामः । तस्मै यन्न भवति तदसांपरायिकम् । सभयं यः किल भीतः स कथं व्यु- त्थितं निवारयेत् । वाडव इत्यादयो दहतीत्यादिर्यथाक्रमं योज्याः। पविर्वजः। क- ल्पतेऽस्मादभीष्टार्थ इति कल्पः । चकोरः क्रकचः । तस्य विष दृष्टे अक्षिणी वि. रज्यते । मृतस्य पटः । अवगुण्ठनं मस्तकाच्छादनम् । रङ्गः समाजः । जनंगमश्च- ण्डालः । उक्तं च-चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः। निषादश्वपचावन्ते- वासिचण्डालपुक्कसाः ॥' इति । वंशोऽभिजननम् । प्रबन्धो वेणुश्च । बाह्या बहि- भूताः, वहनीया च । शकुलिहचटिका । गृहशारिकेत्यन्ये । स्नेहः प्रेम, तैलादिश्च ।। यतस्त्वमिति । पुरा ययातिः शुक्रदुहितरं देवयानीमवमन्य देवयान्या दासीभूतां शर्मिष्ठामसकृन्मिथ्याकामयानेन शुक्रेण जरां यास्यसीति शप्तः । प्राप्तजरादुःखो विषयलम्पटोऽन्यपुत्रैरगृहीतां जरां पूरौ वपुत्रे कृताभ्युपगमे संक्रमयांबभूवेति वार्ता । जराप्यन्तरितयौवनसुखानभिमता च । गुरोर्ययातेरपि मामन्तरेण मां बिना मन्यसंनिहित इत्यर्थः । । ।
षष्ठ उच्छासः। । मया शोकशून्येन श्रवणेन्द्रियेण । आर्यस्य वान्यदेव विवक्षितम- न्यदेवापतितं मुखेन । अथवा सकलवंशविनाशाय निपातनोपायो- ऽयं विधेः मम वा निखिलपुण्यपरिक्षयोपक्षेपः । कर्मणामननुकूल- समग्रग्रहचक्रवालविलसितं वा । अथवा तातविनाशनिःशङ्ककलि- कालक्रीडितं येनायं यःकश्चिदिव यत्किंचनकारिणं मामपुष्पभूति- वंशसंभूतमिव, अताततनयमिव, अनात्मानुजमिव, अभक्तमिव, दृ- ष्टदोषमिव, श्रोत्रियमिव सुरापाने, सद्धृत्यमिव स्वामिद्रोहे, सज्जन- मिव नीचोपसर्पणे,सुकलत्रमिव व्यभिचारे, अतिदुष्करे कर्मणि स- मादिष्टवान् । तदेतत्तावदनुरूपं यच्छौर्योन्मादमदिरोन्मत्तसमस्तसा- मन्तमण्डलसमुद्रमथनमन्दरे ताशि पितरि मृते तपोवनं वा ग- म्यते वल्कलानि वा गृह्यन्ते तपांसि वा सेव्यन्ते । या तु मयि राज्याज्ञा सा दग्धेऽपि दाहकारिणी मय्यवग्रहग्लपिते धन्वनी- वाङ्गारवृष्टिः । तदसदृशमिदमार्यस्य । यद्यपि च विभुरनभिमानः, द्विजातिरनेषणः, मुनिररोषणः, कपिरचपलः, कविरमत्सरः, व- णिगतस्करः, प्रियजानिरकुहनः, साधुरदरिद्रः, द्रविणवानखलः, कीनाशोऽनक्षिगतिः, मृगयुरहिंस्रः, पाराशरी ब्राह्मण्यः, सेवकः सुखी, कितवः कृतज्ञः, परिब्राडबुभुक्षुः, नृशंसः प्रियवाक् ,अमात्यः सत्यवादी, राजसूनुरदुर्विनीतश्च जगति दुर्लभः, तथापि ममार्य एवाचार्यः। को हि नाम तद्विधे निपतिते राजगन्धकुञ्जरे जनयितरि ईदृशे च विफलीकृतविशालशिलास्तम्भोरुभुजे भूभुजि भ्रातरि त्य- क्तराज्ये ज्यायसि नववयसि तपोवनं गच्छति सकललोकलोचन- जलपातापवित्रं मृद्गोलकं वसुधाभिधानं धनगदुखेलनिखिलखलमु- खविकारलक्षणाख्यायमाननीचाचरणां श्रीसंज्ञिकां सुभटकुटुम्ब- कर्मकुम्भदासी चण्डालोऽपि कामयेत । कथमिव संभावितमत्य- न्तमनुचितमिदमार्येण । किमुपलक्षितमनवदातमिदं मयि । किं वास्य चेतसश्च्युतः सौमित्रिविस्मृता वा वृकोदरप्रभृतयः । अनपे- । श्रोत्रियो वेदपारगः। धन्वनि मरौ। धन्वन्यपि दग्घे राज्याज्ञापि दाहकारिणी । अनेषणो निरभिलाषः। प्रिया जाया यस्य । जायया नि । कुहना ईर्ष्या,शङ्का वा। कीनाशः क्षुद्रः । उकं च-'कृतान्ते पुंसि कीनाशः क्षुद्रकार्षिकयोस्त्रिघु' । अ- नक्षिगतः प्रियः । मृगयुर्व्याधः । पाराशरी भिक्षुः । कितवो द्यूतकृत् । गोप्यो दासः । राजसूनुरदुर्विनीतश्चेत्येतत्प्रस्तावेन तदुक्तम् । खेलाः सविलासाः । अनव- - ૨૮૨ हर्षचरिते । क्षितभक्तजना स्वाथै कनिष्पादननिष्ठुरा नासीदियमार्यस्वेदशी प्रम- विष्णुता । अपि चार्ये तपोवनं गते जिजीविषुः को हि नाम महीं मनसापि ध्यायेत् । कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटि- तमत्तमातङ्गोत्तमाङ्गमदच्छटाच्छुरितचारुकेसरभारभाखरमुखे के- शरिणि वनविहाराय विनिर्गते निवासं गिरिगुहां कः पाति पृष्ठतः। प्रतापसहाया हि सत्त्ववन्तः । कञ्चपलां लक्ष्मी प्रत्यनुरोधोऽयमार्य- स्य यदीयमपि न चीरान्तरितकुचा कुशकुसुमसमित्पलाशपूलिकां वहन्ती तत्रैव तपोवने वनमृगीव नीयते जराजालिनी । किंवा म- मानेन वृथा बहुधा विकल्पितेन तूष्णीमेवार्यमनुगमिष्यामि । गु- रुवचनातिक्रमकृतं च किल्बिषमेतत्तपोवने तप एवापास्यति । इत्य- वधार्य मनसा प्रथमतरं गतस्तपोवनमधोमुखस्तूष्णीमवातिष्ठत । अत्रान्तरे पूर्वादिष्टेनैव रुदता वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्कलेषु निर्दयकरतलताडनमियेव कापि गते हृदये रटति राज- खैणे तारमब्रह्मण्यमूर्ध्वदोष्णि विरुदति, विप्रजने पादप्रणतिपरे, फूत्कुर्वति पौरवृन्दे, विद्राति विद्रुतचेतसि चिरंतने परिजने, प- रिजनावलम्बिते वेपमानवपुषि, पर्याकुलवाससि, शोकगद्गदवच- सि, गलितनयनपयसि, निवारणोद्यतमनसि, वर्षीयसि विशति ब- न्धुवर्ग, निराशेषु नखलिखितमणिकुट्टिमेष्ववाङ्मुखेषु, निश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु सर्वासु प्रजासु स- हसैव प्रविश्य शोकविक्लवः प्रक्षरितनयनसलिलो राज्यश्रियः प- रिचारकः संवादको नाम प्रज्ञाततमो विमुक्ताक्रन्दः सदस्यात्मान- मपातयत्। अथ संभ्रान्तो भ्राला सह स्वयं देवो राज्यवर्धनस्तं पर्यपृच्छ- त्-'भद्र, भण भण किमस्मद्वयसनमव्यवसायवर्धनबद्धधृतिः, अ- वनिपतिमरणमुदितमतिः, अधृतिकरमपरमधिकतरमितः समुप- दातनिर्मलम् । सौमित्रिर्लक्ष्मणः । वृकोदरो भीमसेनः । प्रचयः समूहः । चपेटा करतलाघातः । वनमृग्यपि कुशादि वहति । जालिनी मायिनी । अत्रेत्यादौ संवादको नाम सदस्यात्मानमपातयदिति संबन्धः । कान्तिकोऽधि- कृतः । करतलताडनेति । हृदये वा । स्त्रैणे स्त्रीसमूहे । 'अब्रह्मण्यमवध्यात्तौ। फूत्करणमुद्दामरोदनध्वनिः । विद्रातिः कुत्सितः । गते प्राप्ते । वर्षीयसि वृद्धतरे । कारायां बन्धने । किंवदन्ती लोकवार्ता। । । । ।
षष्ठ उच्छ्वासः । १८३ नयति विधिः, इति । स कथं कथमप्यकथयत्-'देव, पिशाचा- नामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । यतो यस्मिन्नहन्यवनिपतिरुपरत इत्यभूद्वार्ता तस्मिन्नेव देवो ग्र- हवर्मा दुरात्मना मालवराजेन जीवलोकमात्मनः सुकृतेन सह त्या- जितः । भर्तृदारिकापि राज्यश्री: कालायसनिगडयुगलचुम्बितच- रणा चौराङ्गनेव संयता कान्यकुब्जे कारायां निक्षिप्ता । किंवदन्ती च यथा किलानायकं साधनं मत्वा जिघृक्षुः सुदुर्मतिरेतामपि भु- वमाजिगमिषति ।' इति विज्ञापिते प्रमुः प्रभवतीति । ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमपरं व्यतिकर- माकाश्रुतपूर्वत्वात्परिभवस्य, परपरिभवासहिष्णुतया च स्वभा- वस्य, दर्पबहुलतया च नवयौवनस्य, वीरक्षेत्रसंभवत्वाच्च जन्मनः, कृपाभूमिभूतायाश्च स्वसुः, स्नेहात्स तादृशोऽपि बद्धमूलोऽप्यत्य- न्तगुरुरेकपद एवास्य ननाश शोकावेगः । विवेश च सहसा- केशरीव गिरिगुहागृहं गम्भीरं हृदयं भयंकरः कोपावेगः । केशि- निषूदनशङ्काकुलकालियकुलभङ्गुरभ्रूभङ्गतरङ्गिणी श्यामायमाना यमस्वसेव प्रथीयसि ललाटपट्टे भीषणा भ्रुकुटिरुदभिद्यत । दर्पात्प- रामृशन्नखकिरणसलिलनिर्झरैः समरभारसंभावनाभिषेकमिव च- कार दिङ्गागकुम्भकूटविकटस्य बाहुशिखरकोषस्य वामः पाणिपल्ल- वः । संगलत्स्वेदसलिलपूरितोदरो निर्मूलं मालवोन्मूलनाय गृहीत- केश इव दुर्मदश्रीकचग्रहोत्कण्ठयेव च कम्पमानः पुनरपि समुत्स- सर्प भीषणं कृपाणं पाणिरपरः । शस्त्रग्रहणमुदितराजलक्ष्मीक्रियमा- णदिष्टवृद्धिविधुतसिन्दूरधूलिरिव कपिलः कपोलयोरदृश्यत रोष- रागः । समासन्नसकलमहीपालचूडामणिचक्राक्रमणजाताहंकार इव च समारुरोह वाममूरुदण्डमुत्तानितश्चरणो दक्षिणः । निष्ठुराङ्गुष्ठ- कषणनिष्ठयूतधूमलेखो निर्वीरोकिरणाय विमुक्तशिख इव लिलेख मणिकुट्टिममितरः पादपद्मः । दर्पस्फुटितसरसत्रणोच्छलितरुधि- केशिनिषूदनः कृष्णः । यमखसा यमुना । सापि कालियकुला सतरङ्गा, श्या- मायमाना च । परामृषन्नित्यर्थाद्वाहुशिखरमेव कोशो दिव्यम् । उक्तं च-को- शोऽस्त्री कुडमले खङ्गापिधानेऽथौघदिव्ययोः' इति कोशकारः । पाणिः । सलिल- पूरितोदरो भवति । कचाः केशाः । यश्च कामी कामिनीकचग्रहणं प्रत्युत्कण्ठते स कम्पते स्वेदवांश्च भवति । दिष्टमानन्दः । विमुक्त इति । धीराः किल रोषेण ।
१८४ हर्षचरिते । रच्छटावसेकैः शोकविषप्रसुप्तं प्रबोधयन्निव पराक्रममनुजमवा- दीत्-आयुष्मन् ,इदं राजकुलम् ,अमी बान्धवाः, परिजनोऽयम् , इयं भूमिः, भूपतिभुजपरिघपालिताश्चैताः प्रजाः, गतोऽहमद्यैव मालवराजकुलप्रलयाय । इदमेव तावद्वल्कलग्रहणमिदमेव तपःशो- कापगमोपायश्चायमेव यदत्यन्ताविनीतारिनिग्रहः। सोऽयं कुरङ्गकैः कचग्रहः केशरिणः, भेकैः करपातः कालसर्पस्य, वत्सकैर्बन्दि- ग्रहो व्याघ्रस्य, अलगर्दैर्गलग्रहो गरुडस्य, दारुभिर्दाहादेशो दह- नस्य, तिमिरैतिरस्कारो रवेः, यो मालवैः परिभवः पुष्पभूति- वंशस्य । अन्तरितस्तापो मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिरयुतमात्रेण तुरङ्गमाणामनुयातु माम् ।' इत्यभिधाय चानन्तरमेव प्रयाणपट- हमादिदेश। तं च तथा समादिशन्तमाकर्ण्य जामिजामातृवृत्तान्तविज्ञानप्र- कोपाधानदूयमाने मनसि निवर्तनादेशेन दूरप्ररूढप्रणयपीड इव प्रोवाच देवो हर्षः-'कमिव दोषं पश्यत्यार्यों ममानुगमनेन । यदि बाल इति नितरां तर्हि न त्याज्योऽस्मि । रक्षणीय इति भवद्भुजप- जरं रक्षास्थानम् , अशक्त इति क परीक्षितोऽस्मि, संवर्धनीय इति वियोगस्तनूकरोति, अक्लेशसह इति स्त्रीपक्षे निक्षिप्तोऽस्मि, सुखमनुभवविति त्वयैव सह तत्प्रयाति महानध्वनः, क्लेश इति विरहोऽविषयतरः, कलत्रं रक्षत्विति श्रीस्ते निखिंशेऽधिवसति, पृष्ठतस्तिष्ठत्विति तिष्ठत्येव प्रतापः, राजकमनधिष्ठितमिति तत्सु- बद्धमार्यगुणैः न वाह्यः, सहायो महत इति व्यतिरिक्तमिव मां गणयति प्रलघुपरिकरः, प्रयामीति पादरजसि कोऽतिभारः, द्वयो- र्गमनमसांप्रतमिति मामनुगृहाण गमनाज्ञया, कातरो भ्रातृस्नेह इति सदृशो दोषः । का चेयमात्मभरिता भुजस्य ते यदेकाकी क्षीरोदफेनपटलपाण्डुरममृतमिव यश: पिपासति । अवञ्चितपूर्वो- । केशसंयमनमा परिभवप्रतीकारं न कुर्वते । भेको मण्डूकः । करपातश्चपेटादानम् । अलगदैर्जलसपैः। जामिभगिनी । न वाहा इति । किल य एव त्वं स एवाहमिति । कोऽसौ सहायोऽस्य । आत्मभरिता स्वार्थमात्रपरता ।
षष्ठ उच्छ्वासः। १८५ ऽस्मि प्रसादेषु । तत्प्रसीदत्वार्यो नयतु मामपि' इत्यभिधाय क्षि- तितलविनिहितमौलि: पादयोरपतत् । तमुत्थाप्य पुनरग्रजो जगाद-'तात, किमेवमतिमहारम्भपरि- ग्रहणेन गरिमाणमारोप्यते बलादतिलघीयानप्यहितः। हरिणार्थ- मतिढेपणः सिंहसंभारः । तृणानामुपरि कति कवचयन्त्याशुशुक्ष- णयः । अपि च तवाष्टादशद्वीपाष्टमङ्गलकमालिनी मेदिन्यस्त्येव विक्रमस्य विषयः । नहि कुलशैलनिवहवाहिनो वायवः संनह्य- न्त्यतितरले तूलराशौ । न सुमेरुवप्रप्रणयप्रगल्भा वा दिक्करिणः परिणमन्यणीयसि वल्मीके । ग्रहीष्यसि सकलपृथ्वीपतिप्रलयो- त्पातमहाधूमकेतुं मांधातेव चारुचामीकरपवलतालंकाराङ्ककायं कामुकं ककुभां विजये । मम तु दुर्निवारायामस्यां विपक्षक्षपण- क्षुधि क्षुभितायां क्षम्यतामयमेकाकिनः कोपकवल एकः । तिष्ठतु भवान् ।' इत्यभिधाय च तस्मिन्नेव वासरे निर्जगामाभ्यमित्रम् । अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्येकाकी कालं तमनैषीत् । अतिक्रान्तेषु बहुषु वासरेषु कदाचित्तयैव भ्रातृगमनदुःखासि- कया दत्तप्रजागरस्त्रिभागशेषायां त्रियामायां यामिकेन गीयमा- नामिमामार्या शुश्राव- 'द्वीपोपगीतगुणमपि समुपार्जितरत्नराशिसारमपि । पोतं पवन इव विधिः पुरुषमकाण्डे निपातयति ॥ ३ ॥ तां च श्रुत्वा सुतरामनित्यताभावनया दूयमानहृदयः प्रक्षीणभू- यिष्ठायां क्षपायां क्षणमिव निद्रामलभत स्वप्ने चाभ्रंलिहं लो- हस्तम्भं भज्यमानमपश्यत् । उत्कम्पमानहृदयश्च पुनः प्रत्यबु- ध्यत । अचिन्तयच्च-'किं नु खलु मामेवममी सततमनुबध्नन्ति अतिहेपणोऽत्यन्तलज्जाकारी । कवचयन्ति संनह्यन्ति । आशुशुक्षणयोऽप्रयः । अष्टमङ्गलकं कङ्कणमित्यन्ये । तूलं कापसः। परिणमन्ति तटाघातकीडां न कुर्वन्ति । अणीयस्यतिखल्पे । वल्मीके पिपीलिकोत्खाते मृत्स्थले । अभ्यमित्रं शत्रुसंमुखम् । यामिकेन जागरानियुक्तेन । रत्नराशिमणिसमूहः, अब्धिश्च । तस्य साराः श्रे- ष्ठरत्नानि । पोतं यानपात्रम् । निपातयति व्यापादयति । अत्युनतमभ्रंलिहं नभःस्पृशम् । अक्षुद्रः प्रधानभूतः। राहोरविकलकायबन्धनं कबन्धयोगात् । कब- हर्षचरिते दुःस्वप्नाः । स्फुरति च दिवानिशमकल्याणाख्यानविचक्षणमद- क्षिणमक्षि । सुदारुणाश्चाक्षुद्रक्षितिपक्षयमाचक्षाणाः क्षणमपि न शाम्यन्ति पुनरुत्पाताः । प्रत्यहं राहुरविकलकायबन्ध इव क- बन्धवति बध्नबिम्बे घटमानो विभाव्यते । तपःकरणकालकवलि- तानिव धूसरितसमग्रग्रहानुद्गिरन्ति धूमोद्गारान्सप्तर्षयः । दिने दिने दारुणा दिशां दाहा दृश्यन्ते । दिग्दाहभस्मकणनिकर इव निपतति नभस्तलात्तारागणः । तारापातशुचेव निष्प्रभः शशी । निशि निशि इतस्ततः प्रज्वलिताभिरुल्काभिरुग्रं ग्रहयुद्धमिव वि- यति विलोकयन्ति विलोलतारकाः ककुभः । राज्यसंचारसूचकः संचारयतीव क्ष्मां कापि वहद्बहलरजःपटलकलिलशर्कराशकलसू- त्कारी मारुतः । न कुशलमिव पश्यामि लग्नस्य । अस्मिन्नस्मद्वंशे करिण इव करीरं कोमलमपि कलयतः कृतान्तस्य कः परिपन्थी। सर्वथा स्वस्ति भवत्वार्याय ।' इति चिन्तयित्वा च अन्तभिन्नभ्रा- तृस्नेहकातरं द्रवदिव हृदयं कथं कथमपि संस्तभ्योत्थाय यथाक्रि- यमाणं क्रियाकलापमकरोत् । आस्थानगतश्च सहसैव प्रविशन्तम् , अनुप्रविशता विषण्णव- दनेन लोकेनानुगम्यमानम्, असह्यदुःखोष्णनिश्वासघूमरक्ततन्तु- नेव मलिनेन पटेन प्रावृतवपुषम् , जीवितधारणलज्जयेवावनतमु- खम् , नासावंशस्याने प्रथितदृष्टिम् , दुःखदूरप्ररूढरोम्णा मूकेनापि मुखेन स्वामिव्यसनमविच्छिन्नैरश्रुबिन्दुभिर्विज्ञापयन्तं कुन्तलं नाम बृहदश्ववारम् , राज्यवर्धनस्य प्रसादभूमिमभिजाततमं ददर्श दृष्ट्वा च जाताशङ्कश्चक्षुषि सलिलेन, मुखशशिनि श्वसितेन, हृदये हुताशेन, उत्सङ्गे भुवा, दारुणाप्रिंयश्रवणसमये सममिव सर्वेष्वङ्गे- ध्वगृह्यत लोकपालैः । तस्माच्च हेलानिर्जितमालवानीकमपि गौ- डाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेकाकिनं विश्र- ब्धं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् । न्धदर्शनं चोत्पातसूचकम् । विलोलतारका इति । स्त्रीणां च युद्धदर्शनवशा- दक्ष्णोश्च लोललं भवति । कलिलानि व्याप्तानि । वंशो वेणुरपि । करीरो वंशा- ङ्कुरः । अपिशब्दः कृतान्तस्येत्यतः परं योज्यः। परिपन्थी रोधकः । परिपूर्वपर्यायः परिपन्थशब्दोऽस्तीति ज्ञापितम् । STAR षष्ठ उच्छ्वासः । १८७ श्रुत्वा च महातेजस्वी प्रचण्डकोपपावकप्रसरपरिचीयमानशो- कावेगः सहसैव प्रजज्वाल । ततश्चामर्षविधुतशिरःशीर्यमाणशि- खामणिशकलाङ्गारकितमिव रोषाग्निमुद्वमन्ननवरतस्फुरितेन पिब- निव सर्वतेजस्विनामायूंषि रोषनिर्भुग्नेन दशनच्छदेन लोहिताय- मानलोचनालोकविक्षेपैदिग्दाहानिव दर्शयन्रोषानलेनाप्यसह्यसह- जशौर्योष्मदहनदह्यमानेनेव वितन्यमानस्वेदसलिलशीकरासारदु- दिनः, स्वावयवैरप्यदृष्टपूर्वप्रकोपभीतैरिव कम्पमानैरुपेतः, हर इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः, सूर्यकान्तशैल इवापरतेजःप्रसरदर्शनप्रज्वलितः, क्षयदिवस इवोदितद्वादशदि- नकरदुनिरीक्ष्यमूर्तिः, महोत्पातमारुत इव सकलभूभृत्कम्पकारी, विन्ध्य इव विवर्धमानविग्रहोत्सेधः, महाशीविष इव दुर्नरेन्द्रा- भिभवरोषितः, पारीक्षित इव सर्वभोगिदहनोद्यतः, वृकोदर इव रिपुरुधिरतृषितः, सुरगज इव प्रतिपक्षवारणप्रधावितः, पूर्वागम इव पौरुषस्य, उन्माद इव मदस्य, आवेग इवावलेपस्य, तारुण्या- वतार इव तेजसः, सर्वोद्योग इव दर्पस्य, युगागम इव यौवनो- ष्मणः, राज्याभिषेक इव रणरसस्य, नीराजनदिवस इवासहिष्णु- तायाः, परां भीषणतामयासीत् । अवादीच गौडाधिपमपहाय कस्तादृशं महापुरुषं तत्क्षण एव नियाजभुजवीर्यनिर्जितसमस्तराजकं मुक्तशस्त्रं कलशयोनिमिव कृष्णवर्मप्रसूतिरीदृशेन सर्वलोकविगर्हितेन मृत्युना शमयेदार्यम् । अनार्य च तं मुक्त्वा भागीरथीफेनपटलपाण्डुराः केषां मनःसु अप्रियेति । अप्रियग्रहणकाले च दुःखं सर्वाङ्गेषु गृह्यते अत इत्यादौ परां भीषणतामयासीदिति संबन्धः । निर्भुग्नेन वक्रीकृतेन । दह्यमानेनेति । दाहभीतेन च सलिलकणा वितन्यन्ते । भैरवो भीषणोऽपि । प्रशस्तो नरो नरसिंहः । इत्थं च-'स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुंजराः । सिंह- शार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥' इति । नृसिंहरूपी च हरिरिति । तेजो- ऽक्षमता, आतपश्च । दिनकरवत्तैश्च दुर्निरीक्षणः । भूभृतो राजानोऽपि, गिरयश्च । वर्धमानेन देवेन । उत्सेध औन्नत्यं यस्य । नरेन्द्रो मन्त्रज्ञः, राजापि । परीक्षिति दग्धे जनमेजयः पितृपरिभवेन सर्पसत्रे भोगिनां क्षयार्थमयजदिति वार्ता । भोगिनो राजानः । वृकोदरो भीमसेनः । वारणं निषेधः, हस्ती च वारणः । अवलेपस्य दर्पस्य । नीराजनं शान्तिकर्मविशेषः । कलशयोनि द्रोणाचार्यम् । कृष्णवर्त्मप्रसूतिः पापमार्गप्रवर्तकः । धृष्टद्युम्नश्चा- ।
हर्षचरिते व्यालवा- सरःसु राजहंसा इव परशुरामपराक्रमस्मृतिकृतो न कुर्युरार्यशौ- र्यगुणा: पक्षपातम् । कथमिवात्युग्रस्यास्यार्यजीवितहरणे निदाघर- वेरिव कमलाकरसलिलशोषणेऽनपेक्षितप्रीतयः प्रसृताः कराः । कां नु गतिं गमिष्यति, कां वा योनिं प्रवेक्ष्यति, कस्मिन्वा नरके निपतिष्यति । श्वपाकोऽपि क इदमाचरेत् । नामापि गृहृतोऽस्य पापकारिणः पापमलेन लिप्यत इव मे जिह्वा । किं वाङ्गीकृत्य कार्यमार्यस्तेन क्षुद्रेणानुप्रविश्य विगतघृणेन घुणेनेव सकलभुवना- ह्लादनचतुरश्चन्दनस्तम्भः क्षयमुपनीतः । नूनं नानेन मूढेन मधु- रसास्वादलुब्धेन मध्विवार्यजीवितमाकर्षता भावी दृष्टः शिलीमु- खसंपातोपद्रवः । निजगृहदूषणं जालमार्गप्रदीपकेन कज्जलमि- वातिमलिनं केवलमयशः संचितं गौडाधमेन । नत्वाश्वेवास्तमुप- गतवत्यपि त्रिभुवनचूडामणौ सवितरि वेधसादिष्टः सत्पथश- बोरन्धकारस्य निग्रहाय अहषण्डविहारैकहरिणाधिपः शशी । विनयविधायिनि भग्नेऽपि चाङ्कुशे विद्यत एव रणस्य विनयाय सकलमत्तमातङ्गकुम्भस्थलस्थिरशिरोभागभिदुरः खरतरः केसरिनखरः । तादृशाः कुवैकटिका इव तेजस्विर- नविनाशकाः कस्य न वध्याः । वेदानी यास्यति दुर्बुद्धिः ।' इत्येतदभिदधत एवास्य पितुरपि मित्रं सेनापतिः समप्रविग्रह- प्राग्रहरो हरितालशैलावदातदेहः, परिणतप्रगुणसालप्रकाण्डप्रकाशः, प्रांशुरतिशैर्योष्मणेव परिपाकमागतो गतभूयिष्ठे वयसि वर्तमानः, बहुशरशयनसुप्तोत्थितोऽपि हसन्निव शान्तनवमतिदीर्घेणायुषा दुरभिभवशरीरतया जरयापि भीतभीतयेव प्रकटितप्रकम्पया परा- निजातः । कृष्णवर्मा वह्निः । भागीरथीत्यादि परशुराम इत्यादि च हंसानामपि विशेषणम् । रामेण हि हंसमार्गः कैलासे कृत इति । हंसास्तत्कीर्ति स्मारयन्ति । पक्षपातं नेहम्, पक्षैर्गमनं च । अत्युग्रस्यातिङ्करस्य, अतिचण्डस्य च । अनार्यस्य कमलाकरेणोपमा । लक्ष्मीयात्रादिगुणयुक्तत्वात् । करा हस्ताः, रश्मयश्च । क्षुद्रेण क्रूरेण, परिचितपरिपणेन च । अनुप्रविश्य विश्वासं नीलान्तर्भूय च । घुणेन काष्ठ- कृमिणा । शिलीमुखाः शराः, भ्रमराश्च । जालस्य कुसृतेर्मार्ग दीपयति यस्तेन गवाक्षमार्गेण यः प्रदीपः स यथा कज्जलं संचिनुते नलाशु। इत्यप्रस्तुतप्रशंसा बो- द्धव्या । विशेषेण हरणं विहारो विच्छायीकरणं गमनं च । षण्डे हि सिंहो गमनं करोति । व्यालवारणस्य दुष्टदन्तिनः । स्थिरो दृढः शिरोभागो यस्य । ये प्राव तस्य स्वयं विदारणं भवतीत्यर्थः । वैकटिको रत्नबन्धकः । । NA षष्ठ उच्छासः। १८९ मृष्टः कथमपि सारमयेषु शिरोरुहेषु शशिकरनिकरसितसरलशि- रोरुहसटालां सैंहीमिव निष्कपटपराक्रमरसरचितां संक्रान्तो जीव- नेव जातिम्, अपरस्वामिमुखदर्शनमहापातकपरिजिहीर्षयेव भ्रूयुग- लेन वलितशिथिलप्रलम्बचर्मणा स्थगितदृष्टिः, धवलस्थूलगुजापि- च्छप्रच्छादितकपोलभागभास्वरेण वमन्निव विक्रमकालमकालेऽपि विकाशिकाशकाननविशदं शरदारम्भं भीमेन मुखेन, मृतमपि हृदय- स्थितं स्वामिनमिव सितचामरेण वीजयन्नामिलम्बेन कूर्चकलापेन परिणामेऽपि धौतासिधाराजलपानतृषितैरिव विवृतवदनैबृंहद्भिज्र- णविदरैर्विषमितविशालवक्षाः, निशितशस्त्रटङ्ककोटिकुट्टितबहुबृहद्- णाक्षरपति निरन्तरतया च सकलसमरविजयपर्वगणनामिव कुर्वन्पू- र्वपर्वत इव पादचारी, विविधवीररसवृत्तान्तरामणीयकेन महाभा- रतमपि लघयन्निव, प्रतिपक्षक्षपणातिनिर्बन्धेन परशुराममपि शिक्ष- यन्निव अब्भ्रमणेनानादरश्रीसमाकर्षणविभ्रमेण मन्दरमपि मन्द- यन्निव, वाहिनीनायकमर्यादानुवर्तनेनाम्भोधिमप्यभिभवन्निव, स्थैर्यकार्कश्योन्नतिभिरचलानपि हेपयन्निव, सहजप्रचण्डतेजःप्रसर- परिस्फुरणेन सवितारमपि तृणीकुर्वन्निव, ईश्वरभारोद्वनघृष्टपृष्ठ- तया हरवृषभमपि हसन्निव, अरणिरमर्षानेः, ऐश्वर्य शौर्यस्य- मदो मदस्य, विसर्पो दर्पस्य, हृदयं हठस्य, जीवितं जिगीषुतायाः, उच्छसितमुत्साहस्य, अङ्कुशो दुर्मदानाम् , नागदमनो दुष्टभोगि- नाम् , विरामो वरमनुष्यतायाः, कुलगुरुवीरगोष्ठिनाम् , तुला शौ- र्यशालिनाम् , सीमान्तदृश्वा शखग्रामस्य, निर्वोढा प्रौढवादानाम् , इत्येवमादौ सेनापतिः सिंहनादनामा संनिधावेव समुपविष्टो विज्ञापितवानिति संबन्धः । विग्रहाः संभ्रमास्तेषु प्रायहरोऽग्रेसरः । प्रगुणं स्पष्टम् । काण्डं स्कन्धः । शान्तनवं भीष्मम् । वलयोऽस्य सन्ति वलिनम् । गुजोत्तरोष्ठोपरि रोमराजिः । विक्रमकालमिति । शरदारम्भविशेषणम् । तत्र शत्रुषु जययात्रा विधेयेति । कूर्चकलापः श्मश्रुः । परिणामे वृद्धले । तृषितोऽपि जलं पातुं विवृतवदनो भव- ति । विदारैः स्फोटैः । शस्त्राण्येव टङ्काः । छेदनभाण्डानि कुण्ठितानि छेदाः । पूर्ववृत्तान्तः पूर्वप्रशस्तिः । अब्भ्रमणं समुद्रयात्रा, जले परिवर्तनमपि । ताभ्यो- ऽनादरेण यलक्ष्मीसमाकर्षणं तदर्थे यो विविधो भ्रमस्तेन । वाहिनी सेना, नदी च । स्थैर्य व्यवसायादचलनमपि । कार्कश्यं परविषयं निर्दयत्वमपि । उन्नतिरभिमा- नोऽपि । तेजो क्षमा, धर्म च । ईश्वरो हरोऽपि । कार्येषु क्षुण्णो लोकेषु घृष्टपृष्ठ ह. १७ ।
हर्षचरिते संस्तम्भयिता भग्नानाम् , पारगः प्रतिज्ञायाः, मर्मज्ञो महाविग्रहा- णाम् , आघोषणापटहः समरार्थिनाम्, संनिधावेव समुपविष्टः सिंहनादनामा स्वरेणैव दुन्दुभिघोषगम्भीरेण सुभटानां समररस- मानयन्विज्ञापितवान्-'देव, न कचित्कृताश्रयया मलिनया म- लिनतराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्य- मानमात्मानं न चेतयन्ते । श्रियो हि दोषान्धतादयः कामला विकाराः। छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं तेजस्विनं जड- धियः । किं वा करोतु वराकः येनातिभीरुतया नित्यपराङ्मुखेन न तु दृष्टान्येव सर्वातिशायिशौर्यातिशयश्वयथुकपिलकपोलपुलकप- ल्लवितकोपानलानि कुपितानां तेजस्विनां मुखानि । नासौ तपस्वी जानात्येवं यथाभिचारा इव विप्रकृताः सद्यः सकलकुलप्रलयमुपह- रन्ति मनस्विनः । जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः । सक- लवीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपातनिपुणं कर्म । मनस्विनां हि प्रधनप्रधानधने धनुषि ध्रियमाणे सति च कमलाक- लहंसीकेलिकुवलयकानने कृपाणे कृपणोपायाः पयोधिमथनप्रभृत- योऽपि श्रीसमुत्थानस्य किं पुनरीदृशाः । येषां च धात्रा धरित्री त्रातुं नियुक्ताः स्वयमसमर्था इव कुलिशकर्कशभुजपरिघप्रहरणहे- तोरुद्रिन्ति गिरयोऽपि लोहानि ते कथमिव बाहुशालिनो मन- सापि विमलयशोबान्धवा ध्यायेयुरकार्यम् । सर्वग्रहामिभक्भास्व- राणां हि सुभटकराणामग्रतो दिग्ग्रहणे पङ्गवः पतङ्गकराः । महा- - उच्यते । नागदमनो गजमर्दनः, गरुडश्च । भोगिनो राजानः, सश्चि । यथा आघोषणापटहः समरार्थिनामुत्साहं जनयति तथासावपीत्यर्थः । देवेत्यादौ कापुरुषाहतलक्ष्म्या विप्रलभ्यमानं वञ्चयमानमात्मानं न चेतयन्त इति योजना । न क्वचित्कृताश्रयया सर्वत्र चाञ्चल्यात्कस्मात्तान्हतलक्ष्मीविप्रलभत इत्याह-त्रियो हि दोषान्धतादयः । कामलाविकारा इति । हि यस्मा- च्छ्रियो ये दोषान्धतादयो विकारास्ते हि कामलाः कमलसंबन्धिनः । कमलानां दोषायां रात्रौ । अन्धता संकोचः । तनिवासाच्च लक्ष्म्या अपि । स विकारश्चान्यं विप्रलभते । रागादयस्तैरन्धतेवान्धतासत्कार्यानालोचनम् । अथ च पाण्डू रोग- भेदः । तेन शङ्खादौ पीतवादिज्ञानं तद्विकाराश्च रात्र्यन्धतादयो दोषा भवन्ति । सर्वातिशायिना शौर्यातिशयेन श्वयथुर्येषां तानि । ततो विशेषणसमासः। विप्रकृता उपद्रुताः । विप्रैर्द्विजैः कृताः । जले निजेऽपि ताडिता आहता वैद्युताश्च तेजखि- नोमायोऽपि मोष्ठी बाह्यश्च न जानाति धर्म वृद्धासेवितलात् । प्रधनं रणः । गि-' ।
षष्ठ उच्छ्रासः । १९१ - महिषशृङ्गतरङ्गभङ्गभङ्गुरभीषणान्तराला लोकप्रवादमात्रेण दक्षि- णाशा परमार्थतो भटभृकुटिरधिवासो यमस्य । चित्रं च यदुन्मु- क्तसिंहनादानां सहसा साहसरसरोमाञ्चकण्टकनिकरेण सह न निर्यान्ति सटाः शूराणां रणेषु । द्वयमेव च चतुःसागरसंभूतस्य भूतिसंभारस्य भाजनं प्रतिपक्षदाहि दारुणं वडवामुखं वा महापु- रुषहृदयं वा । तेजस्विनः सकलाननवाप्य पयोराशिसहजस्य कुतो निवृत्तिरुष्मणः । वृथाविततविपुलफणाभारो भुजङ्गानां भर्ता बि- भार्ति यो भोगेन मृत्पिण्डमेव केवलम् । अप्रतिहतशासनाक्रान्त्यु- पभोगसुखरसं तु रसाया दिक्कुञ्जरकरभारभाखरप्रकोष्ठा वीरबा- हव एव जानन्ति । रविरिवोन्मुखपद्माकरगृहीतपादपल्लवः सुखे- नाखण्डिततेजा दिवसान्नयति शूरः । कातरस्य तु शशिन इव हरिणहृदयस्य पाण्डुरपृष्ठस्य कुतो द्विरात्रमपि निश्चला लक्ष्मीः । अपरिमितयशःप्रकरवर्षी विकासी वीररसः । पुरःप्रवृत्तप्रतापप्र- हताः पन्थानः पौरुषस्य । शब्दविद्रुतद्विषन्ति भवन्ति द्वाराणि दर्पस्य । शस्त्रालोकप्रकाशिताः शून्या दिशः शौर्यस्य । रिपुरुधिर- शीकरासारेण भूरिव श्रीरप्यनुरज्यते । बहुनरपतिमुकुटमणिशि- लाशाणकोणकषणेन चरणनखराजिरिव राजताप्युज्वलीभवति । अनवरतशस्त्राभ्यासेन करतलानीव रिपुमुखानि श्यामीभवन्ति । विविधव्रणबद्धपट्टकशतैः शरीरमिव यशोऽपि धवलीभवति । क- वचिषु रिपूरःकवाटेषु पात्यमानाः पावकशिखामिव श्रियमपि वमन्ति निष्ठुरा निस्त्रिंशप्रहाराः । यश्वाहितहतस्वजनो मनस्वि- जनो द्विषद्योषिदुरस्ताडनेन कथयति हृदयदुःखम् । परुषासिल- तानिपातवननोच्छ्रसिति निरुच्छ्रसितशत्रुशरीराश्रुधारापातेन रो- रयो लोहान्युद्गिरन्ति गिरिभ्य एव लोहोत्पत्तेः । सर्वस्य वस्तुनो ग्रहोपहरणम् । ग्रहाश्चन्द्राद्याः । पतङ्गः सूर्यः । महामहिषशृङ्गयोस्तरङ्गवद्भङ्गुरा ये भङ्गास्तैर्भीषण- मन्तरालं यस्याः सा । अन्यत्र महामहिषशृङ्गतुल्या । भूतिभस्मापि । तेजस्विनो वडवाग्नेरपि । मुखेन शोभनाकाशेनापि । शूरो रविरपि । हरिणहृदयस्याल्पसत्त्व- स्यापि । पाण्डुरपृष्ठस्य देशभाषया निर्लज्जस्यापि । द्विरात्रमपीति पौर्णमास्यामेव शशिनः सातिशयं शोभायुक्तत्वात् । लक्ष्मीः श्रीः, कान्तिश्च । शून्या अनावृताः । अनुरज्यतेऽनुरक्ता भवति, उपलिप्ता च भवति । उज्ज्वला रम्या, निर्मला च । श्यामानि कृष्णानि, विच्छायानि च । श्रेयान्प्रशंसनीयः । शिशिरभूमयोऽप्यग्नि- ।
हर्षचरिते चामराण्य- दिति विपक्षवनिताचक्षुषा ददाति जलं स श्रेयानेतरः । न च स्व- मदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुाद्धं प्रबुद्धाः । स्थायिनि यशसि शरीरधीरािणाम् । अनवरतप्रज्वलिततेजःप्रस- रभाखरस्वभावं च मणिप्रदीपमिव कलुष: कजलमलो न स्पृश- येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः प्राग्रहरः प्राज्ञानां प्रथमः समर्थानां अष्ठोऽभिजातानामग्रेसरस्तेजस्विनामादिरसहि- ष्णूनाम् । एताश्च सततसंनिहितधूमायमानकोपाग्नयः सुलभासि- धारातोयतृप्तयो विकटबाहुवनच्छायोपगूढा धीरताया निवासशि- शिरभूमयः स्वायत्ताः सुभटानामुरःकवाटभित्तयः । यतः किं गौ- डाधिपेनैकेन । तथा कुरु यथा नान्योऽपि कश्चिदाचरत्येवं भूयः । सर्वोर्वीश्रद्धाकामुकानामलीकविजिगीषूणां संचारय न्तःपुरपुरंधिनिश्वसितैः । उच्छिन्धि रुधिरगन्धान्धगृध्रमण्डल. च्छादनैश्छत्रच्छायाव्यसनानि । अपाकुरु कदुष्णशोणितोदकस्वेदैः कुलक्ष्मीकुलटाकटाक्षचक्षुरागरोगान् । उपशमय निशितशरशिरा- वेधैरकार्यशौर्यश्वयथून । उन्मूलय लोहनिगडापीडमालामलमहौ- षधैः पादपीठदोहददुर्ललितपादपटुमान्द्यानि । क्षपय तीक्ष्णाज्ञा- क्षरक्षारपातैर्जयशब्दश्रवणकर्णकण्डूः । अपनय चरणनखमरीचि- चन्दनचर्चाललाटलेपैरनमितस्तिमितमस्तकस्तम्भविकारान् । उद्ध- र करदानसंदेशसंदंशैविणदर्पोष्मायमाणदुःशीललीलाशल्यानि । भिन्धि मणिपादपीठदीधितिप्रदीपिकाभिः शुष्कसुभटाटोपभ्रुकु- टिबन्धान्धकारान् । जय चरणलङ्घनलाघवगलितशिरोगौरवारो- ग्यैमिथ्याभिमानमहासंनिपातान् । म्रदय सततसेवाञ्जलिमुकुलि- तकरसंपुटोष्मभिरिष्वसनगुणकिणकार्कश्यानि । येनैव ते गतः पिता पितामहः प्रपितामहो वा तमेव मा हासीस्त्रिभुवनस्पृहणीयं पन्थानम् । अपहाय कुपुरुषोचितां शुचं प्रतिपद्यख कुलक्रमागतां केसरीव कुरङ्गी राजलक्ष्मीम् । देव, देवभूयं गते नरेन्द्रे दुष्टगौ- डभुजङ्गजग्धजीविते च राज्यवर्धने वृत्तेऽस्मिन्महाप्रलये धरणी- । तोयच्छायायुक्ता भवन्ति । स्वेदैश्च नयनव्याध्युपशमो जायते । एवं निशितशरसि- रावेधैरित्यादि बोद्धव्यम् । संदेशः शल्याञ्चनम् । सतताञ्जलिबन्धात्करयोरूष्मसं- भवः । इष्वसनं धनुः देवभूयं देवत्वम् । शेषोऽवशिष्टः, शेषभट्टारकश्च । ललाटंतपा- निति प्रचण्डतोक्का । कल्माषपादत्वं चित्रचरणत्वम् । राजन्यकं क्षत्रियसमूहः ।
षष्ठ उच्छासः। १९३ धारणायाधुना त्वं शेषः । समाश्वासय अशरणाः प्रजाः । क्ष्मा- पतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान् । अहितानामभिनवसेवादीक्षादुःखसंतप्तश्वासधूममण्डलैर्नखंपचैः प्र- चलितचूडामणिचक्रवालबालातपैश्चायाहि कल्माषपादताम् । अपि च हते पितर्येकाकी तपस्वी मृगैः सह संवर्धितः सहजब्राह्मण्य- मार्दवसुकुमारमनाः कृतनिश्चयश्चण्डचापवनाटनिटांकारनादनि- मंदीकृतदिग्गजं गुजज्याजालजनितजगज्वरं समग्रमुद्यतमेकविं- शतिकृत्वः कृत्तवंशमुत्खातवान्राजन्यकं परशुरामः । किं पुनर्नै- सर्गिककायकार्कश्यकुलिशायमानमानसो मानिनां मूर्धन्यो देवः । तथैव कृतप्रतिज्ञो गृहाण गौडाधमजीवितध्वस्तये जीवितसंकल- नाकुलकालाकाण्डदण्डयावाचिह्नध्वजं धनुः । न ह्ययमरातिरक्त- चन्दनचर्चाशिशिरोपचारमन्तरेण शाम्यति परिभवानलपच्यमा- नदेहस्य देवस्य दुःखदाहज्वरः सुदारुणः । निकारसंतापशान्त्यु- पायपरिक्षये हि हिडिम्बाचुम्बनास्वादितमिव रिपुरुधिरामृतमम- न्दरोपायमपायि पवनात्मजेन । जामदग्न्येन च शाम्यन्मन्युशि- खिशिखासंज्वरसुखायमानस्पर्शशीतलेषु क्षत्रियक्षतजह्रदेष्वना- यि । इत्युक्त्वा व्यरंसीत् । देवस्तु हर्षस्तं प्रत्यवादीत्-'करणीयमेवेदमभिहितं मान्येन । इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरीयालो - जस्य । उपरि गच्छतीच्छति निग्रहाय ग्रहगणेऽपि भ्रूलता चलि- तुम् । अनमत्सुशैलेष्वपि कचग्रहमभिलषति दातुं करः । तेजो- दुर्विदग्धानर्ककरानपि चामराणि ग्राहयितुमीहते हृदयम् । राज- शब्दरुषा मृगराजानामपि शिरांसि वाञ्छति पादः पादपीठीक- तुम् । स्वच्छन्दलोकपालस्वेच्छागृहीतानामाक्षेपादेशाय दिशामपि स्फुरत्यधरः किं पुनरीदृशे दुर्जाते जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य । अपि च हृदयविषमशल्ये रामो भार्गवः । नैसर्गिकः खाभाविकः । मूर्धन्यो मुख्यः । परिभवो निकारः । हिडिम्बा राक्षसी । पवनात्मजेन भीमसेनेन । क्षतजहदेषु रक्ततडाकेषु । इतरथापीत्यन्यथा यदीदृशं दुर्जातं जातं नाभूत्तदादावेवमद्भुतं भुजस्य भोगिना- थेऽपि दायाददृष्टिः । किं पुनरीदृशे दुर्जाते व्यसने जाते संपन्ने शत्रुवृद्धिर्भवेदिति योजना । एवमुपरिगच्छतीत्यादौ बोद्धव्यम् । आक्षेपोऽपहरणम् । मुसलेन वध्यो १९४ हर्षचरिते मुसल्ये जीवति जाल्मे जगद्विगर्हिते गौडाधिपाधमचण्डाले जिह्वेमि शुष्काधरपुटः पोटेव प्रतिकारशून्यं शुचा सूत्कर्तुम् । अकृतरिपुब- लाबलाविलोललोचनोदकदुर्दिनस्य मे कुतः करयुगलस्य जलाज- लिदानम् । अदृष्टगौडाधमचिताधूममण्डलस्य वा चक्षुषः स्वल्पम- प्यश्रुसलिलम् । श्रूयतां मे प्रतिज्ञा । शपाम्यार्यस्यैव पादपांशु- स्पर्शेन यदि परिगणितैरेव वासरैः सकलचापचापलदुर्ललितनर- पतिचरणरणरणायमाननिगडां निगौडां न करोमि मेदिनीं ततस्त- नूनपाति पीतसर्पिषि पतङ्ग इव पातकी पातयाम्यात्मानम् ।' इत्यु- क्त्वा च महासंधिविग्रहाधिकृतमवन्तिमन्तिकस्थमादिदेश-लि- ख्यताम् । आ रविरथचक्रचीत्कारचकितचारणमिथुनमुक्तसानोरुद- याचलात, आ विकूटकटककुट्टाकटङ्कलिखितकाकुत्स्थलङ्कालुण्ठन- व्यतिकरात्सुवेलात , आ वारुणीमदस्खलितवरुणवरनारीनूपुररव- मुखरकुहरकुक्षेरस्तगिरेः, आ गुह्यकगहिनीपरिमलसुगन्धिगन्धपा- पाणवासितगुहागृहाच्च गन्धमादनात् , सर्वेषां राज्ञां सज्जीक्रियन्तां कराः करदानाय शस्त्रग्रहणाय वा, गृह्यन्तां दिशश्चामराणि वा, नमन्तु शिरांसि धषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा, शे- खरीभवन्तु पादरजांसि शिरखाणि वा, घटन्तामञ्जलयः करिघ- टाबन्धा वा, मुच्यन्तां भूमय इषवो वा, समालम्ब्यन्तां वेवयष्टयः कुन्तयष्टयो वा, सुदृष्टः क्रियतामात्मा मच्चरणनखेषु कृपाणदर्पणेषु वा । परागतोऽहम् । पङ्गोरिव मे कुतो निवृत्तिस्तावद्यावन्न कृतः सर्वद्वीपान्तरसंचारी सकलनरपतिमुकुटमणिशिलालोकमयः पाद- लेपः ।' इति कृतनिश्चयश्च मुक्तास्थानो विसर्जितराजलोकः स्नाना- रम्भाकाङ्क्षी सभामत्याक्षीत् । उत्थाय च स्वस्थवनिःशेषमाह्निकम- कार्षीत् । अगलच्च दर्पप्रसर इव श्रुतप्रतिज्ञस्य शाम्यदुष्मा दिव- सस्त्रिभुवनस्य । ततश्च निजाधिकारापहारभीत इव भगवत्यपि क्वापि गते गत- मुसल्यः । तस्मिन् जाल्मे पापिष्ठे । पोटा नपुंसकम् । निगडो बन्धनशृङ्खला । तनूनपाद्वह्निः । चारणा गन्धर्वाः । काकुत्स्थो रामः। वारुणी सुरा । कुक्षिर्वेदिः । गुह्यका यक्षाः । पङ्गोर्गतिविकलस्य । ऊष्मा औष्ण्यम् । ततश्चेत्यादौ प्रदोषास्थाने नातिचिरं तस्थाविति संबन्धः । शरा अपि शिली- षष्ठ उच्छ्वासः। प्रणम्यमान तेजस्यहिमभासि, तामरसवनेष्वपि निगूढशिलीमुखालापेषु त्रासा- दिव संकुचत्सु, विहगगणेष्वपि समुपसंहृतनिजपक्षविक्षेपनिश्चलेषु भियेवाप्रकटीभवत्सु भुवनव्यापिनी संध्यां प्रतिज्ञामिव मानयति नतशिरसि घटिनाञ्जलिवने जने सकले, स्वपदच्युतिचकितदि- क्पालदीयमाना_लिहलोहप्राकारवलयाविव बहलतिमिरमालाति- रोधीयमानासु दिक्षु प्रदोषास्थाने नातिचिरं तस्थौ । नमन्नृप- लोकलोलांशुकपवनकम्पितशिखैर्दीपिकाचक्रवालैरपि इव प्राहिणोल्लोकं प्रतिषिद्धपरिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयनतले । दीपद्वितीयं च तमभिमर इव लब्धावसरस्तरसा भ्रातृशोको जग्राह । जीवन्तमिव हृदये निमी- लितलोचनो ददर्शाग्रजम् । उपर्युपरि भ्रातृजीवितान्वेषिण इव प्रसञः श्वासाः । धवलांशुकपटान्तेनेव चाश्रुजलप्लवेन मुखमा- च्छाद्य निःशब्दमतिचिरं रुरोद । चकार च चेतसि कथं नामाक- तेस्तादृश्या युक्तः परिणामोऽयमीदृशः । पृथुशिलासंघातकर्कश- कायबन्धात्तातादचलादिव लोहधातुः कठिनतर आसीदार्यः । कथं चास्य मे हतहृदयस्यार्यविरहे सकृदपि युक्तमुच्छसितुम् । इयं सा प्रीतिभक्तिरनुवृत्तिर्वा । बालिशोऽपि क: संभावयेदार्यमरणे मज्जीवितम् । तत्तादृशमैक्यमेकपद एव कापि गतम् अयत्नेनैव हतविधिना पृथकृतोऽस्मि । दुग्धरोषान्तरितशुचा सुचिरं रुदित- मपि न मुक्तकण्ठं गतघृणेन मया । सर्वथा लूतातन्तुच्छटाच्छि- दुरास्तुच्छाः प्रीतयः प्राणिनाम् । लोकयात्रामात्रनिबन्धना बान्ध- वता यतोऽहमपि नाम पर इवार्थे स्वर्गस्थे स्वस्थ इवासे । किंच दैवहतकेन फलमासादितमीहशि परस्परप्रीतिबन्धनिर्वृतहृदये सु- खभाजि भ्रातृमिथुने विघटिते । तथा चन्द्रमया इव जगदाहा- दिनो लोकान्तरीभूतस्य लग्नचितामय इवार्यस्य त एव दहन्ति गुणाः । इत्येतानि चान्यानि च हृदयेन पर्यदेवत । प्रभातायां च शर्वयों प्रातरेव प्रतीहारमादिदेशाशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामीति । मुखाः । सहाया अपि पक्षाः । अभिसराश्चौराः । लूता तन्तुच्छटा जालकार- सूत्रजालम् । लोकयात्रा लोकाचारः । किं फलमासादितं न किंचिदित्यर्थः पर्यदेवयच्छुशोच ।
हर्षचरिते अथ युगपत्प्रधावितबहुपुरुषपरम्पराहूयमानः, स्वमन्दिरादन तिपालितकरेणुश्चरणाभ्यामेव संभ्रान्तः, ससंभ्रमैर्दण्डिभिरुत्सार्य- माणजनपदः, पदे पदे प्रणमतः प्रतिदिशमिभभिषग्वरान्वरवार- णानां विभावरीवार्ताः पृच्छन्नुछ्रितशिखिपिच्छलाञ्छितवंशलता- वनगहनगृहीतदिगायामैर्विन्ध्यवनैरिव वारणबन्धविमर्दोद्योगाग- तैः, पुरःप्रधावद्भिरनायतमण्डलैराधोरणगणैश्च मरकतहरितघास- मुष्टीश्च दर्शयद्भिर्नवग्रहगजपतींश्च प्रार्थयमानैश्च लब्धाभिमतमत्त. मातङ्गमुदितमानसैश्च सुदूरमुपसृत्य नमस्यद्भिरात्मीयमातङ्गमदा- गमांश्च निवेदयद्भिः, डिण्डिमाधिरोहणाय च विज्ञापयद्भिः, प्र- मादपतितापराधापहृतद्विरददुःखधृतदीर्घश्मश्रुभिरग्रतो गच्छद्भिः, अभिनवोपसृतैश्च कर्पटिभिर्वारणाप्तिसुखप्रत्याशया धावमानैः, ग- णिकाधिकारिगणैश्विरलब्धान्तरैरुच्छ्रितकरैः, कर्मण्यकरेणुकासंक- थनाकुलैरुल्लासितपल्लवचिह्नाभिररण्यपालपतिभिश्च, निष्पादितनव- ग्रहनागनिवहनिवेदनोद्यताभिरुत्तम्भिततुङ्गतोत्रवनाभिर्महामात्रपे- टकैश्च प्रकटितकरिकर्मचर्मपुटैः, अभिनवगजसाधनसंचरणवार्ता- निवेदनविसर्जितैश्च नागवनवीथीपालदूतवृन्दैः, प्रतिक्षणप्रत्यवेक्षि- तकरिकवलकूटैः, कटभङ्गसंग्रहं ग्रामनगरनिगमेषु निवेदयमानैः, कटककदम्बकैः क्रियमाणकोलाहलः, स्वामिप्रसादसंभृतेन महा- धिकाराविष्कारेण स्वाभाविकेन चावष्टम्भाभोगेनोदासीनोऽप्या- दिशनिव, असंख्यकरिकर्णशङ्खसंपत्संपादनाय समुद्रानाज्ञापय- निव, शृङ्गारगैरिकपङ्काङ्गरागसंग्रहाय गिरीन्मुष्णन्निव, दिग्गजा- धिकारं ककुभामैरावतमिवापहरन्हरेहरपदभरनमितकैलासगिरि- गुरुभिः पादन्यासैर्गुरुभारग्रहणगर्वमुाः संहरन्निव, गतिवश- विलोलस्य चाजानुलम्बस्य बाहुदण्डद्वयस्य विक्षेपैरालानशिलास्त- म्भमालामिवोभयतो निखनन्नीषदुत्तुङ्गलम्बेनाधरबिम्बेनामृतरस- खादुना नवपल्लवकोमलेन कवलेनेव श्रीकरेणुकां विलोभयन्निज- अथेत्यादौ स्कन्दगुप्त एतैरेतैः क्रियमाणकोलाहलो राजकुलं विवेशेति संब. न्धः । भिषग्वरान्वैद्योत्तमान् । बन्धो रोधनम् । अनायत्ता हस्तिपार्श्वरक्षिणः । आधोरणा गजारोहाः। डिण्डिमः पटहः । गणिका गजानां प्रतिलोभनार्थी हस्तिः नी । कर्मण्यकरेणुका करिग्रहकुशला करिणी । तुदन्त्यनेनेति तोत्रं प्रेषणकम् । महामात्राः प्रधानहस्त्यारोहाः । तेषां पेटकैः समूहैः । करिणां कर्मार्थे युद्धशि- ।
षष्ठ उच्छ्वासः १९७ नृपवंशदीर्घ नासावंशं दधानः, अतिस्निग्धमधुरधवलविशालतया पीतक्षीरोदेनेव पिबन्नीक्षणयुग्मायामेन दिशामायाम मेरुतटादपि विकटविपुलालिकः, सततमविच्छिन्नच्छत्रच्छायाप्ररूढिवशादिव नितान्तायतनीलकोमलच्छविसुभगेन स्वभावभङ्गुरेण कुन्तलबाल- वल्लरीवेल्लितविलासिना लुनन्निव, लुप्तालोकानर्ककरान्बर्बरकेणारि- पक्षपरिक्षयपरित्यक्तकार्मुककर्मापि सकलदिगन्तश्रूयमाणगुरुगुणध्व- निः, आत्मस्थसमस्तमत्तमातङ्गसाधनोऽप्यस्पृष्टो मदेन भूतिमान- पि स्नेहमयः, पार्थिवोऽपि गुणमयः करिणामिव दानवतामुपरि स्थितः, स्वामितामिव स्पृहणीयां भृत्यतामप्यपरिभूतामुद्वहन्नेकभ- र्तृभक्तिनिश्चलां कुलाङ्गनामिवानन्यगम्यां प्रभुप्रसादभूमिमारूढः, निष्कारणबान्धवो विदग्धानाम्, अभृतभृत्यो भजताम्, अक्रीत- दासो विदुषाम् , स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव चोभय- करकमलावलम्बितं स्पृशन्मौलिना महीतलं नमस्कारमकरोत् । उपविष्टं नातिनिकटे तं तदा जगाद देवो हर्ष:-'श्रुतो वि- स्तर एवास्यार्यव्यतिकरस्यास्मच्चिकीर्षितस्य च । अतः शीघ्रं प्रवे- श्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्पम- प्यायपरिभवपीडापावकः प्रयाणविलम्बम् ।' इत्येवमभिहितश्च प्र. णम्य व्यज्ञापयत्-'कृतमवधारयतु स्वामी समादिष्टं किंतु स्वल्पं विज्ञप्यमस्ति भर्तृभक्तेः । तदाकर्णयतु देवः । देवेन हि पुष्पभूति- वंशसंभूतस्याजात्यस्य सहजस्य तेजसो दिक्करिकरप्रलम्बस्य बाहु- युगलस्यासाधारणस्य च सोदरस्नेहस्य सर्व सदृशमुपक्रान्तम् । काकोदराभिधानाः कृपणाः कृमयोऽपि न मृष्यन्ति विकारं कि- । । क्षायै । चर्मपुटः चर्मकृतो हस्त्याकारः । कटभङ्गः प्रत्यग्रम् । गोधूमादियवसं- घास इत्यर्थः । निगमा वणिक्पथाः । कटका हस्तिपटनियुक्ताः, अग्रेसरा वेत्रिण इत्यन्ये । गुणाः शौर्याद्याः, मौर्वी च गुणः । मदो गर्वः । भूतिः संपत् , भस्म च । पार्थिवो राजा, पृथिव्यारब्धश्च । गुणास्तन्तवोऽपि । नहि घटः पटो भव- तीति विरोधः । दानं मदः, वितरणं च । प्रचारो भक्षणम् । गजसाधनानि करिसैन्यानि । अभिषङ्गा अभिभवाः । प्रति- ग्राममिति । उपक्रान्तं निदर्शयितुमाह-यथेति । अत्र कथा-नागसेननामा पद्मावत्यां राजा मन्त्रिणमर्घराज्यहरमपाकर्तुं शारिकासमक्षं मन्त्रमकरोत् । स चापि मन्त्री शारिकामुखाद्विज्ञाय विस्रम्भपूर्वकं तं दण्डेनावधीदिति । श्रावस्त्यां च श्रुतवर्मा पूर्ववच्छुकश्रावितमन्त्री राज्याच्चुच्याव । अनेन च गृढमन्त्रेण यत्ना- १९८ हर्षचरिते मुत भवाहशास्तेजसां राशयः । केवलं देवराज्यवर्धनोदन्तेन कि- यदपि दृष्टमेव देवेन दुर्जनदौरात्म्यम् । ईदृशाः खलु लोकसभा- वाः प्रतिग्राम प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रतिदिशं च भिन्ना वेशाश्चाकाराश्चाहाराश्च व्यवहाराश्च जनपदानाम् । तदियमात्म- देशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता प्रमाददोषाभिषङ्गेषु श्रुतबहुवात एव प्रतिदिनं देवः । यथा नाग- कुलजन्मनः सारिकाश्रावितमन्त्रस्यासीन्नाशो नागसेनस्य पद्मा- वत्याम् । शुकश्रुतरहस्यस्य च श्रीरशीर्यत श्रुतवर्मणः श्रावस्त्याम् । स्वप्नायमानस्य च मन्त्रभेदोऽभून्मृत्यवे मृत्तिकावत्यां सुवर्णचूडस्य । चूडामणिलग्नलेखप्रतिबिम्बवाचिताक्षरा च चारुचामीकरचामर- ग्राहिणी यमतां ययौ यवनेश्वरस्य । लोभबहुलं च बहुलनिशि निधानमुत्खनन्तमुत्खातखड्गप्रमाथिनी ममन्थ माथुरं बृहद्रथं वि- दूरथवरूथिनी । नागवनविहारशीलं च मायामातङ्गाङ्गान्निर्गता महासेनसैनिका वत्सपतिं न्ययंसिषुः । अतिदयितलास्यस्य च शैलूषमध्यमध्यास्य मूर्धानमसिलतया मृणालमिवालुनादग्निमित्रा- त्मजस्य सुमित्रस्य मित्रदेवः । प्रियतन्त्रीवाद्यस्यालाबूवीणाभ्य- न्तरशुषिरनिहितनिशिततरवारयो गान्धर्वच्छात्रच्छद्मानः चि- च्छिदुरश्मकेश्वरस्य शरभस्य शिरो रिपुपुरुषाः । प्रज्ञादुर्बलं च द्भाव्यमित्युक्तम् । मृत्तिकावत्यां सुवर्णचूडो नाम राजा कंचिद्विस्रम्भपूर्वक जि- घृक्षन्मन्त्रितवांस्तदेव तस्मै विललास । ततस्तत्पूर्वं तत्प्रयुक्तेन विश्वासिना शिरो- रक्षकेन वस्त्रामिप्रयुक्तेन व्यापादित इति । अनेन च कुलखभावाद्यपरीक्ष्य न कार्यों भृत्य इत्युक्तम् । यवनेश्वरः केनचिच्छत्रुणासाद्य व्यापादितुमिष्टः । स्वसुहृ. दा शत्रुद्रोह लेखेन बोधितः । लेखपृष्ठे च तेन लिखितम् । स्वयं वाचयितव्यो लेख इति । ततो यवनेश्वरस्य स्वयं वाचयतश्चूडामणिप्रतिबिम्बितान्यक्षराणि वाचयित्वा तत्प्रहिता चामरग्राहिणी प्रभवे निवेद्य तदाज्ञया तं जघानेति । अनेन सूक्ष्मोऽपि रहस्यभेदहेतू रक्षणीय इत्युक्तम् । विदूरथप्रयुक्तेन नरेन्द्रवृन्दप्रतारितो बृहद्रथो नाम राजा लोभवशात्खन्यवादे कृष्णनिशिप्रवृत्तस्तत्सेनया प्रहत इति । अतः प्रवर्तितव्यमित्युक्तम् । महासेनो नामोज्जयिनीपतिः स्वदुहितरं वासवदत्ता- ख्यामुदयनाय दित्सुः कपटजं नागं वीथ्यां प्रसज्य छद्मप्रहितैः शरैर्नाम गुणान्प्रख्या- प्योदयनं लोभितवान् । सोऽप्यविचार्यैव गजग्रहनाहिकया कतिपयाप्तपरिवारो बोषबती वीणामादाय तत्र गतः। कपटकुञ्जरान्तर्गतैर्महासेनसैनिकैः संयत इति । अतो नाल्पपरिवारैः संवीक्ष्य च विस्रब्धैर्भाव्यमित्युक्तम् । सुमित्रो राजा मित्र- व्यसनी स्त्रीजनपरिवार इव नटजने विस्तब्धो मित्रदेवेन नटलमाश्रित्य हतः। । - षष्ठ उच्छासः। बलदर्शनव्यपदेशदार्शताशेषसैन्यः सेनानीरनार्यों मौर्य बृहद्रथं पिपेष पुष्पमित्रः स्वामिनम् । आश्चर्यकुतूहली च चण्डीपतिर्दण्डो- पनतयवननिर्मितेन नभस्तलयायिना यन्त्रयानेनानीयत कापि । काकवर्णः शैशुनारिश्च नगरोपकण्ठे कण्ठे निचकृते निस्त्रिंशेन । अतिस्त्रीसङ्गरतमनङ्गपरवशं शुङ्गममात्यो वसुदेवो देवभूतिदासी- दुहित्रा देवीव्यञ्जनया वीतजीवितमकारयत् । असुरविवरव्यस- निनं, चापजगुरपरिमितरमणीमणिनूपुरझणझणाह्रादरम्यया मागधं गोधनगिरिसुरुङ्गया स्वविषयं मेकलाधिपमत्रिणः । महाकालमहे च महामांसविक्रयवाद्वातूलं वेतालस्तालजङ्घो जघान जघन्यजं प्रद्योतस्य पौणकिं कुमारं कुमारसेनम् । रसायनरसाभिनिवेशि- नश्च वैद्यव्यञ्जनाः सुबहुपुरुषान्तरप्रकाशितौषधगुणा गणपतेविदे- हराजसुतस्य राजयक्ष्माणमजनयन् । स्त्रीविश्वासिनश्च महादेवी- गृहगूढभित्तिभाग्भ्राता भद्रसेनस्याभवन्मृत्यवे कालिङ्गस्य वीर- सेनः । मातृशयनीयतूलिकातलनिषण्णश्च तनयोऽन्यं तनयमभिषे- क्तुकामस्य दध्रस्य करूषाधिपतेरभवन्मृत्यवे | उत्सारकरुचिं च रहसि ससचिवमेव दूरीचकार चकोरनाथं शूद्रकदूतश्चन्द्रकेतुं जीवितात् । मृगयासक्तस्य च मन्नतो गण्डकानुद्दण्डनड्वलनलव- ननिलीनाश्च चम्पाधिपचमूचरभटाश्चामुण्डीपतेराचेमुः प्राणा- न्पुष्करस्य । बन्दिरागपरं च परप्रयुक्ता जयशब्दमुखरमुखा मङ्खा मौखरिं मूर्ख क्षत्रवर्माणमुदखनन् । अरिपुरे च परकलत्रकामुकं स च योगचूर्णावचूर्णितस्तिरोहितो बभूवेति । अतो व्यसनिभिः प्रकृतलोकवि- श्वसिभिश्च न भाव्यमित्युक्तम् । शरभोऽतिशयितान्वाद्यवतः प्रवेशमदादिति । गूढायुधै रिपुपुरुषैर्हत इति । अतो मनागपि व्यसनं वर्जनीयमित्युक्तम् । अका- र्यमत्र परदारागमनादि । तरवारिरेकधारः खङ्गः । प्रज्ञेत्यादि सृष्टा कथा । अनेन च भृत्यबलदर्शनमसंनद्धैर्न कार्यमित्युक्तम् । मार्यमिति गोत्रनाम । काकवर्गों यवनान्विजित्य तैश्च स्वपुरुषानुपायनीकृत्य यन्त्रयानैस्तद्वत्तैः परदारादीन्गच्छन्य- वनरात्मदेशं प्रापय्य निहत इति । अतः शत्रुप्राभूतेषु भृत्येषु न विश्वसनीयमि- त्युक्तम् । देवीव्यञ्जनया महिषीव्याजया । मेकलाधिपमन्त्रिभिाविकच्छद्मभिरहि- विवरं साधितम् । तपसास्माभिरित्युक्त्वा मागधो गुहाद्वारप्रतिद्वारैर्बद्धोऽभूत् । गोधनगिरिः सूर्याख्यः पर्वतः । खरं माविवरम् । मेकलो विन्ध्यादिः । मह उत्स- वः । वांतूलं व्यसनोन्मत्तप्रायम् । जघन्यजं कनीयांसम् । पुणको गोत्रविशेषः । तत्र भवः पौणकिः । वैवकं व्यञ्जयन्तिा प्रकाशयन्तीति चैवव्यजानाः । राजय- २०० हर्षचरिते कामिनीवेशगुप्तश्च चन्द्रगुप्तः शकपतिमशातयदिति । प्रमत्तानां प्रमदाकृताः प्रमादाः श्रुतिविषयमागता एव देवस्य । यथा मधु- मोदितं मधुरकसंलिप्तै जैः सुप्रभा पुत्रराज्यार्थं महासेनं काशि- राजं जघान । व्याजजनितकंदर्पदर्पा च दर्पणेन क्षुरधारापर्यन्ते. नायोध्याधिपतिं परंतपं रत्नवती जारूथम्, विषचूर्णचुम्बितमकर- न्देन च कर्णेन्दीवरेण देवकी देवरानुरक्ता देवसेनं सौयम्, यो- गपरागविरसवर्षिणा च मणिनूपुरेण वल्लभा सपत्नीरुषा वैरन्त्यं रन्तिदेवम्, वेणीनिगूढेन च शस्त्रेण बिन्दुमती वृष्णि विदूरथम्, रसदिग्धमध्येन च मेखलामणिना हंसवती सौवीरं वीरसेनम्, अदृश्यागदलिप्तवदना च विषवारुणीगण्डूषपायनेन पौरवी पौर- वेश्वरं सोमकम् ।' इत्युक्त्वा विरराम स्वाम्यादेशसंपादनाय च निर्जगाम । देवोऽपि हर्षः सकलराज्यस्थितीश्चकार । ततश्च तथा कृतप्र- तिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे गतायुषां प्र- तिसामन्तानामुदवसितेषु बहुरूपाण्युपलिङ्गानि वितेनिरे । तथा ह्यविप्रकृष्टाः कालदूतदृष्टय इवेतस्ततश्चेरुश्चटुला: कृष्णशारश्रे- णयः । प्रचलितलक्ष्मीनूपुरप्रणादप्रतिमा मधुसरघासंघातझंकारा जहादिरेऽजिरे । विवृतविकृतवदनविवरविसृतवह्निविसरा वासरे- ऽपि विरसं विरेसुश्चिरमशिवार्थमशिवाः शिवाः । शवपिशितप्ररू- ढप्रणयेव कपिपोतकपोलकपिलपक्षतयः काननकपोताः पेतुः । आमन्त्रयमाणा इव दधुरकालकुसुमानि सममुपवनतरवः । तर- माणं क्षयरोगम् । दनाख्यस्य करूषाधिपतेः । पितुस्तनयो मृत्यवेऽभवदिति । प्राक्तनक्रियया संगतिः । गण्डकाः खड्गाद्याः प्राणिनः। चामुण्डीति नगरीनाम । आचेमुरभक्षयन् । शकानामाचार्यः शकाधिपतिः । चन्द्रगुप्तभ्रातृजायां ध्रुवदेवीं प्रार्थयमानश्चन्द्रगुप्तेन ध्रुवदेवीवेषधारिणा स्त्रीवेषजनपरिवृतेन रहसि व्यापादित इति । मधुरकं विषम् । परंतपं प्रतापवन्तम् । जारूथ्यमिति जघानेति । प्राक्त- न्येव क्रियोत्तरत्र च । चूर्णो विषक्षोदः । मकरन्दः पुष्परसः । देवरः कनीया- न्भ्राता भर्तुः । योगपरागोऽभिचारचूर्णम् । वैरन्ती नाम नगरी । रसदिग्धं वि- षोपलिप्तम् । अगदो विषहरद्रव्यसमूहः । वारुणी सुरा । उदवसितेषु गृहेषु । उपलिङ्गान्यनिमित्तानि । सरघा मधुमक्षिकाः । कानन- कपोता गृध्राः । व्यघटन्त आसन् । स्तम्बकरिं बद्धस्तम्बम्, पक्कं वा । हरयो हयाः । अकाणीवान ! कौलेयकाः श्वानः । आट बभ्राम । कोटवी नग्ना । ।
षष्ठ उच्छासः। २०१ लकरतलप्रहारप्रहतपयोधरा रुरुदुः प्रसभं सभाशालभजिकाः । द- दृशुरासन्नकचग्रहभयोद्धान्तोत्तमाङ्गमिवात्मानं कबन्धमादर्शोदरेषु योधाः । चूडामणिषु चक्रशङ्खकमललक्ष्माणः प्रादुरभवन्पादन्यासा राजमहिषीणाम् । चेटीचामराण्यकस्माद्धावन्त पाणिपल्लवात् । प्रणयकलहेऽपि दत्तपृष्ठाश्चिरमभवन्भटाः पराङ्मुखा मानिनी- नाम्, करिकपोलेषु व्यघटन्त मधुलिहां मधुमदिरापानगोष्ठ्यः । समाघ्रातयममहिषगन्धा इव ताम्यन्तः स्तम्बकरिमपि हरयो ह- रितं नवयवसं न चेरुः । चलवलयावलीवाचालबालिकातालिका- तोद्यलालिता अपि न ननृतुर्मन्दा मन्दिरमयूराः । निशि निशि रजनिकरहरिणनिहितनयन इवोन्मुखस्तारमुपतोरणमकारणमका- णीत्कौलेयकगणः। गणयन्तीव गतायुषस्तर्जनतरलया तर्जन्या दिवसमाट वाटकेषु कोटवी । कुट्टिमेषु कुटिलहरिणखुरवेणीतर- ङ्गिण्यः शष्पराजयोऽजायन्त । जनितवेणीबन्धानि निरञ्जनरोच- नारोचींषि चषकमधुनि मुखकमलप्रतिबिम्बान्यदृश्यन्त भटी- नाम् । समासन्नात्मापहारचकिता इव चकम्पिरे भूमयः । वध्या- लंकाररक्तचन्दनरसच्छटा इवालक्ष्यन्त शूराणां पतिताः शरीरेषु विकसितबन्धूककुसुमशोणितशोचिषः शोणितवृष्टयः । पर्यग्नीकु- र्वाणा इव विनश्वरी श्रियमविरलस्फुरत्स्फुलिङ्गाङ्गारोद्गारदग्धतारा- गणा गणशः पतन्तः प्रज्वलन्तो न व्यरंसिषुरुल्कादण्डाः । प्रथ- ममेव प्रतीहारीवापहरन्ती प्रतिभवनं चामरातपत्रव्यजनानि प- रुषा बभ्राम वात्येति । इति श्रीबाणभट्टकृतौ हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छ्रासः। स्त्री। शष्पं बालतृणम् । बन्धूकं बन्धुजीवः । अपरिगताग्निं परिगताग्निं कुर्वाणाः । अग्नौ समन्तारिक्षपन्तः । व्यरंसिघुर्निववृतिरे ॥ इति श्रीशंकरकविरचिते हर्षचरितसंकेते षष्ठ उच्छ्रासः । । ह० १८ २०२ हर्षचरिते सप्तम उच्छासः। अङ्गनवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ॥ १ ॥ धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ २ ॥ अथ व्यतीतेषु च केषुचिदिवसेषु मौहूर्तिकमण्डलेन शतशः सुगणिते सुप्रशस्तेऽहनि दत्ते चतसृणामपि दिशां विजययोग्ये दण्डयात्रालग्ने सलिलमोक्षविशारदैः शारदैरिवाम्भोधरैः काल- धौतैः शातकौम्भैश्च कुम्भैः स्नात्वा विरचय्य परमया भक्त्या भग- वतो नीललोहितस्यार्चामुदर्चिषं हुत्वा प्रदक्षिणावर्तशिखाकलाप- माशुशुक्षणिं दत्त्वा द्विजेभ्यो रत्नवन्ति राजतानि जातरूपमयानि च सहस्रशस्तिलपात्राणि कनकपत्रलतालंकृतशफशृङ्गशिखरा गा- श्चार्बुदश: समुपविश्य विततव्याघ्रचर्मणि भद्रासने विलिप्य प्रथ- मविलिप्तायुधो निजयशोधवलेनाचरणतश्चन्दनेन शरीरं परिधाय राजहंसमिथुनलक्ष्मणी सदृशे दुकूले परमेश्वरचिह्नभूतां शशिक- लामिव कल्पयित्वा सितकुसुममुण्डमालिकां शिरसि नीत्वा क- र्णाभरणमरकतमयूखमिव कर्णगोचरतां गोरोचनाच्छुरितमभिनवं दूर्वापल्लवं विन्यस्य सह शासनवलयेन गमनमङ्गलप्रतिसरं प्रकोष्ठे परिपूजितप्रहृष्टपुरोहितकरप्रकीर्यमाणशान्तिसलिलसीकरनिकरा- भ्युक्षितशिराः संप्रेष्य महार्हाणि वाहनानि बहलरत्नालोकलिप्तक- कुम्भि च भूषणानि भूभुजां संविभज्य क्लिष्टकार्पटिककुलपुत्रलो- अङ्गनेत्यादिनोद्योगितां सूचयति । शूरा हि खशौर्यमात्रेणावर्जितत्रिभुवनाधि- पत्या नतु तेषां सामग्र्यन्तरप्रयोजनम् । तथा चाह-कृतप्रयत्नस्य वीरस्य सर्वा- भूरङ्गनवेदीत्यनायासेनाक्रमणादनेनेदमपि प्रतिक्षिप्तम् । कदाचित्कश्चिद्रूयादभिमा- नान्मोहाद्वेत्थं हर्षेण प्रतिज्ञातमन्यथा । गिरिगुहादौ पलायितं हर्षः कथं परिभवे- त् । कथं च बहुपालितामुर्वीमेको जयेदिति । तन्न । यतोऽङ्गनवेदीत्यादि । नन्वेवमपि तत्तुल्यो वीरो न भवेदित्याह-धृतेत्यादि । अथेत्यादौ भवनानिर्जगामेति संबन्धः। मौहर्तिका गणकाः । दण्डश्चतुरङ्गबलम् । तस्य यात्रा गमनम् । तत्र लग्नो मेषादिस्तस्मिन् । विशारदैः प्रवीणैः, शुक्कैश्च । काल- धौतैः कालवशेन धौतैश्च । शातकौम्भैः सौवर्णैः । नीललोहितोऽसितरक्तः । आशु- शुक्षणिमग्निम् । रजतं रौप्यम् । जातरूपं सुवर्णम् । पत्रलता पत्रभङ्गः । शफाः - सप्तम उच्छासः। २०३ कमोचितैः प्रसाददानैश्च विमुच्य बन्धनानि नियुज्य तत्कालस्म- रणस्फुरणेन कथितात्मानमिव चाष्टादशद्वीपजेतव्याधिकारे दक्षिणं भुजस्तम्भमहमहमिकया सेवकैरिव सुनिमित्तैरपि समग्रैरप्रतो भवद्भिः प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो हिरण्यगर्भ इव ब्रह्माण्डात्कृतयुगकरणाय भवनान्निर्जगाम । नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये, समु- तम्भिततुङ्गतोरणे, वेदीविनिहितपल्लवललामहेमकलशे, बद्धवनमा- लादाग्नि, धवलध्वजमालिनि, भ्रमच्छुक्लवाससि, पठहिजन्मनि, मन्दिरे प्रस्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सक- लकरणिपरिकरः 'करोतु देवो दिवसग्रहणमद्यैवावन्ध्यशासनः शा- सनानाम्' इत्यभिधाय वृषाङ्कामभिनवघटितां हाटकमयीं मुद्रामु- पनिन्ये । जग्राह च तां राजा । समुपस्थापिते च प्रथमत एव मृ- त्पिण्डे परिभ्रश्य करकमलादधोमुखी महीतले पपात मुद्रा । म- न्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे स्फुटं व्यराजन्त राजयो वर्णानाम् । अमङ्गलाशङ्किनि च विषीदति परिजने नरपतिरकरो- न्मनस्येतत्-तत्त्वदर्शिन्यो हि भवन्त्यविदग्धानां धियः । तथाहि- एकशासनमुद्राङ्का भूर्भवतो भविष्यतीति निवेदितमपि निमित्ते- नान्यथा गृह्णन्ति ग्राम्याः।' इत्यभिनन्द्य मनसा महानिमित्तं त- सीरसहस्रसंमितसीम्नां प्रामाणां शतमदाहिजेभ्यः । निनाय च तत्र तं दिवसम् । प्रतिपन्नायां शर्वी संमानितसर्वराजलोकः सु- । वाप। अथ गलति तृतीये यामे सुप्तसमस्तसत्त्वनिःशब्दे दिकुखरज- म्भमाणगम्भीरध्वनिरताड्यत प्रयाणपटहः । अग्रतः स्थित्वा च मु- हूर्तमिव पुनः प्रयाणक्रोशसंख्यापकाः स्पष्टमष्टावदीयन्त प्रहारा: पटहे पटीयांसः। खुराः । अर्बुदं दशकोटयः । नृपासनं भद्रासनम् । सिंहासनं तु तद्धममिति । पर- मेश्वरो राजा, हरश्च । शासनवलयेन मुद्राकटकेन । प्रतिसरं कङ्कणम् । ललाम चिह्नम् । 'ललामं पुच्छपुण्ड्राश्वभूषा प्राधान्यकेतुषु' । वनमाला पुष्प- पत्रप्रतियोजिता सक् । अक्षाणां भूतानाम् । पटले समूहे । नियुक्तोऽक्षपटलिकः । प्रामाणामक्षपटलिकः । करणिलेख्यम् । कायस्थ इत्यन्ये। मुद्रा बालिका । मन्दाश्या- नमीषच्छुष्कम् । एकशासनमुदैवाङ्के यस्याः सा । सीरं हलम् । संमितं परिच्छिन्नम् । अष्टक्रोशा अद्य गन्तव्यमिति प्रायेणं क्रोशसंख्यापकाः ।
२०४ हर्षचरिते ततो रटत्पटहे, नन्दन्नान्दीके, गुञ्जत्कुजे, कूजत्काहले, शब्दा- यमानशङ्के, क्रमोपचीयमानकटककलकले, परिजनोत्थापनव्यापृ- तव्यवहारिणि, द्रुतद्रुघनघातघट्यमानकोणिकाकीलकोलाहलकलि- तककुभि, बलाधिकृतबध्यमानपाटीपतिपेटके, जनज्वलितोल्कास- हस्रालोकलुप्यमानत्रियामातमसि, यामचेटीचरणचलनोत्थाप्यमा- नकामिमिथुने, कटुककटुकनिर्देशनश्यन्निद्रोन्मिषन्निषादिनि, प्रबु- द्धहास्तिकशून्यीक्रियमाणशय्यागृहे, सुप्तोत्थिताश्वीयविधूयमानसटे, रटत्कटकमुखरखनित्रखन्यमानक्षौणीपाशे, समुत्कील्यमानकील- शिजानहि जीरे, उपनीयमाननिगडतालकलरवोत्तालतुरङ्गतरङ्ग्य- माणखुरपुटे, लेशिकमुच्यमानमदस्यन्दिदन्तिसंदानशृङ्खलाखनख- ननिनादनिर्भरभरितदशदिशि, घासपूलकप्रहारप्रमृष्टपांसुलकरिपृ- ष्ठप्रसार्यमाणप्रस्फोटितचर्मणि, गृहचिन्तकचेटकसंवेष्ट्यमानपटकु- टीकाण्डपटमण्डपपरिवस्त्रावितानके, कीलकलापापूर्यमाणचिपिटच- मपुटे, संभाण्डायमानभाण्डागारिणि, भाण्डागारवहनवाह्यमानब- हुनालीवाहिके, निषादिनिश्चलानेकानेकपारोप्यमाणकोशकलसपी- डापीडसंकटायमानसामन्तौकसि, दूरगतदक्षदासेरकक्षिप्रप्रक्षिप्य- माणोपकरणसंभारभ्रियमाणदुष्टदन्तिनि, तिर्यगानमज्जाघनिकरक- च्छ्राकृष्टलम्बमानपरतत्रतुन्दिलचुन्दीजनजनितजनहासे, पीड्य- मानशारशारिवरवागुणग्राहितगावविहारबृंहबहुबृहदुन्मदकरिणि, करिघटाघटमानघण्टाटांकारक्रियमाणकर्णज्वरे, पृष्ठप्रतिष्ठाप्यमान- तत इत्यादावेवंविधे प्रयाणसमये राजभिरापुपूरे राजद्वारमिति संबन्धः। नान्दी मङ्गलपटहः । गुजासंज्ञः शङ्खभेदो यत्पृष्ठे जतु परिकलितं भवति । 'सन्ना' इति यस्य प्रसिद्धिः । शङ्खश्च मुण्डशङ्ख इति प्रसिद्धः । द्रुघनोऽयस्ताडनभाण्डम् । कोणिकाः पट- हृकुट्यादिकेषु याः कालिकाः। पाटी बहुपरिवारपुरुषगृहीतो निवासभूभागः, कुल. पुत्रकसमूह इत्यन्ये। पटकं तत्समूहः 'पाठीपति' इति पाठे पाठीपतयः । प्रतिनि- यतस्वस्थानपरिरक्षिणः । उल्का दीपिका । यामचेटी प्रहरजागरणनियुक्ता । त- क्षणं चरणचरणं पादेषु स्पर्शः । कन्दुकानां हस्तिपकयोक्राणाम् । यः कन्दुको रुक्षः । निर्देश आज्ञा । निषादिनां हस्त्यारोहाणाम् । हास्तिकं हस्तिसमूहः । अश्वी. यमश्ववृन्दम् । क्षोणीपाशो भूम्या निबन्धनम् । समुत्कील्यमानान्युत्खन्यमानानि । हिजीरं लौही शृङ्खला । निगडाथै तालकं तालपत्रं निगडतालकम् । लौह एवाश्व- बन्धनविशेष इत्यन्ये । तरङ्ग्यमाणाः कुटिलीक्रियमाणाः । लेशिका घासिकाः । संदानशृङ्खला बन्धनादकः । प्रस्फोटितं विपूरितम्। प्रमृष्टं शोधितम् । पटकुट्या- S जिनि, सप्तम उच्छासः। २०५ कण्ठालककदार्थतकूजत्करभे, अभिजातराजपुत्रप्रेष्यमाणकुप्रयुक्ता- कुलकुलीनकुलपुत्रकलत्रवाहने, गमनवेलाविप्रलब्धवारणाधोरणा- विष्यमाणनवसेवके, प्रसादवित्तपत्तिनीयमाननरपतिवल्लभवारवा- चारुचारभटसैन्यन्यस्यमाननासीरमण्डलाडम्बरस्थूलस्था- सके, स्थानपालपर्याणलम्बमानलवणकलायीकिङ्किणीनालीसनाथ- संकलिततलसारके, कुण्डलीकृतावरक्षिणीजालजटिलवल्लभपालाश्व- घटानिवेश्यमानशाखामृगे, परिवर्धकाकृष्यमाणार्धजग्धप्राभातिक- योग्याशनप्रारोहके, व्याक्रोशीजम्भमाणघासिकघोषे, गमनसंभ्रम- भ्रमदुत्तुण्डतरुणतुरङ्गमतन्यमानानेकमन्दुराविमर्दे, सज्जीकृतकरे- णुकारोहाह्वानसत्वरसुन्दरीदीयमानमुखालेपने, चलितमातङ्गतुरङ्ग- प्रधावितप्राकृतप्रातिश्चकलोकलुण्ठ्यमाननिर्घाससस्यसंचये, संच- रच्चेलचक्राकान्तचक्रीवति, चक्रचीत्कारिगन्त्रीगणगृह्यमाणप्रतवर्म- नि, अकाण्डदीयमानभाण्डभरितानडुहि, निकटघासलाभलुभ्यल्ल- म्बमानप्रथमप्रसार्यमाणसारसौरभेये, प्रमुखप्रवर्त्यमानमहासामन्त- महानसे, पुरःप्रधावद्धजवाहिनि, प्रियशतोपलभ्यमानासंकटकुटीर- कान्तरालनिःसरणे, करिचरणदलितमठिकोत्थितलोकलोष्टहन्यमा- । दयः स्कन्धावासरणिकाभेदाः । तथा च पटैः कुटी सूक्ष्मगृहम् । काण्डपटकं काण्डैः पटैश्च गृहम् । परिवस्त्रा तिरस्करिणी । वितानको रक्तकः । चिपिटो हखः । चर्मपुटश्चर्मप्रसेवकः । संभाण्डायमानो भाण्डानि समाचिन्वन् । 'डात्स- माचयने' इति णिच् । संवाह्यमाणाः प्राप्यमाणाः । नाली वाहिकः । करिणां वा- सग्रहणनियुक्तो हस्तिपको मेठाख्यः । चुन्दी कुट्टनी । शारिर्मअरी । हस्तिपर्याण- मित्यर्थः । तत्स्थैः पीड्यमानदामभिहितेन गात्रविहारेण देहकम्पेन बृहन्तः श- ब्दायमानाः करिणो यत्र तस्मिन् । प्रसादेन वित्ताः पत्तयः । वारोऽवसरः । 'निवहावसरौ वारः' इत्यमरसिंहः । तत्र वाजिनो ये सेवकानां प्रत्यवसरं विसृ- ज्यन्ते । 'वर' इति पाठः । चारुचारभटसैन्येन त्रस्यमाना आत्मान एव क्रिय- माणाः नासीरेण कूपरेण । मण्डलाडम्बरार्थः स्थूलाः स्थासकाश्चन्द्रका यत्र । अन्ये नासीरमग्रेसरमाहुः । स्थानपालानां पर्याणेषु लम्बमाना लवणकलायी कि- क्षिणी । नालीसनाथा संकलिता तलसारिका यत्र । स्थानपाला अश्वपालाः । अ- श्वभाण्डागारिका इत्यन्ये । लवणकालायी मृगाकृतिरश्वानां दारुमयी क्रियते। किङ्किण्यः सूक्ष्मघण्टाः । नाली प्रधानार्थ वैणवी नाडिरुच्यते । तलसारिकोऽश्वमु- खपट्टिकोर्णादिसूत्रमयी । उरःपट्टिकेत्यन्ये । कुण्डलीकृतैरवरक्षणीजालैर्जटिला वल्लभपाला यासु ताखश्वघटासु निवेश्यमानाः शाखामृगा यासु । अवरक्षण्यश्वब- न्धनरजः । वल्लभपालोऽश्वपालः । अन्ये तु यो बलवान् । महाकारो हयोप- २०६ हर्षचरिते नमेण्ठक्रियमाणासन्नसाक्षिणि, संघट्टविघट्टमानव्याघ्रपल्लीपलायमा- नक्षुद्रकुटुम्बके, कलकलोपद्रवद्रवद्रविणबलीवर्द विद्राणवणिजि, पु- रःसरदीपिकालोकविरलायमानलोकोत्पीडप्रस्थितान्तःपुरकरिणीक- दम्बके, हयारोहाहूयमानलम्बितशुनि, सरभसचरणनिपतननिश्च- लगमनसुखायमानखक्खटस्तूयमानतुङ्गतुङ्गणगुणे, स्रस्तवेसरविसं- वादिसीदद्दाक्षिणात्यसादिनि, रजोजग्धजगति, प्रयाणसमये, प्रति- दिशमागच्छद्भिर्गजवधूसमारूढैराधोरणैरूध्रियमाणहेमपत्रभङ्ग- शारशाङ्गैः, अन्तरासनासीनान्तरङ्गगृहीतासिभिः, ताम्बूलिकवि- थूयमानचामरपल्लवैः, पश्चिमासनिकापितभस्राभरणभिन्दिपालपू- लिकैः, पत्रलताकुटिलकलधौतनलकपल्लवितपर्याणैः, पर्याणपक्ष- कपरिक्षेपपट्टिकाबन्धनिश्चलपट्टोपधानस्थिरावधानः, प्रचलपादफ- लिकास्फालनस्फायमानपदबन्धमणिशिलाशब्दैः, उच्चित्रनेत्रसुकुमा- रस्वस्थगनस्थगितजङ्घाकाण्डैश्च कार्दमिकपटकल्माषितपिशङ्गपि- जैः, अलिनीलमसृणसतुलासमुत्पादितसितसमायोगपरभागैश्चा- वदातदेहविराजमानराजावर्तमेचकैः, कञ्चुकैश्चोपचितचीनचोलकै- श्च तारमुक्तास्तबकितस्तवरकवारबाणैश्च नानाकषायकर्बुरकूर्पास- । । । । करणम् । यवसतण्डुलादि वहति स वल्लभपालोऽश्वपाल इत्याहुः । शाखामृगो वानरः । रक्षार्थमश्वानां परिवर्धकोऽश्वपालः । प्रौढिको योग्याशनार्थ प्रसेवको यो बुक्कण इति प्रसिद्धः । व्याक्रोशी परस्पराह्वानम् । उत्तुण्डा उत्प्रोथाः । मुखालेपनं सिन्दूरादिना करेणुकार्थमेव । प्रातिवेशिकलोकाः प्रत्यासननिवासा जनाः । नि- घासो भुक्तशेषो घासः । चेलं वस्त्रम्, वालको वा चेलः । चक्रीवान्गर्दभः, उष्ट्रो वा। गन्त्री शकटिका । गृह्यमाणमधिष्ठीयमानम् । प्रहतं क्षुण्णम् । सर्वसेवितमि- त्यर्थः । लम्बमानो गर्दभदासः, वणिजां कर्मकरो वा । सारसौरभेयी बलवानन- ड्वान् । प्रमुखेऽप्रे। महासनं सूपकारशाला । कुटीरं मठिका, खल्पगृहम् । मेठो जागरिकः । व्याघ्रपल्ली तृणकुटीभेदः । क्षुद्रमल्पम् । कुटुम्बकं परिवारः । वि- द्राणाः सशोकाः । लम्बिताः पश्चात्खचिताः । खक्खटा वृद्धाः । तुङ्गा उच्चाः, तद्देशजो वा अश्वस्तं गतः । विसंवादो परिशीलनम् । दक्षिणापथे वेसरा न स- न्तीत्यदृष्टदेशाः । सादिनोऽश्वारोहाः । वस्त्राभरणं तूणभेदः । भिन्दिपालः शरभेदः । तोमर इत्यन्ये । पक्षकः प्रान्तः, पार्श्व वा । परिक्षेपो वेष्टनम् । पादफलिका उभय- पार्श्वयोः पर्याणे या क्रियते । आगुल्फ पादत्राणमित्यन्ये । आस्फालनं चालनम् स्कायमानो वर्धमानः । पादबन्धः पादकटक: नेत्रं पटविशेषः । स्वस्थान खस्थानेति यस्याः प्रसिद्धिः । कार्दमिकं कर्दमेन रकम् । कल्माषिताः शबलिताः। पिशङ्गा लोहिताः। पिङ्गा जत्रिका । अन्ये जङ्घालेल्याहुः। सतुला अर्धजतिका इत्यन्ये । । ।
सप्तम उच्छासः। २०७ कैश्च शुकपिच्छच्छायाच्छादनकैश्च व्यायामोल्लुप्तपार्श्वप्रदेशप्रविष्ट- चारुशस्त्रैश्च गतिवशवेल्लितहारलतागलल्लोलकुण्डलोन्मोचनप्रधावि- तपरिजनः, चामीकरपत्राङ्कुरकर्णपूरकविघट्टमानवाचालवालपाशै- श्वोष्णीषपट्टावष्टब्धकर्णोत्पलनालैश्च कुङ्कुमरागकोमलोत्तरीयान्तरि- तोत्तमाङ्गैश्च चूडामणिखण्डखचितक्षौमचोलैश्च मायूरपलायमाणशे- खरषट्पदपटलैश्च मार्गागतशारिकशारिवाहवेगदण्डैः, पुरश्चञ्चच्चा- मरकिर्मारकार्दरङ्गचर्ममण्डलमण्डनोड्डीयमानचटुलडामरचारभट- भरितभुवनान्तरैः, आस्कन्दत्काम्बोजवाजिशतशिजानजातरूपा- यानरवमुखरितदिङ्मुखैश्च निर्दयप्रहतलम्बापटहशतपटुरवबधिरी- कृतश्रवणविवरैः, उद्घोष्यमाणनामभिः, उन्मुखपादातप्रतिपाल्य- मानाज्ञापातै राजभिरापुपूरे राजद्वारम् । उदिते च भगवति दिनकृति राज्ञः समायोगग्रहणसमयशंसी सस्वान संज्ञाशङ्खो मुहुर्मुहुः। अथ नचिरादिव प्रथमप्रयाण एव दि- ग्विजयाय दिग्गजसमागममिव गमनविलोलकर्णतालदोलाविला- सैः कुर्वाणया करेणुकयोह्यमानः, वैदूर्यदण्डविकटेनोपरि प्रत्युप्त- पद्मरागखण्डखचिततया सूर्योदयदर्शनकोपादिव लोहितायतया अर्धजङ्घालेल्याहुः । समायोगो व्यापृतकेषु प्रसिद्धः । परभागो वर्णस्य वर्णान्तरेण शोभातिशयः । राजावर्तः कृष्णपाषाणः । मेचको बर्हिकण्ठवर्णः । 'कञ्चको वा- रबाणोऽस्त्री' । अपचित परिहितम् , पूजितं वा । 'चाय पूजानिशामनयोः' इ- त्यस्यापचितश्चेति निपातनाद्रूपम् । ताराः शुद्धाः । स्तबकिताः संजातपुष्पनिकुरु- म्बाकाराः । स्तवरको वस्त्रभेदः । वारबाणः कञ्चकः । कर्बुरः कपोतकण्ठवर्णः । कूर्पासकाचोलकाः । पिच्छानि पक्षाः । आच्छादनमुत्तरीयम् । उल्लुप्तस्तनूकृतः शस्तं पट्टिकाठोरः । कटिसूत्रमित्यर्थः । वेल्लिताश्चालिताः । कर्णाभरणभेदो वाल- पाशः । कोमलं संछायम् । अन्तरितमाच्छादितम् । खोलः शिरस्त्रम् । मायूरप- त्रायमानम् । वेगदण्डस्तरुणो हस्ती । किर्मीराणि शबलानि । कार्दरगकानि कार्दरङ्गदेशोद्भवानि । बहुसुवर्णसूत्ररचितानि चर्माणि । स्फोटकाः स्निग्धवर्ण- मांसस्फाराणि कादरङ्गचर्माणि । डामरा उद्भटाः । चारभटाः शूराः । आस्कन्द- न्तश्चलन्तः । काम्बोजा बाह्रीकदेशजाः । आयानमश्वभूषणम् । लम्बापटहाः पटहभेदाः । तमिला इति प्रसिद्धाः । संज्ञा संकेतः । अथेत्यादौ दिग्विजयाय निर्जगाम नरपतिरिति संबन्धः। म- गलातपत्रेण कञ्चकेन । नतूत्प्रेक्षते द्वितीय इव भोगिनामीश इति योजना । यद्वा मङ्गलातपत्रेणेति इत्थंभूतलक्षणे तृतीया । अम्बरं वस्त्रम्, नभश्च । विलभमानो- ऽर्थिसात्कुर्वन् । मुद्रया हि ससिन्दूरया विलभ्यते । परिक्षिपन्वेष्टयन् । अंग्रेजो ।
२०८ हर्षचरिते ध्रियमाणेन मङ्गलातपत्रेण कदलीगर्भाभ्यधिकम्रदिना नवनेत्रनि- मितेन द्वितीय इव भोगिनामधिपतिरङ्गलग्नेन कञ्चुकेनामृतमथन- दिवस इव क्षीरोदफेनपटलधवलाम्बरवाही, बाल एव पारिजात- पादप इवाखण्डलभूमिमारूढः, विधूयमानचामरमरुद्विधूतकर्णपूर- कुसुममञ्जरीरजसा सकलभुवनवशीकरणचूर्णेनेव दिशश्छुरयन्नभि- मुखचूडामणिघटमानपाटलप्रतिबिम्बमुदयमानं सवितारमपि पिक- न्निव तेजसा बहलताम्बूलसिन्दूरच्छुरितया विलभमान इव द्वीपा- न्तराण्योष्ठमुद्रयानुरागस्य स्फुरन्महाहारमरीचिचक्रवालानि चाम- राणीव दिशोऽपि ग्राहयन, राजकेक्षणोत्क्षिप्तत्रिभागया त्रीनपि लो- कान्करदानायाज्ञापयन्निव सविभ्रमं भूलतया द्राधीयसा बाहुप्रा- कारेण परिक्षिपन्निव रिरक्षया सप्तापि सागरमहाखातानखिलमिव क्षीरोदमाधुर्यमादायोद्गतया लक्ष्म्या समुपगूढः, गाढममृतमय इव पीयमानः, कुतूहलोत्तानकटकलोकलोचनसहौः स्नेहार्तेषु राज्ञां हृदयेषु गुणगौरवेण मजन्निव, लिम्पन्निव सौभाग्यद्रवेण, द्रष्टणा- ममरपतिरिवाग्रजवधकलङ्कप्रक्षालनाकुलः, पृथुरिव पृथिवीपरिशो- धनावधानसंकलितसकलमहीभृत्समुत्सारणः, पुरःसरैरालोककार- कैः सहस्रसंख्यैरर्क इव किरणैरधिकारचातुर्यचञ्चलचरणैर्व्यव- स्थास्थापननिष्टुरैः भयपलायमानलोकोत्पीडान्तरिता दशापि दिशो प्रायद्भिरिव, चलितकदलिकासंपातपीतप्रचारं पवनमपि विनये स्थापयद्भिरिव, द्रुतचरणोद्भूतधूलिपटलावधूतान्दिनकरकिरणान- प्युत्सारयद्भिरिव, कनकवेत्रलतालोकविक्षिप्यमाणं दिनमपि दूरी- कुर्वद्भिरिव, दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः । अवनमति च विनयमितवपुषि, भयचकितमनसि, चलनशि- थिलमणिकनकमुकुटकिरणनिकररुचिरशिरसि, विलुलितकुसुमशे- ज्येष्ठः, राज्यवर्धनः, द्विजश्च । पुरा ब्रह्मणः किल सुतोऽसुरपक्षपाती त्रिशिरास्त- भाता च वृत्रस्तो तपस्यन्तौ शक्रेण हताविति । महीभृतो राजानः, पर्वताश्च । पृथुना ह्यद्रयो भूमिमास्तीर्य स्थिताश्चापकोट्या समुत्सार्यन्ते प्रक्षिप्ताः । लोक इ- त्येवं ये वदन्ति ते आलोककारकाः। तैरन्यत्रालोकः प्रकाशः पुरःसरैः सहस्र- संख्यैरिति च साधारणम् । दिशो ग्राहयद्भिः पर्यन्तेषु च विसर्जयद्भिः। उदश्च ऊर्ध्वप्रसारिणः । चापराशय इत्याद्युत्पेक्षात्रयं समीचीनम् । उड्डियन्तः षष्ठ उच्छासः । २०९ खररजसि राजचक्रे, प्रभामुचां चूडामणीनामवाञ्चस्तिर्यञ्च उद्- ञ्चश्च चञ्चन्तो मरीचयश्चाषराशय इव सुशकुनसंपादनाय चेलुः । भेघायमानरेणुमेदुरं मन्दिरशिखण्डिन इव खमुड्डीयमानाः कोमल- कल्पपादपपल्लवचन्दनमालाकलापा इवाबध्यन्त दिग्द्वारेषु दिक्पा- प्रणम्यमानश्च नेत्रत्रिभागेश्च कटाक्षैश्च समग्रेक्षितैयूंवञ्चितैश्चा- धस्मितैश्च परिहासैश्च छेकालापैश्च कुशलप्रश्नैश्च प्रतिप्रणामश्चोन्मत्त- भ्रवीक्षितैश्चाज्ञादानैश्चाक्रीडन्निव मानमयान्प्राणान्प्रणयदानैः प्र. वीराणां वीरो यथानुरूपं विबभाज राजकम् । अथ प्रस्थिते राजनि कलकलवस्तदिङ्गागशूत्काररव इतस्तत- स्तस्तार तारतरस्तूर्याणां प्रतिध्वनिराशातटेषु । दिग्गजेभ्यः प्रकु- पितानां त्रिप्रस्रुतानां करिणां मदप्रस्रवणवीथीभिरलिकुलकालीभिः कालिन्दीवेणिकासहस्राणीव सस्यन्दिरे । सिन्दूररेणुराशिभिररु- णायमानबिम्बे रवावस्तमयसमयं शशङ्किरे शकुनयः । करिणां षट्- पदकोलाहलमांसलैः कर्णतालनिखनैस्तिरोदधिरे दुन्दुभिध्वनयः । दोधूयमानश्च सचराचरमाचचाम चामरसंघातो विश्वम् । अश्वीय- श्वासनिक्षिप्तैः शिश्विन्दे सिन्धुवारदामशुचिभिर्निरन्तरमन्तरिक्षं फे- नपिण्डैः । पिण्डीभूततगरस्तबकपाण्डुराणि पपुरिव परस्परसंघट्ट- नष्टाष्टदिशं दिवसमुच्चचामीकरदण्डान्यातपत्रवनानि । रजोरज- नीनिमीलितो मुकुटमणिशिलावलीबालातपेन विचकास वासरः । राजतैर्हिरण्मयैश्च मण्डनकमाण्डमण्डलैहीदमानहरितीकृताः परि- हादा हरितो बधिरतां दधुः । अरिप्रतापानलनिर्मूलनायेव मदो- मशीकरैः शिशेकिरे करिणः ककुभां चक्रम् । चक्षुषामुन्मेषं मु- मुषुस्तडिच्चञ्चलानि चूडामणीनाम»षि । स्वयमपि विसिस्मिये बला- नां भूपालः सर्वतो विक्षिप्तचक्षुश्चाद्राक्षीदावासस्थानसकाशात्प्रतिष्ठ- । । प्रसृताः । कटाक्षैरपाङ्गदृष्टैः । भ्रूवश्चितैयूंचलितैः । 'भ्रूवाञ्चितैः' इति पाठे उन्नतै- कभ्रूक्षिप्तैरित्यर्थः । छेकालापैर्वक्रोक्तिभिः । छेकान्तरान्तरा वा । तस्तारेति। विस्तृतोऽभवत् । त्रिप्रतानां त्रिषु गण्डादिषु मदमुचाम् । शकु- नयोऽत्र चक्रवाकाः। मण्डनकमायानम् । 'स्याद्भाण्डमश्वाभरणे'। अघोक्षजो हरिः- कुम्भभुवोऽगस्त्यस्य । प्लावितभुवनं स्कन्धावारम्, नर्मदाप्रवाहं च । पूर्व कार्तवीर्य- गान्तःपुरैः सह रेवातीरे विहरता तत्त्रोतो भुजसहस्रेणोभयतो वृत्ला त्यक्तमभूत् । प्रसरतेत्येवमादिप्रवर्तमानानेकसंलापनमिति स्कन्धावारविशेषणम् । तातेति।भा.
। २१० हर्षचरिते मानं स्कन्धावारम्, अधोक्षजकुक्षेरिव युगादौ निष्पतन्तं जीवलोक- म्, अम्भोनिधिमिव कुम्भभुवो वदनात्प्लावितभुवनमुद्भवन्तम् , अर्जु- नबाहुदण्डसहस्रसंपिण्डितोन्मुक्तमिव सहस्रधा प्रवर्तमानं प्रवाह नर्मदायाः। 'प्रसर तात । भाव, किं विलम्बसे । त्वङ्गति तुरङ्गमः। भद्र, भग्नचरण इव संचरसि यावदमी पुरःसराः सरभसमुपरि पत- न्ति । वाहयसि किमुष्टम् । न पश्यसि निर्दय, निःशूकशिशुं शयानम् । वत्स रामिल, रजसि यथा न नश्यसि न पश्यसि । गलति शक्तुप्रसे- वकः । किमेवमित्वर, त्वरसे। सौरभेय, सरणिमपहाय हयमध्यं धा- वसि । धीवरि, विशसि । गन्तुकामा मातङ्गि, मातङ्गमार्गम् । अङ्ग, गलति तिरश्चीना चणकगोणी। गणयसि न मामारटन्तम् । अवटमत- टेनावतरसि । सुखमास्स्व स्वैरिणि । सौवीरक, कुम्भो भग्नः।मन्थरक, खादिष्यसि गतः सन्निक्षुम् । उक्षाणं प्रसादय । कियच्चिरं चिनोषि चेट, बदराणि । दूरं गन्तव्यम् । किमद्यैव विद्रासि द्रोणक, द्राधीयसी दण्डयात्रा विनैकेन निष्ठुरकेण निष्क्रेयमस्माकम् । अग्रतः पन्थाः स्थपुटक । स्थावरक, यथा न भनक्षि फाणितस्थाली गरीयान्गण्डक- तण्डुलभारको न निर्वहति दम्यः । दासक, माषीणाममुतो द्राग्दात्रे. ण मुखघासपूलकं लुनीहि । को जानाति यवसगतं गतानाम् । धव, वारय बलीवान् । वाहीकरक्षित क्षेत्रमिदम् । लम्बिता शकटी । शाकरं धुरंधरं धुरि धवलं नियुङक्ष्व । यक्षपालित, प्रमदा: पिनक्षि। . । । वेति च ।मान्यामन्त्रणम् । लसति गलति। प्रसेवको भस्त्राभरणमित्यन्ये । इसरो गमनशीलः । सौरभेयो दान्तः । अङ्गेति इष्टामन्त्रणम् । अवटं श्वभ्रम् । अवटेनामा- Bण । खैरिणि स्वतन्त्रे । 'खादीरेरिणोः' इति वृद्धिः । सौवीरिकं काञ्जिकम् । विद्रा- सि लङ्घसि । 'निष्टा' श्लेवः । स्थपुटो निम्नोन्नतः, विभ्रम इत्यन्ये । फाणितमिक्षुवि कारः, गुण इति प्रसिद्धः । दम्यो दान्तः । माषाणां भवनं क्षेत्रम् । 'धान्यानां भवने क्षेत्रे खञ्' । किंचिन्मानं बुभुक्षानिवृत्तये। घासो मुखघासः। यवसं घासः। उक्तं च- 'शष्पं बालतृणं घासो यवसम्' इति । धवः पुरुषः। वाहीकः काष्ठकः, परिपालक इ. त्यन्ये, गोरक्षक इति चान्ये । लम्बिता मार्गमाकान्तुं न शक्नोति । शाक्करं शूरम् । तरुणं वा । धवलं महोक्षं नेदीयसि । करदण्डेऽन्यहस्तसंबन्धिनि सति । करीस- मदोऽर्थात्संपन्नः । स्वेच्छयानासेन । मृदितानि क्षुण्णानि । उद्दामानि प्रभूतानि । सस्यानि । तथा घासो यवसम् । तथा विघसो भृत्याद्युपयुक्तशेषमन्नम्, परस्पर- लुण्ठनं वा । तैःसुखेन संपन्नं यदन्नं तेन सुपुष्टैः । केलिकलाः प्रहसनाः, बहुभाषिणो वा । मेण्ठा हस्तिजागरिकाः । वण्ठा अकृतविवाहाः। तरुणा ये दण्डमादाय हस्ति- ।
सप्तम उच्छासः २११ अक्षिणी किं ते स्फुटिते । हत हस्तिपक रे, दीव्यसि करिकरदण्डे । समद, संमर्द कर्दमे स्खलसि। भ्रातर्भाव विधुरबन्धो, उद्धर पङ्काद- नवाहम् । इत एहि माणवक, घनेमघटासंघट्टसंकटे नास्ति निस्त- रणम् । इत्येवमादिप्रवर्तमानानेकसंलापं कचित्स्वेच्छामृदितोद्दाम- सस्यघासविघससुखसंपन्नान्नपुष्टैः केलिकलैः किलकिलायमानैमण्ठ- वण्ठवठरलम्बनलेशिकलुण्ठकचेटचाटचण्डालमण्डलैराण्डीरैः स्तू. यमानम्, कचिदसहायैः क्लेशार्जितकुग्रामकुटुम्बिसंपादितसीदत्सौ- रभेयशम्बलसंवाहनायासावेगागतसंयोगैः स्वयंगृहीतगृहोपस्करणैः 'इयमेका कथंचिद्दण्डयात्रा यातु । यातु पातालतलं तृष्णाभूतेरभव- निः । भवतु शिवम् । सेवा करोतु। स्वस्ति सर्वदुःखकूटाय कटकाय' इति दुर्विधकुलपुत्रकैनिन्द्यमानम् , कचिदतितीक्ष्णसलिलस्रोतःपा- तिनौगतैरिव ग्रथितैरिव पतिभूतैर्जनैरतिद्रुतम् , द्रवद्भिः कृष्णकठि- नस्कन्धगुरुलगुडैर्गृहीतसौवर्णपादपीठीकरङ्ककलशपताहावगाहैः प्रत्यासन्नपार्थवोपकरणग्रहणगर्वदुर्वारैः सर्वमेव बहिः कारयद्भि- भूपतिभृतकभारिकैर्महानसोपकरणवाहिभिश्च बद्धवराहवधवाध्रीण- सैलम्बमानहरिणचटुकचटकजूटजटिलैः शिशुशशकशाकपत्रवेत्रा- प्रसंग्रहसंपाहिमिः शुक्लकर्पटप्रावृतमुखैकदेशदत्तामुद्रागुप्तगोरस- भाण्डैस्तलकतापकतापिकाहस्तकताम्रचरुकटाहसंकटपिटकभारिकैः समुत्सार्यमाणपुरोवर्तिजनम्, कचित् केशोऽस्माकम् । फलकाले- ऽन्य एव विटाः समुपस्थास्यन्ते' इति मुखरैः पदे पदे पततां दुर्ब- लबलीवानां नियुक्तैः खेटने खेटचेटकैः खेद्यमानासंविभक्तकुलपु- त्रलोकम्, कचिन्नरपतिदर्शनकुतूहलादुभयतः प्रजवितप्रधावितग्रा- - नां दर्पमाकर्षयन्ति, पत्तय इत्यन्ये । वठरा मूर्खाः । लम्बना गर्दभदासाः । लेशि- का जनपरिचारकाः । लुण्ठकाश्चौराः । चेटा दासाः । शाटा धूर्ताः । चण्डाला अश्वपालाः । आण्डीराः प्रगल्भाः । यद्वा राण्डीराः रण्डापुत्राः । संपादितो दत्तः । सीदन्नसमर्थो यः सौरभेयस्तेन शम्बलसंवाहनाय य आयासो योगस्तेन । गतसंयोगै- रुत्पन्नचित्तक्षोभैरिति समासः । अभवनिरिति । 'आक्रोशे नञ्यनिः' । दुर्विधा दरि- द्राः । वृद्धाः स्थविराः । कुलपुत्राः कुलक्रमागताः सेवकास्तनिन्धमानमिति स्क- न्धावार विशेषणम् । क्वचिच्च भूभृद्भारिकैर्महानसोपकरणवाहिभिश्च समुत्सार्यमाण- पुरोवर्तिजनमिति स्कन्धावारविशेषणम् । अतितीक्ष्णं वेगवत् । ग्रन्थिविद्यते येषां तैः। करकस्ताम्बूलाधारः । पतद्रहो निष्ठीवनपात्रम् । अवनाहः स्नानद्रोणी । बहिःकार- ।
२१२ हर्षचरिते मेयकजनपदम्, मार्गग्रामनिर्गतैराग्रहारिकजाल्मैः : पुरःसरजरन्मह- त्तरोत्तम्भिताम्भ:कुम्भैरुपायनीकृतदधिगुडखण्डकुसुमकरण्डैर्घटित- पेटकैः सरभसं समुत्सर्पद्भिः प्रकुपितप्रचण्डदण्डिवित्रासनविद्रुतै- र्दूरगतैरपि स्खलद्भिरपि पतद्भिरपि नरेन्द्रनिहितदृष्टिभिरसतोऽपि पूर्वभोगपतिदोषानुद्भावयद्भिरतिक्रान्तायुक्तकशतानि च शंसद्भि- श्चिरंतनचाटापराधांश्चाभिदधानरुद्भूयमानधूलिपटलम्, कचिदेका- न्तप्रवृत्ताश्ववारचक्रचय॑माणागामिगौडविमृग्यमाणसस्यसंरक्षणम्, अपरैरादिष्टपरिपालकपुरुषपरितुष्टैः धर्मः प्रत्यक्षो देवः' इति स्तुतीरातन्वद्भिरपरैलूयमाननिष्पत्रसस्यप्रकटितविषादैः क्षेत्रशुचा सकुटुम्बैरेव निर्गतैः प्ररूढप्राणच्छेदैः परितापत्याजितभयैः 'क राजा । कुतो राजा । कीदृशो वा राजा' इति प्रारब्धनरनाथनि- न्दम्, शशकैश्च पदे पदे प्रजविप्रचण्डदण्डपाणिपेटकानुबद्धैगिरिगु- डकैरिव हन्यमानैरितस्ततः संचरद्भिरपरैर्युगपत्परापतितमहा- जनप्रस्तैस्तिलशो विलुप्यमानैरनेकजन्तुजङ्घान्तरालनिःसरणकुश. लिभिः कुटिलिकाव्यंसितसादिबहुश्वभिः पतल्लोष्टलगुडकोणकुठा- रकीलकुद्दालखनित्रदात्रयष्टिभिरपि निःसरद्भिरायुषो बलात्कृतकल- कलम्, अन्यत्र संघशो घासिकैर्बुसधूलीधूसरितघासजालजालकि- तजघनैश्च पुराणपर्याणैकदेशदोलायमानदात्रैश्च शीर्णोर्णाशकलशि- । यद्भिनिरस्यद्भिः। महानसा सूपकारशाला । वराहवधं सूकरचर्म । सूकरपाठेति प्रसि- द्धम्। वाध्रीणसा यज्ञियाश्छागविशेषाः । हरिणानां चटुकाः पूर्वभागाः। जूटः संघः। वेत्राप्राणि वंशाङ्कुराः। तलकोऽग्निशकटिका । तापकोऽपूपादिकरणस्थानम् । तापिका काकपालिका। यत्र तैलादिना भक्ष्याः पच्यन्ते। हस्तकः शूलम् । पिटका भाण्डानि। विटा धूर्ताः । समुपस्थास्यन्ति ढौकयिष्यन्ति । पततां स्खलताम् । स्खलने प्रे. रणे । नियुक्तैः स्थापितैः । असंविभक्ता अकृतविभागाः। प्रामे भवा ग्रामेयकाः। 'ग्रामाद्यन्खोः' । आग्रहारिकजाल्मम॑ग्यमाणसस्यसंरक्षणमिति संगतिः । जाल्मा मूर्खाः । उत्तम्भिता ऊर्वीकृताः। अम्भःकुम्भा जलपूर्णकलशाः । खण्ड इक्षुवि. कारः । समुपसर्पद्भिौंकमानैः। वित्रासनं भयोत्पादनम् । आयुक्तका व्यापृतकाः। चाटा धूर्ताः । अपरैराग्रहारिकजाल्मैरुपलक्षितमपरैः। प्रारब्धनरनाथनिन्दमिति योजना । निष्पन्नानि पक्कानि । सकुटुम्बैः सदारैः। शशकैः कृतकलकलमित्यन्वयः। अनुबद्धा अनुसृताः । गिरिगुडकैोष्टैः । कुटिलिकया वक्रगमनेन । व्यसिता व- श्चिताः।सादिनामश्ववाराणाम् । बहवः श्वानो यैः । कोणो वादनभाण्डम् । अन्यत्र घा- सिकैः उद्धयमानधूलीपटलमिति संबन्धः । संघशो बहुशः । घासे नियुक्ता घा- - - सप्तम उच्छ्रासः। २१३ थिलमलिनमलकुथैश्च प्रभुप्रसादीकृतपाटितपटच्चरचलञ्चोलकधारि- भिश्च धावमानैरुद्धूयमानधूलिपटलम्, क्वचिदेकान्तप्रवृत्ताश्ववारच- ऋचळमाणागामिगौडविग्रहम्, कचित्पङ्किलप्रदेशपूरणादेशाकुलस- कललोकलूयमानतृणपूलकम् , कचित्तलतिवेत्रिवेत्रवित्रास्यमान- शाखिशिखरगतविक्रोशद्विवादिब्राह्मणम्, कचित्कुलुण्ठकपाशविवे- ट्यमानग्रामीणग्रामाकृष्टकौलेयकम्, क्वचिदन्योन्यविभवस्पोंडुर- राजपुत्रवाह्यमानवाजिसंघट्टमण्डितम् , अनेकवृत्तान्ततया कौतुक- जननम्, प्रलयजलधिमिव जगदासग्रहणाय प्रवृत्तम् , पातालमिव महाभोगिनां गुप्तये समुत्पादितम् , कैलासमिव परमेश्वरवसतये सृष्टम् , दृश्यमानसकलप्राणिपर्यायं चतुर्युगसर्गकोशमिव प्रजापती- नाम् केशबहुलमपि तपःकरणमिव क्रमकारिणं कल्याणानाम् एवं च वीक्षमाणः कटकं जगाम । आसन्नवर्तिनां च तत्रभवताम् 'मांधात्रा प्रवर्तिताः पन्थानो दि- ग्विजयाय । अप्रतिहतरथरंहसा रघुणा लघुनैव कालेनाकारि ककु- भां प्रसादनम् । शरासनद्वितीयः करदीचकार चक्र क्रमागतभुज- बलाभिजनधनमदावलिप्तानां भूभुजां पाण्डुः । पाण्डवः सव्यसाची चीनविषयमतिक्रम्य राजसूयसंपदे क्रुध्यद्गन्धर्वधनुष्कोटिटांकारकू- जितकुखं हेमकूटपर्वतं पराजेष्ट । संकल्पान्तरितो विजयस्तरस्ति- नाम् । सहिमहिमवद्व्यवहितोऽप्युवाह बाहुबलव्यतिकरकातरः कर कौरवेश्वरस्य किङ्कर इवाकृती द्रुमः । नाति जिगीषवः खलु पूर्वे येनाल्प एव भूभागे भूयांसो भगदत्तदन्तवक्रनाथकर्णकौरवशिशु- पालसाल्वजरासंधसिन्धुराजप्रभृतयोऽभवन्भूपतयः । संतुष्टो राजा सिकाः । घासजालं घाससंघातः । एकदेशः पश्चिमा दिक् । 'मलकुथैः' इति पाठः । मलकुथा मलपट्टी । छविरित्यर्थः । अंसो परिवास इत्यन्ये । पटचरं जीर्गवस्त्रम् । कुलुण्ठकाः शुनाबन्धनलगुडाः । उद्धुरा उद्दामप्रसराः । जगतो ग्रहणं खीकरणम् , प्लावनं च । भोगिनो भोगवन्तः, सर्पाः । परमेश्वरो हरोऽपि । परितः समन्ता- दायः आगमनं पर्यायः । आसन्नेत्यादौ पार्थिवसुतानामित्येवंप्रायानालापाशृण्वन्नेवाससादावासमिति सं- बन्धः। तत्रभवता पूज्येन । सव्यसाची अर्जुनः। पराजैष्ट जिगाय।तरखिनां पराक्र- मवाताम् कौरवेश्वरी दुर्योधनः । अकृतोऽकृतार्थः । द्वमाख्यः किन्नरराजः । सिन्धु- २१४ हर्षचरिते युधिष्ठिरो यो ह्यसहत समीप एव धनंजयजयजनितजगत्कम्पः किंपुरुषाणां राज्यम् । अलसश्चण्डकोशो यो न प्राविक्षत्क्ष्मां जित्वा स्त्रीराज्यम् । हसीय एवान्तरं तुषारगिरिगन्धमादनयोः । उत्सा- हिनः किष्कुतुरुष्कविषयाः। प्रादेशः पारसीकदेशः। शशपदं श- कस्थानम् । अदृश्यमानप्रतिप्रहारे पारियात्रे यात्रैव शिथिला शौर्यशुल्कः सुलभो दक्षिणापथः । दक्षिणार्णवकल्लोलानिलचलित- चन्दनलतासौरभसुन्दरीकृतदरीमन्दिराद्द१राद्रेर्नेदीयसि मलयो मलयलग्न एव च महेन्द्रः। इत्येवंप्रायानुद्योगद्योतकानामालापा- न्पार्थिवकुमाराणां बाहुशालिनां शृण्वन्नेवाससादावासम् । मन्दि- रद्वारि चोभयतः सबहुमानं भूलताभ्यां विसर्जितराजलोकः प्र- विश्य चावततार बाह्यास्थानमण्डपस्थापितमासनमाचक्राम । प्रा- स्तसमायोगश्च क्षणमासिष्ट । अथ तत्र प्रतीहारः पृथ्वीपृष्ठप्रतिष्ठापितपाणिपल्लवो विज्ञापित- वान्-'देव, प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगनामा दू- तोऽन्तरङ्गस्तोरणमध्यास्ते' इति । राजा तु 'तमाशु प्रवेशय' इति सादरमादिदेश । अथ दक्षतया क्षितिपालादराच्च प्रतीहारः खयमेव निरगात् । अनन्तरं च हंसवेग: सविनयमाकृत्यैव नयनान- न्दसंपादनसुभगाभोगभद्रया समुल्लच्यमानगुणगरिमा प्रभूतप्राभृ- तभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दि- रम् । आरादेव पञ्चाङ्गालिङ्गिताङ्गनः प्रणाममकरोत् । 'एोहि' इति सबहुमानमाहूतश्च प्रधावितोऽपसृतः पादपीठलुठितललाट- लेखो न्यस्तहस्तः पृष्ठे पार्थिवेनोपसृत्य भूयो नमश्चक्रे । स्निग्धनरे- न्द्रदृष्ट्या निर्दिष्टमविप्रकृष्टं स प्रदेशमध्यास्त । ततो राजा तिरश्चीं तनुमीषदिव धानश्वामरग्राहिणीमन्तरालवर्तिनी समुत्सार्य संमुखी- नस्तं सप्रश्रयं पप्रच्छ-'हंसवेग, श्रीमान्कञ्चित्कुशली कुमारः' । नाथो जयद्रथः । ह्रसीयो ह्रखतरम् । साङ्गुष्ठया प्रदेशिन्या प्रादेशः। 'प्रादेशतालगो- कर्णतर्जन्यादियुते तते । अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिदिशाङ्गुलम्।।' इत्यमरसिंहः। शौर्यकृतः शुल्कः पणो यत्र स शौर्यशुल्कः । अतिशयेनान्तिकं नेदीयः । अन्तिक- बाढयोर्नेदसाधौ' इति । प्राग्ज्योतिष कामरूपाख्यो देशः।समुलक्यमानो नीयमानः ।संमुखीनोऽभिमुखः। । EASE सप्तम उच्छासः २१५ । इति । स तमन्ववादीत्--'अद्य कुशली येनैवं स्नेहनपितया सौ- हार्दद्रवाया सगौरवं गिरा पृच्छति देवः' इति । स्थित्वा च मुहूर्तमिव पुनः स चतुरमुवाच-'चतुरम्भोधि- भोगभूतिभाजनभूतस्य देवस्य सद्भावगर्भमपहाय हृदयमेकमन्यद- नुरूपं प्राभृतमेव दुर्लभं लोके तथाप्यस्मत्स्वामिना संदेशमशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रमाभोगाख्यमनुरूपस्थानन्यासेन कृतार्थीकृतमेतत् । अस्य च कुतूहलकृन्ति बहूनि आश्चर्याणि दृ- श्यन्ते । प्रतिदिवसं प्रविशति शैत्यहेतोश्छायायाः किरणसहस्रा- देकैकः सोमस्य रश्मिरस्मिन् । अस्मिन्प्रविष्टे प्रध्यानानन्तरं स्वा- वो दन्तवीणोपदेशाचार्यायोतन्ति चन्द्रभासामम्भसां मणिशला- काभ्यो यावदिच्छमच्छा धाराः। प्रचेता इव यश्चतुर्णामर्णवानामधि- पतिर्भूतो भावी वा तमनुगृह्णाति च्छायया नेतरम् । इदं च न सप्ता- चिर्दहति, न पृषदश्वो हरति, नोदकमायति, न रजांसि मलिनय- न्ति, न जरा जर्जरयति । एतत्तावदनुगृह्णातु दृशा देवः संदेशम- पि विस्रब्धं श्रोष्यति । इत्येवमभिधाय विवृत्यात्मीयं पुरुषमभ्य- धात्-'उत्तिष्ठ । दर्शय देवस्य' इति । स वचनानन्तरमुत्थाय पुमानू/चकार तद्धौतदुकूलकल्पिताच्च निचोलकादकोषीत् । आकृष्यमाण एव च यस्मिन्नतिसितमहसि सर- भसमहासीव हरेण रसातलादुदलासीव शेषफणिफणाफलकमण्ड- लेन, अस्थायीव चक्रीभूयान्तरिक्षे क्षीरोदेन, अघटीव गगनाङ्गने गोष्ठीबन्धः शारदेन बलाहकव्यूहेन, विश्रान्तमिव विततपक्षतिना- वियति पितामहविमानहंसयूथेन, अत्रिनेत्रनिर्गतस्य धवलधामम- ण्डलमनोहरो दृष्ट इव जनेन जन्मदिवसः कुमुदबन्धोः, प्रत्यक्षी- कृत इवोद्गमनक्षणो नारायणनाभिपुण्डरीकस्य, आहितेव कौमुदी- प्रदोषदर्शनानन्दतृप्तिरक्ष्णाम्, उदमाटीदिव मन्दाकिनीपुलिनम- । भोगः पालनम् । शीतोद्भवो दन्तानामन्योन्याघातो दन्तवीणा । सप्ताचिरग्निः । पृषदश्वो वायुः। विवृत्य स्थिरिला । निचोलकादाच्छादनप्रसेवकात् । अकोषीनिष्कासितवान् । उदलास्युल्लसि- तम् । अस्थायि स्थितम् । अघटि घटितम् । विश्रान्तं व्यश्रमत । उद्गमनक्षण उ. त्पत्तिसमयः। उदमासीदुन्मग्नम् । परिवर्तितः खरूपः कृतः।
२१६ हर्षचरिते ण्डलं महदम्बरोदरे, परिवर्तित इव दिवस: पौर्णमासीनिशया म- न्दमन्दमिन्दूदयसंदेहहूयमानमानसैविघटितं घटमानचञ्चुच्युतम- णालकोटिभिरासन्नकमलिनीचक्रवाकमिथुनैः, शरजलधरपटलाश- ङ्कासंकोचितकेकारवमूकमुखपुटैः पराङ्मुखीभूतं भवनशिखण्डि- मण्डलैः, प्रबुद्धमाबद्धचन्द्रानन्दोद्दामोद्दलद्दलपुटाट्टहासविशदं कुमु- दषण्डैः। चित्रीयमाणचेताश्च सराजको राजा दण्डानुसाराधिरोहिण्या दृष्ट्या सादरमैक्षिष्ट तत्तिलकमिव त्रिभुवनस्य, शैशवमिव श्वेतद्वी- पस्य, अंशावतारमिव शरदिन्दोः, हृदयमिव धर्मस्य, निवेशमिव शशिलोकस्य, दन्तमण्डलधवलं मुखमिव चक्रवर्तित्वस्य, मौक्तिक- जालपरिकरसितं सीमन्तचक्रमिव दिवः, बहलज्योत्स्नाशुक्ोदर- मैन्दवमिव परिवेशवलयं शौक्लयहसितशङ्खश्रीकं श्रवणमण्डलमिव निश्चलतां गतमैरावतस्य, श्वेतगङ्गावर्तपाण्डुरं पदमिव त्रिभुवन- वन्दनीयं त्रिविक्रमस्य, प्रचेतसञ्चूडामणिमरीचिशिखाभिरिव श्लि- ष्टाभिर्मानसबिसतन्तुमयीभिश्चामरिकावलीभिर्विरचितपरिवेशम्, उपरि चक्रवर्तिलक्ष्मीनूपुरवनश्रवणदोहदनिश्चलेनेव लक्ष्मणा वि- ततपत्रेण हंसेन सनाथीकृतशिखरम्, स्पर्शवता च प्रभावस्तम्भि- तेन मन्दाकिनीमृणालेन मुकुलितफणेन वासुकिनेव नीतेन द- ण्डतां द्योतमानम्, धवलिम्ना क्षालय दिव नक्षत्रपथम्, प्रभाप्रवा- हप्रथिम्ना प्रावृण्वदिव दिवसम्, समुच्छ्रायेणाधः कुर्वदिव दि- वम्, उपरिस्थितमिव सर्वमङ्गलानाम्, श्वेतमण्डपमिव श्रियः, स्तबकमिव ब्रह्मस्तम्भस्य, नाभिमण्डलमिव ज्योत्स्नायाः, विशदं हासमिव कीर्तेः, फेनराशिमिव खड्गधाराजलानाम्, यशःपटलमिव शौर्यशालितायाः, त्रैलोक्याद्भुतं महच्छत्रम् । दृष्टे च तस्मिन्राज्ञा प्रथमे शेषमपि प्राभृतं प्रकाशयांचक्रुः क्रमेण कार्माः । तद्यथा पराय॑रत्नांशुशोणीकृतदिग्भागान्, भ- निवेशं स्थानम् । दन्तमण्डलकं दशनकृतं चक्रवालम्, दशनसमूहश्च । मुखमा- रम्भः, वक्रं च । परिकर परिवेष्टनम् । परिवेशवलयं परिधिकटकम् । 'स्यादाव- तोऽम्भसां भ्रमः।आवर्तनमावर्तः। प्रावृण्वदाच्छादयत् । कार्मा भृतकाः । आहतलक्षणान्गुणैः प्रसिद्धान् । उक्तं च-गुणैः प्रतीते तु सप्तम उच्छ्वासः। गदत्तप्रभृतिख्यातपार्थिवपरागतानाहतलक्षणानलंकारान्, प्रभालेपि- नां च चूडामणीनां समुत्कर्षान् , क्षीरोदधेर्धवलताहेतूनिव हा- रान् , अनेकरागरुचिरवेत्रकरण्डकुण्डलीकृतानि शरच्चन्द्रमरीचि- रुच्चि शौचक्षमाणि क्षौमाणि कुशलशिल्पिलोकोल्लिखितानां च शु- क्तिशङ्खगल्वर्कप्रमुखानां पानभाजनानां निचयान्, निचोलकर- क्षितरुचां च रुचिरकाञ्चनपत्रभङ्गभङ्गुराणामतिबन्धुरपरिवेशानां कार्दरङ्गचर्मणां संभारान्, भूर्जत्वकोमलाः स्पर्शवतीः जातीपट्टि- काः चित्रपटानां च म्रदीयसां समूहकोपधानादीन्विकारान् , प्रि- यङ्गुप्रसवपिङ्गलत्वञ्चि चासनानि वेत्रमयान्यगुरुवल्कलकल्पितसंच- यानि च सुभाषितभाञ्जि पुस्तकानि, परिणतपाटलपटोलत्विं षि च तरुणहारीतहरिन्ति क्षीरक्षारीणि च पूगानां पल्लवलम्बीनि सर- सानि फलानि, सहकारलतारसानां च कृष्णागुरुतैलस्य च कुपि- तकपिकपोलकपिलकापोतिकापलाशकोशीकवचिताङ्गीः स्थवीयसी- वैणवीर्नाडीश्च पट्टसूत्रप्रसेवकार्पितांश्च भिन्नाञ्जनकृष्णस्य कृष्णागु- रुणः, गुरुपरितापमुषश्च गोशीर्षचन्दनस्य, तुषारशिलाशकलशि- शिरस्वच्छसितस्य च कर्पूरस्य, कस्तूरिकाकोशकानां च पक्कफल- जूटजटिलानां च कक्कोलपल्लवानाम् , लवङ्गपुष्पमञ्जरीणां जातीफ- लस्तबकानां च राशीन , अतिमधुरमधुररसामोदनिर्झरिणीश्चोल्लक- कलशीः सितासितस्य च चामरजातस्य निचयान् , अवलम्बमा- नतूलिकालाबुकांश्च लिखितानालेख्यफलकसंपुटान् , कुतूहलकृन्ति कनकशृङ्खलानियमितग्रीवाणां किंनराणां च वनमानुषाणां च जी- वजीवकानां च जलमानुषाणां च मिथुनानि, परिमलामोदितक- कुभश्च कस्तूरिकाकुरङ्गान , गेहपरिसरणपरिचिताश्च चमरी:, चा- कृतलक्षणाहतलक्षणौ' इति । समुत्कर्षा वान् । गल्वर्को मसराख्यो मणिभेदः, चन्द्रकान्त इत्यन्ये । शौचो धावनम् । कार्दरगचर्मणां कादरगदेशभवानां स्फेटकानाम् । जातीपट्टिकाः श्रेष्ठानि जघनग्रन्थनानि । संचयाः पत्रसमूहाः। पटो- लस्तिक्तकः, ओषधिभेदः । उकं च-'अथ कुलकं पटोलस्तितकः पटुः' इति । कापोतिका ओषधिभेदः । गोशीर्षचन्दनस्य चन्दनभेदस्य । कोशका नाभयः । अतिमधुरं मधुरसाया इवामोदानि हरन्ति मुञ्चन्ति यास्ताः। मधुरसा द्राक्षा। उक्त च-'मृद्धीका गोस्तनी द्राक्षा माध्वी मधुरसेति च इति। अन्ये मधुरस मकरन्दं द्रव- चकोरान्, । २१८ हर्षचरिते मीकररसचित्रवेत्रपञ्जरान्तर्गतांश्च सुवहुसुभाषितजल्पाकजिह्वांश्च शुकशारिकाप्रभृतीन्पक्षिणः, प्रवालपञ्जरगतांश्च जलहस्तिनामुदनकुम्भमुक्ताफलदामदन्तुराणि दन्तकाण्ड- कुण्डलानि । राजा तु छत्रदर्शनात्प्रहृष्टहृदयः प्रथमप्रयाणे शोभननिमित्त- मिति मनसा जग्राह । हंसवेगं च प्रीयमाणो बभाषे-'भद्र, स- कलरत्नधाम्नः परमेश्वरशिरोधारणाईस्यास्य महातपत्रस्य महार्णवा- दिव कुमुबान्धवस्य कुमाराल्लाभो न विस्मयाय । बालविद्याः खलु महतामुपकृतयः' इति । अपनीते च तस्मात्प्रदेशात्प्राभृतसंभारे क्षणमिव स्थित्वा हंसवेग, विश्रम्यताम्' इति प्रतीहारभवनं विसर्ज- यांबभूव । स्वयमप्युत्थाय स्नात्वा मङ्गलाकाङ्की प्राङ्मुखः प्रावि- शदाभोगस्य छायाम् । अथ विशत एवास्य छायाजन्मना जडिम्ना चूडामणितामनीय- तेव शशिबिम्बमम्बुबिन्दुमुचश्चचुम्बुरिव चन्द्रकान्तमणयो लला- टतदं कर्पूररेणव इव व्यलीयन्त लोचनयुगले गलत्तुहिनकणनिक- रकृतनीहारा हारा इवाबध्यन्त:हरिचन्दनरसासारेणेवापाति संत- तमुरसि कुमुदमयमिव हृदयमभवदतिशिशिरमन्तर्हितहिमशि- लेव विलीयमाना व्यलिम्पदङ्गानि । जातविस्मयश्चाकरोन्मनसि एकमजय संगतमपहाय कास्त्यन्या प्रतिकौशलिकेति । आहार- काले च हंसवेगाय धवलकर्पटप्रावृतधौतनालिकेरपरिगृहीतं वि- लिप्तशेषं चन्दनमङ्गस्पृष्टे च वाससी शरत्तारकाकारतारमुक्तास्तब- कितपदं परिवेशं नाम कटिसूत्रमतिमहार्हपद्मरागालोकलोहिती- कृतदिवसं च तरङ्गकं नाम कर्णाभरणं प्रभूतं च भोज्यजातं प्राहिणोत् । एवंप्रायेण च क्रमेण जगाम दिवसः। तत: कटकस्थबलबहलधूलिधूसरितवपुरंशुमाली मलीमसम- ङ्गमिव क्षालयितुमपरजलनिधिमवातरत् । आभोगातपत्रप्रदानवा- । । माहुः । उल्लकः सुगन्धिफलविशेषरसः । आसवभेद इत्यन्ये । तूलिका ऊर्जिका। यया चित्रं क्रियते । अलाब्यस्तुम्ब्यः । प्रवालो विद्रुमः । उक्तं च-'अथ विद्रुमः । पुं- सि प्रवालः पुंनपुंसकम्' इति । 'नीहारो मिहिका चाथ' । कटकं हस्त्यश्वादीनां सर्वेषां संनिवेशदेशः । तत्स्थं बलं सैन्यम् । तगरं पिण्डी- ।
। सप्तम उच्छ्वासः। ामिव निवेदयितुं वरुणाय वारुणी दिशमयासीत् । मुकुलाय- मानसकलकमलवना प्रमुख एंव बद्धसेवाञ्जलिपुटेव सद्वीपा भूर- भूभृपतेः । नृपानुरागमय इव निखिलजीवलोकलोकाञ्जलिबन्ध- बन्धुर्जगज्जग्राह संध्यारागः । गौडापराधशङ्किनीव श्यामतां प्रपेदे दिक्प्राची । प्रचिततिमिरनिवहा निर्वाणान्यनृपप्रतापानलकलापेव कालिमानमतानीन्मे दिनी । मेदिनीशप्रदोषास्थानपुष्पनिकरमिव विकचतगररुचिरमवचकरुरुडुनिकरमविरलं ककुभः । स्कन्धा- वारगन्धगजमदामोद्धावितस्येव मार्गो वियति विरराज रजःपा- ण्डुरैरावतस्य । कुपितनृपव्याघ्राघातामुपसृष्टामिव पौरुष्टुती वि- हाय विहायस्तलमारुरोह रोहिणीरमणः । प्रयाणवार्ता इव मा- निनीनां हृदयभेदिन्यो ययुरिन्दुदीधितयो दश दिशः । नवनृप- दण्डयात्राबासातुरा इव तरलितसत्त्ववृत्तयश्चक्षुभुः पतयो वाहि- नीनाम् । चिन्तेव भूभृतां हृदयानि विवेश गुहाविवराणि विमु- क्तसर्वाशातिमिरसंततिः । प्रतिसामन्तचक्षुषामिव ननाश निद्रा कुमुदवनानाम् । अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रो 'यात ताव- त्' इति विसानुजीविनो हंसवेगमादिष्टवान्–'कथय संदेशम्' इति । प्रणम्य स कथयितुं प्रास्तावीत्-'देव, पुरा वराहसंपर्कसं- भूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले । वीरस्य यस्याभवन्बाल्य एव पादप्रणामप्रणयिनश्चूडामणयो लोक- पालानाम् । यस्य च त्रिभुवनभुजो भुजशौण्डस्य भवनकमलिनीच- क्रवाकीकोपकुटिलकटाक्षेक्षितोऽपि भयचकितारुणपरिवर्तितरथो नाज्ञया विना रविरस्तमबाजीत् । यश्च वरुणस्य बहिर्वृत्ति हृदय- भवनम् । नृपव्याघ्रो राजशार्दूलः, हर्षः । उपसृष्टां सोपद्रवाम् । पारुष्टुतीं ऐंद्रीम् । रोहि- णीरमणश्चन्द्रः, वृषभश्च । रोहिणी गौः । उक्तं च-'माहेयी सौरभेयी गोरखा माता च शृङ्गिणी। अर्जुन्यन्या रोहिणी स्यादुत्तमा गोषु नैचिकी ॥ इति । वृषभश्च कुपितव्याघ्रानातामत एव सोपद्रवां दिशं विहाय स्थानान्तरमारोहति । मानः प्रि- याविषये, अन्यत्र धीरविषये । सत्त्वानि प्राणिनः, धैर्य च सत्त्वम् । वाहिनीनां से- नानाम्, नदीनां च । आशा दिशः, आस्था च । निद्रा संकोचः, खापश्च । प्रतिग्रहो द्विजदीयमानोऽर्थः, सैन्यपश्चाद्भागश्च ।
२२०. हर्षचरिते मिदमातपत्रमहार्षीत् । महात्मनस्तस्यान्वये भगदत्तपुष्पदत्तवाद- तप्रभृतिषु व्यतीतेषु बहुषु मेरूपमेषु महत्सु महीपालेषु प्रपौत्रो महाराजभूतिवर्मण: पौत्रश्चन्द्रमुखवर्मणः पुत्रो देवस्य कैलास- स्थिरस्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महाराजाधिराजो जज्ञे तेजसां राशिदंगाङ्क इति यं जना जगुः। योऽयमजेनेवाजायत सहै- वाहंकारेण । यश्च बाल एव प्रीत्या द्विजातीनप्रीत्या चारातीन्स- मग्रान्प्रतिग्रहानप्राहयत् । यत्र चातिदुर्लभं लवणालयसंभूतायाः परं माधुर्यमभूलक्ष्म्याः । तथा च यो वाहिनीनाथानां शङ्खाजहार रत्नानि, पृथिव्याः स्थैर्य जग्राह न करम् , अवनिभृतां गौरवमादत्त न नैष्टुर्यम् । तस्य च सुगृहीतनानो देवस्य देव्यां श्यामादेव्यां भास्करद्युतिर्भास्करवर्मापरनामा तनयः शंतनो गीरथ्यां भीष्म इब कुमारः समभवत् । अयमस्य च शैशवादारभ्य संकल्पः स्थे- यान्स्थाणुपादारविन्दद्वयादृते नाहमन्यं नमस्कुर्यामिति । ईदृश- श्वायं मनोरथस्त्रिभुवनदुर्लभस्त्रयाणामन्यतमेन संपद्यते सकलभुव- नविजयेन वा मृत्युना वा यदि वा प्रचण्डप्रतापज्वलनदिग्दाहेन जगत्येकवीरेण देवोपमेन मित्रेण मैत्री च प्राय: कार्यव्यपेक्षिणी क्षौणीभृताम् । कार्य च कीदृशं नाम तद्भवेद्यदुपन्यस्यमानमुपन- येन्मित्रतां देवम् । देवस्य हि यशांसि संचिचीषतो बहिरङ्गभूतानि धनानि । बाहावेव च केवले निषण्णस्य शेषावयवानामपि साहा- यकसंपादनमनोरथो निरवकाशः किमुत बाह्यजनस्य । चतुःसा- गरपामग्रहणघस्मरस्य पृथिव्येकदेशदानोपन्यासेनापि का तुष्टिः । अभिरूपकन्याविश्राणनविलोभनमपि लक्ष्मीमुखारविन्ददर्शनदुर्ल- लितदृष्टेरकिंचित्करम् । एवमघटमानसकलोपायसंपादितपदार्थे- ऽस्मिन्प्रार्थनामात्रमेव केवलमनुरुध्यमानः शृणोतु देवः । प्रा- ग्ज्योतिषश्वरो हि देवेनैकपिङ्ग इवानङ्गद्विषा, दशरथ इव गोत्र- भिदा, धनंजय इव पुष्कराक्षेण, वैकर्तन इव दुर्योधनेन, मलया- निल इव माधवेन, अजय संगतमिच्छति । यदि च देवस्थापि मैत्री यतिहृदयमवगच्छति च पायान्तरितं दास्यमनुतिष्ठन्ति सुहृद इति ततः किमास्यते समाज्ञाप्यतामनुभवतु विष्णोर्मन्दर- गिरिरिव विकटकेयूरकोटिमणिविघटनकणितकटकमणिशिलाश- सप्तम उच्छ्रासः। २२१ । कलानि गाढोपगूढानि देवस्य कामरूपाधिपतिः । अस्मिन्नातृप्तेर- नवरतविमललावण्यसौभाग्यसुधानिर्झरिणि मुखशशिनि चिराच- क्षुषी लालयतु प्राग्ज्योतिषेश्वरश्रीः । नाभिनन्दति चेदेवः प्रणय- माज्ञापयतु किं कथनीयं मया स्वामिनः' इति । विरतवचसि तस्मिन्भूपाल: पूर्वोपलब्धैरेव गुरुभिर्गुणैरारोपि- तबहुमानः कुमारे सुदूरमाभोगातपत्रव्यतिकरेण तु परां कोटि- मारोपिते प्रेम्णि लजमान इव सादरं जगाद-'हंसवेग, कथ- मिव तादृशि महात्मनि महाभिजने पुण्यराशौ गुणिनां प्राग्रहरे परोक्षसुहृदि स्निह्यति मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः । सकलजगदुत्तापनपटवोऽपि शिशिरायन्ते त्रिभुवननयनानन्दकरे कमलाकरे करास्तिग्मतेजसः । सुबहुगुणगणक्रीताश्च के वयं स. ख्यस्य । सज्जनमाधुर्याणामभृतदास्यो दश दिशः । एकान्तावदा- तोत्तानस्वभावसंभृतसादृश्यस्य कुमुदस्य कृते केनाभिहितः शिशिर- रश्मिः । श्रेयांश्च संकल्पः कुमारस्य । स्वयं बाहुशाली मयि च समालम्बितशरासने सुहृदि हराहते कमन्यं नमस्यति । संवर्धिता मे प्रीतिरमुना संकल्पेन । अवलेपिनि पशावपि केसरिणि बहु- मानो हृदयस्य किं पुनः सुहृदि । तत्तथा यतेथाः यथा न चिर- मियमस्मान्क्लेशयति कुमारदर्शनोत्कण्ठा' इति । हंसवेगस्तु विज्ञापयांबभूव-'देव, किमपरमिदानी वेशयत्य- भिजातमभिहितं देवेन । सेवाभीरवो हि सन्तः, तत्रापि विशेषे- णायमहंकारधनो वैष्णवो वंशः । आस्तां तावदस्मत्स्वामिवंशः। पश्यतु देवः पुरुषस्य हि सेवां प्रति दुर्जनन्येवातिवृद्धया दुर्गत्या वाभिमुखीक्रियमाणस्य, कुटुम्बिन्येवासंतुष्टया तृष्णया वा प्रेर्यमा- णस्य, दुरपत्यैरिव यौवनजनितै नाभिलाषिभिरसत्संकल्पैर्वाकुली- क्रियमाणस्य, जरत्कुमारीमिव परमार्गणयोग्यामतिमहतीं वा अ- वस्थां पश्यतः, स्वगृहे दुर्बन्धुभिरिव दुःस्थितैः समप्रैग्रहैर्वा प्रा- ह्यमाणस्याभियोगं पुरातनैरतिदुस्यजै त्यैरिव मलिनैः कर्मभिर्वा- नुवय॑मानस्य, सकलशरीरसंतापकरं करीषाग्निमिव दुष्कृतिनः । । । । हस्तिनां युद्धशिक्षार्थ चर्ममयो हस्ती । प्रतीहारमण्डलेन दौवारिकसमूहेन । प्रतिसंहारेण वेष्टनेन मण्डलं यस्य करस्य तत्प्रहारैश्च । निधिपादपप्ररोहो निधानपृ- २२२ हर्षचरिते कृतचित्तस्य संप्रवेष्टुं राजकुलमुपहतसकलेन्द्रियशक्तेरिव मिथ्यैव हृदयगतविषयग्रामग्रहणाभिलाषस्य, प्रथममेव तोरणतले वन्दन- मालाकिशलयस्येव शुष्यतो द्वाररक्षिभिनिरुद्धस्य, पीडितस्य प्र- विशतो द्वारे हरिणस्येवापरैर्हन्यमानस्य, करिकर्मचर्मपुटस्येव मुहु- मुहुः प्रतिहारमण्डलकरप्रहारैर्निरस्यमानस्य, निधिपादपप्ररोहस्येव द्रविणाभिलाषादधोमुखीभवतः, दूरममार्गणस्याप्यतिविप्रकृष्टविवृ- त्तविसर्जितस्योद्वेगं व्रजतः, अकण्टकस्यापि चरणतललग्नस्याकृष्य- क्षेपीयः क्षिप्यमाणस्य, अमकरकेतोरप्यकालोपसर्पणप्रकुपितेश्वर- दृष्टिदग्धस्य, प्रलयमुपगच्छतः करिव कोपनित्सितस्याप्य- भिन्नमुखरागस्य, ब्रह्मन्न इव प्रतिदिवसवन्दनोद्धृष्टशिरःकपालस्य, स्पर्शरहितस्याशुभकर्माणि निर्वहतः, त्रिशङ्कोरिवोभयलोकभ्रष्टस्य नक्तंदिनमर्वाक्शिरसस्तिष्ठतः, वाजिन इव कवलवशेन सुखवा- ह्यमात्मानं विधानस्य, अनशनशायिन इव हृदयस्थापितजीव- नाशस्य, शरीरं क्षपयतः शुन इव निजदारपराङ्मुखस्य, जघन्य- कर्मलग्नमात्मानं ताडयतः,. प्रेतस्येवानुचितभूमिदीयमानान्नपिण्डस्य बलिभुज इव जिह्वालौल्योपयुक्तपुरुषवर्चसो वृथा विहितायुषो जी- वतः, श्मशानपादपानिव पिशाचस्य दग्धभूत्या परुषीकृतान्राज- । । ष्टजन्मा। वृक्षाङ्कुरः स च सर्वो निधिप्रभावादधोमुखीभावः। प्रणामः । अमार्ग- णस्यायाचकस्य च अतिविप्रकृष्टैः प्राकृतैः । पूर्व विवृतः स्वतश्च लब्धदर्शन एक विसर्जितस्यात एवोद्वेगं मन्युं व्रजतः । मार्गणः शरश्चातिविप्रकृष्टं कर्णान्ते विवृतः। सर्जित उद्गतवेगं याति । अमकरकेतोरशङ्गारिणोऽपि । अकालेऽप्रस्ताव उपसर्पणं यस्य सः। तथा । अप्रकुपितस्येश्वरस्य हर्षस्य दृष्ट्या दग्धः। ततो विशेषणसमासः । प्रलयः प्रकृष्टो लयो भित्त्यादिश्लिष्टत्वम्, नाशश्च । सदृशः कर्लो हितमुक्तत्वात् । प्रतिदिवसेत्यादि । ब्रह्मनो हतब्राह्मणः कपालमहरहर्वन्दते । त्रिशङ्कुर्नाम चण्डालभावमास्थितोऽपि याजयित्वा विश्वामित्रेण खर्गमारोपितः कुपितेनेन्द्रेण हुंकारतर्जितः । स च निपित्सुरेव विश्वामित्रप्रभावाद्भुवमनवाप्य तत्रैव पूर्व लम्ब- मानोऽद्यापि स्थितः । कवलो ग्रासः । सुखेन वाह्यम् । बवयोरैक्यात् । सुखेम्यो बहिर्भूतम् , कृच्छ्रेण व्याप्यं च । हृदये स्थापिता जीवने वृत्त्युपाय आशा येन, जीवस्य नाशश्च । जघन्यं निकृष्टम् , जघने भवं जघन्यं च सुतम् । अनुचितायाम- यशस्यायां भूमौ । चितायाः पश्चादनुचितम् । बलिभुजः काकस्य । लौल्यं चाप- लम् , अभिलाषश्च । उपयुक्तं व्ययीकृतम् , भुक्तं च । वर्चस्तेजः, विष्ठा च । वृथा सप्तम उच्छासः। २.२३ वल्लभानुपसर्पतः, विपरीतजिह्वाजनितमाधुर्यैरोष्ठमात्रप्रकटितरागै राजशुकालापैः शिशोरिव मुग्धविलोभ्यमानस्य, वेतालस्येव नरे- न्द्रप्रभावाविष्टस्य न किंचिन्नाचरतः, चित्रधनुष इवालीकगुणा- ध्यारोपणैकक्रियानित्यनम्रस्य निर्वाणतेजसः, संमार्जनीसमुपार्जित- रजसोऽवकरकूटस्येव निर्माल्यवाहिनः, कफविकारिण इव दिने दि- ने कटुकैरुद्वेज्यमानस्य, सौगतस्येवार्थशून्यविज्ञप्तिजनितवैराग्यस्य काषायाण्यभिलषतः, निशास्वपि मातृबलिपिण्डस्येव दिक्षु विक्षि- प्यमाणस्याशौचगतस्येव कुशयनजनितसमधिकतरदुःखवृत्तेः, तु- लायत्रस्येव पश्चात्कृतगौरवस्य तोयार्थमपि नमतः, अतिकृपणस्य शिरसा केवलेनासंतुष्टस्य वचसापि पादौ स्पृशतः, निर्दयवेत्रिवेत्र- ताडनत्रस्तयेव त्रपया त्यक्तस्य दैन्यसंकोचितहृदयहृतावकाशयेवा- होपुरुषिकया परिवर्जितस्य कुत्सितकर्माङ्गीकरणकुपितयेवोन्नत्या वियुक्तस्य धनश्रद्धया क्लेशानुपार्जयतः, स्ववृद्धिबुद्ध्यावमानं वर्ध- यतो मूढस्य सत्यपि विविधकुसुमाधिवाससुरभिणि वने तृष्णाज- लिमुपरचयतः, कुलपुत्रस्यापि कृतागस इव भीतभीतस्य समीप- मुपसर्पतः, दर्शनीयस्याप्यालेख्यकुसुमस्येव निष्फलजन्मनः विदु- षोऽपि वैधेयस्येवापशब्दमुखस्य शक्तिमतोऽपि वित्रिण इव सं- - विहितं कृतमायुर्यस्य, विभ्यः पक्षिभ्य हितमायुर्यस्य, वृथा निष्फलं जीवतः पिशा- चस्य मूर्खस्य । भूतिः संपत्, भस्म च । राजानः शुका इव राजशुकाश्च । राजशु- कभेदाः । नरेन्द्रो राजा, मन्त्रविच्च । गुण उत्कर्षः, ज्या च गुणः । निर्वाणं ..प्र- शान्तम् , निर्गतबाणतेजश्च । अवकरकूटो मार्जनीक्षिप्तो रजस्तृणादिसंघातः । उक्तं च-'संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा। क्षिप्तः' इति । अमाल्यवाहित्वेन निःश्रीकत्वमुच्यते । कटुकैः प्रतीहारैः, तीक्ष्णैश्च । अर्थशून्यया निष्फलया। विज्ञ- प्त्या प्रार्थनया कृतोद्वेगस्य । बौद्धानामपि बाह्यवस्तुशून्यानि विज्ञानानि । अशौचं मृतकादि । कुशयन कुत्सितशय्या, भूमिश्च कुः । पश्चात्कृतं वर्जितम्, पृष्ठतश्च कृतम्। गौरवं महत्त्वम्, गुरुत्वं च । तोयशब्दो जलोपलक्षणार्थः । तोयं जलं च पादस्पर्शनं पथोऽपि । त्रपया लजया। 'आहोपुरुषिकादर्पाद्या स्यात्संभावना- त्मनि । खमात्मा, धनं च । उक्तंच-खो जातावात्मनि खं त्रिष्वात्मीये खो स्त्रियां धने' इति । अधिवासः सौगन्ध्यम, भावना च । वनं काननम् , जलं च । तृष्णा धनस्टहा मृगतृष्णा च । विदुषो जानानस्य, पण्डितस्य । वैधेयस्य मूर्खस्य। अपगतशब्दं मुखं यस्य, लक्ष्यहीनश्च । शब्दोऽपशब्दः । श्वित्रं कुष्ठव्याधिभेदः ।
२२४ हर्षचरिते वि क्षे हा कोचितकरयुगलस्य, समसमुत्कर्षेषु निरग्निपच्यमानस्य, नीचसमी- करणेषु निरुच्छासं म्रियमाणस्य, परिभवैस्तृणीकृतस्य दुःखानिले- नानिवृतेः ज्वलतो भक्तस्याप्यभक्तस्य निरूष्मणः, संतापयतो ब- न्धून्विमानस्याप्यगतिकस्य च्युतगौरवस्याप्यधस्ताद्गच्छतः निःस- त्त्वस्यापि महामांसविक्रयं कुर्वतः, निर्मदस्यास्वतन्त्रवृत्तेरयोगिनो ध्यानवशीकृतात्मनः शय्योत्थायं प्रणमतो दुग्धमुण्डस्य गोत्रविदू- षकस्य नक्तंदिनं नृत्यतो मनस्विजनं हासयतः, कुलाङ्गारस्य वंशं दहतः नृपशोः तृणेऽपि लब्धे कन्धरामवनमयतः, जठरपरिपूर- णमात्रप्रयोजनजन्मनो मांसपिण्डस्य गर्भरोगस्य मातुरपुण्यानां कर्मणामाचरणाद्धृतकस्य किं प्रायश्चित्तम्, का प्रतिपत्तिक्रिया, क गतस्य शान्तिः, कीदृशं जीवितम्, कः पुरुषाभिमानः, किंना- मानो विलासाः, कीदृशी भोगश्रद्धा, प्रबलपङ्क इव सर्वमधस्ता- नयति दारुणो दासशब्दः । धिक्तदुच्छसितमुपयातु तद्धनं निध- नमभवनिर्भूतेरस्तु तस्याः नमो भगवद्भ्यस्तेभ्यः सुखेभ्यस्तस्या- यमञ्जलिरैश्वर्यस्य तिष्ठतु दूर एव सा श्रीः शिवं स परिच्छदः करोतु यदर्थमुत्तमाझं गां गमिष्यति मुखप्रियरतः क्लीबो पूतिमां- समयः कृमिरगण्यमानो नरकः, पादरजोधूसरोत्तमाङ्गो जङ्गमः पादपीठः पुंस्कोकिलः काकुक्कणितेषु, शिखी सुखकरकेकासु, स्थू- ना ह्यर ना बति णस विर सनि यस । । प्रति । चण समास्तुल्यशीलाः । अनिवृतेरप्रतीतेः अनिवृतेर्गमनत्यागाभावाच्च । भक्तस्य हितै. षिणः । अभक्तस्यालब्धभागस्य । विरोधः स्पष्टः सर्वत्र । ऊष्मा गर्वोऽपि । वि- मानस्य विगतमानस्य, व्योमयानस्य च । गतिरुपायोऽपि । गौरवमादरोऽपि । महामांसं वकायोऽपि । मदो गर्वः क्षीबता च । अयोगिनो विपरीतदैवक्तः दरिद्रस्येत्यन्ये, अप्राप्तबलस्येत्यन्ये, चित्तवृत्तिनिरोधाभाववतश्च । दग्धमुण्डस्या- तपहतशिरसः, व्रतिभेदश्च दग्धमुण्डः । विदूषको नायकस्य, नर्मसुहृच्च । वंशो वेणुः । दारुणो दुःसहः, काष्ठस्य च । सर्वमस्त्विति योजना । मुखप्रियेत्यादावेवं- विधः सेवकोऽपि यदि मर्ल्समध्ये गण्यते तद्राजिलोऽपि भोगी कथं न भवति । पुलाको व्युप्तः कलमः कथं न स्यादिति संबन्धः । तपखी वराकोऽपि । सुखे वि- द्यमानस्य सुखदायिनः। रतः रक्तः । मुख आरम्भे, वदने च । प्रियं रतं मोहनं यस्य । क्लीबोऽशक्का, शरण्यश्च । पूति दुष्टगन्धम् । अगण्यमानो न गणनाहः । कुत्सितो नरो नरकः, अगण्यश्च मानो यस्य सोऽगण्यमानो नरको भौमनामा । अवीच्यादिर्वा । काकुक्कणितम्, मधुरवचनम् । भिन्नध्वनिर्वक्रत्वक्यानं दिव्यापा- - सप्तम उच्छासः। २२५ लकूर्मः क्रोडकषणेषु, श्वा नीचचाटुकरणेषु, वेणुमूर्च्छनासु, वे- श्याकाय: करणबन्धक्केशेषु, पलालं सत्त्वशालिषु, कृकलासः शिरो- विडम्बनासु, जाहक आत्मसंकोचनेषु, प्रतिपादकः पादसंवाह- नासु, कटुकः करतलताडनेषु, वीणादण्डः कोणाभिघातेषु, व- राकः सेवकोऽपि, मर्त्यमध्ये राजिलोऽपि वा, भोगी पुलाकोऽपि वा, कलमः वरं क्षणमपि कृता मानवता मानवता न मतो नम- तत्रैलोक्याधिराज्योपभोगोऽपि मनस्विनः । तदेवमभिनन्दितास्म- दीयप्रणयो देवोऽपि दिवसैः कतिपयैरेव परागतः प्राग्ज्योतिषे- श्वर इति करोतु चेतसि' इत्युक्त्वा तूष्णीमभूदचिराञ्च नमस्कृत्य निर्जगाम । राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनै- षीत् । आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । प्रभाते च प्रभूतं प्रतिप्राभृतं प्रधानप्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राहि- णोत् । आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमितं प्राव- तत । कदाचित्तु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसाध- नमादायागतं समीप एवावासितं लेखहारकाद्भण्डिमशृणोत् । श्रुत्वा चाभिनवीभूतभ्रातृशोकहुताशनः कातरहृयो बभूव मू- च्छन्धिकारमिव विवेशातिष्ठच्च समुत्सृष्टसकलव्यापारः प्रतीहार- निवारणनिभृतनिःशब्दपरिजने निजमन्दिरे सराजकपरिवारस्त- दागमनमुदीक्षमाणो मुहूर्तम् । अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिन- वासा रिपुशरशल्यपूरितेन, निखातबहुलोहकीलकपरिकररक्षित- रत्वाच्छोकाद्वा । कृकलासोऽप्यनवरतं शिर उन्नमयन्नास्ते । आखुर्जाहकः प्राणि- भेदः, कूर्म इत्यन्ये । मूर्च्छना मोहः, खराणां विशिष्टा स्थितिश्च । करण शरीरम्, मन्त्री वा । कामशास्त्रोदितकरणानि । कोणो लगुडश्च । यथा । शालिषु पलालम- प्रयोजनं तदसौ । राजिलो डिण्डिमाख्यो निर्विषः सर्पः । पुलाकः फलदरिद्रः । शालिः श्यामाकप्रायः । मानवताहंकारिणा, मानवस्य कर्म मानवता पौरूषम् । नमतः नेष्टः नमतः प्रणामं कुर्वतः । मूलान्योषधयः । साधनं हस्त्यादि । निभृतः सनयः। । । ह०२० हर्षचरिते - स्फुटनेनेव हृदयेन, हृदयलग्नैः स्वामिसत्कृतैरिव श्मश्रुभिः, शुचं समुपदर्शयन्दूरीकृतव्यायामशिथिलभुजदण्डदोलायमानमङ्गलवल- यैकशेषालंकृतिरनादरोपयुक्तताम्बूलविरलरागेण शोकदहनदह्यमा- नस्य हृदयस्याङ्गारेणेव, दीर्घनिश्वासवेगनिर्गतेनाधरेण शुष्यता स्वामिविरह विधृतजीवितापराधवैलक्ष्यादिव, बाष्पवारिपटलेन प- टेनेव प्रावृतवदनः विशन्निव, दुर्बलीभूतैः स्वाङ्गमपत्रपयाङ्गैः वम- निव च व्यर्थीभूतभुजोष्माणमायतैनिश्वसितैः, पातकीव, अपरा- धीव, द्रोहीव, मुषित इव, छलित इव, यूथपतिपतनविषण्ण इव वेगदण्डवारणः, सूर्यास्तमयनिःश्रीक इव कमलाकरः, दुर्योधननि- धनदुर्मना इव द्रौणिः, अपहृतरत्न इव सागरो राजद्वारमाजगाम । अवतीर्य च तुरङ्गमादवनतमुखो विवेश राजमन्दिरम् । दूरादेव च विमुक्ताक्रन्दः पपात पादयोः । अवनिपतिरपि दृष्ट्वा तमुत्थाय विरलैः पदैः प्रत्युद्गम्योत्थाप्य च गाढमुपगूह्य कण्ठे करुणमतिचिरं रुरोद । शिथीलीभूतमन्यु- वेगश्च पुरेव पुनरागत्य निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षालयत् । समतिक्रान्ते च कियत्यपि काले भ्रा- तृमरणवृत्तान्तमप्राक्षीत् । अथाकथयञ्च यथावृत्तमखिलं भण्डिः । अथ नरपतिस्तमुवाच-'राज्यश्रीव्यतिकरः कः' इति । स पुन- रवादीत्--'देव, देवभूयं गते देवे राज्यवर्धने गुप्तनाम्ना च गृ. हीते कुशस्थले देवी राज्यश्रीः परिभ्रश्य बन्धनाद्विन्ध्यादवीं स- परिवारा प्रविष्टेति लोकतो वार्तामशृणवम् । अन्वेष्टारस्तु तां प्रति प्रभूताः प्रहिता जना नाद्यापि निवर्तन्ते' इति । तच्चाकर्ण्य भूपतिरब्रवीत्-'किमन्यैरनुपदिभिः यत्र सा तत्र परित्यक्तान्य- कृत्यः स्वयमहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौ- डाभिमुखम् । इत्युक्त्वा चोत्थाय स्नानभुवमगात् । कारितशोक- श्मश्रुवपनकर्मणा च प्रतीहारभवनस्नातन, शारीरकवसनकुसुमा- ङ्गरागालंकारप्रेषणप्रकटितप्रसादेन, भण्डिना सार्धमभुक्त निनायं च तेनैव सह वासरम् । अथेत्यादिराजद्वारं भण्डिराजगामेति संबन्धः। श्मश्रुरिति । शोकवशेन ततो विक्षिप्तत्वाद्वा।
सप्तम उच्चासः। २२७ । अथापरेशुरुषस्येव भण्डि पालमुपसृत्य व्यज्ञापयत्-'पश्यतु देवः श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्ह मालवरा- जस्य' इति । नरपतिना स एवं क्रियताम्' इत्यभ्यनुज्ञातो दर्शयां- बभूव । तद्यथा-अनवरतगलितमदमदिरामोदमुखरमधुकरजूट- जटिलकरटपट्टपङ्किलगण्डान्, गण्डशैलानिव जङ्गमान, गम्भीरग- जितस्वाञ्जलधरानिव महीमवतीर्णानुत्फुल्लसप्तच्छदवनामोदमुचः, शरदिवसानिव पुञ्जभूतान्, अनेकसहस्रसंख्यान्करिणः, चारु- चामीकरचित्रचामरमण्डलमनोहरांश्च हरिणरंहसो हरीन्, बाला- तपविसरवर्षिणां च किरणैरनेकेन्द्रायुधीकृतदशदिशामलंकाराणां विशेषान्, विस्मयकृतः स्मरोन्मादितमालवीकुचपरिमलदुर्ललि- तांश्च निजज्योत्स्नापूरप्लावितदिगन्तानपि तारान्हारान्, उडुप- तिपादसंचयशुचीनि निजयशांसीव बालव्यजनानि, जातरूपमय- नालं च निवासपुण्डरीकमिव श्रियः श्वेतातपत्रम् , अप्सरस इव बहुसमररससाहसानुरागावतीर्णा वारविलासिनीः, सिंहासनशय- नासंदीप्रभृतीनि राज्योपकरणानि, कालायसनिगडनिश्चलीकृत- चरणयुगलं च सकलं मालवराजलोकमशेषांश्च ससंख्यालेख्यप- त्रान, सालंकारापीडपीडान्, कोषकलशान् । अथालोच्य तत्स- र्वमवनिपालः स्वीकतु यथाधिकारमादिक्षध्यक्षान् । अन्यस्मिंश्चा- हनि हयैः खसारमन्वेष्टुमुच्चचाल विन्ध्याटवीमवाप च परिमितै- रेव प्रयाणकैस्ताम् । अथ प्रविशन्दूरादेव दह्यमानषष्टिकबुसविसरविसारिविभाव- सूनां वन्यधान्यबीजधानीनां धूमेन धूसरिमाणमादधानः, शुष्क- शाखासंचयरचितगोवाटवेष्टितविकटवटैः, व्यापादितवत्सरूपक- रोषरचितव्याघ्रयन्त्रैः, यन्त्रितवनपालहठह्रियमाणपरग्रामीणकाष्टि- ककुठारैः, गहनतरुषण्डनिर्मितचामुण्डामण्डपैर्वनप्रदेशैः, प्रकाशमा- नमटवीप्रायप्रान्ततया कुटुम्बभरणाकुलैः,कुद्दालप्रायकृषिभिः कृषी- वलैरबलवद्भिरुच्चभागभाषितेन भज्यमानभूरिशालिखलक्षेत्रखण्ड- लकमल्पावकाशैश्च कापिलैः, कालायसैरिव कृष्णमृत्तिकाकठिनैः, स्थानस्थानस्थापितस्थाणूत्थितस्थूलपल्लवैः दुरुपगमश्यामाकप्ररूढि- भिरलम्बुसबहुलैः, अविरहितकोकिलाक्षक्षुपैर्विरलविरलैः केदारैः, २२८ हर्षचरिते कृच्छ्रकृष्यमाणैर्नातिप्रभूतप्रवृत्तगतागताप्रहतभुवमुपक्षेत्रमुपरचितै- रुच्चैर्मश्चैश्च सूच्यमानश्वापदोपद्रवं दिशि दिशि च प्रतिमार्गद्रुम- कृतानां पथिकपादप्रस्फोटनधूलिधूसरैर्नवपल्लवैाञ्छितच्छायाना- म्, अटवीसुलभसालकुसुमस्तबकाञ्चितनवखातकूपिकोपकण्ठप्रति- ष्ठितनागस्फुटानामच्छिद्रकटकल्पितकुटीरकाणाम्, कुटिलकीटवे- णीवेष्ट्यमानशक्तुशारशरावश्रेणीश्रितानामध्वगजनजग्धजम्बूफला- स्थिशबलसमीपभुवामुद्धूलितधूलीकदम्बस्तबकप्रकरपुलकिनीनाम्, कण्टकितकर्करीचक्राकान्तकाष्ठमञ्चिकामुषिततृषाम्, तिम्यत्तल- शीतलशिकतिलकलशीशमितश्रमाणामाश्यानशैवलश्यामलितालि- जरजायमानजलजडिम्नामुदकुम्भाकृष्टपाटलशर्कराशकलशिशिरी- कृतदिशाम्, घटमुखघटितकटहारपाटलपुष्पपुटानाम्, शीकर- पुलकितपल्लवपूलीपाल्यमानशोष्यसरसशिशुसहकारफलजूटीजटि- लस्थाणूनाम्, विश्राम्यत्कार्पटिकपेटकपरिपाटीपीयमानपयसाम- टवीप्रवेशप्रपाणां शैत्येन त्याजयन्तमिव ग्रैष्ममुष्माणं कचिदन्यत्र ग्राहयन्तमिवाङ्गारीयदारुसंग्रहदाहिभिः व्योकारैः, सर्वतश्च प्रा- तिवेश्यविषयवासिना समासन्नग्रामगृहस्थापितस्थविरपरिपाल्यमा- नपाथेयस्थगितेन कृतदारुणदारुव्यायामयोग्याङ्गाभ्यङ्गेन स्कन्धा- ध्यासितकठोरकुठारकण्ठलम्बमानप्रातराशपुटेन पाटञ्चरप्रत्यवाय- प्रतिपन्नपटच्चरेण कालवेत्रकत्रिगुणव्रततिवलयपाशग्रथितग्रीवाग्र- थितैः पत्रवीटावृतमुखैः, पीतकूटैरूढवारिणा पुरःसरवलदलीवर्द- युगसरेण नैकटिककुटुम्बिकलोकेन काष्ठसंग्रहार्थमटवीं प्रविशता श्वापदव्यधनव्यवधानबहलीसमारोपितकुटीकृतकूटपाशैश्च गृहीत- मृगतन्तुतबीजालवलयवागुरैः, बहिधैिर्विचरद्भिरंसावसक्तवी- तसव्यालम्बमानबालपाशिकैश्च संगृहीतग्राहकक्रकरकपिञ्जलादिप- खरकैः शाकुनिकैः, संचरद्भिश्युतलासकलेशलिप्तलतावधूलालम्प- टानां चपेटकैः, पाशकशिशूनामटद्भिः, तृणस्तम्बान्तरिततित्ति- रितरलायमानकौलेयककुलचाटुकारैश्च विहगमृगयां मृगयुयुवभिः क्रीडद्भिः, परिणतचक्रवाककण्ठकषायरुचां शीधव्यानां वल्कलानां कलापान्, नातिचिरोद्धृतानां च धातुत्विषां धातकीकुसुमानां गो- णीरगणिताः पिचव्यानां चातसीगणपट्टमूलकानां पुष्कलान्संभा- सप्तम उच्छासः २२९ , रान, भारांश्च मधुनो माक्षिकस्य मयूराङ्गजस्याक्लिष्टमधूच्छिष्टच- क्रमालानां लम्बमानलामज्जकजूटजटानामपत्वचां खदिरकाष्ठानां कुष्ठस्य कठोरकेशरिसटाभारबभ्रुणश्च रोध्रस्य भूयसो भारकान, लोकेनादाय ब्रजता प्रविचितविविधवनफलपूरितपिटकमस्तकाभि- श्वाभ्यर्णग्रामगत्वरीभिस्त्वरमाणाभिर्विक्रयचिन्ताव्यग्राभिमेयिका- भिर्व्याप्तदिगन्तरमितस्ततश्च युक्तशूरशकुरशाकराणां पुराणपांसू- त्किरकरीषकूटवाहिनीनां धूर्गतधूलिधूसरसैरिभसरोषस्वरसार्यमा- णानां संक्रीडच्चटुलचक्रचीत्कारिणीनां शकटश्रेणीनां संपातैः, संपाद्य- मानदुर्बलोर्वीविरूक्षक्षेत्रसंस्कारमारक्षक्षिप्तदान्तवाहकदण्डोड्डीयमा- नहरिणहेलालजिततुङ्गवैणववृत्तिभिश्च निखातगौरकरङ्कशङ्कशङ्कित- शशकशकलिततुङ्गशुङ्गैः, प्रयत्नप्रभृतविशङ्कटविटपैर्वाटेरैक्षवैर्बहुभिः श्यामायमानोपकण्ठमतिविप्रकृष्टान्तरैर्मरकतस्निग्धस्नुहावाटवेष्टि- तैः, कार्मुककर्मण्यवंशविटसंकटैः, कण्टकितकरञ्जराजिदुष्प्रवे- श्यैः, उरुबूकवचावङ्गकसुरससूरणशिग्रुग्रन्थिपर्णगवेधुकागर्मुद्गुल्मग- हनगृहवाटिकैः, निखातोच्चकाष्ठारोपितकाष्ठालुकलताप्रतानविहित- च्छायैः, परिमण्डलबदरीमण्डपकतलनिखातखादिरकीलबद्धवत्सरू- मधुनः क्षौद्रस्य । मयूराङ्गजस्य बर्हिपिच्छस्य । मधूच्छिष्टं सिक्थकम् । लामज- कमिति । लामज्जकं लघुलयम्' इत्यमरः। उशीरभेद इत्यन्ये । बभ्रुणः कपिलस्य। रोधस्येति। रोध्रो लोध्रः। शाबरकः 'शिल्लकः शिल्लकस्तरः । तिरीट: कानही- रश्च शिल्लो शाबरपादपः । शकुरास्तरुणाः। शाक्करा बलीवर्दाः । करीषं शुष्कगो- मयम् । उक्तं च-'गोविङ्गोमयमन्त्रियाम् । तत्तु शुष्कं करीषोऽस्त्री' इति । सैरिको हालिकः । संक्रीडत्कूजत् । वृतिाटोपान्ते लताकृतः प्राकारमयः। करङ्कः क- कालः। तदुपलक्षिताः शङ्कवः शुङ्गोऽग्रभागः । वृतिरित्यन्ये । प्रभृताः पोषिताः। विशङ्कटा विस्तीर्णाः । विटपाः शाखाः । अतिविप्रकृष्टेत्यादि अटवी कुटुम्बिनां गृहैरुपेतमिति वनग्रामविशेषणम् । स्नुहा सुधावृक्षः। उक्तं च-झुक्नुहा च सु- घावृक्षः शुंभो निस्त्रिंशपत्रकः । समन्तदुग्धी गण्डोरी सेहुण्डो वज्रकन्दकः ॥' इति । कर्मणि साधुः कर्मण्यः। करजो नक्तमालः । उक्तं च-करजो नक्तमाल: स्यात्प्रतीतश्चिरबिल्वकः' इति। उरुबूक एरण्डः । उक्तं च-'उरुबूकस्तथैरण्डो रुचको वातनाशनः। पञ्चाङ्गुलो वर्धमानचित्रो गन्धर्वपात्तथा ॥' वचा उग्रगन्धा । उक्तं च -'वचोग्रगन्धा गोलोमी जाटिलो ग्रासलोमशा' इति । वनको हरित- कविशेषः । सुरसा भूतनी । उक्तं च-'सुरसा तुलसी द्रुः स्यादलसो बहुमञ्जरी। अपतो राक्षसो गौरी भूतनी देवदुन्दुभिः। इति । सूरणः कन्दविशेषः । शिग्रुः सौ- - ।
हर्षचरिते पैः; कथमपि कुक्कुटरटितानुमीयमानसंनिवेशैरङ्गनाशस्तिस्तम्भतल- विरचितक्षिप्रपूपिकावापिकैविकीर्णबदरपाटलपटलैः, वेणुपोटदल- नलशरमयवृतिविहितभित्तिभिः, किंशुकरोचनारचितमण्डलमण्ड- पबल्वजबद्धाङ्गारराशिभिः, शाल्मलिफलतूलसंचयबहुलैः, संनिहि- तनलशालिशालूकखण्डकुमुदबीजवेणुतण्डुलैः, संगृहीतमालबीजैः, भस्ममलनम्लानकाश्मर्यकूटव्याधृतकटैराश्यानराजादनमदनफल- स्फीतैर्मधूकासवमद्यप्रायैः, कुसुम्भकुम्भगण्डकुसूलैरविरहितराज- माषत्रपुषकर्कटिकाकूष्माण्डालाबुबीजैः, पोष्यमाणवनबिडालमा- लुधाननकुलशालिजातजातकादिभिरटवीकुटुम्बिनां गृहैरुपेतं वन- ग्रामकं ददर्श तत्रैव चावसदिति । इति श्रीबाणभट्टकृतौ हर्षचरिते छत्रलब्धिर्नाम सप्तम उछासः। भाञ्जनः। उक्तं च-'सौभाञ्जनः कृष्णगन्धा मुखभञोऽथ शिग्रुकः' इति । ग्रन्थिपर्ण मुस्ताकारः सुगन्धिः कन्दविशेषः। उक्तं च-'ग्रन्थिपर्णोऽशुकं बर्हिपुष्पं स्थाणेय- कुन्दुरे' इति ।गवेधुका तृणधान्यभेदः।गर्मुल्लतागुल्मः। 'अप्रकाण्डे स्तम्बगुल्मौ' इति काष्ठालुकलता अलाबुवल्ली । खल्पावत्सा वत्सरूपा । संनिवेशो रचना । अगस्ति- मुंनितरुः । पक्षिपूपिका पक्षाणां वेत्रवलानिभाण्डभेदाः। पोटः शकलः। किंशुकानि पलाशवृक्षपुष्पाणि । बल्वजास्तृणभेदाः । बन्धकाष्ठा इति प्रसिद्धाः। शाल्मली रक्तपुष्पा । उक्तं च-'शाल्मली रक्तपुष्पा च कुकुटी स्थिरजीविता । पि- च्छिला तूलिनी मोचा कण्डूकाड्या सुपूरिणी ॥' इति । तूलं कर्पासः । नलशालिः शालिभेदः । शालूकं पद्ममूलम् । उक्तं च-'पद्ममूलं तु शालूकं सकिलं तत्किरात- कम्। शालीनं पद्मकन्दं च जालालूकं निगद्यते॥' इति । काश्मयः कश्मीरीहीरः। काश्मीरी मधुमत्यपि । श्रीपर्णी सर्वतोभद्रा गाम्भीरी कृष्णमृत्तिका ॥' इति । कूटाः कुनालानि । राजादनः कपीष्टः । उक्तं च-क्षीरोदकस्तु राजन्यः क्षीरमृत्लः कपीनृपः । राजादनो दृढस्कन्धः कपीष्टः प्रियदर्शनः ॥' इति । मदनो रोधः । उक्तं च-'मदनः शल्यको रोधः गालः पिण्डीतकः फलम् । भसरः करहाटश्च सुमनोऽतिसुपुष्पकः॥' इति। मधूको गुडपुष्पः। उक्तं च-'गुडपुष्पो रोध्रपुष्पो मालप्रस्थोऽथ माधवः' इति । राजमाषो निष्पावः । त्रसं लाडकः । कार्कटि- कादयः प्रसिद्धाः । मालुधाना मालकावधाख्याः प्राणिभेदाः, नकुलादयश्च । इति श्रीशंकरकविरचिते हर्षचरितसंकेते सप्तम उछासः । । ।
अष्टम उच्छ्वासः। २३१ अष्टम उच्छ्वासः। सहसा संपादयता मनोरथप्रार्थितानि वस्तूनि । दैवेनापि क्रियते भव्यानां पूर्वसेवेव ॥ १ ॥ विद्वज्जनसंपर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः । कस्य न सुखाय भवने भवति महारत्नलाभश्च ॥ २ ॥ अथापरेधुरुत्थाय पार्थिवस्तस्माद्रामकान्निर्गत्य विवेश विन्ध्या- टवीम् । आट च तस्यामितश्चेतश्च सुबहून्दिवसान् । एकदा तु * भूपतेर्भमत एवाटविकसामन्तशरभकेतोः सूनुर्व्याघ्रकेतुर्नाम कु- तोऽपि कज्जलश्यामलश्यामलतावलयेनाधिललाटमुच्चैः कृतमौलिब- न्धम् , अन्धकारिणीमकारणभुवा भ्रुकुटिभङ्गेन त्रिशाखेन त्रि- यामामिव साहससहचारिणी ललाटस्थली सदा समुद्वहन्तम्, अव- तंसितैकशुकपक्षकप्रभाहरितायमानेन पिनद्धकाचरकाचमणिकर्णि- केन श्रवणेन शोभमानम्, किंचिचुल्लस्य प्रविरलपक्ष्मणश्चक्षुषः सहजेन रागरोचिषा रसायनरसोपयुक्तं तारक्षवं क्षतजमिव क्षर- न्तम् , अवनाटनासिकम् , चिपिटाधरम् , चिकिनचिबुकम् , अहीन- हनूत्कटकपोलकूटास्थिपर्यन्तमीषदवाग्रग्रीवाबन्धम् , स्कन्नस्कन्धाध- भागम् , अनवरतकोदण्डकुण्डलीकरणकर्कशव्यायामविस्तारितेना- सहसेत्यादियुगलकेन श्रीहर्षाभ्युदयशिवाकारमित्रराज्यश्रीप्राप्त्येकावलीलाभा- न्सूचयति । भव्यानां पूर्वसेवा दैवेन शुभसंपादनेन । शुभाभ्यासभावितचिन्ता भूयोऽपि क्रियत इति प्रतिपाद्यते । एकदा लित्यादौ व्याघ्रकेतुर्नाम कुतोऽपि शबरयुवानमादाय भूपतेरर्थात्समीप माजगामेति संबन्धः । अटव्यां भव आटविकः । श्यामा गन्धप्रियङ्गुः । मौलयः केशाः । अन्धकारिणी कृष्णाम् । त्रिशाखेन त्रिरेखेन । पिनद्धो बद्धः । काचरस्य कपिलस्य । काचमणेः कर्णिका यत्र तत्तेन । चुल्लश्चिल्लः । उक्तं च--'स्युः क्लिन्नाक्षे चुलचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी' इति । 'तरक्षुस्तु मृगादनः । आरण्यश्चेत्यर्थः। तस्येदं तारक्षवम् । तच्च क्वचिद्रसायनेनोपयुज्यते। अवनाटो निनः । चिपिटः स्थूलः, ईषल्लवश्च । चिकिनं स्थूलेषद्वम् । चिबुकमधराधः । उक्तं च-अप- स्ताच्चिबुकं गण्डो कपोलौ तत्परा हनुः' इति । अवाग्रावनता । ग्रीवा कंधरा । स्कन्नः शुष्कः, लम्बमानो वा, उन्नतो वा । 'स्कन्धो भुजशिरोंऽसोऽस्त्री । अंसलेन बलवता । उरसा वक्षसा । अजगरः सर्पभेदः । द्राघिमाणं दीर्घत्वम् । वराहः सूकर । नागदमनो विषहर ओषधिभेदः । जूटिका लघुमूलम् । वाटिकाः पूल्यः । गोदन्तः E २३२ हर्षचरिते सलेनोरसा हसन्तमिव तटशिलाप्रथिमानम् , विन्ध्यगिरेरजगरगरी- यसा च भुजयुगलेन लघयन्तम् ,तुहिनशैलशालद्रुमाणां द्राघिमाणम, वराहवालवलितबन्धनाभिर्नागदमनजूटिकावाटिकाभिर्जटिलीकृत- पृष्ठे प्रकोष्ठे प्रतिष्ठां गतं गोदन्तमणिचित्रं त्रापुष वलयं बिभ्राणम्, अ- तुन्दिलमपि तुण्डिभम् , अहीरमणीचर्मनिर्मितपट्टिकयोश्चित्रचित्रक- त्वक्तारकितपरिवारया संकुब्जाजिनजालकितया शृङ्गमयममृणमु- ष्टिभागभास्वरया पारदरसलेशलिप्तसमस्तमस्तकया कृपाण्या करा- लितविसंकटकटिप्रदेशम् , प्रथमयौवनोल्लिख्यमानमध्यभागभ्रष्टमां- सभरिताविव स्थवीयसावूरुदण्डौ दधतम् , अच्छभल्लचर्ममयेन भ- ल्लीप्रायप्रभूतशरभृता शवलशार्दूलचर्मपटपीडितेनालिकुलकालकम्ब- ललोना पृष्ठभागभाजा भस्त्राभरणेन पल्लवितमिव कार्यमुपदर्श- यन्तम् , उत्तरत्रिभागोत्तंसितचापपिच्छचारुशिखरे खदिरजटा- निर्माणे खरप्राणे प्रचुरमयूरपित्तपत्रलताचित्रितत्वचि त्वचि सार- गुरुणि वामस्कन्धाध्यासितधनुषि दोषि लम्बमानेनावाक्शिरसा शितशरकृत्तैकनलकविवरप्रवेशितेतरजवाजनितस्वस्तिकबन्धेन ब- न्धूकलोहितरुधिरराजिरञ्जितघ्राणवर्त्मना वपुर्विततिव्यक्तविभाव्य- मानकोमलक्रोडरोमशुक्लिम्ना शशेन शिताटनीशिखाग्रप्रथितग्रीवेण चापावृतचञ्चूत्तानताम्रतालुना तित्तिरिणा वर्णकमुष्टिमिव मृग- याया दर्शयन्तम्, विषमविषदूषितवदनेन च विवर्णेन कृष्णाहि- नेव मूलगृहीतेन व्यग्रदक्षिणकराग्रम्, जङ्गममिव गिरितटतमाल- पादपम् , यत्रोल्लिखितमश्मसारस्तम्भमिव भ्रमन्तम् , अञ्जनशिला- च्छेदमिव चलन्तम् , अयःसारमिव गिरेविन्ध्यस्य गलन्तम् , पा- कलं करिकुलानाम्, कालपाशं कुरङ्गयूथानाम् , धूमकेतुं मृगरा- जचक्राणाम् , महानवमीमहं महिषमण्डलानाम्, हृदयमिव हिं- पापस्य, कारणमिव कलिकालस्य, कामुकमिव कालरात्रे:, शबरयुवानमादायाजगाम । दूरे च स्थापयित्वा वि- ज्ञापयांबभूव-'देव, सर्वस्यास्य विन्ध्यस्य स्वामी सर्वपल्लीपतीनां सर्पभेदः। त्रपुणो विकारस्नापुषम् । 'त्रपुजतुनोः षुक्'।अतुन्दिलं कृशोदरम् । तुण्डि- भं बृहन्नाभिकम् । 'तुन्दिवल्लिवाटेर्भः' । स हि व्यायामवशात्क्षाममध्य उन्नतनाभि- साया:, फलमिव पापस्य, अष्टम उच्छासः। २३३ प्राग्रहरः शबरसेनापतिर्भूकम्पो नाम । तस्यायं निर्यातनामा स्व. स्त्रीयः सकलस्यास्य विन्ध्यकान्तारारण्यस्य पर्णानामप्यभिज्ञः कि- मुत प्रदेशानाम् । एनं पृच्छतु देवः योग्योऽयमाज्ञां कर्तुम् ।' इति कथिते च निर्घातस्तु क्षितितलनिहितमौलिः प्रणाममकरोदुप- निन्ये च तित्तिरिणा सह शशोपायनम् । अवनिपतिस्तु संमान- यन्स्वयमेव तमप्राक्षीत्-'अङ्ग, अभिज्ञा यूयमस्य सर्वस्योद्देशस्य । विहारशीलाश्च दिवसेष्वेतेषु भवन्तः । सेनापतेर्वान्यस्य वा तद- नुजीविनः कस्यचिदुदाररूपा नार्यागता भवेदर्शनगोचरम्' इति । निर्घातस्तु भूपालालापनप्रसादेनात्मानं बहुमन्यमानः प्रणनाम दर्शितादरं च व्यज्ञापयत्-'देव, प्रायेणात्र हरिण्योऽपि नापरि- गताः संचरन्ति सेनापतेः कुत एव नार्यों नाप्येवंरूपा काचिद- बला । तथापि देवादेशादिदानीमन्वेषणं प्रति प्रतिदिनमनन्यकृत्यैः क्रियते यत्नः । इतश्चार्धगव्यूतिमात्र एव मुनिमहिते महति मही- धरमालामूलरुहि महीरुहां षण्डे पिण्डपाती प्रभूतान्तेवासिपरि- वृतः पाराशरी दिवाकरमित्रनामा गिरिनदीमाश्रित्य प्रतिवसति स यदि विन्देद्वार्ताम्' इति । तच्छ्रुत्वा नरपतिरचिन्तयत्-'श्रू- यते हि तत्रभवतः सुगृहीतनाम्नः स्वर्गतस्य ग्रहवर्मणो तालमित्रं मैत्रायणीयत्रयीं विहाय ब्राह्मणायनो विद्वानुत्पन्नसमाधिः सौगते मते युवैव काषायाणि गृहीतवान्' इति । प्रायशश्च जनस्य जन- यति सुहृदपि दृष्टो भृशमाश्वासम् । अभिगमनीयाश्च गुणाः स- र्वस्य । कस्य न प्रतीक्ष्यो मुनिभावः । भगवती वैधेयेऽपि धर्म- गृहिणी गरिमाणमापादयति प्रव्रज्या किं पुनः सकलजनमनोमुषि विदुषि जने । यतो नः कुतूहलि हृदयमभूत्सततमस्य दर्शनं प्रति प्रासङ्गिकमेवेदमापतितमतिकल्याणं पश्यामः प्रयत्नप्रार्थितदर्शनं जनमिति । प्रकाशं चाब्रवीत्-'अङ्ग, समुपदिश तमुद्देशं यत्रास्ते स पिण्डपाती' इति । एवमुक्त्वा च तेनैवोपदिश्यमानवा प्रा- । वर्तत गन्तुम् । स्तुण्डिभः। अहीरमणी नामा द्विवक्रः। चित्रकच्छायया गन्धतोऽप्यपरसपत्रासकः । पाराशरी भिक्षुः । विन्देल्लभेत । मैत्रायणीयः शाखाया अध्येता । 'ऋग्यजुः- सामनामाथ त्रयी वेदास्त्रयः स्मृताः । ब्राह्मणायनो द्विजवरिष्ठः । समाधिरेका- २३४ हर्षचरिते स वर पृा तु अथ क्रमेण गच्छत एव तस्य अनवकेशिनः, कुड्मलितकर्णि- काराः, प्रचुरचम्पकाः, स्फीतफलेग्रहयः, फलभरभरितनमेरवः, नीलदलनलदनारिकेलनिकराः, हरिकेसरसरलपरिकराः, कोरक- निकुरम्बरोमाञ्चितकुरबकराजयः, रक्ताशोकपल्लवलावण्यलिप्यमा- नदशदिशः, प्रविकसितकेसररजोविसरबध्यमानचारुधूसरिमाणः, स्वरजः सिकतिलतिलकतलाः, प्रविचलितहिङ्गवः, प्रचुरपूगफलाः, प्रसवपूगपिङ्गप्रियङ्गवः, परागपिञ्जरितमञ्जरीपुश्यमानमधुपमञ्ज- शिखाजनितजनमुदः,मदमलमेचकितमुचुकुन्दस्कन्धकाण्डकथ्यमा- ननिःशङ्ककरिकरटकण्डूतयः, उड्डीयमाननिःशङ्कचटुलकृष्णशारशा- वसकलशाद्वलसुभगभूमंयः, तम:कालतमतमालमालामीलितातपाः, स्तबकदन्तुरितदेवदारवः, तरलताम्बूलीस्तम्बजालकितजम्बूजम्बी- रखीथयः, कुसुमरजोधवलधूलीकदम्बचक्रचुम्बितव्योमानः, बहल- मधुमोक्षोक्षितक्षितयः, परिमलघटितघ्राणतृप्तयः, कतिपयदिवस- सूतकुक्कुटीकुटीकृतकुटजकोटराः, चटकासंचार्यमाणवाचाटचाट- लि स नि ग منا । TA । ग्रता । अभिगमनाही अभिगमनीयाः। प्रतीक्ष्यः पूज्यः । वैधेये मूर्खे । उक्तं च- 'अज्ञे मूर्खे यथा जातमूर्खवैधेयबालिशाः' इति । अथ क्रमेण गच्छत एवास्यैवंविधास्तरवो दर्शनमवतेरुरिति संबन्धः । अवकेशी निष्फलतरुः । उक्तं च-'वन्ध्योऽफलोऽवकेशी च कर्णिकारो द्रुमोत्पलः । परि- व्याधः' इति पर्यायः । स्यादवन्ध्यः फलेग्रहिः । नमेरुस्तरुभेदः । 'नलदः सल्लकी मांसा नारिकेलस्तु लाइली' इत्यमरः । हरिकेसरः । उक्तं च-'वास्येयः केसरो नागकेसरः काञ्चनाह्वयः' । सरला देवदारवः । कोरकः कलिका कुरबका ये योषि- तामालिङ्गनैः पुष्यन्ति ।रक्ताशोका ये सालक्तककामिनीचरणाहताः फुल्लन्ति । के- सरा बकुलाः । ये कान्तागण्डूषशीधुसेकेन विकसन्ति । तिलकाः क्षुरकाः । ये प्र- सादितकामिनीदर्शनमात्रेण कुसुमिताः संपद्यन्ते। हिङ्गु रामठम् । उक्तं च-'स- हस्रवेधि जतुकं बाह्रीकं हिङ्गु रामठम्' इति । पूगः क्रमुकवृक्षः । प्रसवपूगाः पूग- फलसमूहाः । प्रियङ्गुः श्यामालता। 'श्यामा तु वनिताहया । लता गोवर्धनी गुन्द्रा प्रियङ्गुः फलिनी फली। विष्वक्सेना गन्धफली कारम्भः प्रियकश्च सः॥' पुज्यमानः संह्रियमाणः । मुचुकुन्दाः पुष्पतरुभेदाः । करटौ गण्डौ। तमालस्तापिच्छः । उक्तं च-'शक्रपादपः पारिभद्रकः । भद्दारु द्रुकिलिमं पीतदारु च दारु च । पूतिकाष्ठं च सप्त स्युर्देवदारुणि' इति । ताम्बूली नागवल्ली। जम्बू वृक्षभेदः। जम्भीरा दन्त- शठाख्याः। उक्तं च-'स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः' इति । 'समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः । जम्भीरे' इति । धूलीकदम्बाख्या प्रैष्मिका वृक्ष- । - । - ।
अष्टम उच्छासः । २३५ केरक्रियमाणचाटवः, सहचरीचारणचञ्चुरचकोरचञ्चवः, निर्भय- भूरिभुरुण्डभुज्यमानपाककपिलपीलवः, सदाफलकट्फलफलविश- सननिःशूकशुकशकुन्तशातितशलाटवः, शैलेयसुकुमारशिलातल- सुखशयितशशशिशवः, शेफालिकाशिफाविवरविस्रब्धविवर्तमा- नगोधेरराशयः, निरातङ्करङ्कवः, निराकुलनकुलकेलयः, कोकिलकुलकवलितकलिकोद्गमाः, सहकारारामरोमन्थायमानच- मूरुयूथाः, यथासुखनिषण्णनीलाण्डजमण्डलाः, निर्विकारवृकवि- लोक्यमानपोतपीतगवयधेनवः, श्रवणहारिसनीडगिरिनितम्बनि- झरनिनादनिद्रानन्दमन्दायमानकरिकुलकर्णतालदुन्दुभयः, समास- नकिन्नरीगीतरवरसमानरुरवः, प्रमुदिततरतरक्षवः क्षतहरितहरि- द्राद्रवरज्यमाननववराहपोतपोत्रवलयः, गुजाकुञ्जगुञ्जजाहकाः, जातीफलकसुप्तशालिजातकवलयः, दशनकुपितकपिपोतपेटकपा- टितपाटलकीटपुटकाः, लकुचलम्पटगोलाफूललङ्घयमानलवलयः, बद्धवालुकालवालवलयाः, कुटिलकुटावलिवलितवेगगिरिनदिका- स्रोतसः, निबिडशाखाकाण्डलम्बमानकमण्डलवः, सूत्रशिक्यासक्त- रिक्तभिक्षाकपालपल्लवितलतामण्डपाः, निकटकुटीकृतपाटलमुद्राचै- त्यकमूर्तयः, चीवराम्बररागकषायोदकदूषितोद्देशाः, मेघमया इव कृतशिखण्डिकुलकोलाहलाः, वेदमया इवापरिमितशाखाभेदगहनाः, माणिक्यमया इव महानीलतनवः, तिमिरमया इव सकलजनन- । । । भेदाः । कुटजो गिरिमल्लिका । उक्तं च-'कुटजो गिरिमल्लिका' इति । चटकाया अपत्यानि चाटकेराः । चारणं भोजनम् । चञ्चुरा निपुणाः । भुरुण्डाः पक्षिभेदाः। पीलुफलं संसीकम् । कट्फलः श्रीपर्णाख्यो वृक्षः । उक्तं च-'श्रीपर्णिका कुमुदिका कुम्भी कैदर्यकट्फलौ' इति । विशसनं भेदनम् । निःशूको निर्दयः । शलान्यप- क्वानि फलानि। उक्तं च-'आमे फले शलाटुः स्यात्' इति । शिलासु भवं शैलेयम्। शेफलिका लताभेदः । 'स्त्रियां गौधेरगोधारगोधेया गोधिकात्मजा' इति । रङ्कवो मृगभेदाः । सहकार आम्रः । उक्तं च-'आम्रश्तो रसालोऽसौ सहकारोऽतिसौ- रभः' इति । रोमन्थायमाना उद्गीर्य चर्वन्तः । चमरा मृगविशेषाः । नीलाण्डजा मृगभेदाः । वृका आरण्यश्वानः । पोतः शिशुः । 'पोतः पाकोऽर्भको डिम्भः पृ- थुकः शावकः शिशुः' इति । गवया गोसदशाः प्राणिभेदाः । 'तरक्षुस्तु मृगादनः' हरिद्रा पीतद्दुः । उक्तं च–'अथ पीतद्रुः कालेयकहरिद्रवाः । दावी पचंपचा दारु हरिद्रा पर्जनीयपि ॥' वराहः सूकरः। पोत्रं सूकरमुखम् । गुञ्जा रक्तिका । जाहकाः २ हर्षचरिते। स य व पृ व यनमुषः, यामुना इवोर्वीकृतमहाहदाः, मरकतमणिश्यामलाः क्री- डापर्वतका इव वसन्तस्य, अञ्जनाचला इव पल्लविताः तनया इ. वाटवीजाता विन्ध्यस्य, पातालान्धकारराशय इव भित्त्वा भुवमु- त्थिताः प्रतिवेशिका इव वर्षावासराणाम् , अंशावतारा इव कृष्ण- रात्रीणाम् , इन्द्रनीलमया: प्रासादा इव वनदेवतानाम् , पुरस्ता- दर्शनपथमवतेरुस्तरवः ततो नरपतेरभवन्मनस्यदूरवर्तिना खलु भवितव्यं भदन्तेनेति । अवतीर्य च गिरिसरिति समुपस्पृश्य युगपद्विश्रामसमयसमुन्मुक्त- हेषाघोषबधिरीकृताटवीगहनामस्मिन्नेव प्रदेशे स्थापयित्वा वाजिसे- नामवलम्ब्य च तपस्विजनदर्शनोचितं विनयं हृदयेन दक्षिणेन च हस्तेन माधवगुप्तमंशे विरलैरेव राजभिरनुगम्यमानश्चरणाभ्यामेव I + ah प्रावर्तत गन्तुम् । अथ तेषां तरूणां मध्ये नानादेशीयैः स्थानस्थानेषु स्थाणूना- श्रितैः शिलातलेषूपविष्टैलताभवनान्यध्यावसद्भिररण्यानीनिकु जेषु निलीनैविटपच्छायासु निषण्णैस्तरुमूलानि निषेवमाणैर्वीतरागैरा- हतैर्मस्करिभिः श्वेतपटैः पाण्डुरिभिक्षुभिर्भागवतैर्वणिभिः केशलु- ञ्चनैः कापिलैजैंनैर्लोकायतिकैः काणादैरौपनिषदैरैश्वरकारणि- कैः कारन्धमिभिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शाब्दैः शालिजातकाश्च प्राणिभेदाः । पाटलाः कीटाः । पुटकाः आलयाः। 'लकुचो लि- कुचो डुहुः' इत्यमरः । गोलाङ्गूलाः कृष्णमुखवानराः । लवलयो लताभेदः । क- मण्डलुर्मुनिजलभाण्डम् । शिक्यं भिक्षाभाजनम् । जालिका निकटकुटीषु कृताः । मुद्रया कृतानामल्पचैत्यानां मूर्तयो येषु । शाखा लताः, कठाद्याश्च । महानीला अत्यन्तकृष्णाः, महानीलाश्च प्राणिभेदाः । नयनमुषो रम्यलात्, प्रकाशनाच्च । प्रतिप्रसवकाः प्रतिच्छन्दकाः । भदन्त इति सौगतप्रतिमानां पूजावचनमुद्यानमित्यन्ये । अथेत्यादौ तरूणांमध्ये दिवाकरमद्राक्षीदिति संबन्धः। नानादेशीयैतिरागैरिति चाहतैरित्यादीनां सर्वेषां विशेषणम्। स्थाणूनाश्रितैरित्यादि। तु केषांचित्। स्थाणूरस्त्री ध्रुवः शङ्खः' इत्यमरः। 'महारण्यमरण्यानी विस्तारो विटपोऽस्त्रियाम् इत्यमरः । 'मू- लं बुध्न्योऽङ्गिनामकः। अहंन्देवता येषां ते आर्हतास्तैनग्नक्षपणकैः । मस्करिभिः प- मित्राजकैः । श्वेतपटैः श्वेतोर्णाकम्बलीवासोभिः, नग्नक्षपणभेदैः । पाण्डुरिभिक्षुभि- स्त्यक्तकाषायैः । भागवतैर्विष्णुभक्तैः । वर्णिभिर्ब्रह्मचारिभिः । केशलुञ्चनैर्यथार्थ अष्टम उच्छवासः। २३७ पाश्चरात्रिकैरन्यैश्च स्वान्स्वान्सिद्धान्ताशृण्वद्भिरभियुक्तैश्चिन्त- यद्भिश्च प्रत्युञ्चरद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च व्युत्पादयद्भि- श्व विवदमानैश्चाभ्यस्यद्भिश्च व्याचक्षाणैश्च शिष्यतां प्रतिपन्न- र्दूरादेवावेद्यमानम्, अतिविनीतैः कपिभिरपि चैत्यकर्म कुर्वाणै- स्त्रिसरणपरैः परमोपासकैः शुकैरपि शाक्यशासनकुशलैः कोशं समुपदिशद्भिः शिक्षापदोपदेशोपशमशालिनीभिः शारिकाभिरपि धर्मदेशनां दर्शयन्तीभिरनवरतश्रवणगृहीतालीकैः कौशिकैरपि बोधिसत्त्वजातकानि जपद्भिर्जातसौगतशीलशीतलस्वभावैः शा- Vलैरप्यमांसाशिभिरुपास्यमानम्, आसनोपान्तोपविष्टविस्रब्धाने- ककेसरिशावकतया मुनिपरमेश्वरम्, अकृत्रिम इव सिंहास- ने निषण्णम्, उपशममिव पिबद्भिर्वनहरिणैर्जिह्वालताभिरुपलि- ह्यमानपादपल्लवम्, वामकरतलनिविष्टेन नीवारमश्नता पारावत- पोतेन कर्णोत्पलेनेव प्रियां मैत्री प्रसादयन्तम् , इतरकरकिसलय- नखमयूखलेखाभिर्जनितजनव्यामोहम्, उग्रीवं मयूरं मरकतम- णिकरकमिव वारिधाराभिः पूरयन्तम्, इतस्ततः पिपीलकश्रेणीनां श्यामाकतण्डुलकणान्वयमेव किरन्तम्, अरुणेन चीवरपटलेन म्रदीयसा संवीतम्, बहलबालातपानुलिप्तमिव पौरंदरं दिग्भा- गमुल्लिखितपद्मरागप्रभाप्रतिमया रक्तावदातया देहप्रभया पाटली- कृतानां काषायग्रहणमिव दिशामप्युपदिशन्तम्, अनौद्धत्याधो- मुखेन मन्दमुकुलितकुमुदाकरेण स्निग्धधवलप्रसन्नेन चक्षुषा जन- क्षुण्णक्षुद्रजन्तुजीवनार्थममृतमिव वर्षन्तम्, सर्वशास्त्राक्षरपरमाणु- भिरिव निर्मितं परमसौगतमप्यवलोकितेश्वरम्, अस्खलितमपि त- । । नामभिः । लोकायतिकैश्चार्वाकः। जैनबौद्धः । कापिलैः। सांख्यैः । काणादेवशेष- तार्किकैः । औपनिषदैर्वेदान्तवादिभिः । ऐश्वरकारणिकैनैयायिकैः । कारन्धमिभि- र्धातुवादिभिः । पाषण्डभेदैरित्यन्ये । धर्मशास्त्रभिः स्मृतिज्ञैः । शाब्दैवैयाकरणैः । पाश्चरात्रिकैवैष्णवभेदैः । सिद्धान्तानागमान् । त्रिसरणेति । त्रयो बुद्धधर्मसं- घाः । शाक्यो बुद्धः। कोशो बुद्धसिद्धान्तो वसुबन्धकृतः । देशना कथनम् । बोधिः समाधिः । तत्प्रधानसत्त्वं बुद्धभट्टारकः । तदीयानि जातकानि जीमूतवा- हनादिजन्मकथाः । मुनिपरमेश्वरम् । मुनीश्वरं बुद्धम् । अपकारिण्यभिप्रीतिमैत्री। पिपीलकः कीटभेदः । चीवरं मुनिवासः । संवीतमाच्छादितम् । उल्लिखितश्चरणो- लीढः । क्षुद्राः खल्पाः। अवलोकितेश्वरनामा बुद्धविशेषोऽपि । अस्खलितम- पीति । स्खलितो ह्यन्यत्र लग्नोभवति । सत्त्वभ्रष्टशीलस्तपःस्थश्च । ह०२१ २३८ हर्षचरिते पसि लग्नम्, आलोकमिव यथावस्थितसकलपदार्थप्रकाशकम्, दर्श- नार्थिनां सुगतस्याप्यभिगमनीयमिव, धर्मस्याप्याराधनीयमिव,प्रसा- दस्यापि प्रसादनीयमिव, मानस्यापि माननीयमिव, वन्द्यत्वस्यापि वन्दनीयमिव, जन्म यमस्य, नेमि नियमस्य, तत्त्वं तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश्म विश्वासस्य, सद्वृत्तं सद्वृत्ततायाः, सर्वस्वं सर्वज्ञतायाः, दाक्ष्यं दाक्षिण्यस्य, पारं परानुकम्पाया:, निर्वृतिं सुखस्य, मध्यमे वयसि वर्तमान जीवाकरमित्रमद्राक्षीत् । अतिप्रशान्तगम्भीराकारारोपितबहुमानश्च सादरं दूरादेव शिरसा मनसा वचसा च ववन्दे । दिवाकरमित्रस्तु मैत्रीमयः प्रकृत्या विशेषतस्तेनापरेणादृष्टपूर्वे- णामानुषलोकोचितेन सर्वाभिभाविना महानुभावाभोगभाजा भ्रा- जिष्णुना भूपतेरप्राकृतेनाकारविशेषेण तेन चाभिजात्यप्रकाशकेन गरीयसा प्रश्रयेण चाहादितश्चक्षुषि च चेतसि च युगपदग्र- हीत् । वीरस्वभावोऽपि च संपादितससंभ्रमाभ्युत्थानः संकलय्य किंचिदुद्गमनकेन विलोलं विलम्बमानं वामांसाचीवरपटान्तमुत्क्षि- प्यानेकाभयदानदीक्षादक्षिणो दक्षिणं महापुरुषलक्षणलेखाप्रशस्तं स्निग्धमधुरया वाचा सगौरवमारोग्यदानेन राजानमन्वग्रहीत् । अ- भ्यनन्दच्च स्वागतगिरा गुरुमिवाभ्यागतं बहु मन्यमानः स्वेनासने- नासङ्घमत्रेति निमत्रयांचकार । पार्श्वे स्थितं च शिष्यमब्रवीत्- 'आयुष्मन,उपानय कमण्डलुना पादोदकम्' इति । राजा त्वचि- न्तयत्-'अलोहः खलु संयमनपाशः सौजन्यमभिजातानाम्। स्था- ने खलु तत्रभवान्गुणानुरागी ग्रहवर्मा बहुशो वर्णितवानस्य गुणा- न्' इति । प्रकाशं चाबभाषे -'भगवन,दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रतिभात्यनुग्रहः । चक्षुष्प्रमाणप्रसाद- स्वीकृतस्य च परकरणमिवासनादिदानोपचारचेष्टितम् । अतिभू- मिरेव भवादृशां पुरः संभाषणामृताभिषेकप्रक्षालितसकलवपुषश्च दिवाकरमित्रस्तु तेन भूपतावाकारविशेषेण प्रश्रयेण च युगपच्चक्षुषि चेतसि च आह्लादित आनन्दितः सन्नन्वग्रहीदिति संबन्धः। महानुभावानामुत्तमाना- म् । आभोगं टकं भजत इत्याकारविशेषणम् । सकलय्य संयम्य । उद्गमनमुत्था- नम् । आगमनमागतम् । सुखेनागतं खागतम् । प्रश्नार्थ गीस्तया अत्रोपविशेति । भूमिमतिकान्ताविभूमिः । स्वर्गादिस्थानरूपा प्रदेशवृत्तिः । एकदेशो वा । । Home अष्टम उच्छासः। मे प्रदेशवृत्तिः। पाद्यमप्यपार्थकम् । आसतां भवन्तो यथासु- खम् । आसीनोऽहम्' इत्यभिधाय क्षितावेवोपाविशत् । 'अलंकारो हि परमार्थतः प्रभवतां प्रश्रयातिशयः, रत्नादिकस्तु शिलाभारः' इत्याकलय्य पुनः पुनरभ्यर्थ्यमानोऽपि यदा न प्रत्यप- द्यत पार्थिवो वचनं तदा स्वमेवासनं पुनरपिभेजे भदन्तः। भूपति- मुखनलिननिहितनिभृतनयनयुगलनिगडनिश्चलीकृतहृद्यश्च स्थित्वा कांचित्कालकलां कलिकालकल्मषकालुष्यमिव क्षालयन्नमलाभि- र्दन्तमयूखमालाभिर्मूलफलाभ्यवहारसंभवमुद्वमन्निव च परिम- लसुभगं विकचकुसुमपटलपाण्डुरं लतावनमवादीत्-'अद्यप्रभृति न केवलमयमनिन्द्यो वन्द्योऽपि प्रकाशितसत्सारः संसारः । किं नाम नालोक्यते जीवद्भिरद्भुतं येन रूपमचिन्तितोपनतमिदं दृक्प- थमुपगतम् । एवं विधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृद- योत्सवैः । इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन फल- मसुलभदर्शनं दर्शयता देवानां प्रियम् । आ तृप्तेः पीतममृतमीक्ष- णाभ्याम् । जातं निरुत्कण्ठं मानसं निवृत्तिसुखस्य । महद्भिः पु- ण्यैविना न विश्राम्यन्ति सजने त्वाशि दृशः । सुदिवसः स यस्मिजातोऽसि । सा सुजाता जननी या सकलजीवलोकजीवि- तजनकमजनयदायुष्मन्तम् । पुण्यवन्ति पुण्यान्यपि तानि येषा- मसि परिणामः । सुकृततपसस्ते परमाणवो ये तव परिगृहीतस- वयवाः । तत्सुभगं सौभाग्यमाश्रितोऽसि येन । भव्यः स पु- रुषभावो भवत्यवस्थितो यः। यत्सत्यं मुमुक्षोरपि मे पुण्यमाजमा- लोक्य पुनः श्रद्धा जाता मनुजजन्मनि । नेच्छद्भिरप्यस्माभिदृष्टः कुसुमायुधः। कृतार्थमद्य चक्षुर्वनदेवतानाम् । अद्य सफलं जन्म पा- दपनां येषामसि गतो गोचरम् । अमृतमयस्य भवतो वचसां मा- धुर्यं कार्यमेव । अस्य त्वीदृशे शैशवे विनयस्योपाध्यायं ध्यायन्नपि न संभावयामि भुवि । सर्वथा शुन्य आसीदजाते दीर्घायुषि गु- णग्रामः । धन्यः स भूभृद्यस्य वंशे मणिरिव मुक्तामयः संभूतो- ऽसि । एवंविधस्य च पुण्यवतः कथंचित्प्राप्तस्य केन प्रियं समाच- । नयनयुगलमेव निगडो बन्धनशृङ्खला । निवृत्तिश्चित्तविभ्रमः । अमृतमय- स्येति । यतोऽमृतमयस्वमतो भवद्वचसां माधुर्य कार्य प्रयोज्यं कारणसदृशेन हर्षचरिते । राम इति पारिप्लवं चेतो नः । सकलवनचरसार्थसाधारणस्य क- न्दमूलफलस्य गिरिसरिदम्भसो वा के वयम् । अपरोपकरणीकृ- तस्तु कायकलिरयमस्माकम् । सर्वस्वमवशिष्टमिष्टातिथ्याय । स्वा- यत्ताश्च विद्यन्ते विद्याबिन्दवः कतिचित् । उपयोगं तुन प्रीतिर्वि- चारयति । यदि च नोपरुणद्धि कश्चित्कार्यलवमरक्षणीयाक्षरं वा कथनीयं तत्कथयतु भवाञ्श्रोतुमभिलपति हृदयं सर्वमिदं नः । केन कृत्यातिभारेण भव्यो भूषितवान्भूमिमेतामभ्रमणयोग्याम् । कियदवधिर्वा शून्याटवीपर्यटनक्लेशः कल्याणराशेः । कस्माच सं- तप्तरूपेव ते तनुरियमसंतापार्हा विभाव्यते' इति । राजा तु सादरतरमब्रवीत्-'आर्य, दर्शितसंभ्रमेणानेन मधुर- सविसरममृतमिव हृदयधृतिकरमनवरतं वर्षता वचसैव ते सर्व- मनुष्ठितम् । धन्योऽस्मि यदेवमभ्यहितमनुपचरणीयमपि मान्यो म- न्यते माम् । अस्य च महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान् । मम हि विनष्टनिखिलेष्टवन्धोर्जीवितानुबन्धस्य निब- न्धनमेकैव यवीयसी स्वसावशेषा । सापि भर्तुर्वियोगाद्वैरि- परिभवभयाद्धमन्ती कथमपि विन्ध्यवनमिदम् , अशुभशब- रबलबहुलम् , अगणितगजकुलकलिलम् , अपरिमितमृगपतिशर- भभयम् , उरुमहिषमुषितपथिकगमनम् , अतिनिशिवशरकुशप- रुषम् , अवटशतविषममाक्शित् । अतस्तामन्वेष्टुं वयमनिशं नि- शिनिशि च सततमिमामटवीमटामः । न चैनामासादयामः । कथ- यतु च गुरुरपि यदि कदाचित्कुतश्चिद्वनचरतः श्रुतिपथमुपगता तद्वाता' इति । अथ तच्छ्रुत्वा जातोद्वेग इव भदन्तः पुनरभ्यधात्-'धी- मन , न खलु कश्चिदेवंरूपो वृत्तान्तोऽस्मानभ्युपगतवान् । अभा- जनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम् । इत्येवं । कार्येण भवितव्यमित्युक्तेः । शून्या निराश्रयाः । वंशो वेणुरपि । मुक्तामयस्त्यक्त- दोषः, मौक्तिकरूपश्च । पारिप्लवं दोलाधिरूढमित्यर्थः । अनेकदुःखहेतुत्वात् । काय एव कलिः । अरक्षणीयाक्षरमिति । यद्यस्मात्कमुपरि विश्वासोऽस्तीत्यर्थः । अतिशयेनाल्पा यवीयसी कनिष्ठा । अयोगाविरुद्धविधिवैधुर्यादिदं विन्ध्यवनम- निशं प्रविष्टेति पदयोजना । अनिशं सदा । अटवीमटामो गच्छामः । ।
अष्टम उच्वासः। २४१ भाषमाण एव तस्मिन्नकस्मादागत्यापरः शमिनि वयसि वर्तमानः संभ्रान्तरूप ईव पुरस्तादुपरचिताञ्जलिर्जातकरुणः प्रक्षरितचक्षुर्मि- क्षुरभाषत-'भगवन्भदन्त, महत्करुणं वर्तते । बालैव बलवद्व्य- सनाभिभूता भूतपूर्वापि कल्याणरूपा स्त्री शोकावेशविवशा वैश्वा- नरं विशति । संभावयतु तामप्रोषितप्राणां भगवान् । अभ्युपप- द्यतां समुचितैः समाश्वासनैः । अनुपरतपूर्व कृमिकीटमपि दुः- खितं दयाराशेरार्यस्य गोचरगतम्' इति । राजा तु जातानुजाशङ्कः सोदर्यास्नेहाच्चान्तर्दुत इव दुःखेन दोदूयमानहृद्यः कथमपि गद्गदिकागृहीतकण्ठो विकलवाग्बाष्पा- यमाणदृष्टिः पप्रच्छ-'पाराशरिन्, कियङ्करे सा योषिदेवंजाती- या जीवेद्वा कालमेतावन्तमिति । पृष्टा वा त्वया कासि, कस्यासि, कुतोऽसि किमर्थ वनमिदमभ्युपगतासि, विशसि च किंनिमित्त- मनलमित्यादितः प्रभृति कास्न्येन कथ्यमानमिच्छामि श्रोतुं क- थमार्यस्य गता गोचरमाकारतो वा कीदृशी' इति । तथाभिहितस्तु भूभुजा भिक्षुराचचक्षे-महाभाग, श्रूयताम् । अहं हि प्रत्यूषस्येवाद्य वन्दित्वा भगवन्तमनेनैव नदीरोधसा सैक- तसुकुमारेण यदृच्छया विहृतवानतिदूरम् । एकस्मिंश्च वनलतागहने गिरिनदीसमीपभाजि भ्रमरीणामिव हिमहतकमलाकरकातराणां रसितं सार्यमाणानामतितारतानवर्तिनीनां वीणातत्रीणामिव झां- कारमेकतानं नारीणां रुदितमधृतिकरमतिकरुणमाकर्णितवानस्मि । समुपजातकृपश्च गतोऽस्मि तं प्रदेशम् । दृष्टवानस्मि च दृषत्ख- ण्डखण्डिताङ्गुलिगलल्लोहितेन च पाणिप्रविष्टशरशलाकाशल्यशूल- संकोचितचक्षुषा चाध्वनीनश्रमश्वयथुनिश्चलचरणेन च स्थाणवव्रण- व्यथितगुल्फबद्धभूर्जत्वचा च वातखुडखेदखञ्जजङ्घाजातज्वरेण च पांसुपाण्डुरपिण्डिकेन च खजूरजूटजटाजर्जरितजानुना च शताव- । यदृच्छया खेच्छया सार्यमाणानां श्रुतिरीत्यास्थाप्यमाणानां स्वराणां विशिष्टम- वस्थानमेकलोपे द्विलोपे वा। ताना मूर्च्छना वा । वर्णाः स्थायिमश्चादारोह्यवरोहि- णश्चत्वारस्तदुपलक्षिताः । तन्त्र्यो वर्णतन्त्र्यः । एकतानमेकरूपम्, अनवरतं वा । दृष्टवानियादावस्मि । चैवंविधानामबलानां चक्रवालेन परिवृतां योषितं दृष्टवानिति संबन्धः । लोहितं रक्तम् । पाणिः पादाधोदेशः। 'स्थाणुरस्त्री ध्रुवः शङ्खः । स्था- णोरिमे स्थाणवाः । वातखुडो गतिप्रतिघातलक्षणो वातव्याधिः । पिच्छकं केश- ।
२४२ हर्षचरिते रीविदारितोरुणा च विदारीदारिततनुदुकूलपल्लवेन चोत्कटवंशविट- पकण्टककोटिपाटितकञ्चुककपटेन च फललोभालम्बितानम्रबदरी- लताजालकैरुत्कण्टकैरुल्लिखितसुकुमारकरोदरेण च कुरङ्गशृङ्गो- त्खातैः कन्दमूलफलैः कर्थितबाहुना च ताम्बूलविरहविरसमुखख- ण्डितकोमलामलकीफलेन च कुशकुसुमाह तिलोहितानां श्वयताम- क्ष्णां लेपीकृतमनःशिलेन च कण्टकिलतालूनालकलशेन च केनचि- त्किसलयोपपादितातपत्रकृत्येन केनचित्कदलीदलव्यजनवाहिना के- नचित्कमलिनीपलाशपुटगृहीताम्भसा केनचित्पाथेयीकृतमृणालपू- लिकेन केनचिच्चीनांशुकदशाशिक्यनिहितनालिकेरकोशकलशीक- लितरसालतैलेन, कतिपयावशेषशोकविकलमूककुब्जवामनबधिरव- राविरलेनाबलानां चक्रवालेन परिवृताम् , आपत्कालेऽपि कुलोद्ग- तेनेवामुच्यमानाम् , प्रभालेपिना लावण्येन प्रतिबिम्बितैरासन्नवन- लताकिसलयैः सरसैर्दुःखक्षतैरिवान्तःपटलीक्रियमाणकायाम्, क- ठोरदर्भाङ्गुरक्षतक्षारिणा क्षतजेनानुसरणालक्तकेनेव रक्तचरणाम् उन्नालेनान्यतरनारीधृतेनारविन्दिनीदलेन कृतच्छायमपि विच्छायं मुखमुद्वहन्तीम् , आकाशमपि शून्यतयातिशयानाम् , मृण्मयी- मिव निश्चेतनतया मरुन्मयीमिव निश्वाससंपदा पावकमयी- मिव संतापसंतानेन सलिलमयीमिवानप्रस्रवणेन वियन्मयीमिव निरवलम्बनतया तडिन्मयीमिव पारिप्लवतया शब्दमयीमिव प- रिदेवितवाणीबाहुल्येन मुक्तमुक्तांशुकरत्नकुसुमकनकपत्राभरणां कल्पलतामिव महावने पतिताम्, परमेश्वरोत्तमाङ्गपातदुर्ल- लिताङ्गाम् , गङ्गामिव गां गताम् , वनकुसुमधूलिधूसरितपा- । कलापः। शतावरी शतमूली। विदारी क्षीरशुक्ली। सरला देवदारवः। शोकेन विकला विक्षिप्ताः। कलामूका पण्डकाः । एवमादयोऽन्तःपुररक्षिणः । बर्बरा एतद्देशजाः । सरसैः प्रत्यौः, सान्दैश्च । क्षतानि व्रणाः । अरविन्दिनी पद्मिनी । छाया आतपप्रतिपक्षजातिः, छाया च कान्तिः । उक्तं च-छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इति । शून्यतेन्द्रियरहितत्वमपि । संतापसंतानो दु:- खविच्छेदः, औष्ण्यप्रबन्धश्च । मुक्ताख्यमंशुकं मालवदेशजमुत्तरीयम् । मुक्ता मौक्तिकं च । अल्पेंऽशवोंऽशुकाश्च । महावनं विस्तीर्णारण्यम्, विपुलजलं च । परमेश्वरोत्तमाङ्गपातो राजशिरश्छेदो हरमूर्ध्नि पातश्च । इष्टानि ललितानीप्सितानि येषु तान्यङ्गानि यस्याः । दुर्ललितं च हेवाकः । गां गतामिति । वाहनाभावा- PORNNERISPRIRADARS AASAN अष्टम उच्छासः। दपल्लवाम् , प्रभातचन्द्रमूर्तिमिव लोकान्तरमभिलषन्तीम्, निज- जलमोक्षकर्थितदर्शितधवलायतनेत्रशोभाम्, मन्दाकिनीमृणालि- नीमिव परिम्लायमानाम् , दुःसहरविकिरणसंस्पर्शखेदनिमीलितां कुमुदिनीमिव दुःखेन दिवसं नयन्तीम् , दग्धदशाविसंवादितां प्रत्यूषप्रदीपशिखामिव क्षामक्षामां पाण्डुवपुषम्, पार्श्ववर्तिवार- णाभियोगरक्ष्यमाणां वनकरिणीमिव महादे निमग्नाम्, प्रविष्टां वनगहनं ध्यानं च, स्थितां तरुतले मरणे च, पतितां धात्र्यु- त्सङ्गे महानर्थे च, दूरीकृतां भ; सुखेन च, विरेचितां भ्रमणे- नायुषा च, आकुलां केशकलापेन मरणोपायेन च, विवर्णिताम- ध्वधूलिभिरङ्गवेदनाभिश्च, दग्धां चण्डातपेन वैधव्येन च, धृत- मुखी पाणिना मौनेन च, गृहीतां प्रियसखीजनेन मन्युना च, तथा च भ्रष्टैर्बन्धुभिर्विलासैश्च, मुक्तेन श्रवणयुगलेनात्मना च, परित्यक्तैर्भूषणैः सर्वारम्भैश्च, भग्नैवलयैर्मनोरथैश्च, चरणलग्नाभिः परिचारिकाभिर्दर्भाङ्कुरसूचीभिश्च, हृदयविनिहितेन चक्षुषा प्रि- येण च, दीधैः शोकश्वसितैः केशैश्च, क्षीणेन वपुषा पुण्येन च, पादयोः पतन्तीभिर्वृद्धाभिरश्रुधाराभिश्च, स्वल्पावशेषेण परिजनेन जीवितेन च, अलसामुन्मेषे, दक्षामश्रुमोक्षे, संततां चिन्तासु, विच्छिन्नामाशासु, कृशां काये, स्थूलां श्वसिते, पूरितां दुःखेन, रिक्तां सत्त्वेन, अध्यासितामायासेन, शून्यां हृदयेन, निश्चला निश्चयेन, चलितां धैर्यात् , अपि च वसतिं व्यसनानाम् , आधा- नमाधीनाम्, अवस्थानमनवस्थानाम्, आधारमधृतीनाम् , आवा- समवसादानाम् , आस्पदमापदाम्, अभियोगमभाग्यानाम् , उद्वे- गमुद्वेगानाम्, कारणं करुणायाः, पारं परायत्तताया योषितम् । चिन्तितवानस्मि च चित्रमीदृशीमप्याकृतिमुपतापाः स्पृशन्तीति । सा तु समीपगते मयि तवस्थापि सबहुमानमानंतमौलिः प्र- भूमिमवतीर्णा च । वनकुसुमानि जलजातत्वात्कुमुदानि च, पादरश्मयोऽपि । लोकान्तरं परलोकम् , मेरुद्वितीयपार्श्व च । जलमसु नेत्रम्, अक्षिमलं च । दग्ध- दशा दुस्वस्थाः, प्लुष्टदीपधामानश्च । प्रत्यूषः कल्यम् । वारणा निषेधः, हस्ती च वारणः । महाहदे निमनामनुसरणार्थ पुण्यजलाशयस्नाताम, विस्तीर्णसरस्यवसन्नां च । स्थितां कृतनिश्चयां च । विगतो धवो यस्यास्तद्भावो वैधव्यम् । धवो भर्ता । बन्धुभिरित्यादावित्थंभूतलक्षणे तृतीया । मुक्तेन निरलंकारेण । अलसां दक्षा २४४ हर्षचरिते । । गतवती । अहं तु प्रबलकरुणाप्रेर्यमाणस्तामालपितुकामः पुनः कृतवान्मनसि-कथमिव महानुभावामेनामामत्रये । 'वत्से' इत्य- तिप्रणयः, 'मातः' इति चाटु, 'भगिनि' इत्यात्मसंभावना, 'देवि' इति परिजनालापः, 'राजपुत्रि' इत्यस्फुटम्, 'उपासिके' इति म- नोरथः, 'स्वामिनि' इति भृत्यभावाभ्युपगमः, 'भद्रे' इतीतरस्त्री- समुचितम्, 'आयुष्मति' इत्यवस्थायामप्रियम्, 'कल्याणिनि' इति दशायां विरुद्धम् , 'चन्द्रमुखि' इत्यमुनिमतम्, 'बाले' इत्यगौर- वोपेतम् , 'आर्य' इति जरारोपणम् , 'पुण्यवति' इति फलविपरी- तम् , 'भवति' इति सर्वसाधारणम् । अपि च 'कासि' इत्यनभि- जातम्, 'किमर्थ रोदिषि' इति दुःखकारणस्मरणकारि, 'मा रोदीः' इति शोकहेतुमनपनीय न शोभते, 'समाश्वसिहि' इति किमाश्रित्य, 'स्वागतम्' इति यातयामम् , 'सुखमास्यते' इति मि- थ्या । इत्येवं चिन्तयत्येव मयि तस्मात्त्रैणादुत्थायान्यतरा योषि- दार्यरूपेव शोकविक्लवा समुपसृत्य कतिपयपलितशारं शिरो नीत्वा महीतलमतुलहृदयसंतापसूचकैरश्रुबिन्दुभिश्चरणयुगलं दहन्ती म- मातिकृपणैरक्षरैश्च हृदयमभिहितवती--'भगवन् , सर्वसत्त्वानुक- म्पिनी प्रायः प्रव्रज्या । प्रतिपन्नदुःखक्षपणदीक्षादक्षाश्च भवन्ति सौगताः। करुणाकुलगृहं च भगवतः शाक्यमुनेः शासनम् । सकलजनोपकारसज्जा सज्जनता जैनी । परलोकसाधनं च धर्मों मुनीनाम् । प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । अनुकम्पाभूमयः प्रकृत्यैव युवतयः किं पुनर्विपदभिभूताः । साधु- जनश्च सिद्धक्षेत्रमार्तवचसाम् । यत इयं नः स्वामिनी मरणेन पितुरभावेन भर्तुः प्रवासेन च भ्रातुः भ्रंशेन च शेषस्य बान्ध- ववर्गस्यातिमृदुहृदयतयानपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन प्रकृतिमनस्विनी, अमुना च महाटवीपर्यटनक्ले- शेन कर्थितसौकुमार्या, दग्धदेवदत्तैरेवंविधैर्बहुभिरुपर्युपरि व्य- चेत्यादौ विरोधो बोद्धव्यः । अनवस्थानां दुःखरूपक्रियाणाम् । अभियोगमुद्योगम् । कथमिवेत्यादि समानः प्रश्न इत्यर्थः । महानुभावां मनस्विनीम् अतिप्रणयो महती प्रीतिः । अनभिजातमनुचितम् । यातयामं जीर्णप्रायम् । शासनं शास्त्रम् । सज्जनता साधुजनसमूहः । सिद्धक्षेत्रं सिद्धायतनम् । यत इत्यादी अष्टम उच्छासः। । सनैर्विक्लवीकृतहृदया, दारुणं दुःखमपारयन्ती सोढुं निवारय- न्तमनतिक्रान्तपूर्व स्वप्नेऽप्यवगणय्य गुरुजनमनुनयन्तीरखण्डि- तप्रणया नर्मस्खपि समवधीर्य प्रियसखीविज्ञापयन्तमशरणम- श्रुव्याकुलनयनमपरिभूतपूर्व मनसापि परिभूय भृत्यवर्गमग्निं प्र. विशति । परित्रायताम् । आर्योऽपि तावदसएशोकापनयनोपा- योपदेशनिपुणां व्यापारयतु वाणीमस्याम्' इति चातिकृपणं व्या- हरन्तीमहमुत्थाप्योद्विग्नतरः शनैरभिहितवान् -'आयें, यथा क- थयसि तथा । अस्मद्रािमगोचरोऽयमस्याः पुण्याशयायाः शोकः। शक्यते चेन्मुहूर्तमानमपि त्रातुमुपरिष्टान्न व्यर्थेयमभ्यर्थना भवि- प्यति । मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव । कथिते मयास्मिन्नुदन्ते नियतमागमिष्यति परमदयालुः । दुःखा- न्धकारपटलभिदुरैश्च सौगतैः सुभाषितैः स्वकैश्च दर्शितनिदर्शनै- नानागमगुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोधपद्वीमारोप- यिष्यति' इति । तच्च श्रुत्वा 'त्वरतामार्यः' इत्यभिधाना सा पु- नरपि पादयोः पतितवती । सोऽहमुपगत्य त्वरमाणो व्यतिकर- मिममधृतिकरमशरणकृपणबहुयुवतिमरणमतिकरुणमत्रभवते गुरवे निवेदितवान्' इति । अथ भूभृद्भक्षवं समवधार्य तद्भाषितमश्रुमिश्रितमश्रुतेऽपि स्व- सुर्नाग्नि निम्नीकृतम ना मन्युना सर्वाकारसंवादिन्या दशयैव दूरी- कृतसंदेहो दग्ध इव सोदर्यावस्थाश्रवणेन श्रवणयोः श्रमणाचा- यमुवाच-'आर्य, नियतं सैवेयमनार्यस्यास्य जनस्यातिकठिनहृद्- यस्यातिनृशंसस्य मन्दभाग्यस्य भगिनी भागधेयैरेतामवस्थां नीता निष्कारणवैरिभिर्वराकी विदीर्यमाणं मे हृदयमेवं निवेदयति' इ- त्युक्त्वा तमपि श्रमणमभ्यधात्-'आर्य, उत्तिष्ठ । दर्शय कासौं। यत: सुप्रभूतप्राणपरित्राणपुण्योपार्जनाय यामः, यदि कथंचिज्जी- वन्तीं संभावयामः' इति भाषमाण एवोत्तस्थौ । अथ समप्रशिष्यवर्गानुगतेनाचार्येण तुरगेभ्यश्चावतीर्य समस्तेन । यत इयं नः स्वामिन्यग्निं प्रविशति तदार्योऽपि तावदस्यां वाणी व्यापारयलिति संबन्धः। निदर्शनं दृष्टान्तः । निम्नं संकुचच्छक्ति । यतख यत्नं कुरु ।
२४६ हर्षचरिते । । सामन्तलोकेन पश्चादाकृष्यमाणाश्वीयेनानुगम्य मानः पुरस्ताच तेन शाक्यपुत्रीयेन प्रदिश्यमानवा पद्भ्यामेव तं प्रदेशमविरलैः पदैः पिबन्निव प्रावर्तत । क्रमेण च समुपगतः शुश्राव लतावनान्तरि- तस्य मुमूर्षोर्महतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्- 'भगवन्धर्म, धाव शीघ्रम् । कासि कुलदेवते। देवि धरणि, धी- रयसि न दुःखितां दुहितरम् । क नु खलु प्रोषिता पुष्पभूतिकु- टुम्बिनी लक्ष्मीः । अनाथां नाथ मुखरवंश्य, विविधाधिविधुरां वधू विधवां विबोधयसि किमिति नेमाम् । भगवन् , भक्तजने सं- वरिणि सुगत सुप्तोऽसि । राजधर्म पुष्पभूतिभवनपक्षपातिन्, उदासीनीभूतोऽसि कथम् । त्वय्यपि विपद्वान्धव विन्ध्य, वन्ध्योऽय- मजलिबन्धः । मातर्महाटवि, रटन्तीं न शृणोषीमामापत्पतिताम्। पतङ्ग, प्रसीद पाहि पतिव्रतामशरणाम् । प्रयत्नरक्षित कृतघ्न चा- रित्रचण्डाल, न रक्षसि राजपुत्रीम् । किमवधृतं लक्षणैः । हा देवि दुहितृस्नेहमयि यशोवति, मुषितासि दग्धदैवदस्युना । देव, दुहितरि दह्यमानायां नापतसि प्रतापशील, शिथिलीभूतमपत्यप्रेम । महाराज राज्यवर्धन, न धावसि मन्दीभूता भगिनीप्रीतिः। अहो निष्ठुरः प्रेतभावः । व्यपेहि पाप पावक स्त्रीघातनिघृण, ज्वलन्न लजसे। भ्रातर्वात, दासी तवास्मि । संवादय द्रुतं देवीदाहं देवाय दुःखितजनातिहराय हर्षाय । नितान्तनिःशूक शोकश्वपाक, सका- मोऽसि । दुःखदायिन्वियोगराक्षस, तुष्टोसि । विजने वने कमा- क्रन्दामि, कस्मै कथयामि, कमुपयामि शरणम्, कां दिशं प्रतिपद्ये, करोमि किमभागधेया। गान्धारि, गृहीतोऽयं लतापाशः। पिशाचि मोचनिके, मुञ्च शाखाग्रहणकलहम् । कलहंसि, हंसि किमतःपर- मुत्तमाङ्गम् । मङ्गलिके, मुक्तगलं किमद्यापि रुद्यते । सुन्दरि, दूरी- भवति सखीसार्थः । स्थास्यसि कथमिवाशिवे शवशिबिरे शब- रिके । सुतनु, तनूनपाति पतिष्यसि त्वमपि । मृणालकोमले मा- लावति, म्लानासि । मातर्मातङ्गिके, अङ्गीकृतस्त्वयापि मृत्युः । वत्से अश्वीयमश्वसमूहः। शाक्यपुत्रीयेन दिवाकरमित्रशिष्येण । अविरलैर्दीधैः । पदैश्चरणक्रमैः । मुमूर्षोर्मरणोन्मुखस्य । स्त्रैणस्य स्त्रीसमूहस्यालापाशुश्रावेत्यन्वयः । संज्वरिणि संतापवति । राजधर्मो बुद्धः । गान्धारि मोचनिके कलहंसि इत्या- दीनि सहगतसखीनां संबोधनानि । तनूनपाति वहौ । वसिष्यत्यासिष्यति । - । । । । । - ।
अष्टम उच्छ्रासः। २४७ । वत्सिके, वत्स्यसि कथनमभिप्रेते प्रेतनगरे । नागरिके, गरिमाणमा- गतास्यनया स्वामिभक्त्या । विराजिके, विराजितासि राजपुत्री- विपदि जीवितव्ययव्यवसायेन । भृगुपतनाभ्युद्यमभागाभिज्ञे भू- ङ्गारधारिणि, धन्यासि । केतकि, कुतः पुनरीदृशी स्वप्नेऽपि सुस्वा- मिनी । मेनके, जन्मनि जन्मनि देवीदास्यमेव ददातु देवो देहं दुहन्दहनः । विजये वीजय कृशानुम् । सानुमति, नमतीन्दीव- रिका दिवं गन्तुकामा । कामदासि, देहि दहनप्रदक्षिणावकाशम् । विचरिके, विरचय वह्निम् । विकिर किरातिके, कुसुमप्रकरम् । कुररिके, कुरु कुरुबककोरकाचितां चिताम् । चामरं चामरणा- हिणि, गृहाण । पुनरपि कण्ठे मर्षयितव्यानि नर्मदे, नर्मनिर्मि- तानि निर्मदहसितानि । भद्रे सुभद्रे, भद्रमस्तु ते परलोकग- मनम् । अग्रामीणगुणानुरागिणि ग्रामेयिके, गच्छ सुगतिम् । व- सन्तिके, अन्तरं प्रयच्छ । आपृच्छते छत्रधारी देवि, देहि इ- ष्टिम् । इष्टा तव जहाति जीवितं विजयसेना । सेयं मुक्तिका मु- क्तकण्ठमारटति निकटे नाटकसूत्रधारी । पादयोः पतति ते ता- म्बूलवाहिनी बहुमता राजपुत्रि पत्रलता। कलिङ्गसेने, अयं प- श्चिमः परिष्वङ्गः। पीडय निर्भरमुरसा माम् । असवः प्रवसन्ति व- सन्तसेने । मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसहदुःखसहस्रा- स्रदिग्धं चक्षुरिदं रोदिषि कियदाश्लिष्य च माम् । निर्माणमी- दृशं प्रायशो यशोधने । धीरयस्यद्यापि किं मां माधविके। केय- मवस्था संस्थापनानाम् । गतः कालः कालिन्दि, सखीजनानुन- याञ्जलीनाम् । उन्मत्तिके मत्तपालिके, कृताः पृष्ठतः प्रणयिनीप्र- णिपातानुरोधाः । शिथिलय चकोरवति, चरणग्रहणं ग्रहिणि । कमलिनि, किमनेन पुनः पुनःवोपालम्भेन । न प्राप्तं चिरं स- खीजनसंगमसुखम् । आर्ये महत्तरिके तरङ्गसेने, नमस्कारः । सखि सौदामिनि, दृष्टासि । समुपनय हव्यवाहनार्चनकुसुमानि कुमु- दिके। देहि चितारोहणाय रोहिणि, हस्तावलम्बनम् । अम्ब- धात्रि, धीरा भव । भवन्त्येवंविधा एव कर्मणां विपाकाः पापका- । । । भृगुः प्रपातः । उक्तं च-'प्रपातस्ववटो भृगुः' इत्यमरः । निर्माणं विधानम् । अर्थात्संसारस्य । संस्थापनानां सांत्वनानाम् । ग्रहोऽभिनिवेशः। हलहलक उत्कण्ठा। एवमादिना निमित्तेन हर्षागमनं सूच्यते ।
२४६ । सामन्तलं । शाक्यपुर पिबन्निव तस्य मुर 'भगवन रयसि टुम्बिन । वधूं कि ज्वर्सि उदार मजा पतन रित्र देवि दुहि मह निा रिणीनाम् । आर्यचरणानामयमञ्जलिः । पर: परलोकप्रयाणप्रणा- मोऽयं मातः । मरणसमये कस्माल्लवलिके, हलहलको बलीयानान- न्दमयो हृदयस्य मे। हृष्यन्त्युञ्चरोमाञ्चमुञ्चि किमङ्गीकृत्याङ्गानि । वामनिके, वामन मे स्फुरितमक्ष्णा । वृथा विरमसि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीणपुण्यायाः पुरः । हरिणि, हेषित- मिव हयानामुत्तरतः । कस्येदमातपत्रमुच्चमत्र पादपान्तरेण प्रभा- वति विभाव्यते । कुरङ्गिक, केन सुगृहीतनाम्नो नाम गृहीतममृ- तमयमार्यस्य । देवि, दिष्ट्या वर्धसे देवस्य हर्षस्यागमनमहोत्सवे- न ।' इत्येतच्च श्रुत्वा सत्वरमुपससर्प । ददर्श च मुह्यन्तीमग्निप्रवे- शायोद्यतां राजा राज्यश्रियम् । आललम्बे च मूर्छामीलितलोच- नाया ललाटं हस्तेन तस्याः ससंभ्रमम् । अथ तेन भ्रातुः प्रेयसः प्रकोष्ठबद्धानामोषधीनां रसविसरमिव प्रत्युज्जीवनक्षमं क्षरता वमतेव पारिहार्यमणीनामचिन्यं प्रभावम- मृतमिव नखचन्द्ररश्मिभिरुद्गिरता बनतेव चन्द्रोदयच्युतशिशिर- शीकरं चन्द्रकान्तचूडामणिं मूर्धनि मृणालमयाङ्गुलिनेवातिशीतलेन निर्वापयता दह्यमानं हृदयं प्रत्यानयतेव कुतोऽपि जीवितमाह्लाद- केन हस्तसंस्पर्शेन सहसैव समुन्मिमील राज्यश्रीः । तथा चासंभा- वितागमनस्याचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः स्वप्नदृष्टद- निस्येव कण्ठे समाश्लिष्य तत्कालाविर्भावनिर्भरेणाभिभूतसर्वा- त्मना दुःखसंभारेण निर्दयं नदीमुखप्रणालाभ्यामिव मुक्ताभ्यां स्थूलप्रवाहमुत्सृजन्ती बाष्पवारि विलोचनाभ्याम् 'हा तात , हा अम्ब, हा सख्यः' इति व्याहरन्ती, मुहुर्मुहुरुच्चैस्तरां च समुद्भूत- भगिनीस्नेहसद्भावभारभावितमन्युना मुक्तकण्ठमतिचिरं विक्रुश्य 'वत्से, स्थिरा भव त्वम्' इति भ्रात्रा करस्थगितमुखी समाश्वा- स्यमानापि, 'कल्याणिनि, कुरु वचनमग्रजस्य गुरोः' इत्याचार्येण याच्यमानापि, देवि,न पश्यसि देवस्यावस्थाम् । अलमतिरुदिते- न' इति राजलोकेनाभ्यर्थ्यमानापि, 'स्वामिनि, भ्रातरमवेक्षख' इति परिजनेन विज्ञाप्यमानापि, 'दुहितर् , विश्रम्य पुनरारटितव्यम्' इति निवार्यमाणापि बान्धववृद्धाभिः, 'प्रियसखि, कियद्रोदिषि । OF x wr अथेत्यादौ भ्रातुर्हस्तसंस्पर्शेन राज्यश्रीः सहसैव समुन्मिमीलेति संबन्धः ।
अष्टम उच्छासः। तूष्णीमास्व । दृढं दूयते देवः' इति सखीभिरतुनीयमानापि, चि- रसंभावितानेकदुःसहदुःखनिवहनिर्वहणबाष्पोत्पीडपीड्यमानकण्ठ भागा, प्रभूतमन्युभारभरितान्त:करणा करुणकाहलेन स्वरेण कतिचित्कालमतिचिरं रुरोद । विगते च मन्युवेगे वह्नेः समीपा- दाक्षिप्य भ्राता नीता निकटवर्तिनि तरुतले निषसाद । शनैराचार्यस्तु तथा हर्ष इति विज्ञाय विवर्धितादरः सुतरां मुहूर्तमिवातिवाह्य निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनी- दुलैः स्वयमादाय नम्रो मुखप्रक्षालनायोदकमुपनिन्ये । नरेन्द्रो- ऽपि सादरं गृहीत्वा प्रथममनवरतरोदनातानं चिरप्रवृत्ताश्रुजल- जालं रक्तपङ्कजमिव स्वसुश्चक्षुरक्षालयत्पश्चादात्मनः । प्रक्षालित- मुखशशिनि च महीपाले सर्वतो नि:शब्दः संबभूव सकलो 'लि- खित इव लोकः । ततो नरेन्द्रो मन्दमन्दमब्रवीत्स्वसारम्-'वत्से, वन्दस्वात्रभवन्तं भदन्तम् । एष ते भर्तुर्हृदयं द्वितीयमस्माकं च गुरुः इति । राजवचनात्तु राजदुहितरि पतिपरिचयश्रवणोद्धातेन पुन- रानीतनेत्राम्भसि नमन्त्यामाचार्यः प्रयत्नरक्षितागतबाष्पाम्भःसं- भारभज्यमानधैर्याद्रलोचनः किंचित्परावृत्तनयनो दीर्घ निशश्वास । स्थित्वा च क्षणमेकं प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्या- जहार-कल्याणराशे, अलं रुदित्वातिचिरम् । राजलोको नाद्यापि रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः । स्नात्वा च गम्यतां तामेव भूयो भुवम् । अथ भूपतिरनुवर्तमानो लौकिकमाचारमाचार्यवचनं चोत्थाय स्नात्वा गिरिसरिति सह स्वस्रा तामेव भूमिमयासीत् । तस्यां च सपरिजनां प्रथममाहितावधानः पार्श्ववर्ती परवतीं शुचा पतिपि- ण्डप्रदर्शितप्रयत्नप्रतिपन्नाभ्यवहारकरणां भगिनीमभोजयत्। अनन्त- रं च स्वयमाहारस्थितिमकरोत् । भुक्तवांश्च बन्धनात्प्रभृति विस्त- रतः स्वसुः कान्यकुब्जाद्गौडसंभ्रमं गुप्तितो गुप्तनाम्ना कुलपुत्रेण निष्कासनं निर्गतायाश्च राज्यवर्धनमरणश्रवणं श्रुत्वा चाहारनि- पारिहार्य कटकम् । तथा चेत्यादौ साकरोदिति संबन्धः । दुःखनिवहस्य निर्व- हणं प्रकटनं यस्माद्वाष्पोत्पीडादिति समासः । काहलेन महता । उद्धातः प्रस्तावः । यतोऽयं राजलोकश्चिरं रुदित्वा नाद्यापि रोदनान्निवर्तते तत्स्नानविधिः क्रियतामिति । ह०२२ २५० हर्षचरिते २४६ - EEEEEE IF FE व ज्व । उद .av sha राकरणमनाहारपराहतायाश्च विन्ध्याटवीपर्यटनखेदं जातनिर्वे. दायाः पावकप्रवेशोपक्रमणं यावत्सर्वमशृणोद्ध्यतिकरं परिजनतः । ततः सुखासीनमेकत्र तरुतले विविक्तभुवि भगिनीद्वितीयं दूर. स्थितानुजीविजनं राजानमाचार्यः समुपसृत्य शनैरासांचक्रे । स्थि- त्वा च कंचित्कालांशं लेशतो वक्तुमुपचक्रमे-'श्रीमन् , आक- येताम् । आख्येयमस्ति नः किंचित्- अयं हि यौवनोन्मादात्परिभूय भूयसीर्भार्या यौवनावतारतर- लतरास्ताराराजो रजनीकर्णपूरः पुरुहूतपुरोधसो धिषणस्य पुरंध्रीं धर्मपत्नी पत्नीयन्नतितरलस्तारां नामापजहार । नाकतश्च पलायां- चक्रे । चकितचकोरलोचनया तया सहातिकामया सर्वाकारामि- रामया रममाणो रमणीयेषु देशेषु चचार । चिराच कथंचित्सर्व- गीर्वाणवाणीगौरवाद्रािं पत्युः पुनरपि प्रत्यर्पयामास ताम् । हृदये त्वनिन्धनमदह्यत विरहाद्वरारोहायास्तस्याः सततम् । एकदा तु शैलादुदयादुदयमानो विमले वारिणि वरुणालयस्य संक्रान्तमात्मनः प्रतिबिम्ब विलोकितवान् । दृष्ट्वा च तदा सस्मार सस्मरः स्मेरगण्डस्थलस्य ताराया मुखस्य । मुमोच च मन्मथो- न्मादमथ्यमानमानसः स्वःस्थोऽप्यस्वस्थः स्थवीयसः पीतसकलकु- मुद्वनप्रभाप्रवाहधवलताराभ्यामिव लोचनाभ्यां बाष्पवारिबिन्दून् । अथ पततस्तानुदन्वति समस्तानेवाचेमुर्मुक्ताशुक्तयः । तासां च कुक्षिकोषेषु मुक्ताफलीभूतानवाप तान्कथमपि रसातलनिवासी वासुकिर्नाम विषमुचामीशः । स च तैर्मुक्ताफलैः पातालतलेऽपि तारागणमिव दर्शयद्भिरेकावलीमकल्पयत्। चकार च मन्दाकिनीति नाम तस्याः । सा च भगवतः सोमस्य सर्वासामोषधीनामधिपतेः प्रभावादत्यन्तविषन्नी हिमामृतसंभवत्वाच स्पर्शन सर्वसत्त्वसंताप- हारिणी बभूव । यतः स तां सर्वदा विषोष्मशान्तये वासुकिः पर्यधत्त । समतिकामति च कियत्यपि काले कदाचित्तामेकावली तस्मा- नागराजान्नागार्जुनो नाम नागैरेवानीतः पातालतलं भिक्षुरभि- परवती परायत्ताम् । गुप्तितो बन्धनात् । विषणस्य बृहस्पतेः । पत्नीयनात्मनः पत्नीमिच्छन् । आरोहो नितम्बः । उन्मादः खेदः । खःस्थः स्वर्गस्थः। अखस्थः पीडितः । अपिर्विरोधस्य सूचकः ।
अष्टम उच्छ्वासः। २५१ । क्षत लेभे च । निर्गत्य रसातलात्रिसमुद्राधिपतये सातवाहननाने नरेन्द्राय सुहृदे स ददौ ताम्। सा चास्माकं कालेन शिष्यपरम्प- रया कथमपि हस्तमुपगता । यद्यपि च परिभव इव भवति भ- वादृशां दत्रिम उपचारस्तथाप्योषधिबुध्द्या बुद्धिमता सर्वसत्त्वरा- शिरक्षाप्रवृत्तेन रक्षणीयशरीरेणायुष्मता विषरक्षापेक्षया गृह्यता- म् । इत्यभिधाय भिक्षोरभ्याशवर्तिनश्चीवरपटान्तसंयतां मुमोच तामेकावली मन्दाकिनीम् । उन्मुच्यमानाया एव यस्याः प्रभालेपिनि लब्धावकाशे विषद्- महसि महीयसि विसर्पति रश्मिमण्डले युगपद्धवलायमानेषु दि. मुखेषु मुकुलितलतावधूत्कण्ठितैरामूलाद्विकाशितमिव तरुभिः, अ- भिनवमृणाललुब्धैर्धावितमिव धुतपक्षपुटपटलधवलितगगनं वनस- रसीहंसयूथैः, स्फुटितमिव भरवशविशीर्यमाणधूलिधवलैर्गर्भभेद- सूचितसूचीसंचयशुचिभिः केतकीवाटैः, उद्गलितदलदन्तुराभिः प्रबुद्धमिव कुमुदिनीभिः, विधुतसितसटाभारभरितदिक्कक्रैश्चलित- मिव केसरिकुलैः, प्रहसितमिव दशनांशुमालालोकलिप्यमानवनं वनदेवताभिः, विकसितमिव शिथिलितकुसुमकोशकेसराट्टहास- निरङ्कुशं काशकाननैः, भ्रान्तमिव संभ्रमभ्रमितबालपल्लवपरिवेश- श्वेतायमानैश्चमरीकदम्बकैः, प्रसृतमिव स्फायमानफेनिलतरलतर- तरङ्गोद्गारिणा गिरिनदीपूरेण, अपतारागरणलाभमुदितेनोदितमिव विकचमरीचिचक्राक्रान्तककुभा, पूर्णचन्द्रेण प्रक्षालित इव दावा- नलधूलिधूसरितदिगन्तो दिवस:, पुनरिव धौतान्यश्रुजलक्लिष्टानि नारीणां मुखानि । राजा तु मांसलैस्तस्याः संमुखैमयूखैराकुलीक्रियमाणं मुहुर्मुहु- रुन्मीलयन्निमीलयंश्च चक्षुः कथमपि प्रयत्नेन ददर्श सर्वाशापूरणीं पतीकृतामिव दिङ्गागकरशीकरसंहतिम्, घनमुक्तां शारदीमिव लेखीकृतां ज्योत्स्नाम, प्रकटपदकचिह्नां संचारणवीथीमिव बा- लेन्दोर्निश्चलीभूतां सप्तर्षिमालामिव हस्तमुक्ताम्, अभिभूतसकल- दानेन निवृत्तो दत्रिमः । अभ्याशो निकटः । महत्सरः सरसी। केतक्यो वृक्षभेदाः। काशास्तृणभेदाः। परिवेशः परिवलनम्। स्फायमाना वर्धमानाः। आशा आस्थाः, दिशश्च । घनमुक्तां निरन्तरमौक्तिकाम्, मेघत्यक्तां च ।
२५२ हर्षचरिते । भुवनभूषणभूतिप्रभावामैशानीमिव शशिकलाम्, धवलतागुणगृही- तां कान्तिमिव निर्गतां क्षीरराशेः, अनेकमहामहीभृत्परम्परागतां गङ्गामिव दुर्गतिहराम्, अनवरतस्फुरिततरलांशुकां पुरःसरपता- कामिव महेश्वरभावागमस्य, घनसारशुक्लां दन्तपतिमिवाभिमु- खस्येश्वरस्य, वरमनोरथपूरणसमर्थी स्वयंवरस्रजमिव भुवनश्रि- यः, निजकरपल्लवावरणदुर्लक्ष्यां चक्षुरागविहसतिकामिव वसु- धायाः, मन्त्रकोषसाधनप्रवृत्तस्याक्षमालामिव राजधर्मस्य, समु- द्रालंकारभूतां संख्यालेख्यपट्टिकामिव कुबेरकोशस्य । पश्यंश्चैतां विस्मयमाजगाम मनसा सुचिरम् । आचार्यस्तु तामुद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः । अथ नरपतिरपि प्रीतिमुपदर्शयन्प्रत्य- वादीत्-'आर्य, रत्नानामीदृशानामनर्हाः प्रायेण पुरुषाः । तपःसि- द्धिरियमार्यस्य देवताप्रसादो वा । के च वयमिदानीमात्मनोऽपि किमुत ग्रहणस्य प्रत्याख्यानस्य वा । दर्शनात्प्रभृति प्रभूतगुरुगुण- गणहृतेन हृदयेन परवन्तो वयम् । संकल्पितमिदमामरणादार्योप- योगाय शरीरम् । अत्र कामचारो वः कर्तव्यानाम्' इति । समतिक्रान्ते च कियत्यपि काले गते चैकावलीवर्णनालापे लो. कस्यानन्तरं लब्धविश्रम्भा राज्यश्रीस्ताम्बूलवाहिनी पत्रलतामा- हूयोपांशु किमपि कर्णमूले शनैरादिदेश । दर्शितविनया च पत्र- लता पार्थिवं व्यज्ञापयत्-देव, देवी विज्ञापयति न स्मराम्या--- यस्य पुरः कदाजिदुच्चैर्वचनमपि । कुतो विज्ञापनम् । इयं हि शु- । । -- । पदकं मध्यमणिः । पदमेव च पदकम् । हस्तमुक्तकाम् । परिवर्तुलत्वाद्धस्ते यः स्थितिं न बध्नाति । हस्तो हस्तसंज्ञा, वा नक्षत्रं च हस्तः। सकलभुवनभूषण कौस्तुभादिः, हरश्च । भूतिः समृद्धिः, भस्म च । गुणो धर्मः, तन्तुश्च । महीभृतो राजानः, पर्वताश्च । दुर्गतिर्दारिद्यम् , नरकादिगतिश्च । तरलो हारमध्यगतो मणिः, चञ्चलश्च । अंशुका रश्मयः, उत्तरीयं चांशुकम् । घनसारवच्छुक्लां कर्पूरवच्छुभ्राम्, निरन्तरदृढधवलां च । अभिमुखस्य प्रतिमुखमागच्छतः, दन्तपतिश्च मुखस्याभितो भवति । वरः श्रेष्ठः, जामाता च । निजाः कराः सहजा रश्मयः, खकश्च हस्तो निजकरः । चक्षुरागः प्रीतिस्तया विहसतिका नर्महासः । मन्त्रः कर्तव्यावधारण- म् । कोशो गञ्जः । साधनं हस्त्यश्वादि । तेन प्रकृष्टाचरितस्य मन्त्रसमूहाराधन- प्रस्तुतस्य । समुद्रः सागरः, सह मुद्रया च यो वर्तते । बन्धुरे हृद्ये । प्रत्याख्या- नस्य प्रतिषेधस्य । परवन्तोऽन्यायत्ताः । उपांशु गुप्तम् । प्राणितं जीवितम् । अशालीनत्वं धर्यम् । ।
अष्टम उच्छासः। चामसह्यता व्यापारयन्ती हतदेवदत्तादेशा शिथिलयति विनयम् । अबलानां हि पतिरपत्यं वावलम्बनम् । उभयविकलानां तु दुःखा- नलेन्धनायमानं प्राणितमशालीनत्वमेव केवलम् । आर्यागमनेन च कृतोऽपि प्रतिहतो मरणप्रयत्नः । अत: काषायग्रहणाभ्यनुज्ञयानु- गृह्यतामयमपुण्यभाजनं जनः' इति । जनाधिपस्तु तदाकर्ण्य तूष्णी- मेवावतिष्ठत । अथाचार्यः सुधीरमभ्यधात्-'आयुष्मति, शोको हि नाम पर्यायः पिशाचस्य रूपान्तरमाक्षेपस्य तारुण्यं तमसो विशेषण विषस्यानन्तकः प्रेतनगरनायकः । अयमनिवृतिधर्मा दहनः । अ- यमक्षयो राजयक्ष्मा । अयमलक्ष्मीनिवासो जनार्दनः । अयमपु- ण्यप्रवृत्तः क्षपणकः । अयमप्रतिबोधो निद्राप्रकारः । अयमनल- सधर्मा संनिपातः । अयमशिवसहचरो विनायकः । अयमबुधसे- वितो ग्रहवर्गः । अयमयोगसमुत्थो ज्योतिःप्रकारः । अयं स्ने- हाद्वायुप्रकोपः, मानसादग्निसंभवः, आर्द्रभावाद्रजःक्षोभः, रसा- दभिशोषः, रागात्कालपरिणामः । तदस्याजस्रस्राविणो हृदयम- हाव्रणस्य बहुलदोषान्धकारलब्धप्रवेशप्रसरस्य प्राणतस्करस्य शू- न्यताहेतोर्महाभूतग्रामघातकस्य सकलविग्रहक्षपणदक्षस्य दोषच- आक्षेपस्यापस्मारस्य । अनन्तान्कायति रावयतीत्यनन्तकः । अनिवृतिरस्वास्थ्य- म्, निर्वाणाभावश्च । अक्षयश्चिरस्थायी, क्षयरहितश्च । जनानर्दयति पीडयतीति जनार्दनः, कृष्णश्च । अपुण्यप्रवृत्तः पापप्रवृत्तः।क्षपणको यः क्षपयति, नग्नाटनकश्च । प्रतिबोधो विवेकः, स्वापादुत्थानं च । निद्रां प्रकिरति हिनस्ति निद्राप्रकारः । कर्म- ण्यग् । निद्राविशेषश्च मोहरूपः । अनलेनाग्निना सधर्मा सदृशः । अलसलक्षणो धर्म आलस्यं यस्य सोऽलसधर्मा नालसधर्मानलसधर्मा सम्यङ्गिपातयति घातयति यः। त्रिदोषजो व्याधिश्च स संनिपातः । शिवः श्रेयः, हरश्च शिवः । विशेषेण नयति मारयतीति विनायकः, विनायको विघ्नो वा, गणपतिश्च विनायकः। बुधाः पण्डिताः, ग्रहभेदश्च बुधः । ग्रहो व्यसनम् , सूर्यादिश्च । अयोगोऽननुकूलं दैवम् , चित्तवृत्ति- निरोधाभावश्च । ज्योतिःप्रकारोऽग्निभेदः, परं ज्ञानं च। स्नेहः प्रीतिः, पुष्टिहेतुश्च घृतादिः । वायुप्रकोप उन्मादोऽत्र । मानसं चेतः, देवसरश्च । आर्द्रभावो वत्सल- सरसत्वं च रजोगुणविशेषो धूलिश्च । रसः प्रीतिः, रसायनं च । रामोऽभि- ध्वङ्गः, लौहित्यं च । कालोऽन्तकः, कृष्णश्च । तदस्येत्यादौ तत्तस्मादस्य शोकस्य पारं विदुषामपि हृदयानि सोढुं नालम् । किं पुनरबलानां हृदयमिति संबन्धः । अजस्रं सदा । अस्रं बाष्पः, रक्तं च । व्रणं च रक्त स्रवति । एवमुत्तरत्रापि ज्ञेयम् । - । लम्, हर्षचरिते तस्य क्रवर्तिनः कार्यश्वासप्रलापोपद्रवबहलस्य दीर्घरोगस्यासद्भहस्य सकललोकक्षयधूमकेतोर्जीवितापहारदक्षस्याक्षणरुचेरनभ्रवत्रपा- स्फुरदनवद्यविद्याविद्युदुद्योतमानानि गहनग्रन्थप्रन्थि- गूढगर्भग्रहणगम्भीराणि भूरिकाव्यकथाकठोराणि बहुशास्त्रोद्वहन- बृहन्ति विदुषामपि हृदयानि नालं सोढुमापातं किमुत नवनवमा- लिकाकुसुमकोमलानां सरसबिसतन्तुदुर्बलकमबलानां हृदयम् । एवं सति सत्यव्रते, बद किमत्र क्रियते, कतम उपालभ्यते, कस्य पुर उच्चैराक्रन्द्यते, हृदयदाहि दुःखं वा ख्याप्यते । सर्वम- क्षिणी निमील्य सोढव्यमूढेन मर्त्यधर्मणा । पुण्यवति, पुरातन्यः स्थितय एताः केन शक्यन्तेऽन्यथाकर्तुम् । संसरन्यो नक्तंदिवं द्राधीयस्यो जन्मजरामरणघटनघटीयत्रराजिरजवः पञ्चजनाना- म् । पञ्चमहाभूतपञ्चकुलाधिष्ठितान्तःकरणव्यवहारदर्शननिपुणाः, सर्वकषा विषमा धर्मराजस्थितयः । क्षणमपि क्षममाणा गलन्त्यायु- कलाकलनकुशला निलये निलये कालनालिकाः। जगति सर्व- जन्तुजीवितोपहारपातिनी संचरति झटिति चण्डिका यमाज्ञा । रटन्त्यनवरतमखिलप्राणिप्रयाणप्रकटनपटवः प्रेतपतिपटहाः । प्र- तिदिशं पर्यटन्ति पेटकैः प्रतिपुरं प्रतप्तलोहलोहिताक्षाः कालकूट- । utane बहलदोषा बहवोऽपगुणाः, कृष्णपक्षरात्र यश्च । अन्धकारो मोहः, तमश्च । शून्यता किंकर्तव्यतामूढता । महाभूतग्रामो जन्तुसमूहः तदातकस्यायं च महान्तो भूताः प्राणिनो यस्मिन् । ग्रामे जनपदसमूहे तस्य यो घातकः स शून्यता । या जनरहि- तस्य हेतुर्भवति । विग्रहः शरीरम् , विरोधश्च । दोषचके मुख्यतया वर्तते यः स दोषचक्रवर्ती च सार्वभौमः । उपद्रवो बाधा, व्यांधेरुपर्यन्यो व्याधिश्च । उक्तं च- 'व्याधेपरि यो व्याधिर्भवत्युत्तरकालजः । उपक्रम विरोधित्वात्स ह्युपद्रव उच्यते ॥' इति । दीर्घरोगः क्षयादिः । असगृहोऽनर्थासक्तिः, धूमकेतुश्च । अशोभनो मूढः। न विद्यमाना क्षणमपि रुचिर्भोजनाभिलाषः, क्षणरुचिस्तडिच्च । स्फुरन्त्याः प्रकाशमा- नाया अनवद्याया विद्याया विद्युता किंचिन्मात्रज्ञानेन विद्युदपि सकृदेव स्फुरति । तथा ग्रहणानां दुरवग्रहाणां ग्रन्थानां ये विषतमाः प्रदेशास्तेषां गुप्तो यो गर्भः तद्रहणेन गम्भीराणि । पुण्यवति पुरातन्य इत्यादौ ध्वनिच्छायाजन्मजरामरणघटनान्येव घटीयन्त्ररा- ज्या रज्जवः । पञ्चजना मानुषाः । 'मनुष्या मानुषा मा मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः॥' इति । पञ्चकुलोऽध्यक्षः। अन्तःकरणं मनः। कलाभागाः कलनं संख्यानम् । नालिका होराः । चण्डिका भीषणा, रौद्रदेवता- अष्टम उच्छ्वासः। २५५ क्रान्तिकालकायाः कालपाशपाणयः कालपुरुषाः । प्रतिभवनं भ्र- मन्ति भीषणकिंकरकरघट्टितयमघण्टापुटपटुटांकारभयंकरा: सर्व- सत्त्वसंघसंहरणाय घोराघातघोषणाः । दिशि दिशि वहन्ति ब- हुचिताधूमधूसरितप्रेतपतिपताकापटुपतितगृध्रदृष्टयः शोककृतको- लाहलाकुलकुटुम्बिनीविकीर्णकेशकलापशबलशवशिबिकासहस्रसं- कुलाः किलकिलायमानश्मशानशिबिरशिवाशावकाः परलोकावस- थपथिकसार्थप्रस्थानविशिखावीथयः । सकललोककवलावलेहल- म्पटा बहला वहलिहा लेढि लोहिताचिता चिताङ्गारकाली काल- राविजिह्वा जीवितानि जीविनाम् । तृप्तिमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः । अतिद्रुतवाहिनी चानित्यतानदी । क्षणिकाश्च महाभूतग्रामगोष्ठयः । रात्रिषु भङ्गुराणि पानयनपञ्ज- रदारूणि देहिनाम् । अशुभशुभावेशविवशा विशरारवः शरीरनि- र्माणपरमाणवः । छिदुरा जीवबन्धनपाशतत्रीतन्तवः । सर्वमात्म- नोऽनीश्वरं विश्वं नश्वरम् । एवमवधृत्य नात्यर्थमेवाईसि मेधाविनि मृदुनि मनसि तमसः प्रसरं दातुम् । एको हि प्रतिसंख्यानक्षण आधारीभवति धृतेः । अपि च दूरगतेऽपि हि शोके नन्विदानी- मपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इत- रथा को न बहु मन्येत कल्याणरूपमीदृशं संकल्पमत्रभवत्याः काषायग्रहणकृतम् । अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या । ज्यायः खल्विदं पदमात्मवताम् । महाभागस्तु भिनत्ति मनोरथमधुना । यदयमादिशति तदेवानुष्ठेयम् । यदि भ्रातेति यदि ज्येष्ठ इति यदि वत्सल इति यदि गुणवानिति यदि राजेति सर्वथा स्थातव्यमस्य नियोगे।' इत्युक्त्वा व्यरंसीत् । । । । भेदश्च । पेटकैः समूहैः । घोषणा राजाज्ञया पश्वादिसंबद्धः पटहादिशब्दो दिशि दि- श्येवंविधा रीतिर्विधेयेति । विशिखा वीथयः । रथ्या मार्गा वहन्तीति संगतिः । कुटुम्बिन्योऽपहेलाः। शिबिका वाहनम् । श्मशानमेव शिबिरं येषां ते । बहला दीर्घगौश्च । उक्तं च-'बहलाः कृत्तिका गावः' इति च । वहंलिहा छिद्रान्वे- षिणी, वहंलिहा च गौर्वत्सस्य भवति । देहिनां शरीरवतां जीवाः प्राणिन एव । बन्धनपाशतत्रीतन्तवः । आत्मनोऽनीश्वरं न वायत्तम् । परतन्त्रमित्यर्थः । प्र- तिसंख्यानं विवेककुशला मतिः । दूरगते परधराधिरूढे । ज्येष्ठो भ्रातेत्यायुत्तरो- त्तरं साभिप्रायं व्याख्येयम् । ।
२५६ हर्षचरिते । उपरतवचसि च तस्मिन्निजगाद नरपतिः-'आर्यमपहाय कोऽन्य एवमभिदध्यात् । अनभ्यथितदैवनिर्मिता हि विषमविपद- वलम्बनस्तम्भा भवन्तो लोकस्य । स्नेहार्द्रमूर्तयो मोहान्धकारध्वं- सिनश्च धर्मप्रदीपाः। किंतु प्रणयप्रदानदुर्ललिता दुर्लभमपि म- नोरथमतिप्रीतिरभिलपति । धीरस्यापि धार्यमारोपयति हृदयल- घिमलचितमतिवल्लभत्वम् । युक्तायुक्तविचारशून्यत्वाच शालीनमपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यम् । अभ्यर्थनाया रक्षन्ति च ज- लनिधय इव मर्यादामार्याः । दत्तमेव च शरीरमिदमनभ्यर्थितेन प्रथममेवातिथ्याय माननीयेन भवता मह्यम् । अतः किंचिदर्थये भदन्तमियं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधी- रणोपरोधेनापि यावल्लालनीया नित्यम् । अस्माभिश्व भ्रातृवधापका- रिरिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता। पूर्वावमाननाभिभवमसहमानैरर्पित आत्मा कोपस्य । अतो नियुतां कियन्तमपि कालमात्मानमार्योऽपि कार्ये मदीये । दीयतामतिथये शरीरमिदम् । अद्य प्रभृति यावदयं जनो लघयति प्रतिज्ञाभारमाश्वासयति च तातविनाशदुःख विक्लवाः प्रजाः, ताव- दिमामत्रभवतः कथाभिश्च धाभिः, कुशलप्रतिबोधविधायिभिरुप- देशैश्चारजोभिः, शीलोपशमदायिनीभिश्च देशनाभिः, क्लेशप्रहाणहे- तुभूतैश्च तथागतैर्दर्शनैः, अस्मत्पा!पयायिनीमेव प्रतिबोध्यमाना- मिच्छामि । इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषा- याणि । अर्थिजने च किमिव नातिसृजन्ति महान्तः । सुरनाथ- मात्मास्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिर्दधीचः । मुनिनाथो- ऽप्यनपेक्षितात्मस्थितिरनुकम्पति कृत्वा कृपावानात्मानं वठरसत्त्वे- भ्यः कतिकृत्वो न दत्तवान् । अतः परं भवन्त एव बहुतरं जान- न्ति ।' इत्युक्त्वा तूष्णींबभूव भूपतिः । अनभ्यर्थितेत्यादौ ध्वनिच्छायावगन्तव्या । धीरस्य गम्भीरस्य । लङ्घितमाका- न्तम् । शालीनमधृष्टत्वम् । भदन्तेति बौद्धकर्म विशेषपूजावचनम् । अवधारणमुपे- क्षणम् । विधेयैरायत्तैः। नियुक्तां स्वीकरोतु । देशनाभिः शिक्षाभिः । क्लेशा अविद्या- दयः । तेषां प्रहाणम् । तथागतैबौद्धरात्मास्थिभिरपि । यावदित्यत्र यावच्छब्दोऽव- धारणे । मुनिनाथः सुगतः। वठरसत्त्वा जडप्राणिनः, सिंहाद्याः। एवं किल श्रूयते- पुरा काचन सिंही प्रसवकाले बुभुक्षातुरा खशावकान्मक्षयितुं प्रवृत्ता सौगतेन च समालोक्यातिकारुण्यात्स्वमांसप्रदानेन तस्मानिवारितेति । । । -- । RA अष्टम उच्छासः। २५७ भूयस्तु बभाषे भदन्तः--'भव्या न द्विरुच्चारयन्ति वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणाः कायबलिमिमाम् । अमुना जननोपयोगस्तु निरुपयोगस्यास्य लघुनि गुरुणि वा कृत्ये गुणवदा- यत्तः' इति । अथ तथा तस्मिन्नभिनन्दितप्रणये प्रीयमाणः पा- र्थिवस्तत्र तामुषित्वा विभावरीमुषसि वसनालंकारादिप्रदानपरि- तोषितं विसर्य निर्घातमाचार्येण सह स्वसारमादाय प्रयाणकैः क- तिपयैरेव कटकमनुजाह्रवि निविष्टं प्रत्याजगाम । तत्र च राज्यश्रीप्राप्तिव्यतिकरकथां कथयत एव प्रणयिभ्यो रविरपि ततार गगनतलम् । बहलमधुपङ्कपिङ्गलः पङ्कजाकर इव संचुकोच चक्रवाकवल्लभो वासरः। प्रकीर्णानि नवरुधिररसारुण- वर्णानि लोकालोकजूंषि यजूंषीव कुपितयाज्ञवल्क्यवक्रवान्तानि निजवयुषि पूषा पापमुषि पुनरपि संजहार जालकानि रोचिषाम् । क्रमेण च समुपोह्यमानमांसलरागरोचिष्णुरुष्णांशुरुष्णीषबन्धसह- जचूडामणिरिव वृकोदरकरपुटोत्पाटितः, प्रत्यग्रशोणितशोणाङ्गरा- गरौद्रो द्रौणायनस्य रुद्रभिक्षादानशौण्डपुरमथनमुक्तमुण्डशिराना- डिरुधिरपूरणकपिलः, कपालकपर इव च पैतामहः, पितृवधरु- षितरामरागरचितः, पृथुविकटकार्तवीर्यासकूटकुट्टाककुठारतुण्डत- ष्टदुष्टक्षत्रियकण्ठकुहररुधिरकुल्याप्रणालसहस्रपूरितो हद इव दू- ररोधी रौधिरो भयनिगूढकरचरणमुण्डमण्डलाकृतिगुरुगरुडनखप- चराक्षेपक्षपणक्षिप्तक्षतजोक्षितो व्यसुर्विभावसुः, कमठ इव च लोठ्यमानः, नभस्यरुणगर्भमांसपिण्डाण्ड इव च खण्डमानमानी- भव्या भाग्यवन्तः । काय एव बलिहेतुखाद्वलिरिव कायबलिस्ताम् । पद्मपण्डोऽपि चक्रवाकप्रियो मुकुलितो भवति । रुधिररसवत्तन चारुणवर्णा- नीति । यजूंषीति वेदोपलक्षणार्थः । याज्ञवल्क्यः शाकल्यस्य मुनेर्वेदानधीत्याज्ञामकु- वन्गुरुणोपालब्धः 'वेदान्परित्यज' इति । ततस्तेन चत्वारोऽपि वेदा रक्तोपलिप्ता उद्वान्ताः । तेच शाकल्यमुनिना खे वपुषि संक्रन्ता इति श्रुतिः । क्रमेणेत्यादावुष्णां- शुर्मुहूर्तमेवंविधो दृश्यत इति संबन्धः। समुपोह्यमानो वर्धमान इत्यर्थः । उष्णीषो बध्यते यत्र स उष्णीषबन्धो मस्तकः । वृकोदरो भीमसेनः । द्रौणायनोऽश्वत्थामा । अत्र कथा-अश्वत्थामा सौप्तिके हतपुत्रया द्रौपद्या भीमसेनोऽभिधाय यद्यश्वत्थानः शिरश्छित्त्वा नानीयते तदाहं जीवितं त्यजामीति । ततोहऽमेवं करोमीति प्रतिज्ञाया- यान्तं भीमं दृष्ट्वा व्यासाश्रमस्थो रणश्रान्तो घृताभ्यक्तोऽश्वत्थामा शस्त्राभावादिषीकाः संमन्त्र्य ब्राह्ममस्त्रं भीमवधाय ददौ । एकाकिनश्च भ्रातुर्गमनाद्भीतेनार्जुनेन कृष्ण- ।
२५८ हर्षचरितेऽष्टम उच्छासः । । त:, नियतकालातिपातदूयमानदाक्षायणीक्षिप्तः, धातुतट इव च सुमेरोरसुरवधाभिचारचरुपचनपिशुनः, शोणितकाथकषायितकु- झिरतिविसंकटः, कटाह इव च बार्हस्पत्यः, सद्योगलितगजदान- वदेहलोहितोपलेपभीषणः, मुखमण्डलाभोग इव महाभैरवस्य मुहू- तेमदृश्यत । जलनिधिजलप्रतिबिम्बितरविबिम्बराजिभास्वराभ्राव- लम्बिनी गृहीतामांसभारेव चाबभासे वासरावसानवेला वेताल- निभा । ज्वलत्संध्यारागरज्यमानजलप्रवाहः पुनरिव पुराणपुरुषपी- वरोरुसंपुटपिष्टमधुकैटभरुधिरपटलपाटलवपुरभवधिपतिरर्णसाम् । अवसिते संध्यासमये समनन्तरमपरिमितयशःपानतृषिताय मुक्ताशैलशिलाचषक इव निजकुलकीा, कृतयुगकरणोद्यताया- दिराजराजतशासनमुद्रानिवेश इव राज्यश्रिया, सकलद्वीपजिगी- षाचलिताय श्वेतद्वीपदूत इव चायत्या, श्वेतभानुरुपानीयत निशया नरेन्द्रायेति ॥ इति श्रीबाणभट्टकृतौ हर्षचरितेऽष्टम उच्छासः । सहितेन तमेवानुसरता ब्रह्मशिरोऽस्त्रं मुमुचे।तदवसरागतैश्च नारदांद्यैर्मध्यस्थैर्भूत्वो- के द्रोणेरस्नमभिमत्र्य प्रियाया गर्भे पतत्विति। अर्जुनेनाप्यात्मीयेऽस्त्रे संहृते भीमो- ऽश्वत्थानः सहज मूर्धमणिमुच्चीय नातिचिरेणाजगामेति । मुकं त्यक्तम् । मुण्डं शि- रासिरा नाड्यः। रुधिरवाहिन्यो नाड्यः। कुट्टाकश्छेदनशीलः । कुठारतुण्डं कुठार- धारा । आक्षेपक्षपणमुत्क्षिप्य परित्यागः। क्षिप्तं निःसृतम्। लोठ्यमानः परिभ्रमन् । नियतकालातिपातः प्रलयागमः । दाक्षायणी काली । पिशुनः सूचकः । वेता- लोऽपि गृहीतार्द्रमांसभरो भवति। पटलं समूहः। अवसिते निवृत्ते संध्यासमये निश- या । नरेन्द्राय श्वेतभानुरुपानीयतोपायनीकृत इति संबन्धः । आदिराजस्य मनोः, वैन्यस्य वा । मुद्रानिवेशो राज्याधिकारमहामुद्रा। चलिताय निर्गताय । आमत्या- गामिशुभदैवेनेति भद्रम् ॥ दुर्बोधे हर्षचरिते संप्रदायानुरोधतः । गूढार्थोन्मुन्द्रणां चके शंकरो विदुषां कृते ॥ इति महाकविचूडामणिशकंरकविरचिते हर्षचरितसंकेतेऽष्टम उच्छासः । समाप्तोऽयं ग्रन्थः।
संस्कृतनूतनपुस्तकानि । श्रीमद्भगवद्गीता। (व्याख्याष्टक ८ मण्डिता।) १ शांकरभाष्येण २ आनन्दगिरिव्याख्यायुजा सहिता ३ नीलकण्ठी ४ मधुसूदनी ५ भाष्योत्कर्षदीपिका ६ श्रीधरी ७ अभिनवगुप्तपादाचार्यव्याख्यायुता तथा ८ गूढार्थतत्वालोकाख्येन मधुसूदनीन्या- ख्याविवरणेन श्रीधर्मदत्तशर्म (प्रसिद्धब- चाशर्म) मैथिलप्रणीतेन सहिता च । भगवदर्जुनसंवादरूपस्योपनिषद्गर्भस्यातएवातिगभीरार्थस्य गीताशा- स्त्रस्यांशतस्तत्त्वचिख्यापयिषया परमकारुणिकेन साक्षाच्छंकरावतारेण श्रीमच्छंकराचार्येण भाष्यं व्यरचि । तदनु च क्षुण्णतत्पदवीकैश्चतुर्ध- रनीलकण्ठ–मधुसूदनसरस्वतीप्रमृतिभिरत्रशिरोनिर्दिष्टा व्याख्या अपि निजमतिविभवानुसारेण व्यङ्गयार्थ-गूढार्थतात्पर्यदर्शिका व्यरल्यन्त । आसंश्चैतवदधि तासु काश्चन मुद्रिताः परं च तासामैकपद्येन बोधास्वा- दासंभवादखिलवेदान्तरसिकमानुषप्राणिनो युगपदास्वादयितुं सर्वाभि- स्ताभिः सह भवद्भिर्मुद्रणीयेयमिति चिराद्विद्वत्संघप्रेरितेन मया मूर्त्ता- दाय तत्सूचितं महतायासेनाहमांचकममुं ग्रन्थं प्रतिव्याख्यानं भिन्नैरपि मनोहरैरायसाक्षरैः सुदृढचिक्कणपत्रेषु । स्फुटीभविष्यत्यस्य बहिरङ्गान्त- रङ्गसौन्दर्यप्रकर्षो दर्शनसमकालमेवेति प्रपञ्चेनालम् । मूल्यं ८ रु.ट.१ रु. पातञ्जलमहाभाष्यम् । (विधिशेषरूपं द्वितीयं खण्डम् । प्रथमाध्यायद्वितीयपादादिद्वितीयाध्यायान्तम् । कैयटप्रणीतप्रदीपेन नागेशकृतोद्दयोतेन च परिवृतम् । इदमपि नवाह्निकवत् सुविभक्तमुद्र- णपरिपाट्यैव पूर्वपक्षि-सिद्धान्त्येकदेशि-सिद्धान्त्युक्तिभिस्तदन्तर्गतैरवा- न्तरविषयैश्च संविभज्य संयोज्य च यथावं शिरोलेखे( हेडिङ्गे) न सं- विभक्तविषयसूचनेन विभूष्य च कृतसंविभागप्रदीपोहयोतयोरधस्तात्सं- निवेशनेन मुद्रितम् । येनास्यानतिशिक्षिता अपि रहस्यमवगच्छेयुः । मू. ४॥. रु. ट..
तर्कसंग्रहचंद्रिका। तर्कसंग्रहसहिता। इयं व्याख्या गभीरार्धापि मुन्दरतरास्ति । अस्याः प्रणेता श्रीका- शीस्थः प्राच्यो विद्वान् महामहोपाध्यायप्रतिभो गाडेगिलोपाहः श्रीमुकुन्द- शासीदिति ज्ञायते । बालाल्पमतिदुरवबोधविषयचिख्यापयिषुणानेन व्याख्यात्रा महता परिश्रमेण व्यरचीयं टीका तथा च विविधटिप्पणपरि- कारपरिष्कृतास्तीति विद्यार्थिभिरादरणीया. मूल्यं - ट. - ऐतरेयब्राह्मणम्। (पश्चिका ८) अयं ग्रन्थ आमूलान्तं भाष्येण संवाद्यं वैदिकसंप्रदायपाठान्मूले सं- स्थाप्य भाष्यादृतपाठान्पृष्ठाधो विनिवेश्य वैदिकद्वारा संशोधनेन संस्कृत्य मुद्रितोस्ति । मूल्यं १ रु. ट. ४ मीमांसान्यायप्रकाशः। (आपोदेवी) अयं पूर्वमीमांसाशास्त्रस्य सुप्रसिद्धः प्रकरणग्रन्थोऽध्येतृणामध्याप- कानां चातीवोपकारकोऽस्ति । अस्य प्राचीनानि हस्तलिखितानि मुद्रि- तानि च कतिपयपुस्तकानि संपाद्य पाठान्तरैः स्थलविशेषे विशेषटिप्प- णैश्च सनाथीकृत्याङ्कितः कुण्डरत्नावली-व्याख्यासहिता। कुण्डानां वेदीनां च ६४ आकृतिसंख्या । इष्टापूर्तादिकृत्यानि प्रायः सन्ति कुण्डमण्डपसाध्यानि । तत्र कस्मि- कर्मणि कियदायामविस्तरवान्मण्डपोऽपेक्षितः कथं वा विविधकुण्डानां वेदीनां च प्रमाणायामविस्तारादीति निर्णयो भवत्यनेन ग्रन्थरत्नेन । अत्रविशेषः-वृत्तकरणात्सूत्रपातनेन साध्या कुण्डवेदीप्रकृतिः सूत्रमार्जनेन सिद्धा सेत्युभयविधा आकृतयः प्रयत्नेन निर्माय तत्रतत्र यथा सर्वेषां यथावज्ज्ञानं स्यादेवं विन्यस्ताः सन्ति. मू. 11. 64 मू. १ ट.62