Bharti Bhawan Library Allahabad
Kavyamala Part Viii
Front matter
KAVYAMÂLÂ.
(1
A collection of old and rare Sanskrit Kavyas,
Nâtakas, Champús, Bhânas, Prahasanas,
Chhandas, Alankaras &c.
PART VIII.
EDITED BY
PANDIT DURGÂPRASAD
AND
KÂSÎNÁTH PÂNDURANG PARAB.
docee
PRINTED AND PUBLISHED
THE PROPRIETOR
OF
THE “NIRNAYA-SÂGARA” PRESS,
BOMBAY
1891.
Price 1 Rupee.
(Registered according to Act XXV of 1867. ) (All rights reserved by the publisher. ) ॥ श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । Marita अष्टमो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपा - पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १८९१ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) mom मूल्यमेको रूप्यकः ।
अनुक्रमणिका।
पृष्ठम्।
१
५१
60.
विषयः ।
१. श्रीकूरनारायणकविप्रणीतं सुदर्शनशतकम्, सटीकम्
२. श्रीविश्वेश्वरपण्डितप्रणीतं कवीन्द्रकर्णाभरणम्, सटीकम्
३. प्रबोधसुधाकरः
४. श्रीजहणप्रणीतो मुग्धोपदेशः
५. श्रीविश्वेश्वरपण्डितप्रणीतं रोमावलीशतकम्
६. वेदान्ताचार्यश्रीवेङ्कटनाथप्रणीता सुभाषितनीवी
...
....
0000
१०९
१२५
१३५
१५१
....
.७.०
....
काव्यमाला। श्रीकरनारायणकविप्रणीत मुदर्शनशतकम्। मटीकम् । । रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुर्ति निवृत्तये । समाश्रयेऽहं वर पूरणी यस्तं कूरनारायणनामिनं मुनिम् ॥ सौदर्शन्युजिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चि- बर्बाह्याबाह्यान्धकारक्षतजगदगदंकारभूम्ना स्वधाम्ना । दोःखजूदूरगद्विवुधरिपुवधूकण्ठवैकल्यकल्पा ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाभीप्सितानि ॥ १ ॥ बाह्याबाह्यान्धकारक्षतजगदगदंकारभूना बाह्यश्चाबाह्यश्च बाह्याबाह्यौ । बाह्याबाह्यौ तावन्धकारौ च बाह्याबाह्यान्धकारौ । बाह्यान्धकारो बाह्येषु सक्चन्दनादिषु विषयेषु भोग्यताम्रान्तिः । 'संसारसर्पदष्टानां भोग्याः स्रक्चन्दनादयः । मोहेन मधुरायन्ते नि- सीनिम्बसंनिभाः ॥' इत्युक्तत्वात् । ज्ञानशक्त्यादिकल्याणगुणविभूषिते सकलजगदन्त- यामित्वेनाबाह्यविषये श्रीरङ्गनायके निर्गुणत्वादिभ्रान्तिरबाह्यान्धकारः । अथवा विश्- जलविजृम्भमाणतमःपटलो बाह्यान्धकारः । अज्ञानान्यथाज्ञानविपरीतज्ञानादिरबाह्या- न्धकारः । द्वन्द्वान्ते श्रूयमाणोऽन्धकारशब्दः प्रत्येकमभिसंबध्यते । तेन तमसा क्षतं नष्टं यजगत् । नष्टप्रवृत्ति नष्टेष्टसाधनप्रवृत्ति वेत्यर्थः । तादृशस्य जगतो भुवनस्यागदंका- रश्चिकित्सको भूमा बाहुल्यं यस्य तत्तेन । अथवा चिकित्सकस्य भूमा बाहुल्यमिव बा- हुल्यं यस्य तत्तेन स्वधान्ना निरर्गलविनिर्गलस्वतेजःपटलेन सावित्रं सवितसंबन्धि अ- १. अस्य कवेर्देशकालौ न ज्ञायेते. भाति चाय कश्चन विशिष्टाद्वैतमतानुयायी द्र- विडः. शतकस्यास्यैकं मूलपुस्तकं जयपुरमहाराजाश्रितवैद्यवरश्रीकृष्णशर्मभिर्दत्तम्. अपरमेकं मूलपुस्तकं टीकापुस्तकं च जयपुरवर्तिबुद्धिविधिनीसभायाः संपादकेन दी. क्षागुरूपनामकलक्ष्मीनारायणस्वामित्सू नुना श्यामसुन्दरपण्डितेन समर्पितम्. मूलमात्रमे- तस्य शतकस्य स्तोत्ररत्नावल्यामनतिशुद्धं मुद्रितमिति सटीकस्यास्य मुद्रणे वयं पुनः प्रवृत्ताः स्मः. तत्र टीकापुस्तके तत्प्रणेतुर्नाम नास्ति.
Hiranataly २ काव्यमाला। चिस्तेजस्तिरस्कृत्य आच्छिद्य । महत्कृतेनेत्यर्थः (१) । दिशि विदिशि सर्वासु दिक्षु । च- तुर्दशभुवनेष्वित्यर्थः । उज्जिहाना उदयमाना । दोःखजूंदूरगर्जद्विबुधरिपुवधूकण्ठवैकल्य- कल्पा दोषां भुजानां खजूः कण्डूतिस्तया दूरमत्यर्थ गर्जन्तः सिंहनादं कुर्वन्तो विबुधरि- पवत्रिदशकण्टकास्तेषां वध्वो माहिष्यस्तासां कण्ठा श्रीवास्तेषां कैवल्यं मङ्गलसूत्रादिरा- हित्यं तस्मिन्कल्पा सज्जा संनद्धा । प्रचण्डभुजदण्डकण्डूलतया प्रलयसमयजलधरघोर• घोषाटोपलोपकृद्गर्जनतर्जनादिकरणचणनिर्जरद्विषद्वधूवैधव्यविधानसंनद्धेत्यर्थः । अत एव जाज्वल्यमाना अप्रतिहतवृत्त्या प्रकाशमाना । सौदर्शनी सुदर्शनसंबन्धिनी ज्वाला भव. तामभीप्सितान्यभीष्टार्थान् वीप्सया पौनःपुन्येन वितरतु ददातु दद्यात् । एतेनाश्रिताना- मिष्टानिष्टप्राप्तिहरणनिपुणेत्युक्तम् ॥ प्रत्युद्यातं मयूखैनभसि दिनकृतः प्रत्तसेवं प्रभाभि- भूमौ सौमेरवीभिर्दिवि वरिवसितं दीप्तिभिर्देवधाम्नाम् । भूयस्यै भूतये वः स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गं चाकं जाग्रप्रतापं त्रिभुवनविजयव्यग्रमुग्रं महस्तत् ॥ २ ॥ सोमेरवीभिरमरगिरिसंबन्धिनीभिः प्रभाभिर्युतिभिर्भूमौ विश्वंभरायां प्रत्तसेवं प्रकृत- सेवं कृतपरिचर्यम् । 'अच उपसर्गात्तः' इति तत्त्वे दकारलोपः । अमरगिरिकिरणपरि- चरितमित्यर्थः । दिनकृतः सूर्यस्य मयूखैः किरणैर्नभस्याकाशे प्रत्युद्यातं प्रत्यागत्य परिपू- जितम् । प्रभाकरप्रभाविर्भावसंभावितमित्यर्थः । देवधानाममरसौधानां नक्षत्राणां वा दीप्तिभिः प्रभाभिर्दिवि स्वर्गलोके वरिवसितमुपासितम् । सुरवरनिकरकनकमयसदनरु- चिररुचिचयपरिचरितमित्यर्थः । नक्षत्रप्रभासवितमिति वार्थः । सकलदिग्भ्रान्तसान्द्र- स्फुलिङ्ग सर्वासु दिक्षु भ्रान्ताः सान्द्रा निबिडाः स्फुलिङ्गाः कृशानुकणा यस्य तत् । स- कलदिगन्तरालबम्भ्रम्यमाणनीरन्ध्रकरालाग्निकणमिति यावत् । त्रिभुवनविजयव्यग्रं त्र- याणां भुवनानां विजये व्यग्रं ससंभ्रमम् । त्रिभुवनविजयव्यासङ्गनिर्जितत्रिभुवनान्तराल- वर्तमानपरिपन्थिपरम्परमित्यर्थः । जाग्रत्प्रतापमतिस्फुरत्प्रतापदहनम् । प्रतिदिशं प्रका- शमानप्रतापप्रवृत्तिप्रकृष्टमित्यर्थः । उग्रं प्रतिभटभयंकरम् । चाकं चक्रस्येदं चक्रराजसं- बन्धि तत्प्रसिद्धं महस्तेजो वो युष्माकं भूयस्यै बहुतरायै भूतये भूयात् । 'बहोर्लोपों भू च बहोः' इति ॥ पूर्णे पूरैः सुधानां सुमहति लसतः सोमबिम्बालवाले बाहाशाखावरुद्धक्षितिगगनदिवश्वक्रराजद्रुमस्य । ज्योतिश्छद्मा प्रवालः प्रकटितसुमनःसंपदुत्तंसलक्ष्मी पुष्णन्नाशामुखेषु प्रदिशतु भवतां सप्रकर्ष प्रहर्षम् ॥ ३ ॥ सुधानां पूरैरमृतरसप्रवाहैः पूर्णे तस्मिन् । मधुरतरसुधारसप्रवाहप्रपञ्चपरिपूरित इति LANANE ३ । सुदर्शनशतकम् । यावत् । सुमहति महत्तरेऽपरिच्छिन्नवैभवे सोमबिम्बालवाले शिशिरकरमण्डलमेवाल- वालं तस्मिन् लसतो विराजमानस्य । बाहाशाखावरुद्धक्षितिगगनदिवः बाहा भुजा एव शाखा विटपास्ताभिरवरुद्धा आक्रान्ताः क्षितिर्धरित्री गगनमन्तरिक्षं द्यौः स्वर्गश्च क्षि- तिगगनद्यावः बाहाशाखावरुद्धाः क्षितिगगनद्यावो येन सः । तस्य चक्रराजद्रुमस्य सुद- र्शनकल्पद्रुमस्य ज्योतिश्छद्मा ज्योतिस्तेजश्छद्म व्याजो यस्य तथोक्तः प्रवालः किस- लयः । ज्योतिर्नामकं किसलयमित्यर्थः । प्रकटितसुमनःसंपत् प्रकटिता प्रचुरीकृता सुम- नसां पुष्पाणामाशामुखेषु दिखेपूत्तंसलक्ष्मी कर्णाभरणशोभां पुष्णन् बहुलयन् । संपा- दयनित्यर्थः । भवतां युधमाकं सप्रकर्ष प्रहर्षम् । निरतिशयानन्दमित्यर्थः । प्रदिशतु द- द्यात् । मधुरतरसरससुधारसपरिवाहपरिपूर्णमहत्तरसुधाकरालवाललसत्सुदर्शनकल्पद्रु- ज्योतिःप्रवालः सुमनःसंपत्समृद्धो दिङ्मण्डलमण्डनायितः सन्भवतां निष्प्रतीपं प्रमोदं प्रदद्यादित्यर्थः ।। आरादारात्सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षा- नाभीस्वत्सनाभेनिजविभवपरिच्छिन्नभूमेश्च नेमेः । आम्नायैरेककण्ठैः स्तुतमहिम महो माधवीयस्य हेते- स्तद्वो दिवेधमानं चतसृषु चतुरः पुष्यतात्पुरुषार्थान् ॥ ४ ॥ सहस्रात्सहस्रसंख्यासंख्येयात् । आरादरसमूहात्। समूहाथै णच् । 'अचो णिति' इति वृद्धिः । विमतक्षेपदक्षात् । शत्रुनिरसनसमर्थादित्यर्थः । अक्षात्सुदर्शनावयवविशेषात् । भास्वत्सनाभेर्भास्वतः सूर्यस्य सनाभिर्बन्धुस्तस्य नाभः पिण्डिकायाः । भास्वत्सनाभिम- ध्यप्रदेशादित्यर्थः । निजविभवपरिच्छिन्नभूमेः निजः स्वकीयो विभवो विस्तारस्तेन परि- च्छिन्ना परिमिता भूमिर्यया सा तस्या नेमेः प्रधेश्च सकाशात् संजातं यन्महः आराद- न्तिके दूरे च । सर्वत्रेत्यर्थः । विसरति व्याप्नोति । एककण्ठैरविसंवादिभिरान्नायैः स्तुत- महिम स्तुतो वणितो महिमा यस्य तत् । अथवा वेदैरेकः कण्ठो यस्मिन्कर्मणि तदवि- द्यमानविरोधवस्तु स्तुतमहिम । चतसृषु प्राच्यवाच्यादिषु दिक्षु दिशास्वेधमानं वर्धमानं माधवीयस्य श्रीरङ्गसंबन्धिनो हेतेरायुधस्य चक्रस्य तन्महश्चतुरः पुरुषार्थान्धर्मार्थकाम- मोक्षान्पुष्यतात्पुष्णातु ॥ श्यामं धामप्रसृत्या क्वचन भगवतः क्वापि बभ्रु प्रकृत्या शुभ्रं शेषस्य भासा वचन मणिरुचा क्वापि तस्यैव रक्तम् । नीलं श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येव चित्रां व्यातन्वानं वितानश्रियमुपचिनुताच्छम वश्चक्रभानम् ॥ ५ ॥ कचन कस्मिंश्चित्प्रदेशे भगवतः प्रकटितनीलकटकाम्बुदचयेन धूणितवैभवस्य (?) वै- कुण्ठकण्ठीरवस्य धामप्रसृत्या धान्नो निजितनीलोत्पलमेघनीलशिलाकान्तेः प्रस्त्या --- काव्यमाला। व्याप्त्या श्यामम् । क्वापि प्रकृत्या बभ्रु स्वभावतः पिङ्गलवर्णम् । क्वचन शेषस्यामृतफेनप- टलपाण्डुरविग्रहस्यानन्तस्य भासा प्रभया शुभं धवलम् । कापि तस्यैव शेषस्यैव मणिरुचा शिरोभागस्थितपद्मरागप्रभापटलेन रक्तं जपाकुसुमलोहितम् । क्वचिदपि श्रीनेत्रकान्त्या अञ्जनरञ्जितयोर्नीलोत्पलदलरमणीययोः श्रीरङ्गनायिकानयनयोः प्रभया नीलं कृष्णं सत् मिथुनस्यादिमस्य सश्रीकस्य श्रीरङ्गनाथस्य चित्रां नानाव) वितानश्रियमुल्लोचशोभा व्यातन्वानं कुर्वाणमिव स्थितं चक्रमानं सुदर्शनतेजो. वः शर्म उपचिनुतात्संपादयतु प्रचुरयतु ।। शंसन्त्युन्मेषमुच्छोषितपरमहसो भास्वतः कैटभारे- रिन्धे संध्येव नक्तंचरविलयकरी या जगद्वन्दनीया । बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी सा राथाङ्गी रश्मिभङ्गी प्रणुदतु भवतां प्रत्यहोत्थानमेनः ॥ ६ ॥ उच्छोषितपरमहस उच्छोषितं चुलुकितं अथवा उच्छोषितं शुष्कीकृतं परेषां च- न्द्रादिग्रहाणां महस्तेजो येन स तस्य भास्वतः सूर्यस्योन्मेषमुदयं शंसन्ती संध्येव । उच्छोषितपरमहसः कवलितप्रत्यर्थिप्रतापस्य कैटभारेः श्रीरङ्गनायकस्योन्मेषमघटमान- घटकत्वं शंसन्ती ब्रुवाणा । नक्तंचरविलयकरी राक्षसविनाशकरी। संध्यापक्षे समानम् । जगद्वन्दनीया निखिलभुवनोपास्या राथाङ्गी सुदर्शनसंबन्धिनी रश्मिभङ्गी ज्वालाप. रिपाटी संध्येव इन्धे प्रकाशते । बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी बन्धू. कानां बन्धुजीवकुसुमानां छाया कान्तिस्तया बन्धुमित्रं छविस्तया घटितो युक्तो धन- च्छेदो मेघखण्डस्तद्वन्मेदुरा । प्रवृत्यिर्थः । संध्यापक्षेऽपि समानम् । सा ज्वाला भवतां प्रत्यहोत्थानं प्रतिदिनभवमेनः पापं प्रणुदतु ॥ साम्यं धूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि स्फौलिङ्गी यान्ति कान्ति दिशति यदुदये मेरुरङ्गारशङ्काम् । अग्निर्मग्नाचिरैक्यं भजति दिननिशावल्लभौ दुर्लभाभौ ज्वालावाविव स्तः प्रहरणपतिजं धाम वस्तद्धिनोतु ॥ ७ ॥ यदुदये यस्य ज्वालाचक्रस्योदये नभोऽन्तरिक्षं धूम्याप्रवृद्ध्या धूमसमूहसमृद्ध्या । 'पाशादिभ्यो यः' इति यप्रत्ययः । पाशादिराकृतिगणः । 'ग्रामता जनता धूम्या' इत्य- मरः । साम्यं सादृश्यं प्रकटयति विशदयति । धूमसमूहसमृद्धिसाम्यं भजतीत्यर्थः । तारकाजालकानि तारकाणां जालानि समूहास्त एव जालकानि । स्वाथै कप्रत्ययः । अथवा कोरकावस्थितत्वाजालकानीत्युच्यन्ते । कोरकावस्थितानि नक्षत्राणीत्यर्थः । स्फौलिङ्गी स्फुलिङ्गसंबन्धिनी कान्ति शोभा यान्ति गच्छन्ति । मेरुः स्वर्णाचलोऽङ्गा- रशङ्कामयमङ्गार इति संदेहं दिशति ददाति । अग्निरनलो मनाचिविलीनप्रकाश ऐक्यं
बुदर्शनशतकम् ।
६
ज्वालान्तःपातित्वं भजति प्राप्नोति । दिननिशावल्लभौ दिनं च निशा च दिननिशे त.
योर्वल्लभौ रविशशी दुर्लभाभौ अभिभूतप्रकाशौ सन्तो ज्वालावाविव ज्वालाम्भसां
भ्रमिप्रकाराविव स्तो भवतस्तत्तादृशप्रभावं प्रहरणपतिजमायुधराजसंजातं धाम तेजो
वो युष्मान्धिनोत्वानन्दयतु । प्रीणात्वित्यर्थः ।।
दृष्टेऽधिव्योम चक्रे विकचनवजपासंनिकाशे सकाशं
स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतो वेगतोऽस्य ।
निष्टप्तो यैर्निवृत्तो विधुमिव सहसा स्प्रष्टुमद्यापि नेष्टे
धर्माशुं ते घटन्तामहितविहतये भानवो भास्वरा वः ॥ ८ ॥
व्योनि इत्यधिव्योम । विभक्त्यर्थेऽव्ययीभावः । विकचनवजपासंनिकाशे विकसित-
नवजपाकुसुमसमूहमेचके (2) सुदर्शनपुरुषे दृष्टे विलोकिते सति स्वर्भानू राहुदृष्टिवि-
षयो ह्येष स्फुटं व्यक्तं यथा भवति तथा भानुः सूर्योऽयमिति कलयनिश्चिन्वानः अस्या-
मुष्य सकाशं समीपं वेगतो रयादागतो यैर्भानुभिनिष्टप्तो नितरां तप्तो भानुकृतसंताप-
मसहमानो निवृत्तः परावृत्तः सन्नद्यापीदानीमपि तद्भयामौशुमुष्णकिरणं विधुमिव
चन्द्रमिव सहसा शीघ्र स्प्रष्टुं स्पर्श कर्तुं नेष्टे न समर्थस्ते भास्वरा विद्योतमाना मानवः
किरणा अहितविहतये शत्रुविनाशाय घटन्तां चेष्टन्तां कल्पन्ताम् ॥
देवं हेमाद्रितुङ्ग पृथुभुजशिखरं विभ्रती मध्यदेशे
नाभिद्वीपाभिरामामरविपिनवतीं शेषशीर्षासनस्थाम् ।
नेमि पर्यायभूमि दिनकरकिरणादृष्टसीमः परीत्य
प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तु दिव्यास्त्ररश्मिः ॥ ९ ॥
पृथुभुजशिखरं पृथवः । मांसला इत्यर्थः । ते च ते भुजाश्च त एव शिखराणि -
ङ्गाणि यस्य सः । हेमाद्रिः स्वर्णाद्रिस्तद्वत्तुङ्गमुन्नतं देवं सुदर्शनपुरुषं मध्यदेशे बिभ्रती
दधतीम् । नाभिद्वीपाभिरामां नाभिः पिण्डिका सैव द्वीपस्तेनाभिरामां रमणीयाम् ।
अराण्येव विपिनान्यस्याः सन्तीत्यरविपिनवतीम् । शेषशीर्षासनस्थां शेषशिरःसिंहास-
नासीनाम् । पर्यायभूमि वसुंधरापरतनुं नेमि प्रधि परीत्य परित आवृत्य दिनकरकिरणा
दृष्टसीमस्तरणिकिरणाविषयप्रदेशश्चकवालाचल इव लोकालोकपर्वत इव विलसन्प्रका-
शमानश्चक्रवालसदृशो दिव्यास्त्ररश्मिर्वो युष्माकं प्रीत्यै सुखायास्तु भवतु ॥
एकं लोकस्य चक्षुर्द्विविधमपनुदत्कर्म नम्रत्रिनेत्रं
दात्रर्थानां चतुणी गमयदरिगणं पञ्चतां षड्गुणाढ्यम् ।
सप्ताचिःशोधिताष्टापदनवकिरणश्रेणिरज्यदशाशं
पर्यस्याद्वः शताङ्गावयवपरिवृढज्योतिरीतीः सहस्रम् ॥ १० ॥
SHAINIK ६ काव्यमाला। । . लोकस्य भुवनस्यैकं मुख्यम् । प्रधानभूतमित्यर्थः । चक्षुर्लोचनम् । 'चक्षुर्देवानामुत मानाम्' इति श्रुत्युक्तत्वात् । द्विविधं द्विप्रकारं कर्म पुण्यपापरूपं कर्मापनुदानिर्गमयत् । विनाशयदित्यर्थः । नम्रत्रिनेत्रं नतस्त्रिनेत्रः शिवो यस्य तत् । चतुर्णामर्थानां धर्मार्थका- ममोक्षाणां दाट दायकम् । अरिगणं शत्रुनिकरं पञ्चतां मृतिं गमयन्नयत् । षड्डणाध्यं ज्ञानशक्त्यादिकल्याणगुणप्रसिद्धम् । सप्ताचिरग्निस्तेन शोषितं तापितं विलीनम् । द्रवी- भूतमिति यावत् । तच्च तदष्टापदं च काञ्चनं तद्वन्नवकिरणश्रेणिस्तया रज्यन्त्यस्ताम्रा भवन्त्यो दश आशा दिशो यस्य तत् । शताङ्गावयवपरिवृढज्योतिः शताङ्गो रथः । 'श- ताङ्गः स्यन्दनो रथः' इत्यमरः । तस्यावयवपरिवृढश्चक्रप्रभुस्तस्य ज्योतिर्महो वः सहस्र- मीतीरसंख्या ईतीः पर्यवस्यादपनुदतु ॥ उच्चण्डे यच्छिखण्डे निबिडयति नभःक्रोडमर्कोऽटति द्या- मभ्यस्य प्रौढतापग्लपितवपुरपो बिभ्रतीरभ्रपतीः । धत्ते शुष्यत्सुधोत्सो विधुरपमधुनः क्षौद्रकोषस्य साम्यं रक्षन्त्वस्त्रप्रभोस्ते रचितसुचरितव्युष्टयो वृष्णयो वः ॥ ११ ॥ उच्चण्डेऽत्यन्तकराले । शत्रूनुद्दिश्य क्रूर इत्यर्थः । यच्छिखण्डे येषां घृणीनां शिखण्डे शिखाप्रदेशे नभःक्रोडमाकाशमध्यं निबिडयति व्याप्नुवति सत्यर्कः प्रभाकरः प्रौढताप- ग्लपितवपुः प्रौढतापेन ग्लपितं ग्लापितं वपुर्यस्य स ग्लपितवपुः सन्नपो बिभ्रतीर्दधती- रभ्रपङ्कीर्मेघपरम्परा अभ्यस्य पौनःपुन्येन संसेव्य द्यामाकाशमटति गच्छति । आकाशं प्राप्य परिभ्रमतीत्यर्थः । विधुश्चन्द्रः शुष्यत्सुधोत्सः शुष्यन्सुधाया उत्सः प्रवाहो यस्य । 'उत्सः प्रस्रवणं वारिप्रवाहः' इत्यमरः । शुष्कीभवन्सुधाप्रवाहो यस्य स अपमधुनो नि- र्गतमाक्षिकस्य क्षौद्रकोषस्य क्षौद्रपटलस्य साम्यं सादृश्यं धत्ते प्राप्नोति । अस्त्रप्रभोरन- राजस्य सुदर्शनपुरुषस्य ते तादृशा रचितसुचरितव्युष्टयो रचिताः कृताः सच्चरित्राणां व्युष्टयः समृद्धयो यैस्ते । 'व्युष्टिः फले समृद्धौ च' इत्यमरः। घृष्णयः किरणा वो युष्मानक्षन्तु ॥ पझौघो दीर्घिकाम्भस्यवनिधरतटे गैरिकाम्बुप्रपातः सिन्दूरं कुञ्जराणां दिशि दिशि गगने सांध्यमेघप्रबन्धः । पारावारे प्रवालो वनभुवि च तथा प्रेक्ष्यमाणः प्रमुग्धैः साधिष्ठं वः प्रमोदं जनयतु दनुजद्वेषिणस्त्वैषराशिः ॥ १२ ॥ दीधिकाम्भसि वापिकास्वच्छतरतोये पद्मोघो रक्तकमलपण्डः किम् । अवनिधरतटे पर्वतानां स्फटिकमयतटे गैरिकाम्बुप्रपातो धातुजलप्रपातैः किम् । दिशि दिशि प्राच्या- दिदिक्षु कुञ्जराणां सिन्दूरं दिक्कुम्भिकुम्भस्थलालंकारभूतसिन्दूरपरागः किम् । गगने वि- यति सांध्यमेघप्रबन्धः संध्यासंबन्धिजलधरपटलः किम् । पारावारे समुद्रे प्रवालो विद्रुमः सुदर्शनशतकम् । । किम् । वनभुवि काननप्रदेशे प्रवालः पल्लवः किम् । एवंप्रकारेण प्रमुग्धैरविदग्धैः प्रे. क्ष्यमाणो दृश्यमान उत्प्रेक्ष्यमाणः शङ्कयमानः । सर्वत्र काकुरनुसंधेया । 'किं चोच्चैःस्वर- लभ्यश्चेत्काकुः' इति भरतेनोक्तम् । दनुजद्वेषिणो रक्षःसंहारिणः सुदर्शनपुरुषस्य त्वैषरा- शिस्त्विषां संबन्धि त्वैषं स चासौ राशिश्च वः साधिष्ठं प्रमोदं संतोषं प्रबोधं विज्ञानं वा जनयतूत्पादयतु॥ भानो भा नो त्वदीया स्फुरति कुमुदिनीमित्र ते कुत्र तेज- स्तारास्थारादधीरोऽस्यनल न भवतः स्वैरमैरंमदार्चिः । शंसन्तीत्थं नभःस्था यदुदयसमये चक्रराजांशवस्ते युष्माकं प्रौढतापप्रभवभवगदापक्रमाय क्रमन्ताम् ॥ १३ ॥ यदुदयसमये चक्रज्वालासमुदयकाले नभःस्था वियति दिव्यविमानारूढा देवा तेजः- पदार्थानुद्दिश्येत्थं सोपहासं शसन्ति वदन्ति । किमिति । हे भानो सूर्य, त्वदीया त्वत्संब- धिनी भा दीप्ति! स्फुरति न प्रकाशते । हे कुमुदिनीमित्र चन्द्र, ते तेजश्चन्द्रिका कुत्र कस्मिन्प्रदेशे विलीनम् । हे ताराः, आराडूरत एव स्थ भवथ । अनल पावक, अधीरोऽसि । सा ज्वाला त्वां न गणयति किमर्थ चञ्चलो भवसीत्यर्थः । हे एरंमदाचिः सौदामिनीसंबन्धितेजः, भवतः स्वैरं न निरन्तरावर्तमानयुक्तम् (१) । अर्चिःशब्दस्य नपुंसकस्यापि 'अचितिः शिखा स्त्रियाम्' इति स्त्रीलिङ्गत्वपक्षेऽप्येवं योज्यम् । ऐरंम- दाचिविद्युत्संबन्धिनी अचिस्तेजो यस्य पुरुषस्य स ऐरंमदार्चिस्तस्य संबन्धी विद्युत्पुरुष इत्यर्थः । ते तादृशा अस्त्रराजांशवश्चक्रराजमयूखा युष्माकं प्रौढश्चासौ तापश्च तस्य प्र- भवो जन्मसदनं स चासौ भवश्व स एव गदस्तस्यापक्रमो निष्क्रमणं तस्मै क्रमन्तां पा- दप्रसारं कुर्वन्तु ॥ जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनां पीत्वा चाम्भश्चरन्त्यः सवृषमनुगता वल्लवेनादिमेन । गावो वश्चक्रभर्तुः परममृतरसं प्रश्रितानां दुहाना ऋद्धि वालोकलुप्तत्रिभुवनतमसः सानुबन्धां ददन्ताम् ॥ १४ ॥ अरिसुदृशां शत्रुयुवतीनां कर्णेषु दूर्वाङ्गुरं कर्णावतंसीकृतगारुत्मतरत्नप्रभापटलरम- णीयनूतनदूर्वादलं जग्ध्वा । भक्षयित्वेत्यर्थः । शत्रुस्त्रीणां वैधव्यं विधायेति यावत् । स्व- र्वघूनाममररमणीनामक्षिषु नयनेष्वम्भः पीत्वा जलं निपीय । रक्षोविक्षोभितदिविष. न्महिषीविलोचनविनिर्गताचपरम्परां निवारयित्वेत्यर्थः । पशवस्तुणं जग्ध्वा तदनु जलं पिबन्तीति प्रसिद्धिः । सवृष वृषेण धर्मेण वृषभेण च सह वृत्तियस्मिस्तत् चरन्त्यो वि. चरन्त्यः । आदिमैन चिरन्तनेन बल्लवेन गोपालेनानुयाता अनुगम्यमानाः । प्रश्रिताना- ममृतरसं निरतिशयानन्दं दुग्धं च परमत्यर्थ दुहानाः प्रस्नुवानाः । स्वालोकलुप्तत्रिभुवन- ८ काव्यमाला। तमसः स्वालोकेन स्वप्रकाशेन स्वदर्शनेन वा लुप्तं विनष्टं त्रिभुवनतमोऽज्ञानान्धकारश्च याभिस्ताः । चक्रभर्तुः सुदर्शनराजस्य गावः किरणाः सानुबन्धां नैरन्तर्येणानुवर्तमाना- मृद्धि समृद्धिं ददन्तां वितरन्तु । सानुबन्धशब्दः किरणविशेषणतया वा योज्यः ॥ सेनां सेनां मघोनो महति रणमुखेऽलं भयं लम्भयन्ती- रुत्सेकोप्णालुदोप्णां प्रथमदिविषदामावलीर्यावलीढे । विश्वं विश्वंभराढ्यं रथपदधिपतेर्लीलया पालयन्ती वृद्धिः सा दीधितीनां वृजिनमनुजनुर्मार्जयत्वर्जितं वः ॥ १५ ॥ महति रणमुखे महत्तरसंगररङ्गे इनाः प्रभवस्तैः सहिताम् । 'इनः सूर्य प्रभौ' इत्य- मरः । मघोनः शक्रस्य सेनामत्यर्थे भयं लम्भयन्तीः । उत्सेकोष्णदोष्णः उत्सेकेन गणो- ष्णालूनि उष्णं परजनसमृद्धिं न सहन्त इत्युष्णालूनि मदातिशयेन परविभवासहिष्णूनि । 'शीतोष्णाभ्यामालुच्च' 'न सहते इति वक्तव्यम्' । इति शीतं न सहते उष्णं न सहते इत्यालुच्प्रत्ययः । उष्णासहिष्णूनि दोष्णि भुजा यासां ता: पूर्वदिविषदां पूर्वदेवानामा- वलीः पङ्खीविलीदे आस्वादयति । विश्वं विश्वंभराव्यं विश्वंभराच्या यस्य तं विश्वं पृ- थिव्यादिपञ्चभूतात्मकं जगत्कर्म लीलया अनायासेन पालयन्ती रक्षन्ती रथपदधिपतेः सुदर्शनपुरुषस्य दीधितीनां द्युतीनां वृद्धिरनुजनु जनुषि जनुषि अजितं संपादितं वृजिनं दुरितं मार्जयतु । शोधयत्वित्यर्थः ।। तप्ता स्वेनोष्मणेव प्रतिभटवपुषामनधारां धयन्ती प्राप्तेव क्षीवभावं प्रतिदिशमसकृत्तन्वती पूर्णितानि । वंशास्थिस्फोटशब्दं प्रकटयति पटून्यावहन्त्यट्टहासा- न्माः सा वः स्यन्दनाङ्गप्रभुसमुदयिनी स्पन्दतां चिन्तिताय ॥१६॥ या भाः स्वेन स्वकीयेनोष्मणा औष्ण्येनेव तप्ता दह्यमाना असह्यप्रतापवती प्रतिभटवपुषां परिपन्थिशरीराणामस्रधारां रुधिरधारां धयन्ती पिबन्ती क्षीवभावं मत्ततां प्राप्तेव गतेव प्रतिदिशं दिशि दिशि घूर्णितानि घूर्णनान्यसकृदनेकशस्तन्वती कुर्वती वंशास्थिस्फो- टशब्दम् । वंशवस्थितत्वाव॑शास्थीत्युच्यते । वंशो नाम चरमभागावस्थितः शरीराधा- रस्तस्यास्थि तस्य स्फोट: स्फुटनं तस्मात्संजातः शब्दश्चिटचिटायमानो ध्वनिस्तमा- वहन्ती धारयन्ती । कुर्वतीत्यर्थः । पटून्क्षोभसमर्थानट्टहासान्विशृङ्खलहसितानि प्रकट- यति व्यपदिशति । एवं चाघटमानशब्दोऽट्टहास इति सूचयन्ती । लोके तावन्मेदुरा प्र- मदा उष्णालुः सती मदिरां पीत्वा प्रमत्ता भूत्वा घूर्षितानि प्रकटयति हसितानि च विदधाति । स्यन्दनाङ्गप्रभुसमुदयिनी स्यन्दनाङ्गप्रमोश्चक्रराजासमुदयः सोऽस्यास्तीति स- मुदयिनी सा वश्चिन्तिताय चिन्तितार्थसिद्धये स्पन्दतां चेष्टताम् ।।
सुदर्शनशतकम् । देवैरासेव्यमानो दनुजभटभुजादण्डदर्पोष्मतप्तै- राशारोधोतिलची लुठदुडुपटलीलक्ष्यडिण्डीरपिण्डः । रिङ्गज्ज्वालातरङ्गत्रुटितरिपुतरुवातपातोग्रमार्ग- श्चाक्रो वः शोचिरोधः शमयतु दुरितापहवं दाववह्निम् ॥ १७ ॥ दनुजभटभुजादण्डदर्पोमतप्तैः दनुजभटा राक्षसवीरास्तेषां भुजा एव दण्डास्तेष दो गर्वस्तस्मात्संजातमूष्म तेन तप्तास्तैर्देवैरासेव्यमानः । उष्णतप्ता जलप्रवाहं प्रवि- शन्ति । आशारोधोतिलची आशा दिशस्ता एव रोघांसि तटान्यतिलवयितुं शीलम- स्यास्तीत्यतिलची । लुठदुडुपटलीलक्ष्यडिण्डीरपिण्डः लुठन्ती परिवर्तमाना उडूनां नक्ष- त्राणां पटली समूहः सैव लक्ष्यं व्याजो यस्य स एव डिण्डीरपिण्डः उडुपटलीव्याज- डिण्डीरपिण्ड: फेनकवलो यस्य सः । रिङ्गज्ज्वालातरङ्गत्रुटितरिपुतरुवातपातोग्रमार्गः । ज्वाला एव तरङ्गाः रिङ्गन्तश्चलन्तश्च ते ज्वालातरङ्गाश्च तैस्त्रुटितास्ते च रिपुतरवः श- त्रुवृक्षास्तेषां व्रातः समूहस्तस्य पातः पतनं तेनोग्रो भयंकरो मार्गो यस्य सः । चाक्रः सुदर्शनसंबन्धी शोचिरोघस्तेजःप्रवाहः । 'ओघो वृन्देऽम्भसा रये' इत्यमरः । वो यु- ध्माकं दुरितापह्नवं दुरितं पापमपह्नव आवरणमाच्छादनं यस्मिन्स तं दाववहिं दावा- नलं शमयतु निर्वापयतु । दुरितशब्दाभिहितं दावदहनं विनाशयत्वित्यर्थः !! भ्राम्यन्ती संश्रितानां भ्रमशमनकरी छन्नसूर्यप्रकाशा सूर्यालोकानुरूपा रिपुहृदयतमस्कारिणी निस्तमस्का। धारासंपातिनी च प्रकटितदहना दीप्तिरस्नेशितुर्व- श्चित्रा भद्राय विद्रावितविमतजना जायतामायताय ॥ १८ ॥ भ्राम्यन्ती स्वयं भ्रमणानि कुर्वती संश्रितानामाश्रितानां भ्रमशमनकरी । भ्रान्ति- नाशिनीत्यर्थः । स्वयं भ्रमन्त्यप्याश्रितभ्रान्ति निवारयतीति चित्रम् । छन्नसूर्यप्रकाशा आच्छादितः सूर्यस्य प्रकाशः प्रभा यया सा । सूर्यालोकानुरूपा सूरिजनप्रकाशनदर्श- नयोरनुरूपा । 'आलोको दर्शनोद्दयोती' इत्यमरः । रिपुहृदयतमस्कारिणो शत्रुहृदयवि- मोहिनी । निस्तमस्का स्वयं ज्योतीरूपा । धारासंपातिनी प्रकटितदहना आसारवत्यपि प्रकटितपावका । विद्रावितविमतजना पलायिताः शत्रुजना यया सा। प्रधावितश- त्रुपरम्परेत्यर्थः । अस्त्रेशितुश्चक्रराजस्य चित्रा अद्भुता दीप्तिः प्रभावः आयताय दीर्घाय भद्राय मङ्गलाय जायतां प्रादुर्भवतु ।। निन्ये वन्येव काशी. दवशिखिजटिल ज्योतिषा येन दाहं कृत्या वृत्त्या विलिल्ये शलभसुलभया यत्र चित्रप्रभावे । रुद्रोऽप्यद्रेर्दहित्रा सह गहनगुहां यद्भयादभ्ययासी- द्दिश्याद्विश्वार्चितो वः स शुभमनिभृतं शौरिहेतिप्रतापः ॥ १९ ॥ ।
१० काव्यमाला। दवशिखिजटिलज्योतिषा दवदहनवज्जटिलानि जटावन्ति । दीर्घतराणीत्यर्थः । ज्योतींषि यस्य स तेन येन प्रतापेन काशी वाराणसी वन्येव वनसमूह इव दाहं भस्मता निन्ये नीता। चित्रप्रभावे आश्चर्यमहत्त्वे यस्मिन्प्रतापे कृत्या काचन देवता । 'कृत्या क्रियादेवतयोः' इत्यमरः ! शलभसुलभया शलभैलब्धुं शक्यया वृत्त्या वर्तनेन विलिल्ये। कृत्या सुदर्शनज्वालया शलभन्यायेन विलीना बभूवेत्यर्थः । रुद्रः सकललोकसंहारकः शिवोऽप्यद्रिदुहित्रा भवान्या साधं यद्भयात्सुदर्शनप्रतापभयाद्गहनगुहां दुरभिभवगह्वरम- भ्ययासीदविशत् । विश्वाचितो जगत्पूजितः शौरिहेतिप्रतापः श्रीरङ्गनायककरकिसल- यालंकरणावरणविभ्रमो वः शुभं कल्याणमनिभृतं प्रस्फुटं यथा स्यात्तथा दिश्याइयात् । अथवा शभविशेषणमनिभृतपदम् ।। उअन्बिम्बादुदारान्नयनहिमजलं मार्जयन्निर्जरीणा- मज्ञानध्वान्तमूर्खाकरजनिरजनीभञ्जनव्यञ्जिताध्वा । न्यकुर्वाणो ग्रहाणां स्फुरणमपहरन्नर्चिषः पावकीया- श्चक्रेशार्कप्रकाशो दिशतु दश दिशो व्यनुवानं यशो वः ॥२०॥ उदारादत्यन्तविशालाद्विम्बादुद्यन्प्रादुर्भवन् निर्जरीणां देवाङ्गनानां नयनहिमजलं मा- जयनिष्कासयन् । तुहिनगिरिपरिसरविचरदमरयुवतिनिकरनयनकुवलयाबिलतामपहर- निति । अज्ञानध्वान्तमूर्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा । अज्ञानं च ध्वान्तं चाज्ञा. नध्वान्ते ताभ्यां जायमानां मूर्छा करोतीति मूर्खाकरस्तच तजनितमश्च तदेव रजनी च तस्या भञ्जनं नाशनं तेन व्यञ्जितः प्रकटितोऽध्वा येन । अज्ञानजनिभञ्जनेन सूर्याद- तिशयो विहितः । ग्रहाणां स्फुरणमुत्तेजनं न्यकुर्वाण आच्छादयन् । पावकीया आग्नेया अर्चिषः प्रभा अपहरन्मुष्णन् । ईदृशश्चक्रेशार्कप्रकाशो वो दशदिशो व्यनुवानं दशदि- शावरणं यशः प्रदिशतु ॥ वर्गस्य स्वर्गधाम्नामपि दनुजनुषां विग्रहं निग्रहीतुं दातुं सबोबलानां श्रियमतिशयिनी पत्रभङ्गानुवृत्त्या । योक्तुं देदीप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या सा वो नुद्यादविद्यां द्युतिरमृतरसस्यन्दिनी स्यान्दनाङ्गी ॥ २१ ॥ स्वर्गधाम्नां देवानां वर्गस्य वृन्दस्य दनुजनुषां दानवानां वर्गस्यापि विग्रहं विरोध शरीरं च निग्रहीतुं निराकर्तुं शमयितुमित्यर्थः । नाशयितुं प्राणैर्वियोजयितुमित्यर्थः । दानववर्गस्य बलानां सैन्यानां पत्रभङ्गानुवृत्या वाहनभङ्गानुस्फूर्त्या अतिशयिनी प्रकृष्टां श्रियं संपदं दातुं खण्डयितुं विनाशयितुमित्यर्थः । दोधातोस्तुमुन् । सद्यस्तदानीमेव । स्वर्गधाम्नां वर्गस्याबलानां स्त्रीणां पत्रभङ्गानुवृत्त्या मकरिकापत्रावलीविरचनानुस्फा अतिशयिनीं श्रियं शोभां दातुं वितरितुम् । दानववर्गस्य पुरो नगराणि भूतिमय्या सः सुदर्शनशतकम् । पुरः पत्तनानि भस्मप्रचुरया प्रकृत्या शरीरेण स्वभावेन वा योक्तुं योजयितुम् । देववर्गस्य भूतिमय्या ऐश्वर्यप्रचुरया प्रकृत्या स्वभावेन योक्तुं च या स्यान्दनाङ्गी युतिश्चाक्री द्युतिर्देदीप्यते प्रकाशत इत्यर्थः । अमृतरसस्यन्दिनी मोक्षानन्दं दुहाना सा वोऽविद्या- मज्ञानं नुद्यानिष्कासयतु ॥ दाहं दाहं सपत्नान्समरभुवि लसद्भमना वमना या- क्रव्यादप्रेतभूताद्यभिलषितपुपा प्रीतकापालिकेन । कङ्कालैः कालधौतं गिरिमिव कुरुते या स्वकीर्विहर्तु वृष्णिः सांदृष्टिकं वः सकलमुपनयत्वायुधाग्रेसरस्य ॥ २२ ॥ समरभुवि संगररङ्गे सपत्नाशत्रून्दाहं दाहं दग्ध्वा दग्ध्वा लसद्भस्मना लसद्विसर- द्भस्म भसितं यत्र तत् तेन । ऋव्यादप्रेतभूताभिलषितपुषा प्रेतादिवाञ्छितपोषकेण । प्रीतास्तुष्टाः कापालिका यत्र तेन वर्मना मार्गेण यान् गच्छन् यो घृष्णिः स्वकीवि- हर्तु यशःसंचाराय कङ्कालैरस्थिविशेषैः कालधोतं स्वर्णकृतं गिरिमिव कुरुते । 'काल. कूटं गिरि' इति वा पाठः । आयुधाग्रेसरस्य चक्रस्य स वृष्णिाला वः सकलं सांह- ष्टिकं सद्यःकालिकं फलमुपनयतु प्रापयतु ।। दग्धानां दानवानां सभसितनिचयरस्थिभिः सर्वशुभ्रां पृथ्वी कृत्वापि भूयो नवरुधिरझरीकौतुकं कोणपेभ्यः । कुर्वाणं आप्पपूरैः कुचतटघुसुणक्षालनैस्तद्बधूनां पापं पापच्यमानं शमयतु भवतामस्त्रराजस्य तेजः ॥ २३ ॥ दग्धानां दाहं प्रापितानां दानवानां सभसितनिचयैर्भस्मसमूहसहितैरस्थिभिः करण- भूतैरतिविस्तृतां वसुधां सर्वशुभ्रां कृत्वा भूयः पुनरपि तद्वधूनां दानवीनां कुचतटघुस- णक्षालनैः कुचतटेष्वनुलिप्तकुङ्कुमरसस्य क्षालनं येषां तैः । प्रक्षालितकुचविन्यस्तकुङ्कुम- द्रवैरित्यर्थः । बाष्पपूरैरथुप्रवाहैः । 'क्षालनात्' इति वा पाठः । कुचतटघुसृणक्षालनं बाष्पपूराणां नवरुधिरझरीसाम्यहेतुः । कोणपेभ्यः पिशाचेभ्यो नवरुधिरझरीकौतुकं नूतनरक्तप्रवाहकुतूहलं कुर्वाणं विदधत् अस्त्रराजस्य चक्रस्य तेजः पापच्यमानं परितः परिपक्वं पापं शमयतु ॥ मा गान्मोषं ललाटानल इति मदनद्वेषिणा ध्यायतेव स्रष्ट्रा प्रोन्निद्रवासाम्बुजदलपटलप्लोषमुत्पश्यतेव । वज्राग्निर्मा म नाशं व्रजदिति चकितेनेव शक्रेण बद्धैः स्तोत्ररस्त्रेश्वरस्य द्यतु दुरितशतं द्योतमाना द्युतिर्वः ॥ २४ ॥ (इति ज्वालावर्णनम्) १२ काव्यमाला। ललाटानलो मस्तकनेत्रवहिर्मोषमपहृति मा गादिति ध्यायतेव मदनद्वेषिणा रु- द्रेण, प्रोनिद्रवासाम्बुजदलपटलप्लोषं वासायाम्बुजं वासाम्बुजं विकसितवासपद्मदलस- मूहदाहमुत्पश्यता विचारयतेव स्रष्ट्रा विधात्रा, वज्राग्निः कुलिशानलो नाशं मा स्म व. जदिति चकितेनेव शक्रेणेन्द्रेण बद्धैनिबन्धनरूपेण प्रथितैः स्तोत्रोतमाना प्रकाशमाना अस्त्रेश्वरस्य चक्रपुंसो द्युतिौं दुरितानि द्यतु खण्डयतु ॥ इति चक्रज्वालावर्णनम् ॥ शस्त्रास्त्रं शात्रवाणां शलभकुलमिव ज्वालया लेलिहाना घोषैः स्वैः क्षोभयन्ती विघटितभगवद्योगनिद्रान्समुद्रान् । न्यूढोर प्रौढचारत्रुटितपटुरटत्कीकसक्षुण्णदैत्या नेमिः सौदर्शनी वः श्रियमतिशयिनी दाशतादा शताब्दम् ॥२५॥ शात्रवाणां रिपूणां शस्त्रास्त्रं शस्त्राण्यमन्त्रकाणि अस्त्राणि समन्त्रकाणि शस्त्रास्त्रं शल- भकुलमिव शलभसमूहमिव ज्वालया परितः परिवृत्त्या घूर्णमानया प्रभापरम्परया लै- लिहाना आस्वादयन्ती । तृणीकुर्वतीत्यर्थः । स्वै?षैः स्वीयैरारावैर्विघटितभगवद्योगनि- द्वान् विघटिता विनिता भगवतो विष्णोर्योगनिद्रा स्वात्मानुभूतियैस्तान्समुद्रान् क्षोभय. न्ती आबिलयन्ती । भगवदपचारासहिष्णुत्वेन प्रक्षोभितप्रलयसमयजलधरघोषेण विमो. हयन्तीत्यर्थः । व्यूटेति । व्यूढेषु विशालेषु उरःसु भुजान्तरेषु प्रौढ: क्रूरतरश्चारः परि- भ्रमणं..... पेषणचतुरसंचारस्तेन त्रुटितान्यत एव पटु स्फुटं यथा भवति तथा रटन्ति ध्वनन्ति कीकसान्यस्थीनि येषां ते व्यूढोरःप्रौढचारत्रुटितपदुरटत्कीकसाः अत एव क्षुण्णाः क्षोदं प्रापिता दैत्या यया सा । अथवा भञ्जनसंजातचिटचिटायमानश- ब्दवत्कीकसाः क्षुण्णा दैत्या यया सा सौदर्शनी सुदर्शनचक्रसंबन्धिनी नेमिः प्रधिर्वोऽति- शयिनीमतिशयवतीं श्रियं आ शताब्दं यावद्ब्रह्मस्वरूपं दाशताद्दद्यात् । शताब्दशब्दो ब्रह्मवाचकतया वार्तिककारेणोक्त:-'सत्यं ज्ञानमयानन्दमनन्तं परमाद्भुतम् । शताब्द- संज्ञकं-' इति । अथवा आ शताब्दं शतवर्षपर्यन्तम् । यावज्जीवमित्यर्थः । 'दा दाने' इति धातोर्दाशतादिति ॥ धारा चक्रस्य तारागणकपिशघृणिद्योतितधुप्रचारा पारावाराम्बुपूरक्कथनपिशुनितोत्तालपातालयात्रा। गोत्राद्रिस्फोटशब्दप्रकटितवसुधामण्डलीचण्डयाना पन्थानं वः प्रदिश्यात्प्रशमनकुशला पाप्मनामात्मनीनम् ॥ २६ ॥ तारागणकपिशघृणिद्योतिताप्रचारा तारागणानां कपिशाः पिङ्गलवर्णा घृणयः किर- णास्तैोतितः स्फुटीकृतो दिवि प्रचारः संचारो यस्याःसा। यद्वा ('तारागणकणविततिद्यो- तित-' इति पाठे) तारागणा एव कणा लेशास्तेषां विततयः समूहास्ताभि?तितो युप्रचारो यस्याः सा । विलीनप्रकाशतया तारागणाः कणा इव म्लायमाना न प्रदीप्यन्ते । तस्मा- सुदर्शनशतकम् । १३ मेदिवि निरर्गलप्रचारः प्रकाशितः । पारावाराम्बुपूरक्कथनपिशुनितोत्तालपातालयात्रा पारावारः समुद्रस्तस्याम्बुपूरो जलसमृद्धिस्तस्याः क्वथनेन संजातस्तोकस्तोकायमानध्व. नितेन पिशुनिता सूचिता उत्ताला निरङ्कुशा पातालमुद्दिश्य प्रवृत्ता यात्रा गमनं यस्याः सा । गोत्राद्रिस्फोटशब्दप्रकटितवसुधामण्डलीचण्डयाना गोत्राद्रिः कुलाचलस्तस्य स्फोटः स्फुटनसंजातशब्दस्तेन प्रकटितं वसुधामण्डलीचण्डं सर्वजगद्भयंकरं यानं गमनं यस्याः सा । पाप्मनां पापानां प्रशमन कुशला ध्वंसनपटीयसी चक्रस्य धारा नेमिरात्मनी- नमात्महितं पन्थानं मार्ग प्रदिश्याद्वितरतु ।। यात्रा या त्रातलोका प्रकटितवरुणत्रासमुद्रे समुद्रे सत्त्वासत्त्वासहोप्मा कृतसगरुदगस्पन्ददानाददाना । हानि हा निन्दितानां जगति परिषदां दानवीनां नवीनां चक्रे चक्रेशनेमिः शममुपहरतात्सप्रभावप्रभा वः ॥ २७ ॥ त्रातलोका त्राता रक्षिता लोका भुवनानि यया सा। प्रकटितवरुणत्रासमुद्रे प्रक- टिता व्यञ्जिता वरुणस्य पश्चिमदिगोश्वरस्य त्रासो भयमेव मुद्रा भयप्रकाशकावस्थावि- शेषो येन स तस्मिन्समुद्रे यात्रा गमनान्यादनाना स्वीकुर्वती । सत्त्वासत्त्वासहोष्मा जन्वजन्त्वसह्यप्रतापा । कृतसगरुदगस्पन्ददाना सगरुतः सपक्षाश्च तेऽगाः पर्वताश्च तेषां स्पन्दं चलनं तस्य दानं वितरणं कृतं सगरुदगस्पन्ददानं यया सा नैमिजंगति लोके निन्दितानां निन्दाविषयत्वेन सत्पुरुषपरिषत्परित्यक्तानां दानवीनां दानवसंबन्धि- नीनां परिषदां समूहानां नवीनां नूतनां हानि विचित्रनाशं चक्रे चकार । हा खेदे चाद्भुते च । अरिवर्गस्य वधेऽपि विचित्रतादर्शनेन खेदो जायते । विचित्रदर्शनमेवा- श्चर्यनिमित्तम् । सप्रभावा प्रभावयुक्ता प्रभा यस्याः सा चक्रेशनेमिश्चक्रप्रधिर्वः शम- मात्मगुणसंपत्तिमुपहरतात्संपादयतु । समर्पयत्वित्यर्थः ।। यत्रामित्रान्दिधक्षौ प्रविशति बलिनो धाम निःसीमधाम्नि प्रस्तापस्तापशीर्णैः प्रगुणितसिकतो मौक्तिकैः शौक्तिकेयैः । राशिर्वारामपारां प्रकटयति पुनरिदाराश्रुपूरै- वृद्धि निर्याति निर्यापयतु स दुरितान्यस्त्रराजप्रधिर्वः ॥ २८ ॥ निःसीमधान्नि निरवधिकतेजसि यस्मिन्प्रधौ अमित्रान्रिपुभूतान्पातालवासिनो दैत्यादीन्दिधक्षौ दग्धुमिच्छौ बलिनो धाम रसातलं प्रविशति सति ग्रस्तापः प्रपीताम्बु- पूरः । समासान्तप्रत्ययः । शौक्तिकेयैः शुक्तिकासंजातैः मौक्तिकैर्मुक्ताफलैः प्रगुणितसि- कतः प्रगुणीकृतसिकतः वारांराशिः समुद्रः प्रधौ तत्रत्यान्दानवानिर्दग्ध्वा पुनर्निर्याति गच्छति सति वैरिदासश्रुपूरैर्भर्टमरणजनितशत्रुस्त्रीनेत्रजलैः पुनरपारां निःसीमां वृद्धि प्रकटयति प्रकाशयति सोऽस्त्रराजप्रधिर्वो दुरितानि निर्यापयतु । निष्कासयत्वित्यर्थः ॥ । ।
' १४ काव्यमाला। कक्षातौल्येन कद्रूतनयफणमणीन्कल्यदीपस्य युञ्ज- पातालान्तः प्रतापी निखिलमपि तमः खेन धाम्ना निगीर्य । दैतेयप्रेयसीनां वमति हृदि हतप्रेयसां भूयसां य- श्चक्राग्रीयाग्रदेशो दहतु विलसितं भूयसामंहसां वः ॥ २९ ॥ यश्चक्रप्रधिः पातालान्तःप्रतापी पातालमध्यदेशप्रतपनशील: स्वेन धाम्ना स्वकीयेन तेजसा निखिलमपि तमो निगीर्य गिलित्वा । निर्मूलयित्वेत्यर्थः । अपिशब्दात्पूर्व पाता- लस्थरत्नौषधिकान्तिभिस्तत्र तत्र स्थितं तमो निरस्तं न तु निखिलमित्यर्थः । कद्रूत- नयफणमणीन् फणिफणास्थितमणीन् कल्यदीपस्य (प्राभातिकदीपस्य) कक्ष्यातौल्येन दीपशिखासादृश्येन युञ्जन् योजयन् प्रापयन् हतप्रेयसां हतप्रियाणां दैतेयप्रेयसीनामसुर- सुन्दरीणां हृदि मानसे वमति प्रथमं निगीर्ण तमः पुनरुद्गिरति असौ चक्रानीयाग्र- देशश्चक्रश्रेष्ठाप्रदेशः प्रधिर्वो भूयसामंहसां. पापानां विलसितं निःसंकुचितं संचारं बहु यथा भवति तथा दहतु भस्मीकरोतु । निर्मूलयत्वित्यर्थः ।। कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य प्राप्तामावेदयन्ती प्रतिभटसुदृशामुद्भटां बाष्पवृष्टिम् । निष्टप्ताष्टापदश्रीः समममरचमूगर्जितैरुज्जिहाना कीर्ति वः केतकीभिः प्रथयतु सदृशीं चञ्चला चक्रधारा ॥ ३०॥ कृष्णाम्भोदः श्रीरङ्गनाथजलधरस्तस्य भूषा भूषणम् भार्गवस्य शुक्रस्य परशुरामस्य च कृता नयननयव्याहतिर्यया सा प्रतिभटसुदृशां शत्रुसुन्दरीणां बाष्पवृष्टिमश्रुवृष्टिं प्राप्तामासन्नामावेदयन्ती निष्टप्ताष्टापदश्रीस्तप्तकाञ्चनस्य श्रीः शोभेव शोभा यस्याः सा अमरचमूगर्जितैर्देवसेनाकृतसिंहनादैः समं सार्धमुजिहाना स्फुरन्ती चक्रधारा सुदर्शन- नेमिरतिचपला केतकीभिः केतकीकुसुमैः सदृशीं वः कीति प्रथयतु प्रकटयतु । चञ्चला विद्युदपि नीलनीरदभूषा निखिलजननयनमुकुलकारित्वाद्भार्गवनयननयमपि मु. कुलयति स्फुरणेन महती वृष्टिं सूचयति तप्तकाञ्चनकमनीया च स्तनितैः संस्फुरति च ॥ वप्राणां भेदिनीं यः परिणतिमखिल श्लाघनीयां दधानः क्षुण्णां नक्षत्रमालां दिशि दिशि विकिरन्विद्युता तुल्यकक्षः । निर्याणेनोत्कटेन प्रकटयति नवं दानवारिप्रकर्ष चक्राधीशस्य भद्रो वशयतु भवतां स प्रधिश्चित्तवृत्तिम् ॥ ३१ ॥ वप्राणां प्राकाराणाम् । वप्रघटितशरीराणां प्रत्यांगम्य स्थितानां शत्रूणामित्यर्थः । भेदिनीं भेदयित्रीमखिलश्लाघनीयां परिणतिं परमपुरुषरूपतां विहाय आच्छाद्य चक्राकार- रूमताप्राप्तिपरिणतिं दधानः । यद्वा अखिललाध्यामुद्धतानामरातीनां भेदिनी परितो न- सुदर्शनशतकम् । १५ प्रतां दधानश्चक्रप्रधिः परितो नम्र एव स्थितः । लोके महानेव नम्रश्चेत् श्लाध्यतरो भ- वति अनम्रानम्रयति च । क्षुण्णां चूर्णितां नक्षत्रमालां नक्षत्रपति दिशि दिशि विकि- रन् तत्र तत्र विक्षिपन् विद्युता तडिता तुल्यकक्षास्तुल्यद्वारस्तडिन्तुल्यन्यायः । तडि- त्सदृश इत्यर्थः । अथवा तडिता तुल्या कश्या नेमैश्चलप्रदेशो यस्य स यः प्रधिरुत्कटेन निरतिशयवेगेन निर्याणेन गमनेन नवं दानवारिप्रकर्षे श्रीरङ्गेशस्याघटमानघटकत्वं अ- थवा देवप्रकर्ष प्रकटयति व्यक्तीकरोति चकाधीशस्य स भद्रः कल्याणः प्रधिर्भवतां चित्तवृत्ति चेतसो निरङ्कुशव्यापारं वशयतु । भद्रो गजश्च कूटतटविपाटनपटीयसीमखि- ललाध्यां परिणति तिर्यग्दन्तप्रहृतिं दधानः औद्धत्येन चूर्णितां सप्तविंशतिमौक्तिकविर- चितहारविशेषरूपां नक्षत्रमालां सर्वत्र विकिरन् तडित्समानबन्धनरज्जुरुत्कटेन स्थूल. तरेण निर्याणेनापादेशेन नूतनं दानवारिप्रकर्ष मदजलातिशयं प्रकटयति चित्तवृत्ति वशाधीनां करोति चक्रेशस्य महाराजस्य सकाशे तिष्ठति ॥ नाकौकःशत्रुजत्रुत्रुटनविघटितस्कन्धनीरन्ध्रनिर्य- नव्यक्रव्यास्त्रहव्यग्रसनरसलसज्ज्वालजिह्वालवद्विम् । यं दृष्ट्वा सांयुगीनं पुनरपि विदधत्याशिषो वीर्यवृद्धयै गीर्वाणा निवृणाना वितरतु स जयं विष्णुहेतिप्रधिर्वः ॥ ३२ ॥ पूर्वार्धमेकं पदम् । नाकः स्वर्ग ओकः स्थानं येषां देवानां तेषां शत्रवोऽसुरास्तेषां जत्रूण्यङ्गविशेषास्तेषां त्रुटनं छेद इत्यर्थः । तेन विघटिता वियोजिता विरूपिताश्च ते स्क- न्धाश्च तेभ्यो नीरन्ध्रनियंत् निरर्गलविनिर्गच्छत् । नव्यं व्याखं मांसशोणितं तदेव हव्यं हवनयोग्यं द्रव्यं तस्य ग्रसनं भक्षणं तस्मिन् रसो रागः । प्रीतिरित्यर्थः । तेन ल- सन्तोऽहमहमिकया नृत्यन्तस्ते च ते ज्वालाश्च त एवं जिला अस्य सन्तीति तथा ल. सज्ज्वालजिह्वालो वह्निर्यस्य स तं सांयुगीनं संयुगे साधुं यं प्रधिं दृष्ट्वा निर्बणानाः प्रहृष्टा गीर्वाणाः पुनरपि वीर्यवृद्ध्यै स्वतः प्रवृद्धस्य चक्रपधेः स्वभक्त्यतिशयेन पौन:पुन्येन वी- यसमृद्धये आशिषः सद्यः फलानाशीर्वादान्विदधति कुर्वन्ति स तादृशो विष्णुहेतिप्रधि. भवतां विजयं वितरतु ॥ धन्वाध्वन्यस्य धारासलिलमिव धनं दुर्गतस्येव दृष्टि- र्जात्यन्धस्येव पङ्गोः पदविहृतिरिव प्रीणनी प्रेमभानाम् । पत्युर्मायाः क्रियायां प्रकटपरिणतिर्विश्वरक्षाक्षमायां मायामायामिनी वस्त्रुटयतु महती नेमिरस्त्रेश्वरस्य ॥ ३३ ॥ धन्वनि भरुभूमावध्वन्यस्य अध्वंगस्य धारासलिलं प्रवाहजलमिव अथवा वर्षज्जल. धरविनिर्गलत्सलिलपटलमिव, दुर्गतस्य दरिद्रस्य धनं निधिजातमिव, जात्यन्धस्य दृ- ष्टिविशददर्शनमिव, पङ्गोः पदविहतिः पदन्यास इव, प्रेमभाजां भक्तानां प्रीणनी प्रीति- १६ काव्यमाला। । जननी । आनन्दकरीत्यर्थः । विश्वरक्षक्षमायां सकलजनरक्षणपटीयस्यां मायया क्रियायां प्रकृति विशदीकृत्य संजातक्रियायां बह्वस्यां प्रजायेय इति संजातो भगवतः संकल्पवि- शेषः मायाः पत्युः श्रीरङ्गेशस्य प्रकटपरिणतिय॑क्तपरिणामः । ईश्वराकारेण परिणमती- त्यर्थः । ईश्वरपरिणामदशा सती महती महत्तरा अस्त्राधिपस्य चक्रेशस्य नेमिर्व आया- मिनी दीर्घामविच्छिन्नामविद्यां त्रुटयतु विच्छेदयतु । त्राणं या विष्टपानां वितरति च यया कल्पते कामपूर्ति- न स्थातुं यत्पुरस्तात्प्रभवति कलयाप्यौषधीनामधीशः । उन्मेषो याति यस्या न समयनियतिं सा श्रियं वः प्रदेया- न्यकृत्य द्योतमाना त्रिपुरहरदृशं नेमिरस्त्रेश्वरस्य ॥ ३४ ॥ या चक्रनेमिर्जगतां त्राणं ददाति । अनुक्तसमुच्चयार्थश्चकारो जननसंहारावाकर्षति। तथा सति नेमिरुत्पत्त्यादि ददातीत्यर्थः। यया कामपूर्तिश्च कल्प्यते समर्थ्यते । चकारात्स्व- र्गादि । त्रिपुरहरदृशा तु कामसंहार एव समर्थितो न तु कामपूरणादि । यत्पुरस्तानेमेः पुरोभागे चन्द्रः कलयाप्यल्पकालेनापि यद्वा षोडशांशेनापि स्थातुं न प्रभवति । रुद्रलो- चनसमीपे चन्द्रः कलया स्थातुं प्रभवति । यस्यानेमे उन्मेषो विजृम्भणं समयनि- यतिं अस्मिन्नेव काले विजृम्भते नान्यस्मिनिति कालनियतिं न याति । नेमिविजृम्भ. णस्याकालकाल्यत्वात् । हरनयनं तु संहारकाल एव विजृम्भते नान्यस्मिन् । तस्मात्रि- पुरहरदृशं न्यकृत्य द्योतमाना चक्रनेमिः श्रियं प्रदद्यात् ॥ नक्षत्रक्षोदभूतिप्रकरविकिरणश्वेतिताशावकाशा जीर्णैः पर्णैरिव द्यां जलधरपटलैश्चूर्णितैरूण्वाना। आजावाजानवाजानतरिपुजनतारण्यमावर्तमाना नेमिर्वात्येव चाक्री प्रणुदतु भवतां संहतं पापतूलम् ॥ ३५ ॥ नक्षत्रक्षोदभूतिप्रकरविकिरणश्वेतिताशावकाशा स्वीयधाराघोरविघटनक्षुण्णानां नक्ष- त्राणां क्षोदश्चूर्ण स एव भूतिस्तस्याः प्रकरः समूहस्तस्य विकिरणं विक्षेपस्तेन श्वेतिता धवलीकृता आशावकाशा दिगन्तरालानि यया सा । जीर्णैः पर्णैरिव गद्भिः पाण्डुरैः पुराणैः पत्रैरिव चूर्णितैर्वेगात् शकलितैर्जलधरपटलै-माकाशमूर्तुवाना । आच्छाद- यन्तीत्यर्थः । वात्या च विक्रियासंरम्भोत्क्षिप्तैर्निरर्गलगलद्दलैराकाशमावृणुते । आजौ रणाङ्गणे आजानवाजेन आजन्मसिद्धेन वाजेन वेगेन आनता प्रलीकृता रिपुजनता शत्रुसमूहः सैवारण्यं विपिनं तदुद्दिश्य आवर्तमाना । 'अरण्यमावर्तयन्ती' इति पाठे अरण्यं भ्रमयन्ती । चाक्री नेमिर्वात्येव चक्राकारचक्रमणसमीरणसमूह इव । वातम- ण्डली वेति यावत् । भवतां संहतं संघीभूतं पापतूलं प्रणुदतु ।। क्षिप्ता नेपथ्यशाटीमिव जलदघटां जिष्णुकोदण्डचित्रां तारापुञ्ज प्रसूनाञ्जलिमिव विपुले व्योमरङ्गे विकीर्य ।
सुदर्शनशतकम् । १७ निर्वेदग्लानिचिन्ताप्रभृतिपरवशानन्तरा दानवेन्द्रा- नृत्यन्नानालयाढ्यं नट इव तनुतां शर्म चक्रप्रधिर्वः ॥ ३६ ॥ जिष्णुकोदण्डचित्रामिन्द्रधनुर्वन्नानावर्णा जलदघटां कादम्बिनी नेपथ्यशाटीमिव नाट्य- मण्डपविस्तारितविचित्रजवनिकामिव क्षिप्त्वा निरस्य । आकाशरङ्गस्थलं पटीक्षेपेण प्र- विश्येत्यर्थः । विपुले विशाले व्योमरङ्गे आकाशरङ्गस्थले तारापुञ्ज नक्षत्रसमूहं प्रसूनाञ्ज- लिमिव पात्रप्रवेशसमयसमर्पणीयपुष्पाञ्जलिमिव विकीर्य विक्षिप्य निर्वेदग्लानिशङ्काप्रभृति- परवशानन्तरा दानवेन्द्रान् निर्वेदो विषादः । ग्लानिम्लानिः । वैवर्ण्यमित्यर्थः । चिन्ता वि- चारः । एतदादिभिर्भावैः परवशान्विवशान् दानवेन्द्रान् अन्तरा मध्ये । अन्तरायोगे दा. नवेन्द्रानिति द्वितीया । तत्र दानवेन्द्राणां मध्य इत्यर्थः । नानालयाझ्यं शिरःकृन्तनमध्य- लुण्ठनबाहुखण्डनवक्षःकुट्टनचरणनिरसनप्रमुखानेकसंहारैः प्रसिद्धं यथा भवति तथा नट इव नृत्यन् बहुधा विलसन् चक्रप्रधिः शर्म तनुतां बहुलयतु । नटोऽपि पटीक्षेपेण रङ्गं प्रविश्य पुष्पाञ्जाल विकीर्य निर्वेदग्लानिचिन्ताप्रभृतिभावानासाद्य शृङ्गारादिरसविलसत्सामाजि. कमध्ये नानालयाव्यं नृत्यति । दौर्गत्यप्रौढतापप्रतिभटविभवा वित्तधाराः सृजन्ती गर्जन्ती चीक्रियाभिर्बलदनलशिखोदामसौदामनीका । अव्यात्क्रव्याद्वधूटीनयनजलभरैर्दिा नव्याननाव्या- न्पुष्पन्ती सिन्धुपूरान्रथचरणपतेर्नेमिकादम्बिनी वः ॥ ३७ ॥ दौर्गत्यप्रौढतापप्रतिभटविभवा दौर्गत्येन दारिद्येण संजातः प्रौढतापो निरतिशयदुःखं तस्य प्रतिभटो विनाशको विभवः समृद्धिर्यासां ताः वित्तधारा धनधान्यादिवृष्टीर्मुञ्चन्ती सृजन्ती चीक्रियाभिर्ध्वनिविशेषैर्गजन्ती स्तनितानि कुर्वतीत्यर्थः । ज्वलदनलशिखोदाम- सौदामनीका । ज्वलन्त्यः स्फुरन्त्यश्च ता अनलशिखा अग्निज्वालाश्च ता एवोद्दामसौदा- मन्यो विजृम्भमाणविद्युल्लता यस्याः सा । क्रव्याद्वधूटीनयनजलभरैः स्वभर्तप्राणापहारदुःखि- तराक्षसमहिषीबाष्पसमृद्धिभिनव्यान्नवीनान् अनाव्यान् नौभिस्तरितुमयोग्यान्सिन्धुपूरानदी- प्रवाहान् दिक्षु सर्वाशासु पुष्पन्ती प्रवर्धयन्ती रथचरणपतेः सुदर्शनस्य नेमिकादम्बिनी प्रधिपयोदपतिर्वो युष्मानव्यात् ॥ संदोहं दानवानामजसमजमिवालभ्य जाज्वल्यमाने वहावहाय जुह्वत्रिदशपरिषदे स्वस्वभागप्रदायी स्तोत्रैर्ब्रह्मादिगीतैर्मुखरपरिसुरं श्लाघ्यशस्त्रप्रयोगं प्राप्तः सङ्ग्रामसत्रं प्रधिरसुररिपोः प्रार्थितं प्रस्नुतां वः ॥ ३८ ॥ (इति नेमिवर्णनम्) काव्यमाला। ब्रह्मादिगीतैर्ब्रह्मोद्वातप्रभृतिभिः स्तोत्रमन्त्रविशेषैर्ब्रह्मरुद्रादिदेववर्गप्रणीतैर्नानास्तोत्रैर्मुख- रपरिसरं शब्दितपर्यन्तभूमिं श्लाघ्यशस्त्रप्रयोगं शत्राणां प्रयोगः साधनं श्लाघयितुं योग्यः शत्रप्रयोगो यस्य तत् सङ्ग्रामसत्रं युद्धयागं प्राप्तः अजसमजमिव च्छागसमूहमिव दानवानां संदोहमालभ्य विशस्य जाज्वल्यमाने नैरन्तर्येण प्रकाशमाने वहावहाय शीघ्रं जुहत् हवनं विदधत् त्रिदशपरिषदे देवसमूहाय स्वस्वभागप्रदायी स्वस्वांशदाता । स्वव्यापारेण दैत्यवृन्दं निहत्य तच्छरीराणि स्वानलज्वालयादहनदग्धानि दैत्यशरीराणि प्रीतिहेतोदेवपरिषदे अयं भवच्छत्रुरयं भवच्छत्रुरिति प्रदर्शयतीत्यर्थः । असुररिपोश्चक्रस्य प्रधिमिर्वः प्रार्थितं प्रस्नु ताम् । 'नु प्रस्रवणे' । प्रददात्वित्यर्थः ॥ इति नेमिवर्णनम् ॥ उत्पातालातकल्पान्यसुरपरिषदामाहवप्रार्थिनीना- मध्वानध्वावबोधक्षपणचणतमःक्षेपदीपोपमानि । त्रैलोक्यागारभारोद्वहनसहमणिस्तम्भसंपत्सखानि त्रायन्तामन्तिमायां विपदि सपदि वोऽराणि सौदर्शनानि ॥ ३९ ॥ आहवप्रार्थिनीनां युद्धमहोत्सुकानामसुरपरिषदां दैत्यचन्दानां उत्पातालातकल्पानि दैत्यनाशकालोद्भूतोल्मुकतुल्यानि । अध्वैति । अध्वा चानध्वा चाध्वानध्वानौ तयोरव- बोधः । अयं मार्गोऽयममार्ग इति मार्गामार्गज्ञानं तस्य क्षपणचणं निरसनसमर्थं तच्च तत्त- मश्च तस्य क्षेपः प्रध्वंसस्तस्मिन्दीपैरुपमानं सादृश्यं येषां तानि । त्रैलोक्येति । त्रैलोक्यमे वागारं मन्दिरं तस्य भारो गौरवं तस्यौदहनं तत्सहन्ते इति सहास् च मणिस्तम्भास्तेषां संपत्समृद्धिस्तस्याः सखायः । एवंभूतानि सौदर्शनान्यराणि वोऽन्तिमायां विपदि निर. तिशयापदि मरणे वा सपदि सद्यस्त्रायन्तां रक्षन्तु ॥ ज्वालाजालप्रवालस्तबकितशिरसो नाभिमावालयन्त्यः सिक्ता रक्ताम्बुपूरैः शकलितवपुषां शात्रवानीकिनीनाम् । चक्राक्रीडप्ररूढा भुजगशयभुजोपघ्ननिघ्नप्रचाराः पुष्प्यन्त्यः कीर्तिपुष्पाण्यरकनकलताः प्रीतये वः प्रथन्ताम् ॥ ४०॥ चक्राक्रीडप्ररूढाः चक्रमेवाक्रीड उद्यानं तस्मिन्प्ररूढा जाताः नाभिपिण्डिकामावाल- यन्त्य आलवालं कुर्वत्यः शकलितवपुषां खण्डितशरीराणां शात्रवानीकिनीनां शत्रुसेनानां रक्ताम्बुपूरै रुधिरप्रवाहैः सिक्ता अभ्युक्षिताः । भुजगेति । भुजगशयः श्रीरङ्गेशस्तस्य भुजो वामेतरः करः स एवोपन आश्रयदण्डस्तस्य निघ्नोऽधीनः प्रचारः संचारो यासां ताः । ज्वालेति । ज्वालाजालान्येव प्रवालानि तैः स्तबकितानि संजातस्तबकानि शिरांस्यप्रदेशा यासां ताः । कीर्तिपुष्पाणि पुष्प्यन्त्यो विकासयन्त्यः । 'पुष्प विकसने' इति धातुः शत्रन्तः । अरकनकलता अराण्येव स्वर्णलता वः प्रीतये प्रथन्तां प्रवर्धन्ताम् ।।
सुदर्शनशतकम् । ज्वालाजालाब्धिमुद्र क्षितिवलयमिवाबिभ्रती नेमिचक्र नागेन्द्रस्येव नामेः फणपरिषदिव प्रौढरत्नप्रकाशा। दत्तां वो दिव्यहेतेर्मतिमरविततिः ख्यातसाहनसंख्या संख्यावत्संघचित्तश्रवणहरगुणस्यन्दिसंदर्भगर्भाम् ॥ ४१ ।। अनेनाराणां शेषफणामण्डलसाधर्म्य प्रतिपाद्यते । ज्वालाजालाब्धिमुद्रं ज्वालाजालान्ये- वाब्धयः समुद्रास्त एव मुद्रा सीमचिद्रं यस्य तत् नेमिचक्रं पृथ्वीवलयमिवाबिभ्रती दधती । शेषफणाश्च समुद्रपरिवृतं भमण्डलं बिभ्रति । नागेन्द्रस्येव नाभेः पिण्डिकाया: । नाभिः कुण्डलितनागेन्द्र इव स्थित इत्यर्थः । फणपरिषदिव फणसमूह इव स्थिता । ख्यातसाहस्र- संख्या ख्याता प्रसिद्धा साहस्रं सहस्र संख्या यस्याः सा । फणाश्च सहस्रसंख्याः सुदर्शना- राणि सहस्रसंख्याकानि । किं च प्रौढरत्नप्रकाशा प्रौढः प्रसिद्धो रत्नानां प्रकाशो यस्याः सा । दिव्यहेतेश्चक्रस्यारविततिर्यो युध्माकं संख्यावत्संघचेतःश्रवणहरगुणस्यन्दिसंदर्भगी संख्यावत्समूहः पण्डितसमूहस्तस्य चित्तं श्रवणं च हरन्ति आनन्दयन्तीति चित्तश्रवणह- रास्ते च ते गुणाश्चार्थगुणाश्चित्तहराः शब्दगुणाः श्रवणहरास्तान् स्यन्दते इति स्यन्दी स चासौ संदर्भोऽर्थग्रथनं शब्दप्रथनं च स एव गर्भे यस्याः सा तां मतिं दत्तां दिश्यात् । रसिकजनश्रवणमनोहरगुणसुधास्यन्दसंदोहसुन्दरां मतिं वितरत्वित्यर्थः ।। ब्रह्मेशोपक्रमाणां बहुविधविमतक्षोदसंमोदितानां सेवायै देवतानां दनुजकुलरिपोः पिण्डिकाद्यङ्गभाजाम् । तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना भूमानं भूयसां वो दिशतु दशशती भास्वराणामराणाम् ॥ ४२ ॥ बहुविधविमतक्षोदसंमोदितानां बहुविधशत्रुनिहननेन संमोदिता हर्ष प्रापितास्तासाम् । तत एव दनुजकुलरिपोः सुदर्शनस्य सेवायै पिण्डिकाद्यङ्गभाजां नाभिप्रभृत्यङ्गानि भज- न्तीति पिण्डिकायङ्गभाजस्तासाम् । ब्रह्मेशोपक्रमाणां देवतानां तत्तद्धामान्तसीमाविभजन- विधये एतदत्रधिकं चतुर्मुखस्यानमेतदवधिकं पञ्चमुखस्थानमेतत्सीमाकमिन्द्रस्थानमिति त- तदेवस्थानसीमानिर्णयायेत्यर्थः । मानदण्डायमाना मानदण्डवस्थिता भास्वराणामराणां द- शशती सहस्रं वो भूमानं महत्त्वम् । आधिक्यमिति यावत् । दिशतु । निरतिशयमहिमानं ददात्वित्यर्थः ॥ ज्वालाकल्लोलमालानिबिडपरिसरां नेमिवेलां दधाने पूर्वेणाक्रान्तमध्ये भुवनमयहविर्भोजिना पूरुषेण । प्रस्फूर्नप्राज्यरत्ने रथपदजलधावेधमानैः स्फुलिङ्गै- भद्रं वो विद्रुमाणां श्रियमरविततिविस्तृणाना विधत्ताम् ॥ ४३ ।। ।
२० काव्यमाला। ज्वालाकल्लोलमालानिबिडपरिसरां ज्वाला एक तरङ्गास्तासां मालाः पतयस्ताभिनिबिडो नीरन्ध्रः परिसरः संनिहितप्रदेशो यस्याः सा ताम् । नेमिवेलां समुद्रोद्वैलनवारकसेतुर्नमि- रेखे वेला नेमिवेला तां दधाने । भुवनमयहविर्भोजिना जगन्मयं जलमयं वा हविर्भुङ्ग इति तथाभूतेन पूरुषेण सुदर्शनेन भगवता वा आक्रान्तमध्येऽधिष्टितमध्यभागे । प्रस्फूर्जत्प्राज्य- रत्ने प्रकाशमानप्रकृष्टमणौ स्थपदजलधौ सुदनसमुद्रे अरविततिः एधमानरुत्तरोत्तरं वर्ध- मानैः स्फुलिङ्गैविद्रुमाणां प्रवालखण्डानां श्रियं शोभा विस्तृणाना विस्तारयन्ती सती वो भद्रं विधत्तां करोतु ॥ नासीरस्वैरभन्नप्रतिभटरुधिरासारधारावसेका- नेकान्तस्मेरपद्मप्रकरसहचरच्छायया प्राप्य नाम्या । मुक्तानीवाङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवाला- न्यव्याघातेन भव्यं प्रददतु भवतां दिव्यहेतेरराणि ॥ ४४ ॥ नासीराः सेनाप्रधाविनस्त एव स्वैरभन्ना यथेष्टं पलायिताः प्रतिभटाः प्रत्यर्थिभटास्तेषां रुधिरवृष्टिधाराभिः संजाता अवसेकास्तान प्राप्य । एकान्तेति । एकान्तविकसितपद्माक- रस्य सहचरो बन्धुश्छाया कान्तिर्यस्याः सा तया नाभ्या मुक्तानि त्यक्तानि । प्रसूतानी- त्यर्थः । अङ्कुराणीव । शोणितवर्षधारावसिक्तनाभ्यालवालस्थितबीजसंभूताङ्कुराणीवावस्थि- तानि । स्फुरदिति । प्रकाशमानानिज्वालाभिः प्रकटितानि प्रथमपत्राणि किसलयानि येषां तानि दिव्यहेतेरराणि बोऽव्याघातेन निष्प्रत्यूहेन भव्यं प्रददतु दिशन्तु ।। दावोल्कामण्डलीव द्रुमगणगहने वाडवस्येव वढे- ालावृद्धिर्महाब्धौ प्रवयसि तमसि प्रातरर्कप्रमेव । चक्रे या दानवानां हयकरटिघटासंकटे जाघटीति प्राज्यं सा वः प्रदेयात्पदमरपरिषत्पद्मनाभायुधस्य ।। ४५ ॥ या सुदर्शनारपरिषदुमगणगहने द्रुमवृन्दैर्गहने दुष्प्रवेशे वने दावोल्कामण्डली दावाग्नि- ज्वालासमूह इव महाब्धौ वाडवस्य ज्वालावृद्धिरिव प्रवयसि तमसि प्रातरर्कप्रभेव प्रात:- प्रवर्धमानसूर्यप्रभेव हयकरटिघटासंकटे तुरगगजघटाभिः संबाधे दानवानां समूहे जाघटीति चेष्टते । 'रारटीति' वा पाठः । पद्मनाभायुधस्य सा तादृशी अरपरिषदरनिकरो वः प्राज्य- मुत्कृष्टं पदं दृष्टादृष्टस्वरूपं निरतिशयमैश्वर्य देयात् । पल्लवितकोरकितकुसुमितफलितवाल- कामल्लिकाजालवेष्टितसल्लकीभल्लातकीतालतमालसालप्रमुखनानाविधतरुखण्डे जृम्भमाणा दहनकरालज्वालाजालमिव, दिव्यरत्नोज्ज्वलसप्तार्णवमलिलभारसंरम्भनिपुणवडवानलाम- युतित (?) प्रभापटलमिव परिणततिमिरपटले प्रभातप्रभाकरप्रभेव, रथतुरगकरटिभटसंकी- दानवसैन्ये चेष्टमाना अरविततिर्भवतां महत्तरपदं देयादित्यर्थः ।।
सुदर्शनशतकम् । तापादैत्यप्रतापातपसमुपचितात्रायमाणं त्रिलोकी लोलैालाकलापैः प्रकटयदभितश्छिन्नपट्टाञ्चलानि । छत्राकारं शलाका इव कनककृताः शौरिदोर्दण्डलग्नं भूयासुर्भूषयन्त्यो रथचरणमरस्फूर्तयः कीर्तये वः ॥ ४६ ॥ दैत्यप्रतापातपसमुपचितात्प्रत्यर्थिजनस्यान्तःसंतापकृत्तेजः स एवातपत्तेन समुचिता- संवर्धितात् । संपादितादिति यावत् । तापात् त्रिलोकी त्रायमाणम् । अभितो लोलेवा- लाकलापैछिन्नपट्टाञ्चलानि आतपत्रं परीत्य प्रलम्बमानसूक्ष्मपट्टाञ्चलानि प्रकटयत् शौरि- दोर्दण्डलग्न रङ्गेशभुजसंसक्तं छत्राकारं रथचरणं सुदर्शनं भूषयन्त्योऽलंकुर्वत्यः । कनक- कृताः स्वर्णरचिताः शलाकाः कर्णिका इव प्रतीयमाना अरस्फूर्तयोऽरविजृम्भणानि वः कीर्तये मयासुः ॥ नाभीशालानिखातां नहनसमुचितां वैरिलक्ष्मीवशानां संयद्वारीहतानां समनुविदधती काञ्चनालानपङ्क्तिम् । राज्या च प्राज्यदैत्यव्रजविजयमहोत्तम्भितानां भुजानां तुल्या चक्रारमाला तुलयतु भवतां तूलवच्छत्रुलोकम् ॥ ४७ ॥ संयद्वारीहृतानां संवद्युद्धमेव वारी गजग्रहणाय कृतस्तृणाच्छादितो गतस्तया हृतानां वैरिलक्ष्मीवशानां प्रतीपभूपानां लक्ष्म्यः संपद एव वशाः करिण्यस्तासां नहनसमुचितां बन्धनस्य समुचितां नाभीशालानिखातां पिण्डिका एव शाला तस्यां निखातां दृढतरं कीलितां काञ्चनालानपङ्गिं आलानानि गजबन्धनस्तम्भास्तेषां पतिः कनकेन विरचिता सा चालानपतिश्च तां समनुविदधती सम्यगनुकुर्वाणा । प्राज्यदैत्यव्रजविजयमहोत्तम्भितानां बहुलतरदैत्यनिकरविजयोत्सवेनोत्तम्भितानामुद्धतानां भुजानां राज्या पङ्ख्या च तुल्या च. क्रारमाला सुदर्शनारश्रेणी भवतां वैरिसमूहं तूलबत्तुलयतु उत्क्षिप्य निर्मूलयतु ।। आ नेमेश्चक्रवालात्त्विष इव वितताः पिण्डिकाचण्डदीप्ते- र्दीप्ता दीपा इवाराद्गहनरणतमीगाहिनः पूरुषस्य । शाणे रेखायितानां स्थचरणमये शत्रुशाण्डीर्यहेम्नां रेखाः प्रत्यग्रलग्ना इव भुवनमरश्रेणयः प्रीणयन्तु ॥ ४८ ॥ आ नेमेश्चक्रवालात् प्रधेरैव लोकालोकपर्वतात् । आनेमिसंज्ञकलोकालोकपर्यन्तमि- त्यर्थः । परीत्य वृत्ता नेमिश्चक्रवालाचल इव तिष्ठति । अभिविधावाङ् । विष इव वि- तताः । चक्रवालपर्यन्तं व्याप्ताः पिण्डिकाचण्डदीप्ते मिसंज्ञकसूर्यस्य विष इव मयूखा इव । तेजस्वितया नाभिः सूर्यमण्डलमिव तिष्ठति । गहनरणत्तमीगाहिनो दुष्प्रवेशसंगरतमी- प्रवेशिनः पुरुषस्य सुदर्शनस्यारात्समीपे तिमिरपटलविघटनार्थे प्रदीप्ता दीपा इव रथचरण- २२ काव्यमाला। मये शाणे चक्रसंज्ञके निकषोपले । स्वार्थे मयट्प्रत्ययः । रेखायितानां रेखाकाराकारितं यथा भवति तथा संघटितानां शत्रुशौण्डीर्यहेन्नां प्रत्यर्थिमदकाञ्चनानां प्रत्यग्रलग्नाः सद्यः संसक्ता रेखा इव स्थिता अरश्रेणयः पङ्कीभूतान्यराणि भुवनं प्रीणयन्वानन्दयन्त्वित्यर्थः । अरश्रेण्यास्तरणिकिरणसादृश्यकथनेन निखिलभुवनव्यापित्वपरिशुद्धत्वे प्रत्यपादिषाताम् । दीपसादृश्यकथनेन तमोनिवर्तकत्वं मङ्गलाकारत्वं च प्रतिपादितम् । काञ्चनेरखातुल्यता- कथनेन रमणीयत्वमार्जवं च प्रतिपादितं भवति । पिण्डिकाचण्डकिरणमारभ्य नेमिचक्र- वालाचलपर्यन्तं व्याप्ताः किरणा इव भुवनं व्याप्ताः परिशुद्धाश्च घोरतरसंगरनिकुरुम्बसं- चारिसुदर्शनपुरुषं परीत्य प्रकाशमानाः करदीपिका इव तिमिरनिरासका मङ्गलाकाराच चक्रराजशाणोपरिघृष्यमाणाः कनकरेखा इव ऋजवो रमणीयतराश्चारश्रेणयः सकलभुवनप्री- तये भवन्त्वित्यर्थः ॥ दीप्तैर्चिप्ररोहैदलवति विधृते बाहुनालेन विष्णो- रुद्यत्प्रद्योतनाभं प्रथयति पुरुषं कर्णिकावर्णिकायाम् । चूडालं वेदमौलिं कलयति कमले चक्रनाम्नोपलक्ष्ये लक्ष्मी स्फारामराणि प्रतिविदधतु वः केसरश्रीकराणि ॥ ४९ ॥ दीप्तैः प्रकाशमानैरचिप्ररोहैालानां प्ररोहैवर्तुलतया जायमानैर्दलवति पत्रवति । कु- ण्डलितज्वालाकलापस्य पद्मदलसाम्यं विद्यते । विष्णोः श्रीरङ्गिणो बाहुनालेन विधृते सं- कलिते उद्यत्प्रद्योतनामं आविर्भवद्भास्करस्याभेवाभा यस्य स तम् । उद्यन्मार्तण्डमण्डल- च्छायमित्यर्थः । पुरुषं सुदर्शनपुरुषं कणिकावर्णिकायां वर्णमाकारो वर्णिका तस्यां विषय कर्णिकास्वरूपविषय इति यावत् । प्रथयति प्रकटयति । चूडालं चूडा शिखा अस्थास्तीति चूडालस्तम् । वेदमौलि श्रुतिशिरोभागम् । वेदान्तमिति यावत् । कलयति ख्यापयति । च- नाना सुदर्शननाम्ना उपलक्ष्ये उपलक्षितुं योग्ये । अवधेये इति यावत् । कमले केसर- श्रीकराणि किंजल्कशोभाकराणि अराणि वः स्फारामत्युज्ज्वलां श्रियं प्रतिविदधतु कुर्वन्तु । चक्रनामकमलस्य कुण्डलितज्वालाखण्डमेव दलनिकुरुम्बं श्रीरङ्गिदक्षिणभुजदण्ड एव नाल: चक्रमध्यप्रदेश एवं प्रभातप्रभाकरदेशः सुदर्शनपुरुषः कणिकावदातः परिमलकर्णिकात्वेन वर्णितसुदर्शनपुरुषं परीत्य प्रकाशमानान्यराण्येव केसराणि । एतादृशि चक्रराजस्याराणि मवतां लक्ष्मी प्रदिशन्तु ।। धातुस्यन्दैरमन्दैः कलुषितवपुषो निझराम्भःप्रपाता- नर्चिष्मत्या स्वमूर्त्या रथचरणगिरेनेमिनाभीतटस्य । व्याकुर्वाणारपतिर्वितरतु विभुताविस्तृतिं वित्तकोटी- कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणी वः ॥ ५० ॥ (इत्यरवर्णनम्) सुदर्शनशतकम् । नेमिनाभीतटस्य नेमिश्च नाभी च नेमिनाभ्यो ते एव तटे यस्य स तस्य स्थचरणगिरेः सुदर्शनाद्रेः अरपङ्किरमन्दैरनल्पैर्धातुस्यन्दैगैरिकरसस्रोतोभिः कलुषितवपुषः कलुषितं वपु- येषां तान् शोणीकृताकारान् निर्झराम्भःप्रपातान् निर्झरजलप्रवाहास्तान् अर्चिष्मत्या दी. प्तिमत्या जपाकुसुमनिकाशप्रकाशयेत्यर्थः । स्वमूर्त्या स्वाकारेण व्याकुर्वाणा विवृण्वाना । वि. स्तृणाना इति यावत् । वित्तकोटीति । कनककोटीकोटीरश्वैतातपत्ररत्नसिंहासनरत्नवलय- करिवृन्दचामरप्रसूनमालिकारमणीयां विभुताविस्तृति वैभवातिशयं वो वितरतु । पृथुतर- प्रधिपिण्डिकासानुरमणीयरथचरणवसुंधराधरधुरंधरस्याराविततिर्धातुनिःस्यन्दसंदोहसंबन्धक- लुषिताकारनिर्झरजलप्रवाहान् पद्माकरप्रभापटलरमणीयत्वभूत्यो विस्पष्टयन्ती सती कनक- काहलकलाशिखा (? मुक्ताछत्रचामरपीठिकाकाश्चनभृङ्गारककिरीटकेयूरकण्ठिकाकुण्डलत्रि- सरहारहिता )ङ्गलीयककनकोज्ज्वलकाञ्चीनपुरतुरंगगजसुरतरुणीसंकाशपरिचारिकाप्रमु- खानेकवस्तुनिष्कलां लक्ष्मी विस्तारयत्वित्यर्थः ।। ऐक्येन द्वादशानामशिशिरमहसां दर्शयन्ती प्रवृत्ति दत्तः स्वर्लोकलक्ष्म्यास्तिलक इव मुखे पद्मरागद्रवेण । देयादैतेयदर्पक्षतिकरणरणप्रीणिताम्भोजनाभि- भिर्नाभित्वमुक्ः सुरपतिविभवस्पर्शि सौदर्शनी वः ॥ ५१ ॥ द्वादशानामशिशिरमहसां सूर्याणामैक्येन । मेलनेनेत्यर्थः । संजातां वि(प्र)वृत्ति निखिल- तेजःपदार्थाभिभवनिरतिशयविजृम्भणं दर्शयन्ती ज्ञापयन्ती । दैतेयोते । दैत्याहंकारविनाश- करणं रणं तेन प्रीणितोऽम्भोजनाभिः श्रीरङ्गो यया सा तथा । प्रत्यर्थिप्राणसंहारचतुरसमरसं• चारकोलाहलानन्दितनन्दगोपनन्दन इत्यर्थः । स्वोकलक्ष्म्या मुखे पद्मरागद्रवेण माणि- क्यसंघर्षणसंजातनिष्यन्दनेन । दत्तो रचितस्तिलक इव । सुदर्शनराजकृतप्रत्यार्थनिरसनसं. जनितहर्षोत्कर्षेण स्वर्लक्ष्मीरलंकृतेति व्यज्यते । सौदर्शनी नाभिः सुरपतिविभवस्पशि इ. न्द्रविभवं स्पृशतीति तथा । देवेन्द्रवैभवोपममित्यर्थः । उर्ध्या नाभित्वं पृथ्वीनायकत्वं वो युष्माकं देयात् । स्वकीयप्रभापटलवलितद्वादशादित्यतेजःसच्छायसमक्षप्रतिपक्षरक्षःसंक्षय- दक्षतासंमोदितदामोदरनिर्मूलितप्रतिपक्षपक्षलक्ष्मीरमणीयतया स्वलॊकलक्ष्मीमुखकमलशृङ्गा- रहेतुभूतपद्मरागद्रवविरचितवर्तुलतिलक इव प्रकाशमाना सौदर्शनी पिण्डिका विलक्षितमहे- न्द्रवैभवं क्षमानायकलं वितरत्वित्यर्थः ।। शस्त्रश्याम शताङ्गक्षितिभृति तरलैरुत्तरङ्गे तुरङ्गै- स्त्वङ्गन्मातङ्गनके कुपितभटमुखच्छायमुग्धप्रवाले । अस्तोकं प्राश्नुवाना प्रतिभटजलधौ पाटवं वाडवस्य श्रेयो वः संविधत्तां श्रितदुरितहरा श्रीधरास्त्रस्य नाभिः ।। ५२ ॥ --
काव्यमाला।
शस्त्रैमण्डलामखङ्गैः श्याम नीले शताङ्गक्षितिभृति शताङ्गानि स्था एव पर्वता यस्य स
तस्मिन् । तरलैः । अशनिनिकरवच्चञ्चलैरित्यर्थः । तुरंगैरश्वपरम्पराभिरुत्तरङ्ग उद्गतास्त-
रङ्गाः कल्लोला यस्य स तस्मिन् । त्वङ्गन्मातङ्गनके चलन्तो मातङ्गा एव नका ग्राहा
यस्य तस्मिन् । कुपितेति । कुपिताः प्रतिबलकलकलाकर्णनेन क्रुद्धा भटा वीर-
भटास्तेषां मुखानि तेषां छाया मुखच्छायं तदेव मुग्धानि रमणीयानि प्रवालानि
विद्रुमाणि यस्य स तस्मिन् प्रतिभटजलधौ शत्रुसेनासागरे वाडवस्यास्तोकमनल्पं पा-
टवं कौशलं प्रानुवाना विस्तारयन्ती । प्रतिभटबलं शोषयन्तीति यावत् । श्रित-
दुरितहरा श्रीधरास्त्रस्य नाभिवः श्रेयो भद्रं संविधत्तां करोतु । उत्क्षिप्तखड्गसंचारश्यामले
रथपर्वते त्वङ्गत्तुरङ्गसंप्लुततरङ्गावलीमङ्गले रौद्रे गजस्फुटितोपनक्रराजविराजिते (१) क्रुद्धप्र-
त्यर्थिसंरक्तमुखसौभाग्यविद्रुमे प्रतीपसेनाकूपारे वडवानलपाटवं प्राश्नुवाना अस्त्रराजस्य ना-
भिराश्रितभूति (?) भद्राणि सान्द्रयतु ॥
ज्वालाचूडालकालानलचलनसमाडम्बरा सांपराय
यासावासाद्य माद्यत्सुरभटसुभुजास्फोटकोलाहलाढ्यम् ।
दैत्यारण्यं दहन्ती विरचयति यशोभूतिशुभ्रां धरित्री
सा वश्चक्रस्य नक्रस्यदमृदितगजत्रायिणी नाभिरव्यात् ॥ १३ ॥
यासौ नाभिर्माद्यत्सुरभटसुभुजास्फोटकोलाहलाढ्यं चक्रराजसंचारचातुरीनिर्मूलितशत्रुम-
ण्डलीसंदर्शनेन माद्यन्त उन्मस्तकविजृम्भणमेदुरा: सुरभटास्तेषां भुजानामास्फोटः करपल्लव-
भुजशिखरेण बद्धप्रकोष्ठबाहोर्मध्ये वीरप्रदेशस्यास्फोटनेन संजनितः कुलिशघोषसंकाशशब्द-
स्तस्य कोलाहलो विजृम्भणं तेनाढ्यं युद्धमासाद्य । ज्वालेति । चूडा यस्यास्तीति चुडालः ।
ज्वालाभिश्रूडालः स चासौ कालानलश्च तस्य चलनं घोरान्तरसंचारतेन सदृश आडम्बर
आस्फोटो यस्याः सा । दैत्यारण्यं दहन्ती सती धरित्री यशोअतिशुभ्रां रक्षःकाननदहनसं-
जनितकीर्तिवैभवेन धवलां विरचयति । नक्रस्यदमृदितगजत्रायिणी नकस्य ग्राहस्य स्यदो
वेगस्तेन मृदितो निष्पीडित: स चासौ गजश्च तं त्रायते इति गजत्रायिणी सा चक्रस्य
नाभिर्वोऽव्यात् । चक्रविभ्रमसंदर्शनसंजनितदुर्वाराखर्वगर्वपर्वतारूढसुपर्वसुभटभुजास्फोटन-
संजातघोरघोषाटोपभयंकरसंगररङ्गमासाद्य ज्वालाजटिलप्रलयसमयपावकप्रतापप्रतिमप्रभाव-
सुरवरनिकरनिपीडितदैत्यविपिनविलसन्दहनचतुरः स्वाभाविकस्वकीययशोवैभवधवलितवसु-
धाचक्रनक्रविक्रमाक्रान्तनिर्विक्रमगजेन्द्ररक्षणनिपुणव्यापारचक्रनाभिवो युष्मान्रक्षत्वित्यर्थः ।।
विन्दन्ती सांध्यमचिर्विदलितवषुषः प्रत्यनीकस्य रक्तैः
स्फायन्नक्षत्रराशिर्दिशि दिशि कणशः कीकसैः कीर्यमाणैः ।
नाकौकःपक्ष्मलाक्षीनवमदहसितच्छायया चन्द्रपादा-
राथाङ्गी विस्तृणाना रचयतु कुशलं पिण्डिकायामिनी वः ॥५४॥
सुदर्शनशतकम् । २५ । विदलितवपुषो बहुविधप्रहारजर्जरीकृतशरीरस्य प्रत्यनीकस्य प्रतिपन्थिबलस्य रक्तैः प्र- हारवशान्निर्गलद्रुधिरधाराभिः सांध्यमचिः । विकसितजपाकुसुमनिकाशप्रकारमित्यर्थः । विन्दन्ती प्राप्नुवन्ती दिशि दिशि सर्वासु दिक्षु कणशः कीर्यमाणैः शकलीकृत्य प्रक्षिप्य- माणैः कीकसैरास्थिभिः स्फायनक्षत्रराशिः प्रकाशमानो नक्षत्रराशियस्याः सा । नाकौक इति ! स्वर्लोकवासिविलासिनीनां नवमदेन पौनःपुन्येन मदिरास्वादनसंजातनवमदेन हसि- तानि निःशङ्कनिःसरद्दीर्घहासास्तेषां छाया कान्तिस्तया धवलिमतया चन्द्रपादानमृतकिर- णकिरणान् विस्तणाना राथाङ्गी पिण्डिकायामिनी नाभिरात्रिर्वः कुशलं रचयतु । निशित- खड्गशत्रुशरीरखण्डननिरन्तरनिःसरद्रक्तधारापरम्पराप्रकटितसंध्यारागसामग्री स्वकीयविविध- विहारखण्डितकीकसनिकुरुम्बप्रत्यक्षितनक्षत्रसमुन्मेषा विजृम्भितमधुरसास्वादनसंजातसमु- छासविवशविबुधवधूनिःशङ्कहासकोलाहलप्रदर्शितशशिकरनिकरा चाक्री पिण्डिकायामिनी भवतां भद्रं करोत्वित्यर्थः ।। निःसीमं निःसृताया भुजधरणिधराघाटतः कैटभारे- राशाकूलंकषर्द्धरहितबलमहाम्भोधिमासादयन्त्याः । चक्रज्वालापगायाश्चलदरलहरीमालिकादन्तुराया बिभ्रत्यावर्तभावं भ्रमयतु भुवने पिण्डिका वः प्रशस्तिम् ॥ ५५ ॥ कैटभारे रङ्गिणो भुजधरणिधराघाटतः भुज एवं धरणिधरः पर्वतस्तस्याघाट आ- भोगः । विशालतेति यावत् । तस्मानिःसीमं निःसृताया निरर्गलविनिर्गलिताया आशा- कूलंकषर्द्धः आशा दिश एव कूलानि तटानि कष्यन्ते संघर्घ्यन्ते यया सा आशाकूलंकषा तादृशी ऋद्धिर्यस्याः चलदरलहरीमालिकादन्तुरायाः चलन्ति च यान्यराणि तान्येव ल- यस्तासां मालिकाभिर्दन्तुरा निनोन्नता तस्याः अहितबलमहाम्भोधिमासादयन्त्याः प्रत्य- थिसेनार्णवं प्रविशन्त्याश्चक्रज्वालापगायाः सुदर्शनप्रभास्रवन्त्या आवर्तभावं बिभ्रती आव- तत्वं दधाना पिण्डिका वः प्रशस्ति प्रख्याति भुवने भ्रमयतु प्रचुरयतु । मुरहरकरशिखरि- शिखरपरिसरतः प्रवहन्त्याः सकलदिक्लंकपविजृम्भमाणरमणीयतायाः तुङ्गतरतरङ्गपरम्प- रादन्तुरितोत्सङ्गायाः परबलजलधिमध्यं प्रविशन्त्या: सुदर्शनज्वालाकलोलिन्या आवर्तत्वं दधाना पिण्डिका भवतां सकलभुवनव्यापिनी कीर्ति तनोत्वित्यर्थः ॥ पाणौ कृत्वाहवाग्रे प्रतिभटविजयोपार्जितां वीरलक्ष्मी- मानीतायास्ततोऽस्याः स्वसविधमसुरद्वेषिणा पूरुषेण । प्रासादं वासहेतोविरचितमरुणै रश्मिभिः सूचयन्ती नाभिर्वो निर्मिमीतां स्थचरणपतेनिर्वृतिं निर्विघाताम् ॥ १६ ॥ प्रतिभटानां विजयेनोपार्जितां वीरलक्ष्मीमाहवाग्रे युद्धवेदिकायां पाणौ कृत्वा । शत्रु- जयलब्धवीरलक्ष्मी कान्तां रणवेदिकायामेवोद्वहन्ति जैतारः । ततः स्वसमीपमानीताया ।
२६ काव्यमाला। अस्या वीराश्रियो वासहेतोर्दैत्यद्वेषिणा पूरुषेण सुदर्शनेन कर्ता अरुणैः किरणनिर्मितं प्रा- सादं सूचयन्ती । पिण्डिका प्रासादवस्थितेति यावत् । रथचरणपतेर्नाभिर्वो निष्प्रत्यूहां निर्वृतिम् । ब्रह्मानन्दमित्यर्थः । उत्पादयतु । प्रत्यर्थिराजपरम्पराविजयसमागतवीरलक्ष्मी परिणीय तस्याः स्वसमीप एव निवासार्थ दनुजकुलविलयनकरव्यापारेण सुदर्शनपूरुषेण विलसन्निपुणैः किरणैर्निमिताभिर्नवहऱ्यावद्विराजमाना चक्रपिण्डिका भवतामप्रतिममा- नन्दं संपादयत्वित्यर्थः ॥ डिण्डीरापाण्डगण्डैररियुवतिमुखैः पिण्डिका कृष्णहेते- रुच्चण्डाश्रुप्रवर्षेरुपरततिलकैरुक्तशौण्डीर्यचर्या । द्वित्रग्रामाधिपत्यद्रुहिणमदमषीदूषिताक्षक्षमाभृ- त्सेवाहेवाकपाकं शमयतु भवतां कर्म शर्मप्रतीपम् ॥ १७ ॥ डिण्डीरापाण्डुगण्डै: फेनपाण्डुरगण्डैः । उच्चण्डाश्रुप्रवर्षेः । उच्चण्डानि धारालानि । अत्युत्कटानीति यावत् । अश्रुवर्षाणि येषां तैः । उपरततिलकैः प्रमृष्टतिलकैः । अरियु- वतिमुखैः उक्तशौण्डीर्यचर्या भाषिता मदस्य वृत्तिर्यस्याः सा कृष्णहेतेः पिण्डिका । द्वि- त्रेति । द्वित्रग्रामाधिपत्येन संजातो द्रुहिणमदः सकलजगन्नायकोऽहमित्यहंकारः स एव मषी तया दूषितान्यन्धीकृतान्यक्षाणि इन्द्रियाणि येषां तेषां क्षमाभृतां सेवा यथेष्टविनि- योज्यत्वं तस्यां हेवाक औसुक्यं स एव पाकः परिपाकः परिणामो यस्य तत् शर्मप्रतीपं सुखविरोधिकर्म शमयतु । 'अनञ्जनविलोचनैरकलितालकालंकृतैरनाहतकपोलकैर्विकलि- तप्रभाविभ्रमैः । अचुम्बितदरस्मितैर्गतललाटिकाचन्दनैः समृद्धगलदश्रुभिः प्रतिमहीपका- न्तामुखैः ॥' सूचितपराक्रमप्रतिभटविदाहिका प्रचण्डतरपिण्डिका कतिपयजनाधिपत्यमा- त्रेणाहं ब्रह्मेति मत्वा यः कश्चिदुरात्मा स्वसमीपगतमपि पूज्यं न पश्यति न शृणोति श्रो- तव्यमेवं प्रकारेण मदान्धस्य तस्य सेवाहेवाकपाकं सुखपरम्परापरिपन्थिक्रियाकलापं नि- मलयत्वित्यर्थः ॥ पर्याप्तामुन्नतिं या प्रथयति कमलं या तिरोभाव्य भाति स्रष्टुः सृष्टेर्दवीयः कुवलयमहितं या विभर्ति स्वरूपम् । भूम्ना स्वेनान्तरिक्ष कवलयति च या सा विचित्रा विधत्तां दैतेयारातिनाभिर्द्रविणपतिपदद्वेषिणी संपदं वः ॥ १८ ॥ नाभिः पर्याप्तां परिपूर्णाम् । निरतिशयामिति यावत् । उन्नतिमौनत्यं प्रथयति । निर- तिशयातिशयप्रदानचातुर्य प्रख्यापयतीत्यर्थः । या कमलं विकसितपनं तिरोभाव्य भाति प्रकाशते । स्वसौन्दर्येण कमलाद्रमणीयेत्यर्थः । या सर्वह्मणः सृष्टेर्दवीयो दूरतमं कुवलय- महितं भूवलयपूजितं नाभीमण्डलस्याद्यत्वाद्भूमण्डलं नाभीमण्डलाकाराकारितं संसृष्टं भवति तस्मादेव भूमण्डले नाभिमण्डलं पूजितं भवति । स्वरूपं विभर्ति या स्वेन भम्ना महत्त्वे- ।
सुदर्शनशतकम् । २७ नान्तरिक्ष कवलयति परिमेययति । अल्पयाति यावत् । सा विचित्रा नानाप्रकारा देते- यारातिनाभिर्द्रविणपतिपदद्वेषिणी कुबेरसंपल्लचिनी संपदं विधत्ताम् । अनेन पद्येन पिण्डि- काया उन्नतत्वरमणीयत्वाद्यत्ववर्तुलत्वमहत्त्ववत्त्वं प्रतिपादितं भवति ॥ वाणीवाङ्गैश्चतुर्भिः सदसि सुमनसां द्योतमानस्वरूपा बाह्वन्तस्था मुरारेरभिमतमखिलं श्रीरिव स्पर्शयन्ती । दुर्गेवोग्राकृतिर्या त्रिभुवनजननस्थेमसंहारधुर्या मर्यादालङ्घनं वः क्षपयतु महती हेतिवर्यस्य नाभिः ॥ ५९ ॥ वाणीव वाग्देवतेव चतुभिरङ्गैर्नेम्यरनाभ्यः । ज्वालाया नेम्यन्तःपातित्वात् । वाग्देव- ताङ्गानि परा पश्यन्ती मध्यमा वैखरीत्येवमाकारेण 'चत्वारि वाक्परिभितापदानि' इति श्रु- तिसिद्धध्वनिवर्णपदवाक्यरूपाणि तैरङ्गैरवयवैः सुमनसां देवानां विदुषां च सदसि द्योतमान- स्वरूपा सा श्रीरिव मुरारेबर्बाह्वन्तस्था करकिसलयगर्भसिंहासनस्था अखिलमभिमतमभ्य- थितार्थप्रपञ्च स्पशर्यन्ती । ददतीत्यर्थः । दुर्गेव पार्वतीवोग्राकृति भिस्त्रिभुवनजननस्थैमसं- हारधुर्या भुवनत्रयजननस्थितिसंहृतिसमर्था प्रकाशते । अयमर्थः-अङ्गैोतमानस्वरूपे- त्यनेन वाणी उत्पत्तिशक्तिरित्यवगन्तव्या । अभिमतार्थान् प्रदाय रक्षतीत्यनेन श्रीः स्थि- तिशक्तिः। उग्राकृतिरित्यनेन दुर्गा संहृतिशक्तिरित्यवगन्तव्या । एवंप्रकारेण प्रतिनिय- तव्यापारशक्तियोगात्प्रतिनियतसृष्टयादिकर्तृभ्यो वाणीशश्रीशदुर्गेशेभ्योऽपि जननस्थेमसं- हारधुर्येत्यनेन सुदर्शननाभिरेवाधिकेत्यवगन्तव्यम् । सा हेतिवर्यस्य नाभिर्मर्यादालङ्घनं निरु- पाधिकशेषत्वमात्मनां मर्यादा तस्या अतिक्रमणं स्वातन्त्र्याभिमानं क्षपयतु ॥ स्रग्भिः संतानजाभिर्मधुरमधुरसस्यन्दसंदोहिनीभिः पाटीरैः प्रौढचन्द्रातपचयसुषमालोपनैर्लेपनैश्च । धूपैः कालागुरूणामपि सुरसुदृशो विनमर्चासु यस्या गन्धं रुन्धन्ति सा वश्चिरमसुरभिदो नाभिरव्यादभव्यात् ॥ ६० ॥ सुरसुदृशो देवरमण्यो यस्या नाभ्या विस्रमशुभगन्धं खण्डितशत्रुशरीरशोणितमांससंबन्ध- संजातदुर्गन्धमर्चासु पूजासु क्रियमाणासु सतीषु संतानजाभिः पारिजातप्रसूनरचिताभिर्म- धुरमधुरसस्यन्दसंदोहिनीभिः मधुरः स्वादुश्चासौ मधुरसः पुष्परसस्तस्य स्यन्दो निःत्यन्द- स्तस्य संदोहः समृद्धिरासां स्रजामस्तीति संदोहिनीभिः । बहलगलदमलमधुरतरकुसुमरस- रुचिराभिरिति यावत् । स्रग्भिः प्रौढचन्द्रातपचयसुषमालोपनैः पूर्णचन्द्रज्योत्लाचयसुषमा लुम्पन्ति लोपनात्तैः पार्वणचन्द्रचन्द्रिकारमणीयतासंहारिभिरित्यर्थः । पाटीरैश्चन्दनसंब- न्धिभिर्लेपनैः। चर्चाभिरिति यावत्। कालागुरूणां कालागुरुप्रभृत्यनेकसुगन्धिद्रव्यसंमेलन- विरचितधूपैश्च रुन्धन्ति तिरोभावयन्ति असुरभिदो नाभिर्वश्चिरमभव्यात् चिरंतनादमङ्ग- लात् । जननमरणादित्यर्थः । अव्यात् । चञ्चरीकचञ्चपुटाञ्चलसमश्चितसौकुमार्यसंचयनिर- रक्ष सौदर्शनं तत्क्षपयतु भवतामेधमानां धनाशाम् ॥ ६२॥ २८ काव्यमाला। न्तरनिःसरन्मकरन्दबिन्दुवृन्दसुन्दरगन्धवहमन्दारकुसुममञ्जरीप्रपञ्चहिमजलमृदितमृगमदच- न्द्रचन्दनप्रमुखदिव्यानुलेपनैश्च सफलितसुरवरनिकरचतुरघ्राणकणे पैश्च साधनैर्वञ्चितसंचर- काञ्चनपाञ्चालिकाभिः सुरसुन्दरीभी रुद्धविकलितसुररिपुनिकरवर्मनिःसरद्रुधिरपटलवि- स्रगन्धा चक्रराजस्य नाभिरभव्यादव्यादित्यर्थः ॥ अंहः संहत्य दग्ध्वा प्रतिजनिजनितं प्रौढसंसारवन्या- दूराध्वन्यानधन्यान्महति विनतिभिर्धामनि स्थापयन्ती । विश्रान्ति शाश्वती या नयति रमयतां चक्रराजस्य नाभिः संयन्मोमुह्यमानत्रिदशरिपुदशासाक्षिणी साक्षिणी वः ॥ ६१ ॥ (इति नाभिवर्णनम्) या पिण्डिका विनतिभिः प्रपन्नानुष्ठितप्रपत्तिभिः प्रतिजनि जनुषि जनुषि जनितं संपा- दितमहो दुरितं संहत्य राशीकृत्य दग्ध्वा । मोक्षप्रतिबन्धोपायसंचयं भस्मयित्वेत्यर्थः । प्रौढसंसारवन्यादूराध्वन्यान् प्रौढो दुरुत्तरः संसार एव वन्या वनसमूहस्तस्यां दूरं चिरकाल. मध्वन्यान् अध्वगान् अभ्यागतान् । प्रपत्त्यनुष्ठानात्पूर्वमध्वन्यानित्यर्थः । महति निरतिश- यानन्दवैभवे धामनि स्थाने स्थापयन्ती अभिषेचयन्ती शाश्वती विश्रान्ति पुनरावृत्तिर- हितामानन्दसंपत्तिं नयति प्रापयति संयन्मोमुह्यमानत्रिदशरिपुदशासाक्षिणी संयति युद्ध- ऽतिशयेन मुह्यमानाः । चक्रप्रहारपरवशा इत्यर्थः । ते च ते त्रिदशरिपबस्तेषामवस्था तस्याः साक्षिणी सा चक्रराजस्य नाभिर्वोऽक्षिणी लोचने रमयतां क्रीडयतु । आनन्दय- त्वित्यर्थः ॥ इति नाभिवर्णनम् ॥ श्रुत्वा यन्नामशब्दं श्रुतिपथकटुकं देवनक्रीडनेषु खर्वैरिस्वैरपत्न्यो भयविवशधियः कातरन्यस्तसाराः । मन्दाक्ष यान्त्यमन्दं प्रतियुवतिमुखैदर्शितोत्प्रासद- स्वर्वैरिस्वैरपल्यो नाकशत्रुसंबन्धिन्यो यथेष्टं वर्तिन्यो नितम्बिन्य इति यावत् । देवन- क्रीडनेषु पाशककृतक्रीडनेषु । द्यूतक्रीडास्वित्यर्थः । श्रुतिपथकटुकम् । कर्णपथपरिपन्थि- नमिति यावत् । यन्नामशब्दं यस्याक्षस्य नामशब्दो वाचकशब्दस्तं श्रुत्वा भयविह्वलधियः कातरन्यस्तसाराः कातरं व्याकुलं न्यस्ताः सारा याभिस्ताः दर्शितोत्प्रासदप॑स्तदानीमक्ष- शब्दश्रवणभयसंजातवैकल्यावलोके दर्शित उत्प्रासो मन्दस्मितं दो गर्वश्च यस्तानि तैः प्र- तियुवतिमुखैबन्दीकृतप्रतिपक्षवधूमुखैः साधनैरमन्दमनल्पं मन्दाक्षं ब्रीडां यान्ति प्राप्नुवन्ति सौदर्शनं तदक्षमेधमानां धनाशां धनविषयवाञ्छां क्षपयतु । 'चक्राक्षक्षोभलक्ष्यक्षतविबुध- रिपुस्वैरपत्न्यः प्रकामं द्यूतक्रीडासु शब्दं श्रुतिपथकटुक ह्यक्षमित्याकलय्य । भीताः संत्य- क्तशाराः सुरयुवतिमुखं हासगर्भ समीक्ष्य ब्रीडाविद्धा तदक्षं क्षपयतु भवतामेधमानां धना- शाम् ॥' वर्धमानं च गर्वमित्यर्थः ॥
सुदर्शनशतकम् । २९ व्यस्तस्कन्धं विशीर्णप्रसवपरिकरं प्रत्तपत्रोपमर्द संयद्वर्षासु तर्षातुरखगपरिषत्पीतरक्तोदकासु । असं रक्षस्तरूणामशनिवदशनैः प्रापतन्मूर्ध्नि मूर्ध्नि स्तादत्राधीशितुर्वः स्तबकितयशसे द्वेषिणां प्लोषणाय ॥ ६३ ॥ तर्षातुरखगपरिषत्पीतरक्तोदकासु तृष्णापीडितपक्षिसमूहपीतरक्तोदकासु संयद्वर्षासु यु- द्धवर्षसमयेषु रक्षस्तरूणां मूनि मूर्ध्नि अशनिवद्दम्भोलिरिव व्यस्तस्कन्धं व्यस्ता भन्नाः स्कन्धाः शाखाश्छिन्नाः कण्ठाश्च यस्मिन् कर्मणि तत् । विशीर्णप्रसवपरिकरं विशीर्णा नष्टाः प्रसवाः पुष्पाणि फलानि च तेषां परिकराः समुदायाः विशीर्णाः शकलीकृताः प्र- सवा गर्भपाताः परिकराः परिवारा यस्मिन्कर्मणि तत् । प्रत्तपत्रोपमर्द प्रत्तो दत्तः पत्राणां पर्णानां वाहनानामुपमर्दो विनाशो यस्मिन्कर्मणि तत् । एतानि त्रीण्यपि पतनक्रियावि- शेषणानि ! अशनैः शीघ्रमापतत् अस्त्राधीशस्याक्षं स्तबकितयशसे । अनेन कीर्तिप्रसू- नोत्पत्तिहेतुर्दोहदविशेषो ध्वन्यते । द्वैषिणां प्लोषणाय शत्रूणां दहनाय स्ताद्भूयात् ।। दीक्षां सङ्ग्रामसत्रे महति कृतवतो दीप्तिभिः संहताभि- जिह्वाले सप्तजिह्वे दनुजकुलहविर्जुह्वतो मिजुह्वा । वैकुण्ठास्त्रस्य कुण्डं महदिव विलसत्पिण्डिकावेदिमध्ये दिश्यादिव्याद्धदेश्यं पदमिह महतामक्षतोन्मेषमक्षम् ॥ ६४ ॥ महति सर्वोत्तरे सङ्ग्रामसत्रे युद्धयागे दीक्षां कुर्वतो दीक्षितस्य सतः संहताभिः संघी- भूताभिदीप्तिभिर्जिबाले जिह्वावति सप्तजिले वह्नौ दनुजकुलमेव हविर्हव्यं नेमिजुह्वा प्रधिरेव जुहूः सुग्विशेषस्तया जुह्वतस्त्यजतः । प्रक्षिपत इति यावत् । वैकुण्ठास्त्रस्य चक्रस्य पि- ण्डिका वेदिमध्ये नाभिवेदिकामध्यप्रदेशे महद्गम्भीरं कुण्डमिव विलसद्रमणीयम् अक्षतो. न्मेषं अक्षतः प्रवृद्ध उन्मेषो विकासो यस्य तदक्षं भवतामिह लोके दिव्याद्ध देश्यं स्वर्गसं- भूतविभूतिकल्पं पदं दिश्यात् ॥ तुङ्गाद्दोरद्रिशृङ्गाद्दनुजविजयिनः स्पष्टदानोद्यमानां शत्रुस्तम्बेरमाणां शिरसि निपततः त्रस्तमुक्तास्थिपुढे । रक्तैरभ्यक्तमूर्तेर्विदलनगलितैर्व्यक्तवीरायित?- हर्यक्षस्यारिभङ्गं जनयतु जगतामीडितं क्रीडितं वः ॥ ६५ ॥ दनुजविजयिनः श्रीरङ्गिणस्तुङ्गादुन्नतात् । उदारादित्यर्थः । दोरद्रिशृङ्गाद्वाहुपर्वतशिख- रात् । अग्रप्रदेशादित्यर्थः । तस्मात्स्पष्टदानोद्यमानां स्पष्टो दानस्य मदजलस्योद्यम उदयो येषां गजानां स्पष्टो दाने खण्डने उद्यम उद्योगविशेषो येषां शत्रूणां तेषां शत्रुस्तम्बर- माणां प्रतीपमहीपद्विपानां सस्तमुक्तास्थिपुढे मुक्तावद्धवलान्यस्थीनि तेषां पुञ्जः समूहः ३० काव्यमाला। सस्ता विगलिता मुक्तास्थिपञ्जा यस्मात् तस्मिन् शिरसि निपततः विदलनगलितैर्विदल- नेन शत्रुशिरःकपोलविपाटनेन गलितै रेन्तर्येण निःस्तै रक्तैः शोणितैरभ्यक्तमूर्तेलिप्त- विग्रहस्य व्यक्तवीरायितः वीरायिता वीरवदाचरिता सा चासौ ऋद्धिश्चेति । व्यक्ता वी- रायितद्धिर्यस्य स तस्य हर्यक्षस्य हरिः सुदर्शनं श्रीरगिसंकल्पाकारकारित्वाद्धरिरित्युच्यते । तस्य हर्यक्षस्य सिंहस्य च जगतामीडितं जगद्भिः स्तूयमानं क्रीडितं क्रीडाविनोदो वो- ऽरिभङ्ग जनयतु ॥ उन्मीलत्पद्मरागं कटकमिव धृतं बाहुना यन्मुरारे- दीप्तान्रश्मीन्दधानं नयनमिव यदुत्तारकं विष्टपस्य । चक्रेशार्कस्य यद्वा परिधिरभिदधदैत्यहत्यामिव द्रा- गक्षं पक्षे पतित्वा परिघटयतु वस्तढिष्ठां प्रतिष्ठाम् ॥ ६६ ॥ दीप्तान् रश्मीन् प्रकाशमानान् किरणान् दधानं सद्यदक्षं मुरारेर्बाहुना दक्षिणभुजदण्डे- नोन्मीलत्पद्मरागं उन्मीलन्तो देदीप्यमानाः पद्मरागाः शोणमणयो यस्मिस्तत् शिलाव- पार्श्वप्रदेशप्रद्योतमानरागा अर्धरागाः पार्श्वद्वयप्रकाशमानरागाः पूर्वापरभागयोः प्रदीपा- कुरवत्प्रकाशमानरागाः प्ररूडरागाः पूर्णरागाः एवं प्रकारेण चतुर्विधाः पद्मरागमणयः । प्र- रूढरागपद्मरागकीलितकटकमिव धृतमाकलितम् । यदक्षं दीप्तान् रश्मीन्दधानं सत् उत्ता- रकमुन्नतकनीनिकं उत्तारयतीत्युत्तारकं रक्षकं च विष्टपस्य भुवनस्य नयनमिव नेत्रमिव नि- रपायोपायमिति । यदक्षं दैत्यहत्यामभिदधद्रवाणं चक्रेशार्कस्य चक्रप्रभुचण्डकिरणस्य घ- रिधिर्वा परिवेष इव तदक्षं पक्षे पतित्वा युष्मत्पक्षपाती भवद्वो युष्माकं द्रविष्ठां दृढतराम् । शाश्वतीमिति यावत् । प्रतिष्ठां दृष्टादृष्टैश्वर्यसमृद्धितयावस्थानं द्राक् शीघ्रं परिघटयतु संयोजयतु ॥ क्रीडत्प्राकोडदंष्ट्राहतिदलितहिरण्याक्षवक्षःकपाट- प्रादुर्भूतप्रभूतक्षतजसमुदितारुण्यमुद्रं समुद्रम् । उन्मीलत्किशुकाभैरुपहसदमितैरंशुभिः संशयनी- मक्षं चक्रस्य दत्तामघशतशमनं दाशुषर्षी शेमुषी वः ॥ ६७ ।। प्रागाद्यश्चासौ क्रोडो वराहश्च । क्रीडश्चासौ प्राकोडश्च । क्रीडत्याकोडविग्रह इत्यर्थः । तस्य दंष्ट्रा तया हतयः कुट्टनानि ताभिर्दलितं विदारितं हिरण्याक्षस्यासुरस्य वक्षो भुजा- न्तरालमेव कवाटं तच्च हिरण्याक्षवक्षःकवाटं च तस्मात्प्रादुर्भूतं निरर्गलनिर्गलितं प्रभूतं सान्द्रं क्षतजं तेन समुदितं संजातमारुण्यं शोणिमा तदेव मुद्रा चिद्रं यस्य तं समुद्रम् । उन्मीलत्किशुकाभैविलसत्पलाशकुसुमसंकाशैरमितैरनन्तरंशुभिः किरणैरुपहसत् । चक्र- स्याक्षं कर्ट अघशतशमनं दाशुषी प्रदात्री संशयनी संशयोऽनवधारणज्ञानं तं हन्तीति संश- यन्नी तां शेमुषी मनीषां दत्तां दिशतु ॥
सुदर्शनशतकम् । पद्मोल्लासप्रदं यज्जनयति जगतीमेधमानप्रबोधां यस्य च्छायासमाना लसति परिसरे रोहिणी तारकाम्या । नानाहेत्युन्नतत्वं प्रकटयति च यत्प्राप्तकृष्णप्रयाणं त्रेधा भिन्नस्य धाम्नः समुदय इव यत्पातु वश्चाक्रमक्षम् ॥ ६८ ॥ यदक्षरमहस्कराख्यमहश्च पद्मोल्लासप्रदं पद्मा श्रीरङ्गनायिका तस्या उल्लास आनन्दस्तज- नितपारवश्यं पद्मानि कमलानि तेषामुल्लासो विकासस्तं प्रददातीति पद्मोल्लासप्रदं सजगतीं लोकमेधमानप्रबोधामेधमानः प्रबोधः प्रज्ञा यस्याः सा तां जनयति प्रादुर्भावयति । सू- यस्य प्रकाशरूपत्वाच्च सुदर्शनस्य ज्ञानतेजसोरुत्पत्तिस्थानत्वात् । उदयति रवी चक्रे च सर्वे प्रवर्धमानप्रबोधा भवन्ति । यस्याक्षस्य चन्द्राख्यतेजसश्च रोहिणी तारकाय्या आरुण्येन रोहिणीनक्षत्रश्रेष्टा । अथवा रोहिणी अरुणा । 'रोहिणी वसुदेवस्य पल्या नक्षत्रशोणयोः' इति निघण्टुः । यद्वा तारकेण प्रणवेन श्रेष्ठा । अक्षमध्ये प्रणवः प्रणवमध्ये देवः । तस्मा- त्प्रणवसंबन्धित्वेन श्रेष्ठा । यद्वा तारकाया प्रणवानन्तरं तमःशब्दवाच्याहंकाराद्यनिष्टजातं निरस्य पारतन्त्र्यादि प्रापयन्तीत्यर्थः । अत एवासमानं निःसमानं छाया कान्तिः परिसरे समीपे लसति । चन्द्रपक्षे तु तारकाघ्या नक्षत्रश्रेष्ठा रोहिणी चन्द्रभार्या छायासमाना सूर्य- भार्यासदृशी । अथवा रोहिणीनक्षत्राग्रप्रदेशवर्तिनी असमानच्छाया निरुपमचन्द्रिका परि- सरे लसति । यदक्षं कृशानुश्च कृष्णस्य प्रयाणं प्राप्तं कृष्णस्य प्रणायं येन तत्तादृशं सत् नाना हेत्युन्नतत्वं शायद्यायुधेभ्य उन्नतत्वम् । कृशानुपक्षे तु प्राप्तं नीलप्रायं वर्म येन तत् । त- स्मादेव कृष्णवत्मत्युच्यते । नानाविधाभिहेंतिभिर्खालाभिरौनत्यं प्रकटयति । एवं त्रेधा- भिन्नस्य धाम्नस्तेजसः समुदय इव स्थितं चाक्रमक्षं वः पातु ॥ शोचिभिः पद्मरागद्रवसमसुषमैः शोभमानावकाशं प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितं पूरुषेण । अन्तः स्वच्छन्दमग्नोत्थितभृगुतनयं क्षत्रियाणां हताना- मारब्धं शोणितौधैः सर इव भवतो दिव्यहेत्यक्षमव्यात् ॥ ६९ ॥ पद्मरागद्रवसमसुषमैः पद्मरागघर्षणसंजातरसेन सदृशी निरतिशया शोभा येषां तानि तैः शोचिभिः शोभमानावकाशं विमानमध्यप्रदेशं तत् प्रत्यप्राशोकरागप्रतिभटवपुषा विकसद- शोककुसुमसंकाशविग्रहेणेत्यर्थः । पुरुषेण सुदर्शनपुरुषेण भूषितमलंकृतम् । अधिष्ठितमि- त्यर्थः । तथावस्थितम् । किमिव । हतानां क्षत्रियाणां शोणितौरारब्धम् । अन्तःस्वच्छ- न्दमन्नोत्थितभृगुतनयं अन्तःसरोमध्ये स्वच्छन्दमन्नः स्वेच्छामग्नो मन्जनानन्तरमुत्थित्तो भृगुतनयो यस्मिस्तत्सर इव स्थितं दिव्यहेत्यक्षं भवतो युष्मानव्यात् । शोणमणिद्रवसपक्ष- प्रभाव्याप्तान्तरावकाशं परिहसितविकसदशोककुसुमरागारुणतरविग्रहेण पुरुषेणाधिष्ठितं स- त्तदानी खण्डितराजकण्ठोपकण्ठधमनीमुखनिरन्तरपातरुधिरप्रवाहविरचितं लीलानिमग्नो- स्थितभृगुतनयसरोवरमिव स्थितमक्षं युध्मान्यात्वित्यर्थः ।।
३२ काव्यमाला। मत्तानामिन्द्रियाणां कृतविषयमहाकाननक्रीडनानां सृष्टं चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणानाम् । गम्भीरं यन्त्रगत कमपि कृतधियो मन्वते यत्प्रदेया- दस्थूलां संविदं वस्त्रिजगदभिमतस्थूललक्षं तदक्षम् ॥ ७० ॥ कृतधियो निश्चितबुद्धयः यदक्षं कर्म कृतविषयमहाकाननक्रीडनानां महत्तरेष्वरण्येषु क्रीडनानि विनोदाः कृतानि महाकाननक्रीडनानि यैस्तेषां मत्तानां मदधागदूषितानां वार- णानां ग्रहणधिषणया जिघृक्षया चक्रेश्वरेण महाराजेन सृष्टं वारिवत् । 'वारी तु गजब- न्धनी' इत्यमरः । कृतविषयमहाकाननक्रीडनानां शब्दादिविषयेषु क्रीडनानि विषयक्री- डनानि । कृतानि विषयक्रीडनानि यैस्तेषां मत्तानामसद्विषयव्यापृतनियमनबुद्ध्या चक्रे- श्वरेण विरचितं गम्भीरं निम्नं कमपि गर्ने यन्त्रकूपमिति मन्वते विचारयन्ति । त्रिजगद भिमतस्थूललक्षं त्रिजगतामभिमतार्थान्विषयीकृत्य वदान्यं तदक्षं वोऽस्थूलां सूक्ष्मां संविदं प्रदेयाद्दिश्यात् । नीरन्ध्रविपिनविहरमाणमत्तमातङ्गग्रहणाय महाराजविरचितवारिवद्विषयादि- विशृङ्खलविहारपरायणकरणनिकरनियमननिरन्तररथपथविरचितयन्त्रगर्तमिति शिक्षितबु- द्धिभिनिश्चीयमानं त्रिभुवनाभिमतार्थप्रदानदीक्षितमक्षं भवतामुभयविभूतिसाक्षात्करणस- मर्थी प्रमां प्रदद्यादित्यर्थः ।। प्राणादीन्संनियम्य प्रणिहितमनसां योगिनामन्तरङ्गे तुङ्गं संकोच्य रूपं विरचितदहराकाशकृच्छ्रासिकेन । प्राप्तं यत्पूरुषेण स्वमहिमसदृशं धाम कामप्रदं वो भूयात्तद्भूर्भुवःस्वस्त्रयवरिवसितं पुष्कराक्षायुधाक्षम् ॥ ७१ ॥ प्राणादीन्संनियम्य योगतन्त्रोक्तप्रकारेण निरुध्य प्रणिहितमनसामात्मनि नियतचित्तानां योगिनामन्तरङ्गे हृदये तुङ्गमुन्नतं रूपं गर्भगह्वरैकदेशस्थितनिखिलब्रह्माण्डजातं दिव्यमङ्ग- लविग्रहं संकोच्याणूकृत्य विरचितदहराकाशकृच्छासिकेन विरचिता दहराकाशे कृच्छ्रेण निर्बन्धेनासिकावस्थानं येन स तेन पुरुषेण स्वमहिमसदृशं स्ववैभवोपपन्नं धाम स्थानं यदक्षं प्राप्त प्रापि । परमाणो मेरुगिरिस्थितिरिव दहराकाशावस्थानेन संजनितपरिश्रमप- रिहरणाय विश्रामयोग्यं चक्राक्षमध्यासितमित्यर्थः । भूर्भुवःस्वस्त्रयवरिवसितं लोकत्रय- पूजितं पुष्कराक्षायुधाक्षं वः कामप्रदं भूयात् । प्राणादिसमीरणसमाजं संनिरुध्य वशीकृत- स्वान्तानां हृदयेषु स्वकीयविग्रहसंकोचपूर्वकं सूक्ष्मतरदहराकाशमध्यवर्तिना पुरुषेण सू- क्ष्मकस्थलावस्थितिजनितक्लेशापनोदायाधिष्ठितं निखिलभुवनपूजितं पद्माक्षायुधाक्षं युष्म- दभिलषितप्रदं भूयादित्यर्थः ॥ विद्धान्वीभ्रेण धाम्ना चरणनखभुवा बद्धवासस्य मध्ये चक्राध्यक्षस्य बिभ्रत्परिहसितजपापुष्पकोषान्प्रकाशान् ।
सुदर्शनशतकम्। शुभैरभैरदर्वैः शरदि तत इतो व्योम विभ्राजमानं प्रातस्त्यादित्यरोचिस्ततमिव भवतः पातु राथाङ्गमक्षम् ।। ७२ ॥ मध्येऽक्षप्रदेशे बद्धवासस्य कृतावस्थस्य चक्राध्यक्षस्य नखभुवा पादाब्जनखजातेन वी- श्रेण विमलेन धाम्ना तेजसा विद्धान्संमिश्रान्परिहसितजपापुष्पकोशान् । तृणीकृतजपाकु- सुमगर्भरागानित्यर्थः । प्रकाशान्बिभ्रद्दधत् शुभैरदधैर्बहुले घेरितस्ततो विद्धं संपृक्तं प्रा- तस्त्यादित्यरोचिस्ततं प्रातःकालीनरविकरव्याप्तं विभ्राजमानं व्योमेव स्थितं रथाङ्गमक्षं भवतः पातु । स्वकीयावस्थानविभूषितं चक्राक्षमध्यप्रदेशस्थपुरुषस्य चरणनखचन्द्रसान्द्र- चन्द्रिकोन्मुद्रितान् विकसितजपाप्रसूनगर्भदलरागसोदरान् किरणान्दधानं तदानीं शारद- नीरदपटलपरिवृतमुद्यद्रविकिरणरञ्जितगगनतलमिव स्थितं प्रकाशमानं स्थानावयवभ- तभक्षं गुष्मानक्षत्वित्यर्थः ॥ श्रीवाणीवायडान्यो विदधति भजनं शक्तयो यस्य दिक्षु प्राह व्यूहं यदाद्यं प्रथममपि गुणं भारती पाञ्चरात्री। घोरां शान्तां च मूर्ति प्रथयति पुरुषः प्राक्तनः प्रार्थनाभि- भक्तानां यस्य मध्ये दिशतु तदनघामक्षमध्यक्षतां वः ॥ ७३ ॥ पाञ्चरात्री पञ्चरात्रसंबन्धिनी भारती की यदक्षं कर्म आयं व्यूह वासुदेवसंकर्षण- प्रद्युम्नानिरुद्धव्यूहरूपं प्रथममपि गुणं ज्ञानाख्यं गुणं आह । श्रीवाणीवाङ्मृडान्य एता वा- सुदेवादीनां शक्तयो दिक्षु प्राच्यादिषु स्थिताः सत्यो यस्य वासुदेवसंकर्षणप्रद्युम्नानिरुद्ध- भूतस्याक्षस्य भजनं सेवां विदधति कुर्वन्ति । अक्षस्य प्रथमगुणत्वं च कुत्रत्याशङ्कमानं प्रति लिख्यते-'वासुदेवादिकं चक्रं व्यूहं प्राथमिकं विदुः । उभयोरपि तादात्म्यं ब्रह्मसंकल्प- भावतः ॥ अजडं स्वात्मसंबोधि निःसङ्गं सर्वगाहनम् । ज्ञानं नाम गुणं प्राहुः प्रथमं गुण- चिन्तकाः ॥ स्वरूपं ब्रह्मणस्तच्च गुणश्च परिकीर्तितः । जगत्प्रकृतिभावो यः सा शक्तिः परिगीयते ॥ कर्तृत्वं नाम यत्तस्य स्वातन्त्र्यपरिबृहितम् । ऐश्वर्यं नाम तत्प्रोक्तं गुणतत्वा- र्थचिन्तकैः ॥ श्रमहानिस्तु या तस्य सततं कुर्वतो जगत् । बलं नाम गुणस्तस्य कथितं गुणचिन्तकैः ॥ तस्योपादानभावेन विकारविरहो हि यः । वीर्य नाम गुणः सोऽयमच्युत- त्वापराह्वयः ॥ सहकार्यनपेक्षा या तत्तेजः समुदाहृतम् । एते शक्त्यादयः पञ्च गुणा ज्ञा- नस्य कीर्तिताः ॥ ज्ञानमेव परं रूपं ब्रह्मणः परमात्मनः । तदा तु चक्रमित्याहुब्रह्मयाथा- त्म्यवेदिनः ॥' इत्यहिर्बुध्न्यसंहितायामुक्तस्याक्षस्य मध्यस्थितः प्राक्तनपुरुष आदिपुरुषो भ- क्तानां प्रार्थनाभि|रां शान्तां च मूर्ति प्रथयति । अस्यायमर्थः-यदा भक्ताः शत्रुनिर- सनं प्रार्थयन्ते तदा शत्रूनुद्दिश्योगविग्रहो भवति । यदेष्टप्राप्तिमीहन्ते तदा प्रसन्नविग्रहो भवति । तदक्षं वो निर्दोषामध्यक्षतामाधिपत्यं दिशतु ॥ रक्षःपक्षेण रक्षन्क्षतममरगणं लक्ष्यैवलक्ष्यमाजी लक्ष्मीमक्षीयमाणां बलमथनभुजे वज्रशिक्षानपेक्षे । ।
काव्यमाला। निक्षिप्य क्षिप्रमध्यक्षयति जगति यद्दक्षतां दिव्यहेते- रक्षामामक्षमां वः क्षपयतु भवतामक्षजिल्लक्षमक्षम् ॥ ७४ ॥ (इत्यक्षवर्णनम्) यदक्षं कर्ट आजौ रणे रक्षः पक्षेण रक्षसां यः पक्षस्तेन शतं निहतं लक्ष्यवैलक्ष्यं लक्ष्यं वैलक्ष्यं व्रीडा यस्य तममरगणं रक्षत् । वज्रशिक्षानपेक्षे बलमथनभुजे अक्षीयमाणां प्रवर्ध- मानां लक्ष्मीमैश्वर्य क्षिप्रं निक्षिप्य निधाय दक्षतां स्वकीयसामर्थ्यम् । अघटनाघटकत्व- मित्यर्थः । जगति लोके अध्यक्षयत्यपरोक्षयति । अक्षजिल्लक्ष्यं जितेन्द्रियसनकादिलक्ष्यं दिव्यहेतेस्तदक्षं भवतामक्षामां महत्तरां तामक्षान्तिम् । असहनतामिति यावत् । क्षपयतु निर्मूलयतु । रणक्षितिविचक्षणराक्षसपरिक्षतसंलक्षितवैलक्ष्यसहस्राक्षपक्षसंरक्षणदीक्षितं जि- ताक्षचित्तलक्ष्यमनपेक्षितवज्रशिक्षसुराध्यक्षवक्षस्यक्षयां लक्ष्मी क्षिप्रं निक्षिप्य स्वदक्षतां दिक्षु प्रत्यक्षयदक्षं भवदक्षामामक्षमा क्षपयत्वित्यर्थः ॥ इत्यक्षवर्णनम् । ज्योतिश्चूडालमौलिस्त्रिनयनवदनः षोडशोत्तुङ्गबाहुः प्रत्यालीडेन तिष्ठन्प्रणवशशधराधारपट्रोणवर्ती । निःसीमेन स्वधाम्ना निखिलमपि जगत्क्षेमवन्निर्मिमाणो भूयात्सौदर्शनो वः प्रतिभटपरुषः पूरुषः पौरुषाय ॥ ७९ ॥ ज्योतिश्रुडालमौलिालाभिरूर्वाग्रजटावान्मौलियस्य सः । त्रिनयनवदनः । षोडशो- तुङ्गबाहुः । प्रत्यालीटेनावस्थानविशेषेण तिष्ठनवतिष्ठमानः । प्रणवेति । तारचन्द्रावाधारौ यस्य षट्कोणचक्रस्य तत्तथा तत्र वर्तत इति षट्कोणवर्ती । निःसीमेन निरवधिकैन स्ववैभवेन निखिलमपि जगत् क्षेमवद्विद्यमानकुशलं निर्मिमाणः कुर्वाणः । प्रतिभटपरुषः प्रतिपक्षभयंकर इत्यर्थः । सौदर्शनः पुरुषश्चक्रमध्यवर्ती पुमान् भवतां पौरुषाय पुं. स्त्वाय भूयात् ॥ वाणी पौराणिकी यं प्रथयति महितं प्रेक्षणं कैटभारेः शक्तिर्यस्येषुदंष्ट्रानखपरशुमुखव्यापिनी तद्विभूत्याम् । कर्तुं यतत्त्वबोधो न निशितमतिभिर्नारदाद्यैश्च शक्यो दैवीं वो मानुषीं च क्षिपतु स विपदं दुस्तरामस्त्रराजः ॥ ७६ ॥ पौराणिकी वाणी यं पुरुषं कैटभारेः परवासुदेवस्य महितं मूलप्रकृतिविलीनासत्कल्प- जगत्सृष्टिकारणतया देवतियङ्मनुष्यस्थावररूपेण चातुर्विध्यं प्राप्तैत्तेन जातैः पूजितम् उप- कर्तृत्वेनोपकारस्मृतिविभवावतारे इषुदंष्ट्रानखपरशुमुखव्यापिनी रघुनाथायुधभूतबाणमुखं वराहदंष्ट्रामुखं नृसिंहनखमुखं भार्गवपरशुमुखं व्याप्तुं शीलमस्या अस्तीति व्यापिनी । भ- वतीति शेषः । इषुदंष्ट्रानखपरशुमुखायुधजातं व्याप्नोति वा । यद्वा यस्य शक्तिस्तदायुधमुख-
सुदर्शनशतकम् ।
व्यापिनी कथ्यते । यत्तत्त्वबोधो यत्स्वरूपविषयप्रमितिनिशितमतिमिनारदारैरपि कर्तुं न
शक्यः सोऽस्त्रराजो वो दुस्तरां देवी देवकृतां मानुषी मनुष्यकृतां च विपदं क्षिपतु । 'वाणी
च पाश्चरात्री यं कथयति वासुदेवसंकल्पम् । विभवेषु यस्य शक्ती रामप्रमुखास्त्रसंश्रयिणी ॥
संशक्यते न बोद्धं यत्तत्वं नारदाद्यैश्च । दैवीं च मानुषीं च क्षिपतु स वश्चक्रनायको वि-
पदम् ॥' इत्यर्थः ।।
रूढस्तारालवाले रुचिरदलचयः श्यामलैः शस्त्रजालै-
|लाभिः सप्रवालः प्रकटितकुसुमो बद्धसंधैः स्फुलिङ्गैः ।
प्राप्तानां पादमूलं प्रकृतिमधुरया छायया तापद्धो
दत्तामुद्दोःप्रकाण्डः फलमभिलषितं विष्णुसंकल्पवृक्षः ॥ ७७ ॥
तारालवाले प्रणवरूपालवाले रूढः प्रादुर्भूतः । श्यामलैः शस्त्रजालैः कुन्तशाईकृपा-
णाद्यायुधवृन्दै रुचिरदलचयः रुचिरो दलानां पर्णानां चयः समूहो यस्य सः । ज्वालाभि-
ररुणकिरणविलासैः सप्रवाल: सकिसलयः । बद्धसंधैर्बद्धो नद्धः संघः समूहो यस्तैः स्फु-
लिङ्गैः पुङ्खानुपुङ्ख निःसरद्भिः कृशानुकणैः प्रकटितकुसुमः । उद्दोःप्रकाण्ड उद्दामानि दो-
ध्येव प्रकाण्डाः स्कन्धा यस्य सः । पादमूलं चरणाजसमीपं प्राप्तानां वृक्षस्य पादस्थानीयं
मुलं प्राप्तानां प्रकृतिमधुरया स्वभावरमणीयया छायया कान्त्या अनातपेन तापहृत् सांसा-
रिकतापं सूर्यकिरणतापं च हरतीति तापहृत् । विष्णुसंकल्पवृक्षः श्रीरङ्गिसंकल्पभूतकल्प-
वृक्षो वो युष्माकमभिलषितं दत्ताम् ।।
धाम्नामैरंमदानां निचयमिव चिरस्थायिनां द्वादशानां
मार्तण्डानां समूह मह इव बहुलां रत्नभासामिवर्द्धिम् ।
अर्चिःसंघातमेकीकृतमिव शिखिनां वाडवाग्रेसराणां
शङ्कन्ते यस्य रूपं स भवतु भवतां तेजसे चक्रराजः ॥ ७८ ॥
यस्य पुरुषस्य रूपं विग्रहं चिरस्थायिनामेरमदानां वैद्युतानां धाम्नां निचयमिव समूह-
मिव । द्वादशानां मार्तण्डानां चण्डकिरणानां समृदं समूहीकृतं महस्तेज इव रत्नभासां पद्म-
रागमणिप्रभासमूहानां बहुलां महत्तरां समृद्धिमिव वाडवाग्रेसराणां वाडवानलादप्यधिक-
द्युतीनां शिखिनामेकीकृतमचिःसंघातमिव शङ्कन्ते विकल्पयन्ति स चक्रराजो भवतां ते-
जसे सकलजगद्व्याप्तप्रकाशाय भवतु ।।
उग्रंपश्याक्षमुद्यद्भुकुटि समुकुटं कुण्डलस्पष्टदंष्ट्र
चण्डास्त्रैर्बाहुदण्डैलसदनलसमक्षोमलक्ष्योरुकाण्डम् ।
प्रत्यालीढस्थपादं प्रथयतुं भवतां पालनव्यग्रमग्रे
चक्रेशोऽकालकालेरितभटविकटाटोपलोपाय रूपम् ॥ ७९ ॥
३६ काव्यमाला । चक्रेशः सुदर्शनराजः उग्रंपश्यतीत्युग्रंपश्यानि अक्षीणि विलोचनानि यस्य तत् । उद्य- झुकुटि उद्यन्ती भृकुटी भ्रूभङ्गो यस्य तत् । समुकुटं मुकुटयुक्तम् । कुण्डलि कुण्डले अस्य स्त इति कुण्डलि । स्पष्टे दंष्ट्रे यस्य तत् । चण्डास्त्रैश्चण्डानि शत्रुखण्डनपण्डितानि अस्त्राणि येषां तैर्बाहुदण्डैलसद्रमणीयम् । अनलसमक्षौमलक्ष्योरुकाण्डं ज्वालावर्णेन क्षोमेन प्रत्यक्षप्रतीतिविषयावूरुकाण्डौ यस्य तत् । प्रत्यालीटस्थपादं प्रत्यालीढगतौ तिष्ठत इति प्रत्यालीटस्थौ पादौ यस्य तत् । पालनव्यग्रं जगद्रक्षणे ससंभ्रमम् । रूपं स्वकीयमाकारम् । अकालकालेरितभटविकटाटोपलोपाय अकालेऽनवसरे कालेन यमेन ईरिताः प्रेरिताश्च ते भटाश्च तेषां विकटाटोप उद्भटव्यापारकोलाहलस्तस्य लोपो नाशस्तस्मै भवतामग्रे पुरस्तात्प्रथयतु प्रकाशयतु ॥ चक्रं कुन्तं कृपाणं परशुहुतवहावङ्कुशं दण्डशक्ती शङ्ख कोदण्डपाशौ हलमुसलगदावज्रशूलांश्च हेतीन् । दोभिः सव्यापसव्यैर्दधदतुलबलस्तम्भितारातिद- व्यूहस्तेजोभिमानी नरकविजयिनो जृम्भतां संपदे वः ॥ ८ ॥ चक्रादिषोडशायुधानि अतुलबलस्तम्भितारातिदः निःसीमबलेन स्तम्भितो विनाशितो अरातिदर्पः प्रत्यर्थिपराक्रमो यैस्तानि तैः सव्यापसव्यैर्वामदक्षिणेोभिर्भुजैर्दधत् नरकवि- जयिनस्तेजोभिमानी कृत्स्नं तेजो मदीयमिति योऽभिमनुते स तेजोभिमानी व्यूहोऽवतार- विशेषो वः संपदे ऐश्वर्याय विजृम्भतां परिस्फुरतु ॥ पीतं केशे रिपोरप्यसृजि रथपथे(दे) संश्रितेऽप्युत्कटाक्ष चन्द्राधःकारि यन्त्रे वपुषि च दलने मण्डले च स्वराङ्कम् । हस्ते वक्ने च हेतिस्तबकितमसमं लोचने मोचने च स्तादस्तोकाय धान्ने सुरवरपरिषत्सेवितं दैवतं वः ॥ ८१ ॥ पीतं केशे रिपोरप्यस्रजि चिकुरनिचये शत्रुशोणितविषये च पीतं पीतवर्ण कृतपानं च । पीता गाव इतिवत् । रथपथे(द) चक्रे संश्रिते समाश्रितविषये च उत्कटाक्षं उत्कटमतिगम्भीरमक्ष यस तत् । उत उन्नता उदारा उत्करुणाः कटाक्षा यस्य तत् । यन्त्रे वपुषि च सौदर्शनयन्त्रे विग्रहे च चन्द्राधःकारि चन्द्रमधःकरोतीति चन्द्राधःकारि । प्र. थमं चन्द्रमण्डलं विलिख्य तन्मध्ये प्रणवं विरचय्य तदुपरि पुरुषः प्रतिष्ठाप्य इति चन्द्रा- धःकारित्वम् । मनोहरतया स्वप्रभया चन्द्र निस्तेजस्कं करोतीति चन्द्राधःकारि । दलने मण्डले च शत्रुनिरसने सुदर्शनबिम्बे च स्वराङ्क स्त्ररो विजयाहादजनितनिर्घोषोऽङ्को लाञ्छनं यस्य तत् । स्वरः प्रणकोऽङ्कश्चिद्रं यस्य तत् । हस्ते वक्र च हेतिस्तबकितं हेतिभिः शस्त्रैः संजातस्तबकं हेतिभिर्वहिज्वालाभिः स्तबकितं च । लोचने मोचने च नेत्रे शत्रुनिरासाय स्वमोचने चासमं विषमम् । अयुग्ममित्यर्थः । असदृशं च। सुरवरपरिषत्सेवितं सुरवरा सुदर्शनशतकम् । ७ ब्रह्मरुद्रादयस्तेषां परिषदा सेवितं दैवतं सुदर्शनपुरुषो वो युष्माकमस्तोकायानल्पाय धान्ने तेजसे स्तात् । पीतकेशः पीतशत्रुशोणितः । उदाराक्षचक्रः उत्करुणकटाक्षामृतधारास- माप्लावितसमाश्रितजनः । अधरीकृतचन्द्रमण्डलयन्त्रः स्वकीयविग्रहप्रभापटलावशीणित- चन्द्रमण्डलः । स्वकीयघोरघोषाञ्चितशत्रुदलनः प्रणवाङ्कमण्डलः । प्रहरणमण्डितभुजमण्डल: कृशानुज्वालावलीविलासोपलालितमुखः । विषमलोचनः शत्रुनिरसनाथै निःसमानस्वमो- चनः । सुरवरंनिकरपरिचरितपदसरसीरुहः सुदर्शनपुरुषो भवतां निरतिशयतेजसे भूयात् ॥ चित्राकारैः स्वचारैर्मितसकलजगज्जागरूकप्रतापो मन्त्रं तन्त्रानुरूपं मनसि कलयतो मानयन्नात्मगुह्यान् । पञ्चाङ्गस्फूर्तिनिर्वतितरिपुविजयो धाम षण्णां गुणानां लक्ष्मी राजासनस्थो वितरतु भवतां पूरुषश्चक्रवर्ती ॥ २ ॥ चित्राकारैः पेषणभस्मीकरणखण्डनलुण्ठनकुटनादिभेदेन नानाप्रकारा आकाराः स्वरूपाणि येषु ते तैः । स्वचारैः स्वपरिभ्रमणैर्मितसकलजगत् परिच्छिन्ननिखिलभुवनः । जागरूक- प्रतापो निस्तन्द्रप्रभावः । यद्वैकं पदम् । परिच्छिन्ननिखिलभुवने जागरूकः प्रतापो यस्य सः । मन्त्रं सौदर्शनं मनुं तन्त्रानुरूपं प्रयोगसिद्धान्तानुरूपं मनस्याकलयत आवर्तयत आ- स्मगुह्यान् आत्मनि स्वविषये रहस्यान् । 'मन्त्रं यत्नेन गोपयेन्' इत्युक्तत्वात् । आत्मभ- तानित्यर्थः । मानयन्संभावयन् । उपलालयन्नित्यर्थः । पञ्चाङ्गस्फूर्तिनिवर्तितरिपुविजयः प- ञ्चाङ्गन्याससंपत्त्या निर्वतितो रिपूणां विजयो येन सः । सुदर्शनषडक्षरेण रिपुविजये प्रस्तुते सति पञ्चाङ्गन्यासः कर्तव्यः रिपुसंहारे तु प्रस्तुते षडङ्गन्यासः कर्तव्य इति मन्त्रानुसंधान- क्रमः । यद्वा पञ्चाङ्गानि ज्वालानेम्यरनाभ्यक्षाणि । नेम्यन्तर्भूता ज्वाला पृथगङ्गत्वेनोपच- यते । तेषां स्फूर्त्या निर्वतितो रिपुविजयो येन सः । घण्णां गुणानां ज्ञानबलैश्वर्यवीर्यश- क्तितेजसां धाम स्थानम् । राजासनस्थश्चन्द्रमण्डलमासनीकृत्य स्थितः । चक्रवर्ती सुद- शनमध्यवर्ती पुरुषो भवतां लक्ष्मी वितरतु । चित्राकारैः कापालिकादिरूपभेदेन नाना- रूपैः स्वचारैः स्वगूढपुरुषैर्मितसकलजगत् निखिलभुवनस्फुरत्प्रतापः । मन्त्रं गुप्तवादम् । तन्त्रानुरूपं बलानुगुणम् । 'तन्त्रं प्रधाने परिच्छदे' इत्यमरः । मनसि कलयतो हृद्येव विचा- रयतः । आत्मगुह्यान् स्वकीयरहस्यपुरुषान्मानयन् । पञ्चाङ्गस्फूतिनिर्वतितरिपुविजयः । कर्मणामारम्भोपाय:, पुरुषद्रव्यसंपत्, विनिपातप्रतीकारः, देशकालविभागः, कार्यसि- द्विश्चेति पञ्चाङ्गानि । तेषां स्फूर्त्या निष्पादितः शत्रुविजयो यस्य सः । घण्णां गुणानां सं- धिविग्रहयानासनद्वैधीभावसंश्रयाणां धाम स्थानम् । राजासनस्थो भद्रासनस्थः । 'नृपासनं बत्तद्भद्रासनं सिंहासनं च तत्' इत्यमरः । स चक्रवती पूरुषो महाराजो भवतां लक्ष्मी ददातु ॥ अक्षावृत्ताभ्रमालान्यरविवरलुठच्चन्द्रचण्डद्युतीनि ज्वालाजालावलीढस्फुरदुडुपटलीपाण्डुदिङ्मण्डलानि ।
३८ काव्यमाला। चक्रान्ताक्रान्तचक्राचलचलितमहीचक्रवालातशेषा- ण्यस्त्रग्रामाग्रिमस्य प्रददतु भवतां प्रार्थितं प्रस्थितानि ॥ ८३ ॥ अक्षावृत्ताश्रमालानि अक्षे आवृत्ता पौनःपुन्येन कृतावर्ता अभ्रमाला मेघपतियेषां तानि । यद्वा अक्षणाक्रान्ता मेघपतिर्येषां तानि । अरेति । अरविवरेषु लुठन्तौ परिवर्त- मानौ चन्द्रचण्डद्युती निशाकरदिवाकरौ येषां तानि । ज्वालति । ज्वालाजालैरवलीढा आस्वादिता । स्पष्टेत्यर्थः । अत एव स्फुरन्ती शीर्यन्ती उडुपटली नक्षत्रवृन्दं तया पाण्डु धवलं दिमण्डलं येषां तानि । चक्रेति । चक्रस्यान्तः प्रधिस्तेनाक्रान्तः क्षुण्णश्चक्राचलश्च- वालादिस्तेन चलितं कम्पितं महीचक्रवालं भूमण्डलं तेनार्तः पीडितः शेषोऽनन्तो येषां तानि । अस्त्रग्रामाग्रिमस्य प्रस्थितानि प्रयाणानि भवतां प्रार्थितं प्रददतु ॥ शूलं त्यक्तात्मशीलं सृणिरणुकघृणिः पट्टिशः स्पष्टसादः शक्तिः शालीनशक्तिः कुलिशमकुशलं कुण्ठधारः कुठारः । दण्डश्चण्डत्वशून्यो भवति तनु धनुर्यत्पुरस्तात्स वस्ता- दस्ताशेषास्त्रवर्गो रथचरणपतिः कर्मणे शार्मणाय ॥ ८४ ॥ यत्पुरस्तात् यस्य पुरुषस्य पुरस्तात् पुरतः शलं त्यक्तात्मशीलं त्यक्तमात्मशीलं शत्रु- संहारनैपुण्यरूपस्वभावो येन तत् । सृणिरङ्कुशः अणुकवृणिः अणुका नष्टा घृणयो यस्य सः । पटिश आयुधविशेषः स्पष्टसादः स्पष्टो व्यक्तः सादो विशरणं यस्य सः । शक्तिः शालीनशक्तिः शालीना अधृष्टा शक्तिर्यस्याः सा । 'स्यादधृष्टस्तु शालीनः' इत्यमरः । कुलिशं वज्रमकुश- लम् । कुठारः कुण्ठधारः । दण्डः प्रचण्डत्वशून्यः प्रचण्डत्वेन कार्येण शुन्यो विनाकृतः । धनुश्चापं तनु क्षीणं भवति । प्रस्ताशेषास्त्रवर्गो रथचरणपतिर्वः शार्भणाय शर्मणो ब्रह्मा- नन्दस्य साधनं शार्मणं तस्मै कर्मणे स्तात् ॥ क्षुण्णाजानेयवृन्दं क्षुभितरथगणं सन्नसांनाह्ययूथं श्वेलासंरम्भहेलाकलकलविगलत्पूर्वगीर्वाणगर्वम् । कुर्वाणः सांपरायं रथचरणपतिः स्थेयसी वः प्रशस्ति दुग्धां दुग्धाब्धिभासं भयविवशसुनासीरनासीरवर्ती ।। ८५ ॥ भयविवशसुनासीरनासीरवर्ती । हे इन्द्र, भयं मा गाः अहमेव सर्वासुरान्भस्मीकरिष्य इति वदन् युद्धसंनद्धः पुरत एव धावतीत्यर्थः ।रथचरणपतिः। क्षुण्णाजानेयवृन्दं क्षुण्ण आजानेयानां (अश्वविशेषाणां) वृन्दः समूहो यस्मिन्कर्मणि तत् । क्षुभितरथगणं क्षुभितो जर्जरीकृत: स्य- न्दनसमूहो यस्मिन्कर्मणि तत् । सन्नसांनाह्ययूथं सन्नं विशीणे संनद्धानां यूथं यस्मिन्कर्मणि तत् । श्वेलेति । श्वेला विजयनिमित्तकोल्लासजनितसिंहनादास्तासां संरम्भाः संत्रमास्त एव हेला रथेन रथभञ्जनं हयेन हयताडनमित्येवमादिकाः क्रीडास्तासां कलकलाः कोलाहलाश्च सुदर्शनशतकम् । तैर्विगलन्निर्गलन्पूर्वगीर्वाणानां दैत्यानां गर्यो यस्मिन्कर्मणि तत् सांपरायं युद्धं कुर्वाणो स्थ- चरणपतिर्वः स्थेयसी स्थिरतरां दुग्धाब्धिभासं क्षीराब्धिनिभा प्रशस्ति कीर्ति दुग्धां पूरयतु ।। द्रुह्यद्दोःशालिमालिप्रहरणरभसोत्तानिते वैनतेये विद्राति द्राक्प्रयुक्तः प्रधनभुवि परावर्तमानेन भी । निर्जित्य प्रत्यनीकं निरवधिकचरद्धास्तिकाश्चीयरथ्यं पथ्यं विश्वस्य दाश्वान्प्रथयतु भवतो हेतिरिन्द्रानुजस्य ।। ८६ ॥ द्रुह्यद्दोःशालिमालिप्रहरणरभसोत्तानिते द्रुह्यन्ती शत्रुनिरसनसमर्थे च ते च दोषौ भुजौ ताभ्यां शाली रमणीयः स चासौं माली च । अथ द्रुह्यंश्चासौ दोःशाली माली च तस्य प्रहरणानि गदाताडनानि तेषां रभसो रयत्तेनोत्तानिते विमुखीकृते वैनतेये द्राक् शीघ्रं विद्राति पलायमाने प्रधावति सति प्रधनमुवि युद्धनमा परावर्तमानेन प्रतिपक्षाभि- मुखं प्रतिनिवर्तमानेन भर्ना प्रयुक्तः । निरवधिकचरद्धास्तिकावीयरथ्यं हास्तिकं हस्ति- वृन्दं अश्वीयमश्ववृन्दं रथ्या रथवृन्दं निरवधिकं निःसंख्याश्चरन्तो हास्तिकाश्वीयरथ्या यस्य तत् । प्रत्यनीकं प्रत्यर्थिसैन्यं निर्जित्य विश्वस्य पथ्यं हितं दाश्वान् प्रददान इन्द्रानु- जस्य हेतिर्भवतो युष्मान्प्रथयतु प्रख्यापयतु ॥ नन्दिन्यानन्दशून्ये गलति गणपतौ व्याकुले बाहुलेये चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्यां प्रमाथम् । उच्छिद्याजी वलिष्ठं बलिजभुजवनं यो ददावादिभिक्षो- भिक्षां तत्प्राणरूपां स भवदकुशलं कृष्णहेतिः क्षिणोतु ॥ ८७ ॥ आजौ युद्धे नन्दिनि रुद्रप्रमथविशेष आनन्दशन्ये आनन्दरहिते सति । सदा सुखि- तोऽपि नन्दी सुदर्शनभयान्नित्यं दुःखी बभवेत्यर्थः । गणपती गजानने भयाद्गलति विद्राति सति । बाहुलेये स्कन्दै व्याकुले इतिकर्तव्यतामढे सति । चण्डनामधेयप्रमथे च चाकित्य- कुण्ठे भयमुकुलिते सति । प्रमथपरिषदि रुद्रभक्तसमूहे प्रमाथमेवंप्रकारेण विलोडनं प्राप्त- वत्यां सत्यां बलिष्ठं बलवत्तरं बलिजभुजवनं बाणासुरबाहुकाननमाच्छिद्य लुप्त्वा । विल- येति यावत् । आदिभिक्षोभिक्षुकाणामाद्यस्य कापालिकस्य तत्प्राणरूपां बाणासुरप्राणस्व- रूपां भिक्षां यः कृष्णहेतिर्ददौ विततार स भवदकुशलं भावत्कामङ्गलं क्षिणोतु नाशयतु ।। रक्तौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौ महाब्धौ संध्यासंबन्धताराजलधरशबलाकाशनीकाशकान्तौ । गम्भीरारम्भमम्भश्चरमसुरकुलं वेदविघ्नं विनिघ्न- निर्विघ्नं वः प्रसूतां व्यपगतविपदं संपदं चक्रराजः ।। ८८ ॥ रक्तौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौ स्वकीयघोरप्रहारशकलितशत्रुशरीरनिरन्तर- काव्यमाला। - निर्यद्रक्तधाराभिरभ्यक्तानि प्लाविततया रञ्जितानि मुक्ताफलानि तै लिता संवलिता लल- द्वीचिवृद्धिश्चलत्तरङ्गसमृद्धिर्यस्य तस्मिन् । संध्येति । संध्यायाः संबन्धात् तारा नक्षत्राणि जलधरा मेघाश्च तैः शबल: नैल्यशोणिनां सांकर्येण संजातवर्णः शबलश्चासावाकाशश्च तेन निकाशा कान्तिर्यस्य स तस्मिन्महाब्धौ रक्ताक्तमुक्ताफलानां रङ्गपरम्परासंबृततरड़े संध्यारागरञ्जिततारागणमेघलेखापरम्परासमन्वितवियत्तलसंकाशप्रकाश इत्यर्थः । अम्भश्चर जलचराकारितं अत एव गम्भीरारम्भ कार्यानुमेयोद्योगं वेदविन्नं श्रुतिप्रत्यहम् । वेदापहा- रचतुरमित्यर्थः । अथवा 'वेगनिघ्नं' इति पाठः । वेगायत्तम् । असुरकुलं निर्विघ्नं यथा स्यात्तथा निन्ननिर्मूलयंश्चक्रराजो व्यपगतविपदं निरस्तसमस्तविपत्परम्परां संपदं प्रसूताम् ॥ काशीविप्लोषचैद्यक्षपणधरणिजध्वंससूर्यापिधान- ग्राहद्वेधात्वमालित्रुटनमुखकथावस्तुसत्कीर्तिगाथाः । गीयन्ते किंनरीभिः कनकगिरिगुहागेहिनीभिर्यदीया देयादैतेयवैरी स सकलभुवन श्लाघनीयां श्रियं वः ॥ ८९ ।। काश्या विश्लोषो दाहः । चैद्यक्षपणं शिशुपालशिरःकुन्तनम् । धरणिजध्वंसो नरका- सुरनिरसनम् । सुर्यापिधानं सैन्धववधाय रव्याच्छादनम् । ग्राहद्वेधात्वं नक्रशरीरविपाट- नम् । मालित्रुटनं मालिराक्षसभञ्जनम् । मुखमादिर्यासां ताः । तथा ताश्च ता: कथाश्चा- वदानानि च ता एव वस्तून्यर्थानि यासां गाथानां ता यदीया यस्य चक्रपुरुषस्य संबन्धिन्यः कीर्तिगाथाः कीर्तिविषयगीतयः कनकगिरिगुहागेहिनीभिः किंनरीभिर्गीयन्ते । स दैतेयवेरी सुदर्शनपुरुषो वः सकलभुवनश्लाघनीयां समस्तजगत्पूज्यां श्रियं संपदं देयात् ॥ नानावर्णान्विवृण्वन्विरचितभुवनानुग्रहान्विग्रहान्य- श्चक्रेष्वष्टासु मृष्टासुरवरतरुणीकण्ठकस्तूरिकेषु । आतारादर्णमालावधिषु वसति यः पूरुषो वः स देया- व्यध्वरुद्भूतसत्त्वैरुपहितमबहिन्तिमध्वान्तवर्ती ॥ ९ ॥ यः पुरुषो मृष्टासुरवरतरुणीकण्ठकस्तूरिकेषु मृष्टा मार्जिता हिरण्याक्षाद्यसुरवरतरुणी- कण्ठकस्तूरिका यस्तानि तेषु । आतारादर्णमालावधिषु तारः प्रणवस्तमारम्य आतारात् अर्णमाला अक्षरपतिः । माटकेत्यर्थः । सा अवधिर्येषां तानि तेषु । अष्टसु चक्रेषु प्रथ- मचक्र प्रणवमन्त्रकम् । अष्टमं चक्रं माटकामन्त्रकम् । अथवा प्रतिचक्रमन्तस्तारवेष्टितं बहिर्मातकावेष्टितं च । तारानुतारावेष्टितम् । तस्मादष्टापि चक्राणि आतारार्णमालावधीनि । अष्टानां चक्राणामप्यहिव॒न्यसंहितोक्तावस्थानक्रमः किंचिल्लिख्यते--पञ्चारं प्रणवमन्त्रक ब्रह्मसंज्ञकमक्षीकृतप्रथमचक्रम् । चतुररं विष्णुचक्रमक्षीकृतद्वितीयचक्रम् । षडरं नारा- यणचक्रमक्षीकृतततीयचक्रम् । अष्टारं वासुदेवचक्रमक्षीकृतचतुर्थचक्रम् । द्वादशारम- च्युतचक्रमक्षीकृतपञ्चमचक्रम् । षोडशारं नरसिंहचक्रमक्षीकृतषष्ठचक्रम् । शतारं सुद- सुदर्शनशतकम् । ४१ र्शनचक्रमक्षीकृतसप्तमचक्रम् । सहस्रारं मालकाचक्रमक्षीकृताष्टमचक्रम् । अनेन प्रका- रेणावस्थितेष्वष्टसु चक्रेषु नानावर्णा नीलपीतादिवर्णा येषां विग्रहाणां तान् विरचितभुव- नानुग्रहान् विग्रहान् मूर्तिभेदान्विवृण्वन्' निदर्शयन् वसतीति । अष्टचक्रस्थितपुरुषवर्ण- विग्रहभेदोऽहिर्बुध्न्यसंहितायाम्-सोमसूर्यदहनप्रभोज्ज्वलं चक्रमेतदुदितं महामुने । वाङ्मयं सकलमन्त्रसंमितं शब्दशब्दमखिलं यदुद्गतम् ॥ ब्रह्मचक्रमुदितं यदान्तरं केवलं सकलधी- प्रदं मुने । विष्णुचक्रमुदितं यदद्भुतं व्याप्तिकान्तिमतिविक्रमप्रदम् ॥ यत्तृतीयमुदितं महा- द्भुतं चक्रमुज्ज्वलयशोर्थदं तु तत् । यत्तु चक्रमुदितं तुरीयकं मोक्षदं मुनिगणोदितं मुने ॥ पञ्चमं विजयदायि कीर्तिदं षष्ठमुग्रमपमृत्युनाशनम् ॥ ब्रह्मवर्चसविधायिसप्तमं संपदर्थविज- यार्थमष्टमम् ॥ एकैकशोऽल्पश इदं गदितं फलं ते चक्राष्टके सकलयोगिमुनीन्द्रवन्धे । वर्षायुतैर्बहुभिरप्यखिलात्मकस्य शक्त्या न विस्तृतिरमुष्य मया विधातुम् ॥ मन्त्राक्षरप्रथि- तभागविभेदपूर्व मन्त्री यजेत विधिवन्मनुदेवतास्ताः॥ आकारशक्तिपरिवारविभूषणास्त्रवीर्यप्र- भावविजयैश्च विचिन्तयेत्ताः ॥ आद्यं निरञ्जनमशेषजगत्प्रसूतिं त्राणप्रसादि नियमाद्यदनु- ग्रहस्थम् । संपूर्णशक्तिमतरङ्गमहार्णवाभं ध्यायेद्धरिं प्रणवगोचरमादिचके ॥ श्वेतं प्रसन्नव- दनं कमलायताक्षं पीताम्बरं पृथुलवक्षसमात्मयोनिम् । पीनोरुदीर्घभुजवृन्दधृतारिशङ्खको- मोदकीसरसिजं खलु विष्णुचक्रे ॥ श्यामं किरीटिनमुदारचतुर्भुजस्थकौमोदकीकमलवारि- जवर्यचक्रम् । नारायणं नयननन्दनमादिदेवं ध्यायेच्छ्रिया सह तृतीयपदस्थचक्रे ॥ कुन्दे- न्दुगौरमरविन्ददलायताक्षं शुद्धाक्षमालममलोद्यतबोधमन्त्रम् बाहुद्वये विधृतचक्रविशुद्ध- शङ्ख तं वासुदेवमवधेहि तुरीयचक्रे ॥ शङ्खारिपङ्कजगदाङ्कुशशाङ्गसीरसौनन्दकान्दधतमष्ट- मिरुग्रहत्तैः । तार्क्ष्यस्थितं रजतशैलनिभं पुराणं संचिन्तयेदजितचक्रगतं पुमांसम् ॥ क्रूरोप्रवक्रनखकोटिनिकृत्तदैत्यवक्षस्थलोच्छलितशोणितदिग्धदेहम् । घोरप्रकारनयनत्रय- दुनिरीक्ष्यं षष्ठे विचिन्तय मुने नरसिंहमीशम् ॥ सोमाग्निसूर्यकिरणोद्गमपुञ्जकुञ्जमध्यस्थितं विधृतपझगदादिशङ्खम् । छन्दःस्थितं भुवनकारणमप्रमेयं श्रीशं विचिन्तय मुने पुरुषं पुराणम् ॥ गोक्षीरशङ्ख हिमदीधितिदेवसिन्धुकुन्दप्रभाविमलपङ्कजशङ्खहस्ता । स्मेरप्रसन्नवदना कमलायताक्षी ध्येया स्वचक्रभवनोपरिमातृकाख्या ॥' इति । यः पुरुषोऽध्वान्तवर्ती । वाड्मनसयोरविषय इत्यर्थः । अथवा ध्वान्तसंज्ञाज्ञानरहितयोगिहृत्पद्ममासीन इत्यर्थः । स व उद्धृतसत्त्वैरुद्भूतानि प्रकम्पितानि । प्रापितनरकाणीति यावत् । सत्त्वानि जन्तुसमूहानि यैः । अथवोद्भूतसत्त्वैविनाशितसत्त्वगुणैः । व्यध्वैः कुमार्गः । अवैदिकमार्गेरिति यावत् । उपहितं विनिहितम् । संपादितमिति यावत् । अबहिन्तिमन्तस्तिमिरम् । दृष्टा दृष्टहानिकरमज्ञान- मित्यर्थः ॥ द्वात्रिंशत्षोडशाष्टप्रभृतिपृथुभुजस्फूतिभिर्मूतिभेदैः कालाचे चक्रषट्के प्रकटितविभवः पञ्चकृत्यानुरूपम् । अर्थानामर्थितानामहरहरखिलं निर्विलम्बैविलम्बैः कुर्वाणो भक्तवर्ग कुशलिनमवतादायुधग्रामणीर्वः ॥ ९१ ।। ६ ४२ काव्यमाला। । द्वात्रिंशद्भुजाश्च षोडशभुजाश्चाष्टौ भुजाश्च द्वात्रिंशत्षोडशाष्टभुजाः प्रभृतयो येषां ते । पृथवो मांसला दीर्घाश्च ते भुजा बाहवश्च तेषां स्फूर्तयो विजृम्भणानि येषां मूर्तिभेदानां ते तैमूर्तिभेदैविग्रहविशेषैः कालाद्यैर्नाभित्रयसंयुक्तं नेमिषट्कविराजितं अरपञ्चकाञ्चितं का- लचक्रमाद्यं येषां चक्राणां तस्मिन् चक्रषट्के अरं पुरुषचक्रं त्रिंशदरं प्रकृतिचक्रम् एका- दशारं महच्चक्रम् अष्टारमहंकारचक्रम् चतुर्विशत्परं पुरुनेमिकं जगच्चक्रम् कालपुरुषप्रकृति- महदहंकारजगत्संज्ञकानां चक्राणां षट्कं तस्मिन् कालचक्रमध्ये स्थितः पुरुषो द्वात्रिंश- द्भुजः । पुरुषचक्रमध्यवर्ती पुमान् षोडशभुजः । प्रकृतिचक्रमध्यवर्ती पुरुषोऽष्टभुजः । मह- चक्रमध्यालंकारभूतः पुरुषः षड्भुजः । अहंकारमध्यवर्ती पुमान् चतुर्भुजः । विश्वचक्र- मध्यवर्ती पुमान् द्विभुजः । तदुक्तम्-'ततश्चक्रमयं सर्व जगत्स्थावरजङ्गमम् । चक्रात्मान- मनाद्यन्तं कालं प्रथमतः शृणु ॥ त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम् । संवत्सरमयं यत्तत्कालचक्रमिति स्मृतम् ॥ तद्वशे वर्तते नित्यं चेतनाचेतनात्मकम् । परिवर्तयते देव- स्तदेतच्चक्ररूपधृत ॥ अरं तत्पुरुषं चक्रं पुरुषो येन धार्यते । चक्रं त्रिंशदरं प्रोक्तं शक्तिः सा येन धार्यते ॥ चक्रमेकादशारं तु बुद्धिः सा येन धार्यते । अष्टारं तन्महच्चक्रमहंका- रस्य धारकम् ॥ अव्यक्तादिविशेषान्तैः स्वरूपैरपरैर्वृतम् । चतुर्विंशतिसंख्यातैः पुरुषात्म- कनेमि यत् ॥ जगच्चक्रमिति ख्यातं तच्च प्रेरयते स्वयम् । एतत्स्वरूपं कालादिचक्रषट्के पञ्चकृत्यानुरूपम् । पञ्चकृत्यानि उत्पत्तिस्थितिसंहारनिग्रहोमरूपाणि । तेषामनुरूपं यथा भवति तथा प्रकटितविभवः प्रसिद्धमहिमा । प्रख्यातपराक्रम इत्यर्थः । पञ्चकृत्यलक्षणम- हिर्बुध्यसंहितायामुक्तम् - 'अराणि पञ्चकृत्यानि शक्तेस्तस्याः प्रकल्पयेत् । तिरोभावं सृजि चैव स्थितिं संहृत्यनुग्रहौ ॥' इति कालचक्रषट्कम् । इदं वा भवति-'घडरं कालचक्रं तत्स कालो येन धार्यते । एकारं वैयतं चक्रं व्यरं तद्वायुधारकम् । व्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते ॥' षडरं कालचक्रम् । एकद्वित्रि- चतुःपञ्चाराणि आकाशादि पञ्चचक्राणि संभूय कालादिचक्रषट्कम् । तस्मिन्पञ्चकृत्यानुरूपं प्रकटितविभवः । अर्थितानां भक्तजनप्रार्थितानां पुरुषार्थानां निर्विलम्बैरपगतकालक्षेपैवि. लम्बैः प्रदानैः । 'लबि अवस्रंसने' इति धातोविपूर्वत्वादौचित्याच्च प्रदानार्थता। अखिल- भक्तवर्गमहरहः कुशलिनं कुर्वाण आयुधग्रामणीर्वो युष्मान् अवताद्रक्षतु । अनेन पश्येन जगदुत्पत्त्यादि सामर्थ्य प्रतिपाद्यते ॥ कोणैरर्णैः सरोजैरपि कपिशगुणैः षडिरुद्भिन्नशोभे श्रीवाणीपूर्विकाभिर्दधति विलसतः शक्तिभिः केशवादीन् । तारान्ते भूपुरादौ रथचरणगदाशाखड्गाङ्किताशे यन्त्रे तन्त्रोदिते वः स्फुरतु कृतपदं लक्ष्म लक्ष्मीसखस्य ॥९२ ।। कोणैरित्येतत्पद्यमारभ्य गायत्र्यारचक्र इत्यन्तं चतुःश्लोक्या सुदर्शनयन्त्रविशेषः क- थ्यते । षनिः कपिशगुणैः पिशङ्गवर्णैः कोणैः अणैरक्षरैः सरोजैः पझैरपि उद्भिन्नशोभे ।
media सुदर्शनशतकम् । । । अभिव्यक्तसौन्दये । एतद्यन्त्रमध्यस्थितस्य सुदर्शनपुरुषस्य रक्तवर्णत्वेन रक्ताम्बरलेन रक्तकेशत्वेन रक्तनयत्वेन च कोणार्णसरोजषट्कं कपिशगुणं भवति । किं चैतद्यन्त्रं कुङ्कुमागरुधातुचन्दनरसकल्प्यं तस्मादपि च कोणादि त्रिघट्कं कपिशगुणं भवति । किं च मन्त्रवाच्यसुदर्शनस्याग्निरूपत्वेन तद्वाचकवर्णानां वर्णाधारत्वेन कोणानां च कोणसंबन्धित्वेन सरोजानां च कपिशगुणत्वं युक्तम् । श्रीवाणीपूर्विकाभिः । पूर्विका- शब्देन वाग् मृडानी च गृह्यते । विलसत आनन्दपरवशान् । अथवा शक्तिभिरुपलक्षि- तान् । विकसत आश्रितरक्षणोन्मुखान् । केशवादीन् द्वादशमूर्तीर्दधति वहति वासुदेवा- युद्देशेन समष्टिभूतवासुदेवादीनां व्यष्टिभूतस्य केशवादित्रिकचतुष्टयस्य वासुदेवादिसमष्टिभू- तश्रीवाणीवाङ्मृडानीनां व्यष्टिभूताः श्रीवाणीवामृडान्यः शक्तयः वासुदेवव्यष्टिभूतकेशव- नारायणमाधवानां वासुदेवशक्तिः श्रीव्यष्टिभूतास्तिस्रः श्रियः प्रत्येकं शक्तयः संकर्षणव्य- ष्टिभूतगोविन्दविष्णुमधुसूदनानां संकर्षणशक्तिव्यष्टयस्तिस्रो वाण्यः प्रत्येकं शक्तयः । प्रद्युम्न- व्यष्टिभूतत्रिविक्रमवामनश्रीधराणां समष्टिशक्तिव्यष्टयतिस्रो वाचः प्रत्येकं शक्तयः । अ- निरुद्धव्यष्टिभूतहृषीकेशपद्मनाभदामोदराणामनिरुद्धशक्तिव्यष्टिभूतास्तिस्रो मृडान्यः प्रत्येक शक्तयः । एवंप्रकारेण श्रीवाणीवामृडानीयुक्तान् केशवादीन्दधति । तारान्ते तारः प्रणवोऽन्तश्चरमसीमा यस्य यन्त्रस्य तस्मिन् । भूपुरादौ भूपुरं चतुष्कोणभूबिम्बमादौ बाह्ये यस्य यन्त्रस्य तत्तस्मिन् । अथवा साधकाः प्रथमभूपुरमधिश्रित्य पश्चात्सर्वलक्षणोपेतं वा- समण्डपमधिगत्य तदनन्तरं षट्सरोजानि क्रमेण संसेव्य ततः षडराणि प्रविश्य पश्चात्तद्ग- तमन्त्राक्षराण्यनुसंधाय ततः सुधाकरबिम्बं संपूज्य तदनन्तरं सुदर्शनगर्भ तारमादाय सुखि- नौ भवन्ति तस्माद्यस्य यन्त्रस्य भूपुरमाद्यं तारोऽन्ते तस्मिन् रथचरणगदाशाखड्गाङ्कि- ताशे रथचरणादिभिरङ्किता आशाः प्राच्यादिदिशो यस्य यन्त्रस्य तस्मिन् । तन्त्रोदिते सु. दर्शनप्रतिपादकतन्त्रोदिते यन्त्रे कृतपदं विरचितस्थानं लक्ष्मीसखस्य श्रीरङ्गिणो लक्ष्म अ- साधारणधर्मः स्फुरतु संनिधत्ताम् ॥ दंष्ट्राकान्त्या कडारे कपटकिटितनोः कैटभारेरधस्ता- दूर्व हास्येन विद्धे नरहरिवपुषो मण्डले वासवीये । प्राक्प्रत्यक्सांध्यसान्द्रच्छविभरभरिते व्योन्नि विद्योतमानो दैतेयोत्पातशंसी रविरिव रहयत्वस्त्रराजो रुजं वः ॥ ९३ ॥ अधस्तात् पूर्वश्लोकोक्तयन्त्रस्याधोभागे। भूप्रदेश इत्यर्थः । कपटकिटीतनोः कुहनावरा- हमूर्तेः कैटभारे रङ्गिणो दंष्ट्राकान्त्या दन्तकान्त्या कडारे कपिलवणे उर्ध्व आकाशे नर- हरिवपुषो नृसिंहविग्रहस्य रङ्गिणो हास्येन विद्धे धवले वासवीये माहेन्द्रमण्डले विद्धे यन्त्रे स्थितः सन् प्राक्प्रत्यक्सांध्यसान्द्रच्छविभरभरित प्राक् च प्रत्यक् च प्राक्प्रत्यञ्चौ तयोः संध्ययोः संबन्धिनी प्राक्प्रत्यक्सांध्या सान्द्रा निबिडा चासौ छविश्च तस्या भरोऽति- शयस्तेन भरिते व्योन्याकाशे दैतेयोत्पातशंसी दैतेयानामुत्पातः प्रणाशस्तं शंसितुं शील- काव्यमाला। मस्यास्तीति दैतेयोत्पातशंसी रविरिव द्योतमानः प्रकाशमानोऽस्त्रराजो वो रुजं दृष्टादृष्ट- प्रतिबन्धव्यथां रहयतु विनाशयतु । अस्य यन्त्रस्याहिर्बुध्यसंहितोक्तविन्यासक्रमः किं- चित्कथ्यते—सजितपट्टे चन्द्रमण्डलं विलिख्य तन्मध्ये प्रणवं निधाय तदुदरे रक्तवर्ण पिङ्गलाक्षं पिङ्गकेशं धृतपाशाङ्कुशपद्ममुसलचापशङ्खगदाचक्रभुजाष्टकविराजितं सुदर्शनपुरुषं प्रतिष्ठाप्य तच्चरणतरुणाम्बुजसमीपे साधकनामधेयं विलिख्य सुदर्शनं भगवन्तमलंकृत्य सुधाकरबिम्बपर्यन्ते घडरं चक्रमुद्धृत्य प्राच्यादिषट्कोणेषु षडक्षरसुदर्शनमनुषडक्षराणि क्रमेण कलयेत् । कोणान्तरेषु प्राच्यादिक्रमेण चक्रायेत्याद्यङ्गमन्त्रविन्यासं कृत्वा घट्को- णचक्राहिश्चतुर्दलपमं विरचय्य चतुर्दलेषु सबिन्दुकं वर्म च षड्भिविलिख्य दलान्तरे- ध्वन्तः स्थानानि विलिख्य चतुर्दलप्रथमपद्मादहिः षोडशकेसरमष्टदलं द्वितीयपद्मं वि- न्यस्य केसरेषु षोडशस्वरान्विलिख्याष्टसु दलेषु सुदर्शनाष्टाक्षरं निक्षिप्य तस्मादष्टदलावि- तीयपद्माद्वहिात्रिंशत्केसरं षोडशदलं तृतीयसरोजं समालिख्य कादिसान्तानि द्वात्रिंश- दक्षराणि केसरेषु क्रमेण निधाय षोडशदलेषु जितं ते इत्यादि षोडशार्ण वैष्णवम- त्रमारचय्य तस्मात्षोडशदलात्तृतीयपद्माद्बहिर्द्वात्रिंशत्केशरे द्वात्रिंशद्दलं चतुर्थसरोजं विन्यस्य द्वात्रिंशत्केसरेष्वानुष्टुभं वाराहं मनुं निधाय द्वात्रिंशद्दलेष्वानुष्टुभं नारसिंहं मन्त्रं विलिख्य तस्मात्तुरीयतोयजाबहिश्चतुःषष्टिदलं पद्म विधाय तहलेषु चतुःषष्टिवणे नारसिंहं मनु विनिधाय तस्माच्चतुःषष्टिदलात्पञ्चमपद्माद्बहिरष्टदलं सरोजं विन्यस्य तद्दलेष्वष्टाक्षरनार- सिंहमन्त्रं विलिख्य तद्बाह्ये वज्रायुधालंकृतं वासवमण्डलं विन्यस्य वासवमण्डलोपरि प्रा- च्यादिदिशासु वासवबीजं साधकनामसमन्वितं विलिख्य मण्डलस्य चतुर्षु कोणेष्वन्तः स्थानानि विलिख्य कोणाभ्यन्तरालेषु पुनस्तद्वीजं विन्यस्य तद्वासवमण्डलं परितः प्राति- लोम्येन सर्वान् विलिख्य तदुपरि ककारादिसकारान्तं प्रातिलोम्येन द्वात्रिंशद्वर्णविन्यास कृत्वा तदुपरि साधकनामान्वितपंश(१)मित्याद्यन्तयुगं परितः कृत्वा तदुपरि पाशेन त- दनन्तरमङ्कुशेन च वेष्टयित्वा बाह्यसंपुटितचतुष्कोणं भूपुरं कृत्वा भूपुरप्रान्ते श्रीवाण्या- दिशक्तियुक्ताः केशवादिमूर्तीविन्यस्य केशवाय नमः साधकं रक्ष रक्ष इति सान्तमुद्धृत्य त- दनन्तरं क्षमिति प्राच्यादिचतुर्दिक्षु प्रादक्षिण्येन विन्यस्य ईशानादिकोणेषु प्रातिलोम्येन विलिखितं तदनन्तरं पाशेनाङ्कुशेन च वेष्टयित्वा सर्वमेतत्प्राणप्रतिष्ठामन्त्रवेष्टितं कुर्यात् । अयं प्राणप्रतिष्ठामन्त्रः ॐ ह्री ॐ ह्यां यरलवशषसहहां अमुष्य प्राणा अमुष्य जीव इह स्थितः अमुष्य सर्वेन्द्रियाणि पृथिव्यप्तेजोवाय्वाकाशशब्दस्पर्शरूपरसगन्धचक्षुःश्रोत्रजि- हाघ्राणवाक्पाणिपादपायूपस्थमनोबुद्धिजीवानन्दरसानन्दसत्त्वरजस्तमोभिरिहैवागत्व चिरं तिष्ठन्तु स्वाहा । प्रतिष्ठितस्य यन्त्रस्य प्रागादिचतुर्दिक्षु यन्त्रपालकं शङ्खचक्रवराभवमुद्रि- तचतुर्बाहुधरं विष्णुमाग्नेयकोणे शङ्खचक्रशङ्खाभवमुद्रितचतुर्बाहुधरं हृषीकेशं नैऋत्यकोणे श- खचक्रहलाभयलाञ्छितचतुर्बाहुधरं हृषीकेशं वायव्यकोणे शङ्खचक्रमुसलाभयाङ्कितचतुर्बा- हुधरं हृषीकेशमीशानकोणे शङ्खचक्रशूलाभयलाञ्छितचतुर्बाहुधरं हृषीकेशं विकोणाष्टके प्रादक्षिण्येन शङ्खचक्रदण्डाभयशङ्खचक्रकुन्ताभयशङ्खचक्रशक्त्यभयशङ्खचक्रपाशाभयशङ्खच- सुदर्शनशतकम् । क्राङ्कुशाभयशङ्खचक्रवज्राभयशङ्खचक्रपरश्वभयशङ्खचक्रशतमुखानलभयमुद्रितचतुर्बाहुधरं ज- नार्दनाष्टकं तत्परिवारांश्च विन्यस्य शङ्खचक्रधरं वराहरूपिणं सर्वेश्वरं यन्त्रस्याधोभागे स्थितं संस्मृत्य यन्त्रस्योप्रभागे नरसिंह संस्मृत्य प्राग्भागज्वालामध्यस्थितं चक्रं दक्षिण- भागे ज्वालागतां गदां पश्चिमभागे ज्वालान्तःस्थ शाङ्ग चोदग्भागे ज्वालान्तर्गतं खड्ग च संस्मृत्य एवंप्रकारेण यन्त्रे पूर्णे सति एतद्यन्त्रं समभ्यर्च्य साधकाः सुखिनो भवन्ति । उक्तार्थे पाञ्चरात्री संमति संपादयामः --'विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा । श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः ॥ अहिर्बुध्न्य उवाच-विस्तरेण प्रवक्ष्यामि स्व- रूपं लक्षणं तथा । अस्य यन्त्रस्य देवर्षे तन्मे कथयतः शृणु ॥ रजतेन सुवर्णेन लोहा शिलयाथवा । यथाधिकारं यन्त्रस्य कुर्याद! तु साधकः ॥ कुङ्कुमागुरुकर्पूधातुचन्दनजै रसैः । सुवर्णसूच्या यदि वा यन्त्रं तत्कारयेत्पटे ॥ चन्द्रमण्डलमध्ये तु तारं कुर्यात्समा- हितः । तस्य मध्ये लिखेद्देवं रक्तवर्ण सुदर्शनम् ॥ पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं वि- भुम् । युक्तं षोडशभिर्हस्तैरष्टभिर्वा महाद्युतिम् ॥ पाशाङ्कुशाब्जमुसलधनुःशङ्खगदादिभिः । भीषणैरायुधवरैरुपेतं जयिनां वरम् ॥ तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम् । दंष्ट्रानि- ट्यूतसप्ताचिोलापल्लविताननम् ॥ भूषणैर्भूषितं चित्रैर्भाषणं रोमहर्षणम् । स्वतेजसा ज- गत्सर्वे पूरयन्तं महाबलम् ॥ निर्भिद्यमानदैतेयशोणिताशनलम्पटम् । उद्यत्प्रद्योतनशत- प्रख्यं विख्यातपौरुषम् ॥ मनस्तत्त्वेन सततं संश्रितं वेगवत्तया । नारायणकराम्भोजसे- वारसविशारदम् ॥ जपेन विष्णुचिन्तायाः परमं मार्गदर्शकम् । स्मृत्यैव स्वानुरक्तानां दृ- यादृष्टार्थसाधकम् ॥ स्वभक्तप्रत्यनीकानां मारणं सुरपूजितम् । संस्तूयमानचरितं सिद्धग- न्धर्वदानवैः ॥ भक्तातिभञ्जनपरं शरण्यं शरणार्थिनाम् । नित्यनिःसीमनिर्दोषकल्याणगुण- सागरम् ॥ एवंभूतं तमालिख्य सदानन्दं सुदर्शनम् । तत्पादपद्मपर्यन्ते साधकं नाम वि- न्यसेत् ॥ इन्दुबिम्बस्स पर्यन्ते षट्कोणं चक्रमालिखेत् । आग्नेयममितप्रख्यममोघं सर्वसा- धकम् ॥ प्राच्यादिषु च कोणेषु षड्वर्णान्विन्यसेन्मनोः । षट्सु कोणान्तरालेषु ह्यङ्गमन्त्रा- न्यसेत्क्रमात् ॥ अस्मादहिस्तथा पद्मं चतुर्दलसमन्वितम् । सबिन्दुपद्मषट्कस्य दलेष्वेषु ऋमान्यसेत् ॥ दलान्तरालेष्वन्तःस्थान्विन्यसेत्साधकस्तथा । बाह्ये तस्याष्टपत्राब्जमन्तः षोडशकेसरम् ॥ कैसरेषु क्रमादस्य विलिखेत्षोडशस्वरान् । अष्टाक्षरं महामन्त्रं दलेष्वस्य समालिखेत् ॥ द्वात्रिंशत्केसरं चास्य बहिः षोडशपत्रकम् । ककारादि सकारान्तं केसरेष्वस्य चालिखेत् ॥ दलेष्वस्य लिखेन्मत्रं षोडशार्ण तु वैष्णवम् । द्वात्रिंशत्केसरदलं बाह्ये तस्य समालिखेत् ॥ केसरेध्वस्य पद्मस्य प्राच्यादिषु यथाक्रम् । मन्त्रमानुष्टुभं सम्यग्वाराहं वि- लिखेत्परम् ॥ द्वात्रिंशतिदलेष्वस्य नारसिंहं क्रमाल्लिखेत् । आनुष्टुभं महामन्त्रममोघं सर्वसा- धकम् ॥ तस्य बाह्ये लिखेत्पद्मं चतुःषष्टिदलैयुतम् । पातालं नारसिंहाख्यं दलेष्वस्य न्यसे- न्मनुम् ॥ पुनश्च पद्म विन्यस्य दलैरष्टभिरावृतम् । अष्टाक्षरं नारसिंहं तहलेषु समालिखेत ।। तबाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम् । जाज्वल्यमानं स्वेनैव सर्वालंकारमण्डितम् ॥ तस्य बाह्ये महादिक्षु प्रागादिषु यथाक्रमम् । तद्वीजं विन्यसेद्धीमान्निजनाना समन्वितम् ॥
४६ काव्यमाला। बहिः कोणेषु च चतुर्पु तथान्तःस्थान्प्रकल्पयेत् । कोणाभ्यन्तरभावेषु तद्वीजं विन्यसै- त्पुनः ॥ परितः सस्वरान्सर्वान्प्रातिलोम्येन चालिखेत् । सकाराद्रि ककारान्तं विन्यसेत्प- रितस्तथा ॥ विदर्भितं स्वनाम्नैव परितोऽन्त्ययुगं न्यसेत् । पाशेन वेष्टयेदेतदङ्कुशेन तथा पुनः ॥ पुटितं भूपुरं तस्य बाह्ये कुर्यादतन्द्रितः । केशवादीन्मूर्तिमतः समन्तादस्य विन्य- सेत् ॥ तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम् । अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥ पी- ताम्बरधरं देवं वनमालाविभूषितम् । हारकेयूरकटककुण्डलैरुपशोभितम् ॥ चतुर्बाहुमुदा- राज प्रसन्नवदनं विभुम् । प्रागादि विन्यसेद्देवं केशवं केशिनाशनम् ॥ शङ्खचक्रगदापद्मधरं नीलाम्बुदच्छविम् । सर्वालंकारसंयुक्तं कुर्यान्नारायणं ततः ॥ कौमोदकीचक्रशङ्खपद्मधारि- णमव्ययम् । देवमिन्दीवरश्याम माधवं भावयेत्ततः ॥ चक्रं कौमोदकी पद्मं शङ्खराजविरा- जितम् । इन्दुबिम्बनिभं कुर्याद्गोविन्दममितौजसम् ॥ गदाब्जशङ्खचक्रास्त्रभूषितं भूषणैर्यु- तम् । विष्णुं विश्वपतिं कुर्यात्पद्मकिंजल्कसंनिभम् ॥ चक्रशङ्खाम्बुजगदाधारिणं करुणानि- धिम् । रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् ॥ पद्मकौमोदकीचक्रशङ्खसेवितमीश्वरम् । उज्ज्व- लत्पावकप्रख्यं तत्कुर्वीत त्रिविक्रमम् ॥ शङ्खचक्रगदापद्मधरं परमभूषितम् । तरुणादित्यसं- काशं वामनं भावयेत्ततः ॥ पद्मचक्रगदाशङ्खधरं सद्गुणसागरम् । पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् । गदासुदर्शनयुते पद्मशङ्ग्रे च बिभ्रतम् । विद्युत्प्रभं हृषीकेशं कुर्वीत कमले. क्षणम् ॥ शङ्खपद्मे तथा चक्रगदे बिभ्राणमुज्ज्वलम् । सहस्रादित्यसंकाशं पद्मनाभं तु कार- येत् ॥ पद्मशङ्खगदाचक्रधरं बन्धूकसंनिभम् । भक्त्यैकसुलभं देवं दामोदरमथो न्यसेत् ॥ एवं क्रमेण न्यस्यैतानेषां नामानि विन्यसेत् । नमोन्तान्यमुकं रक्ष रक्षेति च समन्ततः ॥ यशं रंषं तथा लंसं वह चेति द्वयद्वयम् । प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् ॥ यशं रषं तथा लसं वह चेति युगयुगम् । ईशानादिषु कोणेषु विन्यसेदप्रदक्षिणम् ॥ पाशेन तु समावेष्टय चाङ्कुशेनापि वेष्टयेत् । सर्वमेतत्सजीवेन लेखामनुभिरावृतम् ॥ प्राच्यादिषु चतुर्दिक्षु विन्यसैद्विष्णुमव्ययम् । चक्रकौमोदकीशाखड्गयुक्तं यथाक्रमम् ॥ साधारण सर्वेषां शङ्खचक्रवरायुधौ । आग्नेयादिषु कोणेषु हृषीकेशं ततो न्यसेत् ॥ शङ्ख हलं च मुसलं शूलं तेषु च धारयेत् । त्रिकोणेष्वष्टसु तथा जनार्दनमथो न्यसेत् ॥ दण्डं कुन्तं तथा शक्तिं पाशमङ्कुशमेव च । वजं तथैव परशुं तथा शतमुखानलम् ॥ करेष्वमीषामेतानि वि- लिखेत्तु यथाक्रमम् ॥ प्रत्येकपरिवारांस्तु तेषां पार्श्वे तु विन्यसेत् । वराहरूपिणं देवं श- चक्रधरं वरम् । भूमौ च सहितं भूम्या संस्मरेत्पुरुषोत्तमम् ॥ अम्बरे नारसिंहं तु चि- न्तयेदमितौजसम् । भीषणं घटितानेकभूषणं दारितासुरम् ॥ प्राच्यां दिशि महाज्वाला- गतं चक्रं स्मरेत्पुनः । दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम् ॥ प्रतीच्यां शाङ्ग- मत्युग्रं ज्वालामध्यगतं स्मरेत् । उत्तरस्यां दिशि तथा स्मरेत्खड्गं सुदारुणम् ॥ इति ॥ कोणे क्वापि स्थितोऽपि त्रिभुवनविततश्चन्द्रधामापि रूक्षो रुक्मच्छायोऽपि कृष्णाकृतिरनलमयोऽप्याश्रितत्राणकारी।
सुदर्शनशतकम् ।
धारासारोऽपि दीप्तो दिनकररुचिरोऽप्युल्लसत्तारकश्री-
श्चक्रेशश्चित्रभूमा वितरतु विमतत्रासनं शासनं वः ॥ ९४ ॥
कापि कोणे स्थितोऽपि यन्त्रैकदेशे निवसन्नपि त्रिभुवनविततः त्रिभुवनेषु 'चरणं प.
वित्रं विततं पुराणम्' इति श्रुत्युक्तत्वेन प्रसिद्धः । कचित्कोणे स्थितस्य त्रिभुवनव्याप्तत्वं
विरुद्धम् । रुक्मच्छायोऽपि सुवर्णकान्तिरपि कृष्णाकृतिः श्रीरङ्गराजाकृतिः । सुवर्णवर्णस्य
नीलवर्णत्वं विरुद्धम् । अनलमयोऽप्याश्रयाशस्वरूपोऽपि आश्रितत्राणकारी भक्तरक्षावि-
धायी । आश्रयाशस्य स्वाश्रितरक्षणं विरुद्धम् । धारासारोऽपि धारायां कोट्यां सारोऽपि
निशितोऽपि दीप्तः प्रज्वलितः । वर्षधाराविशेषस्य दीप्तलं विरुद्धम् । दिनकररुचिरोऽपि
सूर्यप्रकाशोऽप्युल्लसत्तारकश्रीः प्रस्फुरत्प्रणवलक्ष्मीः । सूर्यतेजस उल्लसन्नक्षत्रलक्ष्मीत्वं वि-
रुद्धम् । चित्रभूमा नानाप्रकारेण विरुद्धधर्माश्रयत्वप्रतीतेराश्चर्यमहिमा चक्रेशो वो युष्माकं
विमतत्रासनं प्रत्यर्थिभयंकरं शासनमाज्ञां वितरतु प्रदिशतु । अनेन श्लोकेन यन्त्रमध्य-
स्थितपुरुषस्वरूपं न्यरूपि ॥
शुक्लः शक्र स्तवस्ते सह दहन कलां काल तेऽयं न कालः
किं वो रक्षांसि रक्षा तव फलतु पते यादसां पादसेवा।
वायो हृद्योऽसि भर्तुस्त्यज धनद मदं सेव्यतां त्र्यम्बकेति
प्राहुर्यधन्त्रपालाः स दनुजविजयी हन्तु तन्द्रालुतां वः ॥ ९५ ॥
हे शक्र देवेन्द्र, ते स्तवः स्तोत्रं शुक्लः शब्दार्थगुणादिसर्वलक्षणसंपन्नतया निरतिशयम-
क्तियोगात्मतया च कृतं स्तोत्रं निर्मलम् । हे दहन पावक, कलामल्पकालं सह तिष्ठ पश्चा-
द्भवतः सेवावसरो भविष्यति । हे काल, ते तवायं न कालः नावसरः । हे रक्षांसि वो भ-
वतां रक्षा किम् । सर्वशक्तेरस्य भवत्कृतरक्षया कि प्रयोजनमित्यर्थः । हे यादसांपते वरुण,
तव पादसेवा भवत्कर्टका भगवचरणारविन्दसेवा फलतु । भवत्कृतसेवया भगवान्प्रसन्नो
भूयादित्यर्थः । हे वायो भर्तु यकस्य हृद्योऽसि हृदयंगमोऽसि । है धनद कुबेर, मदं दुर-
कारं त्यज । हे त्र्यम्बक त्रिलोचन, चक्रेश्वरः सेव्यताम् । इत्यनेन प्रकारेण यद्यन्त्रपाला
यस्य भगवतो यन्त्रं पालयन्तीति यन्त्रपाला प्राहुः स दनुजविजयी वस्तन्द्रालुतां जाड्यं
हन्तु । अनेन प्रकारेणैतद्यन्त्रमध्यस्थितपुरुषचरणसेवोत्सुकदिक्पालनिवहदेशनकृतो यन्त्र-
पालव्यापारः कथ्यते ॥
गायत्र्यारचक्रे प्रथममनुसखस्मेरपत्रारविन्दे
बिम्बं वह्नस्त्रिकोणं वहति जयिजयाद्यष्टशक्तौ निषण्णा ।
शोकं वोऽशोकमूले पदसविधलसद्भीमभीमाक्षभीमा
पुंसो दिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्यत्वपूर्वा ॥ ९६ ॥
काव्यमाला। गायत्र्यारचक्र इत्येतत्समारभ्य यस्मिन्विन्यस्य इत्याद्यवधिकचतुःश्लोक्यां सुदर्शनमहि- मा व्यस्तारि । प्रथममनुसखस्मेरपत्रारविन्दे प्रथमश्चासौ मनुमन्त्रश्च प्रथममनुर्वासुदेवमन्त्रः । वासुदेवमन्त्रस्य प्रथमत्वं प्रथमव्यूहप्राथमिकवासुदेवप्रतिपादकत्वेन । प्रथममनोदशाक्षरस्य सखानि मित्राणि स्मेराणि विकसितानि च प्रथममनुसखस्मेरपत्राणि यस्यारविन्दस्य । तत्पत्रा- णां प्रथममनुसखत्वं द्वादशसंख्यावत्तया वासुदेवद्वादशाक्षरमन्त्रवर्णगर्भत्वाच्च । प्रथममनुस- खस्मेरपत्रारविन्दं यस्मिश्चक्रे तत्तस्मिन् । वर्त्रिकोणं बिम्बं वहति कमलकर्णिकास्थाने वढेमण्डलं दधति । जयिजयाद्यष्टशक्तौ जयिनी च जया च जयिजये शक्ती आदिर्यासां ता जयिजयादयः । आदिशब्दग्राह्याः शक्तयो मोहिनीहादितामायापराजितासिद्धयः । जयि- जयादयोऽटौ शक्तयो यस्मिन् गायत्र्यारचक्रे गायत्र्या वर्णानि चतुर्विशत्यक्षराणि तान्ये- वाराणि यस्य तद्गायत्र्यारम् । अथवा गायत्र्याश्चतुर्विशतिसंख्याकान्यक्षराणि यस्य चक्रस्य तद्गायत्र्यारं तच्चक्रं च तस्मिन् । अशोकमूले अशोकनामकवृक्षमूलभागे निघण्णा समा- सीना । पदसविधलसद्भीमभीमाक्षभीमा । पदसविधे चरणसमीपे लसन्तौ प्रकाशमानी भीमौ भयंकरौ भीमाक्षसंज्ञको पुरुषो ताभ्यां भीमात्युमा । दिव्यास्त्रधामा दिव्यास्त्रं चक्रं धाम स्थानं यस्याः सा । पुरुषहरिमयी नरसिंहमयी । अपूर्वा अभिनवा पुंसो मतिविग्रहो वः शोकं दुःखमस्य तु क्षिपतु । आचार्यप्रसादेन किंचिदवगतः सुदर्शननारसिंहयन्त्रचक्रो- द्धारक्रमः कथ्यते-यन्त्रापराङ्गमध्ये गायत्रीवर्णसंख्याक्षरसंबन्धरमणीयं नेमिवेष्टितं चक्रं विलिख्य चक्रमध्ये द्वादशदलं कमलं विरचय्य दलेषु द्वादशाक्षरवासुदेवमन्त्राक्षराणि नि- क्षिप्य तत्कमलकर्णिकास्थाने त्रिकोणमाग्नेयमण्डलं विलिख्य तत्प्रान्ते चाशोकशाखिनं निधाय तन्मूले समासीनं परिकलितचतुश्चक्रचतुर्भुजविराजितं योगपट्टपरिवेष्टितदिव्याङ्गं कालानलसंकाशं नृसिंहं प्रतिष्ठाप्य तच्चरणसमीपे भयंकरविग्रही भीमाक्षसंज्ञको पुरुषौ विलिख्य चक्रस्य प्राग्भागे जयां चाग्नेये मोहिनी याम्ये विजयां च नैऋते हादिनी च पश्चादजितां वायव्ये मायां चोदग्भागेऽपराजितां च ईशाने सिद्धिं संस्मृत्य साधकः पूर्ण- कामो भवेत् । उक्तार्थेऽहिर्बुध्न्यसंहितामुदाहरामः-'अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राङ्गसं- स्थितम् । चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृतिम् ॥ गायत्रीवर्णसंख्याकान्पराण्यक्षरवन्ति च । मध्ये चक्रं न्यसेत्पनं युक्तं द्वादशभिर्दलैः ॥ दलेषु तेषु विलिखेद्वासुदेवमनुं बुधः । चक्राब्जकर्णिकास्थाने न्यसेदाग्नेयमण्डलम् ॥ तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम् । नार- सिंह चतुर्बाहुं चतुश्चक्रधरं परम् ॥ समासीनमशोकस्य मूले कालानलद्युतिम् । सर्वाभरण- संयुक्तं भक्तसर्वातिहारिणम् ॥ अपरासंख्यकल्याणगुणपूर्णमहार्णवम् । भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् ॥ एवं विलिख्य तत्पादपर्यन्ते चिन्तयेदुभौ । तदाज्ञाकारिणी भीमो नीलनीरदविग्रहौ ॥ उदग्रकायौ भीमाक्षी भीमायुधधरौ वरौ । दंष्ट्रा करालवदनौ विन्यस्या- वृत्तलोचनौ ॥ चिन्तयेदथ चक्रस्य समन्तादष्टयोषितः । अर्वमाबद्धकेशाख्यास्तच्छत्ती: प्राप्तयौवनाः ॥ सर्वालंकारसंयुक्ता द्विभुजा माल्यधारिणः । प्राच्यां दिशि जयां देवीं वि. जयां कृष्णरूपिणीम् ।। रक्तवर्णा तदा देवी नैर्ऋत्यां हादिनी तथा । अजितां पीतवर्णी तु सुदर्शनशतकम् । ४९ प्रतीच्या संस्मरेत्पराम् ॥ एवमेतन्महायन्त्रं महापातकनाशनम् । आयुरारोग्यधनदं पुत्रमि- अकलत्रपम् ॥ सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् । यो यदिच्छंल्लिखेद्यन्त्रं तत्तदस्य प्रयच्छ- ति ॥ मणिविद्रुममुक्ताट्यं कुर्याद्यन्त्रं हिरण्मयम् । राजा चेद्राज्यमाप्नोति निष्कण्टकमना- मयम् ॥ भूर्जपत्रे लिखित्वा तु कुङ्कुमैश्चन्दनेन तु । यो मर्त्यः शिरसा धत्ते तस्य स्यात्सर्व- मीप्सितम् ॥ पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तत्र वै । शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले । सर्वान्कामानिहावाप्य विष्णुलोके महीयते । लोहेर्वा रजतेनाथ यः कुर्यात्म- तिमां बुधः । त्रिवर्गफलमाप्नोति निर्वाणमचिरात्पुनः ॥ कर्षणादिप्रतिष्ठान्तं कुर्यादायतनं च यः । स प्राप्नोति चतुर्दश्यां पुण्याल्लोकाननुत्तमान् ॥ भयागमे च सङ्ग्रामे वादे वा यः स्म- रोदिदम् । विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा ॥ अर्चयेद्यस्त्रिसंध्यं वै यन्त्रमेतदनु- त्तमम् । तापत्रयविनिर्मुक्तो विष्णुलोके महीयते ॥' इत्यादि ॥ पाश्चात्याशोकपुष्पप्रकरनिपतितैः प्राप्तरागं परागैः संध्यारोचिः सगन्धैः स्वपदशशधरं प्रेक्ष्य तारानुषक्तम् । पद्मानाबद्धकोषानिव सुरनिवहैरञ्जलीन्कल्पमानां- श्वकाधीशोऽभिनन्दन्प्रदिशतु सदृशामुत्तमश्लोकतां वः ॥ ९७ ॥ पाश्चात्याशोकपुष्पप्रकरनिपतितैः पश्चाद्भागे स्थितः पाश्चात्यः स चासावशोकश्च तस्य पुष्पाणि तेषां प्रकराः समूहास्तेभ्यो निपतितास्तैः संध्यारोचिःसगन्धैः संध्याया रोचिस्तेजः । आरुण्यमिति यावत् । तस्याः सगन्धा मित्राणि । समाना इत्यर्थः । परागैः कुसुमरेणुभिः प्रा- तरागं समधिकशोणिमानम् । तारानुषक्तं प्रणवसंसक्तम् । स्वपदशशधरं स्वयोः सुदर्शननरसिं- हयोः पदं निवासस्थानं शशधरं चन्द्रमण्डलं प्रेक्ष्य आबद्धकोषानिबद्धमुकुलान्पान्पद्ममुकुला- निव स्थितान् । सुरनिवहैर्देवसमूहैः कल्प्यमानानञ्जलीन् संघटितकरपल्लवानभिनन्दन संतु- ध्यन् । श्लाघयन्नित्यर्थः । चक्राधीशो वो युष्माकं सदृशामुत्तमश्लोकतां उत्तमः श्लोको यस्य स तस्य भावस्तत्ता ताम् । ‘पद्ये यशसि च श्लोकः' इत्यमरः । प्रदिशतु प्रदद्यात् । नरसिंहाधि- ष्ठितापरभागे विकसिताशोकप्रसूनप्रकरपरागविराजिततया सायं संध्यारागरञ्जितसुदर्शन- पुरुषाधिष्ठितपूर्वभागे ताराविलासोपलालिततया नक्षत्रनिकरपरिचितमिव स्थितं शशध- रबिम्बमवलोक्य सुरवरनिकरकरकमलानि नतमुद्रामुकुलितानि भवन्ति । अनेन श्लोकेन सुदर्शननारसिंहयन्त्रराजस्य ब्रह्मादिसेवितत्वं प्रतिपादितम् ॥ रक्ताशोकस्य वेदस्य च निहितपदं प्राप्तशाखस्य मूले चनरस्त्रैस्तदाद्यैरपि महितचतुर्द्धिश्चतुर्बाहुदण्डम् । आसीनं भासमानं स्थितमपि भयतस्त्रायतां तत्त्वमेकं पश्चात्पूर्वत्र भागे स्फुटतरहरितामानुषं जानुषादः ॥९८ ॥ प्राप्तशाखस्य कुसुमितविटपविलासविराजितस्य रक्ताशोकस्य मूले मूलभागे प्राप्तशाखस्य काव्यमाला। बहुविधशाखोपशाखोपलक्षितवैभवस्य वेदस्य मूले 'यो वेदादौ स्वरः प्रोक्तः' इति सकल- वेदमूलतया श्रुतिप्रसिद्धे प्रणवे विहितं पदं स्थानं येन तत् । चक्रैश्चतुभिः सुदर्शनस्तदा- यैस्तत्सुदर्शनमाद्यं येषां तानि तैरस्त्रैः पाशाङ्कुशाजमुसलैर्धनुःशङ्खगदारूपैरायुधैरपि महि- तचतुर्द्विश्चतुर्बाहुदण्डम् महिताः पूजिताश्चत्वारो बाहुदण्डा द्विचतुर्बाहुदण्डा यस्य तत् । पश्चाद्भागेऽपरभागे पूर्वत्र पूर्वस्मिन्प्रदेशे स्फुटतरहरितामानुषं हरेः सिंहस्य भावो हरिता मनुष्यभावो मानुषं हरिता च मानुषं च हरितामानुषे स्फुटतरे हरितामानुषे यस्य तत् । आसीनं स्थितं पुरोभागे समुत्थितं तद्भासमान प्रकाशमानमेकं तत्त्वं वो युष्मान् जानुषात् जनुषो जन्मन उद्भूतं जानुषं तस्माद्भयात्रायतां रक्षतु । अनेन श्लोकेन यन्त्रापराङ्गस्थितनृसिंहस्वरूपं पुरोभागस्थितसुदर्शनपुरुषस्वरूपं च तयोरक्यं च प्रतिपादितम् ॥ प्राणे दत्तप्रयाणे मुषितदिशि दृशि त्यक्तसारे शरीरे मत्यां व्यामोहवत्यां सतमसि मनसि व्याहते व्याहृते च । चक्रान्तर्वति मृत्युप्रतिभयमुभयाकारचित्रं पवित्रं तेजस्तत्तिष्ठतां वस्त्रिदशकुलधनं त्रीक्षणं तीक्ष्णदंष्ट्रम् ॥ ९९ ॥ प्राणे प्राणवायौ दत्तप्रयाणे प्राप्तनिर्गमे निष्क्रमणोन्मुखे सति दृशि नयनेन्द्रिये मुषि- तदृशि मुषिता अपहृता दृग्दर्शनं यस्याः सा तस्यामपगतविषयग्रहणसामर्थ्यायां सत्याम् । अत्यन्तपरवश इत्यर्थः । मत्यां व्यामोहवत्यां भ्रान्तिमत्याम् । मनसि स्वान्ते सतमसि अ. न्धकारेण विलीने सति । मृत्युप्रतिभयं मृत्योर्भयंकरम् । 'भयंकरं प्रतिभयम्' इत्यमरः । उ- भयाकारचित्रं नराकारेण सिंहाकारेण च चित्रमाश्चर्यम् । त्रिदशकुलधनं त्रिदशकुलस्य देवसमूहस्यापद्धनम् । त्रीक्षणं त्रिलोचनम् । तीक्ष्णदंष्ट्रं निशितदंष्ट्राग्रम् । चक्रान्ततिं च- क्रमध्यसंचारि । पवित्रं 'चरणं पवित्र' इति श्रुतिसिद्धं पवित्रसंज्ञकम् । तत्प्रसिद्धं तेजी वो युष्मभ्यं तिष्ठतां स्वरूप प्रकाशयतु । 'प्रकाशनस्थयाख्ययोश्च' इत्यात्मनेपदम् । अनेन लोकेन तद्यन्त्रमध्यवर्तिपुरुषः सर्वास्वापदासु प्राणिनां रक्षक इत्यरूपि ॥ यस्मिन्विन्यस्य भारं विजयिनि भवतां जङ्गमस्थावराणां लक्ष्मीनारायणाख्यं मिथुनमनुभक्त्यत्युदारान्विहारान् । आरोग्यं भूतिमायुः कृतमिह बहुना यद्यदास्थापदं व- स्तत्तत्सद्यः समस्तं दिशतु स पुरुषो दिव्यहेत्यक्षवः ॥ १० ॥ लक्ष्मीनारायणाख्यं लक्ष्मीश्च नारायणश्च लक्ष्मीनारायणं लक्ष्मीनारायणमित्याख्या संज्ञा यस्य तन्मिथुनमायं संयतं (2) भवतां भवद्भूतभविष्यतां जङ्गमस्थावराणां चराचरात्मरूपे- णावस्थितानाम् । 'जगतां जङ्गमस्थावराणां' इति पाठे चरस्थिरात्मरूपेणावस्थितानां जगतामित्यर्थः । रक्षाशिक्षाद्यनेकप्रकारभिन्नं भारं विजयिन्यप्रतिहतपराक्रमे यस्मिन्सुदर्श- नपुरुषे विन्यस्य निक्षिप्य अत्युदारानिरतिशयानन्दप्रदान् विहारान्विनोदप्रप-बाननुभवति - १ परिच्छेदः] कवीन्द्रकर्णाभरणम् । ५१ निविंशति दिव्यहेत्यक्षवर्ती सुदर्शनाख्यमध्यसंचारी पुरुष आरोग्यं नीरोग्यत्वं भूतिमै- श्वर्यमायुर्दीर्घकालजीवितं दिशतु । इहाथितार्थप्रदानदीक्षितसुदर्शनपुरुषविषये बहुना कृतं बहुवचनेन बाहुल्येनालम् । बहुभिर्वचनैः किं प्रयोजनमित्यर्थः । वो युष्माकं यद्यदास्थापदं यद्यद्वस्तुमनोरथगतं तत्तत्समस्तं वस्तु नित्यं दिशतु ददातु ॥ पद्यानां तत्वविद्यायुमणिगिरिशविध्यङ्गसंख्याधराणा- मर्चि:प्वङ्गेषु नेम्यादिषु च परमतः पुंसि पड्विंशतिश्च । संधैः सौदर्शनं यः पठति कृतमिदं कूरनारायणेन स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ॥१०१॥ इति श्रीकरनारायणकविप्रणीतं सुदर्शनशतकं समाप्तम् । अर्चिःषु ज्वालासु विषये नेम्यादिध्वङ्गेषु च नेम्वरनाभ्यक्षसंज्ञकावयवेषु च तत्त्वविद्याधु. मणिगिरिशविध्यङ्गसंख्याधराणां तत्त्वानि च विद्याश्च द्युमणयश्च गिरिशाश्च विध्यङ्गानि च तेषां संख्या । तत्त्वानि चतुर्विशति विद्याश्चतुर्दश द्युमणयो द्वादश गिरिशा एकादश वि- ध्यङ्गानि त्रयोदश एताः संख्या धारयन्तीति संख्याधराणि । तत्र ज्वालावाचकानि पद्यानि तत्त्वसंख्याधराणि नेमिवाचकानि पद्यानि विद्यासंख्याधराण अरवाचकान्यादित्यसंख्याध- राणि नाभिवाचकानि रुद्रसंख्याधराणि अक्षवाचकानि विध्यङ्गसंख्याधराणि । तेषां पद्या- नाम् । अतः पुंसि सुदर्शनपुरुषविषये षड्विंशतिश्च पद्यानाम् । संभूय शतसंख्यानां पद्यानां संधैः कूरनारायणेन सर्वज्ञचूडामणिभिर्महानुभावैः कृतं विरचितमिदं सौदर्शनं स्तोत्रं यः पठति स पुरुषो निर्विष्टभोग उपभुक्तहिकसुखस्तदनन्तरं परमां चक्रसायुज्यलक्ष्मी भजति ।। इति श्रीसुदर्शनशतकव्याख्यानम् ।। श्रीविश्वेश्वरपण्डितपणी कवीन्द्रकर्णाभरणम् । तत्कृतयैव टीकया समेतम् । प्रथमः परिच्छेदः । प्रणम्य वाचां जननीमपर्णा कवीन्द्रकर्णाभरणं स्वकीयम् । विना प्रयासं प्रतिपत्तिहेतोविश्वेश्वरेण क्रियते स्फुटार्थम् ।। १. अयं विश्वेश्वरपण्डितो हिमालयकुक्षिस्थित अल्मोडा'नगरप्रान्ते 'पाडिया के पाण्डे' इत्युपनामके कुले ख्रिस्ताब्दीयाष्टादशशतकप्रथमपाद लक्ष्मीधरपण्डिताज्जन्म लेभे. अ. नेन स्वायुषो दशमवर्षप्रभृति ग्रन्थनिर्माणमारब्धं चत्वारिंशद्वर्षदेशीयश्च परलोकं जगाम. अस्याष्टमः पुरुषो देवेश्वर(चुनीलालोनामाधुनापि गङ्गातटोपकण्ठवर्तिनि 'अनपशहर'- - ५२ काव्यमाला। अभिमतकारम्भसमये विघ्नविघातार्थमाचरितमभीष्टदेवतानमस्कारं शिष्यशिक्षार्थ नि- बध्नन्नेव प्रतिजानीते- हितहेतोमहयिखा हरिहरहेरम्बमिहिरहैमवतीः । विश्वेश्वरो वितनुते कवीन्द्रकर्णाभरणमेतत् ॥ १ ॥ हितेति ॥ 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति हेतोरिति पञ्चमी षष्ठी वा । हितार्थमित्यर्थः । हितं चात्र प्रारिप्सितसमाप्तिर्विघ्ननाशो वा । 'मह पूजायाम्' । 'सर्व- मङ्गलमङ्गल्यं वरेण्यमनघं शुचिम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥' इति वामन- पुराणम् । 'अर्थः शंभुः शिवा वाणी' इति लिङ्गपुराणम् । 'आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ॥' इति याज्ञवल्क्यः। अन्यत्स्पष्टम् ।। स्वग्रन्थस्य पूर्वग्रन्थैर्गतार्थत्वमभ्युपगम्याह- विहिता महामहिमभिर्विद्यन्ते यद्यपि निबन्धाः। तदपि परिप्लवतायाः परिपाकोऽयं ममोदेति ॥ २ ॥ विहिता इति ॥ महामहिमभिर्विदग्धमुखमण्डनकारादिभिः । तथा च महानुभावकृत- ग्रन्थानां महत्त्वमर्थसिद्धमित्यर्थः । परिप्लवतां चाञ्चल्यम् । 'पारिप्लवपरिप्लवे' इत्यमरः । प- रिपाकः फलम् । तथा च चापलात्प्रवृत्तो न पर्यनुपयोगयोग्य इत्यर्थः ।। वस्तुतो न गतार्थत्वमित्याह---- यदभिहितं बहु महितं पूर्वाचाविचार्यैव । अनुकुर्वन्किचित्तबहुविद्भिर्नाहमुपहास्यः ॥ ३ ॥ नाम्नि नगरे वर्तत इति पर्वतीयेभ्यः श्रूयते. ग्रन्थाश्चानेन बहवः प्रणीताः, तन्मध्येऽस्मदवग- तास्त्वेते-(१) अलंकारकौस्तुभः सटीकः, (२) अलंकारमुक्तावली, (३) आर्यासप्त- शती सटीका, (४) कवीन्द्रकर्णाभरणं सटीकम् , (५) काव्यतिलकम् , (६) काव्यर- नम् , (७) तर्ककुतूहलम्, (८) दीधितिप्रवेशः, (९) नवमालिका नाटिका, (१०) नैषधीयकाव्यटीका, (११) मन्दारमञ्जरी कथा गद्यनिबद्धा, (१२) रसचन्द्रिका, (१३) रसमञ्जरीटीका, (१४) रोमावलीशतकम्, (१५) लक्ष्मीविलासः, (१६) वक्षोजशतकम्, (१७) शृङ्गारमञ्जरी सटकम्, (१८) षडतुवर्णनम्, (१५) सिद्धा- न्तसुधानिधिः, (२०) होलिकाशतकम्, (२१) केचन तान्त्रिकग्रन्थाः, तत्र कवी- न्द्रकर्णाभरणं विदग्धमुखमण्डनानुसारि ततोऽपि चमत्कारि च. अस्य पुस्तकद्वयमस्माभि- रासादितम्. तत्रैकमलवरमहाराजाश्रितपार्वतीयपण्डितलक्ष्मणदत्तपन्तसकाशात्पण्डितशिव- दत्तशर्मभिः परारिवर्षे समानीतमासीत्. अपरं चाधुना पञ्जाबदेशान्तर्वति भदौड'नगराधीश- 'सर सर्दार अतरसिंह साहेब के. सी. आय. ई.' इत्येतैर्लुधियानानगरस्थस्वकीयपुस्तका- लयात्प्रहितम्, एतत्पुस्तकद्वयमपि शुद्धमनतिप्राचीनं चास्मन्मुद्रणाधारतां गतमिति शिवम्.
१ परिच्छेदः]
कवीन्द्रकर्णाभरणम् ।
यदिति ॥ बहु इति क्रियाविशेषणम् । तच्चाभिधानस्य प्रशंसायां वा । बहुभिर्महितं पू-
जितमिति वा । न च ‘मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्यये 'क्तस्य च वर्तमाने'
इति षष्ठीप्रसङ्गात्तृतीयैव दुर्लभा, षष्टयां च 'क्तेन च पूजायाम्' इति समासनिषेधापत्ति-
रिति वाच्यम् । भूते क्तप्रत्ययव्याख्यानात् । शेषषष्टीसमासो वा इत्यन्यत्र विस्तरः । किंचि-
दिति । क्वचिन्यूनं क्वचिदतिरिक्तमित्यर्थः । तथा च संक्षेपविकासाभ्यां किंचिदंशावच्छि-
नाभ्यां न गतार्थत्वमित्यर्थः ।।
मन्दबुद्धिभिरनादरेऽप्यस्य न मम हानिरित्याह-
एतच्चेदनुगृह्यते सहृदयः शुद्धप्रकाशोदयै-
स्तत्स्यादेतदुपेशकैरपि खलैनविद्यमुच्छृङ्खलैः ।
शुभ्रांशोः शशिशेखरेण शकलं नीतं सदुत्तंसतां
किं समेऽपि विधुतुदेन कवलीकर्तुं कचित्पार्यते ॥ ४ ॥
एतदिति ॥ अनुगृह्यते उपादेयत्वप्रकारकज्ञानविशेष्यं क्रियते । सुहृदयैः सदसद्विवे-
चनसमथैः । तल्लाभार्थमेवाह-शुद्धेति । शुद्धः संशयविपर्ययरहितः प्रकाशस्य तत्तच्छा-
स्त्रविषयार्थस्य उदयो ज्ञानं येषां तैरित्यर्थः ॥ प्रकाश्यते प्रतिपाद्यते इति प्रकाशस्तत्प्रति-
पाद्योऽर्थः । कर्मणि घनो व्याख्यानात् । उदय उत्कृष्टं ज्ञानम्, उत्कर्षश्च
तदनुकूलतान्तर-
विषयकत्वम् । तेन शुद्धपदेन न गतार्थत्वम् । अत एव खलानां तद्राहित्यसूचनाय उच्छृ-
लैरित्युक्तम् ॥
वक्ष्यमाणजातीरुद्दिशति-
व्यस्तं समस्तं द्विः पूर्वं विशिष्टं च परस्परम् ।
एकालापं प्रभिन्नं च भेद्यभेदकमूर्जितम् ॥ ५॥
सालंकारसकौतुकपृष्टोत्तरपृष्टपूर्वकमन्नम् ।
भन्नादिमध्यचरमोत्तरं कथितनिहुतिविषमम् ॥ ६ ॥
वृत्तं नामाख्यातं तार्क सौत्रं च शाब्दशास्त्रीये।
वर्णाद्वाक्याच्छोकादर्थात्पादात्तथोत्तरं परतः ॥ ७ ॥
चक्राम्बुजकाकपदं गोमूत्री सर्वतोभद्रम् ।
भवति गतप्रसागतमधिकापचिताक्षरं च शृङ्खलया ॥ ८॥
अथ नागपाशचित्रे प्रहेलिका हृद्यमथ गूढम् ।
स्तुतिनिन्दा च व्यर्थकमपनुतिविन्दुमदुप्तम् ॥ ९ ॥
मात्राविन्दुविसर्गाक्षरस्थितिव्यञ्जनच्युतकम् ।
च्युतदत्ताक्षरमित्यपि जातय इभबाणसंमिता प्रोक्ताः॥१०॥
काव्यमाला। alisinger व्यस्तमिति ॥ व्यस्तं समस्तं चैति द्वौ भेदौ । द्विः पूर्वं द्विळस्तं द्विःसमस्तं चेत्यर्थः । परस्परं विशिष्टं चेति । व्यस्तसमस्तं समस्तव्यस्तं द्विय॑स्तसमस्तं द्विःसमस्तव्यस्तं चेति भावः । अर्जितमेव केचिदोजस्वीत्याहुः । सालंकारेति समाहारद्वन्द्वः । पृष्टपूर्वकप्रश्नः पृटप्रश्न: भग्नोत्तरं आयुदात्तं मध्योत्तरं अन्त्योत्तरं चेत्यर्थः । कथितनिहुतिः कथितापद्रुतिः ।वृत्तं वृत्त- नामकम् । वर्णोत्तरं वाक्योत्तरं श्लोकोत्तरम|त्तरं पादोत्तरं चेत्यर्थः । चक्रादयो बन्धभेदाः । अधिकेति । वर्धमानाक्षरं हीयमानाक्षरं चेत्यर्थः ॥ शृङ्खलासाहित्यं च जातिविभाजकत्वेन । शृङ्खलापि जात्यन्तरमित्यर्थः । नागपाशः, चित्रम्, प्रहेलिका । अन्यत्सुगमम् । मात्राच्युत- कम्, बिन्दुच्युतकम्, विसर्गच्युतकम्, अक्षरच्युतकम्, स्थानच्युतकम् , व्यञ्जनच्युतकं चेति षड्भेदाः । अत्र इभा अष्टौ बाणाः पञ्च इति 'अङ्कानां वामतो गतिः' इति न्यायेन विपरीतन्यासेनाष्टपञ्चाशत्संख्यालाभः ॥ इति वृत्तजात्युद्देशः ।। व्यस्तसमस्तजात्योर्लक्षणमाह- व्यस्तं स्यात्मश्नानां यदुत्तरं पदविभागमात्रेण । समुदायेन यदुत्तरमिदं समस्तं विदुर्विबुधाः ॥ ११ ॥ येषां प्रश्नानां किंचित्पदविभागेनैवोत्तरं भवति तब्यस्तं नाम । व्यस्तसमस्ते व्यभिचा- रवारणाय मात्रपदम् ॥ यत्पुनः समुदायेनैवोत्तरं तत्समस्तम् ॥ समस्तव्यस्तवारणायैव- कारः। द्विळस्तद्विःसमस्तयोस्त्वेतद्भेदतया नोभयत्राप्यतिव्याप्तिः । प्रश्नोत्तरयोश्च परस्प- गनिरूप्यत्वादुभयत्रापि व्यस्तादिव्यवहारः ॥ तत्र व्यस्तजातिमुदाहरति- धात्वादेः षस्य को वा स्यादविहीनः कया हरिः । महीयोऽपि किमाहन्ति तस्य नामानुकीर्तितम् ॥ सोमयागः । 'धात्वादेः षस्य को वादेश' इति प्रश्ने 'सः' इत्युत्तरम् । 'धात्वादेः षः सः' इति वच- नात् ॥ 'विष्णुः कया हीनो नास्ति' इति प्रश्ने 'मया' लक्ष्म्या इति ॥ विष्णुनाम कीर्तिनं सत् महत्तरमपि किं नाशयति' इति प्रश्ने 'आगः' इति । पापमित्यर्थः ॥ x अनङ् कुत्र भवेत्सख्युर्गन्धं कां संश्रितं विदुः । अभिनन्दन्ति कीदृशं जना धर्मपरायणाः ॥ सौकुमार्यम् । सौ प्रथमैकवचने सखिशब्दस्यानङ् भवति । 'सख्युरसंबुद्धौ इत्युत्तरं 'अनट् सौं' इ. त्युक्तेः ॥ गन्धं कुं भूमिमाश्रितं विदुः तस्य पृथिवीविशेषगुणत्वात् ॥ धार्मिकजना आर्य शिष्टं प्रशंसन्ति ॥ लक्षणसमन्वयः स्पष्टः ॥ उदाहरणद्वयं स्पष्टार्थम् ॥ इति व्यस्तजातिः ॥
१ परिच्छेदः] कवीन्द्रकर्णाभरणम् । AN समस्तजातिमुदाहरति- फाल्गुनेन समुपेत्य शिखण्डी कुत्र ताण्डवमखण्डितमाधात् । पाप्मना व जनितेन जयोऽगाभ्रुवाहननिरूपितभङ्गम् ॥ गाङ्गेयसंगरे। फाल्गुने मासि शिखण्डिनो मयूरस्य नृत्यवर्णनाद्विरोधः । अर्जुनद्रुपदपुत्रयोविवक्षितत्वा- त्तत्परिहारः । शिखण्डिनः स्त्रीपूर्वत्वात्तत्र भीष्मेण बाणानामप्रेषणात्तद्वयवहितेनार्जुनेन भीष्मो हत इति स्पष्टम् । तत्रैव तजनितपातकवशाद्वसूनां शापेन गङ्गाशापेन च बभ्रुवा- हननाम्ना तत्पुत्रेणाश्वमेधहयरक्षायां स हत इत्यश्वमेधपर्वणि स्पष्टं श्रीमहाभारते ॥ x तं ब्रूहि यत्र निःशङ्का हंसा अपि सयोषितः । सहस्रपत्रयुक्तेऽपि किं च भङ्गोऽस्ति सर्वदा ।। पद्माकरः । हंसानां संन्यस्तानां योषित्साहित्याद्विरोधः । पक्षिणामुपादानात्परिहारः । पत्रभङ्गशब्द- योवाहनपराजयपरत्वाभिप्रायेण विरोधः । दलतरङ्गपरत्वेन परिहारः । उभयत्रापि समस्तं वाक्यमेकार्थकमेवोत्तरमिति लक्षणसमन्वयः ।। इति समस्तजातिः ॥ द्विय॑स्तद्विःसमस्तयोर्लक्षणमाह- द्विय॑स्तं यत्तत्पदभङ्गविभेदाविधोत्तरं भवति । स्याविःसमस्तमेतत्समस्तपदमुत्तरद्वितयम् ॥ १२ ॥ यद्भिन्नानुपूर्वीकपदच्छेदेन नानोत्तरं भवति तड्विर्व्यस्तम् । यत्त्वखण्डमेव समासपदमवान्त- रभङ्गेन तथा भवति तट्विःसमस्तमित्यर्थः । अत्राप्यवान्तरभेदस्यावश्यकत्वात् ॥ द्विय॑स्तमुदाहरति- * किं कुर्वन्ति तरुण्यो विलासभरमन्थरास्तरुणान् । का कुमुदबान्धवान्तर्विकसति सुरभी समेते का ॥ मदयन्तिकालता। किं कुर्वन्तीति ॥ 'मदयन्ति' इत्युत्तरम् ॥ 'चन्द्रस्याभ्यन्तरे का' इत्यत्र 'कालता' इति । कलङ्कस्य श्यामत्वात् ॥ 'वसन्ते का विकसति' इत्यत्र ‘मदयन्तिका नाम लता' इति॥ भुजंगमकुलं कीदृक् रन्तुकामः पराशरः । कां वा विस्तारयामास कुचयोः का बिभर्ति काम् ॥ विलासिनीहारलताम् । भुजंगमेति ॥ 'भुजंगमकुलं कीहक्' इत्यत्र 'बिलासि' इति । बिले रन्ने आस्ते तिष्ठ- तीति भावः । 'सुधिरं विवरं बिलमू' इत्यमरः ॥ सत्यवत्या सह यमुनायां रिरंसू रन्तुकाम:
काव्यमाला। पराशरो व्यवधानाय नीहारलताम् अवश्यायपरम्परां व्यतनोत् ॥ विलासिनी स्त्री कुचयो- मध्ये हारलतां मुक्तावलीं दधातीत्यर्थः ॥ 'हारो मुक्तावली' इत्यमरः । इति द्विर्व्यस्तजातिः ॥ द्विःसमस्तजातिमुदाहरति- *कामुककदम्बसद्भटपूर्णेन्दुनिशीथिनीभौमाः । वाच्याः कथं चकासति काञ्चनकलशाश्च कीदृक्षाः ॥ कामिनीपयोधराकाराः। कामुकेति ॥ कामुकः 'कामि' इति, कदम्बो 'नीप' इति, सद्भटो ‘योध' इति, पूर्ण- चन्द्ररात्री 'राका' इति, भौम 'आर' इति एकः समस्तपदच्छेदः ॥ काञ्चनकलशाः की- दृक्षाः । कामिनी तरुणी तस्याः पयोधरौ तदाकारा इति द्वितीयः ॥ तरुणप्रथमलकारादेशाशनजातयः कथं वाच्याः । विकसितसरोजततयो मनांसि मदयन्ति कीदृश्यः ॥ युवतिवदनाकृतयः । तरुणो 'युव' इति वाच्यः । लकारस्य प्रथम आदेश: 'तिब्' इति । प्रथमपुरुषैकवच- नस्य तिबित्याकारकत्वात् 'लस्य' इत्यधिकारे तिप्तस्झीत्यादीनामादेशानां विधानात् अश- नम् 'अदन' इति । जातिः 'आकृतिः' इति । यद्यपि 'व्यक्त्याकृतिजातयस्तु पदार्थः' इति न्यायसूत्रे आकृतिपदं संस्थानविशेषार्थकम् , तथापि 'आकृतिस्तु क्रियार्थत्वात्' इति जैमिनिसूत्राभिप्रायेणेदम् ।। 'युवतेर्वदनं मुखं तदाकृतयः' इति द्वितीयसमस्तपदच्छेदः ।। इति द्विःसमस्तजातिः ॥ व्यस्तसमस्तद्विर्व्यस्तसमस्तजातिलक्षणमाह- द्वेधा यदुत्तरं स्याग्रस्तसमस्तं तु तत्प्रोक्तम् । स्याविय॑स्तसमस्तं व्यस्तं तत्रैव च द्वेधा ॥ १३ ॥ यत्पदमेकवारं व्यस्तं सत् द्वितीयवारं तु समस्तं सदुत्तरं भवति तद्वयस्तसमस्तम् ।। यत्र व्यस्तमेव वारद्वयं समस्तं त्वेकवारमुत्तरं भवति तद् द्विर्व्यस्तसमस्तम् इत्युक्तम् ॥ त- त्रैवेति समस्तस्य पूर्ववदुक्तत्वात् ॥ द्विधेत्युपलक्षणं त्रिचतुर्वारमपि संभवात् ।। व्यस्तसमस्तमुदाहरति- पदं कि प्रतिषेधार्थ छेदकत्रर्थक च किम् । ग्रीष्मे सरो भवेत्कीहक्का स्थिरा का वधूः प्रिया ॥ मालूरपयोधरा।
१ परिच्छेदः] कवीन्द्रकर्णाभरणम् । । HD पदमिति ॥ प्रतिषेधार्थकं पदं 'मा' इति । 'मास्म मालं च वारणे' । छैदकर्टवाचि पदं 'लू:' इति । 'लून् छेदने' इत्यस्य क्विम् । ग्रीष्मे सरो 'अपयः' जलहीनम् । स्थिरा स्थैर्यवती 'धरा' भूमिः । इति व्यस्तपदविभागः ॥ मालूरं बिल्वफलं तद्वत् पयोधरौ स्तनौ यस्या- स्तादृशी वधूः प्रिया भवति ॥ इति समस्तपदविभागः ॥ 'बिल्वे शाण्डिल्यशैलूषो मालू- रश्रीफलावपि' इत्यमरः । तस्य फलं मालूरम् । 'फले लुक् ॥ साहित्यार्थपदं किं संबोध्यः करभसंबन्धी । कोऽन्यविषयापहारी प्रसरन्ति वसन्तसमये काः ॥ सहकारभवधूलयः। 'सह' इति पदं साहित्यार्थकम् । 'कारभ' इति करभसंबन्धिसंबुद्धिः । वधूः स्त्री तस्यां लय आसक्तिविशेषः अन्यविषयापहारी । इति व्यस्तपदविभागः ॥ सहकारेभ्य आप्रेभ्यो भवा जाता धूलयः परागा वसन्ते विस्तीर्यन्ते ॥ इति समस्तपदविभागः ॥ इति व्यस्तसमस्तजातिः ॥ द्वियंस्तसमस्तमुदाहरति- संबोधय त्रिनयनं भवनं च विष्णुः को वा भवस्य स कया वनपूर्वयाप्तः । स्यात्तत्त्ववित्कथमथासुरहाभिधेयः को दंदहीति विरहे वरवर्णिनीश्च ।। मालयाशुगः। संबोधयेति ॥ 'म' इति शिवस्य, 'आलय' इति भवनस्य संबुद्धिः । 'मः शिवे मा र. मायां च' इति ॥ 'विष्णुर्भवस्य कः' इत्यत्र 'आशुगः' इत्युत्तरम् । त्रिपुरवधै तस्य बाणभू- तत्वात् । 'विष्णुं शरोत्तमं कृत्वा' इति महाभारतोक्तेः । इत्येको व्यस्तपदच्छेदः ॥ 'वि- ष्णुर्वनपूर्वया कया प्राप्तः' इत्यत्र 'मालया' इत्युत्तरम् । वनमालया संगतः इत्यर्थः ॥ तत्त्वज्ञः पुरुषः अशुक् शोकरहितः । असुरहा विष्णुः कथं वाच्यः इत्यत्र 'अः' इति । 'अकारो वासुदेवः स्यात्' इति नानार्थः । इति द्वितीयो व्यस्तपदच्छेदः ॥ प्रियवियोगे मालयो मल- यसंबन्धी आशुगः पवनो दंदहीति पीडयति ॥ इति समस्तपदच्छेदः ।। वैदेहः समवोधयद्वद कथं गाय विहीनो भवे- केनादादिगणोऽतिपातकरुचिः स्यात्केन मुक्तो जनः । मेधाविन् शिशुदुःखदुःप्रभुरवीन्संबोधयस्व स्वयं केनेयं सदृशी विभाति गगने धाराधराणां ततिः ॥ बालाकेशपाशेन । .
काव्यमाला। - । वैदेहो जनको गाय 'बालाके' इति संबोधयामास । 'दृप्तबालाकिहानूचानो गार्ग्य आस' इति प्रक्रमे 'कैव तद्बालाके पुरुषोऽशयिष्ठ' इति बृहदारण्यकश्रुतेः ॥ अदादिगणप- ठितो धातुः 'शपा' विहीनो भवति । 'अदिप्रभृतिभ्यः शपः' इति शपो लुग्विधानात् ॥ अत्यन्तपापरतिः पुरुषः 'शेन' सुखेन मुक्तो भवति । पापस्य दुःखजनकत्वात् ॥ इत्येको व्यस्तपदच्छेदः ॥ शिशोः संबोधनं 'बाल' इति । दुःखस्य 'अक' इति । कुत्सितस्य प्रभोः 'ईशपाश' इति । 'याप्ये पाशप्' । सूर्यस्य 'इन' इति । इति द्वितीयो व्यस्तपदच्छेदः ।। नूतना मेघलेखा बालाया युवतेः केशपाशेन कुन्तलकलापेन सदृशी विभाति ॥ इति स- मस्तपदच्छेदः॥ इति द्विय॑स्तसमस्तजातिः ॥ द्विःसमस्तव्यस्तद्विःसमस्तद्विर्व्यस्तलक्षणमाह- द्वौ वारौ यत्समासेन व्यासेन सकृदुत्तरम् । तविःसमस्तव्यस्तं स्याद्व्यासावृत्त्या परा भिदा ॥ १४ ॥ यद् वारद्वयं समस्तम् एकवारं च व्यस्तं सत् उत्तरं भवति तद् द्विःसमस्तव्यस्तमि- त्यर्थः । अत्रैव यदि व्यस्तमपि वारद्वयमुत्तरं तदा तद् द्विःसमस्तद्विय॑स्तमपि भवितुम- हतीत्यर्थः ॥ प्राचीनैरनुक्तावपि न्यायसाम्येन दुरपह्नवत्वात् । न च द्विय॑स्तसमस्तयोरे- वायं समावेश इति वाच्यम् । द्विःसमस्तस्य व्यस्तस्य च समाहारेण द्विःसमस्तव्यस्तभेद- स्यापि गतार्थत्वप्रसङ्गात् । विच्छित्तिवैलक्षण्यस्य च साम्यात् ।। द्विःसमस्तव्यस्तमुदाहरति- कीहक्चन्द्रोदयो यूनां वधूबिम्बाधरः कथम् । शिशिरापगमे किं वा वाक्यं सहृदयोचितम् ॥ मधुरजनिमदनीयः। मधोवसन्तस्य रजनौ रमणीयः । मधुरो रसविशेषशाली जनिमदनीयः स्वभावान्मदज- नकश्चेति कर्मधारयः । इति द्वौ समस्तपदच्छेदौ ॥ मदनीयः कामसंबन्धी सखा मधुर्व- सन्तोऽजनि जातः । इत्येको व्यस्तपदच्छेदः ।। कीदृशा मत्तमातङ्गाः कीदृश्यो द्यूतभूमयः । कथं च पाण्डवो ज्येष्ठः कथं मुग्धापयोधराः ॥ श्रितविदुरोदरदृश्याः। श्रितो विदुर्गण्डमध्यभागो यैस्तादृशै रोदरैभ्रमरै रम्याः ! 'कुम्भौ तु पिण्डी शिरसस्त- योर्मध्ये विदुः पुमान्' इत्यमरः ॥ श्रिताः स्ववर्तिनो मिथो विरुद्धा दुरोदरा मृतकारास्त- द्विशिष्टाः ।। इति द्वौ समस्तपदभङ्गौ ॥ श्रितो विदुरी येन ताइक् युधिष्ठिरः ॥ दरदृश्या १ परिच्छेदः] कवीन्द्रकर्णाभरणम् । ईषत्प्रकाशा मुग्धास्तनाः । किंचिदुन्नतिमत्त्वालज्जया वृतत्वेन कदाचिदपि प्रियेण दर्श- नाच ॥ इत्येको ब्यस्तपदभङ्गः ॥ इति द्विःसमस्तव्यस्तजातिः ।। द्विःसमस्तद्विय॑स्तमुदाहरति- मधौ परभृता कीहक्कौशल्या वद कीदृशी। कीदृग्वराङ्गनादृष्टिः कीदृशी कुनदी शरत् ॥ सुतरामानन्दितारा। मधाविति ॥ वसन्ते परभृता कोकिला सुतो जनितो रामानन्दी स्त्रीमनोहरस्तारो व्यक्तशब्दो यया तादृशी भवति । सुतेन रामेण आनन्दिता रावणादिवधेन तोषिता आरा देवा यस्यास्तादृशी कौशल्या भवति । इति द्वौ समस्तपदच्छेदौ । सुतराम् अत्यर्थमान- न्दिनी आनन्दयुक्ता आनन्दजनिका वा तारा अक्षिकनीनिका यस्यास्तादृशी युवतिहरभ- वति ।। क्षुद्रनदी सुतरा सुखेन तरीतुं शक्या भवति शरच्च मा लक्ष्मीस्तयानन्दिन्य उ. लासशीलास्तारा नक्षत्राणि यत्र तादृग्भवति ॥ इति द्वौ व्यस्तपदच्छेदौ ॥ कीहक्तनुर्वरतनोर्भवभूतिराह किं नाटकं न कवयोऽभिदधुर्मधौ काम् । साध्वी कियत्त्वनिति का कुरुते हरि किं कां वा स तिष्ठति महद्गहनं च कीहक् ।। मालतीमाधवम् । मालतीपुष्पस्य मां लक्ष्मी धुनोति अवहेलयति तादृशं मालतीमाधवं कामिनीगात्रम् । 'धूञ् कम्पने' 'ऋदोरम्' इत्यप्प्रत्ययः । मालतीमाधवसंज्ञं नाटकं भवभूतिः कविः कृत- वान् । इति द्वौ समस्तपदच्छेदौ । मालती जाति वसन्ते कवयो नः वर्णयन्ति 'नियमाच्च जात्यादेः' इति कल्पलतायाम् । आधवं पतिजीवनपर्यन्तं पतिव्रता जीवति । मा लक्ष्मी- विष्णुम् अलति भूषयति । सोऽपि ई लक्ष्मी भूषयति ॥ आ समन्ताद् धवा वृक्षविशेषा यत्र तादृशं महावनं भवति । इति द्वौ व्यस्तपदच्छेदौ ।। इति द्विःसमस्तद्विय॑स्तजातिः ।। एकालापकलक्षणमाह- प्रतिभासो भवेद्यत्र सहसैवार्थयोर्द्वयोः । तदेकालापकं प्राहुर्द्विःसमस्तभिदान्तरम् ॥ १५ ॥ १. 'अकर्तरि च कारके' इत्युक्तेः कर्तर्यपोप्राप्त्या चिन्त्यमेतत्. तस्मात्पचाद्यजन्तेन समासः कार्यः.
६० काव्यमाला। autheme यत्रैकस्मिन्समस्त पदे स्पष्टमेवार्थद्वयं प्रतीयते तदेकालापकम् ॥ नन्वेतत्तेनैव गतार्थ- मत आह-द्विःसमस्तेति । तद्विशेष एवायं भेदः । अर्थस्य सहसा प्रतीत्यप्रतीतिभ्या- मेव वैलक्षण्यस्योक्तत्वादित्यर्थः ॥ उदाहरति-- कीदृग्बभूव वैदेहीविवाहे भृगुनन्दनः । कामिन्याः क्रीडमानायाः कीदृशः कन्दुकः करे ॥ रामास्तनाकारः। रामेण दाशरथिना अस्तः प्रतिषिद्धो नाकारः स्वर्गगमनं यस्य तादृक् । तदीयवैष्णव- धनुराकर्षणेन जामदग्न्यस्य स्वर्गतेनिषेधात् ॥ 'ऋ गतौ' इत्यस्य भावे घनि आर इति रूपम् । रामायास्तरुण्याः स्तनाकृतिः कन्दुको भवति । इति द्वौ समस्तपदच्छेदौ । इत्येकालापकम् ॥ प्रभिन्नकमाह- सति शब्दार्थयोर्भेदे वचनस्य सुपां तथा । लिङ्गस्य च भिदा यत्र तद्वदन्ति प्रभिन्नकम् ॥ १६ ॥ यत्र शब्दार्थयोमिन्नत्वे सति विभक्तिवचनलिङ्गानां भेदस्तत्प्रभिन्नकमित्यर्थः ।। तत्र शब्दार्थवचनभिन्नमुदाहरति- माद्यत्परभृता साम्यं कुत्र वा कलयन्ति काः । मधुरोऽप्यभिधानेन मनसा कीदृशः खलः ॥ गिरिसारसदृशः। माद्यदिति ॥ सारसं कमलं तत्तुल्या दृशो यासाम् । यद्वा सारसः पक्षिविशेषः तस्य दृ- शाविव दृशौ यासां ता इत्यर्थः । गिरि वाण्यां मत्तकोकिलासाम्यं धारयन्ति । इति व्यस्त- पदच्छेदः ॥ मधुरवचनोऽपि दुर्जनो मनसा गिरिसारस्य लोहस्य सदृशो भवति काठिन्यात् । इति समस्तपदच्छेदः ॥ दृश इत्याद्ये प्रथमाया बहुवचनान्तम् । सदृश इत्येकवचनमिति भेदः॥ मुहुरार्तजनरुजाकृत्पृच्छति कः संपदा क्षयकृत् । पद्माकरा जलधरावसानसमये भवन्ति कीदृक्षाः ॥ बहुधार्तराष्ट्रशकुनयः। बहुधा वारंवारं आर्तान्दीनान् राष्ट्र तत्स्थाञ्जनांश्च श्यति तनूकरोति इति बहुधार्तरा- ष्ट्रशः । 'शो तनूकरणे' । 'आतश्चोपसर्गे' इति कप्रत्ययः। तस्य संबुद्धिः ॥ कुत्सितो नयः सं- पन्नाशहेतु: । इति व्यस्तपदच्छेदः ॥ बहवो धार्तराष्ट्राः शकुनयो हंसविशेषा येषु तादृशा: - .
१ परिच्छेदः] कवीन्द्रकर्णाभरणम् । ६१ शरदि तडागा भवन्ति । इति समस्तपदच्छेदः ॥ कुनय इत्येकवचनान्तम् । शकुनय इति बहुवचनान्तम् ॥ इति वचनभिन्नम् ॥ प्रजा राजन्वती कीदृग्दैत्यसेना हरेः कथम् । कान्वायुवद्विदुर्दोण्यादयो निशि कथं क्रुधा ।। सुस्वापविजितारयः। शोभनं स्वं द्रव्यं यस्यास्तादृक् सुराजा प्रजा भवति ॥ दैत्यसेना हरेरिन्द्रस्य पविना व- ब्रेण जिता भवति । 'कुलिशं भिदुरं पविः' इत्यमरः ॥ अरं शीघ्रं यान्ति गच्छन्ति तान- रयः शीघ्रगतीन्वायुसदृशानाहुः । 'या प्रापणे' क्विम् । द्वितीयाबहुवचने 'आतो धातोः' इत्याकारलोपः । इति व्यस्तपदच्छेदः ॥ द्रौणिकृपकृतवर्माणः सुस्वापे निद्रायां विजिता अरयो धृष्टद्युम्नादयो यस्तादृशा इति सौप्तिकपर्वणि स्पष्टम् ॥ 'सुविनिदुर्व्यः सुपि-' इति कृतसंप्रसारणस्य सुपेनिर्देशान्न षत्वम् ॥ इति समस्तपदच्छेदः ॥ अरय इति प्रथमान्तं द्वितीयान्तं चेति भेदः ॥ कीदृक्कुरङ्गनयना मनसिजमाह्वय नृपः व सक्तः स्यात् । सैनापत्यमवाप्य द्रुह्यति कस्सै पुरा स्कन्दः ॥ वराङ्गीतनुजनये । वराङ्गी रम्यदेहा वधूभवति । तनुज अङ्गजेति कामसंबुद्धिः ॥ राजा नये नीतौ सक्तो भवेत् । इति व्यस्तपदच्छेदः । वराङ्गयास्तनुतः शरीराजनिर्यस्य स तस्मै वराङ्गीतनुजनये गुहो द्रुह्यति । वराङ्गीवज्राङ्गौ तारकासुरस्य मातापितरौ इति स्पष्टं मत्स्यपुराणे । इति स- मस्तपदच्छेदः ॥ नय इति सप्तमी । जनय इति चतुर्थी । इति विभक्तिभिन्नम् ॥ का वदान्यस्य संबुद्धिः किं वायोरपि चञ्चलम् । बालोऽपि भरतः प्रोक्तः कीदृशः काश्यपाश्रमे ॥ सर्वदमनः । सर्व बहु ददातीति सर्वद इति दासबुद्धिः ॥ मनो वातापेक्षयापि चञ्चलम् ॥ इति व्यस्तच्छेदः ॥ काश्यपस्य कण्वस्याश्रम बालकोऽपि भरतः सर्वान्दमयतीति सर्वदमनतया प्रोक्त इत्यादिपर्वणि स्पष्टम् । इति समस्तच्छेदः॥ मन इति क्लीबम् । दमन इति पुंलिङ्गम् ॥ के गजभेदाः कृपणाः किमवन्ति वदन्त्यरिकुलं किम् । किं नाविक आदत्तेऽस्पृहयत्सत्या विरुध्य कां कस्मै ॥ मन्दारायमारमातरम्।
६२ काव्यमाला। गजविशेषा मन्दा मन्दसंज्ञाः। 'भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः' इति हलायुधः ॥ कदर्या रायं द्रव्यम् अवन्ति रक्षन्ति दानाद्यभावात् । अरीणां समूह आरम् । नाविक आतरं गृह्णाति । 'आतरस्तरपण्यं स्यात्' इत्यमरः । सत्या सत्यभामा मारस्य प्रद्यु- नस्य मातरं रुक्मिणी विरुध्य स्पर्धयित्वा मन्दाराय पारिजाताय स्पृहयामास । आतर- मिति पुंलिङ्गम् , मातरमिति स्त्रीलिङ्गम् ।। इति लिङ्गभिन्नम् ॥ नन्दनचैत्ररथे कथमाह्वय सलिलं च शैलं च । को लोकश्रयणीयः केभ्यः स्पृहयन्ति रसवन्तः ॥ दिव्यतरुणीपयोधरेभ्यः पः। दिव्या अमानुषास्तरवो वृक्षा ययोस्ते दिव्यतरुणी इन्द्रधनदयोरुद्याने । पय इति ज- लस्य, धर इति पर्वतस्य संबुद्धिः । इभ्यो लोकानां सेव्यः 'इभ्य आयो धनी स्वामी' इत्यमरः । दिव्यानां रम्याणां तरुणीनां पयोधरेभ्यः स्तनेभ्यो रसिका स्पृहयन्ति । 'स्पृहेरी- प्सितः' इति (संप्रदानत्वे) चतुर्थी ॥ इभ्य इति प्रथमैकवचनम्, पयोधरेभ्य इति चतुर्थी- बहुवचनम् ॥ का शीधुपसंबुद्धिर्मणिपूर्वा काधरे वरवधूनाम् । कासां ततिर्धनभवा कामाहुः कामिनीमनधिवेद्याम् ॥ मधुरतमालापाम् । मधुनि मद्ये रत इति सुरापसंबुद्धिः ॥ मणिपूर्वा माला मणिमाला दन्तव्रणविशेषस्त- रुणीनां बिम्बोष्ठे विभाति । 'मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे' इति विश्वः । अपां जलानां ततिः पतिर्मेघजन्या । मधुरतम आलापो यस्यास्तादृशी स्त्रियं अनधिवेद्यां सपत्नीविवाहानीं वदन्ति । 'आज्ञासंपादिनी दक्षां वीरतूं प्रियवादिनीम् । त्यजन्दाप्यस्त- तीयांशमद्रव्यो भरणं स्त्रियाः ॥ इति याज्ञवल्क्योक्तः ॥ 'अपाम्' इति षष्ठीबहुवचनान्तम् , 'मधुरतमालापाम्' इति द्वितीयैकवचनान्तम् ॥ इति वचनविभक्तिभिन्नम् ॥ मदनमिव रतिः प्रियं मृगाक्षी स च परिपृच्छति तां सतीमिवेदम् । वकुलसुमनसः कथं हसन्त्यः किमभिदधाति वधूः प्रियं वजन्तम् ॥ कामिन्यास्यसुरभयः । कामिनि प्रियतमे इति संबुद्धिः । आस्यमर्थात् त्वदीयं तद्वत् सुरभयः सुगन्धयो बकु- लानां सुमनसो भवन्ति इति नायकेनोत्तरं दत्तम् । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः ॥ हे कामिन् असुमत्प्राणाभिन्नस्त्वम् अभयो मदुपेक्षया स्नेहभङ्गेन वा प्रसक्तं यद्भयं तद्रहितः १ परिच्छेदः] कवीन्द्रकर्णाभरणम् । सन् यासि गच्छसि तदनहम् इति नायिकयोत्तरं दत्तम् ॥ सुरभय इति स्त्रीलिङ्गे प्रथमा- बहुवचनान्तम्, अभय इति पुंलिङ्गे प्रथमैकवचनान्तम् ॥ किं संभोगास्पदं यूनोः कीदृशो नृपतिर्जयी । उमैकपर्णापर्णाश्च संबन्धिन्यः कथं वद ॥ मिथः स्वसारः। मिथो रहः कामिनोः संभोगस्थानम् । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः ॥ स्वत एवं सारो बलवान् नृपो विजयी । दुर्बलस्य पराश्रयादिप्रसङ्गात् । उमैकपर्णापर्णाश्च हिमवत्क- न्यात्वात् परस्परं स्वसारो भगिन्यो भवन्ति । स्वसार इति स्वसृशब्दस्य स्त्रीलिङ्गस्य प्रथ- माबहुवचनान्तम् , सारशब्दस्य पुंलिङ्गस्यैकवचनान्तमिति ॥ इति शब्दार्थलिङ्गवचनभिन्नम् ॥ को ध्रुव उत्पत्तिमतां साधकतममुच्यते किं वा । किं चक्रविरहहारकममृतं लघु कीदृशश्च गिरः ।। अन्तःकरणमुषः। जन्यानां भावानाम् अन्तो विनाशो ध्रुव आवश्यकः । साधकतम कारकं करणमि- त्युच्यते । 'साधकतमं करणम्' इत्युक्तेः ।। उषः प्रातःकालः चक्रवाकवियोगहृत् । 'उष:- प्रत्युषसी अपि' इत्यमरः । अन्तःकरणं हृदयं मुष्णाति चोरयति । स्वासक्तं करोतीति यावत् । 'मुष स्तये । किबन्तस्य पञ्चम्येकवचनान्तं स्त्रीलिङ्गम् , उप इति क्लीवे प्रथमै. कवचनान्तम् ॥ द्यौः प्रातःकालिकी कीदृग्भवति प्रवणं कथम् । चक्रवाकाः किमिच्छन्ति पिकानां सुरभिः कथम् ।। विभावितमहः । विगतानि भानि नक्षत्राणि यस्यास्तादृशी द्यौः प्रभाते भवति । 'प्रवणं क्रमनिनो. या॑म्' इत्यमरः । अद्भिर्जलैरितम् अबितम् । चक्रा अहर्दिनम् इच्छन्ति संभोगसमयत्वात्। वसन्तः पिकानां विभावितो मह उत्सवो येन तथा मदहेतुत्वात् ॥ अहरिति क्लीबैकवचनं द्वितीयायाम, मह इति पुंलिङ्गैकवचनं प्रथमायाम् ॥ इति शब्दार्थलिङ्गविभक्तिभिन्नम् ॥ किं कुरुते रविरुधन्भवमाह्वय पापिनां रतिः क्वेव । सूर्मी कस्य प्रतिमा दिवसाः शरदश्व कीहक्षाः ॥ तमालोपमविहायसः। उदयन सूर्यः तमाया रात्रेलोपं करोति । ओ इति शिवसंबुद्धिः उशब्दस्य शिववाच-
काव्यमाला।
कत्वात् । पापवताम् इह एतजन्मन्येव रतिः पारलौकिकानिष्टसाधनप्रवृत्तेः । अयसौ लो-
हस्य प्रतिमा सूर्मीत्युच्यते। 'सूर्मी स्थूणायःप्रतिमा' इत्यमरः । 'सूर्मी ज्वलन्तीमालिङ्गे-
स्त्रीमयी गुरुतल्पगः' इति स्मृतिः ॥ शरदिवसाः तमालोपमं तमालवन्नीलं विहाय आकाशं
येषु तादृशा भवन्तीति भावः ।।
शारदेन्दुकला कीहक्कीदृशी मत्तकाशिनी ।
धत्ते सरखान्काः क्षारा निदाघतपनः कथम् ॥
सदाभासुरतापः।
शरच्चन्द्रकला कीदृशी। सती विशिष्टा आभा कान्तिर्यस्यास्तथा । शोभनं रतं यस्याः
तदभिलाषित्वात् । समुद्रः क्षारा अपो धत्ते । ग्रीष्मसूर्यः सदा नित्यं भासुरोऽतिशयवान्
तापो यस्य तथा भवति । अत्र 'अपः' इति स्त्रीलिङ्गद्वितीयाबहुवचनम् 'आप: स्त्रीभन्नि
वारि' इत्युक्तेः । तापः' इति पुंलिङ्गप्रथमैकवचनम् ॥
इति शब्दार्थवचनविभक्तिलिङ्गभिन्नम् ॥
अखण्डेऽपि पदे श्लिष्टे केचिदाहुः प्रभिन्नकम् ।
तञ्चमत्कारविरहादभियुक्तैर्न गृह्यते ॥ १७ ॥
अखण्डकपदै नानार्थकपदे इत्यर्थः ।।
तच यथा-
संसप्तकगणः कीदृग्महाभारतसंगरे।
कथं पयोदसमयो वरवणिनि वर्ण्यताम् ।।
संगतार्जुनशिलीमुखः ।
'संसप्तकास्तु समयात्संग्रामादनिवर्तिनः' इत्यमरः । संगता अर्जुनस्य शिलीमुखा बाणा
यस्मिन्सः । यद्वा संगतोऽर्जुनो यैस्ते संगतार्जुनाः तादृशाः शिलीमुखा यस्य तथा । आये
षष्ठीतत्पुरुषोत्तरपदो बहुव्रीहिः, द्वितीये बहुव्रीहिपूर्वपद इति विशेषः । पक्षे संगतार्जुना
अर्जुनवृक्षसंयुक्ताः शिलीमुखा भ्रमरा यत्र तथा ॥ 'अलिवाणौ शिलीमुखौ' इति विश्वः ।
अत्रार्जुनशिलीमुखौ नानार्थौ ॥
कथं सकामो वामोरूवदनं वद वीक्षते ।
कीदृङ्गिदाघसमये सुखयत्यनुलेपनम् ॥
चन्द्रवत्।
कामुको युवतिवदनं चन्द्रवत् चन्द्रसदृशं पश्यति । ग्रीष्मकाले चन्द्रयुक्तं सकपरं अ-
नुलेपनं सुखदं भवति ॥
तस्मादुत्तरवाक्येषु ध्रुवा शब्दार्थयोभिदा ।
कामचारस्तु लिङ्गादिभेदे व्यस्तादिभेदगः ॥ १८ ॥
२ परिच्छेदः] कवीन्द्रकर्णाभरणम् । शब्दभेदो भिन्नानुपूर्वीकशब्दबोध्यद्वितीयार्थत्वम् । तेनार्थभेदान्नानार्थस्थले शब्दभेदाङ्गी- कारेऽपि न क्षतिः । व्यस्तादेरेवावान्तरभेदो लिङ्गादिभेद इत्यर्थः ॥ इति श्रीविश्वेश्वरपण्डितविरचिते कवीन्द्रकर्णाभरणे प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः । भेवभेदकजातिं लक्षयति- पदच्छेदेन यत्र स्याविशेषणविशेष्ययोः। निर्देशस्तद्वदन्तीह विद्वांसो भेद्यभेदकम् ॥ १॥ यत्र पदभङ्गेन विशेषणं विशेष्यं च निर्दिश्यते तद्भेद्यभेदकमित्युक्तम् । उदाहरति- कोकिलाकुलितः कीदृक्सहकारमहीरुहः । पीयते वरवर्णिन्याः सरसं वल्लभेन का ॥ मधुराधरपालिः । मधुराधौ चैत्रवैशाखौ 'मधुश्चैत्रवसन्तयोः' 'वैशाखे माधवो राधः' इत्यमरः । तत्र र- पन्ति शब्दायन्ते रपा अलयो भ्रमरा यत्र । 'रप-लप-धातू शब्दार्थौ । मधुररसा का- मिन्या अधरपालि: प्रियेण पीयते । पालिशब्दः स्वरूपार्थः । कपोलपालिः कपोलोत्सङ्ग इति क्षीरस्वामी ॥ चकास्ति मत्तकाशिन्याः कीदृगाननपङ्कजम् । प्रभातसमये भाति कीदृशं सरसीषु किम् ॥ समदालिकमलम् । अलं अतिशयेन समदं कस्तूरीसहितं तत्तिलकशालि अलिकं ललाटं यत्र तादृशं यु- वतिमुखं शोभते । 'मदो रेतसि कस्तूर्याम्' इति विश्वः । अतिशयश्च शिल्पविशेषस्वरूपः । समदा मत्ता अलयो भ्रमरा यत्र तादृशं कमलं तडागेषु भाति । फुल्लत्वात् । अत्र श्लो द्विर्व्यस्तजातिः । पूर्वश्लोके समस्तव्यस्तजातिरिति विशेषः ॥ इति भेद्यभेदकजातिः ॥ अर्जितजाति लक्षयति- प्रश्नवाक्यं महद्यत्र लध्वक्षरकमुत्तरम् । तदुर्जितमिति प्रोक्तमूर्जखीत्यपरैरिदम् ॥ २॥ उदाहरति- सामानाधिकरण्यमञ्चति विधोः का धूर्जटेमूर्धनि खर्धन्याथ विधुंतुदोऽपि विवुधाभासो व्यधात्कि सुधाम् ।
काव्यमाला। . कंदर्पोदितदर्पयौवनजवादन्धायमाना वधूः कीहक्कूनति सत्रणं प्रणयिना बिम्बाधरे चुम्बिते ॥ कलापिवत् । विधौश्चन्द्रस्य कला धूर्जटेरीश्वरस्य शिरसि स्वर्धन्या गङ्गया सह सामानाधिकरण्यमे- काधिकरणवृत्तित्वं प्राप्नोति गङ्गाचन्द्रकलयोरेकस्मिस्तत्र वृत्तेः ॥ विबुधाभासो मायया दे- वरूपो राहुः सुधां पीयूषं अपिबत् पीतवान् । अतिविजृम्भमाणतारुण्या नारी दन्तक्षत- पूर्वकं कामुकेनाधरचुम्बने कृते सति कलापिवत् मयूरेण तुल्यं कृजति सीत्करोति । त- दुक्तं कामशास्त्रे-'मुच्च पीडय गृहाण जीवय त्राहि हा धिगिति सीत्कृतं विदुः । तच्च लावककपोतकोकिलाहंसकेकिसदृशै रुतक्रमैः ॥ कामोरेचकमेचकीकृतदिशो वृन्दैर्वृता विद्युता- मत्यूर्जस्वलगर्जिताः प्रसुवते किं नाम धाराधराः । कस्याकथ्यत शब्दशासनकृता शक्तिः सवर्णग्रहे तारुण्यान्धितया सरोरुहदृशा यानेन को निर्जितः ॥ वारणः। कामस्यौद्रेचका उद्दीपका मैचकीकृता नीलीकृता दिशौ यैः । ततो द्वयोः कर्मधारयः । एवंविधा मेघा वार जलं जनयन्ति । 'आपः स्त्रीभून्नि वार्वारि' इत्यमरः । वारिशब्दसाह- चर्यो वाःशब्दः क्लीबे तेन 'स्वमोर्नपुंसकात्' इति द्वितीयैकवचनस्य लुक् ॥ शब्दशास्त्र. कारेण पाणिनिना 'अणः' 'अण्' इति प्रत्याहारस्य शक्तिरुक्ता 'अणुदित्सवर्णस्य चाप्रत्ययः' इत्युक्तत्वात् । यौवनालसया कान्तया यानेन गमनेन वारणो हस्ती जितस्तिरस्कृतः ॥ इत्यूर्जितजातिः ॥ सालंकारजाति लक्षयति- अलंकारवता यत्तु वाक्येन परिपृच्छयते । तदुत्तरं बहुविदः सालंकारं प्रचक्षते ॥३॥ उदाहरति- कस्माद्वोदयति त्वदीयवदनामोदि प्रिये पङ्कजं किं वा संवृणते तवैव कवरीभारानुकारा घनाः । त्वबिम्बाधरवन्नितान्तमधुरं संवाद्यमानं मुदा किं तावद्विषयान्तराञ्च हृदयं व्यावर्तयेत्कामिनाम् ॥ कादम्बरम् । - २ परिच्छेदः] कवीन्द्रकर्णाभरणम् । प्रियामुखसजातीयसौरभं कमलं कात् उदकात् उत्पद्यते। प्रियाकेशपाशसदृशा मेघा अम्बरं आकाशं छादयन्ति । कादम्बरं मद्यविशेषः । 'कादम्बरं तु दध्यग्रे मद्यभेदे च सी- धुनि' इति विश्वः । प्रियाबिम्बोष्टवन्मधुरं सेव्यमानं सत् विषयान्तराद्रासिकानां मानसं व्यावर्तयति स्वविषयकस्पृहोत्पत्तिहेतुत्वात् । अत्र प्रतीपालंकार उपमेयस्य मुखादेरुपमा- नकत्वकल्पनात् ॥ स्थायिन्यामचिरं क वा वरतनोस्तादात्म्यमिच्छामहे तत्कण्ठं धृतसिन्दुवारमुकुलं मुक्ताफलानां कथम् । सर्वस्वं रतिजीवितप्रणयिनस्तद्वारवाहागम- प्रायं कीदृशमम्बुजोपमदृशो दृश्यैकसारं मुखम् ॥ रुचिरतमालकम् । अचिरं तिष्ठन्त्यां रुचि । विद्युतीत्यर्थः । सिन्दुवारकोरकालंकृतं नायिकाकण्ठं मौक्ति- कानां रता मालिका यत्र तादृशं पश्यामः । मालाशब्दस्य संबन्धिशब्दत्वान्मुक्ताफलसाका- सत्वेऽपि समासः देवदत्तस्य गुरुपुत्र इतिवत् । रुचिरा तमाला यत्र । समासान्तः कप्प्र- त्ययः । पक्षे रुचिरतमा अतिरम्या अलकाचूर्णकुन्तला यत्रेत्यर्थः । तादात्म्यमिति रू- पकालंकारः । अभेदस्य विशेषतया प्रतीतेः नायिकातादात्म्यस्य तदन्यत्रानुपपत्त्या वि- युति तदभेदाभिधानान्निदर्शनालंकारः । एवं सिन्दुवारमुकुलधारणान्मौक्तिकमालाधारणो- क्तावपि बोध्यम् । सादृश्यपर्यवसानात् । तृतीये तूपमा ॥ इति सालंकारजातिः ॥ सकौतुकजाति लक्षयति- वृत्तेन लघुना पृष्टं द्विरुक्तबहुलाक्षरम् । सकौतुकमितीच्छन्ति तद्बोधनधुरंधराः ॥ ४ ॥ स्पष्टार्थम् । उदाहरति- कां भूपोऽवति कीहक्सामततिः क क्रिया खलमनः किम् ! का सत्सरणिः कीदृक्पिकी हिमे पार्थसेना च ॥ गाङ्गेयाहन्यमानमदवारणा। राजा गां भूमि अवति पालयति । सान्नां तति या गानार्हा भवति । “गीतिषु सा- माख्या' इति जैमिनिसूत्रात् । क्रिया विहितकर्माणि विशेषविध्यभावे अहनि दिने प्रवर्तते । 'अहनि च कर्म साकल्यम्' इति जैमिनिसूत्रात् । क्षुद्राणां हृदयम् अमानम् अभिमानही- नम् । अदवा वनरहिता सरणिः सुगमा चौरादिभयाभावात् । हेमन्ते कोकिला अरणा काव्यमाला। अशब्दा भवति । वसन्ते तत्कूजनस्यातिरम्यत्ववर्णनात् । गाङ्गेयेन भीष्मेण आहन्यमाना- स्ताड्यमाना मदवारणा मत्तवारणा यत्र तादृशी युधिष्ठिरसेना इत्यर्थः ॥ किमिच्छन्ति बुधाः खं किं किं कुराज्यं जयत्यरीन् । केन किं मधुवृत्तिः स्याद्वसन्ते कीदृशं वनम् ॥ मलयमरुदावलितरसालम् । विवेकिनो मे शिवे लयम् इच्छन्ति । मुक्तिमिति यावत् । सुखान्तराणां दुःखसंवलित- बेनानुपादेयत्वात् । खमाकाशं न रुणद्धि अरुत् गतिरोधकं नास्ति काठिन्याभावात् । कुराज्यम् आ समन्ताद् वलयः करा यत्र तद् बहुकरं भवति । तरसा बलेन शत्रनभिभ- वन्ति जयन्ति वीराः । अलीनां समूह आलं तन्मधुमात्रजीवनं भवति । मलयमस्ता द- क्षिणानिलेन आवलिता वेष्टिता रसाला आम्रा यत्र तादृशं मधावुपवनं भवति ॥ इति सकौतुकजातिः पृष्टोत्तरजाति लक्षयति- स्यात्मनश्चोत्तरयोर्यत्र वर्णश्रुत्यैकरूपता । तत्पृष्टोत्तरमित्याहुर्जगदुत्तरबुद्धयः ॥५॥ वर्णश्रुत्यैकरूपत्वम् । अर्थत ऐकरूप्ये प्रश्नोत्तरभावानुपपत्तेः ॥ उदाहरति- कोविदो निधिराख्यातः कोपकृष्टो भवेत्पुमान् । इति प्रश्नेऽनुरूपं यदुत्तरं तदुदीर्यताम् ॥ विदो ज्ञानस्य निधिः कः इति प्रश्ने कोविदः पण्डित इत्येवोत्तरम् । अपकृष्टो हीनः क इति प्रश्ने कोपकृष्ट इति । क्रोधाधीन इत्यर्थः ॥ किम्पाकं प्राप्य वैरस्यं फलमाकलयत्यलम् । ब्रूहि काञ्चनमालां च कां धत्ते सस्पृहं जनः । पाकं प्राप्य किं फलं विरसं भवति इत्यत्र किम्पाकम् इत्युत्तरम् । इन्द्रवारुणीफलस्य परिणामे तिक्तत्वात् । 'विहीनं प्रसवे सर्वम्' इति क्लीबत्वम् ॥ कांचन कामपि लोको- त्तरां कां मालां जनो लोकः सस्पृहं स्पृहापूर्वकं धत्ते इत्यत्र काञ्चनमाला सुवर्णमाला- मिति षष्ठीसमासः॥ इति पृष्टोत्तरसमजातिः॥ पृष्टप्रश्नजातिं लक्षयति- यत्पनश्चोत्तरं च स्थाद्विभिन्नमतियोगिकम् । जगदुत्कृष्टमतिभिः पृष्टप्रश्नं तदुच्यते ॥६॥ किंचिदुत्तरापेक्षया प्रश्नः किंचित्प्रश्नापेक्षयोत्तरं च यद्भवति तत्पृष्टप्रश्नम् ॥ INE २ परिच्छेदः] कवीन्द्रकर्णाभरणम् । उदाहरति- अनिरुद्धरतेत्यस्मिन्नुत्तरे प्रश्न उच्यताम् । किंपचानेप्सिता केति प्रश्ने चोत्तरमुच्यताम् ॥ कोषावृत्तिः। उषाया बाणपुत्र्या वृत्तिः का इत्युत्तरे 'अनिरुद्धरता' इति प्रश्नः । कृपणस्याभिमता का इति प्रश्ने कोषावृत्तिः इत्युत्तरम् । कोषस्य द्रव्यसंचयस्य आवृत्तिः पौनःपुन्यं इत्यर्थः ।। अन्तरतमोऽन्तगत इत्युत्तरयोग्यं वद प्रश्नम् । सुरभिसमयेतिसौरभशिखरगतो ब्रूहि कूजति कः ॥ कोकिलः । - अकि अक्प्रत्याहारे इति निर्धारणसप्तमी लो लकारस्य संबन्धी क इति प्रश्ने अन्त- गतोऽन्तरतमः इत्युत्तरम् । अक्प्रत्याहारे लकारस्य चरमत्वात् । स्थानेन स एव लकारस्या- न्तरतम इत्यर्थः । वसन्ते आम्रविटपारूढः कः कूजति इति प्रश्ने च कोकिलः परभूत इत्युत्तरम् ॥ इति पृष्टप्रश्नजातिः॥ भग्नोत्तरादुत्तरयोर्मध्यान्तोत्तरयोस्तथा । स्पष्टं निगदमात्रेण वरूपमिति बुध्यताम् ॥ ७ ॥ उदाहरति- ज्ञायन्ते कुत्र विद्वांसस्तदाभासाश्च कथ्यताम् । कीदृग्वीरकुलं हन्ति रिपून्सदसि धीनिधे ॥ पण्डिताः पण्डितंमन्याश्च कुत्र विविच्यन्ते इति प्रश्ने सदसि विद्वत्सभायामित्युत्तरम् । कीदृशं वीरकुलं रिपून हन्ति इत्यत्र सदसि विद्यमानखड्गमिति ॥ गोकुले क्रीडता भङ्गः कस्याक्रियत चक्रिणा। खरादयो विनेशुस्ते प्रेषां प्राप्य कुतोऽनसः ।। गोकुले विहरता श्रीकृष्णेन अनसः शकटस्य भङ्गः कृतः । अनसश्छिन्ननासायाः सूर्प- नखायाः सकाशात् प्रेषां प्रेरणां प्राप्य खरादयो नष्टाः । रामेण हता इत्यर्थः ॥ प्रहितः कीदृग्विहितो जगाम रामेण मारुतिर्लङ्काम् । रज्ज्वादिव्यतिरेकैस्तोयं न प्राप्यते कस्मात् ॥ रामेण प्रहितः प्रेषितः । पक्षे प्रहितः कूपात् 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः । अत्र श्लोकादिगतं प्रहितः इति पदमुत्तरमित्याद्युत्तरत्वम् । एवमग्रे मध्योत्तरादावपि बोध्यम् ।
७० काव्यमाला। कुरवः कीदृक्परभृततरुणस्त्वयि भाति जल्पन्त्याम् । भीमं प्राप्य विलीनाः सहोदराः के शतं ब्रूहि ॥ कुत्सितो रखो यस्य कुरवः सः । त्वदालापापेक्षयापकृष्टत्वेन भासमानत्वात् । कुरवो दुर्योधनादयः । 'कुरुनादिभ्यो ण्यः' 'तद्राजस्य-' इति बहुषु लुक् । इत्याद्युत्तरजातिः ॥ कीदृशं विभ्रति स्वान्तं विबुधा वद विद्युतम् । कां वा कनकलेखाभां कलयन्ति बलाहकाः ॥ विदा ज्ञानेन युतं विद्युतम् । उत्कृष्टज्ञानवदित्यर्थः । पक्षे विद्युतं तडितमित्यर्थः । मध्य- स्याद्यन्तवत्सर्वापेक्षस्यासंभवात्पूर्वार्धस्यान्त्यभागः श्लोकमध्यत्वेन विवक्षणीयः । उत्तरार्धा- द्यभागापेक्षया प्रथमोपस्थितत्वात् ॥ पुमानहठवृत्तिर्यः कीदृग्बालवधूमतः । कुतोऽनुमिन्वते व्याप्तिवेदिनो जातवेदसम् ।। बालाया वध्वा अहठवृत्तिः पुरुषो मत इष्टः । 'विश्रब्धायाः स्त्रियाः काले कार्यमङ्ग- निरीक्षणम् । अन्यथा क्रियमाणं तत्तदुद्वैगाय जायते ॥' इति कामशास्त्रोक्तेः । व्याप्तिपदं पक्षधर्मताया अप्युपलक्षणम् । अलवाद्बहुलाद् धूमतो धूमात् ॥ इति मध्योत्तरजातिः ॥ जनमेजयेन जुहवांबभूविरे जातवेदसि मखे के । प्रभुरपि कीदृग्जेतुं नैवोत्सहते महीमहयः ॥ अहयः सर्पाः, पक्षे अश्वहीनः । 'यस्याश्वास्तस्य मेदिनी' इत्युक्तेः ॥ स्पृहयन्तः कमप्यर्थ निवसन्ति वनेषु के। पथि द्रुमो घनच्छायः कथं पान्थेषु तापसाः ॥ तापसास्तपस्विनः । तापं स्थति नाशयति तापसाः । 'घोऽन्तकर्मणि' किम् ॥ इत्यन्तोत्तरजातिः ॥ कथितापढुति लक्षयति- यत्रेतरवाक्यार्थान्वययोग्यार्थकपदेनोक्तम् । भात्युत्तरं न सहसा सा कथितापगुतिः कथिता ॥ ८॥ सुगमम् ॥ उदाहरति- श्वसितं धृतमिदमधरं किं विदधद्विधुवदनयेदम् । दुरितवतां का वृत्तिर्विजयित्वं मनसिजस्य कथम् ॥
२ परिच्छेदः] कवीन्द्रकर्णाभरणम् । अधरं किं विदधत् श्वसितं धृतम् इति प्रश्नः, विधुवदनया नायिकया इत्यर्थप्रतीतेलं- त्तरानवभासः । विधुवत् कम्पयत् इत्युत्तरं क्लेशगम्यम् । दुरितवतां का वृत्तिः । इत्यत्र 'अनया नीतिहीना' इत्युत्तरम् । कामस्य विजयित्वं कथम् इत्यत्र 'ईदम्' इत्युत्तरम् । लक्ष्मीखण्डकमित्यर्थः । 'सकामासक्तचित्तानां कान्तामुखविलोकने । गलन्ति गलिताश्रूणां यौवनेन सह श्रियः ॥ इति नीतिशास्त्रोक्तेः । पापात्का क्रियते सद्भिरुदीरयत भीरवः । आकाशस्य गुणः को वा वीरेभ्यः के च बिभ्यति ॥ पापात् सद्भिीयं क्रियते ॥ रवः शब्दो गगनगुणः ॥ वीरेभ्यो भीरवः कातरास्त्र- स्यन्ति ॥ इति कथितापहुतिः ॥ विषमजाति लक्षयति- भङ्गे दुरूहता स्वायत्र तदाचक्षते विषमम् । तद्वृत्तनामकं स्यात्प्रश्ने यत्रोत्तरं वृत्तम् ॥ ९॥ उदाहरति- कीदृकृतं दैत्यकुलं केशवेनेति कथ्यताम् । कमारुह्य पिकः कान्ते पुष्पानेहसि कूजति ॥ रसातलमतम् । रसातले मतम् इच्छा यस्य ॥ पक्ष अतं तकाररहितं रसातलशब्दं रसालम् इति यावत् ॥ रसातलशब्दोपस्थितौ पुनरर्थबोधो बोध्यः ॥ शिथिलैरलकैर्वध्वा किमाकलयतीह किम् । आचार्येभ्योऽपि पितरं कीदृशं धार्मिकां विदुः ॥ मालिन्यमलिकम् । अलिक ललाटम् अलकैर्मालिन्यं प्राप्नोति ॥ पक्षे अलिकं लिकारहीनम् मालिन्य- पदे लिकारत्यागे मान्यमित्यर्थः । 'उपाध्यायान्दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥' इति वचनात् ॥ कूजावान्स्यादारामः कः प्राग्रा का स्यात्सत्यज्ञानम् । आदानार्थे धातुः कः स्यान्माभ्यां गाभ्यां छन्दः किं स्यात् ।। विद्युन्माला । विभिः पक्षिभिर्योतते विद्युत् ॥ प्रपूर्वा मा सत्यज्ञानम् । प्रमाशब्दस्य यथार्थवाचि- काव्यमाला। त्वात् ॥ लाधातुरादानार्थः ॥ द्वाभ्यां मगणाभ्यां गुर्वक्षरत्रयरूपाभ्यां द्वाभ्यां गुरुभ्यां च विद्युन्मालाख्यं छन्दः । 'मौ गौ विद्युन्माला' इति पिङ्गलोक्तेः ॥ के प्रियाः किमकृताभिसरन्ती वीक्ष्य शून्यमभिसारनिकुञ्जम् । नान्तरेण च रभेन गुरुभ्यां वृत्तमुद्भवति किं वद धीर ॥ स्वागता। स्वा ज्ञातयोऽर्था वा प्रियाः ॥ गता कुआदित्यर्थः ॥ मध्यगतो लध्वक्षरत्रयात्मको नगणो यस्य तादृशेन रगणेन भगणेन गुरुद्वयेन च स्वागता छन्दः । रगणो मध्यलघुः भगण आदिगुरुः ॥ नामाख्यातजाति लक्षयति- यत्र स्यात्सुप्तिङन्तानां श्रुत्वा सदृशरूपता । तन्नामाख्यातमित्युक्तं लोकविख्यातबुद्धिभिः ॥१०॥ उदाहरति- गावोऽतितृष्णां दधतीह कस्मिन्किमिन्द्रियं रूपसमक्षहेतुः । वीरोऽनुयुङ्क्ते सुहृदं रिपूणामहं कुलं संयति किं करोमि ॥ तृणेक्षि । तृणे गावः सतृष्णाः ॥ अक्षि चक्षुरिन्द्रियं रूपप्रत्यक्षहेतु: ॥ 'वैरिकुलं युद्धेऽहं किं करोमि' इति वीरेण पृष्टे 'तृणेक्षि' मारयसि इत्युत्तरम् ॥ 'तह हिंसायाम्' सिप् श्नम् 'तृणह इम्' 'हो ढ:' 'षढोः कः सि' इति कत्वं 'आदेशप्रत्यययोः' इति षत्वम् ॥ देशे कीदृशि यागो दिवसकरो भवति महसां किम् । संबुद्धिवाचकं किं सन्तः किं कुरुथ परवृद्धौ ॥ समेधामहे । समे देशे यागः 'समे यजेत' इति वचनात् ॥ सूर्यः तेजसां धाम स्थानम् ॥ 'हे' इति संबुद्ध्यर्थे ॥ ‘समेधामहे वर्धामहे । परवृद्धिमत्सराभावात् ॥ इति लट् ॥ दोषाणां सत्कविः को वा कोऽश्वमेधे विसृज्यते चन्दनानिलनिर्धूतचूतानां धूलयः कथम् ॥ उद्ययुः। उज्झति त्यजतीति उद दोषाणामिति कर्मणि षष्टी ॥ ययुरश्वोऽश्वमेधीयः' इत्यमरः ॥ उद्ययुः उत्तस्थुः 'या प्रापणे उत्पूर्वस्य लिटि प्रथमपुरुषे बहुवचने रूपम् ॥
७३ २ परिच्छेदः]] कवीन्द्रकर्णाभरणम् । कीहग्जनमनो निन्धं गौरीमातरमाह्वय । परिरिप्सुः प्रियतमो विधुमुख्या व्यधायि किम् ॥ अनुमेने । न विद्यते नुः शिवो यत्र तद् अनु तद्विषयकभक्तिहीनं मनो निन्द्यम् ॥ 'मेने' इति हि- माचलभार्यासंबुद्धिः ॥ आलिङ्गितुमिच्छन् कान्तः प्रियो नायिकया सुन्दर्या दयितया अनु- मैने अनुमतः संमत्या गृहीतः । तत्प्रतिकूलाननुष्ठानात् ॥ कर्मणि लिट् ।। इति लिट् ॥ दयोदयाद्वैरपि दीनवृन्दैविधीयते का वद कुत्र वीरैः । वधूकुचौ काञ्चनकुम्भतुल्यौ करेण कान्तेन कथं विधेयौ ॥ अनुभावितारौ। अरौ वैरिणि अनुभाविता प्रभावत्वम् । तत्र दयाया अनर्हत्वात् ॥ पक्षे अनुभावि- तारौ प्रत्यक्षविषयौ करिष्येते कर्मणि लुट् ‘स्यसिच्सीयुट्तासिषु-' इति चिण्वद्भावः ॥ कान्तेन दत्तावधिरम्बुजाक्षी संतप्यते कीडशि नाम तस्मिन् । प्रोत्साहितो जाम्बवदादिभिर्वा किमब्धिमुद्दिश्य जगौ हनूमान् ॥ विलचिताहे। विलचितम् अहरवधिदिनं येन तादृशे कान्ते सति संतप्यते 'राजाहःसखिभ्यष्टच्' । अवधिदिने नायकानागमने तस्या दुःखोदयात् ॥ पक्षे विलचिताहे विलवयिष्यामि ॥ लुडात्मनेपद उत्तमपुरुषैकवचने रूपम् ॥ इति लुट् ॥ कथं मनोभू रम्भोरुभुवनेषु विजृम्भते । किं वदन्ति नटं वीक्ष्य भूमिकाग्रहणक्षमम् ॥ अनुकरिष्यति। अनुकाः कामुका रिषयो मुनयो यत्र । (रेफादिरपि) 'विद्याविदग्धमतयो रिषयः' इति प्रयोगादिति चन्द्रिकायाम् । 'स्यादृषौ रिषिरित्यपि' इति द्विरूपकोषश्च । इति अत्यन्त- मिति कामुकविशेषणम् ॥ पक्षे अनुकार्यम् रामादि अनुकरिष्यति । इति लट् ॥ विपश्चितां संसदि जायते को गमिः क्व वा छत्वविधौ प्रयुक्तः । सद्यः समासाद्य रसेन सजा वीणा विधेया वद किं प्रवीणैः ॥ वादयिष्यन्ते। विद्वत्सदसि वादो जायते ॥ छत्वविधायकसूत्रे गमिधातु: इघेरन्ते प्रयुक्तः 'इषुगमि- काव्यमाला। । यमा छः' इति सूत्रे 'इघु' इत्युत्तरं गमेः प्रयोगात् । अत्र धातुनिर्देश इगन्तस्य प्रयोग इति विशेषः । 'लोपः शाकल्यस्य' इति लापोभावापक्षे यकारः श्रूयते ॥ पक्षे 'वादयि- ध्यन्ते' इति कर्मणि लट् स्पष्टः ।। इति लट् ॥ वनं भवति कीदृशं दीप्ते दवदमूनसि । किं ब्रवीति प्रतिबलबलं वीरो विलोकयन् ॥ अतितृणहानि । अत्यन्तं तृणानां हानि शो यत्र तथा ॥ पक्षे अत्यन्तं तृणहानि मारयाणि । 'तह हिंसायाम्' इत्यस्य लोडुत्तमैकवचने रूपम् ॥ त्वं मनोभवसमानरूपया कां कया वितनुषे वशंवदाम् । तद्भुजौ कमलनालकोमलौ किं त्वदङ्गपरिरम्भविभ्रमम् ॥ तन्वाताम्। कामतुल्यया तन्वा वं तां वशयसि ॥ मृणालरम्यौ तस्या भुजौ त्वदङ्गश्लेषं तन्वाता कुर्वाताम् इति लोटप्रथमपुरुषद्विवचने रूपम् ॥ इति लोट् ॥ वद विद्वन्कथं भाति दिने कुमुदवान्धवः । अतिवृष्टौ किमकरोदभि गोवर्धनं हरिः ॥ अविभः। नास्ति विमा यस्य अविभः ॥ पक्षे अबिभः धृतवान् ‘डुकृञ् धारणपोषणयोः' लडि प्रथमपुरुषैकवचने रूपम् ॥ को वा वल्मीकपर्यायो वद खेदेऽद्भुतेऽव्ययम् । आकर्ष्यापि हितं वाक्यं कथं ववृतिरे खलाः ॥ नाकुर्वत । 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः ॥ 'बतामन्त्रणसंतोषखेदानुक्रोशवि- स्मये' इति विश्वः ॥ पक्षे नाकुर्वत न गृहीतवन्तः । लप्रथमपुरुषबहुवचने रूपम् ॥ इति लङ्॥ मध्यं कथं मृगदृशोऽधरमाह्वयास तादात्म्यतोऽध्यवसितं त्वमलक्तकेन । आसाद्य तप्तरहसं सरसौ युवानौ चित्ते कथं कलयतः परिरम्भणादि ॥ तनुयाव।
२ परिच्छेदः] कवीन्द्रकर्णाभरणम् । नायिकावलग्नं तनु कृशम् ॥ अलक्तकतादात्म्याध्यवसितस्याधरस्य याव' इति संबुद्धिः । 'यावोऽलक्तो द्रुमामयः' इत्यमरः ॥ 'परेणानधिगम्यं हि यरहो वह्नितप्तवत् । तप्तं च तद्र- हश्चेति तत्तप्तरहसं विदुः' इति बोपदेवः ॥ 'अन्ववतप्ताद्रहसः' इत्यकारः समासान्तः ॥ तनुयाव आलिङ्गनादि कुर्याव । 'तनु विस्तारे' विधि लिङ् उत्तमपुरुषद्विवचने रूपम् ॥ दरिद्रभवनं कीदृगनह जेतुमाह्वय । नवावतीर्णतारुण्यां वधूं कान्तः किमिच्छति ॥ अवस्वजेय। अवसु द्रव्यहीनम् ॥ अजेय जेतुमनह । 'क्षय्यजय्यौ शक्यार्थ' इति शक्यार्थे यान्ता- देशनिपातनादनहमित्युक्तम् । 'अर्हे कृत्यटचश्च' इत्यहाथै यत् ॥ पक्षे अवस्वजेय आलि- नेयम् । लिङत्तमैकवचने रूपम् ॥ इति लिङ्॥ कस्माद्भूर्जटिचापात्रिपुरवधे निरगमद्धरिः कीदृक् । शृण्वत्स्वन्तेवासिषु शास्त्रार्थ च व्यधुः किमाचार्याः ॥ अगादिषुः । अगात् पर्वतरूपात् रुद्रचापाद् इषुर्बाणरूपः सन् हरिनिर्जगाम ॥ पक्षे अगादिषुः उक्तवन्तः इति लुडि प्रथमपुरुषबहुवचने रूपम् ॥ नाटकश्रीन कीहक्स्यात्कथं विरहवाञ्जनः । केशवेन कृतौ विद्वन्कथं च मधुकैटभौ ॥ अमारिषाताम् । अमारिषा सूत्रधाररहिता नाटकरीतिर्न स्यात् । 'सूत्रधारस्तु मारिषः' इत्यमरः । ना- न्यास्तत्रावश्यकत्वात् , तस्याश्च सूत्रधारपाठ्यत्वात् । तदुक्तम्-'यद्यप्यङ्गानि भूयासि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये । सूत्रधारः पठेदेनां मध्यम स्वरमाश्रितः॥ आ अत्यन्तं ताम्यतीत्याताम् । 'तमु ग्लानौ' विप् 'अनुनासिकस्य कि- झलोः' इति दीर्घः ॥ पक्षे अमारिषातां हतौ । कर्मणि लुप्रथमपुरुषद्विवचने रूपम् ॥ इति लुङ् ॥ उपस्थितमपि प्राज्ञैः किं कार्य खलसंगतम् । यदि त्वं रहसि प्राप्स्यः किं व्यधास्यः प्रियामुखम् ॥ अपास्यम् । अपास्यं त्याज्यम् । ण्यत्प्रत्ययः ॥ यद्यहं रहसि प्रियामुखं प्राप्स्यं तदा अपास्यम् आ- ७६ काव्यमाला। DHURNA स्वादयिष्यम् । 'लिनिमित्ते टङ क्रियातिपत्तौ' इति लङ् । रहसि प्राप्त्यभावप्रयुक्तो मम प्रियामुखपानाभाव इत्यर्थः ॥ कुत्र कृत्वा मनस्ताय ययाचे विनता सुधाम् । अकरिष्यः किमात्मानं यद्यद्रक्ष्यः प्रियं प्रिये ॥ अदास्ये। अदास्ये दास्याभीवे मनः कृत्वा विनता गरुडं सुतं ययाचे 'दुहियाचिरुधिप्रच्छि-' इति भाष्योक्तेर्द्विकर्मकत्वम् ॥ यद्यहं प्रियम् अद्राक्षं तदात्मानम् अदास्ये । दाओ लुङि उत्तमैकवचने रूपम् ॥ तथा च प्रियदर्शनाभावप्रयुक्तो मत्कर्टकस्वात्मसमर्पणाभाव इत्यर्थः॥ अत्र सर्वत्र लकारेषु पदद्वयं श्लोकभेदेनोदाहृतम् ॥ लेट् लकारस्तु च्छान्दसत्वानो- दाहृत इत्यवसेयम् ॥ इति नामाख्यातजातिः ॥ तार्कादिजाति लक्षयति- तारीखा भवेत्ताकं सौत्रं सूत्रमयोत्तरम् । शाब्दं तु शब्दसंज्ञोत्थं शास्त्रीय शास्त्रदिकृतम् ॥ ११॥ उदाहरति- कीहक्शैलान्तरं न स्यान्निशि व्योम्नि विभाति किम् । अभावे ग्राहकं मानं किं वा तौतातिता विदुः ॥ अनुपलम्भम् । पर्वताभ्यन्तरम् अनुपलं पाषाणात्यन्ताभाववन्न भवति ॥ रात्रौ भं नक्षत्रं भाति । 'अनुपलम्भाख्यमभावरूपं प्रमाणं घटाद्यभावग्राहकम्, न विन्द्रियं संनिक भावात्' इति भाडा वदन्ति ॥ माता कुपुत्रं कृत मा म किं कं भजन्ति भीता न जनप्रियाः के। के नाम ते येऽभ्युपयन्ति बुद्ध्याकारानुमेयं बहिरर्थजातम् ।। सौत्रान्तिकाः। जननी कुत्सितं पुत्रं मा स्म सौत् मा जनयतु ॥ तकारस्य 'अनचि च' इति द्वित्वेऽयं छेदः । त्रायते इति त्राः, तंत्रातारं रक्षक भीता भजन्ते ॥ तिका हिंसका जनप्रिया न भवन्ति ॥ ज्ञानानां घटाद्याकारकत्वानुपपत्त्या घटादिरनुमेयः इति सौत्रान्तिकानां मतम् । साकारवादित्वात् ॥ इति तार्कजातिः॥
२ परिच्छेदः] कवीन्द्रकर्णाभरणम् । ७७ दृष्टप्रियप्रतिकृतिं तच्चाक्षुषविरहितं किमाह सखी । सूत्राणि वद कथं वा कृष्णद्वैपायनस्य मुनेः ।। शब्दादेव प्रमितोऽनुकृतस्तस्य च समाकर्षात् । दर्शयति चोत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ शब्दादेव शब्दमात्रेण त्वया स ज्ञातः । तस्यानुकृतेः प्रतिमायाः समाकर्षादानयनाच्च प्रमितः । चित्रे दृष्ट इत्यर्थः । 'श्रवणं तु भवेतद्विजबन्दिसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात्स्वप्ने च दर्शनम् ॥' इति दर्पणः । साक्षाद्दर्शनं कदा स्यादत आह-दर्शयति चेति । आविर्भूतं संनिकृष्टं स्वरूपं यस्य तादृशस्तु यदि दर्शयति । स्वात्मानमिति शेषः । चकार: ‘तर्हि' इत्यर्थे । उत्तरात् । त्वदीयमुत्तरमाकर्येत्यर्थः । 'शास्त्राणि चेत्प्रमाणं स्युः' इतिवदसंदेहे संदेहः । तथा चातः परं त्वदीयवचनमात्राकाङ्क्षी तदाकर्णनोत्तरमेव भवदी- यचाक्षुषविषयो भविष्यतीति भावः ।। 'शब्दादेव प्रमितः' इति सूत्रस्य 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इति वाक्यं ब्रह्मपरम् । 'ईशानो भूतभव्यस्य' इति शब्दादित्यर्थः ॥ 'अनुकृतस्तस्य च' इति सूत्रस्य 'न तत्र सूर्यो भाति न चन्द्रतारकम्, नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' ॥ इत्यत्र 'भारूप: सत्यसंकल्पः' इति श्रुत्यन्तरप्रसिद्धेन ब्रह्मणो भावेन सूर्यादीनां भानमुपपाद्यम् ॥ ननु अनु- मानस्य सजातीयविषयकत्वात्तद्वलेन सूर्यादीनां भासकमप्रसिद्धं तेजोन्तरकल्पनमित्यर्थः ॥ 'समाकर्षात्' इति सूत्रस्य 'सदेव सौम्येदमग्र आसीत्' इत्यत्र सतः कारणत्वमुक्तम् ‘असद्वा इदमन आसीत्' इत्यत्र त्वसतः इति विरोधशङ्कायाम् 'असदेवेदमग्र आसीत्' इत्यनन्तरम् 'तत्सदसदासीत्' इत्यसतः समाकर्षणादेकस्यैव सत्त्वासत्त्वोभयविरोधादनभिव्यक्त्यपेक्षयैवा- सत्त्वोक्तिरित्यादिरर्थः ॥ 'उत्तराचेत्याविर्भूतस्वरूपस्तु' इति सूत्रस्य य एषोऽक्षणि दृश्यते स्वप्नेन हीयमानश्चरति' इत्यादि प्राजापत्यवाक्यरूपादुत्तरादहरो जीव एवेति चेत् मैवम् । यतोऽयमवस्थावासनाविर्भूतब्रह्मतादशायामत्र वाक्ये तात्पर्यंत उक्तः अतो दहरवाक्यं ब्रह्म- परमेवेत्यर्थः । बुद्धौ ज्ञाने सद्विद्यमानं स्वानुरागविषय इति यावत् ॥ स्वाभिमतेन प्रणयेऽनुपजनिते वा क्षते किं स्यात् । पृच्छत्यन्तर्वाणिः पाणिनिसूत्राणि कीडेंशि ॥ पूर्वत्रासिद्धं वावसान आदेः परस्य वा यौ तौ सत्सख्युरसंबुद्धावुपसर्गस्यायतौ चरति ॥ प्रशस्तः सखा सख्युरसम् 'अग्राख्यायामुरसः' इति समासान्तः पूर्वत्र पूर्वम् अवसाने अन्ते वा असिद्धं सत् स्वविषयकानुरागहीनं भग्नानुरागं वा इति यावत् ॥ आदेः पूर्वका- लीनस्य परस्योत्तरकालीनस्य वा उपसर्गस्य दुःखस्य आयतौ दीघौं तावनुभूयमानौ आयो लाभौ चरति करोति ॥ स्वाभीप्सितस्यालामे पूर्वमेव दुःखं भवति विच्छेदे तु तत्संगमो- काव्यमाला। त्तरमिति भावः । तथा च प्रणयभङ्गो न भवति तथा वर्तितव्यमिति सुहृदाचरिता रीति- रिति तात्पर्यम् ॥ 'पूर्वत्रासिद्धम्' इत्यस्य सपादसप्ताध्यायी प्रति त्रिपाद्यसिद्धा इत्यर्थः ॥ 'वावसाने' इत्यस्य अवसाने झलां चरो वा स्युः ॥ 'आदे: परस्य' इत्यस्य परस्य यद्विहितं तत्तस्यादेबर्बोध्यम् ॥ 'वा यौ' इत्यस्य ल्युप्रत्यये परे अजेर्वीभावो वा स्यात् ।। 'तौ सत्' इत्यस्य शतृशानचौ तत्संज्ञौ स्तः ॥ 'सख्युरसंबुद्धौ' इत्यस्य सखिशब्दात्परं संबुद्धिभिन्नं सर्वनामस्थानं णित्कार्यकृत् स्यात् ॥ 'उपसर्गस्यायतौ' इत्यस्य अये धातौ परे उपसर्ग- रेफस्य लत्वं स्यात् ॥ 'घरति' इत्यस्य तेन चरतीत्यर्थे ठक्प्रत्ययो भवतीत्यर्थः ।। इति सौत्रजातिः ॥ सर्वादेरस्ति का संज्ञा किं प्रसङ्गार्थकं पदम् । स्वादीनां वचनानां च पञ्चानां नाम कथ्यताम् ॥ सर्वनामस्थानम् । सर्वादीनां सर्वनामसंज्ञा 'सर्वादीनि सर्वनामानि' इति सूत्रात् ॥ स्थानपदं प्रसङ्गार्थम् 'स्थानेऽन्तरतमः' इत्यादौ तथा व्याख्यानात् 'दर्भाणां स्थाने शरैः प्रस्तरितव्यम्' इति दर्शनात् ॥ सु औ जस् अम् औट् इति पञ्चानां सर्वनामस्थानसंज्ञा 'सुडनपुंसकस्य' इति सूत्रेण तद्विधानात् ॥ अत्र व्यस्ते समस्ते च शब्दसंज्ञैवेति बोध्यम् ॥ प्रतिषेधविकल्पे किं किं शसादौ हलादिके। किमजादौ च का क्षुद्ररीतिः किं वद सद्रतम् ॥ विभाषापदम्भम् । प्रतिषेधविकल्पार्थ विभाषापदं 'नवेति विभाषा' इति सूत्रात् ॥ शसादौ हलादिवि- भक्तौ परतः पदसंज्ञा ॥ तत्रैवाजादौ भसंज्ञा ॥ 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायाः 'यचि भम्' इति भसंज्ञायाश्च विधानात् । अचि भत्वविधाने चार्थात्पदसंज्ञाया हलादौ प- रतः पर्यवसानात् । 'आ कडारादेका संज्ञा' इति वचनात् ॥ क्षुद्ररीतिः-विरुद्धा भाषा यस्यास्तथा पूर्वापरैकवाक्यत्वाभावात् ॥ अपगतो दम्भी धर्मच्छलो यत्र तादृक् सतां व्रत- मित्यर्थः ॥ इति शाब्दजातिः ॥ दह्यमानं वनं कीहक्कं प्रशंसन्ति तार्किकम् । विशिष्टधीहेतुतया बुधैः किमनुमीयते ॥ निर्विकल्पकम् । निर्गता वयः पक्षिणो यस्मात् ॥ कल्पकं युक्त्युन्द्रावनसमर्थम् ॥ विशिष्टज्ञानहेतुतथा निर्विकल्पकं ज्ञानमनुमीयते 'गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यम् , विशिष्टज्ञानत्वाद् द- ण्डीति ज्ञानवदित्यर्थः ॥
२ परिच्छेदः] कवीन्द्रकर्णाभरणम् । ७९ भूमिः का राजवासार्हा वाचं वीणादिकं च किम् । कां नाडी मनसि प्राप्ते सुषुप्तिर्जायते दशा ॥ पुरीततम् । पुरी नगरी राजस्थित्यत् ॥ 'ततं वीणादिकं वाद्यम्' इत्यमरः ॥ पुरीतत्संज्ञां नाडी मनसि प्राप्ते सुषुप्त्यवस्था ‘प्रत्यवस्मृत्य पुरीतति शेते' इति बृहदारण्यकश्रुतेः ।। इति शास्त्रजातिः॥ किमव्ययादौ पठितं दुःसहा का विवस्वतः । धर्मेऽस्त्यधिकृतिः कस्य को वैरी चन्द्रसूर्ययोः ॥ वर्भानुः । अव्ययादौ स्व:पदं पठितम् । 'स्वरादिनिपातमव्ययम्' इति सूत्रात् ।। सूर्यस्य भा दुः- सहा ॥ नृशब्दस्य इसि 'ऋत उत्' इत्युकारकादेशे कृते रपरत्वे 'रात्सस्य' इति सलोपे विसर्गे च 'नुः' इति रूपम् । मनुष्यस्य धर्मेऽधिकारः 'मनुष्याणां च धर्मः' इति पराश- रोक्तेः ॥ 'तमस्तु राहुः स्वर्भानुः' इत्यमरः ॥ का कामधुप्रिया का वा विष्णोविश्वं बिभर्ति का। विनानामधिपः कश्च प्रणामात्सर्वकामदः।। गौरीभूः। गौर्धेनुः ॥ ई लक्ष्मीः ॥ भूर्भूमिः ।। गौरीतो भवतीति गौरीभूः-'विनायकः कर्म- विनसिद्ध्यर्थ विनियोजितः । गणानामधिपत्ये च रुद्रेण ब्रह्मणा तथा । विष्णुना ऋषिभिर्दे- वैर्विनियुक्तो गणेश्वरः ॥ इति याज्ञवल्क्यः ।। इति वर्णोत्तरजातिः ॥ हरिणा किं कृता दैत्याः कः कामस्य सखा ऋतुः । रात्रिमात्रविकासिन्यस्तारा अन्यत्र किं व्यधुः । अहन्यन्तमधुः। अहन्यन्त हताः लडि प्रथमबहुवचने रूपम् ॥ मधुर्वसन्तः ॥ अहनि दिने अन्तं ना. शम् अधुधृतवत्यः सूर्यतेजोभिभूतानां दर्शनाभावात् ।। किमकृत सुरभौ पिकोऽर्यमानो भवति कथं बहुदः किमम्बुयानम् । स्पृहयति तरुणीजनश्च कस्मै नवसुदृशं किमु निर्यतीमकार्षीः ।। अरौत्समुत्तरीये ॥ पिको वसन्ते अरौत् चुकूज । 'रु शब्द' । लङ् । 'उतो वृद्धि कि हलि' इति वृद्धिः ॥
काव्यमाला। याच्यमानो दाता समुत् प्रीतियुक्तो भवति ॥ तरी नौर्जलयानम् ॥ ई लक्ष्मी याति प्रा- नोति ईयाः तस्मै ईये । 'आतो धातोः' इत्याकारलोपः । रम्यायेत्यर्थः ॥ निर्गच्छन्ती नवोढाम् उत्तरीये प्रावारे अरौत्सम् अहं रुद्धवान्। 'रुधिर् आवरणे' लुडुत्तमैकवचने रूपम् ॥ इति वाक्योत्तरजातिः ॥ इति श्रीविश्वेश्वरपण्डितविरचिते कवीन्द्रकर्णाभरणे द्वितीयः परिच्छेदः । तृतीयः परिच्छेदः। श्लोकोत्तरादिजातिं लक्षयति- श्लोकोत्तरं तदाहुः श्लोको यत्रोत्तरं भवति । अर्धं वा पादो वा यत्र तु खण्डोत्तरं तत्स्यात् ॥ १ ॥ लक्षणं स्पष्टार्थम् ॥ उदाहरति- ईशं किं विदधे श्रुतं च हरिणा किं पारिजातः कृतः कानन्ता मदनस्य काः सुमनसः सन्कि विधत्ते धनम् । तान्तं किं मतुबर्थिक व विबुधा पापं व्रतैः किं कृतं को विष्णोः शयनं चिरं कथमभूभीष्मः प्रसादापितुः ॥ कुर्वे किं विबुधान्किमस्ति गगने शारद्वतं चाह्वय स्यात्को नाम विभागवान्पुररिपोरामन्त्रणं कथ्यताम् । किं वा सामनि वृष्टिकामनिधनं संकीर्तितं सौभरे हृत्कीहक्सुकृते सतां भगवती कात्यायनी स्तूयताम् ॥ महावाहारिगीर्वाणारातिभङ्गविचक्षणे । सिन्धुराननमातस्त्वं कृपयानुग्रहीष्यसि ॥ ईशं मह पूजय ॥ श्रुतमधीतम् अव रक्ष । यतः—'ब्रह्महत्यासमं ज्ञेयमधीतस्य विना- शनम्' इति स्मृतेः ॥ हरिणां पारिजातः स्वर्गाद् अहारि अपहृतः ॥ गीर्वाणी अनन्ता ॥ पुष्पाणि कामस्य बाणाः ॥ साधुर्धनं राति ददाति ॥ तकारान्तं मत्वर्थे परे भं भसंज्ञम् 'तसौ मत्वर्थे' इति वचनात् ॥ विबुधा देवा गवि सुरभौ स्वर्गे वा भवन्ति ॥ व्रतैश्चान्द्रा- यणादिभिः पापं चक्षणे नाशितम् । 'क्षणु हिंसायाम्' कर्मणि लिट् ॥ विष्णोः सिन्धुः शयनस्थानम् ॥ भीष्मः पिटप्रसादात् चिरम् आन जीवितवान् ॥ विबुधान् नम वन्दस्व ॥ गगने अतस्त्वम् अनन्तत्वम् अस्ति । 'तसु उपक्षये' भावे क्विय् नञ्बहुव्रीहौ भावे त्वप्र- त्ययः ।। कृपति शारद्वतसंबुद्धिः ॥ यानू गच्छन् विभागवान्स्यातू । कर्मणो विभागहेतु- ३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । ८१ त्वात् ॥ उप्रेति शिवसंबुद्धिः ॥ 'ही' इति सौभरे सामनि वृष्टिकामस्य निधनम् 'हीषिति वृष्टिकामाय कुर्यात्' इति तत्र श्रुतेः । अनुकार्यानुकरणयोरभेदविवक्षायां विभक्तेरनुत्पत्तिः ॥ साधूनां मनः पुण्ये यसि प्रयत्नवत् स्यात् । 'यसु प्रयत्ने' 'घनर्थे कः' । ततो त्वमर्थीय इन् ॥ वाहारिमहिषः स चासौ गीर्वाणारातिर्देवशत्रुश्चेति कर्मधारयः । महांश्चासौ स चेति पुनः कर्मधारयः । तस्य भङ्गे विचक्षणे विदग्धे इति संबुद्धिः सिन्धुराननमातर्गजमुखस्य मातर्देवि त्वं कृपया दययानुग्रहीष्यसि । मामिति शेषः । इति गौरीस्तुतिः श्लोकार्थः ॥ अजं कि मधुना तत्काभिर्जनितं भटस्य कोऽभिमतः । कैहियते हृदयं किं मलिनं चन्द्रस्य केशुसंबुद्धिः ॥ कासूत पुरूरवसं वीराः कैविजयिनो जनेष्टाः के। संबोधय वरुणं हरिमुपसर्ग वद धियः प्रशंसाः कैः ।। संबोधय रतिरमणं काः श्रोत्रादीश्वरस्य समभूवन् । कुमुदं कीदृगशोभं नभस्यमासस्य कीदृशा दिवसाः ॥ उन्नमद्भी रणोदारैरन्तरिक्षविलासिभिः । महावारिधरव्यूहैरतिश्यामदिशोनिशम् ॥ 'मधुना अब्जे किम्' इति प्रश्ने 'नुन्नम्' इत्युत्तरम् । आईमित्यर्थः । 'तिमितं स्तिमितं समुन्नं मुन्नं च' इत्यमरः ॥ 'कमलं काभिर्जनितम्' इत्यत्र 'अद्भिः' इति । 'अद्भयो जात- मजम्' इति व्युत्पत्तेः ॥ 'वीरस्य कः प्रियः' इत्यत्र 'रणो युद्धम्' इति ॥ 'हृदयं कैयिते' इत्यत्र 'दारैः स्त्रीभिः' इति ॥ 'चन्द्रस्य किं मलिनम्' इत्यत्र 'अन्तर्मध्यम्' इति ॥ 'इक्षो' इतीक्षुसंबुद्धिः ॥ इला पुरूरवसमुत्पादयामास ॥ वीरा असिभिः खङ्गैविजयिनः ॥ महा उत्सवा जनानामिष्टाः॥ व इति वरुणसंबुद्धिः । 'वं प्रचेतसि जानीयात्' इति विश्वः ॥ 'अरि- धर चक्रधर' इति विष्णुसंबुद्धिः ।। 'वि' इत्युपसर्गः ॥ अहैतर्बुद्धयः श्लाघ्या भवन्ति । रतिः श्यामा वय॑स्य रतिश्यामेति कामसंबुद्धिः ॥ दिशः परमेश्वरस्य श्रोत्रादुत्पन्नाः । अ- निशं निशारहितं कुमुदं शोभाहीनं भवति ॥ 'नभस्यमासो भाद्रपदस्तस्य दिवसाः की- दृशाः' इत्यत्र श्लोक एवोत्तरम्-उन्नमद्भिर्वर्धमानैः रणेन शब्देन उदारैर्महद्भिः ‘रो रि' इति रेफलोपे 'एलोपे पूर्वस्य दी! णः' इति दीर्घः ॥ अन्तरिक्ष आकाशे विलासिभिर्विह- रणशीलैर्महतां वारिधराणां व्यूहैः समूहै: अनिशमविच्छेदेन अतिश्यामा नीलतमा दिशो येषु तादृशा इत्यर्थः ॥ इति श्लोकोत्तरम् ॥ का नो निर्विषया रविः क सहसि स्वामी कथं स्यादस- कामास्त्रं किमु दृक्कथं वरतनोर्यण्स्यादिकः कुत्र वा । ११ ८२. काव्यमाला। वक्तव्या रजनी कथं भवति को मन्त्रोऽर्थतः पादवा- न्कः कान्ताकुचवद्गजस्य समरो रामायणे कीदृशः ॥ मालिनीतनयोदाराजिह्मगाचितमर्कटः । मा ज्ञानं विषयहीना न भवति । विषयनिरूप्यत्वनियमात् ॥ सहसि मार्गशीर्षे सूर्यः अलिनि वृश्चिकराशौ तिष्ठति ॥ इतनयो गतनीतिः प्रभुर्निन्द्यः ॥ दाराः स्त्रियः कामस्य शस्त्रं विजयहेतुत्वात् ॥ युवतिदृष्टिर्जिह्मगा वक्रा ॥ अचि परे इको यण्स्यात् 'इको यणचि' इति वचनात् रात्रिपर्यायस्तमाशब्दः ॥ अर्थतः पादवान्मन्त्र ऋक् । 'तेषामृग्मात्रार्थवशेन पादव्यवस्था' इति जैमिनिसूत्रात् । 'तमा ऋक्' इत्यत्र गुणे तम' इति रूपम् ॥ गजस्य कट: कुम्भः स्त्रीकुचतुल्यः ॥ 'तम कटः' इत्यत्र 'झरो झरि सवर्णे' इति कलोपः ॥ मर्कटपक्षे द्वित्वं वा । मालिन्यास्तनयोऽतिकायसंज्ञो रावणपुत्रस्तस्याजिह्मगैर्बाणैराचिता व्याप्ता मर्कटा वानरा यत्र तादृशो रामायणसंग्रामः । 'तनयं विद्धि मालिन्यास्त्वतिका. योति यं विदुः' इति लङ्काकाण्डम् ॥ किं कृत्वा पिशुनान्सुखं वहति किं रामः कुतो वा जग- प्रोदेतीत्युदितो हरिः किमवदत्कीदृग्वियोगे वधूः । कात्युल्लासवती मतिर्भवति वा मोक्षाभिलाषी कथं कीदृग्वावसिते निदाघसमये कुत्राम्बुदो दृश्यते ॥ विहायसीरंमदभाप्रतिभासुरभूककुप् । दुर्जनान् विहाय त्यक्त्वा सुखं भवति ॥ बलदेवः सीरं हलं धारयति ॥ 'जगत् कस्मा- दुद्भवति' इति पृष्टे ईश्वरो 'मत् , मत्तः सकाशात्' इति वदति ॥ जन्यानां ज्ञप्तावुत्पत्ती च हेतुत्वात् ॥ विरहिणी वधूः अभा कान्तिहीना ॥ 'प्रज्ञा नवनवोल्लासशालिनी प्रतिभा मता' ॥ सुरभूः स्वर्गः तस्यां कं सुखं तत्र कुप्यतीति सुरभूककुप् । तद्विषयकरागाभाव- वानित्यर्थः ॥ ग्रीष्मावसाने च 'मेघज्योतिरिरंमदः' इत्यमरः । इरंमदो विद्युत् तस्य भया कान्त्या प्रतिभासुरा शोभमाना भूर्भूमिः ककुभो दिशश्च येन तादृशो मेघो विहायसि आ- काशे दृश्यते इति योज्यम् ॥ इत्यर्घोत्तरम् ॥ पुष्पवन्तौ कथं कुत्र पृदाकुपदमुच्यते । वदेन्द्रवारुणी कीहक्कीदृशी वरवर्णिनी ॥ बहुभावहावमधुरा । 'एकयोक्या पुष्पवन्तौ दिवाकरनिशाकरौं' इत्यमरः । बहुभौ अनेककिरणौ ॥ पृदाकु- पदम् अहौ वर्तते 'सर्पः पृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः' इत्यमरः। तद्वाचकत्वात् । इन्द्र- ३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । वारुणी अमधुरा तिक्ता भवति । 'लुपि युक्तवव्यक्तिवचने' इति स्त्रीत्वम् ॥ बहुभिर्भावैर्हा- वैश्च मधुरा रम्या वधूभवति ॥ आर्यापादोऽयम् ॥ मायाविनः का संबुद्धिर्देवात्प्रीतात्किमिष्यते । लवणाकरमाहुः किं कामी किं प्राह कामिनीम् ॥ निभालयवरोरुमाम् । निभस्य व्याजस्यालय आश्रयति मायाविसंबुद्धिः ॥ संतुष्टाद्देवाद् वर इष्यते ॥ 'रुमा स्थालवणाकरः ॥ 'हे वरोरु मां निभालय पश्य' इति कामिनी प्रति कामिन उक्तिः । वरोरु इत्यत्र 'संज्ञापूर्वको विधिरनित्यः' इति गुणाभावः । 'वरोरु ते वरो दत्तः' इति कादम्बर्याम् ॥ इति पादोत्तरम् ॥ चक्रबन्धं लक्षयति- द्विचरणविरचितचतुरमरान्तवर्णोत्तरोक्तनाभ्यर्णम् । आरान्तवर्णमिलितोत्तरार्धनेमि प्रदक्षिणं चक्रम् ॥ २॥ अनुष्टुभि उद्धारो यथा-नाभौ श्लोकायवर्णे लिखित्वा तदुत्तरवर्ण त्रयं पूर्वारे लिखित्वा तदुत्तरं नाभिमध्यवर्ण वाचयित्वा षष्टसप्तमाष्टमान् उत्तरस्मिन्नारे लिखित्वा पूर्वारान्तवर्ण लिखेत् । एवमेव द्वितीयपादं पश्चिमदक्षिणयोररयोलिखेत् । यस्मिन्नरप्रान्ते पूर्वार्ध समाप्त तदुत्तरं दक्षिणावर्तेन नेम्यां उत्तरार्धप्रथमवर्णत्रयं लिखित्वा पूर्वारान्तवर्णं चतुर्थ कृत्वा तदुत्तरं पञ्चमषष्ठसप्तमांल्लिखित्वा उत्तरारान्तवर्ण तृतीयपादाष्टमं कृत्वा तदुत्तरं चतुर्थपा- दाद्यक्षरत्रयं लिखित्वा द्वितीयपादचतुर्थाक्षरं पश्चिमारान्तस्थं चतुर्थपादचतुर्थवर्ण कृत्वा तदुत्तरं पञ्चमषष्ठसप्तमवर्णाल्लिखित्वा द्वितीयपादान्त्यवर्ण चतुर्थपादान्त्यं कुर्यात् ॥ एवम न्यत्राप्यूह्यम् ॥ चक्रप्रश्नमुदाहरति- धात्रीमाह्वय किं द्विधातुयुगलं लोकस्य केषु स्पृहा किं कुर्युर्विवुधा खलत्वमपि तत्साकाङ्क्षमाहुश्च कम् । पुष्पं चाह्वय किं निषेधवचनं कीदृग्रवेमण्डलं किं वाटः प्रतिषेधकं क ऋगुणः सिंहः कमालम्बते ॥ किं कुर्मः सुकृते द्विजद्विडपि कः कुण्डप्रभेदेऽस्ति का कीदृशं खलसौहृदं स्पृहयति प्रायेण कस्मै वधूः । कीहक्षी घनशर्वरी समुचितं कस्मै विधातुं नमः कीदृक्करकुलव्रतं वद गुणश्रेणिं त्वमेणीदृशः ॥
८४ काव्यमाला। सुधाधारासुमाधुर्य सुमनोभालुमार्दवम् । स्तनश्रीराश्रिताहार्य प्रियायाभासतेनवम् ॥ 'सु' इति मातृसंबुद्धिः । सूशब्दे तु 'अम्बार्थनद्योह्रस्वः' । 'धेट पाने' 'दुधाञ् धार- णपोषणयोः' इति द्वयं 'धा धा' इति 'दाधा घ्वदाप्' इति सूत्रे धा इति द्वयोरुपादानात् ॥ रासु द्रव्येषु लोकस्येच्छा । 'अर्थरैविभवा अपि' इत्यमरः । 'रायो हलि' इत्यात्वम् ॥ वि- बुधाः खलत्वम् माधुर्मा धारयेयुः । 'माङि लुट् ॥ यं यच्छब्दं तच्छब्दसाकाङ्कं प्राहुः । यच्छब्दानुकरणे अनुकार्यानुकरणयोर्भेदविवक्षायामनुकरणस्यानुकार्येणार्थवत्त्वात्प्रातिपदिकसं- ज्ञायां त्यदाद्यत्त्वे च यमिति यच्छब्दपरं बोध्यम् ॥ 'सुम' इति पुष्पसंबुद्धिः ॥ 'नो' इति पदं निषेधार्थकम् ॥ भां प्रभां सूते भासु 'सत्सू-' इति विप् 'हस्वो नपुंसके प्रातिपदि- कस्य' इति द्वस्वः ॥'मा' इति अट आटश्च निषेधकम् 'न माझ्योगे' इति निषेधात् ॥ ऋ- कारस्य 'अर्' इति गुणः 'उरण्रपरः' इति सूत्रैकवाक्यतया ऋकारस्य गुणे विधीयमाने 'अर्' इत्यस्य प्रवृत्तेः ॥ 'प्रसङ्गावस्थायामेव रपरत्वम्' इति सिद्धान्तात् ॥ सिंहो दवं वनम् आश्रयते । 'दवदावौ वनानले' इत्यमरः ॥ सुकृते स्त वर्तध्वम् । अस्तेलोटि मध्यमपुरुषबहु- वचने रूपम् ॥ न श्रीर्गतश्रीको द्विजद्विट् । 'गतश्रीगणकान्तुष्टि गतायुश्च चिकित्सकान् । गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत ॥' इत्युक्तेः ॥ कुण्डभेदे राश्रिता त्रिकोणतास्ति । रपदस्याग्निवाचकत्वादग्निपदेन त्रित्वस्योपादानात् । अश्रिः कोणः ॥ खलसौहृदमहार्य क- ल्पितं हार्यमस्थिरं वा ॥ वधूः प्रियाय स्पृहयति ॥ वर्षारजनिः अभा नक्षत्रहीना ॥ ऋर. व्रतं सते सज्जनाय अनवं रक्षाहीनम् । अवधातोर्घनथें कः । यद्वा नवः स्तुतिः ‘णु स्तुती' इत्यस्मादप् । तद्रहितमित्यर्थः ॥ नायिकावर्णनश्लोकार्थः-प्रियाया माधुर्य सुधाधारासु भासते अमृतसुदृशमित्यर्थः ॥ मार्दवं मृदोर्भावः 'इगन्ताच लघुपूर्वात्' इत्यण ॥ सुमनसां पुष्पाणां मालतीनां वा भासु । भासत इत्यस्यानुषङ्गः ॥ स्तनलक्ष्मीरहार्य पर्वतमाश्रितेति सर्वत्र निदर्शनालंकारः ॥ 'अहार्यधरपर्वताः' इत्यमरः । नवं विजातीयमिति माधुयें मार्दवे च विशेषणम् ॥ इति चक्रबन्धजातिः ॥ पद्मबन्धजाति लक्षयति प्रसेकं वर्णद्वयघटिताष्टदलं भवेत्पनम् । प्रसकोत्तरवाक्यं प्रथमोदितकर्णिकावर्णम् ॥ ३॥ उदाहरति- का आवीद्धरिरस्ति दैत्यहृदि का प्राप्ते वदान्येर्थिनः कीहक्षा जन उत्तमो भवति कः कीदृक्शुचौ सूर्यभा ! ।
३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । स्यात्कीहग्जननी दशास्यनगरी कस्मिन्गिरौ वर्तते तीरे तावदपारवारविषये पाथोनिधेः कीदृशी॥ हंसं कीदृशमाहुराह सुविनिर्दुर्व्यः परं कं मुनि- मूर्धन्यं सुकृतं नरं चरति के कीरं विदुः कीदृशम् । गान्धारीपितरं कमाकलयसे कि रेवतीमानसं का योगिन्यपि चाविवेश जनकं विद्या गुरुभ्यः कथम् ॥ सुरभीः सुरायः सुतपाः सुवेले । सुपिसं सुखगं सुबलं सुलभा ॥ हरिः सुरभीर्गा आवीदरक्षत् ॥ दैत्यहृदि सुरसंबन्धिनी भीरस्ति वैरित्वात् ।। दातरि मिलिते सति अर्थिनः शोभना रायो येषां ते सुरायो भवन्ति । आध्या इति यावत् । उ- त्तमो जनः शोभनो रायो दानं यस्य तादृशो भवति ‘रा दाने' इत्यस्माद्भावे घन् । 'आतो युक् चिण्कृतोः' इति युक् । यद्वा कर्मणि घञ् । उत्तमवस्तुदाता इत्यर्थः ॥ शुचावाषाढे सूर्यप्रभा सुतपा सुतरां तपस्तापो यस्याम् । घनर्थे कः । सुतरां तपतीत्यच्प्रत्ययो वा ॥ सुतं पुत्रं पातीति सुतपा तादृशी जननी स्यात् ॥ लङ्का सुवेले त्रिकूटाचलेऽस्ति । 'पारा- वारे परार्वाची तीरे पात्रं तदन्तरम्' इत्यमरः । शोभना वेला समुद्रमर्यादा यत्र तादृशे । तटद्वयेऽपि मर्यादासत्त्वात् ॥ सुष्टु पेसति गच्छतीति सुपीस्तं सुपिसम् । रम्यगतित्वात् ॥ पाणिनिमुनिः सु वि नि दुर् एभ्यः उपसर्गेभ्यः परस्य सुपेः कृतसंप्रसारणस्य स्वपधातोः सकारं मूर्धन्यमाहेति विपरिणामः 'सुविनिदुर्थ्यः सुपिसूतिसमाः' इति षत्वविधानात् ॥ पुण्यं स्वाश्रयपुरुषं सुखगं सुखप्राप्तं करोति । शुकं शोभनं खगं पक्षिणं प्राहुः ॥ गान्धार्याः पितरं सुबलसंज्ञं वेद्मि। रेवत्याश्चित्तं शोभनो रागविषयो बलो यत्र तादृशं स्यात् ॥ सुल- भासंज्ञा योगिनी जनकम् आविवेशेति मोक्षधर्मे स्पष्टम् । विद्या गुरुसकाशात्सुलभा सुप्रापेत्यर्थः ॥ इति पद्मबन्धजातिः॥ काकपदजाति गोमूत्रिकाजातिं च लक्षयति- त्रितयान्वयि पायॆक्षरयुगं त्रिशाखं तु काकपदम् । मिलितसमविषमवर्णा गोमूत्री विलिखितोर्ध्वाधः ॥ ४ ॥ काकपदजातिमुदाहरति- तर्केषु व्यदधामहं किमु कुतः कान्वीक्ष्य मीसांसकां- स्तत्तद्भावविपर्ययः कथमयं पश्यस्यलीन्कीदृशान् । ॥ * Sarin ८६ काव्यमाला। कीदृक्षः पुरुषोऽतिनीतिनिपुणैः कुत्र व्यवस्थाप्यते किं जन्यो वदयो युधिष्ठिरसदोवृत्तिर्विशेषो महान् ॥ समवायतः समयकृतः समयाहितः । मीमांसकान् समवायात् यतो गच्छतस्तदनङ्गीकारिणो वीक्ष्य त्वं तर्केषु समवाः संमु- खम् अगाः । युक्तिभिः समवायपदार्थ स्थापितवानित्यर्थः ॥ आवृत्त्या चैतदर्थलाभः ॥ 'तत्तद्भावानां सुखदुःखादीनां विपर्ययः कथम्' इत्यत्र 'समयेन कृत' इत्युत्तरम् ॥ समं तुल्यं यकृत् कालखण्डं येषां तादृशान्नालवर्णान् पश्यामि । 'कालखण्डयकृती तु समे इमे' इत्यमरः ॥ हित आप्तः पुरुषो नीतिज्ञैः समया समीपे स्थाप्यते । यो युधिष्ठिरसभावृत्तिर्म- हान्विशेषः स मयेन दानवविशेषेण आहितो जनितः । सभापर्वणीदं स्पष्टम् ।। इति काकपदजातिः ॥ गोमूत्रीजातिमुदाहरति- अन्तस्थाः परतः कुतो जगदिदं कीहक्सता कीदृशा भाव्यं मौनिनमाह्वय प्रियतमं का किं विधत्तेऽङ्गना । संबुद्धिः क गुहस्य वा जनकता किं युष्मदस्मन्डसे- वर्गाद्यक्षरतो भवन्ति वद के वर्णाः परे पञ्चमे ॥ धीरिन्द्रस्य जितस्य दानवगणैः कीदृग्दिवं किं व्यधा- द्विन्यस्तान्तरकारकं भवति वा किं वर्णमिवर्थकम् । कानिन्दुस्तिथिरस्ति च क हृदयं कृष्णौ कथं भूभृतां छन्दोधीभवति श्रुते व सुरभौ ब्रूते वियुक्ता च किम् ॥ माद्यत्परभृतालापकमनीयातिसौरभे । अद्यमारजिता तापश्रममायामसौलभे ॥ अन्तस्था यरलवा माद् मकारात् परतो भवन्ति ॥ जगत्सर्वं यद् गमनशीलम् । नश्व- रमिति यावत् ॥ साधुना परान्बिभर्ति पालयति परभृत् तादृशेन भाव्यम् ॥ अलाप वच- नहीनेति मौनिसंबुद्धिः ॥ कमनी कामुकी स्त्री प्रियं याति ॥ सौ प्रथमैकवचने संबुद्धिसंज्ञा। 'एकवचनं संबुद्धिः' इति वचनात् ॥ रो वह्निः भं चेति समाहारद्वन्द्वः । अग्निकृत्तिकयो- गुहजनकत्वात् ॥ युष्मदस्मदोः परस्य डसेः 'अत्' इत्यादेशः । 'पञ्चम्या अत्' इति सू- त्रात् ॥ वर्गेषु आद्यान्यक्षराणि चत्वारि कादीनि तेभ्यः पञ्चमे ङकारादौ वर्णे परे सति ककारादिभ्यः परतो यमास्तत्संज्ञा वर्णा भवन्ति । यक-पलिक्नि: चख्नतुरित्यादि । यथा चौदवजिसंज्ञस्याचार्यस्य सूत्रम्--'अनन्त्यस्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः' इति ॥ गुणोऽवयव इत्यर्थः ॥ रजिपविशेषः तातः पितृत्वेन विषयः कर्तव्यो यस्यां ३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । indan तादृशी इन्द्रस्य मतिः दिवं स्वर्गम् आप लेभे । रजेरिन्द्रत्वं प्रतिज्ञाय तेन दैत्यान्धातयित्वा ततोऽहं रजेः पुत्रोऽस्मीत्युक्त्वा इन्द्रेणात्मपदं लब्धम् इति हरिवंशे स्पष्टम्-'रजेः पञ्चशतं पुत्रान्हत्वा चेन्द्रोऽलभत्पदम् ॥ श्रं पदं शकाररेफयोरन्तराले अकारदाने 'शरः' इति भ- वति ॥ अमा तिथिश्चन्द्रहीना ॥ हृदयं यां लक्ष्म्याम् अस्ति । ईशब्दस्य सप्तम्येकवचने रूपम् ॥ कृष्णौ वासुदेवार्जुनौ राज्ञाम् असौ क्षेपको । 'असु क्षेपणे' इत्यस्य अस्यत इ- त्यसौ । नाशकौ इति यावत् । अस्यतेः पचाद्यच् ॥ लशब्दो लघुपर्यायः भशब्द आदि- गुरुभंगणार्थः । तच्चोपलक्षणं गणान्तराणाम् । समाहारद्वन्द्वः । तज्ज्ञानेन छन्दसां ज्ञानात् ॥ अथ विरहिणीवाक्यार्थ:-माद्यन्तो मत्ताः परभृताः कोकिलास्तेषामालापेन कमनीया मनोहरा अतिसौरभा आम्रवृक्षा यस्मिन् एतादृशे अद्य वसन्तदिने मारेण कामेन जिता अभिभूता असौ अहं तापो ज्वरः श्रमः खेदस्तयोर्मायां तद्रूपां मायां वा लभे । प्राप्नोमीत्यर्थः॥ इति गोमूत्रीजातिः ॥ सर्वतोभद्रजाति लक्षयति- एकेन द्वाभ्यां वा सर्वैर्वा सर्वदिग्गतैर्वर्णैः । यत्रोत्तराणि दुष्करमिदमुदितं सर्वतोभद्रम् ॥५॥ उदाहरति- कः शब्दः काव्यकर्तुः क्व जगदनुगतं कः क्षरत्यर्थधातुः क स्याद्रेफस्य लोपः प्रतिकृतिविषयः कुत्र कः प्रत्ययः स्यात् । कोः कः स्यादक्षशब्देऽभिमुखय विहगं कीदृशौ कंसकृष्णौ केन स्याद्वा तरीतर्त्यपि च लुकि शपः कौ च गत्यर्थधातू ॥ क स्याच्छब्दः खगेति प्रसवमय इषुः कस्य कोऽस्य च्वियोगे कस्यापृक्तस्य लोपः प्रभवति क ऋतः कश्च शब्दार्थधातुः । वहिस्त्री काह्वय त्वं कमविमकि मतौ को तुरीयद्वितीयौ को वोकारस्य यण् दिक्कथमनुपहिता पुण्यतोया सरित्का ॥ - कावेरी। काव्यं करोतीति काव् 'तत्करोति-' इति ण्यन्ताद्विच् यकारस्य संयोगान्तलोप इत्य- न्यत्र विस्तरः ॥ ए विष्णौ जगदनुस्यूतम् । 'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते' इति स्मरणात् ॥री इति धातुः क्षरत्यर्थे । 'रीङ् क्षरणे' इति पाठात् ॥ रि रेफे परे रेकस्य लोपः ‘रो रि' इति सूत्रात् ॥ प्रतिकृतौ इवे इवाथै कः । 'इवे प्रतिकृतौ ॥ इति सूत्रात् ॥ अक्षशब्दे परे कुशब्दस्य 'का' आदेशः । 'का पथ्यक्षयोः' इति सूत्रात् ॥ वे इति पक्षिसंबुद्धिः ॥ कृष्णकंसौ अरी वैरिणौ । तरी- काव्यमाला। MAHAMANG तति इति रूपं रीका रीगागमेन सिध्यति । 'उदिर् हिंसानादरयोः' इति धातोर्यङ्लुकि 'रीतः' इति रीक् ॥ शपो लुकि अदादौ वाधातुः ईधातुश्च गत्यौँ । को कवर्गे खगेति शब्दः । अक्षरद्वयस्य तत्र पाठात् ॥ ए: कामस्य पुष्पमयो बाणः ॥ अकारस्य च्चिप्रत्य- ययोगे ई इत्यादेश: 'अस्य च्चौ' इति सूत्रात् ॥ 'अपृक्त एकाल् प्रत्ययः' इत्येकालप्रत्ययस्य अपृक्तसंज्ञा 'वेरपृक्तस्य' इति लोपः ॥ ऋत ऋकारस्य' री इत्यादेशो भवति 'कीयति' इत्यादौ 'रीतः' इति सूत्रम् ॥ 'कै शब्दे' इत्यस्यानुकरणे 'का' इति । 'आदेच उपदेशे- ऽशिति' इत्यात्वम् 'अनैमित्तिकमात्त्वं शिति तु प्रतिषेधः' इति सिद्धान्तात् ॥रो वहिस्तस्य स्त्री री । 'पुंयोगादाख्यायाम्' इति ङीप् ॥ 'क' इति 'अवे' इति च संबुद्धिः ॥ अकि अक्प्रत्याहारे ऋकार इकारश्चतुर्थद्वितीयौ ॥ 'अइउण् ऋल्लक्' इति पाठात् । ऋकारश्च इकारश्च री । ऋ इ इति स्थिते ऋकारस्य यणादेशो रेफः । 'प्रथमयोः पूर्वसवर्णः' इति दीर्घ री इति रूपम् ॥ उकारस्य यणादेशो 'व्' इति भवति आन्तरतम्यात् ॥ अनुपहिता दिक एका 'उपाधिभेदेन प्राच्यादिव्यवहारभेदः' इति सिद्धान्तात् ॥ कावेरीसंज्ञा नदी पुण्यतोया इति पुराणप्रसिद्धम् ॥ इति सर्वतोभद्रजातिः ॥ गतप्रत्यागतजाति लक्षयति- गतप्रसागतं प्रोक्तं प्रतिलोमविलोमतः। तच्चानेकविध मध्यवर्णलोपेन जायते ॥६॥ उदाहरति- दृश्यते कीदृशी संपद्भाग्यवैभवशोभिनाम् । हृदयं हरति ब्रूहि कीदृशी मत्तकाशिनी ॥ चारुवाहाजिरा। चारवो वाहा अश्वा यत्र तच्चारुवाहम् अजिरम् अङ्गणं यस्याः ॥ प्रतिकूलवाचने राजिहावा रुचा । शोभमानो हावो यस्याम् । रुचा युक्ता ।। कीदृशी भवतीदानीं त्वद्वैरिवरवर्णिनी। कीदृशी मधुमासश्रीहृदयं मदयत्यलम् ॥ कापितरुरता। कापि दुःखावस्थापन्ना तरुरता वनस्थत्वात् ॥ प्रतिकूलवाचने ताररुताः श्रवणाई- शब्दाः पिका यस्यामित्यर्थः ।। १. रीगृदुपधस्य च' इत्यनेन रीग्बोध्यः, उक्तसूत्रेण रीकरणं त्वसंभवि तस्य रीडा- देशविधायकत्वात्.
८९ ३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । पतिर्मधौ हसति किंप्रतियोगिकेयं का भासते विजयभाजि सदैव पुंसि । तारवी। तरूणामियं तारवी वृक्षप्रतियोगिका पतिः ॥ वीरता वीरत्वम् ॥ विद्वन्कया कुशलवौ समसाविषातां वर्णेन कोभयविधेन सहरभवान्या ॥ सीतया । सीतया जानक्या कुशलवाख्यौ पुत्रौ प्रसूतौ ॥ अक्षरेण रूपेण च सा भवानीतल्या या अतसी उमापदवाच्यत्वान्नीलवर्णत्वाच । 'अतसी स्यादुमा रुमा' इत्यमरः ।। कथय सखे किमवस्था शंबरभवने रतिरवात्सीत् । प्रियया व्यथते च कथं भवति व तरीतुकामो वा ॥ विमदना । कामवियुक्ता रतिः शंबरगृहे अवात्सीत् वसति स्म ॥ मध्याक्षरद्वयत्यागे 'विना' इति पदम् । तद्वैपरीत्ये 'नावि' इति सिद्धम् ॥ प्रियया दयितया कथं व्यथते विगतमदो ना पुरुषः नपुंसकत्वात् ॥ तरीतुकामो मुमुक्षुर्वा विमदना विगतमदो ना पुरुषः ॥ कीदृशी दयितादेहवीरुत्कोन्मादकारिणी। केषु वा सत्सु पुरुषो दुर्विधो नाभिधीयते ॥ सुकुमारा। सुकुमारा कोमलस्पर्शा ॥ मध्याक्षरद्वयत्यागे 'सुरा' इति ॥ तद्वैपरीत्ये 'रासु' इति पदं सिद्धम् । द्रव्येषु इत्यर्थः ॥ इति गतप्रत्यागतजातिः ॥ वर्धमानाक्षरहीयमानाक्षरजाती लक्षयति- आदौ मध्येऽन्ते वा यत्रैकद्वित्रवर्णानाम् । वृद्धिर्वा हानिर्वा तद्भेदद्वयमनुगतार्थम् ॥ ७॥ पूर्वपूर्ववर्णसहितेनोत्तरवर्णेन यदुत्तरं तद्वर्धमानाक्षरम् ॥ पूर्वपूर्ववर्णे विहाय तदुत्तरवर्णेन यदुत्तरं तद्धीयमानाक्षरमित्यर्थः ।। वीतिहोत्रभवः को वा भोज्या का सदधिः कटुः । मधुपैः किं वरवधूवंदनाभं निपीयते ।। राजीवम् । mmam १२ ९० काव्यमाला। 'राः स्मृतः स्वर्णवित्तयोः' इति विश्वः ॥ 'अग्नेरपत्यं प्रथमं हिरण्यम्' इति श्रुतिः ॥ राजी कटुरसा दध्ना सह भुज्यते ॥ राजीवं पद्मम् ॥ उत्तरोत्तरं वर्णवृद्धिः स्पष्टैव ॥ किं वा पदं विकल्पार्थ बालासंबोधनं वद । मनद्भिरब्धि विबुधैः को नेत्रं मन्दरे कृतः ॥ वासुकिः । विकल्पार्थकं वापदम् ॥ 'वासु' इति बालासंबुद्धिः । 'बाला वासूः' इत्यमरः ॥ वा- सुकिः सर्पभेदः ॥ 'मन्यानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्' इति पुराणम् ॥ विद्ययास्ति सह कोऽत्र विरोधी का मुनेरपि मनो मदयन्ति । दिङ्मुखः स्म भृशमीर्ण्यति कस्मै काव्यमाहुरमृतप्रतिमं किम् ॥ रामायणम् । रा द्रव्यम् ॥ रामाः स्त्रियः ॥ रामाय दाशरथये ॥ रामायणं वाल्मीकिकाव्यम् ॥ संबोधय सुखं गीतिः कीदृशी वर्हमाह्वय । चतुर्भिरेकवाक्यत्वं प्राप्तैः श्लोकैः किमुच्यते ॥ कलापकम् । 'क' इति सुखसंबुद्धिः ॥ गीतिः कलाविशेषः ॥ 'कलाप' इति बर्दसंबुद्धिः ॥ श्लो- कचतुष्टयस्यैकवाक्यत्वे काव्येषु 'कलापकम्' इति प्रसिद्धिः ॥ मनुष्यस्य सखे तावत्संबुद्धिरभिधीयताम् । द्वौ वर्णावादितो दत्त्वा बलिमच्छलयच्च कः ।। वामनः । नृशब्दस्य 'हस्वस्य गुणः' इति गुणे कृते 'नः' इति संबुद्धिः ॥ वामनो बलिं वञ्चितवान् इति प्रसिद्धम् ॥ गिरीशेन जिगीषुः कः प्रसह्य निरदह्यत । आद्यवर्णोत्तरं वर्णों द्वौ दत्त्वा तमसूत कः ॥ मधुसूदनः । मदनो हरेण दग्धः ॥ मकारोत्तरं 'धुसू' इति वर्णद्वये दत्ते 'मधुसूदनः' इति शब्दः ॥ तद्वाच्यो नारायणो मदनं प्रद्युम्नं सुतमुत्पादितवान् । ब्राह्मणेन समागम्य प्राज्ञाः किमनुयुञ्जते । वर्णद्वयविवृद्ध्यान्ते लवः किं नाकरोद्वने ॥ कुशलङ्घनम् । १. 'रावणः' इत्यपि पाठः.
३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्' इति मनुः । तदुत्तरं 'घनम्' इति वर्णद्वये दत्ते 'कुशलचनम्' इति शब्दः । कुशस्य स्वज्येष्ठभ्रातुर्लकनम् अवमानं नाकार्षीत् तदनुकूल- त्वादिति भावः ॥ अन्धकारविरुद्धा का चक्षुषः सहकारिणी। वर्णावाद्यन्ततो दत्त्वा तज्जन्मसमयश्च कः ॥ प्रभातम् । सहकारित्वं चक्षुःकार्ये चाक्षुषज्ञाने निमित्तत्वात् । अन्धकारविरुद्धत्वम् अन्धकार- स्यालोकामावरूपत्वात् । आलोकस्य तत्प्रतियोगित्वात् ॥ अन्धकारस्य द्रव्यान्तरत्वपक्षेऽपि विरोधसत्त्वात् ॥ भाशब्दस्य आदावन्ते च वर्णद्वये दत्ते प्रभातम् । तच्च प्रभाजन्मसमयः ।। विशिष्टतेजसो दिन एव सत्त्वात् ॥ इति वर्धमानाक्षरजातिः॥ हीयमानाक्षरजातिमुदाहरति- पुरत्रयजिघांसायां धनुर्बुद्धिः क्व धूर्जटेः । शरणं कुत्र काङ्क्षन्ति नीचस्यामन्त्रणं कथम् ॥ मन्दरे। त्रिपुरवधै मन्दराचले हरस्य चापबुद्धिरजायत ॥ दरे भये जना लोकास्त्रातारमि- च्छन्ति ॥ 'हीनसंबोधने तु रे' इति कोशः ॥ अत्र यथोत्तरं वर्णहानिः स्पष्टा । कस्मादवस्थावैषम्यं जाता मन्दोदरी कुतः । हितमाधित्समानस्तु सजनः कीदृशो भवेत् ।। समयतः। समयतः कालेन अवस्थानां वैषम्यं 'विशेषः कालिकोऽवस्था' इत्यमरः ॥ मन्दोदरी रावणभार्या मयतो मयदानवाज्जाता ॥ हितार्थी पुरुषो यतो वचनादिषु संयतः स्यात् ।। 'वाक्पाणिपादचापल्यं वर्जयेचातिभोजनम्' इति स्मृतः ॥ सुपर्वणां व सर्वेषां सेनापत्यमवस्थितम् । शब्दस्य कुत्र वृत्तिः स्यादायवर्णद्वयं विना ॥ विशाखे । विशाखे स्कन्दे । आद्यवर्णद्वयत्यागे खे आकाशे ॥ गोभूम्यादिप्रदानेषु प्राज्ञाः किं दक्षिणां विदुः । कं प्रेरयन्ति राजानो रहस्यानि बुभुत्सवः ॥ चामीकरम् ।
९२ काव्यमाला। चामीकर सुवर्णम् । 'सर्वेषामेव दानानां सुवर्ण दक्षिणेष्यते' इति स्मृतः ॥ मध्याक्षर- यत्यागे चारं प्रेषयन्ति ॥ राजराज नलिन्याः किं भीमोऽहार्षीत्प्रियेरितः । कुत्रैकाचस्तृतीयादिरुदात्तान्त्याक्षरैविना ॥ सौगन्धिकम् । द्रौपद्या प्रेरितो भीमः कुबेरपुष्करिणीतः सौगन्धिकं पुष्पमहार्षीत् इति वनपर्वणि स्पष्टम्॥ अन्त्याक्षरत्रयत्यागे सौ सुप्रत्यये परे य एकाच ततः परा तृतीयादिविभक्तिरुदात्ता भवति 'सावेकाचस्तृतीयादिविभक्तिः' इति सूत्रात् ॥ साविति प्रथमैकवचनस्य ग्रहणमिति के चित् ॥ सप्तमीबहुवचनस्येत्यन्ये । अश्वमेधहयपालनोद्यतं को जघान जनकं रणाङ्गणे । कि कया स्वहृदयं करोति वा स्त्री विना प्रथममन्त्यमक्षरम् ।। बभ्रुवाहनः। बभ्रुवाहनसंज्ञोऽर्जुनस्य पुत्रश्चित्राङ्गदायां शेषकन्यायामुत्पन्नः । तेनार्जुनो हत इति महा- भारतेऽश्वमेधपर्वणि स्पष्टम् ॥ पक्षे प्रथमान्त्योभयाक्षरत्यागेन 'भ्रुवा-आह' इति पदमव. शिष्टम् । कामिनी सुचतुरा सविभ्रमया ध्रुवा स्वमभिप्रायमनुरागं स्वानुरक्ताय त्वयैवं मयैवं कर्तव्यम्' इति ध्रुवा आह सूचयति लक्षयतीत्यर्थः ॥ इति हीयमानाक्षरजातिः॥ शृङ्खलाजाति लक्षयति- पूर्वान्तिमचरमादिमवर्णोपादानहानाभ्याम् । स्याच्छृङ्खला भवेत्सा कचिदेकान्तरितभावेऽपि ॥ ८॥ उदाहरति- आमन्त्रयस्व धनुरल्पमनेहसं च जानक्यसौत्कमथ कः सुरभिः स्मरस्य । कीहक्तथोक्षसु जनादरणीयताभा- क्सन्तश्च किं विजहति प्रतिभानशालिन् । चापलबन्धुर्यः । 'चाप' इति धनुषः, पल इति अल्पकालस्य संबुद्धिः ॥ सीता लवम् असौद् उत्पाद- यामास ॥ सुरभिर्वसन्तः कामस्य बन्धुः सुहृत् ॥ धुर्यो धर्वहनसमर्थ उक्षा जनोपादेयः ॥ चापलस्य चञ्चलताया बन्धुराश्रयो यस्तै सन्तस्त्यजन्ति ॥
DA ३ परिच्छेदः] कवीन्द्रकर्णाभरणम् । संबुद्धिं वद दुर्वहस्य मदनो युक्तः कया भार्यया कौ शस्तौ मतिमन्धनव्यसनयोः पीतं च संबोधय । किं तन्वन्ति पिका वसन्तसमये लोकोत्तरोल्लासया मेधाविन्नविरुद्धया च निगमैः किं वा कया प्राप्यते ॥ भारत्यागौरवम् । 'भार' इति दुर्वहसंबुद्धिः ॥ रत्या भार्यया युक्तः कंदर्पः ॥ धनस्य दानं त्यागः, व्यस- नस्य निद्रादेः त्यागः परिहारः ॥ 'गौर' इति पीतसंबुद्धिः ॥ रवं शब्दं कुर्वन्ति ॥ लो- कोत्तरया वेदाविरुद्धया च भारत्या सरस्वत्या गौरवम् उत्कर्षः प्राप्यते । तथा च स्मृतिः- 'आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥' इति शृङ्खलाजातिः ॥ का भासतेऽतिदयिता नलकूबरस्य दृष्ट्वा विशिष्टगुणमाहुरमत्सराः किम् । पश्यन्ति नेह पुरुषाः क्षयभाजि कस्यां का प्राप्यते रयवता भरतस्थितिः का॥ रङ्गभाविहिता । रम्भा नामाप्सरा नलकूबरस्य प्रिया इत्युत्तरकाण्डे स्पष्टम् ॥ उत्कृष्टगुणं पुरुषं दृष्ट्वा मत्सरहीना भाहि शोभस्व इत्याहुरभिनन्दनार्थम् ॥ गवि चक्षुरिन्द्रिये क्षीणे रूपं न पश्यन्ति साधनाभावात् ॥ विता पक्षित्वं वेगवता प्राप्यते तत्सादृश्यात् ॥ रङ्गेनाढ्यभूमौ भावि हितम् इष्टं यस्याम् । नाट्यप्रयोगेण भरतानां नटानामुत्कर्षात् ।। अत्रैकान्तरत्वं स्पष्टम् ॥ ज्यायोगं वहति शरः क्व मोक्षकाले कीदृशं भवति रजो बलैरुदस्तम् । कीदृग्वा हरति वधूर्मनः क्व वह्ने ः सारथ्यं न भवति कीदृशे स्तने श्रीः॥ पुनखेवारिते। मोक्षसमये बाणः पुलावच्छेदेन ज्यासंयोगं प्राप्नोति ॥ अश्वादिभिरुत्थापितं रजः खम् आकाशम् ईर्ते गच्छति तच्छीलं खेरि भवति ॥ नवा युवतिर्वधर्मनोहरा । वाते अग्निसारथ्यं तदुद्दीपने हेतुत्वात् ॥ पुंसः पुरुषस्य नखे निषिद्धे सति स्तने श्रीः शोभा न भवति । नायकनखवणाङ्कितस्यैव तस्य शोभोदयात् ॥ इत्येकान्तरितशृङ्खलाजातिः ॥
काव्यमाला। - नागपाशं लक्षयति- अनुलोमविलोमाभ्यां मिश्रितैर्मध्यगाक्षरैः । वाच्यते मध्यमारभ्य नागपाशोऽयमुच्यते ॥ ९ ॥ उदाहरति- कया विना यौवनमस्ति वन्ध्यं स्नानावतीर्णा दयिता कथं स्यात् । सविभ्रमावेल्लितया दृशा वा वधूः प्रियं पश्यति कीदृशाः ॥ कालसारसदृशा। आद्यवर्णद्वयं त्यक्त्वा सारसदृशा कमलनेत्रया विना तारुण्यं व्यर्थम् ॥ अन्त्यवर्णद्वयं त्यक्त्वा विपरीतवाचने 'सरसालका' इति भवति । सरसा आर्द्रा अलका यस्याः ।। कालसारः कृष्णमृगः तदृष्टितुल्यया दृशा पश्यति इत्यर्थः ॥ अत्र सारस-सरसापदयोनागपाशा- कारत्वं स्पष्टम् ॥ प्रियतम सदृशं स्यात्केशपाशेन कि मे भवति भवनभूमि गिनां भव्यकृत्का। प्रसरति विहितायां कैश्च पाञ्चालिकायां विततिरिह हि कस्यां शीघ्रमेवाभिधेहि ॥ कारुभीरुचामरम् । है भीर, चामरं तव केशकलापेन तुल्यम् इत्याद्यवर्णद्वयत्यागेन चामरपर्यन्तमर्थः । अ. न्त्यवर्णद्वयत्यागेन विपरीतवाचने 'चारुभीरुका' इति चारवो रम्या भीरुकाः कामिन्यो य. वेति समासान्तः कप्प्रत्ययः । कारुभिः शिल्पिभिनिर्मितायां पाञ्चालिकायां पुत्रिकायाम् अरं शीघ्रं रुचां कान्तीनां विततिरुदेति ॥ पूर्वं व्यस्तसमस्तम् । इदं समस्तव्यस्तमिति विशेषः॥ भाषाभेदादर्थभेदे चित्रमियभिधीयते । तदैक्ये त्वर्थभेदो यः स न युक्तो विभाजकः ॥ १० ॥ भाषाभेदो भाषाविभाजकोपाधिर्यः संस्कृतत्वादिस्तदवच्छिन्न प्रतियोगिताकः । अन्यथा संस्कृतघटोभयभेदस्य संस्कृतेऽपि सत्त्वादतिप्रसङ्गात् ।। नन्वेकस्यामपि भाषायां पदच्छेदेना- थद्वयप्रतीतावपि चित्रव्यवहारो विदग्धमुखमण्डनादौ दृष्ट इत्यत आह-तदेक्ये विति ॥ भाषायामभिन्नायां योऽर्थभेदः स तु चित्रविरूपभेदघटको न भवति पूर्वोक्तभेदानां चित्र एवान्तर्भावापत्तेः एतन्निर्मुक्तभेदान्तरविलयप्रसङ्गादित्यर्थः ॥
४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । दुर्योधनादीन्विसृजेत्युदीरितो गन्धर्वराजः किमवोचदर्जुनम् । पिये पउत्थम्मि सहीहि पुच्छिदे वरांगणाये भण किं भणिज्जई ॥ अहमुज्झामि । घोषयात्रायां चित्ररथेन गन्धर्वेण दुर्योधनादयो बड्वा गृहीताः, ततोऽर्जुनेन मोचिता इत्यारण्यके पर्वणि स्पष्टम् ।। अहमुज्झामि त्यजामि इति चित्ररथस्यार्जुनं प्रत्युक्तिः ॥ प्रिये प्रस्थिते सखीभिः पृष्टया वराङ्गनया भण किं भण्यते ॥ हे सखि, अहमसौ मुज्झामि मु. ह्यामि तद्विरहवेदनयेत्यर्थः ॥ कः पिकदयितः कीदृग्नगरं कीदृग्मृगेषु शबरकुलम् । सहिआहि किं कहिज्जइ अज्जाभसरेहि अनुसरिजन्ती ॥ माकन्दोट्टमुत्तंसेहि। माकन्द आम्रतरुः पिकप्रियः ॥ 'स्यादट्टः क्षोममस्त्रियाम्' इत्यमरः । अटेन अटे वा मु- ह्येऽत्र रम्यत्वात् । तं सं बन्धम् ईहते तंसेहि तसि बन्धने' बन्धेच्छावदित्यर्थः ॥ सखीभिः किं कथ्यते । 'अजा नवयुवत्याम्' इति देशी । 'भ्रमरैरनुत्रियमाणा नववधूः सखीभिः किं कथ्यते' इति प्रश्ने 'मा नीलोत्पलमुत्तंसय' इति । कंदो नीलोत्पले देशी । तदवतंसीकरणे तन्मधुलुब्धा भ्रमरास्त्वामायासयन्ति ॥ तत्परित्यागे तु सुस्था भविष्यसि इत्यर्थः ॥ उक्तौ जातिविशेषाणामशेषाणां क्षमेत कः । यन्नेहाभिहितं स्यात्तन्महामतिभिरूह्यताम् ॥ ११ ॥ इति श्रीविश्वेश्वरपण्डितविरचिते कवीन्द्रकर्णाभरणे तृतीयः परिच्छेदः । चतुर्थः परिच्छेदः। श्लेषे सति विशेष्यस्यानभिधानं प्रहेलिका। अर्थे श्लिष्टे भवयार्थी शब्दे शाब्दीति कथ्यते ॥ १ ॥ श्लेष इति शब्दार्थोभयश्लेषपरम् ॥ अप्यन्यतो जिगमिषन्प्रसभं निरुद्धो रागातिभूमिविभवेन विभाव्यमानः । एणीदृशा गुरुजनस्य समक्षमेव सवीडयैव परितः परिरभ्यते कः ॥ रक्तोत्तरासङ्गः। प्रावारोऽङ्गात्पतितः सन् समाकृष्यते । रागातिशयेन गुरुषु पश्यत्सु लज्जया लिध्यते च अङ्गावरकत्वात् प्रसभनिरोध्यकत्वादिकं नायकसाधारणमिति नायकनिष्ठत्वेन चमत्का- ९ काव्यमाला । रका ये धर्माः प्रसिद्धास्तद्रूपत्वमुखेनोत्तरीयप्रतीतिरिति । आर्थीयम् ॥ न च रागैति श्वे- घवत्त्वाच्छब्दशक्तिमूलकत्वमप्यत्रेति वाच्यम् । उत्कटेच्छापूर्वकदर्शनस्य रागेत्यादिविशेष- णार्थतया रागपदेनोभयत्रापीच्छाया एव विवक्षिततया आरुण्यस्याविवक्षितत्वात् । आरु- ण्यस्य प्रकृतानुपयोगित्वात् । 'द्वौ प्रावारोत्तरासङ्गौ' इत्यमरः ।। किसलयललितां मलिनामलिनामावलिभिरुल्लसन्मुकुलाम् । कामवलोक्य विलोचनमपसरति न जातु सरसानाम् ॥ कान्ताम् । किसलयादिपदानां मुखवृत्त्या लतान्वितार्थत्वात् अधरादौ तेषां साध्यवसानवृत्त्यैव प्र. बृत्तिः । अतो लतायां सिद्धानामर्थानां स्पष्टत्वम् तात्पर्यविषयतया मुख्यस्य कान्तारूपस्या- र्थस्य गोप्यत्वमिति बोध्यम् ॥ विविक्तरूपा सुतरामसूर्यपश्या प्रिया संपदि या बभूव । वीर त्वदीयद्विषतामिदानीं सैव प्रिया भाति दधत्यसुंका ॥ सुन्दरी। विविक्तत्वरम्यत्वे निर्जनत्वं च सूर्यदर्शनराहित्यं गुप्तत्वम् । सूर्यकिरणसंयोगाभावाच्च द. धती आधारभूता असुंका सुंशब्दरहिता दरीति यावत् ।। वनान्तवृत्तिरपि सन्यः सदालयमध्यगः । अन्त्यस्पर्शादियुक्तोऽपि यः स्पृश्यः सोऽभिधीयताम् ॥ मलयपवनः । वनान्तवृत्तेरालयमध्यगत्वं विरुद्धम् । 'मलयपवन' इति शब्दस्य वनशब्दान्तवृत्ति. त्वात् , लयशब्दस्य मध्यगत्वाच तत्परिहारः ॥ अन्त्यश्चण्डालादिः तत्स्पर्शिनः स्पर्शयोग्य- त्वमिति विरोधः । अन्त्यस्पर्शो मकार: 'कादयो मावसानाः स्पर्शाः' इत्युक्तेः । तदादित्वं स्पर्शनप्रत्यक्षविषयत्वं चेति तत्परिहारः ॥ इति शाब्दीजातिः ॥ गुणे कृते बिभ्रति येऽत्र वृद्धि भागस्य हारेण भजन्ति नाशम् । गति लभन्ते विपरीतरूपां के द्विर्वधात्सत्कृतिमाश्रयन्ति ॥ अङ्काः। गुणनेन अङ्गानां वृद्धिः, भागहरणे हानिः, वामतो गतिः, द्विगुणनं कृतिः 'समद्वि- घातः कृतिरुच्यते' इत्युक्तेः ॥ ‘गुणविधौ वृद्धिः, ताइनादिवृत्तौ सत्कारः' इति विरोधः । 'भागहरणे हानिर्विपरीता' इत्यत्राशक्तिमूलकत्वम् ॥ १. 'वृत्ति भागाभ्युपेताश्च' इति पाठः. .
४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । योधान्तरस्थोऽपि न मुक्तभीरुः परादिमान्त्योऽपि सुहृत्समेतः । कुम्भस्य जेतापि न वानरेन्द्रो भवेत्कठोरोऽपि मनोहरः कः ।। पयोधरः । - वीरान्तरवृत्तेः कातरसङ्गः वैरिभिरायन्तयुक्तस्य मित्रयोगः । कुम्भकर्णपुत्रजेतु: सुग्री- वत्वाभाव इति विरोधः ॥ पयोधरशब्दो मध्यवृत्तिः पकार आदौ रेफोऽन्ते कलससाम्यं चेत्यत्र शब्दमूलकत्वम् । कठोरोऽपीत्यत्रार्थशक्तिमूलकत्वम् ॥ इति शब्दार्थोभयप्रहेलिका ॥ हृद्यगूढजाति लक्षयति- कालादिय॑ज्यते यत्र हृद्यं तदभिधीयते । तदूढं यत्र नाभाति सहसार्थो विवक्षितः॥२॥ हृद्यजातिमुदाहरति- गुरुसदसि सरसिजनजमभिमृशति करेण दयिततमे । सिन्दूरबिन्दुसुन्दरमलिकतलं पाणिना वधूः पिदधे ॥ नायिकासंयोगाभिप्रायेण तदभेदाध्यवसितकमलमालाभिमर्शः । तव मुखकुचकरकमल- संयोगः कदा मे भावी इति नायकाभिप्रायः ॥ ततस्तत्संदेहनिवृत्तये सूर्यास्तमयसमयः सं- केतकाल इति मनसिकृत्य यथोक्तभालतलतिरोधानमिति नायिकाभिप्रायः ॥ गुरुसदसीति शाब्दप्रश्नानहत्वम् ॥ बिम्बाधरभुवि यावकधावनसमयप्रसक्तसीत्काराम् । प्रातरवलोक्य बालां सपदि सपत्नीभिरुद्विग्नम् ॥ 'रागैकलिङ्गमधरै किल गूढकं स्यात्' इति कामशास्त्रादस्फुटदन्तक्षतदर्शनानर्हत्वेऽपि प्रातर्मुखप्रक्षालनसमयेऽलक्तसंयोगेन क्षतपीडोल्लासेन सीत्कारोदयदर्शनेन तदनुमित्या तस्यां प्रियानुरागमनुमाय सपत्नीनां वैमनस्यमिति भावः ॥ आलीभिर्मधुसंनिधिमवधार्यारामदोहदव्याजात् । आर्द्रतरचन्दनागुरुधूपध्वजजो विधीयते धूमः ॥ वसन्तागममवधार्य नायिका सुतरां मा व्यथिष्टत्याशयेन सखीभिरारामे दोहादच्छलेन धूपो दत्तः । धूमातिशयलाभाय आईतरेति ॥ तथा च धूमावृततया पल्लवादीनां कोकिला- दीनां च दर्शन मास्तु धूमव्यथया कोकिलानामुपवनाद्गमनेन तत्कूजितश्रवणमपि मास्तु । ततश्च लिङ्गज्ञानाभावाद्वसन्तागमनानुमाने पूर्वापेक्षयाधिका विरहव्यथा मा भूदिति भावः ॥ विदधत्यवधीरितापराधे दयिते माननिबन्धनानुयोगम् । कुलिशाङ्कुरदिग्धपद्मरागाभरणेन सरकैतवात्तमार्चत् ॥
काव्यमाला। अवधीरितापराधे स्वापराधानङ्गीकारिणि । निबन्धने हेतुः । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । हीरकप्रत्युप्तपद्मरागाभरणदानेन नायिकान्तरदन्तव्रणविशिष्टाधरत्वं नायकस्यो- क्तम् ॥ इति हृद्यजातिः ॥ गूढजातिमुदाहरति- गन्धसमवायिवहतद्विलक्षणस्पर्शशब्दगुणपूज्याः । साजात्येऽन्यस्पर्शी यत्तनवः सोऽवताद्भवतः ॥ गन्धसमवायिवहौ क्रमेण पृथिवीवायू । तयोरनुष्णाशीतस्पर्शतया तद्विलक्षणशीतोष्ण- स्पर्शवत्त्वेन जलतेजसी उक्ते शब्दगुणमाकाशम् शब्दपूज्यो यजमानः सर्वजीवात्मा मीमां- सकानां शब्दस्यैव देवतात्वात् । एकजातीयत्वे सति भिन्नस्पशौं इति सूर्याचन्द्रौ तेज- स्वित्वेन साजात्यात् उष्णशीतस्पर्शवत्त्वाच । यद्यपि तेजस्त्वाच्चन्द्रस्याप्युष्णस्पर्शवत्वं त- थापि जलावयवस्पर्शेन तदभिभवाल्लोकदृष्ट्यैवमुक्तम् ॥ तस्मादष्टमूर्तित्वादीश्वरस्य लाभः ॥ खजनकजन्याभावोपजनकजननीयपुरनिहन्तृसखः । यं तनयं समजनयत्तद्वलितनयैर्जगद्विजितम् ॥ स्वस्य जनकं निमित्तं तत्प्रतियोगिको जन्याभावो ध्वंसः । तस्योपजनको वह्निः आ- श्रयाशत्वात् तनिमित्तेन्धनदाहहेतुत्वं तस्य जननीयं हिरण्यं तस्य पुरं हिरण्यपुरं निवात- कवचसंज्ञानां दैत्यानामावासः तस्य निहन्तार्जुनः तत्सखः कृष्णः स कामं पुत्रमजनयत् । तस्य बलितनयैर्वाणैरित्यर्थः । अत्र कामरूपोऽर्थो गोधुक्सध्यङ्क्षद्रुद्वन्द्वध्रुग्घतिच्छिदघ्न्यानाम् । योऽजविड्धक्त्वं षप्वष्किध्वे न तं कस्मात् ॥ गोदुहः सध्यश्चः सखायो यस्य, उक्षा अरिष्वृषभः द्रुद्वन्द्व यमलार्जुनसंज्ञं तं द्रुह्यतीति उक्षद्वन्द्वध्रुक् । अन्न्यानां गवां हतिच्छिद् रक्षकः । द्विषः शत्रून्दहति तस्य भावो द्वि- ड्धक्तम् अजर्घत् आचकाङ्क्ष । 'गृधु अभिकाङ्क्षायाम्' यङ्लुकि लङ् प्रथमपुरुषैकवचने रूपम् । तं श्रीकृष्णं कस्माद् न षष्वष्किध्वे न गता नाश्रिता इति यावत् ॥ आपन्नान्प्र- त्युक्तिः । 'वष्क गतौ' इत्यस्य लिटि मध्यमपुरुषबहुवचने रूपम् ॥ पातातुराणां बोधैक्यमयो धुर्याप्तिसूः सताम् । दलितैनःसमुदयः पातु वो मधुसूदनः ॥ आतुराणाम् आपद्गतानां पाता बोधो ज्ञानं तदभिन्नः वेदान्तिमते नित्यज्ञानरूपत्वात् सतां सत्त्वेन भासमानानां धुरि अग्रे आप्तिः प्राप्तिस्तां झूते इत्याप्तिसूः व्यावहारिकसत्ता- वत्प्रपञ्चापेक्षया अधिकसत्तावत्त्वात् ब्रह्मसत्तायाः पारमार्थिकत्वात् । 'प्राणा वै सत्यं तेषा- मेष एव सत्यः' इति श्रुतेः ॥ अत्र चतुर्थपादघटकवर्णाः पूर्वपादत्रये स्थिता इति बोध्यम् ॥ गूढः ॥ ।
४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । जन्मादिका दशा यस्मात्तिस्रोऽस्य स्मयवर्जिताः । रम्यः शास्ता सदा नः स जयति स्मरशासनः ॥ अस्य प्रपञ्चस्य जन्मस्थितिभङ्गरूपास्तिस्रो दशा यस्माद्भवन्ति । तथा च ब्रह्मस्वरूप इत्यर्थः । 'जन्माद्यस्य यतः' इति वेदान्तसूत्रम् ॥ स्मयोऽहंकारः। अविद्येति यावत् । तद्वजितो नित्यशुद्धबुद्धस्वभावत्वात् । आविद्यकजीवस्यैव तद्विकारसंबन्धात् । उपाधैः प्रति- तिबिम्बपक्षपातित्वात् इति वेदान्तिनः ॥ रम्य आनन्दमयत्वात् नोऽस्माकं सदा नित्यं शास्ता प्रेरकः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः' इत्यादि- श्रुतेः ॥ अत्रापि पूर्ववत्पादगूढत्वम् ॥ हरित्नाचेतसी भाति जपाकुसुमपाटला । पाकशासनदिश्येषा दृश्यते तमसां ततिः ॥ वरुणदिशः पाटलत्वेन स्वस्योपपत्तिविषयकानुरागवत्त्वं छोतितम् ॥ उत्तरार्धे सख्युक्त्या अभिसारार्ह नीलनिचोलादिग्रहणं व्यञ्जितम् ॥ अनिमिषनयना वनिता पन्थानं पश्यति प्रियतमस्य । कालयति मिलितमलिकुलमालिजनः केतकव्यजनैः ।। अवधिदिने प्रियागमनमार्ग पश्यन्त्यां नायिकायां प्रतिबन्धवशात्तदनागमनेऽस्या अत्या- हितं स्यादित्याशङ्कया केतकपत्रैरेव तन्मुखसंबन्धिभ्रमरवारणं कृतम् । परिजनस्य तथै- वाचरितुमर्हत्वात् । केतकेन तत्करणं तु तत्परागैर्नायिकानेत्रसंवरणे मार्गदर्शनाभावात्प्रि- यानागमननिश्चयो माभूत ॥ आगमने तु अस्माभिरेव निवेदयिष्यते इत्याशयः ॥ अर्थ- गूढम् ॥ ईशानोऽसि पशूनां निहंसि यज्ञं पुराणि निर्दहसि । भूत्या भृशमवलिप्तो भव तदपि त्वं गुरुर्जगताम् ॥ पशूनां संसारिणाम् 'यथा ह वै बहवः पशवो मनुष्यं भुनक्त्युवेवनेनैकः पुरुषो दैवान्भु- नक्ति' इति श्रुतेः । यज्ञं दक्षस्य, पुराणि त्रीणि पुराणि प्रलये त्रिविष्टपं वा, भूतिर्भसितं 'भूतिभस्मनि संपदि' इत्यमरः ॥ निन्दाप्रतीतिः स्पष्टा ॥ व्याजस्तुतिरलंकारोऽयम् ॥ करविन्यासाद्विजितद्विजेन्द्रमानो गृहीतसकलश्रीः । धात्रीलाघवहेतुर्दाशार्होऽवतु जगन्नाथः ॥ गरुडेन विष्णुसमुद्वहनादभिमाने कृते स्वकरन्यासेन भगवता तदहंकारभङ्गः कृत इति उद्योगपर्वणि मातलिकन्यावरान्वेषणे स्पष्टम् ॥ गृहीता सकलस्य सकला वा श्रीर्येन। 'पुनान्नि भगवान्विष्णुः स्त्रीनाम्नि कमलालया' इति विष्णुपुराणात् । 'यद्यद्विभूतिमत्सत्त्वं श्रीमदू- जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम्' इति भगवदुक्तेश्च ॥ धात्री भूमि- ।
१०० काव्यमाला। स्तल्लाघवहेतुः तद्भारावतारकत्वात् ॥ पक्षे-ब्राह्मणात्करग्रहणं सकलश्रीहारकत्वं माला- घवकरत्वं च निन्द्यत्वे हेतव इत्यर्थः ॥ इति स्तुतिनिन्दाजातिः ।। मानभारमवलम्ब्य पुरा या ग्रन्थिभिर्निबिडिता किल तस्थौ । प्रेयसीक्षणपथं गतमात्रे सोललास सखिनीविरहं च ॥ ग्रन्थयो नीविविन्यासविशेषाः ॥ पक्षे-मानजन्या मनोवृत्तिविशेषाः ॥ तस्थाविति लिटि प्रथमोत्तमपुरुषयोरेकवचने तुल्यं रूपम् ॥ एवम् 'उल्ललास' इत्यत्रापि बोध्यम् ॥ उल्लासः शैथिल्यम्, पक्षेप्रसादः ॥ गरयति वलयादीनिन्द्रियार्थाश्च सर्वा- न्दवयति हिमरश्मि जीविताशां च सद्यः । नयनमपि मुहूर्त वर्षयत्यञ्जसा यं दयिततमवियोगः स्मेरपङ्केरुहाक्ष्याः ॥ गुरूनिवाचरति गरयति दुर्वहत्वात् । पक्षे-गरवत्करोति विषयान्तरोपभुक्तावप्रवृत्तेः ।। दवयति वनाग्निवत्करोति । पक्षे-दूरी करोति । 'णाविष्ठवत्प्रातिपदिकस्य' इत्यतिदेशाद्गुरु- दूरशब्दयोरुक्तं रूपम् ॥ नेत्रं वर्षयति अश्रुपातात् । मुहूर्त वर्षवत्करोति दुरतिवाह्यत्वात् ॥ इति ब्यर्थजातिः ॥ आकुलयति कुचमुकुलं चुम्बति विम्बाधरं दृशौ स्पृशति । दयिततमः किमधिगतो नहि सहचरि विभ्रमभ्रमरः ॥ कुचाकुलीकरणादीनां नायकधर्मत्वं स्पष्टम् । कमलकोषादिभ्रमान्मधुकरजन्यत्वम् ॥ परमार्थभावरम्यगशेषदृश्येष्वनादरं वहति । किं मिलिता नवयुवतिर्नहि रीतिस्त्वौपनिषदानाम् ॥ परमार्थो नारोपितो नायकनिष्ठो भावोऽनुरागः तेन रम्या दृग्यस्याः । एतेन कान्तादृष्टि- रुक्ता ॥ दृश्येषु चन्द्रादिष्वनादरः तदधिकगुणवत्त्वात् ॥ औपनिषदा वेदान्तिनः । परमार्थ- भावः पारमार्थिकी सत्ता तेन रम्या दृक् ब्रह्म यत्र । दृश्या घटादयः पदार्थास्तत्रानादरः स्वातन्त्रयेण सत्ता विरहः। व्यावहारिकसत्ताभ्युपगमात् । अधिष्टानभूतचित्सत्त्यैवान्यत्र सत्ताप्रतीतिरित्यर्थः ॥ इत्यपगुतिजातिः ॥ बिन्दुमती लक्षयति- बिन्दूनेव हलां स्थाने स्वरान्प्रकृतिवल्लिखेत् । तद्विन्दुमदिति प्राहुरन्ये बिन्दुमतीति च ॥ ३ ॥ mawe ४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । १०१ बिन्दुमत्या ज्ञानोपायदर्शनमात्रार्थमुपन्यासः । सर्वश्लोकसाधारण्येनाविशेषात् ॥ নীিিঙনীতিনি। ভর্তিীচ্চিা ীি তা ৷ सौभाग्यभवनभूमिविशुद्धबोधैकशेवधि यति । तुहिनमहीधरदुहिता जनयित्री जन्यमात्रस्य ॥ इति बिन्दुमतीजातिः ॥ गुप्तजातिं लक्षयति- क्रियाकारकसंबन्धसमासवचनादिकम् । न भाखाकाङ्कितमपि यत्र तद्गुप्तमुच्यते ॥ ४ ॥ उदाहरति- कपोलतलमुज्ज्वलं त्वदलका यदानीलय- न्मृगाङ्कमुखि मेचका नवनवं तदानीं पुनः । तव श्रवणभूषणप्रणयशालिनीलोपलो- च्छलत्किरणमञ्जरीशवलिताननश्रीरिति ।। मैचकाः श्यामला अलका इति प्रतीतिः । मे मम कर्णभूषणनीलकिरणावृतमुखश्रीरिति अचका अभासथाः इति तात्पर्यम् ॥ चकास्तेर्लङि मध्यमपुरुषैकवचने रूपम् ।। 'मृगाङ्कमुखि' इत्यस्यामन्त्रितत्वादविद्यमानवद्भावेऽपि अनीलयन्नित्यस्मात्परत्वमाश्रित्य 'मे' इत्यादेशः॥ चेलाञ्चलेन वक्षोजौ तिरोधानगतावपि । वत मन्दितमन्दाक्षं सुभ्र विभ्रमवैभवम् ॥ न तिरोऽधा नाच्छादितवत्यसि । गतौ गमनसमये । विश्रमस्य वैभवमुद्रेकः । 'चित्त- वृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः' इति भरतः ॥ इति क्रियागुप्तम् ॥ बाले मकरकेतोस्त्वां महेषुरतिरूपिणीम् पश्यतस्तस्य हृदयमदयं सादयत्यलम् ॥ 'महेषुर्बाणः अत्यन्तरूपवती त्वाम्' इति च्छेदः ॥ सादयति पीडयति ॥ 'महेषत्सवेधु रतिरूपिणीम्' इति प्रतीतेगुप्तत्वम् ॥ उपैति सुरभिः सेरसहकारादिशोभितः । प्रयोविरहदूनानाममूनां तन्वते रुजम् ॥
१०२ काव्यमाला। सहकारादिभिः शोभित इति प्रतीतिः ॥ स्मेरा: सहकारा यासु तादृश्यो दिशः अभितः समन्तादिति तात्पर्यम् ॥ इति कर्तगुप्तम् ॥ वनितासूनसमये सुभग त्वद्विनाकृता । जहाति हन्यमानेयमनन्यजशिलीमुखैः ॥ सूनसमये वसन्ते इति प्रतीतिः । 'वसन्तः पुष्पसमयः' इत्यमरः ॥ असमये असून् प्राणाञ् जहातीति तात्पर्यम् । 'कुसुमेषुरनन्यजः' इत्यमरः । अनेन दशमदशाया जातप्रा- यत्वं वर्णितम् ॥ तारकाकुन्दमुकुलकदम्बककरम्बिताम् । भासाजिततमालाभां तमांसि विदधुस्तमाम् ॥ विदधुस्तमाम् अत्यन्तं विदधुरिति प्रतीतिः । तमां रात्रिम् इति तात्पर्यम् ।। इति कर्मगुप्तम् ॥ विजृम्भतेऽसौ सुरभौ कोकिलस्याशुचारुता । मन्त्रेणाथर्वणेनेव प्रतापः पुष्पधन्वनः । आशु शीघ्रं कोकिलस्य चारुतेति प्रतीतिः । अशुचा शोकरहितया उल्लासयुक्तयति यावत् । रुता शब्देनेति तात्पर्यम् ‘रु शब्दे' इत्यस्माद्भावे विप् ॥ यां गीति तव वदनात्सुतनु पिबामः सुधामधुराम् । मघवापि न तां त्रिदिवे लभते हाहापि वशगेन ॥ 'हाहा' इत्यव्ययमिति प्रतीतिः । गन्धर्वविशेषेणेति तात्पर्यम् । हाहाशब्दस्य तृतीयकव- चने तथैव रूपात् ॥ इति करणगुप्तम् ॥ मनापि वारवनिता मदनोदन्वत्यनन्तरायेऽसौ। लावण्यशालिनमपि स्वात्मानमशङ्कमर्पयति ॥ 'अन्तरायेण रहिते अनन्तराये' इति सप्तम्यन्तं 'मदनोदन्वति' इत्यस्य विशेषणमिति प्रतीतिः । अनन्तो भूयान् रा द्रव्यं यस्य सोऽनन्तराः तस्मै अनन्तराये बहुद्रव्याय पुरुषाय स्वात्मानं ददातीति तात्पर्यम् ॥ बाले निदाघमध्याह्न ब्रनदीधितिदग्धया । स्पृहा गजतया तेने महासरसयातपे॥ 'महासरसया' इति तृतीयान्तमिति प्रतीतिः । महासरसे तडागाय स्पृहा तेने इति ता- त्पर्यम् । स्पृहेरीप्सितः' इति संप्रदानसंज्ञा ॥ 'लोपः शाकल्यस्य' इति पक्षे यकारलोपाभावः ॥ इति संप्रदानगुप्तम् ॥
४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । १०३ दयिते मदनायासवशंवदपदस्पृशः । वद वारयसि प्रेम्णा किमिति स्तिमितादृशम् ॥ मदनायासः कामश्रम इति प्रतीतिः । 'अनायासेन अप्रयत्नेन त्वद्वशीभूतात् मत्' इति तात्पर्यम् । 'मत्' इति पञ्चम्येकवचने रूपम् । 'वारणार्थानामीप्सितः' इत्यपादानत्वम् ॥ प्ररूढप्रौढतारुण्या या मन्मथमदालसाः । कथं नुरुचितं तासां भवेत्सातिशयं प्रियम् ॥ 'नु' इति निपातः, 'रुचितम्' इति प्रतीतिः । 'नुः' इति नृशब्दस्य पञ्चम्येकवचने रूपम् । नुमनुष्यात्सातिशयं प्रियं किं स्यादिति तात्पर्यम् ॥ इत्यपादानगुप्तम् ॥ भवति प्रोषितवति प्रियेऽस्या बलवद्रुजः । असावपि गता प्रीतिः का वार्ता विषयान्तरे ॥ प्रिये इष्टे भवति त्वयि प्रोषितवतीत्यन्वयः । 'असौ' इति अदसूशब्दस्य प्रथमान्तं प्री- तिविशेषणमिति प्रतीतिः । 'असौ प्राणेऽपि प्रीतिर्गता' इति तात्पर्यम् ॥ तिरस्कुर्वाणया गर्व रूपरूप्यं रतेरपि । न्यस्तं प्रणयसर्वस्वं प्रिययायतनेत्रया ॥ रूपादागतं रूपरूप्यम् । हेतौ रूप्यः । रूपजन्यमित्यर्थः। प्रियया इति तृतीयान्तमिति प्रतीतिः । "प्रिये दयिते न्यस्तम्' इति तात्पर्यम् । 'लोपः शाकल्यस्य' इति यलोपाभावपक्षे रूपम् ॥ इत्यधिकरणगुप्तम् ॥ प्रेयान्दवीयान्रुचिरो रतीशः शिलीमुखा दुर्विषहा नितान्तम् । पिकाश्च कूजन्ति निकाममेते तथैव जीवस्तदपीति चित्रम् ॥ 'रतीशः' इति प्रथमान्ततया प्रतीतिः । रतीशशब्दस्य षष्ठयेकवचने रतिपतेः शिली- मुखाः दुःसहाः इति तात्पर्यम् ।। पश्य नव्यापृतः कान्त स्मार्या रेणुततिर्यथा । मलयानिलधूताम्ररजोराजिरुदीयते ॥ व्यापृतो विषयान्तरासक्तः स्मार्याः स्मरणीही इति प्रतीतिः । स्मार्याः स्मरसंबन्धिन्याः पृतः पृतनायाः सेनाया इति तात्पर्मम् । 'मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः' इति पृतनाशब्दस्य पृदादेशः ॥ इति संबन्धगुप्तम् ॥ ।
१०४ काव्यमाला। त्वय्यसाधारणस्नेहो देवरेणदृशो मम । त्वं तु जायाभयप्राया नायासं तनुषे मृषा ॥ 'देवरेण' इति तृतीयान्तमिति प्रतीतिः । देवृशब्दस्य संबोधने 'हस्वस्य गुणः' इति गुणे कृते 'देवर' इति तात्पर्यम् । 'स्वामिनो देवदेवरौं' इत्यमरः ॥ ‘एणदृशो मम' इत्य- भेदान्वयः॥ त्वां प्रेक्ष्य नरसामान्यं वहति प्रणयं वधूः । तव साधारणी तत्र वृत्तिरित्यतिकौतुकम् ॥ नरसामान्य पुरुषान्तरसाधारणमिति प्रतीतिः । 'नर्' इति मनुष्यसंबुद्धौ असाधारण- प्रणयमिति तात्पर्यम् । नृशब्दस्य संबुद्धौ ‘नर्' इति रूपम् ॥ इत्यामन्त्रितगुप्तम् ॥ अयं वहति हे तन्वि सुरभिर्मालयो मरुत् । रोलम्बानां कदम्बेन यो भाति तमसावृतः ॥ 'तमसा' इति पृथक्पदम् इति प्रतीतिः ॥ 'ओजःसहोम्भस्तमसस्तृतीयायाः' इति समा- सेऽप्यलुक् । 'तमसावृतः' इति समासे तात्पर्यम् ॥ धनायावैभवं प्राप्य सखे किं बहु खिद्यसे । मौक्तिकानि गृहे पद्मरागाभ्यामावृतानि ते ॥ 'अवैभवमसामर्थ्य प्राप्य धनाय धनार्थम्' इति प्रतीतिः ॥ धनाया धनेच्छा तस्या वैभ- वमिति तात्पर्यम् । 'अशनायोदन्यधनाया-' इति वजन्तादकारः प्रत्ययः । इति समासगुप्तम् ॥ स्मरतापच्छिदमिदंबिम्बाधरसुधारसम् । समिद्धं दधतो धर्म धयन्त्यभ्यधिके बुधाः ॥ 'इदम्' इति पृथक् क्लीबमिति प्रतीतिः॥ अस्या बिम्बाधर इदंबिम्बाधर इति तात्पर्यम् ॥ कमनीयं मधुसमयो मधुरतमः प्रियतमो दूरे । मदयति हृदयं मदनः को वेद विजृम्भितानि विधेः ॥ 'कमनीयं रमणीयमिति क्लीबे रूपमिति प्रतीतिः ॥ 'इयं कमनी कामुका' इति तात्पर्यम् । 'कमनः कामुकोऽभिकः' इत्यमरः ।। इति लिङ्गगुप्तम् ॥ विभ्रमसंभवभूमिः स्पृहणीया गुणगणैरगणनीयैः । मानिन्यस्तुंकारं धिनोति मदनोत्सवे दधती ॥
४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । १०५ Pyare 'मानिन्यः कामिन्य इति बहुवचनान्तमिति प्रतीतिः । 'मानिनी' इत्येकवचने तात्पर्यम् मदनोत्सवे अस्तुंकारम् अनुमति दधतीत्यन्वयः । 'अस्तुंकारोऽभ्युपगमः' इत्यमरः ॥ इति सुब्वचनगुप्तम् ॥ जनानां संचारत्यजि पथि निशीथेऽथ नभस- स्तमिस्त्रव्यामिश्रे नदति मुदिरे मेदुरतमे । प्रियं स्वप्राणानामभिसिसयिषीं नैव विभयां- बभूवुस्ताः सख्योऽप्यहह सहजाहर्यति यतः ॥ 'हयति' इत्येकवचनान्तमिति प्रतीतिः । सह नायिकया सार्धं जाहर्यति (कुटिलं) ग- च्छति इति 'हर्य गती' इत्यस्य यङ्लुकि बहुवचने रूपम् ॥ इति तिवचनगुप्तम् ॥ न्च्युतजाति लक्षयति- यत्र त्यागेन मात्रादेरन्योऽप्यर्थः प्रतीयते । तत्तत्संज्ञमनासन्न स्थानच्युतकमुच्यते ॥५॥ मात्रादीत्यादिपदं विन्दुविसर्गवर्णव्यञ्जनपरम् । अनासन्नम् आसत्तिरहितम् । यथा--- 'गिरि(क्तमग्निमान्देवदत्तेन' इत्यादि । उदाहरति- मुक्तात्मकमतिस्वच्छं तारनायकभूषितम् । हारं धन्याः प्रपश्यन्ति कान्ताहृदयसंगतम् ॥ मुक्तात्मकं मौक्तिकघटितत्वात् तारेण शुद्धेन नायकेन मध्यमणिना। 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः ॥ 'हारम्' इत्यत्र दीर्घत्यागे 'हरम्' इत्यर्थः । हरस्येदं हारमपि मुक्तात्मकं परमात्मस्वरूपत्वात् । तारनायकेन चन्द्रेण भूषितम् ॥ बिभ्रते सुरभितां सुकुमारस्पर्शमाकलयते मधुराय । स्पार्शनेन हरते परितापं सारसाय बहवः स्पृहयन्ति ।। 'सारसाय' इत्यत्र दीर्घत्यागे 'सरसाय' सहृदयायेत्यर्थः ॥ इति मात्राच्युतकम् ॥ विशिष्टद्रव्यवटितं दोषान्तगमनोचितम् । सेव्यमानं महारुग्भिरङ्गदं तन्वि रोचते ।। विशिष्टेन द्रव्येण रत्नादिरूपेण ॥ दोषा बाहुः । 'दोर्दोषा च भुजो बाहुः' इत्यभिधा- नात् ॥ महारुग्भिर्महाकान्तिभिरिति कर्मधारयः ॥ अङ्गदपदे बिन्दुत्यागे अगदमोषधमि- १. 'अभिसिसिरियन्ती' इति पुस्तकान्तरपाठः.
pustage १०६ काव्यमाला। त्यर्थः । तत्र द्रव्यं पारदादि । दोषा वातादयः । महारुग्भिरिति बहुव्रीहिः । महारोगयु- क्तैरित्यर्थः ॥ रजनीरमणस्तदङ्गजान्तरवृत्त्या गणनीयतां गतः । सखि कुञ्ज इव स्वसंगमाद्दुधमप्यन्यथयन्विभाव्यते ॥ रजनीरमणो जारः तद्विषयकोऽङ्गजः कामः तयोरन्तरवृत्या तदनुरोधेन गणनीयतामा- दरणीयत्वं प्राप्तः स्वसंयोगेन बुधमप्यन्यथाकुर्वन् उद्दीपकत्वात् ॥ कुञ्जपदे बिन्दुत्यागे कुजो भौम इत्यर्थः । रजनीरमणश्चन्द्र एतस्याङ्गजः पुत्रो बुधः तयोरन्तरे गण्यः । सोम- भौमबुधेत्यादिक्रमेण ग्रहाणां गणनीयत्वात् । स्वसंयोगायुधमप्यन्यथाकुर्वन् । बुधस्य भौम- योगे पापग्रहत्वोक्तेः । 'क्षीणेन्द्वर्कमहीसुतार्कतनयाः पापा बुधस्तैर्युतः' इति ज्योतिषोक्तेः ॥ इति बिन्दुच्युतकम् ॥ पयोदसमये जाते प्रचलाः कीरराजयः । पश्याधुना विदधते स्वपक्षहरिता. दिशः ॥ वर्षासमयापगमे प्रचला उल्लासविशेषयुक्ताः कीरराजयः शुकपतयः स्वपत्रैर्दिशो हरि- द्वर्णा विदधते कुर्वन्ति ॥ प्रचला इत्यत्र विसर्गलोपे प्रचलाकी मयूर इत्यर्थः । 'प्रचलाकी मयूरः स्यात्कलापी बहिण: शिखी' इति हलायुधः ॥ अजातेऽनपगते इति च्छेदः ॥ यो मयूरो वर्षासु रराज स इदानीं शरदि स्वपक्षैर्गलितैरिति ज्ञेयम् । 'विदधते' इति 'दध धा. रणे' इति भ्वादिकस्य रूपम् । तुल्यमन्यत् ॥ कलाः पिबन्निशाभर्तुरिव कान्ते विधंतुदः । विभाति केशपाशस्ते कुन्दकुलगुम्फितः ॥ राहुकेशपाशयोरुपमानोपमेयभावः । कलानां कुन्दमुकुलानां च बिम्बप्रतिबिम्बभावः ॥ 'कलाः' इत्यत्र विसर्गत्यागे कलापिवन्मयूरस्येवेत्यर्थः । तत्र तस्येव' इति वतिप्रत्ययः । निशाभर्तुश्चन्द्रस्य समीपवर्ती राहुरिवेत्युपमान्तरम् । अन्यत्र राहोरदृश्यत्वाद्विशेषणो- पादानम् ॥ इति विसर्गच्युतकम् ॥ प्रतिपक्षरतानेकविधरागप्रियेक्षणा । वियोगिनीमनोबाधामादधाति शिखण्डिता ॥ सर्वपक्षवृत्तिविविधवर्णैः प्रियं दर्शनं यस्या एतादृशी शिखण्डिता मयूरत्वं विरहिणीनां भनोबाधां करोति । मयूरप्रत्यक्षमाक्षेपलभ्यम् ॥ 'शि' इत्यक्षरत्यागे ‘खण्डिता' नायिकावि- शेषः वियोगिनीति तद्विशेषणम् । प्रतिपक्षस्य सपत्न्या रतेन संभोगेन बहुविधा रागाः कु- कुमादिवर्णा यत्र तादृशे प्रिये ईक्षणं यस्याः । 'अन्यनायिकासंभोगचिहाङ्कितप्रियदर्शिनी खण्डिता' इत्यर्थः॥ विकास ४ परिच्छेदः] कवीन्द्रकर्णाभरणम् । १०७ यौवनाभ्युदयोद्भूतगुणातिशयशालिना । प्रियेऽवयवभेदेन जितस्तव चकोरकः ॥ अवयवभेदो नेत्रम् । अतिशयो विस्तारचाञ्चल्यादिः ॥ चकारत्यागेन कोरकः कुल: अवयवभेदः स्तनः । अतिशयः पीनोच्चत्वरूपः ॥ इति वर्णच्युतकम् ॥ द्रव्यं पञ्चविधं जातिं चतुर्विंशतिधा विदुः । गुणं द्विधा च नवधा कर्म काणादपुंगवाः ।। 'द्रव्यं पञ्चविधम्' इत्यादिरयोग्योऽर्थः ॥ 'द्रव्यं नवधा, गुणं चतुर्विंशतिधा, कर्म पञ्चधा, जातिं द्विधा' इति विवक्षितोऽन्वयः ॥ स्नेहो विहायसो गन्धो जलस्य धरणेः सुखम् । शब्दो जीवस्य विबुधैर्विशेषगुण उच्यते ॥ स्नेही जलस्य, शब्दो विहायसः, गन्धो धरणेः, सुखं जीवस्य, विशेषगुण इत्यन्वये तात्पर्यम् ॥ इति स्थानच्युतकम् ॥ अङ्गभूसहजोदारमेघनादविभीषणः । वेलायामकलङ्कायां श्रावणोऽयं विजृम्भते ॥ अकलङ्कायां दोषहीनायां वेलायां श्रावणो मासः अङ्गभः कामः तस्य सहजः सहोदर- स्तब्यभिचारहीन इति यावत् ॥ उदारो महान् यो मेघानां नादस्तेन विभीषणो भयंकरः वियोगिजनदुःसहत्वात् ॥ श्रावणपदे शकारत्यागे रावण इत्यर्थः ॥ वेलायां समुद्रतीरे आ- यामो विस्तारो यस्यास्तादृश्यां लङ्कायामित्यन्वयः ॥ अङ्गभूः पुत्रः सहजो भ्राता तद्रूपों उदारौ श्लाघ्यो मेघनादविभीषणौ यस्य । मेघनादपिता विभीषणभ्राता चेत्यर्थः ।। हृदयाभीष्टहृदयवीतिहोत्रविहारिणी। श्वसनं सहते नेयं चन्दनामोदमेदुरम् ।। श्वसनपदे शकारत्यागे वसन इत्यर्थः ॥ मलयानिलस्य मदनोद्दीपकत्वात्तद्वस्त्रस्य का. याच दुःसहत्वादित्यर्थः ॥ इति व्यञ्जनच्युतकम् ॥ च्युतदत्ताक्षरजातिं लक्षयति- समुढत्याक्षरं किंचित्तत्स्थानेऽन्यतदर्पणात् । यत्रार्थान्तरमाभाति च्युतदत्ताक्षरं तु तत् ॥ ६॥ पूर्वत्र त्यागमात्रमिह तु त्यागो वर्णान्तरदानं चेति विशेषः ॥
IASNEHaminenie काव्यमाला। ma उदाहरति- सदाधनंजयालीकयुतो जगति गोगतिः । विदितासमबाणारिः पुरारिरवतात्तराम् ॥ सदा नित्यं धनंजयो वद्भिर्यत्र तादृशेन अलीकेन युतः गोगतिः वृषवाहनत्वात् ॥ वि- दितः ख्यातोऽसमबाणः कामस्तस्य वैरीति शिवपक्षेऽर्थः ॥ पुरारिपदे पकारत्यागे तत्स्थाने मकारदाने च मुरारिविष्णुरित्यर्थः ॥ धनंजयोऽर्जुनस्तस्यालीकं विघमं तस्माद्युतः पृथग्भूत- स्तत्सखत्वात् 'यु मिश्रणामिश्रणयोः' इत्युक्तेः । गोगति भारापहारकत्वात् । ख्यातोऽसमो निरुपमो बाणो दैत्यविशेषस्तस्यारिरित्यर्थः ॥ शंवरारातिविजयी वाहिनीदयितालिकः । वामदेवो विजयते सतारापतिलक्ष्मणः ॥ शंबरारातिः कामः तस्य विजेता । वाहिनी नदी तद्दयितम् अलिक ललाटं यस्य गङ्गा- लंकृतमस्तकत्वात् । तारापतिरूपेण लक्ष्मणेन चिद्देन सहितः । इन्दुमौलित्वात् ॥ वाम- देवपदे आद्यवकारत्यागे तत्स्थाने रेफदाने च रामदेवः श्रीराम इत्यर्थः ॥ शंबं वज्रं राति वैरिभ्यो ददाति शंबर इन्द्रस्तस्यारातिः अर्थाद्रावणस्तस्य विजयी । वाहिनीदयिते समुद्र आलिः सेतुर्यस्य । तारापतिः सुग्रीवः, लक्ष्मणः सौमित्रिस्ताभ्यां सहित: ॥ तत्रैव कका- रदाने कामदेव इत्यर्थः ।। शंबररूपस्यारातेविजयी तद्वधकर्तृत्वात् । वाहिनासेनारूपा द- यितानां स्त्रीणामालियस्य तत्सहायेन जगद्विजेतृत्वात् । चन्द्ररूपेण लक्ष्मणेन चिरुन सहितः तस्य कामोद्दीपकत्वात् ॥ इति च्युतदत्ताक्षरजातिः ॥ श्रीमन्महीमहिततत्तदसीमधीम- न्मूर्धन्यतार्कलितसंगतधन्यताकः । लक्ष्मीधरो यमुदसूत मुदं प्रसूतां विश्वेश्वरस्य कृतिरस्य चिरस्य लोके ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणविद्वद्धुरंधरश्रीविश्वेश्वरकृतो कवीन्द्र कर्णाभरणे स्वोपज्ञव्याख्यासहित चतुर्थः परिच्छेदः समाप्तः ॥ समाप्तोऽयं ग्रन्थः। १. 'कलन' इति पुस्तकान्तरपाठः.
प्रबोधसुधाकरः। १०९ प्रबोधसुधाकरः। नित्यानन्दैकरसं सच्चिन्मानं स्वयं ज्योतिः। पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १ ॥ यं वर्णयितुं साक्षाच्छुतिरपि मूकेव मौनमावहति । सोऽस्माकं मनुजानां किं वाचां गोचरो भवति ॥ २ ॥ यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव । अध्यात्मशास्त्रसाराद्धरिचिन्तनकीर्तनाभ्यासात् ॥ ३ ॥ स्कृप्तैर्वहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः । पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् ॥ ४ ॥ वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् । मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५ ॥ सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु । तत्राहन्ता देहे ममता भार्यादिविषयेषु ॥ ६ ॥ देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयः । एवं विचार्यमाणेऽहन्ता ममता निवर्तत ॥ ७ ॥ स्त्रीपुंसोः संयोगात्संपाते शुक्रशोणितयोः । प्रविशञ्जीवः शनकैः स्वकर्मणा गर्भमालभते ॥ ८ ॥ मातृगुरूदरदर्या कफमूत्रपुरीषपूर्णायाम् । जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९ ॥ दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति । शस्त्रैविखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ॥१०॥ अथवा यन्त्रच्छिद्राद्यदा तु निःसार्यते प्रबलैः । प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११ ॥ १. ग्रन्थकर्तुर्नाम नोपलब्धम् , अत एवास्य देशकालावप्यनिश्चितावेव. एकमेवास्य पु- स्तकं काश्मीरमहाराजाश्रितज्योतिर्विद्वरश्रीदयारामपण्डितप्रवरैः प्रहितमस्ति, तदाधारे- णैवैतन्मुद्रणमकारीति भद्रम्.
११०
काव्यमाला।
आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारियैः ।
जन्मानन्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२ ॥
नरपशुविहंगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३ ॥
चरमस्तत्र नृदेहस्तत्राजन्मान्वयोत्पत्तिः ।
खकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥ १४ ॥
आत्मानात्मविवेको देहस्य विनाशिताज्ञानम् ।
एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या ॥ १५ ॥
आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि ।
तच्चेद्गच्छति सर्व मृषा ततः काधिका हानिः ॥ १६ ॥
नरदेहातिक्रमणाप्राप्तौ पश्वादिदेहानाम् ।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७ ॥
सततं प्रबाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः ।
हा कष्टं क्षुत्क्षामन्तै! शक्यते वक्तुम् ॥ १८ ॥
रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिदेहः ।
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः ॥ १९ ॥
नासाग्राद्वदनाद्वा कर्फ मलं पायुतो विसृजन् ।
स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति ॥ २० ॥
पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति ।
नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः ॥ २१ ॥
केशावधि नखरामादिदमन्तः पूतिगन्धसंपूर्णम् ।
बहिरपि जानंश्चन्दनकर्पूराद्यैर्विलेपयति ॥ २२ ॥
यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् ।
औपाधिकगुणनिवहं प्रकाशयश्लाघते मूढः ॥ २३ ॥
क्षतमुत्पन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् ।
तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धिसंकीर्णाः ॥ २४ ॥
प्रबोधसुधाकरः । यो देहः सुप्तोऽभूत्सपुष्पशय्योपशोभिते तल्पे । संप्रति स रज्जुकाष्ठनियन्त्रितः क्षिप्यते वह्नौ ॥ २५ ॥ सिंहासनोपविष्टं यदृष्ट्वा मुदमवाप लोकोऽयम् । तं कालाकृष्टतनुं विलोक्य नेत्रं निमीलयति ॥ २६ ॥ एवंविधमतिमलिनं देहं यत्सत्तया चलति । तं विस्मृत्य परेशं वहन्त्यहन्तामनित्येऽस्मिन् ॥ २७ ॥ क्वासौ सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः । इति यो लज्जति(?) धीमानितरशरीरं स किं मनुते ॥ २८ ॥ इति देहनिन्दाप्रकरणम् ॥१॥ मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या । दुरदृष्टवृष्टिभिरिदं देहं गेहं पतत्येव ॥ २९ ॥ भार्या रूपविहीना मनसः खेदाय जायते पुंसाम् । अत्यन्तं रूपवती सा परपुरुषैर्वशीक्रियते ॥ ३० ॥ यः कश्चित्परपुरुषो मित्रं भृत्योऽथवा भिक्षुः । पश्यति हि साभिलाषं विवक्षितोदाररूपवतीम् ॥ ३१ ॥ यं कंचित्पुरुषवरं स्वभर्तुरतिसुन्दरं दृष्ट्वा । मृगयति किं न मृगाक्षी मनसेव परस्त्रियं पुरुषः ॥ ३२ ॥ एवं सुरूपनार्या भर्ता कोपाप्रतिक्षणं क्षीणः । नो लभते सुखलेशं बलिमिव बलिभुग्बहुष्वेकः ॥ ३३ ॥ वनिता नितान्तमज्ञा स्वाज्ञामुल्लङ्घय वर्तते यदि सा । शत्रोरप्यधिकतरा पराभिलाषिण्यसौ किमुत ॥ ३४ ॥ लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः । मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः ॥ ३५ ॥ सर्वेऽपि पुत्रभाजस्तन्मुक्तौ संसृतिर्भवति । १. 'विकीर्णहरिचन्दनद्रविणि यत्र लीलालसा निपेतुरलिचञ्चलाश्चतुरकामिनीदृष्टयः । तदेतदुपरिभ्रमन्निबिडगृध्रजालं जनैलुंठत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते ॥ इति प्रा- चीनं पद्यमनुहरति.
११२
१
काव्यमाला।
श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥ ३६ ॥
तत्प्राप्युपायसत्त्वाद्वितीयपक्षेऽप्यपुत्रस्य ।
पुत्रेष्टयादिकयागप्रवृत्तये वेदवादोऽयम् ॥ ३७ ।।
नानाशरीरकष्टैर्धन व्ययैः साध्यते पुत्रः ।
उत्पन्नमात्रपुत्रे जीवितचिन्ता गरीयसी तस्य ॥ ३८ ॥
जीवन्नपि किं मूर्खः प्राज्ञः किं वा सुशीलभाग्भविता ।
जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः ॥ ३९ ॥
पितृमातृबन्धुघाती मनसः खेदाय जायते पुत्रः ।
चिन्तयति तातनिधनं पुत्रो द्रव्यायधीशताहेतोः ॥ ४० ॥
सर्वगुणैरुपपन्नः पुत्रः कस्यापि कुत्रचिद्भवति ।
सोऽल्पायू रुग्णो वा ह्यनपत्यो वा तथापि खेदाय ॥ ४ १ ॥
पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम् ।
इत्थं शरीरकष्टैर्दुःखं संप्रार्थ्यते मूढैः ॥ ४२ ॥
पितृमातृबन्धुभगिनीपितृव्यजामातृमुख्यानाम् ।
मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका ॥ ४३ ॥
दैवं यावद्विपुलं यावत्प्रचुरः परोपकारश्च ।
तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे ॥ ४४ ॥
अनन्ति चेदनुदिनं वन्दिन इव वर्णयन्ति संतृप्ताः ।
तच्चेत्रिदिनान्तरमभिनिन्दन्तः प्रकुप्यन्ति ॥ ४५ ॥
दुर्भरजठरनिमित्तं समुपार्जयितुं प्रवर्तते चित्तम् ।
लक्षावधि बहुवित्तं तथाप्यलभ्यं कपर्दिकामात्रम् ॥ ४६ ॥
लब्धश्चेदधिकोऽर्थः पत्न्यादीनां भवेत्स्वार्थः ।
नृपचौरतोऽप्यनर्थस्तस्माद्रव्योद्यमो व्यर्थः ॥ ४७ ॥
अन्यायमर्थभाजां पश्यति भूपोऽध्वगामितां चौरः ।
पिशुनो व्यसनप्राप्ति दायादानां गणः कलहम् ॥ ४८ ॥
पातकभरैरनेकैरथै समुपार्जयन्ति राजानः ।
अश्वमतङ्गजहेतोः प्रतिक्षणं नश्यते सोऽर्थः ॥ ४९ ॥
ENA-CHANA
HARAN
प्रबोधसुधाकरः।
राजान्तराभिगमनाद्रोगाद्वा मन्त्रिभृत्यदोषाद्वा ।
विषशस्त्रगुप्तघातान्मन्नाश्चिन्तार्णवे भूपाः ॥ ५० ॥
इति विषयनिन्दाप्रकरणम् ॥ २॥
हसति कदाचिद्रौति भ्रान्तं सद्दश दिशो भ्रमति ।
हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निन्दति स्तौति ॥ ५१ ॥
किमपि द्वेष्टि सरोष ह्यात्मानं श्लाघते कदाचिदपि ।
चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् ॥ १२ ॥
दम्भाभिमानलोभैः कामक्रोधोरुमत्सरैश्वेतः ।
आकृष्यते समन्ताच्मृभिरिव पतितास्थिवन्मार्गे ॥ १३ ॥
तस्माच्छुद्धविरागो मनोभिलपितं त्यजेदर्थम् ।
तदनभिलषितं कुर्यान्निप्पारं ततो भवति ॥ १४ ॥
इति मनोनिन्दाप्रकरणम् ॥ ३ ॥
संसृतिपारावारे ह्यगाधविषयोदकेन संपूर्णे ।
नृशरीरमम्बुतरणं कर्मसमीरैरितस्ततश्चलति ॥ ५५ ॥
छि नवभिरुपेतं जीवो नौकापतिर्महानलसः ।
छिद्राणामनिरोधाजलपरिपूर्ण पतत्यधः सततम् ॥ १६ ॥
छिद्राणां तु निरोधात्सुखेन पारं परं याति ।
तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥ १७ ॥
पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते ।
ज्ञात्वैव तदप्राप्ति व्यर्थ मनुजोऽतिपापभाग्भवति ॥ १८ ॥
पिशुनैः प्रकाममुदितां परस्य निन्दां शृणोति कर्णाभ्याम् ।
तेन परः किं म्रियते व्यर्थ मनुजोऽतिपापभाग्भवति ॥ १९ ॥
अनृतं परापवादं रसना वदति प्रतिक्षणं तेन ।
परहानिर्लब्धिः का व्यर्थ मनुजोऽतिपापभाग्भवति ॥ ६० ॥
विषयेन्द्रिययोोगे निमेषसमयेन यत्सुखं भवति ।
विषये नष्टे दुःखं यावज्जीवं च तत्तयोर्मध्ये ॥ ६१ ॥
हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् ।
अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥ ६२ ॥
११४
काव्यमाला।
धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते ।
तद्वद्विषयान्भुञ्जन्कालाकृष्टो नरः पतति ॥ ६३ ॥
उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः ।
एवं गतायुरपि सन्विषयान्समुपार्जयत्यन्धः ॥ ६४ ॥
इति विषयनिग्रहप्रकरणम् ॥ ४ ॥
स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण ।
सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥ १५ ॥
एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः ।
न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥ ६६ ॥
वर्षास्वम्भःप्रचयात्कूपे गुरुनिझरे पयः क्षारम् ।
ग्रीष्मेणैव तु शुष्के माधुर्य भजति तत्राम्भः ॥ ६७ ॥
तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥ ६८ ॥
यं विषयमभिलषित्वा धावति बाह्येन्द्रियद्वारा।
तस्याप्राप्तौ खिद्यति तथा यथा खं गतं किंचित् ।। ६९ ॥
नगनगर(दुर्ग)दुर्गमसरितः (परितः) परिभ्रमच्चेतः ।
यदि नो लभते विषयं यन्त्रितमिव खिन्नतां याति ॥ ७० ॥
तुम्बीफलं जलान्तर्वलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
तद्वन्मनः स्वरूपे निहितं यत्नाहिर्याति ॥ ७१ ।।
इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् ।
शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२ ॥
चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् ।
वैराग्यमेवमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३ ॥
निद्रावसरे यत्सुखमेतत्कि विषयजं यस्मात् ।
नहि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥ ७४ ।।
अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः ।
बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठत्यनुत्पतन्स तथा ॥ ७९ ॥
प्रबोधसुधाकरः ।
११५
सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य ।
शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥ ७६ ॥
प्राणस्यन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥ ७७ ॥
इति मनोनिग्रहप्रकरणम् ॥ ५ ॥
परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा ।
कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥ ७८ ॥
दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा ।
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९ ॥
ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः ।
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥ ८० ॥
कुत्राप्यरण्यदेशे सुनीलतृणवालुकोपचिते ।
शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥ ८१ ॥
तरवः पत्रफलाठ्याः सुगन्धशीतानिलाः परितः ।
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ ८२ ॥
वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य ।
अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥ ८३ ॥
द्रव्यं पल्लवतश्च्युतं यदि भवेत्वापि प्रमादात्तदा
शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे ।
स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं
संत्यक्ताः स्वयमेव ते शमसुखं निःश्रेयसं तन्वते ।। ८४ ॥
विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट-
न्संतापत्रयदीर्घदाहदहनज्वालावलीव्याकुलः ।
वल्गन्फल्गुसु सुप्रदीप्तनयनश्चेतः कुरङ्गो बला-
दाशापाशवशीकृतोऽपि विषयव्यात्रैर्मृषा हन्यते ॥ ८५ ॥
इति वैराग्यप्रकरणम् ॥ ६॥
उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् ।
स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥ ८६ ॥
काव्यमाला।
.
यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्तत्र ।
तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम् ॥ ८७ ॥
त्रेधा प्रतीतिरुक्ता शास्त्रानुरुतस्तथात्मनस्तत्र ।
शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥ ८ ॥
अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत् ।
आत्मप्रतीतिरस्माद्गुडभक्षणनं सुखं यद्वत् ॥ ८९ ॥
रसगन्धरूपशब्दस्पर्शा अन्ये पदार्थाश्च ।
कस्मादनुभूयन्ते नो देहान्नेन्द्रियग्रामात् ॥ ९० ॥
मृतदेहेन्द्रियवर्गो यतो न जानाति दाहजं दुःखम् ।
प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति ॥ ९१ ॥
मनसो यदि वा विषयस्तयुगपत्कि न जानाति ।
तस्य पराधीनत्वाद्यतः प्रमाद कस्त्राता ।। ९२ ॥
गाढध्वान्तगृहान्ततः क्षितितले दीपं निधायोज्ज्वलं
पञ्चच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत् ।
तबाह्ये परितोऽनुरन्ध्रममलं (2) वीणां च कस्तूरिकां
सद्रत्नं व्यजनं न्यसेच कलशच्छिद्राध्वनिर्गच्छताम् ॥ ९३ ॥
तेजोंशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते
तन्त्रैः कलशेन वा किमु मृदो भाण्डेन तैलेन वा।
किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो
दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः ॥ ९४ ॥
इत्यात्मसिद्धिप्रकरणम् ॥ ७ ॥
चिन्मात्रः परमात्मा ह्यपश्यदात्मानमात्मतया ।
अभवत्सोऽहनामा तस्मादासीद्भिदो मूलम् ॥ ९५ ॥
द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै ।
दस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् (१) ॥ ९६ ॥
सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त ।
इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्तिम् ॥ ९७ ॥
प्रबोधसुधाकरः।
११७
चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत् ।
परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥ ९८ ॥
सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः ।
सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥ ९९ ।।
माया तावददृश्या दृश्यं कार्य कथं जनयेत् ।
तन्तुभिरदृश्यरूपैः पटोऽत्र दृश्यः कथं भवति ॥ १० ॥
स्वप्ने सुरतानुभवाच्छुक्रद्रावो यथा सुतो (2) वसने ।
अनृतेतरे प्रबोधे वसनोपहतिर्भवेत्सत्या ॥ १०१ ॥
स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा ।
शुक्रगावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥ १०२ ॥
एवमहश्या माया तत्कार्यं जगदिदं दृश्यम् ।
माया तावदियं स्याद्या स्वानाशेन हर्षदा भवति ॥ १०३ ॥
रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभावोऽस्याः ।
सौदामिनीव नश्यति मुनिभिः संप्रेक्ष्यमाणैव ॥ १०४ ॥
माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता।
चिदचिद्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् ॥ १०५ ॥
घटमठकुड्यैरावृतमाकाशं यत्तदाद्वयं भवति ।
तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः ॥ १०६ ॥
ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य ।
सूर्यस्येव तमित्रं रात्रिभवं स्वप्रकाशस्य ॥ १०७ ॥
दिनकरकिरणोत्पन्नमै|राच्छाद्यते यथा सूर्यः ।
न खलु दिनस्य दिनत्वं..."विकृतं सान्द्रसंघातैः ॥ १०८ ॥
अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् ।
न परंतु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥ १०९ ॥
इति मायासिद्धिप्रकरणम् ॥ ८ ॥
स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः ।
करणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥ ११० ॥
११८
काव्यमाला।
स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः ।
अङ्गुष्ठमात्रपुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥ १११ ॥
सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव ।
षोडशमन्तःकरणं तत्संघातो हि लिङ्गतनुः ॥ ११२ ॥
तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् ।
तस्य प्रवृत्तिहेतुबुद्ध्याश्रयमत्र तुर्यं स्यात् ॥ ११३ ॥
तत्सारभूतबुद्धौ यत्प्रतिफलितं तु शुद्धचैतन्यम् ।
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ॥ ११४ ॥
चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं स्यात् ।
अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् ॥ ११६ ॥
नन्वर्कप्रतिबिम्बः सलिलादिषु यः स चावभासयति ।
किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥ ११६ ॥
प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु ।
तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥ ११७ ॥
चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः ।
नेत्रादीन्द्रियमाहिरर्थान्सोऽवभासयति ॥ ११८ ॥
इति लिङ्गदेहादिनिरूपणप्रकरणम् ॥ ९ ॥
तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति ।
स इदं सर्वं च स्यात्तस्य च देवाश्च नेशते भूत्या ॥ ११९ ॥
येषां स भवत्यात्मा योन्यामथ देवतामुपास्ते यः ।
अहमन्योऽसावन्यश्चेत्थं यो वेद पशुवत्सः ॥ १२० ॥
इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च ।
ज्ञानी त्वात्मैवेयं मतिर्ममेत्यत्र युक्तिरपि ॥ १२१ ॥
ऋजु वक्रं वा काष्ठं हुताशदग्धं सदग्नितां याति ।
तत्कि हस्तग्राह्यं ऋजुवक्राकारसत्त्वेऽपि ॥ १२२ ॥
एवं य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः ।
देहीव दृश्यतेऽसौ परं त्वसौ केवलो ह्यात्मा ॥ १२३ ॥
प्रबोधसुधाकरः । ११९ प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा । तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु ॥ १२४ ॥ दैवादेकशरावे भन्ने किं वा विलीयते सूर्यः । प्रतिविम्बचञ्चलत्वादकः किं चञ्चलो भवति ॥ १२५ ॥ सब्यापारं कुरुते यथैकसवितुः प्रकाशेन । तद्वच्चराचरमिदमेकात्मसत्तया(१) चलति ॥ १२६ ॥ येनोदकेन कदलीचम्पकजात्यादयः प्रवर्धन्ते । मूलकपलाण्डुलशनास्तेनैवैते विभिन्नरसगन्धाः ॥ १२७ ॥ एको हि सूत्रधारः काष्ठप्रकृतीरनेकशो युगपत् । स्तम्भारपट्टिकायां नर्तयतीह प्रगूढतया ॥ १२८ ॥ गुडखण्डशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः । केयूरकङ्कणाद्या यथैकहेन्नो भिदाश्च पृथक् ॥ १२९ ॥ एवं पृथक्स्वभावं पृथगाकारं पृथग्वृत्ति । जगदुच्चावचमुच्चैरेकेनैवात्मना चलति ॥ १३० ॥ स्कन्धधृतसिद्धमन्नं यावन्नानाति मार्गगस्तावत् । स्पर्शभयात्क्षुत्पीडे तस्मिन्मुक्ते न ते भवतः ॥ १३ १ ॥ मानुषमतङ्गमहिषश्वसूकरादिष्वनुस्यूतम् । यः पश्यति जगदीशं स एव भुङ्क्तेऽद्वयानन्दम् ॥ १३२ ॥ इत्यद्वैतप्रकरणम् ॥ १० ॥ यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते । तं न करोति विवस्वान्न कारयति तद्वदात्मापि !! १३३ लोहे हुतभुग्व्याप्ते लोहान्तरताड्यमानेऽपि । तस्यान्तर्गतवह्नः किं स्यान्निर्यातजं दुःखम् ॥ १३४ ॥ निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि । अन्तर्वी वहिः किं घातैश्छेद्यते तद्वत् ॥ १३५ ॥ तनुसंबन्धाज्जातैः सुखदुःखैलिप्यते नात्मा । ब्रूते श्रुतिरप्युभयोरश्नन्यन्योऽभिचाकशीत्यादि ॥ १३६ ॥ ।
१२०
काव्यमाला ।
निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति ।
ईरयति वारयति वा तं दीपः किं तथात्मापि ॥ १३७ ॥
देहान्ते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा ।
दीपस्तुष्यत्यथ वा न विद्यते तद्वदात्मापि ॥ १३८ ॥
इति कर्तृत्वभोक्तृत्वप्रकरणम् ॥ ११ ॥
रविचन्द्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः ।
यद्यपि तथाप्यमीभिः प्रकाश्यते क्वापि नैवात्मा ॥ १३९ ॥
चक्षुद्वीरैवैषां परमात्मनि भानमेतेषाम् (?) ।
यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात् ॥ १४० ॥
तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा ।
नो चेत्सत्यालोके पश्यत्यन्धः कथं नार्थान् ॥ १४ १ ॥
सत्यात्मन्यपि कि नो ज्ञानं तच्चेन्द्रियान्तरेण स्यात् ।
अन्धे दृक्प्रतिबन्धे करसंबन्धे पदार्थभानं हि ॥ १४२॥
जानाति येन सर्व केन च तं वा विजानीयात् ।
इत्युपनिषदामुक्तिबध्यत आत्मात्मना तस्मात् ॥ १४३ ॥
इति स्वप्रकाशताप्रकरणम् ॥ १२ ॥
यावत्क्षणं क्षणार्ध स्वरूपपरिचिन्तनं क्रियते ।
तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः ॥ १४४ ॥
सियारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् ।
उपलक्षणं हि मनसः परमं नादानुसंधानम् ॥ १४५ ॥
भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते ।
किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे ॥ १४६ ॥
चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम् ।
वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः ॥ १४७ ।।
नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् ।
तत्र मनो लीनं चेन्न पुनः संसारबन्धाय ॥ १४८ ॥
NRNA प्रबोधसुधाकरः । १२१ परमानन्दानुभवात्सुचिरं नादानुसंधानात् । श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेप्वनेकेषु ॥ १४९ ॥ इति नादानुसंधानप्रकरणम् ॥ १३ ॥ संसारतापमाप्तं नानायोनिभ्रमात्परिश्रान्तम् । लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि ॥ १५० ॥ अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् । इति मन्थरतां यातं यदा तदा मूर्छितं चेतः ॥ १५१ ॥ चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः । सरिदिव सागरयाता समुद्रभावं प्रयात्युच्चैः ॥ १५२ ॥ आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् । क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह ॥ १९३ ॥ दृष्टौ द्रष्टरि दृश्य यदनुस्यूतं च भानमात्रं स्यात् । तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति ॥ १५४ ॥ याति स्वसंमुखत्वं दृङ्मानं वा यदा तदा भवति । दृश्ये द्रष्टुविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति ॥ १५५ ॥ एकस्मिन्डङमात्रे तत्तदृश्यादिकं हि समुदेति । लीनं दृङ्मात्रमपि ह्येकात्मत्वं च शिष्यते पश्चात् ॥ १५६ ॥ दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति । आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा ॥ १५७ ॥ इति मनोलयप्रकरणम् ॥ १४ ॥ माधुर्य गुडपिण्डे यत्तस्यांशेऽणुमात्रेऽपि । एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति ॥ ११८ ॥ अथवा न भिन्नभावः कर्पूरामोदयोरेवम् । आत्मस्वरूपमनसां पुंसां जगदात्मतां याति ॥ १५९ ॥ यद्भावानुभवः स्यान्निद्रादौ जागरस्यान्ते । अन्तः स चेत्स्थिरः स्याल्लभते हि तदाद्वयानन्दम् ॥ १६०॥ : १६
१२२
काव्यमाला।
अतिगम्भीरेऽपारे ज्ञानचिदानन्दसागरे स्फार।
कर्मसमीरणतरला जीवतरङ्गावलिः स्फुरति ॥ १६१ ॥
खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ ।
स्फुरति मृषैव समन्तादनेकविधजीवमृगतृष्णा ॥ १६२ ॥
अन्तरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति ।
दृष्टे यसिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ॥ १६३ ॥
स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।
प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥ १६४ ॥
स्वाश्रमधर्माचरणं कृष्णप्रतिमार्जनोत्सवो नित्यम् ।
विविधोपचारकरणैर्हरिदासैः संगमः शश्वत् ॥ १६६ ॥
कृष्णकथासंश्रवणे महोत्सवः सत्यवादश्च ।
परयुवतौ द्रविणे वा परापवादे पराङ्मुखता ॥ १६६ ॥
ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।
यदुपतिकथावियोगे व्यर्थ गतमायुरिति चिन्ता ॥ १६७ ॥
एवं कुर्वति भक्ति कृष्णकथानुग्रहोत्पन्ना।
समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥ १६८ ॥
स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेौ ।
मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् ॥ १६९ ॥
सत्यं
समस्तजन्तुषु कृष्णस्यावस्थितेना॑नम् ।
अद्रोहो भूतगणे ततस्तु भूतानुकम्पा स्यात् ॥ १७० ॥
प्रमितयहच्छालाभे संतुष्टिर्दारपुत्रादौ ।
ममताशून्यत्वमतो निरहंकारत्वमक्रोधः ॥ १७१ ॥
मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता।
सुखदुःखशीतलोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥ १७२ ॥
निद्राहारविहारेष्वनादरः सङ्गराहित्यम् ।
वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥ १७३ ॥
प्रबोधसुधाकरः।
१२३
केनापि गीयमाने हरिगीते वेणुनादे वा ।
आनन्दाविर्भावाद्युगपत्स्यादृष्टजातिकोद्रेकः ॥ १७४ ॥
तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।
स्थिरतां याते तस्मिन्याति मदोन्मत्तदन्तिदशाम् ॥ १७५ ॥
जन्तुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः।
एतादृशी दया चेत्तदैव ह" सर्वशस्यः स्यात् ॥ १७६ ॥
इति द्विधाभक्तिनिरूपणप्रकरणम् ॥ १५ ॥
यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये ।
कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥ १७७ ॥
तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् ।
पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् ॥ १७८ ॥
आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् ।
मन्दस्सितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥ १७९ ॥
वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलंकारान् ।
गलविलुलितवनमालं स्वतोरड(?)न्यस्तकलिकालम् ॥ १८० ॥
गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि ।
भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥ १८१॥
मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् ।
मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥ १८२ ॥
सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः ।
सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥ १८३ ॥
कंदर्पकोटिसुभगं वाञ्छितफलदं दयावन्तम् ।
त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते ॥ १८४ ॥
पुण्यतमामतिसुरसां मनोभिरामा हरेः कथां त्यक्त्वा ।
श्रोतुं श्रवणद्वन्द्वं ग्राम्यकथामादरं वहति ॥ १८९ ॥
दौर्भाग्यमिन्द्रियाणां सत्सु च विषयेषु कृष्णविषयेषु ।
क्षणिकेषु पापकरणेष्वासज्जन्ते यदन्यविषयेषु ॥ १८६ ।।
इति ध्यानविधिप्रकरणम् ॥ १६ ॥
१२४ काव्यमाला। यशोदयापयोधरामृतेन विश्वपालको यशोदयापयोधरामृतेन सोऽपि पालितः । ........ .... सतामबन्धनोचितः सदामबन्धनो हरिः ॥ १८७ ॥ यः शेषतूलिकायां मासंवाहितपदो हि निद्राति । शेते स परिश्रान्तस्तरुमूले कम्बले गतः शिशुताम् ॥ १८८ ॥ शिरसि वहन्ति यदाज्ञाशेषां ब्रह्मादयोऽपि सुरपालाः । आज्ञापितः स गोपैः समानयति गास्त्विदं महच्चित्रम् ॥ १८९ ॥ धन्या गोपकुमार्यस्तत्सदृशं नास्ति भाग्यमपि लक्ष्म्याः । याः श्रीकृष्णेन समं व्यहरन्रासे विसृज्य तां लज्जाम् ॥ १९० ॥ चित्रं यः स्वजनानां परितुष्टः सन्ददाति साम्राज्यम् । गच्छन्पथि कुब्जायै चन्दनमभियाचते स रङ्क इव ॥ १९१ ॥ मुनयस्त्वभ्यासरता यतन्ति यत्प्राप्तये मनोयुक्त्या । अनुतिष्ठति म यत्नं स राधिकायाः प्रसादसिद्धयर्थम् ॥ १९२ ॥ संवर्णयन्ति निगमाः सहस्रपादेति यं पुरुषसूक्ते । भित्त्यवलम्बं कृत्वा स करोति शनैः शनैः क्रमणम् ।। १९३ ॥ निवसन्ति यस्य रोम्णि ब्रह्मकटाहा यथावकाशेन । चित्रं स हरिः शेते पञ्चवितस्तिप्रमाणिकान्दोले ॥ १९४ ॥ नेच्छति यः स्वामित्वं क्वचिदपि विजितात्मनामपि मुनीनाम् । चित्रं कुरुते दास्यं स एव घोषेषु पुंश्चलीस्त्रीणाम् ॥ १९५ ॥ क्षीरोद्भवकौस्तुभमपि लब्ध्वा यो नाभवद्धृष्टः । गोपालबालदत्तैर्गुञ्जाभरणैश्च मोदयुक्तः सः ॥ १९६ ॥ यस्य तु नामोच्चारात्कालोऽपि हि बाधते न भक्तजनान् । जनदृग्भीत्या जननी तस्य कपोले ह्यदान्मषीतिलकम् ॥ १९७ ॥ चित्रं पुरा सुरान्यः स्वकरेणापाययत्सुधां दिव्याम् । क्षुधितः स मातुरङ्के स्तन्याथै रोदनं स्वयं कुरुते ॥ १९८ ।।
मुग्धोपदेशः १२५ प्रवदामि कस्य पुरतः को विश्वासं करोति मद्वाक्ये । धृत्वा स्वमातृचेलं दुग्धाथै रौति केवलं ब्रह्म ॥ १९९ ।। इति प्रबोधसुधाकरः। काश्मीरकमहाकविश्रीजहणप्रणीतो मुग्धोपदेशः। पीयूषाभिनिवेश एष रभसादस्माकमद्यानया बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः । इत्थं दैत्यचयः समुद्रमथने येन क्षणाद्वञ्चित- स्तस्मै सादरमोंनमोऽस्तु कपटस्त्रीरूपिणे विष्णवे ॥ १ ॥ हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने सत्यादन्यतमाय वित्तहरणप्रत्यक्षचौराय च । चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥ २ ॥ ध्यानं यत्परमेश्वरं प्रति सदा यद्वीतराग मनो यत्कर्मातिकठोरघोरगहनं भूत्यै यदत्यादरः । आश्चर्य च शरीरदानमपि यत्कार्य विकारं विना तद्वेश्यैव तपस्विनी कलियुगे लोकोऽपि तद्भावितः ॥ ३ ॥ श्रीमन्तं शिरसा विभर्ति कुरुते विश्वभ्रमं हेलया धत्ते पाटक(?)पक्षपातमनिशं नैवामिषैस्तृप्यति । रक्तं पातुमपीहते च सकलं तार्श्वस्य मूर्तिर्यथा वेश्या किं तु भुजंगभक्षणविधौ नाद्यापि विश्राम्यति ॥ ४ ॥ १. अयं जह्नणकविः कश्मीरेषु निस्ताव्दीयद्वादशशतकपूर्वार्धे आसीत्. स्तुतश्चायं त- कालसमुद्भतेन मङ्गकविना श्रीकण्ठचरितस्यान्तिमे सर्ग. सोमपालविलासाभिधं जहणक- विप्रणीतं महाकाव्यमप्यस्ति, यस्यालंकारानुसारिणीसमाख्या टीका श्रीराजानकरुचकेन नि- मितास्ति. सोमपालश्च कश्मीरप्रान्तवर्तिराजपुर्या महीपतिरासीदिति राजतरङ्गिणीतो ज्ञा- यते. दुर्लभस्यास्य मुग्धोपदेशस्यैकं पुस्तकं कश्मीरमहाराजाश्रितज्योतिर्विदुपारपण्डित- प्रवेकश्रीदयारामशर्मभिः प्रहितम्. तदाधारेणैवैतन्मुद्रणं समजनि.
१२६ काव्यमाला । ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां कुर्वन्तु क्षणमन्तरिक्षकुसुमैः स्रग्दामशोभामपि । वेश्यानां शशशृङ्गभगिसदृशं वाल्लभ्यमासाद्य ये सर्वस्वक्षपणाय केवलमहो मूर्खाः सुखेनासते ॥ ५ ॥ श्वैत्यं कल्पय कज्जले कपिकुलेष्वारोपयाचापलं कोदण्डे जनयार्जवं विरचय ग्राव्णां गणे मार्दवम् । निम्बे साधय माधुरी सुरभितामादौ रसोने कुरु प्रेमाणं गणिकाजनेऽपि चतुरः पश्चात्सखे द्रक्ष्यसि ॥ ६ ॥ कालश्चेत्करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि । अग्निश्चेदतिशीतलः खलजनः सर्वोपकारी स चे- दायुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ॥ ७ ॥ मूढो निर्व्यसनो वणिग्विकपटो राजाधिकारी शुचिः खाधीनो भृतको जडो गुणरतश्चौरो व्यपेतस्पृहः । नीतः(भीतः) शान्तमतिर्विटः सविनयः कर्णेजपो धार्मिकः किं कुत्रापि कदापि कोऽपि भविता वेश्याजनो रागवान् ॥ ८ ॥ कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचिकासु सततं नास्ति स्थिरत्वं श्रियः । धर्मो नास्ति च नास्तिकस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥ ९ ॥ अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिरात्यन्तिकी । क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनै- ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥ १० ॥ यद्द्यूतेन युधिष्ठिरस्य विहितं यद्विष्णुना वा बले- यच्छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यत् । १. अश्वसमूहे. २. महिषस्य. ३. कुबेरस्य निखिलमपि वित्तं शुक्रेण कपटेनापहृत- मित्यादि कथा भारते शान्तिपर्वणि मोक्षधर्मेषु द्रष्टव्या.
मुग्धोपदेशः। १२७ संभूयापि च यत्सुरासुरवलैरुन्मथ्य पाथोनिधे- वेश्या पश्यत लीलयैव कुरुते तत्तद्गृहे कामिनाम् ॥ १.१ ॥ वाक्शूरस्य रणोऽवधिः कुतनयोत्पत्तिः कुलस्यावधि- बर्बान्धव्यस्य विवादभूमिरवधिः सौख्यं श्रुतस्यावधिः । वाचाटस्य विदग्धपर्षदवधिौल्यं व्रतस्यावधि- बन्धो विद्धि धनावसानमवधिर्वेश्यानुरागस्य च ॥ १२ ॥ स्वामी क्रूरमिवाश्रितं परिणतो योगीव संसारिणं शुद्धो विप्र इवान्त्यजं जनपदः श्रीमानिव श्वित्रिणम् । दासीपुत्रमिवोद्धतः कुलधरो नीचो धनीवार्थिनं पर्यन्ते तृणतुल्यमेव गणिका निःस्वं जनं पश्यति ॥ १३ ॥ विप्रो दक्षिणया महैः परिजनो मेघोदयैः कार्षिको दुर्मन्त्री व्यसनेन साहसशतैः शूरो मृगैर्लुब्धकः । बन्दी त्यागिभिरक्षरैर्जनयिता (?) लाभातिरेकैर्वणि- रोगातॆभिषगर्भकैश्च गणिका गर्भेश्वरैस्तुष्यति ॥ १४ ॥ अज्ञानः कलहैः सुभाषितपदैः सभ्योऽधमणैर्धनी जीवैः शाकुनिको द्रोदरकरः शार्यमः प्राणिभिः । ग्रामीणैविटपेटकः परिजनैः स्वामी शिशुः कन्दुकैः श्रीपुत्रैस्तरुणैस्तथा नवनवैवाराङ्गना क्रीडति ॥ १५ ॥ भृत्यः कुप्रभुसेवया नरपतिः स्वच्छन्दतादुर्नयै- हेवाकेन कविर्मदेन कुलजः क्रोधाग्निना तापसः । योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनै रागी चत्वरकामिनीपरिचयैः क्षिप्रादधः क्षिप्यते ॥ १६ ॥ शालीनां शलभवजो घुणगणो वंशप्रतानोन्नते- मत्तेभः कमलाकरस्य कुसुमोद्यानस्य दुर्मारुतः । खर्भानुविधुमण्डलस्य वडवावक्रो निधेरम्भसा- मासां कामुकसंपदां च गणिकाक्षुद्रः कीलोपद्रवः ॥ १७ ॥ १. उत्सवैः. २. ज्ञानरहितः पुरुषः. ३. द्यूतकारः. ४. विटसमूहः. ५. धनिकैः. ६. वेश्याप्रणयः. ७. वाडवाग्निः, ८. अक्षुद्रो महान्.
१२८ काव्यमाला। शौर्यस्यातिविकत्थनं रिपुनतिर्मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस्तरलता ज्ञानस्य गर्वग्रहः। ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च भ्रातर्विभ्रमनर्मणश्च गणिका सर्वात्मना दूषणम् ॥ १८ ॥ छायामभ्रदलैः खलैः सुजनतां मानोन्नतिं याच्या कार्पण्येन यशांसि धूर्तकलया मैत्री सुखं सेवया । धर्म प्राणिवधेन वाञ्छति धनं द्यूतप्रसादेन यो वेश्याभिश्च विलासमात्मनि नराकारोऽस्ति गौरेवं सः ॥१९॥ नान्धो मूर्खसमो न सेवकसमो दुःखी न यक्ष्मोपमो व्याधि धिरसत्सुतप्रतिनिधिस्त्रासो न मृत्योः समः । कष्टं नाध्वसमानमिन्द्रियसमो नारिः परस्त्रीसमं नानायुष्यमवश्यनिन्द्यमथ नो वेश्यासमं दृश्यते ॥ २० ॥ किं काकोऽपि विहंगमो मरुरपि स्थानं करीरोऽपि किं शाखी राहुरपि ग्रहः स च भवेदुष्ट्रोऽपि किं वाहनम् । किं काचोऽपि मणिमृगोऽपि करटिः प्रेष्योऽपि वा मानुषः किं वेश्यापि विलासिनी स च तदासक्तोऽपि किं कामुकः॥२१॥ कि तत्कर्म यदस्तशर्म रसना किं सा न(च) यारुंतुदा किं तत्प्रेम यदस्थिरं स च पुमानिक नाम यो निर्गुणः । सा कि श्रीरुपभोगमर्हति न या सेव्यः स किं योऽन्तरं नो जानाति तदस्ति किं विलसितं वेश्यासु यत्कृत्रिमम् ॥२२॥ दूरे तानि धनानि येषु मलनं मानस्य संजायते बन्धुः सोऽस्तु सुखी मुखे मधुमयो योऽन्तश्च मायामयः । ते भोगाः प्रलयं प्रयान्तु कथमप्यौचित्यभङ्गेन ये यायातुर्निधनं (१) वरं निधुवनं वेश्यासु मूल्येन यत् ॥ २३ ॥ अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रते- वैयर्थ्य नवयौवनस्य किमपि प्रेम्णः कलङ्काङ्कुरः । १. पुरुषाकारो वृषभः. २. 'नात: परमनायुष्यं परदाराभिमर्षणात्' इति मार्कण्डेयपुराणे स्वपुत्रं प्रति मदालसाया उपदेशः. ३. चतुर्विधासु हस्तिजातिष्वेका जातिः.
मुग्धोपदेशः। १२९ सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किमपरं वेश्यारताडम्बरः ।। २४ ॥ क्रुद्धो यस्य मनोभवस्तरुणिमा येनात्मनो वञ्चित- स्तस्तर्यश्च कटाक्षितः परिभवैः साक्षादलक्ष्मीमुखैः । युक्तायुक्तविचारणापरिहृतः कामं स कामी क्रिमिः पण्यस्त्रीषु नितम्बनामनि महानिम्बे रति विन्दति ॥ २५ ॥ शापः कोऽपि महानयं परिणतिर्दुष्कर्मणामीहशी दौर्जन्यं परमं विधेरिदमियं साक्षादलक्ष्मीः स्थिरा । सौहार्दस्य च विभ्रमस्य च रतेर्भर्तुश्च यूनां तथा यत्संत्यज्य कुलाङ्गनां बहुमुखो दासीजनः सेव्यते ॥ २६ ॥ संपर्कोऽप्यतिकर्कशः परिचयाभासोऽप्यसंपत्करो दृक्पातोऽप्यवसादसूरपि सकृत्संभाषणं दूषणम् । छायापि च्छलनात्मिका परिमलोद्गारोऽपि हालाहलं वेश्यानां विषयेषु किं पुनरहो सक्तिर्महासाहसम् ॥ २७ ।। द्रोहो यस्य पिता कलाः किल चतुःषष्टिस्तथा मातरः प्राणाः सर्वमलीकमर्थहरणं नाम प्रधानव्रतम् । विक्रेयं निजमङ्गमङ्गमपि चानङ्गः सहायः स्वयं तस्यानर्थशतात्मकस्य गणिकाव्याधेः किमस्त्यौषधम् ॥ २८ ॥ गृध्री निर्भरमामिषेषु सरघा घोरा मधूनां भरे व्याघ्री तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च । उत्तानेषु विवर्तनेषु शफरी वित्तच्छले मूषिका वेश्या कामुकवञ्चनाय भुवने रूपैरनेकैः स्थिता ॥ २९ ॥ साम्राज्यं मधुमांसमत्स्यगिलनं मन्त्री जरत्कुट्टनी दण्ड्यः सार्थकिराटसूनुरधनाः शृङ्गारिणः किंकराः । आचारो बहुगालिदानमधमो मित्रं धनं जीवितं ..."थ भन्नः प्रियः ॥ ३० ॥ १. पद्यमेतत्सुभाषितावलौ समुद्भुतमस्ति. २ सार्थो धनवान् ; किराटो वणिग्विशेषः, वेश्यानां पुरचार' १३० काव्यमाला। रागीति प्रतिपत्तिभूर्विट इति प्राप्तोऽतिवन्धं पदं श्लाघा) व्यसनीति हीनकुल इत्ययः कुटुम्बः खयम् । मान्यः प्राहत(?) इत्यहो कितव इत्याप्तश्च किं वाधिक सर्वावस्थ इति प्रमाणपुरुषो वेश्याभिरभ्यर्च्यते ॥ ३१ ॥ मांस्याकोत्कटमद्यगन्धि विहरच्चेटीनटीसंकुलं यद्वेश्यायतनं भुजंग परया भक्त्या पुरः पश्यसि । अत्रास्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी यस्याः प्रत्यहमाब्यकामुकपशुबातोपहारैवलिः ॥ ३२ ॥ प्रत्यङ्गार्पणचारुचाटुकरणप्रेमोचितप्रार्थना श्रीवातायनदर्शनादि (2) गणिकालोकस्य धर्मः परः । कुट्टन्याः पुनरुत्कटोत्कटमिदं तत्रास्त्यगस्त्यव्रतं यत्राणाहुतिरेककैव सकलै रत्नाकरैः कामिभिः ॥ ३३ ॥ कंदर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः । वेश्यानां विपुले नितम्बफलके शारैः कटाक्षरितो यद्वः क्रीडितमत्र दास्यति पुरो दारिद्यमेवोत्तरम् ॥ ३४ ॥ शूलेनाद्य मृताहमद्य सरजाः कर्तव्यमद्य व्रतं त्यागी नास्ति ततोऽधिकोऽपर इति श्लाघा विपक्षस्य च । कंचिन्नोत्सहते स राजतनयो जानाति माता ममे- त्येवं मुग्धभुजंग रूक्षगणिकावाचोऽचिराच्छ्रोष्यसि ॥ ३५ ॥ मालिन्यं प्रकटीकरोति निबिडं नैर्गुण्यमातन्वते(ती) जीर्णस्नेहपरम्परा विदधते पात्रेऽप्यहो दूषणम् । वेश्या दीपशिखेव भाति रजनौ रूपभ्रमान्धीकृतो यत्रायं कुरुते पतङ्गपतनं हाहा भुजंगबजः ॥ ३६ ॥ केशाकर्षणकर्मणि व्यवसिता वीर्य हरन्ती परं ग्लानि कामपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके । १. एतदपि पयं सुभाषितावलावस्ति.
मुग्धोपदेशः।
१३१
...
उत्कम्प मतिविभ्रमं विदधती यूनां शनैर्निन्दिता
तारुण्यस्य जनापवाद
'वेश्या च संदृश्यते ॥ ३७ ॥
योऽयं निर्दयदन्तखण्डनकरो बुद्धिप्रयोगैर्हठा-
नीरन्ध्रो भुजयन्त्रपीडनविधिः सोल्लासमुत्पादितः ।
तेनेक्षोरिव कामुकस्य सरसस्यादाय सारं परं
वेश्याभिः क्रियते बहिर्यदि पर निष्कासनं शल्कवत् ॥ ३८ ॥
वाग्भिर्भर्त्सनमंशुकादिहरणं संताडनं मुष्टिभिः
किं चान्यद्विपरीतदर्शनमधःकारोऽथ पादाहतिः ।
इत्यादि प्रथमं यदेव सुरतप्रौढोपचारक्रमे
वेश्या पश्यत तत्तदेव कुरुते निर्वासने कामिनाम् ॥ ३९ ॥
यद्भूयः परिचुम्बनं यदसकृत्सर्वाङ्गमालिङ्गानं
यत्पर्युत्सुकमीक्षितं सरभसं यच्चाटुकोत्कट्ट(त्कीर्त)नम् ।
यत्सद्भावकथानकं रहसि यत्तत्किचिदभ्यर्थनं
वेश्यानां विषवत्तदेव निपुणं चिन्त्यं सदा कामुकैः ॥ ४० ॥
बिब्बोके वकचेष्टितं बहुविधभूविभ्रमेषु भ्रम
कौटिल्यं नखरक्षतेषु सुरतोपायेषु मायां खयम् ।
सीत्कारान्तरसत्यमर्थहरणं सर्वत्र ये जानते
वेश्यानां परमं रहस्यमवनों ते केऽपि मेधाविनः ॥ ४१ ॥
किंचित्प्राहु(घु)णकागमेन किमपि प्रस्तार विस्तारव-
द्यात्राचैत्रतिथिक्रमैः किमपि च क्रोधप्रसादोदयः ।
किंचित्काञ्चनरत्नवस्त्रविषयैर्नानाविधैर्दोहदै-
द्वाराण्यर्थविनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥ ४२ ॥
अर्थोष्मा पितृलालनं विटवटामेलः प्रियंमन्यता
तारुण्यं नगरे स्थितिस्तरलता धीः कामशास्त्रं प्रति ।
संगीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा
वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥ ४३ ॥
१३२ काव्यमाला। वैदग्धीमवधीरय व्यवहितं कार्य कलाकौशलं सौजन्येन गतं किमन्यदफलो राशिर्गुणानामपि । यस्मान्न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनै- न प्राणैरपि ते भुजंग गणिका वित्तं विना तुष्यति ॥ ४४ ॥ दासी नाथ तवाहमेव विभवः सर्वस्त्वदीयः स्थितो मा मां निर्दय मुञ्च शून्यमखिलं मन्ये जगत्त्वां विना । इत्युक्त्वा सहसा भुजंगपुरतो यद्वेश्यया रुद्यते भुक्तोच्छिष्टदरिद्रकामिविभवास्ते केवलं तद्विदुः ॥ ४५ ॥ स्वप्ने कामपि संस्मरन्प्रिय मया दृष्टोऽसि तत्ते बला- देवं मां प्रति सांप्रतं किमुचिता निष्कारणं वञ्चना । तज्जागर्मि वरं निशासु यदसौ निद्रापि मे द्रोहिणी- त्यालापैगणिकागणेन न च को विश्वास्यते कामुकः ॥ ४६ ॥ भ्रूभ.रतिभड्डरैः कुटिलितप्रान्तैस्तथा कुन्तलैः सोपेक्षैरिव चक्षुषोः सरलितापाङ्गैश्च भङ्गयन्तरैः । आत्मीयां चलचित्तवृत्तिरचनां वेश्या वराकी सदा यूनां दर्शयतीव ते यदि परं मूढा न तज्जानते ॥ ४७ ॥ वक्रोक्त्या प्रथमं निरादरतया पश्चात्ततः केनचि- दातव्यं बहु तत्र यामि भवतां(ताद्) भूयोऽपि नौ संगमः । इत्युक्तोऽपि न बुध्यते खलु यदा रागी दरिद्रो जड- श्चेटीभिर्बहुभाषितैरपि तदा हस्तार्गलैर्वार्यते ॥ ४८ ॥ भूयः कालवशात्तमर्जितधनं दृष्ट्वाथ मद्वल्लभः स क्रुद्धो गमितस्त्वयेति कलहो मात्रा समं जायते । कृत्वा तं प्रति च व्रतादि विरहं खं नाटयित्वा तत- स्तस्मिन्मित्रमुखेन संधिरपरो वेश्याभिरुत्पाद्यते ॥ ४९ ॥ प्रौढ प्राणद कान्त नाथ सुभगोदार प्रिय त्वां विना किं वित्तेन गृहेण किं किमसुभिह्योऽपीति यो भाषितः । १. पूर्वदिनेऽपि.
मुग्धोपदेशः। तस्यैवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना धिक्त्वां निर्धनचङ्गमित्यपवदन्हीतो न वेश्याजनः ॥ ५० ॥ केचिद्दयूतकरा भवन्ति कतिचिद्भिक्षाचराः किंकराः केचित्कर्मकराः परे धनवतां श्लाघाकराः केचन । स्कन्धासक्तपटच्चरा घ(अ)नुचरा शोकादकिंचित्करा- स्तेऽमी कामिवराः पुरा समभवन्वेश्यासु ये गोचराः ॥ ११ ॥ वेश्याभिर्विवशीकृतः कुपुरुषः संजायते दुर्गतो दौर्गत्येन दुरोदरे निपतितः खं हारयत्येव सः । रुद्धो द्यूतकरैः करोति विधुरश्चौर्य ततस्तस्करो वध्यः स्यान्नृपतेरहो नु विषयासक्तेर्दुरन्ता गतिः ॥ ५२ ॥ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संभावना व्यत्ययात् । यत्किचित्करणे परवहरणे ब्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियः ॥ ५३॥ स्त्रीति प्रीतिकरं पुरः परिणतौ हालाहलं केवलं सर्वस्य व्यसनं किलैतदधिकं तत्रापि वेश्येति च । प्राधान्येन ततस्तदेव कथितं यत्तत्प्रसङ्गेन च व्याख्यातं गुणदोषजातमुचितं चिन्त्यं तदप्यादरात् ॥ ५४ ॥ चेतःश्वापदवागुरा दशगुणस्फारस्मरोड्डामरा वार्तव्यावधयः (१) समुद्रलहरीपूरैरिवोत्पादिताः । नापि स्वाम्यसमर्पणेन न सखे सख्या (1) विरोधेन वा गूढान्तर्मुखसाहसव्यतिकरा रक्ष्याः परं योषितः ॥ ५५ ॥ भस्मस्नानमहाव्रतं कतिपयश्रीभ्रष्टसंभावित सर्वापहवहस्तलाघवकलाकूटाक्षशिक्षात्मकम् । प्रत्याशापुनरुक्तहारणुजगद्रोहं विवादास्पद दारिद्यस्य निमन्त्रणं किमपरं धिग्द्यूतलीलायितम् ॥ ५६ ॥ १. घृते. २. जीविका. wali काव्यमाला। हिंसानिधूणकर्मभूः प्रतिपदानेकप्रमादप्रसू- रव्यापारधुरंधरा प्रतिकृता ग्राम्यैर्जघन्यैः श्वभिः । शून्यारण्यसदाप्रवासविरसव्यायाममिथ्यागुणा कायक्लेशफलावधिर्मतिमतां सेव्या मृगव्यापि किम् ॥ १७ ॥ शौचाचारविचारवाह्यमखिलाकार्याहिताचार्यकं तत्तद्गोप्यरहस्यमन्त्रभिदुरं नि:शमक्ष्णोस्तमः । यत्तद्वादकलिप्रमादविविधोन्मादैः पिशाचायितं मद्यं मूर्तममेध्यमेतदितरादन्यस्य कस्य प्रियम् ॥ ५८ ॥ उल्कापातसहोदरं सहचरं नैदाघझञ्झामरु- ज्झम्पानां हरकण्ठलालितगरद्रोणीकुटुम्वीकृतम् । जिह्वाग्रे करपत्रमित्रमनिशं तत्कर्कशं दुर्वचो यस्यास्ते वद कद्वदः कथमहो सोऽपि स्वयं जीवति ॥ १९ ॥ •चण्डं दण्डमकाण्ड एव कलयनराजा प्रजानां यमः कुर्वन्दुर्व्ययमर्थदूषणरुचिः स्वस्यैव स द्रोहकृत् । सौम्यः सौम्यकरोऽतिविश्वनयनानन्दोऽभिनन्द्यः सतां सश्रीकः कमलाकरश्च सुषमां का कामहो नाहति ॥ ६ ॥ संसारस्य महेश्वरो दिनपतिर्ध्वान्तस्य वैद्यो रुजां प्रायश्चित्तमघस्य शास्त्रमपरिज्ञानस्य तोयं तृषः । सिद्धाज्ञा गरलस्य तीर्थसरणं वृद्धत्ववैक्लव्ययोः सप्ताङ्गव्यसनावलेः प्रशमनोपायश्च शिक्षा सताम् ॥ ६१ ॥ ॐकारः साहसानां निजगुणनिपुणप्रत्यवेक्षा सुखानां कादाचित्कः प्रयोगः सकलपरिचयोपाधिवैदग्ध्यबन्धुः । कष्टानामन्त्यकाष्ठा धनरसिकवणिग्लोकयात्राप्रसङ्गो जीवजन्मान्तरं चेत्यलमतिबहुना स्वस्ति देशान्तराय ॥ ६२ ॥ यद्यप्यस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविध- व्याख्यायां निरवद्यहृयचरितोदारं च देशान्तरम् । १. गर्दावादी.
मुग्धोपदेशः ! १३५ तत्रापि खगृहेषु कोऽपि गुणवद्गोष्ठीगरिष्ठीकृत- म्फारोऽनारतभारतीरसपरिप्यन्दः सखे सुन्दरः ॥ ६३ ॥ ते वन्द्या मकरन्दविन्दुमधुरैरभ्युत्थितादक्षरै- र्येषां वान्ति सरस्वतीपरिमलोद्वारा मुखाम्भोरुहात् । वन्द्यास्तेऽपि तदन्तरालपतिता ये भृङ्गभङ्गीजुषः सान्द्रानन्दकरम्बितं जगदिदं विन्दन्ति नि(न)न्दन्ति च ॥६४॥ दृष्ट्वा देशमशेषमा जलनिधेरालोक्य कौतूहला- दास्थानीरवनीभृतां च पुनरप्यागत्य देशं निजम् । कारुण्यात्तरुणं जनं प्रति सतामभ्यर्थनाभिस्तथा मोऽयं संप्रति जहणेन कविना मुग्धोपदेशः कृतः ॥ ६५ ॥ विद्याभ्यासपरम्परापरिचयैर्वाल्यं कृतार्थीकृतं तारुण्यं तरुणीनिरन्तरपरीरम्भैश्च संभावितम् । अस्माकं सुरसिन्धुरोधसि पुनः शंभावदम्भार्चनै- वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्यशेषः स्थितः ॥ ६६ ॥ इति काश्मीरिकमहाकविश्रीजहणप्रणीतो मुग्धोपदेशः । श्रीविश्वेश्वरपण्डितप्रणीतं रोमावलीशतकम् । नाभीहदे तव विराजति रोमवल्ली धूमावली मदनपावकबोधिकेयम् । लोकोत्तराद्भुतकृति त्वयि पक्षवृत्ति- युक्ता भवन्त्यपि पुरा तदभावभाजः ॥ १ ॥ वहिं विनैव तव रोमलतामिषेण धूमावली स्फुरति नाभिगभीरदाम् । १. अस्य विश्वेश्वरपण्डितस्य देशकालादिकं कवीन्द्रकर्णाभरणप्रारम्भे (काव्यमालाया ६६ मितेऽङ्के) प्रोक्तमेव. पुस्तकद्वयमस्य शतकस्यास्माभिरासादितम्. तत्रैकं जयपुर- राजगुरुपर्वणीकरोपा नारायणभट्टानां क-संज्ञकम्. द्वितीयं अलवरमहाराजाश्रितपार्वतीय- पण्डितलक्ष्मणदत्तपन्तानां ख-संज्ञकं ज्ञेयम्.
काव्यमाला । संख्यामतीतमतिदुर्लभमत्र तेन मन्यामहे कुसुमचापमहानिधानम् ॥ २ ॥ उद्दीप्यते तव हृदि मरजातवेदा वक्षोरुहप्रतिहतोऽथ तदुत्थधूमः । जानामि रोमलतिकापदवीमवाप्य नाभीगभीरविवरं प्रविशन्विलीनः ॥ ३ ॥ वक्षोरुहक्षितिभृता मिलितकभागां रोमावली भुजगराजवधू विधाय । दर्वीकरज्यगिरिचापजितामरारि- रुद्रोपमेयमसमाशुगमातनोषि ॥ ४ ॥ नाभीसमाश्रयिण उज्ज्वलदीप्रमूर्ते- हीरानगुम्फितमहामणिदीपकस्य । उद्गत्वरी विलसदञ्जनमञ्जरीव राजीवगात्रि तव राजति रोमराजी ॥५॥ वक्षोरुहौ कविवरैस्तव तर्कितौ यौ स्तम्बेरमप्रवरकुम्भतया वरोरु । तन्निर्गलन्मदजलौघतया ध्रुवं तै रोमालिरूपमपि निद्भुतदेश्यमेव ॥ ६ ॥ नाभीदे निपततां जनमानसानां नैवाभविष्यदित उद्धरणं कदाचित् । रज्जुर्हि रोमलतिकाव्यपदेशभाजी वक्षोजशैलनियता यदि नाभविष्यत् ॥ ७ ॥ नाभीमुपेत्य सरसीं तव रोमवीथी- स्तम्भं ततो दुरधिरोहतरं निखाय । वक्षोजवप्रमसुबोधसुखं मनोभू- यंग्रीकृतः सततमुग्रभियाधिशेते ॥ ८ ॥ १. 'भासां' ख. २. 'रुद्धोपमेय' क.
रोमावलीशतकम् । १३७ । वेलावनौ लवणिमामृतसागरस्य तालीलता तव विराजति रोमलेखा। तस्याः पयोधरमयेन फलद्वयेन माद्यन्ति नेत्रविषयीभवतापि लोकाः ॥९॥ अत्युन्नतस्तनमहीरुहदुर्गबासो भर्गाद्भिया मकरकेतन आयताक्षि । रोमालिरज्जुमिलिताग्रकहाररत्न- कुम्भं निरस्य रसमिच्छति नाभिकूपात् ॥ १० ॥ वृद्धेर्निदानमिह पुष्पशरासनस्य वामोरु ते स्तनमयो नववामदेवः । यस्मिन्कुरङ्गमदपङ्कवशात्कलिन्द- कन्या स्थिता पतति रोमलताछलेन ॥ ११ ॥ स्नेहातिरेकसततज्वलितासमेषु- दीपेन यत्स्तनतलेऽञ्जनमाविरासीत् । मन्ये तदेव चिरकालभवद्गुरुत्वं तस्मात्पतद्वदति रोमलतेति लोकः ॥ १२ ॥ आकाशमाश्रितवतीमवलोकमाना स्रोतस्वती दुहितरं तुहिनाचलस्य । मन्ये कलिन्दतनयापि तवावलग्न- माशिश्रिये सुतनु रोमलतामिषेण ॥ १३ ॥ शृङ्गारनामकरसान्वितनीलवर्णः किं पारमार्थिक इतीव मनोभवेन । क्षिप्तः परीक्षितुमयं नलिनाक्षि मध्य- व्योम्नि स्फुरत्यहह रोमलतेति चित्ते ॥ १४ ॥ अश्रान्तवक्रतुहिनश्रुतिसंनिधाना- दीषद्विकासमपि लब्धुमनीश्वराभ्याम् । १. 'निधानं क.
काव्यमाला। अन्तर्भूतं मधु कुचाम्बुजकोरकाभ्यां निश्च्योतदन्तरवगच्छति रोमवल्लीम् ॥ १५ ॥ त्वन्मध्यमं गगनमित्यविवादमेव वक्षोजकाञ्चनसरोजरुचास्य भागः । पिङ्गीकृतो ह्युभयतोऽखिलदिङ्मुखत्वा- द्रोमालिरित्यविकृतः पुनरस्य योऽशः ॥ १६ ॥ नूनं पयोधरयुगं तव तन्वि देह- व्यूहं वहत्यविहतं यत एतदेव । रोमावलीपदमुपैति गभीरनाभी- पद्माकरान्नवसमुद्यतमेचकत्वम् ॥ १७ ॥ त्वन्मध्यमं प्रियतमे वियता समानं मन्दाकिनीव समुदञ्चति हारवल्ली । पीयूषभानुरिव नायकरम्यरत्न रोमावली तनुबलाहकवीथिकेव ॥ १८ ॥ सारङ्गिकामदनिषद्वरसंप्ररोह- नीलत्वयोस्तव पयोधरयोरतीव । संघट्टनादिव परस्परमेकखण्डो रोमावलीपदमुपेत्य पपात मन्ये ॥ १९ ॥ मुक्तालिलोहितकमालिकयोxिभाग- संलग्नयोललितरोमलतेयमन्तः । संगम्य शीतकिरणामृत(१)दीधितिभ्यां सिंहीसुतः कवलतामिव नीयमानः ॥ २० ॥ त्वन्मध्यमाम्बरतलादहितुल्यरूपो रोमावलीमयविधुतुद एष सुभ्र । लिप्सुर्मुखेन्दुमिव जिग्रसिषासमेतः प्रोद्यत्स्तनक्षितिधरान्वयतों निरुद्धः ॥ २१ ॥ १. 'धृतं' ख. २. 'करान्तर' क.
रोमावलांशतकम् । हारानभूग्रथितलोहितकांशुजाल- नीरन्ध्रनाभिमिलिता तव रोमराजिः । पारीक्षितक्रतुविदीपितवहिकुण्ड- मध्ये विभाति पतयालुरिवोरगस्त्री ॥ २२ ॥ श्रीखण्डसङ्गविरहेण विहीनमुच्चै- वक्षोरुहं मलयपर्वतमारुरुक्षुः। दीकरी तव विलासिनि रोमराजी गारुत्मतान्वयभयादध एव तस्थौ ॥ २३ ॥ नाभी तवोज्ज्वलरसामृतपूर्णवापी तस्यां निधाय विधया वरहारयष्टिम् । मीनध्वजं मदयितुं हृदयाधिवासं रोमावली रसझरी समकृष्यतोव॑म् ॥ २४ ॥ वक्षोरुहक्षितिधरद्वितयान्तराला- दुत्थायिनी शुचिरसस्य सरस्वतीयम् । उन्निद्रनीलनवनीरजहासिनीयं रोमालिरुल्लसति जीवितवल्लभे ते ॥ २५ ॥ वक्षोरुहाद्विपतनप्रतिबन्धहेतु- संयोगवत्त्वदुदरं वियदस्त्यपूर्वम् । यस्मिन्विराजति समायतरोमवल्ली- स्वातीपथो विलसदञ्जनगञ्जनश्रीः ॥ २६ ॥ नाभीदरीज्वलदनकृशानुमध्ये यूनां मनांसि रससंस्तिमितानि पेतुः । तद्दाहतः समुदिता प्रतिभाति रोम- राजीमिषेण वरवणिनि धूमलेखा ॥ २७ ॥ धूमो हि वह्नयनुमितौ मत एव हेतु- रित्येवमीरयति तार्किकचक्रमत्र । १. 'श्रीः' ख. २. 'पतयोः' ख. ३. 'वियदास पूर्वम्' क.
काव्यमाला। रोमालिधूमलतिकाकुचपर्वतेन नाभीह्रदेन च समं व्यतिषङ्गमेति ॥ २८ ॥ वज्ञानजन्यदहनानुमितौ विशङ्क धूमोऽपि याति विषयत्वमितीव वक्तुम् । नूनं व्यधत्त हृदये तव रोमराजि- व्याजेन धूमवितति विधिरुद्विवादाम् ॥ २९ ॥ एकार्थवाचकमिदं दहनासमेषु- शब्दद्वयं नियतमाकलयामि कान्ते । धूमेन रोमलतिकाव्यपदेशभाजा स्यादन्यथा तदनुमाप्रमितिः कथं वा ॥ ३० ॥ कामोपजीवकमिमं मुखरेवतीश- मासेवितुं तपनजासरिदुद्गतेव । तद्भीत्युदीतकृशता तव रोमराजी निर्भाति मुक्तवलिरूपऋजुप्रवाहा ॥ ३१ ॥ सर्वाङ्गसंचरणतः समनन्तरं य- यूनां दृशस्तनमहीधरमध्यरुक्षन् । मन्ये ततो निपतनं समुपेयुषीणां तासां विभाति पदवी तव रोमवीथी ॥ ३२॥ रत्नावलीविविधकान्तिकदम्बकेन चापं पयोधरयुगे तव निर्मितं यत् । कामस्य रुद्रविजयाय तदीयमौर्वी- लेखेव रोमलतिका दयिते चकास्ति ।। ३३ ॥ त्वच्चेतसि स्थितवतो मकरध्वजस्य संरक्षणाय दनुजद्विषता निदिष्टम् । खाश्मच्छलेन गरुडं समवेक्ष्य रोम- श्रेणीमिषात्स्तनभवाहिरपागमत्किम् ॥ ३४ ॥ १. 'व्यतिरेकं ख. २. 'लेखा' ख.
. रोमावलीशतकम् । १४१ ४ रोमावली मरकतोपलरेखिकेयं नीलारविन्दसुषमाक्षि समुजिहीते । केनान्यथा कुलुमबाणभुजंगदष्टं चेतः समुच्छ्रसिति दृग्गतया तयापि ॥ ३५ ॥ उद्दाममन्मथविकारविमोहगाढ- ध्वान्तच्छटा सुतनु संक्रमणस्वभावा । रोमावली तव कुतोऽपरथा युवाक्ष्णां तदर्शनात्तिमिरिता हरितो भवन्ति ॥ ३६ ॥ स्वानन्तरोन्नतपयोधरमण्डलेन ग्रीष्मेण यौवनमयेन महोप्मभाजा । नीता शिशुत्वरजनी ऋशिमानमेषा नूनं चकास्ति तव रोमलताछलेन ॥ ३७॥ जागर्ति मानसगतो रस उज्ज्वलो यः वाधिक्यतः स किल मातुमिहासमर्थः । वक्षोजभूमिधरसंधिपथेन मन्ये वामाक्षि ते वहति रोमलतापदेशात् ॥ ३८ ॥ बाल्यं दशाननमिवास्तमितं विधातुं रोम्णामियं ततिरिति व्यपदिश्य शङ्के । लावण्यवारिनिधिमुत्तरितुं रतीश- रामेण सेतुरिह चारुतरो न्यबन्धि ॥ ३९ ॥ पीयूषदीधितितया जनितप्रसङ्गो योऽङ्को मुखेन तव तन्वि तिरस्कृतोऽभूत् । मन्ये स एव कुचशैलनिपातभिन्नो विज्ञायते जगति रोमलतेति लोकैः ॥ ४० ॥ वक्षोजपर्वततटीषु कृताटनानां नाभीसरः समवगाहितुमुत्सुकानाम् । १. 'परि ख.
काव्यमाला। यूनां मनोमदकलद्विपनायकानां बन्धाय रोमलतिका तव शृङ्खलेव ॥ ४१॥ एषा वशीकरणसिद्धमहाञ्जनस्य रेखा व्यधायि तव रोमलता स्मरेण । नेत्रेन्द्रियाणि जगतां सति यत्प्रयोगे नालं भवन्ति विषयान्तरसंगमाय ॥ ४२ ॥ तारुण्यधर्मसमये तव देहभूमौ संचारिणां युवकदम्बकलोचनानाम् । विश्रामकाम इव कामिनि काम आधा- नाभीप्रहिं कुचघटौ कचराजिरज्जुम् ॥ ४३ ॥ अभ्युद्गता तव पयोधरमध्यदेशा- द्विद्योतते तडिदिवाहह रोमराजी । यूनां विवेकधृतिमुख्यगुणक्षयस्य संसूचनाय सुतनूदितमेचकत्वा ॥ ४४ ॥ रोमावली तव नवीनपयोदवीथि- रैरावतः किमु पयोधर एतदूर्ध्वम् । यस्यां विभाति नवमौक्तिकहारवल्ली- निःस्पन्दमन्दगतिका बिसकण्ठिकेव ॥ ४५ ॥ आरामताजुषि मनोजनुषो भवत्यां वाणी कुहूरुतरुतं युवता निदाघः । रोमावली धनलता वदनं सुधांशु- हाँसो हिमं करयुगं मृदुलं शिरीषम् ॥ ४६ ॥ काले महातरुणताजनितान्धकारे त्वन्मानसालयमनङ्गमभित्रजन्ती । नीलं निचोलमुपगृह्य कृशाङ्गयष्टी रोमावली रतिरिव प्रविविक्षुरन्तः ॥ ४७ ॥ १. 'लेखा' ख.
रोमावलीशतकम् । वक्षोजशैलशिखरं समवाप्य बाल्य- तीक्ष्णद्युतौ रसहरेऽस्तमुपप्रयाति । संध्येवलौहितकरश्मिभिरुज्जिहीते रोमालिरुल्लसति सुभ्रु तमोलतेव ॥ ४८॥ या तस्य पूजनविधौ हरिणीमदस्य धारा त्वया प्रियतमे प्रथमं व्यतारि। सैव त्वदीयहृदये कृतसंनिवास रोमालिक्ष्यित उपस्थितमीनकेतुम ॥ ४९ ॥ निर्जग्मुषी कुचतटात्तव रोमराजी नाभीमुखं प्रविशती नितरां चकास्ति । चामीकराम्बुजगुलुच्छमुपेक्ष्य फुल्ल- मम्भोरुहं मधुतृषा भ्रमरावलोव ॥ ५० ॥ लोकत्रयं वशयितुं कुसुमायुधस्य तारुण्यमभ्युदयते दहनीयमस्त्रम् । तस्यैव संभवविवोधनकोविदेयं रोमावली स्फुरति धूमलता कृशानि ।। ५१ ॥ प्रीत्यै प्रसूनधनुषो नवयौवनेन नाभीसरोवरमिवोत्सृजतोच्छिता ते । तत्संनिधौ सुरुचिरासितवैजयन्ती रोमावलीति वरवणिनि वर्णयन्ति ।। ६२ ॥ वक्षोरुहात्मकहिरण्यमहीधरोऽयं विभ्राजते स्मरधनुर्भुवि दभ्रभावम् । तस्यैकतो मुखरुचामपरः प्रकाशो रोमच्छटान्धतमसं परतो विभाति ॥ ५३ ।। त्वं दक्षिणासि नितरां धृतचन्दनोऽयं वक्षोरुहोऽपि मलयो हृदयावनौ ते । १. 'वलं' का काव्यमाला। लङ्का नखक्षतपलाशवती यतोऽत्र रोमावली रजनिरस्ति सदैकरूपा ॥ १४ ॥ वक्षोजहाटकगिरीन्द्रतटस्थनील- जम्बूफलस्रुतरसोत्करनिर्मितेयम् । स्रोतस्वती वहति रोमलता त्वदीया यस्याः सुवर्णघटितोभयभागभूमिः ॥ ५५ ॥ तारुण्यपावकभवा कचराजिधूम- वीथी विराजति मृगाक्षि विलक्षणैव । या गोलकेन सह संगममप्यनाप्ता दृष्टैव दृष्टिविकृति वितनोति यूनाम् ।। ५६ ॥ मन्दाकिनी कनकभूमिधरप्रपात- निष्पातिनी समवलोक्य तदीर्ण्ययेव । मन्ये कलिन्दतनया तव रोमराजि- व्याजेन सुभ्र कुचवप्रतटात्पपात ॥ १७ ॥ तन्वि त्वदीयहृदये परमाधिराज्यं नेतुं मनोभवमशेषजगत्सु नूनम् । वक्षोरुहौ कनकजावभिषेककुम्भौ रोमालिहारलतिके चमरेऽसिताच्छे ॥ १८ ॥ आवासधाम्नि हृदये तव मन्मथस्य कुम्भौ सुवर्णघटितौ निहितौ स्तनौ किम् । मन्ये तयोर्निपतनप्रतिकारहेतो रोमालिरक्रियत मारकतीव यष्टिः ॥ १९ ॥ रोषान्धकारनिकरो दयितं प्रति प्रा- ग्वामाक्षि ते हृदय एव तिरोहितोऽभूत् । मन्ये स एव तव रोमलतामिषेण प्रादुर्बभूव चिरसंभृतिभूतभूमा ॥ ६ ॥ १. 'धूमलता' क. २. 'दृष्टयैव' क.
रोमावलीशतकम् । १४५ यूनां वियोगदहनाहितदाहभाजा- मुज्जासनेन य. उपार्जि मनोभवेन । मन्ये सुदुष्कृतभरो हृदये स्थितंत- मन्वेतुमावसति रोमलताच्छलेन ॥ ६१ ॥ यावन्ति जाग्रति पुरा हृदये त्वदीये बीजानि चन्द्रमुखि कामकलाविकृत्याः । तान्येव हाररससेकवशेन रोम- राजीमिषात्सकलमङ्कुरितानि मन्ये ॥ ६२॥ वासाय पुष्पधनुषो हृदयं तवेदं साधु प्रसाधयितुमागतवधुवत्वम् । रोमालिकैतवत आयतनीलसूत्र- लेखां विभागजननीमिव तन्वि चक्रे ॥ ६३ ॥ त्वन्मानसे निवसता कुसुमायुधेन मायासु शम्बरमहासुरतो वुधेन । व्यामोहनाय दहनालिकलोचनस्य रोमावली तिमिरवीथिरिव व्यकासि ॥ ६४ ॥ हारस्तवैष मकरध्वजपालनाय संकर्षणोऽतिविशदो हृदि नित्यमाम्ते । प्रत्यग्रमेघदलमेचककान्तिरेषा रोमावली बृहतिकालतिका तदीया ॥ ६६ ॥ तारुण्यतीक्ष्णरुचिना तव कामकेली- मोहान्धकारमखिलं निरकासि चित्तात् । यन्मत्तकाशिनि हठेन तदेव रोम- राजीति नूनमिह गोचरयन्ति लोकाः ॥ ६६ ॥ येन व्यधायि जनकेन पुरास्य दाहो भालेक्षणे निवसता पुरसूदनस्य । १. 'उल्लासनेन' ख. २. 'हन्त' क. R १९ १४६ काव्यमाला। तस्य त्वदीयहृदये वसता सरेण धूमस्य रोमलतिकेति कृतो ग्रहः किम् ॥ १७ ॥ आलम्ब्य ते स्तनमहीधरमच्छहार मन्दाकिनीरुचिरमुग्रजिगीषयेव । रोमावलीमिषसमुन्नतधूमलेखा- मिन्दीवराक्षि पिवतीव रतेरधीशः ॥ ६८ ॥ तारुण्यशक्तिजनुषा कृतभारताह- व्यासेन ते स्तनयुगेन मृगीमदाभाम् । मत्सी ग्रहीतुमनसा निरमायि नूनं नीहारवीथिरिह रोमलतापदेन ॥ ६९ ॥ वक्वेन्दुकान्तिनिकरैः कुचचक्रवाक- युग्मस्य यन्न समुदञ्चति विप्रलम्भः । रोमावलीतिमिरलौहितिकार्कयोश्च वासो यदेष मदनस्य नवीनसर्गः ॥ ७० ॥ संकेतभूः प्रियतमे हृदयं त्वदीयं नूनं विहर्तुमनसो रतिकामयोः किम् । यस्मिन्विभाति विशदत्रिवलीतटिन्यां रोमावलीमयनवीनतमालवल्ली ॥ ७१ ।। अद्यापि रुद्रनयनानलदाहजन्यां बहीं रुजं वहति सुन्दरि पुष्पधन्वा । एतत्सुहृत्तरुणिमा तव हृत्स्थितेऽस्मि- नोमालिशैवललतां निदधाति यस्मात् ॥ ७२ ॥ रोमावलीलवणिमामृतदीर्घिकायां शैवालवलरिरुदेति विशङ्कमेषा । नाशिष्यतां कथममुं कुचचक्रवाको ध्वान्तभ्रमो यदि तयोर्हदि नाभ्युदैप्यत् ॥ ७३ ॥ १. 'धूमलता' क. २. 'रोमावलीकपटनिद्भुततालवल्ली' क. ३. 'नूनमलिकेक्षण' क.
रोमावलीशतकम् । १४७ रोमावली मरकतोपलकोमलेयं शैवालतः कथमिवाभ्युपयातु भेदम् । यद्गोचरीकरणमात्रत उत्पलाक्षि गृनोति कामुकजनेक्षणमीनसंघः ॥ ७४ ।। शुद्धेन्द्रनीलघटितध्वजयष्टिरेषा रोमावली त्रिजगतीजयकृत्स्मरस्य । यस्या विभाति शिखरे कुचसंश्रयोऽयं सत्पत्रभङ्गिमिषतो मकरः सुनेत्रे ॥ ७९ ॥ त्वन्मानसे निवसता मकरध्वजेन संतयं साध्वसमलीकविलोचनोत्थम् । स्वप्रत्यनीकविनिरोधनहेतुसिद्ध- मन्त्राक्षरालिरिव रोमलता व्यलेरिख ।। ७६ ॥ वाचा कुहरुतरुतोपमया प्रिये ते कृप्ताहया निजमनेहसमन्तरेण । वामृतद्युतिभिया समुपस्थितेयं रोमालिरूपककुहूः कुचपर्वताधः ।। ७७ ॥ विद्यामधीत्य तत एव हतं तमेव कामेन शम्बरमहादितिजं निरीक्ष्य । रोमावलीपदमुपेत्य विधुंतुदोऽमुं त्वन्मानसस्थमभियुत इवोत्पलासि ॥ ७८ ॥ वैरानुबन्धनविधेर्विधुरावधित्व- मालोक्य पुष्पधनुषा सुकुमारगात्रि । सेंद्रीयभालनयनानलवारणाय रोमालिसूर्यतनया हृदि ते न्यधायि ॥ ७९ ॥ वक्षोजशैलशिखरान्मुखसाम्यमाप्तुं नूनं पपरत वरगात्रि सुधामयूखः । १. "विहितो' क. २. 'साध्वसमयेऽलिकलोचनोत्थम्' क.३. 'उड्डीयमान' क. .
काव्यमाला। भन्नस्य तस्य कणिका इव हारमुक्ता- स्तल्लाञ्छनस्य तव रोमलतेति मन्ये ॥ ८० ॥ वहिर्न दाहमुपगच्छति वह्निनैवे- त्येवं विभाव्य मदनोऽधृत वहितां नु । यस्मात्तदीयवसतो हृदये त्वदीये रोमालिधूमततिरुल्लसति प्रकामम् ॥ ८१ ॥ वामेक्षणे तव मुखेन सुधाकरेण द्वेषान्निगृह्य तिमिरप्रकरं प्रसह्य । सिवा कुचक्षितिधरादथ रोमलेखा- व्याजेन नाभिविवरे किमु संन्यवेशि ॥ ८२ ॥ भूयो रसं तव पयोधरमण्डलेऽस्मि- न्यूनां मनःसु परिवर्षति निर्विरामम् । दीकरी सुतनु रोमलतास्वरूपा नूनं प्रवेष्टुमभिकाङ्क्षति नाभिरोकम् ॥ ८३ ॥ स्फूर्जत्पुरत्रयविरोधिललाटनेत्र- ज्वालोदितज्वरमनङ्गममुं हृदिस्थम् । सेक्तुं हलायुधभियेव कलिन्दकन्या रोमावलीत्वमुपगम्य किलोपतम्थे ।। ८४ ॥ वक्षोरुहौ वरसुवर्णसरोजगुच्छौ मुक्तावली पुनरखण्डिततण्डुलाली । दीपोऽतिदीप्रतरलः स्मरपूजनाय रोमावली लघुजधूमलता कृशाङ्गि ॥ ८५ ॥ भ्रूवल्लिकार्मुकमथाञ्जनवीथिमौर्वी लब्ध्वा कटाक्षविशिखांस्तव काम औज्झत् । ज्यां रोमराजिरिति चापमथावतंस इत्याशुगान्कबरिकासुमना इतीव ॥ ८६ ॥ १. 'विपक्षललामनेत्र' क.
रोमावलीशतकम् । १४९ ब्रह्मादयोऽप्यतिवशंवदितेन्द्रिया ये चेतोभुवा वशमनायिषतात्मनः प्राक् । तेषामिह स्फुटतरा अयशःप्ररोहा व्यक्तास्त्वदीयहृदि रोमलतामिषेण ॥ १७ ॥ हुत्वा युवत्वदहने रतिजीवितेश- कापालिकेन मदिराक्षि मनांसि यूनाम् । निर्जेतुमुग्रमिव रोमलताकृपाणी सिद्धेन साधु विधिना विदधे विधेया ॥ ८८ ॥ कामेन ते हृदयसीम्नि निवासमाजा संप्रेक्ष्य संनिहितमीशमुरोजरूपम् । तं विध्यता नखरजन्यपदार्धचन्द्रे- मौर्वी परेव निहिता तव रोमलेखा ॥ ८९ ॥ अन्तर्निवासमुपयातवतः स्मरस्य द्वारे यथा हृदि विराजदुरोजकुम्भे । दौवारिकीव हृदि ते नवयौवनश्री- स्तन्नीलयष्टिरिव रोमलता विभाति ॥ ९० ॥ भीत्या भवस्य भजता न परिस्फुटत्व- मध्यक्षतामखिलमेव निनीषता च । कामेन ते हृदि गतेन वरोरु रोम- राजीमिषेण निहिता किल काचलेवा ॥ ९१ ॥ कर्णान्तकर्षणभरादवनम्यमाना- द्वाणासनात्सुतनु पुप्पशरासनस्य । या श्योततेऽच्युततरा मकरन्दवीथी तामेव रोमलतिकां ब्रुवते जगन्ति ॥ ९२ ।। दूरस्थितानि हृदयानि सुभेदभिन्ना- न्यालोक्य तानि पुनरेकगतानि कर्तुम् । १. 'सुवेध' क.
काव्यमाला। आकर्षणाञ्जनततिः किमु रोमवल्ली- कामेन ते व्यरचि जैतुमखेदितेन ॥ ९३ ॥ अभ्युच्छ्रितं किमपि यौवनसेवकेन मुक्तावलीद्वितयचामरमन्तरेण । रोमावली हृदयगस्य मनोभवस्य मायूरमातपपिधानमिवावभाति ॥ ९४ ॥ वक्षोजकाञ्चनमहीभृति यन्नखाङ्क- रूपः समुद्गममुपागमदर्धचन्द्रः । तत्रास्ति कारणमियं तव रोमराजि- रूपा यदर्धरजनी नवनीरजाक्षि ॥ ९५ ॥ ईशानभालनयनानलदाहभाजो मीनध्वजस्य परितापनिवारणाय । सज्जीकृतेव नसितोत्पलपत्रशय्या रोम्णामियं तव लता बलवद्विभाति ॥ ९६ ॥ धूमोर्ध्वगत्यनुमिताद्विरहाद्गरिम्ण- स्तत्पार्थिवत्वविषये विमति विहन्तुम् । किं तावकीनहृदि मन्मथवद्विधूमो बाले व्यधायि विधिना पतयालुरेषः ॥ ९७ ॥ धूम्याटभावमुपबिभ्रति नूनमत्र यूनां मनांसि नलिनायतलोचनान्ते । यन्मन्मथेन निरमीयत रोमराजि- धूमावली खलु वशीकरणाय तेषाम् ॥ ९८ ॥ त्वन्मानसे निवसता झषकेतनेन साध रतेरतितरां विहृति चरन्त्या । तालच्छिदेव वरवर्णिनि कर्णदेशा- द्वित्रंसिनी स्फुरति ते हृदि रोमराजी ॥ ९९ ॥ १. 'भेत्तुं' क.
सुभाषितनीवी। उज्जृम्भमाणनवयौवनधर्मकाल- विस्तारभृद्धनशिरीषरजश्छदेव । यूनां मनांसि नितरामुपलोभयन्ती रोमालिरन्तरतिसंमदमातनोति ॥ १० ॥ सूरीन्द्रमौलिमुकुटामलरत्नदीप- लक्ष्मीधराख्यबुधवयतनूद्भवेन । विश्वेश्वरेण हृदयालुहृदां मदाय रोमावलीशतकमेतदकारि चारु ॥ १०१ ॥ इति पार्वतीयश्रीविश्वेश्वरपण्डितप्रणीतं रोमावलीशतकम् । वेदान्ताचार्यश्रीवेङ्कटनाथप्रणीता सुभाषितनीवी। अनिपुणपद्धतिः । प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः । सर्व हतः कृतं यौ सकृदुपकारापकाराभ्याम् ॥ १ ॥ प्रमितिपरिष्कृतिमुद्रा सहृदयहृदयैः समर्पिता कविभिः । भवति सुभाषितनीवी परगुणचौरैरहार्यार्थी ॥ २ ॥ पश्यति परेषु दोषानसतोऽपि जनः सतोऽपि नैव गुणान् । विपरीतमिदं स्वस्मिन्महिमा मोहाञ्जनस्यैषः ॥ ३ ॥ यत्र पयः प्रभृति खं भुक्त्वा सत्यानुषक्तधीश्चोरः । पशुवृत्तिगणे तस्मिन्नपि नाम यशोदया वृत्तम् ॥ ४ ॥ १. 'विस्तारिवर्धन' क. २. अयं वेदान्ताचार्यः निस्ताब्दीयत्रयोदशशतकोत्तरार्ध आ- सीविडदेशे. अधिकारसंग्रह-तत्त्वमुक्ताकलाप-न्यायसिद्धाञ्जन-पादुकासहस्र-यदुवंशादि- पञ्चकाव्य-रहस्यत्रयसार-संकल्पसूर्योदयाद्या एतत्प्रणीता बहवो ग्रन्थाः समुपलभ्यन्ते. अस्थाः सुभाषितनीव्या एकं द्रविडलिपिमुद्रितं पुस्तकमुपलब्धम्. तत्प्रतिरूपकं च सांप्रतं जयपुरमलंकुर्वाणानां द्रविडनरसिंहाचार्याणां साहाय्येन विहितम्. कवेर्देशकालादिकं च तैरेव दर्शितम्.
१५२
काव्यमाला ।
हरिकरपुष्करहंसं हारमणीनां प्रसूतिमिव लक्ष्म्याः ।
पित्तेन पाञ्चजन्यं पीतं पश्यन्भिषज्यतु कम् ॥ ५ ॥
स्फटिकस्वभावशुद्ध्या स एव सन्भवति सर्वमारोपम् ।
तदपि न तत्रानास्था तदुपाधिषु वा भवत्यास्था ॥ ६ ॥
स्थलपरिशेषितजलधेः सविधे संजातडम्बरं जलदम् ।
प्रहसन्ति पाण्ड्यनद्यः शुक्तिमुखैमौक्तिकस्त्यानैः ॥ ७ ॥
प्रतिपन्नवामदृष्टिः स्तन इव कश्चित्समुन्नतोऽप्यधिकम् ।
पतनमधिगम्य समये परिहासरसावहो भवति ॥ ८ ॥
बहु विदधत्युपकारान्गुप्या दुरितं प्रकाश्य पिदधति च ।
सुहृदि विहिताहितं य...."न्न प्रत्युपकरोति न तत् ॥ ९ ॥
एधान्दहन्ति शान्तान्येभ्यः सिध्येयुरसितवानः ।
अगणितनिजप्रकाशैः किमाश्रयाशैरनास्थमिह ॥ १० ॥
नवदलपुटे कल्प्या यस्य प्रभोरपि कल्पधी-
नेटपरिवृढो यस्याधस्ताच्छूमं शमयिष्यति ।
वटविटपिनस्तस्याङ्कुराननुत्कटपल्लवा-
स्थपुटचटसापेक्षी भिक्षुः प्रतिक्षणमीक्षते ॥ ११ ॥
निरवधिगुणग्रामे रामे निरागसि वागसि-
स्फुरणमुषितालोका लोका वदन्ति सदन्तिके ।
वरतनुहृति बालिद्रोहं मनागपि सर्पणं
परिमितगुणे स्पष्टावद्ये मुधा किमुदासते ॥ १२ ॥
इत्यनिपुणपद्धतिः प्रथमा ।
अथ दृप्तपद्धतिः ।
तदेव गृह्यतां नाम च्छागमण्डूकरासभैः ।
तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ॥ १ ॥
अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
नीलकण्ठाश्च शैलेषु निवसन्ति न तेन ते ॥ २ ॥
सुभाषितनीवी। १५३ कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः । अभित्तिविहितालम्बमालोकं विलिखेत्कथम् ॥ ३ ॥ अपि सत्पथनिष्ठानामाशाः पूरयितामपि । अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ॥ ४ ॥ अस्तु तावदगस्त्यस्य जोमहिमनिह्नवः । का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ॥ ५ ॥ दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि । भूभृत्कटकसंस्थोऽपि सारमेयो न सिंहति ॥ ६ ॥ सत्पथे छादयन्मित्रमपि व्यालस्तमोमयः । अतीतपर्वा जगतामदृश्यः सहसा भवेत् ॥ ७ ॥ धुर्याणामपि सत्कार्यगुणशालिविमर्दिनाम् । अनागमविदां युक्तमपनीतेनिवारणम् ॥ ८ ॥ बलोत्तरेण हरिणा नागमल्लविभेदिना । शृगालः साम्यमाकाङ्क्षशौर्याधिक्यं न विन्दति ॥९ सुदर्शनभृता कश्चिदजहत्कीर्तिमत्सरः । महाशान्तपदाकर्षी जलजन्तुनिगृह्यते ॥ १० ॥ गतियॊम्ना तत्कि गरुडमभिटीकेत चटकः पिबत्वम्भःक्षारं न खलु कलशीसूनुरलसः । कलः कण्ठे नादः क इव मशके किंनरपतेः कथंचित्साधयं क्षिपति नहि वैधर्म्यनियमम् ॥ ११ ॥ निमीलयतु लोचने नहि तिरस्कृतो भास्करः श्रवः स्थगयतु स्वयं परभृतः किमु ध्वाङ्कति । वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः कदर्थयतु मुष्टिभिः कथय किं नमः क्षुभ्यते ॥ १२ ॥ इति दृप्तपद्धतिद्वितीया ।
१९४ काव्यमाला। अथ खलपद्धतिः । परचिन्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः । योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ॥ १ ॥ आत्मार्थ युक्तचित्तानां मित्रमण्डलभेदिनाम् । अतिलचितलोकानां न बन्धः केनचित्क्वचित् ॥ २ ॥ स्नेहः शैत्यं प्रसादश्च कोषत्यागश्च जायते । आसन्नपरपीडार्थ निस्त्रिंशस्यासितात्मनः ॥ ३ ॥ जनित्वापि महावंशे निन्नगा वक्रचेष्टिताः । वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ॥ ४ ॥ उत्पथादुन्नताः केचिबहुभङ्गभ्रमाकुलाः । तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ॥ ५ ॥ केनचिदान्तकृत्येन कुलगोत्रविमर्दिनम् । मदेन बहुधा भिन्नं मातङ्गं मन्यते जनः ॥ ६ ॥ अनेकमुखपापात्मा छद्मसंदर्शिताश्रमः । कर्पूरप्रकृतिः कश्चित्कापेयकलहोचितः ॥ ७ ॥ छलिनं सत्कथानह स्वात्मोपहतजातिकम् । न निगृह्णाति यः काले सोऽपि सभ्यैर्निगृह्यते ॥ ८ ॥ निगरन्तो जगत्प्राणानुदिरन्तो विषं मुखैः । दूरतः परिहर्तव्या द्विजिह्वा जिह्मवृत्तयः ॥ ९ ॥ अकिंचित्कारिणां दीनैराकृष्टगुणकर्मणाम् । अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ॥ १० ॥ अधिकोन्नतैरपि सुदारुणान्वितैरसकृद्भमत्पशुगणाङ्गिपीडितैः । विधिसिद्धनैकगुणसस्यसंपदा विरसैः स्वभावकठिनैरलं खलैः ॥ ११ ॥ मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं बद्धे गाढविमर्दने च न जहत्यन्योन्यसंपीडनम् । उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णतां कामान्तःपुरचेटिकाकुचतटीकाठिन्यवृन्तः खलाः ॥ १२ ॥ इति खलपद्धतिस्तृतीया।
सुभाषितनीवी। अथ दुर्वृत्तपतिः । गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मनः । सर्वतीर्थावगाहेऽपि नीचवृत्तिन शस्यते ॥ १ ॥ द्विजराजाङ्कसंस्थोऽपि सन्मार्गाकारवानपि । विशुद्धिरहितः कश्चिन्न विन्दत्यकलङ्कताम् ॥ २ ॥ अवक्रस्तारकाधीशः परिपूर्णः प्रियोदयः । प्राची दिशमतिक्रम्य पतनं प्रतिपद्यते ॥ ३ ॥ पततां हन्त केषांचिद्भजते मलिनात्मनाम् । विशुद्धवर्णयोगोऽपि विपरीतनिमित्तताम् ॥ ४ ॥ पतनानन्तरं कृच्छ्रात्प्ररूढः शुद्धिमानपि । द्विजः संछाद्यते नित्यमधरेणापि रागिणा ॥ ५ ॥ जोषमेकपदे स्थित्वा संनिकृष्टान्क्षणाद्धसन् । बहिर्दर्शितसंशुद्धिर्बकव्याहारमर्हति ॥ ६ ॥ द्विजस्य सितपक्षस्य कवेरपि निरस्यते । नाहंस इति साजात्यं गतिशब्दितवृत्तिभिः ॥ ७ ॥ अव्यवस्थितवृत्तानामभिन्नश्रुतिचक्षुषाम् । अधर्मार्जितभोगानामाशीरप्यहितोचिता ॥ ८ ॥ दुष्टैरारोपितः कश्चिदनर्थक्रिययान्विनः । असत्कारेण गृह्येत विशुद्धाकारवेदिभिः ॥ ९ ॥ तमः स्वभावमलिनं वृत्त्यालोकोज्झिताश्रयम् । दण्ड्यं मित्रेण राज्ञा च दृष्टदोषान्वयं विदुः ॥ १० ॥ जातिमात्रशरणा बहिष्कृताः केचिदाहतजवन्यवृत्तयः । रोषणा विपरिधाविनो मुधा उपयन्ति जनमुज्झितहियः ॥ ११ ॥ आलोकावधि यद्वशेन सुगति विन्दन्ति भूतान्यसौ दृष्टिस्नेहविशेषतो वितनुते वंशे भुजंगभ्रमम् । दक्षा भोगिषु केचिद्विमिता दृष्टिं निहन्तु क्षणा- तानप्याशु विनाशयेत्क्षणरुचिः काचित्क्षणस्फूर्जिता ॥ १२ ॥ इति दुर्वृत्तपद्धतिश्चतुर्थी।
१५६ काव्यमाला। अथासेव्यपद्धतिः । कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः । कश्चित्कल्याणगोत्रोऽपि मनुष्यैर्नोपजीव्यते ॥ १ ॥ दुष्टपङ्कः प्रतिपदं स्यादल्परससंस्थितिः । काले घनरसैर्योगेऽप्यसेव्यो जीवनार्थिभिः ॥ २ ॥ स्वतः सत्त्वविहीनानां सत्तयैवापराध्यताम् । कथंकारं प्रतीकारः कल्पकोटिशतैरपि ॥ ३ ॥ अपि संतापशमनाः शुद्धाः सुरभिशीतलाः । भुजंगसङ्गाजायन्ते भीषणाश्चन्दनद्रुमाः ॥ ४ ॥ नीचानुसरणान्मन्ये निसर्गपरिशुद्धयोः । गतिः कुटिलतां याति गङ्गायमुनयोरपि ॥ ५ ॥ मित्रे भवति वैमुख्यं मैत्री दोषाकरेण च । अपि तीर्थप्रसूतानां कैरवाणां रजोभृताम् ॥ ६ ॥ अपि निर्मुक्तभोगेन स्वान्तस्थविषयेक्षया । असद्भावाय जायेत जिह्मगेन सहासिका ॥ मण्डूकराविणं सर्प गोमुखं च मृगादनम् । असुहृत्त्वेन मन्येत मानयन्तं च वैरिणम् ॥ ८ ॥ घोरास्त्यक्तमिथोवैराः सौकर्यवदुपद्रवे । दण्डेनापि न भज्येरन्पापमण्डलमण्डलाः ॥ ९ ॥ अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः । प्रतिबुद्धैन सेव्यन्ते पूर्वदेवविरोधिनः ॥ १० ॥ अमित्रे विश्वासः श्वपचकरके सौमिकरसः कपाले गङ्गाम्भः खलपरिषदने सुजनता । परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतः सिद्धां शुद्धिं त्यजति विपरीतं च फलति ॥ ११ ॥ तरतु विवित्सयाब्धिमधिरोहतु शैलती धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् ।
सुभाषितनीवी। १६७ । तदिदमरुंतु, यदुत बह्ववधाय भिया धनमदमेदुरक्षितिभृदङ्गणचमणम् ॥ १२ ॥ इत्यसेव्यपद्धतिः पञ्चमी। अथ महापुरुषपद्धतिः । सतामेव खपुष्पत्वं येषां यत्सदसत्त्वयोः । न जातु तस्य तत्ताभ्यामिति तेषां स विश्वक् ॥ १ ॥ मुक्तानुगुणवृत्तानां भजतां पावनी गतिम् । नित्यं विष्णुपदे वृत्तिस्तारकाणां सितात्मनाम् ॥ २ ॥ सन्नियोगेन शिष्टानां वर्णादीनां स्वसूत्रतः । प्रवृत्ति च निवृत्तिं च न भिन्द्यात्साधुशब्दवित् ॥ ३ ॥ धर्मसेतुनिविष्टानामखलानां शरीरिणाम् । दक्षिणोत्तरवृत्तीनां दृष्टिः पापनिवर्तिनी ॥ ४ ॥ अनङ्गीकृतकामानामनुमानार्हवर्मणाम् । घृतनिर्मलतीर्थानां भूतिलेपोऽपि भूषणम् ॥ ५ ॥ अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सुधीर्बलः । पत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराश्रयः ॥ ६ ॥ अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्बहन् । सत्प्रदक्षिणयोग्यत्वमुपयाति सदोन्नतः ॥ ७ ॥ पुण्यगन्धाः सुमनसः प्रबुद्धाः समयागमे । शिरसा परिगृह्यन्ते सादरं त्रिदशैरपि ॥ ८ ॥ अनुकर्तुमपहोतुमतिबर्तितुमीक्षितुम् । अशक्ये तेजसा पत्यौ मित्रतानुमतिक्षमा ॥ ९ ॥ आहितुण्डिकवृत्तीनामशेषा भोगिनः पदम् । न संवाग्निसारथ्ये स्थाता यन्मुखमारुतः ॥ १० ॥ गरुत्मति सुपक्षलां गिरिधुरंधरे धीरता- मुदन्वति गभीरताममृतदीधितौ सौम्यताम् ।
काव्यमाला।
विवस्वति च दीप्ततां विधिरुपाददानश्चिरा-
दनर्धगुणचित्रितं किमपि चित्रमासूत्रयत् ॥ ११ ॥
प्रशस्ति निन्दन्ति प्रशमसुखदिव्यामृतरस-
प्रलीनोदन्यानां परिषदि न संपत्तिसरितः ।
अमित्रोपक्षेपक्षणविगलदात्मीयपृतना-
दृढामर्दत्रस्यद्रामिडभटजवाजवभृतः ॥ १२ ॥
इति महापुरुषपद्धति: षष्ठी ।
अथ समचित्तपद्धतिः ।
पुंसः कस्यचिदास्थाने द्विजेन्द्रः सूरिसेविते ।
गुणवत्पक्षपातेऽपि मध्ये तिष्ठति मानभृत् ॥ १ ॥
देशकालविशेषेण विषमत्वसमत्ववत् ।
निशादिवसयोदृष्टमहोरात्रस्य न कचित् ॥ २ ॥
चकोरस्य दरं देवश्चक्रवाकस्य चादरम् ।
विवस्वान्नाभिसंधत्ते विश्वमेकं प्रकाशयन् ॥ ३ ॥
प्रतिगृह्णति जीमूते प्रत्यर्पयति वा स्वयम् ।
अपूरणमपांपत्युः पूरणं च न लक्ष्यते ॥ ४ ॥
छिद्रं जनयतां तीक्ष्णैरच्छिद्रं बिभ्रतामपि ।
त्रासहीनाः सुमणयः स्वभावादुपकुर्वते ॥ ५ ॥
अनुज्झितसुहृद्भावः सुहृदां दुहृदामपि ।
सम इत्येव भाव्योऽपि नम इत्येव भाव्यते ॥ ६ ॥
मरुद्भिः पीड्यमानोऽपि संत्यक्तोऽपि दिवानिशम् ।
विषयस्नेहरहितो रत्नदीपः प्रकाशते ॥ ७ ॥
जनयत्यनिले दावं शमयत्यपि तोयदे ।
अभिन्नैः स्थीयते पुण्यैराश्रमारण्यपादपैः ॥ ८ ॥
अहार्येण कदाप्यन्यैरसंहार्येण कैरपि ।
तितिक्षाकवचेनैकः सर्व जयति संवृतः ॥ ९ ॥
सुभाषितनीवी । १५९ अमृतस्यन्दिनं कंचित्कृष्णमेघ द्विजः स्मरन् । उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ १० ॥ विदधातु धाम तमसा कृतेन किं यदि वा न वेत्ति न विधिन वा वयम् । प्रथमापकारचरमं यतस्ततः प्रतियोगिनो भवति तस्य सार्थता ॥ ११ ॥ विभवेष्वपि दोषगन्धहीनः प्रलयेऽपि स्थितिमक्षयां दधानः । विषमेष्वपि भावयन्समर्थ पुरुषः कोऽपि हृदि स्थितः प्रजानाम् ॥ १२ ॥ इति समचित्तपद्धतिः सप्तमी । अथ सदाश्रुतपद्धतिः । सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः । क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ॥ १ ॥ प्रतिपत्प्राप्तितः प्रागप्यपातार्हपदाश्रितः । राजा तदितरो वापि नोपरागेण गृह्यते ॥ २ ॥ विषमो गुणभेदेन विकाराञ्जनयन्क्रमात् । समये महता योगादहंकारः प्रलीयते ॥ ३ ॥ खदृष्टिप्रतिघातोऽपि स्वच्छे वचन शोभनः । तत्र ह्यभिमुखः खात्मा झटित्येव प्रकाशते ॥ ४ ॥ शिक्षके हरिताकारो मेरौ नीलतनुद्विजः । अपूर्ववर्णवान्भाति सत्यनिष्ठे च कौशिकः ॥ ५ ॥ कलङ्किनि जले कापि सौरं प्रतिफलन्महः । तमोपहत्वं तनुते समृद्धि च दिने दिने ॥ ६ ॥ खतश्चैतन्यभिन्नस्य विषमच्छिद्रभागिनः । कस्यचित्प्राज्ञमूलाः स्युः पुरुषार्थप्रवृत्तयः ॥ ७ ॥ महान्तं पुरुषं प्राप्य कंचित्सत्त्वप्रवर्तकम् । प्रतिबुद्धो जनस्तेन परमं साम्यमश्नुते ॥ ८ ॥ सूत्रं रत्नसमावेशाचर्मसंश्रयसत्पदात् । तदभेदेन गृह्येत तृणमप्यनमन्त्रणात् ॥ ९॥ hugar
काव्यमाला ।
GATAS
एकयैव गुरोर्दृष्टया द्वाभ्यां वापि लभेत यत् ।
न तत्तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ॥ १० ॥
रथ्यातोयं त्रिदशसरिता राजनीतिः सुकीर्त्या
काव्यालापस्त्रियुगकथया कायवानात्मबुद्ध्या ।
दारप्रीतिः प्रजननधिया जन्तुहिंसा मखेन
प्रज्ञाहीनः परहितविदा संगतः शुद्धिमेति ॥ ११ ॥
विभुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभुवां
खतन्त्रोऽसौ दूतः स्वयमजनि सूतश्च भजताम् ।
प्रतिज्ञा स्वामौज्झत्वपदतटिनीसूनुसमरे
महद्योगात्प्रायो वहति महिमानं तदधिकम् ॥ १२ ।।
इति सदाश्रुतपद्धतिरष्टमी।
अथ नीतिपद्धतिः।
विक्रमाक्रान्तभुवने समे पाडण्यशालिनि ।
भजति स्थिरतां लक्ष्मीः कस्मिंश्चित्पुरुषोत्तमे ॥ १ ॥
पार्थिवानां पदार्थानां स्वभूत्या चक्रवर्तिनाम् ।
सूचयत्यचिराद्भेदं छिद्रेण महतान्वयः ॥ २ ॥
सदसन्तौ विचिन्वानः समवर्ती शमप्रदः ।
अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ॥ ३ ॥
यमेनोपक्रमे जानन्विश्वाधीशं व्यवस्थितम् ।
शमादिषु च तत्त्वज्ञः सनकः सिद्धिमर्हति ॥ ४ ॥
अङ्गयुक्तः कृतास्त्रश्च कुर्वन्सम्यक्पुरोविधिम् ।
विजानन्सिद्धसाध्यादीन्वैरिमन्त्रैर्न पीड्यते ॥ ५ ॥
आमाधिकरणग्राह्यमूलादिबलशालिनः ।
अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ॥ ६ ॥
प्रद्युम्नो ह्यनिरुद्धात्मा स्वनाम्ना मानसोदयः ।
वीरः कश्चिद्विजानीते स्त्रीप्रायमखिलं जगत् ॥ ७ ॥
सुभाषितनीवी ।
तमिस्राचारिणां रोद्धा विजिताक्षो मरुत्रियः ।
कपिकृत्यैरपि स्थाने भाति वेलातिलचिभिः ॥ ८ ॥
प्रयुक्तं मन्त्रिभिः काले भक्तिभेदपुरस्कृतम् ।
अपि ज्वलनवत्राणां साम संवननं परम् ॥ ९॥
विधौ लब्धधृतिनित्यं विनतानन्दनो द्विजः ।
नियम्यमानैः स्थानेषु भुजगैरपि भूप्यते ॥ १० ॥
नीतिः सती त्वयि परं परपुष्टया तु
पुत्रीकृतोऽसि बलिपुष्टकुलैर्यतस्त्वम् ।
दूरीकृतश्च पुरुषैस्तत एव काले
कण्ठे यदेष तव पञ्चममुच्चकार ॥ ११ ॥
विबुधमहिते मेरावैरावणः करटी मुहुः
कषतु करटं कण्डूलं स्वं क्षरन्मदकर्दमम् ।
भजतु च तटक्रीडां पीडाभिसंधिरसौ दृढ़
न तु मलिनता नापि क्षोभः क्षमाभृति संभृतः ॥ १२ ॥
इति नीतिपद्धतिर्नवमी।
अथ वदान्यपद्धतिः ।
आभिमुख्यदशामात्राद्वदान्य इव सज्जनः ।
शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥ १ ॥
अप्यनावर्जिताः खेन फलभारेण संनताः ।
अर्भकैरपि गृह्यन्ते साधुसंतानशाखिनः ॥ २॥
निर्मुक्तभवनक्षेत्राः स्युः सदागतिनिवृताः ।
प्राप्ते भूपविपर्यासे भोगिनः खलु योगिनः ॥ ३ ॥
सर्वेषामुत्तरामाशां धनदो यः परीक्षते ।
सत्यं मनुप्यधर्मैव स तु पुण्यजनेश्वरः ॥ ४ ॥
येषां हिरण्यकशिपुक्षेत्रदानकरः करः ।
तेषां तिर्यङ्मुखत्वेऽपि पुरुषत्वं न हीयते ॥ ६ ॥
मुख्यदानोदकक्लिन्नकरः ख्यातक्षमाधृतिः ।
लोकपालाश्रितः कश्चिदनाशावारणः कथम् ॥ ६ ॥
काव्यमाला।
शोभितोऽपि बुधैः कश्चिद्गभीरमधुराशयः ।
चन्द्ररत्नगवाश्वादिसहितां दिशति श्रियम् ॥ ७ ॥
वदान्यश्च कदर्यश्च गृहीतस्थिरलोभतः ।
खानर्थान्संचिनोत्यर्थान्परान¥रयोजयन् ॥ ८ ॥
अनिःशेपितदातव्यं वदान्यदिति वादिनम् ।
नोपसर्पति सव्रीडा ब्रीडा कुलवधूरिव ॥ ९ ॥
अपुनर्देहिशब्दार्हमप्रत्युपकृतिक्षमम् ।
आर्थिनं कुरुते कश्चित्पुनरावृत्तिवर्जितम् ॥ १० ॥
त्वचं मांसं जीवं यदपि ददुरस्थीनि पृथिवीं
श्रियं रत्नाधीशं त्रिदशतरुमैरावतमपि ।
तदेतत्प्रत्येकं मिलितमपि नालं तुलयितुं
मनस्कारोपेतस्थिरमधुरकल्पोक्तिकणिकाम् ॥ ११ ॥
अनिर्घातं धाराधरममथनीयं निधिमपा-
मकाठिन्यं चिन्तामणिमजडभूतं सुरतरुम् ।
अभित्त्वोपादाय प्रभुरपशुवृत्तिर्न सुरभि
पराबैंकस्वार्थानकृत पुरुषानादिपुरुषः ॥ १२ ॥
इति वदान्यपद्धतिर्दशमी।
अथ सत्कविपद्धतिः ।
अपङ्किलयितुं शुद्धाः साधुमानसवृत्तयः ।
वमन्ति श्रुतिजीवातुं ध्वनि नवरसास्पदम् ॥ १॥
महापुरुषलब्धात्मा सर्गादिप्रथितोदयः ।
वश्यावदातया वाचा सेव्यते चतुराननः ॥ २ ॥
विशुद्धललिताकारा गुणालंकारशालिनी ।
सरसा भारती यस्य ससत्येकः प्रतिष्ठितः ॥ ३ ॥
कुतश्चिदचलस्थानात्प्रयान्ती सागरान्तिकम् ।
दृश्यादृश्यतनु ति श्रुत्यभीष्टा सरस्वती ॥ ४ ॥
प्रभूतोदितमुक्ताभिर्भूयते सूक्तिशुनिभिः ।
सुदृशां कर्णपूराय तादृशः फलभेदतः ॥ ५ ॥
सुभाषितनीवी । प्रतीपमवमृष्टापि स्वाभिमुख्यं न मुञ्चति । कालिकेव सतां सूक्तिस्तादृशश्रुतिनन्दिनी ॥ ६ ॥ जलाशयस्य घोषेण जातलौल्यस्य भूयसा । कविशब्दं तिरोधाय कश्चिदर्थो न माध्यते ॥ ७ ॥ सदानवोक्तिमहितः प्रतिरुन्धन्प्रतीपगान् । प्रथितः काव्यनाम्नापि कविरेकः प्रकाशते ॥ ८॥ पूर्वकल्पप्रकारेण पुरुषार्थप्रवृत्तया । विचित्रसृष्ट्या विहरन्प्राप्तः कश्चिन्महाकविः ॥ ९ ॥ --- ... मतिमन्थजवेन लब्धवर्णा प्रतिपन्ना विबुधैरनन्यभक्तैः । सुकवेरनघाशयस्य सूक्तिः स्वदते दुग्धपयोनिधेः सुधेव ॥ ११ ॥ मनुव्यासप्राचेतसपरिषदर्हा कचिदियं सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने । निरुन्ध्युः के विन्ध्याचलविकटसंध्यानटजटा- परिभ्रान्ता पङ्गोपरि यदि गङ्गा निपतति ॥ १२ ॥ इति सत्कविपद्धतिरेकादशी। अथ परीक्षकपद्धतिः । काकानां कोकिलानां च सीमाभेदः कथं भवेत् । यदि विश्वसृजा साक्षान्न कृता कर्णशष्कुली ॥ १ ॥ छन्दःप्रत्ययशुद्धात्मा पश्यन्यतिगणस्थितम् । वर्णादिनियतं वृत्तं नियुङ्क्ते गौरवादिवित् ॥ २ ॥ सुवर्णमपि दुर्वर्ण युक्त्या दर्शयति क्वचित् । व्यनक्ति शुद्धिं सहसा शुचिरेकः स्वतैक्ष्ण्यतः ॥ ३ ॥ खच्छस्वादुविशुद्धानां स्रोतसां कलशोदधेः । दोषं केऽपि न मृष्यन्ति दुष्टजिह्वेन कल्पितम् ॥ ४ ॥ - काव्यमाला। सहैव भुवने जातं सत्त्वसंस्थापनक्षमम् । गृह्यते किमपि स्वस्थैरन्यत्किमपि जिह्मगैः ॥ ५ ॥ कलकण्ठगणाखाये कामस्यास्त्रे निजाङ्कुरे । निम्बवृत्तिभिरुद्ीर्णे न चूतः परितप्यते ॥ ६ ॥ मन्ये किंनरमुख्यानां मौनं जगति सांप्रतम् । मशकक्वणितं यत्र वीणास्वनविकल्पितम् ॥ ७ ॥ रत्नाभरणयोग्यानां राजान्तःपुरयोषिताम् । क्रीडाकङ्कणनिर्माणे काचोऽपि ललितः क्वचित् ॥ ८ ॥ कटूनामपि सार्थत्वात्कामं भवति संग्रहः । तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ॥ ९ ॥ नादं मङ्गलतालानां नागरीनटनोचितम् । कृषिक्षमेषु ग्राम्येषु न मूर्छयति गीतवित् ॥ १० ॥ विधिमन्तरेण विहगेन कुतः पयसोरशिक्ष्यत विवेकविधिः । कति वा दिनानि वद पर्यचिनोत्कलशीसुतः कवलयञ्जलधिम् ॥ ११॥ भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः । एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ॥१२॥ इति परीक्षकपद्धतिदशी। सैषा सुभाषितानां माला महनीयवर्णवृत्तगणा । भावुकसंख्यारूढा प्रियपद्धतिभूषिता जयति ॥ १ ॥ कविकथकसिंहकथितं कठोरललितं सुभाषितं नीवी । सदसद्विवेकमुखतः संमुखयति सर्वलोकहितम् ॥ २ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य वेदान्ताचार्यस्य श्रीमद्वेङ्कटनाथस्य कृतिषु सुभाषितनीवी। । तो paidaan
No text on this page.