Central Archaeological Library_asi_new Delhi
Udayasundarikatha Of Soddhala 1920
Front matter
सोडलविरचिता
उदयसुन्दरी कथा
UDAYASUNDARÎKATHÂ
OF
OF THE DIRECTOR GENERAL OF ARCHADO
वलमी
SODDHALA
23994
WITH INTRODUCTION ETC.
UNDERTAKEN AND PARTLY EDITED DY
C. D. DALAL, M.A.,
CONTINUED AND FINISHED BY
EMBAR KRISHNAMACHARYA,
Adhyaksha, Sanskrt Páthasa14, VADTAL.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJA GAEKWAD OR BARODA.
CENTRAL LIBRARY
BARODA.
ies,
AND
So9
Dok
1
1920.
lubrary Roger Alle
Pablished by Janardan Sakharam Kudalkar, M. A., LL. B., Curator of State Librar Baroda, for the Baroda Government, and Printed by Manilal Itcharam Degai, at The Gujarati Printing Press, No. 8, Sassoon Building Circle, Fort, Bombay. Price Rs. 2-4-0 भूमिका - अस्य गद्यपद्यभूयिष्ठस्य चम्पूप्रबन्धस्य प्रणेता कविस्सोडलो नाना । जन्म चास्य कायस्थवंशे । कायस्थवंशश्चाधुनाऽप्यनेकधा तत्र तत्र प्ररूढः प्रवर्तते । कविरयमात्मनोऽन्वयस्य मूलपुरुषं, भ्रातरं शिलादित्यस्य, नाम्ना कलादित्य, श्रीकण्ठपार्श्वपरिचरस्य कायस्थसंज्ञस्य गणविशेषस्यावतारं निरूपय- नारम्भे स्तौति । विशेषयति च निजवंशं "वालभो नाम कायस्थवंश (पृ.११,१.२८)" इति । यस्मात् वलभीनगर्यामासीदस्य वंशस्य कूटस्थः कलादित्यस्तस्माद्वालम इति विशेषः । निबन्धारम्भे वंशमात्मनः प्रपञ्चयंस्तथा शिलादित्यकलादित्ययोस्संवादे “देव क्षत्रियादुत्पन्न (पृ.६,१.१२)" इत्यादि कला- दित्यवचनमनुवदन व्यनत्त्यात्मनस्संभूति क्षत्रियान्ववाये । अयं च कविनोदाहृतस्स्वान्वयक्रमः । कूठस्थः कलादित्यः । तस्यान्वये समुदभूत् चण्डपतिः (१)- तस्य सूनुः सोल्लपेयः (२) तस्य सूनुस्सूरः (३) तस्य सूनुः कविरसौ सोडल: (४)। जन्मास्य कवेर्गुर्जरस्य दक्षिणविभागे लाटदेशे । यदयं कविरारम्भ एवमाह, “ तस्मिन्नशेषभुव- नविख्यातनामनि महावंशे दलितकलिकलङ्कसंहतिरमृतमयाकारकमनीयो नर्मदाप्रवाह इव भूतिलो- कमधिष्ठितो लाटदेशमासीदुमेशवंशावतीर्णस्य महात्मनश्चण्डपतेरङ्गजन्मा सोल्लपेयो नामे"- (पृ. १२. ५. ६) ति । तत्रैवानुपदमिदमप्याह "प्रथमतः पुत्रेषु पम्पावतीसूनुस्सोडलो नाम, स खलं स्वलोकशोभाविलुण्ठिनं लाटदेशमध्यासित " (पृ. १२. ५.११) इति । अथ लाटदेशे कस्मिन्नगरे ग्रामे वास्य जन्म ? इदं तु न निश्चेतुं शक्यते । परं जन्मदेश एवास्य नावासोऽभूत् । अपगते कौमारे परिसमाप्ते च विद्याभ्यासे केनापि कालयोगेनायं कोङ्कणदेशे स्थानकं नाम नगरमुपगम्यावस्थित इति विज्ञायते । इदं च कविरेव “का. लपरिवर्तितावस्थितिक्रमेण च मृगमदपत्रमझिमयं कोकणभुवो मण्डनमिवोद्यानवनविलीनपरिसरं स्थानकं नाम राजधानीनगरमागत्यावस्थित (पृ. १२. प. १४)" इति वर्णयति । इदं च स्थानकम- घुना ठाणेति ख्यायते । कविरयमात्मनो वृत्तं वर्णयन् कोकणदेशाधिपतेचिछत्तराजस्य नागार्जुनस्य मुम्मणिराजस्य तथा लाटदेशाधिपतेर्वत्सराजस्य च समकालिकतामात्मनो ज्ञापयति । तथा चास्य वचनम्-“संवर्गितश्छित्तराजेन संभूषितो नागार्जुनेन संमानितो मुम्मणिनरेश्वरेणेति सोदरेण क्रमोपभुक्तराज्यसंपदा राजत्रयेण प्रतिपाद्यमानः कवीन्द्रसदसि प्रतिष्ठामाससाद" (पृ. १२. प. १७) "अलङ्कारमाणिक्यं चौलुक्यवंशस्य कवीशमीश्वरं लाटदेशश्रियः, कोकणेन्द्रसुहृदमुर्वीपति वत्सराज- मनुप्रणयपरिणतानन्तसङ्गतिसुखोपभोगार्थमाहूय नीतो जगामे (पृ. १२.५.२६) ति च । तत्रैते छित्त- राजनागार्जुनमुम्मणिनरेश्वरात्रयस्सोदराः क्रमादवरजाः क्रमेण कोकणदेशाधिपत्यमन्वभूवन । एतेषु सर्वतो ज्यायांश्छित्तराजः, अष्टचत्वारिंशदुत्तरनवशततमे (९४८) शकाब्दे ( 1026 A. D.) नोउर (नोर) ग्रामे भूदानमेकं विधाय दानशासनं ताम्रपत्रे व्यलेखयत् । अयं च लेखः ईण्डियन् एण्टीक्वेरी इत्यस्मिन् (Indian Antiquary, Vol. 5. Page 277) प्रकाशितः । यश्चास्यावरजश्चरमो मुम्मणिमहाराजः, ब्यशीत्युत्तरनवशततमे शकाब्दे (९८२ 1060 A. D.) अम्बनाथ (मम्ब- रनाथ) मन्दिरं प्रतिष्ठाप्य शिलायां व्यलेखयत् । अयं च लेख: जर्नल मोफ बाम्बे ब्राञ्च, रोयल ।
एशियाटिक सोसाईटी इत्यत्र (Journal of Bombay Branch, Royal Asistic Society. Vol. XII, Page 329 ) प्रकाशितः । एवमनयोस्समयनिश्चयेनास्य कवेस्समयश. कस्य दशमशतके, एकादशे कैस्तशतके ( 11th Century) छित्तराजमुम्मणिराजयोस्समयमभिसं. बध्य भवतीति निश्चीयते। प्रबन्धस्यास्य प्रणयनसमयस्तु शकस्य द्विसप्तत्युत्तरनवशततमाब्दात् (९७२, 1050 A. D.) प्रायः प्रागेवेति संभाव्यते यदयं कविः “ शूर्पारकात् समागतेन" (पृ. १५६. प. २) इत्यादिना वचनसन्दर्भेण जीवत्येव वत्सराजे निबन्धस्यास्य समाप्ति झापयति । तेन च वत्सराजेन द्विसप्त- त्युत्तरनवशततमे (९७२) कीर्तिशेषेणैव भाव्यमित्यस्ति संभावनास्पदम् , यदस्य चौलुक्यकुलो- अवस्य लाटदेशाधीश्वरस्य वत्सराजस्य सूनुत्रिलोचनपालः प्राप्तराज्यभारो विधाय वार्धके ग्रामदानं द्विसप्तत्युत्तरनवशततमे शकाब्दे (९७२, 1050 A. D.) दानशासनं व्यलेखयत् । अयञ्च लेख: ईण्डियन् एण्टिक्वेरी इत्यत्र ( Indian Antiquary, Vol. XII, Page 196) प्रकाशितः, तदस्मिन् दानलेखसमये पित्रा हि वत्सराजेन नामशेषेणैव भाव्यम् । एवं शकस्याष्टचत्वारिंशदुत्तरनवशततमाब्दात् (९४८, 1026 A.D.) अनन्तरमेव च प्रबन्ध- स्यास्य समयेन भाव्यम्, यदयं कविरेतत्प्रबन्धनिर्माणसमनन्तरं कतिपयैरेवाहोभिराहूय सम्मानितस्स- भायां मुम्मणिमहाराजेन राज्यश्रियमुबहतेति विज्ञायते निबन्धान्ते, वथाह्याह " मित्रै मद्भिराप्तैश्च बन्धुभिश्चानवरतमापृच्छयमानवृत्तान्तो विलोक्यमानप्रबन्धः प्रशस्यमानगुणश्च विश्राम्यन् कियन्त्येव यावदास्ते दिनानि, तावदेकहेलयैव x x x x x मुम्मणिमहाराजस्यान्तिकादाजगाम " (पृ. १५५. प. १८) इत्यादि । अष्टचत्वारिंशदुत्तरनवशततमाब्दे तु (९४८, 1026 A. D.) छित्तराजो राज्यश्रियमवहत्, ततः परमेव नागार्जुनस्ततस्तुमुम्मणिमहाराजः, आहच कविरयमादौ “ सोदरे- णक्रमोपमुक्तराज्यसंपदा राजत्रयेण प्रतिपद्यमानः (पृ. १२-प. १८) इति, तस्मात् यद्ययं प्रबन्धः अष्टचत्वारिंशदुत्तरनवशततमाब्दे ततः पूर्व वा विरचितस्स्यात् मुम्मणिमहाराजविरचितं प्रबन्धा- नुश्रवणं पारितोषिकवितरणं च कथं घटेत, तथासति तदिदं प्रबन्धानुश्रवणं पारितोषिकवितरणं सर्व छिन्तराजे संभाव्येत । यत्पुनश्श्रीमता चिमनलाल् दलाल् महाशयेन काव्यमीमांसायां प्रस्तुतम्, उदयसुन्दरीकथा- निबन्धस्य समयः प्रायः संवत् १०३० इति तत्तु न नो हृदयपदमधिरोहति । यदपि लाइब्रेरी मेसलेनि (Library Misscellany) इत्यत्र “अनन्तपालस्य सं० (१०१६) ताम्रपत्रे नागार्जुनमुम्मणिराजयोनीमोत्कीर्तनेन कवेस्समयो विक्रमस्यैकादशशतकस्य पूर्वार्ध इति विनिधीयते " इति तेनैव महाशयेनोक्तं तदपि शङ्कास्पदमिव, अनन्तपालो ह्ययं नागार्जुनस्य सुनुः, तस्मिन्नेव ताम्रलेखे " श्रीछित्तराजो नृपतिर्बभूव ........"ततोऽनुजस्समभवन्नागार्जुनः मापतिः 'तदनु तदनुजन्मा मुम्मणिक्षोणिपालः । तस्मिन् नृपे कीर्तिशरीरभाजि नागार्जुनस्य तनयो ....... 'सोलारगोत्रनृपरत्नमनन्तपालः" इति ह्याविष्कृतम्, शकनृपकालातीतसंवत्सरदशशतेषु पोखशाधिकेष्विति च (श. १०१६) वत्सरगणनाऽपि प्रकाशिता, अयं च ताम्रलेख ईण्डियन् एटिकेरि ( Indian Antiquary, Vol. 9, Page 83) इत्यत्र प्रकाशितः । तत् कवेः का- H . स चायं सोडूलो बालभाव एव, प्रेयुषि पितरि परलोकं परिरक्षितो मातुलेन गङ्गाधरेण च. न्द्रनाम्नो गुरोविद्यामधिगत्य विद्याभ्याससमकालमेव समुन्मिषितया कविताशक्त्याऽन्वहमेधमानः कवीन्द्रसदसि प्रतिष्ठामाससाद । अभूच्च सन्मानपात्रं सिलहरवंशसमुद्भवानां कोकणनरेन्द्राणां छित्तराजप्रभृतीनां सोदराणाम् , अथ कदाचिदाहूतो लाटदेशाधीश्वरं चौलुक्यकुलाभरणं वत्सरा- जमुपजग्मौ । तत्र प्रणयपरिणतानन्तसङ्गतिसुखमन्वभूत् । तस्य च सभायां काव्यगोष्ठीषु विलास- मात्मनः कवितायाः प्रकाशयन्नासीत् । अथ कदाचित् प्रसङ्गात् वणिक्पुत्रोपदेशापदेशेनात्मानमु- पलक्षीकृत्य वत्सराजेन पठिताम्, " एकैकशः प्रकीर्णैः- ....... "कोऽपि - रिभोगः ।" (पृ. १३. प. ४ ) इतीमामार्यामुपश्रुत्य वत्सराजस्याशयमालक्ष्य प्रावर्तत कर्तुं काव्य- निबन्धमेकम् । कतिपयरेवाहोभिरखिलसहृदयहृदयालादकं कविकुलावतंसोपलालनीयमाकलितापूर्व- कथासन्दर्भ चंपूप्रबन्धमिमं व्यरचयत् । अथ यान्यासन्नात्मनो मित्राणि, चन्दनाचार्यश्वेताम्बर- स्सूरिः, श्वेताम्बरसूरिरपरश्च विजयसिंहाचार्यः, दिगम्बराचार्यों महाकीतिः, इन्द्रनामा चापरः, तेरेतैः विलोक्यमानप्रबन्धः प्रशस्यमानगुणश्च विश्राम्यन् कियन्त्येव दिनानि यावदास्ते तावदन्तराल एवा- हूतो मुम्मणिमहाराजेन कोकणाधीश्वरेण श्रावितनिजप्रबन्धस्तेन सन्मानितः परां निर्वृत्तिमवाप । मन्ये कवीन्द्रोऽयं शोभते गजेन्द्र इव मद्धारया । यदयं कविरात्मनो विभूति जन्मतो धनतो विद्यातश्च वर्णयन् स्वकुलकूटस्थं सौराष्ट्रदेशाधीश्वरस्य शिलादित्यस्य भ्रातरं कलादित्यं अष्टमूर्ते: कायानुगतस्य कायस्थनानोऽनुचरगणस्यावतारं वर्णयन् पूज्यपदमधिरोपयति कायस्थवंशम् । विशे- षतः श्लाघते च कुलपुरुषान् । प्रकाशयति चानन्यसामान्यां धनसंपत्तिमात्मनः “ विभूत्या च लाटदे. शान्तःपातिविषयाणा (पृ. प. १५२)" मित्यादिना । कल्पयति चैतत्प्रबन्धश्रवणतो बाणस्यापि शापनिवृत्तिम्, बाणकृतमभिनन्दनं च । अथ चान्ते वाल्मीकिप्रभृतिकविरत्नहारे प्रथयति चा- स्मानमतिमनोहरेण वाणीगुणेन । कविरयं बाणमनुसरति च्छायया । शब्दमाधुर्यमर्थमाधुर्यमण्यस्य सर्वतो गरीयः । अन्यवास्यो- स्प्रेक्षणशैली। नूनमस्य कवेर्वाचि मधु क्षरति किञ्चन । अत्रोदाहियन्ते कतिचन पद्यानि निदर्श- नतया । अम्भःकणास्त्रशतचर्चितपत्रहस्तसंसक्तपङ्कजमुखी कुमुदोत्सवेषु । मुद्रावरुद्धमधुपध्वनितैरिवार्कशोकातुरा सरसि नीरजिनी विरोति ॥" " कमलिनी भुवनान्तरिते रवौ व्यपगतालिकलापशिरोरुहा । परिः विधवेव सुबाकरशुतिवितानमिषेण सितांशुकम् ॥" अन्धत्वमाहितं मन्ये तमसा दीपकेष्वपि । अतो हस्तधृताः स्त्रीभिः सञ्चार्यन्ते गृहेष्वमी ।। चान्द्र महो मण्डलभाजनस्थं दुग्धं यथा यामवतीमहिध्याः । वियोगिनां दृग्दहनोप्रतापै- रुल्लासितं व्योमतले लुलोठ ॥ कथायास्सारांशस्त-आसीत् प्रतिष्ठाननगरे राजा मळ्यवाहनः । तेन नागलोकाधिपतेः ८ एशियाटिव Society. कस्य दशा बध्य भवत प्रायः प्रा युचरनव अवस्यल द्विसप्तत्यु ईण्डियन तदस्मिन शिखण्डतिलकस्य तनया कन्यारत्नमुदयसुन्दरी विष्णुनेव रत्नाकरदुहिता लक्ष्मीरुपलब्धेति । संभाव्यते कथेयमुदयसुन्दर्याः कविना समवलोक्य स्खमतिदर्पणे सङ्ग्रहीतेति । प्रयुते चायं कविविरलप्रयोगानि पदानि कचित्कचित् , यथा “ भानुमतेव पद्मः" (पृ. १५४) इति पुल्लिङ्गपद्मशब्दम् । सौन्दर्यार्थे लडहशब्दं च " लडहलाटीकटाक्षः' (पृ. ८५) इति । अयं च लटभशब्दस्य विकृतं रूपं देशीयमिति केचित् , परे तु संस्कृत एव गणयन्ति । तथा छटकशब्दं च विनुषि, अस्य शब्दस्यास्मिन्नथें प्रयोगस्तु न दृष्टपूर्वोऽस्माभिः, देशे तु तत्र तत्र व्यवहृतिपदे छाट, छाण्ट, इत्यस्ति प्रयोगः । प्रायश्छटाशब्दस्य विकृतेनानेन भाव्यम्, शोभते नाम कवीनामेतत् । निरङ्कुशा हि कवयः। अयं च चम्पूप्रबन्धः परिशील्यमानः पुराऽयं गूर्जरदेशो मधुमयफणितीनां वश्यवचसा बाण- भासादिभिस्समरेखामनुविशतां महाकवीनामास्पदमभूदित्यवगमयति । कीर्तिशेषेण श्रीमता चिम- नलाललाल ( Late Mr. C. D. Dalal, M. A. Librarian, Central Library, Baroda.) महाशयेन पुस्तकमेकमेवास्य शेठवाडीलाल हीराचन्दद्वारेण पाटणनगरस्थपार्श्वनाथ- पुस्तकालयतः (loan) प्रत्यर्पणं प्रतिश्रत्य संपादितम् । महताऽपि प्रयत्नेन पुस्तकान्तरं नालभ्यत । एकमेव पुस्तकमिदमादर्शतयाऽवलम्ब्य तेनैव महाशयेन चत्वारिंशत्पत्रपरिमितो निबन्धस्यैकांशो मुद्रणपदं प्रापितः । एतस्मिन्नन्तर एव विधिविपरिणामेन कालस्य वशमापद्यत । अनेन च पण्डित- प्रकाण्डेन काव्यमीमांसाप्रभृतयो बहवो निबन्धास्सम्यक् परिशोध्य प्रकाशिताः । अस्य चाल्पीयस्येव क्यसि समुत्पन्नं निधनं विशेषतो वटपत्तनराजकीयपुस्तकालयस्य गैर्वाणांशे हानये, अथ काले प्रभवति किमनुशोकेन । अथ तत्राधिकृतैरवशेषपरिशोधनेऽनुयुक्तेन मया यथामति परिशोधितोऽयं निबन्धः । परमेकमेव पुस्तकम्, प्रायस्संवलितमशुद्धेन, मतिश्च नस्सावधिः, स्यानाम स्खालित्यम् , क्षन्तुमर्हन्ति पण्डिताः । अथ चादर्शपुस्तके क्वचित्कचित्पदानि वाक्यानि च भूयो विगलितानि तेषां चानतिकठिनेऽपि पदे स्वमतितः पूरणं महाकवेर्गभीरहृदयस्यास्य वाङ्मधुनिष्यन्दे दूषणमाride दिवि वत्र यत्नो विशेषतो न व्यवधायि। यदि स्याद्गुणलेशोऽत्र तुष्यन्त्येव तु पण्डिताः । alal, तुष्याम्यहं तु दोषेण ज्ञापितेनेह बोधिसः ।। ind, एं. कृष्णमाचार्य. प्रधानाध्यापक, संस्कृत पाठशाला वृत्तालय ( वडताल भायां। बन्धुभि tion सर्व ate. not ath P- INTRODUCTION Author's Ancestry-Soddhala, the author of this composition which is called "Champoo” in Sanskrit, was, as can be seen from the evidence furnished by himself in his autobiographical statements, born in the country called Lâta, the southern part of Gujarat, described by him as the land watered by the river Narmada. He belonged to the Kayastha caste. He traces his descent from Siladitya's brother Kaladitya, whom he praises as an incarnation of the Gaña, called Kayastha, a follower of God Siva. By describing Kaladitya as being born in the Kshatriya caste he takes pride in his own descent as a Kshatriya. Thus his lineage in brief is this: -In the Valabha branch of the Kâyastha caste, of which Kaláditya was the founder, he was born of Soora, who was the son of Sollapeya, who again was the son of Chandrapati. Author's Life and Time-The internal evidence does not enable us to ascertain the exact place of his birth; still this much is pretty certain that he did not flourish in the place where he was born. He lost his father when he was a mere boy and was brought up by his maternal uncle Gangadhara. He got his education from a teacher by name Chandra and after finishing his studies, through some coincidence of circumstances, he went to Sthanaka (modern Thâna), then the capital-city of the kingdom of Konkana. There he flourished at the court of the three royal brothers, Cćhittarâja, Nagarjuna end Munmunirâja, who succeeded one another as kings of Konkaņa. He cribes himself as a contemporary of these three kings, as also of Vatsaraja, halukya King of Lata, who also honoured him by inviting him at his court. ćéhittarâja, the eldest brother, who came to the throne of Konkaņa first, aved a metal-plate inscription dated 1026 A. D. (Vide Indian Antiquary, V. page 277). Mumniuņirâja, the youngest brother, who came to the ne last, also engraved a stone-tablet in 1060 A. D. (Vide Journal of the nbay Branch, Royal Asiatic Society, Part XII page 329). As our author a contemporary both of Cćhittaraja and Mummuņiraja, we can inter with tainty that he must have flourished in the eleventh century of the ristian era. Date of Composition--The present work seems very likely to have en composed between 1026 A. D. and 1050 A. D. The author by his wordsvieta Farida' (p. 156. 1. 2)-suggests that the work was finished while atsarâja, the King of Lata country, was alive. This Vatsaraja was very obably dead before 1050 A. D., because his son Trilochanapala made a giftsed in 1050 A. D. in which he (Trilochanapala) designates himself as the ing, which he can do only if Vatsaraja was dead. On the other hand it ppears that the work was written after 1026 A. D., for he writes that within genius recognised by a few days after the work was completed, it was read before Munmuşirâja, who, in appreciation thereof, rewarded him handsomely. This fact, therefore, of the work being read before Mumnuņirâja and of its being appreciated by hin enables us to infer that Mummunirâja must have been on the throne then and the reward was given by him, not as a brother of the king but as the actual ruler which he became after 1026 A. D. Incidents in Author's Life--Even as a student our author made his honour at the court of the kings of Konkaņa, he was, on one occasion, in. vited at his court by Vatsarâja, king of Lâta. Our author was fortunate enough to win the admiration as well as the royal patronage of Vatsarâja. This Vatsarâja, once by way of a taunt to the poet, recited a verse professing apparently to give admonition to a merchant in the words to testo........so are thor: (p. 13. 1. 4). Hearing this and fully grasping the intention of the king, the author at once set about to compose a work and within a few days brought out this charming and unique poetic production. Author's Special Merits—The glowing terms in which he describes his position and powers, his great anxiety to trace his descent from an exalted ancestor of the Kshatriya race born of an immediate follower of God Siva, the language in which he praises his forefathers, his reference to his own self as an equal to Bâņa and Valmiki-all go to prove that the author is sublimely proud of his merits. And yet his pride is not unbecoming. He is indeed a charming writer and a worthy follower of Bâņa. In sweetness and and melody of language and beauty of ideas, he is uniquely happy and his creative fancy is peculiarly his own. In him Gujarat can well take the pride of having produced a literary gem of the standard of Bâņa. Ms.-Materials—The solitary manuscript on which the present edition of this work is based was secured by the late lamented Mr. Chimanlal D. Lalal, M. A., of the Baroda Central Library, through Sheth Vadilal Hirachind, from the Library of the Pârsvanatha Bhandar of Pâtan in the Baroda State. He tried his best to secure more manuscripts of the work, but could not succeed. At last he based his text on this only available Manuscript and while he was seeing through the press a part of this work, the cruel band of death snatched him away prematurely. The rest of the task was consequently entrusted to me by the Curator of State Libraries, Baroda, under whose supervision the “Gaekwad's Oriental Series is edited. I leave it therefore to appreciative readers to judge how far I have been successful in my tasz, requesting them at the same time to consider that the Manuscript of the text was only one and full of mistakes and several omissions, and that these latter have now been corrected by me from mere conjectures of my mind which is indeed far inferior to that of our great author. VI 9.
ॐ सोडलविरचिता उदयसुन्दरी कथा। विश्वाभिधे महति धामनि मूलहेतुः स्तम्भस्त्रिभूमिसुभगे जयति त्रिनेत्रः। देवी गिरीन्द्रदुहिता घटिता यद्ग- भागे वरीयसि विराजति शालभनी । देवस्य पङ्कजभुवो वदनात्प्रसूता वाचाम्पतिर्भगवती जगतीं पुनातु। या वाङ्मयं सपदि विश्वमुदीक्षयन्ती तारेव तिष्ठति मनोनयने कवीनाम् ।। दीपैः किमल्परुचिभिः शशिना जडेन किं किं च तेन रविणाऽपि दिनोदितेन । यत्रैष सूक्तकरदर्शितविश्वसृष्टि- रास्ते नवः कविरिति प्रवणो मणीन्द्रः अर्थैरसारमपरिस्फुटवर्णजातं ये शब्दमात्र 'विपञ्चयन्ति । स्वेनामुनैव जगति प्रथिता गुणेन सत्यं निसर्गतरलाः कवयो वयस्ते ॥ ते यान्ति हन्त कवयः परं बिरसनैरनिरस्तदर्पाः । नीरन्ध्रसंधिघटितैरचलैर्वचोभि- ये विस्तृतं विरचयन्ति रसप्रबन्धम् ॥ राज्ञां सभासु परिषद ...."णां गोष्ठीषु वाखिलमुभाषितभावकानाम् । 4000 १ उदय सर्वाधिपत्यविषयी स खलु प्रबन्धः स्याद्यस्य साधुजनचेतसि पट्टबन्धः ।। दैवे....'देहवतामशेषैः सपिण्ड्या पुण्यपरमाणुभिरेष सृष्टः । तेनास्य नूनमनिशं सकलोऽपि काल- स्तेषां हितानि परिचिन्तयतः प्रयाति ॥ यद्यप्यसौ विशति दुर्जनतन्तुरन्त- स्सूत्रं सुतीक्ष्णवदनोऽतिदृढस्तथापि शुद्धादलब्धविवरो विनिवर्त्य वक्त्र- मुत्प्रेरितोऽप्यपसरिष्यति काव्यरत्नात् ॥ लक्ष्मीभुजो मुवि सभापतयः क नाम सन्तीह सम्प्रति गुणेष्वनुरागवन्तः । ये हि प्रलीनखलरोलभराः सुखेन शृण्वन्ति संसदि कवीन्द्रसुभाषितानि ॥ श्रीविक्रमो नृपतिरत्र पतिः सभाना- मासीत्स कोऽप्यसदृशः कविमित्रनामा । यो वार्थमात्रमुदितः कृतिनां गृहेषु दत्वा चकार करटीन्दुघटान्धकारम् ॥ हाले गते गुणिनि शोकभराभूवु- रुच्छन्नवाङ्मयजडाः कृतिनस्तथाऽमी। यत्तस्य नाम नृपतेरनिशं स्मरन्तो हेत्यक्षरं प्रथममेव परं विदन्ति ।। श्रीहर्ष इत्यवनिवर्तिषु पार्थिवेषु नान्नैव केवलमजायत वस्तुतस्तु । गीहर्ष एष निजसंसदि येन राज्ञा सम्पूजितः कनककोटिशतेन बाणः॥ सृष्टं तत्र युवराजनरेश्वरेण यदुष्करं किमपि येन गिरः श्रियश्च । प्रत्यायनं स्फुटमकारि निजे कवीन्द्र- ज्दवसुन्द। क्या । मेकासने समुपवेशयताभिनन्दम् ॥ देव्या" वलधामनि हंसपृष्ठे लीलायितं चरणयोईितयेन यस्याः। सा किं रमामिषनिषण्णविलोचनेषु चिल्लाविपेषु ...."दं करोति ॥ योऽप्यस्ति लोकतिलकः क्षितिपेषु कश्चि- देकः कृती स्वयमसावनुपासितोऽपि । निर्मथ्य पत्ररथनाथ इव दिजिह्वान क्षित्वामृतं नभसि नेष्यति काव्यकुम्भम् ॥ ये नाम केचिदमुना कवितारसेन व्यासादयः कृतधियो भुवनेषु सिद्धाः। तेषामुपासितपदाः कवयः किमन्य- दासादयन्ति परमत्र सुवर्णसिद्धिम् ।। बाणस्य हर्षचरिते निशितामुदीक्ष्य शक्तिं न केऽत्र कवितास्त्रमदं त्यजन्ति । मान्द्यं न कस्य च कवेरिह कालिदास- वाचां रसेन रसितस्य भवत्यधृष्यम् ।। मूढेन पश्यत मया नु यशाकृतेऽद्य क्षोदेष्वनीश्वरमहो सृजता प्रबन्धम् । रत्नं निकामहढरोहणशैलमग्न- मुद्धर्तुमेष स मृणालनलो गृहीतः ॥ तदिममतादृग्गुणमपि यः किल भुवनैकबन्धुरमलात्मा । सुकृती स खलु कविस्तं संगृह्यतया साधुरादत्ताम् ।। सा जयति भणितिरहो रसवक्रा कुश्चिकेव या सर्वम् । उद्घाटयति कवीनां रसनासारस्वतं कोशम् ।। पूर्वमिह मर्त्यलोके सकलभूवलयभूषणीभूतभवनमणिकिरणकुण्डल वलभीतिप्रसिद्धनामरम्यायामसीमगुणभाजि राजधान्यामनन्तनमितसामन्त स्तकाभरणमणिहंसकोपसेव्यमानचरणशतपत्रः प्रथितपृथुकीर्तिकल्लोलिनीकर पवलयोपगूढसप्तार्णवो मानविनयनशफरसम्पातमीनध्वजस्तेजसो राशि सीद्वनीचरः शिलादित्यो नाम ।
सोड्डलविरचिता यस्योगद्दीप्रवज्रानलसरलशिखाभोगभासि प्रतापे स्फूर्जत्युच्चैन केषां झगिति विगलितो भूभृतां स्तब्धभावः । सा नु व्यक्तैव तस्मिन्नसमगुणवती कापि दिव्यौषधीनां शक्तिर्यन्नो विलीनस्तुहिनदलमयोऽप्येष मन्ये हिमाद्रिः ।। तस्य च सदैवाङ्गलग्नः पुरःसरः कार्येषु, परिमल इव पारिजातस्य, तर- गाभोग इव सागरस्य, किरणकलाप इव दिवसराजस्य, शिखाभर इव कृशा- नोरेक एवानुजन्मा तीव्रतरवारिधाराजलमार्जितारिनामाक्षरश्रेणिः, आसमु- द्रमेदिनीकेलिदुर्ललितविक्रमो, निधानमशेषविषयवर्तिनो ज्ञानस्य, सरस्वतीभ- वनं, नाना कलादित्य इति पुरुषभूषणं बभूव । यः समन्तादुपान्तनिहितनूत- नेन्द्रनीलमणिमयूखवलयमालाभिरलधुलोहजलाभिरिवोपसजितं निजाग्रज- राज्यसिंहासनमनारतं हठादाकृष्यमाणनरेन्द्रसम्पदा बन्दिशालीचकार । स हि महीभृतामुत्तमस्तेनानुजन्मना सह समस्तमनिशं संसारसुखमखण्डितविलास- मासेवमानः कदाचिदसहमानोऽन्यतेजस्विषु प्रथममसमसंरंभसञ्चरदपारहरिक- रिवरूथिनीरजोभिराक्रम्य दिवसराजस्य मण्डलमुच्चचाल दिशो वशीकर्तुम् । यस्मिनुचलिते विजेतुमभितो दिक्चक्रमुच्चक्रम- क्रामत्कुञ्जरदण्डचण्डचरणन्यासैनमन्त्या भुवः । मन्ये निर्भरपातमुहुरमहाभारेण भग्नस्तदा तेनैवं चलति प्रकामकुटिलीभूतो भुजङ्गाधिपः ॥ अथ तस्य सुदूरमारूढिमता विक्रमगुणेन विपक्षवंशमवनम्य कोदण्डवत्क- रप्रणयिनं कुर्वतः क्रमेण क्रमतलानीतनिखिलनरपालचक्रस्य कथञ्चन बलीयसा सप्ताङ्गसमग्रेणोत्तरापथस्वामिना मान्धातृवंशप्रभवेण भूभृता धर्मपालेन सह वि- ग्रहो दीर्घतामवाप।तां तथा विलोक्य विग्रहस्यायतिमेकस्मिन्नहनि ननु कथमसा- ध्योऽयमरातिरस्मद्दलानामिति क्रोधतरलितेन चेतसा समरोपकरणसजितमा- रुह्य कुञ्जरप्रवरसुर्वीश्वरः स्वयं गत्वा दुर्गरोधयुद्धान्तिके बभूव । तत्र च प्रचुर- यन्त्रोपलाग्नितैलरणमण्डपाद्युपकरणदारुणे प्रसरमागच्छति महारणे, रणरसा- विष्टसुभटसङ्घट्टितासिरणितवादित्रेषु प्रवर्त्तमानेषु कबन्धताण्डवेषु, तरत्करिक- रङ्कनौकासु प्रसरन्तीषु शोणितनदीषु , दीप्यमानजिगीषुनरपालकोपानलेषु विजृम्भमाणेषु च भ्रमद्ध्रपक्षप्रभञ्जनेषु, सहसैव दुर्गादागत्य सिन्धुर- गतस्य राज्ञश्चरणयोरने पपात परमेको विविधवर्णरमणीयकायः सायकः । दृष्ट्वा च निकटमधिरूढो भ्राता कलादित्यः स्वामिन्नाश्चर्यमक्षरश्रेणीसनाथः उदयसुन्दरी कथा। किमप्यसौ शर इति गृहीत्वा राज्ञोऽनुमत्या मनसि तान्यक्षराणि स्फु कृत्य नन्वार्यायुगलमेतदिति प्रकाशं वाचयामास । कणे निवेशितपदः प्रहितो विदेषिणः प्रविश्याङ्गे। कोऽपि पतत्रिप्रवरः कार्य विद्धाति विजिगीषोः॥ अपि च। पूर्वापरयोः शुद्धि विमुच्य कुटिलक्रमेण विचरन्तः जयमिच्छन्ति नियुक्ताः सर्वे विशिखा रिपोरेव ॥ राजा त्वीदृशमिदमार्यायुगलमाकये मनस्येव भाविताओं झगित्याक दुर्गमूलाहलानि संवृताखिलसमीकसंरम्भो निववं निजसेनानिवासमा गाम । तस्मिन्नुचितक्रमेण करणीयमहो निवर्त्य रजन्यामाहूय रहस्यकालमुक समरसम्भारोद्भूयमानामितवितर्क भ्रातरमुवाच । ननु वत्सेन शरस्थमायात वधारितमिदमार्ययोयुगलम् । अत्र हि शरप्रणुतिनिन्दाच्छलच्छन्नो नूनमन्य ऽयमर्थात्मा। तथा च जानाति वत्सो यत्किल ममाऽस्ति धन्विनामग्रणीर जन्मा गुणाह इत्याप्तः सेवकः । स खलु मयात्र द्विषन्तिके पूर्वमेव प्रणि रूपेण निरूपितो वर्तते । तेनाद्य श्लेषोक्तिचतुरेणैतदार्यया प्रथमया कर्णे नि शितपदः पतत्रिप्रवर इति पदव्येन कर्णे संसिद्धप्रहितिः प्रणिधिः पतनिरि प्रवरो धन्वी किलाऽहमिति प्रत्यभिज्ञाप्य परिपन्थिनोऽङ्गे प्रविश्य कार्यका त्वमात्मनो ज्ञापितम् । द्वितीयया च निवेद्य प्रहितं यत्खलु ये हि कर्म नियुक्ताः विशिखा इति विगतशिखाः मूढजातयस्ते सर्वेऽप्युज्झितपूर्वापरकर वक्रभावेण विचरन्तः शत्रुमेव जयन्तमिच्छन्तीति वाच्यार्थे निश्चितमनेन न तिनिपुणेन रिपुणा कथञ्चन प्रभेदिताः सर्वेऽप्यस्माकममी करितुरगकोशादिष्ट धिकारिणः । एवं च यद्यथैव किमप्युपक्रम्यते तत् तथैव तैरेवमकर्मभिराख्याय मानमभितःप्रतिसमाधत्ते सावधानो रिपुः। इत्थमसावायाति विग्रहो वृद्धिं, त दद्य रात्रावेव प्रतिगृहं सञ्चारितचरत्वेन जानीहि किन्नाम सत्यमेतदित्यमन्दमा दिष्टेन तेन यथानिरूपितमशेषतश्चक्रे । प्रातरागत्य च देव ! यथा गुणाढेनाऽऽ ख्यातं व्याख्यातं च देवेन तथैव तत्सर्वमित्युक्ते निकामकुपितो नृपेन्द्र सपदि सञ्चरत्कोपलक्ष्मीपदक्षेपलग्नेन यावकरसेनेव लाञ्छितां लोहितां दृश माधानः क्रोधिन्यां दृशि स्थितेन च कृतान्तेन वलितोदञ्चितामसमश्मश्रु ष्ट्रिकामिव भृकुटिमाभोगभीषणां घटयन्नुटेन पथा वक्तुमारेभे । भवतु वत्स ६ सोडलविरचिता किमेभिरहितप्रभेदविघटितैरसाधुभिः सहायरेष चेजलैरभेदितोऽस्ति मदीयो बाहुरवश्यं मन्दरमहीध्र इव लक्ष्मी पयोधिमध्यमग्नामप्युद्धरिष्यति । तथाहि- श्रीः स्वयं चापटङ्कारस्वनव्याहारधाविता। सेनेवागत्य धीराणां दोर्दण्डमधिरोहति ॥ अपि च PHYANTRIES लक्ष्मीपारावत्या वसतिकृते पाणिपतरप्रवरः । विहितः स एव विधिना सुभटानामिह मुजस्तम्भः ॥ तदेष चिरावतु मे संप्रति कृपाणप्रणयी पाणिरित्यसिदण्डमादातु- कामं राजानमालोक्य कलादित्यः सादरमवादीत् । ननु जगत्रयाक्रमणकर्मठो. रुविक्रमः किमित्येवमेतावत्यणीयसि रिपावार्यः स्वयमेनं कृपाणमादत्ते । किं नाम विस्मृतः स्वामी ? । देव!क्षत्रियादुत्पन्नः स्नेहेनोपलालितः पालितश्च कोशेन मध्यगतो मुष्टेरनिष्टनरनिग्रहोपकरणमहं ते मण्डलानः । तदादिश क्षणाद- वश्यमयैव त्वदीयेन तेजसा दलितदन्धितमसं धर्मपालमवनौ विनतिलुलि- तकायं त्वञ्चरणतलवर्तिनो लक्ष्मरेखामयस्य चक्रस्याक्षदण्डं करोमीति सानुब- न्धमभिधाय बलादनिच्छतोऽप्यग्रजस्य गृहीतभण्डनारम्भपरिकरः स्वीकृत्य सकलमलिकुटुम्बडम्बरितगण्डफलकमुड्डामरं मत्तकरिवरूथिनीवृन्दमुद्ग्रवेगं स्वीयं सैन्यमनिन्धं च सामन्तचक्रमेकहेलयेव विश्वमास्फालिताजितूर्यनि?- षनिर्भरं कुर्वन् प्रणम्याग्रजं निर्जगाम । झगिति चाग्रे स्वयमवष्टभ्य सुभटस- न्दोहदुर्गमं दुर्गमकरोदनन्तनरहरिकरीन्द्रसंहारदारुणं महारणम् । तथाहि- निनं मुभटस्य कङ्कणमणिश्रेणीशिखाडम्बरो- ही प्रान्तमुदस्य दस्युपतगत्रासेन गृध्रो भुजम् । यस्मिन्नस्तमुपागतै पतिभिस्तत्कालमूर्ध्वं जग- द्गच्छद्भिः सह दीपवर्तक इव व्योमान्धकारे ययौ॥ Reatml किंबहुना। तामासाद्य सुदूरभस्त्रपतनप्रक्षुण्णवीरत्रुट- तूर्यद्वारकपालजङ्गलचयच्छन्नामनीकक्षितिम् । जातं गृध्रगणोज्झितं द्रुमकुलं भल्लूकशून्यं वनं निष्कापालिकमम्बिकाग्रहमपप्रेतं च लड़ापरम ॥
उदयसुन्दरी कथा। तथाविधे च व्यतिकरे तत्तादृशमचिन्त्यमप्रतिविधेयमपूर्वमिव दुर्गग्रहो क्रमस्वरूपमुपलभ्य बलवता विगृहीतस्य तदनुप्रवेशकारित्वमपि नीत निर्णीतमस्तीति नयविचक्षणः क्षणेनैव सर्वार्पणपुरःसरो धर्मपालः प्रतिपद्य र वामुपनतो बभूव । कलादित्यस्तु तं समर्पितोपचारसर्वस्वमेकाग्रमले विधा दुर्धरासिपत्रव्यापारणपरिश्रमार्णसा मिलितैः समरपांसुभिः कर्दमिलेन वपुर पातालपङ्कादुत्थितो महावराह इव समुद्धृत्य मेदिनीमागतो द्वार एव भूपृष्ठसङ्घ टितकिरीटकोटिना मस्तकेन कृतप्रणामः सरभसमाहूय समालिङ्गितोऽग्रजे सविनयमुपाविशत् । धर्मपालोऽपि देव ! स एष धर्मपालः प्रणमतीति ज्ञाप्यमानः प्रतीहारेण चरणयोः पपात । प्रणामविनते च तस्मिन्नुपकण्ठवर्त सुललितो नाम प्रधानो बन्दिनामुचितमवसरे पपाठ । देव! त्वत्पदपीठमेचकमणिश्यामांशुमालामयं ये सन्नाहमलथलोहघटितं गृह्णन्ति नत्वा नराः। तेषामत्र खलु क्षितीन्द्रतिलक! त्रैलोक्यचूडामणे! स्वामिन्न प्रभवत्यसौ विजयिनी कालस्य दण्डाहतिः ॥ अथ पार्थिवप्रवरस्तेन तस्य स्तुतिपदाविष्कृतकृपार्थनावाक्येन सुदूरमाद्री कृतस्वान्तः सपदि सन्दर्शितानल्पप्रसादमुत्खातप्रतिरोपणेन पुनस्तं तत्रै स्वराज्ये निवेश्य प्रसाधिताशेषदिक्चक्रवालोपार्जितां जयश्रियमादाय निजा माजगाम राजधानीम् । आगतश्च तत्र क्रमेण निवर्त्तितासु सर्वतः सर्व दिग्विजयसिद्धिसंवर्धिताडम्बरवतीषु महोत्सवप्रक्रियासु, प्रकामशुलैः पलित रिव यशोभिः शोभितयाऽतिवृद्धया राज्यश्रियाऽधिष्ठिते प्रतिष्ठिते साम्राज्य शालिनि सिंहासने, समन्तादुच्छन्नच्छन्त्रतया प्रकटीभवन्तमेकस्वामिनि जगत द्युमण्डलस्वामिनं तिरोधातुमिव प्रसारिते सकलभुवनावरणविस्तारवत्येकात पत्रे, प्रतिदिवसमुल्लुण्टितारितरुणीनेत्रनिर्मुक्तैरञ्जनमलीमसैरश्रुभिर्लिसंक्षाल यितुमिवात्मानमम्भोधिमनुप्राप्ते प्रतापे, विलसति कक्षीकृताशेषभूवलयभारा दिव राजचक्रेण शिरोधिरुह्यमानवशासने, नियूंढतीव्रवीरव्रतः कदाचिद्वस निशायाः शयनसद्मन्यसमकोमलतल्पमध्यासितो दुरधिगम्यमतनं कृत्यजा तमासूत्रयनिराकुलयितुं चित्तमदत्तावकाशः प्रेयसीप्रवेशस्याप्येकाकी सम्भ्रमे चिन्तयितुमारेभे। नन्विद्मनेन चतुरम्भोधिरोधोवरुडविश्वम्भराभोगेन प्रभूत थागतेन सम्पदां वृन्देन द्वारप्रविष्टेन च भूपालमण्डलीपरिग्रहेण परमं विस्तार सोडलविरचिता माययौ राज्यम् । राज्यं हि न नाम निरमात्यमसूत्रधारं नाटकमिव पार्यते प्रवर्तयितुं यस्मादमात्यमुख्यः सकलोऽपि कलापः कार्याणाम् । स चास्माक- ममात्यः कनकायनो नाम निकाममीश्वरो मानितोऽपि कथञ्चन सार्द्धमधिका- रनिरूपितैः स्वजातिभिरवसरे व्यभिचारमुपदर्शयामास । तदिह संप्रति कः किल वर्णचतुष्टयादिशुद्धश्चतसृभिरुपधाभिरुचितोऽधिकारेषु । द्विजन्मानो हि ब्रह्मतेजसो वन्दनीयाः पूज्या एव मन्त्रिपुरोहितपदे स्थापयितुमुचिता भवन्ति, नार्थचिन्ताधिकारेणात्मनः प्रहीयन्ते । तैजसी वृत्तिमपहाय पाशुपाल्यकृषिवा- णिज्योपजीविनां च विशां हीनतया हृदयवृत्तेरिहावकाशोऽपि न श्रेयान् । शूद्रास्तु समयदर्शितेनामुना व्यभिचारेण च निवेदिता न तावहन्ति । अतः को नूनमवेक्षणीयगुणक्षेत्रं क्षत्रियादपरः सम्प्राप्यते । स तु स्वधर्मा- धीनपुरुषव्रतः सहजस्य तेजसः पात्रं, न खलु मनुष्यजन्मना मादृशेनान्यत्र कर्मणि पार्यते प्रवर्त्तयितुम् । को नाम भगवन्तमम्बरतलावगामिनं मरीचिमा- लिनमवनिपथेन प्रचारयितुमलं, कस्यास्ति शक्तिर्द्धमुल्लासिनमनलशिखाक- लापमधोमुखं प्रवर्त्तयितुं, केन च शक्यते तडिद्दण्डस्य विस्फुरणलाघवं मन्दतां नेतुम् । अथास्ति श्रूयते च क्षत्रियाणां प्रवृत्तिरधिकारेषु । यदा हि पि- तृवधामर्षरोषितो भार्गवः समग्रमेव राजन्यकमकुण्ठतरसारधारोपदर्शितानल- समुच्छलद्विस्फुलिङ्गदलभासुरेण परशुना सर्वतस्त्रुटितकण्ठपीठीकमारब्धवान् कत्तुं तदा तेन कियताऽपि क्षत्रियजनेन कियत्कालमात्मनो रक्षार्थ क्षात्रमप- हाय पन्थानं वृत्तिरियमादृता नियोगस्य । यद्यप्येवं तथाऽपि चान्यपार्थि- वकुलपुत्रको न कचित्कश्चिदात्मनः श्रियमधिप्रवेशयितुं विश्रम्भविषयीकृतो भीत्या। तथा च दिनेन्दुरादित्यस्य धामन्यन्तरनुप्रविष्टो झटित्यवसरम- वाप्य मिलितया रजनिसामग्र्या तमपि प्रतापवन्तमिनं समुच्छेद्य स्वयमशेषं भुवनमाक्रान्तवान् । अस्मत्कुले तु न कश्चित्तथाविधो बुद्धिमानस्ति यः किल संवर्गयनशेषतः स्वामिनो बन्धून गोत्रभिदो मन्त्रिणं धिषणमपि दुर्बुद्धिं मन्यते, नन्दयन्ननेकशः कोविदकुलानि विबुधविद्विषामनुगतं शुक्रमपि मूर्ख गण- यति, मिलत्कोटिशोरथवरूथिनीदशरथमेव स्वामिनं कुर्वाणं वसिष्ठमप्यल्प. धियं कल्पयति, जगतोऽपि बन्धुतया व्यवहरन् विश्वामित्रं रामस्याप्यमात्य- मसत्पक्षे कलयति, येन तस्मिन्नसमलक्ष्मीविकासविस्फुरितकीर्तिबले राज्यभा- मारोप्य निराकुलो विलासर्शितानि मुखान्यनुशीलयाम्येवं च किमिह संप्र- ९ SHARE उदयसुन्दरी कथा। त्युचितानुष्ठानमूढोऽहमाचरामि । कलादित्योऽपि निजबुद्धीनामसाध्ये कार्य- वस्तुनि किमेव किल मन्त्रयिष्यति । यतः उपायस्योल्लेखं कमपि न यदा पश्यति नर- स्तदानी किन्नाम स्फुरति मतिपुत्रेऽपि कुरुते। सहस्रं पादानामपि रथमनालम्बपथगं विना व्योमन्यश्चलतु यदि शक्नोति चलितुम् ॥ अथवा किमनेन प्रयोजनविनिश्चयाक्षमेण मुधैवमालोचविस्तरेण क्लेशया- म्यात्मानम् । येन देवताविशेषेण ममैतद्राज्यमागतमेतावती वृद्धिं पालकोऽपि तस्य तेनैव कश्चन विधिनिर्मितो व्यक्तिमवश्यमेष्यतीति मनसा संप्रधारय- नेव निद्रां जगाम । अथ तथा निद्रोपभोगसुखमनुभवतः क्षितीन्द्रस्य परि- गलति यामत्रये रजन्यास्तस्य शयनगृहस्यान्तरेकहेलयैव झगिति मणिनूपुरप्र- स्तुतः सुन्दो ध्वनिरुद्भूत् । तेन च ध्वनिना झटित्यसावुड्डीननिद्रो विमुद्रयति चक्षुषी यावत् तावदने झगित्यमृतानुहारिणा दर्शनेनाऽऽप्यायितविलोचनां कान्तिबहलैरवयवैरेकभूतात्मकशिवतेजोमयं गात्रमुद्रहन्तीं निर्मलस्य लाव- ण्यवारिणस्तरता तरङ्गवलयेनेव स्वच्छांशुकेन जनितमतिमनोहरं नेपथ्यमा- धानामविरलकुरलोपशोभिना भालेन तिमिरमूलोदितेन खण्डेन्दुना भास- मानामधिदेवतामिव निशायाः कर्णयोभूषणमयेन विलासतामरसकर्णिकायेन सेव्यमानां सगोत्रामिव पाथसां साम्येन मुक्ताभरणस्य दायादामुद्धिवेलायाः सादृश्येन वदनस्य सोदरामिन्दोरास्पदतया कान्तेः सजाति रत्नजातस्य कनक- नूपुरयुगाद्धः प्रसर्पता द्युतिभरेण पिञ्जरितचरणां कपिशकिञ्जल्कपांसुलेन सरो- जवनावनेवागतां गौरतरेणाङ्गलावण्येन चन्द्रिकाभूतिधवले चन्द्रमसीव सुधा- समुत्थितां मधुरया मूर्त्या दुग्धसिन्धाविव निष्पन्नामसामान्यदर्शनामचिन्त्य- रूपवती योषितं ददर्श । सविस्मयातिरेकमालोक्य च तामपि येनाऽहमुझुद्धः स नूनमस्याश्चरणसञ्चारजन्मा नृपुरध्वनिः । भवतु पृच्छामि का पुनरसौ। न ताव- दहमनेन प्रसरता निरन्तरमेतदङ्गस्य तेजसा निरस्यमानदृष्टिः स्पृष्टभूतलेयम- स्पृष्टभूतला वेति निर्णेतुं पारयामि । यदि वा द्वारपालाङ्गयामिकैरज्ञापितानामनु- द्घाटितकवाटसंपुटे शयनसद्मनि प्रवेशोऽत्र मनुजसीमन्तिनीनां, न चामर्त्य- जनोचितेनामुना कान्तिकलापेन मानुषीयमवश्यं दिव्यैव काचित् । दिव्य- जनो हि सामान्योऽपि मान्यो मनुष्याणां किं पुनरविकारवता दृशोर्विभ्रमे- जापनीतचापलं महनीयमिव दधाना स्वरूपमसावीदृशीति निश्चित्य चेतसि ।
१० सोडलविरचिता ससंभ्रमं चोत्थाय तल्पतलात् समयसमुचितोपजनितेन प्रश्रयेण दर्शिताद- रस्तामवादीत् । कथय पुण्यदर्शने ! का नाम भवती, कुतः, किमर्थमज्ञातस्त्रीजन- विरुद्धमेकपुरुषाध्यासितमेतदागताऽसि रहास्थानमिति प्रोक्ता नृपेण सा प्रतोष- शालिना स्मितेन सुधाशीतलेन चक्षुषा चाल्हादयन्ती प्रत्युवाच । भोः श्रीम- तामीश!जानासियामिह वशीकर्तुममी समन्ताद्राजानः प्रसरसमाशुपाटिता- नल्पनरकरितुरङ्गमाश्च कुङ्कुमविपश्चितं विद्याचक्रमिव समरमासूत्रयन्ति, यस्य कृते ब्रह्माण्डविवरसञ्चारी वीरलोकः कल्पभिव दर्शितफलं कृपाणमावहति, या खलु निकामवत्सलतया पशुजात्यापि कामधेन्वा स्तनान्तर्निवेश्य परिपा- लिता, विचेतनेनापि कल्पद्रुमेण स्कन्धमधिरोप्य संवाहिता, दृषदापि चिन्ताम- णिना हृदये विन्यस्य धृता, किंबहुना, यया विरहितेयमित्थं प्रसरमागतापि त्रिलोकीलता मुहूर्तेनैव शोकमायाति, साऽहं सलिलसोदरा महोवेरात्मजा लक्ष्मीः प्रसाधिताशेषदिङ्मुखस्य वशीभूता तवैव मण्डलाये वसामि । त्वया च राज्यचिन्तकमपश्यता निवेशितेण देवतासु चिन्ताभरेणाद्य सूचिता विभा- वयन्तीव प्रयोजनमात्मनोऽपि सपदि प्रत्यक्षीभ्य प्रस्तुतोपदेशदानार्थमागता। तदेतदुच्यसे भूपालतिलक! मत्पालनाय किमित्यन्यमन्यत्र पुरुषपुङ्गवं गवेषयसि। श्रूयताम् । यदा किल सकलोऽपि सशेषमन्दरोपकरणः स्वौकसां जनः सिन्धुनाथमथनव्यापारमारभत तदाऽहं शशधरसुरभिकौस्तुभादिवस्तून्मेषक- मेण निर्गत्य झगिति दृमार्गमागताऽपि कथञ्चिन्मन्दरपरिभ्रमोडूतदुस्तरावर्त- सन्निवेशेन पुनरतिगभीरे पयसि पाथोनिधेरमज्जम् । विघटिताध्यवसायविधुरेण च विषण्णेन सर्वतोऽपि शतमखप्रमुखेण विबुधवर्गेण मदर्थमविलम्बसहमु- पायमापृष्टो बृहस्पतिरुवाच । नियतमेकोऽस्ति श्रूयतानुपायः । प्रायशो विदित एव भवतामतिप्रसिद्धः कायस्थो नाम गणः श्रीकण्ठसन्निधावास्ते । स चाष्टमू- तेर्भगवतो जलमयीं मूर्तिमधिष्ठितस्यासन्नसहचरत्वेन काये स्थितत्वात्कायस्थ इति जलैरनाहतशक्तेः प्रणयास्पदमम्बुधरासीत् । एवं च तेन कृत्वा निकाम- विषमार्णवोदरकुटीरकोणं गताऽप्यसौ हठादानीयत इत्यमरमन्त्रिणा प्रोक्ते त्वरितमाहूय प्रवर्तितः सोऽत्यर्थमर्थनया सुरसमूहस्य झटिति तत्रान्तर्दत्तझम्पो मां मन्दरपरिक्षोभितैः पयोभिरितस्ततोऽन्तर्धाम्यमाणामादाय निर्जगाम समर्प- यामास च दिवौकसाम् । इदानीं तु त्रिदशलोकोपरुद्धस्य भगवतो भवस्यादे- शादुर्वीपतिराज्यवर्तिनी मामनुपालयितुमवतीर्णो मर्त्यलोकं, स्थास्यति. च वं- शावतारं यावदत्रैव । स खल्वेष तस्यावतारस्तावको भ्राता कलादित्यस्तदङ्ग !
उदयसुन्दरी कथा । मदीयमिदं वचः प्रमाणीकृत्य समर्पय सर्वाधिकारस्वामिनी प्रातरमात्यमुद्रामे- तस्य, येनाहमनेन परिपालिता निरपायमाप्यायनसुखान्यनुभवामीत्यभिधाय धृत्वा करपल्लवेन सा चैषा मद्ङ्गरक्षाकृते मुररिपुप्रहिता स्वयमुपरिकेण गरुडे- नाधिष्ठिता सुवृत्तशालिनी सुवर्णसंभूतिमहत्तरा मुद्रा, ग्रहीष्यति च भवानुभा- वादपगतान्यभावापग्रहः कलादित्य इति राज्ञः करे मुद्रां समर्प्य झगित्येव शय्यासन्नवर्तिनि कृपाणे तदेव निजं मर्त्यजनविलोचनागोचरं स्वरूपमाधाय विशश्राम । राजा तु मुद्रालाभसुभगेन तेन व्यतिकरेण सरभसमुल्लसितमा- नसस्तमल्पशेषमपि कल्पप्रमाणं मन्यमानोऽञ्चलं रात्रेः कथंकथमपि जाग्रदेव बन्दिनां वर्णावलीवचोभिराख्यायमानमासाद्य प्रभातमुत्थितो निर्वयं निखि- लमवसरोचितं क्रियाकलापमारात्रिकादिमङ्गलोपचारशालिनि विशालमणिवे- दिकाचतुष्के विरचितास्थानमुपविष्टः। पुरो निविष्टेषु प्रणयिलोकेषु कुवलयदला- यतेन चक्षुषा संभाव्य सन्निहितमासीनं पुण्डरीकनामानमसामान्यगौरवं पुरो- धसमशेषतोऽपि तं शर्वरीवृत्तान्तं कर्ण एव निभृतमावेदयाञ्चक्रे, दर्शयामास च तां कल्याणमयीं मुद्राम् । अथ प्रतुष्टेन पुरोधसा श्रवणादेव महाराज ! नियत- मवितथान्येव देवतावचांसि । पश्य शुभसूचकमिदमेव मङ्गलवतां कर्मणामुप- स्थितं मुहूर्त्तम् । अत्र हि कमलया प्रदत्तो विना विलम्बमादेशः क्रियत इति प्रोक्ते राजा त्वरितमाहूय बहुमतेन प्रेमोपचारबन्धुना वचोनिबन्धेन प्रबोध्य स- ज्जीकृतमनल्पसमुचितेन प्रक्रियाक्रमेण मुद्रामर्पयित्वा तं निष्कण्टकीभूतसकल- भूवलयनिराकुलतया विरतविक्रमव्यापारमात्मनो भ्रातरं कलादित्यममात्यपदे निरूपयामास । अनन्तरमसौ कायस्थनानो महेश्वरगणस्यावतारः क्षत्रिय- विभूषणं कलादित्यस्तेन भवस्य भगवतोऽनुभावेन तामेव निजाग्रजराज्य- लक्ष्मीपालनपरामधिकारपद्वीमादृत्य व्यापारितस्वान्तः सन्तत्या प्रसरमास- साद। पूरितावधिश्च तमात्मनो गणमयं स्वरूपमासाद्य स्वामिनो हरस्य चर- णान्तिकमगच्छत् । तस्मात्कालपरिवृत्तिपरम्परोत्पद्यमानानन्तपुरुषपरिपाटि- क्रमेण प्रकामतुङ्गः शाखाभिर्विस्तृतो वर्द्धितच्छायः क्ष्माभृतां कटकेषु स्वाङ्ग- भुवा धर्मेण विजयहेतुः क्षत्रियाणां, वृद्ध्यर्थमालम्बनं राजलक्ष्मीलतायाः, भ्रमतः समन्तादाधारदण्डो वृद्धस्य यशसः, काश्यपीसीमन्तभूषणमभूबलभीविनि- र्गत इति वालभो नाम कायस्थानां वंशः ॥ वंशस्य सचरितसारवतः किमङ्ग ! सङ्गीयते सुललिताकुटिलस्य तस्य ।
१२ सोडलविरचिता येनान्तराधृतभरेण धराधिपत्ये राज्ञां जयत्यहतविस्तरमातपत्रम् ॥ किं बहुना । तृतीयमकृतोन्मेषं कायस्थ इति लोचनम् । राजवर्गों वहन्नेष भवेदन महेश्वरः ॥ तस्मिन्नशेषभुवनविख्यातनामनि महावंशे दलितकलिकलङ्कसंहतिर- मृतमयाकारकमनीयो नर्मदाप्रवाह इव भूतिलकमधिष्ठितो लाटदेशमासी- दुमेशवंशावतीर्णस्य महात्मनश्चण्डपतेरङ्गजन्मा सोल्लपेयो नाम । तस्य च बहूनामन्यतमः सुतानामीश्वरविभूषणं शशीव ग्रहाणामनन्तमुखोदश्चितप्रघोषः पाञ्चजन्य इव शङ्खानां सुमनसामभीष्टः पारिजात इव तरूणामसीमवता गुणग्रामेण निरुडनिखिलमेदिनीविभागः सुवृत्ततया तिलको गोत्रस्य सुगृ- हीत नामा सूर इति सूनुर्बभूव । तस्मादमलमुक्तावदातकीर्तेः पुरुषपुङ्गवाद- जायत प्रथमः पुत्रेषु पम्पावतीसूनुः सोडलो नाम । स खलु स्वर्लोकशो- भाविलुण्टिनं लाटदेशमध्यासितो विद्याभ्याससमकालमुन्मेषमागते कविप- थोपदर्शिनि सारस्वते ज्योतिषि निसर्गसुस्थितस्तेनैव कवितारसेन मानस- मनुशीलयामास । कालपरिवर्तितावस्थितिक्रमेण च मृगमदपत्रमझिमयं कोकणभुवो मण्डनमिवोद्यानवनविनीलपरिसरं स्थानकं नाम राजधानीन- गरमागत्यावस्थितः कोङ्कणमहीभुजो जाह्नवीयमुनयोरिव सरस्वतीश्रियोर्वेणी- सङ्गमेन संवर्गितः छित्तराजेन संभूषितो नागार्जुनेन संमानितो मुम्मुणि- नरेश्वरेणेति सोदरेण क्रमोपभुक्तराज्यसंपदा राजत्रयेण प्रतिपद्यमानः कवीन्द्र- सदसि प्रतिष्ठामाससाद । अथ कदाचिदसावुदयगिरिशिखरयन्त्रोल्लालितविमुक्ते तिमिरकरिघटाघातिनि गण्डोपलगोल इवाम्बरमनुसरति भगवतस्तीव्रत्विषो मण्डले चण्डकरकिरणकुश्चिकोद्धाट्यमानेष्विव विघटितदलकवाटसम्पुटेषु व्य- क्तीभवत्सु तामरसकोशेषु दिवसलुण्टाकोल्लुण्टितश्रियः कुवलयवनादाक्रन्दमु- खरासु प्रभास्विव समीपमम्बुजग्राममनुप्रधावतीषु गुञ्जतामिन्दिन्दिराणां श्रेणिषु प्रदोषपवनपटपल्लवापमाय॑माणेष्विव निर्मलीभूतेषु ककुभां मुखेषु वासरविधे- यकर्मणि क्रमशः प्रवृत्तेषु जनपदेषु जाते च लोचनावकाशदायिनि प्रभातस- मये सभामधिष्ठितं कीर्तिचन्द्रिकाविस्तारसितपक्षमनाकृष्टचापकन्दर्पमलङ्कार- माणिक्यं चौलुक्यवंशस्य कवीशमीश्वरं लाटदेशश्रियः कोङ्कणेन्द्रसुहृदमुर्वी- पतिं वत्सराजमनु प्रणयपरिणतानन्तसङ्गतिसुखोपभोगार्थमाहूय नीतो जगाम। तत्र च प्रवर्त्तमानासु चतुरकविकदम्बकोदच्यमानानेकरसविपञ्चनपदीयसीषु उदयसुन्दरी कथा। स्वैरगोष्ठीविभूतिष्वन्तर एव रत्नविक्रयवता वणिकपुत्रेणाऽऽनीय दर्शितं मुक्ताफलप्रकरमालोक्य सहसैव मणितत्वविदों नरेन्द्रः प्रस्तुतार्थदलशालिनी- मार्या पपाठ। एकैकशः प्रकीर्णैर्मुक्तामणिभिः किमेभिरेभिस्तु । यं सृजसि हन्त हारं तस्यान्यः कोऽपि परिभोगः ॥ श्रुत्वा च तयाऽऽयया झगित्येवासौ वासितात्मा कविश्चिन्तयामास मौनम- वतिष्ठमानो मुहर्तमुचितक्रमेण च विसर्जितो भूभुजा मन्दिरमाजगाम विक- ल्पयामास च । ननु विविधवैदग्ध्यवता पार्थिवेनेत्थमनया स्वाभिप्रायक- ल्पितयार्यया केवलानि विफलानि मुक्ताफलानीति तैरेव सूत्रिताभोगवतो हारस्य गौरवमारोपयन्त्या वणिक्पुत्रोपदेशव्याजेन सम्यगुपदिष्टमिह ममैव जाने । यतः- मुक्तकवृत्तैः कविता कैव किलाऽसौ विना प्रबन्धेन । ताराभिन विराजति शून्या चन्द्रेण गगनश्रीः ।। तत्साधु संवृत्तमनेन वत्सराजपठितार्यावधारणेन मे योगाञ्जनेनेव मोहति- मिरावृतेयमुद्घाटिता मानसी दृष्टिः शब्देनेव निद्रान्तः प्रबोधिता बुद्धिरुदकपा- तेनेव मूछितश्चेतनां लम्भितो विवेकश्च । ततश्च किमहमित्थमनेननैकप्रकीर्णवृत्त- कवितामात्रकेण कृतार्थः प्रमादी तिष्ठामि । करोमिस्वशक्तिविस्तरपरीक्षणं विना कुतूहलेन भूरिणा च कीर्तेरभिलाषेण साइतापूर्वसंविधानकमनेकरसानुबन्धपरं प्रबन्धम्। प्रक्रमे तु रमणीयं न नाम केवलं गद्यं नापि केवलं पद्यमुभयानुबन्धिनी चम्पूरेव श्रेयसी, यस्मादन्यैव रत्नैर्विपश्चितस्य शोभा कनकभूषणस्य, अन्यदेव पाटलामिश्रितस्य सौरभं विचकिलगुलुन्छस्य, अन्य एव वंशध्वनिगर्भितस्य मनोहारिमा गीतस्य, अन्यदेव कर्पूरमिलितस्य शैत्यं मलयजद्रवस्य, अन्यैव च हृद्यता पद्यानुषङ्गिणो गद्यस्येति चेतसि विचिन्त्य चम्पूमेव कथां कर्तुमुपजनित- निश्चयस्तद्दिनमतिवाहयाञ्चक्रे । द्वितीयेऽहन्युत्थाय कृताग्रहमव्यग्रमनसः कवयः क्षमन्ते काव्यकल्पनास्वित्युचितमेकान्तवसतेरहेतुं व्यासङ्गानां निमित्तमात्मनः प्रसत्तरबाधकं मनोऽवधानस्य निजं कर्मान्तारामपरिकरास्पदं ग्राममयासीत् । त- त्र स्थित्वा निरतिशयमनवद्येन चेतसा विश्रुतोदात्तनायकवती कथां कर्तुमारेभे निर्माणयामास च कतिपयैरहोभिः।अनन्तरमन्यस्मिन्नहनि निर्वर्तितविधेयः प्रा- तरेव तं प्रबन्धपुस्तकमादाय निर्गतस्ततो ग्रामात् प्रतोषसत्वरमुञ्चितक्रमेण स- मागच्छन्नेकत्र गिरिपरिसरारण्यदुस्तरोद्देशे दक्षिणेन मार्गाचान्द्रमसं ज्योत्लापु- - । सोडलविरचिता अमिव प्रबलान्धकारपेटिकया बन्दिगृहीतं रोहणैकगोत्रजं शशिकान्तशिलाकूट- मिवेन्द्रनीलसंहत्या दायाद्यविग्रहेणारब्धं शुचीभूय स्थितं दुग्धार्णवोर्मिस्तम्बमिव वाडवधूमश्रेण्याऽलभ्यायविधृतं स्फटिकसुभगं कैलासमिवाचनमहीधमेखलया गाढालिङ्गितं मथ्यमानाब्धिफेनपाण्डुरितं मन्दरमिव मुरारिभुजगावेष्टितं पि- ण्डिताकारपरिणतं हराट्टहासराशिमिव दक्षिणमुखत्विषा मण्डलितमतिविश- दसुधापिण्डपाण्डुरमविरलविनीलवनराजिमालया वलयितोपान्तं प्रासादमद्रा- क्षीत् । तदृष्ट्वा च सानुस्मरणमये ! सोऽयमरण्यवर्ती भगवतो भार्गवस्य सार- स्वतः प्रासादः । तदिदानी कथमपश्यन्नपूजयन्नेव च देवीं व्रजामि । किन्त्व- यमभ्यवहारकरणादतच्छङ्कीभूय गतो वासरः प्रहरमात्रावशिष्टश्च वर्तते, सन्नि- हितपश्चिमदिक्सङ्गमाशयेव देवस्यापि खरांशोरुत्तीर्णवानुत्तापस्तावदतोऽद्य- तनमेनं वासरमिहैव गमयामि । प्रातरुषस्येव निझरजलामललपनपूर्वमपूर्वा- रण्यतरुलताकुसुमैरभ्यर्च्य भारती यास्यामीति संप्रधार्य झदित्येव चलित- स्तस्याभिमुखमुत्क्षिप्तगतिक्रमो देशान्तं तावन्तमल्पान्तरालसुगम पन्थानम- तिक्रम्य झगिति प्राप्तवान् । अथाग्रे तदङ्गणकवर्त्तिन्यामतिबहलबकुलकडोल- तिलकतालीतमालवलयालङ्करणभाजि पुष्करिण्यां धौतचरणो निर्मलेन पयसा प्रक्षाल्य सततसञ्चारश्रमोदबिन्दुभिः कलुषितकपोलमालस्थलं वक्त्रमाचान्त- शुचिजलपवित्रः प्रविश्य तस्मिन्नसमशिलाकर्मनिर्मिताभोगशोभिनि प्रशान्ता- भ्यन्तरमनोहरे निर्जनतया च रहः श्रीसदसि प्रासादे प्रतिष्ठितां चतुर्मुखवन- चतुःशालाधिवासपरमेश्वरीमंशुधरचैतन्यरत्नोत्तेजनकुरुविन्दशक्तिं कविजन- रसनाविमानगामिनीमखिलवाझयस्वामिनी सरस्वतीमपश्यत् । आलोक्य च देवीं झगिति स्पृष्ट इव पङ्कजप्रकरैराश्लिष्ट इव चन्द्रिकया सिक्त इव चन्दनच्छ- टाभिः स्लपित इवामृतरसेन सततमधिकाधिकोतनिर्वृतिरानन्दितेन मनसा ननु संप्रति सर्वकालीनो वाक्यकुसुमोपहारः श्रेयानिति कृतश्रद्धानुबन्धमाब- करकमलसंपुटमनुष्टुभा श्लोकयुगलेन स्तुतिमकरोत् । वागीश्वरि ! जयन्त्येतास्तव ध्यानामृतोमयः । यजन्मा मानसक्षेत्रे बोधबीजारोदयः ।। जयन्ति तव भासिन्यो भारति! ज्योतिषश्छटाः । स्फुरन्ति यत्र तत्रैव ज्ञानरत्नमयो निधिः ॥ इति कृतस्तुतिः क्षितितलमिलितालकेन शिरसा प्रणम्योत्थाय च सली- उदयसुन्दरी कथा। मुत्कीर्णलिखितलेपितानल्परूपकोपशोभावत्यन्तर्मण्डप एव ममृणशिलाफल- कनिर्माणशुचिनि मत्तवारणके समुपाविशत् । सुखकृते च वामाङ्गेन तस्थौ । कौतुकेन च निरूपिताक्षिपत्रः समन्ताद्विपश्चितानेकस्वरूपाणि रूपकाणि पश्य- नपश्यदुभयतो द्वारशाखावलग्नं रूपान्यत्वमिव हिमाद्रिकैलासयोः पूर्वस्वरूप- मिव पाञ्चजन्यशशिनो परिणतिसाफल्यमिव पाषाणजातेराधारगौरवमिव धव- लवर्णस्य डिण्डीरदेवताजातकमिव चन्द्रलोकपुरुषदृष्टान्तमिव श्वेतदीपजनव- णिकोपदर्शनमिव शशिकान्तसृष्टं निसर्गधवलमुपलपुत्रकयोईन्द्रम् । तद्दर्शनो- त्पन्नविस्मयश्च चिन्तितवान् । नन्वेतदीदृशमपूर्वाकारकमनीयं दृषत्पुत्रकद्वित- यमन कुतो निष्पन्नं, केन सुकृतसंसर्गशालिना जनेन कारितं, केन वाऽनन्य- सामान्यकौशलेन शिल्पिना विनिर्मितं, किं द्वारपालाविमावाहोस्विदेवताविशेषः कश्चित्, उत द्वारशाखोपशोभारूपकमात्रमेवेदमिति विमर्शपुरःसरमद्धतमणि- पुत्रकालोकनकुतूहलेन व्यासङ्गितात्मनस्तस्य भगवानुष्णरोचिरस्तं जगाम । अस्तमिते च देवे मयूखमालिनि पतिविलयशोकात्कान्तयेव पूर्वथा दिशा सुदूरमास्फाल्य भग्नाञ्जनकूपिकोच्छलिता कजलरजोराजिरिवोदयमहीधरादुल्ल- लास गरीयसी छटा तिमिरस्य । पश्चिमया तु झटित्युन्मथ्य भाजनमपास्तस्य प्रसाधनालक्तकरसस्य विलुठितःप्रवाह इवास्तगिरिशृङ्गसमन्याविरास सन्ध्या- नुबन्धी सुबन्धुरो रागः । सहसा नमाश्रियाप्याच्छोट्य कण्ठतो निरस्तानि त्रुटितवरहारदण्डाद्विगलितानि मुक्ताफलानीव अविरलसन्निवेशमदृश्यन्त नक्ष- त्राणि । अथ यथागतमागत्य मिलितेषु सहचारिष्वसावुत्थाय गत्वा च पुष्क- रिण्यामवश्यकरणीयं कर्म सायन्तनमकार्षीत् । आयतने च सन्ध्याप्रदीपदानाय निर्जनायामरण्यभूमौ कुतश्चिद्दावमयमन्यं वा वह्निमन्विष्य समानेतुमनुचरान् प्रेषितवान् । स्वयं पुनः प्रविश्य घनतिमिरदुरालोकं तदेव पटतल्पाच्छादित- मुपरिविन्यस्तपुस्तकं मत्तवारणकमध्यासितः प्रदीपचिन्तया तस्थौ । अत्रा- न्तरे च झगित्येव तयोर्टषत्पुत्रयोरन्तराले गरुडमणिशलाकेव तिमिरसर्पमु- त्सारयन्ती सुवृत्तसरलाकृतिरतैलवर्तिपरिकरा निराश्रयवती ज्वलन्ती शिखेव परमुल्ललास दीपस्य । तदीयपृथुप्रभासंपर्कसमकालमेव च द्वावपि तौ तां तथा शिलामयीं मूर्तिमपहाय दिव्यशरीरवन्तावचिन्त्येन तेजसा प्रज्वलन्तौ वहन्तौ च यज्ञोपवीतमतिप्रसन्नरम्याकृती द्विजन्मानौ भूत्वा देवी प्रणेमतुश्चक्रतुर- स्तोकया च भक्त्या महाकविप्रणीतेन परिणतार्थशालिना वाचां गुम्फेन सुल- लितं स्तोत्रम् ।
- ? तालकनामा चाहम् यत्पुनरसावक्षरकथोपक्रमःतत्र कि न जानासि ये हि सुदू. सोडलविरचिता देवि ब्राह्मि ! जयत्येष मन्त्रोष्मा संभृतस्तव । यदशेन कवीन्द्राणां वाचि पाकः प्रवर्तते ॥ जयन्ति त्वत्कराम्भोजे मकरन्दकणश्रियः। जाताः श्रव्यगिरो वाणि! यत्सेवाभिरिवालयः॥ स्तुत्वा च पुनःपुनर्भालफलकाहतमहीतलं प्रणम्य निराकुलीभूतावागत्य द्वितीयं मत्तवारणकमध्यास्योपविष्टौ । अथाऽसौ तत्तथा तादृशमदृष्टपूर्व कुतू- हलातिशयमालोक्य यावत्तदभिमुखमसङ्ख्यविस्मयाक्षिप्तलोचनो वीक्षते तावदे- कस्तयोः साधुजनाऽऽवर्जनोचितेन वचसा तं कविमालापयाञ्चक्रे पप्रच्छ च । सखे ! क एष तल्पोपरिष्टात्पुस्तकः ?। किमिति बद्ध एवाऽऽस्ते ?। किं किल नोन्मु- च्य वाच्यते । कथ्यताम् । किमिह प्रमाणशास्त्रोपाङ्गप्रकारः?। किमुत साहित्य- भागः? । किमागमविशेषः । किं पौराणिको भेदः ? । किमङ्ग! धनुर्वेदवैद्यका- दिविद्याविभूतियोगेषु ग्रन्थेष्वन्यतमः कोऽपि? । किं वा कवेराधुनिकस्य कस्यापि काव्यकथानाटकादिकविताप्रपञ्चः कश्चित् ? इत्यादि बहुधा निबन्धसम्बन्धिनो वाझयस्यान्तः किमेतदास्त इति प्रगल्भया गिरा तेनोक्ते कविरहो! आश्चर्य कथ- मसावनयोः शिलारूपयोर्मनुष्यभावः कथं चात्र दृषड्रावपूर्विकायामवस्थायामीह- शीयमसंभाव्यविषया विशिष्टैवाक्षरकथाविकासिनी प्रौढिस्तकिमत्रोचितम् !। अथवा, भवतु पृच्छामि तावदिति विचिन्त्य भो द्विजकुलाभरण ! नियतमा- वेद्यते युष्माभिरापृष्टम् । किन्त्वन्तराल एव स्तोकमुच्यसे । मम हि महता वि- स्मयेन तरलितस्य सखे ! पूरय कुतूहलम् । कथय कावतिविरूढमतिविशेषिता- लापशालिनौ युवां, प्रकृतिश्च नाम मुख्यतया भवतोरियं मानवी किमाद्या दृष- दूपिणी, किमभिधानं युवयोः, कथं चायमेवं ग्रन्थनामग्रहानुमानसंसूचितः प्रबो- धो वाझयस्येति सादरं प्रत्यवोचत् । तेनापि सप्रश्रयमहो यथा दृष्टौ तथा भूतावे- व भ्रातरावावामीदृश्येव सृष्टिरावयोः। अस्य हि महात्मनः तिलक इति नाम । रवर्त्तिनोऽपि मनसैव देवी सरस्वती स्मरन्ति तेषामशेषशास्त्रावबोधनिर्मलं ज्ञानं कवित्वं च संपद्यते। सदैवासन्नसेवकयोः पुनरावयोरस्तु तावदन्यदेतावन्मा- त्रकेऽपि सन्देहः, तदास्तां किमनेन मुधा प्रश्नपरिश्रमेण । यदुक्तस्तदेव ज्ञापय कौतुकादित्यभिहितस्तालकेन स खलु परिभाव्य चेतसि किमाश्चर्य यथैतद्भणि- तमनेन इतरथैव किं न संभाव्यते, यस्माद्विविधकर्मपरिणामा हि संसारेऽस्मि- । RSSनि का उदयसुन्दरी कथा । RAHINETRatos मतिमतामग्रगण्य !मदीय एवैष कवितापरिश्रमो, मया हि महता मनःसंरम्भेण सृष्टः प्रबन्धोऽयमिदानी क नु किल श्रावयामि, कस्याग्रे स्वीयमभ्यस्यमानमिमं गुणोल्लेखं प्रतिपादयामि, को नाम समाकर्ण्य यथार्थवादितथा सौजन्यं नाटयि- व्यति, यस्मात्सकलगुणविचारचर्चाविपश्चितां धुरन्धरो धरेन्द्रभूषामणिः वत्स- राजनामा नरेश्वरः परमं मित्रमिति मे पक्षीकृतो लोकैः, क्षितिभृतश्चान्ये सर्वे- ऽप्येकैकेन कटुरवोत्फुल्लगलनालिनाबुधव्याघेणाघातसन्निधयः सुदूरमुज्झिता गोजातिभिः गुणिनोऽपि स्वगुणाभिमानमहाभरग्रस्तानोच्छुसितुमपि पारयन्ति, लोकश्च परगुणोन्नतिमसहमानो नीचतां प्रपन्ना, नीचाश्च निसर्गदेषिणः परेषु । तथाहि- नीचजातिर्भवत्येव लोकस्थितिविरोधिनी। अशिवाऽपि सती येयं ज्वालास्तुण्डेन मुञ्चति ॥ किश्व- सूनागृहघटस्येव पिशुनस्थ कुजन्मनः । आस्फालितमुखस्यापि भाङ्कारः केन वार्यते ॥ ये हि व्यासादिमहाकवीनामपि प्रबन्धेष्वपवदन्ति ते किं न मादृशामप- वदिष्यन्ति । साधवो हि कलिकालतमःपटलपिहितेऽस्मिन् जगतिक नाम दृश्यन्ते, तेनायमहो न केवलमिदानीमेव यावत्कमपि सुहाजनं सत्कविर्थिन श्रोतारमासादयामि तावदेवमसौ बद्ध एवस्थास्थतीत्यादि स्वान्तःपरिपिण्डि- तमशेषमावेदयाञ्चके । सोऽथ द्विजन्मा तालकः ससंभ्रममाः कविप्रवर ! त्वमे वमसजनात् त्रासविधुरो विषीदसि, मा विषीद। नो जीविकेयमिदमन्यगुणापहारकर्म प्रकामसुखदं व्यसनं खलस्य । आखोः सुवर्णमपहृत्य कृतं निवासरन्ध्र करोति किल कामिह देहवृत्तिम् ।। तथापि- कुर्वतः कविताम्भोधौ प्रबन्धेन विजृम्भणम् । कवेः प्रौढस्य कस्यास्ति जलमानुषतो भयम् ॥ साधुस्तु यदेवमभिलषितो द्रष्टुं तदप्युचितमेव स्तुतः । तापमुत्सारयनूनमातपत्रस्य समभः । तेनैष ध्रियते लोकैमस्तकोपरि सज्जनः ।। तत्रैवं सोऽपि कर्मणा सुकृतेन तवानीतः समागतः साधुरतः किम- द्याप्युचितश्रोतृजनानस्तित्वनिर्विण्णः खेदमावहसि ? । श्रावय प्रकाशय ।
सोडलविरचिता कविप्रदीपप्रबन्धमेतस्य सहजसज्जनस्य सुकवेः सूक्तामृतरसार्थिनः परगुणप्रमो- दिनो निखिलवाङ्मयविदः कोविदचूडामणेस्तिलकनाम्नो मदीयमित्रस्य, मम व किञ्चिज्ज्ञस्य, सफलय कवितागतं क्लेशमात्मनः, कुरु कृतार्थमावयोः श्रुती- न्द्रियम् । पश्यामः कीदृगुपक्रमः कथायाः, कीदृशाः संबन्धसन्धयः संविधानकस्य, कीदृशो रसः प्रस्तुतोपक्रान्तस्य वस्तुनः, कीदृशी रचना पदन्यासस्य, कीदृशः स्वगुणो भणितिभङ्गीनाम् । अन्यच्च । वर्णानामविसंष्ठुलन्यासो मसृणता परि- पुष्टिमासलता काठिन्यविपर्ययः कोमलता स्निग्धभावो लालित्यमिति महणता मांसलता कोमलतालालित्यं चेति वाणीगुणैश्चतुर्भिरनुषङ्गवत्यः सप्राणधनप्रा- णाल्पप्राणैस्त्रिभिभैदैर्विभिन्नाः क्रमेणा कौकिली मायूरी माराली चेति तिस्त्र एव किल जातयः सत्कवीनाम् । तथा चैतांश्चतुरोऽपि गुणानावर्जयन्तः कवयः केचन ससौष्टवैरक्षरैः सप्राणां वाचमुल्लासयन्तः कोकिलमनुकुर्वन्ति । केचिद्- नल्पसौष्टववता धनप्राणेन वर्णगुस्फेन्ट शब्दभाराधयन्तो मयूरतामाश्रयन्ति । केचिच मितसौष्ठवं बन्धमाश्रित्याल्पमाणेन वचसा मरालतामनुहरन्ति । अपरे पुनरमीषां चतुर्णा गुणानामेकन लनवायशून्येन महामाणेन निष्प्राणेन वा पद- न्यासेन जनयन्तो वाचमेतत्पथोली भिक्षजातयः कवयस्तदेवं विचित्रक्रमेण ससुदश्चितभारतीकेषु कतमजातिरस्चि कवीन्द्रेष्वेत्येतदप्यवगतं भवेदित्यादि स- प्रेमदर्शितादरमुदीर्थ तूष्णीमभूत् । अथासौ सविशेषविस्मयं कविरहो विज्ञता जनव्यवहारवर्मनि, अहो प्रौढिरालापकल्पनासु, अहो व्युत्पत्तिकौशलं कवि- तागुणेष्वनयोर्यथा चेयमीदृशी प्रबन्धविलोकने दृष्टियथेदमीदशमनन्यसाधारणं च साधुत्वं तथा नियतं परिश्रमः सफलतामेष्यति मदीयस्तत्किमिति नाहनु- पदर्शयामीति सञ्चिन्त्य सुतुष्टेन चेतसा जगाद । हन्त ! द्विजन्मैकपुङ्गव ! कुतूहलेन संभूतगर्भायां सुगुणदरिद्रायां महाचि जातेयमात्मजा चम्पूस्तीयम- पुष्टा सर्वतोऽप्यङ्गेषु दुर्वर्णा च संवृत्ता न नाम यथावद्दर्शिनो जनस्य दर्शयितुं पारयत्येवमप्यर्थिता चेद्दर्शयामि, सा पुनरमुष्यां भद्रं किमपि विधिना लिखितं भवेत्तदियमाहता युष्माभिरभिनन्दनीयां दशामासाद्यति । किन्तु न नाम यदि प्रस्तुतरसरभसविच्छेदीति खेदस्य हेतुर्भवामि । तदिमं दीपकोद्योलनकृते वह्नि- मानेतुं मया प्रेषितमायान्तमनुचारिणं लोकमङ्गणादेव निवारयामि परतः क्षेत्र- पालदेवकुलिकायां प्रवेश्य च शयनाय निरूपयामि । एवं कृते रहसि निश्चिन्तेन चेतसा निरवद्यमारभ्यते कथेयमिति तावदाशयो मे परतस्तु भवदिच्छा प्रमाण- मित्यभिधाय भवत्वेवमिति तिलकानुमोदितेन तेन द्विजन्मना तालकेन सम-
उदयसुन्दरी कथा।
१९
श्रयमनुज्ञातः समुत्थाय तस्माद्देवीभवनान्तर्मण्डपादङ्गणे बभूव । स्थित्वा तत्र
यथा यत्समुचितमालोचसूत्रितं कृत्यं त्वरितं तथैव तदखिलमविरलरभसाञ्चि-
तश्चक्रे।
स कविरथ यथावत्यूनिकान्तरम्ये
सदसि वचनदेव्याश्चेतसा सुस्थितेन ।
अविशदसमसूक्त्या सेवितुं तौ दिजाती
বিনি হি হৃঙ্গ অঙ্গ হলগী।
इति कायस्थकविसोड्डलविनिर्मितायामुदयसुन्दरीकथायां
कविवंशनिवेदनो नाम सारस्वत श्रीपदाहः
प्रथम उच्छासकः।
द्वितीयोच्छासकः। ततश्चासौ तदेव मत्तबारणकमनुसृत्योपविष्टः सरभसमहो यदाऽऽलोचितं कृतं किं नाम तत्तथा सर्वमभूच ते निराकुलं हृदयं ?, एवं चेत्त्वरितमार- भ्यता कथेयमेतदाकर्णनरसोत्सुकीभूतमनलोहि वयं प्रतिपालयन्तो भवन्तमेव ছি বিস্তাল ছানি বাঙ্গালি মুলাদিল- सार्थिना तालकेन सोल्लासमेवं क्रियत इत्यभिधाय बन्धादुन्मुच्य पुस्तकचित- সংবা স্বাৰিদালালীগৃহুনাজ্জিীজি স্কুলাইনি। श्रूयतां प्रसिद्धमिह पयोधिवलयकमायामयन्यां कनकमिव धातुषु, माणि- क्यमिव रत्नेषु, तिलकवर्तननिय भण्डनेधु, मुखमियाजावयवेषु, त्रिदिवमिव भुवनेषु, नन्दनभिवोद्यानविपिनेषु, प्रकृष्टं यत्तनेषु, सर्वाङ्गसादृश्येन सोदरं पुर- न्दरपुरस्य, उपरिनिवासेन तलवर्तिनः फणिपतिनिवासनगरस्य शिरसि च दत्वा पदमिव तिष्ठमानं, सहरमनच्छायं, गगनमनुप्राप्तस्तत्कान्तिसङ्कमेणेव श्यामलितैरमलमरकतोपलफलकलबुटसृष्टैरहालकैरलङ्कतेन सितमणिनिर्माण- बता प्राकारचक्रेण कुण्डलितम्, उत्तुङ्गदुर्गाहालकपरिपाटिभित्तिभिः स्खलिता- दन्नतदिनीप्रवाहादधापतितैरिव निर्मितार्णवभरणविस्तरै रिभिरापूर्णगर्भया परिखया अपश्चितोपान्तरमणीयं, परिखातटीष्वनिलसन्निवेशवलयितेन यज्ञान- लधूमसनुयेन समन्तादलितकाण्डपटेनेव विनिधारितप्रवेशं कलिकालदृष्टेः, शशिकरानुषङ्गनिष्यन्दिनामिन्दुकान्तदलविरचितच्छादकानां निम्नाध्वयायिना रसेनेव निर्मलतमेनाम्भसा पूरितगर्भगम्भीररक्षणकवापीविशेषैर्भूषिताभिरम- रमन्दिरणिभिरभिरामचत्वरोद्देशम्, उपरितिर्थक्पतितपृथुतरकिरणच्छटाग्र- कैतवादातपत्राणाय शिरसि दत्तेनोत्तरीयवसनाञ्चलेन सततमर्थिजनागमनं प्र- तिपालयन्तीभिरिव बहिःस्थिताभिः सत्रशालामणिमण्डपश्रीभिरुद्धासमान, मणिभित्तिसङ्कान्ताभिः प्रसारकनिविष्टानां तुन्दिलशरीरिणां वणिजां प्रतिमू- तिभिरन्तदृश्यमानविश्रान्तधनदैरिव निरन्तरमापणैः सारीकृतकोडं, कृतकन- कप्रसारकैः सौवर्णिकैरपार्वतं रूपमिव सुमेरोः, पतिमुखविलोकनानिमेषरम्याभिः कुलपुरन्धिभिरनूर्ध्वगतं खण्डमिच स्वर्गस्य, गृहीतसितरत्नादर्शमण्डलाभिः पण्यरमणीभिः स्वर्गसङ्गतं संस्थानमिव चन्द्रलोकस्य, सकलशास्त्रानुकूलवाणिना निवासिजनेन साक्षात् स्थानमिव सरस्वत्याः, सुनेपथ्यभूषणवता प्रकृतिवर्गेण २१ उदयसुन्दरी कथा । वरयात्राडम्बरमिव कुबेरस्य, स्फुरत्किरणालोकशालिना प्रासादपुष्पकमरेण कटकमिव दिवसराजस्य, प्राकारवलय लयवर्तुलं मुखमिव जम्बूद्वीपस्य, लसद्गो. पुरपताकांशुक नेपथ्यमिव भारतवर्षस्य, पीवरायतकलशस्तनं यौवनमिव वसु- न्धरायाः, मणिभवनभानज्वलं लावण्यमिव भुवनश्रियो, मर्त्यलोकनटेन निजा- ननप्रोतं प्रतिमुखमिवाखण्डलपुरस्थ, दक्षिणापथेन लिङ्गिना परिगृहीतं व्रतवेष- चिहमिव विद्याधरलोकस्य, तलभूमिकुहिममिव त्रिदिवहर्म्यस्य, मुकुटमण्डल- मिव फणिभुवनभूपालस्य, जगत्रयामोगभूषणं निकामरमणीयमस्ति मलयम्- द्रितायां दिशि कुन्तलेषु तटे गोदावरीतिमहासरितः प्रतिष्ठानं नाम नगरम् । लीलामण्डपरत्नभित्तिषु सितस्वच्छातु भूरिक्रम सङ्कान्ताखिलसञ्चरत्परिजनप्रत्याकृतीनां छलात् । यस्मिन्नीश्वरमन्दिरेषु परितः सन्दर्शयन्ती सदा च्छायाखेलनकं न कस्य हरते सौन्दर्यलक्ष्मीमनः ॥ अपि च... विलसद्मलभुक्तास्तम्बलग्नेन्द्रनील- द्युतिदलसरिकालीकवुरैः कुन्तलीनाम् । सरलतरकटाक्षः श्वेतकृष्णैककर्ता प्रभुरसमशरोऽभूद्यत्र यूनां जनेषु ॥ यत्र च कवाटवर्तिना विलसदमलमाणिक्यमणिमरीचिपटलेन सततमन्तः- प्रसूतलक्ष्मीनिमित्तमाहितेन कौसुम्भेनेव वालसा चिह्नितं द्वारमाधानैरनवरत- मुपस्थितातिथिपप्रक्षालनजलप्लवेनेव चन्द्रोपलकसोपानकातिभरेण प्लावि. ताङ्गणकवसुभिः सुवर्णभवनैराभरणपदकबन्धैरिव निविष्टनायकैरलङ्कता शोभते समन्तादाभोगलक्ष्मीः । यत्र च सुवर्णैकसृष्टिना धातुव्यवहारेण कथी- भूतो वातिगेन्द्रविद्यागमः, सङ्कान्तनिधानकोदिभिर्भवनैः प्रलीनः खन्यवादः, प्रभूतभव्यगणिकाङ्गनोपभोगलीलाभिः व्यशीर्यन्त विवरप्रवेशवार्ताः, मन्दिरद्- लीकृताशेषविषहरोपलशिलाप्रभावेण भग्नाहिरूपप्रचारतया समुच्छन्नो गारु- डव्यतिकरः। यत्र च प्रतिपथमतिमांशुहरमन्दिशिखरशूलाग्रपाटितान्निशानु नभस्तलचारिणश्चन्द्रमसो मण्डलादलितैरनल्पसंपातिभिरमृतरसैरिव सुस्वादु- शीतलविनिर्मलैः पयोभिर्भरितगर्ताः कमलकुवलयामोदसङ्गिनो हृदयमानन्द- यन्ति कोटिशो जलाशयविशेषाः। यत्रच प्रतिहयंशिखरमखिलगरलापहारम- णिशिखासङ्गमसमाकुलैरवनहनफणिभिरुन्मुक्तवाजिविधुरं प्रवर्त्तयति सारथी सोडल विरचिता रथं कथमप्यन्तरिक्षमभि सरोजिनीबन्धुरिन्दुश्च निरन्तरमुत्तुङ्गतरविहारशृङ्गार्ग- लास्खलितवा गगनपथेन गन्तुमक्षम इव मणिमयविमलभूतलसङ्कान्तया प्रतिमूर्त्या तलगतं पन्थानमनुसृत्य सदैव तं तावन्तं प्रदेशमुल्लयति । यस्मिंश्च दृश्यमानबहुपदार्थरमणीयाः सकर्णकाः स्कन्धशाखाशरीरनिःसारिभिः प्ररोहैरी- कारान्ताः सुललिताभिरघोललन्तीभिर्मचरीभिः प्रदत्तमात्रास्तिथग्विसा- रिणीभिः शिखरशाखाभिर्विसर्गानुस्वारवत्यः सुवृत्तशालिभिः फलैरधिरू- ढरेफाः शिरोगतविहङ्गमोदञ्चिताभिश्चञ्चुभिर्विरचितवाद्यपरिसमाप्तिफुल्लिका- श्वान्तरान्तरागतैः पुष्पगुच्छैरुचितरचनासन्निवेशपेशलाः कुसुमचापप्रशस्तेर- क्षराणां पतय इव स्वान्तहारिण्यो विभान्ति परिसरेषु सद्भूरुहप्रधाना वनरा- जयः । यत्र च सुस्वामिपरिपालिते सुदृशया विभूतिविभ्रमाभोगसारया श्रि- या सर्वोऽपि नृपायते पुरुषवर्गः, सर्वोऽप्यवरोधवनितायते स्त्रीजनः, सर्वोऽपि राजभवनायते गृहाबन्धः, सर्वोऽपि राज्यायते प्रतिभवनमाचारप्रपञ्चः केवलम- शेषतोऽपि सौस्थित्यादनार्तितया लोकस्य बभूव तदन्तवासिनीनां देवतानां दौस्थ्यमुपयाचितप्राप्तेः । किं बहुना। पत्राऽऽयान्ति विभूतिमिन्द्रनगरन्यकारमातन्वती द्रष्टुं मेरुगिरेः स्थलात्सुमनसो नित्यं तथा यम्बरे । दृश्यन्ते सुरसाहेमकलशत्विटिकानां भिषात् तेषां काञ्चनधूलिपांसुलपदैरापिञ्जरा वीथयः॥ तस्मिन्नसमशोभाविभूतिमति श्रीभाजि नगरे नृगसगरभगीरथादिभू- पालकुलकीर्तिवित्तापहरणराजोपधिरापयोधिपुलिनसङ्कान्तविक्रमः, क्रमागतां श्रान्तामिव कृपाणपत्रारोपणेन संवाह्य राज्यश्रियमादानो गृहीतारातिमूर्ध- भिगुलिकाभिः सिड इव विद्याधरो रणेषु, तारुण्यभरतरनितानामनङ्गविधुरि- ताङ्गनाङ्दीनामाश्रयपयोराशिः, असिदण्डसङ्घटितारिवंशनिकषणोल्लासितप्र- तापसतार्चिः, सतार्चिरिव तेजसामधीशश्चण्डरोचिरिव चूडामणिः भूभृताम- निष्टनरकण्ठखण्डनखडत्कारनिबिडारवसूच्यमानलग्नक्षणः, परिणेता जयश्रियः, सहचारिसुभटभुजभीषणकृपाणकिरणान्धकारकरः, तस्करो विपक्षभूपालसम्प- दां, चलितासिपत्रलोचनो यौवनारम्भ इव वीरलक्ष्म्याः, समुक्षिताजिविजया- रवो देवतादेश इव प्रतापसाधकस्य, सिद्धो ब्रह्माण्डविवरस्य, कृषीवलो भारत- क्षेत्रस्य, सततमवनतिविलोलनरपालमुकुटमणिदीपकप्रकरैरवतार्यमाणारात्रका मप्रयाणामग्रणीः श्रीमतां बभूव भूमण्डलाभरणं राजा मलयवाहनो नाम ।
उदयसुन्दरी कथा। दिग्यात्रापस्थितासु प्रतिपथमभितो यस्य सेनासु मन्ये नो राज्ञामेव लक्ष्मीझटिति विघटिता वक्षसः शाहिणोऽपि । कामत्कुम्भीन्द्रचऋक्रमनमितमहीगोलदोलायिताब्धि- क्षुब्धोमिस्तोमफालप्रसरक्शविपर्यस्तशय्योरगस्य । अपि च। श्यामा समीकमुवि यस्य सुवृत्तमुष्टि- मूलेन्दुरस्नफलकोपरि स्वइयष्टिः। জুঙ্গা অই অস্বঙ্কুিশিফল शीतांशुबिम्बविल्यादिव धूमवर्तिः ।। यस्थ च निजावसरवर्तिनं नीराजनोपहारमातन्वतस्तत्कालमिलितसक- लबल भरनमितमेदिनीपीठपृष्ठस्य कमठपतेर्वल्गदविरलविलोलवाजिविन्यस्ता- खुरनिष्टुरखटत्कारनिबिडारबच्छलेगा भज्यमानपृथुकटाहकपरध्वनिरभूतपूर्यो भारतसमरसङ्घद्वेऽपि विसङ्कटाभोगमुल्ललास । यस्य च समरसंहतारातिकुल- कुटुम्बिनीभ्यः कुङ्कुमालेपमादाय शक्तिमान पादलेपसिद्ध इव मनुष्यजनागो- चरेषु सञ्चचार परितः प्रदेशेषु प्रतापः । यस्य च निकामवृद्धा वृद्धोचितं चरि- तमादृत्य त्रिपथगामिन्या गीर्वाणसरितः स्रोतसां नयेऽपि स्नातुमभिलषन्तीव बनाम भुवनन्त्रय कीर्तिः। यस्य च महापङ्कमन्नाऽऽदिकूर्मपृष्ठावस्थानलग्नम- म्भसा धारागतेन क्षालयितुमिवात्मनः पङ्कमावासिता कृपाणे काश्यपी । यस्य च स्वर्भानुभयस्थानं चन्द्रमसो मण्डलमपहाय तद्नुकारहारिणि हारम- भावलयमण्डलिते वक्षसि बभूव लुस्थिता लक्ष्मीः । किञ्च- वक्षसि निवेश्य लक्ष्मीपरि च कविजीवितेन नुखकमले। विन्यस्यासनमुचितं गौरविता भारती येन ॥ यः खलु निखिलनरपालचूडामणिश्चापलपरित्यागनिश्चयार्थमिव कृतको शया प्रसादितो लक्ष्म्या, निजोचिताचरणव्यभिचारनिरासार्थमिवोक्षिप्तकलया प्रत्यायितः कीर्त्या, त्रिनयनविनाशितानङ्गसङ्गमनिवृत्त्यर्थमिव कृतशरीरस्पों रूपेण, जलाधिपत्यपरिपालनार्थमिव गृहीतो वात्सल्येन, समरविषयाधिकारस्थि- रीकारार्थमिव जनितक्षिणकरग्रहो विजयेन , निसर्गानमनदुर्नयापनुत्तिप्रती- त्यर्थमिव स्पृष्टचरणः प्रणतारिपार्थिवशिर श्रिया । यो हि तेजसामाश्रयो न सूर इव सहस्रशः करैर्मण्डलमुत्तापयामास, न शीतांशुरिवापरोदये वक्रता- SHARAMBIAFIR ।
, सोडूलविरचिता मधत्त, न सतार्चिरिव दाहकृता व्यापारेण भूतिमुत्पादयाश्चक्रे, म प्रदीप इव पानोपरि ज्वलितवान् , न माणिक्यमणिरिच नुवर्णबन्धेषु नायकत्वमालम्बते स्म । किंबहुना। ग्रीष्मस्तीव्रतमः प्रतापविहतैर्वर्षा रिपुस्त्रीहशा- मासारैः शिशिरश्च सान्द्रतुहिनच्छायैर्यशोराशिभिः । इत्येवं विहितक्रमेण भरिते कालैत्रिभिारते वर्षे यो व्यसृजत्कृपाणमवनेः स्वामी भुजा मेचकम् ॥ स राजा शिशुरेव सुकृतसेनासमग्रे विशेषजिगीषयेव गते लोकान्तरं पि- तरि स्वयं भुजबलेनाऽऽहत्य दिग्विजय, विजयनिशितेनासिना विलूय मूलतः शा- तवं वंशम् ,आज्ञया प्रवेश्य हारेण राजन्यकं, प्रतापेनाक्रम्य समस्तान्याशानुग्खा- नि,यशोभिरावृत्य त्रीण्यपि भुवनानि, धर्मेण निरस्य प्रबलं कलिकालं, गुणैरनुः रज्य सकलं साधुलोकं, विनयेन सन्मान्य गुरुजन, सत्कारेण संवर्य बन्धुजातं, हृदयेनावय परितः प्रणयिवर्ग, प्रसादेनाऽभिनन्ध क्रमागतमनुजीविसामन्तच्च- क्रम् ,अनुरक्तप्रकृतिकमनीयामनेकशः प्रजावती ककुकरिकुम्भसिन्दूरभरित- सीमन्तरेखोपशोभिताभवैधन्यचिहमिव चतुरम्भोधिवलयालङ्कारमादधानां वंश- पत्नीमिवानन्यभोग्यां विधाय वमुमतीमेकातपत्रशेखर साम्राज्यसिंहासनं भेजे । भुवः सम्बन्धेषु च स्वामिकृत्येषु चरितार्थतथा सुस्थितान्त:करणवृत्ति- रनुभवितुमशेषाणि संसारसुखानि, कर्तुयौवनोचितान्विलासान् , विधातुमभि- मताभिलाषपरिपूर्तिभिः कृतार्थजन्म,समनगृहपरिग्रहादिचिन्तापरं राज्यमभि- तोऽपि धीमतां धुरन्धरे मन्त्रिणि समस्तमारोपयामास । मन्त्री च तस्य कटका- श्रयो दक्षिण इव भुजस्तम्भः, स्वमतिसंहृतारातिरमणीशृङ्गाररसप्रशोषको मूर्त इव प्रतापः, परिगतो मन्त्रविक्रमाभ्यामखिलविद्यावतारपात्रं, खन्यवादी वैरिवं- शमूलस्य, वशीकरणकोविदो लक्ष्म्याः, कृतजलस्तम्भो व्यवहारेषु, दर्शिताग्नि- स्तम्भः प्रजोपतापेषु, सततमवनतानेकराजकललाटतिलकपङ्कलेपादिव भर्तृ- भिक्षागतारिकुलकुटुम्बिनीबाष्पजलधाराधौतचरण:, भुवो, भूषणं द्विजातिवंशस्य, पुङ्गवः पुंसां विभूतिवर्द्धनो नाम ! यो नूनमनि- मैथितसमुद्रमनिरस्तसत्त्वमपीडितभोगीश्वरमक्षपितविबुधलोकममन्दरागप्रपञ्च- मेकेनैव प्रज्ञागुणेनाकृष्य लक्ष्मी निजस्वामिनः सततमुरःस्थलनिवाससुस्थिता. मकरोत् । यश्च महीभृतामाञ्जनेय इवोन्मूलने, नल इव प्रतिष्ठापने, पयोधि- निवाडीकरणे. राम इवोपयोगविधाने प्रभुरभूत् । किं बहुना । । शरणमासससागराया उदयसुन्दरी कथा । यः शीतलैहुतरैश्च करैः प्रजानां लोकं निशाकरमणिप्रतिमाभमच्छः। प्रासक्रमं तुहिनरोचिरिवानिपीड्य निष्यन्दयन्न वनितापहरो बभूव ।। अपि च। स एव मन्त्रिणामाचो यस्य मन्त्रबलात्तदा । नगरी जलता भवलितं तु पद द्विधाम् ॥ स तेन मन्त्रिणा परिगृहीतसकलराज्यचिन्ताभरो निराकुलः कदाचिदा- লাভবানঃ সালাম্বিলজ্বলন্তকালুন্ধিকালিহা- मरैरिव चीज्यमानः श्रिया, कदाचित्कविसभामधिष्ठितो विचारयन्काव्यजातमु- लसन्तीभिरमलदानशुराजिभित्सवादिव दीयमानरावलीमिराभूष्यमाण- बदनाङ्गणः सरस्वत्या, कदाचित् तुरगवाहनविलासमनुसरन् वाह्यमानविविधह- रिखुरखटस्कारकैतवेन कटितिवर्णनाक्षरैः पदे पदे प्रशस्यमानः पृथिव्या, कदाचि- न्मृगयामुपेतो मृगवधाकृतचकितेन रजनिमासाद्य तं हरिणमात्मनो मित्रमुरसि धृत्वा दिवि पलायमानेन परार्पणेनात्मीयरक्षणमितीच थमानसूकरश्चन्द्रेण, कदाचिदिनमोचानवर्ती सुरभिमुखश्वासदर्शनाय बन्धुमेमागलेनेव शिशिरेणानु- गन्यमानः समीरणेन, कदाचिजलक्रीडामाचरन्नुभयपाभंगतेन चतुरसीमन्तिनी- कलितकनकङ्गकोशोज्झितस्याम्मल छटायुगेन सरमसमभ्यागताभीष्टवत्स- लतया प्रसारितेनेव भुजलताइयेन परिरन्यमाणो वरुणेन, कदाचित् शृङ्गारसरसा गोष्ठीमनुतिष्ठन् समन्तात्पतद्भिरमलगङ्गाम्बुधवलैर्विलासिनीकटाक्ष रूपेण सगोत्र इति स्वराज्य इवाभिषिच्यमानो मनोभवेन, कदाचिदचिन्त्यपथं प्रेक्षणकमालो- कयन्नुपरिमण्डपतुलाफलकसङ्कान्तया प्रतिभूया त्रिदिवनगरागतेनेव दृश्यमा- नविलासोत्सवः पुरन्दरेणेत्यादि, सदैव देवैरनुकूल्यमानाभिकमनीयकेलिः काल- मतिवाहयाञ्चक्रे । एवमस्य बहुशो विपञ्च्यमानैर्धनकस्वामिना कुबेरेणाप्रार्थितैः श्रियो नाथेन विष्णुनाप्यदृष्टैत्रिभुवनाधिपत्यपरमेश्वरेण मघवताऽप्यननुभूतैरभिन- वोद्भूतप्रभूतभङ्गिभिर्विलासैः सारीकृत्य सकलं संसारसुखचक्रवालमनुभवतः कदाचित्क्रमेण कालपरिपाटेरुदयपक्षः प्रोषितवधूचनचन्द्रस्य, बन्धयोगः पाम- रीसम्मदरसस्य, कवाटोद्धाटः पथिकनिर्गमस्य, पञ्जरकभङ्गश्चण्डभानुपश्चाननस्य, कुसुमितसप्तच्छदोरुपरिमलेन मदागम इव नवर्तुवारणस्य, विवुडबन्धूकवना- लोहितद्युतिभिः सिन्दूरमुद्राविष्कार इव पुष्पेषुराजस्य, प्रसार्यमाणजिगीषुभू- पातपत्रैः कुसुमकाल इव नरेन्द्रचर्याणाम् ,उत्तेज्यमानविविधायुधालोकैदिवस इव सीड्डलविरचिता वीरचक्रद्वन्दघटनायाः, स्फुटितनीलोत्पलप्रभान्धकारितोऽपि प्रसन्नो दिमुखैः, दलदरविन्दोड्डीयमानकिजल्कधूलिमिः पांसुलोऽपि निर्मलो नभस्तलेन, मदकल- मरालमण्डलीभिर्वाचालोऽपि मौनवाक केकिभिर्दिग्जयोधतावनीन्द्रचापवापि- निर्मुक्तहेतिरिन्द्रायुधेन ग्रीष्मानुभावपावकेनोत्ताप्य वर्षाम्भसा पायितजलैरि- वातिपरुपैरंशुनाराचैस्तीत्रेण भानुना दुर्दिनैकभूमिगृहावुल्लसत्कान्ति दिव्यं वपुरवाप्य निर्गतेन रसायनसिडेनेव खेचरीभूतेन चन्द्रमला निर्मलं गगनमाद- धानः प्रबलजलधाराशरनिपातव्रणितां पालिनियमिवान्वेष्टुमागतः कूजितकृ- तोचितालापैर्मरालपत्रिभिः शोभितसरोवरः पाकपिङ्गतापसारितया कलम- कणिशानामादिनीलतयेव तटस्थया संचरतरुणशुककुलप्रभया मण्डलितके- दारः केदारोदरविसर्पिणीभिस्तुषपुटाहहिर्निर्गताभिनिष्पत्तिपरिणतकणिशत- ण्डुलप्रभाभिरिव कलमपालिकोज्वलविलोचनाञ्चलदीधितिभिर्धवलितधरातला. समन्तादुन्मिषितकाशच्छटाकटाक्षयष्टिभिरालोक्यमान इव सरितालिनल- क्ष्मीभिरुल्लसद्वहलकहारपरिमलविलासिना समीरेण परिवृतः पवित्रश्च प्रबो- धेन विष्णोराजगाम जगतामाप्यायनविशारदः शारदः काला । यस्य च हठप्रविष्टस्य बलीयसो नवर्तुराजस्य परिग्रहेण सपदि प्रणश्यतो वर्षतुसामन्तादुल्लुण्ट्य समन्तादिव गृहीतो विभूतिपरिकरः। तथाहि । सर्वतो विनिद्रकुवलयवनैर्गृहीतमसितप्रभारूपेण मेघात्मज तिमिरमतिभरेण विस्फु- टितशेफालिकाकुसुमैः स्वीकृतास्रवन्मधुरसाकारेण सततवृष्टिरुत्साहाजिगीषु- भूपालैः करे कृतं दिग्जययात्रासु परिग्रहवशेन झटित्येव जिष्णुचापं विग्रहार- म्भाय सजितैः करिभिरावृता कर्णशङ्खाभरणभावेन धवलकान्तिलाकाभिः श्रीमता च बलिराजमहोत्सवेन विधृतनुद्दीप्रदीपकशिखायलीव्याजेन वैद्युतं तेजः । किञ्च । यत्र- संलीनास्तिमितं चकोरतरुणीनेत्रान्तशोणश्रिषु व्यासोत्तानितबन्धुजीवकुसुमेष्विन्दिन्दिराणां स्त्रियः। पान्यप्राणकथाक्षरावलिपरिच्छेदप्रदत्ता इव भ्राजन्ते नवधातुरागतिलकेष्वन्तर्मषीफुल्लिकाः॥ अतिवर्तितबहुवर्णंडरिव धवलभावपलितायैः । कृत्वा विष्णुपदाश्रयमम्बुधरैः स्थीयते यत्र ॥ अथ स तस्मिन्नेवंविधाभोगशोभिनि शरत्समये सविलासोऽयमेक- अपि च।
२७ उदयसुन्दरी कथा। स्मिन्नहनि प्रातरेव प्रणयपरिणतानेकपुरुषप्रपञ्चितावस्थानमास्थानमण्डपमुपे- त्योपविष्टः सह मन्त्रिभिः किमपि पृथुभरतभगीरथादिपूर्वभूपालचरितानां बिचारेण सह सामन्तैः किमपि निगृहीतदुर्दमारातिवार्ताभिः, सह सुभटैः किमपि विषमसमारोपरचनाख्यानकरसेन, सह कविभिः किमपि बाणभट्टाभि- नन्दप्रभृतिकविचक्रकवितावरिष्ठगोष्टीभिः, सह तार्किकैः किमपि प्रमाणशास्त्रो- पन्यासविभ्रमेण, सह विलासिनीभिः किमपि शृङ्गाररसानुवर्त्तनेन, सह नर्मस- हचरैः किमपि परिहासमिश्रितालापकौशलेनेत्यादिनानारसोपक्रमक्रमेण हृदय- मनुकूलयन् प्रस्तुतरसाक्षेपनिर्भरमवतिष्ठमानः वसन्तशीलनामा देवस्य प्रणय- पानमुद्यानपालो दर्शनार्थी द्वारि वर्तत इति निवेदिते तेन राजा ननु स्वाधि- कारविधेयतया मयाऽनुज्ञातो नन्दावटनामन्याभीरविषयवर्तिनि पुरे निभाल- यितुमुद्यानमितो गतश्चिरादागतोऽयमायातु प्रवेशय त्वरितमित्यादिदेश । अथासौ प्रतीहारव्याहृतो वसन्तशीलः प्रविश्य यथावदुचितप्रणामपूर्वम- पितोपढौकनफलो हन्त ! समागतो भवानिति संभाषितः प्रभुणा देव ! समा- गतोऽस्मि किन्तु कौतुकमलौकिकं किञ्चिदित्यनुतरसावेशतरलितो ब्रुवाण एव नातिदूरमग्रे निषसाद । किमाश्चर्यमिति च रसान्तरतरङ्गितेन भूभृता पृष्टः ससं- रम्भमावभाषे । देव ! साम्प्रतमनेन दर्शिताशेन शरत्समयनाम्ना नवर्तुराजेन सर्वतः प्रसत्तिमानीते जगति तदाऽहमनुज्ञया देवस्य नवोद्यानकायण गतो नन्दावट नगरम् । अनन्तरमन्यस्मिन्नहनि तत्र सत्वरमुत्थाय प्रातरेव धनागम- कृतं विशवरत्वत्सारयन्त्या शारदद्या श्रिया सज्जीक्रियमाणमुदीक्षितुमुद्यान- काननमगच्छम् । तत्र च पल्लवकनाम्ना कर्मकृतां वरेण समन्तादेव योजितानि घनसलिलसम्पातसेकावधीरितव्यापारेणारघट्टयन्त्रेषु घटीमालामण्डलानि विर- चितान्यतिवृष्टिविघटितानि कुल्यासु तदानि बद्धानि पयःपूरापनीतपालीनि विटपराजिष्वालचालवलयानि सलीलमुन्नमितानि निजनिजभरनिपातनमितानि मण्डपलतावनेषु शिखराणि सम्भावितानि कठोरधाराप्रपाटितानि कलि- रखण्डेषु दलानि विघटितानि झंझानिलविलग्नानि वनस्पतिषु कण्ठकितव- लिजालानीत्यादि सादरमितस्ततः प्रतिलतामण्डपं प्रतिपादपं प्रतिविटपं च मूलतो निरूप्य परिकरितपालिषु जलाशयेषु चक्षुरक्षिपम् । तत्किमुच्यते! । निर्मलाम्बुसंबन्धिनी मनोहरैव विभूतिस्तत्र जलरुहाम् । तथाहि । मूलेऽल्पप्रमितिश्लथैत्रिभिरथ बित्रैः पृथुश्यामलै- रने शुभ्रघनैः क्रमेण लघुभिर्विशिलष्टवत्कंदलैः ।
सोलविरचिता अन्तःश्वेतशिखाकणाङ्कितसटै रापाण्डुभिः केसरै- राकीर्णोन्नतकर्णिक विकसति क्रीडातडागेऽम्बुजम् ॥ अपि च। बापीषु स्फुदितारविन्दविवरणोडे कडाराकृतिः कोशः केसरशृङ्गशुञ्जकणिकाचक्रेण पर्यञ्चितः । लक्ष्म्याः कर्णविभूषणस्य परितः प्रान्तेषु मुक्तामणि- श्रेणिस्वीकृत हेमपन्नवलवस्थालङ्कुतेर्विनमम् ॥ एवमन्यतोऽपि निभालितानेकनूलनोन्मिपित्तनुकुरकुलुमामुद्यच्चक्षुषो नि- वापयित्रीसुद्यानसंपददञ्चितप्रीतिः कृतकृत्य इवान्यन्त्र परिशिष्टे कर्मणि नियोज्य तं कर्मकरामण्यमानन्दितेन चेतला ततो निर्गत्य समागन्तुमारब्ध- वानस्मि । अथ तथाऽहमेकाकी निश्चिन्ततया सनन्थरमागच्छन्नेकत्र पुरपरि सरोपान्तप्रदेशे परुषपूषातपकदार्थतछायार्थी सौगतलवाध्य हृद्यमायतनं तस्मि- बहिरेव द्वारमत्तवारणके समुपाविशम् उपविश्य स्वस्थतानुपेतश्च किञ्चि- त्सलीलमितस्ततः स्वतन्नालोकमक्रमेणा देव! यावदने बिलोकयामि तावझगि- त्यागकवी यः प्रातरुद्यानं गच्छता मया स्फटिकसृष्टिपरिपाण्डुरो दृष्टस्तं तस्मिन्नवसरे चैत्यमिन्द्रनीलशिलानिर्मितमिवातिहरितवर्णमद्राक्षम् । दृष्ट्वा च सविस्मयमहो ! क्रिमेतदद्भुतविजृम्भितमिदानीमेव मया स्कटिकाक्लोऽयमा- गच्छता दृष्टः कथमियतैव क्षणे हरितमणिनिर्माणनीलतां प्रपन्नः। किमेतस्यैष समयवशादनेकवर्णधरः कोऽपि मणिदलविशे किमन्योऽयं देवतानुभाव- सिडो मुहूर्तमात्रेणापसार्य शशिकान्तमयीं सृष्टिमिन्द्रनीलेन घटितः, किमेवंरूप एव स्वयंभूत्वेन समुच्छेद्य तं पुरातनं चैत्यमुत्थितो रसाललात् । किमेतरितव- नराजिनीलिमानुवासिता नीलमेव सकलमालोकते मदीया दृष्टिः, किं स प्रदेशोऽपि नायं यस्तेन स्फटिकवलेन शोभितश्चैत्येन, किमेकयाप्यथ देवतया प्रसर्पतः स्खलितमासाद्य परावर्तिते चक्षुषीत्यादि विकल्पयत्येव मथ्यकस्मा- त्तस्मिन्ननुष्टुभां श्लोकमाश्रिता सरस्वती समुत्तस्थौ । अहो वैचित्र्यमेतस्य संसारस्य किनुच्यते। गुणोऽपि क्लेशहेतुः स्याद्विश्रान्तः कापि देहिनि ॥ श्रुत्वा च तामहमपद्धतावेशवहलितो ननु किमिदमचिन्त्यमाश्चर्य- मिति यावत्किल विभावयितुमारभे तावद्भारतीविरामानुपदभेव तस्य चैत्य- य गर्भाज्झगिति वितर्कावकाशमपनयनमाननिगमनमार्गस्तां निजामेव ।
'उदयसुन्दरी कथा । २९ REE शशिकान्तधवलामाकृतिं चैत्यमानयन्नतिहरितया देहत्विषा सिक्त इव नीली. रसेन छुरित इव दलितेन्द्रनीलधूलिभिश्च्छादित इचारविन्दिनीदलैर्नील- पक्षपटावगुण्ठितः सङ्केतवानिव शरल्लक्ष्मीमभिस्तो हरितांशुकावरणो नीलपट इव मुख्यं रागमावहन् शारदागमकृताः करसंपुट इव भुवनश्रियो नीलमणिवि. निर्मितः शुक्तिपुट इव रतेईसो विनोदयितुमागतः कृतापूर्वरूपो वेषकार इव शिरसि बिस्फुरन्त्या विभूषितः शिखयाशकुन्तराजस्य वज्रेण विरचिता चञ्चू- रिति सङ्घर्षण पद्मरागमणिदृष्टयेव पाटलया चञ्च्या विराजमानो विजित्य जलदागमाहीतं शरत्कालेन प्रदत्तमात्मीयं विजयवेषमाखण्डलं धनुरिवानेक- वर्णधरं कण्ठेन रेखावलयमाद्धानो गगनाध्वगमनसवातवानितीव रविरथतुर- कान्तिभिः कृतपक्षपरिग्रहः परितोऽपि मणवनपिच्छसञ्चिताकृतिरभिराम- दर्शनः शुको निर्जगाम । निर्गत्य च तस्यैव शिखरमासरोह । तं तथा विलोक्य सपल्लवितकौतुकमहो क एष शुका, कतमजातिरसौ, कोऽयमद्भुतरसानुबन्धी विलक्षणोऽस्य मूर्धन्युद्गमः शिखायाः, कथमेकखण्डेन्दुकान्तशिलानिर्माण- तथा नीरन्ध्रसन्धिगर्भेऽत्र चैत्ये प्रवेशनिर्गमावस्य । सा चेयमासीदन्तर्निविष्ट- स्यास्य प्रभानुभावालीलता चैत्ये । स्वहृदि भावितेन च प्रगल्भया गिरा गम्भीरसुभगमन्तःकरण एक निसृष्टार्थ पठितमपि नूनमनेनैव । यथा चैष तिर्यग्जातावप्येवमनुबालसुस्थितः पतङ्गत्वेप्यलोललोचनः पठति च प्राग- ल्भ्यवानेव शिखा चेयमाश्चर्यकारिणी शिरसि तथा नियतममुना केनाऽपि वस्तुभूतेन भाव्यम् । भविष्यति च महतो भूमिराश्चर्यस्य । तदसौ विधुत्य पार्टीकृतः परमविनोदार्थमुपकरणं भवितुमर्हत्येव निष्कण्टकीकृताशे- षभूवलयनिराकुलस्य राज्ञः । किन्तु कथं मे करगोचरीभविष्यति येन त्रिभुव- नेऽप्यदृष्टमश्नुतं च कौतुकरसैकपात्रम समय प्रसादयामि स्वामिनमिति भदीयचिन्तानन्तरमेवाऽसौ ततः शिखराधो निरीक्ष्य झटिति दत्तझम्पस्त- त्रैव मूलमणिपीठ कुहिमे समं धरिमविभ्रमं भ्रमितुमारेभे । तथा पर्यटन्नसौ सर- भसमुद्भताशेन ग्रहाय मया तस्य दृशोरविषयं प्रदेशमाश्रित्य निभृतमवनमि- तगात्रमलक्षितपदाचारं च गत्वा झगित्येवोपरि त्वरितपातितेन पाणिना ध्रिय- माणो झटित्युड्डीनवानुड्डीय च पुरस्तात्कोशमात्रेण मार्ग एवोपविष्टो विसं- कटस्य वटशाखिनः शिरसि । अथाऽहमुड्डीने तस्मिन्नुड्डीनचित्त इवाकुलो नितान्तमाः ! कथमिदं पक्षिरत्नमासादयिष्यामि । करग्रहमागतोऽपि पश्यत एवमेव पुरस्ताद्गतः शकुन्तोऽयमिदानी किन्नाम स्वामिनो निवेदयामि किं सोडलविरचिता धृतोऽप्युड्डीय गतवानिति हा धिने पापस्य पुरुषव्रतमवश्यमेतस्य पृष्टानुलग्न- स्तत्र यामि यत्रासौ व्रजति । यदि तावदिहैव वशाखिन्यास्थितो धृतस्तदा धृत एव न चेदितोऽप्युत्पत्य यास्यति ततो नाम निरालम्बने व्योमनि वह- नेव वासरमशेषं नेष्यति । तथाऽपि स्वप्रतिभासात्सातिरसाचारलोभात्परि- श्रमाना कचिवस्थास्यति । तदित्यमविषण्णेन मनसा कृतानुबन्धे ग्रहीष्यामि निश्चितमलु विहङ्गसारमित्यवधार्य धावितस्तं प्रति पादपं न्यग्रोधम् । न च यावदेकस्य पदस्यान्तरेण तंतरुतिलकमासादयामि तावत्ततो झगित्यसावुड्डीय नभसि वोढुमारब्धवान् । अहमपि वस्तुलोभाल्लडिन्तविवेकस्तस्मिन्नेवाधाय दृष्टि- ক্লামিন বলা লালালাখানালীশ্ববিদ্যালিকা प्रधावितुसुर्वीपथेन लग्नः । सोऽपि तथा ब्रजन् क्वचिदुपविशत्येव न कचित् चर- णस्पर्शमात्रमुपविशति कचिदुपविष्टमात्र एवोत्पतति, कचिन्मे निकटीभूतस्य सञ्चलनमाकलथ्य चकितः पलायते, कचित्करसङ्गहं यावदागतोऽपि विच्यवत इत्येवममुना क्रमेण तेन पक्षिणा कर्थ्यमानस्य प्रधावतो मे झगित्येकन दुरन्तारण्ये गहने धनतरुशिखरशाखान्तरशतैरन्तर्यमाणः स खलु दृष्टरगो- चरो बभूव । अथाऽहं तथाप्याशया विडम्बितः सर्वतो विलोकयन्नग्रतो दृष्टामरुणकुसुमकलिकामपि तवचरिति सरभसमनुसरामि, हरितफलगुलिका- मालोक्य तन्मौलिधिया धृति बध्नामि, प्रचलति विनीलतरुदलेपि तत्पक्षति- प्रतीतिमाचरामि, विकटार्कफलकोशदर्शनात्तदङ्गमेतदिति विकल्पयामि, झटि- त्युड्डीनान्यशकुनिपक्षपुटफटकारेण तस्योत्पतनमाशङ्कय चात्मानमनेकशो नट- यामीत्येवमदृश्यमानेऽपि तस्मिन् सदृक्षदर्शनोद्भतभ्रमेण धावन भूयसी भूमिम- तिक्रान्तवान्।अनन्तरमन्ते च विपिनस्य प्रकाशमागतेषु ककुभां मुखेषु खण्डि- ताशो गतः स तावत्पत्री, तदितो वलामि पुनरग्रतो वा यामि, किमन्यमन्वेषणो- पायमासूत्रयामीति समुचितानुष्ठानमूढो मनाङ्मयश्चितेन चेतसा समत्सरमित- स्तत: सलवलन्नेकहेलयैव पुरस्तानातिदूरमविरलतरुसरलवेणिकान्तरितमनेका- रावबहलं विहङ्गकोलाहलमशृणवम् । तदाकर्ण्य पुनरुन्मीलिताशो नन्विमामे- तावती भूमिमतिश्रमार्तोऽपि व्रजामि । मा पुनरिह विहङ्गसङ्गतिरसादवस्थि- तोऽसौ भविष्यतीति सश्चिन्त्य सत्वरश्चलितो यावत्तां तरुश्रेणिमासादयामि तावदने तेनैव पुलिनतलमिलितसकलजलशकुन्तकेलिकूजितरवेण निवे- द्यमानां गरिमगणनोपस्थितस्य प्रथमरेखामिव पश्चिमसमुद्रस्य, समुद्रमथनोत्थि- नग्य निम्मारसरणिमिवामृतरसस्य, सलिलसञ्चारसारणीमिव भारतक्षेत्रस्य, उदयसुन्दरी कथा । SMARAN विलासपट्टिकामिव दक्षिणदिशोऽश्चलस्य, लावण्यपद्धतिमिव धरायाः, तीरच- रसमीरणारणितसणबीजकोशिकाचक्रवालवाचालपालिभिः क्षेत्रैरुभयतोरम्या- मसमशरनिवासनिर्भराविरलतरुनिकुजराजिभिरभिरामरोधसमसीमप्रसरां भ- गवतस्तिग्मत्विषो दुहितरं तामसिसिखनामवती तापीतिमहासरितमद्राक्षम् । देवी भानुमतः सुतेथमनया मुक्कामणिस्वच्छया कृत्वा तं प्रतिबोध्य कण्डमहसं कुर्मः स्वरक्षामिति । ध्वान्तैर्या पुलिनोपरूढविद्यपाननप्रवालस्फुट- पुष्पामोदमधुनताकृतिधरैः कृता समासेव्यते॥ अपि च । या महालिन्धुरुष्णांशुप्रसूताप्येतदडतम् । सदृशी हन्त शीतांशोः शैत्येन पयसामभूत् ॥ दृष्ट्वा च तां सविस्मयं आः! सुदूरमागतोऽस्मि नन्दावटपुरादियं भगवती दशभिर्योजनैराख्यायते सिन्धुरहो मे प्रवृत्तिराग्रहस्य भवतु किमनेन प्रस्तुतं तमेव गवेषयामि तावदित्युभयतीरवर्तिषुतत्र धनपत्रिणां पेटकेषु निपुणं निक्षि- प्य चक्षुरालोक्यमानोऽपि समन्तानसन्कापि दृष्टः शकुनिरितश्च भगवान्भुव- नैकचक्षुरादित्यः संवृत्य दिवसविस्तारमपरस्यां दिशि प्रयातवान् । अथ तथा वृथागते क्लेशेऽहमुन्मुच्य सरलं विषादसूत्कारमन्तःकरण एवं भावितवान् । हा ! कष्टमविष्टेन पथाऽद्य मया लेशितोऽयमात्मा । यद्धा साध्यमसाध्यं च विषयमनालोच्य विचरतां विफलीभवत्येव पुंसां प्रयासस्तदेतदतिमहीयसो मोहस्य विलसितं यस्मादेवमुत्पद्यते विवेकिनामप्येकहेलयैव परिभ्रंशो मतेः । अन्यथा किमयमीदृशी न मे संवित्तियत्किलासौ पक्षी, पक्षिणस्तु खेच- रीभवन्ति, खेचरा हि न कुतश्चिदुपायाहते क्षितिचराणामगोचरा एव , ताव- त्सन्दिग्धसिद्धिः प्रथममेव पाशकादिसदुपायः परिहतः। पुनश्चैत्यान्तिकावुड्डीय निर्गते तस्मिन् किमिति मे पृष्ठलग्नस्यामुना संरम्भेण कुतश्चिनिष्फलतया लोकेषु कथ्यमानोऽप्यसौ ब्रीडाकरो व्यतिकरः । किमन्यदात्मनोऽपि लजितोऽस्मि । तदस्तु यवृत्तं वृत्तमेव । ततः संप्रत्यपरमालोच्यते यन्न तावदिह मन्ये ग्रामटि- का नेदीयसी काचिन्तिमश्चायमञ्चलो दिनस्य । निशाप्यन्धकारवती। बाढमवि. दितश्चैव विभागो मार्गस्य । निस्सखश्चाहम् । अवेला च पान्थजनोपलब्धेस्तव कुत्रापि सवासरशेषामिमां निशामतिवाहयामीति निश्चित्य सर्वतो भालयन्स- ।
सोडलविरचिता मन्थरप्रचारसुचलितस्तस्यैव रोधसः शिरसि प्रवृत्तं पन्थानमनुस्मृत्य वामतो नातिदृरवर्तिन्येकन नवदलगिनीलयवनकपटिकायलयमण्डलिते विलूय पुञ्जित- व्रीहिणि क्षेतखलके झटिति दृष्टसुत्कृष्ठं कुटीरमपत्वरेण चेतसा सहर्षमाश्रितोऽ- स्मि । तच्चान्तरमानुषमेकन कृतपलालसंस्तारमन्यत्र विकृतकालिङ्गञ्जमापरन्न च ভাঙাৰিঃ ক্ষণস্ব লুলি দিলাশ জ্বঞ্জি- दतः स यावदायाति तावडहिरेव तिष्ठानीति चिन्तालमसमयमाजगाम परमे- कतो मानुषाकृतिः श्वापदपशुस्अपुच्छोऽलान् दिवसदृश्यो भूतविशेषश्चैत- न्यवानुपलपुत्रकः परुषहलमुखविपादितथा पृथिव्या भदन्तशाप इव स्फुटितानच- रणस्तृणकुलानि गोरूपकैचारयत्यविरतभन्नाविति क्रोधान्मारुतविलग्नैः शालिम- लनोच्छलितपलालदलशकलकैहीत इव कूर्चकेशेषु हरिनाफलाष्ठीलगुलि- জাবিবি হাহহীহ্মাহুঙ্গিক বিছান্ধলভী - काहितचारिभारकः स्थूलया च दर्भवलिलया रज्या वनपरिधानः स्कन्धीकृत- जरत्कम्बलीखण्डो दण्डपाणिः पानरः । पश्यामि च तदन्तिके वामकरगृहीतम- विपुलपलाशतरुवल्कचीरिकयाचनद्धचरणं तमे पर तान पतत्रिणां कीरम् । आलोकिते च तस्मिन् मृतोजीवित इचाहमानन्देन विकलितविलोचनो विशा- लया पुलकसम्पदा परीतमूर्तिरन्य एव संभूतवान् । अथासौ पामरः प्राङ्गणक एवोत्तार्य प्रवेश्य चान्तश्चारिभारकं तत्रैव बन्धनरज्जुबलये तमप्याबध्य विहङ्ग- पुङ्गवमागत्य ममांतिके स्कन्धादाकृष्य कम्बलिनुपाविशत् । लश्च सदन्तनिष्कर्ष द्वाभ्यामपि कराभ्यां शिरः कण्डूयितुं तथा भ्रातः कुतो प्रामादागतोऽसीति मां पृच्छत्यन्तरा शिर:कण्डूयनमुखासिकासीत्कारमुन्युचत्यन्तरा क्षेत्र विशंति गोरूपकाणि हक्कयत्यन्तरा पुनरने गृहीतमुक्तेन वचसा तमेव प्रश्नाला निर्वा- हयतीत्येवमज्ञतया ग्रामेयकस्वभावतया वा मन्मनः कर्थितवान् । अहमप्यहो सेयमधुना पामरावधीरिका नाम भवतु । व्यर्थपरिणामया किमस्य वा स्वरूप- चिन्तया, तावद्भावयामि स्वकीयं कार्यमुपलोकनैकगम्या ग्राम्यजातिरिति व्यापाराकारवर्णनापूर्वमनुकूलाभिरुक्तिभिरमु प्रसाद्य सुखसमालावितामन वसतिं करोमि, तथावस्थितश्च पश्चादस्मिन्पतत्रिणि किमयमाचरतीति पश्यामि, पृच्छामि च शुकस्य लाभान्वयमस्य च प्रवृत्ति, गृह्णामि चैनमे- तस्मादुपायैर्दैवतोदृतमेव लब्धं शुकराजमिति विनिश्चित्य तथाहृद्यस्मू- वितधिक्कारयुक्तैरावर्जनवचोभिरवस्थानदानाय तं प्रवर्तितवानस्मि । सोऽपि मे प्रसन्नमनोवृत्तिरवस्थितिं दत्वा संवृत्तायां रासभायोचितमौचित्यचि- उदयसुन्दरी कथा । १ । त्यमुपदर्शयनुपकोणवर्तिनी प्रस्तरपलालपिण्डितामाकृष्य च स्थालीमाग्रहाहा- सितानिकया करम्बितेन यवनलकमहोदनेन तत्समयेन भृष्टेन चोष्णेन का- लिङ्गशकलिकाशाकेन कृतगौरवमातिथ्यमकरोत् । दिनबुभुक्षितश्चाहं त- द्धि गोपालहालिकीयं भोज्यममृतमयाहारनिर्विशिष्टमियोपभुज्य मृहुनि नव- कलमपलालतल्पे तेनोक्तः स्थितिमकार्षम् । पामरोऽपि तथैव स्वयमुपभुज्य मदासन्नविरचितान्यसंस्तरे सलीलमुपविष्टः शुककृते कर्तु पञ्जरकमारेभे। मया हि लब्यावसरेण सानुबन्धनसायभिधातुमारब्धो यथा । भोः ! चातुर्थे- रिक ! कमभिनिवसति ग्रामन् ? , किमाभिधानोऽलि ? , काऽसौ कथं च भवता शुको धृतः सङ्ग्रहीतश्च किमर्थ ?, किञ्च श्रीमतानुपकरणेनानुना किं करिष्यति भवान् ? । यदि न कुप्यसि कुलप्रधान ! लतो भणाम्युपकारेण महता प्रयच्छ मे शुकमिनं राज्ञो दर्शयामि । तेन च कृत्वा तवावश्यमनल्पं दापयामि प्रसाद कारयाभि च भवन्तमखिलस्थापि मान्यमिति मइचो निशम्य पञ्चरकस्सृष्टौ निविष्टदृष्टिरपश्यन्नेव मां पामरः प्रत्युवाच । श्रूयतामिहास्ति परतो धान्यसारनामा ग्रामः । तस्मिन्नधिवसति गोप- तिर्नाम कुटुम्बिकस्तस्याहमात्मज इव संवरको नाम हालिकः कलमशालिमल- नाय जनितमहाखलोऽत्र क्षेले वलामि । चारिग्रहणाय चाद्य नातिदूरमितोऽर्द्ध- विलूनशालिमतः केदारस्य तीरं गतेल मया शालिकणिशस्योपरि निविष्टो दृष्टः शुकोऽयमालोक्य च सहर्षमहो साधु चिरादृष्टोऽयमिति यष्टिकाग्रयोगिन्याया- सिकया परुषतुषपुटकोडात्तण्डुलविकर्षणासक्तिपरतन्त्रो झटित्यसौ संवृत्य स्वीकृतः । न चान त्वयाऽनुबन्धो विधेयः । मम हि प्राणाधिकाऽस्ति कुलशील- सौरूप्यवती कान्ता । सा च संप्रत्यमितोपयाचितशतैः प्रथमगर्भणान्तर्वत्नी जाता । गता चात्मनः कुलगृहे प्रसवितुमपरं मेखलिकानामग्रामम् । तस्याः शुकामियोत्पन्नदोहदायाः कृते सङ्गृहीतः शुकोऽयम् । अतो मे प्रेयसा कलनेणैव विभूतिमतः किमनेन लैलोक्यराज्यमपि तृणकल्पमेवैतत्तदलमनुप्रार्थनयेत्यभि- धाय निष्पाद्य च तं तृणलतामयं पञ्जरकं विधाय च तदन्तःप्रवेशेन सुस्थितं कीरमुत्पन्नतोषः कृतकृत्य इव शयनसन्निवेशेन स्थितवान् । तथा स्थिते च तस्मिन्नुभृतभूरिचिन्तोऽहमाः ! कमुपायमिदानीमासूखयामि किमन्यमर्थनो- परोधविशेषमुपदर्शयामि, किमितो हठादुल्लङ्घय च गृह्णामि आहोस्विदकथ- यन्नेवास्य सुप्तस्यापहृत्य यामीत्यादि नितान्तमुत्ताम्यता चित्तेन चिन्तयन् सोडलविरचिता याचन्नुहत लियामि तावझगित्येवाऽसौ शुकः साहासं विहस्य प्रस्तुतेनार्थन युगलमार्यायाः पपाठ- एकेन नियमाणः पलायितोऽन्यस्य गोचरे पतितः। गतोऽन्धस्य मुखे किल पदहमहो बलवती नियतिः ।। SyaPRIMARY SAHESARIEND SAINA লিলি শুনুজ্জীখি অ নিল । অনলালখান অসুস্থ বিকাল ল জ্বাল লিলি শুঙ্খsী নিস্থা বৃহস্থইন নার্গিনহাল সৃলী বিহু অন্যাহহিজাহ হালাল। লা লা লাল স্ব ঘষা ঘিা মলাস্কুল শিমু লিজা লা জ্বলবি দলিল অনন্য खाद्यसे न याबदेतेन पलिणा यतो न मया कचिदियन्तं कालते हसन्तो बदन्तश्च शकुनयो दृष्टाः । तदेव यास्यामि । चार भटस्तु लिष्टतु भवानिति भयातिविधुरेण चेतता प्रलपशुन्मोच्य भदन्तिकादात्मानं पलाय गतवान्। अह- मप्यनुकूलपसिनो विधेरनुभावास्फलितप्रयोजनो ननु सिद्धमभिमतं साध्यमि- दानी प्रत्यूब एवोत्थाय शुकलनायो प्रजामि मन्दिरमिति महता महर्षेण तथा भाविततस्वस्य पन्नियो विस्मयेन तेन च तस्य हास्यरसेन हालिकस्य विनोद्य- मानदयो निद्रामलभमानश्च किल तत्कालमेव जल्पयिष्यामि तं शुकं ताव- तनेच सानुरोधमाभाषितोऽस्मि भो महात्मन् ! अवधानमभ्यर्थ्य से, ब्रवीमि किञ्चित्तावदितः पामरमहाग्रहादिच्युतोऽहमिदानी पृच्छामि भक्तोऽपि कीदृशी प्रवृत्तिः । त्वं हि महात्मस्वरूपः, महात्मा हि प्रोच्यमानः शृणोति ? उपरुध्यमानः प्रवर्तते, तथाऽर्थ्यमानो दाति च । तदेतदुच्यसे भ्रातः ! अनुष्या- सारपरिकरस्य संसारस्य सारो धर्म एक । धर्मस्य च सारभूता प्राणिषु दया । दद्यादानस्य च सारमार्तपरित्राणं नाम । तच्च सज्जनेजु सहजमेव विश्रान्तमास्ते। तदेष प्रार्थ्यले कचिदप्यस्तु तावडन्दिग्रह एव । गरीयसी पीडामा पुनः कस्यापि तृपतेरपयिष्यसि । तेन च हृदि प्रतिफलितराजसेवापरिक्लेशभीरुतया निता- न्तमार्ताऽस्मि । यतः। क्रूरामात्यदृगर्चिषानलमुखी दास्थाग्रहकास्वनै- रुत्फेत्कारवती नियोगिरसनोत्तीबस्फुरत्कर्तिका । बिभ्राणा च विशुष्कसेवकलसत्कङ्कालमौर्वीपति- मेषा राक्षसपुत्रिकेव कमहो जीवन्तमुन्मुश्चति ॥
उदयसुन्दरी कथा । तत्खलु विमुञ्च मां धीमन्नव मां वाचा च शुद्धोऽसि चेन्मा विघटय विहङ्गमकुटुम्बात् । मा दूरीकुरु निकुञ्चताकोटरकुटीरवासात् । मा वियोजय यहच्छारामफलरसोपभोगात् । मा विश्लेषय विविधवनसरणिसन्चारसौख्यात् । समुत्सारय नभस्तलोत्पतनविलासविभवादनाथमात पतत्रिमात्र- मित्युपरोधबन्धुरमभिधाय व्यरंसीत् । अनन्तरमुत्पन्न विकल्पोऽहं अहो ! कोऽप्यसावित्थं प्रगल्भः शुकविशेष इति न जाने । किन्तु यथाऽहममुना स्वार्थमनुसन्धानेन सप्रबोधसरम्भमनिहितस्तथाऽहमपि करोमि यदि हृदयं दया मनसा च प्रवृत्तिप्रश्नगर्भेण गिरा विस्तरेणोत्तरं कल्पयामि । ततो- ऽयमुक्तिप्रकारचतुरस्तथा कथञ्चिदालापचचर्चा विपञ्चयिष्यति येन मे झगिति भविष्यत्येव मोक्तव्यस्तदस्तु स्वामिनः समर्पणीयोऽयमित्यादावेव सृत्रि- तं प्रयोजनमनाशयेन यत्किञ्चिदुक्त्वा गृहीत्वा च याम्येलमन्वयादिस्वरूप- मेतस्य स्वामिनैव पृच्छ्यमानमवगमिष्यामीति संप्रधार्य तथा प्रत्युत्तरा- भासमात्रकेण तमनुवर्त्य तूष्णीमतिष्ठम् । अथ तथैव मे जाग्रत एव शुक- वचोऽवत्रासस्खलिताच्छलयितुं हालिकानुपृष्ठलग्ना प्रकीर्णतिमिरकेशा पिशा- चीव गता सा नाम यामिनी । प्रविष्टश्च कर्णयोर्निशोपान्तमुक्तस्य चरितुमायात- बतो द्विपीकदम्बकस्य कण्ठावलम्बितो नाम नवग्रहीभूतः शुकोऽयमादाय गम्यतामित्यदृष्टोपदेश इव कणत्काष्टघण्टावलीनानारवः । तमाकर्ण्य नन्वसा- वेव समयः प्रयातुमिति प्रतोषसत्वरमुत्थाय गृहीत्वा च तं शुकं निर्गतोऽस्मि तस्मादागतश्च सकलेनाहा तदेव नगरम् । नगरप्रवेशे च मदन्वेषणविमूढस्य झटि- त्युद्भूतदर्शनप्रहर्षेणागत्य मिलितस्य परिजनस्य हस्ते समर्थ पञ्जरकमाख्यात. वृत्तान्तः समनि प्राविशम् । तत्र च स्वामिनो दर्शयितुमाश्चर्यकरं शकुन्त- मुत्युकोऽहमन्यस्मिन्मणिफलकपञ्जरे कृत्वा तमतिवाह्य तां निशामायातवान् । अवासोऽस्मि चाय न खल्विदमीदृशं विहङ्गरत्नमवनिमण्डलामरणस्य राज्ञो निधानीकृतं शोभते इति भवनमगच्छन्नेवान्न तमादाय समागतस्तदेव बहिरा- नीतो दारकस्य करे तिष्ठतीति विज्ञप्ते देवस्य मनः प्रमाणमित्युक्त्वा व्यर- मत् । राजा च सविस्मयोत्सेकमुत्सुकेन मनसा ननु त्वरितमानीयतां, दृश्यतामसौ शकुन्त इत्युक्तवान् । उक्ते च भूभृता कौतुकतरङ्गितं मनः प्रभोराकलय्य वसन्तशीलः स्वयमुत्थाय जवादानीतमग्रतो रत्नपञ्जरमधिष्टितं शुकममुश्चत् । अथाऽसौ सरभसमुन्नमितकन्धरः प्रसन्नया दृशा निरूप्य सोडलविरचिता हरनयनहुताशनशिखाभिरामातेन कुटुमधन्वना समुज्झितं रूपमा স্যানিহাতাতলাবিল शतमन्युना शिथिलितं विलासमुरगतल्पाधा- আহিখি হঘনিষী ছাত্মল সংলগক্লিন ম ওহি লি ব্যায়- पौरुषया गत्या गृहीतमिवाधिष्ठितस्य ते कि किल तौमि । तवतु । कि मन्त्रोपलोकनलेशेन । किन्तु किमयुच्यले न चेयसीति भूमीलालवादीत् । वृत्तिः संप्रति कापणीच किमपि त्यागप्रवीरे दुई লিঙ্গ হি লাখ ল ক্লা চালাল আই। सथः सगुणरत्नराशिमिरतौ भृत्वा निधानीकृतः काऽन्यत्रोपरि विस्कुरत्यनिवृतं ज्योतिप्रतापस्तव ॥ राजा तु सविस्मयस्मेरमारोप्य समीपवतामाननेषु नलिनदलविशाला दृशं अहो! पश्यत वर्णनाथैकगर्भि भणितिभङ्गिवैदग्ध्यप्रागल्भ्यमस्येति निभृतमभिधाय तं शुकं शकुन्तपुङ्गवमवोचत् । हहो ! विहङ्गलप्रवर ! प्रथय का किल भवान् , कतमजातिरसि ? । कथं च वस्तुविवेचनावच्छिन्ने चेतसि वर्ण- शून्याविस्पष्टशब्दमात्रोचारकारिण्यस्मिन्विहङ्गमत्वे तवाऽयनीषियोऽवगमः समन्नस्य भारतीपरिस्यन्दस्य तावन्न च स्वजातिलक्षणां शिखामावहतः स्वरू- पमेवाश्चर्यकारि, पुनरियमपरा च प्रस्तुतोपश्लोकनालापवैदग्धी । कथं नु तव ताह- शि निस्सन्धिरन्ध्रोदरे प्रवेशो निर्गमश्च चैत्ये किमर्थमधिविष्टोऽसि । तद्गतेन च भवता किमित्येतदापठितम् ? । कथं च पलायितो वसन्तशीलादशक्यब- न्धनश्छलितो हालिकेनेत्यादि पृष्टो नरेश्वरेण सोऽब्रवीत्। देव ! किल येन चेतसा देवः पृच्छति न स कश्चित्तवेह महाहिदुर्गमायां सह्यगिरितटान्तर्वर्तिन्यामजन- प्रचारदारुणायामरण्यभुवि पुराणस्य न्यग्रोधविटापिनः कोटरे वसन्त्यामुद्भूतप्र- भूतापनसंपत्तया (सत्वया?) प्रसवनिर्विष्णायां शुकपतनिण्यां पश्चिने वयसि संभूतवान् । पिच्छोद्भेदकाले च शुकान्वयविरोधिनी न जाने कुतोऽपि हेतोझगिति परमुद्गता शिखेयम् । इमामुदीक्ष्य शिरस्युद्भिद्यमानां विलक्षणतया स्वरूपस्य परिहृतोऽहमम्बयाऽपि शकुन्तकुटुम्बेन च पुराकृतैः कर्मभिरनुभावितश्च भूयांसं क्लेशमिति तत्रैव विपिने वसन्ती स्वीचकार कृपावशेन मां शारदी नाम वनदेवता । तया च प्रतिदिनमनुपाल्यमानोऽहमुद्भूतपक्षतया समर्थीभूतश्चलि- तुम् । इयं च शिखा दिवसैर्यथा समुच्छ्रयमापद्यते तथा क्रमेण तादृक्चैतन्यमु- न्मीलितं येन स्वयमाविर्भूतप्रबोधः समस्तवस्तुतत्वोपनिर्णयेषु सर्वेषु शास्त्रेषु उदयसुन्दरी कथा । विविधाशुकाव्यप्रकल्पनासु पुराणकथोत्कीर्तनादिषु वैदग्ध्यमधुरासु च विभ्र- भालापगोष्ठीषु मनुष्यशेझुष्यङ्कतया परमं प्रागल्भ्यमासादितवानस्मि । प्रासप्र- माणं च मां शारदी वत्स विहर स्वेच्छया मन:प्रभावादगम्येषु विषयेषु प्रचा- रसामर्थ्य रन्धसन्धिषु स्थानेषु च प्रवेशशक्तिरखण्डिता भवतो भविष्यतीति वरं दत्वा कृत्वा च चित्रशिख इति सुललित नाम स्वतन्त्रचारेण विमुच्य नि- वृत्ता बभूव । अथ ततःप्रभृत्यनया विलक्षणया मूर्त्या वेषीव दृष्टमात्रोऽपि प्रहारास्पदीभूतः शुकानामलव्धस्वजातिसङ्गतिरेकाकी सर्वतो बनान्तरेषु वृक्षा- न्तरेषु कोटरान्तरेषु च विचरनियन्तं कालभतिष्टम् । सत्यप्येवमेतावति सकलतत्वनिर्णयोन्मेषशालिनि विवेके न खलु क्षणमपि सजातित्वादुज्झितुं पारयामि शुकानां सङ्गमं दर्शनमास्पदं चेति प्रातरेवाद्य प्रत्यग्रशरत्समयस- म्मदोल्लसितचेतसां कापि गगने गन्तुमारब्धवतां शुकविहङ्गमानां पृष्ठलग्नस्तां तावती भूमिमायातवानस्मि । तत्र च कथञ्चन मुनिवेशेन पश्चादलितनेत्रतया झटिति दृष्टोऽहं तैरतिघनया क्रुधा प्रधावितरुञ्चण्डचञ्चुपुटकोटिपातमाहन्य- मानस्त्रासेन सहसा पलाय्य तस्मिन् सन्धिरन्ध्रोदरेऽपि चैत्यप्रवेशतरलितस्तेन शारदीवचःप्रभावेण सङ्क्रान्तवानस्मि । तथा समुपस्थितापद्धशादुत्पन्नमनोव्यथः विभावयन्नात्मन्यमुं समग्रगुणाविर्भावजनक शिखोन्मेषमिमं श्लोकमपठम् । गतेषु च तदन्तः प्रवेष्टुमशक्तेषु यथागतं तेषु यथाऽहमुत्रासितोऽपि तद्दर्शनषियोगजं दुःखमसहमानो ननु कियडूरे ते किल वर्तन्त इति विलोक- नाय निर्गत्य तस्यैव शिखरमाख्ढोऽस्मि । अदृष्टशुकावलिश्च हा क पुनस्तां स्वजातिमालोकयिष्यामीत्यनया तिरस्कृतविवेकश्चिन्तया मूले विमलमणिपीठ. कुटिमतलैकसङ्क्रान्तमालोक्य निजं प्रतिबिम्बमये मजातिरपरः कोऽप्यसावन शुक इति भ्रान्त्या झगिति कृतझम्पमवतीर्य तदनुगामी भ्रमन्नमुना ध्रियमाणः पलायितवान् । अनुपृष्टलग्नेन च खेद्यमानोदितबुभुक्षितः क्षेत्रं शालेयमासाद्य क्षुधान्वितेन चक्षुषा चेतसा च विधुरीभूतश्वरन्नधिप्राप्तो महती पामरकरग्रहा- पदं, प्रवेशितश्चात्र वार्ताभिरेव श्रूयमाणस्य मध्ये पञ्जरकस्य, देवेन पामरा- कृतेः कृतान्तदूतादाकृष्य त्वत्समीपमानीतः । इदानीमुदीक्ष्य दूरादनन्यतुल्या- कृति भवन्तमये स एष मानवः स्वामी यः किल सौराज्यरञ्जितेन शारदीप्रमुखेण वनदेवताजनेन प्रतिदिवसभाशीर्वाद्यमानो मया श्रुत इति प्रमोदरसमिश्रितं भवद्दर्शनामृतमवाप्य स्वस्थतेयमेवं शरीरकस्य । तन्मे स्वामिन्नसमक्लेशपरि- aasutam सोडलविरचिता पाटिघटनापटीयानेष परिणामः कर्मणां, यतः सुदूरमन्बरपथप्रचारिणः पवन- तरलितनिजाडपिच्छशिखरेऽपि विस्कुरति । यात्मविश्रमशीला: पक्षिण, कथमुपगच्छन्ति गोचरं भूधरकरग्रहाणाम् । तदा ! कर्मस्वामिनाध्यासिते দিল হাই লিখলেন প্রতি যত্নশীলণ ল खलु कोऽपि केनाऽपि बध्यते । तथा हि- आत्मा शुभाशुभमयं धनमेष हत्या योन्यन्तरेष्वापि निविश्य तिरोधातु । অলি মূলন্সিলুলাতীন- অল জালালহলথাকি। किन्वेतदेव मे किमयाविनूव शुभकृतं की येन स्वामिभशेषनरलोक- तिलको विवेकिनाममणीरालोकिलो भवानिति प्रगल्भमणितिभडीमनुत्तरा- मभिधाय तूष्णीमभूत् । राजाज्यहो! साधु साध्वद्भुतं पक्षिरत्नमासादितमित्यत्यन्तमेव प्रहृष्य भोः पतत्रिणां पुङ्गव! कस्य मनस्येवं न संवसति यत्किल शकुन्तजन्म नाम सावमानसङ्गमो विप्रयोगः स्वजातरिच्छासंचरणरतिहरेयमवस्थितिः पारस्य, स्वभिलाषप्रवर्तनोच्छेदकं चेदमपरैः प्रदानमाहारादेः प्रकानं क्लेशयत्येव चेतसि, किन्तु नापरपतत्रितुल्यस्तादृशो भवान् । भवतो हि दुष्कृतेन कर्मणा जन्मैव केवलमिह विहङ्गजातावभूत् । अनेन पुनः सकलसंस्कारवता चैतन्येन किमु. च्यते मनुष्याणां मरुतामपि शेमुषीनलिकामसि । तत्किमेवं धीमनुत्तान्यसि । मा विषीद, पूरयिष्यामि यथाऽवसरमवश्यं भवतो वाञ्छितं सुखम् । असा- बपि बिडालादिव्यपायपरिहारार्थमित्थमेवाऽस्तु निवासः । पञ्जरके वसतश्च तवाऽन्न कालेन भविष्यत्यस्मदीयाऽपि संगतिरित्यादिभिरनेकधा प्रबोध्य तं चित्रशिखं तत्रैव सुस्थितस्वान्तमकरोत् । समर्पयामास च वसन्तशीलस्य । वनपालपुङ्गव! त्वयैव प्रतिदिनसुद्यानमणिमण्डपस्थो यथोचिताहारपाना- दिभिरसौ पालनीयः । सरसगोष्टीप्रसङ्गेषु चाऽस्माकमनुज्झितासन्नवृत्तिचित्र- शिखो विधेय इति यावद् वसन्तशीलमादिशन्नास्ते तावज्झगित्युदयास्तभूभृ- तोरन्तरालभूमेराघाटकल्पनाचिह्नमिव रविबिम्बमम्बरस्य मध्ये सम्यग्भूतमिति प्रतीतिहङ्कारमिव मुञ्चन्नुचितेन ध्वनिना ननाद मध्याह्नसमयशंसी शङ्खः । तमाकर्ण्य यथोपस्थितं पालयितुमवसरमुचितवेदी परमपारितोषिक- । भो ।
उदयसुन्दरी कथा। ३९ प्रदानेन सन्मान्य वसन्तशीलं तेन च हस्तीकृतरत्नपञ्जरक चित्रशिखं विसृज्य विसर्जिताशेषनरपाललोकः स्नानादिकर्म पौर्वाहिकं कर्तुमुदस्थादा- स्थानसिंहासमाशुपतिः। अथोत्थिते तस्मिानीश्वरे युगपदहप्रथामिकाक्षेपेण प्रणम्य निर्गच्छतो नरेन्द्रसन्दोहस्था महीयसा गात्रसङ्कन हटादन्योन्यमिलितमुकुटमकरीतटोच्छ- लितैरनेको मणिक्षिः सरनोहारो वेलामसर इक सागरस्य, विस्त्रस्तशेखरो- ड्डीयमानमधुकरस्त्रस्तः च्यामलो हलधराकृष्यमाणः श्वाह इव यमु- नाजलस्य, দিশাহাঙ্গত্যবিশাজকন্তুজবিহিঃস इव स्वात्य मोदएटलस्य, प्रसतो. विलासिनीकदम्ब्दकस्य कणकिडिणी- चनावालकलकलैरुस्थितजनारवः पुरक्षोभ इचाननगरस्थ, प्रधावतो निरन्त- रनासनदानाधिकारिणो वर्गस्य विपुलाजलतोरिक्षतवृत्तवेत्रासनकदस्त- शैलः संरम्भ इच सेतुबन्धस्य, बहुशो मणिस्तम्भेषु सम्मक्शादास्फालता विलासिनीजनेन प्रतिविम्वभावानुत्थिताया मण्डपश्रियो दीयमानसमालिङ्ग- नविशेष इव, समन्तादन्तरपसर्पता सेवकानामुपरितले च मणिपसंचारिभिः प्रतिविम्वैर्जगञ्जयमपि सेवाप्रतिष्टभिवाचक्षाणः, क्षरता अश्यद्वतंसमञ्जरी- रजःपूरेण पांगुलीक्रियमाणमणिभूमिमल्लसिता प्रेवदखिलनेपथ्यपटपल्लवसमी- रणेन समुत्थाप्यमानारानकवती शिरःसिन्दूरपांगुर्भूलता मन्त्रिचोलाञ्चलसमा- जेन भज्यमानरावलिः, विलसता स्खलकारनारीकरचमरदण्डपातेन विघ- व्यमानस्फटिकवेदिकोपकोणमाणिक्य भङ्गिः, सभामण्डपादतिनिकुरुम्बतरेण निस्सरत्तु लोकेषु ब्रह्माण्डपुटपिधानमिव विघटितं, पातालमुखमिव मुकुली- भूतं, सृष्टिशालाधारनिवोद्घाटितं, त्रिभुवनोदरमिव स्फुटितं, दिग्भित्तिफलक- निवापनीतमिति बहिस्तिष्ठता जनेन पदे पदे सन्दियमानो गृह्यमाणः स्वयं कुर्वता चित्तेन प्रेक्षकाणां प्रतीहाररक्षास्तबकितेन च बन्दितेनोदीर्यमाणजय- जयालायकोलाहलकलापेन संभृतो बभूव भूयसा विस्तरेण महानास्थानसंक्षोभः । निर्गत्य च नरपतिरास्थानमण्डपादखण्डितावसरवृत्तिरनुत्सुकेन मनसा क्रमशः स्नानादिसमस्तमुचितोपरूढप्रक्रियाविभूतिभिरभ्यवहरणमर्यादमवश्य- करणीयं व्यापारमकार्षीत् । ततश्च- निर्वाखिलमस्खलत्परिकरं तत्कर्म पौर्वाह्निकं लीलातल्पतले स्थितः परिगतो गोष्ठीमुहृद्भिर्जनैः।
सोडलविरचिता प्रस्तावोपनतं शुकान्वयमणिं तं शास्त्राजैः शीलयन কাগ্রন্থিা অবল আস্বস্ব খুলা আলু। मनुजपत्तिस्यैवं सुस्थितस्वान्तवृत्ति- বিবিঅাল অালী লিলি । नयति कृतविनोदः पत्रिणा तेन शव- जयति वचसि वच्या यस्य सारस्वतश्रीः ।। इति कायस्थकविसोडलविनिर्भितायामुयानुन्दरीऋथायां शुक्रलामो नाम सारखतपदाहो द्वितीयोच्छासकः । तृतीयोच्छ्रासः । एवं च यथासमयमनुभूयमानविविधविभ्रमोपभोगादिसुखसम्मक्रमेण कालमतिवाहयन्नेकदा विलासमणिभवनवातायनस्थः परिगतः समन्तादर- विन्दकर्णिकाकोश इव केसरैः, आभरणनायक इव पर्यन्तरत्नैः, इन्दुरिव तारकैरवनिपालपुत्रैः कविभिः प्रसादचिन्तकजनैश्च लीलयावतिष्ठमानः पुरः पञ्च- रोदरसरिकासनोपविष्टमास्पदं प्रगयस्य विविधरसमाहिष्टगो ठीविनोदसहचरं सम्भाव्य तरलितारविन्दसोदरया दृशा तं शकुन्तकुलभूषणेन्द्रनीलं चित्रशिख- मुवाच । सखे! स्वमतिगुणगरिमप्रारभारनमितबृहस्पतिप्रज्ञेन नियतमेवाऽऽयेण मन्त्रिणा विभूतिवर्द्धनेन मतिकरेणुकवलिताङ्कुरो निरुत्थानीभूतः परिपन्थिना वंशः, प्रभूतगुणसूत्रितमिच्छया वर्तते भूपालवृन्द, नयनपथप्रवर्तितमविसंष्ठुलं वहति वसुमतीचक्रं, उपक्रान्तमन्त्रावकृष्टा वशीभूता लक्ष्मीः, राजधर्मपरिपा- लितया तथा निराकुलीभूतं च मे राज्यम् । एवं च निवृत्ताखिलविधेयार्थ- सुस्थतया कोशान्तः प्रविश्य तिष्ठति कृपाणे रणकेलिदुःस्थितेवास्मिन्भुजदण्डे कथय कमङ्ग! किल व्यापारमुपशीलयामि, कैर्वा विनोदविनमैरतिवाहयामि दिवसान, कतमं च व्यासङ्गमनुगम्य हृद्यमनुकूलयामीति पृष्टो नृपेण चित्रशिखः स्वामिनोऽनुवर्तयन्नाशयं जगाद । देव ! अत्र मनुष्यजन्मनि कल्याणवतामखिलसुखोपभोग एव पर्यव- सायो व्यापारः, तदास्पदं च घटयन्ती हृदयवाञ्छितमसौ राज्यलक्ष्मीर्मूलम- स्याश्च सप्तार्णवतरङ्गमालाभरणेयमुर्वी ।
उदयसुन्दरी कथा। हेतुरप्यमुष्याः स्फुरितनिशितासिकणिशनिर्मितनररुण्डताण्डवोड्डामरस- मीकच्छेदः प्रवेषिवंशस्य । तदेतत्किं न कृतं देवेन । भूवलयमधुपटले राज्य- सुखरसाय कृत एवायमुच्छेदः क्षुद्राणाम्, अपनीता हि विलससिदण्डदलित- वीरकवचकालायसोल्लसितविपुलविस्फुलिङ्गशिखिस्वेदेन भुजयोरुङ्गटाः कदन- केलिकण्डूतयः, क्षुरप्रमुखविखण्डितेभदन्तमुसलैरुन्मूलितविरोधिवंशाकुरैरिव छादिताः सङ्गामभूमयः, निशितनिस्त्रिंशधारोत्तारितारिशिरःशजवलयैः प्रसा- दिता वीरलक्ष्मी:, असिदण्डपीडितैरहितकुलैरुद्धासिता वसुमती, वैधव्यविधु- रितारिसीमन्तिनीनेत्रसलिलधाराभिः खेलितो मधूत्सवः, विपादितविपक्ष- वंशादाकृष्य यशोमुक्ताफलमाभरणीकृतं त्रिभुवनश्रियः । तत्किल किम- त्रोच्यते। कुर्वन्नुतमेकदैव तरणिस्तोमं प्रतापक्रमैः शत्रुस्त्रीनयनाश्रुभिर्विरचयन्ससार्णवैकाप्लवम् । नृत्यत्येष घनारवेण यशसा मुक्ताहासः समि- संहारेषु तवासिरत्र नृशिरःस्नग्भूषणो भैरवः ॥ अपि च- ! देव क्षत्रियपुङ्गव ! प्रहरतः सङ्ख्येष्वसङ्ख्यं मद- प्रस्यन्दप्रसरान्धसिन्धुरशिरःस्कन्धं कृपाणस्य ते । धारासङ्गतमौक्तिकद्युतिपरीवेषच्छलादन्तिके दत्तः काण्डपटो झटित्यभिमृतारातिश्रियः सङ्गमे ।। त्वभिभयपलायनादरण्येषु शृणु श्रीमतामीश ! शात्रवीमवस्थाम् तथाहि । वर्षास्वद्य कुटीकृतेऽयमुचिते देवि ! प्रदेशे मया नास्मिन्नेति वनापगाभर इति ब्रूते तवारिः प्रियाम् । यावत्तावदरण्यवासविषयावस्थोग्रदुःखस्पृशः सा तस्याः सवदीक्षणाश्रुपयसामुन्मथ्य नीताऽऽप्लवैः ॥ किंबहुना- स्वामिन्नवेक्ष्य निखिलप्रतिपक्षभूभृ- दुन्मूलनैकविषमानलमुद्यतं त्वाम् । वंशो नतः सपदि सर्वनरेश्वराणां तेनाङ्गसन्धिषु न स कचनापि भग्नः ॥ उदयनु० ४२ ERSamsingama सोड्डलविरचिता तदेवं निर्वैरिवंशीकृतेऽस्मिन् भूवलये वृत्तोऽयमायोधनविनोदानांव्यापारः। सर्वतः पुनरेष हरचरणसरोजपूजाप्रपञ्चनेषु निष्पद्यमानानेकद्धरसदनसत्र- अपारामस्तर कूपवापिकादिप्रतिष्ठाध्वजलनेषु अनवरतमहायज्ञेयू( इयू ? )पोत्त- কল জিম্ভিলালিলীয় স্তজস্বিার্থলোঅলসীধুলা शरणसमागताभयदानकरणेषु प्रणयपरिणबन्धुवलिङ्गनेषु तुरगकरिवाहन- विलासकलितकुशलतोपलालनेषु सकलार्थिकृतार्थीकरणकर्मसु व व्याप्रिय- आणः सततं विनोदयन्नेव हृदयमास्ते मुजस्तम्मो देवस्य । किन्त्वेकमस्ति । निरिगिक्षितितले रणदुःस्थितानामुमुजां जुजबिलोदमहोत्सवाय । হত্যা অলি অাহুমা জ্বীতভত্তিকা গজে अनान्तरे জ্বীণি কােন্ধী জাহ্মী অক্ষ্মী কলাণ ফিণি ভাবি গুলি कुम्मेलबतरस्तलीकरदिगां नर्मगीण लस- বয়ে হল-খাবিলী অচ্ছ কন্দিলালু। इंष्ट्रासान्तिकदम्बकैरपि कृतक्री(बी) डाधि(स्मि?)ता पोनिणां नाधन्यैरनुसेव्यते मृगवनश्रीरध रूपोडुरा । राजाऽप्येतन्निशम्य रभसेनाधिरूढः साधु भोश्चित्रशिख ! साधु स्मृतं समर्थितं चैतदमुना श्लोकार्थन प्रवर्तितश्चाहमस्मिन्नेव समये पापर्धिकस्य श्लोक- पाठेधियं प्रवर्तयन्तीभि{गयाधिदेवताभिस्तथैव क्रियते मृगवनगमनाय साम- प्रीति प्रतीहारनुखेन प्रगुणीकर्तुमुचितपाशवागुरासारमेशशुपकरणानि मृगया- परिवारमादिदेश । स्वयं तु यथाक्रमोपसेव्यमानप्रस्तुतविधेयलीलादिभिस्तामेव सवासरशेषामतिवाधरजनीनुत्थाय प्रातरभ्यर्थ्य निखिलनित्योपहारपरिकरो- पचारप्रपञ्चभगवन्तमिन्दुमौलिमुचित वेषमादाय पर्याणनिहितनवमणि- मरीचिमण्डलालोकसमेतं तुरङ्गमाखण्डल इव कुलिशकिरणचक्रसङ्कान्तिदीप्र- मुचैःश्रवसमधिरूढः पार्श्वतबटुलखुरपुटविपाटितथिय(?)त्तटेषु वाजिषु समारूढे- रुपगतः समरलीलादिव्यापारसहचरेण मन्त्रिसूनुना विजयवर्द्धनेनाधिष्टितैः प्रणयिभिरवनीश्वरकुमारैः पुरःप्रसर्पदाखेटखेलकपदातिपरिवारो मृगयावन- पालदर्शितेनाध्वना तदभिमुखमुदचलत् । क्षणाच प्रवर्तिततुरगवेगः सरसंतीनसितैरनेकशकुनिकुलकूजितैरवि. SeTAANTR उदयसुन्दरी कथा। रलनगनिस्तं(झ)रप्रवाहझात्कारैरनिलचारोचर(त्कीच?)करवैरापूर्णगी कुसु ममधुमदारणितषट्चरणचक्रझाडूनरैरुन्मीलितघनकाकमण्डलीकोलाहलामङ्गलमि- व कोलेषुज्ञापयन्ती, सञ्चरत्पतङ्गनखविकीर्णकुसुमकिचल्कपूरैरनल्परजोवृष्टिभी षणमिव चित्रकेषु सूचयन्ती, वहद्भिरिनिर्झरतरङ्गताडितशिलातटोच्छलितजल- बिन्दुसन्दोहैरकालकरकोपलासारदुरितमिव सैरभेषु सूत्रयन्ती, अनिलतरलित लतावनप्रसूनपतनैनक्षत्रपातारिष्टमिव मृगेषु दर्शयन्ती, तरुशिखरशाखान्तरो- ड्डीयमानवानरभरचुटितनागचम्पककुसुमपरिभ्रंशेर तोल्कानिपातव्यापदमिव शार्दूलशशकसंवरादिसकलसत्त्वेषु संवेदयन्ती, अनेकतरुलताकुरविराजितां मृगयाटवीमवाप। अवाप्य च तदुत्सङ्ग एव त्वरितमविरतं च पापर्डिकैरावेद्यमानकरणीयः समुचितारम्भाय तत्रोचितानादिदेश । क्षणाच तैः परितः प्रसारितोदनवागुरा- वलयमन्तरान्तरनिवेशिताश्ववारमवहितधनुर्द्धरावरुद्धमार्ग प्रगुणितसारमेयं य- थास्थानमुपस्थापितमहोक्षं निक्षिप्तदीपमृगकदम्बकं काननमावृत्य, रूपाविष्कर- णकृते सरभसमुल्लासितः, श्वापदविलोकनार्थमिव प्रविष्टः कन्दरदरीषु, भ्रान्तो गह्वरेषु, प्रधावितः पल्वलतटेषु, गतो निर्झरतरङ्गिणीषु, समन्तादुड्डीनजीवमि (वैरि?)व सहनिवासभूरूहैरुज्झ्यमानपाोविहङ्गमः,झगिति पलाय्य घनतृणस्त- म्भान्तरनिलीनैः कर्णपुटावरणविवरविन्यस्तवीक्षणं शशकैः, तत्समयगृहीतभु- ताईललत्कवलद:रभितो विकीर्यमाणतरललोचनं कुरङ्गः, सद्योनिर्दलितव- ल्मीकमृत्पिण्डपिहितविषाणकोटिभिस्तियग्वलितकन्धरं सैरभैः, सपदि सक- सेरुभूतलाकर्षितवलितवदनाप्रविस्फुरत्पोत्रप्रत्रैर्मुहुरुद्घष्टधुरूत्कारमृदुरवं वरा- हैः, मुखार्द्धनिहितसल्लकीप्रवालवलयितकरैरंसदेशपातितकर्णतालैरपाङ्गमिलित- नेत्रतारकमिभानां यूथपतिभिः, सुदूरमुच्चलितपुच्छच्छटास्फाटितमहीतटैर्विघ- टमानसृकपुटप्रकटितोरुदशनं शार्दूलैः, ससंभ्रम विभाव्यमानो मृगयाकोला- हलः सहसैव समुज्झितशिशूनि विघटितयूथबन्धविधुराणि श्वापद्कुलान्या- कुलयाञ्चकार। SOHAMMANANOR वामं कुम्भतटेऽनपादमपरं सङ्कोचयित्वाचतं शून्याधारमुरस्तटीमपि तिरश्चीनां धानो हरिः। सावज्ञं च मि(वलि?)तो मुखेन विलिहन सासवणेसृक्कणी- निर्मुक्तेभविदारणो मृगवनव्याकूतमालोकते ॥
सोड्डलविरचिता ततश्च लुब्धकारब्धमधुरगीतरसाह्रियमाणहरिणः पुरःप्रदर्शितोक्षनिश्वा- सानीयमानशम्बरो दीपहरिणीबिलोचनाकृष्यमाणकृष्णसारः समुच्छ्रितरूपद्- र्शनोन्मुच्यमानसारमेयसंहतिरन्तःप्रतिष्ठशशकवीच्छ(क्ष?)कजनावेष्ट्यमानक- ण्ठी(रवः)त(र)लसुरसनाकरालकौलेयकारभ्यमाणपोत्रियूथपः प्रसरश्ववारम- ण्डलीपिण्ड्यमानश्वापदगणः प्रगुणितशरपातधावितधनुर्धरनिरुध्यमाननिश्व- सन्महिषयूथः सर्वथाऽप्यनुतपूर्वोवनदेवताभिरदृष्टपूर्वःश्वापरैननुभूतपूर्वोवनेन बभूव महानद्भुतसमारम्भो मृगयासंरम्भः । अत्रान्तरे- चापेनिवेशितशरं पुरतो नृपेन्द्रमालोक्य सूकविवरेषु वराहकानाम् । दंष्ट्रामिषेण दृढपात(पत्रि)निपातमीतान्यस्थीनि निष्क्रमितुमाकुलमारभन्त॥ अपि च- शशकस्य क्षणं मूर्द्धि लग्नं काण्डमशोभत । तत्कालरिष्टसंभूतं विषाणमिव मृत्यवे ॥ अन्यच्च । उड्डीयमानः सहसैव दूरात्रिकोटितीवेण शिलीमुखेन । विद्धोऽन्तरालप्रणयी मयूरो मुहूर्तमन्धासुरतां प्रपेदे ॥ अपरं च । शाखामृगेण चपलप्रकृतिप्रसिद्धमन्तेऽपि तत्सहजमाविरकारि शीलम् । यः कीलितोऽपि विशिखेन झगित्यगच्छदुर्वीरुहाद्भुवमथास्य गुहां यमस्य ॥ किञ्च- विमुच्य नादं निशितेषुविद्धो राजा मृगाणां पतितस्तथा वा(थैव?) दिक्षु प्रतिध्वानमिषाद्भवन्नकालगोडमराद्भुतानि ।। सर्वतश्च- महिषाः काननस्याधिदेव्या इव निवेदिताः। पेतुः क्षतास्रधारूथ(रोत?) रक्तपुष्पावमालिताः॥ अथैवमनुबध्नता पापर्द्धिविस्तरेण प्रथमरवपलायितैः कैश्चिद्दिगन्तमा- श्रितैाघातघोषोन्मिषितकर्णैः कैश्चिद्धनान्तरमुपगतैरुड्डीयमानधनवाणवीक्षण- शङ्कितैः कैश्चिगिरिगुहागर्भमभिलीनैर्दूरशरशिथिलघातसंवेदितैः कैश्चन गह्व- रान्तस्तिरोभूतैरन्यैश्च बहुविधप्रहारापहृतजीवितैः पतितमृगसम्बरवराहादि- रूपैः कैश्चित्सारमेयकुलैरालुप्यमानैः पापर्द्धिकैक्षिप्तमाणः प्रसादेन दीयमान- RAMANANE उदयसुन्दरी कथा। रौचित्येन च प्रस्थाप्यमानैः श्वापद्गणैर्विरलतां गते मृगवने गगनशिरोऽधिरू- ढमालोक्य चण्डरोचिषमुचितमवसरे विजयवर्धनः सविनयमुवाच-“देव ! कृतमतिकुतूहलेन वृत्तोऽयमवसरः पापः यदेते समुच्छिन्नसकलसत्वं कानन- मवेत्य वामकरकलितलम्बमानबाणासना निवर्तन्ते धनुर्धरा, बलाद्रयनियन्त्रण- स्तिमितवरवाजिनो मिलन्त्यन्योऽन्यमश्ववाराः, हेलानिवेशितदृष्टयः शून्यमव- लोकयन्ति दिग्वीक्षजनाः, अहमहमिकया सश्वसनेन तरलितललदलघुजिह्व- लता निरुत्साहसौम्यमाकारं वहन्ति च श्वानः, किञ्च तेजसा सधर्मा देवस्य भगवानुष्णकिरणोऽपि गगनगर्भमागत्य तीब्रशरशिखरखण्डितमृगामिषस्य पाकार्थमग्निमिव प्रगुणयन्नुग्रदाहमातपं चकार । तथाहि- पूत्कारेण तरङ्गितं पदतलैरुनतमुत्प्रेरितं जवोरुक्रमणैईिभागितमुरोभित्या च वारि क्रमात् । धर्मातः परिशीलयन्नधिविशत्येष स्रवन्ती हृदं भृङ्गैस्तप्तमदाहतैरविधुरैरुन्मुक्तगण्डो द्विपः ॥ MANOHINIMAR यदीशुक्लान्तः स्फुरदरुणपुष्पोदरधिया प्रविष्टो नामातः (सान्तः?)कणितमलिडिम्भः प्रकुरुते । कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो धुनोत्यास्यं रौति प्रचलति चलत्युल्लति च ॥ MAHARIREDIRE स्वेदाम्भश्छुरितं कपोलफलक नेत्रे मनामीलिते वैधुर्यालसनिस्सहं वपुरपच्छायं च वक्राम्बुजम् । सद्यः सम्मिलितोज्झदीधितिकरस्पर्शादसौ बिभ्रती भावेनेव मनोभवस्य शबरी संवर्गिता लज्जते । अपि च- सर्वतो विजृम्भमाणेनामुना मध्याह्नतरणेरातपेन शिशिरपत्रपटलान्तर- निविशमानशकुनिचरणचूर्णिताविरलकिसलयरसेन प्लाविताः प्रस्विन्ना इव हुमा, मध्याहृपवनदोलितानामतिचला प्रकामतप्तोर्वीतलगता वेल्लतीव शाखिनां छाया, करिकुलविगाहनोडीनषट्पदपटलेनोपरिवृत्तेन नीलातपत्रेणेव तरुणो- हणकर्थिता निर्वाप्यते कमलकाननश्रीः, उत्तप्तपुलिन्दमजनोन्मिषितगुरुतरङ्ग- सोडलविरचिता तरलानि क्वथन्तीव निरजलानि, धर्माशुकरशोषितरसश्लथीभूतवृन्तविग- लितैरालोहितलताप्रसूननुकुलैरुत्पन्नास्फोटकेव दृश्यते क्षितिः, कन्दरदरी- प्रवेशधावितानामरण्यचराणां परुषखुरशिखरलिखितगिरितटोच्छलदनच्छगै- रिकारजापूरपाटलाः स्फुटमिवातानीभूता दिशः, हृदान्तः क्रीडता यूथपेन लीला- क्षिप्तकरदण्डपुष्करविकीर्णाभिरम्भच्छटाभिरालपविभूञ्छितमिचाभिषिच्यते नभः । तदेव नियतमितो हृदयमपदार्थ गम्यत इति समुचितमुदीरितं विजयवर्द्धनेन वचनमभ्युपगम्य राजा त्वरितमेव संघृताखेटकरसमसङ्गो निर्जगाम ततो मृगवनात्। निर्गत्य गच्छन्कियन्तमध्वानमुद्धरमहातपोत्तापविधुरितपरिवारः कुत्रा- पि रविकराप्रवेशपरिशीतले प्रदेशे दुसहमध्याह्वमतिवाहयितुमुत्पन्नमान- सः पुरस्तानातिदूरे हरितमणिमरीचिमेचकाभोगं दिग्विजययात्रामस्थाननिव, जलधराणामधः, छायाडम्बरमिव नन्दनारामस्य, श्मश्रूस्थानमिव जम्बूद्वीपस्य, कुरुम्बनिकुरुम्बामिव वसुन्धरायाः, य(ग?)मनिकामूर्खानमिव दिशा, इन्द्रनील- मयमाभरणमिव ब्रमाण्डनिधानकलशस्य, हरितास्वरमयं नेपथ्यमिव नरलोक- नीलपटस्य, शाइलाभोगमयं सस्यनिर्माणमिव भारतक्षेत्रस्य, सर्वतोऽपि प्रकाम- घनतया निखिलतरुवल्लिपल्लवाञ्चललग्नेन शोणिन्ना वालातपेनेव रविप्रवेशार्थ- सुपरुध्यमानम् , उत्पन्नशीतलास्पदतया क्वचिन्नीलविपुलकदलीपलाशैः प्रबलत- डित्तापसंपीडितैरिव प्रथमपाथोधरैरधिश्रितं, क्वचिनिरन्तरोल्लसितविशदकुसु- मत्विषां स्तबकैस्तीव्रतापकर्थितैरिव शारदाभ्रखण्डैरुपसेव्यमानं, क्वचिदनल्प- फलपाकपिञ्जरप्रभया शिखिक्षेपदाहोत्तसयेव हिमश्रिया स्वीकृतावस्थानं, गल- न्मधुजलासारस्लापितैरिव मधुव्रतैः प्रविश्यमानकुसुमकुटीरकोटरं, पाकभर- निपातस्फुटितफलोदरद्रवेण कर्दमितमेदिनीप्रचारभग्नैरिव पत्रिभिरधिरुह्यमाण- भूरुहं, दिनकरकराप्रवेशसुस्थालयेषु तमालपण्डेषु प्रविश्य तिमिररूपेण रजन्या- ऽतिवाद्यमानवासरं, सशीकरण मकरकेतुकुञ्जरस्य पूत्कारेणेव बहुलजलतुषा- रवाहिना विलाससरसीसमीरणेन शिशिरिताभ्यन्तरं, प्रसरखेलोरगलतादिव- ल्लीवलयमालिताभिरनल्पमण्डपश्रेणीभिरास्पदमभ्रशोभायाः, सुरभिसुरदा- रुचन्दनघनसारसरलकैलालवङ्गप्रायः प्रचुरपुन्नागपाटलीनीपचम्पकमुचुकुन्दके- सराशोकमुख्यैरपमितपनसाम्रजम्बुजम्बीरकक्रमुकनालिकेरखर्जूरिकाङ्कोलसारै- रङ्ग(ति ? )सुगन्धिभिरुन्मिषितकुसुमरम्यैरतिरसफलोपकारिभिर्मचरितमरि- चवल्लरीभिरालिजितप्रकाण्डैरन्योन्यमिलितविस्फारशिखरैः शाखिभिरन्त- HA ES randpalapatayemamanualgat उदयसुन्दरी कथा। रान्तराहरितगृथुपलाशमांसलैश्च कदलीख(का?)ण्डैरखण्डिताभोगशोभ, विवि- यफलपाकविशेषास्वादमुदितद्विजकृतकोलाहलोपलक्ष्यमाणमध्यं सत्रमिव वैदे- शिकानां, अनङ्गजनकेन सौरभेणाध्यासितं श्वशुरकुलमिव रतेः, प्रथितपत्र- रथसनाथं राजभवनमिव रामणीयकस्य, बहिर्निवेशितस्तुहिबदनिर्गुण्डीझाट- कृतरक्षं प्रसवास्पदमिव वनश्रियः, समुपविष्टानेकजरत्कीरपरिगतमन्तःपुरा- धिष्ठानमिव मन्मथस्य, क्रीडानिकुञ्जमिव श्रृंगारमृगेन्द्रस्य, दुर्गभिव सर्वर्तु- किरातानां, ऐश्वर्यमिव वसन्तस्य, चलितमिव मलयानिलस्य, निकालरमणीयं स्थानमिन्द्रियाणां कुसुमसुन्दरं नाम विलासोद्यानं ददर्श सच्चा सकलसानयासबीहितानानास्पद दीक्ष्य लगतापनेतुमातपलान्ति- नवेदिता च्च कौतुकरतेन बनश्मियः शोभामशिनियत् । अन्य तत्व विभामर- मुकीभूतदयेषु त्वरितमुत्तीर्य केचिदुत्पर्याणयत्यु, কান্দি ভাষা भुवि लोठयत्सु, केषुचित्सकलथ्य बिनुञ्चत्तु, केषुभिण्डशैल- लापयत्सु, केषुचित्पयः पाययत्तु, केषुचिच्छायासु चालय तुरङ्गभान- श्ववारेबु, पत्तिषु च केचिदुत्तार्य कूर्यासकान्पवनमादानेषु, केषुचिहुन्मोच्य बन्धनं केशान विकिरत्सु, केषुचिदास्तृत्योत्तरीयं लतामण्डपमधिशयानेषु, केपुचिच्छायासूपविश्यात्मानमुपवीजयत्सु, केषुचित्प्रविश्यदीर्घिकास्वज्ञानिक्षा- लयत्व, केचिद्वेक्ष्य रम्यतामितस्ततो अमत्सु, केषुचिनिपतिताधि भुवि खा. दत्सु फलानि, गृहृत्सुकुलुमानीत (रेषु,?)यथायथं निषीदति परिजने, त्वरितमेव सम्मुखनुपागतं दशनक्षतैरनल्पपरिपाटलद्युतिभिः फलैरापूर्णगर्भ रात्रमुबहता दारकेणानुगम्यमानं कृतप्रणाममतिप्रसादस्निग्धया दृशा गिरा सन्मान्य वनपालं वसन्तशीलनवनीश्वरः सरभलमभीक्षिताभ्यन्तरमनोज्ञताकृष्टमानसः प्रवेश ए- शवतीर्थ तुरङ्गपृष्टादधिष्ठितः कतिभिरवसरोचितैः सखिभिरन्तः प्रविश्य विजय- वर्द्धनस्कन्धविन्यस्तपाणिः समन्थरक्रममनुप्रधावता वसन्तशीलेन निवेद्यमानेषु विविधतलवल्दिीधा वलयेषु बिलरदमृताम्बुसारणीमिव धवलायतां निवेश- ঘল ছিলোঃ হীহ্মালহল। কালিলিথা জাভা- (१)देकाभिल्लसदशोकतरुताडनोत्पातचरणारणितमणिपुराभिः, (शानिचित) केसरोपचारमदिरागण्डूषसौरभाकृष्टषट्चरणझङ्कारिणीभिः, काभिश्च कुरवका- लिङ्गविलोलभुजलतोच्छलदलयकलरवाभिरावधमानपादृष्टिपातः समदसी- मन्तिनीभिः, सलीलमशेषतः पश्यन् पुरस्तात्कारागृहमशेषरलानां, यज्ञावास- कमसमलायकरसस्य, रामणीयकलोमस्थितैर्मधुसमयखेलनोच्छलितजलबिन्दु- ४८ सोडलविरचिता भिरिव मुक्ताफलैरलङ्कुताभोगं, स्वर्गाभिरामतां द्रष्टुमागतैर्लग्नचिरकालकुपि- तेन्द्रशापशिलीकृतैरिव मणिमयैर्मालाविद्याधरैरुपेतं, प्रोषितमधूत्सवविरहवि- रचितवेणिलतयेव ग्रीवाभरणबन्धनप्रन्थिमणिमेचकांशुच्छटया परिरथ(गत?) पृष्टाभिरधिष्ठितं रत्नपुत्रिकाभिः, अमलमणिशिलाफलकनिर्मितमवाप मण्डप वसन्तमहोत्सवास्थानस्य । तत्र च स्थित्वा यथाक्रियमधिकारिभिरादावेव प्रगु- णितं निर्वयं निखिलमेव माध्याहिकं कर्म समुत्थाय तस्यैव चाङ्गणोत्सङ्गभुवि सरोजवनसुन्दरे(र?)विलाससरसि तदाऽन्तर्व(सीतटोपान्तव)र्तिनः प्रसरदुरु- पत्रपल्लवोपरूढविस्तरस्य सहकारशाखिनश्छायायां शिशिरजलसमीरसङ्गमसु- खानुभोगमभिलषनुपाविशत्। तत्रापि समुपविष्टश्च पुनरविश्रान्तोद्यानलक्ष्मीसमीक्षणरसमसक्तिरित- स्ततो यथाऽभिकमनीयोद्देशमुपसर्पयन्नवसुखोपशालितां दृशमवसरञ्जन भर्तृ- चित्तानुकूलनकलावता विजयवर्द्धनेन " देव ! प्रणयकुपितया रत्या चरणतलेन ताडितोरःस्थलस्य कुसुमपत्रिणस्युटितहारच्छटाविकीणैरलक्तकारक्तमौक्तिकै- रिव परुषशुकमुखशिखरजर्जरितपरिणतफलनिपतदातानदाडिमीबीजैरभितो दन्तुरितसुन्दरमवधार्यतामेतदेतस्य तलं तरूणां षण्डस्य, इतश्च पाकभरभिद्य- मानमेदुरालम्बिफलविगलदविरलरसस्तबकपातादाकथं(कंपिट)शिखरैः सस्वादू- पलम्भमाधूतमूर्द्धभिरिवावय॑मानो मूलविटपैराह्लादयति हृदयमेष मण्डपो द्राक्षालतायाः, परितोऽप्युपरि तरुलताकुसुमसंक्षरदपारमधुरसभरेणार्टीकृत- तला तीर्थजलमङ्गलाप्लवनेन प्लाविता मदनराज्याभिषेकवेदिकेव दृश्यतामियं मालिनी, शिलागण्डशैलतटे चन्द्रकान्तस्य लसचन्द्रकान्तचित्रितकलापैः केकिभिः सोपानकैश्च किमपि शोभतेऽत्र मणिमण्डपाङ्गणतले वापी, पुरस्ता- दाबद्धपूगैः क्रमुकतरुभिः क्रीडाकुरङ्गैश्च लोचनयोः प्रीतिमुत्पादयत्येषा स्थली विलासभूधरस्य, विसारितमालेन जलयन्त्रेण तरूणां वलयेन च सेव्योऽय- मिह वामतो बालमातुलिङ्गीवनप्रान्ते कूपः, प्रोल्लसत्कलरवोर्मिरमणीयया जला- श्रितया मरालमण्डलिकया च निर्वापिकेयमन्तःकरणस्य दक्षिणा कुरवकनिकुरु- म्बगर्भे दीर्घिका " इत्यादि साङ्गुलीनिर्देशमुपदश्यमानमालोकमानः सहसैव कुतश्चिदेकमनधिगतोत्थानसंश्रयमुच्चार्यमाणं श्लोकमशृणोत् । हे चन्द्रोपलगौरि ! हे मरकतश्यामाऽभिरामाकृते ! हे चामीकरभिन्नवर्णसुभगे ! हे पद्मरागाम्बरे !। एषा पश्यत हन्त वज्रघटिता दूरे फलं वाच्छितं दत्ते नोत्तरमात्रमप्यतिशठा चाटूक्तिदीनस्य मे ॥
उदयसुन्दरी कथा । श्रुत्वा च तं झगिति सर्वतो भ्रमितदृष्टिरुद्दिश्य वसन्तशीलं (प्रोवाच) अहो ! कचिदिहैव कोऽपि नूनमवधीरितो वल्लभया सोपालम्भमिव सखीषु प्र. तिपादयन्नेष ब्रूते इति प्रोक्ते नृपेण वसन्तशीलः कृत्वा स्मितनुवाच । स्वामिन् ! न कश्चिद्यमवज्ञातः प्रियया, न चैष जना प्रतिपाद्यते सखीनां, यदेतत्तदाकर्णयतु स्वामी । देव ! यः किल देवेन मनोहरं विनोदोपकरणमर्पितो मे पालयितु- मनल्पगुणश्चित्रशिखो नाम शुकस्तमहमद्य समागते स्वामिनि निकामव्यग्रतया विस्मृतो बराकमभ्यवहारेण संभावयितुं, स एष स्वामिन्नमुना मरकतस्तम्भे- नान्तरितपञ्जरोऽत्र गर्ने मण्डपस्य क्षुधान्धीभूतमानसा प्रतीय साक्षादिवतस्या बज्रोपलशालभचिकायाः करे कमलरागदाडिममिदं मुहुर्याचितमनासाद्य सखीन्न मादिमास्वभ्यर्णवर्तिनीषु विविधमणिपुत्रिकासु ज्ञापयन्नेतदेवमालपति इति वि- ज्ञसे पृथिवीपतिरुक्तवान् । अहो! तथाविधस्याप्येतस्य सकलतत्वावबोधबुद्धिमत- श्चित्रशिखस्य सुदूरमिह विपर्यस्तं चैतन्यममुना कृत्रिमफलाभिलाषेण, तत्व- लु दृश्यतां कियत्किल विगलितविवेकोऽयमात्मानं नटयति । इत्युक्त्वा पश्यति नरेश्वरे निस्सरणसमुद्यमैकरोषिणस्तस्य प्रखरचञ्चसन्देशग्रहेण मुहर्मुहुराकृष्य- भाणा तुसिल(पेशल?)त्वात्पाषाणजातेस्तनीयस्त्वात्स्वरूपस्य कथञ्चन सा नाम विद्रुमशलाकामयी पारद्वारान्तरालसरिका झटित्येव परं भग्ना। तेन च पथालघु- निर्गमोनन्वेष निःसृतशिखो धियतामिति न यावदुच्छलितः कलकलस्तावदसौ झगिति निर्गतः पञ्जरकोडसङ्कटा(द)वकाशविस्तरायां भुवि निरवग्रहं प्रचार- मासाद्य तदावेशप्रधावितस्त्वरितमेव सिंहासनस्थानवेदिकामध्यरोहत् । आरुह्य च सन्निधीभूतमुपकोणतलवर्तिरत्नपुत्रिकाकरगतं तत्पद्मरागदाडिमं सुदूरसुद्- श्चिताघातचण्डया चश्वा जघान । तेन च झटिति दृढमणिशिलास्फालेन विद- लिता चञ्चः। चञ्चभङ्गसमकालमेकहेलयैव तस्यां शुकशकुन्तमूर्तीविभेन्द्रकर- पीवरोरुरायतभुजः परिधवक्षःस्थलो विसङ्कटललाटपट्टः स्पष्टाकृतिरष्टादशवर्ष- देशीयः पुरुषो बभूव। राजाऽपि विस्मयोक्षिप्तपक्ष्मपालिः अहो ! किम् ! किम् ! किमेतदाश्चर्य- मियत्येवान्तरे का दशामुपेतश्चित्रशिखः?" इति ससंभ्रमं सह पार्श्वगैर्द्रष्टु- मारब्धवान् । सोऽपि कुतश्चिद्विच्युतंकायात्कुहिमैकदेशनिपतितमादाय करेण किमपि संवृतं वस्तु विचिन्त्य च किश्चिदुन्मीलितस्मितः समन्तान्मणिकर्म- रमणीयं तं मण्डपमुदीक्ष्य बहिः प्रहिणोति लोचने यावत्तावज्झगित्येवाने !
सोडलविरचिता कुसुमसायकमिवानेकनवशरग्रहणाय प्रविष्टं, पुरन्दरमिव नन्दनभ्रमादाचासितं, हरिमिव कमलकुलभवनवासिनीं श्रियमानेतुमागतम् , ऐश्वर्यसुस्थितं कुबेरमिव विलासोद्यानिकायामुपेतम्, अन्तर्निवासनिर्विष्णं वरुणमिव क्रीडासरोवरान्नि:- सतं, सेवाप्रवेशितेन सकलराजचक्रेण मुक्तस्य महीयसो दर्पतिमिरस्य राशा- विव मरकतनिर्माणमेचकाभोगभासिनि रत्नपीठे प्रदत्तपादपङ्केरुहंम् , अहितनर- पालशिरसि स्थापनोत्थितेन मुकुटमणिमकरिकाप्रतिबिम्बकेनेव रेखामयेन चक्र- वर्तिलक्षणमकरेणलाञ्छितातिकोमलतलाभ्यां चरणपल्लवाभ्यासुद्भासमानं, नम- पालचूडामणीनां किरणकूर्चकैरनवरतमुन्माय॑मानेनेव विमलकान्तिना ज- वायुगेन विराजमानं, भद्रजातेमतङ्गजादपहृत्य हस्तश्रियं सृष्टमितीव भद्रमिति सर्वतः प्रसिद्धमूरुद्वितयमुद्रहन्तं, गुरोरन्तिकेनेव नितम्बस्य सुवृत्तीभूतं नाभि- बिम्वं, सदा प्रसङ्गेनेव नाभिश्रियः कृशीभूतं मध्यं, महता दारियेणेव मध्यस्य- तनुभूतां च रोमावली बिभ्राणं, राज्यश्रियाधिष्ठितस्य वक्षसो देशस्य समन्ता- दाघाटचिह्न महामण्डलेनेव हारवलयेन विपश्चिताभरणशोभ, महता प्रेरणा श्रियस्सकाशमुत्कण्ठागतया श्रीगन्धि(क्षीराब्धि?)वेलयेव हारप्रभया प्लाव्यमा- नोरःस्थलं , दशानामपि दिशां वशीकरणतिलकैरिव दशभिराताम्रविमलनख- रत्नवलयैरलङ्कताङ्गुलिदलेन भुजद्वयेन भूष्यमाणं, सकलरिपुराजकश्रीसमाकृ- ष्टिलग्न कुड्डमरसारुणेनेव ताम्ररुचा करतलेन लीलागुनं कलयन्तं, चन्द्रमसो देषिणी पद्मजातिरिति सहोदरपक्षभुवा शङ्खन मुखकमलनिग्रहाय प्रहितेनेव निजाङ्गभूतेन रेखात्रयेण प्रसाधितस्य कण्ठदेशस्य शोभा भजन्तं, सरस्वतीस- अनो मुखस्य द्वारि विद्रुमदेहलीपट्टमिव पाटलप्रभमधरमाद्धानं, सुदृढकार्मुकवि- कृष्टये भुजबलाभिवृद्धिमभ्यस्यतो मन्मथस्थाकर्षरज्जुमार्गयोरिव कमनीयकर्ण- पाशयोः श्रिया सारीकृताकारं, त्रिभुवनसीमन्तिनीहृदयग्रहाय रतिस्मरयोः सि- न्दूरमुद्रितैकदेशं राजादेशद्वयमिवोपात्तलोहितं सुलक्षणमीक्षणयोर्युगलमित- स्ततो व्यापारयन्तं, वदनखलकप्रविष्टयोः सुवीर(स्वीय?)नेत्राइन्योरन्तर्मन्मथ- निहितेन निषेधदण्डकेनेव चारुणा नासावंशेन शोभमानम् , उद्धृताशेषभूभृद्ग- णगरीयसः शिखारूढशासनस्य भरादिव वक्रतामुपेताभ्यां भ्रूलताभ्यामलङ्कतं, तृतीयं चक्षुराच्छादयितुमाहितेन शिखण्डशशिखण्डकेनेव ललाटपट्टेन गोपि- ताकारं हरमिव नरलोकावतीर्णमुपलक्ष्यमाणम्, एकतो द्युतिमता मुखेनान्यतो घनस्निग्धेन कुन्तलकलापबन्धेन सुमेरुमिव चन्द्रान्धतमसाभ्यामुभयतो भ्राज- मानं, सुदूरमुल्लसन्तीभिराभरणमणीनामरुणपिञ्जरप्रभाभिः सद्यः सपल्लवमुकु- उदयसुन्दरी कथा। रलक्ष्मीकमिव निजाश्रयप्रभावादाम्रद्रुमं कुर्वन्तं, शिरसि विस्फुरता चूडामणे- ज्योतिषा निधानमिव गुणानां, अस्वल्परूपमप्रमितकान्तिकमनीयमनन्तलावण्य- ललितं, मध्यतनस्य जगतः प्रभुत्वे एकमपि परिगतमशेषराजन्यलक्ष्मीभिः, सर्व- नरलोकजुषामुपरिवर्तमानमपि तले एकातपत्रस्थ(विराजमानम्?) नवखण्डभूम- ण्डलाधिराज्यसिंहासने निविष्टमपि लीलासरस्तटे समुपविष्टंराजानमद्राक्षीत् । दृष्ट्वा च सप्रत्यभिज्ञमिवान्तरल्लसता सम्मदेन सपदि प्रहसितेक्षण. कपोलपालिः सरभसमतिसत्वरैः पदैरागत्य भुवं प्रतीहारस्य सह तेन च किञ्चि- दाभाषमाणः क्षणं तस्थौ । स तत्र तिष्ठन् ज्ञापितानन्तरमवनिपाज्ञानुवर्तनप- रेण प्रतीहारेण सगौरवाहानसन्मानितः प्रविश्य कृतोचितप्रणामः प्रतीहारद- र्शितं यथार्हमासनं भेजे । उपविश्य च समतोषमात्मनः कृत्या राजानमुप- लोकयाञ्चकार। ये दानोडरगन्धसिन्धुरघटाकुम्भान्भृशं भिन्दतो लग्नाः संयति वर्तुलोज्वलरुचो राजन् ! कृपाणे तव । लोकस्तान्प्रतिवक्ति मौक्तिकमणीन्मिथ्यैव सत्यं पुन- स्तेधाराजलमजदूर्जितरिपुत्रातोल्लसहुहुदाः॥ अपि च-- त्वत्खड्गाघातवेगोचलितमुरुमणिश्रेणिभास्वकिरीट- विड्गाढोपप्रदीपं गतमहितशिरःसरे दरमूर्ध्वम् । तस्यैवाशु प्रवृत्ते त्रिदशवनितया साईमृडे विवाहे यागान्ति(?)स्तम्भशोभामनुभवति नभोवर्हि राजन् ! मुहूर्तम् ।। अनन्तरमादाय वामकरतलाइक्षिणपाणिना तत्र वस्तुनि व्यक्तीकृतं कुण्डलितमेकं पटमग्रतो भूत्वा देव ! जगत्रयस्वामिना सुरेन्द्रेणाप्यनासाद्य- मिदं मेलकस्थानमशेषजननयनपरिषदां वस्तु । पश्यतु पशुपतेः प्रसादसर्वस्व- हरो देव इति राज्ञः समर्पयाञ्चक्रे । राजाऽप्यन्तरएव वसन्तशीलेनाच्छिद्य समर्पितमादाय किमेतदिति च प्रसार्य रभसा निवेशितोदारदृष्टिरई एव चित्र- प्रपञ्चितामात्मनो मूर्तिमपश्यत् । उपजातविस्मयश्च हंहो ! केन किल कथमह- मिहालिखित इति नेदीयसां कौतुकमुपजनयति जनेश्वरे मिलितात्महृदय त्वादतिहर्षेण विकसिताक्षिरध्यक्षः सकलसैन्यानां सिङ्घलाङ्गदो जगाद। देव ! देवपूजाक्षणे यत्र गतां युष्मन्मूर्तिमनुध्यायति स खल्वेष ध्यानपटः सेनापतेः ।
सोडुलविरचिता पञ्चालसिंहस्य । तदा हि दिग्जयप्रवृत्तः पञ्चालसिंहः स्थलपथपरिमाणं घरणि- पीठमुपसाध्य जलनिवेशदुर्गमाणि दीपान्तराणि प्रसाधयितुमम्भोऽध्वना पोतयानैः विचरितुमारब्धवान् । तथा पर्यटश्च कदाचिदेकत्र क्वचन विगलदुप- कूलकेसरतरुकुसुमसुरभितोदन्वदम्भसा धौतसितसैकतायां रमणीये खेचरवि. श्रमसमन्यन्तरद्वीपकेऽवतीर्य निर्वयं च पौर्वाहिकं कर्म क्षणं विशश्राम । ततश्च लब्धाऽनुकूलपवनतया त्वर्यमाणो निर्यामकैः सत्वरमुत्थाय पोतमारूढवान् । तत्रैष त्वरया व्याकुलितहृदयेन देवपूजोपकरणाधिकारिणा द्विजेन विस्मृतः। क्षणेन च योजनशतप्रमाणमध्वानमुल्लङ्घय वहता पोतेन तत्किल स्थानमुज्ज्ञित- (मिद)मितिकोऽवैति पदे पदे तादृशानेकदृश्यमानान्तरद्वीपसहस्रधारिणि पयो- निधौ येन पुनर्निवर्त्य गृह्येत । इत्यभिधाय तस्थौ । राजा तु भवत्वनेन तावदन्यदिह किमास्त इति पश्यन्नये सन्धानरेखया मेलित इवापरोऽयमुपलक्ष्यते पट इति कुतूहलात्सर्वमुद्देल्ल्य सहसैव पुरस्तादा- क्षेपशिल्परचनामिव पितामहस्य, चित्रशालिकारम्भचर्चामिव रतेः, परिज्ञान- त(प?)टिकामिव मनोभवाहस्य, रणव्यूहकल्पनामिव शृङ्गारसुभटस्य, त्रिभु- वनाङ्गनारूपमपहृत्य नियमितनिश्वसितशब्दगुप्तां तस्करीमिवावृत्यपटमवस्थि- ताम्, उद्यतहरललाटलोचनानलभयपलायितामसमशरशरीरश्रियमिव निभृ- तीभूय संलीनां, शक्शापसंपातितासुर्वशीमिव चित्रवपुषा परिणता, वर्तित- नवनाभिम्मण्डलाभोगभूमिमिवसौभाग्यक्षेत्रपालस्य, लिखितस्तनचक्रवती वशीकरणविद्यामिव त्रिभुवनस्य, भरितकपोलपत्रस्वस्तिकामभिषेकवेदिकामिव यौवनावनीश्वरस्य, प्रदर्शितरूपसारां केवलिकामिव युवजनमनोविकारज्ञानस्य, पक्ष्मसम्पुटास्पन्दनैरनिमिषविलोचनां देवीमिव विभाव्यमानां, निश्चलाङ्गलता- वयवभावेन मदनदाहमूर्च्छितां रतिमिवानुमीयमानाम् , अनालापतया तपश्च- रणाचरितमौनां गौरीमिव लक्ष्यमाणां, सितप्रभासंभारशालिनि पटे लक्ष्मी- मिव क्षीरोदवारिणि,उदन्वतीमिव जाह्नवीपुलिने, सावित्रीमिव द्रुहिणहंसपक्षा- सने, सरस्वतीमिव आसनसरोजपत्रे, रोहिणीमिव हिमांशुवक्षसि, महीमिव शेषफणफलके, केशवीमिव पाभिषेकपीठे निविष्टां, रतिसङ्गनिःसहानङ्गचाप- च्छटामिव लिखितां, प्रतिपदिन्दुमूर्तिमिव रेखामयीं, परमेष्ठिसृष्टिविद्यामिव प्रपञ्चितानेकवर्णा, सूत्रसंहतिमिवाधिष्ठितपटाम्, अभिरामदर्शनवती चित्रगतां युवतिमद्राक्षीत्। , उदयसुन्दरी कथा । आलोक्य च तां सहर्ष, अहो ! रूपमेतस्याः । शृङ्गारस्य जगजयध्वजपटालङ्कारचिह्नं नवं छायालग्नमनल्परूपरमणीगर्वस्य यात्रावृतम् । गालनाणविनिर्मितं च कवचं देवस्थ चेतोभुवः केनैतल्लिखितं वरेण सुधियामस्थाः सुरेखं वपुः ।। अथवा- सत्यं पटो धवलितः कलया हिमांशोरालोडितोऽमृतरसेन च वर्णकौधः। पुष्पेषुरात्मशरतूलिकया लिलेख तेनैतदित्थमतिनिवृतिहेतुचित्रम् ॥ यहा केवलमियं वज्रलेपेनैव लिखिता प्रकृतिरनुमीयते । कथमन्यथा पक्षिणीव मे लग्ना प्रगाढमितो न विघटते दृष्टिरस्थाश्च चित्रकर्मणि विपश्चि- ता। नियतमसावेवरेखा चक्रवर्तिलक्षणमङ्गगतं मदनराजस्य; ललाटपत्रके चास्मिन्नमलमषीलिखितेयं कुरुलसंहतिः स्फुरन्मन्त्राक्षरणिरिवरूपवतीनां पोषितामवश्यं दर्पज्वरमपहरत्येव; किञ्चैतद्दर्शनं सद्य एव पुंसां मनो विकारय- तीत्यविश्वासादिवरतिरनङ्गेन सर्वतःसहैव परिभ्रमति, रोहिण्यरुन्धत्यौ शशि- वसिष्ठयोरुदयानुदयेष्वपि पाव न मुञ्चतः,श्रीः सोदरेण मणिना कौस्तुभेन लक्ष्य- माणाप्यजस्रमसुरद्विषं (आश्लिष्यन्ती?) चात्र(स्ते,१) शची सतततमनिमिषेण चक्षुषा शक्रमालोकयन्ती तिष्ठति, उमाऽपि परिगृह्य कायार्डमन्धकरिपोरङ्गभिलि- तैवास्ते।तत्खलु रूपसर्वस्वकलशी का पुनरियं भविष्यतीति सञ्चिन्त्य चित्राद- स्वयं कौतुकोन्नतेन चक्षुषा ससंभ्रमं संभाव्य तं निवृत्तशुकशरीरं पुरुषम- प्राक्षीत् । “हो! महात्मन् ! कथय, को भवान् ?, कुन कुले जातवान् ?, अवासश्च किं नाम कमनीयं नाम ?, जन्मदेशे च कस्मिन्नपि पत्तनविशेष स्थितवानसि ?, विद्याभ्यासेन केन वा प्रकर्षमागतोऽसि ? क्व चास्मिन्मूर्ति- भृता पदेन घटितास्पदेयमीहशी मृगीदृशः प्रतिकृतिरासादिता, का चेयम् ? किमर्थमिह प्रपश्चिता चित्रेण ? त्वमपि कथममुं शुकशकुन्तभावमापन्नः ? को वा पुनरात्मलाभे हेतुः ?” इत्यभिहितो नरेश्वरेण “ स्वामिन् ! महत्कुतू- हलवती च खल्वियं कथा नितान्तमवहितैः श्रूयताम् ” इति सोऽब्रवीत् । अत्रान्तरे च समुचितार्थवेदी विलोक्य सर्वतो वसन्तशीलः सारं व्यजिज्ञपत् " देव ! श्रोतुमिमां नवरसानुषङ्गिणी कथामस्थानमयं प्रदेशः । तद्व. रमिह सेव्यमणिमण्डपान्तर्निविश्य विस्रग्धैः श्रूयते (शोतुं?) व्यतिकरोऽयम् !
५४ सोडलविरचिता अत्र तु प्रतीहारहुङ्कतेन मूकतां गतेऽपि परिजने समन्ताहुर्निवारैरेभिरासन्न- रधिमुकुरमञ्जरीकुसुममलिझङ्कारैः, अधिफलमुच्छलशुकादिशकुनिकलकलैः अधिचूतशिखरमुल्लपल्पिककुटुम्बकूजितः, अधितमालपण्डमुन्नादमयूरकेकारवैः, अधिदीर्घिकापुलिनमतिकलमरालकोलाहलैः, इतस्ततो विकृष्यमाणं मनो नावधानसखं भवितुमीश्वरम् ” इति प्रोक्तो महीपतिरेवमेतदिति सत्वरमुद्- स्थात् । ततस्तदाकर्णनकौतुकत्वराभरेण षट्सप्तपदेऽपि वर्मनि स तत्र गव्यू- तिशतायिते कथंकथञ्चिदुर्वीपतिराप मण्डपम् । विमलमणिमहिष्ठे मण्डपे तत्र साई प्रणयिभिरुपविष्टश्चिन्तयन्नेतदेवम् । भवतु तदिह यन्मे वाञ्छितं सूचयन्ती स्फुरति हरनियोगादस्य सारस्वतश्रीः ॥ इति कायस्थकविसोडलविरचितायामुदयसुन्दरीकथायां चित्रसन्दर्शनो नाम सारस्वतश्रीपदाह्व- स्तृतीय उच्छासकः॥ ॥ चतुर्थोच्छासकः॥ अथ तथोपविश्य सान्तःप्रतोषमवहितीभूते भूभृति साद्भुतकथाकर्णन- रसोत्सुकेषु च तत्परमुपेतेषु मोक्ते हृद्यवेदिना वसन्तशीलेन स खलु शुक- शरीरनिर्मुक्तो महात्मा कथयितुमारेभे । "श्रीमन् ! निशम्यताम् । अस्ति भुव- नेषु प्रसिद्धा विविधसौधमुधैकवला कीर्तिरिव मर्त्यलोकस्य, प्रोन्नतायतनध्व- जविराजिनी जयश्रीरिव जम्बूद्वीपस्य, विमलहम्यनिर्माणमणिमयी विभूतिरिव भारतवर्षस्य, प्रभूतारामरमणीया वृत्तिरिवोत्तरापथस्य, भूचक्रवलयिनो महार्ण- वस्य दृष्टान्तेनेव गभीरजलदुर्गमेण परिखावलयेन विराजमानपरिसरा, शिखर- सम्मिलितैः स्खलितरविरथतुरगतुण्डडिण्डीरपिण्डैरिव चन्द्रकान्तकपिशीर्ष- कैर्दन्तुरेण मरकतशिलाप्राकारेण परिगतोपान्तभूमिः,अनेकशः श्रिया गर्भवती- भिरिव महोदराभिश्चित्रशालिकाभिरलङ्कतान्त:परिकरा, प्रथितपरिशुद्धाचर- णचारित्रवता जनेन सर्वतो वस(ह?)न्ती त्रैलोक्यभूषणम् ,अखिललोकोपकी- य॑मानाभिरामनामवती मथुरा नाम नगरी। यस्यामुपेन्द्रविदलितस्य कंसासुरस्य सर्वतो रुदतीनामन्तःपुरपुरन्धिका- णामनणुकजलकलापकालीकृतैरश्रुवारिभिरापूरितेव द्रावितेन्द्रनीलसप्रभं प्रया- उदयसुन्दरी कथा। हमाबिभ्रती, भूलतेव वसुन्धरायाः, मरकतरत्नावलीवोत्तरस्या दिशः, कृपाण- पटिकेव कलिन्दसुभटस्य, चरणशृङ्खलेव पूर्वार्णवकुञ्जरस्य, कैटभारिभयादन्तः प्रविश्यावस्थितस्य कालियभुजङ्गमस्य दिवसः सञ्चयमुपागतानि जीर्णनिर्मो- कदलखण्डकानीव डिण्डीरसटाशकलानि कूलेषु क्षिपती, विमलजलकेलिमजन- रसप्रसक्तगोपीगणाभ्यन्तरविहारिणो हरेः शरीरसम्पर्केण पवित्रीभूतमम्भसा भरमाद्धाना, यमुनाभिधाना महासिन्धुरुत्तरां दिशमाश्रिता वहति । किञ्च- यत्राच्छस्फटिकाञ्चितोभयतटैः श्यामाश्मसृष्टोदरै- रन्तभूतवराङ्गनैश्च वनितागेहेषु वातायनैः। तारापुत्रिकया परीतविभवैर्नेरिव स्फारितै- रुत्पश्यन्ति सदाऽतिथीन्प्रतिपथं दानोपभोग्याः श्रियः ।। तस्यामधीश्वरो हरचरणसरोजस(सु?)हसितमानसः प्रसरता प्रतापेन प्रक- टितारिपार्थिवभयज्वरः, हर इव धवलाभिरुडूलितो विभूतिभिर्यशसाम्, इन्द्र इव भूयसीभिरधिष्ठितो दृष्टिभिः शास्त्राणाम् , असीमविक्रमः शौर्योष्मणै- बाङ्गेषु पुलकमादधानः, कृपाणतिमिरेणैव समिति वीक्षमाणो जयश्रियं, रण- रसाप्लवनपुलकितोऽप्यसहनस्तेजस्विनाम्, अनवरतसेवाविनम्रसामन्तमौलि- मणिमालिकारुणकिरणयावकितचरणाङ्गुलिः, उद्गलेन वयसा निकामवृद्धो वृद्धा- भिरेव जयश्रीकीर्तिकमलाभिर्वृद्धावरोधविश्रुतोऽस्ति राजा सुचरितापहस्ति- तकलि कलिन्दकेतुर्नाम। यस्य क्षीरपयोनिधौ मधुरिपोरग्रे विहृत्योपरि ब्रह्माण्डाचलितो गतः पृथुयशोहंसोऽभ्रमार्गेण यः। तस्यैते पयसा प्लुतस्य चलतः पक्षोज्झिता बिन्दवो नक्षत्राण्युषितस्य देहवलयोद्भूतं च विश्वं शशी ॥ गृध्रान्धकारनीरन्ध्रे रणे रागान्धयाऽप्यसिः । यस्य नीलांशुकच्छन्नश्चित्रं दृष्टो जयश्रिया ॥ तस्य च महीपतेरुत्पन्नेषु बहुशो विचित्रगुणशालिषु पुत्रापत्यकेषु पर्यन्त- संभूतः कालक्षयाङ्कुर इव चन्द्रादिरत्नेषु, केतुरिव ग्रहेषु, क्षय इव संवत्सरेषु कलिरिव युगेषु च मलिनात्मा निन्द्यप्रसूतिरपत्यापशदो बभूव पुत्रः कुमार- केसरी नाम । सोऽहम् । अहं च सुचरिताचरणेषु पित्रा निरूपितैरनेकशः प्रव- अपि च-- सोडलविरचिता त्य॑मानोऽपि वृद्धैबलवतः पुराणस्य कर्मणा विपाकेन बलाद्वाल एव मलिन- वृत्तौ द्यूते परां प्रसक्तिमुपजनयन्नुछेजकः पित्रोरभूवम् । एवमनुदिवसमुपचीयमानप्रवृत्तितया प्रौढिमधिरूढेन तेनैव च रसेन वा- सितान्तःकरणस्य क्रमेण निष्ठितनिजाशेषद्रव्यतया कदाचिदाक्रम्य बन्धुभ्यः, कदाचिद्धन्दीगृहीत्वा श्रीमद्भ्यः, कदाचिच्च विधाय राजोपाधिं जनपदेभ्यः समाह- तेन समन्तादर्थेन द्यूतमस्खलितखेलनविलासमनुशीलयतः प्रयान्ति मे दिवसाः। अथाहमेकदा प्रतिक्षणमक्षीणखेलनव्यसनः शीलयन्नान्धिकादिबहुप्रभे- दपरिगतं द्यूतमिदानी जयामि तदानीं जयामीति प्रत्याशया सुदूरमन्धी भूतेन मनसा हारयन्ननवरतमकिञ्चनतया क्वचिद्यूतकारैरापणचतुष्पथेषु वि- धृतमात्मनो धनेन जनन्या मोच्यमानं, क्वचिद्विलासिनीपाटकेष्वातपोपवेशितं जनकेनोत्थाप्यमानं, क्वचिद्देवभवनाङ्गणेषु निखातं भ्रातृभिराकृष्यमाण- मात्मानमवधार्य चिन्तितवानस्मि । ननु किमेवमन्त्राहमन्यैरनुचिन्त्यमानो लघूकृतेनात्मना तिष्टामि। धनाधीना हि वाञ्छितरसोपभोगसम्प्राप्तिः, ध- नस्य च कृते कियान्नाम न मया वराकःकर्थितो लोकः, तावदादौ श्रीमतामीशः पितैव पुत्रतया प्रतिक्षणमपकृष्यमाणेन रिक्तीकृतः कोशेन, जननी च बालदुर्ललिततया शून्यीकृता भूषणकलापेन, बन्धुजनो हि सौदर्यव- शितया वियोजितो विभवेन, जनपदोऽपि राजसूनुतया निष्किञ्चनी- कृतो धनेन, वीरवृत्त्या च बलाद्वन्दिग्रहेण गृहीत्वा श्रियमसारीकृतः सक- लोऽपि सीमान्तर्वर्ती सामन्तलोकः। तत्तेभ्यो गृहीतमर्थजातं कियत्किल भवि- ष्यति । अपीडया परेषामपरंतावन्तमर्थ कुतश्चिदर्जयामि। यमाजन्म नाम खेल- तस्त्रुट्यति। नवाऽन्यत्किमपि मन्मनोऽध्यवसायगरिमानुरूपमस्ति विना म- हार्णवरत्नजातमृते रोहणाद्रिमणिवर्गात्, किन्त्वगस्त्यपरिपीतोद्वान्तस्य वारिधे- रत्नान्युच्छिष्टंधनमित्यस्पृश्यानि । निक्षिप्य भूमावुपर्युपविष्टस्य कृपणस्य वित्तमिति रोहणस्य च मणिचक्रमनादेयमन्यथा भुजबलेनोन्मथ्य रोहणनगेन्द्रं, प्रतापेन प्रशोध्य च पाथसां नाथं किं नामनगृह्णामि दुरन्तसन्तानमनयो रत्नसर्वस्वं, यतः किमसाध्यमभिमतार्थसिद्धावनुबन्धिनो वीरस्य । तथाहि- गर्जत्येष रसं तरङ्गमुखरो दुर्गाध इत्यम्बुधि- स्तावत्तावदसावलड्वय इति च स्तब्धो हिरण्याचलः । यावन्न प्रलयोपरूढतरणिस्तोमातपस्पर्द्धिना- माधारो महसामशेषविजयी वीरः करोत्यादरम् ॥ MUSINEMHRA ! उदयसुन्दरी कथा। अथास्तु वा किमनेन तावदन्यतो विभावयामि, तत्किलान्यत्किमत्रभूव- लये सुभटभुजपञ्चरोपसाध्यनये । साधु स्मृतम् अस्त्येव सकलसुवर्णमयागार- प्राकारपरिकरा रक्षसां निवासनगरी लङ्का । सा च पूर्व स्त्रीहृदयेन रामेणाऽपि साधिता, किं पुनरशेषभुवनैकवीरस्य न मे साध्या भविष्यति । अतस्तस्यां गत्वा हठादाक्रम्य गृहीतमखिलभामूलतः सुवर्णशिलासंभारं विभीषणस्य च कुबेरकालात्सञ्चितं कोशजातमारोप्य वलयोपनतानां स्कन्धेषु रक्षसा- मिहानीयते । न हि यावदित्थं पूरयामि मनसो द्यूतकेलिषु व्यसनमित्येवं चेतसि विनिश्चित्य दिगन्तयात्रोचितं मुहर्तमनालोचयन्नविमृशन्नेव च द्यूत- व्यसनलविन्तः परिणति कार्यस्थ दूरावलवनोपयोगिनी प्रक्रियामाधाय मध्या- हादुपरि षदों भिद्यते मन्त्र इति वञ्चयित्वा समस्तमात्मनोऽनुजीविवर्ग निर्गतोऽहमेकाकी निकेतनात् । ततश्च गृहमतोलीद्वारेण निर्गच्छन्नये ! नियतमेववृताध्वगाकारपरिकर- मालोक्य मा कोऽपि मां देशान्तरोचलितमम्बा पिता बन्धुजनो वा ज्ञास्यति, ज्ञात्वा च हृदयवात्सल्येन मा कोऽपि स्खलिष्यति, मा कोऽपि प्रेम्णा पृष्ठे लगिष्यति तद्यथा न खल्वेवंविधोऽयमनेकविधोऽन्तरायः सम्पद्यते तथा निभृ- तमन्यैरज्ञायमानस्त्यजामि जनपदानुषङ्गिणी भुवमिति विचिन्त्य तथैवालक्षि- तक्रमेण झगिति निर्गत्य पुरीपरिसरादनातन चेतसा दक्षिणां ककुभमधिकृत्य प्रवृत्तोऽस्मि । गन्तुमनां च (नाश्च ? ) तमुल्लङ्घयन् प्रथमप्रवासरभसाद्भूयसा- गतिजवेन प्रस्तुतं पन्थानमस्तंगते भगवति सहस्रभानौ योजनशक्तिकेति नाम्ना प्रसिद्धं ग्राममासादितवानस्मि । तत्र च प्रवेश एव दृक्पथमुपागते ग्रामसरसि निवर्त्य सायन्तनं सन्ध्या- विधिमनुडुरेण तमसा किमप्यस्फुटतामुपेतवत्यालोके लोकैरनवलक्ष्यमाणः पुरा परिचितस्य पुराणवयसो मथुरान्तर्विख्यातस्य सदैव तद्रामवासिनः पिप्पलक- नास्नो द्यूतकारस्य मन्दिरमापृच्छय प्राविशम् । तेनाप्यभ्यागत इति राजसू- नुरिति यूतमित्रमिति च ससंरम्भमभ्युत्थानपूर्व कृतादरगौरवेण यथोचितैः स्वागतप्रश्नासनदानादिभिरशेषतोऽपि सत्कारैः प्रीणितोऽस्मि निर्वर्तितपूर्व- रात्रकरणीयस्य च शय्यागतस्य ममान्तिके प्रेम्णा समुपविश्य "कुमार ! सुदूरयात्रिकेणामुना स्वरूपेण क्व नाम गन्ताऽसि, कतमं च तक्तिल तादृश- मनन्यगोचरप्रयोजनं येनैवमेकाकी चलितवानसीप्रत्युक्तवान् । मयाप्यये मदीयमिदं सुदूरदेशानुसर्पणरहस्यमवेत्य मां कदाचिदिह नगरीनेदीयसि सोडलविरचिता ग्रामे स्थितोऽयं मत्प्रवासमसहमानो वराकः स्वयं प्रचलितुमक्षमः क्षणेनैव तातस्य ज्ञापयित्वा निवर्तयिष्यति, निजकुटुम्बमपहाय वार्द्धकविधुरोऽपि प्रेम्णा समं चलिष्यति । तदलमत्र विश्वासेन । छन्नार्थकथनेन प्रतारयान्येन- मिति सम्प्राधर्य, " भोः पिप्पलक ! श्रूयताम् । इतो दक्षिणेन सिन्धुरस्ति । ततः परं पारमुत्तीर्य क्वचिदेकस्मिन्नमानुषप्रचारिणि प्रदेशे किमपि तुमनसाम- साध्ये धनं मयैव साध्यमास्ते । तत्राहमेवमुचलित " इति प्रोक्ते पुनस्तेन न किश्चिदुक्तोऽस्मि । किमतचेतसि विभावितं यदयमतिप्रसिद्धो धूतरसिका सदैव बन्दिग्रहोपार्जितेनार्थेन व्यसनं सारयति तदेष तत्र कुत्रापि चलितवान् । अतः किमिति दुर्वारप्रसरमविशृङ्खलमनयदुर्ललितं राजपुत्रमर्थाभिव्यञ्चनपरेण प्रश्नाद्रेण पीडयामीति प्रायोऽनुचिन्त्य परमसौ तूष्णीमकरोत् । केवलं सेव- काचारमनुसरन्नुपविश्य द्वारि दत्ताङ्गयामको जाग्रदेव गृहीतायुधस्तस्थौ । अहं च प्रथमाध्वसञ्चरणश्रमेण बलादायातया निद्रया सुखप्रमुप्तस्त्रिभागशेषायां रात्रावतिस्पष्टपरिकरं स्वप्नमद्राक्षम् । किलैकत्र कानने वनश्रीरिति(?) प्रस- नमधुराकृतिरेका स्त्री पयोधरे बद्धक्रमं कण्ठीरवमवादीत् । त्वं विक्रमेण करिवृन्दविदारणैक- मल्लो मृगेन्द्र जगतीह सदा बलिष्टः अद्यत्वसौ तव पयोभृतिकल्पितोर- फालस्य पौरुषमपास्य विधिबलीयान् ॥ इति श्रुत्वा तेन च स्वप्नसम्भ्रमेण झगिति प्रबुद्धोऽहम् । अये स्वप्नो- ऽयम् । एवं दृष्टवानस्मि । तत्काचिदस्माकमन्वयदेवतेयमीहशाध्यवसायेन प- योभृति समुद्रे बद्धफालस्य ममाग्रे पौरुषादितो बलवान्विधिरवधित्वेन प्रभवि- ष्यतीति सिंहशिक्षापदेशेन प्रायः कथयति । अथवा किमेवममुना कापुरुषवि- कल्पेनोत्साहमपहस्तयामि मृषा परिणामः सर्वो हि स्वप्नसंरम्भः किमिति स्वप्नस्यैव पृष्ठे लगामि । तावदितः प्रबोधमासाद्य समुत्थितोऽहमिदानीम् । एष एव समयः प्रयातुमस्ति । जगत्यपरो बलीयान्विधेर्भण्यते । एकोऽपि यो ममापि विपक्षीभूय पुरो भविष्यत्यादौ तमेव परिपन्थितयोपस्थितं निर्मथ्य यास्यामीति दर्पोत्सेकतरलितस्त्वरितमुत्थाय, " हंहो पिप्पलक ! तिष्ठतु भ- वान् । यामो वयमिति प्रणयाद्नुव्रजितुमुद्यतं तमविस्खलनपूर्वमापृच्छय नि- गत्य च ततो ग्रामादमन्दया गत्या गन्तुमारब्धवानस्मि । ततश्च(को)नाथ(म?)दुर्व्यसनविनटितोमहात्माऽपि हास्यानुसदृश(शं.) ।
उदयसुन्दरी कथा। । नाचरति । यतोऽहं तथा शश्वबहता प्रयाणकेन स्वमादौ देशमतिकामन् यस्मि- नेव नगरे ग्रामे वा यस्यैव गृहे प्रविशामि तेनैव द्यूतकारोऽयमस्मगृहात्किम- प्यपहृत्य यास्यतीति सुप्रसिद्धत्वान्निकामशडितेन नेत्रनिक्षितो भोजयित्वा प्रेष्यमाणो जनेन दूरादवलक्षितत्वात्समानविद्यैरालिङ्गयमानो निमन्त्र्यमाणश्च द्यूतकारैरालोक्य च द्यूतमानन्देन विस्मरामि प्रस्तुतं प्रयोजनम् । उपरि तस्यैव गत्वा भवामि । तन्न च जयता कितवलोकेन दीयमानामनेकशो रेखामासाद्य तेनैव च रमणेन स्वयमुपविश्य खेलामिन चैतत्किमपि चेतयामि यत्किल लङ्का प्रति प्रस्थितः पथि स्थितश्चाहं ( हमिति ?)। पश्चान्निष्किञ्चनीभूतश्च किमधुना खेलनाय सारयामीति चिन्तया कार्य स्मरामि । तथैवचात्मानमात्म- नैवोपहस्य ततोऽपहस्य (मृत्य निस्म(स्स ? ) रामि । इत्येवममुना क्रमेण गमितबहुवासरया कालसम्पदा प्रथीयसीमुत्तरदक्षिणयोरन्योन्यमवनिमण्डा लानुभागकलहादङ्गमि(भिग ?)तयोर्दिशोर्निवारयितुमन्तरप्रवेशितां भुजलता- मिव महोदधेः,अनिलतरलितोर्मिशिखरशीकरप्रकरैर्मदावस्थामिव वरुणकुञ्जर- स्य, तीरविरचितानल्पतापसकुटीरकैर्निवासनगरीमिव धर्मस्य, प्रचारवीथीमिव निर्वाणनगरस्य, महासरितमन्त्रभवतीमवाप्तोऽस्मि रेवेत्यपरनामवती नर्मदाम् । या रेवेति निषन्तयातु(मिषात्पुनाति?) विशदापारप्रवाहनिया साक्षात्सा क्षितिमाजगाम गगनादुत्तीर्य मन्दाकिनी। कुत्रान्यत्र समीरसङ्गमसमुड्डीनोबिन्दुव्रज- व्याजात्तीरशिलातलेषु मिलितस्तारागणो दृश्यते ॥ या शाश्वतपदा देवी तरङ्गसरिकास्त्र । बिभर्ति वृत्तकल्पान्तसङ्ख्या रेखावलीमिव ।। ततश्च सरभसमभिनन्द्य वन्दितजलोऽहमुत्तीर्य सुखावतारेण वर्मना- तामतिमनोहरां सरितमेनया मेकलकन्यया पूरितं प्रविष्टोऽस्मि दक्षिणं देशम् । इतःपाथोधिपरिखावती लड्डेव(गन्तुं) प(व?)रमित्युदञ्चितोत्साहमुद्ग्रवेगं च प्रचलितस्तस्मात् । अथ क्रमेण सन्त्यजन समदशबरीकटाक्षकल्ली(ल्लोल ?)कदम्बदुस्त्यजानि भिल्लपल्लीवनानि, लवन्यन्नुद्दामपामरकुटुम्बिनीकुचशैलदुलवयान् प्रामान, अति- क्रामनपारपौराङ्गनालावण्यजलदुर्गदुरतिक्रमाणि नगराणि, अतिगच्छन्नतुच्छ- तरुमुन्दरोद्यानवलयान्धकारदुरतिगम्यानि मलयमण्डलानि, निस्तरन्नसमशीता- तपाचसंवरणायासदुस्सहं क्लेशम्, अविश्रान्तगमनो भानुरिव, भुवनलवनोत्खा ६० सोडलविरचिता तक्रमस्त्रिविक्रम इव, पृष्ठीकृतमहीतल कूर्मराज इव, स्वेदाम्बुसंप्लवेन जलाकृ- तिरुण इव, त्वरापरिक्रमेण च प्रचलल्पदः पवमान इव, संवृत्तवानस्मि । एवमहमनेकगिरिकूटतदिनीमहाऽवटैरारोहावरोहविषमम्, अपारहरिचि- त्रकादिक्रूरतरसत्वसञ्चारेण प्राणप्रणाशदारुणम्, अनीरभूरुहान्तरालविस्तरेण च तृडातपक्लान्तिदुस्तरं पन्थानमतिक्रम्य गच्छन्नेकत्र परमेकहेलयैव निजप्र- सरसंरुडाशेषदिग्भागभोगिनि, प्रखरहरिकरजकोटिकुहितानेककरिकरोटिकू- टाद्रिमति, प्रचण्डद्वदहनधूमान्धकारपुञ्जकनिकुञ्जक(निबिड ?) निकुञ्जवति, प्र- भञ्जनप्रहतपक्वकपिकच्छुगुच्छकोचलितकेसरपरमाणुरथ्यारजस्विनि, प्रजरद- जगरमुखोदरस्फुरत्फूक्तारभरसमीरिणि, हरिशरभप्रायवनजन्तुनि, खदिरशा- कशाखोटप्रायतरुणि, दर्भसूचीप्रायतृणजातिनि, वल्मीकमायभूमिनि, भीषण- लया प्रकर्षमापन्ने, दृषदसञ्चारवर्त्मनि महावने पतितोऽस्मि । तत्रैव चान्तर्गच्छतो मे तिग्मांशुरस्त जगाम पश्चादनेऽपि भूरितया वना- भोगस्य भग्नलड्डनोत्साहः क्व नाम निरापदि प्रदेशे गमयामि यामिनीम्, कि- मस्थ तरोः स्कन्धमधिश्रयामि; किमिदमद्रिदरीमध्यमधिविशामि; किमत्र धन- लताजालिनि गुल्मवलये वसामि; किमने क्वचिदितोऽप्येवरूपमपरभुत्कृष्टं व- सतिस्थानमासादयिष्यामीति वितर्कपरतन्त्रेण चेतसा शून्य इव प्रसर्पन सह- सैव परमस्तरविबन्धनोत्सर्गविगलितैरिव ध्वान्तपटलैराच्छादितोऽस्मि । तथैव च यावन्धकारेऽपि लब्धाश्रयपरित्यागानुतापात्कृतयथोपस्थिता- वस्थितिविनिश्चयो ब्रजामि तावत्सुदूरमतिघनान्धतमसगर्भ मुरद्विषो वक्षसि कौस्तुभशालाकामिव प्रदीपभ्रान्तिमुत्पादयन्तीमुल्लसन्ती च कुतश्चिक्तान्तिक- लिकामपश्यम् । दर्शनेन च तस्याः ससंशयमम्हे ! किमिदमेवमुद्योतते; किमेष क्वचिदाश्रये वितीर्णो दीपः प्रज्वलति; उत स्फुरन्तीभूतदहनार्चिषः शिखेयम्: अथवा निधानं ज्योतिषां वह्निः; आहोस्विद्दिव्यौषधीप्रभेदः कश्चन । भवतु वा किमपि । अस्तु तावदनुसरामि परतस्तु दृष्टे सत्यस्मिन्नुचितमाचरिष्यामीति निश्चित्य तथाप्रवृत्तः कियत्यापि कालकलया तमुद्देशमासादितो झगित्यग्रे तयैव कान्तिशिखया द्योतिताभ्यन्तरमभित्तिकेन च बहिर्मण्डपेन मण्डिताङ्ग- णमुग्रतमस्य तमसः श्याभिकया कजलकूटायमानमत्यन्तजीर्णतया च खण्ड- स्फुटितमायतनमद्राक्षम् । सहर्षवेगं च गत्वा समीपमन्तः प्रहितेन चक्षुषा विलोक्य भगवती दुर्गा- मन्तिके च त्रुटितेष्टकायां भित्तावतिचिरविपन्नपन्नगस्यास्थिशेषे शिरसि वि- उदयसुन्दरी कथा। NARAINS द्योतमानं दिव्यरत्नम्, अये शून्यं चण्डिकायतनमेतत् एषा च सा भुजगमणे- रस्य प्रदीपसंशयवती कान्तिकलिका । तत्साधु संवृत्तम् । इदानीं यदि नाम कुत्रचिदिहातः(पां ?)स्थानमासाद्यते तदहमधिकरमुखप्रक्षालनाचमनशुचि- तामाधाय देवी नमस्करोमीति संप्रधार्यतथा कुर्वन् कथञ्चित्तादृशे तमसि दृष्टाया- मर्द्धनष्टायामल्पविरसाम्भसि पुष्करिण्यां तद्धि सकलं विधाय त्वरितमेवान्तः प्रविष्टो जय जय त्रिभुवनजनाप्यायिनि कात्यायनीति भक्तिप्रयुक्तं वचः प्रस्तूय स्तुतवानस्मि। स्वामिन्या भुजङ्गाभरणवलयिनि स्थूलशूलास्त्रदण्डे- चामुण्डे चण्डि चञ्चनिबिडनरशिरस्त्रक्परीतानि दुर्गे। देवि स्वर्नाथचूडामणिकिरणकणश्रेणिधौताग्रपाद- इन्छे वन्द्येऽभिनन्ये जननि जय जय श्रीमहाकालि दिव्ये ॥ कृतस्तुतिश्च क्षितितलमिलितालिकेन शिरसा प्रणम्य समुत्थितः स्थिता- न्यपथिकजनोपलम्भाय बहिर्मण्डपमगच्छम् । सोऽपि शून्य एव केवलमन्तः प्रतिष्टितं क्षेत्रपालमालोक्य तस्यापि वाक्योपहारमकरवम् । धृत्यावेशप्रसक्तैज्वलदनलमुखोन्मुक्तपेत्कारपोरैः- क्रूरैरुत्तालतालव्यतिकरमुखरीभूतभूषास्थिमालैः । क्रीडन्तं प्रेतरकैः कुणपभुवि महाजङ्गलग्रासलोभ- भ्राम्यङ्कल्लूकभू(घू ?)कप्रकरपरिगतं क्षेत्रपालं नमामि ॥ ततश्च तत्रैव मुहर्तमुपविष्टः स्वान्त एव भावितात्मा सविस्मयमहो! साधु, विधिना दुर्धरापदि महावनेऽत्र पातितो रत्नज्योतिरिदमुपस्थाप्य नि- वाहितोऽस्मि । कथमन्यथा समस्तालोकविजयिन्येवंविधे तमसि दृशोर्गोचरी- भवत्येतदायतनम् । तथा च मन्ये नक्षत्रमात्रकेणाप्यालोकशून्यं भविष्यतीति सञ्चिन्त्य किल करोमि यावदुन्मेषे चक्षुषी तावदेकं झणिति मणिकिङ्किणीरण- कारझङ्कारितादम्बरतलावतरन्तम्, अन्तिकेषु विस्फुरन्तीभिरात्मप्रभाभिर- दभ्रेऽपि तमसि दूरादाविर्भवन्तं, चरणपुरा(रा १)वधावितया गगनगङ्गामराल- बालकश्रेण्येव धवलनरकरोटिमालया कृतोत्तरासङ्ग, खट्वाङ्गशिरःप्रणयिना क- पालेन संसारफलाष्टी(श्ली?)लकमिव दर्शयन्तं, भस्मनः प्रोडूलनेन सिताच्छ- धूलिधूसरितं निर्वाणदेशाध्वनीनमिवानुमीयमानं, सर्वतो गृहीतैर्भूषास्थिमणि- भिराच्छोटिताशेषतारकधनं नभोनगरलुण्टाकमिवोपलक्ष्यमाणं, वामकरनिवे- शितया शुक्लकपालशुक्त्या सम्पूरणाय गृहीतेन शशिबिम्बस्यार्द्धन प्रजाप- सोडलविरचिता तिमिव प्रतीयमानं, प्रमाणवयसमल्पास्थिकपरकदृष्टया स्त्रजा संघमितजटाक- लापं कापालिकमपश्यम् । चावतीर्य कृताभिवन्दनो देव्या विस्मित इव ममान्तिकमाजगाम । कृताभ्युत्थानपूर्वमुपरचितप्रणामेन च मया दर्शितोचितप्रश्रयः समुपविश्य वत्स ! कुतोऽत्र दुरतिक्रमापायभूरिण्यरण्यविधुरे निपातितोऽसि, कतमः किमर्थमिति ससंरम्भमुवाच । अहमप्यादितः समस्तमात्मनो स्व(न्व?)यनिवे. दनादारभ्य दुर्विनयविस्तृताध्यवसायपरिकराइँ लङ्कां प्रति प्रस्थानमाख्यातवान् । ततश्चासौ मुनिः सशिराकम्पमेकाग्रतया क्षणं सन्मुखमुदीक्ष्य झटिति घटित- पर्यङ्कबन्धः स्थिरीभूय नभसि निक्षिप्तचक्षुरस्थात् । अथ क्षणेन कुतोऽप्यागत्य नवाभ्रपट्ट? . 80.0.90.2 0.00 0.00.00 ...00.. यंगजदशनमुसलायमानं भुजयमेवास्ते । दंष्ट्रयोरादिकोलस्य यत्र न प्रौहिरिष्यते। ततदायताभोगमास्ते धीरस्य दोयुगम् ॥ अपिच- त्रैलोक्यनीरसौ दासी तावदुच्छृङ्खलायते । यावद्धीरः कृतास्कन्दो न दोर्दण्डमुञ्चति ॥ तदेषाऽद्यतनी यूतवृत्तिरल्पेन प्रभूतमुत्पाद्यन्ती लाभवती में वणिज्या समभूत् अन्तः समारुह्य चेमामिदानीमेव किं न ब्रजामि । दिव्यशक्तीनिहि विमानयानान्यारूढिसमकालमेव चिन्तितां दिशमुद्दिश्य नभसि प्रयान्ति । तिमिरमुद्योतश्चेति चर्मदृशामस्माकम् । अमीषां तु देवतासिद्धानां सर्वं प्रभास- विस्पष्टमेवेति सञ्चिन्त्य, प्रणम्य क्षेत्रपालपरिग्रहां च भगवतीमम्बिकामनुगत- समाहितेन चेतसा संभाव्य तद्विमाननारुढवानस्मि । तडि क्षितिपालशेखरमणे शृणु, प्रचारपाटवेन या(ता?)दृशमारूढे मयि झगित्येवोत्पत्य हरगलगरलकजलमलीमसं सुदूरमन्तरशिरोभागमारुरोह । ततः परमुपक्रान्तं प्रयातुम्, अनन्तरमारचितगुरुवेगनिर्गमप्रसरं परितो विस्फु- रन्तीभिरतिधवलवैजयन्तीभिर्ग (ग) नगङ्गाडिण्डीरवल्लरीपटलमिव मरुता नीयमानम्, अनणुमणिकर्मनिर्मलोद्योतडम्बरेण प्रदीपतन्त्रमिव तिमिरविग्रहे- णोचलितम्, उच्छलकिङ्किणीरणत्कारनिःस्वनैर्वेगोज्झितसमीरमिवारब्धविज- १ अत्र ग्रंथो विगलितो भूयान् यकोलाहलम्, उल्ललड्वजपटफटत्कारितोपकण्ठकनकदण्डिकादारितनभस्तर उदयसुन्दरी कथा। उल्लोठिताध्वजलधरम, उत्सारिताग्रतारकं, स्वरूपमविकृत्य त्वरितमन्तरिक्षण गच्छतस्तस्य तिमिरपटलोन्मूलितालोकवृत्तिरहमन्येन नीयमानोऽन्ध इव, क एष ककुभो विभागः, कियदतिक्रान्तं पश्चात्, अग्रेऽपि कियगन्तव्यम्, किशी चासौ वसुमती, कीदृशाहि ते गिरिसरित्कान्तारपरिगताः पन्थानः, कीदृशोऽ- प्यसौ जनपद्प्रचार इति न किञ्चिजानामि, केवलं चरणचङ्कमणपीडाभिरु- ज्झितः पदे पदे मृदुसमीरलहरीनिवेशशीतलोचनो यानेन गतिसुखमनुभूतवान- स्मि । तथा बजतश्च मे किमाश्चर्यमावेद्यते सहसैवमेकत्र भग्नदिव्यप्रभावमिव, चलितसञ्चारयन्त्रमिव, तावत्पथासमर्थमिव, केनापि विधृतमिव, क्वापि प्रस्ख. लितमिव, विमानमस्पन्दरूपतया स्थिरीभूय तस्थौ । तथा स्थिते च तस्मिन्नुतविस्मयोऽहं नन्वनाकारसमतलेऽस्मिन्नभोऽध्वनि कोऽयमसंभाव्यमानपरिस्खलनविषयस्यास्य किल निश्चलतया स्थितौ हेतुरिति सर्वतो निमालयन किश्चित्तादृशं कारणमुपलब्धवान् । एकं च परं तस्य तल- मयनिर्माणमणिदलोद्योतेन मूले दुरन्तविस्तारमम्भसः प्राग्भारमपश्यम् । त- दालोकेन च सवितर्कमहो कोऽयमियता जलाभोगेन भूतले प्रदेशः किमयमु- दन्तः(म्महत्याः १) कस्याश्चित्सरितो महाहृदः, किमिदमुल्लोलकवलिताभ्रसंर- म्भमदनं वा सरः, किञ्चिद्ध प्राप्तस्तमेनमहं लङ्कापुरीप्राकारं दक्षिणाम्भोधि- मिति निपुणं निरूपयन्ननुसमुद्र एवायं कस्यापरस्य परितोऽप्येवमलघुपरिस- श्वररितमतिमिङ्गिलदलितविद्रुमदलदन्तुरोर्मिशोणिमवती वारां विभूतिः। एवं चेत्किमित्यवान्तरएवानुत्पन्नरोधमपि स्थितमेतदिति यावद्वधारयामि तावदे- कहेलयैव कलकलितकिङ्किणिनिनादोन्नादितनभस्तलेन सर्वाङ्गमुत्कम्पितम् । तेन तत्कम्पविचलितासनतया साकूतमितस्ततो दण्डिकासु लगितुमाकुले मयि सह मयैव परिभ्रंशनिस्सहं विमानमगाधगर्भ तस्मिन्निपपात । तेन च क्रोडीकृतः क्षणादेवं हानिफलसमारम्भोऽहमुपरतइतीयन्मात्र चेतनो निमग्नोऽस्मि । तत्कालमग्नोऽहमधस्तान जाने, कथञ्चन सहसैव परं प्रबुद्धकरणवर्गः । न च तेषां विमानसागरावर्तवलयानामेकोऽपि । केवलं विमलविद्रुमशिलासम्पातस्य विसङ्कटाकारशालिनः प्राकारवलयस्य द्वारवर्तिन- मात्मानमपश्यम्। तथाऽवलोक्य विस्मयचपलेन चेतसा सर्वतो निक्षिप्य चक्षुरहो के किल दिव्यं तद्विमानयानं येनागतोऽस्मि । क स.प्रसरदुर्गमः समुद्रो यस्यांभसि सौलविरचिता पतितोऽस्मि । कचासौवाडवमुखवलयभासुरो महावतः। किल यत्र मनोऽस्मि । किन्नाम मग्नोऽपि नाहम् । किमंभोधिपतनव्यतिकरोऽपि नायं । किमहमपि स खलु न भवामि । किमङ्ग (मुत्तुङ्ग ) बहुतरङ्गताडितया सर्वमीडगेव दृश्यम् । किमोजडिमजनितवैधुर्यस्य भ्रमोऽयमन्तःकरणस्य । किमिमीहशमभो- विभीषणाद्भुतस्वरूपमिंद्रजालं वा किंचित् । किमिति न तन्मे विमानम् । तदे- तनिश्चिन्नमचिन्त्यापातदुर्द्धरं किंचन पुराकृतमुपस्थितं कर्म । किं विकल्पादये चिरादिदानीमनुस्मृतं स एष स्फुटीभूतः स्वमो यो भया तत्र योजनशक्तिका- ग्रामे द्यूतकारपिप्पलकस्य सद्मनि सुसेन दृष्टः। यथा किल तया स्त्रिया मृगेंद्रशि- क्षाक्षरैस्तवाग्रे पौरुषं निरस्य विधिबलीयानिति प्रोक्तोऽहमतस्तदेतद्वलीयसो विधेर्विजूंभितम् । अथ भवतु किमेभिरवान्तरवितकैः । प्राकारान्तरमधिविशामि पुरस्तात्तु यद्यथा तत्तथैव स्वयमाविर्भूयमानमवगमिष्यामीति संचिन्त्य चंद्र- मणिघटितकवाटवल्गुना द्वारेण प्रविष्टोऽमि । तत्र च ममृणमणिधूलिपांसुलेन पथा स्तोकान्तरभुपसर्पनर्द्धपथ एव दूरतोऽपि रत्नाश्रयात्समीरसारितान्तर- पलाशपटलात्कल्पतरुमञ्जरीभरादिव निस्सरन्तीभिः, आलोकलीलोबेल्लन- तरहितादहीन्द्रफणाफलकवलयादिव समुच्चलन्तीभिः, उन्मथितगर्भाद्रोहण- तटादिव विजृम्भमाणाभिरनेकशः प्रसरसंभवतीनिःप्रभाभिरग्रेतनं प्रज्वलन्त- मिव प्रदेशमद्राक्षम् । दृष्टमात्रे च तस्मिञ्झगित्युद्गतेन भूयसा भयेन कति- चित्पदानि पश्चानिवृत्य ससम्भ्रममाःकिमहमागत्यान्ततस्तस्यैव पतितो मुखे वाडवस्य । कस्यापरस्य चण्डार्चिषोऽवस्थितिरुदरे महार्णवस्य । निस्सीम- सम्भूतिरसावप्याभोगस्तेजसा । जानामि चायमेभिरेव तेजोभिः शोषिताना- मित्थमिह प्रणाश: पाथसाम् । अथेदमप्यनुमानमितस्समागच्छतोऽस्थ वायो- रत्यन्तशीतलतया प्रतिहतमिव भाति । ततश्चान्यदेव वस्त्वन्तरं किमप्येतत् । अस्तु वा किञ्चन । ब्रजामि कृत्वा साहसम् । इतरथाऽपि ममेत्यमापन्निमग्नस्थ संदिग्धं प्राणितमन्यत्र यत्किल गमिष्याम्यहमतस्तावपूर्वदर्शनेन सफलयामि चक्षुषी, पश्यामि किमिदमीदग्विधम्, अनन्तरन्तु भवतु याव्यमिति कृत्वा विनिश्चयं चलितस्ततोऽस्मि । तथा गच्छन्समंदसञ्चारमाशङ्कितेन चेतसा किय- क्रिम्य पुरस्तादुत्सर्पिण्यास्य (णस्स्व!) प्रभाकलापस्य गर्भ पिण्डितं निर्माण- मिव रविकराणां, स्तम्भितं स्वरूपमिव विद्युतां, पुजितमुत्थानमिव प्रदीपानां, दिनान्तनिष्टि(हि?)तरुचेरूपक्रमस्थानमिव भास्करस्य, क्षुधोपतप्तस्य जठराग्नि- स्तम्बमिव समुद्रस्य, मन्दराघातनिर्गतस्य कुटुम्बालोच(क)मिव कौस्तुभस्य, उदयसुन्दरी कथा। 84 मथनविदूरपलायितानां गिरिदुर्गमिव मणीनाम्, आरब्धमथनेभ्यः सुरेभ्योऽप- न्हुतं रत्नसर्वस्वमिव वरुणराजस्य, महाकोलेन रसातलादुदस्यमानायाः साग- रोर्मिभिराहत्य पातितं मणिकिरीटमिव वसुन्धरायाः, यादोभिरम्भोधिजलं हरतामम्भोमुचामाच्छिद्य गृहीतभग्नस्येन्द्रधनुषो दलमिव पुञ्जतया विश्रान्तं, प्रलयसमयोपयोगिनामेकत्र मिलितं तेजस्विनां वृन्दमिव कालातिवाहनधिया सङ्कुच्यावतिष्ठमानं, पातालतलवासिनो ज्वलतः कालाग्निरुद्रस्य समुत्थितं ज्यो- तिरिव स्तम्बाकारेण परिणतं, कुम्भयोनिजनितापकारक्रोधादम्भोधिना तजनक इति बलादाबध्य कारागृहोपरि कृतेनेव धामवतारत्नकलशेन विभूष्यमाणशि- खराबविलग्नया जलशायिनो हरेमूली(स्तल्पी?)भूतेन शेषाहिना विमुक्तया निर्मोकलतयेव धवलप्रलम्बया वैजयन्त्या विराजमानं, मद(ध्य?)घटितशाल- भञ्जिकाश्लेषरोमाश्चितैरिव निबिडकिरणाङ्करकण्टकितैरमलमरकतस्तम्भैरुङ्गा- समानं, माणिक्यमणिभूमिसान्ताभिरुपरि मण्डपनिवेशितानामतनुमुक्ताव- चूलवलयानां प्रतिबिम्बपरिपाटिभिः सहजरगावलिमनोहरम्, उभयतो बार- शाखासन्नजनितविद्रुमदलपुत्रिकापाणिप्रणिहितस्य शशिकान्तसृष्टीलाक- मलस्य कर्णिकीकृतया पुष्पराग(कलि)कया सततमनुच्छिन्नदीपकालोकं, सर्वतो निहितरत्नसन्तानैरधनीकृतरत्नाकर, तलपीठसञ्चिताचरमचामीकरशिलाभिर- किञ्चनीकृतकनकाचलं, निरन्तरनिवेशिताशेषजन्तुरूपैः शून्यीकृतत्रिभुवनम्, अनेकरचनाविन्यासचारुताभिरियतीकृतविश्वकर्मविज्ञानम्, आनन्दकन्दशो- (सा? )रसमकर्मनिर्माणमेदुरम्, अदूरपुष्पद्रुमारामवलयितमपश्यमुद्दीप्रमणि- मयं महिष्ठमायतनम् । सपद्यपधूताशङ्कमुच्छसितहृदयश्च सम्यगाहानिर्वृत्तया दृशा सम्भा- व्य रभसेन गत्वा प्राविशमपश्यं च तत्रान्तःप्रतिष्ठितं शब्दमिवार्थप्रतीतेरखि- लसंसारसृष्टेरादिभूतं भगवन्तमम्बिकानाथम् । घटितकरकमलसम्पुटस्तु तं प्राणिनामिष्टमभीष्टसिद्धये स्तुतवानस्मि ॥ देवः पातु शिवो जगन्ति पटुना स्नेहेन सिद्धाञ्जने- नेवाभ्यञ्जितया दृशा भगवती यत्र प्रिये पार्वती। आभत्वचमच्छनेत्रपटवद्रीवोरगं हारव- झूर्ति चन्दनधूलिवत्तिलकवद्भालेक्षणं वीक्षते ॥१॥ इति स्तुतिपूर्वमवनितलमिलितजानुमस्तकः प्रणम्योत्थाय विश्रामकामः समुपवेष्टुमेकान्ते माणिक्यमणिफलकपेशलं मत्तवारणकमशिश्रियम् । अथ सो लविरचिता तस्मिनुपाविशन्नेव झगित्यङ्गणोत्सङ्गभुवि समुत्सर्पता रणन्मणिरवझङ्कारमुख- रेण ध्वनिना विकृष्ष्टिा,एकहेलयैव लीलया चलन्तमनन्तविस्तार, पुरक्षो- अभिय स्त्रीराज्यस्या, व(च)लदशननिय शृङ्गारस्य, मेलमिव सौन्दर्यस्य, सार्थनिव यौवनस्य, काञ्चीमुखाग्रघटितेन रत्नमकरेण प्रकटितमकरवाहनं দলি ক্লাহ, হাসমূল সলালেন যিম্মান জয় म्वमिव चन्द्रमसः, कर्णपाशदोलिन्या कुण्डलश्रिया विलसितान्दोलक जाति- धर्गमिव वसन्तस्य, कराप्रविधृतेन लीलाकुवलयेन गृहीताजनकूपिकं परिग्रह- मिव रतः, अविरलकुरुलच्छ लेन सहोत्थिततिमिरनिकुरुम्ब पातालादिव समु- त्थितं, मौक्तिकाभरणविभ्रमेण सञ्चलिततारकं नभस इवावतीर्ण, पन्तलारुणि- मसम्पदा लग्गदिग्गजशिरस्सिन्दूररागमाशाभ्य इव प्रस्त, सहजशोणाघर- बिम्बतया मुखमिलितविद्रुमदलं समुद्रादिव निस्सृतं, श्वसितसौरभविभूत्या घटितपारिजातपरिमलं स्वर्गादिव भ्रष्टम्, एकार्णवं लावण्यवारिभिः, एकारवं किङ्किणिरणितारवैः, एकास्तसन्ध्यं शिरस्सिन्दूरपांसुभिः, एकाभ्रमाभरणप्रभा- भिः, त्रिभुवनश्रियः क्रीडापुत्रिकौघरचनायमानं, मुखसमीरसौरभापतन्मधुप- च्छलेन गुलिकाधनुर्द्धरेण मनोभुवा मरकतोपलगुलिकाभिरिवानवरतमाहन्य- मानम्, आयान्तमनन्ययुवतिसामान्यं, कन्यासमूहमद्राक्षम् । मध्ये च तस्यातिधवलवृत्तातपत्रस्य भूले लक्ष्मीरिव चन्द्रमसो मण्डला- दलिता, सावित्रीध्यानपरतन्त्रेण चेतसा सृजतः प्रजापतेस्तदाकारपरिणते च सैवेति प्रतीयमाना, रतिरिति प्रियाप्रत्ययादिव समालिङ्गिता मनोभवेन, रोहिणीति मुखच्छायागतेनाधिष्ठिता चन्द्रेण, सर्वतो बिसारिणा कान्ति- परिवेषेण पृथ्वीव परिवृता पयोधिवलयेन, लावण्यजलभरादुत्तीर्य शैशवेन तटे न्यस्तमुडुपदण्डिकातल्पकमिव सुललिताडलीसञ्चयमुबहता चरणयोई- येन विराजमाना, पुष्पायुधेन प्रहरणीकृताभ्यां कनककेतकीसूति(ना?)भ्या- मिव यथोत्तरमाकारवृत्ताभ्यां जवाभ्यासुद्धासमाना, (सुल) क्षणकिङ्किणीग- णोपशोभिनो मनोभवस्यन्दनस्य नितम्बस्य युगेनेव पीनोरुयुगलकेन भ्रा- जमाना, मेखलोपरि जनितमणिपट्टिकावलयप्राकारमनङ्गभूभुजो गिरिदुर्गमिव- गरिसरम्यं नितम्बमुद्रहन्ती, नियतमितः परतो भव्यं नास्तीति विधिना प्रदत्तं शून्यमिव सुवृत्तसुन्दरं नाभिबिम्बमाबिभ्रती, जगदेकधन्विना मन- सिजेन धनुर्विद्यावलेपादुत्क्षिप्तं सूचीनाराचमिव प्रतनुसरलं रोमावलीदण्ड- माधाना, तानवमुपजनयतो विधातुरुद्रात्करतलैकपालिकया त्रिवारमधिकमुपा- दानद्रव्यमुत्सारयतो जाताभिस्तटीभिरिव निमृभिलावण्यललिताभिर्वली- उदयसुन्दरी कथा। ६७ भिस्समन्तान्मानसमाक्षिपन्ती, मन्मथरतिभ्यां विधाय मधुपानमधोमुखन्य- स्तयोरापीनवर्तुलयोः कनकचषकयोयुग्मेनेव कुचबयेन संसारं सफलयन्ती, सुदृढभुभयतोप्यसदेशसंक्रान्तस्य शशिविशदकपोलयुगलस्य कान्तिजलतरङ्ग- सरलि(सङ्ग)ताभ्यां प्रतिबिम्बच्छयाभ्यामिव भुजलताभ्यां चक्षुरालादयन्ती, शङ्खरेखोपहासनिस्मृतं हासप्रसरमिवातिनिर्मलं हारमाबिनता कण्ठेन शोभ- माना, मुखामोदमासूत्रयता पितामहेन व्यापारितात्पारिजातपल्लवात् विघटि- तेन प्रलघुपाटलदलेनेव बन्धूकबन्धुना बिम्बाधरेण मान्मथं रागमुत्पादयन्ती, नेत्राञ्चलोपचर्चितया दुकूलघवलया कपोलयोयुगिकया मुखश्रियो नेपथ्यमिव सूत्रयन्ती, मणिकनकसृष्टिना मकरकुण्डलेन कन्दर्पवाहनस्य मकरस्य बन्धन- शालायमानमभिरामं कर्णयोईितयमवतंसकुवलयेन कृतोचितच्छायं दधती, रतेर्विलासमणिदर्पणस्य ललाटफलकस्थाधारदण्डकेनेव वरीयसा नासावंशेन शृङ्गारमुद्दीपयन्ती, भुजगरक्षाधिष्टितोपकण्ठममृतदीर्घिकाव्यमिव सुतारसरलं नेत्रयोयुगलमालीषु प्रेषयन्ती, सौरूपेण रतेद्वितीयेयमिति प्रदत्तेन द्विकेनेवा- केन भूलताभोगेन युवतिसृष्टिमुत्कर्षयन्ती, वर्तुलिमचारुणा तिलकेन मध्योप- रचितमण्डलां यौवनाश्ववारस्य बाह्यली(ला ) भुवमिवातिभव्यां भालस्थली बिभ्राणा, भूलतां लिखतः प्रजापतेरङ्गस्पर्शकम्पितात्करतलाइलितभाजनरस्तेन भषीदलेनेव प्लावितैरत्यन्तमेचकितकान्तिभिः कुरुलैत्रैलोक्यमपि मोहयन्ती, भालाग्रलम्बिना सीमन्तमणिभूषणावचूलमौक्तिकेन नक्षत्राकारया समुत्तीर्य गगनादरुन्धत्येव निरूप्यमाणपूर्व (मूर्ध?)सौन्दर्यसंभूतिः, अद्भुताङ्गच्छायास्वरूप- तया घटितेव सुवर्णसा(रो?)चिषां दूलैः, उज्वालितेव माणिक्यमणिमयूख- क्षोदेन, धौतेव मौक्तिकान्तस्सारवारिभिः, पुंसिते(प्रसृष्टे?)व शरदिन्दुचन्द्रिको- पान्तकेन, दृष्टिपथमुपेता तारापुत्रिकेवाविद्या(लादयि?)त्रीलोचनानां, दर्शनाप- क्रान्ता स्वनाङ्गनेबोन्मादयित्री हृदयस्य, लतेव लोचनालोकनफलस्य, फलपरिण- तिरिव शृङ्गाररसस्थ, रसवृत्तिरिय संमदास्वादस्य, स्वादोपलब्धिरिव संसारसु- खस्य, श्वासपरिमलानुसारिणा मधुकरस्तम्बेन मुखचन्द्रमस्यङ्कमुपकल्पयन्ती, मुललितालापप्रकाशितैर्दशनमयूखबिन्दुभिरधः सन्ध्यातपे तारकाण्युद्गमयन्ती, तिर्यग्विसारिण्या कटाक्षचन्द्रिकया कर्णकुवलयान्धकारमपहस्तयन्ती, पुरस्मसर्प- ता स्मितसिताभ्रशकलेन कुचशैलयोः शिखरमाच्छादयन्ती, गतिवशोल्लासिना च चलन्मणितुलाकोटिकलकलेन सहंसारवचरणपङ्कजोद्देशमासूत्रन्ती, तस्य सक- लस्यापि कन्यापरिग्रहस्य स्वामिनी, मनोहराकृतिः कुमारी युवतिराजगाम ।
किं बहुना- नी तासां मध्यादागत्य संवृत्य चातपत्रं प्रविश्यायतनस्य कोणे व्यमुञ्चत् । ६८ सोडलविरचिता यस्या दिःशिखरेण मन्दरनगेनेवोच्चपीनस्तनई- देनाध्युषिते वपुष्यधिलसल्लावण्यवारान्निधौ। उद्भूतं मुखमिन्दुबिम्बमुद्भद्विम्बाधरः कौस्तुभः श्वासामोदभरोप्यसावुद्भवद्राक्पारिजातद्रुमः ।। निर्माय यां झगिति दृष्टविशिष्टरूप- सृष्टेर्विधातुरूदितो हृदि मान्मथाग्निः । तेनोग्रतापविधुरः शिशिरं स मन्ये नाभीसरोजमधितिष्ठति चक्रपाणेः॥३॥ झगिति च तामहमुदीक्ष्य चिन्तितवान् अहो कतमं कस्येमीदृशमेवं स्वरूपरूपातिरेकसुन्दरं युवतीरत्नम् । अथवा यद्यसावीदृशीह पयोधिकुक्षावास्ते तीनी(ली?)कमिदं यन्मन्दरगिरिभ्रमादितो विनिर्गता लक्ष्मी:(इति)। निर्गता चेत्तत्कयाचिदन्यया देवष्टकितो वैकुण्ठः। यदि वा नियतमस्मिन्नेकान्तदेशे स- मागत्य रतिप्रकृतियुवतिरूपातिरेकवर्तिना सौन्दर्येण कौतुकाद्धटितेयमन्यैव तरुणी प्रजापतिना । यस्या रूपस्य प्रथमाभ्यासवर्तनलक्ष्मीः, उपादानमृदाही तुरग उच्चैःश्रवाः, स्तनबिम्वकाधारपिण्ड ऐरावतकुम्भी, श्वासपरिमलोपयोग- द्रव्यं पारिजातविटपी, मुखावमार्जनोपान्तकं हिमांशुः, करप्रक्षालनजलममृतं, देहप्रभोद्योतनाश्मकलिका कौस्तुमा, इत्यादिभिश्चैतदङ्गनिर्माणोपकरणवस्तुभिः प्रतारिताः स्वर्गिणो रत्नाकरेण । यदि पुनरसौ ज्ञाता तवेकृ(भवेत्किनु ?)खल्वे- केन मन्दरमहीभृता सर्वैरपि कुलाद्रिभिः कृत्वा मथनव्यापारमेषा न तैराकृष्यते प्रसभमित्यादि परामृशत्येव मयि सा तत एवायतनप्राङ्गणादक्षिणया वीथ्या सह तेन कन्याकदम्बकेन पुष्पोच्चयाय पुष्पाराममविशत् । एका च छन्त्रवाहि- । तत्रोपरि च दिव्यांशुकवेष्टितोऽयं विमुक्तः पटः। झटिति च पटं विमुच्य तथैव त्वरया तरलितमनोवृत्तिरन्यतश्चक्षुरक्षिपन्ती मामपश्यन्त्येव निर्गत्य साऽपि तासां मिलितवती । अथाहमतिकौतुकादुत्तरलमानसो ननु याव- दासामसौ पुष्पोच्चयव्यास न व्यग्रता तावत्पश्यामि किमेतदंशुकावेष्टितं वस्त्विति गृहीत्वा झटित्युड्डीय सावकाशादेकान्तमिति गतःकोणैकदेशं यावद्दे- ष्टनकवस्त्रमुत्सारयामि तावदालोकितः पटोऽयं पदं चैनमुल्य यावदवलोक- यामि तावदेवतस्तवेयमनल्परूपावभारपद्धतिरन्यतश्चेयं तस्याः कुसुमकार्मुका- यतनप्रशस्तिगतिमनोहग चित्रमयी मर्तिगम्ते । अथाहमहो क पनरस्य संसा- ॥ उदयसुन्दरी कथा । रसागरसंरणेरियमीहशी शिल्पविधिविशेषसारा सृष्टिरेषा पुनरत्रैव कन्यका- वस्तुनि व्यक्तीभूतेति युवयोरपूर्वाकारसुन्दरिमदर्शनोल्लसितविस्मयरसप्लवेन जडीभूत इव निश्चलावयवकायो विकसितेन चक्षुषा प्रत्यङ्गमभयतः क्रमेण निरीक्षितुं लग्नः। अत्रान्तरे च कुतोऽपि गर्भगृहोपकोणदेशाद्धवला भस्मनः प्रलेपेन, कपिला जटाभिः, आपाटला जदानामनकोटिभिः, आवरणवल्कलेन च हरितका- न्तिरित्यनेकवर्णधरा मूर्तिरिव गारुडी तत्कालकलितदारुणभया दुरवलोकप्रकृ- तिरेका भ्रुकुटिबन्धकारितमुखी प्रकामवृद्धा तपस्विनी कोपेन परमुदगलं ज्व- लन्ती निर्जगाम । निर्गत्य च सहसैव सा कण्टकघटासङ्घटितैरिव, ज्वलत्कण- करम्बितैरिव, शृङ्गिविषनिषिक्तैरिच, रोषशाणोत्तेजनतीक्ष्णैर्वचोभिः आः पाप पुरुषरूप अपश्चितपशुभाव त्रुटितपटुविवेकगुणोद्रष्टचैतन्य घिमानुष्याधम त्वया किमेतदाचरितमपवित्रम् । कैतदपवर्गसंविद्विषयनायकजनयोग्यमासन- स्थानमारूढोऽसि । मूढ किमिति देवतार्चनवस्तूपकरणमियं भग्ना । तन्नूनमि- दानी त्वमस्यैव कर्मणः फलमनुभव । प्रथमसमुत्थितेन वचसा प्रोक्तः पशुरेव । किन्त्वन्यत्र समुड्डीय पतनेन पतङ्गजातावनेन च माणिक्यशुक्तिकाभङ्गेन तदाकारया चञ्च्वा शुको भूत्वा क्षपय कालम् । अयं च पटः शिरसि शुक- जातिविलक्षणं शिखा भविष्यतीति मां शप्तवती । अहमपि तथा शप्यमान- स्तया ननु किं मया कृतमिति यावद्धस्तात्पश्यामि तावदास्तृततदीयकृष्णा- जिनोपरि स्वचरणेन भग्नां माणिक्यमयीं शुक्तिमपश्यम् । दृष्ट्वा च सानुताप- मये चित्रविलोकनाक्षेपपरतन्त्रतया हृदयस्य, यावदसावुपमर्य भिद्यते ताव- दपि न चेतितं मदडितलेन । तदियमेतस्य कर्मणः सुमुपस्थिता परिणतिः । भवतु स्वीक्रियत एव देवेन यथा प्रदत्तमेतत्फलम् । यतः। गात्राणि कांस्यपात्राणि कर्मभिश्छिद्रितान्यसौ । कांस्यकार इवाजस्रं परिवर्तयते विधिः ॥ तन्नमे दुर्विषहशापसन्तापदुस्तरमेतत् । तथाप्यथेदमतिदुरन्तसंवादं दुःखमुपनतम् । यत्किल केयं कस्य सुता कतमकुलप्रसूता क वसतिः कुतोऽत्र समागता किमभिधाना त्रिभुवनेप्यनन्यतुल्याकृतिः कुमारी कमेनमपहस्तिता- नङ्गरूपं पुरुषपुङ्गवमिह हृदीव पटे लिखितमावहतीति न खलु प्रश्नानवसरेण कथञ्चन परिज्ञेया च बभूवेति चिन्तयति मयि प्रायस्तथा शापकलकलमाकर्ण्य झटित्युन्मुक्तपुष्पापचयकर्तव्या त्वरितमेव द्वित्रिसखीसनाथमूर्तिरसौ कन्यका संभ्रान्तेव ततोऽतिनेदीयसः कुसुमवादिकोदादाज़गाम । ।
सोडलविरचिता झगित्यागत्य च उपजातवक्त्राम्बुजम्लानिरिह पटे प्रगाढदृष्टिस्तम्भितेव निश्चलागी क्षणं किञ्चिविचिन्त्य सक्रोधमिव तां मयि वितीर्णशापां तपस्वि- नीमुवाच । हा हा कोऽयमार्ये सकलसत्वानुकम्पनपरस्य भवादृशो जनस्य वि- मलसमाधिसिन्धुनिद्धौंतक्रोधमलोपलेपश्चेतसि । आः कृपारसतरङ्गिणि भस्म- नस्समालेपेन धवला हिमकालचन्द्रिकेव प्रकामशीतलाऽपिक्लमकरी संवृत्ताऽसि। कराग्रवर्त्तिना रुद्राक्षवलयेन कुण्डलितविषधराध्यासिता चन्दनलतेव आह्लादि- दर्शनाऽपि भीषणीभूतासि । कपिलपाटलशिखावतीभिर्जटाभिवदहनार्चि- ष्मती महीघ्रमेखलेव सत्वाश्रयाप्यतेव्यतामागताऽसि । तत्किमेवमाराध्यच- रणे!प्रघनकोपानलज्वलितया दृशा तडित्पातमाचरन्ती जलधरेवात्यन्तममृता- शयाऽपि लोकमुत्तापयसि । किमितिचाक्रोशकटुरवेण वचसा स्फुरन्मुखरोर्मि- कलकला दुग्धाब्धिवेलेव मधुराऽपि व्यथयसे । शान्तेन्द्रियं किन्नाम संसारदू: रीकृतं त्वमद्य विस्मृता भगवती, येन शुक्तिभङ्गादागतेन सर्वार्थपरिपन्थिना कोपेन शतोऽयमतर्कितोपनतदुश्चेष्टितविपाकस्तपस्वी, तद्वधारय किमनेन प्राणिना कृतम् । अनेन निस्सङ्गपथवर्तिनामनुचितं दृषद्रस्तुमालमसौ शुक्तिका भग्ना । क्रोधेन तु किमङ्ग कथ्यते या किल हरिहरब्रह्मणामपि दुरापा निश्श्रे- यसरसास्पदं क्षमा नाम ज्ञानमयमयूखवती विवेकमणिनिर्मिता तावकी शुक्ति- स्तामद्य परमाणुभङ्गेन भूरिशो विमर्च जनिता महीयसी हानि:, तद्येन भग- वति तवेदमपकृतं तमेव संसारसागरग्राहमरिषडुर्गविजयिना प्रशमेन शमय कोपम् । एनं तु शुद्धाशयमिदानीमनुगृहाण शापान्तेन । किञ्चान्यदपि याच्यसे यथाऽसौ शुकजातिगतोऽपि विशेषवता भनुजचैतन्येन कालं गमयति तथा करोतु जन्तूनां हितहेतुरायेति साभ्यर्थनमनया प्रसादिता जातानुतृप्तिरिव सा तपस्विनी वत्से ययेवं तद्यथाऽयं पटोऽस्य शिरसि शिखात्वेन प्रोन्मेषमे- ष्यति तथा तदुत्थानपूर्वम (भ्र)षवाझ्याव(भि ?)रामनिर्मलं चैतन्यमुत्पत्स्यते यथा च ममासनगतेन भग्नेयमरुणमणिमयी शुक्तिस्तथाऽस्य यदा कस्यापि ज- गदेकभर्तुरास्थानवेदिकागतस्य शुक्तिकायमाना अशूभङ्गमायास्यति तदाऽयमा- त्मप्रकृतिमासादयिष्यतीति शापान्तेन मामनुगृहीतवती । अथाहमेतस्मिन्नन्तरे झगित्युपनतया शापाभिधानया नियत्या कबलिते चैतन्यविवस्वति, मीलितेष्विन्द्रियारविन्देषु, सर्वतश्चान्धकारिते जगति, अत्य सद्भावमिवात्मनः प्रतिपद्य निस्सङ्गभावमत्रजम् । अनन्तरं च कोऽहं कुत्राहं कथ- महं किं मूर्तिरहं किं वसतिरहं किं प्रचारोऽहं किमभ्यवहारोऽहमितिन किञ्चदव- उदयसुन्दरी कथा। बुद्धवानस्मि । इदानी परमेकहेलयैव लघुस्वरूपमग्रे विलोक्य स एवायमिति सादृश्या(स)पूर्णाभिज्ञानहर्षस्त्वरितमागतः प्रतीहारावगम्य दक्षिणदिगङ्गना- भरणकुण्डलं कुन्तलं देशमध्यासितं प्रतिष्ठाननानो नगरस्य स्वामिनमवन्यामे- कनाथमानन्दिनामधेयं भवद्वस्थानशोभनां भुवमनुप्रातः । त्रिभुवनैकभूषण- मियं च दर्शिता चित्रेण कन्यका । कथितं च यथाऽनुभूतं कुतूहलम् । आलो- कितश्च ज्वलत्कन्दर्पहुतवहोत्ततसीमन्तिनीमनोविश्रामधारागृहं देवः । प्रमोदा- ह्लादितं च प्रसन्नदर्शनालापगोष्टीसुखानुभोगेन सनेत्रश्रवणमन्तःकरणम् । अतश्चाद्य पुरुषधर्मानुबन्धी दिगन्तरानुसरणप्रसङ्गेन युष्मत्सङ्गमानिवृत्तकृत्यो- ऽयमात्मा । जातश्च ममात्र संसाराम्भोधिपतने भवत्परिचयात्मको रत्नलाभः । प्रत्येतु च मर्त्यलोकमकरध्वजः स्वामी । यस्माद्सौ कुमारी यथा चित्रगतेना- मना सेव्यमानया भवत्प्रतिभूर्त्या सनाथमित्थमेनं पटमावहन्ती भगवन्तम- म्बिकादयितमाराधयति तथा नूनमनुरागिणी त्वयि प्रसूनशरसायकशिखाभिः खण्ड्यमानमर्मग्रन्थिरत्यर्थमन्तय॑थामनुभवन्ती कापि कालं क्षपयति । एतनु पुनरित्थमावेद्यते । यत्खलु कुतश्चिदसम्भाव्यमानदर्शनया तया सौन्दर्यसम्पदा भोः क्षितीन्द्र तादृशी सा, न या निखिलविश्वकल्पनाशिल्पनिपुणेनापि वेधसा स्रष्टुं पार्यते, न या निरस्तलोकत्रयवराङ्गनारूपश्रीभिरपि शचीप्रभृतीभिर्वि जेतुं शक्यते, न या त्रिभुवनाधिपत्यार्पणसमर्थेनापि तपसा प्रासुमहतीत्येव- मुक्त्वा व्यरंसीत्। राजाऽपि अहो ! सुमहदेतदाश्चर्यम्, इमं वृत्तान्तमावेद्य कुमारकेसरिणा विस्मायितमाप्यायितं च मे मानसम् । यत्किलात्र संसारमहोदन्वति विष्मक ल्मषोल्लोल (विषमकर्मकल्लोल ?) लीलाभिरन्तरितं क दृश्यते कुत्र वाऽऽसा- द्यते तादृशं कन्यकारत्नम् । अथवा किमन्त्रालोच्यते निश्चितमचिन्त्यघट- नापटीयानेषविधिदुर्घटान्यपि घट्यत्यतो विधिरेव मे कदाचिनुकूलवर्ती कुवल यविलोचनां घटयिष्यते तामित्येवमनुचिन्त्य पुरोयायिनं कुमारकेसरिणमन- ल्पप्रेमोपचारचारुभिवचनैरुपरुध्यावस्थितये कृताभ्युपगममादाय निर्गतो मणि मण्डपादिसृज्य च पारितोषिकालंकरणदानजनितसन्मानं वसन्तशीलमा- रुह्य च तुरङ्गमं सह प्रणयिना सामन्तवर्गेण नगरमधिविवेश। इतश्च कन्याकृते नरपतिरेष मयि न्यस्तभार इति विधिना प्रहिता तां मृगयितुमिव जगाम दिनसूर्ययोर्युगली । ततश्च- संध्योन्मेषसमृतः पश्चिमदिग्वर्तिभूभृतः शिरसि ।
७२ सोडलविरचिता मनसि च मन्मथजन्मा मनुजपतेरगतो रागः ॥ अथ भुवनमभूतालोकपातालमूलो- दर इव निधालः प्रोद्भदन्धकारः। स खलु मलिनसारं धाम यस्योपभातु- प्रसरति न कुतोऽपि कापि सारस्वतश्रीः॥ इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां कुमारकेसरिसमागमो नाम सारस्वतश्रीपदाढ- श्चतुर्थ उच्छ्वासकः॥ पञ्चम उच्छासका। ततः क्रमेण प्रस्तुतसायन्तनारालिकसमयसमाहतामन्दमङ्गलमृद्गरवक- लकलोद्भिन्नो मच्छटाटोप इव हरित्कारिकपोलमण्लाहुचलितः पूर्वस्याम्, या- मिनीपर्यटन प्रवृत्तानां प्रेतसैन्यानामसितपताकास्तम्ब इव प्रेतपतिपुरान्तरुत्थि- तस्त्रिशङ्कतिलकितायां, शीतलावसरं विहाय निःसृतस्य वरुणास्त्रपाशफणिनो विस्फारः फणापञ्जर इव प्रविततः प्रतीच्या, निधेरि प्रथमपालकोपस्थिताना- मारक्षकर्तृणां करतलतुलितासिपतप्रभाकलाप इव कुबेरनगरगर्भ संभृतश्चोत्तर- स्यां दिशि, समन्तादावृतवियन्मण्डलो गव(र ?)लसम्भार इव द्रवीकरणाद्वि- स्तृतःप्रवाहेण, यामुनोजलौघ इवोट्ट ( ?)त्य विलुठितो भरेण, वात्योल्लास इव कजलरजसाम्, ईतिपात इव कोकपतत्रिणाम् , असितमुखपटोक्षेप इव दिग्ग- जानाम्, मृगनाभिपोन्तको (पत्रिको?) पचार इव भूवेदिकायाः, तमालदलाचार इव गगनमण्डपस्य, मुधुकरोत्पात इव ब्रह्माण्डपुण्डरीकस्य, मरकतोद्धाट इव भुवनकोशस्य, कलभकुलतल्पकल्पनाकुलकरिकुटुम्बिनीपाट्यमानाजनगिरी- तटीक्षोदसोदो दिक्पालपुरायतनदेवताधूपवेलोपदह्यमानकालागुरुधूमवल्लरि- प्रसार इव नीरन्ध्रमन्धकारो जगदाचचार । यत्रालोकविरोधिनि प्रविततध्वान्ते ध्रुवं नेत्रयो- स्त्रासेन त्वरितं पलाय्य हृदयक्रोडे निलीनं महः । तेनात्र स्थलमत्र वारि विटपी वाचाऽत्र पन्था इति स्वान्तेनैव निरूप्य सर्पति जनो यो यत्र तत्रैव सः ॥ यत्र च- निभृतचरणन्यासानुचक्रमामपनूपुरा- RBIHAR उदयसुन्दरी कथा। मसितवसनां नीलाभैरप्यलङ्करणैर्वृताम् । कलयति शनैरागच्छन्ती मुखानिलसम्मिल-- न्मधुपरणितैः सङ्केतस्थो युवा हृद्यप्रियाम् ॥ किंबहुना ANTITIONARIES अन्धत्वमाहितं मन्ये तमसा दीपकेष्वपि । अतो हस्तधृताः स्त्रीभिः सञ्चार्यन्ते गृहेष्वमी ॥ क्षणेन च पौरन्दरी दिशमनु तादृशतिमिरनिकरण नीलीकृते नभसि, हरहासराशिरिव दक्षिण (दाक्षायणीमुखे, ?) पाञ्चजन्य इव जनार्दनकरे, निर्मोकपुञ्ज इव कालियफणापञ्जरे, फेनपिण्ड इव यमुनाजले, मृगेन्द्र इव तमाल- कानने, हंस इव कुवलयवने, बलाक इव नवाम्भोवृन्दे, झगित्याविबभूव ता. रापतिः। MENassoldies ध्वान्तकशत्रुरिति निर्भरकोपवहि- संश्लिष्टदृष्टिपतनैरभिसारिकाणाम् चन्द्रः सुवृत्तसितबिम्बनिभेन भस्म- पुजीकृतः शिरसि पूर्वगिरेबभूव ॥ 41GAURESTHA CORREYAN पदं कृत्वा निरालम्बमुपरिष्टाधिष्ठितः। पूर्वशैलाक्षरस्येन्दुरनुस्वार इथाबभौ ॥ क्रमेण च- चान्द्रं महो मण्डलभाजनस्थं दुग्धं यथा यामवतीमहिष्याः । वियोगिनां दृग्दहनोग्रतापै- रुल्लासितं व्योमतले लुलोठ ॥ क्षणाच- धामभिः सितमयूखसमुत्यैः सान्द्रदुग्धविसरैरिव धौतम् । अन्धकारमलकजललेपत्यक्तमम्बरमभूदतिशुभ्रम् ॥ प्राप्य मण्डलमचण्डरोचिषञ्चम्बकाश्मसदृशं मधुव्रती। तीनभानुहतकैरवोदरानष्टशल्यकलिकेव निर्ययो ।
ZRAKSHASUENT सोडलविरचिता अनन्तरं च- गन्धः समृद्धो नवकैरवाणां प्रदोषवातैरवकीर्यमाणः । नासागतो नस्य इव क्षिणोति मानग्रहं मानवतीजनस्य ।। इतश्च ज्योत्स्नासखः कुसुमका कपाणिरेष निश्चेतनेष्वपि विकारविभुस्तथाहि । स्पृष्टाः करेण शशिना स्रवदम्वुभावैः स्विद्यन्ति शीतकिरणोपलशालभञ्ज्यः॥ MEHRARIABAD CHAR KANDHAMEEIPREE ANDRANI अम्भःकणास्त्रशतचर्चितपत्रहस्तसंसक्तपङ्कजमुखी कुमुदोत्सवेषु । मुद्रावरुद्धमधुपध्वनितैरिवार्कशोकातुरा सरसि नीरजिनी विरौति ॥ किञ्च- लिनी भुवनान्तरिते रवौ व्यपगतालिकलापशिरोरुहा । परिधे विधवेव सुधाकरद्युतिवितानमिषेण सितांशुकम् ॥ अथ तस्मिन्निरस्ततमसि धवलितनभसि विकासितकुमुदसरसि निहत- राजीवयशसिस्त्रावितशशिकान्तपयसि शून्यीकृतसङ्केतससि विधुरितविरहि- चेतसि विवर्जितानगतेजसि जगदाहादनपटीयसि विचरतिसौधांशवे महसि, क- न्दर्पदाहोपताप्यमानः कृतपूर्वरात्रकरणीयो राजा ज्योत्स्नामृतोपशालिते सौध- शिरसि हृदयसुखोपचारप्रपञ्चितमनन्यसञ्चारमसमीपद्वारपालकसखमभित्तिकं च विलासपटमण्डपमधिष्टितः, क्षीराम्बुधौ मधुविरोधीव धवलचीनच्छदांशुक- भास्वरे महति हंसतूलतल्पे निषण्णः, हरिणलाञ्छनवतश्चन्द्रस्य दर्शनेन तदाका- रसादृश्यादनुस्मृतं चित्रं वनिताङ्कितं पटबिम्बमविरतं चेतसि दधानः, तथा- श्रुताद्भुतव्यतिकरपरिभावनोद्भूतभूरित्वराविसारितया ननु कथमसौ कन्यका घ. टिष्यते क उपायः किं क्रियते के गम्यते कुत्रान्विष्यते कः समादिश्यत इति चि. न्तया समनुदन्तितमनोवृत्तिः,अन्वेषणाय तस्यास्तकेयन्नवस्थितिं त्रिदिवमन्दिरेषु नगरेषु विद्याधरपुरेषु गुह्यकाश्रयेषु भुजगराजधानीषु च, सर्वतोऽप्यम्बरमुत्प- तितुं गिरीनुल्लवयितुमुर्वीमतिक्रमितुमम्बुधिमुत्तरीतुं द्वीपान्तरमनुसतुमुरग- लोकं प्रवेष्टुमुत्सहमानः, स्पृहयमाणः सर्वगामित्वं पतत्रिणां, सर्वविलोकित्वं जगदेकचक्षुषो विवस्वतः, सर्ववेदित्वं च योगसिद्धानां, मदनरसविमूढो गग- नाधिरोहणरज्जुभ्रमेण लसति सितकरकिरणसन्तानेऽप्याललम्बिधुः, अखिल- दिङ्मुखाक्रमणवाहनधिया वहति कुमुदवनमारुतेऽप्यारुरुक्षुः, आहिभुवनपथम- तीत्या च भास्वत्यूमिलजलबिम्बितेन्दुप्रतिबिम्बपट्टिकाभोगेऽपि पिपा (यि. या ?) सुरित्यनेकधा विश्यमानो हृदयेन कियत्समयमवतस्थे ।
उदयसुन्दरी कथा। तथास्थितस्य हि चिन्तया नभसि निक्षिप्तचक्षुषो राज्ञः सहसैव ताव- न्तमपि संहत्य दिगन्तसंभृतं चन्द्रिकाभोगम्, अपाकृत्य च जेतारमपि तमसां चन्द्रमसं, असीमप्रसरः पुनर्निवृत्येवागतस्तावदारम्भस्तादृशस्तथैव भुवनमाच्छादयन्नुपस्थितो वियति विस्तारवानन्धकारः । तमालोक्य च राजा सनातविस्मयो मनसि भावितवान् , अहो कोऽयं किं जन्माऽयमेवं महाद्भुतवि- भूतिरकस्मादन्धकारः। किं नाम स खल्वस्तङ्गतो हिमांशुः। परं तिथिरद्य सा। यस्यां प्रथममेव कियद्धटिका च विध्वान्तमनन्तरमखिलापि यामिनी चन्द्र- मसा विभाति । कालोप्यहेमन्तवार्षिकतया निर्मलाम्बर एव न च विना पार्वणं दिवसमिन्दुग्रहणतया सर्वग्रासेन तमोऽपि राहवीयमाशङ्कयते । तत्किमेतत् । किमेष पुनरूतपक्षतया समुड्डीयान्तरिक्षशिरस्यारूढवानञ्जनाद्रिः, आहोस्थि- दकालजलधरः कश्चिदुन्नम्य समागतस्स्यात्, इन्द्रजालं वा केनाप्युपदर्शितमि- त्येवं विमृशति महीश्वरे क्षणादेव स खल्वन्धकारो निजापसारेण समुद्धाट- यन्नन्दवीं विभूतिमेकन पुञ्जीभूय गगनानगरपरिसरोत्सङ्गवर्तिनि भूतले पपात । तत्पातसमकालमेव तस्मिन्पातयन्निवाश्रूणि, द्रावयन्निव हृद्यं, छिन्दन्निव ब- न्धनानि, दूरोपसर्पणवशादकलिताक्षरव्यक्तिरत्यन्तमातः पूत्कारकरुणो ध्वनि- रविश्रान्तमुत्तस्थौ । श्रुत्वा च तं शब्दं ऊहनासगर्भमुद्भूतकरुणः क्षोणीश्वरो नन्वसावेकहेलयैव तमोराशिरम्बरमपहाय संवृतेनात्मना कः किल महीमव- तीर्णवान, अत्र च दूरान्तरोत्थानादतारमधुरः कस्यायमाक्रन्दमुखरो ध्वनिः, अथ भवतु यस्य कस्याप्येष पूत्कारः किमनेन, समन्तादातपरित्राणं नाम धर्मः सतां विशेषतः क्षितिपालनेष्वधिकारिणां क्षत्रियाणाम्, अतस्तावदविलम्बमे- वान गत्वा पतितमापदि प्राणिनमाश्वासयामि, प्रसङ्गादस्य च तमसोप्यन्वय- मवगमिष्यामीति निश्चित्य उत्थाय शय्यातलात् विधाय च वीरचर्योचितां वेषसंवृत्तिं आकृष्टखड्गः प्रावृतान्धकारपटप्रभावादलक्ष्यमाणोऽङ्गयामिकैरारब्ध- गमनवेगो मुहूर्तात्तं प्रदेशमाससाद । झगिति श्मशानवासिन्याश्चण्डिकायाः शून्यायतनस्य नातिदूरवर्तिनो विशालविटपेनाश्वत्थशाखिना सनाथस्य महान्धकूपस्योपकण्ठे तेनान्धकारपट- लेन कायकान्तितया व्यक्तिमागतेन मलिनाकृतिम्, अत्यन्तदीर्घतया दीर्घ त्रि- विक्रमादपि, प्रकामपृथुतया पृथु तारकपथापि, सरलासितमूर्तितया लोहाक्ष- मिव कालचक्रस्य, घृणावद्रूपतया तलारमिव (2) नरकनगरस्य, रक्तोपवर्द्धिताङ्ग- नया गर्भपातमिव मारेः, अतिथिमिव भुवनभोजिनः कृतान्तस्य, सहायमिव सोडलविरचिता कल्पान्तचारिणो भैरवस्य, सेनान्यमिवान्धकरुचिर(कासुर?)संहारिणश्चण्डि- कापरिग्रहस्य, पुम्भावमिव कृत्यायाः, पिण्डबन्धमिव भयानकरसस्य, स्पर्शप- रिणाममिव विरगन्धस्य, यागोपधातिनामन्तश्चरोऽयमिति क्रुद्धेन शतक्रतुना क्षिप्सदम्भोलिदहनसंदीपितमिव पिङ्गोर्ध्वमूर्धर्ज शिरो बिभ्राणं, ज्वलद्दीपकयुग चत्वरमिवातिपिछेक्षणचितयदारुणं बदननुज्जृम्भयन्तं, वक्त्रकुहरान्निःसर न्तीभिः पृथुतराभिरनेकशोऽप्यर्चिषां छटाभिर्मुहुरनासवतृष्णया रसनाशतानीव कल्पयन्तं, चैतन्यारोपणक्षणे सपदि विदीर्यमाणमुखदर्शनत्रासात्पलायितेन कृ- ष्णकिरणान्धकारवता वामहस्तेन खण्डेन्दुलाञ्छितां कालरात्रिमिव दर्शयन्तम् । इतरेण च पाणिना मलिनभासि मुष्टौ स्थितां यमस्य (च)दिघटनान्ध- तमसवर्तिनीमापाटलकटाक्षलतिकामिव लोहितालेपरक्तां कर्तिकामुञ्चयन्तम्, रिक्तान्त्रकूजिताकर्णनवशेन झगिति निक्षिताया दृग्विद्युतः पातादिव निपति- तेन सहजशालिना जठरावटेन भ्राजमानं, मेखलीकृताहिफणपंजरमणिबजा- दुल्लसन्तीभिः ज्वलरहुलजठरानलज्वालाभिरिव मयूखभालाभिर्नाभिकूपान्त- हीप्यमानं, सर्वतोप्यङ्गेषु पिशितशोणिताभावत (त्त? ) या स्वस्मिन्नुभूतकबल- नाशङ्कः प्रसादनाय देहतो विनिःसृत्य चरणलग्नैर्निजास्थिफलकशकलैरिव शुक्लातिरुक्षरुचिभिनखैः क्षितिपिण्डमापाण्डुरं कुर्वन्तम्, अशेषतोऽपि कीक- समयत्वादेकधातुनिष्पन्नमिव देहभावहन्तं, पितृवनविहारलग्नाभिश्चिताधूम- धोरणीभिः कजलितामिव निकामझ्यामानातिं दधानम्, इतस्ततः सलव- (संच ?)लभूषणसितोरगमिषादामिषेण भरणमलभमानैर्निर्गत्य रभसा नि- जान्त्रैरप्यवयवेषु मांसाशया सम्भाव्यमानं, भीषणतया विभीषकाणामपि भयमुत्पादयन्तं, बीभत्सतया नारकिणामपि घृणां जनयन्तम्, उग्रतया कृता- न्तमप्यभिभवन्तं, हिनतया मृत्युमप्यतिशयानम्, आवृतं भूषणीकृतानेकन नरकरोटिभिः, करङ्केण च सनाथवामकक्ष, मुखीकृतार्द्धललन्मांसपेशिकं, उपवीतीकृतशिरोमालम् , आलम्बितास्थिहारम्, आकारभासुर राक्षसं ददर्श । तेन च निधाय यमदण्डभीषणं मुजदण्डमन्धकूपोदरादाकृष्य प्रसभम- वरुडाम, अविरतं च सदीनमाक्रन्दन्ती, सुत्रासतरलतारकेण चक्षुषा निभा- लयन्तीमभितोऽपि ककुभः, प्रभूतकम्पामापाण्डुरेषु नक्तञ्चराभरणमालाकपा- लेषु संक्रान्तया प्रतिमूर्त्या तस्यैव शरणमिव प्रविष्टां, जटोरगरक्षितां यौवन- निधानका(कल ?)शीमिवान्धकूपगतॊदरादुत्क्रान्तां, कमलभ्रमादागतं चश्वरी- कचक्रमिव कराग्रमिलितं रुद्राक्षमाधानाम्, आवारकेण लावण्यसलिल- शैवलेनेव लतावल्कलेन शोभमानां, तारुण्येन निस्तुषीक्रियमाणस्य कान्ति- उदयसुन्दरी कथा। कलापस्योपरि परिस्फुरन्त्या तुषच्छटयेव योगपट्याकृतोत्तरासङ्गा, प्रकाशित- रूपमादर्शविम्बमिव भस्मनोहर्तितं गानमुदहन्ती, चतुरङ्गप्रमाणमासूत्रयतो विधेरणस्पर्शकम्पितादिच्युतेन कराद्गुणत्रयशालिना विकर्णमानसूत्रेणेव यज्ञो- पवीतेन विराजमानां, पृथुनेत्रकृष्णाजिनरुवा कुचकमण्डलुवाहिन्या त्रिवलि मेखलावन्धभृता धृतवतलिङ्गयेव गात्रश्रिया परिगतां, माहेश्वरी मूर्तिमिव शशिखण्डमण्डितां ललाटेन, वैष्णवी हृदयभूमिमिव कौस्तुभविभूषितामय- रेण, पैतामहीमासनस्थितिमिव सरोजमयीं धवलाक्षिविक्षेपेण, वृक्षशिवा- शायिभिरातरवप्रबोधादुत्कूजद्भिरानन्धमानामिव पतत्रिभिः, अनिलान्दोलित- शिरसा निवार्यमाणकौणपासिव पिप्पलमहीरुहेण, प्रसारितकरेणाकृष्यमाणा- मिव सुधाकरेण, कृतालिङ्गनेनापसार्यमाणामिव निशीथमारुतेन, प्रशान्ता- कारसुन्दरां चतुर्दशवर्षवयसमेकां कन्यातपस्विनीमपश्यत् । दृष्ट्वा च झटिति मा मा भैरिति गृहीतकरुणारसैर्वचोभिरासन्नमरणभयोद्भूतशोषामाश्वासयंस्तप- स्विनीमहो भद्रममृग्भुजा हतकेनास्पृश्यमानायामेवाहमस्यां त्वरितमिह प्राप्त इति प्रतोषोल्लसितमानसः सहेलहकारवं विमुश्च विमुञ्चापसर्प रे दुरात्मन् न खलु भाजनमसीदृशानामाहारोपकरणवस्तूनाम् । तथाहि- एनां तव प्रकुथदामिषखण्डसाध्ये भोज्ये यदीत्थमुपयोगवतीं व्यधास्यत् । वेधास्तत्र खलु रूपविशेषशिल्प- सङ्ग्रेशमीदृशमसौ बत नाकरिष्यत् ॥ तदहो विस्तारिणि पितृवनेऽन्न कुत्रापि निपुणमन्विष्य कालापहृतजीवि- तासु जन्तुकुटीषु शटितपिशितपिण्डकैः कुरु दुष्पूरणमात्मनो जठरगर्तकस्येति तं नक्तञ्चरमवोचत् ॥ सोऽपि झगित्यालोक्य राजानम्, अपि नाम सुरसिहविद्याधरोरगमनु- जगुह्यकानामन्यतमः, क एष युवा, मया हि किल सर्व एव त्रिभुवनोदविव- रसञ्चारिणो बीक्षिताः पुमांसः, पुरुषपुङ्गवस्यास्य तु किमप्यपूर्वमेवाङ्गेषु लाव- ण्यम्, अन्य एव कलापः कान्तेः, अपरैव हि रेखा सौन्दर्यस्य च, आरभटिस्तु किमापृच्छ्यते योऽयमत्यन्तभातुराकारदुर्निरीक्षाणां रक्षसामपि भयङ्करस्य ममाग्रे निर्विशङ्कमुत्खातखड्यष्टिरेवमात्मानं दर्शयति, तन्न सामान्यो भटमात्र- मसावद्भुतः कश्चित् । अथवा किमिष्टार्थपरिपन्थिनमपहस्तनीयं प्रतिभटमुप- सोडलविरचिता श्लोकनविकल्पेनालोकयन्नेव तिष्ठामि । निर्लोचयामि झटिति चैनमित्येवं वि. चिन्त्य कृतान्तसझनो मुखस्य द्वारि बडास्थितोरणस्रजमिव विस्तृत्वराकारशि- खरां विकासयन् दशनसंहति, तथैव च विशालधवलया प्रलयजलधरबलाका- च्छन्नमिव भुवनमापादयन् , अखिलदिग्गजकुलावत्रासकेन ध्वनिना सोल्लु- ण्ठहासं जहास । हेलया चाब्रवीदहो को भवान् किमेवमस्याकृते त्रिदशैरप्य- नभिगम्यविक्रमं वि(नि)ग्रहीतुमागतोऽसि मां । को हि कल्पान्तविस्तृताम्बोधि- जलमहालवेन लाव्यमानां प्रस्खलितुमिह क्षमः क्षोणी, को नाम बलवान्मया निगृह्यमाणामिमां विमोचयितुमीश्वरस्तापसीम् । किञ्च किं में त्वया द्विभुजेन जन्तुना क्रियते । योऽहमयोध्यश्चतुर्भुजस्य विष्णोरपि, दशभुजस्य हरस्थापि, द्वादशभुजस्य स्वामिनोऽपि, अन्येषां तु गणनैव कियतीतदेतदिष्टोपदेशानुग्रहे. णोच्यसे, कल्याणप्रकृतिरसि, किमित्येवमशक्यसङ्गरसमारम्भादात्मानमनर्थ- सङ्कटे पातयसि, किमिति तारुण्यतरलितो गगनमुत्पतसि, किमिति दान्धः कृतान्तमुखकूपे निपतसि, किमिति वीरव्रतसंयमी मृत्युमाराधयसि, किमिति शौर्यग्रहाविष्टो ज्वलत्यनावात्मानं क्षिपसि, किमिति रणरसास्वादप्रवृत्तो विषत. रुफलानि खादसि, किमिति सुभटचर्याकुतूहलैकदुर्ललितो दारुणेन फणिना क्रीडसि, किमिति विभुजबलावष्टम्भविनटितो दिग्गजेन कराकृष्टिकेलि करोषि, किमिति चापन्नपरिरक्षणप्रवणो रणेन विश्वकवीरं मामुपक्रामसि, ब्रज विमुञ्च दुःशिक्षितदुरन्तमिममध्यवसायमायोधनस्य न खलु विमुखेषु रक्षसां प्रवरः प्रहरतीति प्रोक्ते पलभुजा भूभुजामधीशः प्रत्युवाच । रे रे दुर्जीव किमेवममुना प्रश्नादिनिरर्थकालापकोलाहलेन जनयस्यन्तरा- यमुपस्थिताहवमहोत्सवस्य । स्वप्रशंसापरो हि यत्त्वं किल बहुभुजानामपि पुंसामयोध्यमावेदयन्नात्मानं द्विभुजनिन्दापरायणो मामवज्ञया जुषे तत्र सा तवैव पिशाचिकोदकोशकीटकस्य गरीयसी । नरेषु बहुबाहुता नाममात्य(न माहात्म्य ? )स्य । किन्नु न ज्ञातवानसि यत्खलु स्वामी निशाचरचक्रस्य रावणो विंशत्याऽपि भुजानां द्विभुजेन क्षुरनिशितधाराप्रदलितगलकन्दलोचलन्मौलि- पातमुपसंहतो रामेण, भार्गवेण च भुजसहस्रविस्तृतः कार्तवीर्यः, तद्वधा- रय भटानां भुजद्वयमेवोपयुज्यते संयुगेषु ॥ तथाहि- उचचित्तानां त्रिभुवनजये दक्षिणभुज: कृतारम्भो वामः पुनरभयदानाय चकिते।
उदयसुन्दरी कथा । ७९ क (कु ?)पुंसां तावेव ध्रुवमुदपूर्त्तिव्यवसिता- वभूदेकश्चान्यो मलनिगमभूमेः शुचयिता ॥ हरिहरस्वामिनामसाध्योऽहमिति च त्रैलोक्यवन्थेषु निन्दामातन्वती त्रुटितैव किन्नते जिह्वा । त्रुदिता न चेदहमिदानी लुनामि । अपिच रे पाप प्रतिपदमुञ्चितालापैः किमिह विस्तारितेन प्राकृतजनोचितेन कलिना । यस्मा- न्मियो मर्माविष्कारमेदुरो रण्डाकलिः, आक्रोशमुखराङ्गुलीस्फोटनप्रधानः सप- त्नीकलिः, असभ्यशपथिकोत्थापनपटीयान्कुहनीकलिा, स्वहननोपक्रमप्रवणो ब्राह्मणकलिः, शाखोडारपरः प्रहारवन्ध्यो वाणिज्यककलिः, कुटुम्बमेलि- कलकलोदर्गलश्चान्त्यजकलिः, अन्यश्च कश्चिदन्योन्याचरणनिन्दापरायणः, को- ऽपि परस्परकृतोपकारप्रकाशनपरः, कोऽपि गर्जितरवमानसारः, कोऽपि चात्म- प्रशंसापुरस्सरः कलिः, इत्याद्यनेकधाऽपमानकविषयो विधेयविफलः पर्यन्तनीर- सश्च समन्ताज्जानपदः कलिः । सुभटकलिस्त्वन्याश एव । यत्र प्रहारमिलि- तासिधाराखणत्काररव एव सङ्करालापः, प्रबलकुन्ताग्रताडितोदग्रतरकुञ्जरा- रटितमेव महीयसी हक्का, परशुमुखविखण्डितारिशिरःसुषिरपरिणतपवनो- रुभाङ्कार एव निर्झरागर्जिः, स्वभुजसंहृतारातिकुलपुरन्धिकानुशोचनपदान्येव परेषु निन्दा, विमुखीकृतकातराभयप्रदानमेव चात्मनि प्रशंसा चारलोकस्य, तदद्य रे समरमूढ तेनैव कलिनाऽनुष्ठीयसे । प्रहर प्रहर पूर्वम् । नामग्रप्रहारी रणेषु । येन ते झगित्यसिलतोल्लासलीलयैव विभूय कपिलकुन्तलसटाप्रभो- दीप्रहरशरानलकरालितं खण्डमिव त्रिपुरस्य पातयामि धरातले शिरः, तार- यामि च विपक्षनिग्रहेण तापसीम् , इत्येवमुर्वीभुजो निशम्य शौर्यमदोद्रेक- दारुणं रणालापम्, आनंदितः प्रवीरलाभेन, विस्मितः प्रतिभटावलेपोक्तिभिः, तरलितो राजभुजबलोपलम्भकौतुकेन, त्वरितः समरसङ्गमाभिलाषेण, कुपि- तश्च प्रस्तुतार्थ(वि)घटनात्, राक्षस: साधुभोः शौंडीर ! साधु, योऽहं प्रकृष्टरणपथोपदेशाक्षरैरेवमनुशिक्षितोऽस्मि तदेष पूज्यसे कुशिक्षितगुरोस्स- मरशिक्षादक्षिणया राक्षसेन तव । भवाभिमुख्येन । प्रगुणो गृहाण मद्भुजपरि- घप्रहारात्पौरुषस्य फलमित्यालापसमकालमुत्पाद्य पिप्पलस्य पुरोदृष्टमसङ्कटा. यामं ताल(दु)ममुद्रोण रंहसा नभसि भ्रामयित्वा क्षिप्तवान् । क्षितीन्द्रोऽपि तमापतन्तमन्तरिक्षण सौष्टवागमनसङ्गहीतैर्वायुभिः पूत्कारभरमुत्सृजन्तं पृथु- दलेन शाखाकदम्बकेन विपुलफणाचवाल भीषणं भुजङ्गमिव सरलप्रकाण्ड- मवनीरुहं सर्पारिचञ्चसन्दंशदारुणेनासिना विखज्य खण्डशः पातयामास । animalsranAS सोडलविरचित क्रोधेन यातुधानः पुनरन्यमन्यादृशा प्रहारोपक्रमेण शाखिनं व्यमुञ्चत् । अव- हितश्च राजा तमपि तेनैव पथा निर्वर्तितवान् । अन्यमन्यं च यं यमुर्वीरुहमति- क्रोधदुर्धरो निशाचरः क्षिपति तं तं नभस्युद्दण्डताण्डवनटेश्वरो नरेन्द्रश्छित्वा- ऽयनौ प्रकीर्णमेव दर्शयति । एवमन्ययनेकोदण्डगण्डोपलशिलादि यद्यथा सम्पर्थमन्त्रीकरोति नक्तश्चरस्तन्तथैव प्रपञ्चितोचिताघात भङ्गेन विघटयत्युर्वीभुजां प्रवरः। ततश्च क्षितीन्द्रकरतलितासिपत्रप्रभावपरिभूयमानेषु विषमपातिष्वने- कशोप्यस्त्रेषु बाढमुद्दीपितः प्रबलबहुलकोपानलेन कौणपः कुतोप्याकृष्य करे कृतनुत्क्षितवानेकमपूर्व, विश्वसंहारविदलितस्य ब्रह्माण्डसम्पुटस्य कर्परमिवो- त्पातचलितचण्डानिलेन बलादुल्लालितं, क्षितिपीठमिवादिकोलेन दंष्ट्रया विधृतं, कल्पान्तविघटितं कमठेन्द्रकटाहमिव स्फुटनवेगादूर्ध्वमुच्चलितं, देवतावतारि- तमिव अद्भुतानविस्तरं शिलापिण्डम् । उपरि चान्दोलयन्मस्तकस्य स दो- देकदुस्सहमवादीत् ॥ कालस्यासनपीठिकाऽतिमहती भित्तिश्च नारीगृहे मृत्योरप्यभिषेकमङ्गल विधावायामिनी वेदिका। महाहुप्रहिताऽध वीर शृणु भोस्त्वां संहरन्ती शिला योऽन्यः कश्चिदिहामरेष्वपि भटस्तेनाप्यसौ रुध्यताम् ॥ इत्येवमभिधाय (प्रहर्तु प्रवृत्ते राक्षसे) नरपतिविनाशशङ्कया हा हा गृहीतमप्रतिसमाधेयं पापेन रक्षसा प्रहरणमिति साकुतमाकुलीभवति तप- स्विन्याश्चेतसि, अहह दुष्करमितो विमोक्षणमवनीश्वरस्येति विषीदत्सु खेचरज- नेषु,अहो नि थमिदं जगजायते लग्नमिति च समन्तादुत्ताम्यति दिगीशवर्ग, न किल यावदसावाक्षिप्य क्षिपति तावदेकहेलयैव कलहकौशलविशारदो मेदिनीपतिरपहाय खङ्गमादाय च विचित्राघातघटनैकचण्डं गण्डोपलमतिरय- विसर्जितेन संवारिताखिलभुजस्था (स्थे ? )ना तेन झगित्याजधान कराग्रम- णिबन्धे पलाशिनम् । तस्य च गण्डोपलास्फालदलितमणिबन्धविधुरात्परि- भ्रश्य हस्ताच्छिला भूतले पपात । सा तागारम्भसंरम्भिणी महाशिला विवेश च निजाङ्गभर(दा)रितधरातला पातालम् , उत्थितश्च नरेन्द्रसम्बन्धिना साधुवादेन मिश्रितः समरमुत्पश्यतां नभसि नभश्चराणां कलकलः । अत्रान्तरे निष्फलीभूतबलवदखिलास्त्रपातप्रयासतया विलक्षो रक्षसां वरः सहसैव कचि- ददृश्यभावमापद्य प्रयातवान् । उर्वीश्वरस्तु विस्मितेन व्यचिन्तयत् । ननु कि- उदयसुन्दरीकथा । , मित्यसावसमानपौरुषः पिशिताशिष्वेवमकृतसमरसमाप्तिरन्तराल एव गत- वान्, किं सङ्गरे नरेणाधरीभूतस्त्रपया तिरोभूतवान्, उतापरोपायकाम- स्वधामन्यगात , अथच्छलेन मां वञ्चयितुं प्राविशन्न मसि, यदि वा ममाशयप- रीक्षार्थमेवं स्थितवान् , उतस्विदियमीदग्विधैव प्रक्रिया रक्षसां रणेकु, किं पुनः रनेनैव पथा पलायितवान् , आहोस्विदसावेवं समरोपसंहृतिक्रमः, तकिये नामने विधाय तपस्विनी यामि, प्रतिपालयामि वा मुहर्तन् , अथवा छिद्रग्रहा- रिणी हि रक्षसां जातिः, अतः कियत्क्षणमुदीक्ष्यत एव पन्थाः पापस्य तस्येति विकल्पमातन्वति वसुन्धरास्वामिनि, अकस्मात्तस्माद्गाधरन्ध्रोदराद्धकूपतः पातालजान्हवीप्रवाहपटुरवोद्वार इवोजगाम हुङ्कारजन्मा महाध्वनिः । तत- स्तस्यानुपथानुवन्धिना धूमपटलेन वर्षन्नतिचपलफालविस्कारिभिः स्फुलिङ्गैः कुल्लनुल्लोलवल्गिनीभिर्वालाभिः स खलु सामीरणेन रंहसा निजंगाम दुनि- रोक्ष्यो राक्षसः, स्थितश्चाने। तस्य च विसङ्कटाकारविस्तृतहुताशनाभोगस्य सुदूरमनुसर्पिणा(ज्वा)- लाकदम्बकेन ज्वलतीव मेदिनी, ज्वलन्तीव ककुभः, ज्वलतीवाम्बरं, विश्वमपि प्रलयकालानलकलापोद्दीप्यमानमिव दुस्सहावलोकमापन्नम् । अथ तथाकृतोप- स्थितिरसावग्निमयाकृतिरग्निमयालोकपद्धतिरग्निमयालापवृत्तिरग्निमधास्त्रसंभृ- तिरग्निमयाशेषव्यावृत्तिश्च दुरक्षरेण वचसा क्षितिपालमब्रवीत् । नैषा हन्त शिला न तालक्टिपाद्यस्त्रेषु चास्त्रं किम- प्येतद्यत्र विपञ्चयिष्यसि बलं बाहोरसेः कौशलम् । भ्रातर्वहिरसावनेन बलवज्वालावलीढस्य ते नान्योऽस्मत्करुणारसश्रुतिभरादास्ते परित्राविधिः॥ तदयमालिसे ललत्कालजिह्वाविलोलकोटिभिर्वालाभिरभिहितोऽसि भो रक्ष रक्षात्मानमस्ति रे शक्तिरित्येवमुक्तो महीपतिः कृत्वा स्मितं प्रत्यु- वाच । रे क्रव्यादकीटक साधु साधु अवधानेन सजीकृतोऽस्मि, क नाम छल- प्रहारिणामन्वयोत्पन्नेन भवता शिक्षितेयमेवं प्रवीरपुरुषोचिता सङ्ग्रामरीतिः । किन्नु रे मूढ पारुष्यविषमाभिघातदारुणे प्रहरणं नाम सुदूरमास्तां, यः किल सुखस्पर्शेन पयसाऽपि सिक्तः प्रलीयते तस्य हुतभुजोऽवष्टम्भेन यदित्थमाजौ प्रगल्भसे तेनाविमृश्य विचरनिश्चितोऽसि पिशाचजन्मा पशुः, पशवो हि वध्याः समराध्वरेषु । अतोऽद्य मया वधेन सम्भाव्यसे । श्रुणु यथा सम्भाव्यसे । सर्वत्राङ्गेषु वल्गद्धनगहनशिखाचक्रचण्डारकोटि- ११-१२ उदय सोडलविरचिता शुव्यत्पिङ्गरफुलिझोडुमरपरिकरणामुनेवाग्निना ते । पकं निर्वाप्य देहाभिषमसिलतिकालूनमापीनखण्ड तुण्डे कालस्य भास्वत्कुहरिणि शिशिरग्रासगृह्य क्षिपामि ॥ वहेस्तवास्य मम भीमभुजप्रताप- बज्रानलेन पिहितस्य कुतोऽवकाशः। उक्तं कुरु ब्रज गृहं मिल बान्धवेषु बुध्यस्व रे विसृज किं रणडम्बरेण ।। अथेत्थमपि नास्माकमुक्तं करोषि तदिदमनुभूयतामसमसाध्यावगुण्ठि- तस्य फलमात्मनः स्वभावस्येति गर्वगरिमोगरगर्भया गिरा तं कैकसेयमारकन्द्य ननु शीतलेन तीव्रः प्रशाम्यत्यम्भसा निर्वाप्यते वहिरतोऽग्निमादौ नियम्य पश्चादढें खङ्गेन राक्षसापशदमपहस्तयामि, तत्खलु विना पानीयमातरुपल्लवे- नापि प्रहतोऽयमग्निः प्रलीयते तत्तथा करोमीति निश्चित्य वामेन धृत्वा कृपाण- मितरेण च पाणिना नेदीयसो विननशाखस्य शाखिनः पृथुदलातिमांसलं पल्ल- वमादाय रे रे हिंसाधम ध्रियतां ध्रियतामेष विधाप्यते पल्लवाहतिभिरित्यम- न्दमाभाषमाणः प्रगुणिताघातबल्गुना संस्थानेन स्थिरीभूय धावितवान् । अनन्तरमगेन्द्रकुलपक्षतिप्रलयभीषणारम्भदम्भोलिदहनदुर्वारडम्बरमासू- त्रितं रक्षसाऽऽशुशुक्षणिप्रकरभकिञ्चिदिव नियमयितुमस्त्रीकृतेन विटपिनः प्रवा- लेन हेलोपक्रमं पराक्रममुदीक्ष्य मानवेन्द्रस्य, सहसैव परमहो मनसि नियाज वीर्यम् , अहोभुजशौर्यम् , अहो वचस्यकृत्रिमालापपरिकरमौढिः, अहो समि- याभिमुख्यम् अहोप्रहारकर्मण्युचितालव्यापारनैपुण्यम् , अहोप्रवलेऽपि वैरिण्ये- वमवज्ञाविस्फूर्जितं भूभर्तुरस्येत्य हुतरसावेशादिधूतमस्तकेजु रणप्रेक्षाकुतूहलिघु देवेष्वेकादशानामपि रुद्राणां जटाजूटतस्त्रुटितजाहवीप्रवाहजन्मा युगपदम्बर- तलात्पपात परितः प्रकीर्णविकरच्छटाकटकसम्पातदुर्द्धरो वारिसन्दोहः । तेन रुबैकादशिकोत्तमाङ्गगङ्गाम्भतां भरेण झगित्येव सा तस्य तावतोऽनुब- न्धादसाध्याऽपि विध्वस्ता शवाशिनो वैश्वानरी सृष्टिः । विश्वस्तवह्निशिखा - तश्चासौ तथैव त्वरया विशेषभीषणाकारमेकं शिरसि शिखादण्डमिव मृत्योः, द्वितीयं कुलिशमिव सुरेन्द्रस्य, तृतीयं शृङ्गमिव कालमहि षस्य, चतुर्थं कोण- मिव त्रिशूलस्य, पञ्चमं विषाणमिवाभ्रकुञ्जरस्य, वार्द्धकावगलितं चण्डिकादन्त- मिवास्त्रतामापन्नं, दनुजदारुणाघातविघटितं नृसिंहनखरमिव मुष्टौ निवेशितं, MAILION AAM उदयसुन्दरीकथा। ८३ कलिन्दसुताकृष्टिपाटितोऊतदत्रुटितं सङ्कर्षणहलाप्रमिव वस्त्वन्तरेण स्थितम- पारपरुषताप्रचण्डमादाय मण्डलायमसमखण्डनभराडम्बरप्रबलः प्रतिभटपला- यनाशङ्कयेव सुदूरमसिलतोल्लासनबिसारिणा बाहुपाशेन रुन्धन्नाशामुखानि, उपरि परिसर्पता कृपाणदण्डेनार्गलथन्विहायसोद्वारम्, उदारदीपकालोकदीप्रया दृशा कुर्वन्सर्वतोऽप्युद्योतम् , उत्तालतुमुलेन किलकिलारावशिबिरेण विश्वगतं च लोकमुन्निद्रयन् , उग्रपदपातलितमेदिनीपृष्ठः प्रधावितो राक्षसः क्रोधानु- बन्धातिदुर्द्धरं प्रहर्तुम् । अथासौ सहसैव परं प्रहारव्यापारितो राक्षसेन खड्ग- स्तबुग्रकरमुष्टिबन्धादिघट्य राज्ञः प्रदक्षिणां कृत्वा पुरश्चरणयोः पपात । राक्षसो. ऽप्यत्रान्तरे संवृत्य सपदि सभामदारुणं स्वरूपम् , उपरचितकरसम्पुदाञ्जलि- रागत्य विनयादाजानुविनमितेन मूर्धा प्रणाममकरोत् । अब्रवीच सप्रश्रयम्- अहो ! सत्यममुतः स्वरूपाद्वगतोऽसि यः किल जीव इव संसारशरीरस्य गीयसे, मुक्तामणिरिव ब्रह्माण्डशुक्तिसम्पुटस्य पथ्यसे, मृगनाभिनायक इव नरलोकव्यञ्जनये(नाय ?)निर्वयंसे, रत्नगुच्छ इव भूकल्पलतिकायाः श्रूयसे, माणिक्यबन्ध इच जम्बूद्वीपपदकस्य प्रतीयसे, स खलु सकलभुवनभूपाल- भूषणापीडचूडाग्ररत्नं प्रतिष्ठाननगरपरमेश्वरः कुन्तलानामधीश्वरो राजा मलयवाहनो भवान् । यस्य ते नामाक्षरस्तम्बः सदैवालापमालानिमगुलुच्छ इव गुह्यमाणत्रिभुवनश्रिया सततमखिलब्रह्माण्डमण्डलोदरविहारलीलावि- शृङ्खलेन मया समन्तादयमेव सुभटगोष्ठीष्वयमेव शृङ्गारवार्तास्वयमेव कवीश्वरसभास्वयमेवाग्रगणनासु त्यागिनामयमेव नामग्रहेषु विदुषामयमेव प्रशंसासु क्षत्रियाणामाकर्णितो बाढम् । कस्यापरस्यान्धकभिदा देवेन वर्णित- पराक्रमं मामभिभवितुमीश्वरा शक्तिः, कस्य वाऽन्यस्य प्रभावमपहाय पपात पुरश्चरणयोरेवमसौ त्रैलोक्यविजयी मण्डलामः, तदेष स्वयमुपढौकितात्मा स्वीक्रियतां कृपाणः, मुक्ता च तापसीयम्, इदानीमनुज्ञया प्रसीद, ब्रजामि निजमाश्रमस्थानम्, सिद्धश्च तवाहममुना विक्रमरसेन, कदाचिद्वसरे यन्म- याऽपि कार्यमुपयुञ्जीत तत्राहमनुस्मरणीयः श्रीमतां वरेणेति सानुनयमभि- धाय तूष्णीं गते तस्मिन्नुपजातकौतुको नरपतिरवादीत्-भोः ! समरसन्नि- वेशोऽदिता भदैव जायते मैत्री । तेनाद्य मे रमा(गा?)नुभावाजातोऽसि निशाचरधौरेय मित्रम् । अतो न नाम रक्षणीयं मनः स्तोकमापृच्छ्यसे कथय को भवानवश्यममुना स्वरूपसंरम्भेण न खलु पलाहारपौरुषं रक्षोमात्रमति- मात्रगुणोऽसि राक्षसेषु कश्चित्, कश्च क वाऽयमासादितः प्रभावी मण्डलाया, ८४ सोडलविरचिता किमिति चेत्यमतुच्छमनसाऽपि भवता कृपास्पदमारब्धेयं तपस्विनीत्यादि पृष्टो नृपेण सोऽब्रवीत् कथयामि श्रूयतानुर्वी( पते ! ) प्रसिद्धैव भवतामस्तीह तोयक्षि- णस्य परं कूलमलङ्कृत्य स्थिता सर्वतोऽप्युद्दीप्रकनकमयाशेषष्टितया बहि- निर्गतस्यास्थानपदवीव वाडवस्य, वजितपक्षस्य वजहनविश्रान्तिरिव त्रिकूट- शैलस्य, हरशरहुताशदीतस्य प्रद्युतिरिव त्रिपुरस्य, कनकसञ्चयपरस्य कोश- द्धिरिव दक्षिणदिगीश्वरस्य, प्रलयपवनास्फालनत्रुटिता हेमाद्रिशिरःश्रेणिरिव विदीर्य शतशः प्रकीर्णा भूतले, भूय(रिव?) सौवर्णी त्रिभुवनश्रियः श्रियो- ऽनुकारादुत्पादितेन्द्रपुरीशङ्का लङ्गा नाम नगरी । यस्यामद्यापि दशकण्ठ- शासनकर्थनानुस्मरणत्रासात्समोरणः प्रचलदायतपताकामतरलिनाकारेण स. दैव कम्पमानः प्रविशति । यस्यां च रावणेन बलादानीय निभूतानां त्रिदश- बन्दीनामनवरतमनर्गलाश्रुपातमलिनितानीय कालिमानमावहन्ति मरकतोपल- फलकनिर्माणवन्ति हन्येषु मणिकुहिमतालानि । या खल्वहो विना दशानन- मिदानी कोमलातपकारितामुत्सृज्य स्वातन्त्र्येण प्रवृत्तोऽयमिति पतिपराभव- मसहमाना तपति तीव्रमादित्ये सूर्यमणिभूमिकाऽऽविर्भूयमानार्चिश्छलेन कोपा- दिव ज्वलति । या च दशकन्धरे स्वामिन्युपरते विलासवापीषु पीडयति कमलषण्डमचण्डधामाऽसावित्युदये चन्द्रमसः स्यन्दमानेन्दुमणिगवाक्षवलभी- जलबिन्दुराजिभिरजस्रमेव शोकादिव रोदिति । तस्यां च रक्षसामधीश्वरः पु- लस्तेरपत्यम्, अन्वयाभरणम्भोजभुवो भगवतः, श्रीमतश्च विष्णोश्चरणनख- चन्द्रिकाऽऽचान्तललाटतटकालिमान्धकारधोरणिः, अनन्तरं रावणस्य प्रतिष्ठि- तो राघवेणात्मनः प्रताप इवास्ति राजा विभीषण इति । असावपि ख्यात एक भुवनेषु । धान्ना तीव्रगुणाञ्चितेन जगतामत्यन्तमुत्तापके प्राप्ते कालवशान्निशाचरपतौ लोकान्तरं रावणे। तेजस्वी शिशिराशयः शुचिसुधानिष्यन्दहृद्याकृतियः सूर्येऽस्तमिते शशीव समभूदाप्यायको देहिनाम् ।। अपि च- योऽभून्निसर्गमलिने रौद्रे जातोऽपि रक्षसां गोले । विमलाकृतिरतिसेव्यो मणिरिव फणिनां फणाफलके ॥
उदयसुन्दरीकथा। RMA तस्याहं मातुलसूनुरनल्पेन च गृहीतः प्रेम्णा रावणक्रोधनिःमृतस्यापत्स- हायः सहानुवर्ती हृदयस्थ मायाबलो नाम । एकदाऽस्मत्स्वामी विभीषणः सह प्रणयिना लोकेन सुकेलिललितया सन्तिष्ठमानो गोष्ठया झदित्याकूतसत्वरमा- गत्य विज्ञप्तः प्रतीहारेण-देव कङ्कालको नाम कौणपः कुतोऽपि वेगादाग- तो देवेन सह दर्शनं निर्विलम्बमर्थयत इत्येवं निशम्य स्वामिना शीघ्रं प्रवेशये- त्यादिष्टो द्वारपालस्तथा कृतवान् । असावपि प्रविश्य कृतप्रणामो राक्षसः स्वा- मिन्नेकान्तसमाख्येयं कार्यमित्युक्तवान् । तथाऽस्मद्वितीय एव स्थिते राक्षसप- तौ स खलु सङ्केपतः कङ्कालको वक्तुमुपाक्रमत-देव ! तदा देवेन प्रेष्यमाणेषु प्रतिदिशमवनितलचारिषु चरेष्वहमप्युत्तर दिशमुररीकृत्य निर्यातवानितः । तथा निर्गत्य चोल्लङ्घय लहरीबिसारिशीकरनिकरान्धकारितदिवं महानदी नर्म- 'दामधिविष्टः प्रकृष्टं पत्तनेषु पल्लवितधवलध्वजाटोपं लडहलाटीकटाक्षः, अलङ्क- तजनालापमालापभङ्गिभिर्विलासिनाम्, आश्रयं श्रीमतां भृगुगच्छं नाम न- गरम् । तत्र चासीमरम्यतया निरुद्धहृदयोऽहं कियतोऽपि वासरानतिक्रम्य क्रमेणोत्तरापथवर्तिष्वशेषदेशान्तःपातिष्वनेकशोऽपि ग्रामपुरपत्तनाधिष्ठानेषु विचरन्कंसारिशैशवदशास्पदमागतो मथुरेति नाम्ना नगरीम् । तस्यां सह- सैव परमागतेन मया भ्रातृयोगाविघटित इव मारुतिः, पुरुषरूपेण परि- णत इवाञ्जनेयः, क्षत्रियकुलेऽवतीर्ण इव द्रौणिः, द्विभुजमूर्त्या प्रतिष्ठित इव कार्तवीर्यः, प्रधानः पौरुषेण प्रवीरो राजसूनुरेकश्चतुष्पथे प्रथीयसाऽनुबन्धेन खेलन्नसङ्ख्यपणितार्थदुस्तरं द्यूतमालोकितः कुमारकेसरी नाम । नाम च तस्या- परैयूँतसहचारिभिरुदीर्यमाणमवबुद्धवान् । अस्मिन् सञ्जातकौतुकचाहमहो कु- तोऽयमियन्तमसंभाव्यमिह खेलनायार्थ प्रस्तावयतीति नाथ ! यावदालोकयामि तावत्किमालोक्यते भुवनमप्यवीरं मन्यमानो यत्रैव कुत्रचिद्धनीयसि दुर्गमे चास्थानेऽस्ति द्रव्यं ततोऽसौ विघट्य हठाकुटं सुभटभुजपरिघसङ्घमन्यदप्य- चिन्त्यमन्तरायकारणमानयत्यर्थजातम् । न चास्ति तत्पौरुषस्य किमप्यसाध्य- मगम्यं वा प्रायस्त्रिभुवनेऽपि । अनन्तरमुद्भूतविकल्पेन चिन्तितं मया-नन्वेष बलवानवश्यमनेन यूतसम्बन्धिना महारसेन साद्भुतेन चामुनाऽध्यवसायडम्ब- रेण साहसेन च मरुतामपि त्रासकेन कनकार्थी मेरुमुत्पाटयति, रत्नेच्छया फणीन्द्रफणापटलमुहलयति, अर्थकामश्च गृह्णाति बन्दे कुबेरनाथम् । किन्नाम कपिमात्रकमेकाकी चाञ्जनेयः प्रखरदशकन्धरभुजापञ्जरगतामपि न लङ्कामा- सोडलविरचिता कुलीचकार, भीमश्च प्रविष्टो नागलोके विघट्य विषवृष्टिभीषणफणाफलक- दुर्लयसुरगशौण्डीरदुर्ग नापियत्पीयूषकुण्डानि । तदितो निर्गत्य मा पुनः स्वर्णास्पदमिति नेदीयसी लङ्कामाक्रामत्यतः पश्मामि कियद्नुष्टानः किमा- चरत्येष इति यावदवहितो भूत्वा तस्यैव पृष्ठमनुसरामि तावत्तथैव संवृत्तम् । एकहेलयैव परमसावेकस्मिन्नहनि दक्षिणं दिग्भागमङ्गीकृत्य निर्गतो नगरा- दुपान्ततिनि ग्रामके च रात्रिमतिवाहयितुमेकस्य वृद्धकितवस्य वेश्मनि प्राविशत् । तेन च प्रणयादन्तव्यं प्रदेशमाष्टः स खलु सम्भाव्य नामग्रहगौ. रवेणाब्रवीत् । भोः पिप्पलक ! गन्ताऽहमितो दक्षिणेन सिन्धोः परकूलवति- नममानुषप्रचारं स्थानम् । अथेदमाकर्ण्य झगिति भीतवानहम्-अये ! स एष मे स्पष्टतामुपेतो विकल्पः । सत्यमेव लङ्कापुरनिग्रही वीरोऽयम् । यथा रक्षसां पदमपहाय लङ्कामितो दक्षिणे सिन्धोः परपारवर्ती का किलामानुषप्रचारोऽस्त्य- परः प्रदेशो यत्रैष यास्थतीति निश्चित्य तेनैव सार्द्धमहमध्यलक्ष्यवृत्तिना रूपे- णानुगन्तुमारब्धवान् । तथाऽसौ प्रबलवेगानुषङ्गिणा गतिक्रमेणाक्रम्य भुवं भूय. सी प्राविशदक्षिणं देशम् । आसाच च मलयमण्डलमखण्डपटुभिः प्रयाणकैरा- याति तस्मिन्नुभृतनिश्चयोऽहमहो सुदूरमेतावतीमबनिठल्लङ्घन्य प्रवृत्तश्चेद्गन्तुं तदेष साधयिता लङ्कापुरस्येति चेतसि विचिन्त्य त्वरितमेव पुरः प्रधाव्य समागत- वान् । आख्यातश्च व्यतिकरोऽयम्, इदानी देवः प्रमाणम् , स पुनरागतो बलीयान् पुरुषप्रवीर इत्युक्त्वा विरराम । ततश्च राजन्नेतदाख्याय स्थितवति कङ्कालके सहसैव परमक्षिपद्रक्षसा- मीश्वरः शङ्कितान्तःकरणतरलितं मदानने चक्षुः । अथाहमाशङ्कितं स्वामिनो हृदयमाकलय्य प्रणयादकृत्रिमेण वचसा विज्ञप्तवाल-देव किमिति शङ्कया मनो व्याकुलयसि । यद्यपि दुर्वारभुजपौरुषप्रसरो वीरलोकः स्वर्लोकमकिञ्चि- दिवाक्रामति, मेलं कसेरुमिवोत्खनति, पातालमालयक्रोडमिवाविशति, तथाऽपि न मे मायाप्रभावस्य प्रतिभटोऽस्ति त्रिभुवनेऽपि । योऽहं नाथ दिने निशां निशि दिनं चन्द्रेऽर्कमऽपि च प्रालयद्युतिमन्धकारपटले तेजस्तमस्तेजसि । किश्वान्धौ स्थलमम्बुधि स्थलपथेऽप्येवं करोमि क्षणाह- स्तुव्यत्ययविभ्रमेण झगिति त्रैलोक्यमन्यादृशम् ॥ तद्देव प्रसीद मे प्रेषणादेशेन येन कङ्कालकसहायोऽहमन्तराल एय त- उदयसुन्दरी कथा । ८७ मागच्छन्तमपहस्तयामीति विज्ञप्ते मया, स्वामी विभीषणो यथाऽभिप्रेतमनु- तिष्ठतु भवानित्यादिदेश। अथ सनाथः कङ्कालकेन तस्मिन्नेव क्षणे तस्याहमागच्छत्तो मानवस्य सन्मुखनुञ्चलितवान् । अवाप्य च कियत्याऽपि च कालकलया जलयमण्डलमे. कत्र महतो जीर्णवनगह्वरस्य गर्भे गलितधनतुलादण्डं चण्डिकाप्रासादमपश्यम् । आलोक्य तं नन्वित पुनरनाश्रय कानलमवेत्य कदाचिदसौ वीराध्वगो बसतये प्रविशतीति तमेवाश्रितवान स्मि । तत्र च देवीपदोपसेविना वेतालवर्गणागत्य विधीयमानालिङ्गनकुशलप्रश्नादिसत्कारस्य तिष्ठतो मे झटिति परमसौ प्रहरमा- त्रायां रात्री समागतो वीरः स एष इति ५ चाङ्गणकवत्यैव दर्शितः कङ्कालकेन दृष्टे च तस्निादारमूर्तावुत्पन्नाचमत्कारोऽहमहो स्तोकभिवायमा ख्यातो राक्षसचरेण । स्वरूपेण पुनरीडशा कियन्मात्रमनी भीमादयो भटाः, स्वलॊकनुभटेभ्योऽप्यवश्यनतिशेते। तदस्तु तावदपरामस्यैव चेष्टामचरितस्य मौतुकेन सबेतालपरिजनस्तिरोभूय निभालयामि मुहर्तमपीति सम्भधार्य तथा स्थितवान् । अनन्तरमसावपि प्रविश्यान्तनमस्कृत्य च देवीमागत्य बहिरेव मण्डपान्तरूपाविशत् । तथोपविष्टस्य च तस्याम्बरपथेन परमाजगाम विदितपू- वश्चास्माकं कपालभैरवो नाम विद्याधरजन्ना कापालिकः । तेन हि प्रणया- दापृच्छयमानः प्रवीरोऽसौ “ मथुरापुरनिवासी राज्ञः कलिन्दकेतोः सूनु त- व्यसनानुसारिणा द्रव्येण दुःस्थितः प्रभूतं काञ्चनमनन्तं च विभीषणस्य कोश- जातमाह हिरण्यपरिकरांलङ्कापुरी प्रसाधयितुमुञ्चलितो नान्ना कुमारकेसरी" त्यादि यथावस्थमात्मानमात्मनोऽध्यवसायस्वरूपं चाख्यातवान् । उत्पन्नप्रतीति- श्वाहमहो साधु साध्वनेन परेगितावगमकौशलेन । कङ्कालक! साथु त्वया लक्षि- तोऽयमिति रभसादभिनन्ध तं राक्षसचरं सबहुमानमालिङ्गितवान् । इतोऽन्य- सावुदग्रतद्विक्रमातिरेकपरितुष्टो महाव्रती झटित्याकृष्टिविद्यया दिव्यं कृपाण- मानीय दत्वा चायुधकृते निरायुधाय तस्मै तथैव च स्वयमन्तरिक्षण वमना निर्गत्य ययौ । सोऽपि राजपुतः करेकृतेन तेनासिना सह प्रविश्यान्तरा- यतनस्य स्थितो निद्रातुम् , अथाहमहो यादगाख्यातस्तादृश एवायमसाध्यः सङ्गरेण । विशेषतः सहेतिरनुना कृपाणेन । यस्यास्य दृष्टिमपि वयमनीश्वराः सोदुम् । अतो मायैव प्रयोजनीयाऽस्मिन्निति वितर्कसमकालमुन्मीलितया धिया सह पमये किमन्यदालोच्यते द्यूतव्यसनवानयं, तत्खलु भायाधिना यूतेन प्रतार्य ८८ सोडलविरचिता प्रसाधायाम्येन मिति विनिश्चित्य तं देवीपरिग्रहं वेताललोकमेकत कितववृन्द- तया निरूप्य बहिरान्धिकं यूतमुपक्रमितवानस्मि । द्यूतरसोल्लोलकोलाहल- माकर्ण्य चासौ तदेकपरतन्त्रचित्ततयाऽऽकृष्टो भटः सरभसमभ्यन्तरान्निष्क्रम्य सारयित्वा च रमणस्य कृते तं खड्गमखण्डितव्यसनः खेलितुमुपक्रान्तवान् । अहमपि मायया कङ्कालकं विमानीभूतमधिरूढो विहितविद्याधराकृतिरात्मा- नमन्तरिक्षादवतरन्तमुपदर्शयन्नागत्य तस्मिन्नुपाविशम् । लग्नश्च हारितार्थश्च तदेव तिरोभूतराक्षसाकारं कनकमणिविमानमाधौ विधाय खेलितुम्, अथ महा- रम्भवति प्रवृत्ते द्यूतस्य भरे तथा रचितवानस्मि मायया द्यूतं येन मे विपर्ययेण तस्यासिरागतो हस्ते तस्यापि विमानीभूतः पर्यवसितो राक्षसः । सिद्धसमी- हितश्चाहमतान्तरे संवृत्य द्यूतमादाय च मण्डला सोपस्करेण सह तेन वेताल कितवलोकेन तिरोभूतवान् । स तु लङ्कापुरगामी मनुष्यवीरो मानुषैरलभ्यस्यग: गनचारिणो यानस्य लाभेन परितुष्टो विमानमित्यधिरूडः कङ्कालकस्य पृष्ठम् । तेनाप्यसाबुत्पत्य सुदूरमम्बरपथेन नीत्वा मनुपदेशादेकल दुस्तराभोगभासुरे गरीयसि सागरस्य पयसां भरे क्षितःक्षिप्त्वा च पयोधिपातप्रसाधिते तस्मिन् लडार्थपरिपन्थिनि क्षत्रियकुमार विहाय मायामागत्य मिलितेन कङ्काल- केनानुगम्यमानोऽहमागतो लङ्काम् । आख्याय च वृत्तान्तमर्पितवानस्मि स्वा- मिनः करे कृपाणम् । अत्यन्तमुदितेन स्वामिना च विभीषणेन ममैवायुधकृते प्रसादाद्दत्तः । स एष श्रीमतामधीनो मण्डलानः। तापसी चेयं किंजातिरिति न जाने । कुतोऽपि हेतोरस्मत्पुरे लङ्कायां वल्कलावरणगोपितेनात्मना प्रतिदि. शमितस्ततो भ्रमन्ती सहसैव मे नयनगोचरीबभूव । दृष्टमात्रैव च मयि मद्- नास्त्रीभूय व्यापृता। तथाहि- वल्कलपटावगुण्ठनपिहिताऽसौ तापसी मया दृष्टा । कोशनिहितेव तन्वी खड्गलताऽनङ्गसुभटस्य ।। किञ्च- एषाऽनुमार्गमिह पर्यटनप्रयास- भूरिश्रमाम्बुभरधौतशरीरयष्टिः। सद्योपिपायितजला मदनस्य हस्त- भल्लीव मे झगिति हन्त हृदि प्रविष्टा ॥ । AAINAINITIONARY उदयसुन्दरीकथा। । ततश्चैवमवन्ध्यमकरध्वजकरायुधाघातबाधया विधुरीकृतो निरस्य नाय- कोचितं धैर्यमवधीर्य ब्रीडामनुगन्तुमेनां प्रवृत्तवानस्मि । बाला तपस्विनी चासौ झटित्येव ततो नगरगर्भादुत्पत्य निरालम्बमम्बरपथेन निर्ययौ । मयाऽप्यये नियतमनयोत्पातविद्यया दिव्ययुवतिः काऽप्यसाविति विनिश्चित्य तयैवोत्पत- नप्रक्रियया पृष्ठलग्नेनाऽऽरब्धा गृहीतुम् । एकत्र कुत्रचिञ्चन्दनवनवलयपरिमलो- पगूढगिरिनिर्झरतुषारनिकराञ्चितैर्वायुभिरनङ्गदहनोद्दीपनपटीयसि प्रदेशे मया मायामयं दिजस्थ रूपमाधाय वचश्छलेन छलितयाऽपि तयैव छलोक्त्या छलितोऽहमनया। निराकृत्य मां पुनरुत्पपात व्योमनि । रे प्रतार्य मांगता हता- शेयमिति तत्कालमुत्थितमहात्विषा कोपानलेन झगिति पिङ्गलीभूतलोचनोऽह- माविर्विधाय तदेतदात्मनो नैशाचरं रूपमनुपृष्टधावितः पलायमानामिमां विधृत्य सम्प्रतीह रावणो बलादनिच्छन्ती सीतामिव प्रवृत्तो व्यापादयितुम् । अनान्तरे च जगदेकरक्षिता क्षत्रियवरिष्ठो झटित्येवाधिष्ठितः पुण्यैरमुष्या भवान् । भवता तु सह सगरे न नाम शवपिशितपेशिकोत्कर्तनकमैकशक्तिः कर्तिकेयमहत्यायुधीभवितुम् । अतः स्मृतिमात्रोपस्थितिपटीयानेष संस्मृतो दिव्यासिः। असिरप्यसौ पूर्वमेव मे कथितवान् स्वप्ने यथा किल वैकुण्ठावतारे पुंसि व्यापारितोऽहमशस्त्रतया भवतो भविष्यामीति । अजानता च मया तदं- शावतीर्णे त्वयि प्रयुक्तोऽनुकृतवानेषोऽपि यथोचितं पूज्येषु । तेन हि तवायत्त- शक्तिस्तवैवायमर्पितः कृपाणः । तिन्यामस्यां तु योषित्यनौचित्येन विषयस्य, त्रासेन वा दण्डधरस्य (भग)वतः, प्रबोधेन वा महतो विवेकस्य, वश्यतया महाशयस्य मनसो झटित्येकपद एवासौ विभ्रश्य गतवान् स तादृग्गरीयानप्य- नुरागः । तो वीररससिद्धिप्रमु(दित)दिगीशरसनाग्रफलकोत्कीर्णपरमपौरुष- प्रशस्ते पार्थिवैकतिलक श्रीमन्नेष ते कथितो वृत्तान्तः । प्रहिणु यास्यामि सत्वरमिदानीमिति । अनुज्ञातो नृपेण स खलु शौण्डीरजन्मा निशाचरो झगित्येव सूरविद्रावितोऽन्धकार इव तिरोबभूव । सा च तापसी निलीनकौणपभयादतिक्रान्तकम्पा व्यपगताशेषप्रस्वेद- संप्लुतिरुत्पन्नसुस्था सुस्थीभूतहृदयवृत्तिरनाकुलेन चक्षुषा सर्वाङ्गमुदीक्ष्य मेदि- नीनाथं मुहूर्तमन्तर्मनस्येव निसृष्टाथै विचिन्त्य किञ्चिदवाञ्चितया दृशा निक्षिप्तैः क्षालयन्तीव मृत्युमुखविनिर्गतं हृदयमविरलैरश्रुबिन्दुभिरभिभूयमानशब्दं रो- दितुमारब्धवती। राजाऽपि तामवनतमुखीमवेक्ष्य तथा रुदतीमुद्भूतकरुणाश्चितेन चेतसा चिन्तितवान् । हा हा कोऽयमस्याः क्रूरग्रहेण कोणपेन मुक्ताया वर्षा- ९० सोडलविरचिता नक्षत्रवृत्तेरिवानिवारितप्रसरो नयनधनजलासारः । सहजोष्णश्वायमनया स्व- हृदि पात्यमानोऽपि हृदयं मदीयमुत्तापयति । किमिदमस्मत्समीकसङ्कटावधा- रणेनाईस्वमन्तःकरणवृत्तेः, उतस्विदात्मनोऽनुभूतमरणसामीप्याकूतभावनम् , आहोस्पिदसमीहितमक्षतस्य रक्षलोऽस्य गमनं, किं पुनरप्रतिसमाधयमुपजातं समयसपर्यादिषु स्वलितम्, अथान्यदुःलहमुदनदुःखानुस्मरणं च किञ्चिदापन्न- मेतस्याः, क एष प्रकारः, किमिह कालानुरूपमुपयुज्यते वक्तुं, कथमेनालज्ञा(त)- तत्वोऽहं यन्त्रपुत्रिकामिव रुदन्ती निवारयामीति वितर्कजातमातन्वति नरेश्वरे समुचितावसरे कोविदाऽसौ तपस्विनीकन्या सहसैव नियम्य दुर्धराटोपसंलवंबा- पवेगमावरणसमधिकेनोत्तरीयवल्कलस्थैव मृदुनाऽञ्चलेन मुखाम्भोजमपज्य निवेश्य च सर्वतः कुवलयदलकोमलं चक्षुरनुच्चमधुरया गिरा जगाद । प्रेतीभिर्भियमाणशोणितजलं नियमानाभिषं वेतालीभिरूपास्यमानमभितः कङ्कालराधनः । अन्तञ्चेदमुञ्चितानलचिताचुल्लीभिरुशासित पश्य प्रेतवनं महानसमिवामीषामग्मोजिनाम् ॥ अथवा महासङ्घसम्भृतपथापणं निवासनगरमिव भूतलोकस्य । तथाहि- मौलौ बद्धाऽऽन्त्ररज्जुः प्रजरदजगरग्रन्धिगाढोग्रनाग- त्वग्वासाः स्कन्धपीठे कृतमलघुदलं चास्थिदण्डं दधानः । फेत्कारैर्दत्तहकः सकलमपि कुलं कम्पयन् कोणपानां वेतालस्तालदी? भ्रमति पितृवने पत्तने दण्डपाणिः ॥ अपि च समन्तादिह प्रेतपरुषास्थिपञ्जरपरीतमूर्तयः शूलिकाशङ्कवोऽपि कङ्कालतामापुः, इह खलु विभीषकानलसनाथमौलयः शाखिनोऽप्युल्कामुखा- यन्ते, इहान्तः क्रीडासङ्कान्तकौणपेन मुक्तफेत्कारनुखराणि नरकराण्यपि रा- क्षसत्वमापद्यन्ते, इह हि शिखरदेशविश्रान्तकौशिकघूत्कारैरलघुहुङ्कारभासुरा वटस्तम्भा अपि सिद्धतामुपेतवन्तः, इहापि प्रबलपवनयोगिन्यश्चिताभूतयोऽपि खेचरीभूताः, इह करालकोटरकुटीरकानुषङ्गिपिङ्गलावर्गरसितैरसीमकिलकिला- रावरौद्रोऽयमश्वत्थभूरुहोऽपि भूतभावेन तस्थौ, इहाप्युपरि परिनिविष्टशि- वाकारपरिवर्तिताकृतिर्वध्यशिलाऽपि विभीषिकात्वेन परिणता। किञ्च- दोर्दण्डोत्क्षेपवेगानिलनिबिडभृतोत्रनासान्धरन्ध्र- ध्वानैर्लोलास्थियन्त्रक्वणनपटुखटत्कारसृष्टैश्च पाटै (वायैः? )।
उदयसुन्दरीकथा। ९१ कुर्वाणः स्वाङ्ग एव प्रगुणयति लयालम्बिनी गीतवाचे नृत्यत्येषोऽत्र पात्रीकृतरुधिरसुरानन्दनीचः पिशाचः ॥ अत्र वा- एकं कक्षान्तरेऽन्यत्पृथुनि करतले पश्य शेषं च मांसं भृत्वा वक्त्रेऽपसर्पन हठहरणपरैरावतो भूतडिम्भैः । सम्भ्रान्तो याति रुद्धश्चलति करधृतः क्रोधतो हुङ्करोति प्राप्तोऽङ्गे कूपरेण प्रहरति रसति न्यञ्चति प्रेतरडः ।। इतश्च प्रभूतवात्सल्यानुत्सङ्गमारोपितेन भूरिभिरभीष्टनरजङ्गलग्रासैर- नेकशस्तप्यमाणेनापि निकामघस्मरतया डिम्भकेन झटित्येव कीकसैकसारे वपुषि ललपिशितवालरशया प्रासीकृतं चर्यमाणामजिनच्छटैकमाकर्षन्ती कुचमहो पश्य पश्यातिहास्यमसाबुत्तानितमुखी सदन्तनिष्घर्षमुन्मुक्तपूत्कारं चाक्रन्दति प्रेतजाया । इत इतोऽध्यहह पिशाचेन यूना ज्वलतश्चितोदरादाकृ- ष्टमीषदाप्लुष्टकुणपमेकहेलयैव संवीक्ष्य हर्षादारब्धकहकहारावमुखरमुश्चित- कतिकमुत्तम्भितकपालमुत्तालवेगं च साकालमेकतो जरत्कङ्कालचक्रम्, अ- न्यतः प्रेतसङ्घातः, अपरतो वेतालवृन्दमुटं च, परतो भूतरङ्काणां कदम्बकमे- तदेतदायाति दारुणारम्भनिर्झरमालोक्यताम् । कियद्वा प्रलयकालोपसंहताशे- षनरकरङ्कसङ्कुलितमर्त्यलोकानुकारिणः सर्वतोऽप्यशुभबीभत्सदर्शनस्य स्वरूप- माख्यायतेऽस्य महीयसः श्मशानवलयस्य महतामधिष्टानं हि प्रकृष्टरिष्टाना- मेतत् । तदेतदहो कल्याणिन्न खलु निखिलमङ्गलोपकरणनिर्मितकमूर्तिना लक्ष्मीसङ्क्रमणसुभगेन भवता स्थिरमेव स्थीयमानं वुध्यामहे इत्याप्तोपदेशपे- शलमभिधाय तस्थौ। राजाऽप्येतदाकर्ण्य ननु भद्रमसौ ब्रवीति येनात्र सर्वतो जरतरङ्कोप- चर्यमाणातिथिरकुथितकुणपगलजङ्गलोग्रगन्धदुर्विषहः प्रतिपथमापानकरसोत्स- वनिविष्टकटपूतनाऽवलिकलितकपालकपरोदरनिधीयमानधाराग्रनिर्गताविरलव- साशीकरनिकुरुम्बवाही ज्वलदलितचिताहुताशनशिखोगीर्यमाणगुरुधूमधोर- णीसमृद्धः प्रसपत्येष सन्ततमसेव्यो व्यसुचनसमीरण: । स्फोटयन्ति च विश- न्तः श्रुतीन्द्रियममी प्रकामडामराः प्रमुदितापारफेरवसमाजैरुदीर्य(माण)मां- सलारसितमालिनो निष्ठुरा ध्वनयः । तन्ममाऽप्येतन्मतं यदितोऽपमृत्य प्रशान्ते क्वापि तपोधनाश्रमे सगौरवमवस्थानेन स्वस्थां विधाय विस्त्रब्धमेनां काऽसौ कस्यासौ कुतोऽसौ किमर्थमसो लङ्कांगतेत्यादिकमशेषं व्यतिकर- सोड्डलविरचिता मादितः पृच्छामीति चेतसि विनिश्चित्य मानयन सदैव देवतावर्गमभ्यग्रवत्ति- नीमधिष्ठात्री च तस्याः श्मशानभुवो भगवतीं भीषणेत्यभिधानवती दुर्गा अग्रतो भूत्वा फालाग्रमिलितकरसम्पुटाञ्जलिः स्तुत्या प्रणनाम । विद्युत्युञ्जोग्रनेत्रं पृथुचपलललजिह्वमुर्तगलं सृकान्तोदनदंष्ट्राप्रकटमसरलस्थूलपिङ्गोर्ध्वकेशम् । वक्त्रं कल्पान्तकालप्रबलधनघटाघोषघोराहासं चण्ड्याः स्वर्गारिवर्गग्रसनरसकषदन्तदण्डं नमामि ।। कृतप्रणामश्च देव्याश्चलत गम्यते यथोचितमाश्रमस्थानमित्यन्तरत्यन्त- शुद्ध्या सूक्त्या प्रवर्तितचेतसं तामग्रतः कृत्वा वृत्तान्तबोधेच्छुः कुतूहला. दाहितगतिवेगः क्षणेनैव निर्जगाम तस्मादमङ्गलभुवः श्मशानात् । नगर- गर्भमासाद्य च मनोविश्रम्भवसतेरामाया विश्वभूतिरितिवृद्धतपसस्तपस्विन्या मठं जगाम। तस्मिन्मध्यनिशामतीत्य सहसैवायातमेकाकिन सा राजानमुदीक्ष्य तच्च वनितापात्रं तपोलकतम् । कस्मादेष किमत्र भूपतिलकः का तापसी चेयमि- त्येवं विस्मयमागता भगवती चक्रे तयोः स्वागतम् ॥ नृपतिरथ वितीर्णातिथ्यया विश्वभूत्या विजनरजनिचर्या तापसी चानुपृष्टः । अकथयसिलाभं राक्षसादक्षिताऽसा- विति च निजकथा(ता) सिध्ध)सारस्वतश्रीः इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां तापसीरक्षणं नाम सारस्वतश्रीपदाह्वः पञ्चम उच्छासकः॥ षष्ठ उच्छासः। ततस्तथैव च क्रमेण परिणतेऽपि मध्यरात्रापवर्तनक्षणे कौतुकभरादुत्लु- कोऽसौ दशैव भगवत्या विश्वभूतेरनुमतिमादाय मेदिनीप्रभुरभिमुखीकृतया स्वयमभ्यागतोपहारपङ्कजदलमालयेव विशालललितया दृशा सम्भाव्यमानम- हसं तामभिनवागतां तापसीमुवाच-नन्वसामान्यशीले ! साधुपथप्रचारिणि! विशदाशये! कथय का त्वम् , कस्य कुलं विष्णुवक्षस्थलमिव कौस्तुभं वृत्तविमला !
उदयसुन्दरीकथा । भूषितवती, किमभिधानाऽसि, किमर्थमिदमभिनवा लतेव जटावल्कलग्रहणम- कार्षीः, अवतीर्णाऽसि कस्मिन्नपि लोके, नगरं च कतममध्यासिताऽसि, किमिति च भवादृशामनुचितप्रचारमस्टग्भुजामास्पदं लङ्कां गतासि येनैवमस्य दुरपस दस्य पतिताऽसि गोचरे रक्षसः, किंतुश्चैष ते मद्दर्शनेन शशिमयूखयोगेनेव नयनेन्दुरत्नविगलितो बारिप्लव इति सर्वनशेवलोऽपि ज्ञातुमीहते कुतूहलने- रिता मन्मनोवृत्तिः, अद्याऽपि यामिन्यपि महत्येवाऽऽस्ते, तदत्वरितमावेद्य- तामित्यादि पृष्टा मनुजपरमेश्वरेण सा सहर्षमुपदर्शितप्रश्रयं च सरभसम- भाषत । कल्याणिन् ! इयमनणीयसी कथा नूनमपृच्छतोऽपि ते कथ्यते, किं पुनः प्रश्नाभिनिविष्टचेतसः, तदङ्ग दत्तावधानभवधार्यताम् । जानन्ति भवन्तोऽपि यथा किल सकलेषु सारतया प्रसिद्धो भुवनसन्निवेशेषु, स्फारो विभूतिभिः, अपारः प्रथितसुखोपभोगविभ्रमेण, सारः सहजहर्षोपशालिना विलासिलोकेन, सर्वतः स्फुरत्पन्नगफणामणिप्रकरैर्विश्रान्तरत्नमूलोद्देश इव संसारसागरस्य, खनिप्रता- न इव ब्रह्माण्डरोहणस्य, बुध्नबन्ध इव त्रिलोकीकल्पलतिकायाः, मूलदेशमासेदु- षा कूर्मराजेन सञ्चातशिलानिवेशः प्रथमभूमिकाभोग इव विश्वमहाप्रासादस्य, दरमुद्दण्डकायकाण्डेन प्रसरता वासुकिकणासहस्रवलयेन विलसितैकातपत्रश्च- क्रवर्तीव भुवनवर्गस्य, वलभिदाहतानां शरणत्वेन विख्यात इत्याश्रितो दै- त्यैः, अनन्यसदृशी सौन्दर्यमुद्रामुदीक्ष्य मा विषादमेष्यत्युपरिवर्ती स्व- लोक इतीव प्रसारिणा स्थगितो भूवलयफलकेन, विभूतिविजिताखिलजग- त्तया कीर्त्तिकाम इवोत्तम्भितजयस्तम्भः क्षितिधारिणा शेषेण, तपनप्रचार- विरहितोऽपि सञ्चरद्धजगराजपुत्रोत्तमाङ्गमणिमयूखवलयैरुगतानेकरविमण्डल:, निधीनामास्पदं रसातलमित्यनङ्गेन निक्षिप्ताभिः सहजशोणयाऽधरश्रिया सिन्दूरमुद्राङ्कितमुखीभिः स्वसर्वस्वकलशीभिरिवाभिरामगर्भः कुम्भीनसपुर- न्धिकाभिः, उभयभुवनभरोदहनाय दत्तस्कन्ध इवाधिष्ठितोऽपि मूलमुपरि- भूतो भव्यतया, जगतामतुल्यगुणयोगिना प्राणिवर्गेण संभृतोऽस्ति संसार- फलारामः पातालनामा तृतीयो लोकः । यस्मिन्नत्यन्तविततेषु प्रधानेष्वष्टसु नागकुलेषु लब्धप्रसूतयः सहजशौ- ण्डीराः प्रभूतबलशालिनः स्वेच्छारूपधरास्त्रिष्वपि भुवनेष्वनवरुद्धगतयः प्रभा- विनः प्रचरन्ति भोगिनो लोकाः । ये तावदास्तां दिव्यमभिरामावयवसुन्दरं कामरूपं, इतरमपि सरलकीटकप्रायमाकारमधितिष्टन्तस्त्रैलोक्यगुरुणाऽपि महे- श्वरेणात्मनोऽलङ्कार इत्यङ्गीकृत्य गौरविताः; विक्रमे तु किमुच्यते तेषां यन्मु- सोड्डलविरचिता खलालयाऽपि स्पृष्टः परो विपद्यते, परार्थेषु निस्पृहास्त एव ये हि लोकैरात्मनो निधीनां रक्षाधिकारिणः कृताः, वृत्तावदैन्यं च किञ्चिदाश्चर्यकारि येषां योगि- जामिव वायु(रा)हारः, स्थेम पुनस्तेष्वेव येनातिवृद्धोऽपि शेषः शिरसा कुसुम- कलिकावल्लीलयैव सगिरितरुपण्डसागरमहाभरानुर्वी बभार। किञ्च- नानापथा सुगुणभङ्गिबु किं किलैक- मावर्ण्यते फणभृतामपरैव सृष्टिः येषां शिरस्युदितमस्थिलवैकमानं व्यापार्यते जगति रत्नमिति प्रवीणैः ।। यत्र च विप्राकारपरिणताय हरये प्रदत्ताशेषकाश्यपीसुकृतफलादिव नि- वासमासाद्यामास राजा दनुजेन्द्रशेखराभरणं बलिः । अपि च यत्र कथञ्चन वसुन्धरोडरणप्रसङ्गावासप्रवेशो विशेषरम्यतोपलोभित इवाद्यापि न खलु नि- गन्तुमीहते भगवान् वराहजन्मा जनार्दनः, कूर्मावतारश्च पुनर्वरमवस्थितिविनि- न्ये पङ्काम्भसि निमज्यालुठन्नास्ते तथाऽप्युत्कृष्टविष्टपालोकनकुतूहलीव ना- न्यत्र भुवनेषु स्थितये बध्नाति मानसीं वृत्तिम् । अथवा- दृष्टं यन्न कुतोऽपि यच्च तपसा तीवेण संप्राप्यते दुष्पापं द्युपतेश्च यद्यपि च प्राप्यं प्रसन्ने हरौ। तन्निाशेषमशेषसृष्टिविषयं सारं च रम्येषु यः सूते वस्तु किमौरगस्य जगतस्तस्यान्यदावर्ण्यते ॥ तस्मिन्नशेषसुखसम्पदां प्रसवनपटीयसि पाताललोके रङ्गावलीवलयमिव प्राङ्गणभुवः, चित्रमिव भित्तेः, आभरणमिव योषितः, कुसुममिव लतायाः, त्रिभुवनश्रियः शोभाविष्कारकारणमस्ति नगरमिन्दीवरं नाम । किं तस्य स्तुतिविस्तरेण गुरुणा यस्मिन्पुरे यत्फलं संसारस्य भवन्ति ता मृगहशो यासां मुखप्राङ्गणे । दैवादापतिते जगत्यशशिनि स्वर्भानुरिन्दुभ्रमा- दामोदासवधावितालिवलयच्छझा परिभ्राम्यति ॥ तत्रास्ति गरीयसा कलापेन सम्पदामधष्ठितः प्रतिष्ठितो महसि वासवस्य, वशी- कृतारिशौण्डीरनिकरोहर इवाग्नेयसायकघरः प्रतापेन, हरिरिवापूरितशङ्खस्वनो यशसा, विरिञ्चिरिव दर्शितशापानुग्रहशक्तिराज्ञया, शिरसि विस्फारिणा विनी- SROIN उदयसुन्दरीकया। लफणाफलकडम्वरेण हरनयनदहनदाहोपशान्तये जनितजलधरवितानको मकर- केतुरिव निरातपं लोकमध्यासितः, सरसनालिनीदलातपत्रपरिशोभितो वरुणराज इव तलगतमधिष्ठातुमुद्यतस्तोयं, धनदलतमालशेखरो विन्ध्य इवागस्त्यमुनि- वञ्चितस्त्रपया पातालमधिष्ठितवान, उपरि प्रेक्षता प्रसरदुरुफणामण्डपमणि- किरणचक्रेण शिरस्युदितभानुरुदयशैलाधिपुरुष इवाहिभुवनेऽपि प्रचारयितु- मर्कमायातः,प्रणामघटितेन स्वच्छतरभूतिसम्पर्कपाण्डुना चण्डीशचरणरेणु- कणिकोत्करण प्रत्यहं भरितशेषाक्षतपवित्रमस्तकः, तारुण्यतरलिमोत्तालन- ललितपातालकामिनीकटाक्षचयचामरोपवीज्यमानमूर्तिरपमितपराक्रमो वन्धः काकोदरभटानां, मान्यो गीर्वाणवर्गस्य, मित्रं निविष्टपस्य भर्तुः, आप्तः पाता- लनायकस्य वासुके, चराचरगुरोश्च भगवतः प्रियसेवकः शङ्करस्या, महीयसि महात्मनः शङ्खपालस्य कुलेऽवतीर्णः क्षत्रियमहान्वयोद्योतमाणिक्यं राजा राजशौण्डीरः शिखण्डतिलको नाम । येन हि निसर्गजलयोगसौहृदात्पयोधिपक्षपाती तदङ्गमथनविन्यस्त मन्दरगिरिभ्रमोपयोगरजुतारूपमपकारमनुस्मृत्य वासुकेः प्रकुप्यत्कूर्मराजः सपदि प्रतापसङ्कोचितकटाहकर्परः पराहतशक्तीकृतश्शड़े नचेजगत्रयोदहन- महाशक्तिना तेनादिकूर्मेण ताहगम्भोधिपक्षपातविषयिणः कोपात्कटाहपिठरै- कपालीस्पन्दनमात्रकेणैव क्षणादेतदफणीन्द्रमपाताललोकं च कृतं भवेद्विश्वम् । तथा च यस्य भुजयोरवष्टम्भेन पृष्ठतः पातालरक्षानुचिन्तामपहाय पन्नगानाम- धीश्वरो वासुकिरनाकुलेन मनसा देवस्य कैलासवासिनो धूर्जटेरापीडसंयमोप- करणभावमालम्ब्य सुरसिन्धुसलिलशीतलोद्देशिनि सदैव जटावने विलसति। तस्य चास्ति समस्त)क्षत्रियाणामलङ्कारतिलकस्य प्रेयसी निजस्यैव विजय- कमलेव मण्डलाग्रस्य, भूरिव भुजस्य, लक्ष्मीरिव वक्षसः, सरस्वतीव वक्त्रस्य, आज्ञेव भ्रूलताग्रस्य, वीरश्रीरिव पराक्रमस्थ, कीर्तिरिव गुणकला- पस्य, बुद्धिरिव व्यापारस्य, नीतिरिव व्यवहारस्य च, प्रणयिनी हृद- यस्थ, सुवंशप्रसवतया मुक्तेव सुवृत्तनिर्मला, संश्रिता यौवनेन, पूरिता रूपेण, परिगता लावण्येन, सम्भृता सौभाग्येन, विनयवती यशोवती सकल- लक्षणवती च धर्मसहचारिणी प्रधानाऽन्तःपुरपुरन्धिषु विजयरेखा नाम । तस्याश्च पतिरेव दैवतं योषितामिति तदङ्किसेवानुषशान्मिलितनखमणिहदान्तः किरणवारिणि मजनविशुद्धेन चेतसा सतीव्रतमाचरन्त्याः सततमुल्लसितनेत्र- सोडलविरचिता नलिनोपहारैस्तदङ्गपूजाविपञ्चनेन प्रसन्नाभिरिव देवताभिः प्रदत्तमभूदेकमत्य- न्तसुकुमारतया कटाक्षटङ्किकाभिरिव घटितं परमेष्टिना, नाभिकमलपरिमल- क्षोदैरिवोदर्तितमुपेन्द्रेण, मौलीन्दुकिरणेनेवापमार्जितं पुरजिता, निजशरप्रभा- देणेवाधिष्ठितमनझेन च, त्रिभुवनैकसारमुदयसुन्दरीतिनान्ना पुत्रिकारत्नम् । यदीयेषु प्रथममेव तापजन्मनो महोत्सवशुभेषु षष्ठीजागरणकृते सूती- गृहे द्वारि वाद्यमानघटध्वनितकैतवाल्लब्धजगज्जयाश इव सङ्कल्पजन्मा भुज- प्रकोष्ठमसङ्कुटरवाटोपमास्फोटयाञ्चकार । माणिश्यमणितोरणावचूललम्बिताश्च ललितगलकन्दलविलासवासोचितावतीर्णपात्रप्रमोदेनेव सुदूरमुद्यतकराः प्र- विशदन्तःपुरपुरन्ध्रिकालाङ्करचामरसमीरचलिताङ्गवल्गितैरुदर्गलं नृत्यन्तिस्म मुक्ताकलापयष्टयः । पुरतोऽपि नामकरणादिषु सर्वेष्वपि मङ्गलोत्सवेषु दिष्टि- वृद्ध्यर्थमधिभवनमवकीर्यमाणामन्दसिन्दूरधूलिभिरधिकाधिक पुरस्य पल्लवितं हृदयरागेण । सा च भुरजितोऽवतारस्य पुंसः करे लगिष्यतीति गणकैरावे- दिता निर्वाणमिव योगिना, तुचरितमिव सजनेन, ब्रतमिव तपस्विना, धन- मिव कर्येण, जीवितमिव कातरेण, प्रतिदिवसमुपोढया प्रीत्या पितृजनेन पाल्यमाना वत्सरपरावृत्तिक्रमेण निजसमयसमाग्रिमप्रगुणमनणुलावण्यलिता- ङ्गभूमिकमुन्मिषितत्रिवलिललितरनावलीकं उपरि परिभ्राजमानकुचकलशमन- अस्येव कृतप्रथमप्रवेशं मङ्गलोपचार, चन्द्रलेखेव वर्षात्ययं, माणिक्यदीपिकेव शाणनिकषम्, अम्भोजकलिकेव विलासं, लेख्यपुत्रिकेव वर्णकन्यासम्, आद्- शमूर्तिरिवोद्वर्तनं यौवनमाससाद । यस्मिन्नुरोजकलशाडिन्तवेदिकायां तस्यामभूदभिनवं मकरध्वजस्य । राज्येऽभिषेचनमतः खलु सम्प्लुताऽसौ सर्वाङ्गमुल्लसितकान्तिजलप्लवेन ॥ चपलालोकधारिण्या प्रावृषेव निरन्तरम् । भृता तारुण्यलक्ष्म्याऽसौ लसल्लावण्यवाहिनी ।। तथा हि- लावण्याम्बुभरे स्मरस्य वहतः पार्थादिव प्रच्युत- स्तस्यां स्वैरमितस्ततः परिकरात्कोऽपि कचिल्लग्नवान् । पत्राङ्को मकरः कपोलपुलिने दृग्रूपिणो मार्गणा- उदयसुन्दरीकथा। स्तीरेऽपाङ्गभुवस्तथाऽलिकतटे भ्रूव्याजमिष्टासनम् ॥ अथ तथा नवत्विषा तारुण्येन वितीर्णकान्तिसौन्दर्यसम्पमुदीक्ष्य दुहि- तुः पिता चिन्तितवान् । ननु यथेयमेवमुन्मीलिताप्रतिमरूपसारा कुमारी तथा यदि कथञ्चित्पातालभुवनस्य राजा वासुकिः पश्यति, दृष्ट्वा च झगिति गच्छ- त्यभिलाषम्, अभिलष्य च भरार्थित्वमुपदर्शयति, दर्शितार्थिभावश्च प्रेम्णा पीडयति, तदा नूनमलचत्वात्स्वामिवचसाम्, अप्रतिकूलत्वादाप्तवृत्तः, प्रार्थि- तार्थसम्पादकत्वाच्च दानधीरस्थ, न नाम धतुमुपधास्थति, न वेबम्परूपानुरूपं वरमपहाय कन्यकेयमननुरूपस्यास्य भुवनैकचक्रवर्तिनोऽपि शक्यते दातुम् । अतस्तथा क्रियते यथाऽसौ नास्य नयनयोः पथमुपैति श्रुतेर्वा गोचरीभवेदिति विचिन्त्य विहाय पातालं कृते तस्यास्तरलवेलाजलोमिजनितसङ्कटविघटिताने- कशुक्तिमुक्ताफलप्रकरैरलङ्कतक्रीडागिरिकिरीटिनि प्रतिप्रदेशमुद्भिन्नविडमव- नोदश्चन्मरीचिमण्डलारुणिमरमणीयपरिसरे सरसकर्पूरभूरुहामोदसुन्दरोद्यान- राजीविराजिनि विसारिण्येकतः समुद्रस्थान्तरद्वीपके सकलसुखानुकूलपरिकरं कन्यावरोधमुपकल्पयामास। तत्र च ब्रह्माण्डगतॊदरनिधानकलशीव सर्वतोऽपि रक्षकैरधिष्टिता कञ्चकिभिः सा नाम कन्यका निकामचतुराभिरनेकसङ्ख्यया सखीभिरनुकूल्यमानान्तःकरणवृत्तिरवस्थितिं चक्रे । तदीयपितुः शिखण्डतिलकस्य च नितान्तमातस्य प्रणयिनः पद्मकुलाभर- णरत्नस्य रत्नमौलिरितिनाम्नाप्रसिद्धिमतः सेनाधिनायकस्य वेणीमतीति जा- यायां सुता जन्मन्यपि निरपत्यतया बहुमता मनोवृत्तेरभूदेकैव पुत्रिका । सा चाहं ताराबली नाम समवयाशीलतथा परमं विस्तम्भमन्दिरमाचलनजल्पन- ज्ञानवासरादखिलबालखेलनप्रकारसहकारिण्यभूवमतिप्रेयसी सखीपदे तस्याः । अनन्तरमसावनल्परूपाऽभियाच्यमाना क्षत्रियः, अधिरूढयौवनेति चिन्त्यमा- ना पितृभिः, अभ्यर्थितेत्यनुमोद्यमाला बन्धुभिः, अनङ्गस्वीकृतेति प्रवर्त्यमाना सखीभिः,प्रतिदिवसमशेषयोषिद्भिर्तिया निवेदितानालेख्यपटदर्शितान्प्रत्यक्षी- कृतानस्तोकरूपानाविर्भावितगुणानद्भुतचरित्रानुदर्शिताधिपत्यप्रलोभान क्षत्रि- यकुमारकांस्तृणमिव गणयन्ती, त्रिभुवनविहारिणो विद्याधरानपि हेयबुध्या विभावयन्ती, मन्मथादित्रिदशरूपचित्रादपि दृशं निवर्तयन्ती, नितान्तमुत्ताम- यामास पितरौ। केवलं मया सह पुरुषदर्शनदेषिणी विचित्रपत्रच्छेदविद्यया रु- चिरचित्रालेखनविवादविनमैरनणुवीणावेणुवाद्नैरमन्दकन्दुकक्रीडाभिरालम्बि- ९८ सोड्डलविरचिता दोलाविलासैरभिमुखरकीरसारिकालापकौतुकैरनेकगृहमृगमरालचन्द्रकिक्रीडनै- रभिनवलतानिषेवणप्रपञ्वरुन्भिषितारण्यकुतुमाहरणकेलिभिः क्रीडाहनिमन्ज- नैरनवरतमात्मानं विनोदयन्ती गमयति परावर्तमहाम् । एवमस्याः शैशवक- लाखेलनसुखान्यनुभवन्त्याः प्रयान्ति दिवसाः । अथ कदाचिदेकस्मिनहनि पूर्वगिरिसङ्गते भगवत्युदयश्रिया सञ्जनितरागे भानुमति, भानुदर्शनाधिष्ठितविकारास्विव प्रबोधतरलितारविन्दपत्रेक्षणासु कमलिनीषु, कमलोपभोगलम्पटालु परितः प्रसर्पन्तीषु मधुपमालासु, वेलावन- लवासुप्तोत्थितासु समुद्रसैकतोल्सामनुसरन्तीषु विहङ्गमणिषु, प्रातर्विधे- यकारितया च परिगृहीतेष्वन्तःपुरपरिजनेषु, सुखप्रबुद्धायां निर्वतितनिखिल- नेपथ्यपत्रालकरचनादिवैभातिकक्रियानिराकुलायां विलासवेश्मनि सुखनिष- पणायामासने, समन्तादखिलकेलिकलाकौशलवतीभिः काभिनक्तमाकर्णितो- द्यानदीर्घिकाचक्रवाकवियोगवेदनाकन्दमतिकान्तं निवेदयन्तीभिः, काभिर्मि- लितलीलामृगमिथुनवीलता निदर्शयन्तीभिः, काभिरुद्धखवधूकृतारतश्रवण- बक्रितग्रीवान्पारावतपत्रिणः प्रकाशचन्तीभिः, काभिस्तत्समयनिद्रापनोदमू- ढानि परस्परमपश्यन्ति मरालकान्दानि घटयन्तीभिः सखीभिरावृतायां तस्यामेकहेलयैव ससंभमं प्रभातगीतासरलाधकमागत्य मयूरकाख्यं किन्न- रमिथुनं पुरस्तादेकमालेख्यसखमेलालतावल्कनियमित पटं निचिक्षेप। भ्रूशिखरसंज्ञिता चाहं तया तमादाय त्वरितमुन्मुच्य चान्तर्दिव्यमुद्भा- सिताय(ता )क्षिपत्रकपताकं जयस्तम्भमिव कामस्य मनोहरालेख्यपरिणत पुरुषमवलोक्य त्रिभुवनाद्भुतरूपविस्मिता सेबकौचित्यमनाचरन्ती किन्नरमपृ- च्छम्-हंहो मयूरक ! निवेदय कोऽयं प्रतिबिम्बसुन्दराकृतिरिति प्रोक्ते भया सोऽब्रवीद्य समुद्रातपिकगिरी क्रीडया रजनिमतिक्रम्य समागच्छतोरेकत्र विचित्रतरुसुन्दरोद्यानशालिनि जलानामन्तरस्थले निपतितोऽयमाक्योनयन- गोचरीबभूव । दृष्ट्वा च किमेतदिति सकौतुकक्षिप्य वीक्षितेऽमुस्मिन् मनो- हराकारदर्शनानुफ्तं भया-प्रेयसि मयूरिक शङ्खाङ्कितकरः सत्यनयं भुरारिः, अनया च--किमङ्ग मुसे लक्षणवता रेखाशबेन मदनादन्यस्य कस्येयमी- दृशी रूपसंपदिति स्वपक्षसमर्थनेन कृतपणाभ्यामन्योन्यमावाभ्यां निणेंतुमयमि- हानीतस्तत्खलु निर्णीयतां क एष इति ब्रुवत्येव मयूरके, कौतुकसमुत्सुका ननु तारावलि नूनमहमावेदयामि योऽयमिति झदित्याच्छिद्य मम करतलादुदयसु- न्दरीतमालोकयाञ्चकार । ।
उदयसुन्दरीकथा। ९९ तत्र चालोकनेन झगिति शृङ्गारपल्लवलतायां तस्यामनङ्गधनुर्लतोड्डीन: पपात विसरः शिलीमुखानां, शिलीमुखपटलपातादिव सर्वाङ्गमुत्पन्नवान्कम्पः, प्रकम्पचलनादिव व्यगलदाजलबिन्दुकायः कुसुमसन्दोहः, कुसुममरनिर्भर- अंशादिवाजृम्भत रोमाञ्चकेसरसखः स्वेदोदकच्छमा मधुरसप्लव: । क्षणेन च तस्याः सरभसं हृदि प्रविशतो रागस्य दत्तमार्गतया झगित्यपसृतेव पुरस्तादा- कम्पकुचशिखरतरलिता बभूव तिरश्चीना हारयष्टिः, झगित्येकहेलयैव प्रविष्टं रागमालोक्य मानसात्परपुरुषसामीप्यरेषिणी कुलपालिकेव निःसृत्य गतवती ब्रीडा, उज्झितं शून्यमास्पदमिति पृष्टतो रक्षक इवाध्यतिष्ठदुन्माद, प्रविश्या- न्तर्मनसि सन्धुक्षतो मान्मथं वह्निमुन्मादस्थ परुजफूत्कारपवनदण्डा इव नवो- हष्णप्रसूतयः सततं निःसर्तुमारभन्त निश्वासाः, प्रचण्डद्वथुदावानलज्वालिनि सरलनिश्वासारण्यसङ्कटे मुखकमलपरिमलोपलोभादन्धीभूय निपतितं प्लुष्य- माणमलीनां दूरमाचक्रन्द वृन्दम्, इन्दिन्दिराक्रन्दकोलाहलनिवेदितेन भदनहु- तमुजा लग्नप्रदीपनकादन्तःकरणमन्दिराहाहभीतमिव निर्जगाम धैर्यम्, धैर्या- नुमार्गमसमरोमाञ्चसूचिकाग्रभेदैरुतगुरुव्यथानीय स्वेवारिप्लुतानि प्रणश्य ययुः कपोलयोः पत्रहंसमिथुनानि । मनस्तदीयं पुरुषापरागत्रतेन सन्त्यक्तमिवाङ्गजन्मा। हर्षाज्झगित्युज्झितलिङ्गभेदभीतिनिशातैरियुभिर्बिभेद ।। HEROINNARMERID तदृष्टिरिष्टार्थदरिद्रतोरुक्षुधेव रङ्कत्वमनुप्रयाता । आस्वादयन्ती सुचिराद्वाप्य रूपामृतं तत्र न तृप्तिमेति ॥ अथाहमपि तथाऽवलोक्य ताम्, अहो चिरादेतदालेख्यस्थानमासाय लब्धवानमुष्याश्चेतसि लक्ष्यमिक्षुकोदण्डवाही मकरकेतुः, किन्तु त्रिदिवस - नामवनिवासिनामुरगलोकवर्तिनां वा यूनामन्यतमः कोऽयमित्यजानन्ती निर- न्वयलाभशालिनोऽस्य चित्रस्यापि दर्शनेन यदेवमङ्गीकृता मन्मथेन, प्लाविता शृङ्गाररसेन, विधुरिता हृदयेन, समुज्झिता सुदरमिन्द्रियैः, अवष्टन्धा प्रसभमव- शतया, वशीकृता सपदि विस्मयेन, समालिङ्गिता गाढमुत्कण्ठया, तन्नजाने कथ- मियं भविष्यति, कियचिरमस्मान्क्लेशयिष्यति, कीदृशी परिणतिरिह सम्पत्स्यते, किमनुचिन्तयिष्यति माता, कीदृशं कृत्वा मंस्यते जनकः, किमालोचयिष्यन्ति पारा गुरवः, परिजनश्च किं वक्ष्यति, भवतु वा प्रमाणमिह पुरातनं कर्म, तदायत्ता हि गतयः कार्याणाम् , अपौरुषेषु विधिव्यापारेषु यद्यथा निष्पत्स्यते तत्तथैव ज्ञातव्यमिति विनिश्चित्य कालोचितमब्रुवम्- देवि ! निश्चितं नाभिकमलकौस्तुभादिलक्षणविसंवादान्नैष भगवानुपेन्द्रः, नापि च मकरेक्षुचापपरिकराभिज्ञानशून्यतया देवो मनोभवः, कश्चिदन्य एवा- यमवैमि देव्या मतेन, तत्खलु वृथीभूतमनयोरपि पणेन विसृज्यतामिदं किन्न- रबन्दकम् । यदि च प्रत्यक्षालेख्यवार्ताभिरुपलब्धाशेषसुरसिद्धविद्याधरोरग- नरेशरूपस्वरूपं हृदयमपूर्वाकारमेनमेव बोडमाकांक्षति तदुत्थीयतामितः, सा- वकाशं प्रविश्यतामन्तः, तत्र च रहसि निराकुलीभूतेन चक्षुषा चेतसा च तावन्निरूपयतु देवी, यावजानाति योऽयमिति । अत्र तु झगित्यज्ञायमान एव कोऽपि कथञ्चिदागतस्तवेत्थं कम्पमानाः पृथुलपट भराक्रमणेन नलिनद्लशि खरसुकुमाराः कराङ्गुलीः लाव्यमानं च निश्चलासनपरिग्रहश्रमजलेन प्रयास- निस्सहं शरीरमालोकयति कुलवृद्धस्तदेतद्वधारयन्नङ्गपरिक्लेशनस्खलितं निता- न्तमुत्कुप्यति सखीभ्य इति मया प्रोक्ते देवी नियतमेवमुपरचितालाप(व)क्रि- भप्रपञ्चया लक्षिताऽहमनया धूर्तयेति सस्मितमतिस्तोकमपाङ्गोत्सङ्गसञ्चारतरलि- ताक्षिविभागमवलोकनेन हृदयं निवेद्य दुत्वा च मत्करे तं पटं विसर्जितपरिजना समुत्तस्थौ। उत्थाय च प्रविश्यान्तरध्यासिता मरालतूलकोमलं तल्पमादाय भूयोऽपि मत्करतलात्पटमवहितीकृत्य मां कृतादमपृच्छत्-वयस्ये तारावलि ! जानासि क एष दृष्टः कुतश्चिदन्यत्र प्रत्यक्षमालेख्येन वा, त्वया हि बहुशश्चित्रेण वर्त्तिता दृष्टाश्च त्रिभुवनविवरवर्तिनो युवानः, तेषां मध्ये कश्चिदमुना रूपेण संवित्ति- मेति भवत्या हृदयस्थ, कथमसौ ज्ञातव्यः, कथञ्चान्वेषणीयो विसङ्कटाभोगदु- विगाहेऽत्र त्रिभुवने, कथं किल दृष्टिविषयमेष्यति, कन्दर्पलुब्धकश्चायं दुरात्मा सुदृढमिमां दीपहरिणीमिव मूर्तिमुपदय मे झगित्याजहार कृष्णसारं लोचन. छन्दम्, अविध्यच्च प्रचलरूपं मानसम्, इदानीं कथय किमेवंगते प्रतिविधेय- मिति प्रोक्ताऽहमहो न नूनमवश्यदर्शनवचसामन्यदाश्वासनममुष्यास्तत्तथैव स्थिरयामि विधुरितामनङ्गेन स्वामिनीमिति प्रत्यवोचम्- देवि ! स्थिरीभव, धीमतां किमनूह्यमन्तःकरणस्य, किमगम्यं मतीनां, किमसाध्यमध्यवसायस्य च, किन्तु त्वमेवमशरीरिणाऽपि मन्मथहतकेनाभिभू- उदयसुन्दराकथा। ते यभाना मा तिष्ठ, भव प्रगाढहृदया नूनमेतदर्शनविनिश्चयेनेति प्रबोधिता मया- ऽसौ सहेलस्मितमनीश्वराऽस्मि प्रियसखि मनोवृत्तेः, अन्वेषणे च पुनरस्य भ- वती प्रमाणमित्युक्त्वा दीर्घ च निःश्वस्य तूष्णीमकरोत् । ततः प्रभृति च तस्यां मनःप्रस्खलितेनेव विशृङ्खलायते मन्मथग्रहः, स्मरशरनिकरनिकृत्त्यमानेव तनूय- तनुः, रनवरतनेत्रवारिधाराभिरिवोपचीयते रणरणकरसः, स्वमसंवृत्तसकल- तदर्शनादिवृत्तान्तवार्ता एव जल्पन, चित्रपटनिरूपणमेव व्यापारः, प्रसरदा- शाविनोदिन्यो मनःप्रवृत्तय एव सख्यः, तत्सङ्गमनोरथा एव लीलोपकरणानि, कुसुमशरविकारा एव क्रीडितम् , अनङ्गदहनपीडोपशान्तिसजितः प्रचुरजला- द्रोपलेप एव विभ्रमविलेपनम् , स्वेदहरकर्पूरविरचनोपचार एव पत्रवल्लीविला- सः, सरसबिसप्रवालवलयादिविन्यास एव भूषणानि, कमलकैरवोपयोगप्रकार एव कुसुमलजः, कदलीदलब्यजनवायुरेवनेपथ्यम् । किञ्च- अनङ्गसन्तापदशामहापथे समुद्यता गन्तुमनिन्दितोदरी। अतः करन्यस्तमृणालकङ्कण- च्छलेन शाहूं वलयं बभार सा॥ FORNEARSWERS अपि च- AHARASHIAN तस्या विशुद्धहृदयाहतिपातकेन लूताकृमित्वमगमद्ध्वमङ्गजन्मा । शैत्यावलग्नबिससूत्रमिषादमुश्च- तेनैष तत्र विचरन्नवतन्तुजालम् ॥ किं बहुना- लावण्यवारिसरसि प्रसभं तदङ्ग वगन्ननगदवथुद्धिरदायते स्म । तेन स्फुरन्त्युपरि सन्त्रुटितावकीर्ण- राजीविनीदलमृणालसरोरुहाणि ॥ किन्त्वेतदेवालम्बनं प्राणितस्य; यदसौ मदनरसविमोहिता त्वन्मयेन चेतसा सर्वमपि स्पर्श त्वदालिङ्गनमाशङ्कते, सर्वमपि दृश्यं त्वदाकारपरिणतं पश्यति, सर्वमपि जल्पितं त्वत्कथामयमुपक्रामति, सर्वमपि ध्वनि त्वदालाप- साड्डलविराचता । वाणीधिया शृणोति, एवमसौ मन्मथविजृम्भितेन कक्षीकृता सन्धीरणेन निमि- तबन्धेन शकुनलाभेदृढीकरणेन समन्तादुपश्रुतिभिरनुवासरं विनोद्यमाना मया मयैव कृत्वा चित्रोपदर्शनेन जानीथ कोऽयमिति प्रतिपान्थं प्रतिचित्रकरं प्रति- पुराणलोकमाच्छयन्ती कियन्तं कालमस्थात् । अथासौ तथैव तिष्ठन्ती कदाचिदेकस्मिन्नहन्येकहेलयैव परमस्ति भगवतो हाटकेश्वरस्य पूजकः पातालगणो नाम वृद्धस्तपस्वी, तेन च तं चित्रगतं युवानमालोक्य प्रोक्ता भुजङ्गतापसेन, पुनि ! चैनिकापर्वणि देवस्य विशेषपू- जाकृतेऽमर्त्यलोकाब्रह्मकमलान्यादाय सुदूरमतिक्रम्य भूमण्डलाभोगमाग- च्छता मया प्रसारिणीमशोकशाखिन छायामधिष्ठितो दृष्टोऽयमेकत्र कुत्रापि परिसरे भूधरस्य, किन्तु वृद्धत्वादकौतुकेन प्रस्तुताध्वलनैकहदोन किमङ्ग कश्चन मृगयागतः क्षोणीपतिस्त स्वैरप्रचारिणामुत्तमो विद्याधराणामाहोस्वि. स्कुतूहलाद्वतीर्णो मेदिनीमन्यतमः सुराणां न ज्ञातः कोऽप्यसाविति। निर्गते तस्मिन् झटित्युत्कण्ठावेशपरवशा मदनारघातमूच्छितेन चेतसा ज्ञातमिव, वीक्षितमिव, समीपदेशस्थमिव, सुप्रापमिव च तं मन्यमाना तत्पुरो निश्चय- मकरोत् । प्रकारेणाद्य केनापि मेलयत्यस्य चेत्सखी। तन्मेलयतु मां नो चेन्निवृत्ति वितेन मे ।। इत्युक्त्वा मूर्छितेव शय्यायामपतत् । अहं च तेन तस्या विनिश्चयेन हा हा ! किमेतदप्रतिसमाधेयमचिन्त्या- ध्यवसायमपौरुषारम्भमचिरोपसाध्यमध्यवसितं देव्या, तत्र किं करोमि, क गच्छामि, कमुपायमासूत्रयामि, कतमं देवमभ्यर्थयामीति मुहूर्तमतिविलवीभूत- मात्मानमात्मनैव प्रबोध्य यत्खलु बुद्धेविषयमायाति तत्करोमि, परतस्तु विधि- विधास्यतीति निश्चित्य भतिसखेन चेतसा सन्ततमुपायशतानि चिन्तयन्ती तेन सह तस्याः सङ्घटनेन कालमेकं तन्नियमनिर्वाहोपायमासाद्य निर्गत्य च तथा कृत्वा त्वरितमागतवती। आगत्य च देवि पूर्णा ते प्रतिज्ञा, मिलितासि वल्लभस्य, विलोकय पुरस्तादित्युक्ता मया; सरभसमुन्नम्य बदनाम्बुजं यावदा- लोकयति तावत्तदालेख्यबिम्बान्तिके योजितान्यपटलिखितं चित्रगतमात्मान- मद्राक्षीत् । दृष्टे च तत्र सविलक्षमिव हसित्वा मामुक्तवती । सखि तारावलि किमेतदिति प्रोक्ताऽहमब्रुवम् । देवि केनापि प्रकारेण मेलनीयाऽहमस्येत्या- उदयसुन्दराकया। दिष्टं देव्या तदस्त्येतस्य प्रत्यक्षवर्तिनश्चित्रमूतः केनापि प्रकारेणेति । जानासि तदा तेन विद्धविजयनाम्ना चित्रकरण शिल्पकलाकौशलमात्मनो दर्शयता रतिरूपस्पर्धया यत्र त्वदीया मूर्तिरालिखिता तं पटमिहानुसन्धाय चित्रप्रका- रेण मेलिता मया देवी । पूरिता च प्रतिज्ञा । किन्तु विज्ञापयामि स्वामिनि ! प्रभूताध्यवसायसाध्ये वस्तुनि न देव्या पुनरप्येवमनालोच्य कर्तव्यम् । अह- मवश्यं तथा यतिष्ये यथा पूर्यन्त एव मनोरथा इति । नियन्तितस्वैरनियमा देवी, भवतु तावदेकवारमसावपि सुतरानुपकारिणी बभूव मे प्रतिज्ञा यचित्रे- णापि मिलितमेतस्यात्मानमालोकयन्ती धारयिष्यामि जीवितमित्युदीर्य तथैव ते पटं प्राणितमिवान्तिकादनुत्सारयन्ती दिनान्यतिवाहयामास । अथैवमनङ्गोदाहदुःसहमवस्थान्तरमनुभवन्त्यास्तस्याः प्रकाममञ्जनच्छवि- भिर्घनयन् हृद्यान्धकारमम्भोधरैः, अनेकवर्णधरेण विचित्रयन् रणरणकमिन्द्र- चापेन, शङ्खदलपाण्डुराभिः प्रसारयन्कपोलयोः पाण्डिमार्न बलाकाभिः, दहन- दारुणया वर्धयन्मन्मथोत्तापं विद्युता, मधुरेण दीर्घयन्पञ्चमसखं हुङ्कारम- विरलमयूरकेकारवेण, मरकतमणिमरीचिशिखरसुन्दरसुकुमारहरिततृणकला- पशादलितभूतलो धवलनवजलधिपूरितानेकपल्वलोपशाली शीतलितवासरः सुदूरभरितनीराशयोऽपि शोषितवियोगिनीमानसो जगजीवनकहेतुरपि प- थिकान्तकारी विवेश मदनमित्रमम्भोमुचां कालः। यत्र- भूमिः कोमलसान्द्रकन्दलवती मेघावनद्धं नभो नृत्यन्मत्तमयूरमन्द्रमधुरध्वानोपरुद्धा दिशः। वाताश्च प्रसरत्कदम्बकुसुमस्पर्शप्रसन्ना वने वान्ति स्वैरमनङ्गरागजलधि कल्लोलयन्तो हृदि । तत्रचैकस्मिन्नहन्येकहेलयैवागत्य मातुः प्रतीहारी शेखरिका जगाद राजपुत्रि त्वरितमभिमुखोत्थानप्रश्रयेण विधेहि स्वागतम्, आयाति ते जन- नीस्वामिनी विजयरेखा चलिता च । यत्किल कुमारभावे स्थितया देव्या श्रिया वरं जलशायितानुषङ्गदृष्टं वैकुण्ठमभिप्रेत्य तदर्थसिद्धये कमपि व्याजमालम्ब्य पित्रा रत्नाकरेण कृत्वा दुर्गमागाधविभ्रमाणामन्तरेकत्र पाथसां पाथसामल्पके- नापि बिन्दुना देवतानुभावारतोऽप्यस्पृश्यमानमसमशिल्पकालनाभिरामनिर्माणं मणिमयमायतनं कारितमास्ते । तत्र चान्तःप्रतिष्ठितोऽस्ति देवश्चन्द्रकेतुनामा । सोडलविरचिता महेश्वरः। स च सम्यगाराधितो भगवानवश्यमभ्युद्गताभिलाषिण्याः श्रिय इव पूरयति हृदयवाञ्छितानि युवतीनामित्युपास्यत एव सकलभुवनवर्ति- नीभिः सर्वदाऽपि रमणीभिः । अद्य पुनः पयोदकालप्रणयिनि पवित्रकोत्सवे महती यात्रा। तत्रासौ भवतीमादाय यास्यति । अत: कन्यालङ्करणरत्नावलिप- गुणीभव, उत्तिष्ठ सत्वरम्, पश्य देवमखिलविश्वाभिवान्छितकरं शङ्करम्, येन ते प्रसन्नो भगवान्वितरत्यक्षीष्टं मानसस्येति शेखरिकया प्रोक्ते सप्रतो- षमिव मत्कणे स्थित्वा ननु वयस्ये तारावलि साध्वनुकूलसेवा अम्बया चि- न्तिताऽस्मि, यदि स एव देवो घटयत्यभीष्टं हृदयस्य तत्तदहं तमेव किं न प्र- तिदिवसमाराधयामि येन तत्प्रसादादेष प्रतिबिम्बाधिष्ठितपटो युवा प्राप्यत इति निभृतमभिधाय न यावत्लखीपरिचारपरिगता सरभसमुत्तिष्ठति राजकन्या तावद्वार एवाऽऽजगाम कुजवामनकिरातकञ्चकिपुरन्ध्रकामायपरिजना देवी विजयरेखा। तत एव कृतप्रणतिमालिङ्गनादङ्गमिलितामेव दुहितरमादाय तया सार्द्ध- मुच्चलिता तमालाय समुद्रगर्भोपकोणवलयानुगामिनमध्वानं प्रविष्टा साग- रस्थान्तरने च ददर्श तम् । प्राप्ता च भगवतः प्रासाद्मथ यथोपरूढया प्रक्रि- यया तस्यातिमहतो मणिमाकारवलयितस्य विमलधनरत्नसन्तानरचनारोचि- मतो मध्ये सुरालयस्य प्रतिष्टितमखिलभुवनान्तरेभ्यो युगपदागताभिर्भूय- सीभिः पुरन्ध्रिभिरहमहमिकाक्षेपसङ्कन पूज्यमानं भगवन्तमम्बिकाकान्तमने- कशः प्रगुणितक्रमैरुपहारैः स्वयमुदयसुन्दर्याश्च हस्तेनाभ्यर्च्य नमस्कृत्य तन्नि- वासिनी पारायणीति नान्ना तपस्विनीमादाय तदाशिषं सह सुतया स्वामिनी विजयरेखा तथैव यथागतेन वर्मना निवासमाजगाम । राजपुत्रिकाऽप्युदय- सुन्दरी ततो दिनादारभ्य प्रतिदिवसं न यावदसावुदीक्षितो देवस्तावन्नाहार- मादत्त इत्युपासितुं चन्द्रकेतुमारेभे। अन्येारसौ तथैव नित्ययात्रोपरूढक्रमेण सकलसखीसमापर्यश्चिताकृति- रुत्साहतरलेन चेतसा जगाम । तस्मिन्नवाप्य च तस्याङ्गणकवेदिकामायतनस्य तत एव पुष्पोच्चयकृते सह सर्वाभिरपि सखीभिरभ्यर्णवर्तिनी पुष्पवाटिकाम- विशत् । सारङ्गिका नाम च तेन चित्रपटेन सनाथपाणिइच्छत्रवाहिनी गत्वा सुरालयस्यान्तरसङ्गतजनाप्रचारसुस्थितं स्थानमिति नित्यप्रवृत्तया स्थित्या कचित्कोणैकदेशे सह चित्रपटेनातपत्रमुन्मुच्य त्वरितमागत्यास्माकं मिलित- उदयसुन्दरीकथा । वती, लग्नाः स्मः सहजहर्षोपशालिना केलिक्रमेण पुष्पाण्यवचेतुम् । अत्रान्तरे च क्षणे कियत्यपि सहसैव परमुग्रक्रौञ्चदुर्द्धराकारसंवृत्तिः सभूरितिरस्कार- मायतनवासिनी सा नाम तापसी पारायणी रे रे शुक्तिभङ्गदुष्कृतादितः शि- खात्वमागतेन त्वममुना पटेन सशिखः शुको भवेति शापं कस्यापि वितरन्ती चकार कोलाहलम् । तस्य कोलाहलस्थान्तः पटशब्दश्रवणानुत्पन्नशङ्का किं पटस्य तस्येति झटित्युन्मुक्तकुसुमावचयकेलिरुदयसुन्दरी निर्गत्य पुष्पावच- यनात्सह मयैव प्रधाव्य ससम्भ्रमं याति तस्मिन्नायतनकोडमण्डपे यावत्ताव- दने निजेन तेन हृदयविश्रामशालिना पटेन सनाथहस्तं तथा शसमेकं पुरुष- मद्राक्षीत् । दृष्ट्वा च हा हा किमेतद्न्धकारिमाराधयन्त्याः संवृत्तमत्राद्य में तावदा- स्वामपरो विशेषश्चित्रेणापि दर्शनमपाकृतं भगवता शम्भुनेति हृदये नितान्त- मुत्तम्य कृपालुतया तपस्विनीमभ्यर्थ्य च भूयः स्वप्रकृतिलाभेन तमनुप्राह- याञ्चकार । विरतया च भक्त्या किमप्येवमेवाभ्यर्च्य भगवन्तं तं चन्द्रकेतुम्, अनारेण कृतनमस्कारा च तस्याम् तपस्विन्यां, मृणालीव सलिलसेकेन, भुवन- ""सेन, कमलिनीव दिवसराजेन, कुमुदिनीव चन्द्रेण, रजनिरिव चन्द्रातपेन, विप्रयुक्ता पटेन म्लानिमायाता, निर्विण्णेव जीवितेनाप्यवनतमुखी, त्वरितमेव निर्गत्य शून्यीभूतेन मनसा सततसञ्चारपरिचितमपि मार्ग पदे पदे स्मार्यमाणा मया भवनमागतवती । विसर्जिताशेषपरिजना च मामप्यसम्भाव- यन्ती भवनान्तः प्रविश्य तल्पतलं भेजे । दिनच्छेदाञ्चले च बहुशः प्रबोध्य- माना मया कथंकथमपि हठावश्यकरणीयमाहिकं कर्म कारिता । ततामभृति चासौ समुद्यतादित्यमण्डलं दग्धुमकान्यागतं गृहीताझारपुतमिव दिवसं गणयन्ती, रात्रिमप्युचितेन चन्द्रमसा दृषदोलकेनेव स्फोटयितुं हृदयमुद्यतां मन्यमाना, कालमतिवाहितवती । अन्यदा तु निवृत्तायां प्रावृषि समुद्भूते च बन्धुजीवप्रबोधिनि शरदागमे सरिदिव कृशीभूता, मयूरजातिरिव क्षीयमाणस्वना, घनश्रीरिव पाण्डिमानमा- दधाना, तिग्मांशुभूतिरिवाभ्यधिकमुद्रहन्ती च तापमुदयसुन्दरी भूरिभिरपि शिशिरोपचारैरसाध्यया कुसुमशरकृशानुप्लोषपीडया परितः क्लाम्यन्ती विश- दशशिकरविसरविस्तारशीतलामतीत्रकैरववनसमीरगर्भिणी विभावरीमवाप्य पृथुतरसरोजिनीपत्रातपत्रकान्तरितगगने सौघशिरसि प्रसुप्ता प्रातरुत्थितानां परमेकहेलयैव न दृश्यत एवेति सम्पन्नम् । अथाहमुत्थाय सह सैव नितान्तमा- 0000 12000 ॥
orgamayaPaytracyanitangstangne सोडलविरचिता कुलीभूतदया सर्वतस्तत्र सौषसमन्यधस्तादुपरि पावतोऽभ्यन्तरेषु च निरी- क्ष्य भवेषयित्वा च व्याजेय मातुरप्यन्तिके निरूप्य च सम्यक्प्रचारस्थानेषु क्रीडास्पदेषुछ तामपश्यन्ती ननु सदैव मदिरहिता या किल नैकमन्येवं किमङ्ग बहिःशयनेनामुना दृष्टिपथमुपेता निमुवलनलोहरेति केनाप्यपद्धता नभयरेण, किमत्यन्तमद्भुतस- ऋद्धिना सौन्दर्येण सारेयमित्यात्मनो व्यपगमक्षयादपहवार्थमपसारि- ता विद्याधरीभिः, किमुत यद्भ्यर्थनाभयेन बिहाथ पातालमत्र मुक्ता तेनाथ ঋখন হানা হীনি লীলা পুলাল, সিঁহু রূপ- तेयमेवं ग्लानिमापति लक्ष्मीनमालुसैव प्रापिता निजं निलयमम्मलां ना- थेन, किमनेकशो हृदयसङ्कल्यैः अतोऽपि त जनमभीष्टं ब्रजन्तमालोक्य मदन- मोहेन पृष्ठतो लगा दूरीबभूक, दु स्वालंवृत्तसङ्गनव्यतिकरे कृतागसम- प्रतः पलायमानं तमतिप्रणयकोपा झमित्युत्थाय प्रत्यक्षमिचाहन्तुमनुसरन्ती कु- चिजगाम, किमनङ्गदहनपीडिता जलाशये कचिदात्मानमक्षिपत्, किन्नु समु- द्विग्ना प्राणितेन कापि वृक्षशाखा भानपाशेन सत्वरमसूनुपसंहृतवती। अपि च--- PANESELENTED किं वक्त्रद्युतिमत्सरेकरिपुणा चन्द्रेण दूरीकृता नक्षत्रै शरम्यनिर्मलरदज्योत्स्नार्थिभिः किं हृता। थामिन्या घनकेशपाशतिमिरं प्रेणा समालिङ्गय किं नीता हन्त बहिः स्थिताऽद्य सुचिरादासाद्य तुच्छोदरी ।। अथवा सा नूनमिन्दुकिरणाञ्चलबोधितेन সৰল। এখলাফলল। उक्षिप्य वाथ कुमुदाकर হলাল नीता भविष्यति सुदूरमितो मृगाक्षी ॥ न तावदिह सर्वतोऽपि वीक्षिता दृश्यते, न च विकल्पनिपुणेषु लोकेषु कश्चिदपि पार्यते प्रष्टुम्, अग्ने च पित्रोः कथमहमव्यवहितप्रसादपात्रं प्रियसखी तदीया मुखं धारयामि, कथं नाय कुतोऽप्युदयसुन्दरी दृश्यत इतीमां वाचमुच्चारयामि, कथमेतदाकर्णनेन सपदि म्लानिमापन्नां तयोर्मुखश्रियं पश्यामि, कथं च क्षणं स्वामिन्या विजयरेखायाःपरिदेवितविदर्भिता गिरः शृण्वन्ती शक्नोमि जीवितुम्, ततस्तु या नाम गतिरुदयसुन्दाः साध्य उदयसुन्दरीकथा । १०७ ममापि, किन्तु सख्याः कालिन्द्या मुखेन विदितवृत्तान्तां विधाय स्वामिनी विजयरेखामद्यतनमहः प्रच्छन्नेव किमन निष्पद्यत इति कचिदिहैव गमयामि, परतस्तु यथोचितमाचरिष्यामीति निश्चित्य तथाकृत्वा गत्वा च नगरनिर्गमोद्देशे खण्डमेकं चण्डीशभवनमध्यतिष्टम् । अनन्तरं च कालिन्दिकानिवेदिते तस्मि- अत्तिष्टति श्वादे प्रसरदाकूतविकलेन स्वामिना शिखण्डतिलकेन निरूपितैस्स मन्तादधिगृहमधिसुरालयमधिप्रपासत्रमधिकरितुरगशालमधिकर्मविद्यादिस्थान मधिवनमधिजलाशयमितस्ततः प्रतिपयतिसत्वरं प्रधावद्धिरन्वेषकजनैरन्त- व्याकुलीनतेव राजधान्यपि मुहूर्तमेकं बभूव । अवाद्यमानवादिनमगीतमजनारवम् । रङ्गस्थलभिवासन्नपात्रागममभूत्पुरम् ॥ अपि च- नादत्ते कश्चिदाहारं नेपथ्यं च पालये। तया श्रियेव निमुक्ते परं दौस्थ्यमगाजनः ।। अथ वृत्ते च तस्मिन्नहनि, विफलीभूय निवृत्तेष्वासन्नगवेषकेषु, तत्कालमेकीभूय मन्त्रिणामवसरोचिताभिः प्रतिपादयन्तीभिर्विचित्रसाराणि संसारविलसितानि, समर्थयन्तीशियवसायसाध्यानि वाञ्छितानि, निदर्श- धन्तीभिः प्रज्ञानुवन्धसिद्धानि प्रयोजनानि, प्रमाणं नयन्तीभिरनाप्यप्रापिकाः पुरुषकारशक्ती, कथयन्तीभिरसाध्यसाधिका बुद्धिम्, ग्राहयन्तीभिर्दुर्दर्शद- शीनि हृदयस्थैर्याणि, दिशन्तीभिरगम्यगामिनो मन्त्रान्, अविरतं हितो- पशालिनीभिरुक्तिभिरुत्सार्थमाणनिदो राजा निरूप्य देवतासु पूजोपयाचित- कसूचनाय कुलवृद्धान् , निवेश्य निमित्तविलोकनाय तद्विदः, नियुज्य शकुन- ज्ञानाय शाकुनिकान् , आदिश्य वैदेशिकप्रश्नाय परिजनम् , सञ्चार्थ विरोधिवस- तिषु प्रणिधीन, प्रस्थाप्य च मित्रस्थानेषु दूतान, अशेषतस्त्रिभुवनेऽप्यन्वेषणाय मदीयमन्तिकोपविष्टं पितरमब्रवीत्-भोः सैन्याधिनायकरत्नमौले प्रेषय तूर्ण कति नाम सन्ति सेनान्तः सकलभुवनन्नयप्रचारिणः पन्नगभटा यैः कृत्वा सर्व- तोऽप्यन्विष्यतेऽस्माकमन्वयैकजीवितं कुमारीति पुत्रिकावियोगविधुरेण स्वा- मिनाऽभिहितः पिता मे दर्शितोत्साहनिर्भरं प्रत्युवाच- देव दुर्गमाणि गमयितुमुद्नशक्तयो, दुष्प्रवेशेषु प्रवेशपटवा, पाटवपराश्च । सोडलविरचिता दुर्लयोलड्डनपदेषु, येषां न किश्चित्सहजप्रभावाप्रचारं विषमविश्वान्तः, ते हि मनोवेगिनः सन्तीह कियन्तोऽप्यवन्तकुलजातयः, कियन्तो भुवनराजस्य वासु- केवंशजाः, तक्षकान्वयसम्भवाः कियन्तः, कियन्तश्च कर्कोटगोत्रिणः, कुलिक- सन्ततिभवाः कियन्तोऽपि, कियन्तोऽपि देव युष्माकमादिपूरुषस्य महात्मनः शङ्खपालस्य कुलादुद्भूता:, कियन्तो हि महापद्मसन्तानतः प्रसूताः, पागोत्राच लब्धसम्भूतयः कियन्तोप्येवमष्टसु क्रमेण चतुर्वर्णतया लब्धप्रसिद्धिषु प्रधानप- नगकुलेषु जातास्तावन्तः स्वामिन् भविष्यन्ति भुजङ्गमभटाः, ये सकलमाको. णरन्ध्रावटं विगाह्य विश्वमचिरावर्धापयन्ति पुत्रिकोपलम्भवार्तया स्वामिनमि- त्येवभिधाय त्वरितमाहूय च सर्वानादेशलाभार्थिनः कृतप्रणतीन् कुम्भीनस- महाभटानग्रे चकार । राजाऽपि तानेकैकशो नामग्रहणसत्कारेण सम्भाव्य साभ्यर्थनमाख्याय पुत्रिकान्वेषणप्रेषणमर्पयित्वा च प्रत्येकबुदयसुन्दरीरूपवाहिनश्चित्रपटान् सन- देशोपदेशमादिदेश--भोः श्रूयतां तावदादौ सप्तधा प्रभेदवति पाताललोके सौ(व) फणावलिप्रभृतयो भुजङ्गवमूपतयः ! प्रयात यूयम् ; उपरि च भूलोक- मधिकृत्य जम्बूद्वीपे गुजाक्षनामा कदम्बमहाद्रुमेण सुन्दरे मन्दरगिरौ, उत्पलो नाम जंबुद्रुमेण केतुमति गन्धमादने, दीपकस्त्वं पिप्पलेन तरुणा शोभा- वति विपुलाख्ये महीभृति, असावपि कालिको न्यग्रोधतरुच्छायाश्यामलित- सानो सुपार्श्वसानुमत्येवमेते(षु) चतुषु महानगेषु व्रजन्तु चत्वारः सु(भटा); एतेषु त्रिष्वपि निषधे तमालकः, कमलो हेमकूटे, कुवलयो नाम च हिमाद्रा- विति गच्छन्तु गिरिषु शौण्डीराः; त्रिषु चापरेषु पद्कः शृङ्गवति, श्वेताचले पिङ्गलः, नीलघुर्नीलगिरावित्यमी भूमीधरेषु त्रयो यान्तु; तेषु पुनरष्टसु महेन्द्रे मलयभूभृति सह्ये शक्तिमति वृक्षशैले विन्ध्यगिरौ पारियाने कन्याचले चेति कुलपर्वतेषु सहापरैः पुष्करादिभिः सप्तभिरेष वीरो महाफलः प्रचरतुः सञ्च- रन्तु चान्ये चैत्ररथे शिखण्डकः, ताराक्षो नन्दने, वैभ्राजवने विशालो, धृति- संज्ञिके सितादरश्चेति चतुर्पु महावनेष्वमी चत्वारश्च; अपरे तावदरुणो- दनामन्येका, द्वितीयश्च मानसे, सितोदे तृतीयः, चतुर्थो महाभद्रे चेति जलास्पदचतुष्टयेऽस्मिन्नेते फणाइन्शप्रभृतयो विचरन्तु: भारते हि क्षेत्रे दम्भोलिरेवैकः प्रयातु; यात्विलावृते रमसिकेतुरेव; परिशिष्टेष्वन्यत्र लङ्का- लकादिनगरेषु, श्रीशैलकैलासादिभूधरेषु, जाहवीरेवादितटिनीधु, अवटेषु सर्वेषु, जलाशये चातल्लमर्यादाखिलेष्वित्त्यादिपद्याप्रचारानास्पदेषु कमलकण्ठनामा उदयसुन्दरीकथा । १०९ प्रधानो भूलोकवर्तिकवरूथिन्याः स्वयमुचितक्रमेण सञ्चरन्नेकैकशो भटकोटि- पौरुषान्प्रहेष्यत्येव चरप्रवीरान्; जम्बूद्वीपात्परतः षट्सु महादीपेषु दुर्मदः शाकद्वीपे, कुशे कालाञ्जनः, चक्राह्वः क्रौञ्चे, सरलः शाल्मलीडीपे, गोमेदनाम- न्यासीमुखः, पुष्करे च तापिच्छकोऽयमिति षडमी महात्मानः सैन्यैर्धमन्तु; सेनापतय एतेऽप्यालवणसागरात् स्वादूदकसमुद्रावधेः सप्तसु पयोराशिषु सप्तव गमेद्यदुणुप्रभृतयः प्रसर्पन्तु सर्पशौण्डीराः, तथाऽन्येपि हृद्यवेगनाना चरप्रव- रेणाधिष्टिता दिक्पालनगरीष्वष्टौ चाष्टासु पर्यटन्तु भटाः; तस्माच स्वर्लोक- मासाद्य त्रिदशराजधानीषु सिद्धनगरीषु विद्याधरपुरेष्वन्येषु चाब्रह्मलोकमर्याद- भसुमतामास्पदेषु सुमेरुशैलावगाहनपुरस्सरमन्वेषयतु परिगतः सप्तभिरनी- किनीभिरिन्द्रनीलनामा च प्रभुरसौ; इत्येवमखिलमापुराणकमठाह्मलोकावधि ब्रह्माण्डगर्भमवगाह्य ज्ञायतामुद्यसुन्दरी क वर्तत इति, गम्यतां त्वरित- मन्विष्यतां वत्सेत्यादि सादरमभिधाय, भूरिणा प्रसादानेन सम्मान्य विस- र्जितान् भुजङ्गवीरवार्तिकान्प्रेषयामास । अहं तु तथा दुःखेन भरिता तदीयां प्रवृत्तिमचिरादेव स्वयमीहमाना जातामात्मनोऽपि गति तद्गत्या प्रमाणीकृत्य तथैवानुष्टातुमन्तःकरण एवा- ऽऽलोचितवती। ननु का गतिभूता भविष्यत्युदयसुन्दा यस्यामहं ब्रजामि, अ- थवा तावदपहारानुमानस्यैव पृष्ठे लगामि, ततश्च पुरन्ध्रिकापहारकर्मणि सहज- व्यसनिनो भवन्ति सीतापहरणेन पुनः स्फुटप्रतीतयो हि नक्तंचराः, नेदीयसी च सा समुद्रान्तरद्वीपवर्तिनः कन्यावरोधस्य तदीयमास्पदं लङ्का, तत्खलु तत्र पश्यामि पश्चादन्यत्र गवेषणाय यतिष्ये, मा पुनर्भाग्यवशात्तत्रैव गतायाः सरति मे वाञ्छितं हृदयस्य, किं तु ममापि युवजनाभिगम्येनामुना कुमारी- रूपेण निर्गत्य च भवनाद्भमन्त्याः कतमं नाम कुशलम् । अतः कृत्रिमै स्म- जटावल्कलादिभिस्तापसत्वमाधाय पर्यटामीति चेतसि विनिश्चित्य तथा कृत्वा विमानपद्मतिष्ठितं च नभःप्रचारसारमतिजवं पादुकाद्रितयमधिरुह्य निर्गता- ऽस्मि । तस्मागता च लङ्कायां दृष्टवती च तत्रास्मि दूराद्रणाध्वरजुषा रामेण परिगृहीतस्य ज्वलतः प्रतापनाम्नो बहेरर्चिषामालोकमिव प्रसर्पन्तमभितोऽपि कनकमयाशेषसुरमन्दिरागारप्राकारवतः परिकरस्य रोचिषां कलापम् । अथाह- मन्वेषणरसैकहृदया नगरपरिसरादेव तत्खल्वपहृत्यानीतसीतावस्थानपवित्रित- भुवा शिशुपाद्रुमेण प्रसिद्धमधिविष्टा रावणीयमुद्यानमितस्ततो भ्रमन्ती च तस्मि- नादौ तदेवं बन्दिग्रहगृहीतसीताविलोचनस्तैरजरमञ्जनाविलैरववारिभिर्म- ।
सोडलविरचिता लिनितया सुतातिदुःखातिदाहदग्धयेव पृथिव्या इयामलितमास्पदं शिशुपा- द्रुमस्य दृष्टवती । दृष्टवती चान्यतो गैरिकरागलोहितमृदा रक्तपातमनुमापय- न्तमुत्कुपितहनुमत्करतलचपेटास्कालदलितस्य दशकण्ठखूनोरक्षस्य वधप्रवेश क्रीडागिरेः परिसरम् । परतोऽपि तस्मानातिदूरे दृष्टवती तेनैवाक्षवधास्वादलु- व्धेन हनुमता व्यापादितस्य सरक्षकवरूथिनीकस्य जंबुमालिनः पतितास्थिमु- कुरोपलक्ष्यमाणतलं वलयमुरिहाणाम् । पुरस्तात्कियतोऽपि भूविभागस्यान्तरे दृष्टवती च मारुतिनियन्त्रणोत्सृष्टपरुषपाशोरगपरिग्रहोद्वारगरलानलशिखा- दाहैरनूद्भिन्नतृणविटपिराजिमाजेर्भुवं शक्रजितः। प्रकृतप्रयोजनानुपलम्भखिन्ना च निर्गत्य तस्मादारामतः पदे पदे कचित्कथाश्चिदुभयराघवभुजानधारावकर्त- नोचलितमौलिवलयानां मेघनादप्रभृतिराक्षसभटानां चलत्पद्तलाघातसमत- लान्कबन्धताण्डवोद्देशानालोकितवती । दृष्टवती च कचिहाशरथिकरशराघात- विघटितायुषः कुलाद्रिगुरुकलेवरभ्रंशाभिहत्या त्रुटितत्रिकूटगिरिशिखरशक- लितशिलाखण्डदन्तुरामन्तभुवं कुम्भकर्णस्य । विशालसीमन्यन्यत्र च प्रदेशे प्रचण्डकलितकुतूहलोत्तालमिलितसुरशिविरकरविसृष्टाविरलपतितपारिजात- कुसुमसमुद्यामोद्वासितधरातलं वीक्षितं च रामरावणयोराहवस्थानम् । अपि च तमन्तर्दशकण्ठराजाङ्गणोदेशमालोकितवती। यस्मात् कान्त्या ज्वलन्नरुणपिङ्गलया विशाल: फालाय वर्तुलितदेहदलो हनूमान् । लङ्कापुरी कुपितदाशरथिप्रताप- वहे स्स्फुलिङ्गक इवोचलितो वाह ।। पर्यन्ते च प्रतिभवनमेकत्र गृहजनेभ्यः कथाभिराकर्णितमतीतस्य चकित- मन्दोदरीप्रबोधनपरमुवृत्तवचसो रावणस्य सूक्तं पञ्जरनिवासिना शुकेन पठ्य- मानमौषम् । माभैर्भीरु यदेव राघववटुर्देवो मुरारिः स्वयं गोलाङ्गलभटा इमे च मरुतस्ते दुर्निवाराः किल । स्वर्बन्दीहठनिग्रहोद्यतभुजादण्डो यदाऽहं तदा किं नासौ मुरजित्सुरा न किममी येनातिभीता प्रिये ॥ ततोऽपि चाले केनापि सुरेष्वसहिष्णुना राक्षसापसदेन दशाननं शोच्य- मानमाकर्णितवती।
उदयसुन्दरी कथा। हा स्वर्नाथशिखोढशासन दशग्रीव प्रभो कासि भो भोः शौण्डीर विना त्वयाऽत्र नगरे हा पक्ष्य यदर्तते । ये त्वद्वारनिषेविणः प्रविशता लोकेन पृष्टाः पदै- स्ते तेनैव हहा शुभार्थमधुना पूज्यन्त एते सुराः ॥ अन्यतोऽप्येकत्र निर्जनायतनमण्डपस्थ गर्भ विश्रान्तिमिलितैवैदेशिक- निशाचरैरन्योन्यारब्धवार्तया रावणवधे विधेपरीत्यमत्यन्तविस्मयात्सनिर्वेद- मुद्भाव्यमानमशृणवम् । सेवितो यैः सुरैर्भूत्वा तैरेव दशकन्धरः । हा हतो मर्कटैर्भूत्वा वैपरीत्यमहो विधेः ॥ एवमपरमन्यत्रापीदग्विधं व्यतिकरमनेकशः स्थाने स्थाने विविधरूपमुप- लब्धवती । इत्यादिकं प्रतिप्रदेशमभितो रामरावणीयं वृत्तान्तमुपस्थानमिलितेन सरभसमपूर्वतापसीदर्शनकुतृहलिना पुराणलोकेनाऽऽख्यायमानमवधारयन्ती नगरमाकोणकुहरान्तरालमन्तबहिश्च परिभ्रम्य न कचित्किञ्चन किंवदन्ती- मात्रकमप्युद्यसुन्दा लभमाना निराशीभूय विमुच्य च सरलं विषादपूत्का- रमतिसत्वरं निर्गत्य तस्मालकापुरीमदेशान्मलयादिगिरीन्द्रकुक्षिषु क्रीडास्प- दानि विद्याधरकुमारकाणामुहिक्ष्य गन्तुमारब्धवती । तेऽपि भव्ययुवतिरत्नाप- हारिणः प्रसिडास्ततश्च तत्र कुत्राप्यवश्यमसौ भविष्यतीत्याशया ब्रजन्ती काप्येकस्मिन्नेकहेलयैव प्रवरगिरितटोत्सङ्गतरुगह्वरस्य गर्ने त्रायतां त्रायता- मिति पूत्कुर्वन्तमुपरचितब्राह्मणरूपममुं निशाचरापसभद्राक्षम् । हा हा ब्राह्मणोऽयमात इति च बलवत्या करुणया प्रेर्यमाणहृदया समीपमुपसृत्य सादरमपृच्छम्-भो द्विजन्मन् ! केन ते त्राणमुत्पद्यत इत्यसावुक्तः सुद- र्शने कथमिदं वच्मि यदि भवत्या किलेत्यावेदितवान् । अथ मयाप्यहो का तर्हि चिन्ता मया चेत्प्रतीकारस्तदावेदय त्वरितं कतमा तवार्तिरवश्यं यदेव ब्रूषे तथेति त्वद्वचः प्रतिकरोमीति प्रतिपन्ने सहर्षमेषोऽब्रवीत्-साधु साधु प्रतिज्ञातमिदानी कथयाम्यत्र खलु विकसितानेकनवलताविरलपरिमलोन्मा- दिनि प्रदेशे झटित्यदृष्टशरीरकेणागत्य हतकेनामुना पुष्पशिलीमुखेन बहुशो विद्ध्यमानहृदयं दयावति त्वमेव मां रक्षितुमधीश्वराऽसीति । वज्रपातसमतुलेन तेनास्य वचसा हा धिक् किमापनमनङ्गशरपीडितेन दुरात्मना छलिताऽहमे- तेन । को हि किल द्विजो भूत्वा तपस्विनि जने स्मरातुरं मनः कुर्वन्नत्यन्त- मिदं गर्हितमाचरति तदसौ कृतकमूर्तिरग्रजन्मा न साक्षात्। साक्षात्पुनरपरो । ।
सोड्डलविरचिता विप्रवेषापहृतस्वजातिः क्रूरकर्मा कश्चित् । अतः किं करोमि भवतु छलिताऽपि वचश्छलेन छलथाम्नमिति संप्रधार्य विपाट्य च निजस्थावरणवल्कलस्यैक- मञ्चलमहो महानुभाव गृहाण प्रावृणु सर्वाङ्गममुं कवचप्रायमतिप्रगाढपुट वल्कल- पटञ्चैवं कृते न केवलमसावेव पुरोवर्तिविदपकुसुमे निविष्टः शिलीमुखो निय- तमन्येऽपि काननेऽस्मिन्कुसुमकुटीरवासिनो मधुव्रता न ते लगिष्यन्ति । एष ते पुष्पशिलीमुखेन विद्ध्यमानहृदयस्य मया कृतः परित्रोपायः, पालितं च निजं प्रतिज्ञातं, प्रतिकृतं वचस्त्वदीयं, तथ्यवचना च जाताऽस्मि, यामि संप्रतीत्येव- मभिधाय नन्वसौ न ज्ञायते कश्चिदित्थं निराकृतः कोपादन्यदेव किमप्या- चरतीत्यन्तराशङ्कितेन मनसा झगित्यपसरणधिया तथैव गगनमुत्पत्य प्रच. लिताऽस्मि । असावप्येवमभिप्रेतविपरीततया निव्यूंढमवगम्य मच प्रतिज्ञातमपट्ट- तायां मय्यकस्मादसीमविषमेण क्रोधरंहसा प्रखरफूत्कारपवनाहतो वहिरिव ज्वलितो नितान्तम् "आ: पाषण्डिनि! मृषापाण्डित्यलवदुर्विदग्धे पुष्पशिली- मुख इति पुष्पशरे मनोजन्मनि व्याख्यातव्ये पुष्पे शिलीमुखो भ्रमर इति श्लिष्टार्थव्याख्यायाश्छलेन प्रतार्य मां गन्तुमीहसे, क यासि, दृष्टाऽद्य मया, बलाग़लामि, पडिति (पीडिता?) च मां मन्यसे, न मन्यसे चेन्नृसिह्मखरनख- रतीत्राकृति कर्तिकामत्र तव कण्ठपीठावकर्तने कर्मणि व्यापारयामीति सनिष्ट्र- रास्कन्दमुच्चण्डया गिरा निगद्य सद्योऽपि तदेतदत्यन्तभासुरमद्भदंष्ट्राकराल- तुण्डमुद्दण्डकर्तिकाकपालधरमाविर्विधाय रूपं नैशाचरमनेन गगनाध्वनैव धा- वितः पृष्ठे । अहमपि प्रभूतभयातुरेण चेतसा पुरः पुरोऽस्य पलायमाना कथ- ञ्चिदेतावती भुवमनुप्राप्ता दृष्ट्वा चान्धकूपमधोभुवनप्रवेशधिया तस्यान्तः प्रावि- शम् । आकृष्य च हठादाक्रन्दन्ती क्रूरसत्त्वेनामुना प्रहर्तुमुपक्रान्ता । चण्डया च गिरा स्मर त्वरितभिष्टं दैवतमित्यास्कन्दिताया मम सुकृतेन कर्मणा भव- न्तमानीय मृत्युमुखकन्दरादाकृष्टाऽस्मि । त्वदाकारदर्शनाये साऽस्मत्स्वामिन्या जीवितं तत्र पटे केनापि शिल्पिना न जाने किञ्चिता नैपुणनिरूपणाय स्वमतेः, आहोस्विविशेषगुणा- विष्करणहेतावस्य प्रभोः, उत स्पर्डया प्रतिवादिनश्चित्रकरस्य, कृते वा कस्यापि, कृतनैपुणं लिखिता नूनमस्य स्वलावण्यलुण्टितरतीशकीर्तिराकृतिनरोत्तमस्य । एतत्कृते च तस्या विरहव्यथादुःखमनुभवन्त्याः समुपस्थितोऽयमीदृशो दशा- विपाकः । तदयमिदानीमेवं मम नयनगोचरीबभूव, सा पुनः क किल कथं ।
उदयसुन्दरीकथा। ११३ । क्षपयन्ती दिनानि तिष्टतीति चिन्तयन्त्या मम सम्पिण्डितसखीदुःखसम्भा- रेण बलादेष विगलितो बाष्पजलबिन्दुसन्दोहः । श्रीमन्नीदग्विधोऽयमावेदितो वृत्तान्तः । तत्खलु स तावदस्मत्स्वामिन्याः प्राणितस्वामी भवान् । किन्त्वे- तदिच्छामि बोडुं यत्किल क एष विषयः ? कतमनामधेयमिदं नगरं यदङ्ग चक्रवर्तिलक्षणानुमानसंवेदितेन भूवलयभा भवता राजधानी कृतम्, ? कमन्वयमलञ्चकार सुकृतशालिनां वरेण्यः ? किं च मत्सखीमदनज्वरहरण- मन्त्रयोग्यं नाम बिभर्ति ? सा च वर्तनमनङ्गस्य, सर्वस्वं त्रिभुवनश्रियो, जीवितं शङ्खपालगोत्रस्य, किमिहास्ते मम हृदयभवनं वयस्या ? मिलिता च कचिन्माणिक्यवतिरिव जातरूपस्य भवतः ? निवृत्ता च किं तस्यास्त्वदिरह- दाहदौस्थित्यदायिनी दशापि ? ममापि किं नाम चिरादपयास्यत्येष तड्वेषण भ्रमणसङ्केशो न वेत्येवमभिधाय भूमीन्द्रवदनविन्यस्तलोचना खूष्णीमकरोत् । राजा तु सपदि मुखाम्भोजधृतया म्लान्येव स्वयनुद्यसुन्दरीसङ्घटनमभूयमानं निवेद्य नेत्रकुमुदाश्चिताया विश्वभूतेमुखे सर्व यद्यादृशं तत्तादृशमेव ज्ञापयित्वा तत्रैव शयनावस्थानसुस्थितां विधाय तारावली निजनिवासमयासीत् । ज्ञातेति सम्मदरसः प्रथमं ततः सा तन्वी न दृश्यत इति प्रबलो विषादः । बावुद्यताविति कृतप्रसरं विरुद्धौ निद्राऽनुपश्य विनिहुमिवान्तरेऽभूत् ॥ SONMMCN AdSHMANDURAN चलति रजनिगन्त्रीवक्त्रचीत्कारधीरो ध्वनिरनुदिशमुच्चैरेकतः कुकुटानाम् । उदलसद्वनीन्द्रोबुद्धये मागधाना- मुचितपठितिसाराऽन्यत्र सारस्वतश्रीः ॥ इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां तारावलीदर्शनं नाम सारस्वतश्रीपदाह्वः षष्ट उच्छासकः ॥ १५-१६ उदयस० सोडलविरचिता सप्तमोच्छासः। अथ समन्तातिशिकटकुछुटकुटुम्बारटितकटुरवोदञ्चनविनिद्रितासु युग- पवुझादन्तीषु पिलासबनविहानश्रेणिषु, समुपजायना (नध्या) ने सुरम- न्दिोहालियु वाचनानावसरवादित्रसनुलेषु (समूहेषु ?) कणन्तीषु विबुद्ध- लिन्धुरनियन्त्रणारणितमुखराम हस्तिशालान्तरालानशृङ्खलानु, प्रवर्तमानेषु জাল হাজ্জাহ, সুষজী অক্ষালঘলাহী घरकारकाचितेषु चलत्कुटुम्हिनीचटुलवलयलालारवेषु, कलकलायमानेषु सरि- कानयानोपकरणादर्शनकाञ्चदुःस्वरेषु श्रोत्रियद्विजेषु, प्रतिष्ठमानेषु गमनव. चनवाचालितनिवासभवनोदरेषु पान्थेषु, स्वावासमन्तर्वलितेबु रजनिजागरजडेषु यामिकजनेषु, पुष्पवनमधिप्रधामन्ती रतरसनिद्रालसविलोचनानु भालाका- रतरुणी, निशानुपसेवामानातु प्रगल्भतरभुजङ्गजागरितवेश्यासु, प्रियगमना- दाकुलीभवन्तीयु भानग्रहापामसम्मुखीनातु मानवतीषु, गृहजननुत्थापय- न्ती प्रथनप्रवुद्धासु पञ्जरसारिकासु, मिथुमवृत्तान्युदीरयत्सु निद्रान्तोन्मिषि- तसंस्कारेषु क्रीडाशुकेषु, हरिचरितगीतकानि गायन्तीषु पुण्यपथप्रवृत्तासु जरतीषु, देवस्तुतीः पठतु धर्मक्रमानुलग्नेषु मुनि माणवकेषु, क्रमेण सर्वतो. ऽप्युहुध्यमानसकलजनपदालापनिस्वनमनोहरमाविर्भूयमानभुवनमनुभूयमान- दिङ्मुखालोकसुद्भूयमानपृथुप्रभं च बभूव शुभमयारम्भसंरम्भि प्रभातम् । यत्र हि प्रविशतो वासरस्य समुचितं माङ्गलिकसत्कारमिव कामभितोऽ- पि भूतले नववश्यायसलिलशीकरक्षेपैर्वितरन्नतुच्छक छ (छां?)टक(?)मति- स्फुटं प्रस्फुटपिण्डीतगरपुटकपरिपाटिवलयादुचलन्तीभिः किंजल्क(गोल- च्चूर्णराजिभिर्भरनभूरिशो रङ्गावलिविशेषान, सायान्तनोन्मिषितमालतीशि- थिलवृन्तनिर्मुक्तैरवगलस्कुसुमनिकुरुम्बैर्विकिरन्मनोहरं पुष्पप्रकरम्, उडुद्ध- मुखाजनो (डाङ्गानामुखो?) तनिद्रान्तजृम्भिकाश्वाससङ्गमसमाहृतोदारपरि- मलानुमार्गधाविताभिः प्रधनमधुकरश्रेणिभिः पदे पदे विरचयन्नायतगुरूणि तोरणानि, विनिद्रनवकुसुमवाटिकाटीकमानमालिनीसीमन्तसरणिसिन्दूरो- दश्चनविपश्चितमहोत्सवाचारः, क्रीडासरसीयु सुतान्युद्धोधयितुमिव चालयत्पु उडरीकानि, विकचमुचुकुन्दकुसुमदलनिष्ठुरसटास्कालदलितरयमन्धरो निसर्ग- शिशिरः सकोमलस्पर्शमावाति प्रत्यूषचारी समीरणः ।
उदयसुन्दरी कथा। SHIKena कालक्रमादुपरतिं समुपेतवत्या व्यस्तीभवत्सटितनष्टकलेवरायाः । राने कपालमिव पाण्डुरमस्तशैल- कूले लुलोठ निरभी(शु)हिमांशुबिम्बम् ॥ RIDEORIA HAMARISHMAM । नाथाप्यपैति भृगुमौनगुरुप्रधान- स्तारागणोऽयमिति कोपकषायितस्य । अहः कटाक्षलतिकेव झटित्युदस्था- दाशोणरोचिरुदयाचलमूर्वि सन्ध्या ॥ क्रमेण च- प्राताश्रिया रचितमच्छरुचो(ऽम्बर)स्य लज्जा(पर्या?)यविहुमद्युतिसोदामम् । पूर्वाचले समुद्भनवपट्टसूत्र- सत्कुञ्चिकातिलकचिहृमिवार्कविम्बम् ॥ इतोऽपि- देवेन सर्वजगदुग्रदुरन्तरोग- संहारकेण दिवसप्रभुणा निरस्तैः । कुष्ठस्य शुभ्रतिलकैरिव तारागणैर्गगनमुज्झितमस्तशेषैः ।। अथ क्षणेन प्रसरद्भिः किरणमालिनो मयूखैर्वियकक्षान्तराणि, विकस- द्भिर """"श्चक्रवाकयुगलैर्जलाशयतटानि, विलसद्भिस्तल्पतलोत्तीर्ण- मा निनीकटाक्षः निकेतनानि, भास्वद्भिस्तत्काल 'केतन तथाऽहनि 'निवषे-हि-तलवदा-हा कस्यमाणवशतदीधितिप्रतानैईिगुणि- तवैभातिकप्रभामं राजत् । तस्मिन्सकलभुवनकोशो- द्धाटनपटीयसि प्रभातसमये प्रविशदवसरवराङ्गनारणन्मणिकिडिणीझणत्कार- मधुरितेन वन्दिना मुक्तसूक्तारवेण प्रबुद्धो महीपतिरुत्थाय निर्वयं च प्रत्यूष- समुचितं कृत्यजातमाहूय रभसाभीष्टाय कुमारकेसरिणे तं रजनिचर्यावृत्ता- न्तमखिलमावेदयाचक्रे । निवेद्य च प्रस्ततेन यथा (प्रशस्तेन पथा ?) त्रिपथ- गाम्बुचुम्बितजटाकिरीटशिखरमर्धेन्दुशेखरं भगवन्तमर्चयितुमुचित""री: 28. 0.0.00 -- सोड्डलविरचिता दारम्भार्थनुत्थितवान् । अथ क्रमेण पवित्रितशरीरो यथाक्रियमाणविकसित- पत्रकवकुलकमलमुचुकुन्द (च) म्पकादिकुसुमसञ्चयप्रचुरैरुचितशुचिरुचिर- सिचयालङ्कारहारादिभिरगरुकरिधूपदीपादिभिरुपचारैः परिसमापितमहेश्वरो- पहारनित्यक्रियः तत्कालमनाकुलावसरसम्मिलितेन बहुलितो मदनमोहेन स्वमसंवृत्तमिव तं सर्वं शर्वरीव्यतिकरमाकलय्य परिस्फुटीकर्तु, पुनरीक्षितुं तारावलिं, दर्शयितुमस्याश्चित्रपटम्, अनुभवितुमनवद्यमुद्यसुन्दरीकथा- कर्णनरसैकसौख्यम्, अतिवाहयितुमनङ्गमार्गणोद्मवेदनादुःखानि सस्वाद- यितुमीश्वरायतनवृत्तान्तेन कुमारकेसरिणम्, आलोचयितुनुपरिष्टादनुष्ठेय- मतिस्तोकातपरिग्रहः सह कुमारकेसरिणा नगरप्रचारसाध्वीमधिरुह्य कुञ्ज- रकुटुम्बिनीमुत्सुकेन मनसा मलं विश्वभूतेजगाम । अवतीर्य च द्वार एव परि- स्खलितनिखिलान्यलोक कुमारकेसरिणमादाय सन्तुखसमागतेन विश्वभूतेः शिष्यवर्गेण निर्दिश्यमानवी मठस्य प्रगुणितवरासनामुपरितनी भूमिम- ध्यास । तत्र यथोचितमागत्य स्थित तारावलीपरीतपावी भगवती विश्वभू- तिमवनतेन मौलिना प्रणम्य तत्पादपल्लवार्पितमाशीर्वादसमनुगं पुष्पदाम सविनयं जग्राह । विश्वभूतिश्च वत्स किमप्यारब्धमुपास्तिकर्म निवर्तनीयमास्ते तन्मुहूर्तादिव निवर्तयामि यावत्तावनया साईमभीष्टकथारसेन क्षणान्तरम- तिवाहयेति पुरस्तादुपवेश्य तारावलीमभ्यन्तरं विवेश। राजा तु रजनिशयनावस्थानमुखप्रश्नगौरवेण सन्मान्य सदृष्टिक्षेपं निर्दि- श्य कुमारकेसरिणं तारावलीमवोचत्-जानाति भगवती कोऽयमिति, साऽपि स्मेराननं तमालोक्य स्मित्वा प्रत्यवोचत्-देव जानामि स एष समुद्रान्तः शङ्करायतने तेनास्मत्स्वामिनीजीवितेन समं चित्रपटेन शापाहतो महात्मा कथं च पुनरेनां निजप्रकृतिमासाद्य मिलितो देवस्येति कथ्यमानमवगमिष्या- मीति प्रोक्तो महीपतिस्तत्सर्वमादितो निवेद्य तं चित्रपटमन्तिकस्थस्य ताम्बू- लकरडवाहिनो हस्तात्स्वयं समर्पयामास । साऽपि तस्मिन्नुढेष्टिते तथा विलोक्य चित्रगताभुदयसुन्दरी झगिति प्रत्यग्रीभूतविरहव्यथोत्पीडगाढिता- दन्तःकरणयन्त्रादुद्गतेनेव बाष्पाम्भसा भरितलोचनद्रोणिरतिकरुणं हा वयस्ये प्रेयस्युदयसुन्दरि ! चिराचित्रेण दृष्टाऽसि कासि भृशमभीष्टजनविप्रयु- क्तमात्मानं क्षपयन्ती कालमतिकामसीति दुःखपरतन्त्रचित्ततया शिथिलि- तग्रहं तं पटमुत्सृज्य विघृत्य च करतलयुगलेन भालस्थलमवनतमुखी हठान्नि- पतन्तीभिरश्रुधाराभिरुच्चस्वनं रोदितुमारेभे । राजा तु रुदन्तीं तामवेक्ष्य कृपा- उदयसुन्दरीकथा । कर्थितया दृशा कुमारकेसरिणमपश्यत् । सोऽपि प्रभोरभिप्रायमासाद्य सप्र- श्रयं तामवादीत्-युज्यत एव कः किल न रोदित्यभीष्टविरहेण घव्यमानह- यशल्या प्रेमपरिलडिन्तो जन्तुः-विशेषतस्तु रुदिताध्यवसायजन्तुः स्त्रीजनः । किन्तु धीमता स्वधीभिरव्योऽयमात्मा, यत्किल विधिव्यापारपरवशे वस्तुनि किमङ्ग क्रियते सद्यत एव यद्यथोपैति तत्तथैव सर्वम्, सर्वतत्वावबोधजुषो भवत्यास्तु किमत्रोपदिश्यते, विहाय हृद्यवैधुर्यबोधकं तत्प्रेमभावनाव्यास- इमिदानी तथा क्रियते यथा कुतश्चिचिरादेव दृष्टिविषयमागच्छत्युदयसुन्द- रीत्यादि कुमारकेसरिणा रुदिताकूतप्रधावितया च विश्वभूत्या च सादरमुहो- धिताऽसौ प्रक्षाल्य विश्वभूत्योपढौकितेन कमण्डलुवारिणा वदनकमलमपमृज्य च स्पुरदरुणनासापुटंस्खलदक्षरं शनैरवोचत्-राजनिह न शन्कोमि त्वदन्तिके प्रियसखीं विना क्षणमपि स्थातुम्, छिनत्ति चैष प्रतिक्षणमुदीक्ष्यमाणश्चित्र- पटो मदीयं मर्मेति वदन्त्या एव तस्याः सहसैव पुनर्निरुद्धकण्ठो हठादपतद्- श्रुधारासन्दोहः । अथ तेन तस्या उद्यसुन्दरीविषयिणा प्रेमानुबन्धवैधुर्येण प्रबोधितानङ्ग- बल्गिक्लेशमवनीशमपि त्रपया छन्नं निःश्वसन्तमाकलय्य कालोचितं विश्वभूति- जगाद-वत्स ! किमेवमास्यते, न खलु सखीविप्रयोगतरलं मनः स्थिरीकर्तु- मसावध चित्रदर्शननवीभूतदुःखा शक्नोति, भवन्तस्तु राशयो धैर्यस्य, त- नाम तत्किञ्चन यथोचितमासूच्यते, ताः काश्चन बुद्धयो व्यापार्यन्ते, तानि का- नि चिव्यवसितानि स्वीक्रियन्ते, सा काचन सहायसम्पत्तिराद्रियते, ते केचन पुमांसः सञ्चार्यन्ते, स च कश्चन महोपायश्चिन्त्यते, येन- स्वर्लोकादपि दन्दशूकभुवनादासप्तसिन्धूल्लस- देलावारितरङ्गताडितवनादन्विष्य भूमण्डलात् । आनीता त्वरितं गृहस्थितिमतां धर्माधिकारेषु सा तन्वङ्गी लगति क्षितीश रुचिरा मुद्रेव हस्ते तव ॥ किमु किल मर्त्यलोकावतीर्णसुपर्णवाहनाकृतेरसाध्यमिह महाराजस्य, तदुत्थीयतामितो निर्वय॑तामखिलं पौर्वाण्हिकं कृत्यम् , अतिक्रामति च वेला, तारावलि ! त्वमपि किमेवमत्यन्तमुत्ताम्यस्ययमवनीन्द्र एव स्वयमत्र प्रयत्नवा- नास्ते, यतो विधिरपि बिभेति कृताध्यवसायादमुष्मात् । अतः सोऽपि करि- ष्यत्यचिराद्नुकूलीभूय तया सह युवयोः सङ्गमं समकालमिति विश्वभूतिवच- नात्तारावली शकुनग्रन्थिबन्धमपि( यी ? ) तथ्यार्थसुभगाऽस्तु भारती भगव- सोडलविरचिता त्या इति सप्रत्याशमुक्त्वा प्रसादितमुखी राजानमुत्थितं ब्रजन्तमनुव्रज्य गौ- रवपरिस्खलिता तामेव भगवतीमनुजगाम ॥ राजा तु निजं निवासमासाद्य यथावसरकृत्यनिर्वर्तनादनाकुला, हृदि- स्यैस्ताराबलोनयनजलबिन्दुभिराीकृतकुसुमशरशिलीमुखासारभूरित्रणः, त- दुग्रवेदनयासुदूरमारब्धः, चिन्तयाञ्चकार-ननु क किल सा नाम रम्योदरी भविष्यति, सहसा सौधसशनि सुतैव न दृश्यत इत्यपहारात्कारणमखिलमन्य. दमुख्यमेव, यतः कथं नु तादृशं युवतिरत्नमर्थिभिनयनगोचरीभूतमुत्त्यज्यते। न च निखिलसुलक्षणानुमेयकल्याणवसतिः सा तादृशी मूर्तिरपायैरपि स्पृ- श्यते । तदिह विश्वान्तस्तस्याः स्थितिं कथमहं ज्ञाताऽस्मि; यत्किल स कश्चि- दुपायोऽस्ति ? यो न तां गवेषयितुं पित्रा शिखण्डतिलकेन कृतो वर्तते । कि- न्तु तेनाप्यन्विष्य लब्धाऽसौ पातालवासित्वाद्गोचरैवास्माकमस्ति । अपि चे. तारावलीद्वारेण सम्बन्धोपायस्तथाऽपि यद्यलावन्विष्य समानीता पितुहमाग- ता भवेत्तदा किमप्यध्यवलितुं पार्यते । यस्यास्तु भूलत एव न ज्ञायते स्थिति- स्तत्र किं कर्तुमुपपद्यते अतः कथमसाबन्धिज्यते । न च तावन्मनुष्यजन्मनः कस्याप्यन्यत्र नरलोकादस्ति प्रचारः । सर्वत्र परं प्रचरन्ति सुरसिद्धविद्याधरो- रगयक्षराक्षसा एवेति वाक्यान्ते राक्षसपदोपादानादये ! साधु स्मृतमस्ति मे विक्रमैकसिद्धो मायावलनामा निशाचरवीरः, तेन कृत्वा सर्वतोऽप्यन्वेषयामि तां शशिमुखीम् । किमालोचितेन भूयतेति चेतसा विनिश्चित्य कृत्वा समाधि ध्यातवान्मायाबलम्। अत्रान्तरे च द्विजाकारसौम्यया सूा देव ! यः स्मृतो देवेन सोऽहमा. दिश यदर्थमनुस्मृत्य वाढमनुगृहीतोऽस्मि, पद्म किलाब्रह्माण्डशिखरात्कूर्म- राजमर्यादमदृश्यं दुर्गमं दुर्लड्यदुर्घटमसाध्यं च किञ्चित्तदेकेनैव क्षणेन साधया- मीति कृताञ्जलिपुटः प्रणम्य मायाबलः पुरो बभूव ॥ राजाऽपि रभसात्तत्र पटे चित्रगतानुदयसुन्दरीमुपदश्य भ्रातरमुना रूपेण विश्वान्तरङ्गनारत्नमुपलभ्य त्वरितमागच्छेति तं नक्तश्चरं सुभटमादि- देश । प्रतिपद्य च प्रेषणमुत्पत्य गते तस्मिन् सप्रत्याशमिव तस्यैव प्रचार- शक्तिभावनया तं दिवसमत्यवाहयत् । अभावयच निराकुलावसरप्रवेशिना प्रेमरसविजृम्भितभ्रमेण सम्भ्रान्ते चेतसि दशादौस्थ्यदुःसहमवस्थानमुदय- सुन्दर्याः । !
उदयसुन्दरीकथा। । किं शीतैरथवाऽऽतपात्रि(दि?)भिरुत क्षोणीतलोल्लङ्घनै- राहोस्विन्नवबन्दिमन्दिरपरिक्लेशादिभिः साऽथवा । मत्सम्बन्धिभिरप्यनङ्गविशिखाघातबणैः पीडिता हा प्रत्यग्रहणालकोमलतनुस्तन्वी कचित्सीदति ॥ अथवा तामशेषशुभविभूतिपात्रं प्रति प्रोषितेन चेतसा शून्यीकृतो मृषाऽहमेतदेवं विकल्पयामि । किन्तु- चेतस्तां गतमिन्दुसुन्दमुखीमायाति कस्मादये प्रत्यक्षं मदनोत्सवस्तरुणिमाभोगोऽद्य तस्यास्तनौ । तत्रतज्जयनोदरस्तनमुखश्रीभिः क्रमेणातिथी- नूतं हन्त निमन्त्र्यते मुहुरिति व्यग्रं किम्यगच्छति ।। यदि बा- तत्रैव सुदृशस्तस्यास्तचिरावस्थितिक्रमात् । वशीभूतं मनो नूनमायास्यति न तां विना ॥ तन्त्र हेमाण्डमहार्णवोदरं श्रियेव दूरावगाय लब्धया। उरस्थलारोपितया मृगीशा कदा भविष्यामि त(स?)दाऽहमच्युतः ।। BEANIRHIANAM अपि च- कदा नाम म(म) दृष्टिस्तस्याः कचिदनगदवथुदुःस्थिता विरहिणीव चरणपल्लवास्तरणे लुठिष्यति, कचित्कौतुकेन पल्लविता लतेव जड्डगेरुदण्ड- शरणा प्रसरिष्यति, कचित् शृङ्गारिणी गणिकेव जघनाङ्गणे स्थास्यति, कचि- न्माराकुला भुजगीव नाभिरन्धं गमिष्यति, कचिहिस्मयाच गता श्रान्तेव त्रिवलिमण्डपमाश्रयिष्यति, कचिद्यौवनविडम्बिता स्वैरिणीव कुरुलान्धकारे सञ्चरिष्यति, कचिद्रागिणी सिन्धूररेखेव सीमन्तपदे यास्यति, कचित् हर्क- बेल्लनविलोला शफरीव लावण्यपयसि सर्वतो विहरिष्यति, किं च कदा नु मे हृदयसुखसाधकस्तदालापः कर्णविवरे प्रवेक्ष्यति, कदा पर्यन्ततीक्ष्णा तूलिकेव तदृष्टिरङ्गभित्तौ भ्रमिष्यति, कदा वाऽसौ कल्याणवसतिनिधानकलशीच करे लगिष्यति, कदा च नवरुचिस्थानं रत्नमालेव कण्ठ ग्रहं करिष्यतीत्यादिभिः प्रतिक्षणमुञ्चता तद्रूपभावनाविशेषेण वास्यमानहृदयसम्भूतैरमीभिरभीष्ट- दोहदशतैरात्मानमविरतं व्यापारयन् समन्मथावस्थमस्थात् ।
१२० सोडलविरचिता अथापरेयुः प्रातरेव कृपावती नाम शिष्या विश्वभूतेः समागत्य जय महाराजेत्याशीर्वचोनुगं कमलपूलकमुपढौकनीकृतं समर्प्य समुचितोपवेशना- तिथ्यसम्मानिता राजानमब्रवीत्-राजन् ! आर्या त्वामाह यथा किल तारावली तस्मिन्नेवाहनि मठानिवासमागते त्वयि हठात्मबोध्य कारिता- हिकविधेया स्मृत्वा तत्तदशेषनुद्यसुन्दरीव्यतिकरमश्रुपातमात्रानुमेयकर्मणा रुदितेन तामशेषां रजनीमनैषीत् । विभाते च त्वरितमुत्थाय पुष्पोचय- मिवेण कुसुमवाटिकामुद्दिश्य यत्खलु निर्गत्य गता, तदिदानीमेतितदानी मेतीत्येवं न तत्राहि समागता । न चास्माभिरये उद्यसुन्दरीवियोगदुःखिता न ज्ञायते कापि याति किच करोत्येकाकिनीयमिति समन्तादितस्ततो निपुणं तदिनमशेषमन्विष्टाऽपि दृष्टा । न च निवेदितं भवतेऽपि, येन प्रायः कश्चिदिहापि पुरा परिचितः सुहृजनो मिलितो भविष्यति स नीत्वा गौरवेण निजं निलयमातिथ्यसत्कारेण तामद्य सन्मानयिष्यति, किमेवमवि- वेकिनी तारावली, येन मामपृच्छयन्त्येव कुत्र चिद्याति, तत्मातरवश्यमेष्य- (ती)ति । न चागता प्रातरपि । एवमद्य गतायाः कापि तस्यास्तीयो वर्तते दिवसः । तन्नूनमसाविह न शक्नोति वीक्ष्यमाणा भवन्तसुद्यसुन्दरीं विना स्थातुमिति यथैव पूर्व गृहानिर्गता तां गवेषयितुमेवमितोऽपि मन्ये गता भवि- ष्यति । तन्न भवता परामर्शपण्डितेन शोचनीयाऽसौ। न चानीतया गवेष्य तया किञ्चन प्रयोजनमस्ति । स चान्वेषणप्रयासो वरमुद्य सुन्दाः क्रियते । सा पुनर्यस्मिन्नुद्यसुन्दरी तत्र सर्वतोऽपि भ्रान्त्वा स्वयमेष्यति-इत्यादि स- म्यक् सोपदेशमाख्याय लब्धाशिषा नृपेण सप्रश्रयमशेषं तथेति तद्वचः प्रति. पद्य विसर्जिता सप्रतोषमयासीत् । अनन्तरमनेन तारावलीगमनविस्मयरसेन जडीकृतान्तःकरणवृत्तेः, उदयसुन्दरीव्यतिकरानुचिन्तनपथायातमन्मथशरघातवेदनादूयमानमनोविह्वल तया कुतोऽपि निवृतिमलभमानस्य, स्त्रीरत्नफलितायाः प्रतिदिनमुचदा- शाकल्पलताया मूलमिव तमभ्यर्णवर्तिनं कुमारकेसरिणममृतरसावसेकसुभ- गेन दृष्टिपातेन समुपशीलयतः, सह तेन ननु क किल तारावली गमिष्यति ? केन पथा प्रस्थितवती?किमङ्ग सत्यमुर्वीतले प्रियसखीमवेक्षितुमगात् ? उतान्तरे किमपि व्यपायरूपमन्वभूत् ? किमस्याः संवृत्तमित्यादि परामृशतः, क्षणं च क नाम तचासावुद्यसुन्दरी दृष्टिपथमुपेता ? कथमवलोकिता ? किं कृतवती ? किमुक्तवती ? कस्मादागता ? कस्य कुलवर्तिनी ? क वर्तत इत्यादि कथित- ? ?
उदयसुन्दरीकथा। १२१ मप्यकथितमिव (श्रुतमप्य)श्रुतमिव ज्ञातमप्यज्ञातमिव पुनः प्रश्नैरावर्तयतः, हृदयानुवर्तकेन कुमारकेसरिणाऽपि मुहुर्मुहुराख्यायमानातिरिमाभिरेव कथा- भिरशून्यानि गमयतो दिनानि मेदिनीन्द्रस्य; जलतिमिरा(प)सर्पणनिरर्ग- लोऽयं मयि सति लब्धप्रभो हरिणलाञ्छनः करैरनङ्गशरशल्य(निहत)मुद्यद्दय- मुर्वीपतिं व्यथयतीति प्रोषिते शरत्काले, तामेव सततमुद्यासुन्द्री ध्यायतो नियतमभिनवयवोपान्तसञ्च(र)त्क्रौञ्चकुलकठिनकेङ्कारमुखरोऽहमसम्मतो नर- पतेरिति निष्क्रान्ते हेमन्ते, हिमपरिग्रहेण मया स्मरानलकरालितावनिप- चित्तसन्तापशा(मक)सुभगानि प्रलीयन्ते कमलकाननानीति निःस्ते च शिशिरे, समयसेवोपचारमिव का मलयगिरिशिखरसरसीतरङ्गजलजडिम- समधिकसमीरणव्यजनप्रगुणः, प्रगुणीकृताविरलव(कुल)कुसुमकोशभरित- मधुरसजलाोपकरणः, स्वेदप्रतीकारकृते विकसदतिविशदसिन्दुवारसम्भृता- नल्पतरपरागकैतवोपरचितकर्पूरचूर्णः, तल्पार्थमिव गृहीतनवनिरन्तरतरुप्रवा- लपेशलाभोगः समागतो वसन्तः । यत्र- सम्प्राप्तः सुहृदो वसन्तदिवसादेकोऽपि चूताङ्कुरः कन्दर्पण शरीकृतस्त्रिभुवने भिन्नक्रियं वल्गति । मानं मानवतीषु कर्षति मनो मथनात्यलं रागिषु प्राणानत्ति वियोगिनीषु पथिकेष्वन्त्राणि निष्कृन्तति ॥ अपि च- यस्मिन्नमुद्रमुकुरारचिताम्रसम्प- दुसृङ्खलेन मधुना हृदि वर्त्मगानाम् । आस्फाल्यमानझषकेतनकङ्कपत्र- शल्यस्वनं पिकरुतान्यनुमापयन्ति ।। NRNESSMANA यन्त्र च- त्रिभुवनानन्दप्रदायिनः समदमलयकामिनीकर्णपूरविरचितारविन्दकोश- प्रवेशलालसाः श्रान्ता इव वसन्तः पयोधितटारामग्रामेषु, शिशव इव खेलन्त- स्ताम्रपर्णीतरङदोलासु, अतिथय इवोपतिष्ठन्तः कावेरीचलन( कूलल ?)तागृ- हेषु, पथिका इव मिलन्तो गोदावरीजलतुषारसार्थेषु, मृगमदमशीलिखितानि कलयन्तः पण्डिता इव पाण्डीकपोलपत्राणि, धम्मिल्लवेल्लीगतानि चिन्वन्तो मालिका इव कुन्तलीशेखरकुसुमानि, मन्मथनिधीनुद्धाटयन्तः सिद्धा इवा(न्ध्र) १२२ सोडलविरचिता PERMEERAUNT सीमन्तिनीस्तनकलशान, केसरपारागोदर्तिभृतोऽङ्ककारा इव चन्नतः (वन- न्तः ? ) कोङ्कणीनामङ्कखलकेषु, पुन्नागमधुरसस्वेदिनो मल्ला इव मिलन्तो म- हाराष्ट्रकुटुम्बिनीनामूलस्तम्भेषु, परिमलमिलितालिपटलकवचिनः सुभटा इव लगन्तो लाटलीलावतीनां वलिषु, मन्द्गमनाः कर्णाटनारीकुचपत्रकस्तूरिकाप- किलपथेन, शीतलास्तिलिङ्गतरुणीकुरुलवनच्छायोपसेवाभिः, सुरभयः सवि- भ्रमाभीरभामिनीमुखामोदेन, चन्दनगिरिपरिसरोद्यानमण्डलादुच्चलन्तश्चलकु- सुमकतरुहस्तकाभिनयभारतकाः प्रसरन्ति दक्षिणदिगङ्गनाश्लेषमिलितकपूरसौ. रभसुगन्धयो गन्धवाहाः। किं बहुना- भ्रूभूमि केरलीनां शुरुलऋगहशां विभ्रमोत्तंसदेशं चोलीनां चारुकाचीविषयमपि वलीमण्डलं सिंहलीनाम् । आक्रम्याम्बोधितीरे तस्कुसुमरजस्त সকাল याम्याः पुष्पायुधस्य व्यधत मरुतो राज्यमेकात्तपत्रम् ॥ अथ तत्र तरुणजनहृदयसअनि प्रवेशमङ्गलमुहूर्त मन्मथस्या, व (वा?)यौवने तरुत्रियां, रसायने(कुलु)माना, नायके सर्वतूनान, उत्सवे विलासिना, शृङ्गार सुहृदि चिकचविचकिलमकरन्दमुन्दामोदनिलितषट्चरणचक्रनिलूनमानिनी- मानकन्दले दलबकुलपाटलाशोकसहकारमधुरसभरासारभन्नाध्वनीनवर्मनि वसन्तसमये; निविडतरुपत्रपल्लवास्फालशब्दसुभगेन निवृतमुल्लपित्तवचनस्व- नाभासमिवोच्यमानो मलयमारुतेन, मुकुरमधुमिलितकुटिलषट्चरणराजिरेखा- ग्रचलनसन्निवेशिभिः सभूशिखास्पन्दनमिवानुमन्यमानभूतमैः, समीरणा- न्दोलनचलितहस्तकैः सहस्रसंज्ञमिव पूगीवनैः प्रेर्यमाणो राजा सदा मान्यमपि महत्तरं धैर्यमवधीर्य तस्यैककन्यकावस्तुनः कृते हृद्यमनगृहे दासीचकार । तेन च- प्रतिदिवसमादिश्यमानमानसो विबुद्धमन्मथहुताशनोत्ताप्यमानः प्रज्व- लन्तमिवाखिलं परिग्रहमपहाय, पीयूषदृष्टिनेव कुमारकेसरिणा परिगतः, शिशिरेषु हर्षवशविसारिविहरणरसप्रसक्तकलहंसकामिनीमुखविखण्डितोल्ला- सितमृणालनलिनकिसलय (विलाससरसीतटेषु) गिरिसमीरताडितनिबिडता- डीरवोत्रस्तहरिणरमणीकुलतरलनेत्रनीलोत्पल(नि)करपेशलेषु लीलावनेचरस्थ. लेषु यौवनभरमन्धरोद्यानपालिकाविकीर्यमाणदृष्टिकाममञ्जरितलतानिकेतनेषु च प्रमद्वनेषु रममाणः, पुरोऽवलोक्य सभ्रूक्षेपनिर्देशमुवा च कुमारकेसरि- णम्-अहो पश्य पश्य ।
उदयसुन्दरीकथा ! SANEMOMar एतस्मिन्नलिनीवनेऽस्य नियतं कान्तावियोगभ्रम- भ्रान्तं चित्तमवाप्य षट्पदपतेलंग्नोऽङ्गजन्मा ग्रहः । तेनैष प्रलपन्विशृङ्गलमुखो राजीवधूलीभृतः शून्यं भ्राम्यति सर्वतो मधुलिहामावेष्टितो बालकैः ।। चक्राह (योस्य शतपलवनप्रचार- संलग्नसान्द्रमकरन्दरसप्रसिक्ता यामा(ज्यो)वियोगबुरितप्रशमाय लाक्षा सेवकवभु (वसेककलितेव?) वधूर्विभाति ॥ (2) . ANTOTHERWITTER MAHIMINA एष प्रभूतमुकुराहरणप्रसक्ति- सन्तुष्टकोकिलनिकूजितकैतवे(न)। चैत्रेण भू(चू?)तनिल(येन) निश्ची(ची?)यमानः पञ्च(श्चेषु?)सायकशिखाध्वनिरूल्लास ॥ अस्मिन्नपि-- क्रीडावने पश्य नवप्रभूतपुन्नागपुष्पानिपतन्परागः । गन्धोपलक्षोद इव स्मराग्निनुद्दीपयत्येष मनस्तु यूनाम् ॥ VEDEOANIMALNat चन्दनाचलसमीरदोलिता मूलमुक्तधनरेणुधोरणिः । रागिणां क्रकचिकेव मानसं पाटयत्यहह चूतमरी॥ कुमारकेसरी च व्यञ्जिताशयैरमीभि(री)दशैरालापवचोभिरवनीन्द्रस्य हृदयमाकलय्य विषीदन अहो प्रगाढमिह गृहीतोऽयमनङ्गमहतकेन स्वामी, ना। प्यतोन्यत्र मया नीयमानोऽपि यास्यति, न चेदृशं प्रदेशमपहाय रागिणां निव- तिः, तदिदैव नाम कैरुपायैरुद्दिश्य च किमालम्बनमुद्यसुन्दरीकृतामस्य भन्म- थ(व्य )थामन्तरयामीति समन्ताहत्तदृष्टिरेकतो विलोक्य ससम्भ्रमं जगाद स्वामिन् ! इत इतो निवेश्यतां दृष्टिरवेक्ष्यतामियमत्र वनवीरनाम्ना किरातरा- जेन कुतश्चिदासाद्य सरभसमानीयमाना, धृता च दारकेण वल्गायाम्, पर्याण सज्जिता, स्वागतोपहारढौकितेव सर्वतुराजेन मधुना, चरणसंचरणोपरोघदत्तेव दिक्पालैः, अनन्ययोग्येत्युपायनीकृतेव शकेण, वाहनैकरत्नमिति प्रीतिपरिक सोडलविरचिता ल्पितेव वेधसा, प्रभूतवेगास्पदतया शरीरसिद्धिरिव मारुतस्य, प्रत्यक्षतेव चि- त्तस्य, रूपान्तरोत्पत्तिरिव गरुडस्य, जन्तुपरिणतिरिवासूनामाणिकप्राणप्रकर्ष- तया, वेगमतिहठादाच्छोटयितुमिव रंहसा प्रसिद्धेषु प्रविष्टालोकहृदयेषु, त्रिवि- क्रमवत्रिभिरेव क्रमैर्विश्वमतिक्रमितुमीश्वरा, मङ्गलार्थमिव क्रमं चतुर्थमाविभ्र- ती, हयजन्मनोऽन्यस्य ग(ति)त्व(रा)मसहमानेव सुहुर्मुहुःस्फुरता घ्राणान- भागेन भासमाना, मुखान्तर्विरमता स्फुरन्मसृणहेषारवेण त्रिभुवनोल्लङ्घनप्रति- ज्ञामिव कुर्वती, तेजसा सर्वतश्चलदगतया धरणितलस्पर्शघृणयेव कम्पमाना, गतिजवनिषेधक्रोधादाताम्रितेव मञ्जिष्टारागपाटलं वर्णमाद्धाना, विशिष्टगुणा- धारसृष्टिना स्वरूपेण चातुष्पदीजातिमुत्कर्षयन्ती, सहगमनवेगानगतेमरुतो बलस्वार्थ (सार्ध?)मिव लम्बिताभिरतिमसृणधनसटाभिरुद्भासितेन बन्धुरा स्क- न्धेन, स्निग्धा रोमभिः, तथा कर्णाभ्यामुपचितबलाप्यश्वि(स्थि?)मयी मुखेन, स्वरूपमुग्धाऽपि विदग्धा पदन्यासे, अदृष्टपूर्वैव सुरलोकसम्भवाकारविन्नमधरा, मनोहराङ्गी तुरगीति कुमारकेसरिवचनाद्राजा झटित्यन्यतो विकृष्य तस्याम- रविन्दसुन्दरं चक्षुः सविस्मयमपातयत् । दृक्पातसमकालं च तया सह पुरः प्राप्तेन प्रणम्य विज्ञप्तः किरातराजेन- देव ! अद्य विन्ध्यस्य महागिरेः परिसरभुवि प्रचरतो ममाग्रे झगिति परमसाव- म्बरतलाइत्तफालमत्यन्तहरितदूर्वास्तम्बोपरि पपात, न जाने किं सत्यमिय- मम्बरादेव रविस्यन्दनमपहाय सरसर्वाहारकाशिणी क्षोणीतलमवातरत्, उताद्रिशिखरामरजन्मनः कस्यापि वाहनमेवंष्टंपामदात् । (मनवष्टंभम- पतत् ?) अवेक्ष्य च स्वरूपमेवंविधममुष्या विस्मितेन मया चिन्तितम्-अहो ! कस्येयमसदृशाकारचा-कुतो वाऽत्र वितीर्य कालमागता ? मन्ये सप्तभ्योऽपि रविरथतुरङ्गमेभ्यो गतिवेगमाधाय निर्मितेयं विश्वसृजा तेन ते समतलमप्युद यास्तशैलयोरन्तरालमखिलेनाहा लङ्घयन्ति । उच्चैश्रवा अपि निष्क्रम्य समुद्र- मथनादेनामुदीक्ष्य निजपरिभवाशङ्कया नात्र महीतले स्थितिमकरोत् । समी- रणश्चायमिदं यानकरत्नमपहाय हरिणमधिरूढो ब्रजन् तरल इति मतो लोकेन । किञ्च न तावदिह नूनमेनां त्रिदशतुरगातिरेकसुन्दरामाकृतिं वहन्ती मनुष्य- जन्मा कश्चिदधिरोढुमर्हति । तन्न यदि ध्रियमाणा झगित्यपक्रामति, तदियं मर्त्यलोकशक्रस्य वाहनार्थमुचिता भविष्यति चेत्स्वामिन इति सम्प्रधार्य सह- ग्वञ्चनोपायमनुसरतोऽस्य दारकस्य हस्तेन मया धारिता, मया किमस्य ध्रियते शङ्कितैः, एवममुना छलेन विधृतास्माभिरियं त्वनुत्रस्तहृदया सिद्धेव निःशङ्क- उदयसुन्दरीकथा । मास्ते । ततश्चात्मनः पर्याणपरिकरेण प्रगुणीकृत्य सेयमानीता देवस्य पादा- न्तिकम् । उपरिष्टाद्देवः प्रमाणमित्युक्त्वा विरराम । अथ कुमारकेसरिणाऽपि-अये निरुपायलब्धेनामुना रसान्तरेण राज्ञः सुदूरमन्तरयामि प्रस्तुतमनङ्गपीडाकरं रसमिति विचिन्त्य वीक्ष्य तां सम्यक सर्वाङ्गमवगतस्वरूपेण विज्ञप्तः-स्वामिन् ! अवधार्यतामसौ तावस्य (ताव- दस्ति) नवधा तुरङ्गजातिषु तोकोराजातिरुत्तमै(व)। साक्षादृष्टया हयलक्षणे च संस्थाने ताबडुच्छ्रायो देय परिणाहश्चेति यथावदङ्गुल संख्यया प्रधानमानोचि- तप्रमितिरुत्कृष्टैव, श्रवणयोश्च युगं यादृक्शास्त्रेणोक्तमस्ति तादृग्लघुतया श्रेष्ठं, मृदूनि च पश्य केसरवक्तनूरुहाणि, निमौसताऽपि जानुजवाननेषु, नयन- दशनस्तनेषु च वास्तघं लिग्यत्वम् , असायप्युड्रायवती ग्रीवा,खुरेषु निष्ठित- मेव काठिन्यम्, पृथूनि च ललाटकटिस्कन्धपृष्ठाक्षिवक्षस्थलानि, किमुच्यते यथोक्तैव संस्थानगुणेनासौ वर्णेन च मूलवर्णचतुष्टयात्पाटलच्छविः। आवतैस्तु यथास्थानमुचितैरेव चिह्निता, ध्वनिना च सङ्ख्यत्य(शंखस्य?) हेषते । देव सत्वं च सत्वेनाविर्दधाति । द्धाति च छायामाग्नेयीम् । सुरभिश्च सौरभेण पङ्कज- वनस्य, त्वरितया विलासवत्या च गत्या प्रचरति । सप्तधा प्रकृतिषु शुद्धव सत्वप्रकृतिः। प्राणमपि तमेव प्रधानमाङ्गिकं स्पष्टयति । एवमेभिः शुभलक्षणै- रक्षीणसृष्टिरसावहत्यधिरोढुमारूढिनियूंढस्य स्वामिनः । तद्देव ! कौतुका- दधिरुह्य वाह्यतामियम् । धारा हि याः किल विपश्चिताः पञ्च तास्वेकैका विधा प्रकीर्तितेति सम्यक् निरूपय प्रथिताश्ववारधौरेय !, तासां क्रमं पञ्चधा मण्डले तु तथेत्युपदर्शय प्रकर्षात् भो ! वाहविद्ययोपहसितरेवन्त !, विधि वाहनस्य षडिधं च धरणीन्द्र ! सूत्रय, त्रिधा च वीथी तस्यामुचितक्रमेण वेगमारोपयतु वाहनविधिविशारदो देव इति आदराविज्ञप्ते तेन कौतुकी नरेन्द्रः सलीलमारुह्य तथैव तां वाहयितुमुपक्रान्तवान् । अत्रान्तरे च- झटिति प्रधावन्नागतो दुरन्ताकूतविक्लवः, प्लावितोऽम्भसा श्रमजेन, गति- जवायासविसृताभिरनवरतनिःश्वासोच्छाससन्ततिभिरन्तरितवचनवर्णपरिपा- टिः, कर्मकरः करभकः--" देव ! मुषिता मुषिता स्मः, पश्यतामस्माकमश- क्यनिग्रहेण दुरात्मना कुतोऽप्यागत्य विध्वस्यमानमिदं रक्ष्यतां रक्ष्यतामुद्या. न "मिति सत्रासगद्गद्मवादीत् । विस्मयोत्सुकैरुपान्तवर्तिभिश्च केन रे केनेति युगपदापृच्छयमानो भयादनुगीर्णनामा तेन तेनेति जल्पन नृपेन्द्रमहासयत् ।
सोडलविरचिता राजाऽपि तेन तादृशा तस्योत्रासवचनेन विस्मितश्चान्तः सत्वरमाहत्य जड्डाभ्यां तुरगीमनुष्ठधावितैः कुमारकेसरिप्रभृतिभिरनुस्त्रियमाणमार्ग:क्षणा- तमुद्देशमासाद्य पुरो निहितदृष्टिरेकहेलयैव परमितस्ततो लतामण्डपालतामण्ड- पतुर्वीरुहादुर्वीरुहमनुसरन्तम् , अ(न्वा ) रब्धमशेषतोऽपि वनरक्षिभिः, अ- क्षामविक्रम, हास्यरसमिव पार्थिवविकारेण परिणतम् , दुर्नयमिव प्रतिमया प्र- तिष्ठितम् , वैरूप्यमिवानन्यरूपतया नियमितम्, चापलमिवैकवसतितया व्य- वस्थितम्, कडारकान्तिभिस्तनुरुहेलनकपिकच्छुकेसरैरिवोपजातकण्डूतितया सततमङ्गेषु कण्डूयनस्वभावमुपशीलयन्तम्, चापलदुरुद्यमान्दोलितचन्दनमही- रुहतया चलितशिखरशाखाप्रविघटितेन क्रोधात्पश्चाद्भागलग्नेन गोधूमरोचिषा भुजङ्गमेनेव पिङ्गत्विषा लालदण्डेन भ्राजमानम्, फालवशभिलितबिम्बीफल- पाटलरसेन लिसया बदनसम्पदा दशनदलितकुम्भकर्णनासारजा प्लावितमुखं सुग्रीवमिव दृश्यमानम्, पाकारुणगभस्तिनि नारङ्गफले प्रसारितकरं शिशुभा- वचापलाद्वालरविबिम्बमाकर्षन्तं हनूमन्तमिव प्रतीयमानम्, इतस्ततो दृष्टनष्टत- या रणरसोचचापलं नीलमिवोपलक्ष्यमाणम्, प्रेहता जात्यकनकदलोद्योतदी- प्रेण प्रभापिण्डेन जलदुषण्डात्तडिङ्गोलमिव श्यामलतमालशिखराचम्पामधः क्षिपन्तम्, तारकवतश्च गगनादुल्कापुञ्जभिवोद्रुद्धमाधवीमण्डपात्फालेन निःस- रन्तम्, कचित्कपिशेन वपुषा परिणामपिङ्गलं फलमिव पनसतरुस्कन्धेषु लम्ब- मानम् , कचिद्यावकरुचा वनबिम्बकेन फलर्द्धिमेकोत्तरां दाडिमीविटपेषु दर्श- यन्तम् , कचित्कपिलोत्फुल्लरोमशया लागलश्रियाकपिशकेसरविकस्वरां मञ्जरी- मिव लतामण्डपेषु सूत्रयन्तम्, हरजटाग्रपिङ्गलया प्रज्वलन्तभिव देहत्विषा, प्रचलखिलाङ्गभागेन उत्पतन्तमिव चापलेन, फलग्रहोदश्चितकरेण विस्तरन्त- मिव दुर्नयेन, रक्षिजनकदर्थनोपकल्पितेन हसन्तमिव दन्तनिष्कर्षणेन, विदूष- कमटवीचरपात्रेषु, विटंकान्तारनगरेषु, भोक्तारमारामग्रानफलानाम्, प्रसाद- चिन्तकमनोकहश्रियाम्, विभीषिकाप्रभेदमिव वनदेवतानाम्, हास्यपानमिव महीभृताम् , उच्चासनप्रियमिव तरुशिखरोपवेशिनम्, नियमवन्तमिव फला- हारिणम् , महाकायमद्भुताकारभासुरमतिजवं प्लवङ्गमद्राक्षीत् । दृष्ट्वा च साश्चर्यम् अहो महत्वमङ्गानाम् , अहो भासुरत्वमाकृतेः अहो चतुरता चैतन्यवृत्तेः, अहो शक्तिरगम्यफलादानस्य । यथास्य तिर्यग्जाता- वप्येष मानुषसधर्मा व्यापारः, यथा प्लवगजन्मनोऽपीदृशमभीरुत्वम् , यथा उदयसुन्दरीकथा । रक्षकचमूविमर्दकमिदं च सामर्थ्यम्, तथा तयामि केनाप्यन्तस्तिरोहिता- कारेण वस्त्वन्तरेणामुना भवितव्यम् । ये हि रामायणे सुग्रीवनलनीलाङ्गद- प्रभृतयो दिव्यांशवन्तः श्रूयन्ते, ते किमन्यादृशाः केचिद्भविष्यन् । अथवा मध्यवर्ती तेषामेकोऽद्यापि हनूमानास्ते । स यद्यसावमीभिरनन्यशक्तिभि- श्चेष्टितैर्भवति तद्भवति । भवतु, सामर्थ्यमेव ज्ञापयिष्यति यः कश्चिदयमिति । दृश्यतां तावदिति चिन्तयभिमुख पागतेन तदुपसाधनानुबन्धभावनानु- विष्टेन विज्ञसो वसन्तशीलेन देव ! कुतोप्ययमेवमागत्यागत्य प्रतिदिनं वन- रक्षिपुरससरानमान किञ्चिदिव भन्यमानो नवपाकमधुराणि नाभिवाच्छित- फलानि सर्वतो बिलुट्य स्वयमनास्वादयन्नये ! कुत्रचिद्याति किलाद्य निगू- ह्यते श्वो निगृह्यत इति न गतो गृहीतुमस्माभिः । अद्य पुनः प्रसङ्गसमा- गतस्य देवस्यापि ज्ञापितमित्यादिवचनाधिकार्धिताद्भुतरसो राजा तं स्वय- मुपक्रान्तवान् । अथ सोऽपि- बालरविरक्तवदनः सम्पदमाच्छिद्यनिर्गतोविपिनात् । दुर्वासर इव भूभृत्युपस्थिते शुभशाप्रतिमे ॥ उत्क्षेपणन्यसनशौण्डपदक्रमेण पूर्वाहमुलतमतुन्नतिमच कुर्वन् । पश्चान्मुहुर्वलितकण्ठमकुण्ठवेग- मत्रात्र दृष्ट इति निस्सरति प्लवङ्गः ॥ राजा तु तेनोद्यानविल्लबक्रोधेन कनु पुनरसौ किमर्थं च स्वयमनुच्छि- ष्टानिफलान्यादाय यातीति महता कौतुकेन च प्रेरितो झगिति दत्वा कशं तुरड्याः साग्रहं पृष्टतो धाव । क्षणाच स तथाऽतिसत्वरं विनिस्सरन् कपिरित इतोऽयं प्राप्यत इति सप्रत्याशभनुसरन्तमनुमार्गलग्नैश्च कुमार- केसरिप्रभृतिभिः स्तोकान्तरमनुसृत्य चरणगतिवेगभगतया स्थितस्समुज्झित- मेकाकिनं नरेन्द्रमतिदूरमाचकर्ष । तथा सुदूरमाकृष्टो ब्रजन्नाजा तमतिवेगलाघवानुकृतथारुताङ्गजं प्लवङ्ग- मनुसरन्त्या मुखावगलन्तीभिरतनुफेनवल्लरीभिरतनुवेगोज्झितस्य पश्चादाग- च्छतो मरुतः पन्थानमिव(चि)हयन्त्याः, परस्परमुभयोः स्पर्धयेवाग्रमग्रमनु- सरतोरग्रचरणयोईयेन समागतां ककुभमधि प्रधावन्त्याः, रयातिरेकमाकलय्य साडलावराचता तुरङ्गयाः सकौतुकमहो किमियमुत्पतिता वियत्पथेन याति, किमुक्षिप्य केना. प्यदृश्यमूर्तिना नीयमाना तिष्ठति, किमेतदङ्गसंक्रान्तः कश्चित् छदवानेवं प्रस- पति, किमीदृशमेव जयस्वरूपमस्या इति बहुवितव्यग्रतया मुहूर्तमकृतावधानः सहसैव परभनेकतरुशकुन्तकृजितारावतुमुलैरुद्धोधितेन मनसा दत्तदृष्टिरकस्मा- दात्मानमेकन महावने पतितं व्रजन्तमद्राक्षीत् । वीक्ष्यते यावत् तावत्स खलु महीप्रमेहुरो नास्ति शाखामृगोऽपि, अग्रे केवलं निवारयितुभिवाग्रतो गमनमन्तरे स्थितम्, छलितविन्ध्यगिरेरगस्त्यस्य रोषावर्धितमिव पिधाय दक्षिणां ककुभ- मवतिष्ठमानमेकं गौरीतपश्चरणपश्चाग्निना विलीनतुहिनं हिमाद्रिभिव, हरपद्- स्पर्शप्रभावादपगतस्फटिकपाण्डुक्कुष्ठम्, कैलासमिक, वार्धकेन गलितकाञ्चन- च्छविं मुमेरुभिव, अद्भशिखरकृतानं भूधरमपश्यत् । उपजातविस्मयश्च त्वरितनाकृष्टरश्मिवलयो विधृत्य तुरङ्गीमुपसृत्य च धनच्छायातिशीतलं तलमनोकहस्य श्रमभरातिमन्धरया दृशा निरूप्य सन्नि- वेशमशेषतो दिशां सम्भ्रान्तहृदयश्चिन्तयाञ्चक्रे-अहो ! काहमिह महावने पतितः, कतम एषोऽपि ब्रह्माण्डफलककीलको विसङ्कटः सानुमान, क सो- ऽस्मद्वनीप्रवेशा, क ते कुमारकेसरिप्रभृतयः सहाया:, कियन्तमध्वान- मियमुल्लचितवती महाजवा तुरङ्गी, न चैतस्या वेगलाघवमिदृष्टपूर्वमालोच- यता व्यग्रेण मया समुपलक्षितोयमुज्झितस्वीकृतो भूविभागः, क चासो कपिर्यदर्थमनुपृष्ठधावितोऽस्मि, किमदृश्यो भूत्वा कचिद्भूतः, किमिह माया- विना तेनाहमाकृष्य छलादानीतः, करिष्यति वा किञ्चिदुपरिष्टादन्यदप्यसौ, किमियभित्थं प्रवृत्तिः किश्चिन दर्शयिष्यति कर्मणोऽनुरूपं फलम्, किमेव- मीदग्विधं प्रातिकूल्यं वा विधेः, इदानी किमत्र क्रियते, किनु व्याव| तुरगी पश्चाद्रजामि, किमतनी भुवमनुसरामि, किमिहैव तावत्तं हताशमदृश्यीभूतं वनौकसमन्वेषयामि, यदि तावदियमीहग्विधा ललितैव तुरङ्गी ततो मे न दूरं निजनिवासनगरं संप्राप्तिः (तुं ?) स पुनरास्पदं महाद्भुतस्य कथमवेक्षितव्यो वलीमुखः, यहा सर्वेऽपि परमधार्तिभृतः पिपासिताश्च नितान्तशीतलमति- स्वादुसलिलमुपकूलफलवद्वनीरुहं जलाशयमधिश्रयन्ति तत्तमहमाश्रयामि, तत्रापि यदि नैष प्रत्यक्षतामेष्यति ततः किमनेन, मनः प्रवृत्तिरेव कौतुक- मकौतुकच कल्पयति, तावत्खरातपसमयसर्पणश्रमकर्थितामिमां तुरङ्गी- मात्मानं च जलायुपसेवनैरुपजनितसौष्ठवं विधाय कालोचितं करिष्यामीति निश्चित्य चलितस्ततो द्रुमतलात् समंधरप्रचारमितस्ततो निभालयन्नातिदूरमा- १२९ , उदयसुन्दरीकथा। नन्दजनितकूजितारावमुखरैराख्यातविषय इव हंसादिजलपत्रिभिः, अनि- लान्दोलितशिरोभिः संज्ञितजलाशय इव तरुभिः, अभिमुखसमागतैश्च कृता- भ्युत्थान इव साम्भोजसौरभैर्वायुभिरुद्भूतनिश्चयः सप्रमोदमनुससार तां दिशम् । अग्रे च तस्यैव भूभृतो मेखलायामत्यन्तशीतलाभोगं प्रभेद- मिव हिमस्य, संस्कारमिव चन्दनस्य, परिणाममिव चन्द्रमसः, सन्तान- मिव शीतकालस्य, राज्यभ्रंशमिव निदाघस्य, सञ्चिताम्बुसर्वस्वं कोशमिव वर्षागमस्य, सुस्वादुजलमयं रूपान्तरमिव समुद्रस्य, विविधोर्मिचमूचलनदु- स्तरं चक्रव्यूहमिव वरुणराजस्य, यमलजातमिव द्वितीयं मानसस्य, वर्तु- लिमशालिना पालिवलयेन ठकारमिव महीमातृकायाः, निरालम्बनतया झगि- त्येकत्र पुचीभूय निपतितं भरमिवानगङ्गायाः, धर्मोपमर्दरौद्रस्य कले: प्रसरमा- लोक्य मन्त्रयितुमेकान्तमिलितानां मन्दाकिनीस्रोतसां त्रयमिवाबडमण्डलीरू- पेणोपविष्टम्, सुरपतिफणीन्द्रयोरुत्पन्नविवादे पाताललोकादाकृष्टमन्तरालेविमु- क्तममृतकुण्डमिव विस्तीर्य जगत्यामास्थितम् , शैत्याभिलाषपतितयेव छायया तटतरूणाममुच्यमानशीतलतरङ्गम् , तरङ्गसंगतालम्बिशाखाग्रपल्लवमुखैः स्वा- दुतापलुब्धैरिव तीरशाखिभिरनवरतमापीयमानसलिलम् , क्षारसागरजलोद्विग्नैः सुधामधुरबारिग्नहार्थमापतितैरभिनवानपटलरिव पृथुभिरम्भोजिनीदलैः सम- न्तादा(वृतम्,)सुनिर्मलाम्बुतया प्रतिविम्बितेषु बहुपदार्थेष्वेकतः प्रतिफलित- मूर्तिना गगनपिधानकेनेवाल्पकत्वादन्तःपतितेन महत्वमद्भुतं बिभ्राणम् , अन्य- तस्संक्रान्तबिम्बया परिसरविलीनवनराजिरेखया विततबाडबधूमच्छटाडिन्त- क्रोडमपरमष्टमं पयोधिमिव प्रतीयमानम् , अपरतः प्रबुडविशदारविन्दप्रति- बिम्बैरातपत्रैरिवातपाद्रक्ष्यमाणसैन्यमन्तर्निवासिनं वरुगमाविधानम्, शतशः प्रतिबिस्थितश्च पृथुदलस्तबकपूरितमौलिभिस्तटतालशाखिनामाकारैरमृतकुण्ड- धिया पातालान्निस्सरद्भिरनेकफणैर्भुजङ्गमैरिव भ्राजमानम् , अनिलतरलितावि- रलशीकरनिर(न्तर)दुर्दिनोत्सवपदं चातकानाम् , कमलसौरभसुगन्धितं विला- सभवनमिन्दिन्दिराणाम्, विकसित बहलकुवलयान्धकारसंबलितं संइतकं सारसद्वंद्वानाम् , सुस्वादुशीतलजलं प्रपासत्रमटवीचराणाम् , सिद्धनवमृणाला- दिकन्दकमनीयं रसवतीस्थानं कलहंसवयसाम्, कमलपरिमलमिलितालिमण्ड- लमनोहरं धृतमेघडम्बरातपत्रमिव जलाशयैकाधिपत्येन, क्रीडन्मकरपुच्छाच्छो- टनसमुत्थितोदच्छटं समुत्तम्भितपताकमिव जलोभेकेन(द्रेकेण,?)वहलकल्लोल- तरलं कम्पमानमिव शैत्येन, तटान्तमिलितडिण्डीरवल्लरीप्रकटमायातपलितमिव १७-१८ उदय सोडलविरचिता महत्तरत्वेन, निर्मुद्रमपि मुद्रितोपकण्ठं श्वापदपदैः, दुस्तरमपि तीर्यमाणं तरङ्गैः, अस्ताग(अगाध?)मपि लब्धमध्यं पयोभिः,अमलमपि मलिनमिन्दीवरप्रभाभिः, पवित्रतोयमपि मिश्रितमरविन्दमन्बु(धुबिंदु )भिः, कचिजलदेवताञ्जनकूपिका- भिरिव दन्तुरं कुवलयकलिकाभिः, कचिहरुणवाराङ्गनाशृक्षारयायकक्षेपपात्रै रिव पाटलनुन्मिषितरक्तोत्पलैः, कचिदारिलक्ष्मीनिमन्त्रितानीतनववधूवरैरिब पिञ्जरं चक्रवाकमिथुन:, कचिञ्चटुलवल्गिभिश्चलदिव जलकुकुटकुटुम्बकैः, क- चिद्धवलकान्तिभिहसदिव चकोरपेटकैः, क्वचिन्मसृणवाणिभिर्जल्पदिव कुररस- न्दोहैः, कचिदीर्घमाराविभिर्गायदिव कुनुषट्पदैः, उल्लसता जलेन द्रावयदिव मेदिनीन् , उत्कालशालिना तरङ्गचक्रेणाक्रामदिव दिशः, समुत्पतता शीकरक- दम्बकेन व्याप्नुवदिवान्तरिक्षम् , श्रुतमेव तापापहारकन्, दृष्टमेव तृष्णाह- रम् , जलकुरैरप्यनासादिततलम् , लहरीभिरप्यदृष्टपारम्, अपारप्रसरनुप- तीरसम्मृतातडागमद्राक्षीत् ।। उबेल्लनवनीरजव्यजनकबालोदराकर्षित यत्रातिस्थिरगन्धवाहतुलितं गन्धं गृहीत्वा नवम् । भृङ्गास्तत्क्षणलब्धसौरभरसादुन्मादवन्तो भ्रम- न्त्यप्रेऽग्रे नलिनीश्रियः कृतरवं ग्राम्या भुजङ्गा इव ।। अपि च- पूगीवलयवल्लाले गर्भ (ल्लीलागत ? ) रङ्गे स्थिता इव खेलन्ति लहरीदण्डैदण्डरासमपां श्रियः ।। तवलोक्य झगित्युपनसवितर्कन्विन्तयाञ्चके । व्यावृत्त्य ध्रुवमागतः स भगवान्भूयोप्यगस्त्यो मुनि- स्तेनैते चकिता इवोर्मितरलाः ससाऽपि वाराशयः । अत्रागाधगभीरगर्भगुरुणि स्वैरं प्रविश्य स्थिताः पालीपिण्डभिषेण पूर्णवचनो विन्ध्यश्च वृद्धि ययौ ॥ इत्येवमनुचिन्त्य सहर्षमान्यायितमनाः सरभसमुत्तीर्थ विस्मृज्य पर्या- णमुल्लोढनस्लपनजलपायनादिभिः सन्तप्र्य च सङ्कलथ्य लतावल्कलेन तुरङ्गी नवहरितदूर्वाङ्कुरमनोहारिणि परिसरे स्वैरं चरन्तीममुश्चत् । स्वयं च तुरगीखु. रशिखरखण्डिताध्वधूलिभिराधूसरं प्रक्षाल्य चरणयोर्युगलम् , आकृष्य च स्वयमम्बुजादिजलजकुसुमैश्चकार माध्याहिकी देवतोपास्तिम् । अनन्तरं १३१ HTRA उदयसुन्दरीकथा । चाभ्यवहृत्य प्रत्यग्रसरसानि मृणालीकिसलयदलानि तीरतरुलताफलानि च पीत्वा च तरुच्छायातिशीतलं सलिलम्, आसन्नवर्तिनः शाखासन्दोहबह- लस्य तमालविटपिनो मूलवर्तिनीमनुसृत्य च छायामुपाविशत्। उपविष्ट एव च हृदयीकृत्य तं वलीमुखमशेषतो जलावतारवमसु तटत- रुशिखरेषु लतान्तरेषु गुल्मसन्धिषु कन्दरदीमुखेषु च प्रहितचक्षुरालोकयत् । कियन्तं क्षणमतिक्रम्य मनस्यकरोत्-अहो न तावदिह दृग्विषयमागतोऽसौ दुरात्मा कपिः, कान्तारमिदमसञ्चारगोचरं च मानुषाणाम् । तथाद्याश्रयोद्देश- लेशोऽपि न कचिदालोक्यते प्राणिनाम्, प्रायःश्वापदान्यपि न नाम सञ्चरन्तीह दुर्वने, तत्किमेवमत्राऽऽसितेन, तेऽपि कुमारकेसरिप्रभृतयः क स्थिताः, क कि- लास्माननुसरिष्यन्ति, क चान्वेषयिष्यन्ति, क वा भ्रमिप्यन्ति, किं करिष्यन्ति, कथं वर्तिष्यन्ते तपस्विनः, तद्यदि प्रीतिमुपगतेयममुना सरसर्वाहारचारेण तु(र) गी, ततो व्याघुट्य पृष्ठतो व्रजामीति संचिन्त्य तदभिमुखं निक्षिप्तचक्षुर- कस्माचरन्त्यास्तस्याः पूर्वचरणयोरप्रवर्तिनमुल्लसितमांसलमरीचिवल्लरीपरीत. पुलिनपदम्, पुष्पमिव विद्युल्लतायाः, गुच्छमिवाशेषप्रदीपकलिकानाम् , नभ- सः पतितं गर्भाण्डकमिव भगवतः पतङ्गस्य, ज्वलन्तं चितापुञ्जमिव निशा- तमिस्राणाम् , रविणा परिगृह्य सुभगीकृता द्यौरियमितीव स्पर्धया धरित्री स्वीकर्तुमागतं, पुरः सौरभ्यलोभागतः कणषट्चरणचक्ररालोकविदलनापरा- धभीतिसङ्कुचितैरिव तमित्रपटलैः प्रसाद्यमानम्, अतिस्वच्छतयाऽन्तर्दृश्यमा- नव( गि? ) लितानु(न्ध?)कारशकलानीव संक्रान्तासन्नविटपदलबिम्बकान्युद्ध- हन्तम् , अन्धकारशतैरप्यचिन्त्योऽयमिति सौख्यार्थिभिरिवाशेषतेजोभिरा- श्रितम्, दूरप्रसारिभिः करैस्तमालशाखान्धतमसमलिनितान्याशामुखानि क्षालयन्तम्, सर्वतोविजृम्भितेन तेजसा सकलमेकभूतात्मकं जगजनयन्तम्, असद्भावमिवापादयन्तमम्बरस्य, निकामनिर्मलमतिमनोहरं मणिमपश्यत् ॥ दृष्ट्वा च विस्मितेन म(न)सा समन्तादृष्टिक्षेपैनकोप्यस्तीति दृढं निश्चित्य ननु कायमिह स्वधामगरिमगौणीकृताशेषरत्नजातिरपूर्वोमणिः, कथमिदं सर- (स्तीर)मनुप्रासः, कुतश्चैवमवभ्रंशदुस्थितिरभूत्, नियतमयमनन्तैर्मरीचिभिः सदैवामहतेन च महसा (सहस्र)करमिष्टितं(मितं?)त्रियामास्तमिततेजसं भगव- न्तमपि गुमणिमतिकामति, निर्मलतयाऽयकृष्टलाञ्छनं कौस्तुभमतिशेते, किं च निष्कोपतया मुनीन्द्राणामपगतत्रासतया च सुराणां स्पर्धते मनोभिः, अपिचामुना जितप्रभः कौस्तुभो लजित इव वनमालापगूढमसितप्रभान्धका- सोडलविरचिता रितं हरेर्वक्षस्थलमधिष्ठितः, चिन्तामणिरप्यनेन सादृश्यमात्मनोऽभिवाञ्छ- न्निव दानाभीष्टं फलमित्यर्थिनां चिन्तितार्थदाने प्रवृत्तः, अन्ये च मणयः प्रभापराभवभयेनेव, केचिद्गाधाम्भोधिमध्यवर्तिनो नाविर्भवन्ति, केचिदा- श्रितरोहणाद्रयः समन्तादात्मानमतिप्रभूतया मृदा प्रच्छाद्य तिरोबभूवुः, के. चिच्च रसातलं प्रविश्य फणीन्द्रफणापञ्जरमधिश्रितवन्तः, किमिह नाम लात्वा निर्गच्छतः कस्यापि विस्मृतः, किमम्बरे विमानगामिनो जनात्परिभ्रष्टः, किं वाऽन्यतः केनापि वन्यप्राणिना पक्षिणा वा कुतश्चिदाहृत्यात्र निक्षिप्तः, यथा च मधुव्रतोपसेव्यमानबहलपरिमलोद्गारवाही सिन्दूराङ्कितश्च कचित्तथा तर्क- यामि सौरभ्यसम्भृताङ्कावयवसङ्गिग्यलङ्करणे कस्याश्चिद्गनाया विभूषणमसौ तदेनमादाय पश्यामीति परामृश्योत्थातुमिच्छो राज्ञः समीपं सखलु कथञ्चन तत्खुरप्रहतिवेगादुच्चलितो मणिरने पपात ॥ सा च परं तेन मणिस्पर्शप्रभावेण झगिति तुरङ्गयारूपमुज्झित्वा तदेव जटावल्कलोपवीतधरं शरीरमावहन्ती तारावली बभूव । राजा तु तं प्रभावभू- यिष्टं मणिमात्मनोऽग्रे पतितमालोक्य ननु कीदृगिदमिन्द्रजालसोदरं कुतूहल- मिति विसर्पता विस्मयेनाकृष्ट इव तस्मान्मणितो निवर्त्य निश्चलेन चक्षुषा रूपान्तरेणोज्झितामभिनवामिव तारावली द्रष्टुमारेभे । साऽपि स्वमूर्तिलाभर- भसितमात्मानं विभाव्य तेनाद्रिणा सरसा च निरुद्धमध्यं तन्महारण्यमित- स्ततो विस्मिता निभालयन्ती सरभसमेकहेलयैव विनिहितविलोचना साधु साधु चिरादनुगृहीताऽहमभीष्टघटनया देवताभिः । कुत्रेह क्रूरवनचरावतार- दारुणारण्यसरसस्तटे त्रिभुवनश्रियः सीमन्तरत्नमित्थमनुचितावस्थानदुःस्थि- तमभूदित्यालपन्ती दूरतोऽपि प्रसारितकरा त्वरितमद्रेरभिमुखी धाव । राजा तु तथा प्रवृत्तायां तस्यां सवितर्कमहो कोऽयमालापस्यान्यथावृत्ति- रुपक्रमोऽमुष्याः। मणिरसौ ममाग्रे तिष्ठत्येषा तु धाविता सन्मुखी शिलोच- यस्येति विस्मयात्तत्रैव यावन्निरूपयति पङ्कजदलायतं चक्षुस्तावदादौ यस्मिन्न- किश्चिदेव गिरेभित्तिमात्रकमेव केवलमालोकितं तत्र परमकस्माद्भूमीध्रगर्भ विचित्रनवरचनामनोहरं माणिक्यमणिमन्दिरमपश्यत् । तस्माच मत्तकरि(परि) चितया गत्त्या सलीलं निःसरन्तीम्, अनुहरन्तीं च तमेव चित्रप्रपञ्चितं रूपम्, आप्यायिकां दृशोः शशिबिम्बदलोपरचितामिव चन्दनकरम्बितामिव कर्पूर- पिण्डितामिव कमलममृणितामिव सुधोपशालितामिव मूर्तिमुद्रहन्तीम्, नख- कुसुमशोभितया चरणपल्लवश्रिया लतामिव सौभाग्यभूमावुगताम्, ऊरुस्त- ३ , उदयसुन्दरीकथा। म्भवती चित्रशालिकामिव रतिनिवासाय कल्पिताम्, जघनचक्रोपराजितां कर्मशालामिव कन्दर्पकुलालस्य विश्रुताम्, गभीरया नाभ्या मूषावती वाति- कि(गे?)न्द्रविद्यामिव शृङ्गाररसमाधानाम्, वलित्रयतरङ्गिणी सरितमिव सौन्दर्यदेशान्तर्विस्तृताम्, सुवृत्तपीवरेण (स्तनयुगलेन) माणिक्यनायकवतीं रत्नावलीमिव त्रिभुवनश्रियः, नयनशफरोत्फालवती वेलामिव लावण्यसाग- रस्थ, भ्रूचापलवलयिनी वीरवृत्तिमिव तारुण्यसुभटस्थ, मुखसरोजसुन्दरां पद्मिनीमिव ब्रह्माण्डसरोवरस्य, विधिना निर्माय त्रिभुवनमनोहरामिमां मा कोऽपि द्रक्ष्यतीति गोपायितुमिवारण्यगहरे विमुक्तान, मृणालिकाभरणां जल- देवतामिव कौतुकात्स्थले सञ्चरन्तीम्, करकलितलीलाम्बुजां लक्ष्मीमिव कम- लवनात्क्रीडया भ्रमन्तीम्, कुसुमोत्तंसभासितां बनश्रियमिव शैत्याय सर- स्तटे पर्यटन्तीम्, निर्माणसर्वस्वं भव्यतायाः, धारागृहमतुच्छकान्तिच्छदा- नाम् , फलं कन्दर्पकुसुमस्य, तीर्थ लावण्यसलिलस्य, पात्रं शृङ्गाररसस्य, मद- नार्तिदशाजाङ्यपाण्डुरं गण्डयोयुगलमाद्धानाम्, तारावलीसम्मुखमालिङ्गन- समुत्सुकामायान्तीमुदयसुन्दरीं ददर्श ॥ दृष्ट्वा च सचमत्कारमारमाधूतमौलि:-अहो साध्वभिहितवती यथार्थ- वचना तारावली, सत्यमेव त्रिभुवनश्रियः सीमन्तरत्नमसौ मृगाक्षी, मुधैव मया धारितोऽयं मणिः । किं च यथाऽऽख्यातं कुमारकेसरिणा यथा दृष्टं च तन्त्र पटे तथाऽभ्यधिकमेव रूपं तस्याः। किमुच्यते । तथाहि- निक्षिप्तमम्भोजभवेन रूपसर्वस्वमस्यामिति तर्कयामि। कुतोऽन्यथा कार्मुकपाणिरेष जागर्ति रक्षार्थमिवाङजन्मा ॥ अथवा- सा श्रीरियं खलु यया जन एष याति- हारायलङ्कतिविकस्वरमीश्वरत्वम् । दृष्टिः प्रहर्षजलबिन्दुमिषादतोऽभू- देनामवाप्य नवमौक्तिकभूषणा मे ॥ किंबहुना- यत्संलीनमनिद्रचम्पकदलच्छायाभिरामाता- वेतस्यां किल मे प्रसूनधनुषो रागेण रक्तं मनः।
सोड्डलविरचिता तेनैवारुणरत्नशारतरलेनेवान्विता काञ्चनी- भूषाऽभूभितस्त्रयेपि जगतानत्वे(मेघे?)ति मे निश्चयः॥ अहो यत्किञ्चन वैधेयता विधेः, अहो प्रभावः कर्मपरिणतीनाम्, अहो विचित्रता संसारस्य, येनेयमीहग्विधाप्याकृतिरिदं वनवासक्लेशमलुभवति । येनेयमित्यमरण्यमध्यास्ते । तारावली च तुरङ्गशीरूपमनुप्राप्ता । तत्सर्वमुभयोर- न्योन्यप्रश्नादनेनैव तरोः प्रकाण्डेनान्तरितः शृणोमि तावदिति विनिश्चित्य तथैव तस्थौ॥ उदयसुन्दरी चिराचिन्त्यघटितसङ्गमप्रमोदोल्लोलतरलितां त्वरितमाया- तवती तारावलीमुद्भूतरभसं प्रगाढमालिङ्गय विस्मयोत्सुकया च तया तथा बनावस्थानव्यतिकरमापृष्टा बहुविरहदुःखभारापसर्पणादाश्वसता हृदयेनैकतो भूत्वा छायावति दुमतले निषद्य स्वहृदयदुःखप्रकारमब्रवीत्-प्रियसखि न किञ्चिजानामि तदा तस्मिन्सौघशिरसि तथाऽनङ्गजनितार्तिजागरस्यान्तराले सूर्च्छया सुक्षेव सपदि विध्यानचेतना परमिह सरस्लटे विबुद्धमपूर्वेण चूडाग- तेन दिव्यमणिना विभूषितमनुगत चैकेन महादेहदारुणेन कपिना पश्याम्या- त्मानम् । अनन्तरमुत्रासतरलेन चेतसा ननु काहमिह क तन्नवसमलनीदला- स्तरणशीतलं सौधशिरो यन्त्र किल सुप्ताऽस्मि, कासौ तारावली या न दूरमा- सीच्छयिता, क च वयस्यजनो यः पालिलनिजक्षणः त्वरितसुषस्येव मां परि- वृणोति, क तौ पितरौ यो प्रातरुत्थिता पश्यामि, क तच कन्यान्तःपुरं यस्मि- नभितोऽपि तानि प्रभातमङ्गालोपगीतगर्भितानि प्रबुद्धपरिजनारावाडम्बराणि श्रूयन्ते । हा हतास्मि दुरपसदेन विधिना, कीदृगिदारण्यम्, अवनीधरश्च कोऽसौ, कतममेतत्तडागम्, कन्चायमासन्नवी कपिरिति समकम्पमशेषतो विलोकयन्ती जानामि मामाकलय्य स खलु मनुष्यशेनुषीक: प्लवङ्गमो झगि- त्युत्थाय तस्मादिहपरतो निविडतरुलतास्तम्बडम्बरवता निकुञ्जनान्तरितामि- न्द्रनीलमयीं भुजबलेनाकृष्य भूभृतो भित्तिमपसारयामास । मध्ये च तत्रेद- मन्त प्रगुणितावस्थानतल्पं माणिक्याभवनमास्ते । तच्च मे निवासाय कल्पय- नागत्य मां चरणसंवाहनादिभिरपभयां विधाय विहितसुखायूचकोपचारमिहो- पवेशयाञ्चके । अनन्तरमुचित्य तटोपवनाटिपतरुलतापुष्पाण्याकृष्य च सरोगर्भात्क- मलकुवलयानि निक्षिप्य पृथुनि कद्लीदले भूयश्वरणसंवाहनमकरोत् । तेना- चबुडतदीयहृदयाऽहमुत्थायात्र सरसि कृत्वा स्नानं तेन कुसुमोपकरणेन यथा- । - उदयसुन्दरीकथा। क्रियमभीष्टं दैवतमपूजयम्, आगता च तथैव माणिक्यभवनगर्भमित्यमेतेन प्रगुणितैरनेकनवपाकशालिक्षिः फलैराहारमकार्षम् । निर्वर्तितदिवसकृत्यायाः सुखनिषण्णायाश्च तल्पतले मम स्वयमसौ कपिरविरतं द्वारि स्थितो रक्षामक रोत् । एवमन्यदाऽपि यदा तु कचित्फलादिकमाहर्तुमुपयाति तदा तामेव गिरिभित्तिमनन्यगम्यां पिधानं दत्वा मद्भवनमन्येषामलक्ष्यगोचरं विधाय प्रया- ति । न चात्र दुरन्तवनगरे पतिता दिमोहबहुलिता क यामीति जानामि । नापि तस्य कपेः सकाशात्पदात्पद्मपि गन्तुमन्यतः प्राप्नोमि । तेन च बलवता- ऽधिष्ठितमिदमरण्यमालोक्य सर्वेऽपि वनप्राणिनस्त्रासेन सुदूरमुज्झाञ्चक्रुः ।। तेनैवं काननेऽस्मिन्ननिलरविकरस्पर्शमात्रोपसर्प- सम्पर्क पाल्यमाना विगुणदिनदशाबुस्थिति (?)यन्ती । पनेषुप्लोषपीडामिहसरसि विसाम्भोजसेवोपचार- (रारब्ध)मन्दयन्ती विधिललितमितोपीक्षमाणा वसानि ॥ कः पुनरसौ कपिः, केन वा निरूपितः, किंहेतुकश्वायमीडशोऽस्य मदङ्गप- रिपालनल्लेशः, कथमहमिहागतेत्यादि न ज्ञातम् । अद्य पुनः स्लानक्षणे स चू- डामणिरादाय यथैव मया समयातिक्रमसनुत्सुकया शिथिलग्रन्धिबन्धनुत्तरी- याञ्चले बद्धस्तथैव देवमभ्यय॑ त्वरागमनव्यग्रतया विस्मृतस्ततो वसनाञ्चलान्नि- जाङ्गभारेण विच्युतग्रन्धिरपतत्र कुत्रापि । स्मृतश्चेदानीं तेन शून्यं सीमन्त- कास्पदं गतेन कथञ्चन पाणिना। तमन्वेषयितुमदूरमित्यनुत्थापयन्त्येव कृपया तमनुगामिनमद्य केनापि दूरात्खेदितभिवायातमतिश्रमेण निद्रागतं बनौकस- मेकाकिनी समुच्चलिताऽहमिह । त्वमपि भियसखि संक्षेपतः कथय तारावलि मद्रियोगकृतो वासरादारभ्य समस्तं वृतान्तनात्मनोऽपि जावल्कलपरिग्रह- मश्वभावमिममिहागमनं च । स किं दृग्विषयमागतस्ते कुतश्चिदियता कालेन मम मनार्तिहेतुर्युवा न वेति ससम्भ्रमं पृष्टा तारावली तत्सर्वमदर्शनक्षणा- प्रभृति निजं वृत्तान्तमारभत निवेदयितुम् ॥ सखि श्रूयताम् । उद्यसुन्दरि तदा शयनादुत्थाय त्वामपश्यन्ती निता- न्तविधुराऽहमेव त्वदम्बापुरस्सरस्य स्वामिनः शिखण्डतिलकस्य ज्ञापितवती । तेन चैवमन्वेषयितुमनुप्रेषिताः सर्वतोऽपि चराः । त्वद्वियोगदुःखिताचाहम- प्येवं त्वदन्वेषणकृते निर्गता गता चैवमसृग्जो गोचरम् । एवं ततो रक्षिता तेन तव हृदयमदनेन । दृष्टश्चैवमसावालापितश्चैवं ज्ञातश्च नामान्वयनिवासन- गरसंवेदनादेवमेव च तेन कुमारकेसरिवृत्तपूर्वकमुपदर्शितः स ते जीवित .. सोडलविरचिता चित्रपटः। ततः स्वामिनि ! अहं तेन चित्रपटालोकनेन द्विगुणितभवद्विरह- दुःखा त्वदनुरागविधुरितं राजानमक्षमा समीक्षितुमिति तामतिक्रम्य कृच्छ्रेण रात्रिमुषस्येव त्वदन्वेषणाय भ्रमणमङ्गीकृत्य कुसुमबाटिकायां पुष्पोचयमिषेण निर्गता नगरात् । अनन्तरं च तावद्वहुग्रामाग्रहारपुरपत्तनालिं प(श्य)न्ती त्वरितमन्तरालपथेन यामि यावदेकन मध्याह्नतरणितीव्रातपेन विह्वला भ्रमभ- रालसया दृशा पुरःपुरोऽन्धकारपटलानि पश्यन्ती विश्रमितुमुभूतहृदया सहसैव च विदार्य गगनमुच्छ्रितेन स्खलिता क्ष्माभृतः शिखरेण स्थिता च विश्रान्ति- कृते मुहूर्तकं तत्र । तत्र च तृषा विशुष्कतालुरपेक्षया पाथसामितस्ततो दत्त- दृष्टि(रादेकतः प्रतिशिखरकोणैकदेशे रहा प्रदेशवर्ति, पिहितं च धनलतागुल्म- जालिभिः, अनन्यसदृशाम्बुनिर्मलतया गरुडचञ्चुग्रहादिच्युतममृतं कुम्भाडु- तमिव विलुठितम्, ताण्डवरसविधूतित्रुटितं हरजटायगङ्गाम्भसः पटलमिव निपतितम् , ब्रह्मणः कराष्टं कमण्डलुपात्रमिवोन्मथितम्, कल्पान्तपवनपा- तितं चन्द्रबिम्बमिव स्फुटितम्, दृतिविद्योपसाधितं ताराकदम्बमिव द्रावि- तम् , आपालिपूर्णमस्थूलविरलोर्मिजातमुत्तानतुण्डं तोयकुण्डमद्राक्षम् ।। दृष्ट्वा च सहर्षमहो निर्माम (निस्सीम?) सृष्टिरमलभावोऽम्भसामित्य- भिलाषतरलेन चेतसा त्वरितमनुसृत्य रभसात्तदीयं करप्राप्यमचिरमुक्ता- मरीचिसञ्चयस्वच्छमतिशीतलं सलिलमापूर्णकण्ठमिच्छयाऽस्मि पीतवती । तदम्वुपानाच झगिति गात्रमेतदपहायामुना तुरगीरूपेण परमहमभूवम् । क्षणं च तदुपकण्ठस्थिताऽहमात्मानमनुस्मरन्ती वितर्कमकार्षम्-अये तदेतदेहप- रावर्ति सलिलं यत्पुरा सिद्धेभ्यः कथाभिराकर्णितमासीत्, हा किमिति पिपा- सितया दृष्टमिदमभाग्यवत्या मया, दृष्टं चेकिमिति परामृश्य नोज्झितम्, उज्झितं न चेत्किमिति त्वरितमापीतम्, पीतं चेत्किमित्यङ्गुलीनिक्षेपेण नो- द्वान्तम्, अहो विचित्रव्यसनकारित्वमनन्तशक्तेदैवस्य, येनाहमिदं प्रापिता दशान्तरमित्यादि चिन्तयन्ती मूले महीतलगतं विलोक्य सरसदूर्वाप्रवाल- शादलं तृणस्तम्बमनल्पया विमोहिता क्षुधा तमधि झम्पामक्षिपम् । क्षिप्त- झम्पा च गता भूम्यन्तरं प्राक्चैतन्येन मुक्ताऽस्मि । ततस्तु कुत्राहमवस्थिता क गता क परिभ्रान्ता केनात्र समानीता कथं पुनरागता निजप्रकृतिमिति न ज्ञातवती । केवलमिदं तु दैवानुकूल्यमभूद्यदेवि संवृत्तः सह भवत्यास्सङ्गम इति सहर्षमुक्त्वा व्यरंसीत् ॥ उदयसुन्दरी च हा हा सुहृदुःखिते प्रियसखि तारावलि स त्वयाऽस्म- उदयसुन्दरीकथा। न्मनोविषयनायकः सम्यग्ज्ञातान्वयनामवसतिरालोकितोऽपि पुनरिदानी दूरीकृतो दैवेन । किंच सोऽपि मदर्थमित्थमेव ताम्यन्नास्ते । क पुनरसावा- लोकनीयः कथमालोकनीयः कदा चालोकनीय इति विलप्य सविषादमुद्ग्रवे. गवती मूर्छामगच्छत् । तारावली तु हा हा स्वामिनि ! हा निजवंशवैजय- न्ति ! हा कन्दर्पविजयश्रीः ! हा त्रिभुवनालङ्कारमुक्तावलि ! किं किं किमिवा- चेतनीभूताऽसि, किमद्यालादिनि ! मृगाङ्कमूतिरिवास्तमुपयान्ती जगदप्ये- तन्धकारयिष्यसि, हा हा मुषिता मुषिताऽस्मीति सेचनार्थमानेतुं सलिलम- तिसत्वरं गतवती । अथ राजा नितान्तमाकुलीभूय प्रधावितो हा हा विरस- पर्यन्त एष संवृत्तो व्यतिकरः । तद्यदि पुनरसौ मणियथा कायपरीवर्तनविका- रमपहरति तथा मूर्छादिव्यपायहरोऽपि जायत इत्याकूतसत्वरमुत्थाय गृही- त्वा च तं मणिं तदर्भितेन पाणिना सुदृढमुदयसुन्दरी करे जग्राह । अत्रान्तरेझगिति तस्य मणेः प्रसङ्गा- दुच्छिन्नमूर्च्छमपमुद्रविलोचनाऽसौ। वेगोत्थिताधृतकराग्रमनङ्गरूप मग्रे नरेन्द्रमवनीतिलकं दर्श। ततश्च- NAMAN तस्याः सोऽयमिति ज्ञाते तस्मिन्नाविरभूद्रसः । स कोऽपि यमुदाहर्तुमभूजाड्यं विधेरपि ॥ अनन्तरं च- सा तस्य पातुमलगत्तृषितेव तन्वी रूपामृतं नवकटाक्षमृणालकेन । तामप्यनगदहनग्लपितामद्भ- दृष्टिच्छटाभिरभितोऽपि नृपः सिषेच ॥ ततस्तयोनूतनसंगमोत्सबप्रमोदलोलेव सवेगमन्तरे । परस्पराविष्टकटाक्षसंक्रमे रतिः करोति स्म गतागतानि(वै!) ॥ एवमनयोः स्नपनकेनेव मनश्रमजलेन स्नातयोहस्तमेलापकेनेव मणिना सनाथकरतलयोः पार्श्वतः प्रसरता द्विजोद्घोषेण वृत्तमिवाकृतविशेषप्रक्रियोपचार पाणिग्रहणम् । अभिनन्दितं च पवनोल्लासितानि जलोमिशिखरशीकराक्षत- कुलानि तरुलताप्रवालकुसुमानि च सन्मुखमिवनिक्षिपन्तीभिः जलवनाधिदे- वताभिः। अथ रसादुदयसुन्दरी स्वेदजलकणनिकरदन्तुरमुद्भिन्नपुलकमाकम्पं सोडलविरचिता शरीरमावहन्ती त्रपया सस्मितमवनम्य वदनकमलमहो मुश्चत मामिति शनै- रतिन्दुमधुरमालपन्ती करतलाकर्षणप्रयासमकरोत् । राजाऽपि सहर्षनीपहि- हस्य बहुरसोपलालितेन मनसा सनर्मसन्दर्भमब्रवीत् । मुधैव तन्वनि सरोजसुन्दर (कर) किमाकर्षसि कोमलोदम् । स्फुटाक्षरं चन्द्रमुखि त्वमुच्यसे चिरेण लब्धाऽद्य कथं विमुच्यते ॥ अनन्तरमब्जिनीपलाशपुटभरितमुदकमादाय सवेगमायान्ती तारावली विलोक्य दूरादेव राजानमानन्दनिर्भरेण चेतसा तत्तथा तदीयं सङ्गममभिन- न्दन्ती साधु साधु सम्पन्नम् । अहो कुतः, कुतोऽत्र, कथमन्त्र, किमत्र, समस्त- जगदाजीवनैकहेतुरेकाकी देवः, इति सविस्मयोत्सेकमाच्छय मनाक् तेनैव पयसा तयोरक्तारणकमङ्गलमकरोत् । राजाऽपि विश्वभूतेः शिष्यागमनक्षणा प्रभृत्यखिलं स्वीयमनुभूतविषयं व्यतिकरमावेयाश्चक्रे ॥ तदनु तुरगभावभ्रंशमूर्छापहार- प्रवणपरमशक्तिख्यापनापूर्वकं तम् । मणिमखिलमयूखोल्लेखलिप्तान्तरिक्ष व्यतरदमृतधारास्ताविसारस्वतश्रीः॥ इति कविश्रीसोडलविनिर्मितायामुदयसुन्दरीयाबा- मुभयमेलको नाम सारस्वतश्रीपदावः सतम उच्छासकः॥ 48KMATION अष्टम उच्छासकः ॥ अथैदमवसरे सपदि निपतकुच्चण्डहादिनीतडत्कारमोदरम्, दुर्दशा(र्शा?) सुरसमरसरन्नकुपितकात्यायनीकटोरहुकारदारुणम् , अक्षवप्रधावितपवन- नन्दनोत्कलितकिलिकिलारावभासुरम्, अरिवर्गनिग्रहातिविषमभीमनिर्मुक्त- धनसिंहनाद्मदुरम्, अशेषतः प्रतिशब्दिताद्रिकन्दरसरोवरम्, आकुलीकृत- सकलजलसत्वम् , उन्नासितवनशकुन्तम् , आविभ्रता चूत्कार(हुंकार?)पटलेन स्फोटयन्निव हेमाण्डमण्डलम्, उचितया चपेटया पाटयन्निव नभस्तलम् , वेल्लता लालवलयेन रुन्धन्निव दिङ्मुखानि, रोषानलज्ज्वलितया दृशा दहन्निव उदयसुन्दरीकथा। मेदिनीम्, निष्घर्षभीषणया दन्नपरिषदा गिलन्निव जगन्ति, यावकरसानुका- रिणीभिः कपोलकान्तिभिवर्षन्निव रिष्टरुधिरधाराभिरनिष्टदर्शनो निद्रान्तसमु. त्थितः स खलु सहसैव दूरात्तारावल्याऽभिनन्द्यमानं स्वीकृतोदयसुन्दरीक- मुर्वीपतिं विलोक्य निकामकुपितः प्रधावितो जवादाजगाम कुतोऽपि सम्भृत- बलो गोलाङ्गलः सामर्षो दृप्तश्च प्रावर्तत भुजाक्षेपे क्षितीश्वरस्य ।। अत्रान्तरे च हा हा हताऽस्मि दुरात्मना देवेन येन जानन्त्याऽपि मया मन्मथशरव्याघातमूछितया तिष्ठन्नपि न स्मृतः, चिरादिष्टजनसङ्गमोत्सवर- सेन मत्तया स्वपन्नपि न परामृष्टः, सुदूरमारूढिमता रागेणान्धया समागच्छ- अपि न दृष्टो दुष्टैकजन्मा पापोऽयम् । अहह किंप्रकाराऽस्य व्यतिकरस्य परिण- तिर्भविष्यत्याः प्रियसखि तारावलि! स्वरितमान्सूत्रय कमप्युपायमाश्रय कञ्चन कथय कस्याप्युपसरणादि कञ्चित्, अथवा हे पृथिवि ! त्वमनेन सुचिरमनुपालि- ता किमिति स्थिरीभूय स्थिताऽसि, अहो महार्णव! त्वदुहितुरसौ लक्ष्म्याः पतिः किमिति जडत्वमालम्बितोऽसि, हंहो दिक्पाला:! सकलादिग्जयप्रक्रमेष्वनेन रक्षता भवन्नगरीसीमानमार्जिताः किमिति सुदूरमपमृतास्तिष्टथ, भो भो दिने- श्वर ! तेजसा त्वमेवास्य सोदः किमित्येवदासीनो वर्तते, ननु सर्वेऽप्येकम- तीभूय किमिति नैनमनेन दुर्वृत्तचेतसा वनचरेणारब्धमखिलजगदेकनायकं राजानमागत्य परिगृहीत यूयमित्याकुलीभवन्त्यानुत्कम्पमानायामुद्यसुन्द- र्यामवनिपतिरहो नन्वपसदोऽयमतथ्यसामर्थ्यः प्रोज्झितः सत्वेन प्रकृत्यैव तर- लात्मा निदर्शनं च कातरेषु । तत्खलु कथमिवैतदने त्रिजगदुपगीतविक्रम व्यापारयामि शस्त्रम् । असाधिते चास्निन्न नाम तन्वी निराकुलेयमतः करोमि निग्रहम् । प्रमूञ्छितमुचितप्रहारमूर्छया निश्चेतनमिमं विधाय यामि गृहीत्वा प्रेयसीमलममुना पञ्चतां नीतेन वराकेणेति चेतसि विनिश्चित्य सपदि प्रगुणि- तचपेटाघातनिष्टुरेण पाणिना दक्षिणेन प्रविश्य तं कपोलतले जघान । अथ स झगिति पुंसो रूपमासाद्य दिव्यं दिलसदुरुकिरीदमायभूषासुवेषः । वियति सुरवधूभिर्वीज्यमानो विमाने मनुजपतिमवादीत्साधुभोः साधुसाधु ॥ साधु त्वया क्षितीशतिलक! स्वां प्रकृतिमासादितोऽहमिदानीम् । विसृज व्रजामि । न जाने निजं स्थानमनुगच्छतो मे कियच्चिरमन्तराले विलम्बोऽयमेवं समभूत् । अतोऽनुमन्यस्व मां गमनाय । यत्त्वमप्यनया मनुजभुवनैकचक्रव- सोड्डलविरचिता त्तिलक्षणख्यातयोxरेखयेव कराग्रमिलितयाऽलङ्कृतो मृगीदृशा भो मलयवा- हन! ब्रज स्वीयमावासनगरं प्रतिष्ठानं तवैव कृते विधिना निर्मितेयमानीताऽत्र परिपालिता च मयेति प्रोक्तो महीपतिः सविस्मयमानन्दमधुरेण वचसा तं प्रत्यवोचत् । अहो विवेकिन ! कथय को भवान् ? कथमिदमेव दिव्याकृतिर- भव्यं वनचरत्वमापन्नोऽसि ? किमर्थं वेत्थमस्यां मृगीशि निकामदुष्करमिमं परिपालनक्लेशमनुभूतवानसि ? किमित्यसावपीदृशं वनवासदुःखमासादिता? कथंचन मत्करप्रहरादिमां प्रकृतिमागतोऽसि ? कुतश्च मां नामनगरसंवित्तिपू- वकं ज्ञातवानसि ? ज्ञातासि चेदन्यदापृच्छयसे कतमोऽयमेवमुद्यमेदुरो गिरिः? किमभिधानमम्भोधिसोदरमिदं च हृद्यं सरोवरम् ? अस्थ च माणिक्यभवनस्य किमन्वयं निर्माणमित्यादि पृष्टो नृपेण सोऽभ्यधात् । भोः क्षितिभृतां नाथ! कथयामि श्रूयतामस्तीह लोके विद्याधराणां सुमे- रुवप्रोपकोणवर्तिनी कोशातकीति सुरलोकविश्रुता नगरी । तस्याः प्रभुस्ता- राकिरीटो नाम विद्याधरोऽहम् । अहं चैकदा भुजगभवने भगवन्तमन्धकवि- पाटकं हाटकेश्वरमष्टमीचतुर्दश्योरवश्यदर्शनत्वेन द्रष्टुमष्टम्यां गतवान् । तत्र च तमिष्टफलकल्पपादपं देवमन्यदिवसोपहारप्रक्रियाक्रमेणैव सभूरिभावम- भ्यर्च्य वासरमखिलं च तत्सेवयाऽतिवाह्य कृतकृत्य इव निशाऽवसरमासाद्य निर्गतो नागलोकात् । अनन्तरमेकत्र समुद्रस्यान्तरद्वीपके दूराद्विसर्पिणा विश- दचन्द्रिकालोकपरिकरेण स्पष्टीकृते सौधशिरसि हरितपत्रातपत्रमात्रावरणम- ण्डपेऽनल्पद्लकिसलयकृतोरुसंस्तरे निद्रान्तीमिमामपश्यम् । दृष्ट्वा च दूरतोऽपि वदनमस्या वितयं चिन्तितवानस्मि । किमेतन्निर्मुद्रं नलिनमलिभिश्छन्नशिखरं किमिन्दोर्वा बिम्बं नवगवलनीलाङ्कसुभगम् । न नैतत्तन्वङ्गयाः कुरुलपटलाडंबरसखं मुखंसाधुः साधुर्विधिरयमहो यस्य घटना ॥ इति विनिश्चित्य झटित्यनेकसुरलोकनायिकोपभोगक्रीडाकृतार्थमपि त्रि- भुवनाभिनन्द्यसुन्दरीसौन्दर्यगुणाकृष्टमिव निविष्टमस्यां मे मनो यदेतद्नयाऽप- हृतचेतनो विवेचितवानस्मि । यत्किल किमसौ कुमारी परिणीता वा, कुमारी स्वयमनुरागेणागता पितृजनेन वा वितीर्यमाणा गृह्यते, परिणीता च पराङ्गने- त्यगम्यैव धीमताम् , इयं तु शिशिरोपचारपरिचयादस्माद्विप्रयुक्तेव च प्रियत- उदयसुन्दरीकथा। १४१ मेन पूर्वानुरागेण वा विप्रलब्धा पराङ्गनैव गण्यते, इत्यादि परामर्शविकलस्व मे विस्मृतोऽयमेकहेलयैवात्मा। विस्मृतं कुलव्रतम् । विस्मृतः पन्थाः सुकृतस्य । विस्मृता गिरो गुरूणाम् । विस्मृता च लोकस्थितिः। केवलमनगहतकेन पापी- यसा प्रेरितः, प्रवर्त्तितो दुष्कृतेन कर्मणा, संज्ञितो नरकगत्या, केनाप्ययश:- कलङ्केनाभ्यनुज्ञातः, सरभसमियमेवात्मा, कुलव्रतमियम् , इयं मार्गः सुकृ- तस्य, तत्त्वमिपं गुरूपदेशानाम् , इयं च सालोकस्थितिस्तनूदरी, तद्नया क- रोमि सफलं संसारम्, अनुत्थापयन्नेव न यथावेत्ति कश्चिदपि तथा त्वरितमा. दाय बजामीत्यसन्दिग्धेन मनसा समीपमुपसृत्य झगित्युत्क्षिप्य ततः प्रवाल- तलात्सुतामेव निभृतमेनां निजं विमानमधिरोप्य जातालब्धलाभ इव सहर्ष- मन्तरिक्षपथेनागन्तुमारब्धवान् । वीक्ष्य विमाने मुहुरमुष्या वदनमम्बरे च श- शभृतो बिम्बमिदं चिन्तितवानस्मि ॥ स्वच्छेन्द्रनीलफलकप्रतिमे यदेत- देवं विभाति गगने शशिनोऽस्य बिम्बम् । मन्ये तत्र सुरयानभुवि स्थितायाः सङ्कान्तमुज्वलमुखप्रतिबिम्बमस्याः॥ अथवा स एवायममृतरोचिः किन्तु- अस्या मुखेन विजितो नियतं बिभर्ति कालुष्यमन्तरितमिन्दुरतः सदैव । ज्योत्स्नापटेन पृथुना स्वमसौ पिधाय रात्रौ परं प्रचरति अपयेव गुप्तः॥ पुनर्विभाव्य यदि वा न खल्वसौ हिमांशुरन्यदेव तर्कयामि किंचित्, तथाहि- रूपेण नूनममुना भुवनत्रयेऽपि नास्याः समं युवतिरत्नमितीह धात्रा। व्योमावनौ खटिकयाऽन्यपुरन्धिकाणां रूपस्य शून्यमिदमिन्दुमिषेण दत्तम् ॥ भूयोऽप्येनां प्रति सशिरकम्पमहो निद्रामीलितविलोचनस्यापि सौ. न्दर्यमाननस्य, अहो प्रवालतल्पदलदाहकान्तर्दवथुकदर्थिताया अपि लावण्य- मङ्गयष्टेः, अहो शिशिरोपचारचन्दनजडीकृतानामपि कान्तिरवयवानामित्या- दि(म)शंसापुरस्सरमनवरतमस्यां निषण्णेन चेतसा शून्यीकृतविमर्शमागच्छतो १४२ सोडलविरचिता मे झगित्यस्यैव भूभृतः शिरस्येकस्य गगनगङ्गातटे तपस्थतो महर्षरुपरिष्टात्सा- ङ्गप्रवर्षमिदमहो मेदिनीनाथ ! विमानमगमत् । कुपितेन च तेनावलोक्य या दृशा रे रे चपल चापलस्य कलमदूरविषयमनुभावयामि भवन्तम्, इदा- नीमेव निर्विलम्बमनुभव,भवामुना मूर्खत्वादुष्कृतेन चपला प्लवङ्गमो वनपशु- रित्येवमुक्त्वा यावदनेविमानं वीक्षते तावदन्तरितां क्षामोदरीमपश्यत् । तत श्चासौ सर्ववित्किचन ध्यानादवहितीभूय ससंभ्रममाः पाप ! पुनरपरं स्त्रीरत्न- मपहृत्य रे गन्ताऽसि तदिमामेवास्य भूभृतो रविशृङ्गस्य मेखलायां कुवलया- मोदनाम यत्सरः तस्योपकण्ठवनसुस्थितेन त्वया पालयता स्थातव्यमस्याश्च कृते मवचःप्रभावाद्भविष्यत्यधुनैव गिरेभित्तिगर्भमधिकृत्य वासाय पेशलं माणिक्यभवनभित्युदीर्य झगिति हृदयचिन्तितमुपस्थितं पुरो दिव्यमिदमा- दाय च महारत्नमन्यचैव किरणकोश नामा समुद्रान्तः सुधाहदस्योदरे विनि- पन्नो मणिः सकलविषविकारमूर्छाङ्गपरिवर्तनाद्यपायहरोऽस्याः सर्वापदामा- स्पदेऽत्र विपिने बसन्त्या भविष्यतीत्येवमनुकम्पया चूडामणिपदे निरूप्य तूष्णीमकरोत् । अहमपि तया दुर्वारशक्त्या शापोक्त्या दुर्द्धरवानलज्वालाह- तो वनवृक्ष इब झटित्येव श्यामलीभूतः। सानुतापमये तदेतत्परयुवतिरत्नाप- हारपापस्य फलनुपस्थितं ममेत्यभिति संघधार्य च दूरभवनमितमौलिः प्रणम्य सविनयमवोचम् । भगवन् ! अज्ञानतिमिरान्तरितदृष्टेरधर्मनिर्मूलितविवेकस्य मे पुनरात्मलाभेन प्रसीदतु भगवान् दयाराशिरास्पदं च क्षमाया इत्येव- मभ्यर्थिते मया स मुनिराीभूतेन मनसा भवत्वेवमहो यदा खल्विहैव तिष्ठन्त्याः प्रतिष्ठानपुरनरेश्वरो मलयवाहनः पाणिग्रहणमस्याः करिष्यति तदा तत्करप्रहारताडितस्य ते शापान्त इत्युक्त्वा विरराम । अनन्तरमहं तथैव तथा तस्य मुनेराज्ञया झगित्येवमत्र संभूतवान् । स्थितश्च यथा तथा स वेत्स्यति येन दृष्टोऽस्मि । जानामि पुनरेतदेवाद्य यत्किलावनीन्द्रशेखर ! तवानुभावात्स एष मे समुपजातः कर्मक्षयः, त्वं पुनरमुतोमुनीन्द्रस्य वचनादागतः, क्षितिघरोप्येष रवि- शृङ्गनामा, सरश्च कुवलयामोदसंज्ञमित्यपि तस्यैवालापप्रसंगेन कथितम्,माणि- क्यभवनं च तदाज्ञासिंद्धमिति कथितमेवास्ते, तो! भुवनोपकारिन् ! सुकृति (नांव)रैष भवताऽनुपृष्टः कथितो वृत्तान्तः, प्रसीद याम्यहमिदानीमित्येवमुक्त्वा सप्रश्रयमनुज्ञातो नृपेण झगित्येवोत्पत्य दुरालोकमम्वरमगोचरश्चक्षुषो बभूव । अथैवमखिलं वृत्तान्तमावेद्य गते तस्मिन् प्लवङ्गभावापनोदलब्धात्मनि विद्याधरे विलोक्य दिशो वसुमतीप्रभुरभीष्ठयुवतिसङ्गमाभिनन्दनपुरस्सरं चिन्तितवान् । नन्वनुकूलविलसितस्य विधेः प्रभावात्प्लवङ्गानुपृष्ठपरिसर्पणप्रस- । !
१४३ उदयसुन्दरीकथा । हुन मिलितेयमसंभाव्यसंगमा प्राणेश्वरी । नवेष्टजनवियोगदुःखादपरमनुभूत- वती क्लेशम् । इदानीमरण्यमिदमेवं निरुद्धदिङ्मुखालोकमस्त्येकडम्बरं च सर्वतः । कः प्रदेशोऽयमवनेरिति सर्वथैवामतीतम् प्रतिष्ठान हि कुत्र किल ककुभो वि- भागे कियति वा दूरे वर्तत इति न नाम ज्ञायते । (सुकृत) सन्निवेशादिहो पस्थितैव परं तारावली । नत्वसौ नभा प्रचारपटुतराऽपि पुरन्ध्रिसौख्यादुन्मो- ह( मवधार )यितुमीश्वरादिशः। नवा जन्तुसंचारागोचरेऽस्मिन्काननेऽन्योऽपि मनुष्यजन्मा कश्चिदासाद्यते यमापृच्छ्य वाञ्छितां दिशमनुसरामः । तदेवमितो गमनाय न तादृगुपायोऽस्ति कश्चन । विस्मृतश्चामुतो विद्याधराद्स्यैव कथाकर्ण- नरसान्यहृदयेन मयाऽत्र प्रष्टुनुपदेशः । खेचरा हि बाहुल्येन सदाऽपि भ्रमन्तो वियति विदन्त्येव भूलोकविषषिणः प्रदेशान् । अथवा (यदि नाम) पुनरसावद्या- प्यवान्तरोत्पद्यमानव्यासङ्गविलग्नो वियत्येव तिष्ठत्यतः पश्यामि तावदिति वि- चिन्त्य महीयसो मोहान्मिथ्याशया गगनभनुप्रेषितेन चक्षुषा सहसैव तस्मिन्न- न्योन्यसङ्गतमेकप्रमाणमेकक्रियमेकरूपं च स्वरूपमेदुरमुदारपक्षं पक्षियुगलमालो- कयाञ्चके । तच्च झगित्येव तं पक्षिभावमपहाय सुवपुषा पुरुषरूपेण भूत्वा नभ. सस्तलाद्भुवमवातरत् । दृष्ट्वा च दूरतोऽपि प्रियया परीतं राजानमागत्य रभसा द्वयमपि प्रणाममकरोत् । कौ भवन्ताविति पृष्टे महीनुजा कृताञ्जलिरेकस्तयोः सविनयमुवाच । देव ! तदा देवेन विश्वोदरान्तरितं कामिनीरत्नमन्वेषयितु- मनुप्रेषितस्सोऽहं तवादेशधरः क्षपाचरो मायाबलः । अयं च पातालक्षत्रियस्थ शिखण्डतिलकस्यासः पदातिरस्या एव गवेषणाय भारतवर्षे निरूपितो दम्भोलिनामा भुजङ्गवीरः । जातश्च मूलतः पातालमखिलं त्रिदशभुवनमित्यु- दीक्ष्य लोकद्वयमिदानी (भू ) लोकमधिप्रचरतो (मम ) सार्द्धमनेन सौराष्ट्र देशे प्रभासनामनि क्षेत्रे मेलापकः । तत्र चानवरतयात्रायातत्रिभुवन(ज)नोपमई- दुईर्शदर्शनसमकालकल्पितफलार्पणप्रवणमीश्वरं श्रीसोमनाथदेवमिष्टार्थसिद्धये विज्ञापयितुं च प्रविष्टयोः प्रस्तुतामर्थयभानयोः कार्यसिद्धिमन्योन्यमर्थनालापमेक- मेव श्रुत्वा सादरमन्योन्यं च कृतप्रश्नादवगतकप्रयोजनारंभयोः सख्यमिदमा- वयोर्बभूव । ततः प्रभृति सहैव स्वैरप्रचारपेशलं पक्षिरूपमाधाय विचरतोरत्रे- मनिन्द्यजलशकुन्तकूजितारावसूचितमुचितानेकपङ्कजमनोहरं सरो दृष्टि- गोचरमभूत् । जाता च द्वयोरनवलम्बनाम्बरविलंधनश्रमेणार्तयोर्मुहूर्तमति- शिशिरपरिकरेऽत्र महासरस्यखिलसुखानुभोगवैदग्ध्यवता मनुष्यरूपेण वि- श्रमितुं सममेव मानसी वृत्तिः । अतस्तथैवावतीर्णाविह । दृष्टश्च दिष्ट्याऽत्र ।
सोड्डलविरचिता मया मिलिताभिवाञ्छितवधूसखो निजप्रभुरावेदितश्च दम्भोलिः । अनेन च (कथितं ) यथोचितवरावाप्तिनिव॒तस्वान्तेयमात्मनः स्वामिपुत्री, सिद्धमीहितं, फलितो मनोरथः (इति)। किमुच्यते ? स्वामिन्नेवमसीमसंभृतलसल्लावण्यवत्याऽनया। प्रेयस्या सहितेऽद्य ह्यद्यमहसि द्रागेव दृष्टे त्वयि ॥ देवश्चन्द्रविभूषणोऽद्रिसुतया शच्या च सङ्कन्दनः । साक्षात्सोऽपि हरिः श्रिया परिगतः क्षोणीश ! दृष्टो मया ॥ अथवा SHARMA हृद्भूमीभवने प्रविश्य जगतः कामेन रत्या च यो। द्वाभ्यामप्युपजीवितश्चिरतरं शृङ्गारनामा रसः ॥ सिटूं तेन तदेतदुज्झितजरदूपं नवीभूय च । प्रोद्भूतं युवयोईयं प्रचयिनी तेनेयमेवं द्युतिः ॥ किन्त्विदानी देवोऽप्यावयोरपनयतु कौतुकं कथयतु निजं देव्याइव विषम प्रदेशमीदृशं प्रत्यागमनदुर्घटं वृत्तान्तम् अत्र च किमेवमद्यापि स्थीयमानमा- स्थत इति सप्रेमातङ्कमापृष्टो राजा तयोर्यथावृत्तमखिलं (न्यवेदयत् ) निवेद्य निर्गमोपायपण्डितश्च मायाभिस्तत्खलु निर्गमानुरूपमुपदिश्यतां किमपि, प्रकार वा कमप्यासूत्रय, येन वयमनेन साई प्रियपरिग्रहेण युगपदासादयामो निजं राजधानीनगरमित्येवमादिष्टे महीभुजा झगित्यदृश्यभावमापन्नवान्मायाबलः । पुरोभूतं च परमसङ्कटाभोगभव्यमुद्भासि भास्वरपताकमस्तोकमणिकिङ्कि- णीचक्रवालमालितमसमहेमनिर्माणरम्यं विमानम् । उत्थिता च निराश्रया विय- त्तले भारती । भो भोः!क्ष्मापालपुङ्गव! स खलु मायाबलोहमेवं त्वदने मायया नभश्चरं प्रतिष्ठानपुरगामि च संवृत्तो विमानमेतत् , आरुह्य चात्र सममेव सानु- नायिका नायिकेयमिच्छासंपन्नमनोरथश्च देवः प्रयातुप्रापयिष्यामि क्षणादेव तत्ख. ल्वधिष्ठानसुखसुन्दरमभीष्टतरं नगरमित्यमृतवृष्टिभिवादृष्टमूर्त्तिना मायाबलेन प्रणीतामाहादिनीं वाचमाकर्ण्य सोत्साहमुर्वीपतिरुपायोत्पत्तिसुस्थितेन स्थिरीभू- तेन चेतसा कृतकृत्यइव दम्भोलिविसर्जनाय मुखमुदयसुन्दा व्यलोकयत् । सापि चात्मनो हृदयस्य संवादिनमभिप्रायं प्रेयसो विबुध्य लब्धहृद्या च तारावल्या निर्वतिताशेषकुलगृहारोग्यवार्ता प्रश्नपरिपाटिरुवाच दम्भोलिम् । अहो भ्रात:! अधुना कृतं विलम्बेन त्वरितमित एव सिद्धाभिवाञ्छितो भवान् , व्रजन्व पयतु भुजङ्गकुलाभरणशेखरस्य मत्पितुः कथयतु च पुरा मर्त्यलोक- उदयसुन्दरीकथा। वर्तिनि त्रैलोक्येऽपि विख्यातनामनि प्रतिष्ठाने सन्तोषसुस्थितां मामधिवस- न्तीम् , तारावली तु प्रतिष्ठानगतानां यद्यालोचयतामस्माकं प्रतिभास्यत्यस्याश्च वा चित्ते भविष्यति तदा नूनमसावप्येष्यतीत्यादि सदृशं सन्देशमुक्त्या तम- तिमहता प्रश्नयेण विससर्ज । सोऽपि स्वबन्धुभायोचितमुदयसुन्दरीमाच्छय शिक्षयित्वा च सततनिकटावस्थितित्वेन तारावली प्रणम्य गुरुणाऽनुरागेग राजानमालप्य च विनानीभूतमेव मायावलमेकहेलथैव पवनभावमापद्य गत्तवान्। अथातिमुदितो महीपतिरानन्दमधुरया गिरा सस्थाननिर्देशनादावुद्य- सुन्दी ततस्तारावलीमारोप्य मध्ये च तयोः स्वयं तत्खलु मायाबलेन स्वदेह- कल्पितं दिव्ययानमधिरूढवान् । झगित्युत्पत्त्य निर्गतेन च बहमन्तरिक्ष- वर्मनि तेन मायाविमानेन कियतोऽपि कालकलाविभागत्यान्तरे स्वं पुरं पति- ठानमाससाद । बहिरेव नगरस्य सप्रमोदभुत्तीर्य ततो विमानाईकन परि- सरभियो विपुलनीलातपत्रस्येव घनच्छायावतस्तले मन्दिवृक्षस्य सानुदय- सुन्दा पुरोगतया च तारावल्या निषसाद । अथ झगित्येव तत्खलु रूपं वैमानमपहाय दिव्येन वपुषा कृताञ्जलिरवतो भूत्वा जगाद मायावल:- स्वामिन् ! इत इतो निवेश्यतां दृष्टिः "अहो यः किल तदाऽजुष्ट- प्रधावितस्तस्य प्लवङ्गमहाद्भुतस्य कुत्रचिद्गोचरे मानवजनस्य गतवान् , पदर्थ च नितान्तनुत्ताम्यता चित्तेन सुचिरमियन्तं कालमास्थितस्तदेव कुतोऽपि लव्धनादाय दिव्यं युवतिरत्नमागतो नरेन्द्रशौण्डीरः” इति प्रवादलुखरः सनू- हेन धावन्नयमयमायाति ते पश्य परिजनस्तन्मामिल एव विसृज क्षितिपाल- पुङ्गव ! त्वरितमपृच्छन्नेवाहमागतः कियत्कालो वर्तते न जाने मयि कीदृशं मनस्वामिनो विभीषणस्येति । सादरं निशम्य भूमीश्वरो नन्विह तव स्वाय- ताशेषवाञ्छितविभूतेः किमातिथ्यमाचरामि तथापि यदा कदाचिघडनार्थी भवान् तन्मे शरीरमपि तवाधीनमेतदित्यभिधाय महता प्रश्रयेण तं विससर्ज रजनीचरम् । अत्रान्तरे च क्षणादेव सर्वतोदिकमुबूतरभसमानन्दनिर्भराः प्रघनविस्मयाविष्टदृष्टयो मन्त्रिणः, प्रणयपरिणडवृत्तयो भूमिपालाः, विविध- वंशप्रसूतयः क्षत्रियकुमाराः, सकलभुवनोपगीतकीर्तयः सामन्ताः, कृपाण- कुन्ताङ्कुरितभुजवल्लयः प्रवीराः, प्रभूतरीतयः सेवकाः, वर्धापनकपाणयश्च पौर- पुरुषाः, इत्याद्यनेकधा प्रकीर्णो भूयसा प्रसरेण समागतो लोकः । तेन चावृतः समन्तादस्तोकगजवटान्धकारितप्रान्तस्तरलतुरगतेनातरङ्गितो/तलो धवलवि- पुलातपत्रपिहिताम्बरः संभा( नभो ?) रसाराविभिर्वाद्यमानैरनेकजातिभि: । १९-२० उदय सोडलविरचिता पुण्यवादित्रकैर्मुखरितदिगन्तरः प्रथममेवागत्य मिलितेन कुमारकेसरिणा पृच्छय- मानवृत्तान्तः प्रत्यक्षभूतया चक्रवर्तिपदश्रियेव साईमुद्यसुन्दा विभूति- महितासनोपकरणसजितां विजयकरिणीमधिरूढः प्ररूढवृद्धिना विलासेन सप्र- मोदनन्धरमभितोऽपि गृहे गृहे वाद्यमानबर्द्धापनकमुद्गीयमानधवलमानन्दनृत्य- सुवासिनीकमुपरचितहदृशोभमनना च शोभासत्कारपरिकरणोत्सवाद्गृहीत- शृङ्गारमिव नगरं विवेश। ततश्च स्वर्गतोऽवतीर्णमिवानरतिमयं मिथुनमालोकयितुमुत्तालसृष्टिना कुतूहलेनाकृष्यमाणा विहाय सकलं विलासव्यापारमतिरभसाडावन्त्यो लग- न्यस्त्वरितनुत्पथेनापि बिलग्य त्रुटन्तमप्यगणयन्त्योहारादिमणिसरकलाप- मन्योन्यभाहयन्त्यश्च प्रसरेण निःसृताः स्वर्गादिव पतिताः पुचिताः सौधशि- खरेषु, पातालादिव निर्गताः संभृता गवाक्षगर्भधु, अन्तरिक्षादिव विघटिता विस्तृता उत्सङ्गेषु, भूतलादिव सनुस्थिताः प्रकीर्णाः प्राङ्गणेषु, संगता वेदिकासु, मिलिताश्च तोरणद्वारेषु कामिन्यः । प्रथममेव रभसान्निासरन्त्यश्च ताः काश्चन जघनभारासहिष्णुतया पदे पदे प्रस्खलन्त्यः कुलवतेनेवानुपृष्ठप्रधावितेन हठादाकृष्यमाणाः प्रचेतुः, काश्चन त्वरयाकृष्यमाणमुल्गुरुभराक्रान्तमशक्तमिव कणन्मणिनूपुररणितच्छ लेन चर- णयुगलं क्रन्दयन्ति स्म, काश्चन प्रधावनवशोलताङ्गविक्षेपादितस्ततो दोलाय- मानान्ताकलापविमृतेन विशदकिरणनिकुरुम्बकेण चामरेणेव हृदये तत्काल- विश्रान्तं राजानमुपवीजयाञ्चक्रुः । निःसृत्य दर्शनस्थानमनुप्राप्ताश्च काश्चन गिरिसुतार्चनक्षणे गृहीतधूपदहनका एवं धाविता उमाऽऽकृतिभ्रान्त्या झगि- त्युदयसुन्दरीमुद्दिश्य धूपमुपदर्शयन्ति, काश्चिदन्योन्योपमईकलहैरन्तरित- दर्शनाः पश्चात्तापमुबहन्ति, अपराश्च काश्चिदेकस्मिन्नेव नयनकुवलये कजलमे- कस्मिन्नेव कपोलतले पत्रभङ्गमेकस्मिन्नेव श्रवणशिरस्यवतंसकैरवमेकस्मिन्नेव कर्णे कनकपत्रमेकस्मिन्नेव करे कङ्कणमेकस्मिन्नेव चरणे निधाय नूपुरमुत्सुकेन मनसा विनिःसृताः पुष्पेषुनटनाटकनिविष्टा इव यथावदर्द्धनारीश्वरं रूपमा- दुधिरे । एकाभिरप्यानन्दबाष्पाम्बुभिदछटक, स्मितवशविकासिदशनांशुभिः स्वस्तिकान, प्रकम्पविगलितावतंसकुसुमैः पुष्पप्रकरम्, अनुपथं प्रयच्छन्तीभिः, अन्याभिरतिवेगविस्मृतोत्तरीयवस्नतया करतलावृतपयोधराभिमुखनिहितपङ्क- जान्पूर्णकलशानिव पुरः प्रगुणयन्तीभिः, प्रविशतो मिथुनस्येव विरचितो माङ्गलिकसत्कारः।काभिश्च सुरतमपि राज्ञे दापयितुमात्मानमर्थयन्तीभिः श्वश्रू- उदयसुन्दरीकथा। सकाशमपि राजसंगमाप्राप्तिदुःखमुदीरयन्तीभिर्ननांदारमपि दूतिकात्वेन समु- पालन्धुं शिक्षयन्तीभिः साक्षादिडम्बितः स्वात्मा । काभिरन्योन्यं सपत्नीभिः श्वभूस्नुषाभिर्धातृजायाननान्द्रादिभिरेकस्मिन्नेव राजन्यभिलाषमालोचयन्ती- भिराहतं तत्खलु समानशीलव्यसनत्वात्सख्यम् । कासांचिदुद्यसुन्दरीनिरी- क्षणनिषण्णानां नाभवादिलोचनपथे मलयवाहनः । कासांचिन्मलयवाहनालो- कनप्रसक्तानां बभूव विघ्नमुद्यसुन्दरीदर्शनस्य । स्थानेषु स्थानेष्वेकाः खलु मलयवाहनं वर्णयन्त्यन्याः स्फुटमुद्यसुन्दरीरूपमुपकीर्तयन्त्यपराश्च मिथुनमपि श्लाघन्ते सहर्षमित्येवमनेकचेष्टापुरःसरमहंप्रथमिकया परस्परोपमईसंभ्रमेण युगपन्नगरनारीभिरालोक्यमानः, प्रशस्यमानः प्रशस्तमानसः सूरिभिः, आशि- व्यमाणस्तपोधनैः, अभिनन्धमानश्च प्रकृतिलोकः, उद्दण्डचलचामरकराभिर- नेकशो वारविलासिनीभिः प्रगुणितारात्रकशेषाक्षतोपकरणपात्रवतीभिर्गोत्रवि लया(वृद्धा? )भिर्धवलगीतिमधुराभिः पौरजनसुवासिनीभिर्जयजयोद्धोषमुख- रैन्दिभिरुद्धीतरीतिभिर्गाथकैः पठद्भिश्च निखिलवेदार्थवेदिभिर्ब्राह्मणैः क्रिय- माणमङ्गलाचारः, प्रहतपुरुहूतसंपदाडम्बरेण विविधमणितोरणोपचारचर्चिता- भोगशोभिनि राजकुले संचचार । जातश्च महानुत्सवः । पतिता च गगनाजयतादुदयसुन्दरीति दयितया- ध्यासितः श्रिया मर्त्यलोकमवतीर्णो मलयवाहनापरप्रकृतिजनार्दन इति जय- जयालापनिर्भरैः स्वर्गिभिरनल्पशो विसृष्टा पुष्पवृष्टिः । उद्भच तत्र तैरेव सप्रमोदमास्फालितानामद्भतरो दुन्दुभीनां विनादः । किमन्यदन्यैव हि विभू- तिरुत्सवाडम्बरस्य। कौसुम्भः प्रतिमन्दिरं पुरवधूवासोभिरुत्पल्ल्पः श्वेतोदञ्चितगुडि(च्छि!)काभिरभितः प्रत्यापणं पुष्पितः । विस्फारः फलितश्च पूर्णकलशैः प्रत्यङ्गणं विस्तृतः प्रत्यध्वं प्रतिगोपुरं प्रतिगृहद्वारं च यस्तोरणैः ॥ अपिच- दिव्यैराभरणैर्विचित्रवसनैरामोदहृद्यश्रिभि- आल्यै रिविलेपनैश्च समभूषासमृद्धो जनः । यहा किं न भवेद्भवेदपि यतस्तत्र प्रविष्टा पुरे सा तेनोदयसुन्दरीति पटुना रूपेण लक्ष्मीबुवम् ॥ अथैवमेतस्य प्रत्यहमुत्तरोत्तरप्रवर्धमानस्य मध्ये महोत्सवस्य सहसैवाज- गाम पातालभुवनात्प्रगुणिताशेषवैवाहिकोपकरणपाणिः कतिपयजरत्कञ्चकिमह सोड्डलविरचिता तरातपरिचारिकाप्रभृतिपरिजनोपेतः कृते वधूवरस्य बहुविधाभरणनेपथ्यादि नरलोकदुर्लभं वस्तुजातमादाय राज्ञा शिखण्डतिलकेज प्रेषितो राजाङ्गनिर्विशेषः पिता तारादल्याः सेनाधिपो रत्नमौलिः । तेन चागत्य पुनर्नवीकृतो द्विगुणितश्च सोऽत्यन्तमुत्साह डरो मही- यसाऽऽडम्बरेण विभ्रमारम्भत्सवालोगः । समर्पितश्च स खलु निखिलोड ऽप्युदय- सुन्दरीसमीपत्वेन भातृगृहादागतः प्रति(परि ?)चारको लोकः । कथितश्च वाभिछ. तबरलाभसुस्थिता समुपजाता पुत्रिकेति दम्भोलितः श्रुत्वा समं महादेव्या वि- जयरेखया प्रमोदमागतस्य राज्ञः शिखण्डतिलकस्य प्रेमपरिणतालापबन्धुरो बन्धुसंबन्धज जन्ना सन्देशकः । तथैव चात्मनः सुता तारावली राज्ञा सादरमुप- वये कथितस्य विशेषतः पुनरुदयनुन्दा पुरस्कृतस्या सुरूपेण च मनसः प्रति- भासितस्याथ च नितांतमभिप्रेतस्या राजहदः क्षत्रियकुमारस्य कुमारके- सरिणो दत्ता परिणेतुन् । अनन्तरमलो रत्ननोलिनिवर्तितमकललंयुक्तकोपचार- प्रक्रियाकलापः स्थाणतोपहारपरितोचितश्च सानुबन्धसुद्यासुन्द्रीडुललितासहनेन হাল, হালাল জাম্প্রী, ভাৰীহলি- चरणेन तारावलीन, लारावलीपालमोपचरणेन कुमारकेसरिणम् , सौछि(हि?) ा च गमनाय कृतकृत्यश्चान न्दितेन चेतसा स्वं जगछिरोचनकक्षाश्रयं जगाम । राजा च मलयवाहनस्तया बल्लभया सार्द्धमुद्यासुन्दा तेन च प्रचुर- देशदानोपवर्द्धितैश्चर्यसुस्थितेन मथुरापतेर्जनकस्य कलिन्दकेतोः स्वसौख्यापा- दितप्रमोदेन तारावलीपरीतनूर्तिना सुहृत्तमेन कुमारकेसरिणा विनोद्यमान- हृदयो नानापथविपञ्चिताभिरनेकरसविशेषशालिनीभिभूरिशो बिलासभङ्गि- भिरनवरतमखिलान्येव मर्त्यलोकसुखानि भुञ्जन्नसारमपि सार(म)करोत् । अन्नान्तरे च सनुपजाते हि कथाऽवसाने संवृत्य पुस्तकमुग्री(वी)भूय स्थित- वति तस्मिन्कवीश्वरे तो तिलकतालकाख्यौ द्विजपुङ्गवावेकहेल्यैव परमुद्धृत- दिव्यतेजसावमरपुरसुन्दरीकरचलितचामरोपवीज्यमानाकृती विमानयानगता- वन्तरिक्षे बभूवतुः । अवोचदेकश्च तयोः स एव तालको नाम । भोः सत्कवे ! सोड्डल ! श्रुतोऽयमस्माभिस्तावका प्रबन्धोऽयम्, (अ)पूर्वमिमं श्रोतुमुपक्षिप्ता हि विषयास्ते यादृग्गुणोपरूढसृष्टयः कथ्यन्ते सूरिभिस्तादृशा एव तथाधु- पक्रमः कथाया यथावदाक्षेपको हृद्यस्य, संबन्धसन्धिषु काचिदेव सुश्लिष्टता संविधानकस्य, प्रस्तुतोपक्रान्ते च वस्तुनि किनुच्यते स्पष्टैव संपद्रसस्य, पद्- PRANSARANG antya उदयसुन्दरीकथा। न्यासस्तु मसृणवर्णरचनादिभिर्गुणैराह्लादक एव अवसाम्, भणितिभङ्गीषु चान्यादृशमेव निवेशकौशलं लौकिकार्थस्य, किं वाऽन्यदपि । यत्किल कौकिली मायूरी माराली चेति प्रधानजातित्वं कवीनां तदपि कचित् किंचन समन्ता- दस्ति सम्यगतिव्यक्तमेवात्र। तथा च कुवलयामोदसरति न्तिसमुत्थितोयसुन्दरीविलोकितस्य मलयवाहनस्य प्रकारे यथा-- " अत्रान्तरे शागिति तस्य मणेः प्रसंगा- दुच्छिन्नमूबईसपमुद्रषिलोचनाऽसौ । প্রস্তানি श्रुतकरानम भने नरेन्द्रमयनीतिलक ददर्श । জয় অনিশিখাইন্স অফ সালাহতলা বিশিষ্টয়া- তা জান্দিভ্রাখিলা অঙ্গহারাল বাংলা মাঙ্গা कौकिली जातिः। মাআত এনিম্যাল স্বাস্থ্য বাহান্ধী যথা- सर्वत्राङ्गेषु वल्गद्धनगहनशिखाचऋचण्डानकोटि- अव्यस्पिनरफुलिनोइमरपरिकरणामुनवाग्निमा ते।" अत्र सौष्ठवोद्रेकवाहिनि वर्णबन्धे धनप्राणच्छा( त्वा ? )दोज प्रधानेनैव समस्तबहुपदायामसरलेन मयूरकेका(नुका)रिणा वाणीगुणेन गौडी रीति- यूरी जातिः चन्द्रोदयवर्णने च यथा- " कमलिनी भुवनान्तरिते रवौ व्यपगतालिकलापशिरोरुहा । परिदधे विधवेव सुधाकर- युतिवितानमिषेण सितांशकम् ॥ अत्र च शैथिल्यशालिनि वर्णसन्दर्भे निष्पाणत्वान्निरोजस्त्वात्स्वल्प- पदसमासानतिविस्तृतेन हंसस्वनानुगामिना वाणीगुणेन पाञ्चालीमंशतः श्रयन्ती माराली जातिः । गद्येऽप्येवमेव च यथोक्तगुणमनोहर एव संवृत्तस्ते प्रबन्धः । किमन्यदेवमेव हेतुरस्मदात्मलाभस्थ, तदेष पृच्छयसे, वाञ्छितं सिद्धमधुना, त्वत्तः कृतार्थीभूय यामो वयमहो विछन्, ! इति प्रश्रयपुरस्सरमुदीरिते तेन स खलु कविरुत्पन्नविस्मयो मिलितकरकमलसंपुटोपलक्ष्यमाणवृत्तिना विनयेन साभ्यर्थनमुवाच । ।
सोड्डलविरचिता हंहो मृषोत्या युष्माभिः प्राकप्रतारितोऽहम्, इदानीं तथ्यमावेद्यताम, कौ किल युवाम् ? किमिति वेत्थमश्मनो रूपमापन्नौ ? कथमसावतैलवादि- परिकरस्योरेदः प्रदीपस्थ ? प्रदीपोन्मेषसमयमेव च कथमिदं मर्त्यशारीरिक- मवस्थान्तरम् ? इदानीं तु कथं दिव्यं देहावतारमनुभूतवन्तौ ? कथामनाख्यात- मप्य(न्यस्य)सर्वस्य ममेदमवगतं नाम ? कथं वाऽयमभून्निबन्धो हेतुरात्म- लाभस्य युवयोरित्येवमादरात्कृतप्रश्नस्य कवेः सोड्डलस्य स नाम तालक एव यथापृष्टं कथयितुमारेभे । भ्रातरहो कविप्रदीप ! नूनमहमस्य सकलस्यापि व्यति- करस्य कारणमाकर्ण्यताम् । एष तावत्स खलु विश्वविख्यातकीर्तिः कृती रस- रचितसुवर्णसारया श्रियेव कादम्बरीति कथया पदे पदे प्रकृष्टार्थवता कोशेनेव हर्षचरितेन महानीश्वरः कवीनां वात्स्यायनवंशजन्मा सरस्वतीशिष्यः सारस्वते च लोके कवीन्द्र तिलक इति लब्धतिलकयशाः अग्रणीश्च द्विजन्मनां बाणो महाकविः । अहं च भगवतो ब्रह्मगः समायाभिमेव तालक इति धानो नाम सामान्यो देवर्षिरेकदाऽहं ब्रह्मलोकसदसि वसन्तुषस्येव देवनम्बुजासनं द्रष्टु- सुचलनुपरलोकनार्थं च तस्य लया कृतो धीमभयेऽमितावधानमानुष्टुभेन छंदसा श्लोकः । स यथा- ब्रह्मस्त्वां स्तौमि तं यस्य पुष्पलिड्तिः प्रलक्षितं । पाण्ड्डाभं वल्गु सुचब्जं जन्मधिष्ण्यं च विष्टरम् ॥ अत्र श्लोककवितागुणेन वासितस्वान्तः प्रकामदृष्टो ब्रजन्नेकत्र सरस्वती- भवनस्योत्सङ्गमण्डपे मिलितमेव बाणभट्टाध्यासितमधिष्ठितं च कालिदासादि- महाकविभिः कवीन्द्रश्च विक्रमादित्यश्रीहर्षमुञ्जभोजदेवा दिभूपालैः सामन्तैश्च वाक्पतिराजमाउराज(?)विशाखदेवप्रभृतिभिः समन्तादलंङ्कतं कवीनां वृन्द- मारब्धविविधकाव्यगोष्ठीनिषण्णमद्राक्षम् । उद्भूतबुद्धिश्चाहमये साधु कवि- वर्गोऽयमेकत्रैव काव्यगोष्ठीभिरास्ते तदहमप्येनमभिनवोपरचितमात्मनः श्लोक- मिह गत्वा पठामि श्रावयामि कविपुजवानामेभिराकर्णितः परमं साफल्य- मुपयास्यतीत्येवमनुचिन्त्य गतस्तत्राहमुपदर्शितप्रश्रयमापृष्टस्वागतश्च तैः सगौ- रवमुपवेशितोऽस्मि । यथाऽवसरं तानवहितान्विधाय मया पठितः श्लोकोऽयम् । एकाग्रेण मनसा सर्वैराकर्ण्य बाढमभिनन्दिता मे काव्यशक्तिः । एकः परमसौ बाणः कवीश्वरो रसान्तरपरायत्तचित्ततया यथा किल शृणोत्येव न सर्वरूपेण तथा स्थितवान् । अहो द्विजोऽयमश्रव्यपदनिवेशदुःस्वरा छांदसोक्तिरिति मन्य- मानोऽन्यकवितास्वकिंचिद्भाविनः स्वगर्वान्मामवज्ञातवानेवमिति विकल्पतर- सर्वरपि तैस्तत्रोपविष्टैः कविभिरस्यानुग्रहाय शापान्तकृते च किन्तन उदयसुन्दरीकथा। लेन चेतसा झगित्युतकोपश्चाहं सरस्वत्याः प्रसादशिष्योऽयमित्यविमृशन्- आः !! स्वगर्वगरिमापहस्तितसमस्तगुणिवर्ग रे कविवटो पठति मय्येवमय- ज्ञया स्तम्मीभूय दृषदिव स्थितोऽसि तद्यथेच्छमिहस्थितोऽसि तवामुना दुर्न- यविपाकेन पाषाणप्रकृतिरेव भूत्वा मर्त्यलोके सरस्वत्यालये कचित्कालं क्षपयि- ध्यसीति शापमत्र सरस्वतीप्रख्ये च कविकुलस्य क्रोधान्धकारितप्रज्ञः प्रयुक्तवान् । अहह ! ! ! किं किं किमेतद्वाणस्य वृत्तमिति तत्कालविहितहाहारवैः न्तरा दृषद्धावापदोऽस्य जंघाग्रहमभ्यर्थितेन पुनर्मया भवतु तस्मिन्नायतने सदैव दीपप्रभासंपर्कात्सकलशास्त्रावबोधनिर्मलमतिः कवितारहस्यवेदी मर्त्य- शरीरेण हिजो भूत्वा रजनीषु दृषवस्थापगमसमुपस्थितं सौख्यमासादयिष्यति मदेकश्लोकानवधारणोपलब्धशापस्तु यदा हि कवेः सोड्डलस्य कृतिरपूर्व उदय- सुन्दरीति चम्पूप्रबन्धस्तमभितः श्रुत्वाऽवधारयिष्यति तदाऽस्य शापान्त इत्य- खिलकविजनोपरोधादेतद्वितीर्णनिजकुर्नयपरिहारकोत्पन्नाच्च महतोऽनुतापादनु (.......? )गृहीत्वा कमण्डलुइचुलके जलं बाणस्यैव शापेन मां शतवती । मया तु सप्रश्रयमनुग्रहार्थनुपरुद्वा ननु बाणस्य सन्निधिमनुज्झतस्तवा- प्यस्यैव शापान्तेन शापस्य पर्यवसानमिति प्रसन्नया गिरा मामनुजग्राह । तेन च तत्क्षणे तस्मात्समकालमुभावप्यावां तथैव ययोपकल्पितथा सूर्त्या झगित्यवतीर्णावस्मिन् । अस्मिन्नपि निर्मानुषारण्यगहरगतं शून्यसाय- तनं देव्या इति प्रतिनिशमतिडया मनुजदृष्टेरगोचराभिर्वनदेवताभिः स्वभा- वात् युतिशिखामात्रक एव सदैव दीयते स्म सुकृतेन दृषड़ावदौस्थ्यापनुत्ति- हेतुरसौ प्रदीपः। अथ ततः प्रभृत्येव महायतने स्थितिरेतावन्ति दिनान्यावयोरभूदय पुनः सकललोकोपकारिभारतीप्रसरस्त्वमत्र सुकवे सहात्मनो निबन्धपुस्तकेनागतः श्रुतः प्रबन्धोऽवधारितश्च । तद्नुभावादेष सखे शापस्य मोक्षः । नाम च तवैत- तन्नानृषिः कुरुते काव्यमित्यस्माकमवतारस्य विदितमेवास्ति । न केवलं नाम- मात्रकेणैव विदितोऽसि सर्वात्मनाप्यादित एव यथाकिल बालभावमापन्न: स्वर्लोकमनुगते पितरि प्रघनगुणसम्पदामास्पदेन प्रियवयस्येन लाटभूमीपते योगिराजस्य गङ्गाधरइत्याख्यावता मा(सू ? )नुना परिपालितः, सकलम- नुजेन्द्रमुण्डताण्डवाचार्यचरितस्य च शौण्डीरनुपकुमारगणनाग्रणीभूतनाम्नो धाम्नस्सरस्वत्याश्चौलुक्यकुलाभरणनायकस्य कीर्तिराजसूनोः सिंहराजस्य ।
सोडलविरचिता सहाध्ययनबन्धुः, अध्यात्तिश्चन्द्रनाना मनीषिणां वरेण, वित्या च लादेशा- तपातिविषयाणामन्तः सिझरहारीयहि सप्ततिर्वाहिरिहारसतशतकं सतशतकं चान्यज्ञापल्लीय(?) मेवमन्यतोऽपि विषयेषु कतिषु पूर्वपुरुषक्रमागताया ध्रुववृत्तेः प्रभुः । अन्यच प्रदीपकलोकानुदितेन कोणमहीभुजा छित्तराजेन कविप्रदीप ছলি বা চিলিলালিঙ্ক অাললীলা इत्यभिसीनूतमनलो महर्षिवर्गस्य प्रतीतिमागतोऽतीत्येवलभिधाय तृष्णी. भूय स्थितब्बति देवर्षों तालके स्वयं बाणोऽपि महाकवित्वगुणावर्जितेन प्रेरणा बन्धुरितः सम्यमुपदेशपूर्व वन्तु पाऋमत । प्रातः । यथा तालकमहर्षिणा प्रोक्तस्तथैव तावकोऽयमलङ्कारनिरूपिता- হলঃ আজহা লিঃ কিমুল হুজ্জযিনি কিন্তু লজ্জ্বা হলে জিন ত ন ই প্রাইল भारत्याः प्रबन्धमिमनिदानीमितस्ततः भावयितु- দখল কা ল গাইব্রিজি জানলোনা মিলি। স্কুল- থে হিম শীলাব জস্ব- त्यपि च नयति स्वं तृष्णान्धः कपिलधुतामसौ यसपटामिवलीयः स्वीयं प्रबन्धसुदाहर- बुदरभृतये याति दारं एहस्य गृहस्य यः॥ अथ नियोऽर्थमेवानं गुणानार, तन सन्नति, पश्य- शुद्धाष्टापदकोटिकुञ्जरशतप्राप्यः समर्था(?)इति क्रीताः पूर्वनरेश्वरैः सरभसं ये काव्यभाजो गुणाः। विक्रीयन्त इमे त एव पुरतो यस्यैव तस्थाधुना काकण्याऽपि मुखप्रमोटनमहो द्रिष्टा गुणेष्वीश्वराः ।। अधिचinment शीलं सदा सहजमीहशमेव राज्ञां यद्भुञ्जते नियमनी गुणिनोऽपलार्य । तैः शैशवेऽपि गुणवन्तमपास्य हार- मास्वादितानि जननीकुचयोः पयांसि ।। तदेतदुच्यते भोः कविसत्तम ! प्रबन्धोऽयमीश्वरनिरपेक्षेण त्वया निवे- दनीयस्तताम् । त्वं हि सत्वैकधनो मनस्वी विशेषतश्चाजुना कवित्वसुकृतेन, तत्वल्वदैन्यमेदुरमवाप्तोऽसि पदं कवीन्द्राणामित्यादिसादरमालो(ला?)वितेन वचसा यथावदुपदिश्य यामो वयमिदानीमित्युवाच । कृतगमनप्रश्नोचितप्रश्र.
उदयसुन्दरीकथा । यश्च विजयः क्रियतामित्यालापपूर्वमुपरचितप्रणामं तं कविमाशिष्य, प्रणम्य च देवीं सरस्वतीम्, झटित्युल्लड्डित्तोडुपङ्क्त्या विमानयानर्या सह महर्षिणा तालकेन तमेव ब्रह्मलोकं जगान। सोऽपि च कविरहो अपक्ककविताकटुरसेनामुना प्रबन्धेन विधुरितगु- णेऽपि कविमात्रके मयि सुकविपदस्थापनसपक्षः पक्षपातो महाकवेर्षाणस्य । बाणोऽपि पश्यत विचेष्टितं देवस्य येनेदभीदृशमुद्भूतशापमापन्नो दशान्तरम् । अहह दुर्द्धरा येते विचित्रानन्तप्रकृतयो विधिकारपरिणामाः। भवत्वहमप्य- धुना किं करोमि । अथवा जागरजडेक्षणोन्मेषः स्वपिमि तावन्न यावद्विभाति, विभाते चोत्थाय पूजयित्वा च देवी यास्यामीति चेतसि विचिन्त्य तस्मिन्नेव मत्तवारणके पुस्तकमुच्छीर्षकीकृत्य सुप्तवान् । आयातनिद्रश्च स्वप्ने किल काव्य- कथावतारिणो महाकवेरादिपुरुषावाल्मीकिमहर्षितः प्रवृत्ते महीयस्थन्वये कवी- नामवतीर्णमात्मनमात्मानैव लिख्यमानमद्राक्षम् । झगिति च तत्कालमेव प्रबुद्धवानितश्च जातंप्रभातमुत्थितश्चध्वनिर्वनकुकुटानाम् । अथोत्थाय ससंभ्रमं ननु कीदृग्मया दृष्टः स्वमोऽयमये प्रसन्नया देव्या बाणस्यैव पक्षपातवचः प्रमाणी- कृतम्, गणितोऽस्मि कवीन्द्ररेखायाम् , अतो यदुपदिष्टं गिरोऽधिदेवतया तत्क- रोम्यस्मिन्नेवायतने तवंशावतीर्णनात्मना प्रशस्तमालिखामि पश्चाद्देवीमर्च- यामि ततो यामीति संप्रधार्य तत्समयमुद्बुध्यागत्य मिलितेन परिचारकज- नेन कृच्छ्रान्मेलितोपकरणः सपदि मरकतशिलापट्टयटितायामायतनभित्तावु कीर्य खटिकाद्रवधवलितैरक्षरैरभीष्टदेवताशंसनपुरस्सरं लिलेख । यथा- पुनातु पाणिग्रहणे हरस्य दृष्टिमंडानीमवलोकयन्ती। रुडा प्रहर्षाश्रुमिषागतेन गाङ्गेन सद्धेषमिवाम्बुनाऽधः ॥ आसीदसीमस्फुरितोरुधामा वाल्मीकिरपण्यतमो मुनीनाम् । निर्वाणमार्गकमहाध्वगोऽपि संपतिः कापि न यो रजोभिः॥ ब्राह्मीनिवासानुमितः स साक्षाद्देवः स्वयम्भूरिति कीर्त्तितो यः। कोऽन्यः क्रमस्थापितवर्णसारां सृष्टि कृती काव्यमयीं चकार । छंदोविचित्रनिहितैः क्रमेण पदैः समन्तान्ममृणीकृतान्तः । निषेव्यते वर्णमहाटवीषु यस्यैष दिव्यैरपि काव्यमार्गः ॥ वंशः कवीनामुदियाय तस्मान्मूम धृतो भूमिभृतां गणेन । अच्छिद्रितेऽपि त्रिदशप्रतोषी वाणीगुणः स्फूर्जति कोऽपि यत्र ॥ यस्मिन्नभूदग्रभवः कवीनां व्यासो मुनिर्यस्य गुणैविजेतुः ।
सोड्डलविरचिता ध्वजच्छटेवोन्नतसोमवंशमालम्बिता वल्गति भारते गीः ॥ कविर्गुणाब्यः स च येन स्पृष्टा बृहत्कथा प्रीतिकरी जनानाम् । या संविधानेषु सुसन्धिबन्धैर्निपीड्यमानेव रसं प्रसूते ॥ स कश्चिदालेख्यकरः कवित्वे प्रसिद्धनामा भुवि भर्तमेण्ठः । रसप्लवेऽपि स्फुरति प्रकामं वर्णेषु यस्योज्वलता तथैव ॥ ख्यातः कृती सोऽपि च कालिदासःशुडा सुधा स्वादुमती च यस्या वाणीमिषाचण्डमरीचिगोत्रसिन्धोः परं पारमवाप कीर्तिः ॥ बाणः कवीनामिह चक्रवर्ती चकास्ति यस्योज्वलवर्णशोभा। एकातपत्रं भुवि पुष्पभूतिवंशाश्रयं हर्षचरित्रमेव ॥ मान्यो जगत्यां भवभूतिरायः सारस्वते वर्त्मनि सार्थवाहः । वाचं पताकामिव यस्य दृष्ट्वा जनः कवीनामनुपृष्ठमेति ॥ सामन्तजन्माऽपि कवीश्वराणां महत्तमो वाक्पतिराजसूरिः । यश्छाययाप्यन्यमपीडयन्सनुत्पादयत्यर्थमनन्यदृष्टम् ॥ वन्धः स विद्वानभिनन्दनामा विस्त्रम्भपानं वचसोऽधिदेव्याः। समर्पिता यस्य खलु स्वकीयकोशाधिकारेषु सुवर्णमुद्रा ॥ यायावरः प्राज्ञवरो गुणज्ञैराशंसितः सूरिसमाजवयः। नृत्यत्युदारं भणिते गुणस्था नदीव यस्योढरसा पदश्रीः ।। बभूवुरन्येऽपिकुमारदासमासादयो हन्त कवीन्दवस्ते । यदीयगोभिः कृतिनां द्रवन्ति चेतांसि चन्द्रोपलनिर्मितानि ।। तस्मिन्सुवंशे कविमौक्तिकानामुत्पत्तिभूमौ क्वचिदेकदेशे। कश्चित्कविः सोडल इत्यजातनिष्पत्तिरासीजलबिन्दुरेव ॥ यो वत्सराजेन वरेण राज्ञां लाटावनीमण्डलनायकेन । सूक्ष्मादृढस्तोकगुणाश्रितोऽपि मित्रीकृतो भानुमतेव पद्मः ॥ जडेन तेनोदयसुन्दरीति कथा दुरालोकिनि काव्यमार्गे । सारस्वतालोकलवैकदृष्टा स्पृष्टा कविमन्यमनोरथेन । सा चात्र देवीभवने निवृत्तशापार्त्तिना बाणकवीश्वरेण । कविश्रमोद्भूतकृपेण सम्यक् श्रुता धृता हृवभिनन्दिता च ॥ करिष्यते किं पिशुनोऽद्य येन न संमुखं स्थातुमपीह लब्धम् । तत्स्थादभद्रं यदि दृश्यतेऽसौ विलूननासः पथि संमुखीनः ॥ दृष्टेऽपि तस्मिन्नथवा न नीचे नि ननासप्रतिमे दरोऽस्ति ।
उदयसुन्दरीकथा । विलोक्यते यद्यसुतापहर्ता द्रागेव देवो रविरेष साधुः ॥ साधुर्जयत्यार्त्तिहरः कवीनां कवीश्वराः सूक्तसृजो जयन्ति । जयन्ति सूक्तानि फलं हि वाचां वाचामधीशा जयतीह देवी॥ इत्येवमिमामात्मनः ख्यातिमयीं प्रशस्तिमभिलिख्य यथोपनी( न ?) तैर्वनसरोऽम्बुजादिकुसुमोपहारवस्तुभिरसीमया भक्त्या देवीमभ्यर्चयामास भारतीम् । निर्वतितपरमपूजोपचारकृत्यश्च कृतकृत्य इवानेकसूक्तोपशालिनीभिः स्तुतिभिः स्तुत्वा प्रणम्य क्षमयित्वा च भगवती निर्गतस्तस्मादानन्दनिर्भरश्च रभसोत्सुकेन चेतसा नगरमाजगाम । विवेश चात्मनो भवनं मिलितश्च मित्राणामेकश्च तेषु सुललितपदोप- न्यासवाणीतरङ्गदुग्धाम्बुधिरशोकवतीति कथानिबन्धस्य कर्ता महाकवि. श्चन्दनाचार्यनामा श्वेताम्बरः मूरिः, श्वेताम्बरसूरिरन्यश्चाशुकवितया परमं प्रकर्षमापन्नः खड्गकाव्यपरितुष्टेन महीभुजा नागार्जुनराजेन खड्गाचार्य इति प्रद- त्तापरनामधेयो विजयसिंहाचार्यः कविः, कविरपरश्चसकललोकोपरञ्जकानामा- स्पद्मशेषतो गुणानामभिनवो वयसा साक्षाद्विम्बमष्टापदोपरचितं जैनेन्द्र- मनुहरन्त्या मनोहरो मूर्त्या दिगम्बराचार्यो भाषात्रयविपञ्चकश्च नान्ना महाकीर्तिः, इन्द्रनामा च रत्नमजरीति चम्पूकथायाः स्रष्टा, सर्वहितालाप- शालिभिर्गुणैरग्रणीश्च सतां सत्कविरित्यादिभिर्मि/मदिरासैबन्धुभिश्चानव- रतमापृच्छयमानवृत्तान्तो विलोक्यमानप्रबन्धः प्रशस्यमानगुणश्च विश्राम्यन् कियन्त्येव यावदास्ते दिनानि तावदेकहेलथैव भूपालसुभटस्य कविकुञ्जरद(ब?) लैकसङ्कहरुचेराकान्तधराविरोधिनखरायुधस्य कोणमहोभुजो मुम्मुणिराज- स्थान्तिकादाजगाम कविः पाठकश्च भाषात्रयस्य त्यागी वचस्वी च परमं मित्र- माशैशवावनीश्वरस्य तस्य च कवेबन्धुरिव मधुरसाहारनामा सौजन्यगुणा- स्पदं भटः । यः खलु परिभ्रम्य परितोऽपि मण्डलान्तरेषु मन्त्रमालामिवाङ्क- नामावलीमात्मनो भर्तुरावर्तयन् झटित्युत्तारयामास दर्पज्वरं राजचक्रस्य । येन हि परास्थानं गतेन प्रौढपदपेशले वचस्यारोप्य प्रथयता निजस्वामिनः प्रताप- मानीतो झगिति गर्वितारिसुभटलोकस्य ललाटफलके प्रस्वेदः । स चागत्य रभसादानन्दरसतरङ्गतरलितालापवर्णावलिरालिलिङ्ग कविं प्रीत्या यथासनमुपविष्टश्च वक्तुमारभत । भोः कवीन्द्र ! भवता सम्प्रत्येव कृता चम्पूरुद्यसुन्दरीति कथा । सा च निर्जनारण्यवर्तिनि सरस्वत्यायतने सोडलविरचिता शापागतस्य प्राविता बाणभस्य । तेन च निशम्य सन्यगभिनन्दितेति कवि- प्रियेण स्वामिना अम्मुणिराजेन श्रुतं च यथा तथा शृणु । शूरिकनगरादाग- च्छता लाटेन्द्रकुलशेखरेण भूभृता वत्सराजेन कथंचिध्वनः सनिवेशात्तस्मि- नायतने प्रविश्योपविष्टेन दृष्टा झटित्येव भित्तो प्रशस्तिः । तदोपलब्धोऽयमेव- मालिखितो व्यतिकरः । तत्कौतुकाहितरलेन च ते(न)प्रथमं भवन्तमाहूय यथैष संवीक्षितः प्रबन्धो यथा चमत्पठितार्यावधारणनिबन्धमा निबन्धसृष्टिरासीदिति ज्ञातं यथाऽयमाश्चर्यहेतुराकर्णितो बाणभट्टल्य वृत्तान्तः तत्सर्वमसमविस्मयरसा- क्षिप्तहृदयेन निवेदितं राज्ञे । राजा च सुदूरमभिवर्द्धतानुरागवृत्तिरतिस- त्वरमिदानीमेव भवन्तमीहते द्रष्टुमादिष्टच मित्रमिति त्वदानयनार्थमह- मतो निर्विलम्बसुत्थीयतांगन्यतामित्येव भाषितहतेन नियत एवमिति गृहीत्वा पुस्तकमगाद्राजकुलमवाप चास्थानमाडपम् । प्रविष्टश्च तत्रान्तरग्रे सेवागतं सङ्कान्तनिजपतिप्रतापालोकडम्बरेणेच अंड्खता प्रधानमणिदलकलापदीग्राङ्गभू- षणोद्योतपटलेन दुरालोकं सामन्तवक्रमास्थानलोकं च सकलमनुकूलि- तावनीन्द्रमानसमग्रे च तस्मादखिलविद्यावग्रहमहामतिमचिन्त्यसिद्धेश्व साधक कवीनामिन्द्रपदस्य रागिणं गुणेषु सहजसौजन्यचत्तलममलकाव्यरसतरंगा- प्लवं प्रतानं कविपुङ्गवानामपश्यत् । तस्य चानेकगुणगभीराभोगमहनीयस्य मध्ये कविराजचक्रस्य विमलहेमसिंहासनोपविष्टनुपरिष्टाहात्वतः पर्यन्तलम्बितावि- रलमणिगुच्छकावचूलवल्गुनो हरितचीनातपत्रस्य मूले विद्याधरमिव लीलया कल्पविटपिनस्तले निषण्णम् , क्षितिभृदुन्मूलनमहाबलं भुजयमुदीक्षितुमि- वायातमनिलमुन्मुञ्चता चामरेण सनाथकरतलाभिः पार्श्वयोश्चामरधारिनारी- भिरुपवीज्यमानम्, क्षत्रियशौण्डीरमिन्द्रमिव व्यक्तविलोचनम्, उपेन्द्रभिव निद्भुतान्तरभुजावयम् , हरमिव मुक्तवतम् , ब्रह्माणमिव क्षत्रियकुलेऽवतीर्णम्, अनङ्गमिव साङ्गम् , रविमिव भुजावस्थापितप्रतापम् ,इन्दुभिवालापवाचि विवृता- मृतम्, अखिलराजन्यचूडामणि मुम्नुणिराजमनाक्षीत् । यस्यातिविस्तृतानेक- विषयवर्तिना गुणपथेन बन्नमे सर्वतोऽपि पतिप्रलयभावनाविषण्णवैरितरुणी- विसृष्टशिरःसिन्दूरधूलिभिरुडूलितपदो दास इति प्रसिद्धनामा स नाम वार्तिको जगति । तेन हि प्रथितगुणपरंपरोपरन्जिताशेषविश्वलोकेन राज्ञा दूरानन्दहसितया दृशा विलोक्य संभाष्य च परिचयोपचारमधुरेण वचसा संमानितः स कवि- लब्धोचितासनश्च सर्वैर्यथाक्रममालिङ्गयाऽऽपृष्टकुशलः कविभिः । अत्रान्तरे १५७ उदयसुन्दरीकथा । चानन्दकथाकर्णनरसोत्सुकेन भूभृता पुनस्तन्मु(स्वमु?)खेनैव स्फुटीकृतं(त्य?) वत्सराजनिवेदितं वृत्तमादिष्टः प्रबन्धपठनाय सर्वतोऽपि कविभ्यो गृहीतानुम- तिरुन्मुच्य बन्धात्पुस्तकमादौ भारतीमवनन्य ततः पूर्वकवीननुध्यातवान् । वागीश्वरं हन्त र(म)जेऽभिनन्द- मर्थेश्वरं वाक्पतिराजमीडे । रसेश्वरं स्तौमि च कालिदास बाणं तु सर्वेश्वरमानतोऽस्मि ॥ इत्यभिप्रेतां कविचतुष्टयोलनुस्कृत्य वाचयितुमारब्धवान् । क्रमेण(कति- पयैः) दिवसैस्तं सर्वमपि प्रावयानास।वाचितमबन्धश्च परितुष्टेन रभसादु- चितमात्मनो गुणानाम् , अनुरूपं च कविल्लेशस्य, सदृशं च कविताव्युत्पत्तिकौ- शलस्य, योग्यं च कथारसविभूतेः, यथावदतिमनोरथैवस्तुभिमहता संमानडम्ब- रेण पूजितो राज्ञा सर्वैश्च तैः समावर्तिभिः साधुकारितो लोकैरभिनन्दितः कवि- भिः(प्र)शंसितो विशिष्टैरालिङ्गितस्तु मिनराजगाम गृहम् । आगतश्च गृहम- कृतदिव्यायतनादिकीर्तनमकिंचनस्य धनमजातपुत्रस्य सूनुरनाप्तकामिनीसंभो- गस्य रतिमुखमनार्जितयशसो यशश्चेत्यादिभिश्चतुर्वर्गफलो निबन्ध इति तया- प्रबन्धप्रिया ज्ञापितसंसारफल इव सफलीकृतमनुष्यजातिरिव दृष्टादृश्य इव लब्धालभ्य इव सिद्धासाध्य इव च त्रिभुवनाधिपत्यलाभाधिकां निवृतिमवाप। प्रबन्धस्य च प्रचारसुपरिष्टाचिन्तयन् विनयोपरचितकरसंपुटाञ्जलिरुवाच सर्वतः सर्वान्- वृत्तेभ्यः किल किं भयं न च भयं तेभ्योऽपि ये सांप्रतं वर्तन्ते कवयः प्रबन्धकरणक्लेशोपलब्धश्रमाः। अन्येभ्यश्चकितोऽस्मि वृत्तकवितामात्रेण भाङ्कारिणो ये तेषामभितोऽप्यतत्वविदुषां जे न पुच्छे ग्रहः ।। KARINIMUDHIA ये तावत्किल कृत्लवाङ्मयविदस्ते सन्तु दूरं वुधा ओमित्यक्षरमात्रकेण विदुषामप्येष बद्धोऽञ्जलिः । कीदृश्यस्तु कथेयमत्रसकलैःसत्कृत्यकृ 0000000000 RRRRRRRRRRROR.200 कश्चि- दप्रार्थिता अपि परोपकृतौ रतास्ते ।
साडलावराचता 0490 ७.0.00 দুলাল जयन्ति ते सर्वकालमियदेव परं भणामि यावन्न कल्पशतमभ्युदय त्ति नन्दन्तु ते ये कुर्वन्त्यजरामराभरपतीकाव्येषु सूक्तामृतः । तेऽपि जगतामारक्षिभियरसौ भूर्भास्वट्ठजवज्रदण्डलितानिष्टै(स्स )मानन्दति ।। अपि जयति जगत्यामि(ट)देवः पिनाकी जयति स च पिनाकिन्युज्वला यस्य भक्तिः । जयति जयति चासावत्र चम्पूकथायां शिवनुतिपदपू(ना) हन्त सारस्वतश्रीः ॥ !! इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां सर्वानन्दो नाम सारस्वत श्रीपदाकोऽष्टम- उच्छासकः॥ || समाप्लेयमुदयसुंदरीचयाचम्यूः ।।
श्लोकानुक्रमणिका ॥ . अथ भुवन. १४० ४२ ... १२३ ..... ... १५ अतिवर्तित. २६/ कालक्रमा. अत्रान्तरे. १३७/ कालस्या. १४९ किं तस्य ७२ किमेतन्निर्मुद्र. প্রস্থ ২ १३९ किं वक्त्र. अन्धत्व ७३ किं शीतै. अपि जयति अम्भःकणास्त्र. ७४ कुर्वतः अर्थैरसार. १ कुर्वन्नुद्गत. अवाद्यमान १०७/क्रीडावने. अस्या मुखेन १४२ क्रूरामात्य. अहो वैचित्र्य. २८ ख्यातः आत्मा शुभा. ३८ गन्धःसमृद्धो. आसीदसीम. १५३गर्जत्येष उड्डीयमानः ४४ गात्राणि उत्क्षेपण. १२७ गृध्रान्धकार. उञ्चचित्ता. ७८ ग्रीष्मस्तीत्र उद्वेलन्नव. उपायस्योल्लेख. ९ चक्रायस्य एक कक्षा. ९१ चन्दनाचल. एकेन ध्रिय. एकैकशः एतस्मिन्नलिनी. •.. एनां तव ७७ / चापे निवेशित, एष प्रभूत. एषाऽनुमार्ग. जडेन कमलिनी. १४९ जयन्ति तव करिष्यते १५४/ जयन्ति त्वत्क. कविर्गुणा कान्त्या ज्वल ... ७. :: :: . .. . १३० ग्लपयति १५२ :: :: १२३ ३४ चपलालोक. १३ चलति १२३/चान्द्रं महो. ११३ ... .. १२३/ चेतस्तां ८८ छन्दो. 5 ७४ १५३ ... * १४ .40 :: ... १५४/ जीवित. ११० | ज्योत्स्ना.
२ ... घाना ज्ञातेति ततस्तयो. নন্দন १३७ धृत्या. ७३ ११९ वान्तैक. ११९ नादत्ते १३८ नावाप्य, ३ नानापथा निक्षिप्त. ९२/ निभृत. ७२ .. ६८ 6 900 ६ १५४ निर्माय निलनं निर्वाखिल. १७ निर्वैरिणि ६ नीचजाति० ४२ 0 ००० १७ १२ नृपतिरथ. ९२ ... नैषा नो जीविके. पदं कृत्वा 0.0 १७ 900 ७३ तदनु तदिम. तद्दष्टि. तस्मिन्मध्य. तस्मिन्सुवंशे तस्या विशुद्ध. तस्यास्सोऽय. तापमुत्सा. तामासाद्य तृतीय, तेनैवं ते यान्ति त्रैलोक्य. स्वत्खना. त्वं विक्रमेण दंष्ट्रयो. दिग्यात्रा. दिव्य. दीपैः ਵਾਈ दृष्टेऽपि देव क्षत्रिय. देव त्वत्पद देवःपातु देवस्य देवि ब्राहिम देवी भानु, देवेन : ... १३० ५१ पुनातु ५८/ पूगीवलय. ६२/ पूत्कारेण २३ / पूर्वापरयोः 2.0 38 ५ १४७ प्रकारेणाद्य प्रातरिश्रया १०२ १ B. ९४ प्राप्य मण्डल. प्रेतीभि. १५४ ९० १५४ ४१ बभूवु. बाणः बाणस्य १५४ ... ३ १ बाल. . 9 . १५० . १६ ब्रह्मस्त्वां ३१ ब्राझी ११५ भूमिः देव्या. ३ भ्रूभूमि २ मनस्त. १२२ 29 ९९ देवेन दोर्दण्डो. धामभिः * मनुज महिषा: 20. ७३ ३ क १५४ लीला ११० वंश:कवीना. १३ वंशस्य १३८ वासि :: . २७ वर्षास्वद्य ४१ ... 36. ८८ .. ८२ १५७ .. माम. मुक्तका मुधैव मुढेन मूलेऽल्प मौलो यत्राच्छ. यत्रायान्ति यत्रालोक यत्सलीन यदीशु यद्यप्यसौ यस्मिन्नभू यस्मिन्नमुद्र यस्मिन्नुच्च. यस्मिन्नुरोज. ५५ वर्तेस्तवा. २२ वागीश्वरं ७२ वागीश्चरि १३३ वापीषु @ 08. १४ B २८ ... ४५ वामं कुम्भ. 0.4 '८७ ४४ १ ३६ . यस्य क्षीर. यस्या द्वि. यस्योद्य. 28. ... या महा. २ विद्युत्पुंजो. १५३ विमलमणि, १२१/ विमुच्य ४ विलसदमल. ९६ / विश्वाभिधे ५५ / वृत्तिस्संप्रति ६८ वृत्तेभ्यः ४व्यावृत्त्य ३१ शशकस्य १५४ शाखामृगेण ५९ शीलं सदा ५९ शुद्धाष्टा १५७ शृंगारस्य ५१ श्यामा श्रीविक्रमो ३ ८४ श्रीस्वयं १५४ श्रीहर्ष ... 0A0 यायावर या रेवेति ७.. या शाखत येताव १५२ ५३ २३ २ ये दानो. ... ये नाम योऽभून्निसर्ग २ ३७ यो वत्स योऽहं नाथ, ... राज्ञां रूपेण ... ... ७.७.. १ स कविरथ १४१ स कश्चि. ६ सत्यं पटो २ | सन्ध्योन्मेष. १०१/ संप्राप्तः ९६ संलीन. लक्ष्मीभुजो लावण्यवारि लावण्यांबु ... १
सर्वनाङ्गेषु
८१ स्वच्छेन्द्र
१५४ स्वलौंका
की
सा जयति
३ स्वामिन्नवेक्ष्य
...
७..
१४४
साधुर्ज
सा नूनं
सामन्त.
990
सा श्रीरियं
80.
स्वामिन्नेव०
१५५
स्वामिन्याय
१०६
१५४ / स्वेदाम्भः
१३३ हाले
१७ हा स्वाथ
२ हृद्भूमी.
१११ हे चन्द्रोपलगौरि
सूनागृह
सृष्टं
सेवितो
Index of proper names occurring in the Udayasundarikatha. पृष्ठ पति अभिनन्द पृष्ठ पति १:२७:४ १६४ १४,१५७.४. १७. ३ নায়িী तारावली इन्द्र কী कंकालक १४० १३. २००९८.२९,१००. १९,१०२.२८,१०४. ७२११७.२७:१२०.४. १६ २४,१७.१९,१८.३०, २०.१,१४८.२४॥ 000 000 ३,८८:१२ ३ জ্বত্বাহী तिलक 009 १२२ कलादित्य २७ ९&३०६.१०७ ७.४६९.११०.३० १६ २३:१८.२&३०, १४८.२४. १४३ १५६ २६ २१६.१४६७.३&८ १२ १७:१५६.१३. CC ६६ कलिन्दकेतु कायस्थगण कालिदास १० धर्मपाल नागार्जुन पञ्चालसिंह पंपावती 98@ १ ११ AUR 000 100 १०२ ६ ५&१३ १०४ २०:१०१.३ १०७ पातालगण १४२ पारायणी ६५ २९,८५.१९७८७.१९ पिप्पलक ... 090 कालिन्दी কিন্ধীয়। कीतिराज कुमारकेसरी कुमारदास कृपावती गंगाधर गुणाढ्य 2. ku .ॐ १४१२७.४,१५२.७ १६४.८७१६७.७. १२० १ 0.00 भर्तृमेण्ठ भवभूति १५४ १६४ ५ 000 3. गोगिराज गोपति चण्डपति चन्दनाचार्य १६ 0.00 १२ १६५ १६२ २८ भोजदेव मधुरसाहार ६ मयूरिका मलयवाहन ११३८.२३:४०.१६, महाकीर्ति ४२.१७१४९.६. माउराज ( मायाबल १ ३० चित्रशिख ३७ . छित्तराज २७११८.१७, वृष्ट पद्धि ००० DU २६:४०.१८. ११ 9.00 ३ 292 .. ३६ १२,१०७.५ १:५१.२४ विभीषण मुम्मणि १७४१५६.२१० विभूतिवर्धन यायावर १६ विशाखदेव युवराज विवभूति रत्नमौलि १८:१४८.३. वेणीमती १२ २८:१३.१४,१७.४%, १५४,२२,१५६,३. वनवीर २६ शारदी वसन्तशील ८,३६.२८,३६.१८ शिखण्डतिलक ३८:२३:४७.२१:४९. शिलादित्य वाक्पतिराज श्रीविक्रम श्रीही वाल्मीकि संवरक विक्रमादित्य सारङ्गिका विजयरेखा २५:१०४.१२:१०६. सिंघलांगद २९:१०७.२. सिंहराज विजयवर्धन सुललित ४७.२२.४८.१२० विजयसिंहाचार्य सोडल alias सोलपेय खड्गाचार्य हाटकेश्वर विद्धविजय १०३ हाल ३ 000 २३:१६०.२०. १५ १२ १२ ११:१५४.२१ Gao .00 - Index of Geographical names occurring in the Udayasundarikathâ. 000 আলী इन्दीवर ऋक्षपर्वत २७८५.१५. ००० 000 महेन्द्रपर्वत मेखलिका २२ १०८ २१ 06 ३ रविशृङ्ग 000 १२ ३ १२ ६,१२८२७ ३ ००० २१ w १०८ १०८ कुवलयामोद कुशद्वीप कोकण कोशातकी क्रौंचद्वीप गन्धमादन गोदावरी गोमेदद्वीप অন্বয় जम्बूद्वीप तापी धान्यसार नन्दावट नमदा or रेवा निषध नीलगिरि মাহিআল্প पुष्करद्वीप प्रतिष्ठान ३ ३१ विन्ध्य विपुल शाकद्वीप शाल्मली शुक्तिमान् शारक शृङ्गवान् श्वेताचल १०९ १० . २७ १०& १८ .00 १०८ 290 मुपार्थ सौराष्ट्र १०८ १८ २१ 010 हिमादि १०८ भूगुकच्छ १२ হাঙ্গি। शुद्धम् हिछद्र () करटीन्द्र करटीन्दु वरूथिनीको सुखा वरूथिनी मुखा सुधासमु मधुरया कर्तु निवेशितण " सुधामधुरया कर्तु निवेशितेन वलया कवीन्देष्टि मवतिष्ठ १८ १६ कवीन्द्रेष्ट्ये मिवतिष्ठ ३ ९ जलता ३४ मत्यद्भुत गमितो पीडा। ३० मत्यद्रत गतो एव। पीडा द्वा:स्था पति मेषा मुनिवे नोदित निवासः। पजरके शिरः भूमिकलसिता वती शिरः पांसुधूलता स्वचं मूर्द्धि मण्डा द्वाःस्थो पती सेवा सनिवे नोऽति निवासः RWAN पजरके। ३९ 2 भूमिः, उल्लसता वतीशिरः पांसु, लुठता स्मयं मूद्धि मण्ड ૨૨ १४ ६० २० शालाका
९
प.
ति
द्भूति
२४
गातुं-
।
हवाको
रावतो
राबतो
शि
mmade
मयाः
शुक्ति
भा
S
(छ)
दुपा
(मनवष्टम्भमपतत् ।)
झदा
इचुलके
योगि
मा (सू) नना
शुलके
जोगि
मातुलेन
३ उदयस०