University Library,gurukul Kangri Vishwavidyalaya

श्रुतबोध वृत्तरत्नाकरौ ग्रंथो

Bhatta Kedaar · 2006/03/24

PDF Proofread

Front matter

८६०
श्रीः।
श्रीकालिदास-श्रीभट्टकेदारविरचितो.
श्रुतबोध-वृत्तरत्नाकरौ ग्रंथौ.
CHECKEDI
CHECKED
इमौ सव्याख्यौ
क्षेमराज-श्रीकृष्णदासश्रेष्टिना
मुम्बय्यां
खेतवाडी ७ वी गली खम्बाटा लैन
स्वकीये "श्रीवेङ्कटेश्वर" स्टीम्-मन्त्रालये
मुद्रयित्वा प्रकाशितौ।
roman
आषाढ संवत् ११७१ शके १८३६

Amrunmaya
॥ श्रीः॥
श्रीकालिदास-श्रीभट्टकेदारविरचितो.
श्रुतबोध-वृत्तरत्नाकरौ ग्रंथी
इमौ सव्याख्यो
अमराज-श्रीकृष्णदासश्रेष्टिना
मुम्बय्यां
खेतवाडी ७ वी गली खम्बाटा लेन
स्वकीये "श्रीवेङ्कटेश्वर" स्टीम्-मुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशित
संवत् १९७१. शके १८३६.

|| श्रीमकंटशाय नमः॥ अथ सटीकः श्रुतबोधः। छंदसां लक्षणं येन श्रुतमात्रेण बुध्यते ॥ तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥ १॥ श्रीमत्सारस्वतं धाम नत्वा स्तुत्वा च सद्गुरुम् ॥ टीका श्रीश्रुतबोधस्य छंदसः क्रियते मया ॥ १॥ छन्दसामिति । अहं तं श्रुतबोधं नाम छन्दःशास्त्र संप्रवक्ष्यामि । कीदृशं तम् । अविस्तरं न विद्यते विस्तरो यस्मिन् सोऽविस्तरस्त- मविस्तरम् । येन श्रुतमात्रेण प्रस्तारादि विनैव छंदसामार्यानुष्टुभादीनां लक्षणं गुरुलधुवर्णमात्रागणादिस्वरूपं बुध्यते ज्ञायत इत्यन्वयः ।। १ ।। संयुक्ताचं दीर्घ सानुस्वारं विसर्गसंमिश्रम् ॥ विज्ञेयमक्षरं गुरु पादांतस्थं विकल्पेन ॥२॥ अथ छन्दोलक्षणस्य लघुगुरुज्ञानमन्तरेण: दुर्विज्ञेयत्वालघुगुरुलक्षणमाह । संयुक्ताद्यमिति । एतादृशमक्षरं गुरु ज्ञेयम् । कीदृशमक्षरम् । संयुक्ताद्यं संयुक्तस्य संयोगीभूतस्याद्यमादिभवम् । पुनः कीदृशम् । दीर्घ द्विमात्रकम् । सानुस्वा- रमनुस्वारेण सह वर्तमानम् । पुनः विसर्गसंमिश्र विसर्गेण संमिश्रं विसर्गसहि- तम् । पादांतस्थमक्षरं विकल्पेन गुरु लघु विज्ञेयम् । पादांते गुरुरपि लघुः स्यात्कुचिल्लघुरपि गुरुः स्यात् । तथा चोक्तं ग्रन्यान्तरे । वा पादांते त्वसौ ग्वको ज्ञेयोऽन्यो मात्रिको लघुः ॥ २॥ आदिमध्यावसानेषु भजसा यांति गौरवम् ॥ यस्ता लाघवं यांति मनौ तु गुरुलाघवम् ॥३॥ लोकादौ कस्मिंश्चिद्गणे पतिते शुभं कस्मिंश्चिद्गणे पतिते चाशुभ मवतीत्य-- गणानां लक्षणमाह । आदिमध्यावसानेविति ॥ मजसाः मगगजगणसगमाः श्रुतबोधः। आदिमध्यावसानेषु गौरवं गुरुतां यांति । आदिश्च मध्यं च अवसानं च तानि तेषु । तथा हि । आदिगुरुर्भगणः मध्यगुरुर्जगणः अन्त्यगुलः सगणः । यर- ताः यगणरगणतगणाः आदिमध्यावसानेषु लाववं लघुता यांति । तथाहि । आदिलधुर्यगणः मध्यलधरगणः अन्त्यलधुस्तगणः । पुनः मनौ मगणनगणौ आदिमध्यावसानेपुः गुरुलाघवं गुरुतां लघुतां च यातः । तथा च सर्वगुरुर्म गणः सर्वलघुर्नगणः भवति । एतेपां देवताः फलानि च ग्रन्यांतरे । मो भूमिः श्रियमातनोति य जलं वृद्धि र वह्निर्मृति सो वायुः परदेशदूरगमन त व्योम शून्यं फलम् । जः सूर्यो भयमाददाति विपुलं मेंदुयशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥ ३ ॥ यस्याः पादेप्रथमेद्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीय चतुर्थके पंचदश सार्या ॥४॥ यस्याः पाद इति । सा आया भवति । सा का यस्याः प्रथम पाटे द्वादश मात्रा: स्युः तृतीय तथा द्वादश मात्रा भवंति । द्वितीयेऽष्टादश मात्रा भवंति । चतुर्थके पंचदश मात्रा भवंति सा आर्या ॥ ४ ॥ आर्या । चरणेष कमान्मात्रा:--१२. १८, १२, १५ ॥ आर्यापूर्वार्धसमं द्वितीयमपि यत्र भवति हंसगते॥ छंदोविदस्तदानीं गीति ताममृतवाणि भाषते ॥६॥ आर्यापूर्वार्धसममिति । हे अमृतवाणि छन्दोविदम्तदानीं तां गीति भाषते ब्रुवते । हे हंसगते यत्रार्यापूर्वार्धसमं द्वितीयमपिं उत्तरार्धमपि भवति । पूर्वार्धस्य प्रथमे द्वादश मात्रा द्वितीयेऽष्टादश तृतीये द्वादश चतुर्थकेऽष्टादश संकलनया षष्टिमात्रा इत्यर्थः । अमृतमिव वाणी बाक् यस्याः सामृतवाणी तस्याः संबुद्धौ । छन्दांसि विदंति जानंतीति छन्दोविदः।छंदःशास्त्रज्ञा इत्यर्थः । हंसस्य गतिर्गमनमिव गमनं यस्याः सा हंसमता नस्याः मंबुद्धो हसगते इत्यर्थः ॥ ५ :॥ ६॥ गीतिः । चरणेषु क्रमान्मात्रा:- १२, १८, १२. १८ ।।

मटीकः।
"
आर्योत्तरार्धतुल्यं प्रथमाधमपि प्रयुक्तं चेत् ॥
कामिनि तामुपगीतिं प्रकाशयंते महाकवयः ॥६॥
आर्योत्तरार्धतुल्यमिति । हे कामिनि महाकवयम्तामुपर्गाति प्रकाशयंते
उपगीतिसंज्ञकां प्रकटीकुर्वते इत्यर्थः । यदि आर्योत्तरार्वतुल्यं प्रथमाधमपि
प्रयुक्तं चत्प्रयोगीकृतं चेत् भवति । प्रथमे द्वादश मात्रा द्वितीये पंचदश तृतीये
द्वादश चतुर्थ पंचदश संकलनया २४ चतुष्पंचादान्मात्रा इत्यर्थः । कामो
विद्यते यस्याः सा कामिनी तस्याः संबुद्धौ । महांतश्च ते कवयश्चेति कर्म-
धारयः । तथा चोक्तं ग्रंथांतरे । आर्याद्वितीयकई यदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीति तां मुनिव्रते ॥ ६ ॥ उपगीति । चरणेषु
ऋमान्मात्राः १२, १५, १२, १५ ॥
आधचतुर्थं पंचमकं चेत् ॥ यत्र गुरुः स्या-
त्साक्षरंपक्तिः ॥७॥
अद्याक्षरपंक्तिः ! आद्य चतुर्थमिति । यत्र यस्यां वृत्तौ आद्यं प्रथमं चतुर्थ
पंचमकं गुन् स्यात्साक्षरपंक्तिः ज्ञेया अक्षरशब्दः पादपूरणार्थः छंदस्तु
पंक्तिः प्रति चरण इदं लक्षणम् । तथा चोक्तं रत्नाकरे । झोयाविति पंक्तिः
!! अक्षरपंक्तिः । चरणाक्षराणि ५ ग० भ, ग. ग ॥
अगुरुचतुष्कं भवति गुरू ही ॥ वनकुचयुग्मे
शशिवदनासौ॥ ८॥
अगुर्षिति । हे वनकुचयुग्मं यत्राद्यं चतुष्कं वर्णचतुष्टयम् अगुरुस्याञ्चात्त्वारो
वर्णा लघवः संति ततो द्वौ पंचभषष्ठौ गुरू डाघों भवतस्तदा शशिवदना ।
चरणचतुष्टये इदं लक्षणम् असाविति संबंधः । धनं कठिनं कुचयुग्मं यस्याः
सा वनकुचयुग्मा तस्याः संबुद्धौ । तथा चोक्तं रत्नाकरे । शशिवदना न्यौ
॥ ८॥ शशिवदना । चरणाक्ष०६, ग० न, य ।।
नुयं पंचमक चेद्यत्र स्याल्लघु बाले ॥ विद्वद्भिर्मू-
गनेत्र प्रोक्ता सा मदलेखा ॥९॥

श्रुतबोधः। सप्ताक्षरजातौ मदलेखालक्षणमाह । तुर्यमिति । हे मृगनेत्रे यदि तुर्य चतुर्थ पंचमकं पंचम लघु स्यात् हे बाले नवयौवने विद्वद्भिः पण्डितैः सा मदलेखा प्रोक्ता । मृगस्य नेत्रे इन नेत्रे यस्याः सा मृगनेत्रा तस्याः संबुद्धौ । उक्तं रत्नाकर । मसौ-मः स्थान्मदढेका ॥ ९॥ मदलेखा । चरणाक्षर ७, ग° म, स, ग॥ श्लोके षष्ट गुरु ज्ञेयं सर्वत्र लघु पंचमम् ॥ द्विचतुष्पादयोस्वं सप्तमं दीर्घमन्ययोः ॥१०॥ अष्टाक्षरजातौ श्लोकलक्षणमाह । श्लोक इति । अन्ययोः प्रथमतृतीय- पादयोः सप्तममक्षरं गुरु द्विमात्रकं भवति । सर्वत्र चतुर्धपि चरणेषु पंचपम् अक्षरं लघु स्यात् 'पष्टं गुरु स्यात् । द्विचतुष्पादयोः द्वितीयचतुर्थचरणयोः सप्तमम् अक्षर हस्वं ज्ञेयम् । ईग्विधे रोके पद्येऽनुष्टुबादयो भवंति ॥ १ पंचमं लघु सर्वत्र सप्तम द्विचतुर्थयोः ॥ षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥ ११॥ अथ पद्यलक्षणमाह । पंचममिति । एतत्पद्यस्य लक्षणं विजानीयात् । यत्र सर्वत्र चरणेषु पंचमं लधु भवति । द्विचतुर्थयोः द्वितीयचतुर्थचरणयोः सप्तम- मक्षरं लघु भवति सर्वत्र चरणेषु षष्ठम् अक्षरं गुरु भवति :॥ ११ ॥ पद्यम् । चरणाक्षः गणनियमो नात्र ।। आदिगतं तुर्यगत पंचमकं चात्यगतम् ।। स्यागुरु चेत्तत्कथितं माणवकाकीडमिदम् ॥ १२ ॥ माणकाक्रीडलक्षणमाह । आदिगतमिति । तदिदं माणक्काक्रीडं कथि- तम् । कविभिरित्यध्याहार्यम् । आदिगतं प्रथमं तुर्यगतं चतुर्थं पंचमकं पंचमम अत्यगतम् अंत्यस्थितमष्टमं गुरु स्थात्तदिदं माणवकाक्रीडं बुवा विदंति । तथा चोकं रत्नाकरे। माणक्कं मस्तलगाः ॥ १२ ॥ माणवकम् । चरणाक्ष ग. म, त, ल, ग॥

सटीकः। द्वितुर्यषष्ठमष्टमं मुरुप्रयोजितं यदा ॥ तदा निवेदयंति तां बुधा नगस्वरूपिणीम् ॥ १३ ॥ अथ नगस्वरूपिणीलक्षणमाह । द्वितुर्येति । बुधाः पंडिताः तदानीं नगस्त- रूपिणी निवेदयंति । तदा कदा यदा द्वितीयं तुर्य चतुर्थ षष्ठम् अष्टमन् अक्षर.. गुरु प्रयोजितं गुरुसंज्ञकं भवति एताही तां नगस्वरूपिणी निवेदयंति । तथा- चोक्तं रस्नाकरे । प्रमाणिका जरौ लगौ ॥ १३ ॥ प्रमाणिका, नगवरूपिणीति वा । च० अ० ८,ग० ज, र, ल, ग ।। सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः ॥ विद्वदेर्वीणावाणि व्याख्याता सा विद्युन्माला १४॥ अथ विद्युन्मालालक्षणमाह । सर्वे वर्णा इति । हे वीणावाणि विद्वदृन्दैः पंडितसमूहै: सा विद्युन्माला व्याख्याता वीणाया: वाणीव वाणी ,यस्याः सा वीणावाणी तस्याः संबुद्धौ । विदुषां पंडितानां श्रृंदानि समूहास्तैः । सा का यस्यां सर्वे वर्णा दीर्घा गुरुभूता भवति । वेदैर्दैश्चतुभिर्विश्रामो भवति सा विद्युन्माला । तथा चोक्तं रत्नाकर । मो मो गो गो विद्युन्माला ।। १४॥ वियु- न्माला । च० अ० ८, ग० म, म, ग, ग यतिः ४, ४ ॥ तन्वि गुरु स्यादाद्यचतुर्थं पंचमषष्ठं चांत्य- मुपांत्यम् ॥ इंद्रियबाणैर्यत्र विरामः सा कथनीया चंपकमाला ॥ १५॥ अथ दशाक्षरजातौ चम्पकमालालक्षणमाह । तन्वीति । हे तन्धि तन्वंगि सा चम्पकमाला कथनीया। सा का पत्र यस्याम् आधचतुर्थ प्रथमं चतु पंचमषष्ठम् अत्यं दशमम् उपांत्यं नवमम् एते गुरुखो भवंति यत्र इंद्रियबाणे: पंचभिरक्षविरामो विश्रामः सा चम्पकमाला कथनीया । आवचतुर्थ पंचमष- ठम् इत्येकत्वे द्विगुद्वंद्वौ । इंद्रियाणि च बाणाश्च इंद्रियबाणास्तैः । तथाचोक्तं, रत्नाकर चम्पकमाला बेदमसा गः ॥ १५ ॥ चम्पकमाला । च० १० १० ग० म, म, स, ग, यतिः १, ५ ॥ ..

श्रुतवाधः। . चंपकमाला यत्रभवेदंत्यविहीना प्रेमनिधे ॥ छंदसि दक्षा ये कवयस्तन्मणिबंधं ते अवते ॥१६॥ अथ नवाक्षरजातौ मणिबंधलक्षणमाह । चम्पकमालेति । हूँ प्रेमनिधे छन्दसि छन्दोग्रन्थे दक्षाः कुशलास्ते कवयस्तन्मणिबन्धसंज्ञकं ब्रुवने । यत्रांत्य- विहीना चम्पकमाला भवत् । चम्पकमाला तु दशाक्षरा इदं नवाक्षरं भवेत् । लक्षणं तु तदेव । चम्पकमालागतमेव तन्मणिबंध प्रेम्णः निधिरिव निधिः तस्याः संबुद्धौ अंत्यविहीना अन्तेभवोंऽन्यो वर्ण: तेन विहीना व्यक्ता भवेत् । तदुक्तं रत्नाकरे । भमसयुक्ता रुक्मवती ।। १६ ॥ मणिबन्धम् । च० भ० ९ ग० भ, म, स, यतिः ५, ४ ॥ ह्रस्वो वर्णों जायते यत्र षष्ठः कंबुग्रीवे तद्वदे- वाष्टमांत्यः ॥ विश्रामः स्यात्तन्वि वेदैस्तुरंग- स्तांभाषते शालिनी छान्दसीयाः ॥ १७ ॥ एकादशाक्षरजातौ शालिनीमाह । हस्त इति । हे तन्त्रि कृशांगि छांदसीयाः छन्दसि कुशलास्तां शालिनी भाषते तां का हे कन्वुवि । यत्र यम्यां षष्ठो वर्णो हस्वः तद्वदष्टमात्यः नक्मः हस्तो जायते । यत्र घेर्दै श्रतुभिस्तुरंग: सतभिर्विश्रा- मस्तां शालिनी भाषते अवते । कंबो: शंखस्य ग्रीवावगीवा यस्याः सा तत्सं- बुद्धौ । कम्बुग्रीवा त्रिरेखा स्यादित्यमरः । तदुक्तं रत्नाकरे । शालिन्युक्तान्तौ तगौ गः । १७ ॥ शालिनी । च० अ. ११ ग० म, त, त, ग, ग. । , यतिः ४, ७ ॥ चत्वारःप्राक्सुतनु गुरखो द्वौ दशैकादशौ चे न्मुग्धे वर्गों तदनु कुमुदामोदिनि द्वादशांत्यो । तद्वन्चात्यो युगरसहयैर्यत्र कांते विरामो मंदा- क्रांतां प्रवरकवयस्तन्वि तां संगिरते ॥१८॥ चत्वार इति । हे सुतनु सुष्टु तनुः कायो यस्याः सा तस्याः संबोधनं हे सुतनु प्रवरकवयः श्रेष्ठकवयः तां मन्दाक्रांतां वदति । तां कां चेद्यदि यत्र सीकः । . . यस्यां प्रागादौ चत्वारो वर्णा गुरवो भवंति । है. सुग्ध च पुनः द्वौ दर्शकादशौ वर्णी गुरु भवतः । हे कुमुदामोदिनि च पुनः तदनु दाहशांत्यौ त्रयोदशच- तुर्दशौ वर्णी गुरू भवतः । च पुनः अन्यौ तद्भवतः । हे कांते च पुनः युग-- रसहयैश्चनुः पटसप्तभिः क्रमंग विरामो भवति । प्रत्ररकवयस्त हिदः ॥ १८ ॥ मन्दाक्रांता । च० अ० १७ ग० म, म, न, न, त.ग, ग, यति: ४,६,७॥ मंदाक्रांतांत्ययतिरहिता सालंकारे भवति यदि मा ॥ तद्विद्भिर्धवमभिहिता ज्ञेया हंसी कम- लवदने ॥१९॥ हंम्या लक्षणमाह । मन्दाक्रांति । है. कमलबदने तत्तदा ध्रुवं निश्चयेन हसी ज्ञेया ज्ञातव्या । कमटवन्यौंदर्य गौरभादिगुणैः कमलसदृशं वदनं मुख यस्याःसा तत्संबोवनम् । कथंभूताहसी विद्भिः नितर भिहिता कथिता । तदा कदा हेसालंकारे यदि मन्दावाना तिर्गहना आन्त भवा अन्न्या मंदा- क्रांतायां युगरसहयः विश्राम: लांत्यहिता नवगात्मिका मा हंसी ज्ञेया । लक्षणं मंदाक्रांताया एव । अलंकारेण आभूषणेन सह वर्तमाना मालंकारा तस्याःसम्बो- वनं साटंकारे॥१९॥हंसी । च० अ०१ ग० म, न, न, ग, यतिः ४,६॥ आयचतुर्थमहीननितंब मप्तमकं दशमं च तथां- त्यम् ॥ यत्र गुरु प्रकटस्मरसारे तत्कथितं ननु दोधकवृत्तम ॥ २० ॥ दोधकवृत्तसक्षपनाह । आद्य चतुर्थमिति । हे प्रकटस्मरसार कविभिः सत् ननु दोवकवृत्तं कथिनम् । प्रकट; स्मरसारः कामवलं यस्याः सा तस्याः संबोधनम् । है अहीननितंवे अहीनौ स्थूलौ नितं- बौ कटिपश्चाद्भागौ यस्याः सा तत्संबुद्धौ । यत्र यस्मिन् चतुर्थ प्रथमं चतुर्थ सप्तमकं सतसं दशमं तथा अन्त्यम् एकादशम् एतानि अक्षराणि गुरूणि सन्ति । तदुक्तं रत्नाकरे । दोधकवृत्तमिदं भभभावौ ॥ २० ॥ दोधकम् । च. ??. ग. भ. भ, ग, ग॥ स . , - आद्य- १० श्रुतबोधः । यस्यां विषट्सप्तममक्षरं स्याद्भस्वं सुजंघे नवम च तद्वत ॥ गत्या विलजीकृतहंसकांते तामिंद्र- वज्रां ब्रवते कवींद्राः॥२१॥ अवेंद्रवजालक्षणमाह । यस्यामिति । हे गत्या विलजीकृतहंसकांते कवींद्रा- स्तामिंद्रवजां ब्रुवते । गत्या गमनेन विलजीकृता हंसस्य कांतिः शोभा यया सा तस्याः संबोधनम् । तां कां यस्यां त्रिषट्सप्तममक्षरं हस्वं स्यात् तद्वन्नवमं हस्तं स्यात् । हे सुजघे तामिति संबंधः । एतादृशीम् इंद्रवज्रां ब्रुवते सुष्टु शोभने जंचे यस्याः सा तत्संबुद्धौ । कवीनां कविषु वा इंद्राः पूज्याः बृहस्पत्यादयः । तदुक्तं रत्नाकरे । स्यादिंद्रवजा यदि तौ जगौ गः ॥ २१ ॥ इन्द्रवज्रा । च अ० ११ ग० ते, त, ज, ग, ग, यतिः ५, ६ ॥ यदींद्रवज्राचरणेषु पूर्वे भवति वर्णा लघवःसुवणे॥ अमंदमाद्यन्मदने तदानीमुपेंद्रवज्रा कथिता कवींद्रेः ॥२२॥ अथोपेंद्रवालक्षणमाह । यीति । हं अमंदमाद्यन्मदने तदानी कर्वीद्रः यदींद्रवाचरणेषु पूर्व वर्णा लघवः संति शेषमिंद्रवज्राक्त् आद्यवर्ण हस्वमेवेति शेषः । चतुर्वपि पादेषु आद्यो हस्वो हे सुवर्णे सा उपेंद्रवजा कथिता । अमंद बहुलं माद्यन् हर्ष कुर्वन्मदनो यस्यां सा तत्संबुद्धौ । तथा चोक्तं रत्नाकरे उपेंद्रक्त्रा जतजास्ततो गौ॥ २२॥ उपेंद्रवजा । च० अ० ११, ग. ज, त, ज, ग, ग, यतिः ५, ६ ॥ यत्र द्वयोरप्यनयोस्तु पादा भवंति सीमंतिनि चंद्रकांते ॥ विद्वद्भिरायैः परिकीर्तिता सा प्रयु- ज्यतामित्युपजातिरेषा ॥ २३ ॥ उपजातिलक्षणमाह । यत्रेति । है चंद्रकांते सा एषा उपजातिरिति प्रयु- ज्यताम् । कथंभूता सा आद्यैः पुरातनैर्विद्वद्भिः पंडितः परिकीर्तिता कथिता । सा का हे सीमंतिनि यत्र द्वयोरनयोरिंद्रवजोपेंद्रवजयोरपि पादा यथाक्रमेण १

सटीकः ।
११
भवति । प्रथमे तृतीये च इंदरबालसंग द्वितीय चतुर्थे न उपें-
द्रवजालक्षणम् । सीमंत: केसवेशो विद्यते यस्याः सा तत्संबुद्धौचंद्रकांतिर्ग-
स्याः सा तत्संबुद्धौ पक्षे चंद्रवत्कांता कमनीया यासा तत्संबुद्धौ । तदुक्तं रत्नाकरे
अनंतरोदीरतलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः ॥ २६ ॥ उपजातिः च.
अ. ११, प्रथमे तृतीये च चरणे इंद्रवत्रा दितीये चतुर्थे चोगेंद्रव नेत्यर्थः ।।
आख्यानकी स्यात्प्रकटीकृतार्थे यदींद्रवज्राचर-
णः पुरस्तात् ॥ उपेवताचरणास्त्रयोऽन्ये मनी-
षिणोक्ता विपरीतपूर्वा ॥२४॥
अयाख्यानकीलक्षणमाह । आख्यानकीति हे प्रकटीकृतार्थ मनीषिणा
विदुषा यदि इंद्रवज्रावत्प्रथमचरणः स्यात् अन्ये त्रयश्चरणा उपद्रव बावसति तदा
विपरीतपूर्वाख्यानकी विपरीताल्यानकीयर्थः । प्रकटीकृतोऽथ: कामलक्षणो
यया सा तत्संबुद्धौ । इयं वृत्तरत्नाकरे नोक्ता तथापि गिलादिभिगचायैहलायु-
धादावुक्तैत्रम् ॥ २४ ॥ आख्यानकी ! च० अ० ११, प्रथम चरण इंदवत्रावत
अन्ये उपेंद्रवन्नावत् ।।
आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथा-
तिमम् ॥ दीर्घमिन्दुमुखि यत्र जायते तां वदंति
कवयो रथोड़ताम् ॥२५॥
अथ रथोतालक्षणमा आधमितिाह इंदुमुखि कययः तां रथोदतां वदंति ।
कां यत्राद्यमक्षरमतम्तृतीयक सप्तमं नवमं लथांतिमम् एकादशम् एते वर्णा दीर्घा
द्विमात्रिका जायते । इन्दुवन्मुखं यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे ।
रान्नराविह रथोद्धता लगौ ॥ २५ ॥ रथोद्धता । च० अ० ११, ० र,
न, र, ल, ग, यतिः ७. ४ ॥
अक्षरं च नवमं दशमं चेद्यत्ययाद्भवति यत्र
विनीते ॥ प्रोक्रमणनयने यदि सैव स्वागतेति
कविमिः कथितासौ॥२६॥

१२ श्रुतबोधः। अ० स्वागताया टक्षणमाह । अक्षरमिति । हे एणनयने सैषा रथोद्धता तदा कविभिः स्वागतेति कथिता । हे विनीते नम्रीभूते यदि यत्र यस्यां व्यत्ययाद्वैपरी- त्येन नवममक्षरं दशमवहशमं नवमवत् । नवमो लघु दशमो गुरुः । द्रौ चकारी विपरीतार्थसूचकौ । एणम्य नयने इब नयनं यस्याः सा तस्याः संबुद्धौ । अयमर्थः । रथोद्धतायां नवमम् अक्षरं गुरु भवनि दशमं चाक्षरं लघु भवति स्वागतायां तु नवमनक्षरं लघु दशमं चाक्षरं गुरु भवतीति भावः । तदुक्तं रत्नाकरे स्थागतेलि रनभादगुरुयुम्मन् ॥ २६ ॥ स्वागता । च ११, ग० र, न, भ, ग, ग, यतिः ॥ ७ ह्रस्वो वर्णःस्यात्सप्तमो यत्र बाले तददिबोष्टि न्यस्त एकादशाद्यः ॥बाणविश्रामस्तत्र चेद्वा तुरंगै ना निर्दिष्टा सुभ्र सा वैश्वदेवी ॥ २७॥ अथ धैश्वदेवीलक्षणमाह । हस्व इति । यत्र सप्तमो वर्णो द्वस्वः स्यात्।हे बाले षोडशवर्षाभ्यंतरवयम्के तत्पूर्वोक्तप्रकारवत् । हे किंबोटि एकादशादो दशमो वो ह्रस्व: स्यात् । एवं न्यस्त: निक्षिप्तः म्याचदि नत्र वाणः पचभिस्तुर ः सप्तभिश्च विश्रामः स्यात् । हे सुभ्र सा नाम्रा वैश्वदेवी निदिष्टः कथिता । सुष्टु ध्रुवौ यस्याः सा नम्याः संबुद्धौ । विववदोप्टो यथाः सा एकादशादौ जात एकादशाद्यः । तदुक्तं रत्नाकर । पायाधेटिन्छन्ना श्री मो यौ ॥ २७ ॥ वैश्वदेवी च० अ० १२ ग• म, म, य, य. पति: ५ . ५ ।। सतृतीयकपष्टमनंतरते नवमं वितिप्रभवं गुरु चेत् ॥ वनपीनपयोधम्भाग्नते नन नोटकवृ- तमिदं कथितम् ॥२८॥ द्वादशाक्षरजाती तोटकलक्षगमाह । सतृतीयांमति । है वनपीनपयोघरभार- नते ननु इह निश्रित तोटकवृत्तं कथितं विस्तारितं चेद्यदि हे अनन्तरते सतृती- यकं पष्ठ नवमं गुरु स्यात्तृतीय पष्टं च तृतीयषष्ट तान्यां सह वर्तत इति।कीदृशं विरतिप्रभवम् अत्यं द्वादशं गुरु स्यात् ।। अनन्ता अपरिमिता रतिर्यस्याः सा अनन्तरति: तत्संबुद्धौ । घनौ च पीनौ च धनपीनी कठिननिबिडो पयोधरौ च सटीकः ! १३ तयोर्भार: आधिक्यं तन नता नम्रीभूता या सा तत्संबुद्धौ । विरतः प्रभव उत्प- त्तिर्यस्य तत्तथोक्तम् । तदुक्तं रत्नाकर । इह नोटकमवुधिसः कथितम् ॥२८॥ च० अ० १२, स, स, स, स, यतिः ६, ६॥ यदाद्यं चतुर्थं तथा सप्तमं चेत्तथैवाक्षरं ह्रस्वमे- कादशाद्यम् ॥ शरचंद्रविद्वेपिवक्रारविंदे तदुक्तं कवींद्वैर्भुजंगप्रयातम् ॥ २९॥ भुजङ्गप्रयातलक्षणमाह । यदाद्यमिति । हे शरच्चन्द्रविद्वेषिवकारविंद कवीन्द्र- स्तच्छन्दो भुजङ्गप्रयातमुक्तं कथितम् । किं चद्यदा आद्यं प्रथमं तथा चतुर्थं तथा सप्तमम् एव निश्चितम् एकादशाद्यम् एकादशस्यादिभूतं दशममक्षरं ह्रस्वं स्यात्तदि- ति संबंधः । शरदः चन्द्रः शरश्चन्द्रः तस्य विद्वेषि वक्रमेवारविंदं यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरं । भुजङ्गप्रयातं भवेयश्चतुर्भिः ॥ २९ ॥ भुजङ्गप्रयातं च० अ० १२. ग. य. य. य. य, यतिः ६, ६ ॥ अयि कृशोदरि यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा ॥ विरतिजं च तथैव विचक्षणैर्दुत विलंबितमित्युपदिश्यते ॥३०॥ द्रुतविलम्वितलक्षणमाह । अयि कृशोदरीति ॥ अयि इति कोम- लालापे । विचक्षणः पण्डितद्रुतविलंबितमित्युपदिश्यते । इति किं हे दरि यत्र चतर्थक सप्तमकं तथा दशमम् इमान्यक्षराणि गुरूणि सन्ति । विरतिजम् अंत्यं द्वादशं गुरु स्यादित्यर्थः । कृशमुदरं यस्याः सा कृशोदरी तत्संबुद्धौ । तदुक्तं रत्नाकर । द्रुतविलंबितमाहनभौ भरौ ॥ ३० ॥ द्रुतविलं- बितम् । च० अ० १२. ग० न, भ, भ, र ॥ यदि तोटकस्य गुरु पंचमकं विहितं विलासिनि तदक्षरकम् ॥ रससंख्यकं गुरून चेदबले प्रमि- ताक्षरेति कविभिः कथिता ॥३१॥ N श्रुतबोधः। अमिताक्षरालक्षणमाह । यदि तोटकस्येति । हे अबले कविमिः प्रमिताक्षरा इति कथिता । किं हे विलासिनि यदि तोटकस्य उक्तलक्षणकस्य पंचमकमक्षरं गुरु विहितं स्यात् रससंख्यकं षष्ठं गुरु न चेत गुरु तु पंचममेव सा प्रमिताक्षरे- त्यर्थः । विलासो विभ्रमो वस्याः सा विलासिनी तत्संबुद्धौ । तदुक्तं रत्नाकरें। प्रमिताक्षरा सबससैरुदिता ॥ ३१ ॥ प्रमिताक्षस । च. म० १२. ग० स, ज, स स ॥ प्रथमाक्षरमाद्यतृतीययो तविलंबितकस्य च पादयोः॥ यदि चेन तदा कमलेक्षणे भवति सुंदार सा हरिणीप्लुता ॥३२॥ अथ हरिणीलुतालक्षणमाह । प्रथमाक्षरमिति । है कमलेक्षणे मुकविमिः तदेयं हारेणीप्लुता कथिता । यदि द्रुतविलंवितफरक छन्दस आद्यतृतीययोः पादयोः प्रथमाक्षरं चेत् एकादशाक्षरमेवं विषमपादयोः तदेयं हरिणीप्लुता । कमलवदीक्षणे यस्याः सा तत्संबुद्धौ हे सुन्दार शुमांगे । तदुक्तं रत्नाकरे १,२, सौ स्लो गः । २, ४, भौ नौ । पक्षे हरिणीप्लुता ॥ ३२ ॥ हरिणीप्लुता । च० १, ३, अ० ११, ग० स, स, स, ल, ग ।। च २, ४, ५० १२, ग० न, म, भ, र॥ उपेंद्रवज्राचरणेषु संति चेदुपांत्यवर्णा लघवः कृता यदा ॥ मदोल्लसद्भूजितकामकार्मुके वदंती वंशस्थमिदं बुधास्तदा ॥३३॥ वंशस्थलक्षणमाह (उपेंद्रवज्रेति । हे मदोल्लसद्भूजितकामकार्मुके तदा बुधा इदं वंशस्थं वदति । तदा कदा यदा उपेंद्रवज्राचरणेषु उपांत्यवर्णा अंत्यसमीप- स्था वर्णा एकादशसंज्ञका लघवः संति प्रतचरणे एकादशो वर्णों लघुस्तदा वंशस्थम् । मदेन उल्लसंत्यौ भुवौ ताम्यां जितं कामकार्मुकं मदनधनुर्यया सा तत्संबुद्धौ । अंत्यस्य समीपमुपांत्यम् उपांत्याश्च ते वर्णाश्चेति । तदुक्तं रत्नाकरे । जतौ तु वंशस्थमुदीरितं जरौ ॥ ३३ ॥ वंशस्थम् । च० अ० १२, ग० ज, त, ज, र, यतिः ५, ७ ॥ ।

सटीकः। १५ यस्यामशोकांकुरपाणिपल्लवे वंशस्थपादा मुरु- पूर्ववर्णकाः ॥ तारुण्यहेलारतिरंगलालसे ता- मिन्द्रवंशां कवयः प्रचक्षते ॥ ३४॥ इंद्रवंशालक्षणमाह । यस्यामशोकामिति । हे तारुण्यहेलारतिरंगलालसे कवयों यस्यां वंशस्थपादा गुरुपूर्ववर्गका मवन्ति हे अशोकांकुरपाणिपल्लचे तामिंद्रवशां प्रचक्षते अबते । अशोकांकुरक्यामिपल्लवो यस्याः सा तारुण्यस्य हेलास्ताभी- रतिरंगे लालसा अभिलाषो यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । स्थानिद्रवंशा तौ नौ ॥ ३४ ॥ इंद्रवंशा । च० अ० १२, ग, त, त, ज, र, यतिः ५, ७ ॥ यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य तथा गुरु नवम दशांतिकम् ॥ सांत्यं भवेद्यदि विरतिर्युगग्रहैः सा लक्षिता घमृतलते प्रभावती ॥३५॥ प्रयोदशाक्षरजाती प्रभावतीलक्षणमाह । यस्यामिति अमृतलते यस्यां प्रथ- मकमक्षरद्वयं तुर्य चतुर्थ तथा नवमं दशांतिकं दशसहितं त्रयोदशमक्षरं गुरु युगप्रहैश्चतुभिर्नवमिश्चाक्षरैर्विरतिः सा प्रमावती लक्षिता कथिता । अमृतस्य लतेव लता या सा तत्संबुद्धौ ।। ३५ ॥ प्रमावती च० अ० १३, ग० त, म, स,ज, ग; यतिः ४,९४ आद्यं चेत्रितयमथाष्टमं नवांत्यं द्वे चात्ये गुरु विरतौ सुभाषिते स्यात् ॥ विश्रामो भवति महेशनेत्रदिभिर्विज्ञेया ननु सुदति प्रदर्षिणी सा॥३६॥ अथ प्रहार्षणीलमणमाह । आद्यमिति ॥ हे सुदति ननु इति निश्चितम् आयं त्रितयं प्रथमतः वर्णत्रयम् अथाष्टमं नवांत्यं दशमं चान्त्ये द्वे द्वादशत्रयोदशाख्ये एते गुरवो भवन्ति । हे सुभाषित महेशनेत्रैर्वर्णत्र यानन्तरं दिमिर्दशवर्णानन्तरं च विनामः स्यात्सा प्रहर्षिणी विवेया ज्ञातव्या । मुटु शोभनं भाषितं यस्याः श्रुतबोधः । सा तत्संबुदौ । सु शोभना इन्ता यस्याः सा सुदती तत्संबुद्धौ । तदुक्तं रत्नाकर म्नौ जो गस्त्रिदशयतिः प्रहर्षिणीयम् ।। ३६ ॥ प्रहर्षिणी च० अ० १३, ग० म, न, ज, र, ग; यतिः ३, १० ॥ आद्यं द्वितीयमपि चेद्गुरु तच्चतुर्थं यत्राष्टम च दशमान्त्यमुपान्त्यमन्त्यम् ॥ कामांकुशांकुशि- तकामिमतंगजेंद्र कांते वसंततिलकां किल तां वदंति ॥३७॥ चतुर्दशाक्षरजातो वसंततिलकालक्षणमाह । आद्यमिति हे कामांकुशांकु- शितकामिमतंगजेंद्र यत्र आद्यं प्रथम द्वितीयमपि गुरु चतुर्थ दशमांत्यम् एकादश- मुपांत्यं त्रयोदशम् अन्त्यं चतुर्दशम् एते गुरवः स्युः हे कांते बुधास्तां वसंतति- लकां वदंति । काम एवांकुशस्तेनांकुशिता वशीकृताः कामिन एव मतंगजेंद्रा यया सा तत्संबुद्धौ । तदुक्तं रत्नाकर । उक्ता वसंततिलका तभजा जगौ गः॥ ॥ ३७ || बसंततिलका । च० अ० १४, ग० त. भ. ज, ज, ग. ग! प्रथममगुरुषद विद्यते यत्र कांते तदनु च दशमं चेदक्षरं द्वादशांत्यम् ॥ करिभिरथ तुरंगैर्यत्र कांते विरामः सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥३८॥ पंचदशाक्षरजातौ मालिनीलक्षणमाह । प्रनिति ॥ हेकांते यत्र प्रथम षट्कमगुरु लघ्वेव भवति तदनु दशमं द्वादशान्यं त्रयोदशं लघु । करिभिरथ तुरंगैरष्टभिः सप्तभिश्च विरामस्तदा सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा कृता । तदुक्तं रत्नाकरे । ननमयययुतेयं मालिनी भोगिलोके ॥ ३८ ॥ मालिनी।च०। अ० १५, ग. न, न, म, य, य यति: ७ !! सुमुखि लघवः पंच प्राच्यास्ततो दशमांतिक- स्तदनु ललितालापे वर्णी यदि त्रिचतुर्दशौ ॥प्र- , सटीकः। . . भवति पुनर्यत्रोपांत्यः स्फुरत्करकंकणे यतिर- पि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥३९॥ सप्तदशाक्षरजातौ हारणीलक्षणमाह । सुमुखीति । हे स्फुरत्करकं. कगे यत्र प्राच्याः प्रथमे पंच वर्गा लववः संति । ततो दशमां- तिक एकादशः हे ललितालापे यदि त्रिचतुर्दशी त्रयोदशचतुर्दशी लघु- स्याताम् उपांत्यः षोडशोऽपि लघुः । रसैः षड्भिर्वेदैश्चतुर्भिरश्वैः सप्तभिश्च विरामः स्यात्तदा सा हरिणी स्मृता स्फुरंति करयोः कंकगानि यस्याः सा ललित आलापो यस्याः सा । उक्तं च रत्नाकरे । रसयुगहयैन्सी सौ म्लौ गो यदा हरिणी तदा ॥ ३९ ॥ हरिणी च० अ० १७, न, स, म, र, स, ल, ग, यतिः ६, ४, ७ ॥ यदा पूों द्वस्वः कमलनयने पटकपरास्तो वर्णाः पंच प्रकृतिसुकुमारांगि लघवः ॥ त्रयोs- न्ये चोपांत्याः सुतनु जघनाभोगसुभगे रसैरुदै- यस्यां भवति विरतिः सा शिखरिणी ॥४०॥ अथ शिखरिणीलक्षणमाह । यदा पूर्वो ह्रस्व इति । हे सुतनु जघनाभो- गसुभगे यदा पूर्वो वर्णो हरो भवति । हे प्रकृतिसुकुमारांगि ततः षष्ठकपरा: षष्टतः पञ्च वर्णाः सतमाष्टमनवमदशमैकादशा लघवः संति । अन्ये उपांत्यात्र- यो वर्णाश्चतुर्दशपञ्चदशपोडशा लवयो भवंति । यस्यां रसैः पड्भीरुद्ररेकादशै- विरतिर्भवेत् । हे सुतनु सा शिखरिणी कथिता। कमलवनयने यस्याः सा । प्रकृत्या स्वभावेन सुकुमाराण्यंगानि यस्याः । जघनयोराभोगत्तेन सुभगा। सु शोभना तनुर्यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । रसैरुदैश्छिन्ना यमन- सभला गः शिखरिणी ॥ ४० ॥ शिखरिणी । च० अ० १७, ग० य, म, न, स, भ, ल, ग, यतिः ६, ११ ॥ द्वितीयमलिकुंतले यदि पडष्टमं द्वादशं चतुर्द- शमथ प्रिये गुरु गभीरनाभित्रदे॥ सपंचदश- . २

१८.
-
श्रुतबोधः।
मंतिमंतदनु यत्र कांते यतिः करींद्रफणिभृत्कु-
लैर्भवति सुभ्र पृथ्वी हि सा ॥ ४१ ॥
धृथ्वीलक्षगमाह ॥ द्वीतीयमिति । हे सुश्रु यदि द्वितीयसंख्याकं गुरु स्यात्
हे अलिकुंतले षडष्टमं-च गुरु हे प्रिये द्वादशमथ चतुर्दशं गुरु हे गभीरनाभि-
हदे पञ्चदशेन सहितमंतिम गुरु स्यात् हे कांते यत्र करीन्द्रैरष्टभिः फणिभृत्कुलेन-
कभिश्च यतिः स्यान पृथ्वीनामक वृत्त भवति । अलिपदमरवच्छ्यामाः कुंतला
अलका यस्याः सा । गम्भीरा निम्ना नाभिरेव दो अन्याः सा तत्संबुद्रौ । तदुक्तं
रत्नाकरे । जसी जसयला वसुबहयनिश्च पृथ्वी गुरुः ॥ ४ १ ॥ पृथ्वी । च
अ० १७, ग० ज, स, ज, स, य, ल, ग, यतिः, ८, ९ ॥
चत्वारः प्राक्सुतनु गुरवो द्वौ दशैकादशौ चन्मु-
ग्धे व तदनु कुमुदामोदिनि द्वादशांत्यौ ।
तद्वच्चांत्यौ युगरसहयैर्यत्र कांते विरामो मंदाक्रां-
तां प्रवरकवयस्तन्वि तां संगिरते ॥ ४२ ॥
मंदाक्रांतालक्षणमाह । चत्वार इति ॥ हे तन्धि प्रयरकवयो यत्र प्राक् चत्वारो
वर्णा गुरवः स्युः । हे कुमुदामोदिनि चद्वर्णों द्वौ दशैकादशौ गुरू स्तः । हे
नुग्धे द्वादशात्यौ द्वादशात्यस्थितौ त्रयोदशचतुर्दशौ गुरू स्याताम् । अंत्यो
पोडशसप्तदशौ तदृद्गुरू युगरसहयैर्विराम एतादृशीं तां मंदाक्रांतां संगिरते ।
कुमुदवदामोदः सुगंधियस्याः सा । तथोक्तं रत्नाकरे । मंदाक्रांता जलविषड-
गैम्भॊ नती ताद्गुरू चेत् ॥ ४२ ॥ मंदाक्रांता । च० अ० १७, ग°
म. म, न, त, त, ग, ग, यति: ४, ६, ७, ॥
आद्याश्चेदरवस्त्रयः प्रियतमे षष्ठस्तथा चाष्टमी
नन्वेकादशतस्त्रयस्तदनु चेदष्टादशाद्यौ ततः ॥
मार्तडैर्मुनिभिश्च यत्र विरतिः पूर्णेदुबिंबानने तद्वृत्तं
प्रवदंति काव्यरसिकाः शार्दूलविक्रीडितम् ॥४३॥

सटीकः । . आद्या इति । हे पूर्णेन्दुबिंबानने काव्यरसिकास्तद्वृत्तं शार्दूलविक्रीडित वदति । यत्राद्यास्त्रयो गुरवः षष्ठस्तथाऽष्टमः गुरुः ननु एकादशतस्त्रयः द्वादशत्रयोदस- चतुर्दशा गुरवः ततश्चेदष्टादशम्याद्यौ पोडशसप्तदशौ गुरू स्याताम्यत्र मातरम- निभिर्द्वादशसप्तभिर्विरतिः । हे प्रियतमे तदेतच्छार्दूलविक्रीडितम् । पूर्णश्चाता- विदुस्तस्य बिंबवदाननं यस्याः सा । अतिशयेन प्रिया प्रियतमा तस्बाःसंबुद्धौ । तदुक्तं रत्नाकरे । सूर्याश्चर्मसजस्तताः सगुरवः झार्दूलविक्रीडितम् ।। ४३ ॥ शार्दूलविक्रीडितम् । च० अ० १९. ग० म, स, ज,स,त, न, ग.यति:१२,७ चत्वारो यत्र वर्णाः प्रथममलयवः पष्टकः सम- मौऽपि द्वौ तद्वत्पोडशायौ मृगमदमुदिते पोड- शांत्यौ तथांत्यौ ॥रंभास्तंभोरुकांते मुनिमुनि- मुनिभिर्दश्यते चेद्विगमो बाले वंद्यैः कवीन्द्रैः सुतनु निगदिता स्रग्धग सा प्रसिद्धा ॥४४॥ इति श्रीकविकालिदासकृतः श्रुतबोधनामक- श्छंदोग्रन्थः समाप्तः ॥ एकविंशत्यक्षरजातौ नग्धरालक्षणम् । चत्वार इति ।। हे सुदति वंद्यैः पूज्य: कवींद्रेःप्रसिद्धा इयं स्रग्धरा गदिता। यत्र प्रथमं चत्वारो वर्णा अलघवो गुरवः संति षष्टकः सप्तमोऽपि तद्गुरुः षोडशाद्यौ चतुर्दशपञ्चदशौ तथान्त्यौ सप्तदशा- ष्टादशौ गुरू स्यातां मुनिमुनिमुनिभिर्वरामः । हे भास्तभोरुकाते हे वाले इयं स्रग्धरा प्रसिद्धा । मृगस्य मदेन मुदिता सा रंभायाः स्तंभवाः कोंति. यस्याः सा सु शोभना दंता यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । मोनां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ ४४ ॥ स्रग्धरा । च०अ० २१ ग० म, र, भ, न, य, य, य, यतिः ७, ७, ।। इति श्रीश्रुतबोधनामकस्य छन्दोग्रन्थस्य व्याख्या समाप्ता ।। श्रुतबोधग्रन्थः समाप्तः । , N -year-mom श्रुसबोधः। गणनामदेवताफलानि । मो भूमिः श्रियमातनोति य जलं वृद्धि र चाग्निर्मृति सो वायुः परदेशदूरगमनं तव्योम शून्यं फलम् ॥ जः सूर्यो रुजमाददाति विपुलं भेंदुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः॥१॥ अथ गणसंख्यानामरूपदेवताफलज्ञापकं यंत्रम्। गणनाम रूपम् | देवता फलम् मित्रादि फलम् मगणः SSS मही लक्ष्मीः मित्रम् शुभम् VA २ नगणः ।। ।। स्वर्गः बुद्धिः मित्रम् शुभम् Sararat भगणः।5।। शशी यशः दासः शुभम् यगणः ISS] जलम् आयुः दासः शुभम् ५ जगणः 151 रविः रुक् । उदासः अशुभम् रगणः SIS 15 अग्निः दाहः शत्रु: अशुभम् सगणः ।। वायुः विदेशः शत्रु: अशुभम् ८ तगणः1551 शून्यम् |.उदासः अशुमम्

V१
नत्वा । अथ
सन्तानश्च
नाम-छन्दः
२८२)
अथ सटीको वृत्तरत्नाकर:-
प्रारभ्यते.
श्रीगणेशायनमः॥ सुखसन्तानसिद्ध्यर्थ नत्वा
ब्रह्माच्युतार्चितम् ॥ गौरीविनायकोपेतं शंकरं
लोकशंकरम् ॥१॥
तेन केदारेणेदं छंदः क्रियते । किं कृत्वा शंकरं नत्वा किमर्थ नन्द
मुखसंतानसिद्धयर्थं सुखस्य संतानोऽविच्छेदस्तस्य सिद्धिनिष्पत्तिस्तदर्थ
सुखं च
सिद्धयश्च
सुखसन्तानसिद्धयः
तदर्थं नत्वा सुखमात्यन्तिकं मोक्षलक्षण सन्तानः पुत्रपौर" :: सिद्ध-
योऽणिमादयस्तदर्थं तेन केदारणेदं वृत्तरत्नाकर
क्रियते
इति संबन्धः । किंविशिष्ट शंकरं ब्रह्मा च अच्युतश्च ब्रह्माच्युतौ ताम्याम-
चितम् । पुनः , किंविशिष्टं गौरीविनायकोपेतं गौरी च विनायकश्च गौस-
विनायकौ ताभ्यामुपेतं सहितम् । पुनः किंविशिष्ट लोकशंकरं लोकानों श
सुखं करोतीति लोकशंकरस्तम् ॥ १ ॥
वदार्थशैवशास्त्रज्ञः पव्यकोऽभूद्विजोत्तमः ।।
तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः॥२॥
वेदार्थञ्च शैवशास्त्राणि च जानातीति वेदार्थशवशास्त्रज्ञः एवंविधः पव्येको
नाम द्विजोत्तमोऽभूजातस्तस्य पुत्रः केदारोऽस्ति स किंविशिष्टः शिवस्य
ईश्वरस्य पादौ शिवपादौ तयोरर्चन पूजनं तस्मिन् शिवपादाने रत
आसक्तः ॥ २ ॥
तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ॥
वृतरत्नाकरं नाम बालानां सुखबुद्धये ॥३॥

वृत्तरत्नाकरः। किंविशिष्ट छन्दः लक्ष्यलक्षणसंयुतं लक्ष्यमुदाहरणं च लक्षणं छंद- स्वरूपकथन च लक्ष्यलक्षणे ताम्यां संयुतम् अन्येषु रामशर्मादिकृतेषु छन्दःशास्त्रेषु लक्षणं मूत्रमेत्रास्ति लक्ष्यं प्रयोगो नास्ति एतत्पुनरुभाभ्यामिह युक्तम् । वृत्तान्येव श्रीप्रभृतीनि रत्नानि तेषामाकरं वृत्तरत्नाकरं नाम ॥ कस्मै बालगनामनधीतच्छन्दःशास्त्राणां सुखबुद्धये सुखावबोधाय ॥ ३ ॥ त्रिभि- विशेषकम् ॥ पिङ्गलादिभिराचार्ययदुक्तं. लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥४॥ यपिंगलादिभिराचार्योंकिकं छन्दो द्विधोक्तं तेन प्रकारेण मात्राकारेण वर्षाका च तदिहलस्मिन्ग्रंथे छन्द: कम्यते । लोके म लौकिक न पुनर्वेदिक काव्वादिष्वनुः योगात् ॥ ४ ॥ पडध्यायानेबद्धस्य छन्दसोऽस्य परिस्फुटम् ॥ प्रमाणमपि विज्ञेयं पत्रिंशदधिकं शतम् ॥५॥ अस्य छंदतः प्रमाणमपि परिस्फुटं पारे समंतात्प्रकटं विज्ञेयं ज्ञातव्यम् । किंविशिष्टस्य छंदसः पट च तेऽच्यावाश्च घडव्यायास्तैर्निबद्धं तस्य किं प्रमाणं शतम् । किंविशिष्टं शतं पट्त्रिंशताधिकम् ॥ ५ ॥ म्यरस्तजभ्न गैर्लान्तेरेभिर्दशभिरक्षरैः ।। समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना॥६॥ एभिर्दशभिरक्षरः सकलं वाङ्मयं बार जालं व्याप्त कुक्षीकृतम् । किमिव प्रलोख्यनिव केन विगुना नारायणेन । एभिः कै: म्यरस्तजम्नगैः लांतः ॥ ६॥ सर्वगुर्मो मुखान्तलौ यगवंतगलौ सतौ॥म्मध्या- घौज्भौ त्रिलोनोष्टौ त्यत्र गणास्त्रिकाः॥७॥ इदानी तेषामक्षराणां लक्षणमाह । सबगुरुर्मः मगणःऽऽऽ मुखे आदौ अंत- मध्ये लो लघुर्ययोस्तौ मुखाती यमगरगणौ । मुखलधुर्यगणः ।ऽऽ मध्यलय सटीकः। २३ रगणःऽ । ऽ अंते अवसाने गुरुलघुश्च ययोस्तौ अंतगलौ सतौ सगणतरणौ अंतगुरुः सगणः ॥ अंतलघुस्तगणः ऽऽ । गुरुर्मध्ये आये ययोस्तौ भौ जगणभगणौ मध्यगुरुर्जगणः । ऽ । आदिगुरुर्भगणः ॥ त्रीणि लघूनि यस्य सः त्रिलधुर्नगणः ।। अत्रास्मिन् छंदसि अष्टौ गणास्त्रिकास्यवयवा भवंति ॥७॥ ज्ञेयाः सर्वांतमध्यादिगुरवोऽत्र चतुष्कलाः ॥ गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ ८॥ आर्यादिपु स्थिताः पंच गणाः ज्ञेयाः । किंविशिष्टाः चतुकला: चतु- मात्राः ते के पंच गणाः सर्वांतमध्यादिगुरवः सर्वश्च अन्तश्च मध्यश्च आदिश्च ते गुरवो येषां ते रातिमध्यादिगुरवः किंभूतास्ते लघ्वेताः पंचमो गणश्चतु- लघुस्तेनोपेताः युक्ताः । स्थापना चैषा सर्वगुरु:ऽऽऽ अत्यगुरुः ॥ऽ मध्यगुरुः 15। आदिगुरुः । ।। चतुर्लधुः ।।।। इति ॥ ८॥ सानुस्वारो विसर्गातो दीर्घो युक्तपरश्च सः ॥ वा पादांते त्वसौ ग्वकोशेयोऽन्योमातृको लजुः९॥ सानुस्वारः सह अनुस्वारेण वर्तत इति सानुस्वारः विसर्गातः विसर्गः अन्ते यस्य सः विसर्गांतः दीर्घः युक्तपरः युक्तं संयोगाक्षरं परं यस्मात्स युक्तपरः एतादृशः वर्णः वा विकल्पेन पादांते गुरुर्भवति । असौ गुरुस्तु पुनः स च प्रस्तारे वक्रो ज्ञेयः अन्यो अस्माद्विपरीतो मातृकः एकमातृकः स च प्रस्तार ऋजुः पंचलघुर्भवति । ( 5 ) गुरुः (।) लघुः ॥ ९ ॥ पादादाविह वर्णस्य संयोगःक्रमसंज्ञकः॥पुर:- स्थितेन तेन स्याल्लघुतापि क्वचिद्गुरोः॥ १० ॥ इहच्छन्दसि, पादादौ वर्णस्य संयोगः क्रमसंज्ञकः स्यात्तेन वर्णस्य संयोगेन पुर:स्थितेन अग्रस्थितेन क्वचिद्गुरोरपि लघुता स्यात् ॥ १० ॥ इदमस्योदाहरणम् ॥ तरुणं सर्षपशाकं नवोदनं

२४
वृत्तरत्नाकरः।
पिच्छिलानि च दधीनि ॥ अल्पव्ययेन सुन्दार
ग्राम्यजनो मिष्टमश्राति ॥११॥
अस्योदाहरणं दर्शयति । हे सुंदर स्तोकद्रव्येग ग्राम्यजनो मिष्टं
मधुरमश्नाति भुक्ते किं तरणमभिनवं सर्षपशाकं नवांकुरं पिच्छिलानि चिक्क-
णानि दधीनि दुग्धं च ॥ अनार्यायां ग्रा इत्येतस्मिन् पादादि स्थतेन सुन्दार
इत्येतस्य यदि गुरुत्वं क्रियते तदा युक्तपरत्वात्पंचलो भवति चतुर्मात्रागणाः
आर्यायाः कर्तव्याः तस्माच्छंदःकरणाय कचिद्गुरोरपि लघुत्वं भवतीति ॥११॥
अधिभूतरसादीनां ज्ञेया संज्ञात्र लोकतः ॥
ज्ञेयः पादश्चतुर्थोंशो यतिविच्छेदसंज्ञिका ॥ १२॥
उत्तरत्र अंकैः संज्ञामाह । अब्धयः समुद्राश्चत्वारः ४ भूतानि पंच महा-
भूतानि ५ रसाः पट ६ आदिशब्दग्रहणेन अश्वाः पर्वताः मुनयश्च सप्त ७
अष्टौ वसवश्च । नव ग्रहाः रंध्राणि च ९ दश दिश: १० एकादश रुद्राः ११
द्वादश सूर्याः १२ त्रयोदश विश्वेदेवाः १३ चतुर्दश सुवनानि १४ इत्या-
दयो गृह्यते । एताः संज्ञाः लोकतः पूर्वा चार्येभ्योऽवगंतव्याः ज्ञेयाः । चतुर्थः
अंशः पादो ज्ञेयः यतिर्विरतिः किं कथ्यते विच्छेदसंज्ञिका ।। १२ ।।
युक्समं विषमं चायुक्स्थानं सद्भिनिगयते ॥
सममर्द्धसमं वृत्तं विषमं च तथा परम् ॥ १३॥
सद्भिः सत्पुरुषैः समं स्थान युनिगद्यते । विषमं स्थानमयुनिगद्यते समं
वृत्तं भवति अर्धसमं तथा परं विषमं भवति ॥ १३ ॥
अंघयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ॥
तच्छंदःशास्त्रतत्त्वज्ञाःसमं वृत्तं प्रचक्षते ॥ १४॥
तल्लक्षणमाह । यस्य वृत्तस्यांध्रयः पादाश्चत्वारस्तुल्यलक्षणलक्षिता भवंति
तवृत्तं छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते वदन्ति ॥ १४ ॥

सटीकः।
प्रथमांघिसमो यस्य तृतीयश्चरणो भवेत् ॥
द्वितीयस्तुर्यववृत्तं तदर्धसममुच्यते ॥ १५ ॥
यस्य वृत्तस्य प्रथमपादस्तृतीयेन पादेन समो भवेत् द्वितीयपादश्चतुर्थपादवत्त-
वृत्तमर्धसमं भवेत् ।। १५ ॥
यस्य पादचतुष्केपि लक्ष्म भिन्नं परस्परम् ॥
तदाहुर्विपमं वृत्तं छंदःशास्त्रविशारदाः॥ १६॥
यस्य पादचतुष्टयेऽपि परस्परं लक्षम भिन्न भेदयुक्तं भवति तद्विषमं वृत्तं
छंदःशास्त्रविशारदा आहुः कथयति ।। १६ ॥
आरभ्यकाक्षरात्पादादकैकाक्षरवर्धितैः ॥
पृथक्छंदो भवेत्पादैर्यावत्पइविंशतिं गदम् ॥ १७॥
एककाक्षरापादादारभ्य आदी कृत्येककमक्षरं बाधतं येषु पादेषु ते एकै-
काक्षरवर्धितास्तैः एकैकाक्षरर्धितः पादैः पृथक् छन्दो भवेत् पादरित्यंभूते-
र्यावत् षडिशतिं गतम् । तथा च प्रथम जातावुक्तायां चत्वारोप्येकाक्षराः पादा
भवंति अत्युत्ताजातौ चत्वारोपि यक्षराः पादा भवंति इत्थं यावत्
यथा वृत्तावृत्तयोश्चत्वारोपि पादाः पदिशतिवर्णप्रमाणा भवंति ॥ १७ ॥
तदूर्ध्व चण्डवृष्टयादिदण्डकाः परिकीर्तिताः ॥
शेष गाथास्त्रिभिः पड्भिश्चरणैश्चोपलक्षिताः॥१८॥
यस्याः पड्रिंशत्यक्षरजातेमध्वं चण्डवृष्टिरादर्थेषां ते च ते दंडकाश्च ते
चंडवृष्ट्यादिदण्डकाः परि समंतात्कीर्तिताः कथिताः । उक्तान्यच्छन्दः शेषं
सा गाथा । सा च त्रिभिः पड्भिर्वा चरणैः पादैरुपलक्षिता चिह्निता
भवति ॥ १८ ॥
उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरेव च ॥ १९ ॥

वृत्तरत्नाकरः। इदानीं छन्दोजातेरुद्देशमाह । उक्ता १ अत्युक्ता २ मध्या ३ प्रतिष्ठा ४ अन्या सुपूर्विका सुप्रतिष्ठा ५ गायत्री ६ उष्णिक् ७ अनुष्टुप् ८ बृहती ९ पंक्तिः १० ॥ १९॥ त्रिष्टुप् च जगती चैव तथातिजगती मता ॥ शक्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते॥२०॥ त्रिष्टुप ११ जगती १२ अतिजगती १३ शक्करी १४ सा शकरी अतिपूर्वा स्यादतिशकरी १५ अप्टि: १६ अन्यष्टिः १७ ॥ २० ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः संकृतिश्चापि तथाभिकृतिरुत्कृतिः ॥२१॥ धृतिः १८ अतिधृतिः १९ कृतिः २० प्रकृतिः २१ आकृति:- २२ विकृतिः २३ संकृतिः २४ अभिकृतिः २५ उत्कृतिः २६ ॥ २१ ॥ इत्युक्ताश्छंदसां संज्ञाः क्रमशो वच्मि सांप्रतम् ।। लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२॥ इति श्रीभट्टकेदारविरचितेवृत्तरत्नाकरे प्रथ- मोऽध्यायः॥१॥ इति छंदसां संज्ञां जात्याख्याः क्रमशः कमेण उक्ताः । सांप्रतं सर्ववृत्तानां लक्षणं चिह्न वच्मि भणामि मात्रावृत्तान्यार्यादीनि अनुपूर्व यस्मिलक्षणे तन्मा- त्रावृत्तानुपूर्वकं लक्षणं भणामीति संबंधः ॥ २२ ॥ इति वृत्तरत्नाकराख्यच्छन्दःशास्त्रस्य टीकायां प्रथमोऽध्यायः ।। १ ।। आर्यालक्षणमाह ॥ लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ पष्ठोऽयं नलघुर्वा प्रथमेऽर्धे नियतमार्यायाः ॥ १ ॥ ॥ ॥ सांप्रतमार्यालक्षणमाह । आर्यायाः प्रथमेर्धे एतलक्ष्म लक्षणं नियतं निश्चित वर्तते ।एतत्कि सप्त गणा गोपेता इहास्यामार्यायां विषमे स्थाने प्रथमतृतीयपंच-

सटीका।
मसप्तमरूपे जगणो न भवति पष्टश्चायं जगणो भवति अथवा नलधुर्भवति
इत्यार्याप्रथमदले निश्चितं लक्षणं भवति शिष्येण पृष्टम् आर्यायाः कचित्पद-
नियमोऽस्ति । गुरुराह ॥ १ ॥
पष्टे द्वितीयलात्परकेन्ले मुखलाच सयतिप-
दनियमः ॥ चरमेधं पंचमके तस्मादिह भवति
षष्टो लः ॥ २॥
पष्टे द्वितीयत्यादिव्याल्या । पटेऽन्ले षष्टस्थानतिनि नलघुरूपे द्वितीयलात्
द्वितीयलघोः प्रारभ्य नियमो भवति पटे नगचल्यो प्रारभ्य नियमो भवति षष्टे
नगणलघौ सति प्रथमलवुस्थाने यतिरित्यर्थः । तथा परके पुरोवतिनि सप्तम-
केऽन्ले नलघौ सति मुखलात्परः पदनियमो भवति षष्टगणांते यतिरित्यर्थः ।
पंचमीत्वात्पूर्वसंग्रहः । अत्र पंचमी अक्सूिचिका दृश्यते । यथा पाटलिपुत्रा-
दृष्टो देव इत्यत्र पाटलिपुत्रपुरादाक् इति गम्यते । चरमेधे द्वितीयदले पंचम-
के न्ले सति पंचमगणस्थानतिनि नलघौ सति तस्मान्मुखलघुतः परतः पदनि-
यमो भवति चतुर्थगणांते यतिरित्यर्थः । इह द्वितीयेऽर्धे पष्टोलो लघुर्भवति॥२॥
विष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याम्।।
पथ्येति नाम तस्याश्छंदोविद्भिः समाख्यातम्॥३॥
यस्याः आर्यायाः द्वयोरायेषु त्रिष्यंशेषु गणेषु द्वादशमात्रासु पादो दृश्यते
शेषं प्रकटम् ॥ ३ ॥
संलंध्य गणत्रयमादिमं शकलयोईयोर्भवति
पादः॥ यस्यास्तां पिंगलनागो विपुलामिति
समाख्याति ॥४॥
यस्या आर्याया द्वयोः शकलयोरादिमं गणत्रयं विलंध्यातिक्रम्य पादो भवति
तां पिंगलश्चासौ नागश्च पिंगलनागः पिंगलाचार्यस्य शेषरूपत्वात् । विपुलार्या-
मिति समाख्याति ॥ ४ ॥

२८
वृत्तरत्नाकरः।
गुरू
..
उभयार्धयोर्जकारौ द्वितीयतुर्योगमध्यगौ यस्याः॥
चपलेति नाम तस्याःप्रकीर्तितं नागराजेन ॥५॥
यस्या आर्यायाः उभयार्धयोद्धितीयतुर्थो जकारौ स्यातां जकारौ किं भूती
मध्यगतो तस्याः चपलेति नाम नागराजेन प्रकीर्तित कथितम् ॥ ५ ॥
आयं दुलं समस्तं भजेत लक्ष्म चपलागतं
यस्याः॥शेषे पूर्वजलक्ष्मा मुखचपला सोदिता
मुनिना ॥६॥
यस्या आर्याया आद्यं दलं प्रथमं चपलागतं चपलाश्रितं लक्ष्म लक्षणं
समस्त भजेत आश्रयेत शेषे पश्चिमेऽर्धे पूर्वजं लक्ष्म यम्याः सा पूर्वजलक्ष्मा
मुख आदौ चपला मुखचाला सा उदिता कथिता मुनिना पिंगलेन ॥ ६ ॥
प्राक्प्रतिपादितमः प्रथमे प्रथमेतरे तु चपलायाः॥
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जवनचपला ॥७॥
इत्यार्याप्रकरणम्।
प्रथमेढे प्राक् पूर्व प्रतिपादितं कथितं सप्तगणा गोपेता भवति नेह विषमे ज
इत्यादिलक्षणमाश्रयेत पुनः प्रथमेतरे तु चरमेऽर्द्र चपलायाः लक्ष्म लक्षण-
माश्रयेत सा विशुद्धधीमिर्जघने पश्चाद्भागे चपला इव जघनचपलोक्ता ॥ ७ ॥
इति पंचार्याभेदाः
॥ इत्यार्याप्रकरणम् ॥
आर्याप्रथमदलोतं यदि कथमपि लक्षणं भवेदु-
भयोः ॥ दलयोः कृतयतिशोभा तां गीतिं गी-
तवान्भुजंगेशः ॥१॥
अधुना गीतिलक्षणमाह ॥ यदि कथमप्यार्यायाः प्रथमदलोक्तं लक्षण-
मुभयोरपि दलयोर्मवेत् तां गीति भुजंगेशः पिंगलः गीतवान् ॥ गी ने कि-
विशिष्टां कृता यतिभिर्विच्छेदैः शोभा यस्याः सा तथा ताम् ॥ १ ॥

सटीकः। आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि दलयोरुपगीतिं तां मुनिबूते ॥२॥ यदायर्याद्वितीयकेऽर्धे लक्षणं गदितं कथित वर्तते तलक्षणम् उभयोरपि दलयोः स्यात्तदा तामुपगीतिं मुनिः पिंगलो ब्रूते भणति ॥ २ ॥ आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ॥ सोद्दीतिः किल कथिता तद्वद्यत्यंशभेदसंयुक्ता ॥३॥ यस्या अर्यायाः शकलद्वितयं खंडव्यं व्यत्ययरचित प्रथम स्थाने द्वितीयं द्वितीयस्य स्थाने प्रथमं लक्षणं भवेत् प्रथमे दले मात्रा २७ द्वितीयदले मात्राः ३० सा उगीतिः किल शब्दो निश्चये एतवं किल श्रूयते । कथिता तद्वत् तेनैव प्रशारण यतयश्च अंशाश्च यत्यंशाः तेषां भेदस्तेन संयुक्ता ॥ ३ ॥ आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्त- म् ॥ इतरत्तदन्निखिलं दलं यदीयमुदितैवमा- योगीतिः ॥४॥ इति गीतिप्रकरणम् । यदि आर्यापूर्वाधमकेनाधिकेन गुरुणा निधने अवसाने युक्तं भवति तदीयमितरद्वितीयं दलं निखिलं समस्तं तद्वत्तस्येव पूर्वदलवद्भवति तदैव- मार्यागीतिरक्ता उदिता समस्तपादा, कला द्वात्रिंशत ३२ भवंति ॥ ४ ॥ इति चतस्रो गीतयः ।। इति गीतिप्रकरणम् ।। पविषमेऽष्टौ समे कलास्ताश्च समे स्युनों निरं- तराः ॥ न समात्र परश्रिताः कला वैतालीयें - ते रलौ गुरुः ॥१॥ अत्र पैतालीये छन्दसि विषमे पादे प्रथमतृतीयरूपे षट् कला मवंति समे पादे द्वितीयचतुर्थरूपेऽष्टौ कला भवंति व पुनस्ताः कलाः

वृत्तरत्नाकरः।
समे पादे निरंतरा अन्तररहिता लत्रयो न स्युः अत्र चैतालीये समकला द्वितीया
चतुर्थी षष्टी च पराश्रिता न भवति कोर्थः द्वितीया लघुरूपा कला तृतीयकलायां
न मिलति चतुर्थी पंचम्यां पष्ठी सतम्यां वेत्थं न स्यात् पूर्वाश्रिताः स्युः द्वितीया
प्रथमायां चतुथीं तृतीयायामेवं स्यात् । अन्ते पट् कलागतोऽप्टकलाग्रतश्च
रलौ रगणलघू कार्यों ततो गुरुरेक इति चतुष्पादेषु ॥ १ ॥
पर्यंते यौ तथैव शेष त्वोपच्छंदसिकं सुधीभिरुक्तम्
पर्यते अंते या रगणयगणौ भवतः शत्रं तथैव पट् कला विपमेऽटौ समे
तदोपच्छंद सिंक सुबीभिः पंडितरुक्तं भणितम् ॥ २ ॥
आपातलिका कथितयं भाद्रुकावथ पूर्ववदन्यत् ॥३॥
भाद्भगणाद्गुरको द्वौ यदि भजनम्तहा आपानटिका नाम छन्दो भवति
अथानंतरमन्यत्पूर्ववत् ॥३॥
तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः ॥४॥
समस्तपादेषु, द्वितीयो लघुस्तृतीयेन सह युक समिटितो भवेत् तदा दक्षि-
गांतिका नाम छन्दो भवति ।। ४ ।।
उदीच्यवृत्तिद्धितीयलः सक्तोऽग्रेण भवेदयुग्मयोः॥५॥
यत्र अयुग्मयोर्विपमपादयोद्वितीयो लबुरश्रेण तृतीयेन लबुना सह सक्तः
संबद्धो मिलितो भवति सा उदीयवृत्तिरुदिता कथिता ।। ५ ।।
पूर्वेण युतोऽथ पंचमःप्राच्यवृत्तिरुदितति युग्मयोः॥६॥
अथ यत्र युग्मयोः समपादयोः पंचमो लघुः पूर्वण युतश्चतुर्थन संयुक्तो
भवति सा प्राच्यवृत्तिरुदिता ।। ६ ।।
यदा समावोजयुग्मको पूर्वयोर्भवति तत्प्रवृत्तकम्॥७॥
ओजयुग्मको विषमसमौ यदा पूर्वयोरुदीच्यवृत्तिप्राच्यवृत्त्योः समी
नुल्यौ यथासंख्येन विषमसमौ यदा वा भवतस्तदा प्रवृत्तकं नाम छन्दो
भवति ॥ ७ ॥

सटीकः ।
३१
अस्य युग्मरचिताऽपरांतिका ॥८॥
अस्य वैतालीयस्य युग्मरचिता समपादरचिता समस्तपादेष्वष्टौ कला
रगणो लवर्गुलश्च भवति साऽपरांतिका नाम छन्दः ॥ ८ ॥
अयुग्मगा चारुहासिनी ॥९॥
इति वैतालीयप्रकरणम् ।
घेतालीयादेविषम पाद जाता समस्तयादेषु सैत्र लागेन चारुहासिनी भवति ।।२।।
इति मैलालीयकरणम् ॥
व नाद्यान्नसो स्यातामब्धयोऽनुष्टुभि ख्या-
तम् ॥१॥
आद्यात्प्रथमाक्षरात्परतो नसो नगणसाणौ न स्यातां न भवतां किंतु हि
नियमेनाव्यः परो यो यगण: कार्यस्तदा वक्रं नाम छन्दः स्यात् । अनुष्टुभि
अनुष्टप्रकरणे ख्यातं प्रसिद्धम् ॥ १ ॥
युजोजेन सरिद्भर्तुः पथ्यावकं प्रकीर्तितम् ॥२॥
युनोः समपादयोः सरितुः समुद्राच्चतुरक्षरात् जेन जगणेन कृत्वा पथ्या-
चक्रं नाम छन्दः प्रकीर्तित कथितम् ॥ २ ॥
अयुजोर्जेन वारिधेस्सदेव विपरीतादि ॥ ३॥
अयुजोविषमपादयोर्वारिधेश्चतुरक्षरात्परे पादे जन जगणेन तदेव पथ्यावत्रं
नाम विपरीतादि विपरीतपथ्यावकं भवतीत्यर्थः ॥ ३ ॥
चपलावक्रमयजोनकारश्चेत्पयोराशेः ॥ ४॥
अयुजोः विषमपादयोः पयोराशेः समुद्राच्चतुरक्षराचेद्यदि नकारो नगणो
भवति तदा चपलावळं नाम छंदः स्यात् ।। ४ ॥
यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥५॥

३२
वृत्तरत्नाकरः।
यस्यां छंदोजातौ सप्तमस्थाने युग्मे समपादे सप्तमो लो लधुर्भवति सा
युग्मविपुला मताऽभिप्रेता ॥ ५ ॥
सैतवस्याखिलेष्वपि ॥ ६॥
सैतवस्याचार्यस्याभिप्रायेण यस्याः सकलेषु समस्तेषु सप्तमो लघुर्भवति सा
युग्मविपुला भवति ॥ ६॥
भेनाधितोभाद्विपुला ॥७॥
अब्धितः समुद्राढ़ेन भगणेन माद्भकारात्परा विपुला भविपुलेत्यर्थः ॥ ७ ॥
इत्थमन्या रश्चतुर्थात् ॥ ८॥
इत्थममुना प्रकारेण चतुर्थाच्चतुरक्षरात् रो रगणो यदि भवति तदान्या-
रविपुला भवति ॥८॥
नोम्बुधेश्चन्नविपुला ॥९॥
अंबुधेः समुद्राच्चतुरक्षरात्परो यदि नो नगणसदा नविपुला भवति ॥ ९ ॥
तोऽब्धेस्तत्पूर्वान्या भवेत् ।। १० ।।
इति वक्रप्रकरणम् ।
अब्धेश्चतुरक्षराद्यदि तस्तदा अन्या विपुला तत्पूर्वा तविपुला भवति ॥१०॥
इति वक्रप्रकरणम् ।।
द्विकगुणितवसुलघुरचलधृतिरिति ॥१॥
अथात्र वृत्तान्यधिक्रियते तान्येवाह ॥ द्वावर द्विको द्वाभ्यां गुणिता वसवोष्टी
लघवो यस्यां सा द्विकगुणितवसुलघु:अचलधृतिर्नाम छन्दो भवति तथा आपदा-
कुलकं छंदो यावद्विकगुणितवसुलघुरिति वर्तते तेनोत्तरत्र पोडश मात्रा अधिक्रियते?
मात्रासमकं नवमालगंतम् ॥ २॥
उपचित्रा नवमे परयुक्त ॥३॥
अष्टाभ्यो भावावुपचित्रा ॥ ४॥
जान्लावथाम्बुधेर्विश्लोकः ॥५॥

सटीकः। ३३ मात्रासमकं छन्दः स्याद्यत्र नवमो द लघुः ग् गुरुः अंते यस्य तत् षोडश- मात्राः । अष्टाभ्यो मात्राभ्यः परयुक्त दशमयुक्ते नवमे मात्राषोडशकेः उपचित्रा भवति । अष्टाभ्यो भगणस्तस्माद्वौ गुरू यदीयौ भवतस्तदा उपचित्रा स्यात् । अंबुधेश्चतसृभ्यो मात्राभ्यः परो जगणो यदि भवति न्लौ वा नगणलय वा भव- तस्तदा विश्लोकोनाम छन्दो भवति ॥ २ ॥ ३॥ ४ ॥ ५ ॥ तयुगलाद्वानवासिका स्यात् ॥ ६॥ तागलादम्बुधियुग्मात् अष्टाभ्यो मात्राभ्यः परो जो यदि वान्दो तदा वानवासिकानाम छन्दो भवति ॥ ६ ॥ बाणाटनवसु यदि लश्चित्रा ॥७॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ॥ अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ ८॥ बाणाष्टनवसु पंचमाष्टनवमात्रासु यदि लो लधुस्तदा चित्रानाम छन्दः ॥ ७ ॥ यदिति । अतीतं पूर्व कृतं विविधं नानारूपं लक्ष्म लक्षण तेन कलितः प्रागुक्तमात्रासमादिलक्षणसहितः पार्दर्यच्छन्दः कलितमनियतमनिश्चितं यदृत्तपरिमाणं तेन सहितमेवंविधं जगत्प्रसिद्धं यत्तत्पा- दाकुलकं नाम छंदः ॥ ८ ॥ वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ॥ गुरखो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥९॥ वृत्तस्येति । यस्य कस्यापि वृत्तस्य लो लघवो मात्रारूपा भवंति तेभ्यो वण- रक्षरविना गा गुरुसंख्या भवति तथा तेभ्यो लघुभ्यो गुरुभिस्तत्संख्यां विना वर्ग- संख्या भवति तेभ्यो मात्रायः तैलधुभिविना शेषमात्राणां च दले कृते सति तत्संख्यका गुरवो वाच्याः । ॥ यथात्रैव वृत्ते एवं सर्वत्र ज्ञेवन् ॥ २ ॥ ३

३४
वृत्तरत्नाकरः।
शिखिगुणितदशलघुरचितमपगतलघुयुगलमप-
रमिदमखिलम् ॥ सगुरुकशकलयुगलमपि सुप-
रिघटितललितपदनिचिति भवतिशिखा॥३०॥
शिखीति ॥ शिखी अग्निः३शिखिभिस्त्रिभिर्गुणिता ये दश लघवस्तैचि-
तं यत्तत् । पुनः कीदृशमपगते लघुयुगलं यस्मात्तत् । एवं प्रथमं दलं तथापरं
द्वितीयं दलमखिलं संपूर्ण त्रिंशन्मात्रकं तथा दलद्वयमपि सगुरुकम् । कोऽर्थः
प्रथमे दलेऽष्टाविंशतिलघवः प्रांते गुरुश्च द्वितीये त्रिंशन्मात्राः प्रांते गुरुरेवं दल-
द्वये द्विषष्टिलघव इत्यर्थः । कथंभूतं सुपरि शोभनप्रकारेण घटितानि बद्धानि
मनोज्ञानि पदानि तेषां निचिती रचना यस्मिंस्तच्छिखानाम छन्दो भवति॥१०॥
विनिमयविहितसकलयुगललघुललितपदवितति-
रचितगणनिचया ॥ श्रुतिसुखकृदियमपि जगति
जशिर उपगतवति जिसति भवति स्वजा॥११॥
विनिमयेन वैपरीत्येन विहितं यत्सकलयुगलं तस्य लघवस्तैललिता या पद
विततिःपदश्रेणिस्तया रचिता निबद्धा गणसमूहा यस्यां सा श्रुत्योः सुखं करोतीति
श्रुतिसुखकृत् क सति जि जकारे जकारस्य शिरसि उपगतवतीत्यर्थः ।
स्वजानाम छन्दः॥ ११ ॥
अष्टावधैं गा द्वयभ्यस्ता यस्याःसानंगक्रीडोक्ता ॥
दलमपरमपि वसुगुणितसलिलनिधिलघुकविर-
चितपदवितति भवति ॥ १२॥
यस्या अर्धे दले अष्टौ गा गुरवो भवंति कथंभूता गुरवः द्वयभ्यस्ता द्विगु-
णिताः षोडश गुरव एव स्युरित्यर्थः । तथापरं द्वितीयमपिः दलं वसुभिरष्टभिर्गु-
णिता ये सलिलनिधयश्चत्वारो लघवो यत्तत्कविभी रचिता पदविततिः पदश्रे-
र्णियस्य तत् सा अनंगक्रीडानाम छन्दो भवति ॥ १२ ॥

1 सटीकः। ३५ त्रिगुणनलघुरवसिति गुरुरिति दलयुगकृततनु- रिह रुचिरा ॥ १३॥ इति मात्राप्रकरणम् ॥ इति श्रीमहकेदारविरचिते वृत्तरत्नाकरे द्वितीयोऽध्यायः ॥२॥ त्रिगुणास्त्रिभिर्गुणिता नव लवबो यस्यां सा त्रिगुणनवलघुः अवसितौ अव- माने गुरुर्यस्याः सा अवसितिगुरुः इत्येवं दलयुगेन खंडयुग्मेन कृता तनुर्यस्याः सा दलयुगकृततनुः रुचिरानामेति छंदः ॥ १३ ॥ इति वृत्तरत्नाकराग्व्ये छंदसि टीकायां मात्राप्रकरणवृत्तौ द्वितीयोऽध्यायः ॥ २ ॥ उक्ता गः श्रीः ॥ १ ॥ अत्युक्ता गौ स्त्री ॥ २॥ मध्या मो नारी रोमृगी ॥३॥ प्रतिष्टा म्गौ चेत्कन्या ॥४॥ इदनीं समवृत्ताध्यायमभिधातुमाह ॥ गः गुरुयदि पादेयादे. एकैको वर्णो भवति तदा उक्तायां जातौ श्रीनाम वृत्तं भवति ॥ १ ॥ पादेपादे द्वौ गकारौ यदि भवतस्तदा अत्युक्तायां जातौ स्त्रीनाम छदो भवति ॥ २॥ पादेपादे एकैको मगणो यदि भवति तदा मध्यायां जातौ नारीनाम छन्दः । गे रगणो यदि भवति तदा मध्यायां जातौ मृगीनाम छन्दः ।। ३ ॥ एवं यावंतश्छन्दोभेदा भवंति नावंत एवमवतार्याः । गौ मगगगुरू चेद्यदि भवतस्तदा प्रतिष्ठायां जाती कन्यानाम छन्दः ॥ ४ ॥ सुप्रतिष्ठा ॥ भगौ गिति पंक्तिः ॥५॥ गायत्री । त्यो स्तस्तनुमध्या । शशिवदना न्यौ त्सौ चेद्वसुमती ॥६॥ भगा भगणो द्वौ गुरू च भवत इति सुप्रतिष्ठायां जाती पंक्ति मन्छन्दः ।। ॥६॥ त्यो तगगयगणी यदि स्तस्तदा गायत्र्यां जातौ तनुमध्या। न्यौ नगणय- गणौ यदि तदा शशिवदना । चेद्यदि त्सौ तगणसगणो भवतस्तदावसुमनी ॥

वृत्तरत्नाकरः। उष्णिक । मधु यदि ननगाः। कुमारललिता ज्सौ ग । म्सौगः स्यान्मदलेखा ॥ ७॥ यदि ननगाः द्वौ नगणी गुरुश्च भवति तदा उष्णिहि जातौ मधुसंज्ञं भवति । ज्सौग जगणसगणौ गुरुश्च कुमारललिता । म्सौगः मगणसगणी गुरुश्च यदा भवति तदा मदलेखा ॥ ७ ॥ अनुष्टुप् ॥ भौ ग्गिति चित्रपदा गः। मो मो गो गो विद्युन्माला॥माणवकं भात्तलगाः । म्नौ गौ । हंसरुतमेतत् । र्जी समानिका गलौ च । प्रमा- णिका जरौलगी। वितानमाभ्यां यदन्यत्॥८॥ अथानुष्टुब्जाती भोग्ग द्वौ भगणी गुरुद्वयं च यदा भवति तदा चित्रपदा- नाम । मो मो गो गो द्वौ मगणौ द्वौ गुरू च विद्युन्माला छन्दः । भाद्भगणात् परे तलगाः तगणलघुगुरवो यदि भवंति नदा माणवकं छंदः । मगणनगणौ द्वौ गुरू चेत्तत् हंसरुतं नाम छंदः रगणजगणी गुरुलघू च यदि भवतस्तद समानिकानाम छंदः । जगणरगणी लघुगुरू च तदा प्रमाणिकानाम छन्दः । आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यलक्षण तद्वितानं नाम छन्दो भवति ॥८॥ बृहती । रानसाविह हलमुखी । भुजगशिशुभृता नौ मः ॥ ९॥ अथ बृहत्यां जातौ रात् रगणात्परौ नसौ नगणसगणौ यदि भवतस्तदा हलमुखीनाम छंदः । इहास्मिन् शास्त्रे द्रौ नगणौ मगगश्च यदि भवति तदा भुजगशिशुभृतानाम छंदो भवति ॥ ९॥ पंक्तिः । म्सौ ज्गौ शुद्धविराडिदं मतम् । म्नो य्गौचेति पणवनामेदम् । जौ रगौ मयूरसारिणी स्यात् । भ्मौ सगयुक्तौ रुक्मवतीयम् । ज्ञेया

सटीकः।
मत्ता मभसगयुक्ता । चंपकमाला चंद्रमसाद्गः ।
नरजगैर्भवेन्मनोरमा॥१०॥
पंक्तयां जातौ सौ मगणसगणौ गौ जगणगुरु. च यदि भवतस्तदा शुद्ध-
विराडिति मतमभिप्रेतम् । मगणनगणौ यगणगुरू च यदा भवतस्तदा पणव-
नामकं छंदः । रगणजगणौ रगणगुरू च यदि भवतस्तदा मयूरसारिणी नाम
छंदः स्यात् । भगणमगणौ सगणगुरुभ्यां युक्तौ यदि भवतस्तदा रुक्मवतीयं
भवति । मभसगाः मगणभगणसगणगुरवस्तैर्युक्ता यदा भवति तदा मत्ता
ज्ञेया । भगणमगणसगणाचेद्यदिगुरुः भवति तदा चंपकमालानाम 'छंदः ।
नगणरगणजगणगुरुभिर्युक्ता यदि भवेत्तदा मनोरमा भवति ॥ १० ॥
त्रिष्टुप् ॥ जौ ज्गौ गुरुणेयमुपस्थितोक्ता । स्या-'
दिन्द्रवत्रा यदि तौजगौगः । उपेंद्रवत्रा जतजा-
स्ततो. गौ। अनंतरोदीरितलक्ष्मभाजौ पादौ
यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि
मिश्रितासु स्मरंति जातिष्विदमेव नाम ॥ सां-
द्रपदं स्तौ नगलघुभिश्च । नजजलगैर्गदिता
सुमुखी । दोधकवृत्तमिदं भभभागौ । शालिन्यु-
ताम्तौ तगौ गोब्धिलोकैः । वातोर्मीयं गदिता
म्तौ तगौ गः । पंचरसैः श्रीतनगगैः स्यात् ।
म्भौ न्लौ गः स्यामरविलसिता। रानराविह
रथोद्धता लगौ । स्वागतेति रनभाद्गुरुयुग्मम् । .
ननसगगुरुरचिता वृत्ता । ननरलघुगुरुभिश्च भ-
द्रिका । श्येनिका रजौरलौ गुरुर्यदा। उपस्थि-
तमिदं सौ ताद्कारौ ॥११ ॥

-- ३८ वृत्तरत्नांकरः। त्रि टुभि जातो तगणजगणौ जगणगुरू च गुरुणा कृत्वा यदि तदेयमुप- स्थिता उक्ता कथिता । द्वौ तगणौ जगणगुरू गुरुश्च यदि भवति तदा इंद्रवज्रानाम छंदः स्यात् । जतजा जगणतगणजगणास्ततोऽग्रतो गुरू द्वौ च यदि भवतस्तदा उपेंद्रवज्रा भवति । अनंतरशब्दे पाश्चात्त्यवृत्तद्वयमिंद्रवज्रोपें- द्रवज्राख्यं गृह्यते अनंतरमुदीरितमनंतरोदीरितमनंतरोदीरितं तच्च लक्ष्म तद्भजतः अनंतरोदीरितलक्ष्मभाजौ यौ यदीयौ पादौ यस्या इमौ यदीयौ ता उपजातय उच्यते । इत्थमनेन प्रकारेण अन्यास्वपि जातिषु मिलितासु पूर्वाचार्या इदमेव नाम स्मरंति । यथा कुमारसंभवे प्रथमसर्गे उपजातिश्छंदः । “अस्त्युत्तरस्यां दिशि देवतात्मा" अत्र प्रथमपादे इंद्रवज्रा। “हिमालयो नाम नगाधिराजः" इत्यत्रोपेंद्रवज्रा । एवं तृतीयचतुर्थचरणयोरप्यवगन्तव्यम् । भ्तौ भगणतगणौ नगलघुभिः नगणगुस्लघुभिश्च सांद्रपदं नाम छंदः । नजजलगैः नगण- जगणजगणलघुगुरुभिस्तदा सुमुखी गदिता कथिता। भभभादाणाद्वौ गुरू यदि भवतस्तदा इदं दोधकं वृत्तं स्यात् । मततगगादग्रे द्वौ गुरू, भवतोऽत्राब्धि लोकैश्चतुःसप्तभिरक्षरैर्यतिविधेया तदा शालिनी उक्ता । अत्र छंदसि चतुर्वर्णे- भ्यः एका यतिः कार्या तत: सप्तवर्णेभ्यो द्वितीया यतिविधेया । परमत्र यदि यतिर्न स्यात्तदा छंदोप्यलीकः । मगणतगणौ तगणगुरु गुरुश्च इयं वातोर्मी । पंचरसै: पंचभिः षड्भिश्च यतिर्भवति मतनगर्गः भगणतगणनगणैर्गुरुभ्यां तदा श्रीर्नाम छंदः स्यात् । मगणभगणौ नगणलधुगुरवश्च भवंति तदा भ्रमरविलसिता स्यात् । इह छंदोजातौ रात् गणान्नरौ नगणरगणौ लघुगुरू च भवतस्तदा रथोद्धता नाम । रनभात् रगणनगणभगणाद्यदि गुरुयुग्म भवति तदा स्वागता भवति भगणभगणसगणगुरुगुरुभी रचिता वृत्ता नाम छंदः रगणजगणौ रगणलघुगुरवश्च यदा एवं तदा श्यनिका नाम छंदः । जगण सगणौ ततः तगणास्परौ गुरू च भवतस्तदा उपस्थितमिदं छंदः ॥ ११ ॥ लगती। चंद्रवर्त्म गदितं तु रनभसैः । जतौ तु वंशस्थमुदीरितं जरौ। स्यादिंद्रवंशा ततजैरसं- युतैः । इह तोटकमंबुधिसैः प्रथितम् । द्रुतविलं- २० सटीका। ३९ बितमाह न भौ भरौ । वसुयुगविरतिनी म्यो पुटोऽयम् । प्रमुदितवदना भवेन्नौ ररौ । नयस- हितौ न्यौ कुसुमविचित्रा। रसैर्जसजसा जलो- द्वतगतिः । भुजंगप्रयातं भवेद्यैश्चतुर्भिः। रैश्चतु- भिर्युता स्रग्विणी संमता । भुवि भवेन्नभजरैः प्रियंवदा । त्यो त्यौ मणिमाला छिन्ना गुहवः। धीरैरभाणि ललिता तभी जरौ । जजाविह मौ- क्तिकदाम जजौच। त्यो त्यावितिनिर्दिया पुष्प- विचित्रा। विभावरी तु सा जरौ जरौ यतः। प्रमि- ताक्षरा सजसजैरुदिता। ननभरसहिताभिहितो ज्ज्वला । पंचाश्वैश्छिन्ना वैश्वदेवी ममौ यौ। अब्ब्यंगैः स्याजलघरमाला म्भौ स्मौ । इह न- वमालिनी नजभरौ म्यौ। स्वरशरविरतिर्ननौ रौ प्रभा । भवति नजावथ मालती जरौ इति वद- तामरसं नजजाद्यः ॥ १२॥ जगत्यां जातौ रश्च नश्च भश्च सश्च रनभसा रगणनगणभगणसगणास्तैश्चंद्रव- म गदितं कथितम् । जश्च तश्च जतौ जगणतगणौ तु पुनः जरौ जगणरगणौ यदि भवतस्तदा वंशस्थं नाम छन्दः उदीरितं कथितम्।तगणनगणजगणैः रग- णसंयुक्तः इन्द्रवंशा स्यात् । इह छन्दोजातौ अंबुधिसैश्चतुःसगणैः तोटकं प्रथि- तम् । नश्च भश्च नभौ नगणभगणौ भगै भगणरगणौ च भवतस्तदा द्रुतविलंबित- माह । नौ नगणनगणौ म्यौ मगंणयगणौ च यत्र वसवोऽष्टौ युगानि चत्वारि तैर्यति यस्मात्सोऽयं पुटो नाम छन्दः।नौ नगणनगणौ ररौ रगणरंगणौ च यत्र भवतः सा प्रभुदितवदना भवेत् । न्यौ नगणयगणौ नगणयगणसंयुक्तौ यत्र सा कुसुम-

४०
वृत्तरत्नाकरः।
विचित्रा । रनैः पभिर्यतिः जसजसा जगणसगणजगणसगणैः रचिता या सा
जलोद्धतगतिनाम छन्दः । चतुर्भियैर्यगणैर्भुजंगप्रयातं नाम छन्दो भवेत् ।
चतुर्भिः : रगणैः स्रग्विणी संमता कथिता । नगणभगणजगणरगणैर्भुवि
पृथिव्यां प्रियंवदा नाम छन्दो भवेत् । तगणयगणौ तगणयगणौ च यत्र सा
मणिमाला नाम परं गुहवः छिन्ना गुहः कार्तिकेयस्तस्य वत्राणि मुखानि षट्
तत्संख्यया यतिविधेया तगतभगणौ जगणरगणौ च यत्र सा धीरैर्मनीषिभिः
ललिता अभाणि । चत्वारो जगणा यत्र तत् मौक्तिकदाम छंदः इह अस्मिन्-
शास्त्रे स्यात् । तगणयगणी तगणयगणौ च इत्यनेन प्रकारेण यत्र सा मुनिना
पुष्पविचित्रा निर्दिष्टा कथिता ।जगणरगणौ तु पुनः जगणरगणौ यतो भवतः।
सा विभावरी नाम। सगणजगणसगणजगणैः प्रमिताक्षरा नाम उदिता कथिता ।
नगणनगणमगणरगणसहिता । या सा उज्ज्वला अभिमता । द्वो मगणी ततो
द्वो यगणौ यत्र सा वैश्वदेवी परन्तु पंचाश्वदिछन्ना पंचाक्षरः प्रथमा यतिः
ततोऽश्वैः सप्तभिर्द्वितीया यतिः कार्या । अब्धयश्चत्वारोंगान्यष्टौ विरामो यत्र
मगणभगणौ सगणमगणी च स्थाच सा जलघरमाला नाम छन्दः । नगणजग-
णाभ्यां परौ भगणयगणौ यदि स्तस्तदा इह मन्दो जातौ नवमालिनी भवति ।
स्वरैः सप्तभिस्ततः शर: पंचभिविरतिविरामो यत्र च द्वौ नगणौ द्वौ रगणौ च
भवत: सा प्रभा नाम छन्दः । नगणनगणौ अथ जगणरगणौ यत्र स्तः सा मालती
नाम भवति । नगण जगणजगणात्परो यगणः स्यात्तदा इति तामरसं नाम त्वं
वद कथय ।। १२ ।।
अतिजगती । तुरगरसयतिनौ ततौ गः क्षमा ।
नो नौगस्त्रिदशयतिः प्रहर्षिणीयम् ॥ चतुर्ग्रहरिह
रुचिरी भौ सरौंर्गः । वेदै रंधेतौ यसगा भत्त-
मयूरम् । सजौ जतौ गो भवति मंजुभाषिणी।
ननततगुरुभिश्चंद्रिकाश्वर्तुभिः ॥ १३ ॥

सटीकः । ४१ अथाति जगती जातिः । तुरगरसयतिः सतपभित्रिरामः स्याद्यत्र द्वौ नगणी द्वौ तगणो गुमरेकच सा क्षमा नाम छन्दः । मगणनगणौ जगणरगणौ गुरुश्च त्रिदशयतिः त्रिभिरक्षरैस्ततो द्वितीयो दशाक्षविराम: इयं प्रहर्षिणी नाम छंदः। जगणभगणी सगगरगणौ गुरुश्च एभि : रुचिरा नाम छंदः । इह छंदसि चतुर्भिर- क्षरे: प्रथमा यतिः ततो ग्रहैनवभिरक्षद्धितीया यतिः कार्या।वदेश्चतुर्भिरक्षरः रंधेः नवभिर्यति: मगणतगणौ यगणसगणगुरुभिः सह यत्र च तत् मत्तमयूरं छंदः । जतौ जगणतगणौ सजौ सगण जगगो गो गुमश्च यत्र मा मंजुभाषिणी भवति। नगणनगणतगणतगणगुरु भिश्चंद्रिका नाम छंदः परमय : सप्तभिस्ततः ऋतुभिः षड्भिर्यतिः कार्या ॥ १३ ॥ शक्करी । म्तो नसो गावक्षग्रहविरतिरसंवाधा। ननरसलघुगैः स्वरैरपराजिता । ननभनलगिति" प्रहरणकलिता । उक्ता वसंततिलका तभजा जगी गः सिंहोद्धतेयमुदिता मुनिकाश्यपेन । उद्धर्पिणीति गदिता मुनिशैतवेन श्रीपिंगलेन कथिता मधुमाधवीति ।।१॥ इंदुवदना भजसनैः सगुरुयुग्मैः ॥ द्विःसप्तच्छिदलोलाम्मो म्भौ गौ चरणे चेत् ॥ १४॥ अथ शक्कया चतुर्दशाक्षरायां जाती मगणतगणी नगणसगणौ द्वौ गुरू च. तदाऽसंवाधा नाम छंदः । अत्र अक्षैरिद्रियः पंचभिः ग्रहैनबभिर्यति: कार्या । नगणनगणरगणसगणलघुगुरुभिरपराजिता नामः छंदः अत्र स्वरैः सप्तभिर्यतिः कार्या । द्वौ नगणौ भगणनगणौ लघुगुरू च इत्यनया रीत्या । प्रहरणकलिका नाम छंदः । तगणभगणजगण जगणा द्वौ गुरू च एभित्रसंततिलका उक्ता । मतांतरमाह । इयं वसंततिलका काश्यपेन मुनिना सिंहोद्धता उदिता भणिता तथा शैतवेन मुनिना इयमुर्बिणी निगदिता । श्रीपिंगळेनाचार्येणेयं मधुमाधवी- 0

४२
वृत्तरत्नाकरः ।
ति कथिता । एवं च रूपाण्यपि मतानि । भगणजगणसगणनगणैर्गुरुयुग्म-
सहितरिंदुवदना स्यात् । चेद्यदि चरणे पादे मगणसगणौ मगणभगणौ द्वौ
गुरू च तदा अलोला नाम छंदः ॥ अत्र द्विःसप्तच्छित् द्वौ वारौ सप्तभिः
सप्तभिः ठित छेदो यतिविराम इति ॥ १४ ॥
अतिशकरी। द्विहतहयलघुरथगिति शशिकला
स्रीगिति भवति रसनवकयतिरियम् । वसुमु-
नियतिरिह मणिगुणनिकरः । मा बाणा यस्यां
सा कामक्रीडा ज्ञातव्या । ननमयययुतेयं मा
लिनी भोगिलोकैः । भवति नजौ भजौरसहितो
प्रभद्रकम् ॥ सजना नयौ शरदशकविरतिरेला
म्रौ म्यौ यांतो भवेतां सप्ताष्टकैश्चंद्रलेखा ॥१५॥
अथ पंचदशाक्षरायां शकया जातौ द्विहता द्वाभ्यां गुणिता हयाः सप्त-
जाताश्चतुर्दश प्रागेब तावंतो लघवस्तदनु एको गुरुरित्यमुना प्रकारेण शशिकला
नाम छंदो भवति। इयं शशिकला यदि रसनवकयतिः पड्नवभिर्यतिस्तदेत्यनया
रीत्या स्रग् नाम भवति । इह अस्यां शशिकलायामष्टसप्तभिर्यतिस्तयं मणि-
गुणनिकरः स्यात् । मा बाणा: पंच मगणाः यस्यां सा · कामक्रीडा संज्ञा
ज्ञातव्या ॥ द्वौ नगणौ एको मगणो द्वौ यगणौ च एभियुता इयं मालिनी
अस्या भोगिलोकः अष्टभिः सप्तभिश्च यतिर्विधेया । नगणजगणौ भगण
जगणौ रगणसहितौ तदा प्रभद्रकं नाम छंदो भवति सगणजगणनगणाः
नगणयगणौ च भवतो यत्र शरदशकविरतिः पंचभिस्ततो दशभिर्वर्णैर्यतिर्भवति
सा एला संज्ञा स्यात् । मगणरगणौ मगणयगणौ यगणांतौ यदि भवेतां
यतिश्च सप्तभिरष्टभिरक्षरैर्भवेत्तदा चंद्रलेखा संज्ञा स्यात् इत्यतिशक्करी-
जातिः ॥ १६॥

सटीकः । ४ 1 अष्टिः । भ्रविनगैः स्वरांन्नवमृषभगजविलसितम् । नजभजरैः सदा भवति वाणिनी गयुक्तैः । जरौ जरौ जगाविदं वदंति पंचचामरम् ॥ १६॥ अथ अष्टि जातिस्तत्र अत्रीति । श्रौ भगणरगणौ त्रिनं नगणत्रितयं ततो गो गुरुरेकः एभिः भगर्जविलसितं नाम छंदोत्र स्वरात्सप्तभ्यः नवं यतिः । नगणजगणभगण जगणरगगैर्गुरुसहितः तदा वाणिनी नाम छंदो भवति । जग- परगणो जग गरगणो जगणगुरू च एतरिदं छंदः पंचचामरं नाम छंदोविदः वदंति कथयति ॥ १६ ॥ अत्यष्टिः। रसै रुद्वैश्छिन्ना यमनसभला गः शि- खारिणी । जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः। दिङ्मुनिवंशपत्रपतितं भरनभनलगैः । रसयुगहयैन्सौं म्रौ स्लौ गो यहा हरिणी तदा । मंदाक्रांता जलधिषडगैम्भॊ नती ताद्गुरू चेत् । ... यदि भवतो नजौ भजजला गुरुर्नर्कुटकम् । मु- निगुहकार्णवैः कृतयतिं वद कोकिलकम् ॥१७॥ अथ अत्यष्टिजातिस्तत्र रतः पड्भिस्ततो रुद्ररेकादशभिश्छिन्ना विरतिर्यत्र च यगणमगणनगणसगणभगणलघवो गुरुश्च सा शिखरिणी स्यात् । जगणसगणौ जगणसगणयगणलववो गुरुश्च यत्र सा पृथ्वी नाम छंदः । अत्र अष्टभिस्ततो नवभिर्यतिः कार्या भगणरगणनगणभगणनगणलघुगुरुभिवंशपत्रपतितं नाम छंदोऽत्र दशभिस्ततः सप्तभिर्यतिः । षड्भिस्ततश्चतुर्भिस्ततः सप्तभिर्य तिर्यदा नगणसगणौमगणरगणौ सगणलघू गुरुश्च तदा हरिणीनाम छंदः स्यात् । चेद्यदि जलधिभिश्चतुर्भिः षड्भिः अंगैः सप्तभिः यतिः मगणभगणौ नगणतगणौ तात् तगणात् गुरू च स्यातां तदा मंदाक्रांता नाम छंदः। :यदि नगणजगणी

४४
वृत्तरत्नाकरः।
भवतः भगणजगणजगणलघवो गुरुश्च स्यात्तदा नकुंटकं नाम छंदः । इदं
नर्कुटकं यदि मुनिगुहकार्णवैः मुनिभिः सप्तमिः गुहकैरिति गुहः कार्तिकेयस्तस्य
कानि मुखानि षट् तैर्गुहकैः षड्भिः अर्णवैश्चतुर्भिश्च कृता यतिर्यत्र समुनिगुहका-
वैः कृतयतिस्तं तदा त्वं कोकिलकं नाम छंदः कथय ॥ १७ ॥
धृतिः । स्यातर्वश्वैः कुसुमितलतावेल्लिता
म्तो नयौ यौ॥ १८॥
धृतिर्नाम जातिस्तत्र यत्र भूतबंश्वः पंचषट्सप्तभिर्यतिः मगणतगणौ नगण
यगणौ द्वौ यगणौ च सा कुसुमितलतावलिता स्यात् ॥ १८ ॥
अतिधृतिः । रसवश्वैर्मों न्सौ ररगुरुयुता मेघ-
विस्फूर्जिता स्यात् । सूर्याश्वैर्मसजस्तताः सगु-
खः शार्दूलविक्रीडितम् ॥ १९ ॥
अथ अतिधृतिर्जातिः । यमनसररगणगुरुयुता मेवविस्तार्जितास्यात् । रसैः
पभिः अश्वैः सप्तभिः कृतविरामा । सूर्याश्चैः द्वादशसप्तभिः कृतविरामं मसजसत
तगणा गुरुसहिता यत्र तत् शार्दूलविक्रीडितं नाम छंदः स्यात् ॥ १९ ॥
कृतिः । ज्ञेया सप्ताश्वपभिर्मरभनययुता भ्लौ
गः सुवदना ।त्री रजौ गलौ भवेदिहेदृशेन लक्ष-
णेन वृत्तनाम ॥२०॥
अथ कृतिजातौ मरभनयगणसहिता भगणव गुरुश्च यत्र सप्ताश्वषड्भि-
यतिः सप्तभिः अश्वैः सप्तभिः पडभिः यतिः सा सुवदना ज्ञेया । त्रिस्त्रीन्
वारान् रगणजगणौ ततो गुरुलघु इह ईदृशेन लक्षणेन वृत्तनाम छन्दो
भवेत् ॥ २० ॥
प्रकृतिः । नभ्नैर्यानां त्रयेण त्रिमुनियतियुता
स्रग्धरा कीर्तितेयम् ॥२१॥

सटीकः ।
अथ प्रकृतिजाती मरभनगणस्ततो यानां त्रयेण यगणत्रयेण इयं स्रग्धरा
कीर्तिता । किंभूता स्रग्धरा त्रिमुनियतियुता सप्तभिस्ततः सप्तभिस्ततः सप्तभि-
विरामसहिता ! २१ ॥
आकृतिः श्री नरना रनावथ गुरुर्दिगर्कविरम
हि भद्रकमिदम् ॥२२॥
अथ आकृतिजाती भगणरगणो ततो नगगरगणनगणास्ततो रगण नगणी
अथ गुरुरिदं भद्रकं नाम छन्दः । किंभूतं दिगर्कविरमं दशभिर्वादशभिश्च
विरामो यत्र तत् । अत्र हि पादपूरणे ॥ २२ ॥
विकृतिः । यदिह नजौ भजौ भ्जभलगास्तदा-
श्वललितं हरार्कयति तत मत्ताक्रीडं मौ भनौ
नौन्लौ गिति भवति वसुशरदशयतियुतम् ॥२३॥
अथ विकृतिर्जातिः । यदिह शास्त्र नगणजगणौ भगणजगणभगणजगण-
भगणलघुगुरुश्च स्युस्तत् अश्वललितं नाम छंदः। किंभूतं तत् हरार्कयति ।
हरैरेकादशभिरर्फादशभिर्यतिर्विरामो यत्र तत् । द्वौ मगणी मगणनगणी द्वौ
गणौ नगणलघू गुरुश्च इति लक्षणेन मत्ताक्रीडं नाम । कीदृशं मत्ताक्रीडं वसु-
शरदशयतियुतमष्टपंचदशभिर्यतिस्तया सहितम् ॥ २३ ॥
संकृतिः। भूतमुनीनैर्यतिरिह भतनाः स्भौ भन-
याश्च यदि भवति तन्वी ॥ २४ ॥
अथ संकृतिर्जातिः । इह छन्दोजाती भतनाः सनौ भनयाश्च एते मा
यदि भवेयुस्तदा तन्वी नाम छंदो भवति । अत्र पंचसप्तद्वादशभिवतिः
कार्याः ॥ २४ ॥
अभिकृतिः । कौंचपदा भ्मौ स्भौ ननना न्गा-
विषुशरवसुमुनिविरतिरिह भवेत् ॥ २५ ॥

वृत्तरत्नाकरः। : अथ अभिकृतिर्जातिः । इह शास्त्रे चयदि :भगणमगगौ सगणभगणी चत्वारो नगगा एको गुरुश्च इषुभिः शरैः पंचभिः वसुभिरभिर्मुनिभिः सप्तभिश्च विरतिः स्यात्तदा क्रौंचपदा नाम छन्दो भवेत् ॥ २५ ॥ उत्कृतिः। वस्वीशाश्वच्छेदोपेतं ममतनयुगन- रसलगैर्भुजंगविजूंभितम् । मो नाः पट् सगगि- ति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥२६॥ अथ उत्कृतिजातौ ममतगणास्ततो नयुगं नगणयुगलं ततो नरसगणलघु- गुरवः एतैर्भुजंगविजंभितं नाम छंदो भवति । कीदृशं तत् वस्तीशाश्वच्छेदो- पेतमष्टकादशसप्तभिश्छेदो विरामस्तेनोपेतं युक्तम् । एको मगणस्ततो नगगाः पट् ततः सगणस्ततो गुरुद्वयमित्यमुना प्रकारेण यदि नवषट्पटपंचभियतिस्तया युतमुपेतं तदा अपवाहाख्यं नाम छंदः स्यात् ॥ २६ ॥ इति समवृत्तप्रकरणम् । यदीह नयुगलं ततः सप्त रेफास्तदा चंडवृष्टि- प्रयातो भवेदंडकः॥१॥ अथ चंडवृष्टयादिकदंडकानाह ॥ यदीहेति । यदि इह दंडकजातो आदी नयुगलं नगणयुगम् ततः सप्तः रेफाः सप्त रंगणास्तदा चंडवृष्टिः दंडको भवेत् चत्वारोपि पादा ईदृशेन लक्षणेन कर्तव्याः ॥ १ ॥ प्रतिचरणविवृद्धरेफाः स्युरार्णवव्यालजीसूत- लीलाकरोदामशंखादयः॥२॥ तथात्र प्रतिचरणविवृद्धरेफा इति । दंडकं दंडकं प्रति पादेपादे एकैकर- गणवृद्धिःक्रियत तदा अमूनि नामानि दंडकानां पृथक् स्युः । आदौ सर्वत्र नगण द्वयमेव कार्यम् तथा च द्वी नगगी ततःसप्त रगणाः अत्र तु द्वौ नगणी पादेपादे ततः अष्टौ रगणास्तदा अर्णनाम दंडकं स्यात् । एवं प्रतिदंडकवृद्धी नव- भिरर्णवनाम दशभिः रगणैालः एकादशभिःरगणैर्जीमूतनाम द्वादशभिरगणै-

सटीकः।
४७
-
लीलाकरः त्रयोदशभिः रगणैरुद्दामः तथा पादेपादे आदौ द्वी नगणी ततश्च-
तुर्दश रगणास्तदा शंखो नाम दंडको भवति आदिशब्दात्पथ. (?) गगनस-
मुद्रादयोपि शिष्ट कृतनामानो गृह्यते रगणवृद्धिरपि कर्तव्या ॥ २ ॥
प्रचितकसमभिधो धीरधीभिः स्मृतो दंडको
नद्वयादुत्तरैः सप्तभिर्यैः ॥३॥
इति श्रीभट्टकेदारविरचिते वृत्तरत्नाकराख्य छंदसि
समवृत्ताध्यायस्तृतीयः समाप्तः ॥३॥
तथा नगणद्वयादुत्तरैरप्रेतनैः सप्तभिर्येर्यगणैःधीरधीभिः पंडितैः प्रचितकसम-
भिधो नाम दंडकः स्मृतः कथितः ॥ ३ ॥ इति दंडकाः ।।
इति वृत्तरत्नाकराख्ये छंदसि टीकायां समवृत्ताध्यायस्तृतीयः ॥ ३ ॥
विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुका-
बुपचित्रम् ॥ १ ॥ भत्रयमोजगतं गुरुणी चेत
युजि च नजौ ज्ययुतौ द्रुतमध्या ॥२॥
इदानीमर्धसमवृत्ताध्यायो व्याख्यायते ॥ विषमे दले प्रथमतृतीये पादे यदि द्वौ
सगणी ततः सगणलघुगुरवो भवंति पुनर्यदा युजि समे दले द्वितीयचतुर्थपादे
द्वौ भी भगणौ ततो भात् भगणात् द्वौ गुरू भवतस्तदा उपचित्रं नाम छंदः ।
अत्र तृतीयपादः प्रथमपादसदृशः चतुर्थपादो द्वितीयपादसदृशः एवं सर्वत्रार्व-
सभच्छंदसि ज्ञेयम् ॥ १ ॥ चद्यदि ओजगतं विषमपादोत्पन्नं लक्षणं भगणत्रयं
प्रथमं ततो गुरुणी गुरुद्वयं च पुनः युजि समे पादे नगणजगणी जगणयगग-
सहिती भवेतां तदा द्रुतमध्या नाम छंदो भवति ॥ २ ॥
सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि
भागौ ॥३॥

४८ वृत्तरत्नाकरः। ॥ विषमे पाद सगणयुग्मात्सगणगुरू वैद्यदि भवतः इह युजि समे पादे भी भग- गो ततः पुनर्भगणात द्वी गुरु यदि भवतस्तदा वेगवती नाम छंदो भवति॥३॥ ओजे तपरौ जरौ गुरुश्चेत् म्सौ ज्गौ भद्रविराड्र भवेदनोजे ॥४॥ ओजे विषमे पादे तगणात्परौ जगणरगणौ गुरुश्चेद्भवति अनोजे समे पादे मसीजगणगुरू च तदा भद्रविराट् नाम छंदो भवेत् ॥ ४ ॥ असमे सजौ सगुरुयुक्तो केतुमती समे भरनगा- द्गः ॥५॥ आख्यानकी तो जगुरू च ओजे जतावनोजे जगुरू. गुरुश्चेत् ॥६॥ असमे विषमे पादे सजी सगणजगणी सगणगुरु ताभ्यां युक्ती भवतां समे पादे भगणरगणनगणगुरवः एभ्यः पुनर्गुरुरेको यदि भवति तदा ऋतुमती नाम छंदः स्यात ॥ ५॥ ओजे विषम पाद तो दी तगणी जगुरू जगणगुरू पुन- रनोजे समे पाद जगणतगणौ ततो जगणगरू, पुनरेको गुरुटचेत्तदा आख्यानकी नाम छन्दः ॥ ६ ॥ जतौ जगौ गो विषमे समे स्यात् तो ज्गौ ग एषा विपरीतपूर्वा ॥७॥ विषमे पादे जगणतगणी जगणगुम गुनश्च पुनः सम पाद तो द्वौ तगगो जणगगुरू गुरुरेकश्च स्यात् तदा एपा. विपरीतपूर्वा विपरीताख्यानकी भवति ॥ ७ ॥ सयुगात्सलघू विपने गुरुयुजि नभो च भरौ हरि- णीप्लुता ॥८॥ अयुजि ननरला गुरुः समे न्ज- मपरवत्रमिदं ततो जरौ ॥ ९॥ * विषमे पादे सगणयुग्मात् उगणा गुनश्च पुनर्युजि समे पाद नगणभगणी भगणरगणी च तदा हरिणाप्लुतानाम उन्दो भवति ॥ ८ ॥ अयुजि विषमे पादे सटीक 1515515 ४९ द्वौ नगणी. ततो रगणलधुगुरवः ससे पादे नगणजगणौ ततोऽनंतरं जगणरगणौ इदमपरवकं नाम छन्दः ॥ ९ ॥ अयुजि नयुगरेकतो यकारो युजि च नजो जर- गाश्च पुष्पिताया ॥ १०॥ वदंत्यपरवक्राख्यं वैतालीयं विपश्चितः ॥ पुष्पिताग्राभिधं के- चिौपच्छंदसिकं तथा ॥ ११ ॥ अयुजि विषमे पादे नगणयुगं च रेफश्च नगणयुगरेको ताभ्यां नगणयुगरे- फतो यगणों भवति च पुनः यजि समे पादे नगणजगणी ततो जगणरगणगुर- वश्च तदा पुष्पिताग्रानाम छन्दो भवेत् ॥१०॥ यदिदमपरवत्राख्यं नाम छन्दस्त- द्विपश्चित: पंडिता घेतालीयं वदंति कथयंति पाश्चात्त्यं पुष्पितामाभिधं छन्दो भवेत् ततः केचिदाचार्या औपच्छन्दसिक वदंति ॥ ११ ॥ स्यादयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुर्य- दा यवान्मतीयम् ॥ १२॥ इति श्रीभट्टकेदारविरचित वृत्तरत्नाकराख्ये छंदसि अर्द्धसमवृत्तरूपश्चतुर्थोऽध्यायः ॥४॥ अयुग्मके विषभे पाद रगणजगणी ततो रगणजगणी तु पुनः समे पादे जगणरगणी ततो जगणरगणी गुरुश्च तदा इयं यत्राद्यवशब्दात्परा मती यवमती- त्यर्थः ॥ १२ ॥ इति वृत्तरत्नाकराख्ये छन्दसि टीकायां अर्धसमवृत्तम्पश्चतुर्थोऽध्यायः ॥ ४ ॥ मुखपादोऽष्टभिर्वर्णैः परस्मान्मकरालयैः क्रमाव- द्वाः ॥ सततं यस्य विचित्रैः पादैः संपन्नसौंदर्यं तद- भिहितममलधीभिः पदचतुरूर्वाभिधं वृत्तम् ॥१॥ अथ विषमवृत्ताध्यायो व्याख्यायते । मुखपाद । इति यस्य वृत्तस्य मुखपाद भदिपादोऽष्टभिवणः अस्मात् मुखपादात्परे अग्रेतनास्त्रयः पादा मकरालयश्चतु.

वृत्तरत्नाकरः।
..
स
तथा
भिरक्षरः : क्रमात् क्रमेण वृद्धा भति द्वितीयपादो द्वादशभिरक्षरैः तृतीयः पादः
पोडशाक्षरैश्चतुर्थो विंशत्यक्षरैः अमलधीभिः पंडितैस्तत् पदचतुरू भिधं
वृत्तमभिहितं भणितं किंभूतं तत् सततमनवरतं यस्य वृत्तस्य विचित्रः नाना-
विवः पादैः संपन्चसौंदर्य जातचारुत्वम् ॥ १ ॥
प्रथममुदितवृत्ते विरचितविपमचरणभाजि गुरु-
कयुगलनिधनेइह कलित आङाविधृतरुचिरप-
दविततियतिरिति भवति पीडः ॥२॥
प्रथममिति । इह शास्त्रे प्रथममुदितवृत्ते पूर्व प्रतिपादिते वृत्ते पदचतुरूा-
भिधे वृत्ते आङा कलितः पीडो नाम छदो भवति । आपीड इत्यर्थः । किंभूते
वृत्ते विरचितान् विषमान् चरणान् पादान् भजतीत्येवंशील:
तस्मिन् । किंभूतः आपीडः गुरुयुगलं निधनेऽवसाने
यस्य स तथा पुनः किंभूतः । विधृता रुचिरा पदविततौ यति]न स
तथा भावार्थस्त्वयम् आपीडच्छंदसि सर्व लक्षणं पदचतुर्थाभिधयुक्तं किंतु पदे
पदे प्रांते गुरुद्वयं कार्यम् ॥ २ ॥
प्रथममितरचरणसमुत्थं श्रयति जगति लक्ष्म
इतरदितरजनितमपि यदि चतुर्थं चरणयुगल-
कमधिकृतमपरमिति कलिका सा ॥३॥
प्रथममिति । तुर्य चतुर्थोशः पाद इत्यर्थः । यदि प्रथमं तुर्य प्रथमपादः
अष्टाक्षररूपः इतरचरणसमुत्थं द्वितीयचरणभवं द्वादशाक्षररूपं लक्ष्म लक्षणं
श्रयति । इतरत्तुर्यं द्वितीयपादो द्वादशाक्षररूपः इतरजनितमपि प्रथमपादजनि-
तमष्टाक्षररूपं श्रयति अपरं चरणयुगलं तृतीयचतुर्थमधिकारापन्नं
पूर्वोक्तं क्रमेण षोडशविंशत्यक्षरं लक्ष्म चिह्न श्रयति इत्यनेन प्रकारेण जगति
टोके तदा सा कलिकानाम छन्दः ॥ ३॥

सटीकः। ५१ द्विगुरुयुतसकलचरणांता सुखचरणरचितमनु- भवति तृतीयः। चरण इह हि लक्ष्म प्रकृतमपरम-. खिलमपि भजति लवल्या ॥४॥ सा लवल्यानाम छंदो भवति । किंभूता । द्वाभ्यां गुरुभ्यां युतं युक्तं सकळ- चर गानामंतोवसानं यस्याः तथा इहास्यां लवल्यायां हि निश्चित तृतीयः चरणों मुखचरणरचितं प्रथमपादोद्भवं लक्ष्म अनुभवति आश्रयते । प्रकृतं प्रस्तुजपर- मन्यदखिलं चरणत्रयं भजति ॥ ४ ॥ प्रथममधिवसति यदि तुर्य चरमचरणपदमक- सितगुरुयुग्मा । निखिलमपरमुपरितनसमभिह ललितपादत्रितयममृतधारा ॥५॥ - प्रथममधीति । प्रथमं तुर्य प्रथमपादोष्टाक्षररूषो यदि चरमचरण चतुर्थ पदं स्थानमधिवसति प्राप्नोति निखिलं समस्तमपम मन्यत् उपरितन समं पाश्चात्य- समान ललितपादत्रितयमिह शास्त्रे पादचतुरुर्व तदा अमृतधारानाम दो भवति । किंभूता अमृतधारा अवसितेः अवसाने गुरुयुमं यस्याः सा अन- सितगुरुयुग्मा ॥ ५॥ इति पादचतुरूप्रकरण समाप्तम् । सजमादिमे सलघुको च नसजगुरुकेष्वयो- द्वता ॥ त्र्यंत्रिगतभनजला गयुताः जगौ चरम- मेकतः पठेत् ॥१॥ सजमादिमे इति । आदिमे प्रथमे पादे सज सगण जगगौ पुनः सगणलबू भवतः । अथ द्वितीये पादे नगणसगण जगणगुरुपु सत्सु उगतानाम छन्दः त्रिशब्दस्तृतीये वर्तते त्रिश्चासावंधिश्च त्र्यंधिस्तृतीयपादस्तत्र गलाले च है, मग. J ५२ वृत्तरत्नाकरः। भासजगणलवो मुख्युताः स्युः चरम पश्चिमं पादं सगणजगणसगणा जगणनुरूच यदि एकतः एकत्र पठेत् भणेत् तदा उद्तानाम छंदो भवति॥१ चरणवयं भजति लक्ष्म यदि सकलमुद्गतागतं को भूगो भवति सौरकं चरणे यदीह भवतस्ट- तीयके ॥२॥ चालत्रयमित्ति । यदि इह छन्दसि तृतीय चरणे नौ रगणनगणौ भगौ भगण गुरू च भवतः अपरं तृतीयवधैं सकलं दलं चरणत्रयं यदि उद्गतागतं लक्ष्म- लक्ष मजति तदा सौरमकं नाम छन्दो भवति ॥ २॥ नयुग्रं सकारयुगलं च भजति चरणं तृतीयकम् । तदितमुरुमतिमिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥३॥ नमामिति । यदि तृतीयक चरणं पादं नगणद्वयं सगणद्वयं चास्य शेषमपर मक्षा खलु निश्चितं पूर्वतुल्यकमुद्गतागतं लक्षणं भजति तदा उस्मतिभिः मनुस्मतिभिः पंडितेस्तवृत्तं ललितं नाम उदितमुक्तत् ।। ३ ।। इत्युद्गताप्रकरणं समाप्तम् । म्सौज्मी गौ प्रथमांघ्रिरेकतः पृथगन्यत् त्रितयं सनजरगास्तथा ननौ सः॥त्रिनपरिकलितजयो प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ १ ॥ साविति । मंगणसगणौ जगणभगणौ द्वौ गुरू च एषः प्रथमांदिवरणः श्कतः प्रथमपादात्पृथगन्यदनेतनं पादत्रितयं किंलक्षणरूपमित्याह । सगण नगणजगणरगणगुरवो द्वितीये पादे । तथा ननौ द्वौ नगणौ सगणश्च तृतीये

सटीकः।
५३
पादे । त्रयश्च ते नास्त्रिनास्तविनैः परिकलितौ युक्तौ च तौ जयौ जगणयगगौ
चतुर्ये पादे यदि भवतस्तदोपस्थितपूर्व प्रचुपितमुपस्थितप्रचुपितं नाम छंदः
इदमुदितं कथित छंदोविद्भिरिति शेषः ॥ १ ॥
नौ पादेथ तृतीयके सनौ नसयुक्तौ प्रथमांत्रिय-
ति यदि प्रवर्धमानं त्रितयमपरमपि पूर्वसदृश-
मिह भवेत्प्रविततमतिभिरिति गदितं खलु
वृत्तम् ॥२॥
नौ पाद इति । अयानंतरं तृतीयके पादे नौ हौ नगणौ पुनः सगणनगणी
नगगसगगयुक्तो यदि स्तः अपरमन्यत् पादत्रितयमिह शास्त्रे पूर्वसदृशं पाश्चात्य
छंदःसमानमपि निश्चितं भवेत् यदि प्रथमांत्री यतिस्मित्त प्रयाप्रियति ।
प्रविततमतिभिपिस्ती गवुद्धिभिनरः खलु निश्चितमित्येवंभूतं वर्धमान लदो गदित
कथितम् ॥ २ ॥
अस्मिन्नेव तृतीयपादके तजराः स्युः प्रथमे च
विरतिरापभं वदंति ॥ तच्छुद्धविराटपुर स्थितं
त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥३॥..
अस्मिन्नेवेति । अस्मिन्नेव बर्द्धमानसंज्ञके छंदसि तृतीयपादके तजराः तम-
णजगणरगणाः स्युः प्रथमे च पादे विरतिः कार्या । अपरं पादत्रितयं यदि
पूर्वसमं स्यात् बुधास्तद् शुद्धविराटपुरःस्थितमार्षभं छंदो वदंति शुद्धविराडार्षभ-
मित्यर्थः ॥ ३ ॥ इत्युपस्थितप्रचुपितप्रकरणम् ।।
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ॥
यच्छंदो नोकमत्र गाथेति तत्सरिभिः प्रोक्तम् ॥ १॥
इति श्रीभट्टकेदारविरचिते वृत्तरत्नाकराख्ये छंदसि
विषमवृत्तनिरूपणाख्यः पंचमोऽध्यायः ॥५॥

५४ वृत्तरत्नाकरः। विषमाक्षरेति । विषमाक्षराः पादा यस्मिंस्तद्विपमाक्षरपादं छंदः । यस्येदमेव अष्टदशतप्तनवाक्षरं पादवृत्तं तथा पादैरसमं त्रिपादं पद्मादं त्रिषट्पादभेदात् । दशवर्भवत । यथा । दश धर्म न जानति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मतः श्रांतः क्रुद्धो बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश है इथं खलु षट्पदी गाथा । इत्येवमादि यच्छंदोत्र नोक्तं तत्पूर्वसूरिभिरि- त्येय गाथा प्रोक्ता किंनाम गाथा । गीतिका कलिका वेल्लितका द्विपदीध्रुवको- साहचत्वरी पदुलिकाप्रभृति तत्सर्व गाथासंज्ञकम् ॥ १ ॥ इति वृत्तरत्नाकराख्ये संदसि टीकायां विषमवृत्तनिरूपणाख्यः पंचमोऽध्यायः॥५॥ प्रस्तारो नष्टमुदेिष्टमेकट्यादिलगक्रिया । संख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥१॥ प्रथमं द्वारलोकमाइ । प्रस्तार इत्यादि । द्वाराणि अमूनि प्रस्तारः १ नाटा १ उदिएम् ३ एकद्वयादिलगक्रिया ४ संग्ख्या ५ अध्वयोगः ६ एते पटू प्रत्ययाः स्मृताः ।।१॥ पादे सर्वगुरावाद्यालधुं न्यस्य गुरोरधः॥ यथोपरि तथा शेष भूयः कुर्यादमुं विधिम् ॥२॥ प्रस्तारमाह । पादे सति । सर्वगुरौ पादे आद्याद्गुरोरधो लधुं न्यस्य यथा उपरि तथा शेपं समस्तमुर्वरितं भूयोभूयः पुनःपुनरप्यमुं विधिं कुर्यात् ॥ २ ॥ उने दद्याद्गुरूनेव यावत्सर्वलधुर्भवेत् ॥ प्रस्ता- रोयं समाख्यातश्छंदोविचितिवेदिभिः ॥३॥ इति प्रस्तारः।

सटीकः।
५५
ऊन इति । ऊने पश्चादूने गुरूगेव दद्यात् तावद्यावत्सर्वलधुर्भवत् प्रस्तार्यत
इति प्रस्तारः वर्णानां विस्तारो न्यासः समाख्यातः कथितः । कैः छंदांसि
विचीयतेऽस्यामिति छन्दोविचितिस्तां विदंतीति छंदोविचितिवेदिनस्तै: पंडितः ।।
S
*-
SSS
155
SIS
॥5
अथ प्रस्तारस्य स्थापनाप्रकारः ।
SSI
ऽऽ२
IS
SI
॥
151
डा
एवं संक्षेपेणोक्त्वा विस्तारमाह । पादे सर्वगुरौ इति । पादे यावंतो वर्णा-
स्तावंतो गुरव एव लिख्यते आदी यथा सर्वच्छंदोजातिषु वर्णसंख्यया गुरवो
लिख्यते । प्रथमरूपजातमेतावता तथा त्र्यक्षरे छंदसि स्थापना दृश्यते द्विती-
यप्रस्ताररूपे क्रियमाणे आद्याद्गुरोरधो लघुर्व्यसनीयो यथात्रैव त्रिगुणप्रस्तारे
आद्यगुरोरधो लधुरस्ति तस्माद्विन्यस्तलयोरग्रतः यथोपरितनप्रस्तारे तथैव कर्त्त-
व्यम् । यत्रोपरि गुरुस्तत्राप्यधो गुरुः यत्रोपरि लघुस्तत्राधोपि लघुः यत्र प्रस्तारे
उपरि द्वौ गुरू अधोपि तथैव भूयो भूयः अमुमेव विधिं कुर्यात् यद्युपरितनप्रस्तारे
आदौ लघुर्द्वितीयो गुरुस्तदा तस्माद्वितीयादधो लघुय॑स्यते अग्रतो यथोपरि तथा
शपविधिः कार्यः ऊने दद्याद्गुरूनेव यत्पूर्व पाश्चात्त्यमूनं स्थानं तत्र गुरुर्दीयते
अथ तृतीयाद्गुरोरधो लघुस्ततः पूर्व द्वो गुरू दीयेते यद्वा चतुर्थाद्गुरोरधः यदि
लघुः स्यात् तदा त्रयः ऊनस्थाने दीयंते एवं तावन्मात्रः कार्यो यावत्सर्वलघुः
प्रस्तारो भवेत् ॥ इति प्रस्तारविधिः । तथा चतुर्थवर्णप्रस्तारे. षोडश रूपाणि
लभ्यते । स्थापना लिखितैवास्ति एवं वृत्ते यावंतो वास्तावानयं प्रस्तारोपि
कर्तव्यः ॥ ३ ॥

वृत्तरत्नाकरः। " . नष्टस्य यो भवेदकस्तस्याऽचे समे चलः ॥ विषमे चैकमादाय तदर्धेऽर्धे गुरुर्भवेत् ॥ इति नष्टं समाप्तम् ॥ उद्दिष्टं द्विगुणादायादुपर्यकान् समालिखेत् ॥ लघुस्था ये तु तत्रांकास्तैः सै- कैमिश्रितैर्भवेत् ॥ १॥ इति उदिष्टं समाप्तम् ॥ नष्टमाह । नष्टस्येति । नष्टस्य गतरूपस्य योंकः तस्यांकस्य समेऽर्थे कृते लो लघुलभ्यते च पुनर्विषमे एकमादाय मध्ये निक्षिप्य अर्धे कृते तदर्वे गुरुभवेदित्यन्वयार्थः । यथा केनापि पृष्टस्य वृत्तस्यतत्र्यक्षर जातिकस्य प्रस्तारे चतुर्थरूपं कीदृशं स्यात् । नष्टस्य चतुर्थ कोंकः समो भवति तस्य समांकस्यार्वे कृते लघुर्लभ्यते पुनर्वरितौ द्वौ समौ तपोर्धे कृतेपि लघुलभ्यते ततः उर्वरितः एको विषमः विषमभागं न दत्ते ततो विषमे चैकमादाय एकमध्ये क्षिप्त्या विषमः समः कार्यः सो-येको विषमः सैकः सन् द्वौ जाती तदर्धे तस्य विषमांकाय समीकृतस्यार्धे गुरुरेव लभ्यते एवं तावत्कर्तव्यं याव- त्पादाक्षरप्रमागं लभ्यते ततस्यक्षरे छंदसि चतुर्थरूपम् ॥ ईदृशं भवति पुनः केनापि पृष्ठं चतुरक्षरे छंदसि पंचमं रूपं कीदृशं भवति । पंचविषमास्ते सैका जाताः षट् तदर्वे विषमत्वाद्गुरूः प्राप्यते । पुनस्त्रयो विषमाः सैका जाताश्चत्वारस्तदर्धे च गुरुलभ्यते ॥ उर्वरितौ द्वौ समौ तदर्धेपि च लघुः प्राप्तः पुनर्वरित एकोऽत्य विषमस्याधं न भवति ततः एकमादायाचे कृते गुरुः प्राप्तः ततश्चतुरक्षरे छंदसि पंचमं रूपम् sss ईदृशं भवति इत्याम्नायः ॥ १ ॥ इति नष्टविधिः । उद्दिष्टमाह । उद्दिष्टमिति । कोऽर्थः कोपि पट्टके रूपं लिखित्वा कियत्तमं रूपमिदमिति पृच्छति । इदमुद्दिष्टमुच्यते उद्दिष्टा यावतो वर्गा लिखिताः संति तेषां मध्य आद्यम शरमादौ कृत्वा सर्वेषामुपरि द्विगुणि- तानंकान समालिखेत् आद्यवर्णस्य मस्तके एकैको लेख्यः, ततः स्थानद्विगुगिता सटीकः। अंकाः शिरसि लेख्याः कथं द्वितीयवर्णस्योपरि द्विकस्तृतीयवर्णस्योपरि चतु- ककः चतुर्थवर्णस्योपरि अष्टको देयः पंचमवर्णस्योपरि पोडश देयाः षष्ठवर्ण- स्योपरि द्वात्रिंशदंका देयाः एवं तावद्यावदत्यवर्णोपर्यंकः स्यात्तत्र येका गुरु- रूपोपरि लिखिताः संति तैन कार्यम् । लघुस्थाः लघुवर्णोपर्यपि येंकास्तत्र ते एकतो मूल्यंते एकीकृत्य पुनरेको मध्ये : क्षिप्यते ततस्तैलघुस्थैरंकौमिश्रितैरेकी- कृतैः सैकैरेकसहितैर्यावदको भवेत्तावत्तममिदं रूपमिति वक्तव्यम् ॥ १ ॥ इत्यु- द्दिष्टस्याम्नायः समाप्तः ॥ वर्णान् वृत्तभवान् सैकानुत्तराधरतः स्थितान् ।। एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत् ॥ उपां- त्यतो निवर्तेत त्यजे कैकमूलतः ॥ उपर्याया- इरोरेवसेकद्वयादिलगक्रिया ॥२॥ इत्येकद्वयादिलगक्रिया। एकादयादिलगक्रियार्थमाह । वर्णानिति । यावतो वृत्तभवा वर्णास्तावत: सैकान् एकसहितान् अवऊर्वस्थितान् कृत्वादिक्रमेण एतानुपरि उपरि निक्षि- पेत् उपांत्यतः समीपान्निवर्तेत व्याघटेत ऊर्चतः एकैकं त्यजेत् । उपरि आद्या- दिलगक्रिया भवतीत्यन्वयः।विस्तरमाह ।छंदोविद्भिर्वृत्तभवा यस्मिन् पादे यावंतो वर्णास्तावंत एकका लिख्यते सैकान् तन्मध्ये एकः पुनर्लिख्यते उत्तराधरतः अधः ऊधं स्थिता लिख्यते । चतुरक्षरपादनातौ स्थापना एतानेकादिक्र- मेण उपारी उपरि निक्षिपेत् । तावत् यावत् उपांत्यं ततः उपांत्यां- निवर्तेत उपांत्यं त्यजेदित्यर्थः । एकमेकमुपरि ऊर्ध्वतस्त्यजन् । आद्याद्गुरोरिति भावार्थमाह । चतुरक्षरे छंदसि आद्यमेकं वृत्तं सर्व- गुरु भवति चत्वारि त्रिगुरूणि भवंति । षट् रूपाणि द्विगुरूणि मवंति एकं सर्वलघु रूपं भवति कथमित्याह ॥ ये अध ऊध पंच एकास्तत्र वृत्तरत्नाकरः। प्रथम एको द्वितीये एकके क्षिप्यते तौ द्वौ जातौ तौ च तृतीयकके क्षिप्येते ते त्रयो जाताः तेच चतुष्कैकके क्षिप्यन्ते चत्वारो जाता: पाश्चात्त्योंक: एकः कुत्रापि न लु-यते ततः उपर्यकमेकं त्यजन् निवर्तेत ततः पुनरपि प्रथम एको द्वितीये द्वितीयके क्षिप्यते ते यो जाताः ते च तृतीये त्रिके क्षिप्यन्ते पट जाताः । तत उपर्यंकं चतुष्कं त्यजनियर्तेत । प्रथमांक सर्वगुरुप्रमाणं ततः पुनरपि प्रथमैको द्वितीये त्रिके क्षिप्यते चत्वारो जाताः तत उपर्थक पटकं त्यजन्निवर्तेत इतश्चतुष्कः पाश्चात्त्योंकः स कुत्रापि न लुप्यते ततः उप- यकं त्यजन्निवर्तेत तत्र प्रयमांके सर्वगुरुत्रमाग द्वितीयांके त्रिगुरुप्रमाणं तृतीयांके द्विगुरुप्रमाणं चतुय के एकगुरुप्रमागं पंचमां के सर्वलबुप्रमाणं चोर्वतो ज्ञातव्यम् अधस्ताच्च प्रथमांके सर्वलघुप्रमागं द्वितीयांके त्रिलघुप्रमाणं तृतीयांके द्विलबुप्रमा- णं चतुर्थी के एकलबुप्रमागं चरमांके सर्पगुरुप्रमागं च ज्ञातव्यम् ।। १ ॥ २ ॥ इति एकद्वयादिलगक्रिया ॥ लगक्रियांकसंदोहे भवेत्संख्याविमिश्रिते ॥ उद्दिष्टांकसमाहारः सैको वा जनयेदिमाम् ॥१॥ इति संख्या॥ संख्यामाह । लगक्रियांकेति । लगक्रियाकसंदोहे एकद्वयादिटगक्रियायाः अंकसमूहे विमिश्रिते एकतो मिलिते तद्ववृत्तवस्ताररूपसंख्यामिलितोंकः स यथा । चतुरक्षरजातौ एकश्चत्वारः षट्चत्वार एकश्चैते लगक्रियांका भवंति एतेषां लग- क्रियांकानां मिश्रीभावे षोडश भवंति ते षोडश एवं संख्या चतुरक्षरजातेः प्र- स्तारस्य । पक्षांतरमाह । वाथवा उद्दिष्टांकसमाहारः उदिष्टवृत्तवर्णशिरसि येका- स्तेषामेकीभावः पुनरेकरहितः इमां संख्यां जनयेत् तथा चतुरक्षरे छन्दसि द्वि- गुणैरंकैरारोप्यमाणैः पंचदश भवंति तैः सैकैः पोडश ॥ १ ॥ संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः॥ वृत्तस्यांगलिकी व्याप्तिमधः कुर्यादांगुलिम् ॥३॥ इत्यध्वा॥

सटीकः। ५९ अध्धानमाह । संख्यैवेति । चतुरक्षरजाती षोडश सन्यैव सा द्विगुणाद्वात्रिंश- द्भवति स सद्भिरधा वृत्तस्थानमार्गः कथितः । कथं वृत्तस्य वांगुलिकाम् अं- मुलिपरिमाणां व्याप्तिम् स्थानभूमि कुर्यात् तथा द्वयोः प्रस्तारयोरंतराले एको वांगुलं कुर्यात् एकत्रिंशदंगुलायां भुवि एवं चतुरक्षरं छन्दः प्रस्तार्यते अब ऊर्ध्वप्रमाणमिदं न तु दीर्घतायाः प्रमाणं तत्र प्रमाणाभावात् ॥ १॥ इत्यध्या ॥ एते षट् प्रत्ययाः ॥ वंशेभूत्काश्यपस्य प्रकटगुणगणः शैवसिद्धां- तवेत्ता विप्रः पव्येकनामा विमलतरमतिवेंदत- त्त्वावबोधे ॥ केदारस्तस्य सूनुः शिवचरणयुगा- राधनैकाग्रचित्तछंदस्तेनाभिरामं प्रविरचितमि- दं वृत्तरत्नाकराख्यम् ॥१॥ इति श्रीभट्टकेदारविरचिते वृत्तरत्नाकराख्ये छंदः- शास्त्र प्रस्तारप्रकरणं समाप्तम् ॥ वशेभूदिति । पव्येकनामा विप्रः काश्यपस्य वंशेऽभूत् । किंभूतो विप्रः प्रकट गुणगणः पुनः किंभूतः शैवसिद्धांतवेत्ता पुनः किंभूतः वेदतत्त्वावबोधे विमलत. रमतिः तस्य पव्येकस्य केदारः शिवचरणयुगाराधनेकाग्रचित्तःसूनुरभूत् तेन केदा- रेण इदं वृत्तरत्नाकाराव्यं छन्दः प्रविरचितं किंभूतं छन्दः अभिरामम् ॥ १ ॥ इति वृत्तरत्नाकराख्यच्छंदसो व्याख्या समाप्ता । a समाप्तोऽयं ग्रन्थः। खेमराज श्रीकृष्णदास, " श्रीवेंकटेश्वर " स्टीम् प्रेस-वंबई.

विक्रय्यछन्दो-ग्रन्थाः। की. रु.आ. छन्दश्चित्-इसमें किस रीतिसे छन्द पृक् २ मात्रामेलसे. रचना करना यह भलीभाँति दिखलाया गयाहै ०-१ छन्दोंकुर-भाषार्टीकासमेत । बूंदीनिवासि पं० गंगासहायजी विरचित ०-२ प्रस्ताराांदरत्नाकर-भाषाटीका अर्थात् श्लोक, छन्द, वृत्त आदिके प्रस्तारका वर्णन भलीप्रकार लिखागयाहै. श्रुतबोधवृत्तरत्नाकर-महन्मान्य पंडितशिरोमणि श्रीकालिदास और श्रीभट्टकेदार विरचित मूल संस्कृत । इन दोनों ग्रन्थों के अभ्या- ससे अनेक प्रकारके छन्द और वृत्तादि काव्यसरलरीतिसे बना- .... सते. .... .... .... श्रुतबोध-सान्वय-भाषाटीका । उपरोक्त रीतिसे भाषाटीकाके द्वारा छन्द्रज्ञान और भी शीघ्र होसक्ताहै. ३ भाषा-छन्दो-ग्रन्थाः। अलंकारप्रकाश-सेठ कन्हैयालाल पोदारप्रणीत । यह नवाविष्कृत प्रणालीसे सुगुम्फित अलंकारविषयका हिन्दीभाषाका सर्वोत्तम देखने योग्य ग्रन्थ है। जरूर संग्रह करिये. १-१२ छन्दरत्नमाला-पिङ्गल-भाषाकाव्य बनानेमें अत्यन्त उपयोगी है ... ०-२ छन्दप्रभाकर-भापापिङ्गल-सटीक । छन्दःशास्त्रके विशेष ज्ञानोत्पत्तिके लिये बाबू जगन्नाथप्रसाद ( उपनाम भानु कवि ) ने निर्माण कियाहै । भाषाकाव्य वनानेवालोंके लिये अत्युपयोगी है १-१२ छन्दपयोनिधि--इस "छन्दपयोनिधि" की सुपरिपाटी देखने योग्य है. इस ग्रन्थने जैसा नाम पायाहै वैसाही इसमें गुणहै ०-१२ छन्दार्णवपिङ्गल-(भिखारीदासकृत ; भाषाकाव्य रचना करनेमें ठीक है ०-१२ (व्याकरण-ग्रन्थाः) नाम की. रु. आ. .... O .... .." अष्टाध्यायी-(पञ्चपाठी गणपाठ, धातुपाठ, वार्तिकपाठ और लिंगानुशासन । विद्यार्थियोंको परमोपयोगी है. ०-१२ अष्टाध्यायीसूत्रपाठ-इसके पढनेसे कौमुदीका जल्दी पटन होताहै. .-३ अर्थप्रकाशिका-भाषाभाष्य। व्याकरण पढनेवालोंको अत्युपयोगी है. कारकस्वरूप-मापाटीकासहित । इसके द्वारा कालद्रव्यादिकका- शीघ्र बोध होताहै. कारकबादार्थ-जयरामपंडितप्रगीत ( इससे शब्दबोध, व्याकरण तमा न्यायका शब्दज्ञान होताहै ) ०-२ धातुरूपावली-लघुपाठसहित । इससे धातुओंका शीघ्र बोध होताहै. पूर्वपक्षावली-(पाणिनीयव्याकरण तथा उत्तरपक्षावली. -३ बालसंस्कृतवोधिनी-भापाटीकासहित । यह विद्यार्थियोंको अतीव उपयोगीहै ... -५ बालकोपदेशमालिका-रंगनाथ प्रबोधन और धर्मवाद समेत संस्कृता भ्यासियोंको संस्कृतभापाव्युत्पत्ति तथा भगवद्भक्ति और धर्मश्रद्धा होनेको यह बहुतही उत्तम गद्यपद्य काव्य है मध्यसिद्धांतकौमुदी-टिप्पणी सहित । यह काशी तथा पंजावादि देशोंमें प्रथमश्रेणीमें पढायी जाती है -१२ रूपमाला-सम्पूर्ण सन्धिभाग, अव्ययार्थभाग, प्रयोगविधिसंग्रह, ( कारकसमास तद्धितादिक क्रियाकलाप, आख्यातचंद्रिका, .... .... .... m- (३॥ जाहिरात । नाम. .... की. रु. आ. धातु रूपभेद और श्लोकयोजनिकोपाय यह ग्रन्थ विद्यार्थि- योंको अतीव उपयोगी है. निम्नलिखितानुसार अलग २ भाग भी मिलते हैं:- रूपमाला-१-व्याकरण पडलिंगविभाग, इससे लिंगबोध अच्छीप्र- कारसे होताहै. ०-६ २-संधिविभाग-शब्दोंकी पंचतन्धि समझनेका सुलभ उपाय. .... .... ३-अव्ययार्थभाग-इससे लोकादिके पदोंका अन्वय जानलेतेहैं. - ४-प्रयोगविधिसंग्रह-कारकसमास तद्धितादिक ०-२ :, ५-क्रियाकलाप, धातुरूपभेद, आख्यातचंद्रिका, श्लोक- योजनिकोपायनामहीसे समझलेंगे, लघुत्रिमुनिकल्पतरु-इसमें पाणिनि आदिका वृत्तान्त भलीप्रकार है.... ..-४ लघुसिद्धान्तकौमुदी--टिप्पगी सहित जिल्द बँधी वडा अक्षर ०-१२ घुसिद्धान्तकौमुदी- छोटा गुटका महीन अक्षर लघुसिद्धान्तकौमुदी--विद्यावारिधि पंडित--ज्वालाप्रसादजीमिश्रकृत उदाहरण, स्पष्टीकरण, नियमाङ्क, योजना तथा भापाटीका सहित २-- लघुव्याकरण--पूर्वार्द्ध लघुभाष्य--श्रीसरस्वतीकृत संपूर्ण व्याकरणसूत्र व्याख्यान सारस्वतके सूत्रोंपर महाभाष्यके अनुसार सर्वोत्तम व्याख्या है. लिङ्गबोधव्याकरण--भाषाटीकासमेत । इसके अभ्याससे पुलिंग, स्त्रीलिंग, नपुंसकलिंग आदिका ज्ञान शीघ्र होताहै शब्दरूपावली--एकाक्षरीकोषसहित- शब्दज्ञान और विभक्तिकी प्रथमश्रेणी की है. .... .... ... .... .... ....

की. रु. आ. .... .... .... ... . On .... .... .... : जाहिरात। (४) नाम. शाकटायन व्याकरण- शाब्दिकचूडामणि श्रीशाकटायनाचार्यविरचित शब्दानुशासन अर्थात् श्रीमद्भयचन्द्रसूरिप्रणीत प्रक्रियासंग्रह सहित । व्याकरण पढनेवालोंको अवश्य लेने योग्य है. समासकवलयाकर-नियमोंके साथ उदाहरणत्वरासे पदोंका समास करसक्ते हैं .... समासचक्र--नामहीसे ज्ञात होताहै -- सारस्वततीनोंवृत्ति-मूलमात्र. 1-१० सारस्वतमूल-पूर्वार्द्ध ग्लेज तथा रफ कागजका दाम, २-६ सारस्वतप्रसादटीका ०-१२ सारस्वत सम्पूर्ण-चन्द्रकीर्तिटीकासह ग्लेज कागज तथा रफ २.८ सारस्वत-चन्द्रकीर्तिटीकासह-(पूर्वार्द्ध ) ग्लेज कागज ०-१४ सारस्वत--चन्द्रकीर्तिटीकासह-( उत्तरार्द्ध) ग्लेजकागज ?-११ " तथा रफ १--१२ सारस्वत--सुबोधिनी भाषाटीकासह ( पूर्वार्द्ध मात्र विद्यार्थी सुगम- रातिसे समझसक्ते हैं. १-१२ सारस्वत--( व्याकरण ) श्रीमदनुभूतिस्वरूपाचार्यप्रणीत । और पंडितवर्यमाधवविबरणोपेत. २.० सिद्धान्तकौमुदी-महामहोपाध्याय भट्टोजिदीक्षित विरचितपाणिनीय- शिक्षा, परिभाषा, अष्टाध्यायी, गणपाट, धातुपाठ, लिंगानुशासन, सूत्रपाठ, आकाराद्यनुक्रमणिका तथा धातुसूचिसमेत । थोडा .... .... १-० "तथा रफ .... .... .... - दाम रक्खाहै .... เข้า . .... सिद्धान्तकौमुदी-तत्त्वबोधिनीटीकासहित सम्पूर्ण । इसके लौकिकभा- गमें-तत्त्वबोधिनी टीका, वैदिकभागमें-सुबोधिनी टीका, लिंगानुशासनमें-चन्द्रकला टीका और महामहोपाध्यायपं० - ५) जाहिरात । शिवदत्त विरचित टिप्पणिये संयुक्त कीगई है। तथा गणपाठ, धातुपाट, लिंगानुशासन, पाणिनीयशिक्षा, परिभाषापाट, सूत्र- सूची वार्तिक, गणसूत्र, परिभाषासमुचितमची, उणादि सूत्रसूची धातुसूची, फिट्सूत्रसूची, तथा लिंगानुशासन सूचियें भी युक्त कीगई हैं। सर्वसाधारणके सुभीतार्थ दामभी थोडा रक्खाहै.... ४-८ सिद्धान्तकौमुदी-केवल तत्त्वबोधिनी टीका पूर्वाद्धमात्र. २-० सिद्धान्तचन्द्रिका-मूलमात्र । इसीका प्रचार सर्वत्र .? & सिद्धान्तचन्द्रिका-सटीक । सुवोधिनी और तत्त्वदीपिकासमेत संपूर्ण O सुन्दर जिल्द. ... 3 सिद्धान्तचन्द्रिका-उपरोक्त टीकाओंसमेत पूर्वार्ट १--१२ तथा उत्तरार्द्ध १-१२ सुगमकौमुदी-(प्रथम द्वितीयात्मकखंड ) प्रथमभाग..... संस्कृतारोहण-पं० ज्वालाप्रसादजी मिश्रकृत भापाटीका यह यह छोटासा पुस्तक वाक्यरचनामें सर्वोत्तम है विद्यार्थियों को अवश्य लेने योग्यहै. -६ संस्कृतप्रवेशिका-भापाटीकासहित । यह भी विद्यार्ययोंको लाप्र. दायकहै. ०-१॥ संस्कृतशिक्षामञ्जरी-नूतन विद्यार्थी इसे अवश्य संग्रह कर संस्कृतशीघ्रबोधिनी-इस ग्रन्थसे संस्कृतका बोध जल्दी होताहै.. हिन्दीभाषाव्याकरण- प्रथमभाग ) व्याकरणही भाषाका मुख शुद्ध बोलना और लिखना व्याकरणही के द्वारा आता है। यह सरल और उपयोगी ६०० नियमोंमें पं० बनवारीलाल एचौरी- जीने निर्माण किया. है. पुस्तक मिलनेका ठिकाना-- खेमराज श्रीकृष्णदास, श्रीवंकटेश्वर'' स्टीम प्रेस मुम्बई. find .... ....

No text on this page.

श्रुतबोध वृत्तरत्नाकरौ ग्रंथो

Author
Bhatta Kedaar
Title
Shrutabodh Vrxttaratnaakarau Grantho
File name
श्रुतबोध वृत्तरत्नाकरौ ग्रंथो
Text
OCR done
Citation
1914
Published
2006/03/24
Publisher
Khemaraaj Shriikrxshhnd-daas, Shriivenkateshvar Stiim Mudrand-aalay, Mumba-ii
Language
Sanskrit
Pages
65
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477421
Barcode
99999990173280.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
SUVMme0CQqg
Download PDF

श्रुतबोध वृत्तरत्नाकरौ ग्रंथो