Scl
Kavyamala Part 2
Front matter
No text on this page.
No text on this page.
No text on this page.
KAVYAMALA.
A collection of old and rare Sanskrit Kavyas
Nātakas, Champūs, Bhānas, Prahasanas,
Chhandas, Alankāras &c.
PART II.
EDITED BY
PANDIT DURGĀPRASAD
AND
KĀS'INĀTH PANDURANG PARAB,
VĀSUDEV LAXMAN SHĀSTRĪ PANSHĪKAR.
Second Edition,
PUBLISHED
BY
PĀNDURANG JAWAJI,
PROPRJETOR OF THE NIRNAYA SAGAR' PRESS,
BOMBAY
1932
Price 1 Ru,
[ All rights reserved by the publisher. ]
PUBLISHER:Pandurang Jawaji,
PRINTER:-Ramchandra Yesu Shedge,
at the Nirnaya-sagar Press,
26-28, Kolbbat Lane, Bombay.
॥ श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकापूसाणप्रहसन- च्छन्दोलंकारादेिसाहित्यग्रन्थानां संग्रहा। द्वितीयो गुच्छकः। पण्डितदुर्गाप्रसादेन, परबोपालपाण्डुरङ्गात्मजकाशिनाथशर्मणा, पणशीकरोपावलक्ष्मणात्मजवासुदेवशर्मणा च संशोधित द्वितीयं संस्करणम् । मुम्बय्यां पाण्डुरङ्ग जावजी श्रेष्ठिभिः खीये निर्णयसागराख्ययन्त्रालय मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। शाकः १८५३ ख्रिस्ताब्दः १९३२. मल्यमेको १ रूप्यकः।
काव्यमाला। चक्रं तच्चक्रपाणेदितिजतनुगलद्रतधाराक्तधार शश्वन्नो विश्ववन्धं वितरतु विपुलं शर्म 'बर्माशुशोभम् ।। २ ॥ चक्रपाणेर्नारायणस्य तचक्र दक्षिणोकरस्थितं नोऽसाकं विपुल शर्म सुखं बित- रतु । किविशिष्टम् । विश्ववन्धम् । पुनः किंविशिष्टम् । युद्धापसरे दितिजानां तनुभ्यो विदारिताभ्यो या गलन्त्यो रक्तधारास्तागिरका लिप्ता धारा नेम्यग्रं यस्य तत् । सूरयो विद्वांसः क्षणमुखं क्षणलवत्रुटिप्रभृतिकमखिलं संवत्सरान्तमेतं सर्व कालं यस्य चक्रस्य खरूपमाहुस्तच्चक्रमिति संबन्धः । अपि च यचक्र ध्वान्तस्यैकान्तमव्यभिचा- र्यन्तमन्तकरं सूरय आहुः । अन्तयति नाशयतीत्यन्तम् । सर्वेषां धाम्नां तेजसां चापि परमं निरतिशयं धामाश्रयीभूतम् । धर्माशोः सूर्यस्येव शोभा यस्य । सूर्येऽपि कालात्म- कलं निरतिशयतेजोमयलं निःशेषतमोनाशकलं विश्ववन्धलं च सर्वागमप्रसिद्धमेव ।। अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- रस्मान्विस्सेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः । सर्व संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फारनादः संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ।। ३ ।। कार्मुकस्य धनुषः स्फारविस्फारनादोऽस्मानव्यात् । स्फारः प्रवलोऽतिशयितो वा विस्फारनादो धनुषघोषः 'विस्फारो धनुषः खानः' इत्यमरः । ज्याकर्षणविशेषजो ध्वनि- रित्यर्थः । किंविशिष्टः । निर्घातोऽशनिपातशब्दस्तद्वद्वोरो दुःसहः । पुनः किं विशिष्टः । किमिदमित्यकस्माद्विसेराणि विकसितानि नेत्राणि येषां ते च ते त्रिदशास्तेषां नुविवचः साधुकारैर्विस्मितदेवकृतैः 'जय जय, रक्ष रक्ष' इत्यादिस्तुविवचनसत्कारैमिश्रितः सन्सुतारः सुतरामुच्चः । हरेर्नारायणस्य भुजः कर एव पवनस्तेनामर्शनं यदीषदाकर्षण तेनाध्मातोपचिता मूर्तिर्यस्य । सर्वमशेषमरिकुलभुवनं शत्रुसमूह एव भुवनं जगत्संहतु नाशयितुमिच्छोः । संयत्सङ्ग्राम एव कल्पान्तसिन्धुः प्रलयकालीनसमुदखस्मिन् । शरा एव सलिलानि तेषां घटा धाराः । अनवच्छिन्नपरम्परा शरवृष्टिरिति यावत् । तस्या वार्मुक् मेघस्तस्य । अत्र वार्मुक्शब्दो मेघे रूढ एव ग्राह्यः, सलिलशब्देन पौनरुक्त्या- पातात् । यथा प्रलयकालीनो मेघः पवनामर्शनाध्मातमूर्तिः सर्वजगत्संहारेच्छुः सर्वसंहार- कप्रलयसिन्धुपूरणाय सलिलघटां मुञ्चति तद्वद्धनुरपि । जीमूतश्यामभासा मुहुरपि भगवद्वाहुना मोहयन्ती युद्धेषयमाना झटिति तडिदिवालक्ष्यते यस्य मूर्तिः । सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणिताखाददृधो नित्यानन्दाय भूयान्मधुमथनमनोनन्दको नन्दको नः ॥ ४ ॥ सोऽसिः खगो नन्दको नन्दकनामा नोऽस्माकं नित्यानन्दाय भूयात् । किंलक्षणः ।
विष्णुपादादिकेशान्तवर्णनखोत्रम् । B9 .. प्रासेनाकुलान्यक्षाणीन्द्रियाणि येषां ते च ते त्रिदशरिपवस्तेषां ववि तेषु शोणितं रुधिरं तस्यास्वादः पानं तेन दृप्तो दाविष्टः । मधुमथनो मधुसूदनस्तस्य मनो नन्दयतीति नन्दनः। यस्य मूर्तियुद्धेषु झटिति शीघ्रं तडिदिव चपलगतिरालक्ष्यते । किंलक्षणा मूर्तिः । जीमूतश्यामभासा भगवतो बाहुना मुहुरुद्भूयमाना कम्प्यमाना । अपिशब्दान्मे- घान्तस्तडिदिव दैत्यदेहेषु प्रविश्यमानेति । अत एव मोहयन्ती । दैत्यानिति शेषः । अत्रानुक्तमपि चर्म खड्गसहचरं बोद्धव्यम् , अष्टायुधसहिताष्टबाहुयुक्तभगवन्मूर्तेः पुराणेषु प्रसिद्धत्वात् ॥ कलाकारा मुरारेः करकमलतलेनानुरागागृहीता सभ्यग्वृत्ता स्थिताने सपदि न सहते दर्शनं या परेषाम् । राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्दा कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ ५ ॥ एवंविशिष्टा सा कौमोदकी भगवद्गदा नोऽस्मभ्यं कामममीटं प्रदिशतु । किंलक्षणा। कम्रो मनोहर आकारो यस्याः सा । तथा मुरारेः करकमलतलेनानुरागाद्गृहीता । निमि- त्तार्था पञ्चमी। सम्यग्वृत्ता वर्तुला । अग्रे भगवत्पुरतः स्थिता। परेषां शत्रूणां दर्शनं न सहते । सपदि सहसैव तानिर्भर्त्सयतीति शेषः । यद्वा सपदि कदापि परेषां दर्शनं न सहते । राजन्ती शोभमाना। दैलानां जीवो जीवनं स एवासवो मद्यं तदास्वादकृत- मदेन हर्षेण मुदिता । तथा दैत्यदेहस्थलोहितकृतालेपनेनाङ्गरागेणाऱ्या क्लिना । तथा दीप्तैरंशुभिः किरणैः कान्ता कमनीया। अस्य भगवतो दयितेव । कथं तदुच्यते- अनुरागाद्गृहीतेत्यन्तं यथाव्याख्यातमेव । वृत्तं चारित्रम् । परेषां परपुरुषाणाम् । लोहि- तचन्दनलेपनेनार्दा । दीप्त उज्वलोंऽशुकस्य वस्त्रस्याऽप्रभागो यस्याः सा ॥ यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुखरूपो यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति । चञ्चच्चण्डोस्तुण्डत्रुटितफणिवसारक्तपाकितास्यं वन्दे छन्दोमयं तं खगपतिममलखर्णवर्णं सुपर्णम् ॥ ६ ॥ तं सुपर्ण गरुडं वन्दे । किंलक्षणम् । अमलं यत्खणं सुवर्ण तस्य वर्ण इव वो यस्य । खगाः पक्षिणस्तेषां पतिस्तम् । चञ्चद्देदीप्यमानं चण्डमतिकोपनमुह महच्च यत्तुण्डं मुखं तेन त्रुटिताश्छिन्ना ये फणिनस्तेषां वसा रक्तं च तयोः पङ्कः कर्दमस्तेना- ङ्कितं लिप्तमास्यं मुखं यस्य । पुनः किं विशिष्टम् । छन्दोमयम् । यो विश्वप्राणभूतः। सर्वप्राणेभ्यो भूत उद्भूतः। एकीभूतसकलप्राणिबलमूर्तिरित्यर्थः । अपि च हरेस्तनुर्मूर्त्य- न्तरम् । तथा तस्यैव यानकेतुखरूपः । वाहनरूपो ध्वजरूपश्चेत्यर्थः । यं संचिन्त्यैव, न तु दृष्ट्वा, सद्य उरगवधूवर्गस्य सर्पस्त्रीसमूहस्य गर्भा जठरान्तःस्थिता अपि नागसंतानाः खयं पतन्ति । ।
काव्यमाला। विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकर्ता सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः । पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ ७ ॥ सोऽनन्तोऽनन्तनामा भोगीश्वरो नागकुलपति!ऽस्मान्सकलविषभयात्पातु । विश्वे- श्वरस्य विष्णोः प्रवरं श्रेष्ठं यच्छयनं शय्या तत्करोतीति । अत एव सर्वलोकैकर्ता । खान्तःस्थितसकलजगतः परमात्मनो धारयितेत्यर्थः । सृष्टिकाले सर्वभूतमुत्पन्नमस्मा- दिति सर्वभूतः । अत एव पृथु महद्विमलं पावयितृ यशो यस्य । सर्ववेदैः । वेद इत्युप- लक्षणम् । इतिहासपुराणादिभिरपि वेद्य इत्यर्थः । जगत्स्थितिकाले विश्वस्य पाता पाल- यिता । शश्वत्सदा । सकलसुररिपुध्वंसनः । अखिलधर्मप्रतिपक्षध्वंसन इत्यर्थः । नति- नुतिस्मरणादिभिः सर्वजनानां पापहन्ता । सर्वज्ञः । सर्वसाक्षी। अनन्तस्य विष्णोरवता- रखेन वर्णितत्वात्सर्वाणि विशेषणानि युक्तानि ।। वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्याः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः । कुन्देन्दुखच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गी वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ ८ ॥ तामिन्दिरां लक्ष्मी वन्दे । किंलक्षणाम् । मुरभिदो नारायणस्योरो वक्षो मन्दिर गृहं यस्याः । अशेषैः समस्तैर्वन्द्या । सुन्दराण्यङ्गानि यस्याः । कुन्दः कुसुमविशेषः, इन्दुश्चन्द्रः । कुन्देन्दू इव खच्छं शुभ्रं मन्दमल्पं च तस्मितं तेन मधुरं मनोहरं मुखा- म्भोरुहं यस्याः । यां मुनयो व्यासादयो वाक्सरखती, भूर्धरित्री, गौरी पार्वती । आदि- पदाद्विद्यादीनां ग्रहणम् । तैर्भेदैर्विदुः । पुनः किंलक्षणाम् । यदीयैः कारुण्यादैः कृपा- परवशैः कटाक्षः सकृदेकवारमपि पतितैः पुंसां समग्राः संपूर्णाः संपदः स्युः । ताम् ॥ या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्री स्थात्री जनित्री प्रकृतिमविकृति विश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयी प्राणनाथां प्रणौमि ॥ ९॥ विश्वात्मनो विष्णोः प्राणनाथां प्रकृति तां प्रणौमि प्रकर्षेण स्तौमि । विश्वस्यात्मा तस्य । विश्वाधिष्ठानस्येत्यर्थः । प्राणनाथां प्राणप्रियातू । भार्यामिति यावत् । प्रक्रियते प्रसूयते सर्वमस्या इति प्रकृति निमतामुपादानम् । किंलक्षणम् । विकृतिर्विकारः । न विकृतिरविकृतिस्ताम् । अनादिमित्यर्थः । विश्वस्मिन्प्रपञ्चे शक्तिरुत्पादनसामर्थ्य यस्याः।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । विधात्रीम् । स्थात्री स्थिरखभावाम् । जनित्रीमपूर्वाकारोत्पादयित्रीम् । विपुला विस्तीर्णा गुणाः सत्त्वादयस्तन्मयीं तत्खरूपाम् । लोहितशुक्लकृष्णमयीमिति वा । या पुंसः सर्वा- धिष्ठानस्य विष्णोः संनिधानेन संनिधिसत्तामात्रेण सत्त्वजालं प्राणिसमूहं सदा सूते जन- यति। सकलमित्यनेन न केवलं भूमिगतानामेव प्रसवित्री, अपि तु देवादीनामपीति गम्यते । पुनः, या पुंसः सत्त्वयोगात्सत्तासंबन्धादिदं प्रत्यक्षादिसंनिधापितं चरं जङ्ग- ममचरं स्थावरं च भूतजातं भूतये विभूत्यर्थम् । प्राणिविस्तारार्थमिति यावत् । धत्ते बिभर्ति ॥ येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवगै- र्येभ्यो धर्तुं च मूनी स्पृहयति सततं सर्वगीर्वाणवर्गः । नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याभिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ १० ॥ अमी पद्माक्षस्य पुण्डरीकाक्षस्य हरेरङ्गिपद्मद्वयस्य तलमधोभागस्तन्निलयः स्थानं येषां ते पांसवो रेणवो नोऽस्माकं पापपङ्कं दुरितकर्दमं नित्यं निर्मूलयेयुः । नित्यमिति पापपङ्कविशेषणम् । नितरां चितं निचितमुपर्युपरि संचितम्, तत्राप्यतिशयेन निचितं निचिततरम् । पूर्वपूर्वचितमनुत्सायैव पुनःपुनरुपर्युपरि चितमित्यर्थः । कथंभूतानां नः । भक्तिनिनात्मनां भक्त्यधीनचित्तानाम् । येभ्यः पादतलपांसुभ्योऽसूयद्भिः । यान्द्रुह्य- द्भिरित्यर्थः । दैत्यवगैरसुरकुलैः । उच्चैरुन्नतैः। आक्रान्तदेवकुलैरिति यावत् । उरु बढे. श्वर्ययुक्तमपि पदं खस्थानं सपदि तत्क्षणमेव त्यज्यत उत्सृज्यते । पुनः किंभूतानाम् । सर्वगीर्वाणवर्गः सततं मूी धर्तुमुद्वोढुं येभ्यः स्पृहयति । यान्धर्तुं वाञ्छतीत्यर्थः ॥ रेखा लेखाभिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः । दद्यु! मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः कप्रेणानेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ ११ ॥ चक्रपाणेर्नारायणस्य चरणतलगताश्चक्रमत्स्यादिरूपा रेखा नोऽस्मभ्यं मङ्गलानि किं विशिष्टाः । लेखा देवास्वैर्वन्या वन्दनार्हाः । निग्धा अरूक्षाः । सूक्ष्माः कृशाः । सुजाताः । खाश्रयसमतलखाविरोधिन्य इत्यर्थः । मृदूनि श्लक्ष्णानि च लानि ललिततरा- ण्यतिशयमनोहराणि च यानि क्षौमसूत्राणि तद्वदाचरन्तीति ताः । अब्धिजाया लक्ष्म्याः पाणिनानेड्यमानाः पुनःपुनरामृज्यमानाः । कथंभूतेन पाणिना । किसलयमृदुना । कम्रेण कमनीयेन । भ्रमन्ति रुवन्ति वेति व्युत्पत्त्या सशब्दं भ्रममाणानि प्रकोष्ठनिष्ठ- करभूषणानि भ्रमराणि तेषां भरः स्तोमतं जुषते तेन । कोमलेन श्लक्ष्णेन ॥ दधुः।
काव्यमाला -- यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- दाश्थ्योतन्ती बभासे सुरसरिदमला वैजयन्तीब कान्ता । भूमिष्ठो यस्तस्थान्यो भुवनगृहबृहत्स्तम्भशोभां दधानः पातामेतौ पयोजोदरदलिततलौ पङ्कजाक्षस्य पादौ ॥ १२ ॥ यस्मात्पादादाश्योतन्त्यापतन्ती सुरसरिद्गङ्गा । अमला निर्मलोदका कान्ता मनोहरः वैजयन्ती पताकेव बभासे । किंलक्षणात् । द्यामाकामतः । अण्डकपालस्फुटनपर्यन्तं दीर्घकृतादित्यर्थः । गरुडमणिर्मरकतमणिस्तन्मयी या शिला तद्रूपो यः केतुदण्डः पता- काश्रयभूता यष्टिस्तद्वदाचरतीति तस्मात् । एवं वामपादं वर्णयित्वा दक्षिणं वर्णयति- तथान्यो दक्षिणः पादो भूमिष्ठः । भुवनं त्रैलोक्यं तदेव गृहं तस्मिन्बृहन्महान्यः स्तम्भ- स्तस्य शोभां दधानः । त्रैलोक्यभवनोत्तम्भनस्तम्भ इव स्थित इत्यर्थः । यावेवंविधा पङ्कजाक्षस्य हरेः पादौ तावेतौ पातां पालयेताम् । अस्मानिति शेषः । पयोज कमलं तस्योदरं मध्यं तद्दलितं पराभूतं याभ्यां तादृशे तले ययोस्तौ । पयोजोदरादपि सुकुमा- रतलावित्यर्थः॥ आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीती याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम । ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥ १३ ॥ तत्क्षणादेव यस्मिन्क्षणे बलिदैत्यदत्तोदकं हस्ते पतितं तदैव त्रिलोकीमाक्रामद्भयो याभ्यामसुरसुरपती वैरोचनीन्द्रौ बलिशको युगपत्समकालमेव क्रमेण विपत्संपदोरैश्वर्य- भ्रंशतत्संपत्त्योरेकलधाम मुख्यं स्थानं नीतौ प्रापितौ । विरोचनापत्यं बलिविपद्धामत्वम्, इन्द्रश्च संपद्धामलं नीत इत्यर्थः । अपिशब्दो विरोधद्योतकः । एकस्यामाक्रमणक्रियायां विरुद्धोभयकार्ययोगो विरोधः । याभ्यामेवं कृतं ताभ्यामुभाभ्यामजितस्य विष्णोः पाद- पङ्केरुहाभ्यामहं मुहुः शश्वत्प्रपतिं नम्रतामुपगतः । ताम्रेत्यादीनि पादविशेषणानि । ताने आरके उदरे अधस्तले ययोः । अञ्चिताभ्यां पूजिताभ्याम् । ब्रह्मादिभिरिति शेषः। प्राज्यमधिकमैश्वर्य भक्तभ्यः प्रददत इति ताभ्याम् ॥ येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् । व्याप्ता विश्वंभरा यैरतिवितततनोविश्वमूर्तेर्विराजो विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वझिपक्केरुहेभ्यः ॥ १४ ॥ विश्वमूर्तेविराजो विराट्ररूपस्य विष्णोस्तेभ्योऽप्यङ्गिपढेरुहेभ्यः सततं सर्वदा नमोऽस्तु ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । अतिवितततनोरपरिच्छिन्न देहस्य । किंलक्षणेभ्यः । महद्भयः । येभ्यः सकासात्प्रजाना- आदिसर्गे चतुर्थो वर्णः शूद्राख्यश्वरमतो वर्णत्रयोत्पत्त्यनन्तरमुदभूत् । अपि च येषाम- छिपवेरुहाणां साहस्री संख्या प्रकटं स्फुटं सर्ववेदेष्वभिहिता । 'सहस्राक्षः सहस्रपात्' इत्यायेत्यर्थः । यैर्विश्वंभरा पृथिवी व्याप्ता पूर्णा ॥ विष्णो पादद्वयाने विमलनखमणिप्राजिता रांजते या राजीवरयेव रम्या हिमजलकणिकालंकृतामा दलाली । अस्माकं विस्मयाण्यिखिलमुनिजनप्रार्थनीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥ १५ ॥ सेयं विष्णोरकुलीनां ततिः पतिरस्माकं मङ्गलानि दद्यात् । किंभूता । आदौ भवाद्या पूर्वसिद्धा। भक्तानामखिलाभीष्टकारणभूतेत्यर्थः । अनवद्या निर्मला । अम्लानेत्यर्थः । अतिरुचिरा । या पादद्वयाने विमला निर्मला ये नखमणयस्तै_जिता सती राजते । राजीवस्य कमलस्य दलाली दलपङ्किरिव । किंलक्षणा दलाली । रम्या । हिमजलानां कणिकाभिर्बिन्दुभिरलंकृतान्यप्राणि यस्याः सा । किंलक्षणानि मङ्गलानि । विस्मया:- ध्याश्चर्ययोग्यानि । अदृष्टपूर्वाणीति यावत् । तथाखिलमुनिजनप्रार्थनीयानि ।। यस्यां दृष्ट्वामलायां प्रतिकृतिममराः खां भवन्त्यानमन्तः सेन्द्राः सान्द्रीकृतेाः खपरसुरकुलाशयातङ्कवन्तः । सा सद्यः सातिरेका सकलसुखकरी संपदं साधयेन- श्वञ्चच्चाएँशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥ १६ ॥ सा चक्रपाणेश्चरणनलिनयोर्नखाली नोऽस्माकं संपदं सद्यः साधयेत् । सकलान्यैः हिकामुष्मिकाणि सुखानि करोति ताम् । सातिरेकामधिकाम् । किंलक्षणा नखाली । चञ्चन्तः प्रसरन्तश्चारवो येंऽशवस्तेषां चक्रं समूहो यस्याः । यस्यां नखाल्याममलायां सेन्द्रा अमरा आनमन्तः सन्तः खां प्रतिकृति प्रतिबिम्बं दृष्ट्वा स्वपरसुरकुलाशया खप्रतिपक्षदेवसमूहभ्रान्त्या सान्द्रीकृतेर्ष्या अतिशयेायुक्ता आतङ्कवन्तः शङ्कानिमित्त- कभययुक्ताश्च भवन्ति ॥ पादाम्भोजन्मसेवासमवनतसुरवातभाखकिरीट- प्रत्युप्तोचावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति । नम्राङ्गाणां हरेनों हरिदुपलमहाकूर्मसौन्दर्यहारि- च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥ १७ ॥. हरेरिदं प्रपदयुगं मादागद्वन्द्वं नोऽस्माकं पापमन्तं नाशं प्रापयेत् । भूतानां नः । नमाहाणाम् । साष्टानं प्रणाम कुर्वतामित्यर्थः । किंलक्षणं प्रपदयुगम् । हरदुपलो हरित- काव्यमाला वर्णो मणिविशेषस्तनिर्मितो यो महाकूर्मस्तस्य सौन्दर्य लावण्यं हरतीत्येवंविधा छाया कान्तिर्यस्य तत् । यथा श्रेयःप्रदायि । पादावेवाम्भोजन्मनी कमले तयोः सेवा तस्यां समवनता ये सुरास्तेषां यो व्रातः समूहस्तस्मिन्यानि भाखन्ति किरीटानि तेषु प्रत्युता निखाता य उच्चावचा नानाविधा अश्मप्रवरा मणिश्रेष्ठास्तेषां करा रस्मयस्तेषां गणैः समूहैश्चित्रितं कवुरितं यद्विभाति ॥ श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः सौन्दर्याव्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचौरे । सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंधे जङ्घ नारायणीये मुहुरपि जयतामस्मदहो हरन्त्यौ ॥ १८ ॥ नारायणस्येमे जके मुहुः शश्वदस्मदंहः पापं हरन्त्यौ सयौ जयताम् । श्रीमल्यो शोभावस्थौ । चारु सुन्दरं यथा स्वात्तथा वृत्ते वर्तुले । रमाया लक्ष्म्याः करयोः परिमल- नेन य आनन्दस्तेन हृष्टे पुलकिते । सौन्दर्येण लावण्येनान्यो य इन्द्रनीलोपलस्तेन रचितौ यो महादण्डौ तयोः कान्तिचौरे । सूरीन्द्रर्विद्वच्छ्रेष्ठैः स्तूयमाने वर्ण्यमाने । सुरकुलस्य सुखदे । यस्मात्सूदिताराविसंघे हतदेवशत्रुकुले ।। सम्यक्साद्यं विधातुं सममपि सततं जङ्घयोः खिन्नयोर्य भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते । चित्तादर्श निधातुं महितमिव सतां ते समुद्गायमाने वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ १९ ॥ अजितस्य हरेस्ते जानुनी नोऽस्माकं चित्ते मुदमनिशं विधत्ताम् । वृत्ताकारे मण्ड- लवत्समवर्तुलाकारे ।.सतां भक्तानां चित्तादर्श मनोदर्पणं निधातुं समुद्गायमान आद- कोषायमाणे इव । महितं, निर्मलीकृतं चित्तदर्शम् । ये खिन्नयोर्जयोः सम्यगौचि- सेन साह्यं सहलम् । उपकारमिति यावत् । समं युगपदेव भारीभूतस्योरुदण्डद्वयस्य यद्भरणं धारणं तस्मिन्कृत उत्तम्भभावोऽवष्टम्भलं तद्भजेते । अपिशब्दः संभावनायाम् ।। देवो भीति विधातुः सपदि विदधतौ कैटभाख्यं मधुंया- वारोप्यारूढगर्वावधिजलधि ययोरेव दैत्यो जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावनीला- वूरू चारू हरेस्तौ मुदमतिशयिनी मानसे नो विधत्ताम् ॥ २० ॥ हरेस्तावूरू नोऽस्माकं मानसेऽतिशयिनी मुदं विधत्ताम् । चारू मनोहरौ । वृत्ती वर्तुलौः। अन्योन्यं परस्परं तुल्यौ समौ । चतुरं यथा स्यात्तथोपचयं पुष्टिं बिभ्रतौ । करिकरसहशाकारावित्यर्थः । अभ्रनीला सजलजलदवच्छयामौ। तौ को। ययोरिति सप्तमी- ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । ९ द्विवचनम् । देवो विष्णुर्ययोरूवार्दैत्यं कैटभाख्यं मधु. चारोप्य जघानैव । कथंभूतौ । विधातुब्रह्मणः सपदि खोत्पत्तिमात्रेण भीतिं विदधतौ । आरूढगवौं । कुत्र जघान । अधिजलधि समुद्रे ॥ पीतेन द्योतते यच्चतुरपरिहिते नाम्बरेणात्युदारं जातालंकारयोगं जलमिव जलधेडिवाग्निप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥ पीताम्बरस्य विष्णोरेतयाख्यास्यमानविशेषणं जघनं सातत्येन चेतोविषयमवतरन्म- नोवृत्तिसमारूढं सत् । एनसः पापाचोऽस्मान्पातु । कथंभूतादेनसः। अतिघनात् । अनेकजन्माभ्याससंचितादित्यर्थः । अत एव पातित्यदात् । किंलक्षणं जघनम् । मान नीयं मानाहम् । चतुरैरलंकरणकर्मकुशलैर्भक्तैश्चतुरं यथा स्यात्तथेति वा परिहितेनास- जितेन पीतेन सुवर्णाभेनाम्बरेण वस्त्रेण जातालंकारयोगं सदात्युदारं यथा स्यात्तथा योतते प्रकाशते तदेतत् । वाडवाग्निप्रभाभिर्जलधेर्जलमिव ॥ यस्या दाम्या त्रिधाम्नो जघनकलितया भाजतेऽहं यथाब्धे- मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः । काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥ २२ ॥ विधाम्नो भगवतोऽङ्गं यस्याः काञ्चया दाम्न्या रशनया तस्यैव जघनकलितया नित- म्वनिबद्धया भ्राजते सा काची मम मतिमनिशं सर्वदा कल्यां समर्था कल्याणदात्री म. जलकरी करोतु । अब्धेः क्षीरसमुद्रस्य मध्ये स्थितो मन्दराद्रि जगपतेर्वासुकेर्महाभो- गेन पृथुदीर्पण कायेन संनद्धं परिवेष्टितं मध्यं यस्यैवंविधो यथाम्राजीत्तथा भाजते । किंलक्षणा काञ्ची । काञ्चनाभा सुवर्णराजिकृतशोभा। मणिवराणां वज्रादीनां किरणैरु- लसद्भिः प्रदीप्ता प्रकाशिता। अत एव कम्ररूपा कमनीयाकारा। पीताम्बरं हि तर- गितसमुद्रजलवत् , तदन्तराले भगवन्मूर्तिमन्दराचलवत्, तत्परिवेष्टनं काञ्चीदानी वासुकिशरीरवत्, इति योज्यम् ॥ उन्ननं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । तस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्विराय ।। २३ ॥ यत्र यस्मिनाभीसरसि तत्पयो कमलं पूर्व सृष्टिकाल उदभूत्तस्मिनालीकाक्षस्य २द्वि० गु० १० काव्यमाला। कमलनयनस्य भगवतो नाभीसरसि सरोवद्गम्भीरवर्तुले नाभिमण्डले नोऽस्माकं चित्त- हंसश्चिराय दीर्घकालं केलिवुद्ध्या रमणेच्छया वसतु । कथंभूते नाभीसरसि । नीला- इमनीलैरिन्द्रनीलमणिवन्नीलवर्णैस्तरलैश्चञ्चलै रुचिजलैदेहप्रभाकान्तिपूरैः पूरिते। किं. लक्षणं पयोजम् । उन्नम्रमुन्नतम् । कम्र मनोहरम् । विचित्रैनीनावणैः पनेरुचैरतिशये- नोपचितम् । तथा गीर्वाणानां देवानां पूज्यम् । तथा कमलजो ब्रह्मा स एव मधुपो भ्रमरस्तस्यास्पदं स्थानम् ।। पातालं यस्य नालं वलयमपि दिशां पत्रपतिं नगेन्द्रा- विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां खर्णशैलम् । भूयाद्गायत्वयंभूमधुकरभुवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ २४ ॥ नागः शेषाख्यः शय्या यस्य तस्य शोरेविष्णोन भिरेव पद्माकरः सरस्वत्र भवतीति तथाविधमुरु बृहन्नालीकं कमलं नोऽस्माकं कामदं भूयात् । गायन्वेदान्पठन्वगंभूब्रह्मा स एव मधुकरस्तस्य भवनं गृहम् । तथा भूमयं पृथ्वीवरूपम् । किं तत् । विद्वांसो वि- दितसकलवेद्या यस्य नालं पातालमाहुः । तथा यस्य पत्रपति दिशां वलयं मण्डलमाहुः । तथा नगेन्द्रान्हिमवदादीन्यस्य केसरालीर्विदुः । तथा वर्णशैल मेरुं यस्य विपुलां कर्णिकां विदुः । तत् ॥ कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभाखत्तरङ्गे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमोदरनविनमहावाडवाग्निप्रभाब्ये कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ २५ ।। दामोदरस्य भगवत उदरसलिलनिधौ । 'कुक्षौ समुद्राश्चत्वारः' इत्युक्तखात् । नोऽस्माकं चित्तमत्स्यः कामं यथेष्टं क्रीडतु । उदरसलिलनिधिविशेषणानि । कान्तिदेह- दीप्तिः सेवाम्भ उदकं तस्य पूरः प्रवाहप्रसर्पणं तेन पूर्णे । तथा लसन्तः शोभमाना असिता नीला वलीनामुदरदेशस्थरेखाविशेषाणां भङ्गा एव भाखन्तस्तरमा यस्मिन् । तथा गम्भीरोऽगाध आकारो यस्य स चासौ नाभिश्चेति स एव चतुरतरोऽतिशयेन चतुरः सुन्दरो महानावर्तस्तेन शोभा विद्यते यस्मिन् । अत एवोदारे मनोहरे। तथा- नद्धमासमन्ताद्बद्धं यद्धेममयमुदरनविनमुदराभरणं तदेव महती वाडवाग्निप्रभा तयाव्ये संमृते । यद्वा 'हेमोदरनलिन-' इति पाठः । तदा 'कर्णिकां वर्णशैलम्' (२४) इति पूर्वश्लोके मेरुकर्णिकस्य नाभिकमलस्योक्तत्वात् । हेमोदरं हेम कर्णिकाख्यमुदरे मध्ये यस्य तच्च तन्नलिनं च तदेव महावाडवामिप्रमेति व्याख्येयम् ॥
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । ११ . नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यान्ती स्फुरति रुचिमती वक्रपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिमती मध्यभागस्य विष्णो- श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः ॥ २६ ॥ विष्णोर्मध्यभागस्य संबन्धिनी रोमाजि!ऽस्माकं चितस्था सती मा विरंसीद्वि- रति मा करोतु । तत्र भूयादित्यर्थः । किं कुर्वती । उचितामस्मद्योग्यां श्रियं साथ- यन्ती । किंभूता । रम्या। महितरुचिमती महिता सर्वैः प्रशस्खा या रुचितद्वती। या नाभीनालीकस्य मूलाक्रपद्मोन्मुखी । अलीनां भ्रमराणां नीला मालेव रुचिमती रुचिरा स्फुरति । कथंभूतानामलीनाम् । अधिकपरिमलोन्मोहितानाम् । नाभिकमल. सौरभ्याघ्राणादधिकमोहितानामित्यर्थः ॥ आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च । अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षखरूपे तस्मिन्नस्साकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ।। २७ ।। अजितस्य हरेः क्रोडभागे भुजद्वयमध्यप्रदेशे वक्षःस्थलादधोभागेऽस्माकमन्तःकरणं चिरतरमतिमुदा क्रीडतात् । कीदृशे । अन्तरिक्षखरूपे । हृदयाकाशस्थान इत्यर्थः । किंभूतस्याजितस्य । अत्यन्तं सर्वात्मना न चिन्या मूर्तिः खरूपं यस्य । यस्मात्कोड- भागात्सकलं निरवशेषं विश्वं कल्पस्यादौ प्रभवत्युद्भवति । तथा कल्पान्ते यस्यान्तः स्थावर जङ्गमं च विश्वं प्रविशति । किंलक्षणं विश्वम् । मन्वन्तरादिमेदैर्विततं विस्तीर्णम् ॥ संस्तीर्ण कौस्तुभाशुप्रसरकिसलयैर्मुग्धमुक्ताफलाब्यं श्रीवत्सोल्लासि फुल्लप्रतिवनवनमालांशुराजद्भुजान्तम् । वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शापाणेः संसाराध्वश्रमातॆरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ शापिाणेर्नारायणस्य तद्वक्षः प्रपद्ये तात्पर्येणाश्रये । यत्संसाराध्वश्रमातेर्जन्ममरणभो- मवेदनादिमार्गभ्रमणजश्रमपीडितैरुपवनमिव सेवितमुपासितम् । उपवनतुल्यतामेव प्रति- पादयति-कौस्तुभस्य भगवत्कण्ठस्थितरत्नविशेषस्यांशवः किरणास्तेषां प्रसरास्तान्येव किसलयानि तैः संस्तीर्णम् । सर्वत्र विप्रसृतमिति यावत् । तथा मुग्धानि सुन्दराणि मुक्ताफलानि तैराख्यम् । मौक्तिकानि यत्र फलतुल्यानीति यावत् । श्रीवत्सो नाम भगवद्वक्षसि प्रदक्षिणरोमावर्ती मृगुपदप्रहारस्थानमतश्चिह्नविशेषतस्योल्लासोऽभिव्यचि- विद्यते यस्मिन् । तथा च फुल्ला विकसिता प्रतिवनं वने वने जाता या वनमाला १२ काव्यमाला । तस्या अंशुभिः परागै राजच्छोभमानं भुजान्तं यस्मिन् । पत्रपुष्पमय्या पादलम्बिनी माला वनमालेत्युच्यते । तथा श्रीवृक्षो नाम शुभावर्तविशेषस्तेन कान्तम् । अथवा श्रीरेव वृक्षस्तेन कान्तम् । तथा मधुकरनिकरवच्छयामलम् । उपवनमपि किसलयसंस्ती- णम्, फलाढ्यम् , श्रीमतां शोभमानानां गवादिवत्सानामुल्लासर्युक्तम् , तथा फुल्लानि यानि प्रतिवनानि संमुखवनानि तेषां या वनमाला संभजनीया(१) माला पतिस्तस्यां राजन्तो भुजा विटपास्तेषामन्तः पर्यन्तो यस्मिंस्तादृशम् , श्रीवृक्षविल्वद्रुमैः कान्तम् , मधुकरनिकरैः श्यामलं च भवति ॥ कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो- रिन्दोम्बिं यथाको मधुप इव तरोर्मञ्जरी राजते यः। श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः २९ श्रीपतेनारायणस्य श्रीवत्सश्चिह्नविशेषो नोऽस्माकं श्रियं नित्यमुच्चैरधिकं विधेयात् । किंलक्षणः । श्रीमाञ्शोभाव्यः । यतः कौस्तुभश्रीप्रतानैः कौस्तुभमणिप्रभारसरणैरविरलं निरन्तरं यथा स्यात्तथा मिलितः। श्रियो लक्ष्म्या भगवद्वक्षःस्थलस्थाया दयितः प्रीत्या- स्पदो वत्स इव । तया नित्यं संलाल्यमानलात् । यः श्रीवत्सः कालशत्रोः शिवस्य गलं कालिमा कालकूटकाय॑मिव, अङ्कः कलक इन्दोबिम्बमिव, मधुपो भ्रमरस्तरोर्मजरी- मिव श्रीपतेर्वक्षो नितान्तं कान्तं मनोरमं विदधद्राजते शोभते ॥ संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिघत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदघदपिधञ्चात्मभासान्यतेजां- स्याश्चर्यस्याकरो नो घुमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ॥३०॥ यः सहजया श्रिया सहाम्भोधिमध्यात्संभूयाविर्भूय नारायणस्योरःस्थलमेव नीलवि- शालाकारवत्त्वाद्गगनतलं तस्मिन्संनिधत्त उच्चैः प्रत्यक्षो भवति । किंलक्षणे । हारो मुकामाला स एव तारा नक्षत्राणि तैरुपसेव्ये। किं कुर्वन् । सर्वा आशा दिश आत्म- भासा प्रकाशा विदधत् । तथान्यतेजांस्याभरणान्तराणां प्रभा अपिदधत् । आत्मभा- साच्छादयन्नित्यर्थः । तथाश्चर्यस्य विस्मयस्याकरः स्थानभूतः । स कौस्तुभो नोऽसाकं भूत्या अस्तु । उत्प्रेक्षते-घुमणिरिव सूर्य इव । सूर्योऽपि प्रातः समुद्रादुद्गच्छति । सह- सिद्धया श्रिया शोभया युक्तः । नीलवर्णे तारायुक्ते गगनतले संनिधत्ते आशाः प्रका- शयति । अन्यतेजांसि चन्द्रनक्षत्रादितेजांसि पिदधाति ॥ या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । सारं सारङ्गसंधैर्मुखरितकुसुमा मेचकान्ता च कान्ता माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥ ३१ ॥ या माला विष्णोरंसे साकम्पमीषत्कम्पसहितं यथा स्यात्तथा वसति । सामान्सुखै- जियन्ती सती न विरमतु । किंलक्षणा । जयन्ती जयकरी जयन्याख्या वा । वायौ मारुत आनुकूल्यात्सरति वहति सति साकम्पमिति योज्यम् । मणिरुचा कौस्तुभप्रभया साकं सह भासमानात एवासमानानुपमा । तथा वासुभद्रं वासुदेवं सुभद्रं शोभनं विद- धती। भूषयन्तीत्यर्थः । तथा सारङ्गसंधैर्ऋमरसमूहैः सारं यथा स्यात्तथा मुखरितकुसुमा। तथा मेचकान्ता श्यामवर्णकुसुमगुम्फितप्रान्ता । अत एव कान्ता। तथा मालालिता वक्षःस्थया लक्ष्म्यानुमोदिता ॥ हारस्योरुप्रभाभिः प्रतिवनवनमालांशुभिः प्रांशुभिर्य- च्छीभिश्चाप्यङ्गदानां शबलितरुचिभिनिष्कभाभिश्च भाति । बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त- हुन्धाति बाधतां नो बहुविहतिकरी बन्धुरं बाहुमूलम् ॥ ३२ ॥ अजितस्य भगवतस्तद्वाहुमूलमंसदेशमभियाचामहे प्रार्थयामहे । किंलक्षणम् । बन्धुरं सुन्दरम् । किं कृत्ला । बाहुल्येन पुनःपुनरेवाजलिपुटं बढ़ा । किं याचयेति चेत् । नोऽस्माकं बहुविहतिकरीमनेकानर्थकरी बन्धाति बन्धनरूपां पीडां बाधताम् । संसार- निगडादत्मान्मोचयत्वियर्थः । यद्वाहुमूलं हारस्योरुप्रभाभिरतिकान्तिभिः । तथा प्रतिव- नजातपुष्परचितवनमालाया अंशुभिरंशुस्थानीयैर्विचित्रवणैः । निष्कस्य भूषणविशेषस्य भाभिः शवलिता रुचयो यासाम् । ताभिरङ्गदानां बाहुभूषणानां श्रीभिर्भाति । प्रांशुभिरि- लंशुविशेषणम् ॥ विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् । शाङ्ग वाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं बिभ्राणाः शस्त्रजालं मम ददतु हरेर्वाहवो मोहहानिम् ॥ ३३ ॥ हरेर्बाहवो मम मोहहानि ददतु । किंविशिष्टाः । विश्वस्य जगतस्त्राणे रक्षण एका मुख्या दीक्षा व्रतधारणं येषाम् । अत एव तस्य विश्वत्राणस्थानुगुणा योग्या गुणाः शौर्यादयो यस्य तादृशक्षत्रस्य निर्माणे दक्षाः समाः । दुर्निरूपाः। एते एवंप्रकारा इय- न्तश्चेत्यवधारयितुमशक्याः । तथा स्फुटगुरुयशसामविस्पष्टमहत्ख्यातियुक्तानामद्भुतानां कर्मणां पराक्रमाणां कर्तारः । तथा शार्ङ्ग धनुः, बाणम् , कृपाणं खड्गम् , फलकं चर्म, अरि सुदर्शनं चक्रम् , गदा कौमोदकी, पद्मम् , शङ्खः पाञ्चजन्यः, इत्येवंविधमन्यच्च सहस्रमपरिमितं शस्त्रजालं बिभ्राणाः । सहस्त्रं वाहव इति वा योजना ।।
१४ काव्यमाला कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोप्नेरुदार- रुद्योतः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णों विभाति । कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥ ३४ ॥ अत्र वैकुण्ठस्य विष्णोरयं वैकुण्ठीयस्तस्मिन्कण्ठे मम मतिः कुण्ठभावमालस्यं विहाय वसतु स्थिरीभवतु । यैः कण्ठाकल्पाः कण्ठभूषणानि तेभ्य उद्गतैरुद्योतः । तथा कनकमये लसन्ती ये कुण्डले तयोरुपैः किरणैः । उदारैर्मनोहरैरिष्टार्थदैर्वा । तथा कौस्तुभस्या- प्युरुभिरुद्योतैरुपचितः सन् । चित्रवर्णो विभाति । पुनः किंलक्षणे । कण्ठे रमायाः कण्ठाश्लेषे लक्ष्मीकृतकण्ठालिङ्गने सति तस्या एव करवलयपदैर्मुद्रिते। अत एव भद्ररूपे सुन्दराकारे ॥ पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः । वक्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभा श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ ३५ ॥ असौ श्रीभर्तुर्दन्तवासो दन्ताच्छादनम् । ओष्ठद्वयमिति यावत् । स एव द्युमणिः सूर्यो नोऽस्माकमघतमोनाशनाय पापान्धकारदूरीकरणायास्तु । किंलक्षणः । पद्मा लक्ष्मीस्वस्या आनन्दप्रदाता । तथा परिलसन्ती यारुणश्री रक्तवर्णा कान्तिस्तया परीतो व्याप्तोऽप्रभागो यस्य । तथा काले काल उचितसमयेपु कम्वुप्रवरः शङ्खश्रेष्ठः स एव शशधरश्चन्द्रतस्यापूरणमाध्मानं तत्र यः प्रवीणः । तथा वक्रारूपो य आकाश- खस्यान्तरे मध्ये तिष्ठतीति तथाविधः सन् । दन्तरूपाणां ताराणामोघः समूहस्तस्य शोभा तिरयत्यभिभवति । प्रसिद्धोऽपि द्युमणिः पद्मानामानन्दप्रदाता । अरुणः सूर्यसा- रथिखच्छ्रिया परीताप्रभागः। काले काले शुक्लपक्षतिथिषु चन्द्रस्य वृद्धिकरणे प्रवीणः । आकाशमध्यस्थः सन् । तारोघशोभा तिरस्करोति ॥ नित्यं स्नेहातिरेकानिजकमितुरलं विप्रयोगाक्षमा या वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्ताफल श्री- दन्ताली संततं सा नतिनुतिनिरतान्रक्षतादक्षता नः ॥ ३६॥ सा लक्ष्मीकान्तस्य दन्ताली दन्तपकिर्नतिनुविनिरतान्नमस्कारस्तुवितत्परान्नोऽमा- न्संततं रक्षतात् । किंलक्षणा । अक्षता क्षतरहिता। निरन्तरेवि यावत् । कान्ताकृति- मनोहराकारा । तथातिविलसतामत्यन्तशोभिनां मुग्धानां सुन्दराणां मुक्काफलानां ..
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १५ श्रीरिव श्रीर्यस्याः या नित्यं स्नेहातिरेकात्प्रेमबाहुल्यान्निजकमितुः खकान्तस्य विप्रयोग वियोग न क्षमते सा विप्रयोगाक्षमा । एवंभूता सती वन्दोर्मुखचन्द्रस्यान्तराले मध्ये कृतवसतिनक्षत्रराजिरिवालमाभाति ।। ब्रह्मन्ब्रह्मण्यजिहां मतिमपि कुरुषे देव संभावये त्वां शंभो शक त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावननं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- स्यास्येन्दोरासवन्ती वरवचनसुधा हादयेन्मानसं नः ।। ३७ ।। विष्णोरास्येन्दोर्मुखचन्द्रादास्रवन्ती सम्यङ्गिःसरन्ती वरा श्रेष्ठा वचनसुधा वचनामृतं नोऽस्माकं मानसं हादयेत् सुखयतु । 'आह्लादयेत्' इति वा छेदः । किंलक्षणस्य । सेवावननं सुरमुनिनिकरं वीक्ष्य प्रसन्नस्य । अनुग्रहेच्छोरित्यर्थः। का वचनसुधा । हे ब्रह्मन्प्रजापते, ब्रह्मणि खखरूपेऽजिह्मामकुटिलां तादात्म्यलक्षणां मतिमपि कुरुक्षे। हे देव शंभो, त्वां संभावये । कुशलं पृच्छामीत्यर्थः । हे शक, अमरैः सह त्रिलोकीमवसि किम् । सम्यक्पालयसीत्यर्थः । हे नारदाया मुनयः, वो युष्माकं किं सुखं वर्तते ॥ कर्णस्थवर्णकम्रोज्ज्वलमकरमहाकुण्डलपोतदीप्य- माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे- गाढामागामिनी नो गमयतु विपदं गण्डयोमण्डलं तत् ।। ३८ ॥ मुरारेर्नारायणस्य तद्गण्डयोः कपोलयोर्मण्डलं नोस्माऽकं गाढां दृढामनेकानर्थकरीमा- गामिनी भाविनी विपदं गमयतु दूरीकरोतु । 'दमयतु' इति वा पाठः । किंलक्षणम् । प्रोद्यन्प्रादुर्भवन्यः सूर्यस्तस्यांशुवद्राजद्दीप्यमानं यन्मरकतरत्नं तन्निर्मितो मुकुरो दर्प- णस्तस्य य आकारतस्य चोरम् । तत्सदृशमित्यर्थः । कोमलम् । अलिवच्छ्यामलम् । तथा कर्णस्थयोः स्वर्णमययोः कम्रयोः कमनीययोरज्ज्वलयोर्मकराकारयोमहाकुण्डलयोः प्रोतानां दीप्यतां माणिक्यानां श्रीप्रतानैः परिमिलितं परितो व्याप्तम् ॥ वत्राम्भोजे लसन्तं मुहुरघरमणि पकबिम्बाभिरामं दृष्ट्वा दृष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्वात् ॥ ३९॥ मुरारे?णो नासिकादण्डो नोऽस्माकं प्राणदानाय जीवनं दातुं खाद्यात् । कथं- भूतः । श्रवणयुगे लसतोः कुण्डलयोस्वैः किरणैः शोणीकृतात्मा । प्राणाख्यस्यानिलस्य प्राणवायोः प्रसरणसरणिः। संचारमार्ग इत्यर्थः । यो वक्राम्भोजे लसन्तं पक्वबिम्बफलव- काव्यमाला। .. 43 दभिराममारकमधरमणिं मुहुर्दृष्ट्वा पुनःपुनरवलोक्य पटुं खादितुमवतरतः शुकस्य कीरस्य स्फुटं यथा स्यात्तथा तुण्डदण्डायते चचुदण्डवदाचरंस्तिष्ठति ॥ दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः। अस्मानजप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४०॥ पद्मनेत्रस्य पुण्डरीकाक्षस्य नेत्रे अस्मान्पातां रक्षताम् । किंलक्षणे । अब्जनमे । तथा प्रचुरतरा या कृपा तया निर्भरं परिपूर्ण यथा स्यात्तथा प्रेक्षमाणे । भक्तानिति शेषः । तथाताप्रेषद्रका शुक्ला सिता च या रुचिः कान्तिस्तया रुचिरे । ते के । मुनीन्द्रा ययोरेव रूपमिमौ प्रसिद्धौ रवीन्दू अभिदधति वदन्ति । किंलक्षणो रवीन्दू । जगति दिक्प्राच्या दिका, कालो मुहूर्तादिः । तौ वेदयन्तौ प्रकाशयन्तौ । अत एव त्रैलोक्यालोकदीपौ। तथा मुहुः प्रत्यहोरात्रं संचरन्तौ भ्रमन्तौ ॥ लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्घसंदर्शमील- नेत्राम्भोजप्रबोधोत्सुकनिमृततरालीनभृङ्गच्छदाभे । लक्ष्मीनाथस्य लक्षीकृतविबुधगणापाङ्गबाणासनाघ- च्छाये नो भूतिभूरिप्रसवकुशलते भूलते पालयेताम् ॥ ११ ॥ लक्ष्मीनाथस्य भ्रूलते नोऽस्मान्पालयेताम् । कथंभूते । लक्ष्माकाराश्चिलाकृतयो येऽलकास्तेषामालिस्तया स्फुरद्यदलिकं ललाटं तदेव शशाक्षार्थ तस्य संदर्शनेन मीलन्ती ये नेत्राम्भोजे तयोः प्रबोधे विकासननिमित्तमुत्सुकरतथा निभृततरमालीनो यो भृनस्तस्य छदौ पक्षौ तद्वदाभा ययोः । तथा लक्षीकृतो विवुधगणो यस्तेषामपाङ्गबाणानां यदसनं धनुस्तस्यार्धच्छाये । धनुरर्धभागसदृश इत्यर्थः । तथा भूतीनामैश्वर्याणां यो भूरिप्रसवो- ऽधिकोद्भूतिस्तत्र कुशलता सामर्थ्य ययोः । भक्तानां सर्वाभीष्टप्रद इत्यर्थः ॥ पातात्पातालपातात्पतगपतिगतेइँयुगं भुग्नमध्यं येनेषच्चालितेन वपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाटरङ्गे रजनिकरतनोरखण्डावदाते कालव्यालद्वयं वा विलसति समया बालिकामातरं नः ॥ १२ ॥ पतगपतिर्गरुडस्तेन गतिर्गमनं यस्य तस्य भगवतो भूयुगं नोऽस्मान्पातालपातानरक- पतनात्पातादक्षतात् । कीदृशम् । भुग्नमध्यम् । येनेषच्चालितेन सासुरा देवसंघाः खपदे खखस्थाने व्यापारे च नियमिता वर्तन्ते । उत्प्रेक्षते-ललाटमेव लालाटं तदेव रजो नृत्यस्थानं तस्मिन्बालिकामातरं समया नृत्यत्कालव्यालद्वयं वा । वाशब्द इवार्थः । समया-
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ।
का
शब्दो नैकट्यवाची । बालिकाशब्दः शङ्खास्भोरुपरिभ्रूलतापुच्छदेशवाचकः कपोलप्रान्त.
गताग्रकुन्तलपुजविशेषवाचको वा । सा बालिकासर्पमातृत्वेनोत्प्रेक्षिता। किंभूते लाला-
टरले । रजनिकरतनोश्चन्द्रमण्डलस्यार्धखण्डवदर्धभागवदवदाते निर्मले ॥
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकेशानलिङ्गम् ।
भूयाद्भूयो विभूत्यै मम भुवनपतेर्भूलताद्वन्द्वमध्या-
दुत्थं तत्पुण्ड्मूर्ध्वं जनिमरणतमःखण्डनं मण्डनं च ।। ४३ ॥
भुवनपतेर्भगवतस्तदूर्ध्व पुण्ड्रं तिलकं मम भूयो विभूत्या अधिकैश्वर्याय भूयात् । किं-
लक्षणम् । जनिमरणतमःखण्डनम् । जन्ममरणकारणाज्ञानरूपतमोनाशकमित्यर्थः ।
भ्रूलताद्वन्द्वमध्यादुत्थं खयमेवोद्भूतं स्फाटिकेशानलिङ्गं स्फटिकमणिमयशिवलिङ्गमिव ।
रूक्षः क्रूरो यः स्मारेक्षुचापात्कामसंबन्धीक्षुकोदण्डाच्युतः शरनिकरस्तेन क्षीणं कृशमे-
बंविधं तत् लक्ष्मीकटाक्षेत्यादि चेति कर्मधारयः । लक्ष्मीकटाक्षा एव प्रोत्फुल्लद्वि-
कसत्पदानां माला तया विलसितमुज्जम्भितं महितं महत्त्वं यस्य तच तत्स्फटिके
शानलिङ्गं च ॥
पीठीभूतालकान्ते कृतमुकुटमहादेवलिङ्गप्रतिष्ठे
लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।
प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटी प्रस्फुरन्तीं स्फुटाङ्गं
पट्टीयं भावनाख्यां चटुलमति नटी नाटिकां नाटयेन्नः ॥ १४ ॥
कैटभारेभंगवतो ललाटमेव लालाट तस्मिन्नाव्यरङ्गे नोऽस्माकमियं स्वभावसिद्धा
चटुला चपला मतिरेव नटी नर्तकी भावनाख्यां भावनानाम्नी नाटिकां खकन्यां
चिराय दीर्घकालं नाटयेन्नर्तयेत् । अस्मन्मतिर्भगवल्ललाटे ध्यानात्मिकां वृत्ति नैरन्तर्येण
प्रवर्तयेदित्यर्थः । किंलक्षणा । पट्टी चतुरा। किं कृत्वा । आत्मतन्द्री खालस्यं तद्रूपां
प्रकटपटकुटी प्रसिद्धावरणपटं प्रोद्धाव्य । आलस्यरूपनिबिडतिरस्करिणीमपसार्येत्यर्थः ।
किंलक्षणां नाटिकाम् । स्फुटाङ्गं प्रस्फुरन्तीम् । कथंभूते नाट्यरङ्गे । पीठीभूतः
पीठतां गतो योऽलकान्तः केशोद्गमप्रान्तदेशो ललाटोपरिरेखा तत्र कृता मुकुटलक्षणमहा-
देवलिङ्गस्य प्रतिष्ठा यस्मिन् । तथा विकटतरतटेऽतिशयेन विशालतटे ॥
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्धी गलति हरशिरःखवुनीस्पर्धया नु ।
राहुर्वा याति वक्र सकलशशिकलाम्रान्तिलोलान्तरात्मा
लोकैरालोच्यते या प्रदिशतु सकलैः साखिलं मङ्गलं नः ॥ ४५ ॥
१८ काव्यमाला। अलिवच्छयामलं धाम तेजो यस्य तस्य श्रीपतेः सा कुन्तलाली नोऽस्माकमखिलं मजलं प्रदिशतु । या सकलैर्लोकः कुवलयकलिता नीलोत्पलरचिता मालाली माला- परंपरेव । अथवा कालिन्दी यमुना हरशिरःखधुनीस्पर्धया महादेवमस्तकस्थगङ्गेययः भगवन्मूर्धानमारुह्य ततो गलति नु । यद्वा सकला चासौ शशिकला शशिप्रकाश- स्तदाकारभ्रान्तियुक्तश्चासौ लोलश्चपलोऽन्तरात्मा मनो यस्यैतादृशो राहुयालोच्यत उत्प्रेक्ष्यते ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टखरूपा व्याप्तव्योमान्तरालास्तरलरुचिजलारञ्जिताः स्पष्टभासः । देहच्छायोद्मामा रिपुवपुरगुरुप्लोषरोषामिधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ ४६॥ केशिद्विषः केशिनामकासुरहन्तुर्भगवतः केशा नोऽस्माकं विपुला बहुला ये क्लेशः अविद्यास्मितारागद्वेषाभिनिवेशास्त एवं पाशास्तेषां प्रकर्षण नाशं विदधतु । किंलक्षणाः। भगवति प्रसुप्ते सुप्ताकाराः सुप्तस्य भगवत आकार इवाकारो येषां ते । अत एव विबुधै- रपि न दृष्टं खरूपं येषां ते तथाविधाः । तथा व्याप्तं व्योमान्तरालं ब्रह्माण्डोदरं यः । तथा तरलानि चपलानि रुचिमन्त्युज्ज्वलानि च जलानि क्षीरसागरनीराणि तैरासम- न्ताइञ्जिताः। स्पष्टभासः । देहस्य श्रीमन्मूर्तेश्छाया कान्तिस्तस्या उद्गम उपरिप्र- चारतद्वदाभान्ति ते । रिपूणां वपूंप्येवागुरुस्तस्य लोषो दाहस्तस्मिन्रोषरूपो योऽमिस्तस्य धूम्या धूमसमूह इव । एतैर्विशेषणैः केशानां मेघसाम्यं ध्वनिनम् । 'यस्य केशेषु जीमूताः' इति पुराणप्रसिद्ध्या ॥ यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिःप्रतान- स्फूर्त्या मूर्तिर्मुरारेवुमणिशतचितव्योमवद्दुर्निरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकृतमहाभाखदौर्वामिशङ्कां शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ ४७॥ तन्मुरारेः किरीटं नोऽस्माकं शश्वच्छम दिश्यात् । कथंभूतम् । कलिकलुषतमः- पाटनम् । पारेपयोधि समुद्रमध्ये ज्वलन्नकृत्रिमो महान्प्रौढो भाखान्प्रकाशबहुलश्च य और्वाग्निर्वाडवानलस्तस्य शङ्कां कुर्वत् । यत्र किरीटे प्रत्युतानां खचितानां रत्नप्रवराणां परितो लसद्भूर्यधिकं यद्रोचिस्तस्य प्रतानो विस्तारस्तस्य स्फूर्त्या स्फुरणेन मुरारेर्मूर्तिधु- मणिशतचितव्योमवद्युगपदुदितानेकसूर्यव्याप्ताकाशवदुर्निरीक्ष्या दुष्प्रेक्ष्या तत् ॥ प्रान्त्वा प्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नामिनालीकनालात् ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १९ - उन्मजन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ १८ ॥ दैत्यविद्वेषिणो नारायणस्य स देहाम्भोधि!ऽस्मभ्यममृतं कैवल्यं देयात् । त्रिभुव- नगुरुस्त्रैलोक्यपिता ब्रह्मापि यदन्तमध्येऽनेका असंख्याता अब्दकोटीः । अनेककोटिसं- वत्सरपर्यन्तमित्यर्थः । भ्रान्खा भ्रान्खा बहुशो विभ्रम्यान्तमवसानं गन्तुं प्राप्तुं न सम- र्थोऽभूदित्यध्याहारः । पुनरन्तप्राप्त्याशाविच्छेदानन्तरं नाभिनालीकनालाड्रमर इवोन्म- जन्नपरं त्रिभुवनं तत्सदृशं निर्ममे । किंलक्षणः । ऊर्जितश्रीः । कथंभूतो देहाम्भोधिः । निरवधिः। मत्स्यः कूर्मो वराहो नरहरिणपतिमिनो जामदग्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मा त एते गुरुतरकरुणाभारखिन्नाशया ये ।। ४९ ॥ हरिणपतिः सिंहः । नरश्वासौ हरिणपतिश्चेति विग्रहानरसिंहः । कंसघाती कृष्णः । मनसिजविजयी मारजित्तपखिवेषो भगवान्बुद्धः । भविष्यन्कलि युगान्ते । अन्यत्स्फु- टम् । विष्णोरेतेंऽशावताराः । भुवनहितकराः । यतो धर्मसंस्थापनार्थाः । तथा गुरुत- रेण करुणाभारेण खिन्नः खेदं प्राप्तः । परवशीकृत इत्यर्थः । आशयोऽन्तःकरणं येषां ते मां भक्तं पायासुः॥ यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः खार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानन्दं खसंविन्निरवधिममृतं खान्तसंक्रान्तबिम्ब- च्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥ तन्महस्तेजो नोऽस्मान्सदाव्यात् । यस्मान्मनसा समं वाचोऽपि निवृत्ताः । तदि- दमेवेति बोधयितुमसमर्थाः। किंलक्षणाः । लक्षणा मुख्यवृत्तवृत्त्यन्तरं तामीक्षमाणा आकाङ्क्षमाणाः । कस्मात् । वेदलक्षणवादाः खार्थस्य शक्तिविषयस्यार्थस्यालाभात्सरे च तेऽर्थास्तेषां व्यपगमो निरसनं तत्कथनेन श्लाघा येषां ते। किंलक्षणं महः । नित्यानन्दम् । खसंवित्वयं प्रकाशकम् । तथा निरवधिं निरवधिकम् । ककारोऽत्र लुप्तो द्रष्टव्यः । अमृतमपरिणामि । कूटस्थमित्यर्थः । अपि च यन्महः स्वान्तमन्तःकरणं तत्र संक्रान्ता बिम्बच्छाया बिम्बाकृतिस्तदापत्त्यापि तावन्मात्रप्राप्यापि यमिनो यतीनित्यं सुखय- त्यानन्दयति ॥ आ पादादा च शीर्णों वपुरिदमनघं वैष्णवं यः खचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदः ।
काव्यमाला जुहज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमत्रानुपाठे- स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ॥ आ पादात्पादमारभ्य, आ च शीर्ष्णः शिरःपर्यन्तमिदं पूर्ववर्णितं वैष्णवं वपुर्विष्णु- स्वरूपं ये निरस्ताखिलकलिकलुषे खचित्ते संततान्तःप्रमोद आनन्दभरितान्तःकरणः सन् नित्यं धत्ते निर्मलाभ्यां तत्पादाम्भोरुहाभ्यामपि वयं नमस्कुर्महे । दि कुर्वन् । स्तोत्रमन्त्रानुपार्जिह्वाकृशानौ जिह्वारूपेऽग्नौ हरिचरितहविः सततं जुहृत् । हरिचरि- तानि तत्स्तोत्राणि च सदा पठन्नित्यर्थः ।। इति भगवत्पादश्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रं सटिप्पणं समाप्तम् । श्रीगुमानिकवित्रणीतम् उपदेशशतकम् । त्रिषु देवेषु महान्तं भुंगुर्बुभुत्सुः परीक्ष्य हरिमेकम् । मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ १ ॥ रुक्माङ्गदः वपुत्रं निहत्य खड्न मोहिनीवचसा । सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धर्मम् ॥ २॥ निर्वासितो हितेप्सुर्विभीषणो रावणेन लङ्कायाः । तन्नाशहेतुरासीन्नहि निजबन्धुर्विरोद्धव्यः ॥ ३ ॥ हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः । प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४ ॥ मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः । जित्वा ददौ तमस्मै जनापवादाद्भजेद्भीतिम् ॥ ५॥ खाराज्यमनुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा । न्यपतत्त्वरितमधस्तात्प्राप्तैश्वर्यो न दृप्तः स्यात् ॥ ६ ॥ सहधर्मिणी वनान्ताद्दशरथसूनोहार दशवक्रः । बन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ ७ ॥ १. एतच्छतकोदाहरणकथास्तु प्रायः श्रीमद्भागवते हरिवंशे च वर्तन्ते. २. इयं भृगुकथा श्रीमद्भागवते दशमस्कन्धे नवाशीतिमितेध्याये द्रष्टव्या. ३. 'खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत्सीतां बन्धनं च महोदधेः ॥ इति प्राचीनः श्लोकः, उपदेशशतकम् । हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः । मधुरोक्तिभिरनुनीतः साम्ना मूर्ख वशे कुर्यात् ॥ ८॥ भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः । धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ॥ ९ ॥ विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा । संकटमाप दुरन्तं श्रीधुन कुर्वीत विश्वासाम् ॥ १० ॥ गर्वाद्योढुमुपेतः पौलस्त्यः सपदि कार्तवीर्येण । क्रीडामृग इव बद्धो न बलोदिक्तेन योद्धव्यम् ॥ ११ ॥ संदीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः । लङ्कां मारुतिरदहद्विपदि विजह्यान्न शूरत्वम् ॥ १२ ॥ रुक्मी छलेन दीव्यन्बलं विजित्याथ परिहसन्नुच्चैः । द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३ ॥ शकुनिसुयोधनकर्णैर्जितोऽक्षधूयुधिष्ठिरो छूते । निर्वासितः खराष्ट्राकितवैः सह नाचरेद्दयूतम् ।। १४ ॥ मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते । प्रायच्छद्गतशत दुस्यजमप्यर्थिने देयम् ॥ १५ ॥ त्यज पाथैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् । तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ १६ ॥ शिशुपालः क्रतुकाले हरिमहँ गर्हयन्नन)क्त्या । तत्क्षणमियाय नाशं न महान्तं वापि गर्हेत ॥ १७ ॥ अन्यद्विजाय मोहानुंगो वदान्यो द्विजस्य गां दत्त्वा । सद्योऽभूत्कृकलासो ब्रह्मखं दूरतो विसृजेत् ॥ १८ ॥ सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः । दृढमाबबन्ध सख्यं समानदुःखः सखा कार्यः ॥ १९॥ . १. बलदेवम्. २. धृतराष्ट्रः. ३. नृगोपाख्यानं महाभारतेऽनुशासनपर्वणि सप्तति- मितेऽध्याये द्रष्टव्यम्. ३द्वि.गु.
२२ काव्यमाला। वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदेवस्थोचिता वृत्तिम् ।। २० ॥ दुष्यन्तः खवधूमपि कण्वानीतां शकुन्तलां सपुताम् । सुचिरं विभृश्य भेजे कार्य सहसा न विदधीत ॥ २१ ॥ जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः । निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ॥ २२ ॥ शतयोजनततमधि विलय वातात्मजोऽविशल्लकाम् । वीराग्रत.सरोऽभूद्यशोऽजयन्साहसं कुर्यात् ॥ २३ ॥ प्रहितः सुरैर्जिगीषुहरं प्रहतुं मरोऽभ्ययाद्यावत् । भसीबभूव तावन्न चिकीर्षेदुष्करं कर्म ॥ २४ ॥ संकुख्य पादघातैः कालिन्यां कालियं कृतागरूकम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५ ॥ कुलिशाहतिहृतशिरसेऽप्यदात्तवन्धाय जीवते शक्रः । अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ २६ ॥ सुग्रीवाय शुकः खाद्दशमुखसंदेशमादिशन्कपिभिः । संताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७ ॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ २८ ॥ भोगान्बहून्ययातिर्मुक्त्वा वयसा सुतस्य चिरकालम् । निरॅविद्यतावितृप्तः कामं मन्येत दुष्पूरम् ॥ २९ ॥ बलिरिन्द्रजित्रिलोक्यां भुञ्जन्मोगांश्चिराद्विनष्टश्रीः । सुतलेऽबध्यत पाशैभॊगान्क्षणभङ्गुरान्विद्यात् ॥ ३० ॥ विलपन्तं हतपुत्रं धृतराष्ट्रं वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सासं दुःखितमनु दुःखितो भूयात् ॥ ३१ ॥ १. एतन्नामकं सर्पम्. २. कबन्धकथा वाल्मीकिरामायणेऽरण्यकाण्डे द्रष्टव्या. ३. सारणसहचरो रावणदूतः. ४. निर्वेदं प्राप.
उपदेशशतकम् । २३ निःक्षत्रियां न चक्रे यावद्रामो भुवं रुषा तावत् । आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२ ॥ दुहिता विदेहभर्तुर्दाशरथे मिनी सीता। वधमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ ३३ ॥ निगमागमैकवेत्ता द्रोणस्तत्वा तपोऽर्थमन्विच्छन् । धानुष्कवृत्ति सौद्धमैं चार्थ च सेवेत ।। ३४ ॥ अधिशंभुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः । न तथा स पूर्णबिम्बः श्रयेन्महान्तं महत्त्वाय ।। ३.१ ॥ शरतल्पमधिशयानाद्भीष्मादाकर्ण्य धर्मजो धर्मान् । दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥ ३६ ॥ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् । जीवितमरक्षि पाथैः स्वात्मानं सर्वतो रक्षेत् ।। ३७ ॥ पृथुकोपहारपाणिहरि सखायं प्रपद्य दीनात्मा । श्रीमानभूत्सुदामा श्रयेत सन्मित्रमापत्सु ॥ ३८ ॥ दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नमाम् । समरे पराङ्मुखोऽभूत्स्त्रियं विवस्त्रां न वीक्षेत ॥ ३९ ॥ अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधीं रामः । तामानयत्स दूराद्धर्यः कार्ये नियोक्तव्यः ॥ ४० ॥ आराध्य कैतवज्ञो रौद्र रुद्राद्वैको वरं लब्ध्वा । गौरीमियेष हर्तुं न विनीतं विश्वसेद्भूतम् ।। ४१ ।। दशकण्ठरक्षितायां लङ्कायां रक्षसामभूद्वसताम् । गृह वित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ ४२ ॥ शप्वाँम्बरीषमार्य दुर्वासाः कोपनो निरागस्कम् । चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ।। ४३ ॥ १ कोटवी नग्ना स्त्री. तत्कथा हरिवंशे बाणासुरयुद्धे प्रसिद्धा. २. शकुनिसूनुर्वको नाम कश्चिदसुरः. तत्कथा श्रीमद्भागवते दशमस्कन्धेऽष्टाशीतितमेऽध्याये द्रष्टव्या. ३. भागवतादिप्रसिद्धं विष्णुभक्तं कंचिद्राजविशेषम्.
२४ काव्यमाला मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः । अजहान तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४ ॥ हत्वा खसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः । उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५ ॥ सीतां विसृज्य रामः साकं मुनिभिर्मुनिव्रतो राज्यम् । शासन्नुवास पुर्या नेयः सद्भिः समं समयः ॥ ४६॥ कृष्णधनंजयभीमान्द्विजवेषस्थाञ्जरासुतश्चिकैः । क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ।। ४७ ॥ यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् । तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ।। ४८ ॥ कुर्वन्नपि मुनिशप्तः खजीवितार्थी परीक्षितो यत्नम् । दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ ४९ ॥ सदिति प्रतीयमानं जगन्मृषैवेति केवलं बुवा । जनको विमुक्तिमागात्स्वप्नवदन्तर्जगद्बोध्यम् ॥ ५० ॥ विहरन्वधूभिरन्तःपुरेऽग्निवर्णों दिवानिशं कामी । अस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ।। ५१ ॥ विप्रः पतिवृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् । वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ ५२ ।। निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् । वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्केत ॥ ५३ ॥ युधि कुरवः कृतवैरा वीरं व्यूहं विशन्तमभिमन्युम् । बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ ५४ ॥ पुष्करनिर्जितराज्यः पुरस्तुपर्णस्य नैषधो गत्वा ! सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ॥ ५५ ॥ १. 'स संचरिष्णुर्भुवनान्तराणि याम्' (१।४६) इत्यादि शिशुपालवधश्लोकानुसा- रिणीयमार्या. २. अग्निवर्णकथा रघुवंशस्यैकोनविंशे सर्गे प्रसिद्धैव. ३. लोकप्रसिद्धैवेयं कथा. रामायणादिषु न प्राप्यते. ४. नलभ्राता. ५. नलः.
उपदेशशतकम् । क्षानं विमृष्य धर्म मान्यैर्गुरुमिर्द्विजैः समं समरे । युयुधेऽर्जुनो धनुष्मान्धोरमपि स्खं चरेद्धर्मम् ।। ५६ ॥ हरिरम्बुधिमथनोत्यां सुधां सुरेभ्यः सुरां सुरारिभ्यः । व्यतरत्समं यथार्ह योग्यं योग्याय दातव्यम् ॥ ५७ ॥ अथ चैकत्वमवासाः सुरां निपीयोद्धता मिथो नन्तः । युधि यादवाः प्रणेशु/ माल्मचंग सेवेत ॥ ५ ॥ यज्ञोत्सवे स्वपित्रा हठादनाकारिता सती गत्वा । तनुमजहात्परिभूता कापि न गच्छेदनाहूतः ॥ ५९ ॥ मुंचकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य । छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६० ।। असकृयुधि विजितादपि भीतो बॉर्हद्रथाजले र्दुर्गम् । कृत्वा हरिय॑वात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥६१॥ तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे । सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ ६२ ।। मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः । अन्वव्रजत्मरातॊ भेतव्यं दुर्जयात्कामात् ॥ ६३ ॥ बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् । युधि निर्जितः प्लवंगैर्न बहेगर्व बुधो मनसा ॥ ६४ ।। मातुर्वाक्शरविद्धः पञ्चाब्दो दुष्करं तपस्तत्वा । ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ॥ ६५ ॥ नीता रहसि सखीभ्यो बहुमहिता वल्लवी पथि श्रान्ता । वह मामिति हरिमूचे न ह्यतिसंमानयेत्प्रमदाम् ।। ६६ ।। दधतः खलक्ष्म युद्धे मुहुः शृंगालस्य जल्पतः परुषम् । श्रुत्वा जहास शौरिन वाग्विवादं शठैः कुर्यात् ॥ ६७ ॥ १. दक्षप्रजापतिना २. राजविशेषेण. ३ जरासंधात्. ४ द्वारकारूपम्. ५. उत्ता- नपादसूनुः. ६. राजविशेषस्य.
काव्यमाला । अकृतागसमपि रामो वालिनमन्तहितश्छलेनैव । सख्युर्जघान शत्रु सुहृद्रिपुं भावयेद्रिपुवत् ॥ ६ ॥ कुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुञ्चत्क्रोधाविष्टोऽनुनेतव्यः ।। ६९ ।। बवार्पितं कुमारैोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ ७० ॥ दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः । तदभूद्विग्रहबीजं न वैरमुत्पादयेत्तस्मात् ॥ ७१ ॥ खपितॄन्समुद्दिधीर्षन्प्रापय्य मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ।। ७२ ॥ तारां जहार चन्द्रः स्त्रियं गुरोर्दुह्यतां मिथस्तेन । समरोऽभवत्सुराणां बोध्यं वैरैकबीजं स्त्री ॥ ७३ ॥ अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४ ।। लुब्धो बलाजिघृक्षकामदुर्घ कौशिको वसिष्ठस्य । न प्राप जातदो हठं न कुर्यादुरापेऽर्थे । ७५ ।। दृप्तं बलेन रोषान्निवध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ ७६ ।। द्विषतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा । अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ ७७ ॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्क्रुद्धः । चक्रे सहस्रनेत्रं गुणवान्धोध्यः सतां शापः ॥ ७८ ॥ धनदः पुष्पकमेकं लकापतये युयुत्सवे दत्त्वा । अलकामपात्समयां बहु रक्षेदल्पदानेन ॥ ७९ ॥ १. हस्तिनापुरम्. २. पूजनीया नाम काचिचटका. तत्कथा महाभारते शान्तिपर्व ध्यापद्धर्म एकोनचत्वारिंशदधिकशततमेऽध्याये, हरिवंशे च प्रथमपर्वणि विशेऽध्या द्रष्टव्या.
२७ -. - उपदेशशतकम् । तनये विनयिनि वीरे पार्थः कुरुभिर्हतेऽपि. सौभद्रे । युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ ८० ॥ व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः खकं वृत्तम् । शश्वत्स्मरनशोचन्न भाविनं चिन्तयेदर्थम् ॥ ८१ ॥ वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् । राधेयमेव मेने बुधः स्ववृत्त्यानुवर्तेत ।। ८२ ।। हित्वान्यान्हरिदारान्सात्राजित्यै सुरर्षिरर्थज्ञः। दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ।। ८३ ॥ रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन । यक्ष्मी बभूव चन्द्रो नैकरतः स्थाबहुस्त्रीकः ॥ ८४ ।। तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः । शूद्वत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५ ।। सत्राजितं निशायां निर्मरनिद्राणमेव शतधन्वा । अवधीत्स्यमन्तकार्थे नातिशयालुभवेद्रात्रौ ॥ ८६ ।। इतवत्यपि निजतनुजान्गाविसुते वीर्यवान्विधेः सुनुः । प्रतिकर्तुमाप लज्जा कुलानुरूपं वहेच्छीलम् ॥ ८७ ॥ विद्यां कचो बुभुत्सुः शुक्रात्संजीविनीं विनीतात्मा। सुरपक्षगोऽपि लेभे विनयात्संसाधयेत्कार्यम् ॥ ८८ ॥ द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह । द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ ८९ ॥ अपि शक्तः परिहर्तुं ययातिशापं हरिहते कंसे। राजासनं न भेजे पुरातनी पालयेत्संस्थाम् ।। ९० ॥ विमुखो घुमद्गदातः प्रद्युम्नो धिक्कृतो रणे हरिणा । परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१ ॥ - १. अभिमन्यौ. २. सत्यभामायै. ३. नारदः, ४. वसिष्ठः. ५. यदुवंशीया राज्य न प्राप्स्यन्तीत्यादि रूपम्.
एकाग्रता खकर्मणि दत्तात्रेयः प्रशासन शारकः । समशिक्षतात्मयोग नीवादणि सद्गुणो साथः ॥ ११ ॥ अपि वश्चयान्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हवा । खयमेव वञ्चितोऽभून्मायाविषु नाचरेन्मायान् ।। ९ ।। मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः । केसरिणा विनिजन्ने नैकाकी संचरेद्विपिनम् ॥ ९४ ॥ शिवलिङ्गान्तमलब्धं लब्धं विधिनेति कामधुक्प्राह । अथ निन्द्यमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ ९५ ॥ पुत्रेण सव्यसाची पराजितो बब्रुवाहनेनाजौ । तुष्यन्हृदि न लज्जे पराजयं पुत्रतोऽन्विच्छेत् ।। ९६ ।। चिरसंगताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे । ज्यसनं खमाह सर्व सुहृदे विनिवेदयेदुःखम् ॥ ९७ ॥ पाञ्चालीगजराजौ हरिणा दुःशासनावहाराभ्याम् । त्रातौ क्षणात्प्रपन्नौ हरि भयार्तः प्रपद्येत ॥ ९८ ॥ दैवाद्वनोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् । शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ ९९ ॥ असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः । तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ।। १०० ॥ स्फुटमार्याशतगदितान्पृथक्प्रमाणीकृतानुदाहरणैः । शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ॥ १०१ ।। कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ॥ १०२ ॥ इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् । १. अवहारो पाहापरनामा जलजन्तुः.
२९ सुवृत्ततिलकम् । महाकविश्रीक्षेमेन्द्रकृतं सुवृत्ततिलकम् । प्रथमो विन्यासः । गणपतिगुरोकथूडाशशाहकलातुर ঙ্কিংবাখতিহত্যা। गिरिपतिसुवासंसक्ता विलासकचग्रह- च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः ॥ १ ॥ खच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः। स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥२॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे । तपःसत्यनिवासाय व्यासायामिततेजसे ॥३॥ क्षेमेन्द्रेणा सुशिष्याणां सरस्वत्याः प्रसाधनम् । सुत्ततिलकं वर्णरुचिर क्रियते शुरखे ॥४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः । प्रसिद्धकाव्यकर्मण्यवृत्तानामेष संग्रहः ॥५॥ दीर्घे संयोगपूर्वे च गुरुसंज्ञा प्रकीर्तिता । असंयोगग्रहं हवं लघुसंज्ञ प्रकीर्तितम् ॥ ६॥ त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा । त्रिलघुः प्राग्लधुर्मध्यलघुरन्तलघुम्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संज्ञिताः । ज्ञेयो लघुर्लकारोत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम् ) कचिद्विक्षिप्तसंस्थानः कचिदेकपदस्थितैः। संयोगस्थैः कचिद्दत्तमुदाहरणमक्षरैः ॥ ९॥ १. शिवस्य. २.sss मगणः,।। भगणः, I S। जगणः, ।। सगणः,।। नगणः, Iss यगणः, SIS रगणः,55। तगणः इति गणखरूपम्.
काव्यमाला पूर्वाक्षरद्वयासक्तविराम घडया । तकारेण यकारेण तनुभध्याभिधीयते ।। १० । यथा मम- 'तेन प्रविभक्ता कामं वयसा सा। येन प्रविलासं धत्ते तनुमध्या ॥' सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा । अविरामं विदुर्वृत्तं कुमारललिताभिधम् ॥ ११ ॥ यथा मम- 'जनं स्मृतिदशाप्तं गतानुगतिकः किम् । न शोचति जनोऽयं कुमारललितं तत् ॥ मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् । विद्युन्मालाभिधं तद्धि वृत्तमाक्षर विदुः ।। १२ ।। यथा मम- 'मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था । मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ।।' लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसंगतिः । वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ यथा मम- 'लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् । न यत्परोपकारकृढथैव तत्प्रमाण्यपि ॥' पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः। गुरु षष्ठं च सर्वेषामेतच्छोकस्य लक्षणम् ॥ १४ ॥ असंख्यो भेदसंसर्गादनुष्टुप्छन्दसां गणः । तत्र लक्ष्यानुसारेण श्रन्यतायाः प्रधानता ।। १५ ।। - १. केवलं बालखमेवेति भावः. २. प्रमाणयुक्तमपि.
सुवृत्ततिलकम् । यथा भगवतो व्यासस्य- 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।।' नवाक्षरापि ननमैरक्षरैरुपलक्षिता । भुजगाना शिअमृता कथिता वृत्तकोविदः ॥१६॥ यथा मम- 'जनमति चरणौ भक्त्या किमिति जडमतिलोकः । भवभयशमनौ शंभोभुजगशिशुभृतावग्रे॥' संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् । वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥ १७ ॥ यथा मम- 'भग्नमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया । खानविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ।। तकाराभ्यां कारेण युक्तं गुरुयुगेण च । इन्द्रवज्राभिधं प्राहुर्वृत्तमेकादशाक्षरम् ॥ १८ ॥ यथा मम- 'तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ । तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ।' जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् । वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ॥ १९ ॥ यथा मम- 'जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति । उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥' १. महाभारते द्रोणपर्वणि (१८४१४६). २. भुजगोपपदा शिशुभृता. भुजगशिशुमृते- त्यर्थः. ३. सुवर्णरत्नादियुक्तति यावत्. ४. उपेन्द्रो विष्णुः, वज्रायुधः शक्रः, वारिलायो वरुणः, तैः.
३२ काव्यमाला। पदानन्तरविन्यासयोगैहुभिरेतयोः । वैचित्र्यजातिलांचेरा भवन्त्येयोपजातमाः ।। २० ॥ भकारत्रयसंयुत्तमन्त गुरुयुगान्वितम् । कथितं दोधक नाम वृत्तमेकादशाक्षरम् ॥ २१ ॥ यथा मम- 'भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः । तिष्ठति चेतसि चन्द्रकलाभृद्भक्तजनाभयदोऽथ कपाली ॥' पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता । गुरुद्वितपयुक्ता शालिकादशाक्षः ॥ २२ ॥ यथा मम- 'मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन । मध्वातानखेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ।' रनरैरन्वितं युक्तं लधुना गुरुणा तथा । ख्यातं रथोद्धता नाम वृत्तमेकादशाक्षरम् ॥ २३ ॥ यथा मम- 'रम्यनर्मकलभोगतर्जनी भूलतेव तरलारियोषिताम् । वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ।" गुरुद्वययुतैरन्तेरनभैरुपलक्षिता । गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम- 'रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः । खागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ।। सकारैरन्वितं वृत्तं चतुर्भिर्युगपत्स्थितैः । उदित तोटकं नाम वृत्तर्टािदशाक्षरम् ॥ २५ ॥ १. शिवः, २. रथोपरि स्थितेति भावः.
सुवृत्ततिलकम् । ३३ यथा मम- 'सरसः स्मरसारतरो वयसः समयः स्मृतिशेषदशापतितः । गलिताखिलरागरुचिर्विजने परितोऽट कपालकरः सुमते ।' संलक्षितं जतजरैादशाक्षरमक्षरैः। छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥ यथा मम--- 'जनस्य तीत्रातपजार्तिवारणा जयन्ति सन्तः सततं समुन्नताः । सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ॥' अभिव्यक्तं नमभरैरक्षश्रादशाक्षरम् । वदन्ति वृत्तजातिज्ञा वृत्तं द्रुतविलम्बितम् ॥ २७ ॥ यथा मम- - - 'नभसि भर्गगलच्छविमिर्घनैर्दुतविलम्बितगैः परिवारितः । सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोर्मिभिः ।।' समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैस्त्रिभिः । त्रयोदशाक्षरं नाना कीर्तयन्ति प्रहर्षिणीम् ॥ २८ ॥ यथा मम- 'मानौजःसुरभिगुणैर्यशःसितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता । सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परप्रहर्षिणी श्रीः ।।' अभिज्ञातं तभजजैरन्तासक्तगुरुद्वयम् । चतुर्दशाक्षरं वृत्तं वसन्ततिलकं विदुः ॥ २९ ॥ यथा मम- 'तद्भाजि जन्मसचिवे भगवत्यनने प्राप्ते लसत्कुसुममण्डलपाण्डुरेण । भृङ्गावलीकुटिलकुन्तलसंनिवेशा कान्ता वसन्ततिलकेन विभूषिता भूः ॥' १. समन्तात् अट भ्रमणं कुरु. २. वंशः कुलं वेणुदण्डश्च. ३. केचिच्छीघ्रगामिनः, केचिन्मन्थरगामिनस्तैः. ४. अन्ते च गुरुणा युक्तमिति शेषः. ५. अन्येषां सुखप्रदा. ४ द्वि० गु० काव्यमाला । अष्टाक्षरविरामेण युक्ता ननमयैः संयैः । वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ॥ ३० ॥ यथा मम- 'ननननमयवाणी मेखलाकृष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् । तृणलवचलनेऽपि खैरिणी शङ्कमाना दिशि दिशि कृतदृष्टिालिनी कस्य नेष्टा ।' नजभैर्जजलैरन्तगुरुभिर्नर्कुटाभिधम् । वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ॥ ३१ ॥ यथा मम-- 'निजभुजजैविशालगुणबिक्रमकीर्तिभरैः प्रविधता सुधांशुधवलं भवता भुवनम् । कथय कथं कृतेयमतिरागवतीं जनता चरितमपूर्वमेव तव कस्य न नैकुटकृत् ॥' जसजैः सयलैंगैन युताष्टनवसंहतिः । दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ॥ ३२ ॥ यथा मम- 'जवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः । कदाचिदवलोकनैः फलविवर्जितैर्मन्यते जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥' नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा । विच्छिन्ना हरिणी षभिश्चतुर्भिः सप्तभिस्तथा ॥३३॥ - १. यगणेन सहितैरित्यर्थः. २. मालाधारिणी. ३. नर्कुटशब्दोऽत्राश्चर्यवाचक इति भाति. ४. मूर्खः खामिदृक्पातमात्रेण वसुधां खहस्तगतां मन्यते.
सुवृत्ततिलकम् । ३५ यथा मम- 'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत सुकृतं यावन्नेयं तनुः प्रविशीर्यते । किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी संत्रस्तेव प्लवप्रविसारिणी ॥' यमनैः समलैर्गेन युक्ता सप्तदशाक्षरा । षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४॥ यथा मम- 'यथा मन्युलीनः स च विभवभग्नः स्मरपद- स्तथा जाने जाता शमसमयरम्या परिणतिः । इदानी संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरिवरमही सा शिखरिणी ॥' चतुःषट्सप्तविरतिवृत्तं सप्तदशाक्षरम् । मन्दाक्रान्ता मभनतैस्तगगैश्चाभिधीयते ॥ ३५ ॥ यथा मम- 'मध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः । तरिक मिथ्या नियमनिभृतैः कानने धीयते धी- मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ॥' मसजैः सततैर्गेन युक्तमेकोनविंशवत् । शार्दूलक्रीडितं प्राहुश्छिन्नं द्वादशसप्तभिः ॥ ३६ ॥ यथा मम- 'माद्यत्सज्जसमाततोग्रसुभटोद्भिन्नेमकुम्भस्थल- श्लिष्यन्मौक्तिकदन्तुरः सरभसोद्वेलद्यशःकेसरः। जृम्भारम्भभयंकरव्यतिकरत्रस्तैः समुद्वीक्षितः शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥' १. मन्दं यथा स्यात्तथा धृता.
काव्यमाला। युक्तं मरभनैर्यैश्च त्रिभिः सप्ताक्षरैत्रिभिः । छदैश्च स्रग्धरावृत्तमेकविंशाक्षरं विदुः ।। ३७ ॥ यथा मम- 'सारारम्भानुभावप्रियपरिचयया स्वर्गरङ्गाङ्गनानां लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या । आभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या त्वत्की| भूषितेयं भुवनपरिवृह स्रग्धरेव त्रिलोकी ॥' इति सरलतरत्वात्सर्वकाव्योचितत्वा- त्सुकविपरिचितत्वात्कीर्णकर्णामृतत्वात् । परुषविषममात्रादुर्विरामोज्झितेयं प्रचुररुचिरवृत्तव्यक्तिरुक्ता हिताय ॥ ३८ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामधीक्षेमेन्द्रविरचिते सुवृत्ततिलके. वृत्तावचयो नाम प्रथमो विन्यासः । द्वितीयो विन्यासः। कृते प्रसिद्धवृत्तानां लक्ष्यलक्षणसंग्रहै । अधुना क्रियते तेषां गुणदोपप्रदर्शनम् ॥ १॥ न षट्सप्ताक्षरे वृत्ते विश्राम्यति सरस्वती। भृङ्गीव मल्लिकाबालकलिकाकोटिसंकटे ॥ २॥ समासैलेघुवृत्तानामसमासैमहीयसाम् । शोभा भवति भव्यानामुपयोगवशेन वा ॥३॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् । यदुक्तं पञ्चमं कुर्याल्लघु षष्ठं तथा गुरु ॥४॥ तत्राप्यनियमो दृष्टः प्रवन्धे महतामपि । तस्मादव्यभिचारेण श्रव्यतैव गरीयसी ॥५॥ १. अतिशुभ्रया लत्कीा सितकुसुममालभारिणीवेयं त्रिलोकी शोभत इति भात्रा.
सुवृत्ततिलकम् । ३७ - - यथा कालिदासस्य- 'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।' उपजातिविकल्पानां सिद्धो यद्यपि संकरः। तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु ॥ ६॥ यथा श्रीमदुत्पलराजस्य- 'हृताञ्जनश्यामरुचस्तवैते स्थूलाः किमित्यश्रुकणाः पतन्ति । भृङ्गा इव व्यायतपङ्गयो ये तनीयसी रोमलतां श्रयन्ति ।' सूत्रस्येवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् । कर्ण विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ७ ॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाग्रतः। करोति प्रथमं स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८॥ यथा कालिदासस्य- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' त्र्यक्षरख्यक्षरैरेव च्छेदैराभाति दोधकम् । अतोऽल्पैरधिकैर्वापि यति तालमिवोज्झति ॥ ९ ॥ यथा मम- 'सज्जनपूजनशीलनशोभामर्जय वर्जय दुर्जनसङ्गम् । दुस्तरसंसृतिसागरवेगे मजनकारणवारणमेतत् ॥ अतोऽल्पाधिकैर्यथा तुञ्जीरस्य- 'त्वन्मुखचन्द्रनिरीक्षणवा यः सुतरामिह निर्मलनेत्रः । सर्वजनस्य पुरः स्थितमेतत्सोऽन्तकर्त्म न पश्यति चित्रम् ।।' १. शारदाक्षरेपु नकाररकारयोरतिखल्पो भेदः, तस्मात्कदाचित्तुजीन इति नाम स्यात्. तुजीन इति तु कश्मीराधिपते रणादित्यस्य नामान्तरमस्ति. 'तस्यानुजो धरणि- भूद्रणादित्यस्ततोऽभवत् । तुजीनापरनामानं यं जनाः प्राहुरस्नसा ॥' इति राजतरङ्गिणी (३३३८८). रणादित्यनामाङ्कितः श्लोकः सुभाषितावलीमध्ये वर्तते, तस्माद्रणादित्यः क- विरासीदिति स्फुटमेव.
३८ काव्यमाला। शालिनी श्लथवन्धैव स्वभावेन विभाव्यते । उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ॥१०॥ श्लथा यथा मम- 'प्लोषक्लेशं प्रोपितानां दिशन्ती मानम्लानिं मानिनीनां दधाना । गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीदुर्जनस्येव जाता ॥' शत्रन्ताक्षरसंयोगैः किंचित्कार्कश्यकारिभिः । अन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम- 'लज्जामज्जल्लोलतारान्तकान्तास्तिर्यनिर्यत्केतकीपत्रतीक्ष्णाः । मन्नाश्चित्ते कस्य निर्यान्ति भूयः प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥' श्लथस्वभावान्माधुर्य शालिन्याः परिवर्यते । रुचिः प्रयाति भन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तः पादान्तैर्विराजति रथोद्धता । कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥ यथा मम- 'अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः । वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥' अविसगैस्तु पादान्तैर्निष्प्रभैव रथोद्धता । अप्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥ यथा कलशकस्य- 'अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशकिनी जहौ ।' १. अनन्तराजसूनुः कलशः कश्मीरमहाराज आसीत्. अस्यैव राज्यकाले विणकविः कश्मीरदेशं परित्यज्य देशान्तरं गतः. अयं कलशः कविरासीदिति बिहणेनैव विक्रमाङ्क- देवचरितेऽष्टादशे सर्गे वर्णितम्. कलशस्य केचन श्लोकाः सुभाषितावलीमध्येऽपि सन्ति. कलशराज्यसमयस्तु १०८० मितात्त्रितसंवत्सरादारभ्य १०८८ पर्यन्तमासीत्. अस्यैव कलशस्य सूनुर्हर्षदेवो वभूव, यत्प्रशस्तिरूपो राजेन्द्रकर्णपूरग्रन्थः.
सुवृत्ततिलकम् । साकाराद्यैर्विसर्गान्तः : सर्वपादैः सविभ्रमा । स्वागता वागता भाति कविकर्मविलासिनी ॥ १५ ॥ यथा मम- 'व्यावलन्ति तरला जलधाराः पान्थसंगमधृतेः परिहाराः । प्रान्तरत्ननिभविद्युदुदाराः प्रावृषः पृथुपयोधरहाराः ॥' न तु यथा ममैव- 'अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽदिनितम्वे । पुप्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्वे ॥ द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः । अनर्तयति यञ्चित्तं तत्तोटकमभीप्सितम् ॥ १६ ॥ यथा मम- - -- 'मदपूर्णितलोचनषट्चरणं धनरागमनङ्गकराभरणम् । कमलद्युति मुग्धवधूवदनं सुकृती पिबतीह सुधासदनम् ।।' असमस्तपदैः पादसंधिविच्छेदसुन्दरम् । सर्वपादैर्विसर्गान्तैर्वशस्थं यात्यनर्वताम् ॥ १७ ॥ यथा भट्टबाणस्य- 'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनस्तमश्छिदस्यम्बकपादपांसवः ।' विपरीतं यथास्यैव-- 'नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैौखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि ॥' प्रारम्मे दुतविन्यासं पर्यन्तेषु विलम्वितम् । विच्छित्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८॥ यथा मम- 'कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् । कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम् ॥' - ४० काव्यमाला द्रुतहीनं विलम्बितं यथा मम- 'निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरधः । तनुभृतां भव एव भवार्णवे भयमये भगवानवलम्बनम् ।' आकारमन्थरैः प्रायः पादे पादेऽक्षरैत्रिभिः । शेयाक्षरैर्दुततरैः प्रहर्षाय प्रहर्षिणी ॥ १९ ॥ यथा श्रीहर्षदेवस्य- 'दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् । तद्भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥' विपरीतं यथा मम- 'संकोचव्यतिकरबद्धभीतिलोलैनिर्याद्भिभ्रमरभरैः सरोरुहेभ्यः ! आरब्धः क्षणमिव संध्यया जगत्यामुत्पत्त्यै धनतिमिरस्य बीजवापः ॥' वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे। ओजसा जायते कान्तिः सविकासविलासिनी ॥ २० ॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्य- 'कण्ठश्रियं कुवलयस्तवकाभिराम- दामानुकारिविकटच्छविकालकूटाम् । बिभ्रत्सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिर्वः ॥' आकारेऽपि कृते पूर्व बन्धेऽल्पपदपेशले । वसन्ततिलकं धत्ते निर्गन्धि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य- 'अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवाखिव मधुद्रुममञ्जरीषु । कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥'
४१
सुवृत्ततिलकम् ।
विसर्गहीनपर्यन्ता मालिनी न विराजते ।
चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२ ॥
यथा भट्टवल्लटस्य-
'वरमिह रवितापैः किं न शीर्णासि गुल्मे
किमु दवदहनैर्वा सर्वदाहं न दग्धा ।
यदहृदयजनौधैर्वृन्तपानभिज्ञै-
रितरकुसुममध्ये मालति प्रोम्भितासि ।'
संपूर्णा सा यथा कालिदासस्य-.
'अथ स ललितयोषिद्धूलताचारुशृङ्गं
रतिवलयपदाङ्के चापमासज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः ।।"
द्वितीयाधं समस्ताभ्यां पादाभ्यां मालिनी वरा।
प्रथमाघे समस्ताभ्यां पादाभ्यामवरा मता ॥ २३ ॥
द्वितीयाधै समस्तपादा यथा गन्दिनकस्य-
'करतरलितबन्धं कञ्चकं कुर्वतीनां
प्रतिफलितमिदानी दैपमाताम्रमर्चिः ।
स्तनतटपरिणाहे भामिनीनां भविष्य-
न्नखपदलिपिलीलासूत्रपातं करोति ॥'
प्रथमाधं समस्तपादा यथा राजशेखरस्य-
'इह हि नववसन्ते मञ्जरीपुञ्जरेणु-
च्छुरणधवलदेहा बद्धलं सरन्ति ।
तरलमलिसमूहा हारिहुंकारकण्ठा
बहुलपरिमलालीसुन्दरं सिन्दुवारम् ॥"
अज्ञोऽप्यलक्ष्यं मालिन्यां वीणायामिव विखरम् ।
श्रुत्वैवोद्वेगमायाति वाचा वक्तुं न वेत्ति तम् ॥ २४ ॥
४२ काव्यमाला। यथा भद्देन्दुराजस्य- 'रहसि हृतदुकूला शीलिता तैलदीपे त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य । विकिरति पटवासैहन्ति कर्णावतंसैः शमयति मणिदीपं पाणिफूत्कानिलेन ।' गुरुलध्वादिनियमादविभ्रष्टेऽपि लक्षणात् । दोषस्त्वदुपगेत्यत्र श्रोत्रग्राह्योऽस्ति विवरः ॥ २५ ॥ प्रथमं यक्षरैश्छेदैस्ततस्त्रिचतुराक्षरैः । पञ्चाक्षरैश्च पर्यन्ते नर्कटं याति चारुताम् ॥ २६ ! यथा वीरदेवस्य-- 'तव शतपत्रपत्रमृदुताम्रतलश्वरण- श्चलकलहंसनूपुरवरध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः सकलमहीधरेन्द्रगुरुतां कथमम्ब गतः ॥' विपरीतं यथास्यैव- 'सशिखिशिखेव धूमनिचिताञ्जनशैलगुहा सकपिशपन्नगेव यमुनोन्नतनीलशिला। महिषमहासुरोपहितभासुरशूलकरा बहुलनिशेव भासि सतडिद्गुणमेघयुता ॥' असमासैः पदैर्भाति पृथ्वी पृथ्वी पृथक्स्थितैः। समासग्रन्थिभिः सैव याति संकोचखर्वताम् ॥ २७ ॥ पृथक्पदा यथा साहिलस्य- 'कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगञ्चनमवञ्चनं मुखरसार्पणं तर्पणम् । १. ख्रिस्तसंवत्सरीयैकादशशतकसमाप्ती विद्यमानाद्रुद्रटालंकारटीकाकर्तुः श्वेताम्व. रनमिसाधुतः प्राचीनोऽयं वीरदेवः, यतो नमिसाधुना 'नुला तथाहि दुर्गाम्' (१९) इत्यादि रुद्रटार्याध्याख्यायाम् 'केचिद्वीरदेवादयो नीरुजलं प्रापुः' इत्युक्तमस्ति. स एवायं वीरदेवः. यतोऽत्रापि दुर्गास्तुतिरूपमेवास्य श्लोकद्वयम्, सुवृत्ततिलकम् । नखार्दनमतर्दनं दृढमपीडनं पीडनं करोति रतिसंगरे मकरकेतनः कामिनाम् ॥' समासवती यथा मम- 'कचग्रहसमुल्लसत्कमलकोषपीडाजड- द्विरेफकलकूजितानुकृतसीत्कृतालंकृताः । जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ॥" पृथ्वी साकारगम्भीरैरोज सर्जिभिरक्षरैः । समासप्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ॥ २८ ॥ यथा भट्टनारायणस्य- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकंदरः कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ॥' त्वरातरलविच्छेदैविभाति हरिणी पदैः । मन्थरैर्ग्रन्थिबद्धेव याति नि:स्पन्दसङ्गताम् ।। २९ ॥ तरलपदा यथा दीपकस्य- 'तनुधनहरक्रूरस्तेनोत्कटां विकटाटवीं तरति तरसा शौर्योत्सेकात्वसार्थवशाजनः । पुरवरवधूलीलावल्गत्कटाक्षबलाकुले नगरनिकटे पन्थाः पान्थ स्फुटं दुरतिक्रमः ॥' मन्थरैर्यथा भद्देन्दुराजस्य- 'गुणपरिचयस्तीर्थे वासस्थिरोभयपक्षता वपुरतिदृढं वृत्तं सम्यक्सखे तव किं पुनः । सरति सुमते यस्त्वां पातुं हशा विनिमेषया बडिश विषमं तस्याक्षेपं करोषि सहासुभिः ॥'
काव्यमाला। - त्रिषु पादेपु विश्रान्तविलासैललिता पदैः। अन्ते तरङ्गितगतिहरिणी हारिणीतराम् ॥ ३० ॥ यथास्यैव- 'उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥' शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः। सैव लुप्तविसर्गान्तैः प्रयात्यत्यन्तमुन्नतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य- 'यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति म्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिक तरुखण्डे स्मरदवः ॥' विपरीता यथा भट्टश्यामलस्य- 'धृतो गण्डाभोगे मधुप इव बद्धोऽजविवरे विलासिन्या मुक्तो बकुलतरुमापुप्पयति यः । विलासो नेत्राणां तरुणसहकारप्रियसखः स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥' शिखरिण्याः पदैश्छिन्नैः स्वरूपं परिहीयते । मुक्तालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२ ॥ यथा भट्टभवभूतेः- 'असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदएँ कंदर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥'
- - सुवृत्ततिलकम् । श्लोकेऽसिन्सचमत्कारसरसास्वादशालिनि । केवलं शिखरिण्यैव स्वरूपमपहारितम् ॥ ३३ ॥ मन्थराकान्तविस्रब्धैश्चतुर्भिः प्रथमाक्षरैः । मध्यषदेऽतिचतुरे मन्दाक्रान्ता विराजते ॥ ३४ ॥ यथा कालिदासस्य- 'ब्रह्मावर्त जनपदभवश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनापिशुनं कौरवं तद्भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारासारैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥' आदिमध्ये तुल्या यथास्यैव- 'कश्चित्कान्ताविरहगुरुणा खाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥' साकाराद्यक्षरैः पादपर्यन्तैः सविसर्गकैः । शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ॥ ३५ ॥ यथा भट्टश्यामलस्य-- 'आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । सङ्घामामृतसागरप्रमथनक्रीडाकृतौ मन्दरो राजनराजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥' विपरीतं यथा लाटडिण्डीरस्य- 'चित्रं तावदिदं सुरेन्द्रभवनान्मन्दाकिनीपाथसा केनाप्युत्तमतेजसा नृपतिना क्ष्मामण्डलं मण्डितम् । नातश्चित्रतरं निशाकरकलालावण्यदुग्धोदधे भूमेर्यद्भवता विरिञ्चिनगरी कीर्तिप्लवैः प्लाव्यते ॥' ५द्वि० गु० काव्यमाला। विसर्जनीयस्योत्वेन पदैनिशीभरिक । शार्दूलक्रीडितं याति पाठे सायासताभिध ॥ ३६ ॥ यथा मुक्ताकणस्य- 'लीलाचामरडम्बरो रतिपतेर्वालाम्बुदश्रेणयो रागोदण्डशिखण्डिनो मुखविधूभृतास्तमोविभ्रमाः । सौगन्ध्योद्धतधावदाकुलवलन्मत्तालिमालाकुलो धम्मिल्लो हरिणीहशो विजयते सस्तो रतिव्यत्यये ।।' विच्छिन्नपादं पूर्वार्धे द्वितीयाः समासवत् । शार्दूलक्रीडितं भाति विपरीतमतोऽवलम् ।। ३७ ॥ पूर्वार्धे यथा भट्टभवभूते 'अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ।' विपरीतं यथा रिस्सोः 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि धुसरितो डिण्डीर विस्तारिणि । आस्ते ते कलिकालकल्मषमषीप्रक्षालनकक्षमा कीर्तिः संनिहितैव सप्तभुवनखच्छन्दमन्दाकिनी ॥' आद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः । शार्दूलक्रीडितं धत्ते मध्ये तगौरवोन्नतिम् ॥ ३८ ॥ यथा कालिदासस्य- 'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायावद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥'
१ सुवृत्ततिलकम् । आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः। शार्दूलक्रीडितं स्वस्थ रूपं नैवोपलभ्यते ॥ ३९ ॥ यथा श्रीयशोवर्मणः- 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तब सुखच्छायानुकारी शशी । येऽपि त्वद्गमनाजुफारिगतयरत राजहंसा गता- स्त्वत्सादृश्यविनोदगावमपि मे दैवेन न क्षम्यते ।। सुकुमाररसयात्र रक्षायै वृत्तमुद्धतम् । वापाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ आकारगुरुयुक्तादिपर्यन्तान्त विसर्गिणी । असंस्यूतविरामा च राजते स्रग्धरातराम् ॥ ४१ ॥ यथा राजशेखरस्य- 'ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः । सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीमि- दत्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ।।' विपरीतं यथा चक्रस्य- 'सत्यं पातालकुक्षिभरि चिरविलसद्दिकरि प्रीणितानं श्रीगर्मश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् । कल्पान्ते व्याप्तविश्वं परिरटति सरिन्नाथ पाथस्त्वदीयं किं त्वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ।' आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः। अपिलुप्तैर्विसर्गान्तैः स्रग्धरायां समीहते ॥ ४२ ॥ १. भवभूतिवाक्पतिराजादीनां प्रभुः खयं च रामाभ्युदयादिनाटकानां कर्ता कान्य- कुब्जमहीपालोऽयं यशोवर्मा. 'कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशो- वर्मा तद्गुणस्तुतिबन्दिताम् ॥' इति राजतरङ्गिणी (४।१४५). स च यशोवर्मा निस्त. संवत्सरीयसप्तमशतकस्योत्तरार्ध आसीत्.
४८
काज्यमाला
यथा मम-
'शौर्यश्रीकेशपाशः कारेदलन मिलन्मौक्तिकव्याक्तत:
क्षोणीरक्षाभुजंगः कुलशिखरिलुठत्कीर्तिनिर्मोकपः ।
शत्रुव्रातप्रतापप्रलयजलधरस्फारधाराकरालः
प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥'
एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः।
अनयैव दिशा सर्व ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥
मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा ।
उपेन्द्रवज्रं वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४४ ।।
इत्यादि दर्शितं नेह स्वतःसिद्धो ह्ययं क्रमः !
न वेत्ति तदवृत्तज्ञस्तज्ज्ञस्य कोपयुज्यते ॥ ४५ ॥
इति परिचितनानारूपवाणीगुणानां
विदितविविधदोषोद्देशलेशान्तराणाम् ।
इदमतिशयसूक्ष्मवृत्तचर्चाविचारै-
रमिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६ ॥
इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलक
गुणदोषदर्शनं नाम द्वितीयो विन्यासः।
तृतीयो विन्यासः।
प्रबन्धः सुतरां भाति यथास्थानं विवेचकः (निवेशितैः) ।
निर्दोषैर्गुणसंयुक्तैः सुवृत्तमौक्तिकैरिव ॥१॥
शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः ।
चतुष्प्रकारः प्रसरः सतां सारस्वतो मतः॥२॥
शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् ।
काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति ॥३॥
सुवृत्ततिलकम् । १९ शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् । भट्टिभौमककाव्यादि काव्यशास्त्रं प्रचक्षते ॥४॥ तत्र केवलशास्त्रेऽपि केचित्काव्यं प्रयुञ्जते । तिक्तौषधरसोद्वेगे गुडलेशमिवोपरि ॥५॥ यथा वैद्यके वाग्भटस्य-- मधु मुखमिव सोत्पलं प्रियायाः कलरसना परिवादिनी प्रियेव । कुसुमचयमनोहरा च शय्या किसलयिनी लतिकेव पुष्पिताश्रा ।' शास्त्रं कुर्यात्प्रयत्नेन प्रसन्नार्थमनुष्टुभा । येन सर्वोपकाराय याति सुस्पष्टसेतुताम् ॥६॥ काव्ये रसानुसारेण वर्णनानुगुणेन च । कुर्वीत सर्ववृत्तानां विनियोग विभागवित् ॥७॥ शास्त्रकाव्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम् । काव्यशास्त्रेऽपि वृत्तानि रसायत्तानि काव्यवित् ॥ ८॥ पुराणप्रतिविम्बेषु प्रसन्नोपायवर्त्मसु । उपदेशप्रधानेषु कुर्यात्सर्वेष्वनुष्टुभम् ॥ ९ ॥ नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात् । यान्ति प्रभोरिवात्यन्तमयोग्या अपि योग्यताम् ॥१०॥ उग्रगोग्रहसङ्ग्रामे तत्कालसदृशोपमाः। दृष्टास्त एव वैराटेस्त एवाश्वाः किरीटिनः ॥ ११ ॥ तथाप्यवस्थासदृशैः साधुशब्दपदस्थिताः । सुवृत्तरेव शोभन्ते प्रबन्धाः सजना इव ॥ १२ ॥ १. क्षेमेन्द्रकृत एव चतुर्वर्गसंग्रहाख्यो ग्रन्थः. २. भभौमकृतं रावणार्जुनीय- काव्यं भट्टिकाव्यतुल्यं कश्मीरदेशप्रसिद्धम्. 'उदगात्कठकालापं प्रत्यष्टात्कठकौथुमम्' इति रावणार्जुनीयकाव्यश्लोकार्ध काशिकावृत्तौ 'अनुवादे चरणानाम्' (२।४।३) एत- त्सूत्रव्याख्यान उदाहृतम् , तस्मात्काशिकावृत्तिकर्तुः प्राचीनो भट्टभौमकः. सिद्धान्त- कौमुद्यामपि द्वन्द्वसमासप्रकरणे पूर्वोक्तसूत्रव्याख्यान एवोदाहृतं पूर्वोक्तं श्लोकार्धम्, काव्यमाला -- वृत्तरत्नावली कामादस्थाने विनिवेशिता ! कथयत्यज्ञतामेव मेखलेव गले कृता॥ १३ ॥ नहि नाम नवोन्मेषिकुचायाश्चारुचक्षुषः । चिरत्यक्तसराचारे जराजीर्णकचे रुचिः ॥ १४ ॥ तसादत्र यथास्थाने विनियोगाय संगतिः। उदाहरणदिमात्रैर्दर्शिताभिमता सताम् ॥ १५ ॥ आरम्भ सर्गबन्धस्य कथाविस्तरसंग्रहे । शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् ॥ १६ ॥ आरम्भे यथा भर्तृमेण्ठस्य-- 'आसीदैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं बाह्वोः सितच्छन्त्रस्मिताः श्रियः ।। कथाप्रसङ्गे यथाभिनन्दस्य-- 'तस्यां निजभुजोद्योगविजितारातिमण्डलः । आखण्डल इव श्रीमानराजा शूद्रक इत्यभूत् ॥' शमोपदेशे यथा मम- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्योतिरान्तरम् ॥' शृङ्गारालम्बनोदारनायिकारूपवर्णनम् । वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य- 'मध्येन सा वेदिविलममध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ।।' वसन्तवर्णनं यथास्यैव- 'बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥' १. कादम्बरीकथासारकर्ता वृत्तिकारापरनान्नो जयन्तभदृस्य सूनुरभिनन्दकवि कश्मीरदेशे खिस्वसंवत्सरीयसप्तमशतकसमाप्तौ वभूव. रामचरिताख्यकाव्यस्य कर्ता तु शतानन्दसूनुः कश्चिदन्योऽभिनन्दः.
सुवृत्ततिलकम् । ५१ रथोद्धता विभावेषु भव्या चन्द्रोदयादिषु । पाडण्यप्रगुणा नीतिवंशस्थेन विराजते ॥ १८ ॥ चन्द्रोदये यथास्यैव- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुग्वतीव रजनीमुखं शशी ॥' नीतियथा भारवेः- 'श्रियः कुरूणामधिपत्य पालिनी प्रजासु वृत्तिं बमयुङ्क वेदितुन् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥' वसन्ततिलकं भाति संकरे वीररौद्रयोः । कुर्यात्सर्गस्य पर्यन्ते मालिनी द्रुततालवत् ॥ १९ ॥ चीररौद्रयोर्यथा रत्नाकरस्य- 'जृम्भाविकासितमुखं नखदर्पणान्त- राविष्कृतप्रतिमुखं गुरुरोषगर्भम् । रूपं पुनातु जनितारिचमूविमर्श- मुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ।। सर्गान्ते यथा कालिदासस्य- 'अवचितबलिपुप्पा वेदिसंमार्गदक्षा नियमविधिजलानां वर्हिषां चोपनेत्री। गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ।। १. अद्यापि भारविकवेः समयो न निश्चितः, परंतु ३७३५ मितकलिवर्षेषु गतेषु ५५६ मिते च शककाले, अर्थात् ६३४ मिते निस्तसंवत्सरे, समुत्कीर्णे दामिश्चित्पा- षाणलेखे 'येनायोजि नवेऽश्मस्थिरमर्थविधी विवे किना जिनवेश्म । स विजयतां रवि- कीर्तिः कवितावितकालिदासभारविकीर्तिः ॥' इयंमागीतिवर्तते. तस्मात्सप्तमशतक- प्रारम्भेऽपि कालिदासभारवी प्रसिद्धावास्ताम्. स च पाषाणलेखः 'धी इण्डियन् आण्टिक्केरी'नामकपुस्तकस्य पञ्चमे भागे सप्ततिमिते पृष्ठे मुद्रितोऽस्ति. तत्रैव तद्विस्तरो द्रष्टव्यः.
५२ काव्यमाला उपपन्नपरिच्छेदकाले शिखरिणी मता ! औदार्यरुचिरौचित्यविचारे हरिणी वरा ॥ २० ॥ उपपन्नपरिच्छेदे यथा मर्तृहरेः- 'भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः । तथाप्येवं ब्रूमो नहि परहितात्पुण्यमपरं न चामिन्संसारे कुवलयदृशो रम्यमपरम् ।।' औदार्येऽप्यस्यैव- 'विपुलहृदयैरन्यैः कैश्चिज्जगजनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरखाम्ये पुंसां क एष मदज्वरः ॥' साक्षेपक्रोधधिकारे परं पृथ्वी भरक्षमा । प्रावृट्नवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥ साक्षेपे यथा यशोवर्मणः 'स यस्य दशकंघरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क स क स दशाननो ननु निवेद्यतां राक्षसः ॥' प्रावृटप्रवासे यथा कालिदासस्य- 'तस्मिन्नद्रौ कतिचिदबलाविपयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥' शौर्यस्तवे नृपादीनां शार्दूलक्रीडितं मतम् । सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ।।
सुवृत्ततिलकम् । शौर्यस्तवे यथा श्रीचक्रस्य- 'नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया- स्वजानुद्वयसेन देव पयसा सैन्यं समुत्तार्यताम् । नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ- द्वाप्पाम्भःप्लवपूरितोभयतटी द्वाग्व-तीरावती ॥' सावेगपवने यथा मम पवनपश्चाशिकायाम्- "प्रेकच्छलाभिघातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता- मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसंचारचाराः । सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥' दोधकतोटकनर्कुटयुक्तं मुक्तकमेव विराजति सूक्तम् । निर्विषयस्तु रसादिषु तेषां निनियमश्च सदा विनियोगः ॥२३॥ शेषाणामप्यनुक्तानां वृत्तानां विषयं विना । वैचिच्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥ इत्येष वश्यवसां सर्ववृत्तसङ्गिनाम् । उक्तो विभागः सद्वृत्तविनिवेशे विशेषवान् ॥ २५ ॥ एकमिन्नेव यैवृत्ते कृतो द्वित्रेषु वा श्रमः । न नाम विनियोगाहाँस्ते दरिद्रा इबोत्सवे ॥ २६ ॥ वृत्ते यस्य भवेद्यसिन्नम्यासेन प्रगल्भता । स तेनैव विशेषेण स्वसंदर्भ प्रदर्शयेत् ।। २७ ॥ एकवृत्तादर प्रायः पूर्वेषामपि दृश्यते । तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥२८॥ अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी । विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २९ ॥ स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥३०॥ १. पातालविजये काव्ये.
काव्यमाला। वृत्तच्छत्रस्य सा कापि वंशस्थस्य विचित्रता। प्रतिभा भारवेर्येन सच्छायेनाधिकीकृत ॥ ३१ ॥ वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी । रत्नाकरसोत्कलिका चकास्त्याननकानने ॥ ३२ ॥ भवभृतेः शिखरिणी गिरगलतरङ्गिणी । रुचिरा धनसंदर्भे या मयूरीव नृत्यति ॥ ३३ ॥ सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति । सदश्वदमकस्येव काम्बोजतुरगाङ्गना ।। ३४ ॥ शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः । शिखरीव परं वः सोल्लेखैरुचशेखरः ॥ ३५ ॥ इत्येवं पूर्वकवयः सर्ववृत्तकरा अपि । असिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादराः ॥ ३६ ॥ सुवर्णाप्रवन्धेषु यथास्थाननिवेशिनाम् । रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः ॥ ३७ ॥ तसाद्यथायं विनियोगमार्गः प्रदर्शितो वृत्तनिवेशनेषु । तथैव कार्यः कविभिः कृतज्ञैरवश्यचाचां नियमस्तु नायम् ॥ ३८॥ इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि । महाकवेरप्यतिसूक्ष्मतत्त्वविचारहर्षप्रदमेतदुक्तम् ॥ ३९ ॥ इत्यौचित्यप्रचुररचनाविश्रुतश्रव्यवृत्त- व्यक्तिः शक्तिप्रसृतवचसां दर्शिता संग्रहेण । क्षेमेन्द्रेण प्रणयिविपदां हर्तुराश्चर्यकर्त- भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस राज्ये ॥ ४० ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके नृत्तविनियोगो नाम तृतीयो विन्यासः ।
करुणालहरिः । पण्डितराजश्रीजगन्नाथविरचिता करुणालहरिः। विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो । परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १ ॥ भवानलज्वालविलुप्तचेतनः शरण्य तेऽद्धिं शरणं भयादयाम् । विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि मे नाथ यथा ययेच्छसि ॥ २ ॥ विहाय संसारमहानलस्थलीमलीकदेहादिमिलन्मरीचिकाम् । मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३ ॥ त्वदनिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः । मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४ ॥ जगत्रयत्राणविधौ धृतव्रतं तवाघिराजीवमपास्य ये जनाः । शरण्यमन्यन्मृगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥ ५ ॥ रमामुखाम्भोजविकासनक्षमो जगत्रयोद्बोधविधानदीक्षितः । कदा मदज्ञान विनावगै हरे हरिप्यति त्वन्नयनारुणोदयः ॥ ६ ॥ सुरालुरस्वान्तचकोरचुम्विता समस्तसंतापचयापनोदिनी । महानिशीथे मम मानसे कदा स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥ ७ ॥ १. श्रीजगन्नाथपण्डितेन पण्डितराजपदवी दिल्लीप्रभोः शाहजहांतः प्राप्तेति तत्कृत- 'आसफविलास'नामकग्रन्थोपोद्धाततोऽवगम्यते । यथा-'अथ सकललोकविस्तार विस्ता- रितमहोपकारपरम्पराधीनमानसेन, प्रतिदिनमुद्यदनवद्यगवपद्याद्यनेकविद्याविद्योतितान्तः- करणैः ऋविमिरुपास्यमानेन, कृतयुगीकृतकलिकालेन, कुमतितृणजालसमाच्छादित- वेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन, मूर्तिमतेव नव्वाबासफखान- मनःप्रसादेन, द्विजकुलसेवाहेवाकिवाङ्मनःकायेन, माथुरकुलसमुद्रेन्दुना, रायमुकुन्देना- दिष्टेन, सार्वभौमश्रीशाहजहांप्रसादाधिगतपण्डितराजपदवी विराजितेन, तैलङ्गकुलावतंसेन, पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहृदयाना. मनुदिनमुल्लासिता भवतात्'. जगदाभरणकाव्ये पण्डितराजेन वर्णितो दाराशाहोऽस्यैव शाहजहांमहीपतेऽर्थेष्ठः सूनुरासीत्'. २. केषुचित्पुस्तकेषु 'विष्णुलहरिः' इत्यस्य ग्रन्थस्य नाम वर्तते. ३. 'हरे' इति पाठः. ४. 'अपास्यता' इति पाठः, ५. 'तन्नाथ इति पाठः. ६.'ईशं न' इति पाठः. ७. “धुरंधरम्' इति पाठः, ८. मुनीन्द्रचित्त- कचकोरजी विका' इति पाठः. ९. 'खन्नख' इति पाठः.
५ काव्यमाला सुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् । गदाग्रज वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविष्यति ॥ ८॥ सुरापगातुङ्गतरङ्गचालितां सुरासुरानीकललाटलालिताम् । कदा दधे देव दयामृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥ ९ ॥ महाजवाश्छिन्नविवेकरश्मयो मदोद्धता देव मदक्षवाजिनः । हेरे समासाद्य तवाङ्घिमन्दुरामपास्तवेगा दधतां सुशीलताम् ॥ १० ॥ पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् । अपास्य तं त्वां निरपत्रपा सती सती मतिमें कथमन्यमेष्यति ॥ ११ ॥ न जाग्रता स्वमगतेन वा मया समीहितं ते करुणालवाहते। गिरं मदीयां यदि वेत्सि तात्त्विकी तदा जगन्नायक मामुरीकुरु ॥ १२ ॥ अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् । अधुनापि न मां निमालयन्भजसे हा कथमश्मचित्तताम् ॥ १३ ॥ सुमहन्ति जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि । स कथं परमाप्त देहिनां परमाणोर्मम धारणे श्रमः ॥ १४ ॥ नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे । करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥ १५ ॥ न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये । मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ १६ ॥ अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे । वमतां फणिनां विषानलं किमु नानन्दयिता हि चन्दनः ॥ १७ ॥ क्षुधितस्य नहि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् । अकलङ्क यशस्करं न ते भवदीयोऽपि यदन्यमृच्छति ।। १८ ॥ १. 'मनोजवाः' इति पाठः. २. 'अलम्' इति पाठः. ३. 'सरखती मे' इति पाठः. ४. 'न जाग्रति खप्नदशान्तरेऽपि वा परं विजाने तव पादपङ्कजात् । इति स्म सत्यं यदि भाषितं मया क(त)दा जगन्नायक मामुरीकुरु ॥' इति पाठः. ५. 'इति' इति पाठः, ६. 'अनिभालयन्निमम्' इति पाठः. ७. 'परमात्मदेहिनः' इति पाठः. ८. 'दुर्गुणो मदनीयः' इति पाठः. ९. 'नानन्दयतीह' इति पाठः, करुणालहरिः। नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे। भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनता किमालपेत् ॥ १९ ॥ नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः। इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २० ॥ मृगदन्तिमुखान्मया सह प्रतिरुद्धान्भवजालवन्धने ! तव मामपहाय मुञ्चतः करुणा किं न सिजति मानसम् ॥ २१ ॥ निरुपाधिजनातिहारिणं भगवस्त्वामवंगत्य तत्त्वतः । कृतपुण्यचयावहेलनं कथमजेक्षण मामुपेक्षसे ॥ २२ ॥ सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् । पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥ २३ ॥ सुकृतं न कृतं पुरा कदाप्यथ सर्व कृतमेव दुप्कृतम् । अधुना गलितहिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥ २४ ॥ मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् । धृतशाङ्गदारिनन्दक प्रतिकर्षन्ति कथं न लैजसे ॥ २५ ॥ अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् । जनकेन पतन्भवार्णवे न निवार्यों भवता कथं विभो ॥ २६ ॥ सुकृतप्रिय मान्यथास्तु ते सुकृतिभ्यः सुखदस्य सुप्रथा । अपि पापमबिभ्रतस्तु मां तव विश्वंभरनाम दुर्लभम् ॥ २७ ॥ वचनैः पुरुषैरिह प्रभो यदि रोषं समुपागतोऽसि मे । मुखरं कृतकोटिकल्मषं करुणाब्धे जगतोऽपसारय ॥ २८ ॥ यदि वीक्ष्य ददासि मत्कृति न मयैव प्रतिगृह्यते तदा । अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ॥ २९ ॥ पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् । भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३० ॥ १. 'नग' इति पाठः. २. 'अवबुद्ध्य' इलि पाठः. ३. 'पुण्यरस' इति पाठः. ४. 'बुध्यसे' इति पाठः. ५. 'अपि' इति पाठः. ६. 'इत्यथास्तु' इति पाठः. ७. 'सुख- दश्च' इति पाठः.८. 'तदा परितुष्यन्' इति पाठः. ९. 'त्वपनीय' इति पाठः. ६ द्वि० गु० ५८ काव्यमाला । सुकृतप्रकृतौ जने त्वया कृतथा किं कृपया कृपानिधे । यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१ ॥ अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताब्यते। न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ।। ३२ ॥ अहमेव हि दोषदूषितो भगवंस्त्वां समुपालभे मुधा । रमणीविरहज्वरज्वलन्नमृतांशु कुमतिर्विनिन्दति ॥ ३३ ॥ करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् । अमृताम्बुनिधे महाज्वरं नहि जह्या जगदीश जातु माम् ॥ ३४ ॥ कटुजल्पनमल्पकस्य मे नहि ते कल्पयतु क्रुधं विभो। कुपितातुरबालभाषितं कि, गृह्णन्ति मनाङ्महाशयाः ॥ ३५ ॥ भुजगाहितकल्पितध्वजं स्फुरदाशाभुजगालिवेल्लितम् । जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि जातु माम् ॥ ३६ ॥ न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु । मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७ ॥ अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः । तमुपालभमानमुद्धतं विगिमं मां धिगिमां धियं मम ॥ ३८ ॥ अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्नहि किंचिदर्थये । मैम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९ ॥ हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि । मणिमण्डपमध्यविस्फुरद्विबुधक्ष्मारहमूलमाश्रितम् ॥ ४० ॥ शिखिपिच्छमहामणिस्फुरन्मुकुटाकुश्चितकान्तकुन्तलम् । कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ११ ॥ ४ १. 'कदाप्यनु' इति पाठः. २. 'नहि' इति पाठः. ३. अयं श्लोक आर्यमित्रमा- सिकपुस्तकमुद्रितकरुणाला नास्ति. ४. 'अपि' इति पाठः.. ५. 'अपि दर्शय मे दया- निधे हरचेतोहरणं वपुस्तव' इत्युत्तरार्धे पाठमेदः, ६. . 'स्फुटरत्नमय' इति पाठः, ७. 'अतिनीलघनालकावलिभ्रमणभ्राजि ललाटपट्टले' इत्युत्तरार्धे पाठभेदः, , करुणालहरिः। शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् । अरुणाधरकान्तिदेन्तुरस्फुटदन्तांशुविकासिताम्बरम् ॥ ४२ ॥ दरपाण्डुरगण्डमण्डलप्रतिसर्पकमनीयकुण्डलम् । मणिमौक्तिकमञ्जुमञ्जरीमहनीयद्युतिरञ्जितश्रुति ॥ ४३ ।। पृथुर्वैतुलमौक्तिकावलीसुषमावेल्लितकान्तकंघरन् । हरिनीलगिरिद्युतिद्रुहा कमलामन्दिरवालसाञ्चितम् ॥ ४४ ॥ चरणाजनखावलम्विनी भुजागाकारभुजान्तरागताम् । निबिडाप्रमिव क्षणप्रभां बृहदुत्फुल्लवनामलस्रजम् ॥ ४५ ॥ मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति । पतितोद्धरणे इंढव्रतं कमनीयं करयोयुगं दधत् ॥ ४६ ॥ वररत्नमयाङ्गुलीयकावलिशोभामिलिताङ्गुलीगणैः । मुहुराकुलितेन वेणुना वशयत्प्राणभृतां मनःश्रुतीः ॥ १७ ॥ उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् । पशुपालविलासिनीलेसन्नयनाकर्षणनाभिनिम्नितम् ॥ ४८ ॥ कनकद्रवगौरमम्बरं देधतोरुद्वितयेन सुन्दरम् । उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥ १९ ॥ अरिगीर्णगजेन्द्रगोपने दधता जाचिकतामलौकिकीम् । त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥ ५० ॥ कुलिशाङ्कुशकम्बुसाम्बुजध्वजचक्राद्यभिरामलक्ष्मणा । अरुणारुणकोमलत्विषा कमनीयेन तलेन राजितम् ॥ ५१ ।। १. 'स्फुरत्' इति पाठः. २. 'दन्तुरम्' इति पाठः, ३. 'प्रतिशंसत्' इति पाठः. ४. 'वर्तित' इति पाठः. ५. 'तुलसीनवमञ्जरीरजःपटलोल्लासितवक्षसा' इति पाठः. ६. 'चपलामनुशायिनीमिवोद्वहदुत्फुल्ल' इति पाठः. ७. 'भागलम्' इति पाठः. ८. 'धुरं- धरम्' इति पाठः. ९. 'नवरत्नमयाङ्गुलीयकप्रतिभापिञ्जरिताङ्गुलीगणैः' इति पाठः. १०. 'चारु चराचरान्तरम्' इति पाठः. ११. 'मिलनयनाकर्षणरश्मिभिर्नतम्' इति पाठः. १२. 'दधदूरु' इति पाठः. १३. 'अतिजीर्ण' इति पाठः, १४. 'वारिजध्व- जाम्बुजचका' इति पाठः.
६० काव्यमाला। विधिशर्वमुखामरस्फुरन्मुकुटोन्निन्दमणिप्रभाकुलम् । नखचन्द्रमयूखमूछिताखिलतापं पदयोर्युगं दधत् ॥ ५२ ॥ सरतः सरणौ सतो बहिः स्वपतो वालपतो गृहान्तरे । वपुरीदृशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥ ५३ ।। (कुलकम् ) नवनीरदनीलिमद्युतिर्नमनीयो निगमैर्निरन्तरम् । निरये निपतन्तमाशु मां नयनेनापि सनाथयेद्विभुः ॥ ५४ ॥ प्रणिपत्य हरे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभावः ॥ ५५ ॥ वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा- स्तां खप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः । इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥ ५६ ॥ पातालं ब्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्परां तर तथाप्याशा न शान्ता तव । आधिव्याविजरापराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ ५७ ॥ वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौपवं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुविम्बोदयः । क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् ॥ ५८ ॥ विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः । १. 'अमरावलीमुकुटोन्निद्र' इति पाठः. २. 'आविलम्' इति पाठः. ३. अयं श्लोक आर्थमित्रपुस्तके नास्ति. ४. 'नवनीयः' इति पाठः. ५. 'निरयं निरयन्तम्' इति पाठः. ६. वाचेत्यादि श्लोकचतुष्टयमार्य मित्रपुस्तके नास्ति. वाचेत्यादि श्लोकपञ्चक भामिनीविलासेऽप्यस्ति. ७. 'माम्' इति पाठः. ८. 'संस्पृशामि' इति पाठः. ९. 'शा. म्येत्' इति पाठः.
अन्योक्तिमुक्तालता। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ।। ५९ ॥ सुरस्रोतखिन्याः पुलिनमधितिष्ठन्नयनयो- विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तर्धान्तो मधुरमधुरायां चिति कदा निमनः स्यां कस्यांचन जबनमस्याम्बुदरुचि ।। ६० ॥ इति पण्डितराजश्रीजगन्नाथविरचिता करुणालहरिः समाप्त।। महाकविश्रीशंभुविरचिता अन्योक्तिमुक्तालता। मानं मुञ्च विपच्चि पञ्चमरवन्यक्कारपारंगमा मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः । प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भुङ्गभङ्गीगुरु- वन्धूकप्रियवान्धवो धैवलितश्यामाधवो माधवः ॥ १ ॥ हेलीकान्तहरिन्ति कुन्तलवधूवेणीहरिन्ति स्फुटं भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः । पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै- रोंकारं कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः ॥ २ ॥ सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः । यो जातः स्मरकेलिलोलकमलासोल्लासदोःकन्दली- लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शाङ्गिणः ।। ३ ।। १. अस्माच्छोकादरे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरी जगन्नाथेन निर्मिताम् । यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः ॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तके पु तु न प्रोतः. २. मेघराहित्यादुज्वलीकृतचन्द्रः. ३. हेलयाकान्तदिङ्मण्डलानि. ४. श्या- मवर्णानि. ५. आरम्भम्. 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी- यकाव्यम् (२०१२). "दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ. ६. समीचीनानि.
६२ काव्यमाला पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः। देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसा भर्तुर्गोप्पदमात्रपूरणविधौ नो विस्मयो न मयः ॥ ४ ॥ उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुडमलै- नीलाम्भोजकुलैस्तथा विचकिलैः क्रान्तं च कान्तं च यत् । तस्मिन्सौरभधाग्नि दानि किमिदं सौगन्धवन्ध्यं मुघा मध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः ॥ ५ ॥ यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्भुवं यत्रास्ते मदनस्य लुप्तरमणीममक्रमो विक्रमः । पक्कं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल- भ्रान्त्या हन्त न वीक्षितं न कलितं नाखादितं नाहतम् ॥ ६॥ केनात्र कर्कशकरीरवनान्तराले बाले बलाहकुलकन्दलि रोपितासि । यत्राप्नुयुर्मधुलिहस्तव कोमलानि नो कुड्मलानि न दलानि न कन्दलानि ।। ७॥ धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी । तेषां पुंण्ड्ककाण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां किं मुग्धाः करमा मुधैव विरसा विन्दन्ति निन्दन्ति च ॥ ८ ॥ मगुमाद्यति यत्र यत्र भजते भङ्गिं बको यत्र स क्रौञ्चः किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः । आस्ते बालमरालसालसलसदिक्कुञ्जरं पार्वती- कर्णोत्तंसितकाञ्चनाजमुकुलं यन्मानसं ते सरः ॥९॥ श्रीसंकेतनिकेत केतक कुरु त्वं हे नीप सरदीप दीपय तनौ टकं नवैरङ्कुरः । १. 'उम्भपूरणे'. २. पुण्डूक इक्षुभेदः. कुमलाडम्बरं अन्योक्तिमुक्तालता। ६३ स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे नीरोद्वारगभीरधीररसितप्रारम्भमम्भोधरः ॥ १० ॥ गुर्वीमुर्वीतिलक तिलक खीकुरु खामभिख्यां रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथाः । भङ्गीमङ्गीकुरु रतिपतेर्भल्लि हे चूतवल्लि प्रक्रान्तोऽयं विषमरमणीमालजैत्रः स चैत्रः ॥ ११ ॥ अद्रिद्रोण्यां निवस दिवसं जातलीलानुषझै- रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः । दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदने प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः ॥ १२ ॥ कान्ति केतककोरकद्युतिसखीं राकामृगाकस्य य- चञ्चच्चञ्च चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः । तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितम् ॥ १३ ॥ आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन्हेलोन्मदमधुकरीमानसे मानसे यः । भेकोद्रेकप्रणयिनि वलवालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले किं मरालः ॥ १४ ॥ द्यां च मां च गतं यदम्वुशिखरैराक्रान्तनाकोऽप्यसौ मेनाकोऽपि न कोऽपि यत्र दयितं यः सम पद्मापतेः । लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां भर्तुः कस्य कदा कियानक नु ननु क्षोभो शोर्गोचरः ॥ १५॥ गर्व खर्व कुरु कररुहोदञ्चनं मुञ्च कण्ठे कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु । शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी- मुर्ती वोढुं मदजलसरित्संगतो दिङ्मतङ्गः ॥ १६ ॥ १. 'रगि गतौ'.
काव्यमाला चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका- न्मा मा मुश्च स विश्रम भ्रमर हे स लवजे कुरु। एकः कार्मुककर्मनमणि सखा देवस्य कान्तागुरोः प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः ॥ १७ ॥ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः । एतत्कि तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः !! १८ ॥ शान्तं कान्तपुरंभिकुन्तललतालावण्यचौरं तमः पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः । एवं का गणना तवाद्य हि रतावद्योतखद्योत हे दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः ॥ १९ ॥ अत्रोन्मीलति मालती मितमितो मल्ली समालम्बते तद्रोलम्ब विडम्बनाय नलिनी किं यासि कोऽयं क्रमः। एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः ॥ २० ॥ आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः। देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते निःशङ्क निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः ॥ २१ ॥ कुन्दे कन्दलितादरः सरसिजे संजातकौतूहल: कहारे कलितस्पृहः किमपरं यः केतके कौतुकी । निर्माता किममर्त्यराजतरुणीलीलावतंसश्रियो योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः ॥ २२ ॥ शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः ।
अन्योक्तिमुक्तालता। ६५ येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले दोर्मूले कुचमण्डले च कुरुते रॉ कुरङ्गीदृशाम् ॥ २३ ॥ शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे- स्कंदपीकुरकन्द कुन्दकलिकाकारैः करैरुद्गतः । तत्कि मीलितमन्बुर्विदलितं किं दैन्तिदन्ताङ्कुरै- भङ्गः किं नु तथा स्थाजमिथुनैः प्रत्य सङ्गीकृतः ॥ २४ ॥ झम्पामस्त गिरेः करोतु भजतां विष्णोः पदं गाहता क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः । एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः ॥२५ ।। येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शाङ्गिणः । तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति- नं प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न सायः ॥ २६॥ अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः । सोऽपि वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि- स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः ॥ २७॥ रोहत्सौरभविप्रमाणि कमलासमानि पद्माकरे पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु का वा नुतिः । तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः ॥ २८ ॥ १. चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः 'कवाटिदन्तैर्विस्फोटश्चन्द्र- कान्तैः सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्युदयोन्मुखे' (८।३२४४)इति, 'महेभां- स्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः' (८।३३९२) इति च राजतरङ्गिणी. कवाटिनो गजाः राशि चन्द्रे. २. अगस्त्यः. ३. लक्ष्मीगृहाणि. ४. ब्रह्मा. .
काव्यमाला किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरैतावता वन्योऽयं विभुम्मसां समभवदनं यतः कौस्तुभः । चक्रे लग्नरमाधनस्तनतटीकर्पूरपत्राङ्कुरे यः श्रीवत्समनोहरे हृदि धृति देवस्य दैत्यद्रुहः ॥ २९ ॥ नानन्दं मुचुकुन्दकुड्मलकुले नो केतके कौतुकं नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते । चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालती किं वास्ते तरकोटिकोटरकुटीबद्धास्पदः षट्पदः ॥ ३० ॥ अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः । तत्ते कालं कतिपयमयं भाति खद्योतपोतं घोतं द्योतं पुनरपि पुनोततां को विलम्बः ।। ३१ ॥ पुष्पोत्करेषु च फलेषु च सावलेप- स्त्वं कन्दलेषु च दलेषु च सावहेलः । किं मुग्ध दग्धमकरोः सुरभेरगार- मङ्गारकार सहकारमकारणेन ॥ ३२ ॥ याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे मार्गः संगत एष ते खरतरुयद्धैरवो मारवः । तन्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका चङ्गं तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम् ॥ ३३ ॥ लीनः क्ष्माधरकंदरासु रचयन्कापि स्थिति भङ्गुरै- रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः । प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः खयं गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम् ॥ ३४ ॥ १. सुन्दरम्.
अन्योक्तिमुक्तालता। ६७ न ताः केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता मल्लीमाल्यमयानि सौरभभरोदामानि दामानि च । किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली- लीलालिङ्गनयोग्यमुग्रगरलग्रामः फणिग्रामणीः ।। ३५ ॥ सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां वोत्तुङ्गमृदङ्गनाइविजयि काप्यूजितं गर्जितम् । वारंवारमुदारवारणरणव्यापारपारंगमो दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः ।। ३६ ॥ यत्केलिमन्थरमरालमरालबाल- शेवालकोमलमलं विमलं मृणालैः। तत्पश्य शुष्यति सरः प्रसरतुषार- रुद्धं विरुद्धविधिरेव विधिः किमन्यत् ॥ ३७ ॥ त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो रोलम्बाकुलकम्प्रकुडमलकुलक्लान्तो न कः केतकः। दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै- दूरं येन गतो गलत्कमलिनीलीलारसः सारसः ॥ ३८ ॥ रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः कृप्तो बालैर्बहुलमुकुलैः केलिकर्णावतंसः । तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः ॥ ३९ ॥ वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा- मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम् । देवः कीरपुरंघ्रिहारलतिकाकारैरुदारैः करैः पश्योदेति समुद्र मुद्रिततमस्तोमस्तैमीवल्लभः ॥ ४० ॥ १. कुटिल. २. चद्रः काव्यमाला यस्य भ्राम्यन्मकरनिकरलान्तमूर्तेरसार स्तारक्षारव्यतिकरखरः सीकरोऽपि व पेयः । तत्ते पाथः पवनजनितोत्तालकल्लोलजालं ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन ॥ ४१॥ निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः संजातं वकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः । किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः ॥ ४२ ॥ नासीरद्रवनिरैर्मृगमदस्यन्दैस्तथा चान्दनै- निःस्यन्दैः सह वालवालवलये युक्तो निषेकक्रमः । आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः ।। ४३ ॥ केलिं कल्पय कोलेवाल लवलीवल्लीदलान्याहर- नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम् । म्लानिं मुञ्च मयूर दूरय भयं दाञ्चितः पञ्चतां युप्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः ॥ ४४ ॥ कुञ्जे कोरकितं करीरतरुभिर्देकाभिरुन्मुद्रितं यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः । तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा- भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि कोऽयं क्रमः ॥ ४५ ॥ खेलद्वालमृगाङ्कमौलिरमणीदोःकन्दलान्दोलिते पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः । हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः ॥ ४६॥ १. नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाजलौ (३३॥६) जगद्धरः. 'नासीरं धनसारः' इति तट्टीकायां रत्नकण्ठः. २. सूकरशिशो. ३. खम्.
अन्योक्तिमुक्तालता। अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु- मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः । एषा वैकटिक स्फुटैव पुरतः सा पामराणां पुरी यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः ॥ ४७ ।। यत्कर्णे च कुचान्तरे नबयितुं युक्तं कुरङ्गीदृशां धते धैर्यधुरा जगजयजयकोरः स रोन करः । तन्मल्लीमुकुलं बनेऽत्र विजने केनापि नौतसित नानातं न निरूपितं न कलितं नोदश्चितं नोम्नितम् ॥ ४८॥ यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः को वैरिञ्चविमानहंस भवतस्तस्मिन्निवासग्रहः । यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्विन्दुनि स्वच्छन्दं तव सिद्धसिन्धुसलिले तत्रोचिताः केलयः ॥ १९ ॥ वापी दूरे किरति कुरुते नो मृणालीषु लीलां नीलाम्भोज त्यजति भजते नाजकिंजल्ककेलिम् । किं तु क्लान्ति वहति नलिनीनाललनायकण्ठः क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः ।। ५० ॥ शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै- रस्फोटि स्फटिकामल: करटिनां यस्मिन्नवाप्तोदये। तं दृष्ट्वैव कुरङ्गकेतनमहो मुग्धः स दुग्धाम्बुधिः किं मिथ्या नरिनति चञ्चलवलत्कल्लोलदोःकन्दलः ॥ ५१ ।। तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात् । युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम् ॥ ५२ ॥ २. हे ब्रह्मदेववाहन हंस. ३. गङ्गाजले. ४. हस्तिनाम्- 1. हे रत्नवणिक्. । चन्द्रम्. ७ द्वि० गु० काव्यमाला कुन्दे नन्दति कैरचे विहरते पकेरुहे रोहति प्रेमाणं तगरे तनोति भजते सङ्गं लवलेऽपि यत् । तन्मन्ये न ददर्श सौरमभरेणाक्रान्तदिकंदरं कंदकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ ३ ॥ कंदपैंककृपाणवल्लरि वने कस्मादकस्मादियं हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः । सह्यन्तामुपजातसौरभपरिप्वङ्गैस्तदङ्गैरिमाः कान्तैः कान्तपुरंभ्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ५४ ॥ लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताजयः । सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ५५ ॥ ऊढापि धुतरङ्गिणि त्रिजगतीवन्येन तेनाप्यहो मौलौ वालकुरङ्गकेतनकलालीलावतंसाकिते । तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकर्ष मुग्धे जाड्यनिधि मुधा जलनिधिं यातासि चित्राः स्त्रियः ॥५६॥ नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः । पाने मज्जनकर्मनमणि तथा बारिलं वारिधे कल्लोलावलिहारिभिस्तव नभःसंचारिमिर्वारिभिः ।। ५७ ॥ कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः । अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥ ५८ ॥ एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः । १. हे गङ्गे. २. शिवेन.
अन्योक्तिमुक्तालता। ७१ अस्मिन्गौरीपृथुकुचतटीकुङ्कुमस्थासकाके येन स्थाणोरुरसि रहितो हारवल्लीविलासः ।। ५९ ॥ यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीद्रुमै- रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति । तस्मिन्नत्र निवेशितालि विपिगे केनासि हा दुःसहः सह्योऽयं सहकारमहरि कथकता निमारम्वरः ।। ६०॥ द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिायः क्रीडाताण्डवडम्बरः शिखिकुलैः केकारवव्याकुलैः । उन्मीलत्कनकाजचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः ॥ ६१ ।। चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं सङ्गं दूरीकुरु कुरबके केतके मा निषीद । लीलोतंसीकृतमुकुलकः खर्गसीमन्तिनीभि- यत्ते दैवात्परिसरगतः पारिजातः स जातः ॥ ६२ ॥ पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद- च्छायाभिः शिशिराः खरातपविपन्निापिका वापिकाः । माद्यन्मेदुरदर्दरं बककुलैरप्याकुलं सेव्यते तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः ॥ ६३ ॥ ब्रूमः किंचन जकुपुत्रि जडिमा कस्मादियान्वीकृतः पाथोधाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः। यन्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त- त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः ॥ ६४ ॥ ये तावन्ति पयःपृषन्ति जलदादत्यन्तमुत्कण्ठिता याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बहिणः । १. समुद्रे. २. जलकणान्.
७२ काव्यमाला यः शूलाङ्कशिरःशशाङ्ककलिकापीयूषवर्षेऽप्यही नो जातः प्रणयी स तारकरिपोरन्ये पुनर्वहिणः ॥ ६ ॥ मुञ्चल्यन्तर्विचकिलरुचिं चूतवल्लीविलास मल्लीलीला सरसिजरसं केतकीकौतुकं च । जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः ॥ ६६ ॥ उद्यद्विधुति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे । यासि वापि मरालवालक बकौञ्चाविले पल्वले सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा बासराः ॥ ६७ ।। अनादृकिया कलङ्कमतसीनीलं लुनीहि स्वयं सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम् । उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं जाने तामनुकर्तुमाननगतां भङ्गी कुरङ्गीदृशः ॥ ६८॥ आनीतैरिषुकार कारणमिह श्लाध्यैः किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि । दानं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ६९ ।। यल्लीलातरलैरलचि कपिभिवालाभिरौनिलो यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः । तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर त्वं मेनाक जवाजले जलनिधेर्मजन्न किं लज्जितः ॥ ७० ॥ त्वं कालं नय कैरवेऽत्र विहरल्लीलारविन्दे रस- कहारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम् । १. 'मयूरो बर्हिणो बहीं' इत्यमरः. २. क्षुद्रशस्त्रविशेषेण.
अन्योक्तिमुक्तालता ।
शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-
स्तैर्मल्लीमुकुलैरमीलि दहनक्लान्ते वनान्ते यतः ॥ ७१ ।।
कान्तिर्लोचनवर्तिरद्धतमयी मूर्तिमहत्सौरभं
निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्रादकः ।
सर्वोऽयं विरलो जगत्यापि गुणत्रामोऽभिरामो हहा
पश्योर्चसभुजंगसंगमजुयः श्रीखण्ड ते खण्डितः ।। ७२ ।।
येन प्राप्तः सुरमितककुकंदरः कोऽप्युदारो
मन्दारोऽपि भ्रमररमणीदत्तरागः परागः ।
स त्वं तत्त्वं वद पदमहो मुग्ध करसादकस्सा-
दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत् ॥ ७३ ॥
यद्वौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि
न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः ।
एतत्कि तु कथं सहेमहि महद्दुःखं यदत्रामुना
निःशङ्कं कलितः शशाङ्ककलिकापीयूषपानोत्सवः ॥ ७४ ॥
दृष्टाश्चम्पकसंपदो विचकिलश्रेणी गता गोचरं
प्राप्तं केतकधाम कैरववनं दृष्टं विमृष्टं च तत् ।
सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरमं वेधसा
साश्चर्य निरमायि हेम कमल त्वय्येव तुभ्यं नमः ॥ ७५ ॥
बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः
कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः ।
तत्किंचिन्नयनाञ्जनं रतिपतिबादप्रदा सा गति-
स्तन्मुग्धं हसितं सदामृतरसं मुञ्चन्कुतः पञ्चमः ॥ ७६ ॥
मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः ।
स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः ॥ ७७ ॥
हासञ्चेदमृतं वृतं यदि रुचिर्नोद्दीपक अध्यक वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्टक्रमः नमः ! किं चान्यद्यदि गारमण्डनमणिस्पर्धाधरस्तेऽधरः सत्यं मुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः ।। ७८ ॥ लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह । कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली छाया सैव स एव सौरमभरस्ता एव पुष्पश्रियः ॥ ७९ ॥ कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे। दुर्वीरेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ हेलैव प्लवगप्रभोः कृतजगत्पारिप्लवो विप्लवः ।। ८० ॥ मुक्त्वाम्भोधि मदनजयिनः किं कपालावचूडे चूडामूले सितकरकले कल्पितोऽयं निवासः । यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं तत्रोन्मीलडूकुलकलिकाकोमलं तान्तिमेति ॥ ८१ ।। वल्लीभिज्वलितं जलैरपगतं दावानलैरुक्तं दभैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम् । तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव- प्रस्तारोऽपि परिस्फुरत्परिमलोद्वारोऽपि हा रोपितः ॥ ८२ ॥ कैलासः क्वचिदुद्वहन्नपि पुरारातिं यदप्यायता- मूर्वीमेष विभर्ति सागरसरिगुर्वी गिरिग्रामणीः । लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ॥ ८३ ।। लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः । २. महीधरसाद, १. हनुमतः.
अन्योक्तिमुक्तालता। मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ८४ ॥ इंस भ्राम्यदनेकमेकशबले पङ्काविले पत्वले युक्तास्ते किमसारवारिणि रणकौञ्चाकुले केलयः । तल्लीलाललसारसं हि सरसं दृष्टं त्वया मानसं वीचिन्यञ्चितकाञ्चनाभ्वुजरजप्रतारमन सरः ।। ८५ ॥ कान्तिर्यस्य शरनिशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः । एतां पश्य पुरः पुलिन्दनगरौं भूषाः कुरङ्गीदृशां यत्रता गलकन्दले च कुचयोरके च गुञ्जास्रजः ॥ ८६ ।। लक्ष्मीवल्लभकेलितल्पमुदधिर्यजन्मभूर्भूषणं यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः । तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै- दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः ।। ८७ ।। यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभ यस्य स्यात्कुचकुङ्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम् । नेदं तस्य जनकनन्दन सहे हे चन्दन कापि ते मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः ।। ८८ ।। बालैः पञ्चशरी शिरीषमृदुलैर्निर्माय यत्पल्लवैः शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्ककारः सरः । सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः ।। ८९ ॥ मुग्धा वृथा कुमुदिनीरमणे चकोराः को राग एष जडिमाग्लपिता मतिर्वः । १. खम्. २. 'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां (११४३) जोनराजः.
एतन्न पश्यथ मुखं मंदिरेक्षणानां यस्मिन्स किंकरति कैरविणीकुटुम्बः ।। ९० ॥ न कुन्दं पामोदं जनयति मुदं नैव कुमुदं न सारं कहार कुसुमतिलकं नैव तिलकम् । उदात्तं निर्धूतं न च कमलमावर्जकमलं तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम् ।। ९१ ।। निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः शेवालैर्बिसकन्दलैरविरलै लैर्मृणालीदलैः । हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः ॥ १२ ॥ वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां खेलत्पल्लवपार्वतीभुजलतालोलोमि दिव्यं सरः । व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी- दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः ॥ ९३ ।। कंचित्कालं नय गिरिगुहागहरे रे मुधैव क्रीडन्हालाहलरसलसर्प मा सर्प सर्प । माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ९४ ।। चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु यत्कौतुकम् । १. मदिरा दृष्टिविशेषस्तद्युक्ते ईक्षणे यासाम्. 'आघूर्णमानमध्या या क्षामा चाञ्चित- लोचना । दृष्टिविकसितापामा मदिरा तरुणे मदे ॥' इति हरविजयटीकायामलकरा- जानकः. 'तथा संगीतकलिकायाम्-'सौष्ठवेन परित्यक्ता म्मेरापानमनोहरा । वेपमा नान्तरा दृष्टिमदिरा परिकीर्तिता ॥' इति (१८७९ मितरिखसंवत्सरमुद्रित-विक्र- मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर-पाण्डुरङ्ग-पण्डितः. मल्लिनाथस्तु ( रघुवंशटीकायाम् ८१६८) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि 'नार्यो मदिरलोचनाः' इत्यादि- प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति. ३. हे सर्प, मा गच्छ. ४. स्थासक एव स्थासः. २. चन्द्रः.
अन्योक्तिमुक्तालता। किं कुर्मस्तदमुत्र पामरपुरे सैरंघ्रि दूरेऽस्तु ते वृत्ता यत्र कुतः प्रसाधन विधौ वार्तापि वामझुवाम् ॥ ९५ ॥ यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती- माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः । तत्सर्व विजहाति किं तु रसयत्यालम्बते सादरं नन्दन्नन्दनकन्दलीसुमनसामानोदमिन्दिन्दिरः ॥ ९६ ॥ माद्यन्मदु बलबकावलि बालक्रौञ्चाविलं परवलं मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव । तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर खच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम् ॥ ९७ ॥ अम्भोजैगलितं तटैर्विघटितं हंसैर्दुतं विद्रुतं वापीभिर्विरतं पुरैव पतितैरद्याविलैस्त्वज्जलैः । हा विकिं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे प्रारव्योऽयमतानवैरभिनवैर्वारिप्लवैविप्लवः ॥ ९८ ॥ तापातकं कलय विलयं याहि हे दुर्निवारं वारं वारं विगलितगतिर्नेह दाहं सहेथाः। दैवादग्रे खरतरजरदर्भसंदर्भगर्भो नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः ॥ ९९ ॥ यद्भूतं च भवच्च मावि च कुलं भूमण्डले भूरुहां तन्मध्ये न वभूव नास्ति भविता न कापि तादृक्तरुः । साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया पौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः ॥ १० ॥ लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकमेकखरं किं च क्रौञ्चवचःप्रपञ्चविरसं देवादिदं ते सरः । तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी- लीलाचक्रमणक्रमानुकरणोधुक्ता च युक्ता गतिः ॥ १०१ ॥ १. गच्छ. २.इन्द्राण्या.
७८ कार माला उन्मीलन्मुकुलो न चात्र बकुलो नाव: केतका नारिमन्कोमलकुमला विचकिया नोद्दीपकामकाः । तरिक मुग्ध सुधैव दग्धसिकतागर्भः सदर्भो मरो मार्गः पान्य पतत्पतंगकिरणाङ्गारोऽयभङ्गीकृतः ।। १०२ ॥ वार्ता यत्र न शेखरेषु न तथा धम्मिल्लमाल्यप्रथा कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः । तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः ॥ १०३ ॥ एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरप्रणी- रेकः कापि कपिः स कोऽपि मरुतां वन्द्यो मरुनन्दनः । केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भतरि द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ १०४ ॥ साश्चर्याः सरसाश्च सन्ति सरितः पाथःपतिप्रेयसि क्षोणी विभ्रमवैजयन्ति तदपि त्वां ताम्रपणि स्तुमः । खच्छे निर्जितनारिकेलसलिलखादिन्नि यद्वारिणि प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः ॥ १०५ ॥ इयं यदि रदच्छदच्छविरपाटला पाटला नतानि तव चेदियं रुचिरकिंचनं काञ्चनम् । किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः क्व न भ्रमरयोषितां गलदहंकृतिहुँकृतिः ॥ १०६ ।। उद्भिन्ना कलकण्ठकण्ठकुहराकर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः । अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवापणे पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ १०७ ॥ या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचि- यों नीलाम्बुरुहच्छदे मृदुमरुत्प्रेडोलिते विभ्रमः । १. हे समुद्रपनि. २. पुष्पविशेषः.
सेव्यसेवकोपदेशः। या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चे- चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रवः ॥ १०८ ॥ इति महाकविश्रीशंभुमिश्रकृतान्योक्तिमुक्तालता समाप्ता । Meanirula महाकविश्रीक्षेमेन्द्रकृतः यसनकोपदेशाः। विभूषणाय महते तृष्णा तिमिरहारिणे ! जमः संतोषरत्नाय सेवाविषविनाशिने 21 उत्सृज्य निजकार्याणि सद्भिर्बाष्पाकुलेक्षणम् । सेव्यसेवकसेवानां क्रियतामनुशासनम् ॥ २ ॥ दादेकः परो लोभाहावन्धौ सेव्यसेवको । धनोप्मदैन्यविकृती मुखे कः कस्य पश्यति ॥ ३ ॥ दुरिमोहलोभान्धो यदि न स्यादयं जनः । कः क्रूरकोषविधुरं सहेत धनिनां मुखम् ॥ ४ ॥ यः पृथ्वीमपि दन्धिो न पश्यति पुरःस्थिताम् । स दैन्यलघुतां यातं कथं सेवकमीक्षते ॥ ५ ॥ अगतिं वाहयत्येको बधिरं स्तौति चापरः। अहो जगति हास्याय निर्लज्जौ सेव्यसेवकौ ॥ ६ ॥ दूर हुंकारमात्रेण विसृष्टो मार्गणः सदा । गुणभ्रष्टः क्रियाहीनो नोद्वेगं याति सेवकः ॥ ७ ॥ मन्ये सुकृतिना तेन भागीरथ्यां कृतं तपः । वैराग्यभागी रथ्यां यः सेवासु न विगाहते ॥ ८॥ कथितक्लेशवापेन शापेनेव विपाकिना। सेवातापेन पच्यन्ते नह्यदुष्कृतिनो नराः ॥ ९ ॥ अदैन्यपुण्यमनसां यशस्तेषां विराजते । सेवापङ्ककलङ्कानां यैर्न पात्रीकृतं शिरः॥ १० ॥ १. मार्गणो याचकः, शरश्च.
प्रभुप्रणामे जठरं दैन्यमूलं विलोकयन । प्रवेष्टुं सेवकः शके विलक्षः क्षितिमीक्षते ॥ ११ ॥ सेवाध्वजोऽञ्जलिस॒नि हृदि दैन्यं मुखे स्तुतिः । आशाग्रहगृहीतानां कियतीयं विडम्बना ॥ १२ ॥ अकालागमनक्रोधविधुरेश्वरचक्षुषा । क्षिप्रं मर इवायाति सेवको दग्धभूतिताम् ॥ १३ ॥ पुनः सेवावमानानां तेन दत्तं तिलोदकम् । प्रविश्य वाहिनी येन खड्गपात्रीकृतं वपुः ॥ १४ ॥ कणवृत्तिपरिक्लिष्टः कष्टं सेवकचातकः । धनाशानिरतो नित्यमुद्रीवः परिशुष्यति ॥ १५ ॥ निःसंतोषः परित्यज्य भ्रमरः पुप्पितं वनम् । सेवते दानलोभेन मौतङ्गमपि सेवकः ॥ १६ ॥ जडसेवापरिक्लिष्टस्तीबदम्भबकवतः । कृच्छ्रेण क्षणिकां प्रीतिमासादयति सेवकः ॥ १७ ॥ नित्यमुन्नतिकामोऽपि मानभङ्गादधोमुखः । यत्सत्यमुभयभ्रष्टस्त्रिंशङ्कुरिव सेवकः ॥ १८॥ खमांसविक्रयासक्तः प्रभुवेतालघट्टितः । निःसत्त्वः प्रलयं याति रात्रिसेवासु सेवकः ।। १९ ॥ भूमिशायी निराहारः शीतवातातपक्षतः । मुनिव्रतोऽपि नरकक्लेशमश्नाति सेवकः ॥ २० ॥ १. ईश्वरो धनवान् , शिवश्च. २. भूतिर्भस्म, संपञ्च. ३. वाहिनी सेनां प्रविश्य येन वपुः खड्गपात्रीकृतम्. युद्धे मृत इत्यर्थः. तेन सेवाजनितावमानानां तिलोदकं जलाजलिर्दत्तम्. अन्योऽपि वाहिनी नदीं प्रविश्य खड्गपात्रं गण्डकचर्मनिर्मितमर्य- पात्रमादाय पितृभ्यस्तिलमिथमुदकं ददाति. ४. धना निबिडा आशा, अथ च धनानां मेघानामाशा. ५. मातङ्गो गजः, चण्डालश्च. ६. त्रिशङ्कुर्नाम कश्चिद्राजा वर्ग प्राप्तः, ततश्च देवैः पुनरपि मर्त्यलोके पात्यमानो विश्वामित्रवचसा मध्ये स्तम्भितोऽद्यापि दक्षि- णदिशि नक्षत्ररूपेण तिष्ठति-इति पौराणिकाः, सेव्यसेवकोपदेशः । ८१ करोति सेवकः सेवां तावदाशामिवायताम् । यावद्भोगरसज्ञेन यौवनेन वियुज्यते ॥ २१ ॥ चक्षुर्यञ्जलौ पाणिः स्तुतौ जिह्वा नतौ शिरः । अहो नु सेवकैः कायः परोपकरणीकृतः ॥ २२ ॥ हन्त याच्यावसानेन सेवको लघुतां गतः । सेवापङ्कपदे मनो यदन्विष्टो न लभ्यते ॥ २३ ॥ अविश्रान्त्याविरक्तस्य दीर्घोच्छ्वासेन शुष्यतः । जरेव दुःसहा जन्तोः सेवा संकोचकारिणी ॥ २४ ॥ त्रुट्यति क्लिन्नतन्त्रीव मालेव म्लायति क्षणात् । सेवा नारचयत्येव दिनच्छेदेन नश्यति ॥ २५ ॥ सेवासंक्षपिताङ्गानां राजरथ्यासु शुष्यताम् । तीव्रतृष्णाविषार्तानां शरणं शमवारिदः ॥ २६ ॥ लोभस्य मोहाध्वनि वृद्धभावे जाता दुराशाशयितस्य सेवा । अघोमुखी सा सततं सलज्जा जरत्कुमारीव न कस्य शोच्या ॥ २७ ॥ आशेव शून्येषु विवर्तमाना तृष्णेव संतोषपराङ्मुखीयम् । दिवानिशं कर्षणदीर्घरज्जुः सेवा सुराणामपि दैन्यभूमिः ॥ २८ ॥ निसर्गवन्ध्यासु फलाशया ये कुर्वन्ति सेवासु सदा प्रयत्नम् । कृषिप्रवृत्ताः शशशृङ्गकोट्या खनन्ति मूर्खाः खलु खस्थली ते ॥ २९ ॥ अन्तःस्थितेऽप्यात्मनि यैः क्रियन्ते सेवाप्रवृत्तैः पुरुषैः प्रणामाः । दुग्धाब्धिकल्लोलिनि कूलकच्छे तृष्णातुरास्ते जलमर्थयन्ते ॥ ३० ॥ भागीरथीतीरवनान्तरेषु फलावनम्रेषु महाद्रुमेषु । क्षुत्तापतृष्णाशमनेषु सत्सु किं दैन्यसेवाव्यसनावमानैः ॥ ३१ ॥ नित्यप्रसक्त्या न सृजत्यवज्ञां न लौल्यगर्हागणनां करोति । अत्यन्तयाच्यासु न याति खेदं भिक्षाभुजां पात्रमतो नु सेव्यम् ।। ३२॥ जयन्ति ते खस्ति नमोऽस्तु तेभ्यः प्रभुप्रणामच्युतमानरत्नम् । सेवाप्रयासव्यसनेषु मिथ्या रथ्यारजोभागि शिरो न येषाम् ॥ ३३ ॥ ८द्वि० गु० ८२ काव्यमाला। किं राजभिर्दुर्जनजन्मजालव्याप्तैरवातैरपि कष्टदृष्टैः । सन्त्येव सेव्या भुवि भूभृतस्ते तटेषु येषां मुनयो निविष्टाः ॥ ३४ ॥ तृष्णातुराणां रजसा वृतानां सेवाकुकूलानलतापितानाम् । शान्त्यै हितं चन्द्रकिरीटजूटमैत्रीपवित्रं त्रिदशापगामः ॥ ३५ ॥ उत्सृज्य तीव्र विषयाभिलाषं संतोषपोषं कुशलो भजख । इत्ययमानः सुखसेवयायमात्मैव सर्व सुधियां ददाति ॥ ३६ ॥ एकस्य जाने सुखभोगभाजः श्लाघ्यस्य सेवाव्यसनं निवृत्तम् । सदैव शिश्नोदरवर्जितत्वादयाच्ययाच्चारहितस्य राहोः ॥ ३७॥ सेवाव्रते पाय इवोपविष्टः सर्वात्मना निश्चितजीवनाशः। द्वाःस्थैः प्रयत्नेन निवारितोऽपि न दुर्घहं मुञ्चति नष्टसंज्ञः ॥ ३८ ॥ तमोऽध्वतापेन च चिन्तया च शीतेन दैन्येन च पिण्डिताङ्गः। सुखाशया दुःखसहस्रभागी सेवाव्रतं मुग्धमतिर्बिभर्ति ॥ ३९ ॥ गच्छामि गच्छामि दिनं गतं मे दिने गतोऽहं न नृपोऽद्य दृष्टः । इति ब्रुवाणस्य सदा जनस्य जीर्णातरां तस्य तनुर्न तृष्णा ॥ ४० ॥ विच्छेदकारी सहसा कथानामनीप्सितो दीप इव प्रविष्टः । संसक्तवस्त्रान्तरमक्षिकेव न सेवकः कस्य करोति दुःखम् ॥ ११ ॥ धूमायमानोऽक्षिविपक्षभूतश्चाटुक्रमोत्पादितकर्णशूलः । कुसेवकः पादतलेऽवलमः पदे पदे कण्टकतामुपैति ॥ ४२ ॥ एकः खमेव क्षितिमीक्षतेऽन्यः स निर्जनार्थी स च गाढलमः । खखार्थिता तस्य भृशं स चार्थी कथं स सेव्यः स च सेवकोऽस्तु ॥ १३ ॥ छायाग्रहो मूर्त इवानुयायी स्थितश्चिरं वृश्चिकनिश्चलश्च । अकालपाती सुखकेलिलीलायत्रोपलः सेवकदुर्विदग्वः ॥ १४ ॥ विसृज्यमानोऽप्यनिशं न याति तीव्रोपरोधप्रणयेन मूर्खः । भर्तुः प्रसादे विहितप्रयत्नो जीतः परं प्रत्युत कोपहेतुः ॥ ४५ ॥ १. कुकूलशब्दतुषाग्निवाचकः, तस्मादत्रानलशब्दोऽधिक इवाभाति. परंतु कवय- स्त्वेवमेव प्रयुञ्जते, यथा-'शिरीषादपि मृद्वनी केयमायतलोचना । अयं क च कुकू- लाग्निकर्कशो,मदनज्वरः ॥'. २. अनशनब्रते. ३. नवरः .
सेव्यसेवकोपदेशः। शूत्कारिदीर्घश्वसितानुबन्धैर्निवेदितोद्वेगगतिप्रयासः । अतिप्रवेशात्खरमार्गणोऽसौ निरस्यमानो विफलत्वमेति ॥ १६ ॥ श्रीरत्नचन्द्रवरवाजिगजोर्जितेऽस्मि- गम्भीरराजकुलनाम्नि महासमुद्रे । अनाति मूढमतिरीश्वरतामवाप्तु- माशावशाक्षितिपतेर्बहु कालकूटस् ॥ १७ ॥ विरम विरम नेयं पान्थ नम्राम्रमाला बधिर खदिरपाली निष्फलैषा प्रयाहि । इति बहुविधमुक्तः सेवकोऽन्यापदेशै- स्त्यजति न विपुलाशापाशबद्धः कुसेवाम् ॥ ४८॥ प्रम्लाना सरसत्वमेति न पुनर्मालेव लमातपा भमा काचमयीव संधिघटना योगेन न श्लिष्यति । सेवा दीपशिखेव दुर्गतगृहे संघार्यमाणा परं निःस्नेहा क्षयमेति खेदजनितैरुच्छासमालानिलैः ॥ १९ ॥ कस्त्वं गत्वर सेवकस्त्वरितता कस्मात्प्रभुदृश्यते लाभः कस्तव तत्र वेत्रिविपुलाघातैः शिरस्ताडनम् । कि मृद्गासि मुदा विशालचरणैमिथ्यैव रथ्यामिमां बन्धो वन्ध्यनरेन्द्रभव्यभवनभ्रान्त्या विडम्ब्यामहे ॥ ५० ॥ सुप्ताकर्षणदाम धाम महतो मोहस्य दैन्यस्य वा सेवाक्लेशमहर्निशं विषहते यो वित्तलेशाशया। प्रस्फूर्जद्वडवामिगर्भगहनोद्भूतोर्मिमालाकुलं संक्षुब्धं मकराकरं प्रविशति श्रीरत्नलब्ध्यै न किम् ॥ ५१ ।। व्यर्थात्यर्थगतागतव्यतिकरैरश्रान्ततीव्रत्वरो द्वारालोकनतत्परः परिजनैरुत्सार्यमाणः परम् । यत्नेनैव पुरः प्रवेशकलनैः : क्लेशावमानाश्रयः सर्वापत्पिशुनः शुनः सदृशतामालप्स्यते सेवकः ॥ ५२ ॥ १. अन्योक्तिभिः. २. उक्तिप्रत्युक्तिरूपोऽयं श्लोक्तः.
काव्यमाला कूजस्क्रूरकपाटपीडनरुषा दत्तप्रहारैः परं द्वारावस्थगनाय सुस्थिरभुजैःस्थैर्भृशं भत्सितः । कुजीभूय जनस्य जानुविवरैः क्षिप्रप्रवेशोत्सुकः पृच्छत्यन्तरनिर्गतानवसरं मौनव्रतान्सेवकः ।। ५३ ॥ द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम् । निर्यातस्य करोति दोषगणनां खल्पापराधे यमः स खामी यदि सेव्यते मरुतटे किं नः पिशाचैः कृतम् ।। ५४ नित्यं राजकुले न पूज्ययजने तहारपालार्चनं भक्तिं भूतिसमुद्भवे न तु भवे ध्यानं धने नात्मनि । दृष्टादृष्टविचिन्तनं नरपतौ न खोचिते कर्मणि श्रीहेतोर्बत निष्फलं प्रकुरुते सर्व जडः सेवकः ।। ५५ ।। सा तीनं जडनिम्नपातनरता नो नित्यसक्ता त्वरा रथ्यापङ्ककलङ्कितं न वदनं न द्वारपालैः कलिः । यसिंस्तच्चिरसेवकः प्रविततं पुण्यं वनं गम्यतां क्रूरास्ते न भवन्ति तत्र विकृतकोधोद्धताः पार्थिवाः ॥ ५६ ॥ हंहो कष्टविनष्ट सेवक सखे खिन्नोऽसि पोषाशया रागश्चेद्विभवे तदेष कुपतिः क्लीबः किमासेव्यते । सेव्यः कोऽपि महेश्वरः स भगवान्यस्य प्रसादेक्षण- रक्षुण्णैः करुणास्पदीकृतमरुन्नाथो मरुत्तः कृतः ॥ ५७ ॥ राज्ञामज्ञतया कृतं यदनिशं दैन्यं तदुत्सृज्यतां संतोषाम्भसि मृज्यतामपि रजः पादप्रणामार्जितम् । संतोषः परमः पुराणपुरुषः संविन्मयः सेव्यता यस्मृत्या न भवन्ति ते सुमनसां भूयो भवग्रन्थयः ॥ ५८ ॥ १. महाभारत आश्वमेधिकपर्वणि मरुत्तकथा द्रष्टव्या, द्रोणपर्वणि च पञ्चपञ्चा- शत्तमेऽध्याये.
नेमिदूतम् । ८५ उत्सृज्य प्राज्यसेवां विजनसुखजुषां भूभुजां व्याजभाजां छित्त्वाशापाशबन्धान्विमलशमजलैस्तीव्रतृष्णां निवार्य । स्थित्वा शुद्धे समाधौ किमपरममृतं मृग्यतां ज्योतिरन्त- यस्मिन्दृष्टे विनष्टोत्कटतिमिरभरे लभ्यते मोक्षलक्ष्मीः ।। ५९ ॥ वृत्त्या जीवति लोकः सेवावृत्तिर्निजैव केषांचित् । अस्थाने तीव्रतरा निन्द्या तु तदर्थिनां सेवा ।। ६०॥ विद्वज्जनाराधनतत्परेण संतोषसेवारसनिर्भरेण । क्षेमेन्द्रनाम्ना सुधियां सदैव सुखाय सेवावसरः कृतोऽयम् ॥ ६१ ॥ इति श्रीव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृतः सेव्यसेवकोपदेशः समाप्तः। श्रीविक्रमविरचितं नेमिदूतम् । प्राणित्राणप्रवणहृदयो बन्धुवर्ग समग्रं हित्वा भोगान्सह परिजनैरुग्रसेनात्मजां च । श्रीमान्नेमिर्विषयविमुखो मोक्षकामश्चकार स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥ १॥ सा तत्रोच्चैः शिखरिणि समासीनमेनं मुनीशं नासान्यस्तानिमिषनयनं ध्याननिधूतदोषम् । योगासक्तं सजलजलदश्यामलं राजपुत्री वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥ उद्वीक्ष्यैनं शमसुखरतं मेदुराम्भोदनादै- नृत्यत्केकिब्रजमथ नगं प्रोन्मिषन्नीपपुष्पम् । सा शोकार्ता क्षितितलमगात्स्यान्न दुःखं हि नार्याः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥ तां दुःखाता शिशिरसलिलासारसारैः समीरे- राश्वास्यैवं स्फुटितकुटजामोदमत्तालिनादैः ।
काव्यमाला
साध्वीमद्भिः पतिमनुगतां तत्पदन्यासपूतः
प्रीतः प्रीतिप्रमुखवचनं सागतं व्याजहार ॥
सिद्धेः सङ्गं समभिलवतः प्राणनाथस्य नेमेः
सा तन्वङ्गी विरह विधुरा तच्छिरोऽघिष्ठितस्य ।
तत्संमोहाद्रुतमनुनयं शैलराजं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५॥
सा तं दूना मनसिजशरैर्यादवेशं बभाषे
रक्षेत्स्वामी शरणगमसौ भूपतीनां तु धर्मः ।
तन्मां खामिन्नव भवदधीनां समभ्यर्थये त्वां
याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
तुङ्गं शृङ्गं परिहर गिरेरेहि यावः पुरी खां
रत्नश्रेणीरचितभवनद्योतिताशान्तरालाम् ।
शोभासाम्यं कलयति मनाङ् नालका नाथ यस्या
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौता ॥ ७ ॥
आलोक्यैनं तरलतडिदाक्रान्तनीलाब्दमालं
प्रावृट्कालं विततविकसधूथिकाजातिजालम् ।
अन्तर्जाग्रद्विरहदहनो जीवितालम्बनेऽलं
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥८॥
अस्मादद्रेः प्रसरति मरुत्प्रेरितः प्रौटनादै-
मिन्दानोऽयं विरहिजनताकर्णजाहं पयोदः ।
यं पश्यैताः पथिकवनिताम्भोजचन्द्रावपाभाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९॥
वीक्ष्याकाशं नवजलपरश्याममुद्दामकामा-
विर्भावेन व्यथितवपुषो योषितो विहलायाः।
काले कोऽस्मिन्वद यदुपते जीवितेशाहतेऽन्यः
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १० ॥
नेमिदूतम् । शैलप्रस्थे जलदतमसा छादिताशाम्बरेण स्निग्यश्यामाञ्जनचयरुचासादिताभिन्नभावाः । यामिन्योऽमूर्विहितवसतेर्वासराश्चाजनेऽस्मि- संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥ तन्मत्वैवं व्रज निजपुरी द्वारका सत्सहायै- गोविन्दायैः सभमनुभवासाद्य राज्यं सुखानि । कामं तेषां यदुवर पुनःसंगमे भाविनी ते स्नेहव्यक्तिश्विरविरहजं मुञ्चतो बाष्पमुष्णम् ।। १२ ।। वन्याहारा धृतमुनिजनाचारसाराः सदारा यां नाथान्ते वयसि सुधियः क्षत्रियाः संश्रयन्ति । किं तारुण्ये गिरिवरभुवं सेवसे तां तपोभिः क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥ कात्र प्रीतिस्तव नगवरे चार तहारकाया- स्त्यक्त्वोद्यानं युक्यदुमनोन्मादि यत्रासुरारिः । निर्जित्येन्द्रं ससुरमनयत्पारिजातं धुलोका- दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १४ ॥ यत्प्रागासीदनलविलसद्भूषणाभाभिरामं भात्यारोहन्नवधनजलोद्भिन्नवल्लीचयेन । तत्ते नीलोपलतटविभाभिन्नभासाधुनाङ्गं बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ रम्या हम्यः क्व तव नगरी दुर्गशृङ्गः क्व चाद्रिः कैतत्काम्यं तव मृदु वपुः क्व व्रतं दुःखचर्यम् । चित्तग्राह्यं हितमिति वचो मन्यसे चेन्ममालं किंचित्पश्चाद्वज लघुगतिर्भूय एवोत्तरेण ॥ १६॥ कुर्वन्पान्थांस्त्वरितहृदयान्संगमायाङ्गनाना- मेनं पश्याधिगतसमयः खं वयस्यं मयूरम् ।
काव्यमाला।
जीमूतोऽयं मदयति विभो कोऽथवान्योऽपि काले
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥
पूर्व येन त्वमसि वयसा भूषितोऽङ्गे समग्रे
तैस्तैः क्रीडारससुखसखैभव्यभोगैरिदानीम् ।
तत्तारुण्यं सफलय पुरी द्वारकामेत्य शीघ्र
सद्भावाः फलति न चिरेणोपकारो महत्सु ॥ १८ ॥
किं शैलेऽस्मिंस्तव निवसतो न व्यथा कापि चित्ते
संत्यज्य खां पुरमनुपमां द्योतते नाथ यस्याः ।
त्वत्सौधनासितमणिमयाग्रेण हैमोग्रवप्रो
मेघश्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९॥
यामालोक्य खगृहगमनायोत्सुकाः स्युस्त्वदन्ये
पश्याकाशे जलदपटलेऽस्मिन्बलाकावली ताम् ।
अन्तर्विद्युत्स्फुरितरुचिरे सुप्रकाशेन्द्रचापे
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
युक्तं लक्ष्म्या मुदितमनसो यादवेशाः सभाया-
मासीनं यं निजपुरि चिरं त्वामसेवन्त पूर्वम् ।
संप्रत्येकः श्रयसि स नगं नाथ किं वेत्सि नैवं
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २१ ॥
मुक्तातङ्कास्तव यदुविभो जियाङ्गं लिहन्तः
संक्रीडन्ते शिशव इव येऽके समाधिस्थितस्य ।
संप्रत्येते पुरमभियतो विप्रयोगेण नेत्रैः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२ ॥
एतत्तुङ्गं त्यज शिखरिणः शृङ्गमङ्गीकुरुष्व
प्राज्यं राज्यं प्रणयमखिलं पालयन्बन्धुवर्गे।
रम्ये हम्र्ये चिरमनुभव प्राप्य भोगानखण्डा-
न्सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥
८९ नेमिदूतम् । धूतोन्निद्रार्जुनपरिमलोद्गारिणः पान्थसार्था- न्ये कुर्वीरञ्जलदमरुतो वेश्मसंदर्शनोत्कान् । तैः संस्पृष्टो विरहिहृदयोन्माथिभिः खां पुरी नु प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥२४॥ नोत्साहस्ते स्वपुरगमने चेद्वियुक्ता त्वयाहं वृद्धावेतौ तव च पितरौ तज्जनास्ते त्रयोऽमी । म्हानास्याजाः कलुषतनवो ग्रीष्मतोयाशयामाः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥ तन्नः प्राणानव तव मते जीवरक्षैव धर्मों वासार्थ वः सुरविरचितां तां पुरीमेहि यस्याः । वप्रप्रान्ते स्फुरति जलधेहरि वेलारमण्याः सभ्रूभङ्ग मुखमिव पयो वेत्रवत्याश्चलोमि ॥ २६ ॥ अस्मादद्रेः प्रतिपथमधःसंचरन्दानवारेः क्रीडाशैलं विमलमणिभिर्भासुरं द्रक्ष्यसि त्वम् । अन्तः कान्तारतरसगलद्भूषणैयों यदूना- मुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥ २७ ॥ तस्योद्याने वरतरुचिते त्वं मुहूर्त श्रमात- स्तिष्ठेस्तुष्टो विविधतदुपानीतपुष्पोपहारैः । पुष्णन्नन्तश्चर परिमलोद्गारसारसितानां छायादानक्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८॥ दृष्ट्वा रूपं तव निरुपमं तत्र पीनस्तनीनां तासामन्तर्मनसिजरसोल्लासलीलालसानाम् । कर्णाम्भोजोपगतमधुकृत्संभ्रमोद्यद्विलास- लौंलापा यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९॥ तस्मिन्नुद्यन्मनसिजरसाः प्रांशुशाखावनाम- व्याजादाविष्कृतकुचवलीनाभिकाञ्चीकलापाः ।
काव्यमाला संघास्यन्ते त्वयि मृगशस्तान्विचित्राविलासा- न्त्रीणामाचं प्रणयवचन विभ्रमो हि प्रियेषु ॥ ३० ॥ त्वा याचेऽहं न नयविदुषां कापि कार्ये विलम्बो गन्तव्या ते सपदि नगरी खा यतः सा त्वदम्बा । मुक्ताहारा सजलनयना त्वद्वियोगार्तिदीना काय येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ॥ तस्याघस्ताद्विषमपुलिनां वर्णरेखामतीतो मार्गे दृष्ट्वा पुरमनुपमां तां भवान्वामनस्य । मुक्त्वा लोकोपचयमवनि नाकिनामागतानां शेषैः पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ।। ३२ ।। यस्यां सान्द्रोऽनुपमचलितो वेश्मसु खेच्छयैवं मुष्णननात्सुरतललितादुनयन्ती विगाह्य । खेदं तीरे विदलितपुटः सेवते वारनारी सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥ यत्र स्तम्भान्मरकतमयान्देहली विद्रुमाणां प्रासादानं विविधमणिभिर्निर्मितं वासवेन । भूमि मुक्ताप्रकररचितां हास्तिकं चापि दृष्ट्या संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥ अत्रात्युप्रैः किल मुनिवरो वामनः प्राक्तपोभि- लब्ध्वा सिद्धिं निखिलभुवनव्यापिना विग्रहेण । ईशं वामं भुजगसदने प्रापयदानवाना- मित्यागन्तूरमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥ तामासाद्य प्रवरनगरी विश्रुतां संनिवासं कुर्याः पौरैर्नृवर विहितानेकपूजोपचारः । आस्तीर्णान्तर्विमलशयनेष्वग्रसौधेषु कामं नीत्वा खेदं ललितवनितापादरागाकितेषु ।। ३६ ।।
नेमिदूतम् । ९१ उद्यानानामुपतटभुवामुज्जयन्त्याः समन्ता- दाधुन्वद्भिविपुलविकसन्मालतीजालकानि । अङ्गान्मार्गश्रमजलकणान्सेव्यसेऽस्यां हरद्धि- स्तोयक्रीडानिरतयुवतिखानतिक्तैर्मरुद्भिः ॥ ३७॥ तत्रोपास्यः प्रथितमहिमा नाथ देवस्त्वयाद्यः प्रासादस्थः क्षणमनुपम यं निरीक्ष्या त्वमक्ष्णोः। शृण्वन्प्रेक्षामुरजनिनदान्वारिवाहस्य तुल्या- नामन्द्राणां फलमविकलं लप्स्यसे गर्जिनानाम् ॥ ३८ ॥ स्वद्रूपेणापहृतमलसो विस्मयात्पौरनार्यः सौन्दर्याधःकृतमनसिजे राजमार्ग प्रयाति । प्रातस्तस्यां कुवलयदलश्यामलाङ्गे सलील- मामोक्ष्यन्ते त्वयि मधुकरश्रेणि दीर्घान्कटाक्षान् ॥ ३९ ॥ तस्याः पश्यन्वरगृहतति तां ब्रजेया स्पृशन्ती- मैक्यं प्राप्यासितरजनिषु प्रस्फुरद्रत्नदीपाः ! विद्योतन्ते निहततिमिव्योममार्गश्च लोके शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ४० ॥ पौरैस्तस्यां रथमुपहृतं रम्यमास्थाय यान्तं द्रष्टुं ग्राम्याः पथि युवतयस्त्वामुपैष्यन्ति यस्मात् । शब्दैस्तत्र स्खलदुपलजैरर्थिसार्थीकृतश्री- स्तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ४१ ॥ त्वामायान्तं पथि यदुवराः केशवाद्या निशम्य प्रीता बन्धूंस्तव पितृमुखान्सौहृदानन्दयन्तः । साकं सैन्यै रथमभिमुखं प्रेषयिष्यन्ति तूर्ण मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४२ ॥ श्रुत्वा तीरे तदनुजलधेरागतं सोपहारो मान्यो मन्त्री यदि बलपुरात्सीरिणस्त्वामुपेतः ।
९२
काव्यमाला।
तस्यादेया स्वशयविहिता सक्रिया तेन वेत्सि
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३ ।।
गच्छेर्वेलातटमनु ततस्तोयमुल्लासिमत्स्यं
खच्छं काचच्छवि जलनिधेस्तस्य पश्यन्रथस्थः ।
यः कामीव क्षणमपि सरित्कामिनीनां न शक्तो
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ १४ ॥
तां वेलाङ्के विमलसलिलामागतां द्रक्ष्यसि त्वं
पूर्वोद्दिष्टां सरितमसकृद्वारिभिर्वीचिहस्तैः ।
यामालिङ्गयोपरमति पिबन्यन्मुखं न क्षणार्ध
ज्ञाताखादो विपुलजधनां को विहातुं समर्थः ॥ ४५ ॥
तस्मिन्नुच्चैर्दलितलहरीसीकरासारहारी
वारां राशेस्तटजविकसत्केतकामोदरम्यः ।
खेदं मार्गक्रमणजनितं ते हरिष्यत्यजत्रं
शीतो वायः परिणमयिता काननोदुम्बराणाम् ॥ ४६ ॥
नाम्ना रत्नाकरमथ पुरस्ताजे वीक्षमाणो
जज्ञे यस्सा वनभयकृत्तत्पुरा कालकूटम् ।
यत्रासाध्यं निवसति जगद्दाहदक्षं जलाना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ १७ ॥
त्वामायान्तं तटवनचरा मेघनीलं मयूरा
दृष्ट्वा दूरान्मधुरविरुतैस्तत्र ये संस्तुवन्ति ।
वं तान्दिव्यध्वनिभिरुदधेः सान्द्रितैः संनिकृष्टः
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ १८ ॥
उत्कल्लोला विपुलपुलिनाग्रेऽथ भद्राभिधाना
सा ते सिन्धुर्नयनविषयं यास्यति प्रस्थितस्य ।
वातोद्भूतैर्हसति सलिलैर्या शशाङ्कांशुगौरैः
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४९ ॥
९३ नेमिदूतम् । उच्चैर्भिन्नं जवितमुदधौ हारि नीरं रथस्थे तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र प्रवाहम् । वीक्षिष्यन्ते क्षणमनिमिषो व्योमभाजोऽतिदूरा- देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥ तामुत्तीर्णः पुनरधिवसेरीशपौराभिधानं नानादेशागतजनचयैः पूर्णरम्यापणं तत् । यस्याकाशं स्पृशति निवहो वेश्मनामूर्वभागा- त्पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ।। ५१ ॥ तस्माद्वानघ तव कियद्गच्छतो भाति दुर्ग पङ्काकीर्णं नवतृणचितं तत्र तोयाशयानाम् । कुर्वन्नब्दः किल कलुषतां मार्गणैः प्रागरीणां धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥ ५२ ।। नानारत्नोपचितशिखरश्रेणिरम्यः पुरस्ते यास्यत्यक्ष्णोर्विषयमचलो मादनो गन्धपूर्वः । यं सोत्कण्ठो नवमिव पुनर्वीक्षितुं कान्त हर्षा- दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५३ ।। यस्मिन्पूर्व किल विरचितां वामभागे भवानी देवीं वीक्ष्य त्रिपुरजयिनः खेच्छया केलिभाजम् । जहोः पुत्री तदनु दधतोऽङ्केऽभ्युपेयं सपत्नी शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५४ ॥ आरूढस्य स्फटिकमणिभूश्वेतसानुप्रतापे यस्मिन्छैले विमलविलसत्कान्तितोयप्रवाहा । संक्रामन्त्या तव घनरुचा छायया खवुनीव स्यादस्थानोपगतयमुनासंगमेवाभिरम्या ॥ ५५ ॥ भावद्भावन्मणिमयवृहत्तुङ्गशृङ्गाग्रसंस्थाः संप्रत्युद्यत्परिणतफलश्यामला वामभागे। ९ द्वि० गु० काव्यमाला। यस्मिञ्जम्बुक्षितिरुहचया धारयिष्यन्ति सान्द्राः शोभा शुभत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५६ ॥ श्रुत्वायान्तं द्रुतमुपगतास्तत्र बन्दिव्रजा ये त्वां यावन्तः प्रथितयशसं येऽर्थिनो दौःस्थ्यदीनाः । तान्कुर्वीथाः समभिलषितार्थप्रदानैः कृतार्था- नापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ।। ५७ ।। आकर्ष्याद्रिप्रतिरवगुरुं वानरास्त्वत्सकाशे क्रोधाताम्रास्ततमुखरवं तत्र येऽभिद्रवन्ति । तान्योधानां विमुखय पुनरुणैानिनादैः के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ।। ५८ ।। तस्मिन्नद्रौ निवसति विभुः स स्वयंभूर्भवो वा देवः सेवापरसुरगणैर्वन्द्यपादारविन्दः । यद्ध्यानेनापहृतदुरिता मानवाः पुण्यभाजः संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५९ ।। नीपामोदोन्मदमधुकरं गुञ्जनं गीतरम्यं केका वेणुक्कणितमधुरा बर्हिणां चारु नृत्यम् । श्रोत्रानन्दी मुरजनिनदस्त्वत्प्रयाणे यदि स्या- संगीतार्थों ननु पशुपतेस्तत्र भावी समग्रः ॥ ६० ॥ तस्माद्गच्छन्नथ पथि भवान्वीक्षिता वेणुनाख्यं शैलं नीलोपलपरिचयाशेषसानूच्छूयं तम् । व्याप्याकाशं नवजलभृतां संनिभो यो विभाति श्यामः पादो बलिनियमनायोद्यतस्येव विष्णो ॥ ६१ ॥ तांस्तान्यामानपि शुचिगिरि दक्षिणेन व्यतीत्य द्रष्टास्यग्रे सितमणिमयं सौधसंघ स्वपुर्याः । क्रान्त्वा वर्ष वियति विशदैः शोभते योऽशुजालै राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ।। ६२ ।।
९५. नेमिदूतम् । प्रत्यासत्तिं विशदशिखरोत्सङ्गभागे पयोदे नीलस्निग्धे क्षणमुपगते पुण्डरीकप्रभस्य । शोभा काचिद्विलसति मनोहारिणी यस्य संप्र- त्यंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३ ।। प्राप्योद्यानं पुरपरिसरे केलिशैले यदूनां विश्रामार्थ क्षणमभिरति गोमतीवारि पश्यन् । उत्सर्पद्भिर्दधदिव दिवो वर्त्मनो वाजिसंधैः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६४ ।। तत्रासीनो मुररिपुयशो निश्चलः किंनरीभिः शृण्वंस्तिष्ठञ्च्छुतिसुखकरं गीयमानं मुहूर्तम् । शब्दैरश्वस्खलितरवजैमेंदुरैरम्बुराशेः क्रीडालोलाः श्रवणपरुपैगर्जितैर्भीषयेस्ताः ॥ ६५ ॥ सान्द्रोन्निद्रार्जुनसुरभितं प्रोन्मिषत्केतकीकं हृद्यं जातिप्रसवरजसास्वादमत्तालिनादैः । नृत्यत्केकामुखरशिखिनं भूषितोपान्तभूमि नानाचेष्टैर्जलदललितैर्निर्विशेस्त्रं नगेन्द्रम् ॥ ६६ ॥ तस्या हर्षादवकृतमहास्ते प्रवेशाय पुर्या निर्यास्यन्ति प्रवरयदवः संमुखाः शौरिमुख्याः । या कालेऽस्मिन्भवनशिखरैः प्रक्षरद्वारि धत्ते मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६७ ॥ शश्वत्सान्द्रखतनुमहसं प्रोल्लसद्रत्नदीपा मानप्रांशु शिखरनिवहैव्योममार्ग स्पृशन्तः । गौरं ज्योत्स्नाविमलयशसा शुभ्रवर्णाः सुधाभिः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६८ ॥ यामुद्दामाखिलसुररिपूमाथिनो दानवारेः साहाय्याय प्रथितमहसोऽध्यासते योधवर्याः ।
९६
काव्यमाला
नानादैत्यग्रहरणभवैः संगरेषु स्वकी]
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः ॥ ६९ ॥
व्याधिदेहान्स्पृशति न भयाद्रक्षितुः शाङ्गपाणे-
मृत्योर्वार्ता श्रवणपथगा कुत्र यद्वासभाजाम् ।
कामक्रीडारससुखजुषां यच्छतामर्थिकामा-
न्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ७० ॥
कर्णे जातिप्रसवममलं केतकं केशपाशे
कस्तूरीभिः कृतविरचना गण्डयोः पत्रवली ।
कण्ठे माला ग्रथितकुटजा मण्डनं भावि काम्यं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥
यस्यां रम्यं युवजनमनोहारि वाराङ्गनानां
लास्यं तालानुगतकरणं भावति त्वत्प्रवेशे ।
वाञ्छन्तीनां तदवगमनादङ्गभाजां प्रसाद
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ७२ ।।
संसक्तानां नवरतरसे कामिभिः कुण्ठ्यमानाः
पृष्ठेऽष्वन्तः कृतविरचनाधर्मवार्यङ्गनानाम् ।
यस्यां ग्रीष्मे शिशिरकिरणस्यांशुभिर्यामिनीषु
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७३ ॥
गत्वा पूर्वं रजनिसमये धूप्यमानेषु लीला-
वेश्मखन्तर्युवतिनिहिते रत्नदीपैर्निरस्ताः ।
जालैयंत्रान्धतमसचयाः साध्यसेनेव भूयो
धूमोद्गारानुकृति निपुणा जर्जरा निप्पतन्ति ॥ ७४ ॥
रात्रौ यस्यामुपसखि भृशं गात्रसंकोचभाजां
रागेणान्धैः शयनभवनेषुल्लसद्दीपवत्सु
प्रेम्णा कान्तैरभिकुचयुगं हृद्यगन्धिर्वधूनां
हीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७५ ॥
नेमिदूतम् । गायन्तीभिस्त्वदमलयशो वारसीमन्तिनीभिः साकं माद्यन्मधुरमुरजं तारसारान्यपुष्टम् । यस्यां रम्यं सुरभिसमये सोत्सवाः सीरिमुख्या बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७६ ।। उद्यत्कामालसयुवतिभिः सेव्यमानैः सरोज- स्कन्धान्यस्यां सुमधुररसानक्षयानापिबद्भिः । निर्गम्यन्ते शरदि यदुभिः समपृष्ठे स्वकीर्त्या नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७ ।। कान्तोत्सास्तुहिनसमये कुडमालिप्तदेहाः सान्द्रच्छाये शुचिनि तरुभिर्गोमतीरम्यतीरे । रूपोल्लासाद्विजितरतयः कुन्दकाले सलीलं संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७८ ॥ यस्यां पुप्पोपचयममलं भूषणं साधुहृद्यं गन्धद्रव्यं व्यजननिवहं सूक्ष्ममिच्छानुकूलम् । न्यस्तः प्रीत्या त्रिदशपतिना वासुदेवस्य सद्म- न्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७९ ॥ एणाङ्काश्मावनिषु शिशिरैः कुङ्कुमा!ः पदाकैः शीतोत्कम्पाद्गतिविगलितै लकैः केशपाशात् । भ्रष्टैः पीनस्तनपरिलसम्यमाल्यैश्च यस्यां नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ८० ।। बाणस्याजौ हरविजयिनो वासुदेवस्य यस्यां प्राप्यासत्तिं चरति गतभीः पुष्पचापो निरस्तः । यसाहेधाकृतयुवमनोमोहमात्मप्रकरे- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८१ ।। यायास्तस्माद्रथपरिवृतस्त्वं प्रवेशाय यस्यां तत्प्राचीनं पुरि हरिमुखैोपुरं यादवेन्द्रः ।
९८
काव्यमाला।
यत्राशोकः कलयति नवस्तोरणामां तथान्यो
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ।। ८२ ॥
उद्यद्वालव्यजनमनिलोल्लासिकाशप्रसूनाः
श्वेतच्छत्रं विकसितसिताम्भोजभाजो विलोक्य ।
तस्यां पौरा विशदयशसं न श्रियः शारदीना
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ।। ८३ ।।
पुष्पाकीण पुरि सह तदा यस्त्वया राजमार्ग
यास्यत्युद्यद्ध्वनिजवसनं चन्दनाम्भश्छटाङ्कम् ।
शौरिं पीताम्बरधरमनुक्ष्माधरं मेघमेनं
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८४ ॥
यातं तस्याः पुरि पुरि बलादुत्सवैः कामिनोत्कं
हर्षोत्कर्ष नरपतिपथेनैष्यतस्तौ ययोस्तु ।
स्त्रीणामेको रमयति शतान्यङ्गनां पाययित्वा
काश्त्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ ८५ ॥
सौधश्रेणीर्विततविलसत्तोरणास्ता व्यतीत्य
खावासं तं मणिचयरुचा भासुरं प्राप्स्यसि त्वम् ।
यस्मिन्कस्मै न भवति मुदे साग्रभूमिर्घनानां
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृतः ॥ ८६ ॥
नत्वा पूर्व पितृमुखगुरूंस्तान्विसृज्याथ बन्धू-
न्सौधं मञ्चद्वयमपि ततोऽलं कुरुष्वार्दचित्तः ।
यन्निःश्रीकं हरति न मनस्त्वां विना यादवेन्दो
सूर्यापाये न खलु कमलं पुष्यति खामभिख्याम् ।। ८७ ।।
इत्युक्तेऽस्या वदसि विमुखं मुक्तिकान्तानुरक्तं
दृष्ट्वा नेमि किल जलधरः संनिधौ भूघरस्थः ।
तत्कारुण्यादिव जलधरश्रेणिमुक्ताश्रु धत्ते
खद्योतालीविलसितनिभां विद्यदुन्मेषदृष्टिम् ॥ ८८ ॥
नेमिदूतम् । तत्सख्यूचे तमभिवचनं वाञ्छितं साधयास्या बालामेना नय निजगृहं शैलशृङ्गं विहाय । त्वत्संयोगान्ननु धृतिसमेतानवद्याङ्गयष्टि- र्या तत्र स्याधुवतिविषये सृष्टिरायेव धातुः ॥ ८९ ।। अस्वीकारात्सुभग भवतः क्लिष्टशोभां क्रियद्भि- Hद्वीमन्तर्विरहशिखिना वासरैर्दह्यमानाम् । एनां गुप्यद्वदनकमलां दूरविध्वस्तपत्रां जातां मन्ये तुहिनमथितां पद्मिनी वान्यरूपाम् ॥ २० ॥ आकाङ्क्षन्त्या मृदुकरपरिष्वङ्गसौख्यानि सख्याः पश्यामुष्या मुखमनुदिनं म्लानममेरमश्रि। उद्यत्तापात्कुमुदमिव ते कैरविण्या वियोगा- दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तर्बिभर्ति ॥ ९१ ॥ शय्योत्सङ्गे निशि पितृगृहे प्राप्य निद्रां पुरासौ त्वं क स्वामिन्ब्रजसि सहसेते ब्रुवाणा प्रबुद्धा । ऊचेऽस्माभिर्न खलु नयनेनापि यो वीक्षिताङ्गः कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९२ ॥ एतदुःखापनयरसिके प्राक्सखीनां समाजे गायत्यासां किमपि मधुरं गीतमादाय वीणाम् । तध्यानेनापहृतहृदया गातुकामा ललज्जे भूयो भूयः वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ९३ ॥ त्वत्प्राप्त्यर्थ विरचितवती तत्र सौभाग्यदेव्याः पूजामेषा सुरभिकुसुमैरेकचित्ता मुहूर्तम् । दैवज्ञान्वानयति निपुणान्स क्षणं भाषयन्ती प्रायेणैते रमणविरहेप्वङ्गनानां विनोदाः ॥ ९४ ।। याते पाणिग्रहणसमयेऽदि विहाय त्वयीमां त्यक्त्वा माल्यं सपदि रचिता यानया विप्रयोगे।
काव्यमाला। तामेवैषा वहति शिरसा वे निधाय प्रदेशे गण्डाभोगात्कठिन विषमामेकवेणीं करेण ।। ९५ ॥ गीताद्यैर्वा श्रुतमुखकरैः प्रस्तुतैर्वा विनोदैः पौराणीभिः कृतनुतिमिमां त्वद्वियोगात्कथाभिः । तुष्टिं नेतुं रजनिषु पुनर्नालिवर्गः क्षमोऽभू- तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ९६ ॥ या प्रागस्याः क्षणमिव नवैर्गीतवार्ता विनोदै- रासीच्छय्यातलविगलितैर्गल्लभागैर्विलय । रात्रिं संवत्सरशतसमां वीक्षते सन्नगात्री तामेवोष्णैर्विरहजनितैरश्रुमिर्यापयन्ती ।। ९७ ॥ पश्यन्ती त्वन्मयमिव जगन्मोहनावासमनं ध्यायन्ती त्वां मनसि निहितं तत्क्षणं तद्विरामे । मूर्ति भित्तायपि च लिखितामीक्षितुं ते पुरस्ता- दाकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशम् ।। ९८ ॥ अन्तर्भिन्ना मनसिजशरैर्मीलिताक्षी मुहूर्त लब्ध्वा संज्ञां दिशि दिशि मुहुर्वीक्ष्यमाणार्तिदीना । शय्योत्सने नवकिसलयाग्रेऽपि भद्रं न लेभे साभ्रेऽहीव स्थलकमलिनी न प्रबुद्धा न सुप्ता ॥ ९९ ।। वृत्तान्तेऽसिंस्तदनु कथिते मातुरस्यास्तयैत- द्वृत्तं ज्ञातं निशि सह मया प्रेषितः सौविदल्लः । सख्याः पश्यन्नयमपि दशां तां तदावेक्ष्य जातं प्रत्यक्षं ते निखिलमचिराद्भातरुक्तं मया यत् ॥ १०० ॥ प्रेक्ष्यैतस्मिन्नपि मृगदृशस्तामवस्थामसह्या- मस्याः प्रातः कथयति पुरा विस्तरात्सैतदम्बा । श्रुत्वा दुःखं दुहितुरसृजबाष्पमच्छिन्नधारं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ १०१ ।।
नेमिदूतम् । १०१ आहूयैनामवददथ सा निर्दयो योऽत्यजत्त्वा- मित्थं भद्रे कथय किमियद्धार्यते तत्र दुःखम् । त्यक्त्वा लोलं नयनयुगलं तेऽरुणत्वं रुदत्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०२ ।। अन्तस्तापान्मृदुभुजयुगं ते मृणालस्य दैन्यं म्लानि चैतन्मिहिरकिरणक्लिष्टशोभस्य धत्ते । प्लुष्टः श्वासैविरहशिखिना स द्वितीयस्तवायं यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०३ ॥ वत्से शोकं त्यज सृज पुनः स्वच्छतां मृष्टवाणी यच्छवैवं प्रयतमनसानुग्रहं मे कुरुष्व । भर्तुर्भूयो न भवति रहः संगतायास्तथा ते सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०४॥ आरोप्याङ्के मधुरवचसाश्वासितेत्थं जनन्या तत्याजाधि क्षणमपि न या त्वद्वियोगात्कृशाङ्गी । संप्रत्येषा विसृजति तनु कोमलाङ्गी यथा नो वक्तुं धीरस्तनितवचनैर्मानिनी प्रक्रमेथाः ॥ १०५ ॥ मातुः शिक्षाशतमलमवज्ञाय दुःखं सखीना- मन्तश्चित्तेष्वजनयदियं पाणिपकेरुहाणि । हस्ताभ्यां प्राक्सपदि रुदती रुन्धती कोमलाभ्यां मन्द्रस्निग्धैर्ध्वनिभिरवला वेणिमोक्षोत्सुकानि ॥ १०६ ॥ वृद्धः साध्व्या सुभग तव यः प्रेषितोऽभूत्प्रवृत्ति ज्ञातुं तस्मात्कुशलिनमियं रैवताद्रौ द्विजातिः। त्वामाकर्योच्छ्रसितहृदयासीत्क्षणं सुन्दरीणां कान्तोदन्तः सुहृदुपगतः संगमात्किंचिदूनः ॥ १०७॥ इत्थं कृच्छ्राद्विधुरवपुषो वासरान्वर्षतुल्या- नस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः ।
काव्यमाला।
अन्तश्चित्ते त्वयि सुखलवः स प्रपेदे प्रवेश
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०८ ॥
प्राप्यानुज्ञामथ पितुरियं त्वां सहास्माभिरसि.
न्संप्रत्यद्रौ शरणमबला प्राणनाथं प्रपन्ना ।
अर्हस्येनां विषमविशिखादक्षितुं त्वं हि कृच्छा-
त्पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०९ ॥
धर्मज्ञस्त्वं यदि सहचरीमेकचित्तां च रक्तां
किं मामेवं विरह शिखिनोपेक्ष्यसे दह्यमानाम् ।
तत्वीकाराकुरु मयि कृपां यादवाधीश बाला
त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११० ॥
दुर्लक्यत्वं शिखरिणि पयोधौ च गाम्भीर्यमुा
स्थैर्य तेजः शिखिनि मदने रूपसौन्दर्यलक्ष्मीम् ।
बुद्धिं क्षान्ति नृवर कलया गीतवृन्दं गुणानां
हन्तैकस्थं कचिदपि न ते चण्डि सादृश्यमस्ति ॥ १११ ॥
एतानीत्थं विधुरमनसा खीकृतायास्त्वया मे
दुःखार्तायाः क्षितिभृति दिनानीश कल्पोपमानि ।
आसन्नस्मिन्मदनदहनोद्दीपकानि प्रकाशं
दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि ॥ ११२ ॥
रात्रौ निन्द्रां कथमपि चिरात्प्राप्य यावद्भवन्तं
लव्धं स्वप्ने प्रणयवचनैः किंचिदिच्छामि वक्तुम् ।
तावत्तस्या भवति दुरितैः प्राक्तनैमें विरामः
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ११३ ॥
मन्नाथेन ध्रुवमवजितो रूपलक्ष्म्या तपोभि-
स्तद्वैरान्मामिषुभिरबलां हन्त्यशक्तो मनोभूः ।
हाभ्यां क्लृप्तेष्विति मम निशि स्रस्तरे चिन्तयन्त्या
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ११४ ॥
नेमिदूतम् । १०३ अस्मिन्नेते शिखरिणि मया यादवेशान्तिकान्ते जीमूताम्भःकणचयमुषः संचरन्तः पुरस्तात् । संसेव्यन्ते विषमविशिखोत्सया नीपवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११५ ॥ संचिन्त्यैवं हृदि मयि दयां धारयंस्तत्प्रसीद खामिन्निर्वापय वपुरिदं खाङ्गसङ्गामृतेन । यत्संताप्यानिशमतितरां प्राणलावण्यशेष गाढोप्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११६ ॥ दुःखं येनानवधि बुभुजे त्वद्वियोगादिदानी संयोगात्तेऽनुभवतु सुखं तद्वपुर्मे चिराय । यस्माजन्मान्तरविरचितैः कर्मभिः प्राणभाजां नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११७ ॥ प्रावृट् प्रान्तं प्रियतम गता दुर्दशा दुःखदेव प्रायोऽन्योन्यै रतिकरमितः सांप्रतं संगमाय । भोगानेकोत्सवसुखसुखानिच्छया मन्दिरे खे निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११८ ॥ इत्येतस्याः सफलय चिराद्वाक्यमासाद्य सद्यः खं वेश्मैनां नय नवरसैः स्वस्थचित्तां कुरुष्व । तल्पे प्राक्त्वां निशि वदति या पेक्षमाणेव मोहा- दृष्टः स्वम्मे कितव रमयन्कामपि त्वं मयेति ॥ ११९॥ त्वत्संयोगाकुलितहृदयोत्कण्ठया राजपुत्री त्वामेषा च त्वरयति चिरात्नेहपूर्णा प्रयातु । प्रायेणैताः प्रियजनमनोवृत्तयोऽप्राप्तिभावा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १२० ॥ तस्माद्बालां स्मरशरचयैर्दुःसहैर्जर्जराङ्गी संभाष्यैनां नय निजगृहान्सत्वरं यादवेन्द्र ।
काव्यमाला। प्रीत्या चास्या मधुरवचनाश्वासनाभिः प्रयान्तं प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२१॥ त्वामर्थेऽस्याः किमिति नितरां प्रार्थये नाथ भूयो यस्मादीहग्जगति महतां लक्षणं सुप्रसिद्धम् । स्नेहादेते न खलु मुखरा याचिताः संभवन्ति प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ।। १२२ ।। गत्वा शीघ्र स्खपुरमतुलं प्राप्य राज्यं त्रिलोक्याः कीर्तिं शुद्धां वितनु सुहृदां पूरयाशां च पित्रोः । राजीमत्या सह नवधनस्येव वर्षासु भूयो मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ॥ तत्सख्योक्ते वचसि सदयस्तां सतीमेकचित्तां संबोध्येशः स भवविरतो रम्यधर्मोपदेशैः । चक्रे योगान्निजसहचरी मोक्षसौख्याप्तिहेतोः केषां न स्यादभिमतफला प्रार्थना झुत्तमेषु ॥ १२४ ॥ श्रीमान्योगादचलशिखरे केवलज्ञानमसि- न्नेमिर्देवोरगनरगणैः स्तूयमानोऽधिगम्य । तामानन्दं शिवपुरि परित्याज्य संसारभाजां भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १२५ ॥ तद्दुःखार्थ प्रवरकवितुः कालिदासस्य काव्या- दन्त्यं पादं सुपदरचितान्मेघदूताद्गृहीत्वा । श्रीमन्नेमेश्चरितविशदं साङ्गणस्याङ्गजन्मा चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ।। १२६ ।। इति साङ्गणसूनुश्रीविक्रमकविविरचितं नेमिदूतं समाप्तम् । पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः। समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा- मपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः ।
लक्ष्मीलहरिः। १०५ हिया हीन दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥ समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि । यमासाद्योन्माद्यहिपनियुतगण्डस्थलगल- न्मदक्लिन्नद्वारो भवति सुखसारो तरपतिः ॥ २ ॥ उरस्यस्य अश्यत्कबरभरनियत्सुमनसः पतन्ति खर्बालाः स्मरशरपराधीनमनसः । सुरास्तं गायन्ति स्फुरिततनु गङ्गाधरमुखा- स्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३ ॥ समीपे संगीतखरमधुरभङ्गी मृगदृशां विदूरे दानान्धद्विरदकलभोदामनिनदः । बहिद्वारे तेषां भवति यहेषाकलकलो दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥ अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः । उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहर- नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५॥ नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलस- कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः । लसत्फुल्लाम्भोजमदिमहरणः कोऽपि चरण- श्चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६ ॥ प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियन्त्री बन्धुकधुतिनिकरबन्धूकृतिपटुः । नृणामन्तवा॑न्तं निबिडमपहर्तुं तव किल प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥ १० द्वि० गु० १०६ काव्यमाला। प्रभातप्रोन्मीलकमलवनसंचारसमये शिखाः किंजल्कानां विदधति रुजं यत्र मृदुलाः । तदेतन्मातस्ते चरणमरुणलाध्यकरुणं कठोरा मद्वाणी कथमियमिदानी प्रविशतु ॥ ८॥ स्मितज्योत्स्नामजट्विजमणिमयूखामृतझरै- निषिश्चन्तीं विश्वं तव विमलमूर्ति स्मरति यः । अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥९॥ शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ विधायोज़ बिन्दु स्फुरितमिति वीजं जलधिजे । जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा- मदभ्राम्यद्भुङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥ १० ॥ मरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु । यया पातं पातं पदकमलयोः पर्वतचरो हरो हा रोषामनुनयति शैलेन्द्रतनयाम् ॥ ११ ॥ हरन्तो निःशकं हिमकरकलानां रुचिरतां किरन्तः खच्छन्दं किरणमयपीयूषनिकरम् । विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा ममान्तः संतापं तव चरणशोणाम्बुजनखाः ।। १२ ।। मिषान्माणिक्यानां विगलितनिमेषं निमिषता- ममन्दं सौन्दर्य तव चरणयोरम्बुधिसुते । पदालंकाराणां जयति कलनिकाणनपटु- रुदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३ ॥ मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।
लक्ष्मीलहरिः।
१०७
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥ १४ ॥
हरद्वं सर्व करिपतिकराणां मृदुतया
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् ।
लसज्जानुज्योत्स्नातरणिपरिणद्धं जलधिजे
तबोरुद्वन्द्वं नः श्वथयतु भवोरुज्वरभयम् ॥ १५ ॥
कलक्काणां काञ्चीं मणिगणजटालामधिवह-
न्वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥ १६ ॥
जगन्मिथ्याभूतं मम निगदतां वेदवचसा-
मभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानी विश्वेषां जनकमुदरं ते विमृशतो
विसंदेहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७ ॥
अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहै-
निरस्ता विस्तारं कचिदकलयन्ती तनुमपि ।
असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥ १८ ॥
निदानं शृङ्गारप्रकरमकरन्दस्य कमले
महानेवालम्बो हरिनयनरोलम्बवरयोः ।
निदानं शोभानां निधनमनुतापस्य जगतो
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥
गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाळ ते नामीविमलसरसीं गौर्मम मनाक् ।
पदं यावन्यस्यत्यहह विनिमग्नैव सहसा
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥ २० ॥
काव्यमाला। कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् । त्रिलोकीलावण्याहरणनवलीलानिपुणयो- र्ययोर्दत्वे भूयः करमखिलनाथो मधुरिपुः ॥ २१ ॥ हरकोपत्रस्यन्मदननवदुर्गद्वयतुलां दधत्कोकद्वन्द्वद्युतिदमनदीक्षाघिगुरुताम् । तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ।। २२ ।। अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते दयापीयूषाम्भोनिधिसहजसंवासभवने । विधोश्चित्तायामे हृदयकमले ते तु कमले मनाङ् मन्निस्तारस्मृतिरपि च कोणे निवसतु ।। २३ ॥ मृणालीनां लीलाः सहजलवणिम्ना लघयतां चतुर्णा सौभाग्यं तव जननि दोष्णां वदतु कः। लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः श्रुतीनां स्पर्धा ये दधत इव कण्ठे मधुरिपोः ॥ २४ ॥ अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् । कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ।। २५ ॥ अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां रसज्ञामज्ञानां क इव कमले मन्थरयतु । त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥ २६ ॥ समाहारः श्रीणां विरचितविहारो हरिदृशां परीहारो भक्तप्रभवभवसंतापसरणेः ।
लक्ष्मीलहरिः।
१०९
प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥
अलं कुर्वाणानां मणिगणवृणीनां लवणिमा
यदीयाभि भिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा-
स्तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलपितम् ॥ २८ ॥
तपस्तेपे तीन किमपि परितप्य प्रतिदिनं
तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् ।
हरिः कम्बु चुम्बत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९ ॥
अभूदप्रत्यूहः सकलहरिदुल्लासनविधि-
विलीनो लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन्पीयूषं किरति वदने रम्यवदने
कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधेः ॥ ३० ॥
मुखाम्भोजे मन्दसितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना कापि स्रवदमृतसंदोहसरसा
ममोद्यद्दारिद्यज्वरतरुणतापं तिरयतु ॥ ३१ ॥
कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च
प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम् ।। ३२ ॥
कपोले ते दोलायितललितलोलालकवृते
विमुक्ता धम्मिल्लादभिलसति मुक्तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिव बला-
निबध्योर्ध्व कृष्टा तिमिरनिकुरम्बैर्विधुकला ॥ ३३ ॥
काव्यमाला। प्रसादो यस्यायं नमदमितगीर्वाणमुकुट- प्रसर्पज्योत्स्नाभिश्चरणतलपीठार्चितविधिः । दृगम्भोज तत्ते गतिहसितमत्तेभगमने बने लीनीनैः कथय कथमीयादिह तुलाम् ॥ ३४ ॥ दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दयार्दा दीनानामुपरि दलदिन्दीवरनिभा । दहन्ती दारिद्यद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिमें जननि दुरदृष्टं दलयतु ॥ ३५ ॥ तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी । रवैर्दीनां लीनामनिशमवधानातिशयिनी ममाप्येतां वाचं जलधितनये गोचरयताम् ।। ३६ ॥ प्रभाजालैः प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् । महिम्ना यस्यायं प्रलयसमयेऽपि ऋतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥ ३७ ॥ निवासो मुक्तानां निबिडतरनीलाम्बुदनिभ- स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् । भृशं यस्मिन्कालागुरुबहुलसौरभ्यनिवहै: पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८ ॥ विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः । निषिञ्चन्तौ मुक्तामणिगणजयस्त्वां जलकणै- नमस्यामो दामोदरगृहिणि दारिद्यदलिताः ॥ ३२ ॥ अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे लुठन्तं वालं मामविरलगलबाप्पजटिलम् ।
भावविलासः । सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः स्पृशन्ती मा रोदीरिति वद समाश्चास्यसि कदा ॥ ४० ॥ रमे पद्मे लक्ष्मि प्रणतजनकल्पद्रुमलते सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे । परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमान् ॥ ४१॥ इति पण्डितराजश्रीजगनाथविरचिता लक्ष्मीलहरिः समाप्ता ! न्यायवाचस्पतिश्रीरुद्रकविकतो भावविलासः। यः फल्गूकृतफाल्गुनो रणभुवि प्रौढप्रतापानल- ज्वालाभिः प्रतिपक्षपक्षविपिनश्रेणीर्ददाह क्षणात् । योऽभूद्भूसुरभूरुहोऽत्र भगवदासो निवासः श्रियां तस्मादाविरभूत्प्रभूतमहिमा श्रीमानसिंहो नृपः॥ १ ॥ सङ्ग्रामोदामधामप्रतिभटपृतनाकण्ठरक्तोपरक्ता येनाकीर्य खसेनाश्चतुरुदधिजलैः क्षालिता खड्गधारा । गाढं शस्त्राभिघातादरिमदकरिणां दानमाच्छिद्य सद्यो हस्ते न्यस्तं च येन क्षपितरिपुकुले दक्षिणे दक्षिणेन ।। २ ।। तत्खगाघातजातव्यथरिपुवनितामुक्तबाष्पाम्बुधारा- सारादारादुदास दिशि दिशि सरितो नोद्भटाश्चेद्भवेयुः । कल्पान्तक्रूरसूरप्रकरविजयिनो विस्फुरतत्प्रतापा- पारावारानपारानपि सपदि पराञ्छुष्यतः पूरयेत्कः ॥ ३ ॥ १. अयं कविर्भावसिंहमहीपतेः समये बभूवेत्यस्मिन्नेव ग्रन्थे स्फुटम्. स व भावसिं- हमहीपतिवर्तमानजयपुरमहाराजस्य षोडशः पूर्वपुरुषः निस्तसंवत्सरीयसप्तदशशतकप्रा. रम्भ एवासीत्. यतो भावसिंहमहीपतेर्जनकोऽतिप्रसिद्धो मानसिंहमहीपतिदिल्लीबादशाहो जलालुद्दीनापरनामाकबरशाहश्च समकालीनौ. अकबरशाहस्य राज्यसमयस्तु १५५६ मितात्निस्तसंवत्सरादारभ्य १६०५ मितख्रिस्तसंवत्सरपर्यन्तमासीत.
११२ काव्यमाला श्रीमाञ्छ्रीमानसिंहक्षितिपतिजलधेरुद्तो भावसिंहः पूर्णः पीयूषभानुर्विलसति किरणध्वस्तदैन्यान्धकारः। स्फारस्फारस्तुषाराचलसुरतटिनीहंसहारानुकाराः कीर्तिज्योत्स्नाः पिवन्ति प्रतिदिशमनिशं यस्य विद्वचकोराः ।। यस्य स्फारासिधाराहतिदलितभुजभ्रष्टखगप्रमुष्टि- प्राच्योदीच्य[प्रतीच्य]प्रभृतिनृपतिभिर्दर्शिता पृष्ठलक्ष्मीः । हर्षादुत्तंसयन्ते दिशि दिशि सुदृशो भूरिशो यस्य नित्यं व्याकोशं कीर्तिपुप्पं चतुरुदधितटीवृक्षवाटीविलासि ॥ ५॥ रिङ्गत्तुङ्गतुरंगबन्धुरखुरक्षुण्णक्षमामण्डल- क्षुभ्यद्भूलिपरम्पराजलधरध्वस्तार्चिषि व्योमनि । दोष्णोर्यस्य करालकालरसनाकल्या कृपाणीलता विद्युद्वल्लिरिवानिशं प्रतिदिशं लोकैरलोकि प्रभोः ॥ ६ ॥ यद्गन्धद्विपदानवारिभिरभूत्सङ्ग्रनमभूः पकिला तस्यां वैरिकरीन्द्रमौक्तिकमयं बीजं च येनाहितम् । तस्मादाविरभूधशस्तरुरयं तस्योद्गताः कोरका- स्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ७ ॥ घूर्णन्ते तूर्णमेते कुलधरणिभृतो दिग्द्विपा दिग्विदिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमुदितो मर्मणा कूर्मराजः । प्रस्थाने यस्य गर्जत्करटिघनघटासंभ्रमन्यञ्चदुर्वी- मूर्वी दर्वीकरेन्द्रः कलयितुमदितश्वासमाति बिभर्ति ॥ ८॥ योऽसौ प्रत्यर्थिनारीनयनजलभरपोन्मिषन्नीरराशि- प्रोन्मीलत्कीर्तिचन्द्रः क्षितिपकुलमणि नुवंशावतंसः । यद्दोरुद्दामचापध्वनिजनितरुषो जामदग्यस्य राम- ज्यानि?षभ्रमेण भ्रमति विचलितस्यारुणा दिक्षु दृष्टिः ॥ खेलन्ती व्योमगर्भे दिशि विदिशि मुहुनिष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती ।
भावविलासः।
यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं
प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति ॥ १०॥
यस्याग्निः कोपपुढे वसति खुरपुटे वाजिनां गन्धवाहो
लक्ष्मीः सस्नेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा ।
रूक्षे कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः
कस्तं श्रीभावसिंह प्रबलमखभुजामाश्रयं नाश्रयेत ॥ ११ ॥
रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्छिश्रिये
स्वीयाके कमलां निधाय विदधौ निद्रां हरिनीरधौ ।
यस्मिन्दित्सति भूरिदातरि नृणां भासस्थले दुर्लिपी-
/डानम्रशिराः कमण्डलुजलं जग्राह माष्टुं विधिः ॥ १२ ॥
पादे कङ्कणमर्पयन्ति करयोर्मञ्जीरमातन्वते
काञ्चीदाम च कुर्वते कुचतटे हारान्नितम्बेषु च ।
नेपथ्यग्रहणे बताग्रजनुषामेणीदृशो भूरिशो
यस्मिन्दानगुरौ महीसुरतरौ विश्वंभरां बिभ्रति ॥ १३ ॥
फूत्कारेण कुमूर्च्छितस्य कटुभिः कीटान्तराणां रवै-
र्बालानां रुदितारवैरपि च ये निन्युर्विनिद्रा निशाः ।
यस्मिन्दातरि यापयन्ति त इमे हेषाखनैहिते-
र्वामानां करकङ्कणध्वनिभिरप्युज्जागरा यामिनीः ॥ १४ ॥
यस्मिन्दित्सति दातरि द्विजनुषो दर्भाङ्कुराकर्षण-
क्रूरैः पाणितलैर्वधूस्तनतटे बध्नन्ति मुक्तास्रजः ।
शीतोष्णश्रमकर्कशैरतिकृशैरङ्गैः प्रियालिङ्गितैः
कान्ता रुक्मपरिच्छदाः शशिनिभाः शय्याः समध्यासते॥१५॥
ऐश्वर्य नहुषस्य विष्णुविषयश्रद्धाम्बरीषस्य सा
पाण्डित्यं धनुषश्च पाण्डुजनुषो गाम्भीर्यमम्भोनिधेः ।
दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा
तस्य श्रीयुतभावसिंहनृपतेः साम्यं समुन्मीलतु ॥ १६ ॥
११४
काव्यमाला।
काव्यालापकलाकलापकलनावैदग्ध्यदीक्षागुरो-
भूमीकल्पतरोरशेषजनतासंगीतकीर्तेरिह ।
तस्याज्ञामधिगत्य यः कविकुलानन्दाय संपादितः
संदर्भस्तममत्सराः कृतधियः कुर्वन्तु कर्णातिथिम् ॥ १७ ॥
जिलो लोकः कथयति पुरो हन्त हित्वा गुणौघा-
नम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य ।
विष्वक्छिद्रानुसरणसमारूढसर्वेन्द्रियाणां
दोषे दृष्टिः पिशुनमनसां नानुरागो गुणेषु ॥ १८॥
गुणिनां गुणेषु सत्स्वपि पिशुनजनो दोषमात्रमादत्ते ।
कुसुमे फले विरागी क्रमेलकः कण्टकौघमिव ॥ १९ ॥
सुजनानामपि हृदयं पिशुनपरिष्वङ्गमलिनमिह भवति ।
पवनः परागवाही रथ्यासङ्गे रजस्खलो भवति ॥ २० ॥
लोक एष गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम् ।
लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ २१ ॥
पिशुन समारोह सि किं सुजनसमाजानभीष्टसौजन्यः ।
करटोऽपि किं नु लभते कलकण्ठपदं रसालमौलिगतः ॥ २२ ॥
द्विरदरदनप्रौढाघातान्न तादृशसंभ्रमः
परशुपतनादस्य त्रासो न हन्त तथाविधः ।
अयमविरतं क्रोडे क्रीडन्हताशहुताशनो
दलयति यथा मर्मात्यर्थं तरोन तथापरः ॥ २३ ॥
आपातमलिनिमासौ सहृदयहृदये न दोषाय ।
अङ्गारयोगजन्मा निसर्गशुद्धे यथा स्फटिके ॥ २४ ॥
केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ
विश्वं तोयैः स्वपयितुमसौ केन वा वारिवाहः ।
विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः
श्लाघ्यो लोके जयति महतामुज्वलोऽयं निसर्गः ॥ २५ ॥
भावविलासः।
११५
कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भः करैः
कस्माद्वा जलधारयैष धरणिं धाराधरः सिञ्चति ।
भ्रामं भ्राममयं च नन्दयति वा कस्मात्रिलोकी रविः
साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ।। २६ ॥
तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महद्भ्यः ।
अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा जनावलम्बः ॥२७॥
कुम्भोद्भवस्य करपुष्करकोषकोणे
पाथोनिधौ विधिवशाद्विपदं प्रयाते ।
ये दुर्लभास्त्रिदिवलोकविलासिनीनां
पङ्कसीमनि महामणयो लुठन्ति ॥ २८॥
गरलं यदि जलराशेरिदमुत्पन्नं किमेतेन ।
तेनैवास्य तु महिमा यदभूत्पीयूषपारिजातादि ॥ २९ ॥
पीयूषपारिजाताद्याः के नाभूवन्पयोनिधेः ।
रतैरेव तथाप्येष रत्नाकरपदं गतः ॥ ३०॥
गुणिनः क इव विशेषो गुणरहिते जननि निरणायि ।
येन विहाय गुणाश्रयमगुणे गाढानुरागासि ॥ ३१ ॥
हरिभामिनि सिन्धुसंभवे कमले किं कथयामि ते गुणान् ।
अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विरज्यसि ॥ ३२ ॥
मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे
मधूलीपालीभिर्मधुप सहकारे विहरसि ।
वसन्ते वासन्तीमधु मधुरमश्नासि बहुशो
दुरावेशोऽयं ते तदपि कुटजे यद्विचरसि ॥ ३३ ॥
मधूलीमन्विष्यन्मलयपवनान्दोलितदले
मुधा मुग्धः कुन्दस्तबकनिकुरम्वे विचरसि ।
ततः कान्तादन्तच्छदनवसुधासारमधुरे
बधान प्रेमाणं मधुकर नवाम्भोजमधुनि ॥ ३४ ॥
११६ काव्यमाला निःशकं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः । यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नवनलिनीवनीमुपेयाः ॥ ३५ ॥ मधु नवसुधाखादं तावन्निपाय्य निरन्तरं निशि निशि निजकोडे कामं ययासि निवेशितः। स्मरसि किमु तामेतामद्य त्वदेकपरायणां भ्रमर नलिनी दिक्षु भ्राम्यंल्लताशतलम्पटः ॥ ३६ ॥ इह रूपमात्रसारे चित्रकृते कनककहारे । न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥ ३७॥ न चेतश्चाम्पेयस्तबकनिकुरम्बेऽभिरमते समुत्कण्ठा काचिन्न च विकचपुंनागमुकुले । न मल्लीवल्लीनामपि मधुनि वाञ्छा मधुलिहः समाघातो नूनं यदवधि लवङ्गीपरिमलः ।। ३८ ॥ प्रम खैरं भ्रातर्धमर नवयूथीषु बहुशो मधूलीमन्विप्यन्कुमुदवनवीथीषु विचर । वसन्तपारम्भस्फुरितमधुसंभारसुभगो न ते विस्मर्तव्यः वचन सहकारव्यतिकरः ॥ ३९ ॥ आखाद्यात्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरै- किन्देन पिकान्प्रतारितवता मूर्धानमध्यासितः । प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतत्न ते ॥ ४० ॥ नीरजान्यपि निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । चञ्चलत्वमिह चञ्चरीक ते साहजं कथमिदं विमोक्ष्यसि ॥ ११ ॥ पीतमत्र मधु यापिता क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् । हीयमानसुषमां हिमागमे पद्मिनी यदिह नावलोकसे ॥ १२ ॥ एणीदृशः श्रवणसीन्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य ।
भावविलासः। ११७ त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्तु तवैव हानिः ॥ ४३ ।। गलितानि मधूनि सर्वतो विनिकीर्णानि दलानि मारुतैः । अधुनापि न हन्त माधवीं मधुपैनामिह नाम मुञ्चसि ॥ ४४ ॥ उपानीतं दूरात्परिमलमुपाघ्राय मरुता समायासीदस्मिन्मधुरमधुलोमान्मधुकरः । परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः ॥ १५ ॥ भ्राताम्य लवङ्गवल्लिषु पिब खैरं नवाम्भोरुहे माध्वी माधविकामधूनि मधुराण्याकण्ठमाखादय । कस्मादापतितोऽसि केतकमिदं यस्मिन्नुदीर्ण रजो दृष्टिं लुम्पति सूचयः प्रवितताः कृन्तन्ति मर्माण्यपि ॥ ४६॥ सहसा समये समीयुषो रुचितामङ्गविशेषशून्ययोः । इह षट्पदपङ्कजन्मनो मनोग्लानिरसावुपैष्यति ।। ४७ ॥ नालिङ्गिता नवलवङ्गलता न चापि संभाविता विटपिनः कलगुञ्जितेन । आसादिता सपदि काचन रीतिरन्या माकन्दकोरकमुदीक्ष्य मधुव्रतेन ।। ४८ ॥ किं न पश्यसि महेन्द्रदिङ्मुखे शीतदीधितिरसावुदञ्चति । मीलितैव नलिनीह मा कृथास्तन्मधुव्रत मुधा गतागतम् ॥ १९॥ कुन्दकुडालमुपास्यतां त्वया यत्र शीतसमयोऽतिवाहितः। चञ्चरीक परिहीणसौरभा रोचते न भवते सरोजिनी ।। ५० ॥ अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः । इयं पुरत एव ते सरसपुष्पमासोदये रसालनवमञ्जरीमधुझरी जरीजृम्भते ॥ ५१ ॥ ११ द्वि.गु.
काव्यमाला।
चञ्चरीक चतुरोऽसि चन्द्रिकावैभवे कुमुदिनी निषेवसे ।
भास्करे जयति पुष्करे करैरुन्मिषन्नवदलेऽनुरज्यसि ॥ ५ ॥
इतो वसन्तहेमन्तद्वैराज्यादिव दुर्मनाः ।
न कुन्दे नापि माकन्दे पदं बध्नाति षट्पदः ।। ५३ ।।
मा गाः खेदं कमल किरणैरेष पीयूषगर्भः
प्रालेयांशुदिह कुमुदामोदमाविष्करोति ।
नानुग्राह्यं यदसि महतामीदृशानामयं ते
मन्ये कालादिह परिणतः प्राक्तनो दुर्विपाकः ॥ ५४ ॥
यावत्त्वां न खलु हसन्ति कैरविण्यो यावत्त्वां तरणिकराः परामृशन्ति ।
यावत्तेमधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्पदेभ्यः ॥ ५५ ॥
रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः खयमेव शंकरेण ।
कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दुमुदीक्ष्य लोककान्तम् ॥ ५६ ॥
नलिनि निपुणतां वदामि किं ते भ्रमरविलासविशेषलालसायाः ।
त्रिभुवननयनोत्सवं यदिन्दु न नयसि हन्त हगन्तवम॑सीमाम् ॥ ५७ ॥
न कुले नापि च शीले न चापि रूपेऽस्ति कश्चिदुत्कर्षः ।
यत्पुष्णासि मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ ५८ ॥
वैदग्ध्यं मृगलाञ्छनस्य मनसो निर्माति मे न व्यथां
नो दृये चिरलालिता मधुलिहः सर्पन्ति यन्नान्तिकम् ।
जल्पन्तीव दुरक्षराणि मधुपश्रेणीध्वनिच्छद्मना
यत्कादम्ब कुमुद्रती हसति मां तन्मे मनस्ताम्यति ॥ ५९ ॥
मरन्दलोभान्न मिलिन्दमाला भेजे न बाला श्रवणे निनाय ।
हा हन्त नालीकमिदं दुरन्तप्रालेयपाली कवलीचकार ॥ ६० ॥
एकस्मिञ्जनिरावयोः समजनि खच्छे सरोवारिणि
भ्रातः किं च सहैव कानिचिदहान्यत्र व्यतीतानि नौ
लब्धं तामरस त्वया मृगदृशां कर्णावतंसास्पदं
शेवालं विलुठामि पामरवधूपादाहते पाथसि ॥ ६१ ॥
भावविलासः। ११९ ہم विभ्रम्य काननमसौ दिवसावसाने त्वय्येव षट्पदयुवा हृदयं बबन्ध । राजीव चेन्मलिनिमानमुरीकरोषि कः स्यादहो मधुलिहामधुनावलम्बः ॥ ६२ ।। मिलसि मनोज्ञे मनसा मालति मलिनेन वारिवाहेण । कुसुमाकरे विरज्यसि मुग्धे वैदग्ध्यमीदृशं कस्मात् ॥ ६३ ॥ रभ्येण समावृणोषि ककुभः पुष्णासि पुष्पंधयां- लूतातन्तुवृतस्तथापि कियतीस्त्वं यापयेर्यामिनीः । सिन्दाशपुरे पुरस्तत इतो विन्यस्तचित्रामिषे मालाकारमृते लवनि ललितान्कस्ते गुणाज्ञास्यति ॥ ६४ ॥ संदर्शयख मधुवैभवमस्ति यत्ते कुन्द किं दुरभिमानमुरीकरोषि । एतन्न चेतसि करोषि सरोजबन्युः पुष्पंधयोऽपि मयि सौरभमातनोति ॥ ६५ ॥ एष षट्पदयुवा यदायताः कुन्द यापयति यामिनीस्त्वयि । दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ॥ ६६ ॥ आखाद्यैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिपु। माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां सतां द्विजनुषां मर्मातिगं चेष्टितम् ॥ ६७ ॥ न पश्यति लवनिकां न च निषेवते मालती रसाल रसिकस्तथा न नलिनीवनीमञ्चति । भवन्तमयमीहते मधुपलक्षपक्षानिलाः क्षिपन्ति यदमु जने जयति तत्तवैवायशः ॥ ६८ ॥ शश्वनिसर्गमलिनाः सहकार काम लुण्ठन्ति तान्यपि मधून्यहह द्विरेफाः ।
१२०
काव्यमाला।
युक्तं न तत्तब कषायरसप्ररोहै-
रेतान्प्रतारयसि यत्कलकण्ठयूनः ॥ ६९ ।।
स्निग्धाग्राः फलिनो दलत्परिमलैः पुष्पैर्मधुस्यन्दिनो
नानन्दाय भवन्ति किं वनभुवां भूमौरुहो भूरिशः ।
माधुर्यं मधुनस्तवैव विदितं माकन्द मन्यामहे
माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि ॥ ७० ॥
विमुक्ता वासन्ती बकुलकुसुमे नापि मिलितं
व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः ।
यमालोक्योत्कण्ठातरलमिह भृङ्गेन चलितं
विदूरान्माकन्दः स खलु दलितो यूथपतिना ॥ ७१ ॥
उन्मीलयन्ति कुसुमानि मनोरमाणि
के नाम नात्र तरवः समयोचितानि ।
कस्येदृशं कथय दोहदमस्ति तस्य
याहग्विनिर्मितमशोकमहीरुहस्य ॥ ७२ ॥
गर्वायसे विकचकोरकपुञ्जगुञ्ज-
दुद्वृत्तषट्पदघटाविभवेन किं नु ।
वामझुवां चरणताडनदोहदानि
किं नाम न स्मरसि तावदशोक तानि ॥ ७३ ।।
करट कलकण्ठशावकमेनं पुष्णासि किं मुधायासैः ।
अयमिह पुरा सपक्षः परिचयमपि ते न जानीते ॥ ७४ ॥
कलयसि मृणालकन्दं विहरसि बिसिनीदलेषु सानन्दम् ।
अयि राजहंस शंस त्यजसि मनोहारि कथमिदं वारि ॥ ७५ ॥
नेदं सरः सरसवारि न वारिजं वा
नैतन्मधूनि मधुपाः सहवासिनो वा ।
हेमारविन्दवनवासविलासभाजो
रे हंस मानसजुषस्तव मानसेऽपि ॥ ७६ ॥
भावविलासः। १२१ अत्र स्वातमिहोपभुक्तममलं भूयो मृणालीदलं याभ्यां शश्वविहान्वभूयत सुखं कल्लोलहिन्दोलजम् । कष्टं तावशनिध्वनिप्रणयिभिः प्रौढानिलास्फालितः स्फाराम्भोधरमण्डलैर्विघटितौ चक्राङ्गचक्रायौ ।। ७७ ॥ दूरादेष निशां निरस्य ककुभामुन्मूल्य गाढं तमः प्रेमाणं युवयोर्व्यनक्ति तरणिविश्लेषदुःखं नुदन् । एतस्याङ्ग रथाङ्ग चण्डमहसो मा गाः समीपं व्रज- न्प्रीति हास्यसि निष्पतिष्यसि पुनर्निर्दग्धपक्षः क्षणात् ।। ७८ ॥ आयातैव विभावरी विभजते नो निर्दयोऽयं विधिः स्रतापाङ्गि रथाङ्गि पश्यसि मुधा चित्तव्यथां मा कृथाः । दैवं संप्रति गर्हयाव बहुशो निर्माय येनावयो- गाढं प्रेम विनिर्मितः प्रतिनिशं विच्छेदखेदो महान् ॥ ७९ ॥ कूपेऽम्भांसि पिबन्तु कूपरसिका वापीषु वापीजुषो नादेयाश्च पतत्रिणोऽपि नितरामाखादयन्तां पयः । सारङ्गस्य नभोनिवेशितशः किं तेन यावन्मही- मम्भोभिः सपयन्नसावुदयते न प्रावृषेण्यो घनः ॥ ८० ॥ तापं लुम्पसि सर्वतो वितनुषे मुक्ताफलं शुक्तिषु क्षेत्रान्सिञ्चसि किं च पल्लवयसि श्रीखण्डमुख्यान्द्रुमान् । क्षारं क्षारमिदं जलं जलनिधेरादाय जीमूत हे विश्वं जीवयसि ब्रवीतु जगति प्रौढोऽपि कस्ते गुणान् ।। ८१॥ ऊपरेषु विवरेषु चाम्भसां वीचयोऽपि भवता प्रवर्तिताः । क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ।। ८२।। संपादिताः सपदि दर्दुरदीर्घनादा यत्कोकिलाकलरुतानि निराकृतानि । निष्पीतमम्बु लवणं न तु देवनद्याः पर्जन्य तेन भवता न कृतो विवेकः ॥ ८३ ।।
१२२ काव्यमाला यत्तादृशेषु नलिनेषु न पक्षपातो जातो बत स्फुटमसौ कुटजानुरागः । विश्वकजीवनपटोरपि वारिवाह दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ८४ ।। नैवामी प्रभवन्ति चातकतृषाविच्छेदसंपत्तये प्रागल्भ्यं दधते न हन्त हरितां संतापशान्तावपि । प्रक्षामास्तरणित्विषोऽपि न तिरोधातुं समर्थाः पुनः क्षुद्राः पिच्छिलयन्ति केवलमपां लेशैः पथस्तोयदाः ।। ८५ ॥ उद्दामधुमणिमयूखमूछितानामेतेषामहह महीरुहामिह स्यात् । आलम्बः क इव दिवं भुवं पयोभिः सिञ्चन्तं जगति विहाय वारिवाहम् ॥८६॥ संतापं जगतो विलुम्पसि धरा धाराभिरासिञ्चसि क्षेत्राण्यङ्कुरयस्यमून्मुकुलयस्यह्राय नीपट्ठमान् । सारङ्गस्य नभोनिवेशितदृशश्चञ्चूपुटीपूरणे वैमुख्यं व्रजसि त्वमम्बुद यदि प्रत्येतु को नाम तत् ॥ ८७ ॥ तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः। सर्वमेकपद एव विच्युतं पङ्कशेषमचिरादभूत्सरः ॥ ८८॥ नावों न च तरलास्तरङ्गमाला नेदानीं जलरयजा रवाः करालाः । सैव त्वं तटिनि तटद्रुमान्निपात्य प्रौढानामपयशसामिहासि पात्रम् ॥ ८९ ॥ वापी कापि कदापि न श्रुतिचरी को वेद कीहक्सरो व्योमाम्भोजवनीव नात्र तटिनी कैर्नाम न ज्ञायते । हंहो पान्थ दुरन्तसाहसभरेणेहागतं चेन्मरौ मण्डूकाकुलपङ्कसंकुलतलादैन्धोः कबन्धं पिब ॥९० ॥ मूलं कूलमहीरुजां विरुजति क्लिभाति तुङ्गास्तटी- विश्लेषं च रथाङ्योर्वितनुते राजीविनीः कर्षति । श्यामाः शैवलवल्लरीवितुदते मनाति वीचीः क्षणा- किं तद्यन्न करोति मारुतवशादम्भोधरः प्रावृषि ॥ ९१ १. कूपाजलं पिब.
भावविलासः। १२३ राजीविनी विपिनसौरभसारगन्धि योऽभूद्वसन्तदिवसेषु जनैकबन्धुः । रथयारजांसि विकिरन्विरुजन्नगेन्द्रा- नुन्मत्तवद्रमति पश्यत सोऽद्य वायुः ।। ९२ ॥ गन्धवाह गहनानि गाहसे गन्धजातमिह संचिनोषि च । नैपुणच्युतिरियं च तावकी यन्न तत्र सदसद्विवेचनम् ॥ ९३ ।। निधेः कलानामपि रीतिरेषा मर्माणि मे संस्पृशतीव भूयः । कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ।। ९४ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो बत चकोरचञ्चुषु । कष्टमिन्दुरुदयन्निपीयते दारुणेन तमसा बलीयसा ॥ ९५ ।। लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि श्यामासूक्तसुधासहोदरमधुप्रस्यन्दसंदोहिनि । जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रम- स्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ९६ ॥ श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधेरिह वर्णनीया । यद्वारि न स्पृशति हन्त पृथग्जनोऽपि यस्यामृतैर्मखभुजोऽपि मुदं भजन्ते ।। ९७ ।। आरोपितः शिरसि यः खयमीश्वरेण सिक्तः सदैव सुरशैवलिनीजलेन । न क्षामतां तदपि मुञ्चति सोऽयमिन्दु- रेतद्व्यनक्ति दुरतिक्रममेव दैवम् ॥ ९८ ॥ इन्दोर्निन्दतु नाम धाम नलिनी निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमा हानिर्न वा दुर्यशः । एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यज्योत्स्नासु चिरं चकोरपरिषच्चञ्च्पुटं न्यस्यति ।। ९९ ॥
१२४ काव्यमाला। या महेश शिरसो विभूषणं या त्रिलोकजनलोचनोत्सवः । सेयमिन्दुकलिका दिनागमे तापिता कमिव नातितापयेत् ।। १०० ॥ उत्साहं वनितासखेषु विरहग्लानेषु दैन्यं शशी शोकं कोककुटुम्बिनीषु दिशति क्षेमं चकोरीषु च । लक्ष्मी लुम्पति पङ्कजस्य कुमुदामोदाय संपद्यते तबीजं ध्रुवमत्र पूर्वविहितं द्वेषस्य रागस्य च ॥ १०१ ॥ धुनोति ध्वान्तानि व्यपनयति नीहारपटलं कुलं राजीवानां दलयति रथाङ्गं रमयति । जगद्व्यापी देवो जनयति जनानां च नयनं न याति स्थेमानं यदि तदिह दैवं जयतु कः ॥ १०२ ।। अरविन्दानि विन्दन्ति व्यथा विरहतो रवः । तेषां विरहतस्तस्य न जाने कीगन्तरम् ॥ १०३ ।। येन शैशवपदे मदेभराङ्गण्डसीम नखरैर्विखण्डितम् । यौवनोत्सवमवाप्य केसरी केषु दर्शयतु सोऽद्य पौरुषम् ॥ १०४ ॥ भूमिपालभवने स केसरी पञ्जरे स्फुरति रुद्धपौरुषः । उन्मिषत्सु करटेषु कुम्भिनां कः करोति करजार्पणोत्सवम् ।। १०५ ॥ एतस्य केसरिपतेर्गिरिकाननानि तानि स्मरन्ति परमस्य पराक्रमस्य । अद्यातिदुर्वहजराविकलस्य को नु प्रत्येतु तानि चरितानि चिरंतनानि ॥ १०६ ॥ मनं मत्तैः सरसि करिभिर्विद्रुतं द्वीपिमुख्यै- लीन कुले शबरपतिभिर्मूर्छितं रङ्कुयूथैः । आकर्योचैरिह मृगपतेर्जुम्भमाणस्य नादा- कैः कैः किं किं न खलु चकितैः काननेऽस्मिन्नकारि ॥१०७॥ खैरं सैरिभयूथपैरिह सरः शृङ्गेण विक्षोभितं तावन्यनुकुलं च हुंकृतिशतैर्विद्रावितं द्वीपिमिः ।
भावविलासः।
१२५
हेलाक्षिप्तपदे पराक्रमनिधावुज्जृम्भमाणे हरौ
चित्रं सैव तदैव चित्रलिखितेवासीदरण्यस्थली ॥ १०८॥
माद्यत्कुञ्जरकुम्भकूटविगलन्मुक्तावदातान्तराः
किंचित्कोपकषायितेन मनसा येनाद्रिपादाः कृताः ।
सोऽयं संप्रति दूषिकाकुलदृशा कष्टां दशामागतः
सिंहः पांसुभिरेणशावकखुरोन्मुक्तैः समाकीर्यते ॥ १०९॥
गर्भान्हठेन दलयन्ति करेणुकानां
गण्डूषयन्ति गजगण्डतटीमदाम्भः ।
यद्भर्जितानि जरया मुषितः स एव
कण्ठीरवः परिभवं सहते मृगेभ्यः ॥ ११० ।।
मीलितेक्षणयुगं विगाहसे वारणेन्द्र गहनं न वीक्षसे ।
अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ १११ ॥
शैवलानि शिरसा प्रतीच्छतः पद्भिरेव कमलानि लुम्पतः।
खैरिणस्तव सरोविहारिणो वारणेन्द्र विदितो न वो नयः॥ ११२ ॥
नैवावासमहीरुहं विरहयल्लीलासरो न त्यज-
विश्लिष्यन्न करेणुकाभिरभितः श्लिष्यन्न वा कण्टकान् ।
एवं नाम विदूयते मरुमहीमासाद्य मध्यंदिने
संतप्तः कलभैर्यथा करिपतिः कान्तारगस्ताम्यति ॥ ११३ ॥
न खां करेणुमपि नापि निजान्किशोरा-
नात्मानमेष परिशोचति वारणेन्द्रः ।
दावाग्निमग्नतनुरत्र यथोपसन्ना-
न्दानार्थिनो मधुकरानधिरूढभावान् ॥ ११४ ॥
हेलाकुङ्मलितेक्षणेन करटं कण्डूयतोन्मूलिताः
शाखाचुम्बितचन्द्रबिम्बवपुषो भूमीरुहो भूरिशः।
छिन्ना कुम्भविघट्टितैर्गिरितटी येनाद्य माद्यन्बला-
देरण्डे स कथं हि गण्डमिभराट् कण्डूयितुं काश्तु ॥ ११५॥
१२६
काव्यमाला
रे यूथनाथ गहनानि विगाहमानो
मनासि पादपशतानि भिनत्सि शैलान् ।
किं पौरुषाणि न वदामि हरेः परोक्षं
किं तत्समक्षमथ तानि पलायितानि ॥ ११६ ॥
लीयन्तां मशकास्तृणेषु विहगा गुच्छेषु गुल्मेषु वा
वल्लीषु भ्रमराः क्षुपेषु सृमराः श्वश्रेषु च श्वापदाः ।
मध्येऽह्नि द्युमणौ महांसि खदिराङ्गारोपमान्युत्किर-
त्युत्तप्तस्य मरौ परं करिपतेर्नास्त्येव विश्रामभूः ॥ ११७ ॥
सरसि न सहसा विनिष्पतेस्त्वं बहिरमलं कलयन्विसारि वारि ।
द्विरदपरिवृढ प्ररूढपके कति करिणोऽत्र मदालसा न मग्नाः ॥११८॥
आधोरणेन सुतरां च निपीडितोऽसि
धिक्छृङ्खलामपि हठादिह लम्भितोऽसि ।
श्वनोदरे कलमलुब्धमना निपत्य
रे यूथनाथ सहसे बहुयन्त्रणानि ॥ ११९ ॥
साघो किमाधोरण यूथनाथमङ्गुष्ठकेनातितरां दुनोषि ।
नो चेदयं वेद निजानुभावं तज्ज्ञस्य ते कर्तुमिदं न युक्तम् ॥ १२० ॥
तीर्णः कथं वनकिरातशराभिपाता-
न्मुक्तः कथं कथमपि क्षुधितात्तरक्षोः ।
दुर्दैववैभववशान्मृगशावकोऽय-
मुद्दामदावदहने गहने निमग्नः ॥ १२१ ॥
कस्तूरिकाहरिण मुञ्च वनोपकण्ठं
मा सौरभेण ककुभः सुरभीकुरुष्व ।
आस्तां यशो ननु किरातशराभिपाता-
त्रातापि हन्त भविता भवतो दुरापः ॥ १२२ ।।
विलपति तनुते. गतागतानि स्पृहयति न व्यथिता कुशाङ्कुरेभ्यः ।
अचकमत निरीक्ष्य रुद्धमेणी हरिणमरंतुदजालबन्धनानि ॥ १२३ ॥
भावविलासः। १२७ त्वरितेन तरक्षुदर्शनान्निजशावोऽपि मनाङ् न वीक्षितः । अधुना हरिणीषु हन्त ते वलते कोऽपि कुरङ्ग विक्रमः ॥ १२४ ।। कुरु कुञ्चितचिल्लि पामराणां न समाजे सरसानि कौशलानि । स्फुटदर्शनमत्र दृग्विलासो न तु वैदग्ध्यमतिस्फुटैव वाणी ॥ १२५ ।। सूर्याचन्द्रमसौ घनैरतिघनैरेतौ विलुप्तद्युती खच्छन्दं मलिनाः परं जलमुचो वर्पन्ति गर्जन्ति च । तुल्या एव सरित्समुद्रसरसीकुल्या बभूवुः क्षणा- त्कालः क्रीडति कौतुकं विरचयन्कस्मै किमाचक्ष्महे ।। १२६ ॥ अतुलरूपगुणोचितयोगयोः कमलिनीशशिनोरसमागमात् । अपयशो विधिना निजमर्जितं विनिहिता च जनस्य हृदि व्यथा ॥१२७॥ परेषु लोकेषु विचिन्त्य याचनां परोऽपि को नाम न यातु नम्रताम् । त्रिलोकनाथोऽपि यया दुरन्तया हठादयं वामनतामनीयत ॥ १२८ ॥ लभते लघुरप्येष सपक्षो लक्षमाशुगः । पक्षहीनतया हन्त न धनुर्गुणवानपि ॥ १२९ ॥ मणिरयमनुष्ण इति ते मनसीलायामुदेतु नाश्वासः । अचिरेण तरणिकिरणव्यतिकरमात्रेण दन्दहीत्येषः ॥ १३०॥ घनपांसुविधूसरांशुराशिन मणे तापयसे मुधावधान । अधिचत्वरवीथि पामरीणाममरीदुर्लभ कस्तव प्रकारः ॥ १३१ ॥ दीर्णोऽसि चेत्कनकसूत्रनिवेशनाय मुक्ताकलाप किमतो भवतो विषादः । यत्पञ्चबाणजयमङ्गलहेमकुम्भ कुम्भस्तनीस्तनतटे भवितानुषङ्गः ॥ १३२ ।। येनाकारि महीभृतामविरतं कण्ठेषु लीलायितं येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम् । जातं येन गजेन्द्रगण्डयुगले साधारणं गुञ्जया मुक्तादाम तदेव पामरपुरे नावाप कां कां दशाम् ॥ १३३ ।। १. कुश्चितच यथा स्यात्. चिल्लीशब्दो भ्रूवाचकः.
१२८ काव्यमाला अन्यापदेशविनिवेशविदग्धबुद्धि- श्रीमावसिंहनरसिंहनियोगयोगात् । संपादितो विविधभावविकासभाजां प्रीत्यै भृशं भवतु भावविलास एषः ।। १३४ ॥ सद्गुणानां समुद्रेण रुद्रेण प्रथिता गुणैः । कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥ १३५ ॥ विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् । काव्यालापविदग्धानां मुदं निर्मातु निर्मितिः ॥ १३६ ॥ इति विद्याविलाससूनुन्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः समाप्तः । महाकविश्रीक्षेमेन्द्रकृता चारुचर्या। श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः । जयतात्रिजगत्पूज्यः सदाचार इवाच्युतः ॥१॥ ब्राह्म मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः । प्रातः प्रबुद्धं कमलमाश्रयेच्छीर्गुणाश्रया ॥२॥ पुण्यपूतशरीरः स्यात्सततं स्नाननिर्मलः । तत्याज वृत्रहा स्नानात्पापं वृत्रवधार्जितम् ॥ ३ ॥ न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् । ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥ श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्मना । भुवि पिण्डं ददौ विद्वान्भीष्मः पाणौ न शंतनोः ॥ ५॥ नोत्तरस्यां प्रतीच्यां वा कुर्वांत शयने शिरः । शय्याविपर्ययाद्गर्भो दितेः शक्रेण पातितः ॥ ६ ॥ अर्थिभुक्तावशिष्टं यत्तदश्नीयान्महाशयः । १. सत्ये सत्यभामायां चासक्तः. २ इन्द्रः. ३. श्वेतो नाम मुनिः तत्कथा लिङ्गपुराणे पूर्वार्धे त्रिंशन्मितेऽध्याये द्रष्टव्या.
चारुचर्या । २ १ श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥ जपहोमार्चनं कुर्यात्सुधौतचरणः शुचिः। पादशौचविहीनं हि प्रविवेश नेलं कलिः ॥ ८॥ न संचरणशीलः स्यानिशि निःशङ्कमानसः । माण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥ ९ ॥ न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् । हतो दशास्यः सीतार्थे हतः पल्या विदूरथः ॥ १० ॥ न मद्यव्यसनी क्षीबः कुर्याद्वेतालचेष्टितम् । वृष्णयो हि ययुः क्षीबास्तृणप्रहरणाः क्षयम् ॥ ११ ॥ ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदाम् । ईर्ष्णदोषाद्विप्रशापमवाप जनमेजयः ॥ १२ ॥ न त्यजेद्धर्ममर्यादामपि क्लेशदशां श्रितः । हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥ न सत्यव्रतभङ्गेन कार्य धीमान्प्रसाधयेत् । ददर्श नरकक्लेशं सत्यनाशाधुधिष्ठिरः ॥ १४ ॥ कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः । प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥ १. श्वेतो नाम राजा. तत्कथावाल्मीकीयरामायण उत्तरकाण्डेऽष्टसप्ततितमे सर्गे द्रष्टव्या. २. 'कृला मूत्रमुपस्पृश्य संध्याभन्वांस्त नैषधः । अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥' इति महाभारते वनपर्वण्येकोनषष्टितमेऽध्याये. ३. 'स रक्षिभिस्तैर- ज्ञातःशूले प्रोतो महातपाः' इत्यादि महाभारत आदिपर्वणि १०७ अध्याये माण्डव्यकथा द्रुष्टव्या. ४. 'शस्त्रेण वेणीविनिगूहितेन विदूरथं खा महिषी जघान' इति बृहत्संहिता (७४।१)। 'वेणीनिगूढेन च शस्त्रेण बिन्दुमती वृष्णि बिन्दूरथं जिघान]' इति हर्षचरित- षष्ठोच्छ्वासः. ५. वृष्णयो यादवाः. एतत्कथा महाभारते मौसलपर्वणि प्रसिद्धव. ६. 'जगाम स रथो नाशं शापागाय॑स्य धीमतः । गार्यस्य हि सुतं बालं स राजा जनमेजयः। वाक्शूरं हिंसयामास ब्रह्महत्यामवाप सः ॥' इति हरिवंशे प्रथमपर्वणि त्रिंशेऽध्याये. ७. 'व्याजेन हि खया द्रोण उपचीर्णः सुतं प्रति । व्याजेनैव ततो राजन्दर्शितो नरक- स्तव ॥ इति महाभारते खर्गारोहणपर्वणि तृतीयेऽध्याये. १२ द्वि० गु० ।
१३० काव्यमाला। मातरं पितरं भक्त्या तोषयेन प्रकोषयेत् । मातृशापेन नागानां सर्पसत्रेऽभवत्क्षयः ॥ १६ ॥ जराग्रहणतुष्टेन निजयौवनदः सुतः । कृतः कनीयान्प्रणतश्चक्रवर्ती ययातिना ॥ १७ ॥ (युग्मम्) दानं सत्त्वमितं दद्यान्न पश्चात्तापदूषितम् । बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ १८ ॥ त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् । कर्णः कुण्डलदानेऽभूत्कलुषः शैक्तियाच्या ॥ १९ ॥ ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः । तक्षकामौ ब्रह्मशापात्परीक्षिदगमत्क्षयम् !! २०॥ दम्भारम्मोद्धतं धर्म नाचरेदन्तनिष्फलम् । ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ २१ ॥ नासेव्यसेवया दध्यादैवाधीने धने धियम् । भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥ परप्राणपरित्राणपरः कारुण्यवान्भवेत् । मांसं कपोतरक्षायै खं श्येनाय ददौ शिबि ॥ २३ ॥ अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् । १. 'नावपद्यन्त ये वाक्यं ताशशाप भुजंगमान् । सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति ॥ इति महाभारत आदिपर्वणि विशेऽध्याये. २. 'गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् । जरयाहं प्रतिच्छन्नश्चरिष्यामि यथात्थ माम् ॥ ययातिरुवाच- पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥' इति महाभारत आदिपर्वणि चतुरशीतितमेऽध्याये. ३. 'वर्मणा कुण्ड- लाभ्यां च शक्तिं मे देहि वासव । अमोघां शत्रुसंघानां नाशिनी पृतनामुखे ॥' इति महाभारते वनपर्वणि दशाधिकत्रिशततमेऽध्याये. ४. 'यस्मान्मिथ्योपचरितो ह्यत्रलोभादिह खया । तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥' इति महाभा- रते शान्तिपर्वणि राजधर्मे तृतीयेऽध्याये कर्ण प्रति परशुरामस्य शापः. ५. 'उत्कृत्य स खयं मांसं राजा परमधर्मवित् । तुलयामास कौन्तेय कपोतेन समं विभो ॥' इति महाभारते वनपर्वण्यकत्रिंशदधिकशततमेऽध्याये.
चारुचर्या । १३१ बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ २४ ॥ अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् । हत्वोपकारिणं विप्रो नाडीजमधश्च्युतः ॥ २५ ॥ स्त्रीजितो न भवेद्धीमान्गाढरागवशीकृतः । पुत्रशोकाद्दशरथो जीवं जायाजितोऽत्यजत् ॥ २६ ॥ न स्वयं संस्तुतिपदैलानिं गुणगणं नयेत् । खगुणस्तुतिवादेन येयातिरपतदिवः ॥ २७ ॥ त्यजेन्मृगव्यव्यसनं हिंसयातिमलीमसम् । मृगयारसिकः पाण्डुः शापेन तनुमत्यजत् ॥ २८ ॥ क्षिपेद्वाक्यशरांस्तीक्ष्णान्न पारुण्यव्युपप्लुतान् । वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ २९ ॥ परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् । पैशुन्येन गतौ राहोश्चन्द्राकौं भक्षणीयताम् ॥ ३० ॥ कुर्यानीचजनाभ्यस्तां न याच्या मानहारिणीम् । बलियाच्नापरः प्राप लाघवं पुरुषोत्तमः ॥ ३१ ॥ न जातुल्लङ्घनं कुर्यात्सतां मर्मविदारणम् । चिच्छेद वदनं शंभुर्ब्रह्मणो वेदवादिनः ॥ ३२ ॥ न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् । दक्षयज्ञक्षयायाभूत्रिनेत्रस्य विमानना ॥ ३३ ॥ न विवादमदान्धः स्यान्न परेषाममर्षणः । वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३४ ॥ गुणस्तवेन कुर्वीत महतां मानवर्धनम् । १. विप्रो गौतमः. नाडीजङ्घ नाम बकम्. एतत्कथा महाभारते शान्तिपर्वण्यापद्धर्मे- अटषष्ठ्यधिकशततमाध्यायमारभ्यापद्धर्मसमाप्तिपर्यन्तं द्रष्टव्या. २. इयं ययातिकथा महा- भारत आदिपर्वण्यष्टाशीतिमितेऽध्याये द्रष्टव्या. ३. 'ततो वैरविनिर्बन्धः कृतो राहु- मुखेन वै। शाश्वतश्चन्द्रसूयाभ्यां प्रसत्यद्यापि चैव तौ ॥' इति महाभारत आदिपर्व- प्येकोनविंशतितमेऽध्याये.
१३२ काव्यमाला हैनूमानभवत्स्तुत्या रामकार्यभरक्षमः ॥ ३५ ॥ गुणेष्वेवादरं कुर्यान्न जातो जातु तत्त्ववित् । द्रौणिोजोऽभवच्छूद्रः शूद्रश्च विदुरः क्षमी !! ३६ ॥ नात्यर्थमर्थार्थनया धीमानुद्वेजयेजनम् । अब्धिर्दत्ताश्वरत्नश्रीर्मथ्यमानोऽसृजद्विषम् ॥ ३७ ।। बनः क्रूरतरैर्छब्धैर्न कुर्यात्पीतिसंगतिम् । वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ।। ३८ ॥ तीव्र तपसि लीनानामिन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेकाम् ॥ ३९ ॥ कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनंताम् । अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ४०॥ न क्रोधयातुधानस्य धीमानाच्छेदधीनताम् । पपौ राक्षसवद्भीमः क्षतजं रिपुवक्षसः ॥४१॥ प्रभुप्रसादे नो दद्यात्खविनाशास्पदे मतिम् । वक्षयायोद्धतं युद्धं बाणत्यक्षमयाचत ॥ १२ ॥ विद्योद्योगी गतोद्वेगः सेवया तोषयेद्गुरुम् । गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ १३ ॥ भक्तं भक्तं हितं रक्तं निर्दोष न परित्यजेत् । रामस्त्यक्त्वा सतीं सीतां शोकशल्यातुरोऽभवत् ॥ १४ ॥ रक्षेत्ल्याति पुनः स्मृत्या यशःकायस्य जीवनीम् । १. वाल्मीकीयरामायणे किष्किन्धाकाण्डे षट्षष्टितमे सर्गे कथेयं द्रष्टव्या. २. द्रौणि- रश्वत्थामा. इयं कथा महाभारते सौप्तिकपर्वसमाप्तौ द्रष्टव्या. ३. “एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥' इति महाभारत आदिपर्वणि पञ्चसप्तत्यधिकशततमेऽध्याये. ४. इयं कथा महाभारत आदिपर्वणि द्विसप्ततितमेऽध्याये द्रष्टव्या. ५. दीनतामुत्सृज्य धैर्यं कुर्यादित्यन्वयः. ६. 'तडू- हि मम युद्धस्य कच्चिदागमनं भवेत् । न मे युद्धं विना देव रतिरखि प्रसीद मे ॥' इति हरिवंशे द्वितीयपर्वणि. ७. कचो बृहस्पतिपुत्रः, तत्कथा महाभारत आदिपर्वणि षट्सप्ततितमेऽध्याये द्रष्टव्या.
चारुचर्या । च्युतः स्मृतो जनैः स्वर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥ न कदर्यतया रक्षेल्लक्ष्मी क्षिप्रपलायिनीम् । युक्त्या व्याडीन्द्रदत्ताभ्यां हृता श्रीनन्दभूभृतः ।। ४६ ॥ शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् । कार्तवीर्यः ससंरम्भ बैबन्ध दशकंधरम् ॥ १७ ॥ वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे। ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ १८ ॥ अल्पमप्यवमन्येत न शत्रु बलदर्पितः । रोमेण रामः शिशुना ब्राह्मण्यदययोज्झितः ।। ४९ ॥ जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ ५० ॥ औचित्यप्रच्युताचारो युक्त्या खार्थ न साधयेत् । व्याजवालिवधेनैव रामकीर्तिः कलङ्किता ॥ ५१ ।। वर्जयेदिन्द्रियजयी विजने जननीमपि । पुत्रीकृतोऽपि प्रधुम्नः कामितः शम्बरस्त्रिया ॥ ५२ ॥ न तीव्रतपसां कुर्याद्धैर्यविप्लवचापलम् । नेत्राग्निशलमीभावं भवोऽनैषीन्मनोभवम् ।। ५३ ।। न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे रुक्मी फलकदुर्घातैछूते हलभृता हतः ॥ ५४ ।। १. इन्द्रद्युम्नो नाम राजा. तत्कथा महाभारते वनपर्वणि नवनवत्युत्तरशततमेऽध्याये द्रष्टव्या. २. इयं व्याडीन्द्रदत्तयोः कथा कथासरित्सागरे चतुर्थतरजे द्रष्टव्या. ३. 'स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवानराजा बलिं नारायणो यथा ॥' इति वाल्मीकीयरामायण उत्तरकाण्डे द्वात्रिंशे सर्गे. ४. ऋष्यशृङ्गकथा वाल्मीकीयरामायणे बालकाण्डे दशमसर्गे, महाभारते च वनपर्वणि दशोत्तरशततमेऽध्याये द्रष्टव्या. ५. रामेण दशरथसुतेन. रामः परशुरामः. ६. 'करे गृहीला चरणं द्वेधा चक्रे महाबलः' इति महाभारते सभापर्वणि चतुर्विंशेऽध्याये. ७. स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः । तं सा मायावती कान्तं कामयामास कामिनी ॥' इति हरिवंशे द्वितीयपर्वणि चतुरुत्तर- शततमेऽध्याय... "विवादे कुपितो रामः क्षेप्तारं किल रुक्मिणम् । जघानाध्यपदेनैव प्रमथ्य यदुनन्दनः ॥' इति हरिवंशे द्वितीयपर्वण्येकषष्टिमितेऽध्याये.
काव्यमाला प्रभुप्रसादे सत्याशां न कुर्यात्स्वप्नसंनिमें । नन्देन मन्त्री निहितः शकटालो हि बन्धने ।। ५५५ ।। न लोकायतवादेन नास्तिकत्वेऽपयेद्धियम् । हरिर्हिरण्यकशिपुंजधान स्तम्भनिर्गतः ॥ ५६ ॥ अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् । नेहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ ५७ ॥ संधि विधाय रिपुणा न निःशङ्कः सुखी भवेत् । संधिं कृत्वावधीदिन्द्रो वृत्रं निःशङ्कमानसः ॥ ५८ ॥ हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् । विदुरोक्तमकृत्वा तु शोच्योऽभूत्कौरवेश्वरः ॥ ५९ ॥ बन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् । प्रभूताज्यभुजो जाड्यं दहनस्याप्यजायत ॥ ६० ॥ यत्नेन शोषयेद्दोषान्न तु तीव्रतैस्तनुम् । तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ६१ ॥ स्थिरताशां न बनीयाद्भुवि भावेषु भाविषु । रामो रघुः शिबिः पाण्डुः क गतास्ते नराधिपाः ॥ ६२ ।। विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः। श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः ॥ ६३ ॥ नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात्प्रवादिताम् । शुक्रषामुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥ न तीव्रदीर्घवैराणां मन्यु मनसि रोपयेत् । कोपेनापातयन्नन्दं चाणक्यः सप्तभिर्दिनैः ।। ६५ ।। १. 'योगनन्दोऽथ कूपान्तः शकटालं तमक्षिपत्' इति कथासरित्सागरे चतुर्थतरङ्गे. २. इयं नहुषकथानुशासनिकपर्वणि शततमेऽध्याये द्रष्टव्या. ३. इयं वृत्रवधकथा शान्तिपर्वणि मोक्षधर्मे व्यशीत्युत्तरद्विशततमेऽध्याये द्रष्टव्या. ४. अग्नेः. इयं कथा महा- भारत आदिपर्वणि त्रयोविंशत्युत्तरद्विशतमितेऽध्याये द्रष्टव्या. ५. 'अवश्यं हतनन्दो- ऽयं सप्तभिर्दिवसैर्मया । विनाश्यो बन्धनीया च ततो निर्मन्युना शिखा । सप्तमे दिवसे प्राप्ते पञ्चलं समुपागमत् ॥' इति कथासरित्सागरे पञ्चमतरते.
चारुचर्या । १३५ ३ न सतीनां तपोदीप्तं कोपयेत्क्रोधपावकम् । वधाय दशकण्ठस्य वेदवत्यत्यजत्तनुम् ॥ ६६ ॥ गुरुमाराधयेद्भक्त्या विद्याविनयसाधनम् । रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ।। ६७ ॥ वसु देयं खयं दद्याद्वलाद्यद्दापयेत्परः । द्रुपदोऽपह्नवी राज्यं द्रोणेनाक्रम्य दापितः ।। ६८ ॥ साधयेद्धर्मकामार्थान्परस्परमवाधकान् । त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ।। खकुलान्यूनतां नेच्छेत्तुल्यः स्यादथवाधिकः । सोत्कर्षेऽपि रघोवंशे रामोऽभूत्खकुलाधिकः ।। ७० ॥ कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्वलम् । लोमशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ।। आपत्कालोपयुक्तासु कलासु स्यात्कृतश्रमः । नृत्तवृत्तिविराटस्य किरीटी भवनेऽभवत् ।। ७२ ॥ अरागभोगसुभगः स्यात्प्रसक्तविरक्तधीः । राज्ये जनकराजोऽभून्निर्लेपोऽम्भसि पद्मवत् ।। ७३ ।। अशिष्यसेवया लाभलोभेन स्याद्गुरुर्लघुः । संवर्तयज्ञयाच्याभिर्लजां लेभे बृहस्पतिः ।। ७४ ॥ । नष्टशीलां त्यजेन्नारी रागवृद्धिविधायिनीम् । चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यमू हुँरोः ॥ ७५ ॥ न गीतवाद्यामिरतिर्विलासव्यसनी भवेत् । १. वेदवत्येव जन्मान्तरे सीता समभूत्, तत्कथा वाल्मीकी यरामायण उत्तरकाण्डे सप्तदशे सर्गे द्रष्टव्या. २. द्रुपदकथा महाभारत आदिपर्वण्यष्टत्रिंशदधिकशततमेऽध्याये द्रष्टव्या. ३. लोमशोकं तीर्थवर्णनं महाभारते वनपर्वण्यशीतितममध्यायमारभ्य द्रष्टव्यम्. ४. अर्जुनः. इयं कथा महाभारते विराटपर्वण्येकादशेऽध्याये द्रष्टव्या. ५. इयं संवर्त- बृहस्पतिकथा महाभारत आश्वमेधिकपर्वण्यष्टमनवमाध्याययोर्द्रष्टव्या. ६. इयं बृहस्प- तिपत्नीकथा हरिवंशे प्रथमपर्वणि पञ्चविंशेऽध्याये द्रष्टव्या.
१३६ স্কাঅপাঙা। वीणाविनोदव्यसनी वत्सेशः शत्रुणा हृतः ।। ७६ ।। उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः। सूर्यों भाभियोच्छित्त्यै तेजो निजमशातयत् ॥ ७७ ॥ पद्मवन्न नयेत्कोषं धूर्तभ्रमरभोज्यताम् । सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत्पुराम्बुधिः ॥ ७८ ॥ नोपदेशामृतं प्राप्तं भमकुम्भनिभस्त्यजेत् । पार्थों विस्मृतगीतार्थः सासूयः कलहेऽभवत् ॥ ७९ ॥ न पुत्रायत्तमैश्वर्यं कार्यमार्यैः कदाचन । पुत्राप्तिप्रभुत्वोऽभूद्धृतराष्ट्रस्तृणोपमः ।। ८० ।। न शत्रुशेषदूष्याणां स्कन्धे कार्य समर्पयेत् । निष्प्रतापोऽभवत्कर्णः शल्यतेजोवधादितः ।। ८१ ।। न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् । ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ ८२ ।। श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् । दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मच्युतात्मनाम् ॥ ८३ ।। श्रियः कुर्यात्पलायिन्या बन्धाय गुणसंग्रहम् । दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ॥ ८४ ।। पदामिं गां गुरुं देवं न चोच्छिष्टः स्पृशेद्धृतम् । दानवानां विनष्टा श्रीरुच्छिष्टस्पृष्टसर्पिषाम् ॥ ८५ ।। प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् । ययातिः शुक्रकन्यायां सस्पृहो म्लेच्छतां गतः ॥ ८६ ॥ रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् । १. इयं वत्सेशकथा कथासरित्सागरे द्वादशे तरङ्गे द्रष्टव्या. २. 'ततोऽभ्युपगमात्त्वष्य मार्वण्डस्य विवखतः। भ्रमिमारोप्य तत्तेजःशातयामास भारत ॥ इति हरिवंशे प्रथमपर्वणि नवमेऽध्याये. ३. अर्जुनस्य गीतार्थविस्मरणकथा महाभारते आश्वमेधिकपर्वण्यनुगीताषां प्रसिद्धा. ४. शल्यकृतकर्णतेजोवधकथा महाभारते कर्णपर्वण्यतिप्रसिद्धा. ५. देव- यान्याम्.
चारुचर्या । १३७ हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८७ ।। बन्धूनां वारयेद्वैरं नैकपक्षाश्रयो भवेत् । कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८८ ॥ परोपकारं संसारसारं कुर्वीत सत्त्ववान् । निदधे भगवान्बुद्धः सर्वसत्त्वोद्धृतौ धियम् ॥ ८१ ॥ बिभृयाह्वन्धुमधनं मित्रं त्रायेत दुर्गतम् । बन्धुमित्रोपजीव्योऽभूदर्थिकल्पद्रुमो बलिः ॥ ९० ॥ न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः । लक्ष्मणेनेन्द्रजित्कृत्याद्यभिचारमयो हतः ॥ ९१ ।। ब्रह्मचारी गृहस्थः स्याद्वानप्रस्थो यतिः क्रमात् । आश्रमादाश्रमं याता ययातिप्रमुखा नृपः ॥ ९२ ॥ कुर्याद्वययं खहस्तेन प्रभूतधनसंपदाम् । अगस्त्यमुक्त वातापौ कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥ जन्मावधि न तत्कुर्यादन्ते संतापकारि यत् । सस्मारैकशिरःशेषः सीताक्लेशं दशाननः ॥ ९४ जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् । अन्ते वनं ययु/राः कुरुपूर्वा महीमुजः ॥ ९५ ॥ पुनर्जन्मजराच्छेदकोविदः स्याद्वयःक्षये । विदुरेण पुनर्जन्मबीजं ज्ञानानले हुतम् ॥ ९६ ॥ परमात्मानमन्तेऽन्तज्योतिः पश्येत्सनातनम् । तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥ प्राप्तावधिरजीवेऽपि जीवेत्सुकृतसंततिः । जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ॥ अन्ते संतोषदं विष्णुं सरेद्धन्तारमापदाम् । १. 'यस्माद्वानररूपं मामवज्ञाय दशाननः' इत्यादि कथा वाल्मीयकीरामायण उत्तर- काण्डे षोडशे सर्गे. २. इयं वातापिकथा महाभारते वनपर्वणि नवनवतिमितेऽध्याये द्रष्टव्या.
१३८ काव्यमाला। शरतल्पगतो मीष्मः सस्सार गरुडध्वजम् ॥ ९९ ॥ श्रव्या श्रीव्यासदासेन समासेन सतां मता। क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १०० ॥ इति श्री प्रकाशेन्द्रात्मजव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृता चारुचर्या समाप्तः । श्रीमधुसूदनसरस्वतीविरचिता आनन्दमन्दाकिनी। वाग्देवीचतुरास्यपञ्चवदना नित्यं सहस्राननो- ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः । माः खल्पषियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया हीनः किं करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥ १॥ नित्यं ब्रह्मसुरेन्द्रशंकरमुखैर्दत्तोपहाराय ते विखादांस्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ । तद्देव निरर्थकैः कतिपयै रूक्षाक्षरैर्निर्मितां वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुति निस्त्रपः ॥ २॥ शश्वब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते । चित्रालंकृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः सम्राजः समुपासितस्य शुकगीर्घत्ते प्रमोदं यथा ।। ३ ।। चित्राकारकिरीटकोटिविलसद्रलौघकान्तिच्छटा- संघट्टेन विचित्रमम्बरतलं कुर्वत्स्थितं मूर्धनि । जीयाकेकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी खांद्रेः शिखरे पुरंदरघनुयूंहस्य निन्दावहम् ॥ ४ ॥ १. भीष्मस्य गरुडध्वजस्मरणं महाभारते शान्तिपर्वणि राजधर्मे सप्तचलारिंशेऽध्याये द्रष्टव्यम्. २. अद्वैतसिद्धि-प्रस्थानमेद-भगवद्गीताटीका-महिमस्तवटीका-सिद्धान्तबिन्दुटी- कायनेकप्रन्थकर्ता श्रीमधुसूदनसरखती कस्मिन्समये बभूवेति न निश्चयः. ३. श्रीकृष्णस्य केशादिपादान्तवर्णनरूपं स्त्रोत्रमिदम्.
आनन्दमन्दाकिनी। १३९ यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो. ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि । ज्ञातं त्वां दयितं समेत्य जलदा ये केशतामाश्रिता- स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ॥ ५ ॥ त्वच्चक्षुः सवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो- र्भाले च ब्रजनाथ नर्तनपरा ध्वान्तार्भकाः संततम् । निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु- मांद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६ ॥ त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना- संभूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः। चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते किं वा मारकतस्थले समुदितः कंदर्पवृक्षाङ्कुरः ।। ७ ॥ त्वद्भवल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे । लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति प्रायः शत्रुसमाननान्यपि जने क्रोधो यदूर्जखिनाम् ॥ ८॥ निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर- ब्रीडावनकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका । दुर्मानग्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी शृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भ्रूलता ॥ ९ ॥ नो कार्य श्रुतिवमलङ्घनमिदं नालीकमुग्धाकृतिः पर्यन्ताकलनं विधाय सहजखच्छेन भाव्यं सदा । अन्तः कृष्णमुपास्य तद्रुचिमता संभावना सर्वतः कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १० ॥ १. श्रुतिवर्त्मनः श्रोत्रसीमायाः; (पक्षे ) वेदमार्गस्य. २. नालीकस्य कमलस्येव मुग्धा मनोहराकृतिः; (पक्षे) न अलीकेनात्येसन मुग्धा मूढाकृतिः. ३. कृष्णं कृष्णवर्ण खम- ध्यभागस्थितम् ; (पक्षे) श्रीकृष्णम्, १४० काव्यमाला। सौन्दर्यामृतदीर्घिके तव दृशौ पक्ष्मावलिश्चैतयोः कूले कामकृषीवलेन रचिता शृङ्गारसस्योन्नतिः । हरभङ्गीनिंगदन्ति यास्तु विबुधा रत्यम्भसां वीचय- स्ताः स्युगोपवधूहृदम्बुजवनीदोलायिता यलतः ॥११॥ दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्वन्दे नमस्कुर्वति व्यावल्गजबालकौघलगुडन्युट्यकिरीटे हठात् । सावज्ञा मधुमत्सुन्दरदृशां शोभाद्विषः सालसा दृक्पातास्तव नन्दवंशतिलक खान्ते सदा सन्तु मे ॥ १२ ॥ मुक्तेरप्यतिदुर्लभा हिमगिरिप्रस्यन्दिमन्दाकिनी- धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि । वाञ्छातोऽप्यतिविस्तृता विषयिणां त्वत्पादचिन्तापर- खान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३ ॥ कल्पान्ताग्निशिखोन्नतिदितिसुतवाते प्रपन्ने जने पीयूषद्रवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः । सीमा प्रेमभरस्य गोपनिकरे कंदर्पकाण्डाहति- ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयादृशोस्ते द्युतिः ॥ १४ ॥ निर्बन्धेन यदीन्द्रनीलमहसा संपादितौ दर्पणौ ताभ्यां किं तुलना कपोलतलयोः संभाव्यते वा न वा । एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५ ॥ त्वां पादाङ्गदकङ्कणाङ्गदशिरोलंकारहाराम्बरैः संपूज्य प्रददौ सुतामथ मणि रत्नाकरः कौस्तुभम् । आस्ये तस्य सुतः सुधांशुरखिलां कान्ति यदा दत्तवा- न्खाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६ ॥ लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति- स्तस्यामद्भुतबुहृदः समभवत्तत्रापि फेनोद्गमः।
आनन्दमन्दाकिनी। १४१ नाशावंशगतं तमेव विशदं मुक्ताफलं ये विदु- स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७ ॥ नेत्राम्भोजमुखेन्दुभालतिलकैर्नित्यं विवादो यतः सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका । तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८ ॥ योऽहं ते पदपङ्कजातिलवं प्राप्याभवं पल्लवः कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राघापते । तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयं श्रुता- वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९ ।। दृग्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका जिह्वयं तव पद्मरागनिकरः शोणाघरो विद्रुमः । दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥ २० ॥ या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा- माखायेह सरस्वती स्थितवती सत्यं रसज्ञेव सा । यत्सप्तखरमण्डलानि बहुधा त्वत्कण्ठदेशाद्वहिः प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ।। २१ ।। साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते । दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज व्यक्तं त्वचिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२ ॥ माधुर्य न लवं मधूनि दधति द्राक्षा तु साक्षाद्विषं पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः । प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३ ॥ १. ब्रह्मा. २. मधूनि लवं कणिकामात्रमपि माधुर्य न दधति. १३ दि० गु० १४२ वेदाश्चन्द्रमसं वदन्ति भवतः खान्तं कथं तद्वथा कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः । तस्यैवामृतपङ्किलास्तव मुखादाविर्भवन्तो बहि- ह्यन्तं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४ ॥ यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् । तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता येनाभीरकुलप्रदीप तदलं ताम्बूलमास्तां मुदे ॥ २५ ॥ द्रवसारसारघमधुद्रोणी त्वदीयाधरा. खादायार्कसुतातटे श्रितवती सद्वंशजाता तपः । तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चस्तरा- मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६ ॥ साफल्यं श्रुतिसंपदा त्रिजगतां प्रालेयधाराप्रपा पीयूषद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् । ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७ ॥ धैर्यं धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोन्छति प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यजसा । साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८ ॥ लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय धाता चिरा- न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः । ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९ ॥ आशानागकरप्रसारिमहसा निःशेषवामझुवा- माशामिस्त्रिदशेशनिर्भरशुमैः कंसादिनाशश्रिया। १. सरघा मधुमक्षिका तत्संचितं मधु सारघमित्युच्यते. २. दिग्गजः, आनन्दमन्दाकिनी। १४३ प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यदृशां सौभाग्यैर्ऋजसुभ्रुवां ब्रजपते किं ते भुजौ निर्मितौ ॥ ३० ॥ कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः । मत्तः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत- स्त्वत्पाण्योरिति तो बदन्ति कमले सा यत्तदेकालया ॥ ३१॥ अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर- श्रेणी यत्परितोऽङ्गुलीयकामेषस्निग्धालवालावलिः । किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो- तीर्णाः सत्कलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२ ॥ भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृति रागान्धस्य पुरा हिरण्यकशिपोर्वक्षःस्थली पाटिता । तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते गोपीनां कुचकुङ्कुमैर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३ ॥ एतौ पञ्चशिरस्त्विषा दशदिशः संभावयन्तौ भृशं दैत्यप्राणसमीरसंहतियमौ श्यामौ भुजंगोचमौ तन्मौलिद्युतिशालिनी पुनरियं रलावली जृम्भते यां प्राहुस्तव गोकुलेश नखरश्रेणी करस्वां जनाः ॥ ३४ ॥ दोर्दण्डद्वयबन्धनानि विदधुनन्दोपनन्दादय- स्तदन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे । तान्येवाप्रतिमप्रभाणि हरितो विद्योतयत्यद्भुतं विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जायते ॥ ३५ ॥ शृङ्गारद्रुमसारकण्डनवशात्रैलोक्यसीमन्तिनी. क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बौ कृतौ । १. नखकान्या.
१४४ काव्यमाला तौ तन्मध्ये पुनरिन्द्रनीलमणिभिः संपादिता वेदिका बाहू मधुजिद्वदन्ति भवतो वक्षःस्थली तामपि ।। ३६ ।। यद्रक्तः कमलाकरं करतलेनालम्बते भास्कर- स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा । तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ- व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७ ।। आलोक्याखिलवेदशास्त्रजलधेस्तत्त्वं यदेकान्ततः कृत्वा संकलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् । सर्वार्थप्रतिभासकं व्रजकुलालंकार तत्कौस्तुभ- व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं सांप्रतम् ॥ ३८ ॥ यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर- दीप्तिर्योग्यमिदं कथं मुररिपो नक्तंदिनं द्योतते । आं ज्ञातं दयितं तवानन विधुं यान्तीमिमां यामिनी रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सपत्नीमियम् (१) ॥ ३९ ॥ यः पाशेन यशोदया नियमितो येनापराधं विना तस्मिन्नस्ति बलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः । एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं याशोदेय स शोकमुद्विरति ते रोमावलिव्याजतः (१) ॥ ४०॥ सृष्ट्यादौ प्रकृतिर्गुणत्रयमयी या खीकृतासीत्त्वया सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि । गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रह नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ॥ ४१ ॥ सौन्दर्यामृतवारिधौ मरमहायादःसमारम्भतः संभूता अमिरम्भसां सुललिता जातास्ततो वीचयः । तां जाने स्फुरदिन्द्रनीलघटितश्रीसंपुटार्धद्युति त्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२ ॥ १. सर एव महद्यादो जलजन्तुः.
आनन्दमन्दाकिनी। १४५ नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं यच्छीवत्समिषाद्विभर्ति कुसुमं नालं च रोमावली । यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामझुवाम् ।। ४३ ॥ नीरूपोऽपि धनातिर्मुनिमनोमात्रैकपात्रीकृतो- ऽप्यामीरीगणसंगतः सुखघनोऽप्यानन्दितो बान्धवैः । ज्ञानात्माप्यतिमुग्धतामुपगतो वामझुवां विभ्रमै- रित्थं ते त्रिवलीमिषान्मुरहर त्रेय्यस्ति चित्रार्पिता ॥ ४४ ॥ देव्यः पल्लवसंपदा विदधते सौभाग्यलक्ष्मी श्रुतौ खच्छन्दं सुमनःफलानि विवुधा विन्दन्ति ते सेवया । वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५ ॥ विश्वानन्दकदम्बसंपदमतिस्निग्धं तमालद्युति दृष्ट्वा निर्भरविभ्रमं धन इति त्वां संगता विद्युतः । त्वद्रूपामृतसिन्धुसंगमवशात्प्राप्याम्बरप्रच्यवं चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दधुः ॥ ४६ ॥ काँञ्ची ते धृतयोगसंपदभितो जाता विशालाकृति- विन्ती मधुरा ध्वनिं विदधती पश्चादयोध्याभवत् । मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥ ४७॥ जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां तत्संगस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ । १. निबिडकान्तिः, मेघच्छविश्व. २. वेदत्रयी. ३. चकिता. ४. समूह, वृक्षविशेषश्च. ५. काञ्ची, विशाला (बदरीनारायणपुरी), अवन्ती (उजयिनी), मधुरा (मथुरा), अयोध्या, माया (हरिद्वारम् ), द्वारवती (द्वारका), काशिका (काशी), इत्यष्टपुरी- नामान्यत्रोपन्यस्तानीति चमत्कारः.
काव्यमाला। आद्यः पल्लवसंपदं करपदे बिम्बाधरे चापरः शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ।। ४८ ॥ रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तथोरुद्वयं तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् । हा कष्टं मधुकैटभौ स्फुटमदौ किं कैटभारे हठा- निप्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्थले कोमले ॥ १९ ॥ स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी- स्यन्दामन्दमरन्दिताभिकमलद्वन्द्वस्य नालायुगम् । त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं संपत्तिद्विपसंघयन्त्रणविधावालानयुग्मं भजे ॥ ५० ॥ विद्वान्सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद- नीहक्पादयुगं कथं नु कमला वक्षोजशैले दधत् । धिमन्दां वसुधामिदं मधुरिपो गोचारणे संचर- त्पाषाणाङ्कुरकण्टकादिषु हठादृष्ट्वा विदीर्णा न यत् ॥ ५१ ।। यद्लौघमरीचयोऽपि समताव्यावर्तनं विश्वतः कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः । यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ।। ५२ ॥ शेते यत्कमलालया तव पदाम्भोजद्वये संगता धाता तत्र तनूपधानयुगलं गुल्फच्छलान्निर्ममे । किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ।। ५३ ॥ या रक्ता दशलोकपालमुकुटप्रान्तत्विषः संततं कल्पक्ष्मारुहपुष्पसंभृतरुचस्त्वत्पादमूले बभुः । ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः खस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् () ॥ ५४ ।। १. वज्राप्रकठोरी.
आनन्दमन्दाकिनी। १४७ पीयूषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् । तन्मन्ये तव पङ्कजेक्षण महच्चित्रं यशोदार्थनं यत्त्वत्पादसरोजयोनखमणिव्याजेन शीतांशवः ॥ ५५ ॥ सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् । पीत्वैतन्मकरन्दबिन्दुमसकृद्धृन्दावनीभूपते मञ्जीरद्वयम शिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ।। ५६ ॥ आकृप्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः कृत्वा मानसपङ्कजे तव पदद्वन्द्वं स तस्मिन्धृतैः । येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति- स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ।। ५७ ।। हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं क्रीडन्तः कमलालयेन भवता साध प्रमोदं दधुः । स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां तत्संपर्कवशादिति व्रजकुलालंकार शङ्कामहे ॥ ५८ ॥ क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं किं वा केवलकोमलः श्रयति चेत्किचिन्मदीयं पदम् । धन्यः सोऽयमितीव लोकमखिलं संबोधयन्माधव त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ ५९ ॥ त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया ब्रह्मेन्द्राधमरैस्त्वदीयपदयोः खीया धृताः संपदः । तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृति बिभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६० ॥ त्वत्पादाम्बुजसंगमात्रिजगतां वन्द्यारविन्दालया स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं संपदाम् ।
१४८ काव्यमाला किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका वधुनी।। ६१ ॥ यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा- प्राप्तो भक्षितकालकूटनिकरो मृत्युंजयत्वं ययौ दिग्वासा नृकपालमात्रविभवश्वाविन्ददीशानतां । स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ।। ६२ ।। धूलीधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् । यालोक्याविलोचना स्मितमुखी प्रस्यन्दमानस्तनी पाणिभ्यामवलम्ब्य चुम्बितवती तां नन्दजायां भजे ॥ ६३ ॥ पीत्वा स्तन्यविषं सहासुपवनैः संपातिते पूतना- देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् । राहून्मुक्तसुधामयूखसुषमा याक्चकोरालिमि- मिस्त्वद्वदनद्युतिश्चुलकिता ता गोपकन्याः स्तुमः ।। ६४ ॥ यहन्धस्य विधित्सयापि विवशः कीनाशपाशैईद बद्धः सानुगपुत्रबान्धवजनो दुर्योधनोऽन्तं गतः । तं त्वां येन निबध्य नन्ददयिता वृन्दारकैर्वन्दिता जातानन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५ ।। निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः पीत्वा दृक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः । त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता वृन्दावनमागताः कृतधियस्तान्गोपवृद्धास्तुमः ॥ ६६ ।। कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं तस्योत्तव्धसमस्तमस्तकमणिस्तोमे समुत्तस्थुषि । येनालम्भि विभातभास्करसुरप्राग्भारशोभास्फुर- द्रनाम्भोजयुगद्यतिः प्रतिपदं तत्तेऽत्रियुग्मं भजे ॥ ६७ ।। ये आनन्दमन्दाकिनी। १४९ . उत्फुल्लैः परिपीय कर्णपुटकैवंशीनिनादामृतं तच्च प्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्कुरम् । निःस्पन्दैनयनरमन्दमधुरैः श्याम महस्तावकं येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८ ॥ जम्भारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं कृत्वा वामभुजेन सप्तादेवसान्योऽसौ धृतः पर्वतः । सोऽस्तु स्निग्धतमालसारघटितस्तम्मैकसंभावित- प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९ ॥ त्ववाहूद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल- द्वासःपीनपयोधरक्षितिधरौ दोःस्तम्भकम्पे तव । शैले चञ्चलतां गते ब्रजपते त्रासात्कुले गोकुले नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७० ॥ पौगण्डं मदखण्डनं बलभिदः किं ते हरे स्तूयते कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः । किं स्तव्यं तव यौवनं त्रिपुरजियद्वाणयुद्धे जितः संमोहं गमितास्त्वया यदबला भावेऽपि नेत्रश्रिया(?) ॥ ७१ ॥ पीते दावहुताशने निजजनत्राणैकहेतोस्त्वया निःस्पन्दं पशुपौघपक्षिपशुभिः पेपीयमाने त्वयि । प्रेमाद्रीण्यतिनिर्मलानि दिविषचित्तानि सत्यं मुहु- स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२ ।। कङ्केल्लिस्तबकं मुहुः कमलिनीकान्तं प्रतीचीगतं पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः । उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा. त्त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः॥७३॥ सायाहे समुदञ्चति श्रुतिपथं वंशीनिनादे हठा- नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते । 1. सादरं विलोक्यमाने.
१५० काव्यमाला पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्ण बहि- ईग्भ्यां ते मुखसौरभं चुलकितं यामिर्भजे ता जनीः ॥ ७४ ॥ यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः क्रोधाग्नौ भवता हुता दितिसुताः संतर्पिता देवताः । यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं भेजुर्गोमृगपक्षिमूरुहलता वृन्दावनं तद्भजे ॥ ७५ ॥ देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः संपश्यन्नपि वैभवं व्रजकुलोत्तंस प्रचेतास्तव । नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः स्थाने तादृशि ते बभूव न मनाकोषस्य लेशोऽपि तत् ।। ७६॥ मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्बति । काम पूर्णकलानिधौ विलसति भ्रश्यत्पटे खर्वधू- वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७ ॥ नृत्यद्भूनयनोत्पलस्सितमुखखिद्यत्कपोलस्थलं लीलाचञ्चलकुण्डलं भुजलतान्दोलकणकङ्कणम् । त्रुट्यत्कञ्चकबन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल- नीवि व्यञ्जितशिञ्जितं जयति ते रासः प्रियाभिः सह ।। ७८॥ आकुञ्चद्वदनं कचिद्विलसिताम्भोजास्यशोमं क्वचि- न्मन्दस्यन्दिविलोचलं क्वचिदलं दृक्वापलं कुत्रचित् । काप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विद्युल्लता- चाश्चल्यं सरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९ ॥ अध्यास्योरुतलं वपुः पुलकितं खिद्यत्कपोलस्थली दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां बिभ्रति । प्रोद्यत्पूर्णकलानिघावरुचिरे मेरे मुहुःसीत्कृते राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८० ॥ १. वध्वः. २. युक्तम्.
आनन्दमन्दाकिनी। १५१ यस्यां तुङ्गतरङ्गसंगमवशादीता भुजंगभ्रमा- दालिङ्गन्ति वराङ्गनास्तव जलक्रीडाजुषोऽङ्ग हठात् । सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर- स्यापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ।। ८१ ॥ उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम- द्भुङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् । शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत- स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ।। ८२॥ पुष्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्धं मुदा वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् । तस्मिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत- स्तोमेऽपि ब्रजभूपते विजयते तैस्तैश्चितं ते वपुः ।। ८३ ।। कान्ताकोटिकलाकुलस्य भवतः संतोष्य रासे स्मर- क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति । सातकं समुपागतस्य सदनाद्यान्तं शयाने जने कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः(१) ॥ ८४ ॥ उद्यन्नेव भवानिव ब्रजभुवां सर्वापदां संहति- ध्वान्तस्तोममनुत्तमन्तमनयत्कान्तः सरोजन्मनाम् । सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने लोकानां किल नन्दवंशतिलक खापख नायं क्षणः ॥ ८५ ॥ मित्रेणेह तमखिनी विनिहतां नाथ त्वया पूतनां व्याधूतामिव कैरवेष्वपि भवद्विद्वेषिवक्त्रद्युतिम् । आशां पश्य पुरंदरस्य दयितां रक्ताम्बरालंकृतां सिन्दूरान्वितकुम्भमम्बरमणेर्बिम्बं वहन्तीं पुरः ॥ ८६ ॥ गीतज्ञाः कवयो नटा बहुकलाशिक्षासु दक्षाः परे विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्सुकाः ।
१५२ काव्यमाला। तल्पं मुश्च ददख लोचनफलं त्वं देहभाजामिति प्रातर्बन्दिगिरो जयन्ति भवतः संबोधने नित्यशः८७(विशेषकस्) भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः किं ते तात बलानुजेति जननीवाग्वीचिमाचामतः । अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं जृम्भारम्भविशेषशोभि वदनाम्भोजं भजामस्तव ॥ ८८ ।। मुञ्चन्तं शयनं भवन्तमभितः संगम्य गोपाङ्गना- स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् । उज्झन्त्यः सुमनोम्बराणि सुमनोभावा वरं संगताः प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः(१) ॥ ८९ ॥ प्रातभोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि प्रायो गोपवधूलतासु मिलितः कंदर्पदावानलः । यद्गोधूलिमिषादुदेति परितो धूमालिर_लिहा तासामथुरसाः स्रवन्ति च मुहुर्दन्दह्यमानेऽन्तरे ।। ९० ।। पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा- मध्वन्यध्वनि लोकपालनिवहे भूमीलठन्मूर्धनि । तव्याघ्राजिनभूषणादिभिरलं त्रस्त समस्ते पशौ गोपाः कोपवशाहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१ ॥ तिग्मांशौ तपति कचिजलमुचां स्तोमे जलं मुञ्चति प्रेमाः प्रतनोति यः स्खवपुषा चित्रातपत्रं तव । सोऽयं भास्करकोटिभाखरमहःसंभारपाटचरः पारीन्द्रोऽसुरदन्तिनां दिशतु मे भव्यं भुजंगान्तकः ॥ ९२ ।। मध्याहे यमुनातटे विटपिनां मूले वयस्यैः समं दध्यन्नान्युपभुज्य रज्यति पुनस्तत्कीडने च त्वयि । देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः काकाकारजुषो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३ ॥ १. सिंहः। २. गरुडः .
आनन्दमन्दाकिनी। १५३ निद्राणे त्वयि शीतले तरुतले तल्पे दलैः कल्पिते संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः । रुद्रब्रह्ममहेन्द्रतर्जन विधौ गोपार्मकाणां कर- व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥ ९ ॥ स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनि रदः । यस्य त्वद्गुणगानमग्नमनसो व्यापादिते केशिनि प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५ ॥ लक्ष्माणि ध्वजवजपङ्कजयवच्छत्रोचं लेखायुता- न्यालक्ष्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽहाय यः । ध्यायत्युत्पुलकत्युदञ्चति लुठल्याक्रन्दति प्रीयते कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्याद्गान्दिनीनन्दनात् ॥ ९६ ॥ धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं धन्या तेन वसुंधरा किमधिकं तेनैव धन्यं जगत् । यः कसैकनिदेशव|पि भवत्पादाम्बुजालोकना. दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमनोऽजनि ॥ ९७ ।। पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया खीकृते गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि । जीयासुर्दयिताननेषु नितरां साकूतनृत्याकुलाः कालिन्दीसदृशाः स्मितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८॥ यो वाचो मनसोऽपि नैव विषयस्तं त्वां विधायात्मजं याभ्यङ्गलपनाशनप्रभृतिभिः संलालयत्यन्वहम् । नो दानेन न चेज्यया न तपसा नो सांख्ययोगादिभि- यल्लभ्यं तदवाप गोपदयिता सास्तां यशोदा मुदे ॥ ९९ ॥ पूर्णे दानपतेर्मनोरथशतैः सार्धं प्रलम्बारिणा तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया खीकृते । . अक्रूरः. १४ द्वि० गु० १५४ काव्यमाला संदष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं शृण्वतः कंसध्वंसमभीप्सतो जयति ते भ्राता समं मन्त्रणा ।। १०० ॥ या संव्याप्य सुवर्णभूधरपदं जाता गिरीशार्चिता खच्छा हंसकविप्रिया कमलमुद्गाम्भीर्यमभ्यञ्चति । येयं कृष्णपदाजभक्तिवसुधापातालमालम्बिता सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ।। १०१ ॥ ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा- दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्तिं हरौ । संभूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा- ते संसारदवाग्नितापशमनीमानन्दमन्दाकिनीम् ॥ १०२॥ इति श्रीमन्नन्दनन्दनपदद्वन्द्वसमुदश्चन्नखचन्द्रचन्द्रिकाचयदत्तचित्तचकोर- श्रीमधुसूदनसरखतीविरचितानन्दमन्दाकिनी संपूर्णा । श्रीशंकराचार्यकृतम् अम्बाष्टकम् । टिप्पणसहितम् । चेटीभवन्निखिलखेटी कदम्बतरुवाटीषु नाकिपटली- कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा । पाटीरगन्धिकुजशाटी कवित्वपरिपाटीमगाधिपमुता घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ १ ॥ अगाधिपो हिमाद्रिस्तत्सुता । ममेति शेषः । मम कविवस्य कवितायाः परिपाटीम- तिपरिचितिमुदारः कवित्वादिगुणप्रसरकर्ता चासौ मुखवीटीरसस्तेन खमुखचर्वितताम्वू- लरसेन तनुतां विस्तारयतु । कीदृश्यगाधिपसुता। कदम्बतरूणां वाटीपूद्यानेषु चेटीभवन्यो दासीभवन्त्यो निखिलाः सर्वाः खेट्यो गगनचारिण्यः सिद्धचारणविद्याधरादिस्त्रियो यस्याः सा । पुनः कीदृशी । नाकिनां देवानां पटली समूहस्तस्याः कोटीराणि मुकुटास्तेषां चारुतरा अतिसुन्दराश्च ताः कोटीमणयोऽप्रभागस्थितरत्नानि तासां किरणकोट्यो. ऽसंख्याः किरणास्ताभिः करम्बिते व्यामिशे पदे यस्याः सा । पुनः कीदृशी । पाटीरस्य चन्दनस्येव गन्धो यस्या एतादृशी कुचशाटी कञ्चुकी यस्याः सा । कीदृशीं कविलप- रिपाटीम् । घोटीनां [वडवानां] कुलं समूहस्तस्मादधिका धाटी धोरणी यस्यास्ताम् ॥
अम्बाष्टकम् । १५५ कूलातिगामिभयतूलावलिज्वलनकीला निजस्तुतिविधा- कोलाहलक्षपितकालामरी कुशलकीलालपोषणनभाः। स्थूला कुचे जलदनीला कचे कलितलीला कदम्ब विपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥२॥ अमरी देवी । शैलाधिराजस्य हिमाद्रेस्तनया पार्वती हृदि विभातु स्फुरतु । कीदृशी। कूलं सीमा । कूलमतीय गच्छन्तीति कूलातिगामीनि तानि च तानि भयानि तान्येव तूलावलयः कार्पासराशयस्तासां ज्वलने प्रदीपने कीलेवानिज्वालेव । पुनः कीदृशी। निजा चासौ स्तुतिस्तस्या विधा' विधानं तस्या यः कोलाहलस्तेन क्षपितो दूरीकृतः कालो मृत्युलक्षणादिर्दुष्टसमयो यया सा । पुनः कीदृशी । कुशलमेव कीलालं जलं तेन पोषणं पालनं तद्विषये नभा मेघ इव । 'मेघश्रावणवृष्टिषु । नभः' इति रत्नकोषः । पुनः कीदृशी । कुचे स्थूला । पीनस्तनीत्यर्थः । कचे केशपाशे जलदनीला । नीलालकेत्यर्थः । कदम्बविपिने कलिता कृता लीला यया सा । पुनः कीदृशी । शूलायुधस्य शिवस्य प्रणतो शीलं यस्याः सा ॥ यत्राशयो लगति तत्रागजा वसतु कुत्रापि निस्तुलशुका सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा । छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥ ३ ॥ अमरीभिः समं सहवर्तमाना वधूः शक्तिः । ब्राह्मादिभिः सहिता शक्तिरित्यर्थः । एतादृश्यगजा पार्वती। ममेति शेषः । आशयश्चित्तवृत्तिर्यत्र शब्दस्पर्शादौ लगति विष- जति तत्र कुत्रापि वसतु । शब्दादिविषयचिन्तनावसरे स्वरूपाविर्भावं करोलित्यर्थः । कीदृश्यगजा । निस्तुलोऽनुपमः शुको यस्याः सा । अर्थाद्धस्ते । पुनः कीदृशी । सुत्रामा कालो यमः, तौ मुखे प्रारम्भे येषां ते च ते सत्राशना यज्ञभुजो देवास्तेषां प्रकरः समूहस्तस्य सुत्राणं रक्षणं तत्करणशीलौ चरणौ यस्याः सा । पुनः कीदृशी । अनिला- द्वायोरप्यतिवेगवत्पन्न सिंहरूपं वाहनं यस्याः सा । छत्रोपलक्षिता चासावनिलातिर- यपत्रा च । पुनः कीदृशी । अभिरामाश्च ते गुणाः सौन्दर्यादयश्च ते मित्राणि यस्याः सा । पुनः कीदृशी । कोः पृथिव्यास्त्रासं हन्तीति कुत्रासहा विष्णुस्तस्य मणिः कौस्तुभस्तद्व- द्देदीप्यमाना विचित्राकृतिराकारो यस्याः सा । स्फुरितानां कीादियुक्तानां पुत्रादीनां दाने निपुणा ॥ द्वैपायनप्रभृतिशापायुधत्रिदिवसोपानधूलिचरणा पापापहखमनुजापानुलीनजनतापापनोदनिपुणा । इन्द्रः, १५६ काव्यमाला। नीपालया सुरभिधूपालका दुरितकूपादुदञ्चयतु मां रूपाधिका शिखरिभूपालवंशमणिदीपायिता भगवती ॥ ४ ॥ शिखरिणः पर्वतास्तषां भूपालोऽधिपतिस्तस्य वंशः संततिस्तत्र रत्नदीपवदाचरिता भगवती मां दुरितलक्षणात्कूपादुदञ्चयतु बहिर्निष्कासयतु । कीदृशी भगवती । द्वैपायन- प्रभृतयो व्यासाद्या ये शापायुधा मुनयस्तेषां त्रिदिवं खर्ग प्रति गन्तुं सोपानमिव धूलिय- योस्तादृशौ चरणौ यस्याः सा। पुनः कीदृशी । पापं हन्तीति तादृशश्चासौ स्वमनुः खकीयो मन्त्रस्तस्य जापे जपकर्मण्यनुलीनास्तत्परा ये जनास्तेषां तापापनोदे निपुणा । पुनः कीदृशी । नीपेषु कदम्बवनेष्वालयो यस्याः सा । सुरभिश्चासौ धूपस्तद्वासिता अलकाचूर्णकुन्तला यस्याः सा । 'सुरवधूपालिका' इति वा पाठः । पुनः कीदृशी। रूपेण सौन्दर्येणाधिका ॥ यालीभिरात्मतनुताली सकृत्प्रियकपालीषु खेलति भय- व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा । बालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका सालीकरोतु मम काली मनः खपदनालीकसेवनविधौ ॥५॥ सा काली मम मनः खपदनालीकयोरात्मीयचरणकमलयोः सेवनविधावलीकरोतु भ्रमरीकरोतु । सा का। यालीभिः सखीभिः सकृत् । सहेत्यर्थः । प्रियस्य शिवस्य कपा- लीषु कण्ठमालास्थकरोटिष्वात्मना खभावेन तनुः सूक्ष्मा ताली करेणास्फालनं यस्याः सा । एतादृशी सती खेलति क्रीडति । पुनः कीदृशी । भयमेव व्याली सर्पिणी तस्या नकुलीव नकुली । भयापहारिणीत्यर्थः । पुनः कीदृशी । असितचूलीभरा कृष्णकेश- पाशा । पुनः कीदृशी । चरणधूल्यां लसन्तो मुनिवरा यस्याः सा । या देवी बाली कर्णभूषणविशेषं बिभर्ति तादृशे श्रवणे तालीदलं ताटङ्कपत्रं वहति दधाति। पुनः कीदृशीं। अलीके ललाटे शोभमानस्तिलको यस्याः सा॥ न्यङ्काकरे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविषये त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम् । शङ्काशिलानिशितटङ्कायमानपदसंकाशमानसुमनो- झंकारिभृङ्गततिमानुपेतशशिसंकाशिवक्त्रकमलाम् ॥ ६ ॥ हे हृदय, वं वपुषि शरीरे कामनां लुब्धतामयसि गच्छसि । किं कारणम् । अत्र किं प्रयोजनमित्यर्थः । पङ्कारिं पापनाशकी गिरिजां प्रत्येहि शरणं गच्छ । कीदृशे वपुषि । नियतमकन्तीति न्यङ्का कृम्यादयः । 'अति कुटिलायां गतौ'। तेषामाकरे । कङ्कादि- पक्षिणां रक्तेन पुष्यते तस्मिन् । रकपदं मांसाधुपलक्षणम् । पुनः कीदृशे । कङ्कादि- पक्षिणां विषये । 'पङ्कादिभक्ष्यविषये' इति वा पाठः । कीदृशीं गिरिजाम् । शङ्का एव मुकुन्दमुक्तावलिः। १५७ शेलास्तासां भेदकलेन टङ्कायमानं यत्पदं तस्मिन्संकाशमानाः सुमनसः पुष्पाणि तत्र कारिणी भृङ्गततिर्यस्याः सा । पुनः कीदृशे । अङ्केनानुपेतो रहितो यश्चन्द्रस्तद्वत्सं- माशि वऋकमलं यस्याः सा । निष्कलङ्कचन्द्रवद्रमणीयमुखाम्बुजेत्यर्थः । ताम् ।। कुम्बावतीसमविडम्बा गलेन नवतुम्बाभवीणसविधा शं बाहुलेयशशिबिम्बाभिराममुखसंबाधितस्तनभरा । अम्बा कुरङ्गमदजम्बालरोचिरिह लम्बालका दिशतु मे बिम्बाधरा विनतशम्बायुधादिनिकुरम्बा कदम्बविपिने ॥ ७ ॥ अम्बा शं म इह ददातु । कीदृश्यम्बा । कुम्बा कण्टकादिना भित्तिस्थाने कृतं सुग- इनमावरणम् । अरण्यवासिवात्सास्त्यस्य कुम्बावाञ्शबरः । तस्य स्त्री कुम्बावती शबरी या समस्तुल्यो विडम्बो यस्याः । शबर्यनुकारिणीत्यर्थः । पुनः कीदृशी । गलेन कृला वा चासौ तुम्बा तुम्बफलं तेनाभाति सा नवतुम्बाभा सा चासौ वीणा च तया माना विधाः खरप्रकारा यस्याः सा । वीणाखनतुल्यकण्ठरवेत्यर्थः । पुनः कीदृशी । कस्तूरीकर्दमशरीरकान्तिः । पुनः कीदृशी । लम्बालका दीर्घकेशा । बाहुलेयस्य कार्ति- केयस्य शशिबिम्बवदभिरामं मुखं तेन कृखा संबाधितः सुदृढमाकृष्टस्तनभरो यस्याः पा । बिम्बाधरा । पुनः कीदृशी । कदम्बविपिने शम्बायुध इन्द्र आदिर्येषां ते निकुरम्बा देवगणास्ते विनता यस्याः॥ इन्धानकीरमणिबन्धा भवे हृदयबन्धावतीवरसिका संधावती भुवनसंधारणेऽप्यमृतसिन्धावुदारनिलया। गन्धानुभावमुहुरन्धालिवीतकचबन्धा समर्पयतु मे शंधाम भानुमपि रुन्धानमाशु पदसंधानमप्यगसुता ॥ ८॥ अगसुता पदसंधानं मय्यर्पयतु । कीदृश्यगसुता। इन्धन्ते प्रकाशन्ते, इध्यते प्रका- श्यते यैस्ते वा इन्धानाः। ते च कीरवर्णमणयो हरिन्मणयो गारुत्मताख्यास्तेषां बन्धो हाररचना यस्यां सा । यस्याः कण्ठ इत्यर्थः । पुनः कीदृशी । हृदयबन्धौ भवे शिवेऽतीव रसिका । भुवनसंधारणे लोकपालने संधावती प्रतिज्ञायुक्ता । पुनः कीदृशी । अमृतसि- न्धावुदारो महान्निलयो यस्याः सा । गन्धस्य अर्थादुपरिगुम्फितपुष्पाणाम् । अनुभा. वोऽनुभवस्तेन मुहुरन्धा मत्तास्ते च तेऽलिनो भ्रमरास्तैवीतो व्याप्तः कचबन्धो यस्याः सा । कीदृशं पदसंधानम् । शं सुखं तस्य धाम । 'शम्' इति सुखार्थेऽव्ययम् । पुनः कीदृशम् । भानुमपि रुन्धानम् । सूर्यादप्यधिकतेजखीत्यर्थः । इति श्रीशंकराचार्यविरचितमम्बाष्टकं टिप्पणसहितं समाप्तम् । मुकुन्दमुक्तावलिः। नवजलधरवर्णं चम्पकोद्भासिकर्ण विकसितनलिनास्यं विस्फुरन्मन्दहास्यम् ।
१५८ काव्यमाला कनकरुचिदुकूलं चारुबह वचूलं कमपि निखिलसारं नौमि गोपीकुमारम् ॥ १ ॥ मुखजितशरदिन्दुः केलिलावण्यसिन्धुः करविनिहितकन्दुर्बल्लवीप्राणबन्धुः । वपुरुपसृतरेणुः कक्षनिःक्षिप्तवेणु- र्वचनवशगधेनुः पातु मां नन्दसूनुः ॥ २ ॥ ध्वस्तदुष्टशङ्खचूड बल्लवीकुलोपगूढ भक्तमानसाधिरूढ नीलकण्ठपिच्छचूड । कण्ठलम्बिम गुञ्ज केलिलब्धरम्यकुल कर्णवर्तिफुल्लकुन्द पाहि देव मां मुकुन्द ॥ ३ ॥ यज्ञभङ्गरुष्टशकनुन्नघोरमेधचक्र- वृष्टिपूरखिन्नगोपवीक्षणोपजातकोप । क्षिप्तसव्यहस्तपद्मधारितोच्चशैलसद्म गुप्तगोष्ठ रक्ष रक्ष मां तथाद्य पङ्कजाक्ष ॥ ४ ॥ मुक्ताहारं दधदुडुचक्राकारं सारं गोपीमनसि मनोजारोपी । कोपी कंसे खलनिकुरम्बोत्तंसे वंशे रङ्गी दिशतु रतिं निःसङ्गी ॥ ५॥ लीलोद्दामा जलधरमालाश्यामा क्षामा कामारभिरचयन्ती रामाः । सा मामव्यादखिलमुनीनां स्तव्या गव्यापूर्तिः प्रभुरघशत्रोर्मूर्तिः ॥ ६ ॥ पूर्ववर्तुलशर्वरीपतिगर्वरीतिहराननं नन्दनन्दनमिन्दिराकृतवन्दनं धृतचन्दनम् । सुन्दरीरतिमन्दिरीकृतकंदरं धृतमन्दरं कुण्डलद्युतिमण्डलप्लुतकंदरं भज सुन्दरम् ॥ ७॥ गोकुलाङ्गनमङ्गलं कृतपूतनाभवमोचनं कुन्दसुन्दरदन्तमम्बुजवृन्दवन्दितलोचनम् । सौरमाकरफुल्लपुष्करबिस्फुरत्करपल्लवं दैवतत्रजदुर्लभं भज बल्लवीकुलवल्लभम् ॥ ८॥ तुण्डकान्ति दण्डितोरुपाण्डुरांशुमण्डलं गण्डपालिताण्डवालिशालिरत्नकुण्डलम् ।
मुकुन्दमुक्तावलिः।
फुल्लपुण्डरीकखण्डक्लप्तमाल्यमण्डनं
चण्डबाहुदण्डमत्र नौमि कंसखण्डनम् ॥ ९॥
उत्तरङ्गदङ्गरागसंगमातिपिङ्गल-
स्तुङ्गशृङ्गसङ्गपाणिरङ्गनालिमङ्गलः ।
दिग्विलासिमल्लिहासिकीर्तिबल्लिपल्लव-
स्त्वां स पातु फुल्लचारुचिल्लिरध बल्लवः ॥ १० ॥
इन्द्रनिवारं ब्रजपतिवारं निधूतवारं कृतवनवारम् ।
रक्षितगोत्रं प्रीणितगोत्रं त्वां धृतगोत्रं नौमि सगोत्रम् ॥ ११ ॥
कंसमहीपतिहृद्तशूलं संततसेवितयामुनकूलम् ।
वन्दे सुन्दरचन्द्रकचूलं त्वामहमखिलचराचरमूलम् ॥ १२ ॥
मलयजरुचिरस्तनुजितमुदिरः पालितविवुधस्तोषितवसुधः ।
मामतिरसिकः केलिभिरधिकः सितसुभगरदः कृपयतु वरदः ॥ १३ ॥
उररीकृतमुरलीरुतभङ्गं नवजलधरकिरणोल्लसदङ्गम् ।
युवतिहृदयधृतमदनतरङ्गं प्रणमत यामुनतटकृतरङ्गम् ॥ १४ ॥
नवाम्भोदनीलं जगत्तोषिशीलं मुखासङ्गिवंशं शिखण्डावतंसम् ।
करालम्बिवेनं वराम्भोजनेत्रं धृतस्फीतगुनं भजे लब्धकुञ्जम् ॥ १५ ॥
हृतक्षोणिभारं कृतक्लेशहारं जगद्गीतसारं महारत्नहारम् ।
मृदुश्यामकेशं लसद्वन्यवेशं कृषाभिर्नदेशं भजे बल्लवेशम् ॥ १६ ॥
उल्लसद्वल्लवीवाससां तस्करस्तेजसानिर्जितप्रस्फुरद्भास्करः ।
पीनदोःस्तम्भयोरुल्लसच्चन्दनः पातु वः सर्वतो देवकीनन्दनः ॥ १७ ॥
संसृतेस्तारकं तं गवां चारकं वेणुना मण्डितं क्रीडने पण्डितम् ।
धातुभिर्वेषिणं दानवद्वेषिणं चिन्तय खामिनं बल्लवीकामिनम् ॥ १८ ॥
उपात्तकवलं परागशबलं सदेकशरणं सरोजचरणम् ।
अरिष्टदलनं विकृष्टललनं नमामि तमहं सदैव तमहम् ॥ १९ ॥
विहारसदनं मनोज्ञरदनं प्रणीतमदनं शशाङ्कवदनम् ।
उरःस्थकमलं यशोभिरमलं करात्तकमलं भजख तमलम् ॥ २० ॥
१६० काव्यमाला। दुष्टध्वंसः कर्णिकारावतंसः खेलवंशीपञ्चमध्वानशंसी । गोपीचेतःकेलिभङ्गीनिकेतः पातु खैरी हन्त वः कंसवैरी ॥ २१ ॥ वृन्दाटव्यां केलिमानन्दनव्यां कुर्वन्नारीचित्तकंदर्पधारी । नर्मोद्गारी मां दुकूलापहारी नीपारूढः पातु बर्हावचूडः ॥ २२ ॥ रुचिरनखे रचय सखे वलितरति भजनततिम् । त्वमविरतिस्त्वरितगतिर्नतशरणे हरिचरणे ॥ २३ ॥ रुचिरपटः पुलिननटः पशुपगतिर्गुणवसतिः। स मम शुचिर्जलदरुचिर्मनसि परिस्फुरतु हरिः २४ ॥ केलिविहितयमलार्जुनभञ्जन सुललितचरित निखिलजनरञ्जन । लोचननर्तनजितचलखञ्जन मां परिपालय कालियगञ्जन ॥ १५ ॥ भुवनविसृत्वरमहिमाडम्बर विरचितनिखिलखलोत्करसंवर । वितर यशोदातनय वरं वरमभिलषितं मे धृतपीताम्बर ॥ २६ ॥ चिकुरकरम्बितचारुशिखण्डं भालविनिर्जितवरशशिखण्डम् । रदरुचिनिर्धतमुद्रितकुन्दं कुरुत सदा हृदि सपदि मुकुन्दम् ॥ २७ ॥ यः परिरक्षितसुरभीलक्षस्तदपि च सुरभीमर्दनदक्षः। मुरलीवादनखुरलीशाली स दिशतु कुशलं तव वनमाली ॥२८॥ शमितनिखिलडिम्बे वेणुपीतोष्ठबिम्बे हतखलनिकुरम्बे बल्लवीदत्तचुम्बे । भवतु महितनन्दे तत्र वः केलिकन्दे जगदविरलतुन्दे भक्तिरुवी मुकुन्दे ॥ २९ ॥ पशुपयुवतिगोष्ठीचुम्बितश्रीमदोष्ठी स्मरतरलितदृष्टिनिमितानन्दवृष्टिः । नवजलधरधाम्नः पातु वः कृष्णनाम्नो भुवनमधुरवेषा मालिनी मूर्तिरेषा ॥ ३० ॥ इति श्रीमुकुन्दमुक्तावलिः समाप्ता।
No text on this page.
No text on this page.
No text on this page.