Bharti Bhawan Liabrary, Allahabad
Mudritkumudchandraprakaram
Front matter
Dua NTCYNYAYA
श्रीजैनयशोविजयग्रन्थमाला [८]
ॐ
REQUEQORUQCQUA...
मुद्रितकुमुदचन्द्रप्रकरणम्।
#YQUQUAUGURU962
श्रीधर्कटवंशास्भोधिसुधांशुश्रीप-चन्द्रसूनु-
श्रीयशश्चन्द्रकृतम् ।।
'काशीस्थ
श्रीयशोविजयजैनपाठशालातः
प्राकाश्यमानीतम् ।
CUQURUQUQCQUA:A
CREENERENEFTEMENT
चन्द्रप्रभायन्त्रालये मुद्रापितम् ।
वीर सं० २४३२।
Domesh
Lbe
ऋमि विभ 040 ... ... .. राहुः, केतुः ... ... साधुः देवसूरेः मुद्रितकुमुदचन्द्रप्रकरणे पात्राणि महाराजजयसिंहः गूनरेश्वरः सिद्धराजः श्रीदेवसूरिः श्वेताम्बराचार्यः (वादी) श्रीकुमुदचन्द्रः दिगम्बराचार्यः (प्रतिवादी) श्रीपादेवः, शोभनः इतरौ बन्दी. राजसाधारः (कुमुदस्य) माणिक्यः, विजयसेनः, अशोक: ... देवसूरिशिष्याः मकरन्दः कुमुदशिष्यः वैतालिका देवसूरिसकाशादागतः । कुमुदचं० परिचारको थाहड: नागदेव श्राद्धः चारको उदयपाल: राज्ञः कश्चित् गाङ्गिलः गुर्जरेश्वरमन्त्री श्रीपाल: पारिग्राहिकः कविः प्रतीहारः राज्ञः वैतालिका, मागधी केशवः (त्रयी) कुमुदचन्द्रशिप्यः महर्षिः, उत्साह, राज्ञः सभ्याः सागरः, रामः कविराजः (श्रीपाल:) देवसूरिसभ्यौ भाभूः शीलाङ्क:... दण्डनाथः यशोधरः... राज्ञः परिचारकः बज्रार्गला योगिनी 44 ... ܗ܀܀ ... ... .8.
alte
ऋमि
विभा
ॐ श्रीपदचन्द्रमनुयशश्चन्द्रकृत- मुद्रितकुमुदचन्द्रनाटकम् ॥ श्रेयःकुड्मलमांसलां त्रिजगतः कुर्वन्तु वाञ्छालतां, व्याख्याभूमिजुयः शशाङ्कसुहृदो वीरस्य दन्तत्विषः ।। दृप्यदुर्मतदन्तिकुम्भदलने क्रीडां समातन्वता, कीः केसरिणेव लाञ्छन भवा मुक्तामणिश्रेणयः ॥१॥ ( नान्द्यन्ते सूत्रधारः) सूत्र--( सचमत्कारम् ) अहह ! मत्प्रवेशेऽपि प्रमोदपरिमलपेङ्- खोलिनी परिषन्, तथाहि- वेल्लत्कोमलमञ्जरीसहचरं चेत्तो नियम्य क्षणा- दालापान प्रतिषिध्य मूक्तिमधुरान् साई वयस्यैरपि । मद्वक्त्रप्रविलोकनकरसिका किंवा बहु महे । यत्सत्यं प्रतिविम्बितेव लिखितेवास्ते समस्ता सभा ॥२॥ (वितळ)-कमिव प्रबन्धमभिनेतुमुपक्रमे । (स्मरणं नाटयन् ) अये श्रीसपादलक्षलक्ष्मीविलासवलभीमूलस्तम्भायमान- दो कन्दले, पालीशयालुशाकम्भरीभूपालकराङ्गुली- किशालयितकूर्चकुन्तले, वरिष्ठश्रेष्टिसीम्नि, धनदेवनाम्नि, परां बहुमानसम्पदमुद्रहन्त्यमी सभासदः, तत्तत्पौत्रसूत्रित-. प्रत्यग्रप्रवत्धाभिनयेन चमत्करोम्येतच्चेतांसीति ।
२ भा वि मुद्रितकुमुदचन्द्रनाटके- (प्रविश्य पारिपार्श्वकः पारि०-भाव ! कः प्रबन्धोऽभिनेष्यते ? । सूत्र-मारिष ! अस्त्यभिनवोक्तिभङ्गीतरङ्गितरसनस्यन्दनि- झरणं मुद्रितकुमुदचन्द्रनाम प्रकरणम् । पारि-कोऽस्य कविः । सूत्र-तैस्तैर्बुद्धिसुधारसव्यतिकरैः शाकम्भरीभूभुजो- येनास्यां भुवि चेतसोऽप्यविषयामभ्युन्नति लम्भिताः॥ स श्रीधर्कटवंशवारिधिसुधाराचिर्जगद्विश्रुतो. यस्य श्रीधनदेव इत्यभिधया ख्यातः विताऽभूत् पितुः॥३॥ पारि-किंस एष:- यस्याराधनबुद्धयुपागतमहासामन्तचक्रोल्लसद- वाहीकाश्वमुखान्तरालविगलल्लालाजलैः पङ्किला ॥ वेश्मद्वारवसुन्धरा प्रतिदिनं तावद् बभूवाद्भुतम् । तत्कणेजपमन्दिरेषु कमला द (भ्र)ष्टा स्खलन्ती पुनः॥४॥ सूत्र-अथ किं पुनः- मल्लिस्रग्भिरिवावृताः सुरसरिन्नीरैरिव स्नापिताः । श्रीखण्डेरिवमण्डिताः कवचिताः कर्पूरपूरैरिव ॥ पीयूषैरिव सारिताः परिचिता द्राक्षारसौधैरिव । पीताः कुञ्चितलोचनैर्भणितयो विद्वज्जनयंत्पितुः ॥५॥ पारि -( उपहस्य ) तत् िपूर्वपुरुषपरम्परातः सुकविताऽ वाप्तिः?। सूत्र०-एवमेतत् , कारणशुद्धया हि कार्यशुद्धि, ने महार्णवमन्त- रेण रोहिणीरमणमपरः प्रम्ते- न प्रत्यग्रसुधासरःपरिसरे प्रेमाणमापद्यते । )
प्रथमोऽङ्कः ।
१
पातुं वाञ्छति शर्करासुभगितं नो गोस्तनीपानकम् ।।
उत्तंसीकृतलोचनां रमयितुं रामां न चोत्कण्ठते ।
यत्मुक्तिं श्रवणातिथि विरचयन् विश्वोमनस्वी जनः ॥६॥
कर्ताऽनेकपबन्धानामत्र प्रकरणे कविः ।
आनन्दकाव्य मुद्रासु यशश्चन्द्र इति श्रुतः ।। ७ ।।
( नेपथ्याभिमुखं विलोक्य)
आये ! इतस्तावत् ।
( प्रविश्य दुर्मनायमानी नटी).
नटी-आणवेदु अजो' ।
सूत्र -किमिति पितातपक्लान्तेवोपलक्ष्यते भवती ।
नटी०-अज्ज! धूया रमणीयत्तण रहस्स भूया मम त्थि विजयसिरी'
जं सोहाग समग्गं मुणिलोओ विहु अहिलसेई ।।
तस्साए कए मए दुन्निवरा परिभाविया सति ॥८॥
सूत्र--(उपहस्य) तत्किमेकामपि कन्यका द्वयोर्वरयोर्दास्याति सि ।
नटी--अस्थि कुलीणोलीणो विवेय परिकलिय ललिय किरियामु
गुण रयण रोहणो मयण मोहणो नियय रूवणं ॥८॥
देवगुरू नामेण धामेण परिभविय तरुणतरणी।
भद्द वओवत्थाए कंठण य, केवलं अहणो॥९॥
१ आज्ञापयतु आर्यः।
२ आर्य ! दुहिता रमणीयत्वरहस्यभूता ममास्ति विजयश्री: ॥
३ यां सौभाग्यसमग्रां मुनिलोकोऽपिचाभिलषति।
तस्याः कृते मया द्वौ बरौ परिभावितौ स्तः॥
अस्ति कुलीनो लीनो विवेकपरिकलितललितक्रियासु।
गुणरत्नरोहणो मदनमोहनो निजकरूपेण ॥ ८ ॥
देवगुरुनाम्ना धाम्ना परिभूततरुणतरणिः।.
भद्रपदोऽवस्थया कण्टेन च, केवलमधनः ॥ ९ ॥
मुद्रितकुमुदचन्द्रनाटके- बीओ वियक्खणो विहु बादं निल्लज्जिमाइ अवगूढो । विज्जा हंकारेण य तिणं व परिकलइ तियलोयं ॥१०॥ नामेण कयरविंदू विंदूरिव कलइ लच्छिवंते य । तुरयाइ च्छत्त चामर सुहासणाईण वित्थरओ॥१॥ सूत्र-ततः। नटी०-तउमह भयिणी रिद्धिविलासलोहेण कयरविन्दुणो दाउं अभिवंड विजयसिरिं, अहं तु पुण गुणपक्खवाइणी देवगुरुणो, 'ता किं न याणेमि परिणमईए सुहावहं ति: सूत्र०-यदि वयं प्रमाणम्, तर्हि दीयते देवरोऽनयाविनयबुद्धि- वन्धुरता हि निदानमद्भुतायाः संपदः, अहंकृतिश्चो- स्थापनायष्टिविपद्भुजङ्गीनाम् तथाहि. कैलासाचलमुल्लसद्भुजबलपागल्भ्यकौतूहली । पाणौ कन्दुकतां नयन् शिखरतस्तत्कात्पतन्तीः शिलाः॥ किंभया करजावलीति चकितं व्यालोकयामास यः। प्राप्तः सोऽप्यतिदर्पसर्पवंशतो निन्यांदशास्यो दशाम्॥१२॥ नटी०-मह भयिणी क्खु एयं सुहासियं पढेइ । तावत्पञ्चमकाकली कलयितुं कण्ठः समुत्कण्ठते । तावन्मुग्धमृगीदृशां स्मितरसश्चेतः समाकर्पति ॥ १ द्वितीयो विचक्षणोऽपि च बाढं निर्लज्जताद्यवगूढः । विद्याऽहंकारेण च तृणमिव परिकलयति त्रिलोकीम् ॥ १० ॥ २ नाम्ना कैरवेन्दुर्षिन्दूनिव कलयात लक्ष्मीवतश्च । तुरगादिछत्रचामरसुखासनादीनां विस्तरतः॥११॥ ३ तथापि मम भगिनी ऋद्धिविलासलोभेन कैरवे(न्दवे)न्दोर्दातुं अभिवाञ्छति विजयश्रियम्, अहन्तु पुनर्गुणपक्षपातिनी देवगु(रवे रोः, तत्कि न जानामि परिणामे सुखावहमिति । ४ मम भगिनी खलु एतत् सुभाषितं पठति ।
प्रथमोऽङ्कः। तावत्सूक्तिरसायनं सुखयति, श्रोत्रे कवीनां लुठ- लक्ष्मीर्यावदवेक्षते क्षणमपि प्रेमोर्मिणा चक्षुषा ॥१३॥ सूत्र-इलाध्यैवं श्रीर्याद स्निह्यति,परमसौ सुभटासिपट्टपटुधारा- पर्यटनलाम्पट्यपाटितं पदं न पारयति क्वापि निर्भर- मवस्थापयितुं, अहङ्कारश्च विसर्जनहुङ्कारः सरित्पतिदुहितुः, अपि च, द्विादशकयोगः खलु कैरवेन्दुना समं विजय- श्रियः परिहार्योऽयं यत्नतो ज्योतिर्विद्भिः। नटी०-देवगुरुणा समं केरिसो मेलावो' । सूत्र--( गणयित्वा-सहर्ष ) तृतीयैकादशयोगः सुकृतैरवाप्यते । नटी०-(सानन्दं ) ता मह अहिलसियं वेव संपज्जेही । (नेपथ्ये अये प्रत्यूषसमयः। गगनतरुरिदानी शीर्णपर्णायमानं । विकिरति गततेजस्तारकाचक्रवालम् ।। कलयति च नवीनं जालकं पल्लवाना- मभिनवदिनसन्ध्यासान्द्ररागच्छलेन ॥ १४ ॥ दशवकरजपातान् सर्वतोऽङ्गेषु दृष्ट्वा । नवघुसणरसेनाऽऽच्छाद्य तानाऽऽदरेण ॥ चकिततरलतारं दिक्षु चक्षुः क्षिपन्त्यो-- निजवसतिमयन्ते स्वैरचाराः पुरन्ध्यः ॥ १५ ॥ किं च। विधुनिधुवनलीलातान्तिजातान् लिहानो. . १ देवगुरुणा समं कीदृशो मेलापक: २ तन्ममाभिलषितमेव सम्पत्स्यते ।
मुद्रितकुमुदचन्द्रनाटके- वपुपि गगनलक्ष्म्यास्तारकस्वेदविन्दन। कमलवदनजन्मा जम्भमाणाब्जिनीनां । परिलसति समीरो वासरारम्भशंसी ॥ १५ ॥ अपि चा सच्चक्रनन्दनपटुः सविताऽयमस्य श्रेयस्तनोतु जगतोऽम्बरसुप्रतिष्ठः ॥ संरुद्धनिर्वृतिपदश्च वियोगिनीना- मस्तं ययौ कुमुदचन्द्ररुचेविलासः ॥ १७ ॥ सूत्र-उपक्रान्तमेक नर्तकैस्तदेहि अनन्तरकरणीयाय प्र(त्य)य- तामहे ॥ ( इति निष्क्रान्ताः ) ॥ प्रस्तावना॥ (ततः प्रविशति सच्चक्रेत्यादि पठन् श्रीपाश्चदेवः) श्रीपार्श्वदेवः-( पुरोविलोक्य) सखे शोभन ! कुत्र त्वरिततरपादपातं प्रचलितोऽसि। शोभन:-वयस्य ! ह्यस्तनेऽह्नि धर्मपुस्तकव्याख्यासमर्थनमहो- त्सवे श्रीमदाशापल्लीवतंसकुवलये श्रीमन्नेमिजिनचैत्या- लये भ्रातृराहडो मया सह गत आसीत् । पार्श्व०-वीक्षितो तत्र युवा खलु मया । शोभ०- ०-ततः श्रीदेवमूरेर्लोकोत्तरां स्फातिमालोक्य चमत्कू- तेन, अद्य प्रातः कुमुदचन्द्रायोपविष्टश्राद्धसंसदि मद्ध- न्धुनाऽभिदधे- प्रथमोऽङ्कः। रूपं मङ्गलयूपमुज्ज्वल यशोराशेः शमक्ष्माभुजो, मुद्रा दर्शनमात्रपात्रनतया सा निश्चितं सोमः ॥ वेषः संवननौषधेरिव जटाश्चूर्णश्चरित्रश्रियो, भङ्गिः काचन दुर्भगीकृतसुधा श्रीदेवमूरोगिराम् ॥१८॥ पार्श्व०-(सहर्षम् ) सखे ! साधूदितं गुणजशखरेण युष्मत्सोदरेण- आस्तां सुधा किमधुना मधुना विधेयं । दूरे सुधानिधिरलं नवगोस्तनीभिः ॥ श्रीदेवमूरिसुगुरोयदि सूक्तयस्ताः।' पाकोत्तराः श्रवणयोरतिथीभवन्ति ॥ १९ ॥ अपि च। ! बन्धो शोभन ! पक्षपातेनेक्ष्यते- दृष्टिं न पहिणोति केलिकमले नालोकते पुस्तकं, वीणां पश्चमकाकलीकवचितां कर्तुं न संनयति ॥ उन्मीलनवमूक्तिसौरभभरे श्रीदेवसुरेर्मुखे, विद्यानामधिदेवताऽनवरतं व्यापारयन्ती दृशौ ॥२०॥ शोभ-ततोमभ्रातृभणितमाकर्मिषधुमायमानमानसेन दि. गम्बरेन्द्रकुमुदचन्द्रेण राजसाधारनामा बन्दीश्वरोदेवा- चार्यवसतौ प्रहितोऽस्ति, कौतुकेनाहमापि तत्र जिग- मिषुः। पार्श्व०-किमेष बन्दी वक्ष्यति इति ममाप्यकुण्ठा श्रवणोत्कण्ठा, तदेहि तत्रैव गच्छावः । ( इति निष्क्रान्तौ) ॥ शुद्धविष्कम्भकः॥
" मुद्रितकुमुदचन्द्रनाटके- (ततः प्रविशति वसतिमध्यगतो माणिक्यादिशिष्येभ्यस्तर्क- शास्त्रव्याख्यामातिष्ठमानःश्रीदेवसूरिः,परिवारश्च, बन्दी राजसाधारश्च) बन्दी०-( हस्तमुदच्य उच्चैः ) जयतु जयतु कुन्तलकलाविद- तुलाभिमानाचलदलनदम्भोलिदण्ड, चौडचतुरपाण्डित्य- खण्डनप्रचण्ड, गौडगुणिगर्वसारङ्गशार्दूल, वङ्गाविषयवि. दुष?मुखकालुष्यमूल,निषिद्धनैषधबुधदन्धिकार, यशः- शेषीकृतकान्यकुब्जविद्वज्जनाहङ्कार, विशदशारदादेशको- विदमदच्छेदवैदुष्यपात्र, प्रगल्भमालबीयकुशलशेषीकुश- लतालवनदात्र, प्रकृतिवाचाटलर्टमुखघटितमौनकपाट, कृतकोङ्कणकविकुलोच्चाट, विक्षिप्तसपादलक्षदक्षपक्ष, जर्जरीकृतगुर्जरजनगर्जितकक्ष, तार्किकचक्रचूडामणे, वै- याकरणकपलतरणे, छात्रीकृतच्छन्दश्छेक, साहित्यल- तासुधासेक, सरस्वतीहृदयहार, श्वेताम्बरविडम्बनप्रहसन- सूत्रधार, चतुरशीतिविवादविजयार्जितोज्जितयशःपुञ्ज- समर्जितचन्द्र, कुमुदचन्द्रनाम वादीन्द्र ! हंहो श्वेतपटाः किमेष कपटाटोपोक्तिसंटङ्कितैः, संसारावटकोटरेऽतिविकटे मुग्धोजनः पात्यते ॥ तत्त्वातत्वविचारणासु यदि वो हेवाकलेशस्तदा । सत्यं कौमुदचन्द्रमंद्रियुगलं रात्रिन्दिवं ध्यायत ॥ २१ ॥ माणिक्यः-( सरोषाङ्कुरं ) हंहो वैतालिक ! कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यहिणा, कः कुन्तेन सितेन नेत्रकुहरे कण्डूयनं कावति ।। कः सन्नाति पन्नगेश्वरशिरोरत्नावतंसश्रिये, यः श्वेताम्बरदर्शनस्य कुरुते वन्यस्य निन्दामिमाम् २२ प्रथमोऽङ्कः। बन्दी-(माणिक्यवाणीमपकर्य) जीयादसौ कुमुदचन्द्रदिगम्बरेन्द्रो दुर्वादिदन्तिमदनिर्दलनेन येन ॥ भेजे मुदा चतुरशीति विलासभङ्गी- सम्भोगचारुकरणैः सततं जयश्रीः ।। २३ ।। माणिः-( वक्तुमुपक्रमते ) श्रीदेवसूरिः-( सव्यथम् ) वत्स ! केयं प्रशममूले तपसि वर्त- मानस्य कोपकल्मषोपंश्लषाभिलाषिणी धिषणा, निसर्गः सूत्वयं कषायविषाणिनां प्राणिनां परनि- न्दाकदमोपमर्ददोहदः समशत्रुमित्रमतीनां यतीनां चात्यन्तमनुचितः । पिचं । अपकृतिकृति कोपश्चेत्तदा किं न कोपे, स्फुरति निशितधारे धर्मवल्लीकुठारे ।। निजहृदयविवर्ति च्छेदयन् लाञ्छनं नो, प्रकटितभुवनः किं नैव चन्द्रः कलङ्की ? ॥ २४ ॥ | किना भस्पीभवन्ति मतयः स्मृतयो गलन्ति ब्रीडास्त्रुटन्ति सुगुणाः शलभीभवन्ति ।। हृन्मन्दिरं दहति मन्दधियां परोक्त- निन्दा समिध्यति करज्वलिते क्रुधग्नौ ॥ २५॥ माणि -भगवन् ! अयमस्मि मौनेन स्थितः! बन्दी-हंहो श्वेताम्बर ! नायं क्षणः क्षमायाः ! मुद्रितकुमुदचन्द्रनाटके- ज्वालाकराले ज्वलनान्तराले, न्याय्यो वरं जीवितहव्यहोमः । न मानभङ्गाऽऽगमनाग्रदूती, श्रोतुं तु युक्तं परवादिनिन्दाम् ॥ २६ ॥ देव-अहो वागजीविन् ! मानादिभङ्गायैवास्माकमभङ्गुरोड- यमाग्रहः। बन्दी-[ नाशां मौटयन् ] श्वेताम्बराग्रेसर ! एवमात्मन्यसाम- यमुत्थापयन् किं निजश्रावकेभ्योऽपि न लज्जसे। देव०-वैतालिकतिलक ! असमर्था एक्वयं कलहकर्मणि । । किंच। मातृभ्रातृपितृप्रभृत्यविकलस्नेहाकुलोद्यज्जन सौधं धान्यधनोद्धरं तृणमिव त्यक्त्वा धृतं यत्रतम् ।। तेषां संमृतिपुंश्चलीरतिकलादूतेषु मानादिपु ब्रूतां हन्त भवानहो परिचयश्चेदौचितीमञ्चति ॥२७॥ बन्दी-भदन्त ! यदि तेन प्रतिपक्षविक्षेपाय हेवाकस्तर्हि किमयम- हर्निशं कर्कशतर्कपरितर्कणविप्लवक्लेशः। देव०-बन्दिन् ! न प्रतिवादिकदर्थनाय कोविदानामादर शास्त्रेषु किन्तु तत्त्ववि(चा)रणाय । बन्दी-( उर्ध्वमवलोक्य आकाशे लक्ष्यं बद्ध्वा ) आः दिगम्बर अम्बरचन्द्र कुमुदचन्द्र ! मनोरथः पूर्तिपथं कथं ते प्रयातु वादिद्विपदर्षशान्त्यै।
प्रथमोऽङ्कः । ११ त्वत्कं यशो निःप्रतिभान् पुरैव प्राप्ताग्रवादान् कुरुते विपक्षान् ॥ २८ ॥ देव०-दुःपूरा एव दुर्मेधसां मनोरथाः, दूरे खलु तृणसंदोहस्य दहनलङ्घनाय दुराशा॥ बन्दी-(कर्णौ पिधाय) आः शान्तं पापं ! कुमुदचन्द्रोऽपि दुर्मेधाः- नैव ध्यायति शब्दशास्त्ररचनारत्नांऽऽपणं पाणिनिं, चेतो न पहिणोति वादिविहिताऽऽतङ्के कलङ्केऽप्यहो ॥ सूक्तिं न स्मरतीन्दुशैशवसखीं श्रीकालिदासस्य च, प्रेक्ष्य २ मुखं दीयमधुना वाचां-पतिर्देवता ॥ २९ ॥ देव०-अहङ्कारधृमान्धकारेणैवाचबुद्धोऽस्माभिस्तस्य चेतसि विद्यालताप्लोषः, यतः- न विद्या दोन्ध्यं स्फुटयति सुधांशूज्ज्वलधियां, मषीवर्ष धत्ते क्वचिदपि न माणिक्यकलिका ।। न जम्बीरी जम्बू जनयति न मल्ली कुवलयं, न मूते शीतांशोधुतिरनलकीलाजटिलितम् ॥ ३० ॥ बन्दी-देवमूरे ! यौष्माकीयेऽपि हि मते मया श्रुतमनेकशः ॥ दर्शनस्य तिरस्कारं ? सर्वस्थाम्ना निवारयेत्॥३१॥ देव०-(ईषदुपहस्य ) बन्दिराज ! निन्दापरे कस्मिंश्चिदुर्मतौ कोऽयमस्मदर्शनतिरस्कारः। तथा हि । चेत् श्वेताम्बरदर्शनस्य जगतोवन्धस्य निन्दाक्रम, कश्चित् कल्मषकश्मल: प्रकुरुते कस्तावताऽस्योत्सवः ।। ?
? मुद्रितकुमुदचन्द्रनाटके- भंकुर्वन् करिणो मदालसगतेः किं खण्डयेन्मण्डलो- मूढः प्रौढरुचो रवः परिकिरन् रेणुं गुणं के श्रयेत् ॥३२॥ बन्दी-शम एव पुरस्कृतो भवता, तकि जल्पकेलीश्रद्धालु प्रतिवक्तव्यः कुमुदचन्द्रः । देव-इदमस्मन्मुखेन व्याहरणीयो नग्नाग्रणीः दिगम्बरशिरोपणे! गुणपराङ्मुखो मास्म भूः । गुणग्रहफलं हि तद् हसात पङ्कजं यद्रमा ॥ ततस्त्यज मदं कुरु प्रशमसंयतीन् स्वान् गुणान् । दमो हि मुमिभूषणं स च भवेन्मदव्यत्यये ॥३३॥ माणि-बन्दीश्वर ! बाक्य मेकमस्मदीयमपि श्रावणीयो व्यो- मास्वर-वरेण्यः। यथा। नग्ननिरुद्धा तरुणीजनस्य यन्मुक्तिरत्र प्रकट रहस्यम् ।। तकिं वृथा कर्कशतर्ककेलौतवाभिलाषोऽयमनर्थमूलः॥३४॥ बन्दी-माणिक्य ! अकुशलोऽसि माणिक्य शक्यविवेककर्मणि, अनर्हः खल्वेवमुल्लण्ठोक्तीनां दिगम्बरचक्रवर्ती- यस्य वाणीतरङ्गिण्यां तर्ककेलीविलासिनः ॥ दृप्तो वादी मुटन्मूलः को न कूलद्रुमायते ॥ ३५ ॥ देव०-बन्दिराज ! मोग्थ्यमधुरे क्यासि वर्तमानो जल्पतु यत् कि- ञ्चिन्माणिक्यः, तर्कगोष्ठीषु गरिष्ठतायाः किमुच्यते कुमु. दचन्द्रस्य? ( नेपथ्ये ) सुखाय माध्यन्दिनी संध्या संप्रति हि- Hamme ..
१३ द्वितीयोऽङ्कः । तीः पंकजिनीभियस्य किरणैः संतापितायाः क्षित- निश्वासैरिव पाकदेशजनितेधूमैनिरुद्धं नमः ॥ प्रातर्ये च तमीजलातनवो विस्तारयामासिरे तेऽपि क्षोणिरुहां गुणेन विकटाश्छायापटाः संवृताः॥३६॥ अपि च। तप्तहरिदम्बरेण क्षणेन मन्येऽस्मिन् मध्यसन्ध्यायाः ।। विच्छायां वीक्ष्य महीं नितरां परितप्यते तरणिः॥३७॥ देव-मध्याह्नकृत्याय यतिष्यामहे वयम् । ॥ इति निष्क्रान्ताः सर्वे ।। ॥प्रथमोऽङ्कः॥ अथ द्वितीयोऽङ्कः। (ततः प्रविशति मकरन्दः) मकरन्दः-(पुरो विलोक्य) सखे अशोक ! कथय कथमासते भवद्गुरवो देवसूरयः। (प्रविश्य) अशोकः-वयस्य ! अतिक्रान्ते पञ्चमेऽह्नि वृद्धायिका भुजङ्ग- गोष्टीगतेन कुमुदचन्द्रेण नर्तनादिना प्रभूतां प्रापिता विडम्बनाम् । मकर०-अहो अनुचितकारिता गर्विणोऽस्मद्गुरोः ।
मुद्रितकुमुदचन्द्रनाटके- अशो०-मदाध्मातानामन्धैव सदद्धनि धीः । मकर०-ततः २॥ अशो०-मन्युपीडिता बाष्पोत्पीडाधौतगण्डफलका जराक्ली- बतया द्विगुणगद्दस्वरा समागता श्रीदेवमरिचरणाभ्यर्ण- माभिहितं चानया। किं तेहिं कुविज्जेहिं, निरत्थयं ससत्यवाहीहिं ।। जे वाय लंघियाणं, मयज्जरं निति नो वसमं ॥ १ ॥ ही कस्स पुरोऽहं पुक्करेमि असकत्तया महं पहुणो ॥ निय सासण निक्कारे, जो वयरइ सों वरं सुगओ ॥२॥ मक०-अहो हृदयंगममभिहितमायिकया, तत:- अशो०-ततः किमेतदिति पृष्टाऽसौ देवमूरिणा, निवेदितं चा- नया कुमुदचन्द्रदुर्विलसितं, उत्तेजितं च पार्श्ववर्तिना माणिक्येन। शमेन परिगृह्यते सुकृतमज्जनः सज्जन:, शठस्तु हठकर्मणा लुठति पादपीठे परम् ।। पयो हि भुजगः पिबन् गरलमुद्रेित् केवलं, महौषधिवशात् पुनः कमलबालनालायते ॥ ३ ॥ मक०-एतदाकर्ण्य किं प्रतिपन्नं देवमूरिणा ?- अशो०-दुर्वादिगर्वगजसंयमनाङ्कुशश्रीः, १ किं तैः कुवैद्यैः निरर्थकं स्वशस्तवाहिभिः । ये वातलवितानां मदज्वरं नयन्ति नोपशमम् ॥ २ ही कस्य पुरोहं पूत्करोमि अशक्तता महती प्रभोः । निजशासनन्यकारे यो वैरयति स वरं सुगतः।।
द्वितीयोऽङ्कः। १५ श्वेताम्बराभ्युदयमङ्गलवालदूर्वा ॥ श्रीदेवमूरिसुगुरोभ्रंकुटीर्ललाट- पट्टे स्थितिं व्यतनुत प्रथमावतारम् ॥ ४॥ सरोषविषादोद्भेदमन्दमुदितं च- आकण्ठशोषपरिपोषफलः प्रमाण- व्याख्याश्रमो मयि बभूव गुरोर्जनस्य ।। एवं विधान्यपि विडम्बनविड्वराणि. यः शासनस्य हहहा मसृणः शृणोमि ॥५॥ मक- अहो आश्चर्य- मुकुलयति विवस्वानब्जिनी किं कदाचित्, कलुषयति किमिन्दुर्दिग्वधूनां मुखानि ॥ कलयति किमु लोष्टः पल्लवोल्लासलीला, यदुपशमनिमग्ने देवमूरो प्रकोपः ॥६॥ अशो०--पीयूषप्रकृतावपि मथनातिशयाभियोगयोगेन । क्षीराम्भोधिगर्भे किं नाभवदविरलं गरलम् ॥७॥ मक० --एवमेतत्, दृश्यते सुधाम्तेरापि कंटकोट्टङ्कनकारिषु कमलेषु क्लमोपजनकत्वं, ततः- अशो०--ततो भणिता भगवता वृद्धायिका, महानुभावे ! मा विषीद प्राप्स्यति स खलो दुर्विनयस्य फलम् । ततोऽति- मात्रमन्युरुक्षाक्षरमाभाषितमार्यिकया-भयवं! निरत्थ- याभिहाण देवसूरे ! लहिस्साद सो पावो दुविण. यस्स फलं, लहिस्सदि अ भवंपि उवसमरसायण फलं, १६ मुद्रितकुमुदचन्द्रनाटके- केवलं तुह्माणं तपुच्छयपत्थारो किपि फलं पाविस्स- दित्ति न याणामि॥ मकर--नूनं सिक्तमनया सूक्तिसारिण्या देवमूरेरहङ्कारवाज, अशो०--ततो भणिता भगवता आर्यिका, महाशीले शासनो- दात्तप्रभावनोद भविष्यतीत्यदो भवद्भाषितम्, तद लमनिमात्रं संतापेन । आदिष्टश्च तदानीमेव शिष्यो क्यो, यथावत्संप्रेष्यतां श्रीश्रमणसंघकृते श्री. श्रीपत्तनेऽस्मद्विज्ञप्तिका, यथा श्वेताम्बरदर्शनविड- म्बनप्रहसनमूत्रधारेण कुमुदचन्द्रनाम्ना दिगम्बरेण प्रतिपन्नवादमुद्राः सत्वरं तत्रागमिष्यामो वयमिति ।। मकर०-उन्मिाषतं चिरादेवमूररहङ्कारहुङ्कारेण । अशो०-प्रेषिता च तदानीमेव माणिक्येन निर्दिष्टविज्ञतिका, समागतश्च तृतीयदिवसे श्रीश्रमणसंघलेखः । मकर०-किमत्र लिखितम् ।। अशो०-श्रीवीरजिनराजचरणसरोजयुगलमानम्य श्रीमदणहि- ल्लपत्तनात् जयश्रीश्रमणसंघ आशापल्लीस्थानके श्रीमद्दे- वाचार्यमादिशति- गुणचन्द्रजयाजनतः प्रवादिनक्राकुले भवाम्भोधौ ।। वं वत्स! कर्णधारो जिनशासन यानपात्रस्य ।। ८ ।। १ भगवन् ! निरर्थकाभिधान देवसूरे! लप्स्यते स पापो दुर्विन यस्य फलं, लप्स्यते च भवानपि उपशभरसायनफलं, केवल युष्माकं तप उच्छ्यप्रस्तार : किमपि फलें प्राप्स्यते इति न जानामि । ..
द्वितीयोऽङ्कः। देवाचार्यबलायुक्तः शासनस्य किलाहताम् ।। मभावनासरोजाक्ष्या पाणिग्रहमहोत्सवः ॥९॥ अपि च। घत्स ! नाद्यतनी ते प्रतिष्ठा पौलोमीपतिमन्त्रिणोऽपि न मतिर्यत्र प्रगल्भायते प्रज्ञा नोशनसोऽपि यत्र लभते मध्यप्रवेशप्रभाम् ।। भक्त्वा तं बत दुःभयोगमजयद् यः शैववादीश्वरम्, तस्य श्रीमुनिचन्द्रमुरिसुगुरोः किं त्वं न शिष्याग्रणीः॥१०॥ तत्प्रियं नः प्रतिपन्नवादमुद्रस्य वत्सस्याऽऽगमनमिति । मकर--ततः २० अशो-ततः श्रीसङ्घाऽऽज्ञापसादप्रमोदमेदुरपुलकेन श्रीमद्देव- खरिणा तत्क्षण एव कुमुदचन्द्रपार्थे वैतालिकं प्रेष्य शुभमुहूर्ते कृतं भयाणकम् । मकर--(सशिरः कम्पम् ) अदीर्घसूत्रता हि विजिगीषूणां सत्यं- कारः सत्कार्यसिद्धेः, शकुनानि कीदृशान्यभवन् । अशो०-सखे ! श्लाघनीया शकुनावली- तथाहि । नयनविषयं जातश्चाषः श्रुतं शिखिशब्दितं, तरुणहरिणश्रेणी हर्षात् प्रदक्षिणमागता ॥ तुहिनकिरणक्षेत्रे भानुमहोदयमागतः, प्रकृतिमृदुलो वायुः पृष्ठानुगश्च विजृम्भितः ॥११॥ MOBAR मकर-अहो प्राशस्त्यं शकुनानाम् । ३ मुद्रितकुमुदचन्द्रनाटके- ha अशो०--किं बहुना भाषितेन- गान्धारध्वनिगीतपीतहृदये नृत्यत्कुरङ्गेक्षणा- वर्गाक्षिप्तजनेक्षणे परिलसद्वादिननादोदये ।। आरूढा हसितामरेश्वरगृहच्छायाकथे सद्रथे, मूर्तिस्तीर्थकरस्य दुःखमथनी जाता सुखे संमुखी ॥१२॥ मकर-श्रीदेवतादर्शनेन देव्यपि कला काऽपि संपत्स्यते देवमू- रेवादसंसदि। अशो०-कोऽत्र सन्देहः । मकर-सखे ! कमनयोर्मध्ये श्वेताम्बरदिगम्बरयोर्वरिष्यति विजयश्रीरिति संदेहदोलातरलमस्मन्मनः । अशो०-यदि शकुनानि प्रमाणं तदा विजयी श्रीश्वेताम्बर- शिरोमणिः। किंच।। यन्मृतिप्रतिभैव वादिविशदव्याहारसंहारिणी, यस्याभ्याससरित्पतौ च सकलाशास्त्रावली शुक्तिका ।। माहात्म्यं च यदीयमन्धतमसां ? दैपी कलामाश्रितं, भ्रातश्चिन्तय देवमूरिसुगुरोः किं तस्य नात्यद्भुतम् ॥१३॥ अपि च। वादं वादं वदनकमले वल्लकी सूक्तिदेवी, शिष्यव्याख्याविरचनमिषात् क्लान्तिमालम्ब्य यस्य ।। स्नात्वा चेतःसरसि करुणानिर्भरे स्वादयित्वा, सिद्धान्तोक्तीः कलयात ततो दृग्गवाक्षे विलासमू ॥१४॥ तमपि मुक्त्वा किमन्यत्र रंस्यते विजयश्ली: ? | द्वितीयोऽङ्कः। ११९ मकर०-वयस्य ! मैवं वोचः नियूढानेकान्तवादिविजयकेलि- दुर्ललितस्तत्रभवान् कुमुदचन्द्रः- पश्य। यस्मिन् जल्पति दन्तदीधितिलसज्ज्योत्स्नाविलासादिव, प्राप्त हृत्कमले निमीलिततया कुब्जत्वदुःस्थां दशाम् ॥ तद्गर्भादिव गत्वरेण विदधे दुर्वादिनामानने, वैलक्ष्यभ्रमरबजेन सहसा मालिन्यपङ्कप्लुतिः ॥१५॥ सोयपनभिज्ञः पराजयकिम्बदन्त्याः कुमुदचन्द्रवादीन्द्रः । अशो०-भवत्वेहि तावकि, श्रीदेवमूरिणा वैतालिकमुखेन भा- णितमाकर्णयामः कुमुदचन्द्रोपाश्रये ! ( इति निष्क्रान्तौ) ॥ शुद्धविष्कम्भकः ॥ ? ( ततः प्रविशति स्वोपाश्रयमध्यगतः सिंहासनासीनः कुमुदचन्द्रः) कुमुदचन्द्रः-(पुरोऽवलोक्य) कः पुनरयं प्रविशति ? । ( प्रविश्य) वैतालिकः-( उच्चैः ) आशाम्बरेश्वर ! प्रहितोऽस्मि श्रीदेवसू- रिणा, भाणितं च- नास्माकं हाद दर्पसर्पगरलोद्गाराः स्थिति तन्वते, न्यत्कारं तु न शासनस्य कलयाऽप्यालोकितुं शिक्षिताः । तत्तूर्ण समुपैहि सिद्धनृपतेरग्रे हरिष्यामहे, तीक्ष्णयुक्तिमहौषधव्यतिकरस्त्वत्तुण्डकण्डूचयम् ।।१६।।
मुद्रिनकुमुदचन्द्रनाटके-- कुमुद०-(सहर्षम्) मञ्जरितो मम मनोरथपृथिवीरुहः फलितोऽद्य वृद्धार्यिकया नटनदीपनविधिः । अहो मद्भाग्यानां श्रयति परिपाकं व्यतिकरः, चिरात् प्रीतिस्निग्धां रचयात विरञ्चिमयि दृशम् ॥ यदस्मिन् दुर्भिक्ष कलियुगविलासे तु सुधियां, ममोत्पन्नस्तकाभ्युदयभाणितीनां तरुणिमा ॥ १७ ॥ (पुनः सखेदमात्मानं प्रति ) रे चेतस्त्यज कौतुकोत्तरलतां नायं गुरुः स्वर्गिणां, कोऽपि श्वेतपटस्तु नाम सदृशं लब्ध्वाऽभवद दुर्मदः॥ सार्द्ध तेन च कीशो वत भवेन्मे तर्ककेलीरसः, कीहक्केसरिणः कुरङ्गपृथुके स्याद्विक्रमोपक्रमः॥१८॥ वैता. -मा काष्ठाम्बर ! तं वृणाय गणय श्वेताम्बरस्वामिनं, विख्यातो गुणचन्द्र इत्यभिच्या दपोद्भटोदिक्पटः ।। अर्णोराजनरेश्वरस्य पुरतो यस्योल्लसद्यक्तिभि- जिग्ये शैशवपांशुखेलनवयस्याभिः सुखं सूक्तिभिः॥१९॥ कुमुद०-(सावहेलम्) आः वैतालिकापसद! ममाप्यग्रतोदिगम्बर दर्शनतिरस्कारमाविष्करोषि । जाड्यं वितन्वन्नपि तापदायी स्तम्भं प्रकुर्वनापि कम्पकारी ॥ भूतज्वरोऽहं विषमः सदर्प कंवादिनं सादृशं न चक्रे ॥२०॥ वैता.--(उपहस्य) कुमुददोषाकर! सत्यमसि व ज्वरः, परं न पावनः यतो न स्नेहेन प्रशान्तोऽसि,नापिपत्तिकः कक्षम- परथा मृद्वीकामधुराभिरपि ताभिर्भणितिभिर्न विरतो. ऽसि, श्लैष्मिकस्तु सम्भाव्यसे, सच प्राप्स्यसि देवमूरि- . - द्वितीयोऽङ्कः। प्रतिभाष्मणा पापच्यमानः प्रविलयं, यदि वा वेलाज्वर इव स्वगृहज्वर इवायं नमाप्नोति प्रवेशमपि सदसि सिद्ध- राजस्य। स हि राजा। रक्षःसंक्षोभदक्षः परिदलितमदोत्तालवेतालमालो, झोटिङ्गोन्मोटनकप्रकटभुजपटुर्धकटिभ्रष्टभूतः ॥ शाकिन्युत्राससारः प्रबलपरिलसद्योगिनीमेलकारः, स्वैरं वीरस्त्रियामास्वति करगृहीताऽसिपट्टः श्मशाने।।२।। कुमुद०-(सकोपताम्रम्) वैतालिककुलकलङ्क ! किमदृष्टराजस. भोऽपराभूतवादिन्दश्च कुमुदचन्द्रः १ । मयि वागीश्वरीमूनो सलीलमपि जल्पति ।। दर्पः परिगलत्येव सह स्वेदेन वादिनाम् ॥२२॥ मयि वादिनि सद्बुद्धिवधूविरहितरिव ॥ ध्रुवं शौद्धोदनैः शिष्यैर्धारितः पाटलः पटः ॥२३॥ मज्जल्पाभाववाल्लभ्यादभावस्यापि मानताम् ।। भाट्टाः प्रकटयामासुन पुनः कारणान्तरात् ॥२४॥ तत्त्वामृतमुचां वाचां मम दृषणदुष्टता ॥ नास्तीति वादिभिः कैश्चिन्नास्तिकत्वे व्यवस्थितम् २५ मयि जल्पत्यनालोक्य कस्याप्यकस्य कौशलम् ।। शाङ्करैः स्वीकृता मन्ये सत्रिकर्षस्य मानता ॥२६॥ प्रगल्भाभावमालोक्य मदने वादिमण्डलम् ।। कापिलाः कल्पयामासुः प्राकृतं जगदप्यहो ॥२७॥ मज्जल्पज्वलनज्वालातापितानां प्रवादिनाम् ॥
२२ RAN ? मुद्रितकुमुदचन्द्रनाटके- मदः पारदवत्तूर्णं प्रणश्यन्नैव दृश्यते ॥२८॥ वैता-पारद एव देवमूरिभवोदन्वतः, परं कवलितानन्तगुण चन्द्रगर्वधातुरगम्यः प्रतिवादियुक्तिज्वालानाम् । कुमुद-आः बन्दिकुलावस्कर, दुर्मुखशेखर ! तदेव पुनस्तरां दिगम्बरदर्शनदलनमुद्भावयास (सविषाद च) अहो भवाब्धी किन्नाम जीवद्भिानुभूयते ।। तिरस्काराङ्करं कर्णे शासनस्य ममापि यत् ॥२९॥ वैता०-- गेहे नतिया पूर्ण? तूर्ण प्रचल साम्प्रतम् ॥ त्वरते देवसूरीणां वाणी वादिमदच्छिदे ॥३०॥ कुमुद०-(सौत्सुक्यम् ) कस्कोऽत्र सुखासनबाहिषु ।। ( प्रविश्य ) राहुः-अहं चिटामि समादिसतु सामी राहुडः । कुमुद०-(सखेदमात्मगतम्) कथं प्रथममेव राहोः प्रवेशः (प्रकाशम्) अरे ! प्रगुणीयतां सुखासनम् । राहुः-एवं करियदि। ( इति निष्क्रान्तः) कुमुद०-(त्वरामभिनयन् ) अरे किं नाद्यापि मुखासनमायाति। (प्रविश्य) केतुः-( कर्णे ) एवमेवम् । कुमुद०-आः कोऽयं श्लेष्मविकारः क्षुच्छब्दः,कः खलु शब्दार्भयो- १ अहं तिष्टामि, समादिशतु स्वामी, राहोः । , २ एवं क्रियत। रि द्वितीयोऽङ्कः । २३ स्तिवसम्बन्धः, अन्यथा वयं तेन श्वेतभिक्षुणा विक्षिप्ता इति वचनोच्चारेणापि किमर्थस्तथात्वं प्रथते ?। तथाहि । जरत्तृणकुटीरके शटितवस्त्रखण्डाऽऽवृतः, स्फुरद्धिमसमीरणप्रवणदन्तवीणाकणः ॥ समस्तविनिमीलितावयवगोलकाकारभाक्, भजेन्न हत दुर्गतो दहननामतो नितिम् ॥३१॥ तदाऽऽनयत त्वरितमेव सुखासनं कलङ्क खल्वयं निरर्गल: सकलवादिकुञ्जरस्य मम प्रतिवादिपृष्ठगमनं (पुनःसाहङ्कारं ) पृष्टमेव वा ऽर्दयति वादिनः कुमुदचन्द्रस्य, क नामाद्भुतवाग्मि- विरहदुर्भगे कलियुगे तादृशी प्रतिभाजलनिझरा भारतीसरित् यां न कलुषयति कुमुदचन्द्रकुञ्जरः १ । वैता०--तावत् कुमुदचन्द्राह ! गर्ज गर्जितमूर्जितम् । न देवमूरिसिंहस्य यावद्भर्जितपुञ्जितम् ॥३२॥ -आः वैतालिक नालिक ! अवध्योऽसीति किमातितरां प्रगल्भसे। ( प्रविश्य गृहीतसुखासनौ राहुकेतू ) राहुकेतू--आरोहदु सामी सुहासणं । कुमुद्०-( आरुह्य नेपथ्ये गमनं नाटयति विभवतश्च परिच्छदः- पुरोविलोक्य ससंभ्रमम्) हिंसापिशाच्याः किमयं कटाक्षः किं कालरात्रेरसनागुणोऽयम् ।। किं शृङ्खलेयं कलिकुञ्जरस्य? ज्ञातं, भुजङ्गोऽयमिह प्रयाति ॥३३॥ १ आरोहतु स्वामी सुखासनम् ।
३४ मुद्रितकुमुदचन्द्रनाटके- परिजनः-स्वामिन् ! मार्गगमनभङ्गगोऽयं भुजङ्गमः । कुमुद०-(सहर्षम् ) अगम्योभुजङ्गानां विनतानन्दनः कुमुदचन्द्र, कुण्ठताऽवगुण्ठिताः खलु कुलिशोपलविलेखने शशि- मुखीनां नखाङ्कराः, पार्चपरमेश्वरशिरोऽलङ्कारस्य हि भुजङ्गपुङ्गवस्य गोत्रिणां दर्शनमपि विपुलं मङ्गलं, तदलं विलम्बेन । ( इति निष्क्रान्ताः सर्वे) ॥द्वितीयोऽङ्कः॥ अथ तृतीयोऽङ्कः। (ततः प्रविशतः साधुस्थाहडो नागदेवश्च ) थाहड:--(सहर्षम् ) साधो नागदेव ! पल्लवितपुण्यपादपावावां, यनिजहस्ताभ्यामाशाम्बरशिरोमणेः कुमुदचन्द्रस्याव- लम्बनपत्रं पाटितवन्तौ। नागदेवः--सखे थाहड ! सर्व समञ्जसं, परमनिष्टाशङ्कीनि मुहृन्म- नांसि भवन्तीति विभमि खल्वहं क्षुद्रविद्यावैशारद्यडम्बरा दिगम्बरास्तद्यदि कथमपि देवाद्दिगम्बरो विजयते, तदा गुरुलाघवलज्जया पातालमूलेऽपि नास्माकमवस्थितिरिति। थाह.-आः शान्तममङ्गलाऽऽशङ्कया,नाऽऽतङ्काय किल व्याल: कलापिनः।
तृतीयोऽङ्कः .. तपःप्रभापराभूताः स्फुरन्नयनतेजसि । न क्षुद्रविद्याखद्योताः सुप्रभौ प्रभवन्ति ते ॥१॥ अपिच । किं नावगतं भवता- भूताऽऽली भयमेति याति विलयं वेतालकेलिक्रमः, क्लान्तिः शान्तिमुपैति जीर्यति.महाघोरस्तृतीयज्वरः ।। धत्ते वृश्चिककालनागगरलज्वाला क्षणात् संक्षयं, पादक्षालनवारिसंगवशतः श्रीदेवमूरिप्रभोः ॥२॥ नाग० --संखे ! आबालचन्द्रचारुनिरतिचारब्रह्मचारिणस्तत्र- भवतः सत्यमेवेदं न प्रवाद एव श्रीदेवसूरेः, परं मया श्रुतं मुखबन्धविद्यां जानाति स गगनाम्बराग्रणीस्तेन मना- गाशङ्कते मदन्तःकरणम् . थाह.--आसीदेवं गुणचन्द्रस्यापि मुलबन्धवैदग्ध्यप्रसिद्धिः परम्- अर्णोराजनरेन्द्रसंसदि तदा दिग्वाससा स्वामिनो, यद्वाग्वीचिभिराहतस्य निरगादीष्मणः प्रौढिमा । चित्रं त्वेतदभूदमुष्य वदने यद् वल्गितः कालिमा, स्वेदोऽङ्गेषु विजृम्भितोऽधरपुटे शोपः समुन्मीलितः॥३॥ तदस्य भगवतः श्रीदेवसूरः प्रसादेन द्रक्ष्यामो वयमात्मशा- सनसमुन्नति, नताङ्गीप्रवेशमाङ्गलिक्यहरितालिकाङ्करमण्ड- लीमिव पराजयदग्धदिगम्बरबदने दर्शशर्वरीशैशव सखी श्याममषीम् ॥ नाग -एवमस्त्वस्मद्भाग्यसौभाग्येन। ।
३६ मुद्रितकुमुदचन्द्रनाटके- थाह-(पुरः परिक्रम्य सविमर्शम् ) कथं समागता वयं राजम- न्दिरद्वारम्, ( सचमत्कारम् ) साधोऽवधारय श्रीसिद्धराजराज्यसमृद्धिम् - क्रीडत्कुञ्जरगण्डमण्डलगलदानोमिभिः पङ्किले, राजद्वारि कृतास्पदा खुरततिनोंवल्गिनां वाजिनाम् ।। किन्त्वेषा प्रतिपक्षपार्थिवचमूचश्चत्प्रतापानल. ज्वालानां प्रतिबन्धिनी विजयते मान्त्री ठकराऽऽवलिः॥४॥ नाग-किमुच्यते नयविक्रमचक्रचारिणो गुजरराजस्य ? यस्य रथस्य स्वयं निरुपमप्रभावातिथिः सिद्धराजसा. रथिः; अस्य हि राज्ये नताङ्गीमध्यभागस्यैव दुर्बलस्य बलिभिरांक्रमणम् , लक्ष्मीवन्मन्दिराण्येव परवलभीनि, कामुकमतिरेव कुचस्यानुसारिणी, व्याकरणेष्वेव पितृ- व्यभ्रातृव्यमातुलादीनां निपातनम् । थाह०-ईडगेवायं राजा- तुच्छाहारतयाऽवलङ्घनवशाद् यस्य प्रतापानल- प्लुष्टानां तनुषु द्विषामजनि या दौर्बल्यदुःस्था दशा ।। सां तेषामुपकारकारणमभूदत्यन्तसङ्कीर्णकाऽ- रण्यक्ष्माधरपोलिदुर्गमदरीगर्भप्रवेशक्रमे ॥५॥ नाग०-( पुरोविलोक्य ) कथमुदयपाल श्रीसिद्धराजराज- मन्दिरादित एवाऽऽयाति । (प्रविश्य) उदयपाल:-(तो प्रतिमुखं जल्पति ) आकारितो द्वावपि श्रीदेव- तृतीयोऽ मूरिकुमुदचन्द्रौ देवेन श्रीसिद्धराजेन, कृता सभ्य- व्यवस्था। नागदेवथाहडौ-ततः। उदय-ततो देवेन द्वावपि पक्षी यशोधरराजनामानं प्रतीहारा- वयवं दत्वा विवादसम्बन्धलेखनाय, श्रीकणे प्रेषितौ स्तः, लदाऽऽगच्छतं युवां, भगवतः पाचवर्तिनो भवामः श्रीकरणे। ( इति निष्क्रान्ताः . ॥ विष्कम्भकः ॥ (ततः प्रविशति कुमारश्रीकरणगतः सचिवोगाङ्गिलः श्रीपालप्रभूति पारिग्रहादिवर्गश्च एकत, सदग्रतः कुमुदचन्द्रोऽन्यतच देवाचार्यस्तत्परिवारश्च ) सचिवः-(देवसूरिमालोक्य सेयं समहासं च ) दन्तानां पलमण्डलीपरिचयस्थूलं भविष्णुस्ततिः, कृत्वा भेक्षकपिण्डभक्षणविधि शौच किलाऽऽचाम्लतः ।। नीरं साक्षि शरीरशुद्धिविषये येषामहो कौतुकं, तेऽपि श्वेतपटाः क्षितीश्वरपुरः काङ्क्षन्ति जल्पोत्सवम् ॥३॥ देवसूरिः-भवादृशेषु परमनीतिसूत्रधारेषु धीवरत्वेन प्रहसित- सुराधिपेषु विज्ञातशिष्टदुष्टपटलपटुदृष्टिषु न किंचित श्वेताम्बरदर्शनम् । सचि०-श्वेतपट ! मास्म कोपोत्कटो । शौचाचारविचारणा ३८ मुद्रितकुमुदचन्द्रनाटके- क्रियमाणाऽस्ति । निषिद्धः खलु मलक्लिन्नानां भूपाल- सभाप्रवेशः। देवसू०-( सोत्यासम् ) सदा मीमांसासक्ता भवन्तः, प्रतिषिद्ध- मेव राजसभाऽत्रस्थानं मुनीनां, परं शौचाचारविचा- रणाचतुर सचिवेश्वर ! अन्तरङ्गबहिरङ्गयोरन्तरङ्गो- विधिबलवान् । विमृश विमृशाम्भोभिः शक्योऽपसारयितुं न ये- जेठरपिठरीक्रोडस्थमाउंप्य हो मलपल्लंवः ।। कथमिव संदा तिष्ठनात्मन्यरूपिणि तैर हो, परिदलयितुं पार्योनार्यः स पातककदमः ॥७॥ तदन्तःशुद्धानांबहिःशरीरसंस्कारमण्डनाऽऽइम्बरपरिहारो मुनिमतल्लिकानामलङ्कारः। यतः। अन्तीरं जितक्षीरं बिभ्रद् भूतार्तिशान्तये । पयोदः किं न मोदाय ? बहिर्मालिन्यभागपि ॥ ८॥ अल्पेतरतोयतोदिनां च पावनत्वे यादसां विजयः।। सचि०-ब्रूतां कोऽपि, किञ्चिन्न पक्षपातेन वयमाचक्ष्महे, विप्र- जनादृते न परं पावित्र्यम् । देवसू०-(सान्तहाँसम् ) गाङ्गिल ! किं नस्तया चिन्तया पर प्रस्तावपतितं तु न पायंते परिहर्तुम् - यादोऽङ्गशोणितकपायितचीवराणां तन्मांसभक्षणविचक्षणदक्षिणानाम् ।। विद्वनिकायगुणानिन्दनकोविदानां तृतीयोऽङ्कः। २९ पावित्र्यमुत्तममहो ! द्विजसत्तमानाम् ॥ ९ ॥ सचि०- -( उपहस्य ) नेपथ्यमपि पवित्रं सितवाससां- वेषः कोऽपि तुरुष्कसंततिभवः कक्षान्तरे लम्बित- श्छायामाश्रयते गतासुकपशोर्जीर्णोणिकापोटिलः ।। अन्धानामिव लष्टिका करतले मुण्डं समुल्लुश्चितं युक्तं केवलमास्यमुद्गतमलं यदस्खखण्डाऽऽवृतम् ॥ १० ॥ देवसू०-हहो नागरिक ! मुखं दोषाकरो यासांमुत्पले यद्विलोर्चने ॥ यद्गतिर्जितमातङ्गा तासां वेषः सुखायते ।। ११ ।। अपि च । अगोद्वर्तनबन्धुरः परिलसनव्यार्थबद्धस्पृहः प्रागल्भी नखविक्रियासु कलयन् दान्तक्रियाकोविदः ।। नित्यं नाभिनिवेशदर्शनपटुः, कंदर्पशिक्षाक्षम- चेतस्ते हरते गुणो मृगदृशां नो सद्यतीनां पुनः ॥१२॥ युक्त एव वाऽलं चापलालकृतलोचनाभिः करणमार्गप्रवी- णाभिस्तरुणीभिः सह तद्गणस्य तव प्रणयपरिचयः। शृङ्गारागा. रसन्तप्तचेतसो वा कस्य दर्शनिनो नेपथ्यमानन्दमुत्थापयेत् ? भस्मखराण्डितः खर इव शाङ्करः त्रिदण्डमण्डितकरः, सेल्लकार इवा- द्वैतचारः कूर्चकचा विलोक्यते, न पुमान् आगुल्फपरि- धानतया किं पुरन्ध्रीति सन्देहहास्यरससङ्गतः सौगतः । यदि परं विटनटाकारचेष्टस्य चार्वाकस्यैव वेषस्तेषां पावनतया प्रयुज्यते । सचिवचूडामणे ! चिन्तय निजागमरहस्यमुक्ति तीर्थानामुत्तमं तीर्थ स्नानानां स्नानमुत्तमम् ।। शौचानामुत्तमं शौचं ब्रह्मचर्य सुरक्षितम् ॥१३॥ cs मुद्रितकुमुदचन्द्रनाटके- सचि०-( सविचिकित्सम् ) आः स्मार्तमन्यमनसोऽपालितगृहा- श्रमाः प्रागेव यतयः कुमतयः पुत्रहीनाः पितॄणामृण- भाजनं, कां शुभां गतिमवाप्नुवन्ति । देवसू.-(इषदुपहस्य) ध्रुवं धर्माभ्यासः शुभगतिनिदानं किमपरं न पुत्रस्तद्रूपों नच नियमतस्तस्य जनकः ।। अपुत्राणां न स्याद्गतिरिति वचः केवलमहो, द्विजातीनां रामारमणरसिकत्वं कथयति ॥१४॥ कुमुद०-( आत्मगतम् ) अहो प्रतिमणितिपाण्डित्यं श्वेतपट- नटस्य। देवसू०-(साऽऽच्छुरितकम् ) पुत्रहीनाः पितृणामृणभाजन- एकस्थानचरोऽपि कोऽपि सुहृदा दत्तेन जीवनपि प्रीतिं याति न पिण्डकेन तदिदं प्रत्यक्षमालोक्यते ।। जातः क्वाप्यपजीवितश्च किल यो विभ्रन्नलक्षां तनुं मुग्धैः श्वेव स तय॑ते प्रियजनः पिण्डेन कोऽयं नयः॥१५॥ (गाङ्गिलवर्न सर्वे हसन्ति) सचि०-(सकोपान्तः करणम्) 'पतयालवः पातलमूले। देवसू०-गोनिन्दां च कर्मणाऽत एव कुर्वन्ति, केवलं वचसैव परिहरन्ति । तथाहि । एतस्याः कुक्षिकोणे विदधाति वसति कोटयः स्वर्गधान्ना, एतल्लाङ्गललग्नाः सपदि तनुभृतो वैतरण्यास्तरन्ति ।।
जी तृतीयोऽङ्कः। गामित्थं स्तौति विप्रः पथि पथि, न वयं कारणं तत्र विद्यो ? गृह्णन्तीमात्मगेहात्तृणमपि निबिडं ताडयन्त्युप्रदण्डैः ॥१६॥ सचि०-(सकोपकडारतारम् ) आः एवमुच्चावचवचा अगोचरोऽसि वादकथायाः। माणिक-(साहङ्कारम् ) गाङ्गेय सचिव ! जल्पे यं विजिगीषवः सुरपुरी सप्तर्षयः औषय- बानेतुं विषमप्रमाणरचनाशास्त्राणि वायस्पतिम् ।। आह्वानं च यदग्रतः कविरिति व्यर्थं वहन् वीडया संश्लिष्टो बालमन्दिरोदरमगान् मन्त्री महेन्द्रद्विषाम्॥१७॥ स खल्वयोग्यो वादकथायाः ? । देवसू०-(समन्युस्तम्भम् ) वत्स माणिक्य ! कोऽस्य तपस्वि- नो द्विजातेरपराधः, अत्रं विवेकवृहस्पतिरपि राजा, भवत्युपालभ्यः, कुबोधकश्मलताविष्ये हि शिष्ये उपा- ध्यायस्याप्रसिद्धिः। कर्णे कर्णसुधारस विदधति ध्वाने प्रवेशक्रम, किं काकः किमु कोकिलोऽयामति यः संदेग्धि दग्धाशयः॥ तं यत्पाढविचारचारिमगुणप्रागल्भ्यलीलास्पदे धत्ते मन्त्रिपदे नृपः सुमनसां तद्भाग्यभङ्गोजितम् ॥१८॥ श्रीपाल:-भगवन्नाभिधीयते मन्त्रीश्वर प्रत्यदः। देवसू०-महाभाग ! अभाजनं भयस्य तुल्यतृणमणयः सदृश- भिक्षुकक्षितिपतयो यतयः। (इत्युत्थाय वसतो गमनं नाटयति ).
३२ मुद्रितकुमुदचन्द्रनाटके- सचि०-चयमाप अयोग्योऽयं जल्पकुतूहलस्य शुक्लाम्बर इति निवेदयामो देवस्य । ( इति निष्क्रान्ताः सर्वे) ॥ तृतीयोऽङ्कः॥ अथ चतुर्थोऽङ्कः। . ) ( ततः प्रविशति पारिश्रहिका श्रीपालः ) श्रीपाल:-( ऊर्द्धमवलोक्य ) पर्यवसितमहः । तथाहि । अस्तपर्वतानिपासचूर्णिता- दम्बरनुमशिरश्च्युतादियम् । सूर्यमण्डलफलात् समुत्थिता, सान्ध्यरागमिषतो रसच्छटा ॥ १ ॥ ( पुरोमर्कटमवलोक्य) विद्यते किमु न विद्यतेऽथवा, मच्छरीरमिति संशयाऽऽकुलः॥ लोलवालधिमुखन मर्कटा, संस्पृशत्ययममन्दमङ्गकम् ॥ २ ॥ तव्रजाम्यहमारात्रिकावसराराधनाय राजमन्दिरम्, उपलभे च प्रतीहार, किमागत्य गाङ्गिलेन विज्ञतं, कीदृग् वा श्रीसिद्धराजेन प्रत्यभिदधे । २ चतुर्थोऽङ्कः । ( इति गमनं नाटयन् पुरोऽवलोक्य ) नम्रपृष्ठसमुदश्चितस्तनं, दीपदीपनिकटे कृताऽऽस्पदम् ।। वक्रवीक्षितजनं सविभ्रम, मण्डलं जयति पण्ययोषिताम् ॥ ३॥ (एकतोऽवलोक्य ) स्फारदृष्टिराधिकाञ्चनोल्लसद- भूलता निविडबद्धकञ्चुका ॥ काऽपि कृत्रिमविलाससम्पदा, संदधाति जरती स्मराऽऽतुरान् ॥ ४ ॥ (अग्रगामितकेन राजमन्दिरप्रवेशं नाटयित्वा युनः प्रेक्ष्य ) नूनं नाबापि सिंहासनमधिरोहति देवः सिद्धराजो, यदिह सुखोपविष्टस्तिष्ठति प्रतीहारः, भवतु पृच्छाम्येनम् , (इति परिकामति) (ततः प्रविशति यथानिर्दिष्टः प्रतीहारः) श्रीपा०-(तदन्तिके समुपविश्य) भ्रातः प्रतीहार ! कथय की. दृगमात्यगाङ्गिलेन श्वेताम्बरदिगम्बरविवादविषये वि- ज्ञप्तो देवः । प्रतीहारः-तदानीमागतः सचिवगाङ्गिलः काष्टिकयशोराजनिवे. दितवृत्तान्तेन पृष्टो देवेन, यल्लिखितः श्वेताम्बरदिग- म्बरयोविवादसम्बन्धकः। श्रीपा०--ततः किमुक्तं सचिवेन ? | ५ । मुद्रितकुमुदचन्द्रनाटके- प्रतीहा.-महत्तमेनाभिहितम् , देव ! मृत ज्वालाजाल कोपान- लस्य शुक्लाम्बरः, तदयोग्योऽयं जल्पलीलावनस्योति न रोपितः श्रीकरणे सम्बन्धकः । श्रीपा०-ततः किमुक्तं देवेन ? । प्रतीहा०-अन्तरीयालुनाऽपि प्रहासपूर्व प्रतिपादितं देवेन एवम् ,-पुरुषापुरुषविशेषविदुषोऽलङ्काराऽऽरोपणमुप- पन्नं भवतो व्यपकरणं वा समुचितम् ? । चित्रं! गौरवर्णो ऽपि काल एंवावभाससे प्रजानां, सर्वथा सद्बुद्धिदृष्टि- ना त्वयास दैत्यमन्त्र्याप तिरस्कृतः । श्रीपा०-अहो देवस्य वक्रोक्तिवैशारद्यम्, ततः- प्रतीहा०-गाङ्गिलेन विज्ञप्तम्, गोस्वामिन् ! महद्विनाशितं मया, यदखिलकलाविलासदर्पणस्य देवस्यापि शासनमस्व- स्थेन विकत्थितम्॥ ततो देवनोदितम्, मुधा, मयैव विनाशितम्-यनिर्गुणोऽपि पाद्गुण्यविचारसारे व्यापारे स्थापितोऽसि । दूरमारोपिता हि वयं त्वया विद्वद्गोष्ठीप्वविचारकथाऽचलचूलिकायाम् । यतः अयमवानिपतीनां नीतिपङ्कः कलङ्को- घटितसदुपसर्गो यद्भवेन्मन्त्रिवर्गः । शपति न खलु लोकः सायकं प्राणपीडा. व्यतिकरकृतिकेतुं, हेतुमेवास्य किन्तु ॥ ५ ॥ परमय मेव महान् गुणो यस्तेन दुःसहस्वदर्शननिन्दाश्राविणां AAL चतुर्थोऽङ्कः । निरुपाधिशुद्धतीव्रतपश्चारिणा सद्यः फलदपापेन शापेन न का- मपि शिलाशकलकलां लम्भितोऽसि । तथाहि- कलयति. मरुलीलामापगानां भुजङ्गः, सुरगिरिरापि धत्ते वालवल्मीकमुद्राम् ।। भजति कठिनभानुः क्षुद्रखद्योतुदीप्ति व्रतनियतमतीनां शापतः सदयतीनाम् ॥६॥ श्रीपाल-अहो पात्रापात्रपरिज्ञानपावित्र्यं सिद्धचक्रवर्तिनः । प्रतीहा०-तंतोमहत्तमेनावादि, देव! एवमेतत् , श्रूयते हि विश्वा- मित्रप्रभृतीनां गिरामगम्यस्तपोमाहिमा । ब्याहृतं देवेन, किमुच्यते विश्वामित्रस्य ?- वाग्वैक्लव्यं कमलवसतेः स्वःपतेरश्रुपूरो, गीर्वाणानां वदनकमले कालिमा देन्यदिग्धः ॥ सप्तर्षीणां कृपणभणितो काऽपि दाक्षिण्यकक्षा, यस्मिन् सृष्टि घटयात नवामन्तरायं वितेने ॥७॥ तद् गच्छ त्वं संबोध्य श्रीदेवाचार्य श्रीकरणे सम्बन्धक लेखयेति देवेन विसृष्टो निर्जगाम गाङ्गिलः । श्रीपा०-स्वयं लज्जमानेन प्रहितोऽनेन देवमूरिसमाकारणाय लघुभ्राता। प्रतीहा.-ततः--- श्रीपा-तेन च महती वैनयिकीवृत्तिमातन्वानेन प्रकृतिकरु- णाभरमन्थरः प्रसत्तिमानीतः स भगवान्, ततो. विजयसेननामा स्वशिष्यः प्रहितः ।
मुद्रितकुमुदचन्द्रनाटके-
प्रतीहा०-युक्तमनुष्ठितं भगवता यद्गाङ्गिले स्वयमनागते नाऽऽग-
तमात्मना।
श्रीपार -ततः करणे समागतः स विजयसेनः, पृष्टो महत्तमेन,
सादृश्यमनुमापयति यौनसम्बन्धम् , तकि भवति
देवाचार्यस्तवेति ।
प्रतीहा०-ततः किमुक्तममुना ।।
श्रीपा०-अमात्य ! अनों विवाहव्यवहारस्य व्रतिजनः किम-
नेन विचारेण, लेख्यतां प्रकृतः सम्बन्धकः ।
प्रतीहा-(सानन्दम्) नूनं निरीहावतंसंस्य श्रीदेवसूरेः शिष्यस्य
यदुचितं तदवाचि विजयसेनेन ।
श्रीपा-ततो मया संबन्धकं व्यालिख्य विसर्जितो।
प्रतीहा०--(सखेदम्) लश्चावितरणचातुर्येण दिगम्बरेण सपक्षी-
कृताः सन्ति शीलाङ्कयशोधरादयः।
श्रीपा--कथमवसीयते ।
प्रतीहा०-विज्ञप्तः खलु ह्यस्तनेऽह्नि देवो यशोधरेण, यदेव ?
दृष्टोऽद्य दिगम्बरशिरोऽलङ्कारः कुमुदचन्द्रः ।
अहो अस्यान्वीक्षिकी वैचक्षण्यं, अहो पवित्रमवास्त्रित्वम्।
नूनम्-
वदति कुमुदचन्द्रे मुद्रिता वादवार्ता,
प्रतिवचनविचारे भाष्यकर्ता स यस्य ।।
भुजगपरिढोऽपि प्रौढिमानं न धत्ते
यदविशदयमन्तर्लज्जया भूमिगर्भस् ॥ ८ ॥
चतुर्थोऽङ्कः ।
३७
श्रीपा०-ततः किमुक्तं देवेन ?
प्रतीहा०-अस्ति महातार्किकोऽयं तद्भविष्यत्यस्मन्मनःकौतुकाय,
अहो ! अस्य देवाचार्येण सह जल्पप्रबन्ध इति ।
(नेपथ्ये)
वैतालिकः--प्रमोदसंपदे संपद्यतां देवस्य चन्द्रोदय:-
राजन्नभ्रंलिहगृहलसचन्द्रशालाग्रवल्ग-
ल्लोलाक्षीणां वदनरुचिभिनिद्भुतस्थामृतांशोः ॥
एते ह्यभ्युद्गमविलसितं वायवो व्यञ्जयन्ति,
क्रीडावापीविकचकुमुदाऽऽमोदसौहृद्यसाराः ॥९॥
मनस्विनीधाम्नि मृगाङ्कभासः,
मदह्यमानाऽगुरुधूमधूम्राः॥
विकासते क्षालितमानपत्र
श्लेषण कालुष्यमिवोपयाताः ॥१०॥
मागधी-चउलुक्कतिलय तुह किति केलिवावीइ मण्डणं ससिणो।
गम्भ टिआलिपटलं पडिहासइ पुंडरीअं व ॥११॥
अपि च।
संपइ नरिंद तुह रिउ घरे सुचन्द मुनिचन्द सालाओ ।।
निअ नाह विओएण व रुति नीसन्द सलिलहि ॥१३॥
१ चौलुक्यतिलक ! तव कृतिकेलिवाप्या मण्डने शशिनः ।
गर्भस्थितालिपटल परिहासयति पुण्डरीकमिव ॥ १ ॥
संप्रति नरेन्द्र ! तव रिपुगृहे सुचन्द्रमुनिचन्द्रशाला ।
निजनाथवियोगोनेव रुदन्ति निस्यन्दसलिलैः ॥२॥
३८ मुद्रितकुमुदचन्द्रनाटके- प्रती०-प्रस्तावो देवस्याऽऽरात्रिकावसरस्य कविः समाहूयते, तदहं गमिष्यामि । श्रीपा०-अहमपि देवं प्रणम्य गाङ्गिलयशोधरोदन्तं श्रीदेवसूरे- पियितुं व्रजामि । ( इति निष्क्रान्तौ) ॥ विष्कम्भकः ॥ (ततः प्रविशति कविराजः) कविराजः-(स्मरणं नाटयित्वा) समादिष्टोऽस्मि देवेन सिद्धच- क्रवर्तिना, यथा त्वया रजन्यां देवाचार्य्यवसतौ गत्वा ( आत्मगतम् ) एवं वाच्यमिति तद् बजाम्यहं ( शय्या- पालकमारुह्य ) कृतप्रतिक्रमणकृत्याः सम्प्रति भविष्यन्ति मुनीश्वरा इति (तथाकृत्वा वसतिद्वारे शय्यापालकावरोह नाटयन् श्रवणमभिनीय सहषम् ) पापाऽऽटोपकृपीटयोनिशमनश्रीपुष्करावर्तक- चारित्रावनिपालमन्दिरलसत्सङ्गीतलीलोत्सवः ।। संसारोद्धरसर्पदुष्टतनुभृन्मन्त्राभिधानक्रमः, स्वाध्यायध्वनिरेष मे श्रवणयोः पीयूषमावर्षति ॥१३॥ ( सविमर्शपुलकम् ) मानं मा वितनुष्व धर्मदयितेऽमुष्मिन्दुराराधने, वैमुख्यं कलयेदयं यदि सुखोदन्तोऽपि तदुर्लभः।। इत्थं मुग्धसखीमित्र त्रिजगतीं संशिक्षयन्ती मुहुः, मूक्तियक्तिमगादियं भगवतो वीरस्य नक्वाम्बुजात्।।१४।।
चतुर्थोऽङ्कः। धन्यानां वदनाम्भोजे स्फुरत्येषा, यदग्रतः॥ ज्वालायते रसाला सा शर्करा कर्करायते ॥ १२ ॥ ( इति प्रवेशं नाटयति) (ततः प्रविशति पारिग्रहिकः श्रीपालनिवेद्यमानवृत्तान्तः शिष्यमाणिक्यविजयसेनाभ्यामलङ्कृतप्राश्वः श्रीदेवसूरिः) देवसूरिः-(पुरोविलोक्य) अये कथं सिद्धभूपालबालमित्रं, मूत्रं मुकवितायाः, कविराजविरुदकमलनालं, श्रीपालमा- लोकयामः। कविः-(सप्रणयं प्रणम्य उपविश्य सविषादं) पातुं नेत्राञ्जलिभिस्त्वद्रूपरसायनं विधिहतस्य ।। श्रीदेवमूरिसुगुरो!नाभङ्गुरमस्ति मे भाग्यम् ॥ १५ ॥ देवसू०-कवीश्वर अप्रतिकार्योऽयं पुराकृतासुकृतपरिपाकः, परं कृतैव भगवत्या भारत्या त्वयि त्रिलोकाऽऽकलनकाशल- जुषः सारस्वतचक्षुषो वितरणेन करुणा । कविः-भगवन् ! समादिष्टोऽहमिहाऽऽगमनाय देवेन चौलुक्य. चन्द्रमसा संदिष्टश्च । देवसू०-अवहिताः स्मः। कविः-इदमाह महीमीनलाञ्छनः, प्राप्तपतिवादिविजयलक्षो विपक्षस्ते स्वदेशोत्कर्षहर्षिणां चास्माकं परदेशीयेन विजयोपार्जनं महते परितापाय, नच परदेशजेनापि गुणेन गृह्यामहे वयम् , निर्गुणेऽपि स्वदेशजे पक्षपा-. तो हि निर्घातो राजनीतेः कुसुमस्तवकोऽपकीर्तिकण्टा- go मुद्रितकुमुदचन्द्रनाटके- लिकायाः, तत्तथा प्रयतेथा यथा न दौर्मनस्येन या- महे, किन्तु स्पर्धामहे, मुधर्मायब बर्दामहे प्रमोद पीयूषपूरणति । देवसू०-(सरोमाञ्चकवचम्) कःखल्वदक्षिणश्चाविचक्षणश्चैवमा- चक्षीत, एवं तु संबोधनीयो महीमहेन्द्रो-यथा भव- दभीष्टघटनाय भवत्प्रताप एव पटीयान् , मा कृथाः सर्वथाऽपि संदेहदोलान्दोलनक्लान्तं स्वान्तम् । कविः-किमुच्यते चौलुक्यचन्द्रस्य । वारं वारं प्रतिनृपशनोल्लुण्ठकण्ठाटवीपु, पीतां दुग्ध्वा भुजबललसद्वत्सकां खड्गधेनुम् ॥ यस्य ज्योत्स्नाजलशुचियशःक्षीरपूरैः प्रतापो, गोपः पूर्णामतनुत जवाद् विश्वपारीमपाराम् ॥१६॥ देवसू०-कश्चायं स्वसभया पराजितायां सुधर्मायां सुधास्पर्धा ऽनुबन्धो धराऽधीश्वरस्य, किं नालोक्यन्तेऽनेकचतुरा- ननाः, किं न परिस्फुरन्ति गणनातिक्रान्ता गिरीशाः, किंन लक्षीक्रियन्ते लक्षशः पुण्डरीकाक्षाः, किं न जुम्भन्ते भूरिशोजिष्णवः, किं नोल्लसन्ति बहवो राजहंसाः, किं न विलसन्ति सहस्रशो भूतनयबुधाः, किं न प्रगल्भायन्ते मध्येसुधर्माधिकृतमन्त्रिणः। कविः-भगवन् ! इदृगेव गुर्जरेश्वरस्य सभा। तथा हि- तावद् व्याकरणप्रवीणभाणितिः प्रागल्भ्यमुज्जृम्भते, तावकाव्यविचारभारधरणे धीरायते धुर्यता ।।
पञ्चमोऽङ्कः। तावतर्ककथाऽनुबन्धविषये बद्धाभिलाष मनो, यावन्नो जयसिंहदेवसदसि प्रेक्षावतामागमः ॥१८॥ देवसू०-सा कि कलाप्यस्ति ? यान प्रेमाऽऽकुला चौलुक्यचन्द्र- मसि ।। . कविः-भगवन् ! एवमेवैतत् तथा हि- ऊढा पौढिर्न मन्त्रोद्धरणपरिणतः कर्षितो न प्रकर्ष- स्तन्त्रोत्तानरसेन्द्राऽभ्युदयविधिबुधैधारित नोद्धरत्वम् ।। स्मातः स्फूर्तिर्वितेने न, न पटिमगुणः स्फोटितो वेदविद्भिः, चर्चा चाणक्यवाचां व्यरचि न सचिवैर्यत्र सिंहासनस्थ।।१९ देव०-कविकुञ्जर विदुषामखण्डपुण्यखेलितमिदं, यदयमेवंविधः क्षितिपतिः सभापतिः।। कविः-भगवन् ! महती रात्रिरतिक्रान्ता तद्वन्दिष्येऽह, प्रभ- वोऽपि योगनिद्रामुखमनुभवन्तु । (इति निष्क्रान्ताः सर्वे) चतुर्थोऽङ्कः॥ अथ पञ्चमोऽङ्कः। (ततः प्रविशति राजमन्दिरद्वारमागतः प्रतीहारः) प्रतीहारः-( पुरोऽवलोक्य ) कथमयं उक्कुरः श्रीपाल इतएवा. ऽऽगच्छन्नास्ते।
मुद्रितकुमुदचन्द्रनाटके-
(प्रविश्य )
श्रीपाल:-(तं प्रति) किं समयोऽस्ति देवदर्शनस्य ? ।
प्रतीहा०--प्रतीक्षख क्षणं, देवोऽन्तःपुरमध्यास्ते।
श्रीपा०-( उपविशति)
प्रतीहा०--विज्ञप्तः कल्ये देवो दण्डनाथशीलाङ्केन यथा यदि
श्वेताम्बरः पराजीयेत तदा देवेन मम समर्पणीयः ।
श्रीपा-ततः किमुक्तं देवेन 1.
प्रतीहा०-यद्येवं भविष्यति तदैतदपि करिष्यामि इति ।
श्रीपा०-(साऽऽशङ्कम्) कथं प्रतिपन्नोऽयमर्थोदेवेन !! |
प्रतीहा०-यदि कथमाप दैवात्पराजयःश्रीदेवसूरेः, तदा महती
विडम्बना, विवरे पतिष्यति श्वेताम्बरशासनम् ।
श्रीपा०-महात्मन् ! असंभावनीयमेलत्-
आदौ शासनदेवता दलयति प्रत्यूहदन्तावलं,
साधूनां विशदं सृणीयति ततस्तेजस्तपःसंभवम् ।।
श्राद्धानां सुकृतानि केसरिनखायन्ते च तं प्रत्यहो,
तच्छ्रेताम्बरशासनं विजयते विग्नाऽऽवलीनाशनम्॥१!!
सखे! कियन्मात्रमेतत् दिगम्बरवाणीतरङ्गिणीशोषणं प्रति-
भोष्मणां श्रीदेवसूरीणाम्-
शब्दाशब्दविवेकविद्रुपवनाविर्भावसंभूषितः,
ताग्निशिखाकरालकुहरः सिद्धान्तरत्नाञ्चितः।।
साहित्यामृतसारणीतिलीकतक्रोडस्थलो लीलया,
विभ्राणमुनिनामपीयत ! जायेर्वाङ्मयाम्भोनिधिः ।।
CatusNO
पञ्चमोऽङ्कः। ४ प्रतीहा०-अद्य तृतीयपहरे इममप्युत्सवं द्रक्ष्यामः । श्रीपा--(पुरोविलोक्य) अयं देवोऽन्तः पुगद्गजराजनिरीक्षणाय वजन्नास्ते तदहं प्रणम्य गच्छामि । ( इति निष्क्रान्तावुभौ .) ॥ विष्कम्भकः ॥ (ततः प्रविशति राजकाष्टिकेनाहूयमानः सुखासनासीन: पुरःप्रोद्दामवादि- त्रकेशवादिपरिच्छदालङ्कृतो बन्दिवृन्दपठ्यमानः कुमुदचन्द्रः) बन्दी-विजयेतामद्य श्वेताम्बरशासनदेवाचाय्यौँ दिगम्बरशास- नकुमुदचन्द्रौ। केशवः-सखे ! कथमनिश्चितकर्तृकर्मप्रमोगमुभयत्र द्विवचनम् । कुमुदचन्द्रः-( सहर्षम् ) पूर्णा अद्य मनोरथाः-- मद्वाचस्तरलायन्ते प्रपातुं विजयामृतम् ।। युक्तं कुमुदचन्द्रस्योदये पानं मृगीदृशाम् ॥ ३ ॥ बन्दी-गउड नवाडे गडबडिय चोड कबाड विहंडीय दिउड दडीय अपुरि खुडीअलाड डाहालीअ मुंडिअ । मरहट्ट यउत्तट्ट नट्ट सोरट्ट समुठिअ निरुमालविअ पभट्ट घट्ट कन्नउजइ पइहि ॥
मुद्रितकुमुदचन्द्रनाटके- ! सिरि कुमुदचंद वहिअ निअविसल्हसहालीरु समुल्लवई । तिम गव्वु गलअउ पंडिअ जणह जिम सूरुग्गमि हिमु दवई॥४॥ कुमुद०-(पुरोनिरीक्ष्य) अये प्राप्ता वयं पार्थिवधवलगृहद्वारे । (इति सुखासनादवरुह्य वादशालाप्रवेशं नाटयन् ) कथं नायात्यचापि श्वेतपटः, (इति प्रतीहारोपनीतपट्टके उपविशति) (ततः प्रविशति साधुथाहडदत्तबाहुः पुलकपल्लवितानवालिः कतिपयाऽऽतश्राद्धमण्डलीमण्डितो देवमूरिः) थाहडः-भगवन् ! उत्कण्ठते मत्करः काष्ठाम्बरलञ्चावशी- कृतान् सभासदस्त्यागलीलायितेन संमुखयितुम् । देवसूरिः-साधो ! अलमस्थानक्लेशेन, यत्कर्णे अनुगृहीतोऽस्मि मुगृहीतनामधेयैः शिष्यलबवत्सलैः श्रीमुनिचन्द्रमूरि- भिरतप्रयोगप्रदानेन । थाह.-(सचमत्कारमभिनयन् ) तर्हि फलितमस्मत्पुण्यमञ्जरीभिः। ( नेपथ्ये कलकलः) थाह-अयं महाराजः सभायां निविशते । ततः प्रविशति राजा श्रीजयसिंहदेवः शीलाङ्कयशोधरराजगुरु- गाङ्गिलप्रभृतिभिर्विभवतश्च परिच्छदः) ( सर्वे यथोचितमुपविशन्ति ) देवसू०-(राजानं प्रति) पञ्चमोऽङ्कः। नारीणां विदधाति नितिपदं श्वेताम्बरपोन्मिष- कीर्तिस्फातिमनोहरं नयपथप्रस्तारभङ्गीगृहम् ॥ यस्मिन् के वलिनोन निर्जितपरोत्सेकाः सदा दन्तिनो, राज्यं तजिनशासनं च भवतश्चौलुक्य ! जीयाचिरम्।।२।। राजा-(सहर्षम् ) औचित्यवर्णना हि प्रथमे प्राणाः कवितासह- दयतायाः। कुमुद०-(नृपं प्रति) खद्योततिमातनोति सविता जीर्णनांभालय- च्छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः।। इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गोचरं, तद्यस्मिन् भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥६॥ राजा-(आत्मगतम् ) आः वाचोमुद्रिता इति वदता दिग्वाससा सूचितः स्वस्य पराजयः । (प्रकाशम् ) कः कोऽत्र भोः सभ्यः। प्रती०-(अङ्गुल्या निर्दिशन्) देव ! अयं तर्कभारतपाराशर. महर्षिमहर्षिः, शारदादेशविदितावदातविद्यामहोत्साहो- ऽयमुत्साहः, अयमद्भुतमतिश्रीसागरः सागरः, अय- मुत्तीर्णप्रमाणपथमहार्णवाभिरामो रामः, एते देवस्य सभ्याः, अयं च देवाचार्यपाक्षिककविरवराजः कवि. राजः, अयमद्भुतप्रतिभाभू भूः । कुमुद०-इयमस्मत्पाक्षिकी केशवत्त्रयी। उत्साहः-(ईषदुपहस्य) संवृतावयनमस्तदूषणं साधनं सदास दर्शयिष्यतः ।
४६ मुद्रितकुमुदचन्द्रनाटके- अस्य लुश्चितकचस्य केवलं केशवत्रितयमेति सभ्यताम्॥४॥ राजा-(सस्मितम् ) पक्षे केशवतां त्रयम् । उत्सा०-कः पृथ्वीपुरन्दरादपरः पाठमात्रादप्येवं रहस्यग्राही? । राजा-कोऽत्र वादी महर्षिः-दिगम्बरः। राजा-(सस्मितं कुमुदचन्द्रं प्रति ) क्रियतां प्रयोगः। कुमुद --प्रयोगद्गुणाति। . देवसू०-(तं दूपयित्वा) वादिना हि द्वयं कायें, परपक्षविक्षेपः, स्वपक्षसिद्धिश्चेति, (स्त्रीनिर्वाणसिद्धये प्रयोगमारचयति ) कुमुद०-पुनरुच्यताम् । देवसू०-(प्रयोगं पुनः पढ़ति) कुमुद०-(सखेदकालुप्यम्) भूयोऽप्यभिधीयताम् । देवसू०-(पुनः प्रकाशयति) कुमुद--(सम्यगर्थमनवबुद्धच दृषपति) देवसू०--अस्य भवद्भाषितस्य अनवबोध एवोत्तरम् । महर्षिः--(सहर्ष सशिरःकम्पम्) अहोदेवसूरवादन्यायवेदित्वं, यदि दूषणाऽऽभासमयमन्ध दूषयेत्तदा अयमपि निगृह्येत । कुमुद०--लिख्यतां कडित्रे प्रयोगः । देवसू०--सोऽयं गुरुशिष्यन्यायः । महर्षिः--देव ! समाता वादकथा, जितं श्वेताम्बरेण, हारित A ! HINDE पञ्चमोऽङ्कः। दिगम्बरेण, अतोऽप्यूई विकथनं पराभूतज़म्भारिसभे महाराजसदसि गोवधमनुबध्नाति । शीलाङ्कः--सर्वदैव भङ्गपातकारिणामग्रेसरोऽयं महर्षिः न ददा- त्येवमुदयं वादकथायाः। राजा-(तं प्रति जनान्तिकम् ) व्रज त्वमात्मप्रयोजनाय, भग्नाखल भवन्मनोवल्लरी श्वेतपटपुण्यप्रभञ्जनेन । शीला--(सविषादमपक्रामति). राजा-महर्षी ज्ञातमस्त्यस्माभिस्तत्वं, पर बद्धता कौतुकं, लख्यता कडित्रे प्रयोगः। केशव:--(लेखनं करोति) कुमुद०--(अवबुद्धय दूषयति ) देवसू०--(अनूद्य तदुषणं च परिहत्य स्वपक्षं स्थापयन् कोटाकोटि शब्दं प्रयुङ्क्ते) कुमुद०-आः ! अपशब्दोऽयम् । उत्साहः--अन्तरिक्षाम्बर ! मैवमाचक्षीथाः, कोटाकोटि:, कोटिकोटिः, कोटीकोटिरिति त्रयः ।। शब्दाः साधुतया हन्त संमताः पाणिनेरमी ॥८॥ ( इति पाणिनिप्रणीतसूत्रं व्याकरोति ) देवसू०-आः स्वशास्त्रस्यापि न स्मरसि "अन्तः कोटाकोटिस्थि- तिके सनि कर्मणि" इति ।
मुद्रितकुमुदचन्द्रनाटके- राजा-(सचमत्कारम्) अहो निर्भरेऽप्येवं वासंपराये एवं ज्ञापकस्मरणं विशेषलक्षणभाषणं च देवाचार्यमुखादेव विजृम्भते । कुमुद०--(सवैलक्षं वास्तम्भं च, किमपि किमपि अनूद्य दूषयति ) देवसू.--दशमांशेनापि नानुवादो दूरे दूषणोद्घोषणम् । यशोधरः-आर्थ्या वृत्या सर्वमनूदितम् । देवसू०-(उपहस्य) कोऽयं मर्कटमुखः, पीयूषमधुररसालफल- लोभलोललोचनस्ततायोगोलके तुण्डं ताण्डवयति । अ- व्यारे व्यापारः कीलकोत्पाटन इव कस्य न हास्यावहः । राजा०--(सहासं ) साधूपश्लोकितोऽन्तरालपलापी। देवसू०-(दिगम्बरोक्तमावर्त्य दूषयति) कुमुद०--(सकण्ठशोषं मषीकूचकितभालम् ) महाराज ! महानवादी देवाचार्यः । राजा--कुमुदचन्द्र ! मा तन्द्रामङ्गीकृथा, अयमहमनस्थितः कथ- यिष्यामि, कुरु वचनविरचनाम् । कुमुद०--( सदैन्यगद्गदम् ) देव ! अलं निर्वन्धेन । कविः-(सोल्लास ) किमुच्यते विशदाम्बरदर्शनोदयाद्रिदिवा- करस्य देवसूरेः- वल्गयुक्तितडिल्लतां दशनरुक्चश्वलाकान्वितर्ता, यद्वाचं जलदावली सदवथु व्यालोक्य विस्तारिणीम् ।। श्रीसिद्धाधिपतेः पुरः स्थितिजुषो नेतुर्नभोवाससा, दर्पोष्मा व्यगलत्प्रभाऽब्जमदलद्वाग्जालहंसो ऽचलत् ।।९।।
पञ्चमोऽङ्कः। ૪૬ उत्साहः--(कुमुदचन्द्रं प्रति) एतेनास्मि पराजितः परिषदि श्रीसिद्धभूमीभुजो- धृत्वैवं हृदये दिगम्बरमणे ! मामा स्म लज्जां कृथाः॥ जल्पाजल्पविलासवर्णनविधौ श्रीदेवसूरेखपाम्, क्रान्ता सापि विधृत्य मौनमभजद्वैमश्चिकी भारती ॥१०॥ राजा--(सरोमाञ्चम् ) जल्पता देवसूरीणां मन्ये संमदमनया ।। क्षिप्तौ निरुञ्छनीकृत्य भारत्या शुरुषार्गनौ ॥१॥ महर्षिः-देवं ! अद्य श्रीदेवसूरेः प्रामाणिकमनोहारिणी वाणी- माकर्ण्य विशीर्णः कणादाक्षपादभणितौ पक्षपातः, उद्विग्नमुद्योतकरोक्तावन्तःकरणं, अरुचिगोचरतामचरद्वा- चस्पतिमतिः, दग्धमिवावभात्युदयनवाग्वैदग्ध्यम् ।। राजा--प्रमोदामृतमनमभून्मदीयमों केवलं समाष्टापदलोष्ठे श्री- देवसूरौ त्यागलीलासुखमनासादयन् खिद्यते माहुः । देवसू०--चौलुक्यावचूल! अलं विषादकुतूहलेन, वितीर्णैव त्व- होष्णा परज्योतीरसेन्द्रबन्धनौषधेस्तपोधनजनस्यापि तपोनिर्विघ्नतासिद्धिः, राजन्वत्यां हि वसुमत्यां कण्टका- ऽऽकुलतया कीदृशी चरणचारिता । राजा--(कुमुदचन्द्रमुखमालोक्य सकौतुकम्) केन खलु पपीकूर्च- कविरचना व्यरच्यत वदने वियद्वसनस्याद्भुता । ( प्रविश्य नेपथ्ये वज्रार्गलानाम योगिनी) योगिनी--(हस्तमुदञ्च्य) अक्षयस्कन्धो भवतु सिद्धधराधीश्वरः। ( तामालोक्य सर्वे विस्मयन्ते ) निरुञ्छि निष्कृत्ये त्यपि पाठ; ।
५० मुद्रितकुमुदचन्द्रनाटके- राजा--(साश्चर्यम्) शीतांशोः कुलदेवतालनुलता कामस्य नव्यं वयो. लावण्यं भृशतप्तकाञ्चनरुचः संवादिनी दीधितिम् । दृष्टिं शान्तरसप्रवाहविलसच्छेताब्जिनीं बिभ्रती, काऽज्ञातैव सभाप्रवेशमकरोत्कस्मादकस्मादियम् ॥१२॥ वज्रार्गला--क्षोणीपते त्वामभिनन्दति प्रणतपार्थिवविलीयिता- मङ्गलेलक्षा देवी कामाक्षा। यथा राजन्वती वसुमती विस्मारितरद्वंहाम् । विक्रमाञ्चितया नीत्या रक्षन् पुष्यस्व वाञ्छितैः॥ १३ ॥ राजा--(सहर्षोत्कर्ष) धन्यः खल्वहं, पुत्रमिव मन्यते मां कामरूप- पाठाधिपतिभगवती। वज्रा०--समादिष्टाऽस्मि स्वामिन्या यथा ऽस्मज्जातेरपवर्गमार्ग- भङ्गभुजङ्गव्याहारलग्नस्य नग्नस्य मुखे मषीकूर्चकं विर- चयेति, कृतश्च मया तदाऽऽदेशस्तदनुजानातु मांगमनाय महीमृगाङ्कः॥ राजा--अमोघं भवतीनां दर्शनम् । वज्रा०--ददामि यदभिप्रेषि । राजा--वेतालो विकरालमूर्तिरकृत श्रीवर्बरः किंकरः, पक्षच्छेददशां विपक्षनृपवनीतः परां पारदः॥ कामाक्षा च निरीक्षते भगवती मां प्रौढपुत्राऽऽशया,. किं नामास्त्यमुतोऽपि मेऽभिलषितं यत्मार्थये संप्रति।। १४|| पञ्चमोऽङ्कः। यत्र तथापीदमस्तु । प्रतिवादिपराभूतिधूमरीध्यामलानना। कदाप्यस्मत्सभा माभूत्सारदावल्लिमञ्जरी ॥ १५ ॥ वज्रा०--इलातलाऽऽखण्डल ! दुर्लध्यैव वादिभिस्ते सभा, देाचार्यमूर्तिर्वादार्गला, भविष्यति च सदैवेदम् । ( इति गगनगमनेन निष्क्रान्ती वागला) राजा--(कुमुदचन्द्रं प्रति) प्रशान्तदर्पोष्मणस्ते पर्याप्तामतःप्रभृत्या- तपत्रेण, दीपनिःश्वासविक्षिसमक्षिकस्य कृतं चामरैः, तूलादपि लघोरलं सुखासनाध्यासनेन । ( नेपथ्ये) साधुथाहडनागदेवयशोनागमभृतयः श्राद्धाः भो भो गी• यन्तां मङ्गलानि, प्रवर्त्यतां वर्धापनकानि, समारोपितः खलु श्वेताम्बरप्रासादे श्रीमद्देवमूरिणा विजयकल्याणकलशः । राजा-(देवसूरिं प्रति) प्रतिवादिमदज्वरापनोदधन्वन्तरे! श्रीदेव- सूरे । अलंकुरुष्व वसति, कृतमङ्गलाचारः प्रतीक्षते श्राद्ध- वर्गो भवदागमम् (प्रतीहारं चप्रति ) समादिश्यतां महो- त्सवाय पौरलोको, वयं योगीन्द्रकलामनुशीलयामः ॥ ( इति निष्क्रान्ताः सर्वे) ॥ पञ्चमोऽङ्कः॥ इति मुद्रितकुमुदचन्द्रनाम नाटकम् । कृतिरियं श्रीपद्मचन्द्रसूनोर्यशश्चन्द्रस्य ।। O*30- AR मुद्रितकुमुदचन्द्रनाटकस्थपद्यानां अकारादिक्रमेण सूचीपत्रम् । RSReme पृ. २९ अगोद्वर्तनबन्धुरः २५ अर्णोराजनरेन्द्रसंसदि ३ अस्थि कुलीणो लीणो- २८ अन्तर जितक्षीरं ९ अपकृतिकृतिकोप- ३४ अयमवनिपतीनां ३२ अस्तपर्वतनिपात- २० अहो मद्भाग्यानां २२ अहो भवाब्धी किं नाम १५ आकण्ठशोषपरिपोषफलः ४२ आदौ शासनदेवता 9 आस्तां सुधा किमधुना ४१ जढा प्रौढिनमन्त्रोद्धरण ३० एकस्थानचराऽपि ३० एतस्याः कुक्षिकोणे ge एतेनास्मि पराजितः ३ कर्ताऽनैकमबन्धानां ३१ कर्णे कर्णसुधारसं ३५ कलयति मरुलीलामा-: १४ किं तेहिं कुरिजेहिं पृ. २६ क्रीडत्कुञ्जरगण्डमण्डल- ४ कैलासाचलमल्लसद्- ४७ कोटीकोटि कोटिकोटि: ८ कः कण्ठीरवकण्ठकेसर- ४५ खद्योतद्युतिमातनोति ४३ गउड नवाडि गडवडिअ ५ गगनतरुरिदानी ८ गान्धारध्वनिगीतपीत- १६ .गुणचन्द्रजयाञ्जनतः • २२ गेहे नर्दितया पूर्ण ३७ चउलुक्कतिलभ तुह किति ११ चेत् श्वेताम्बरदर्शनस्य २३ जरत्तृणकुटीरके ge जल्पतां देवसूरीणां ३१ जल्पे यं विजिगीषवः २० जाड्यं वितन्वनापि ९ जीयादसौ कुमुदचन्द्र- ३ सोहग्ग समग्गं १० ज्वालाकराले २१ तत्त्वामृतमुचां वाचा लि ( २ ) पृ. पृ. २५ तपः प्रभापराभूताः १९ नास्माकं हृदि दर्प- १३ तप्तहरिदम्बरेण ११ नैव ध्यायति शब्द- ४ तावत्पञ्चमकाकली २१ प्रगल्भाभावमालोक्य २३ तावत् कुमुदचन्द्राब ५१ प्रतिवादिपराभूति- ४० तावद् व्याकरणप्रवीण ३९ पातुं नेत्राञ्जलिभिः २६ तीर्थानामुत्तम तीर्थ ३८ पापाटोपकृपीटयोनि- १३ तीनैः पङ्घजिनीप्रियस्य १५ पीयूषप्रकृतावपि २६ तुच्छाहारतया. १७ पौलोमीपतिमन्त्रिणो- २ तैस्तैबुद्धिसुधारस ४ बीओ वियखणो- २७ दन्तानां मलमण्डली. ९ भस्मीभवन्ति भतयः ५ दशनकरजपातान् २५ भूताली भयमेति १२ दिगम्बरशिरोमणे २१ मज्जल्पज्वलनज्वाला- १४ दुर्वादिगर्वगजसंयम २१ मज्जल्पाभाववा. 9 दृष्टिं न पहिणोति ४३ भदाचस्तरलायन्ते ३ देवगुरू नामेण ३१ मनस्विनीधाम्नि १७ देवाचार्यबलायुक्तः १० मनोरथः पूर्तिपथं ३८ धन्यानां वदनाम्भोजे २१ मयिं वादिनि ३० ध्रुवं धर्माभ्यासः २१ मयि जल्पत्यनालोक्य १२ नग्ननिरुद्धा तरुणी २१ मयि वागीश्वरीम्नौ ३३ नम्रपृष्ठसमुदञ्चितस्तनं २ मल्लिसग्भिरिवावृताः २ न प्रत्यग्रसुधासर:- २० मा काष्ठाम्बर ! तं १७ नयनविषयं जातश्चापः १० मातृभ्रातृपितृ-. ११ न विद्या दोन्ध्यं ३८ मानं मा वितनुष्य ४ नामेण कयरविंदू १५ मुकुलयति विवस्वान- ४५ नारीणां विदधाति २९ मुखं दोषीकरो यास पृ. १८ यन्मूर्तिप्रतिभैव २ यस्याराधनबु- १२ यस्य वाणीतरङ्गिण्यां १९ यस्मिन् जल्पति २८ यादोऽङ्गशोणितकषा- ११ यौष्माकीयेऽपि हि २१ रक्षःसंक्षोभदक्षः ५० राजन्वती वसुमती ३७ राजन्नभ्रंलिहगृहलसत्- ७ रूपं पङ्गलयूपमुज्ज्वल २० रे चेतस्त्यज कौतुको- ३६ वदति कुमुदचन्द्रे मुद्रिता ४८ वल्गयुक्तित डिल्लतां ३५ वाग्वैक्लव्यं कमलवसते. १८ वादं वादं वदनकमले ४० वारं वारं पति- ३२ विद्यते किमु न विद्यते पृ. ५ विधुनिधुवनलीला- र विमृश विमृशाम्भोभिः ५० वेतालो विकरालमूर्ति १ वेल्लत्कोमलमञ्जरी- २० वेषः कोऽपि तुरुष्कसंतति- ४२ शब्दाशब्दविवेक- १४ शमेन परिगृह्यते ४९ शीतांशोः कुलदेवता- १ श्रेयः कुड्मलमांसला ६ सच्चक्रनन्दनपटुः ३७ संपइ नरिंद तुह- ४५ संवृतावयवमस्तदूषणं ३३ स्फारदृष्टिरधिकाञ्चनो- सहं हो श्वेतपटाः! किमेष- २३ हिंसापिशाच्याः किमयं १४ ही कस्स पुरोऽहं
No text on this page.
॥ श्रीः॥ मुद्रितकुमुदचन्द्रप्रकरणस्य मुद्रणाधार- भूतानि पुस्तकानि। १ एकं पुण्यपत्तनस्थ (पूना) संस्कृतलाइब्रेरीतः समागतमशुहूं कसंज्ञकम्। २ द्वितीयं मुनिराजभक्तिविजयजीतःप्राप्तं सं.१९५८ वत्सरे राजनलिखितं नातिशुई खसंज्ञकम् । ३ तृतीयं मुनिराजमहाराजश्रीहंसाविजयस्य सं.१९४४ वत्सरे लिखितं प्रायः शुद्धं गसंज्ञकम् । पृष्ठे पङ्क्तो ६ ग. पुस्तके लाञ्छित भुव इति लिखितमस्ति । २ ३ ग. रसनिस्यन्द इति पाठो वर्त्तते स एव शुद्धतामा- वहति । ३४.५ ग. प्रबन्धानांसोऽत्र इति पाठः, अतन्द्रः काव्यमुद्रासु इति चाग्रे पाठः। ८ ग. परीणईए इति दृश्यते । ५ ३ ग. श्लाघ्यैव इति अनुस्वाररहितः पाठो युक्ततरः। १७.ग. १४ श्लोकानन्तरं अपिचेत्यधिकः पाठः क. ख. संज्ञके नास्ति । १६ श्लोकस्थाने १५ इत्यशुद्धिः । २ ग. मुद्रादर्शनमात्रपावनतया इति युक्तः पाठः। ४ "
८
पृष्ठे पत्तो
, २-३ ग. सोमभूरिति पाठः। जटाचूर्ण इति दृश्यते
११ ग. पक्षपातेन नाचक्षे इति पाठः।
७ ग. विदुषां मुख इति युक्ततरः पाठोऽवगम्यते।
१२ ग. जर्जरीकृतगूर्जर इति लेखः ।
६ ग. (माणिक्यो वक्तुमुपक्रमते) इति युक्त एव ।
८ ग. वर्तमानस्य ते इति अधिकः पाठः।
१० १९ ग. कुलोद्यत् वनमिति पाठान्तरम् ।
१९ २ ग. प्राप्ताग्रवादमिति पाठान्तरं यशोविशेषणम् ।
१२ ३ ग. सर्वथा शम एवेति अधिकः पाठः।।
७ ग. हसति इति शुद्धमस्ति । .
७ ग. पङ्कने इति सप्तम्यन्तः ।
॥ १६ ग. उल्लुण्ठोक्तीनामित्येव युक्तः ।
१३ ४ ग. क्षोणिरुहां गणेनेति शुद्धः।
१३ ग. कथय इति पाठो नास्ति ।
१५ १५ ग. क्षीराम्भोनिधिगर्भे इति शुद्धः पाठः ।
, १९ ग. प्राप्स्यति खलु स खलो-इति अधिकः पाठः ।
२२ ग. लेहिस्सादि भयवपि ईदृक् पाठः।
१६ १ ग. तुह्माणं ... पुच्छयपत्थारो इत्यक्षरहीनः पाठः ।
८ ग. यथा-वत्स ! प्रेष्यतामिति युक्तः।
१७ १-२ ग. देवाचार्य प्रभो ! वनसरोजाक्ष्याः इति पाठान्तरम्।
२७ १५ ग. कार्यसिद्धरित्येव पाठः, सदिति पदं नास्ति ।
१८ ५ ग. सखे इति सम्यक् पाठः ।
१९ १ ग. निव्यूढानेकवादिविजय इति रीत्या पाठः ।
१० ग. भाणितमित्याकर्णयाम इति विशेषः ।
२० २ गः वृद्धायिकानटनदीपनविधिरिति.समस्तः पाठः ।
" (ग) पृष्ठे पन्तो १९ ग. मूर्तो ज्वरोऽहमिति पाठान्तरम् । २२ ३ ग. प्रतिवादिजल्पज्वालानाम् इति पाठान्तरम् । , १४ ग. प्रगुणीक्रियतामिति च पाठः । २० ग. क्षुत शब्द इति । १ ग. वास्तवः सम्बन्ध इति पाठान्तरम् । ८ ग. तदानय त्वमेव सुखासनमिति पाठान्तरम् । २४ १६ ग. वैशारद्यडम्बरादिगम्बरांद्यदि इति पाठः । २५ १ ग. तपःप्रभापराभूतस्फुरत्तपनतेजसि इति साधुपाठः। २२ रा. श्यामिकामषीमिति पाठः ७.ग. ठकारावलिः इति शुद्धः पाठः। ग. गूर्जर इति लेखः। २७ ९ ग. प्रविशति श्रीकरणगत इति युक्तः पाठः । २९ १४ ग. हरते गणो मृगोत पाठः । १९ ग. कूर्चकचावलोकनेन पुमानिति शुद्धः पाठः। ३० १५ ग. विधिरिति पोठान्तरम् । १७ खसंज्ञके पुस्तके त्रुटिरस्ति मुद्रणसमये गसंज्ञकं पुस्तकं न समासादितं-अधुनाऽत्र तल्लिख्यते । "सचि०-(सकोपान्तः कलुषम्) श्वेतभिक्षो ! न युक्तं वर्ण- गुरूनेवमवज्ञातुं, ब्राह्मणगोनिन्दावादिनांन रौरवादपरत्र स्थितिः। देव-यादि वर्णगुरवो नासंस्तत् कथं पतयालवः पाता- लमूले, गोनिन्दां च कर्मणाऽतएव कुर्वन्ति " इति ॥ ३४ १४ ग. मुग्ध इति पाठान्तरम् । ३६ ११ ग. विसर्जितोऽसौ इति पाठान्तरम् । १२ ग. सखे ! इति सम्बोधनान्तं (सखेदामिति) स्थाने । ३७ १२ ग. चकासति इति शुद्धः पाठः। . " ! -
(1)
पृष्ठे पडतो
१४ ग. कित्ति, ... मण्डल, इति उभयत्र पाठद्वयं युक्तम्
१५ ग, पडलमिति पाठः ।
१७ ग. संपइ नरिन्द तुह रिउ घरेसु चन्दमनि इति रीत्या
पाठो दृश्यते स एव युक्तः।
३८ १२ ग. भविष्यान्ति ते मुनीश्वरा इति पाठः ।
३९
२ ग. रसालाऽपि इति पाठान्तरम् ।
४ ग. ततः प्रविशति पारिग्राहिकश्रीपाल इति समस्त:
पाटा।
२१ ग. गुणैर्न गृह्यामह इति पाठः।
४० २० ग. गूर्जरेश्वरस्य समेति लेखः।
४२ २२ ग. बिभ्राणैर्मुनितामपीयत इति युक्ततरः पाठः ।
४३ १४ ग. गउडं नडीय गडवडीय, परिखुडिय, मालवीय,
कन्नउज पइटिय, विसल्ल सहारु गुन्य गलिउ सूरुग्गमि
एवं रीत्या तत्र २ पाठो दृश्यते ।
४४ १८ म. गाङ्गिलप्रभृतिविश्वतश्चेत्येव पाठः।
१ ग. विकत्थनमिति युक्तः पाठः।
४९ २४ ग. निरुञ्छनीकृत्येत्येव पाठो युक्तः।
५१ १६ ग. भवदागमनम् इति पाठः ।
॥ इति ॥