Canegie Mellon Univeristy

Lalitha Trishathi Bhashya

Shan'karachaar^ya · 2006/02/26

PDF Proofread

Front matter

No text on this page.

श्री
जगद्गुरुग्रन्थमाला
2

No text on this page.

॥ श्रीः ॥
'एषा शंकरभारती विजयते निर्वाणसौख्यादा
श्रीजगद्गुरुग्रन्थमाला-२
श्रीललितात्रिशतीभाष्यम्
श्रीशंकरभगवत्पादावार्य विरचितम् ।
श्रीरङ्गस्थ श्रीवाणीविलासमुद्रणालये मुद्रितम् ।

No text on this page.

॥ श्रीगुरुभ्यो नम ॥ ॥ समर्पणम् ॥ श्रीमच्छकरदशिकस्य महिता मूर्तिद्वयी या स्थिता तत्रैका हि तिरोबभूव विजने केदारनाथस्थले । अन्या वर्णमयी तु भाष्यनिचयरतोत्रप्रवन्वात्मना सर्वव समुज्वला विजयते ताभ्या तनुभ्या नम: ॥ १ ॥ यस्ततास्ति लघुप्रबन्धनिचयः स्तोत्राणि भूयासि वा तेषा द्राविडभाषयाऽनुवदनं विद्वद्वरैः कारितम् । श्रीमच्छकरसेविनी सुसमितिः सम्यक्प्रकाश्यावुना विद्यातीर्थपदे समर्पयति तत् लोकोपकारक्षमम् ॥ २ ॥ शकरगुरुसस्थापितसर्वजगद्वन्द्यशारदापीठम् । शकरसेवासमिति. प्रकरणमालार्पणादलंकुरुते ॥ ३ ॥ शंकरगुरुवररचितप्रकरणमाला शुभानुवादयुताम् । शकरपरपरागतविद्यातीर्थे समार्पिपत्समितिः॥४॥ शकरसेवारसिका शाकरसिद्धान्तसारसर्वस्वम् । शकरसेवासमितिप्रकटनमाला सदाऽपि सेवन्ताम् ॥ ५ ॥ Noye-P3CAL

No text on this page.

ललितात्रिशतीभाध्यम् । तथापि मम चित्तस्य पर्याप्ति व जायते । काार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥३॥ किमिदं कारणं हि ज्ञातव्यांशोऽस्ति वा पुनः । अस्ति चेन्मम तब्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥ ४ ॥ सूत उवाच समाललम्बे तत्पादयुगलं कलशोद्भवः । हयाननो भीतभीतः किमिदं किमिदं विति ॥५॥ मुश्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः । चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ॥६॥ तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा । प्रणम्य विप्रः स मुनिस्तत्पादावत्यजन्स्थितः ॥ ७॥ वर्षत्रयावधि तदा गुरुशिष्या तथा स्थितौ । तच्छृण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः॥८॥ ततः श्रीललितादेवी कामेश्वरसमन्विता । प्रादुर्भूय हयग्री रहस्येवमचोदयत् ॥ ९॥ श्रीदेव्युवाच अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि । राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥१०॥ स्वमातृजारवद्ोप्या विद्येपेत्यागमा जगुः । ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥११॥ मया कामेश्वरेणापि कृता सङ्गोपिता भृशम् । मदाज्ञया वचोदेव्यश्चक्रुर्नामसहस्रकम् ॥ १२ ॥ - ललिनाविशतीभाष्यम् । ३ - आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः । सर्वक्रियाणां वैकल्यपूर्तिर्यजपतो भवेत् ॥ १३॥ सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया । तब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ।। १४ ।। पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः । अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५ ॥ अमुञ्चमानस्त्वत्पादो वर्षत्रयमसो स्थितः । एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥ १६ ॥ चित्तपर्याप्तिरेतस्य नान्यथा संभविष्यति । सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७॥ सूत उवाच इत्युक्त्वाऽन्तरधादम्बा कामेश्वरसमन्विता । अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥ १८ ॥ संस्थाप्य निकटे वाचमुवाच भृशविस्मितः । हयग्रीव उवाच कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥१९॥ त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये । येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥ २० ॥ सच्छिष्येण स्वया चाहं दृष्टवानस्मि तां शिवाम् । यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१ ॥ अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् । यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेत् हृदि ॥ २२ ॥ - ललितात्रिशतीभाष्यम् । रहस्यनामसाहलादपि गुह्यतमं मुने। आवश्यकं ततोऽप्येतल्ललितां समुपामितुम् ॥ २३॥ तदहं संप्रवक्ष्यामि ललिताम्यानुशासनात् । श्रीमत्पञ्चदशाक्षर्याः कादिवर्णक्रमान्मुने ॥ २४ ॥ पृथग्विशतिनामानि कथितानि घटोद्भव । आहत्य नाम्नां त्रिशती सर्वसंपूर्तिकारिणी ॥ २५ ॥ रहस्सातिरहखैशा गोपनीया प्रयत्नतः । तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६॥ केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज । मन्त्रात्मकत्वमेतेषां नानां नामात्मतापि च ॥ २७॥ तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा । सूत उवाच इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतवयम् ॥ २८ ॥ बहुकालं सुभक्तिमहिना गुरुपादाम्बुजमवलम्व्य स्थिताय कुंभयोनि- मुनये शिवदम्पतिकूननामशतत्रयोक्त्या प्रेरितो हयग्रीव उवाच - ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैल निलया कमनीया कलावती ॥१॥ ककाररूपेति । ककारः कवर्णः रूपं ज्ञापकविशेषणं यस्याः सा, कादिविद्याविग्रहेत्यर्थः । अथवा ककारः रूप वाचकं येषां ते ककाररूपाः हिरण्यगमः उदकम् उत्तमाङ्गं सुखादयश्च । हिरण्यगर्भनिष्ठजगद्धारक- जगत्कर्तृत्वादिगुणवत्त्वं ककारस्य व्यञ्जनादिमवर्णत्वेन वर्तत इति तद्वाच्य- तया तथा । उदकनिष्ठमन्नादिद्वारा जगत्सञ्जीवनहेतुत्वमपि ककारस्य - ललितात्रिशतीभाष्यम। , विद्याग्रिमवर्णतयाऽस्तीनि तद्पा वा । सर्वेषां प्राणिनां शिरस्यमृतमस्तीति योगमार्गेण कुण्डलिनीगमन नत्रत्यनत्प्रवाहालुतयोगिनामीश्वरसायं जायत इति योगशास्त्रेपु प्रसिद्वम । तहत कवर्णः मन्त्रादिमभागस्थः तत्पुरश्चर्यापरायणानां शिवभावमेव यच्छतीति वा तद्रूपेत्यर्थः । “कं ब्रह्म खं ब्रह्म' इति श्रुतः दहराकाशस्य मुग्वस्वरूपत्वेन परमप्रेमास्पदतया अभिलापविषयत्तवन ककारोऽप्यतिप्रीतिविषयमूलमन्त्रादिमाक्षरतया अभ्यर्हिनत्याद्वा तद्रूपेत्यर्थः ॥ ॐककाररूपायै नमः॥ कल्याणी । कल्याणानि सुखानि युगसार्वभौमानन्दादारभ्य ब्रह्मानन्दपर्यन्तं तैत्तिरीयकादो प्रतिपादितानि । नत्तदुपाधिभेदेष्ववच्छिन्न- स्वरूपतया तानि कल्याणशब्दवाच्यानि , एतस्यैवानन्दस्य अन्यानि भूनानि मात्रामुपजीवन्ति' इति श्रुतेः। समष्टिव्यष्टिमत्त्वमुपहितस्वरूपेण सम्भवतीति मतुप्समासोपपत्तिः । तथा च राहोः शिर इतिवत् समा- सान्तर्गतपष्ठयर्थभेदस्याविवक्षिततया आनन्दैकविप्रवतीत्यर्थः, "विज्ञान- मानन्दं ब्रह्म' इति श्रुत्युक्तब्रह्मस्वरूपलक्षणवतीत्यर्थः ॥ ॐ कल्याण्यै नमः॥ कल्याणगुणशालिनी। कल्याणाः सुखकर्तारः ये गुणाः सत्य- कामरात्यसङ्कल्पसर्वाधिपत्यसर्वेशानत्ववामनीत्वसंथद्वामत्वादयः, ते अस्याः शालयन्त इति तथा, एनां शोभयन्तीति वा, तैः शाल्यत इति वा कल्याणगुणशालिनी। तथा च कल्याणाश्च ते गुणाश्च कल्याणगुणाः शालयन्त्येनामिनि कल्याणगुणशालिनी, अस्मिन् समासे देवतायाः परा- धीनगुणवत्त्व स्वतः शुद्धचैतन्यत्वं च स्फुरितम् । कल्याणगुणेः शाल्यत १ छान्दोग्योपनिषत् ४-१०-. २. बृहदारण्यकम ४-३. ३. बृहदारण्यकम् ३-९-२८. . .

ललितात्रिशतीभाष्यम् । 1. स भगवः . . इत्यत्र गुणवत्त्वमानं देवतायाः द्योत्यते । तस्यौपाधिकत्वं वैदिकमपि स्तुतौ तदप्रकटनं न दोपाय । यदि गुणानामारोपितत्वेन तत्सङ्कीर्तनस्य भेदबुद्धिसमये तत्कृपाप्राप्तिहेतुत्वेनावश्यकत्वम् , तथापि तदपवादपुरःसरं शुद्धचैतन्याभेदध्यानरूपमुख्यमजनं मुख्यमेवेति संपादयितुं स्वगुरूपदिष्ट- मार्गेण सुकरमेवेति नातिविस्तार्यते ।। ॐ कल्याणगुणशालिन्यै नमः॥ कल्याणशैलनिलया। शिलानां विकारः शैलः शिलाघन इत्यर्थः, कल्याणं सुखमेव शैलः घनीभूत इत्यर्थः, तस्मिन् कल्याणशैले स्वस्वरूपे आनन्दघने निलयति तिष्ठतीति कल्याणशैलनिलया , कस्मिन् प्रतिष्ठित इति खे महिनीति होवाच' इति श्रुतेः, देवदत्तः स्वस्मिन्नेव स्वयं वर्तते इति लोकिकप्रयोगाच, देवतायाः स्वस्वरूपे स्वावस्थानं युज्यत इति । कल्याणमेव शैलबत् घनीभूतं कल्याणशेल: आनन्दमयकोशः कल्याणशैलो निलयः यस्याः सा इति बहुश्रीहिसमासः न विरुद्धः, ब्रह्म पुच्छं प्रतिष्ठा' इति उक्तश्रुतिप्रामाण्यात् । अथवा कल्याणशैलः महामेरुः निलय गृहं यस्याः सा तथा, सुमेरुमध्य- शृङ्गस्थेत्यर्थः ।। कल्याणशैलनिलयायै नमः ।। कमनीया। परमानन्दस्वरूपत्वेन परमप्रेमास्पदा, "को ह्यवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' इति श्रुतेः। सुखस्य मनोहरत्वेन सर्वेप्साविषयत्ववत् मायावृतानां सुखप्रापकत्वेन स्वस्वेष्ट- देवतासु प्रीत्यतिशयेन तत्पूजादौ प्रवर्तमानानां तत्फलदानेन मनोहरत्वाद्वा कमनीया । ज्ञानिनामानन्दघनीभावात्मकसुन्दरमूर्तिमत्तया वा कमनीया। १ छान्दोग्योपनिषत् ७-२४ २. तैत्तिरीयोपनिषत् २-५. ३. तैत्तिरीयोपनिषत् २-७. : 2 ललितात्रिशतीभाष्यम् । कमनीयायै नमः॥ कलावती। कलाः शिरःपाण्याद्यवयवाः, चतुःपष्टिकलाः विद्या- रूपा वा, चन्द्रकला वा, भक्तध्यानाय अस्याः सन्तीति कलावती ॥ a कलावत्यै नमः॥ कमलाक्षी कल्मपन्नी करुणामृतसागरा । कदम्बकाननावासा कदम्बकुसुमप्रिया ॥२॥ कमलाक्षी । कमले इव अक्षिणी यस्याः सा तथा । कमलाया: लक्ष्म्याः अक्षिशब्देन तन्निमित्तकं ज्ञानं लक्ष्यते विषयतासंबन्धेन तद्वतीति वा । कमलायाः ऐहिकामुष्मिकश्रियः हेतुभूते अक्षिणी यस्याः सा इति स्वकीयेक्षणमावेण महेश्वर्यप्रापिकेति भावः ।। ॐ कमलाक्ष्यै नमः॥ 1. कल्मषन्नी। कल्मषाणि पापानि हन्ति नाशयतीति कल्मषनी, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि' इति भगवद्वचनात् । अथवा वेदान्तमहावाक्यजन्यसाक्षात्काररूपब्रह्मविद्या "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृतः, 'न स पाप शृणोति' इति श्रुतेश्च ।। कल्मषघ्न्यै नमः॥ करुणामृतसागरा। करुणया कृपया जातं यदमृतं मोक्षरूपं तस्य सागर इव सागरा। यथा अमृतसमुद्रः स्वयममृतस्वरूपः सन् अन्यानपि लोकान् अमृतपायिमेघाद्विमुक्तामृतेन संजीवयति, तथा " ब्रह्म १ गीता १८-६६ २ गीता ४-३७ ३ मुण्डकम् ३-२-९ ललितात्रिशतीभाष्यम् । . . वेद ब्रह्मेत्र भवति' 1 ब्रह्मविदाप्नोति परम्' इत्यादिश्रुत्या स्वयममृत- स्वरूपा सती। 2 लभत च ततः कामान्मयैव विहितान्हि तान्' इति भगवदचनेन तत्तदधिकारिकृतकर्मापासनादिफलस्य देवताप्रापणीयस्य संप्राप्तो तत्तदधिकारिणां तत्तत्फलं स्थितमिति सभाव्यत इति सागरोपमा । अमृतवत्सर्वसंजीवनी करुणामृतस्य अभिन्नाश्रयत्वात् सागरा, करुणा च भक्तविषयकपरिपाल्यताबुद्धिः । यद्वा, करुणया कृपया अमृताः शाश्वत- कीर्तिमत्त्वेन ब्रह्मादिलोक गताः सागराः सगरराजवश्याः यस्याः तथा, यद्वा, करुणया दयया हेतुना अमृताय प्राप्तः सागरः समुद्रो यया सा भागीरथी, करुणामृतसागरा ॥ ॐ करुणामृतसागरायै नमः॥ सा , कदम्बकाननावासा। कदम्वनामककल्पवृक्षयुक्तं यत्काननं वनं तत्रावासो गृहं यस्याः सा तथा ॥ ॐ कदम्बकाननावासायै नमः। . कदम्बकुसुमप्रिया। कदम्बानां कुसुमानि कदम्बकुसुमानि तेषु प्रिया प्रीतिमतीति यावत् । यद्यपि प्रियशब्दः प्रीतिविषयवाचकः, तथापि कुसुमजन्यत्रीतेरभावेन तहिपयतायाः वक्तुमशक्यत्वात् तथोक्तम् ।। ॐ कदम्बकुसुमप्रियायै नमः॥ कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा । कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥३॥ कन्दर्पविद्या। कन्दर्पस्य विद्या तन्निष्ठप्रत्यग्ब्रह्मैक्यज्ञानमित्यर्थः । १. तैत्तिरीयोपनिपत् २-१ २. गीता ७-२२.

ललितात्रिशतीभाष्यम् । अथवा विद्याप्रापकत्वात्तदृष्टमूलमन्त्रवर्णसमुदायो विद्येत्युच्यते वेदवाक्येपु उपनिषत्पदवत् । तद्वाच्यार्थत्वान तथा देवी सूच्यते ।। ॐ कन्दपविद्यायै नमः ॥ , - कन्दर्पजनकापाङ्गवीक्षणा। अपाङ्गाभ्यां वीक्षणमपाङ्गवीक्षणम् ईपद्दशनमिति यावन् । कन्दपस्य जनकं अपाङ्गवीक्षणं यस्याः सा । अनेन नाम्ना येषां जडानामपि कुरूपिणां जनानां उपरि सकृदीपद्वीक्षण- मभिजायते, ते कन्दर्पवद्रूपयौवनसामर्थ्यलक्ष्मीभाजो भवन्तीति ध्वनितम् । यद्वा कन्दर्पस्य जनकः श्रीनारायणः सः यस्याः अपाङ्गवीक्षणे ईषद्- भ्रूवल्लिचलने वर्तते, यस्याः आज्ञामात्रवश्यतया महाविष्णुः जगद्रक्षादि- कार्य करोतीति सा तथा इति । अथवा, कन्दर्पजनका महालक्ष्मीः यस्याः अपाङ्गवीक्षणे प्रेर्यतया वर्तते सा तथा । कन्दर्पस्य मन्मथस्य जनकाः उत्पादकाः स्रक्चन्दनादिभोग्यविषयाः ते यस्याः अपाङ्ग- वीक्षणात् भवन्ति सा तथा। अथवा , चन्द्रस्य वामनेत्रतया अपाङ्ग- वीक्षणं चन्द्रिकोच्यते । कदपजनकं अपाङ्गवीक्षण यस्याः तथा। कंदर्पजनकाशब्देन लक्ष्मीनिवासकमलं लक्ष्यते , तद्वत् अपाङ्गं कमलाक्षीत्यर्थः तन्निरूपितवीक्षणं लोकसंजीवनं यस्याः सा तथा ॥ ॐ कंदर्पजनकापाङ्गवीक्षणायै नमः ।। .. कपूरवीटिसौरभ्यकल्लोलिनककुप्तटा। कपूरयुक्ताश्च ताः वीटयश्च ताम्बूलकबलानि तासां सौरभ्यं सौगन्ध्यं तैः कल्लोलितानि असकृत्परि- मलितानि ककुभां दिशां तटानि प्रदेशाः यस्याः सा । मुखवासित- परिमलेन जगन्मात्रं सुरभीकृतमिति स्वरूपातिशयोक्तिः अस्मिन्नाम्नि व्यज्यते , महाराजभोगवतीत्यर्थः ।। ॐ कर्पूरवींटिसौरभ्यकल्लोलितककुप्तटायै नमः। L.2 ललितालिशतीभाष्यम् । कलिदोपहरा कंजलोचना कम्रविग्रहा। कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥४॥ कलिदोषहरा। कलेः निन्द्याः जायमानानां पुरुषाणां जन्म- मात्रेण ये दोषाः पापानि आयान्ति , तान दृष्टा श्रुता कीर्तिता संस्तुता पूजिता ध्याता सती हरतीति तथा । कलेः अन्योन्यवादिनां कलहात् तत्तन्मताभिनिवेशवशाजायमाना ये दोषाः परब्रह्मविपये अस्तित्वनास्तित्व- देहादिव्यतिरिक्तत्वभिन्नत्वाभिन्नत्वगुणित्रादिसाधक युक्त्याभासतदनुगुण- संमत्याभास श्रुनितात्पर्यविघटनान्यथाकरण दुराग्रहजन्य काम क्रोध परुष- परवशक्रियमाणनिन्दासहनादिरूपा बहुविधा दोषाः, तानद्वैतब्रह्मज्ञान- साधनमुक्तिरूपेण हरनीति कलिदोपहरा ॥ ॐ कलिदोपहरायै नमः॥ कंजलोचना। जायन्त इति कजानि, कंजशब्देन अरविन्दनीलोत्पलानि लक्ष्यन्ते तद्वल्लोचने यस्याः सा तथा । अथवा कजं ब्रह्माण्डम् । 'अयं पूर्वमपः सृष्ट्वा तासु वीर्यमपामृजत् तदण्ड- मभवद्वैमम्' इति वचनान कजानि अनेककोटिब्रह्माण्डानि लोचनयोः लोचनवनवीक्षणात् यस्याः सा तथा, सेयं देवतैक्षत' इति श्रुतेः ।। कालोचनायै नमः। कम्रविग्रहा। कम्रः अतिमनोज्ञः गाम्भीर्यधैर्यमाधुर्यादिबहुगुणो- दितत्वात् , विग्रहः मूर्तिः यस्याः सा तथा । आनन्दरूपममृतं यद्विभाति' इति श्रुतेः आनन्दस्वरूपत्वाद्वा क्म्रविग्रहा ललिता- रूपेत्यर्थः ॥ ॐ कनविग्रहायै नमः॥ १ छान्दोग्यं ६-३ २ मुण्डकं २-२-७ केभ्यः - 2. .

ललितात्रिशतीभाष्यम् । . कर्मादिसाक्षिणी। कर्म आदिर्येषां नानि कर्मादीनि उपासना- योगश्रवणमनननिदिध्यासनानि । तेषां साक्षिणी असंबन्धी द्रप्टी , 1 · साक्षी चता' इति श्रुतः । अथवा कर्मादयः साक्षिभूताः जीवनिष्ठाः तदनाश्रयतया आत्मदर्शनसाधनानि मृज्यमानजगदुपादानभूनानि यस्याः , सा तथा॥ . ॐ कर्मादिसाक्षिण्यै नमः ।। कारयित्री। कारयितृत्वं नाम कुरित्याज्ञापयितृत्वं जायमानकार्य- गोचरकृयुत्पत्तिहतुकर्मोद्वोधकत्वरूपलिडलोट्तव्यप्रत्ययानां धर्मः विधिनिष्ठ- भावनेत्युच्यते । तपां शब्दात्मकतया जडानां तथावासभवात्तदधिष्ठान- चैतन्यरूपतया ' सर्वे वेदा यत्रेकं भवन्ति' इनि श्रुत्या वेदस्यात्माभेदेन स्वप्रकाशकनया अर्थप्रकाशनद्वारा प्रामाण्यविधीनामपि वेदेकदेशतया प्रेरणरूपत्वात् तदधिष्ठानचैतन्यात्मना कारयतीति तथा, 'एप ह्येव साधु कर्म कारयति' इति श्रुतेः ।। कारयिन्यै नमः॥ कर्मफलप्रदा। कृतानां कर्मणां कालान्तरभाविफलप्रदान अदृष्टं कारणभित्यनीश्वरमीमासकादिमतम् , तन्न । जडानां सूक्ष्मानामष्टानां चेतनधर्मकर्मफलप्रदानसामर्थ्यायोगात् कृतानां कर्मणां फलावश्यंभावे 3 'कर्माध्यक्षः' इति श्रुतेः, * मयैव विहितान्हि तान्' इति स्मृतेश्च , फलमत उपपत्तेः' इति न्यायाञ्च परदेवता कर्मफलप्रदा ।। ॐ कर्मफलप्रदायै नमः॥ एकाररूपा चैकाक्षयेकानेकाक्षराकृतिः । एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥ १. श्वेताश्वतरं ६-११ २ कौषी ब्रा ३-९ ३ श्वेता ६-११ ४ गीता ७-२२ ५ ब्रह्मसूत्रम् ३-२-३८ , . " ललितात्रिशतीभाष्यम् । एकाररूपा। एकारः रूपं मन्त्रद्वितीयावयवसंज्ञापकं यस्याः सा तथा ॥ 1 . ॐ एकाररूपायै नमः॥ एकाक्षरी । एक मुख्य ईश्वरोपाधित्वेन । न क्षरति आत्मज्ञानेन विना आमुक्तः न नश्यतीति अक्षरं कूटस्थशब्दवाच्यं माया । तत्प्रति- विम्बनिष्ठसर्वज्ञत्वाद्याधायकविशेषणत्वेन अस्या अस्तीति एकाक्षरी । एक अक्षरं सर्वप्रकृतित्वात्सरापरब्रह्मप्रतीकतया तदुपासनया तदुभयप्राप्ति- साधनत्वेन शब्दब्रह्मरूपलक्षितलक्षकशब्दः प्रणवः अस्या अस्तीति वा । एकः अखण्डैकचैतन्यरूपः अक्षरः अनश्वरः अविनाशी परमेश्वरः अर्ध- शरीरत्वेन अस्यामस्तीति वा । एकान्यक्षराणि मायाबीजादीनि तदुपासना- प्रतीकत्वेन अस्याः सन्तीति वा । अथ परा यया तदक्षरमधिगम्यते' इति श्रुतेः अखण्डाकारवृत्तिप्रतिफलनयोग्यचैतन्यरूपतया तवृत्ति- व्यानिमात्रेण अक्षरपदलक्ष्यचैतन्यं विषयतासंबन्धेन अस्या अस्तीति एकाक्षरी । चकारः निर्गुणब्रह्मणोऽपि सगुणब्रह्मविशेषणसद्भावसमुच्चयपरः सर्वत्रापि द्रष्टव्यः । 'सच्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति वचनेन 'स्त्रीरूपा चिन्तयेद्देवी पुंरूपामथवेश्वरीम् । अथवा निष्कलं ध्यायेत्सच्चिदानन्दविग्रहाम् ॥' इति स्मृत्या च, 'त्वं स्त्री त्वं पुमान्' इति श्वेताश्वतरोपनिषदि उपाधिकृतनानारूपसंभवोक्तेश्च । अत एव सेयं देवतैक्षत' इत्यादौ 4 'तत्सत्यं स आत्मा' इत्यन्ते च श्रुतौ स्त्रीलिङ्गान्त- देवतादिपदानां तत्सत्यमिति नपुंसकान्तस्य स आत्मेति पुंल्लिङ्गात्मशब्दस्य एकार्थत्वम् अविवक्षितोपाधिमत्तया तत्त्वंपदलक्ष्यार्थस्यैकत्वात् । तस्मात् तत्वंपदलक्ष्यार्थे सर्वेऽपि गुणा वर्णयितुं संभवन्तीति हयग्रीवेण अस्यां १ मुण्डकं १-१-५ २. ४-३ ३ छान्दो ६-३-१ ४. छान्दो ६-८-७ ललितात्रिशतीभाष्यम् । 14 6 त्रिशत्या बहवः चकाराः उपाताः । तेन वयं सर्वेषां सर्वत्र न पार्थक्येन प्रयोजनान्तरं पश्यामः ।। ॐ एकाक्षय नमः॥ एकानकाक्षराकृतिः। एक ईश्वरप्रतिविम्वापाधितया शुद्धसत्त्व- प्रधानं अक्षरमज्ञानम् । अनेकानि मलिनसत्त्वप्रधानतया जीवोपाधि- भूनान्यक्षराणि अज्ञानानि, माया चाविद्या च स्वयमेव भवति' इति श्रुतेः । एकं चानेकानि च एकानेकानि तानि च अक्षराणि च तानि तथा माया तु प्रकृति' इति श्रुतः । तेष्याकृतयः प्रतिविबान्यव- च्छिन्नानि वा चैतन्यानि घटस्थोदकावच्छिन्नप्रतिविम्बिताकाशवद्यस्याः सा तथा। अथवा एकानि च प्रणवाद्यानि अनेकानि च अकारादि- क्षकारान्तानि अक्षराणि वर्णाः आकृतिः स्वरूपं यस्याः सा, मातृका- स्वरूपत्वेन बा। 'अकारादिक्षकारान्ता मातृकेत्यभिधीयते' इति वचनात्। अथवा एच कश्च एकारककारो तो चतराण्यनेकाक्षराणि च सर्व मिलित्वा पञ्चदशवर्णात्मिका मूलविद्या आकृतिः स्वरूपं यस्याः सा। साक्षितया एकीभूना अनेकाक्षरेपु अनेकाज्ञानेषु आकृतिः स्वरूपं शोधिततत्त्वंपदार्थसामरस्यात्मकं यस्याः सा तथा ॥ ॐ एकानेकाक्षराकृतये नमः॥ एतत्तरित्यनिर्देश्या। एतत् एतत्कालेऽपि इयत्तापरिच्छेदवद्वस्तु तत् परोक्षमनिश्चितस्वरूपम् । एतच्च तच्च एतत्तत् । इतिकारः इत्थंभावे तृतीयार्थे । तथा च एतत्त्वतत्त्वाभ्यामित्यर्थः। एतत्तदित्यनेन निर्देष्टुं निर्वक्तुं योग्या निर्देश्या सा न भवतीति अनिर्देश्या । लोके सविशेषो हि पदार्थः परोक्षत्रापरोक्षन्वादिधर्मविशेषेण तद्गतेन निर्वक्तुं शक्यः। शब्द- प्रवृत्तिनिमित्तजातिगुणक्रियाषष्ठयर्थानां यत्र संबन्धो नास्ति, "अशब्द- १ नृसि. ३-९, २. श्वेत. ४-१० ३. कठोपनिषत् ३-१५ १४ ललितात्रिशतीभाष्यम् । , मस्पर्शमरूपमव्ययम्' 'निर्गुणं निष्कलम्' इत्यादिश्रुत्या, तादृग्वस्तु केन करणेन केन वा वचनेन निर्देष्टु शक्यम् । 1 यद्वाचानभ्युदितम्' इति श्रुतेः। अनः एतत्तदित्यनिर्देश्या वाड्मनसातीतेत्यर्थः । अथवा, एतत् प्रत्यक्षादिप्रमाणसिद्ध कार्य पश्चाद्भावि । तत् परोक्षत्वादिविशिष्टं पूर्वकाल- संबन्धि व्यवहित कारणमुच्यते । इतिशब्द उभयत्र संबन्धनीयः । कार्यमिति कारणमित्यपि शुद्वचैतन्यरूपा अनिर्देश्या, कार्यत्वकारणत्व- घटकोपाधिविरहितत्वेन कार्यकारणभावाभावे तद्वाचकशब्दै विषयी- कर्तुमशक्यत्वात् । अथवा, एतत् अपरोक्षतया अहमिति प्रतीयमानं जीपचैतन्यं संपदवाच्यार्थः। तत् परोक्षतया प्रतीयमानमीश्वरचैतन्यं तलनाच्यार्थः । इतिशब्दः एक्कारार्थः । तथा च वादिभेदसिद्धान्तः अनूदितः। मांख्यमते प्रकृतिर्जगत्की, जीवो नाना चेतनः भोक्ता इत्यतः ईश्वर एव नास्तीत्यङ्गीकृतम् । भागवतमते तु 'गुणी सर्ववित्' इति श्रोः नित्यगुणविशिष्टात् परमेश्वराद्विष्णोर्जीवानामुत्पत्तिविनाशवत्त्वेन अनित्यत्वात् स एव भगवान् पारमार्थिकः एक इत्यङ्गीकृतम्। तदुभयवादि- सिद्धान्तस्य औपनिषदमते निरस्तत्वात् तदुभयविधया अनिर्देश्या । परमार्थसच्चिदानन्दरूपतया छान्दोग्यगतदेवताशब्दार्थस्य प्रतिपादनादिति भावः । अथवा, तटस्थेश्वरवादिकाणादादिसिद्धान्तवत् व्यवस्थितभेद- बजोवेश्वररूपतया अनिर्देश्या। भेदव्यवस्थाया एव साधयितुमशक्य- स्वादिति एतत्तदित्यनिर्देश्या ।। ॐ एतत्तदित्यनिर्देश्यायै नमः॥ , एकानन्दचिदाकृतिः। एका मुख्या मोक्षरूपत्वेन प्रापित्सिता । आनन्दः सुखम् । चित् चैतन्यं प्रकाशज्ञानम् । आनन्दश्चासौ चिञ्च आनन्दचित् एका चासावानन्दचिच्च एकानन्दचित् आकृतिः स्वरूपं १. केनोपनिषत् १-४ ललितात्रिशतीभाष्यम् । १५ 3. सा , , यस्याः सा । सच्चिदानन्दब्रह्मरूपलक्षणवत्तीत्यर्थः । 1'विज्ञानमानन्द आनन्दो ब्रह्मति व्यजानात्' इति श्रुनेः आनन्दादयः प्रधानस्य' इति न्यायाञ्च दीप्रिस्वरूपप्रकाशात्मकपरमानन्दस्वरूपस्य जीवन्मुक्त्यवस्थायां परमात्मज्ञानयत्पुरूपानुभवरूपप्रत्यक्षप्रमाणगोचरत्व- मस्या इति वा तथा । अथवा , एकपा आनुभाविकानां योगिनामानन्द- साक्षात्काररूपा आकृतिः निरावरणप्रकाशरूपा यस्याः तथा। अथवा , आनन्दः शिवा , चिन परमेश्वरः, एक मूर्तिभेदरहिते आनन्द- चितो आकृतिर्यस्याः सा तथा ॥ ॐ एकानन्दचिदाकृतये नमः ॥ एवमित्यागमाबोध्या चैकभक्तिमदर्चिता। एकाग्रचित्तनिर्ध्याता चैपणाहिताहता ॥६॥ एवमित्यागमाबोध्या । ननु आनन्दशब्दम्य लक्षणया अनन्दमयो वाच्यः । य एको जालवानीशत ईशनीभिः' इति श्रुत्युक्तकत्वमपि जीवे सिध्यति । तथा एकश्चासावानन्दश्च तस्य चित् अधिष्ठानप्रकाशक- चैतन्यमाकृतिः यस्याः सेति विग्रहः संभवति । ब्रह्म पुच्छ प्रतिष्ठा' इति तत्प्रकाशकचैतन्यस्य पुच्छशब्देन परामर्शात् । एवं च सनि प्रकाशक- नित्यत्वस्य प्रकाश्यनित्यत्वापेक्षत्वात् , 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि- ब्रह्मस्वरूपलक्षणवाक्येषु वाच्यार्थप्राधान्येन विधिमुखेनैव ब्रह्मप्रतिपादने अतव्यावृत्तिरूपनिषेधमुखेन लक्षणार्थप्राधान्येन ब्रह्मस्वरूपलक्षणप्रतिपादना योगेन तत्त्वमसिवाक्ये वैशिष्टय संभवतीति चेत , नेत्याह - एवमित्या- गमावोध्येति । एवं विशिष्टतया इति प्रत्यक्षसिद्धत्वेन आगमैर्वेदैः ज्ञापनीया न भवति । आनन्दशब्दस्यानन्दमात्रवाचकस्य तत्प्रचुरे बृह ३-९-२८ २. तैत्ति ३.६ ३. ब्रह्मसूत्रम् ३-३-११ ४. श्वेता ३-१ ५. ते २-१ ६. ते २-१ . 6 , ललितात्रिशतीभाष्यम् । . संभावितेषदुःखे जीव लक्षणायां त्रयो दोषाः । पारमार्थिकभिन्न- सत्ताकवस्त्वन्तराभावेन तत्त्वपदवाच्यार्थनिष्ठविशेषणद्वयस्य अन्योन्य- विरोधवत्तया तमःप्रकाशवद्वैशिष्टयायोगे अखण्डार्थो वाक्यार्थः संपद्यते । तथा च स्वरूपलक्षणवाक्येषु वाच्यार्थस्य ‘अतोऽन्यदात्' इति श्रुत्या मिथ्यात्वप्रतिपादनात् निषेधमुखेनैव अतघ्यावृत्तिस्वरूपप्रतिपादनेन लक्षण- वाक्यानि समञ्जसानि भवन्तीति भावः ।। ॐ एवमित्यागमाबोध्यायै नमः। एकभक्तिमदर्चिता। एकस्मिन्नभेदे जीवब्रह्मणोः भक्तिः भजनी- यत्वबुद्धिः तत्परिजिज्ञासा येषां अस्ति , तैरर्चिता पूजिता इत्येतदुपलक्षण स्तुता ध्याता नमस्कृतेत्येवमादीनाम् , 'यन्मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति' इति श्रुतेः मानसिकव्यापारपूर्वकानि हि इतरेन्द्रियकर्माणि भवन्तीत्यभिप्रायः। अथवा, अस्मिन् संसारमण्डले तत्स्वरूपपरिज्ञातारः ये केचन, तेषां भजनीयत्वाध्यवसायो भक्तिः तदेकप्रवणता सगुणब्रह्मविषया अष्टविधा, तैरेकभक्तिमद्भिरर्चिता अन्तर्याग- बहिर्यागमहायागप्रकारैः पूजिता इत्यर्थः ।। ॐ एकभक्तिमदर्चितायै नमः। एकाग्रचित्तनिया॑ता । एकम ऐक्यरूपम् अग्रम् आलम्बनं विषयः विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयवृत्तिकाभिः निरन्तरव्याप्ति- विषयीकृतचैतन्यं यस्य तत्तादृश चित्तमन्तःकरणं येषां तैः। यमनियमा- सनप्राणायामप्रत्याहारधारणाध्यानसमाधीनां परिपाकातिशयेन पश्चा- संपद्यमानासप्रज्ञातसमाधेः त्रिविधा भूमिका- ऋतंभरा , प्रज्ञालोका, प्रशान्तवाहिता चेति । ऋतं यथाभूतं सच्चिदानन्दलक्षणं ब्रह्म भरति वृत्तिव्या त्या विषयीकरोतीति प्रथमा तथा, 1'आत्मन्येव वशं नयेत्' १. गीता ६-२६ .

ललितात्रिशतीभाष्यम्। नश्यति , इति भगवद्वचनात् । प्रज्ञालोका प्रज्ञायां अग्वण्डाकारवृत्तौ नित्यनिरन्तरा- भ्यासेन परिपाकं नीतायां ब्रह्मविषयिण्यां आवरणाभिभवं कुर्वन्त्यां सत्याम्, 1 'प्रज्ञा प्रतिष्ठा' इयादिश्रुतेः, प्रज्ञायाः ब्रह्मस्वरूपायाः आलोकः अभिव्यक्तिः साक्षात्कारः यस्यां सम्पद्यते सा कारणविज्ञानम , यस्मिन्विज्ञाते सर्वमिदं विज्ञानं भवतीत्य कविज्ञानेन सर्वविज्ञानरूपम् । प्रारच्यवशात्तदा चित्तं तदध्यस्तं सर्वजगद्रष्टुमिच्छति यदि, तदानी चैतन्यप्रकाशेनैव प्रकाशितं जगत्स्वाप्नपदार्थवदशपं भासते। इदं च भरद्वाजादीनामस्तीति पुराणादिप्रमाणवेद्यमस्माकम् । तथा च तस्यां भूमिकायां निरुद्धसामर्थ्य सदन्तःकरणं साकारम्वरूपं निर्वासनं यदा तदा प्रशान्तवाहिता भवति । वहः प्रवाहः सन्ततवृत्तिः धारा अस्य अस्तीति वाही , वाहिनो भावः वाहिता प्रशान्ता च सा वाहिता च प्रशान्तवाहिता । अथवा, प्रशान्तः वाहः अस्य अस्तीति प्रशान्तवाही। प्रशान्तवाहिनो भावः प्रशान्तवाहिता , ‘मनसो वृत्ति- शून्यस्य ब्रह्माकारनया स्थितिः । असप्रज्ञातनामेति समाधिर्योगिनां प्रियः॥' इति वचनात् , प्रशान्तमनसं हनम्' इति भगवढचनात् ३ पृथिव्यतेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ।। उक्तलक्षणसाधनपरिपाकवशाद्भवति । तैर्नियाता , ध्यानस्य निर्गतत्वात् । भेदास्फूतौ ध्यानविषयो न भवति ध्यातुः स्वरूपमेव प्रकाशते, 'ब्रह्म वेद ब्रह्मैव भवति' इति श्रुतः। निध्याता इति पाठे नितरां श्रवणमनन- निदिध्यासनेन साक्षात्कृता इत्यर्थः ॥ ॐ एकाग्रचित्तनिर्ध्यातायै नमः। , 2" . इति श्रत्या एषणारहिताहता। एषणा इच्छा। सा त्रिविधा। एतल्लोक- १ ऐतरेय ३-३. २. गीता ६-२७. ३. श्वेता २-१२ L.३ ललितात्रिशतीभाष्यम् । . , , जयाय पुवैषणा । पितृलोकजयसाधनकर्मसंपादनाय वित्तषणा । उपास- नादिना जयसाधनं देवलोकः , तस्मिन्नेषणा लोकेषणा। आभिः रहितैः अनाकृष्ट चित्तैः , 1 ते ह स्म पुढेषणायाश्च वित्तेपणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति' इति श्रुतेः, एषणारहिताः ये परमहंस- परिव्राजकाः सन्यासिनः तै. आदरेण अतिशयप्रेम्णा स्वस्वरूपेण आहता अङ्गीकृता निरन्तरध्यानेन साक्षात्कृता सती मोक्षरूपतया प्राप्तेत्यर्थः ।। अ एपणारहिताहतायै नमः। एलासुगन्धिचि कुरा चैनःकूटविनाशिनी । एकमोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥७॥ एलासुगन्धिचिकुरा। एलावदिति दृष्टान्तप्रदर्शनं सौगन्ध्यमात्र- सद्भावप्रदर्शनेन अकल्पितदिव्यपरिमलसद्भावे हेतुः, न तु प्राकृतत्व- दर्शनपरम् , ब्रह्मणः स्वाधीनमायत्वात् । तद्वत्सुगन्ध इति साजात्यमानं व्यज्यते , गुणमात्रादानेन सर्वत्र पदार्थान्तरस्य दृष्टान्तीकरणात् । सुगन्धा एपां सन्तीति सुगन्धिनः तादृशाः चिकुराः कुन्तलाः यस्याः सा तथा । स्वभावसिद्धदिव्यपरिमलशालिसर्वाङ्गसौरभ्यवती, चिकुरपदस्य उप- लक्षणत्वादिति भावः ।। ॐ एलासुगन्धिचिकुरायै नमः ।। एनःकूटविनाशिनी। एनसां पापानां कूटं समुदायः । आगामि- संचितप्रारब्धभेदन समष्टिरूपेण दृढतर, तत्त्वज्ञानेन विना अन्यस्य भोगमात्रस्य तद्विनाशकत्वावगमात् । तेषां च कल्पकोटिकालं क्रमिक- भोगप्रदानं विनोपायान्तरेण क्षयेप्सूनामात्मब्रह्माभेदज्ञानविषयतया चैतन्य नाशयतीति तथा । ‘एवंविदि पापं कर्म न श्लिष्यते', अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः' इत्यादिश्रुतेः, 3 अहं त्वा सर्वपापेभ्यो १ बृह ४-४-२२. २. छान्दो ८-१२. ३. गीता १८-६६. ~ , , - ललितात्रिशतीभाष्यम् । १९ D मोक्षयिष्यामि' इति स्मृतेश्च । अथवा एनांसि च तत्कारणभूतं कूट कपटवचनाभिधानं च तत्कारणं मायां च नाशयतीति तथा ॥ ॐ एनाकूटविनाशिन्यै नमः॥ एकभोगा। एकेन कामेश्वरेण साकं भोगः भुक्तिः , भोगः स्वस्वरूपानन्दानुभवः यस्याः सा तथा । अथवा, एकस्य अज्ञान- तत्कार्यस्य कार्यकारणरूपेण अभिन्नस्य तदधिष्ठानतया स्वसत्ताधायकत्वेन भोगः परिपालनं यस्याः सा। प्रपश्चात्पत्तिस्थितिनाशहेतुमायोपाधिक- चैतन्यमित्यर्थः। एकाकी न रमते तत: पतिश्च पत्नी चाभवताम्' इति पुरुषविधब्राह्मणवचनात् , दपत्यारैच्छिकभेदकत्वावगमेन परमार्थनः एतत्स्वरूपस्यैकचैतन्यरूपतावगमात्, तदुभयभोगस्यापि एकभोगत्वात् तद्वतीति वा ॥ ॐ एकभोगाय नमः॥ 1. . . अथवा, एकरसा। एकः अभिन्नः रसः सामरस्यं यस्याः सा, "रस ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेः । एकः नवरसेषु मुख्यः शृङ्गाररसः यस्याः सा तथा । एकेन परमेश्वरण अस्यां क्रियमाणः प्रीत्यतिशयरूपः रसः एतद्विषयकः यस्याः सा। अथवा, एकस्मिन्नेव स्वभर्तरि रसः निरतिशयप्रीतिः अनुरागसंज्ञा यस्याः सा । अथवा षड्रसेषु मुख्यः मधुररसः प्रियत्वेन यस्याः सा, सत्त्वगुण- प्रधानमायोपाधिकचैतन्यस्वरूपत्वात् । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः' इति भगवद्वचनात् ।। ॐ एकरसायै नमः॥ 3. एकैश्वर्यप्रदायिनी। ईष्टे प्रेरयति अन्तर्यामित्वेन सर्वाणीति १. बृहदा. १-४. २. तैत्ति. २-७. ३. गीता १७-८.

ललितात्रिशतीभाष्यम् । ईश्वरः। “यः सर्वेषु भूतेषु तिष्ठन् यः सर्वाणि भूतान्यन्तरो यमयति' इति श्रुतेः। तत्प्रेर्यमाणानां जीवानां भूतशब्दवाच्यानां अज्ञान- तत्कार्यान्तःकरणोपहितप्रतिबिम्बचैतन्यरूपाणां जायदाद्यवस्थाभिमानिनां अखण्डब्रह्मसाक्षात्कारवेलायाम् अभेदानुभवात्, "तत्त्वमसि' इति श्रुतेश्च एकमेवाद्वितीयम्' इति विशेपितत्वाञ्च, एकश्चासावीश्वरश्च एकेश्वरः तस्य भावः तदैक्यं तत् प्रददातीति तथा । बहुषु विद्याधन- वत्सु तेष्वेको विद्याधनवानित्युक्ते, तत्रत्यजननिष्ठविद्याभावे तदतिशय- प्रतीतिवत् एकं च निरतिशयमणिमादिकमैश्वर्य निःश्रेयसं प्रददातीति वा। यद्वा एकं मानुपं सर्वोत्कृष्टं सार्वभौमत्वादिलक्षणमभ्युदयसामान्य- मैश्वर्य प्रददातीति वा तथा ।। ॐ एकैश्वर्यप्रदायिन्यै नमः ॥ एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता । एधमानप्रभा चैजदनेकजगदीश्वरी ॥८॥ एकातपतसाम्राज्यप्रदा । आतपात् आ समन्तात् अध्यात्माधि- दैवताधिभूतानि आ शब्दार्थः । तेभ्यो जाताः तापाः आतपाः, तपन्ति शोषयन्तीति तपाः। आतपेभ्यः वायते रक्षतीति आतपत्रं सर्वसंसार- दुःखोपशमात्मकमात्मज्ञानम् । “यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि' इति भगवद्वचनात् । आखिलदुःखनिदानाज्ञाननिवर्तकं एक लक्षणया अभिन्न- ब्रह्मविषयकमित्यर्थः । एक च तत् आतपत्रं च अखण्डाकारज्ञानम् , तेन जायमानं यत्साम्राज्यं सम्राजो भावः सर्वोत्तमत्वं तत्प्रददातीति । एकातपत्रसाम्राज्यं चक्रवर्तित्वं तत्प्रददातीति वा ।। ॐ एकातपत्रसाम्राज्यप्रदायै नमः ॥ अथवा, १ बृहदा. ३-७०१५ २. छान्दो. ६-८ ३. छा.६-२ ४. गीता४-३५ ललितात्रिशतीभाष्यम् । २१ " एकान्नपूजिता । एकस्य अद्वितीयस्य शोधितत्वंपदार्थस्य अन्ते उपाधौ हृदि परिच्छेदकत्वात पूजिता अहमित्यारोक्षीकृता, 1 यत्साक्षात् अपरोनाद्ब्रह्म' इति श्रुनः । एतस्य ब्रह्मणः अन्ते उप पूजिता षद् गत्यवसानार्थयोरिति धातुपाठान उपनिपद्ब्रह्ममात्रतया पर्यवस्यतीत्यर्थः । एकान्नपूजिनेति नाम्नोपनिषदित्यर्थः । अथवा, एकान्ते गुहानि- वाताश्रयणे प्रयोजयेत्' इनि श्रुतेः एकान्तस्थले ध्यानादिना योगिभि- विपयीकृनेत्यर्थः। अथवा, कामेश्वरण एकान्ते स्त्रीलिङ्गे पूजिता । संप्रदायप्रवृत्त्यर्थमादी ईश्वरण वहियोगक्रमेण आदिमसाधनन सर्गाद्यकाले पूजादिना संतोषितत्वात् भूतार्थव्यपदेशः । एकान्ते सर्वप्रविलापनसमये पूजिता ध्यानादिना संपादिता साक्षात्कृतेत्यर्थः । 3. कश्चिद्धीरः प्रत्यगा- स्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' इति श्रुतेरिति वा । ॐ एकान्तपूजितायै नमः॥ - एधमानप्रभा । एधमाना विवर्धमाना सर्वातिशायिनी प्रभा कान्तिर्यस्याः सा, 4 • तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' इति श्रतः ॥ ॐ एधमानप्रभायै नमः॥ एजदनेकजगदीश्वरी। एजन्ति कम्पमानानि चेष्टमानानि प्राणवन्ति जीवन्ति अनेकानि नानोपाधिकानि जगन्ति जनमानि विचरत्प्राणिन इत्यर्थः। ईष्टे प्रेरयतीति ईश्वरी । स्थावराणां सुखदुःखप्राप्तिपरिहारोपायान- भिज्ञलेऽपि स्वजीवनहेतुभूतोदकपानादिप्रवृत्तिदर्शनाचेष्टावत्त्वं तत्वाप्यस्तीति जगच्छब्दो निर्विशेषप्रपञ्चमात्रपरो वक्तव्यः, अन्यथा : सर्वेषु भूतेषु' इति श्रुतौ चरप्राणिमात्रपरत्वे संकोचापत्तेः । असति विरोधे विशेष- १. बृह. ३-४. २. श्वेता. २-१०. ३. कठ. ४-१. ४. कठ. ५-१५ ५. बृह. ३-७.

२२ ललितात्रिशतीभाष्यम् । वाचकस्य शब्दस्य सामान्यलक्षणाङ्गीकारस्य न्याय्यत्वात् । अन्यथा ब्रह्मणः प्रपञ्चमात्रोत्पत्त्यादिहेतुत्वं संकुचितं भवेत् । अत एव आकरे एजत्पदं उपात्तम् । यथाकथचित् क्रियाश्रयत्वेन प्राणवत्त्वमात्रस्य समष्टिहिरण्यगर्भाश्रयत्वेन सर्वेषां प्रेर्यत्वं संभवतीति भावः ॥ • एजदनेकजगदीश्वर्यै नमः॥ एकवीरादिसंसेव्या चैकग्राभवशालिनी। ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥९॥ . .. , एकवीरादिसंसेव्या। एकः अनितरसाधारणः वीरः पुरश्चर्यादिना कृतमन्वदेवतासाक्षात्कारलब्धपुरुषार्थः पुमान् विजयप्राप्ताभ्युदयशाली । राजराजनिष्ठधैर्यगाम्भीर्यादिगुणवत्त्वेन तत्तद्देवतोपासकाः पुरुषाः वीरा इत्युच्यन्ते । यासां शक्तिनामादयो येषां प्राणिकोटीनां ता एकवीरादयः तासां कदम्बैः ससेव्या संसेवितुं योग्या। यदा ईश्वरी भक्ताननुगृह्णाति सगुणविग्रवती स्यात् तदा अनेकपरिवारदेवतापरिसेविता, मन्त्रदेवता- वेनोपासनीयेत्यर्थः। अथवा, एकवीरा रेणुका, तदादयः शक्तयः श्यामलाप्रमुखाः, ताभिस्तत्कालप्रपञ्चे स्वस्वपीठे स्थिताः सत्यः उपास- कानामभीष्टवरप्रदायो दृश्यन्ते । ता अस्याः परिसेवकत्वेन स्वयमभीष्ट- वरकामाः इत्यस्याः प्रकृताया महिमातिशयोक्तिः ॥ ॐ एकवीरादिसंसेव्यायै नमः। एकप्राभवशालिनी। प्रभो वः प्राभवं रक्षकत्वं एकमनितर- साधारणं च तत्प्राभव च तच्छालत इति तथा । अथवा, प्राभवस्य सापेक्षकधर्मत्वादेकपदस्य चानन्यगामित्वार्थस्य चानन्यगामित्वार्थस्य सामानाधिकरण्येन स्वारस्येन पर्यालोच्यमानेन अयमर्थः सूच्यते - प्राभवं च नियम्य- लोकोद्भवं विना अनुपपद्यमानं तदन्तर्गततत्कार्यमर्थापत्त्या सिध्यति ।

ललितात्रिशतीभाष्यम् । अथवा, . तथा च वटबीजवस्त्वन्तर्गतपश्चाद्भाविकार्यवत्कूटस्थचैतन्यमिति भावः । प्राभवं नामेश्वरत्वं तदाक्लपनियम्यजगञ्चापलक्षणविधया यस्यैकस्याखण्डचैतन्यस्य तदेकप्राभवम् । 1पादोऽस्य सर्वा भूतानि' " एकांशेन स्थितो जगन्' इति श्रुतिस्मृतिभ्यां भूतपूर्वगत्या प्राभवोप- लक्षितमेकं सञ्चिञ्चतन्यरूपं शालते आविष्करोति तथा । अथवा एकं च तन् प्राभवं च एकमाभवं मुख्यसार्वभौमत्वमिति यावत् । प्रभुत्व- परम्परायाः सविशेषायाः कुत्रचिन् पर्यवसानावश्यंभावे 36 एष भूनाधिपतिरेप भूनपालः' इति श्रुत्या अन्तर्यामिनया साक्षात्कृत्यु- त्पादकत्वयुक्त्या च इतरवागाद्यवयवप्रेरणातिशयानां पर्याप्तिरत्रैवास्तीत्यभि- च निरङ्कुशस्वतन्त्रजगत्कारणत्वरूपतटस्थलक्षणलक्षित- वंदान्तसमन्वयविषयीभूता अखण्डसच्चिदानन्दस्वरूपा परदेवता अवश्यं स्वस्वरूपेणैव ध्यातव्येति निष्कृष्टार्थः ।। ॐ एकप्राभवशालिन्यै नमः। एष सर्वेश्वर प्रायः। तथा ईकाररूपा । ईकारः रूपं तृतीयावयवः यद्वाचकमन्त्रस्य यस्याः सा तथा ॥ ॐ ईकाररूपायै नमः॥ ईशित्री । इच्छति ईष्टे इति ईशित्री सर्वप्रेरिका इत्यर्थः ।। ॐ ईशित्र्यै नमः॥ ईप्सितार्थप्रदायिनी। अर्थ्यन्ते प्रार्थ्यन्ते इत्यर्थाः अभ्युदय- निःश्रेयसरूपाः, आप्तुं गन्तुं प्राप्तुं इच्छाविषयीभूताः ईप्सिताः, ते च ते अर्थाश्चेति कर्मधारयः, ईप्सितार्थान् प्रददातीति तथा। केवल- कर्मणामदृष्टद्वारा कालान्तरभाविफलदातृत्वमचेतनत्वान्नोपपद्यते । ताह- १. छान्दोग्य ३-१२-६. २ गीता १०-४२. ३. बृह. ४-४-२, ललितात्रिशतीभाष्यम। , अथवा, शानां कस्मिन्नप्यर्थं सामर्थ्यादर्शनात् । चेतनाधिष्ठितानां तु कर्मणां भृत्यकृतपराक्रमादितुष्टराजवत्तदागधितपरमेश्वरः, 'कर्माध्यक्षः' इति श्रुत्या सर्वज्ञस्य तत्तदधिकारिकृतपुण्यापुण्यानुरूपतया फलप्रदाने समर्थस्य सत्त्वकल्पने तदन्यस्य चेतनस्य जीवादेस्तत्र सामथ्यविरहात् स एव तत्तदनुगुणविषयेच्छोत्पादनेन तत्साधनानुष्ठापयिता सन् तत्फलकामना पूरयतीत्यनीश्वरमीमांसकमतनिरासो ईप्सिता जिज्ञासिता, तथा च स्वस्वरूपप्रतिपादकवेदान्तश्रवणमनननिदिध्यासन- विषयीकृता सती अर्थ प्रार्थ्यमानं सर्वाभ्यर्हितमोक्षरूपं पुरुषार्थ प्रददातीति तथा ॥ ॐ ईप्सितार्थप्रदायिन्यै नमः । ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥१०॥ ईगित्यविनिर्देश्या । ईदृक् एतल्लक्षणलक्षित एतादृशपरिमाण एवंस्वरूपः एतादृशधर्मवानिति प्रत्यक्षसिद्धार्थो विनिर्देष्टु शक्यते । यचक्षुषा न पश्यति' इत्यादिश्रुत्या सर्वेन्द्रियगोचरत्वनिराकरणात् विनिर्देश्या न भवति । औपनिपदानां मते तु उपनिपदां वेदैक- देशत्वेनेतरप्रमाणानपेक्षतया अज्ञातार्थज्ञापकत्वेन प्रामाण्यमुररीकृतम् । इदमेव एतादृगेवेति प्रत्यक्षसिद्धार्थ ज्ञापने तासामनुवादकत्वेन सापेक्षत्व- रूपमप्रामाण्यं प्रसज्यतेत्यभिप्रायः॥ ॐ ईगित्यविनिर्देश्यायै नमः॥ ईश्वरत्वविधायिनी । ईश्वरस्य भावः तस्येक्यं विदधाति, आवरण- विक्षेपशक्तिमदज्ञाननिवर्तकाखण्डाकारचैतन्यस्वरूपा सती भेदबुद्धिमात्र- संपादितैश्वर्यैक्यायोगभ्रमं निवर्तयनीत्यर्थः, 2" स्वेन रूपेणाभिनिष्पद्यते' १ केनोपनिषत् १-६. २. छान्दोग्योपनिषत् ८-३ 16 .

ललितात्रिशतीभाष्यम् । .. इति श्रुतेः। अथवा, ईश्वरत्वं नाम नानादेशविद्याधनोत्कर्षादिमत्वं तत्तत्प्राणिनिकायपुण्यप्रारब्धानुसारेण कर्मफलं प्रयच्छतीति वा ॥ ॐ ईश्वरत्वविधायिन्यै नमः । ईशानादिब्रह्ममयी। ईशानतत्पुरुषाघोरवामदेवसद्योजाताख्यानि पञ्च ब्रह्माणि, तानि मयं स्वरूपमस्या अस्तीति सा तथा । अथवा, ईशानः आदिर्येषां ते तथा अधिकारिपुरुषाः विष्णुब्रह्मेन्द्रादयः, तेषामपि तत्तन्नामरूपविशिष्टानाम् अहंबुद्धिमताम् अन्तर्यामिस्वरूपेण बुद्धिप्रेरक- सच्चिदानन्दस्वरूपपरब्रह्मानन्दप्रकाशात्मना स्फुरतीति तथा ॥ ॐ ईशानादिब्रह्ममय्यै नमः ॥ ईशित्वाद्यष्टसिद्धिदा। ईशित्वमादिर्यासा तास्तथा। 'आणिमा महिमा लघ्वी गरिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्र कामाः परागताः ॥' इति वचनान् । ताः सिद्धीरष्टौ ददातीति तथा। आणिमा क्षणमात्रेण अतिसूक्ष्मभावः । महिमा महनो भावः । लम्बी लाघवम् । गरिमा गुरोर्भावः, जडतरपर्वतादिवत् भारवशेनाप्रकम्पितत्वमित्यर्थः । क्षणमात्रेण विराडाकृतिमत्त्वं प्राप्तिः हस्तेन चन्द्रमण्डलादिस्पर्शः । ईशिता इन्द्रादीनामपि प्रेरकता । प्राकाम्यं अप्रतिहतकामनावत्त्वम् , वाञ्छितार्थ- फलप्राप्तिरित्यर्थः। वशित्वं सर्वलोकवशीकरणसामर्थ्यम् । परागताः, काम्यन्त इति कामाः विषयाः यत्र यस्मिन् ऐश्वर्ये सति परागताः बहिर्भूता भवन्ति, विषयाणामनुभवाभावेऽपि तज्जन्यसुखवत्त्वं आप्तकामत्वामित्यर्थः। एताः अष्टसिद्धयः॥ ॐ ईशित्वाद्यष्टसिद्धिदायै नमः ॥ ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा । ईडिता चेश्वरार्धाङ्गशरीरशाधिदेवता ॥ ११ ॥ L.4 . यत्र कामाः ललितान्त्रिशतीभाष्यम् । " " , ईक्षित्री । उदासीनद्रष्ट्री साक्षिणी असङ्गोदासीनज्ञानस्वरूपेत्यर्थः, 'साक्षी चेता' इति श्रुतेः , I'आविः संनिहितं गुहायाम्' इति श्रुतेः ।। ॐ ईक्षित्र्यै नमः ॥ ईक्षाणसृष्टाण्डकोटिः । अण्डानां ब्रह्माण्डानां कोटयः असङ्ख्याताः, भूतभाविकालभेदेन बहुवचनं कोटिशब्दस्य , अनादित्वात् संसारमण्ड- लस्य , ईक्षणेन भाविकार्यालोचनेन सृष्टाः अण्डकोटयो यया सा तथा, 'तदक्षत बहु स्यां प्रजायेयेति' 3 स ईक्षांचक्रे' 4 आत्मा वा इदमेक एवाग्र आसीन् नान्यत्किचन मिपत् स ईक्षत लोकान्नु सृजा इति स इमॉल्लोका- नसृजत' इत्यादिश्रुतेः , बाह्यकारणमनपेक्ष्य ऊर्णनाभ्यादिदृष्टान्तप्रदर्शनेन चेतनस्याभिन्ननिमित्तोपादानत्वप्रदर्शनयुक्तेः, प्रकृतिश्च प्रतिज्ञादृष्टान्ता- नुपरोधात्' इत्यादेश्चेति भावः ।। ॐ ईक्षणसृष्टाण्डकोटथे नमः ॥ ईश्वरवल्लभा । ईश्वरः कामेश्वरः वल्लभः पतिः यस्याः सा तथा । ईश्वराणां ब्रह्मविष्णुरुद्रादीनां तत्तनिष्ठमहिमोत्कर्षरूपेण प्रीत्यतिशयविषयत्वेन अभ्यहितेत्यर्थो वा ॥ ॐ ईश्वरवल्लभायै नमः॥ ईडिता। ईड स्तुताविति धातुपाठात् स्तुतिभिः विपयीकृता, वेदान्तैरिति शेपः, 'एप नित्यो महिमा ब्राह्मणस्य' (बृह. ४-४-२३) इत्यादिश्रुतेः ।। ॐ ईडितायै नमः॥ ईश्वरार्धाङ्गशरीरा। ईश्वरस्य सच्चिदानन्दात्मकस्य शिवस्य अधं १. मुण्डकं २-२-१. २. छान्दो ६-२ ३. प्रश्न. ६. ४ ऐतरेय. १-१ ५ ब्रह्मसूत्रम् १-४-२३. ।

ललितात्रिशतीभाष्यम् । : परम- च तत् अङ्गं च अर्धाङ्गम् आनन्दस्वरूपना शरीरं शरीरवत्स्वरूपलक्षणं यस्याः सा तथा। 'सच्चिन्मयः शिवः माक्षात्तस्यानन्दमयी शिवा' इति स्मृतेः । अथवा, ईश्वरस्यार्धामं वामभागः शरीरं मूर्तिर्यस्याः सा । अथवा, ईश्वरस्य हकारस्य अधीङ्ग शक्तिबीजं शरीरं मन्वात्मिका मूर्तिर्यस्याः सा तथा ॥ ईश्वगर्धाङ्गशरीराय नमः॥ ईशाधिदेवता। ईशस्येत्युपलक्षणं जीवम्यापि, ईशस्य तत्त्वंपद- वाच्यार्थस्य मायाज्ञानोपाधिकस्य विशिष्टस्य अधि उपरि विशेपणद्वयस्य परित्यागे देवता द्योतमाना कूटस्थचिन्मात्रशोधिततत्त्वपदार्थरूपेत्यर्थः । अथवा, ईशः कामेश्वरः अधिदेवता पूज्यः यस्याः सा तथा । पतिव्रतेत्यर्थः ॐ ईशाधिदेवतायै नमः॥ ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी । ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ।। ईश्वरप्रेरणकरी। ईश्वरस्य बिम्बचैतन्यस्य स्वरूपा सती जग- त्सर्जनादिकार्यप्रेरयित्री प्रेरणकरी आज्ञापिकेत्यर्थः । इच्छाज्ञानक्रिया- शक्त्यावरणविक्षेपशक्तिप्रतिफलितचित्स्वरूपा भाविकार्यानुकूलप्रारब्धाध्यक्ष- परमेश्वरक्षणनामधेयप्रकाशात्मिका भवतीति भावः। ईश्वरप्रेरणं तदा- ज्ञामनुल्लङ्घनेन करोतीति वा, तदीयभार्यात्वेन नितरां तद्वश्येति यावत् ।। ॐ ईश्वरप्रेरणकय नमः॥ ईशताण्डवसाक्षिणी। ईशस्य तत्पदवाच्यार्थस्य ताण्डवं नर्तन- बदप्रयत्नसंपाय लीलामात्रमित्यर्थः, जगत्सर्जनादिरूपा क्रिया चलन- ललितात्रिशतीभाष्यम् । रूपकर्मत्वसामान्यात् , तस्य साक्षिणी असंसर्गप्रकाशरूपिणीत्यर्थः , 'असंगो न हि सज्जते' (बृह. ४-४) इति श्रुतेः। अथवा, ईशताण्डवस्य परमेश्वरनृत्यनाट्याभिव्यञ्जितचतुःषष्टिकलोपदेशस्य साक्षिणी । तदुक्तम् - नर्तनाद्धि परेशस्य चतुःषष्टिकलाजनिः' इति । प्रदोषस्तोत्रे ईशताण्डव- नर्तनवर्णनमतिस्फुटमिति नेह लिख्यते ।। ॐ ईशताण्डवसाक्षिण्यै नमः ।। ईश्वरोत्संगनिलया। ईश्वरस्य स्वभर्तुः उत्सङ्गः अरू तो निलयः यस्याः सा तथा।। , ॐ ईश्वरोत्सङ्गनिलयायै नमः॥ ईतिबाधाविनाशिनी। ईतिबाधा दैवाद्युपद्रवः, क्षुद्रजन्तुपीडा वा, तां विनाशयतीति तथा ॥ अ ईतिबाधाविनाशिन्यै नमः॥ ईहाविरहिता चेशशक्तिरीपस्मितानना । लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥१३॥ ईहाविरहिता । अप्राप्तप्राप्तिं प्रति इच्छा ईहा, तया विरहिता; आप्तकामत्वात् तद्विरहितेत्यर्थः ।। ॐ ईहाविरहिताय नमः ॥ ईशशक्तिः । ईशस्य शक्तिः सर्वज्ञत्वादिस्वरूपसामर्थ्य यस्याः सा तथा, 'देवात्मशक्तिम् ' (श्वेता. १-३) इति श्रुतेः ॥ ॐ ईशशक्तये नमः ॥ ईषस्मितानना। ईषत् स्मितं मन्दहासः यस्य तत तथा, ललितात्रिशतीभाष्यम् । नाहगाननं यस्याः सा तथा , पर्याप्तकामत्वेन सर्वदा प्रसन्नमुखीत्यर्थः । दुःखास्पर्शिपरमानन्दरूपतया वा तथा ।। ॐ ईपस्मिताननाय नमः ॥ लकाररूपा । रूप्यत इति रूपं मन्त्रस्य चतुर्थवर्णत्वेन ज्ञापकं यस्याः सा तथा ॥ ॐ लकाररूपायै नमः ॥ ललिता। 'ललितं त्रिषु सुन्दरम्' इति वचनात् अत्यन्तसौन्दर्य- वतीत्यर्थः । अनुपमसौन्दर्या वा ।। ॐ ललितायै नमः॥ लक्ष्मीवाणीनिषेविता । लक्ष्मीः रमा सर्वैश्वर्यशक्तिः, वाणी सरस्वती सर्वज्ञानशक्तिः , ताभ्यां नितरां अकृत्रिमप्रेम्णा अनन्यभूता सती सविता। सेवा नाम उन्मीलिताज्ञा रतीक्षा , तद्वत्त्वादित्यर्थः ।। ॐ लक्ष्मीवाणीनिषेवितायै नमः ॥ लाकिनी ललनारूपा लसद्दाडिमपाटला । ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ १४ ॥ लाकिनी। कं सुखम् , 'कं ब्रह्म' इति श्रुतेः , तन्न भवतीत्यक ब्रह्मभिन्नतया प्रतीयमानं दुःखात्मकं जगत् अकम , लीयत इति लम् , उपलक्षणमुत्पत्त्यादेः, लमकमस्यास्तीति लाकिनी , अनृतजडदुःखरूप- जगत्कारणतव्यावृत्तस्वरूपब्रह्मभूता इत्यर्थः ।। लाकिन्यै नमः ॥ ललनारूपा । रूप्यते ज्ञाप्यते अनेनेति रूपं ज्ञापकं तब्याप्यलिङ्ग , ललितात्रिशतीभाष्यम। - , चिह्नमिति वा, ललनानां स्त्रीणां रूपं वेषः आभरणाचलङ्कारो वा आकृतिर्वा यस्याः सा तथा , ललनाः स्त्रियः रूपाणि भूतयः यस्याः सा तथा, 'लिङ्गाङ्किनमिदं पश्य जगदेतद्भगाङ्कितम्' इति पुराणवचनात् ।। ॐ ललनारूपायै नमः॥ लसद्दाडिमपाटला। दाडिमशब्देन विकसितं तत्पुष्पं लक्ष्यते, लसत् सद्यो विकसनप्रकाशं च तद्दाडिम च, इदं उपलक्षणं बन्धूकादीनां; तद्वत्पाटला श्वेतमिश्ररक्तवर्णप्रधानमूर्तिमतीत्यर्थः, 'श्वेतरक्तं तु पाटलम्' इति वचनात् ।। ॐ लसदाडिमपाटलायै नमः॥ ललन्तिकालसत्फाला। ललन्तिकया परितः मुक्ताफलखचित- नवरत्नमध्यया ललाटमध्यदेशभूषया, इदमुपलक्षणं ललाटपट्टादीनाम् , लसत् फालं यस्याः सा तथा । ॐ ललन्तिकालसत्फालायै नमः। ललाटनयनार्चिता। ललाटे नयनं येषां ते, अत्र ललाटशब्देन भ्रूमध्यं लक्ष्यते, नयनशब्देन ज्ञानमति, तथा चोर्ध्वदृष्टिभिः खेचरीमुद्रया विलीनचित्तैः असिवरणयोर्मध्यदेशाभिधानाविमुक्तकृतपरमेश्वराराधनपर- पुरुषप्राप्यत्वाभिधायकात्रिप्रश्नोत्तर जाबालश्रुतिगत याज्ञवल्क्योत्तरवाक्य- निर्दिष्ट भूमिकाजयसिद्धिमत्पुरुषैः अर्चिता साक्षात्कृतेत्यर्थः। अथवा, तृतीयनेत्रवता शिवेन तत्स्वरूपरुदैर्वा पूजितेत्यर्थः ।। ॐ ललाटनयनार्चितायै नमः। लक्षणोज्ज्वलदिव्याङ्गी लक्षकोटयण्डनायिका । लक्ष्यार्था लक्षणामम्या लब्धकामा लतातनुः ॥१५॥ , , ललितात्रिशतीभाष्यम् । लक्षणोउज्वलदिव्याङ्गी। दीव्यति प्रकाशत इति दिव्यं लक्षणः स्वरूपतटस्थनामकैः उज्ज्वलं शोभितं शुद्ध अङ्गं स्वरूपं विग्रहो वा । घृतकाठिन्यन्यायेन तदात्मानं स्वयमकुरुन' (ने. २-७) इति श्रुतेः सच्चिदानन्दघनीभूनजीवात्मको विग्रहो यस्याः सा तथा । अथवा, सामुद्रिकशास्त्रोक्तदिव्यलक्षणैरुज्ज्वलानि संपूर्णानि दिव्यानि यानि अङ्गान्यतयवाः शिरःपाण्यादयः अस्याः सन्तीति वा तथा । ॐ लक्षणोज्ज्वलदिव्याङ्गायै नमः। लक्षकोट्यण्डनायिका। लक्षानि च कोट्यश्च असंख्याता- परिमितानीत्यर्थः , संसारस्यानादित्वेन भूतभविष्यदादिभेदेन बहुसंख्या- वत्त्वमण्डानाम् , तानि च तान्यण्डानि च हिरण्यगर्भविराङ्पाणि समष्टिव्यष्ट्यात्मना विश्वतैजसोपाधिभूतानि , तेषाम अधिष्ठानबिम्ब- चैतन्यात्मना नयति स्वसत्तामापादयतीति नायिका ।। ॐ लक्षकोट्यण्डनायिकायै नमः ।। लक्ष्यार्था । लक्षणया शोधनया जहदजहल्लक्षणया वा प्रतिपाद्यते वेदान्तमहावाक्यानां योऽर्थः तत्स्वरूपा । अथवा, योगशास्त्रप्रसिद्धबहि- रन्तरूवा॑धःप्रदेशविशेषरूपभूमिकासु स्वस्वमनोवाञ्छाविषयविशेषणत्वेन निर्गुणत्वेन वा मनोविलयरूपहठराजयोगादिसाधनपरिपाकवशेन साक्षात्कृतं चैतन्य लक्ष्य इत्युच्यते , अर्थ्यते याच्यते गुरुं प्रति इति अर्थः , लक्ष्यो योऽर्थः चित्स्वरूपपरमानन्दरूपः सोऽपि सैवेति तथा, 'ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण' (मुण्ड, २-२-११) इति श्रुतेः ।। ॐ लक्ष्यार्थाय नमः॥ , लक्षणागम्या। लक्षणा नाम शक्यार्थे वाचकस्य पदस्य अन्वयाद्यनुपपत्त्या तत्संबन्धिपदार्थान्तरज्ञानहेतुः शक्यसंबन्धादिपद- ललिताविशतीभाष्यम् । जन्यपदार्थान्तरज्ञानहेतुः शब्दवृत्तिरित्युच्यते; तस्या पाच्यवाचक- तत्संबन्धादिभेदज्ञानपूर्विकायाः परिच्छिन्नसावयवपदार्थसंबन्धज्ञानहेतोः केवलचिन्माने निरुपाधिके वस्तुनि षष्ठीजात्यादीनां लक्ष्यतावच्छेदक- धर्माणामभावे प्रवृत्त्ययोगात् , तया अगम्या , गन्तुं ज्ञातुं योग्य गम्यं तन्न भवतीत्यगम्या । वेदान्तमते जहदजहल्लक्षणया विशेषणमात्र- परित्यागस्य अन्योन्यतादात्म्यानुपपत्त्या बोधितत्वात् तदर्थ सा अवश्य- मगीकर्तव्या। विशेष्यस्य ज्ञानस्वरूपत्वेन नित्यतया लक्षणाजन्यत्वात् तदर्थं सा न अपेक्ष्यत इति भावः। तथा च प्रकृताया देवतायाः शुद्धचैतन्यमात्रस्वरूपतया स्वयंप्रकाशत्वेन लक्षणागोचरत्वात् लक्षणागम्येति नाम युक्तमिति भावः॥ ॐ लक्षणागम्यायै नमः॥ लब्धकामा। लब्धाः काम्यन्त इति कामाः ऐहिकामुष्मिकसुख- साधनानि , लक्षणया तत्तजन्यसुखानि वा तथाभूताः कामाः यया सा पर्याप्तकामेत्यर्थः, पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः' (मु. ३-२-२) इति श्रुतेः ।। ॐ लब्धकामायै नमः ॥ लतातनुः । लता इव , लताः कल्पादिवल्लयः सकलपुरुषार्थप्रदत्वेन जगति प्रसिद्धाः; ता इव सुकुमारत्वाद्याश्रया तनुः मूर्तिः यस्याः सा तथा।। ॐ लतातनवे नमः ॥ ललामराजदलिका लम्बिमुक्तालताञ्चिता । लम्बोदरप्रमूलभ्या लजाढ्या लयवर्जिता ॥१६॥ ललामराजदलिका। ललाना कस्तुरीतिलकेन कस्तूरीपत्रेण वा राजत् विभ्राजत् परमशोभि अलिकं ललाटं यस्याः सा तथा ॥ ॐ ललामराजदलिकायै नमः ॥ तथा, . .

ललितात्रिशतीभाष्यम् । लम्बिमुक्तालताश्चिता। लम्बिन्यः लम्बमानाः अधः प्रसृताः मुक्तालताः हाराः मुक्ताफलानि वा यस्याः सा तथा । नवरत्नखचितसुवर्ण- मुक्तागुच्छैः सर्वाङ्गेषु प्रलम्बमानैः ललाटपर्यन्तं लम्बमानकिरीटप्रथम- भागललाटपट्ट नासाग्रताटङ्काधःकर्णदेशकण्ठप्रदेश हस्तचतुष्टयाङ्गद समान प्रदेशकूपासपरितःपदकाग्रदेशकटिनिवद्धकाञ्चयादिषु परिलम्बमानरियर्थः ।। ॐ लम्निमुक्तालताश्चितायै नमः ॥ लम्बोदरप्रसूः । लम्बोदरस्य महागणेशस्य प्रमूः जनयित्री माते- त्यर्थः। लम्बोदरं प्रसूत इति वा ॥ ॐ लम्बोदरप्रसुवे नमः ॥ लभ्या। संसारदशायामावारकाज्ञानेन स्फुटमप्रकाशमाना सती श्रवणादिसंस्कृतान्तःकरणवृत्तावखण्डाकारज्ञानभूमिकायां प्रतिफलितस्व- रूपेण विस्मृतकण्ठगतकनकभूषणवत् प्राप्तप्राप्तिरूपतया लब्धु योग्येति तथा ॥ अलभ्यायै नमः॥ लज्जादया। लज्जया, उपलक्षणमन्तःकरणधर्माणां सर्वेषाम् , आढ्या तद्वत्त्वेन आकारवतीत्यर्थः । तिरोधानादिना अन्तर्हिता सती वरादि प्रयच्छतीति लज्जाढ्या भवतीति च उपचर्यते ।। लज्जाट्यायै नमः॥ लयवर्जिता। 'अविनाशी वा अरऽयमात्मा अनुच्छित्तिधर्मा' (बृह, ४-५) इत्यादिश्रुतेः , लयो विनाशः , तेन रहिता बर्जितेत्यर्थः । इदमुपलक्षणं षड्भावविकाराणाम् , 'सत्यं ज्ञानमनन्तं ब्रह्म' (ते. २-१) इत्यादिश्रुतेः ॥ * लयवर्जितायै नमः॥ L.5 . , ३१ ललितात्रिशतीभाष्यम् । हींकाररूपा हींकारनिलया ह्रींपदप्रिया । ह्रींकारवीजा ह्रींकारमन्त्रा हींकारलक्षणा ॥१७॥ हींकाररूपा। ह्रींकारः रूप्यते निरूप्यते निर्देश्यत इति रूप मन्त्रपञ्चमावयवः यस्याः सा तथा ।। ॐ ह्रींकाररूपाय नमः॥ ह्रींकारनिलया। हीमक्षरं निलयः गृहवदवच्छेदकं यस्याः सा तथा। स्वीयवाचकत्वारोपितवाच्यतावच्छेदकधर्मावच्छिन्नतादिसंपादनेन गृहवर्तिपुरुषवत् व्यावृत्तस्वरूपेण ज्ञापकं भवति । अन्यथा , नाम्नो वाच्यार्थे प्रवृत्त्ययोगादिति भावः ।। ॐ ह्रींकारनिलयायै नमः। हीपदप्रिया। पद्यते गम्यते ज्ञायते अनेनेति पदम् , पद्यते गम्यते प्राप्यत इति वा पदम् , ह्रीकारस्य मन्त्रावयवतया तद्देवता- प्रकाशकत्वेन तस्यां शक्तत्वात् 'शक्तं पदम्' इति तल्लक्षणत्वात् तथा प्रथमं व्याख्यानम् । हकाररेफेकारानुस्खाराणां वर्णानां समष्टिस्वरूपेण समुदायात्मकत्वात् 'वर्णसमुदायः पदम्' इत्यपि पदलक्षणवत्त्वमस्य घटते । पुरश्चर्यावतां स्वदेवतासाक्षात्कारद्वारा सकलपुरुषार्थप्रापकत्वात् द्वितीयव्याख्यानं तथा कृतम् । तस्मिन् प्रिया प्रीतिमतीत्यर्थः ।। ॐ ह्रींपदप्रियायै नमः। हीकारबीजा। ह्वीकार एव बीजं स्ववाचकमन्त्रभागः, देवतानां यत् बीजमक्षरमुच्यते' इति वचनात् , ह्रीकारस्य माया- प्रकाशकत्वेन, वटधानादिः स्वनिष्टवृक्षाभिव्यञ्जकत्वेन कारणतया यथा बीजमित्युच्यते- सत्कार्यवादिनामव्यक्तनामरूपकारणं बीजम् , अभिव्यक्त- नामरूपात्मकं पश्चाद्भावि कार्यमित्यङ्गीकारः, सकलकारणसमवधाने । 'ज्ञापक ललितात्रिशतीभाष्यम् । , च विशेपनामरूपबत्तया कारणस्याभिव्यक्तिमत्पत्तिः, तथा चोक्तबीजस्य मायावच्छिन्नचैतन्याभिव्यञ्जकत्वेनापि बीजत्वम् , तादृशं ह्रींकारबीजं यस्याः सा तथा॥ ॐहींकारवीजाय नमः॥ ह्रीकारमन्त्रा। ह्रीकारस्य मननात् त्रायते रक्षति वाच्यवाच- कयोरभेदादिति तथा। ह्रीकारघटितो मन्त्री वा यस्याः सा इति वा तथा ॥ ॐ ह्रींकारमन्त्रायै नमः। ह्रीकारलक्षणा । हकारः शिवः , आकाशबीजत्वादाकाशवनिर्लेपः, रेफः वह्निवीजं कार्योत्पादसंनिहितशक्तिमदीश्वरवाचकम् , तथा हकारयुक्तरेफः शुद्धचैतन्यमेव कारणतावच्छिन्नम् - इति बदति । ईकारः मन्मथबीजं तत्कारणलक्षकतया स्थितिहेतु विष्णुरूपचैतन्यमभिदधाति । अनुस्वारस्तस्मिन्नेव पदार्थे अभिन्ननिमित्तोपादाने लयं वक्ति। तथा च हीमित्युक्ते जगदुत्पत्तिस्थितिलयकारणं चैतन्यं शक्त्या वाच्यार्थः प्रतीयते । तस्यैवोपाधिपरित्यागरूपलक्षणं यस्याः सा तथा। ह्रीकारः लक्षणं तटस्थलक्षणं यस्याः सेति वा तथा । ॐहींकारलक्षणायै नमः। हींकारजपसुप्रीता हीमती हीविभूषणा । हीशीला ह्रींपदाराध्या हींगर्भा ह्रीपदाभिधा ॥१८॥ ह्रींकारजपसुप्रीता। ह्वीकारस्य जपः ह्रींकारजपः तेन सुप्रीता ।। ॐ हींकारजपसुप्रीतायै नमः॥ ह्रींमती। वाचकत्वेन लक्षकत्वेन वा लक्ष्यपदार्थरूपेण वा पाच्यवाचकयोरभेदेन वा अस्या अस्तीति ह्रींमती ॥

No text on this page.

ललितात्रिशतीभाष्यम् । ॐ हींगर्भायै नमः ॥ ह्रीपदाभिधा। ह्वीकारः आभिधा नाम यस्याः सा तथा। समष्टिरूपायाः समष्टिशब्दवाच्यत्वनियमादित्यभिसन्धिः ।। ॐ ह्रींपदाभिधायै नमः ॥ होकारवाच्या ह्रींकारपूज्या हींकारपीठिका । हींकारवेद्या हींकारचिन्त्या ही ह्रींशरीरिणी ॥ १९ ॥ ह्रीकारवाच्या। मायोपाधिकब्रह्मणि कल्पितधर्मेण शब्दप्रवृत्त्युप- पत्तेः ह्रीपदस्य वाच्या रूढयेत्यर्थः ।। ॐकारवाच्यायै नमः ॥ हीकारपूज्या। 'मूलमन्त्रेण पूजयेत्' इति पूजाङ्गत्वेन मूलमनो- विनियोगः श्रूयते । मूलमनुश्च देवतायाः स्वकं नामेति वचनात् अन्त- मुंखानामेव मन्त्रशास्त्रेषु तन्नाम्ना व्युत्पन्नत्वात् ह्वीकारं नमोऽन्तमुच्चार्य यथागुरुसंप्रदायं श्रीचक्रादौ मूलदेवता पूजनीयेत्यागमरहस्यात् ह्रीबीजेनैव पूजयितुं योग्या, अतिप्रियबोजनामत्वादित्याभिप्रायः ।। ॐ हींकारपूज्यायै नमः ॥ ह्रींकारपीठिका । अत्र पीठशब्दः आधारलक्षकः । वाच्यार्थो हि वाचकशब्दस्य सत्ताप्रदत्वेन आधारो भवति । मन्त्रदेवतयोरभेदेऽपि अर्थ- निष्ठमहिम्नः तद्वाचकपदेऽदृश्यमानत्वात् कल्पितभेदं संपाद्य इदमुच्यते । ह्रींकारस्य पीठिका वृत्तिस्थानं शक्त्या गोचरतया विषयीभूतेत्यर्थः ।। ॐ हींकारपीठिकायै नमः ॥ ह्रींकारवेद्या। स्वरूपतः निर्गुणब्रह्मतया अज्ञानविषयत्वाश्रय- स्वाभ्यामप्राप्तपुरुषार्थरूपतया संसारदशायां प्रतीयमानत्वात् गुरूपसदन- ..

३८
ललिताविशतीभाष्यम् ।
श्रवणादिरूपविध्यप्रामाण्यनिरासाय लक्षणया शुद्धस्वरूपपरमानन्दतया
प्रेप्सितत्वात् श्रवणादिजन्यवृत्तिव्याप्यत्वरूपवेदनाविषयत्वम् 'ब्रह्मण्य-
ज्ञाननाशाय वृत्तिव्याप्तिरितीर्यते' 'मामेव ये प्रपद्यन्ते मायामेताम्'
(गी. ७-१४) इत्यादिवचनात् भगवताऽप्यङ्गीकृतमिति ह्वीकारेण
गुरुमुखोद्भूतेन वेद्या वेदितुं योग्या। तत्स्वरूपपरिज्ञानद्वारा तत्प्राप्ति-
रूपपुरुषार्थहेतुत्वादिति तात्पर्यम् ।।
ॐवीकारवेद्यायै नमः॥
ह्रींकारचिन्त्या। अस्य बीजस्य पञ्चप्रणवान्तर्गतत्वेन ॐकारभेदे
ब्रह्मप्रतीकत्वाविशेषात् । प्रणवे यथा परापरब्रह्मोपासनहेतुबदस्मिन् वा
प्रतीके तद्भवतीति विकल्पः । यदा भक्तिः पार्थक्येन मन्त्रविशेषेषु
भवतीति योगवेदमार्गरहस्यं न वादजल्पाद्यवकाशः । ह्रीकारे उभयविध-
ब्रह्मस्वरूपतया चिन्तितुं योग्या । ध्यानस्य साक्षात्कारं प्रत्यारादुप-
कारकत्वेन ध्यातव्येत्यर्थः ।।
ॐकारचिन्त्यायै नमः॥
ह्रीं। हृञ् हरणे इति धातुपाठात् समस्तविद्यैश्वर्य प्रदानादि-
शक्त्यारोपाधिष्ठानत्वे सत्यपवादावशेषितपरमानन्दरूपमुक्तिरित्यर्थः ।।
ही नमः॥
ह्रींशरीरिणी । मूलमन्त्रात्मिकेति यावत् । ह्रीमेव शरीरं मूर्तिरस्या
अस्तीति हीशरीरिणी ॥
ॐ ह्रींशरीरिण्यै नमः॥
हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥२०॥

ललितात्रिशतीभाष्यम्।
हकाररूपा । हकारः रूपं षष्ठावयवः यस्याः सा, मूलविद्या-
वाच्यार्थवाचकं यस्याः सा तथा ॥
ॐ हकाररूपायै नमः॥
हलधृक्पूजिता । हलं युगं धरति हलधृक् बलरामः, तेन पूजिता
ध्यानादिभिराराधितेत्यर्थः ।।
* हलधृक्पूजितायै नमः॥
हरिणेक्षणा। हरिण्याः एण्याः ईक्षणमिव ईक्षणं यस्याः सा
तथा, अतिसंतोषेण कातराक्षीति भावः । सर्वत्र सर्वदा सर्वद्रष्ट्रीति
वा। भक्तेष्वादरहेतुदर्शनवतीति भावः ।।
ॐ हरिणेक्षणायै नमः॥
हरप्रिया। हरस्य प्रिया शिववल्लभेत्यर्थः । हरः प्रियो यस्याः
सा इति वा ।।
ॐ हरप्रियायै नमः॥
हराराध्या । हरेण स्वभनी आराधितुं योग्या, केवलसच्चिदानन्द-
स्वरूपत्वात् ॥
ॐ हराराध्यायै नमः॥
.
हरिब्रह्मेन्द्रवन्दिता। हरिः रमेशः । ब्रह्मा वाणीशः । इन्द्रो
देवेशः उपलक्षणं सर्वदेवभेदानाम् । तैर्वन्दिता नमस्कृता ।
ॐ हरिब्रह्मेन्द्रवन्दितायै नमः।
हयारूढासेविताङ्घ्रियमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१ ॥

ललितात्रिशतीभाष्यम्। " हयारूढासेविताइनिः। हयारूढा नाम अश्वमानसेनानीशक्तिः वश्यकरी । तया सेवितौ अघी यस्याः सा तथा ।। ॐ हयारूढासेविता यै नमः। हयमेधसमर्चिता। हयमेधेन अश्वमेधेन समर्चिता पूजिता । पुरुषत्वादिप्राप्त्यै इलादिभिरित्यर्थः ।। ॐ हयमेधसमर्चितायै नमः॥ हयक्षवाहना। वाह्यतीति वाहनम् , हर्यक्षः केसरी वाहनं यस्याः सा तथा । महालक्ष्मीरूपदुर्गेत्यर्थः ॥ ॐ हर्यक्षवाहनायै नमः॥ हंसवाहना। हन्ति गच्छतीति हंसः सूर्यः प्राणो वा, वाहनवत् आधारभूतप्रतीकमित्यर्थः, अभिव्यक्तिस्थानमिति यावत्, ‘स यश्चायं पुरुषे । यश्चासावादित्ये। स एकः' (ते. २-८) इति श्रुतेः । अथवा, हंसवाहना ब्राह्मीरूपेणेत्यर्थः ॥ ॐ हंसवाहनायै नमः॥ हतदानवा । हताः दानवाः अनेकप्रकारशक्तिरूपधरया भण्डा- सुरादयः यया सा तथा ।। ॐ हतदानवायै नमः॥ हत्यादिपापशमनी हरिदश्वादिसेविता । हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ॥ २२ ॥ हत्यादिपापशमनी। हत्या ब्रह्महत्या आदिर्येषां तानि तथा पापानि शमयतीति तथा, 'हरिहरति पापानि' इति वचनात् ।। ॐ हत्यादिपापशमन्यै नमः ॥ , .

ललितात्रिशतीभाष्यम् । .. हरिदश्वादिसेविता। हरिन् हरिद्वणः मरकत इव अश्वा यस्यन्द्रम्य स तथा आदिर्यपां दिक्पतीनां तैः सविता चरणारविन्दसनिधि किकरतयाश्रितेत्यर्थः॥ ॐ हरिदश्वादिसेवितायै नमः। हस्तिकुम्भोत्तुङ्गाकुचा । हस्तः अस्यास्तीति हस्ती, तस्य कुम्भा तद्वदुन्नतौ कुचौ सान्द्रौ यस्याः सा तथा ॥ ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः ॥ हस्तिकृत्तिप्रियाङ्गना। हस्तिनः कृत्तौ चमणि प्रियः प्रीतिमान् शिवः , तस्याङ्गना भामिनीत्यर्थः ।। ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः। हरिद्राकुङ्कुमादिग्धा हर्यश्वाधमरार्चिता । हरिकेशसखी हादिविद्या हालामदालसा ॥२३॥ हरिद्राकुङ्कुमादिग्धा। हरिद्राकुङ्कुमाभ्यां उपलक्षणं कस्तूरी- पत्रादीनाम् । आदिग्धा लिप्तत्यर्थः ॥ ॐ हरिद्राकुमादिग्वायै नमः॥ हर्यश्वाद्यमरार्चिता। हर्यश्वः सुरेशः आदियेपाम् अमराणां तैरचिंता किकरतया नियामकत्वेन पूजितेत्यर्थः ।। ॐ हर्यश्वाद्यमरार्चितायै नमः। हरिकेशसखी। हरयः हरिद्वर्णाः केशाः शिरोरुहाः यस्य , 'हिरण्यश्मश्रुहिरण्यकेशः' (छा. १-६) इति श्रुतेः। तस्य सखी प्रयोजनमनपेक्ष्योपकारिणीत्यर्थः। यद्वा वर्णेन नीलेन हरिणा विष्णुना " 4.0 ललितात्रिशतीभाष्यम् । समाः केशाः अस्य सन्तीति सर्वाङ्गसुन्दरनित्ययौवनचिद्रूपसहितकामेश्वरः तस्य सखी॥ ॐ हरिकेशसख्यै नमः॥ हादिविद्या । लोपामुद्रोपासितमनुरूपेत्यर्थः ।। हादिविद्यायै नमः॥ हालामदालसा। हालायाः अमृतमथनोद्भूतवारुण्याः मदेन उल्लासेन अलसा आरक्तनेत्रान्तरोमाञ्चादिचिह्नवतीत्यर्थः ।। ॐ हालामदालसायै नमः॥ सकाररूपा सर्वज्ञा सर्वशी सर्वमङ्गला । सर्वकी सर्वभनी सर्वहन्त्री सनातना ॥ २४ ॥ सकाररूपा । द्वितीयखण्डद्वितीयावयवत्वेन ज्ञापकं यस्याः सा तथा ॥ उसकाररूपायै नमः। सर्वज्ञा। अनुमानित्यज्ञानस्वरूपेण सामान्यरूपेण सर्वं जानातीति सर्वज्ञा, 'यः सर्वज्ञः सर्ववित्' (मुण्ड १-१) इति श्रुतेः ॥ ॐ सर्वज्ञायै नमः। सर्वेशी। सर्वस्य कार्यस्य अन्तर्यामिरूपेण ईष्टे प्रेरयतीति तथा ।। ॐ सर्वेश्यै नमः॥ सर्वमङ्गला। सर्वप्रकारेण शुद्धविशिष्टचैतन्यरूपेण मङ्गला परमा- नन्दस्वरूपा। अत्र बहुव्रीहेरविवक्षितत्वात् । विवक्षितायां वा सुन्दर- .

ललितात्रिशतीभाष्यम् । ३ : कायो राजेत्यादिवत् समासार्थः। अथवा, सर्वेपां मङ्गलं यस्याः सा तथा। सर्वैः प्रकारैः ध्यानकीर्तनपूजानमस्काराद्यर्चनभक्तिजन्यकैङ्कः जडानामपि मङ्गलं सुखं यस्याः जायते सा तथा। सर्वेषामात्मरूपतया प्रतीयमानं मङ्गलं सुखस्वरूपं यस्याः सेति वा। सर्वशब्दवाच्यः सर्व- कारणं शिवः , तस्य मङ्गलं सुखं यस्याः जायते सा तथा , 'सचिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति वचनात् । अथवा, मङ्गल- शब्देन मङ्गलहेतुभूताः स्त्रियो लक्ष्यन्ते । सर्वेषां प्राणिनां मङ्गलं मङ्गल- साधनभूताः योषाः स्वाभिन्नसच्चिदानन्दवत्त्वेन यस्याः सा तथा , 'एतस्यैवानन्दस्यान्यानि भूनानि मात्रामुपजीवन्ति' (बृ. ४.३) इति श्रतेरित्यर्थः । 'अशुभानि निराचष्टे तनोति शुभसंततिम् । स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः ॥ अतिकल्याणरूपत्वात् नित्यकल्याण- संश्रयात् । स्मर्तृणां वरदत्वाञ्च ब्रह्म तन्मङ्गलं विदुः ॥' इत्यादिवचनात् ॥ ॐ सर्वमङ्गलायै नमः॥ सर्वकी। सर्व समस्त स्वशक्त्या मायारूपया करोतीति तथा, ईशत ईशनीभिः' (श्वेत. ३-१) इति श्रुतेः ।। ॐ सर्यकन्यै नमः॥ सर्वभत्री। सर्व बिभर्तीति तथा , 'एष विधृतिरेषां लोकानाम् (छा ८-४) इति श्रुतेः ॥ ॐ सर्वभत्र्यै नमः॥ . - - । .. सर्वहन्त्री। सर्व हरतीति तथा । एभिनीमत्रयैः 'यतो वा' (ते. ३.१) इत्यादिश्रुत्युक्ततटस्थलक्षणत्रयमभिहितमिति वेदितव्यम् ।। ॐ सर्वहन्त्र्यै नमः॥

४४ ललितात्रिशतीभाष्यम् । सनातना। 'अजो नित्यः शाश्वतोऽयं पुराणः' (कठ. २-१८) इति श्रुतेः नित्यसिद्धस्वरूपेत्यर्थः ।। ॐ सनातनायै नमः ॥ सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्यदात्री सर्व विमोहिनी ॥ २५ ॥ सर्वानवद्या। सर्वैनिश्वर्यादिगुणैरनवद्या । अवद्या नाम विद्यया हीना जडप्रकृतिः मिथ्या वाध्यमानत्वात् । तद्विलक्षणा सत्यज्ञानानन्द- रूपत्वादनवद्या । सर्वेषां सर्वाभीष्टप्रापकत्वेन स्तुत्या वा ॥ ॐ सर्वानवद्यायै नमः ॥ सर्वाङ्गसुन्दरी । सर्वाणि च तानि अगानि च अवयवाः शिरः- पाण्यादयः, तेष्वन्यूनातिरिक्तभाववत्त्वात् यथासामुद्रिकलक्षणं तद्वत्त्वेन सर्वाङ्गसुन्दरी । अथवा, सर्वेपामङ्गेपु शरीरेषु ब्रह्मस्वरूपतया अत्यन्त- प्रेमविषयत्वेन सुन्दरपदार्थवदविनाभाववाञ्छाविषयत्वात् तथा ॥ ॐ सर्वाङ्गसुन्दय नमः ॥ सर्वसाक्षिणी । सर्वेषां जडाना कार्याणां स्फूर्त्यांधायकत्वेन प्रकाश- की तथा । सर्वं साक्षादीक्षत इति वा तथा । ॐ सर्वसाक्षिण्यै नमः ।। सर्वात्मिका। सर्वेषामात्मस्वरूपत्वात् । यच्चाप्नोति यदादत्त यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयते ॥' इति वचनात्तथा ॥ ॐ सात्मिकायै नमः ॥ ' ललितात्रिशतीभाष्यम् । ४५ सर्वसौख्यदात्री। सुखिनः भावः सौख्यम् , सर्वाणि च तानि प्रियमोदप्रमोदानन्दशब्दवाच्यानि । इष्टदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यं मोदः। तदनुभवजन्यं प्रमोदः । आनन्दः समष्टिः । जीवः भोक्ता । तानि ददातीति तथा । सर्वप्रकारः स्मरणादिभिः सौख्य ददातीति वा। सर्वेपामाब्रह्मस्तम्बपर्यन्तानां यथाकर्मोपासनं प्रत्यक्षेण दृश्यमान ज्ञानेश्वर्यादिसहितं सुखं ददातीति वा तथा। 'एष घेवानन्द- याति' (ते. २-७) इति श्रुतेः ।। ॐ सर्वसौख्यदायै नमः ॥ सर्वविमोहिनी। सर्वान् विमोहयतीति अन्यथा ग्राह्यतीति वा तथा। 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' (गीता ५-१५) अनृतेन हि प्रत्यूढाः' (छा. ८-३) इति श्रुतिस्मृतिभ्यां अज्ञानावरणशक्ति- कार्य मोहनादि सत्ताप्रकाशादिप्रदानाधिष्ठानत्वेन उपचारात् सर्वं मोहयती- त्युच्यते । अयो दहतीतिवत् ।। ॐ सर्वविमोहिन्यै नमः ॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिना । सर्वारुणा सर्वमाता सर्वभूपणभूपिता ॥ २६ ॥ सर्वाधारा। सर्वस्याधारा 'ब्रह्म पुच्छं प्रतिष्ठा' (ते. २-५) इति श्रुतेः। सर्वेषां हृदयानि आधारः अभिव्यक्तिस्थानं उपासनाय यस्याः सेति तथा ॥ २ सर्वाधाराय नमः ॥ सर्वगता। सर्व गच्छतीति तथा। 'अनेन जीवनात्मनानु- प्रविश्य' (छा. ६-३) इति श्रुतेः ॥ ॐ सर्वगतायै नमः॥ , Ao 10 ललितात्रिशतीभाष्यम् । सर्वावगुणवर्जिता। अवमानहेतवश्च ते गुणाश्च आध्यात्मिकसंबन्धेन आरोपिताः सत्त्वादयः समष्टी, अन्तःकरणधर्माः कामादयः व्यष्टौ, सर्वे च ते अवगुणाश्च तथा । सर्वान्तर्यामित्वेन सर्वानुस्यूनत्वेऽपि तत्तदुपाधिनिष्ठोत्तमाधमधमः न संबध्यते घटादि- निष्ठाकाशवत् कोशान्तर्गतखङ्गवद्वा, 'सूर्यो यथा सर्बलोकस्य चक्षुः न लिप्यते चाक्षुषैः बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥' (कठ. ५-११) इति श्रुतेः ।। ॐ सर्वारगुणवर्जितायै नमः॥ सर्वारुणा। सर्वेब्बड्नेष्वरुणा आरक्तवती, असौ यस्तान्नो अरुणः' इति श्रुतेः ॥ ॐ सर्वारुणायै नमः॥ सर्वमाता। सर्वेण कार्येण मीयते अनुभीयतेऽभेदेनेति तथा । तथा हि- इदं जगत् ब्रह्माभिन्नं तत्सत्तास्फूर्तिनियतसत्ताप्रकाशज्ञान- विपयत्वात् , यः यन्नियतसत्ताप्रकाशवान् स तदभिन्नः यथा तन्तुकार्यः पट इति । सर्वान् मिनोति स्वाभेदेन जनातीति तथा ।। ॐ सर्वमात्रे नमः॥ सर्व भूषणभूषिता। सर्वात्मकत्वेन ये ये प्राणिनः यानि यानि भूषणालकारभोजनादीनि भोग्यवस्तून्यात्मार्थ संपादयन्ति , तेषां सर्वेषां प्रत्यक्तया तैः सबैभूषिता उपकृतेत्यर्थः, 'आत्मनस्तु कामाय सर्व प्रियं भवति' (बृह. २-४) इति श्रुतेः । अथवा, सर्वदेवात्मकत्वेन सर्व- भक्तजनस्य स्वखेप्टदेवताप्रीत्यर्थं भूषणभूपितत्वेन तथा। अथवा , सर्वैर्भक्तजनैः तत्तवयवेषु भूषणैरारोपिता, स्वस्याः महाराज्ञीत्वेन असंगोदासीनस्वभावत्वादिति भावः । यद्वा , सर्वदेशकाललोकेषु भूषणैः - N . .

ललितात्रिशतीभाष्यम् । तत्र तत्र भवैः उच्चावचैर्भूषणैरारोपिता; हस्त्यश्वादिदेहोपाधिका सती तत्तदीयालंकारादिषु जुगुप्सारहितेत्यर्थः । भूपयन्ति सर्वोत्तमत्वेन प्रतिपादयन्तीति भूषणानि वेदान्तमहावाक्यानि , मर्वैः समस्तैः गति- सामान्यात् एकतात्पर्येण भूपिता लक्षणया पर्यवसिता समन्विता वेत्यर्थः ॥ , ॐ सर्वभूपणभूपितायै नमः ॥ ककारार्था कालहन्त्री कामेशी कामिताथदा। कामसंजीवनी कल्या कठिनस्तनमण्डला ||२७|| ककारार्थी 'कं ब्रह्म' (छा. ४-१०) इति श्रुत्या ककारम्य ब्रह्मार्थकत्वेन तब्यनिरिक्तस्यातदर्थस्य बाधितत्यात् ।। ॐकारार्थायै नमः॥ कालहन्त्री। अजपारूपेण प्राणापाननामकचन्द्रसूर्यनियमने पुरुषाणा नियमित परिमितायुःस्वरूपैकविशतिषट्शताधिक सहस्रसंख्याक - निर्गमनरूपेण रूपयन्ति अवशेषायुषो युगकल्पाद्यविशिष्टरय वृद्धौ पुनः संयमने तथा नथा वृद्धौ संयुानस्य सर्वप्राणेन्द्रियस्य वृत्तिलये मनोन्मन्यवस्था निष्पद्यते । तथा च श्रुतिः 'पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥' (श्वेता. २-१२) इति , 'अध्यात्म- योगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति' (कठ. २-१२) इति च । तथा च तदानीमाविभूनब्रह्मस्वरूपेण 'ततः संवत्सरोऽजायत' इति श्रुत्या क्रियाशक्त्यात्मककालोत्पत्तिश्रवणात् तस्मिन् ब्रह्मण्येव लये कालं हन्ति नाशयतीति तथा नामनिर्वचनं युक्तं वक्तुमिति भावः ॥ ॐ कालहन्यै नमः॥ - .

ललिताविशतीभाष्यम् ।
.
कामेशी। कामानां भोग्यपदार्थानां यथादृष्टं ईष्टे प्रेरयतीति तथा॥
कामेश्यै नमः ॥
कामितार्थदा। कामितानर्थान् ददातीति तथा, 'आप्तकामः'
इति श्रुतेः । संसारदशायामावृतानन्दस्य
संसारदशायामावृतानन्दस्य अनाप्तवदवभासमानस्य
आत्यन्तिकसुखात्मिका मुक्ति, स्यादिति काम्यमानत्वादात्मनः कामि-
तत्वम् । कामितश्चासावर्थश्चेति तस्यैव ज्ञानस्यावरणाभिभावकत्वेन प्राप्त-
प्राप्तिरूपतया तं ददाति प्रयच्छतीति प्रकाशस्वरूपेण अनुभावयतीत्यर्थः ।।
ॐ कामितार्थदायै नमः॥
कामसंजीवनी। कामं मन्मथं परमेश्वरनेत्राग्निविप्लुष्टं भण्डा-
सुरात्मना अनेककालदेवलोकविपक्षं कामशास्त्रप्रयोगसमये रतिदेवीप्रार्थन-
समीचीनतदीयपूर्वकायं तपश्चर्यादिपरिपाकफलभूतं करुणारसपूरितापाङ्गा-
वलोकनेन संजीवयति सप्राणं कृत्वा तस्मै वरादि प्रयच्छति तेन तं
हर्षयतीति तथा ॥
ॐ कामसंजीवन्यै नमः॥
कल्या। कलयितुं ध्यातुं योग्या। अथवा, सर्वोत्तमदेवत्वेन
ध्यातुं योग्या कल्या। कलेः कामधेनुत्वेन यथावाञ्छितार्थकारणम् ।।
ॐ कल्यायै नमः॥
कठिनस्तनमण्डला। स्तनयोः मण्डले आदिमभागौ सान्त:-
प्रदेशौ कठिने अप्रकम्प अतिस्थिरे वा यस्याः तथा ।
ॐ कठिनस्तनमण्डलायै नमः।
करभोरूः कलानाथमुखी कचजिताम्बुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ २८ ॥

ललितात्रिशतीभाष्यम् । करभोरूः । करम इव अरू यस्याः सा तथा । 'मणिबन्धादा- कनिष्ठं करस्य करभो बहिः' इति प्रमाणादिति भावः ॥ ॐकरभोरवे नमः॥ कलानाथमुखी। कलाः चतुःपष्टिकलाः नाथयति प्रेरयतीति कलानाथः , 'निःश्वसितमेतद्यहग्वेदो यजुर्वेदः सामवेदः' (बृ. २-४-१०) इत्यादिश्रुतेः, 'शास्त्रयोनित्वात्' (न. सू. १-१-३) इति न्यायाञ्च । तादृशं मुखं वदनं यस्याः सेति तथा । कलानाथश्चन्द्र इव मुख यस्याः सेति वा ।। ॐ कलानाथमुख्यै नमः॥ कचजिताम्बुदा। कचेन केशभारेण कवरेण वेत्यर्थः । जिताः अधरीकृताः अम्बुदा मेघा यया सा तथा, मेघमण्डलापेक्षया ऊर्ध्वगामि- शिरोरुहभारा व्योमकेशीति भावः । अथवा, केशवृत्तिनीलरूपेण सादृश्यासवेन धिक्कृताः मेघाः यया सा तथा ।। ॐ कचजिताम्बुदायै नमः॥ कटाक्षस्यन्दिकरुणा। यद्यपि दीनेषु परिपाल्यताबुद्धिर्देवानां महतां करुणेत्युच्यते , तथापि तस्याः आन्तरत्वेन अज्ञायमानतया तेषु भक्त्यतिशयेन प्रवृत्त्यर्थ सेवादौ तद्वत्ताज्ञानस्यावश्यकफलप्रदानादिहेतु- तया निश्चयेन तदनुरूपकसात्त्विकवीक्षणस्मेरसंभाषणादिसत्त्व तत्रावश्य भवतीति कार्यसत्त्वप्रसञ्जितकारणसत्त्ववत्त्वात् , करुणायाः नवरसेष्वन्त- र्भावात् , रसशब्दस्य मधुरादौ रूढत्वान् तेषामनिर्वचनीयत्वेऽपि अनुभव- गोचरतायामिक्ष्वादिसारद्रव्यपदार्थनिष्ठत्वोपलब्धेः तत्सबन्धवशात् परं- परया द्रवद्रव्यवृत्तिस्यन्दनरूपक्रियाश्रयत्वमुपचर्यते । तथा च कटाक्ष- स्यन्दिनी करुणा परिपाल्यतावुद्धिरूपा यस्याः सा तथा ॥ ॐ कटाक्षस्यन्दिकरुणायै नमः । L.7 ललितानिशतीभाष्यम् । . कपालिप्राणनायिका। कपालमस्य अस्तीति कपाली आनन्द- भैरवः, तस्य प्राणनायिका प्राणस्येत्युपलक्षणं पञ्चानाम् । नायिका अधिष्ठानवेन प्रेरका । 'न प्राणेन नापानन मया जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नतावुपाश्रिनौ ॥' (कठ. ५-५) इति श्रुतेः । तस्यापि हृदयान्तपनि परमेश्वररूपति यावन । प्राणवल्लभति वा , प्रियेति ॐ कालिप्राणनायिकाय नमः ॥ कारुण्यपिग्रहा कान्ता कान्तिधूतजपावलिः । कलालापा कम्बुकण्ठी करनिर्जितपल्लचा ॥ २९ ॥ कारुण्यवित्रहा। कारुण्यं पूर्वोक्तकृपा , करुणस्य भावः , तत् विग्रहः मूर्तिर्यस्याः सेति तथा । कारुण्यस्यान्तःकरणपरिणामबुद्धि- रूपत्वेन नेत्रान्तवीक्षासस्मितभाषादिनाऽनुमीयमानत्वेऽपि साक्षात्तजन्य- मनोवाञ्छितवरप्रदानादीनां शरीरावयवनिशेषजन्यतया कारुण्यं विग्रहा यस्याः सेति समासोपपत्तिः । मायोपाधिकरय ब्रह्मणः जगतृष्टयनुकरण- हेतुभून स्वच्छामात्रनिमित्त कनिधीन गचिदानन्दघनीभूतात्मकभक्तानु- ग्राहकत्रिप्रवन्तो विना देशनामाः उदारनाशपेण सगुणोपासनम्नुपपद्य- मानं स्यात् , तदर्थ देवताधिकरण मानाकाशिता देवाः ‘वग्रहस्तः पुरन्दरः' इत्यादिखलःप्रमाणवेदवाक्यवशात बाधकामाचे विग्रहयन्तः अङ्गीकर्नव्या इति प्रतिष्ठापितम् । नथा ‘बहुशोभमानामुमा हैमपनीम इति केनोपनिषद्भाष्ये मानि हेमपिकाराणि भूपणानि यरयः सेति वा तथा, हिमवतः अपत्यं स्त्रीति च तथेति परदेवतायाः दिव्यविग्रहवत्त्वं प्रतिष्ठापितम् । तथा व महानुभावानां स्वप्रकाशचैतन्यरूपाणामेवंभूनानां सर्वात्मना सर्वोत्तमानां मूर्तित्रयदेवानां ध्यानागुपकाराय तादृशमूर्ति- मत्त्वग अस्तीति न किचिदनीश्वरवादप्रसङ्गावकाश इति आस्तां विस्तरः।। .

ललितालिशतीभाष्यम् । . . ॐकारण्यविग्रहाय नमः। कान्ता। 'कन दीप्तौ' इति धातोः अत्यन्तमनोहरतमेत्यर्थः । मदनगोपालविग्रहा वा। 'कदाचिदाद्या ललिता पुंरूपा कृष्णविप्रहा । वंशनादविनादेन करोति विपशं जगत् ॥' इति त्रिपुरतापनीये ॥ ॐ कान्तायै नमः॥ कान्तिधूतजपापलिः। जपानां जपापुष्पाणाम् , उपलक्षणम् अन्येपामारक्तवणानाम , आवलिः पड्किः दृष्टान्तत्वेन कविमिरुत्प्रेक्षिता। कान्या अप्राकृतस्वच्छपरमानन्दचि द्वारा धूताः परित्यक्ताः पाकृतत्वेन अल्पकान्तिमत्तया उपमायोग्यतया यया सा, न हि महान्तो नीचैरुपमीयन्ते' इति न्यायादिति भावः ॥ ॐ कान्तिधूतजपावल्यै नमः। कलालापा। कल चतुःपष्टिकला आलापो व्यावहारिकशब्दः यस्याः सा तथा, 'वेदशास्त्रमयी वाणी यस्याः सा परदेवला' इति वचनात् । कलः अध्यक्तमधुरः सप्रयोजनः आलापः संलापो यस्याः सेति वा तथा, 'अव्यक्ता भारती तथा' इति महापुरुपसामुद्रिक- वचनात् ॥ ॐ कलालापायै नमः॥ कम्बुकण्ठी। कम्बुशब्देन अन शङ्खनिष्टरेखात्रयं लक्ष्यते । तद्वान्कण्ठो यस्याः खेति तथा गुणनामेदम् ।। ॐ कम्बुकण्ठ्यै नमः॥ करानिर्जितपल्लया। करशब्देन करतलं लक्ष्यते। पल्लनशब्देन तनिष्टपादल्यं निग्धता लक्षणया इत्यर्थः । तथा च अन्योन्यगुणयोर्जय- ललितात्रिशतीभाष्यम् । . पराजये, अर्थात्तद्वतोरपि तौ सिद्धाविति तन्नामोपपत्तिः। 'विवाहश्व विवादश्च समयोरेव शोभते' इति वचनात् करतले तत्साम्यध्वनिरनेन नाम्ना कृतः। करेण निर्जिताः पल्लवाः यस्याः सा तथा ॥ ॐ करनिर्जितपल्लवायै नमः। कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता । हकारार्था हंसगतिहाटकाभरणोज्ज्वला ॥ ३० ॥ कल्पवल्लीसमभुजा। यथा दिव्यवृक्षाः नन्दनोद्याने प्रसिद्धाः तथा तदलंकाराय वल्ल्यादयोऽपि । कल्पयन्ति संपादयन्तीति कल्पाः, कल्पाश्च ता वल्ल्यश्च व्रतत्यः. ताभिः समाः भुजाः हस्ताः यस्याः सा तथा । कविसंप्रदायप्राप्त्या स्त्रीभुजानां वल्लीसाम्योक्तिरिति मन्तव्यम् । अल समपदस्वारस्येन तेषामपि तदवच्छिन्नचैतन्यद्वारा यथाप्रारब्धं चेतनवल्लोकवाञ्छितफलकर्तृत्वमिति ध्वनितम् । ‘एकस्तथा सर्वभूतान्त- रात्मा रूपं रूपं प्रतिरूपो बहिश्च' (कठ. ५-९) इति श्रुतेः । 'तत्तदेवावगच्छ त्वं मम तेजोशसंभवम्' (गीता. १०-४१) इति स्मृतौ च भगवता स्वकीयसच्चिदानन्दस्वरूपावस्थितिरेवोक्ता । परदेवीभुजानां नैव साम्योक्तिरिति शङ्का निरस्ता वेदितव्या, औपाधिक- चैतन्येन तथाभूतचैतन्यस्य साम्योपपत्तेः ॥ ॐ कल्पवल्लीसमभुजायै नमः ॥ कस्तूरीतिलकाञ्चिता । कस्तूरीतिलकेन ललाटदेशसंस्थापितबिन्द्वा- कारमृगनाभिना अञ्चिता चिह्निता अलंकृतेत्यर्थः ।। • कस्तूरीतिलकाञ्चितायै नमः। हकारार्थी । हकारस्य आकाशबीजस्य अर्थी, अर्थः स्वरूप- अत एव , ललितात्रिशतीभाध्यम् । चैतन्यम् आकाशविग्रहेत्यर्थः, 'आकाशो ह वै नाम नामरूपयोर्निहिता ते यदन्तरा तद्ब्रह्म' (छा. ८-१४) इति श्रुतेः ॥ ॐ हकारार्थायै नमः॥ .. , . हंसगतिः। हन्ति गच्छतीति हंसः प्राणः आदित्यो वा । हंसस्य प्राणस्य गतिः गमनागमने लक्षणया तजाप्याजपामन्त्ररूपा यस्याः सा तथा, 'हकारेण बहिर्याति सकारेण पुनर्विशेत्' इति वचनात् । यद्वा, तदभिमानिदेवतारूपाग्नीषोमात्मकसूर्यचन्द्रगती अहो- रात्रात्मककालस्वरूपायाः यस्याः सा । अथवा, हन्ति देहादेहान्तरं गच्छति स्वकर्मवशेनेति हंसो जीवः तस्य गतिः, प्राप्यस्थानं मुक्तिरित्यर्थः, 'ब्रह्मविदाप्नोति परम्' (ते. २-१) 'यद्त्वा निवर्तन्ते' (गीता. १५-६) इति श्रुतिस्मृतिवचनात् । अथवा, हन्ति स्वकार्यभूतं जगत्प्रविशतीति हंसः । 'हंसस्तु परमेश्वरः' इति नृसिहतापनीये । गम्यने प्राप्यते शरणत्वेन प्रपद्यते चतुर्विधभक्तैरिति गतिः। हंसश्चासौ गतिश्चेति सामानाधिकरण्यसमासः, 'हसः शुचिषत्' (कठ. ५-२) इति श्रुतेः । आहोस्वित् , हंसस्य ब्रह्मवाहनस्य गतिरिव गमनं यस्याः सा तथा । उताहो, हंसशब्देन नाभैकशब्देन हंसक पादकटकमुच्यते; गम्यते अनेनेति गतिः चरणम् ; हंसयुक्ते गती पादारविन्दे यस्याः सा तथा । यद्वा , हंसशब्देन नित्यानित्यसारासारजडाजडादिवस्तुविवेक- समर्थाः, नन्ति गच्छन्ति प्रतिग्राम प्रतिदेशम् इति हंसाः परिव्राजकाः चतुर्थाश्रमिणः निष्कामाः, तेषां गतिः गम्यते ज्ञायते साक्षाक्रियत इति गतिः, 'संन्यासयोगाद्यतयः शुद्धसत्वाः' (मुण्ड. ३-२) इति श्रुतेः । 'ये पूर्व देवा ऋषयश्च तद्विदुः ते तन्मया अमृता वै बभूवुः' (श्वे. ५-६) इति श्रुतेः । जीवन्मुक्तपुरुषानुभूयमानपरमानन्दमुक्तिस्वरूपेत्यर्थः ॥ ॐ हंसगत्यै नमः॥ , , ललितात्रिशतीभाष्यम् । हाटकाभरणोज्ज्वला । हाटकस्य गुवर्णस्य कार्याणि च तानि आभरणानि च हाटकाभरणानि तैरुज्ज्वला तथा प्रकाशिता अलं- कृतेत्यर्थः। हाटकस्य सुवर्णरूपब्रह्माण्डस्य आभरणवदुज्ज्वला प्रकाशकरी सत्तास्फूर्तिकरीत्यर्थः । यद्वा , तस्मिन्नाभरणैः मगलसूत्रादिभिः सनाथ- स्त्रीमण्डलस्वरूपैरुज्ज्वलतीति । आहोषित् , कार्यकारणद्वयरूपयसुदानेन वसुस्वरूपेण वा उज्ज्वलति प्रकाशत इति तथा, 'वसुरन्तरिक्षसत्' (कठ. ५-२) इति श्रुतेः ।। ॐ हाटकाभरणोज्ज्वलाय नमः॥ हारहारिकुधाभोगा हाकिनी हल्यवर्जिता। हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ ३१ ॥ हारहारिकुचाभोगा। हरस्य परमेश्वरस्य इमे संबन्धिनः हाराः ईश्वरत्वाप्तकामवनित्यतृप्तत्वादयो गुणाः; तान् हरति तद्विपरीता- विद्याद्याधानेन उत्सादयतीति हारहारी, कुचयोराभोगः पर्यन्त भूमिः यस्याः सा तथा । परमेश्वरस्य तद्विषयकवाञ्छया त कसक्तमनस्त्वेन तत्कारणीभूताविद्यावशवृत्तित्वेन वशीकृतमायत्वस्वरूपेश्वरत्वसमानाधि- करणाप्तकामवादयः अपहृताः, जीवेश्वरयोरेकत्र तेषां तद्गुणानां च सामानाधिकरण्यायोगादित्यर्थः । च ईश्वरस्य मदिष्टसाधन- मित्यन्यत्र पदार्थे बुद्धिमत्त्वस्यैव बहुभवनरूपतया तस्य जगदाकारत्वा- थायका-इत्यधिकगुणोत्प्रेक्षाविषयत्वेन भोगस्यातिशयोक्तिरिति द्रष्टव्यम् । अथवा, हारान् मुक्तास्रजः हरति आदते इति हारहारी कुचाभोगो यस्याः सेति तथा षट्प्रकारेण मुक्ताहारेण यथोचितकालं भूषितवतीति भावः ॥ * हारहारिकुचाभोगायै नमः। तथा ललितात्रिशतीभाष्यम् । हाकिनी । हाकयति जन्ममरणे छेदयतीति हाकिनी, 'हाक् च्छेदे' इति धातुपाठात् ।। ॐ हाकिन्यै नमः॥ , हल्यवर्जिता । हलसंबन्धि हल्यं कृष्यादिद्वारा जनकत्वम् , तद्वर्जिता कामादिविहीनशुद्धचैतन्यस्वरूपत्वात् । हल्यं कपटः मित्रेप्व- प्यन्यथा खान्तःकरणाविष्कृतिः तेन वर्जिता । अविद्याविरहिततत्त्वंपद- लक्ष्यार्थभूतत्वादिति यावत् ॥ ॐ हल्यवर्जितायै नमः ॥ हरित्पतिसमाराध्या। हरितां दिशां पतयः महेन्द्रादयः तैः सम्यक श्रद्धाभक्तिपूर्वकर आराधितुं योग्या। तद्विपक्षनिबर्हणेनेष्टप्रापकदैवतत्त्वा- दित्यभिसंधिः ॥ ॐ हरित्पतिसमाराध्यायै नमः। हठात्कारहतासुरा। हठात्कारेण आतिशीध्रनया हताः पराभूताः असुराः असुरपक्षा महिपादयो यया सा तथा, समवलयोः किल लोके सामाधुपायः बलाबलविचारणा च भवति । प्रबलस्य तु दुर्बलेषु वैरिषु सिहस्य मेपेष्विव तदयोगेन अतित्वरयाऽविचारेणैव देवलोकमुखप्रदा- इति नामार्थविचारणायामिनरेषु कैमुलिकन्यायेन तत्कारणत्वं ध्वनितमिति योजनीया ॥ ॐ हठात्कारहतासुरायै नमः। हर्षअदा हविर्भोवती हादसंतगसापहा । हल्लीरालास्यसंपुष्टा हंसमन्त्राथरूपिणी ॥ ३२ ॥ हर्पप्रदा। हर्षः आनन्दकारकः मुखविकासादिकार्योन्नेयः स्वात्म- .. " ललितात्रिशतीभाष्यम् । संभावनेतरपरिभवनिमित्तचित्तवृत्तिविशेषः , कार्यस्य कारणाविना- भावितया तत्प्रदानं तद्धतोरप्याक्षिपतीति सुखप्रदेत्यर्थः। प्रददातीति प्रदा। अथवा, हर्ष धनयौवनादिसुखं पुत्रबन्धुवर्गादिरूपेण परिहत्य प्रकर्षेण यति खण्डयतीति वा तथा ।। ॐ हांप्रदायै नमः॥ . अन्यथा हविर्भोक्त्री। ‘स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट' इति श्रुतेः वसुरुद्रादित्याकारेण वीषि यजमानेन अग्नौ प्रक्षिप्तानि स्वाहामुखेन भुड्क्त इति तथा । यद्वा हवीषि कालान्तर- भाविफलानि अदृष्टात्मना सूक्ष्मरूपाणि तत्तद्यजमानजीवगतानि भूत- सूक्ष्माभिधानानि समष्टिव्यष्टयात्मनेश्वरजीवोपाधिभूतानि मायाविद्या- शब्दितानि मुक्तिपर्यन्तं भुनक्ति पालयतीति वा तथा । संसारस्यानादित्वाभावेन आदिमशरीराद्युत्पतौ अङ्गीक्रियमाणायाम् प्रपञ्चस्याकस्मिकत्वमकृताभ्यागमप्रसङ्गश्च स्यादिति भावः ।। ॐ हविर्मोक्त्र्यै नमः॥ हादसंतमसापहा । हृदयावच्छिन्नः हार्दः, 'यो वेद निहितं गुहायाम्' (तै- २-१) इति श्रुतेः । अस्मिन् यत्संतमसं आवारकत्वात् 'तम आसीत्' इति श्रुत्या च आत्मविषयकं तदाश्रयमज्ञानम् अनर्थ- करम् अव्याकृताकाशमित्युच्यते , महावाक्यश्रवणजन्यधीवृत्तिप्रतिफलिता- कारेणापहन्तीति सा तथा । नाहं ब्रह्मास्मि संसारी ब्रह्म नास्ति न भाति च'--इत्यज्ञानस्य , सोऽहं ब्रह्मास्मि सच्चिदानन्दलक्षणः इति एकाकारवृत्तिबाध्यत्वनियमेन बाधाधिष्ठानम् 'नेह नाना' (बृ. ४-४-१९) इति श्रुतिसिद्धब्रह्मरूपेति यावत् ॥ ॐ हादसंतमसापहायै नमः॥ , . , ललितात्रिशतीभाष्यम् । . । हल्लीसलास्यसंतुष्टा। हल्लीसैः चित्रदण्डैः कुमारिकाभिः एक- तालादियुक्तगीतपूर्वकं यल्लास्यं नर्तनं तस्मिन संतुष्टा प्रीतिमतीत्यर्थः । 'नारीणां मण्डलीनृत्यं बुधा हल्लीसकं विदुः' इति हारावलीकोशात् मण्डलाकारनृत्यसंतुष्टेत्यर्थः ॥ ॐ हल्लीसलास्यसंतुष्टायै नमः॥ हंसमन्त्रार्थरूपिणी । हंसैः परमहंसैः उपास्यो यो मन्त्रः प्रणवः तस्य शास्त्रबोधिततत्त्वार्थरूपिणी । वाच्यलक्ष्यार्थस्वरूपेण ज्ञायमानेत्यर्थः । अथवा , हंसमन्त्रः अजपा । हंकारसकारी शोधिततत्त्वंपदार्थों । हंकारस्य परोक्षवाचिनः सकारस्य तादृशस्य च भागत्यागलक्षणया निष्प्रपञ्चनित्य- शुद्धमुक्तबुद्धसच्चिदानन्दरूपेत्यर्थः ।। ॐ हंसमन्वार्थरूपिण्यै नमः ।। हानोपादाननिमुक्ता हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३ ॥ हानोपादाननिर्मुक्ता । अनिष्टसाधने हानं परित्यागक्रिया । इष्ट- साधने उपादान स्वीकारक्रिया । परिजिहीर्घा आदित्सा वा। 'अप्राणो ह्यमनाः शुभ्रः' (मुण्ड. २-१-२) 'अकायम्' (ईशा) 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' (छा. ८-१२) इति बहुश्रुतेः। अशरीरस्य ब्रह्मणोऽन्तःकरणादिधर्माणामसंभवात् ताभ्यां निर्मुक्ता निःसङ्गेत्यर्थः, 'विमुक्तश्च विमुच्यते' (कठ. ५-१) इति श्रुतेः ।। ॐ हानोपादाननिर्मुक्तायै नमः ॥ हर्षिणी । 'एष ह्येवानन्दयाति' (ते. २-७ ) इति श्रुतेः हर्षयति संतोषयतीति तथा ॥ ॐ हर्षिण्यै नमः॥ L.8 .

ललितात्रिशतीभाष्यम् । तैस्तथा। तदाश्रयत्वेन हरिसोदरी। हरिणा कृष्णेन समानं एकं उदरम् उत् ईषत् अरं भेदकं अवच्छेदकमित्यर्थः । उच्चरर कूटो वा अत्यल्पमिथ्याभूतमायो- पाधिकचैतन्यावस्थाविशेषरूपा। 'अपरेयमितरत्वन्यां प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥' (गीता, ७-५) 'देवात्मशक्ति स्वगुणनिगूढाम' (श्वेत. १-३) इत्यादिस्मृतिश्रुतिभ्यां ईश्वरस्य रूपभेदवत्त्वावगमादिति मन्तव्यम् ॥ ॐ हरिसोदर्यै नमः॥ हाहाहूहूमुखस्तुत्या । हाहाहूहूनामकगन्धवौं मुख्यौ येषां जनानां स्तुत्या गुणिनिष्ठगुणाभिधान स्तुतिः । प्रतिपादनीयेत्यर्थः॥ ॐ हाहाहूहूमुखस्तुत्यायै नमः। हानिवृद्धिविवर्जिता। अवयवोपचयरूपा वृद्धिः , तदपचयरूपा हानिः ; ताभ्यां वर्जिता, 'न कर्मणा वर्धते नो कनीयान्' इति श्रुतेः । उपलक्षणम् , पड्भावविकाराणां शरीरधर्मत्वेन कर्मनिमित्तत्वादीश्वरे तदभावेन निर्विकारेत्यर्थः ।। ॐ हानिवृद्धिविवर्जितायै नमः। हय्यङ्गवीनहृदया हरिगोपारुणांशुका । लकारख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४ ॥ हय्यङ्गवीनहृदया। हय्यङ्गवीनवत् नवनीतसशविरलमृद्ववयव- परिणामद्रवत्वसादृश्ययोगिहृदयकृपारसरूपपरिणामवतीति सा हृदयाभावेऽपि सर्वात्मकतया तद्वत्त्वम् । ईक्षणादिवन्मायापरिणामरूपा दया वा हृदयशब्देन उच्यते । 'अवागमनाः' (पृ. ३-८) इति श्रुत्या सर्वनिषेधात् ॥ . है तथा।

ललितात्रिशतीभाष्यम् । ॐ हय्यङ्गवीनहृदयायै नमः॥ हरिगोपारुणांशुका । हरिगोपः इन्द्रगोपः आर्द्रामघानक्षत्रे वर्षा- सूद्भवाः अष्टपादाः रक्तवर्णाः मृद्वङ्गाः कीटविशेषाः, तथा शोणमंशुकं अम्बरम् , स्वार्थे कप्रत्ययः, किरणानि वा यस्याः सा तथा ।। ॐ हरिगोपारुणांशुकायै नमः ॥ , " लकारख्या। लकारयुक्तः मूलमन्त्रः आख्या वाचकशब्दः यस्याः सा तथा । लकारस्य शक्रीजस्य वार्थः , 'सेन्द्रः' इति श्रुतेः । लकार- युक्तस्य मायाबीजस्य वा स्तब्धमायेत्यर्थः ।। ॐ लकाराख्यायै नमः ॥ , लतापूज्या । लवन्ति विनमन्ति अत्यन्तनमा भवन्तीति लताः परमपतिव्रताः अरुन्धत्यादयः खियः, ताभिः स्थिरमाङ्गल्याय स्वेष्ट- देवतात्वेन पूज्या पूजनीया। तदुक्तम् - 'समाराध्य महेशानी मुक्ति मुक्ति च विन्दति' इति । अथवा , केदारादिगौरीविशेपमूर्ती लताभिः उपलक्षण वन्यपूजोपकरणैः पूज्या अलकृता। शबरी वा वनदुर्गा बेति भावः । अ लतापूज्यायै नमः ॥ लयस्थित्यु द्वेश्वरी । अपरीत्येन विशेषणं योज्यम् । उद्भवतीत्यु- द्भवः कार्यात्मना अभिव्यक्तिः। स्थितिः ज्ञानविषयतायोग्यकालावच्छेदः अनुभवसत्तावत्त्वमिति यावत् । लयः उत्पन्नकार्यस्य कारणात्मना अव- स्थितिः वाचारम्भणयोग्यतेत्यर्थः । तासां क्रियाणाम् अचेतनकार्यत्वायोगेन घटादिकार्ये चेतनस्य निमित्ततादर्शनात् एकतटस्थेश्वरत्वं बा, गोपुरादौ नानाचेतनदर्शनात्ताशनानेश्वरत्वं वेति पिशये, 'यतो वा इमानि भूतानि ललितात्रिशतीभाष्यम् । . .. : जायन्ते (तै. ३) इति श्रुतौ 'यतः' इत्येकवचनपञ्चम्यानानात्वतटस्थत्वे 'जनिकर्तुः प्रकृतिः' इति सूत्रम् । जनिकर्तुः कार्यस्य प्रकृतिरुपादान- मपादानसंज्ञा स्यात् । 'अपादाने पञ्चमी' इति शासनात् आभिन्न- निमित्तोपादानत्वमीश्वरत्वमिति सिद्धान्तः। तटस्थलक्षणमेतत् , ज्ञाय- मानस्य ब्रह्मणः लक्षणप्रमाणयोः अवश्यवाच्यत्वादित्यभिप्रायः। आदौ लयशब्दोपादानेन अनादित्वं प्रपञ्चस्य सूचितम् । जगत इति शब्दपूरणेन नाम योजनीयम् । तथा च जगतः लयश्च स्थितिश्च उद्भवश्च तेषामीश्वरी। कूटस्थचैतन्यमात्रसाच्चिदानन्दाधायकतया विवर्तकारणमित्यर्थः ।। ॐ लयस्थित्युद्भवेश्वर्यै नमः ॥ लास्यदर्शनसंतुष्टा लामालाभविवर्जिता । लङ्घयतराज्ञा लावण्यशालिनी लघुसिद्धिदा।। ३५ ॥ लास्यदर्शनसन्तुष्टा । यथा राजा संपूर्णकामः प्रयोजनमनुद्दिश्यापि मृगयादिलीलाविशेषान् पश्यति बालकादिनृत्य वा, तथा अज्ञानाम् इष्टानिष्ट मिश्रोदासीनपदार्थ चतुष्टयानुभवजन्यहर्पशोकादि संभवन्मदोद्रेक- शोकातिरेकहेतुक विहितादिकरणाकरणरूपचरणाद्यङ्गपरिस्पन्दरूपनानाविध- प्राणिकायनिकायजन्यलास्यदर्शनेन अनुद्दिश्यापि प्रयोजन सन्तुष्टा तत्त- कर्मानुसारेण फलप्रापकेश्वरत या सर्वसमानत्वात्, 'नादत्ते कस्यचित्पा न चैव सुकृतं विभुः' (गीता ५-१५) इति भगवद्वचनात् । लास्यं देवतादिवारवनितादिभिः क्रियमाणं तालगीतयुक्तं नृत्यं तद्दर्शनेन संतुष्टा । तदीयफलप्रदानोन्मुखकृपारसवतीत्यर्थः ।। ॐ लास्यदर्शनसंतुष्टाथै नमः ॥ लाभालाभविवर्जिता। अप्राप्तप्राप्तिाभः, कृतेऽपि यत्ने तद- माप्तिरलाभः , ताभ्यां विवर्जिता, पर्याप्तकामत्वेन नित्यतृप्तत्वात् , 'न मे .. ,

ललितात्रिशतीभाष्यम् ।
.
..
पार्थास्ति कर्तव्यं त्रिपु लोकेषु किंचन' (गीता. ३-२२) इति
भगवद्वचनात् ॥
ॐ लाभालाभविवर्जितायै नमः॥
लड्ध्येतराज्ञा। इतरेपा जीवभ्रान्तिकल्पितानां गुणमूर्त्यादीनाम्
उपासनाविधिरूपा वा,
कर्मविधिरूपा वा आज्ञा प्रेरणा लड्ड्या
अविषयीकृता यया सा तथा। शुद्धचैतन्यस्य विशिष्टक्रियाद्यात्मकत्वा-
भावेन विध्यविषयत्वादिति यावत् । अथवा, किंकरीत्वाभावेन इतरासां
देवतानाम् आज्ञा प्रेरणा लध्या उपेक्षणीया यया सा तथा,
'सर्वस्याधिपतिः सर्वस्येशानः' (बृ. ४-४-२२) इति श्रुतेः। ईश्वरस्य
सर्वनियन्तृत्वेन स्वेतरानियम्यत्वादिति ज्ञातव्यम् ।
ॐ लङ्घयेतराज्ञायै नमः॥
लावण्यशालिनी। लावण्यं सौन्दर्य परमानन्दस्वरूपतया अतिशय-
प्रीतिविषयत्व शालत इति तथा । सर्वावयवसाधारणसुन्दरभाव-
वतीति वा ।।
ॐ लावण्यशालिन्यै नमः।
लघुसिद्धिदा । लघुना उपायेन सिद्धि वाञ्छितार्थप्राप्ति ददातीति
तथा । लघुशब्दः लक्षणया लघिमासिद्धिपरः , तथा च लघिमाद्यष्टैश्वर्य-
प्रदेति वा । अथवा , लघूनां अत्यन्ताल्पज्ञानभाग्यशरीररूपचरणवता-
मप्यतिनिकृष्टानां तिर्यगादीनामपि सिद्धि मुक्तियोग्यताहेतुमानादि-
साधनसंपत्ति तत्कार्यमहिमातिशयोन्नेयां दातीति सा तथा ।
ॐ लघुसिद्धिदायै नमः॥
लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्येतरा लब्धभक्तिसुलभा लागलायुधा ॥ ३६॥

ललितालिशतीभाष्यम् । --- लाक्षारससवर्णाभा। लाक्षारसेन लाक्षाद्रवेण समानो वर्णो यस्याः सा तथाभूता शोभा कान्तिर्यस्याः सा तथा। अतिपाटल- विग्रहप्रभेत्यर्थः ॥ ॐ लाक्षारससवर्णाभायै नमः॥ लक्ष्मणाग्रजपूजिता। अग्रे जायेते इत्यग्रजी रामभरतो लक्ष्मणस्यापि ज्येष्ठभूतरामाचारानुकारित्वेन चतुर्भिरपि दाशरथिभिः पूजितेत्यर्थः । रामस्य शिवलिङ्गप्रतिष्ठाता इति नामवत्त्वान्यथानुपपत्त्या शिव- दंपतिपूजकत्वेन तदितरेषां तद्वंशस्त्रीपुरुषाणा तत्सिद्धिरिति ध्वनितोऽर्थः ।। ॐ लक्ष्मणाग्रजपूजितायै नमः ॥ लभ्येतरा। लभ्यानि लब्धव्यानि कर्मोपासनाविशेषाणां फलत्वेन साध्यानि भव्यानीत्यर्थः। तेभ्य इतरा विलक्षणा । 'तत्सत्यं स आत्मा' (छा. ६-८) 'नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामाम् । तमात्मस्थम्' (कठ. ५-१३) इति , 'यत्साक्षादपरोक्षाद्ब्रह्म' (बृ. ३.४) इत्यादिभिः श्रुतिभिः आत्मनः नित्यप्राप्तस्वरूपत्वेन प्राप्तप्राप्तव्यरूपतया मोक्षरूपत्वेन चतुर्विधक्रियाफलत्वा- भावादिति मन्तव्यम् । अथवा , अथवा , इतराणि धर्मार्थकामरूपत्रिवर्गरूपाणि फलानि लब्धव्यानि प्राप्तव्यानि यस्याः सकाशादिति सा तथा, उक्तश्रुतेः ॥ लभ्येतरायै नमः॥ लब्धभक्तिसुलभा। भक्तिः सामान्य विशेषाकारेण द्विविधा । तत्राद्या आर्तजिज्ञास्वार्थिभिः यैलव्धा तत्तत्फलोद्देशेन समयविशेषे विच्छिद्य विच्छिद्य प्राप्ता तेषां सुलभा तत्तत्प्रारब्धानुसारेण फलदानोन्मुखस्वात्मरूप- तया संनिहितत्वात् । द्वितीया भक्तिस्तु ब्रह्मसाक्षात्कारवता पुरुषेण ललितात्रिशतीभाष्यम् । ६३ .. - , , येनकभक्तितया लब्धा, 'एकभक्तिर्विशिष्यते' (गीता ७-१७) इति स्मृतेः; तस्य सुलभा, स्वात्मरूपतया सदा ज्ञायमानत्वात् । 'ज्ञानी स्वात्मैव मे मतम्' (७-१८) इति गीतासु। अथवा , लब्धा प्राप्ता सत्यपि कण्ठगतचामीकरवत् लब्धभक्तीनां सुलभा सुखेनानायासेन कष्टेन विना साध्यतया लाभ: प्तिर्यस्याः सा तथा, 'भक्त्या मामभि- जानाति' (गीता १८-५५) इति स्मृतेः ।। ॐ लब्धभक्तिसुलभायै नमः । लागलायुधा । शेषरूपतया हलायुधेत्यर्थः, अनन्तश्चास्मि नागानाम् ' (गीता १०-२९) इति श्रीभगवद्वचनात् ।। ॐ लागलायुधायै नमः ॥ लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदरामाराध्या लंपटा लकुलेश्वरी ॥३७॥ लग्मचामरहस्तश्रीशारदापरिवीजिता । लग्नौ करसंबद्धौ धृता- वित्यर्थः; लग्नौ चामरौ ययोस्तौ तादृशौ हस्तौ ययोस्ते श्रीश्च महालक्ष्मीः शारदा च ते, ताभ्यां वीजिता परिवीजिता। अनादिकालादारभ्य परिचर्यया वीज्यमानेत्यर्थः ।। ॐ लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः ॥ लज्जापदसमाराध्या । लज्जा नाम अन्तःकरणधर्मः जुगुप्साहेतुः गूहुनसाधनम् , उपलक्षणं मनोधर्माणाम् , तस्य पदं आश्रयः; 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरबृतिहीं रित्येतत्सर्वं मन एव' (बृ. १-५-३) इति श्रुतेः । तस्मिन् समाराध्या चिन्तनीयेत्यर्थः, 'य आत्मनि तिष्ठन्नन्तरो यमयति' (बृ. ३-७) 'गुहाहितं गह्वरेष्ठं , . .

ललितात्रिशतीभाष्यम् । पुराणम्' (कठ. २-१२) 'तमात्मस्थं येऽनुपश्यन्ति धीराः' (कठ. ५-१२) इत्यादिश्रुतिभ्यः। अथवा, लज्जापदं जीवचक्रम् , तस्मिन् तदधिष्ठाना- नन्दाभिव्यक्तिहतुतया बहियागक्रमेण पूजनीयेत्यर्थः ।। अ लज्जापदसमाराध्यायै नमः ।। लंपटा । लामति पृथ्वीवाचकबीजेन तदुपलक्षितं जगल्लक्ष्यते ; पट शब्देन आवारकत्वधर्मवत्तया आविद्या लक्ष्यते ; लमः जगतः पटः कारणीभूता अविद्या यस्याः सा तथा, 'मायिनं तु महेश्वरम्' (श्वे. ४-१०) 'य एको जालवान्' (श्वेता. ३-१) इति श्रुतेः । 'अज्ञानेनावृतं ज्ञानम्' (गी.५-१५) इति स्मृतेश्च । अथवा, लम्पटो नाम तन्द्री आलस्यम् , कर्मोपासनाबाहुल्येऽपि प्रतिबन्धकभूयस्त्वे शीघ्रतया परमेश्वरस्य फलदानोन्मुखतायां राजादिवञ्चिरविलम्बितसेवाफलदानवैमुख्ये तद्वत्तोपचारात्; लम्पटो यस्याः सा तथा। अथवा, लम्पटादीनामन्तः- करणधर्माणामध्यासवशेन तदवच्छिन्ने चैतन्ये सत्त्वरजस्तमःकार्याणामुप- लब्धेस्तद्वत्त्वं वा॥ ॐ लंपटायै नमः ॥ लकुलेश्वरी। कुः पृथिव्युपलक्षितजगत् लीयते अस्मिन्निति कुलम् , मायोपाधिकचैतन्यम् , प्रलयाधिष्ठानम् । 'यत्प्रयन्त्यभिसं- विशन्ति' (ते. ३-१) इति श्रुतेः । लीयमानं कुलं लकुलं निरुपाधिक- मित्यर्थः । तच्च सा ईश्वरी च सा तथा । अथवा , लकुलं स्थानविशेषः स्वाधिष्ठानं मणिपूरक वा , तस्येश्वरी, विष्णुरुद्रात्मिकेत्यर्थः, भूतसृष्टि- श्रुतौ पृथिव्या उदके तस्य तेजसि तस्य परमात्मनि लयश्रवणात् । 'सदायतनाः सत्प्रतिष्ठाः' (छा. ६-८) इति । तस्येश्वरी विभूति- विशेषो वा ॥ ॐ लकलेश्वर्यै नमः॥ .

ललितात्रिशतीभाष्यम् । लब्धमाना लब्धरसा लब्धसंपत्समुन्नतिः । ह्रींकारिणी हींकाराद्या हीमध्या हींशिखामणिः ॥ ३८॥ अध्या- . लब्धमाना। सर्वैः प्राणिभिः लब्धः मानः अध्यस्ताहंकारः 'अभिमानात्मकस्तद्वदहकारः प्रकीर्त्यते' इति स्मरणात् । सेनाहंकाराधिष्ठानेत्यर्थः । अथवा , 'मान पूजायाम्' इति स्मरणात् यैर्यैः प्राणिभिः विद्यैश्वर्यकुलसौन्दर्यातिशयादिवशात् पूजा लभ्यते सुखहेतुः सा तदन्तर्यामिना पूर्वमेव लब्धा , पूजादिजन्योपकारस्य सुखादेः स्वस्वरूपतया लब्धत्वात् । यद्वा मानः परिमाणः अणुमहद्दीर्घ- ह्रस्वभेदेन प्रसिद्धः। 'स वा एष महानज आत्मा' (छा. ४-४) 'महान् प्रभुवै पुरुषः' (श्वे. ३-१२) 'अणोरणीयान् महतो महीयान्' (कठ. २-२०) इत्यादिवेदवाक्यैर्जलसूर्यादिवदुपाधिधर्माणामुपहिते गज- स्तम्बमत्कुणसादौ प्रतीयमानत्वात् , लब्धः मानः परिमाणः उपहिततया जगतः यया सा तथा।। ॐ लब्धमानायै नमः॥ लब्धरसा। 'रसो वै सः' (ते. २-७) इति श्रुतेः रसवत् रस्यते संबध्यत इति अत्यन्तप्रीतिविषयः आनन्दः, सः स्वस्वरूपत्वेन लब्धो यया सा तथा । शृङ्गाररसो वा, तव्यञ्जकमगलाभरणपुष्पालंकार- वत्त्वादिति भावः । शुद्धसत्त्वप्रधानमायोपाधिकतया, 'रस्याः स्निग्धाः स्थिरा हृद्याः आहाराः सात्त्विकप्रियाः' (गी. १७-८) इति गीतावचनात् नैवेद्यादौ कट्वाम्ललवणादीनां देवादिविषये निषेधाच्च प्रीतिविषयत्वेन मधुररसो लब्धो ययेति वा तथा ।। ॐ लब्धरसायै नमः॥ लब्धसंपत्समुन्नतिः । लब्धाः स्वस्वरूपतया स्वतःसिद्धाः याः L.9 ललितालिगतीभाध्यम् । , संपदः सत्यकामत्वादयः सञ्चिदानन्दादयो बा, ताभिः समुन्नतिः सर्वोत्कृष्टता यस्याः सेति तथा । ब्रह्मणः मायामानोपाधिना अभि- व्यज्यमानाः गुणाः कर्मानुढूनत्वादनाकस्मिकाः सन्तः सर्वोत्कृष्टभावं ब्रह्मणः ज्ञापयन्ति । 'तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च देवतम् । पति पनीनां परमं पुरस्ताद्विदाग देवं भुवनेशगीड्यम् ॥', (श्वे. ६-७) 'सत्यकामः सत्यसंकल्पः' (छा. ८-१), 'एष सर्वेश्वर एष सर्वज्ञ एपोऽन्नय म्यप योनिः सर्वस्य' । माण्डू ) इति , 'गतिर्भर्ता प्रभुः साक्षी' (गी. ९-१८) इत्यादिश्रुतिस्मृतिशतेभ्यः । 'एष नियो महिमा ब्राह्मणस्य' (बृ. ४-४) इति प्रसिद्धनित्योत्कर्षवत्त्वं ब्रह्मस्व- रूपमेवेति नात्र विचारणीयं किचिदस्तीत्यभिप्रायः ।। ॐ लब्धसंपत्समुन्नत्यै नमः॥ ह्रींकारिणी। ह्रींकारः द्वितीयखण्डसमाप्त्यवयवतया वाच्य- वाचकसंबन्धेन अस्या अस्तीति तथा ॥ ॐ ह्रींकारिण्यै नमः॥ हीकाराद्या । अत्र ह्रींकारशब्देन तत्कार्यभूनाः वेदाः, तेषा- मप्यर्थतया कारणतया वा आद्या आदौ भवा पूर्वभाविनीत्यर्थः । शब्दस्य अर्थविपयत्वेन प्रवृत्तः शक्तिग्रहादौ काव्यादिकृतौ च अर्थज्ञानपूर्वकशब्द- प्रयोगदर्शनादर्थस्य पूर्वभाबित्वमुक्तमिति भावः ।। ॐ ह्रींकाराधायै नमः ॥ हीमध्या। अस्य बीजस्य जगदभिन्ननिमित्तोपादानभूतमाया- विशिष्टचैतन्यवाचकतया तत्प्रतीकत्वेन तन्निष्ठयावद्गुणवत्त्वं तदुपास- नातिशयमहिम्नाभिव्यज्यते । अन्यथा मन्त्रपुरश्चर्यास्विष्टासिद्धयभावप्रसङ्गः स्यात् । अव्यवहितपूर्वनाम्नानभिव्यक्तस्वरूपस्यापि शब्दजालस्य एत- ललितात्रिशतीभाष्यम् । .. द्वीजमात्रात्मनैवाङ्कुरितबीजार्थवत्तथा पूर्वभाषित्वमुक्तम् । इदानीमभि- व्यक्तात्मकस्वार्थकतया विवर्तवादमाश्रित्य वाचारम्भणाकारेण नामरूपद्वय- वत्त्वमुच्यते । ह्रींकारबीजार्थः तेन शब्देन लक्ष्यते । मध्ये व्यवहारकाले ह्रीं यस्याः सा तथा। घटादिषु वस्तुषु सच्चिदानन्दप्रतीत्या व्यवहार- कालेऽपि प्रपञ्चकारणं ब्रह्मानुस्यूततया भासमानं जगत्कारणमिति सिद्धान्तः । अनेनाचेतनपरिणामारम्भादिवादाः निष्प्रमाणतया युक्त्या- द्याभासकत्वेन निरस्ताः वेदितव्याः ।। ॐ ह्रींमध्यायै नमः ॥ ह्रीशिखामणिः । लोके यथा चूडामणिः सर्वाङ्गरचिताभरणापेक्षया तद्विजातीयप्रकाशसत्ताद्याश्रयवान् उत्तमाङ्गस्थानविशेपे स्थापितः मह- दैश्वर्यादि तद्वतः पुरुषस्य ज्ञापयति , तथा सर्वशब्दजालत द्वाच्यार्थभूत- चिज्जडसम्बन्धरून प्रपञ्च वाचकानिसूक्ष्म ह्रींवर्णात्मक श्रीविद्याराजबीजस्य सत्यज्ञानानन्दात्मकलक्ष्यार्थभूता सती ह्रीबीजजापकानां सर्वार्थप्रदानेन पारभैश्चर्य व्यञ्जयतीति गुणयोगकृतनामेदन् । तथा च हीमः शिखा- मणिः परमतात्पर्येण ज्ञापयतीत्यर्थः ।। ॐ हींशिखामणये नमः ॥ हीकारकुण्डाग्निशिखा ह्रींकारशशिचन्द्रिका । ह्रींकारभास्कररुचिहींकाराम्भोदचञ्चला ॥ ३९ ॥ , .. .. - ह्रींकारकुण्डामिशिखा। ह्रींकार एव कुण्डं वाच्यवाचकसंबन्धेन पर- ब्रह्मावच्छेदकतया आहवनीयादिसदृशम् , तस्याग्निशिखा, 'उद्दीप्तेऽग्नो जुहोति'- इति प्रमाणेन 'आह्वनीये जुहोति'--इति विधिवाक्यावगत- होमाधारतायाः केवलाहवनीयस्यायोग्यतया साग्निज्वालस्य होमाधारतायो ज्ञायमानायामदृष्टद्वारा स्वर्गसंबन्धेन स्वार्थकतया तज्ज्ञापकवेदवाक्यस्यापि ललितात्रिशतीभाष्यम् । , पुरुषार्थसंबन्धित्वमाहवनीयनिष्ठहोमाधिकरण दीप्ताग्निज्वाला स्वाधारभूत - कुण्डसार्थक्यसंपादिकेवाभाति । तथा स्ववाचकबीजस्यापि 'मन्त्रैरुपा- सीत' इति विधिगतदेवतोपासनकरणानां मन्त्राणामपि स्ववाचकतया सार्थक्यसंपादनात्तथोच्यते ।। ॐ हींकारकुण्डाग्निशिखायै नमः ॥ ह्रींकारशशिचन्द्रिका । ह्रींकार एव शशी चन्द्रः तस्य स्वरूपाभेद- भूतप्रकाशचैतन्यं चन्द्रिकापदेनोपमीयते । यथा चन्द्रस्वरूपभूतामृत- प्रसारभूता ज्योत्स्ना देवादिसर्वलोकानां सञ्जीवकतयोपकरोति , तथा दृढतरभक्तिपरवशपुरुषधौरेयादीनां ह्रीकारवाच्यार्थतया तदभिन्नत्वेऽपि जगद्विवर्तकारणतया सच्चिदानन्दाधायकत्वेन सञ्जीवयतीति भावः ।। ॐकारशशिचन्द्रिकायै नमः ॥ ह्रीकारभास्कररुचिः। भासः कान्तीः करोति प्रसारयति लोकोपकारायेति तथा सूर्यः, तस्य रुचिः प्रचण्डभानुः । यथा लोके सूर्यः वर्षास्वतिगाढतरस्रवदुदकधारासंव्याप्तदिगन्तरासु दिवा विद्य- मानोऽपि सूर्यः साक्षादयमिति चाक्षुपज्ञानगोचरो न भवति , तदभाव शिष्टानां भोजनादिसजीवकव्यवहाराभावेन तदुपायासिद्धयाऽप्रसन्न- मनांसि भवन्ति , तथा ज्ञानमार्गानधिकारिणां मोक्षमार्गोपायभूता- विदितदेवतारूपहीकाराणां जनानां बहुतरपुण्यमहिना महाबातेनेव मेघावलो दूरीकृतायां चण्डभानुरिव सुखसाधनं गुरुकृपापागावलोकन- रूपदीक्षावशेन प्रतिबन्धकदुरितापगमे परदेवतारूपं हीकारः पुरश्चर्यया साक्षाद्वाच्यार्थापरोक्षज्ञानहेतुर्भवति । चिरकालनै न्तर्यभावनाप्रकर्षण तस्मिन्नभिमुखे सति तल्लक्ष्यार्थरूपपरमानन्दचित्कला स्वयमेवाभिव्यक्ता सत्यानन्दानुभवामृतेन सुखयतीति तथोच्यते ।। ॐहीकारभास्कररुचये नमः॥ .

ललितात्रिशतीभाष्यम् । ह्रींकाराम्भोदचञ्चला। अम्मासि अमृतानि ददतीत्यम्भोदाः, हीकारोऽपि कामवर्षवेन तैरुपमीयते । तेषु चञ्चला विद्युल्लता विद्यमाना तदभिन्न प्रकाशमाना सती वर्षोदकद्वारा सस्याद्युत्पादकत्वं यथा व्यनक्ति तथा ह्रींकारवाच्यतया तदभिन्नापि तत्स्वरूपविचारणायां शुद्धलक्ष्यार्थ- स्वरूपा सत्यपि अनिर्वचनीयस्ववाचकमन्त्रप्रकाशितदेवतात्वेन स्वाभीष्ट- पुरुषार्थप्राप्तिहेतुभूतेत्यभिसंधिः ।। ॐ हींकाराम्भोदचञ्चलायै नमः। हीकारकन्दाकुरिका हींकारैकपरायणा । हींकारदीर्घिकाहंसी ह्रींकारोद्यानकेकिनी ॥४०॥ हीकारकन्दाकुरिका। ह्वीकार एव कन्दं दृढतरबीजभावः तस्य अड्डरिका आदिप्रसवः नूतनाभिव्यक्तिरित्यर्थः। यथा लोके अड्डरादिकं कन्दादिनिष्ठोत्पादकशक्तिमनभिभूयैव स्वयं स्कन्धशाखापत्रपुष्पफलाद्यात्मना यथा विवर्तमानं तत्सामर्थ्यप्रकटनकारण भवति , तथा ह्वीकारस्य वेदैक- देशत्वेन इतरप्रमाणानपेक्षतया स्ववाच्यार्थज्ञापनेन स्वतः प्रामाण्ये स्थितेऽपि तज्जन्यज्ञानविषयतावच्छेदकधर्मरूपनानाप्रकारजगत्परिणाम- हेतुत्वसाधकाघटितघटनापटीयसीमायोपाधिकत्वेन तदर्थद्वयरूपा सती तन्मालप्रमाणवेद्येत्यर्थः ॥ ॐ ह्रींकारकन्दारिकायै नमः। ह्रींकारैकपरायणा। ह्रीकार एव एक अनितरसाधारणं चतुर्विध- पुरुषार्थसाधकतया परम् अयनं ज्ञापकं प्रमाणं यस्याः सा तथा । अस्य बीजस्य वाच्यार्थो माया, सा निरधिष्ठाना न सिध्यतीति तदा- श्रयत्वविषयत्वाभ्यां तद्रहितं तेन ज्ञाप्यत इति भावः ॥ ॐ ह्रींकारकपरायणायै नमः।

७० ललितात्रिशतीभाष्यम् । हीकारदीधिकाहंसी। ह्वीकार एवं दीर्घिका राजोद्यानवन- क्रीडावापी । संसारकाननसंवारिलोकविश्रान्तिकारणत्वेन ह्रीकारः तयोप. मीयते, 'आराममस्य पश्यन्ति न तं पश्यति कश्चन' (बृ. ४-३) इति श्रुतेः । आ समन्ताद्रमत्यस्मिन् इत्यारामः अथवा जगत् । तत्रो- पासनादिना परमानन्दप्रापकतया वा ह्रीकारः उपमीयते । तस्मिन् हंसी स्त्रीहंसः। यथा लोके सारासारविवेकिस्या आधारसुवर्ण- कमलादिमती बापिका महाराजसंबन्धिनी विज्ञाप्यते, तद्वद्वाच्यार्थ- रूपतया प्रकाशमाना सती स्वसंबन्धिवीजस्य सुखोत्पादकत्वमोक्षहेतुत्वं द्योतयतीत्यभित्रायः ॥ ॐ ह्रींकारदीर्घिकाहस्थै ननः ।। ह्रींकारोद्यानकेकिनी। ह्रीकार एव उद्यानवत् फलानुभावकत्वात् तथोच्यते, तस्य केकिनी मयूरी । यथा लोके बहुषु पक्षिषु आरण्यकेषु सत्स्वपि तस्याः रूमध्वनिभ्यां सुखनया दर्शनश्रवणादिजन्यरमोद- साधकतया उद्यानालंकरिष्णुत्वम् , तथा ह्वीकाररूपदेवताध्वनेः सच्चिदानन्द- रूपतवाच्यार्थस्य च परमपुरुषार्थसाधकत्वेन अविशिष्टत्वेऽपि ब्रह्मविष्णु- रुद्रादिमूर्तिषु उद्यानतरुवल्लिकक्षगुल्मादिवदुत्तमनीचदेवतिर्यमनुष्यादिपु च मयूरीव स्वेच्छया सर्वव्यापकत्वेन तदात्मरूपतया शरीरोन्द्रिय- प्राणाद्याधारपरमप्रेमास्पद परमानन्दरूपप्रत्यग्गोचराईवृत्तिव्याप्यतयैतद्वाज- प्रकाश्या भवतीत्यर्थः । ॐहीकारोद्यानकेकिन्यै नमः ॥ हौंफाराण्यहरिणी हींकारावालवल्लरी। हींकारपञ्जरशुकी हींकाराङ्गणदीपिका ॥ ४१ ॥ ह्रींकारारण्यरिणी । ह्रींकारवाच्यार्थंकदेशभूतमायाविद्या- ललितात्रिशतीभाष्यम् । तत्कार्याणां बन्धरूपतया गहने व्याघ्रादीनामिव भयहेतूनां सद्भावेन दुष्प्रवेशत्वरूपधर्मसाम्येन ह्रींकारस्य अरण्योपमितत्वम् । तथा अरण्यमिव ह्रींकार इति सर्वत्रोपमानोत्तरपदसमासः। तत्रैवं सनि यथारण्यगतपुरुषस्य शीघ्र दृष्टिपथं गता हरिणी एणी व्याघ्राद्य- भावनिश्चयेन तदधिगमफलप्राप्तिसाधनतामवगमयति धीरपुरुषस्य , तथा निरन्तरभक्तिभजनपरप्राणिलोकस्य उपासनापरिपाकमहिना अपरोक्षी- कृताज्ञाननिवृत्तिपूर्वकं भयापकरणेनानन्द प्रापयतीति तयोपमितेति भावः । तमेव विदित्वानिमृत्युमेति' (श्वे. ३-८) इति श्रुतेः ।। ॐ हींकारारण्यहरिण्यै नमः। ह्वीकारावालवल्लरी। ह्रींकारमन्त्रवाचकतानिरूपितवाच्यतानामक- संबन्धावच्छिन्नपरदेवनाखरूपतेन तदुपासनाविपयफलदानसमर्था सती आवालमात्रप्ररोहाद्विवृद्धवल्लयोपमीयते । तथा च तत्सबन्धितया ह्रीकारः जपादिना आवाल इव सर्वदा संरक्षणीय इति तात्पर्यार्थः परिनिष्पन्न इति यावत् ।। ॐ ह्रींकारावालवल्लय नमः ।। ह्रींकारपञ्जरशुकी। मन्दाधिकारिणामप्युपासनाकारणसाधारण- पार्वतीप्रतीकतया हीकारस्य बालकादिलालनविषयत्वधर्मपुरस्कारेण पञ्जरोपमा । तथा च तत्रत्यशुकीव संलापादिना मनुष्यादिचित्तरञ्जिनी । एवं तत्तददृष्टानुसारेण फलदात्री सती तयोपमितेति द्रष्टव्यम् । ह्वीकारः पञ्जरमिव तस्य शुकी तत्सार्थक्यकारिणीत्यभिप्रायः ।। ॐ हींकारपञ्जरशुक्यै नमः ॥ ह्रींकाराङ्गणदीपिका । अङ्गणवत् सर्वसाधारणविश्रान्तिस्थानतया ह्रींकारस्य तदुपमा तस्य दीपिका । यथाङ्गणारोपितदीपः बाह्याभ्यन्तर- ललितात्रिशतीभाष्यम् । . वस्तुजातं प्रकाशयन् तत्रत्यलोकानामन्धकारादिनिवर्तनपूर्वकमभीष्टव्यव- हारहेतुतया सर्वान् श्लाघयति स्वयमपि तैः संरक्ष्यते , तथा ह्रींकार- बीजार्थश्रवणमनननिदिध्यासननिरन्तराभ्यासात् अपरोक्षीकृतस्वयंप्रकाशा- नन्दरूपा सती स्वसेवकान् सर्वोत्कर्षयतीति तदुपमिता सती तथोच्यते ।। ॐ ह्रींकाराङ्गणदीपिकायै नमः ॥ ह्रींकारकन्दरासिंही हींकाराम्भोजभृङ्गिका । हींकारसुमनोमाध्वी हींकारतरुमञ्जरी ॥४२॥ ह्रींकारकन्दरासिंही। पर्वतशिखाग्रवर्तिगुहा कन्दरा दरीत्यर्थः । वेदमौलिपठितहींकारस्य प्राम्यविपयलिप्सुप्राणिप्रवेशयोग्यताविकलतया कन्दरोपमा । तत्र यथा सिंही स्खेतरक्षुद्रमृगप्रवेशभयहेतुसटादिस्वव्याप्य. चिह्नानुमिता तस्याः स्वाश्रयमात्रतां धीरस्य तत्परिसरनखनिर्घातमुक्ता- फलादिप्राप्ति च नयति, तथा मन्दभक्तितन्द्रीबुभुक्षादिकलुषितपरिच्छिन्ना- भिमानदेवतान्तरप्रतिपादकबीजतया स्वदेवतैकभावं कामितार्थं च प्रापय- तीति सिंघुपमिता सती तथोच्यते ॥ ॐ ह्रींकारकन्दरासिंयै नमः ॥ ह्रींकाराम्भोजभृङ्गिका। हीकारस्य अष्टैश्वर्यात्मकपुरुषार्थसाधक- नानाशक्तिमत्तया नानाप्रकारवर्णान्तरघटितत्वेन परागपरिमलादिमत्कम- लोपमितत्वमिति योजनीयम् । कमले यथा मधुमात्रसारग्राहिणी भृगी रमते सर्वपुष्परसमधुपानस्वाभाव्येन सर्वसमापि मध्वाधिक्यविविदिषया प्रभूतमधुमत्त्वेन च तस्मिन्नेव विशिष्यासक्तिमती , तथा सर्वमन्त्रबीज- वाच्यदेवतात्मना सर्वानुगतापि ह्रींकारस्य विशिष्टगुणवत्त्वेन सर्वोपादान- सगुणब्रह्मप्रतिपादकतया तदीयस्वरूपतटस्थलक्षणवत्त्वेन तदभिन्नस्वरूपतया सर्वशब्दजालप्रकृतित्वेन च रूढ्या लक्षणया वा तत्संबन्धिनी सती ललितात्रिशतीभाष्यम् । ७५ तस्य भूमिः विषयः ज्ञाप्यमिति यावत् । 'उपक्रमोपसंहारावभ्यासो- ऽपूर्वता फलम् । अर्थवादोपपन्ती च लिङ्गं तात्पर्यनिर्णये ॥' इति वचनोक्ततात्पर्यनिर्णायकप्रमाणबलेनातीन्द्रियधर्मादिगोचरवाक्यवत् सर्वेषां वेदान्तानामुपासनाज्ञानविधि विनाकर्भशेषतया अज्ञातज्ञापकत्लेन शंगनादेव शास्त्रशब्दवाच्यानामद्वैते ब्रह्मणि गतिसामान्येन कोपासनाकाण्ड- द्वयार्थोपकार्यत्वेन मोक्षहेतुज्ञानजनकत्वेन पर्यवसानमिति तात्पर्यविषयता अखण्डचैतन्यस्येति सिद्धान्तार्थ इत्याभिसंधिः। 'सामानाधिकरण्यं च विशेषणविशेष्यता। लक्ष्यलक्षणभावश्च पदार्थप्रत्यगात्मनाम् ॥' इति न्यायेन संबन्धत्रयेण अखण्डार्थ वेदान्ताः बोधयन्तीनि तन्तु समन्वयात्' (ब्र. सू १-१-४) इत्यधिकरणे प्रतिष्ठापितमित्यलमतिविस्तरेण ।। ॐ सर्ववेदान्ततात्पर्यभूमये नमः ।। सदसदाश्रया । अपरोक्षतथा सन्निति प्रतीतिविपयतया व्यपाहिय- माणं सत्कार्य रूपादिमत्तया व्याबहारिकसत्ताश्रयं पृथिव्यप्तेजोमूनवयं सदित्युच्यते । असत् सद्भिन्नतया परोक्षज्ञानगोचरं वाय्वाफागादि तत्कार्यं च रूपादिभिन्नगुणाश्रयमुच्यत इत्यर्थः। तयोराश्या उपादान- त्वेन तदधिष्ठानमतेत्यर्थः। आरोपितस्याधिष्ठानसत्तातिरिक्तसत्ताशून्यतया सत्तास्फूर्तिप्रदत्वेन सर्वदा तदनुस्यूतेति ध्येयम् ।। ॐ सदसदाश्रयायै नमः॥ सकला सच्चिदानन्दा माध्या मदतिदायिनी। सनकादिमुनिध्यया सदाशिवकुटुम्बिनी ॥४४॥ सकला। आरोपितकलाभिः उपासनार्थं कल्पिताभिः जाबालिना सत्यकामं प्रत्युक्तपोडशकलायुक्तपुरुषोपासनप्रतिपादकछान्दोग्यवचनरीत्या कलाशब्दितावयवैः सह वर्तते इति सा तथा। चतुःषष्टिचन्द्रकलाभिः ललितात्रिशतीभाष्यम् । - . सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदान्नतात्पर्यभूमिः सदमदाश्रया ॥४३॥ सकारावया। सकारयुक्ता श्रीविमानामिका आख्या वाचकशब्दः यस्याः सा तथा। ॐ सकाराख्यायै नमः॥ समरसा । समः एकः रसः मधुरादिरसवद्गुडपिण्डादावेक- रूपेण कार्ये व्यवस्थिनेत्यर्थः। अथवा, संसारदशायां सर्वज्ञत्व- किचिज्ज्ञन्वादिविशेषणभेदेन भिन्नरसवत् भिन्नस्वभाववत् प्रतीयमानयो- रीश्वरजीवयोर्वेदान्तश्रवणादिना जन्याखण्डाकारवृत्तिव्यात्या अहं ब्रह्मास्मि इत्यभेदानुभवदशायामेकरूपतया साक्षास्क्रियते इति सा तथोच्यो, 'रमो चै सः' इति श्रोः, रसशब्दार्थः परब्रह्म समः अभिन्नं यस्याः सा तथा । तैत्तिरीयोपनिषत्नतिपायेत्यर्थः ।। 30 समरसायै नमः॥ सकलागमसंस्तुना । आ समन्तात् गमयन्तीति आगमाः, सकलपदार्थगोचरसविकल्पकप्रमाजनकवेदाः इत्यर्थः। सकलैरन्यूना- नतिरेकेणेतिहासपुराणराहितयावदङ्गोपाङ्गरहस्यादियोगित्व सकलशब्दार्थः। तैः सन्तुना सम्यक् नातः परं किंचिदस्तीति निश्चयपूर्वकं स्तुता गुणिनिष्ठगुणाभिधानविपयनया तदुपजीववेत्यर्थः । सर्वार्थत्रकाशकवेदानां सर्वज्ञलेनैदंपर्येण तदीयस्तुतिविषयतया शुद्धचैतन्यात्मकनया मोक्षकारणी- भूतज्ञानस्वरूपत्वेन जिज्ञास्येति ध्वनितोऽर्थः ।। ॐ सकलागमसंस्तुतायै नमः। सर्ववेदान्ततात्पर्यभूमिः। वेदानामन्तः अवसानं तत्त्वमस्यादि- महावाक्यानि , तपां तात्पर्य समन्वयः सामानाधिकरण्यमित्यर्थः ।

ललितात्रिशतीभाष्यम् । . .4 तस्य भूमिः विषयः ज्ञाप्यमिति यावत् । 'उपक्रमोपसंहारावभ्यासो- ऽपूर्वता फलम् । अथवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥' इति वचनोक्ततात्पर्यनिर्णायकप्रमाणवलेनातीन्द्रियधर्मादिगोचरवाक्यवत् सर्वेषां वेदान्तानामुपासनाज्ञानविधि विनाकर्मशेषतया अज्ञातज्ञापकत्वेन शसनादेव शास्त्रशब्दवाच्यानामद्वैते ब्रह्मणि गतिसामान्येन कर्मोपासनाकाण्ड- द्वयार्थोपकार्यत्वेन मोक्षहेतुजानजनकत्वेन पर्यवसानमिति तात्पर्य विषयना अखण्डचैतन्यस्येति सिद्वान्तार्थ इत्याभिसंधिः। 'सामानाधिकरण्यं च विशेषणविशेष्यता। लक्ष्यलक्षणभावश्च पदार्थप्रत्यगात्मनाम् ॥' इति न्यायेन सबन्धत्रयेण अखण्डार्थ वेदान्ताः वोधयन्तीति तत्तु समन्वयात्' (ब्र. सू १-१-४) इत्यधिकरणे प्रतिष्ठापितमित्यलमतिविस्तरेण ॥ ॐ सर्ववेदान्ततात्पर्यभूमये नमः ॥ सदसदाश्रया । अपरोक्षतया सन्निति प्रनीतिविषयतया व्ययहिय- माण सत्कार्य रूपादिमत्तया व्यावहारिकसत्नाश्रयं पृथिव्यप्रेजोभूनवयं सदित्युच्यते । असन् सन्नितया परोक्षज्ञानगोचरं वाय्वाकाशादि तत्कार्य च रूपादिभिन्नगुणाश्रयमुच्यत इत्यर्थः । नयोराश्रया उपादान- वेन तदधिष्ठानमतेत्यर्थः । आरोपितस्याविष्ठानसत्तातिरिक्तसत्ताशून्यतया सत्तास्फूर्ति प्रदत्वेन सर्वदा तदनुस्यूतेति ध्येयम् ।। ॐ सदसदाश्रयायै नमः॥ सकला सच्चिदानन्दा माध्या महातिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ ४४ ।। सकला। आरोपितकलाभिः उपासनार्थ कल्पिताभिः जावालिना सत्यकामं प्रत्युक्तषोडशकलायुक्तपुरुषोपासनप्रतिपादकछान्दोग्यवचनरीत्या कलाशब्दितावयवैः सह वर्तते इति सा तथा। चतुःषष्टिचन्द्रकलाभिः ६ ललिताविशतीभाष्यम् । अथवा, कलाशब्दः सुखादिकान्तिवचनः तया वा सहिता। सहितेति वा ॥ ॐ सकलायै नमः॥ परम- . सञ्चिदानन्दा। सच्चासौ चिच्च सञ्चित् सञ्चिच्चासौ आनन्दश्च, कालत्रयावाध्यत्व सत्त्वम् , स्वेतरप्रकाशाप्रकाश्यत्व चित्त्वम् , प्रेमास्पदत्वमानन्दत्वम् , ' सत्य ज्ञानमनन्तम्' (ते. २-१) विज्ञान- मानन्दम्' (बृ. ३-९) 'सदेव सोम्येदमग्र आसीत्' (छा. ६-२) 'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' (ऐत. ३.३) आनन्दो ब्रह्मेति व्यजानात्' (ते. ३-६) 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' (ते. २-९) इत्यादिश्रुतिभ्यः। ते स्वरूपं यस्याः सा तथोक्ता वेदान्तशास्त्रोक्त- ब्रह्मस्वरूपलक्षणलक्षितेत्यर्थः ।। ॐ सच्चिदानन्दायै नमः॥ साव्या। कर्मोपासनादिभिः महावाक्यश्रवणजन्यब्रह्मविद्यात्वेन साधनचतुष्टयसंपन्नाधिकारिणा अपरोक्षतया साधितुं प्राप्तुमहीं, फलस्व- रूपत्वादित्यर्थः। साध्वीति वा पाठे साधोः स्त्री, सत्त्वगुणसंपन्नत्वात् साधुः, सकलविद्यापारगत्वे सति सदाचारसंपन्नः देवीसंपत्तिमानित्यर्थः । तदेकनिष्ठा परमपतिव्रता सती स्त्रीणां पातिव्रत्यसप्रदायप्रवर्तकेति यावत् ।। ॐ साध्यायै नमः। सद्गतिदायिनी। समीचीना पुनरावृत्तिरहिता सुखमात्ररूपा गतिः, गम्यते ज्ञायते प्राप्यते इति वा गतिः। यत् ज्ञायते तदेव गतिः, सदन्यस्याज्ञातत्वात् गतित्वानुपपत्तेः। ज्ञाते फले इच्छया तत्साधनेषु पुरुषः प्रवर्तते, न त्वज्ञातफलसाधने - इत्यन्वयव्यतिरेकाभ्याम् , 'ब्रह्म- विदानाति परम्' 'ब्रह्म बेद ब्रह्मैव भवति' (मुण्ड. ३-२) 'ये पूर्व , -- ललितात्रिशतीभाष्यम् । , देवा ऋषयश्च तद्विदुः ते तन्मया अमृता वै वभूवुः' (श्वे. ५-६) इत्यादिश्रुत्या च परदेवतास्वरूपमेव मुक्तिस्वरूपतया सद्गतिः । तदावारका- ज्ञानाभिभवेन स्वरूपानन्दमभिव्यञ्जयतीति दायिनी। अभेदेऽपि गतिदानयोः कर्मकर्तृप्रयोगः उपपद्यते । 'तदात्मान स्वयमकुरुत' (ते. २-७) इत्यादिवदित्यर्थः । सती वा सत्त्वगुणयुक्तां देवयानादिगति वा ददातीति सा तथा ।। ॐ सद्गतिदायिन्यै नमः॥ सनकादिमुनिध्यया । मननशीलाः मुनयः, मननशब्देन लक्षणया तत्साक्षात्कारवन्तः इत्यर्थः , ब्रह्मणः मानसिकपुत्राः नान- वैराग्यादिबहुलाः मोक्षमार्गप्रवर्तकाः, सनकः आदिः येषां ते मुनयः सनन्दनसनातनसनत्कुमारप्रमुखाः निरीषणाः निश्चिन्ताः; तैयेया अत्यादरेण स्वात्माभेदज्ञानेन सर्वदा विषयीकृतेत्यर्थः, 'त्वं वा अहमस्मि भगयो देवते अहं वे त्वमसि' 'क्षेत्रज्ञं चापि मा विद्धि' (गी. १३-३) आत्मान चेद्विजानीयादहमस्मीति पूरुषः' (बृ. ४-४-१२) 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः (बृ. १-४-१०) 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' (कठ. ४-१०) इत्यादिश्रुतिस्मृतिशतेभ्यः ।। सनकादिमुनिध्येयायै नमः। सदाशिवकुटुम्बिनी। सदाशिवः कुटुम्बम अस्या अस्तीति तथा ॥ ॐ सदाशिवकुटुम्बिन्यै नमः ।। सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः। सर्वप्रपञ्चनिर्मात्री समानाधिकवर्जिता!॥ ४५ ॥ सकलाधिष्ठानरूपा । 'अथात आदेशो नेति नेति' (बृ. २-३) ललितात्रिशतीभाष्यम् । , .. निह नानास्ति किचन' (बृ. ४-१९) इत्यादिनिषेधश्रुतिभ्यः प्रतिपन्ना । 'सर्व खल्विदं ब्रह्म' (छा. ३-१४-१) इत्यादिवाधायां सामानाधि- करण्यमवगम्यते। कार्यस्य कारणाभेदज्ञानं बाधा । तद्भिन्नताज्ञानस्य भ्रमरूपत्त्रान् । तथा च श्रुतिनिषेधस्यावव्यपेक्षायां प्रकृत्यादीनामपि तत्त्वज्ञानेन निवृत्तौ भूतपूर्वगत्या सर्वाधिष्ठानत्वेन अनुभूयते इति भावः ॥ ॐ सकलाविष्ठानरूपायै नमः। सत्यरूपा । सत्यं जडानृतपरिच्छिन्नव्यावृत्तं सच्चिदानन्दरूपं यस्याः सा तथा । परिणामवादमाश्रित्य सत् अपरोक्षज्ञानयोग्यानि पृथिव्यप्तेजासि , त्यत्तु परोक्षज्ञानविषयाः नित्यानुमेया इत्यर्थः, 'सच्च त्यच्चाभवत्' (ते. २-६ ) इति श्रुतेः। सत्यं रूपं यस्याः सा तथा । ॐ सत्यरूपायै नमः॥ समाकृतिः। समा अभिन्ना सच्चिदानन्दरूपैकरसा आकृतिः मूर्तिः स्वरूपं यस्याः सा तथोक्ता । समा अन्यूनानतिरिक्ता यथाशास्त्र- प्रमाणं मूर्तिविग्रहो यस्याः सेति वा । समा सदाशिवन गुणसौन्दर्यबल- वीर्ययशोगाम्भीर्यधैर्येङ्गितादिपरिज्ञानसर्वज्ञत्वादिबहुलधर्मविशेषैः मूर्ति- यस्याः सेति वा । चतुर्विधभूतग्रामेषु तत्तत्प्रारब्धानुसारेण समा तत्र तत्र निवासयोग्या मूर्तिर्यस्याः सेति वा। कर्माध्यक्षतया तत्तत्फल- विशेषदानेषु समा पक्षपातरहिता मूर्तिर्यस्याः सा । स्थविरत्वादिभावविकारवर्जिता एकप्रकारा नित्ययौवनशालिनी भूर्तिर्यस्याः सा। 'समः सर्वेषु भूतेषु' (गी. १३-२८) 'मद्भक्ति लभते पराम्' 'अङ्गुष्टमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः '( कठ. ६-१७) इति स्मृतिश्रुतिभ्यामेकरूपत्वावगमादित्याशयः ।। ॐ समाकृतये नमः॥ समा बाल्य- .

ललितात्रिशतीभाष्यम् । . : -- .. सर्वप्रपञ्चनिर्मात्री। संसारस्यानादितया मोक्षस्थायित्वेन च भूतभविष्यद्वर्तमानगत्या सर्वशब्दवाच्यत्वं प्रपञ्चस्य ; प्रपञ्च्यते विस्तार्यत विवर्तत इति प्रपश्चः , 'एक बीज बहुधा यः करोति' (कठ. ५-१२) इति श्रतः। तस्य निर्मात्री निर्माणमभिव्यक्तिः तनिमित्ततया तत्तत्कर्तृत्व- मुपचर्यते , देवदत्तः पचतीतिवत् ।। ॐ सर्वग्रपञ्चनिर्मात्र्यै नमः। समानाधिकवर्जिता। कुलशीलजातिगुणादिभिः तुल्यः समानः तैः श्रेयानधिकः, तैवर्जिता। 'न तस्य प्रतिमास्ति' (श्वे. ४.१९) 'विश्वाधिको रुद्रो महर्षिः' (श्वे. ३-४) इति श्रुतेः , 'सर्वाधिपत्य कुरुते महात्मा' (श्वे. ५-३) इति 'एकमेवाद्वितीयम्' (छा. ६-२) 'न त्वत्लमोऽस्त्यभ्यधिकः कुनोऽन्यो लोकलये' (गी. ११-४३) इत्यादि- श्रुनिस्मृतिभ्यां चेति भावः । एतद्दृष्ट्या संमाननीयः समानः पूजनीयो- ऽधिकः तवयेन वर्जिता । 'एकमेवाद्वित्तीय ब्रह्म' इत्यादिश्रुनेरिनि वार्थः ॥ ॐ समानाधिकार्जितायै नमः ॥ सर्वोत्तुङ्गा सङ्गहीना मगुणा सकलेटदा । ककारिणी काव्यलोला कामेश्वरमनोहरा ॥४६॥ सर्वोत्तुङ्गा । कार्यापेक्षया कारणस्याधिकत्वात् सर्वापेक्षया उत्तुङ्गा उन्नता, 'पादोऽत्य विश्वा भूनानि । त्रिपादस्यामृतं दिवि' इति श्रुतेः ।। ॐ सर्वोत्तुङ्गायै नमः ॥ सङ्गहीना। निरवयवत्वेन निष्कारणत्वेन वा निर्गुणत्वेन वा निराश्रयत्वेन वा नित्यशुद्धबुद्धमुक्तस्वरूपत्वेन संबन्धरहिता वा, 'असङ्गो न हि सज्जते' (बृ. ४-२) 'न चास्य कश्चिज्जनिता न चाधिपः (श्वे. ६-९) इत्यादिश्रुतेरित्याशयः ।।

ललितात्रिशतीभाष्यम। ॐ सङ्गहीनायै नमः ॥ . - सगुणा। समाः एकप्रकाराः गुणाः सत्यकामत्वादयः यस्याः सा तथा। 'गुणी सर्वविद्यः' (श्वे. ६-२) 'सत्यकामः सत्यसंकल्पः (छा. ८-१) इत्यादिश्रुतेः । त्रिमूर्तिस्वरूपतया सत्त्वरजस्तमोगुणैः सह वर्तते इति वा तथा ॥ ॐ सगुणायै नमः॥ सकलेप्टदा। इच्छाविषयभूतानि इष्टानि काम्यानीत्यर्थः , सकलानि च तानीत्यभेदसमासः, अन्यथा जीवादिवत् कस्मिश्चिद्विषये असामर्थ्य- शङ्का स्यात् । एकस्य पदार्थस्य बहूनामिच्छाविषयत्वदर्शनात् , एकत्र कामनायामपि तत्सहभावित्वेन सर्वप्रापकत्वोक्तो परदेवतायाः बहुफल- प्रदातृत्वेन अत्यन्तविश्वसनीयतया अतिशयप्रतिभानाञ्चेत्यर्थः । अथवा , परिच्छन्नपरिमितभाग्यवत्प्राणिनः सर्वस्य सर्वत्र इच्छायामपि यानि सर्वाणि स्वबुद्धया शास्त्राविरोधेनेष्टानि एषितव्यानि वाञ्छितव्यानि , तान्येव प्रयच्छति ददाति , न तदधिकानि , लोकेच्छायाः बहुप्रकारत्वेन दुष्पूरणीयत्वादिति भावः । सर्वेषां प्राणिनामिष्टया इज्यया पूजया विषयांकृता, यज्ञेन वा समाराधिता तस्य फलप्रदेत्यर्थः । 'अहं च सर्वयज्ञानां भोक्ता च प्रभुरेव च' (गी. ९-२४) 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति' (कौ. ३-९) इति स्मृतिश्रुतिभ्यां परमेश्वरार्पणबुद्धया क्रियमाणस्यैव कर्मणः शुभफलत्वात् मुक्तिहेतुत्वेन , काम्यफलार्थिनां जन्ममरणादिबन्धकत्वेन स्वल्पफलतया अनादरणीयत्वादित्यर्थः कलाभिः अवयवैः तरतमभावैरित्यर्थः तैः सहितानि इष्टानि फलानि मनुष्यानन्दादिब्रह्मानन्दपर्यन्तानि फलानि आनन्दस्वरूपाणि ददातीति तथा ।। ॐ सकलेष्टदायै नमः॥ . :। अथवा, ललितात्रिशतीभाष्यम् । ककारिणी। तृतीयखण्डद्वितीयवर्णरूपः ककारावयवः वाचकः अस्या अस्तीति तथा ॥ ॐ ककारिण्यै नमः॥ काव्यलोला । वाल्मीकिवेदव्यासादिकृतेषु काव्येषु लोला, वाच्य- लक्ष्यार्थभेदेन तत्र संबद्धेत्यर्थः । अथवा, कविभिः कृतेषु स्तुतिविशेषेषु प्रीतिमतीत्यर्थः ॥ * काव्यलोलायै नमः॥ कामेश्वरमनोहरा। कामेश्वरस्य मनः हरतीति तथा ।। ॐ कामेश्वरमनोहरायै नमः ।। कामेश्वरप्राणनाडी कामेशोत्मङ्गवासिनी। कामेश्वरालिङ्गिन्ताङ्गी कामेश्वरसुखप्रदा ॥४७॥ यथा नाड्या कामेश्वरप्राणनाडी। कामेश्वरस्य प्राणनाडी। प्राणः संचरति सा तथा, जीवनाडीत्यर्थः इडया तु बहिर्याति' इति लयखण्डवचनात् । लोके विशस्यमाने पशौ हृदय पुण्डरीकाकारं मांसखण्डात्मकान्तःसुपिराष्टदलोपेतं अङ्गुष्टपरिमाणसुषिरयुताधाभागकर्णि- कामध्यं दृश्यते, तस्याः कर्णिकायाः केसरायमानाः एकशतं नाडी- नामड्डुराः तद्वेष्टनपुरीतन्नामकनाडीसुषिरविन्यस्तमूलाः भवन्ति । तत्र सुषुम्नानामकनाडी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्त गता। तस्यां षट चक्राणि मूलाधारादीनि नत्तन्मातृकावर्णसहितयोगशास्त्रोक्तदलसंयुतानि संनद्धानि वर्तन्ते। तस्या मूले पृथ्वीदेवता बिसतन्तुतनीयसी कुण्डलिन्य- धोमुखावरणशक्तिर्निद्राति । तस्याः दक्षिणभागे इलानामनाडी भ्रमध्य- पर्यन्तं प्रसृता। वामे पिङ्गला तथा । तथा च जाग्दवस्थायां वयोः L.11 ललितानिशनीभाष्यम्। तथा दंपत्यात्मना श्रुतिप्रतिपादितः, स्वप्ने मनउपाधिकः, सुषुप्ताषज्ञानोपाधिकः, आग्रति स्थूलशरीराभिमानी विश्व इत्युच्यते, स्वप्ने सूक्ष्माभिमानी तेजसः, सुषुमौ कारणाभिमानी प्राज्ञः । सुषुमौ कारणात्मना स्थितानि स्थूलसूक्ष्म- शरीरजन्यभोगसाधनप्रारब्धकर्मवशेन पुरीतद्वारा नाडीमार्गेण तत्तद्रगोल. कानि प्रविशन्ति इन्द्रियाणि । तदुपरमप्रारब्धोद्बोधे आन्दोलिकायां विद्यमानो राजा गृहान्तरे सोपानमार्गद्वारा प्रासादे विहृत्य तदवच्छिन्नान्त:- पुरपर्यङ्के शयान इव नाडीद्वारा पुरीनप्रविश्य तदवच्छिन्नहृदयोपाधिक परमात्मानं यदा प्रविशति तदा सुप्त इत्युच्यते। लिङ्गशरीरं कारणात्मना लीयते । तदा प्राणादिवायवः प्रलीनवृत्तयः सन्तः आयुस्स्वरूपेण शरीरं रक्षन्ति । च भाविज्ञापत्स्वप्नभोगानुकूलकर्मानुबन्धप्राणधारणं सुषुप्रौ सोपाधिकचैतन्यस्यैव दृश्यते । तत्सत्तया च नाडीनां प्राण- संचारयोग्यतापि । एवं च सति 'न प्राणेन नापानेन मयों जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेताबुपाश्रितौ ॥' (कठ. ५-५) इति श्रुत्या 'जीव प्राणधारणे' इति धातुपाठाच्च प्राणनाडीशब्दस्य लक्षणया परमात्मैवोच्यते । कामेश्वरस्यैयं प्रारब्धकर्मजन्यशरीरमात्रा- भावेऽपि घृतकाठिन्यन्यायेन मूर्तिमन्तया तदन्तर्यामिसंभावनया एतन्नाम । कामेश्वरस्य प्राणनाडी तदधिष्ठानचैतन्यमिति फलितोऽर्थः ।। ॐ कामेश्वरमाणनाड्यै नमः। कामशोत्सवासिनी। कामेशस्य उत्सङ्गे वामाङ्के बसतीति तथा। 'अनेकमन्मथाकारकामेशोत्सङ्गवासिनी' इति ललितातापनीये ।। ॐ कामेशोत्सङ्गवासिन्यै नमः ।। कामेश्वरालिङ्गिताङ्गी । तेन आलिङ्गितम् अङ्गीकृतम् अङ्गं यस्याः सा तथा ॥ * कामेश्वरालिङ्गितायै नमः॥

ललिताविशतीभाष्यम्। ८३ कामेश्वरसुखप्रदा। कामेश्वराय सुखं प्रददातीति वा। कामे- श्वरस्य यत्सुखं ब्रह्मस्वरूपसच्चिदानन्दसाक्षात्कारात्मकम् , 'देवो भूत्वा देवानप्येति' इति श्रुत्युक्तन्यायात स्वकीयभक्तानां कामेश्वराभेदरूपं सच्चिदानन्दघनात्मकं मोक्षं ददातीत्यर्थः ।। ॐ कामेश्वरसुखप्रदायै नमः ॥ कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥४८॥ कामेश्वरप्रणयिनी। कामेश्वरस्य स्वस्वरूप परमानन्दघने या प्रीतिः तद्विषयभूतेत्यर्थः ।। ॐ कामेश्वरप्रणयिन्यै नमः। कामेश्वरविलासिनी। कामेश्वरस्य विलासः कार्यात्मना विवर्ती- ऽस्या अस्तीति तथा ।। ॐ कामेश्वरविलासिन्यै नमः। कामेश्वरतपःसिद्धिः। कामश्वरस्य तपः जगदालोचनात्मकम् , सिध्ययनयेति सिद्धिः, तपसः साधनभूतेत्यर्थः । स्त्रीपुरुषात्मना कल्पित- भेदवशात् जगत्सर्जनसाधनभूतेत्यर्थः ।। ॐ कामेश्वरतपःसिद्धयै नमः। कामेश्वरमन:प्रिया। मनसः प्रिया तथा, निरवधिकप्रेमास्पदा इत्यर्थः ॥ ॐ कामेश्वरमनःप्रियायै नमः। कामेश्वरप्राणनाथा कामेश्वरविमोहिनी। .१ ,

ललिताविशतीभाष्यम् ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी॥४९॥
कामेश्वरप्राणनाथा। कामेश्वरस्य प्राणः हिरण्यगर्भः तं नाथयति
पालयतीति तथा। कामेश्वरः प्राणनाथो बल्लभो यस्याः सेति वा तथा ।।
ॐ कामेश्वरप्राणनाथायै नमः।
कामेश्वरविमोहिनी। विमोह्यति स्वयं भिन्नविग्रहवती सती
आवां दंपती- इति द्विप्रकारकज्ञानवन्तं करोतीति सा
तथा।
अभेदज्ञानवतः तद्विपरीतज्ञानवत्त्वं मोहः तत्करोतीति सा तथा।
अथवा, मोहो नाम बुद्वेरेकालम्बनतया तदन्याविषयकत्वम् परमेश्वरस्य
स्वस्वरूपपरदेवतापरमानन्दसाक्षात्कारेण स्थाणुवन्निश्चलतया उपचारेण मोह-
वत्तया तदितरप्रपञ्चाकारकृत्याद्याश्रयतादर्शनेन मोहयतीत्युपचारनाम ।
मोहयतीवेत्यर्थः । अन्तःपुरगतं राजानं स्त्रिया सक्तमितिवदित्यर्थः॥
ॐ कामेश्वरविमोहिन्यै नमः।
कामेश्वरब्रह्मविद्या । कामेश्वरस्य तत्त्वंपदार्थसाक्षात्कारभूतेत्यर्थः,
'यः साक्षादपरोक्षाद्ब्रह्म' (बृ ३.४) इति श्रुतेः ।।
ॐ कामेश्वरब्रह्मविद्यायै नमः ।
कामेश्वरगृहेश्वरी। गृह्यत इति प्रहः सर्वज्ञानम् तस्य ईश्वरी
विषयाधिष्ठानभूतत्वेन नियामिकेत्यर्थः । अथवा , 'गृहिणी गृहमुच्यते'
इति न्यायात् कामेश्वरः गृहेश्वरः स्वस्याः अधिपतिः अस्या अस्तीति
.
.
सा तथा॥
ॐ कामेश्वरगृहेश्वय नमः ।।
कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया काक्षितार्थदा ॥ ५० ॥

ललितात्रिशतीभाष्यम् ।
कामेश्वराह्लादकरी। आहादः तृप्तिजन्यसुखं परमेश्वरस्य नित्य-
तृप्रत्वरूपा शक्तिः, परदेवतात्मकतया तं करोतीति तथा ॥
3 कामेश्वरालादकयै नमः॥
.
कामेश्वरमहेश्वरी। महती च ईश्वरी निरुपाधिकैश्वर्यवती,
'महान्प्रभुर्वै पुरुषः' (श्वे. ३-१२) इति श्रुतेः। कामेश्वरस्य महदैश्वर्यम्
अस्याः अस्तीति तथा, भगवतीत्यर्थः 'ऐश्वर्यस्य समग्रस्य वीर्यस्य
यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।।' 'तमीश्वराणां
परमं महेश्वरम्' (इवे. ६-७) इति श्रुतेः ।।
ॐ कामेश्वरमहेश्वथै नमः ।।
.
कामेश्वरी। मन्मथोपासितकादिविद्यारूपेत्यर्थः ।।
कामेश्वर्यै नमः॥
कामकोटिनिलया। पण्णवतिपीठेषु मध्ये कामकोटिः श्रीचक्र-
मित्यर्थः । निलयं गृह यस्याः सा तथा ।।
ॐ कामकोटिनिलयायै नमः।
"
काङ्घितार्थदा । कात्तिान काङ्गाविषयीभूतान , प्राप्तसजातीयेच्छा
काडा ; तद्गोचरान् पदार्थान् ददातीति तथा। कासिता सती उपास्य-
देवता मे प्रसन्ना भूयादितीच्छया चिरकालोपासिता सती पुरुषार्थान
अप्रार्थयमानस्यापि स्वयमेव ददातीत्यर्थः ।।
कांक्षितार्थदायै नमः।
लकारिणी लब्धरूपा लब्धधीलब्धवाञ्छिता ।
लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ॥५१॥

। ललितात्रिशतीभाष्यम् । , . लकारिणी । तृतीयखण्डतृतीयवर्णत्वेन वाचकतया अस्या अस्तीति सा तथा ॥ ॐ लकारिण्यै नमः॥ लब्धरूपा। रूप्यते नाप्यते एभिरिति रूपाणि लक्षणानि खरूपतटस्थभेदेन सगुणनिर्गुणपराणि, लब्धानि यया सा तथा । रूप्यते ज्ञाप्यत इति रूपम् अर्थः , उपलक्षणं नाम्नोऽपि, लब्धे नामरूपे यया सा तथा। आदौ स्वयं मायोपाधिना शब्दार्थभावमापद्य पश्चात् व्याकरणमकरोदिति भावः ॥ लब्धरूपायै नमः॥ लब्धधीः । निश्चयात्मिकाः सविकल्पनामकाः अन्तःकरणवृत्तयो धियः, ता उपाधित्वेन प्रतिबिम्बाधिष्ठानत्वेन लब्धा यया सा तथा । वृत्त्यारूढं चैतन्यं ज्ञानमिति वा, चैतन्यव्याप्ता वृत्तिषेति वेदान्त- सिद्धान्तः । जडानां विपयाणा ग्रहणे ताशीनां वृत्तीनां असामर्थ्य जगदान्ध्यप्रसङ्गेन स्वरूपचैतन्यमन्तःकरणाद्युपहित फलचैतन्यतया प्रकाशयति । तथा च ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरिहष्यते' इति न्यायेन लब्धा धीः तत्त्वमस्यादिमहावाक्यश्रवणजन्यवृत्तिव्याप्तिर्यया सेत्यर्थः । अथवा, धी-शब्देन सर्वज्ञत्वादिकमुच्यते, तत् लब्धं ययेति वा, 'यः सर्वज्ञः सर्ववित्' (मु. १-१) इति श्रुतेः ।। ॐलब्धधिये नमः॥ लब्धवाञ्छिता। वाञ्छाया विषयीभूतं बाञ्छितम् इष्टफल- मित्यर्थः। लब्धं पूर्वमेव प्राप्तं तद्ययेति तथा। आप्तकामेति यावत् ।। ॐ लब्धवाञ्छितायै नमः। लब्धपापमनोदूरा । पापप्रधानानि च तानि मनासि च पापमनासि , ललितात्रिशतीभाष्यम् । - लब्धानि पापमनांसि यैस्ते सदा पापचिन्तका इत्यर्थः । तेषां दूरा अवेद्येत्यर्थः, 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्' (कठ. २-१४) इति श्रुतेः। 'तमेनं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' (बृ. ४-४) इति श्रुत्या विहितानां तत्तद्वीश्रमधर्माणामीश्वरार्पणबुद्वया क्रियमाणानामात्मज्ञानसाधनतया श्रूयमाणत्वात् तदन्येपो दुःखप्राप्ति- साधनत्वेन पापवासनाप्रधानत्वेन दुरधिगमेत्यर्थः ।। ॐ लब्धपायमनोदूरायै नमः॥ लब्धाहंकारदुर्गमा। अहंकारोऽभिमानः उपलक्षणं तत्कार्याणा- मामुरसंपत्तिविशेषाणाम् । लब्धः अहंकारः राजसतामसात्मकः यस्तैः दुःखेनाप्यधिकप्रयत्नेन क्रियमाणसाधनकलापेन अधिगन्तुं ज्ञातुमशक्या। सत्त्वगुणाभावे देहेन्द्रियादौ सुखप्रकाशाव्याप्ती मनःस्थैर्याभावन रजसः प्रवर्तकस्य विक्षेपकस्य तमसश्चावरणप्रधानस्य विवेकज्ञानप्रतिवन्धकस्य निद्रालस्यादिसमुद्भवस्य कार्येण जामित्वादिरूपेण श्रेयोमार्गसाधनानुष्ठाने गुरुवेदयोः श्रद्वाक्षये बाह्यविषयसंपादनव्यग्रे मनसि लाभालाभहेतुकहप- शोकजन्यरागद्वेषपरतन्त्रे अनात्मज्ञासुरसंपत्तिमतां चित्त न मातीत्याशयः। प्रत्युन जननमरगप्रवाहरूपसंसारमेवानुभवन्ति, 'तानहं द्विषतः क्रूरान्' (गी. १६-१९) इति भगवद्वचनात् । अतो निरभिमानपुरुपेण स्वाभीष्टलाभाय चित्ते सदा चिन्तनीयत्यर्थः । यतयः शुद्धसच्चाः (मु. ३-२) इत्यादिप्रमाणेभ्य इति द्रष्टव्यम ।। ॐ लब्धाहंकारदुर्गमायै नमः॥ लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यममुन्नतिः । लब्धवृद्धिर्लब्धलीला लब्धयोवनशालिनी ॥५२॥ लब्धशक्तिः । लब्धा शक्तिः सकलसामर्थ्यहेतुभूता मायात्मिका . . . ..

ललितात्रिशतीभाष्यम् । , .. महेश्वरम' यया सा तथा, 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणै. निगूढाम्' (श्वे. १-३) इति श्रुतः ।। ॐ लब्धशक्त्यै नमः॥ लब्धदेहा। लब्धः देहः विग्रहः यया सा तथा। स्वेच्छा- वलम्बितमूर्तिः घृतकाठिन्यन्यायेन जीवत्वाभावेन कर्माधीनत्वाभावात् । तथा च सति अध्यस्तमायाशक्तेः भेदकत्वस्वाभाव्येन 'पतिश्च पत्नी चाभवताम्' (बृ. १-४) इति श्रुत्या च दंपतिमूर्तिमती बभूवेत्यभिप्रायः ॥ ॐ लब्धदेहायै नमः॥ लब्धैश्वर्यसमुन्नतिः । ऐश्वर्याणां समुन्नतिः आधिक्यं पर्यवसान- मित्यर्थः, लब्धा ऐश्वर्यसमुन्नतिः यया सा तथा, 'तमीश्वराणां परमं (श्वे. ६-७) इति श्रुतेः, 'नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप' (गी. १०-४०) इति स्मृतेश्च । एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य' (माण्डू) इति श्रुती निरुपाधिकमहैश्वर्यसंपत्तेः तदुपासकानामगस्त्यादिमहर्षीणां दर्शनात् तदीयमहैश्वर्यस्य निरवधिकत्वमिति किमु वक्तव्यमिति ज्ञायते इत्यभिप्रायः ॥ ॐ लब्धैश्वर्यसमुन्नत्यै नमः॥ लव्धवृद्धिः। वृद्धिर्नाम व्याप्तिः परिपूर्णतेत्यर्थः, अवयवोपचयात्मका न, तस्याः कर्मजन्यत्वेन विनाशहेतुत्वात , ‘स वा एष महानज आत्मा न वर्धते कर्मणा' (बृ. ४-४) इति श्रुतिवचनात् , 'निष्कियं निष्कलम्' (श्वे. ६-१९) इति अवयवमात्रनिषेधाच्च, तथा च लब्धा वृद्धिः सर्वव्यापकता स्वस्वरूपैव सती उपाधिभिर्जन्यैस्तदाश्रयभूतैः अभिव्यज्यते; न त्वविद्यमानारोपिता इति निष्कर्षार्थः ।। एष सर्वेश्वर . , ललितात्रिशतीभाष्यम। ८९ - ॐ लब्धवृद्धथै नमः॥ लब्धलीला । लीला; अन्य प्रयोजनार्थव्यापाराः स्वर्षमात्रहतुका वा. तत्तत्कालोचितशृङ्गारादिनवरसाङ्गीकारसमये तदुचितभङ्गीविशेषा वा लब्धा यया सा तथा॥ लब्धलीलायै नमः॥ लव्धयौवनशालिनी। अस्तित्वजननवर्धनभावविकारावस्था बाल्यं ; परिणामः अपक्षयो नाशः उत्तरावस्था जरा, देहाभावेन तदुभयनिषेधे अर्थाद्यौवनम् , यौति गच्छतीति युवा दृढबलवीर्यः, तस्य भावः यौवनं तदुभयवयोऽवधाराहित्येनकस्वरूपता, तल्लब्धं प्राप्तं यौवन यया सा तथा, 'अजरोऽमृतोऽभयो ब्रह्म ( ४-४ ) इति श्रुतेः सर्वदा एकप्रकारस्वरूपवतीति भावः ॥ ॐ लब्धयौवनशालिन्यै नमः। लब्धातिशयसङ्गिमौन्दर्या लब्धविभ्रमा । लब्धरागा लब्धपतिलब्धदानागमस्थितिः॥ ५३ ।। लब्धातिशयसर्वाङ्गसौन्दर्या । मुन्दरो रुचिरः तस्य सौन्दर्यम् , अवयवानाम् सर्वेषां सौन्दर्यमतिशायि सर्वाङ्गेषु सर्वावयवेषु लब्धं यया सा तथा, यथाशास्त्रोक्तावयवविन्याराविशेषत्वेन सर्वमनोहर- मूर्तिमतीत्यर्थः, 'न तस्य प्रतिमास्ति' (श्वे. ४-१९) इति श्रुतेः ।। • लब्धातिशयसर्वाङ्गसौन्दर्याय नमः ।। भावः . लब्धविभ्रमा। विभ्रमो बालक्रीडा लब्धा यया सा तथा , सर्वात्मकतया सर्वकर्तृत्वादिति भावः ।। लब्धविभ्रमायै नमः। L. 12 ललितात्रिशतीभाष्यम् । सोऽकामयत , लन्धरागा। लब्धः सजातीयो रागः कामः, (ते. २-६) इति श्रुत्या जगत्सर्जनस्य कामनापूर्वकत्वप्रतिपादनात् ; लब्बो रागो यया सा तथा इत्यर्थः ।। ॐ लन्धरागायै नमः॥ लब्धपतिः। लब्धः स्वेच्छयैव स्वयंवरे पतिः कामेश्वरो यया सा तथा ॥ 30 लब्धपतये नमः॥ लब्धनानागमस्थितिः। आ समन्तात् नानाप्रकारैः कर्मोपासना- ज्ञानकाण्डतदङ्गत्वादिभिः गमयन्ति स्वार्थान् प्रकाशयन्तीत्यागमाः वेदाः नाना अनेकशाखाप्रभिन्नसामादयः तेषां स्थितिः परिपालनं लब्धा यया सा तथा। नानागमस्थितिः वेदचतुष्टयोक्तमर्यादा काण्डत्रयविषया लब्धा यया सेति वा । संसारस्यानादित्वेन निरपेक्षप्रमाणभूतान् वेदान् 'सर्वे वेदा यत्रैक भवन्ति' इति श्रुतेः स्वस्वरूपभूतान् महाप्रलये संरक्ष्य सर्गादौ जायमानहिरण्यगर्भस्यान्यूनानतिरेकेण तानेव प्रतिभासयति स्वयं दंपती भूत्वा तदुक्तधर्माननुष्ठाय परेषामप्यनुष्ठापयतीति च । 'वेदशाने ममैवाशे' 'वर्त एव च कर्मणि। यदि यह न वर्तेयं जातु कर्मण्यतन्द्रितः। उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम् ।।' (गी. ३-२४) इत्यादिभगवद्वचनादिति द्रष्टव्यम् ॥ ॐ लब्धनानागमस्थित्यै नमः ।। लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । हींकारमूर्तिीकारसौधशृङ्गकपोतिका ॥५४॥ लब्धभोगा। भोगः सुखमात्रानुभवः दुःखानुभवे उच्यमाने जीवाविशेषप्रसङ्गात् । लब्धः भोगः यया सा तथा। जीववत् ललितात्रिशतीभाष्यम् । .. " क्रमिकवेष्टपदार्थानुभवानन्तरकालीनं सुखं न भवति, स्वस्या आनन्द- रूपत्वेन सिद्धस्त्ररूपत्वात् , साधनभूतभोगोऽप्येतद्विषये सिद्ध इत्युपचर्यते इति लब्धभोगेत्युच्यते ॥ ॐ लब्धभोगायै नमः॥ लब्धसुखा। लब्धं सुखं अनुकूलवेदनीयं स्वस्वरूपभूतं सुखं तत्साधनं च धर्मः यया सा तथा ।। * लब्धसुखायै नमः॥ लब्धहर्षाभिपूरिता। लब्धः यो हर्षः तृप्रिनिमित्तकचित्ताल्लास- विशेषः मुखप्रसादशरीरपुष्टयादिकार्योन्नेयः जगत्यां स्वाभीष्टपदार्थानु- भवादिजन्यः संतोष इति प्रसिद्धः, तेनाभिपूरिता अभितः समन्ता- दन्यूनानतिरेकेणाविच्छिन्नरूपतया पूरिता भरिता । तद्विपरीतदुःखा- द्यनुत्पादेन तन्मात्रसमाश्रया नित्यप्रसन्नमुखीत्यर्थः ।। अ. लब्धहर्षाभिपूरितायै नमः। हाकारमूर्तिः। बाच्यवाचकताभेदसंबन्धेन ह्रींकारः मूर्तिः विग्रहो यस्याः सा तथा ॥ ॐ हींकारमूत्यै नमः॥ हीकारसौधशृङ्गकपोतिका। मुधामयं सौधम् , सुधाविकारः अट्टालिकेत्यर्थः , तस्य शृङ्ग शिखर चन्द्रशालादिभित्त्युपरिभागः; निरुपाधिकविश्रान्तिजन्यसुखानुभवहेतुतया हीकारस्य सौधोपमा, तत्र हकारस्य श्वेतवर्णतया अट्टालिकासादृश्यम् , रेफस्य लोहितरूपतया इष्टकादिकृताधोभित्त्युपमा, हकारोपरि ईकारस्य शृङ्गोपमा, ऊर्ध्वगत्व- साम्यात्, तदुपरितनबिन्दुः सर्वप्रकृतिभूतशब्दार्थात्मकतया तवय- , .

ललिताविशनीभाष्यम् । वत्वेन विचित्रस्वरूपोऽपि सूक्ष्मतया अपवरकगतकपोतकान्तेव जागरूकः दृश्यत इति तदर्थत्वेन परदेवतोपमानशब्देनाभिधीयत इति भावः ।। ॐ हीफारसौधशृङ्गकपोतिकायै नमः। ही शारदुग्धाब्धिसुधा हींकारकमलेन्दिरा । ह्रींकारमणिदीपाचिह्रींकारतरुशारिका ॥ ५५॥ होकारदुग्धाब्धिसुधा । दोहान्निष्पन्नं दुग्धम् । स्तनगतस्य पयसः स्वीयतापादनहस्तक्रियाविशेषो दोहः । उपलक्षणं चोषणादीनाम् , तथा च प्रदीपालंकारः सिद्धः। अनन्तोदकप्रसारित निम्नभप्रदेशः अब्धि- रुच्यते । आपः धीयन्ते अस्मिन्निति तथा। तस्मिन् संजीवकत्वं धर्मः डिम्भकसञ्जीवने स्तन्यादी दर्शनात् । ह्रीकारस्यापि हकारयुक्ततया श्वेतवर्णतादमृतहेतोश्च तत्सादृश्यम् । तस्य सुधेब सुधा तदभिव्यक्तत्वा- विशेषात्तत्सेवकानां नित्यत्वे सति बहुविधमहिमशालितया दर्शनादिति भावः ॥ ॐ ह्रींकारदुग्धाब्धिसुधायै नमः॥ हीकारकमलेन्दिरा। ह्वीकारबीजस्य विचित्रवर्णतया परमप्रीति- विषयतया च कमलोपमा । तस्य वाच्यार्थतया तदुपरितनत्वेन सर्व- पुरुषार्थप्रदातृत्वाश्च कमलशब्दनाभिधीयते । तस्याः पद्मालयत्वात् ह्रींकार- कमलस्य इन्दिरा तदधीनब्रह्मविद्येत्यर्थः ।। ॐ ह्रींकारकमलेन्दिरायै नमः ॥ .. ह्रींकारमणिदीपार्चिः । आधिदैविकाद्युपद्रवानभिभूतत्वे सति चिरकालावस्थायित्वं मणिदीपसाहश्यं ह्रीकारस्य । तस्य प्रकाशः आनितर- साधारणमहातिशयवत्त्वेन अनर्घत्वमावेदयति । तदुपासकस्य निरवधिक- ललितात्रिशतीभाष्यम् । ९३ .. महत्त्वापादकह्रींकारवाच्यतया तत्प्रकाशकेत्यर्थः । तथा च निरन्तरतमो- ऽपाकरणेन खेष्ट पदार्थापादनेन च सुखयतीति फलितोऽर्थः ॥ ॐ हींकारमणिदीपाचिपे नमः ।। हीकारतरुशारिका । तारयति फलार्थिनः स्वारूढान पतनादेः रक्षतीति तरुः , तस्य शारिका पिङ्गतुण्डनेत्रचरणा शारिका अभ्यासाति- शयेन मनुष्यभाषायामपि भाषते । भूतभविष्यद्वर्तमानलोकयात्रापरि- झात्री सती शुभाशुभफलप्राप्ति च स्वभाषया बदति । अस्य बीजस्य वाच्यार्थतया तत्सवन्धिनी सतो वेदवाचा सर्व प्रकाशयतीत्यर्थः ।। ॐ ह्रींकारतरुशारिकायै नमः ॥ हींकारपेटकमणि कारादर्शविम्बिता । हींकारकोशासिलता हींकारास्थाननर्तकी ॥ ५६ ॥ होकारपेटकमणिः । गृहनसाधनतया हाकारः पेटकेन दृष्ट्वान्ती- तस्य मणिः पैडूर्यमित्यर्थः । यथा हीरादिमणिः पेटकादी गापितोऽपि स्वकान्त्या बाह्याभ्यन्तरं तम्य प्रकाशयन्नितरपेटकेभ्यः तं व्यावर्तयति, तथेदमपि बीजं स्ववाचकतयेतरवणेभ्यः निरतिशयमहिना भेदयतीति भावः ।। ॐकारपेटकमणये नमः ।। हीकारादर्शबिम्बिता । अस्य बीजस्य इतरप्रमाणानपेक्षवेदान्तर्गत- तया निर्दोषत्वादादर्शसाम्यम् । तस्मिन् बिम्बिता प्रतिविम्बिता, माया- प्रतिबिम्बचैतन्यस्यैव जगत्कारणतया सर्वत्र दर्पणे मुखमिव प्रतिफलतीति तात्पर्यार्थः ॥ हीकारादर्शबिम्बितायै नमः। क्रियते । , ललितात्रिशतीभाष्यम् । . हीकारकोशासिलता। ह्रीकार एव कोशः तस्यासिलता अतिदीर्घ- खड्गमित्यर्थः। सर्ववैर्यादिजन्यदुःखनिवर्तकत्वमसिलताया इव परदेवताया अपि। तथात्वेन बहिः प्रकटनायोग्यतासादृश्येन आच्छादकापेक्षया हीकारस्य वाचकशब्दतया अर्थावारकत्वौपम्यादसिकाशतुल्यता। तथा च ह्रीकारकोशे विद्यमाना असिलतेव दुःखनिवारकत्वे सति भक्ता- भयकरीति भावः। सर्वेषामायुधविशेषाणाम् असिपदमुपलक्षणम् । 'महद्भयं वज्रमुद्यतम्' (कठ. ६-२) 'भीषाऽस्माद्वातः पवते' (ते. २-४) इत्यादिश्रुतेः ॥ ॐ ह्रींकारकोशासिलतायै नमः॥ ह्रीकारास्थाननर्तकी। ह्रीकार एव आस्थानं सभामण्डपः सर्वा- अयत्वात् । तस्य नर्तकी नटनसंबन्धभूसंयोगचरणविन्यासोपलक्षित- तालानुसारिहस्ताद्यङ्गचेष्टा नर्तनम् , तत्की नर्तकी। ह्रीकारवाच्यार्थतया मायादिसंबन्धासंबन्धनिमित्तकविचित्रतरकार्योत्पादनव्यापारानुकारविका - यविकारिस्वरूपवत्तया द्रष्टलोकमनोवृत्तिभेदेन तीव्रमन्दमन्दतरप्रीतिरूप- भक्तिविषयतयाऽभिव्यक्तानभिव्यक्तेष्टफलसाधनतया स्वकीयपुण्यादि- तारतम्येन बुद्धिशुद्विभेदात्प्रतिभातीत्यर्थः ।। ॐकारास्थाननर्तक्यै नमः। हीकारशुक्तिकामुक्तामणि-कारबोधिता । हींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ।। ५७ ॥ ह्रींकारशुक्तिकामुक्तामणिः । हीकार एव शुक्तिका नीलपृष्ठ- त्रिकोणाकारा, तस्याः मुक्तिकेव मुक्ताफलमिवाभिव्यज्यमाना- यथा स्वातीमहानक्षत्रे सर्वदेशेषु मेघसंघात्पतज्जलबिन्दुः शुक्तिकान्तः पतितः समुद्रदेशविशेषे मुक्ताकारेण परिणमते, तथा सत्त्वरजस्तमोगुणात्मक- ललितात्रिशतीभाष्यम् । .. ह्रींबीजावच्छेदेन मनोहरवाचामगोचरसुन्दरतरपरदेवतामूर्त्या सर्वगतमपि चैतन्यं विशिष्याभिव्यज्यते। तथा च मौक्तिकार्थिनां शुक्त्युपादानवत् परदेवतासाक्षात्कारेप्सूनां ह्रीकारोपादानमावश्यकमिति भावः ।। ॐ हींकारशुक्तिकामुक्तामणये नमः॥ हीकारबोधिता। सिद्धे पदार्थे इन्द्रियादिसंबन्धे सति स्वत एव ज्ञानोत्पत्तिदर्शनान्न ज्ञाने विधिरपेक्षितः, क्रियाफलत्वाभावात् । तर्हि नित्यापरोक्षधर्मादिज्ञानवत् शुद्धब्रह्माभेदः बेर्दकदेशहीकारेणैव बोध्यते , अज्ञातज्ञापकत्वेन वेदस्य स्वतः प्रामाण्याभ्युपगमात् , परचैतन्यस्य ज्ञायमानस्य परमानन्दरूपतया पुरुषार्थरूपत्वात् । अतः ह्रीकारणव मूलमन्त्रात्मना बोधिता जापिता। हकाररेफेकाराणां व्यस्तत्वदशायां भिन्नभिन्नार्थकानां मेलने होकारात्मना परिणामे सच्चिदानन्दस्वरूप- श्रीत्रिपुरसुन्दर्याः तदर्थत्वेन अद्वैतस्वरूपतया प्रतिभानात् । 'नान्यो- ऽतोऽस्ति द्रष्टा' (बृ. ३-७) 'इदं सर्वं यदयमात्मा' (बृ. २-४) 'एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।।' (व्र बि) इत्यादिश्रुतेः । 'आत्मा वा अरे द्रष्टव्यः' (बृ. २-४) तद्विजिज्ञासस्व' (ते. २-१) 'आत्मानं पश्येत्' (बृ. ४-४) इत्यादिलिड्लोट्तव्यप्रत्ययानामहतार्थकतया न बिधित्वमिति सिद्धान्तः ।। ॐ हींकारबोधितायै नमः ।। ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका। पिगलपृथ्वीरेणुः सुवर्ण- मित्युच्यते । अनुच्छिद्यमानद्रवत्वस्य नैमित्तिकत्वेऽपि तैजसान्तरे प्रदीप- प्रभादावदर्शनात् । पदार्थान्तरसंयोगे रजतादिवदतितेजःसंयोगात् भस्म- भाबापत्तश्च हीरमणौ लोहलेख्यत्वाभाववत्त्वेऽपि पार्थिवत्ववदन पार्थिवत्वे बाधाभावात् । द्रवत्वस्योदकस्वभावत्वेन तत्कार्यपृथिव्यामपि उपलम्भो- ललितात्रिशतीभाष्यम। पपत्तेश्च । तद्विकारः, सौवर्णश्वासी स्तम्भश्च । सौवर्णस्तम्भस्य नवरत्नमण्डाभारवाहित्वे सति तदभिन्नत्वेन तदलकारभूतत्वस्येव साधय॑स्य ह्रींकारेऽपि जगदाश्रयन्वे सति तत्कारणत्वे सनि तदन्तर्भूतत्वे सति परमा- नन्दजनकत्वस्य सत्त्वेन होकारमय इत्यभेदोपचारः प्रदीपालकारद्योतनार्थ इति ज्ञातव्यम् । होकारे उपमेये मयशब्दनोपमानाभेद कल्पनात् । तस्मिन विचित्रपिङ्ग धानरूपे तत्संबन्धितया विद्रुमपुत्रिकेव प्रतीयमाना विद्रुमेन प्रवालेन कृता पुत्रिका सालभञ्जिका। सौवर्णस्तम्भशब्दः उपलक्षणं भित्त्यादीनां, प्रायस्त्वदर्शनात् तदुपादान स्वनः मनोज्ञम्य स्तम्भस्याति- शयदर्शनीयताये। दुर्लभतरप्रवालपुविका स्तम्भमण्टपं तत्स्वामिन तद्देश च प्रकृष्टोकरोति, तथा श्रीपरदेवतापि रूढ्यैतद्वीजार्थतया तद्वच्छिन्ना सती तदादीन् सर्वान् भूषयति सफलीकरोनीत्यर्थः ।। ॐ हींकारमयभौवर्णस्तम्भविदुमधुत्रिकायै नमः ।। ह्रींकारवेदोपनिषद् ह्रींकारावरदक्षिणा । ह्रींकारनन्दनारामनवकल्पकवल्लरी ॥ ५८ ॥ होकारवेदोपनिपत । वेदान्ते जायन्ते सर्वे पदार्थी अनेनेति वेदः । जायेकवचनम् । ह्रींकार एव वेदः, ज्ञापकत्वाविशेषात् , तस्य उपनिष- द्वेदान्तभागः लक्ष्यार्थो वा, तत् ब्रह्मोपनिषत्सरमिनि श्रतः। कर्मों- पासनाज्ञानकाण्डभेदेन चत्वारोऽपि वेदाः त्रिप्रकाराः । 'तमेत वेदानु- वचनेन ब्राह्मणा विविदिषन्ति' इति वाक्येन ज्ञानसाधनतया कर्मो- पासनयोः विनियुक्तत्वात् , 'अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ! ततो भूय इव ते तमो य उ विद्यायां रताः ॥' (ईशा) इति श्रुत्या तदुभयोः संसारफलकत्वेन निन्दितत्वाञ्च, 'आत्मानं चेद्विजानीयादयमस्मीति पूरुपः। किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥' (बृ. ४-४) ललितात्रिशतीभाष्यम् । : ब्रह्मण्य- 'आत्मकाम आप्तकामः' (बृ. ४-४) इत्यादिश्रुतिभ्यः अद्वैत- ज्ञानोत्पादकवेदभागस्योपनिपच्छब्दवाच्यस्य मोक्षफलकत्वेन फलपति- पादनात्तदुभयप्रतिपादकवेदभागापेक्षया श्रेष्ठत्वम् , लोके साधनापेक्षया फलस्य श्रेष्ठन्वेनोत्तमत्वप्रसिद्धेः । तथा च पूर्वकाण्डद्वयार्थत्य जन्यतया तत्प्रतिपादकवेदभागस्योपनिषच्छेषत्ववत् ह्रींकारस्यापि परदेवताप्रकाश- कत्वेन तच्छेषत्वात्तस्याः प्राधान्यमुक्तमिति द्रष्टव्यम् । वेदान्तेषूप- निषच्छब्दः तज्जन्यतारूपशक्यसंबन्धेन प्रवर्तते । मुख्यया वृत्त्या तु ब्रह्मविद्यायामेव । तथा हि उपशब्दः समीपदेशार्थकः । ध्यस्तमायासमीपदेशकतत्पदार्थ प्रतिबिम्बितमविद्योपाधिकचैतन्यं जीव- शब्दवाच्यमुपशब्दार्थः लक्षणया प्रतिपाद्यते । निशब्दः षद् इति पदस्य विशेषणम् । सन् इति पदं सदनगत्यवसादनेषु भवति । उपशब्दवाच्यो जीवः अविद्या निहत्य त्यक्त्वा ब्रह्मस्वरूपेण निषीदति वर्तत इति उपनिषदियेकोऽर्थः । जीवः ब्रह्म स्वरूपत्वेन निगच्छति जानातीत्यन्योऽर्थः। जीवः ब्रह्मस्वरूपेण अवसीदति परिसमाप्नोतीति तृतीयोऽर्थः। एवमुपनिपच्छब्दस्य ब्रह्मविद्यावाचकत्वेन प्रसिद्धस्य तद्वाचकवेदभागे लक्षणावत्त्वेऽप्युपनिषच्छब्दवाच्यो भवति । तथा च ह्रींकार एव वेदः तस्य उपनिषत्प्रधानभूता ब्रह्मविद्येत्यर्थः ।। ॐ ह्रींकारवेदोपनिषदे नमः ॥ तथा च , ह्रींकारावरदक्षिणा । ह्रींकार एव अध्वरः यज्ञः तस्य दक्षिणा समाप्तिसाधनं, दक्षिणायां दत्तायां यज्ञसमानिदर्शनात् । ह्रींकारस्यापि जपः यजनात्मकतया अध्वानं राति गच्छतात्यध्वरः मार्गसाधक इत्यर्थः । दक्षिणापदं फलवाचि ऋत्विग्व्यापाराणां दक्षिणाफलत्वदर्शनान् । ह्रींका- राध्वरस्य ह्रींकारजपयज्ञस्य दक्षिणा फलसाधनीभूतपुरुषार्थरूपा। अथवा ह्रींकाराध्वरस्य दक्षिणा पत्नी, 'मखस्य दक्षिणा पत्नी' इति वचनात् । L.13 -

ललितात्रिशतीभाष्यम् ।
.
.
.
'ज्ञानयजेन तेनाहमिष्टः स्यामिति मे मतिः' (गी. १८-७०) इति
भगवद्वचनात् । ह्रीकारलक्ष्यार्थज्ञानमेव ह्रीकारावरः ह्रींकारज्ञानयज्ञः
'प्रधानं दाक्षिणा मखे' इति वचनात् दक्षिणावरफलभूतत्वेन प्रधानभूतेति
वा । देवतोदेशेन द्रव्यत्यागो याग इत्युच्यते । त्यक्तद्रव्यस्य अग्नौ प्रक्षेपो
होमः । ऋत्विगुद्देशेन वेद्यामर्थविभागो दक्षिणा । आर्थिभ्यः वेदिवहि-
देशेऽर्थविभागो दानमिति तेषां भेदः ॥
ॐदींकाराध्वरदक्षिणाय नमः ॥
,
ह्रींकारनन्दनारामनवकल्पकवल्लरी । नन्दयत्यानन्दयतीति नन्दनः
स चासौ आरामश्च तथा, देवेन्द्रोद्यान विचित्रस्वरूपतया विजातीयार्थ-
कत्वात् । होकार एव नन्दनारामः सुखकर्तृविश्रामभूमिः , तस्य नवा
नूतना अतिकोमलेत्यर्थः । कल्पयतीति कल्पका , कल्पका च सा वल्लरी
चेति तथा। देवोद्याने विद्यमानानां वृक्षगुल्मलतातृणादीनाम् पत-
ल्लोकातिशायिपुष्पफलादिमत्त्वेऽपि न सर्वोत्तमताप्रसिद्धिः । कल्पवल्लयास्तु
यथाकर्म यथासेवमुपासकानां सर्वार्थप्रदानशक्तिमत्त्वेन सर्वोत्कृष्टता ।
तथा ब्रह्मविष्णुरुद्राणां तद्वाचकवर्णभेदानां अन्योन्यसंवन्धतया एकत्र
प्रतीयमानत्वेन चिरजीवित्वफलादिप्रदानेन आनन्दकतया संसारतापशाम-
कत्वेन च होकारस्य नन्दनोपमा । तत्र सार्थपदावृत्वेन कामेश्वरा-
लिगिनकोमलतरसुन्दरमूर्त्या विशिष्टपुरुषार्थचतुष्टयकल्पनेन सगुणनिर्गुणो-
पासकानां तदेवतात्मना प्राधान्येन समष्टिरूपतया सादृश्येन नवकल्पक-
वल्लरीत्युच्यत इति भावः ।।
ॐ ह्रींकारनन्दनारामनवकल्पकवल्लय नमः ॥
हीकारहिमवद्गङ्गा हींकारार्णवकौस्तुभा ।
हींकारमन्त्रसर्वम्वा ह्रींकारपरसौख्यदा ॥ ५९॥

ललितात्रिशतीभाष्यम् । ९९ , हीकारहिमवद्गङ्गा । हिमान्यस्मिन् सन्तीति हिमवान् शीतल- पर्वतराजः। हीकारस्य अमृतादिसाधकतया शीतलता बोध्या। तस्मा- द्नेव पावनी सर्वपुरुषार्थनदा मन्त्रदेवतात्मनाऽभिव्यक्तेत्यर्थः ।। ॐ ह्रींकारहिमवद्गङ्गायै नमः ॥ हीकारार्णवकौस्तुभा। कौस्तुभः क्षीराब्धिजन्मसु चतुर्दशरत्नेषु यथा श्रेष्ठः सर्वाधिकप्रकाशादिगुणतया , तथा परदेवतापि अपार- महिमापरिच्छिन्नहीकारमन्त्रवेद्यत्वेन तन्निष्पन्ना सती 'अत्रायं पुरुषः स्वयं ज्योतिः' (बृ. ४-३) इति श्रुतेः स्वयंप्रकाशतथा विद्योतत इत्यर्थः । अत्र कौस्तुभहृदयस्य लक्ष्मीपतित्वसर्वदेवोत्तमत्वनकलमुन्दरतमन्वगुणा इव विष्णोः हीकारार्णवविद्योतमानहाकारदेवतोपासकस्यापि नारायणाभेदेन श्रीकान्तत्वादिधर्माः स्वत एव सिध्यन्तीति कौस्तुभपदेन ध्वनितमिति द्रष्टव्यम् ।। ॐ हींकारार्णवकौस्तुभाथै नमः ॥ हाकारमन्त्रसर्वस्वा। सर्वाणि च तानि स्वानि च धनानि अणिमाद्यष्टैश्वर्य जनकत्वादीनि तानि तथा । हकारघटितो हीकारो वा तेषां सर्वस्वा सकलसपत् सर्वार्थसाधकशक्तिरित्यर्थः ।। ॐकारमन्त्रसर्वस्वायै नमः। होकारपरसौख्यदा । ह्रीकारपराः ह्रीकारमन्त्रजपपराः ह्रींकार- घटितश्रीविद्याजपपरा वा । तेषां सौख्यं चतुर्विधपुरुषार्थप्राप्तिजन्या- नन्दः तद्ददातीति तथा । टीकाराणा व्यष्टिरूपेण वाच्यार्थानां त्रिमूर्तीनां परं सौख्यं सामरस्यसुखं एकीभावानन्दं ददातीति वार्थः। 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। यनान्यत्पश्यत्य- म्यच्छृणोत्यन्यद्विजानाति तदल्पम्' (छा. ७-२४), 'नाल्पे सुखमस्ति'

ललितात्रिशताभाष्यम्
.
(छा. ७-२३) इति, 'आनन्दं ब्रह्मणो बिद्वान् न बिभेति कुतश्चन'
(ते. २-९) इति ‘यदा ह्येवेष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने-
ऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति' (ते. २-७),
'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' (बृ. ३-९) इत्यादि-
बहुश्रुतिभ्यः अखण्डसच्चिदानन्दब्रह्मस्वरूपतया सैव फलं भवति , अन्य-
ज्ञानादन्यफलप्राप्तेरयोगात् । 'ब्रह्म वेद ब्रह्मैव भवति' (मु. ३-२)
'तरति शोकमात्मवित्' (छा. ७-१), 'येन मामुपयान्ति ते'
(गी. ९-२) 'तेपामहं समुद्धर्ता मृत्युसंसारसागरात्' (गी. १२-७)
'ब्रह्मैव सन् ब्रह्माप्येति' इत्यादिश्रुतिस्मृतिशतेभ्यः स्वस्वरूपप्राप्तेरेख
पुरुपार्थस्य प्रदातृत्व सिद्धम् ।।
ॐ हींकारपरसौख्यदायै नमः॥
,
इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिन्यस्य
श्रीमच्छंकरभगवत कृतौ
श्रीललितात्रिशतीभाष्यं संपूर्णम् ॥
इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाझोपनीयं त्वया मुने ॥१॥
शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्त्यक्षराणि नामानि कामेशकथितानि च ॥२॥
उभयाक्षरनामानि [भाभ्यां कथितानि वै ।
तदन्यग्रंथितं स्तोत्रमेतस्य सदृशं किमु ॥३॥
नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं संभवेन्नात्र संशयः॥४॥

ललितात्रिशतीभाष्यम् ।
इति यमुखगीतं स्तोत्रराज निशम्य
प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥५॥
अगस्त्य उवाच
am-
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥६॥
उभयोरपि वर्णानि कानि वा वद देशिक ।
इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्पुनः॥७॥
तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् ।
इदं स्वतिरहस्थ ते वक्ष्यामि शृणु कुम्भज ॥ ८॥
एतद्विज्ञानमात्रेण श्रीविद्या सिद्विदा भवेत् ।
कनय हद्वयं चैव शवो भागः प्रकीर्तितः ॥ ९ ॥
शक्त्यक्षराणि शेपाणि हीकार उभयात्मकः ।
एव विभागमज्ञात्वा ये विद्याजपशालिनः ॥ १० ॥
न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिः शिवचक्रश्च शक्तिचक्रेश्च पञ्चभिः ॥ ११ ॥
नवचक्रेश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥१२॥
चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।
बिन्दुश्चाष्टदलं पद्म पनं षोडशपत्रकम् ॥१३॥

ललितात्रिशतीभाष्यम् ।
चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दव श्लिष्ट अष्टारेऽष्टदलाम्बुजम् ॥१४॥
दशारयोः पोडशारं भूगृहं भुपनाश्रके ।
शेवानामपि शाक्तानां चक्राणां च परस्परम् ॥१५॥
अविनाभावसंवन्धं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणी शक्तिर्षिन्दुरूपपरः शिवः ॥ १६ ॥
अविनाभाव संबन्धं तस्माद्धिन्दुत्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ १७ ॥
न तत्फलमवासोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेऽस्मिन्धीवियाचक्रवेदिनः ॥१८॥
सामान्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ १९ ॥
तस्मै दयं ततो ग्राह्यमशक्तस्तस दापयेत् ।
अन्धं तमः प्रविशन्ति ये विद्यां समुपासते ॥ २० ॥
इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ २१ ॥
अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः।
वयन्ता नापेक्षन्ते इन्द्रमनिं च ये विदुः ॥ २२ ॥
सिकता इव संयन्ति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ २३ ॥

ललितात्रिशतीभाष्यम् ।
यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥ २४ ।।
इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ २५ ॥
न शिल्पादिज्ञानयुक्त विद्वच्छब्दः प्रयुज्यते ।
मोक्षकहेतुविद्या सा श्रीविद्यैव न मंशयः ।। २६ ।।
तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्पते ।
स्वयं विद्याविदे दद्यारव्यापयेत्तद्गुणान्सुधीः ॥ २७ ॥
स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि ।
विद्याविदं नार्चयेच्वेन्को वा तं पूजयेजनः ॥ २८ ॥
प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज ।
यः कीर्तयेत्मकुडत्या दिव्यनामशतत्रयम् ।। २० ।।
तस्य पुण्यमह वक्ष्ये शृणु न्वं कुम्मसंभव ।
रहस्यनाममाहत्रपाठे यन्फलमीरितम् ॥ ३० ॥
तत्फलं कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ३१ ॥
नान्येन तुलयेदेतत्स्तोत्रेणान्यकृतेन च ।
श्रियः परंपरा यस्य भावि वा चोत्तरोत्तरम् ।। ३२ ।।
तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् ।
अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥३३॥

ललिताविशतीभाष्यम् ।
या स्वयं शिवयोर्वत्रिपद्माभ्यां परिनिःसृता ।
नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥ ३४ ॥
अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च्य गन्धपुप्पाधः कामेश्वर्यादिनामभिः ॥ ३५ ॥
सूपापूपैः शकरायः पायसैः फलसंयुतैः ।
विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ ३६॥
एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् ।
त्रिशतीनामभिः पश्चाद्राह्मणान्क्रमशोऽर्चयेत् ॥ ३७॥
तैलाभ्यङ्गादिकं दत्वा विभवे सति भक्तितः ।
शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ३८ ॥
दिवसे दिवसे विप्रा भोज्या विशतिसंख्यया ।
दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः ॥ ३९ ॥
विशषष्टिः शत विप्राः संभोज्यास्त्रिशतं क्रमात् ।
एवं यः कुरुते भक्तया जन्ममध्ये सकृन्नरः॥४०॥
तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा ।
रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥४१॥
आदौ नित्यवलि कुर्यात्पश्चाद्राह्मणभोजनम् ।
रहस्यनामसाहस्रमहिमा यो मयोदितः॥४२॥
स शीकराणुरनैकनाम्नो महिमवारिधेः ।
वाग्देवीरचित नामसाहस्रे यद्यदीरितम् ॥ ४३ ॥

हलितात्रिशतीभाष्यम्। तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् । एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥ तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देवीरचिते स्तोत्र तादृशो महिमा यदि ॥ ४५ ॥ साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिनि । मकृत्संकीर्तनादेव नाम्नामम्मिशतवये ।। ४६ ।। भवेचित्तस्य पर्याप्तिय॒नमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यन्न जप्तव्यं च दुम्भज ॥ यद्यत्साध्यतमं कार्य तत्तदर्थमिदं जपेन् । तत्तत्फलमवाप्नोति पश्चात्कार्य परीक्षयेत् ॥४८॥ ये ये प्रयोगास्तन्त्रपु तैस्तयन्माध्यते फलम् । तत्म सिध्यति क्षिप्रं नामतिशतकीर्तनात् ॥ ४० ॥ आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् । विद्याप्रदं कीर्तिकरं सुकविन्यप्रदायकम् ।। ५० ॥ सर्वसंपत्प्रदं सर्वभोगदं सर्वसौख्यदम् । सर्वाभीष्टप्रदं चैव देव्या नामशतवयम् ।। ५१ ॥ एतजपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसंतुष्टा श्रीदेवी ललिताधिका ।। ५२ ॥ भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् । तस्मात्कुम्भोद्भव मुने कीर्तय त्वमिदं सदा ॥ ५३॥ L.14, ललितात्रिशतीभाष्यम् । नापरं किंचिदपि ते बोद्धव्यमवशिष्यते । इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ ५४॥ नाविद्यावेदिने ब्यान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कहिंचित् ॥ ५५ ॥ यो ब्रूयात्त्रिशती नाम्नां तस्यानर्थो महान्भवेत् । इत्याज्ञा शांकरी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥५६॥ ललिताप्रेरितेनेव मयोक्तं स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५७ ॥ एवमुक्त्वा हयग्रीवः कुम्भनं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् । आनन्दलहरीमनमानसः समवर्तत ॥ ५८॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम् ॥

॥ श्रीः॥ श्रीललितात्रिशती नामानुक्रमणिका ॥ पृष्ठम् पृष्ठम् २३ ईश्वरोत्सङ्गनिलया इपस्मितानना ईहाविरहिता " १६ २७ २२ ईकाररूपा ईक्षणसृष्टाण्डकोटिः इक्षित्री ईडिता ईतिबाधाविनाशिनी ईगित्यविनिर्देश्या ईप्सितार्थप्रदायिनी ईशताण्डवसाक्षिणी ईशशक्तिः ईशाधिदेवता ईशानादिब्रह्ममयी ईशित्री ईशित्वाद्यष्टसिद्धिदा ईश्वरत्वविधायिनी ईश्वरप्रेरणकरी ईश्वरवल्लभा রাধাক্কায় एकप्राभतशालिनी एकभक्तिमदर्चिता एकभोगा एकरसा एकवीरादिससव्या एकाक्षरी एकाग्रचित्तनिर्ध्याता एकातपत्रसाम्राज्यप्रदा एकानन्दचिदाकृतिः एकानेकाक्षराकृतिः एकान्तपूजिता एकाररूपा एकैश्वर्थप्रदायिनी एजदनेकजगदीश्यरी २३ २५ २७ २६ १९ । ३ ललितात्रिशती पृष्ठम् १३ २१ १८ एतत्तदित्यनिर्देश्या एधमानप्रभा एनःकूटविनाशिनी एलामुगन्धिचिकुरा एवमित्यागमाबोध्या एपणारहिताहता ९ १५ ४९ १० कजलोचना कदर्पजनकापाङ्गवीक्षणा कदर्पविद्या ९ ५२ ७ करभोरूः करुणामृतसागरा कपूरवीटीसौरभ्यकल्लोलित- ककुतटा कर्मफलप्रदा कर्मादिसाक्षिणी कलानाथमुखी कलालापा कलावती कलिदोपहरा कल्पवल्लीसमभुजा कल्मषन्नी कल्या कल्याणगुणशालिनी कल्याणशैलनिलया कल्याणी कस्तूरीतिलकाञ्चिता कातितार्थदा कान्ता कान्तिधूतजपावलिः कामकोटिनिलया कामसंजीवनी कामितार्थदा कामेशी ८१ ४९ ककाररूपा ककारार्थी ककारिणी कचजिताम्बुदा कटाक्षस्यान्दिकरुणा कठिनस्तनमण्डला कदम्बकाननावासा कदम्बकुसुमप्रिया कपालिप्राणनायिका कमनीया कमलाक्षी कम्बुकण्ठी স্বসি। करनिर्जितपल्लवा ६ ६ नामानुक्रमणिका। पृष्ठम् पृष्टम् ८३ ३१ " ८१ " २९ ८१ ३१ कामेशोत्सङ्गवासिनी कामेश्वरगृहेश्वरी कामेश्वरतपःसिद्धिः कामेश्वरप्रणयिनी कामेश्वरप्राणनाडी कामेश्वरप्राणनाथा कामेश्वरब्रह्मविद्या कामेश्वरमनोहरा कामेश्वरमनःप्रिया कामेश्वरमहेश्वरी कामेश्वरविमोहिनी कामेश्वरविलासिनी कामेश्वरसुखप्रदा कामेश्वरालिङ्गिताङ्गी कामेश्वरालादकरी कामेश्वरी कारयित्री कारुण्यविग्रहा कालहन्त्री काव्यलोला लकारिणी लकुलेश्वरी लक्षकोट्यण्डनायिका लक्षणागम्या लक्षणोज्ज्वलदिव्याङ्गी लक्ष्मणाग्रजपूजिता लक्ष्मीवाणीनिषेविता लक्ष्यार्थी लग्नचामरहस्तश्रीशारदापरि- वीजिता लघुसिद्धिदा लड्ध्येतराज्ञा लज्जाव्या लज्जापदसमाराध्या लतातनुः लतापूज्या लब्धकामा लब्धदेहा लब्धधीः लब्धनानागमस्थितिः लब्धपतिः लब्धपापमनोरा लब्धभक्तिसुलभा लब्धभोगा ३३ " ६३ ४७ १ ल लंपटा लकाररूपा लकारख्या ललिताविशती पृष्ठम् पृष्ठम् ६५ लब्धमाना लब्धयौवनशालिनी ८९ लब्धरसा २९ लब्धरागा २९ ललाटनयनार्चिता ललामराजदलिका ललिता लसद्दाडिमपाटला लाकिनी लाक्षारससवर्णाभा लागलायुधा लाभालाभविवर्जिता लावण्यशालिनी लास्यदर्शनसंतुष्टा ६ w ० ६१ ० लब्धरूपा लब्धलीला लब्धवाञ्छिता लब्धविभ्रमा ८९ लब्धवृद्धिः लब्धशक्तिः लब्धसंपत्समुन्नतिः लव्धसुखा ९१ लब्धहर्षाभिपूरिता लव्धातिशयसर्वाङ्गसौन्दर्या ८९ लब्धाहकारदुर्गमा लब्धैश्वर्यसमुन्नतिः लभ्या लभ्येतरा लम्बिमुक्तालताश्चिता ७४ सकला सकलागमसंस्तुता सकलाधिष्ठानरूपा सकलेष्टदा : सकाररूपा ४२ सकाराख्या ८ ७९ लम्बोदरप्रसूः " सगुणा सङ्गहीना सच्चिदानन्दा सत्यरूपा सदसदाश्रया सदाशिवकुटुम्बिनी सद्गतिदायिनी लयवर्जिता लयस्थित्युद्भवेश्वरी ललनारूपा ललन्तिकालसत्फाला है नामानुक्रमणिका। पृष्टम् सर्वेशी सर्वोत्तुङ्गा साध्या ४० ७९ ४२ सनकादिमुनिध्येया सनातना समरसा समाकृतिः समानाधिकार्जिता सर्वकी सर्वगता सर्वज्ञा सर्वप्रपञ्चनिर्मात्री सर्वभी सर्वभूषणभूषिता सर्वमगला सर्वमाता सर्वविमोहिनी सर्ववेदान्ततात्पर्यभूमिः सर्वसाक्षिणी सर्वसौख्यदात्री सर्वहन्त्री सर्वाङ्गसुन्दरी सर्वात्मिका सर्वाधारा सर्वानवद्या सर्वारुणा सर्वावगुणवर्जिता ४६ " इंसगतिः हंसमन्त्राथापिणी हंसवाहना हकाररूपा हकाराथी हठात्कारहतासुरा हतदानवा हत्यादिपापशमनी हयमेधसमर्चिता हयारूढासेविताद्भिः हय्यङ्गवीनहृदया हरप्रिया हराराध्या हरिकेशसखी हरिगोपारुणांशुका हरिणक्षणा हरित्पतिसमाराध्या हरिदश्वादिसेविता हरिद्राकुमादिग्धा हरिब्रह्मेन्द्रवन्दिता ४४ ३९ ४४ " ललितात्रिशती पृष्टम् पृष्टम् ५६ ९८ हरिसोदरी हर्यक्षवाहना हर्यश्वाद्यमरार्चिता हर्षप्रदा हर्षिणी हलधृक्पूजिता हल्यवर्जिता हल्लीसलास्यसंतुष्टा हविर्भोक्ती हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना हाकिनी हाटकाभरणोज्ज्वला हादिविद्या हानिवृद्धिविवर्जिता हानोपादाननिर्मुक्ता हारहारिकुचाभोगा हार्दतमसापहा हालामदालसा हाह खस्तुत्य ह्रीं ह्रींकारकन्दरासिही हीकारकन्दाकुरिका ह्रींकारकमलेन्दिरा ह्रींकारकुण्डाग्निशिखा ह्रींकारकोशासिलता ह्रींकारचिन्त्या हीकारजपसुप्रीता हीकारतरुमञ्जरी हकारतरुशारिका ह्रींकारदीर्घिकाहंसी ह्रींकारदुग्धाब्धिसुधा हीकारनन्दनारामनव- कल्पकवल्लरी हीकारनिलया हीकारपञ्जरशुकी ह्रींकारपरसौख्यदा हीकारपीठिका हूं कारपूज्या हीकारपेटकमणिः हीकारबीजा हीकारबोधिता ह्रींकारभास्कररुचिः हीकारमणिदीपार्चिः हीकारमन्वसर्वस्वा ह्रींकारमन्त्रा हीकारमयसौवर्णस्तम्भ- विद्रुमपुत्रिका ९९ ४२ ३४ ४२ ३८ ९९ ६९ ९२ १५ नामानुक्रमणिका । ११३ पृष्ठम् पृष्ठम् : ९९ ९४ ६९ ७० ९४ हीकारमूर्तिः हूकाररूपा होकारलक्षणा हीकारवाच्या होकारवेदोपनिपत् ह्रींकारवेद्या हीकारशशिचन्द्रिका हीकारशुक्तिकामुक्तामणिः होकारसुमनोमाध्वी हूकारसौधशृङ्गकपोतिका होकारहिमवद्गगा हूकाराङ्गणदीपिका होकारादर्शविम्बिता ह्रींकाराद्या ह्रींकारावरदक्षिणा हीकाराम्भोजभृङ्गिका हीकाराम्भोदचञ्चला हीकारारण्यहरिणी हीकाराणवकौस्तुभा हीकारावालवल्लरी ह्रीकारास्थाननर्तकी हीकारिणी हीकारकपरायणा हीकारोद्यानककिनी होगी ह्रींपदनिया हीपदाभिधा होपदाराध्या होमती हूंमध्या हीविभूषणा ह्रीशरीरिणी हीशिखामणिः होशीला ३४ ९१ ९९ ३ ६ ३५ ९३ . ७२ ३

No text on this page.

No text on this page.

Lalitha Trishathi Bhashya

Author
Shan'karachaar^ya
Title
Lalita Trishati Bhaashhya
File name
Lalitha Trishathi Bhashya
Text
OCR done
Published
2006/02/26
Publisher
Vani Vilasa Press,srirangam
Language
Sanskrit
Pages
121
Library
Canegie Mellon Univeristy
Classification
Poetry. Poems. Verse
Keywords
Commentray on Lalita sahasranama on 1000 holy names dedicated to devi lailtha, It is the 36th chapeter of Laithapokhyana in brahmanada purana ,It is presented in form of innstruction to sage Agastya
DLI number
495335
Barcode
1990020084681.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
SvWZVhXrY20
Download PDF

Lalitha Trishathi Bhashya