Bharti Bhawan Library Allahabad
Tatwaprakashika
Front matter
AURIERE ॥ तत्वप्रकाशिकाप्रथमाध्यायप्रारंभः॥
的。 ति॥अननिरुपपदसूत्रशब्देनब्रहासूत्रमुच्यते । तस्यमुख्यार्थाभिधायकत्वात् । तेषांचतादृशत्वात् । वक्ष्यमाणमेवस्त्रार्थश्रोतृशे श्रीमद्धनुमदीममध्यांतर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवायनमः ॥ हरिः ॐ ॥ शुद्धानंदोरुसंविदयुतिबलबहुलौदा प्रकाशि र्यवीर्यादिदेहचिंतासंतापलेपोद्भवमृतिमुखराशेषदोषातिदूरं । सद्भिर्वैराग्यभक्तिभुतिमतिनियतध्यानजज्ञानयोगानन्यवंदे मुकुंदाभिधममलमलंब्रह्मवेदांतवेद्य ॥१॥याआमंदरलोलिताधतउदैद्विवेदिरानिर्जरैर्जातोभारतपारिजातसुतरासद्ह्मसू त्रामृतं । आसीत्तंत्रपुराणसन्मणिगणोजातःशुकेंदुःसदासोऽयंव्याससुधानिधिर्भवतुमेभूत्यैसतांभूतिदः ॥२॥ स्वांतध्वांत निकृतनेजितमहावैकर्तनांशुनजंनिर्दोष जितचंद्रचंद्रिकमलंतापत्रयोन्मूलने । गांभीर्येजितसिंधुराजममितभाष्यंयदास्यांबुजा दाविर्भूतममंदबोधभगवत्पादान्प्रपद्येऽथतान् ॥३॥ श्रीमध्वसंसेवनलब्धशुद्धविद्यासुधांभोनिधयोऽमलाये। कृपालवःपंक जनाभतीर्थाःकृपालवःस्यान्मयिनित्यमेषां ॥४॥श्रीमद्रमारमणसद्भिरिपादसंगिव्याख्यानिनाददलिताखिलदुष्टदएँ । दुवा दिवारणविदारणदक्षदीक्षमक्षोभ्यतीर्थमृगराजमहंनमामि ॥ ५॥ अथतत्कृपयाब्रह्मसूत्रभाष्यंयथामति । व्याकुर्वेश्रीमदानं दतीर्थार्यमुखनिःसृतं ॥६॥ गंगासंगेननैर्मल्यरथ्यानिलभ्यतेयथा। वाचोविशुद्धिसिद्ध्यर्थसंगम्यतेगुरोर्गिरः ॥७॥ अथावि द्यापटलपिहितनयनैरन्यैरन्यथाव्याख्यातानिब्रह्मसूत्राणियथावयाचिख्यासुभगवानाचार्यवर्यःप्रारिप्सितभाष्यस्यकैवल्या धखिलफलसाधनतासिद्ध्यर्थनिरंतरायपरिसमात्याद्यर्थचनारायणनमस्कारंग्रथयतिग्रंथारंभचप्रतिजानीते ॥ नारायणमि मुषीमनुकूलयिष्यन्नादौनस्तावयितुं विशेषणचतुष्टयेनेष्टदेवतांविशिनष्टि । तथाहि । आदिसूत्रेभगवतःप्रसस्थापुरुषार्थो भवती । तिसूचितेऽधिकारिणःशंकोन्मिपति । पुरुषांतरेऽनुपलभ्यमानंपुरुषार्थप्रदत्वंतस्यचेत्कीदृशोसाविति । तानिवारयदाद्याध्याय स्यार्थोगुणैःसर्वैरुदीर्णमिति । तत्रह्यपर्यायानंतशब्दानांमहायोगवृत्त्याहरौसमन्वयसमर्थनद्वारासर्वगुणोदीर्णतैववर्ण्यते । सच युक्त्यादिभिरुक्तसमन्वये निरोधितेदोषवानपिस्यादित्याशंकांपरिहरतोद्वितीयाऽध्यायस्यार्थोदोषवर्जितमिति । तत्रयुत्त्या दीनामाभासत्ववर्णनेननिर्दोषत्वस्यैवभाषितत्वात् । एवंविधस्यचप्रसादःकयाविधयाभविष्यतीत्या (कांक्षां) शंकांपूरय तस्तृतीयस्यार्थोज्ञेयमिति । तत्रविरस्यादिभिस्तत्प्रसत्त्यर्थतस्यज्ञेयतायाःकथितत्वात् । प्रसन्नश्चकीदृशंपुमर्थप्रयच्छतीत्या (कांक्षां)शंकां पूरयतस्तुरीयस्यार्थोगम्यमिति। तत्रज्ञानिनोभगवत्प्राप्तिलक्षणमोक्षस्योदितत्वात्। अथवानैतन्नारायणपदं (देव दत्तादिपद )डित्थादिशब्दवत्सांकेतिकंभवतिकिंतुविशिष्टगुणानप्याचष्टइत्याशयवान्पदचतुष्टयेनतन्निर्वक्ति । तथाहि । दो पारशब्दयोरभिन्नार्थत्वान्नञश्चविरुद्धार्थवाचित्वाद्दोषविरुद्धागुणानारास्तदाश्रयोनारायणः । नमोऽभावार्थत्वादराश्रयोनभ वतीतिवानारायणः । नरसंबंधित्वानरीयतेनेनेतिवा नारमणयेनेतिवा निर्दोषवेदोत्पन्नत्वाद्वा नारंज्ञानं विषयतयातदाश्रय वाचनारायणः । अरविधुरत्वादरतिरहितत्वात्क्षयरहितत्वाद्वानारामुक्तास्तदाश्रयोनारायणः । नगनाकादिशब्दवदयंशब्दो ज्ञातव्यः। अथवानारायणस्यैवनम्यत्वोपपादकमेतत् । योहिबहुगुणोविदोषःशास्त्रज्ञेयोऽधीतशास्त्रगम्यःस(हि)वंद्योभवति । देवतानतिसमनंतरंगुरूनपिनमति ॥ गुरुश्चेति ॥ गुरोर्नामनगृह्णीयाच्छिष्योभार्यापतेरपीत्यतोनतन्नामजग्राह । स्वस्यगु रुदेवताभेदेऽरुर्चिसूचयत्यपिपदेन । यद्यपिगुरुर्नदेवताभिन्नस्तथापिविशेषानुग्रहार्थपृथड्नतिरिति । अनेनैवशास्त्रस्याधिका तत्व रिविषयप्रयोजनसंबंधाश्चश्रोतृप्रवृत्त्यंगभूताःसूचिताज्ञातव्याः। तत्स्मरणस्यमहाफलहेतुत्वाच्च । तदुकं । अधिकारंफलंचैव प्रकाशि० प्रतिपाद्यंचवस्तुयत् । स्मृत्वाप्रारभतोग्रंथंकरोतीशोमहत्फलमिति । नमस्काराधिकार्यादिप्रथनसूचनेशिष्यशिक्षार्थ । त थाहि । ज्ञेयत्वगम्यत्वयोर्ज्ञातृगतृसापेक्षत्वात्तद्योग्यस्तदिच्छुरेवाधिकारीसूचितः । नारायणएवविषयः। तज्ज्ञानगमनेप्रयो ज(ने)नं। यथायोग्यसंबंधइति। ननुयदुपादेयंतदेवानन्यार्थतयाव्याख्येयं । यच्चप्रमाणत्वेसतीष्टसाधनताऽवबोधकंप्रायस्तदे वोपादेयमतःकथंब्रह्मसूत्राणांव्याख्येयत्वोपयोग्युपादेयतायैप्रामाण्यादीत्याशंकांपरिहर्तुसूत्रागतिक्रममाह ॥ द्वापरइति ॥ सर्वत्रेतिसार्वत्रिकपुरुषोक्तिः। ज्ञाने सम्यग्ज्ञाने । आकुलीभूते किमिदमदोवेतिसंदिग्धेअन्यदेवेतिमिथ्यादृष्टिदुष्टेच । आकुलीभावसमर्थनायद्वापरग्रहणं । तद्योगमिष्टप्रात्यनिष्टपरिहारोपायं । वेदमुत्सन्नमित्यादेरपपाठादिनातिरोहितं । प्रागेव चतुर्धाविभक्तंवेदऋङ्गिगदादिरूपंव्यक्तीकृत्यैकैकस्मादेकैकोभागइतिचतुर्धाव्यभजदेकैकंचावांतरमृगादिवेदंचतुर्विंशत्यादिशा खाभेदेनव्यभजदित्यर्थः । तदुक्तं । ऋचःसऋचउद्धृत्यऋग्वेदंकृतवान्प्रभुः । यजूंषिनिगदाच्चैवतथासामानिसामतइति। अवां तरवेदादिविभागकथनंचज्ञानाकुलीभावसमर्थनार्थ । चक्रेवेदतरो शाखादृष्ट्वापुंसोऽल्पमेधसइत्यादेः। अयंभावः । वाक्यणाम भयंतावन्निर्दोषतयासंभवति। निर्दोषताचापौरुषेयतयाआतिमूलतयाच। आतिश्चवकृनिर्दोषतैव । आप्तिमूलत्वाइ प्रामाण्यसिद्धिः। प्रमादाज्ञानसंशयविपर्ययाणां नारायणावतारेव्यासेऽसंभवात् भगवत्त्वादेवा विप्रलंभकार निबंधनस्यतदभावेनाभावनिर्णयात् ज्ञानायोग्यतायाब्रह्मादिश्रोतृष्वभावात् । अपहटापप्रसंगदोर तदभावे नाभावनिर्णयात् । अज्ञाननिर्हरणस्यचप्रसक्तत्वेन प्रसंगदोषाभावात् । आप्तिमूलत्वेनैवप्रामाण्यसिद्धौ सुतरांश्रुतिनिर्णायक त्वेनश्श्रुतियुक्तिमूलत्वात् । इष्टानिष्टप्राप्तिपरिहारसाधनवेदनहेतुवेदनिर्णायकत्वेनेष्टसाधनावबोधकत्वंचसिद्ध्यति । अतोब ह्मसूत्राणामत्युपादेयत्वाम्याख्येयतेति । उक्तमेवार्थप्रमाणेनस्थापयति ॥ "तेचेति ॥ स्थितं यथोत्पन्नंतथैव । अन्यथाजात मिदमदोवेतिसंदिग्धमन्यदेवेतिमिथ्यादृष्टिदु(ह)ष्टच । अखिलमन्यथाजातम् । कालतोभागद्वयस्यान्यथात्वंयुक्तंनसर्वस्ये त्यतोविशेषकारणंचाह ॥ गौतमस्येति ॥ अज्ञानता मज्ञानमितिप्रतीतिविषयतांसंदेहगोचरतांच । ब्रह्मादिबुद्धिसंकीर्ण तानाम सज्जनानुक्रोशयुक्ततैव नाज्ञानादिमिश्रत्वं । गौतमशापस्यस्वहतगोनिर्मातृमानविषयत्वात् । कालाभिभवशून्य त्वाचतेषां । लोकस्यचसंप्रदायप्रवर्तकाभावेन कालतश्चाज्ञानप्राप्तिः । तदुक्तमन्यत्र । नष्टधर्मज्ञानलोककृपालुभिब्रह्मरुद्रे द्रादिभिरित्यादि । तस्य वेदस्य । बहुवचनप्रयोगेपिनार्थभेदःशंकनीयइतिभावेनैकवचनं । वेदनिर्णयायसूत्रांतरैरलंकिमे भिरित्यतआह ॥ "येषामिति ॥ किंतत्सूत्रत्वंयदांजस्यंब्रह्मसूत्राणामित्यतआह ॥ अल्पेति ॥ यावदक्षरतांविनाविवक्षि तार्थीसिद्धिस्तदल्पाक्षरत्वं । एवंचभवितुमर्हतीत्यवचनमसंदिग्धत्वं । विशिष्टार्थतासारवत्त्वं । बहुशाखानिणायकत्वविश्वतो मुखत्वं । व्याक्षरादिराहित्यमस्तोभत्वं । अपशब्दादिवैधुर्यमनवद्यत्वं । एतच्चसूत्रत्वंकुतोब्रह्मसूत्राणामांजस्येनेत्यतआह॥ निर्विशेषितेति ॥ यतोब्रह्मसूत्राणांमुख्यसूत्रत्वमतएवनिर्विशेषितसूत्रत्वमप्यस्तिपुराणादावन्यथातन्नस्यादित्यर्थः । यद्यत्र निर्विशेषितंतत्तनमुख्यंयदमुख्यंतद्विशेषितमित्येतत्कुत्रदृष्टमित्यतआह ॥ यथेति ॥ यथाकृष्णस्यनिर्विशेषितव्यासत्वमतएव ।
Heg . प्र.प्र. तन्मुख्यमन्येद्रौण्यादयोऽमुख्यास्ततश्चविशेषणाव्यासास्तथानिर्विशेषितत्वान्मुख्यसूत्रत्वंब्रह्मसूत्राणामित्यर्थः । अन्यसूत्राणा সন্ধাদি मपिमुख्यसूत्रत्वात्किविशिष्याभिधीयतेब्रह्मसूत्राणामेवेत्यतआह ॥ "संविशेषणेति ॥ अन्यसूत्राणांसविशेषणत्वान्नमु ख्यत्वमितिभावः । एतदुपपादनायैवान्ये विशेषणादितिमागेवदृष्टांतउक्तः । निर्विशेषणसविशेषणत्वाभ्यांकुतोमुख्यामु ख्यत्वे दृष्टांतेकारणांतरसंभवादित्यतआह ॥ मुख्यस्येति ॥ मुख्यस्य मुख्यस्यैव । अस्त्वेतत्सूत्रत्वमंजसाब्रह्मसूत्राणांतथा पिवेदार्थनिर्णयायसूत्रांतरैरलंकिमेभिरित्यस्यकथमनेनपरिहारइत्यतआह ॥ सूत्रेष्विति ॥ यत्सूत्रधर्मतयोक्तविश्वतोमुख त्वंतधदाब्रह्मसूत्राणामेवांजसाभवतितदातेषामेवसर्वशाखानिर्णायकत्वंभवेदतोऽन्यसूत्रेभ्योऽतिशयेननिर्णायकत्वात्तद्वचनं युक्तमितिभावः । अन्येषामपिद्वित्रशाखानिर्णायकत्वात्कथमेषांसर्वनिर्णायकत्वमन्यथातद्वैयर्थ्यमित्यतआह ॥ शब्दति ॥ सर्वस्यशब्दजातस्यनिर्णयइति सर्वैःशब्दसमूहै क्रियमाणोनिर्णयोयत्प्रमाणोयन्मूलकः । अन्येषांनिर्णायकत्वेपिब्रह्मसूत्राणा मस्त्येवसर्वशाखानिर्णायकत्वं । तन्निर्णयस्यब्रह्मसूत्रमूलत्वेनव्याख्यानरूपत्वात् । श्रुतिमूलकस्मृतिवदवैयोपपत्तेरिति भावः । एवंविधानीत्युपसंहारः । सूत्रेष्वित्यादेरेवंविधानीत्यनेनान्वयः । ब्रह्मरुद्रादिदेवेषुज्ञानंसंस्थाप्येत्यनेनपूर्वस्थितस्यै वविशेषयुक्त्यादिभिदृढीकरणंकिंचिदप्राप्तलाभश्चोच्यते ॥ जानंतोपिविशेषार्थज्ञानायस्थापनायवापृच्छंतिसाधवइत्यादेः। एवंज्ञानंपुनःप्रापुरित्यादेश्चायमेवार्थः । विरिंचेतरेषांतिरोहितलाभोवा । यतआहुः ब्रह्मणस्तुप्रायोनाप्रतिभासितमित्यादि।॥ ३ ॥ तदेवमत्युपादेयत्वायाख्येयानिब्रह्मसूत्राणीतिस्थितं ॥ ७ ॥ तत्रादिसूत्रस्येदंसंगत्यादि । अत्रब्रह्मजिज्ञासायाःकर्तव्यत्वस - मर्थनादस्तिशास्त्रसंगतिः । अन्यथाशास्त्रस्यानारंभणीयत्वप्रसंगादेतत्समर्थनीयं । अध्यायपादसंगतिस्त्वानंदमयाधिकर णमारभ्यैवगवेषणीया। ततोऽक्तिनानामधिकरणानामध्यायपादपीठत्वात् । प्रथमाधिकरणत्वाच्छ्रतिविचारस्याद्याप्यना रब्धत्वान्नाधिकरणश्रुतिसंगतीच ॥ ७॥ प्रारिप्सिततयाचित्तसंगतशास्त्रप्रवर्तनीयाब्रह्मजिज्ञासाविषयः । कर्तव्यानवेति संदेहः । उभयविधव्यापारदर्शनंसंदेहबीजं । नकर्तव्येतिपूर्वपक्षः । अधिकारिविषयप्रयोजनसंबंधशून्यत्वात् । नतावर ह्यविषयः । असंदिग्धत्वात् प्रमाणाभावेनजीवव्यतिरिक्तस्यब्रह्मणोऽभावात् । जीवस्यचस्वप्रकाशत्वात् । नहिकश्चित्त काशमानेऽर्थेसंदिग्धे । नचात्मनःस्वप्रकाशत्वेविवदितव्यं । अहमित्यनुभवात् । नचाय॑मानसोऽनुभवः । तस्यापिज्ञाय मानत्वेनानुभवांतरान्वेषणेऽनवस्थानात् । कस्यचिदनुभवस्यस्वप्रकाशत्वेस्वात्मनएवतत् । जिज्ञासायामेवानुभवोनुभूयत इतिनवाच्यम् । अनुभवविरोधात् । नह्यज्ञायमानज्ञानसद्भावेकिंचिन्मानं । नचस्वप्रकाशसंविदाशयतयाऽऽत्मावभास तइतियुक्तं । औतरिकानुस्मृतिसिद्धसौषुप्तिकानुभवाभावप्रसंगात् । नहिसुषुप्तावात्मातिरिक्तासंविदस्तीतिसंभवति । सं विदात्मकत्वाचात्मनोन (संविदइव) संविदाश्रयतयाप्रतीतिः । अतःस्वप्रकाशात्मानतिरिक्तस्यब्रह्मणोऽसंदिग्धत्वान्नवि षयत्वंसंभवति । नचजिज्ञासायाःप्रयोजनमस्ति । ज्ञायमानेपिब्रह्मणितदनुपलभात् । विषयप्रयोजनाभावान्नब्रह्मजिज्ञा सायामधिकारीविद्यते । अतएवनसंबंधः । अतोनब्रह्मजिज्ञासाकर्तव्येति नैतच्छास्त्रमारंभणीयमिति । एवंप्राप्तेसिद्धांत यत्सूत्रमुपन्यस्यति । अथेति ॥ ॥ ग्रंथादौमंगलाचरणस्यावश्यकर्तव्यत्वा(त्तत्फल)त्तत्परतयाऽथशब्दव्याचष्टे ॥ अथे तत्व সাহা ति ॥ मुक्त्यर्थिमात्रस्यब्रह्मजिज्ञासायांप्रवृत्तिनिरसनपरतयापितंव्याचक्षाणस्तस्याभिधेयमर्थमाह ॥ अधिकारेति ॥ अथ शब्दस्यानंतर्यमानार्थत्वेप्यधिकारस्ययोग्यतयासंबंधः । ब्रह्मजिज्ञासाया प्रयोजनशून्यताशंकानिवर्तकतयाऽतःशब्दव्या चष्टे ॥ अंतइति ॥ नन्वथातःशब्दपूर्वकत्वंसूत्राणांकिंनिमित्तमंगलाचरणादेः)लोत्तयादेःशब्दांतरेणापिसंभवादित्याशं कापुराणवचनेनैवपरिहरति ॥ उक्तंचेति ॥ अन्न प्रथमप्रयोज्यत्वेनियामकेनभाव्यतत्किंनियामकीन चैतत्प्राथम्यंयादृच्छिक। यतोनिखिलान्यपिनियत्यैवतत्पूर्वकाणीत्यर्थः । नियामकंचभवद्विविधंभवेत् । अवश्यवक्तव्यार्थत्वमाधिक्यंचेति । आ धिक्यं चस्वरूपतोऽर्थतश्चेतिद्वेधाभवति । तत्रादिपक्षेपृच्छति ॥ श्चेति ॥ कोसाववश्यवक्तव्योऽर्थोयेनप्राथम्यमित्यर्थः । द्वितीयमाक्षिपति ॥ कैथमिति ॥ शब्दांतरस्यस्वरूपोत्तमत्वादर्शनात्कथमनयोस्तदितिभावः । तृतीयेपिपृच्छति ॥ कथ मिति ॥ अवश्यवक्तव्यार्थत्वात्प्रथमप्रयोगइतिपरिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वंतयोर्दर्शयति ॥ ऑनंतयइति ॥ अ त्रातःशब्दस्याऽवश्यवक्तव्यमांतरंचाह ॥ परस्येति ॥ अकारवाच्याद्विष्णोस्तत्मसादात्तजिज्ञासादिकार्थमितिवातःश ब्दार्थोभवेदित्यर्थः । इतिब्रह्मेत्यादिश्रुतिसूचयतिपरब्रह्मग्रहणेन । किंजिज्ञासाद्यर्थभगवत्प्रसादेनेत्यतआह ॥ सही ति ॥ ननुमंगलोज्यादे शब्दांतरेणापिसंभवारिकमेतत्प्रयोगनियत्येत्यतःस्वरूपाधिक्यंचास्तीत्याह ॥ सिरक्षोरिति ॥ प्रथमविनिःसृतावतःखरूपोत्तमौतस्मात्प्राथमिकावित्यर्थः । यत्स्वजातीप्रथमहरेनिस्सरतितत्तत्रोत्तममितिन्यायोऽनुसंधेयः। अतश्चतृतीयतयाप्राथमिकउदाहृतः। यतस्तृतीयतयोदाहृतोविष्णुनेत्यतउत्तमइत्यर्थः । तद्धेतुत्वं तस्यविष्णोजिज्ञासादौहेतुत्वं । SHROOPRARTPHONESIANE तस्यजिज्ञासादेर्मोक्षहेतुत्वंवा वदन्नित्यनुवादः। नकेवलमाधिक्यस्वरूपतएवकिंत्वर्थतश्चेत्यतोपिप्रथमप्रयोगइत्याह॥अकार इति ॥ सर्ववागर्थपूर्णताऽभिधायकतयापरब्रह्माभिधायकइत्यर्थः ॥ प्राणात्मकाविति ॥ प्राणदैवत्यौभगवद्वाचकौ । अभिमान्यभिमन्यमानयोरैक्यव्यपदेशोमहतश्चतुर्मुखादित्यादौप्रसिद्धः। वाच्यवाचकयोरैक्यव्यपदेशोयंवैलोकःप्रथमामहा नान्नीत्यादोदृष्टः । अतइत्युपसंहारः । वीर्यस्वरूपाधिक्यादिमाहात्म्यं । ननुकोसावधिकार कतिविधश्चब्रह्मजिज्ञासायांय दानंतर्यमथशब्दोवक्तीत्यतआह ॥ अधिकारश्चेति । अत्राधिकारिकथनेपितद्विशेषणतयाऽधिकारोप्युक्तोभवति । अने नमोक्षयोग्यत्वंसामान्यलक्षणमभिप्रेतं । अस्यचसच्छूद्रादीव्याते प्रायिकत्वादरुच्याप्रकारांतरेणाधिकारिस्वरूपमाह । ॥"तथेति ॥ अनाध्ययनलब्धापिविष्णुभक्तिरन्याया(य्या)ऽध्ययननिवृत्त्यर्थपृथगुक्ता । तथाचहरिभक्तिपूर्वकाध्ययनव त्वंसामान्यतोब्रह्मविद्याऽधिकारइत्युक्तंभवति । शमादिसंयुक्तइत्यादौपूर्वसंग्रहः । पूर्वत्रचोत्तरोक्तानुकर्षश्चकर्तव्यः । नचै वसांकर्य । उत्तरोत्ताप्राचुर्येणासांकर्यात् । ब्रह्माद्यसारतानाम तेषामसर्वोत्तमत्त्वं तत्पदादीनांमोक्षावरत्वंचज्ञेयं नन्वत्रब्रह्म विद्यायामित्यनुक्ते कुतोयमधिकारस्तवैविध्याचब्रह्मविद्यायामित्यतआह ।। अध्ययनेति ॥ उपरितृतीयेवक्ष्यते । शमादिसं युक्तताचब्रह्मविद्यायामेवाधिकारइतिश्रुत्याऽऽह ॥ शांतइति ॥ शांतोभगवन्निष्ठबुद्धिः। दांतोनिगृहीतेंद्रियः। उपरतो विषयालंबुद्धिमान् । तितिक्षुद्वसहिष्णुः । समाहितोयथावस्तुज्ञानादिमान् । शांतादिर्भूत्वापरमात्मानंस्वस्थितंविद्यादि तितेषांतादर्यमुक्तंभवति । उपनीतोऽधीयीतेत्यादिवत् । अत्राऽऽत्मनीत्युक्त्यामध्यमाधिकारित्वंसूचितं । ऋषयोऽत प्रका 21१५ ।
तत्व शाइतिश्रुतेः । सारासार विवेकाद्यपिब्रह्मविद्यायामेवाधिकारइतिश्रुत्यादर्शयति ॥ परीक्ष्येति ॥ लोकान्विष्णुलोकेतरा प्रकाशिक नकर्मापादितान् । असारानित्यतयापरीक्ष्यवैराग्यंप्रामुयात् । सचमोक्षादितरत्रनिर्विष्णोविज्ञानार्थगुरुमेवाभिगच्छेत् । यस्मा नित्यपुमर्थोमोक्षःकर्मादिनानसिध्यतितस्मादित्यर्थः । अनापिविज्ञानपदेनोत्तमाधिकारित्वंसूचितं । देवादीनांतुयज्ज्ञानंबि ज्ञानमितिकीर्तितमित्युक्तेः । विष्णुभक्तिरपिब्रह्मविद्यायामधिकारइतिश्रुत्याऽऽह ॥ "यमिति ॥ एषविष्णुर्यवृणुतेतेनल भ्यस्तस्यप्रसन्नोभवति । ततश्चतस्याधिकारिणःस्वस्वरूपंप्रकाशयतीत्यर्थः । अत्रवृणुतइत्यनेनभक्तत्वंसूचितं । साचभक्तिर्वि प्णौसर्वाधिकाऽन्येष्वपियथायोग्याब्रह्मविद्योपयोगिनीत्येतच्छ्रत्याऽऽह ॥ यस्येति ॥ नन्वध्ययनवतामेवब्रह्मविद्याधिका रित्वेत्रिवर्णेतरेषामध्ययनविधुराणांज्ञानाभावेनमोक्षाभावास्यादित्याशंकांप्रमाणेनपरिहरति ॥"व्योमसंहितायांचेति॥ अंत्यजावर्णबाह्याः । भक्ताइत्यधिकारकथनं । तंत्रपंचरात्रादि । अध्ययनाभावेनवैदिकज्ञानानधिकारित्वेपित्रिवर्णेतरेषांना मादिज्ञानाधिकारित्वान्मोक्षोपपत्तिरितिभावः । सपत्लीमेपराधमेत्यादौस्त्रीणामपिवेदाधिकारदर्शनात्कथंतासामनधिकारइ त्यतउत्तस्यापवादमाह ॥ आहुरिति । तथापरामुनिस्त्रियोनरादिकुलजाश्च । एवमथशब्दंसंक्षेपविस्तराभ्यांव्याख्याया तःशब्दोहेत्वर्थइत्युक्तंव्यनक्ति ॥ येतइति ॥ सुखमेवमेस्याहुःखमनागपिमाभूदितिसर्वाभिमतमोक्षस्यनारायणात्यर्थप्रसाद मंतरेणासंभवादत्यर्थप्रसादस्यचतदपरोक्षज्ञानमंतरेणालाभादपरोक्षज्ञानस्यचब्रह्मजिज्ञासांविनाऽनुदयादत्यर्थप्रसादद्वारा मोक्षसाधनापरोक्षज्ञानोत्पादिकाब्रह्मजिज्ञासाकर्तव्येत्यर्थः ॥ ५ ॥ यदुक्तमसंदिग्धत्वान्नब्रह्मणोविषयत्वमितितद्ब्रह्मपदप्र योगेणपरास्तं । तथाहि । भवेदेतदसंदिग्धत्वं जिज्ञास्यस्य यदितत्स्वप्रकाशजीवाभिन्नस्यात् । नचैतदस्ति । जिज्ञास्येब्रह्म पदश्रवणातद्धिजिज्ञासस्वतद्ब्रह्मेति । ब्रह्मशब्दश्चपूर्णगुणतांवक्ति । अथकस्मादुच्यतेब्रह्मेति । बृहंतोह्यस्मिन्गुणाइतिश्रुतेः। तथाचकर्थतस्यजीवाभेदः । जीवस्याल्पगुणत्वेनानुभवात् । नचब्रह्मणिगुणाध्यासः । परमार्थतोऽब्रह्मत्वप्रसंगात् । दे शाद्यपरिच्छिन्नताब्रह्मतेतिचेन्न । उक्तश्रुतिविरोधात् । देशाद्यपरिच्छेदेनचजीवभेदसिद्धेः । जीवाणुत्वस्यचवक्ष्यमाणत्वात् अतोजीवस्यस्वप्रकाशत्वेपितभिन्नब्रह्मणःसंदिग्धत्वाद्विषयत्वसिद्धेः । मोक्षाख्यप्रयोजनसद्भावात् । ततएवाधिकार्यादि संभवाब्रह्मजिज्ञासाकर्तव्येति । ब्रह्मपदव्याख्यानरूपनारायणपदं । ननुकर्तव्येतिपदमत्रनश्रूयते यद्यध्याहारस्तर्हिनकर्तव्येत्य ध्याहारःकिनस्यादध्याहारस्य निरंकुशत्वादित्यतआह ॥ यत्रेति ॥ यत्रवाक्येमहावाक्येवायत्पदंवाक्यंवाविनाऽन्यत्रार्थी तरेऽनवसरोऽर्थातरस्याघटनातत्रवाक्येमहावाक्येवातदेवपदंवाक्यवाप्रतिष्ठितंप्राप्तंनान्यदितिसतांन्यायः । यत्पदंवाक्यं वाविनापिपदांतरेणवाक्यांतरेणवावाक्येमहावाक्येवासावकाशेऽर्थातरेघटनावतितदेवपदंवाक्यवानियमेनप्रतिष्ठितंनभवेदि तिन्यायात्कर्तव्यपदमेवाध्याहार्य । नकर्तव्येत्यादेरधिकारकथनादिनाऽयोगादितिभावः । नारायणप्रसादमृतेनमोक्षइत्ये तत्कुतइतितत्राह ॥ "तमिति ॥ अत्रज्ञानान्मोक्षोनामाऽनन्यथोपपत्त्याप्रसादादेवोक्तोभवति । ज्ञानेनभगवत्प्रसादइत्येत त्कुतइतितत्राह ।। प्रियोहीति ॥ नकेवलमर्थान्मोक्षस्यप्रसादैकसाध्यत्वंकिंतुश्रुतंचेतितांश्रुतिंचाह ॥ यमिति ॥ यमात्मा प्रसन्नःसन्वृणुतेतेनैवप्राप्यइत्यर्थः । जिज्ञासयाज्ञानमित्येतत्कुतइतितत्राह ॥ आत्मेति ॥ दर्शनार्थश्रवणादिरूपाजिज्ञासा तत्व कार्येत्यर्थः । नचश्रवणादेरसन्वाच्यता जिज्ञासितंसुसंपन्नमितिविचारेपितत्प्रयोगात् इच्छायाअविधेयत्वात् भवतीत्यादि प्रकाशिक कथनस्यवैयर्थ्यात् सूत्रंच श्रुत्यनुसारीति । अस्तुमोक्षोभगवत्प्रसादसाध्यस्तदर्थनज्ञानमपेक्षितं । तत्कर्महरितोषयत् यइमं परमंगुह्यमित्यादेःकर्मादिनापिभगवत्प्रसादसिद्धेः । यद्यपिमोक्षस्यकर्मादिसाध्यत्वं श्रुत्यादिसिद्धं तथापितमेवंविद्वानयमेवै पवृणुतइत्यादावन्यनिषेधाच्छंकाभावः । अत्रपुनाप्रियोहीतिवाक्येऽन्यनिषेधाभावाद्भवेदेवशंकेत्याशंकांप्रमाणेनपरिहरति ॥ कर्मणेति ॥ सत्यभवेदेवकर्मादिनाभगवत्प्रसादस्तथापितस्यानुत्तमत्वाज्ज्ञानसाध्यस्यैवोत्तमत्वात् । अनुत्तमेनस्वगादि मात्रसिद्धेरुत्तमेनैवमोक्षसिद्धेस्तत्साधनंज्ञानमपेक्षितमितिभावः। ननुज्ञानंच कर्मणाज्ञानमातनोतीत्यादेःकर्मादिनाऽपिसंभ बतीतिनजिज्ञासयाकृत्यं । आत्मेतिवाक्येऽन्यनिषेधाभावादित्याशंकांतच्छेषेणपरिहरति ॥ श्रवणमिति ॥ कागतिस्त. तद्वचनस्येत्यतआह ॥ प्रधानमिति ॥ अप्रधानसाधनकर्मादीतिभावः। विपरीतंकिनस्यादित्यतआह॥नचेति ॥ एतानि श्रवणादीनि। कुतश्चन कादेः । ज्ञानस्यश्रवणाद्यन्वयव्यतिरेकित्वात्तदेवप्रधानसाधनं कर्मादेस्तदभावात्तत्पारंपर्येणसाधन मितिभावः ॥५॥ ननुनाराणप्रसादमृतेनमोक्षश्चेत्तर्हितजिज्ञासैवकर्तव्यानब्रह्मजिज्ञासा नचवाच्यनारायणएवब्रह्मपदेनवि वक्षितःसूत्रकृतेति । ब्रह्मशब्दस्यबह्वर्थत्वेनसूत्रकारविवक्षाविशेषस्यदुर्जेयत्वादित्यतआह ॥ ब्रह्मेति ॥ विष्णावेव मुख्य इतिशेषः । ब्रह्मशब्दस्यानेकार्यत्वेपितस्यविष्णावेवमुख्यत्वान्मुख्यस्यैवग्राह्यत्वात्सएवसूत्रकारविवक्षितोज्ञायतइतिभावः। ॥ ६ ॥ सविष्णुराहहि तंब्रह्मेत्याचक्षतइतिनिरंतरसूत्रद्वयेब्रह्मत्वेननारायणस्यैवप्रस्तुतिसूचयतिविष्णुग्रहणेन । ब्रह्मशब्दस्यान्यत्रा विश्वकर्मालमत्वलिंगचान्य पिरूहत्वातूरूढेरेवमुख्यत्वात्कुतोत्रिष्णावेवासौमुख्यइत्यतआह् ॥ येमिति ॥ यद्यप्यन्यत्ररूढोब्रह्मशब्दस्तथापिविष्णावे वमुख्यः । अन्यत्राज्ञरूढित्वाद्भगवतिचविद्वद्रूट्याब्रह्मशब्द इति । कवीनांतदेवपरमंब्रह्मेतिश्रुत्युक्तत्वाद्विद्वदविद्वद्र्व्यो विद्वढेरेवमुख्यत्वात् । तच्छब्देनविष्णुरितिकुतइतिचेत् । यमंतःसमुद्रेस्थितंज्ञानिनोजानंतीतिविष्णुलिंगादेवेतिभावः । समुद्रस्थत्वलिंगस्थान्यत्रकथंचित्संभवात्तच्छब्देनकुतोविष्णुत्वनिश्चयइत्यतोनिरवकाशश्रुतेरेवेत्याह ॥ तेन्नइति ॥ यतस्तं विद्महेधीमहिचतस्मादस्मान्छुभंप्रतिविष्णुश्चोदयवित्यर्थः । यदिविष्णुशब्दात्सएवात्रोक्तंब्रह्मतर्हितन्नोरुद्रइत्यादीतरवाच कशब्दसद्भावात्तेषामपिमुख्यब्रह्मत्वंप्राप्तमित्यतआह ॥ नचेति ॥ कुतोनेतरेषांमुख्यब्रह्मत्वप्राप्तिरितिचेत् । तत्प्रापकश ब्दानांविष्णावेवमुख्यत्वादित्यभिप्रायेणतत्रश्रुतिमाह ॥ नामानीति ॥ सर्वाणिनामानिरुद्रादिजगतिमुख्यतोनसंति । यतोविष्ण्वितरस्यजगतः सर्वनामप्रवृत्तिनिमित्तमुत्पत्तिमत्तर्हिकस्मिंस्तानिमुख्यतः सर्वाणिनामानियंमुख्यतोवाचकत्वेनविशं तितमपरिच्छिन्नप्रवृत्तिनिमित्तं विष्णुंवदंतिविद्वांसइत्यर्थः । यथासर्वनामवत्त्वेनविष्णुरेवात्रोक्तंब्रह्मतथारुद्रादीनामपिवि कण्वादिशब्दवाच्यत्वेन तएवात्रोक्तंब्रह्मर्किनस्युरित्यतआह ॥ यइति ॥ नामधानामधारकः । यच्छब्दनविष्णुरितिकुतः अस्यसूक्तस्यान्यपरत्वादित्यतआह ॥ अंजस्येति ॥ पद्मनाभत्वलिंगादयविष्णुरेव । उत्सर्गतोलिंगाच्छ्रते प्राबल्येपिनिर वकाशलिंगेनसावकाशविश्वकर्मथुतेर्बाधसंभवादितिभावः। नाभ्यर्पितं पद्मादन्यत्किंनस्यादित्यत आह ॥नचेति ॥ नाभ्य त० प्र० २ | प्रकाशि स्यापिकिंनस्यादित्यतोवाऽऽह ॥ चेति ।। पद्मनाभत्वेन प्रसिद्धपदार्थभगवंतविनाऽन्यपानामोनयुज्यते प्रसिद्धिबाधा दित्यर्थः । न केवलमेतच्छ्रुत्युक्तंपझपझनाभश्चहरि प्रसिद्ध्यैव किंतुतद्वाचित्वेनस्मृतिगृहीतत्वाञ्चेत्याह ।। अजस्येति ॥ अज स्यनाभावितिश्रुतेरित्यन्वयः। क्वचित्र्यस्ता क्वचित्समस्ताविश्वविभूतयोयेनासौतथोक्तः । पूर्वार्धविष्णुवाचकपदाभावादुत्तरा ?दाहरणं । यदानिरवकाशत्वेनलिंगमात्रंश्रुतिबाधकैतदाकिंवाच्यसमाख्यायुक्तदितिभावेनाह॥परइति ॥ परोदिवापरए नापृथिव्यापरोदेवेभिरसुरैर्यदस्तीत्यनेनविश्वकर्मसूक्तोतेन सूक्तांतरेपरोदिवापरएनापृथिव्यैतावतीमहिनासंबभूवेतिसमा ख्यानाच्चविष्णुरेवविश्वकर्मसूक्तोक्तः ।नचतत्रापिविष्णु कुतइतिशंक्यं । यतःसमाख्याश्रुतौद्यावापृथिवीपरंममयोनिरप्स्वाँ १ तःसमुद्रेतिलक्ष्मीःस्वकारणत्वेनसमुद्रस्थितत्वेनचाह । नचास्तुलक्ष्मीकारणंब्रह्माद्यन्यतममितिवाच्या यंकामयइतिलक्ष्म्या ब्रह्मादीनांस्वाधीनत्वोक्तरित्यर्थः । दिवेत्यादितृतीयापंचम्यर्थे । सविष्णुावापृथिवीपरोऽहंतुमहिम्नैतावतीपरिमिताबभूवे त्यर्थः । यमुग्रंब्रह्माणभूषिसुमेधसंवाकर्तुकामयेतंतमुग्रंब्रह्माणमृषिसुमेधसंवाकरोमीत्यर्थः। नन्वत्रसमुद्रस्थोरुद्रकिनस्यात् । तप्यमानायसलिल इतिभारतोक्तः । नचरमाधीनत्वोक्तिविरोधः । उग्रशब्देनकस्यचित्रस्यैवग्रहणसंभवादित्यतआह । उनइति ॥ अत्रोग्रइतिरुद्रएवभवेत् । उनकपर्दीश्रीकंठइतितस्यैवोगत्वेनप्रसिद्धत्वात् । उग्रशब्देनरुद्रशब्दार्थस्यसूचित त्वाच्च । उग्रोरुद्रोरौद्रइत्येकार्थत्वात् । तथासमुद्रस्थोनारायणएवभवेत् । समुद्रशयनत्वेनतस्यैव महोदधिशयोऽतकइत्या दोपसिद्धत्वात् । तथासमुद्रांतःस्थत्वकथनेननारायणशब्दार्थस्यसूचितत्वाच्च । आपोनाराइतिस्मृतेरित्यर्थः । नन्वत्रप्रसि यादिसद्भावेपितत्परित्यागेनान्यखीकारोकिंबाधकमित्यतआह ॥ "नचेति ॥ प्रसिद्धार्थस्यविरोधैकापोद्यत्वात्तदभावतत्प रित्यागोनयुक्त प्रसिद्धिबाधादित्यर्थः । अत्रोग्रपदेनरुद्रग्रहणेविश्वाधिकोरुद्रइत्यादिश्रुतिविरोधात्तत्परित्यागइत्यतआह ॥ "उक्तेति ॥ नामानिविश्वेत्यायुक्तन्यायेनवक्ष्यमाणन्यायैश्चविश्वाधिकादिश्रुतीनांविष्णुपरतयानबाधकत्वमितिभावः । श्रुतीनांविष्णुवाचकत्वेस्मृतिंचाह ॥ वेदइति ॥ एतद्वचनस्यहरिवंशत्रयगतत्वसूचनायबहुवचनम् । तथाप्यस्तिपाशुपतादि शास्त्रविरोधः । तत्ररुद्रादीनांसर्वोत्तमत्वायुक्तरित्यतआह ॥ "नचेति ॥ कुतोनविरोधइतिचेत् तेषांमोहार्थंकृतत्वादिति भावेनाह ॥ एषइति । मुह्यतेऽनेनजनइतिमोहोनटनंवंचनंवा । त्वंचसूज दधीच्यादिभिःकारयच । अविद्यमानमतथ्यं । व्यधिकरणत्वेनविद्यमानं वितथ्यं । आत्मानंमांचप्रति । प्रकाशंप्रसिद्धिं । स्कांदादिपुराणानांशिवादिविषयत्वात्तद्विरोधः स्यादित्यतआह ॥ शैवेचेति ॥ ब्राह्मेब्रह्मविषये । क्रीडनकै क्रीडासाधनैरस्माभिःकरणैः । तेषांशैवादित्वेपिनविरोधित्वम् । तत्रापिविष्णूत्तमत्वादेरेवोक्ततयास्वविरोधेनतत्राप्रामाण्यात् । नचविपरीतंकिंनस्यादितिवाच्यम् । शिवाद्युत्कर्षादेःशैवादि पुराणेष्वसाधारण्येनप्राप्तत्वादितिभावः । तथापिविष्णूत्तमत्वरुद्राधमत्वयोर्वैष्णवग्रंथविरोधोस्तीत्यतआह ॥नचेति ॥ तथासर्वोत्तमत्वादिविरोधः। ननुतत्रापिविष्णुनारुद्रस्तुत्यादिकथमुच्यतइत्यतआह ॥ तच्चेति ॥ यदुच्यतेतच्चैषमोहमि तिवचनान्मोहार्थत्वेनप्रत्युक्तमित्यर्थः । तस्माद्बुद्रादीनामधमत्वेबाधकाभावाद्यकामयइत्यादौतद्वचनालक्ष्मीकारणत्वेनमम योनिरित्युक्तोविष्णुरेव । ततश्वतत्समाख्यानाद्विश्वकर्मसूक्तवाच्योपिसएव । तथाच । तस्यैवयोदेवानामितिसर्वनामत्वोक्ते Amy4 नान्येषांसर्वनामताऽतस्तेषांतनोविष्णुरित्यादावप्राप्तेर्विष्णुरेवपरब्रह्म । ततोविष्णावेवब्रह्मशब्दस्यमुख्यत्वेनसएवसूत्रकृताजि प्रकाशित ज्ञास्यतयाविवक्षितइति। तदेवं जिज्ञास्येतद्ब्रह्मेतिब्रह्मपदश्रवणात्तेनचतस्यपूर्णगुणत्वोक्तर्नाजुभवसिद्धाल्पगुणजीवाभेदस्तस्ये तिसंदिग्धत्वेनविषयत्वसिद्धेःप्रयोजनादिसद्भावाच्चब्रह्मजिज्ञासाकर्तव्यैवात शास्त्रमारंभणीयमेवेतिसिद्ध॥१॥अ०१अत्रश्रुत्यु तब्रह्मणोविष्णुत्वसमर्थनादस्तिशास्त्रसंगतिः । श्रुत्यादिसंगतिस्तुतद्विजिज्ञासस्वतद्रोतिश्रुत्युक्तंब्रह्मजिज्ञास्यमित्युक्तं तस्य चविष्णुत्वंयावन्नसाध्यतेतावत्तस्यगुणपूर्त्यसिद्ध्याभेदकाभावेनजिज्ञास्थतानसंभवतीति। तच्छृत्युक्तंब्रह्मात्रविषयः। किंविष्णु रुतजीवइ( जीवादिरि )तिसंदेहः । उभयत्रापिब्रह्मपदप्रयोगएवसंदेहबीजं । यद्यपिपूर्वाधिकरणेविष्णावेवब्रह्मशब्दोमुख्य इत्युक्तंतथापिस्वकृतव्याख्यानस्थापनायभाष्यकारैरेवोक्तत्वाद्भवतिसंदेहः । जीवएवेदंब्रह्मेतिपूर्वःपक्षः। बृहजातिजीवेतित्र ह्मशब्दस्यजीवेरूढत्वात्। यद्यपिब्रह्मशब्दोविष्णौप्रवर्तते । तथापितस्यतत्रयोगेनैवप्रवृत्तेः। रूढियोगयोश्चरूढेरेवबलवत्त्वाजी ववाचित्वमेवमुख्यम् ।नचरूढिपरित्यागेनयोगांगीकारोयुक्तः। बाधविनामुख्यार्थत्यागायोगात् । नचात्रतादृशंबाधकमस्ति तस्माज्जीवएवेदंब्रह्म । (तस्माजात्यादेमुख्यतोऽजिज्ञास्यत्वादेहात्मविवेकस्यावश्यकत्वाज्जीवएवेदंब्रह्म) तस्यचस्वप्रकाशत्वे नासंदिग्धत्वादजिज्ञास्यतेति। अथसिद्धांतयत्सूत्रमवतारयति॥ ब्रह्मणहति ॥ निर्बाधरूढिबलाजीवएवेदंब्रह्मेतिप्राप्तेतन्नि राकर्तुजीवग्रहणेबाधकंश्रुत्युक्तंजिज्ञास्यब्रह्मणोलक्षणमाहसूत्रकारइत्यर्थः। अस्थजगतोजन्म आदिपदोक्तेस्थितिसंहृतीयतस्तद् ॥ ८॥ होत्यादिप्रतीतिनिरासायसूत्रंयथावयाचष्टे॥ सृष्टीतिसृष्टयाद्यष्टकमस्यजगतोयतोभवति तदेवजिज्ञास्यंब्रह्मोच्यतेतल्लक्षणं चविष्णावेवसंभवतिनजीवेऽतोब्रह्मशब्दस्यजीवेरूढत्वपिबाधकसद्भावात्तब्रह्मेतिश्रुत्युक्तंब्रह्म विष्णुरेवेतियुक्तैवप्रागुक्तजिज्ञा सेत्यर्थः।यद्यपिविष्णौब्रह्मशब्दोविद्वद्भूढियुक्तस्तथाप्यभ्युपगम्योक्तिरियमितिज्ञातव्याजन्माद्यस्येतितद्गुणसंविज्ञान (न)।ल ब्धजन्मनोहिस्थित्यादीत्यतोजन्मनआदित्वं । ननुजगजन्मादिकर्तृत्वंयदिविष्ण्वेकनिष्ठं तहिंभवेज्जीवापबाधकं तदेवकुतइत्य तआह॥ उत्पत्तीतिआवृतिरज्ञानं । एकराट्स्वतंत्रः।नन्वेतल्लक्षणंजिज्ञास्येनोपलभ्यतेऽतःकथंजीवापबाधकमित्यतस्तत्पू वाक्येकथितमितितदुदाहरति ॥यतइति॥ यत्प्रयंतिप्रलये। यदभिस्वेच्छयासम्यक्प्रविशंतिमुक्तौ । सृष्टचादिकर्तृत्वंप्रत्ये कमपिविष्ण्वेकनिष्ठंकिमुसर्वमित्यभिप्रायेणस्थितिकर्तृत्वस्यतदेकनिष्टत्वेश्रुतिमाह ॥ यति ॥ यएकएवप्रकृतिपुरुषका लाधारक पृथिवींद्यांसर्वभुवनानिचदधारेत्यर्थः । तथानियमनंचतदेककर्तृकमितिश्रुतिमाह ॥ चतुभिरिति ॥ सबृहच्छरी रोमूलरूपीचतुर्भिर्वासुदेवादिनामभिर्नाममात्रःस्वरूपभेदशून्यैःसाकंनवर्तिविशेषेणाधिकान्देवानवृत्तंचक्रमिवपर्यवर्तयदि त्यर्थः । अष्टौवसवएकादशरुद्राएकादशादित्यादशप्रजापतयःपंचाशन्मरुतइतिनवतिः । एतान्यपिलक्षणान्यन्यव्याप्तानि नेत्याह ॥ परहति ॥ हेविष्णोस्वमूत्यैवापरिच्छिन्नत्वंमितेःपरोऽस्यतोऽपरिमितत्वात्तेजगत्सृष्टचादिमहिमानंकेपिनप्राप्नुवं तीत्यर्थः । वर्तमाननिषेधात्स्यादतीतादावतिव्याप्तिरित्यतआह ॥ नेति ॥ हेविष्णोदेवतेमहिम्नःपरमंतंसीमानंजायमानो नप्राप्नोतिजातोनापजनिष्यमाणोनाप्स्यतीत्यर्थः । जगत्कारणत्वंचब्रह्मणोन विकारित्वेन किंतुपितृवदेवेतिश्रुत्यादर्शयति॥ यह ति॥नःसर्वेषां । नदत्तपुत्रपितृवत्पिता किंतुजनिताजनकः । सर्वाणिभुवनानितद्गतधामानिचवेदेत्यर्थः । अतोऽतिव्या 4 । । - त्यादिशून्यविष्णुलक्षणवत्त्वाद्विष्णुरेवश्रुत्युक्तंब्रह्म नजीवोऽतोयुक्तैवब्रहाजिज्ञासेतिस्थित ॥२०२||अत्रजन्मादिकारणत्या प्रकाशित स्थान्यनिष्ठत्वनिरासादस्तिशास्त्रसंगतिः। जगज्जन्मादिकर्तृत्वस्यजिज्ञास्येब्रह्मणिश्रवणाद्विष्णुरेवब्रह्मेत्युक्तं । जन्मादिकर्तृ त्वस्यचयदाऽन्यनिष्ठतानिवार्यतेतदेवतेनविष्णुत्वनिश्चयःस्यादिति । तज्जन्मादिकारणत्वंविषयः। किंविष्णोरेवान्यस्याप्य स्तिवेति(रन्यस्याप्यस्तिनवेति)संदेहः । पूर्वोक्तन्याय प्रसिद्धिश्चसंशयबीजं । अन्येषामध्यस्तीतिपूर्वःपक्षः । अनुमानेनरुद्रा देरपिकारणतासाधनसौलभ्यात् । नचोदाहृतश्रुतिविरोधः । तासांयुक्तिविरुद्धार्थेप्रामाण्यायोगात् । तथाचजन्मादिकारण त्वस्यभगवदेकनिष्ठताभावान्नतस्यैवतेनजिज्ञास्यब्रह्मतानिश्चयइति । सिद्धांतयति ॥ अनुमानतइति ॥ कारणत्वेनेतिशे पः। तत्रत्वाकांक्षायांसूत्रमुपन्यस्यति ॥ शास्त्रयोनित्वादिति॥ भवेदनुमानतोऽन्येषांकारणत्वकल्पनायदिकारणमानु मानिकस्यात् । नचैतदस्ति । शास्त्रैकसमधिगम्यत्वात्कारणस्य । नहिधर्मादिनिश्चयोनुमानेनेतिसूत्रार्थः । कारणस्यशास्त्रै कवेद्यत्वंकुतइत्यतआह ॥ नेति ॥ तंपूर्णसर्वशंसर्वकर्तारसर्वस्वामिनंमोक्षायाऽवेदविन्नजानाति । पुरुषोजगत्कर्तोपनिषदे कसमधिगम्यइत्यर्थः । औपनिषदस्यापिकारणस्यानुमानेनसिद्धिःकिंनस्यात्स्वातंत्र्यादिहेतुनापूर्णत्वादिसिद्ध्यंगीकारादि त्यतआह ॥नचेति ॥ सत्यमस्त्येवाऽनुमानस्यौपनिषदपदार्थनिश्चायकत्वं श्रुत्यादिसहकारियुक्तस्यैव नतुनियतया भाण्यं । स्वातंत्र्येणादृष्टार्थनिश्चायकत्वं प्रतिपक्षादिसंभवात् । तादृशंचप्रकृतमितिभावः । अत्रैवस्मृतिसंमतिमाह ॥ श्रुती ॥ ९ ॥ ति ॥ कुत्रचिददृष्टे । यथेश्वरोनस्वतंत्रश्चेतनत्वादिति । प्रमाणांतर प्रत्यक्षं । यथारामकृष्णादिदोषनाहि ॥ तर्हिकी दृशस्यप्रत्यक्षादेरदृष्टार्थनिश्चायकत्वमितितत्राह ॥ श्रुतीति ॥ अत्रापिप्रमाणांतरं प्रत्यक्षं । यथायशोदाया प्रत्यक्ष तर्काप्रमाणपदवींगच्छेदित्यन्वयः। यथाविष्णुःस्वतंत्र पूर्णत्वादिति। (नकेवलमेतत्स्मृतिबलेनकेवलानुमानस्यप्रामाण्याभावो पितुविपक्षेबाधकभावाचेत्याह ।) केवलानुमानस्यप्रामाण्येऽतिप्रसंगचाह ॥ शक्यत्वाचेति ॥ श्रुत्यादिसाहित्यहीना नुमानस्य सर्वत्रजगत्कारणाभावादौशशादीनांविषाणित्वादोचकर्तुशक्यत्वान्नानुमानस्यनियतप्रामाण्यमित्यर्थः। तत्रैवप्रमा णमाह ॥ सर्वत्रेति ॥ उदीक्षितुमर्थमुदीक्षयितुं । तस्मात्केवलानुमानस्यानिर्णायकत्वाच्छास्त्रेणैवकर्तृत्वनिश्चयइतिस्थितं नन्वतींद्रियार्थाभावेनप्रत्यक्षतरस्याप्रामाण्यात्कर्थशास्त्रादीश्वरसिद्धिरितिनास्तिकवादमोक्षधर्मवचनेननिराचष्टे ॥ रेत ति ॥ रेतोधात्वादि अतींद्रियार्थसत्त्वेऽनुमानादिप्रामाण्येचप्रमाणं प्रमापकमितिनिश्चयः। तथाहि । रेत शरीरयो कार्य कारणभावोस्ति । नचासौप्रत्यक्षोऽतोन्वयव्यतिरेकित्वाख्यानुमानस्यमानत्वसिद्धिः। मृतशरीरेसिक्तस्याकारणत्वेनयदधि ष्ठितेपरिणमतेतज्जीवसिद्धिः। नचजीवत्सर्वशरीरेपतितंकार्यकरमतस्तत्प्रेरकेश्वरादृष्टसिद्धिः । ततस्तत्प्रतिपादकागमप्रामा ण्यसिद्धिः । एवंवातादिधातुरपथ्याद्विक्रियते नापिमृतशरीरे नजीवच्छरीरेषुसर्वेषु । वटकणिकातोवटउत्पद्यते नचभर्जि ताया नाप्यभर्जिताभ्यःसर्वाभ्यः । घृतेनपीनताजायते नमृतशरीरे नापिजीवत्सर्वशरीरेषु । धूमाधिवासनेनवृक्षेषुपुष्पा दिसंपत्तिर्जायते नचशुष्केषु नाप्यशुष्कषुसर्वेषु । साधनविशेषाजातिस्मृतिर्भवति नचेतनाभावेसायुक्ता नचास्तिसर्वेषाम् । अयस्कांतेनायोभ्रमति नचाचेतनेचेष्टकत्वं नचसर्वाचेतनानाम् । सूर्यकांतेनाग्निर्जायते नचासौशक्तिरचेतनेयुक्ता । अंबुभ प्रकाशि क्षणेनतृष्णानिवर्तते नचतन्मृतशरीरेपच्यते नचजीवत्सर्वशरीरेषु । मरणेनदेहस्यभूतेष्वध्ययोभवति नचजीवतोनस्वेच्छ था। देवताभ्युपयाचनेनसंपदादिकंभवति नचसर्वेषाम् । भरणेनचेष्टानिवृत्तिर्भवति(नपुरानस्वेच्छया)नपुनःस्वेच्छया । एतैःप्रमापकैरनुमानजीवेश्वरागमादृष्टादिसिद्धेर्ननास्तिक्यवादोयुज्यतइत्यर्थः । इतश्चासौनयुज्यतइत्याह ।। दर्शनाचेति॥ अत्युत्कटतपःपापाभ्यांप्रत्यक्षतएवफलंदृश्यते । नचतत्रकारणांतरमस्ति । अतस्तत्कार्यकारणभावोऽनुमानवेधइतितन्मान त्वसिद्धिः । तपआदीनांवैदिकत्वादागममानत्वसिद्धिः। ततश्चेश्वरादिसिद्धिरितिननास्तिक्यवादोयुज्यते । तस्माच्छास्त्रा देवेश्वरादिसिद्धिरितियुक्तमेवेतिभावः । नन्वेवमनुमानस्यानिश्चायकत्वेनशास्त्रादेवकारणत्वसिद्धिश्चेत्तर्हिपाशुपतादिशा स्त्रेणरुद्रादे कारणत्वस्यादित्यतआह ॥ "गिति ।। इतश्चपाशुपतादिकंकुवमत्याह ॥ सांख्यमिति ॥ पंचरात्रस्यकृत्स्न स्यवक्तानारायणःस्वयं । ज्ञानेष्वेतेषुराजेंद्रसर्वेष्वेतद्विशिष्यतइतिमोक्षधर्मेष्वपिसांख्यादिषुप्रकृतेषुपंचरात्रस्यैवप्रामाण्यमुक्तं। अतःपाशुपतादिकममानमेवेत्यर्थः । नन्वनेनपंचरात्रप्रामाण्यमेवभवेन्नान्याप्रामाण्य मित्यतआह ॥ इतरेषामिति ॥ सां ख्यंयोगःपाशुपतवेदारण्यकमेवच । ज्ञानान्येतानिभिन्नानिना।कार्याविचारणेतिपरस्परविरुद्धतयोक्तानामेकप्रामाण्योक्ता वन्याप्रामाण्यंलभ्यतइतिभावः । तर्हिवेदारण्यकस्याप्यप्रामाण्यस्यादित्यतआह ॥ वेदेति ॥ पंचरात्रस्यवेदार्थत्वेनतत्मा माण्योक्तीवेदप्रामाण्यमेवोभवति । ऐक्याभिप्रायाभावपंचरात्राधिक्यकथनमसंगतस्यादितिभावः । वेदस्यैवप्रामाण्यकि नोच्यते । पंचरात्रप्रामाण्यसिद्ध्यर्थं । पंचरात्रप्रामाण्योक्तीतुवाक्यार्थान्यथानुपपत्त्यावेदप्रामाण्योहसंभवादिति ॥ धर्मब ४११२ ।
हुत्वाद्बहुवचनं । तस्मात्कारणस्यवेदादिशाकसमधिगम्यत्वान्नानुमानेनान्यकारणत्वंशंक्यमितिनजिज्ञास्यस्यविष्णुत्वनि श्वयायोगइति । सूत्रंव्याख्यायाथयत्परेणोक्तंशास्त्रस्ययोनिरितितदयुक्तमितिभावेनाह ॥ शस्त्रमिति ॥ शास्त्रंयोनिति कारणंप्रमाणमित्येवशास्त्रयोनि नशास्त्रस्ययोनिरितिभावः । समासप्राबल्यात्कुतोनासावर्थ इतिचेद्वेदादिकर्तृत्वकथनस्यो तानुपयुक्तत्वात् । नहिजन्मादिकर्तृत्वेशास्त्रयोनित्वहेतुः। वैपरीत्यस्यैवोचितत्वात् । जगत्कारणत्वोक्त्यार्थलब्धंसार्वज्ञमेव शास्त्रयोनित्वात्स्यास्फोरयतीतिचेन्न । तत्रार्थलब्धशत्त्याद्यस्फुटीकृत्यसार्वज्ञमात्रस्फुटीकरणेविशेषकारणाभावात् । अनं तजगन्निर्माणोत्तयाऽस्फुटीभूतंसार्वज्ञतदेकदेशनिर्माणोत्तयाकथमाविर्भवेत् । किंचेदशास्त्रस्येश्वरनिर्मितत्वं अर्थमुपलभ्यर चितत्ववानिःसृतत्वमा–वा । नाद्यः । कणादचरणानुसरणप्रसंगात् श्रुत्यादिविरोधाच्च । नद्वितीयः । शास्त्रयोनित्वस्य सार्वज्ञसाधकत्वाभावप्रसंगात् । अतोऽर्थातरमुक्तानुपयुक्तमयुक्तंचेत्युक्तएवसूत्रार्थइति ॥३॥ अ० ॥३॥ अत्रब्रह्मणो जगत्कारणत्वेनशास्त्रप्रतिपाद्यत्वसमर्थनादस्तिशास्त्रसंगतिः । कारणस्यशास्त्रैकयोनित्वाद्यस्यशास्त्रकारणतामाचष्टेतदेवका रणमितिवर्णितं । तद्यदाविष्णोरेवतदैवोक्तलक्षणंसंभवतीति । तत्कारणत्वेनशास्त्रयोनित्वंविषयः। विष्णोरन्यस्यापिवेति संदेहः । पूर्वोक्तिरुभयथापिशास्त्रप्रतीतिःसंदेहबीजं । रुद्रादीनामपिकारणत्वेनशास्त्रयोनित्वमितिपूर्वःपक्षः । पाशुपतादि शास्त्रेषुरुद्रादिर्जगत्कारणत्वेनवेदादिवेद्यइतिनिगदितत्वात् । नचतस्याप्रामाण्येनासाधकत्वं । वेदेपितेषांकारणतयाप्रतीय मानत्वात्प्रतीतिसधीचीनस्यचप्रामाण्योपपत्तेः । तथाचपाशुपतायुक्तिप्रतीतिभ्यामन्येषामपिकारणत्वेनशास्त्रयोनित्वेजगत्का रणत्वनविष्णोरेवलक्षणमितिप्राक्षसिद्धांतयति ॥ अज्ञानामिति॥पाशुपतादावुक्तत्वेपिनेतरेषांशास्त्रयोनित्वं पाशुपतायुक्त प्रकाशिक स्योक्तरीत्याऽयथार्थत्वसंभवात् । प्रतीतेरज्ञानमूलत्वसंभवात् । प्रतीतमपिनेतरेषांशास्त्रयोनित्वमितिभावः । ननुप्रतीत्यादेर ॥११॥ ज्ञानमूलत्वादिपरिकल्प्याप्यन्येषांकारणतयाशास्त्रयोनित्वाग्रहणेकोहेतुरितिपृच्छति॥कुतइति॥प्रतीयमानमपिनेतरेपाशां स्त्रयोनित्वमितिसंबंधः। तत्रहेतुकथनायसूत्रमुपन्यस्यति॥ तत्विति ।। सूत्राक्षराणिव्याचष्टे॥अन्वयइति।कानितान्युप पत्त्यादीनिकुत्रचलिंगानीत्यतआह ॥ उक्तंचेति ॥ एकप्रकाराऽसकृदुक्तिरभ्यासः । प्रमाणांतरासिद्धताअपूर्वता । फल वत्त्वंफलं । स्तुतिनिदापरकृतिः पुराकल्पोऽर्थवादः । युक्तिरुपपत्तिः । उपक्रमादीनामुपपत्तित्वेपिब्राह्मणपरित्राजकन्यायेन थगुक्तिः। उपक्रमादीनामुपपत्त्यादित्वेनभाष्यंतेषामुत्तरोत्तरप्राबल्याभिप्रायं। उपक्रमादिलिंगानांबलीयोझुत्तरोत्तरमित्युक्तेः। उपसंहारस्यव्याख्यानरूपत्वेनतद्विरोध्युपक्रमाप्रामाण्यापत्तेस्तस्यततोपिप्राबल्यं । एकत्रोक्तादपिबहुलोक्ते प्राबल्यादभ्यास स्योपक्रमोपसंहारयोः(राभ्या)प्राबल्यं । एकत्रबहुवारोक्तादपिमुख्यस्यप्राबल्यादपूर्वतायाउपक्रमोपसंहाराभ्यासेभ्यःप्राबल्यं । फलस्योद्देश्यत्वादुपक्रमादिभ्यःप्राबल्यं । करणाकरणयोरिष्टानिष्टकथनादिरूपार्थवादस्यफलमात्राधिक्यादुपक्रमादिभ्यः प्राबल्यं । उपपत्तेःसर्वमूलत्वेनसर्वतःप्राबल्यमिति । एतत्सर्ववाक्यतात्पर्यार्थनिर्णयेलिंगभवति । विरोधेतुदुर्बलबाधकत याप्रबलंनिर्णायकं । साम्येनिरवकाशेनसावकाशंबाध्यते । स्वभावदुर्बलेनापिनिरवकाशेनस्वभावतःप्रबलस्यापिसावकाश ॥११॥ स्यबाधोभवति । एवमेकेनानेकेषांचवाधः। ननुसावकाशत्वनिरवकाशत्वाभ्यामेवनिर्णयोनस्वभावप्राबल्यदोबल्यंनामास्ति।
दुर्बलप्रबलयोसावकाशत्वादिनियमात् । अन्यथावाक्याप्रामाण्यापत्तेरिति । मैवं । स्वभावप्रबलेनदुर्बलबाधनेतत्प्रामा ण्यायार्थांतरकल्पनं । सावकाशत्वंपुनःस्वयमांतरवाचित्वमितिभेदात् । अत्रश्रुत्यादिषट्कंचग्राह्यं । सूत्रंयोजयति ॥ उपक्रमादीति ॥ पाशुपतादिशास्त्रोक्तंप्रतीतमपिनान्येषांशास्त्रयोनित्वं । पाशुपतायुक्त्यादेःशास्त्रनिर्णायकत्वाभावादु पक्रमादीनामेवनिर्णायकत्वात् । तैश्चसम्यक्शास्त्रेविचार्यमाणेब्रौवशास्त्रगम्यंप्रतीयतेनरुद्रादि । अतोऽन्यथाप्रतीत्यादे रज्ञानमूलत्वाद्येवयुक्तमितिभावाननुकर्मविधानादिरूपत्वाच्छास्त्रस्यकथंब्रह्मापरतेत्याशंकांभगवद्वाक्येनपरिहरति ॥ मामि ति ॥ कर्मविधात्रीश्रुतिरपिमांप्रत्येवतद्विधत्ते । इंद्राद्यभिधात्रीचमामभिधत्ते । चत्वारिवागित्यादिश्रुत्याहंविविधरूपत्वेन कल्प्यः । नसुरांपिबेदित्यादिश्रुत्याहमेवाप्रियादपोह्यः। एवंभूतायाअस्याःश्रुतेरित्यभिप्रायमहमेववेद नमत्तोऽन्यइत्यर्थः । स्मादुपक्रमादिवशाद्विष्णुरेवसर्वज्ञास्त्रैर्जन्मादिकारणत्वोक्त्युपलक्षितानंतगुणतयोच्यतइतितस्यैवतल्लक्षणमितिसिद्धम् ॥४॥ अ.४ अनब्रह्मणोवाच्यत्वसमर्थनादस्तिशास्त्रसंगतिः। सकलजगजन्मादिकारणत्वेनब्रह्मेवशास्त्रस्यमुख्यार्थइत्यभिहितं । उपक्रमादिभिर्निर्णीतस्यमुख्यार्थत्वात् । तच्चवाच्यत्वएवसंभवतीति। तन्मुख्यतःशास्त्रयोनित्वंविषयः । ब्रह्मणोयुक्तमयुक्तंवे तिसंदेहः । वादि विप्रतिपत्तिःसंदेहबीजं। तत्रपूर्वपक्षयति ॥ "नॉन्विति ॥ नब्रह्मणःशास्त्रमुख्यार्थत्वमुपपद्यते। यतस्तद्यतो वाचोनिवर्ततइत्यादिश्रुतेःशब्दावाच्यं । नावाच्यस्यशास्त्रमुख्यार्थतासंभवति । अतोनशास्त्रोक्तकारणत्वंतस्येतिभावः अशब्दमित्यादे शब्दादिगुणशून्यंतदविषयश्चेत्यर्थः । अवचनेनैवप्रोवाचेति वचनवृत्तिविनालक्षणयोपदिदेश । यच्छ्रोत्रे नशृणोतिपुरुषः त्रयीनश्रुतिगोचरेतिगोषरशब्दस्यविशेष्यलिंगतयाप्रयोगान्नतच्छन्दगोचरमितियुक्तं । सिद्धांतयदधिकर प्रकाशित णतात्पर्थमाह । (सूत्रमवतारयति)निति।। अत्रसूत्रकारोब्रह्मणोऽवाच्यत्वंश्रुतिप्राप्तप्रतिषेधतीत्यर्थः। सूत्रंब्याचष्टे॥सईति।। सप्रणवोपासकोजीवोत्तमहिरण्यगर्भोपदेशेनपरमपुरुषपश्यति । परोक्षतोब्रह्मविज्ञायाऽपरोक्षतोजानीयादित्यादिश्रुतिभित्र ह्मणईक्षणीयत्वावगतेस्तदन्यथानुपपत्त्यावाच्यमेवतत् । अतस्तस्यशास्त्रयोनित्वोपपत्तेःकारणत्वसंभवइत्यर्थः । नेक्षणीयत्वा न्यथानुपपत्त्याब्रह्मणोवाच्यत्वंवाच्यं । ईक्षणस्यमत्यक्षादिनापिसंभवादित्यतआह । औपनिषत्वादिति ॥ भवेदेतद्य दिब्रह्मप्रत्यक्षादिगम्यं । नैतदस्ति । तस्योक्तरीत्योपनिषदेकगम्यत्वात् । तथाचप्रत्यक्षाद्यवेद्यत्वेसतीक्षणीयत्वान्यथानुपपत्त्या वाच्यमेवतदितिभावः। परिशेषप्रमाणेनवानवाच्यत्वंसाध्यते । तथाहि । श्रुतिपुतावदीक्षणीयत्वंब्रह्मणाश्रूयते । ईक्षणंचप्रमा नभवेत् । प्रसक्तप्रमाणेषुनब्रह्मणोवचनेतरप्रमाणेनेक्षणं । तस्योपनिषदत्वात् । वचनेनेक्षणंचावाच्यवृत्त्यंतरायोगेनपरिशे पाद्वाच्यत्वमेवसाधयतीति । ननुश्रुतिसिद्धमवाच्यत्वंकथंयुक्तिमात्रेणदूष्यते । प्राबल्यमागमस्यैवजात्यातेषुत्रिषुस्मृतमिति युक्तितःश्रुतेःप्राबल्योक्तरित्यतःश्रुतिस्मृतीचाह ॥ "सेवइति ॥ तपांसियत्प्रतिवदंतिवेदाः । नन्वेवंयुक्त्यादिसिद्धत्वेवा च्यत्वस्यावाच्यत्वाज्ञेयत्वाभिधायकोदाहृतश्रुते कागतिरित्यतआह ॥ अवाच्यत्वादिकमिति ॥ अवाच्यत्वादिकमवा च्यत्वादिव्यपदेशः। अप्रसिद्धि साकल्येनागोचरता । नवप्रसिद्धेरवाच्यत्वादिव्यपदेशकदृष्टइत्यतआह ॥ नतदिति ।। पश्यंतइत्युक्तेरप्रसिद्ध यैवैतदितिज्ञायते । नकेवलमन्यथाऽनुपपत्तिमात्रसिद्धेयव्यवस्थाऽपितुस्मृतिसिद्धाचेतिभावेनाह ॥
अप्रसिडेरिति।। एवमप्रसिद्धिप्रसिद्धिभ्यां । एवंयतोवाचइत्यादिश्रुतीनांयुक्त्यादिबलादर्थांतरोपपत्ते शब्दब्रह्मेतिसूत्रंव्या ख्यायपरकृतापव्याख्यांप्रत्याख्याति ॥ चेति ॥ जगत्कारणत्वं सदेवसोम्येत्यादौकस्यचित्प्रतीयते तत्किब्रह्मोतप्रधानमि तिसंदेहेनधानमितिप्राप्तेसिद्धांतितीनप्रधानश्रौतजगत्कारणं तदैक्षतेतीक्षतिश्रवणादशब्दंहितदिति। तदेतद्व्याख्यानमयुक्तं। यतोऽशब्दहितदितिहेतुतयोक्तमौतत्वंनसांख्यस्यप्रतिवादिनःसिद्धं । तेनवैदिकत्वाभ्युपगतेः । नापिस्वन्यायेनतदुक्तिः । अजामेकामित्यादौप्रधानस्यश्रुतत्वात् । नचतत्रान्यत्कल्प्यं । नाममात्रेविवादादांतरस्यचाभावादितिभावः। किंचब्रह्म णोपिश्रौतत्वंनयुक्तं अवाच्यत्वात् । अवाच्येवृत्त्यंतरायोगात् । नापितस्येक्षितृत्वं । तस्येक्षतिस्वरूपत्वात् । जगत्कारणस्यमा यावच्छिन्नस्येक्षणंसंभवतीतिचेन्न । जिज्ञास्यस्यैवजगत्कारणतयोक्तत्वात् । नहिजिज्ञास्यंमायावच्छिन्नं। तजिज्ञासायाअप्रयो जकत्वात् । किंचमाययेक्षणंभवत्युपचयतेवा । आद्येदृश्यत्वाद्यपिकिनस्यात् । नद्वितीयः । प्रधानेपिसंभवादिति ॥५॥ उक्तार्थमाक्षिप्यसमादधत्सूत्रंपठित्वाव्याचष्टे ॥"गौणश्चेदिति ॥ यदृश्यत्वबलाब्रह्मवाच्यमित्युक्तंनतद्युक्तं । यतईक्ष तिश्रुतौजीवाख्योगौणात्मादृश्यउच्यतेतदन्यथानुपपत्त्याचसएववाच्य स्यान्नगुणातीतंब्रह्मक्षतिश्रुत्युक्तं । गौणग्रहणेबाधक स्येतरज्ञापकस्यचाभावात् अतोनतद्वाच्यमितिचोधनयुक्तं । ईक्षणीयेतस्मिन्नेवात्मानंपश्येत् । अजआत्मामहान्भुवः । तमेवधीरोविज्ञायेत्यात्मशब्दश्रवणात्तेनचतस्यनिर्गुणत्वसिद्धेः। सएवईक्षत्यावाच्यइत्यर्थः । नन्वात्मशब्दसद्भावेषिकुतोऽयं निर्गुणोनगौणइत्यतआह ॥ येइति ॥ गुणैःसत्वादिभिः। हेयोपादेयरहितइत्युपादेयएवेत्यर्थः । हृदिह्येषआत्मेति एतदन्य त० प्र०३
५.४
स्वभावेयात्मशब्दप्रयोगात्कथंसोऽनात्मेत्यतआह ।। अनात्मनीति ॥ रूपशब्द स्वरूपप्रतिमारूपाभिप्रायः । तत्रात्माना प्रकाशि
मनोःसयआत्मास नित्योदेहहान्यादिरहितः शुद्ध कर्मलेपविधुरः केवलोजडामिश्रः । ननूपचारेणापिगौणेप्रयोगसद्भावा
त्सएवश्रुत्युक्तदृश्यात्मार्किनस्यादित्यतआह ॥ न चेति ॥ आत्मपदंमुख्यार्थेनिर्गुणेदृश्यतयाप्रतिपाद्यसंभवत्यमुख्यार्थगौ
णग्रहणनयुज्यते । मुख्यासंभवएवगौणाश्रयणादितिभावः ॥ ६॥ नन्वात्मशब्दोमुख्यतएवगौणपरइतिकिनस्यात् । नचो
क्तश्रुतिस्मृतिविरोधः ॥ तत्रात्मशब्दोविष्णौमुख्योजीवेष्वमुख्यइत्यनुक्तेश्चेतनाचेतनविषयत्वसंभवात् । तथाचश्रुतेरार्जव
संभवात् । निर्दोषत्वादेःस्वभावविषयत्वोपपत्तेरित्याशंकांपरिहर्तुसूत्रंपठति ॥ तनिष्टस्येति ॥ नात्मशब्दोगौणेमुख्यइति
युक्तं । आत्मनिष्ठपुरुषस्यमोक्षोपदेशादितिसूत्रार्थः । तनिष्ठस्यमोक्षोपदेशेपिकुतोऽसौनगौणइत्यत आह ॥ नहीति ॥
गुणबद्धात्मविज्ञानाद्गुणनिवृत्तिरूपमोक्षोनयुक्तइत्यर्थः । कोसावात्मनिष्ठस्यमोक्षोपदेशइत्यतस्तमाह ॥ यस्येति ॥ सर्वक
र्तृत्वात्सवायुकर्तासर्वज्ञोऽस्मिन्देहेगुहास्थानेप्रविष्ट आत्मायेनोपासकेन ज्ञातोभवतितस्योपासकस्यसविष्णुलोकएवलोकोभव
तीत्यात्मनिष्ठपुरुषस्यमोक्षउपदिश्यतेऽतोनात्मशब्दोगौणपरइत्यर्थः । आत्मशब्दोविष्णावेवनजीवेष्वित्यत्रस्पष्टश्रुतिस्मृती
श्वाह ॥ अयमिति ॥ कुतस्तस्यैवात्मत्वंनान्येषामित्यतआह ॥ तस्येति ॥ आत्मज्ञानान्मोक्षोयस्यानुवित्तइत्यादावुदा
हृतोऽतोनात्मशब्दोविष्णोरन्यत्र । तस्यैवनिर्गुणस्यमोक्षदातृत्वसंभवादित्यर्थः । मोक्षोपदेशेपिकुतोनेतरेवामात्मत्वमित्यत
आह॥सणाइति ॥विष्णोर्निर्गुणत्वेनास्तुमोक्षदातृत्वसंभावना निश्चयस्तुकुतइत्यतआह॥परोहीति॥पर स्वतंत्रः॥७॥
५/११ युक्त्यंतरेणाप्यात्मशब्दस्यगौणपरत्वंपराकुर्वत्सूत्रमुपन्यस्यव्याचष्टे ॥ हेयत्वेति ॥ यद्यात्मशब्दोगौणपरस्तर्हितमेवैकमिति श्रुत्युक्तात्मापिगौण स्यात् । नचास्त्वितिवाच्यं । तथासतिहेयत्वप्रसंगात् । नचास्य हेयत्वमुच्यते । प्रत्युतजानथेत्यस्याहेय त्ववचनात् । नचगौणस्याप्यहेयता । अन्यावाचोविमुंचथेतिगौणात्मनोहेयत्ववचनात् । अतोनगौणआत्मशब्दवाच्यः किंतुनिर्गुणएवेत्यात्मशब्दादीक्षतिश्रुत्युक्तोपिसएव । तस्यचेक्षत्यन्यथानुपपत्त्यावाच्यत्वमितिभावः । नचवाच्यंसगुणपरो प्यात्मशब्दोमोक्षदातृत्वाहेयत्वाभ्यांनिर्गुणलिंगाभ्यामपहीयतइति । तस्यमुख्यतोजीववाचित्वएवमानाभावात् ॥८॥ युत्यंतरेणापिनिगुणस्यवाच्यत्वंप्रतिपादयत्सूत्रमुपन्यस्यज्याचष्टे ॥ खाप्यूयादिति ॥ अदोमूलरूपंपूर्णमिदमवताररूपं चपूर्ण तत्पूर्णसृष्टिकालेपूर्णान्मूलरूपादुद्रिच्यते । प्रलयेचपूर्णस्यस्त्रस्यपूर्णमवताररूपस्वीकृत्यैकीभूय मूलरूपमन्यत्रालीनं स्वयमवशिष्यतइतिनिर्गुणस्यैवश्रुत्युक्तत्वाद्भ(त्वाञ्चभ)वत्येवासौवाच्यः । नचायगौणः । पूर्णत्वात्स्वस्थस्वस्मिन्नययाच्च । गौणस्यापूर्णत्वादन्यस्मिल्लयाच्चेत्यर्थः । नन्वयंस्वाप्ययवानन्यत्रालीनोपिगौण स्यान्निर्गुणोऽन्योऽस्तीतिचेन्न । यद्ययंस्खा प्ययवान्गौणस्तयंनिर्गुणश्चोभौप्रलयेलयहीनौतिष्ठतउतैकस्मिन्नन्यस्यलयोभवति । नाद्यः । इदंवाऽनेनैवकिंचनासीदि त्यादिश्रुतिविरोधात् । द्वितीयेपिनतावद्वौणस्यनिर्गुणेलयः। तस्यस्वाप्ययेनावस्थानाभ्युपगतेः। तथाचनिर्गुणस्यसगुणे लयोवक्तव्यः । अस्त्वितिचेत्तत्राह ॥ नहीति ॥ गौणात्मनिजीवेनिर्दोषस्यनिर्गुणस्यपरमात्मनोलयोनोपपद्यते । यत्प्रयं तीत्यादिश्रुतिविरोधात् । अतोऽयमनन्यलीनोनिर्गुणएव । तस्यचश्रुत्युक्तत्वेनवाच्यत्वमितिभावः । यद्यपीयंनिर्गुणस्थवा - J व्यत्वेऽभ्युच्चययुक्तिस्तथापिश्चुत्युक्तत्वाञ्चनिर्गुणोवाच्यइतिबहिरेवोक्ते (वोक्त्वा)कुतोयंनिर्गुणइतिशंकापरिहारात्मकत्वात्लू प्रकाशि त्रस्यतत्रभाष्येचचशब्दाभावः । अन्नगौणादिव्यपदेशःसत्त्वादिधर्मवत्वाविषयएवेतिसूचनायनिर्दोषस्यति ॥९॥नम्वरत्वेवानि गुणस्यवाच्यत्वोपपत्तौयुक्तंतस्यकारणत्वेनशास्त्रयोनित्वं । तच्चप्रसिद्धशाखासूपक्रमादिविचारेऽस्तुब्रह्मणःकारणत्वेनप्रतिपा द्यत्वं । अप्रसिद्धशाखासुपुनरन्योपिकारणतयोच्यतां । तासामानंत्येनानिश्चयादित्यतआह ॥वचेति ॥ तनहेत्वाकांक्षा यांसूत्रसुपन्यस्यव्याचष्टे ॥ गतीति ।। सर्ववेदाः सुाप्रमाणमूलभूतंयासांतायुक्तय इतिहासच ब्रह्मविषयमेकविधमेव ज्ञानमुत्पादयंति नपुनर्वेदादिशुकश्चिद्विरोधोस्तीतिश्रुत्यास्वयमेजसर्वशाखाधुत्पाद्यज्ञानस्यैकविधत्वकथनानकासुचिच्छाखा खन्यथोग्यताइत्यर्थः । एवंब्रह्मणोऽवाच्यत्वं निराकृत्यतदेवशास्त्रयोनीत्युक्तम् ॥१०॥ पुनःसिंहावलोकनन्यायेननिर्गुण स्थब्रह्मणोवाच्यत्वंयुक्त्यंतरेणप्रतिपादयसूत्रमुपन्यस्यतदुपात्तश्रुतिमेवोदाहरति ॥ श्रुत्वाचति। एकाप्रधानः सर्वभूते पुगुप्ततयाऽवस्थितः । न केवलभूतेषु सर्वव्यापीच । नसर्वभूतेषुस्थितिमात्र सर्वभूतांतर्यामीच । अध्यक्षोऽधिपतिः । सर्वभू तानामाश्रयः । सर्वसाक्षादीक्षतइतिसाक्षी । चेताज्ञानरूपः । केवलोजडामिनः । निर्गुण सत्त्वादिगुणहीनइतिश्रुतौनिर्ण णस्यश्रुतत्वाञ्चनासावशब्दइत्यर्थः । श्रुतत्वेष्यशब्दाकिनस्यादित्यतआह ॥ नहीति ॥ अशब्दस्थापिब्रह्मणोलक्षणया श्रुतत्वकिंनस्यादित्यतआह ॥"नचेति ॥ अवाच्यस्यलक्ष्यत्वाप्रसिद्ध प्रसिद्धमवाच्यस्यब्रह्मणोलक्ष्यत्वंकल्प्यमित्यर्थः । ॥१४॥ ननुगंगापदावाच्यस्थापितीरस्यतल्लक्ष्यत्वंप्रसिद्धमितिवेदावाच्यस्यापिब्रह्मणस्तल्लक्ष्यत्वंदिनस्यादित्यतआह ॥ सर्वेति ॥
भवेदेवतीरादेगंगादिपदावाच्यस्यापिलक्ष्यत्वंपदांतरवाच्यत्वात् नतुब्रह्मणः। तस्यसर्वशब्दावाच्यत्वात् ।सर्वशब्दावाच्यस्या पिलक्षणाया विप्रतिपन्ननलक्ष्यकेनापिपदेनावाच्यत्वाद्वैधयेणतीरवदितियुक्तिविरुद्धत्वादित्यर्थः । सर्वपदार्थानांलक्षणायो ग्यत्वान्नसपक्षसत्त्वं । ननुवाच्यत्वलक्षणायांकथमुपयोगि येनतदभावेनलक्षणायोगः। किंप्रयोजकांतरमाशंकसेप्रयोजकत्वम कारमेववापृच्छसि । नाद्यः । केवलान्वयिनिकेवलव्यतिरेकिणिचोपाधिशंकानुदयात् । केवलान्वयिनिसाध्याभावाभावेन तदविनाभाव्यभावत्वाभावात् । केवलव्यतिरेकिणिचसपक्षाभावेनव्याध्यनिश्चयात् । द्वितीयेव्याधिरेवेतिब्रूमः । किंनिबंध नाऽसावपीतिचेत् द्रव्यत्वसंयोगित्वादौकिंनिबंधना अवाच्यस्यलक्षणायांकिलक्ष्यमितिप्रश्नस्यनिरुत्तरत्वात् । नचतदेव पदंवक्तुंयुक्तं । नहिगंगापदेन किंलक्ष्यमितिप्रश्नस्यगंगैवेत्युत्तरं । अथतत्रपदांतरं । तेनापिकिलक्ष्यमितिप्रश्नस्योत्तराभावात्। अथकिंचित्पदमस्तिवाचकमितिचेत् । किंपदांतरेणापराद्धं । लक्ष्यपरपदस्यस्वरूपमात्रपरस्य(परत्वेन)वाचकत्वंयुक्तं । पदा तराणांगुणाभिधायिनांनिर्गुणेवृत्तौलक्षणैवशरणमितिचेन्न । लक्षणपदानामपिलक्ष्यगतविशेषावलंबेनवाचकत्वोपपत्तेः । लक्षणपदानांस्वरूपमात्रपरतेतिचेन्न । पर्यायतापातात् । प्रयोजनबाहुल्यादपर्यायतेतिचेन्न । वाच्यविशेषराहित्येप्रयोजनश तेनापिपर्यायताऽपरिहारात् । स्वरूपमात्रकथनस्यप्रश्नानानुगुण्याच्च । नहिस्वरूपमज्ञात्वाकश्चंद्रइतिप्रश्नोयुज्यते । अतोनल क्षणपदानामपिलक्षकत्वमित्यस्त्येववाच्यत्वस्यलक्षणोपयोगः । तस्माद्वाच्यत्वाद्ब्रह्मणोऽखिलजगत्कारणतयाशास्त्रयोनितायु केतिलक्षणंनातिव्याप्तं । ततश्चतयुक्तब्रह्मणोविष्णुत्वाद्युक्कैवतजिज्ञासेतिसिद्धं ॥ ११ ॥ अ० ५॥ अथब्रह्मस्वरूपनिरूपणे । ।
प्रकाशि ऽनवशेषात्किमध्यावशेषेणेत्यतस्तत्कृत्यमाह ॥"तमेवेति ॥ कृत्यांतराभावेपिततुसमन्वयादित्युक्तमेवोपक्रमाद्यन्वयात्सम्य निरूपणशास्त्रीयशब्दानांप्रतिवाक्यग्रहणेनप्रकटयत्यनेनाध्यायेनत्रकारः । अन्यथाप्रतिज्ञामात्रस्याऽसाधकत्वेनान्यदे वसमन्वयादित्यपिवक्तुं शक्यत्वादितिभावः । एतदधिकरणसंगतिशंकोत्थापनायसूत्रोदाहरणं । चतुर्थपादेतुनसमन्वयइत्ये तदश्रद्धेयमितिभावेनोकंसमस्तेनेति । प्रायेणेविदेवताधिकरणच्यावृत्तये । तोध्यायस्यैकार्थत्वात्पादभेदाकिंनिबंधनइत्य तःसमन्वयेप्यवांतरभेदेनेतिभावेनै(नतापदे)तत्पादप्रतिपादर्शयति ॥ प्रोयेणेति ॥ शब्दास्तावञ्चतुर्विधाः । अन्यत्रैवप्र सिद्धा उभयत्र प्रसिद्धा अन्यत्र प्रसिद्धा स्तनप्रसिद्धाइति । सर्वपिनामलिंगात्म कत्याप्रत्येकंद्विविधाः। तेषुनतत्रप्रसिद्धानां समन्वयोवाच्यः। तेष्वन्यत्रैवप्रसिद्ध शब्दसमन्वयस्यप्रथममबुद्धयारोहाचतुर्थेतदुक्तिः । उभयत्र प्रसिद्धानामन्यत्रप्रसिद्धि पराकरणमात्रस्थान्यत्र प्रसिद्धानांतत्प्रसिद्धि निराकरणपूर्वकंभगवत्परत्वप्रतिपादनादमुख्यत्वेनप्राथम्यायोगात्तृतीयेतदुक्तिः। अन्यपराणांमध्येलिंगात्मकानांधर्मवाचित्वान्नामात्मकेभ्योधर्मिवाचिभ्योऽमुख्यत्वेनाप्राथम्यात्तत्समन्वयोक्तिद्धितीये। ततो न्यत्रासिद्धानांनामात्मकानांशब्दानांभगवतिसमन्वयम्प्रदश्यतेऽस्मिन्पाद इतिभावः । अत्रांतःस्थत्वलिंगसमन्वयप्रतिपाद नात्प्रायेणेति । अन्येतुब्रह्मनिष्ठतयास्पष्टलिंगानांप्रथमे द्वितीयतृतीययोरस्पष्टानां समन्वयःप्रतिपाद्यतइत्यन्यथापादार्थों नाचक्षतेतन्निराचष्टे । नान्यथेति ॥ एतदमृतमभयमेतद्ब्रह्मेत्युत्तराधिकरणोदाहृतवाक्येष्वपिस्पष्टब्रह्मलिंगानामुपलंभेनत नियमादृष्टेर्नान्यथापादार्थइत्यर्थः। नन्वत्रान्यन्त्रप्रसिद्धानंदमयनाम्नोब्रह्मणिसमन्वयसमर्थनादस्तुशास्त्राध्यायपादसंगतिः।
तथाप्यानंदमयस्यविष्णुत्वसमर्थनेकापूर्वसंगतिरित्यतःश्रुत्यधिकरणसंगतीदर्शयति ॥ ब्रह्मेति ॥ अथातोब्रह्मजिज्ञासेतिय स्यब्रह्मणोजिज्ञासाकर्तव्यतयोक्तातच्चब्रह्मतैत्तिरीयश्रुतावानंदमयस्यपुच्छाख्यावयवरूपंप्रतीयते । तस्माद्वाएतस्माद्विज्ञान मयात् अन्योतरआत्मानंदमयः तेनैषपूर्णः सवाएषपुरुषविधएव तस्यपुरुषविधताम् अन्वयंपुरुषविधः तस्यप्रियमेवशि रमोदोदक्षिणःपक्षः प्रमोदउत्तरःपक्षः आनंदआत्मा ब्रह्मपुच्छंप्रतिष्ठेति । अतःसंगतिसद्भावादानंदमयस्यब्रह्मत्वमत्रसमर्थ्य तइतिभावः । तेनानंदमयेनैषविज्ञानमयोनिश्छिद्रतयापूर्णः सएषआनंदमयःपुरुषाकारएव । तस्यानंदमयस्यपुरुषाकारता नुसारेणार्यविज्ञानमयःपुरुषाकारस्तस्मादुद्भूतः । उपकारजंप्रियं । प्रकृष्टाप्रकृष्टविषयोत्थौमोदप्रमोदौ । स्वरूपभूतआनंदः यद्वाश्रवणोत्थंप्रिय। दर्शनोत्थोमोदः।भोगोत्थाप्रमोदः। स्वरूपभूतआनंदः। तत्तत्प्रवर्तकतयाचतत्तव्यपदेशइति । ब्रह्म गो वयवत्वोक्तावपिकिमर्थमानंदमयस्यविष्णुत्वसमर्थनमित्यतआह ॥ नहीति ॥ यद्यानंदमयोब्रह्मणोन्यस्तदानब्रह्मजिज्ञा सासंभवति । अवयविनएवानंदमयस्यजिज्ञास्यत्वप्राप्तः। अवय विजिज्ञासांविनाअवयवमात्रजिज्ञासाऽयोगात् । ब्रह्मजिज्ञा साच श्रुत्युक्तानहातुंशक्या । अतआनंदमयस्यविष्णोरन्यत्वे नब्रह्मजिज्ञासासंभवतीतियतोऽतोब्रह्मजिसासिद्धयर्थमानं दमयोभ्यासादित्यानंदमयस्यविष्णुत्वमाहसूत्रकारइतिभावः। एवंसंगतिमुक्त्वाविषयसंशयौदर्शयति ॥ आनंदमयइति ॥ अत्राऽऽनंदमयोविषयः। सकिंब्रह्मादिजीवसमूहः उतचेतनप्रकृतिः अथाचेतना किंवाविष्णुः । ब्रह्माणिजीवाः ममयोनिर्म हद्ब्रह्म पंचभिःपंचभिब्रह्मेत्यादिनाजीवादिषुब्रह्मशब्दप्रयोगःसंदेहबीजमितिभावः। तत्रसयुक्तिकंपूर्वपक्षानाह ।। ब्रह्मशब्दा दित्यादिना । आनंदमयमधिकृत्यास्तिब्रहोतिचेद्वेदेतिहिरण्यगर्भनिष्ठब्रह्मशब्दशवणात्तस्यानंदमयत्वंयुज्यते । ब्रह्मशब्द ঘাষ্টি स्यान्यत्रापिवृत्तेः कथंतेनतन्निश्चयइतिचेत् । आनंदमयशब्दार्थवच्छतानंदनानावहिरण्यगर्भविद्यमानेनतस्यप्राप्तेः । रुद्र स्यवाऽऽनंदमयत्वप्रातिः। यश्चासावादित्यइत्यानंदमयस्यसूर्येप्रोक्तत्वाइद्रस्यसूर्याचष्टप्रतिमत्वात् । तथाचविष्णुपुराणे । सूर्योजलमहीवह्निर्वायुराकाशमेवच । दीक्षितोब्राह्मण सोमइत्येतास्तन क्रमादिति । एवमिंद्रग्रहस्पत्यादीनामपिसूर्याधि छातृत्वादिनाऽऽनंदमयत्वप्राप्तिः । चित्प्रकृतेर्वाआनंदमयत्वप्राप्तिः। आनंदमयनिष्ठब्रह्मशब्दस्यममयोनिमहोतिचित्र कृतीप्रयोगात् । कथंसावकाशब्रह्मशब्देनायनिर्णयइतिचेत् सोकामयतबहुस्यामित्यानंदमयस्यबहुभावनवणात् । तदभि मानित्वाच्चित्प्रकृतेः । अचित्प्रकृतेर्वानंदमयत्वप्राप्तिः । बहुभावादेव । तत्तहेहगतसर्वजीवानांवाऽऽनंदमयत्वप्राप्तिः । बृह जातिजीवकमलासनशब्दराशिवितिधातो वेष्वपिब्रह्मशब्दात् । नचवाच्यंब्रह्मशब्दस्यसाधारण्याननिश्चायकत्वमिति । अन्नरसमय प्राणमय इत्युक्ताऽन्नमयादीनामन्नादिविकाराभिमानित्वेनजीवत्वात् । तत्प्रायपठितानंदमयत्वेपिजीवानांपाते। यद्यपिब्रह्मशब्देनविष्णोरप्यस्तिप्राप्तिस्तथापिनासावानंदमयः। विष्णोरानंदमयावयवत्वोक्तः । तस्यचाऽऽनंदमयत्वेतदव यवत्वविरोधात् । तथाचाऽऽनंदमयस्याब्रह्मत्वेननतदवयवब्रह्मजिज्ञासासंभवतीत्याशयः । सिद्धांतयति । तथापीति ॥ यद्यप्येवमन्येषांमाप्तिस्तथापीत्यर्थः । कस्तहीत्याशंक्यसंगत्यर्थमुदाहृतसूत्रप्रतिज्ञाभार्गव्याचष्टे ॥ किंत्विति ॥ कुतोविष्णु रेवानंदमयइत्यतःसौत्रंहेतुंब्याचष्टे ॥ तदेवेति ॥ असन्नेवसभवति असहलोतिवेदचेत अस्तिब्रह्मेतिचेद्वेदेत्यानंदमयेब्रह्म MANDAE शब्दाभ्यासाद्विष्णुरेवानंदमयः । ब्रह्मशब्दस्यतदेवब्रह्मेत्यादिश्रुतिस्मृतिषुविष्ण्वेकनिष्ठत्वोक्तेः । नचततएवहिरण्यगर्भा दीनांप्राप्तिःशंक्या । तेषामपूर्णत्वेनब्रह्मशब्दमुख्यार्थत्वाभावस्याप्युदाहृतश्श्रुत्यादिसिद्धत्वात् । मुख्यार्थत्यागेनामुख्यार्थ ग्रहणायोगादितिभावः ॥१२॥ उक्तार्थमाक्षिप्यसमादधत्सूत्रंपठित्वाव्याचष्टे ॥ विकारेति ॥ नायमानंदमयोविष्णुःकिं तुमागुक्तप्रकृत्यादयएव । विकाराभिधायकमयटशब्दप्रयोगात् । विकारार्थशब्दवाच्यत्वंहि विकारित्वविकाराभिमानित्वा भ्यांसंभवति । तथाचविकारात्मकत्वादचित्प्रकृतेश्चेतनप्रकृत्यादीनांविकाराभिमानित्वात्तेषुमयशब्दोयुज्यतेनविष्णोस्त स्याविकारित्वादतदाभिमानित्वाच्चेतिशंकामाभूत् । यतःप्रचुरानंदत्वादानंदमयपदेनानंदमयःकथ्यतेनत्वानंदविकारत्वात। तादात्म्यार्थेविकारार्थेप्राचुर्यार्थेमयनिधेतिप्राचुर्येपिमयदप्रयोगादितिभावः । आनंदप्रचुरइतियधुच्यते(यथास्थिताभिधा ने)ब्राह्मणप्रचुरोग्रामइत्यादिवदनानंदस्यापिप्राप्ते प्रचुरानंद इतिविपरीतसमासःकृतः । प्रचुरानंदइत्यभिधानेपूर्णानंदइत्येव प्रतीतेः । नायमानंदमयशब्द प्रचुरानंदतामभिधत्तेकिंतुविकारार्थत्वमेव । अन्नादिविकारार्थान्नमयादिशब्दैःसहपठितत्वा दित्यतआह ॥ अन्नादीनांचेति ॥ भवेत्यायपाठविरोधोयद्यानंदमयपदेनैवानंदप्राचुर्यमुच्यतइत्यभ्युपगतिः। नासाव स्ति । अन्नादीनांचप्राचुर्यमेवान्नमयादिशब्दार्थ इत्यभ्युपगमादितिभावः। ननुकथमत्रान्नमयशब्दोऽन्नप्राचुर्यार्थः । अन्नप्राचु येकथनस्यात्यल्पत्वादित्यतआह ॥ अद्यतइति । अन्नप्राचुर्यचान्नमयशब्दार्थोयुज्यते । अत्रानशब्देनभूताधत्वतदत्तृत्व स्याभिधानेनाल्पार्थत्वाभावात् । प्रसिद्धान्नाथत्वएवतत्प्राप्तेः । कुतोयमन्नशब्दार्थोनप्रसिद्धान्नंयेनाल्यार्थत्वाभावः । L अद्यतेत्तिचभूतानितस्मादनंतदुच्यतइत्यन्नशब्द व्याख्यानात्प्रसिद्धान्नस्यभूतात्तृत्वायोगादितिभावः । ननुप्रचुरभूताच त्वंकथमभिसंहितंबाण इत्यतआह ॥ उपजीव्यत्वमेवेति ॥ ओषधीभ्योशं अन्नात्पुरुषइतिमसिद्धानविकारदेहमु क्त्वासवाएषपुरुषोन्नरसमयइतितत्परामर्शात्कथमन्नमयशब्दस्तत्माचुर्यार्थ इत्यतआह ॥ संहति ॥ भवेदेतद्यदिप्रसिद्धा नविकारपुरुषपरामर्शायभवेत् । नचैवंयस्मादात्मनआकाशादिकमुत्पन्नसएपइत्यात्मपरामर्शोपपत्तेरित्यर्थः । किमर्थमसौ परावृश्यतइत्याशंकापनोदायपरामर्शादितिवक्तव्येप्रारंभादित्याह । आत्मनआकाशादिकारणत्वमुक्त्वा तस्यैवान्नमयादि पंचरूपत्वप्रदर्शनायपुनःप्रक्रांतत्वान्नतत्परामर्शवैयर्थ्यनितिभावः । एवंप्राणमनःशब्दयोश्चेष्टकत्वावबोधार्थत्वेनप्राचुर्यार्थ तयाऽल्पार्थतापरिहरणीयेति । नन्वेवमयदशब्दस्योभयार्थप्रयोगादत्राप्युभयपक्षेदोषादर्शनाकियाचुर्यमेवार्थोन विकारित्वं पंचमयटामित्यत्र नियामकं । अन्नमयादिपंचानांब्रह्मताभ्युपगतावेकमेवाद्वितीयमित्यादिश्रुतिविरोधश्वस्यादित्यतआह॥ येऽनमिति ॥ येऽब्रह्मोपासते येप्राणब्रह्मोपासते आनंदंब्रह्मणोविद्वान् विज्ञानंब्रह्मचेद्वेद अस्तिब्रह्मेतिचेद्धे देत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषुतद्विषयत्वेनब्रह्मशब्दश्रवणादुभयथापिसंभवतांमयटामनन्यथासिद्धतत्समभिव्याहारानति कारित्वमर्थोऽपितुप्राचुर्यमेवेतिनिश्चीयते । नचान्नमयादीनांपंचानामपिब्रह्मत्वाभ्युपगतावेकमेवाद्वितीयमित्यादिश्रुतिविरो धः । एकस्यैवब्रह्मणोबहुरूपत्वेनपंचत्वोपपत्त्याश्रुत्यविरोधादितिभावः। एवमन्नमयादिपंचकमपिब्रह्म तद्गतमयटांप्राचुर्यार्थ तैव सावकाशस्यनिरवकाशब्रह्मशब्दबलादेकार्थत्वोपपत्ति(ते)रित्युक्तीअन्येत्वानंदमयएवब्रह्म तद्गतमयटएवप्राचुर्यार्थतेतिक 81 KARMA ल्पयंतितदयुक्तमित्याह। 'नचेति ॥ नचेयंकल्पनायुक्ता।प्रायपठितमयटामर्थद्वैविध्यकल्पनस्यक्लिष्टत्वात्। ततश्चैकस्यैवब्रह्म त्वक्लिष्टमितिभावः । नचसूत्रविरोधः । यदाखलुब्रह्मशब्दादानंदमयस्यब्रह्मतामसाधयत्सूत्रकारस्तदाब्रह्मशब्दवतामन्नमया दीनांचब्रह्मतामनुजज्ञे । तथैवद्वितीयंसूत्रंनेयं अन्यथाऽन्नमयादिषुसन्नपिब्रह्मशब्दोब्रह्मतामसाधयन्कथमानंदमयस्यापि साधयेत् कथंचान्नमयादिषुस्थितोमयट्शब्दःप्राचुर्यार्थतामलभमानआनंदमयेश्रुतोलभेत । नचास्तितत्रबाधकविशेषोयेन द्वैविध्यंकल्प्येत । अन्नमयादीनामपितर्हिब्रह्मतांकिनासूत्रयदितिचेत् । सूत्रस्यालाक्षरत्वादेव । आदिमत्त्वेप्यन्नमयादी नामानंदमयस्यसंगतत्वेनग्रहणं । यस्त्वन्नमयादीनांपंचानामप्यब्रह्मतांब्रूतेसतुसूत्रकारेणैवपूर्वपक्षीकृतइतिनतत्पक्षप्रत्याक्षि पद्भाष्यकारः । नन्वानंदादिस्वरूपस्यब्रह्मणःकथंप्रचुरानंदत्वादिकंघृतप्रचुरओदनइत्यादौभेदएवप्रयोगादित्यतआह ॥ खरूपेचेति ॥ यथाप्रकाशस्वरूपेऽपिरविबिंबविशेषेणप्रचुरप्रकाशोरविरितिव्यपदेशस्तथाऽऽनंदादिरूपेऽपिहरौविशेषण तव्यपदेशोयुज्यतइत्यर्थः ॥ १३ ॥ एवंप्रचुरानंदत्वेनानंदमयपदवाच्योविष्णुरेव ब्रह्मशब्दाभ्यासादित्युक्तं तदेवहेत्वंतरेण प्रतिपादयत्सूत्रमुपन्यस्यतदुपात्तश्रुतिमेवोदाहरति ॥ "तंडेविति ॥ आसमंतात्काशमानोविष्णुर्यदिपूर्णानंदोनस्यात्तदा सौनलोकंप्रवर्तयेत् । आनंदोद्रेकमंतरेणतत्प्रवृत्तौकारणाभावात् । तथाचकोलोकंचेष्टयेद्धर्मादौचकःप्रवर्तयेत् । अन्यस्यास्वा तंत्र्यात् । अतोलोकचेष्टाऽन्यथानुपपत्त्यातत्काविष्णुःपूर्णानंद स्यादित्यानंदमयप्रकरणेविष्णोरेवानंदपूर्णत्वएवलोकचेष्टक त्वाख्यहेतुव्यपदेशाद्विष्णुरेवपूर्णानंद(वानंदपूर्ण)तयाऽऽनंदमयइतिभावः ॥१४॥ यदुक्तंब्रह्मशब्दादन्नमयादीनांविष्णुत्वमि तिनतयुक्तीब्रह्मशब्दस्यापरब्रह्मण्युपपत्तेः । ब्रह्मशब्दस्यपरब्रह्मणिमुख्यत्वेपिविष्णोरानंदमयावयवत्वोत्न्यादिनाऽमुख्यस्यैव प्रकाशि० श्रहणोपपत्तेरित्याशंकांपरिहरत्सूत्रपठित्वाव्याचष्टे ॥ मानवार्णिकमेवचेति ॥ नेदमानंदमयादिपंचकमपरंब्रह्म । यतःल त्यंज्ञानमनंतंब्रीतिमंत्रवर्णेलक्षणवत्तयोक्तपरमेवब्रह्मानमयादिशब्दपंचकेनगीयते ॥ तत्कुतइत्यतउक्तंशब्दानुसंधानादिति । सत्यज्ञानानंतशब्दानामन्नमयादिशब्दानांचार्थानुसंधानेसत्येकार्थत्वप्रतीते। मंत्रवर्णेपिब्रह्मेत्येवोक्तत्वात्कथंतदर्थभूतानाम प्यन्नमयादिशब्दानांपरब्रह्मार्थतेत्यतउक्तंब्रह्मविदिति । ब्रह्मविदामोतिपरमितिसूचनयापरब्रह्मतज्ज्ञानतत्प्राप्तिकथने किंत त्परंब्रा कथंचतद्वेदनं कीदृशीचतत्प्राप्तिरितिशंकात्रयमुदेति । तत्रादिशंकापनोदायपरब्रह्मणोलक्षणमुच्यते सत्यमिति यो वेदेतिवेदनं सोश्रुतइतिप्राप्तिः । अतोमंत्रवर्णेपरब्रह्मैवोच्यतइति तदुक्तंपरमेवब्रह्म शब्दानुसंधानादन्नमयादिशब्दैर्गीयतइ ति नापरब्रह्मशंकात्रकार्येतिभावः। चशब्दोविष्णोरानंदमयत्वेयुक्तिसमुच्चयार्थः । ननुकथविष्णोरानंदमयत्वंतस्यानंदम यावयवत्वादवयविनश्चावयवत्वविरोधादित्यतआह ॥ "नचेति ॥ नविष्णोरानंदमयत्वेतदवयवत्वविरोधः । सशिरइत्या दिश्रुताववयविनएवावयवत्वोक्तेरवयवाद्यभेदादितिभावः । अवयविनोऽवयवत्वंविरुद्धमित्याशंकांपरिहर्तुस्मृतिचाह ॥ शिरहति ॥ अघटितघटकेश्वरशक्त्यानावयविनोऽवयवत्वंविरुद्ध मित्यर्थः । किंच किंप्रमाणेनावयविनोऽवयवत्वंविरु द्धमुतावयवीनावयवोऽवयवित्वाल्लोकवदितितर्केण । नायः। असिद्धत्वात् । द्वितीयंनिराचष्टे ॥ अंतक्यइति ॥ अत य॑त्वात्कुतस्तस्मिंस्तर्क साधकोबाधकोवाभवेदित्यर्थः ॥ अस्तुवातस्यतय॑त्वं तथापिनतद्विरोधः । लोकेपरिमितशक्तित्वेन विरोधात् । विरोधोपयोगिपरिमितशक्तेरपरिमितेभगवत्यभावादितिभावेनाह ॥ अप्रमेयइति ॥ यदवादिसवाएषइत्यन्य परामर्शोनान्नात्पुरुषइत्युक्तपरामर्शइति तदयुक्तं । आत्मनोदूरस्थत्वात् । देहस्यसमीपस्थत्वात्समीपोक्तपरित्यागेनदूरस्थ परामर्शग्रहणेकारणाभावात् । प्रकृतस्यैवपुरुषशब्देनोक्तेरात्मनस्तदभावाच्च । एकेनैवशब्देनद्विरुक्तेनभेदश्रुतिविनावस्तुद्ध योक्तिग्रहणायोगादित्यतआह ॥ रसेति ॥ सवाएपपुरुषइतिवाक्येनब्रह्मचैतन्यमेवपरामृश्यतेनदेहः । नचतस्यदूरोक्तिवि रोधःपुरुषपदेनाप्रकृतत्वविरोधश्च । यतआकाशादिपुरुषांतशब्दैरुक्तमाकाशादिसारभूतंब्रह्मचैतन्यमेवपरामर्शवाक्येनोच्य ते । एवंतर्हिपुरुषपदेनद्वयोरप्युक्तत्वादुभयपरामर्शीयमस्त्वितिनवाच्यं किंतुपुरुषसारभूतंब्रह्मचैतन्यमात्रमेवान्यद्विहायोच्य ते । कुतएतत् । रसशब्देनविशेषणात् । यथाप्रकृतिपुरुषंचेतिपुरुषशब्देनद्वयोःप्रकृतत्वेपिदुःखानुभवितृत्वविशेषणेनपुरुषः प्रकृतिस्थाहीतिजीवएवोच्यते । एवमन्नात्पुरुषइत्युभयो प्रकृतत्वेपिसवाएषपुरुषोन्नरसमयइतिसारान्नमयत्वविशेषणेनपरमा त्मपरामर्शएवेतिज्ञायतइतिभावः । उक्तंच । बहूनांसहनिर्देशएकयाऽभिधयैवतु । तयैवाभिधयातेषापरामृश्यैकमुच्यतइ ति । एतच्चसविस्तरमुक्तमुत्तरप्रस्थानेब्रह्माशब्दोदितेतस्मिन्नित्यादिना । नन्वन्नमयप्राणमयमनोमयविज्ञानमयानंदमयामेशु ध्यंतामितिस्थानांतरेप्रार्थितशुद्धीनामन्नमयादीनांकथंब्रह्मतोच्यतइत्यतोवाह ॥ रसेति ॥ भवेदेतद्यदिप्रार्थितशुद्धयोन्नम यादयोप्यत्रोच्यते ॥ नैतदस्ति किंतु तत्तत्कोशगतंतत्तन्नियामकब्रह्मचैतन्यमेवोच्यते । कुतः। अन्नरसमय इत्यादौरसोवेंस इत्यंतेचैतेषांकोशव्यावृत्त्यर्थमेवरसशब्देनविशेषणादित्यर्थः। ननुयदिपरिदृश्यमानदेहएवनान्नमयकिंतुब्रह्मैव । कथंतहित त० प्र०४ तत्व स्येदमेवशिरइतिप्रत्यक्षनिर्देशोयुज्यते । नचवाच्यमुपनिषद्ष्टामुनिब्रह्मापरोक्षीकृत्यप्रत्यक्षतोनिर्दिशतीति । तथासतितेना प्रकाशिः परोक्षीकृतप्राणमयादौतत्प्रसंगात् । निर्देशवैयर्थ्याच्चैत्यताह ॥ इदमिति ॥ दृश्यमानशिरपक्षादावन्नमयभगवच्छिरः पक्षादेःसंनिहितत्वादनप्रावृतजानुवदिदमितिचनिर्देशोयुज्यतइत्यर्थः। ननुतथापितस्माद्वाएतस्मादन्नरसमयादन्योतरआ त्माप्राणमयइत्यन्योन्यमन्यतयोक्तानमयादीनांकथंब्रह्मतेत्यत आह ॥ अनन्योपीति ॥ अन्यशब्देनप्रोच्यतइत्यन्वयः। ए कोबहुरूपवान्भवतीत्यनेनबहुरूपत्वान्नविरोधइत्येतदपिप्रमापितस्यात् ॥ १५ ॥ नन्वेवमयटांप्राचुर्यार्थत्वमुक्त्वातथात्वेक थंचिदल्पार्थतांपरिहृत्यभूताद्यत्वस्यार्थातरमभिधायपरामर्शस्यान्यपरत्वंसमर्थ्यबहुभावस्यस्वरूपविषयत्वंगृहीत्वापुच्छत्वोक्ते रविरोधमापायेदमितिनिर्देशस्यलाक्षणिकत्वमंगीकृत्यापिकिमन्नमयादीनांविष्णुत्वग्रहणेन । विरिंचादयएवानंदमयादयःसं तु तत्प्रापकसभावात् । नचोक्तहेतुभ्यस्तद्रहणं । ब्रह्मशब्दस्यापरब्रह्मस्वपिसंभवात् हेतुव्यपदेशस्यचविष्णुनिष्ठतयास्पष्टम प्रतिभानात् मंत्रवर्णार्थिकसमाख्यायाश्चसूर्येप्रोक्त(त्वादिलिंगे)त्वलिंगादिभ्योदुर्बलत्वेनसावकाशत्वात् । अनन्यथासिद्ध हेत्वंतरस्यचाभावादित्यतआह ॥चेति ॥ तत्रहत्वाकांक्षायांसूत्रमुपन्यस्यप्रतिज्ञांशस्यप्राचीनभाष्येणैवव्याख्यातत्वा सौत्रमनन्यथासिद्धहेतुमेवव्याचष्टे ।। नेतर इति ।। लानंदमयादिविष्णोरितरः । ब्रह्मविदालोतिपरमित्यादावानंदमयादि ज्ञानेनमोक्षश्रवणात् । नचान्यज्ञानान्मोक्ष उपपद्यतइत्यर्थः । विष्णुज्ञानादेवमोक्षोनान्यज्ञानादितिकुतइत्यतआह ॥ "तमे वामिति ॥१६॥ हेत्वंतरेणब्रह्मादीनामानंदमयत्वंनिराकुर्वत्सूत्रंपठित्वाव्याचष्टे ॥ भेदेति । नेतरइत्यनुपज्जते । तेयेशतंप्र जापतैरानंदाः सएकोब्रह्मणआनंदइतिरुद्राच्छतगुणमात्रानंदत्वोक्ते तावदानंदमयोविरिंचः । यतोवाचोनिवर्तते अप्राप्य सनसासह आनंदंब्रह्मणोविद्वानित्यानंदमयस्यापरिमितानंदत्वोक्तेः । अतएवनरुद्रः। तस्य हिरण्यगर्भाच्छतांशोनानंदत्वो केः । एवंनेंद्रबृहस्पत्यादयोपि । अदृश्ये स्वामिरहिते जैवगुणविधुरेवा । साकल्येननिर्वचनागोचरे । अपराश्रयेत स्मिन्नानंदमयेयोऽभयतयाध्यानरूपांप्रतिष्ठांविंदतेअनंतरंसउपासकोभयंभगवंतंगतोभवतीतिश्रुतौप्रकृत्याद्ययोग्यखातंत्र्या दिश्रवणानप्रकृत्यादीनामानंदमयत्वं । सयश्चायमित्यानंदमयस्यापकृष्टोत्कृष्टजीवेषुपुरुषादित्यपदोपलक्षितेषुस्थितिकथ नानानंदमयोब्रह्मादिजीवसमूहइत्याशयः । नन्वस्त्वानंदमयःपरब्रह्म तथापिकथंतेनब्रह्मादीनांभेदःसंभवति । तद्दे दस्यतत्त्वमसीत्यादिश्रुतिविरोधादित्यतआह ॥ "नचेति ॥ भवेदेतद्ययेतच्छ्रुतीनामद्वैतार्थतास्यात् । नचैवं । नामानिसर्वाणीतिश्रुत्यातत्त्वमस्यादिशब्दैविष्णोरेववाच्यत्वोक्तरित्यर्थः । संतुवैताःश्रुतयोऽद्वैतपरास्तथापिनोक्तभेदस्य तद्विरोधः भगवतःसकलस्वामित्वेनैक्यव्यपदेशोपपत्तेरित्येतत्प्रमाणेनाह ॥ इदमिति ॥ इदंविश्वभगवानिवोच्यतेस्वय सितरोपिसन् ॥ यतःकारणाजगत्स्थाननिरोधोत्पत्तिकर्तेत्यर्थः । एतदेवाह । असर्वइतिवाक्यंच । ननुभेदज्ञानस्यमिथ्याज्ञा नत्वात्कथंतदनुसारेणैक्य श्रुतयोयोज्यंतइत्यतआहः॥ विद्यति ॥ नचभिदायाअबोधइतिव्याख्येयं । अज्ञानस्यविद्यात्वा भावात् । ननुभेदज्ञानस्यापुरुषार्थहेतुत्वात्कथंतस्यविद्यात्वमित्यतआह ॥ भेदृष्टयेति ॥ वेदगर्भोजीवेश्वरभेदज्ञानेनपरमे श्वरबहुमानेनचानंदादिगुणपूर्णब्रह्मप्राप्तइतिस्मृत्यर्थः । सर्वसेव्यमीशंजीवादन्यंतदेतत्सत्यमित्यादिश्रुत्यामागुतप्रकारेणा Doorsana तत्व स्वमहिमानंचयदापश्यतितदामुक्तोभवतीतिश्रुत्यर्थः । एवंस्वामित्वार्थतयाऽद्वैतश्रुतीाख्यायांतर्यामित्वार्थतयापिता श्रु प्रकाशि० तिस्मृतिभ्यांच्याचष्टे ॥ असर्वइति ॥ असर्वात्मकोपिसर्वात्मकत्वेनांतर्याम्ययनंतर्यामित्वेनदेहांतर्गतोपिबहिर्मात्रवृत्तित्वे नज्ञायते तथैकएवबहुधाज्ञायतइत्यर्थः । अनेनांतर्यामित्वादसर्वस्थसर्वत्वोक्तिरितिसिध्यति । विशिष्टैक्यार्थतयाचताःस्मृ त्याव्याख्याति ॥ तदिति ॥ एतदित्यस्यविवरणपुरुषमेकमिति । अत्रपुरुषैक्यंनिराकृत्याद्वैतश्रुतिविरोधपरिहारायतद र्थत्वेनबहूनामितिविशिष्टैक्यमुच्यते । नन्वेवमद्वैतश्श्रुत्यभावेकथमद्वैतं श्रुत्यादिनानिषिध्यते । तस्याप्रत्यक्षत्वेन श्रुतिविनाप्रा त्यभावात् । अप्राप्तस्यचनिषेधायोगादित्यतआह ॥ उक्ताचेति ॥ नचतत्त्वमस्यहब्रह्मास्मीत्यादिश्रुतिविरोधइतिभाष्येऽद्वै तनिषेधायश्चत्यर्थापरिज्ञाननिमित्तमातेरुक्तत्वाधुज्यतेतन्निषेधइत्यर्थः ॥ नन्वेतच्छ्रुतीनामविरोधकत्वेपिब्रह्मैवसन्ब्रह्माप्येती तिश्रुतिविरोधस्तुभविष्यति ॥ अनब्रह्मवेत्यब्रह्मतानिषेधेनतदधीनत्वादिनाऽतद्भूतेतब्धपदेशइत्युक्तगतेरसंभवादित्यतआह॥ ब्रह्मवेति ॥ नात्रपरब्रह्मत्वाभिप्रायोयमाद्योब्रह्मशब्दः किंतुब्रह्माणिजीवाःसर्वेपीतिश्रुतेर्जीवपरएव । तथाचजीवभावमवि हायैवब्रह्माप्नोतीत्यर्थोपपत्तेनोक्तभेदस्यैतच्छ्रुतिविरोधइत्यर्थः । ब्रह्मशब्दस्यपरब्रह्मणिमुख्यत्वान्नजीवेऽसावुपपद्यतइत्यता ह ॥ उपपद्यतेचेति ॥ परब्रह्मणिमुख्योपिब्रह्मशब्दोजीवेप्युपपद्यते । जीवस्यपरब्रह्मत्वार्थतास्वीकारेब्रह्माप्येतीतिश्रुतब्रह्म प्राप्तिविरोधात् प्रमाणांतरविरोधाच्चेत्यर्थः । ननुविस्मृतकंठमणिरपिस्मृतकंठमणिरित्येवोच्यतेनतुप्राप्तमणिरिति परमंसा ॥२०॥ म्यमुपैतीत्यादावप्राप्तभोगादेरपिप्राप्त्युक्तेः । ननुसंसारिणोपिविमुक्तश्चविमुच्यतइतिविमुक्तत्वश्रवणात्तदन्यथानुपपत्त्यात ७.५ स्यपरब्रह्मत्वसिद्धेस्तद्विरोधोभेदाभिधानस्येत्यतआह ॥ प्रमादेति ॥ जीवस्यपरब्रह्मत्वाभावेपिविमुक्तत्वोक्तियुज्यतेतगतबं धस्याज्ञानमूलत्वेनास्वाभाविकत्वात् । अस्वाभाविकेचाविद्यमानप्रयोगदर्शनादितिभावः । बंधस्यास्वाभाविकत्वंकुतइत्यत आह ॥ मुक्तिरिति ॥ १७॥ ननुभेदोक्तेःश्रुत्यविरोधेपिविमतानिशरीराणिमद्भोगायतनानिशरीरत्वादित्याद्यनुमानविरो धस्तुभविष्यतीत्यतआह ॥ नचेति ॥ तत्रहत्वाकांक्षायांसूत्रमुपन्यस्यव्याचष्टे ॥ कामाचेति ॥ किमद्वैतंश्रुत्याद्यनुकूले नानुमानेनसाध्यतेपृथगनुमानेनवा । नाद्यः । अद्वैतश्रुत्यादेरभावस्योक्तत्वात् । नद्वितीयः । पृथगनुमानस्यकामगामित्वे नादृष्टार्थविषयेऽनपेक्षिततयोक्तबाधकत्यायोगादितिभावः । अत्रैवस्मृत्यादिसंमतिमाह ॥ उक्तंचेति ॥ श्रुतेरनपगात दनुकूला । एषापरब्रह्मविषयामतिस्तकेंणानेयाऽऽपाद्याऽपनेयानिराकार्याचनभवतीत्यर्थः ॥१८॥ नन्वस्त्वेवमानंदमयेनपर ब्रह्मणाहिरण्यगर्भादिजीवानांभेदः सोपिसांसारिकोनपारमार्थिकोऽभिहितवाक्यानांसांसारिकभेदपरत्वेनोपपत्तेरित्याशंकांप रिहर्तुसूत्रपठति ॥ अस्मिन्निति ॥ अस्येतिनानंदमयपरामर्शोऽपितुनेतरइत्युक्तजीवस्यैवेत्याह ॥ अस्येति ॥ अस्यान्यस्य चेत्यन्यथाप्रतीतिनिरासायाह ॥ युक्तीति ॥ नकेवलंभेदव्यपदेशादानंदमयेनजीवानांभेदः । किंनामअस्मिन्प्रकरणेऽस्यजी वस्यानंदमयेनसहमुक्तावपिसंबंधमेवश्रुतिःशास्ति । ततश्चतयोर्भेदएवनत्वैक्यम् । नापिसांसारिकएवभेदः। संबंधस्यभेद सापेक्षत्वादित्यर्थः । किंतद्योगशासनमित्यतआह ॥ सोऽश्नुतइति ॥ इत्यादीत्यस्यशास्तीतिसूत्रपदेनान्वयः । अथवाहेत्वंत रेणदेहादीनामन्नमयादित्वनिरासकमेतत्सूत्रं । तदुक्तं । योगमन्नमयाद्यैर्यत्फलत्वेनास्यशंसति । स्थानद्वयेप्यतःकोशाएतइत्य प्रकाशिक HMISHRA तिसाहसमिति । तस्मात्सकलजीवादिभिन्नंपरबलौवान्नमयादिपंचरूपमितियुक्तातजिज्ञासेतिसिद्धं ॥ १९ ।। अ० ६ ॥ अपरमात्मन्यन्यन्त्रप्रसिद्धंद्रादिनामसमन्वयासियर्थमंतस्थत्वलिंगसमन्वयसमर्थनादस्तिशास्त्रादिसंगतिः । श्रुत्यधिकरण ॥२१॥ संगतीदर्शयति । अदृश्यइति । अदृश्येऽनात्म्येऽनिरुक्तेइत्यानंदमयस्ययदहश्यत्वमुक्तं तन्चाताप्रविष्टमितिवाक्ये कस्य चिदंताप्रविष्टस्य सहैवसंतनविजानंतिदेवाइत्युच्यते । सोऽतस्थोनिर्णेयोभवति । तस्यविष्णोरन्यत्वेऽदृश्यत्वंचतस्यैवेत्यानं दमयस्यान्यत्वप्रसंगात् । सोऽतस्थोविषयः । विष्णुरन्योवेतिसंदेहः ।। अदृश्यत्वलिंगमिंद्रादिश्रुतिश्चमावल्याद्यविवेकेनसं देहबीजमितिभावः । तत्रसयुक्तिकंपूर्वपक्षयति ॥ सचेति ॥ सोऽतस्थोऽन्यइंद्रादिःस्यात् । इंद्रोराजाजगतोयईशइती दश्रुतेः । सतयुजतिरथमेकचक्रमितिसूर्यलिंगात् । अपानेतारमितिवरुणलिंगात् । त्वष्टार रूपाणिविकुर्वतमितित्वष्टश्रुतेः। बोंद्रमित्यादिश्रुतिलिंगम्यश्च । नचंद्रादिशब्दाअन्यत्रनेतुं शक्यते । तेषांदेवेष्वेवरूढत्वात्तेषामैश्वर्यादिशब्दप्रवृत्तिनिमि चवत्त्वाञ्च । नचादृश्यत्वलिंगेनांतस्थोविष्णुः । श्रुत्यादिभ्योलिंगमात्रस्यदुर्बलत्वात् । अतोऽन्यपरश्रुत्यादिबलादंतस्थोड व्यएवेत्यर्थः । पूर्वपक्षफलमाह ॥ तस्मादिति ॥ यतोऽतस्थोऽन्यस्ततएवाश्यत्वंचान्यस्यतस्माददृश्यत्वयुक्तानंदमयोपि कश्चिदिंद्राद्यन्यतमः । तथाचान्यावयवस्यब्रह्मणोनपृथग्रजिज्ञास्यतेत्यर्थः । सिद्धांतयति ॥"इतीति ॥ तत्रहत्वाकांक्षा यांसूत्रमुपन्यस्थव्याचष्टे ॥ अंतरिति ॥ समुद्रेतरणेजलेयथेष्टंचरतंदशेंद्रियेषुविषयहोतारंब्रह्माव्यजानात् । मरीचीनांजी वानामाश्रयंवेधसोभूतभविष्यमाणइच्छंति । ब्रह्मांडकोशयस्थवीर्यमाहुरितिसमुद्रस्थत्वब्रह्मांडवीर्यत्वादिविष्णुलिंगाना मंतःप्रविष्टनिष्ठतयोपदेशादत प्रविष्टंकारमित्यंत श्रूयमाणोविष्णुरेव । ततश्चतस्यैवादृश्यत्वमानंदमयत्वंचेतिनान्यस्यतन्म तव्यमित्यर्थः । अत्रसमुद्रस्थत्वंनामक्षीराधिशायित्वंप्रलयसमुद्रशायित्वंचविवक्षितं । समुद्रस्थत्वादेर्विष्णुधर्मत्वंकुतइत्य तआह ॥ "सहीति ॥ अस्तुविष्णोःक्षीरसमुद्रशायित्वंलिंगं प्रसिद्धत्वात् । प्रलयार्णवस्थत्वस्यब्रह्मांडवीर्यत्वस्यचकुतोवि ष्णुधर्मत्वमित्यतआह ॥ सइति ॥ तदहेयरश्मिप्रेरकंपूर्णषड्गुणंनारायणाख्यतेजाप्रलयेस्थितं । तस्मात्पुरुषात्प्रकृतिश्चेतना जगत्ब्रह्मांडंचजातमित्यर्थः ॥२०॥ यद्येवंसमुद्रस्थत्वादिलिंगादंतस्थोविष्णुस्तहितेनांतस्थेनविष्णुनेंद्रादीनामभेदोत्रास्तु विवक्षितः । तत्यापकश्रुत्यादेरपिसद्भावात् । नचश्रुत्यादिनालिंगबाधेनान्यतरनिर्णयः । लिंगस्यनिरवकाशत्वात् । नापि लिंगेन श्रुत्यादिबाधः । श्रुत्यादेबलवत्त्वात् । एवंचपक्षद्वयेऽन्योऽन्यबाध्यबाधकभावशून्येतदन्यथानुपपत्त्यांऽतस्थेनवि ष्णुनेंद्रादीनामभेदःप्राप्तइत्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ भेदेति ॥ नात्रांतस्नेंद्रादीनामभेदोविवक्षितःशंकनी याकिंवसाविंद्रादिभ्योऽन्यश्च । तस्येंद्राद्यंतर्यामित्वतदंतस्थत्वकथनेनतेभ्योभेदव्यपदेशात् । नचोभयप्रापकाऽन्यथानुपप त्यैतत्कल्प्यं । लिंगेनश्रुत्यादिबाधोपपत्तेः । नचश्रुत्यादीनांबलवत्त्वेनाबाध्यत्वं । इंद्रादिशब्दानांभगवतिसावकाशत्वा ल्लिंगानांतुनिरवकाशत्वात् । दुबैलेनापिनिरवकाशेनप्रबलस्यापिसावकाशस्यबाधोपपत्तेः । नचंद्रादिषुयोगरूढिभ्यांप्रवृत्त स्वाच्छब्दानांहरावमुख्यतेतिवाच्यं । परमैश्वर्यादेर्भगवतिनिरवधिकत्वेनमहायोगसंभवात् अज्ञरूढितोपिविद्वदूढेरेवमाब ल्यात् अन्यगतप्रवृत्तिनिमित्तस्यापिभगवदधीनत्वाञ्चतत्रैवमुख्यत्वोपपत्तेरितिभावः । आत्माऽतयोमी । निहितःसर्वहृद PREET प्रकाशि येषु । पंचहोतापंचेंद्रियेविषयहोता । निचिक्यु पश्यंति(ददृशुः) । हृद्ययनावृदयं । नचानात्मशब्दःस्वरूपपरः। ष ध्याऔपचारिकत्वमसंगात् । तस्मादशेषाधिदेवगततत्तच्छन्दवाच्योहरिरेवांतःप्रविष्टोऽदृश्योऽतस्सएवानंदमयइतिसिद्धं । अन्नलिंगसमन्वयसमर्थनंबहुनामसमन्वयसिद्यर्थ । नामनिर्णयेनलिंगनिर्णयेऽपिलिंगस्यसंगतत्वाब्रहणमिति ॥ २१ ॥ अ० ७॥अत्रलोकतोऽन्यत्रप्रसिद्धाकाशनानोब्रह्मणिसमन्वयप्रतिपादनादास्तिशास्त्रादिसंगतिः। कोह्येवान्यादित्याकाशश ब्दआनंदमयेप्रयुक्तः । सएवछंदोगश्रुतौपठ्यते । अस्यलोकस्यकागतिरित्याकाशइतिहोवाचसर्वाणिहवाइमानिभूतान्या काशादेवसमुत्पद्यतेआकाशंपत्यस्तंयंत्याकाशो वैभ्योज्यायानाकाशापरायणंसएषपरोवरीयानुद्गीथःसएषोऽनंतइति । सचा काशोयदिविष्णोरन्यस्तदाप्रागुक्तोपिसएवेत्यानंदमयोप्यन्याप्रसज्यतेऽतःसनिर्णेयः । सआकाशोऽत्रविषयः । विष्णुरन्यो वेतिसंदेहः । आकाशशब्दस्यानंदमयेप्रयुक्तत्वमन्यत्रप्रसिद्धिश्चसंदेहबीजं । भूताकाशएवायमितिपूर्वःपक्षः । आका शशब्दस्यतत्ररूढत्वात् । नचवाच्यंयोगवृत्त्याकाशशब्दोविष्णौसावकाशइति । बाधकंविनाऽमुख्यार्थीगीकारायोगात् । नचाकाशस्यभगवदधीनत्वेनतत्रैवाकाशशब्दोमुख्यइतियुकं । आकाशस्याचेतनत्वेनान्याधीनत्वायोगात् । चेतनख हिचेष्टादावन्याधीनत्वंसंभवतीति । आकाशशब्दस्यावकाशेऽपिरूढत्वादत्रभूताकाशग्रहणेकोविशेषहेतुरिति चेत् पृथिवी गतित्वोपपादनायसर्वाणिहवाइमानिभूतान्याकाशादेवर मुत्पद्यतइत्यादिनाऽऽकाशस्यसर्वभूतकारणत्वलयाधिकरणत्वादेरु तत्वात् । तच्चाकाशाद्वायुरित्यादिनाभूताऽऽकाशस्यैवप्रसिद्धं अतोभूताऽऽकाशएवायमितिमनसिनिधायपूर्वपक्षफलमा ।
॥ कोहीति ॥ एवमाकाशेछंदोगश्रुत्युक्तेभूताकाशेसतिकोहीतितैत्तिरीयश्रुत्युक्तोपिसएवस्यात् । तथाचलोकचेष्टकत्वहेतु राकाशस्यैवाऽऽनंदमयत्वेकथितःस्यान्नविष्णोस्ततश्चसएवाऽऽनंदमयोभवति । आकाशस्याचेतनत्वेनानंदानुपपत्तावष्यभि मानिद्वारातदुपपत्तेरितिभावः । अनेनैवाकाशशब्दस्याऽऽनंदमयेप्रयुक्तत्वाद्विष्णुराकाश किंनस्यादितिपरास्तं । रूढेबलव त्वेनतस्यापिबाधोपपत्तेरिति । सिद्धांतयति ॥ इतीति ॥ कुतोनमंतव्यमित्याशंकायांहेतुतयासूत्रमुपादत्ते ॥ यतइति॥ विषयादेःपूर्वमुखतोऽनुक्तेस्तदनुवादपूर्वकंसूत्रंब्याचष्टे ॥ अस्येति ॥ यद्यप्यस्यलोकस्यकागतिरितिवाक्येभूताकाशस्योक्त रीत्याऽस्तिप्रतिपाद्यत्वप्राप्तिस्तथापिनासावत्रवाच्योयुज्यतेऽपितुविष्णुरेवयुज्यते । परोवरीयस्त्वादिविष्णुलिंगस्याऽऽकाश निष्ठतयाश्रवणात् । एवंयतस्तल्लिंगाच्छंदोगश्रुत्युक्ताऽऽकाशोविष्णुस्ततश्चकोहीत्यत्रापिसएवप्रतिपाद्यतइतितस्यैवानंदमय त्वेहेतुरुक्तोऽतआकाशस्याऽऽनंदमयत्वेहेतुरुक्तइतिनमंतव्यमित्यर्थः । परस्मादुत्तमंप्रोक्तंपरोइतिततःपरं । परोवरंपरंतस्मा त्प्रोक्तंपारोवरीयकमितिस्मृतिः। उच्चत्वेनगीतउद्गीतःसएवोगीथः । ननुसर्वोत्तमत्वानंतत्वयोःकुतोविष्णुलिंगत्वमित्यतआ ह ॥ विष्णोरिति ॥ विष्णो:र्याणिकोनुप्रवक्तियोपिपार्थिवपरमाणून्गणयतीतितस्यानंतत्वमुच्यते । परोमात्रयेत्यनेनस वोत्तमत्वं ॥ नन्वनंताकाशवत्पश्यन्नित्याकाशस्यापिस्मर्यतेऽत:कथं विष्णोर्लिंगमित्यतआह ॥ अनंतइति ॥ ननुश्रुत्यापूर्व पक्षितेकथंलिंगेननिर्णयोलिंगस्यश्रुतितोदौर्बल्यादित्यतआह ॥ नामानीति ॥श्रुत्यापूर्वपक्षितेऽपिलिंगमात्रेणनिर्णयोघटते। - तत्व प्रकाशि० आकाशश्रुतेर्नामानिसणीतिश्रुतिबलेनविष्णौसावकाशत्वाल्लिंगस्यवाऽऽकाशेऽनवकाशत्वात् । दुर्बलेनापिनिरवकाशेनप्रब लस्थापिसावकाशस्यबाधोपपत्तेरितिभावः । अस्तुलिंगेनथुतेर्वाधस्तथापिविष्णोश्रुतिरमुख्यैवाऽन्यन्नरूढत्वाद्विष्णौयौगिकत्वा दितिचेन्न । आकाशस्यभगवदधीनत्वेनतत्रैवमुख्यत्वान्महायोगविद्वत्योर्भावाच । नचाकाशस्यापराधीनत्वं । नभोददा तिश्वसतांमार्गयनियमाददइत्यादेः। नचभूतकारणत्वोक्तिविरोधः । तस्यविष्णावेवसंभवात् । तस्मादाधिभौतिकसर्वशब्दो पलक्षकाकाशशब्दवाच्योविष्णुरेवेतिसएवाऽऽनंदमयइतिस्थितं ॥ २२॥ अ० ८॥ अन्यत्राप्येवमितिज्ञापनार्थमत्रसूत्रमा दावेवपठति ॥ अतएवेति ।। अत्रलोकतोऽन्यत्रप्रसिद्धप्राणनानोविष्णौसमन्वयसमर्थनादस्तिशास्त्रादिसंगतिः । विषय वाक्योदाहरणपूर्वकंसंगतिविषयसंशयौचसूचयति ॥ तदिति ॥ यदुदितमानंदमयत्वंविष्णो स्तत्कस्यचित्प्राणस्यतद्वैत्वमि तिवाक्येमहाभोगशब्देनप्रतीयते । यस्माद्ब्रह्मणोभोगान्करिष्यमाणःकुर्वाणोऽकार्षीश्चतस्मात्त्वंमहाभोगोऽभवः । स्वस्यमहा भोगाभावेपरस्मैतहानानुपपत्तेः। यस्मात्पायुगुयैक्येननवेंद्रियाभिमानिनोदेवानचेष्टयश्चेष्टयसिचचेष्टयिष्यसिच तस्मात्त्वंना णश्चाभवइति तस्यचप्राणस्यविष्णोरन्यत्वेऽन्यस्यैवानंदमयत्वस्यादित्ययंनिर्णेयोभवति । सप्राणोत्रविषयः । किंविष्णुरु तवायुरितिसंदेहः । महाभोगत्वप्राणशब्दस्यान्यन्त्रप्रसिद्धिश्चसंदेहबीजमितिभावः। तत्रसयुक्तिकंपूर्वपक्षयति ॥ संचेति ॥ सप्राणोवायुर्भवेत् । प्राणशब्दस्यतस्मिन्प्रसिद्धेः । नचमहाभोगत्वंश्रुतिवाधकं । श्रुतितोलिंगस्यदौर्बल्यात् । नचसावका शत्वादिनाबाध्यबाधकभावः । महाभोगवत्वस्यैववायोसावकाशत्वात् । प्राणश्रुतर्विष्णावनवकाशात् । न(हि)तावत्प्राण पदस्यतत्ररूढिरस्ति । नापियोगःसंभवति । प्राणशब्दप्रवृत्तिनिमित्तजीवनकारणत्वस्यान्वयव्यतिरेकाभ्यांवायावेवदर्शनात्। यत्प्राप्तियत्परित्यागउत्पत्तिमरणंतथेत्यादेः । तथाचनिरवकाशप्राणश्रुत्यामहाभोगत्वलिंगस्यसावकाशस्यसुतरांबाधोपपत्ते वायुरेवायंप्राण प्रागुक्तानंदमयश्च । प्राणशब्दस्यान्यत्रवृत्तावपिमुखमुख्यःप्रकीर्तितइतिमुख्यवायावेवमुख्यत्वात्सएक्प्राणो भवेदितिभावः । सिद्धांतयति ॥ नचेति ॥ कुतोनैवमित्याशंकायांहेतुतयासूत्रव्याचष्टे ॥ यतेइति ॥ यतोयंप्राणोविष्णु रेवेतिसएवानंदमयोऽतोवायुरयंप्राणआनंदमयश्चेत्येतन्नयुक्तमित्यर्थः । कुतोऽयंप्राणोविष्णुरेवेत्यतःसौत्रंहेतुमुपादायव्याच टे ॥ अतएवेति ॥ श्रीलक्ष्मीपतित्वादिविष्णुलिंगात्प्राणोविष्णुरेवेत्यर्थः । वक्षस्थलाश्रितानीरितिसंप्रदायविदः । कथं श्रुत्यापूर्वपक्षितेसतिलिंगेननिर्णयइतिचेत् । लिंगस्यनिरवकाशत्वात् प्राणश्रुतेर्विष्णावपिसावकाशत्वात् निरवकाशनसाव काशस्यबाधोपपत्तेः । रूढियोगयोरभावात्कथं विष्णौप्राणश्रुतेरवकाशइतिचेन्न । ईशानःप्राणदःप्राणइत्यादिविद्वदूढेमहायो गस्थचसत्वात् । नचजीवनस्यप्राणान्वयव्यतिरेकविरोधः । प्राणगतजीवनकारणत्वस्यापिभगवदधीनत्वात् । तथाचश्रु तिः।नप्राणेननापानेनमोजीवतिकश्चन । इतरेणतुजीवंतियस्मिन्नेतावुपाश्रिताविति । तस्मादाध्यात्मिकाशेषशब्दोपलक्ष कप्राणशब्दवाच्योहरिरेवेतिसिद्धं ॥ २३ ॥ अ० ९॥ अत्रलोकतोऽन्यत्र प्रसिद्धज्योति स्नोब्रह्मणिसमन्वयप्रतिपादनाद स्तिशास्त्रादिसंगतिः। श्रुत्यधिकरणसंगतीविषववाक्योदाहरणपूर्वकंविषयसंशयौचसूचयति ॥ योवेदेति ॥ योवेदनिहि तंगुहायामित्यानंदमयस्यहृदयगुहानिहितत्वमुक्तं । मंत्रवर्णोक्तस्यैवान्नमयादिशब्दैरुच्यमानत्वात् । तद्गुहानिहितत्वं विमेक ।
पतयतइतिकस्यचिज्योतिषाप्रतीयते । मेकर्णीज्योतिषोविरुद्धंपततः । चक्षुश्चविरुद्धं पतति । यदिदंहृदयआहितंज्योतिस्तद प्रकाशिक प्यत्यंतंकर्णादिविरुद्धंवर्तते । मेमनश्चातीवविरुद्धचरति । अतोव्यातबुद्धिरण्यहकिंनुवक्ष्यामिकिंवेदानींचिंतयामीति । एतच्च । यदिविष्णोरन्यत्तानंदमयत्वंचान्यस्यैवप्रसज्यतेतिनिर्णयं भवति तज्योतिरत्रविषयः किंविष्णुरुताग्निरितिसंदेहः । गुहानि ११॥ २५ हितत्वज्योतिःशब्दस्यानोप्रसिद्धिश्चसंदेहबीजमितिभावः। तत्रसयुक्तिकंपूर्वपक्षयति ॥ तचेति ॥ तज्योतिरग्निरेवभवेत्।। एतत्सूक्तस्याग्निसूक्तत्वात् । नचवाच्यंप्रकरणादपिलिंगस्यबलीयस्त्वाद्गुहानिहितत्वलिंगेनास्यबाधइति । ज्योति श्रुतेरग्नावेव रूढत्वात्। नहिलिंगंश्रुतिप्रकरणापबाधनेशक्यावताश्रुतितएवदुर्बलं । श्रुतिःसावकाशतिचेन्न । जाठरजातवेदसिलिंगस्यापि सावकाशत्वात् । तथाचसावकाशलिंगमात्रात्सावकाशश्रुतिप्रकरणयोर्बलवत्त्वादग्निरेवेदज्योतिस्ततश्चगुहानिहितत्वमानंद मयत्वंचतस्यैवेत्यर्थः । सिद्धांतयत्सूत्रमवतारयति॥ अतइति॥यस्मादितिप्राप्तमतआह सूत्रकारइत्यर्थः । सूत्रंव्याचष्टे॥वि णुरेवेति ॥ विष्णुरेवेदंज्योतिर्भवेत्।कर्णादीनामेतज्योतिर्विरुद्धाचरणाभिधानात् । कर्णादिविदूरत्वलिंगादित्यर्थः । कर्णा दिविदूरत्वाभिधानेपिकुतोविष्णुरिदंज्योतिरित्यतआह॥ संहीति ॥मीयतेविषयाअनेनेतिमात्राइंद्रियगणस्ततस्त्वंपरोसीत्य र्थः । नचप्रकरणविरोधः । लिंगेनप्रकरणबाधोपपत्तेः । नचश्रुतिविरोधः । श्रुतेर्विष्णावपिसावकाशत्वात् । महायोगविद्ध दूढिसद्भावेनमुख्यत्वाच्च । निरवकाशलिंगेनसावकाशश्रुत्यादेधिोपपत्तेः । अतोविष्णुरेवेदंज्योतिरितितस्यैवगुहानिहितत्व। ॥ २४ ॥ मानंदमयत्वंचेतिसिद्धं ॥ २४ ॥ अ० १०॥ अत्रसूत्रमेवादौपठति ॥ छंदोभिधानादिति लोकतोऽन्यत्रप्रसिद्धगायत्री RANKET नाम्नोत्रहरौसमन्वयसमर्थनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयवाक्यविषयसंशयपूर्वपक्षतत्फलानिसूचयनसूत्रव्या चष्टे ॥ अथेति ॥ हृदयनिहितज्योतिर्विष्णुरित्यभिहितं तच्चज्योतिश्छंदोगश्रुतौश्रूयते । अथयदतःपरोदिवोज्योतिर्दीप्यते विश्वतःपृष्ठेषुसर्वतःपृष्ठेष्वनुत्तमेषूत्तमेषुलोकेष्विदंवावतद्यदिदमस्मिन्पुरुषेज्योतिरिति । एतच्चगायत्रीत्वेनपठ्यते। गायत्रीवाइ दसर्वभूतंयदिदंकिंचवाग्वैगायत्रीवाग्वाइदंसर्वमित्युपक्रमात् । इयंचगायत्रीयदाविष्णोरन्यास्यात्तदेदंज्योतिश्चसास्यादितिगा यत्रीनिर्णयोवश्यापेक्षितः। सागायत्रीविषयः। किंविष्णुरुतच्छंदोविशेषइतिसंदेहः । ज्योतिःश्रुतिर्लोकप्रसिद्धिश्चसंदेहबी जं । तत्रगायत्रीछंदोविशेषएवेतिपूर्व पक्षः । गायत्रीशब्दस्यतत्रैवरूढत्वात् । वाग्वैगायत्रीतिवाक्त्वविधानाच्च । नचज्योतिः श्रुत्यागायत्र्यादिश्रुतिबाधः । श्रुतेःश्रुतिबाधकत्वायोगात् । नचसावकाशत्वादिनाबाध्यबाधकभावः । गायत्र्यांतेजोवैब्रह्म वर्चसंगायत्रीतिज्योतिःशब्दानतिभिन्नार्थतेजःशब्दश्रवणेनज्योतिःश्रुतेरेवसावकाशत्वात् । नचगायत्रीश्रुतिर्विष्णाववकाश वती रूढेरभावात् । योगस्यचामुख्यवृत्तित्वात् । नचगायत्र्याभगवदधीनत्वेनतस्मिन्नेवतच्छ्रतेमुख्यत्वमितिवाच्यं । गाय ज्यावेदविशेषत्वेननित्यत्वात् । नित्यस्यचपराधीनतायोगात् । तस्माद्गायत्रीनविष्णुरपितुछंदोविशेषएवततश्चेदंज्योतिरानं दमयश्चनासावितिभावः । सिद्धांतयत्सूत्रांशमनुकरोति ॥ नेति ॥ स्वपदानिवर्णयति । अग्नीति ॥ अत्रगायत्रीशब्देन विष्णुरेवनिगद्यते ॥ तस्माज्योति शब्देनापिसएवनिगद्यते । ततश्चसएवानंदमयः । नचगायत्र्यादिशब्दैरुच्यतेतदभेदवि धानार्थकिंतुगायत्र्यादिशब्दार्थगुणखरूपत्वेनोपासनार्थमेवेतिभावः । आदिपदेनवाचोग्रहणं । अधिकरणांतरेप्येतन्याय त० प्र०५ SUNEgy स्यानुसंधेयत्वंच हिशब्देनसूचयति(संधेयत्वंचसूचयति) । भवेज्योतिषोपिविष्णुत्वंथदिगायत्रीय विष्णुःस्यात्तदेवकुतइत्यत प्रकाशिक आह ॥ लथाहीति ॥ दर्शनंश्रुतिः । एतगायत्र्यागाननाणकर्तृत्वलिंगश्रवणात्तस्यचछंदस्यसंभवाद्विष्णुरेवगायत्रीततोज्यो तिरपिसएवेतिभावः । आदिपदेनयावसागायत्रीयवावसायेयंपृथिवीत्यादेःसंग्रहः । ननुगायत्रीश्रुतेरन्यत्रनिरूढत्वात्कथलिं गमात्रेणविष्णुत्वनिश्चयइत्यतआह ॥ सर्वेति ॥ गायत्रीश्रुतेःपौराणिकरूख्याश्रुत्युक्तयोगेनगायत्र्याभगवदधीनत्वेनचवि ष्णावेवमुख्यवृत्त्यासावकाशत्वात् लिंगस्यामुख्यवृत्त्याप्यन्यत्रानवकाशात् सावकाशश्रुतेर्निरवकाशलिंगेनबाधोपपत्तेर्यु तोलिंगमात्रेणायंनिर्णयइतिभावः । नचनित्यस्यपराधीनत्यायोगः । स्वभावजीवकर्माणिद्रव्यंकालःश्रुतिःक्रिया। यत्प्रसा दादिमेसंतिनसंतियदुपेक्षयेतिनित्यानामपिभगवदधीनत्वस्यौतत्वात् । अत्रदेवलोकपदाभ्यामग्निपृथिव्यादिशब्दानांच भगवत्परत्वमुच्यते ॥ २५॥ हेत्वंतरेणापिगायत्र्याविष्णुत्व(साधयत्सू)समर्थयत्सूत्रमुपन्यस्थतगृहीतश्रुतिमेवोदाहरति । भूतादीति ॥ सैषाचतुष्पदापविधागायत्रीतिगायत्र्या:प्रागुक्तपविधत्वमनूद्यचतुष्पदत्वंव्यपदिश्यतत्रैवपुरुषसूक्तमंत्र संवा दायोदाहियतेतदेतदृचाभ्यनूतावानस्येति । अस्यपुरुषस्यतावान्पूर्वोक्तोमहिमा चकेवलमेतावान्कितुपुरुषाततःपूर्वोक्काद पिमहिन्नोज्यायान् । कथंसर्वाणिभूतान्यस्यैकम्पादः । अस्यामृतस्वरूपभूतंपादत्रयंदिवितिष्ठतीत्येवं । गायत्र्याभूतादिपाद व्यपदेशाच्चसाविष्णुर्भवेत् भूतादिपादव्यपदेशस्यविष्णावेवोपपत्तेरन्यत्रानुपपत्तेश्चेतिभावः । ननुभूतादिपादव्यपदेशोगाय च्यामिवविष्णावपिनोपपद्यतेतस्यापिभूतभिन्नत्वादित्यतआह ।। सुर्वर्णमित्यादि ॥ नायंपादशब्दोमृतपादत्रयवद्भूतानाम ०० पिस्वरूपांशत्वाभिप्राय:किंतुयज्ञदत्तस्यचतुर्भागबलोदेवदत्तइतिबनिन्नमेवविश्वंतत्पादपरिमितसामर्थ्यपादतयोच्यते । अतो भूतपादत्वं विष्णोरुपपद्यते । तर्हि विश्वचतुष्टयसमोहरिरित्यागतमितिनमंतव्यं । यतोऽत्रपादपदेन विश्वविष्णुसामथ्र्यैकदे शपरिमितमुच्यतेनचतुर्थाशपरिमितं । कुतएतत् । सुवर्णकोशमितिश्रुतेरेवेत्यर्थः । सौवर्णब्रह्मांडकोशरजोगुणोपलक्षितावा दिपरिवृतंब्रह्मणःशरीरंदेवानांवसुनिधानमंजूषांमुक्तैःपूर्णातांषडिंद्रियेषुविषयहोतुर्विष्णोरेकदेशपरिमितांआचक्षते पादपदे नपुरुषसूक्ताद्यागमाः। यतःसाचतुर्थभाग(चतुर्भाग)साम्यनलेभेकिलेत्यर्थः । नकेवलंभूतादिपादत्वस्यविष्णावेवोपपत्तेस्तलिं गत्वंकिंतुपुरुषसूक्तत्वाच्च । भूतादिपादत्वस्यपुरुषसूक्तोक्तत्वेपिकुतोविष्णुलिंगत्वमित्यतआह ॥ सहीति ॥ यज्ञशब्दःकथं तन्निश्चायकइत्यतआह ॥ यज्ञइति ॥ अन्यप्रकरणेप्यन्यश्रुतिःप्रासंगिकीयंभवतु । भूतादिपादेतदभावादित्यतोऽत्रस्मृति चाह ॥ तस्मिन्निति ॥ किंचपुरुषसूक्तोक्तत्वंगायत्र्याविष्णुत्वएववापृथग्युक्तिसमर्थ्यते ॥ संहीति ॥ २६ ॥ उक्तमाक्षिप्यसमादधत्सूत्रमुपन्यस्याक्षेपांशतावयाचष्टे ॥ उपदेशेति ॥ यदुक्तंगायत्रीज्योतिश्चविष्णुरितितद्भवेद्यदिगाय त्रीज्योतिःप्रसंगयोरेकंवस्तूच्यते । नचैवम् । त्रिपादस्यामृतंदिवीतिगायत्र्याधुपस्थितत्वोक्त्यापरोदिवइतिज्योतिषोदिवापर त्वोत्याविरोधान्नैकंवस्त्वत्रोच्यते । अतःकथमुभयोर्विष्णुत्वाध्यवसायइत्यर्थः । सिद्धांतयत्सूत्रांशव्याचष्टे । नेति ॥ नात्र वस्तुद्वयमुच्यतेयेनोभयोर्विष्णुत्वाभावः किंतूभयत्राप्येकमेव । विवक्षाभेदेनसप्तमीपंचम्योरेकार्थत्वेनविरोधाभावात् । तथा हि । भूर्भुवःसुव(स्व)रितिलोकत्रयाभिप्रायेणलक्षयोजनोच्छ्रितांतरिक्षोपरितनश्वेतद्वीपानंतासनवैकुंठानांद्युत्वात्तगतरूपत्रयं दिवीत्युच्यते । सप्तलोकापेक्षयाइंद्रसदनस्यात्वाद्वैकुंठस्यदिवःपरत्वं मेरोरपिधुत्वात्तत्परानंतासनस्यदिवःपरत्वं सूर्यमंडल|| प्रकाशिक ॥२६॥ स्यापित्वेनतदुत्तरश्वेतद्वीपस्यदिवापरत्वं तत्रस्थमूर्तित्रयस्यदिवः परत्वंचयुज्यते । अतउभयथोपदेशेऽपिविरोधाभावादुभ यत्राप्येकमेव विष्ण्वाख्यंवस्तूच्यतइतिभावः । एवंपृथिव्यंतरिक्षस्वरात्मकसर्वलोकेभ्यःक्रमेणानंतासनादीनामुच्चत्वेनसर्वतः पृष्ठत्वंतथामेरुवैजयंतसत्यलोकेभ्योब्रह्मसदनेभ्यस्तेषांक्रमेणोच्चत्वाद्विश्वतःपृष्ठत्वंचज्ञातव्यं । तस्माद्वायत्रीविष्णुरेवसएवज्यो तिरानंदमयश्चेतिसिद्धं ॥ २७ ॥ अ०११॥ अत्रलोकतोऽन्यत्र प्रसिद्धप्राणनानोविष्णौसमन्वयप्रतिपादनादस्तिशास्त्रादिसं गतिः । श्रुत्यादिसंगतिविषयवाक्यविषयसंशयसयुक्तिकपूर्वपक्षान्दर्शयति ॥ माणइति ॥ तद्वैत्वंप्राणइत्युक्त प्राणोविष्णु रित्युक्तं ऐतरेयकेच कश्चित्ताएताइत्यारभ्यबहुषुस्थलेषुप्राण श्रूयते । तस्यविष्णोरन्यत्वेप्राचीनोप्यन्यइतिशंकास्यादित्ययम वश्यंविचार्यः । समाणोऽत्रविषयः । किंविष्णुरुतान्यइतिसंदेहः । पूर्वोक्तन्यायोऽन्यत्रप्रसिद्धिश्चसंदेहबीजं । तत्रनप्राणोवि णुः किंतुवाथ्यादिरेवेतिपूर्व:पक्षः। एतत्त्राणस्येंद्रियगणेगणितत्वात् । नचैतल्लिंगविष्णाववकाशंलभते । उपपद्यतेचमुख्य प्राणादिषु । अतस्तेषामन्यतमस्यैतत्प्राणत्वात्प्राचीनप्राणआनंदमयोप्यन्यएवेतिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥अ तइति।।तद्वैत्वंप्राणइतिश्रुताविवात्रापिश्रुतःप्राणोविष्णुरेव । विष्णुलिंगानांदेवतोपदेश्यत्वादीनामस्मिन्प्राणेऽनुगमादनुवृत्ते रभ्यासादित्यर्थः । तथाशब्दःसमुच्चयार्थोऽतोत्रापीत्याह ॥ तंदेवा पाणयंतेति ॥ तंमाणंदेवाःशिष्यादिषुसम्यक्नीतवंतः। सएषोसुःसएषमाणःसएपभूतिश्चाभूतिश्चतंभूतिरितिदेवाउपासांचक्रिरइतिप्राणस्यभूतित्वेनदेवोपास्यत्वमुच्यते । तावाएताः सर्वाऋचःसर्ववेदाःसर्वेघोषाएकैवव्याहृतिःप्राणएवप्राणऋचइत्येवविद्यादितितस्यसर्ववेदोक्तत्वमुच्यते । अथदेवरथस्तस्यवा गुद्धिःश्रोत्रेपक्षसीचक्षुषीयुक्तेमनःसंगृहीतातदयंप्राणोऽधितिष्ठतीतित(स्यैवदेह)स्यदेहरथत्वमुच्यते । सन्चासावयंचेतितदयं । तदितिरथतयोक्तंशरीरंवा । लिंगव्यत्ययोवा । लिंगेनपूर्वपक्षितेकथंतेनैवसिद्धांतइत्याशंकानुदयायलिंगबाहुल्योक्तिः । बा हुल्यस्यापिप्राबल्यहेतुत्वात् । यदाहुः । द्विविधंबलवत्त्वंचबहुत्वाच्चखभावतइति । ननुसैद्धांतिकलिंगतोपिपूर्वपक्षलिंगमेव बलवत् । निरवकाशत्वात् । बाहुल्येनबलवतोपिस्वभाववलिन प्राबल्यात् । यतआहुः । तयोःस्वभावोबलवानुपजीव्यादि कञ्चसइति । अतःकर्थतैर्विष्णुत्वनिश्चयइत्यतोलिंगानामनन्यथासिद्धतांचस्मृत्यासाधयति ॥विष्णुमेवेति ॥ एकप्रकारे णप्रबलात्प्रकारद्वयेनापिप्रबलस्याधिक्येननिर्णयोपपत्तिरितिभावः । अभ्युपेत्यचेदमुदितं । यावताप्राणैःसहगणितत्वस्यांत योमिनिष्ठतासेत्स्यति । यदापकारद्वयेनापिदुर्बललिंगस्योभयथाप्रबललिंगतोबाधसंभवेनप्राणस्यविष्णुत्वसिद्धिस्तदाकिंवाच्य मेतद्ब्रह्म ब्रह्मणोलोकोब्रह्मेमपुरुषमुदरंब्रह्मेत्यादिनिरवकाशब्रह्मशब्दाभ्यासादितिभावेनानुगमपदंप्रकारांतरेणव्याचष्टे ॥ ब्रह्मेति ॥ २८॥ उक्तमाक्षिप्यसमादधत्सूत्रंपठित्वाऽऽक्षेपांशंतावयाचष्टे ॥ नेति ॥ यदुक्तं विष्णुरयंप्राणइतितदयुक्तं । तमिंद्रउवाचऋषेप्रियंवैमेधामोपागावरतेददामीति सहोवाच त्वामेवजानीयामितितमिंद्रउवाच प्राणोवाअहमस्म्वृषइति बृहतीसहस्रवक्तुर्विश्वामित्रस्येंद्रेणप्राणतयात्मोपदेशात् । नचायमिंद्रोपिविष्णुः । प्रसिद्धस्यैवेंद्रोवैवृत्रहत्वेत्यादौमहाव्रतयज्ञे यजमानत्वेनप्रकृतत्वात् । नचास्योपदेशस्यसावकाशत्वंवास्ति । अतइंद्रएवायंप्राणइत्याशयः । नञध्याहारेणसिद्धांतांशं ९13 সালি । AROSAP व्याचष्टे । नेति ॥ नेंद्रीयंत्राण किंतुविष्णुरेव । प्रागुक्तप्रबलतमलिंगादेः । उपदेशविरोधइतिचेत् । भवेदयविरोधोयद्य द्रेणयाणतयात्मोपदेशक्रियेत । नैतदस्ति । यतोऽस्मिन्प्रकरणेस्वस्थितस्यप्रागोवाअहमस्मीतिपरमात्मत्वमुक्त्वातस्यैवप्राणा ख्यपरमात्मन माणस्त्वंप्रायःसर्वाणिभूतानीत्यादिनाबहुदेहसंबंधःलवंगतत्वमेवेंद्रेणोक्तविद्यतइत्यर्थः । अथवेदेवहुएरमात्म संबंधोविद्यतेतदपेक्षथैवायमुपदेशोनस्वापेक्षया । कुतः । प्राणस्त्वमित्यादिनाऽस्यमाणस्थाध्यात्मत्वेनांतर्यामित्वेनसर्वगत तयोक्तविद्यमानत्वात् । नचैतदिंद्रेजीवविशेषेयुक्तमित्यर्थः । अन्यथात्वामेवजानीयानितिज्ञातपूर्वेद्रस्त्यमुने प्रश्नस्यैवासंभवा त् । संभवेवामायास्त्वमित्यादिपरिहारचाक्यासंगतेश्च । अस्मस्पक्षेतुतेजोबाहुल्यादिंद्रेऽन्योपिवर्तते । कोसौ विष्णुश्चेत्सच कीदृशइत्यभिप्रायद्वयनप्रश्नसतिकस्त्वयीतिप्रश्नस्यप्राणोवाअहमितिपरिहारः । कीदृशोऽसावित्यस्योत्तरतयोत्तरवाक्ययो जनोपपतेरिति ॥ २९॥ नम्वत्रयदिप्राणपदेनद्रेणापिविष्णुरेवस्वात्मादिसवेगततयोध्यतेतहिमयिप्राणइत्यादिप्रयोगाथा त् । विष्णावहमित्यादिरूपोपदेशायोगादित्याशंकांपरिहरसूत्रंपठित्वाशास्त्रपदंसममाणकंज्याचष्टे । शास्त्रेति । एतत्मा पास्यविष्णुत्वेपिप्राणोहमित्युपदेशोयुज्यते । यतोऽयमुपदेशोंऽतर्यामिरूपभगवद पेक्षयेतिसूत्रार्थेस्थितेऽतर्यामिण्यप्यहमादि प्रयोगकर्थसंभवतीत्याशंकायांस्मृतिमेवाह ॥ तसदिति ॥ अंतर्यामिण्यप्य हमादिशब्दप्रयोगादर्शनात्तदयोगइत्यतःसूत्रो कंदृष्टांतं विवृणोति ॥ अहमिति ॥ यथाऽतर्यामिविवक्षयाबामदेवोऽहमन्वादिशब्दान्प्रयुयुजेतथाऽयमुपदेशोयुक्तइति भावः । नाचतत्रापिविवादः। वामदेवस्यमन्वादित्वाभावात् । चैतन्यैक्यविवक्षयोक्तिरितिचेन्न । किमत्रसाक्षादेवयमुच्यते लक्षणयावा। नाद्यः। विरोधात् । नद्वितीयः । लक्षणायाअमुख्यत्वात् । सममेतदितिचेन्न । तत्तन्नान्नोच्यतइतिसर्वशब्दाना मंतर्यामिण्येवमुख्यत्वोक्ते॥३०॥पुनरुक्तमाक्षिप्यसमादधत्सूत्रमुपन्य स्याऽऽक्षेपांशतावयाचष्टे ॥ जीवति ॥ अथापिनात्रो तप्राणोविष्णुः । एषइमलोकमभ्यार्चत्पुरुषरूपेणयएषतपतिप्राणोवावतदभ्यार्चत्प्राणोद्वेषयएषतपतितंशतवर्षाण्यभ्यार्चत्त स्माच्छतंवर्षाणिपुरुषायुषोभवतीतिप्राणस्योक्तशतायुष्टस्योपर्यपितावंतीत्यादिनाबहुस्थलेष्वनुसंधानात् । शतायुष्ठस्यजीवलिं गत्वात् । शतायुर्वैपुरुषइत्यादिश्रुतेः। ताअहिंसंताहमुक्थमस्म्यहमुक्थमस्मीतिप्राणस्येंद्रियैःसहकलहश्रवणात् । प्राणउदका मत्तत्प्राणउत्क्रांतेपद्यतप्राण प्राविशत्तत्प्राणे(प्र)पन्नउदतिष्ठदित्युत्क्रमणप्रवेशादिश्रुतेः । तथापाणोवंशइतिस्थविर शाकल्य स्तद्यथा शालावंशेसर्वेऽन्येवंशा:समाहिताःस्युरेवमस्मिन्प्राणेचक्षुःश्रोत्रंमनोवागिंद्रियाणिशरीरंसर्वआत्मासमाहितइतिसर्व जीवेंद्रियदेहधारकत्वोक्तेश्च । प्राणसंवादादीनांचमुख्यप्राणलिंगत्वेनाथहप्राणाअहंश्रेयसिव्यूदिरेइत्यादिश्रुतिसिद्धत्वात् । उदासीनौचतावास्तांकेशवश्चाजसंभव इतिविष्णोर्विवादादावौदासीन्योक्तेश्च । अतोऽत्रप्राणनिष्ठतयाजीवमुख्यमाणलिंगस भावात्तयो-प्राणत्वमितिभावः । परिहारांशंव्याचष्टे ॥ नेति ॥ विष्णुरेवायंप्राणोनजीवादि । लिंगानांतदंतर्यामिभगवद्धि षयतयोपपत्तेः । किमर्थमंतर्यामिकथनमितिचेत् । अंतरादिभेदेनभगवदुपासनस्यत्रैविध्यादेतत्प्रकरणेतत्रैविध्यस्योक्तत्वाचे तिभावः । अत्रोपासात्रैविध्यमुच्यतइत्यत्रकिलिंगमित्यतआह ॥ संहति ॥ सभगवानेतमेवमस्तकसीमानंविदा/तयाद्वारा सुषुम्नयाहृदयंप्राप्तइत्यंतरुपासनयोच्यते । समागंतःस्थोभगवानेतंप्राप्तंपुरुषमात्मानंततमंब्रह्मापश्यदितिसर्वगतोपासनार्थ प्रकाशि० मुच्यते । महिदासइतिबहिरुपासनार्थमुच्यते । नचवाच्यमत्रस्वरूपमात्रमुच्यतेनोपासनार्थमिति । उपासनांविनोक्तिमयोज नाभावात् । नहि(च)महिदासोमुनितयोच्यते । वैयर्थ्यादेव । महिदासस्यविष्णुत्वंकुतइत्यतआह ॥ महिदीसेति ॥ नन्वे कविधोपासनयाब्रह्मापरोक्षसंभवाकिमुपासानैविध्येनेत्यतःसूत्रशेषच्याचष्टे ॥ तत्तदिति ॥ नैकविधोपासनयासर्वेषांब्रह्म ज्ञानं । अंतरादिविविधोपासनयोग्यत्वादित्यर्थः । कुतःपुरुषाणामुक्तानेकविधोपास्तियोग्यतेत्यतआह ॥ केषांचिदिति ॥ अत्रैवविशेषप्रमाणमाह ॥ अग्नाविति ॥ अनौप्रतिमास्थितिवहिरुपासनोपलक्षणं । अतोऽन्यलिंगानांतदंतर्यामिविवक्षयो पपत्तेर्विष्णुरेवायंप्राणआनंदमयश्चेतियुक्तातजिज्ञासेतिसिद्धं ॥३१॥ अ० १२॥ इतिश्रीमदानंदतीर्थभगवत्पादा चार्यविरचितस्यश्रीमद्ब्रह्मसूत्रभाष्यस्थटीकायांजयतीर्थमुनिविरचितायांश्रीमत्तत्त्वप्रकाशिकायांप्रथमाs ध्यायस्यप्रथम पाद: ॥ १॥ ॥ इतिप्रथमाध्यायस्यप्रथमपादः॥
। श्रीमद्धनुमद्धीममध्वांतर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवायनमः ॥ ॐ एतत्पादप्रतिपाद्यंदर्शयति ॥ लिंगेति ॥ लिंगात्मकानामिति धर्मविशिष्टधर्मिवाचिनामित्यर्थः । अन्यत्रप्रसिद्धानामितिसंयोज्यं । वैश्वानराधिकरणेनामसमन्वय सिद्धे प्राधान्येनेत्युक्तं । अत्रलोकतोऽन्यत्रप्रसिद्धाऽऽदित्यश्रुतिसहपठितसर्वगतत्वलिंगात्मकशब्दस्यपरब्रह्मणिसमन्वयम तिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयसंशयौचसूचयति ॥ ब्रह्मेति ॥ ब्रह्मततममितिविष्णो:सर्वगतत्वमु तं । तदेवैतरेयकेएतंह्येवबढचामहत्युक्थेमीमांसंतएतमन्नावध्वर्यवाएतंमहाव्रतेच्छंदोगाएतमस्यामेतंदिव्येतंवायावेतमाकाश एतमप्स्वेतमोषधीष्वेतंवनस्पतिष्वेतंचंद्रमस्येनिक्षत्रेवेसर्वेषुभूतेष्वेतमेवब्रह्मेत्याचक्षतइत्यान्नायते। तद्यदिविष्णोरन्यस्यस्या त्तर्हिप्राचीनप्राणोप्यन्यएवस्यादेकप्रकरणत्वात् । अतोऽवश्यंविचार्यभवति । तत्सर्वगतत्वंविषयः । विष्णोरन्यस्येवेतिसंदे हः । ब्रह्मततममित्युक्तिरादित्यश्रुतिश्चसंदेहबीजमितिभावः । तत्रसयुक्तिकंपूर्वपक्षयति ॥ "तचेति ।। तत्सर्वगतत्वमादि त्यस्यैवभवेत् । तस्यैतस्यासावादित्योरसः यश्चासाचादित्यस्तस्मात्पुरुषपुरुषप्रत्यादित्योभवतीत्यादिबबादित्यश्रुतेः । सूर्य आत्माजगतइतिसौरमंत्रोदाहरणाच्च । एतमस्यामितिक्षित्यादिषूक्त्वाऽऽदित्येऽस्यानुक्तत्वलिंगाच्च । अन्यथैतमादित्यइत्यु कि स्यात् । सजातीयचंद्रादावुदितत्वात् । अतएवनश्रुतेरंतर्यामिविषयत्वंयुज्यते । सर्वजीवानांवाएतत्सर्वगतत्वमुच्यते । चक्षुर्मयःनोत्रमयश्छंदोमयोमनोमयोवाङ्मयआत्मेतितल्लिंगनवणात् । नचतलिंगमंतर्यामिविषयं । तस्यापरिच्छिन्नत्वेन सर्वेषुभूतेष्वित्युक्ताल्पौकस्त्वायोगाच्चक्षुर्मयत्वाद्ययोगाच्च । अतोविष्णवन्यस्यैवसर्वगतत्वादन्यस्यैवप्राणत्वमानंदमयत्वंचे SEANIN तिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अंतइति ॥ सयश्चायमित्यादिनावाक्येनसर्वत्रपृथिव्यादिषूच्यमानोनारायण प्रकाशि० एच । एतमेवब्रोत्याचक्षतइतिसर्वगतेब्रह्मशब्दोपदेशात् । ब्रह्मशब्दस्यचश्नुत्यादौनारायणएवप्रसिद्धत्वादित्यर्थः । तथाच प्र.द्वि. श्रुतिः । यचकिंचिजगत्सर्वदृश्यतेश्रूयतेपिचा । अंतर्बहिश्चतत्सर्वव्याप्यनारायण स्थितइति । अत्रसयश्चायमितिवाक्योदा हरणंपूर्व विषयवाक्यस्यानुदाहृतत्वात्कृतमशरीरत्वयुक्तिसूचनार्थच । नहिनारायणेतरचेतनानांस्वतोऽशरीरतासंभवति॥१॥ युक्त्यंतरेणविष्णोरेवात्रोक्तसर्वगतत्वप्रतिपादयत्सूत्रमुपन्यस्यतदुपात्तश्रुतिमेवोदाहरति ॥ विवक्षितेति ॥ सयोतोऽश्रु तोऽगतोमतोनतोदृष्टोविज्ञातोनादिष्टःश्रोतामंताद्रष्टादेष्टाघोष्टाविज्ञाताप्रज्ञातासर्वेषांभूतानामंतरपुरुषइतिसर्वगतेअश्रुतत्वा दिगुणश्रवणात् । तेषांचविष्णोरेवयोग्यत्वेनतस्मिन्नेवोपपत्तेरन्यत्रानुपपत्तेश्चविष्णुरेवायंसर्वगतइतिभावः । विवक्षिताइति वक्तुंयोग्याः । तन्वेतद्गुणानांकुतोविष्णुनिष्ठत्वमित्यतआह ॥ "सहीति ॥ तेमहिन्नःपरमंतंकोपिश्रौत्रादिनानापेत्यर्थः । अत्रमुखतोऽश्रुतत्वादिकविष्णोर्नश्रूयतइत्यतःस्पष्टश्रुतिंचाह ॥ संहति ॥ अत्रातत्वस्यादिमत्त्वेपितस्थसर्वगतत्वानतिरिक्त त्वेनसाध्यत्वादश्रुतत्वादीनामेवग्रहणं ॥२॥ ननुयथाब्रह्मशब्दादश्रुतत्वादिलिंगेश्चविष्णुःसर्वगतइत्युच्यतेतथाऽऽदित्यश ब्दात्सर्वजीवलिंगाचाऽऽदित्य सर्व(३)जीवावाकिनस्युरित्यतआह ॥ चेति ॥ जीवःसर्वगतइतिशेषः । तत्रहत्वाकांक्षा यांसूत्रमुपन्यस्यप्रतिज्ञांशस्यसंबंधभाष्येणैवव्याख्यातत्वाद्धेत्वंशमेवव्याचष्टे ॥ अनुपपत्तेरिति ॥ भवेदन्यस्यसर्वगतत्वंय द्यन्यस्मिन्नुपपद्येत । नचोपपद्यते । तथाहि । किंमिलितसर्वजीवानांसर्वगतत्वमुतप्रत्येकमुच्यते । नाद्यः । तत्कथनवैया ।
त् । स्वस्वदेहस्थितिमात्रस्यसिद्धत्वात् । नद्वितीयः। सर्वशरीरगतसुखदुःखादिप्राप्त्यैकस्यसर्वशरीरस्थत्वानुपपत्तेः । अतोऽ न्यप्रापकसद्भावेपितस्यसर्वगतत्वानुपपत्तेरेवनजीवोयंसर्वगतइत्याशयः । तुशब्दएवार्थः । नचवाच्यस्वकर्मनिर्मितमेवास्य भोगायतनमितिनभोगाव्यवस्था ब्रीद्यादिगतजीवांतरवदिति । अनादितःसर्वेषांसर्वशरीरस्थत्वेकर्मभेदस्यापिसाधयितुम शक्यत्वात् । नचाऽऽदित्यस्यास्तुसर्वशरीरस्थत्वंभवदभ्युपगमादितिवाच्यं । तस्यापिब्रह्मादिसर्वशरीस्थत्वानुपपत्तेः॥ ३ ॥ युक्त्यंतरेणजीवस्यात्रोक्कसर्वगतत्वंपराकुर्वत्सूत्रंपठित्वातदुपात्तश्रुतिमेवोदाहरति ॥ कर्मेति॥अत्रोक्तसर्वगतस्यात्मानमिति कर्मत्वेनव्यपदेशाजीवस्यचशंसतीतिकर्तृत्वेनव्यपदेशादेकस्यांक्रियायांकर्मकोंरुत्सर्गतोभिन्नत्वनियमादत्रचाऽपवादकार णाभावाच्चनायंसर्वगतःशारीरइतिभावः । नचैकःसर्वगतोजीवःसर्वगतंजीवांतरंशंसतीतियोज्यं । सर्वगततयासर्वजीवाग्रह णापातात् । तथाप्रतीत्यभावेनक्लिष्टकल्पनत्वाच्च । आदिपदेनाऽऽत्मानंवेदेत्यस्यग्रहणम् ॥४॥ यदुक्तंब्रह्मशब्दाद्विष्णुरे वसर्वगतइति तदयुक्तं । ब्रह्मशब्दस्यजीवेष्वपिसंभवात् । नचासौजीवेऽमुख्यइतितदग्रहः । अमुख्यार्थस्यापिचक्षुर्मयत्वा दिबाधेनग्रहणोपपत्तेः । नचाश्रुतत्वादिगुणानुपपत्तिः । श्रुत्वाप्येनंवेदनचैवकश्चिदितिजीवस्याप्यश्रुतत्वादिस्मरणात् । नचानुपपत्तेरित्युक्तदोषः। विष्णावपितस्यसाम्यात् । नचकर्मकर्तृव्यपदेशाच्चेत्यभिहितदोषप्राप्तिः । चक्षुर्मयत्वादिबाधकेनै कस्यैवकर्मकर्तृत्वोपपत्तेरित्याशंकांपरिहरत्सूत्रमुपन्यस्यतदुपातश्रुतिमेवोदाहरति ॥ शब्देति ॥ नानेनब्रह्मशब्देनजीवउ च्यते । ब्रह्मशब्दस्यैतमेवेत्यवधारणाख्यविशेषवत्त्वादित्यर्थः। ब्रह्मशब्दस्यसावधारणत्वेपिकुतोनजीवेवृत्तिरित्यतआह ॥
म.दि. नहीति ॥ सावधारणब्रहाशब्दवाच्यत्वेमुख्यबहात्वस्यात् । नचतज्जीवस्योपपद्यतइतिभावः । विष्णावपिसावधारणत्र प्रकाशि शब्दश्रुतिःकुतइत्यतआह ॥ एषइति ॥५॥ स्मृतिसमाख्ययापिविष्णोरत्रोक्तसर्वगतत्वंसाधयत्सूत्रंपठित्वातास्मृतिमुदा हरति ॥ स्मृतेश्चेति ॥ नचवाच्यस्मृतेरपिस्ववचनत्वेनकथं विप्रतिपन्नंप्रतिसूत्रकारस्तामुपादत्तइति तस्याम्परोक्तानुवादरूप त्वात् । एवंसूत्राणिब्याख्यायपरकृतापव्याख्यांप्रत्याख्याति ॥ न चेति ॥ ईश्वरपवमनोमयत्वादिगुणोनजीवइतिप्रतिपा दितेजीवेश्वरयोरैक्यात्कथमेतदित्याशंक्यकेनचिदुकं । नायंपारमार्थिकोभेदःकिंवत्रमिथ्याभूतएवसूत्रकृताविवक्षितइतित खेदस्थमिथ्यात्वंनकल्प्यं । भेदमिथ्यात्वेमानाभावादित्यर्थः । जीवेशभेदोमिथ्याभेदत्वाच्चंद्रभेदवदित्यनुमानमानमिति चेन्न। मिथ्येत्यस्थासत्त्वाभिप्रायेऽपसिद्धांतात् । अनिर्वाच्यत्वाभिप्रायेऽप्रसिद्धविशेषणत्वात् । सत्त्वाभावसाधनेततएवास वापत्तेः । बाध्यत्वसाधनेप्यन्यथाज्ञातस्यसम्यगज्ञातत्वंद्वाध्यत्वं तत्सिद्धसाधनं त्रिकालेस्वरूपनिषेधविषयत्वंचेदसत्वाप तिः। प्रतीतस्येतिचेदसदपरोक्षतयाप्रतीयते । वाच्यत्वादित्यसतोपिप्रतीतिसिद्धेः । भेदाभावभेदत्वसामान्यस्याप्यसिद्धे श्च । व्यत्यभावेनसामान्यायोगात् । भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदेव्यभिचाराच्च । नवासावपिभेदोमिथ्येति युक्तं मोक्षनिवृत्त्यापातात् । मिथ्याभूतस्याप्यनिवर्त्यत्वेप्रकृतभेदस्थापितथात्वनानिष्टं । नचात्ममोक्षयोर्भेदाभावः । आ स्मनोऽनादिनित्यतयातदभिन्नमोक्षस्यज्ञानसाध्याविद्यानिवृत्तिरूपत्वानुपपत्तेः । द्वासुपर्णेत्यादिश्रुतिविरोधाच्च । अन्यत रचंद्रस्यैवाऽऽरोपितत्वेनाऽऽरोपितानाऽऽरोपितभेदस्यसत्यत्वाच्च । अतोनभेदमिथ्यात्वेमानमित्यलं ॥६॥ उक्तार्थमाक्षिप्य AKHERAMMARINE SHARRASESAMES १ समादधत्सूत्रंपठित्वाऽऽक्षेपांशतावधाचष्टे ॥ 'अर्भकेति ॥ यदुक्तंसर्वत्रोच्यमानोनारायणएवेति । तदयुक्त । यथा खलुजीवप्रापकसद्भावेप्यनुपपत्त्यातस्यसर्वगतत्वाभावस्तथेश्वरप्रापकसद्भावेपिबाधकसद्भावात् । सर्वेषुभूतेष्वित्यस्याल्पस्थान स्थितिकथनात् चक्षुर्मयत्वादिरूपेणजीवलिंगकथनाच्च आदित्य श्रुतेश्च । नद्यपरिच्छिन्नस्यसर्वजीवधर्मरहितस्यभगवतोऽर्भ कौकस्त्वादिकथनयुज्यते । अतःपक्षद्वयेपिसमसाधकबाधके नविष्णुरेवायंसर्वगतइतिपक्षपातोयुक्तइतिभावः । परिहा रांशंब्याचष्टे । नेति ॥नपक्षद्वयस्यापिसाम्येन विष्णोःसर्वगतत्वाभावइतियुक्तं । बाधकाभावात् । तथाहि । किमपरिच्छि नादिरूपस्या कौकस्त्वादिकथनमप्रयोजनमयुक्तंवा । आधंदूषयति ॥'अर्भकेति ॥ अपरिच्छिन्नस्यजीवविलक्षणस्यापिहरे र कौकस्त्वेनचक्षुर्मयत्वादिरूपेणचोपास्यत्वान्नतदुक्तिय॑थैतिभावः । द्वितीयेऽपिसर्वगतस्याल्पोकस्त्वंतावन्नायुक्तमित्याह ॥ सर्वगतत्वेऽपीति ॥ नापिजीवविलक्षणस्थचक्षुर्मयत्वाद्ययुक्तं । सर्वेद्रियमयइतिस्मृत्यासर्वप्राणिगतेंद्रियस्वामित्वेनचक्षुर्म यत्वादेरुक्तवादित्याशयेनाह ॥ सर्वेति ॥ सर्वनामाभिधेयश्चेत्यनेनैवाऽऽदित्यशब्दस्येश्वरवाचित्वंचोक्तंभवति । नचाऽ दित्येऽनुक्तिविरोधः। सर्वप्राणिषुचस्थितःसर्वनामाभिधेयइतिस्मृत्याऽऽदित्यादिगतस्यैवाऽऽदित्यादिनामवत्त्वोक्तेः ॥७॥ पुनरुक्तमाक्षिप्यसमादधत्सूत्रमुपन्यस्याऽऽक्षेपांशंतावड्याच ॥ संभोगेति ॥ यदुक्तमेकस्यसर्वशरीरस्थत्वंसर्वसमानभो गप्रारयुक्तमितितदीश्वरपक्षेऽपिसममेव । जीवपरयोरेकशरीरस्थत्वेपरस्यापिजीवसमानभोगप्राप्तेः । नहिदह्यमानगेहगत योरन्यतरस्यैवदाहइतियुक्तं । तथाचेश्वरपक्षस्यापिदोषित्वान्नायंसर्वगतइतिभावः । परिहारांशव्याचष्टे ॥ नेति ॥ नजीवे त०प्र०६ J शयोरेकशरीरस्थत्वेपिसमानभोगप्राप्तिः । ईश्वरस्यतदनातौजीवादपिसामर्थ्यवैशेष्यात् । अग्निस्तंभनवतोदाहाभाववदिति प्रकाशि० भावः । किंतत्सामर्थ्यवैशेष्ययेनसमानभोगा(संभोगा)प्राप्तिरित्यतआह ॥ उक्त मिति ॥ प्राप्तपरिहारायसत्यपिसामर्थ्यप्रा प्र.द्वि. तिस्तुभवत्येव । सापिभगवतिनसंभवति । तस्यसार्वज्ञेनैष्यत्परिहारसंभवादितिभावेनसार्वज्ञोक्तिः । एवमीश्वरपक्षेविरोधा भावात् । यद्ब्रह्मशब्दस्यामुख्यार्थग्रहणं अश्रुतत्वादीनांभाक्तत्वकल्पनं समानभोगमा प्रतिबंद्यापरिहरणं कर्मकर्तृभेदन्याय स्थापवादनं तत्सर्वमपिपरास्तंभवति । तस्माज्जीवनापकाणांसावकाशत्वेनासाधकत्वाद्वाधकसद्भावाच्चनजीवःसर्वगतः । किंनामबाधकाभावात्साधकसद्भावाञ्चविष्णुरेवेतिप्रागुक्तप्राणआनंदमयश्चसएवेतिसिद्धं ॥ ८ ॥ अ० १ ॥ अत्रलोक तोऽन्यत्रप्रसिद्धादितिशब्देनसहोक्तात्तृत्वलिंगस्यहरौसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषय वाक्यमुदाहृत्यविषयसंशयौसयुक्तिकंपूर्वपक्षचसूचयति ॥ जन्मेति ॥ जन्माघस्ययतइतिसूत्रेजन्मादिकारणत्वं विष्णो रुक्तम् । तन्मध्यपतितंसंहर्तृत्वापरपर्यायवाच्यमत्तृत्वबृहदारण्यकेकस्यचिच्छ्रयते ॥ सोऽदितिर्यद्यदसृजततत्तदत्तुंमनोप्रिय तादञ्च । कुतः सर्वानीसा सर्वमत्तीतियत्तदेवह्यदितेरदितित्वमदितित्वनिमित्तं । अन्यथातन्नस्यादिति । तच्चयदाहरेरितरस्य स्यात्तदाप्रागुक्तलक्षणस्यातिव्याप्तिप्रसंगादवश्यनिर्णेयमेव । तदत्तृत्वंविषयः। किंविष्णोरन्यस्यवेतिसंदेहः । लक्षणसूत्रमदिति श्रुतिश्चसंदेहबीजम् । अदितेरेवतदत्तृत्वमितिपूर्वःपक्षः । तददितेरित्यदितिश्रुतेः । नचश्रुतिर्विष्णुविषयाकिंनस्यादुक्तन्या यादितिवाच्यम् । अदितित्वलिंगात् । नादितिभिन्नस्यादितित्वंसंभवति । अतोनप्रागुक्तंब्रह्मलक्षणंयुक्तमितिभावः। न न्वेतदत्तृत्वमदितेश्चेत्कथंसइतियुल्लिंगंयुक्तस्यादतस्तेनश्रुत्यादिबाधइत्यतआह ॥ संइति ॥ यथारमायांपुंशक्तिमत्त्वात्पुल्लिं गप्रयोगः कूटस्थोऽक्षरउच्यते सोहंवायुंदिशांवत्संवेदेत्यादौ तथानापिसंभवतीतिभावः । यदाहुः । पुलिंगेनोच्यतेस्त्री चपुंवच्छक्तिमतीक्वचिदिति । ननुसइतिप्रकृतसंवत्सरपरामर्शान्नैतच्चोद्यावकाशः । मैवं । सतयावाचातेनात्मनेदंसर्वमसृजते त्युक्तस्यैवसयद्यदेवेत्यनुवादात् । तत्रचविरिंचस्यतृतीययाप्रकृतत्वाददित्याख्यमृत्योरेवप्रथमयाप्रकृतत्वात् । तथाचसोऽदि तिःसंवत्सरेणयद्यदसृजतेतियोजनायामस्तिचोद्यावकाशः। सिद्धांतयत्सूत्रमवतारयति ॥"अत्रेति ॥ विष्णुरेवात्तात्रोच्यते । सर्ववाअत्तीतिचराचरस्याद्यतयाग्रहणादितिसूत्रार्थः । चराचरग्रहणेपिकुतोनादितेरत्तृत्वमित्यतआह॥ नहीति॥ चराचरस्ये तिसूत्राक्षराण्यनूद्यश्रुत्यनुसारेणसर्वस्येतिव्याख्यानं । सूत्रस्यश्रुतिविसंवादप्रतीतिनिरासोऽस्यप्रयोजनं । चराचरात्तृत्वविष्णो रपिकुतइत्यतआह॥ स्रष्टेति ॥ अस्वातंत्र्येणाल्पस्यभवंतिस्वातंत्र्यापेक्षयानवा । यएकोऽस्यपुरस्ताद्वभूवसृष्टाविदंजगद्यतोब भूव । (अथ)यश्चभुवनस्यगोप्तायंचमुक्तिप्रलययोर्भुवनंप्रविशतिसहरिनआयुरर्थेघृतमाहुतिरूपमत्त्वित्यर्थः । नचवाच्यंश्रुतिलिं गाभ्यांपूर्वपक्षेकलिंगमात्रेणनिर्णयइति । लिंगस्योक्तरीत्यानिरवकाशत्वात् । अदितिश्रुतेर्विष्णावपिसावकाशत्वात् । लिंगस्य चादितिशब्दवाच्यत्वमदितित्वमितिसावकाशत्वात्। सावकाशश्रुतिलिंगाभ्यांनिरवकाशलिंगमात्रस्यप्राबल्यात्॥९॥ एवंनि रवकाशलिंगबलात्सावकाशश्रुतिलिंगयोर्वाधोपपत्तेर्विष्णुरेवात्तेतिसिद्धयतिकिंपुनर्निरवकाशप्रकरणेनचेत्यर्थप्रतिपादयत्सूत्रंप ठित्वाव्याचष्टेप्रकरणांचेतिनिवेहकिंचनाग्रआसीन्मृत्युनैवेदमावृतमासीदशनाययाऽशनायाहिमृत्युस्तन्मनोकुरुतात्मन्वी प्रकाशि प्र.डि. स्यामिति । सोर्चनचरत्तस्यार्चतआपोजायंततधदपांशरआसीत्तत्समहन्यतसापृथिव्यभवत्तस्यामश्राम्यत्सोकामयतद्वितीयो मआत्माजायतेति । समनसावाचं(चा)मिथुनंसमभवदशनायामृत्युस्तद्यद्रेतआसीत्ससंवत्सरोभवत्तंजातमभिव्याददात्सभाण मकरोत्सैववागभवत्सऐक्षत यदिहवाइममभिमस्येकनीयोनकरिष्यइतिसतयावाचातेनात्मनेदैसर्वमसूजतेत्यस्मिन्प्रकरणेमृत्यु मात्रावशेषाप्संवत्सरसृष्टिसंवत्सरादनोद्यमादिश्रवणादेतत्प्रकरणस्यवैष्णवत्वंज्ञायते । अतोनिरवकाशप्रकरणबलाच्चविष्णुरे वात्तेत्याशयः । नन्वप्संवत्सरसृष्ट्यादिनात्रोच्यमानेनापिकथमस्यविष्णुप्रकरणत्वनिश्चयइत्यतोसंवत्सरसध्यादेविष्णुलिंगत्वा दितिभावेनतन्त्रस्मृतिमाह ॥ नेहासीदिति ॥ तस्माद्विष्णोरेवेदमत्तृत्वमितियुक्तमेवलक्षणमितिस्थितं ॥ १० ॥ अ० २॥ अनलोकतोऽन्यत्रप्रसिद्धस्यकर्मफलभोक्तृत्वलिंगस्यविष्णौसमन्वयसमर्थनादस्तिशास्त्रादिसंगतिः। श्रुत्यादिसंगतिविषयवा क्योदाहरणपूर्वकंविषयंचसूचयति ॥ सर्वेति ॥ संदेहप्रकारदर्शयति ॥ ताविति ॥ अत्ताचराचरग्रहणादितिसर्वात्तृत्वमेक स्यहरेरुक्तं । तन्मध्यपतितकर्मफलात्तृत्वंपात(त्व)शब्दवाच्यकाठकेकयोश्चित्प्रतीयते । योसुकृतनिर्मितशरीरेहृदयगुहांप्रवि ष्टौ । तत्रापिसर्वजीवोत्तमेऽतिपूर्णेवायोप्रविष्टौसुकृतफलं जानौ । तौब्रह्मविदःपंचमहायज्ञवंतोधुपर्जन्यादिपंचाग्निविद्यानि छावा । त्रिवारकृतनाचिकेताः। छायातपौवदंतीति । तद्यदाविष्णोरन्यस्यैवस्यात्तदानतस्यसर्वात्तृत्वं यदिचान्यस्यापिभ वेत्तदालक्षणस्यातिव्याप्तिरित्यवश्यंनिर्णेयमेव । तत्कर्मफलभोकृत्वंविषयः । किंविष्णोरन्यस्यवेतिसंदेहः। सर्वोत्तृत्वोक्तिरन्य अप्रसिद्धिश्चसंदेहबीजं । नपरमात्मनएवेदंकर्मफलभोक्तृत्वमुच्यतेऽपितुजीवसहितस्येतिपूर्व पक्षः। पिबंतावितिद्विवचनश्रु १०1१८ । तेः । नचसर्वात्तृत्वेनतद्वाधः । श्रुतेर्निरवकाशत्वात् । कर्मबंधविधुरस्येश्वरस्यकर्मफलभोगायोगाच्च । अनश्नन्नन्यइत्यादि श्रुतेः । नचैवंजीवेशग्रहणेप्यनुपपत्तिः । जीवस्यभोक्तृत्वेनतत्सहितेश्वरेछत्रिन्यायेनभोगोपचारोपपत्तेः । नचसर्वात्तृत्वोक्ति विरोधः । कर्मफलभोगविनापिसंहर्तृत्वमात्रेणतदुपपत्तेः । तथापिजीवेशत्वेकोहेतुः । एकस्यजीवत्वंपातृत्वान्यथानुपपत्त्या ग्राह्यं । नचद्वितीयोऽचेतनः । सजातीयग्रहणस्यैवन्याय्यत्वात् । नचद्रावपिजीवौयुक्तौ । एकस्मिन्नेवशरीरेभोक्तृजीवद्वया योगात् । अतःपातृत्वंजीवस्यैवद्वयोरप्युपचारइतिनेश्वरस्यैवसर्वात्तृत्वं । तथाचलक्षणमयुक्तमितिभावः । अथसिद्धांतयत्सू त्रमवतार्यव्याचष्टे ॥ उच्यतइति ॥ यौपिबतौप्रतीतौतौविष्णुरूपेएव । गुहाप्रविष्टत्वलिंगादित्यर्थः । विष्णूइतिवक्तव्येवि ष्णुरूपेएवेत्युक्त्याद्विवचनंद्विरूपाभिप्रायेणसावकाशमित्युक्तंभवति । ननुविष्णोःसर्वशरीरेष्वेकैकरूपेणप्रवेशात्कथंरूपदया भिप्रायेणापिद्विवचनोपपत्तिरित्यतःसूत्रसूचितश्रुतिमुदाहरति ॥ घर्मेति ॥ दीप्तौव्याप्तीभगवंतौतेजोबन्नात्मकंशरीरंविशेषे णगुहास्थानेप्राप्तौतयो सेवांकर्तुमातरिश्वापित्रिवृतंजगामेतिद्विरूपतयाहरे शरीरेस्थित्युक्तेर्युक्तरूपद्वयाभिप्रायेणद्विवचन मि तिभावः । अस्तुद्धिरूपतयाविष्णुर्देहनिष्ठस्तथापितस्यकर्मफलभोगाभावान्नैतद्वाक्यप्रतिपाद्यत्वमित्यतआह ॥ आत्मेति ॥ तथाचगीतासु । श्रोत्रंचक्षुःस्पर्शनंचरसनंघाणमेवच । अधिष्ठायमनश्चायंविषयानुपसेवतइति । ननुकिमीश्वरोदुःखसुखंवा कर्मफलंभुलेनोभयमपि पूर्णानंदत्वादित्यतआह ॥ शुभमिति ॥ पूर्वार्धनाद्यपक्षमनभ्युपगमेनपरिहृत्यद्वितीयमभ्युपैति । उत्तरार्धनतुपूर्णानंदस्याप्यचिंत्यैश्वर्यबलेनसुखभोगोपपत्तिरितिद्वितीयपक्षदूषणंपरिहरति । विष्णोर्मोत्कृत्वाभ्युपगमेऽनश्नन्न १०।१९ प्रकाशि प्र. द्वि. न्यइत्यादिश्रुतिविरोधइत्यतोवाऽऽह ॥ शुभमिति ॥ अशुभभोगाभावविषयंतद्वाक्य मितिभावः। तथाहिवाक्यशेषः। तस्वेदाहुःपिप्पलं स्वाद्वतन्नोन्नशद्यःपितरंनवेदेति । ननुकथंगुहानिविष्टत्वलिंगापिवतोर्विष्णुत्वनिश्चयोजीवेपितयुक्तरित्य तआह ॥ योवेदेति ।। लिंगस्यजीवेसंभवेपिश्रुत्यादिप्रसिद्धमेवग्राह्यमितिभावः । इत्यादिनाप्रसिद्धंहिशब्देनदर्शयतीति । विष्णोरेवगुहानिविष्टत्व मित्यादिनावाक्येनप्रसिद्धमितीममर्थसूत्रकारोहिशब्देनदर्शयतीत्यर्थः ॥ ११ ॥ एवंनिरवका शलिंगस्यसावकाशश्रुतितोऽपिप्राबल्याद्विष्णो कृत्वसंभवाच्चसएवपातेतिसिद्ध्यतिकिमुनिरवकाशश्श्रुत्यापीत्यर्थप्रतिपादय सूत्रपठित्वातदभिप्रेतश्रुतिमेवोदाहरति ॥ विशेषांचेति ॥ यासेतुरितिपिवतोरेकवचनेनविशेषणात् । एकएवपा ता । सचब्रह्मत्वविशेषणाच्चविष्णुरेवेतिभावः । ब्रह्मशब्दस्यभगवदेकवाचित्वंस्मारयति ॥'पृथगिति ॥ तस्यगुणा अमितत्वतोविविच्ययतोवक्तुंनशक्यतेऽतस्तस्मिन्ब्रह्मशब्द प्रयुज्यते । यतोब्रह्मशब्देनसर्वगुणानांग्रहणंभवेत् । एवंसर्वगुण वाचीयतोब्रह्मशब्दएतस्माद्विष्णोरेववाचकोनान्येषांतस्यैवाऽमितगुणत्वात् । तंविनान्येषांतदभावादित्यर्थः । एवंसूत्रद्वयं व्याख्यायपरकृतापव्याख्यांनिराकरोति ॥नचेति ॥ अत्रप्रतीतौपिबंतौकिंबुद्धिजीवौजीवेश्वरौवेतिसंदेहेबुद्धिजीवाविति प्राप्तेसिद्धांतितं । जीवेश्वरावेतौभवतोऽन्यतरस्यपातृत्वेनजीवत्वेसिद्धेद्वितीयस्यचेतनतयैवभाव्यत्वात् । अस्यगोद्धितीयो ऽन्वेष्टव्यइत्यादौसजातीयग्रहणस्यैवलोकेदर्शनादितिव्याख्यानमयुक्तं । समन्वयासंगतत्वात् । नह्यस्मिन्नध्यायेजीवेसमन्व योऽभिधीयतेयेनजीवेश्वरावेतावितिसाध संगतस्यादतोनासौव्याख्यायुक्तेतिभावः । नचछायातपत्वविशेषणादेतत्कल्प्यं ।
। - विद्वदविदुषोःसुखदुःखकारणत्वेनतदुपपत्तेः । नहिछायातपशब्दौविद्याविद्यावद्वाचकौ । किंचपिबतोर्बुद्धिजीवत्वेकिछिन्नं किंवाजीवेश्वरत्वेलब्धं । परेणापिजीवेतदभ्युपगमात् । ईश्वरेसमन्वयसिद्धिरितिचेन्न । ईश्वरेलिंगस्यौपचारिकत्वाभ्युपग मात् । एवंचजीवएवसमन्वयःसाधितःस्यात् ततश्चकिंपूर्वपक्षिणाऽपराद्धं । तेनापिपातृत्वस्यबुद्धौलाक्षणिकत्वाभ्युपगमा त् । नात्रजीवेसमन्वयकथनमसंगतंजीवेशभेदस्यासत्यत्वादित्यतआह ॥ सत्येइति ॥ सत्यसत्याआरुवण्योदोषिभिर्भजनी यः । यथासत्यभेदौतथैवज्ञातेनतेनसत्येनकारणेन । अतोहरिरेवसुकृतफलभोक्तेतिनतस्यसर्वात्तृत्वलक्षणायोगइतिस्थितं ॥ ॥ १२ ॥ अ० ३ ॥ अत्राग्निश्रुतिसाहित्येनान्यत्रप्रसिद्धस्यचक्षुरंतस्थत्वलिंगस्यपरब्रह्मणिसमन्वयसमर्थनादस्तिशास्त्रादिसं गतिः । श्रुत्यादिसंगतिविषयवाक्यंविषयसंशयौसयुक्तिकंपूर्वपक्षंचदर्शयति ॥ आदित्य इति ॥ यश्चासावादित्यइत्यानंद मयस्यादित्यस्थत्वमुक्तम् । ततश्चार्थादक्षिस्थत्वमप्युक्तम् । तदक्षिस्थत्वंछंदोगश्रुतौकस्यचित्प्रतीयते । यएषोऽतरक्षणिपुरु षोदृश्यतेएषआत्मेतिहोवाचैतदमृतमभयमेतद्ब्रह्मेति । तच्चयद्यन्यस्यस्यात्तदाऽऽदित्यस्थत्वमानंदमयत्वंचान्यस्यैवप्रसज्येते त्यवश्यंनिर्णेयमेव । तदक्षिस्थत्वंविषयः । विष्णोरग्नेतिसंदेहः । यश्चासावादित्येइत्युक्तिरग्निश्रुतिश्चसंदेहबीजं । यएषोंतर क्षणीतिवाक्येऽग्निरेवाक्षिस्थत्वेनोच्यतइतिपूर्वःपक्षः । यतोयएषआदित्यपुरुषःसोहमस्मिसएवाहमस्मीत्यग्नेरेवादित्यस्थत्वमु च्यतेऽतएव । नचवाच्यमग्नेरादित्यस्थत्वेपिकुतोऽक्षिस्थत्वमिति । आदित्यश्चक्षुर्भूत्वाऽक्षिणीप्राविशदितिश्रुतेरक्ष्यादित्ययो रेकविधत्वादादित्यस्थितत्वेनाग्नेरक्षिस्थत्वसिद्धेः। एतस्मिन्प्रकरणेऽथहाग्नयःसमूदिरेगार्हपत्योनुशशासेत्यादिबह्वग्निश्रुतिस ।
दावाच । नचवाच्यमन्नेरादित्यस्थत्वकथनमौपचारिकर्किनस्यात् । यश्चासावादित्य इतिश्रुतिविरोधादिति । सोहमस्मिसए
वाहमस्मीत्यभ्यासात् । अभ्यासस्यचसमाख्यातोबलवत्त्वात् । नचविष्णुग्रहणेऽपूर्वतयाभ्यासस्यापिबाधः । सयएतदेवंवि
प्र.द्वि.
॥३४॥ द्वानुपास्तेऽपहतेपापकृत्यांलोकीभवतिसर्वमायुरेतीत्यर्थवादात् । अर्थवादस्यचापूर्वतायाःप्राबल्यात् । अतोऽक्ष्यादित्यस्थो
ऽग्निरेवेतिसएवानंदमयोपीतिभावः । नकेवलमग्नेरक्षिस्थत्वसिद्धावानंदमयत्वप्राप्तिाकिंतुयद्विष्णुज्ञानादेवमोक्षइतिमतंतदपि
बाधितस्यादित्याह। अतइति ॥ यतोऽग्निरक्षिस्थोऽतस्तज्ज्ञानान्मोक्षोऽपिभवेत् । तद्यथेतितज्ज्ञानात्सर्वपापाश्लेषोक्तेः । त
ज्ज्ञानात्सर्वपापाश्लेषेचमोक्षस्यापितदन्यथाऽनुपपत्त्यैवोपपत्तेरित्यर्थः । अत्राऽऽदित्यस्थत्वलिंगस्यापिविष्णौसमन्वयसिद्ध्य
थैवक्रसंगत्याऽधिकरणारंभइतिज्ञातव्यं । अग्नीनामितिबहुवचनमादिपदद्वयंचबग्निश्रुतिसूचनायप्रयुक्तं । सिद्धांतयत्सूत्र
भवतायेव्याचष्टे ॥ अंतइति ॥ विष्णुरेवचक्षुरंतरः । एतदमृतमभयमित्यमृतत्वाभयत्वोक्तेः । अमृतत्वादेश्चविष्णावेवोपप
त्तेः । त्रिपादस्यामृतदिवि अभयंतितीर्षतांपारमितिश्रुतेः । नचानेरमृतत्वाद्युपपद्यते । परिह्येनंनियंतेविद्युदृष्टिश्चंद्रमाआ
दित्योग्निः भीपास्मादग्निश्चंद्रश्चेत्यादिश्रुतेरितिभावः । यदेवंनिरवकाशत्वानेकत्वाभ्यांबलवल्लिंगबलाच्चक्षुरंतःस्थस्यविष्णुत्व
निश्चयः किमुतदोभयथापिबलवच्छृतितोऽपीतिभावेनसूत्रांशंप्रकारांतरेणव्याचष्टे ॥ ब्रह्मेति ॥ नन्वेवंबलवच्छृतिलिंगबला
द्विष्णुरेवचेदक्षिस्थस्तदादित्यस्थोपिसएवस्यात् तर्हिसोहमस्मिसएवाहमस्मीतिश्रुतेःकागतिरित्यतआह॥ सोहमिति ॥ अंत
र्यामिण्यहमादिशब्दवृत्तिस्मारयति ॥ अंतर्यामिणमिति ॥ एवंश्नुतेःसावकाशत्वेनतदनुयायिनोरभ्यासार्थवादयोरपिसु । ॥ २३ ॥
तरांसावकाशत्वं ॥ १३ ॥ युक्त्यंतरेणविष्णोश्चक्षुरंतस्थत्वंसाधयत्सूत्रमुपन्यस्यव्याचष्टे ॥ स्थानादीति ॥ अनाक्षिस्थ पुरुषसंबंधादक्ष्णोरसंगत्वाख्यशक्तिर्व्यपदिश्यते तद्यदस्मिन्सर्पिर्बोदकंवेति । एतंसंयद्वामइत्याचक्षतएतहिसर्वाणिवामान्य भिसंयंति । एषउएववामनिरेषहिसर्वाणिवामानिनयतिएषउएवभामनिरेपहिसर्वेषुलोकेषुभातीतिचक्षुरंतस्स्थस्यसंयद्वामत्वा दिस्वरूपशक्तिश्चोच्यते । एतदुभयबलाच्चक्षुरंतस्थोविष्णुरेवेत्यर्थः । यस्मादयंपुरुषोऽक्षणिविद्यतेतत्तस्मादस्मिंश्चक्षुषिय दिसर्वोिदकंवाकश्चित्सिंचतितर्हिवर्मनीप्रत्येवगच्छतिनचक्षुःस्पृशतीत्यर्थः । एतल्लिंगद्वयसद्भावेपिकुतोऽक्षिस्थस्यविष्णुत्व निश्चयइत्यतआह ॥ तस्येति ॥ एतदितिस्वसंबंधेनाक्ष्णोरसंगत्वापादकत्वं । कुतएतत्तस्यलिंगमितितत्राह ॥ संहति॥ यद्यस्माद्यस्यप्रभावात् । इदंचक्षुषीतिसमस्तं ॥ १४ ॥ प्रकरणबलाञ्चचक्षुरंतस्थत्वं विष्णोःप्रतिपादयत्सूत्रमुपन्यस्यतदुपात्त श्रुतिमेवोदाहरति ॥ सुखेति ॥ अत्रोपक्रमेप्राणोब्रह्मेतिमुख्यप्राणस्याखिलजीवभ्यःपूर्णत्वमुक्त्वाकंब्रह्मखंब्रह्मेतिसुख संविदोरपिपूर्णत्वमुच्यते । तथाचास्यप्रकरणस्योपक्रमेपूर्णसुखाभिधानादेववैष्णवत्वंसिद्ध्यतिकिमुतपूर्णज्ञानाभिधानादपि ततःप्रकरणबलाच्चचक्षुरंतस्थोविष्णुरेवेतिभावः । उपक्रमेपूर्णसुखसंविदभिधानेपिकुतोऽस्यप्रकरणस्यवैष्णवत्वमित्यतआह ॥ विज्ञानमिति ॥ पूर्णानंदसंवित्त्वस्यब्रह्मलक्षणत्वादुपक्रमेतदभिधानेब्रह्मैवोपक्रांतस्यादितिभावः। श्रौतमपिविज्ञानादि पदंपूर्णज्ञानादिवाचि । ननुसकलचेतनानामपिपूर्णानंदत्वात्कथमेतद्विष्णुलक्षणमित्यतआह ॥ लक्षणमिति ॥ अन्ये षामापेक्षिकमेवपूर्णसुखत्वंनब्रह्मवन्निरवधिकमितिभावः । नन्वन्यादिसुखस्यापेक्षिकतयापिपूर्णत्वसद्भावात्तेषांकिंनस्यादि १७.११ त्यतआह ॥ नचेति ॥ मुख्य निरवधिकपूर्णत्वेसतिसंभवति नामुख्यामापेक्षिकपूर्णत्वयुज्यतइत्यर्थः । नवोपक्रमेप्राणस्यापि प्रकाशि ० श्रुतत्वेन(माकरणिकत्व)प्रकरणित्वम् । श्रुतिलिंगादिबाधकसद्भावात् ॥ १५॥ नैवमुपक्रमप्यक्षिस्थप्रकरणस्यवैष्णवत्वयुक्तं । प्र.द्वि. प्राणोब्रह्मकमितिविद्यायएषआदित्ये पुरुष इत्यादि (त्य)विद्यांचोक्त्वाअग्मिभिरुपकोसलैपासोम्यतेऽस्मद्विद्याऽऽत्मविद्याचेत्यु क्तत्वेनाद्यविद्यायाविष्णुविषयत्वस्य द्वितीयविद्यायाअग्निविषयत्वस्यैवयुक्तत्वादक्षिस्थविद्यायाश्चादित्यस्थविद्ययैकार्थत्वात्। नचोपक्रमविरोधः । ह्वयाम्यग्निमित्यादाविवोपपत्तेः। नचास्मद्विोत्यंतर्यामिविषयतयायोज्यं तथासत्यात्मविद्येतिपृथगुक्त्य योगात् । तस्मादग्निविषयत्वमेवचक्षुरंतस्थविद्यायाइत्याशंकांपरिहरत्सूत्रंपठित्वातदुपात्तश्रुतिमेवोदाहरति ॥ श्रुनेति॥नैत द्विद्यायाअग्निविषयत्वंयुक्तमपितुविष्णुविषयत्वमेव । अथयदुचैवास्मिन्छव्यंकर्मकुर्वति यदुचैनाऽर्चिपमेवाभिसंविशत्यर्चिषो हरन्हआपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्पडुङ्डेतिमासांस्तान्मासेभ्यःसंवत्सरंसंवत्सरादादित्यमादित्याच्चंद्रमसंचंद्रमसो विद्युतंतत्पुरुषोमानवःसएनान्ब्रह्मगमयतीतिश्रुतैतद्विद्यानांब्रह्मगत्यभिधानादितिभावः। श्रुतपदंमनननिदिध्यासनोपलक्षको कगतिरितिब्रह्मगति ब्रह्मेतिप्रकृतत्वात्।केनवायुनागतिरितिवाकोवायुरितिशब्दितइत्यभिधानात्। अथवा श्रुतोपनिषदमु पकोसलंप्रत्येतद्विद्याफलत्वेनकगत्यभिधानादिति । नचवाच्यमनकगतिकथनमेवश्रूयतेनतद्विद्याफलत्वेनेति । सर्वेषुलोकेषु भातियएवंवेदेतिफलश्रुतिसामीप्यात् । अन्यथाअसंगतेश्च । अस्त्वेतद्विद्यायाब्रह्मप्राप्तिःफलंतथापिकुतोनाग्निविषयत्वमित्य तआहानहीति॥ यदीयमग्निविद्यातर्खेतद्विद्ययाऽग्निप्राप्तिरेवफलत्वेनोच्येतनब्रह्मप्राप्तिः। देवान्देवयजोयांतिमद्भक्तायांति मामपीत्यादेरन्यविद्यायाऽन्यगतेरयुक्तत्वात् । अतोब्रह्मप्राप्तिफलैतद्विद्यायाब्रह्मपरत्वमेवेतिभावः । नचास्मद्विद्येत्युक्तिविरो धः। तस्यअंतर्यामिविषयत्वोपपत्तेः। श्रुतेरपिनिरवकाशत्वोपपत्तेःप्राबल्यात् । नचात्मविद्येतिपृथगुक्तिविरोधः । तस्याःसर्व गतात्मविद्यात्वाभिधायकत्वात् । तस्यैवब्रह्मत्वात्॥१६॥ एवमुपपत्त्यादियुक्तिभिर्विष्णोरक्षिस्थत्वंप्रतिपाद्यविपक्षेबाधकेनापि समर्थयत्सूत्रमुपन्यस्यव्याचष्टे॥अनवस्थितेरितिनायंचक्षुरंतस्थोऽग्निर्भवेत् । अस्यतत्तत्प्रेरकत्वेनतत्तच्चक्षुस्थितेरभिप्रेतत्वा त्। नचाग्नेरन्यप्रेरकत्वंयुक्तं । जीवत्वात्।जीवस्यतस्यजीवांतरनियामकत्वेतस्यापिजीवांतरंनियामकमित्यनवस्थानात् । पूर्वपूर्व चेष्टासिद्धावुत्तरोत्तरचेष्टासिद्धिरितिमूलक्षतेः। अभ्युपगम्य(पेत्य)चेदमुदितं अग्नेरपिप्रेर्येणसहजीवत्वसाम्यात्प्रेरणासंभवाच्चे त्यर्थः । जीवप्रेरकाग्नेःस्वातंत्र्याभ्युपगमानानवस्थेत्यतआह ॥ नियमेति ॥ अग्ने स्वतंत्रत्वेजीवांतरस्यापितत्स्यात्। अन्यथाऽ ग्नेरपितन्नस्यात् जीवत्वसाम्येप्यग्नेरेवस्वातंत्र्यनान्येषामितिनियमेप्रमाणाभावात् । अतोऽग्ने स्वातंत्र्यायोगात्सुस्थैवानवस्थेति भावः। अस्त्वग्नेरस्वातंत्र्यंतथापितत्प्रेरकस्येश्वरस्यस्वातंत्र्यसंभवान्नानवस्थेत्यतआह॥"अनीश्वरेति ॥ त्वयेश्वरानभ्युपग मान्नैवमनवस्थापरिहारइत्यर्थः। ईश्वराभ्युपगमेसएवाक्षिस्थतयायुक्त्यादिप्राप्तःकिमपोद्यते। ननुजीवत्वसाम्येपिनीचोच्चभाव वनियम्यनियामकभावसंभवःकिनस्यादित्यतोवाऽऽह ॥ नियमेति ॥ नियामकविशेषेप्रमाणाभावान्नदृष्टांतमात्रेणनियम्य नियामकभावसंभवइतिभावः। ननुभवताप्यन्यादिजीवानांजीवांतरनियामकत्वाभ्युपगमात्कथंतदसंभवइत्यतोवाऽऽह ॥ अ नीश्वरेति॥ यथासतिराज्ञिमंडलेशेप्रजानांतच्छत्स्यानियम्यनियामकभावःसंभवतिनत्वराजकेलोके तथाऽस्मत्पक्षेजीवाना ॥ तत्व प्र. द्वि. मीश्वरशक्त्याजीवांतरनियामकत्वमुपपद्यतेनपरपक्षे। परमेश्वरानंगीकारादितिभावः । तस्माद्विष्णुरेवाक्ष्यादित्यस्थो (त्यादि स्थो,दिव्यदृष्टिगोचरोऽतःसएवानंदमयस्तज्ज्ञानादेवमोक्षइतिसिद्धं ॥१७॥अ०४॥ अन्नपृथिव्यादिशरीरत्वलिंगसाहित्येनान्य प्रसिद्धांतर्यामित्वलिंगस्यविष्णौसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः। विषयवाक्योदाहरणपूर्वकविषयंदर्शयति ॥ यई ति॥श्रुत्यादिसंगतिदर्शयति॥ तत्रति॥ एतदमृतमभयमित्यक्षिस्थपुरुषस्यामृतत्वमुक्तं तत्काण्वमाध्यदिन श्रुत्योरंतर्यामिणः कस्यचिच्छ्रयते एषतआत्मांतयोम्यमृतइति सचांतयोमीयदिविष्णोरितर स्यात्तदाऽमृतत्वंचान्यनिष्ठंनाक्षिस्थस्यविष्णुत्वसा धकस्यादित्यवश्यनिर्णतव्यएव । तदंतर्यामित्वमत्रविषयः । किंविष्णोरन्यस्यवेतिसंदेहः । अमृतत्वंपृथिव्यादिशरीरत्वं चसंदेहबीजमितिभावः । सयुक्तिकंपूर्वपक्षयति ॥ सचेति ॥ सोऽतर्यामीप्रकृतिर्भवेत् । यस्यपृथिवीशरीरंयस्याप शरीर मित्यादिनांऽतर्यामिण पृथिव्यादिशरीरत्वस्यश्रवणात। तस्यचप्रकृतावुपपत्तेः शरीरशब्दस्यखरूपेऽपिप्रयोगात् । प्रकृतेश्च थिव्यादिसर्वात्मकत्वात् । नचयःपृथिव्यांतिष्ठन्नित्यादेरनुपपत्तिः । व्याप्तंकार्येषुकारणमित्यादिनाकारणस्यकार्यस्थत्वोक्तः। पृथिवीयमयतीत्येतदप्युपचारेणनेतव्यं । पृथिव्यादिजीवस्यैवतदंतर्यामित्वं । पृथिव्यादिशरीरत्वादेस्तस्मिन्नतिसुघटत्वादि तिभावः। ननुयथाप्रकृत्यादिलिंगेनतेषामंतामित्वंतथाऽमृतत्वलिंगेनविष्णो:किंनस्यादित्यतआह॥नहीति॥ विद्यमानेपि विष्णुलिंगेनतस्यांतयामित्वं । पृथिव्यादिशरीरत्वस्यकयापिविधयाऽवकाशाभावात् । तस्यपृथिव्यादिभिन्नत्वचिच्छरीरत्वो ररीकारेणपृथिव्यादिशरीरत्वानंगीकारात् । अमृतत्वस्यचकथंचित्प्रकृत्यादावपिसावकाशत्वात् । सावकाशस्यचनिरवकाशे ।
CMMARRIERRIAGHENNARIESARIOTINHEATRE नबाधोपपत्तेः । अतोऽतर्यामीनविष्णुरपितुप्रकृत्यादयएवेतिनामृतत्वमक्षिस्थस्यविष्णुत्वसाधकमितिभावः। सिद्धांतयत्सूत्र मवतार्यव्याचष्टे ॥ अतइति ॥ अंतर्यामीविष्णुरेव । अंतर्यामिण पृथिव्याद्यविदितत्वतदंतरत्वाख्यधर्मव्यपदेशात् । अवि दितत्वादेश्चविष्णुधर्मत्वात् । नचवाच्यंपृथिव्यादीनांजडत्वेनतदज्ञेयत्वंसर्वस्यापिसंभवतीति । पृथिव्यादीनामधिदैवत्वेनज डत्वाभावादितिभावः । चक्षुरादीनांजडत्वेप्यत्रोक्तस्यैवतत्रकथनान्नविरोधः । अविदितत्वादेःकुतोविष्णुधर्मत्वमित्यतआह॥ 'संहीति ॥ नचपृथिव्यादिजीवादिविदितत्वंप्रकृतेःपृथिव्यादिजीवस्यवोपपद्यते ॥ १८॥ एवं निरवकाशलिंगेनविष्णोरं तर्यामित्वसमर्थ्य यदुक्तंप्रकृतेरंतर्यामित्वमितितदपाकुर्वत्सूत्रमुपन्यस्यव्याचष्टे ॥ नचेति ॥ स्मातकापिलस्मृतौपृथिव्याद्या त्मकतयोक्तंप्रधाननांतर्यामिअविदितत्वाद्यनन्यथासिद्धविष्णुधर्मवत्रिगुणत्वोपादानत्वादिप्रधानधर्मोत्यभावादित्यर्थः । चशब्दोविष्णुरेवांतर्यामीनतुप्रधानमितितुशब्दार्थः ॥ १९॥ यज्जीवोंऽतर्यामीत्युक्तंतदपिसंसारित्वाद्यतद्धर्माभिलापादिना निरस्तमपिविशेषयुक्त्यापराकुर्वत्सूत्रमुपन्यस्यव्याचष्टे ॥ शारीरश्चेति ॥ चशब्दान्नजःसमाकर्षः । आत्मनोऽतरइतिमा ध्यंदिनाः विज्ञानादंतरइतिकाण्वाश्चजीवमंतर्यामिणःसकाशाद्भेदेनाधीयते हियस्मादतोनशारीरश्चांतयामीत्यर्थः। आत्मनः सकाशादंतरोविविक्तः । विज्ञानपदेनशारीरकुतइतिचेत् । उदाहृतश्रुतिसमाख्यानादेव । ननुविष्णावसंभाव्यमानपृथि व्यादिशरीरत्वस्यप्रधानादिधर्मस्यात्रोक्त कथंविष्णोरंतर्यामित्वकथंचप्रधानादिधर्मानभिलापइत्यतआह ॥ शीयतइति ॥ यद्यपिविष्णौनोक्तप्रकारद्वयेनपृथिव्यादिशरीरत्वोपपत्तिस्तथापियोगवृत्त्यातस्मिन्पृथिव्यादिशरीरत्वव्यापदेशोपपत्तेतद्वि त.प्र.७ तत्व रोधोविष्ण्वंतर्यामित्वस्यनाप्यतद्धर्माभिलापोक्तविरोधइतिभावः । यद्यपियोगाडे प्राबल्यंतथापिनिरवकाशाविदितत्वादि प्रकाशि लिंगबलेनयोगांगीकारोयुज्यते । अतोतर्यामीविष्णुरेवेतिसएवामृतोऽक्षिस्थश्चेतिसिद्धं ॥ २० ॥ अ० ५॥ अत्राऽक्षरशब्द प्र.द्वि. साहित्येनान्यत्रमसिद्धादृश्यत्वादिलिंगानांब्रह्मणिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयवाक्यो दाहरणेनविषयसंशयौसयुक्तिकंपूर्वपक्षचसूचयति ॥ अदृश्यत्वादीति ॥ अदृश्येऽनात्म्यइत्यानंदमयस्यादृश्यत्वादिगु णाउक्ताः तेचाथर्वणेकस्यचिदक्षरस्योच्यते । अथपराययातदक्षरमधिगम्यतेयत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रंतदपा णिपादनित्यंवि सर्वगतंसुसूक्ष्मंतदव्यययद्भूतयोनिपरिपश्यतिधीराः । यथोर्णनाभिःसृजतेगृह्णतेचयथापृथिव्यामोषधयः संभवंति । यथासतःपुरुषात्केशलोमानितथाक्षरात्संभवतीहविश्वमिति । तेषांचविष्ण्वन्यनिष्ठत्वेप्रागुक्तानंदमयत्वंचान्य स्यैवस्यादित्यवश्यंनिर्णेतव्यता । तददृश्यत्वादिलिंगजातमनविषयः । विष्णोरन्यस्यवेतिसंदेहः । आनंदमये श्रुतत्वमक्ष रशब्दश्वसंदेहबीजं । नविष्णोरदृश्यत्वादीतितावत्पूर्वःपक्षः । अदृश्यत्वादिगुणकेऽक्षरात्संभवतीहविश्वमित्यक्षरशब्दश्रव णात् । तस्यचविष्णौनिरवकाशत्वात् । यतोऽस्मादप्यक्षरादुत्तरवाक्येपरम्प्रतीयते । दिव्योह्यमूर्तःपुरुषःसबाह्याभ्यंतरो हजः । अप्राणोह्यमनाःशुञोह्यक्षरात्परतःपरइति । नहिविष्णोरपिपरोऽस्तीत्यतोनविष्णुरदृश्यत्वादिगुणकइतिनानंदम योपीतिभावः । सिद्धांतयत्सूत्रंतावदवतारयति ॥ अतइति ॥ अदृश्यत्वादिकंन विष्णोश्चेत्तहिवाक्यस्यनिर्विषयतयाऽप्रा माण्यस्यादित्यतःपूर्वपक्षविशदयति ॥ पृथिव्यादीति ॥ अदृश्यत्वादिकंजडप्रकृतेर्भवेत् । अस्यपृथिव्यादिदृष्टांतेनोपादा १२1१४ नतयाजगत्कारणत्वोक्तेः । नचार्यकारणत्वमात्रेदृष्टांतइतिवाच्यं । इत्यतोवाक्यादनंतरमक्षरात्परतःपरइतितस्मात्परतःपरा भिधानात् । चेतनप्रकृतेर्वाऽदृश्यत्वादिकं । तस्यामक्षरशब्दस्यस्मृतिसिद्धत्वात् । नचासौशब्दःपरमात्मन्यपिसंभवतीति वाच्यम् । तत्परतःपराभिधानात् । तच्चतस्यामक्षरात्परतःपरइतिसामानाधिकरण्येनोपपन्नं । विकारित्वेनजगत्कारणत्ववचनं तस्याविकाराभिमानित्वाधुज्यते। हिरण्यगर्भस्यवाऽदृश्यत्वादिक। सब्रह्मविद्यामित्यादिब्रह्मशब्दात्। नचब्रह्मशब्दोविष्णौमु ख्यइतितब्रहणं । तत्परतःपराभिधानात्।रुद्रस्यवैतददृश्यत्वादिलिंगजातं । कर्तारमीशमितीशशब्दश्रवणात्।नचेशशब्दोवि ष्णावपिसंभवतीतितग्रहः । तत्परतःपराभिधानादेवेतिभावः । एवंप्राप्तंपूर्वपक्षप्रतिक्षेप्तुंसूत्रंब्याचष्टे॥ तमेवमिति ॥ अदृश्य त्वादिगुणकोविष्णुरेव । अथपराययातदक्षरमधिगम्यतइत्यदृश्यत्वादिगुणकस्यपरविद्याविषयत्वोक्तेः। परविद्याविषयत्वस्य चश्रुतिस्मृतिभिर्विष्णुधर्मत्वेनावगतत्वादित्यर्थः । तमेवमितिश्रुतौमोक्षसाधनविद्याविषयत्वोक्त्याविष्णो परविद्याविषयत्व मुक्तंभवति । मोक्षसाधनविद्याया परविद्यात्वात् । तत्कर्मेतिस्मृतौचसैवपरविद्याययाहरेनिंभवतीतितस्यपरविद्याविषयत्व मुच्यते । द्वेविद्येइत्यत्रचयदावेदाद्यन्यविषयतयायोज्यतेतदातस्याऽपरविद्यात्वं यदापुनरेतैःसहरिर्वेद्योभवतितदापरविद्यात्व मितिहरे परविद्याविषयत्वमुच्यते । तदुक्तं ऋगाद्याअपराविद्यायदाविष्णोर्नवाचकाः । ताएवपरमाविद्यायदाविष्णोस्तुवाच काइति ॥२१॥ यदुक्तंप्रकृतिविरिंचयोरदृश्यत्वादिगुणकत्वमितितदानिराकृतमपिविशेषयुक्त्यापराकुर्वत्सूत्रंपठित्वाव्याच टे॥विशेषणेति ॥ तपसाचीयतेब्रह्मेत्यत्राज्ञानप्रतीतौतन्निरासाययस्यज्ञानमयंतपइत्युक्तार्थहेतुतयाऽदृश्यत्वादिगुणकस्य १1१६ খিৰিকীগীকারনঙ্গনহত্যক্ষ্মাস্কিং। শাবাইলঙ্কাজাখসঙ্গবিবিহিন লাল গাহি साझेदव्यपदेशात् नासाबण्याहश्यत्वादिगुणकइत्यर्थः । ज्ञानवेदनयो सामान्यविशेषतयार्थीतरत्वं । विहलाविदोत्पत्ता प.द्वि. वित्यतोवा । नविष्णोरदृश्यत्वादिगुणकत्वां । परत पराभिधानेनाक्षरशब्दस्य विष्णौनिरवकाशत्वादिलात सूत्रखंडस्यार्थातर माह ॥ अपरामिति ।। भवेदक्षरश्रुतेर्विष्णाववकाशाभावोयधक्षरात्परत परइत्यत्रप्रकृताक्षरमावधीकृत्यकस्यचित्परत्वमुच्ये त । नैतदस्ति किंतुप्रकृताक्षरस्यैवाक्षरात्परत परत्वविशेषणमुच्यते । नचाक्षरस्याक्षरात्परत परत्वंविरुद्धमितिवाच्यम् । व्यक्षराभिधानादक्षरांतरादस्याक्षरस्यपरत्वोपपत्तेरितिभावः । ईशशब्दाददृश्यत्वादिगुणकोरुद्रहत्यस्योन्तरतयापिसूत्रशेष व्याचष्टे ॥ 'जुष्टंमिति ॥ अस्याक्षरस्यान्यमीशमितिप्रसिद्धेशाबुद्रा दव्यपदेशानरुद्रोऽदृश्यत्वादिगुणकइत्यर्थः । यदपि पृथिव्यादिदृष्टांतेनजगत्कारणत्ववचनंतत्कारणत्वमात्रतात्पर्य । ब्रह्माक्षरेशशब्दास्तुविष्णावेवमुख्याः । बाधकामावस्योक्त त्वात्॥२२॥ युक्त्यंतरेणविष्णोरेवादृश्यत्वादिगुणकत्वंसाधयसूत्रमुपन्यस्यतदुपात्तश्रुतिमेवोदाहरति ।। रूपति ।। द्रष्टाजीवो यदारुक्मवर्णहिरण्यगर्भकारणंजगकर्तारंपश्यतितदाऽसौविद्धाननिष्टंपुण्यंपापंचविहायनिर्लेपःपूर्णानंदत्वादिसाभ्यंग्रामोती त्यदृश्यत्वादिगुणकस्यरुग्मरूपोपन्यासाचासौविष्णुरेवेत्यर्थः । ननुब्रह्मादीनामपिरूपसन्दावात्कुतोरूपोपन्यासेनास्यविष्णुत्व निश्चय इत्यतआह ॥ एकइति ॥ विश्वोवायुर्विमिश्राण्येतेभ्योऽभ्यचीलपत् । व्यमिश्रयदितिमानुषादौविशेषेणमिनीचकारे त्यर्थः । सएतानिव्यभिनयत् विमिश्राणिचैतेभ्योभ्यचीकुपदितिवा । तस्यहैतस्येत्यादेरेषारोपयुक्तत्वेन्येता येतेभ्यइत्यस्यायेन १२.२० BANGLA तीत्यर्थमन्यांशोदाहरणं तस्माद्विष्णोरेवादृश्यत्वादिगुणकत्वमितिसएवानंदमयइतिसिद्धं ॥२३॥ अ०६ ॥ अत्रलोकतोऽन्य प्रसिद्धवैश्वानरनाम्नःपाचकत्वाद्यनेकलिंगसमन्वयसिद्धयेब्रह्मणिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसं गतिविषयवाक्योदाहरणपूर्वकंविषयादिकंचसूचयति ॥ अदृश्यत्वादीति ॥ गताधिकरणेऽदृश्यत्वादिगुणाविष्णोरुक्तास्ते सर्वगतत्वंचोक्तनित्यवि सर्वगतमिति । तददृश्यत्वादिगुणेषूक्तंसर्वगतत्वंचछंदोगश्रुतावभिविमानपदेनवैश्वानरस्योक्तं । अभितोविगतमानमर्यादायस्येति । मानज्ञानलयश्चैवमर्यादाचापिकथ्यतइत्यभिधानात् । तस्यचवैश्वानरस्यविष्णोरितर त्वेसर्वगतत्वमप्यन्यस्यप्रसज्येतेत्यवश्यनिर्णेयत्वं सवैश्वानरोविषयः । किंविष्णुरन्योवेतिसंशयः। सर्वगतत्वमन्यत्रप्रसिद्धि श्वसंदेहबीजं । नायवैश्वानरोविष्णुःकिंबग्निदेवता तेजोभूतंवास्यादितिपूर्व पक्षः । वैश्वानरश्रुतेः । नचवाच्यंसर्वगतत्व लिंगाद्वैश्वानरोविष्णुरिति । लिंगस्यश्रुतितोदुर्बलत्वात् । नचलिंगस्यनिरवकाशत्वेनप्राबल्याछ्रुतिबाधकत्वमितिमंतव्यं । श्रुतेरपिप्रसिद्धितीनिरवकाशत्वात् । श्रुतेर्विष्णुविषयत्वेऽग्न्यादिविषयतयालोकप्रसिद्धिबाधात् वैदिकविद्याभेदव्यवहार विरोधाञ्च । नहिवैश्वानरश्रुतेरग्न्यादिविषयत्वाभावेव्यवहारस्यगत्यंतरमस्ति । अतःप्रसिद्धिलिंगयोरुभयोरपिनिरवकाशत्वे नवैश्वानरश्रुतेरग्नाविष्ण्वो साधारण्यमेवस्थानतुलिंगेनविष्णुपरतानिश्चयः । अतोनवैश्वानरोविष्णुरितिनसर्वगतत्वंतस्येति भावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥अतइति । अयंवैश्वानरोविष्णुरेव । आत्मानंवैश्वानरमित्यात्मशब्दात् । नचोक्त रीत्यासाधारणवैश्वानरश्रुतिसद्भावादनिर्णयइतिवाच्यं । साधारणस्यापिवैश्वानरशब्दस्याऽऽत्मशब्दःपरेविष्णौनान्यत्रक्वचि ance Rugat दिष्यतइत्यादौविष्णावेवप्रसिद्धत्वेनान्यत्रानवकाशात्मशब्दसामानाधिकरण्येनविष्णुपरत्वस्यसंभवात् । प्रसिद्ध्यादेरन्यथा प्रकाशिक पिसिध्यासावकाशत्वस्यवक्ष्यमाणत्वादितिभावः ॥ २४ ॥ नन्वात्मशब्दस्यामुख्यवृत्तिमभ्युपेत्याझ्यादीनामेववैश्वानरत्वंकिं नस्यादित्याशंकांपरिहर्तुहेत्वंतरेणवैश्वानरस्यविष्णुत्वंनिश्चाययत्सूत्रमुपन्यस्यव्याचष्टे ॥स्मर्यमाणमिति ॥ अहंवैश्वानरो भूत्वेतिस्मृत्युक्तविष्णोर्वैश्वानरत्वमत्रवैश्वानरविद्यायामपिसगीतोक्कोभगवानेववैश्वानरपदेनोच्यतइत्यस्यार्थस्यानुमापकंभव ति। स्मृतौविष्णोर्वैश्वानरत्वोक्तेर्वैश्वानरविद्यायामप्यसावुच्यतइतिभावः। स्मृत्युक्तवैश्वानरस्यविष्णुत्वेप्यत्रोक्तस्यकुतोविष्णु त्वमित्यतआह ॥ समाख्यानादिति ॥ समाख्यानयुक्तिनसूत्रितेत्यतआह॥ इतीति ॥ अनेनेतिस्मर्यमाणमित्यन्वयः सूचितोभवति ॥ २५ ॥ वैश्वानरस्य विष्णुत्वमाक्षिप्यसमादधत्सूत्रमुपन्यस्याऽऽक्षेपांशंतावयाचष्टे ॥ शब्दादिभ्यइति । यदुक्तमात्मशब्दविशेषणात्समाख्यानाञ्चवैश्वानरस्यविष्णुत्वनिश्चयइति तदयुक्तम् । यथाखलुवैश्वानरस्यविष्णुत्वनिश्चायका त्मशब्दादिविद्यतेतथाग्नित्वनिश्चायकस्यापिविद्यमानत्वात् । तथाहि । वैश्वानरशब्दस्यात्मशब्दसमानाधिकृतत्ववदग्निशब्द समानाधिकृतत्वंचभ्रूयते अयमग्निरितिबृहदारण्यकेवैश्वानरमित्यस्यामृचिच । तथाग्निलिंगंचवैश्वानरेहोमाधिकरणत्वंगाह पत्याधंगत्वंचश्रूयतेवैश्वानरेत तमित्यादौ । तथावैश्वानरेपाचकत्वाख्यमग्निकर्मचश्रूयते अयमग्निवैश्वानरोयोयमंतःपुरुषे येनेदमन्नपच्यतेयदिदमद्यतइतिबृहदारण्यके । तद्यद्भक्तमितिछांदोग्येच । तस्माद्वैश्वानरस्यविष्णुत्वज्ञापकवदग्नित्वज्ञाप कस्यापिसत्वान्नविष्णुरेवायमितिनिश्चयोयुज्यतइत्यर्थः । अत्रसर्ववैश्वानरविद्यानांविचार्यत्वात्तत्तद्वाक्योद्धारोयुक्तएव समा BEHIMSHANNEMA ख्यारूपेणवा । मूर्धानंदिवइतिमंत्रार्थः । दिवःकारणभूतमूर्धानंपृथिव्याःकारणभूतपादंजनानासम्यग्ज्ञानायाभिव्यक्तंस वज्ञमखंडेशामध्यनजनानांपातारंवैश्वानरमग्निंदेवाःस्वाऽस्यतयाऽकुर्वन्निति । गतिसाधनत्वादरतिपादः । ऋतायजातमि तिसमाख्यानासक्षमीतादर्थे । अन्नथमितिहिश्रुतिः । अग्निर्देवानांमुखमितिच । वैश्वानरेतदुतंभवतीतिवाक्यार्थएवंवि द्यद्यपिचंडालायोच्छिष्टंप्रयच्छेदात्मनिहैवास्यतद्वैश्वानरेहुतस्यादितिवाक्यादवगंतव्यः। भकमन्नं । परिहारसूत्रांशव्याचष्टे।। नेति ॥ उभयत्रश्श्रुत्यादिसाम्याद्वैश्वानरस्यविष्णुत्वनिश्चयायोगइतिनयुक्तं । उभयत्रश्रुत्यादिसाम्येपिसावकाशत्वनिरवकाश त्वबलान्निश्चयोपपत्तेः। तत्रयदग्निनामलिंगकर्मचवैश्वानरेश्रूयतेतद्विष्णौसावकाशं । अथहेममात्मानमित्यन्यादिनामलिंग कर्मवत्त्वेनविष्णोरुपासनोपदेशात् । नचात्मशब्दादेन्यत्रास्त्यवकाशः । अतोनिरवकाशेनसावकाशबाधोपपत्तेयुज्यतेवैश्वान रस्यविष्णुत्वनिश्चयइतिभावः। नचवाच्यमुपासनाथेमुक्तत्वादेवयोषितमग्निंध्यायीतेत्यादाविवाऽसत्त्वं । नाविद्यमानंबुवते वेदाध्यातुनवैदिकाइत्यादिवचनात् । वाक्यांतरस्याविरोधेनयोर्थःस्थाप्यतेतदर्थत्वाच्च । विश्वपूर्ण । आरात्समीपेस्वहृदये। प्रथमेतिशब्दोविधिसमाप्तौ। द्वितीयस्येत्युपासीतेत्यन्वयः । प्रकरणबलाच्चवैश्वानरस्यविष्णुत्वनिश्चयोभवतीत्याह ॥ अ नौतत्वादिति ॥ कोनआत्माकिंब्रोतिविचारपूर्वकंवैश्वानरविद्यायाआरभ्याधीतत्वेनविष्णुप्रकरणत्वाञ्चवैश्वानरोविष्णु रेवेतिनिश्चयोभवति । अनात्तत्वादितिवचनेनविष्णोरन्येषामात्मत्वाद्यसंभवादित्यर्थः । श्रुतिसमाख्ययाचवैश्वानरस्यवि ष्णुत्वमुपपादयति ॥ चंद्रमाइति ॥ यःपुरुषाख्योविष्णुःपुरुषसूक्तेशीर्णोद्यौः समवर्तत चक्षो सूर्योअजायत प्राणाद्वायुर जायत पन्यांभूमिरित्यादिनावाक्येनाभ्वादिजनकशीर्षादिमानभिहितस्तद्विधमेवानवैश्वानरंचाधीयतेछंदोगामू(वसुतेजा प्रकाशि श्चक्षुर्विश्वरूपमाणःपृथग्वापृथिव्येवपादावित्यादिनावाक्येन । अतःपुरुषसूक्तसमाख्ययापिविष्णुरेववैश्वानरइत्यर्थः। ननुपु प्र. दि. रुषसूक्तस्यविष्णुपरत्वेभवेत्तत्समाख्ययैतद्विधायाविष्णुपरत्वंतदेवकुतइत्यतआह ॥ शब्देनेति ॥ विष्णुपरत्वंपुरुषसूक्तस्य (प्रोसिद्धमितिसूचयतीत्यर्थः । अपिपदेनैवोभयसमुच्चयसिद्धर्नान्यत्रोपक्षीणश्वशब्दः । किंतदादीत्यतस्तदुदाहरति ॥ तथाचेति ॥ श्रुते प्रथमप्रतिज्ञानेपितस्या पुरुषसूक्तमुपन्यस्यविष्णुपरतयाव्याख्याच्या साक्षात्प्रतिज्ञातार्थासाधकत्वानपथ ममुदाहरणं । प्रतिज्ञात्वाधिक्यक्रमाभिमाया । परोविलक्षणः । आदिपदेनसर्वतःपौरुषसूक्तेगुणाविष्णोरुदीरिताइति ब्रह्मतर्कादिग्रहणं । ननुपुरुषसूक्तेयुभ्वादिजनकशीदिमत्वंपुरुषस्योच्यते वैश्वानरविद्यायांपुनर्वैश्वानरस्यतदभेदोतो विरुद्धार्थत्वान्नेयंसमाख्येत्यतआह ॥ स्मादिति ॥ वैश्वानरांगानांसूर्याधभेदोक्तावपिनपुरुषसूक्तवैश्वानरविद्ययोर्विरो धः। अभेदोक्तेरपितजन्यजनकभावविवक्षावत्त्वादितिभावः॥२६॥ ननुवैश्वानरशब्दस्यदेवताभूतयोः प्रसिद्धत्वादत्राप्यसौ तत्पर निस्यादित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ।। अतएवेति ॥ यद्यपिवैश्वानरशब्दोऽन्यत्रप्रसिद्धस्तथापिनात्रते नान्यदभिधीयते । आत्मशब्दादिहेतोरेव तस्यचान्य त्रनिरवकाशत्वादितिभावः । अनाम्यादिग्रहणं विद्यांतरोपलक्षणार्थ ॥२७॥ नन्वयादिशब्दानामन्यादिवाचित्वाभावेब्रोकवाचित्वेचप्रसिद्धिविरोधःस्यात् । तस्याःकारणांतराभावात् । अतम्भ सिद्ध्यन्यथानुपपत्त्याऽन्येषांवाच्यत्वमित्याशंकांपरिहरत्सूनमुपन्यस्यव्याचष्टे ॥ साक्षादिति ॥ यद्यप्यन्यादिशब्दाना न्यादिवाचका:किंतुब्रह्मवाचकाएव तथापिनप्रसिद्धिविरोधः । अनन्ययोगेनब्रह्मवाचकैरपितानिनोहानादिसिद्ध्यर्थम न्यत्राग्न्यादौव्यवहरंति । तदन्येतुज्ञानाभावादेवेत्यभ्युपगमात् । एवमभ्युपगमेचप्रसिद्धेरन्यथोपपत्तिसिद्धेनंतद्विरोधइति जैमिनिराचार्योवतीत्यर्थः । ननुजैमिन्यादिमतानांभगवन्मताविरोधित्वेजैमिन्यादिग्रहणवैयाद्विरोधित्वेचकथंविरुद्धरा द्धांतेनपरिहारइत्यआह ॥ व्यासेति ॥ जैमिन्यादिमतानांनव्यासमतविरोधस्तथापितन्मतैकदेशोररीकाराभिप्रायेणजैमि न्यादिग्रहणोपपत्तिरितिभावः । चित्तस्थिताकाशादिति चित्तस्थितज्ञानाख्याकाशात् । बहुवचनंवक्ष्यमाणमतविवक्षया ॥ २८ ॥ ननुलौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपिवैदिकाश्यादिसूक्तविद्यादिप्रसिध्यन्यथानुपपत्त्याझ्यादीनां वाच्यत्वस्यात् । तत्राज्ञानादिमूलत्वकल्पनाऽयोगेनान्यथोपपत्त्यभावात् । नापिव्यवहारार्थत्वेनान्यथोपपत्तिरनादित्वादि त्याशंकांपरिहरत्सूत्रंपठित्वाव्याचष्टे ॥ अभिव्यक्तरिति ॥ नवैदिकाझ्यादिसूक्तादिप्रसिद्ध्यन्यथानुपपत्त्यान्येषांसूक्तादि प्रतिपाद्यत्वं । तत्रतत्रसूक्तादौपरब्रह्मणएवप्रतिपाद्यत्वेऽझ्यादीनामप्रतिपाद्यत्वेप्यन्यादिसूक्तादिभिब्रह्मोपास्तावझ्यादिष्वेव स्वेच्छयाब्रह्मणोऽभिव्यक्तिनियमात्तदभिप्रायेणप्रसिद्धरुपपत्तेरित्याश्मरथ्याचार्योवतीत्यर्थः ॥२९॥ प्रकारांतरेणसूक्कादि नियमस्यान्यथोपपत्तिवदत्सूत्रमुपन्यस्यव्याचष्टे ॥ अनुस्मृतेरिति ॥ विष्णोरेवाझ्यादिविद्याप्रतिपाद्यत्वेपितस्यतत्तत्सू (क्तोपास)क्तायुपासकैरझ्यादिष्वेवप्रतिपत्तव्यत्वाभिप्रायेणाझ्यादिसूक्तादिनियमोपपत्ते तदन्यथानुपपत्त्याऽन्येषांवाच्यत्वं वाच्यमितिबादरिराचार्योवतीत्यर्थः ॥ ३० ॥ रीत्यंतरेणसूक्तादिनियमस्यान्यथोपपत्तिंकथयत्सूत्रमुपन्यस्यव्याचष्टे ।
१४५ संपत्तेरिति ॥ अश्यादिसूक्तादिषुपरब्रह्मणएवप्रतिपाद्यत्वेष्यन्यादिसूकादिभिरयादौभगवदुपास्तावन्यादिप्राध्यभिप्राये प्रकाशिक णसूतादिनियमोपपत्ते तदन्यथानुपपत्त्यान्येषांवाच्यत्वंभंतव्यमितिजैमिनिराचार्योमन्यतइत्यर्थः । जैमिनिमतंकिमर्थं प्र.द्वि. पुनरुच्यतेइतिमंदाशंकानिवृत्त्यर्थलौकिकव्यवहारेसाक्षाब्रह्मवाचकत्वेपिशब्दानामविरोधंवदन्जैमिनिःसूक्तादिव्यवहारस्या ग्यादिनात्याऽन्यथोपपत्तिवर्णयतीत्युक्तं । नन्वन्यादिषुभगवदुपास्तावन्यादिप्राप्तिर्भवतीत्येतत्कुतइत्यतःसूत्रसूचितांश्रुति मुदाहरति ॥ "तमिति ॥ तदेवभवतिप्राप्नुवति । अत्रव्यवहारस्योपचरितत्वांगीकारेप्रागुक्तैवानुपपत्तिः ॥ ३१ ॥ यदुक्त मन्यादिसूक्तादिभिब्रह्मोपासकस्याझ्यादिप्राप्तिरितितच्छ्रुत्युक्तमपिनयुक्तं । मद्भक्तायांतिमामपीत्यादेरन्योपासकस्यान्यप्रा तेरयोगात् । श्रुतोपनिषत्कगत्यभिधानाञ्चेत्यादौतदनभ्युपगमाञ्चेतिभावेनाशंक्यतत्परिहारतयासूत्रमवतार्यव्याचष्टेन हीति ॥ नविष्णूपासकस्याझ्यादिप्राप्स्युक्तिरयुक्ता। अग्न्यादिप्राप्तिपदेनतदंतर्गतभगवत्प्रातेर्विवक्षितत्वात् । यतोग्यादावपि विष्णुमामनंतिश्रुतयइतिभावः । चशब्दशंकाव्यावर्तकः । अतोयंवैश्वानरोविष्णुरेवेतितस्यैवसर्वगतत्वमितिसिद्धं ॥ ३२ ॥ अ०७॥ इतिश्रीमदानंदतीर्थभगवत्पादाचार्यविरचितस्यब्रह्मसूत्रभाष्यस्यटीकायांतत्त्वप्रकाशिकायांजय तीर्थमुनिविरचितायांप्रथमाध्यायस्यहितीयःपादः ॥२॥ ॥ इतिप्रथमाध्यायस्यद्वितीयपादः॥
श्रीमद्धनुमद्भीममध्यांतर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवायनमः ॥ॐ॥ एतत्पादप्रतिपाद्यदर्शति ॥ सचेति ॥ हरौतदितरत्रचनुत्यादिप्रसिद्धनामलिंगात्मकशब्दानांविष्ण्वेकवाचित्वंप्रबलहेतुभिःप्रतिपादयत्यस्मिन्पादेसूत्रकारइत्यर्थः । चशब्दौमिथःसमुच्चयार्थों । देवताद्यधिकरणब्यावृत्त्यर्थप्रायेणेति । (अ) तत्र रुद्रोवावलोकाधारः वायुनावैगौ तमसूत्रेणायंचलोकापरश्चलोकःसर्वाणिभूतानिसंहब्धानिभवंति आकाशएवतदोतंचप्रोतं च सर्वेवाएतेप्राणाश्चप्राणिनश्चदे धाश्चदिव्यानिचलोकाश्चलोकिनश्चअलोकचालोकिनश्चविष्णावेबोताश्चमोताश्चेत्यादिनोभयत्रप्रसिद्भद्युम्वाद्यायतनत्वलिंगस्य भगवतिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयवाक्यमुदाहृत्यविषयसंशयसयुक्तिकपूर्वपक्षान्द यति ॥ विष्णोरिति ॥ अदृश्यत्वादिगुणकाक्षरस्यविष्णोःपरविद्याविषयत्वमुक्तं । तत्परविद्याविषयत्वमाथवे यस्मिन्धौरित्युक्तस्याभ्वाद्यायतनस्योच्यते । तमेवैकंजानथआत्मानमन्यावाचोविमुंचथामृतस्यैषसेतुरिति । सचय दिविष्णोरितरःस्यात्तदापरविद्याविषयत्वमन्यस्यग्रसज्येतेत्यवश्यंनिर्णयः । तह चुभ्वाद्यायतनत्वंविषयः । तत्किंविष्णो रन्येषांवेतिसंदेहः । उक्तसाधारण्यमेवसंदेहबीजं । धुम्वाद्यायतनत्वंरुद्रप्रधानजीववायूनामितिपूर्व पक्षः । अत्रोक्त प्राणाधारत्वस्यप्राणानांग्रंथिरसिप्राणेश्वरइत्यादिनारुद्रेप्रतीतेः । तथाधुन्वंतरिक्षायतनत्वस्यचरुद्रोवावलोकाधारइतित स्मिन्नुक्तत्वात् । मनआयतनत्वचतस्मिन्मनोवैरुद्रओतंचप्रोतंचेतिप्रतीयते । नचैतच्छुतीनांविष्णुविषयत्वं । अंत काकृत्तिवासा:पिनाकीत्यादिरुद्रलिंगात् । दृष्टफलविधायकरुद्भवाक्यदृष्टांतेनतत्सर्वाश्रयत्वप्रतिपादकवाक्यप्रामाण्यानुमा नेनचतस्यसर्वाश्रयत्वसिद्धः । शुम्वादीनांप्रकृतिकार्यत्वात्तदाशयत्वप्रकृतेर्युक । यद्भूतंचभववाभाविष्योत्याचक्षतेआ प्रकाशि० काशएवतदोतंचपोतंचेतिश्रुतेश्च पूर्ववत्प्रकृतेःसर्वाश्रयत्वाभिधायककापिलागमप्रामाण्यानुमानाच्छ । अराइवरथनाभौसंह तायत्रनाड्यःसएषोतश्चरतेबहुधाजायमान इतिधुम्वाद्यायतनेजीवलिंगश्नवणाजीवस्यतयुक्तं । तत्सजीवत्वादेवप्राणिवप्रसिद्ध च । विषयभूतलोकाधारत्वस्यवायुनावैगोतमसूत्रेणेतिवायोश्रुतिसिद्धत्वात्तस्याभवाद्यायतनत्वंयुक्तं । तस्यप्राणाधारत्व प्रसिद्धेश्च । विष्णोर्युम्वाद्यायतनत्वप्रसिद्धावपिनासावनोच्यते । बहुधाजन्मबाधात् । परविद्याविषयत्वालिंगाद्विष्णुरिति चेन्न । जीवेशाभेदेनब्रागतलिंगस्यापिजीवेसंभवात् । नचतथाबहुधाजन्मसंभवति । कारणगतस्यैवकार्ये संभवात् । अतः परविद्याविषयोधुभ्वाद्याश्रयोविष्णोरितरएवेतितस्यैवादृश्यत्वादिगुणकत्वमितिभावः । सिद्धांतयसूत्रमवतार्यव्याचष्टे । अतइति ॥ अ॒भ्वाद्यायतनेस्वशब्दपर्यायात्मशब्दश्शवणाड्युभ्वाद्यायतनं विष्णुरेवेत्यर्थः । आत्मशब्दादपिकुतोविष्णुरित्यत आह ॥ आत्मेति ॥१॥ ननुविष्णौमुख्योप्यात्मशब्दोजीवलिंगबलादमुख्या:किनस्यात् । तथाचन विष्णोर्युभवाद्याय तनत्वमित्याशंकांपरिहरत्सूत्रमुपन्यस्यतदुपात्तश्रुतिमेवोदाहरति ॥ "मुक्तेति ॥ नात्मशब्दस्यामुख्यार्थत्वंपरिकल्प्या भ्वाद्यायतनत्वमन्यत्रनेतुंशक्यं । धुश्वाचायतनस्यमुक्तपाप्यत्वोक्तर्विष्णुत्वनिश्चयादित्यर्थः। अमृतस्येतिजातावेकवचनं । मुक्तप्राप्यत्वंकुतोविष्णुत्वनिश्चायकमित्यतआह ॥ ब्राविदिति ॥ पराणांमुतानामयनमाश्रयः । एतद्वाक्यैरस्तुविष्णो । ॥ ४२ ।। मुक्तप्राप्यत्वंतदन्यस्यापिकिनस्यादित्यतआह ॥'बहुँनेति ॥ २ ॥ ननुप्रागुक्तरीत्यारुद्रप्रकृत्योःर्किनस्याद्दयुभवाद्यायतन स्वमित्याशंकांपरिहरत्सूत्रंपठित्वाव्याचष्टे ॥ नानुमानामिति ॥ प्रागुक्तानुमानसिद्धप्रामाण्येपाशुपताद्यागमेसर्वाश्रयत्वेन (परिकल्पिते ) कल्पितेरुद्रप्रधानेअन्नप्रकरणेसर्वाधारतयाप्रतिपाद्येनभवतः । तच्छुतिलिंगाद्यभावादितिभावः । आगम प्रामाण्यसाधकानुमानंतुफलविसंवादिरुद्रादिवाक्यदृष्टांतेनविप्रतिपन्नवाक्याप्रामाण्यसाधनसंभावत् प्रतिपक्षप्रस्तमतिप्रसंग दुष्टचेत्युपेक्ष्यं । अभाषितंप्रधानंकिंसंयोज्यतइतिचेन्न ।नप्रकृतिजीवावभिधीयेतेइत्यन्यत्रोक्तत्वात् । नचप्रकृतिपदेनापिरुद्रः। पृथगुभयग्रहणेबाधकाभावात् । नन्वत्ररुद्रादिज्ञापकाभावेऽपिश्चुत्यंतरेप्राणानांग्रंथिरसिरुद्रइत्याद्युक्तेषुभ्वाद्यायतनत्वंरुद्रादेः किंनस्यादित्यतआह ॥ 'सइति ॥ श्रुत्यंतरोक्कमपियुभवाद्यायतनत्वं विष्णोरेव । नचरुद्रादिश्रुतिलिंगविरोधः । श्रुतिब लेनरुद्रादिश्रुतेरंतकत्वादिलिंगस्य चविष्पवेकनिष्ठत्वादितिभावः। ननुरुद्रादिशब्दानांविष्णुपरत्वंकिंयोगेनरून्यावा । नाद्यः। योगस्यदौर्बल्यात् । नद्वितीयः । तदभावात् । उभयत्ररूढिसद्भावेपुनर्निश्चयायोगात् । नहिश्श्रुत्यंतरेविष्णुलिंगाद्यस्तीत्यत आह ॥ ब्रह्मांडेचेति ॥ रुद्रादिशब्दानांविष्णीयोगमुक्त्वावेदेषुसपुराणेषुगीयतइतिविद्रूढिकथनाद्भूढिमात्रान्महायोगि विद्वद्रूट्योःप्राबल्यायुक्त श्रुत्यंतरेपिविष्णोःप्रतिपाद्यत्वनिश्चयइतिभावः । ननुयदिरुद्रादिशब्दानांविष्णुपरत्वमुक्त्वाश्रुती नामनिर्णायकत्वमुच्यतेतर्हिनारायणादिनाम्नांरुद्रादिपरत्वेनारायणमहाज्ञेयमित्यादिश्रुतीनामनिर्णायकत्वस्यादित्यतआह ।। वोमेनेचेति ॥ भगवन्नामत्याविशेषाद्रादिनामवचारायणादिनानामपिरुद्रादौवृत्तिःकिंनस्यादित्यतआह ॥ स्कांदचे ति ॥ यद्येवंरुद्रादिशब्दाविष्ण्वेकपरास्तहिकिमुच्यतेभस्मधरोग्रत्वादीनांतच्छब्दत्वं । विष्णुदत्तत्वाभिप्रायेणेतिचेत्तर्हिरु त.प्र.८ ।
upaman तत्व द्रादिशब्दाअपितादृशाइतिनकर्थतैनिर्णयइत्यतआह ॥ चतुर्मुखइति ॥ ३ ॥ उक्तप्राध्याजीववायूकिमत्रवाच्यौन स्याता प्रकाशि० मित्याशंकांपरिहरत्सूनपठित्वाच्याचष्टे ॥ प्रोणचेति ॥ चशब्दात्प्रागुक्तहेतूनांनमश्चसमाकर्षः । आत्मशब्दो मुक्तोपह प्यत्व मतच्छब्द स्तत्प्रापक श्रुतीनांविष्णुपरत्व मित्युक्तहेतवः । ननुवायुनावैगोतमेत्यादिश्रुतेर्विष्णुपरत्वेनवायुसाध कत्वाभा वेपिबहुधाजन्मलिंगेनजीवोऽत्रवाच्यःकिनस्यादित्यतआह ॥ अजायमानइति ॥ ४॥ ननुकिंजीवलिंगस्यविष्णुपरत्वप तिपादनायासेन जीवस्यैवद्युभ्वाद्यायतनत्वंकिंनस्यात् । नचोक्तहेतुविरोधः । जीवेशाभेदाभिप्रायेणजीवेप्यात्मशब्दाधु तिसंभवादित्याशंकांपरिहरत्सूत्रंपठित्वाव्याचष्टे ॥ भेदेति ॥ नैक्याभिप्रायेणजीवएवात्मशब्दादिप्रयोगोऽत्रेतिवाच्यं । अत्रैवान्यमीशमितिजीवेशभेदव्यपदेशादित्यर्थः ॥ ५॥ नन्वत्रजीवस्यकस्माञ्चिदीशादन्यत्वमुच्यतेनपरमात्मनोतोनतयो भैदइत्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ प्रकरणादिति ॥ नात्रजीवपरमात्मभेदोत्यभावः । ईशशब्देनैवपरमात्मो तेः । तदेवकुतः। द्वेविद्येवेदितव्येइतिपरविद्याविषयवस्तुनोत्रारभ्याधीतत्वेनास्यविष्णुप्रकरणत्वादितिभावः ॥६॥ नजीवेशा भेदोत्रप्रकरणेविवक्षितइत्येतमर्थहेत्वंतरेणसाधयत्सूत्रमुपन्यस्यव्याचष्टे ॥स्थितीति ॥ संयुक्तौसखायौहौसुपर्णरूपौजीवेशौदे हाख्यंपिप्पलमालिलिंगतुः । तयोःसुपर्णयोर्मध्येऽन्योजीवोऽश्वत्थफूलरूपंदेहजनितकर्मफलमस्वाद्वेवस्वादुत्वेनात्ति अन्यई श्वरस्तदनश्नन्नभितःप्रकाशतेनतुस्वस्थित्यैतदपेक्षतइतिजीवेशयोःकर्मफलोपजीवनतद्रहितावस्थानाभ्यामुत्ताभ्यांचनैक्यंवा च्यमित्यर्थः । अत्रश्रुतिक्रमोल्लंघनमीश्वरस्यप्राधान्यज्ञापनार्थ । स्थितिपदस्याल्पाक्षरत्वाच्च । व्यावहारिकभेदःश्रोतोच्यत इतिचेत् । व्यावहारिकइतिसत्योमिथ्यावा । आयेकिमनिष्टं । नद्वितीयः। मिथ्याभिधायकत्वेऽतत्त्वावेदकत्वेनश्रुतेरप्रामा ण्यापातात् । तत्त्वावेदकत्वलक्षणप्रामाण्याभावेपिव्यावहारिकंतदस्तीतिचेन्न । तत्त्वाविषयत्वेप्रामाण्यवाचोयुक्तरयुक्तत्वात् । मिथ्याभेदानुवादित्वान्नदोषइतिचेन्न । वैयर्थ्यात् । निषेधायेतिचेन्न । तदभावात् । तत्त्वमसीत्यादिनिषेधोस्तीतिचेत् । तदनुवादेनायमेवनिषेधार्किनस्यात् । अद्वैतस्यप्रमाणांतरेणासिद्धेर्नतदनुवादइतिचेत् । तत्तिनिषेधायप्रमाणप्राप्स्यामा व्यं प्राप्तिमात्रेणवा । आधेनिषेधायोगः। द्वितीयेस्त्यद्वैतेपितादृशीमाप्तिः । जीवेशयोःप्रमाणंविनाऽसिद्धेःकथं तदभेदस्य कथंचित्प्राप्तिरितिचेत् समभेदेपि । कुतश्चैतच्छ्रुतेर्मिथ्याभेदवादित्वंसिद्धं । जीवेशभेदस्यमिथ्यात्वादेवेतिचेत् । तदेवकु तः । नहिभेदमिथ्यात्वेप्रत्यक्षमस्ति । नचानुमानश्रुतिसिद्धार्थबाधकं । स्वस्यैवतद्विरोधेनाऽप्रामाण्यात् । श्रुतेर्भेद मानपरत्वादनुमानस्य चत दस्यैवमिथ्यात्वेप्रवृत्तत्वेनभिन्नविषयत्वान्नविरोधइतिचेत्तर्हिप्रत्यक्षस्योष्ण्यमात्रविषयत्वादनुमा नस्यचतदोषण्यस्यैवमिथ्यात्वसाधकत्वेनभिन्नविषयत्वमितिबाधोच्छेदःस्यात् । नचागमेनभेदमिथ्यात्वसिद्धिः । तदभा वादेव । नचतत्सत्यत्वेमानाभावः । स्वरूपाभिधायकस्यैवसत्यत्वेप्रामाण्यात् । अन्यथातस्यवैयोत् । अतोनमि थ्याभेदपरत्वं श्रुतेरित्यलं । तस्माद्विष्णुरेवद्युभवाद्यायतनंपरविद्याविषयश्चेतिसिद्धं ॥ ७ ॥ अ० १॥ अत्रप्राणोवाआ शायाभूयानित्युपक्रमेणविष्णुवैदेवेभ्योभूयास्तस्माद्भूयान्नामेतिश्रुत्याचवायुविष्णुसाधारणभूमनामनोविष्णौसमन्वयप्रतिपाद नादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयादिकंचसूचयन्सयुक्तिकंपूर्वपक्षदर्शयति ॥ प्राणइति ॥ आनंदमया धिकरणेपूर्णानंदत्वं विष्णोरुक्तंतच्छंदोगश्रुतौभूम्नःप्रतीयते । योवैभूमातत्सुखनाल्पेसुखमस्तिभूमैवसुखमिति । तस्यवभू प्रकाशि० मोविष्णोरितरत्वेमागुक्तानंदमयत्वंचेतरस्यैवप्रसज्येतेत्यवश्यंनिर्णयत्वं । सभूमात्रविषयः । किंविष्णुरुतवायुरितिसंदेहः । प्र.त. पूर्वोत्तसाधारण्यंसंदेहबीजं । मुख्यमाणोयंभूभेतिपूर्वःपक्षः। अत्रनामयागादितारतम्यमाशावसानमुक्त्वाप्राणोवाआशाया भूयानितिप्राणत्याशोत्तमत्वंचाभिधायतदुत्तममनुक्त्वाभून्नआन्नातत्वात् । नचविष्णोरपिभूमत्वस्य श्रुत्यंतरेप्रसिद्धत्वादत्र वाच्यत्वमितिवाच्यं । उपक्रमात्समाख्यायादुर्बलत्वात् । अतोवायोरेवभूमत्वात्तस्यैवानंदमयत्वमितिभावः । ननुप्राणोवा आशायाभूयानित्युक्तप्राणशब्दस्यातएवप्राणइत्युक्तरीत्याविष्णुपरत्वाद्विष्णोरेवभूमत्वमित्यतआह । उत्क्रांतेति ॥ नायं प्राणशब्दोविष्णुवाचीकिंतुवायुवाच्येव । तत्रोत्क्रांतप्राणानशूलेनसमासंव्यतिषदहेदित्यादौमाणस्योत्क्रमणादिश्रवणात् । तस्यवायावेवसंभवात् । सर्वगतेहरावसंभवादित्यर्थः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ विष्णुरेवायंभूमा । योवैभूमातत्सुखमितिभूनःपूर्णसुखरूपत्वाभिधानात् । नामादीनांसर्वेषामुपरितदुत्तमत्वेनव्यपदेशाचेत्यर्थः । नचवाच्यम त्रभूम्नःसुखरूपत्वमेवोच्यतेनतुपूर्णसुखत्वमिति । निरुपपदसुखशब्दमात्रस्यापिपूर्णसुखार्थत्वात् । पूर्णसुखत्वादिकंचकुतो विष्णुत्वनिश्चायकमित्यतआह ॥ सहस्रति ॥ विश्वशंभुवं पूर्णसुखानयं । विश्वतःपरमा सर्वतःपरमभकारवाच्यमित्यर्थः । नचसर्वोत्तमत्वंचायोरपि । विरोधादेव । नापिपूर्णानंदत्वं । अव्यक्तादितॄणांतास्तुविशुद्धानंदभागिनइत्युक्तत्वात् । उप क्रमेप्राणशब्दश्रवणात्कथंभूमाविष्णुरितिचेन्न । प्राणशब्देनापिविष्णोरेवोक्तत्वात् । अनंतरमन्यमनुक्त्वोक्तभून्नोपिविष्णु १५.३३ त्वसंभवात् । अत्रप्राणशब्देन विष्ण्वंगीकारेप्रागुक्तोत्क्रमणादिविरोधइतितत्राह ॥ तमिति ॥ सर्वगतस्यापिविष्णोरूपां तरविवक्षयोत्क्रमणस्यश्श्रुतिसिद्धत्वात्प्राणपदेनविष्णवंगीकारेपिनलिंगविरोधइतिभावः । अस्तुवायंप्राणोवायुरेव तथापिन तस्यभूमत्वप्राप्तिः । एषतुवाअतिवदतीत्यादिनाप्रश्नाद्यध्याहारेणप्राणाद्विष्णोर्भूयस्त्वमुक्त्वाभून्नआनानात् । नचैतदर्थ द्वयंविरुद्धं । अंतर्यामिविवक्षयाप्राणपदेनविष्णोरुक्तेः आत्मनआकाशःसंभूतइत्यादिवत् ॥ ८ ॥ युत्यंतरेणविष्णो —मत्वप्रतिपादकसूत्रमुपन्यस्यव्याचष्टे ॥ धर्मेति ॥ सएवाधस्तात्सउपरिष्टात्सपश्चात्सपुरस्तात्सदक्षिणतःसउत्तरतः । सए वेदंसर्वयत्रनान्यत्पश्यतिनान्यच्छृणोतिनान्यद्विजानातिसभूमासभगवःकस्मिन्प्रतिष्ठितःस्वमहिम्नीत्यादिनाभूनिसर्वगतत्वा दिधर्मश्रवणाच्चासौविष्णुरेव । तेषांविष्णावेवोपपत्तेरित्यर्थः । अतोविष्णुरेवभूमेतितस्यैवानंदमयत्वमितिसिद्धं ॥ ९ ॥ अ० २॥ अत्राविनाशित्वसाम्याच्चित्प्रकृतौहरौचसाधारणस्याक्षरनाम्नोब्रह्मणिसमन्वयप्रतिपादनादस्ति शास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयवाक्यमुदाहृत्यविषयादिकंचसूचयन्सयुक्तिकंपूर्वपक्षचदर्शयति ॥ अइयत्वादीति ॥ अदृश्यत्वा दिगुणाःपूर्वविष्णोरुक्तास्तेचवाजसनेयके अक्षरस्योक्ताः। तद्वाएतदक्षरंगार्गिअदृष्टंद्रष्टश्रुतंश्रोत्रमतंमंत्रविज्ञातविज्ञातनान्य दतोस्तिद्रष्टुनान्यदतोस्तिश्रोतनान्यदतोस्तिमंतनान्यदतोस्तिविज्ञात्रेतस्मिन्खल्वक्षरेगााकाशओतश्चमोतश्चेति । तस्या क्षरस्यविष्णोरन्यत्वेऽदृश्यत्वादिकंचान्यस्यैवप्रसज्येतइत्यवश्यंनिर्णेयत्वं । तदक्षरंविषयः। किंविष्णुरुतचेतनप्रकृतिरिति संदेहः । उक्तसाधारण्यंचसंदेहबीजं । द्रष्टत्वादिश्रवणाजडप्रकृतेरोंकारस्य (राकाशस्य ) चनसंदेहनिविष्टत्वं । उत्तरा प्रकाशि० san तत्व धिकरणेत्वीक्षणस्यप्रथमाप्रतीतेरस्त्यवकाशः । एतदक्षरंमध्यमश्रीतत्त्वमेवेतिपूर्व पक्षः । तत्राक्षरशब्दस्यप्रसिद्धः । एतस्य वाऽक्षरस्यप्रशासनेगार्गिसूर्याचंद्रमसौविधृतौतिष्ठतइत्यादिनाऽक्षरस्यचंद्रसूर्यायाधारत्वप्रतीतेश्च । चंद्राद्याधारत्वस्यचाहं सोममित्यादेस्तद्धर्मत्वात् । नचवाच्यमदृश्यत्वादिविष्णुधर्मश्रवणात्तस्याक्षरत्वमिति । अदृश्यत्वादिगुणानांमध्यमाक्षरेपि संभवात् । तथाचस्मृतिः । येत्वक्षरमनिर्देश्यमव्यक्तंपर्युपासते । सर्वत्रगमचिंत्यंचकूटस्थमचलंध्रुवं । आसीदिदंतमोभूत मप्रज्ञातमलक्षणं । अप्रतय॑मनिर्देश्यप्रसुप्तमिवसर्वतइत्यादि । अथापिस्यात् । अक्षरश्रुतेरदृश्यत्वादिलिंगानांचमध्यमो त्तमाक्षरयोःसाम्येऽत्रमध्यममेवोच्यतइतिनिर्बधेकोहेतुरिति । मैवं । नतदनातिकिंचनेत्यक्षरस्यानशनोक्तेः। तच्चविष्णोर्वि रुद्धं । अत्ताचराचरग्रहणादित्युक्तत्वात् । नचमध्यमाक्षरस्यानशनांगीकारेविरोधोस्ति । अतोमध्यमाक्षरमेवैतदक्षरं ( (इति) तस्यैवादृश्यत्वादिगुणकत्वमितिभावः। आहनसंयज्ञेष्वभिघूयमाणं । लताभिमानित्वेनेयमुक्तिः । सोमराजानंजुह्वति । तंदेवाभक्षयंतीत्यादिवत् । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ इदमक्षरंब्रह्मैव । यदूर्ध्वगार्गिदिवोयदर्वापृथि व्यायदंतराद्यावापृथिवीइमेयद्भूतंचभवच्चभविष्यच्चेत्याचक्षते । आकाशएवतदोतंचमोतंचेत्याकाशाख्यप्रकृतेःसर्वाधारल मुक्त्वैतस्मिन्खल्वक्षरेगा-काशओतश्चप्रोतश्चेत्यक्षरस्यतदाधारत्वश्रवणादित्यर्थः । सर्वाधारत्वंकुतोविष्णुत्वनिश्चायकमि त्यतआह ॥' यइति ॥ एकोदेवोभर्तृत्वेनबहुधानिविष्टोजगताभ्रियमाणस्तद्विभर्ति । सचयदातभारंभर्तनेच्छतितदासौ नश्यतीत्यर्थः। एतच्चतद्वैत्वंप्राणइत्युक्तमाणस्योच्यते । यस्मिन्निदंसम्यग्विविधंचैधितदेवब्रह्मेत्यर्थः। विष्णुवदन्यस्यापिसर्वा .
धारत्वंदिनस्यादित्यतआह ॥ पृथिव्यादीति ॥ १० ॥ युक्त्यंतरेणविष्णोरेवाक्षरत्वंप्रतिपादयत्सूत्रमुपन्यस्यव्याचष्टे ॥ 'साँचेति ॥ यदासर्वांधारत्वमेवाक्षरस्यविष्णुत्वनिश्चाययतितदासुतरामाज्ञामात्रेणसर्वाधारत्वंविष्णुत्वनिश्चायकमित्याश यः । कुतोऽनेनविष्णुत्वनिश्चयइत्यतआह ॥ तचेति ॥ सर्वधृतिकारणंप्रशासनविष्णोरेव । तत्कुतइतितत्राह ॥ सप्तेति ॥ महदहंकारपंचमहाभूताख्यसप्तदेवताब्रह्मांडाख्यातिसमृद्धगर्भास्तदावरणभूताभुवनस्यरतिप्रदाःसारभूतावाभुवनरतिपदस्य विष्णोराज्ञयाविविधविश्वधारणेतिष्ठंतीत्यर्थः। सर्वधृतिहेतुप्रशासनविष्णोरिवान्यस्यापिकिंनस्यादित्यतआह ॥ एकईति ॥ बलंबलप्रदोधृतिहेतुः ॥ ११॥ हेत्वंतरेणविष्णोरेवाक्षरत्वंप्रतिपादयत्सूत्रंपठित्वाव्याचष्टे ॥ अन्येति ॥ एतद्वैतदक्षरंगार्गि ब्राह्मणाअभिवदंत्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसंगमरसमगंधमचक्षुष्कमश्रोत्रमवाग मनोऽतेजस्कमप्राणममुखममात्रमनंतरमबाह्यंनतदश्नातिकिंचनेतिसकलवस्तुस्वभावानांस्थूलत्वादीनामक्षरेव्यावृत्तिकथनाच्च ब्रह्मेवाक्षरमित्यर्थः । लौकिकस्थौल्यादिराहित्यकथंविष्णुत्वनिश्चायकमित्यतआह ॥ अस्थूलइति ॥ लौकिकस्थौल्या दिराहित्येप्यलौकिकपरिमाणादिसद्भावान्नविष्णोरस्वभावत्वमितिभावेनोपलक्षणतयामध्यमइत्यायुक्तं । तमोवायवादीनांस वात्मनानिवृत्तिरदुःखमसुखमित्यादिवत् । लौकिकपरिमाणादिराहित्यकथं विष्णोर्युक्तं । सर्वपदार्थानांप्राकृतपरिमाणस्यैवद र्शनादित्यतआह ।। अस्थूलेति ॥ मध्यमाक्षरस्याऽप्राकृतविग्रहत्वेपिभगवदपेक्षयैव । अनेनैवनतदनातिकिंचनेत्येतदपि जीवस्वभावभूतोपजीवनार्थाशनव्यावृत्त्यर्थमितिसूचितंभवति । अस्थूलत्वादिसमभिव्याहारात् । अक्षरश्रुत्यादीनांतुवि ष्णावेवमुख्यतातस्मादक्षरं विष्णुरेवेतितस्यैवादृश्यत्वादीतिस्थितं ॥ १३ ॥ अ० ३॥ अत्रसदेवसोन्येत्यादिवृष्टिप्रतिपा प्रकाशि दकस्थानगतसन्नान्नोब्रह्मप्रधानयोःकारणत्वसाम्येनसाधारणस्यभगवतिसमन्वयातिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्या दिसंगतिविषयवाक्यमुदाहृत्यविषयादिकंचसूचयति ।। सदिति ॥ जन्मावत्ययतइतिजगत्त्रत्वं विष्णोरुतंतच्छंदोग श्रुतौसत प्रतीयतेतत्तेजोसृजतेत्यादिना । तस्यचविष्णोरन्यत्वेऽन्यत्यैवनष्कृत्वमसंगादयश्यनिर्णेयत्वं । तत्सदन्नविषयः । किंब्रह्मउतमधानमितिसंदेहः । कारणत्वसाम्यंसंदेहबीजमितिभावः । सयुक्तिकपूर्वपक्षयति ॥ तचेति ॥ एतत्सतप्रधा नमेवभवेन्नतुविष्णुः । बहुस्यांप्रजायेयेतिसतोबहुभावाख्यविकारित्वश्रवणादित्यर्थः । विकारित्वप्रतीतावपिकुतोऽयंन विष्णुरित्यतआह ॥ सहीति ॥ विष्णोःप्रमाणैरविकारित्वप्रसिद्धेस्तस्मिंस्तदसंभवात्प्रधानेचतत्संभवात्तदेवसदितितस्यै वजगत्कारणत्वमितिभावः । नन्वेतत्स्थानेप्रधानस्यप्रतिपाद्यत्वेपितस्योपादानकारणताभ्युपगमेनानिष्टाभावान्यर्थमेवेदम धिकरणंप्रतीयतइति । मैवम् । भवेदेतद्यद्येतत्प्रकरणेविकारिकारणमेवोच्येत । नैतदस्ति । एकमेवाद्वितीयं तत्तेजो सृजत सन्मूलाःसोम्येमाःसर्वाःप्रजा:सदायतनाःसत्प्रतिष्ठाः सतासोम्यतदासंपन्नोभवतीत्यादिब्रह्मलक्षणानांश्रवणात् । सि द्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ सदेवेत्यादिस्थानेसच्छब्देनविष्णुरेवोच्यते । सतस्तदैक्षतेतीक्षत्याख्यव्यापा रश्रवणात् । जडप्रधानस्येक्षणासंभवादित्यर्थः । अपिचविष्यवन्यस्यकस्यापीक्षतिर्मुख्यतोनविद्यतेकिमुजडस्येत्याशयेना ॥ ४६ ।। ह ॥ नेति ॥ एतेनसोमोवैराजागंधर्वेष्वासीदित्यादिवदभिमानिविवक्षयेक्षत्युक्तिरितिपरास्तं । ननुनिरवकाशविकारि त्वलिंगेनेक्षतिव्यपदेशोगौणःकिनस्यात् । सत्त्वात्संजायतेज्ञानमित्यादेप्रधानस्यज्ञानोपादानत्वादित्यतआह ॥ बहुत्वं चेति ॥ बहुभावस्यविकारित्वंविनैवस्वरूपबहुत्वेनसावकाशत्वान्नतहलेनेक्षतेगौणत्वंकल्प्यमितिभावः ॥ अजायमानोऽविकु र्वाणः । अतःपरंब्रह्मैवैतत्स्थानप्रतिपाद्यंसदितितस्यैवैतत्स्स्रष्टत्वमितिसिद्धं ॥ १३ ॥ अ०४॥ अत्रयोवेदनिहितंगुहायां । तस्यांतेसुषिरंसूक्ष्मं । हृदिह्येषआत्मेत्यादिश्रुतिभिब्रह्माकाशजीवेषुसाधारणस्यहृत्पद्मस्थत्वलिंगस्यभगवतिसमन्वयप्रतिपाद नादस्तिशास्त्रादिसंगतिः। श्रुत्यादिसंगतिविषयवाक्यमुदाहृत्यविषयादिकंचसूचयन्सयुक्तिकंपूर्वपक्षसूचयति ॥ चंद्रेति॥ एतस्यवाक्षरस्येत्यादिनाविष्णोश्चंद्रादित्याद्याधारत्वमुक्तंतच्छंदोगश्रुतौहृत्पद्मस्थस्योच्यते । एतस्मिन्ब्रह्मपुरेदहरंपुंडरीकंवे श्मदहरोस्मिन्नंतरआकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यंतद्वावविजिज्ञासितव्यमिति तंचेद्युःकिंतदन्त्रविद्यतेयदन्वेष्टव्यंयद्वाव विजिज्ञासितव्यमिति सत्रूयाद्यावान्वाअयमाकाशस्तावानेषोंतर्हदयआकाशउभेअस्मिन्द्यावापृथिवीइत्यादिना । तस्यच विष्णोरन्यत्वेऽक्षरस्यविष्णुत्वसाधकसर्वाधारत्वंचान्यस्यप्रसज्येतइत्यवश्यंनिर्णेयता । तद्धृदयपझस्थत्वंविषयः । किंविष्णो रथाकाशस्योतजीवस्येतिसंशयः । उक्तसाधारण्यंसंदेहबीजं । सर्वाधारतयाहृत्पद्मस्थत्वमाकाशस्येतितावत्पूर्वःपक्षः। दहरो स्मिन्नंतरआकाशइतिहृत्पदहराकाशस्थितिश्रवणात् । तस्यैवोभेअस्मिन्नितिसर्वाधारत्वोक्तरित्यर्थः । नन्वस्त्वाकाशस्य सर्वाधारतयाहृदयपद्मस्थत्वं । तस्यचाकाशस्तल्लिंगादितिन्यायेनविष्णुत्वेतस्यैवहृत्पद्मस्थत्वसिद्धिरित्यतआहे ॥ सचेति ॥ नात्रोक्ताऽऽकाशीविष्णुः । तस्यांतेसुषिरमितिप्रसिद्धाकाशस्यैवसाधारतयाहृत्पद्मस्थत्वोक्तेस्तत्समाख्यानादित्यर्थः । नच aana वाच्यमस्त्वाकाशशब्देनसुषिरमेव । तस्मिन्यदंतरितिहृत्पद्मस्थाकाशगतोविष्णुःसर्वाधारतयोच्यतइति । तथासतिवा प्रकाशि क्यान्वयानुपपत्तेः । तथाहि । तस्मिन्नित्यत्रविष्णुत्वाभिमायेकिंतदत्रविद्यतइतिप्रश्नस्यब्रह्मविद्यतइतिपरिहारंविनायावान्या इत्यादरभिप्रायासंगतिः । आकाशपक्षेत्वस्त्यन्वयः । हृदयाकाशस्थमुपास्यमित्युक्तेकिंतत्रस्थितमितिप्रश्नेयावान्वाऽयमा काशइतिप्रागुक्ताकाशमेवविशिष्योभेअस्मिन्नित्यादिपरिहारसंश्लेषात् । नचयावानित्यादिनाऽऽकाशाख्योविष्णुःसर्वाधार तयापरिहारेकथ्यतइत्यन्वयोपपत्तिः। तस्मिन्सर्वप्रतिष्ठितमितिसाक्षात्सुपिरस्यैवसर्वाधारत्वोक्तिविरोधात् । तस्मादाका शस्यैवसर्वाधारतयाहृत्पझस्थत्वं । जीवस्यवैतद्भवेत् । उत्तरत्रपरंज्योतिरुपसंपद्यस्वेनरूपेणाभिनिष्पद्यतएषआत्मेतिहोवाचे तिजीवस्य यात्माऽपहतपाप्मेत्युक्तहृत्पझस्थात्मतयापरामात् दहरस्थत्वलिंगाच्च । तयणोजीवस्यैवयुक्तंनसर्वगतस्य हरेः । नचान्वयाभावदोषः। विष्णुपक्षेपिसाम्यात् । अतोभगवदितरदेवचंद्रादित्याद्याधाराक्षरमिति । सिद्धांतयत्सूत्रम वतार्यव्याचष्टे ॥ अतइति ॥ दहरपद्मस्थोविष्णुरेवभवेत् । यआत्मापहतपाप्मेत्यादिनोत्तरवाक्येहत्पझस्थस्यापहतपाप्म त्वादिगुणश्रवणादितिभावः । अपहतपाप्मत्वादिकंकथंविष्णुत्वनिश्चायकमित्यतआह ॥'यति ॥ अत्येति अतिक्रम्यव तते । नचाऽऽकाशस्यापिपापाद्यभावेनैतेगुणायुक्ताइतिवाच्यं । तस्याचेतनस्यतत्प्राध्यभावेननिषेधायोगात् । विष्णोश्चे तनत्वादस्तिप्राप्तिः । सत्यकामत्वाद्ययोगाच्च । तथापितेगुणाविष्णोरेवरमादिष्वपिसंभवादित्यतआह ॥ नित्येति ॥ ननु यथाकथंचिदपितेऽन्यत्रगुणाःसंत्येवात कथंतैर्विष्णुत्वनिश्चयइत्यतआह ॥ सापेक्षेति ॥ अपहतपाप्मत्वादीनांकथंचिद न्यत्रवृत्तावपिनकथंचिदन्यत्रसत्यकामवादीत्याशयेनाह ॥ सत्यकामहति ॥ अनेनाकाशाभिमानिविषयतयाऽपहतपा प्मत्वाद्युपपत्तिरितिपरास्तं ॥ १४ ॥ युक्त्यंतरेणहृत्पद्मस्थत्वंविष्णो प्रतिपादयत्सूत्रमुपन्यस्यव्याचष्टे ॥ गतीति ॥ अत्रह त्पद्मस्थस्याहरहर्गच्छंत्यएतमितिसुप्तप्रजाप्राप्यत्वव्यपदेशात् हृत्पझस्यब्रह्मलोकत्वोक्यावदंतर्गतेब्रह्मशब्दश्रवणाचविष्णुरेवा यमित्यर्थः । ब्रह्मैवसर्वाश्रयत्वादिनालोकपदोक्तंवा । सुप्तप्राप्यत्वंकुतोविष्णुत्वनिश्चायकमित्यतआह ॥ सतेति ॥ संपन्नः संगतः। ब्रह्मशब्दस्तुविष्यवेकपरइतिप्रागेवोक्तं । किंचहृत्पद्मस्थस्यारण्याख्यसुधासमुद्राश्रयलोकवत्त्वलिंगश्रवणाचतदंतर्ग तोविष्णुरितिसूत्रशेषव्याचष्टे ॥ 'अरश्चेति ॥ हृत्पद्मस्थस्यारण्याश्रयलोकवत्त्वलिंगश्रवणेपिकुतोयं विष्णुरितिचेत् । तस्य चविष्णुलोकैकलिंगत्वादितिहिशब्दाभिप्रायमाह ॥'अरश्चेति ॥ अनेनारण्याश्रयत्वंसत्यलोकलिंगमित्यप्यपास्तं । क्षीरा ब्धिमध्यइतितत्प्रसंगात् । अरण्याश्रयलोकवत्त्वंहृत्पद्मस्थस्यनोच्यतइतिशंकापनोदायतथेत्युक्तं । यथाऽहरहर्गच्छंत्यएतंत्र ह्मलोकनविदंतीत्येतत्हत्पझस्थविषयंतथैतदपिलिंगंतन्निष्ठं । ब्रह्मलोकशब्दश्रवणादेवेतिभावः । अथवाब्रह्मलोकमितिह त्पझस्यविष्णुलोकत्वोक्तेस्तदंतर्गतोविष्णुरित्युक्तं । ब्रह्मलोकपदंकुतोविष्णुलोकवाचीत्यतआह ॥ अरश्चेति ॥ ब्रह्मलोकप दस्यविष्णुलोकेअरश्चेतिप्रयोगादत्रापितत्परत्वमेव । तत्रापितत्कुतः । अरण्याश्रयत्वलिंगादित्यर्थः । तस्यभगवल्लोकलिं गत्वंकुतइत्यतआह ॥ अरश्चेति ।। १५॥ हेत्वंतरेणविष्णोर्हृत्पमस्थत्वंप्रतिपादयत्सूत्रमुपन्यस्यव्याचष्टे ॥ धृतेश्चेति ॥ अथयआत्माससेतुर्विधृतिरेषांलोकानामसंभेदायेतिहृत्पद्मस्थस्यसर्वाधारत्वश्रवणाचविष्णुरेवासावित्यर्थः । अत्रससेतुरि तिवक्तव्येएषसेतुरित्युक्ति शाखांतराणामप्यत्रोपसंग्रहार्थं । एवमन्यनापीतिसंप्रदायविदः । विधृतिः सेतुरितिधारणसमर्थआ प्रकाशि० श्रयः । नचवाच्यमयनहृत्पमस्थइति । यआत्मेतिप्रागुक्तात्मपरामर्शात् सर्वेपाप्मानोतोनिवर्ततइतितल्लक्षणत्वोक्तेश्च । समा ख्ययाप्येतमर्थसाधयति ॥ एषइति ॥ वाजसनेयकेयएपोतर्हृदयआकाशस्तस्मिन्शेतेसर्वस्यवशीत्याद्युक्त्वैपसर्वेश्वरएषभूता धिपतिरेषभूतपालएपसेतुर्विधरणएषांलोकानामसभेदायेत्यादिनाहृदयेविष्णोरुकत्वेनतत्समाख्यानादत्राप्युक्तोविष्णुरेव । न चवाच्यसमाख्याश्रुत्युत्तोपि कुतोविष्णुरिति । अस्मिन्सर्वेश्वरत्वादिविष्णुमहिन्न श्रवणादेवेतिभावः । यदुत्तहृत्पद्मास्थस्यस वाधारत्वश्रवणाद्विष्णुरसाविति तत्रसर्वाधारत्वंकुतोविष्णुत्वनिश्चायकमित्यतआह ॥ एतस्मिन्निति ॥ एतस्येतिप्रतीक ग्रहणेनबहुवाक्यानिसूचयति । ननुसमाख्याश्रुत्युक्तःसर्वेश्वरत्वादिमहिमाकुतोविष्णोरित्यतआह ॥ सहीति ॥ विश्वमचे तनं । विष्णोरिवान्यस्याप्ययमहिमादिनस्यादित्यतआह ॥ सर्वेशहति ॥ १६ ॥ युक्त्यंतरेणविष्णोर्हृत्पद्मस्थत्वसाधकंसूत्रं पठित्वाव्याचष्टे ॥ प्रसिद्धेश्चेति ॥ दहरंविपापंपर वेश्मभूतंयत्पुंडरीकंपुरमध्यसंस्थं । तत्रापिदहरमितिविष्णोर्हत्पझस्थत्व प्रसिद्धेश्चसएवहृत्पद्मस्थइत्यर्थः । दहरोस्मिन्नंतरआकाशइतिहृत्पद्मस्थाकाशोविष्णुरित्यभ्युपगमेसुपिरश्श्रुतिविरोधइत्येतदने नैवनिरस्तंभवति । पुंडरीकेदहरंगगनंतस्मिन् विशोकंब्रह्मेत्यभ्युपगमात् । दिव्येब्रह्मपुरेोषच्योन्यात्मासंप्रतिष्ठितः। यएषों तहृदयआकाशस्तस्मिन्नयंपुरुषइत्यादेश्च । अन्वयाभावस्तर्हि भवेदितिचनवाच्यं । तथाहि । तस्मिन्यदंतरित्यत्रहृत्पद्मस्थाका शगतंब्रह्मान्वेष्टव्यमित्युच्यते । ब्रह्मपुरपदेनैवब्रह्मस्थितिसिद्धेः। तथाचकीदृशंतदितिभावेनकितदत्रविद्यतइतिप्रश्तत्स्वरू पनिरूपणपरतयायावान्वाऽयमाकाशइत्यादिवाक्यान्वयः । यद्ब्रह्मान्वेष्टव्यतयोक्तंतस्यांतर्हृदयेयावानेषआकाशस्तावान्सर्वो पिविद्यते । तदाधारतयापृथिव्यादिकंचसमाहितं । नष्टेपिदेहेननश्यति । अपहतपाप्मत्वादिगुणंचेति । अथवाहृत्पद्मगताका शस्थमन्वेष्टव्यमितिसामान्येनोक्तेकिंतदत्रविद्यतइतिप्रश्नयावान्बहिःपरमात्माऽऽकाशाख्यस्तिष्ठतितावानहृदयपद्माकाशेवि द्यते । सचपृथिव्याद्याश्रयत्वाच्छरीरनाशेनाप्यनाश्यत्वादपहतपाप्मत्वादेश्चान्वेष्टव्यइत्यन्वयोपपत्तेः। नचब्रह्मपुरपदप्रयोगा दात्मानविष्णुः । ब्रह्मैवपूर्णत्वात्पुरमित्युपपत्तेः। एतच्छब्देनशरीरस्यप्रकृतत्वान्नेतिचेन्न। शरीरनाशेनास्याविनाशोक्तेः । नचा काशपक्षेऽन्वयोस्ति । दहराकाशस्थमुपास्यमित्युक्तेकिंतदत्रविद्यतइतिप्रश्नेयावान्वेत्यस्यान्वयादर्शनात् । नहिदहराकाशस्थो व्याप्ताकाशोऽन्वेष्टव्यइत्युपपद्यते । तदभावादयोगाच्च । नापिदहराकाशमेवविशिष्योभेअस्मिन्नित्यादिपरिहारइतियुक्तं । दहरस्यव्याप्तत्वायोगान्मुख्यतःपृथिव्यादीनामनुपास्यत्वाच्च । नन्वेवंहृत्पद्मगताकाशस्थोविष्णुरित्यभ्युपेत्यतस्यसर्वाधार त्वांगीकारेपिसुषिरश्श्रुतिविरोध स्यात् । तत्रसाक्षात्सुषिरस्यसाधारत्वोक्तरित्यतआह ॥ तदिति ॥ नचैवमंगीकारेपिसु पिरश्रुतिविरोधः । मंदिरेमणिमालेत्यत्रमंदिरपदेनतदंतस्थमंजूषाविवक्षावत्सुषिरश्रुतेरपितदंतस्थभगवदपेक्षयाप्रवृत्तत्वादि त्यर्थः ॥ १७ ॥ भगवतोहृत्पद्मस्थत्वमाक्षिप्यसमादधत्सूत्रमुपन्यस्याऽऽक्षेपांशंतावद्ध्याचष्टे ॥ 'इतरेति ॥ परंज्योतिरुपसं पद्यस्वेनरूपेणाभिनिष्पद्यतइत्युक्तस्यजीवस्यैषआत्मेतिहोवाचेतिहृत्पद्मस्थात्मतयापरामर्शाजीवएवहत्पझस्थइत्यर्थः। परिहारां शंव्याचष्टे ॥ नेति ॥ नजीवोहृत्पद्मस्थः । हत्पझस्थेऽपहतपाप्मत्वादिगुणश्रवणात् । तेषांजीवेऽसंभवात् । नचवाच्यमुक्त free Haryana तत्व जीवेतत्संभवाजीवएवभाविभावेनोच्यतइति। मुक्तस्या(पि)प्यस्वातंत्र्येणतदसंभवात् । अतःस्वातंत्र्येणापहतपाप्मत्वादिगुणो प्रकाशि० हरिरेवहृत्पद्मागतइतिभावः ॥ १८ ॥ जीवस्थापहतपाप्मत्वाद्यसंभवमाक्षिप्यसमादधत्सूत्रपठित्वाऽऽक्षेपांशंतावन्याचष्टे ॥ उत्तरादिति ॥ एषसंप्रसादोस्माच्छरीरात्समुत्थायेत्युक्तजीवस्यसतत्रपर्यतीत्यादिनासत्यकामत्वप्रतीतेस्ततएवविशोकत्वादि सिद्धेरक्तगुणासंभवाभावात्सएवहृत्पद्मस्थइत्यर्थः। नमध्याहारणपरिहारशंव्याचष्टे । नेति ॥ नैतद्वाक्यबलेनजीवस्यगुणा न्संभाव्यहृत्पद्मस्थत्वंवाच्यं । तद्वाक्येमुक्तजीवस्योच्यमानत्वात् । स्वेनरूपेणाभिनिष्पद्यतइत्युक्तेः। हृत्पद्मस्थस्यचदेहांतर्वति तयामुक्तत्वायोगात् । नचवक्तव्यमुक्तविषयत्वेप्येतद्वाक्यस्यमुक्तस्यापिजीवत्वेनास्त्येवजीवेऽपहतपाप्मत्वादिसंभवोऽतोजीव एवाऽपहतपाप्मत्वादिगुणोत्पागततयाभाविभावेनोच्यतइति । मुक्तस्यापिपरमेश्वरप्रसादादेवतद्गुणाविर्भावेनस्वतोऽपहत पाप्मत्वाद्यसंभवादितिभावः । नन्वनमुक्तस्यतद्गुणत्वमेवोच्यतेनतुपरमेश्वराधीनत्वमतस्तत्स्वतएवेत्यतआह ॥ 'यदिति ॥ नात्रमुक्तगुणप्राले परमेश्वराधीनत्वोत्यभावः । परमेश्वरस्यगुणप्रदातृतयापरंज्योतिरूपसंपद्येतिपूर्ववाक्योक्तत्वादितिभावः । ननुपरमेश्वरप्रसादादपिजीवस्यास्त्येवतद्गुणजातमतःसएवापहतपाप्मत्वादिगुणोहत्पनस्थोस्त्वित्यतोवाऽऽह ॥ यदिति ॥ नपरमेश्वरप्रसादलब्धगुणोजीवःपूर्ववाक्येऽपहतपाप्मत्वादिनोक्तःकिंतुयत्प्रसादात्समुक्तीभूत्वाऽपहतपाप्मत्वादिगुणोभवति सभगवानेव । दातृप्रतिग्रहीनो तुरेवमुख्यत्वान्मुख्यस्यैवग्राह्यत्वादितिभावः ॥ १९ ॥ अमुख्यापहतपाप्मत्वादिगुणो पिजीवापरामर्शबलेनहत्पझस्थात्माकिंनस्यादित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥'अन्येति ॥ भवेदेतद्यद्येषइतिजी वंपरामृश्यतस्यहृत्पमस्थत्वंविधीयेत । नैतदस्ति । यपरंज्योतिराख्यभगवंतमभिसंपद्यजीवःस्वेनरूपेणाऽभिनिष्पद्यतेस एषआत्मेतिपरमात्मानमेवैषइतिपरामृश्यतस्यात्मत्वोक्तेः । अतोजीवेऽपहतपाप्मत्वाद्यसंभवात्परामर्शस्यचेश्वरार्थत्वात्स एवापहतपाप्मत्वादिगुणोहृत्पद्मस्थइतिभावः । नचमंतव्यमुभयथापिसंभवेकुतःपरमात्मार्थतापरामर्शस्येति । निरवकाशो तानेकहेतुबलादेव ॥ २० ॥ उक्तमाक्षिप्यसमादधत्सूत्रमुपन्यस्याऽऽक्षेपांशंतावळ्याचष्टे ॥ अल्पेति ॥ यदुक्तं जीवे संभावितगुणश्रवणाद्विष्णुरेवहृदयपद्मस्थोनजीवइति तदयुक्तम् । दहरोऽस्मिन्नंतरआकाशस्तरिमन्यदंतरितिपरमात्मन्यसंभा व्यमानजीवलिंगस्याल्पस्थानस्थितत्वस्य श्रुतत्वादित्यर्थः । नमध्याहारेणपरिहारांशव्याचष्टे ॥ नेति ॥ नाल्पस्थानस्थितिश्रु तिर्विष्णावनुपपन्ना । निचाय्यत्वादेवंव्योमवञ्चेत्यत्रसर्वगतस्यापिविष्णोर्योमवदल्पस्थानस्थितेरुक्तवादित्यर्थः। नव्योमव दीश्वरस्याल्पस्थानस्थितियुक्ता । सर्वगतस्यापिव्योम्नोंऽशतोऽल्पस्थानस्थित्युपपत्तेः । नचतथाविष्णोरुपपत्तिः । तस्यांशतोपि सर्वगतत्वाद्यावान्वाइत्युक्तेश्चेत्यतःसूत्रशेषप्रकारांतरेणव्याचष्टे ॥ एषइति ॥ सर्वगततयैव विष्णोरल्पस्थानस्थितिरुपपन्ना । एषमआत्मेतिश्रुतौसर्वज्यायूस्त्वेनैवहृदयस्थत्वोक्तरित्यर्थः । नचैतद्युक्तिविरुद्धं । यस्मिन्विरुद्धगतयोप्यनिशंपतंतीत्यादेः । अतोविष्णुरेवहृत्पद्मस्थ सर्वाधारश्चेतिसिद्धं ॥ २१॥ अ०५ ॥ अत्रानुकूल्येनगृह्यमाणत्वलिंगस्यभगवतिज्ञानिसुखेचसुख शब्दवृत्त्यासाधारणस्यविष्णौसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयादिकंचसूचयन्सयुक्तिकंपू र्वपक्षचदर्शयति ॥ अदृश्यत्वादयइति ॥ पूर्वमदृश्यत्वादिगुणाःपरमेश्वरस्योक्ताः तेषामदृश्यत्वाज्ञेयत्वेकस्यचिदानुकूल्ये m नगृह्यमाणस्यकाठकेकथ्यते । तदेतदितिमन्यतेऽनिर्देश्यपरमसुखं । कथंनुतद्विजानीयांकिमुभातिनभातिवेति । आनुकू प्रकाशिक ल्येनगृह्यमाणत्वनाम कथंनुतद्विजानीयामितिज्ञानार्थप्रार्थितत्वं । तस्याचान्यनिष्ठत्वेऽनिर्देश्यत्वंनभवतीत्युक्ताज्ञेयत्वंचान्य स्यैवप्रसज्यतेत्यवश्यंनिर्णेतव्यत्वम् । तदाऽनुकूल्येनगृह्यमाणत्वमनविषयः । विष्णोरन्यस्यवेतिसंदेहः । प्रागुक्तसाधारण्यंसं देहबीजं । ज्ञानिसुखस्यैतलिंगमितिपूर्वःपक्षः । परमसुखमितिसुखोक्तेः । नचसुखश्रुतिर्विष्णावपिसावकाशेतितद्ब्रहः । ए कोवशीसर्वभूतांतरात्माएकरूपंबहुधायःकरोति । तमात्मस्थंयेऽनुपश्यंतिधीरास्तेषांसुखंशाश्वतनेतरेषामितिज्ञानिसुखस्य प्रकृतत्वात् । तस्यैवतदेतदितिमन्यंतइतिपरामर्शात् । नचवाच्यंभगवतोपिप्रकृतत्वात्तत्परामर्शोऽयमस्त्विति । तस्यनपुंसक सुखशब्देनाप्रकृतस्यतदित्यादिपरामर्शायोगात्। संभवत्समीपस्थपरामर्शविहाय दूरस्थपरामर्शग्रहणेकारणाभावाच। अतोज्ञानि सुखस्यैवानुकूल्येनगृह्यमाणत्वात्तस्यैवानिर्देश्यत्वादीत्यर्थः। सिद्धांतयत्सूत्रमवतार्यव्याचष्टे॥ अतइति॥ कथंनुतद्विजानीया मित्यानुकूल्येनगृह्यमाणोविष्णुरेव । नचसुखश्रुतिविरोधः । परमंसुखमितिसुखश्रुतेरपितत्परत्वात् । तेषांसुखमितिज्ञानि सुखस्यप्रकृतत्वात्तस्यैवतदेतदितिपरामर्शान्नेतिचेन्न । चेतनश्चेतनानामित्यादौपरमात्मनोपिप्रकृतत्वात् । नचपरमात्मनोन पुंसकसुखशब्देनाप्रकृतत्वात्तदेतदितिपरामर्शायोगइतिवाच्यं । यदनिर्देश्यं परमंसुर्खकथंनुतद्विजानीयामित्यानुकूल्येनगृहंति तदनिर्देश्यसुखमेतत्प्रकृतपरमात्मनोरूपमितिमन्यतइतिवाक्ययोजनोपपत्तेः । नचवक्तव्यंसमीपस्थपरामर्शविहायकथंचिदे वदूरस्थग्रहणेकारणाभावइति । तमेवभांतमनुभातिसर्वमितिवाक्यशेषेसूयाँदीनामेतदधीनप्रकाशश्रवणात् । तस्यभासेतिसर्व जगतस्तत्प्रभाप्रकाश्यत्वप्रतीतेश्च । अत:समीपोक्तपरित्यागेकारणसद्भावेनदूरोक्तपरमात्मग्रहणोपपत्तेस्तस्यचसुखरूपत्वाति शयेननपुंसकसुखश्रुत्युपपत्तेर्विष्णुरेवानुकूल्येनगृह्यमाणइतितस्यैवानिर्देश्यत्वादीतिभावः। नन्वेतदधीनतयासूर्यादीनांभानो क्तावेतस्यसर्वजगत्प्रकाशकत्वोक्तौचकुतःसमीपोक्तज्ञानिसुखपरामर्शपरित्यागइत्यतआह ॥नहीति ॥ सर्वसूर्यादि जगत् भातीतिशेषः । अस्त्वेतदुभयंज्ञानिसुखेऽनुपपन्नं तथापिकुतोऽनेनपरमात्मग्रहणमित्यतआह ॥ अहमिति ॥ एतदुभय स्यज्ञानिसुखेऽसंभवात्परमात्मनिसंभवादूरोक्तस्यापिसमीपोक्तपरित्यागेनग्रहणमितिभावः । तदुक्तं । व्यवधानेनान्वयोपियो ग्यतापेक्षयाभवेदिति । इतिश्रुतेरितिशेषः । रश्मीदितिसूर्यादितेजसांनारायणाधीनत्वमुच्यते । तेजइतिसर्वजगत्प्रकाश कत्वं नारायणभासा तदधीनभासातदीयभासाच सर्वसूर्यादिजगच्चभातिप्रकाशतेप्रकाश्यतेच ॥ २२ ॥ यदेतल्लिंगद्वय स्यविष्णुनिष्ठत्वंश्रु (त्यो) त्युपपादितंतत्स्मृत्याप्युपपादयत्सूत्रंपठित्वातास्मृतिमुदाहरति ।।अपीति ॥ नकेवलमेतच्छ्रयतेऽपि तुस्मयतेपीत्यर्थः। मामकंमदधीनंमदीयंच। किंचनतत्रसूर्योभातिनचंद्रतारकनेमाविद्युतोभांतिकुतोयमग्निरित्यानुकूल्येनगृह्य माणस्यसूर्याद्यप्रकाश्यत्वमुच्यते । तच्चविष्णोरेवस्मयते । अतोविष्णुरेवात्रप्रतिपाद्य(त)इतिसूत्रस्थार्थातरमभिप्रेत्यतास्मृ तिमुदाहरति । तदिति ॥ धामस्वरूपं । तेजःस्वरूपंचगृहंग्राज्ञैर्धामेतिगीयतइत्यभिधानात् । युक्तिसमुच्चयेऽपिपदं । नचमतव्यंनतत्रसूर्योभातीत्यादिपुल्लिंगेनप्रकृतपरमा(त्मनए)त्मैवोच्यतेनत्वानुकूल्येनगृह्यमाणस्य । अतस्तज्ज्ञानिसुखमितिग्रह णेऽपिबाधकामावइति । किमुभातिनभातिवेतिप्रकृतस्यैवनतत्रेत्यनुसंधानप्रतीतेः । यस्यैवंसुखरूपंतत्रेतिवाक्ययोजनोपप rajasa १७१३ तेश्च । दूरोक्तग्रहणेबिभ्यतोऽतिदूरोक्तग्रहणेकथंनभीतिः । अनिर्देश्यत्वाद्ययोगाच्च । तस्मादानुकूल्येनगृह्यमाणोहरिरेवे प्रकाशिक तितस्यैवानिर्देश्यत्वादीतिसिद्धं ॥ २३ ॥ अ० ६॥ अनप्रेरकत्वसाम्येनभगवतिवायौचसाधारणस्येशाननाम्नोविष्णौसमन्व यप्रतिपादनादस्तिशास्त्रादिसंगतिः। श्रुत्यादिसंगतिविषयसंशयौचसूचयति ॥ विष्णुरेवेति ॥ अथातोब्रह्मजिज्ञासेतिजि ज्ञास्यत्वं विष्णोरुक्तं तजिज्ञास्यत्वमीशानस्यकाठकेप्रतीयते । अंगुष्ठमात्रापुरुषोमध्यआत्मनितिष्ठति । ईशानोभूतभव्यस्येत्यु क्त्वा ऊर्ध्वप्राणमित्यादौविश्वेदेवाउपासतइति जिज्ञासोपासनयोक्यात् । श्रवणादिरूपविचारोहिजिज्ञासोच्यते । उपा सनाचसैव । यदाहुः । सोपासनाचद्विविधाशास्त्राभ्यासस्वरूपिणी । ध्यानरूपापराचैवतदंगंधारणादिकमिति । सचयदिवि ष्णोरन्यःस्यात्तदाजिज्ञास्यत्वंचान्यस्यैवप्रसज्जतइत्यवश्यंनिर्णेयः। सईशानोऽत्रविषयः। किंविष्णुर्वायुर्वेतिसंदेहः । प्रागुक्त साधारण्यमेवसंदेहबीजमितिभावः । ईशानशब्दस्यरुद्रप्रसिद्धावपितद्विषयसंशयः(अधिकारिसर्वोपास्य)सर्वदेवोपास्यत्वलिं गभियागर्भस्रावेणैवनिवृत्तः । यउन्नयतितमित्यन्वयः । सयुक्तिकंपूर्वपक्षयति ॥ सचेति ॥ सचेशानोवायुरेवभवेत् । ईशान स्योर्ध्वप्राणमुन्नयतीतिवाक्ये प्राणव्यवस्थापकत्वमध्यमत्वसर्वदेवोपास्यत्वश्रवणात् । नचैतल्लिंगनवणेपिकुत्तोयंवायुर्विष्णुः किंनस्यादिति । यथासम्राडेवाधिकृतान्विनियुतएतान्यामानधितिष्ठस्वैतान्यामानधितिष्ठस्वेत्येवमेवैपप्राणइतरान्प्राणा नपृथक्पृथगेवसन्निधत्तइतिप्राणव्यवस्थापकत्वस्यवायुलिंगत्वश्रवणात् । अथेममेवनामोद्योऽयंमध्यमःप्राणइतिमध्यमत्व स्यतद्धर्मत्वोक्तेः । कुविदंगेतितस्वसर्वदेवोपास्यत्वप्रतीतेश्च । अतोवायवेकनिष्ठलिंगनवणादीशानोवायुरेवेतिहेतोस्तस्यैव जिज्ञास्यत्वं । नचवाच्यंनेदमनिष्टवायोरपिजिज्ञास्यताभ्युपगमाद्विष्णुजिज्ञास्यत्वस्याबाधादिति । वायो सर्वदेवोपास्यत्वे तस्यमोक्षदातृत्वापातात् । नहिप्राप्तसमस्तैश्वर्याणांदेवानांप्रयोजनांतरमस्ति । तथाचर्किविष्णुजिज्ञासानियमेनेति विष्णुरे वमोक्षार्थजिज्ञास्यइत्यस्यानुपपत्तिरितिभावः । अयंमंत्रार्थः । अंगेतिसंबोधनं । येदेवावायोनमस्कारादिनाज्ञानादिगु णपूर्णाअज्ञानाद्यवद्यविधुराश्चपुराआसंस्तेक्वचिद्रहस्यस्थानेसूर्येणसाकंज्ञानिनेसंसारवाधवद्भिःशरणंप्राप्तायवायवेबुद्धिमावा सयंस्तद्विषयामकुर्वन्निति । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे । अंतहति ॥ विष्णुरेवेशानोभवेत् । मध्येवामनमितिवाम नश्रुतेः । तस्याश्चविष्णौमहायोगरूढिसिद्धायास्तत्प्रमापकत्वात् । अतोविष्णोरीशानत्वेनतस्यैवजिज्ञास्यत्वमितिभावः। अन्नप्रमितपदंश्रुतेर्निरवकाशत्वसूचनार्थं । ननुवायुलिंगसद्भावादीशानोवायुरेवकिनस्यादित्यतआह .॥ नहीति ॥ भवेत्स त्यामपिश्रुतौलिंगेनवायुत्वनिश्चयोयदिश्रुतेर्लिंगबलवद्भवेन्नचतदस्तीत्यर्थः । अनेनशब्दादेवेत्येवकाराभिप्रायोवर्णितोभव ति । कुतोन श्रुतेर्लिंगंबलवदित्यतआह ॥ श्रुतिरिति ॥ नाममात्रेणनिर्देशःश्रुतिः । असाधारणधोलिंगं । निराकां क्षपदानिवाक्यं । एकप्रमेयप्रतिपादकानेकवाक्यानिप्रकरणं । अनेकप्रमेयप्रतिपादकमेकार्थतात्पर्ययुक्तंस्थानं । समानो क्तिःसमाख्या । तत्र श्रुतेःसाक्षादर्थधीजनकत्वात्सर्वतःप्राबल्यं । लिंगस्यानुमापकतयाऽर्थबोधकत्वात्तदानंतर्य । वाक्य स्यानेकार्थकथनद्वाराऽर्थानुमापकत्वात्ततोपिदौर्बल्यं । प्रकरणस्यबह्वर्थपरत्वेनार्थानुमितिहेतुत्वात्तदवमता । स्थानस्यातिब ह्वर्थकथनेनाभिप्रायतोऽर्थानुमितिजनकस्यततोपिदौर्बल्यं । समाख्याया:स्थानांतरगताया सादृश्यमात्रेणार्थानुमापकल्या ततोपिदुर्बलत्वं । अत्रापिपूर्ववन्निरवकाशात्स्वभावदुर्बलादपिस्वभावमबल सावकाशस्यदौर्बल्यमित्यादिद्रष्टव्यं । अत्रविरु। प्रकाशि० द्वैतेषांसमवायेसत्येवंपूर्वपूर्वेणोत्तरोत्तरवाधयाऽऽगमार्थनिर्णयोभवतीत्यर्थः । नचयथास्थितएवक्रमः । आत्माप्रकरणादित्य त्रसमाख्याया:प्रकरणेनबाधितत्वात् । तदाहजैमिनिः । श्रुतिलिंगवाक्यप्रकरणस्थानसमाख्यानांसमवायेपारदौर्बल्यमर्थ विप्रकर्षादिति। भाष्यकारोपि। वाक्यंप्रकरणंस्थानसमाख्याचतथाविधेति । श्रुतिलिंगवाक्यानांसाक्षाद्विप्रतिपन्नार्थनिष्ठत्वेश्रु त्यादित्वेनैवज्ञापकत्वं । उपक्रमोपसंहारयोःश्रुतत्वेतन्निश्चायकतयालिंगत्वमन्यत्र चेत्प्रकरणनिश्चायकत्वेन । उपक्रमोपसंहाराव पिश्रुत्यादिनासत्यामर्थसिद्धौतात्पर्यलिंगे। अन्यथाप्रकरणनिश्चायको । समाख्यापिसाक्षाद्विप्रतिपन्ननिष्ठा समाख्यात्वेनैवलिं ग। अन्यथाप्रकरणनिधायकत्वेनभवति । लिंगवाक्ययोःसाक्षादसाक्षात्त्वेनभेदः । गोत्रभिदं प्रवक्षणाअभिनत्पर्वतानामित्या दिवदिति । नन्वस्तुश्रुतेःस्वभावप्राबल्यंतथापिबाहुल्येनलिंगानामपिप्राबल्यादनिर्णयएवेत्यतआह ॥ तच्चेति ॥ नबाहुल्ये पिलिंगानांश्रुतिसाम्येनानिर्णयः । श्रुतेर्निरवकाशत्वात् । लिंगानांविष्णाववकाशात् । सावकाशशतादपिनिरवकाशैकस्यमा बल्यादितिभावः । श्रुत्यंतरेणप्राणनिष्ठतयालिंगोक्तेःकथंतद्विष्णोरित्यतआह ॥ तस्यैवेति ॥ वायुत्वमत्रोपलक्ष्यते ॥ २४॥ तथापिकथमीशानोविष्णुर्भवेत् । अंगुष्ठमात्रत्वोक्तेः । नचविष्णोरंगुष्ठमानत्वंयुक्तं । सर्वगतत्वात् । नचवक्तव्यव्योमवत्स वंगतस्याप्यणुत्वंप्रत्यपादीति अंगुष्ठमात्रइतितन्मात्रत्वोक्तरित्याशंकांपरिहरत्सूत्रमुपन्यस्यतदक्षराणिव्याचष्टे ॥ हृदीति ॥ १.91१८ १७१८ सर्वगतस्यापिविष्णोरंगुष्ठमात्रत्वोक्तियुक्ता । हृदिविद्यमानावकाशस्यांगुष्ठमात्रत्वेनतद्पेक्षयाभगवन्मूर्तिविशेषस्याभिव्य तयातन्मात्रपरिमाणत्वादित्यर्थः । भिन्नेष्यपिस्थानक्येनैक्योक्तिवद्धृदयाकाशस्यांगुष्ठमात्रत्वेनतत्संबंधात्सर्वगतेपिहरावुप चारेणांगुष्ठमात्रत्वोक्तिरितिवार्थः। तुशब्दःपरिच्छिन्नतयांऽगुष्ठमात्रत्वनिवृत्त्यर्थमेवार्थः । तथापिनांगुष्ठमात्रत्वं विष्णोर्युक्तं । तथाहि । किंतत्तदंगुष्ठमात्रत्ववायत्किंचिदंगुष्ठमात्रत्वंवा । नाद्यः । पश्चादीनामंगुष्ठाभावेनतदंतर्गतविष्णोरंगुष्ठमानवायो गात् । नद्वितीयः । तत्कथनवैयदिसंभवाचेत्याशंकांपरिहरसूत्रशेषच्याचष्टे ॥ इतरेति ॥ युक्तविष्णोरंगुष्ठमात्रत्वं । तत्तदंगुष्ठमात्रत्वाभ्युपगमेनविकल्पानवकाशात् । नचतत्पक्षोक्तविरोधः । मनुष्याणामेववेदविद्योपासनाधिकारित्वेनतान्न त्येतद्विद्याप्रवृत्त्यापश्चादीनामंगुष्ठाभावेपिविष्णोरंगुष्ठमात्रत्वोक्तिसंभवादितिभावः । तुशब्दोऽपिशब्दार्थः । तस्मादीशानो विष्णुरेवेतिसएवजिज्ञास्यइतिसिद्धं ॥ २५ ॥ अ० ७॥ अत्रदेवानांब्रह्मविद्याऽधिकारसमर्थनादस्तिशास्त्रसंगतिः । प्रास गिकत्वान्नाध्यायादिसंगतिर्गवेषणीया। श्रुत्यादिसंगतिविषयसंशयतबीजानिसूचयति ॥ मनुष्याणामिति ॥ मनुष्या धिकारत्वादितिमनुष्याणामेववेदविद्याधिकारइत्युक्तं । सचयदिनदेवानांस्यात्तदाविश्वेदेवाउपासतइत्यादिश्रुत्यप्रामाण्यप्रस जयेतइत्य वश्यंविचार्यः । सवेदविद्याऽधिकारोविषयः । देवानामस्तिनवेतिसंदेहः । मनुष्याणामेवेत्युक्तिविश्वेदेवाउपासत तिश्रुतिश्वसंदेहबीज मितिभावः। नचश्रुत्युक्त्योरसाम्यादसंदेहबीजत्वं । उक्तेरप्यंगुष्ठमात्र श्रुतिमूलत्वात् । नदेवानांवेदविद्या धिकारइतिपूर्व पक्षः । तथाहि । किंदेवाअनादिनित्याउतविद्यादिनापदप्राप्तिमुक्तिमतः । आयेनवेदविद्याधिकारः । अ SHAN र्थीसमर्थोविद्वानधिक्रियतइतिन्यायात् । तेषांचार्थित्वाभावात् । नानादित प्राप्तपदानांमोक्षशून्यानांचविद्याभिःप्रयो प्रकाशिक जनमस्तियेनार्थितास्यात् । नद्वितीयः । अमराणांमुत्याधंगीकारेकर्मादिविरोधापातात् । अतोदेवानांवेदविद्याधिकारा भावान्नतदुपास्यत्वलिंगविष्णोःसंभवति । अथसंदेहबीजंविघटयनसिद्धांतयितुंसूत्रमवतारयति ॥ तिर्यगादीति ॥ मनु ध्यपदंविशिष्टबुद्ध्यादिरहिततिर्यगादिव्यावृत्त्यर्थप्रयुक्तनतुदेवतादिव्यावृत्त्यर्थमित्यभिप्रेत्यदेवानामधिकारमाहाचार्योबादरा यणइत्यर्थः । सूत्रंब्याचष्टे ॥ तदिति ॥ देवानामपिवेदविद्याधिकारोविद्यतएव । विशिष्टवुद्ध्यादेरधिकारोपयोगिनोदेवेषुवि द्यमानत्वेनतेषामधिकारसंभवात् । नचोकप्रकारेणदेवानामर्थित्वाभावात्सामर्थ्य विहत्तासत्वेप्यधिकाराभावइतिवाच्यं । विद्याकर्मभ्यायोग्यमनुष्याणांदेवादित्वप्रात्यभ्युपगमेन विद्याभिस्तेषांमोक्षसिद्धेरितिभगवान्बादरायणोमन्यतइत्यर्थः । वि प्रतिपत्तिसूचनायबादरायणपदं । नदेवावेदविद्याधिकारिणोऽमनुष्यत्वात्तिर्यगादिवदित्यतआह ॥ तिर्यगादीनामि ति ॥ नतिर्यगादीनाममनुष्यत्वप्रयुक्तोऽधिकाराभावोऽपितुविशिष्टबुद्ध्यादिराहित्यनिबंधनएव । तथाचविशिष्टबुद्ध्यादिरा हित्यव्यावर्तमानपक्षात्स्वव्याप्यमधिकाराभावंचव्यावर्तयतीतिभावः । विशिष्टयुद्ध्यादिमतामपितिरश्चांनवेदविद्याऽधिका रइतिव्याप्तिविधुरोऽयमुपाधिरित्यतआह ॥ तेषामिति ॥ अविरोधोऽधिकारांगीकारेऽपीतिशेषः । कथंतिरश्चांवेदविद्या धिकाराविरोधइतिचेत् । किनिषेधात्तिरश्चामधिकारायोगोऽदर्शनाद्वा । आद्यदूषयति॥ निषेधेति ॥ अनेननिषेधराहित्ये १८17 सतिविशिष्टबुद्ध्यादिमत्त्वमधिकारेप्रयोजकमितिसूचितंभवति । तेनशूद्रादौव्यभिचारपरिहारः । द्वितीयंनिराह ॥ 'दृश्यते हीति ॥ वेदाधिकारितयेतिशेषः । अनेनैवस्वप्रयुक्तानुमानस्यमनुष्यत्वोपाधिरप्यपोढोभवति ॥ २६ ॥ देवानांवेद विद्याऽधिकारमाक्षिप्यसमादधत्सूत्रंपठित्वाऽऽक्षेपांशंतावयाचष्टे ॥ विरोध इति ॥ यदुक्तं देवानांवेदविद्याऽधिकारसिद्ध्यर्थ सादिविनाशित्वं तदयुक्त । तथात्वेतेभ्यःपूर्वदेवताभावेनपूर्वकल्पेप्रयुक्तकर्मण्युहश्याभावाद्वैयर्थ्याख्यविरोधापत्तेः । अतःकर्म विरोधपरिहारायदेवानामनादिनित्यत्वमेवाभ्युपेयं । तथाचार्थित्वाभावेनानधिकारएवेत्यर्थः। परिहारांशंब्याचष्टे ॥ नेति ॥ भवेदयंविरोधोयदिपूर्वदेवताभावः। नचासावस्ति । एतद्देवानांपूर्वमभावेपिदेवांतरसद्भावात् नचतप्रमाणाभावः । अनेकेषां योग्यमनुष्याणांपूर्वपूर्वदेवतापदप्राप्तेः श्रुत्युक्तत्वादित्यर्थः । देवादेवत्वयोग्यामनुष्याम्यज्ञेनज्ञानकर्मात्मकेनयशंभगवंतमय जंत । ततस्तेज्ञानपूर्वकर्मणास्वपदंप्राप्यमुख्यलोकधारकाआसन् । तेपुनर्महात्मानोदेवाःस्वाधिकारावसानेपूर्णसुखात्म कमोक्षप्राप्नुवन् । यत्रमोक्षेपूर्वकल्पमुक्ताःसाध्यादेवाःसंतीतिमंत्रार्थः ॥ २७॥ पुनरुक्तमाक्षिप्यसमादधत्सूत्रपठित्वाऽऽक्षेपां शंविवृणोति ॥ शब्दइति ॥ अत्रापिविरोधपदाकर्षणं । यदेवानामधिकारसियर्थमाद्यंतवत्वमुक्तम् । नतद्युक्तं । दे वानामाद्यंतवत्त्वेवेदाप्रामाण्याख्यविरोधापातात् । घेदस्यनित्यत्वादनित्यदेवानांतद्वाच्यत्वात् । वाच्यहीनायावाचःप्रा माण्यासंभवात् । यावतातदेववाक्यस्याप्रामाण्यं । वेदस्यनित्यत्वमेवकुतइतिचेत् । वाचाविरूपनित्ययेत्यादिश्रुतेः । नचवा च्यमनित्यएववेदोनित्यइत्युपचारमात्रमिति । वेदानित्यत्वेप्रामाण्याभावापत्तेः। आप्तिमूलत्वेनग्रामाण्यमितिचेन्न । कट्टेसावें ।
तत्व ज्ञादौमानाभावेनास्यनिश्चयात् । विवादपदकस्यचित्प्रत्यक्षप्रमेयत्वादितिसार्वज्ञेगानमिति चेन्न । प्रमेयत्वेनविप्रतिपन्नधर्मा प्रकाशि० तरसाधनापातात् । किंचेदंप्रमेयत्वं नतावत्सामान्यं केवलान्वयिधर्मत्वात् । उपाधित्वेपिकचिदंतर्भावस्यापेक्षितत्वात् । नतावद्रव्यं । निर्गुणत्वादस्वतंत्रत्वाच्च । नापिगुणकर्मणी । गुणादावपिवृत्तेः । नचसमवायः । असंबंधत्वात् । नचविशेषोऽ नित्येपिवृत्तेः । नचाभावोऽप्रतियोगिसापेक्षत्वात् । प्रमेयस्थभावएवप्रमेयत्वंनतुततोऽतिरिक्तमितिचेत् । सत्यं । भावभवित्रो भेंदेपुनरुक्तानतिवृत्तेः । भावस्यभवितुःपृथगभावेतच्छब्दयोःपर्यायतापातात् । एवंपरत्वापरत्वादिगुणानांचदत्तजलांज लितास्यात् । प्रमातद्विषयतत्संबंधेष्वंतर्भावोऽस्तीतिचेन्न । ममाममेययोसंबंधस्यैवदुर्निरूपत्वात् । नह्यात्मगुणस्यान्ये नसमवायःसंयोगोवासंभवति । विषयविषयिभावइतिचेन्न । तस्याप्यंतर्भाव्यत्वात् । अंतर्भावस्यचोक्तदोपलंघनाजंघा लत्वात् । एषैवदिगन्यसमयेधर्मातरेऽपीति । प्रमेयत्वानिर्वचनान्नतेनसार्वज्ञसिद्धिः। विप्रतिपन्नंसकर्तृकंकार्यत्वात्घटवदित्यनु मानेनजगत्कर्तरिसिद्धेतस्यसार्वज्ञादिसिद्धिरितिचेन्न । शरीरिजन्यत्वोपाधेः। शरीर्थजन्यत्वेनसत्प्रतिपक्षत्वाच्च । शरीरि विशेषणव्यर्थमितिचेन्न । उपाधौपक्षव्यावृत्त्यर्थत्वात् । प्रतिपक्षेऽसिद्धिपरिहारार्थत्वात् । पक्षव्यावृत्त्यर्थविशेषणवतोप्यु पाधित्वपक्षेतरत्वस्याप्यापद्यतेतदिति चेत्कानोहानिः । पर्वतेतरत्वादीनामपिच्याप्तिरस्तिचेत् । अनुमानोपजीव्येनबाधा दव्याप्तीस्वयंदुष्टत्वात्। नचासिद्धिपरिहारार्थविशेषणासंभवइतिराज्ञामाज्ञास्ति। तथात्वेव्यभिचारनिवृत्त्यर्थमपिनप्रयोक्तव्य। व्याप्तिवत्पक्षधर्मतायाआवश्यकत्वात् । सकर्तृकत्वेकार्यत्वमेवप्रयोजकं । शरीरमपितत्रसन्निहितमित्युत्तरत्रनिरसिष्यते ।
अस्तुवासकर्तृकत्वं । कथंसार्वज्ञसिद्धिः। बहुकर्तृत्वेनाप्युपपत्तेः। लाघवादेकांगीकारइतिचेन्न । बहंगीकारस्यलोकानुकूल्येना गौरवात् । अतोनसार्वज्ञसिद्धिः । अविप्रलंभादिचातिदुरवगमं । अस्तुवाआप्तिनिश्चयस्तन्मूलत्वंकुतोवेदस्य । वेदःसार्व ज्ञादिमताप्रणीतोवेदत्वादितिव्यतिरेक्यनुमानादितिचेन्न । वेदत्वस्यपामरप्रणीतत्वादौसाम्यात् । असाधारण्यस्यापिसा म्यात् । वेदआप्तप्रणीतःप्रमाणवाक्यत्वादितिचेन्न । वेदानित्यत्वेप्रामाण्यविवादात् । तस्माद्यज्ञादितिसर्वज्ञेश्वरप्रणीतत्वं श्रूयतइतिचेन्न । उक्तदोषात् । ऋग्वेदएवाग्नेरजायतेत्यसर्वज्ञप्रणीतत्वोकेश्च । संप्रदायप्रवर्तकतयातद्वाक्यमुपचरितमिति चेन्न । कारणाभावात् । ईश्वरविरचितत्ववाक्यादितिचेन्न । तद्वाक्यादस्यसंप्रदायप्रवर्तकत्वाद्यर्थोपपत्तेः । तेषामसार्वज्ञा देतदितिचेन्न । चक्रकापातात् । तस्मादातितन्मूलत्वानिश्चयाद्वेदानित्यत्वेतत्प्रामाण्याभावापत्ते नित्यत्वश्रुतेरुपचरितार्थ त्वंवाच्यं । किंचवेदस्याप्तप्रणीतत्वेमूलप्रमाणेनभाव्यं । पौरुषेयस्यमूलप्रमाणसापेक्षतानियमात् । नचतत्प्रत्यक्षं । अदृष्टादौत दप्रवेशात् ।नचकस्यचित्प्रत्यक्षतादृशं । अत्रप्रमाणाभावात्। नाप्यनुमानीतस्यप्रतिपक्षादिदुष्टत्वात् । कथंचित्तेनादृष्टसंभावने पितद्विशेषासिद्धे नहिल शुनगंजनाद्यदनस्यपापहेतुत्वंयज्ञादेःपुण्यसाधनत्वंवाऽनुमानेनशक्यसाधनं। अतोवाक्यमेवेतिवक्त व्यं । तदपिनतावत्पौरुषेयं । मूलांतरान्वेषणेनानवस्थानात् । अतस्तन्नित्यमेवापेक्षितं । तथाचकिमनयाकल्पनयाश्रुतिसिद्धवेद नित्यत्वमेवांगीक्रियतां । ननुवेदस्यनित्यत्वेपिनप्रामाण्यं । आप्तोक्तत्वाभावादिति। मैवं। प्रामाण्यस्यस्वतस्त्वेनगुणानपेक्षणात्। प्रामाण्यनामयथार्थज्ञानकरणत्वं नचयाथार्थ्यज्ञानकारणातिरिक्तकारणमपेक्षते । याथार्थ्यज्ञानकारणातिरिक्तकारणनिरपेक्ष प्रकाशि अयथार्थतातिरिक्तत्वेसतिज्ञानधर्मत्वात् । ज्ञानत्ववत् । याथार्यनगुणोत्पन्नज्ञानधर्मत्वादप्रामाण्यवदित्यायनुमानात् । नच ज्ञानधर्मत्वेनायथार्थत्वस्यापिस्वतस्त्वंवाच्यं । दोषाभावेतदभावनियमात् । प्रमाज्ञानसामग्रीव्यतिरिक्तकारणजन्याकार्यत्वादि तिचेन्न । प्रमायाज्ञानकारणातिरिक्तकारणजन्यत्वनामममात्वस्यैवंविधत्वेनवा ज्ञानस्यवा तत्संबंधस्यवानाद्यः। अजन्यत्वा त्। नद्वितीयः। व्याहते। नतृतीयः। तस्यसमवायत्वेनाजन्यत्वादेव । प्रमात्वयुक्तज्ञानस्यैवंविधत्वंसाध्यतइतिचेन्न । तादृश ज्ञानस्यापिज्ञानकारणातिरिक्तकारणजन्यत्वसाधनेव्याघातानिस्तारात् । ज्ञानकारणतदतिरिक्तजन्यत्वंसाध्यतइतिचेन्न । ईश प्रमायांबाधात्। तदतिरिक्तप्रमापक्षीकारान्नैवमितिचेन्न । तथापिघटदोव्यभिचारात् । ज्ञानकारणमात्रजन्यत्वाभावःसाध्यतइ तिचेन्न । ज्ञानेव्यभिचारापरिहारात्। ज्ञानातिरिक्तत्वेनहेतुर्विशेष्यतइतिचेन्न । ज्ञानेपिकार्यत्वेनतत्साधनसौलभ्यात् । विशि ष्टाभावविकल्पेनव्याघातस्यसमीकरणात् । प्रमागुणजन्या। तदन्वयव्यतिरेकित्वादित्येतदपिप्रतिज्ञानिरासेननिरस्तं । किंचेदं गुणान्वयव्यतिरेकित्वमन्यत्रानुपक्षीणंसामान्यंवा । नद्वितीयः । व्यभिचारात् । नायः । दोषनिरासोपक्षीणत्वात् । नचोभ यकारणत्वेकल्पकमस्ति । नचैवमप्रमायाअपिस्वतस्त्वम् । तत्रदोषान्वयव्यतिरेकनियमनदोषाणामुभयकारणत्वकल्पनोपपत्तेः । नचैतत्समप्रकृतेपि । यादृच्छिकायथार्थवाक्यजनितप्रमायांव्यभिचारात् । गुणानांदोषनिरसनव्यापारत्वेदोषाभावोपिकारणत यापन्नइतिचेन्न । प्रदीपावरणनिवृत्त्यादीनामपिप्रकाशनादिकारणत्वापत्तेः । दोषाभावस्थकारणत्वेचनास्माकमनिष्टं । तावता वेदापौरुषेयताऽव्याघातात् । प्रमागुणजन्याप्रमात्वादितिचेन्न । ईशप्रमायांबाधात् । तदतिरिक्तप्रमा:पक्षीक्रियतइतिचेन्न । त त्रैवव्यभिचारात् । जन्यप्रमात्वंहेतुरितिचेन्न । प्रमागुणजन्यानभवति । प्रमात्वादीश्वरप्रमावदितिप्रतिपक्षसाधनात् । नचाजन्य त्वमुपाधिः । घटादौव्यभिचारात् । अजन्यप्रमात्वमुपाधिरितिचेन्न । व्यात्यभावात् । अतःप्रमायाज्ञानकारणातिरिक्तकारण निरपेक्षत्वेनवेदस्यकर्तृगुणनिरपेक्षस्यापिप्रामाण्यसिद्धेर्युक्तमेवतन्नित्यत्वं । तस्यैवंनित्यत्वात्तद्वाच्यदेवानांचानित्यत्वेऽप्रामाण्य मेवस्यात् । नचताक्तं । अतस्तत्सिद्ध्यर्थदेवानांनित्यत्वमेवाभ्युपेयम् । तथाचनतेषांवेदविद्याधिकारः। नचवाच्यकर्मविरोधाभा ववदयमपिविरोधःपरिहर्तव्यइति । अतीतदेवताप्रवाहेप्रमाणसद्भावेनातीतकालीनविरोधस्यैवपरिहर्तुशक्यत्वात् । उत्तरकाले ऽन्यदेवताभावनियमेप्रमाणाभावेनविरोधस्यकर्मण्यपिसाम्यात् । नचभारतादिवदतीतविषयतयावेदस्यप्रामाण्योपपत्तिः। तस्य देवताह्वानादिरूपस्यवर्तमानविषयतयाऽवश्यंभावात् । अतोदेवानांनानित्यत्वंयुक्तमितिनतेषांवेदाधिकारइतिभावः । परिहार शंव्याख्याति ॥ नेति ॥ यदुदितंवेदोनित्यइति तत्सत्यमेव । तथापिनतस्याप्रामाण्यंतद्वाच्यानांदेवतानांस्वरूपनित्यत्वाभावेपि प्रवाहरूपेणनित्यत्वात् । नचतन्त्रप्रमाणाभावः । सूर्याचंद्रमसावितिश्रुतेरेव । नचेयंश्रुतिरतीतविषयैवदेवप्रभव नियमनप्रमापय तीतिवाच्यं । प्रतिकल्पमपिश्रुत्यायथाविष्णुःपूर्वकल्पेसूर्याचंद्रमसावकल्पयत्तथाऽस्मिन्कल्पपीतिकथनेदेवानांसर्वकल्पेषु(प्रभव) सद्भावसिद्धेः । यथैवेतिस्पष्टस्मृत्याचदेवानांसर्वकल्पेषुप्रभवसिद्धेः । नचवाच्यंश्रुतावुपचारेणाप्युक्तिःसंभवतीतिनदेवप्रभवनि यमइति । अतीतानागतविदांमहतांश्रुतिसंवादिनोदेवप्रभवनियमग्राहकप्रत्यक्षस्यसत्त्वात् । नचपरप्रत्यक्षस्याप्रत्यक्षत्वात्तदान श्चयः । यथर्तुष्वृतुलिंगानिनानारूपाणिपर्यये । दृश्यंतेतानितान्येवतथाभावायुगादिष्वि(त्यादि)तितद्वचनान्निश्चयोपपत्तेः । न ।
9 चायोगिनांश्रुतिप्रत्यक्षयोरविश्वासेनोक्तानिश्चयः । उपरितनकालोदेववान्कालत्वात्संप्रतिपन्नकालवदितिश्रुतिसंवाद्यनुमानेनते प्रकाशि पांदेवप्रभवनियमसिद्धेरितिभावः । नचवाच्यंप्रलयकालेकालत्वहेतोर्व्यभिचारोऽप्रलयकालत्वहेतोःपरंप्रतिव्यर्थविशेषणत्वमि ति । प्रलयस्यप्रमाणसिद्धत्वात् ॥ २८ ॥ युत्तत्यंतरेणदेवप्रवाहनित्यतांसाधयत्सूत्रंपठित्वाच्याचष्टे । अतएवेति ॥ नदेवप्रया हनित्यत्वसिद्ध्यर्थयुक्त्यंतरंगवेषणीयंकिंतुयत्परेणप्रतिपादितवेदस्यनित्यत्वंतदन्यथानुपपत्त्यैवतत्सिद्ध्यति । नहिवाच्यानित्यत्वे वाचोनित्यत्वमुपपद्यतइतिभावः । नचाप्रामाण्येनोपपत्तिः । तदभावादेव । नापिभारतादिवदतीतविषयत्वेन । अनुपपत्तेरुक्त त्वात् । नचतद्वाच्यदेवतास्वरूपस्यैवनित्यत्वेनान्यथोपपत्तिः । सूर्याचंद्रमसावित्याधुत्पत्तिश्रुतेः प्रलयश्रुतिबाहुल्याच्च । नच प्रलयश्रुतीनामयथार्थत्वं । बाधकाभावात् । जातिसंकेताद्यनुपपत्तेरितिचेन्न । ईश्वरविरचितत्वेनोपपत्तेः । ब्राह्मणादेवब्राह्मणइ तिनियमस्यक्वचिदन्यथात्वोपपत्तेर्वृश्चिकतांडुलीयकादिवदिति ॥ २९ ॥ नदेवानांप्रवाहनित्यत्वेनापिवेदप्रामाण्योपपत्तिः । त थाहि । किंपूर्वकल्पेमुक्ताएवदेवाउत्तरकल्पेपुनरावर्ततेतदन्येएववा । नायः । मुक्तेरपुनरावृत्तित्वात् । अतस्तदन्यएवेतिवाच्यं । तथाचतेषांनानाविधनामरूपवतांवाचकवेदस्यकथनाप्रामाण्य । तस्यप्रतिकल्पपाठभेदाभावात्तदावेनित्यत्वव्याघातादित्याशं कांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ समानेति ॥ संभवत्येवदेवप्रवाहनित्यत्वेनवेदप्रामाण्यं । प्राचीनानांप्राप्तमुक्तित्वेनपुनःस्व पदेष्ववृत्तावपितदन्येषांप्राचीनसमाननामरूपत्वात्तत्प्रतिपादकैकविधस्यापिवेदस्याग्रामाण्याप्राप्तेः। नचसर्वदेवानांसमाननामरू पत्वेप्रमाणाभावः। यथापूर्वमितिश्रुतेः । एतच्छुतेस्तत्स्वरूपकल्पनानियमपरत्वमपिसंभवतीतिनानयातन्निश्चयइतिचेत् स्मृति संवादेननिश्चयोपपत्तेरितिभावः । ननुकथंदेवप्रवाहनित्यत्वेसमाननामरूपत्वेवानित्यवेदप्रामाण्योपपत्तिः। तद्वाचित्वेनेतिचेन्न। तस्यैवासंभवात् । न तावत्कालमयंदेवोमयोक्तोऽतःपरमेनंवक्ष्यामीत्यपौरुषेयस्यविमृश्यवृत्तिःसंभवतीत्याशंकापिस्मृत्यैवपरि हृता । स्वयंभुवास्वतंत्रेणविष्णुनायावेदवागुच्चारितातद्वेदगतशब्देभ्योब्रह्मादिविबुधानांनामानिनिर्ममे तानशब्दांस्तेषुसंकेतित वान् याश्चतेषांवेदेषुक्ताःदृश्यंतइतिदृष्टयोरूपाणितानिचतथैवनिर्ममइतिसर्वदेवानांसमाननामरूपत्वस्यापौरुषेयवेदस्यापिस्वतंत्रे णभगवताप्रतिकल्पंदेवेषुसंकेतितत्वस्यचोक्तेः । नचप्रलयेवेदाप्रामाण्यशंक्यं । तदाऽतीतविषयत्वस्यभगवन्मात्रविषयत्वस्यचोप पत्तेः ॥ ३०॥ अतोदेवानामाद्यंतवत्त्वेपिविरोधाभावाद्युक्तस्तेषांवेदविद्याधिकारइतिस्थितेपुनस्तमाक्षिपत्सूत्रमुपन्यस्यव्याचष्टे ॥ मध्वादिष्विति ॥ वेदविद्याद्विविधाः । मुक्तिफलार्थास्तदितरफलाइति। मोक्षतरफलार्थाश्चद्विविधाः। ब्रह्मकर्मविद्याभेदात् । यथामधुविद्या । यथाचाग्निष्टोमविद्या । तत्रनतावन्मोक्षेतरफलार्थद्विविधविद्यास्वधिकारोदेवानायुज्यते । तत्रार्थित्वाभावात् । सयएतदेवममृतवेदवसूनामेवैकोभूत्वाऽग्निनैवमुखेनैतदेवामृतंदृष्ट्वातृप्यतिदेवोभूत्वादेवानप्येतिसऊर्जमुपगच्छतीत्यादिनामध्वा दिविद्यासुवस्वादिपदानामुपासनाप्राप्यफलत्वश्रवणात् । देवानांचप्राप्ततत्पदत्वात् । नप्रिाप्तेऽर्थितासंभवति । एवंकर्मविद्या स्वपिवस्वादिपदानांफलत्वोक्तेनार्थितासंभवति । नचद्वितीयाद्यमृतविद्यादिषुवस्वादीनामप्यधिकार संभवतीतिवाच्यं । तास्व पिरुद्रादिपदस्यफलत्वेनश्रवणात् । तत्रचायोग्यतयाऽर्थिताऽयोगात् । एवंकर्मविद्यास्वपिरुद्रादिपदफलाभिधात्रीषुवस्वादीनाम धिकारायोगः । नचास्त्वेवस्वस्वेतरपदफलाभिधात्रीषुब्रह्मकर्मविद्यास्वनधिकारस्तथापिमोक्षेतरसामान्यफलाभिधायकविद्यासु . स्यादितिवाच्यं । सामान्यफलानांचप्रकाशवानस्मॅिल्लोकेभवतीत्यादीनांतत्फलेऽतर्भावात् । नहवाएवंविदिकिंचनानन्भवतीत्या प्रकाशि दीनांसायोग्यत्वात्योग्यैश्चरुद्रादिभि प्राप्तत्वाच्च । अतोमोक्षेतरफलार्थविद्याविचारेदेवानामर्थित्वाभावान्नतास्वधिकारः । किं चैवमाप्ततमोजैमिनिराचार्योपिमन्यतइत्यर्थः ॥ ३१॥ भास्तुमोक्षेतरफलार्थविद्यास्वधिकारोदेवानां । सत्यज्ञानमनंतंब्रह्मेत्या दिमोक्षार्थविद्यासुभविष्यति । अर्थित्वसंभवादित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ ज्योतिषीति ॥ भावाद्वस्तूनामिति शेषः । कथंवस्तूनांज्ञानेंतर्भावइत्यतःस्वपदेवर्णयति ॥ आदित्येति ॥ अभिप्रायंवक्ति ॥ नित्येति ॥ नमोक्षार्थविद्यास्वपिदे वानामधिकारःसंभवति। तदुक्तोपासनेऽर्थिताभावात्। द्विविधाह्यर्थिताविद्याविचारेभवति ज्ञानायफलायचेति। तत्रदेवानांमोक्षा र्थित्वेऽपिनतत्साधनेविद्यासाध्येज्ञानेऽर्थिताऽस्ति । तेषांसार्वज्ञेनसर्वविद्योक्तज्ञानित्वात् । नहिस्वर्गार्थिनोपिकृतयज्ञस्यपुनर्यज्ञवि द्याविचारेऽर्थितास्तीतिभावः । अनेनप्राचीनपक्षेदोषांतरंचोक्तंभवति ॥ ३२॥ एवंदेवर्मोक्षेतरयोग्यफलानांप्राप्तत्वादयोग्यानांपा तुमशक्यत्वान्मोक्षस्याप्यर्थतोलब्धत्वादर्थित्वाभावेनतेषांकास्वपिविद्यास्वधिकाराभावेजैमिनिमतावलंबिनासमर्थितेपुनस्तंसमर्थ यत्सूत्रंपठित्वाव्याचष्टे ॥ भामिति ॥ बादरायणस्तुभगवानदेवानामशेषविद्यास्वधिकारभावमन्यते । मोक्षतदितरफलानां योग्यानांप्राप्तत्वेऽयोग्यानांप्राप्नुमशक्यत्वेऽपिविद्योत्तोपासनकर्मकरणाभ्यायोग्यस्यज्ञानमात्रेणासाध्यस्यमोक्षफलेऽतिशयस्यसि ध्याऽर्थित्वसंभवात् । नचविद्यानांनित्यसिद्धत्वात्तद्विचारेऽर्थित्वाभावः । भगवदितरेषांनिरुपचरितसार्वज्ञाभावाद्विद्याविचारे णज्ञानविशषेसंभवादित्यर्थः । ननुतत्तद्विद्योक्तानुष्ठानेनतत्रोक्तादन्यदपिफलंप्रकाशविशेषश्चभवतीत्येतत्कुतइत्याशंकांपरिहर्तुमु १८/१८ कार्थेस्मृतिदर्शयति ॥ यार्वदिति ॥ नन्वस्त्येवमुक्तयुक्तिपराभवः । तथापिदेवानामधिकाराभ्युपगतावाप्ततमजैमिनिमतविरो धइत्यतआह । उक्तेति ॥ नदेवाधिकाराभ्युपगमेजैमिनिमतविरोधः । तत्तद्विद्यासूक्तफलार्थप्रागाप्तज्ञानार्थचजैमिनिनादेवा धिकारस्यनिरस्तत्वात्सुत्रकारेणचतदुक्तमंगीकृत्यप्रयोजनांतरायतस्यसमर्थितत्वादित्यर्थः । किमनयोर्मतयोर्विषयवैलक्षण्यकल्प नन विरोधएवर्किनस्यादित्यतआह ॥ सर्वज्ञस्येति ॥ अतोदेवानांसर्वविद्याधिकारित्वात्तदुपास्यत्वंहरेर्युक्तमितिसिद्ध ॥ ३३ ॥ अ०८ ॥ अत्रत्रिवर्णेतरस्यवेदोक्तब्रह्मविद्याऽधिकारनिरासादस्तिशास्त्रसंगतिः। प्रासंगिकत्वान्नाध्यायादिसंगतिरन्वेष्टव्या । श्रुत्यादिसंगतिविषयादिकंचसूचयति ॥ मनुष्येति ॥ वेदविद्यासुमनुष्याणामधिकृतत्वात्तेषांचांगुष्ठसद्भावामुक्ततान्प्रतिविष्णो रंगुष्ठमात्रत्वाभिधानमित्युक्तं । सचबेदविद्याधिकारोयदिशूद्भादीनांस्यात्तदाश्रुत्यादिविरोधादसौनिषेध्यएव । नचोक्तेविरोधा भावादसंगतिः । स्वन्यायेनश्रुत्यादिविरोधप्राप्तेः । सएवद्युत्तेविरोधोनामयदुक्तंप्रमाणबाधितंस्यात् । सवेदविद्याऽधिकारोवि षयः शूद्रस्यास्तिनवेतिसंदेहः । मनुष्यत्वमदर्शनंचसंदेहबीचं । अस्तिशूद्भस्यापिवेदविद्याऽधिकारइतिपूर्वःपक्षः । मनुष्याधि कारत्वादितिमनुष्याणामधिकारस्योक्तत्वात् । मनुष्यत्वेचशूद्रस्यद्विजातिभ्योविशेषाभावात् । नमनुष्यत्वंवेदविद्याधिकारोप योगि किंतुविशिष्टबुद्ध्यादिमत्त्वमेवेतिचेत्तथापिशूद्राधिकारसिद्धिः । विशिष्टबुद्ध्यादिमत्त्वेपिशूद्रस्यान्येभ्योऽविशेषात् । नच वाच्यंशूद्रस्यवेदविचारादर्शनादनधिकारइति । छंदोगोपनिषदिपौत्रायणस्यवैदिकसंवर्गविद्याध्ययनदर्शनात् । तस्यशुद्रत्वमेव कुतइतिचेन्न । तमुहपर प्रत्युवाचाहहारेत्वाशूद्रतवैवसहगोभिरस्त्वितिपौत्रायणप्रतिरैक्वोक्तेरेव । नचाधिकाराभावेपिपौत्रायणो तत्व विद्यांविचारयामासेतिकिंनस्यादितिवाच्यं । अनधिकारिणंप्रतिमुनेरुपदेशासंभवात् । नहितस्यापरोक्षज्ञानिनोगवाद्याशयाप्य प्रकाशि न्याय्याप्रवृत्ति संभाविता । अतोयुत्यालिंगदर्शनेनचशद्रस्यवेवाधिकारसिद्धिरितिभावः । उक्तइतिसप्तमीपंचम्यर्थे । अधि कारोपयोगितयोकेमनुष्यत्वेऽविशेषादितिया । अहेतिसंबोधन । हारोस्थश्वगोभिःसहतवैवास्त्वित्यर्थः । हारेवेतिसेदुराजेत्या दिवद्विसर्गलोपेनभवति । हारेत्नानावितिवा । तथात्वेपृथगन्वयःसिद्धांतयत्सूत्रमवतार्यतत्फलितार्थतावदाह ॥ अतइति ॥ यदुक्तंशूद्रस्यापिपौत्रायणस्यवेदविचारदर्शनादस्तिशद्भस्यवेदविद्याधिकारइतितवेद्यदिपौत्रायणःशूद्रोभवेनतुतदस्तीत्यर्थः । शूद्रेतिसंबोधितत्वात्कथमसौनशूद्रइत्यत्तस्तदाद्रवणादितिसूत्रांशंज्याचष्टे ॥ शुचेति ॥ शोकेनाद्भवणशूद्रशब्दप्रवृत्तिनिमि त्तम् । अतःशुचाद्रवणादेवशूद्रेतिसंबोधितोनतुवर्णावरत्वाभिमायेणेतिनानेनौत्रायणस्यशूद्भत्वसिद्धिरित्यर्थः । पौत्रायणस्यशु गेवकिंनिमित्तेत्यतःशुगस्यतदनादरश्रवणादितिसूत्रांशव्याचष्टे ॥ काग्विति ॥ अरेहंसैतद्वचनंकमेनमुद्दिश्यात्थसंतंसयुग्वानरै क्वमिवेतिहंसकृतानादरश्रवणादस्यपौत्रायणस्यशुगित्यर्थः । तदितिश्रुत्युक्तपरामर्शः । श्रुतानादरस्यापितस्यकुतःशोकोत्पत्तिज्ञों यते । परबुद्धेरप्रत्यक्षत्वात् । कारणस्यचकार्याविनाभावाभावादित्यतःसूत्रशेपंच्याचष्टे ॥ सहेति ॥ सश्रुतानादर पौत्रायणः शयनादुतिष्ठन्नेवक्षताररैक्कुगवेषणायोवाचेत्युक्ततव्यग्रतयाशोकोज्ञायतेऽतोनादरश्रवणात्पौत्रायणस्यशुगासीत्तयाशुचाऽऽद्भवणा च्छूद्रेतिसंबोधितोनतुवावरत्वाभिप्रायेणेतिनेदंशूद्राधिकारेलिंगमितिभावः । शोकेनाद्वणपरिज्ञानंचमुनेःसार्वज्ञादुपपद्यते । त दुक्तं । राजापौत्रायणःशोकाच्छूद्रेतिमुनिनोदितः । प्राणविद्यासवाण्यास्मात्परंधर्ममवाप्तवानिति । दीर्घस्वरार्थत्वेनाद्रवणा दित्युक्तं । शुग्द्रएवशूद्रोरुग्द्रएवरुद्इतिवत् ॥ ३४ ॥ ननुशूद्रशब्दोऽयंकुतोयौगिकोंऽगीक्रियतेरूढार्थएवर्किनस्यात् । योगरूढ्योरूढेरेवप्राबल्यात् । तथाचपौत्रायणनिदर्शनेनशूद्रस्यवेदविद्याधिकारसिद्धिरित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे । क्षत्रियत्वेति । अयमश्वतरीरथइतिपौत्रायणस्याऽऽद्रवणाच्छूद्रशब्देनसंबोधनाद्वोत्तरत्रचित्ररथसंबंधित्वलिंगंश्रूयते । तेनचलिं गेनतस्यक्षत्रियत्वमवगम्यते । अतोरूढेरेवप्राबल्येऽपिबाधकाद्योगांगीकारोयुक्तइतिभावः । श्रुतावश्वतरीरथश्रवणात्कथंचित्र स्थत्वमसूत्रयदित्यतआह ॥ स्थइति ॥ नचवाच्यंपौत्रायणेनदीयमानरथोत्रोच्यतेनतुतस्यतदीयत्वमिति । बाधकाभावेतदी यत्वस्यैवप्राप्तत्वात् । ननुचित्रर(थि)थत्वेपिपौत्रायणस्यवर्णावरत्वंकिंनस्यादित्यतआह ॥' यंत्रेति ॥ नचवर्णावरत्वेपौत्रायण स्यरथित्वंसंभवति । रथस्यवेदाविनाभावाच्छूद्रेचवेदाभावादितिभावः । नन्वेवंवैदिकमात्रेविद्यमानंरथित्वकथंक्षत्रियत्वेलिंगं । क्षत्रियस्यस्वाभाविकत्वात् । अन्येषांकादाचित्कत्वात् । स्वाभाविकस्यनैमित्तिकादाधिक्यात् । अपलायनंचशूद्रस्यविप्ररक्षा र्थमित्येतदपिपदातितयेतिगमयितव्यं ॥ ३५ ॥ यदुक्तंरथित्वलिंगेनपौत्रायणस्यक्षत्रियत्वावगमान्नतलिंगेनशूद्रस्यवेदाधिकारसि द्धिरिति । तदयुक्तं । शूद्रस्यापिरथित्वसंभवात् । तस्यवेदाविनाभावान्नेतिचेन्न । शूद्रेपिवेदाधिकारांगीकारादित्याशंकांपरिहर त्सूत्रमुपन्यस्यव्याचष्टे ॥ संस्कारेति ॥ नपरेणांगीकृतोपिशूद्रस्यवेदाधिकारःसंभवति । वेदाध्ययनादेरुपनयनादिसंस्कारसापे क्षत्वात् । अष्टवर्षब्राह्मणमुपनयीतेतिसंस्कारमुक्त्वातमुपनीतमध्यापयीतेत्यध्ययनार्थमुपनयनपरामर्शात् । वेद कृत्स्नोऽधिगंत व्य सरहस्योद्विजन्मनेतिस्मृतेश्च । अस्तुतर्हिशूद्रस्यापिसंस्कारः । मैवं । नाग्निर्नयज्ञइतिशूद्रस्यसंस्काराभावाभिधानात् । अतः -- । ।
mage शूद्रस्यसंस्काराभावेनवेदानधिकारान्नतस्यवेदाविनाभूतरथित्वमितिभावः । नन्वेवसंस्काराभावेनवेदानधिकारश्चेदुत्तमस्त्रीणाम | प्रकाशि० नधिकारप्रसंगः। संस्काराभावेऽपितासामधिकारेशूद्रस्थापितत्प्राप्तिरित्यतआह॥ उत्तमेति ॥ नोत्तमस्त्रीणांशूद्रवत्संस्काराभा वेनवेदविद्याधिकाराभावोवक्तव्यः । सपलीमेपराधमेत्यादिविद्यासुशच्यादीनांतद्गष्तृत्वेनाधिकारदर्शनादित्यर्थः । तयुंक्तन्याय भंगइत्यतआह ॥ संस्कारेति ॥ संस्काराभावेनवेदाधिकाराभावःसामान्यन्यायेनोक्तोनतुनियमेन । अतस्तस्यविशेषेणापवादे नदोषइतिभावः । अनेनैवशूद्रप्रतिबंदीविमोचिताभवति । सामान्यस्यबाधैकापोधत्वात् । एवंस्त्रीणामुपनयनाभावेपिपूर्वन्याय स्यसामान्यतयाऽपवादसंभवादस्तिवेदाधिकारइत्युक्तं । अथोपनयनप्रतिनिधिसभदावाञ्चास्त्यधिकारइत्याह ॥' अस्तिचेति ॥ यथापुंसामुपनयनादिसंस्कारस्तथास्त्रीणांप्रदानकर्मैवसंस्कारइत्यर्थः । अत्रापवादोक्ति प्रदानादिशून्यतिर्यगादीनामपिसंग्रहार्था । तेषामप्ययमग्नेजरितेत्यादावधिकारदर्शनात् ॥ ३६॥ यदुक्तमध्ययनस्यसंस्कारसापेक्षत्वान्नशूद्रस्यवेदविद्याधिकारइतिनता तं । शूद्रस्यापिसंस्कारसंभवात् । नचवाच्यंतदसंभवोप्युक्तइति । संस्काराभावस्यैवोक्तनिषेधाभावात् निषेधाभावेप्यभा वोक्तिसंभवादित्याशंकांपरिहरत्सूत्रंपठित्वाव्याचष्टे ॥ तदभावेति ॥ नशूद्रस्योपनयननिषेधाभावः । नाहमेतद्धेदभोयगो बोहमस्मीतिवचनेनसत्यकामस्थार्जवंज्ञात्वानैतदब्राह्मणोविवक्तुमर्हतीतिशुद्रत्वाभावनिर्णयएवतदुपनयनेगोतमस्यप्रवृत्तत्वात् । शूद्रोपनयननिषेधाभावेकथं तदभावनिर्धारणएवप्रवर्तेतेतिभावः ॥ ३७ ॥ ननुश्रुतावब्राह्मणमात्रस्यानुपनयनाभिप्रायप्रती ते कथंशूद्रत्वाभावेत्यसूत्रयदभाषतच । ब्राह्मणपदेनब्रह्माणनयोग्यानांत्रैवर्णिकानामुक्तः । शुद्रोवेदविद्याधिकारिविशिष्टबु ध्यादिमत्त्वाद्विजवत् । अन्यथाविशिष्टबुद्ध्यादिमत्त्वेनदेवताऽधिकारसिद्धिर्नस्यादित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ श्रवणेति ॥ नविशिष्टबुद्ध्यादिमत्त्वेनशूद्रस्यवेदाधिकारोवाच्यः । अनिषिद्धत्वेसतिविशिष्टबुद्ध्यादिमत्त्वस्याधिकारप्रयोजकत्वे नकेवलविशिष्टबुद्धयादिमत्त्वस्याधिकारासाधकत्वात् । शूद्रस्यवेदश्रवणाध्ययनार्थावधारणानांश्रुतौप्रतिषिद्धत्वात् । श्रुतौ शूद्रशब्दानवणाद्वर्णबाह्यविषयोऽसावितिनवाच्यं । नाग्निर्नयज्ञःशूद्रस्येतिस्मृतौशूद्रस्यैवस्पष्टनिषेधाच्छ्रुतेरपितदर्थत्वोपपत्तेः। अतोऽनिषिद्धत्वेसतिविशिष्टबुद्ध्यादिमत्त्वंन्यावर्तमानंशूद्रात्स्वव्याप्यंवेदाधिकारंचव्यावर्तयतीतिभावः । ननुशूद्भस्यवेदार्था वधारणादेर्निषिद्धत्वेकथंविदुरधर्मव्याधादीनांवैदिकार्थावधारणमस्ति । संस्काराभावेनानधिकारेचकथंकर्णोक्षत्रसंस्कारयुतोऽ खिलाःश्रुतीरधिजगौ । नचवाच्यमसावपवादविषयइति । अविहितोपनयनानामेववेदाधिकारिणामपवादविषयत्वसंभवा दित्यतआह ॥ विदुरादीनामिति ॥ तेषांपूर्वजन्मन्युत्पन्नापरोक्षज्ञा(न)नित्वेनेतरशूद्रादिभ्योविशिष्टत्वाद्वेदार्थावधारणा दिनिषिद्धमितिभावः । अतोहरि शूद्राद्यैर्वेदविद्याविज्ञेयोनभवतीतिसिद्धं ॥ ३८ ॥ अ० ९॥ अत्रलोकप्रसिद्ध्याभगव लिंगेनचसाधारणवज्रनाम्नोहरौसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयादिकंचसूचयति ॥ यदि मिति ॥ तमेवंविद्वानित्यादौभगवज्ञानादेवमोक्षइत्युक्तं । काठकेतुयदिदकिंचेतिवज्रज्ञानान्मोक्षःश्रूयते । तस्यचविष्णो रन्यत्वेऽन्यज्ञानान्मो(क्षापत्ते)क्षोपपत्तेरवश्यनिर्णेयत्वं । सवनोऽत्रविषयः । किंविष्णुरिंद्रायुधंवेतिसंदेहः । उक्तसाधार १९१० । ण्यंसंदेहबीजं । इंद्रायुधमेवेदंवत्रमितिपूर्व पक्षः । वज्रश्नुतेस्तत्ररूढत्वादुद्यतत्वलिंगाच्च । तध्यायुधएवोपपद्यते । नचवज्रज्ञा प्रकाशि० नेनमोक्षोक्तर्विष्णुरितिवाध्यं । लिंगमानाच्छ्रतिलिंगयो मावल्यात् । नचलिंगस्यनिरवकाशतयाप्राबल्यं । श्रुतिलिंगयोरपितथा त्वात् । अतोवज्रमिंद्रायुधमेवेतिनविष्णुज्ञानादेवमोक्षइतिभावः । यत्किंचसर्वजगत्प्राणेस्थितंप्राणान्निःसृतंतदिदंजगद्यस्मादेज १११४० तियत्प्रेरणयाचेष्टतेतन्महद्भयंकरवज्रयेविदुस्तेऽमृताभवंतीत्यर्थः । प्राणःसर्वमिदंकिंचजगञ्चयस्मानिःसृतंचेष्टतेचेतिवा । सर्व जगद्यस्मानिःसृतंसप्राणोयस्मान्चेष्टतइतिवा । सिद्धांतयत्सूत्रमवतार्यच्याचष्टे । अतइति ॥ अयंवज्रोभगवानेव । वज्रस्य सर्वजगच्चेष्टकत्वश्रवणात् । नचोद्यतत्वलिंगविरोधः । उद्यमित्वार्थतयोपपत्तेरितिभावः । लिंगमात्रेणकथमयंनिश्चयः । लिंगस्य निरवकाशत्वादेवेत्याह ॥ कोहीति ॥ यदासामान्यतोजगच्चेष्टकत्वमेव विष्ण्वेकनिष्ठंतदासुतरांवत्रस्योक्तंसर्वप्रवर्तकप्राणचेष्टक त्वंतदेकनिष्ठमितिभावेनाह॥प्राणस्येति ॥ ननूद्यतत्वलिंगस्यसावकाशत्वेपिवज्रश्रुतेर्निरवकाशत्वानिरवकाशेनापिलिंगेनकथं निर्णयइत्यतःश्रुतेरपिविष्णाववकाशस्मृत्यादर्शयति॥'चक्रमितिानचयोगस्यरूढेदौर्बल्यादनिर्णयइतिवाच्यं । स्मृत्युक्तत्वेनवि दबूढेरपिसत्त्वात्। आयुधानामहंव। वज्रग्रहरणोत्तममितिच । नन्वेवंसावकाशत्वेश्रुतिलिंगयोर्यएतद्विदुरित्युक्तलिंगविहायकिं लिंगांतरग्रहणेन । मैवं । तदविहायैवलिंगांतरस्याप्युक्तत्वात् । एतदन्यत्राप्यनुसंधेयं । अतोविष्णुरेववज्रइतितज्ज्ञानादेवमोक्षइति सिद्धं ॥३९॥ अ० १०॥ अत्रजीवेशयोनिरूपत्वेनहृदयाहितत्वेनचसाधारणस्यज्योति मनोविष्णौसमन्वयप्रतिपादनादस्तिशा स्त्रादिसंगतिः श्रुत्यादिसंगतिविषयादिकंचदर्शयति॥हृद्यइति ॥ ज्योतिश्चरणाभिधानादितिहृदयाहितज्योति परमात्मेत्युक्तं S वाजसनेयकेचतच्छ्रयतेयोयमिति। तच्चयदिविष्णोरन्यत्स्यात्तदापूर्वोत्तमप्यन्यत्प्रसज्जतइत्यवश्यनिर्णेयं । तज्ज्योतिर्विषयः। किंवि ष्णुजींवोवेतिसंदेहः। उक्तसाधारण्यंसंदेहबीजं जीवएवेदंज्योतिरितिपूर्वःपक्षः। ससमानःसन्नुभौलोकावनुसंचरतीतिजीवलिंगात्। तस्यहिकर्मवशादुभयलोकसंचरणयुक्तीइमलोकमतिकामतिमृत्योरूपाणिसवाअयंपुरुषोजायमानःशरीरमभिसंपद्यमानःपाप्मभिः संसृज्यतेसउत्क्रामनियमाणःपाप्मनोविजहाति। उभयानपिपाप्मनआनंदांश्चपश्यतिसयत्रप्रस्वपिति। स्वप्नांतउच्चावचमीयमानो भयानिपश्यन्नित्यादिजीवलिंगाच्च। किंचकिंज्योतिरयंपुरुषइत्यादित्यज्योतिःसघाडितिहोवाचेत्यादिनायस्यपुरुषस्यादित्यादिज्यो तिष्ठमुक्तस्यैवात्मैवास्यज्योतिर्भवतीतिसुध्यादावात्मज्योतिष्ट्वोक्तौकतमआत्मेतितदात्मप्रश्नेज्योतिरुच्यते । नह्यादित्यादिज्योति ष्ट्रविष्णोःसंभवति । नतत्रसूर्योभातीत्यादेः । नचवाच्यंयस्यादित्यादिज्योतिष्ट्वमुक्तंसजीवएवास्तु तस्यचात्मैवास्येत्यत्रपरमात्म ज्योतिष्ट्रमुच्यते । तदात्मप्रश्नेचज्योतिराम्नानात्परमात्मैवज्योतिरिति । जीवस्यपरमात्मज्योतिष्ट्वस्यैवायोगात्।तथात्वेपरमात्मनो स्तमयादिशून्यस्यजासत्यपिज्योतिष्ट्रप्राप्त्यातदादित्येनैवायज्योतिषास्तेचंद्रमसैवायज्योतिषास्तेइत्यवधारणानुपपत्तेः। तदाविशि प्यात्मज्योतिष्ट्वोत्त्यनुपपत्तेश्च । अत्रायपुरुषःस्वयंज्योतिर्भवतीत्यस्यैवार्थस्यप्रत्यभिज्ञानाच्च । अतोजीवएवेदज्योतिरितिप्रागुक्तम पिसएवेतिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ विष्णुरेवेदंज्योतिर्नतुजीवः । ज्योतिःश्रुतेर्विष्ण्वेकवाचित्वन वणादित्यर्थः । ज्योतिर्विष्णुश्चेदुभयलोकसंचरणलिंगविरोधइत्यतआह ॥ प्राज्ञेनेति ॥ जीवमादायेश्वरस्यैवोभयलोकसंचरणो क्त तद्विरोधइत्यर्थः । नचेमलोकमतिकामतिमृत्योरूपाणीत्याधुक्तलिंगविरोधः। द्रष्टुश्चक्षुषइत्यादिवदंतीतणिच्त्वेनोपपत्तेः। । त.प्र.११ प्रकाशि० १२१४१ mmsacrSESANTanamKEE नचादित्यादिज्योतिष्ट्वविरोधः । आदित्यादिज्योतिष्मतोऽयंपुरुषइत्युक्तस्यजीवत्वेनाभ्युपगमात् । नचतस्यैवस्वयंज्योति प्लेनोक्तस्यज्योतिष्ट्रमुच्यतइतिवाच्यं । आत्मैवास्यज्योतिर्भवतीतिकतमआत्मेत्यात्मशब्दोदितस्यविष्णुत्वात् । नचैवंसत्यव धारणविरोधः । अवधारणस्यबाह्यज्योतिषांमध्येसूर्यादीनांप्राधान्यज्ञापनार्थत्वेनोपपत्तेः । अन्यव्यावर्तकत्वस्यवागादिसत्त्वेना योगात् । नचविशिष्योक्तिविरोधः । ज्योतिरंतराभावाभिप्रायेणोपपत्तेः । तदुक्तं । भावेऽभावेपिसूर्यादेर्जीवानांविष्णुरेवहि । ज्योतिस्तथाप्यभावेतुतज्ज्ञेयहिविशेषतइति । नचप्रत्यभिज्ञाविरोधः । अत्रायंभगवान्विष्णुर्जीवस्यस्वयमेवतु । ज्योतिर्विशेष तोभूयान्नैवान्यज्योतिरत्रयदित्युक्तरीत्योपपत्तेः । नन्वेवंबाधकाभावात्कथंलिंगानामन्यार्थता श्रुतिमात्रस्यबहुलिंगानुसारेणामु ख्यार्थत्वोपपत्तेरिति । मैवं । जीवपक्षेबहुबाधकसद्भावात् प्रसिद्धत्वेनकतमआत्मेतिप्रश्नायोगात् सुखदुःखविशेषवत्त्वेनोभय लोकसंचरणेसमानत्वायोगात् स्वानपदार्थकर्तृत्वाभावात्स्वप्नेनशारीरमित्यादिमंत्रासंगतेश्च । तस्मादिदंप्रागुक्तंचज्योतिर्विष्णुरे वेतिसिद्धं ॥ ४० ॥ अ० ११॥ अत्रप्रयोगवशाद्गगनेभगवतिचसाधारणस्याऽऽकाशनानोहरौसमन्वयप्रतिपादनादस्तिशास्त्रा दिसंगतिः। श्रुत्यादिसंगतिविषयादिकंचसूचयति ॥ सर्वेति ॥ धुभ्वाद्यायतनंस्वशब्दादित्यादौसर्वाधारत्वंविष्णोरुक्तं । तच्छं दोगश्रुतावाकाशस्यप्रतीयते । आकाशोवैनामनामरूपयोर्निर्वहितातेयदंतरातद्ब्रह्मतदमृतमिति । सचविष्णोरितरश्चेत्सर्वाधार त्वमन्यस्यप्रसज्जेतेत्यवश्यंनिर्णेयः। सआकाशोऽत्रविषयः। किंविष्णुःप्रसिद्धाकाशोवेतिसंदेहः । उक्तसाधारण्यंसंदेहबीजमिति भावः। सयुक्तिकंपूर्वपक्षयति॥ वैनामेति ।। अयमाकाशःप्रसिद्धएवभवेत् । आकाशशब्दस्यतत्ररूढत्वात् । नचवाच्यमाकाश STARTSti शब्दस्यविष्णावपिवृत्तेःसावकाशइति।तत्रतस्ययोगिकत्वात्। योगस्यरूढेदौर्बल्यात्। सर्वाधारत्वलिंगेनयोगोप्याश्रीयतइतिचेन्न। प्रसिद्धाकाशपरित्यागेनात्रविष्ण्वंगीकारेवैनामेत्युक्तनिपातद्वयविरोधात् । तस्योक्तार्थप्रसिद्धिद्योतकत्वात् । नहिविष्णुस्तन्निर्व हितृत्ववाप्रसिद्धं । अतःप्रसिद्धाकाशएवायमिति । तस्यसर्वाधारत्वमितिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ अयमाकाशोहरिरेव । अस्याकाशस्यतेयदंतरेतिनामरूपराहित्याख्यविलक्षणार्थत्वव्यपदेशात् । तद्ब्रह्मेतिब्रह्मत्वव्यपदे शाच्चेत्यर्थः । अर्थातरत्वमितिरूपराहित्यमादिपदेनानामत्वमितिवा । तेनामरूपेअंतराविनावर्ततइत्यर्थः। अरूपत्वादिलिंगेनकु तोविष्णुत्वनिश्चयइत्यतआह ॥ अवर्णमिति॥ रूपस्यवाच्यांतर्भावेनप्राधान्यात्क्रमोल्लंघनाननुहरेःकथमनामरूपत्वमुक्तविरो धादित्यतआह ॥ अनामेति ॥ नचविष्णुपक्षेनिपातद्वयविरोधः । भगतवोनामादिनिर्वहितृत्वस्यालोकप्रसिद्धत्वेप्येकोदाधारभुव नानिविश्वेत्यादिवेदप्रसिद्धत्वेनतदर्थत्वेनोपपत्तेः । अन्यथाअनामरूपत्वविरोधात् । अवकाशस्यापिनाम(रूप)वत्त्वात् । अतोय माकाशोविष्णुरेवेतितस्यैवसांधारत्वमितिस्थितं ॥४१॥ अ० १२॥ अत्रासंगत्वलिंगेनलोकप्रसिद्ध्याचेशजीवयोःसाधारण स्यस्वप्नादिदर्शनलिंगस्यभगवतिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः। श्रुत्यादिसंगतिविषयादिकंचसूचयति ॥असंगत्व मिति ॥ असंगमरसमित्यसंगत्वंपरमात्मनउक्तं । तद्वाजसनेयकेस्वमादिद्रष्टुःप्रतीयते । सवाएषएतस्मिन्संप्रसादेरत्वाचरित्वाद ष्दैवपुण्यंचपापंचपुनःप्रतिन्यायंप्रतियोन्यांद्रवतिस्वप्नायैवसयत्तत्रकिंचित्पश्यत्यनन्वागतस्तेनभवत्यसंगोह्ययंपुरुषइति । तस्यच विष्णोरन्यत्वेऽन्यस्यासंगत्वप्रसंगादवश्यनिर्णयत्वं । तत्स्वमादिद्रष्टुत्वंविषयः। विष्णोर्जीवस्यवेतिसंदेहः । उक्तसाधारण्यंसंदे तत्व हबीजमितिभावः । सयुक्तिकंपूर्वपक्षयति॥सचेति ॥ स्वभादिद्रष्ट्टत्वंजीवस्यैवभवेत्। प्रसिद्धत्वात्। नचासंगत्वलिंगादीशत्येति प्रकाशि० वाच्यं । जीवेशयोरभेदेनजीवेपिचैतन्यविवक्षयाऽसंगत्वोक्तिसंभवात् । नचमुख्यतोऽसंगत्वादीश्वरस्थस्वमादिद्रष्टुत्वं । त स्याशरीरतयास्वमाधवस्थानुभवानुपपत्तेः। नवमंतव्यंयथास्वमादिदर्शनस्यजीवेमुख्यत्वेनासंगत्वमभेदाभिप्रायेणनीयते तथाऽ संगत्वस्येश्वरेमुख्यत्वेनस्वभादिदर्शनस्याप्यभेदाभिप्रायेणनेतुशक्यत्वात्किंजीवएवात्रोच्यतइतिनिर्बधेकारणमिति । चैतन्यै क्याभिप्रायेणतद्गतासंगत्वस्यजीवेऽमुख्यवृत्तिवदीश्वरेस्वमादिद्रष्टुत्वस्यविशिष्टनिष्ठस्यामुख्यतोपिवक्तुमयोगात् । नचजीवेशा भेदएवकुतइतिवाच्यम् । विशेषणद्वयसामानाधिकरण्याल्यथानुपपत्त्यैवतत्सिद्धेः । अतोजीवएवायंस्वमादिद्रष्टेतिनप्रागुक्तासं गत्वंविष्णोरेवेतिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ स्वप्नादिद्रष्टापरमात्मैवासंगत्वलिंगात्। यतोऽसंगःपरएव नजीवः । नचेश्वराभेदेनजीवेप्यसंगत्वोक्तिःसंभवतीतिवाच्यं । सुषुट्युत्क्रांतिप्रकरणयोर्भदेनैवजीवेशयोरुक्तत्वेनतदभेदस्यैवा भावादितिभावः । नचायभेदोव्यावहारिकएवेतियुक्तम् । सुषुप्तिप्रकरणस्यमोक्षपरतायाअपिभावात् । यद्वक्ष्यतिस्वाप्ययसंप त्योरन्यतरापेक्षमाविष्कृतंहीति । अनन्वागतंपुण्येनानन्वागतंपापेनेत्याद्यनुपपत्तेश्च । मोक्षेचसतोभेदस्यब्यावहारिकतानामपरि भाषामात्रस्यात् । ननुकथमशरीरस्येश्वरस्यस्वभादिदर्शनयुक्तंस्यादित्यतआह ॥ खनादीति॥ नविष्णोःस्वमादिदर्शनायोगःकिं नामतस्यैवतन्मुख्यंजीवादपि । स्वामपदार्थानांजीवगतावस्थायाश्वसत्यत्वात्परमात्मनश्चसर्वज्ञत्वेनतद्विशेषदर्शनोपपत्तिरिति भावः । एवंस्वमादिदर्शनासंगत्वयोःपरमात्मनिमुख्यत्वोक्यातदन्यथानुपपत्त्याऽभेद इतिपरास्तं । तत्रप्रतीतोभयविधलिंगां तरोपपत्तिस्तुतदाण्यादवगंतव्या । अतोविष्णुरेवस्वप्नादिद्रष्टाऽसंगश्चेतिसिद्धं ॥४२॥ अ० १३ ॥ अत्रनित्यमहिमत्वलिंगेना जश्रुत्याचविष्णुविरिंचयोःसाधारणस्थब्राह्मणनान्नोविष्णौसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयादि कंचसूचयति ॥ एषइति॥ प्राचीनाधिकरणेषुविष्णोर्नित्यमहिमत्वमभिसंहितम् । अनन्यापेक्षयाजगत्स्रष्तृत्वादेरुपपादितत्वात् । तद्वाजसनेयकेकस्यचिदाह्मणस्यप्रतीयते । एषनित्योमहिमाब्राह्मणस्यनकर्मणावर्धतेनोकनीयानिति । तस्यचविष्णोरितरत्वेऽ न्यस्यापिनित्यमहिमत्वप्रसंगादवश्यनिर्णेयत्वं । सब्राह्मणोविषयः। किंविष्णुर्विरिंचोवेतिसंदेहः । उक्तसाधारण्यंसंदेहबीजमि तिभावः । सयुक्तिकंपूर्वपक्षयति। संइति ॥ सब्राह्मणोविरिंचोभवेत् । अस्मिन्बहुशोऽजशब्दश्रवणात्। अजशब्दस्यचतस्मिन् प्रसिद्धत्वात् । नचवाच्यनजायतइत्यजशब्दोविष्णावपिसावकाशः । तत्रयौगिकोऽसावितिचेत् । विरिंचेपिविष्णुजातत्वयोगेन प्रवृत्तत्वादिति । ब्राह्मणशब्देनसहपठितस्यविष्णावनवका(शात् )शत्वात् । वर्णादिशून्यादीश्वराज्यावर्तमानस्यब्राह्मणशब्द स्यसहश्रुताजशब्दव्यावर्तकत्वात् । महत्तत्त्वाभिमानितयामहच्छन्दोपिविरिचिवाची । ब्राह्मणशब्देनसहश्रवणादजशब्दोय थाविरिचिवाचीत्युच्यतेतथाऽऽत्मशब्देनसहश्रवणाद्विष्णुवाचीकिंनस्यादितिचेन्न । आत्माविरिंचःसुमनाःसुधौतश्चेतिकथ्यतइ त्यादेरात्मशब्दस्यविरिंचेऽपिवृत्तेः । अतोऽजशब्दाद्विरिंचएवायंब्राह्मणइतिभावः । ननुकथंब्राह्मणोविरिंचोभवेत् । तदुपर्यपि बादरायणःसंभवादित्यत्रदेवानांविद्याकर्मभ्यांपदप्राप्तेःसमर्थितत्वेनब्राह्मणेश्रुतनित्यमहिमत्वस्यविरिंचेऽसंभवात् । सादिपदस्य चानित्यत्वनियमादित्यतआहादेवानांचेति॥ देवताऽधिकरणेदेवानामेवविद्याकर्मणो सकाशात्पदप्राप्ति समर्थितानत्वीश्वरस्य।
तत्व विरिंचश्चेश्वरस्वरूपमेवातस्तस्यनित्यमहिमत्वंयुक्तमेव । नचविरिंचस्येश्वरस्वरूपत्वमेवकुतइतिवाच्यम् । अन्यथैतत्प्रकरणानु प्रकाशि० पपत्तेरेवतत्सिद्धेः । तथाहि । अनतावद्भाह्मणाजशब्दोश्रूयते । नित्यमहिमत्वलिंगं सनसाधुनाकर्मणाभूयान्नोएवासाधुना कनीयानितिपापाद्यलेपलिंगच । नचैतद्विष्णुविरिचान्यतरमात्रग्रहणेयुक्तं । विष्णौशब्दानवकाशाद्विरिचेलिंगानवकाशात् । १४१४३ नचभिन्नतयोभयग्रहणेनोपपत्तिः । एकनिष्ठत्वात् । अतएतदन्यथानुपपत्त्याविष्णुविरिंचयोरभेदसिद्धेर्युक्तंविरिंचस्यापिनित्यम हिमत्वमितिसएवात्रोक्तब्राह्मणः । सत्त्वरजस्तमइतिप्रकृतेर्गुणास्तैर्युक्तःपरःपुरुषएकइहास्यधत्ते । स्थित्यादयेहरिविरिंचहरे तिसंज्ञाइत्यादेश्च । तर्हिविरिंचएवेतिनिर्बधेकोहेतुः । मैवं । कारणशब्दानांकार्येप्रवृत्त्युपपत्तिवत्कार्यशब्दानाकारणेतद नुपपत्तेरितिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अंतइति ॥ अयंब्राह्मणोविष्णुरेव सर्वस्यवशीसर्वस्येशानःसर्वस्याधि पतिः एषसर्वेश्वरएषभूताधिपतिरेषभूतपालएषसेतुर्विधरणएषांलोकानामसंभेदायसएषनेतिनेत्यात्माऽगृह्योनहिगृह्यतेऽशीर्योन हिशीर्यतेऽसंगोनहिसज्जतेऽसितोनव्यथतेनरिष्यतिसएषआत्माऽजरोऽमरोऽमृतोऽभयइतिसर्वाधिपत्यादिवाचिशब्दसद्भावात् । तथाचतस्यैवनित्यमहिमत्वमितिभावः । सर्वाधिपत्यादिवाचिशब्दसद्भावेपिकुतोविष्णुत्वनिश्चयइत्यतआह ॥ उतेति ॥ यद्भूतंभविष्यद्वर्तमानंसर्वतत्परमपुरुषाधीनं । नकेवलममुक्तसर्वाधिपतिःपुरुष किंतुमुक्तसमुदायस्यापियस्मात्संसारिसमूहमति शेते । मुक्तावनधीनत्वेसर्वजस्यबुद्धिमतःस्वाधीनसंसारिभ्योमोक्षप्रदानायोगादित्यर्थः । ईशानपदोक्तसर्वप्रेरकत्वेद्वितीयाश्रु तिः । नेतिनेतीत्युक्तश्रुतदृष्टवलक्षण्येतृतीया । सर्ववशित्वादोश्रुत्यंतराण्यादिपदेनसूचयति । नचविष्णोर्ब्राह्मणत्वेऽजशब्द २018
विरोधः । नजायतइतियोगेनोपपत्तेः । नचविष्णौब्राह्मणशब्दानुपपत्त्याऽजशब्दापहारः । ब्रह्मणावेदेनगम्यतइतियोगेनोपप
त्तेः । स्वरव्यत्ययस्याधिक्यार्थत्वात् । अणगतावितिधातोः । अन्यथापत्यादिशब्दविरोधात् । नचाभेदात्पतित्वादिविरिंचेपि
संभवतीतिवाच्यं । तदभेदेभानाभावात् । ब्राह्मणाजशब्दयोरुक्तरीत्याऽन्यथाप्युपपत्तेः । स्मृतेस्तदंतर्गतेश्वररूपापेक्षयोपपत्तेः ।
स्वधर्मनिष्ठःशतजन्मभिःपुमान्विरिंचतामेतिततःपरहिमामितिवचनाद्विरिंचस्यकर्मफलाभावायुक्तर्नित्यमुक्तेनपरमात्मनाभेदस्यै
वोपपन्नत्वात् । ततएतेव्यजायंतविश्वोहिरण्यगर्भइत्यादिभेदश्रुतिबाहुल्याच्च । अतोविष्णुरेवायंब्राह्मणोनित्यमहिमा(मश्चे)
चेतिसिद्धं ॥ ४३ ॥ अ० १४ ॥ इतिश्रीमदानंदतीर्थभगवत्पादाचार्यविरचितस्यश्रीमद्ब्रह्मसूत्रभाष्यस्यटीकायांनीमजयतीर्थमु
निविरचितायांतत्त्वप्रकाशिकायांप्रथमाध्यायस्यतृतीयःपादः॥३॥
ORPOOO
॥ इतिप्रथमाध्यायस्यतृतीयःपादः ॥
roman
OCADO
श्रीमद्धनुमदीममध्यांतर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवायनमः॥ एतत्पादप्रतिपा(jदर्शयति)द्यमाह ॥ श्रुतीति ॥ अन्यत्रोभयत्रचप्रसिद्धानांनामलिंगात्मकानांशब्दानांभगवतिसमन्वयेसिद्धेऽवसरप्राप्तमन्यत्रैवप्रसिद्धानामुभयविधशब्दानांवि ष्णौसमन्वयंवत्यस्मिन्पादेसूत्रकारइत्यर्थः । नन्विंद्रादिशब्दानामन्यत्रैवप्रसिद्धानांविष्णौसमन्वयस्यप्रथमपादएवसिद्धत्वाद्य र्थइ(ए)वायंपादःप्रतिभाति । नचतेषामन्यत्रैवप्रसिद्धताभावः । तथासतितृतीयवैयर्थ्यात् । अन्यत्रैवान्यत्रापीत्यतःप्रकारांतरा भावादित्यतउक्तं ॥ "श्रुतिलिंगादिभिरिति ॥ लोकप्रसिद्ध्यान्यत्ररूढानामिंद्रादिशब्दानांश्रुतिलिंगादिबलाद्विष्णौसमन्व यःप्राक्प्रतिपादितः । इदानींतुश्रुतिलिंगादिभिरेवान्यत्रप्रसिद्धानामपिशब्दानांसमन्वयनिरूपणान्नैतत्पादवैयर्थ्य । अनेनैवाभि प्रायेणा(न्यत्रान्यत्रैवेत्युक्ति)न्यत्रैवेत्युक्तिरितिभावः। पूर्वक्वचिच्छ्रुत्यादिनैवान्यत्रप्रसिद्धशब्दसमन्वयोक्तावप्येतत्पादीयश्रुत्यादी नांप्राबल्यादियमुक्तिः। पूर्वस्रष्टुत्वादिगुणाभिधायकानांशब्दानांतत्संगतानांचसमन्वयोनिगदितोऽत्रपुनःस्वरवर्णपदात्मकानां समस्तशब्दानामितिवाऽवैयर्थ्यमितिभावेनोक्तंसामस्त्येनेति । यदुक्तंबलवच्छ्रुत्यादिभिरन्यत्र प्रसिद्धशब्दानांसमन्वयोऽत्रकथ्य तइतितद्युक्तं । असंभवादित्यतउक्तम्।। विशेषेति ॥ततोपिप्रवलहेतुभिरित्यर्थः। यदुदितमत्रसमस्तशब्दसमन्वयनिरूपणादवै यर्थ्यमिति । तदसत् । अंशेवैयादित्य(तोवाह)तश्चाह ॥ विशेषेति॥प्रागनुक्तहेतुभिरित्यर्थः। स्यादेतत्। नसमस्तशब्दसमन्व योक्तिरुपपन्ना । वैयर्थ्यात् । जन्माद्यस्येत्युक्तजन्मादिकारणत्वेहिशास्त्रंप्रमाणीकृतं । जन्मादिकारणत्वाभिधायकवाक्यानामेवपर मात्मपरत्वंचतुर्थसूत्रप्रतिज्ञातं तच्चातीतैःपादैःसमर्थितमिति । मैवं। चतुर्थसूत्रेसर्वशब्दानांपरमात्मपरत्वस्यप्रतिज्ञातत्वात् । जन्मा तत्व दिसूत्रेहिनजन्मादिकारणत्वमात्रंविवक्षितं । किंतुकिंतद्ब्रह्मेत्याकांक्षायांनिखिलगुणपरिपूर्णत्वस्यैववक्तव्यत्वात्। नहिब्रह्मशब्दःक प्रकाशि० तिपयगुणाभिधायकः । जन्मादिकारणत्वगुणग्रहणंतुतस्याखिलगुणसाधकत्वेनान्योपलक्षणाभिप्रायेणैव । तृतीयसूत्रेचतत्रैवसर्व शास्त्रंप्रमाणमुक्ताकतिपयशब्दानांनिखिलगुणाभिधायकत्वायोगादिति।सूत्रमेवादौपठति ॥ आनुमानिकमिति ।। अत्रावरत्वादि लिंगभगवतिविरुद्धतयाऽन्यत्रैवप्रसिद्धाव्यक्तादिशब्दानांभगवतिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः। श्रुत्यादिसंगतिविष यादिकंचसूचयन्सौ–पूर्वपक्षांशंतावयाचष्टे तित्त्विति ॥ तत्तुसमन्वयादितिसूत्रेसर्वशब्दानांपरमात्मपरत्वमुक्तं । सर्वांतर्गताव्य कादिशब्दैश्चकाठकादौकिंचिदुच्यते । महतःपरमव्यक्तमव्यक्तात्पुरुषःपरः। योनिमन्येप्रपद्यतेशरीरत्वायदेहिनः । स्थाणुमन्येतुसं यांतियथाकर्मयथाश्रुतं । जीवाएवतुदुःखिनइति । तस्याव्यक्तादेर्विष्णोरन्यत्वे नतस्यसर्वशब्दवाच्यतेत्यवश्यनिर्णेयता । तद व्यक्तजीवादिपदवाच्यविषयः । किंविष्णुरन्यद्वेतिसंदेहः । समन्वयसूत्रमन्यत्रैवप्रसिद्धिश्च संदेहबीजं । प्रधानाद्येवाव्यतादि पदवाच्यं नतुविष्णुरितिपूर्वःपक्षः। अव्यक्तादिशब्दानांप्रधानादाववप्रसिद्धेः। नचतेषांविष्णावपिसावकाशतेतिवाच्यं । तत्रा व्यक्तस्यपुरुषावरत्वश्रवणात् । तच्चप्रधानस्ययुक्तंनतुविष्णोः । नतत्समश्चाभ्यधिकश्चदृश्यतइत्यादिप्रमाणविरोधात् । तथाऽव्य क्तस्यमहत्परत्वश्रवणात् । तदपिप्रधानस्यैवोपपन्नं । महातंचसमावृत्यप्रधानसमवस्थितमित्यादेः। विष्णोरव्यक्तादपिपरत्वात् । जीवानांचदुःखिबद्धत्वादिप्रतीतेः। तच्चविष्णोःप्रमाणविरुद्धं । तस्मादब्यक्तादिशब्दवाच्यं प्रधानाद्येव । यतएवंकेषांचिच्छा खास्वव्यक्तादिशब्दैःप्रधानाद्यवोच्यतेऽतोयत्तत्तुसमन्वयादितिसर्वशब्दानांपरमेश्वराभिधायकत्वमुक्तंतन्नयुज्यतइतिभावः । सि ।
२०.23 । द्धांतांशव्याचष्टे । नेति ॥ यतःपरमात्मैवाव्यक्तादिशब्दवाच्योनप्रधानादि । अतःपरमात्मनएवाच्यक्तादिशब्दवाच्यत्वग्रहणा त् यत्सर्वशब्दानांपरमात्मपरत्वंनयुज्यतइत्युक्ततन्नेत्यर्थः । यस्मिन्समन्वयःप्रतिज्ञातस्तस्यैवेतिस्वपदंपरमात्मनएवेतिव्याख्याते। परमात्मनएवाव्यक्तादिशब्दवाच्यत्वेकथंप्रधानादौतद्व्यवहारः। अवाचकत्वेप्यनभिज्ञानादिनाव्यवहारइत्युक्तमितिचेन्न । तथास त्यवाचकत्वाविशेषेणघटादिशब्दानांपटादौव्यवहारप्रसंगादित्याशंकानिरासायोक्तंशरीररूपकविन्यस्तेति। तद्व्याचष्टे ॥ पारतं व्यादिति ॥ यथाशरीरंपुरुषतंत्रतथापरमात्मतंत्रत्वेनशरीरसमेप्रधानादौस्थितस्येत्यर्थः। नन्वत्रपारतंत्र्याभिप्रायेणप्रधानादेपर मात्मशरीररूपत्वमसूत्रयदितिकुतोज्ञायते शरीरत्वाभिप्रायेणकिनस्यादित्यतआह ॥ प्रत्ययइति ॥ नप्रधानादेःपरमात्म शरीरत्वाभिप्रायेणैतत्पदंप्रायुंक्तसूत्रकारः । यावतातत्कप्रत्ययेनकुत्सयामास । नहिकुत्सनार्हपरमात्मशरीरमितिभावः । अन्य थारूपपदवैयाच्च । शरीररूपकविन्यस्तपदंव्याख्यायतदभिप्रायमाह ॥ परमात्मनएबेति ॥ यद्यपिपरमात्मनएवाव्यक्तादिश ब्दावाचकास्तथापिनप्रधानादौतयवहारायोगः । प्रधानादौपरमात्मनोविन्यस्ततयातत्संबंधेनतत्रापिशब्दप्रवृत्तः । नचवाच्यम् भयोरपिमुख्यवाच्यत्वंविपरीतंवादिनस्यादिति । प्रधानादेभगवतंत्रत्वेनोभयोर्मुख्यवाच्यत्वस्योक्तविपर्ययस्यचायोगादितिभा वः। तदुक्तंगारुडे । एवमेवहिशब्दानांप्रसिद्धिरपिलौकिकी । वाचकत्वंग्रधानस्यत्वितरस्यतदन्वयादिति । नचर्मचादावुक्तव्य भिचार शंकनीयः । समाकर्षादितिवक्ष्यमाणन्यायस्यात्राभिप्रेतत्वेनलक्षणानाश्रयणादिति । अत्रसवेत्राव्यक्तपर्दजीवाद्युपलक्ष णार्थ । ननुपरमात्मनएवाव्यक्तादिशब्दाभिधेयत्वंप्रधानादेस्तुतत्संबंधादेवेतियुज्यते । यदिप्रधानादेरल्पत्वंपरमात्मनःस्वातं MARATHI JHAR R ADS -- त्र्यंप्रधानादिविन्यस्तत्वंचभवेत्तदेवकुतइत्यतआह ॥ तुच्छेथेनेति ॥ अल्पेनाऽव्यक्तेनविभु ब्रह्मापिहितमासीदित्यर्थः । य प्रकाशि० आत्मनितिष्ठन्नित्यादिश्रुत्यंतरंचात्रोदाहर्तव्यं । परमात्मनोऽव्यक्तादिशब्दवाच्यत्वेसिद्धेभवेत्प्राचीनचिंता । तदेवकुतइत्यतो दर्शयति चेतिशब्दाभ्यांसूचितेश्रुतिस्मृतीपठति ॥ अव्यक्तमिति ॥ अचलमीश्वरभावात् । शांतंनिर्विकारं निष्क्रियं अ क्लिष्टकारित्वादेः । आत्मानमादानादेः । यस्याक्षरस्यब्रह्मत्वमुक्ततस्यैवाव्यक्तत्वमुच्यतइत्यर्थः । अनेनजीवेनात्मनेत्यादिश्रुति जीवोविनयितासाक्षीत्यादिस्मृतिश्चोदाहर्तव्या ॥१॥ नन्वस्त्वेवंश्रौतस्मार्तप्रयोगबलेनाव्यक्तादिशब्दानांभगवद्वाचित्वं । तत्र तेषांमुख्यत्वंतुकुतः । प्रयोगस्यामुख्यवाच्येपिसंभवादित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ सूक्ष्ममिति ॥ अव्यक्तत्व स्यैवाव्यक्तशब्दप्रवृत्तिनिमित्तत्वात्कथं सूक्ष्ममेवाव्यक्तशब्देनोच्यतइतितत्राह ॥ तद्धीति ॥ अस्तुसूक्ष्मस्यैवाव्यक्तशब्दप्रवृत्ति निमित्ताव्यक्ततार्हत्वात्तदव्यक्तशब्दवाच्यं । तथापिप्रकृतेकिमायातमित्यतआह ॥ सूक्ष्मत्वंचेति ॥ युक्तंपरमात्मन्यव्यक्तशब्द स्यमुख्यत्वं । तदर्थभूताब्यक्तत्वस्यपरमात्मनिसत्त्वात् । अव्यक्तत्वोपयोगिनःसूक्ष्मत्वस्यतत्रसद्भावात् । नचवाच्यप्रधानस्या पिसूक्ष्मत्वेनाव्यक्तत्वसंभवात्कथमव्यक्तशब्दस्यपरमात्मनिमुख्यतेति । विष्णोरतिसूक्ष्मत्वेनात्यंतमव्यक्तत्वादतिशयेनप्रवृत्तिनि मित्तवत्येवशब्दस्यमुख्यत्वादितिभावः । कुतोविष्णोर्मुख्यसूक्ष्मत्वंयेनतस्यमुख्याव्यक्तत्वमितितत्राह ॥ "यदिति ॥ यत्त ल्लोकोत्तमंनित्यंविष्णोःस्वरूपंपरमसूक्ष्मवेदितव्यंएषोऽणुरात्माचेतसावेदितव्यइत्याद्यामनंति । यच्चपृथग्जनानविदुस्तदेतदु पायसिद्धाज्ञानिनःपश्यंतीत्यर्थः । एवंजीवादिशब्दप्रवृत्तिनिमित्तानांप्राणधारणादीनांभगवतिमुख्यत्वेनतच्छब्दानांतत्रमुख्य त्वंद्रष्टव्यं । तदुक्तं । सजीवनामाभगवानप्राणधारणहेतुतः। उपचारेणजीवाख्यासंसारिणिनिगद्यतइत्यादि । नन्वस्तुविष्णौ मुख्यंशब्दप्रवृत्तिनिमित्तंप्रधानादावपिकिंचिदव्यक्तत्वादिसद्भावादव्यक्तात्पुरुषःपरइत्यादौतद्वाच्यंकिंनस्यादितिचेत् तत्किंप रमात्मनोमुख्यवाच्यत्वमंगीकृत्याऽमुख्यतयान्यस्यापिवाच्यत्वस्यादित्युच्यते उतान्यस्यैव । आद्येनविरोधः । नचोभयार्थ त्वेवाक्यभेदः । प्रधानविशिष्टस्यैवपरमात्मनःशब्दवाच्यत्वाभ्युपगमात् । द्वितीयंनिराह ॥ मुख्येचेति ॥ मुख्यतोऽव्यक्ता दिशब्दार्थवतिविष्णावव्यक्तादिशब्दवाच्यतयासंभवतितत्परित्यागेनामुख्यतःशब्दार्थवतांप्रधानादीनामत्रवाच्यतयाग्रहणंन युक्तं । मुख्यासंभवएवगौणाश्रयणस्यन्याय्यत्वादितिभावः ॥२॥ नन्वस्त्वेवंपरमात्मन्येवाव्यक्तादिशब्दानांमुख्यत्वं । तथा प्यव्यक्तात्पुरुषःपरइत्यादौप्रधानाद्येवोच्यतेनविष्णुः । अव्यक्तादीनांमहत्परत्वस्यपुरुषावरत्वस्यदुःखिबद्धत्वादेश्वश्रवणात् । तस्यचप्रधानादावेवसंभवात् । सर्वप्रमाणविरोधेनपरमात्मन्यसंभवात् । अतोविष्णोर्मुख्यार्थत्वेपितगृहणेपरावरत्वादिश्रुते. रादमुख्यमपिप्रधानादिग्राह्यमित्याशंकांपरिहरत्सूत्रंपठित्वाव्याचष्टे॥ तदेधीनत्वादिति ॥नाव्यक्तादिशब्दैःपरमात्मनोवा च्यत्वग्रहणेपरावरत्वादिश्रुतिनैरर्थ्य येनमुख्यार्थं परित्यज्यामुख्यार्थाभ्युपगतिः। किंनामतस्मिन्नेवावरत्वादिवाचिशब्दजातमर्थ वत् । प्रधानादिगतपरावरत्वादिधर्माणांभगवदधीनत्वात् । अन्यगतशब्दार्थनियंतृत्वंतदधिकरणत्वंचेतिद्विधाहिशब्दप्रवृ त्तिनिमित्तं । तत्रपरमात्मनोनिरनिष्टोनिरवद्यइत्यादिनाऽवरत्वादिदोषात्यस्पृष्टिनियमात्तदन्यथानुपपत्त्यातत्तन्नियामकत्वेनतत्त च्छन्दवाच्यतापातात् । नचतदवाच्यतयान्यथोपपत्तिः । नामानिसर्वाणियमाविशंतीत्यादिश्रुतिविरोधात् । नचसंकोचः । त.न. १२ - प्रकाशि० सर्वाणीत्यस्यनिरवकाशत्वाद्वाधकाभावाच्चेतिभावः । अत्राव्यक्तत्वग्रहणेनाव्यक्तशब्दस्यद्वेधापिपरमात्मनिवृत्तिरितिदर्शयति । अतएवभाष्येचशब्दः अनेनप्रधानादेरतिसूक्ष्मत्वाद्यभावेपिनामुख्यार्थत्वमल्पपंकजेपिपझेपंकजशब्दस्यामुख्यार्थताऽदर्शनादिति शंकाचनिरस्ताभवति । ननुभवेदेतत्प्रधानादिगतशब्दप्रवृत्तिनिमित्तप्रेरकत्वेनेश्वरस्यावरत्वादिशब्दवाच्यत्वं । यद्यन्यगतशब्द प्रवृत्तिनिमित्तप्रेरकेऽसौशब्दोवर्ततइतिसिद्ध्येत्तदेवकुतइतितत्राह ॥ यदधीनइति ॥ यथापरमात्माजीवगतप्राणधारणस्यतद धीनत्वेनाऽनेनजीवेनेत्यादौजीवशब्देनोच्यते । यथाचभृत्यगतजयस्यराजाधीनत्वादसौजयीत्युच्यतइत्यर्थः । नचान्यगतशब्द प्रवृत्तिनिमित्तप्रेरकेशब्दप्रवृत्तिरमुख्या। राजनिविजयिशब्दस्यबहुलप्रयोगात् । यमादौमृत्युप्रमुखशब्दानांचतथात्वात् । बहु लप्रयोगसिद्धस्यैवमुख्यत्वात् । अवरयतीत्यादिव्युत्पत्त्युपपत्तेश्चातथाचश्रुतिः। सबद्धःसदुःखीसबंधयतिसदुःखयतीतिसजीवः साप्रकृतिःसजीवयतिसप्रकरोतिसोऽवरःसोऽनित्यःसोवरयतिसोऽनित्ययतीत्यादिका । एवंप्रयोगप्रवृत्तिनिमित्तातिशयाभ्यांपर मात्मन्येवाव्यक्तादिशब्दानांमुख्यत्वात्। मुख्यार्थस्यैवग्राह्यत्वात्सएवाव्यक्तात्पुरुषःपरइत्यादावुच्यतेनप्रधानादीत्युक्तं ॥३॥ त देवयुक्त्यंतरेणोपपादयत्सूत्रमुपन्यस्यतच्छेपंपूरयति ॥ ज्ञेयत्वेति॥ विष्णोरेवाव्यक्तादिश्रुतिवाच्यत्वंनप्रधानादेः। तमेवैकंजान थआत्मानमन्यावाचोविमुंचथामृतस्यैषसेतुरितिविष्णोरेवमोक्षार्थज्ञयत्ववचनात् । प्रधानादेस्तदभावात्यज्ज्ञानेनमोक्षस्तज्ज्ञाप नएववेदस्यप्रवृत्तत्वादितिभावः । तथाचश्नावयति। नतादृशीप्रीतिरीड्यस्य विष्णोगुणोत्कर्षज्ञातरियाद्दशीस्यात्। तत्प्रीणनान्मो क्षमाप्नोतिसर्वस्ततोवेदास्तत्पराःसर्वएवेति॥४॥ उक्तमाक्षिप्यसमादधत्सूत्रमुपन्यस्याऽऽक्षेपांशंतावद्याचष्टे॥ वदतीति ॥नप्र २०२१ धानस्यमोक्षार्थज्ञेयत्वेवचनाभावः। आनाद्यनंतमहतःपरंधुवंनिचाय्यतंमृत्युमुखात्प्रमुच्यतइतिवचनस्यसद्भावात् । नचवाच्यम प्रधानप्रतिपाद्यंकुतइति । महत्परत्वलिंगादेव। महांतंचसमावृत्यप्रधानसमवस्थितमित्यादेः । पूर्वोक्तरीत्यातदपिविष्णुपरतयाने तुंशक्यमितिचेत्। सत्यम्। अन्यस्यापिवाच्यत्वाभ्युपगमात्प्रधानस्यापिमोक्षार्थज्ञेयत्ववचनात्तस्यापिमुख्यतोवेदवेद्यतेतिभावः। परिहारांशव्याचष्टे ॥ नेति॥नैतद्वाक्यबलेनप्रधानस्यमोक्षार्थज्ञेयत्वमंतव्यं । यतस्तत्र वाक्येपरमात्मैवोच्यतेनप्रधानमित्यर्थः। महतःपरत्वलिंगात्प्रधानमत्रोच्यतइति तत्राह॥ अणोरिति ॥ नन्वणोरणीयानितिश्रुतौसवेस्मात्थूलात्स्थूलत्वमेवीच्यतेनमह त्तत्वपरत्वं ।स्थूलस्यैवाणुप्रतियोगित्वात् । अतोनमहत्परत्वलिंगविष्णौसावकाशमित्यतआह ॥ सर्वस्मादिति॥ सत्यमत्रसर्वस्मा स्थूलात्स्थूलत्वंविष्णोरुच्यतइतितथाप्यनेनमहत्परत्वंचसिध्यतियदाखलुसर्वस्मात्स्थूलात्परस्तदामहत्तत्वपरत्वस्यसुतरांयुक्तत्वा दितिभावः ॥५॥ ननुविशिष्यमहत्परत्वस्यप्रधानलिंगस्यामुख्यार्थतांस्वीकृत्यानाद्यनंतादिवाक्यस्यविष्णुपरत्वग्रहणेकारणाभावा प्रधानमेवात्रोच्यतइत्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ प्रकरणादिति ॥नात्रविष्णुग्रहणेकारणाभावोयेनान्यस्यवाच्यता शंक्येत । एतत्प्रकरणस्यवैष्णवत्वात् एतत्प्रकरणोक्तार्थोपासकस्यविष्णुपदप्राप्त्युत्त्यातदवगमात् अन्यप्रकरणत्वेतदयोगादि तिभावः । नचलिंगात्प्रकरणस्यदौर्बल्येनासाधकत्वं । लिंगस्योक्तरीत्यासावकाशत्वात् प्रकरणस्यनिरवकाशत्वात् । निरव काशप्रकरणस्यापिसावकाशलिंगबाधकत्वोपपत्तेः । नचवाच्यविशिष्यमहत्परत्वलिंगंचप्रधानपरेपरमात्मनिनिरवकाशमिति । प्रधानपरस्यापियोबुद्धे परतस्तुसइत्यादाविवमहत्परत्वोक्तिसंभवात् । पूर्वमहत्परत्वेनपरमात्मनोऽप्रकृतत्वात्प्रधानस्यतदावा तत्व त्तमितिपरामर्शेनैतत्सिद्धमिति उक्तार्थविस्मरणविजूंभितंसाधकमस्माकंनपरस्य । सत्यम् । तद्वदनाप्युभयोक्तिःस्यादितिचेन्न। प्रकाशि० अविरोधएवोभयार्थताभ्युपगमात् । नचप्रकरणस्यापिप्रसंगादन्योक्तिसंभवात्सावकाशत्वेनपुनर्लिगमेवप्रवलमितियुक्त । प्रा संगिकोक्तरत्रप्रयोजनादर्शनात् । अनाद्यनंतमहतःपरंध्रुवमिति परोहिदेवःपुरुहूतोमहत्परइतिश्रुतेश्चेति ॥ ६॥ हेत्वंतरे णानाद्यनंतादिवाक्येऽन्यस्यापिप्रतिपाद्यतांपराकुर्वत्सूत्रमुपन्यस्यव्याचष्टे ॥ त्रयाणामेवेति ॥ नकेवलमेतत्प्रकरणस्यवैष्ण वत्वेनप्रधानस्याप्रतिपाद्यता। किंत्वेतदुपनिषद्यपिपितृसौमनस्यादित्रयस्यैवोपन्यासाच्च । तदेवकुतः। एतत्रयविषयएवनचि केतसःप्रश्नात् । अपृष्टस्यचोपन्यासायोगादितिभावः । त्रयाणामेवोपन्यासइत्युक्तेत्रयेपिप्रधानंकिंनस्यादितिशंकानिरासायैतत्प कारंदर्शयन्नेवमित्याह । तदेवव्याचख्यौ ॥ पितृसौमनस्येत्यादिना ॥ येयंप्रेतेविचिकित्सेत्यादिनामृतजीवस्यास्तित्वादौतृती यप्रश्नस्यप्रवृत्तत्वात्कथंपरमात्मप्रश्नइतिशंकातदाण्यएवपरिहता। ननुपितृसौमनस्यंवरत्वेनप्रार्थ्यतेऽतःकथंप्रार्थनं प्रश्नइत्यतआह॥ अविज्ञातोति ॥ यत्प्राप्स्यतेनवेत्यविज्ञातंतत्प्रार्थनमपिप्रश्नइत्यभिधीयतइतिवचनान्नप्रार्थनस्यापिप्रश्नत्वोक्तिर्विरुद्धेत्यर्थः ॥७॥ यदुक्तविष्णोरेवमुख्यतोऽव्यक्तादिशब्दवाच्यत्वमिति तदयुक्तम् । अव्यक्तादिशब्दानांप्रधानादावेवप्रसिद्धत्वात् । नचवाच्य शब्दप्रवृत्तिनिमित्तस्येश्वरेमुख्यत्वेनतत्रशब्दानामुख्यत्वमुक्तमिति । नहियत्रशब्दःप्रसिद्धस्तत्रामुख्योमुख्यतःप्रवृत्तिनिमित्तव तिमुख्यइतिदृष्टचरमित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ महदचेति ॥ चशब्दोदार्टीतिकसमुच्चयार्थः । युक्तमेवाव्यक्ता दिशब्दानांमुख्यतःपरमात्मवाचित्वं । तत्प्रवृत्तिनिमित्तस्यतत्रमुख्यत्वात् । नचान्यत्रप्रसिद्धत्वविरोधः। महांतविभुमित्यादी ।
- श्रुतमहच्छब्दस्यमहत्तत्त्वप्रसिद्धत्वेपितत्प्रवृत्तिनिमित्तमहत्त्वस्यपरमात्मनिमुख्यत्वेनमुख्यतस्तद्वाचकत्ववदव्यक्तादिशब्दानाम पिप्रधानादौप्रसिद्धत्वेपिप्रवृत्तिनिमित्तस्यहरौमुख्यत्वेनमुख्यत्वोपपत्तेरितिभावः । नचमंतव्यंप्रवृत्तिनिमित्ताधिक्येन मुख्यतः शब्दवाच्यत्वाभावेपिदृष्टांतोस्ति । अतिसहनवतिपुरुषेसिंहशब्दस्यामुख्यत्वादिति । नह्यस्माभिःप्रवृत्तिनिमित्ताधिक्यमात्रेणश ब्दस्यमुख्यतःपरमात्मवाचित्वमुच्यते किंतुसिद्धेपरमात्मवाचित्वेमुख्यत्वमात्रस्यतेनसाधनादिति ॥८॥ ननुभवेदियमव्यक्तादिश ब्दानांपरमात्मनिमुख्यत्वचिंता। यदितेषांतद्वाचित्वमेवभवेत् । नचतद्युक्तं तेषामन्यत्रैवप्रसिद्धत्वात् । नचाव्यक्तमचलमित्यादि प्रयोगात्तद्वाचित्वावगमइति । वृत्त्यंतरेणापिप्रयोगोपपत्तेः । नचयोगयुक्तप्रयोगेणतन्निश्चयः। सहनवतिपुंसिप्रयुक्तस्यापिसिंह शब्दस्यतदवाचकत्वेनदर्शनात् । अतःप्रसिद्धेरेववाचकताऽध्यवसायकत्वात्तस्याश्चप्रधानादावेवसत्वान्नाव्यक्तादिशब्दाविष्णुवा चकाःकिमुमुख्याइत्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ चमसवदिति ॥ अव्यक्तादिशब्दाःपरमात्मवाचकाभवत्येव । नामा निसर्वाणीतितस्याशेषशब्दवाच्यत्वश्रुतेः । नचान्यत्रप्रसिद्धिविरोधः । यथाखलुचमसशब्दोयज्ञपात्रेप्रसिद्धोपिश्रुतिबलेनशिरो वाचकस्तथाऽव्यक्तादिशब्दानांप्रधानादौप्रसिद्धानामपिश्रुतिबलेनविष्णुवाचकत्वनिश्चयात् । नचवक्तव्यंप्रयोगमात्रस्यवृत्त्यंतरे णापिसंभवान्नचमसशब्दःशिरोवाचकइति । अभिधानादाविवानुशासनरूपत्वात् । नहिगोण्यादिवृत्तीनामनुशासनमस्ति । अ न्यथाकलशकरीरादिशब्दानामनुशासनसिद्धानांघटाद्यवाचकत्वप्रसंगात् । अथापिस्यात् । अनुशासनरूपत्वाच्छृतिबलेनचमस शब्दस्यशिरोवाचकत्वेपिनतथाऽव्यक्तादिशब्दानांपरमात्मवाचित्वं । नामानीतिप्रयोगस्यवृत्त्यंतरेणापिसंभवादिति । मैवं । ना : - - तत्व त्तमितिपरामर्शेनैतत्सिद्धमिति उक्तार्थविस्मरणविज॑भितंसाधकमस्माकंनपरस्य । सत्यम् । तद्वदत्राप्युभयोक्तिःस्यादितिचेन्न। प्रकाशि० अविरोधएवोभयार्थताभ्युपगमात् । नचप्रकरणस्यापिप्रसंगादन्योक्तिसंभवात्सावकाशत्वेनपुनर्लिंगमेवप्रबलमितियुक्तं । प्रा संगिकोक्तेरत्रप्रयोजनादर्शनात् । अनाद्यनंतमहतःपरंध्रुवमिति परोहिदेवःपुरुहूतोमहत्परइतिश्रुतेश्चेति ॥६॥ हेत्वंतरे णानाद्यनंतादिवाक्येऽन्यस्यापिप्रतिपाद्यतांपराकुर्वत्सूत्रमुपन्यस्यव्याचष्टे ॥ त्रयाणामेवेति ॥ नकेवलमेतत्प्रकरणस्यवैष्ण वत्वेनप्रधानस्याप्रतिपाद्यता। किंत्वेतदुपनिषद्यपिपितृसौमनस्यादित्रयस्यैवोपन्यासाच्च। तदेवकुतः। एतत्रयविषयएवनचि केतसःप्रश्नात् । अपृष्टस्यचोपन्यासायोगादितिभावः । त्रयाणामेवोपन्यासइत्युक्तेत्रयेपिप्रधानंकिंनस्यादितिशंकानिरासायैतत्प कारंदर्शयन्नेवमित्याह । तदेवव्याचख्यौ ॥ पितृसौमनस्येत्यादिना । येयंप्रेतेविचिकित्सेत्यादिनामृतजीवस्यास्तित्वादौतृती यप्रश्नस्यप्रवृत्तत्वात्कथंपरमात्मप्रश्नइतिशंकातद्भाष्यएवपरिहता। ननुपितृसौमनस्यंवरत्वेनप्रार्थ्यतेऽतःकथंप्रार्थनंप्रश्नइत्यतआह।। अविज्ञातति ॥ यत्प्राप्स्यतेनवेत्यविज्ञातंतत्प्रार्थनमपिप्रश्नइत्यभिधीयतइतिवचनान्नप्रार्थनस्यापिप्रश्नत्वोक्तिर्विरुद्धेत्यर्थः ॥७॥ यदुक्तंविष्णोरेवमुख्यतोऽव्यक्तादिशब्दवाच्यत्वमिति तदयुक्तम् । अव्यक्तादिशब्दानांप्रधानादावेवप्रसिद्धत्वात् । नचवाच्य शब्दप्रवृत्तिनिमित्तस्येश्वरेमुख्यत्वेनतत्रशब्दानांमुख्यत्वमुक्तमिति । नहियत्रशब्दःप्रसिद्धस्तत्रामुख्योमुख्यतःप्रवृत्तिनिमित्तव तिमुख्यइतिदृष्टचरमित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ महईचेति ।। चशब्दोदाष्टातिकसमुच्चयार्थः । युक्तमेवाव्यक्ता दिशब्दानांमुख्यतःपरमात्मवाचित्वं । तत्प्रवृत्तिनिमित्तस्यतत्रमुख्यत्वात् । नचान्यत्रप्रसिद्धत्वविरोधः। महांतविभुमित्यादौ - श्रुतमहच्छब्दस्यमहत्तत्त्वप्रसिद्धत्वेपितत्प्रवृत्तिनिमित्तमहत्त्वस्यपरमात्मनिमुख्यत्वेनमुख्यतस्तद्वाचकत्ववदव्यक्तादिशब्दानाम पिप्रधानादीप्रसिद्धत्वेपिप्रवृत्तिनिमित्तस्यहरौमुख्यत्वेनमुख्यत्वोपपत्तेरितिभावः। नचमतव्यंप्रवृत्तिनिमित्ताधिक्येन मुख्यतः शब्दवाच्यत्वाभावेपिदृष्टांतोस्ति । अतिसहनवतिपुरुषेसिंहशब्दस्यामुख्यत्वादिति । नह्यस्माभिःप्रवृत्तिनिमित्ताधिक्यमात्रेणश ब्दस्यमुख्यतःपरमात्मवाचित्वमुच्यते किंतुसिद्धेपरमात्मवाचित्वेमुख्यत्वमात्रस्यतेनसाधनादिति ॥८॥ ननुभवेदियमव्यक्तादिश ब्दानांपरमात्मनिमुख्यत्वचिंता। यदितेषांतद्वाचित्वमेवभवेत् । नचतयुक्तं तेषामन्यत्रैवप्रसिद्धत्वात् । नचाव्यक्तमचलमित्यादि प्रयोगात्तद्वाचित्वावगमइति । वृत्त्यंतरेणापिप्रयोगोपपत्तेः । नचयोगयुक्तप्रयोगेणतन्निश्चयः। सहनवतिपुंसिप्रयुक्तस्यापिसिंह शब्दस्यतदवाचकत्वेनदर्शनात् । अतःप्रसिद्धेरेववाचकताऽध्यवसायकत्वात्तस्याश्चप्रधानादावेवसत्वान्नाव्यक्तादिशब्दाविष्णुवा चकाःकिमुमुख्याइत्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ चमसवैदिति॥ अव्यक्तादिशब्दाःपरमात्मवाचकाभवत्येव । नामा निसर्वाणीतितस्याशेषशब्दवाच्यत्वश्रुतेः । नचान्यत्रप्रसिद्धिविरोधः । यथाखलुचमसशब्दोयज्ञपात्रेप्रसिद्धोपिश्रुतिबलेनशिरो वाचकस्तथाऽव्यक्तादिशब्दानांप्रधानादौप्रसिद्धानामपिश्रुतिबलेनविष्णुवाचकत्वनिश्चयात् । नचवक्तव्यंप्रयोगमात्रस्यवृत्त्यंतरे णापिसंभवान्नचमसशब्दःशिरोवाचकइति । अभिधानादाविवानुशासनरूपत्वात् । नहिगौण्यादिवृत्तीनामनुशासनमस्ति । अ न्यथाकलशकरीरादिशब्दानामनुशासनसिद्धानांघटाद्यवाचकत्वप्रसंगात् । अथापिस्यात् । अनुशासनरूपत्वाच्छुतिबलेनचमस शब्दस्यशिरोवाचकत्वेपिनतथाऽव्यक्तादिशब्दानांपरमात्मवाचित्वं । नामानीतिप्रयोगस्यवृत्त्यंतरेणापिसंभवादिति । मैवं । ना ।
तत्व .. मानिसर्वाणीतिश्रुतेरप्यनुशासनरूपत्वेतच्छुतेरविशेषात् । तद्वदस्याप्यनुशासनरूपत्वात् । नचात्राव्यक्तादिशब्दाश्रवणदोषः। प्रकाशि० सर्वशब्दसद्भावात् । संकोचेकारणाभावादितिभावः । अर्वाग्विलश्चमसऊर्ध्वबुध्नइतिव्याख्येयमंत्रेयदुक्तंतदिदंप्रतीयमानंशिरः कुतः । एषयर्वाग्विलश्चमसऊर्ध्वबुध्नइत्यर्थः एषइतिचमसविवक्षया। दक्षिणानंवनुतेयोनआत्मेतिवत् बिलंमुखादि । तस्मादव्य २०१० तादिशब्दवाच्योहरिभवत्येवेतिसर्वशब्दवाच्यत्वंतस्यैवोपपन्नमितिसिद्धं ॥ ९॥ अ० १॥ अत्रकर्मक्रमादिलोपप्रसंगेनकर्मतदं गेष्वेवप्रसिद्धानांज्योतिष्टोमादिसर्वशब्दानांभगवतिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । श्रुत्यादिसंगतिविषयादिकंचसू चयति ॥ वसंतइति ॥ तत्तुसमन्वयादितिसर्वशब्दानांपरमात्मवाचकत्वमुक्तं । सर्वमध्यपतिताज्योतिरादिशब्दाःश्रुतिषुपठ्यते तेषांचान्यपरत्वे नविष्णोःसर्वशब्दवाच्यतासिध्येदित्यवश्यंनिर्णेयता। तज्ज्योतिरादिशब्दवाच्यविषयः । किंविष्णुरन्यद्वेतिसं देहः । समन्वयसूत्रमन्यत्रैवप्रसिद्धिश्चसंदेहबीजं । तत्रज्योतिरादिशब्दवाच्योनविष्णुरितिपूर्वःपक्षः। तस्यज्योतिष्टोमादिकमत दंगाभिधायकत्वेनप्रसिद्धत्वात् । तत्प्रसिद्धिंचापहायपरमात्मवाचित्वांगीकारेकालकर्मक्रमाधिकारिनियोज्ययजमानफलऋत्वि गाद्यभिधायकाभावेनतदभावाख्यविरोधापातात् । नहितत्प्रमाणांतरेणसिध्यति । तथाचविहितानुष्ठानलोपप्रसंगः । किं चज्योतिरादिसर्वशब्दवाच्यत्वंपरमात्मनोयोगेनैववाच्यं । रूढेरभावात् । ततोगुणपूर्त्यसिद्धेश्च । नचयोगमात्रेणरूढार्थापहा रोयुज्यते । अभ्युपेत्यैवचेदमुदितं । नयोगोपिसंभवति । ज्योतिषांस्तोमइत्यादिरूपाहिज्योतिष्टोमादिशब्दव्युत्पत्तिः। क थमसौस्तोमादिशब्दानामन्यपरत्वानभ्युपगमेसंभवेत् । अन्यथाभगवन्नामावृत्तिमात्रत्वप्राप्तेः । स्तोमादिशब्दानामन्यपर त्वाभ्युपगमेकिंज्योतिष्टोमादिशब्दरेवविशेषतोपराद्धं । नचवाच्यंपरमात्मसंबंधेनान्यत्रापिशब्दवृत्तिरभ्युपगतेति । तथासति लोकेलक्षणेतरवृत्त्यभावप्रसंगात् । अतोनज्योतिरादिशब्दजातस्यपरमात्मवाचित्वंयुक्तमिति नसमन्वयसूत्रंयुक्तमितिभावः । सिद्धांतयत्सूत्रमवतार्यव्याचष्टे ॥ अतइति ॥ ज्योतिष्टोमादिकर्मतदंगवाचकत्वेनप्रसिद्धज्योतिरादिशब्दाभिधेयोहरिरेव । यस्मादेकेशाखिनस्तावाएताइति तथा सर्वशब्दाभिधेयत्वेनहरिमेवाधीयते । नचशब्दानांभगवत्परत्वेवृत्त्यभावः । एषइ मंलोकमभ्यार्चदित्यादिनाशतादिशब्दानांपरमात्मनियोगस्योक्तत्वात् । नचशब्दानामन्यत्ररूढत्वेनयोगांगीकारायोगः । तस्माच्छतर्चिनइत्याचक्षतएतमेवसंतमितियोगेनरूढेरपहारोक्तः । एतमेवपरमात्मा मुख्यतोयौगिकार्थसंतंशतादिनामभि राचक्षते नतुमुख्यतोरूढत्वेपिमुनीनितिप्रतीतेः । यद्यपिपंकजादिशब्देयोगापहारित्वंरूढेई श्यते तथाप्यत्राचक्षतइतिविद्वद्रू ढिसहितत्वेनोक्तयोगस्यरूड्यपहारित्वंयुक्तमेव । अतोहरेःकर्माभिधायकशब्दवाच्यत्वाद्युक्तंसमन्वयसूत्रमितिभावः । ज्योतिः शब्दस्याऽप्रथमपठितत्वेपिप्रधानकर्माभिधायकत्वात्तस्यैवान्योपलक्षकत्वसंभवाच्चसंग्रहः । तुशब्दएवार्थे । यास्ताएताःसवा ऋचस्तासामेकमेवव्याहर्तव्यंतच्चविष्णुरेव । किंचयेसर्वेवेदास्तेषामपीश्वरएवप्रतिपाद्यःकिमृचां। अपिच येसमुद्रादिघोषास्ते षामपिकिमुवेदानां तत्रर्चस्तुविशेषतःपरमात्मप्रतिपादिकाइतिजानीयादित्यर्थः ॥ १०॥ ननुकथंज्योतिरादिशब्दवाच्यत्वंपर मात्मनःसंभवति । कर्मक्रमादिविरोधात् व्युत्पत्त्यसंभवाच्चेत्याशंकामपनुदत्सूत्रमुपन्यस्यव्याचष्टे ॥ कल्पनेति ॥ सर्वश ब्दानांपरमात्मवाचित्वेपिनकर्मक्रमादिविरोधोव्युत्पत्त्ययोगोवा । यथाखलुमधुविद्यायामसौवाआदित्योदेवमध्वित्यादिनामध्वा तत्व दिपदार्थतयापरमात्मोपासनोपदेशेऽपिनलोकिकमध्वादिवाचकाभावेनतदभावविरोधः। अन्यत्ररूढिमनिवार्येवमहायोगवृत्त्या प्रकाशि० मध्वादिशब्दानामीश्वरादौवृत्त्यभ्युपगमात् । एवंसर्वशब्दवाच्यत्वेपरमात्मनोऽभ्युपगतेपिनकर्मादिविरोधः । ज्योतिरादि शब्दानामन्यत्ररूढिर्योगोयोगरूढीरूढोपचारोरूढलक्षणोपचारोलक्षणेतिवृत्तीरभ्युपेत्यमहायोगवृत्त्येश्वरवाचित्वाभ्युपगमात् । सर्वशब्दवाच्यत्वमीश्वरस्थचोपासनार्थमेवापदिश्यतेप्राणऋचइत्येवविद्यादित्यादेः। उपासनाचमहायोगवृत्त्यासर्वशब्दार्थगुणव त्वेनैवनतुसंकेतमात्रेणेतिभावः । चशब्दएवार्थः । विरोधश्चनेतिवा प्रयोगमात्रबाहुल्यरूढिः । यथाघटादिशब्दानांकुंभादौ प्र वृत्तिनिमित्तमात्रमपेक्ष्यवृत्तियोगः । यथाधूमध्वजादिशब्दानामन्यादौ । प्रवृत्तिनिमित्तंप्रयोगबाहुल्यंचयोगरूढिः । यथापंकजा दिशब्दानांपादौ । मुख्यार्थस्यशब्दप्रवृत्तिनिमित्तातिरिक्तगुणयोगेनवृत्तिरुपचारः। तत्रचप्रयोगबाहुल्यंरूढोपचारः। यथा लिखितसिंहादौसिंहादिशब्दानां । वाच्यार्थानुपपत्त्यायोग्येऽवाच्येवृत्तिलक्षणा तत्रचप्रयोगबाहुल्येरूढलक्षणा। यथाग्रामोगच्छ तीत्यत्रग्रामसंबंधिपुरुषेयामशब्दस्य । उपचारमात्रंयथाऐंगल्यादियुतेमाणवकेऽग्निशब्दस्य । लक्षणामात्रयथा नदीशब्दस्यतीरे। एताःवृत्तयोलोके। हरौतुमहायोगोमहारूढियोगश्च । तत्रतदितरत्रप्रसिद्धशब्दानांमहायोगः। निरतिशयप्रवृत्तिनिमित्तसद्भावात् तदेकनिष्ठानांमहारूढियोगः । नारायणादिशब्दानां तत्रबहुप्रयोगयुक्तत्वान्निरतिशयप्रवृत्तिनिमित्तसद्भावाच्च । स्तंभादिशब्दा नांहरीविद्वद्रूढिसद्भावेपिसार्वजनीनताऽभावेनाऽमहत्वात्तद्भेदः । अतःकर्मतदंगवाचिशब्दवाच्योहरिरितिसिद्धं ॥११॥ अ० २ अत्राधाराधेयत्वादिलिंगेनान्यत्रैवप्रसिद्धानांपंचजनादिशब्दानांहरौसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । समन्वयसूत्रेस वंशब्दानांपरमात्मपरत्वमुक्तं । सर्वांतर्गताश्चपंचजनादिशब्दावाजसनेयकेश्रूयते । यस्मिन्पंचपंचजनाआकाशश्चप्रतिष्ठितः। तमेवमन्यआत्मानंविद्वान्ब्रह्मामृतोमृतमिति । सर्वशरीरेष्वनुवृत्त्यर्थपंचपंचजनेति । तद्वाच्यविष्णोरन्यच्चेत्तहिंसमन्वयसूत्रानु पपत्तिरित्यवश्यंनिर्णेतव्यं । तत्पंचजनादिशब्दवाच्यंविषयः । विष्णुरन्यद्वेतिसंदेहः । समन्वयसूत्रमन्यत्रैवप्रसिद्धिश्चसंदेह बीजं । नपंचजनादिशब्दवाच्योविष्णुरितिपूर्वःपक्षः । तच्छन्दस्यबहुत्वसंख्याविशिष्टवस्तुवाचित्वात् । बहुत्वस्यचेश्वरेविरुद्ध त्वात् । एकमेवाद्वितीयमित्यादिश्रुतेः । नचस्वस्यबहुत्वाभावेप्यन्यगतबहुत्वस्यतदधीनत्वेनबहुत्वसंख्यावाचिशब्दवृत्तिः । व शीकृतबहुजनेपिराजनितददर्शनात् । अवरादिशब्दवदन्यत्रादृष्टत्वेपिवृत्तिःकिनस्यादितिचेन्न । तत्रहत्वंतरेणसिद्धायांवृत्तौनि मित्तमात्राश्रयणात् । नचानास्तितादृशंनियामकं । नचसर्वेवेदाइतिश्रुतिर्नियामिका । तस्याःसंकोचसंभवात् । ऋतंपिवंतावि त्यादाविवस्वगतभेदशून्यस्यापिपरमात्मनोबहुरूपत्वेनबहुत्वोक्तिःकिंनस्यादितिचेन्न । प्रतिशरीरमात्मांतरात्मवद्वहुत्वेमानाभा वात् । यस्मिन्नितिसप्तम्यानिर्दिष्टस्यवाक्यशेषबलेनपरमात्मत्वाचनतदाधेयानांपंचजनाकाशानांपरमात्मत्वं । नोकस्यैवाधारा धेयभावोयुज्यते । हरेराधेयत्वंचनास्ति किमुविरुद्धं स्वाधारत्वं । अतस्तस्थपंचजनादिशब्दवाच्यताऽसंभवान्नयुक्तंसमन्वयसूत्र मिति । एवंप्राप्ते सिद्धांतयत्सूत्रमुपन्यस्यव्याचष्टे ॥ नेति ॥ अपिपदेनपूर्वसूत्राद्विरोधपदाकर्षणं । युक्तमेवपंचजनाकाशशब्द वाच्यत्वंभगवतः । स्वगतभेदशून्यस्यापिनानारूपत्वेनबहुत्वसंख्योपसंग्रहाविरोधात् । नचप्रतिशरीरंपरमात्मनोबहुरूपत्वम प्रामाणिकं । शरीरांतर्गताकाशप्राणादिपंचजननियामकत्वेनतेषुनानाभावस्यन्यायप्राप्तत्वात् । नचयस्मिन्नित्याधारस्यविष्णुत्वा
पंचजनादीनामाधेयानामविष्णुत्वं । आकाशादिगतरूपेभ्योऽतिरिक्तस्यशरीरनियामकरूपस्यतत्रोक्तेः । शरीरनियामकेश्वराधा प्रकाशि०
राकाशादिषुभगवतोऽवस्थानमात्रेणाधाराधेयभावोपियुज्यते । अतःपरमात्मनःपंचजनादिशब्दवाच्यत्वाद्युक्तंसमन्वयसूत्रमि
तिभावः ॥ १२ ॥ ननुभवेदियंबहुत्वादिसंभवविषयाचिंता यदिपंचजनादीनांविष्णुवेभवेद्विशेषहेतुः नचासावस्ति । श्रुत्यंतरा
णांसाधारणत्वात् । अतोबहुत्वादिसंभवेपिनपंचजनादिशब्दवाच्योहरिरित्याशंकांपरिहरत्सूत्रमवतार्यव्याचष्टे॥ पंचेति ॥ पंच
जनलिंगोत्स्योक्तशंकांपरिहर्तुपंचजनस्वरूपमाहसूत्रकारइतिसंबंधभाष्यार्थः। एतेपंचजनास्तावत्प्राणादीनांप्राणत्वादिप्रदाप्राण
स्यप्राणमितिवाक्यशेषात् । प्राणादीनांप्राणत्वादिप्रदत्वंभगवतएवसंभवति । यच्छ्रोत्रस्यश्रोत्रंमनसोमनोयद्धाचोहवाचंसउधाण
स्यप्राणश्चक्षुषश्चक्षुरितिश्रुतेः । अतोभगवलिंगसद्भावात्तस्यैवपंचजनत्वमितिभावः ॥ १३ ॥ ननुवाक्यशेषोक्तानांप्राणादीनां
विष्णुत्वेपिनपंचजनानांविष्णुत्वं । वाक्यशेषेचतुर्णामेवोक्तत्वेनतस्यपूर्ववाक्यतोभिन्नार्थत्वादित्याशंकांपरिहरत्सूत्रंपठित्वाव्या
चष्टे ॥ज्योतिषेति ॥ नवाक्यशेषेचतुर्णामेवोक्तिः । माध्यंदिनशाखायांपंचजनानामप्युक्तेः । काण्वानांशाखायामन्नस्यान्न
त्वप्रदातृरूपेतत्रैवाऽकथितेसत्यपियस्मादाक्संवत्सरोहोभिःपरिवर्ततेतद्देवाज्योतिषांज्योतिरायुर्योपासतेमृतमितिकिंचिदूरोक्तेन
ज्योतिषांज्योतिषापंचत्वसंभवात् ॥ अतोवाक्यशेषस्यभिन्नार्थत्वाभावात्तहलेनयुक्तंपंचजनानांविष्णुत्वमितिभावः । अत्रज्योतिर
नशब्दयोरेकार्थत्वंपृथक्पंचकवेत्युपपन्न । अतोबहुत्वसंख्याविशिष्टवाचिशब्दवाच्योहरिरेवेतिसिद्धं ॥१४॥अ०॥३॥ अनोत्पत्ति
मत्वलिंगेनान्यत्रैवप्रसिद्धानामाकाशादिशब्दानांपरमात्मनिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । समन्वयसूत्रेसर्वशब्दा ॥ ७१॥
नांपरमात्मवाचित्वमुक्त। सर्वमध्यपतिताश्चाकाशादिशब्दास्तैत्तिरीयादिश्रुतौपठ्यंते आत्मनआकाशःसंभूतः आकाशाद्वायुःवायो रग्निः अग्नेरापः अद्भ्यःपृथिवी पृथिव्याओषधयः ओषधीभ्योन्नम् अन्नात्पुरुषइति। तद्वाच्यस्यविष्णोरन्यत्वे नतस्याशेषशास्त्रयो नित्वंसंभवतीत्यवश्यंनिर्धार्यता । तदाकाशादिशब्दवाच्यंविषयः । विष्णुरन्यद्वेतिसंदेहः । समन्वयसूत्रमन्यत्रैवप्रसिद्धिश्वसंदेह बीजं । नविष्णुरितिपूर्वःपक्षः । आकाशादीनामात्मादिकार्यत्वश्रवणात् । परमात्मनश्चकार्यत्वायोगात् । नजायतेनियतइत्यादेः। यदातुभगवतिकार्यत्वमेवायुक्तंतदास्वस्यैवकार्यकारणभावोलोकेप्यसंभावितोनितरांविरुद्धःस्यात् । नचाकाशादिसंभवस्यतदधी नत्वेनसंभूतशब्दोपपत्तिः । सुतोत्पत्तीजनकेजातशब्दप्रयोगादर्शनात् निमित्तविशेषादर्शनाच्च वाक्ययोजनानुपपत्तेश्च । तस्मा दात्मशब्दोदितस्यमुख्यकारणस्यैवविष्णुत्वंनत्ववांतरकारणानामाकाशादीनामितिनसमन्वयसूत्रंयुक्तमिति । एवंप्राप्तेसिद्धांतय सूत्रमवतारयति ॥ अवांतरेति ॥ एतत्पूर्वपक्षनिरासायावांतरकारणत्वेनविष्णुरेवाकाशादिशब्दैरुच्यतइतिसूत्रकारोवतीत्य र्थः । सूत्रव्याचष्टे ॥ आकाशादिष्विति ॥ नकेवलंमूलकारणवाचकात्मशब्दवाच्योहरिरपितु कार्यत्वेसतिकारणमवांतरका रणंतद्वाचकाकाशादिशब्दवाच्यश्च । नचकार्यकारणभावविरोधः। आकाशादिषुतस्यस्थितत्वात् । यआकाशेतिष्ठन् । योवा यौतिष्ठन् । यस्तेजसितिष्ठन् । योऽप्सुतिष्ठन् । यःपृथिव्यांतिष्ठन् इत्यादिनाकाशादिषुस्थितत्वोक्तेः। नचतत्रापिविष्णुःकुतइति वाच्यं । यथासयोतोश्रुतइत्यादौविष्णुरविदितत्वादिरूपेणव्यपदिष्टस्तादृशस्यैवाकाशादिषुयमाकाशोनवेदेत्यादिनोक्तत्वात् । तथाचाकाशाद्युत्पत्तावाकाशाद्यंतर्गतत्वेनभगवतोऽभिव्यक्त्यावाय्वादिगतस्वरूपाभिव्यक्तिहेतुत्वेनचावांतरकारणत्वमुपपन्नं। अ तत्व तोऽवांतरकारणाभिधायकशब्दवाच्यत्वाद्विष्णोर्युक्तंसमन्वयसूत्रमितिभावः । स्थितस्तच्छन्दैरुच्यतइतिशेषः । नचवक्तव्यम | प्रकाशि० स्त्वेवभवांतरकारणत्वंविष्णोर्युक्त तथापितच्छब्दवाच्यत्वेविशेषहेतुर्वाच्यइति । नामानिसर्वाणीत्याद्युक्तरीत्यापरमात्मनिसिद्धेऽ खिलशब्दसमन्वयेतत्रप्रतीतविरोधाभासनिरासेनैवसूत्रकृतश्चरितार्थत्वात् । यत्तु(युक्ति) विशेषंचवक्तिसत्वधिकोलाभः । (समा कर्षाधिकरणेभिन्नाधिकरणपक्षेपाठस्तुसत्वधिकोलाभः)। अतोऽवांतरकारणवाचिनामपिशब्दानांपरमात्मपरत्वाद्युक्तंसमन्वयसू त्रमितिसिद्धं ॥ १५॥ अ० ४ ॥ अत्रव्यवहारविलोपप्रसंगेनान्यत्रैवप्रसिद्धानांसर्वशब्दानांपरमात्मैकवाचित्वसमर्थनादस्तिशा स्वादिसंगतिः । समन्वयसूत्रेसर्वेषांशब्दानांभगवद्वाचित्वमुक्तं तच्चानुपपत्तिग्रस्तत्वेऽसत्स्यादित्यारंभणीयमेतत् । लौकिकावैदि काश्चशब्दाविषयाः। भगवदेकवाचिनोनवेतिसंदेहः । पूर्वोक्तमेवसंदेहबीजं । पूर्वपक्ष(माह)यति ॥ सर्वेति ॥ [अथपुनःप्रका रांतरेणपरमात्मनिसर्वशब्दसमन्वयासंभवमाशंक्यतत्परिहारत्वेनसूत्रमवतारयति ॥ सर्वेति ॥ यदुक्तंसर्वशब्दानांपरमात्मैक वाचित्वंतदयुक्तं । तथात्वेऽन्यत्रव्यवहाराभावापातात् । यदपिसाक्षादप्यविरोधमित्युक्तमस्यसमाधानंतदयुक्त । अवाचकैर्व्य वहारेऽव्यवस्थापातात् । यदप्यत्रोक्तंशरीररूपकविन्यस्तेतीश्वरसंबंधादन्यत्रशब्दप्रवृत्तिरितितदपिनसाधु । तथासतिलोकेलक्ष णेतरवृत्त्यभावापत्तेः । यत्तुकल्पनोपदेशादित्यत्ररूढ्याद्यभ्युपेत्यसमाधानंतदपिनशोभांबिभर्ति । तथासत्यन्यस्यापिमुख्यवाच्य त्वप्रसंगेनपरमात्मनएवमुख्यवाच्यत्वमितिप्रतिज्ञाव्याघातात् । योगरून्योरेवमुख्यवृत्तित्वात् । नाक्षादिशब्दानांरूढ्यादिनैवाने कवाचिनांवचिन्मुख्यताक्कचिन्नेत्यस्ति । अतःसर्वशब्दानांमुख्यवृत्त्यापरमात्मैकवाचित्वेऽन्यत्रव्यवहारलोपापातात् तस्यचा - निष्टत्वान्नपरमात्मैवमुख्यतःसर्वशब्दवाच्यइति (शंकार्थः)। सूत्रंब्याचष्टे ॥ परमात्मेति ॥ सिद्धांतयत्सूत्रमवतार्यब्याचष्टे ॥ अतइति ॥ नपरमात्मनोमुख्यतःसर्वशन्दवाच्यत्वेऽन्यत्रव्यवहारलोपः । तत्ररूढ्यादेरभ्युपगमात् । तथासत्युभयोर्मुख्यवाच्य त्वंप्राप्तमिति चेन्मैवं । भवेदेतद्यद्यक्षादिशब्दवदुभयनान्योन्यनिरपेक्षाशब्दप्रवृत्तिः । नचैवं । किंतुस्वतोमुख्यवृत्त्यापरमात्मैक वाचिनांशब्दानांव्यवहारसिद्ध्यर्थततःसमाकृष्यान्यत्ररूढत्वेनसंकेतितत्वात् । अल्पप्रवृत्तिनिमित्तानांचतदधीनत्वादितिभावः। अन्योन्यनिरपेक्षतयैवकुतोनशब्दवृत्तिरित्यतःस्मृतेरेवेत्याह ॥ परस्येति ॥ लोकवेदानुसारतइति । लौकिकवैदिकव्यवहारसि द्ध्यनुसारतः । नचप्राचीनसूत्रविरोधः । प्रथमसुत्रेस्वातंत्र्येणवाच्यत्वाभावस्याभिप्रेतत्वात् । द्वितीये परमात्मसंबंधोक्याऽत्रो क्तस्यैवाभिसंहितत्वात् । तृतीयेचाविवेचितरूढ्यादिमात्राभ्युपगतेः । अत्रपुनस्तस्यैवविवेचनादिति ॥ १६॥ यदिशब्दाःपरमा त्मन्येवमुख्याःअन्यत्रतुततःसमाकृष्यसंकेतितत्वेनामुख्यास्तहितेषांमुख्यार्थेपरमात्मन्येवप्रसिद्धिःस्यान्चत्वमुख्यार्थेजगति । अग्नि शब्दस्यमाणवकेप्रसिद्ध्यदर्शनात् । अस्तिचासौजगति । अतस्तदन्यथानुपपत्त्याऽन्यस्यैवमुख्यवाच्यत्वमितिभावेनाशंकते तहीति ॥ तत्परिहारत्वेनुसूत्रंपठित्वाव्याचष्टे ॥ जगदिति॥ नासिङ्ख्यन्यथानुपपत्त्याऽन्यस्यैवमुख्यवाच्यत्वंकल्प्यं । लोकस्य जगत्येवशब्दव्यवहारेणतत्रैवतच्छ्रोतृणांव्युत्पत्तः। परमात्मनितथाबहुलव्यवहाराभावेनव्युत्पत्त्यभावाच्च । जगतिप्रसिद्धेरन्यथो पपत्तेः । अग्निर्माणवकइतिव्यवहारादनवगताग्निशब्दमुख्यार्थस्यमाणवकेऽग्निशब्दव्युत्पत्तिसंभवादितिभावः ॥ १७ ॥ विष्णोरेवमुख्यतःशब्दार्थत्वमाक्षिप्यसमादधत्सूत्रमुपन्यस्याऽऽक्षेपांशतावयाचष्टे ॥ जीवेति ॥ यदुक्तंविष्णोरेवसर्वशब्दमु २११२२ त.प्र. १३ तत्व ख्यार्थत्वमितितदयुक्त । सर्वपदार्थानांपरमात्माधीनत्वादेवहिसर्वशब्दमुख्यार्थत्वंतस्थोतंतच्चसर्वस्थतद्धीनत्वाख्यलिंगजीवमु प्रकाशि० ख्यप्राणयोरप्यस्ति । अस्थयदैकांशाखामितिश्रुतौवृक्षादीनांजीवाधीनत्वावगमात् । वायुनेतिश्रुतौचसर्वस्यमुख्यप्राणाधीनत्वा वगतेः । अतस्तयोरपिमुख्यवाच्यत्वं । नचवक्तव्यप्रयोगेसत्येवनिमित्तानुसरणनतुनिमित्तमात्रेणवाच्यत्वकल्पनामिति । निमित्त सद्भावेनव्यवहारापादनस्यैव(वा)न्याय्यत्वेनवाच्यत्वकल्पनेवाधकाभावादितिभावः । परिहारांशंव्याचष्टे । नेति ॥ नसर्वस्य जीवमुख्यप्राणाधीनत्वलिंगेनतयोमुख्यवाच्यत्वंकल्प्यं । तल्लिंगाभिधायक श्रुतीनांतदंतर्यामिभगवत्संबंधितयाव्याख्यातत्वात् । यद्यद्विभूतिमत्सत्त्वंश्रीमदूर्जितमेववा। तत्तदेवावगच्छत्वंममतेजोऽशसंभवमित्यादेश्च । तथाचतल्लिंगवतोऽतर्यामिणएवमुख्यवा च्यत्वंभवेदितिभावः॥१८॥यदुक्तंसर्वेशब्दाअन्यत्रसमाकृष्यव्यवहियंतइतिनतयुक्तो वैदिकानांशब्दानांकर्मादौसमाकर्षेप्रयोजना भावात्।नचकर्मसिद्धिरेवप्रयोजनं । भगवज्ञानमात्रेणैवपुरुषार्थसिद्धौतद्वैयर्थ्यात् । वेदानाचकाम्यफलार्थमप्रवृत्तेः। अतोवैदि कानांशब्दानामन्यत्रसमाकर्षप्रयोजनाभावान्मुख्यतएवान्यवाचकत्वमित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ अन्यार्थमि ति ॥ समाकर्षणवेदःकर्मदेवतादिकमपिवदतीतियुक्तमेव । कर्मादिज्ञानस्यापिपरमात्मज्ञानार्थत्वादितिजैमिनिराचार्योमन्यतइ त्यर्थः । अन्यज्ञानस्यपरमात्मज्ञानार्थत्वंकुतइत्यतआह ॥ कस्मिन्निति ॥ सर्वमिदंकर्मादिकंकस्मिन्विज्ञातेविज्ञातंभवति । वि ज्ञातस्याप्यस्यफलंकस्मिन्ज्ञातेभवतिएतज्ज्ञानमात्रस्याफलत्वादितिशौनकप्रश्ने सर्वमपरविद्ययाविज्ञातंभवति विज्ञातंचपरवि द्याविषयपरमात्मज्ञानेनसफलभवत्यतोद्वेविद्येवेदितव्येइत्यंगिरसोव्याख्यानात् । तथायस्मिन्परमात्मनिज्ञातेसर्वकर्मादिकंज्ञात मपिसफलंस्यात्तद्विषयउपदेशःकथंस्यात् तंप्रकारंकथमहंजानीयामितिश्वेतकेतुप्रश्नेयथैकेनमृत्तिंडेनज्ञातनज्ञातमपिघटादिकंज्ञा तफलंभवतिविशेषज्ञानात् । एवंपरमात्मनिज्ञातेसर्वज्ञातफलंभवतीत्युद्दालकव्याख्यानात् । अन्यज्ञानस्यपरमात्मज्ञानार्थत्वंज्ञाय तइतिभावः । अपिचनकेवलमर्थादेवमन्यज्ञानस्यपरमात्मज्ञानार्थत्वसिद्धिःकिंतुस्पष्टंचैवमेकेशाखिनःपठंतीत्याह ॥एवमिति॥ तदक्षरंयोनवेदसकर्मादिविषय किंकरिष्यतियतःसर्वाऋचःपरमेव्यातेअक्षरेतज्ज्ञानार्थमेवकर्मादिकंवदंति। तस्यैवसर्वदेवाधा रत्वात् । येपुनस्तदक्षरंविदुस्तेसम्यगासतइत्यर्थः ॥ १९ ॥ नपरमात्मज्ञानार्थकर्मादिकंवेदेनवक्तव्यं । अन्यदनुक्त्वा परमात्ममात्रकथनेऽपितज्ज्ञानसंभवात् । नचव्युत्पत्त्यनुपपत्तिः । खंडपदानामन्यवाचकत्वेनतदुपपत्तेः । ततोऽन्यकथनेप्रयो जनाभावान्नतत्रसमाकर्षइत्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे ॥ बाक्येति ॥ सत्यमन्यावचनेपिभगवज्ञानं भवतीति । तथाप्यन्यावचनेपदान्वयएवयुज्यतेनवाक्यान्वयः । एवमन्यस्थापिवाच्यस्याभ्युपगमेतुवाक्यस्यापिपरमात्मनाऽन्वयोयुज्य ते । वाक्यान्वयोनामपृथक्पृथगर्थेषुवाचकतयास्थितवाक्यस्यांततोभगवत्परत्वं । अतोवाक्यान्वयसिद्ध्यर्थमन्यवचनंयुक्त मेव । नचवाच्यपरमात्मज्ञानस्यैवप्रयोजनत्वाकिंवाक्यान्वयेनापीति । विनावाक्यान्वयमुत्तमाधिकारिव्यतिरिक्तानांज्ञा नस्यैवासंभवेनजिज्ञासायांवैमुख्यप्रसंगात् । कश्छंदसांयोगमावेदधीरइतिश्रुतेरितिभावः ॥ २० ॥ यदन्यवचनस्या पिपरमात्मज्ञानार्थत्वमुक्तंतत्केनप्रकारेणेत्याकांक्षायांतत्प्रदर्शनायसूत्रमुपन्यस्यव्याचष्टे ॥ प्रतिज्ञति ॥ ज्ञानमेव मोक्षसाध नंनान्यदितिप्रतिज्ञातेकुतोज्ञानमेवमुक्तिहेतुरित्याकांक्षायांतत्प्रतिज्ञासिद्ध्यर्थहेतुत्वेनसविस्तरं श्रुत्यासपरिकरंकांद्युच्यते । अ
तत्व
॥७४॥
तोज्ञानमवश्यमापाद्यमित्येवमाकारेणकर्मादिवचनस्यज्ञानोपयोगित्वमित्याश्मरथ्याचार्योमन्यतइतिभावः कर्मादिवचनं प्रकाशि०
कथमुक्तप्रतिज्ञायांहेतुरित्यतआह ॥ यस्मादिति ॥ विस्तरेणसपरिकरंकांद्युक्त्वाअमृतोवावसोमपोभवतियावदिंद्रइत्या
दिनातस्यदुःखसंभिन्नंविनाशिफलमुच्यतेतत्परामृश्ययस्मादेवंकर्माद्यनित्यफलंतस्मान्नतन्मोक्षसाधनं । तस्यदुःखासंभिन्ननित्य
सुखरूपत्वात् । अतोज्ञानान्नान्यःपंथामोक्षायेतिप्रतिज्ञायुक्तवेत्येवंरूपेणकर्मादिवचनस्यहेतुत्वमितिभावः । तथाचश्रुतिः प
रीक्ष्यलोकानकर्मचितान्ब्राह्मणइत्यादि ॥ २१ ॥ प्रकारांतरेणान्यवचनस्यज्ञानोपयोगित्वंदर्शयत्सूत्रमुपन्यस्यव्याचष्टे ॥ उत्क
मिष्यतइति ॥ मोक्षार्थज्ञानमेवावश्यमपेक्षितमितिसिद्धतत्केनसाधनेनसिद्ध्यतीत्यपेक्षायांकर्मादिकमुच्यते । ज्ञानेनमोक्षमिच्छ
तोज्ञानसाधनतयाकर्मादेरपिभाव्यत्वात् । नचफलोक्तिविरोधः । तस्यारुचिमात्रार्थत्वात् । रोचनार्थफलश्रुतिरित्यादेः । अत
एवंज्ञानोत्पत्तौकर्मादेरुपयोगित्वेनवेदस्तद्वक्तीत्यौडुलोमिराचार्योमन्यतइतिभावः ॥२२॥ रीत्यंतरेणकर्मादिवचनस्यभगवज्ज्ञा
नोपयोगंप्रदर्शयत्सूत्रमुपन्यस्यव्याचष्टे ॥ अवस्थितेरिति ॥ मोक्षार्थसर्वथाज्ञानमपेक्षितंतच्चकर्मादिनांतःकरणशुद्ध्याभवतीति
सिद्धेकथंज्ञातव्योहरिरित्याकांक्षायांसर्वकर्मादिकंतस्मिन्परमात्मनिस्थितं ससर्वाधारत्वादिरूपेणज्ञातव्यइत्येषसेतुर्विध(धा)रण
इत्यादौवक्तुमाधेयादिरूपंकर्मादिवेदेनोच्यतइतिवा साक्षात्परमात्मज्ञानोपयोगित्वमन्यवचनस्येतिकाशकृत्स्नाचार्योमन्यतइति
भावः । एवंजैमिन्यादिमतान्युपन्यस्यस्वमतंकिंनोच्यतेसूत्रकारेण । एतेषामेवस्वमतत्वेजैमिन्यादिग्रहणवैयर्थ्य । विरुद्धानांच
नैकमतत्वं । एकस्यैववेदस्यानेकाभिप्रायतायोगादित्यतआह ॥ कृष्णेति ॥ मुनिमतानांभगवन्मतत्वमेव तथापितत्तद्विदिता
॥ ७४॥
।
ममतैकदेशाभिप्रायेणशिष्यप्रसिद्ध्यर्थजैमिन्यादिग्रहणयुज्यते। अनेकाधिकारिविषयत्वान्नविरोधोपीतिभावः। अतोभगवज्ञाना
द्यर्थवैदिकादिशब्दानामन्यत्रसमाकर्षणव्यवहारोपपत्तेयुक्तहरे सकलशब्दपरममुख्यार्थत्वमितिसिद्धं ॥२३॥अ०५॥ अत्रस्त्रीलिं
गत्वलिंगेनान्यत्रैवप्रसिद्धानांस्त्रीशब्दानांपरमात्मनिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । समन्वयसूत्रेसर्वशब्दानांभगव
त्परत्वमुक्तं । सर्वांतर्गताःप्रकृत्यादिशब्दाःश्रूयंतेएषाह्येवप्रकृतिरविकृतिर्याप्राणेनसंविशत्यदितिर्देवतामयीत्यादौ । तेषांचान्यपर
त्वेन सर्वशब्दाभिधेयत्वंपरमात्मनःसिद्ध्यतीत्यवश्यंनिर्णेयता। तत्प्रकृत्यादिशब्दवाच्यविषयः। विष्णुरन्यद्वेतिसंदेहः । समन्वय
सूत्रमन्यत्रैवप्रसिद्धिश्चसंदेहबीज ।नप्रकृत्यादिशब्दवाच्योहरिरितिपूर्व पक्षः। प्रकृत्यादिशब्दानांस्त्रीलिंगत्वात् । परमपुरुषेचतद
योगात् । नचरूपविशेषापेक्षयोपपत्तिः । नैनंवाचास्त्रियंब्रुवन्नितितस्यस्त्रीत्वनिषेधात् । नचनपुंसकशब्दवृत्तिवत्परमात्मनिस्त्री
शब्दप्रवृत्तिः।नियामकविशेषाभावेनकल्पनायोगात् । नचाऽस्त्रीभूतस्यापिस्त्रीनियामकत्वेनतच्छन्दवाच्यत्वोपपत्तिः । वशीकृत
भार्येपिभर्तरितत्प्रयोगादर्शनात्। नचनामानिसर्वाणीत्यादिविरोधः। उक्तन्यायविरोधेनतत्संकोचोपपत्तेः । अतःप्रकृत्यादिशब्दा
नांपरमात्मवाचित्वाभावान्नसमन्वयसूत्रमुपपन्नमिति। सिद्धांतयत्सूत्रमवतारयति॥स्त्रीशब्दाइति ॥ एवंप्राप्तंपूर्वपक्षप्रतिक्षेप्तुंस्त्री
शब्दाअपिपरमात्मनिवर्ततइतिसाधयत्यत्रसूत्रकारइत्यर्थः । सूत्रंब्याचष्टे ॥ हंतेति ॥ प्रकृत्यादिस्त्रीशब्दवाच्यश्चेश्वरोभवति ।
हतैतमेवपुरुषमितिश्रुतीपुरुषस्याशेषनामवाच्यतांप्रतिज्ञायतत्रैवनदीसमुद्रदृष्टांतस्योक्तत्वात् । प्रकृत्यादिस्त्रीशब्दवाच्यताभ्युपग
मेप्रतिज्ञादृष्टांतानुपरोधादन्यथातदुपरोधादितिभावः।हतेत्यास्वादने। प्रकृतिपदमन्योपलक्षक। प्रधानस्त्रीनामत्वात्तग्रहण॥२४॥
२२१ तत्व प्रकाशि० युक्त्यंतरेणहरे प्रकृतिशब्दवाच्यतांप्रतिपादयत्सूत्रमुपन्यस्यव्याचष्टे । अभिध्येति ॥ मायांतुप्रकृतिविद्यादितिश्श्रुतौ । प्रकृ तिर्वासनेत्येवंतवेच्छानंतकथ्यतइतिस्मृतीच परमेश्वरेच्छाया प्रकृतिशब्दवाच्यत्वोपदेशाच्चासौप्रकृतिशब्दवाच्योभवति । नच ।। ७५॥ वाच्यंश्रुतौमायायाएवप्रकृतिशब्दवाच्यत्वंज्ञायतेनेच्छायाइति । महामायेतिस्मृतौमायाशब्दस्यापीच्छावाचकत्वोक्तेः । नचा त्रोपचार शंकनीयः । श्रुतिस्मृत्योरनुशासनरूपत्वादितिभावः । इच्छाया प्रकृतिशब्दवाच्यत्वेपिकुतःपरमात्मनस्तदित्यतआह ॥ संइति ॥ जूतिःप्रेरणा । नेच्छाभगवत्स्वरूपं मायिनं तवेच्छेति तत्संबंधोपदेशादित्यतआह ॥ ध्यायतीति ॥ २५ ॥ तथापिनेश्वरस्यप्रकृतिशब्दवाच्यत्वं । सर्वाणिनामानीत्येवंरूपेणविनासाक्षात्प्रकृतिशब्दवाच्यत्वेश्रुत्याद्यभावात् । सर्वशब्दस्य तुसंकोचसंभवात् । नचातीतसूत्रेतदप्युक्तमितिवाच्यं । इच्छाद्वारैवप्रकृतिशब्दवाच्यतांविनासाक्षादीश्वरस्यैवतदभावादि त्याशंकांपरिहरत्सूत्रंपठित्वाव्याचष्टे ॥ साक्षाचेति ॥ नेश्वरस्योक्तरीत्याप्रकृतिशब्दवाच्यताऽभावःशंकनीयः । एषस्येषपुरु षइतिश्रुतौसाधारण्येनविनासाक्षादेवेच्छाद्वारमंतरापिप्रकृतिपुरुषशब्दवाच्यतान्नानादितिभावः । लोकआधारः। आलोकःप्रका शरूपः ॥ २६ ॥ नन्वेवंप्रकृतिशब्दवाच्यत्वेहरेःश्रुत्युक्तेऽपिकथंताज्यतेनिमित्ताभावात् नहिसंकेतमात्रमभ्युपगम्यतइत्याशं कांपरिहरत्सूत्रंपठित्वाफलितंतावदाह ॥ आत्मेति ॥ नपरमात्मनिप्रकृतिशब्दवृत्तौनिमित्ताभावः । प्रकृष्टाकृतिर्यस्येतियोग स्यैवभावादित्यर्थः । कथंप्रकृष्टेश्वरस्यकृतिरित्यतःसूत्रव्याचष्टे । प्रकृताविति ॥ प्रकृते स्वतःपरिणामसामर्थ्याभावात्तदनुकू लतयातांप्रविश्यमहदादिरूपेणपरिणामयतीतिप्रकृतिपरिणामादनंतरमात्मानंचमहदादिप्रेरणायबहुधाकरोतीतिप्रकर्षणकृतिर्वि ष्णोरित्यर्थः । सूत्रार्थे श्रुतिस्मृतीचाह ॥ अथेति ॥ प्रकृतिमनुप्रविश्यतांपरिणाम्यतत्परिणामप्रेरकत्वेनात्मानंबहुधाचकार त स्मात्प्रकृतिशब्दवाच्यः । यस्मात्प्रकृतिशब्दवाच्यस्तस्मात्प्रकृतिरित्याचक्षतइत्यर्थः । स्मृतिरप्येवव्याख्येया । अपव्याख्यांदूष यति ॥ नचेति ॥ ब्रह्मणएवजगदुपादानत्वंप्रकृतिश्चेत्यादिसूत्रैरुच्यतइतियद्ब्रह्मणः परिणामित्वंसूत्रार्थतयाकल्प्यते नतद्युक्तं । ब्रह्मणोजगदुपादानत्वेप्रमाणाभावादित्यर्थः । नचैकविज्ञानेनसर्वविज्ञानंप्रतिज्ञायमृपिंडादिदृष्टांतोक्त्यैवतत्सिद्धिः। तस्यान्या र्थमितिसूत्रव्याख्यानेसम्यग्व्याख्यातत्वात् । किंचानब्रह्मण परिणामित्वोक्तिरसंगतैवभवति । एतदध्यायस्याशेषशास्त्रस्यब्रह्म णिसमन्वयप्रतिपादनायप्रवृत्तत्वात् । स्यादेतत् । श्रुतीनांप्रधानपरत्वंवदतिसांख्येनिरस्ते कथंप्रधानाभावेजगदुत्पत्तिरितिशंका भवत्येव तन्निरासायब्रह्मणोजगदुपादानत्वोक्तिसंगतेति । मैवं । किंप्रधानस्यशास्त्रप्रतिपाद्यतामात्रप्राङ्गिषिद्धंतत्स्वरूपमेववा । आद्येकाब्रह्मणोजगदुपादानत्वोक्तेःसंगतिः । नह्याकाशादिशब्दानामौपनिषदानांब्रह्मणिसमन्वयेऽभिहिते कथंतर्हिजगदवकाश इतिशंकोत्पन्ना नापिसूत्रकृतापराकृता । नद्वितीयः । तदुक्तेरेवानासंगतत्वात् । ब्रह्मणोजगत्कारणत्वसिद्ध्यर्थतदुक्तिरितिचेन्न । निमित्तत्वेनतदुपपत्तेः । अथापिस्यात्प्रधानप्रतिपादकवाक्यस्यब्रह्मणिसमन्वयेऽभिहितेतत्प्रमाणाभावेनाभाव प्राप्तइति । मैवं । त थाकाशाद्यभावप्राप्तेरपिप्रसंगात् । प्रमाणांतरेणतत्सिद्धिरितिचेत्सममत्रापीत्यलं ॥२७॥ तथापिनप्रकृतिशब्दवाच्यत्वंपरमात्मनो युज्यते। तस्यस्त्रीलिंगत्वादित्याशंकांपरिहरत्सूत्रमुपन्यस्यव्याचष्टे॥योनिश्चेति॥ स्वदेहादेवापत्योत्पादकत्वंहिप्रकृत्यादिस्त्रीलिं गप्रयोगेनिमित्तं । स्वदेहादेवोत्पादकश्चपरमात्मा यद्भूतयोनिमितिश्रुतौगीयते।योनिशब्दस्यतदर्थत्वात् । अतःस्त्रीलिंगप्रयोगोपी श्वरेयुज्यतइतिभावः । अव्यवधानेनोत्पत्तिकर्तृत्वंप्रकृत्यादिस्त्रीलिंगप्रयोगनिमित्तंकुतइत्याशंकांपरिहर्तुसूत्रार्थेस्मृतिंचाह ॥ व्यं प्रकाशि० वधानेनेति ॥ सूतिः सूतिकर्तृत्वंभगवतः। स्त्रीरूपत्वाच्चतच्छब्दोपपत्तिः । निषेधस्त्वज्ञेयतामात्रार्थः। तस्माद्विष्णुरेवाशेष स्त्रीशब्दवाच्यइतियुक्तमेवतत्समन्वयसूत्रमितिसिद्धं ॥ २८ ॥ अ० ६ ॥ अत्रनिषेधमुखवेद्यत्वादिनाऽन्यत्रैवप्रसिद्धानामसदा ७.२९ दिशब्दानांभगवतिसमन्वयप्रतिपादनादस्तिशास्त्रादिसंगतिः । समन्वयसूत्रेसर्वशब्दानांपरमात्मवाचित्वमुक्तं । सर्वमध्यपतिता ऽसदादिशब्दा श्रुतिषुश्रूयते । असद्वाइदमग्रआसीदित्यादौ । तेषांचान्यपरत्वेसमन्वयसूत्रमयुक्तस्यादित्यवश्यनिर्णेयता । तद सदादिशब्दवाच्यंविषयः । किंविष्णुरन्यद्वेतिसंदेहः । समन्वयसूत्रमन्यत्रैवप्रसिद्धिश्चसंदेहबीजं । नविष्णुरसदादिशब्दवाच्य इतिपूर्वःपक्षः। तेषांनिषेधमुखवेद्यवस्तुवाचित्वात् । परमात्मनश्चभावरूपत्वेनतदयोगात् । नचस्वयंनिषेधमुखवेद्यताभावेऽपित द्वतोऽसतःपरमात्माधीनत्वेनतस्यासदादिशब्दवाच्यतेतिवाच्यं । स्वरूपशून्यस्यनियम्यताभावेनपराधीनतायोगात् । अतःशू न्यादिशब्दानांपरमात्मवाचित्वाभावात्समन्वयसूत्रंनयुक्तमिति । सिद्धांतयत्सूत्रमुपन्यस्यव्याचष्टे ॥ एतेनेति ॥ पूर्वोक्तहेतुने वसर्वेशून्यादिशब्दाभगवद्विषयाएवेतिप्रतिपादिताइत्यर्थः । नन्वसदादिशब्दानांनिषेधमुखवेद्यवस्तुवाचित्वात्कथंपरमात्मनस्त द्वाच्यत्वमित्यतआह ॥ एषधेवेति ॥ दुर्जनानामव्यक्तत्वादिनाशमूनंकुरुतइत्यादियोगेनचेश्वरेनिषेधमुखवेद्यवस्तुवाचिशब्द प्रवृत्त्युपपत्तिरितिभावः । शमूनंकुरुते स्वसुखादन्यसुखमल्पंकरोति । तोदनात्तुत् । अदृश्यश्छः । छन्नत्वात् । भावयितुमुत्पा दयितुं । नाश्यत्वादभक्ष्यत्वात् । सर्वस्थतदधीनत्वादित्युभयत्रसंबध्यते । एतेनेतिपरामृष्टमेवहेतुदर्शयति ॥ एतेनेति ॥ २३१३ ।
mpura
SALABUNDISORDARSHAN
आदिपदेनतथाह्यधीयतएके प्रतिज्ञादृष्टांतानुपरोधादित्यादेःसंग्रहः । नचासतोऽन्याधीनत्वायोगः । सर्वस्यतदधीनत्वादिति
स्मृतेः । निषेधमुखवेद्यत्वादीनामपिभगवत्प्रेरणामंतरेणानुपपत्तेः । नहिकारणमंतरेणतत्रेवतदुपपद्यते । ईश्वरस्यस्वातंत्र्याददो
पः । ननुकिमर्थेयंसूत्रपदस्थद्विरुक्तिः । अध्यायसमातेरर्थभेदेनैवज्ञातुंशक्यत्वात् । अन्यथापादांतेपितत्प्रसंगादित्यतआह ॥
अवधारणार्थमिति ॥ विनिर्णयेनिर्णयग्रंथे । अतोसदादिशब्दवाच्यत्वस्यहरेरुपपन्नत्वाद्युक्तमशेषस्वरवर्णपदवाक्यात्मकशा
स्त्रयोनित्वं । ततोजगज्जन्मादिकर्तृत्वमु(खा)ख्यानंतगुणत्वंचसिद्धमिति ॥ २९ ॥ अ०७॥ इतिश्रीमदानंदतीर्थभगव
त्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्थटीकायांतत्त्वप्रकाशिकायांजयतीर्थमुनिविरचितायांप्रथमाध्याय
स्यचतुर्थः पादः ॥ ४ ॥ श्रीकृष्णार्पणमस्तु ॥ ७ ॥