A. U. A

Haim Linganushasanam

Chunilal Panalal · 2006\5

PDF Proofread

Front matter

अर्हम् श्रीजैनयशोविजयग्रन्थमाला [२] श्रीहेमचन्द्राचार्यवर्य-विरचित- ~~~~ - हैमलिङ्गानुशासनम् अवचूरिसहितम् । श्रीवाराणसेय न्यायविशारदश्रीयशो- विजयनामाङ्कितजैनपाठशालातः मुम्बयी-वास्तव्यश्रेष्ठिवर्य- चन्नीलाल पन्नालाल साहाय्यन प्राकाश्यं नीतम् । REGISTERED UNDER SECTIONS 18 AND 19 OF ACT XXV OT 1867 काश्यां चन्द्रप्रभायन्त्रालये समुदितम् । कीरस २४३१ सन् १९०५। Hostu ॐ हैमलिङ्गानुशासनम् ॥ अवचूरिसहितम् पुंलिङ्ग कटणथपभ- मरसस्न्वन्तमिमनलौ किश्तिव् ॥ ननौ घघौ दः कि- भीवे खोऽकर्तरि च कः स्यात् ॥१॥ ॐ नमः सर्वज्ञाय । लिङ्गानुशासनमन्तरेण शब्दानुशासनं नाविकलमिति सामान्यविशेषलक्ष- शाभ्यां लिङ्गमनुशिष्यते । नामेति वक्ष्यमाणमिह संबध्यते । कटणथपभमयरषसान्त स्न्वन्तं च नाम चुंलिङ्गं स्यात् । कादयोऽकारान्ता गृह्यन्ते पृथक् सन्तनिर्देशात् । द्विस्वरसन्तानां नपुंसकत्वस्य वक्ष्य-

२
हैमलिङ्गानुशासनम् (पुंलिङ्ग)
माणत्वेन एकत्रिस्वरादिसन्ता गृह्यन्ते । कान्तः,
आनकः पटहो दुन्दुभिश्च । इत्यादि ॥ टान्तः,
कक्षापुटः सारसंग्रहग्रन्थः। इत्यादि ॥ णान्तः, गुणः
शुम्बे प्रधानादौ । इत्यादि ॥ थान्तः, निशीथः
अर्धरात्रः। शपथः समयः। इत्यादि ॥ पान्तः, क्षुपो
लतासमुदायः। इत्यादि ॥ भान्तः, दर्भो बर्हिः।
इत्यादि ॥ मान्तः, गोधूमो नागरङ्गे स्यादित्यादि ।
यान्तः, भागधेयो दायादः । राजदेये त. स्त्रियो-
वक्ष्यते । शुभे तु तन्नामत्वादेव क्लीबत्वम्।तन्दुलीयः
शाकविशेषः । इत्यादि ॥ रान्तः, निर्दरः कन्दरा ।
इत्यादि ॥ षान्तः, गवाक्षः। 'गवाक्षी शक्रवारुण्यां
गवाक्षो जालके कपौ'। इत्यादि । सान्तः, कूर्पासः
कञ्चुके । हंसो विहङ्गभेदे । इत्यादि ॥ सन्तः,
माश्चन्द्रमासयोः पुंसि । अनेहाः कालः । इत्यादि ।
नन्तः, ग्रावा पाषाणो गिरिश्च । इत्यादि।उकारान्तः,
तर्कः सूत्रवेष्टनमग्न्याधारभाण्डं च । मन्तुः, अपराधः।
इत्यादि । अन्तान्तं नाम मुलिलम् । पर्यन्तोऽवसा

३ , (पुंलिङ्ग) अवचूरिसहितम् । नम्। विष्टान्तः मरणम् । प्रत्यन्तस्य बाहुलकत्वान्न- पुंसकत्वमेव ॥ इमन्प्रत्ययान्तम् अल्प्रत्ययान्तं च नाम पुंलिङ्गम् ॥इमन् , प्रथिमा।म्रदिमा। द्रढिमा । इत्यादि । नन्तत्वेनैव सिद्धे इमन्ग्रहणम् 'आत्वात् त्वादिः' इति नपुंसकबाधनार्थम् । यस्त्वौणादिक- स्तस्याश्रयलिङ्गता। भरिमा पृथ्वी, वरिमा तपरवी। इत्यादि ॥ अल्,प्रभवः। प्रभवस्तु पराक्रमे । मोक्षे- ऽपवर्गः'। इत्यादि॥ तथा क्यन्तं रितवन्तं च नाम पुंलिङ्गम् ॥ किः, अयं वृतिः वृतुङ् धातुस्तदर्थश्च ॥ शितव् , अयं पचतिः डुपचींष् धातुस्तदर्थश्च॥श्तिब साहचर्यात् 'इकिश्तिवस्वरूपार्थे ' इति विहितस्यैव केर्ग्रहणम् ॥ तथा नप्रत्ययान्तं नङ्प्रत्ययान्तं च नाम पुंलिङ्गम् ॥ "स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शनेऽपि च ॥प्रश्नः पृच्छा। नङ्, विश्नो गमनम् ॥ तथा घप्रत्ययान्तं घञ्प्रत्ययान्तं च नाम पुंलिङ्गम् घः, करः । 'करो वर्षोपले रश्मौ पाणौ प्रत्याय- शुण्डयोः ॥ परिसरो मृत्यौ देवोपतप्रदेशयोः ।

हैमलिङ्गानुशासनम्- (पुंलिङ्ग) उरश्छदः कवचं प्रच्छदश्वोचरपटः । छदस्य तु नपुंसकता वक्ष्यते । इत्यादि ॥ घञन्तम् , पादः । पादो बुध्नांहितुर्याशरश्मिप्रत्यन्तपर्वतादिषु॥आप्लावः स्वानम्॥ भावः । भावः सत्तास्वभावाभिप्रायचे टात्मजन्मसु ॥ क्रियालीलापदार्थेषु विभूतिबन्ध- जन्तुषु' । अनुषन्धः प्रकृत्यादेरनुपयोगी ॥ दास- ज्ञकाद्धातोर्यः किः प्रत्ययोविहितस्तदन्तं नाम पुंलिङ्गम् ॥ आदिः प्राथम्यम्। व्याधिः रोगः1 उपा- धिर्धर्मचिन्ता । कैतवंकुटुम्बव्यावृतो विशेषणं च । उपधिः कपटम् । उपनिधिः न्यासः। प्रतिनिधिः प्रतिबिम्बम् । संधिः पुमान् सुरङ्गादौ। परिधिःपरिवेष अवधिस्त्ववधानादौ।प्रणिधिःप्रार्थनमवधानं चरश्च। समाधिः प्रतिसमाधानं नियमो मौनं चित्तैकार्थ्य च। विधिः कालः कल्पो ब्रह्मा विधिवाक्यं विधानं दैवं प्रकारश्च । वालधिः पुच्छम् । शब्दधिः कर्णः। जलधिः समुद्रः। अन्तईिव्यवधा । प्रधेस्तु नेमौ स्त्रीपुंसत्वं रोगविशेषे स्त्रीत्वं, शिरोऽस्तु स्त्रीत्वम्, (पुंलिङ्ग) अवचूरिसहितम् । इषुधेस्तु स्त्रीपुंसत्वं वक्ष्यते । इत्यादि ॥ भावे खा, भावेऽर्थेयः खो विहितस्तदन्तं नाम पुंलिङ्गम् । आशितस्य भवनम् आशितंभवो वर्तते, तृप्तिरित्यर्थना भाव इति किम् । आशितो भवत्यनया आशितंभवा पञ्चपूली ॥ अकर्तरि च कः स्यात् । भावे कर्तृव- जिते चकारके यः कः प्रत्ययस्तदन्तं नाम पुंलिङ्गम्।। आखूनामुत्थानमाखूथः ॥ विहन्यतेऽनेनास्मिन्वा विघ्न अन्तरायः । इत्यादि । अकर्तरि चेति किम्। जानातीति ज्ञा परिषद् ॥१॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ- केशान्धुगुच्छदिनसर्तुपतद्रहाणाम् ।। निर्यासनाकरसकएठकुठारकोष्ठ- हैमारिवर्षविषबोलरथाशनीनाम् ॥२॥ हस्तादीनां नाम जलध्यादीनां तु सभिदा समभे- दानामपि पुंलिङ्गं भवति । हस्तनाम, पञ्चशाखः करः । शयः। अयं शय्यायामपि यान्तत्वात्पुंसि ।

६ हैमलिङ्गानुशासनम् (पुंलिङ्ग) हस्तस्य तु पुंनपुंसकत्वम् ॥ स्तननाम, स्तनः। पयोधरः । कुचः। वक्षोजः । इत्यादि ॥ ओष्ठनाम, ओष्ठः। अधरः । दन्तच्छदः । इत्यादि॥ नखनाम, करजः। कररुहः। मदनाङ्कुशः । इत्यादि ॥ नखः पुंक्लीबः॥ नखरस्तु त्रिलिङ्गः॥ दन्तनाम, दन्तः । दशनः । अयं रुद्रटेन क्लीबेऽपि निबद्धः दशनानि च कुन्दकलिकाः स्युः, इति । तचिन्त्यम् । द्विजः । रदः। रदनः । इत्यादि ॥ कपोलनाम, कपोलः । गण्डः । गल्लः । इत्यादि ॥ गुल्फनाम, गुल्फः । गुटुः । प्रपदः। आप्रपदः। खुरकः। निस्तोदः । पादशीर्षः । इत्यादि॥ हस्तिगुल्फस्तु प्रौहः। घुटिक- घुण्टिघुण्टगुल्फास्तु स्त्रीपुंसलिङ्गा वक्ष्यन्ते ॥ केश- नाम, केशः। शिरोजः। शिरोरुहः। चिकुरः। चिहुरः । कचः। अयं बाहुलकाणेऽपि पुंसि । गुरोः पुत्रे तु देहिनामत्वात्सिद्धम् । इभ्यां तु योनि- मत्त्वात्स्त्रीत्वम् । अस्रः। वेल्लितानः। इत्यादि । वृजिनश्च । यद्गौडः । 'वृजिनं कल्मषे क्लीबं केशे (पुंलिङ्ग) अवचूरिसहितम् । ना कुटिले त्रिषु'। कुन्तलश्च । 'कुन्तलाः स्युर्ज- नपदो हलो वालश्च कुन्तलः'। हले बाहुलकात्पुंसि। बालः पुनपुंसको वक्ष्यते । तद्विशेषोऽपि केशः। कुरलः अलकः ॥ अन्धुः कूपस्तन्नाम, अन्धुः । हहिः। प्रहिः। इत्यादि । कूपस्तु स्त्रीपुंसलिङ्गः ॥ गुच्छनाम, गुच्छः । गुत्सः। गुलुञ्छः । स्तबकस्तु पुंक्लीबः ॥ दिननाम, घस्रः सूर्याङ्कः । दण्डयामः। दिनदिवसवासराणां पुनपुंसकत्वम् । दिवाह्नोस्तु नपुंसकत्वम् ॥ स इति समासस्याख्या पूर्वाचाया- णाम् । तन्नाम, बहुव्रीहिः। अव्ययीभावः । द्वन्द्वः। इत्यादि ॥ ऋतुनाम, हेमन्तः । वसन्तशिशिरनि- दाधाः पुन्नपुंसकाः। शरत्नावृड्वर्षाश्च स्त्रीलिङ्गाः । ऋतुस्तु उदन्तत्वात्पुंसि । पतगृह आचेलकाधार- स्तन्नाम, प्रतिग्रहः। प्रतिग्राहः । इत्यादि । निर्या- सनाम, वृक्षादीनांरसः।गुग्गुलः।श्रीपृष्टः। श्रीवेष्टः। सर्जरसः। उषः। उलूखलं नपुंसकम् । निर्यासस्तु पुंनपुंसकः । कुम्भकुन्दोलूपले तु बाहुलकान्नपुंसके॥

to 2 हैमलिङ्गानुशासनम् (पुंलिङ्ग) नाकनाम, स्वर्गः। स्वः अव्ययम् । नाकत्रिदिवौ घुनपुंसकौ । दिवं त्रिविष्टपं क्लीबे । घोदिवौ स्त्री-॥ रसाः शृङ्गारादयस्तन्नाम, शृङ्गारहास्यकरुणरौद्रवी- रंभयानकशान्तबीभत्साद्भुता इति । वत्सलस्तु पुत्रा- दिनेहात्मा रतिभेद एव । शृङ्गारः पुंक्लीक गौडस्तु 'शृङ्गारवारौ बीभत्स रौद्रं हास्यं भयानकम् ॥ करुणा चाद्भुत शान्तं वात्सल्यं च रसा दश' ? इति ।। कण्ठनाम, गलः। नालः॥ कुठारनाम,परशुभ पशुः । स्वधितिः।इत्यादि। कुठारः पुंस्त्रीकोष्ठनाम, कुशूलः । इत्यादि। हैमनाम, हैमो भेषजभेदः किरात तिक्तःकिरातकसंज्ञः।। अरिनाम, द्विषन् । प्रत्यर्थी। रिपुः। इत्यादि।। वर्षनाम, वत्सः। संवत्सरः। संक- दित्ययमव्ययमपीति कश्चित् । वर्षहायनाब्दास्तु पुंक्लीबाः। शरत्समे तु स्त्रीलिङ्गे ॥ विषनाम, गरः । ब्रह्मसुतः। श्वेडः। वत्सनाभः। इत्यादि । विषकाल- कूटगरलहालाहलकाकोलाः पुंनपुंसकाः । मधुर बाहुलकात् क्लीबत्वम् ॥ बोल औषधविशेषस्तन्नाम, (पुंलिङ्ग) अवचूरिसहितम् । गन्धरसः। प्राणः। इत्यादि । रथनाम, पताकी । स्यन्दनः । पुनपुंसकोऽयमिति गौडशेषः। रथः पुंस्त्रीम अशनिनाम, पविः। इत्यादि॥अशनिः पुंस्त्री। वज्र कुलिशौ पुंक्लीबौ। भिदुरं बाहुलकात क्लीबम् ॥२॥ श्वेतप्तवात्ममुरजासिकफाभ्रपङ्क- मन्थत्विषांजलधिशेवधिदेहभाजाम्॥ मानद्रुमाद्रिविषयाशुगशोणमास- धान्याध्वराग्निमरुतांसभिदांतुनामा॥३॥ श्वेतनाम, श्वेतः। कपर्दः॥ प्लवनाम, कोल: मेलः । उडुपस्तु पुंक्लीबः।आत्मनाम, जीवः। पुद्- गलः।क्षेत्रज्ञः। प्रधाने त्वाश्रयलिङ्गता । पुरुषः। इत्यादि । मुरजो मर्दलस्तन्नाम, मृदङ्गः। मुरजभे- दोऽपि । मुरजः॥ असिनाम, निस्त्रिंशः। खगः । ऋष्टस्तु पुंस्त्रीत्वम् ॥ कफः।श्लेष्मा। खेटस्तुपुंक्लीबः। अभ्रं मेघः। अभ्रस्तु पुंक्लीबः ॥ पङ्को निषद्वरः। पङ्कजम्बालौ पुंक्लीबौ ॥ मन्थः मन्थानः ॥ विट् १० हैमलिङ्गानुशासनम्- (पुंलिङ्गः) कान्तिः । अंशुः । अयं रवावपि । अभीषुः । मूर्ध- न्योपान्त्योऽयम् । मयूखः । अयं भाशोज्वालयोरपि बाहुलकात्पुंसि॥ रुचित्विटद्युतिदीधतयःस्त्रीलिङ्गाः। रोचिः शोचिषी तु द्विखरसन्तत्वात् क्लीबे । गोमरी- चिप्रश्नयस्तु पुंस्त्रीलिङ्गाः । रश्मिः । अयं रज्जौ स्त्रियाम् । जलधिः । अर्णवः। समुद्रः। महाकच्छः। पश्चिमाशापतौ तु देहिनामत्वात्पुंसि । तत्प्रभेदनाम, क्षीरोदः । लवणोदः । इत्यादि॥शेवधिः। निधिः। तत्प्रभेदः। ‘महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ॥ मुकुन्दकुन्दनीलाच खर्वश्च निधयो नव'१। पद्मस्य विभबिन्दौ । नपुंसकत्वम्॥देही। जन्तुः। जन्मी। जन्मशब्दोऽकारान्तोऽप्यस्ति । जन्तुः पुनपुंसकः । तत्प्रभेदः । ब्राह्मणः । क्षत्रियः। वैश्यः । शूद्रः। इत्यादि ॥ देवः । सुरः । इत्यादि ॥ तत्प्रभेदः । इन्द्रः। चन्द्रः। इत्यादि।माननाम, तूलः। कुडवः प्रस्थः पुनपुंसकः। आढकस्तु त्रिलिङ्गः ॥ द्रुमनाम, अंहिपः । वनस्पतिः॥ विषयनाम, विषय इन्द्रिय- (पुंलिङ्गः) अवचूरिसहितम् । ११ ग्राह्यो गन्धशब्दस्पर्शादिः । देशश्च। तुबररावकषाय कोलाहलनीलानां पुंक्लीबत्वम् । रूपस्य तु नपुंसक त्वम् ॥ आशुगनाम, पतत्रिः । शरबाणकाण्डाः पुनपुंसकाः । इषुस्त्रिलिङ्गः ॥धान्यनाम, व्रीहिः । स्तम्बकरिः । धान्यसत्यशस्यानां संयुक्तयान्तत्वेन नपुंसकत्वम् । माषाणू पुनपुंसकौ। आढकीप्रियङ्ग स्त्री । मसूरः स्त्रीपुंसः । शणं नपुंसकम् ॥ अध्वर- नाम, अध्वरः। मखः। यज्ञः। वितानवाजपेयराज- सूयानां यज्ञविशेषाणां पुनपुंसकत्वम् । बर्हिःसत्रयोस्तु नपुंसकत्वम्॥अग्निनाम, भास्करः। आशुशुक्षणिः। अयमण्यन्तोऽपि बाहुलकात्पुंसि ॥ मरुन्नाम; वातः। समानस्तु पुनपुंसकः ॥ ३ ॥ बर्होऽच्छदेऽहिर्वप्रेत्रीह्यग्न्योर्हायनब- हिषौ॥ मस्तुः सक्तौ स्फटिकेऽच्छो नीलमित्रौ मणीनयोः॥४॥ छदः पर्ण पिच्छं च । ततोऽन्यस्मिन्बर्हः पुंसि । बर्हः परिवारः । तयोस्तु पुनपुंसकः॥वप्रे केदारेऽहिः १२ हैमलिङ्गानुशासनम्- (पुंलिङ्ग) पुंसि । सर्प तु पुंस्त्री।हायनबर्हिषौ ब्रीहावमौ च पुंसि । वर्षरश्म्योश्च भेदे पुनपुंसकौ । बर्हिषोऽमिनाम- वादेवसिद्धे द्विस्वरसन्तक्लीबत्वबाधनार्थम् ॥ सक्ती धानाविकारे मस्तुः। अन्यत्र तुस्त्वन्तत्वात् क्लीबत्वमा स्फाटिकेऽच्छः अयमव्ययमाभिमुख्येऽप्यस्ति ॥मणौ रत्ने इने सूर्ये क्रमेण नीलमित्रौ पुंसि । नीलान्त- त्वान्मही नीलोऽपि मित्रस्य देहिनामत्वादेव सिडे नियमार्थ, तेन सुहृदिसंयुक्तरान्तत्वेन क्लीबत्वम् ॥॥ कोणेऽस्रश्चषके कोशस्तलस्तालच- पेटयोः ॥ अनातोये घनो भूम्नि दारप्राणासुवल्वजाः॥५॥ कोणेऽस्रः पुंसि । कोणः।अस्रः । अन्यत्रेदमस्र रुधिरम्। संयुक्तरान्तत्वान्नपुंसकत्वम् । केशे तु तन्ना- मत्वादेव पुंस्त्वम् ॥ चषके कोशः पुंसि । कोशश्व- षकः । प्रत्याकारे शम्बायां च त्रिषु ।भाण्डागारादौ तु पुनपुंसकः॥ तालो वृक्षविशेषो वितस्तिश्च तयो- १३ (पुंलिङ्ग) अवचूरिसहितम् । श्चपेटे च तलः पुंसि। तलान्तत्वात्प्रतलोऽपि चपेटे। आतोद्यमुपलक्षणं नृत्यस्य । आतोद्यान्मध्यमनृत्ता- चान्यत्र धनः पुंसि ॥ दाराः कलत्रम् । प्राणा असवो जीवितं च । असवः प्राणाः । वल्वजा उपलाख्यस्तृणभेदः । एतेपुंलिङ्गाः, भूम्नि बहुत्व एव। कचिदेषामेकत्वमपि । असुसाहचर्यात्तहाचिन एव प्राणस्य बहुत्वम् । पुंस्त्वं तुणान्तत्वादेव सिद्धम्॥५॥ कान्तश्चन्द्रार्कनामायःपरोयानार्थतोयुगः।। यश्वस्यादसमाहारे इन्होऽश्ववडवावितिद चन्द्रार्कनामभ्योऽयःशब्दाच्च परः कान्तो यानार्थ- बाचिनः परो युगश्च पुंलिङ्गः । चन्द्रकान्तः । सूर्य- कान्तः।अयस्कान्तः।लोहाकर्षणः। (यूपयुग्मयोरपि) चानयुगः। शकटयुगः॥यश्वासमाहारे इतरेतरयोगे इन्होऽश्ववडवाविति स पुंसि । अश्वश्व वडवाचेमा- वश्ववडयौ । द्विवचनमतन्त्रम् । तेनेमेऽश्वबडबाः। अश्ववडवान् पश्य । 'अश्ववडवपूर्वापराधरोचरा' १४ हैमलिङ्गानुशासनम्- (पुंलिङ्ग) इति निर्देशाङ्खत्वम् । असमाहार इति किम् । अश्ववडवम् । द्वन्द्व इति किम् । अश्वो वडवाऽ स्याश्ववडवमुन्मुग्धं कुलम् । अश्ववडवा स्त्री । द्वन्द्वस्यापरवल्लिङ्गत्वप्राप्तौ वचनम् ॥ ६ ॥ वाकोत्तरा नक्तकरल्लकाङ्का, न्युडोत्तरासङ्गतरङ्गरङ्गाः॥ परागपूगौ सृगमस्तुलुङ्ग- कुडङ्गकालिङ्गतमङ्गमङ्गाः॥७॥ अतः परं खरान्तक्रमेण शब्दा उदाहियन्ते । तत्र स्वरान्तेषु ककारोपान्त्यादिक्रमेणाकारान्ता उदा ह्रियन्ते॥वाकोत्तरपदा नक्तकादयश्च शब्दाः पुंलिङ्गाः अनूच्यत इति अनुवाकः ऋग्यजुः समूहात्मकं वचनम् । घञन्तत्वादेव सिद्धे नियमार्थ वचनं भाव एव पुंस्त्वमिति' तेन वकं काष्ठमित्यादौ भावाद- न्यत्र घअन्तस्याश्रयलिङ्गता । अथवा, अनुगतो बायोडोन तदनुदाक दत्ति अन्यपदार्थत्वेऽपि पंस्त्वा- १५ (पुंलिङ्गः) अवचूरिसहितम् । थम् ।नक्तको गलनम् ॥रल्लकः पक्ष्मकम्बलः॥अङ्क: समीपम् । नक्तकरल्लकयोर्वस्त्रनामत्वेनाङ्कस्यान्तिक- नामत्वेन क्लीबत्वे प्राप्ते वचनम् ॥न्युङ्खाः षडोङ्काराः। सम्यग्मनोज्ञे त्वाश्रयलिङ्गः॥उत्तरासङ्गः वैकक्ष्यम् । तहाची अर्थप्राधान्यात्कम्बलोऽपि ॥ तरङ्गः ऊर्मिः। रङ्गो नर्तनभूमिः॥परागो धूल्यादिः॥ पूगः क्रमुकः सङ्घोऽपि । अयं क्लीबोऽपीति कश्चित् ॥ सृगो भिन्दिपालाख्यः शस्त्रविशेषाऽर्थप्रधान्याद्भिन्दपालो ऽपि ॥ मस्तुलुङ्गो मस्तिष्कः। कुडङ्गो वृक्षगहनम् ॥ कालिङ्गः कालिङ्गिनी तत्फलं च । चिर्भट्यां वल्लि- नामत्वादेव स्त्रीत्वम् । वल्लिनामत्वेन स्त्रीत्वे फलनाम त्वन क्लीबत्वे प्राप्ते वचनम् । तमङ्गइन्द्रकोशः॥मङ्गो धर्मो नौः शिरश्च॥७॥ वेगसमुद्रावपाङ्गव! घार्घा मञ्चसपुच्छपिच्छगच्छाः॥

हैमलिङ्गानुशासनम्- अवटः पट्टहठप्रकोष्ठकोष्ठाः॥८॥ वेगोरयः किम्पाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च। समुद्गः संपुटः ।। अपाङ्गो नेत्रान्तस्तिलकश्च ॥ वर्ग: संघातः ॥ ओषः समूहादिः॥ अर्थो मूल्यं पूजा- विशेषश्च ॥ वेगवर्गरौघाओणामौणादिकगान्तानां समुद्गस्य च डान्तस्य ग्रहणम् । घअन्तत्वेतु सिद्ध. भेव ॥ मञ्चो राजासनम् । पुच्छः पश्चाद्भागः । लाङ्गले तु पुनपुंसकः॥ पिच्छं लाङ्गलम् । गच्छो ऽभिमतसंख्यावसानम् ॥ वाजः पिच्छम् ॥ ओजो विषमसंख्या। किलिञ्जः कटः । मुञ्जः शरेषीका । अवटो रन्ध्रम् ॥ पट्टः पेषणपाषाणः पीठं च । ललाटभूषायां बाहुलकत्वात् स्त्रीत्वे पट्टी ॥ हठ: बलात्कारः वारिपर्णी च ॥ प्रकोष्ठः कूर्परादधः ॥ कोष्ठः कुक्षिगृहयोरन्तरालम्, आत्मीयश्च ॥ ८॥ अङ्गुष्ठगण्डौ लगुडप्रगण्ड- करण्डकूष्माण्डगुडाः शिखण्डः॥

७ (युंलिङ्ग) अवचूरिसहितम् । वरण्डरुण्डौ च पिचण्डनाडी- व्रणौ गुणभ्रूणमलक्लकुन्तौ॥६॥ अङ्गुष्ठोऽङ्गुलिविशेषः ॥ अथ डान्ता दश ॥ गण्डः पिटकः। लगुडो लोहमयं शस्त्रम् ॥ प्रगण्डः कूर्परांसयोर्मध्यम् ॥ करण्डो भाण्डविशेषः ॥ कूष्माण्डः कर्कारुः भ्रूणश्च ॥ गुडो गोलकः ।। शिखण्डश्चूडा ॥ वरण्डोऽन्तरावेदौ ॥ रुण्डः कबन्धः। रुण्डान्तत्वाद्वारुण्डः सेकपात्रम् ॥ पिचण्ड उदरम् ॥ णान्तास्त्रयः॥ नाडीव्रणो रोगविशेषः । व्रणस्य पुनपुंसकत्वेन तत्पुरुषेण परवल्लिङ्गताप्राप्तौ वचनम् ॥गुणः पटः। भ्रूणो गर्भिणी स्त्री शिशुश्च । गुणस्यांशुकनामत्वेन नपुंसकत्वे भ्रूणस्य तु योनि- मन्नामत्वेन स्त्रीत्वे प्राप्ते पाठः । अथ तान्ताः सप्त ॥ अलक्तो यावकः॥ कुन्तः प्रासः । अर्थ- प्राधान्यात् शलपराचदीर्घायुधा अपि ॥ ९ ॥ पोतः पिष्टातः पृषतश्चोत्पातवाता- हैमलिङ्गानुशासनम् (पुंलिङ्ग) वर्थकपर्दो ॥ बुहुदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाधः॥१०॥ पोतः प्रवहणं शिशुश्व॥ पिष्टातः पटवासकः पृषता बिन्दवः। प्रायेण बहुवचनान्तोऽयम् । मृगवा- चिनस्तु देहिनामत्वादेव पुंस्त्वम् । उत्पातः उपसर्गः॥ बातः समूहः ॥ अथ थान्तः। 'अर्थः प्रकारे विषये चित्तकारणवस्तुषु' । अभिधेयेऽपि शब्दानाम् । धननामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः ॥ अथ दान्ताः षट् । कपर्दो हरजटाबन्धः। वराटवाचि- नस्तु तन्नामत्वादेव सिद्ध पुंस्त्वम् ॥ बुहुदः जला- दिसंस्थानविशेषः॥ गदो व्याधिः विष्णोरनुजश्च । अगद औषधम् । मकरन्दः पुष्परसः । अर्थ- प्राधान्यान्मरन्द इति॥ जनपदो जनसमूहो विषयः करदश्व कुटुम्बी ॥ अगदजनपदयोभैषजनामप- दान्तत्वाभ्यां नपुंसकत्वेप्राप्ते पाठः॥ अथ धान्ताः॥ 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' ॥

(पुंलिङ्ग) अवचूरिसहितम् । स्कन्धः 'प्रकाण्डशे नृपे स्कन्धः काये व्यूहस- मूहयोः ॥ अगाधः विरलम् । बिलनामत्वादेव क्लीबत्वे प्राप्तेऽस्य पाठः ॥ विरं छन्दः ॥ १० ॥ अर्धसुदर्शनदेवनमला- भिजनजनाः परिघातनफेनौ ॥ पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥ ११॥ अर्धः खण्डम् । ग्रामाधः। अर्धः पटी। अर्थ नगरम् । समांशे तु क्लीबत्वस्य वक्ष्यमाणतया विषमांशवृत्तिरिहार्धशब्दः ॥ अथ नान्ताः सप्त ।। सुदर्शनः विष्णुचक्रं शक्रपुरं च । मेरुजम्ब्चा स्त्रीपुंसलिङ्गः॥ देवनः अक्षः। क्रीडाविहारविजि- गोषासु नान्तत्वान्नपुंसकत्वमेव ॥ अह्न इति 'संख्यात' इति 'सर्वाश' इति च कृतसमासान्तो हिनशब्दः । संख्यातासः । सर्वमहः सर्वाह्नः । पूर्वमहः पूर्वाह्नः। एवं सायाह्नः । प्रारम्भो मध्य २० हैमलिङ्गानुशासनम्- (पुंलिङ्गः) चाह्नःप्राह्नः मध्याह्नः ॥ अपराह्नस्तु पुंक्लीबः। परव- ल्लिङ्गतापवादोऽह्नस्य पाठः॥अभिजनः कुले ख्याताव- भिजनो जन्मभूम्यां कुलध्वजौ॥ जनः लोकः ॥ परिघातनः अयोबद्धो लगुडः ॥ फेनः डिण्डीरः अर्थप्राधान्यादब्धिकफ इत्यपि ॥ अथ पान्ताश्व- त्वारः ॥ पूपोऽपूपश्च गुणभेदः । सूपः मुद्गादि- विकारः । सूपकारे देहिनामत्वादेव सिद्धम् । अर्थ- प्राधान्यत्सूद इत्यपि । पूपादीनां नपुंसकत्वे प्राप्ते- ऽस्य पाठः ॥'कलापः संहतौ बर्हे काञ्च्यां भूषण- तूणयोः ॥ पिच्छनामत्वान्नपुंसकत्वेऽस्य पाठः ॥ अथ फान्तौ । रफोऽवद्यम् । वर्णविशेषे तु विषय- नामत्वेनैव पुंस्त्वम् ॥ शोफः श्वयथुः ॥ अथ बान्ताः४॥ स्तम्बः आलानं ब्रीह्यादीनां प्रकाण्ड- विशेषश्च । तत्र चार्थप्राधान्याद् गुच्छोऽपि ॥ नितम्ब 'स्त्रियाः पश्चात्कटौ सानौ नितम्बः कटि- रोधसोः ॥ ११॥ शम्बाम्बौ पाञ्चजन्यतिष्यो (पुंलिङ्ग) अवचूरिसहितम् । २१ पुष्यः सिचयनिकाय्यरात्रत्राः॥ मन्त्रामित्रो कटप्रपुण्डाराः कल्लोलोल्लौ च खल्लतल्लौ ॥ १२॥ शम्बः मुसलाग्रस्थो लोहमण्डलकः। अशनौ तु तन्नामत्वादेव पुंस्त्वम् ॥ अम्बः सरकादीनाम्॥ अथ यान्ताः ॥ पाञ्चजन्यो विष्णोः शङ्खः पोट- गलश्च ॥ तिष्यः पुष्यश्च कलियुगम् । नक्षत्रे बहुलं नक्षत्रेत्यनेन मासविशेषे तु मासनामत्वा- देव पुंस्त्वम् ॥ सिचयो वस्त्रम् । अंशुकनामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः ॥ निकाय्यो निवासः॥ अथ रान्ताः॥ रात्र इति कृतसमासान्तः 'संख्या- तैक'-इति 'ऋक्साम' इति च रात्रिशब्दः। पुण्या रात्रिः पुण्यरात्रः। वर्षारात्रः। दीर्घरात्रः । चिररात्रः । पूर्वरात्रः। अपररात्रः । अर्धरात्रः । अहोरात्राविमौ । एकात्समाहारे च पुंक्लीबः। पर- वल्लिङ्गतापवादोऽस्य पाठः ॥ वृत्रोऽन्धकारः रिपुश्च॥

२२ हैमलिङ्गानुशासनम्- (पुंलिङ्गः) मन्त्रः ऋगादिलक्षणः ॥ अमित्रो वैरी । अरिनाम त्वादेव सिद्धे संयुक्तरान्तत्वात् क्लीबत्वबाधनार्थ वचनम् ॥ कटप्रः समूहः। 'पुण्द्रो दैत्यविशेषेक्षु- भेदयोरतिमुक्तके' ॥ आरः आरकूटः॥ द्रवनाम- त्वात् क्लीबत्वे प्राप्तेऽस्य पाठः। अत लान्ताः २६॥ कल्लोलस्तरङ्गः। अथप्राधान्यादुल्लोलोऽपि । उल्लः सूरणः ॥ खल्लः कृतौ हस्तपादावमर्दनाख्यरुजि च॥ तल्लस्तडागः॥ १२ ॥ कण्डोलपोटगलपुद्गलकालवाला- वेला गलो जगलहिङ्गलगोलफालाः॥ स्थाद्देवलो बहुलतण्डुलपत्रपालवातूल- तालजडुला भ्रमलो निचोलः॥१३॥ कण्डोलः पिटकाख्यं भाजनम् ॥ पोटगल: काशः नडश्च । पुद्गलः परमाणुः देहश्च । कालो मृत्युः। वालोऽश्वकरिवालधिः। तुटौ तु बाहुल- कात् स्त्रियाम् ॥ आवेलश्चर्वितताम्बूलम् ॥ गलः २३ अवचूरिसहितम् । सर्जरसः॥ अर्थप्राधान्यात् कलकल इत्यपि । कण्ठे तु तन्नामत्वादेव पुंस्त्वम् ॥ द्रवनामत्वात् । क्लीबत्वे प्राप्तेऽस्य पाठः ॥ जगलः पिष्टमद्यम् ॥ हिङ्गुलं दारदम् ॥ गोलः सर्वतोवृत्तः बालक्रीडन- काष्टे स्त्रीपत्राञ्जनादौ क्लीबः। यस्तु गोल एव गोलके इति खार्थिकप्रत्ययान्तो मृते भर्तरि जार- जस्य वाचकः स आश्रयलिङ्गः॥ फालः कुशी। देवलः देवायतनम् ॥ बहुलः कृष्णपक्षः॥ तण्डुलः धान्यसारः विडङ्गं च ॥ पत्रपालः दीर्घाछुरी ॥ बातूलः वातसमूहः। वातासहे । चोन्मत्ते चाश्रय- लिङ्गः ॥ तालः गीतकालक्रियामानकरतलादौ । जडुलो देहे कृष्णं लक्ष्म ॥ भृमलो रोगविशेषः॥ निचोलः निचुलकम्। उपसर्गस्यातन्त्रत्वात चोल: स्त्रीणां कूसकश्चोलः ॥ १३ ॥ कामलकुद्दालावयवस्वाः सवरौरव- यावाः शिवदावौ ॥ माधवपणवादीन-

२४
हैमलिङ्गानुशासनम् (पुंलिङ्ग)
वहावध्रुवकोटीशांशाः स्पशवंशौ॥१४॥
कामलो 'मरौ रोगेऽवतंसे ना कामलस्त्रिषु
कामुके'।कुद्दालः खनित्रविशेषः॥ अथ वान्ताः१२॥
अवयवः अङ्गम् ॥ ख आत्मा स्वभावः ज्ञातिश्च ।
अर्थे तु पुंकीबः । आत्मीये तु गुणवृत्तित्वादाश्रय-
लिङ्गः ॥ सुवः स्रग्भेदः ॥ रौरवो नरकभेदः ॥
यावः अलक्तकः । शिवो वेदादिः॥ दावोऽरण्यम् ।
वह्निविशेषे तु पुंस्त्वं सिद्धमेव । अर्थप्राधादव-
इत्यपि 'कानने वनवह्नौ च स्याहाबो दववन्नरि।।
माधवो मधुमिश्र आसवः। खार्थिके के माधवकः।
माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुंस्त्वम्।
स्त्रियामपीति कश्चित् । पणवः पटहः॥ आदी-
नवो दोषः परिक्लिष्टः दुरन्तश्च॥हावः भावसूचकः॥
ध्रुव आतौशिवे शङ्कौ इत्यादि ॥ अथ शान्ताः७ ॥
कोटीशो लोष्टभेदनः। अर्थप्राधान्यात्कोटिशोऽपि ॥
अंशः भागः ॥ स्पशः संपरायः प्रणिधिश्च ॥
'वंशो वर्गे कुले वेणौ पृष्ठस्यावयवेऽपि च ॥१४॥

(पुंलिङ्ग) अवचूरिसहितम् । कुशोडीशपुरोडाशटषकुल्मासनि- ष्कुहाः ॥ अहनियृहकलहाः पक्षराशि- वराश्यषिः ॥ १५॥ कुशः योक्रम् द्वीपश्च ॥ उड्डीशो ग्रन्थविशेषः। हरे तु देहिनामत्वात्पुंस्त्वम् ॥ 'पुरोडाशो हविभेदे चमस्यां पिष्टकस्य च ॥ रसे सोमलतायाश्च हुत- शेषे च पुंस्यपि' ॥ अथ षान्तः॥ वृषः गवादिः। व्रतिनामासनं वृषी । अथ सान्तः॥ कुल्मासः अर्धस्विन्नो माषादिः । अन्ननामत्वात् क्लीबले प्राप्तेऽस्य पाठः । मूर्धन्योपान्त्योऽप्ययम् ॥ अथ हान्ताः ॥ निष्कुहः कोटरम्।ये तु टान्तमाहुस्तन्मते टान्तत्वात्पुंस्त्वम्॥अह इति हिंगोः' इति 'अह्न' इति च कृतसमासान्तोऽहनशब्दः । इयोरह्योः समाहारो यहः । त्र्यहः। पञ्चाहः । सप्ताहः । द्विगुरन्नेति स्त्रीनपुंसकत्वे परमाह उत्तराह इत्यादौ परवल्लिङ्ग- ताप्राप्तौ वचनम् । सुदिनैकाभ्यां क्लीबलम्, पुण्या- २६ हैमलिङ्गानुशासनम् (पुंलिङ्ग) हस्य तु पुनपुंसकत्वम् ॥ नियूहः शेखरे नागदन्ते निर्यासेऽपि ॥ कलहः खड्गकोशे भण्डने च ॥ अथ क्षान्तः । पक्षः पिच्छम् । युद्धपिच्छनामखा- क्लीबले प्राप्ते वचनम् । प्रतिज्ञार्थादौ च पक्षस्य षान्तत्वादेव पुंस्त्वम् ॥ अथेकारान्ताः राशिर्मेषादिः पुञ्जश्च ॥ वराशिः स्थूलशाटः ॥ वस्त्रनामत्वात क्लीबत्वे प्राप्तेऽस्य पाठः॥ऋषिर्वेदविशिष्टादौ॥१५॥ दुन्दुभिर्वमतिरष्णिपाण्यविज्ञाति- रालिकलयोऽञ्जलिघृणिः॥ अग्निवह्निकृमयोंऽह्रिदीदिविग्रन्थि- कुक्षितयोऽर्दनिर्ध्वनिः ॥ १६ ॥ दुन्दुभिर्भेरीविशेषे । दैत्ये तु सिद्धमेव । अक्षे स्त्रीत्वम् ॥ वमतिान्तिः॥ वृष्णिः कुलविशेषः मेषश्च ॥ पाणिः हस्तः ॥ अविः मूषककम्बलः ॥ ज्ञातिः स्वजनः॥ रालिः कलहः॥ कलिः अन्त्य- युगम् । अञ्जलिः पाणिपुटः ॥ घृणिरभीशुः ॥

(पुंलिङ्ग) अवचूरिसहितम् । मग्निः कृशानुः ॥ वह्निः स एव ॥ कृमिः कीटः। अर्थप्राधान्यात् क्रिमिरपि ॥ अंहिः पादः॥ अर्थ- प्राधान्यादतिरपि ॥ दीदिविः ओदनम् । अथ- प्राधान्यात् कुरुश्च ॥ ग्रन्थिः रज्ज्वादिवेष्टनबन्धः॥ कुक्षिर्जठरम् ॥ दृतिश्चर्मचर्मप्रसेवकश्च ॥ अर्दनिः अग्निः॥ ध्वनिः प्रतीयमानोऽर्थः। वृष्णिधृष्ण्योर्ण्यन्त- त्वात् अग्निवह्नयोश्च न्यन्तत्वात् अर्दनेरन्यन्तत्वात् कृमय॑न्तत्वात् पाणिकुक्ष्यंहीणां प्राण्यङ्गवाची- दन्तत्वात् स्त्रीत्वे दीदिवेरन्ननामत्वाद्रालेश्च युन्ना- मत्वाक्लीबत्वे प्राप्ते वचनम् ॥ १६ ॥ गिरिशिश्रुजायुको हाहाहश्च नाम- हूर्गर्मुत् ॥ पादश्मानावात्मा पाप्मस्थे- मौष्मयक्ष्माणः॥ १७॥ इति पुंलिङ्गं समाप्तम् ॥ गिरिः कन्दुकः॥शिश्रुः श्रोत्रम्॥जायुरौषधम्। कर्पू: कराषाग्निः ॥ हाहाहूहूरित्यखण्डं नाम देव- - २८ हैमलिङ्गानुशासनम् (पुंलिङ्ग) गायनवाचि । केचित् खण्डयन्ति । अव्ययत्वाद- लिङ्गाविति केचित् । गन्धौ च हाहा हूहूरिति तु लक्ष्यम् । एकदेशविकृतस्यानन्यत्वादर्थप्राधा- न्याहा निर्देशस्य तदपि संगृहीतम् । देहिनामत्वा देव पुंस्त्वसिद्धौ विमतिज्ञापनार्थम् हूहूरित्यस्य कृत इति स्त्रीत्वबाधनार्थम् ॥ नग्नहूर्माषदलिन्या- दिबीजम् । अर्थप्राधान्यान्नग्नहुरित्यपि ॥ नमान् ह्वयतीति व्युत्पत्तिप्राधान्ये त्वाश्रयलिङ्गता ॥ अथ व्यञ्जनान्ताः ८॥ गर्मुत् सुवर्णम् सरघा च । द्रवनामत्वान्नपुंसकत्वे प्राप्तेऽस्य पाठः॥पाद् चरणः। अदन्तोऽप्ययम्॥अश्मा पाषाणः ॥ उपलक्षणत्वा- द्वेमलोऽपि ॥ आत्मा शरीरं खभावश्च ॥ पाप्मा पापं रोगश्च ॥ स्थेमा स्थैर्यम् ॥ इमन्नन्तत्वादेव सिद्धे द्विखरं मन्नकर्तरि इति क्लीबत्वबाधनार्थ- मस्य पठः॥ ऊष्मा सन्तापः समृद्धिश्च ॥ यक्ष्मा क्षयरोगः। तदन्तत्वाद्राजयक्ष्मापि । अश्मादीना- (स्त्रीलिङ्गः) अवचूरिसहितम् । मन्नन्तत्वेन क्लीबत्वे प्राप्ते वचनम् । एवं शेषेष्वपि लिङ्गेषु वरव्यञ्जनान्तक्रमो ज्ञेयः॥ १७ ॥ इति पुलिङ्गस्यावचूरिः। अथ स्त्रीलिङ्गः। स्त्रीलिङ्ग योनिमग्रीसेनावल्लितडि- निशाम् ॥ वीचितन्द्राऽवटुग्रीवाजिह्वा- शस्त्रीदयादिशाम् ॥१॥ नामेति स्मर्यते। योनिमदादीनां नाम स्त्रीलिङ्गं भवति । पुरुषी । स्त्री । रामा। वामा। हस्तिनी । वशा । वृषी । अश्वा । मकरी मत्सी । मयूरी । इत्यादि ॥ वम्रीनाम उपदेहिका इत्यादि । सेना- नाम।चमूः। पृतना। वाहिनी। इत्यादि। वल्लिनाम। लता। प्रतानिनी। वल्लरी । इत्यादि । वल्ली । अजमोदायां तु अस्य बाहुलकात् स्त्रीत्वम् ॥ तडि- नाम । शम्बा । चपला । चरा। इत्यादि । निशा- हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) नाम । तुङ्गी । तमी । निःशब्दोऽप्यस्ति निशा- वाची ॥ वीचिनाम । वीचिः। उत्कलिका । लहरी । भङ्गिः । इत्यादि । तरङ्गोल्लोलकल्लोलानां । पुस्त्वमुक्तम् ॥ तन्द्राशब्देनालस्यनिद्रे गृह्यते ॥ अवटुनाम। घाटा। कृकाटिका इत्यादि । अवटोस्तु स्त्रीपुंसत्वम् ॥ ग्रीवानाम । ग्रीवा । अयं तच्शि- रायामपि॥ जिह्वानाम । रसज्ञेत्यादि॥ शस्त्रीनाम । शस्त्री । असिपुत्री । इत्यादि ॥ दयानाम । दया । करुणा । इत्यादि। दिनाम । आशा । ककुप् । इत्यादि ॥१॥ शिंशपाया नदीवीणाज्योत्स्नाचीरी- तिथीधियाम्॥अङ्गुलीकलशीकङ्गुहिङ्गु पत्रीसुरानसाम् ॥२॥ शिंशपादिगणो नद्यादीनां नाम च स्त्रीलिङ्गं भवति । शिशपादि । शिंशपा। वीरुत् । पाटला। विडा । फल्गुका। लुक्लुयौ। निर्गुण्डी। झण्टी।

(स्त्रीलिङ्ग) अवचूरिसहितम् । बम्बूः । श्रीपर्णी । भद्रपर्णी। बदरी । इत्यादिगण- पाठः ॥ नदीनाम, नदी। धुनी। निम्नगा। इत्यादि। बीणानाम । घोषवती । तद्भेदोऽपि । विपञ्ची इत्यादि ॥ ज्योत्स्नानाम । चन्द्रिका । कौमुदी। इत्यादि ॥ चीरी जीवविशेषः॥ तिथीति ड्यन्तं पदम् ॥ प्रतिपदाद्याः द्वितीया तृतीया चतुर्थी इत्यादि यावत् पञ्चदशी । सैव पूर्णचन्द्रा राका । पूर्णिमा । न्यूनचन्द्राऽनुमतिः । आमावस्या इत्यादि ॥ धीनाम । धिषणा । पण्डा । अङ्गुली- नाम । अङ्गुली । करशाखा ॥ कलशी। गर्गरी॥ कॉर्धान्यविशेषः ॥ हिडपत्री गुल्मभेदः । सुरा वारुणी। नसा नासिका ॥२॥ रास्नाशिलावचालालाशिम्बाकृष्णो- ष्णिकाश्रियामासृक्कापण्यातसीधाय्या- सरघारोचनाभुवाम् ॥३॥ रास्ता औषधीविशेषः ॥ शिला मनःशिला ॥

३२
हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः)
वचा शतपर्विका ॥ गोलोमी । जीवा षड्ग्रन्थाः
उग्रगन्धा इत्यादि । लाला सृणीका ॥शिम्बा बीज-
कोशी ॥ कृष्णा कृष्णजीरकं राजिका च । पिष्पल्यां
वल्लिनामत्वात् सिद्धमेव ॥ उष्णिका यवागूः ॥
श्रीः । लक्ष्मीः। कमला । पद्मा। पद्मवासा ।
हरिप्रिया । क्षीरोदतनया । मा । रमा । इन्दिरा
इत्यादि ॥ सृक्का गन्धद्रव्यविशेषः। तन्नाम । मरु-
न्माला । पिशुना । सृक्का । देवीलता । इत्यादि ।
पण्यानाम । पण्या । कटती। सुवर्णलता। ज्यो-
तिष्का । इत्यादि। अतसीनाम । कृष्णप्रिया ।
चण्डिका। ममृणा । क्षुमा । उमा । इत्यादि ।
धाय्यानाम । सामिधेनी ऋक्। इत्यादि ॥ सरघा-
नाम । क्षुद्रा । मधुमक्षिका । इत्यादि ॥ रोचनेति
गोरोचना वंशरोचना च गृह्यते । तत्राद्यानाम ।
'वन्दनीया तु रोचना । भूतनी भूतनाशिनी' ॥
वंशरोचनातुवांशी तु काक्षीरी तुका शुभा।इत्यादि।
भूनाम।भूः। भूमिः। पृथ्वी। मही। इत्यादि ॥३॥

(स्त्रीलिङ्गः) अवचूरिसहितम् । हरिद्रामांसिदूर्वाऽऽलूबलाकाकृष्ण- लागिराम्॥इत्तु प्राण्यङ्गवाचि स्यादी- दूदेकस्वरं कृतः॥४॥ हरिद्रा । पीतिका ॥ मांसिर्गन्धद्रव्यविशेषः ॥ दूर्वा हरिताली ॥ आलूः कर्करी, गलन्तिका च ॥ बलाका पुंध्वजेऽपि स्त्रीत्वमेव । बलाका विस- कण्टिका ॥ कृष्णला गुञ्जा ॥ गीर्वाक् ॥ प्राण्यङ्ग वाचि इकारान्तं नाम स्त्रीलिङ्गम् ॥ गोधिर्ललाटम्। कटिः । पालिः। इत्यादि । इदिति किम् । कर्णः । प्राण्यङ्गवाचीति किम् । नाभिः क्षत्रियः। प्राण्यङ्ग- वाचिनस्तु स्त्रीपुंसत्वम् । चक्रपिण्डिकायां तु स्त्री- त्वम् ॥ ईकारान्तमूकारान्तं चैकखरं स्त्रीलिङ्गम् ॥ हीः । प्रीः । श्रीः। भ्रूः । स्त्रः । द्रूः। जूः॥ एक- खरमिति किम् । स्वयंभूर्ब्रह्मा । नीः लूरित्यादौ तु गुणवृत्तित्वादाश्रयलिङ्गता ॥ कृत्सम्बन्धिनौ यावी- दूतौ तदन्तं नाम स्त्रीलिङ्गम् । अनेकखरार्थ- ३ ३४ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) मारम्भः । लक्ष्मीः। ययीः। पपीः। इत्यादि। यवागूः । कुकूः । कच्छुः । अजूः । तनूः। इत्यादि ॥४॥ पात्रादिवर्जितादन्तोत्तरपदः समा- हारे ॥ द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥ ५॥ पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स हिगुः समाहारे स्त्री ॥ पञ्चानां पूलानां समाहारः पञ्च- पूली। पात्रादिवर्जित इति किम् । द्विपात्रम् । द्विमासम् । त्रिभुवनम् । चतुर्युगम् । द्वित्रिचतुर्व्यः परः पथः । त्रिपुरम् । इत्यादि । अदन्तेति किम्। पञ्चसमिति । त्रिगुप्ति । पञ्चकुमारि । दशकुमारि । अन्त्ययोः स्त्रीपुंसत्वमपीत्येके ॥ उत्तरपदेति किम् । पञ्च गावः समाहृताः पञ्चगवम् । एवं दशगवम् । सप्तभूमम् । अत्र द्विगुरदन्तो नोत्तरपदम्। समाहार इति किम् । पञ्चाम्रप्रियः॥ अन्नन्तमाबन्तं च (स्त्रीलिङ्ग) अवचूरिसहितम् । यदुत्तरपदं तदन्तो द्विगुर्वा स्त्री। पञ्चराजी । पञ्च- राजम् । पञ्चमाली। पञ्चमालम् । त्रिसन्ध्यं तु क्लीबम् । अन्नन्तं चाबन्तं चोत्तरपदं न हिगु- रिति द्विरन्तग्रहणम् ॥ उक्तस्त्रीत्वादन्यो द्विगुः समाहारे वर्तमानो नपुंसकम् । तेन पात्राद्युत्तर- पदस्यानदन्तोत्तरपदस्य विकल्पितस्त्रीत्वस्य च पक्षे कीबत्वम् ॥ ५॥ लिन्मिन्यनिण्यणिस्युक्ताः क्वचित्तिगल्पह्रस्वे कप् ॥ विंशत्याद्या शतावन्हे सा चैक्ये द्वन्द्वमेययोः॥६॥ लित्प्रत्ययान्तं मि-नि-अनि अणिप्रत्ययान्तं स्त्रियामुक्ताः स्त्र्युक्ताः क्तिः क्यप् शः यः अः अङ् अनः क्विप् ञः अनिः इञ् णकश्च इत्येत- दन्तं च नाम स्त्रीलिङ्गं स्यात् । लित् । गवां समूहो गोत्रा । एवं रथकट्यातॄण्याजनतादयोऽपि ।

३६ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) शुक्लस्य भावः शुक्लता। देव एव देवता। इत्यादि। मिः, नेमिः कूपस्यान्ते त्र्यस्रं काष्ठं चक्रधारा च। वल्मिरिन्द्रः। दल्मिः शस्त्रम् । निः, वेनिः केश- रचना॥अनिः, वर्तनिः मार्गः। अटनिधनुष्मान्तः।। णिः, वाणिः मूल्यम्। वेणिः केशरचना प्रवाहश्च ॥ अणिः, सरणिः पन्थाः। तरणिः संक्रमो यवागूश्च । समुद्रादौ तु स्त्रीपुंसत्वम् । क्तिः, भूत्यादयः । क्यप् आस्या आसनम् । अट्या, व्रज्या, ईर्या च गमने। शः, क्रिया । यः, जागर्या । अः, शंसा । इच्छा॥ शुश्रूषा श्रवणेच्छा॥ अङ्, भिदा । छिदा। पूजा । अनः, वन्दना स्तुतिः। चेतना संवित्तिः। याचे- रपि बाहुलकादने याचना। एषां भावे क्लीबत्वम्। क्विप् , संपत् । समित् एधो रणश्च ॥ रुक् विट युच्च कान्तिः ॥ ञः, व्यात्युक्षी व्यतिहारेण सेच- नम् ॥ अनिः, अजननिस्ते वृषल भूयात् ॥ इञ् कां त्वं कारिमकार्षीः सर्वां कारिमकार्षम् ॥ णकः, भवतः शायिका शयितुं पर्याय इत्यर्थः ॥

स्त्रीलिङ्गः) अवचूरिसहितम् । क्वचिल्लक्ष्यानुसारेण तिगन्तं नाम स्त्रीलिङ्गम् । तनुतात्तन्तिरित्यादि ॥ अल्पे हुस्खे चार्थे यः कप् तदन्तं नाम स्त्रीलिङ्गम् । अल्पः क्रयः ऋयिका । हवः पुटः पुटिका । क्वचिदिति किम् । पुटकः॥ विंशत्याद्या संख्या संख्येये संख्याने वर्तमाना च स्त्रीलिङ्गम् । इयं विंशतिः घटा घटानां वा । एवं त्रिंशदादयोऽपि ॥ षष्टिस्त्रीलिङ्गः । शताद्यानां पुन- पुंसकत्वम् । नन्तसंख्या वलिङ्गा । इन्हे विंश- त्याद्या संख्या शतादर्वाक् स्त्रीलिङ्गम् एकविंशति- र्यावन्नवनवतिः । द्वन्द्वैकवे इति क्लीबत्वबाधनार्थ वचनम् ॥ सा विंशत्याद्या सङ्ख्या द्वन्द्वे इतरे- तरसमासे मेये सङ्घयेये च वर्तमाना एकत्व एव प्रयोक्तव्या । इतरेतरार्थ वचनम् । एकविंशति- घंटा घटानां वा। एकशतम् । द्विलक्षम् । द्विसह- स्रम् । द्वन्द्वमेययोरिति किम् । वे विंशती घटा- नाम् तिस्रो वा विंशत्यः । विंशत्यादेः सङ्ख्यास्था- नस्यैव हित्खबहुखविवक्षायां द्विवचनबहुवचने ।

३८ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्ग) साचेति प्रसिद्धसङ्ख्यापरामर्शादिह न स्यात् । एकश्चैत्राय विंशतिमैत्रायेति एकविंशती आभ्यां दीयतामिति द्विवचनमेव ॥ ६॥ सुग्गीतिलताभिदि ध्रुवा विडनरि वारि घटीभबन्धयोः॥ शल्यध्वनिवा- द्यभित्सुतुक्ष्वेडा दुन्दुभिरक्षबिन्दुषु॥७॥ मुग्भेदे यज्ञभाण्डभेदे गीतिलताभिदोः शालि- पर्णीमूर्वयोश्च ध्रुवा शब्दः स्त्रीलिङ्गः। नरादन्यत्र विट् । वारीति शब्दरूपं घट्यामिभबन्धनभुवां वा। शल्यभिदि वेणुशलाकायां, ध्वनिभिदि भटानां सिंहनादे, वाद्यभिदि च दन्तोष्ठवादे क्ष्वेडा स्त्री ॥ अक्षबिन्दुषु पासकबिन्दुषु दुन्दुभिः स्त्री ॥ ७ ॥ गृह्या शाखापुरेऽश्मन्तेऽन्तका कीला रताहतौ ॥ रजौ रश्मिर्यवादिर्दोषादौ गञ्जा सुराग्रहे ॥ ८॥ शाखापुरं समीपस्थपुरं तत्र गृह्या, अश्मन्ते ३९ (स्त्रीलिङ्ग) अवचूरिसहितम् । चुल्यामन्तिका, रताहतौ सुरतग्रहणने कीला स्त्री॥ रज्जौ वाच्यायां रश्मिः स्त्री । इह यवादयो यव- यवनेति सूत्रोक्ताः शब्दा दोषादयश्वार्था गृह्यन्ते । दुष्टो यवो यवानी। यवनानां लिपिर्यवनानी । उरु अरण्यमरण्यानी । महद्धिमं हिमानी । दोषा- दाविति किम् । यवः। यवनाः । धान्यविषयनाम- त्वात्पुंस्त्वमेव । अरण्याहमयोस्तु प्रतिपदपाठान्नपुंस- कत्वम् ॥ सुरागृहे वाच्ये गञ्जा स्त्री। खनौ स्त्री- पुंसलिङ्गः ॥ ८॥ अहंपूर्विकादिवर्षामघा अपकृत्तिका बहौ ॥ वा तु जलौकाप्सरसः सिकता- सुमनः समाः॥६॥ अहंपूर्विकादयो मयूरव्यंसकादिषु कृतनिपाताः स्त्रीलिङ्गाः । 'अहं पूर्वोऽहं पूर्व इत्यहपूर्विका स्त्रियाम् | आहोपुरुषिका दीद्या स्यात्सम्भावना- मनि ॥ अहमहमिका तु सा स्यात्परस्परमहंकृतिः॥

हैमलिङ्गानुशासनम्- (स्त्रीलिङ्ग) वर्षामघाऽप्कृत्तिकाः स्त्रीबहुवचनान्ताश्च । जलौक- आदयोऽपि स्त्री. विकल्पेन बहुवचनान्ताश्च । कृत्तिकाऽर्थप्राधान्याद्बहुलापि ॥ समान्तवात्सुषमा ऽपि कालभेदे परमशोभायां च ॥ ९ ॥ गायत्र्यादय इष्टका बृहतिका संव- तिका सर्जिका,-दूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका ॥ नीका कञ्चुलिकाऽऽलुका कलिकया राका पताकान्धिका, शुका पूपलिका त्रिका चविकयोल्का पञ्चिका पिण्डिका॥१०॥ षडक्षरी गायत्रीमादीकृत्य षड्विंशत्यक्षरीमु- कृष्टिं यावत् । छन्दोजातिनामानि स्त्री । शर्करी मेखलानयोरपि । अक्षरनियमात्मकं छन्दः। गुरु- लघुनियमात्मकं वृत्तम् । इति बहुलं वृत्तेत्यादिना न सिध्यति ॥ इष्टका मृद्विकारः । बृहतिका उत्तरासङ्गः। कप्रत्ययाभावे बृहती रिङ्गिणी । संव-

(स्त्रीलिङ्गः) अवचूरिसहितम् । ४१
तिका पद्मादीनां नवोद्भिन्नं दलम् ॥ सर्जिका
क्षारविशेषः। अर्थप्राधान्यात्सझिकापि। सुवचिका।
मुन्नी इत्यादि ॥ दूषीका नेत्रमलम् । अर्थप्राधा-
न्यात् दूषिका इत्यादि ॥ पादुका उपानत् । अर्थ-
प्राधान्यादुपानदादयोऽपि तत्पर्यायाः सर्वे । झिरुका
कोष्ठिकाख्यो मृद्धिकारः। पयस्तिका परिकरः ।
अर्थप्राधान्यादवसक्थिकापि ॥ मानिका द्रोणचतु-
ष्टयम् ॥ नीका साराणः॥ कञ्चुलिका कञ्चुकः।
अल्लका धान्यकम् ॥ कलिका कुड्मलम् । काल-
कान्तवादुत्कलिकापि हेलोत्कण्ठयोः ॥ राका
कच्छूः ॥ पताका सौभाग्यं ध्वजश्च । अर्थप्राधा-
न्यात्पटाकावैजयन्तीजयन्त्योऽपि । अन्धिका कैत-
वम् ॥ शूका हृल्लेखा ॥ पूपलिकाऽपूपः। काभावे
पूपली । अर्थप्राधान्यात्पोली । त्रिका कूपस्यान्ते
यत्रं काष्ठम्॥चविका श्लेष्मन्नश्चव्याख्यो भेषजः।
अर्थप्राधान्यात् सुगन्धापि ॥ उल्का ज्वाला ॥
पश्चिका न्यासः ॥ पिण्डिका चक्रनाभिः ॥ १० ॥

४२
हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः)
ध्रुवका क्षिपका कनीनिका शम्बूका
शिबिका गवेधुका ॥ कणिका केका
विपादिका महिका यूका मक्षिकाष्ट-
का ॥ ११ ॥
ध्रुवका भाण्डविशेषः। उपलक्षणत्वात् धुव-
कापि ॥ क्षिपका शस्त्रविशेषः ॥ कनीनिका नेत्र-
तारा ॥ शम्बूका शुक्तिः॥ शिबिका याप्ययानम् ।
गवेधुका तृणधान्यविशेषः । अर्थप्राधान्यात् गवी-
धुकापि ॥ कर्णिका गोधूमचूर्णम् । अर्थप्राधान्यात्
शुद्धसमितापि । केका मयूरध्वनिः॥ विपादिका
पादस्फोटः ॥ मिहिका हिमम् ॥ यूका क्षुद्रजीव-
विशेषः । मक्षिकापि । अष्टका पितृदेवत्यं
कर्म ॥ ११॥
कूर्चिका कूचिका टीका कोशिका
केणिकोर्मिका॥ जलौका प्राविका धूका
कालिका दीर्घिकोष्ट्रिका ॥ १२॥

(स्त्रीलिङ्ग) अवचूरिसहितम् । कूर्चिका क्षीरविकृतिः॥ कूचिका कपाटाकुटः॥ अर्थप्राधान्यात् कुञ्चिकापि ॥ टीका वृत्तिः ॥ कोशिका दीपभाजनम् ॥ केणिका गुणलयनी । ऊर्मिका अङ्गुलीयकम्। जलौका रक्ताकर्षः प्राणी। अर्थप्राधान्याज्जलूकाऽपि ॥ प्राविका श्येनः ॥ धूका पताका ॥ कालिका क्षारविशेषः कीटश्च ॥ दीर्घिका परिखा ॥ उष्ट्रिका अलिञ्जरः। अर्थ- प्राधान्यान्नन्दापि ॥ १२ ॥ श (शि) लाका वालुकेषीका विह- ङ्गिकेषिके उखा ॥ परिखा विशिखा शाखा शिखा भङ्गा सुरङ्गया ॥ १३॥ शलाका चित्रकूर्चिका ॥ वालुका सिक्ता ॥ वालुकान्तत्वाद्धिमवालुकापि कपूरे ॥ इषीका वीर- पशलाकाविशेषः ॥ विहङ्गिका भारयष्टिः॥ईषिका गजाक्षिकूटम् ॥ उखा स्थाली ॥ परिखा खेयवि- शेषः ॥ विशिखा प्रतोली। शाखा भुजः ॥ शिखा ४४ हैमालङ्गानुशसिनम्- (स्त्रीलिङ्ग) चूडा ॥ भङ्गा तृणधान्यम् ॥ सुरङ्गा गूढमार्गः ॥ अर्थप्राधान्यात् सन्धिलापि ॥ १३ ॥ जङ्घा चञ्चा कच्छा पिच्छा पिञ्जा गुञ्जा खजा प्रजा॥ झञ्झा घण्टा जटा घोण्टापोटाभिस्सटया छटा॥१४॥ जङ्घाऽङ्गविशेषः॥ चञ्चा तृणमयः पुरुषः । कच्छा कच्छोटिका । अर्थप्राधान्यात् कच्छाटिकापि। पिच्छा काञ्चिकम् ॥ पिञ्जा तूलम् ॥ गुञ्जा पटहः।। खजा मन्थः दर्विश्व । अर्थप्राधान्यात् खजाका- पि ॥ प्रजा लोकः ॥ झञ्झा सशीकरो मेघवातः ॥ घण्टा वाद्यविशेषः । अर्थप्राधान्यात् किङ्गिणीक्षुद्र- घण्टिके अपि॥ जटा कचविकारः॥ घोण्टा बदरी- फलम् ॥ पोटा शण्डः। अर्थप्राधान्यात् तृतीया- प्रकृतिरपि ॥ भिस्सटा दग्धिका ॥ छटा समूह- विशेषः ॥१४॥ विष्ठा मञ्जिष्ठया काष्ठा पाठा शुण्डा (स्त्रीलिङ्गः) अवचूरिसहितम् ४५ गुडा जडा ॥ बेडा वितण्डया दाढा राढा रीढाऽवलीढया ॥ १५ ॥ विष्ठा पुरीषम् ॥ मञ्जिष्ठा रागद्रव्यविशेषोऽर्थ प्राधान्यात् अरुणापि ॥ काष्ठा मर्यादा ॥ पाठा औषधविशेषः॥शुण्डा करिहस्तः॥ गुडा स्नुही। गुडिकापि च ॥ जडा शूकशिम्बी ॥ बेडा नौः ।। वितण्डा वादभेदः॥ दाढा दंष्ट्रा॥ राढा शोभा रीढा अवहेला ॥ अवलीढापि ॥ १५ ॥ घृणोर्णा वर्वणा स्थूणा दक्षिणा लिखिता लता ॥ तृणता त्रिता त्रेता गीता सीता सिता चिता ॥ १६॥ घृणा निन्दा ॥ ऊर्णा मेषरोम ॥ वर्वणा मक्षि- का ॥ स्थूणा गृहादीनामुत्तम्भनकाष्ठम् ॥ दक्षिणा यज्ञदानम् ॥ लिखिता लिपिः ॥ तृणता चापम् । त्रिवृता औषधिः । अर्थप्राधान्यादरुणादयोऽपि तत्पर्यायाः।त्रेता युगविशेषः ॥ गीता शास्त्रवि- ४६ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) शेषः ॥ सीता लालपद्धतिः॥ सिता शर्करा । अर्थप्राधान्यात्कठिन्यपि ॥ चिता मृतकदाहाय काष्ठशय्या ॥ १६ ॥ मुक्ता वार्ता लूताऽनन्ता प्रसृता मार्जिताऽमृता॥ कन्था मर्यादा गदेतु- गन्धा गोधा स्वधा सुधा ॥ १७॥ मुक्ता मौक्तिकम् ॥ वार्ता वृत्तिः ॥ लूता ऊर्णनाभः ॥ अनन्ता दूर्वा ॥ प्रसृता जङ्घा ।। मार्जिता शिखरिणी ॥ अर्थप्राधान्यात् मर्जिता शिखरिण्यावपि॥अमृता पथ्या गुडूची च ॥ कन्था स्यूतजीर्णवस्त्रप्रावरणमा मर्यादाऽवधिः॥गदा प्रहरण विशेषः॥ इक्षुगन्धा कोकिलाक्षे गोक्षुरकाशक्रोष्ट्रीषु।। गोधा दोस्त्राणं प्राणिविशेषश्च । पुंध्वजोऽपि ॥ गोधान्तत्वात् तृणगोधा कृकलासः॥ स्वधा पितृदा- नार्थो मन्त्रविशेषः । सुधा पीयूषं लेपनं च ॥१७॥ सास्ना सूना धाना पम्पा

(स्त्रीलिङ्गः) अवचूरिसहितम्
४७
झम्पा रम्पा प्रपा शिफा ॥
कम्बा भम्भा सभा हम्भा
सीमा पामारुमे उमा ॥ १८ ॥
सास्ना गोगलचर्म ॥ सूना घातस्थानम् ॥
धाना भ्रष्टयवोऽङ्कुरश्च ॥ पम्पा सरोवरविशेषः ॥
झम्पा उच्चाधः पतनम् ॥ रम्पा चर्मकृदुपकरणम्
प्रपाऽम्बुशाला । अकर्तरि कः स्यादिति पुंस्त्वे
प्राप्तेऽस्य पाठः। शिफा तरुजटा । कम्बा कम्बिः।
भम्मा भेरी। सभा वृन्दम् सभासदश्च । हम्भा
गोध्वनिः । अर्थप्राधान्याद्रम्भापि । सीमा मर्यादा।
पामा कण्डूः । अर्थप्राधान्याद्विचर्चिकापि । रुमा
लवणाकरः। उमा कीर्तिः ॥१८॥
चित्या पद्या पर्या योग्या
छाया माया पेया कक्ष्या ॥
दृष्या नस्या शम्या सन्ध्या
रथ्या कुल्या ज्या मङ्गल्या॥१६॥

हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गा) चित्या चिता । पद्या मार्गः। पर्या क्रमः । सहयोगे सपर्या पूजा । योग्याभ्यासः । छाया शोभातमःप्रतिबिम्बेषु पालनोत्कोचयोः पङ्क्त्य- कयोषित्कान्त्यादिषु च । माया दम्भः । अर्थ- प्राधान्यात् शाम्बरी। पेया शृतं दुग्धादि । कक्ष्या काञ्ची हादेमध्यभागश्च । दूष्या रज्जुः। नस्या वृषादीनां नासारज्जुः । शम्या युगकीलकः । सन्ध्या चिन्तामर्यादादिषु । रथ्या स्थानां समूहः प्रतोली पन्थाश्च । कुल्या सारणिः । ज्या मूर्वी मङ्गल्या मल्लिकागन्ध्यगुरुश्च ॥ १९ ॥ उपकार्या जलार्द्ररा प्रतिसीरा पर- म्परा ॥ कण्डराऽसृग्धरा होरा वागुरा शर्करा शिरा ॥२०॥ उपकार्या नृपमन्दिरम् । अर्थप्राधान्यादुपका- रिकापि । जलार्दा आईवस्त्रम् । इरा जलमन्नं गीश्च । प्रतिसीरा जवनिका । परम्परा परिपाटिः (स्त्रीलिङ्गः) अवचूरिसहितम् । सन्तानकश्च । कण्डरा महास्नायुः । असृग्धराऽजि- नम् । होरा लभम् । वागुरा मृगबन्धिनी । शर्करा उपला । शिरा धमनी ॥ २०॥ गुन्द्रा मुद्रा तुद्रा भद्रा भस्ना छत्रा यात्रा मात्रा। दंष्ट्रा फेला वेला मेला गोला शाला माला॥२१॥ गुन्द्रा मुस्ताविशेषः। अर्थप्राधान्यान्महिलापि। मुद्रा प्राण्यङ्गुलिसन्निवेशः । क्षुद्रा वेश्या नटी कण्टकारिका च । भद्रा विष्टिः । भस्त्रा लोहध- मनी । छत्रा मधुरिका । कुस्तुम्बरशिलन्ध्रयोश्च । यात्रा प्रयाणी देवोत्सवो वृत्तिश्च । मात्रा परिच्छदः मानमल्पं च । दंष्ट्रा दाढा । अर्थप्राधान्याद्राक्ष- स्यपि । फेला भोजनोज्झितम् । अर्थप्राधान्यात्मि- ण्डोलिः फेलिश्च । वेला काले बुधग्रहस्त्रियां सीन्नि बाचि च । अकारप्रश्लेषादवेला पूगचूर्णः। मेला ममिः। गोला बालक्रीडनकाष्ठम् । दोला प्रेक्षा । ४ ५० हैमलिङ्गानुशासनम्- (स्त्रीलिङ्ग) शाला गृहम् । अर्थप्राधान्यात् किमीत्यपि । माला पतिः। खार्थिके के मालिका पुष्पमाल्यम् । सरिद्भेदः पक्षी अवेयकं च ॥ २१ ॥ मेखला सिध्मला लीला रसाला सर्वला बला ॥ कुहाला शङ्खला हेला शिला सुवर्चला कला ॥२२॥ मेखला काञ्चीशैलनितम्बखड्गबन्धेषु। सिध्मला मत्स्यचूर्णम् । लीला केलिः । रसाला मार्जिता जिह्वा च । सर्वला बाणभेदः। बला औषधिवि- शेषः । अर्थप्राधान्याद्विनयापि । बलान्तवादति- बलामहाबले अपि । कुहाला काहला । अर्थप्रा- धान्याञ्चण्डकोलाहला पिच्छला पत्रकाहला च । शङ्कुला क्रीडनशङ्कुः । हेलावहेला । शिला दृषत् स्तम्भाधारभूतं दारु च । गण्डूपयां तु ड्यां शिली। सुवर्चला शाकविशेषः । कला शिल्पादिः ॥२२॥ उपला शारिवा मूर्वा लट्वा खट्वा (स्त्रीलिङ्गः) अवचूरिसहितम् । शिवा दशा ॥ केशा कुशेशा मञ्जूषा शेषा मूषेषया स्नसा ॥ २३॥ उपलाऽश्मरूपा मृत् शर्करा च। अत्र चोप- लक्षणत्वात् माधवी मधुनः शर्करा॥ अथ वान्ताः पञ्च ॥ शारिवा औषधविशेषः शालिविशेषः । मूर्वा ज्याहेतुस्तृणविशेषः । अर्थप्राधान्यान्मोरटा- स्रवे अपि । कटम्भरापि च ॥ लट्वा कुसुम्भं भ्रमरश्च ॥ खट्वा शयनम् ॥ शिवा क्रोष्ट्री ॥ दशावस्था वर्तिश्च ॥ कशाऽश्वताडनं चर्मदण्डः। अर्थप्राधान्यात्सप्तलापि ॥ कुशा बला ङ्यां कुशी आयसी चेत् ॥ ईशा हलदण्डः ॥ मञ्जूषा पेटा अर्थप्राधान्यात् पेटीपेटे अपि ॥ शेषा देवनिर्मा- ल्यम् ॥ मूषा वर्णविलयनभाण्डम् ॥ ईषा हला- द्यवयवः ॥ नसा स्नायुः॥ २३ ॥ वनसा विस्रसा भिस्सा नासा बाहा गुहा स्वाहा ॥

५२ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) कक्षाऽऽमिक्षा रिक्षा राक्षा भङ्गयावल्यायतिस्त्रोटिः ॥२४॥ वस्त्रसा स्नायुः। विस्रसा जरा ॥ भिस्सा ओदनः ॥ नासा स्तम्भादीनामुपरि दारु ॥ बाहा बाहुः ॥ गुहा गिरिविवरम् । खाहाग्निभार्या ॥ कक्षा उदाहणिका स्पर्धा पदं कटाटिका च ॥ आमिक्षा शृतक्षीरक्षिप्तदधि ॥ रिक्षा यूकाण्डम् । लवे लिक्षा ॥ राक्षा जतु । लले लाक्षा ॥ अर्थ- प्राधान्यात् वरवर्णिनी रजनी पलङ्कषा च ॥ अथ चेदन्ताः ॥ भङ्गिविच्छित्तिः ॥ आवलिः पतिः।। आयतिरुत्तरकालः प्रभावः दैर्घ्य च ॥ त्रोटिर्मत्स्य- भेदे बन्द्यां च ॥ २४॥ पेशिसिर्वसतिविपणी नाभिना- ल्यालिपालि, भल्लिः पल्लिर्धकुटिशक- टी चर्चरिः शाटिभाटी ॥ खाटिर्वति- व्रततिवमिशुण्ठीतिरीतिर्वितर्दि,-दर्वि- (स्त्रीलिङ्गः) अवचूरिसहितम् । ५३ नींविच्छबिलिबिशढिश्रेढिजात्याजिरा- जि ॥२५॥ पेशिर्मासपिण्डी खड्गपिधानं च ॥ वासिस्तक्षो- पकरणम् । अर्थप्राधान्यात्तक्षण्यपि ॥ वसतिर्वेश्म ॥ विपणिः पण्यमापणः पण्यवीथी च ॥ अस्यां च पुंस्यपीति कश्चित् ॥ नाभिश्चक्रादिनाभिः॥ नालिः कालमान कन्दलं च ॥ लत्वाभावे नाडि लम् । शिरा च ॥ शिरायां चार्थप्राधान्याल्ललनापि ॥ आलिरनर्थः सेतुश्च ॥ पालि कर्णलताग्रम् अस्त्रि- रुत्सङ्गप्रान्तश्च ॥ पाल्यन्तत्वादकपाल्यपि ॥ भल्लि- र्वाणभेदः ॥ पल्लिः कुटी हस्खग्रामश्च ॥ भ्रकुटिर्भू- भङ्गः। उपलक्षणत्वात् भ्रूकुटिः भृकुटी अपि ॥ शकटिः शकटम् ॥ चर्चरिः हर्षक्रीडा ॥ शाटिः प्रावरणविशेषः ॥ भाटिः सुरतमूल्यम् ॥ खाटिः किणः। वर्दीिपस्तद्दशा च ॥ व्रततिविस्तारः ।। वमिर्वान्तिः॥ शुण्ठि गरम् । इतिरुपद्रवः ॥ अर्थप्राधान्यात् शृगाल्यपि ॥ 'अतिवृष्टिरनावृष्टि- ५४ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) मूषकाः शलभाः शुकाः॥ अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः' ॥ रीतिरारकूटम् । अर्थ- प्राधान्यादरीरी अपि । वितर्दिर्वेदिका ॥ दर्वि- रहस्तः ॥ नीविर्मूलधनम् ॥ छविः कान्तिः शोभा ॥ लिबिलिपिः॥ अर्थप्राधान्याल्लिपिरपि ॥ शढिरौषधविशेषः॥ श्रेढिर्गणितव्यवहारविशेषः ॥ जातिर्मालती ॥ आजिः संग्रामः । पुंस्यपीति कश्चित् । राजिः पतिः। के राजिका केदारः॥२५॥ रुचिः सूचिसाची खनिः खानिखारी खलिः कीलितूली क्लमिळपिधूली ॥ कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी किकिः कुक्कुटिः काकलिः शुक्ति- पङ्क्ती ॥ २६॥ रुचिः कान्तिः ॥ सूचिः सेवनी ॥ साचिः तिर्यग् । खनिराकरः ॥ खानिः स एव ॥ खारि- मानविशेषः ॥ खलिः पिण्याकादिः ॥ कीलि:

(स्त्रीलिङ्गः) अवचूरिसहितम् । कीलिका ॥ तूलिः चित्रकूर्चिका ॥ क्लमिः क्लमः ॥ वापिः कूपः ॥ धूलिः पांशुः॥ कृषिः कर्षणम् ॥ उपलक्षणं चेदं किप्रत्ययान्तानाम् । तेन छिदि- भिदित्विष्यादयोऽपि सिद्धाः ॥ स्थालिरुखा ॥ हिण्डिः रात्रौ रक्षाचारः ॥ त्रुटिः संशयेऽल्पेऽपि ॥ वेदियज्ञोपकरणी भूः ॥ नान्दिः पूर्वरङ्गाङ्गम् ॥ ककिः पक्षविशेषः ॥ कुक्कुटिः कुहनी ॥ काकलि- ध्वनिविशेषः । शक्तिः कपालशकले । पतिर्दश- सङ्ख्या ॥ २६ ॥ किखिस्ताडिकम्बी युतिःशारिराति- स्तटिः कोटिविष्टी वटिष्टिवीथी । दरिर्वल्लरिर्मञ्जरि पुञ्जिभेरी शरारिस्तु- रिः पिण्डिमाढी मुषण्ढिः ॥२७॥ किखिः कालस्य गोत्रविशेषः ॥ ताडिराभरण- विशेषः॥ कम्बिदविः ॥ धुतिः कान्ति ॥ शारिर- क्षोपकरणम् ॥ आतिः शरारिः ॥ तटिः नद्यादौ ५६ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) जलास्फोटनस्थानम् ॥ कोटिरग्रम् ॥ विष्टिर्भद्रा ॥ वटिगुलिका ॥ गृष्टिानविशेषः ॥ वीथिः पतया दिषु ॥ दरिः कन्दरा ॥ वल्लरिमञ्जयौं एकार्थे ॥ पुंञ्जिः संहितः ॥ भेरिः वाद्यम् ॥ शरारिराटिः। तुरिस्तन्तुवायोपकरणम् ॥ पिण्डिनिष्पीडितस्नेह- पिण्डः ॥ माढिः पत्रस्नसा ॥ मुषण्ढिरायुध- विशेषः॥ २७ ॥ राटिराटिरटविः परिपाटिः फालिगालिजनिकाकिनिकानि ॥ चारिहानिवलभि प्रधिकम्पी चुल्लिचुण्टितरयोंऽहतिशाणी।२८। राटिः कलहः ॥ आटिः शरारिः ॥ अटविः अरण्मम् ॥ परिपाटि: क्रमः ॥ फालिदलम् ॥ गालिरवद्योद्भावनम् ॥ जनिर्जन्म ॥ काकिनिर्माष- चतुर्भागः ॥ कानिः सङ्कोचः॥ चारिः पशुभक्ष्यम् । हानिरर्थनाशः ॥ वलभिः पटलाधरो वंशपञ्जरः ॥

(स्त्रीलिङ्गः) अवचूरिसहितम् । ५७ इदन्तत्वात् ड्यां वलभी ॥ अर्थप्राधान्यात् गोपानसी॥ प्रधिः रोगविशेषः॥ काम्पिः कम्पनम्। चुल्लिरुद्धानम् ॥ चुण्टिः क्षुद्रवापी। तरिः नौः॥ अर्थप्राधान्यात् द्रोण्यपि ॥ अंहतिर्दानम् ॥ शाणिः शाणः॥२८॥ सनिः सानिमेनी मरिर्मारिरश्यो- षधी विद्रधिझल्लरिः पारिरभ्रिः ॥ शिरोधिः कविः कीर्तिगन्त्रीकबर्यः कुमा- ढिकी स्वेदनी हादिनीली ॥२६॥ सनिर्याचा । सानिर्वस्त्रभेदः॥ मेनिः सङ्कल्पः।। मरिारिश्च मरकम् ॥ अश्रिः कोटिः ॥ ओषधि- रौषधम् ॥ विद्रधिः रोगविशेषः ॥ झल्लरिर्वाद्य- विशेषः ॥ अर्थप्राधान्यात् कलरिरपि ॥ पारिस्तै- लाद्याधारः ॥ अभ्रिः खनित्रम् ॥ शिरोधिः कन्ध- रा ॥ कबिः खलानम् ॥ कीर्तिर्यशः॥अथेदन्ताः॥ गन्त्री शकटिका ॥ कबरी वणिः ॥ कुमारी राम- ५८ हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) तरुणी ॥ आढकी धान्यभेदः ॥ अर्थप्राधान्यात् तुबर्यपि ॥ खेदिनी कण्डूः ॥ हादिनी वज्रम् ॥ ईली एकधारोऽसिः ॥ २९ ॥ हरिण्यश्मरी कर्तरीस्थग्यपट्यः करीपैकपद्यक्षवत्यः प्रतोली ॥ कृपाणीकदल्यौ पलालीहसन्यौ वसी गृध्रसी घर्घरी कर्परी च॥३०॥ हरणी वर्णप्रतिमा ॥ अश्मरी मूत्रकृच्छ्रम् ॥ कर्तिनी तकुः ॥ स्थगी ताम्बूलकरङ्कः ॥ अपटी काण्डपटः ॥ करीरी करिदन्तमूलम् ॥ एकपदी मार्गः॥अर्थप्राधान्यात्पदविरपि ॥अक्षवती द्यूतम् ॥ प्रतोली विशिखा ॥ कृपाणिः कर्तरिः॥ अर्थप्रधा- न्यात्कर्तर्यपि ॥ कदली पताका ॥ पलाली क्षोदः॥ हसनी अङ्गारशकटी॥ अर्थप्राधान्यात् हसन्त्यपि।। बृसी वतिनामासनम् मूर्धन्योपान्त्यो दन्त्योपान्तश्च ॥ गृध्रसी ऊरुसन्धौ वातरुक् ॥ घर्घरी किङ्किणी ॥

(स्त्रीलिङ्ग) अवचूरिसहितम् । कर्परी तुत्थाञ्जनम्॥ अर्थप्राधान्याद्दर्विकापि ॥३०॥ काण्डी खल्ली मदी धटी गोणी खण्डोल्येषणी द्रुणी ॥ तिलपर्णी केवली खटी नधीरवसत्यौ च पातली॥३१॥ काण्डी वेदविषयो ग्रन्थः ॥ खल्ली हस्तपादाव- मर्दनाख्यो रोगः । मदी कृषिवस्तुविशेषः ॥ धटी वस्त्रखण्डम् ॥ गोणी धान्यभाजनविशेषः॥ अर्थ- प्राधान्यात् कण्ठालापि ॥ खण्डोली सरसी तैल- मानं च ॥ एषणी वैद्यशलाका ॥ अर्थप्राधान्यात् नाराच्यपि ॥ द्रुणी कर्णजलौका ॥ तिलपर्णी रक्तचन्दनम् ॥ पर्ण्यन्तत्वेन माषपर्णीत्याद्यपि ॥ केवली ज्योतिःशास्त्रम् ॥ खटी खटिनी ॥ अर्थ- प्राधान्यात कष्कटी कठिन्यामपि ॥ नधी वध्री ॥ रसवती महानसम् ॥ पातली वागुरा ॥ ३१॥ बाली गन्धोली काकली गोष्ठयजा- ६० हैमलिङ्गानुशासनम्- (स्त्रीलिङ्गः) जीन्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च ॥ शृङ्गी कस्तूरी देहली मौर्व्यति- भ्यासन्दीक्षरेय्यः शष्कुली दद्रुपचूं।३२॥ बाली कर्णभूषणम्॥कप्रत्यये वालिका सिकता।। गन्धोली क्षुद्रजन्तुः ॥ काकली ध्वनिविशेषः ॥ गोष्ठी सभा संलापश्च ॥ अजाजी जीरकः ॥ इन्द्राणी करणविशेषः सिन्दुवारश्च ॥ मत्स्यण्डी शर्कराभेदः ॥ अर्थप्राधान्यात् मात्स्यण्डी मीनाण्डी च । दामनी पशुरज्जुः ॥ शिञ्जिनी ज्या ॥ शृङ्गी वर्णविशेषः ॥ कस्तूरी मृगमदः ॥ अर्थप्रधान्या- द्योजनगन्धापि ॥ देहली गेहद्वाराग्रस्थली ॥ मौर्वी ज्या ॥ अतिभीर्वज्रज्वाला । आसन्दी वेत्रा- सनम् ॥ क्षैरेयी पायसम् ॥ शष्कुली अन्नभेदः । अथोदन्ताः॥द्रुः कुष्ठभेदः॥ पशुः पार्थास्थि ॥३२॥ कर्णान्दुकच्छू तनू रज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक्॥

(स्त्रीलिङ्गः) अवचूरिसहितम् हार्योदिवौ स्युक्त्वगृचः शरद्वा- श्छर्दिदरत्पामहषद्द्दशो नौः॥३३॥ इति स्त्रीलिङ्गाः॥ कर्णान्दुरुत्क्षिप्तिका ॥ कच्छुः पामा ॥ तमुः कायः ॥ रज्जुर्गुणः॥ अर्थप्राधान्याहरत्रापि । चञ्चुः पक्षिमुखाग्रम् ॥ स्नायुः शिरा ॥ जुहूः मुग्भेदः ॥ सीमा मर्यादा ॥ धूः शकटाङ्गम् ॥ स्फिग् क्षुतम् ॥ अर्वाक् अवान्तरम्॥ द्वार द्वारम्।। घोदिवित्येतौ वर्गाकाशवाचिनौ ओकारान्तवन्तौ॥ सुग होमभाण्डम् ॥ लक् चर्म वल्कलं च ॥ वल्कले चार्थप्राधान्यात् छल्लिरपि ॥ ऋग् गाय- त्र्यादिः॥ एते त्रयोऽपि चन्ताः॥ शरत् ऋतुविशेषः वर्षश्च ॥ वाः वारि ॥ क्वचित क्लीबत्वमपि ॥ छर्दिवान्तिः॥दरत् म्लेच्छविशेषः॥पामा कच्छूः॥ दृषत्पाषाणः ॥ दृग् लोचनम् । नौस्तरी ॥३३॥ इति स्त्रीलिङ्गं समाप्तम् ॥

६२ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) अथ नपुंसकलिङ्गः । नलस्तुतत्तसंयुक्तररुयान्तं नपुंस- कम् ॥ वेधादीन् विना सन्तं हिस्वरं मन्नकर्तरि ॥१॥ नान्तं लान्तं स्त्वन्तं तान्तं त्तान्तं संयुक्ता ये ररुयास्तदन्तं च नपुसंकलिङ्गं स्यात् । नान्तमजिनं चर्मेत्यादि ॥ लान्तं, चक्रवालं समूहः। दलं शक- लम् ॥ स्त्वन्तम् । वस्तुतत्त्वं पदार्थश्च ॥ मस्तु दधि- निस्यन्दः ॥ तान्तं शीतमनुष्णम्, अद्भुतमाश्चर्य- मित्यादि ॥ त्तान्तं भित्तं शकलम्, निमित्तं हेतु- रित्यादि ।। त्तस्य संयुक्तम् पृथगुपन्यासात्पूर्वेऽसं- युक्ता गृह्यन्ते ॥ संयुक्तरान्तम् अग्रं पुरः अधिक च ॥ गोत्रं नाम कुलं क्षेत्रं च ॥ शुक्र सप्तमो धातुः । इत्यादि॥संयुक्तरुशब्दान्तम् श्मश्रु कूर्चर इत्यादि ॥ संयुक्तयान्तं शरव्यं लक्ष्यं वेध्यं च । सान्नाय्यं हव्यमित्यादि ॥ वेधस्प्रभृतीन वर्जयित्वा (नपुंसकलिङ्गः) अवचूरिसाहतम् । ६३ सकारान्तं द्विस्वरं च नपुंसकम् ॥ इदं रक्षः निशाचरः॥ उषः प्रभातं सन्ध्यायां तु पुंस्त्री ॥ तपः कृच्छ्राचरणम् ॥ माघे पुनपुंसकम् ॥ रजो रेणुः । पुंसीति गौडः ॥ जोपान्त्योऽयम् ॥ यादो जलचरः ॥ रोचिः शोचिश्व दीप्ती ॥ वेधः आदी- निति किम् । वेधा बुधो विष्णुर्विधिश्च ॥ सहा हेमन्तः ॥ नभा मेघादिः ॥ ओका आश्रयः ॥ ओकस्य तु कान्तत्वात्पुंस्त्वम् । पूर्वापवादो योगः। तेनाम्भः स्त्रोतो याद इत्यादीनां नद्यादिनामत्वेऽपि क्लीबत्वमेव ॥ गुणवृत्तेस्त्वाश्रयलिङ्गता परत्वात् ॥ द्विखरमिति अनुवर्तते, अकर्तरि विहितो यो मन्त- दन्तं नाम नपुंसकम् ॥ धाम तेजः। वर्म प्रमाणं शरीरं च ॥ तर्म यूपानम् । वर्त्म मार्गः॥ अकर्त- रीति किम् ॥ ददातीति दामा ॥ करोतीति कर्मा ॥१॥ धनरत्ननभोऽन्नहषीकतमोघुसृणाङ्ग- णशुल्कशुभाम्बुरुहाम् ॥ अघगूथज- ६४ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्गः) लांशुकदारुमनोबिलपिच्छधनुर्दलता- लुहृदाम् ॥२॥ धनादीनां नाम नपुंसकम् ॥ धननाम, द्रविणं बस्तु इत्यादि ॥ रत्नं माणिकमित्यादि ॥ नभो विय- दित्यादि ॥ अन्नं सिक्थं भक्तम् ॥ हृषीकम् इन्द्रि- यम् अक्षम् ॥ तमोऽवतमसम् इत्यादि ॥ दिगम्ब- रस्य तु बाहुलकात् पुंस्त्वम् । घुसृणम् कुङ्कुमः । पुंसीति वाचस्पतिः ॥ कश्मीरजम् इत्यादि । अङ्गणम् प्राङ्गणम् अजिरम् । इत्यादि । शुल्कम् आरनालम् तुषोदकमित्यादि ॥ शुभम् श्वःश्रेयसम् कल्याणमित्यादि ॥ शम्भावपि निश्रेयसशब्दो बाहुलकात् नपुंसकः ॥ अम्बुरुहम् अब्जम् कुशे- शयम् इत्यादि ॥ अम्बुरुहवाचिनां ननिलाम्बुज- पद्मकमलनालीकानां पुनपुंसकत्वम् ॥ अधम् पापम् । गूथम् अशुचिः॥जलम् सलिलम् कीला- लम् क्षीरम् । दधिसारबाणयोस्तु पुनपुंसकत्वम् ।

(नपुंसकलिङ्गः) अवचुरिसहितम् । गौडस्तु धनरसस्यापि ॥ वरुणस्य तद्वाचिनो बाहु लकात् पुंस्त्वम्॥अंशुकम् वस्त्रम् ॥दारु काष्ठम् ॥ काष्ठान्तवात्पूतिकाष्ठमपि॥ सरलो देवदारुश्च द्रुमौ॥ एधस्तु घअन्तत्वेन पुंसि ॥ समिधस्तु स्त्र्युक्तत्वात् स्त्रीत्वम् ॥ मनो मानसमित्यादि ॥ बिलम् रन्ध्रम् इत्यादि ॥ पिच्छम् पतत्रम् पत्रम् । तनूरुहगरु- हास्तु पुनपुंसकाः ॥ धनुः कार्मुकम् । पिनाक- कोदण्डगाण्डीवगाण्डिवानां पुनपुंसकत्वम् ॥ दलम् किसलयम्॥ तालुः काकुदम् ॥ हृत् हृदयम्। वक्षः पुनपुंसकम् ॥ २॥ हलदुःखसुखागुरुहिङ्गुरुचत्व- चभेषजतुत्थकुसुम्भदृशाम् ॥ मरिचास्थिशिलाभवसृकयकृन्न- लदान्तिकवल्कलसिध्मयुधाम्॥३॥ हलम् लाङ्गलम् ॥ दुःखम् कष्टम् ॥ सुखं शर्म॥ सुखादीनां गुणवृत्चेस्त्वाश्रयलिङ्गता ॥ सुखः ५

६६
हैमलिङ्गानुशासनम्-(नपुंसकलिङ्गः)
सुखा ॥ अगुरु लोहम् ॥ हिङ्गु सहस्रवेधि ॥
रुचम् हीबेरम् ॥ त्वचम् गन्धद्रव्यविशेषः ॥
भेषजम् शमनम्॥तुत्थम् चक्षुष्यो द्रव्यविशेषः ।
औषधस्तु पुनपुंसकः ॥ कुसुम्भम् वह्निशिषम्
महारजतम् ॥ कुसुम्भस्तु पुनपुंसकः ॥ अक्षि,
ईक्षणम् । दृग् दृष्टिः स्त्रीलिङ्गे ॥ मरिचम् वेल्ह-
जम् ॥ अस्थि कीकसम् ॥ शिलाभवं शिलायाः
सारः निस्यन्दः शैलेयसंज्ञम् । सृक्क ओष्ठपर्यन्तः॥
यकृत् दक्षिणपाधै कृष्णमांसांशः ॥ नलदं तृण-
विशेषः । अन्तिकम् समीपम् अभ्यर्णम् अभ्या-
शम् ॥ दन्त्योपान्त्ये तु बाहुलकात्पुंस्त्वम् ॥ सिध्म
किलासम् ॥ युत् युद्धम् । युधस्तु स्त्रीत्वम् ।
संयतो नपुंसकत्वम् ॥ ३ ॥
सौवीरस्थानकद्वारक्लोमधीतेयकास-
जाम् ॥ लवणव्यञ्जनफलप्रसूनद्रवतां
सभित् ॥४॥

(नपुंसकलिङ्गः) अवचूरिसाहतम् । सौवीरादीनां लवणादीनां तु सभेदमपि क्ली- बम् ॥ वाच्यस्य सभेदत्वान्नामापि सभेदम् । सौवीरम् सौवीराञ्जनम् ॥ स्थानकं योधानामाली- ढादिसंस्थानविशेषः ॥ द्वारमुपायेऽपि बाहुलकात् क्लीबम् ॥ क्लोममुदो जलाधारो हृदयस्य दक्षिणे यकृत् क्लोमं च वामे प्लीहा पुष्पसाश्चेति वैद्याः ॥ धौतेयकं ग्रन्थिपर्णम् ॥ तहाची जीवदस्तु बाहुल- कात्पुंसि ॥ अमृग् रुधिरम् ॥ लवणम् तद्भेदाः, अक्षीवमाणिबन्धविडादयः॥ व्यञ्चनभेदाः दधि- दुग्धाज्यतकादयः ॥ गोरसस्य सान्तत्वात्पुंस्त्वम् ॥ फलभेदा नालिकेरादयः॥ प्रसूनभेदाश्चम्पकादयः॥ अग्निसंपर्के ये द्रवन्ति विलीयन्ते ते द्रवन्त- स्तेषां भेदा लोहादयः॥ स्वर्णवाचिनस्तु चाम्पे- यस्य आरकूटवाचिनो मदनस्य तु बाहुलकात पुंस्त्वम्॥ इह पृथग्ग्रहणात् जलसम्पर्काचे द्रवान्ति न तेषां परिग्रहः ॥ तेन न मृदोऽपि परिग्रहः ॥४॥ पुरं सद्माङ्गयोश्छाशीर्षयोः पुण्ड- ६८ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्गः) रीकके ॥ मधु द्रवे ध्रुवं शश्वतकयोः खपुरं घटे॥५॥ सद्मनि अङ्गे च पुरं क्लीबम् ॥ नगरे तु त्रि, लिङ्गः ॥ पुण्डरीकं कं च क्रमेण छत्रे शीर्षे च ॥ द्रवति वस्तुनि मधु क्लीबम् ॥ मधु मकरन्दः ॥ शश्वन्नित्ये तर्के उहे च ध्रुवम् ॥ अन्यत्र तु यथा- प्राप्तम् ॥ खपुरं घटे वाच्ये क्लीबम् ॥ ५॥ अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु ॥ असं द्वन्द्वं स्थले धन्वारिष्टमद्रु- मपक्षिणोः ॥६॥ अयूपादिष्वर्थेषु यथासङ्घयं युगदिष्टकटुशब्दाः क्लीबाः॥ युगं युग्मम् कृतादिच॥ यूपे तु पुनपुंस- कम् ॥ गोगोयुगम् इत्यादौ तु गोयुगप्रत्ययान्ता- देवं सिद्धम् ॥ दिष्टम् दैवम्॥ काले तु पुंसि॥ कटु अकार्यम् दूषणं च॥ समासादन्यत्र द्वन्दं क्लीबम् ।। इन्ई युग्मम्॥अर्थप्राधान्याइन्द्वमपि॥धन्वन् शब्दः

(नपुंसकलिङ्गः) अवचूरिसहितम् ।
स्थले क्लीबः ॥ मरौ तु पुनपुंसकः॥द्रुमं च पक्षिणं
च वर्जयित्वाऽरिष्टम् क्लीबम् ॥ अरिष्टम् सूतिका-
गृहम् मरणम् अशुभम् च ॥६॥
धर्म दानादिके तुल्यभागेऽर्धे ब्राह्मणं
श्रुतौ ॥ न्याय्ये सारं पद्ममिभबिन्दौ
काममनुमतौ ॥७॥
दानादिके पुण्यस्योपाये धर्मः क्लीबः॥ तानि
धर्माणि प्रथमान्यासन्॥पुण्ये तु मान्तत्वात्पुंस्त्वम्॥
खभावे तु पुनपुंसकः॥ समेंऽशे वाच्येऽर्धशब्दः॥
अर्ध पिष्पल्याः अर्धपिष्पली ॥ अतुल्ये भागे तु
पुंस्त्वम् ॥ केचिदाश्रयलिङ्गतामाहुः ॥ श्रुतौ वेद-
विषये ब्राह्मणं नपुंसकम्॥ न्यायादनपेतं न्याय्यम्
तस्मिन् वाच्ये सारशब्दः ॥ बलादौ तु पुंस्त्वम् ।
इभबिन्दौ वाच्ये पद्मं नपुंसकम् ॥ अन्यत्र तु
यथाप्राप्तम् ॥ अनुज्ञायां कामं क्लीबम् ॥अयमव्य-
यमप्यस्ति ॥ ७ ॥

॥ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्गः) खलं भुवि तथा लक्ष वेध्येऽहः सुदि- नैकतः ॥ भूमोऽसङ्ख्यात एकार्थे पथः सङ्ख्याव्ययोत्तरः॥८॥ भुवि वाच्यायां क्लीबं खलम् ॥ पिण्याके दुर्जने च पुनपुंसकः ॥ स्थाने तु त्रिलिङ्गः॥ वेध्ये वाच्ये लक्षम् । व्याजे तु पुंनपुंसकः ॥ सङ्ख्यायां तु पुंस्त्री ॥ शोभनवाचिसुदिनशब्दादेकशब्दाच्च परो अह इति कृतसमासान्तोऽहन् शब्दः क्लीबः।। भूम इति कृतसमासान्तो भूमिशब्दः संख्याया अन्येभ्यः परः एकार्थे कर्मधारये वर्तमानः क्लीबः॥ पाण्डुर्भूमिः पाण्डुभूमम् ॥ एवमुद्ग्भूमम् । कृष्ण- भूमम् ॥ असंख्यात इति किम् । द्वयोर्भूम्योः समाहारो द्विभूमम् 'अन्यस्तु सर्वो नपुंसकः' इति नपुंसकत्वम् ॥ ननु चेत्संख्यापूर्वस्यापि क्लीबत्वम् तर्हि निषेधोऽनर्थकः ॥ नैवम् ॥ द्वयोर्भूम्योः क्रीत इति कृतसमासान्तादिकणि तस्य लुपि क्लीबत्वस् (नपुंसकलिङ्गः) अवचूरिसहितम् । आश्रयलिङ्गता चेष्यते । एतच्च विशिष्टं व्यावृत्तेः फलम् । संख्यावाचिनोऽव्ययाच परः कृतसमा- सान्तोऽयं पथिन् शब्दः पथशब्दो वा क्लीबे । द्वयोः पन्थाः द्विपथम् ॥ यवययो वायम् ॥ ८ ॥ द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययवि- शेषणे ॥ कृत्याः क्तानाः खल् जिन् भावे आ त्वात् त्वादिः समूहजः ॥६॥ द्वन्द्वैकत्वं सुखदुःखम् । अव्ययीभावः दण्डा- दण्डि । तूष्णींगङ्गं देशः॥ पञ्चनदम् । पारेगङ्ग मित्यादि ॥ क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तद्वाचि नपुंसकम् ॥साधु पचति । प्राग्रमणीयम् दिग् देशः कालो वा ॥ एवमुद्र प्रत्यगित्यादि ॥ भावे ये विहिताः कृत्याः क्तानाः खल् जिन् तदन्तं नाम क्लीबम् ॥ चैत्रेण कार्य पाक्यं कर्तव्यं करणीयं देयं ब्रह्मभूयं ब्रह्मत्वमि त्यादि ॥ ताना इति प्रश्लेषात् आनानानटो (नपुंसकलिङ्गः) अवचूरिसाहतम् । ७३ शौवम् ॥ एयञ्, पौरुषेयम् । इत्यादि ॥ ९ ॥ गायत्र्यायण स्वार्थेऽव्यक्तमथान- कर्मधारयः॥ तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥१०॥ गायत्र्यादीनि च्छन्दोनामानि खार्थे योऽण तदन्तानि क्लीबानि ।। गायत्र्येव गायत्रम् ॥ एव. मानुष्टुभादीन्यपि ॥ अव्यक्तम् अव्यक्तलिङ्गवाचि क्लीबम् ॥ किं तस्या गर्भे जातम् ॥ यत्तत्रोत्पद्यते तदानय ॥ इदं च शिष्टप्रयुक्तेष्वेव द्रष्टव्यम् ॥ अधिकारोऽयम् गृहतः स्थूणा इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र नसमासं कर्मधारयं च वर्जयित्वा योऽन्यस्तत्पुरुषः स नपुंसकं भवतीति अधिकृतं वेदितव्यम् ॥ छायान्तस्तत्पुरुषः क्लीबः।। सा यदि येषा बहूनां समुदितानां सम्भवति ॥ शलभानां छाया शलभच्छायम् ॥ शरच्छायम् ॥ बहूनामिति किम् ॥कुड्यस्य च्छाया कुड्यच्छाया॥

हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) सेनाशालेत्यादिना विकल्पे प्राप्ते वचनं नित्यार्थम् ॥ शालां मुक्त्वाऽन्यत्रार्थे यः सभाशब्दस्तदन्तस्तत्पु- रुषः क्लीबः ॥ स्त्रीसभं दासीसभं मनुष्यसभं तत्स- मूह इत्यर्थः॥ अनञ् कर्मधारय इत्येव ॥ असभा। परमसभा ॥ परमसभाया उत्तरपदत्वविज्ञानादिह न स्यात् ॥ स्त्रीणां परमसभा स्त्रीपरमसभा ॥ एव- मुत्तरत्रापि ॥ १०॥ राजवर्जितराजार्थराक्षसादेः पराऽपि च ॥ श्रादावुपक्रमोपने कन्थोशीनर- नामनि ॥११॥ राजार्था ईश्वरादयस्तेभ्यो राजवर्जितेभ्यो राक्ष- सादयः पिशाचादयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तस्तत्पुरुषः क्लीबः ॥ शालार्थ आरम्भः ॥ इनसभम् ईश्वरसभम् नृपसभम् ॥ पिशाचसभम् । रक्षःसभम् तद्गृहं तत्सङ्घो वेत्यर्थः ॥ नृपतिसभामगमदिति बाहुलकात ॥ - (नपुंसकलिङ्गः) अवचूरिसहितम् । सजवर्जितेति किम् ॥ राजसभा । समूहार्थस्य भवत्येव पूर्वेण राजसभम् ॥ राजार्थराक्षसादेरिति किम् । नरसभा ॥ आदौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते उपक्रमोपज्ञेत्येतदन्तस्तत्पुरुषः क्लीबः ॥ श्रेयांसस्योपक्रमः श्रेयांसोपक्रमं दानम्। श्रेयांसेन श्रेयसे प्रथमं प्रवर्तितमित्यर्थः ॥ आदि- देवस्योपज्ञा आदिदेवोपझं धर्मव्यवस्था॥ आदिदे- वेन प्रथमं ज्ञात्वा प्रवर्तितेत्यर्थः ॥ उपक्रम्यते इत्युपक्रमः इत्युपक्रमः । उपज्ञायते इत्युपज्ञा ॥ कर्मणि घनडावित्यनुयोगेन सामानाधिकरण्यम् ॥ उशीनरा नाम देशस्तत्र चेत्कस्यचित्संज्ञायां वर्त- मानः कन्थान्तस्तत्पुरुषः क्लीबः ॥ सौशमीनां कन्था सौशमिकन्थम्, आह्वरकन्थं नाम उशी- नरेषु ग्रामः ॥ उशीनरेति किम् । दक्षिणकन्था नाम ग्रामसंज्ञा किन्तु उशीनरेषु न ॥ ११ ॥ सेनाशालासुराच्छायानिशा वोर्णा शशात्परा ॥ भाद्गणो गृहतः स्थूणा हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) सङ्ख्यादन्ता शतादिका ॥ १२॥ सेनाद्यन्तस्तत्पुरुषो वा क्लीबः । कपिसेनम् । कपिसेना । हस्तिशालम् । हस्तिशाला । यवसुरम् यवसुरा ॥ छत्रच्छायम् छत्रच्छाया । चौरनिशम् चौरनिशा ॥ अनञ् कर्मधारय इति किम् । असेना । परमसेना ॥ शशात्परो यः ऊर्णाशब्द- स्तदन्तस्तत्पुरुषः क्लीबः ॥ शशोर्णम् । अन्यत्र तु न । छागोर्णा ॥ भात्परो यो गणस्तदन्तस्तत्पु- रुषः क्लीबः । भगणम् । अन्यत्र न । गोगणः॥ गृहात्परा या स्थूणा तदन्तस्तत्पुरुषः क्लीबः ॥ गृहस्थूणम् गृहधारणम् । अन्यत्र तु न । शाला- स्थूणा ॥ अकारान्ताः शतप्रभृतिसंख्याः क्लीबाः॥ अब्जं खर्व निखर्व महासरोजमित्यादि॥शतसहस्रा- युतप्रयुतानां पुनपुंसकत्वम्। लक्षस्य तु पुंस्त्रीत्वम् ॥ मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं, नाणकं नाटकं खेटक तोटकम् ॥

७७ (नपुंसकलिङ्गः) अवचूरिसहितम् आह्निकं रूपकं जापर्क जालक, वेणुकं गैरकं कारकं वास्तुकम्॥१३॥ अथ कान्ताः ४७॥ मौक्तिकं मुक्ता ॥ माक्षिकं यस्मात्ताम्रादि भवति स धातुविशेषः ॥ सौप्तिकं रात्रीधाटी ॥ क्लीतकं मधुकम् ॥ नाणकं रूप- कादि ॥ नाटकं दशरूपकभेदः ॥ खेटकं फल- कम् ॥ तोटकं दशरूपकभेदः वृत्रं च ॥ आह्निकं नित्यक्रिया भोजनं च ॥ रूपकं काव्यालङ्कारधि- शेषः ॥ उपलक्षणत्वाद्यमकं दीपकं च ॥ जापकं दर्वी सुगन्धिद्रव्यविशेषश्च॥अर्थप्राधान्यात् काला- पकमपि ॥ दा च पुंलिङ्गोऽप्ययमित्येके॥ जाल- कम् कुड्मलम् ॥ वेणुकम् गजयोत्रम् ॥ गैरिकं धातुविशेषः ॥ कारकं कादि ॥ गुणवृत्तिस्त्वा- श्रयलिङ्गः॥ वास्तुकं शाकविशेषः ॥ १३ ॥ रुचकंधान्याकनिःशलाकालीकालि- कशल्कोपसूर्यकाल्कम् ॥ कवककिबुक- हैमलिङ्गानुशासनम्-(नपुंसकलिङ्गः) तोकतिन्तिडीकैडूकं छत्राकत्रिकोल्म- कानि ॥१४॥ रुचकं चन्दनपेषणी शिला ॥ धान्याकम् अल्लुका ॥ अर्थप्राधान्यात् धानेयकम् धान्यकम् धानीयकम् अपि । निःशलाकं रहः ॥ अर्थप्राधा- न्याज्जनान्तिकमपि ॥ अलीकं ललाटम् अलिकं च ॥ शल्कं खण्डम् ॥ उपसूर्यकं परिवेषः ॥ अल्कश्च रोगः ॥ कबकं भूकन्दविशेषः ॥ किबुकं जलोत्पन्नद्रव्यविशेषः॥ तोकमपत्यम्॥ तिन्तिडीक चुक्रम् ॥ एडूकम् अन्तर्यस्तास्थि कुड्यम् ॥ छत्राकं भूकन्दविशेषः ॥ त्रिकम् पृष्ठाधोभागः ॥ उल्मुकम् अलातम् ॥ १४ ॥ माटककदम्बके बुकं चिबुकं कुतुक- मनूकचित्रके ॥ कुहुकं मधुपर्कशीर्षके शालूकं कुलकं प्रकीर्णकम् ॥ १५॥ माटकं मृवीकासवः॥अर्थप्राधान्यात् माध्वी- ७९ (नपुंसकलिङ्गः) अवचूरिसहितम् । कमपि हारहूरं च ॥ सुरानामत्वेन स्त्रीत्वे प्राप्ते वचनम् ॥ कदम्बकं समूहः॥ काभावे कदम्बम् ॥ बुकं तृणविशेषः ॥ चिबुकमधरस्याधः ॥ कुतुकं कुतूहलम् ॥ अनूकमन्वयः॥ चित्रकं पुण्द्रम् ॥ कुहुकमाश्चर्यम् ॥ मधुपर्क दधिमध्वादिः देवादीना- मर्घः ॥ शीर्षकम् शिरस्त्राणम् । शालूकमुत्पलादि- कन्दः॥ कुलकं वृत्तसमूहः॥ प्रकीर्णकं चाम- रम् ॥ १५ ॥ हल्लीसकपुष्पके खलिङ्गं स्फिगमङ्गं प्रगचोचबीजपिञ्जम् ॥ रिष्टं फाण्टं ललाटमिष्टव्युष्टं करोटकृपीटचीनपि- ष्टम् ॥ १६॥ हल्लीसकं स्त्रीणां नृत्तभेदः॥ पुष्पकं नेत्रेरोगः॥ सं संवेदनम् ॥ लिङ्गं हेतुश्चिह्नं च ॥ अर्थप्राधा- न्याच्चिह्नमपि ॥ स्फिगं स्फिग् ॥ अङ्गं प्रतीकः समीपं च ॥ अङ्गान्तत्वाद्वराङ्गं चक्राङ्गं च ॥

हैमलिङ्गानुशासनम्- (नपुंसकलिङ्गः) प्रगम् प्रभातम् ॥ चोचमुपभुक्तफलावशेषश्छल्ल्या- दि ॥ बीजम् हेतुः आधानं च ॥ पिञ्जम् बलम् ॥ रिष्टं क्षेमम् ॥ फाण्टमनायासम् ॥ ललाटं भालम्।। इष्टं ऋतुकर्म ॥ व्युष्टं प्रभातम् ॥ करोटं मस्तकम् कास्यभाजनं च ॥ कृपीटमुदरम् ॥ चीनपृष्टम् सिन्दूरम् ॥ १६ ॥ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठभा- एडाण्डतुण्डशरणग्रहणेरणानि॥पिङ्गा णतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकार्मणानि ॥ १७॥ शृङ्गाटं जलोद्भवकन्दः चतुष्पथं च ॥ मोरट- मिक्षुमूलम्॥ पिटं छर्दिः॥टान्तानां तु पुंस्त्वे प्राप्ते- ऽस्य पाठः ॥ अथ ठान्तौ ॥ पृष्ठम् प्राण्यङ्गम् ॥ गोष्ठं गोकुलम् । गोष्ठप्रत्ययान्तमपि ॥ गोगोष्ठम् । अश्वगोष्ठम् ॥ 'पशुभ्यः स्थाने गोष्ठः' इति गोष्ठः।। भाण्डं भाजनं गेहं च ॥ अण्डं वृषणः ॥ तुण्डं (नपुंसकलिङ्ग) अवचूरिसहितम् । मुण्डम् ॥ अर्थप्राधान्यात् द्विजालयमपि ॥ शरणं गृहं त्राणं च ॥ ग्रहणमादरः ॥ इरिणमूषरम् ॥ अर्थप्राधान्यादूरमपि ॥ पिङ्गाणं काचभाजनम् गेहं च ॥ तीक्ष्णं विषादिः। लवणं लावण्यम् ॥ द्रविणं पराक्रमः ॥ अर्थप्राधान्यात् घुम्नमपि॥पुराणं पञ्च- लक्षणम्॥त्राणं त्रायमानाख्यो विधिविशेषः॥शणं धान्यविशेषः॥ हिरणम् ‘विराटहेमरेतःसु हिरणं स्याहिरण्यवत्' ॥ कारणं हेतुः ॥ कार्मणं संवन- नमपि ॥१७॥ पर्याणर्णघ्राणपारायणानि श्रीपर्णो- ष्णे धोरणतूणभूतम् ॥ प्रादेशान्ताश्म- न्तशीतं निशान्तं वृत्तं तूस्तं वार्तवाहि- स्थमुक्थम् ॥१८॥ पर्याणं पल्ययनम्॥ ऋणमुत्तमर्णदेयम ॥ घ्राणं घ्राणा॥ पारायणं शास्त्रविशेषः॥श्रीपर्णमग्निमन्थः। उष्णं शीतविरोधः ॥ धोरणं वाहनम् ॥ खूणं ६ ८२ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) विकलता ॥ भूतं प्राणी ॥ प्रादेशान्तं प्रमाणविशे- षावस्थानम् ॥ अश्मन्तं चुल्लिः ॥ शीतम् ऋतु- विशेषः उष्णविरोधश्च ॥ निशान्तं गृहम् अव- रोधश्च ॥ अन्तान्तवात्पुंस्वे प्राप्तेऽस्य पाठः ॥ वृन्तं प्रसवबन्धनम् ॥ वृन्तान्तलात्तालवृन्तमपि ॥ तूस्तं केशजटा, जरद्वस्त्रम् । खण्डे तु सिद्धमेव । वार्तमारोग्यं निःसारं च ॥ अथ थान्तौ ॥ वाहित्थं गजकुम्भयोरधः ॥ उक्थं साम ॥ १८ ॥ अच्छोदगोदकुसिदानि कुसीदतुन्द- वृन्दास्पदं दपदनिम्नसशिल्पतल्पम् ॥ कूर्पत्रिविष्टपपरीपवदन्तरीपरूपंच पुष्प- निकुरम्बकुटुम्बशुल्बम् ॥ १६ ॥ अथ दान्ताः ११ ॥ अच्छोदं देवसरः ॥ उपलक्षणलान्मानसमपि ॥ गोद मस्तकस्नेहः ॥ कुसिदं ऋणम्॥ कुसीदं विज्ञानम्॥तुन्दमुदरम् ॥ वृन्दम् समूहः॥ आस्पदं प्रतिष्ठा कृत्यम् च ॥

(नपुंसकलिङ्गः) अवचूरिसहितम् । ८३ दं कलत्रं त्राणं च ॥ पदं त्राणं स्थानम् ॥ पादे पुस्यपि पदान्तत्वात् गोष्पदप्रपदादयोऽपि ॥ निम्नं गम्भीरम् ॥ शिल्पं विज्ञानम् ॥ तल्पं रण- मण्डपः अट्टः दाराश्च ॥ शयनीये तु पुंक्तीबः ॥ कूर्प भ्रुवोर्मध्यरोम ॥ कूपमिति भार्गविः ॥ त्रिवि- ष्टपं स्वर्गः ॥ त्रिपिष्टपमपि ॥ परीपं परिगता आपो यत्र । अन्तरीपं मध्येजलप्रदेशः॥रूपं चक्षुर्विषयः सौन्दर्य च ॥ पुष्पं स्त्रीरजोनेत्ररोगश्रीदविमानप्रसू- नेषु ॥ निकुरम्बं समूहः ॥ कुटुम्बं पुत्रदारादि । शुल्बं रज्जुः ॥ १९ ॥ प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्म किलिमतलिमतोक्मं युग्मतिग्मं त्रि- सन्ध्यम् ॥ किसलयशयनीये सायखेये- न्द्रियाणि द्रुवयभयकलत्रद्वापरक्षेत्रस- त्रम् ॥ २०॥ अथ भान्तौ ॥ प्रसभं बलात्कारः ॥ तलभ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) करिकराघातः॥भान्तलेन पुंस्त्वे प्राप्तेऽस्य वचनम् ॥ अथ मान्ता दश १० ॥ शुष्ममोजः ॥ आत्मान- मधिष्ठितमध्यात्मम् योगशास्त्रम् ॥ बाहुलकात् तत्पुरुषादपि समासान्तः ॥ अव्ययीभावस्य तु 'द्वन्द्वैकत्व'-इति नपुंसकत्वम् ॥ धामं गेहं तेजश्च ॥ नन्तस्य तु मन्नन्तत्वादेव सिद्धम् ॥ ईम ब्रणम् ॥ सूक्ष्ममणौ ॥ किलिमं देवदारुः॥ तलिम कुट्टिमम् तल्पं चन्द्रहासः वितानं च ॥ तोक्म कर्णमलः ॥ युग्मं युगम् ॥ तिग्मं तीक्ष्णम् ॥ अर्थ- प्राधान्यात् तीक्ष्णं खरं तीव्रमपि॥अथ यान्ताः ८॥ त्रिसन्ध्यमुपवैणवम् सन्ध्यात्रयसमाहारः ॥ 'अन्ना- बन्तान्तो वा' इति पक्षे स्त्रीले प्राप्तेऽस्य पाठः ॥ किसलयं पल्लवः । शयनीयं शय्या ॥ सायं दिना- वसानम् ॥ खेयं परिखा ॥ इन्द्रियम् रेतः ॥ द्रुवयं मानम् ॥ पाय्यमपि ॥ भय प्रतिभयम् कुब्जकप्रसूनेऽपि ॥ शुष्मादीनां मान्तत्वात् किस- लयादीनां यान्तत्वात् पुंस्त्वे प्राप्ते पाठः ॥ अथ (नपुंसकलिङ्गः) अवचूरिसहितम् । रान्ताः २१ ॥ कलत्रं भार्या ॥ द्वापर युगविशेषः।। क्षेत्र केदारः॥ क्षेत्रकलत्रयोयोनिमन्नामत्वेन स्त्रीत्व- प्राप्तौ वचनम् ॥ सत्रं गृहम् आच्छादनम् सदा- दानम् वनं दम्भः साधनं यज्ञश्च ॥ २० ॥ शृङ्गवेरमजिराभ्रपुष्कर तीरमुत्तरम- गारनागरे ॥ स्फारमतरकुकुन्दरोदर- प्रान्तराणि शिबिरं कलेवरम् ॥ २१ ॥ शृङ्गवेरमाकम् ॥ अजिरं प्राङ्गणे वाते विषये दुर्दुरे तनौ ॥ अभ्रं मेघः नाकश्च॥ स्वार्थिके के अभ्रक गिरिजामलम् ॥ अर्थप्राधान्यात् शैला- भ्रादयोऽपि॥ पुष्करं पङ्कजव्योमपयाकरिकराग्रेषु ॥ तीर तटम्॥ अपुवाची तु तीरो बाहुलकात् पुंसि॥ उत्तरं प्रतिवचनम् ॥ अगारं गृहम् ॥ नागरं मुस्तकः शुण्ठी च ॥ स्फारं विपुलम् ॥ गुणवृत्ते- स्वाश्रयलिङ्गता ॥ अक्षरं वर्ण: मोक्षः परब्रह्म च ॥ कुकुन्दरं जघनकूपः ॥ अर्थप्राधान्यात् ककुन्दस्- ८६ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) रतावुके अपि॥ उदरं जठरव्याधियुद्धानि ॥ जठरे त्रिलिङ्गोऽयमिति बुद्धिसागरः ॥ प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे च ॥ शिबिरं सैन्यम् तन्नि- वेशश्च ॥ कलेवरं शरीरम् ॥ २१ ॥ सिन्दूरमण्डूरकुटरिचामर- क्रूराणि दूराररवैरचत्वरम् ॥ औशीरपातालमुलूखलातवे सत्वं चसान्त्वं दिवकिण्वयौतवम्॥२२॥ सिन्दूरं धातुविशेषः ॥ अर्थप्राधान्यात् मसि- वईनम् गन्धोरम् नागसम्भवमित्यपि ॥ मण्डूरं लोहमलम् ॥ कटीरम् कटी ॥ चामरम् प्रकीर्ण- कम् ॥ पुंस्यपीति कश्चित् ॥ क्रूरं क्रौर्यम् ॥ दूर विप्रकृष्टम् ॥ अनयोर्गुणवृत्तेस्त्वाश्रयलिङ्गतैव ॥ अररं कपाटम् रणं च ॥ वैरम् विरोधः॥ चत्वरं चतुष्पथम् ॥ औशीरं शयनासने चामरं यष्टिश्च॥ अथ लान्तौ ॥ पातालं वडवानलः । उलूखलं ८७ (नपुंसकलिङ्गः) अवचूरिसहितम् । गुग्गुलः ॥ निर्यासनामत्वात्पुंस्त्वे प्राप्ते पाठः ॥ आर्तवं पुष्पं स्त्रीरजश्च ॥ सत्वं व्यवसाये स्वभावे विलम्बिते चित्ते गुणे द्रव्यात्मभावयोः ॥ चस्या- नुक्तसमुच्चयार्थत्वात् तत्त्वं स्वरूपं वाद्यभेदे पर मात्मनि च ॥ प्लवं मुस्तः गन्धतृणं च ॥ सान्त्वं साम दाक्षिण्यं च ॥ दिवं दिवसः स्वर्गश्च॥ किण्वं मुराबीजम् ॥ यौतवं मानविशेषः ॥ २२ ॥ विश्वं दशपलिशमर्पिशकिल्बिषानु तर्षार्षिषं मिषमृचीषमजीषशीर्षे॥पीयूष साध्वसमहानससाध्वसानि कासीसम- सतरसं यवसं बिसं च ॥२३॥ विश्वं जगत् ॥ वृशं शृङ्गवरं लशुनं मूलक च ॥ पलिशं यत्र स्थित्वा मृगादि व्यापाद्यते । अर्पिशम् आर्द्रमांसम् ॥ बालवत्साया दुग्धं च ॥ अथ षान्ताः ८॥ किल्बिषं रोगः अपराधः विषं च ॥ अनुतर्ष मद्यम् ॥ अर्षिषम् आर्द्रमांसम् ॥ मिषं व्याजः ॥ ऋचीषम् ऋजीषं च पिष्ठपचन- ८८ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) भाजनम् ॥ शीर्ष शिरः ॥ शीर्षान्तत्वात् कपि- शीर्षमपि ॥ पीयूषममृतम् प्रत्यग्रप्रसवगव्यादिक्षी- रविकारश्च ॥ अथ सान्ताः ८॥ साध्वसं भयम् ।। महानसं पाकस्थानम् ॥ साहसं दुष्करकर्म वैया- त्यमविमृश्यकारिता दमश्च ॥ कासीसं धातुविशेषः॥ अर्थप्राधान्यात् धातुकासीसम् धातुशेखरमपि ॥ मत्सं सन्धिस्थानम् ॥ तरसं मांसम् ॥ अर्थप्राधा- न्यात् उत्तप्तं शुष्कमांसम् ॥ यवसमश्वादिघासः ॥ बिसं पद्मकन्दः ॥ २३ ॥ मन्दाक्षवीतमथ सक्थि शयातु यातु स्वाहाशु तुम्बरु कशेरु शलालु चालु॥ संयत्ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसच्च जगल्ललाम ॥२४॥ इति नपुंसकलिङ्ग समाप्तम् । मन्दाक्षं लज्जा शूका च॥ वीक्षं विस्मयः दृश्य च ॥ सक्थि उरुः ॥'इत्तु प्राण्यङ्ग'-इति स्त्रीत्व- (मपुंसकलिङ्ग) अवचूरिसहितम् । प्राप्तौ वचनम् ॥ अथोदन्ताः॥ शयातु अजगरः॥ यातु राक्षसः ॥ स्वादु पयः ॥ आशु शीघ्रम् ॥ तुम्बर औषधिविशेषः॥ उकारान्तत्वात्पुंस्त्वे प्राप्ते वचनम् ॥ कसेरु कन्दविशेषः पृष्ठास्थि च ॥ अर्थप्राधान्यात् गाङ्गेयमपि ॥शलालु गन्धद्रव्यम्॥ आलु कन्दविशेषः ॥ अथ व्यञ्जनान्ताः ११ ॥ संयत् संग्रामः॥ ककुत् वृषस्कन्धः॥ महत् राज्यं बुद्धितत्त्वं च ॥ अयं पुंस्यपि । महान् प्रकृतिः। अहर्दिनम् ॥ पृषत् बिन्दुः ॥ पुरीतत् अन्त्रम् ।। पर्व दर्शप्रतिपदोः सन्धिः । ग्रन्थिप्रस्तावयोरपि ॥ पर्व क्लीबमाहवे च विषुवत्प्रभृतिष्वपि ॥ रोम तनूरुहम् ॥ रोमणी इति द्विवचनम् ॥ मन्नन्तत्वे. नैव सिद्धे कर्बर्थं वचनम् ॥ पुंस्यपि कश्चित् ।। भसदास्य जघनमामाश्रतस्थानम् । दकारान्तोऽयम्॥ जगत् विश्वम् ॥ ललाम ध्वजादौ रम्ये च ॥ ललामस्य तु पुन्नपुंसकत्वम् ॥ २४ ॥ इति नपुंसकलिङ्गम् ॥

हैमलिङ्गानुशासनम्- (पुंस्त्रीलिङ्ग) अथ पुंस्त्रीलिङ्गः। पुंस्त्रीलिङ्गं चतुर्दशके शङ्कर्निरये च दुर्गतिः॥ दोर्मूले कक्ष आकरे गञ्जो भूरुहि बाणपिष्पलौ ॥१॥ चतुर्दशके स्थाने वर्तमानः शङ्कुशब्दः स्त्रीपुंस- लिङ्गः ॥ अयमियं वा शङ्कुः ॥ 'एकं दश शतं तस्मात्सहस्रमयुतं ततः परं लक्षम् ॥ प्रयुतं कोटि- मथार्बुदमजं खर्व निखर्व च ॥ १॥ तस्मान्महा- सरोजं शङ्ख सरितां पतिं ततस्त्वन्त्यम् ॥ मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः ॥ २ ॥' निरये वाच्ये दुर्गतिशब्दः स्त्रीपुंसलिङ्गः ॥ अयमियं वा दुर्गतिः॥ भुजमूलेऽभिधेये कक्षशब्दः स्त्रीपुंसलिङ्गः।। कक्षः कक्षा दोर्मूलम् ॥ आकरे वाच्ये गञ्जः स्त्रीपुंसलिङ्गः ॥ गञ्जः गञ्जा आकरः॥ भाण्डागारे तु पुनपुंसकत्वमसुरालये तु स्त्रीत्वं प्रतिपदपाठेनो- क्तम् ॥ भूरुहि वृक्षे वाच्ये बाणपिष्पलशब्दौ स्त्री- ९ (पुंस्त्रीलिङ्गः) अवचूरिसहितम् । ९१ पुंसकौ ॥ बाणः बाणा झिण्टी ॥ पिष्पलः पिष्पली अश्वत्थः॥ वस्त्रच्छेदनोपकरणे प्रतिपदपाठापुंनपुं. सकत्वम् ॥ जले तु तन्नामत्वान्नपुसकत्वम् ॥१॥ नाभिः प्राण्यङ्गके प्रधिर्नेमौ कचन बलिम्हे कुटः॥ श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो ठन्दगोलयोः॥२॥ प्राण्यङ्गे वाच्ये नाभिशब्दः स्त्रीपुंसलिङ्गः ॥ अयं नाभिरियं नाभिः प्राण्यङ्गविशेषः ॥ नेमौ चक्रधारायां वाच्यायां प्रधिः॥अयमियं वा प्रधिः॥ क्वचनार्थविशेषे बलिशब्दः स्त्रीपुंसलिङ्गः॥ बव- योरैक्थेन निर्देशः॥ अयमियं वा बलिः उपहार: स्वग् मांससङ्कोचश्व जठरावयवश्च ॥ गृहे वाच्ये कुटशब्दः ॥ कुटः कुटी ॥ घटे हलाङ्गे च पुंक्ली- बः ॥ श्रोणावौषधिविशेषे च कटः पुंस्त्रीलिङ्गः ॥ कटः कटी श्रोणिः, कटः कटा औषधिः॥ मोहे ९२ हैमलिङ्गानुशासनम्- (पुंस्त्रीलिङ्गः) अज्ञानविशेषे च भ्रमः पुंस्त्री ॥ भ्रमः भ्रमी अज्ञा- नविशेषे सन्देहे भ्रमणे च ॥ वृन्दे सक्वादीनां गोले च वाच्ये पिण्डः पुंस्त्री ॥ पिण्डः पिण्डी वृन्दं गोलकश्च ॥ २॥ भकनीनिकयोस्तारो भेऽश्लेषहस्तश्र- वणाः ॥ कणः स्फुलिङ्गे लेशे च वराटो- रज्जुशस्त्रयोः॥३॥ भे नक्षत्रे कनीनिकायां तारकायां च तारशब्दः स्त्रीपुंसलिङ्गः ॥ तारस्तारा नक्षत्रम् कनीनिका च॥ मे नक्षत्रविशेषे अश्लेषहस्तश्रवणाः स्त्रीपुंसलिङ्गाः।। अन्लेषः अश्लेषा, हस्तो हस्ता, श्रवणः श्रवणा नक्षत्राणि ॥ स्फुलिङ्गे लेशे च बाच्ये कणः स्त्री- पुंसलिङ्गः ॥ कणः कणा स्फुलिङ्गो लेशश्च ॥ वराटः वराटा रज्जुशस्त्रविशेषौ ॥ अन्यत्र तु कद चेतनामत्वात् पुंस्त्वमेव ॥ ३ ॥ कुम्भः कलशे तरणिः समुद्रार्कीशु- (पुंस्त्रीलिङ्गः) अवचूरिसहितम् । ९३ यष्टिषु॥ भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥४॥ कलशे वाच्ये कुम्भः पुंस्त्री । कुम्भः कुम्भी कलशः ॥ अन्यत्र तु यथाप्राप्तम् ॥ गुग्गुलौ बाहुलकानपुंसकत्वम् ॥ अयमियं वा तरणिः समुद्रः अर्कः अंशुः पतितगोरूपोत्थापनी यष्टिश्च ॥ अन्यत्र तु 'लिन्मिन्यनिण्यर्णिस्न्युक्ताः' इति स्त्रीत्वमेव ॥ भागधेयो भागधेयी राजदेयः करः ॥ मेरुजम्ब्यां सुदर्शनशब्दः स्त्रीपुंसलिङ्गः। सुदर्शनः सुदर्शना मेरुजम्बूः ॥ अन्यत्र तु विष्णुचक्रे शक- पुरे च प्रतिपदपाठात्पुंस्त्वमेव ॥ ४ ॥ करेणुर्गजहस्तिन्योरल्पाख्यापत्यत- द्वितः ॥ लाजवस्त्रदशौ भूनीहाद्याः प्रत्ययभेदतः॥५॥ गजे हस्तिन्यां च वाच्ये करेणुः स्त्रीपुंसलिङ्गः।। अयमियं वा करेणुः गजः हस्तिनी च ॥ अलेज़- हैमलिङ्गानुशासनम्- (पुंस्त्रीलिङ्गः) मरस्याख्या पुंस्त्री ॥ अयमलिः। इयमलिः । एक- मली अलिनी, भृङ्गः भृङ्गी इत्यादि ॥ देहिनाम- त्वात्पुंस्त्वे प्राप्ते योनिमन्नामत्वाभावाच्च स्त्रीपुंसार्थ वचनम् ॥ अपत्येऽर्थे जातस्तद्धितस्तदन्तं नाम पुंस्त्रीलिङ्गम् ॥ अयमौपगवः इयमौपगवी ॥ एवं बैदः बैदी गार्ग्यः गार्गी इत्याद्यपि ॥ आश्रयलिङ्ग त्वमपीति कश्चित् ॥ औपगवः ना औपगवी स्त्री औपगवं कुलमित्यादि ॥ लाजशब्दः वस्त्रसम्बन्धि- दशावाची च दशशब्दः स्त्रीपुंसौ तौ च बहुत्व एवं प्रयोक्तव्यौ ॥ अघञ्प्रत्ययभेदेनेहाद्याः शब्दाः स्त्रीपुंसलिङ्गाः॥ईहः ईहा वाञ्छा उद्यमश्चेष्टा च ॥ उहः ऊहा तर्कः।स्पर्धः स्पर्धा सङ्घर्षः॥ इत्यादि॥५॥ शुण्डिकचर्मप्रसेवको सल्लकमल्लक- वृश्चिका अपि ॥ शल्यकघुटिको पिपी- लिकश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः॥६॥ अथ कान्ताः १२॥ शुण्डिकः शुण्डिका सुरा. ..

(पुंस्त्रीलिङ्ग) अवचूरिसहितम् । ९५ पणः ॥ चर्मप्रसेवकः चर्मप्रसेवका दृतिः॥ सल्लकः सल्लकी गजप्रियतरुः निर्यासविशेषश्चेत्यरुणः ॥ मल्लकः मल्लिका दीपवाधारः ॥ वृश्चिकः वृश्चिकी सविषः कीटः ॥ शल्यकः शल्यकी श्वावित् ॥ घुटिकः घुटिका गुल्फः॥ अर्थप्राधान्यात् घुण्टिक: घुण्टिका, घुटः घुटी, गुल्फः गुल्फा इत्यादि । पिपीलकः पिपीलिका वल्मीककृमिः। चुलुकः चुलुका आस्यपूरणं वारि॥हुडुक्क हुडुक्का तोधम् ॥ तुरुष्कः तुरुष्का सिहकः॥तिन्दुकः तिन्दुकी वृक्षविशेषः॥६॥ शुङ्गोऽथ लञ्चभुजशाटसटाः सृपाटः कीटःकिटस्फटघटावरटःकिलाटचोट- श्वपेटफटशुण्डगुडाः सशाणाः स्युर्वा- रिपर्णफणगर्तरथाजमोदाः ॥७॥ शुङ्गः शुङ्गा कन्दलः ॥ अथ चान्तः॥ लञ्चः लञ्चा उपचारः॥ भुजः भुजा बाहुः॥ शाटः शाटी परिधानम्॥ सटः सटा सिंहस्कन्धकेशाः॥ सपाटः ९६ हैमलिङ्गानुशासनम्- (पुंस्त्रीलिङ्गः) सृपाटी परिमाणविशेषः॥कीटः कीटी कृमिविशेषः।। किटः किटी वंशादिपुत्तलिका ॥स्फटः स्फटा फणः।। घटः घटी कलशः॥ वरटः वरटा क्षुद्रजन्तुविशेषः॥ किलाटःकिलाटी क्षीरविकारः ॥ किलाटिकेत्यमरटी- का। चोटः चोटी शाटिका। चपेटः चपेटा विस्तृताङ्गु- लिपाणितलम् ॥ फट: फटा फणः॥ शुण्डः शुण्डा मुरा ॥ गुडः गुड़ा हस्तिसन्नाह ॥ शाणः शाणा निकषः ॥ वारिपर्णः वारिपर्णी फङ्गानामशाकम् ॥ फणः फणा फटा ॥ गतः गर्ता श्वभ्रम् ॥ रथः रथी स्यन्दनः॥अजमोदःअजमोदा ब्रह्मकुशा ॥७॥ विधकूपकलम्बजित्यवर्धाः सहचरमुद्गरनालिकेरहाराः॥ बहुकरकृसरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः॥८॥ विधः विधा प्रकारः ॥ कूपः कूपी अन्धुः । कलम्बः कलम्बी शाकविशेषः ॥ जित्यः जित्या (पुंस्त्रीलिङ्गः) अवचूरिसहितम् । हलिः॥ अथ रान्ताः १२ ॥ वर्धः वर्षी चर्मरज्जुः ॥ सहचरः सहचरी लता समूहविशेषश्च ॥ मुद्गरः मुद्गरी लोष्ठादिभेदनोपकरणम् ॥ नालिकेरः नालि- केरी तरुविशेषः ॥ फले तु तन्नामत्वात् क्लीबत्वम् ॥ हारः हारा मुक्तादाम ॥ बहुकरः बहुकरी संमार्जनी॥ कुसरः कृसरी तिलौदनः॥ कुठारः कुठारी पशुः॥ शारः शारी आयानयीनः वराटश्चेति हर्षः॥ वल्लरः वल्लरी मञ्जरी । अर्थप्राधान्यान्मञ्जरः मञ्जरीत्यपि॥ शफरः शफरी मत्स्यविशेषः ॥ मसूरः मसूरी माषविशेषः अर्थप्राधान्यान्मसुरोऽपि॥ कालः कीला कफण्यादि ॥ रालः राला सर्जरसः॥ ८॥ पटोलः कम्बलो भल्लो दंशो गण्डूष- वेतसौ ॥ लालसो रभसो वर्तिवितस्ति- तुटयस्त्रुटिः ॥ ६॥ पटोलः पटोला औषधिविशेषः ॥ कम्बलः कम्बली ऊर्णावस्त्रम् गोगलचर्म च ॥ भल्लः भल्ली हैमलिङ्गानुशासनम्- (पुंस्त्रीलिङ्गः) शस्त्रभेदः ॥ अथ शान्तः ॥ दंशः दंशी क्षुद्रजन्तु- विशेषः॥ गण्डूषः गप्डूषा करजलादिमुखपूरणम् ॥ अथ सान्ताः॥ वेतसः वेतसी वानीरः॥ लालसः लालसा तृष्णातिरेकौत्सुक्ययाचासु ॥ अन्यत्र तु आश्रयलिङ्गः ॥ रभसः रभसा पौर्वापर्याविचारः॥ रभसो हर्षवेगयोः॥ माघे तु स्त्रियाम् 'क्रमते नभो रभसयैव' अथेदन्ताः ३४॥ अयं वर्ति- रियं वर्तिर्वस्त्रस्य दशा॥अयं वितस्तिरियं वितस्तिः वितताङ्गुष्ठकनिष्ठः करः ॥ अयं कुटिरियं कुटि: खल्पवासः ॥ अयं त्रुटिरियं त्रुटिः अवस्था क्षण- द्वयम् चेत्यरुणः ॥९॥ ऊर्मीशम्यौ रन्यरत्नी अवीचिल. व्यण्याणिश्रेणयःोण्यरण्यौपाणी- शल्यौ शाल्मलियष्टिमुष्टी योनीमुन्यौ स्वातिगव्यूतिबस्त्यः ॥ १०॥ अयमूर्मिरियमूर्मिः वीच्यादि ॥ अयमियं वा

(पुंस्त्रीलिङ्गः) अवचूरिसहितम् ।
शमिस्तरुविशेषः॥ अयमियं वा रनिः बद्धमुष्टिः
करः॥ अयमियं वाऽरनिः सकनिष्ठः करः ॥
अयमियं वाऽवीचिः नरकभेदः ॥ अयमियं वा
लवित्रम् ।। अयामियं वा अणिः अक्षाम्रकीलिका
अश्रिः सीमा च ॥ अयमियं वाणिः सैव ॥ अय-
मियं वा श्रेणिः पतिः ॥ अयमियं वा श्रोणिः
कटिः ॥ अयमियमरणिः अग्निनिर्मन्थनकाष्ठम् ॥
अयमियं वा पाणिः गुल्फयोरधः पादावयवः ॥
सैन्यपृष्ठे तु बाहुलकात्पुंसि ॥ अयमियं वा शलिः
कौटिल्यम् ॥ अयमियं वा शाल्मलिर्वृक्षविशेषः ॥
एकदेशविकृतस्यानन्यावात् शल्मलिः॥ अयमियं
वा यष्टिः आलम्बनदण्डः ॥ अयमियं वा मुष्टिः
संपीडिताङ्गुलिः करः॥ अयमियं वा योनिरुत्पत्ति-
स्थानं श्रोणिश्च ॥ यद्गौडः'द्वयोर्योंनिर्भगाकारे॥
अयमियं वा मुनिस्तपखी ॥ अयमियं वा स्वाति-
नक्षत्रम् ॥ अयमियं वा गव्यूतिः क्रोशद्वयम् ॥
अयमियं वा बस्तिमूत्राधारः ॥ १० ॥

१०. हैमलिङ्गानुशासनम्- (पुंस्त्रीलिङ्गः)
मेथिर्मेधिमशी मषीषुधी ऋष्टिः
पाटलिजाटली अहिः॥ प्रश्निस्तिथ्य-
शनी मणिः सृणिर्मोलिः केलिहली-
मरीचयः॥११॥
अयमियं वा मेथिः पशुबन्धनार्थ खलमध्ये
स्थूणा ॥ अयमियं मेधिः सैव ॥ अयमियं मसिः
कज्जलम् ॥ अयमियं मषिस्तदेव ॥ अयमियमिषु-
विस्तूणीरः ॥ अयमियमृष्टिः खड्गः ॥ व्यञ्जनादि-
रपि ॥ अयमियं पाटलिस्तरविशेषः ॥ अयमियं
जाटलिः स एव ॥ अयमियमहिः सर्पः ॥ अय-
मियं प्रश्निः किरणः ॥ अयमियं तिथिः प्रतिप-
दादिः ॥ अयमियमशनिवज्रम् विद्युच्च ॥ अयमियं
मणिः रत्नादि ॥ अयमियं सृणिरङ्कुशः ॥ अयमियं
मौलि: चूडा मुकुटः केशाश्च ॥ अयमियं कलि;
परिहासः ॥ अयमियं हलिः महाहलम् ॥ अय-
मियं मरीचिः करः॥ ११ ॥

(पुंस्त्रीलिङ्ग) अवचूरिसहितम् । १०१ हन्वाखू कर्कन्धुः सिन्धुर्मत्युमन्वा- वट्वेर्वारुः ॥ ऊरुः कन्दुः काकुः किष्कु- र्बाहुर्गवेधू रा गौर्भाः ॥ १२॥ इति स्त्रीपुंसलिङ्गम् ॥ अयमियं हनुः कपोलयोरधोवर्ती मुखावयवः ॥ अयमियमाखुः मूषिकः ॥ अयमियं कर्कन्धुः बदरी ॥ अयमियं सिन्धुः सरिदर्णवश्च ।। अयमियं मृत्युः प्राणवियोगः ॥ अयमियं मनुः प्रजापतिः ।। अयमियमवटुः काटिका ॥ अयमियमेरुः चिर्भटः ॥ उपलक्षणवादीर्वारुरपि ॥ स्वार्थिके तु के प्रकृतिलिङ्गबाधया एर्वारुकमपि ॥ अयमिय- मूरुः सक्थि ॥ अयमियं कन्दुः खेदनिका ॥ अयमियं काकुः ध्वनिर्विकारः॥ अयमियं 'किष्कुः हस्ते वितस्तौ च प्रकोष्ठे वा नपुंसकम् ' ॥ अय- मियं बाहुः हस्तः ॥ अयमियं गवेधुः तृणधान्य- विशेषः । अयमियं रा द्रव्यम् ॥ अयमिथं गौः ॥

हैमलिङ्गानुशासनम्-(पुनपुंसकलिङ्ग) अयमियं भाः कान्तिः प्रभावश्च ॥ अन्यत्र प्रभा- यामपि भाः शब्दः सन्तः पुंलिङ्ग एव चेत्याह॥१२॥ इति स्त्रीपुंसलिङ्गावचूरिः॥ अथ पुंनपुंसकलिङ्गः॥ पुनपुंसकलिङ्गोऽब्जः शङ्ख पद्मो- ऽब्जसङ्ख्ययोः ॥ कंसोऽपुंसि कुशो बहिर्वालो ह्रीबेरकेशयोः॥१॥ शङ्ख वाच्येऽब्जशब्दः पुनपुंसकलिङ्गः॥ अब्जः अब्जं शंखः ॥ यदुक्तम् 'अब्जो धन्वन्तरौ चन्द्रे शंखे स्त्रीक्लीबमम्बुजे' ॥ अब्जे सङ्ख्याविशेषे च पद्मः पुनपुंसकम् ॥ पद्मः पद्ममब्जं सङ्ख्याविशे- षश्च ॥ पद्मकादावपीत्यन्ये ॥ अपुंसि नरादन्यत्रार्थे कंसशब्दः पुंनपुंसकः ॥ कंसः कंसं मानविशेषः पानपात्रं कांस्यं च ॥ कुशशब्दः पुनपुंसको बर्हि- दर्भश्चेदाच्यः। कुशः कुशम् दर्भः ॥ रामसुते तु (नपुंसकलिङ्ग)अवचूरिसहितम् । १०३ देहिनामत्वाद्योक्त्रहीपान्तरयोस्तु प्रतिपदपाठात् पुंसि ॥ अपरोऽप्यर्थः ॥ बर्हिः शब्दः पुनपुंसकः कुशो दर्भश्चेवाच्यो भवति ॥ अयमिदं वा बर्हिः कुशः ॥ हीबेरे केशे च वाच्ये वालशब्दः । वाल: वालं ह्रीबेरं केशश्च ।। करिवालधिः प्रतिपदपाठात् पुंसि ॥१॥ द्वापरः संशये छदे पिष्पलो विष्ट- रस्तरौ ॥ अब्दो वर्षे दरस्त्रासे कुकूल- स्तुषपावके ॥२॥ संशये संदेहे वाच्ये द्वापरशब्दः पुनपुंसकः । द्वापरः द्वापरं संशयः ॥ अन्यत्र तु यथाप्राप्तम् । हापरं युगविशेषः प्रतिपदपाठात् नपुंसकः ॥ छिद्यतेऽनेनेति च्छेदो वस्त्रोपकरणम् ॥ तस्मिन् वाच्ये पिष्पलः पुनपुंसकः ॥ पिष्पल: पिष्पलं वस्त्रच्छेदोपकरणम् ॥ तरोरन्यत्रार्थे विष्टरः पुनपुं- सकः ॥ विष्टरः विष्टरम् आसनं बर्हिर्मुष्टिश्च ॥

हैमलिङ्गानुशासनम्-(पुंनपुंसकलिङ्ग) अब्दः अब्दं वर्षम् ॥ दरो दरं भयम् ॥ कन्दरे तु त्रिलिङ्गः ॥ ईषदर्थे खव्ययम् देश्यपदं वा ॥ यथा 'दरदलितहरिद्रापिञ्जराण्यङ्गकानि' ॥ तुषपा- वके तुषाग्नौ वाच्ये कुकूल: पुनपुंसकः ॥ कुकूल: कुकूलं तुषपावकः ॥ अन्यत्र तु लान्तत्वान्नपुंस- कम् ॥ कुकूलं शङ्कुमान् गर्तः ॥ २ ॥ परीवादपर्ययोर्जन्यतल्पौ तपोधर्मवत्सानि माघोष्णहृत्सु ॥ वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिस्वराद्यो रणे संपरायः॥३॥ जन्यशब्दः परीवादे कोलीने वाच्ये तल्पश्च पल्यळे पुन्नपुंसकः ॥ जन्यः जन्यं परीवादः ॥ 'जन्यः स्याज्जनवादेऽपि' इत्यमरः ॥ तल्पं तल्पः पर्यङ्कः ॥ तपः शब्दो माघमासे, धर्मशब्द उष्णे । शीतविरोधिनि, वत्सः हृदि पुन्नपुंसकः ॥ अयं तपा इदं तपः माघः ॥ धर्मः धर्ममुष्णः ॥ वत्सः (पुंनपुंसकलिङ्गः) अवचूरिसहितम् । १०५ वत्सं हृत् ॥ वटशब्दस्तुल्यतायां गोलके भक्ष्य- विशेषे च वाच्ये पुन्नपुंसकः॥ वटः वटम् तुल्यता गोलकः भक्ष्यविशेषः॥न्यग्रोधे रज्जौ च त्रिलिङ्गः॥ भक्ष्ये स्वार्थिके केऽपि वटकः वटकम् ॥ न्यग्रोध- फले फलनामत्वान्नपुंसकम् ॥ वर्णशब्दः सितादौ खरादौ च वाच्ये पुन्नपुंसकः॥ वर्णः वर्ण सित- कृष्णादि रूपम् स्वराद्यक्षरं च.॥ अन्यत्र तु णान्तवात्पुंस्येव ॥ विलेपनेऽप्येके ॥ रणे युद्धे वाच्ये संपरायः पुंनपुंसकः ॥ संपरायः संपरायं रणम् ॥ ३॥ सैन्धवो लवणे भूतः प्रेते तमो विधुतुदे ॥ स्वदायौ कस्वरे कृच्छं व्रते शुक्रोऽग्निमासयोः॥४॥ लवणे वाच्ये सैन्धवः पुंनपुंसकः ॥ सैन्धवः सैन्धवं लवणम् ॥ प्रेते वाच्ये भूतः पुनपुंसकः ॥ भूतः भूतं प्रेतः॥ अन्यत्र तु पृथिव्यादौ प्राणिनि १०६ हैमलिङ्गानुशासनम्-(पुंनपुंसकलिङ्गः च क्लीबः ॥ विधुंतुदे राहो वाच्ये तमः शब्दः पुन्नपुंसकलिङ्गः ॥ अयं तमा इदं तमो राहुः ॥ खदायशब्दो कखरे धने वाच्ये पुन्नपुंसकौ ॥ स्वः खं कस्वरम् ॥ अन्यत्र स्वः आत्मा स्वभावो ज्ञातिश्च ॥ प्रतिपदपाठात् पुंस्त्वमेव ॥ दायः दायं धनम् ॥ कृच्छ्रशब्दो व्रते वाच्ये पुनपुंसकः ॥ कृच्छ्रः कृच्छ्रे सान्तपनादि व्रतम् ॥ अग्नौ ज्येष्ठ- मासे च शुक्रः शब्दः पुनपुंसकः॥ शुक्रः शुक्र- मग्निज्येष्ठमासश्च ॥ ४॥ कर्पूरस्वर्णयोश्चन्द्र उडारक्षं छदे दलः॥ धर्मः स्वभावे रुचको भूषाभि- न्मातुलिङ्गयोः॥५॥ कपूरे वर्णे च वाच्ये चन्द्रशब्दः पुन्नपुंसकः॥ चन्द्रः चन्द्रं कर्पूरम् खर्ण च ॥ उडौ नक्षत्रे वाच्ये ऋक्षशब्दः पुनपुंसकः ॥ ऋक्षः ऋक्षं भम्।। छदे पणे वाच्ये दलशब्दः पुंनपुंसकः ॥ दल:

(पुंनपुंसकलिङ्गः)अवचूरिसहितम् । १०७ दलं छदः ॥ स्वभावे स्वरूपे वाच्ये धर्मशब्दः पुन्नपुंसकः ॥ धर्मः धर्म खभावः ॥ अन्यत्र तु पुण्योपाये क्लीबलमुक्तम् ॥ अन्यत्र तु पुंलिङ्ग एव भूषाभिदि अवेयके मातुलिङ्गे च बीजपूरे वाच्ये रुचकः पुन्नपुंसकः रुचकः रुचकं ग्रैवेयकं बीजपूरं च। सौवर्चले चन्दनपेषण्यां शिलायां च क्लीबः॥५॥ पाताले वाडवो वर्धः - सीस आम- लकः फले ॥ पिटजङ्गलसत्वानि पिट- कामांसजन्तुषु ॥६॥ पाताले वाच्ये वाडवशब्दः पुनपुंसकः॥ वाडवः वाडवं पातालम् ॥ वर्धः सीसे सीसके वाच्ये ॥ फले वाच्ये आमलकः पुन्नपुंसकः ॥ आमलकः आमलकम् फलम् ॥ पिटकाख्ये भाजनविशेषे मांसे जन्तौ च यथासंख्यं पिटजङ्गलसत्वाः पुनपुं- सकाः॥ पिटः पिटम् पिटका । अन्यत्र छदौ आकर्षफले च प्रतिपदपाठान्नपुंसकत्वम् ॥ जङ्गलः १०८ हैमलिङ्गानुशासनम्-(पुंनपुंसकलिङ्गः) जङ्गलम् मांसम् । जङ्गलो निर्जले देशे त्रिलिङ्गः पिशितेऽस्त्रियाम् ॥ सत्वः सत्वं जन्तुः । जन्तु- विशेषोऽपि जन्तुः । तेन पिशाचादावपि पुनपुंस- कत्वम् ॥ उपलक्षणत्वाद्गुणप्राणयोरपि । अन्यत्र तु क्लीबः ॥ ६॥ मधुपिण्डौ सुरातन्वोर्नाम शेवाल- मध्ययोः॥ एकाद्रात्रः समाहारे तथा सूतककूलको ॥७॥ सुरायां मृट्ठीकामये तनौ च वाच्यायां मधु- पिण्डशब्दौ पुन्नपुंसकौ ॥ अयं मधुः इदं मधु सुरा । अयं पिण्डः इदं पिण्डं तनुः ॥ शेवालम- ध्ययो म पुन्नपुंसकम् ॥ शेवालः शेवालम् । शेवलः शेवलमित्यादि ॥ मध्यः मध्यं मध्यमः मध्यमम् अवलमः अवलमम् विलग्नः विलग्नम् इत्यादि ॥ रात्र इति कृतसमासान्तो रात्रिशब्दो गृह्यते स एकशब्दात्परः पुनपुंसकः ॥ असमाहा- (पुंनपुंसकलिङ्गः)अवचूरिसहितम् । रार्थ वचनम् ॥ एका चासौ रात्रिश्च एकरात्रः एकरात्रम् ॥ समाहारे द्विगुसमाहारो इन्द्वसमाहा- रश्च गृह्यते तस्मिन् वर्तमानो यो रात्रशब्दः स पुन्नपुंसकः ॥ हे रात्री समाहृते द्विरात्रः द्विरात्रम्॥ एवं त्रिरात्रः त्रिरात्रमित्यादि ॥ द्वन्द्वसमाहारे, अहश्च रात्रिश्च अहोरात्रः अहोरात्रम् ॥ समाहार इति किम्।पूर्वोरात्रेरंशः पूर्वरात्रः॥अथ कान्ताः१९॥ सूतकः सूतकं पारदः ॥ कूलकः कूलकम् स्तूपः ॥ ७ ॥ वैनीतकभ्रमरको मरका वलीक- वल्मीकवल्कपुलकाः फरकव्यलीको॥ किञ्जल्ककल्कमाणिकस्तबका वितङ्क- वर्चस्कचूचुकतडाकतटाकतङ्काः॥८॥ वैनीतकः वैनीतकम् परम्परावाद्यं याप्यया- नादि ॥ भ्रमरकः भ्रमरकं ललाटस्थोऽलकः ॥ मरकः मरकम् बहुप्राणिमरणम् ॥ वलीकः वलीकं

(पुनपुंसकलिङ्गः)अवचूरिसहितम् ।
फलकं खेटकम् ॥ तदन्तत्वात् शालिफलकोऽपि
अष्टापदः ॥ मालक: मालकं ग्रामान्तराटवी ॥
अलकः अलकं चूर्णकुन्तलः ॥ मूलकः मूलकं
शाकविशेषः॥ तिलकः तिलकं पुण्ट्रः ॥ पङ्क:
पकं कर्दमः पापं च ॥ पातकः पातकं पापम् ॥
कोरकः कोरकम् कुड्मलम् ॥ अर्थप्राधान्यात्
क्षारकोऽपि ॥ करकः करकं कमण्डलुः करङ्कश्च ॥
कन्दुकः कन्दुकं गिरिः॥ अन्दुकः अन्दुकं गज-
पादबन्धनम् ॥ अनीकः अनीकं युद्धं सेना च॥
निष्कः निष्कं हेनः अष्टोत्तरं शतं पलं कर्षः हेम्नः
उरोभूषणं दीनारश्च ॥ चषकः चषकं मद्यपान-
भाजनम् ॥ विशेषकः विशेषकं तिलकः ॥९॥
शाटककण्टकटङ्कविटङ्का
मञ्चकमेचकनाकपिनाकाः॥
पुस्तकमस्तकमुस्तकशाका
वर्णकमोदकमूषिकमुष्काः ॥ १०॥

११२ हैमलिङ्गानुशासनम-(पुंनपुंसकलिङ्ग) शाटकः शाटकं वस्त्रविशेषः ॥ कण्टकः कण्टकं रोमाञ्चः वृक्षभेदी च॥ टङ्कः पाषाणादिच्छे- दोपकरणं गिरिशृङ्गं च ॥ विटङ्कः विटङ्क कपोत- पालीसंज्ञं पक्षिविश्रामार्थ बहिर्निर्गतं दारु, वक्र- दार्वाधारः तत्र हि कपोतपतिरुत्कीर्यते । पञ्चकः २ पल्यङ्कः ॥ मेचकः २ वर्णविशेषः ॥ नाकः २ स्वर्गः आकाशं च ॥ पिनाकः २ रुद्रधनुः॥ पुस्त- कः २ लिखितपत्रसञ्चयः ॥ णकप्रत्ययान्तोऽयम् । तेन पुस्तात् स्वार्थिककेन न सिध्यति॥ मस्तकः २ शिरः॥ उणादौ तु कान्तोऽयम् तप्रत्ययान्ताहा स्वार्थिकः कः। मुस्तकः २ मुस्ता ॥ शाकं २ मूलकादि ॥ वर्णकः २ विलेपनम् ॥ मोदकः २ लड्डुकः॥ मूषिकः २ आखुः।। मुष्कः २ वृषणः॥१०॥ चण्डातकश्वरकरोचककञ्चुकानि मस्तिष्कयावककरण्डकतण्डकानि॥ आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझर्भरकहंसकशङ्खपुङ्खाः११॥

(पुंनपुंसकलिङ्गः)अवचूरिसहितम् । ११३ चण्डातकः २ अर्घोरुकवस्त्रम् ॥ चरकः २ शास्त्रविशेषः ॥ रोचकः २ क्षुत् ॥ कञ्चुकः २ सन्नाहादिः॥ मस्तिष्कः २ मस्तकस्नेहः ॥ यावकः२ अलक्तकः॥ करण्डकः २ पुष्पाद्याधारः॥तण्डकः२ शाल्यादिसारः ॥ आतङ्कः २ इष्टवियोगतापरुक्श- कादिषु ॥ घनन्तत्वात्पुंसि ॥ शूकः २ धान्यादेः शृङ्गः ॥ सरकः २ मद्यभाजनम् ॥ मद्यपाने तु त्रिलिङ्गः॥ कटकः २ सैन्यं सानुः वलयोऽद्रिशृङ्गं च ॥ शुल्कः २ मार्गादौ राजदेयं स्त्रीविवाहपरि- ग्राह्य धान्यं च ॥ पिण्याकः २ तिलादिखलः ॥ झर्झरकः २ कलियुगम् ॥ हंसकः २ नूपुरम् ॥ शङ्खः २ कम्बुः वलयं प्राण्यङ्गम् ॥ पुखः २ शरपृष्ठम् ॥ ११ ॥ नखमुखमधिकाङ्गःसंयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः॥ क्रकचकवचकूर्चार्धर्चपुच्छोञ्छकच्छा ११४ हैमलिङ्गानुशासनम्-(पुनपुंसकलिङ्ग) ब्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च १२ नखमुखे प्रसिद्धे ॥ अधिकाङ्गः २ सारसनं यद् हदि बध्यते युधि ॥ संयुगः २ संग्रामः ॥ पद्मरागः २ शोणमाणिः ॥ भग २ उपस्थः ॥ युगो २ यूपः ॥ टङ्गः २ खनित्रम् ॥ उद्योगः २ पराक्रमः ॥ शृङ्गं २ शिखरम् ॥ निदाघः २ ग्रीष्मः ॥ ककचः २ करपत्रम् ॥ कवचः २ वर्म ॥ कूर्चः २ भ्रूमध्यम् दीर्घश्मश्रु कैतवं च ॥ ऋचो- ऽर्धमर्धर्चः २॥ 'परलिङ्गो द्वन्द्वोऽशी' इत्यस्या- पवादः॥ पुच्छः २ लाङ्गलम् ॥ उञ्छं २ जीविका- विशेषः ॥ कच्छो २ बहुजलो देशः॥ ब्रजः २ पन्थाः॥ उटजः २ तापसपर्णकुटी ॥ निकुञ्जः २ गह्वरम् ॥ कुञ्जः २ गह्वरः गजकुम्भाधो दन्ति- दन्तः हनुश्च ॥ भूर्ज २ च तरुविशेषत्वक् ॥ अम्बुजः २ कमलम् ॥ चकारोऽनुक्तसमुच्चये । तेन चान्तेषु अध्य) २ नमस्या ॥ १२ ॥ ध्वजमलयजकूटाः कालकूटारकूटौ (पुनपुंसकलिङ्गः)अवचूरिसहितम् । कवटकपटखेटाः कर्पटः पिष्टलोष्टौ॥ नटनिकटकिरीटाः कर्बटः कुक्कुटाहौ, कुटयकुटविटानि व्यङ्गटः कोहकुष्टौ१३ ध्वजः २ पताकादिः।।मलयजः २ श्रीखण्डम्॥ कूटं २ मायादि ॥ कालकूटं २ विषम् ॥ आर- कूटो रीतिः ॥ कवटः २ उच्छिष्ठम् । कपटः २ दम्भः ॥ खेटः २ फलकम् कफश्च ॥ कर्पट: २ वासः॥ पिष्टः २ अपूपः ॥ लोष्टः २ मृच्छकलम् ॥ नटः २ नर्तकविशेषः ॥ निकटः २ समीपम् ॥ कि रीट: २ मुकुटम् ॥ कर्बटः२ पर्वतावृतग्रामविशेषः। कुक्कुटः२ ताम्रचूडः॥अः२ क्षौमम् गेहभेदश्च॥ कुटो २ घटःहलाङ्गविशेषश्च ॥ यकुटः२ वार्ताकीकु सुमम्॥विटः२खिगः गोविशेषश्च॥व्यङ्गटः २ शि- क्यभेदः॥कोट्टः२ दुर्गः॥अथ ठान्तौ ॥कुष्ठं २ त्वग्- दोषःगन्धद्रव्यविशेषश्च ॥१३॥ कमठो वारुण्डखण्डषण्डा हैमलिङ्गानुशासनम्-(नपुंसकलिङ्गः) निगडाक्रीडनडप्रकाण्डकाएडाः ॥ कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ दृढवारबाणबाणाः॥१४॥ कमठः २ असुरविशेषः भाजनं च ॥ कूर्मे तु देहि- नामत्वात् पुंस्त्वमेव ॥वारुण्डः २ दृकर्णमलः गणि. स्थराजश्व॥खण्डः२ शकलमिक्षुविकारश्च॥गुणवृत्ते- स्त्वाश्रयलिङ्गता॥खण्डः खण्डी खण्डमिति॥ षण्ड; २वृक्षादिसमूहः॥ निगडः २ पादबन्धनम्॥ आक्री डः२ उद्यानविशेषः॥नडः२ नड्वलस्तृणविशेषः।। प्रकाण्डः २ स्तम्बः शस्तं तरोश्व मूलशाखान्तरम्॥ काण्डः२ शरः समयश्व प्रकरणं समूहः जलं वालं कुत्सितम् वृषस्कन्धः लता च॥ कोदण्डं २ चापम् ॥ तरण्डः २ उडुपः॥ मण्डः२ द्रवद्रव्याणामुपरिस्थो भागः भक्तदिनिर्यासः एरण्डः मस्तु च ॥ मुण्डम् २ शिरः ॥ दण्डः २ वष्टिः मन्थाः सैन्यं दमनं च ॥ अण्डः २ पक्ष्यादिप्रसवः ॥ अथ ढान्तः ॥ दृढः

(पुंनपुंसकलिङ्गः)अवचूरिसहितम् । ११७
२ स्थूलं बलवांश्च ॥ वारबाणं २ चर्म ॥ बाणः २
शरः पुष्पविशेषश्च ॥ १४ ॥
कर्षापणः श्रवणपक्कणकङ्कणानि
द्रोणापराह्मचरणानि तृणं सुवर्णम् ॥
स्वर्णव्रणौ दृषणभूषणदूषणानि
भाणस्तथा किणरणप्रणानिचूर्णः१५
कर्षापणः२ मानविशेषः पणषोडषकंच॥प्रज्ञा-
द्याणि कार्षापणोऽपि ॥श्रवणः२ कर्णः ॥ पक्कणः २
शबरालयः ॥ कङ्कणः२ हस्तरक्षासूत्रम् ॥ द्रोणः
परिमाणविशेषः ॥ अपराह्नः२ दिवसापरभागश्च ।
चरणं २ गोत्रादि ॥ तृणः २ उपलादिः ॥ सुवर्णः
वर्णः हेमम्॥ व्रणःऊरुः॥ वृषणः२मुष्कः॥ भूषणः
२ अलंकारः॥अर्थप्राधान्यात् मण्डनोऽपि ॥ दूषणः
२ उपालम्भः ॥ भाणः २ प्रबन्धभेदः ॥ किणः२
त्वग्ग्रन्थिः ॥ रणः २ संपरायः ॥ प्रवणः २
चतुष्पथम् ॥ चूर्णः २ क्षोदः ॥ १५ ॥

११८ हैमलिङ्गानुशासनम्-(पुंनपुंसकलिङ्ग)
तोरणपूर्तनिकेतनिवाताः पारतमन्त-
युतप्रयुतानि॥ वेडितमक्षतदैवतहत्तै-
रावतलोहितहस्तशतानि ॥ १६ ॥
तोरणः २ वन्दनमाला बहिरि नि!हश्च ॥
पूर्तः २ खानादि कर्म ॥ निकेतः २ आवासः ।
निवातः • गृहं दुर्भेदं चर्म च ॥ वातरहिते प्रदे-
शे त्वाश्रयलिङ्गता ॥ पारतं २ रसेन्द्रः॥ अर्थप्रा-
धान्यात्पारदमपि ॥ अन्तः २ प्रान्तः समीपं स्वरूपं
च ॥ उपलक्षणत्वात्प्रान्तः प्रान्तमपि ॥ युतम् २
अपानम् । प्रयुतं २ दश लक्षाणि ॥ वेडितः २
सिंहनादविशेषः । अक्षताः अक्षतम् मङ्गलस्य त.
ण्डुलाः॥ पुंसि बहुत्व एवायम् ॥ दैवतः २ देवता॥
वृत्तम् २ शीलं निस्तलं च ॥ ऐरावतः २ सुरेन्द्रद-
न्ती ॥ लोहितः २ शोणितम् ॥ गुणवृत्तिस्त्वाश्रय-
लिङ्गः ॥ हस्तः २ करः ॥ शतं २ पञ्च विंशतयः
॥ १६॥

(नपुंसकलिङ्ग) अवचूरिसहितम् । व्रतोपवीतौ पलितो वसन्त- ध्वान्तायुतद्यूतघृतानि पुस्तः॥ शुद्धान्तबुस्तौ रजतो मुहूर्त- द्वियूथयूथानि वरूथगूथौ ॥ १७ ॥ व्रतः २ शास्त्रितो नियमः ॥ उपवीतः २ क- ण्ठसूत्रम् ॥ पलितं २ पक्वकेशः । केशपाके कर्द- मे च तान्तत्वान्नपुंसकत्वम् ॥ वसन्तः २ सुरभिः देवपुत्रविशेषश्च ॥ ध्वान्तं २ तमः ॥ अयुतं २ दशसहस्राणि ॥ द्यूतः२ दुरोदरम् ॥ धृतम् २ आ- ज्यम् ॥ पुस्तं २ लेख्यपत्रसंघातः लेपादिकर्म च ॥ शुद्धान्तः २ अन्तःपुरम् ॥ बुस्तं २ पक्वमांसविशे- पः॥ रजतो २ रूप्यं श्वेतं च ॥ मुहूर्तः २ घटि- काद्वयम् ॥ द्वयो!थयोः समाहारो द्वियूथः २ ॥ यूथः २ सजातीयपश्वादिसंघातः ॥ वरूथः २ रथ- गुप्तिः ॥ गूथः २ विष्ठा ॥ १७ ॥ प्रस्थं तीर्थ प्रोथमलिन्दः १२० हैमलिङ्गानुशासनम्- (पुनपुंसकलिङ्ग) ककुदः कुकुदाष्टापदकुन्दाः॥ गुददोहदकुमुदच्छदकन्दा- बुंदसौधमथोत्सेधकबन्धौ॥ १८ ॥ प्रस्थः २ मानम् ॥ तन्मितं वस्तुमात्रं च ॥ तीर्थ २ पुण्यस्थानं जलावतारश्च ॥ प्रोथः २ अश्वा- देोणान्तरम् ॥ अलिन्दः २ गृहद्वारस्था स्थली । ककुदः २ कुकुदश्च श्रेष्ठं वृषस्कन्धः राजचिह्न च॥ अष्टापदं २ सुवर्ण द्यूतफलकं च॥ अर्थप्राधान्यात शारिफलकमपि । गिरौ शलभे कपौ चाद्रिदेहिना- मत्वात् पुंस्त्री ॥ कुन्दः २ पुष्पविशेषः । निधिभेद- मुरभिदोस्तु पुंस्त्वमुक्तमेव ॥ चक्रभ्रमौ च बाहुल- कात्पुंसि ॥ गुदम् २ अपानम् ॥ दोहदः २ श्रद्धा- दौ ॥ हृदयस्य तु बाहुलकान्नपुंसकत्वम् ॥ कुमुदः कैरवम् । छदः २ दलं पिच्छं च ॥ कन्दः २ पयो घरः सस्यमूलं च ॥ अर्बुदो २ दशकोटयः ॥ कोटिरित्यन्ये ॥ स्थानविशेषः आक्षिरोगविशेषश्च ॥

(पुंनपुंसकलिङ्ग) अवचूरिसहितम् । १२१ पर्वतविशेषे तु पुंस्त्वमेव ।। अथ धान्ताः॥ सौधः २ राजगृहम् ॥ उत्सेधः २ उन्नतिः ॥ कबन्धः २ शिरोरहितः कायः॥ १८॥ श्राद्वायुधान्धौषधगन्धमादनप्रस्फो- टना लग्नपिधानचन्दनाः ॥ वितान- राजादनशिश्नयौवनापीनोदपानासनके- तनाशनम् ॥ १६ ॥ श्राद्धः२ पितृकर्म ॥ यस्तु मत्वर्थीयाणन्तःस आश्रयलिङ्गः ॥ आयुधः २ प्रहरणम् ॥ अन्धः २ तमः ॥ औषधो २ भेषजम् ॥ गन्धमादनः २ पर्वतविशेषः ॥ प्रस्फोटनः २ शूर्पम् ॥ लग्नं २ मेषादि ॥ पिधानं २ संवरणम् ॥ अपेः प्यदेशाभा- वेऽपिधानमपि ॥ चन्दनः २ मलयजतरुः॥ चन्द- मान्तत्वाहरिचन्दनो देवदारुः चन्दनविशेषश्च ॥ वितानं २ विस्तारः उल्लोचःशून्यं यज्ञश्च ॥ राजा- दनः २ पियालः क्षीरिका च ॥शिश्नं २ मेष्ट्रः ॥

१२२ हैमलिङ्गानुशासनम् (पुंनपुंसकलिङ्गः) यौवनं २ द्वितीयं वयः ॥ आपीनम् २ ऊधः । उदपानं २ कूपः ॥ असनं २ वृक्षविशेषः ॥श्लेष- निर्देशादासनमुपवेशनम् ॥ केतनः २ ध्वजः ॥ अशनः २ ओदनः ॥ १९ ॥ नलिनपुलिनमौना वर्धमानः समा- नौदनदिनशतमाना हायनस्थानमानाः धननिधनविमानास्ताडनस्तेनवस्ना भ- वनभुवनयानोद्यानवातायनानि ॥२०॥ नलिनः २ पद्मम् ॥ पुलिनः २ सैकतम् ॥ मौनो २ वाग्यमः ॥ वर्धमानः २ शरावः ॥ स- मानः २ तुल्यः शरीरस्थो वायुविशेषश्च ॥ ओद- नः २ कूरम् ॥ दिनो २ दिवसः ॥ शतं माना- न्यस्य शतमानः २ भूभागविशेषः रूप्यमानं च ॥ हायनः २ वर्षः रश्मिश्च ॥ स्थानम् २ आश्रयः॥ मानः २ दर्पः ॥ धनो २ द्रव्यम् ॥ निधनः २ विनाशः कुलं च ॥ विमानं २ व्योमयानादि (पुंनपुंसकलिङ्गः) अवचूरिसहितम् । १२३ ताडनः २ व्यधनम् ॥ स्तेनः २ चौरः चौर्यं च ॥ वस्त्रः २ अवक्रयः ॥ धनवस्त्रयोस्तु क्लीबत्वम् ॥ भवनः २ गेहम् ॥ भुवनं २ जगत् ॥ यानः २ वहनम् ॥ उद्यानः २ क्रीडास्थानम् ॥ वातायनः २ गवाक्षः॥ २०॥ अभिधानहीपिनौ निपानं शयनं लशुनरसोनगृञ्जनानि ॥ खलिनखली- नानुमानदीपाः कुणपः कुतपावापचाप- सूर्पाः॥२१॥ अभिधानं २ संज्ञा शब्दश्च ॥ द्वीपिनं २ व्याघ्रः ॥ निपानम् २ आहावः॥ शयनं २ शय्या। लशुनरसोनगृञ्जना २ महाकन्दाः॥खलिनं २ खली- नं२ च कवियम् ॥ अनुमानो२ हेतुः॥ अकर्बनड- न्तोऽयम् ॥ भावे तु क्लीबत्वमेव ॥ दीपः २ प्रदी- पः॥ कुणपः २ शवम् ॥ कुतपः २ छागरोमकृत- कम्बलः दुर्भः अपराह्नकालश्च ॥ आवापो २ वल- १३४ हैमलिङ्गानुशासनम्-(पुंनपुंसकलिङ्ग) यः ॥ चापं २ धनुः॥ शूर्प २ धान्यादिपवनं भा. ण्डम् ॥ २१॥ स्तूपोडुपौ विटपमण्डपशष्पबाष्प- हीपानि विष्टपनिपौ शफडिम्बबिम्बाः॥ जम्भः कुसुम्भककुभौ कलभो निभामे- संक्रामसंक्रमललामहिमानि हेमम॥२२॥ स्तूपो २ मृदादिकूटः । उडुपं २ प्लवः ॥ चन्द्रे तु पुंस्त्वम् ॥ विटपः २ तरोः स्कन्धादूर्व शाखा ॥ मण्डपो २ जनाश्रयः ।। शष्पं २ बाल- तृणं प्रोक्तम् । बाष्पं २ नेत्रवारि ऊष्मा च॥ द्वीप २ मध्येजलं देशः ॥ विष्टपं २ जगत् ॥ निपं २ घटः ॥ शफः २ खुरः॥ डिम्बः २ उदरान्तोऽव. यवः ॥ बिम्बं २ प्रतिबिम्बं मण्डलं च ॥ जम्भोर जम्बीरः॥ कुसुम्भं २ कमण्डलुः महारजतं च ॥ ककुभः २ वीणप्रसेधः॥ कलभः २ करिपोतः॥ निभो २ व्याजः ॥ अर्मः २ चर्रोगः ॥ संक्रामः

(नपुंसकलिङ्गः) अवचूरिसहितम् । १२५
संक्रमश्च २ जलतरणविशेषः ॥ ललामः २ श्रृङ्गं
पुच्छम् हयमुखेऽन्यवर्णः पुण्ढ़ः केतुश्च ॥ हिमः२
तुषारः ॥ हेमम् २ स्वर्णः ॥२२॥
उद्यमकामोद्यामाश्रमकुहिमकुसुमसं-
गमा गुल्मः॥क्षेमक्षौमौ कम्बलिवाह्यो
मैरेयतूर्यो च ॥ २३ ॥
उद्यमः २ उत्साहः ॥ कासः २ अभिलाषः।।
उद्यामः २ उद्यमोपरमौ , इति निपातनावृद्धिनि-
षेधेऽपि अत एव निपातनादात्वमपि ॥ आश्रमः २
मुनिस्थानम् ब्रह्मचर्यादिश्च ॥ कुट्टिमः २ संस्कृत-
भूमिविशेषः ॥ कुसुमं २ पुष्पे स्त्रीरजस्यपि च ॥
नेत्ररोगे तु बाहुलकात्क्लीबत्वमेव ॥ सङ्गमः २ सं-
गमः ॥ गुल्मः २ विटपः प्रकाण्डं च ॥ क्षेमः २
कुशलम् लब्धरक्षणं च ॥ क्षौमम् २ अट्टालक:
अभ्यन्तरे प्राकारधारणार्थ खोमाख्यश्च ॥ कम्बलि-
वाह्यं २ गन्त्री ॥ मैरेयः २ सीधुः ॥ तूर्य २
वाघम् ॥ २३ ॥

१२६ हैमलिङ्गानुशासनम्-(पुनपुंसकलिङ्गः) पूयाऽजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वा- जपेयः कषायः ॥ शल्यंकुल्याव्यय- कवियवदोमयं पारिहार्यःपारावारातिख- राशिखरक्षत्रवस्त्रोपवस्त्राः ॥२४॥ पूयः २ क्लिन्नासृग् ॥ अजन्यः २ उत्पातः ॥ प्रमयः २ मरणम् ॥ समयः २ कालः । अन्यत्र पुंसि ॥ राजसूयः २ ऋतुः ॥ हिरण्यं २ स्वर्णम् ॥ अरण्यः २ अटवी ॥ संख्यः २ आहवः॥ मलयः २ गिरिविशेषः॥ वलयः २ कटकम् ॥ वाजपेयः २ क्रतुभेदः ॥ कषायो २ रसभेदेऽङ्गरोगे च ॥ शल्यं २ देहगतं शस्त्रादि ॥ कुल्यः २ अस्थि ॥ अव्ययं २ खरादि । २ कवियः २ खलिनम् ॥ गोमयः २ गोशकृत् ॥ पारिहार्य २ वलयम् ॥ अथ रान्ताः ॥२७॥ पारं २ परतीरम् समाप्तिश्च ॥ अवारम् २ अर्वाक्तीरम् ॥ अतिखरः २ औषध-

(पुंनपुंसकलिङ्गः) अवचूरिसहितम् । १२७
विशेषः ॥ शिखरं ॥ शैलवृक्षाग्रं पुलकः पक्वदा-
डिमबीजाभमाणिक्यं च ॥ क्षत्रम् २ क्षत्रियः ॥
वस्त्रं २ वासः ॥ उपवस्त्रम् २ उपवासः॥ यत्तूप-
वस्ता प्राप्तोऽस्येति कृत्वाणिऔपवस्त्रमुपवासः त-
संयुक्तरान्तत्वान्नपुंसकम् ॥ २४ ॥
अलिञ्जरः कूबरकूरबेरनीहारहिञ्जी-
रसहस्रमेदाः ॥ संसारसीरौ तुबरश्च
सूत्रशृङ्गारपद्रान्तरकर्णपूराः ॥ २५ ॥
अलिञ्जरः २ मणिकः ।। कूबरं २ युगंधरः ॥
कूरः २ ओदनम् ॥ बेरो २ देहः ॥ नीहारः २
हिमम् ॥ हिञ्जीरः २ अन्दुकः ॥ सहस्रं २ दश
शतानि ॥ मेण्ट्रः २ शफः॥ २ संसारः जगत् ॥
सीरं २ हलम् ॥ तुबरः २ कषायः॥ सूत्रः २ तन्तुः
सूत्रणा च ॥ शृङ्गारो २ रसविशेषः॥ पद्रं २ ग्रा-
मस्थानविशेषः॥ अन्तरं २ मध्यं छिद्रं विनार्थश्च
अवधिः अवकाशः विशेषश्च ॥ कर्णपूरः २ अव-
तंसः नीलोत्पलं च ॥ २५॥

१२८ हैमलिङ्गानुशासनम्-(पुनपुंसकलिङ्ग) नेत्रं वक्त्रपवित्रपत्रसमरौशीरान्ध- कारा वरः केदारप्रवरौ कुलीरशिशिरा- वाडम्बरो गह्वरः ॥ क्षीरं कोटरचक्रचु- ऋतिमिराङ्गारास्तुषारःशरभ्राष्ट्रोपह्व- रराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्चरः॥२६॥ नेत्रो २ नयनम् परिधानविशेषश्च ।। वक्रो २ मुखम् ॥ पवित्रः २ पावनम् । गुणवृत्तेस्त्वाश्रयलि- ङ्गता ॥ पत्रं पर्ण २ वाहनं च ॥ समरः२ रणम् ॥ उशीरः २ वारणीमूलम् ॥ अन्धकारः २ तमः ॥ अर्थप्राधान्यानीलपङ्कदिनकेसरावपि ॥ बरः २ श्रेष्ठः देवतादेश्च । मनागिष्टे त्वव्ययम् ॥ अन्ये तु क्लीबम् ॥ केदारः २ वप्रः ॥ प्रवरो २ गोत्रवि- शेषः हिमं च ॥ कुलीरः२ कर्कटकः ॥ शिशिरः २ ऋतुविशेषः॥ आडम्बरं २ करिगर्जितम् पटह उद्धतवेषादिश्च ॥ गहरं २ बिलंनिकुञ्जः दम्भश्च॥ क्षीरः २ दुग्धम् ॥जले तु नपुंसकत्वम् ॥ कोटरं २ (पुंनपुंसकलिङ्ग) अवचूरिसहितम् । १२९ छिद्रम् निष्कुहश्च ॥ चक्रः २ आयुधम् रथाङ्गम् संघातः राष्ट्र कटकं च ॥ स्वल्पहूस्वयोः कपि चक्रिका दुरुद्योगः घुणावर्तश्च ॥ चुक्रम् २ अम्लो रसः अम्लव्यञ्जनं च॥ तिमिरः२ तमः॥ अङ्गारः२ अग्निदग्धकाष्ठशकलम् ॥ तुषारः २ हिमम्॥ शरः २ बाणः दधिसारश्च ॥ भ्राष्ट्रम् २ अम्बरीषः ॥ उपह्वरः २ उपसरः रहः समीपं च ॥ राष्ट्रः २ ज- नपदः उपद्रवश्व ॥ तक्रम् २ उदश्वित् ॥ जठरम् २ उदरम् ॥ आर्द्रः २ शृङ्गवेरम् ॥ कुञ्जरः २ गजः ॥ पञ्जरम् २ वीतंसम् ॥ २६ ॥ कर्पूरनूपुरकुटीरविहारवारकान्ता- रतोमरदुरोदरवासराणि ॥ कासारकेसरकरीरशरीरजीर- मञ्जीरशेखरयुगंधरवजवप्राः ॥२७॥ कर्पूरम् २ धनसारः॥ नूपुरो २ गञ्जीरः ॥ कुटीरं २ ह्रखा कुटी ॥ विहारं २ भिक्षुस्थानम् १३० हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग) यतिचर्या च ॥ वारः २ परिपाटिः अवसरः समू- हश्च ॥ कान्तारो२ महारण्यम् ॥ तोमरं २ शस्त्र- विशेषः ॥ दुरोदरम् २ पणः॥ वासरम् २ दिनम्॥ कासारः २ पल्वलम् ॥ केसरः २ किञ्जल्कः सटा च ॥ करीरं २ वंशाधङ्कुरः घटश्च॥ शरीरः२ कायः॥ जीरम् २ अजाजीकः । जीरकोऽपि च ॥ मञ्जीरः २ नूपुरम् ॥ शेखरम् २ शिरोभूषणम् ।। युगंधरम् २ कूबरम् ॥ वज्रम् २ अशनिः रत्नं च ॥ वप्रम् २ क्षेत्रं रोधश्च ॥ २७ ॥ प्रालवालपलभालपलालाः पल्वलः खलचषालविशालाः। शूलमूलमुकुलास्तलतैलो तूलकुमलतमालकपालाः॥२८॥ आलवालम् २ आवालम् ॥ पलम् २ मांसं मानविशेषश्च ॥ भालं २ ललाटम् ॥ पलालं २ धान्यादेः शुष्कनालम् ॥ पल्वलः २ कासारः॥

(पुनपुंसकलिङ्गः)अवचूरिसहितम् । १३१ खलः २ पिण्याकः दुर्जनश्च ॥ दुर्जने आश्रय- लिङ्गोऽप्ययमित्येके ॥ चषालः २ यज्ञपात्रम् ॥ विशालः २ विस्तीर्णता। गुणवृत्तेस्त्वाश्रयलिङ्गता॥ शूलम् २ आयुधम् ॥ मूलम् २ आदिः प्रतिष्ठा च ॥ मुकुलम् २ कुड्मलः ॥ तलम् २ अधः खभापश्च ॥ पृष्ठे तु लान्तवान्नपुंसकः ॥ तैलम् २ तिलादिस्नेहः॥ तूलम् २ पिचुः ॥ कुड्मलो २ मुकुलः ॥ तमालो २ वृक्षविशेषः ॥ कपालम् २ शिरोऽस्थि । घटादिशकले बजे भिक्षाभाजने च स्त्रीक्लीबः ॥ २८॥ कवलप्रवालबलशम्बलोत्पलो- पलशीलशैलशकलाङ्गलाञ्चलाः ॥ कमलं मलं मुशलशालकुण्डलाः कललं नलं निगलनीलमङ्गलाः॥२६॥ कवलः २ भक्ष्यपिण्डः ॥ प्रवालम् २ नव- किशलयं विद्रुमश्च ॥ बलः २ प्राणः॥ अर्थप्रा-

१३२ हैमलिङ्गानुशासनम्-(नपुंसकलिङ्ग)
प्राधान्यात सहोऽपि ॥ सैन्यस्थौल्यरूपेषु तु क्लीबः।।
शम्बलम् २ पाथेयम् ॥ उत्पलं २ सरोजम् अर्थ-
प्राधान्यात् कुवलयमपि ॥ उपलः २ पाषाणः ॥
शलिं २ सद्वृत्तं खभावश्च ॥ शैलम् २ गडः ॥
शकलं २ खण्डम् ॥ अङ्गुलः २ अङ्गुलीयमानम् ॥
अञ्चलम् २ वस्त्रैकदेशः ॥ कमलः २ पद्मम् ॥
जले तु क्लीबः ॥ अर्थप्राधान्यान्नालीकमपि ॥ मलं
२ किट्टम् पापं च ॥ किट्टे चार्थप्राधान्यात् किट्टः
किट्टम् ॥ मुसलः २ क्षोदनोपकरणम् ॥ अर्थप्रा--
धान्यात् अयोऽनः॥ शालम् २ वृक्षविशेषः ॥
कुण्डलं २ कर्णाभरणम् ॥ कललम् शुक्रशो-
णितयोरीषद्धनः परिणामः ॥ नलम् २ अन्त:-
शुषिरस्तुणविशेषः॥ नल् गन्धे इत्यस्येदं रूपमिति
कृतलवान्नडादस्य भेदः ॥ निगल्यते बध्यतेऽने-
नेति निगलः पादबन्धनम् ॥ अयमपि धातुभेदे
कृतलवान्न सिध्यति ॥ नीलं २ वर्णविशेषः ॥
मङ्गलः २ प्रशस्तम् ॥ २९ ॥

(पुनपुंसकलिङ्गः) अवचूरिसहितम् । १३३ काकोलहलाहलौ हलं कोलाहलकङ्कालवल्कलः॥ सौवर्चलधूमले फलं हालाहलजम्बालखण्डलाः॥३०॥ काकोलो २ विषभेदः ॥ हलाहलः २ स एव ॥ हलः २ सीरः ॥ कोलाहलः २ कलकलः॥ कंकालं २ शरीरास्थि ॥ वल्कलं २ वृक्षादीनां त्वक् ॥ सौवर्चलम् २ रुचकम् ॥ धूमलः २ तूर्यः॥ फलः २ प्रयोजनं पुष्पादिभवं च ॥ हालाहलो २ विषभेदः। एकदेशविकृतस्यानन्यत्वेन हालहल- मपि ॥ जम्बालः २ कर्दमः ॥ खण्डलः २ खण्डम् ॥ ३०॥ लागूलगरलाविन्द्रनीलगाण्डीव- गाण्डिवाः॥ उल्वः पारशवः पार्थापूर्व-. त्रिदिवताण्डवाः॥३१॥ लागूलः २ पुच्छम् ॥ गरलं २ विषम् ।।

१३४ हैमलिङ्गानुशासनम्-(पुनपुंसकलिङ्ग) इन्द्रनीलः २ रत्नभेदः ॥ गाण्डीवं २ धनूः पार्थ- धनूश्च ॥ गाण्डिवं २ तदेव ॥ उल्वः २ कललम् ॥ पारशवः २ शस्त्रम् ॥ पार्श्वः २ कक्षाधः शरीर- देशः ॥ अपूर्व २ धर्माधर्मों ॥ त्रिदिवं २ वगः॥ ताण्डवम् २ उद्धतं नृत्यम् ॥ ३१ ॥ निष्ठेवः प्रग्रीवः शरावरावौ भावली- बशवानि ॥ दैवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कशकोशौ ॥ ३२ ॥ निष्ठेवः २ निष्ठेवनम् ॥ अत्र यज्ञोपकरण- वाचिनं पात्रीवशब्दं केचित्पठन्ति स त्वाश्रय- लिङ्गः ॥ प्रग्रीवो २ वातायनम् ॥ शरावो २ वर्ध- मानम् ॥ रावः २ ध्वनिविशेषः ॥ भावः २ स्वभा- वादिः॥ क्लीबः २ तृतीयाप्रकृतिः॥ अर्थप्राधान्यात नपुंसकमपि ॥ शवो २ मृतशरीरम् ॥ देवो २ विधिः॥ पूर्वः २ प्रथमता ॥ गुणवृत्तिस्त्वाश्रय- लिङ्गः ॥ पल्लवः २ किशलयम् ॥ पल्लवान्तत्वात् (पुनपुंसकलिङ्गः) अवचूरिसहितम् । १३५ सपल्लवो २ वासः ॥ नल्वो २ हस्तचतु:शती ॥ अथ शान्ताः ८॥ पाशो २ बन्धनम् ॥ कुलिशो २ वज्रम् ॥ कर्कशो २ ऽमृदुत्वम् ॥ गुणवृत्तेस्त्वा- श्रयलिङ्गता ॥ कोशो २ भाण्डागारः कुड्मलं शपथश्च ॥ भाण्डागारेऽर्थप्राधान्यात् गञ्जोऽपि तालव्योपान्त्यः ॥ समानार्थः मूर्धन्योपान्त्यः कोषशब्दो वक्ष्यते ॥ ३२ ॥ आकाशकाशकणिशाङ्कुशशेषवेषो- ष्णीषाम्बरीषविषरोहिषमाषमेषाः॥ प्र- त्यूषयूषमथ कोषकरीकर्षवर्षामिषा रस- बुसेकसचिक्कसाश्च ॥ ३३॥ आकाशो २ नभः ॥ काशः २ तृणविशेषः॥ कणिशं २ धान्यशीर्षकम् ॥ अङ्कुशः २ सृणिः ॥ अथषान्ताः १५ ॥ शेषः २ उपयुक्तेतरत् ॥ वेषः२ आकल्पः॥ तालव्योपान्त्योऽप्ययम् ॥ उष्णीषं २ किरीटम् शिरोवेष्टनं च ॥ अम्बरीषं २ भ्राष्ट्रः ॥

१३६ हैमलिङ्गानुशासनम-(पुनपुंसकलिङ्ग) विषं २ गरलम् ॥ रोहिषं २ रक्ततृणम् ॥ माषः २ धान्यविशेषः॥ मेषः२ मेण्ड्रम्॥ प्रत्यूषः २ प्रभा- तम् ॥ यूषं २ मुद्गादिरसविशेषः । कोषः २ कुड्मलम् ॥ करीषः २ शुष्कगोमयं तदग्निश्च ॥ कर्षः२ पलचतुर्थीशः ॥ वर्षः २ संवत्सरः वृष्टिः खण्डः भरतक्षेत्रादि च ॥ आमिषम् २ उत्कोचः मांसं भोग्यवस्तु च ॥ रसं २ मधुरादि श्रृंगारादि विषं वीर्य रागश्च ।। बुसम् २ कडङ्गरः॥ इक्कसं २ वस्तुविशेषः ॥ चिक्कसं २ यवान्नविशेषः॥ चका- रात् पायसं २ परमान्नं २ च ॥ ३३ ॥ कर्पास आसो दिवसावतंसवीतंस- मांसाः पनसोपवासौ ॥ निर्यासमासौ चमसांसकांसस्नेहानि बर्हो गृहगेह- लोहाः ॥३४॥ कर्पासः २ तूलकारणम् ॥ आसो २ धनुः॥ दिवसं २ दिनम् ॥ अवतंसः २ शेखरः ॥ अव- Ju (नपुंसकलिङ्गः) अवचूरिसहितम् । स्य वादेशे वतंसोऽपि ॥ अर्थप्राधान्यादुत्तंसो २ ऽपि ॥ वीतंसः २ पञ्जरः॥ मांसं २ जङ्गलम् । पनसो २ वृक्षविशेषः ।। उपवासः अहोरात्रनिरश- नता ॥ निर्यासो २ वृक्षादेनिस्यन्दः ॥ मासः २ पक्षद्वयम् ॥ चमसम् २ यज्ञपात्रम् ॥ मसूरादि. पिष्टे तु बहुलकास्त्रीत्वम् । चमसी ॥ अंसः २ स्कन्धः॥ कांसो २ भाण्डविशेषः ॥ स्नेहं २ सौहृदं तैलं च ॥ बहः २ कलापः वर्ण च ॥ गृहाणि २ दारा वेश्म च ॥ गेहः २ सदनम् ॥ लोहः २ अयः अगुरु च ॥ ३४ ॥ पुण्याहदेही पटहस्तनूरुहो लक्षाररिस्थाणुकमण्डलूनि च ॥ चाटुश्चटुर्जन्तुकशिप्वणुस्तथा जीवातुकुस्तुम्बुरु जानु सानु च ३५ पुण्याहः २ पुण्यदिनम् ॥ देहः २ कायः ॥ पटहः २ आनकः ॥ तनूरुहः २ गरुल्लोम्नी ॥ लक्षः २ व्याजः ॥ वेध्ये क्लीवः ॥ संख्यायांतु .. २ १३८ हैमलिङ्गानुशासनम्- (पुंनपुंसकलिङ्गः) स्त्रीक्लीबः ॥ अररिः २ कपटाम् ॥ अथोदन्ताः ॥ स्थाणुः २ शङ्कः॥ शिवे तु देहिनामत्वात्पुंस्त्वम् ॥ कमण्डलुः २ करकः ॥ चाटुः २ प्रियवाक्यम् ॥ चटुः २ तदेव ॥ जन्तुः २ प्राणी ॥ कशिपुः २ भोजनाच्छादने ॥ अणुः २ परमाणुः सूक्ष्मपरि- माणविशेष इत्यर्थः ॥ जीवातुः २ जीवनौषधम् ॥ कुस्तुम्बुरुः २ धान्यविशेषः ॥ जानुः २ अष्ठी- वान् ॥ सानुः २ गिरितटम् ॥ ३५ ॥ कम्बुः सक्तुर्वगुरुर्वास्तु पला- एडुर्हिगुः शिग्रुर्दोस्तितउः सीध्वथ भूम ॥ वेम प्रेम ब्रह्म गरुल्लोम विहायः कर्माष्टीवत्पमधनुर्नामम- हिम्नी ॥ ३६॥ इतिपुंनपुंसकलिङ्गाः॥ कम्बुः २ शंखः ॥ वलये शम्बूके गजे कचूरे च पुसि ॥ सक्तुः २ यवादिविकृतिः॥

(पुंनपुंसकलिङ्ग) अवचूरिसहितम् । १३९ के चिदनं बहुवचनान्तं पठन्ति ॥ दारु २ काष्ठम् ॥ दार्वन्तत्वादेव महादादयोऽपि पुंक्लीबाः सर्वेऽप्येते एकार्थाः॥ अगुरु २ गन्धद्रव्यविशेषः ॥ वास्तु २ गृहभूमिः ॥ पालण्डुः २ कन्दविशेषः ॥ हिङ्गु २ रामठम् ॥ शिग्य २ शोभाञ्जनम् ॥ अथोदन्तप्रक्रम एवं छन्दोऽनुसंधानात् सन्तः ॥ दोः २ बाहुः ॥ तितउः२ शूर्पम् ॥ सीधुः २ मैरयम् ॥ अथ व्यञ्जनान्ताः १३ ॥ भूमा २ बहुत्वम् ॥ वेमा २ तन्तुवायशलाका ॥ प्रेमा २ स्नेहः नर्म च॥ ब्रह्म २ तपः वेदः ज्ञानम् आत्मा प्रजापतिः॥ गरुत् २ स्वर्ण पिच्छं च ॥ लोम २ तनूरुहम् ॥ विहायाः २ शकुनिनभश्च ॥ कर्म २ क्रिया व्याप्यं च ॥ अष्ठीवान् २ जानुः॥ पक्ष्म २ आक्षिरोम तूलं च ॥ धनुः २ चापम् ॥ नाम २ संज्ञा ॥ महिमा २ महत्त्वम् ॥ ३६ ॥ इति पुनपुंसकलिङ्गं समाप्तम् ॥

१४० .. हैमलिङ्गानुशासनम्-(स्त्रीक्लीबलिङ्गः) अथ स्त्रीलीबलिङ्गः॥ स्त्रीनीबयोर्नखं शुक्तौ विश्वं मधुकमौषधे॥ माने लतं मधौ कल्यं क्रोडोऽङ्के तिन्दुकं फले ॥१॥ शुक्तौ गन्धद्रव्यविशेषे नखशब्दः स्त्रीक्ली- बलिङ्गः ॥ नखी । नखम् ॥ विश्वमधुकनाम्नी औषधवाचिनी स्त्रीक्लीबे ॥ विश्वा विश्वं शुण्ठी ॥ मधुका मधुक मधुयष्टिः॥ माने संख्यायां लक्षं स्त्रीक्लीबम् ॥ लक्षा लक्षं सहस्रशतम् ॥ मधौ मये वाच्ये कल्यशब्दः स्त्रीक्लीबः ॥ कल्या कल्यम् ॥ अङ्के उरसि वाच्ये कोडशब्दः स्त्रीक्लीबः ॥ क्रोडा क्रोडम् ॥ फलविशेषे तिन्दुकं स्त्रीक्लीबम् तिन्दुकी। तिन्दुकम् ॥ १॥ तरलं यवाग्वां पुष्पे पाटलं पटलं चये ॥

१ (स्त्रीक्लीबलिङ्गः) अवचूरिसहितम् । १४१ वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥२॥ यवाग्वां वाच्यायां तरलम् । तरला । तरलम् ॥ हारे तन्मध्यमणौ चाभरणनामत्वात्पुंस्त्वम् ॥ पुष्प- विशेषे वाच्ये पाटलम् पाटली पाटलम्॥चये समूहे वाच्ये पटलम् । पटली पटलम् । पिटकतिलकपरि- च्छेदेषु लान्तत्वान्नपुंसकत्वम्॥ वृत्तविशेषे वसन्त- तिलकम् ॥ वसन्ततिलका। वसन्ततिलकम् ॥ भिक्षुभाजने वाच्ये कपालं स्त्रीक्लीबम् ॥ कपाली ।। कपालम् ॥ २॥ अर्धपूर्वपदी नावष्ट्यणकनटौ क्व- चित्॥ चोराद्यमनोज्ञाद्यकञ् कथानक- कशेरुके ॥३॥ अर्धशब्दपूर्वपदोऽट्समासान्तो नौशब्दः स्त्री- क्लीबः ॥ अर्धनावी । अर्धनावम् ।। ट्यणप्रत्ययान्तं कर्तृवर्जिते कारके विहितो योऽनट्प्रत्ययस्तदन्तं हैमलिङ्गानुशासनम्-(स्त्रीक्लीबलिङ्गः) च क्वचिल्लक्ष्यानुसारेण स्त्रीक्लीबम् ॥ ट्यण, उचितस्य भावः कर्म वा औचिती । औचित्यम् ॥ एवं याथाकामी याथाकाम्यम् ॥ वैदग्धी वैदग्ध्य- म् ॥ मैत्री मैत्र्यम् ॥ आनुपूर्वी। आनुपूर्व्यम् ॥ इत्यादि ॥ क्वचिद्वचनात् क्वचित्स्त्रीत्वमेव ॥ शीलमेव शैली । क्वचिक्लीबत्वमेव । शैत्यम् ॥ एवं दाय॑म् । जाड्यम्। ब्राह्मण्यम् । त्रैलोक्यम् । सैन्यम् ॥ इत्यादि ॥ अकर्बनट् ॥ आस्थानी आस्थानम् राजसभा ॥ राजधानी राजधानम् स्कन्धावारः ॥ चालिनी चालनम् तितउः॥ एवं करणी करणम् ॥ प्रमाणी प्रमाणम् ॥ इत्यादि ॥ क्वचित्स्त्रीत्वमेव ॥ गुणलयनी दूष्यम् ॥ भ्रमणी राज्ञः क्रीडा ॥ प्रसाधनी कङ्कतिका ॥ वेषे तु क्लीबत्वमेव ॥ गवादनी गवां घासस्थानम् इत्यादि। क्वचिन्नपुंसकत्वमेव ॥ प्रधीयतेऽस्मिान्निति प्रधा- नम् ॥ 'प्रकृतौ च महामात्रे प्रज्ञायां परमात्मनि ॥ नपुंसकं प्रधानं स्यातू एकत्वे तूत्तमे सदा १॥

(स्त्रीक्लीबलिङ्गः) अवचूरिसहितम् । १-४३ साध्यतेऽनेनेति साधनं प्रमाणं तुरगादिसमूहश्च ॥ लक्षणं लक्ष्म चिह्न नाम च ॥ उपवर्तनं देशः॥ स्थानं स्थितिः सादृश्यं च ॥ युक्तार्थे करणार्थे च स्थाने इत्यव्ययम् ॥ केतनं २ गृहम् ।। केतौ तु पुनपुंसकन्॥प्रमाणं २ सम्यक् प्रवक्ता ॥ कारणं २ मर्यादा मानं च उपसर्जनं २ गौणमित्यादयः॥ केचित्तु आश्रयलिङ्गभाजः॥ राजभोजनः शालिः॥ राजभोजनी द्राक्षा॥राजभोजनमन्नम् इत्यादिकाः। मनोज्ञाद्यन्तर्गणवर्जितेभ्यश्चौरादिभ्यो योऽकञ्प्रत्य यस्तदन्तं नाम स्त्रीनपुंसकम् ।। चौरिका । चौरकम् ।। धौर्तिका । धौर्तकम् ॥ यौवनिका । यौवनकम् इत्यादि ॥अमनोज्ञादीति किम् । मानोज्ञकम् प्रैय- रूपकम् इत्यादौ आ त्वात्त्वादिः' इत्यनेन क्लीब- त्वमेव ॥ चार । धूर्त । युवन् । ग्रामपुत्र । ग्राम- षण्ड । ग्रामभाण्ड । ग्रामकुमार। ग्रामकुल। ग्राम- कुलाल। अमुष्यपुत्र । अमुष्यकुल । शरपुत्र। शारपुत्र । मनोज्ञ । प्रियरूप । अभिरूप । बहुल।

हैमलिङ्गानुशासनम्-(स्त्रीक्लीबलिङ्गः) मेधाविन् । कल्याण। आढ्य । सुकुमार।छान्दस। छात्र । श्रोत्रिय । विश्वदेव । ग्रामिक । कुलपुत्र । सारपुत्र । वृद्ध । अवश्य ॥ इति चौरादिः ॥ अथ कान्ताश्चत्वारः ॥ कथानिका कथानकम् आख्या- नम् ॥ कशेरुका कशेरुकं पृष्ठास्थि ॥ ३ ॥ वंशिकवक्रौष्टिककन्यकुब्जपीठानिन- क्तमवहित्थम् ॥ रशनं रसनाच्छोट न- शुम्बं तुम्बं महोदयं कांस्यम् ॥४॥ वंशिका । वंशिकम् अगुरुः ॥ वक्रोष्ठिका । वक्रोष्ठिकं स्मितम् ॥ अथ जान्तः॥ कन्यकुब्जा कन्यकुब्ज महोदयाख्यो देशः ॥ अथ ठान्तः ॥ पीठी पीठमासनम् ।नक्ता नक्तं रात्रिः॥ नक्त- मिति मन्तमव्ययमपि ॥ अवहित्था अवहित्थमा- कारगोपनम् ॥ रशनं रशना काञ्ची॥ रसना रसनं जिह्वा ॥ अच्छोटना आच्छोटनं मृगया ॥ शुम्बा शुम्बं रज्जुः ॥ तुम्बी तुम्बं वल्लिविशेषः॥ महो- (स्त्रीक्लीबलिङ्ग)अवचूरिसहितम् । १४५ दया महोदयं कन्यकुब्जाख्यो देशः ॥ कांस्यी। कांस्यं सौराष्ट्रिका अर्थप्राधान्यात् सौराष्ट्रिका सौ- राष्ट्रिकमपि ॥ ४ ॥ मृगव्यचव्ये च वणिज्यवीर्यनासीर- गात्रापरमन्दिराणि ॥तमिस्रशस्त्रे नगरं मसूरत्वक्षीरकादम्बरकाहलानि ॥५॥ मृगव्या मृगव्यं पापर्द्धिः ॥ चव्या चव्यं नागवल्लिमूलम् । वचायां तु स्त्रीत्वमेव ॥ वणिज्या वणिज्यं वणिक्कर्म ॥ वीर्या वीर्यम् अतिशयशक्तिः॥ अथ रान्ता दश ॥ नासीरा नासीरमग्रयानम् ॥ गात्रा गात्रं गजस्य पूर्वजङ्घादिभागः ॥ अपरा अपरं गजस्य पाश्चात्यजङ्घा ॥ मन्दिरा मन्दिर गृहम् ॥ समुद्रे तु पुंस्त्वमेव ॥ नगरे तु क्लीबम् ॥ तमिस्रं तमः। तमिस्रा निबिडं तमः ॥ सामान्य- विशेषयोरभेदविवक्षया ऐकार्थ्यम् ॥ कोपे तु क्लीबम् ॥ कृष्णपक्षनिशायां तु स्त्री ॥ शस्त्री शस्त्रमायुधविशेषः ॥ नगरी नगरं पुरी ॥ मसूरी - १४६ हैमलिङ्गानुशासनम्-(स्त्रीक्लीबलिङ्गः) मसूरं चर्मासनम् ॥ त्वक्षीरी त्वक्षीरं वंशलो. चना ॥ कादम्बरी कादम्बरं मद्यविशेषः ॥ सामा- न्यविशेषयोरभेदविवक्षायामित्थं निर्देशः॥यदाह- 'कादंबरं मद्यभेदे दधिसारे सीधुनि स्त्रियाम् ॥ अथ लान्ता अष्ट ॥ काहला काहलं शुषिरो वाद्यभेदः ॥ ५॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिशं च छर्दि च ॥ अलाबु जम्बूडुरुषः सरः सदो रोदो ऽर्चिषी दाम गुणे त्वयट तयट् ॥ ६॥ इति स्त्रीलीबलिङ्गाः॥ स्थाली स्थालं भाजनविशेषः ॥ कदली कदलम् शाकादेर्नक्नालम् ॥ स्थली अकृत्रिमा चेत् कृत्रिमा तु स्थला । स्थलम् उन्नतो भूभागः ॥ जाली जालम् आनायः समूहः गवाक्षश्च ॥ मित्तला पित्तलमारकूटम् ॥ गोला गोलं पत्राञ्जने : (स्त्रीक्लीबलिङ्गः)अक्चूरिसहितम् । १४७ कुमद्यां च गोदावर्या च मण्डले ॥ सखीमणिकयो- गोला गोलं लक्ष्यानुसारतः' ॥१॥ युगली युगलं युगम् ॥ अथ शान्तः॥ बडिशा बडिशं मत्स्यबन्धनम् ॥ बडिशीत्यपि क्वचित् ॥ अथे- दन्तः॥ इयं छर्दिः इदं छर्दिः वान्तिः ॥ इयमलाबूः इदमलाबु तुम्बीलता॥ इयं जम्बूः इदं जम्बु जम्बू- वृक्षफलम् ॥ अनयोः क्लीबत्वे ह्रस्वता ॥ उडुःउडु नक्षत्रम् ॥ उषाः उषः सन्ध्या ॥ प्रभाते पुनपुंस- कम् ॥ सरः सरसी तडागः ॥ सदः सदाः सभा ॥ रोदसी द्यावापृथिव्यौ ॥ आर्चिः २ अग्निशिखा रश्मिश्च । दाम २ बन्धनम् ॥ गुणवाचिअयट्त- यडन्तं नाम स्त्रीनपुंसकम् ॥ द्वयी द्वयम् । त्रयी त्रयम् । चतुष्टयी चतुष्टयम् । गुणिनि त्वाश्रयलि- ङ्गतैव ॥ द्वये पदार्थाः द्वयी गतिः । द्वयं वस्तु ॥ अयाणि जगन्ति ॥ चतुष्टये कषायाः ॥ चतुष्टयी शब्दानां प्रवृत्तिः इत्यादि ॥ ६ ॥ इति स्त्रीक्लीबलिङ्गम् ॥

(खत्तस्त्रीलिङ्ग) अवचूरिसहितम् ।
जीवः जीवा जीवम् प्राणाः ॥ केदारे
वाच्ये वलजस्त्रिीलङ्गः॥ पवने धान्यपवनस्थाने
खलशब्दस्त्रिलिङ्गः ॥ वृत्तं मात्रादिच्छन्दः ॥
वृत्तादीनामभिधा नामानि बहुलं लक्ष्यानुरोधेन
त्रिलिङ्गानि ॥ वृत्ताभिधा श्लोकः पुटः पणव
इत्यादि पुंसि । प्रमाणी समानी कलिका गाथा
आर्या इत्यादि स्त्रियाम् ॥ पक्त्रं वितानमित्यादि
क्लीबे ॥ दण्डकः पुनपुंसकः ॥ वसंततिलकं
स्त्रिक्लीबे उक्तम् ॥ नक्षत्राभिधा तिष्यः पुनर्वसू
इत्यादि पुसि । अश्विनी इल्वलाः चित्रा इत्यादि
स्त्रियाम् ॥ ॐ नक्षत्रम् इत्यादि नपुंसकम् ॥
मृगशिरः पुनपुंसकः ॥ कस्यचित्पुरस्याभिधा
द्रङ्गःद्राङ्गःनिगमः इत्यादि पुंसि ॥ पू: अमरावती
अलकेत्यादि स्त्रियाम् ॥ अधिष्ठानं पत्तनं दुर्गम्
इत्यादि क्लीबम् ॥ आदिशब्दो ग्रामदेशोपलक्षणम्
तेन वरणा ग्रामः गोदौ ग्रामः इत्यादि पुंसि ॥
शालूकिनी ग्रामः । काञ्ची माढिश्च देशः इत्यादि

१५.० हैमलिङ्गानुशासनम्- (खतस्त्रीलिङ्ग) स्त्रियाम् ॥ कोडं ग्रामः कुरुक्षेत्रं च देशः इत्यादि क्लीबे ॥ आभरणाभिधा। तुलाकोटिः ताडङ्कः इत्यादि पुसि ॥ वालपाश्या पारितथ्याशब्दौ केशाभरणे ,मेखला सप्तकी इत्यादि स्त्रियाम् ॥ केयूराङ्गदे मुकुटम् अङ्गुलीयकम् इत्यादि क्लीबे ॥ आवाप्यादयः पुनपुंसकाः ॥ हारः पुनपुंसकः ॥ रशनं स्त्रीक्लीबम् ॥२॥ भल्लातक आमलको हरीतकबिभी- तकौ ॥ तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥३॥ भल्लातकी आमलकी हरीतकी बिभीतक्या- दयो वृक्षभेदाः । तारका भम् । आढकी मानवि- शेषः । पिटका भाजनविशेषः फोटश्च । स्फुलिङ्गा अग्निकणाः । विडङ्गा औषधिविशेषः। अभिज्ञे त्वाश्रयलिङ्गः । तटी रोधः ॥ ३ ॥ पट: पुटो वटो वाटः कपाटशकटौ

खतस्त्रीलिङ्गः) अवचूरिसहितम् ।
कटः ॥ पेटो मठः कुण्डनीडविषाणा:
स्तूणकङ्कतौ ॥ ४ ॥
पटी वस्त्रविशेषः। पुटी पत्रभाजनम् ।
भूर्जाद्यवयवे तु टान्तत्वात् पुंस्त्वमेव ॥ वटी
न्यग्रोधतरुः रज्जुश्च ॥ वाटी वृत्तिः। यवविकारे
वरण्डेऽङ्गे च बाहुलकात्पुनपुंसकः ॥ वर्मनि
पुस्त्वमेव ॥ इक्कटीवास्तुनास्तु स्त्रियाम् ॥ कपाटी
अररिः। जपादित्वाद्वत्वे कवाटी॥ शकटी अनः।
कटी वीरणादिकृतः। पटी संघातः परिच्छदश्च ।।
स्वार्थे के पेटिका ॥ मठी, 'आश्रयविशेषः ।
कुण्डी भाजनभेदः ॥ नीडा. कुलायः ॥, विषाणी
विषाणा वा गवादिशृङ्गम् दन्तिदन्तश्च ॥ तूणी
तूणा वा इषुधिः ॥ कंकती केशमार्जनम् ॥ ४ ॥
मुस्तकुथेगुदजृम्भदाडिमाः
पिठरप्रतिसरपात्रकन्दराः ॥
नखरो वल्लूरो दरः पुरश्छत्र-
कुवलमृणालमण्डलाः॥५॥

१५२ हैमलिङ्गानुशासनम्- (खतस्त्रीलिङ्गः) मुस्ता कन्दविशेषः । कुथा वर्णकम्बलः। इङ्गुदी वृक्षविशेषः ॥ जृम्भा जृम्भणम् ॥ दाडिमा उच्चिलिङ्गतरुः तरूलं तत्कणश्च ॥ पिठरी स्थाली । मुस्तं मन्थानदण्डयोस्तु क्लीबम् ॥ प्रतिसरा मङ्ग ल्यसूत्रम् सेनायाः पश्चाद्भागश्च ॥ पात्री भाजनम् योग्ये यज्ञभाण्डे नाटयानुकतरि च क्लीबः ॥ कन्दरी कन्दरा च दरी । अंकुशे तु पुसि ॥ नखरी नखरा वा नखः ॥ वल्लूरा सौकरं शुष्कं वा मांसम् ॥ ऊपरे नक्षत्रे वाहने च क्लीबम् ॥ दरी श्वभ्रम् ॥ पुरी नगरी ॥ छत्री आतपत्रम् ॥ कुवली वृक्षविशेषः तत्फलं च ॥ मृणाली बिसम् ॥ मण्डली देशः समूहश्च बिम्बं चतुरस्रता च ॥५॥ नालप्रणालपटलार्गलशृङ्खलक- न्दलाः ॥ पूलावहेलौ कलशकटाही षष्टिरेण्विषु ॥६॥ इति स्वतस्त्रिलिङ्गाः॥ नाली नाला वा पद्मादिवृन्तम् ॥ जलनिर्गमे १५३ (परलिङ्ग) अवचूरिसहितम् । तु बाहुलकात्पुंसि लत्वाभावे, नाडः । प्रणाली जलपद्धतिः॥ पटली गृहोपरिभागः आक्षिरोगश्च ॥ 'अर्गला त्रिषु कल्लोले दण्डे चान्तः कपाटयोः ॥ शृङ्खलः शृङ्खला शृङ्खलमयोमयी रज्जुः ॥ कन्दली उपरागः समूहः नवाङ्कुरः द्रुमभेदश्च ॥ पूली पूला वा बद्धतृणसंचयः ॥ अवहेलाऽवज्ञा ॥ कलशी जलाद्याधारविशेषः ॥ दन्त्योपान्त्योय. मपि॥ कटाही भाण्डविशेषः॥ षष्टिः संख्याविशेषः रेणुधूलिः ॥ इषुर्बाणः ॥ ६ ॥ इति स्वतस्त्रिलिङ्गावचूरिः॥ अथ परलिङ्गः। परलिङ्गो द्वंद्वोऽशी ढेऽर्थो वाच्यव- दुपत्यमिति नियताः॥अस्न्यारोपाभा- वे गुणटत्तेराश्रयाहचनलिङ्गे ॥१॥ द्वन्द्वः समासो द्वन्द्वस्यैव यत्परमुत्तरपदं तत्समानलिङ्गो भवति ॥ स च समाहारादन्यो १५४ हैमलिङ्गानुशासनम्- (परलिङ्ग) भिन्नलिङ्गवर्तिपदो वचनं प्रयोजयति ॥ समाहार- स्तु नपुंसक उक्तः ॥ समानलिङ्गवर्तिपदोऽपि सिद्धलिङ्ग एव ॥ इमौ मयूरीकुक्कुटौ॥इमे कुक्कुट मयूर्यो । इत्यादि ॥ अंशितत्पुरुषसमासः परलिङ्गो भवति ॥ अर्ध पिपल्या अर्धपिप्पली ॥ अयं समेंऽशेऽर्ध नवा इति समासः॥ अ? जरत्याः अर्धजरतीयम् ॥'जरत्यादिभिः, इति समासः॥ द्वितीयं भिक्षायाः द्वितीयभिक्षा 'हित्रि'-इति समासः॥ पूर्वाह्नपूर्वरात्रादीनाम् ' अह्न'-इति 'रात्र'-इति च पुंस्त्वम् ॥ .र्थश्चतुर्थ्यर्थोऽर्थशब्दो यत्र प्रस्तावात् तत्पुरुषसमासे स वाच्यस्य यल्लिङ्गं तत्समानलिङ्गो भवति ॥ ब्राह्मणायायं ब्राह्मणार्थः सूपः ॥ एवं ब्राह्मणार्था पेया ॥ ब्राह्मणार्थ पयः॥ के इति किम् । धान्येनार्थः धान्यार्थः॥ पुस्त्वाप- वादो योगः ॥ अपत्यमिति अपत्यादयः शब्दा नियता नियते अजहद्वर्तिनी व्यस्ते समस्ते वा लिङ्गवचने येषां ते तथा ॥ अपत्यं दुहिता .

(परलिङ्गः) अवचूरिसहितम् । १५५
पुत्रश्च ॥ इति शब्दस्याद्यर्थत्त्वादेव तोकं रक्षः
सारथिः सादी निषादी अतिथिः स्त्री पुमान् कुलं
वा ॥ स्याहादः प्रमाणम्, अनेकान्तात्मकं वस्तु
संविदां गोचरः, दण्ड उपसर्जनं, विद्या गुणः, गौः
प्रकाण्डं, कुमारी तल्लजः, अश्वो मतल्लिका ॥
स्वार्थिककप्रत्ययान्तास्तु क्वचिद्वाच्यलिङ्गा अपि
भवन्ति ॥ वीरौ रक्षःप्रकाण्डको । कुमारी तल्लजका
इत्यादि ॥ बाहुलकात्क्वचिदाश्रयलिङ्गा अपि ॥
प्रमाणी ब्राह्मणी ॥ गुणो विशेषणं तस्मात्प्रवृत्ति-
निमित्ताद्विशेष्ये वृत्तिर्यस्य स गुणवृत्तिः शब्दः
तस्याश्रयाविशेष्यवशाल्लिङ्गवचने स्याताम्
परत्वात् सकलशास्त्रापवादः ॥ अस्त्र्यारोपेति आरो-
पोऽर्थान्तरे निवेशनम्, अस्त्रियामारोपोऽस्त्र्यारोपः
तस्याभावे सति ॥ गुणवृत्तिश्च गुणद्रव्यक्रियोपा-
धिभेदात्रेधा ॥ गुणोपाधिः शुक्लः पटः शुक्ला
शाटी शुक्लं वस्त्रम् । मूों ना मूर्खा स्त्री मूर्ख
कुलम् इत्यादि ॥ द्रव्योपाधिः दण्डी ना दण्डिनी

१५६ हैमलिङ्गानुशासनम्- (परलिङ्गः)
स्त्री दण्डि कुलम् इत्यादि ॥ क्रियोपाधिः, पाचको
ना पाचिका स्त्री पाचकं कुलम् इत्यादि ॥ सर्वादिः
केवलस्तदन्तश्च गुणवृत्तिः । एवं संख्यापि । सर्वः
सूपः सर्वा यवागूः सर्वमन्नम् ॥ एवं स सा तत् ॥
अन्यः अन्या अन्यत् ॥ द्वाभ्यामन्यः हन्य:
द्वन्या द्वन्यत् । एकः पटः। एका पटी। एकं
वस्त्रम् ॥ एवं द्वौ हे द्वे । त्रयः तिस्रः त्रीणि ॥
बहुव्रीहिरदिग्वृत्तिगुणवृत्तिः ॥ चित्रा गावोऽस्य
चित्रगुर्ना चित्रगुः स्त्री चित्रगु कुलम् इत्यादि ॥
दिग्वाची तु दिग्नामत्वात्स्त्रीलिङ्गः ॥ दक्षिणस्याः
पूर्वस्याश्च यदन्तरालं दिक् सा दक्षिणपूर्वा दिग् ॥
एवं दक्षिणपश्चिमा ॥ पूर्वपदप्रधानस्तत्पुरुषस्तद्धि-
तार्थद्विगुश्च गुणवृत्तिः ॥ अतिक्रान्तः खट्वामति-
खट्वः अतिखट्वा अतिखट्वम् ॥ एवमवक्रुष्टः
कोकिलया अवकोकिलः ३ । परिग्लानोऽध्ययनाय
पर्यध्ययनः ३ । अलं जीविकायै अलंजीविकः३॥
निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः ३। प्राप्तो

(परलिङ्गः) अवचूरिसहितम् १५७ जीविकां प्राप्तजीविकः ३ इत्यादयः ॥ शतात्परे परःशताः ३॥ एवं परःसहस्राः ३ । परोलक्षाः३। उत्तरपदप्रधानस्य तु यथास्वं लिङ्गम् ॥ तद्धिता- र्थद्विगुः ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। पञ्चकपाला । पञ्चकपालम् ॥ रक्ताद्यर्थेऽणाद्यन्ताश्व गुणवृत्तयः। हरिद्रया रक्तः हारिद्रः हारिद्री हारिद्रम् ॥ एवं सर्वतद्धितेषु यथायोगमपवादवर्ज- मुदाहार्यम् ॥ आरोपाभावे इति किम् । चञ्चव चचा पुरुषः । अत्र समतया आरोपः। एवमन्ये- ष्वप्यारोपेषूदाहार्यम्॥ अस्त्रीति किम् । धवनाम्नो योगात्तहार्यायामध्यारोपे आश्रयलिङ्गतैव ॥ प्रष्ठस्य भार्या सएवेयमित्यभेदोपचारेण प्रष्ठी ॥ एवं भवान्यादयोऽपि ॥ १॥ प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् ॥ प्रकृतिहरीतक्यादिर्न लिङ्- गमतिवर्तते ॥२॥ स्वार्थे प्रकृत्यर्थे भवन्ति इति स्वार्थकाः ॥

हैमलिङ्गानुशासनम्- (परलिङ्गः)
ते च क्वचिल्लक्ष्यानुसारेण प्रकृतेर्लिङ्गवचनं च
बाधन्ते । बाधिते च लिने बहुलं लिङ्गव्यवस्था।
संदिष्टा वाक् वाचिकम् ॥ विनय एव वैनयिकम् ॥
उपाय एव औपयिकम् ॥ योग्ये त्वाश्रयलिङ्गता।
वृत्तिरेव वार्तिकम् ॥ ह्रस्वा शुण्डा शमी वा
शुण्डारः शमीरः ॥ क्वचिदनुवर्तते ॥ राज्ञो धूः
राजधुरा ॥ मृदेव मृत्तिका मृत्सा मृत्स्ना ॥ क्व.
चिहिकल्पः ॥ ईषदपरिसमाप्तो गुडो बहुगुडो
बहुगुडा वा द्राक्षा ॥ प्रकृतिलिङ्गप्रतिपत्तिव्युदा-
सार्थ वचनम् ॥ हरीतक्यादिकाप्रकृतिः प्रत्ययार्थे
वर्तमानापि प्रकृत्यर्थलिङ्गं नातिकामति ॥ हरीत-
क्या विकारोऽवयवो बा हरीतकी हरीतक्यौ हरीत-
क्यः फलानि । एवं पिप्पल्यादयोऽपि ॥ मल्लिकाया
विकारोऽवयवो वा पुष्पं माल्लिका ॥ एवं मालती
यूथिका मागधी नवमालिकादयोऽपि ॥२॥
वचनं तु खलतिकादिर्बह्वर्थात्यति
पूर्वपदभूता ॥ स्त्रीपुंनपुंसकानां सहव-
चने स्यात् परं लिङ्गम् ॥३॥

Haim Linganushasanam

Author
Chunilal Panalal
Title
Haim Linganushasanam
File name
Haim Linganushasanam
Text
OCR done
Citation
1904
Published
2006\5
Language
Sanskrit
Pages
156
Library
A. U. A
Classification
Litaitucher
DLI number
485654
Barcode
5990010098802.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library of India
VMLT id
Szc1mVi4xea
Download PDF

Haim Linganushasanam