Scl

Vaiyakarana Siddhanta Laghu Manjusha No 238

Sri_nagesa_bhatta

PDF Proofread

Front matter

॥श्रीः॥ - आनन्दधनविधोतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽङ्कितभव्याभशतपत्त्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जलदर्शना॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवकः-२३८ १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृट शतके मुन्दरैः सीसकारैरुत्तर्गेषु पत्तेषु एकः स्तवको मुद्रायन्या प्रकाश्यते । एकस्मिन स्तवके एक एव अन्थो मुयते । . प्राचीना दुर्लभाश्चामुद्रिता मीमासावेदान्तादिदर्शनव्याकरणधर्मशालसाहित्यपुराणादिग्रन्था एवाऽध मुपरिष्कृत्य मुद्यून्त । । काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः परिडता अन्ये च शास्त्रदृष्टयो विद्वांस पतत्परिशोधनादिकार्यकारिणो भवन्ति । । भारतवर्षीयैः,प्रदेशीयः,सिंहलद्वीपवासिभिश्चैतग्राहकेयं वार्षिकमाग्रिम मूल्यम्-मुद्राः प्रानकाः८ अन्यैदेयं प्रतिस्तव १ ५ प्रापणव्ययः पृथग् नास्ति । " ... ... ... साम्प्रतं मुद्रयमाणा ग्रन्था:- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृतव्या- (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्णम् । ( वेदान्तः) ६ खएडे २ (९) स्याद्वादमञ्जरीमानणनिर्मिता मम्पूर्णा २ (२) शब्दकौस्तुभः । महोजिदीक्षितकृतः २२ । (१०) सिद्धित्रयम्-विशिष्टाद्वैतग्रमनिरूपणपरम् (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्रीश्रीयामुन- पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया मुनिभिविरचितम् । सम्पूर्णम् वेदान्तः१ व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा- (५) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टा रकाचार्यसगृहीतः । आचार्यचित्सुख- द्वैतदर्शनप्रकरणम् । श्रीमलोकाचार्यप्र- मुनिविरचितव्याख्योपेतः ( वेदान्तः )४ गीतम् । श्रीनारायणतीर्थविरचितभार- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- भाषाप्रकाशसहितं सम्पूर्णम् (वेदान्तः)२ सप्तविभक्सिविस्तृतविचाररूप: म. म. (५) करणप्रकाशः। श्रीब्रह्मदेवविरचितः । श्रीगिरिधरोपाध्यायविरचितः । सम्पूर्णः (६) भादृचिन्तामणिः । महामहोपाध्यायधी (न्यायः) ... गागाभट्टपिरचिता । तर्कपाद:(मीमांसा)२ (१६) विधिरसायनम् । श्रीअप्पयदीक्षितकृत- (.) न्यायरममाला-श्रीपार्थसारथिमिश्रविर म् । सम्पूर्णम् (मीमांसा ) चिता संपूर्णा (मीमांसा) २ (१४) न्यायसुधा ( नन्त्रवार्तिकटीका ) भट्ट- (८) बममूत्रभाष्यम्-बादरायणप्रणीनबेदान्त सोमेश्वरविरचिता । ( मीमांसा ) १६ तिर्थनिरूपणम् । स्मना भासं विना घटविशिष्टभेदस्य 'नागृहीतविशेषणा विशष- विशिष्टवुद्धिः' इति न्यायेन घटस्वरूपत्वेन भावानुपपत्त्या सोऽपि- वाच्यः । एवं च तत्रैव प्रतीतः प्रमात्वं भेदांशे स्वप्रमात्वम् उपजी- व्यविरोधात् । किञ्च घटविशिष्टभेदस्य पटस्वरूपत्वे यदि तयोर्भेदस्तहि घ- टादेव घटस्य भेद इति घटस्वरूपस्यैवासिद्धिः । नच प्रतियोगिन- मुपलक्षणमाश्रित्य भेदमात्रं पटस्वरूपं तञ्च घटादिना प्रतियोगि- ना निरूप्यते इति वाच्यम् । निष्प्रतियोगिकभेदस्य प्रमाणागो- चरत्वेन शुद्धस्य तत्स्वरूपत्वायोगात् । किञ्च स्वरूपत्वे भेदस्य प्रतियोगिनिरूप्यत्वं न स्यात् । नीलादि- स्वरूपवत् । एवं चान्यसाकाङ्गत्वे पटस्य स्वरूपमन्येन निरूप्यमाणं भेद इति व्याहतम् । तदपेक्षानपेक्षालक्षणविरुद्धधर्मयोरेकत्रा. सम्भवात् । किञ्च पटं प्रति प्रतियोगित्वं घटस्य, तस्य घटस्वरूपत्वे तत्रैव परमपि प्रक्षिपन्ती सा बुद्धिरद्वैते एव पर्यवस्यति । केवलं प्रतियोगित्वं घटस्वरूपमिति तु न युक्तम् । नहि इतरानपेक्षप्रति- योगित्वस्य प्रामाण्यमस्ति । किञ्च तस्य धर्मस्य धर्मिणा सहासंबन्धे ऽतिप्रसङ्गः । सम्बन्ध- स्वीकारे सम्बन्धानन्त्येनानवस्था । तद्भिया संबन्धस्य स्वरूपत्वो. पगमे द्वयोरपि संबन्धस्वरूपे प्रवेशेऽभेद एव स्यात् । एवं घटस्य घटत्वं धर्म इत्यादावपि संबद्धत्वासंबद्धत्वाभ्या दोषो द्रष्टव्य इति धर्मधर्मिणोरभेदो द्रष्टव्यः । भेदप्रतीतिस्त्वावि. धकीत्युक्तमेव । तस्मात्पटादिविशिष्टं प्रतियोगित्वं घटस्य स्वरूपमेवेति तत्प्रत्यक्षमढ़ने एव प्रमाणम् । नचान्यानपेक्षप्रतीतो 'घटादिकम्' इत्येव प्रतीतिः, पटादिना निरूपणे तु तस्यैव 'भेदः' इति प्रतीतिरिति वाच्यम् । 'घटः' इति प्रतीत्यपेक्षया भेदप्रतीतेर्विलक्षणत्वेन घटस्वरूपमादाय त- प्रतीतेर्निरूपयितुमशक्यत्वात् । घटस्य स्वरूपनिरूपणे पटप्रतीत्य. नपेक्षणाश्च । नच तर्हि अन्योन्याभावरूपो ऽतिरिक्तो भेदो ऽस्तु तस्या विषय इति वाच्यम् । प्रतियोग्यनालिङ्गिताभावबुद्धेरभावेन प्रति टीकाद्वयोपेतायां लघुमजूपायाम् । योग्यपि भेदशरीरे ऽन्तर्भाव्यस्तदा तद्विशिष्टस्वाभावस्थ घटस्व. रूपत्वे घटपटयोरैक्यापत्तेः । धर्मत्वे चान्योन्यधर्मवप्रसङ्गो ऽन्यो- म्यस्य धर्मस्य संवन्धत्वविकल्पदोषप्रसङ्गश्च । एवं प्रतियोगित्वांशे. गि तदोषप्रसङ्गो बोध्यः । किञ्च घटपटादेस्तादात्म्यमन्योन्याभावप्रतियोगि तद्यदि सर्व- था तेां नेष्यते तदा तद्विशिष्टस्य तदुपलक्षितस्य वा प्रमाणेन ज्ञानासम्भवः । विशिष्टज्ञानस्य विशेषणोपलक्षणविषयत्वनियमात् । अत्यन्तमसति तु शशविषाणभेदवत् कथं तव तत्प्रामाण्यं येन श्रुतिर्बाध्येत । नच पटादिप्रतियोगिक एवाऽसौ घटाद्याश्रित इति नासत्प्र. तियोगिकता तस्येति वाच्यम् । एवं हि संसर्गाभावान्योन्या- भावयोर्विशेषानापत्तेः। एवं च संसर्गाभावादन्योन्याभावस्थान- तिरेके ऽन्योन्यात्मभूतं विश्वमद्वैतं स्यादिति संसर्गाभावो ऽपि न सिध्येत् । नच घटसंसर्गाभावः पटाश्रयो घटान्योन्याभावस्तु पट एवे. ति विशेषः। एवं हि घटाभावस्य पटः संसर्गीति घटसंसर्गाभाव- स्य पटे समर्थनवद् घटान्योन्याभावः पटात्मक इति घटतादा- म्याभावस्यापि पटरूपत्वसमर्थनापत्तेः। नचैतत्तवेष्टं तादात्म्याभाव- स्य त्वया पटवृत्तितास्वीकारात् । किञ्चैवं पटस्य घटाभावात्मत्वे घटस्यापि पटाभावात्म- कतया घटपटयोरसियापत्तिः, तद्भेदासियापत्तिश्च । तस्मात्ता- दात्म्यं संसर्ग च प्रतियोगिकोटावन्तर्भाव्यान्योन्याभावसंसर्गाभा- घयोर्विशेषो वाच्यः । तथा चात्यन्तासत्प्रतियोगिकता दुर्वारा । नच धर्मिणो धर्मातरसंसर्गनिषेधः संसर्गाभावः, घटपटयोरितरे तरधर्मनिषेधो ऽन्योन्याभाव इति नात्यन्तमसत्प्रतियोगिकत्वमिति घाच्यम् । एवं हि घटत्वपटत्वयोनिषेध्यधर्माभावेन तयोरन्योन्या- भावाभावाक्यप्रसङ्गे घटपटयोर्घटत्वपटत्वनिषेधात्प्रमाणं द्वय- मपि घटत्वपटत्वशून्यमेवावेदयेत् । एवं च धर्मिप्रतियोगिविभागा- भावादभावप्रमोच्छेदापत्तिरिति दिक् । एतेन वैधवें भेद इत्यप्यपास्तम्। वैधये घटत्वादौ वैधान्त- रस्य तज्ज्ञानस्य वाऽभ्युपगमे ऽनवस्थापत्तेः । अननुभवाच । वैधयें ।

तिर्थनिरूपणम् । ९०३ वैधानङ्गीकारे तु तयोरैक्यापत्त्या विलक्षणधर्मानाश्रयत्वेन घट- पटयोरपि भेदव्यवहारोच्छेदः । किञ्च वैधर्म्यरूपो भेदः किं घटादौ भिन्ने धर्मिणि निवि. शते अभिन्ने वा । नाद्यः । वैधय॑स्य भिन्नाश्रयत्वे पूर्वोऽपि भिन्ना. श्रय इत्यनवस्थापत्तेः । सन्त्वनन्तभिदा इति चेन्न । तेषामनन्ता- नां क्रमेण वस्तुसम्बन्धेऽपकालपरिच्छिन्ने घटादौ तेषां सम्बन्धा- सम्भवात् । धर्मिणो वाऽनन्तकालत्वं स्यात् । युगपत्तत्सम्बन्धे तु भिन्ने भेदनिवेश इति प्रक्रमात् केन भेदेन विशिष्टे कस्य भेदस्य स्थि- तिरिति निर्धारणकारणाभावादनिर्धारणापत्तिः । क्रमसम्बन्धस्तु दू. षित एव । किञ्च क्रमसम्बन्धे वैधाख्यो भेदः स्वीकृतस्तस्य वृत्ति- सिद्धये द्वितीयो भेदः स्वीकृतस्तेनैव स्वाश्रयव्यवहारासाकर्यस्य प्र. थमभेदप्रयोजनस्य सिद्धेस्तस्याकिञ्चित्करत्वापत्तेः। एवं द्वितीयोऽपि येन भेदान्तरेण विशिष्टे निविशिते तेनैव तत्प्रयोजनसिद्धेर्द्वितीयो. ऽपि व्यर्थ इति पूर्वपूर्वलोपे प्रवाहम्यैवासिद्धिः । एवं स्वरूपभेदभिन्ने ऽन्योन्याभावस्य वृत्त्यभ्युपगमे स्वरूपभेदेनैव तद्यवहारसिद्धेरन्योन्या- भावो व्यर्थः । तथा स्वरूपभेदोऽपि यदि कुतश्चिद्भिन्ने स्वरूपे वर्तते तदा तेनैव व्यवहारसिद्धः स्वरूपभेदस्य वैयर्थम् । एवं संहतेष्व. घयवेषु यद्यवयविवुद्धिनिवेशस्तदा संघातविशेषेणैव विलक्षण- प्रत्ययाद्युपपत्ताववयाविकल्पना व्यर्था । एवं निरन्तरयोव्ययोः संयोगनिवेशे नैरन्तर्येणैव संयो- गव्यवहारसिद्धः संयोगगुणकल्पना व्यर्थत्यागृह्यम् । अनन्तानां भेदानां क्रमेण युगपद्वा सम्बन्धकल्पने प्रमाणाभावश्च । नच स्वरूपमेवान्योन्यं व्यावर्तमानं भेद इति वाच्यम् । स्वरूपमात्रव्यावृत्तौ तयोनिःस्वरूपतापत्तेः । नच स्वरूपवि- शेषव्यावृत्तिः । सकलविशेषव्यावृत्तौ तयोः स्वरूपमात्रत्वेनै. क्यापत्तेः । किश्च स्वरूपस्य विशेषस्तयावृत्ति वदता स्वरूपमात्र- मनुगतं वाच्यम् । तश्च न स्वरूपं साधारणं चेत्यस्य व्याहतत्वात् । नच स्वरूपं च विशेषश्चेत्यर्थः । एवं च विशेषेष्वेव स्वरूपशब्दः सा धारणो नानार्थ इति वाच्यम् । विशेषेषु खण्डमुण्डादिष्वपि गोश- ब्दः साधारण इति गोत्वस्याप्येकस्य तवासिखापत्तेः ।

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । किश्चानन्तासु व्यक्तिषु एकस्य स्वरूपपदस्य सन्तग्रहणानुपप- त्तिः । किञ्च स्वरूपस्यैव भेदत्वे धर्मिणि दृष्टे स्वरूपं दृष्टमिति सन्देहानुपपत्तिः । नचाभिन्ने एव भेदो निविशते इति वाच्यम् । एकस्या अपि घटा- दिव्यक्तस्तेन स्वाभेदे सति उदासीनाभावापत्तौ किमेकं नाना वा स्यादिति शून्यवादापत्तेः। पतेन भेदो नाम स्वरूपान्योन्याभावे वैधानात्मको धर्मा- न्तरं पृथक्त्वापरनामकमित्यप्यपास्तम् । तस्यापि स्वाश्रयभिन्ने ऽभिन्ने वेत्यायुक्तदोषानिस्तारात् । किश्च स्वाश्रयेण सह भेदस्य भेदानङ्गीकारे भेदस्य वस्त्वभे- देऽद्वैतापत्तिः, स एव भेदः स्वस्मिन्निविशते चदात्माश्रयः । अन्य- स्तत्र भेदश्चेदन्योन्याश्रयः, द्वितीयोऽपि भेदस्तृतीयापेक्षश्वेश्चक्रकम् । एवं परम्परायामत ऊर्ध्वमनवस्था । तत्परिहाराय भेदभेदाश्रययोः क्वचिदभेदाङ्गीकारे तदैक्यदरिकामूलपर्यन्तमेकतापत्तिः । तदद्वैतश्रुतेस्तावद्वाधः प्रत्यक्षतः क्षतः । नानुमानादिकं कर्तुं तवापि क्षमते मते ॥ प्रत्यक्षेण भेदासिद्धौ व्याप्तिग्रहणाधसम्भवात् । नच शीतोष्णा- दिधर्माणां सहानवस्थानलक्षणविरोधसियनुपपत्या धर्मिभेदावग- तिः । तिलेभ्य एव तैलम्, पयस एव दधि इति कार्यभेदव्यवस्था- नुपपत्त्या कारणभेदावगतिः, बद्धमुक्त व्यवस्थानुपपत्त्या चात्मभे- वावगतिरित्यर्थापत्या तसिद्धिरिति वाच्यम् । सत्यभेदस्य चोक्त- प्रकारेणासिद्ध्या कल्पितभेदाक्षेपकत्वेनैव तदुपपत्तेः । भेदकल्पनाया श्चाद्वैताविद्याकार्यत्वेनार्थापत्तीनामद्वैतगमकत्वाच । तदुक्तम्- अद्वैतागमनासीरे साधु सा धुन्वती परान् । सेवामेवार्जयत्यर्थापत्तिपत्तिपरम्परा ॥ इति । नासीरमग्रगमनम् । द्वैतपक्षस्यासाधु यथा भवति तथा परान् परतरान् धुन्वती कम्पयन्ती अर्थापत्तिरूपपत्तीनां पदातीनां परम्प- रा सेवामेवाद्वैतागमस्यार्जयति करोतीत्यर्थः। नन्वद्वैतश्रुतयो वर्णपदविभक्तितदर्थादिभेदानुपजीव्यार्थ प्रति. पादयन्तीति स्वोपजीव्याभिर्भेदबुद्धिभिः कथं न बाध्या उपजीव- तिर्थनिरूपणम् । कस्योपजीव्याद् दुर्वलत्वादिति चेन्न । अविद्याकल्पितभेदस्य तत्रो- पजीव्यत्वेन तस्य मिथ्यात्वेन दुर्बलतया तद्वाधकत्वायोगात् । एवं च तेषां पदार्थानां तद्भेदानां चाविद्याकृतसत्त्वमेव व्यवहारोपयो- गीति घोधितम् । एतेन द्वितीयाभाव 'एकमेव'इत्येषकारव्यवच्छेद्याभावः। एवम् "अद्वितीयम्" "नेह नाना"इत्यादिव्यवच्छेद्याभाव इत्यपास्तम् । अ. विद्याकल्पितस्य सत्यतया व्यवच्छेद्यत्वेनाक्षतेः। किञ्च श्रुतिभिरद्वैतं पारमार्थिकं प्रतिपाद्यते । नच पारमार्थिकवु- तिरपारमार्थिकवुद्धिबाध्या । अन्यथा शुक्तिरजतबुद्ध्या पारमा. र्थिकशुक्तिधीबाधापत्तः। ननु 'अग्निरनुष्णः' इति बुद्धेः प्रतियोगिभूतोष्णज्ञानोपजी- व्यत्वादुपजीव्येन बाधो दृष्टस्तथा ऽत्रापि किं न स्यादिति चेन्न । द्वयोरप्युष्णताऽनुष्णतयोमिथ्यात्वात्तत्रोपजीवकत्वस्य दौ- बल्यप्रयोजकत्वेऽपि शुक्तिविषयस्य 'नेदं रजतम्' इति ज्ञानस्य प्रसक्तप्रतिषेधतया प्रसञ्जकपूर्वप्रत्ययोपजीवकत्वेऽप्युपजीव्येन बा- धस्याभावाद्, उपजीव्येन वाध इत्यस्यौत्सर्गिकत्वात् । तत्रानुष्णता पारमार्थिक्येवास्तु । तस्याः पारमार्थिकत्वसाधने दृष्टान्तादिदृष्टायास्तैः साधने तत्सजातीयमिथ्यात्वस्यैव सिद्धः । यद्यनुष्णताया लोक सिद्धरूपतां विहायात्यन्तावाध्यत्वष्टो अद्वै- तस्यैवेदं नामान्तरं कृतं स्यात्तञ्च तवानिष्टम् । आवद्यादशायां च शानंशयादिभेदस्यावश्याङ्गीकरणीयतयोक्तजगद्वाधयुक्तिनासे प्रव. शासम्भवात्। नन्वद्धतेऽपि शानं झाता मुमुक्षुरिति भेदस्याभ्युपगन्तव्यत्वा - दबाधकयुक्तिप्रवेशासम्भवात् तस्या मिथ्यात्वं स्याद् इति चेत् । न । द्वैतगोचरस्य बाधस्थाद्वैते ऽनवकाशात् । ज्ञानशेयशावादिभे- दस्य तत्र वस्तुतो ऽनङ्गीकारात् । अत एवापारमार्थिकत्वसम्मा- धनाऽपि न तत्र । न चोपजीव्यविरोधात् श्रुत्याऽद्वैतप्रमाजननम- शक्यम् । काल्पनिकेनाविद्याकृतेन भेदेन पारमार्थिकाद्वैतस्य विरो. धाभावात् । पारमार्थिकं हि पारमार्थिकन विरुध्यते । तस्मादवि- धाव्यवस्थितं भेदं तद्बोधं चोपजीवन्त्याः श्रुतिजनितायाः परमार्था- द्वैतबुद्धपिजीव्यवाधः । एवं च यद्यपि श्रुतिजन्या ऽद्वैतबुद्धिरपि टीकाद्वयोपेतायो लघुमञ्जूषायाम् । भविद्याविद्यमानव तथाऽपि तद्विषयस्तावत्परमार्थसदेवाद्वैतम् । एतेनाद्वैतबुद्धिर्बाध्या अविद्योपादानत्वाच्छुक्तिरूप्यबुद्धिवदित्य. पास्तम् । बुद्धर्बाध्यत्वं विषयबाधेन मानान्तरविरोधेन वा प्र. सिद्धम् । अद्वैते व मानान्तरविरोधो नास्तीत्यविद्योपादानकत्वहे. तोरप्रयोजकत्वम् । श्रुत्यन्तरमपि "द्वितीयाद्वै भयं भवति" इति । तञ्चाद्वैतं "ब्रह्मैवेदं सर्वम्" "विज्ञानमानन्दं ब्रह्म' इति श्रुत्यर्थे- कवाक्यतया ज्ञानात्मकब्रह्मरूपतया ऽवतिष्ठते । चित्प्रतिबिम्बस्य श्रौतज्ञानस्य बिम्बाभेदाद् यदद्वतज्ञानस्य श्रुत्या जन्यत्वं तदपि न पारमार्थिकं किन्त्वविद्याव्यवस्थितवत् तजन्यत्वमिति न पारमार्थि- कतदनन्यत्वेन विरोधः । ननु यदिदं विश्वं श्रुत्यैकं साध्यते तत्रैकत्वं यदि भेदाभावस्तर्हि तस्य प्रामाणिकत्वादद्वैतहानिः । यद्येकत्वसंख्या तदा गुणगुणिभावात्तद्धानिः । यदि संवेद्यस्य विश्वस्य सं. वेदनैक्यन्तर्हि विज्ञानवादवत् ग्राह्यस्य ग्राहकाभेदात्तद्धानिरिति चेन्न । एकत्वधर्मस्य निरूपणासहत्वेन बहुश्रुतिमुखप्रतिपन्नत्वेन तदसत्ताया अपि वक्तुमशक्यत्वेनैकत्वविषयकज्ञानस्याविशिष्टरू- पेण श्रुतिजन्यवैशिष्टयेन च निवृत्त्याऽक्षतेः । तद्धर्मिणस्त्वबाधात् प. रमार्थतो व्यवस्थितिः। नहि परमार्थशुक्तीरजततया प्रतीयते तदा तत्र बाधाद्रजतत्वे व्यावर्तमाने शुक्तिरपि तदपराधान्निवर्तते । सेयमद्वैतबुद्धिर्न तर्कशतमवतार्य प्राज्ञैरपनेया "तर्केण नैषा मतिरापनेया" इति श्रुतेः । तस्मादू- धीधना बाधनायास्यास्तदा प्रज्ञा प्रयछथ । क्षेप्तुं चिन्तामणि पाणिलब्धमब्धौ यदीछथ ॥ "सत्यं ब्रह्म" इति निर्दोषा श्रुतिरत्यन्ताबाध्यतामाह सा न ह- न्तव्येत्यर्थः। सेयमद्वैतदृष्टिदृष्टार्थाऽपि । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयाद् ॥ इति- गीतोक्तेः । महतो भयात् संसारात स्वल्पमपि सकृञ्चिन्तममपि । सा चेश्वरानुग्रहादेवेत्यपि तत्रैव स्पष्टम् ।

तिर्थनिरूपणम् । ९०७ तदिदमद्वैतं द्वैतवासनायाः प्राबल्ये ऽपि उपनिषदर्थे श्रद्धया- ऽत्यल्पकाल्पकमपि भाव्यमानं द्वैतवासनां निरस्य हृदि स्थिरं भवत्ये. वेति श्रीहर्षादयोऽत्र साक्षिणः । तत्कृते नैषधकाव्यान्तर्गतपरमपु. रुषस्तुतिसर्गानुसन्धानेन च व्यक्तं चित्तस्याद्वैतास्वादे प्रवृत्तिः । यद्यपि प्रमाणमेयादिलक्षणानामत्यन्ताभावस्य वक्ष्यमाणत्वेऽपि परा- भिमतव्यवहारेण श्रुतिः प्रमाणमद्वैतं प्रमेयमिति, सिद्धान्ते न क्षतिः । अद्वैतदर्शिनं प्रति त्विष्यत एव श्रुतेरप्रामाण्यमद्वैत- स्याप्रमेयत्वं च । “यत्र वेदा अवेदाः" इति श्रुतेः। तस्माद्यादृशप्रमाण- प्रमेयादिसत्वाभ्युपगमाश्रयासु सास्वेव दर्शनस्थितिषु, प्रमाणा- दीनामवास्तवत्वप्रतिपादनाय श्रीहर्षमहाशयस्य खण्डनयुक्तिसिंहाः प्रगर्जन्ते । तासां युक्तीनामीश्वरविरचितेयं प्रमाणादिव्यवस्था अ. स्या निरासे तवेश्वरद्रोहः स्यादित्यभिशापमन्तरेण खण्डनमश. क्यम् ईश्वरपरवशाऽविचारितरमणीया व्यवहारक्षमा सृष्टिरियं ना- त्यन्तमत्र निरूपणायासः कार्य इति वा समाधानम् । तत्र यदि शून्य- वादानिर्वचनीयवादाश्रयणं तदा खण्डनयुक्तीनां सर्वदर्शनमार्गो- न्मूलनक्षमता स्पष्टैव । किञ्च प्रमाणादिसत्त्वाभ्युपगन्तृनैयायिकादिवादालम्बने वि- लक्षणप्रमाणखण्डनयुक्तीनां प्रत्येक लक्षणविशेषलक्ष्यविशेषप्रमाण- विशेषखण्डने तात्पर्य कृत्वा प्रयोक्तुमौचित्यमेव । नच तत्सूत्र- भाज्याधुक्तलक्षणखण्डनेऽपसिद्धान्तः । पराभिमततद्याख्याख- ण्डने तात्पर्यात् । नचैवं स्वाभिमतं व्याख्यान्तरं वाच्यं स्यात् । वित. ण्डामालम्ब्य खण्डनयुक्तिप्रयोगस्य निर्बाधत्वात् । तस्यां स्व. पक्षनिर्वाहपर्यनुयोगाभावात् । एवं च वादिदर्शनमाश्रित्या- पि एकदेशिवत्प्रत्यवस्थानेन खण्डनयुक्तिप्रयोगो निर्बाधः । वै. याकरणानामिव शब्दसिद्धिप्रश्नस्य परकीयज्ञाननिरूपणार्थस- मानपक्षस्थित्याऽपि पर्यनुयोगादिसम्भवात् । वादकथायामप्यासा प्रयोगो भवति वस्तुस्थितिं कुर्वाणेन वस्तुव्यवस्थितये आसां युक्तीनामुद्धरणीयत्वात् । जल्पकथायामप्यासामस्त्युद्भावनावसरः परम्पराजित्य स्वपक्षे सदोषमप्यनुमानादि प्रमाणतयोपन्यस्य तत्रा. नैकान्तत्वादिदोषोद्भावनकारी पर कामपि तल्लक्षणखण्डन युक्तिमा ९०८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तत्र वतार्य बाधनीय इति । वस्तुतो नास्त्येव जल्पो नाम कथान्तरम् । वितण्डाद्वयशरी- राहि सा। तथाहि यदा प्रतिवादी छलजात्यादिभिः प्रतिवादिनं दूषयति तदा तस्य स्वपक्षसाधनावसराभावात् दूषयित्वैवेति वर्तते इ. त्येका वितण्डा, दूषितश्च प्रतिवादी परावृत्य यदा प्रतिवादिनं दूषयति तत्पक्षस्याग्रत एव दूषितत्वेन साधनानहत्वात्सोऽपि प्रतिवादिनं दूषयित्वैवेति वर्तत इत्यपरा वितण्डा । तद्व्यतिरे- केण न परस्खलतू । लक्षणाधीना लक्ष्यव्यवस्थितिरिति तार्किकास्तद. युक्तम् । यतो ज्ञातैर्लक्षणैर्वस्तुस्थितिर्वाच्या सत्तामात्रेणानुपयो- गात् । ज्ञानमपि लक्षणत एव व्यवस्थापनीयम् । तल्लक्षणं च ज्ञानत्वजातिमत्त्वम् । जातिलक्षणं चानुवृत्तज्ञानविषयत्वम् । एवं च ज्ञानसिद्धौ जातिसिद्धिस्तत्सिद्धौ ज्ञानलक्षणसिद्धिस्ततश्च: ज्ञानपदार्थसिद्धिरिति चक्रकस्य, जातेय॑क्तिपारतन्ध्यनियमाझा- नव्यक्तिषु सिद्धासु तजातिसिद्धिस्तत्सिद्धौ च ज्ञानत्वजाति- मत्वेन ज्ञानव्यक्तिसिद्धिरितीतरेतराश्रयस्य, ज्ञानविशेषे तल्लम- णाज्ञानसिद्धौ ज्ञानसिद्धिरित्यात्माश्रयस्य चापत्तेः । एवं यत्र आधीयते किञ्चित् तदधिकरणमित्यधिकरणलक्षणे ऽधिकरणवाच- कसतम्यन्तप्रयोगेण निरूप्यमाणे ऽन्योन्याश्रयापत्तेर्लक्षणानामस- म्भवे लक्ष्यस्याप्यसिद्धिरित्यादि द्रष्टव्यम् । सकलमपि द्वैतं प्रमेयं प्रमासिद्धौ सिध्यतीति प्रमाखण्डन- मेव तत्खण्डने मुख्यो हेतुरिति तत्खण्डनं प्रस्तूयते- तत्त्वानुभूतिः प्रमेति न युक्तं तस्य भावो हि तच्छब्दार्थः अत्र प्रकृतस्य कस्य चिदभावेन तत्त्वाप्रसिद्धिः। नचानुभूत्याक्षिप्तो वि. षयस्तच्छब्देन परामृश्यते वक्तृश्रेातबुद्धिस्थताया एव प्रकरण- स्वात् । तेन यस्य यो. भावस्तस्य तत्त्वमिति वाच्यम् । शुक्तौ रजतझाने ऽतिव्याप्तेः रजतत्वस्यापि रजतत्वत्वात् । तदा श्रयस्य धर्मिणो घटादेस्तत्वशब्दार्थत्वाभावेन. धय॑शे विशिष्ट च प्रमाया अप्रमात्वापत्तेः। नचायन्तस्वशब्दो स्वरूपमात्रवचनः । अतत्त्व.

तिर्थनिरूपणम् । ज्ञानविषयस्य रजतादेरसत्वेन स्वरूपाभावात्तयवच्छेद इति वाच्यम् । स्वरूपत्वस्य जातित्वे स्वरूपामेति पररूपव्याव. तकोपाधित्वे वा तस्य स्वात्मनि वृत्तावात्माश्रयापत्तेः, अ. वृत्तौ तदनुभवस्याप्रमात्वापत्तेः । स्वरूपशब्दस्य व्यक्तिवाचक- त्वं तदर्थस्यैकस्यासम्भवेन घटस्वरूपानुभूतेः पटस्वरूपानुभूति- त्वाभावेनाननुगमेन लक्षणाव्याप्तेः शुक्तिरजतादिज्ञानेऽतिव्याते- श्च । शुक्तिरजतत्वयोस्तयोः प्रतिभासमानसम्बन्धस्य च स्व. रूपत्वात् । नच शुक्तौ रजतत्वस्य समवायो नास्तीति वाच्यम् । तत्रासत्वे ऽपि स्वरूपत्वाव्याहतेः । नहीह गृहे देवदत्तो नास्ती- ति तस्य स्वरूपं हीयते । नच यद्देशकालसम्बन्धि यत् स्वरूपं प्र- तीतं तद्देशकालसम्बन्धस्वरूपं तस्य तत्वमिति वाच्यम् । देशका. लसंबन्धांशे प्रमाया अप्रमात्वापातात । तयोः स्वरूपमेव त- स्वमिति चेत् । तत्त्वशब्दस्यानेकार्थत्वेन लक्षणाव्याप्तः । नच यद् यथा प्रतीयते तत्तथा परमार्थतो व्यवस्थितं तत्त्वमिति वाच्यम् । प्रतीतिसमयमपहाय कालान्तरे तथा भूतस्य तत्त्वत्वापत्त्या भावि- पाकजरागस्य कुम्भस्य श्यामतादशायामपि रक्तपित्तिना रक्ततयो- पलभ्यते इति तबुद्धःप्रमात्वापत्तेः। यदा तदेति विशेषणे तु काल- वैशिष्ट्येन प्रतीतेरप्रमात्वापत्तेः कालविशिष्टस्य कालान्तरसंबन्धे नवस्थापत्तेः। नच स्वतः कालस्यैक्यानानवस्था अन्योपाध्यवच्छि- नस्य तस्य कालस्यान्योपाध्यवच्छिन्नेन संबन्धो युक्त इति वाच्य- म् । दण्डिनो देवदत्तस्य कुण्डलिनं स्वं प्रत्याधाराधेयभावापत्तेः । उपाधिभेदे ऽप्युपधेयस्यैकत्वानाधाराधेयभावस्तत्रेति चेत् । काल- स्याप्यैक्येन कालविशिष्टस्य काले वृत्त्यसम्भव इति तुल्यम् । एनेन कारणत्वं तत्त्वमित्यपास्तम् । काले पूर्वकालवृत्तित्व. रूपकारणत्वाभावेन तदनुभूतेःप्रमात्वानापत्तेः। अन्त्यकार्यस्याकार- णत्वेन तदनुभूतौ प्रमात्वानापत्तेश्च । नच स्वविषययोगिप्रत्यक्षस्य तत् कारणम् । शुक्किमप्यप्रत्यक्षस्य विषयाजल्पनप्रत्यक्षे विषयस्या- कारणत्वात् । नच प्रत्यक्षप्रमा नियमेन स्वविषयजन्यति वाच्यम् । चक्रकापत्तेः-प्रमासिद्धौ तद्भेदप्रत्यक्षसिद्धिस्तत्सिद्धौ चान्त्यका- र्यस्य तजनकत्वेन कारणत्वसिद्धिस्तत्सिद्धौ च सत्त्वानभतिः प्रमेत्यस्य सिद्धिरिति ।

टीकाद्वयोपेतायां लघुमजूषायाम् किश्च कारणानुभूतेः प्रमात्वे कारणत्वस्य स्वात्मनि वृत्ताव- ध तदनुभूतिः प्रमा स्यादित्यात्माश्रयः । किञ्च यत्क्षणविशिष्टस्यैव कारणत्वं नेष्यते तदनुभूतेरप्रमात्वाप- त्तिः। प्रतिक्षणविशिष्टस्य विश्वस्य कारणत्वाङ्गीकारेऽपसिद्धान्तः । यद् अर्थक्रियाकारि तत्सदिति अङ्गीकुर्वतो बौद्धस्य मते प्रवेशात् । किञ्चानुभवामीति प्रत्ययबललभ्याऽनुभवत्वं न जातिः । माघ- नानं कुर्वतः शब्दतो भाविस्वकीयस्वर्गसुखज्ञाने ऽप्यनुभवामीत्यप्र- त्ययात् । परनारीरतस्यास्तिककामुकस्य शब्दतो भाविस्वकीय- नरकपातक्षाने ऽपि नरकमनुभवामीत्यप्रत्ययाञ्च । विपरीतममन्दा- नन्दानुभवात् । यदि तु"सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पत. न्ति" इति, परपत्नी समारह नारकी स्यान्न संशयः, इत्यादिशब्दोपद- र्शितयायोगङ्गायमुनासङ्गमे स्नाति स स्वर्ग गच्छति, परपत्नीरतः स नरकं गच्छतीत्यादिरूपव्याप्त्या जनितं तस्मादहमपि तथेत्यनुमान- मनुभवश्चेत् तर्हि सुखं दुःखमनुभवामीति तयोः प्रत्ययः स्यात् । नव साक्षात्कारमनुभवशब्दार्थमनुरुध्य तयोर्न तथा व्यवहारः । अ. नुभवत्वजातिमादाय तु भाविसुखादिक्षानं न स्मृतिरननुभूतविषय- स्वादिति विमर्शकस्य भवत्येवानुभवामीति प्रत्यय इति वा- च्यम् । प्रत्यक्षे साक्षात्कारत्वोपाधिनैवानुभवव्यवहारोपपत्तौ तत्र. सा जातिनं सिध्येद्, अनुमित्यादौ तु तया जात्येत्यनुभूत्यर्थभेदाल- क्षणेनाननुगमापत्तेः। मच स्मृतिभिन्नेषु प्रत्यक्षादिषु सर्वेष्वनुगतप्रत्ययो न सा- क्षात्कारित्वनिबन्धन इति जातिरावश्यकीति वाच्यम् । स्मृतिभिन्न- त्वेनैव तद्यवहारोपपत्तौ तजातिकल्पने मानाभावात् । अन्यथा गो- पशुभूम्यादिषु अनुगतप्रीत्या सकलसाधारणगोत्वस्याप्यापत्तिः। किञ्च प्रत्यभिज्ञायां स्मृतित्वानुभवत्वयोः सांकर्यानानुभवत्वं जातिः। तथाहि स एवायमिति प्रत्यभिज्ञानं स्मृत्यनुभवरूपं शानद्वयं यतस्तस्यां प्रागवस्थाविशिष्टादिदन्ताविशिष्टस्य भेदः प्रकाशते, स न स्मृतिरननुभूतचरत्वात्। एतेन स्मृतिरेव प्रत्यभिनेत्यपास्तम् । माप्यनुभवः । प्रत्यभिशाकाले ऽनुभवन प्रागवस्थायाः संवदनात् ।

तिर्थनिरूपणम् । ९.१ इन्द्रियस्य वर्तमानमात्रग्राहकत्वात् । सहकारिसहिवादिन्द्रिया- प्रागवस्थासंवेदने त्वनुभव एवंति पक्षश्चाने दूषयिष्यते । नच प्रागवस्थाविशिष्टादभिन्न इत्ययमर्थो ऽनेकांशस्तत्र प्रागव- स्थाविशिष्ट इत्यंशे स्मृतित्वमभिन्न इत्यंशे त्वनुभवत्वमिति वाच्यम्। प्रागवस्थाविशिष्टः स इदन्ताविशिष्टो ऽभिन्न इत्यस्य स्मृत्यनुभू. तिभ्यामावेदने ऽपि प्रागवस्थाविशिष्टाश्रयतयाऽभेदस्य केनाप्यप्र- काशनेन य एव प्रागवस्थाविशिष्टः स पवायमिति प्रत्यभिज्ञाशरीरा- लाभात् । नचानुभवेनानुभूयमानधाश्रयतया यो भेदो वुध्यते स कोट्यन्तरं विना न पर्यवस्यतीति संनिधानात्स्मृत्यशोपनीतप्रागव- स्थाविशिष्टरूपकोट्यन्तराश्रिततया शायत इत्यभेदस्य प्रागवस्था- विशिष्टाश्रुतासिद्धिरिति वाच्यम् । कोट्यन्तराश्रिततया यदिदन्ताव. च्छिन्नधर्म्यभेदस्य ज्ञानं तस्य स्मृतावनुभवे चान्तर्भावस्याशक्य. तयोक्तदोषानिस्तारात् । किश्च ज्ञानस्य निरंशत्वे ऽपि विषयांशावच्छेदकल्पत. या स्मृतित्वानुभवत्वव्यवस्था कल्पयितुं शक्या । यद्यपि यः स्य धर्मिणः पूर्वापरकालावैशिष्टयं तज्ज्ञाने जातिसङ्करः परा- परभावशून्ययोर्जात्योरेकव्यक्त्याश्रयत्वप्रसङ्गो हि सः । अस्मदूषक- ताबीजं च वैधर्म्यभेदभङ्गप्रसङ्ग इति एकं ज्ञानं स इत्यंशे स्मृतिः, अयमित्यशेऽनुभव इत्यसङ्गतम् । तथाहि संस्कारेण तत्तामात्रोपनय इति प्रत्यभिज्ञाशरीरं न स्यात् विशिष्टधर्मिण उपनये अयमित्यनुभवांशे ऽपि धर्मिभा. नमावश्यकम् अन्यथाऽयमिति तच्छरीरं न स्यात्। तत्र संस्कारोन्द्रि- ययोरुपनिपाते यदि विशेष्यांशे भिन्नं ज्ञानं तदा प्रत्यभिज्ञायाः स्मृतित्वमनुभवत्वमपीति सङ्करो दुर्वारः । नच विषयभेदोपाधिकव्यवस्थाऽसम्भवेऽपि कारणभेदोपाधिक- व्यवस्थासम्भवेऽपि कारणभेदोपाधिकांशभेदकल्पनयाऽसाङ्कर्यम् । तथाहि संस्कारजत्वमादाय स्मृतित्वव्यवस्थितिरिन्द्रियसंनिक- बजत्वमादायानुभवत्वव्यवस्थितिरस्तु, एकरूपे वस्तुनि विरुद्धजा- तिसमावेशत्यैव दोषत्वात् । तत्रैव हि जात्योरविरोधबुद्धिर्नात्र सेति न वैधय॑भेदभङ्ग इति वाच्यम् । प्रत्यभिज्ञायाः प्रमाप्रमा. रूपताया विषयव्यवस्थयैवोपगन्तव्यतया निर्विषययोस्तयोरसम्भ- ९१२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । । तथा वात् । एवं चैकस्मिन्नेव धर्मिणि स्मृतित्वानुभवत्वयोर्निवेशे तदुभयो- रेकप्रत्यभिज्ञागोचरे धर्मिणि प्रमितत्वाप्रमितत्वलक्षणविरुद्धधर्म- प्रसङ्गस्य तदवस्थत्वम् । किञ्च विषयोपरक्तज्ञानानामात्मनि लिङ्गपरामर्श विनैव भावाभावसंवेदनात्सर्वानुभवगम्यत्वं तेषां वाच्यम् स्मृतित्वादेरपि प्रत्यभिज्ञायां संस्कारजवाद्युपाधिपरामर्श विनैव अहणे नानौपाधिकत्वमेव वाच्यम् । ततः स्मृतित्वादेविषयनि- रूपणकृतव्यवस्थाऽनङ्गीकारे इदन्तायामपि स्मृत्यवगमप्रसङ्गेन स- करो दुर्वारः। किश्यं स्मृतिरित्यनुगताकारप्रतीतेः संस्कारजत्वेनैव निर्वा- हे तजातौ न प्रमाणमिति तस्य साङ्कर्ये उद्भाविते तत्परि- हाराय स एवोपाधिरुपन्यस्यते इत्ययुक्तम् । नच तत्स्मृतित्वव्य. अकमिति ततोऽन्यदेव स्मृतित्वमिति नायं दोष इति वाच्यम् । संस्कारजन्यस्य सर्वस्मृतिसाधारणमेकं धर्ममनवच्छेदकीकृत्य स- स्मृतिषु गृहीतुमशक्यमिति स्मृतित्वमेव तथा वक्तव्यम् । एवं च संस्कारजत्वव्यवस्थितौ स्मृतित्वमुपाधिः स्मृतित्वव्यवस्थितौ च संस्कारजत्वमित्यन्योन्याश्रयापत्तेः स्मृतित्वानुभवत्वसङ्करो दुर्वारः । किञ्च स्मृत्यनुभवयोर्ये सामग्रयो ते प्रत्यभिज्ञायां नाङ्गीक्रियते स्वीक्रियते वा । नाद्यः । शृण्वतो ऽपि स्मृतित्वानुभवत्वयोरनापत्तेः। तत्तत्सामग्री विनैव तथात्वे ज्ञानमात्रस्यापि द्विरूपतापत्या सङ्क- रापत्तेः । नान्त्यः । प्रत्येकं स्वस्वकार्यसामर्थेन पृथगेव का- योत्पत्तिप्रसङ्गात् । नचात्र सामग्रयोः संवलितत्वेन संवलितकार्यो- त्पत्तिः। यद्यप्येवमन्यत्रदृष्टं न तथाऽपि चित्रस्वभावत्वादनयोः साम- प्रयोरीहशत्वमिति वाच्यम् । तयोः परस्परसहकारित्वाभावे मिलन- मात्रस्याप्रयोजकत्वेन पृथगेव कार्यापत्तेः । परस्परसहकारित्वंतु अनुभवांऽशेऽपि संस्कारस्य स्मृत्यंशे प्रत्यक्षस्य व्यापार इति तयो- रुभयांशसाधारण्यात् स्मृत्यशे ऽप्यनुभूतित्वमनुभूत्यंशेऽपि स्मृति- त्वमिति संकरो वज्रलेपायितः । नचानुभव एव प्रत्यभिशेति वाच्यम् । इदन्तावच्छिन्ने त. सावछिन्नाभेदो हि प्रत्यभिशाविषयः । नच तद्ग्राहका: सं. स्कारः अभेदस्य प्रागननुभवात् । नापीन्द्रियसन्निकर्षः पूर्वका- तिथनिरूपणम् । लावच्छिन्ने सम्भवतीति तस्याविषयत्वमेव स्यानतु सोऽयमिति, दो. पात् । नच चक्षुःसंयुक्तमनःसंयुक्तात्मवृत्तिसंस्कारविषयवस्तुवि- शेषणतया प्रत्यासत्या चक्षुषा तत्तावच्छिन्नस्थाभेदग्रहणं संस्का- रद्वारकप्रत्यासत्या इन्द्रियणैव भविष्यति इति वाच्यम् ।पूर्वदृष्टे चैत्र 'सोऽयं न वा' इति संशयस्य कदाऽप्यनापत्तेः । संस्कारद्वारकप्रत्यास- त्या सर्वतदभेदग्रहसम्भवेन ‘स एव' इति निश्चयस्यैवापत्तेः । नच संशयस्थले दोषवशात्तत्तावच्छिन्नाभेदप्रकाशो नेन्द्रियस- म्बन्धैरिति वाच्यम् । विनाऽपि संस्कारम् अननुभूतेऽपि दोपवशान् 'सोऽयं न वा' इति संशयापत्तेः, संस्कारस्य तवाकारणत्वात् । किञ्च वस्तुप्रकाशके दोषत्वमपि वक्तुमशक्यम् । चक्षुरा- दावदर्शनात् । 'सोऽयम्' इत्यंशे वस्तुप्रकाशित्वेऽपि 'न वा' इत्यंश ऽवस्तुप्रकाशकत्वाद् दोषस्य दोषत्वं चेद् चक्षुरादेरपि तत्त्वं स्यात् । क्वचित्तस्याप्यवस्तुप्रकाशकत्वात् । वस्तुप्रकाशनशक्तिविशित्वेन चक्षुरादेरदोषत्वं दोषविशिष्टत्वेन मिथ्याज्ञानहेतुत्वमिति चेत् त्वदु. क्तदोषेऽप्यदोषत्वं परिहर्तुमशक्यम् । यदि दोषत्वसिद्धार्थ दोपस्य सतोऽपि वस्तुनः प्रकाशकता नेष्यते तर्हि संशयात्प्रेक्षावतां प्रवृत्त्य- नापत्तिः । ननु वस्तुविषयत्वेऽपि तजज्ञानस्य दोषादनिश्चयतेति अ. निश्चयहेतुत्वेन दोषत्वमिति चेद् न । 'सोऽयम्' इति वस्तुप्रकाशे तस्याभावकोट्या असंकीर्णत्वाद्वस्तुकृतं विशेषं विना ज्ञान विशे- षासम्भवादनिश्चयत्वस्यैवासम्भवात् । ननु 'सोऽयम्' इत्यंशे निश्च. येऽपि अंशान्तरे निश्चयहेतुर्दोष इति चेद् । न । संशयस्य अधिक तदभावग्राहित्वेऽपि 'सोऽयम्' इत्यंशे निश्चयत्वाप्रच्यवात् । एवं च 'न वा' इत्यपि कोट्यन्तरमेव स्यान्न संशयः, संयोगाभावप्रकाशवत् । नच वस्त्ववभासेऽपि संशयत्वं जातिर्दोषाद्यज्यते इति तस्य दोषत्वमिति वाच्यम् । संशयत्वस्य ज्ञानवृत्तित्वे तदर्थकवाशब्दस्य 'इदं तद् वा न वा' इत्यादौ संशयकोट्यर्थकशब्दसमन्वयेन वा- शब्दप्रतीतिव्यवहारयो पत्तेः । विकल्पितरूपत्वं हि वाऽर्थः । तदेव संशयत्वम् । प्रतीत्या सह वाकारार्थस्य संवन्धे 'प्रत्येोमिन वा'इति तदापत्तेश्च । 'स्थाणुमानय पुरुपं वा' इत्यादौ स्थाणुपुरुषग. तपाक्षिकव्यवहारानुपपत्तेश्च । किञ्च वस्तुतः संस्कारेण तस्यात्मना तस्य मनसा तस्य वाह्येन्द्रियेण प्रत्यासत्तिसत्त्वात् तथैव सन्दे . १०..

९.४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । होपपत्तौ किं दोषेण, यदितु संस्कारप्रत्यासत्तिमनपेक्ष्य सन्देहस्तदा- ऽननुभूय विस्मृत्य वा सन्दिधेत । न च संस्कारसहकृतेन्द्रियेण प्र- त्यभिज्ञायां तदर्थ इन्द्रियासनिकृष्ट एव गृह्यते इदमंशः सन्निकर्षा- देवेति वाच्यम्। 'सोऽयं न वा' इति संशयस्य कदाऽप्यनापत्तेः । किं- चात्मसंयोगसहकृतमनसः सत्त्वादात्मार्थयोः संनिकर्षस्य च सत्त्वा. त्तदुभयतो जायमानायाः 'तदद्राक्षम्' इति स्मृतेरप्यनुभवत्वापत्ति रेवं सति स्यात् । आत्मसंयुक्तमनसा प्रत्यक्षीक्रियमाणैर्शानादिभिः स्मर्यमाणस्याप्यर्थस्य मनःसंयुक्तात्मसंनिकृष्टत्वेन तुल्यत्वात् । किञ्च संस्कारोपनीते विपये ज्ञानस्यानुभवत्वे स्मृतेरप्यनुभत्वा- पत्तिः । नचानुभवकारणासंपृक्तसंस्कारजत्वं स्मृतित्वप्रयोजकम्, अक्षसंनिकर्षसापेक्षसंस्कारजत्वात्प्रत्यभिज्ञाऽनुभव एवेति वाच्यम् । संस्कारासंपृक्तानुभवकारणजत्वेनैवानुभवत्वम्, संस्कारसहितानु. भवकारणजा प्रत्यभिज्ञा स्मृतिरेवेति वैपरीत्यापत्तेः । तस्मादुभ- यकारणजत्वात्प्रत्यभिज्ञा स्मृतिरनुभवश्चेति स्वीकार्यमिति तयोः सांकर्यात् स्मृतिव्यावृत्तानुभवत्वासिद्धिः । एवं च प्रमालक्षणे ऽनुभूतिपदेन व्यवच्छेद्यं स्मरणमित्यसङ्गतम् । अविरोधात्।सर्वस्या अपि स्मृतेस्त्वयाऽनुभवत्वेन स्वीकर्तव्यत्वात् । तथाहि ‘स घटस्त- त्रासीद्' इत्यादिस्मृतौ पूर्वकालविशिष्टो घटो भासते । न चासौ पूर्वमनुभूतता भूततायाः संस्कारेणापनीयते प्रत्युत पूर्व वर्तमान- तैवानुभूत्या । तस्मादिदानी पूर्वताधीसामग्रीसंभेदात् 'सोऽयम्'इति प्रत्यभिज्ञानवद्विशिष्टावगमो ऽसौ स्मृत्यनुभवात्मैवोपगन्तव्य इति शुद्धस्मृत्युच्छेद एव । नच तदस्ति स्मरणं यत्र सान प्रकाशते । नव दोषवशात्प्रमुष्टतत्ताकं स्मरणं भवतीति वाच्यम् । तस्य स्मृतित्वे मानाभावात् । नचानुभवसामग्यभावेन स्मृतित्व- म् । यत्किचिदनुभवसामग्यभावेन स्मृतित्वे ऽनुमित्यादेरपि स्मृ- तित्वापत्तः । सर्वानुभवसामग्यभावेन तत्त्वे तत्तांशशून्यरजतज्ञा- नसामग्या अनुभवसामग्रीत्वाभावे मानाभावेन तदसम्भवः । क वा प्रतिपन्नं प्रमाणत्वेन परिगणितसामग्यभावे जायमानं ज्ञानं स्मृति- रिति । 'स घटः' इत्यादेरनुभवत्वोपन्यासस्य कृतत्वात् । नच प्रत्य- क्षादिकारणसामग्यनुपपत्त्या रजतमात्रस्य पूर्वमनुभवेन तद्विषय. संस्कारसम्भवेन तत्र संस्कारस्यैव हेतुता प्रमाणान्तरासहकृत- तिब्यनिरूपणम् । ९१५ संस्कारजत्वं तद्यङ्गयो जातिविशेषो वा स्मृतित्वमिति वाच्यम् । इ. न्द्रियस्यैव तत्र कारणत्वसम्भवात् । नच संनिकर्षाभावात्त- स्य न कारणत्वमसंनिकृष्टस्येन्द्रियस्य ज्ञानजनकत्वेऽतिप्रसङ्गाद् इति वाच्यम् । संस्कारस्यापि केवलस्य तजनकत्वे तिप्रसङ्गात् । सहचरितचन्द्रदर्शनादिसहकारियोगेन संस्कारस्य तजनकत्वे नातिप्रसङ्ग इति चेन्न । तेनैव सहकारिणा सहितस्यन्द्रियस्यापि तजनकत्वेनातिप्रसङ्गाभावात् । अननुभूते ऽपि तर्हि प्रसङ्ग इति चेन्न। वस्तुतो रजतवतो ऽज्ञातरजतसादृश्यस्य ज्ञानसंस्कारवतः स्मृ- त्यापत्तेस्तवापि सत्त्वात्। ज्ञानमपि सहकारीति चेत् । ममापि पूर्वी- नुभवस्तथा संस्कारलोपजनककालव्यवधानाभावादेः सहकारित्वा. भ्युपगमान्न लुप्तसंस्कारस्य स्मरणम् । 'रजतसदृशम् इदम्' इत्य- नुसन्धान रजतस्मरणपूर्वकमित्यप्युभयोः समम् । नचार्थसंनिकर्ष विनेन्द्रियस्य ज्ञानकारणत्वमदृष्टमिति वाच्यम् । विशिष्टरूपेण भ्र- मविपये इन्द्रियस्य विशेषणांशे संनिकर्षमन्तरेणैव ज्ञानजनकत्वात् । यद्वा सहकारिभूतदोषशक्तरेव प्रत्यासत्तित्वोपगमेनादोषात् । किञ्च तत्तांशमोषे हेत्वभावः। पूर्व वर्तमानकालविशिष्टस्य रजता- देरेकत्रानुभवे प्रकाशिततया तजन्येन संस्कारेण तथैवोपनेतुमौचि- त्यात् । प्रत्यभिज्ञायां तथैव दर्शनात् । नच दोषवशात् तत्तांशमोषः स्मृताविति वाच्यम् । दोपानिरुक्तेः। यतो भ्रान्त्युत्पत्तिः स एव दोष इति चेत् । विनष्टरजतस्य राङ्गान्धधियः शुक्त्यादिदर्शने तत्र तत्ता. विशिष्टमिदंरजतमित्यादौ तत्तोल्लेखिभ्रमे ऽपि तत्तांशमोषापत्तेर्दोषस्य विभाव्यमानत्वात् । नापि स्मृत्यन्यत्वमनुभवत्वम् । यत्किञ्चित्स्मृतिभेदस्य स्मृ. तावपि सत्त्वात् स्मृत्यन्तरस्यानुभवत्वापत्तेः । यावत्स्मृतिभेदस्तु तासां दुर्जेयत्वेन अशक्यः । नच स्वीयस्मृतिप्रत्यक्षकाले सामान्य- लक्षणयेन्द्रियप्रत्यासत्या सर्वस्मृतिप्रत्यक्षसंभवः । एकप्रमेयप्रत्यक्ष- काले प्रमेयत्वसामान्यप्रत्यासत्त्या विश्वप्रत्यक्षापत्तौ सार्वइयापत्तेः । नंच स्मृतित्वाभाववत्वमनुभवत्वम् । स्मृतित्वभेदस्यापि तद- भावत्वेन तस्य स्मृतावपि सत्त्वेन स्मृतेरप्यनुभवत्वापत्तेः । एतेन स्मृतित्वसंसर्गाभाववत्वमनुभवत्वमिति निरस्तम् । स्मृ. तित्वसंसर्गभेदस्य स्मृतावपि सत्त्वात् ।

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । एवं स्मृतित्वसंसर्गस्य संसर्गाभाव इत्युक्तावपि तद्भेदमादाय दोष एव । विशेषणप्रक्षेपपरम्परयाऽनवस्था च । किञ्च संसर्गसंसर्गस्य स्वरूपानतिरेकेण स्मृतित्वसंसर्गो धर्मि- स्वरूपं चेत्येतयोः संसर्गरूपत्वस्थिती अनुभूती कथं तत्संसर्गस्य नि. पेधः । अनुभूतेः स्मृतित्वसंसर्गस्य च सत्त्वेन निषेधायोगात् । स्मृति- त्वसंसर्गस्यार्थान्तरभूतः संसर्गो यद्यविद्यमान एवानुभवे निषिध्यते तदा स्मृतावपि प्रसङ्गः। स्मृतावर्थान्तरभूतम्य तस्य भवताऽनभ्युप- गमात् । स्वरूपमेव हि तयोः सम्बन्ध इति तवाभ्युपगमः। अत्र ताव. ताऽप्यनुभूतिस्वरूपे कस्य निषेधो वर्णितः । 'स्मृतित्वसंसर्गानुभूती सम्बद्धे' इत्येवं वुद्धिजनकत्वस्यति चेद् । न । भ्रान्त्यात्मकेशबुद्धि- जनकत्वस्य दुर्निवारत्वात् । यथार्थाया इति चेद्, ईदृशबुद्धेर्यथार्था- याः सत्त्वे ऽनुभवे स्मृतित्वापत्तिः,तदसत्त्वे किं प्रति तस्या जनकत्वा- भावो वाच्यः । अथात्यन्तासतीमेव बुद्धिं प्रति जनकत्वाभावोऽनुभूः तः स्वीक्रियते तदा स्मृतेरपि प्रसङ्गः । यावत्यस्तत्सम्बद्धत्वबुद्धय- स्तत्र जायन्ते तदधिकां तद्बुद्धिमत्यन्तासती प्रत्यजनकत्वस्य स्मृ. तावपि सम्भवात् । सर्वामेव सम्बद्धत्ववुद्धिं प्रति अजनकत्वमनुभू- ते तु स्मृतेरिति चेन्न । सर्वतव्यक्तिप्रमित्यसम्भवात् । प्रतियोगिप्र- मिति विना ऽभावप्रमित्यसम्भवात् । ननु स्मृतित्वान्योन्याभावमादाय नातिप्रसक्तिः, भेदाभेदवादि. मते स्मृतित्वभेदाभेदस्य स्मृतावभ्युपगमात्, ययोर्भेदाभेदस्तयोस्त- त्रान्योन्याभावानभ्युपगमाद् इति चेन्न । स्मृतित्वस्य स्मृत्यैव भेदा. भेदो नानुभूत्येत्यत्र मानाभावात् । तथा प्रतीत्या तादात्म्यं न स्याद् । अत्यन्तासत्यास्तत्राप्यभावसम्भवातूनच यत्र यस्य प्रागभावस्तत्र तस्य कदाचिद्भावो ऽपि दृष्ट इति प्रागभावप्रतियोगिन्याः प्रमाया भावादित्थमभ्युपेयते इति वाच्यम् । अनुभवे तादृश्याः स्वीका. रेणानुभूतेरपि स्मृतित्वापातः । स्मृतिस्मृतित्वयोरन्योन्याभावा. भावस्यातिरिक्तत्वेऽनवस्थाप्रसङ्गेनान्योन्यात्मकत्वस्वीकारे ऽनभूते- रपि स्मृतित्वान्योन्याभावस्तुल्यः। नहि स्मृतित्वाभावोऽनुभूतिरि- त्युक्तमेव । नच 'इदं तन्न भवति, इह तन्नास्ति' इति प्रतीत्या भेदसंसर्गाभावयोर्भेद इति वाच्यम् । समवायिकारणेषु द्रव्य- गुणकर्मध्वंसानां संसर्गाभावत्वानङ्गीकारे संयोगध्वंसे ऽति व्याप्तिः ।

तिङर्थनिरूपणम् । ९१७ किश्चैवं भेदात्यन्तामाक्योरपि घटादिप्रतियोगिकत्वाभावे घटा. देरपि कालादिवनिरवधिकत्वं स्यात् । किञ्च 'इह भूतले घटो नास्ति, घटः पटो न' इति प्रमया घटाद्यविशेषितसंसर्गतादा- त्म्ययोनिषेधे न गतिः, तदुच्छेदापत्तेः । एवं यद्यत् प्रतियोगि वाच्यं तत्तत् स्वरूपेणैव न स्यात् प्रतियोगित्वात्तादात्म्यवत् । त- तश्च सिद्धमद्वैतम् । ननु घटे घटात्मत्वस्य दृष्टस्य संसर्गः पटे निषिध्यते नतु स्वरू- पेण तन्निषिध्यते इति चेत् । तस्यापि प्रतियोगिनः संसर्गस्य निषेधे स एव भग्नः स्यात् । तस्यापि संसर्गान्तरनिषेधे घटस्य पटा- त्मता निषिद्धा नेति घटः पटात्मा स्यादनवस्था च । ननु निषेध्यः प्रतियोगी तदभावो ऽनुयोगी तयोर्विरोधश्च सहभावाभावरूपः । एवञ्चान्यत्र सता रूपेण प्रतियोगित्वम् अन्यत्र चासता रूपणाभावज्ञानविषयत्वमिति न प्रतियोगित्वमात्रेण स्वरूपाभावप्रसङ्ग इति चेन्न । सहभावाभाव एककालीनत्वाभावो वा एकदेशस्थत्वाभावो वा । नाद्यः [प्रदेशान्तरे तदैव तदभावदर्शनात् । नान्त्यः । अनुयोगिनि प्रतियोग्यापत्तेः । तावता ऽप्येकदेशस्थत्वाभावोपपत्तेः। अभाववृत्ति. त्वेन प्रतियोगिप्रमाया अभावान्न तथेति चेन्न। एकदेशस्थप्रमाऽभाव. मूलकतया सहानवस्थानमेव तयोरिति तव नियमस्य मदीयया आ- पत्त्या प्रतियोग्यनुयोगिभावरूपविरोधादेव परिहरणीयत्वं भङ्गात् । किञ्च गोत्वाश्वत्वयोरपि सहानवस्थानविरोधेन कस्ताभ्यां भावाभावयोर्विशेषः स्यादिति भावाभावरूपतैव न स्यातू । त- स्मात्स्वरूपकृत एव तयोर्विरोधः। नच शुक्लः पटो नास्तीति विशि- एनिषेधे विशेषणस्यापि निषेधः, तथा घटादिविशेषितसंसर्गता- दात्म्ययोनिषेधे घटादेरपि स इति प्रागुक्तौ न घटादोर्नित्यत्वाप- त्तिरिति वाच्यम् । एवं हि संयोगः समवायो न भवतीति संसर्ग- योरन्योन्यतादात्म्यनिषेधोऽपि संसर्गनिषेधः स्यात्संसर्गप्रतियोगि- कत्वादिति संसर्गान्योन्याभावयोरेकत्वापत्तौ स्मृतित्वसंसर्गाभा- वमादाय स्मृतावनुभूतित्वप्रसङ्गतादवस्थ्यात् । ननु तादात्म्येतरसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावोऽत्य- न्ताभाव स्तत्सम्बन्धावच्छिन्नप्रतियोगिताको ऽन्योन्याभाव इति ९१८ टीकाद्वयोपेतार्या लधुमञ्जूषायाम् । अन्य- वेद न । तत्सम्बन्धावच्छिन्नप्रतियोगिताक इत्यस्य यदि त- 'सम्बन्धवद्घटत्वप्रतियोगिक इत्यर्थस्तहि समवायसम्ब- Fधवघटत्वभेदोऽप्यत्यन्ताभावः स्यात् अधिकस्य तद. र्थत्वे तदर्थेऽप्यनिर्वक्तव्यत्वापत्तिः । अविदितस्वरूपस्य लक्ष- णानभिधाने इतरव्यवच्छेदेन तस्य शातुमशक्यत्वम् । था को घट इति पृष्टे घट इत्येवोत्तरं स्यात् । तदितरसम्ब. न्धावच्छिन्नप्रतियोगिताकत्वं किमिति पक्षे तदितरसम्बन्धावच्छि- नप्रतियोगिताकत्वमेव तदिति तवोत्तरवत् । तत्सम्बन्धसमानाधि- करणा प्रतियोगितेति चेत् । तत्सम्बन्धवद्घटत्वभेदीयप्रतियोगि- ताया अपि तत्सम्बन्धसामानाधिकरण्यमस्त्येव । किश्च स्मृतिः स्मृतिर्भवतीति सामानाधिकरण्ययोगेन विधिनिषेधातिरिक्तकोट्य- भावेन विध्यभावेन निषेधे पर्यवसानात्स्मृतेरपि स्मृत्यतिरिक्तत्वेना- नुभवत्वापत्तिः । प्रकारभेदे हि सामानाधिकरण्यं यथा नीलो घट इति । यद्धर्मविशिष्टायां स्मृती स्मृतिसामानाधिकरण्यं कथ्यत त- दनुपलम्भात् । ज्ञानत्वं तथेति चेत् । अनुभवेऽपि तत्सत्त्वेन स्मृ- तित्वापत्तिः । नच यथैकस्यां घटव्यक्तौ देशभेदाद्यवच्छेदं नि- मित्तीकृत्य सामानाधिकरण्यम्-'अयं घट' इति स्मृतिव्यक्ति- विशेषे तत्सामानाधिकरण्यन्तदा स्मृतिव्यक्त्या अनुभवत्वाप- त्तिः । सर्वव्यक्तिषु तथाग्रहस्त्वनुपपन्नः । घटो भवतीति व्य- वहारं यथा व्याघातभयान मन्यसे, तथा घटो घटो भवतीत्यपि रूपभेदाभावे सामानाधिकरण्याभावान मन्यसे । तदेव वस्तु देशा- न्तरेणावच्छिद्य तद्भवतीत्यभिधत्से चेदस्या वचनव्यक्तय॑क्त्यन्तरेषु वृत्तिर्न स्यादिति सामान्यरूपतापत्तिः । मम त्वनिर्वचनीयवादिनो न क्षतिः । प्रतीतिसिद्धत्वादत्यन्तासद्विलक्षणं भवदपि जगत् स. त्तोपगमे बाध्यमानत्वादनिर्वचनीयमिति । एवं संस्कारासाधारणहेतुकधीत्वं स्मृतित्वमित्यपि न । 'सोऽ. हम्' इत्यात्मप्रत्यभिज्ञानाद् । आत्मानुभवसंस्कार एव साधारणं कारणमिति स्मृतित्वापत्तेः । आत्ममनोयोगस्य साधारणत्वात् । किञ्चेदं प्रमाणलक्षणं 'मम मुष्टौ कति कपर्दाः' इति प्रश्न 'पञ्च' इत्युत्तरयति कश्चित् तत्रातिव्याप्तम् । तच्च पश्चैव दृश्यन्ते इति न तत्पदेन तद्यवच्छेदः । नाप्यनुभवपदेन अननुभूतचरत्वेन ।

तिङयनिरूपणम् । स्मृतित्वाभावात् । नच संशयः सः । उत्प्रेक्षारूपकोटिनिश्च. यावस्थानात् । नच प्रमैव तत् । प्रत्यक्षादिष्वनन्तर्भावादित्यलं प्र. सक्तानुप्रसक्त्या। पारमार्थिकसत्यत्वं तु नेत्याह *अग्रेचति । तदग्रिमे तत्त्वज्ञान- विवृद्धिप्रकरणे चेत्यर्थः । उक्तानुवादेन सङ्गतिमाह *चित्तातीति । सूत्रार्थमाह *एवं तहीति। *सूत्रणेति । इत्यर्थकन (न्या० सू० अ०४ आरसू०४३) "अपवर्गेऽप्येवं प्रसङ्गः” इति सूत्रणेत्यर्थः । (न्या सू० अ०४आ०२सू०४४,४५)"न निष्पन्नावश्यम्भावित्वात्”,“तदभावश्चा- पवर्ग"इति सिद्धान्तसूत्रद्वयार्थमाह *चेष्टेन्द्रियेति।अयमाद्यसूत्रार्थः। द्वितीयार्थमाह *अपवर्गेचेति । तात्पर्यार्थमुपयुक्तमाह *एवञ्चेति । तदभावात् तद्बुद्ध्वभावचेत्यर्थः। *तद्धति । शरीरधर्मत्यर्थः । तथा सति योगसूत्रैकवाक्यतारूपं फलमाह *तदुक्तमिति। पतञ्जलि- नेति शेषः । तदुत्तरं “तदव्यवहितम्” इति आशङ्का तां हृदि निधाय एकसूत्रार्थमाह *तस्येति । शेपमाह *कार्यइति । चार्थमाह *ततइति । प्रत्यासत्त्या शेषमाह *ततइति । *अनेन-योगादिति कथनेन । ननु एवमपि न्यूनताऽत आह *योगपदमिति । *एवम्- अपवर्गार्थ तदावश्यकत्वे । *तेनैव-योगशास्त्रादिनैव। *इदम्-न्या- यशास्त्रम् । * उक्तमिति। तदग्रिमे तत्त्वज्ञानपरिपालनप्रकरणे इत्यर्थः। उभयसाधनवती विजगीषुकथा जल्पः स्वपक्षस्थापनहीना परपक्षदूषणमात्रसाधनिका वितण्डा । । तत्त्वज्ञानस्यानुपयो- गादाह *अनुत्पन्नेति । मूलमाह *अप्रहीणेति । तदर्थम्-तत्त्वज्ञानार्थम् । भाष्यादितात्पर्यमाह *तस्यामिति । दोषसत्तावस्थायामित्यर्थः । *कृतेति । गतेति पाठान्तरम् । तदा तद् शास्त्रपरं बोध्यम् । परमतात्पर्यमाह *स्थूलेति । फलान्तरम्। *उक्तम्-भाष्येण । *एवंविधत्वम्-तदङ्गत्वम् । ननु अन्येषां सा- क्षादेव कुतो न तत्त्वमत आह *किञ्चेति । सूत्रे सर्वाद्ये अपिना पृथग् ग्रहणे इति पाठः । *इदमपि-न्यायशास्त्रमपि । *अनेन-भाध्येण । *अत एव-तस्या एव तत्त्वादेव । *अस्य-गौतमीयस्य । प्रयोजन- मित्यत्रान्वयः । प्रदीपादयो जहल्लिङ्गा विद्याविशेषणानि । *विद्योद्देशेइति भिन्ने पदे । विद्याव्ययविद्या, उद्देशो नाम्ना वस्तुसङ्कीर्तनम् । स च प्रत्यासत्त्या विद्यानामेवेत्याह *विद्योद्देशे- तत्र ९२० टीकाद्वयोपेतायां लघुमञ्जूपायाम् । इति । यद्यपि- विद्येभ्यस्त्रयीविद्यां दण्डनीतिं च तद्विदः । आन्वीक्षिकी चात्मवियो वार्तारम्भांश्च लोकतः ॥ इति मनोरान्वीक्षिक्यध्यात्मविद्या, 'स्वरन्ध्रगोत्पा'इति याश्य- वल्क्ये य आन्वीक्षिक्यामात्मविद्यायां दण्डनीत्यामर्थयोगोपयोग- न्याम् वार्तायां वाणिज्यपशुपालनरूपायां धनोपचयहेतुभूतायां - य्याम् ऋग्यजुःसामरूपायामिति विज्ञानेश्वराच, तथाऽपि श्रवणा- दनु पश्चादीक्षा मननं तन्निर्वाहकत्वादस्यापि आन्वीक्षिकीति व्य- वहारः। अत एव मोक्षधर्म- तन्त्रोपनिषदं नाम सविशेपांच पार्थिव । मथ्नामि मनसा तात दृष्वा चान्वीक्षिकीम्पराम् ॥ इत्युक्तम् । एतदाशयवान् परस्तदभिप्रेत्याह *अन्वीक्षिकीति अन्यदपि तत्र साधकमाह *तथेति । तद्वदित्यर्थः । यथाविद्य- मित्यनेनान्येषां मतत्वं स्पष्टमेवोक्तम् । नन्वेवं तत्र चतुर्थिकेत्ययु. क्तमत आह *चतुष्टयञ्चेति । उपसंहरति *तस्मादिति । तथा आद्यसूत्रे एव भाष्योक्तरित्यर्थः । एतेनेदमपि मोक्षोपायः साक्षादिति तनवीनोक्तम्,एवं शास्त्रान्तरमपीत्युक्तं चापास्तम् तदाह *इत्यन्यत्रेति । वेदान्ते इत्यर्थः ॥ २३ ॥ अनद्यतनत्वं चातीतराने पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितो दिवसो ऽद्यतनः तद्भिन्नत्वमिति वृत्तिः । अतीतरानेरन्त्ययामेन आगामिरात्रेराद्यया- मेन च सहितो दिवसो ऽद्यतन इति लणसूत्रे कैयटः। एवम् अनयतने भविष्यति लुट्, भविष्यत्सा- मान्ये लडित्यादि तदनुशासनादितो बोध्यम् । तत्रा- नद्यतने भूते ऽपि यदा भूतत्वमात्रविवक्षा तदा लुङेव । तेन ह्यो ऽपाक्षीदित्यादौ भूतत्वमात्रवि- वक्षायां लुङि पश्चात् ह्या पदेनानद्यतनत्वप्रतीतिरिति न दोषः।

तिर्थनिरूपणम् । ९२१ एचमनद्यतनभविष्यति भविष्यत्त्वमात्रविवक्षया लडपि । श्वः पक्ष्यतीति यथा । एवम् ‘इयं नु कदा गन्ता येयं पादौ निदधाति'इत्यादावनद्यतनत्वारोपेण लुट् । आरोपफलं त्वतिविलम्चेन गमनप्रत्यायनम् । ननु वृष्टे देवे "देवश्चेद् वृष्टः सम्पन्नाः शालयः" इति प्रयुञ्जते, 'संपत्स्यन्ते' इति च प्रयुक्ने 'मैवं वोचः, स. म्पन्ना इति ब्रूहि इति लोको वदति तद् अनुपपन्नमिति चेन्न । अप्शालिबीजसंयोगे निष्पदेवृत्तिस्वीकारेण तदुपपत्तेः । यद्वा फलनिष्पत्तिरेव निष्पदेरर्थः । अप्- शालिबीजसंयोगे एव कार्यनिष्पत्तिरूपमध्यस्यते इति तस्यातीतत्वाद् भूनता । यहा तत्र कारणमेघात्पत्ति- गतमतीतत्वं वृष्टौ शालिसम्पत्तौ चारोप्य भूते क्तः। एतेन मेघोत्पत्त्युत्तरकाले ऽपि तथा प्रयोगः सम- र्थितः । आरोपफलन्तु कारणान्तरापेक्षाऽभावप्र. तिपादनद्वाराऽवश्यंभावित्वप्रतीतिः। “यथा कोष्ठगते. ध्वपि शालिष्ठ भुज्यर्थमवहननादीनि प्रतीक्ष्यन्ते एव. मेष्वपि स्थूलरूपेणाभिव्यक्तिः प्रतीक्ष्येति न तदैव भुजिक्रिया"इति "क्षिप्रवचने लड्"इत्यत्र भाष्ये। तथा ग्रामान्तरं जिगमिषवः स्थानविशेषे कूपसत्तानिश्च यवन्तो भाविनि तल्लाभे 'कूपो भविष्यति' अतीते 'अभूदु'इति प्रयुञ्जते, तत्र तल्लाभगतमतीतत्वादि कूप- सत्तायामारोप्य तत्तत्कालप्रत्ययः,बुद्धिविषयत्वमात्र. विवक्षायां 'कूपोऽस्ति'इति वर्तमानप्रत्यय इति "लुङ्', "भविष्यतिगम्यादयः", "अनद्यतने लुद" "क्षिप्रवच- ने लडू"इत्यादौ भाष्ये स्पष्टम् । एवञ्च व्यातेने किर- ९१२ टीकाद्वयोपेतायां घुमजूषायाम् । णावलीमुदयन' इत्यादि भूतत्वानद्यतनत्वपरोक्षत्वा- नामारोपेण उपपन्नम्। आरोपफलं तु ग्रन्थे अतिसुकर- स्वशीघ्रनिष्पाद्यत्वादिप्रत्यायनम् । तत्फलं तु अध्ये. तृणामर्थप्रविवेकादिफलकममुं प्रन्यं ज्ञातुं सोत्का- नामाल्हादः । परोक्षत्वारोपो ऽप्येतत्फलक एव । 'एवं सूक्ष्मकालेन करिष्यामि यत्र करणकाले स्वयम- पि साक्षात्कर्तुमशक्यम्' इत्येव बोधनाद् अनाया- सेन ग्रन्थकरणमपि व्यङ्ग्यम् । सूर्योपमाऽप्येतत्पो- षिकैव । इतरअन्धेभ्योऽत्र ग्रन्थे तत्कर्तृभ्यश्च स्वस्मिन् व्यतिरेकोऽपि व्यङ्ग्यः । भविष्यतः प्रयोगकाले धा. स्तवमेव परोक्षत्वमिति न तदंशे आरोपापेक्षेत्य. पि वदन्ति । ननु 'भावि कृत्यमासीद'इत्यनुपपन्नम् । विरोधा- त् । नच "धातुसम्बन्धे प्रत्ययाः"इत्यनेन भाविशब्दे प्रधानभूताख्यातानुरोधेन भूते प्रत्ययः । एवं यासी- झांविशब्दयोः पर्यायतया युगपत्प्रयोगानापत्तिः । किञ्च भाविनो भूतकालता या प्रतिपिपादायषिता सा नावगम्येत किन्तु 'यदिदं कर्तव्यं वस्तु तदासीदेव' इत्येव प्रतीयेतेति चेन्न। यत् कृत्यमियन्तङ्कालं भावित्वे. न व्यवहृतं तद् आसीदित्यर्थात् । एवं 'ज्योतिष्टोमया. ज्यस्य पुत्रो भविता' इत्यत्र 'ज्योतिष्टोमयाजी'इत्येवं व्यवहरिष्यमाणो जनितति बोधः। एवं च तादृशवा. क्याथै वाक्यैकदेशप्रयोगोऽयम् । अत एव तस्य सुत्रस्य विधायकत्वं भाष्ये प्रत्यारुपातम्, तत्रस्यप्रत्य. या इति च प्रत्याख्यातम् ।

तिर्थनिरूपणम् । ९२३ 'गोमानासीद्' इत्यत्रापि गोमद्रूपस्यातीतत्वेन तत्स- साया अतीतत्वात् भूने प्रत्ययः । तेनार्थाद्वामती- तत्वप्रतीतिः । 'वसनवतरन्तं ददर्श इत्यादौ दर्श. नकालिकं वासावतरणयोर्वर्तमानत्वं बुद्धिस्थीकृत्य प्रत्ययः । तत्फलं च दर्शने तत्समकालत्वप्रत्ययः । शतृस्थले क्रिययोः समानकालिकत्वप्रतीतेरित्यन्यत्र विस्तरः। ननु “लिनिमित्ते लङ क्रियाऽतिपत्तौ"इत्यनेन भविष्यति लङविधीयते । “भविष्यति मर्यादावचने" इत्यतस्तदनुवृत्तेः। क्रियातिपत्तिश्चात्यन्त क्रियानुत्प- त्तिलक्षणा । "सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभवि. ष्य"इत्यादौ सुवृष्टिभवनयोःसाधनवैकल्यान्नियता. अनुत्पत्तिःप्रतिपाद्यते।तत्र भविष्यत्वादि अनुपपन्नम्। उत्पन्नश्च सत्वातिक्रमेण भूता इत्युच्यते।समर्थसाधन- संभावितोत्पत्तिश्च 'भविष्यन्' इति कथ्यते । अत्रच साधनाभावात्संभाविताऽपि नोत्पत्तिरिति चेन्न । सा- धनाभावादभविष्यत्यपि वस्तुनि भविष्यत्वमारोप्यते निषेधप्रतियोगित्वायेत्यदोषात्।सुभिक्षभवनहेतुसु- ष्टिभवनं भविष्यत्त्वेनासम्भावयन्नेवमभिधत्ते । एवं हि क्रियाऽतिपत्तिरवगता भवति । एतेनारोपित. स्यार्थस्य न शाब्दबोधविषयतेत्यपास्तम् । अत्र सर्व- था गत्यभावात् । एवं भूते ऽपि योज्यमिति दिक् ॥२४॥ (कुं० टी०) देवश्चेष्टइति । अत्र पृष्टभूतत्वेऽपि शाली. वां भावित्वात्सम्पबा इति प्रयोगोऽनुपपन्न इत्याक्षेपः ।

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । *इति च प्रयुक्ते इति । सम्पत्स्यन्ते इति केनचित्पयुक्त सं प्रत्यन्य आह सम्पन्ना इति बहीति । *अपशालीति । अपां शालिवीजानां यः संयोगः स एवायं निष्पत्तिपदार्थः, तस्य च भूतत्वाद् भूतत्वमित्यर्थः । *यद्वेति । बीजसंयोगरूप- कारणनिष्पत्तौ कार्यायाः शालिनिष्पत्तरारोप इत्यर्थः । *का- रणमेघेति । शाल्युत्पत्ती कारणीभूता मेघोत्पत्तिः तदतीत- खेन शालीनामतीतत्वमित्यर्थः । *मेघोत्पत्तीति । मेघोत्पत्त्यन- न्तरं दृष्टेः प्राग वास्तविकदृष्टभूतत्वाभावे ऽपि सिद्ध इत्य- थः । *स्थूलरूपेणेति । सत्कार्यवादाभिप्रायेणेदम् । ननु शालीनां निष्पत्तेर्भूतत्वे भोजनमपि कुतो नेत्यत आह *नतदेवेति । उत्पत्तरप्यपेक्षितत्वादिति भावः । *वस- निति । अत्र वर्तमानत्वमारोप्य शता, यद्वा दर्शनकालि- कवासे वर्तमानत्वारोपः तेनोभयोः समानकालत्वस्य लाभः । * भविष्यत्त्वमारोप्यते इति । सम्भावितस्यैव निषेधात् । *असम्भावयन्निति । सम्भावनाविषयो नेत्यनुसन्दधान इत्य- र्थः । * भूतेऽपीति । भूतार्थकलविषये ऽपीत्यर्थः ॥ २४ ॥ (क० टी०) पूर्व सामान्येनोक्तमपि प्रतियोगिविशेषजिज्ञासायाम- ग्रिमोपयोग्याह *अनद्यतनत्वमिति । मतान्तरमाह *अतीतेति । *एवम्-तत्र लिड्वत् । *शासनादित इत्यादिना व्यवहारः । लडित्याद्याधादिसंग्राह्यमेव सविशेषमाह *तत्रेति । तेषां मध्ये इत्यर्थः । आदिना "छन्दसि लिट्" इत्यादि । उक्तविशेषं तत्रा- प्याह *एवमिति । तत्र लुकादिवदित्यर्थः। लडाद्यपीत्यपिः पूर्व- समुश्चये। आदिना “यावत्पुरानिपातयोलड्" इत्यादि । उक्तरी- त्यैव प्रतीतेराह *श्व इति । इदं च "लुङ्" "भविष्यति गम्यादयः" इति सूत्रभाष्ययोः स्पष्टम् । इदमपि सिद्धशब्दान्वाख्याने उपाय- मात्रं न त्विच्छया तथा प्रयोगो न्याय्यः । ध्वनितं चेदमुक्तरीत्या तिङर्थनिरूपणम्। ९२५ सिद्धस्यापि श्वोऽग्नीनाधास्यमानेनेत्यादेः “अनद्यतने लुड्"इति सूत्रे ऽनद्यतने इति योगं विभज्यानद्यतने लटः सत्संज्ञौ भवतः, एत- द्विधानादेव चानघतने लड् ज्ञाप्यते इति प्रकारेण साधनं कुर्वता "व्यत्ययो बहुलम्” इति सूत्रे कालव्यत्ययेन तस्य साधनं कुर्वता च भाष्यकृता । तद्विपरीतं विशेषान्तरमाह एवमिति । तद्वदि- इत्यर्थः। तदभिप्रायेणैव प्रयोगादाह *अद्यतनेऽपीति । इदमपि “अ- नद्यतने लुड्"इतिसूत्रे भाष्ये स्पष्टम् । *इति-इत्यादि । *देवे सति । तमेव द्रढयति #सम्पदिति । चस्त्वर्थे । इदं च "क्षिप्रवचने” इति सूत्रे भाष्ये स्पष्टम् । *तदनुपपन्नमिति । तत्संम्पत्ते वित्वात् । आ. दिसंग्राह्यमाह *निष्पदरित। अत्र शब्दास्वारस्यादाह *यद्वति । ननु सा भाविनीति कथं तत्त्वमत आह *अविति । तस्येति । नि- पत्तेरित्यर्थः। विशेषान्तरं वक्तुं प्रकारान्तरमाह *यद्वेति । *तत्र- सम्पन्नाइत्यत्र । भूते क्त इत्यत्रान्वयः । वृष्टी शालीतिपाठः । वृष्टौ त. द्तमतीतत्त्वं शालीत्यपपाठः । आरोपितस्यान्यत्रानारोपातू । यदि तु यत्र नोभयं तत्रायं प्रकारो यत्र तु वर्षणमपि जातं तत्र तद्गतस्यैव तत्रारोप उचितः साक्षात्सम्बन्धेन न तु परंपरया तस्य तत्रेति तदा शयेन तद्गतमतीतत्वमिति ग्रन्थ इत्युच्यते तदाऽस्तु । *आरोप्यति । कार्यकारणयोरभेदाध्यवसायात् । ननु प्रकृते वृष्टे देवे इति प्रक्र- मावर्षणगतातीतत्वारोप एव तत्र वक्तुमुचित इति किमित्येवमुक्त- मत आह *एतेनेति । तथा कथनेनेत्यर्थः । अपिना प्रक्रान्तसमुश्च- यः। कारणान्तरापेक्षाभावेत्यत्राकारप्रश्लेषः तस्य तदेव फलम्। ननु तदानी कार्यमपीत्यत्र भाष्यसम्मतिमाह *यथेति । तत्रत्यमेव वि. शेषान्तरमाह तथेति । *अतीते-तल्लाभे । कूप इत्यस्यनुषङ्गः स. र्वत्र । यथाक्रममाह *लुङ्भवीति । तथा व्याख्यातमेव । आदिना "निष्ठा" इति । यत्तु भूषणकृद् 'व्यातेने इति त्वयुक्तमेव । उक्तरीत्या यथाकथञ्चित्परोक्षत्वोपपादने ऽपि अनद्यनत्वातीतत्वयोर्बहुतरमन:- प्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मके ग्रन्थे विस्तार. क्रियायां चासत्त्वेन लिटोऽयोगाद्' इति। तदसदिति ध्वनयन्नाह *एवं चेति । आरोपेण भाष्ये तत्प्रयोगोपपादने चेत्यर्थः । *तदिति । अ. तिसुकरत्वादिप्रत्यायनेत्यर्थः । सादृश्यप्रयोजकधर्ममाह *अर्थेति । मादिना विकासादि । ननूक्तफलमाद्ययोरित्यस्तु तदारोपः परो.

९२६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । क्षत्वारोपस्य तु न फलमिति कथं तदारोपो ऽत आह *परोक्ष- त्वेति । तत्त्वं विशदयति *एवमिति । तस्य फलान्तरमप्या. ह *अनेनेति । इदं च परोक्षत्वारोपमभ्युपेत्य । वस्तुतो न तद. पेक्षेत्याह #भविष्यत इति । भूताjशे सत्त्वादाह *तदंशे इति । वदन्तीत्यनेनान्यत्र तदपेक्षारूपा तव पूर्वत्रापि इदमपि सिद्ध. शब्देत्यादिना प्रागुक्ताऽरुचिः सूचिता । *एवमपि-आरोपेण नि- हाङ्गीकारे ऽपि । आरोप एव न सम्भवतीत्याह *भूतत्वेति । वैपरीत्यनिरासायाह *प्रधानति । हि यतः । अत एव न पञ्चमी । ननु शास्त्रबलात्तथा स्यादत आह *किश्चेति । द्विद्धमितिन्या. येनाह *आसीदेवेति । सूत्रप्रत्याख्यानप्रकारमाह यत्कृत्यमि. ति । अध्याहारस्य खण्डितत्वादस्य तात्पर्यमाह *एवं चेति । तथाऽर्थस्येष्टत्वे चेत्यर्थः । अस्य भाष्योक्तत्वमाह *अत एवेति । उक्तप्रकाराश्रयणादेवेत्यर्थः । धातुसम्बन्धे इत्यस्योत्तरार्थमावश्य- कत्वादाह *तत्रत्यमिति । *चप्रेति । प्रत्याख्यातं चेत्यर्थः ।त. प्रत्याख्याने तदन्यलक्ष्योपपत्तिमाह *गोमानित्यादि । *रूपस्य. गोमत्त्वस्य । *तत्सत्तायाः-गोमत्सत्तायाः। नन्वेवं कथं गवामती. तत्वप्रत्ययो ऽत आह *तेनेति । बाह्यस्य तस्यासम्भवादाह *बुद्धिस्थीकृत्येति । एतेन "ननु चोत्पततैव वचनलोपं चोदिताः स्मः" इति सरूपसूत्रस्थभाष्यप्रयोगो ऽपि व्याख्यातस्तदाह *इ. स्यन्य वेति । उद्योतादावित्यर्थः । तथैव वस्तुस्तात्पर्यमाह *सुवृष्टीति । यत इत्यादिः। तदेवा- ह एवंहीति। एतेनेत्यस्यार्थमाह अत्रेति । #पवमिति । अ- त्रैव लक्ष्यभूते चेत्यस्य विषये इत्यर्थः । अत एवादिशब्दः, उत्पन्न श्चेति च प्रागुक्तम् । तत्र हि पूर्वसूत्रमनुवर्तते तदाह *ति दिगिति ॥ २४ ॥ 'त्वं पचसि' 'अहं पचामि' 'त्वं पाव्यसे' 'अहं पाठ्ये इत्यादी मध्यमोत्तमयोः प्रत्यक्त्वमपरत्वं च कर्तृकर्मविशेषणतया बुध्यते शब्दशक्तिस्वभावात् । तत्र प्रत्यक्त्वं प्रयोक्तुरहकारानास्पदचेतनस्वम्, तिङर्थनिरूपणम् । ९२७ अपरत्वमहङ्कारादचेतनत्वम् । तदुक्तं पुरुषसमुद्देशे हरिणा- प्रत्यक्त्वापरभावश्चेत्युपाधी कर्तृकर्मणोः । तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ।। सदसदाऽपि चैतन्यमेताभ्यामवगम्यते । चैतन्यभागे प्रथमपुरुषो न तु वर्तते ॥ इति । तत्र कर्मविशेषणतया तयोः प्रतीतिरात्मनेपदेनैवे. त्युक्तं श्रुतिविशेषेणेति। वाचकत्वं द्योतकत्वम् । एवञ्च मध्यमोत्तमौ चैतन्ययुक्त कर्तृकर्मणी बोधयतः । नन्वे- वं "शृणोत ग्रावाणः' इत्यादौ मध्यमो न स्यादत उक्तं सदसवेति । असदनाभिव्यक्तम् । एवञ्च चैतन्यवत्त्वे- नैव तद्बोधस्ततोऽपि एतलेनैव सर्वस्य चेतनत्वं स- न्सूत्रे भाष्ये उक्तम् । तत्र हि चेतनधर्मस्याचेतने आरो- पमनुक्का सर्वस्य चेतनत्वे इयं श्रुतिः साध्यसाधकत्वे- नोक्ता । प्रथमपुरुषस्तु चैतन्यास्पर्शेन साधनभावमा- बमवगमयति नतु चेतनत्वम् । 'काष्ठानि पचन्ति'इत्या- दावज्ञानार्थधातुविषये प्रथमपुरुषान्नियमेन तदनभि- व्यक्तः । युष्मदस्मदोश्चेतनेष्वेव प्रयोगाद् मध्यमोत्त- माभ्यां तदभिव्यक्तिः । सम्बोधनार्थों मध्यमे प्रती- यते । युष्मदश्च सम्बोधन एवं प्रथमेति तु न युक्तम् । 'त्वं पचसि'इत्यादौ तदप्रतीतेः । क्रियाविनियोगफल- काभिमुखीकरणस्यैव सम्बोधनत्वादित्यग्रे निरूपयि. व्यामः॥ अथोपग्रहः कः पदार्थ इति चेद् । अत्र हरिः- ९२८ टीकाद्वयोपेतायां लघुमजूषायाम् । यस्त्वात्मनेपदाझेदः कचिदर्थस्य गम्यते । अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम् ॥ अन्यतः परस्मैपदात् । उपग्रह इति तस्य पूर्वा- चार्यसंज्ञा। तं विभजते- क्वचित्साधनमेवासौ कचित्तस्य विशेषणम् । साधनं तत्र कर्मादि व्यक्तवाक्त्वं विशेषणम् ॥ कर्मादीत्यादिना कर्ता भावश्च । भावोऽपि तिङ- नुवाद्यः । क्रियाया एकपदाच्यसाधनावेशमावेदयन् भवति साधनम् । “व्यक्तवाचां समुच्चारणे" इति व्यक्तवाक्त्वं स्वविशिष्टस्य कर्तृतामावेदयदुपग्रहः । कचिक्रियाविशेष उपग्रह इत्याह- धात्वर्थस्तद्विशेषश्चाप्युक्तः क्वचिदुपग्रहः । धात्वर्थे गन्धनादि स्यायतीहारो विशेषणम् ।। तद्विशेषस्तद्विशेषणम् । गन्धनावक्षेपणादयः सन्तोऽपि नात्मनेपदमृतेऽभिव्यक्ता इत्युपग्रहः । यथा 'उत्कुरते' इति । व्यतीहारस्तु क्रियाविशेषणम् आत्मनेपदव्यङ्ग्य उपग्रहः । 'व्यतिलुनीते' इत्यादौ । कचिद्विषयभेदेन क्रियाविशेष उपग्रह इत्याह- क्रिया विषयभेदेन जीविकादिषु भिद्यते ॥ लादेशे स क्रियाभेदः वाक्येष्वप्यवगम्यते ॥ विषयविशेषेण धात्वर्थः क्रिया भिद्यते, सच भे- दो लादेशभिव्यज्यते इति शेषः । यथा पचेर्जीवनो. पायत्वेनानुष्ठीयमानो विक्लित्यनुकूलव्यापारेणान्नसं- स्कारलक्षणः पाकस्तदर्थकत्वं परस्मैपदव्यङ्ग्यम् ।

तिर्थनिरूपणम् । ९२९ यथा-पचति यजतीति । प्रधानं ह्यत्र क्रियाफलं न कर्तृगामि, भृत्यानां भृतिमात्रार्थित्वात् । यजमा- नादीनां तु पाकादिसामग्रीसङ्घटनरूपं प्रतिविधान तदर्थः । तदर्थकत्वं चात्मनेपदव्यङयम् । 'यत् क्रियाफलं कर्तृगामि तवृत्तिधातोरात्मने- पदम्' इति "स्वरितत्रितः कभिप्राये क्रियाफले" इति सूत्रार्थः। म क्रियाभेदः-'स्वं यज्ञं यजते, यजति'इत्यादौ वाक्ये स्वादिपदेनापि गम्यते । “विभाषोपपदेन"इति तत्र पदवयमित्यर्थ हेलाराजः । अत एवोक्तम्-"स्वरितजितः" इत्यत्र भाष्ये "स्वरितजितः' इति शक्यमकर्तुम् । यात्यादिषु क- स्मान्न भवति, कत्रंभिप्राये क्रियाफले इत्युच्यते । सर्वेषां च कभिप्रायं क्रियाफलमस्ति । त एवं वि. ज्ञास्यामः-येषां कभिप्रायमकत्रंभिप्रायं च क्रिया. फलमस्ति तेभ्य आत्मनेपदं भवतीति । न चैषां कभिप्रायं चाक भिप्रायं च क्रियाफलमस्ति । तथाजातीयकाः खल्वप्याचार्येण स्वरितभितः पठि- ताः । ये उभयवन्तः । येषां कभिप्रायं चाकरें- भिप्रायं च क्रियाफलमस्ति" इति । अनेन च भाष्येणाकभिप्रायक्रियाफलाभाव- प्रयुक्तो यात्यादिषु उभयाभावो लभ्यते । ननु यात्यादिष्वपि-सेना प्रयाति, पित्रथै तीर्थानि गच्छति' इत्यादौ पराभिप्रेतं जयधर्मादि फलमस्तीति चेन्न । भाष्ये चश्रवणात्कभिप्रायमेवाकभिप्रायमेव टीकाद्वयोपेतायां लघुमञ्जूषायाम् । च क्रियाफलमस्तीत्यर्थाद् । इदं चोभयाभिप्रेतमिति न तथेत्यभिप्रायः । तत्र यजेक्रत्विग्व्यापारवचनत्वे कभिप्रेततत्फलाभावः । यजमानस्य तदा कर्तृत्वा- भावात् । यजमानव्यापारवचनत्वे तत्त्वम् । उ- भयवचनत्वे 'स्वामिदासौ' इति वक्ष्यमाणवत्प्रयोग इति तदाशयः। ननु पचादीनां विक्लित्त्यादिवचनत्वात्कथं प्रति- विधानमर्थः । किञ्च तदर्थत्वाभावे कर्मभिप्रेतक्रियाफ- लाप्रसिद्धिरत आह- संविधानं पचादीनां कचिदर्थः प्रतीयते । तन्निमित्तो यथाऽन्यापि क्रिया ऽधिश्रयणादिका ।। "कः पचेः प्रधानार्थः याऽसौ तण्डुलानां विक्लित्तिः। अथेदानीं तदभिसन्धानपूर्वकमध्येषणं प्रेषणं वा युक्तं यत्सर्व पच्यर्थः स्याद ? बाढं युक्तम्" इति “हेतुम- तिच" इति सूत्रभाष्योक्तेः संविधानमपि सामग्री- संघटनरूपं पच्याद्यर्थः । यथा विक्लित्त्यर्थस्यापि पचे- रधिश्रयणादिः कर्तृव्यापारो ऽर्थः--'देवदत्तः पचति' इति । अन्यथा देवदत्तस्य कर्तृत्वानापत्तिः । णिच् तु न । नहि संविधानमेव णिजथः, अपि तु तत्पूर्वक प्रेरणम् । यत्र सति प्रयोजक इत्युच्यते । संविधान कुर्वन्नपि न यावत् प्रेरयति न तावत्प्रयोजक इत्यु च्यत इति हेलाराजः । 'भिक्षा वासयति, कारीषो ऽग्निरध्यापयति' (१) तन्निमित्तमिति पाठः कलासंमतः । मूलपुस्तकत्रितये तनिमित्तेत्युपलम्भात्स एव मूलेऽवस्थापितः ।

तिनिरूपणम् । ९३१ इत्यादावपि प्रयोजकत्वारोपो बोध्यः । "तूष्णी- मासीनो यस्तत्समर्थान्याचरति सोऽपि वासा- दिप्रयोजकः" इति भाष्यात् । तत्समर्थाचरणमात्रे. ण तत्प्रयोजकत्वारोप इति तदर्थः । अत एवायं यज्ञसम्भारान् संघटयति कं वा प्रेरयिष्यत्यार्विज्या. यति न जानीम इति व्यवहारः । ननु "स्वरितत्रितः" इतिसूत्रादयमर्थः कथं लभ्य- ते तत्राह- कभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् । तथाभूता क्रिया सा हि तत्कर्ता फलभाग्यतः॥ कभिप्रायक्रियाफलग्रहणेन संविधानक्रिया नि. दिश्यते"नक्षत्रं दृष्ट्वा वाचं विसृजेद्" इत्यत्र नक्षत्रदर्श नेन कालविशेषनिर्देशवत् । यत एवंरूपक्रियायाः कती फलेन युज्यते । नह्यसंविधद्यागादि तत्फलं स्वर्गाद्य- इनुते । ततश्च कार्यभूतफल संबन्धेन कारणभूतक्रिया- विशेष उपलभ्यते तद्वाचकाद्धातोरात्मनेपदमित्यु- क्तं भवति । संविधानोपलक्षणं क्रियाफलं किं तत्राह- यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ।। तदेव सूत्रे क्रियाफलशब्देन गृह्यते इति भावः ! तच पाकस्य भोजनं लोकतो ऽवगतम् । यागस्य स्वर्गों वेदतः। तदुक्तं भाष्ये-“साधीयो यत्र कर्तारं क्रियाफ- लमभिप्रेति । नचान्तरेण यजिं यजिफलम्, वपिं च वपिफलं लभते । याजकाः पुनरन्तरेणापि यजि गां.

९३२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । लभन्ते, भृतकाश्च वेतनम्" इति। यत्र यस्यां क्रियायां सत्यामित्यर्थः । साधायः क्रियाफलं स्वर्गादि । यजिं यागसंविधानरूपयज्यर्थम् । एवं वपिमित्यपि । अन्तरेणापि यजिम्-स्वसाध्य- यागव्यापारं विनाऽपि । मतान्तरमाह- क्रियाप्रवृत्तावाख्याता कैश्चिस्वार्थपरार्थता । असती वा सती वाऽपि विवक्षितनिबन्धना ॥ "सर्व इमे स्वभूत्यर्थ प्रवर्तन्ते,नहि कश्चित्परोऽनु- ग्रहीतव्य इति प्रवर्तते" इति भाष्योक्तः सर्वस्य स्वा- थप्रवृत्त्या स्वार्थता सर्वत्र मुख्या। परार्थता त्वसत्येव । सतीवेति तु लौकिकी वाचोयुक्तिः । विवक्षितं वि. वक्षा सा निवन्धनं हेतुरस्याः परार्थताया इत्यर्थः । एवंचासत्परार्थताविवक्षायां माभूदात्मनेपदमि- ति कत्रभिप्राय इत्यनेन क्रियाफलं विशेषितम् । सू. वार्थस्त्वेतत्पक्षे क्रियाफलके यत्ने कभिप्रेतोद्देश्यके आत्मनेपदमित्यर्थः । अत्र कश्चिदित्यनेनारुचिर्बोधि- ता। तबीजं तु 'यजन्ते ऋत्विजः' इत्यादेरप्यापत्तिः । यः स्वर्गादिफलार्थ निवेशेनेतरं व्यापारयति स्वयं च प्रतिविधानमारभते तत्रैव यजमानादौ कर्तर्यात्मनेपद- मिष्यते । यस्तु भृतिरूपनिवेशमात्रफलः स्वामिचित्ता. नुवर्तनादेव कृतार्थतां मन्यते तत्र नात्मनेपदं भृत्या. दावितीति हेलाराजः। किञ्च स्वरितभिद्रहणप्रत्याख्यानशोक्तभाष्यावि. रुद्धमिदम् तेनार्थव्यवाचकत्वं स्वाभाविकं यत्रास्ति ते.

तिर्थनिरूपणम् । ९३३ ऽत्र विषया इति स्पष्टमेवोक्तं कस्तत्र विवक्षाया उ. पयोगः । किञ्च फलस्य स्वर्गादेरेवान ग्रहणमित्यर्थस्य भा- व्यसंमतत्वेन क्रियाप्रवृत्तावित्यसङ्गतम् । किश्च प्रवृत्तेः सर्वत्र स्वार्थोद्देश्यकत्वेन तत्र परार्थो- द्देश्यकत्वे विवक्षाऽत्यन्तमनुचितैवेति दिक् ॥ २५ ॥ (कुं० टी०) अहाङ्कारास्पदत्वम् 'अहम्' इतिप्रत्ययविषय. त्वम् । अचेतने प्रयोगस्त्वारोपात् । *सर्वस्य चेतनत्वमिति । तेन 'कूलं पिपतिषति इत्यादिसिद्धिः । सर्वत्र परिणामर्दशनाच्चै- तन्याधिष्ठानं विना च तदसम्भव इति भावः । सकलचेतन- कार्य तु न भवति पदार्थानां विचित्रत्वात् । मनुष्याणामपि हि नानाजातीय एव व्यवहारो दृश्यते । *सम्बोधनार्थ इति । यथा हि माणवकाधीष्वेत्यभिमुखीभावो गम्यते, एवमधीष्वेत्यत्रापि । अत एव युष्मदः सर्वत्र सम्बोधने प्रथमामिच्छन्ति । तदाहुः- सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते । तथा सम्बोधने सर्वा प्रथमां युष्मदो विदुः ।। इति । अन्येतु अभिमुखीभावस्य प्रातिपदिकार्थ एवान्तर्भावान सम्बो- धने प्रथमेत्याहुः । उपग्रहशब्दो भेदलभ्ये प्रसिद्धः। तत्र कस्य कथं भेदलभ्यत्वमिति निर्णतुंपृच्छति *अथेति। * आत्मनेपदादिति। आत्मनेपदलभ्य इत्यर्थः । *साधनामिति । उपग्रह इति शेषः । तदुदाहरति व्यक्तवाचामिति । अत्र बहुव्रीहिणा कर्तृणामेव भेदकत्वम् । तद्विशेष:-धात्वर्थविशेषणम् । *जीविकादिषु- जीविकाकुलायकरणेष्वित्यादिषु । *प्रधानमिति । तच्च भो- - टीकाद्वयोपेतायां लधुमञ्जूषायाम् । जनम् । संघटनं सम्पादनम् । *व्यङ्ग्यामिति । धातूनामने. कार्थतया संविधानमपि धात्वर्थः । तद्योतकमात्मनेपदमि. त्यर्थः । यात्यादिष्विति । राजा याति, सेना यातीत्यादौ क्रि- याफलस्य जयस्य कर्तृगामित्वतदभावयोर्दर्शनात् । *नचैषा- मिति । यात्यादीनां तु कभिप्रायमेव क्रियाफलमस्तीति भा. वः । *अनेनचेति । यात्यादावकर्षभिप्राय क्रियाफलं नास्ती- त्यत उभयाभाव इत्यर्थः । शब्दशक्तिस्वभावाच्च स्वरितत्रित एवोभयवन्तो नान्ये । *कभिप्रायमेवेति । एकैकमात्रगामि यत्र भिन्न भिन्नं फलमित्यर्थः । इदंचेति । सेना प्रयातीत्यत्र जयरूपं फलमुभयाभिमेतमित्यर्थः । यज्यादावुभयगामिफलं दर्श- यति *ऋत्विग्व्यापारेति। स च प्रक्षेपादिः। *तद्वत्त्वम्-कर्तृगा. मिफलकत्वम् । कथं तर्हि "आत्मने वा यजमानाय वा यं यं कामं कामयते तं तमाशासानि" इति ऋत्विजां फलसम्बन्धः श्रूयत इति चेन्न । तस्य वाचनिकत्वात्।औडुलोमिस्त्वाह-स्वामिकर्माण्युपास- नानीत्ययुक्तम् । साङ्गकर्मणे हि ऋत्विग् यजमानेन परिक्रीयते । त- स्माद्दोदोहनादिवदुद्गीथायुपासनान्यपि ऋत्विग्विनिवानि इति। "यां काञ्चन यज्ञ ऋत्विज आशिषमाशासते यजमानायैव तामाशा. सते"इति श्रुतेश्च । *क्रियाफलासिद्धिरिति । संविधातुर्यजमानस्य कर्तृत्वाभावात् । संविधानमिति । पचते इत्यादौ संविधानं पचा- दीनामर्थ इत्यर्थः। *तन्निमित्तत्वमिति । फलार्थप्रेरणस्य धात्वर्थ- वाणिचो द्योतकत्वमपि भाष्यकारोऽव्यवस्थापयति *कः पचे- रिति । सकलक्रियाणां विक्लित्त्यर्थत्वात्सैव प्रधानं तदनुकूलानां फूत्कारादीनां व्यापाराणां यथा प्रेरणादीनामप्युचितमित्य. र्थः। ननु संविधानस्य धात्वर्थत्वे तयोतनाय यथा तङ् प्रयुज्यते तथा पाचयतीत्यपि स्यादत आह *णिन्तुनेति । प्रेरण- तिर्थनिरूपणम् । स्य चेतनधर्मत्वमाशङ्याह *भिक्षेति । तदुक्तं भाष्ये "भिक्षाच प्रचुरा व्यञ्जनवती लभ्यमाना संप्रयोजयति, कारीषोऽग्निर्निवाते- एकान्ते सुप्रज्वलितोऽध्ययनं प्रयोजयति"इति । *क्रियाभेदेति । तसमभिव्याहारे संविधानरूपा क्रिया प्रतीयते इत्यर्थः । *यस्यार्थस्य-भोजनादेः । *पचादयः-पाकादयः । *लाभा- दि-वेतनादि । किन्तत्साधीयः क्रियाफलं तबाह *नचान्तरे- णेति । यज्यादिफलमन्तरेण यजिक्रियां नैव लभते तदित्य- र्थः । गवादिषु व्यतिरेकं दर्शयति श्याजकाइति । नहि स्वर्गादि फलं यागमन्तरेण भवति, गोलाभस्तु प्रतिग्रहेणापि भ- वतीति भावः । *क्रियामवृत्ताविति । यज्यादौ परार्थत्वविवक्षा नास्त्येव । एवं च स्वार्थत्वपरार्थत्वोभयविवक्षावतां धातूनां स्वार्थत्वविवक्षायां तङानौ इति सूत्रायः । एवं च विवक्षाग्रहणात् 'कमलवनोद्धाटनं कुर्वते ये' इति सिद्धम् । क्रियामात्रविवक्षायां 'स्वामिदासौ पचत' इति । एपाच विवक्षा स्वरितनिद्विषयैव । आदित्योद्गमनं सम्भावयति आदित्यमुद्गमयतीत्यादीनुप- संख्येयान्प्रयोगान् भाष्यकारः सूत्रेणैव साधयति *सर्वइति । सूर्योऽपि स्वाभिप्राये वर्तते ततो णिच् । *स्वयंचेति । अयम्भावः-यद्यपि "स्वर्गकामो यजेत"इत्यत्र स्वर्गकामस्य यागकर्तृत्वमवगतं यजेतेत्यात्मनेपदं च क्रियाफलस्य कर्तृगामित्वे एवोपपद्यते इति यजमानस्यैव निखिलकर्मानुष्ठानं प्राप्तं तथापि 'पञ्चभिहलैः कृषति' इत्यादाविव प्रयोजकतयैव कर्तृत्वमिति । *दिगिति । ब्राह्मणाय गां ददाति, हरिं भजतीत्यादावात्मगा- मिक्रियाफले परस्मैपदं कथामिति चिन्त्यम् ॥ २५ ॥ (क० टी०) विशेषान्तरं वक्तुं सर्वसाधारणं विशेषमाह #त्व.

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । मित्यादिना । *मध्यमोत्तमयो:-विषये इति शेषः । यथासंख्यमाह *प्रत्यक्त्वमिति । *वुध्यते-अर्थान्मध्यमोत्तमाभ्यामेव । तत्र वीज- माह *शब्देति । तत्र-तयोर्मध्ये । युष्मदस्मदर्थो क्रमेणाह *अहङ्का- रेत्यादि । अपरभावो ऽपरत्वम् । *उपाधी-तयोः प्रत्येकमेते विशे- षणे । *तयोः-प्रत्यक्त्वापरत्वयोः । एवमग्रे । *एताभ्याम्-मध्यमो- त्तमाभ्याम् । *चैतन्यभागे-चैतन्यरूपविशेषांशे। तत्र-कर्तृकर्मणो- मध्ये । तत्र तस्यैव विधानात् । पूर्वसिद्धान्ताविरोधायाह *द्योतक- त्वमिति। एवं सति तात्पर्यार्थमाह एवं चेति । द्योतकत्वे चेत्यर्थः । *एवम्-चैतन्ययुक्तयोरेव ताभ्यां बोधे । ननु चैतन्यस्यासत्त्वं विरुद्ध मत आह *अनभीति । अस्य तात्पर्यार्थमाह *एवंचेति । तत्सत्ता- याः सार्वत्रिकत्वेन तदभिव्यक्त्यनपेक्षणे चेत्यर्थः । तस्यामपि कर्ता- दिबोधम्तेनैवेत्यर्थः । अत्र भाष्यसंमतिमप्याह *एतदिति । उक्तश्रु- तीत्यर्थः। चेतनत्त्वमिति पाठः चेतनावस्वमिति वा।'धातोः कर्मणः" इति सूत्रे "आशङ्कायाम् इति वार्तिकप्रत्याख्यानाय पक्षद्वयमुक्का तृतीयपक्षत्वेन सर्वस्य वा चेतनावत्वादित्युक्तत्वात्। तदाह *तत्रही. ति। चैतन्यभागे इत्यर्धार्थमाह *प्रथमेति । स्पष्टार्थमात्रपदव्यावर्त्य स्पष्टयति *नत्विति । अस्पर्शेनेत्यनेन तत्सत्ता सूचिता । चैत्रः पच- तीत्यादौ तत्प्रतीतेराह *काष्ठानीति । तत्रापि ज्ञानार्थकधातुयोगे तत्त्वादाह *अज्ञानेति । तत्रापि कृनादियोगे क्वचित्सत्त्वादाह *नियमेनेति । प्रकृते ततो वैलक्षण्यमाह *युष्मदिति । तदिति । नियमेनेत्यादिः । प्राचोक्तयुक्ति खण्डयति *संबोधनेति । तदूपो ऽर्थ इत्यर्थः । सच चेतनधर्म इति तत्र तत्प्रतीतिरिति भावः । *त. दिति । संबोधनेत्यर्थः । तदसम्भवमेवाह *क्रियोति । *अग्रे. प्रथमाकारके । श्रुतिविशेषेणेति हर्युक्तात्मनेपदप्रसङ्गेन तदुक्तम- न्यद्वक्तुं शङ्कते *अथोपग्रह इति । भेदो विशेषः । गम्यते इत्यत्र म- ध्यपठिते पञ्चम्यन्तद्वयान्वयः । *संशेति । तदुपयोगस्तु सुप्- तिङपग्रहनराणामित्यादौ बोध्यः। *विभजते-स एव । एवमग्रेऽपि । *असौ-उपग्रहः । *तस्य-साधनस्य । *तत्र-तयोर्मध्ये । ननु भा. घस्य धात्वर्थत्वेन न साधनत्वमत आह *भावोऽपीति । अ. नतिप्रसङ्गायाह *तिति । हेतुगर्भविशेषणम् । अत एवाह *क्रि- याया इति । साधनानावशमिति पाठः । तत्रानावेशमित्यर्थः ।

तिर्थनिरूपणम् । ९३७ पाठः अनिवेशमिति पाठान्तरम् । तथा च तदनिवेशेन कर्तृत्वात्तस्वमि- त्यर्थः। ननु व्यक्तवाक्त्वं न तद्वोध्यमिति कथं तस्य तत्त्वमत आह. *व्यक्तवाक्त्वमिति । तथाच विशिष्टे तत्त्वेन तद्विशेषणस्या- पि तत्वमिति भावः । क्रियाविशेषाबुपेति । क्रिया- च विशेषश्चेति द्वन्द्वः । विशेषस्तद्विशेषणम् । पूर्वार्धे उत्तरार्द्ध- विरोध परिहरति *तद्विशेषणमिति गन्धनाद- यो धात्वर्था एवेति न तद्गम्या इति कथं तत्त्वमत आह *गन्ध. नेति । तथैवाह #व्यतिहारइति । *क्रियति । भिन्नं पदम् । *जी- विकादिष्विति विषयसप्तमी । भेदपदार्थ:-*विशेषेति । क्रियेत्यस्य ध्याख्या *धात्वर्थ इति । पूर्वार्द्धार्थमुवा तृतीयपादार्थमाह *सचेति । तमेचोदाहरणतःप्रदर्शयति *यथेति । *पचेरित्यस्य पा- क इत्यत्रान्वयः । अन्नसंस्कारस्यान्यथाऽपि सम्भवादाह *विक्लित्त्ये- ति । तद्धेतुकः स विक्लित्त्यादिरूपो धात्वर्थ इति भावः । *प्रधानम्- भोजनम् । जीविकादीत्यादिग्राह्यमाह * यजमानेति । तदर्थ:-धात्व- र्थः । तत्रैव कुत आत्मनेपदमित्यत आह *यदिति । तुर्यपादार्थे 'स क्रियाभेदः' इत्यस्यानुषङ्गेणाह *सक्रियेति । अपेः शेषेणान्वयमाह *स्वादीति । अपिः पूर्वसमुच्चये, नात्रैव तत्समुच्चये । तदाह *विभाषेति । यत इत्यादिः । अत्र भाष्यसंमतिमाह *अतएवेति । तद्भेदेन धात्वर्थभेदादेवेत्यर्थः । द्वितीयेत्यन्तो भाज्यग्रन्थः । *सर्वेषाम्-सर्वधातूनाम् । *ते-वयम् । *येषाम्-धातूनाम् *नच- नहि । *एषाम्-यज्यादीनाम् । उक्तमेव विषयप्रदर्शनेन द्रढयति *तथेति । अस्य व्याख्या *ये उभयवन्तइति । परस्मैपदात्मनेपदवन्त इत्यर्थः । तत्र बीजमाह *येषामिति । शङ्कितुं तावद् भाग्यता- त्पर्यमाह *अनेनचेति । अस्माद्भाज्यादित्यर्थः । अत एव शङ्कते *नन्विति। *चश्रवणादिति । चद्वयेत्यर्थः । निपातानामनेकार्थत्वात् सोऽवधारणार्थ इति भावः । गामश्वमितिवदाह *एबचेति । *इदं च-जयधर्मादिरूपम् । *न तथा-तादृशोभयभिन्नम् । अत एवेत्युक्तं विशदयति *तत्रेति । तेषामर्थानां मध्ये इत्यर्थः । *फलाभाव इति । तथा च तत्र परस्मैपदम् । *तद्वत्वम्-कर्षभिप्रेततत्फ- लवत्त्वम् । तथा च तत्रात्मनेपदम् । ननु स्वामिदासयोर्युगपत्कर्तृ- त्वविवक्षायां स्वार्थवृत्तिताप्रयुक्तात्मनेपदस्य दासेनान्वयाभावात्प- ११८ ९३८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । रार्थत्वप्रयुक्तपरस्मैपदस्य स्वामिनाऽनन्वयादप्राप्त्येदृशे विषये ति. ङन्तप्रयोगो न स्यादत आह *उभेति । *तदाशयः-उक्त- भाष्याशयः । तत्र शङ्कते *नन्विति । तेश्च प्रतिविधानम् । हे- लाराजमाह कइति । प्रधानोऽर्थ इत्यर्थः । *याऽसाविति । तदर्थत्वात्कारकग्रामस्य तदनन्तरं च फलोत्पादादिति भावः । हरिरपि- अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः प्रधानभूतां तादादन्यासां तु तदाख्यता ॥ इति । *तदभिसन्धिपूर्वकमिति।तद्विशेषणभूतमिति शेषः । *वायुक्त- मिति । वा सर्व पच्यर्थः इति स्याद् युक्तमेवेत्यर्थः । कैयटाधुक्त्यसा- गत्यायाह #सामग्रीति । *तन्निमित्तमिति । पूर्वान्वयि । फलज- नकमिति तदर्थः । अनेन तत्त्वबीजमनतिप्रसङ्गश्चोक्तः । अस्याग्रेऽप्य. न्वयो लिङ्गभेदेनेत्यभिप्रेत्य "यथान्याऽपि" इति व्याचष्टे *यथेति । ननु तत्रणिच् कुतो नात आह *णिन्त्विति।*हि-यतः। यत्र-प्रेरणे। *संविधानमित्यस्य यत इत्यादिःनिन्वेवं भिक्षादावचेतनत्वेन प्रेरणा- घसंभवात् तत्र कथं णिजत आह *भिक्षेति । "हेतुमति च"इतिसूत्र- स्थभाष्यमाह *तूष्णीमासीनइति । निर्व्यापारत्वात्कारकत्वमात्रमपि तस्य नास्ति कुतस्तद्विशेषः कर्तृत्वामित्यर्थः । तदर्थः-उक्तभाण्या- र्थः । *तत्र-भिक्षायाम् । तत्समर्थाचरणं लभ्यमानात्वाचुरात्वव्य- अनवतीत्वरूपम् । तद् अग्नौ निर्वाते एकान्ते सुप्रज्वलितत्वरूपं बोध्यम् । *अत एव-प्रेरणसंविधानयो:दादेव । कारिकायामेकदे- शेन विशिष्टग्रहणमित्याह *कभिप्रायति । क्रियाभेदमाह *संवि- धानेति । *हि-यतः। * तथाभूता-फलजनिका । *सा-संविधानरू- पा । क्रिया धात्वर्थ इति तृतीयपादार्थमभिप्रेत्य तुर्यपादार्थमाह *यतइति । तदुपपादयति *नोति । *यागादीति । पूर्वा- न्वयि । तात्पर्यार्थ शङ्कानिरासायाह *ततश्चेति । *संविधानेति । तत्पुरुषः । *यस्येति । एवाध्याहारेण यत्सिध्यर्थ पचादय एवार- भ्यन्त इत्यर्थः । तत्तात्पर्यमाह *तदेवेति । *भाष्ये- "स्वरितभितः' इत्यत्रैव । यत्रेत्यस्यार्थमाह *यस्यामिति । संविधानरूपाया. मित्यर्थः । साधीय इत्यस्य क्रियाफलेनान्वय इत्याह *सा- (१)तच्छब्देनात्र संविधानं गृहत ।

तिर्थनिरूपणम् । ९३९ धीय इति । किन्तत्साधीयः क्रियाफलमित्याशङ्कायामुक्तम् । * नचा. न्तरेणेति । यद्यज्यादिफलमन्तरेण यजिक्रियां नच नैव लभन्ते त- दिति तदर्थस्तदाह *स्वर्गादीत्यादि । इकार उच्चारणार्थ इत्या- ह *यागेति । गवादिषु च तद्यतिरेकदर्शनायोक्तम् * याजकाः पुन- रिति। प्रतिग्रहादिनेति भावः। *चोऽयं त्वर्थे । *यागतिः । अग्नौ हविः- प्रक्षेपादिरूपेत्यर्थः । यद्यपि दानादिनाऽपि स्वर्गो भवति तथा- ऽपि स्वर्गविशेषनियतत्वादनन्यलभ्यत्वमिति बोध्यम् । मिथो ऽविरोधायाह *मतान्तरेति । आख्यातानिमित्तत्वेनेति शेषः । हेलाराजमाह *सर्वेइति । असत्येवेति । एवं च स्वार्थतायां सतीत्वमेव, परार्थतायामसतीत्वमेवेति प्रत्येक विकल्पासङ्ग- तिरत आह *सतीवेतीति । पूर्वो वा एवार्थः परार्थतामात्राभि- प्रायः। एवं विकल्प इति भावः । नत्वसत्यास्तस्याः कथं तत्र नि- मित्तत्वमत आह *विवक्षितमिति । भावे क्त इत्याह *विवक्षेति । उत्तरार्ध सर्व परार्थताविषयमित्याह *परेति । स्वार्थतायास्तु स- र्वत्र सखेन विवक्षाऽनुपयोगात् । तात्पर्यार्थमाह *एवं चेति । विव. क्षिताया अपि तस्यास्तन्निमित्तत्वे चेत्यर्थः । सूत्रे क्रियाफले इति बहुव्रीहिः । कत्रभिप्राये इति अर्शआधजन्तं तदाह *क्रियाफ- लके इत्यादि । फलद्वारा क्रियैव कर्वर्था यत्र तत्रात्मनेपदमिति फ- लितम् । *अत्र-मतान्तरे। ननु तदिष्टमेवात आह * यइति । निर्वे. शेन-भृत्या । “यस्तु-ऋत्विक । *तत्र-भृत्यादौ। *भृत्यादाविति । नेत्यन्वयः। स्वयं दूषणान्तरमाह *किश्चेति। *प्रत्याख्यानस्थोकेति । तत्परप्रागुक्तेत्यर्थः । विरोधमेवाह *तेनेति । भाष्यणेत्यर्थः। कइत्य- स्यास्तीत्यादिः । दोषान्तरमाह *किञ्चेति । एतेनैतन्मतप्रतिपादक. कैयटादिग्रन्था निरस्ता इत्यन्यत्र स्पष्टं तदाह *इति दिगिति ॥ २५ ॥ केचितु प्रतिविधानार्थादपि तदर्थद्योतकमात्म- नेपदं णिचा सह विकल्पते । संविधानमात्रं णिजर्थः "सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते" इति न्यायेन स्वार्थ प्रवर्तमानस्य प्रयोज्यस्यानुकूल्यकर्ता संविधातोच्यते। प्रेषस्तु न शिजर्थः । एवंचैकविषयत्वात्तयोः पयार्य- ९४० टीकादयोपेतायां लघुमञ्जूषायाम् । स्वम्-यजते याजयतीति वदन्ति । तन्मतमाह- केषाश्चित्कभिप्राये णिचा सह विकल्पते । आत्मनेपदमन्येषां तदर्था प्रकृतियथा ॥ णिचा सह णिजा प्रकृतिर्धातुर्यथा विकल्पते तछत् । अन्येषां स्वरितभिव्यतिरिक्तधातूनाम् । "हेतुमतिच" इत्यस्यापि संविधानरूपे व्यापार वत्तैमानाद्धातोणिजित्यर्थः । यजतेश्च संविधानमे- वार्थः । पाचयतीत्यादावप्येवमित्येतन्मतम् । वस्ततो णिच्प्रेरणावाची । “तत्प्रयोजको हे- तुश्च"इति सूत्रात् । अत एव तदाश्रयस्य कर्तृत्वम् । अत एव 'पाच- यति देवदत्तो यज्ञदत्तेन इत्यादिप्रयोगाः,"गतिबुद्धी- तिसूत्रं च चरितार्थम् । एवञ्च भिन्नविषयत्वाद्विकल्पोक्तिरसङ्गता। किञ्च सामान्यविहितस्य णिचो धातुविशेषा- द्विहितेनात्मनेपदेन बाध एवोचितः । एतच केषांचि. दित्यनेन सूचितमिति हेलाराजः। अथैतेषां णिजात्मनेपदयोर्विकल्पभ्रमबीजं द. शयति- क्रीणीब्ध पचते धत्ते चिनोति चिनुते ऽपि च । आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थों ऽभिधीयते ॥ आत्मानं क्रीणीष्वेति विनतांकराह । तस्य च दास्या- दात्मनो मोचनाय पुत्रसंविधानं कुर्वित्यर्थ इति तेषां तभ्रमबीजम् । तत्र प्रत्युपकारादिना दास्यमुक्त्यस- तिर्थनिरूपणम् । ९४१ म्भवाद, प्रत्युपकारस्य च स्वासाध्यत्वादर्थसामर्थ्या- त्पुत्रसंविधानं गम्यते न तु स तदर्थ इति स तेषां भ्रमः । एवं "केशश्मश्रु धपते" इत्यत्र वपनकर्तुः संवि. धानं कुरुते इत्यर्थ इति तेषां भ्रमबीजम् । तत्रापि स्वस्थासामर्थ्येन सामर्थ्यात्तद्गम्यते इति तेषां भ्रमः । एवमन्यत्राप्यूह्यमिति हेलाराजः। अथ सिद्धान्ते शङ्कते- यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् । युगपद्धर्मभेदेन धातुस्तत्र न वर्तते ।। स्वामिसाध्यं सम्भारघटनरूपं संविधानम् , दास- साध्यं तु विक्लित्तिपर्यन्तं साधनविनियोगरूपम् । तत्र भिन्नत्वायापारस्य युगपदेकधातुवाच्यत्वासम्भवेन किं संविधानापेक्षमात्मनेपदं किं वा संस्कारकापेक्षं परस्मैपदमिति संशयः । अनेकार्थत्वाद्धातूनां युगपद- थद्वयाभिधाने ऽप्येकत्र प्रयोगे विरुद्धलादेशद्वयानुपप- क्या स एव संशय इति हेलाराजः । नच क्रियागत- विशेषमविवक्षितं कृत्वा क्रियामात्रे साधनभावमा- त्रविवक्षायामत्र परस्मैपदं युक्तमिति वाच्यम् । तया क्रियया स्वामिनो भोजनस्य लाभेन दासस्य श्रममा- अलाभेन पूर्वपक्षस्यैव सिद्धेः। किश्चैवंरीत्या यजति यजमान इत्यस्याप्यापत्तिः । नचेष्टापत्तिः। तदा कर्तृगामिनो ऽकर्तृगामिन- च फलस्थाभावेन "स्वरितत्रित उभयवन्त"इति भा- ध्यस्यासङ्गतेः। अग्र स्वामिपदार्थसामर्थ्यात्तद्गत संविधानमव- ९४२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । गतं दासपदार्थसामर्थ्याच तक्रियायाः परार्थत्वम- वगतमिति नावाख्यातस्थ व्यापार इति शेषत्वा. स्परस्मैपदमिति केचित् । एवमपि पूर्वपक्षस्यैव सिद्धिरित्यन्ये । समाधत्ते- संविधातुश्च सांनिध्याद् दासे धर्मोऽनुषजते । छत्रिणा चापि संबन्धाच्छत्रिशब्दाभिधेयता ।। उत्तरार्धस्य यथेत्यादिः । दासधर्मस्य तु न स्वा. मिन्यारोपः । उत्तमे निकृष्टधर्मारोपाप्रतीतेरित्यलं विस्तरेण । "अग्नीनादधीत"इत्यत्र यद्यप्याधानफलमाहवनीय- त्वादि अग्निनिष्ठं तथाऽपि यज्ञहोमादिसुखलाभरूपं कर्तृगतमप्यस्ति तदादायात्मनेपदम् । आहवनीयत्वा- देराधानसंस्कारातिरिक्तत्वे मानाभावेन तस्य च धा- त्वर्थतथा तदतिरिक्तस्यैव मदुक्तस्य तत्फलत्वौचित्या. त् । स्पष्टं चेदम् "एकः पूर्वपरयोः" इति सूत्रे भाष्ये । एतेन कत्रभिप्रेतत्वं फले कर्थत्वमेव नतु कर्तृ- समवेतत्वमिति पार्थसारथ्युक्तमपास्तम् ॥ २६ ॥ (कुं०टी०) *केचित्विति । संविधानरूपधात्वर्थद्योतको यथा ता तथा णिजपीयर्थः। नन्वेवं संविधानस्य णिचा धोतितत्वा- पाचयते इति तङ् न स्याद्,सत्यम् । द्वितीयं संविधानन्तत्रार्थः । *संविधानरूपे इति । हेतुमान् व्यापारः। तत्र वर्तमानाद्धातोणि- जिति व्यापारमात्रस्य च धातुवाच्यत्वाणिज् द्योतक इति भावः। ननु त्यागो यज्यर्थ इत्यत आह यजतेथेति । *इतिसूत्रा- तिर्थनिरूपणम् । दिति । धात्वर्थव्यापाराश्रयकर्तुः प्रयोजकस्य हेतुसंज्ञाविधा- नात् । *इत्यादिप्रयोगाइति । प्रकृत्यर्थत्वे उभयोः कोलें- नाभिधानं स्यात् , प्रत्ययार्थत्वे तदर्थकर्तुरभिधानम् । *सूत्रं च चरितार्थमिति । कर्तृत्वे प्राप्ते कर्मत्वविधानात् । *केशश्मश्रु वपते इति । अत्रात्मनेपदेन यजमानसंस्कारो लभ्यते । नहि अध्वर्युसं- स्कार आत्मगामिफलार्थः, वपनादिसंस्काराणां मालिन्यापन- यनेन फलयोग्यतासम्पादनार्थत्वात् । *क्रियागतविशेषमिति । आत्मगामित्वाद्यविवक्षयेत्यर्थः । *छत्रिणा चापीति । यथा छ- त्रिसांनिध्यादच्छत्रिणामपि छत्रित्वम् । *निकृष्टधर्मेति । अत- एव "आदित्यो ब्रह्म प्राणो ब्रह्म"इति श्रुतिमुदाहृत्य “आदित्ये ब्रह्मदृष्टिः कार्या नतु ब्रह्मणि आदित्यदृष्टिः"इति स्पष्टं शारी- रकभाष्ये । * आहवनीयत्वादीति । आधानस्याग्निसंस्कारार्थ- वादाहवनीयत्वं सिध्यतीति भावः ॥ २६ ॥ (क० टी०) अविरोधायैवात्रमतभेदसूचकाभावात्तौल्येनाह *के. चित्विति । अपिःसिद्धाते प्रेरणासमुच्चायकः। *तत्-प्रतिविधानम्। ननु णिचः प्रेरणार्थत्वेन कथमिदमत आह *संविधानमिति । नन्वेवं प्रयोज्यस्य प्रवृत्तिरेव न स्यादत आह *सर्वेइति । हेलाराजमा- ह *णिचेति । तद्वदिति । आत्मनेपदं विकल्पत इत्यर्थः। केषां चिदित्यस्य स्वरितजितान्धातूनामित्यर्थ सूचयन्नाह *अ- न्येषामिति । ननु सूत्रादिदं कथं लब्धमत आह *हेतुमतीति । नन्वेवमपि धातुतः कथं लाभो ऽत आह *यजतेश्चेति । प्र- योजकत्वव्यवहारस्य तत्रैव सत्वादाह *तत्प्रेरणेति । *अत एव- तस्य तदर्थत्वादेव । अनतिप्रसङ्गाय तल्लक्षणे तथैव निवेशात् । अ- भ्युपेत्यापि दोषमाह *किञ्चेति । केषाञ्चिदित्यादेर्वादिनामित्य. र्य इत्याशयेनाह *एतच्चेति । बीजं शिष्टप्रयोगरूपम् । हेला- १ तत्प्रेरणेति कलायामुपलभ्यते मूलपुस्तकोपलब्धः पाठस्तु मू- लेऽवस्थापित एव ।

९४४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । । राजमाह *आत्मानमिति । कद्रूविनतयोः सूर्याश्वस्कन्धबालवर्ण- विवादे मिथो दास्यपणकेऽतिदुष्टबुद्धिः कः प्रेषितनागकृताच्छा- दनेन बालश्यामतया स्वजयं साधितवतीति प्राप्तदास्यकविनतायाः किंचित्कालोत्तरं किं ममाजन्म दास्यमुत कथमपि मुक्तिर्भविष्यति' इति प्रश्नस्योत्तरमिदं कद्वा:-'अमृतमानीय दीयते चेत्तव दास्यान्मु. क्तिः। तच यद्यपि तवासाध्यं तथापि पुत्रद्वारा करणीयम्'इति । तत्सं- विधानं कुर्वित्यर्थः । स्पष्टं चेदमादिपर्वणि । ननु तदर्थत्वे ममैवेति कुतो भ्रमो ऽत आह *तति । उक्तवाक्ये इत्यर्थः । गम्यते इत्यत्रा- न्वयः । *प्रत्युपकारेति । अमृतानयनरूपमित्यर्थः । प्राग्वदाह *त- त्रापीति । उक्तं प्रकारमन्यत्रातिदिशति *एवंमिति । अन्तर्भावि. तण्यर्थत्वम् । प्रकरणादिकं च तात्पर्यग्राहकम् । कदाचित्परस्मैपदे- ऽपि प्रतीत्या तस्यावश्यकत्वमत एव चिनोतीत्यप्युक्तामेति तत्त्व. म् । सिद्धान्ते-क्रियाविषयभेदेनेत्यायुक्ते। धर्मभेदो ऽवर्तने हेतुः। हेलाराजमाह *स्वामीति । तत्र-उक्तवाक्ये । उत्तरार्धार्थमाह *भिन्नत्वादिति । हेत्वयुक्तत्वे ऽपि पूर्वपक्षोऽयुक्त एवेत्याह *अ- नेकार्थत्वादिति । हेत्वन्तरमाह *एकत्रेति । *क्रियागतविशेषणम्- उक्तरूपम् । *क्रियामाने-तत्सामान्ये । वस्तुत आह *स्वामिनइत्या- दि । उक्तरीत्यैवाह *पूर्वेति । एवमग्रे ऽपि । अभ्युपेत्याह *कि- ञ्चैवमिति । कोचिन्मतमाह *अत्रेति । उक्तवाक्ये इत्यर्थः । अत्र दोषमाह *एवमपीति । प्रकारान्तरेण तदुपपादने ऽपीत्य- र्थः । उकरीत्यैवाह *पूर्वेति । लक्षणाबीजमाह *सांनिध्यादिति । यथाश्रुते ऽनुपपत्तेराह *इतरेति । वैपरीत्यशङ्कां निराचष्टे *दासेति । एतेन तथा कैयटादिसकलग्रन्थकारोक्तमपास्तम् । अधिकमुद्योते स्पष्टं तदाह *इत्यल मिति । लिङाद्यर्थ निरूपयि. तुं तद्घटितवाक्ये क्वचित् परमतं दूषयितुं कभिप्रेतक्रियाफले आत्मनेपदमुपपादयति *अग्नीनिति । अपिना तत्समुञ्चयः । नन्वेवं कदाचित्परस्मैपदमपि स्यादत आह *आहेति । एवेन तस्य तत्वव्यवच्छेदः । *स्पष्टश्चेदमिति । तत्र हि "अतयोः पूलयोः इति दृष्टान्तेनैकग्रहणं प्रत्याख्याय शङ्कितम्-"शास्त्राधिकारिणः पु. रुषान् प्रति प्रवृत्तं संस्कारकं तत्तच्छालं प्रतिपुरुषमेकवाक्यतया सकृदेवार्थबोधकं यथा “आधानेनाग्नीन संस्कुर्याद" इत्यर्थक "व- तिर्थनिरूपणम् । ९४५ सन्ते ब्राह्मणोऽग्नीनादधीत"इति वाक्यं प्रतिव्राह्मणं सकृदेवार्थबोधक सकदेव स्वविषये प्रवर्तकं च।अत एव पुनः पुनर्नाधानादिसंस्कारः" इत्यादिना । *एतेन-अतिरिक्तफलस्य कर्तृगतस्योक्तत्वेन । * कर्बर्थ- त्वमेव-कर्तृसमीहितत्वमेव । एतेन नहि कर्तृसमवेतता कर्चभिप्रा- यता आधानजन्या, आहवनीयत्वादिफलस्याग्निसमवेतत्वेनात्रात्म- नेपदाभावप्रसङ्गात् , किन्तु कर्तृसमीहितत्वम् । तथा च जातेष्ट्या पुत्रगतपूतत्वादिजनने ऽपि अग्निसाध्यकर्मजन्यफलस्यात्मीयतायो- धकाधानवाक्यगतात्मनेपदवनापि तदविरोधः । पितृगतफल- स्यापि कर्तृसमीहितत्वादित्यन्यमीमांसकोक्तमप्यपास्तम् ॥ २६ ॥ "अष्टवर्षे ब्राह्मणसुजनधीत तमध्यापयीत"इति- श्रुतिवाक्यं पञ्चपादिकाविवरणे धृतम् । तादृशं ब्रा- ह्मणभुपगत पनयनेन संरकुर्यात्संस्कृतं चाध्यापये- दिति तदर्थः । नानाविधेविकालव्यताकलापस्योपगमन- विधेः श्रवणानुपातमित्यस्य लामः। छान्दोग्यश्रुतौ जाबालस्य प्रालिद्धमेव गुरूपगमन- म् । तत्रोपनयन संस्कारो नित्यस्तदावे प्रात्यतादो- षश्रवणात्। वाजसनेथिनाजुपनयनं प्रऋभ्य "स्वाध्यायो ऽध्ये- तव्यः" इत्याद्यध्ययनविधेरूपनीतस्वाध्ययनम् । तद्- पि नित्यम् । “अश्रोत्रिया अननुवाश्या अनग्नयः शू- द्रसधर्माणः" इति तदभावे दोषश्रवणात् । तत्र- यद्धीतमाविज्ञातं निगदेनैव शव्यते । अनग्नाविव शुष्कैधोनतज्ज्वलति कर्हि चिद् ॥ इति- निन्दार्थवादशवणेन सार्थकाध्ययनमेव नित्यम् । निरर्थकाव्ययनं तु निषिद्धम् । निन्दार्थवादेन निषेधो- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । नयनात् । अधीतं शब्दतः। अविज्ञातमर्थतः। निग- देन पाठमात्रेण । अनग्नाविवेत्यादिना तस्य यज्ञाद्यनु- पयोगित्वेन निष्प्रयोजनत्वमुच्यते । अत एव भाष्यकृतोक्तम्-"अनर्थकं माऽधिगीष्महि इत्यध्येयं व्याकरणम्"इति । निरर्थकाध्ययनेपि कि- श्चित्फलसत्त्वे, दोषाभावे च "सार्थकमध्यगीष्महि" इत्येव वदेत् । “स्थाणुरयं भारहारः"इति निरुक्त भारपदेन पापभार इत्यन्यत्र निरूपितम् । श्रुतिरपि पतञ्जल्युक्ताऽऽह-"ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च" इति । निष्कारणो दृष्टकारणनिरपेक्षः। अनेन विशिष्टस्य नित्यतोक्का । व्यासोऽपि- मन्त्रार्थज्ञो जपं जप्त्वा तथैवाध्ययनं द्विजः। स्वर्गलोकमवाप्नोति नरकं तु विपर्यये ॥ इति । अत्र जपंजप्त्वा इति मन्त्रसाध्यकममात्रोपलक्षणम् । किञ्च स्वाध्यायपदस्य वक्ष्यमाणया "तेन प्रोक्तम्" इति सूत्रभाष्योक्तरीत्या वेदपदवत् शब्दार्थोभय- परतया "स्वाध्यायो ऽध्येतव्यः" इत्यस्योभयाध्ययन- विधायकत्वम् । दोषश्रवणमपि तविधिबोधिताध्य- यनाभावे इति उभयोरपि नित्यत्वं बोध्यम् । "निष्कारणो धर्मः" इति वाक्ये "ज्ञेयश्च" इति तु अध्ययनमात्रेण सर्वस्य ज्ञानासम्भवाज् ज्ञानपर्यन्त- मध्ययन कार्यमित्यर्थकम् । अविज्ञातमित्यत्रापि वि. शिष्टविज्ञानमेव विवक्षितम् । अत एव "समानमी- हमानानां समानं चाधीयानानां केचिदथैर्युज्यन्तेऽपरे तिनिरूपणम् । ९४७ न" इति भाष्ये उक्त भिति बोध्यम् । तत्र 'उपनधीत' इत्यत्राचार्यकरणे बोत्ये "संमान- नोत्सञ्जनाचार्यकरगज्ञानवृशिविगणमध्ययेगु निय. इत्यनेनात्मनेपदं नतु "स्परिलचितः" इत्यनेन । उप- नयनफलस्याध्ययनस्य कनिष्ठत्वाभावाद । कर्तनि- ठफल कक्रियाया धात्वत्वाभावा । उपनयमफलं च "आचार्याधीनो बेदीय" इत्येतत्सहकृताध्ययन- विधेः संस्कृतस्थाध्ययनमेव । अन्तरङ्गत्वात् । आपस्तम्बो ऽपि-"उपनयनं विद्याऽथस्य श्रुतित: संस्कार" इति । न गुरोरध्यापनम् । पचौ सूदादीनां लाभवद्, बहिरङ्गत्वाच । किश्च यत्किञ्चिदुपनयनेनैव तत्सिद्धावतिदरिद्रा- शक्तोपनेयान्तरोपनयने ऽप्रवृत्त्यापत्तेः । जातोपन- यनस्य गुरौ मृते गुर्वन्तरेणोपनयनं विनाऽप्यध्ययन- दर्शनाच । आचार्यलक्षणं च "तदै द्वितीयं जन्म तद्यस्मात्स आचार्यः" इतिश्रुतावुक्तम् । उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥ इति- स्मृतौ चोक्तम् । नच "आचार्याधीनो वेदमधीष्व इत्येतत्सह- कृताध्ययनविधिनैवाध्यापनलाभे तद्विधिर्व्यर्थः । किश्च वृत्तित्वेनैवाध्यापनप्रवृत्त्युपपत्त्याऽयं विधि- यर्थ एवेति वाच्यम् । स्वसंस्कृतोद्देशेनाध्यापनस्य ९४८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । नित्यताबोधनार्थत्वात् । अध्ययनस्यापि नित्यत्वा- दुपनेतरि मृते ऽन्यगुरूपसदनजुपपन्नम् । अध्यापनस्य वृत्तिताश्रयणात्काम्यत्वमपीत्यन्यत् । नचाध्ययन विनाऽध्यापनासम्भबेनाध्यापन विधिनवाक्षेपादध्यय- नलाभे स विधियर्थ इति वाच्यम् । अग्निहोत्रा- दीनामप्यध्ययनं विनाऽसम्भवात्तद्विधीनामपि वि. द्याऽऽक्षेपकत्वेन शूद्राणामपि तत्राधिकारापत्तेः। सम- मेवोभाभ्यामप्याक्षेपात् । अध्ययनविधौ तु सति त. दोभयात्मागेव श्रुत्या तद्वोधने ऽधीतवेदत्रैवर्णिकानामे- वाधिकारो नान्यस्योति नियमप्रसिद्धेः फलत्वात् । अ- नुमितिसामग्यपेक्षया शान्दसामग्या बलवत्त्वस्य न्यायनये, लिङ्गापेक्षया श्रुतेबलवत्वस्य मीमांसकनये सत्त्वेन शब्दोपस्थितलिङ्गानुमितार्थानुवादकत्वस्य वेदेऽन्याय्यत्वात् । यत्त्वध्यापनेनाध्ययनाक्षेपे नित्यानित्यसंयोगविरो- धः । अध्यापनस्य काम्यत्वाद्, अध्ययनस्य नित्यत्वा. दिति । तन्न | तस्य दूषकताबीजानिरुक्तः। न्यायनये ऽनित्यशब्दानुमिताकाशस्य नित्यत्ववद्, अनित्या- ध्यापनानुमिताध्ययनस्याकरणे दोषश्रवणेन नित्यत्वे ऽपि बाधकाभावात् । उक्तरीत्याऽध्यापनस्यापि नित्यत्वाच । एतेन वृत्त्यर्थतयोपनयनाध्यापनयोः प्राप्त्या त- द्विधिवैया "अष्टवर्षों ब्राह्मण उपगच्छेत्सो ऽधी- यीत"इति चोक्तश्रुत्यर्थ इत्यपास्तम् । "न विधौ परः शब्दार्थः" इतिन्यायविरोधात् ।

तिर्थनिरूपणम्। ९४९ दरिद्राशक्तादेरुपनयनाथनापत्तेश्च । एतेन देवताया विग्रहवत्वे विग्रहस्यानित्यत्वेन नित्यशब्दवाच्यत्वे नित्यानित्यसंयोगविरोध इत्यपा- स्तम् । घटाकाशयोः संयोगस्य नित्यानित्ययोर्जन्यज. नकभावस्यैव प्रसिद्ध्याऽस्य दूषकताबीजाभावात् । स्वर्गकामादोर्वग्रहवत्त्वेनानित्यतया स्वर्गकामादिपद- वाच्यतानापत्तेश्च । अनित्यस्य पशोर्नित्यया "पशुना यजेत" इति श्रुत्या विध्यनापत्तेश्च । प्रवाहनित्यता तू भयत्रापि समा । जातिनित्यताऽपि समा। एतेनात्र संबन्धे शब्दार्थसंबन्धनित्यताहानिरि- त्यपास्तम् । नच ज्योतिष्टोमे राजन्यवैश्यनिमिसेन विहितफ- लचमसस्याभिषवादिसंस्काराः स्युः । मम तु न दोषः, अभिषवादिसंस्काराणां निमित्तलंयोगाभावान्नित्य- वदानातानां निमित्तसंयोगेन विहितफलचमसेना- नित्येन संबन्धायोगात् । किन्तु नित्यविहितसोमस्यैव संस्काराः । राजन्यवैश्यकर्तृके ऽपि यागे यजमानच- मसादेव सोमस्य निवृत्तिः,अन्यत्र तु स स्थित एवेति स नित्य इति वाच्यम् । तावताऽपि बीजानिरुक्त। किञ्च नित्यविध्युत्तरं नैमित्तिकविधिप्रवृत्तिरिति स्पृष्टं न्यायविदाम् । एवं च यत्काले नित्यसोमवि- धानं तत्काले एव तद्विशेषणतया स्वार्थविधानेन कृतार्थाः संस्कारविधयो न नैमित्तिकेन संबध्यन्ते। आवृत्तिप्रसङ्गात् ।

९५० : दीकाद्वोपेतायां लघुमञ्जूषायाम् । तथाच सिद्धान्तसूत्रम्-"नैमित्तिकमतुल्यत्वा- दसमानविधानं स्याद" इति । क्लबसविषये- ऽभिषवादिसंस्कारा न भवन्ति यतो नैमित्तिकमतु- ल्यत्वाद् नित्यधर्मसारूप्याभावाद्' लित्येन्यालमानवि- धानं स्याद्, अतस्तन्मन संस्कारा इति तदर्थः । अतो नेदं नित्यानित्यसंयोगविरोधस्य शुभदाहरणम् । स्पष्टं चेदं शास्त्रदीपिकादाथिति दिन्छ । "सर्वापेक्षाच यज्ञादिश्रुतेरवद"इति सूत्रे शा- ङ्करभाष्ये तु नित्यानित्यलंयोगशिरोधादित्यस्यार्थ ए. वमुक्तः-"नित्यकाम्यत्वयोः कर्मण एकेन संयोगेन विधिना विधाने विरोध" इति । काम्यत्वेन तस्यानाव- श्यकत्वं नित्यत्वे तस्यावश्यकत्वमित्यावश्यकत्वाना- वश्यकत्वे एकस्यैकेन विधिना बोधयितुमशक्ये वि. रोधादिति तद्ध्याख्यातारः । संघोगभेदे तु तयो- विरोधः। तुल्यबलश्रुतिद्वयेन पृथगेव विधिः संयोग- भेदः । यथा बैल्वो वा खादिरो वा पालाशो वेत्येका नित्यत्वबोधको विधिः, तस्यैव क्रत्वर्थस्य खादिरस्य "खादिरं वीर्यकामस्य" इत्यपरः काम्यत्वबोधको वि- धिरित्येकस्य खादिरत्वस्योभयार्थत्वमिति । नच सा रीतिः प्रकृते । एकस्योभयरूपत्वाभावात् । आक्षेपक- विध्यपेक्षया आक्षेप्यविधेभिन्नत्वाच । तदुक्तं जै- मिनिना-"एकस्य तूभयत्वे संयोगपृथकम्" इति । एकस्य नित्यनैमित्तिकत्वे नित्यकाम्यत्वे वा संयो. गपृथक्त्वं विधिभेदोऽनियामकः । यथा "खादिरे बध्नाति" "खादिरं वीर्यकामस्य"इति तद्व्याख्यातार तिर्थनिरूपणम् । ९५१ इति विभावनीयम् ॥ २७ ॥ (कुं० टी० )ननु "अष्टवर्षे ब्राह्मणमुपनयीत" इत्यात्मगा- मिफलाभावादात्मनेपदानापत्तिरित्याशङ्मा समाधातुमाह *अ- टवर्पमिति । *संस्कृतंचेति । एवंचोपनयनमध्ययनार्थम् । देवानां तु स्वयमेव वेदावभासान्नोपनयनम् । ननु "अधीत्य स्नायाद्" इति श्रुतौ अध्ययनानन्तर्यस्य स्नाने विधानात्कथमर्थज्ञानस्य नित्यत्वमत आह * यदधीतमविज्ञात- मिति । “अधीत्य"इति श्रुतिस्तु अध्ययनसमावर्तनयोः पौर्वापर्यमेवाह नानन्तर्यमिति भावः । *स्थाणुरयमिति । यथा स्थाणुः फलपुष्पादिरूपं भारं वहति नतु तस्य किश्चि- स्फलं लभते एवं निरर्थकाध्येताऽपीत्यर्थः । ननु अध्ययनस्थादृष्ट- फलकल्पनमन्यायमर्थज्ञानरूपस्य स्वैव प्रयोजनस्य सम्भवा- दत आह निष्कारणइति । विशिष्टत्म-अर्थज्ञानविशिष्टस्य । *वेदपदवदिति ! 'वेदं पठति'इत्यादौ अर्थविशिष्टशब्दपरत्वस्य 'वेदं जानाति'इत्यादावुभयपरत्वस्य च दर्शनाद् । अत एव शब्द- मात्रतात्पर्यकस्य तदनुकरणस्याशौचादावुचारणे न दोष इत्या- : । *अतएवेति । सार्थकाध्ययने एव हि तद्भाष्पसङ्गतिः । *आचार्यकरणे इति। तेन चामोपलेयत्वं नम्बते । * उपनयनफलं चेति । अध्ययनमित्यत्रान्वयः । तच्चाध्ययन संस्कृतस्यैव, "- चार्याधीनः" इत्यादिसडकृतैर्वचस्संस्कृतस्याव्ययनविधाना- दित्यर्थः । *अन्तरङ्गत्वादिति । अध्यापनं तु न फलम्, वहि- रङ्गत्वादिति भावः । उपनयनस्य अध्यापनार्थत्वे दोपान्तरमाह *किश्वेति । *आचार्यलक्षणमिति । आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन कथ्यते ।। इति- ९५२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पुराणेषु । *अध्यापनलाभेइति । अध्यापनं विनाऽध्यय. नासम्भवात् । ननु स्वसंस्कृतस्यैवाध्यापने गुर्वन्तरेणाध्यापनं न स्यादत आह *अध्ययनस्यापीति । *अग्निहोत्रादीनामिति । अ- मये हूयतेऽस्मिन्निति व्युत्पत्तेः। यद्यपि सायमेवाग्नये हूयते प्रातस्तु सूर्याय तथाऽपि उभयकालसाध्यस्य होमस्याग्निदेवत्यत्वमप्यस्ति। *तद्विधीनामपीति । ज्ञानं विना यागासम्भवाज्ज्ञानाक्षेपे तेनैवा- ध्ययनाक्षेपः स्यादिरार्थः। *अनुमितीति । समाने विपये शाब्द- वोधस्थैवोदयेनानुमितेरनुदयात् । *लिङ्गापेक्षयेति । लिङ्गं सा- मर्थ्यम् । तदाहुः-- सामर्थं सर्वभावानां लिङ्गमित्यभिधीयते । इति । यथा "वहिर्देवसदनं दामि"इत्यस्य लवनप्रकाशकतया लवनाङ्गत्वम् । एवंचाध्यापनेनाध्ययनाक्षेपे तदनुवादिका श्रु- तिरित्यर्थः । *नित्यानित्येति । अनित्येनाध्यापनेन नित्य- स्याध्ययनस्याक्षेपासम्भवात् । *सोधीयीतेति । तथाचोपनीत. संस्कार इति भावः । * नविौइति । अप्राप्तार्थत्वात् । *विरो- धादिति । आचार्यार्थतया श्रुतस्य शिष्यार्थत्वे लक्षणापत्तेः । *विग्रहस्य नित्यत्वेनेति । अनित्यस्य विग्रहस्य नित्येन शब्देन संबन्धे नित्यताहानिरित्यर्थः । शाङ्करभाष्ये तु देवताऽऽकृनेनि- त्यत्वान्न दोष इत्युक्तम् । ॐनचेति । राजन्यवैश्ययोः सोमयागे फलचमसः श्रुतः। न्यग्रोधमुकुलपिष्टं चम्यते स फलचमसः अत्र नैमित्तिकस्य निमित्तकाले ऽनुपस्थितत्वान्न तत्राभिपवादिसंस्का- सः । *नैमित्तिकमिति । नैमित्तिकस्य तत्काले ऽनुपस्थितत्वान नित्यसंस्काराणां नैमित्तिकसमानविधानत्वमित्यर्थः सर्वापेक्षा- चेति । विद्या सर्वाण्याश्रमकर्माण्यपेक्षते च । “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन"इत्यादिना यज्ञादिश्रवणात् ।

तिर्थनिरूपणम् । ९५३ उत्पन्ने तु तत्त्वज्ञाने न कर्मणोऽपेक्षेति चशब्दार्थः । * अश्ववदि- ति । यथाऽश्वो न लाङ्गलाकर्षणे युज्यते रथचर्यायां तु युज्यते एवमाश्रमकर्माण्यपीत्यर्थः । *खादिरेणेति । नित्यस्यापि खादिरयूपस्य वीर्यकामोद्देश्यत्वमपि । ननु कथमेकस्योभयार्थ- ता, अन्यथा “यावतो ऽश्वान्प्रतिगृह्णीयात् तावतश्चतुरो मुष्टीनिर्व- पेद्" इत्यस्य लौकिकाश्वदानपरत्वमसङ्गतं स्यादिति चेन्न । “खा. दिरो यूपो भवति""खादिरं वीर्यकामस्य" इति वाक्यरूपवलेनो. भयार्थत्वसिद्धेः। एतेन प्रत्यवायपरिहारार्थ फलार्थ चावृत्त्या नि- त्यस्यानुष्ठानापत्तिरित्यपास्तम् । सकृदनुष्ठानस्यैवोभयार्थत्वात् । "सूक्तवाकेन प्रस्तरं प्रहरति" इत्यत्रापि दर्शपूर्णमासवाक्यैकवा. क्यतया क्रत्वर्थत्वे तृतीयाश्रुत्या च करणत्वान्यथाऽनुपपत्या फलार्थित्वेन पुरुषार्थत्वम् ॥ २७ ॥ (क० टी०) नन्वेवमन्यत्राव्याप्तिरिति केषाश्चिदुक्तिखण्ड- नायाह *अष्टवर्षमिति । उपलभ्यमानश्रुतावनुपलम्भादाह-*प- ञ्चपादिकति । *तादृशम्-अष्टवर्षम् । स्वसमीपनयनमेवोपनयन- मिति ग्रन्थासाङ्गत्यायाह *उपनयनेनेति । नन्विदङ्तो लब्धमत आह *श्रवणादिति । *नानेति-कर्मधारयपूर्ववहुवीहिः । “स गुरुमेवाभिगच्छेद्” इत्यादेरित्यर्थः । *छान्दोग्येति । तत्र हि उपनिषदि चतुर्थप्रपाठके "सत्यकामो ह” इति चतुर्थखण्डे "स ह हारिद्रुमतं गोतममेत्योवाच ब्रह्मचर्य भगवति वत्स्याम्युपेयां भगवन्तमिति" इत्युक्तम् । *विधेरिति । उक्तत्वादिति शेषः । *तत्र- उपनयनाध्यापनयोमध्ये । ताण्डिब्राह्मणे उक्तत्वादाह *श्रवणादिति । नन्वेवमपि तयोर्हेतुहेतुमद्भावः कुतो ऽत आह *वाजसनेयिनामिति । एतेन शाखान्तरे तदभावः सूचितः । आदिना तदीयेतिकर्तव्यतापरि- ग्रहः। श्रुतिमाह *अश्रोत्रियाइति । *तत्र-अध्ययनविषये । * उन्नयना- दिति । "प्रतितिष्ठन्ति" इतिस्तुत्यर्थवादेन विध्युत्नयनवदू । उत्तरार्ध तात्पर्यमाह *अनग्नाविवेति । *अत एव-तस्याफलस्वानिविद्धत्वा- १२० .

९५४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । चैव । तदेव विशदयति *निरर्थकति । निरुक्तस्यापीदमेव तात्पर्य न तु निरर्थकतद्धारणरूपभार इत्यर्थ इत्याह *स्थाणुरि- ति । *अन्यत्र-उद्योतादौ । प्राग्वदाह * पतञ्जलीति । अदृष्टफल- सत्त्वादाह *दृष्टंति । कारणशब्दः फलपरः। *अनेन-निष्कार- णइति विशेषणेन । *पडङ्गः-शिक्षाद्यङ्गसहितः । *वेदः-खशाखा. रूपः । तस्य धर्मत्वं च पुरुषयत्नसाध्यतया धर्मत्वेनेष्टाध्ययनज्ञा- नकर्मत्वेनौपचारिकम् । व्यासो ऽपीति पाठः । * मन्त्रार्थज्ञ इति । वेदार्थज्ञ इति पाठान्तरम् । *तथैव-अर्थविशिष्टम् । अध्ययन- मित्यस्य कृत्वेति शेषः । कुर्वन् स्वर्गमिति पाठेन शेषपूरणम् । न्यूनतां निराचष्टे *अत्रेति । व्यासवाक्ये इत्यर्थः । मात्र कात्स्र्ने । एवं ता- वदन्यथा तस्य तत्त्वमुक्त्वा प्रत्यक्षश्रुतिलभ्यमपीदमित्याह *किञ्च- ति। *वक्ष्यमाणयेति । तद्धितप्रकरणे तत्सूत्रव्याख्यानावसरे इत्यर्थः । नन्यस्त्वेवं तथाऽपि नित्यत्वं पाठाध्ययनस्यैव नत्वर्थाध्ययनस्य तद- भावे एव दोषश्रवणादिति कथं विशिष्टस्य नित्यत्वमत आह *दोषे- ति । 'अश्रोत्रियाः' इत्यादिना प्रागुक्तमित्यर्थः । *तद्विधीति । "स्वा. ध्यायोऽध्येतव्यः" इति विधिबोधितोभयाध्ययनाभावे इत्यर्थः। नन्वे. वं भाष्योक्तश्रुतौ "ज्ञेयः" इति व्यर्थमत आह *निष्कारणइति । *स. वस्येति । कस्य चित्सामग्रीवैकल्यात्कस्य चित् तथा धारणशक्त्यभा. वादिति भावः । *ज्ञानेति । सम्यगर्थबोधेत्यर्थः । *इत्यर्थकम्-इत्य- थतात्पर्यकम् । एवं सति प्रागुक्तनिन्दार्थवादविरोधं परि- हरति *अविज्ञातमिति । प्रतियोगितयति शेषः । एवं च अयमेव तस्यार्थो न प्रागुक्तार्थ इति न तद्विरोध इति भावः । *अ. त एव-अध्ययनमात्रेण सर्वस्य ज्ञानाभावादेव । यदर्थमिदमुक्तं तदाह *तत्रेति । उभयोर्मध्ये इत्यर्थः । प्रागुक्तसिद्धान्तरीत्या तस्य नैव प्राप्तिरित्याह *कर्तृनिष्टेति । *क्रियायाः-संविधानरूपायाः । ननूक्तवाक्येनाध्यापनस्यैव तत्फलत्वस्य वोधनेन तस्य कर्तृनिष्ठत्वेन तत्त्वमस्तीत्यत आह *उपनयनेति । शीघ्रतरोपस्थितये आह *एत. सहकृतेति । एतेन "तमध्यापयीत"इतिवन्नाध्ययनस्य तन्मात्रादुप. स्थितिरिति कथं तस्य तत्त्वमित्यपास्तम् । तदाह *अन्तरङ्गत्वादिति। स्वनिष्टत्वादिति भावः । युक्त्या साधितेऽर्थे वचनमप्याह *आपस्त. म्बइति । धर्मसूत्रे प्रारम्भे इत्यर्थः । विद्याऽर्थः प्रयोजनं यस्य स वि. ।

तिर्थनिरूपणम् । ९५५ द्यार्थस्तस्यायं श्रुतिविहितः संस्कार उपनयनं नाम । विद्यार्थस्यति वचनान्मूकादेन भवति । तथा च शङ्खलिखितौ-'नोन्मत्तमूकान्संस्कु- याद'इतीति हरदत्तः । अत एवाह *नगुरोरिति । उपनयनफलमित्य- स्यानुषङ्गः । तत्र दृष्टान्तमाह *पचाविति । युक्त्यन्तरमाह *बहिरङ्ग- स्वादिति । अभ्युपेत्याच्याह किञ्चति । * तदिति । अध्यापनेत्यर्थः। द्रव्यलाभाभावमाह *अति दरिद्रेति । सेवालाभाभावमाह *अशक्ते- ति। *जातोपनयनेति । येषां चाचार्यकरणविधिप्रयुक्तमध्ययनं तेषामे- तन्न स्यात् । उपनीयाध्यापनेनाचार्यकं भावयेदिति सकृदुपनीतस्य न पुनरुपनयनसंस्कारः सम्भवतीति कथमन्यस्मादध्ययनमिति भावः। उक्तवक्ष्यमाणोपपत्तय आह *आचार्येति । *तत्-आचार्यपितृकं सा- वित्रीमातृकम् । याज्ञवल्क्यमाह *उपनीयेति । *सकल्पम्-ससूत्रम् । साङ्गोपाङ्गोपलक्षणमेतदू । *सरहस्यम्-सोपनिषत्कम् । ब्रह्मशेषत्वा- सर्वविद्यास्थानम् । केवलाध्ययनविधेः पुस्तकावलम्बनेनापि साफ- ल्यादाह *एतत्सहकृतेति । आक्षेपस्यापि नोपयोग इत्याह *किञ्चे- ति।*अयम्-"तमध्यापयीत" इति। तथैव लाभादाह स्वसंस्कृतस्ये. तितेन नातिप्रसङ्गः। नन्वेवं तस्मिन्मृते तल्लोपापत्तिरत आह *अध्य- यनस्यति । आदिनाअध्ययनस्यापीत्यापिना अध्यापनसमुच्चयःसद नमपीति द्वितीयेन तेनाध्ययनसमुच्चयः। सामान्यत आह *अध्यापन- स्येति । पूर्ववैपरीत्येन शङ्कते *नचेति । *ल:-"स्वाध्यायोऽध्येतव्यः" इति । प्रतिबन्दीमाह *अग्निहोत्रेति । अध्ययनाक्षेप उभयत्र तुल्य इत्याह *सममिति । नन्वेवं तदङ्गीकारे ऽपि तत्र तथा स्यादेवात आह *अध्ययनेति। *श्रुत्या-विधिना । तेषामेवाध्ययने उक्तरीत्या ऽधिकारादाह *त्रैवर्णिकेति । *अधिकार इति । अग्निहोत्रादिष्वि. त्यर्थः । ननु तदङ्गीकारे ऽपि तद्वत्तथाऽपि कुतो नेति कुतो नियमसि- द्धिरत आह *अनुमितीति । समाने विषये इत्यर्थः । आदिना वा- क्यादि। आनर्थक्यप्रतिहतत्वाभावे इत्यर्थः। *शब्दोपस्थितेति । श- दोपस्थितं यद् लिङ्गं तेन अनुमितार्थत्यर्थः । अर्थस्य विशेषणद्वयम् । *वेदे-'स्वाध्यायो ऽध्येतव्यः' इत्यत्र । मीमांसकाद्युक्ति खण्डयति *यत्त्विति । अनिरुक्तिमेवादावभ्युपेत्य विशदयति न्याय्येति । तत्र वीजं तादृशनित्यत्वाभावादाह * आकाशस्यति । वस्तुतस्तदेव नेत्याह *उक्तेति । स्वसंस्कृतोद्देशेनेत्याद्युक्तरीत्येत्यर्थः । तदेकदे- ९५६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । । शिमतं खण्डयति *एतेनेति । अस्यार्थमाह * नविधाविति । *परः-लक्ष्यः । ननु “सोमेन यजेत"इत्यादौ तत्रापि तदङ्गीकारादाह *दरिद्रेति । आदिना-कृपणादि । तदोपस्योदाहरणान्तरं तदुक्तमेव खण्डयति *एतेनेति । सगुणोपासकमतमिदम् । एतेनेत्यस्योक्तमेव सनिदर्शनमर्थमाह *घटेति । *नित्येति । खशब्दयोः, परमाणुयणु. कादेश्चत्यर्थः । नन्वेवमपि वाच्यवाचकभावो नात आह *स्वर्गेति । नित्यवैदिकेत्यादिः । सम्बन्धान्तरे ऽपि दोषमाह *अनित्यस्येति । विग्रहवत्त्वेनेति भावः । एतदुभयदोषान्यथापरिहारे तु तत्रापि न दोष इत्याह *प्रवाहेति । अद्वैतिमतेनेदम् । नैयायिकादिमतेनाह *जातीति । एतेन-उक्तद्विविधान्यतरनित्यत्वाङ्गीकारेण । *अत्र सम्बन्धे-विग्रहवत्यनित्येऽर्थे शब्दसम्बन्धे । तदोषावश्यकत्वाय श- ऋते *नचेति । *विहितेति । आपस्तम्बश्रौतसूत्रे सोमपञ्च- के चतुर्थप्रश्ने "ब्रह्मन्यज" इति द्वितीये संप्रेष्यतीति चतुर्विशतितमे खण्डे “यदि राजन्यं वैश्यं वा याजयेत्स यदि सोमं विभाक्षिषेन्य- प्रोधस्तिभिनीराहृत्य संपिप्य दधन्युन्मृज्य चमसेपु हूयमानेषु अन्तः परिध्यङ्गारं निर्वर्त्य एतस्य चमसस्य दर्भतरुणनोपहत्य"अहं त्वदस्मि मदसि त्वम्" इत्यङ्गारे हुत्वा तमस्मै भक्षं प्रयछेद्"इत्युक्तम् । स्तिभि- न्यः फलानि । “तद्यदैन सोम क्रीणीयात्तदैतानि फलानि क्रीणीयाद्" इति बढ्चश्रुतौ क्रयकाल आम्नानादाह *अभिषवेति । *संस्कारा इति । “सोममाभिषुणोति" इत्यादिना विहिता इत्यर्थः । *मम तु-तस्य दोषत्वाङ्गीकर्तुः । नित्यत्वगमकाभावादाह *निमित्तेति । अत एवाह *नित्यवदिति । निमित्तेति । राजन्यवैश्यरूपेत्यर्थः । अत एवाह *अ- नित्येनेति । नवेवं तत्रैव सोमाभावात् तस्यापि न नित्यत्वमत आह *राजन्येति । *अन्यत्र तु-ऋत्विक्चमसेषु तु । *स:-सोमः । *ता: वताऽपि-तदभावात्तत्र तदापत्तिसम्भावनयापि । ननु तद्वारणान्य- थाऽनुपपत्तिरेव तद्बीजमत आह *किञ्चेति । पूर्वपक्षत्वनिरासायाह *सिद्धान्तेति । उक्तपूर्वपक्षे जैमिनीयमित्यर्थः । अत एवाह *फ- लेति । विशेषमाह *यत इति । तात्पर्यमाह *अत इति । उपसंहरति *अत इति । उक्तरीत्या निवारणादित्यर्थः। *इदम्-फलचमसरूपम् । एतेन तथा वदन्तो ऽन्येपि परास्ताः । तदाह *इति दि. गिति । ननु तर्हि अयं प्रवादः किं निर्मूल एव, नेत्याह *सर्वा- .

तिङर्थनिरूपणम् । ९५७ पेक्षाचेति । ब्रह्मविद्यया स्वार्थसिद्धौ कर्मणामनपेक्षगेऽपि स्वोत्पत्तो सर्वेषामाश्रमकर्मणामपेक्षाऽस्त्येव ? । कुतः । यज्ञादिश्रुतेः । “तमे- तं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽ. नाशकेन" इत्येवं रूपायाः सर्वेषां कर्मणां ज्ञानसाधनत्वबोधिकायाः श्रुतेः सत्त्वात् । अश्वस्य लाङ्गलादावनपेक्षायामपि रथादौ यथाऽपेक्षा तद्वत् । यज्ञादीनां ज्ञानसंयोगस्यापूर्वत्वाद्विधिरत्र कल्प्यः। 'ब्रह्मानुभ- वकामो यज्ञादि कुर्याद्'इति सूत्रार्थ इत्येके । यथाऽश्वः श्रमाभावसम्पा. दनद्वारा ग्रामान्तरप्राप्तिसाधनमित्यन्ये । परेतु विद्यायाः स्वातन्त्राद् बाह्ययज्ञाधनपेक्षा आन्तरयज्ञाद्यपेक्षया च सर्वापेक्षा । 'आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहाद्'इति स्मृत्याऽऽत्मनि तत्समारोप. विधानात् । तत्फलं च स्वदेहस्थे ऽग्नौ तेस्तैरान्तरैरव साधनैरात्मा त्वेन सर्वदेवतायागः ॥ यथा "उषावा अश्वस्य मेध्यस्य शिरः" इत्य. श्वमेधोपासने संवत्सरे समारोपिताश्वोऽङ्गतयाऽपेक्ष्यते तथैव स्व- शरीरब्रह्मप्रणवादी समारोपितोऽन्युपवातमन्त्रादिर्यज्ञातयाऽपे. श्यते, बाह्याग्न्यादि नापेक्ष्यत इत्यर्थ इत्याहुः । कर्मणा सहेति शेषः । संयोगेनेत्यस्य व्याख्या *विधिनति । विरोध इतीतिपाठः । *इतिर्भाष्यसमाप्तौ । तयाख्यातृग्रन्थमाह *काम्यत्वेइति । एकेन विधिनेत्यस्य फलमाह *संयोगेति । अस्यार्थमाह *तु. त्येति । अनेन बाध्यबाधकभावादिनिरासः। पुरुषार्थत्वस्य व. क्ष्यमाणत्वादाह *क्रत्वथैति । विशेषमाह *खादिरेति। *नच-नहि । *प्रकृते-आध्यापनेनाध्ययनाक्षेपे । फलत्वेनोक्तार्थे संमतिमाह *तदुक्तमिति । यत्तु एकस्य कर्मणः उभयत्वे अनेकफलसम्बन्धे उभयसम्बन्धवोधकं यद्वाक्यं तस्य पृथक्त्वं भेदः स हेतुः। तत. श्च ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकानामपि “तमेतम्"इतिवच- नाज् शानार्थत्वमपीति सूत्रार्थ इति, तन्नेति सूचयन्नाह *एकस्यति । विनिगमनाविरहादाह *नित्येति । “खादिरं वीर्यकामस्य" इती. तीति पाठः ॥२७॥ लिङस्तु विध्यायोऽर्थाः, लोटश्च । “विधिनिमन्त्रः १ विरोध इत्यनन्तरं मूले इतिरेतत्कलानुरोधेन प्रक्षिप्तः।

९५८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । णाप्रन्त्रणाधीष्टसमश्नप्रार्थनेयु लिङ", "लोट्च"इति शास्त्रात् । तत्र विधिःप्रेरणा | यथा निकृष्टस्य भृत्यादेः स्वा- मिना स्वाभिलषिते प्रेरणम् ।इयमेवाज्ञा। अप्रवृत्तप्रयो- ज्यस्य तदभिलषिताज्ञातोपायप्रवर्तनोपदेशः । यथा "स्वर्गकामो यजेत" इत्यादि। यथा वा “अनेन पथा मा याहि"-इत्याप्तवचः । सोऽपि विधिरेव। निमन्त्रणम् नियोगकरणम् -आवश्यके श्राद्धभोजनादौ स्वा. भिलषिते प्रवर्तनम् । आमन्त्रणं स्वाभिलषिते काम- चारेण प्रवर्त्यप्रवर्तनम् । कामचारश्च प्रवर्यस्यैव । एषैव कामचारानुज्ञा । प्रवृत्तस्य प्रयोज्यस्य नि- वृत्तिप्रतिबन्धेन तद्धिते प्रवर्तिकोक्तिरनुज्ञा-'आ- रब्धं कुरु'इत्येवंरूपा । 'तथा कुरुष्व यथा हितम्' इत्युक्तिरप्यनुज्ञैव । एतत्सर्वोपलक्षणमामन्त्रणम् । अधीष्टः सत्कारपूर्वको व्यापारः । 'यथा माणवकम- ध्यापय इति । एषैवाभ्यर्थना । प्रार्थना तु स्वाभिल- षितवस्तुदानादिप्रवर्तिकोक्तिः । सर्वानुस्यूतं प्रवर्त- नासामान्य विध्यर्थः । तदतिरिक्तांशस्थ मानान्तरल- भ्यत्वात् । सूत्रे सप्रार्थनानां चतुर्णा ग्रहणं प्रपञ्चार्थमि- त्यग्रे निरूपयिष्यामः । "प्रैषातिसर्ग-"इतिसूत्रेण प्रेषेऽपि लिादयः । प्रेषो ज्ञातविषयप्रवर्तना। तत्र प्रवर्तना प्रवृत्त्यनुकूलो व्यापारः प्रवर्त. कनिष्ठो लिङादिघटितशब्दप्रयोगरूपः । प्रवर्तकत्वं च स्वातन्त्र्ये सति लिडााच्चारयितृत्वम् । राजप्रे.

तिर्थनिरूपणम् । ९५९ रितपदातेर्लिङााचारपितृत्वेऽपि प्रवर्तकत्वब्यवहार- वारणाय स्वातन्त्र्ये सतीति । 'पदातिप्रेरितोऽहं न कुर्वे किन्तु राजप्रेरितः' इति व्यवहारात् । पिशुन- प्रेरितराज्यपि स्वातन्त्र्यमस्त्येव । वेदे प्रवर्तना लिङ्घटितत्वरूपा, प्रवर्तकत्वं च श- ब्दनिष्टमेव । वक्ष्यमाणस्वरूपातोक्ता च तया प्रतिबन्धकामा- वविशिष्ट्या स्वे विषये इष्टाधनत्वाद्याक्षेपः, ततः प्रवृत्तिः। यद्यपि जीवन्मुक्तस्यतरं प्रति तत्प्रार्थनया ब्रह्मो- पदेशे प्रवृत्तौ नेष्टसाधनताज्ञानं प्रयोजकमिति व्य. भिचारान्न तदाक्षेपकत्वसंभवस्तथाऽपि "सर्व इमे स्व. भूत्यर्थ प्रवर्तन्ते" इति "हेतुमतिब"इतिमूत्र भाष्योत्या तदतिरिक्तप्रवृत्तौ तत्प्रयोज्यत्व नियमन तदाक्षेपः सु- लभः। 'आप्सोक्तया इत्युक्तेः शत्रुप्रयुक्ताद् विषं भुक्ष्व' इतिवाक्यान्न तदाक्षेपः, नापि प्रवृत्तिः। 'विषं भुङ्क्षव मा चास्य गृहे भुक्थाः' इत्याप्तोचारितात्तद्वारणाय प्रतिवन्धकाभावविशिष्टयेति । तत्रानिष्टसाधनत्वनि- श्वयप्रयुक्तद्वेषस्थ प्रतिबन्धकस्य सत्त्वान्न दोषः । तद्- गृहभोजनेऽत्यन्तानिष्ठसाधनत्वबोधने एव तत्तात्प. र्यात् । क्रुद्धेन सर्येण चोक्ताद् 'मृदं भुश्य' 'पायसं भुक्ष्व इति वाक्याबोधो भवत्येव । प्रवृत्तिस्तु न, दोषविशिष्टोक्तत्वेन तदाक्षेपकत्वाभावात् । दोषरहि- तस्यैवाप्तत्वात् । आप्तत्वं च भ्रमादिदोषराहित्ये सति तत्तक्रि- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । याविषये स्वेष्टप्रतिबन्धानिष्टोत्पत्त्युभयानुकूलयला. भाववत्त्वम् । अत एव वने ऽपहृतसर्वस्वानामपि दस्यूनां मार्गोपदेशे आप्तत्वं भवत्येव । आप्तशब्दव- त्वेनाप्तानामनुगमः । तदाक्षेपश्च क्वचित्सामान्यतः । बहुवित्तव्य. यायाससाध्ये तु विशिष्यैव । आक्षेपश्च पचे. त्यादिशब्दोपस्थितभाविपाकं पाकत्वेन पक्षीकृत्यो. क्तहेतुना बोध्यः । व्याप्तिग्रहश्च यागादिविषये उपदेशात् । प्रथमोपदेष्टुस्तु योगतस्तज्ज्ञानम् ॥ २८ ॥ (कुं० टी०) *अधीष्टइति । भाष्ये तु अधीष्टमिति पाठः। अध्येषणपर्याये अधीष्टशब्दे नपुंसके भावे क्तस्यैव न्याय्यत्वात् । *सर्वानुस्यूतमिति । सकलनिष्ठं प्रवर्तनात्वमेव वाच्यम्, निकृष्ट- स्वादि प्रकरणलभ्यमित्यर्थः । *प्रपश्चार्थमिति । प्रवर्तना- भेदवोधनार्थमित्यर्थः । *प्रयोगरूपइति । लोके लिङादिषयो. गद्वारा पुरुषः प्रवर्तकः, वेदे तु लिङादिरेव-लिङादिप्रयोग एव प्रवर्तकः । इयमेव शाब्दी भावनेति व्यवहियते । आर्थी भावना तु पुरुषप्रवृत्तिरूपा । *तदतिरिक्तेति । जीवन्मुक्तातिरिक्तेत्यर्थः । *तदाक्षेप इति । जीवन्मुक्तस्य करुणैव प्रवृत्तौ हेतुः । * नतदा- क्षेपः-नेष्टसाधनत्वाक्षेपः । *तद्वारणाय-प्रवृत्तिवारणाय । वि. षंभुङ्क्षवेति । अत्र चकार एकवाक्यतामूचकः । नचाख्यात- वाच्यक्रियायाः साक्षादन्वयः सम्भवति । एवं च विषभक्षणा- दप्येतद्गृहभोजनमनिष्टहेतुरतः सर्वथा माऽस्य गृहे भुक्था इति वाक्यार्थः । स्यादेतत् । इष्टसाधनत्वस्यैव विध्यर्थवे अ. निहोत्रादिचोदनाऽपि पुरुषप्रवर्तनात्मिका तदनुष्ठाने पुरुषार्थसि- तिर्थनिरूपणम् । द्धिमेवावगमयेत् । तावतैवच विधेरुपक्षीणत्वात् । अकरणस्य तु प्रत्यवायहेतुतां कथं वक्ति । नचार्थवादवाक्यबोधिताकरणजन्य- प्रत्यवायपरिहारार्थतासम्भवो ऽस्ति । अर्थवादवाक्यानामग्निहो- वादावभावात् । नच "विहितस्याननुष्ठानानरः पतनमृच्छति" इति स्मृतिमूलम् । अभावरूपस्य विहिताकरणस्य कार्यान्तरजनकत्वा- सम्भवात् । नचैवं भोजनाभावरूपलङ्घनेन कथं ज्वरशान्तिर्ज- न्यत इति वाच्यम् । यतस्तत्रापि न लङ्घनाज ज्वरशान्तिः किन्तु ज्वरनाशपतिबन्धके भोजनाभावे सति जठरानलपरिपाकजनि- ताद्धातुसाम्यादिति चेदत्रोच्यते । अग्निहोत्रादिविषयविकारा- फलासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः । * अपहृतेति । अपहृतं सर्वस्वं यैः ।। २८ ।। (कल्टी०) अथ लिङाद्यर्थमाह *लिङस्त्विति। *तत्र-तेषां मध्ये। *प्रेरणा-उतरूपा। तस्याःसामान्यत्वाद्विशेषमाह *यथेति । *इयम्- प्रेरणा । उपदेशमाह *अप्रवृत्तेति । अयं वैदिक एवेति भ्रमनिरासाया- ह यथावेति । अस्यान्तर्भावमाह *सोऽपीति । उपदेशोऽपीत्यर्थः । अभिलाषभेदेऽपि निकृष्टप्रेरणत्वसाम्यादिति भावः । निमन्त्रिते प्रत्या- ख्यातुरधर्मादाह *आवश्यकेइति । अन्वये सन्देहादाह *कामेति । *एव च-ताशप्रवर्तनैव च । केवलानुशायामाह *प्रवृत्तस्यति । अनुशाऽन्तरमाह *तथाकुरुम्वेति । अस्यान्तर्भावमाह *एतदिति एकदेशसाम्यादिति भावः । अधीष्टमिति पाठः। *व्यापार:-प्रेर- णरूपः । अत एवाह *एषैवेति । तुर्वैलक्षण्ये । प्रकृतानुपयोगात्सं- प्रश्नत्यागः । नन्वेवं नानाऽर्थतापत्तिरत आह *सर्वेति । हेतु- गर्भविशेषणमिदम् । नन्वेवं कथं भेदधीरत आह * तदतिरिक्तेति । *मानान्तरेति । पदान्तरसमाभिव्याहारादीत्यर्थः । कौमुदीभूषणा- दिग्रन्थार्थ विशदयन्नेव सर्वस्यानर्थक्यं परिहरति *सूत्रेइति । "विधि-"इति सूत्रे इत्यर्थः । चतुर्णामित्येवोके विधीत्यस्यैव त्यागः स्थान प्रार्थनायाः तेषामव्यवहितपाठात्, तशन, प्रवर्तनाबोधनाय त. स्यावश्यकत्वादत आह *सप्रार्थनानामिति। विधिभिन्नानामित्यर्थः ।

९६२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तथा च "विधिसम्प्रश्नयोर्लिङ्" इत्येव वाच्यमित्यर्थः । सप्रार्थनाः न्तानामिति त्वपाठो ऽत एव । संप्रश्नश्च सम्प्रधारणं विचार:-'तद्वा कर्तव्यमिदं वा" इत्येवंरूपः । *अग्रे-अनुपदमेव विध्यर्थनिरूपणाव- सरे। अतिसर्गस्यामन्त्रणरूपत्वादाह *प्रेषेऽपीति । अपिना प्राप्तकाल- परिग्रहः । लिङादय इत्यादिना कृत्यादयः । तत्स्वरूपमाह *ज्ञातेति । अज्ञातत्यपाठः। ननु का प्रवर्तना या लिङर्थो ऽत आह *तति । लिङादिविपये इत्यर्थः । *प्रवृत्तेति-तत्रेत्यादिः । ननु तत्र तत्त्वमिष्ट- मेवात आह *पदातीति । एवं सत्यव्याप्ति त्याह *पिशुनेति । तत्रापि तदिच्छायामेव प्रवृत्तिर्नान्यथेति भावः । नन्विदमुभयं न वेदे सम्भवतीत्यत आह *वेदेइति । ननु वोपयोगः प्रवर्त- नायाः, नच प्रवृत्ती, विधिसहस्त्रण बोधितेऽपि इष्टसाधनताज्ञानं वि- ना प्रवृत्त्यदर्शनात् । एवं च तस्यास्तत्त्वं निष्फलमत आह वक्ष्यमा णेति । इदमाप्तविशेषणम् । तस्यास्तूक्तत्वात् । यद्यपि तत्स्वरूपम- प्यधस्तादुक्तं तथाऽपि तन्नाष्टमित्येवमुक्तम् । इदमपि लौकिकवि- षयम, वेदे तु तत्त्वं निःसन्दिग्धमेवेति भावः । *तया-लिङर्थभूत- प्रवर्तनया । आदिना कृतिसाध्यत्वम् : इतर एव तत्पदार्थः । *तद- तिरिक्तेति । जीवन्मुक्तान्येत्यर्थः । तथा च तदन्यविषय एव स नि- यम इति भावः । *तत्र-तस्मिन्स्थले । नन्वेवं किमर्थ तत्प्रयोगो ऽत आह *तदिति । वक्ष्यमाणस्वरूपतिविशेषणफलमाह *क्रुद्धेनेति । यथासंख्यमन्वयः।अत एव चयुतः पाठो न वायुतः। ननु तथोक्ताव. पि तस्य यथार्थवक्तृत्वात् तत्त्वमेव अत आह *दोपैति । नन्वेवमव्या. सिरत आह *आप्तत्वञ्चति । आदिना प्रमादादयःप्रागुक्ताः। *अत एव. तत्तक्रियाविपये इति विशेषणादेव । नन्वेवमननुगमापत्तिरत आह *आप्तशब्देति । विशेषमाह *तदाक्षेपश्चेति । इष्टसाधनत्वादीत्यर्थः। *क्वचिदिति । गुर्वादिप्रवर्तनया प्रवृत्तिस्थले इत्यर्थः । 'किञ्चिदिष्टं ज्ञात्वा मां प्रवतयति'इति ज्ञात्वैव तत्र प्रवृत्तेरिति भावः । *सामान्य- तः-इष्टत्वेन । *विशिध्यैव-स्वर्गवादिनैव । तथा ज्ञानं विना तत्राप्र- वृत्तेः। नन्वाक्षेपस्यानुमानत्वेन कथमत्र तदुपपत्तिरत आह *आक्षेप- श्वेति । *पचेति । प्रवर्तकोञ्चारितेत्यादिः । तस्यापीदानीमसत्त्वादाह *भावीति । उपस्थितत्वात्सम्भवतीतिन्यायादाह *पाकत्वेनेति । *उक्तेति । प्रवर्तनविषयेत्यर्थः । नन्धमान्यत्र व्याप्तिग्रहसम्भवे ऽपि - तिङर्थनिरूपणम् । थागादौ न सम्भव इति कथं तत्र तदाक्षेपो ऽत आह *व्याप्तीति । शाब्दस्तत्र स इति भावः । नन्वेवमन्धपरम्परापत्तिरत आह *प्रथमेति । *तज्ज्ञानम्-व्याप्तिग्रहः ॥ २८ ॥ नच योगिसत्त्वे न मानम् । श्रुतेर्मानत्वात् । तदुक्तं हरिणा- ज्ञानमस्मद्विशिष्टानां सर्व सर्वेन्द्रियं विदुः । अभ्यासान्मणिरूपादिविशेषेष्विव तद्विदाम्॥इति अस्मद्विशिष्टानामीश्वरस्य योगसिद्धानां पतञ्ज- ल्यादीनां च ! ईश्वरसत्त्वेच त एव मुनयः प्रमाणम् । तत्र तेषां ज्ञानं सर्व सर्वेन्द्रियसाध्यम् । “घ्राणत: शब्दंशृण्वन्ति पृष्टतो रूपाणि पश्यन्ति" इत्यादिश्रुतेः । यथा रूपपरीक्षकाणामभ्यासातिशयान्मणिरूपातिश- यप्रकाशस्तबदू योगाभ्यासबलाद् योगिनाम् । ईश्व- रस्य स्वत एवेति नान्धपरंपरेति तदर्थः । शब्दं विना- ऽपि स्वीयप्रवृत्तिस्थले स्मृतपाकशब्दादुपस्थितभावि- पाके तगहः । 'यस्य जातस्य पचिव्यवहारविषयता स इष्टसाधनम्' इत्याद्याकारस्तद्रहः । एडमूकादेरपि जन्मान्तरानुभूतशब्दस्मरणं तन्मूलकं स्वीयमुच्चारणं च कल्प्यम् । बालकस्थाद्यस्तनपानप्रवृत्ती तज्ज्ञाननि- हाय तवाप्यस्यावश्यकत्वात् । “अहरहः" इत्या- दिसमभिव्याहृतनित्यनैमित्तिकविध्योरवश्यानुष्ठेय. त्वमपि प्रेरणया बोध्यते । तेन तदभावे प्रत्यवाय- सिद्धिः। "विश्वजिता यजेत"इत्यादौ स्वर्गातिरिक्तस्य सर्वेष्टस्थाभावात्प्रवर्तनया स्वर्गरूपेष्टसाधनत्वाक्षेपः । प्रेरणाच प्रवर्तकनिष्ठप्रवृत्त्यनुकूलो व्यापारः। तत्र ९६४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । लिआदिसमभिव्याहारे व्यापारान्तरस्याननुभवाल्लि. ङाद्यन्तशब्दरूप एव स इत्युक्तम् । तदति प्रेरणात्वं चाखण्डोपाधिः। तेन रूपेण तस्य लिङ्वाच्यता । शब्दरूपत्वाच सा शाब्दी भावनेत्युच्यते । शब्द- निष्ठेति व्यवहारो ऽपि प्रेरणात्वेन तस्यास्तवृत्ति- त्वेन । लोके पुरुषनिष्ठत्वं च तादृशशब्दप्रयोक्त- तयाऽवच्छेदकत्वेन । लिङ्गसङ्ख्याधनन्वयित्वाद्यापा- रपव्यवहार्याऽपि सा । प्रेरणात्वेन सविषया चेति बोध्यम् । यत्त्विष्टसाधनत्वमेव प्रवर्तना, तज्ज्ञानस्य प्रवृ. त्तिहेतुत्वात् । इष्टं च कचित्साक्षात् कचित् परम्पर- या। 'भवत्प्रेरणयाऽहमध्यापयामि न किश्चिन्ममेष्टम्' इति व्यवहारस्तु न मे साक्षात्किश्चिदिष्टम् इत्येवंपरः। इच्छाविषयत्वोपलक्षिततत्तत्फलसाधनत्वेन ज्ञानं प्र. वर्तकम् । तेनैव च रूपेण विधेः शक्तिः । बलवद- निष्टाननुबन्धित्वज्ञानं तु न प्रवर्तकं बहुतरदुःखस्थापि कुतश्चिदल्पत्वेनानुगतबलवत्त्वस्य दुर्वचत्वात् । म- धुविषसंपृक्तानभोजनादौ प्रवृत्तिस्तु न । तत्तद्विषयक- बलवद्वेषस्य स्वातन्त्र्येण प्रतिबन्धकत्वेनादोषात् । युक्तं चैतत् । सत्यपि बलवदनिष्टजनकत्वज्ञाने तत्र द्वेषाभावदशायामास्तिककामुकस्य रागान्धस्य परदारगमनादौ प्रवृत्तेः । द्वेषे सत्त्यप्रवृत्तेश्च । क्वचित्तु तजन्यफले उत्कटेच्छाविरहे तज्जन्यदुःखे वेषे छे. षविषयसाधनताज्ञानादुपाये द्वेषे उपायेच्छाभाषा- दप्रवृत्तिः । कचित्फलवेष एव तथा । अत्र तज- तिर्थनिरूपणम् । ९६५ न्यसुख उत्कटेच्छोत्तेजिका । तेन यत्रैव सुखापेक्षया. ऽनुत्कटानि दुःखानि यत्र वा क्रियाजन्यबहुसुखा- पेक्षया उत्कटदुःखान्यल्पानि तत्रापि तजन्यमुखे उत्कटरागात्प्रवृत्तिः। अत एवान्तरालिकश्रमे बलव- वेषवान् ज्योतिष्टोमादौ न प्रवर्तते । अन्यस्तु प्र- वर्तत एव । एतेन कृतिसाध्यताज्ञानं प्रवर्तकम् । कृतित्वं च निवृत्तिजीवनयोनियत्नव्यात्तो यत्नत्वव्याप्यो जाति- विशेष इत्यपास्तम् । कृत्यसाध्ये प्रवृत्त्यभावस्य तत इष्टाभावेन वृथाश्रमजनकतया द्वेषादुपपत्तेः चिकीर्षाया एवं कृति प्रति कारणत्वं तां च प्रति तत्करणमित्यदोषाच ॥ २९ ॥ (कुं० टी०) *अस्मदिति । पञ्चम्यन्तम् । अस्मदपे. क्षया विशिष्टानाम् । *सर्वज्ञानम्-सर्वेन्द्रियजन्यम् । ननु 'इदं मदिष्टसाधनम्'इति ज्ञानं न पर्वतकं भाविवस्तुस्थले तदसम्भवादित्याशमाह *यस्यजातस्येति । सामान्यल- क्षणानङ्गीकारेणेत्थमुक्तम् । एडो बधिरः। * प्रत्यवायसिद्धि- रिति । अत एव "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" इत्य- त्रापि प्रत्यवायाभाव एव फलम् । *स्वर्गातिरिक्तस्येति । वि- घिबलात्स्वर्ग एव फलं कल्प्यते इत्यर्थः । इष्टसाधने प्रवृत्त्या सर्वेष्टस्य स्वर्गस्य फलत्वादिति भावः । ननु भट्टमते अभिधा- रूपा शाब्दी भावना लिङादिनिष्ठा ऽस्तु स्वमते तु कथमयं व्यवहार इत्यत आह व्यवहारोऽपीति । प्रवर्तकतारूपप्रेर- णायाः शब्दनिष्ठन्वादित्यर्थः । * अवच्छेदकतयेति । चैत्रादि- टीकाद्वयोपेतायां लघुमञ्जूपायाम् । शरीरावच्छेदेन तत्पयोगाद् भट्टमते पराधीनपत्तौ प्रवर्तनाज्ञान हेतुः । अत एव राजाज्ञया पितुः शिरश्छेदादौ प्रवर्तते । अत्र तार्किकाः-अत्रापि स्वेष्टसाधनताज्ञानमेव प्रवर्तकम् । 'नहि प्रयोजनमनुद्दिश्य'इति न्यायादिति वदन्ति । तानिराकर्तु- माह * यविति । *इच्छाविपयत्वेति । इच्छाविषयो यत्फलं तत्साधनत्वेनेत्यर्थः । * विधेः-लिङादेः । मधुविपसंपृक्तानभो. जनादौ प्रवृत्त्यदर्शनादलवदनिष्टाननुवन्धीष्टसाधनत्वे सति कृ- तिसाध्यत्वं विध्यर्थः । साध्यत्वसाधनत्वयोश्च न विरोधः कालभेदेन तयोः सम्भवादित्याशङ्ख्याह नप्रवर्तकमिति । *वलववेपेति । तेन पाकादावान्तरालिकश्रमसत्त्वे ऽपि प्र. वृत्तिः। * आस्तिकेति । उत्कटरागेण नरकजनकत्वज्ञानतिरो- धानात् । प्रभाकरमतमाह *कृतिसाध्यताज्ञानमिति । अयम्भावः-प्रवृत्तिं प्रति चिकीर्षेव कारणम् । चिकीर्षा च कृतिसाध्यत्वप्रकारिका इच्छा। सा चेच्छा कृतिसाध्यताज्ञानादि- ति कृतिसाध्यताज्ञानमेव प्रवर्तकम् । अत एव दृष्टयादौन प्रवृत्तिः। इष्टसाधनताज्ञानं तु न प्रवर्तकम् , कृत्यसाध्ये ऽपि प्रवृत्यापतेः । नचैवं चैत्यवन्दनादावपि प्रवृत्त्यापत्तिरिति वाच्यम् । इष्ट- साधनत्वादिज्ञानसमानकालिकस्यैव कृतिसाध्यत्वज्ञानस्य प्र. वर्तकत्वात् । अत एव वलवदनिष्टानुवन्धित्वग्रहदशायामपि न प्रवृत्तिः । नन्वेवमिष्टसाधनत्वसमानाधिकरणकृतिसाध्यत्वज्ञा- नमेव प्रवर्तकमास्त्विति चेन्न । साध्यत्वसाधनत्वयोर्विरोधात् । साध्यत्वे हि असिद्धविषयत्वम् ,साधनत्वे च सिद्धविषयत्वमिति । *व्यावृत्त इति । तेन न तद्विषये प्रवृत्तिः। * यत्नत्वव्याप्य इति । प्रवृत्तित्वरूप इत्यर्थः । तेन जीवनयोनियनसाध्यप्राणपञ्चकसं. चारे न प्रवृत्तिः । *कृत्यसाध्यप्रवृत्त्यभावस्येति । द्वेषादुपपत्ते- तिर्थनिरूपणम् । ९६७ रित्यत्रान्वयः । द्वेषस्य प्रतिबन्धकत्वान प्रवृत्तिरिति भावः । अचिकीर्षायाएवेति । कृतिसाध्यताज्ञानं विना चिकीर्षाऽनुदयात् तदभावे च कृतेरनुदयात् कृतिसाध्यताज्ञानं न हेतुरन्यथासि- द्धतादित्यर्थः ॥ २९॥ (क० टी०) मूले एवाशङ्कते *नचेति । श्रुतिमभियुक्तोक्या दर्शयति *तदुक्तमिति । *विशिष्टानामित्यस्य पदस्य व्याख्या #ईश्वरोति । अन्यथासिद्धनिरासार्थमाह *योगेति । नन्वीश्वर- सत्त्व एव न मानमत आह *ईश्वरेति । *त एव-ताशपतञ्जल्या- दय एव । अथ वाक्यार्थमाह *तत्रेति । तयोर्मध्ये इत्यर्थः । तेषाम्- पतञ्जल्यादीनाम्। सर्वम्-सर्वप्रकारम् । सर्वेन्द्रियमिति बहुव्रीहिरि- त्याह सर्वेन्द्रियेति । उत्तरार्धार्थमाह *यथेति । तद्विदामित्यस्या- र्थः-*रूपेति । योग्यतया लक्ष्यार्थमाह *सातिशयेति । विशेष. पदार्थमाह *अतिशयेति । विषयसप्तमी । 'अभ्यासाद्'इत्यस्य मध्यमणिन्यायेन पूर्वत्राप्यन्वयादाह *योगति । ननु स्वत एव प्र- वृत्तौ नोक्तरातिसम्भवो ऽत आह *शब्दमिति । प्रवर्तकशब्द. मित्यर्थः । अत्र शब्दाभावात्तत्स्वरूपमाह *यस्येति । नन्विदं प्रकारद्वयं मूकबधिरादौ न सम्भवतीति तत्र कथमत आ. ह *एडमूकेति । अणुदित्सूत्रभाष्याविरोधायाह *तन्मूलकाम- ति । *स्वीयम्-स्वमात्रश्रव्यमान्तरम् । न केवलमत्रैवेदमि- त्याह *बालकस्यति । द्वितीयादावाद्यतः सम्भवादाह *आये- ति । तदिति । इष्टसाधनत्वेत्यर्थः । अन्यथा इष्टसाधनशक्ता- वपि विश्वजिदादौ स्वर्गरूपेष्टकल्पनम्, सन्ध्यावन्दनादौ चाकरणे प्रत्यवायकल्पनमित्यत्र तवापि नियामकं न स्यात् । तत्र हि परवेदे. नात्याप्तेनेष्टसाधनत्वोक्तौ वक्ष्यमाणरीत्या तत्कल्पनम् । नित्यादौ च तदनुपपत्त्यैतदकरणे प्रत्यवायकल्पनमिति । ननु काम्यस्थले तथा ऽस्तु, नित्यनैमित्तिकस्थले तु इष्टस्यैवाभावात्तत्र कथं प्रवृत्तिरत आह *अहरहरिति । आदिना यावजीवादि । अपिना का- चित्केष्टसाधनत्वसमुच्चयः । तम्चोक्तं प्राक् । *सिद्धिरिति । तथा च तदभावरूपेष्टमादाय तत्र प्रवृत्तिरिति भावः । नन्वेवमपि वि.

९६८ टीकाद्वयोपेतायां घुमञ्जूषायाम् । श्वजित्यप्रवृत्यापत्तिः, तस्य बहुवित्तव्ययायाससाध्यत्वेन विशिष्यै- ष तदाक्षेपापेक्षा । साच तद्वोधकपदाभावाद् दुर्लभा । सामान्यत- स्तदाक्षेपस्तु न तत्र प्रवर्तकः । तथात्वे ऽतिप्रसङ्गोऽपीत्यत आ. ह विश्वेति । “स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वाद"इति जैमिनीयन्यायेनाह *सर्वेष्टेति । विशेषं वक्तुमनुवदति *प्रेर- णेति । *तत्र तेषां मध्ये । *शब्देति । तत्प्रयोगेत्यर्थः । न- म्वेवं शक्यतावच्छेदकगौरवमत आह *तद्वतीति । समवाया. भावादाह *अखण्डोपेति । *तस्य-उक्तरूपव्यापारस्य । भा. वनात्वस्य वक्ष्यमाणत्वादाह *शब्देति । स्वार्थे प्रज्ञाद्यणिति भावः । नन्वेवं वेदे कथं तस्याः शब्दनिष्ठत्वमत आह *श. ब्देति । औपाधिकभेदमादाय तथेति भावः नन्वेवमपि शब्दस्याकाशनिष्ठत्वाद् लोके पुरुषनिष्ठत्वं कथमत आह *लो- के इति । सम्बन्धान्तरेणेति भावः । नन्वेवमपि तस्य कथं व्यापारत्वं तल्लक्षणानाकान्तत्वादत आह *लिङ्गेति । ततोऽपि विशेषमाह *प्रेरणात्वेनेति । भूषणकारादिमतं खण्डयति य- विति । *प्रवृत्तीति । तन्मात्रेत्यर्थः । तथा च तस्या एव वाच्य. स्वौचित्यम् । ननु तद्विना ऽपि क्वचित् तथैव प्रवृत्तिदर्शनात्कथं त- स्यैव तस्वमत आह *इष्टंचेति । कर्तुरिति शेषः । अत एवाविरोध- माह *भवदिति । तस्यैवान्यरूपेण ज्ञातस्याप्रवर्तकत्वादाह *इच्छे. ति | विषयत्वस्य विशेषणत्वे सर्वासंग्रहादाह उपलक्षितेति । अत एवाह गतेनैव चेति । नन्वेवं वक्ष्यमाणेऽनतिप्रसङ्गाय तज्ज्ञानस्यापि प्रवृत्त्यौपयिकत्वेन शक्यत्वापत्तिरत आह *वलवदिति । नन्वेवं मधुविषसंपृकान्नभोजनादौ प्रवृत्त्यापत्तिरत आह *मध्विति । ननु विनिगमनाविरहात् तथाऽपि स्यादत आह *युक्तंचैतदिति। नन्वि- छापेक्षयाऽनपकृष्टदुःखजनकत्वरूपबलवदनिष्टजनकत्वज्ञानमेव कुतो म प्रतिबन्धकमत आह *सत्यपीति । तस्यातत्वेऽन्यत्र दोषमुद्धर- ति-चित्त्विति । तथैवाह *क्वचिदिति । तथा-प्रतिबन्धकः। *अत्र-उक्तविषये । उभयफलान्तरमाह *अत एवेति । तस्या उत्ते- जकत्वात्तस्य प्रतिबन्धकत्वाच्चेत्यर्थः । ननु कारणतावच्छेदकको टिप्रविष्टं कृतित्वं जातिरूपमतिप्रसक्तमत आह *कृतित्वञ्चेति । *जीवनयोनीति । तेन तत्साध्यप्राणपञ्चकसंचारे न प्रवृत्तिः, प्राणा- तिर्थनिरूपणम्। ९६९ यामादौ योगिनां प्राणसंचारे च प्रवृत्तिर्भवत्येव । तस्य तादृश- कृतिसाध्यत्वात् । एतेनेत्यस्यार्थमाह *कृत्यसाध्यति । चन्द्रमण्डल- ग्रहणादावित्यर्थः । *ततः-प्रवृत्तितः । *चिकीर्षायाएवेति । त. स्यास्तदकारणत्वे तु कृतिसाध्यताज्ञानवतोऽपि सिद्धत्वादिज्ञान- दशायां तत्साध्यकप्रवृत्त्यापत्तिः, मम तु सिद्धे इच्छाविरहेण चिकी- र्षाऽनुदयान्न क्षतिरिति भावः ॥ २९ ॥ यत्त्वशक्तस्यापि यत्किञ्चित्कृतिसाध्ये ऽप्रवृत्त्या- पत्त्या मदंशविशिष्टं प्रवर्तकं वाच्यम् । तस्य च विधितोऽसम्भवेन 'यागो मत्कृतिसाध्यो मत्कृतिसा: ध्यत्वविरोधिधर्मानधिकरणत्वाद'इत्यनुमानेन तद्रहो वाच्यः । एवंचान्यलभ्यत्वान्नास्य विधिशक्यता। उपायेच्छां प्रति फलेच्छायाः समवायसंबन्धेन कारणतयाऽतिप्रसङ्गभङ्गेनेष्टसाधनताज्ञानस्य मदशा- न्तर्भावेण कारणत्वे न फलं नापि मानम् । फलेच्छो पायजिज्ञासोपायज्ञानानामिच्छास्थैर्येण योगपद्याङ्गी. कारात्फलेच्छायामुपायेच्छापूर्ववृत्तित्वस्य न क्षति- रिति । तन्न । सर्वत्राञ्जस्येन फलेच्छोपायजिज्ञासा- देयौंगपद्योपपादनासंभवेन फलेच्छाया उपायेच्छां प्रत्यकारणत्वात् । किंच प्रतिपुरुषं विधेरावृत्त्या बोधकत्वेन तत्तत्पु- रुषज्ञातेन विधिवाक्येन तसत्पुरुषेष्टसाधनत्वस्य तत्तत्पुरुषकृतिसाध्यत्वस्य च बोधसंभवाद् नानुमा- नावश्यकता । 'यजेत'इति कथैकेन तत्तत्पुरुष प्रति प्रवृत्तेन वाक्येन प्रत्यासत्या तत्तत्पुरुषरूपकर्तुरेव बोधनात् । साधनत्वं चाखण्डोपाधिः । "ज्योतिष्टोमेन १२२ ९७० टीकाद्वयोपेतायो लघुमञ्जूषायाम् । स्वर्गकामो यजेत"इत्यादौ देवतोद्देशेन द्रव्यत्यागरूप- स्य यज्यर्थफलस्य तदर्थकृत्यादिरूपभावनां प्रति करण. त्वम्, तस्यां चेष्टसाधनत्वान्वयः । एवं च भावना- निष्ठस्येष्टकरणत्वस्य लिङोक्तावपि भावनानिरूपित. स्थ भावनाभाव्यनिर्वर्तकत्वरूपस्य त्यागनिष्ठकरण- स्वस्थानुक्तत्वान्न तरसमानाधिकरणे ज्योतिष्टोमादि. पदे तृतीयाऽनुपपत्तिः । ज्योतिष्टोमादिनामधेयमपि त्यागस्यैव । त्यागघटितदीक्षणीयायुदवसानीयान्तक मकलापे तथाव्यवहारस्तु गौणः । तस्य स्वर्गकर- णस्वव्यवहारोऽपि तथैवेति बोध्यम् । "न कलनं भक्षयेदु"इत्यादावनिष्टसाधनत्वं वि- ध्यर्थः, अत्रैव नञ् तात्पर्य ग्राहक इति । तन्न । चिकीर्ष- या इष्टसाधनत्वस्याप्यन्यथासिद्धेः । 'अमुकफलसाध- नमिदं कृतिसाध्यं भवतु'इतीच्छाया एव चिकीर्षात्वा- त् । एवं हि प्रवृत्तौ फलविषयतानियमस्याप्युपपत्तिः । उपायेच्छयाऽपि तदन्यथासिद्धेश्च । सा च अमुकसाधनं पाको जायताम्' इत्याकारैव। इच्छायाः स्वजनकज्ञान- प्रकारप्रकारकत्वनियमात् । न च द्वारेण द्वारिणो ना. न्यथासिडिः। यस्य द्वारिणो मानान्तरेण तत्कारणता सिद्धा, यथा-यागपरश्वोः, तदन्यथाऽनुपपत्त्या च द्वा. रस्यापूर्वादेः कल्पनम् तद्विषये, तभावे ऽपि अ. न्यत्र तदभावे मानाभावात् । यषामपि चिकीर्षाव्यापारेच्छैच व्यापारे कृते. रपि निवेशात् कृतीच्छाऽपि सा । तेषामपि व्यापार- विषये इष्टसाधनत्वकृतिसाध्यत्वज्ञानोत्तरमेव सेति तिर्थनिरूपणम् । ते अन्यथासिडे एव । किंच 'इदं ते इष्टसाधनं कृतिसाध्यं च नाप्यत्र दुःखं तस्मात्त्वं कुरु इति स्वारसिकलोकव्यवहारस- स्वेन तस्य विध्यर्थता वक्तुमशक्या । पौनरुत्यापत्तेः । नचेदं पौनरुक्त्यं सर्वथा इष्टसाधनत्वषोधनाय, तस्मादित्यस्यानन्वयापत्तेः। अपि च 'राज्ञा प्रवर्तितोऽहम्' इत्यादिव्यवहा- रात्प्रवर्तना प्रवर्तकपुरुषनिष्ठा, सा लिशक्येति सूत्रभाष्यादिसंमतम् । नचेष्टसाधनत्वं च तहो. धो वा तनिष्ठः । तज्ज्ञापनस्य तनिष्ठत्वेऽपि न तदि- ष्टसाधनत्वेन, नापि तच्छक्यत्वेन तव संमतम् । त- ज्ज्ञानानुकूलव्यापारस्य मदुक्तातिरिक्तस्याभावाच । किंच इष्टसाधनताज्ञानादिव साध्येष्टकत्वज्ञा- नादपि प्रवृत्त्यनुभवेन विनिगमनाविरहेणोभयोः शक्यत्वे गौरवम् । साधनत्वमिव योगक्षेमसाधारणं साध्यत्वमप्यखण्डमिति न तत्पक्षेऽपि कारणताऽव- च्छेदकगौरवम् । एवं कृतिसाध्यत्वज्ञानादिव “मत्कृतिसाधनका पाकः" इति ज्ञानादपि चिकीर्षाप्रवृत्योर्दर्शनात्तच्छ. क्तावपि विनिगमनाविरह इति दिक् ॥ ३० ॥ (कुं० टी०) *यत्किञ्चित्कृतीति । अन्यदीयकृतिसाध्य प्रवृत्यनुदयादित्यर्थः । *मदंशेति । मदंशान्तर्भावणेत्यर्थः । *असम्भवेनेति । विधिना तथा अबोधनात् । *विधिशक्य.. तेति । विधिशब्देन प्रवर्तकः प्रसय उच्यते ।

९७२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ननु चैत्रीयफलेच्छावशान्मैत्रस्याप्युपायेच्छापत्तिरत आह *समवायसंबन्धेनेति । एकधर्मावच्छिन्नविशेष्यताकफलसा- धनताज्ञानादन्यधर्मप्रकारकेच्छावारणाय तु प्रकारविशेष नि. वेश्यैव कार्यकारणभावो वाच्यः । इष्टत्वं च इच्छावि- षयत्वम् । तच्च स्वरूपसदेव फलविशेपणं नतु तदंशे ज्ञानम- प्यपेक्षितस्, फलस्य सिद्धत्वेनेच्छाविरहेऽपि इष्टसाधनत्वज्ञान- सम्भवात्सिद्धौदनादावप्युपायेच्छापत्तेः । ननु स्वरूपसत एव हेतुत्वे यत्रौदनत्वादिप्रकारेण फलवि- पयिणी इच्छा तत्र द्रव्यत्वादिप्रकारेण फलसाधनताज्ञानादपि पाकादिगोचरेच्छापत्तिरिति चेद् । अत्राहुः-स्वसामानाधिक- रण्यस्वाव्यवहितोत्तरत्वोभयसंवन्धेनौदनत्वादिप्रकारकेच्छावि- शिष्टपाकादिगोचरेच्छां प्रति तादृशेच्छात्वेन हेतुत्वमिति । ननु फलेच्छा उपायजिज्ञासां प्रति कारणं सा चोपायज्ञान- जन्येति कार्याव्यवहितपाक्षणे कारणस्याभावात्कथं हेतुत्वमत आह *इच्छास्थैर्येणेति । यत्तु 'यागो मत्कृतिसाध्यः' इति ज्ञानं न प्रवर्तकम्, अनागते तस्य ज्ञातुमशक्यत्वात्, किन्तु यस्य पुंसो यत्कृतिसाध्यम् इष्टं तादृशो ऽहमिति प्रतिसन्धानं स प्रवर्तते इति । तन्न । स्वकल्पितलिप्यादौ तदसम्भवात् । *सर्वत्राञ्जस्ये- नेति । योग्यात्मविशेषगुणानां स्वोत्तरोत्पन्नविशेषगुणनाश्य- तया इच्छायाः स्थैर्यासम्भवात् । एवं कालान्तरेच्छामादाया- तिप्रसङ्गवारणाय संवन्धतावच्छेदकस्येच्छांशस्याव्यवहितमाक्- क्षणसत्वमेव कार्योत्पादप्रयोजकम् । तत्पुरुपीयत्वस्य ला. भो न्यायसिद्ध इसाह *किञ्चेति । *ज्ञातेनेति । येन पुरुषेण विधिवाक्यं ज्ञातं तस्येष्टसाधनवामित्यर्थः । ननु "विश्वजिता यजेत"इत्यादौ इष्टविशेषस्याश्रवणाद् .. यत्किश्चिदिष्ठसमाना .

तिङर्थनिरूपणम् । ९७३ च धिकरणाभावप्रतियोगितावच्छेदकमेव यागत्वम्, किञ्च गङ्गा- स्नानादितो ऽपि स्वर्गोत्पत्त्या गृहीतकारणत्वान्यथाऽनुपपत्या यागजन्यत्वावच्छेदकं स्वर्गनिष्ठं वैजात्यं कल्प्यते तस्य कथं प्रागुपस्थितिरित्याशयाह *साधनत्वं चेति । *भा. वनाभाव्येति । भावना शाब्दी भावना । तया निर्वा आर्थी भावना तया फलं निर्वत्यते । *यज्यर्थफलस्येति । त्यागानु- कूला भावना यज्यर्थः, त्यागः फलम् । तच्च भावनारूपव्यापार प्रति कारणं तत्समानाधिकरणत्वात् तृतीयेत्यर्थः । ननु त्यागा- नुकूलभावनाया यज्यर्थत्वे त्यागस्य यागत्वाभावात्कथं त- समानाधिकरणे तृतीयेत्याशङ्ग्याह *ज्योतिष्टोमादीति । "अ. वयुगृहपतिं दीक्षयित्वा''इत्यादिना बोधिता इष्टिीक्षणीया । उदवसानशब्दः समाप्तिवाची। अवभृथानन्तरमुदवसानीया क्रि- यते । अत एव कृते ऽवभृथे दीक्षाया निवृत्तत्वाद् "दीक्षितो न ददाति न जुहोति" इत्यादिनिषेधो निवर्त्तते । गौण- इति । अत एवं प्रमादादिनाऽङ्गान्तरलोपे प्रायश्चितम् । *फल- विषयतेति । फलस्य विषयत्वं चोदेश्यतया । एतेन “पाक- साध्यं मुखं जायताम्'इतीच्छायाम् एकधार्मिकेष्टसाधनताज्ञानस्य हेतुतायां व्यभिचारः' इत्यपास्तम् । *तदन्यथासिद्धेः-इष्टसा. धनताज्ञानस्थान्यथासिद्धः । *नियमादिति । एवञ्चच्छाया इष्टविषयकत्वेन कृतौ तद्विषयतानियमः सिद्धः, इच्छाकृत्योः समानविषयकत्वेनैव कार्यकारणभावादिति भावः । ननु द- ण्डादीनां विनाशे ऽपि तज्जन्यभ्रमणसंबन्धेन घटोत्पा- दाद्धटं प्रति दण्डस्य कारणत्वासम्भव इत्यतः स्वजन्य- भ्रमणसंबन्धेनैव दण्डस्य हेतुता वाच्या । अत एव व्यापा. रसम्बन्धावच्छिन्नं कारणत्वं करणत्वमिति वदन्ति । नच व्या- ९७४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पारस्यैव कारणत्वमस्तु, व्यापारशून्यकाले च व्यापाराभा. वेनैव फलानुत्पत्तरिति वाच्यम् । व्यापारशून्यकाले व्या- पारसंबन्धेन कारणाभावादेव फलानुत्पत्तिरित्यस्यापि वक्तु शक्यत्वात् । तस्माद्विनिगमनाविरहेणोभयं कारणम् , अन्धयव्य- तिरेकादिरूपयुक्तेस्तुल्यत्वादित्याशङ्कते *नचेति । *यस्ये- ति। क्षणिकयागस्य कालान्तरभाविस्वर्गजननायादृष्टाख्यो व्या. पारः कल्प्यते तत्र नान्यथासिद्धत्वमित्यर्थः । ननु क्लुप्तवाद्या. गध्वंस एवं व्यापारो ऽस्तु, उत्पाद्यफलध्वंसस्य प्रतिवन्धक- त्वाञ्च न स्वर्गादेरानन्त्यम् । अपूर्वस्वीकारे ऽपि तत्तदपूर्वनाश प्रति तत्तत्फलस्य हेतुत्वस्वीकारेण तुल्यत्वादिति चेत् । स- त्यम् । कर्मनाशाजलस्पर्शेन तस्य नाशः कल्प्यः । *परश्वोरिति। प्रहारादिद्वारैव छेदनं प्रति परशोहेतुत्वात् । तदभावे ऽपि- अन्यथासिद्धत्वाभावेऽपि। *मानाभावादिति । इह तु 'प्रवृत्ति प्रति इष्टसाधनताज्ञानं कारणम् इति न मानान्तरसिद्धमिति भावः । *येषामपीति । कुल उत्पत्त्यनुकूलव्यापारवाचितया तदु. तरसना व्यापारेच्छाया एव प्रतिपादनात् । *कृतेरपीति । कृतेरपि व्यापारविशेषत्वात् । *सा-चिकीर्षा । *ते इति । चिकीर्षया इष्टसाधनत्वकृतिसाध्यत्वे अन्यथासिद्धे इत्यर्थः । *पौनरुत्यापत्तेरिति । इष्टसाधनत्वमेव विध्यर्थ इति मते हि इष्टसाधनमितिशब्दस्य विधिशब्दः पर्यायः स्यात् । नच पर्यायवं युज्यते । "इदं ते इष्टसाधनं तस्मात् त्वं कुरु"इति सह प्रयोगादिति भावः । *तनिष्ठः-प्रवर्तकनिष्ठः। तस्मान्नेदं लि. अर्थ इति भावः । *तच्छक्यत्वेनेति । तज्ज्ञापनानुकूल. व्यापारस्यैव तदर्थत्वौचित्यात् । किश्चेष्टसाधनत्वज्ञाना• दिवेति । 'पाक ओदनसाधनम्' इति ज्ञानवत् 'पाकसाक्ष्य ओ- तिर्थनिरूपणम् । दनः' इति ज्ञानस्यापि प्रवर्तकतया इष्टर्मिकोपायसाध्यता- ज्ञानस्य हेतुत्वे विनिगमनाविरह इत्यर्थः । ननु प्रवृत्ति प्रति पाकत्वादिप्रकारविशेषमनन्तर्भाव्य धर्मितावच्छेदकता- प्रत्यासत्या इष्टसाधनताज्ञानस्य हेतुत्वे लाघवमेव विनि- गमकमिति वाच्यम् । 'पाकसाध्य ओदनः' इति ज्ञानस्यापि प्रकारविशेषमनन्तर्भाव्य फलविशेष्यतानिरूपितसाध्यत्वप्रका. रतानिरूपितप्रकारतावच्छेदकतासंबन्धेन कारणत्वसम्भवात् । अत्र वदन्ति-पाकत्वादिकमनन्तर्भाव्य 'पाकसाध्य ओदनः' इति ज्ञानस्य न तनिष्ठप्रत्यासच्या हेतुत्वसम्भवः । 'पाकसाध्यत्वा- भाववति पाकसाध्यत्वम्' इसाकारकापामाण्यज्ञानाभावस्य का- रणताऽवच्छेदकत्वानुरोधेन पाकत्वाद्यन्तर्भावस्यावश्यकत्वाद् इति । तदसत् । सदोषसामग्रीजन्यत्वग्रहे तज्ज्ञानस्याप्रमात्व. कल्पनात् । ननु कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधि- करणनिष्ठाभावप्रतियोगिताऽनवच्छेदकधर्मवत्त्वमेव कारणत्वम्, साध्यत्वं च तादृशधर्मावच्छिन्नसामानाधिकरण्यरूपाव्यवहितो- तरत्वरूपमिति साध्यत्वनिवेशे गौरवमत आह *साधनत्वमि- वेति । अयम्भावः-अनन्यथासिद्धनियतपूर्ववर्तित्वस्य का. रणत्वे अनन्यथासिद्धवांशे अन्यथासिद्धिनिरूपकं यत्तद्भि- नत्वस्यानुगन्तुमशक्यत्वेन दुर्जेयत्वं गौरवं च । तस्मात्कारणत्व. मतिरिक्तमेवेति । *योगक्षेमेति । यत्सत्त्वे यत्सत्वं यद- भावे यदभाव इत्येवं योगक्षेमसाधारणं साध्यत्वमित्यर्थः ॥३०॥ (क० टी०) नृसिंहाश्रमोक्तिमेतन्मतखण्डनपूर्वकतन्मतसम- थिकां खण्डयति *यत्विति । *यत्किञ्चिदिति । अन्येत्यर्थः । *विधित इति । तत्त्वादेव वेदेन बोधासम्भवेनेत्यर्थः । एवं च- अनुमानरूपलौकिकप्रमाणेन तद्हे च ।

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । * नन्वेवं मदिष्टसाधनताज्ञानमेव प्रवर्तकं वाच्यम् । अन्येष्टसाध. नेऽन्यस्याप्रवृत्तेः । एवंच कृतिलाध्यत्ववदिदमप्यशक्यं स्यादत आह *उपायेच्छामिति । ननु यत्रादौ फलेच्छा, तत उपायजिज्ञासा, तत उपायज्ञानम्, तत उपायेच्छा, ततः प्रवृत्तिस्तत्र फलेच्छाया नाशा- कथं कारणत्वमत आह *फलेच्छोपायेति । ज्ञानयोगपधानङ्गीकारे ऽपीत्यादिः । ज्ञानास्थैर्ये ऽपि प्रकृते उपयुक्तमाह *इच्छेति । तच्च धारारूपतया स्वतो वेत्यन्यत् । सिद्धान्तविरोध एव क्लेश इत्याह *आञ्जस्येनेति । तदुक्तवैषम्ये दोपमाह *किश्चेति । “एकः पूर्व-" इतिसूत्रभाष्योक्तमाह *प्रतिपुरुषमिति । ननु प्रत्ययेन कर्तृत्वेनैवोप. स्थितिरिति कथं विशेषधीरत आह *यजेनेतीति । *कत्रर्थकेन-तद्ध- टितेन। नन्वेवमपोष्टसाधनत्वं न शक्यम्,नापि जनकम्, साधनत्वस्य सखण्डोपाधिरूपत्वेनावच्छेदकगौरवादत आह *साधनत्वंञ्चेति । एतेनेष्टसाधनत्वकृतिसाध्यत्ववलबदनिष्टाननुवन्धित्वानि विशिष्टानि प्रत्येकं वा विधिशक्यानीति जीर्णनैयायिकोक्तम्, आख्यातसामा. न्यशक्यकृतेः साध्यत्वसंसर्गेण यागे ऽन्वयः, व्युत्पत्त्यन्तरकल्पनस्य शक्त्यन्तरकल्पनाऽपेक्षया लघुत्वादिति तन्नव्योक्तं चापास्तम्। नचेष्ट- साधनताज्ञानमपि न प्रवर्तकम् । अनिष्टसाधने उदासीने च "क- कर्म-" इतिन्यायेन द्वेषादप्रवृत्तेरिति वाच्यम् । आन्तरालिकश्रमे द्वे- षाभावदशायाम्, तदज्ञानदशायां वा प्रवृत्त्यापत्तेः । नच चिकीर्षायां सत्यामिष्टापत्तिरिति वाच्यम् । इष्टसाधनताज्ञानं विना तस्या एवाभा- धात् । तस्मात्तदेव शक्यम्।तञ्च विजातीयस्वर्गादिसाधनत्वेनैव । तेनैव रूपेण ज्ञानस्य प्रवर्तकत्वात्।न त्विष्टत्वेन । तस्य स्वरूपसत एव हेतु- त्वेन तज्ज्ञानानपेक्षणात् । बहुवित्तव्ययायाससाध्ये विशिष्य तज्ज्ञानं विना प्रवृत्त्यभावात् । सामान्यत 'इष्टसाधनम् इति ज्ञानस्येव सामा- न्यतः 'स्वर्गसाधनम्'इति ज्ञानस्याप्यप्रवर्तकत्वाच्च । तत्र शक्तिग्रह- सौकर्याय तदादाविव शक्यतावच्छेदकानामनुगमिकेच्छा । यथा- वुद्धिविषयतावच्छेदकघटत्वादिसति तदादिपदं शक्तमित्येवं तदादेः शक्तिग्रहः । बुद्धिविषयत्वमुपस्थितावुपलक्षणतया ऽनुगमकमात्रं न. तु तदंशे शक्तिः, एवमिहापि लिङदिरिच्छाविपयताऽवच्छेदकवि- जातीयवर्गत्वादिमत्साधनत्वे शक्त इत्येव शक्तिग्रहः । पदार्थोप- स्थितिरपि तदादौ प्रकरणादिमहिम्ना बुद्धिविषयतावच्छेदकघट- तिर्थनिरूपणम् । त्यादिनेवेहापि समभिव्याहतस्वर्गादिपदमहिम्ना विजातीयस्वर्गादि- साधनमित्येव नतु बुद्धीच्छयोः शाब्दबोधे प्रवेशनम् । तयोरनुगममा. त्रफलकत्वेऽपि शक्त्यविषयत्वात् । एवं च तत्र विशिष्येष्टतावच्छ. दकविजातीयस्वर्गत्वादिप्रकारेण शाब्दबोधोत्पत्त्या विधिवाक्यात्प्र. वर्तकज्ञाननिर्वाहः । एवं चेच्छाविषयतावच्छेदकत्वोपलक्षितविजा. तीयस्वर्गत्वादिविशिष्टसाधनत्वे विधेः शक्तिरिति फलितम् । नच स्वर्गस्य स्वर्गकामादिपदाल्लाभेन न तत्र शक्तिः । इतरविशेषणत्वे. नोपस्थितस्यान्यत्रान्वयायोगात्, विश्वजिदादौ तत्पदसमभिव्याहा- रस्याप्यभावाञ्चेति दिक् । तदेतदभिसन्धायैवोक्तं प्राग् *विषयत्वोप- ति । नन्विष्टसाधनत्वस्य शक्यत्वे ज्योतिष्टोमेनेत्यादौ तृतीया न स्यात् । करणानभिधाने एव तद्विधानात् । नच यज्यर्थगत. साधनत्वे ऽभिहिते ऽपि तद्विशेषज्योतिष्टोमादिप्रातिपदिकार्थग. तस्यानभिधानेन तृतीयेति माधवोक्तं युक्तम् । ज्योतिष्टोमपदार्थ- यज्यर्थयोरभेदात् । “अनभिहिते' इत्यस्यानभिहितसंख्याके इत्य- र्थवादिभिरपि कृत्साधारण्याय करणतत्सलयान्यतरानभिधाने इत्यर्थोऽवश्यं वाच्यः, अन्यथा 'पचति स्थाल्या' इत्यस्यापत्तरत आह *ज्योतीति । सर्वधातूनामंशद्वयं भावनापरपर्यायो व्यापारः, पाक. यागादिकञ्च तत्र धातूपात्तभावनां प्रति तदुपात्तयागस्य करणत्वं तदाह *देवतेति । अयश्चमानसः । तदर्थेति । यजिवा- च्येत्यर्थः । आदिना प्रक्षेपादि । प्राधान्यादाह *तस्यामि- ति । भावनानिष्टकरणत्वस्यति पाठः । ननु तदपि प्राधान्याद् भावनासमानाधिकरणमेवेत्यनुपपत्तिरेवात आह *ज्योतिष्टोमादी- ति । तत्त्वसाधकन्यायैस्तथैव लाभात् । एवेन तद्यवच्छेदः । नन्वेवं व्यवहारविरोधोऽत आह त्यागेति । *तस्य-कर्मकला- पस्य । *तथैव-गौण एव । नन्वत्र मते "न कलञ्जम्" इत्यादौ का गतिस्तद्भक्षणादेस्तृप्त्यादिरूपेष्टजनकत्वेन तदभावस्य दुर्बोधत्वात् । नचेष्टसाधनत्वाभाव एव बुध्यते । तदुपपत्तये च तद्भक्षणस्य गुरुत- रानिष्टसाधनत्वं कल्प्यते तत्प्रतिसन्धाने च सांदृष्टिक फलादि- च्छानिवृत्तौ तस्येप्टत्वमेव नेति न दोष इति वाच्यम् । रागान्धास्ति. ककामुकस्य सत्यप्यनिष्टसाधनत्वज्ञाने इच्छाया अनिवृत्तेस्तं प्रती- साधनत्वाभावबोधकनिषेधवाक्यस्याप्रामाण्यापत्तः । एतेन वलव- १२३ ९७८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । दनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावो धुध्यते । सर्वत्र वि. शिष्ट एव विध्यर्थः । सच प्रकृते विशेषणाभावात्मकः । नचैवमर्थ- धादवैयर्थ्यम् । निषेध्येषु तात्कालिकेष्टापेक्षया भाव्यनिष्टस्य गुरुत- रत्वबोधनस्य निन्दार्थवादफलस्य, यागादिषु तात्कालिकक्लेशापेक्ष- या भावीष्टस्य गुरुतरत्वबोधनरूपस्य स्तुत्यर्थवादफलस्य च तव विधिनैव लाभादिति वाच्यम् । तद्बोधनेऽपीष्टानिष्टयोः साम्येन तु. ल्यायव्ययत्वशङ्कावारणेन तत्साफल्यादित्यपास्तम् । अत आह *अनिष्टेति । नन्वेवं नमो धैयर्थ्यमत आह *अत्रैवेति । अनिष्ट- स्यापीश्वरेच्छाविषयत्वसम्भवेनेच्छाविषयत्वोपलक्षितदुःखत्वादिवि- शिष्टसाधनत्वेऽस्य शक्तिमहः सूपपादः आवश्यकत्वस्य प्रागुक्तत्वादाह *चिकीर्षेति । अपिना कृतिसाध्यत्वम् । न. नु चिकीर्षाया उपायविषयिण्याः फलाविषयकतया कथं सात- आह *अमुकेति । ननु स्वरसत उपायविषयैव सा नैवमत आ- ह *एवंहीति । अन्यथोक्तरीत्या तदनुपपत्तिरेव । अपिस्तत्समु. श्वये । तादृशतदनङ्गीकारे आह *उपायेच्छेति । अपिस्तत्समुख- ये । ननूक्तरीत्या दुर्घटमिदमत आह *साचेति । ननु पाकत्वेन पाकस्योपायता न तु तद्विशिष्टस्यात आह *इच्छायाइति । तथाचेच्छाया इष्टविषयकत्वेन कृतौ तद्विषयतानियमोपपत्तिः । इच्छाकृत्योः समानविषयकत्वेन कार्यकारणभावात् । समाधत्ते श्य- स्येति । नहि इष्टसाधनताज्ञानं प्रवृत्तिं प्रति कारणमित्यत्र तथोदासी- नं किञ्चिद् मानमस्ति । ईशोपायेच्छाऽनङ्गीकारे ऽप्याह *येषामपी- ति । मते इति शेषः । एवेनोक्तोभयनिरासः । मतान्तरसङ्घ- हायाह *व्यापारेति । *साध्यत्वेति । तयोर्ज्ञानोत्तरमेवेत्यर्थः । तन्मते दोषान्तरमाह किञ्चेदमिति । *तस्व-इष्टसाधनत्वस्य ।"द्वि- बंद्धम् इति न्यायेनाह *नचेदमिति । दोषान्तरं तवाह *अपिचेति । * सूत्रेति । इदमनुपदमेव स्फुटीभविष्यति । *नच-नहि । *तदिति । इष्टसाधनत्वेत्यर्थः । *तत्-तज्ज्ञापनम् । ननु भेदे ऽपि तदेवास्त्वत आह * नापीति । तथा तदनुक्केः । नन्वनुक्तावपि 'अप्रतिषिद्धम्' इति न्यायेनेष्टमिति चेत् तर्हि मन्मतसिद्धिरेवति तदसंमतौ हेत्वन्तरमाह *तदिति । इष्टसाधनत्वेत्यर्थः । दोषान्तरमाह किश्चेष्टेति । वि. निगमेति । यद्यपि साध्यत्वस्य साधनोत्तरवर्तित्वरूपस्य गुरुत तिनिरूपणम् । ९७९ तथा, तथाऽपि तस्य सार्वत्रिकत्वेनात्र तज्ज्ञानापेक्षत्वेन च त- स्याकिञ्चित्करत्वम्, अन्यथा गौरवमपि न तथेत्याह *साधन- त्वमिति । यत्र सति अग्रिमक्षणे यत्सत्त्वं यद्यतिरेके चासत्वमित्ये. वंरूपं हि साध्यत्वमित्याह *योगेति । अलब्धलाभो योगः लब्धस्य परिपालनं क्षेम । अत एव दुःखानुत्पादार्थिनः कर्मविपा. कादौ प्रवृत्तिः । उक्तदोषं मतान्तरे दूषितेऽतिदिशति *एव- मिति । दिगर्थस्त्वेतेनेत्यादिना प्रागुक्त एव ॥ ३० ॥ "न कल भक्षयेद्"इत्यादावारोपितं कलाभक्षणं प्रेरणाविषय इति वाच्यार्थः । तदभावः प्रेरणाविषय इति तु आर्थार्थः, न तु शाब्दः । नवादोक्तरीत्या वा. च्यवृत्त्या विभत्यान्वयाभावात् । तेन च प्रतियोगि- न्यनिष्टसाधनत्वं बोध्यते । 'यदभावत्वेन यद्भाव: प्रेरणाविषयतया बोध्यते तत्प्रतियोगी क्लसेष्टाधिका- निष्टसाधनम्' इति व्याप्तेः। तद्भक्षणे प्रायश्चितविधयश्च तत्र तथाकल्पने तात्पर्य ग्राहकाः। "तत्तु समन्वयाद"इति सूत्रे शाङ्करभाष्येऽपि "न ब्राह्मणं हन्यादु"इत्यादौ "स्वभावतो हन्त्यर्था- नुरागी नम् । एष एवच नञः स्वभावो यत्स्वसम्ब- न्धिनो ऽभावबोधनम् , निषेध्याभाववुद्धिश्च निषेध्य. विषयौदासीन्ये कारणम्" इति । औदासीन्यं निवृत्तिः । 'शरग्रहणादिरूपा या तद्धननोद्यमक्रिया तस्या उपरन्तव्यम्'इति वुद्ध्या या शस्त्रस्थापनादिक्रिया तदुपलक्षितवधप्रवृत्त्यभावस- मानाधिकरणः क्रियाविशेषो 'निवर्तते' इत्यादिपद- वाच्यो निवृत्तिः नच प्रवृत्त्यभाव एव निवृत्तिरस्तु । विनिगमना.

९८० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । विरहात् । तस्मादिदं पदार्थद्वयं परस्पराभावसमाना. धिकरणमिति प्रामाणिकाः । अनेन हि धात्वर्थाभावे लिङर्थप्रेरणाविषयतेति लभ्यते । "आवृत्तावप्यविरोधः" इति सूत्रेऽपि भाष्ये- "न सुरां पिबेदु"इति वाक्ये नञ्चति पदयसं- बन्धात्सुरापाननिषेध एव गम्यते नतु विध्यर्थप्रतिषे. धः" इत्युक्तम् । यत्तु मिश्रः-'निषेध्येऽनिष्टसाधनतावुद्धिरेव निषे- ध्याभावबुद्धिः इति व्याख्यातम् । तन्न । अक्षरास्वार- स्यात् । मम तु निषेध्याभावस्य प्रेरणाविषयत्वेन वुद्धिनिषेध्यविषयौदासीन्ये कारणमिति तदर्थः । किं च 'अनिष्टसाधनत्वम्'इत्यस्य यदीष्टसाधन- स्वाभाव इत्यर्थः,तदा कलाभक्षणादौ बाधा, यद्यनि- ष्टजनकत्वमर्थः, तदा नमो विध्यर्थानुरागण, विध्य. थैकदेशानुरागेण वा 'हन्त्यर्थानुरागी नञ् इति भा. प्यासङ्गतिः । एतेन तत्समभिव्याहारे प्रत्यवायाभावरूपेष्टसा- धनत्वं विध्यर्थस्तभावो ना बोध्यते । 'ज्वरितो न भुञ्जीत'इत्यादौ दुःखवृद्ध्यभावरूपेष्टसाधनत्वं विध्य- र्थः । एवं च निषेध्यकरणे ऽर्थात्प्रत्यवायदुःखवृद्धी इत्यपास्तम् ॥ ३१ ॥ ( कुं० टी०) *विभक्त्यर्थान्वयाभावादिति । विभक्त्यर्थेन नमर्थान्वयाभावादित्यर्थः । 'कलञ्जभक्षणाभावः प्रेरणाविषयः' तिर्थनिरूपणम् । इति नार्थः । 'प्रत्ययानां प्रकृत्यान्वित-'इतिन्यायेन धा- त्वर्थे भक्षणे एव प्रत्ययार्थप्रेरणाया अन्वयस्य न्याय्यत्वा- दिति भावः । एतेनैकदेशे धात्वर्थे कथं नमन्वय इत्यपा- स्तम् । *तेनचेति । कलञ्जभक्षणाभावस्य प्रेरणाविषयत्वेन चेयर्थः । *प्रतियोगिनि-भक्षणे । *वोध्यते-आक्षिप्यते । क्लुप्तेष्टाधिकेति । निषेधस्य प्राप्तिपूर्वकत्वाद्रागत इष्टसाधनत्व- ज्ञानमस्तीति सूचनायैव तत् । ननु “न ब्राह्मणं हन्यात्"इत्यादौ निवृत्तिः प्रतीयते, निवृत्तश्चाक्रियात्वादक्रियार्थस्योपदेशो ऽनर्थक इत्याशक्याह *नब्राह्मणमिति । ननु अहननं कुर्यादित्यर्थाविधि- रस्त्वित्याशङ्याह *स्वभावतइति । स्वभावतः शास्त्राइते रा. गेण प्राप्तो यो हन्त्यर्थो हननं तदनुरागी तत्संबन्धी न. बित्यर्थः । *स्वसंवन्धिनः-स्वप्रतियोगिनः । तस्माद्धन- नक्रियौदासीन्यमेवात्रार्थः । अभावबुद्धिश्च औदासीन्यकार- णम् । औदासीन्यंच तस्मानिवृत्तिः । अनेन हि स्वरसतो धा- त्वर्थाभावे लिङर्थान्वयो लभ्यते । नतु अभावबुद्धियदि औदासीन्यस्थापने कारणं तदा अभावबुद्धौ नष्टायामौदासी- न्यमपि निवर्तेत इत्यत आह *निवृत्तिरिति । तथा च दग्धे- न्धनानलबदुपशाम्यतीति भावः । *प्रवृत्त्यभावएवेति । एते- नाभावस्य क्रियारूपत्वाभावेन प्रवृत्त्यनुकूलव्यापाररूपप्रवर्त. नाविषयत्वासम्भव इति भावः । *इदमिति । प्रवृत्तिनिव- त्तिश्चेयर्थः । *धात्वर्थाभावे-वधाभावे । *आवृत्तावपीति । कल्पान्तरे ऽपि व्यवहारस्य तुल्यत्वान शब्दार्थसम्बन्धनित्य- ताविरोध इत्यर्थः । *नसुरामिति । विध्यर्थवादयोर्वाक्यैकवा- क्यत्वादवान्तरार्थबोधे हि "न सुराम्" इत्यादौ “सुरां पिवे" इत्यवान्तरार्थबोधो न भवतीत्यर्थः । *तदेति । नासौ श.

९८२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ब्दार्थ इति भावः । *एतेनेति ! “न कलशं भक्षयेद्"इत्यत्र इष्टसाधनत्वं कृतिसाध्यत्वं न विध्यर्थः तदभावस्याप्रतीतेः, किन्तु बलवदनिष्टाननुबन्धित्वमात्रम् अथवा प्रत्यवायाभाव एव तष्टमित्यर्थः ॥ ३१ ॥ (कल्टी) सिद्धान्ते "न कलञ्जम्"इत्यादी गतिमाह *न कलञ्ज. मिति । तत्र तावत्प्रागुक्तसिद्धान्तेनाह *आरोपितमिति। नन्ववं तदभावः प्रेरणाविषय इात सर्वेष्टबोधोच्छेदो ऽत आह *तदभाव. इति। कलञ्जभक्षणाभावइत्यर्थः। “प्रत्ययानाम्" इति न्यायेनाह *नञ् वादोक्तेति । * तेनच-आर्थतथाबोधेन च । तत्र वीजत्वेन सामान्य मुखव्याप्तिमाह *यदभावत्वेनेति । ननु तस्य प्रेरणाविषयतया इष्टसाधनत्वेनावश्यानुष्ठेयत्वेऽपि कथं तादृशव्याप्त्या तेन तत्र तरो- धनमतःसामान्यमुखव्याप्ती वीजमाह *तद्भक्षणे इति । *तत्रेति-त. प्रतियोगिन्यनिष्टसाधनत्वकल्पने इत्यर्थः । उक्तार्थेऽन्यसंमतिमाह *तत्विति । तुशब्दः पूर्वपक्षव्यावृत्यर्थः । तद् ब्रह्म साक्षादेदान्तप्र. तिपाद्यम्, कुतः, समन्वयात् साक्षादेवोक्ततात्पर्यवत्त्वादित्यर्थः । उपासनस्य मोक्षं प्रति हेतुत्वानभ्युपगमादुपास्तिविधिशेषत्वेन प्रतिपादने मानाभावादिति भावः । *भाष्येऽपीत्यस्योक्तमिति शेषः । *अनुरागी-सम्बन्धी । औदासीन्यं न प्रसिद्धमित्याह *निवृत्तिरिति । ननु तदभावरूपनिवृत्तेस्तत्सामन्यभावादेव सिया न तत्र पृथकारणापेक्षति तदसङ्गतिरत आह *शस्त्र- प्रहेति । प्राग्वदाह *तदुपेति । तत्सत्वे मानमाह *निवर्ते- ति । वाच्य इति पूर्वविशेषणम् । उक्ताशयेनैव शङ्कते *नचे. ति । इदम्-प्रवृत्तिनिवृत्त्याख्यम् । यदर्थमिदमुक्तं तदाह अनेन- हीति । स्वरसत इति भावः । अन्यसूत्रस्थतत्संमतिमप्याह *आवृत्ताविति । समाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात्स्मृ. तेश्धति सुत्रे ऽपीत्यर्थः । “प्रलयेन सर्वात्मना जगतो नाशः संस्का- रात्मना स्थितेरिति न वैलक्षण्यम् । “सूर्याचन्द्रमसौ" इति श्रुतेः । यथर्तुषु तु लिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ इति- स्मृतेश्चेत्यर्थः । *मित्रैः-चाचस्पतिमित्रैः । अत्र मते तत्सम- - तिङर्थनिरूपणम् । ९८३ । भिव्याहृतविधेस्तत्र लक्षणेति नासौ शब्दार्थ इति न दोषो ऽत आह *तदानइति । ननु तत्र तात्पर्यग्राहकत्वे ऽपि कथं त- दनुरागो ऽत आह *विध्यधैकेति । नत्र इष्टपदेन समासो न ल- भ्यते इति भावः । *एतेन-शाङ्करभाष्यविरोधेन । *बोध्यतेइति । साधनत्वं चात्र तत्सत्त्वे नियमतः प्रत्यवायाभावस्तदभावे निय- मतः प्रत्यवाय इत्यन्वयव्यतिरेकवत्त्वम् । एवं चार्थात्तद्भक्षणादौ प्र- त्यवायः सिध्यतीति न दोषः । तत्साधनत्वज्ञानाञ्च ततो निवर्त- ते । कलञ्जकवलग्रहणरूपायास्तद्भक्षणोद्यमक्रियाया उपरन्तव्यमि- ति बुवा कर्त्तव्यत्वेनानुसन्धीयमाना या तत्कवलस्थापनक्रिया तदु- पलक्षितभोजनप्रवृत्त्यभाव एव निवृत्तिव्यवहारविषय इति भावः । सर्वत्र नैवमित्याह *ज्वरितइति । उक्ताशयेनैवाह एवंचेति ॥३१॥ "यो ब्राह्मणायावगुरेत्तं शतेन यातयादू"इत्यादौ हेतुहेतुमतोर्लिङा 'यत्कर्तृको ब्राह्मणबधोद्यमस्तत्क- मिका तादृशवधोद्यमजन्या यमदूतकर्तृका शतयात- ना'इति बोधेन साध्यसाधनत्वग्रहे प्रवर्तकत्वेन निव. तकत्वेनैव वा वेदस्य प्रमाणत्वात् । तेन वधोद्यम- निवृत्तिपरत्वग्रहे तस्मान्नावगुरितव्यमिति विधिः कल्प्यते । अत एव भगवान्पाणिनिः "विधिनिमन्त्रण-"इति सूत्रे विधिपदार्थ तद्विशेषनिमन्त्रणादिभिर्विवृतवान्। निमन्त्रणं नाम श्राद्धादिभोजनानुकूलो व्यापारः प्रयोजकनिष्ठो, निमन्त्रयते इत्यादितस्तथा प्रतीते। नचेष्टसाधनत्वं तनिष्ठमित्युक्तम् । उक्तं च हरिणा- अस्ति प्रवर्तनारूपमनुरूपं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ।

९८४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । न्यायव्युत्पादनार्थे वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानं चतुर्णामादितः कृतम् ॥ इति। न्यायेत्यस्य प्रागुक्तन्यायेत्यर्थः । नन्वस्य लोक- व्युत्पत्यैव सिद्धिरतः प्रपश्चार्थमिति । चतुर्णामित्युः पलक्षणम्-प्रार्थनस्यापि । अत एव "हेतुमतिच"इति-सूत्रे भाष्ये "पृच्छतु मां भवान्"इत्यत्र "णिच् कस्मान्न भवति"इति, लिङादि. शब्दप्रयोगरूपस्य कर्तृप्रयोजकव्यापारस्य सत्त्वाद् इति प्रश्नः । उत्तरम् “अकर्तृत्वाद् इति । सक्रियप्रेरणायां णिचा निष्क्रियप्रेरणायांलोडादि।"तत्प्रयोजकः" इत्यत्र कर्तृपदेन व्यापाराविष्टः कर्ता गृह्यते इति भावः। "अ- थापिकथं चित्कर्ता स्यादेवमपि न दोषः। लोटोक्तत्वा- स्पेरणस्य णिज् न भविष्यति" इति । इष्टसाधनत्वस्य णिजर्थत्वाभावेन विध्यर्थत्वे तदसङ्गतिः स्पष्टव । यत्तु कैयटेन "प्रष्टा प्रयोज्यस्तस्य प्रेरकः प्र- योजको भवतीति तद्व्यापारे, णिचा सह लोटः पर्यायप्रसङ्गः" इति प्रश्नाशय उक्तः, स चिन्त्यः । पर्यायस्य "लोटोक्तत्वाद्" इत्यनेन वारणासम्भवात् । नापि पर्यायः प्राप्नोति । लोदप्रयोगरूपप्रेरणायास्तप्र. योगे ऽभावात। "विधिनिमन्त्रण-"इतिसूत्रे ऽपि भाष्ये "विधिः प्रेरणम्"इत्युक्तम् । वात्स्यायनोऽपि "विधिनियोगः" इत्याह । नियोगो नियोजनं नियोजयतीत्यादिप्रतिपाद्यं प्रवर्तकनिष्ठव्यापाररूपमेव । प्रेरणात्वं प्रेरणादि. तस्य तिर्थनिरूपणम् । ९८५ धात्वर्थतावच्छेदकतया सिद्धमेव । तस्य च लिङादि. वृत्तित्वमानं कल्प्यते इति न मे किश्चित् कल्प्यम् । एवंचेष्टसाधनत्वबोधे तस्यासाधुत्वं स्पष्टमेव । एतेन वक्तुः कर्तव्यत्वेनेच्छैच लिङर्थः। तथा चेष्ट- साधनत्वाद्यनुमानम् । तद्यथा स्वर्गकामस्थ याग इष्टसा. धनम्, कर्तव्यत्वेनाप्तोक्तलिङ्बोध्येच्छाविषयत्वात् । यथा मत्पित्रेष्यमाणं मम भोजनम् । विषभक्षणादेरपि कस्यचित्कृतिसाध्यतया तत्कर्तव्यत्वेनेश्वररूपाप्तेच्छा- विषयत्वेन तद्नुमापकत्ववारणाय लिङ्बोध्यति । वेदे आप्तस्तु ईश्वर एव । विधिरेव तावद्गर्भ इव कुमार्याः श्रुतेः पुंयोगे मानमित्याचार्योक्तमपास्तम्। वक्त्रिच्छा. या अपि इष्टसाधनत्ववदनुमेयत्वाच। “कः प्रयोज्यस्य प्रेरणार्थों यदभिप्रायेषु आसज्जन्ते" इति "हेतुमतिच" इति सूत्रस्थभाष्येणेच्छायां प्रेरणानुमेयत्वस्यैव लाभात्। किञ्च पच'इत्यादिप्रयोगाभावेतदिच्छांप्रकारान्त- रेणानुमाय पाककरणोत्तरं 'कस्य प्रेरणया त्वया पाक: कृतः' इति प्रश्ने 'नाहमनेन प्रेरितः किन्तु एतदिच्छां ज्ञात्वामयेदं कृतम्' इति व्यवहारात् । प्रेषितुरपि 'न मयाऽयं प्रेरितः किन्तु स्वचातुर्यणैव मदिच्छां ज्ञात्वा कृतवान्' इति व्यवहाराच्चेच्छाजन्यशब्दप्रयो- गादेरेव प्रवर्तनात्वं लभ्यते न विच्छायाः। किञ्च वेदे 'अधिकारी इदं कुर्याद्' इतीश्वरेच्छा- या अङ्गीकारे तदिच्छाया विसंवादिनीत्वापत्तेः । नचे- श्वरेच्छाया विसंवादिनीत्वं त्वदीयानामपि संमतम् । १२४ ९८६ टीकाद्वयोपेतार्या लघुमञ्जूषायाम् । -- अधिकारिणाऽपि ज्योतिष्टोमादेः कदाचिंदकरणात् । किञ्च वेदस्य सर्तकत्वे ईश्वरज्ञानप्रामाण्या- पेक्षया वेदप्रामाण्यापत्तौ स्वतःप्रामाण्यं तस्य भ. ज्येत । बुद्धवाक्येऽपि प्रामाण्यापत्तेश्च । ईश्वर- वचनत्वसाम्ये 'बुद्धवाक्यं न प्रमाणं वेदवाक्यं प्र. माणम्' इत्यत्र विनिगमनाविरहात् । श्वासप्रश्वासा- दिवदीश्वरकर्तृकत्वं तु वेदस्य न विवादविषयः । बौ- द्वाद्यागमास्तु नैवम्, बुद्धिपूर्वकयत्नेनैव बुद्धादिभिस्त- तुकरणादिति तच्छास्त्रे मत्स्यपुराणादिषु च प्रसिद्धम्। अत एव पस्पशायां भाष्ये सौत्रामण्यां सुराग्रह- निन्दाबोधकस्य- 'यदुदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्ग तत्किं क्रतुगतं नये' ॥ इति बुद्धश्लोकस्यापि भ्राजाख्यकात्यायनप्रणीतश्लो. कवत्प्रामाण्यमाशङ्ख्य "प्रमत्तगीत एष तत्रभवतः" इत्युक्त्या तस्याप्रामाण्यमुक्तम् । 'प्रमादेन चेदविषय. विप्रतिपक्याश्रयत्वेन गीतोऽतोऽप्रमाणामिति तद- र्थः । तत्रभगवतः पूज्यस्यापि तत्त्वं स्वस्मिन्नारोप्य दैत्यानाशाय सोक्तिर्न प्रमाणमिति तद्भावः। भ्राजा- ख्यश्लोकानां तु श्रुतिमूलकत्वात्प्रामाण्यम्' इति कै- यट इति दिक् । 'अपूर्व विधिशक्यम्'इत्ययुक्तमेव । लौकिकवाक्ये तदसम्भवात् । किञ्च नित्येषु विधिषु, निषेधविधिषु पण्डापूर्वकल्पने गौरवमिति दिक् ॥ ३२ ॥ १ कदाचित्करणादित्यपि पाठः ।

तिर्थनिरूपणम् । ९८७ लश्रवणात्पुरुषार्थमेवेति (कुं० टी०) *अवगुरेदिति । अवगोरणं ताडनाय दण्डो- धमनम् । यद्यपीदं प्रकरणाऋत्वङ्गं प्राप्तं तथाऽपि यातनारूपफ- प्रकरणाद् उत्कर्षः :। *नचेष्टसाधनत्व मिति । नचेष्टसाधनत्वं प्रयोजकनिष्ठं यतस्तन्न विध्यर्थ इत्यर्थः । णिच् कस्मान भवतीति प्रश्नस्य णिचा सह समुच्चयः कस्मा. न भवतीत्याशयं वर्णयति *लिडादिशब्दति । णिचो द्योत- कतापक्षे तत्माप्तिरिति भावः । ननु 'उक्तः करोति' 'प्रेषि. तः करोति' इत्यादाविव लोटोक्ते णिचः प्राप्तिरेव नास्तीति चेत् । सत्यम् । पचतु इत्यादिलोडन्तशब्दप्रयोगरूप एव प्रयो- जकव्यापारो णिजर्थः । स च न लोड्वाच्यः इति भिन्नार्थत्वात् समुच्चयः प्राप्नोति इति भावः । *सक्रियेति । यो हि कारं प्रयोजयति स एव हेतुसंज्ञः, प्रयोज्यस्य तु नि- पिारस्यात्र कर्तृत्वमेव विधीयते । यथा-'राजा भव यु- ध्यस्व'इति राजत्वम् । ननु देवदत्तं गमयिष्यतीत्यादाविव भावि कर्तृत्वमस्तीत्यतो भाष्यकार आह *अथापीति । *लोटो. क्तत्वादिति । तादृशशब्दप्रयोगस्यापि प्रेरणत्वेन लोवा- च्यत्वादिति भावः । *इष्टेति । इष्टसाधनत्वस्य विध्यर्थ- वे तदसङ्गतिः, तस्य णिजर्थत्वाभावात् । स हि प्रयोजकव्या. पार इति भावः । *प्रष्टेति । भावीति शेषः । *चा- रणासम्भवादिति । लोटोक्तत्वादित्यनेन पर्यायतायाः स- माधानासम्भवादिति भावः । दोषान्तरमाह *नापीति । पर्यायमाप्तिरपि नास्तीत्यर्थः । “लोट्पयोगेति। लोट्मयोगरूपैव हि प्रेरणा लोडाधर्थः । सा च तदप्रयोगे न भवतीत्यर्थः। *म- वर्चकनिष्ठेति । तथा च प्रवर्तकनिष्ठपेरणमेव लोडर्थः । णिजयस्त्वन्यकर्षकमपि प्रेरणमिति भेद इति भावः ९८८ टीकाद्वयोपेतायां लघुपञ्जूषायाम् । *एवंचेति । प्रेरणावोधे एव लिङः साधुत्वस्य भा. व्यादिसम्मततया इष्टसाधनत्ववोधे असाधुत्वमेवेत्यर्थः । * लोट्मयोगेति । लोट्प्रयोगरूपैव हि प्रेरणा लोडाद्यर्थः । सा च तदप्रयोगे न भवतीत्यर्थः । *वक्तुरिति । इष्ट- साधनत्वाद्यनुमापिकायाः प्रेरणाया अन्यथासिद्धत्वान लिङर्थ- त्वमिति भावः। तदुक्तमुदयनाचार्यैः- विधिर्वक्तुरभिप्रायः प्रवृत्त्यात्मा लिङादिभिः । अभिधेयो ऽनुमेया तु कर्तुरिष्टाभ्युपायता ।। इति । *वेदे आप्तस्त्विति । परमाप्तपणीतत्वेन वेदानां प्रामाण्या- दिति तार्किकाः । तथा च गोतमसूत्रम्-"मन्त्रायुर्वेदप्रामाण्यश्च तत्मामाण्यमाप्तमामाण्यात्"इति (न्या० सू० अ० २ आ०१ सू० ६७)। नित्यनिर्दोषत्वेन स्वत एव प्रामाण्यमिति तु मीमां- सकाः । तदाहुः- दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे वक्तुरभावाच दोषशङ्कव नास्त्यतः॥ इति । (श्लोकवार्तिके) *अपास्तमिति । लिङादिविषये णिजापादनपरभाष्य- विरोधात् । ननु यदि सर्व एव स्वभूत्यर्थं प्रवर्तन्ते तदा किं प्रयोज्यस्य प्रेरणया इत्याशङ्ग्य भाष्यकार आह *यदभिप्रा- येषु आसज्जन्तेइति । प्रयोजकस्याभिमायं ज्ञात्वा निर्वर्तयन्तीति प्रेरणायाः प्रयोजनमित्यर्थः । एवं च 'कः प्रयोज्यस्य प्रेरणार्थ: इत्यस्य प्रयोज्यप्रेरणायाः किं प्रयोजनमित्यर्थः । *स्वतः प्रामाण्यमिति । यद्यपि कार्यादौ संवादात्मामाण्यं त- थाऽपि स्वर्गादिफले ज्योतिष्टोमादौ संवादाभावे ऽपि मा. माण्याथै स्वतःप्रामाण्यमभ्युपेयते । *बुद्धति । तस्यापि तिर्थनिरूपणम् । ईश्वरावतारत्वात् । *श्वासेति । “अस्य महतो भूतस्य नि:- श्वसितमेतद्यदृग्वेदः" इत्यादिश्रुतेः। एतेन वेदान्तिमते ब्रह्मप- रतन्त्रो वेद इत्याशङ्का परास्ता । स्वसिततुल्यत्वेनापौरुषेयत्वे वाधकाभावात् । * अपूर्वमिति । एतच्च गुरुमतम् । तथाहि "स्वर्गकामो यजेत"इत्यादौ नेष्टसाधनत्वं विध्यर्थः । क्षणिकस्य यागस्य स्वर्गसाधनत्वासम्भवात् । अपूर्वस्य च पूर्व- मनुपस्थितत्वावंगसाधनापूर्वजनकत्वबोधो ऽसम्भवीति तस्मा- कार्यमेव विध्यर्थः । तच्चापूर्वे पर्यवस्यति। तथा च यागविषयक कार्यमिति बोधः । लौकिकवाक्यस्यापूर्वे तात्पर्याभावात् का- र्यत्वे लक्षणेति । गुरुमते अपूर्वस्य विध्यर्थवे दोषान्तरमाह *किंचेति । तस्माद्रात्रिसत्रन्यायेन नित्येष्वार्थवादिकं फलमपि, नित्यत्वादेव च न कामनाभावे प्रवृत्तिः । *पण्डेति । पण्डो नपुंसकम्, फलाजनकत्वात् ॥ ३२॥ (क० टी०) यथा कथंचिद्भासमानविध्यविषयताकवाक्ये गति. माह *योब्राह्मणायेति । योग्यतया आह *यमदूनेति । विनिगमना- विरहादाह *निवर्तकत्वेनेति । प्रकृते निष्टश्रवणादाह *तेनेति । अन्यथा प्रमाणत्वासम्भवेनेत्यर्थः । *अत एव-प्रेरणाया विध्यर्थ- त्वादेव । एवमग्रेऽपि । तदेवाह *निमन्त्रणमिति । तत्र तत्त्व हेतुमा- ह निमन्त्रयते इति । उक्तमेव व्यतिरेकमुखेन द्रढयति *नचेष्ट- साधनत्वमित्यादिना ग्रन्थेन । तत्रादौ शङ्कते *अस्तीति । समाधत्ते *न्यायेति । *प्रागुक्तति । तत्स्वरूपविवरणरूपेत्यर्थः । प्रवर्तनासं- प्रश्नयोलिङिति न्यासाभिप्रायेणाह * चतुर्णामिति । विध्यादीनामि. त्यायुक्तरिति भावः । *भाष्ये इत्यस्योक्तमिति शेषः। तस्य च द्विती- येत्यन्तेनान्वयः । सत्वादित्यस्य तत्प्राप्तिरिति शेषः । कैयटोक्तमुः (१) कामनाभावेकामनासत्वे एव प्रवृत्तिरिति नेत्यर्थः । (२) द्वितीयो य इतिशब्दः भवतिशब्दात्परः तदन्तेनेत्यर्थः ।

टीकाद्वेयोपतायां लघुमञ्जूपायाम् । । सरार्थमाह *सक्रियेति । स्वयं तदाशयमाह *तदिति । क. तृपदेन तत्परामर्शकतत्पदेन किञ्चिद्यवहिततदग्रिमभाष्यमाह *अ- थापीति । ताशकर्तुरपि यदि हेतुसंज्ञासूत्रे ग्रहणमिति भावः । अत एवेत्युक्तं विशदयति, *इष्टसाधनत्वस्योति । प्रयोजकन्यापार. स्वाभावेनेत्यर्थः । *तदसङ्गतिरिति । शङ्कासमाधानयोरसङ्गतिरि. त्यर्थः । अभ्युपेन्याह *पर्यायनि । वस्तुतस्तदविषय एवेत्या- ह *नापीति । एवं च शङ्कव तावदयुक्तेति भावः । संमत्यन्तरमाह *विधीति । परसंमतिमप्याह *वात्स्यायन इति । * एवेनान्यव्य. वच्छेदः । ननु क्लष्टसाधनत्वादितो ऽपूर्वप्रेरणात्वादिकल्पने गौर- वमत आह *प्रेरणात्वमिति । *एवं च-निरूपितप्रेरणाबोधे लि. ङादेः साधुत्वस्य सूत्रभाष्यादिसंमतत्वे च । उदयनाचार्यमतं खण्डयति *एतेनेति । उक्तसूत्रभाष्यादिविरोधेनेत्यर्थः । *लि- अर्थइति । लिङादीत्यर्थः । एवमग्रेऽपि । प्रेरणात्वेनेत्यादिः। तदुक्तम्- विधिर्वक्तुरभिप्रायः प्रवृत्त्यर्थो लिङादिभिः । अभिधेयो ऽनुमेया तु कर्तुरिष्टाभ्युपायता ।। इति । आदिः प्राग्वत् । “न कलअम्" इत्यादौ कलञ्जभक्षणमनिष्टसाधनं कर्तव्यत्वेनाप्तेनानिध्यमाणत्वात् । यथा मत्पित्रा कर्तव्यत्वेनानिध्य- माणं विषभक्षणं मदिष्टसाधनमिति बोध्यम् । कलञ्जम् 'तबूज' इति भाषया प्रसिद्धम् । कलशं तु विषदिग्धबाणहतमृगमांसमिति प्रा. च्याः । *तदिति । इष्टसाधनत्वादीत्यर्थः । ननु लोके तथा स- म्भवे ऽपि वेदस्य नित्यत्वेन तत्रासम्भवो ऽत आह *वेदेइति । दोषान्तरमाह *वत्रिच्छेति । अत्र भाष्यसंमतिमाह *कइति । प्रागुक्तत्वादाह । *हेतुमतीति । ननु तत्र दोषान्तरमाह *किश्चेति । तत्र तावत्प्रयोज्यव्यवहारमाह *नाहमिति । प्रयोजकव्यवहारमाह *प्रेरयितुरपीति । दोषान्तरमाह *किञ्चति । इष्टापत्तावाह *नचेति । नहीत्यर्थः।*विसंवादिनीत्वमिति । विसंवादित्वे हेतुमाह *अधीति । दोषान्तरमाह *किञ्चेति । तत्र तदापत्तौ हेतुमाह *ईश्वरेति । ननु घेदान्तिमते वेदस्य ब्रह्मपरत्वेन पौरुषेयत्वमेवात आह *श्वा- सेति । तावताऽप्यपौरुषेयत्वाक्षतेः । नन्वेवमुक्तातिप्रसङ्ग पवात तिर्थनिरूपणम् । ९९१ आह * बौद्धति । अत एव-उक्तवैलक्षण्यादेव । उक्तमित्यत्रान्वयः। तत्तात्पर्यमाह *सौत्रति । उदुम्बरं ताम्रम् । ननु कर्तृत्तान्तप्रमत्त. शब्दस्य गीतशब्देन समासो ऽनुपपन्नस्तत्रभवत इत्यनेन सा. काङ्गत्वादतः कैयटमाह *प्रमत्तेति । भावे क्तः । तत्रेत्यस्यार्थी *वेदेति । ननु तत्र न स्वाभाविकः सोऽत आह तत्त्वमिति । यस्त्वप्रमादेन गीतो यस्य कस्यापि तत् प्रमाणमिति ध्वनयन्नाह *भ्राजेति । *एकः शब्दइति । श्रुतीत्यर्थः । एतेन यजेतेत्यादिशब्द. प्रयोगरूपा प्रेरणा वदे ईश्वरनिष्ठेत्यपास्तम् । तदाह *इतिदिगिति । मीमांसकादिमतं खण्डयति *अपूर्वामात । अपूर्वत्वेनेति भावः । *विधीति । लिङादीत्यर्थः । वेदे सम्भवादाह *लौकिकति । वेदेऽपि दोषमाह *किश्चेति । यत इति शेषः । चेन नैमित्तिकवि- धिपरिग्रहः । *पण्डेति । क्लीवमित्यर्थः । निष्फलमिति याव- तु । तृतीयाप्रकृतिः षण्ढः क्लोवः पण्डो नपुंसके इत्यमरः । प्रवृत्त्या- देरन्यथोपपत्तेराह *गौरवमिति । एतेन निष्फले सन्ध्यावन्दनादौ विध्यर्थबाधापत्तेतद्विध्यर्थ इति । न । तथा सति तत्र प्रवृत्त्यनापत्ते- निष्फलत्वात् दुःखैकफलकत्वाच्च । प्रवृत्तिमात्रे इष्टसाधनताशानस्य हेतुत्वाञ्च । नचापूर्वोदेशेन प्रवृत्तिः । तावताऽपि इदमेवेष्टमा. दायष्टसाधनत्वस्य विध्यर्थत्वोपपत्तेः । वस्तुतः प्रवृत्तिविषयसा- ध्यत्ये सतीच्छाविषयत्वमेव फले उद्देश्यत्वम् । नच तदपूर्वस्य । नचान्यदेव तत्कल्प्यं मानाभावात् । पदार्थान्तररूपोद्देश्यत्वस्य प्र- वृत्तावनुपयोगाञ्चेति भूषणाधुक्तम् , स्वविशेषणशौचादिवर्तमानता- प्रतिसन्धानकालिकम् इष्टसाधनतालिङ्गक कार्यज्ञानमेव प्रवर्तकम् । कार्यता कृतिसाध्यत्वम् । तेन कृतौ जननीयायां चिकीर्षा द्वारम् । सा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयेच्छा-कृतिसाध्यो यः पाकः स मे भवत्वितीच्छाऽनुभवात् । पाक कृत्या साधेययमि- तीच्छाया अप्यत्रैव पर्यवसानम् । एवं चेच्छायाः स्वप्रकारकधी- साध्यत्वनियमो ऽप्युपपन्नः । न त्विष्टसाधनताज्ञानसाध्या सा। कृत्य साध्ये प्रवृत्त्यापत्तेः । कार्यत्वेन कार्य विध्यर्थः । तच्च कार्य वेदे ऽपू- र्वमेव । नच तस्य शक्यत्वे न मानम् । यतस्तस्यावाच्यत्वे स्वर्गका- मस्य यागेनान्वयो वाच्यः स्वर्गकामस्य यागः कार्यमिति । स च न सम्भवति धात्वर्थप्रत्ययार्थयोरभेदान्वयस्याव्युत्पन्नत्वात् । अत ९९२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । एव लिङाऽपूर्व कार्यत्वेनाभिधेयम् । कार्यत्वं च कृतिसाध्यत्वं तत्रा. पूर्वस्य साक्षात्तत्साध्यत्वासम्भवात्, यद्वारा तस्य कृतिसाध्य- त्वं स धात्वर्थों यागदानहोमादिरनुबन्धो विषयो ऽवच्छेदक इति अपूर्वनिवर्तकत्वेन कारणम् इति च तैर्व्यवह्रियते । वरदराजोऽप्याह मुख्यार्थमभिदधतः शब्दस्य यत्रार्थे तात्पर्य तत्र मुख्यैव वृत्तिः-यथा स्वर्गकामपदस्य कक्षान्तरितनियोज्यपर. स्येति । योग्यतासहकृतपदबोध्यत्वात्कक्षान्तरितत्वम् । अपूर्वमेव च नियोगपदनोच्यते । कार्यत्वेन नियोज्यकर्मकात्मविषयकप्रेरणकर्तृ- खातू, इत्यादि प्राभाकरायुक्तंचापास्तम् । तदाह *इतिदिगिति ॥३२॥ एवं च"स्वर्गकामो यजेत"इत्यादिना ज्योतिष्ठोम- स्य गृहीतास्वर्गसाधनताक्षणिके यागे व्यापारमन्तरा. ऽनुपपन्नाऽपूर्व कल्पयति।अपूर्व तु यागस्य काऽपि उत्त रावस्था फलैकनाश्या। यदा कर्मापूर्वादीनामचेतनतया फलजनकत्वासम्भगचेतनेश्वराधिष्ठितत्वेऽवश्यवक्त. व्ये त्वेतन्निष्ठाभ्यां कर्मजन्यप्रीत्यप्रीतिभ्यां मायावृ. त्तिरूपतया अनित्याभ्यां प्रतिजीवकर्मसाध्याभ्यां सु- खदुःखाद्युपपत्तिः । कर्मापेक्षत्वात्सेवानुरूपफलदो रा. जबदलौकिकोऽपीश्वर इति न तस्य वैषम्यनैधृण्ये । श्राद्धादिजन्यमपूर्वं पुत्रे पितृषु च । उभयत्र फल- श्रवणात् । मुक्ते तु नादृष्टम् । तत्त्वज्ञानस्य तद्विरो. धित्वात् । पित्रादिस्वर्गकामनया कृते पुष्क- रिणीमहादानादौ पित्रादेरेवादृष्टम् । कर्तुरेवादृष्टं त- स्यैव फल मिति तूसर्गः। ननु स्वर्गत्वस्य वाजपेयगङ्गास्नानदानादिजन्य- स्वर्गसाधारण्येन कथं ज्योतिष्टोमे स्वर्गसाधनता- ग्रहः कार्यतावच्छेदकस्यातिप्रसक्तत्वाद् इति चेन्न ।

तिर्थनिरूपणम् । ९९३ प्रवर्तनया वाक्यान्तरपर्यालोचनवतो विजातीय- स्वर्गसाधनत्वस्वानुमानात् । ध्वनितं चेदं "स्वरितभिना" इतिसूत्रे भाष्ये । तत्राहि-"नचान्तरेण यजिं यजिफलं लभन्ते" इत्युक्तम् । 'नहि स्वर्गादिफलं यागमन्तरेण भवति' इति कैयटः । एतेन यत्कैश्चिदुक्तं सर्वेषां स्वर्गसाधनत्यमेव गृह्यते । नच ज्योतिष्टोमाग्निहोत्रयोः फलसाम्या- पत्तावल्पवित्तव्ययायाससाध्याग्निहोत्रेणैव सिद्धौ श्र. माधिक्येन द्वेषाज ज्योतिष्टोमादावप्रवृत्ती तविधी : मननुष्ठानलक्षणाप्रामाण्यापत्तिरिति वाच्य तित्फल- स्वर्गाणां भूयस्त्वाल्पत्वकल्पनया प्रवृत्तिसम्भवात् । युक्तं चैतत् । नहि चैजायमात्रज्ञानात्प्रवृत्तिः । सम्भवत्यपि क्षीरपाने मण्डपाने प्रवृत्त्यापत्तेः । त. ब्रापि फलवैजात्यज्ञानात् । भूयस्त्वमनेकधा फलबा- हुल्यम् । फले उत्कटत्वं बहुस्वपुरुषगामित्वम् , शी- घ्रताचेत्यादि । अन्यथा "सर्वेभ्यः कामेभ्यो दर्शपूर्ण मासौ"इत्युक्तेः समारब्धदर्शपूर्णमासानां काम्येष्टिप्र- वृत्तिविलोपस्तवापि दुर्वारः । यदा लौकिकप्रतिष्ठारूपफलेच्छा यस्य तस्य प्रवृ. त्तिसम्भवः। अत एव सकलशास्त्रविदां युधिष्ठिरादीनां स्व- ल्पफलकराज्यार्थ गोत्रजब्राह्मणादिवधे प्रवृत्तिः । दर्शितं चार्जुनं प्रति तदेव फलं भगवता- - ૨૧ ९९४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अकीति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। इत्यादिना। अत एवाधुनिकानां कर्मासाङ्गत्वं जानतामन- धिकारिणामपि बहुवित्तव्ययायाससाध्येषु- यावर्णविभागो ऽस्ति याववेदः प्रवर्तते । संन्यासं चाग्निहोत्रं च तावत्कुर्यात् कलौ युगे। इति देवलवाक्यस्य, सङ्करेभ्यो वर्णानां पृथक्कर- गरूपो वर्णविभागो यावत्, यावच्च वेदस्य नियमाध्य- यनरूपा प्रकर्षेण वृत्तिः, तावदेतद् द्वयमनुष्ठेयमित्य- र्थकस्य कालबोधकः, चत्वार्यब्दसहस्राणि चत्वार्यब्दशतानि च । कलेयंदा गमिष्यन्ति तदा त्रेतापरिग्रहः ॥ संन्यासश्च न कर्तव्यो ब्राह्मणेन विजानता। इति- व्यासवाक्यादिभिः कलियर्थेष्वपि अग्निहोत्र- यागादिषु धनलाभफलकप्रतिष्ठाथै प्रवृत्तिः । प्रतिष्ठा- युपाधिवशाजायमाना उत्कटेच्छैव प्रवृत्तौ प्रयोजिके. ति न दोषः। अत एव गीतायाम्- अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ इत्यनेन दम्भस्यापि यज्ञफलतोक्ता । दम्भो धा- मिकत्वेन ख्यापनम् । अपिचेतिपदाभ्यां विकल्पेन समुच्चयेन फलत्रयमुक्तमिति तयाख्यातारः । यद्यप्ययं निषिद्धत्वात्संप्रत्यधर्म एव, तथाऽपि तिङर्थनिरूपणम् । ९९५ तत्त्वमजानतां लोकानां धर्मत्वभ्रमाद् दम्भार्था तत्र प्रवृत्तिः । विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ इति च । किञ्च समानफलानामपि कर्मणां शक्ताशक्तभे- देन व्यवस्था । सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ॥ दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः॥ इति- भारतोक्तः। अत एव 'वित्तशाठ्यं न कारयेद् इति न तत्तद्रतप्रक- रणे पठ्यते इति । तत् परास्तम् । उक्तभाष्यविरोधात् । तत्तद्वैजात्यस्यापि तत्तद्भ्यस्त्वसमनियतत्वान्न दोषः ॥ ३३ ॥ (कुं० टी०) *क्षणिकेइति । कार्याव्यवहितपूर्ववर्तिन एव कारणस्य कार्यजनकत्वात् । श्यागस्येति । यद्यपि देव- तोद्देश्यकद्रव्यत्याग एव यागस्तथापि संपूर्णकर्मकलापस्य यागाङ्गत्वाद् यागत्वम् । * उत्तरावस्थेति । कारणपरिणाम एव कार्यमिति भावः । *फलैकनाश्यति । तेन न फलान्त- रम् । नन्वीश्वरस्य सर्वान्प्रति एकरूपत्वात् स्वर्गनरकाद्यनुपप- तिरत आह *कर्मापेक्षत्वादिति । नैपुण्यम्-निर्दयता । ननु “शास्त्रे देशितं फलमनुष्ठातरि"इति न्यायातकर्तर्येवादृष्टं स्वीकार्यम् । तथाच पित्रुद्देश्यकपिण्डदानादौ कृते पुत्र एवाह- ष्टोत्पत्त्या पित्रादेः स्वर्गाधनापत्तिः व्यधिकरणत्वात् । पु- त्रादिकर्मणा पित्रादौ चादृष्टं न संभवति व्यधिकरणत्वा- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । त्। अत आह *पुत्रे पितृषु चेति । अय:-भाव सर्वत्र भोगाधिकरणे एवापूर्व लाघवात् । तथाहि भोगं प्रति साक्षात्संबन्नापूर्वस्य जनकता संभवति अन्यथा तु परंपरा कल्पनीयेति । ननु यत्र तत्वज्ञानिना पुत्रेण कर्म कृतं तत्र भोगाधिकरणे एव तदपूर्वकल्पनापत्तिः, अस्मन्मते तु तत्र मिथ्याज्ञानाद्यभावेनादृष्टानुत्पत्तेरिति चेन्न । यत्र मुक्तपितरमुदिश्य कर्म कृतं तत्र कर्तर्यदृष्टकल्पने गौरवं भोगायतने त्वसम्भवान्न तत्कल्पनम् । *तद्विरोधित्वादिति । "क्षीयन्ते चास्य कर्माणि" इति श्रुत्या अदृष्टजनकयोधर्माधर्मयोरुभयोरपि नाशवोधनात् । *साधारण्येनेति । अन्वयव्यतिरेकाभ्यां हि कारणताग्रहः। नच ज्योतिष्टोमवदन्यावृत्तिः स्वर्ग इति भावः । विजातीयदाई प्रति तृणारणिमणीनां कारणत्वादिति भावः । किंच "त्री. हिभिर्यजेन" "यवैर्यजेत" इति दर्शपूर्णमासोद्देशेन विहितयोः व्रीहियवयोः परस्परव्यतिरेकेण फलजनकत्वादुक्तैव गतिः। नहि तकशक्तिमत्त्वेनोभयोरनुगमः । “स्योनं ते सदनं कृणोमि" इति मन्त्रस्य बीहियोग एवागत्वं नतु यवप्रयोगे-"नीहीणां मेध सुमनस्यपान" इति मन्त्रलिङ्गादिति सिद्धान्तासङ्गतेः । 'बीहिभिर्यक्ष्ये' इति संकल्पावच्छिन्नसमवायमंबन्धस्यैव ब्रीहि- कार्यतावच्छेदकसम्बधत्वेन वीहिरूपकारणाभावेऽपि यवरूपका- रणेन कार्योपत्तौ वाधकाभावः । * नहि वैजात्यति । तस्मादाग्रिहोत्रजन्यापूर्वविशि- ष्टसमवायसम्बन्धेन स्वगत्वमवच्छेदकमित्यदोषः । *सर्वे- भ्यः कामेभ्यइति । दर्शपूर्णमासोर्नित्यत्वात् तदनुष्ठानेन पुत्रा. दिफलस्यापि सम्भवात्पुत्रष्टयादिविलोपापत्तिरित्यर्थः । ननु दर्शपूर्णमासयोरनिसाध्यत्वेनाम्न्याधानात्माक् पुत्रेष्टिसाफल्य- तिर्थनिरूपणम् । मस्त्येवेत्याशङ्याह *समारब्धेति । *लौकिकप्रतिष्ठार्थमिति । 'सम्भावितस्य चाकीर्तिमरणादतिरिच्यते । ततः स्वधर्म कीर्तिं च'इतिभगवदुक्त्या लौकिकप्रतिष्ठाया अपि प्रवर्तकत्वात् । *गोत्रजेति । गोत्रजानां ब्राह्मणादीनां चेत्यर्थः । *त्रेता-त्रित्वम्-अग्नित्रयम् । गुण आर्षः । परेतु अग्निहोत्रशब्दः सर्वाधानपरः । अर्धाधानं स्मृतं श्रौतस्मार्ताग्न्योस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यऋनिः पूर्वयुगाश्रिता ।। इति । लौगाक्षिवचनात् । यावद्वर्णविभाग इतितु चत्वार्यब्दसहस्रा- णीत्यस्यैव सङ्कोचकम् इत्याहुः । उक्तभाष्येति । “नचान्तरेण यजिं यजिफलम्" इति भाष्येत्यर्थः ।। ३३ ।। (क० टी०) * एवञ्च-तस्य शक्यत्वेच । पदार्थान्तरकल्पने गौरवादाह *यागस्येति । तत्कल्पने ऽपि गौरवादाह *यवति । आदिना ज्ञानम्। *वक्तव्येइति । गौरवमिति ततो लाघवादिति शेषः। *तदिति । ईश्वरेत्यर्थः। तयोर्नित्यत्वेऽनिष्टापत्तेराह *मायति । वैचि- ध्यायाह *प्रतिजीवेति । आदिना मोहः । नन्वेवं तस्य वैषम्या- द्यापत्तिरत आह *कर्मेति । स्पष्टं चेदं ( उ० मो० अ० ३ पा० २ अधि० ८ सू० ४०-४१) "धर्म जैमिनिरत एवं" इति पूर्वपक्षखण्डकेन “पूर्व तु बादरायणो हेतुव्यपदेशाद्" इति व्यास सूत्रेणोक्तम् , हेतुश्रुत्युपपत्तिरूपम् । पूर्वमीश्वरम् । तुरुक्तवैलक्षण्ये । तं फलदातारं स आह । कर्मसापेक्षत्वाच्च न वैषम्यनैपुण्ये । कर्मव्या- पारश्च अनेनेदं कृतमस्येदं फलममुककालेऽमुकदेशे भवतु'इतीश्वरोपा- धिवृत्तिविशेषः फलवत्तारूपः । फलबलादयमेवेश्वरप्रीतिपदेनोच्यते । चितिशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । प्रतिमाकर्मसंज्ञाऽभा तृतीया शक्तिरिष्यते ॥ इतिविष्णुपुराणे कर्मण ईश्वरशाक्तित्वम् । लभते च ततः कामान्मयैव विहितान् हितान् ।। इतिगीतोक्तेश्चेति तदर्थः। आद्यपक्षे क्वचिद्विशेषमाह * श्रा- ९९८ टीकाद्वयोपेतायां लघुपञ्जूपायाम् । -- उभ- द्धादीति । आदिना तर्पणम् । *उभयत्रेति । नत्राचे प्रत्यवायाभा- वः, ब्रह्महत्यादिपापनाशः, सत्यां कामनायां पुत्रादि च फलम् । अन्त्ये नरकोद्धारः, सर्वपापनाशः, स्वर्गब्रह्मलोकप्राप्त्यादि यथा- यथं फलम् । इदमप्यमुक्तविषयमित्याह *नुतत्विति । ततो ऽपि विशेष क्वाचिकमाह *पित्रादीति । *पुष्करिणीति । अल्पं सर इत्यर्थः । एवेन पुत्रव्यवच्छेदः । ननूभयमयुक्तं फलोत्पत्तेः कर्तर्यव दृष्टत्वात् । नच- सुतादिकर्तृकं यस्यां श्राद्धं श्रद्धासमान्वितम् । पित्राशुदेश्यफलदं ला गया यागतोऽधिका ।। इत्युक्तेन तथेति वाच्यम्।कर्मभिः कवि फलोत्पादादालतस्तत्र स्व- दिफलमित्वनुपपत्तेनुरुद्धावान् । “शास्त्रीय फलं प्रयोलरि तल्ल- क्षणत्वाद्"इति न्याया।अन्य माऽतिप्रसङ्गात् । जानेटाविवाकर्तयपि फलमिति। न । श्राद्ध पित्रादेदेव नात्यान्। तस्यां च कमेणः फलाजननं तजनन वा तस्याधिकारित्वापातादेवतात्वाभावापत्तिः । यरूपतायां च फलभाक्त्वनाधिकारितया कर्म प्रति प्राधान्यादेवता- त्वेन च तत्प्रत्येव गुणत्वादे कप्रतियोनिकै कनिष्ठगुणप्रधानभावरूपवै- रुप्यापत्तिः । “वाजपेयेन" इत्यादावित्र जातेष्टौ पुत्रस्यादेवतात्वेनो- कविरोधाभाव इति वैपम्यात्।अकीनेष्टफलजनने च कर्तुरप्रवृत्त्या- पत्तेविरोधः । कर्तृसमीहितसाधनतावत्तावगमफलप्रवर्तकत्वव्याधा. तात्।स्वगतफलान्तरार्थ प्रवृत्तौ च तावतैव प्रवर्तकतानिर्वाहात्पित्रा. दिगतफलाभावापत्तेः । अन्यनरत्वेनोपपत्तावुभयगतफलाङ्गीकारक- ल्पनाक्लेशायोगात्। पितृगतफलश्रुतेरर्थवादतयाऽप्युपपत्तेः।यदापि शास्त्रे फलशब्देनापूर्वमुच्यते तदाऽप्यपूर्वस्य प्रयोक्त्राख्यकर्तृगामि- त्वात्फलाडुरावस्थाया एवापूर्वत्वादपूर्वफलयोश्च सामानाधिकरण्य- नियमादन्यथाऽतिप्रसङ्गान्न ततस्तत्र फलमिति चेन्न । यथा “यस्मि- अ जाते" इति वचनात्तार्तीयन्यायं बाधित्वा ऽकर्तर्यपि पुत्रे फलं त- थाऽत्रापि नानागुणवाक्यात्पित्रादौ तत्स्वीकारात् । “फलसंयोग- स्त्वचोदिते न स्याद्शेषभूतत्वाद्” (पू० मी० अ० ४ पा० ३ अधि० १७ सू० ३८) इतिचातुर्थिकन्यायात् । नचातिप्रसङ्गादि, शास्त्रस्यैव नियामकत्वात् । एवमपूर्वेऽपि । यदि कृतिसमा- नाधिकरणमेवाद्दष्टं स्यात्तदा तत्त्वज्ञानिकृतश्राद्धेन पितुः स्वर्गों न तिर्थनिरूपणम् । ९९९ स्यात् । श्राद्धकर्तुः पुत्रस्य कर्मनाशास्पर्शादौ पितुः स्वर्गश्च न स्यात् । एवं "शास्त्रे देशितं फलमनुष्ठातरि” इति यथोत्सर्गः, तथा 'कृतिसमानाधिकरणमष्टम्' इत्यपि । एवञ्च यत्रोभयत्र फलश्रुतिस्तत्रोभयगतमष्टम्, यत्र त्वन्यतरस्यै- व फलश्रुतिस्तत्र तत्रैव । यत्र न तथा वचनं तब पित्रादिस्वर्गकाम- नया कृते पुष्करिणीमहादानादौ पित्रादिस्वर्गजनकत्वं न स्यात् । ता- शशिष्टाचारेण तथा श्रुतिकल्पनात् । एवं दुर्गापाठादावपि । फलं च किंचिद्विधिवादोक्तं क्वचिदार्थवादिकामत्यन्यत् एतेन 'कर्त- येवापूर्वम् इति, 'फलवत्येव चापूर्वम्' इति चापास्तम् । तदे. तदभिप्रेत्याह *कर्तुरेवति । अपूर्वकल्पकस्वर्गसाधनताग्रहे प्रागुक्तं व्यतिरेकव्याभिचारमाशङ्कने * नन्विति । *प्रवर्तन येति । विधि. बोध्ययेत्यर्थः । प्रतिपादितमिदमनुपदमेव । *कैयटइति । अन्यथा त. दसङ्गतिः स्पष्टवेत्यपि प्रतिपादितम् । भूपणकारादिमतं खण्डय. ति एतेनेति । *सर्वेषां स्वर्गेति । तदन्यफलशन्यवैदिकादिवा- क्यवोध्यकर्मणामित्यर्थः । कार्यतावच्छेदकधर्मस्यातिप्रसक्तत्वे ऽपि न दोषस्तत्सामानाधिकरण्येनैव कार्यत्ववोधो विधिलब्धो नतु स्वर्गत्वावच्छेदेन, अवच्छेदकत्यांशोधनासामादसम्भवाच्चेति भावः । वैजात्यकल्पकनयोक्तमीमांसकसिद्धान्तं खण्डयति *न- चेति । विधिलभ्याविचारकाले वैजात्यास्वीकारे इति शेषः । *सिद्धाविति । समीहितेत्यादिः । * अप्रामाण्यति । तदाप- त्तावित्यर्थः । नन्वेवं को विशेष: कल्पनाया अविशेषादत आह *युक्तंचेति । मात्रपदेन फलभूयस्त्यादिव्यवच्छेदः । हेतौ हेतुमाह *तत्रापीति । एवमपि न्यूनतापरिहारायाह *भूयस्त्वमिति । आ- दिना चिरकालस्थायित्वादिः । उत्तदोपस्तवापि । *क्वचिदिति । त्वयाऽपीदमवश्यं तत्र ततो निर्वाहे ऽपि स्वीकार्यमित्याह *अन्य- थति । तेषां भूयस्त्वाद्यकल्पने इत्यर्थः । *इत्युक्तेरिति । नचैता- वता सर्वफलेषु तयोः प्राप्तावपि विनिगमनाविरह इति वा- च्यम् । तत्प्रयोगस्य नित्यतया आवश्यकस्य पुत्रादिकामनयैवा- नुष्ठानप्रसङ्गान्नित्यसिद्धिसम्भवेन प्रयुक्तिलाघवलोभात् तत्रैव प्र. वृत्तेः, तदाह *समारब्धेति । तत्र तादृशभूयस्त्वादिकल्पने गौरवा- दाह *यद्वेति । महति कर्मणीति भावः । अस्यावश्यकत्वमा टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ह *अत एवेति । तादृशफलेच्छातः प्रवृत्त्यङ्गीकारादेवेत्यर्थः । उक्तरीत्या अनिर्वाहमाह *स्वल्पेति । ऐहिकभोगादीत्यर्थः । अ. त्र संमतिमायाह *दर्शितभेति । *तदेव-लौकिकप्रतिष्टारूपमेव । *भगवता-श्रीकृष्णेन । गीतायामिति शेषः । आदिना-- सम्भावितस्य चाकीर्तिमरणादतिरिच्यते । ततःस्वधर्म कीर्तिच इत्यादि।प्रसङ्गात्सिद्धान्तं कथयन्नाह * अत एवेति । उक्तोऽर्थः । प्रवृत्तिरित्यत्रान्वयः । अर्थित्वाद्यभावादाह *क- मैति । अत एवाह *अनधीति । साध्येष्वित्यादिसप्तम्यन्तद्वयस्य यागादिष्वित्यत्रान्वयः । तदर्थमाह *सङ्करेभ्यइति । *तावदिति । नचैतद् द्वयमधुनाऽस्ति अन्यस्य वर्णविभागपदार्थस्य दुर्वचत्वात् । क्षत्रवैश्ययोरिदानीमसत्त्वेन तद्धटितविभागासम्भवादिति भावः । स्पष्टश्चदमन्यत्र । *तेति । श्रीताग्निषु रूढोऽयमुणादिसिद्धः । आ- दिना भारते वनपर्वण्युक्तसंग्रहः । तथाहि- नाशुचिर्नाप्यनिर्णिक्तपादो नाब्रह्मविज्जुहुयान्नाविपश्चित् । वुभुत्सवः शुचिकामा हि देवा नाश्रदधानाद्धि हविर्जुषन्ति ॥ नाश्रोत्रियं देवहव्ये नियुज्यान्मोघं पुरा सिञ्चति तादृशो हि । अपूर्वमश्रोत्रियमाह ताशें न वै तादृग् जुहुयादग्निहोत्रम् ॥ इति । अनिर्णिक्तपादः-अप्रक्षालितपादः। अनाचान्तश्च। अब्रह्मविद् वेदं पाठतोऽर्थतश्चाविद्वान् । अविपश्चिद् वेदादधिगतार्थस्यानुभ- वहीनः । अनेन तपोहीनत्वं सूचितम् । बुभुत्सवः परचित्तं ज्ञातुमि. च्छवः । ऋत्विगप्येवंविध एवेत्याह नाश्रोत्रियामिति । यज्ञादौ मोघं निष्फलं सिञ्चति जुहोति पुरा शीलगोत्रादिज्ञानात्प्राक् । अश्रोत्रि- यपदार्थमाह अपूर्वमिति । अज्ञातकुलशीलम् । आह-वेदइति शेषः । ईदृशस्यैवाग्निहोत्राधिकारो नान्यस्येति भावः । अर्धाधानं स्मृतं श्रौतस्मार्ताग्न्योस्तु पृथक्कृतिः। सर्वाधान तयोरैक्यकृतिः पूर्चयुगाश्रिता ॥ इति । लौगाक्षिवाक्ये पूर्वयुगानि द्वापरान्तानि तदाश्रितेत्यर्थात्कलाच- र्धाधानमेव । तदपि तावत्पर्यन्तमेवेति तत्त्वम् । यत्तु युगस्य पूर्व पूर्व- युगं कलेः पूर्वभाग इत्यर्थ इति दीक्षिताद्याः। तन्न। पूर्वाणि च तानि युगानि चेति कर्मधारयस्यैवौचित्यात् । द्वापरकल्योः सन्धावेव स्मृतीनां प्रवृत्या तथाऽर्थस्यैव युक्तत्वात् । एतेन त्रेतापरिग्रह इति ... ... ... (१५) शिवस्तोत्रावली । उत्पलंदवविरचिता। प्रमैयरत्नावश्व श्रीक्षेमराजविरचितवृत्निसमेता(वेदान्तः)२ (२९) भनुमानचिन्तामणिन्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाशः 'जैमिनीयद्वादशा णिकृतदीधित्या जागदीशी टीका। ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज- (१०) वीरमित्रोदयः । महामहोपाध्यायत्रीमित्र- भदृशङ्करविरचितः । (मीमासा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- (१७) प्रकरणपञ्चिका प्रभाकरमतानुसारि-मी- शात्मकः । सापिण्यदीपकश्च मांसादर्शनम् । महामहोपाध्यायधीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायत्री- कनाथमिश्रविरचितम्, श्रीशङ्करभहकृतो मित्रमिविरचितः आहिकप्रकाशः । मीमासासारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (३२) स्मृतिसारोद्धारः विद्वदूरविश्वम्भरत्रिपा- ठिसंकलितः। (१८) अद्वैतासद्धिसिद्धान्त सारः । पण्डितप्रवर- श्रीसदानन्दव्यासणीतस्तत्कृतव्याख्यास- (३३) वेदान्त रत्न मन्जूषा । श्रीभगवत्पुरुषो- तमाचार्यकृता । ... मलङ्कृतः । (वेदान्तः) ३ (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो- (१९) कात्यायनश्रोतसूत्रम् । महामहोपाध्याय तमजीमहाराजविरचितः... श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- (१०) ब्रह्मसूत्रभाध्यम् । श्रीभास्कराचार्यविर- भाष्यं श्रीनिम्बार्काचार्यविरचितम् ।। चितं संपूर्णम् (वेदान्तः) (२६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- (२३) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आ- नारायणतीर्थविरचित-योगसिद्धान्त चन्द्रि- नन्दपूर्णविरचितया खण्डनफरिकावि-- कासमाख्यया व्याख्यया संवलितम् । १ भजनाख्यया व्याख्यया विद्यासागरीति । (३०) वेदान्तदर्शनम् । परमहंसपरिव्राजकाच र्य- प्रसिद्धया समेतम्। (वेदान्तः) १४ श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- (१२) आख्यातचन्द्रिका श्रीभट्टममविरचिता १ कर्षिणीसमाख्यव्याख्यासंवलितम् । (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य- (६८) विश्वप्रकाशः । कोश । विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः। (२१) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथ- (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता भट्टकृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामी श्रीविठ्ठल- (१५) क्रोडपमसंग्रहः । अत्र श्रीकालीशङ्कर- नाथदीक्षितविरचितटिप्पणीसहिताश्रिीम- सिद्धान्तवागीशविरचितानि अनुमानजा- द्भागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- गदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्य- धिनीटिप्पण्या:-प्रकाश: गोस्वामि श्रीश्री सानु मानमाथुर्या व्युत्पत्निवादस्य शकि- पुरुषोत्तमजीमहाराज विरचित धादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- (१०) धीरमित्रोदयः । महामहोपाध्यायश्रीमि- कायाः कुसुमाञ्जलेश्च क्रोडपत्राणि २ अमिश्रविरचितः पूजाप्रकाश.। ... १२६) ब्रह्मसूत्रम् ,द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (११) वेदान्तासद्धान्तसंग्रहः । श्रुतिसिद्धा- हराचितसिद्धान्तसेतुकाऽभिधटीकासहित- न्तापरनामकः । श्रीब्रह्मचारिवनमालि- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २ मिश्रविरचितः | वेदान्तकारिकावली (२०) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका- श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म- पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः । सुधातरङ्गिण्याख्य टीकया सहिता।। मणिभद्रकृनटोकया सहितः । हरिभद्र- (१) स्वानुभवादर्शः । श्रीमत्परमहंसपरिबाज- मरिकृतः । काचार्यनारायणाश्रमाशष्यमाधवाश्रमविर (१८) शुद्धादतमार्तण्ड प्रकाशश्याख्यासहितः चितः । स्वकृतटीकाविभूषितम । ८ ... ... ... १ ... ४ (१३) याजवल्कस्मृतिः । वालम्भट्टीस माम्य- (४८) विमित्रादयः । लक्षणप्रकाशः । व्याख्यासमलङ्कृतमिताक्षरासहिता । व्य महामहोपाध्यायश्रीमित्रमिश्रविराचेतः। वहाराध्यायः ११ (४९) बृहदारण्यकवार्तिफसार श्रीगद्विद्यारण्यस्वा- (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- मिविरचितः । महेश्वरतीर्थकृतयालघुसं- र्तिकृता । श्रीगोंशोपाध्यायविरचिततत्त्व- प्रहाख्यया टीकया समलंकृतः । चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि- (५०) वीरमित्रोदयः । राजनीतिप्रकाशः । महा- विराचितदीधित्या च गर्भिता। महोपाध्यायश्रीमित्र मिश्राविरचितः। (४५) शास्त्रदीपिका । श्रीपार्थसारथिमिश्र प्रणि- (११) पूर्वमीमांसा अधिकरणकौमुदी । श्रीमन्म- ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या हामहोपाध्याय पं० रामकृष्ण भट्टाचार्य- ख्यव्याख्यया सहिता तर्कपाद । वीरचिता परिशिष्टाधिकरण निरूपणपूर्व- (१६) वैयाकरणसिद्धान्तलघुमञ्जूषा महामहो कं टिप्पण्या परिष्कृत। पाध्याय-श्रीनागेशभट्टविरचिता । (५२) प्रसस्तपादभाष्यटीकासंग्रहः । तत्र क- श्रीमदुर्बलाचार्य बालम्भहाभ्यां विर णादरहस्यम् । श्रीशंकरमिश्रविरचितम १ चितकुञ्जिकाकलावटीकाद्यसंवलिता। १० (५३) क्रमदीपिका । श्रीमन्महामहोपाध्याय (४७) व्याकरणसिद्धान्तसुधानिधीः । पर्वतीय काश्मीरिककेशवभट्ठविरचिता। विद्यावि- विश्वेश्वरमरिविरचितः। नोदश्रीगोविन्दभट्टाचार्यकृतविवरणोपेतर ७. पत्त्रादिप्रेषणस्थानम् हरिदासगुप्ता, चौखम्बा बनारस सिटी

No text on this page.

Vaiyakarana Siddhanta Laghu Manjusha No 238

Author
Sri_nagesa_bhatta
Other authors
Ccl
Title
Vaiyakarana Siddhanta Laghu Manjusha No 238
File name
Vaiyakarana Siddhanta Laghu Manjusha No 238
Text
OCR done
Citation
1924
Publisher
Chowkhamba_sanskrith_series_office
Language
Sanskrit
Pages
104
Library
Scl
DLI number
326712
Barcode
2020010009080.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
T3CeQDmWkpP
Download PDF

Vaiyakarana Siddhanta Laghu Manjusha No 238