Bharatiya Vidya Bhavan Library, Mumbai

Bhaktimimansa

Risi,shalinda · 2012/08

PDF Proofread

Front matter

शाण्डिल्यशतसूत्रीय भाष्यम् ॥ परमेश्वरो जयति॥ प्रपद्य परमं देवं श्रीस्वप्नेश्वरसूरिणा शाण्डिल्यशतसूत्रीय भाज्यमाभाष्यतेऽधुना ॥१॥ गोविन्दचरणहन्दमधुनो महदहुतम् । यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ २॥ जीवानां ब्रह्मभावाप्रतिर्मुकिरिति वक्ष्यते जीवाश्च ब्रहपोल्यान्त- मभिन्ना इति तेषां संसारस्त्रिगुणात्मकान्तःकरणोपाधिरुतो न साह- 'जिकः स्फटिकस्येव जपादिसन्निधिकृतं लौहित्यादिकं स चौपाधिक- त्वादेव न ज्ञानेन निवर्तनीयः किन्तूपाध्युपधेययोरन्यतरहानेन तत्स- म्बन्धहानेन वा नहि निपुणतरदर्शनेनाप्युपाधियोगे स्फटिकलौहित्य- भ्रमनिवृत्तिरस्ति तथेहन सूर्वसत्तास्फुरणात्मनो हानिः सम्भवति न वा सम्बन्धस्य तस्य तदुभयस्वरूपानतिरेकात् परिशेषादुपाधिहानादेव धमनिवृत्ति त्मज्ञानातू उपाधिहाने च कारणान्तरमन्वेष्टव्यं तं चेश्वर- भक्तिरेवालौकिकत्वाच्छ्रुतिस्मृतिसिद्धा । तथा (गी । अ० १४ । सो०६। तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ । रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निवनाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ इत्युपक्रम्य। मांच योऽन्यभिचारेण भक्तियोगेन सेवते ।

[अ०१/आ०१] शाण्डिल्पशतसूत्रीय भाप्पम् । ३ मुमुक्षामात्रस्य भन्यधिकारस्वात् । यथा मन्त्रवर्णः (ता.)। यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्चपहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ इति । नच मङ्गलार्थोऽपि तदुचारणमात्रस्य मलत्वात् । तथा च मुमु- क्षुणा भक्तिविचारः कर्तव्य इत्यर्थः । जिज्ञासया विचार आक्षिप्यते । यद्यपि परमेश्वरानुरक्तिरूपाया भक्तन धर्मवत् रुतिसाध्यत्वं न वा ब- झवज्ज्ञेयत्वं तथापि तस्याः स्वकारणपूर्वसुरुतैहिकगौणभन्यादिसंप- ' नाया अपि नेयं भकिः नेयं निःश्रेयसार्था नेयमुत्तमविपयेत्यादिकुत- कंबलेन निवृत्तिरपि भवति यथा पत्यौ पत्न्याः । तन्निरासमुखेनै- व तन्मीमांसाया भक्तावुपयोग इति अतःशब्देनोच्यते । यतः कुतर्क- निरासोऽपेक्षणीयः अतस्तज्जिज्ञासेति । अत एव, (विष्णुपु. ( अंशे 91 अ. २० श्लो. १६ । नाथ योनिसहलेषु येषुयेषु बजाम्यहम् । तेपुतेष्वचला भक्तिरच्युतास्तु सदा त्वयाति ॥ तदविच्युतिप्रार्थनमपेक्षितत्वादिति अत एव च फलवदन्यङ्गम- पि विचारः फलवानेवेति ।। १ ।। अथ तस्या लौकिकाकारतामन्तरेण बुद्दयनारोहान विचारविप- यत्वमतस्तल्लक्षणमुच्यते। सा परानुरक्तिरीश्वरे॥२॥ अत्र सा परेति लक्ष्यनिर्देशः। शेष लक्षणम् । परोति गौणों व्याव- तयति । ईश्वर इति प्रस्ताभिप्रायम् । आराध्यविषयकरागत्वमेव सा। इह तु परमेश्वरविषयकान्तःकरणवृत्तिविशेष एव भकिस्तदेशेष्यं च लौकिकानुरागादौ सुग्रहम् । यथोकं परभक्तिमता महादेन । विष्णु- पु० अंशे । अ०२०। लो०१७)। या प्रीतिरविवेकानां विषयेष्वनपापिनी।

शाण्डिल्यशतसूत्रीयं भाष्यम्। [अ०१आ०१) स्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ अब प्रीतिपदेन सुसनियतो राग एव लक्षितः अन्यथा प्रीतेः सु- खरूपाया निर्विपयत्येन विपयसप्तमी न स्यात् तस्याः सुराज्ञानरू- पत्वेऽपि तज्ज्ञानस्य सुखविपयत्वादिपयविपयत्वासम्भवात् । तस्मा- दनुरक्तिरेव सविपयिणी लक्षिता । न च विपयजन्यप्रीतिरर्थः जनकस- मम्या अननुशासनात् । किञ्च 'अच्युतास्तु सदा त्वयीत्यत्र भक्तरीश्वर- विषयतासिद्धौ प्रीतिपदेनापि तदेकवाक्यतया सैवोच्यते । पूर्व प्रति- जन्म भक्तिप्रार्थनमिह तु विपयरागदृष्टान्तेन तस्या एव सर्वथाप्यप- रिहार्यत्वप्रार्थनमिति विशेषः। विपयजन्यप्रीतिरपि रागं विना न स- म्भवतीति रागावश्यकत्वम् । तथा च पातञ्जलसूत्रम् । (पा.सू.७) 'सुखानुशयी राग' इति । तस्यैव वक्ष्यमाणलिङ्गेषु व्यापनाल्लाघवाच भ- क्तित्वम् । न तु क्वचित् स्मरणस्य । कचित् कीर्तनादेः । अननुगमात् । न च तज्ज्ञानस्य तच्चं हेपादिमत्स्वपि तत्प्रसङ्गात् । नाप्याराध्यत्वेन ज्ञानं सा पूजानमस्कारायाराधनास्वननुगमात् । अपि च बलाद्भयाहा नमस्कार्यत्वादिज्ञानवत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः अनुरागादिसहिताराध्यत्त्वज्ञानमिति चेत् अनुराग एवास्तु अत एव (गी. अ.30 वो..) मचित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्त मा नित्यं तुष्यन्ति च रमन्ति च ।। तेषां सततयुकानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोग तं येन मामुपयान्ति ते ॥ २॥ इत्यादौ तद्गतचित्तप्राणादीना भजनमुक्तं नाराध्यत्वेन ज्ञानवता- मेव । अत एव च कृष्णस्य कमनीयारुतिदर्शनेनानुरक्तानां गोपतह- णीनामपि भक्तिफलं मुक्तिः स्मर्यते । अनुस्तु न लक्षणान्तरर्गतः कि न्तु भगवन्महिमादिज्ञानादनु पश्चाजायमानत्वादनुरक्तिरित्युकम् . [अ०१|आ०१] शाण्डिज्यशतसूत्रीय भाष्यम् । ननु पित्रादिगोचरानुरागस्यापि प्ररुतभक्तित्वं प्रसज्येत जगंत एव प. रमेश्वरात्मसात् । अथ विकाराविशिष्ट एव तथात्वं वाच्यं तथापि गो- पीप्रभृतीनां प्रादुर्भावावच्छिन्नेचरभक्तावव्यापकम् । उच्यते जीवोपा- ध्यनवच्छिन्नचेतनविपयिणी अनुरक्तिरेव सेति । एवञ्च प्रादुर्भावाव- च्छिन्ने परिपूर्णे च रक्तिः संगृहीता भवति ॥ २ ॥ तसंस्थस्यामृतत्वोपदेशात् ॥३॥ तस्मिन्नीचरे संस्था भक्तिर्यस्य स तथोकः। तस्पामृतत्वं फलमुप- दिश्यते ( छां) ब्रह्मसंस्थोऽमृतत्वमेतीति तस्मान्निष्फलस्वगौणफ- लत्वनिबन्धना तदजिज्ञासा परिहता भवतीति ॥ ३ ॥ ज्ञानमिति चेन्न विपतोऽपि ज्ञानस्य तदसंस्थितेः॥४॥ ननु बह्मसंस्थाशब्देन ब्रह्मज्ञानमेवोच्यते न तु तद्भक्तिः । तथा चा- मृतत्वफलं तस्यैवेति चेद्रूषे । नैप दोषः। संस्था भफिरेव न ज्ञानं हि- पतस्तज्ज्ञानवतोऽपि तत्संस्थत्वव्यवहाराभावात् । राजायनुरक्ताः ख- ल्वमात्यमित्रादयस्तरसंस्था इति व्यपदिश्यन्ते न पुनः प्रतिपक्षभूपा- लाः। शब्दार्थनिर्णयो हि लोकवदेव वेदेऽपीति । अतएव चिरकालिन कोपाख्याने [महाभार० शा०अ०२६७। विमृश्यते न कालेन पत्नीसंस्थाव्यतिक्रमः । सोऽब्रवीच भृशं तमो दुःखेनाश्रूणिवर्तयन् । इत्यनेन पतिभत्त्यतिक्रम उक्तः । तस्मात् संस्था भक्तिरिति । एवञ्च[ब्रह्मसू। अ० १ पा० १ सू०७ ] 'तन्निष्ठस्य मोक्षोपदेशादि- ति बादरायणीयसूत्रस्याप्ययमेवार्थोऽध्यवसेय इति ॥ ४ ॥ तयोपक्षयाच॥५॥ तया भल्या मुक्ति प्रति ज्ञानमुपक्षीणं यस्माचकार उनयुक्तिस- मुच्चयार्थः [गी । अ०७ श्लो. १३]।

शाण्डिल्यशतसूत्रीय भाप्यम् । [अ०१|आ.1] देवान देवयजो यान्ति महता यान्ति मामपि। इत्यादि तथा प्रहादं प्रति भगवदाक्यं । (विष्णुपु. । अंशे , । अ० २० श्लो. २१)। यथा ते निश्चलं चेतो मयि भकिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणमपि यास्यसि। इति स्थितम् । ननु ( श्वेताश्व 1) तमेव विदित्वातिमुत्यु- मेति नान्यः पन्था विद्यतेऽयनायेत्यत्र वेदनफलं मुक्तिः श्रुता तहि- रोधेन स्मृतीनामन्यार्थत्वं स्यादिति चेन अत्रापि तयैवोपक्षयात् । तथा हि अतिमृत्युपदं न मुक्तौ रूढं किन्तु यस्यां सत्यां मृत्योरतिक्रम इति व्युत्पन्या तदपेक्षया यतो भनेम॒त्य्वतिकम इति व्युत्पाय भक्ति- मेवातिमृत्युपदेनाभिधत्ताम् उपपदविनत्यर्थापेक्षया कारकविभन्य- र्थस्य बलवच्चात् । (गी। अ० १२ । श्लो०)। तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामिन चिरात् पार्थ मय्यावेशितचेतसाम् ॥ इत्यादिना भक्तिो मृत्यवतिकमप्राप्तेः । मन्त्रश्च भवति (तैत्ति- रीयमन्त्रभागे) 'व्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् । उर्वारुक- मिव बन्धनान्मृत्योर्मुक्षीयमामृता दिति । अत्र यजनं भक्तिः तथैव तत्कल्पव्याख्यानात्। न चास्यां श्रुतौ भतेरसन्निधानं मुक्तावपि तुल्य- त्वात् । तस्मादनपायिश्रुत्या ज्ञानस्योपक्षय एव प्रतीयत इति ॥५॥ ननु तथापि भक्ते रागरूपत्वे किं कारणमित्यपेक्षायामाह। द्वेषप्रतिपक्षमावाद्रसशब्दाच्च रागः॥६॥ भक्तिः खलु राग एव भवितुमर्हति कुतः क्षेपविरोधित्वात् । लोके हि देष्टायं भक्तोऽयमिति मिथो विरुद्धधर्मवति व्यवह्रियते तत्र देष- विरोधी च राग एव प्रसिद्धो न ज्ञानादिः । एवं च वैष्णवेभगवति शि- शुपालस्य देषानुबन्धमभिधाय (विष्णुपु० अं०४अ०१५गयम्१०) [अ० आ०१] शाण्डिल्यशतसूत्रीय भाष्यम् । 'अयं हि भगवान् कीर्तितः संस्मृतश्च देषानुबन्धेनापि अखिलसुरासुर- दुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमतामि'त्युक्तम् । तथा चात्रि- स्मृतौ। विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् । शिशुपालो गतः स्वर्ग किं पुनस्तत्परायणः ॥ इति । तत्रापि द्वेषविरोधित्वेन भक्तरभिधानात् । तथा च गीतासु [अ. १६ श्लो. १०)। मामात्मपरदेहेषु प्रद्दिषन्तोऽभ्यसूयकाः । तानह द्विषतः क्रूरान् संसारेपु नराधमान् ॥ क्षिपाम्यजलमशुभानासुरीष्वेव योनिषु । आसुरी योनिमापन्ना मूढा जन्मनिजन्मनि ॥ मामप्राप्यैव कौन्तेय ततो यान्त्यधमा गतिम् । इति । तदिरोधिनी च भक्तिरीश्वरविपयैवानुरक्तिरिति युज्यते । किञ्च (तैत्ति० )। 'रसं ह्येवायं लब्ध्वानन्दीभवतीति शब्दाद् ब्रह्मान- न्दाविर्भावमुक्तेर्बह्मगोचरस्य रसस्य हेतुतावगम्यते । रसश्च रागः (गी। अ० २१ श्लो०५१)। रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्त्तते । इत्यादी प्रसिद्धः। अब रसो विपयरागः । अत एव च रामल- क्ष्मणादीनां स्वलोकारोहणमुक्का (विष्णुपु००४।०४। गयम् ४) 'येऽपि तेपु भगवदंशेष्वनुरागिणः कोशलनगरजानपदास्तेऽपि तन्मनसस्तत्सलोकतामापुरिति साक्षादेव भक्तावनुरागशब्दः प्रयुक्त' इति । तस्मादपि न ज्ञानं किन्त्वनुरागरूपैव भकिनिःश्रेयसफलेति । ननु हेपविरोधित्वं न रागत्वे लिङ्गम् उदासीनत्वेनानैकान्त्यादि- ति चेत् । उच्यते हेपकार्य निवृत्तिस्तविरोधिनी प्रवृत्तिरिति । भव- ति च भकानां भजनीयानुवर्तनादी प्रवृत्तिस्तविरोधिनां तदनुवर्जना शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०।आ०१] दौ निवृत्तिः एवञ्च कार्यमुखेन विरोधमभिप्रेत्य इपविपक्षेत्युक्तम् । तथा च प्रयोकव्यं भक्तिर्भजनीयगोचररागरूपा तदनुवर्तनादिहेतुहि- तसाधनताधीभिन्नात्मविशेगुपणत्वाट् यन्नैवं तन्नैवं यथा द्वेषः । रा- गोत्कर्पेण तदनुवर्तनायुत्कर्षस्य दृष्टत्वाच । किंच यो यस्मिन् भनस्त- तस्यौदासीन्याभावेऽगने भक्तिरतादृशानुवर्तनाद्यनुकूलद्देपविरोधिगु- णरूपा अनुवर्तनहेत्वात्मविशेपगुणत्वाद्धितसाधनताधीवदिति हित- साधनताधीत्वबाधतहकारेण परिशेपाद्रागत्वसिद्धिः । किमुत भक्ति- मतामित्येतत्कैमुतिकन्यायो विरोधिन्येव द्रष्टव्यः। (गी । अ. ९ श्लो. ३२) मां हि पार्थ व्यपांश्रित्य येऽपि स्युः पापयोनयः । किं पुनर्ब्राह्मणाः पुण्या इत्यादौ च । एवं (मी । अ०१६। श्लो. १८) मामात्मपरदेहेष्वित्यनेन हेपस्य संसारहेतुत्वात् तहिरो- धिगुणो जीवोपाधिपरिहारेण परात्मगोचरो राग एव भक्तिरूपःसंसा- रनाशहेतुः। एतदेवोकं मामप्राप्यैवेति । चकारात् पुलकादिरागलिडो- नापि रागत्वम् । प्रसिद्ध हि 'पुलकाञ्चितेन कथयति मय्यनुरागं क- 'पोलेने त्यादौ । भक्तेर्गुणान्तरत्वे तु पृथग्लिङ्गताकल्पने गौरवात् । स च रागः केपांचिदिष्टसाधनताज्ञानजन्योऽपि यागादिवदिच्छारूप ए- व । अस्माकं तु प्रीणाम्यनुरज्यामि नेच्छामीत्यादिप्रतीते रागः पृथगे- व पिवत् । इच्छाया असिद्धमात्रविषयत्वाद्रागस्य सिद्धासिद्धविपय- त्वाच्च । प्रत्युत तस्यैच्छात्वादिव्याप्यत्वकल्पनागौरवाञ्चेति दिक् । त- स्मान्न तल्लक्षणासिद्धिरिति ॥ ६ ॥ ननु भक्तिः क्रियात्मिका सा च निःश्रेयसाय न क्षमते (तैत्ति.। खिलप्रश्ने ऋक् २१) 'न कर्मणा न प्रजया धनेन त्यागे- नैकेऽमृतत्वमानशु रित्यादिश्रुतिभ्य इत्याशङ्का परिहरन्नाह । आरण्य.।

[अ० आ०१] शाण्डिल्यशतसूत्रीय भाष्यम्। न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्॥७॥ सा भक्तिर्न क्रियात्मिका भवितुमर्हति प्रयत्नानुविधानाभावात् । यन्न प्रयत्नानुविधायि तन्न क्रियात्मकं यथा ज्ञानम् । तद्धि प्रमा- णसम्पत्यधीनं न पुरुपेण स्वेच्छया कर्तुमकनुमन्यथाकतुं शक्यते । तथा भक्तिरपि । नहि रागिणां प्रमंदापुत्रादिविषयिणी पुंन्यापारण तथा तथा भवति भक्तिः किन्तु पूर्वसुरुतगौणभक्त्यादिसाधनाधी- नेति ॥ ७॥ अत एव फलानन्त्यम् ॥८॥ यतः सान क्रियात्मिका अत एव तत्फलस्य निःश्रेयसस्यानन्तत्व- सुपपद्यते। अन्यथा(छो०) तयथेह कर्मजितोलोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते' इत्यनेनामृतत्वस्यापि क्षयित्वं प्रसज्येतेतिक तद्वतः प्रपत्तिशब्दाच न ज्ञानमितरप्रपत्तिवत् ॥९॥ भवति हि भगवदाक्यं (गी । अ०७१ श्लो. १९)। बहूनां जन्मनामन्ते ज्ञानवान मां प्रपयते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। इति ज्ञानवतः प्रपत्तिरुक्ता । भक्तेर्सानहेतुत्वे नेदमुपपद्यते इतरप्र- पत्तिवदिति । यथा तदनन्तरं (गी० । अ०७१ श्लो० २०)। कामस्तैस्तैर्हतज्ञानाः प्रपयन्तेऽन्यदेवताः। इत्यनेन देवतान्तरणपत्तिानन्दामुखेनैव प्रपत्तिः स्तूयते । तत्र दे- वताभक्तरेव प्रपत्तिशब्देन कथनं न तज्ज्ञानस्य । तस्या एव प्रपत्ता- यत्र प्रत्यभिज्ञानात् इति । चकाराग्ज्ञानानन्तर्यश्रवणमपि ज्ञानत्या- भावे निदानम् । यथा (गो.। अ० १५१ श्लो. १९)। यो मामेवमसंमूढो जानाति पुरुपोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ इति । तथा (गी० । अ० ९ । लो. १३)! २ शाण्डिल्पशतसूत्रीय भाष्यम् । [अ०१/आ.] भजन्त्वनन्यमनसो ज्ञात्वा भूताटिमव्ययम् । इति मत्वा भजन्ते मा बुधा भावसमन्विताः॥ इति च । तस्मान्न ज्ञानात्मिका । यद्यपि रागत्वेनैव ज्ञानभेदः सिद्धस्तथापि भक्तिशब्दो ब्रह्मज्ञाने गौण इति शहानिरासार्थमेतत्। इदं तु चिन्त्यते भगवद्गीतावाक्यानि नशब्दविधयायेदवत् प्रमाणम् । किन्तु भारते स्मृतित्वेन । तथा च कय शब्दादिति निर्देशः । अत्रैके- ऽनुमितशब्दादिति व्याचक्षते । अत्रोच्यते अदृष्टाफभगमहास्यत्व- मेव वेदत्यं तच गीतास्वप्यविशिष्टम् । अत एव भगवद्गीतासूपनि- पत्स्विति दृश्यते । केवलं त एव भोका व्यासेन निघद्धाः । तथा च पुराणान्तरम्। गीता सुगीता वसन्या किमन्यैः शास्त्रविस्तरः। या स्वयं पमनाभस्य मुरम्पमादिनिःसृता ।। न च शूद्राणामश्रवणप्रसड़ाः भारतश्रयणाभ्यनुज्ञानेनेय तदुपपत्तेः प्रणयादिस्तुत्यादिवत् । तदिहायति चेन लक्षताऽपरिपूर्नेः । तथा चो- तमाचार्यः तानेव वैदिकान् मन्त्रान् भारतादिनिवेशितान् । स्वाध्यायनियमं हित्या लोकयुद्धया प्रयुअते ॥इति ॥५॥ इत्याचार्य स्वप्नेश्वरपिहदिरचिते शाण्डिल्पशतसूत्रीयभाष्ये म- धमाध्यापस्य प्रथममादिकम् ॥ १॥ एवममृतत्वं प्रत्यनन्यवासिदाया मनी रक्षितायो ज्ञानयोग- कौनामङ्गप्रधानझापयियकाय द्वितीयाद्विारपारम्भ । सामुस्येतरापेक्षितत्वात् ॥१०॥ आदिकसमामायुनरव पुनः स्मरणाय सेति निर्देश ।सा पग भनि मुरपा प्रधानम् इतररात्मज्ञानयोगादिभिः स्योपरापतापक्षि- तत्पादित्यर्ध. उान्दोग्ये 'यो चै भूमा तत्सुसमित्यायुपकायाम्नापते ।

[अ० १|आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । 'आत्मैवेदं सर्वमिति 'सवा एष एवं पश्यन्नेवं मन्वान एवं विजानन्ना- स्मरतिरात्मकीड आत्ममिथुन आत्मानन्दःसस्वराड् भवतीति तत्रा- स्मरतिरूपायाः परभक्तेः पश्यन्निति दर्शनमप्रियस्वादिभ्रमनिरासमुखे- नाभवति।यथादण्डी प्रैषमन्याह प्राचीनापीतीदोहयति अभिजानन् जुहोति धनवान् सुखवानित्यादौ दण्डागडु तथा दर्शनमपि रतेरडं मननविज्ञानयोरुतप्रदर्शनार्थतया न्यायप्राप्तयोरनुवादः । एवमात्म- कोडादरतिनैयत्यादर्थप्राप्तोऽनुवाद एव अन्यथा रत्युद्देशेन दर्शनादि- विधौ दर्शनायुद्देशेन वा रत्यादिविधौ वाक्यानि भियेरन् । तस्मात् (पूर्वमीमांसायाम् । अ० ३१पा० ११सू०२) शेषः परार्थत्वादि- तिन्यायाद्दर्शनमक मिति । अत एव भगवान् मनुरपि । (महाभार। शान्ति। अ० १९४१) यस्त्यक्त्वा प्रारुतं कर्म नित्यमात्मरतिर्मुनिः। सर्वभूतात्मभूतात्मा स्यान्चेत परतमा गतिः॥ इत्यनेनात्मरतेः प्राधान्यमाहेति ॥१०॥ प्रकरणाच॥११॥ प्रकरणं स्तरेव फलवच्चात् तस्यास्वत्प्रकरणस्थं दर्शनमङ्गं भवितु- महतीति ॥११॥ दर्शनफलमिति चेन्न तेन व्यवधानात् ॥१२॥ अथ दर्शनस्यैव फलं स्वाराज्यलक्षणममृतत्वं तथा च तस्यैव प्रक- रणमिति वैपरीत्यमिति चेन तेन तन्छब्देन व्यवधानात् । (छां०) 'स स्वराड् भवतीत्यत्र तच्छब्देन सन्निरुष्टात्मरतिमानेयोपस्थाप्यते नवि- प्ररुष्टः पश्यन्निति व्यवहितोपस्थिती कारणाभावात् । प्रकरणमेव कारणमिति चेन्न अन्योन्याश्रयात् ॥ १२॥ दृष्टत्वाच ॥१३॥ दृष्टं हि लोके सौन्दर्यादिज्ञानस्य तरुण्यावरुणे रतिहेतुत्वं न तु र- १२ शापिडल्यशतसूत्रीय भाष्यम्। [अ०१/आ०२) तेर्ज्ञानहेतुत्वमिति दृष्टोपकारत्वादप्यङ्गत्वमवसीयते । दृष्टं च प्रकृते. निष्करुणत्वाल्पमहिमत्वाप्रियत्वादिज्ञानं मनोमालिन्यकारणं भूतेषु करुणाबहुलाव्याहतैश्वर्यातिशयितरूपाश्रय आत्मेति ज्ञानान्मालिन्य- निवृत्तिस्ततः परा अतिरिति । अत एव गीयते(गी अालो.१७) तबुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्ति ज्ञाननि—तकल्मपाः॥ इति । तथा आयुर्वेदेऽपि (अष्टाङ्गहृदये । अ• 9 | श्लो. २३)। धाधुर्यात्मादिविज्ञानं मनोदोपौषधं परम् । इति ॥ १३॥ अत एव तदक्षावादल्लवीनाम् ॥ १४॥ यत एव ज्ञानं दृष्टोपकारकमङ्गमत एव दृष्टोपकारं निरस्य मनोमा- लिन्यादिवाधात् प्रधानभगवदनुरागमात्रेण यल्लवीनां मुक्तिः स्मर्यते। यथा (विष्णुपुराणे । अंशे ५। अ०१३ । श्लो. १३१५)। तचिन्ताविपुलाहादद्दौणपुण्यचया सती। तदप्राप्तिमहादुःखविलीनाशेपपातका ।। चिन्तयन्ती जगत्सूर्ति परब्रह्मस्वरूपिणम् । निरुच्छासतया मुक्तिं गतान्या गोपकन्यका ॥ इति । अत्र सुखदुःखलिङ्गेनानुरागोऽनुमीयते न मुक्तिरिति वाक्यार्थः । हारवाधादनवहतरुष्णलेनापि कर्मणा फलसिद्धिरिव तासां रागान्मु- किस्तदप्यवगम्यते ज्ञानमडामेव प्रधानत्वे तु तदक्षाने फलं न स्यात् चिन्ता च न ब्रह्मात्मैक्यज्ञानं तत्कारणश्रवणमननापसम्भवात् । कि- न्त्वनुरागनियतानुस्मृतिरेव । न चायमर्थवादः अपूर्वार्थत्वात् सनिधी विध्यभावाचेति ॥ १४॥ भत्तया जानातीति चेन्नाभिज्ञस्या साहाय्यात् ॥१५ इदानी श्रुतिविरोधेन प्रकरणस्थानलिङ्गबाधमाक्षिप्य समाधीयते यथा श्रुतं (गी। अ० १०१ श्लो०५५)।

[अ०आ०२] शाण्डिल्पशतसूत्रीय भाष्यम् । १३ भक्त्या मामभिजानाति यावान् यश्चास्मि तस्वतः। ततो मां तवतो ज्ञात्वा विशते तदनन्तरम् ।। इति । तत्र (तैत्तिरीयसं० । अ०१ प्र. ५ । अनुवाकः ८) 'ऐन्या गार्हपत्यमुपतिष्ठते' इतिवत् कारकश्रुत्या बलीयस्या भनेर्ज्ञानहेतुत्व- मवसीयते। ययपि दृष्टत्वादित्यनेन दृष्टोपकारे प्रत्यक्षगम्ये न श्रुतेर- वकाशः तथापि ब्रह्मविषयिण्या रतेब्रह्मविपयज्ञानोपकार्यत्वं न प्रत्य- क्षगम्यम् । किन्तु तरुण्यादे रतौ तथा दर्शनेन ब्रह्मगोचरायामप्यनु- मातव्यम् । तथा च लित्वे पर्यवसानादिति चेन्न दोषः तथाहि यदि केवलं जानातीति वदेन त्वेवम् । किन्त्वभिजानातीति । अभिज्ञा पू. र्वज्ञातज्ञानमुच्यते। तथा भन्युपकारिपूर्वज्ञानं तत्फलरूपभक्रिप्रवर्त- कम् । अनन्तरं यावत् तद्दाढ्य भक्त्यैवाभिज्ञप्तिभावेनापेक्ष्यते नीाव- हननेनावघातवदिति । कार्यसाहाय्यार्थमुक्तं ततो ज्ञानदायेन भक्ति- दाढ्ये सति विशत इति । तस्मान्नेयं श्रुतिः किन्तु न्यायप्राप्तानुवाद इति । एतमेवार्थ स्फुटीकरोति ॥ १५॥ प्रागुक्तं च ॥१६॥ भक्त्या मामित्यस्य पूर्व ब्रह्मभूयाय कल्पत इत्यभिधाय (गोर अ०१८ लो०५४)। ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्गति । समः सर्वेषु भूतेषु मतिं लभते पराम् ।। इत्युक्तम् । तस्य तु ज्ञातब्रह्मणो ज्ञानप्रपोजनाभावाद् युक्तमनु- यादत्वमिति ॥१६॥ एतेन विकल्पोऽपि प्रत्युक्तः॥१७॥ एतेन ज्ञानस्याङत्यनिर्णयेन ज्ञानभक्योरत्र विकल्पपक्षोऽपि मत्यु- कः निराहत इति मन्तव्यम् । नबङ्गाडिनोरेकत्र विकल्पो भवतीति । अपिशब्दात् समुचयोऽपीति ।। १७ ।।

शाण्डिल्यशतसूत्रीय भाप्पम्। [अ०१आ०२४ देवभक्तिरितरस्मिन साहचर्यात् ॥ १८॥ कचिदेवं श्रूयते ( श्वेताश्च ०।) 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः ॥ इति। अत्र देवभनिरीश्वरेतरस्मिन् देवे मन्तव्या कुतः गुरुभकिसाहच- र्यात् । साहचर्यं हि नामृतफलायां भक्तो घटते । इन्द्रादिदेवतास्त्वारा- धिताः शुभवज्ञानफलाय भवन्तीति साहचर्यमपि निर्णायकम् । सा- हचर्यादुलूकशब्दवदुकयुकेरुपष्टम्भकमेतन् ॥ १८ ॥ योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥ १९॥ योगः पुनर्ज्ञानार्थ अत्यर्थं च भवति । समाहितमनस्कताया उ- भाभ्यामपेक्षणात् । ननु ( पूर्वमीमांसायाम् । अ० ३ । पा० १ । सू. २१] 'गुणानां च परार्थत्वादसम्बन्ध. समत्वात् स्यादितिन्यायात् प्रधानाड़, योगः। कथमडाङ्गमित्यत आह प्रयाजवदिति यथा प्रयाजो वाजपेयागडं तदीयदीक्षणीयादरेग्यतहत् । तदङ्गतायोधकप्रमाणा- विशेषात् । केवलं ज्ञानार्थं योगानुष्ठानप्रसङ्केन भकिमुपकरोतीति । एवं विषयवैराग्यमपि उभयार्थ मन्तव्यम् ॥१९॥ ननु [ योगे। पा० ११ सू० २३ ] ईश्वरप्रणिधानादिति पता- लिस्मरणं दुरपनवं तर प्रणिधानाभिवेयस्य भगवद्भजनस्य समाधि- सिद्ध्यर्थत्वमिति कथं भनेः प्राधान्यमित्यत आह । गौण्या तु समाधिसिदिः ॥२०॥ तत्र प्रणिधानं गौणभक्तिरेव न प्रधानं तया समाधिसिद्धिरिति न स्मृतिविरोधोऽपोति । भवति च वाक्यशेषस्तत्रैव [ योगे। पा० । सू० २०२० तस्य वाचकः प्रणवः । तजपस्तदर्थभावनमिति २० । [अ०१|आ०२] शाण्डिल्यशतसूत्रीय भाष्यम्। हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् ॥२१॥ योगशास्त्रप्रस्तावादिदं सूत्रम् । योगशास्त्रोक्तरागत्वाविशेषाद्भक्ति- रपि मुमुक्षुणा हेयैव । तथा च सूत्रम् [ यो०। पा०२|सू०३] 'रागहे- पाभिनिवेशाः केशा' इति । एवञ्चेदुच्यते । नैवं वाच्यम्। उत्तमास्पद- त्वाइतः परमेश्वरविषयत्वादिति यावत् । नहि रागत्वमात्रेण हेयत्वं किन्तु संसारानुवन्धिरागत्वेनैव । यथा सङ्गत्वमात्रेण न त्याज्यता किन्तु असत्सङ्गत्वेन तहत् । तथा चेश्वरभक्तिया रागत्वादित्यत्र सं- सारानुबन्धित्वं मोक्षाननुगुणत्वं चोपाधिः। नचासाचिकी सा [गी. । अ०११ श्लो०४ ] यजन्ते साचिका देवानित्यादिना साविकत्व- कीर्तनादिति ॥ २१॥ तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात्॥२२॥ तदेव भजनं मुख्यं तस्या भनेर्वा मुख्यत्वम् । एतत् सर्वथैव नि- श्चितं यस्मादेवं शव्यते [गी। अ०६। श्लो० । ४६ । ४७]। तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी अवार्जुन ॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥ इति । अत्र विशेषणानां तपआदीनामाधिक्यनिवन्धनं विशेष्याणामा- धिक्यं क्रमादिति मन्तव्यम् । न खल्वङ्गस्य मुख्यादाधिक्यमुपपयते तस्माद्भक्तिः प्रधानमिति ॥ २२॥ श्रुत्यर्थेनापि तदुत्पत्तिपरिहारार्थं पठति। प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः॥२३॥ अत्र रुस्लोऽपि द्वादशाध्याय उदाहरणम् (पी० अ० १२॥ मो०१-७)। एवं सततयुका ये भक्तास्त्वां पर्युपासते।

शाण्डिल्यशतसूत्रीय भाप्पम् । [अ०१आ०२] ये चाप्यक्षरमव्यकं तेषां के योगवित्तमाः ॥ १॥ इति प्रश्नः । मय्यावश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्तमा मताः ॥२॥ ये त्वक्षरमनिर्देश्यमन्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥ ४ ॥ केशोऽधिकतरस्तेपामव्यकासनचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवहिरवाप्यते ॥ ५ ॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६॥ तेपामहं समुद्धत मृत्युसंसारसागरात् । भवामिन चिरात् पार्थ मय्यावेशितचेतसाम् ॥ ७॥ इति निरूपणम् । ताभ्यां भक्तेः प्राधान्यसिद्धेः नार्थवादत्वमाया- ति । प्रश्ननिरूपणं हि निर्णयार्थ प्रसिद्धं न स्तुत्यर्थमिति । केवलाजा- नुष्टानेन लेशाधिक्यमेवेति ॥ २३ ॥ श्रद्धाप्रसडाहतेः श्रद्धारूपत्वराड्डापिशाची निराकरोति । नैव श्रद्धा तु साधारण्यात् ॥२४॥ भतिर्न सर्वथा श्रद्धात्वेन शकुनीया श्रद्धायाः कर्ममात्राइवात् । नचैवमीश्वरभक्तिरिति ॥२४॥ तस्यां तत्त्वे चानवस्थानात् ॥२५॥ (गी. ०अ०६ श्लो.४७)। श्रद्धावान् भजते यो मांस मे युक्ततमो मतः। इति हि श्रुतम्। तत्र भको श्रद्दारूपायां श्रद्धाङ्गत्वे मतीतेऽनक- स्थाप्रसङ्गात् श्रदाया अनङ्गत्वात् । अन्यथा तस्यामपि श्रद्धान्तरमि- १५ - [अ०२।आ०१] शाण्डिल्यशतसूत्रीय भाष्यम् । त्यनवस्थैवातस्मादारम्भणीयारम्भे आरम्भणीयवदाचमने चाचमनव- जनौ श्रद्धा नाङ्गं स्यात्। श्रद्धाभक्तिसमन्वित इति भेदेन कथनांच।२५॥ ब्रह्मकाण्डं तुभक्तौ तस्यानुज्ञानाय सामान्यात् ॥२६॥ ज्ञानाप्राधान्ये ज्ञानकाण्डमित्युत्तरकाण्डप्रसिद्धिर्न स्यादिति म- न्वानं प्रत्युच्यते । भक्त्यर्थं ब्रह्मकाण्ड श्रूयते न ज्ञानार्थम अज्ञातार्थ- ज्ञापनस्य काण्डव्यसामर्थ्यात् । अन्यथा धर्मज्ञानार्थ पूर्वकाण्डाम्नात- मपि ज्ञानकाण्डं स्यात्।नच ज्ञानविधिः सम्भवति येन तत्प्राधान्याद- पिज्ञानकाण्डं भवेदिति । तस्माज् ज्ञानकाण्डमिति भ्रमः । कि ह्मकाण्डमेव । अतएव (ब्रह्मसू० । पा. १॥ सू०१) 'अथातो ब्रह्म- जिज्ञासा' इति सत्रितम् । तत्तु भन्यर्थत्वाद्भक्तिकाण्डमपोति ॥२६॥ इत्याचार्यस्वप्नेश्वरविहहरविरचिते शाण्डिल्यशतसूत्रीय भाष्ये प्रथ- माध्यायस्य द्वितीयमाह्निकम् ॥२॥ समासश्च प्रथमोऽध्यायः॥१॥ तस्या भक्तेः साक्षात् प्रयत्नानिष्पायत्वेन निप्पत्यर्थ साधनान्तरा- पेक्षा तत्रान्तरङ्गसाधनं ज्ञानं बहिरङ्गसाधनान्यपरभक्तिप्रभृतीनि तपां विवेकाय द्वितीयाध्यायारम्भः। बुद्धिहेतुपरतिराविशुदेवघातवत् ॥२७॥ बुद्धिब्रह्मपमितिः सा यपि कृत्यंनिपाया हथापि तद्धेतूनां श्रव- णमनननिदिध्यासनादीनां. तन्निप्पत्त्येऽनुष्ठानमावश्यकम् । तकि सरुन रुते रुतःशास्त्रार्थ इति न्यायात् सात प्रवर्तते उत यावनि- दायम् । तत्रोच्यते भनिपरिशुद्धिपर्यन्तं तत्मवृत्तिरावश्यकी यथा वी- होनवहन्तीत्यनेन विहितबीयवघातस्य याव?तुप्पमनुष्ठानं शास्त्रार्थः तथा दृष्टोपकारकत्वान्मनोमालिन्यनिरासपर्यन्तं ज्ञानायनुष्टाने यत- नीयमिति ।। २७ ॥ ३ . शाण्डिल्पशतसूत्रीय भाष्यम्। [अ०शआ०१] तेपामड़ाना यान्यङ्गानि तदनुष्ठानं तु न प्रसज्यत इत्यत्रोत्तरम् । तदङ्गानांच॥२८॥ तदङ्गानां गुर्वनुगमनवेदाविरोधितांनुसन्धानशमादीनामप्यनु- छानं युक्तम् । नाङ्गविकलान्यङ्गानि सैन्यसेनापतिवत् प्रधानोपका- राय क्षमन्ते ॥ २८॥ इदानी बुद्धिविषयपरिशुद्धिश्चिन्त्यते । तामैश्वर्यपरां काश्यपः परत्वात् ॥२९॥ तां बुद्धि परमेश्वरैश्वर्यादिमहिपथिणी निःश्रेयसफलां काश्यप आ- चार्यों मन्यते कुतः जीवात्मभ्यः परत्वात् तैः स्वज्ञानाय परज्ञानस्या- पेक्षितत्वात् । एतन्मते जीवब्रह्मणोरत्यन्तं भेद इति ॥ २९ ॥ आत्मैकपरां बादरायणः॥३०॥ बादरायण आचार्यः पुनः शुद्धात्मविषयिणीमेव मनुते तथा च सूत्रं [ ब्रह्मसू०। अ०४ पा० ०१॥ सू०३ ] 'आत्मेति त्ववगच्छन्ति ग्राहयन्ति चेति । एतन्मते जीवब्रह्मत्वकल्पनाया मिथ्यात्वाच्छुड़- चिदात्ममात्रबुद्धेस्तत्त्वज्ञानत्वात् तदेव मुक्तिफलायेति ॥ ३० ॥ उभयपरांशाण्डिल्यःशब्दोपपत्तिभ्याम्॥३१॥ शाण्डिल्य आचार्यस्तूभपपरामेव मन्यते कुतः शब्दो हि वेदस्तथा ब्रूते [ छां०] 'सर्व खल्विदं ब्रह्म तजलानीति शान्त उपासीत' इ. त्युपक्रम्य 'एप म आत्मान्तर्हृदयमेतद्रीतमितः प्रेत्याभिसम्भवि- तास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्य' इति विचिकित्स्य तदुभयविपयविदो ब्रह्माभिप्रायलक्ष- णप्रेमभक्तिजन्यब्रह्मसम्भवफलत्वमाह। [तैत्तिरीयसं०अ०प्र०॥ अनु०१०। मं०२] 'बबरः प्रावाहणिरकामयते तिवत् पूर्वशाण्डिल्या- र्थत्वान्न नित्यानित्यसंयोगविरोधः। वस्तुतो वेदस्य भगवत्कर्तृकत्व- .

[अ०अ०१] शाण्डिल्यशतसूत्रीय भाष्यम्। मेव । श्रुतेरपि (तैत्तिरीयारण्यके। प्र० ३। अनु. 391 दशकं४)। तस्मायज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दासि जज्ञिरे तस्मायजुस्तस्मादजायत ।। इति । उपपत्तिश्च भवति ब्रह्म खलु परमैश्वर्यबत्तया श्रुतं जीवस्वरूपत- या च तथा च श्रुतिः [तैत्तिरीयोप०।पृ० १२३ यतो वा इमानि भू- तानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति त- दिजिज्ञासस्व' । तया [गी। अ०१५॥ श्लो०७] | ममैवांशो जीवलोके जीवभूतः सनातन इति । • तत्र किं कस्योपमर्दकम् । तस्मात् (छां०1) 'तत्त्वमस्या'दिवा- क्येनोभयबोधनमेवोपपत्तिमदिति ॥ ३१॥ वैपम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात्॥३२॥ ननूभयविपयत्वमेव न सिध्यति वैपम्यात् । विपमं हि जगत्क- तृत्वादिविशिष्टे तदकर्तृत्वादिविशिष्टज्ञानमिति चेन यतः सोऽयं देव- दत्तः सोऽहमिति प्रत्यभिज्ञावदेकविशिष्टेऽपरवैशिष्ट्यमन्तरेण सामा- नाधिकरण्यस्य स्वरूपाभेदांशगोचरकत्वेन तदुपपत्तेः। विशिष्टवैशि- ध्यमुझेरौत्सर्गिकत्वात् । अथ विशेष्यमात्रलक्षणया स्वरूपाभेदोप- स्थितिरिति मतं तन्न लक्षणया बोधस्य जघन्यत्वात् लक्ष्योपस्थिती तदवच्छेदकोपस्थितिहेतुसत्त्वाच्च । अन्यथा कदाचिच्छक्यतावच्छे- दकमन्तरेणापि शक्यस्मृतिर्भवेत् इत्यास्तां तावत् ॥ ३२॥ न च लिष्टः परः स्यादनन्तरं विशेपात् ॥३३॥ नचैवं सति जीवोपाधिक्तशादिमत्वमपि परमेश्चरे प्रसज्येतेति य- कुं शक्यम् । उक्काभेदबुद्दयनन्तरं क्लेशादेरात्मासम्बन्धित्वरूपविरोप- निर्णयादिति ॥ ३३॥ ऐश्वर्य तथेति चेन्न स्वाभाव्यात्॥३४॥ नन्वेदं लेशादियदैवर्य कर्तृत्वादिलक्षणं परमेश्वरस्य बाध्यते वैभवं शाण्डिल्पशतसूत्रीय भाष्यम्। [अ.राआ.१). त्वात्मनि प्रतीतत्वान्न क्केशादिवदिति चेन्न कर्तृत्वादेः परमेश्वरस्प स्वाभाव्यात् । नहि वनेरुप्पास्वाभाव्यमन्यथा भवति। तस्मादस्वाभा- विकत्वमुपाधिरिति । अत एव दर्पणादिप्रतिफलितबिम्बे भास्वति मालिन्पादिवाधेऽपि वृत्तिप्राकाश्यादिस्वभावस्याबाध एवेति ॥ ३४॥ ननु परमेश्वरस्य सत्यमैश्वर्य जीवानां तु कथमागन्तुकः केशादि- रित्यत्र हेतुमाह। अप्रतिपिदं परैश्वर्यं तद्भावाच नैवमितरेषाम् ॥३५॥ नहि कस्यामपि श्रुती परमेश्वरस्यैश्वर्य प्रतिषिद्धमस्ति येन प्रति- पन्नमपि बाधितं स्यात् । प्रत्युत (छां०1) सत्यसङ्कल्प इत्यादि- ना तस्य स्वाभाव्यमवगम्यते ।नच जीवस्येव प्रतीतधर्मत्यागे कार- णमस्ति सदैश्वरत्वात् सदैव मुक्कत्वात् । तदितरेपां तु जीवानां नैवं स्वाभाविकः केशादिः कस्मात् तद्भावात् । श्रूयते हि [ छां०] 'परं ज्योतिरुपसम्पयते स्वेन रूपेणाभिनिष्पद्यते' इत्यादिभिः तच स्वभा- यत्वे नोपपद्यते। उपपद्येतापि यदि परस्य क्लेशादिस्वभावः स्यात् । न चैवं तस्माद्ब्रह्मभावलक्षणमुज्यन्यथानुपपच्यापि जीवानामौपाधिकी संसृतिरिति । यद्यपि परस्यापि मायौपाधिकमैश्वर्य तथापि तदुपाधेः कदाचिदपि नात्यन्तलयः । जीवोपाधियुद्धीनां तु परभक्ती सत्याम- त्यन्तलय एव । नहि भगवतो माया शक्तिःक्षीयते जीवानामनन्तत्वे- न तत्संसारतजनायर्थ भगवतः प्रवृत्तेरावश्यकत्वादिति । एवञ्च (बृहदार)। ध्यायतीव लोलायतीवेत्यादिश्रुतिः 'अधातादेशो ने- ति नेतीत्यादिश्रुतिश्च जीवविषयिण्येवेति ॥ ३५॥ सर्वानृते किमिति चेन्नैवम्बुयानन्त्यात ॥३६॥ अथ कमशो मुक्तावपि यदा सर्वबुद्दीनां विलयस्तदा परोपाधेः स्थितौ प्रयोजनाभावात् तस्याप्यत्यन्तलये, किं कृतमैश्वर्य स्वभाव इ- ति चेनेवं भवति । जीवोपाधियुद्धीनामनन्तत्वात् ताशकाल एवं + [अ०।आ०१] शाण्डिल्यशतसूत्रीय भाष्यम् । नास्तीति युक्तं स्वाभाविकमैश्वर्यम् । नच प्रागभावाः प्रतियोगिजन- कास्तच्चादित्येतावतापि कालस्तथाभूतः सिद्ध्यति । अथैकदा सर्वे जनितप्रतियोगिन इति चेन अप्रयोजकत्वात् । सर्वकार्यशून्यकाला- नुमानं त्वत्पन्ततर्कशुन्यम् । अन्यथा सर्वे प्रागभावाः कदाचिदजनि- तप्रतियोगिन इत्यनुमानेन ध्वंसानधिकरणः प्राकालः सिध्येत् । अ- थाहमेवामुक्तः स्यामिति धिया मुकावयत्नप्रसङ्ग इति चेत् फलानि- श्वयेऽप्युपायतानिश्चयेन तत्साधने प्रवृत्तिरस्तु । प्रत्युत सर्वमुक्तिनिश्च- ये तत एवाप्रवृत्निप्रसङ्ग इति ॥ ३६॥ अथोपादानकर्तृत्वलक्षणमैश्वर्यं यदि परस्य साहजिकं तदा विका- रित्वमेव प्राप्तं मृदादिवदित्यत उच्यते। प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् ॥ ३७॥ प्रति म जडकार्यमात्रोपादानम् । सा विकार्या नतु ब्रह्मस्फुर- णरूपसत्तया प्रकृत्यनुगतत्वेन च परस्य कर्तृत्वादि । नच प्रकृतिरेव सत्तेति वक्तुं शक्यते जीवानामसवप्रसङ्गात् । तेषां प्ररुतेः परत्वात् । तस्मात् प्रकृतिलक्षणां मायाशक्तिमन्तरालीकत्य परस्य कर्तृत्वादि- स्वाभाव्यमिति न विकार्यता नहि मायया सृजन्मायावी मायाकार्यों भवतीति । यद्यपि तादात्म्येन कार्यत्वमेव विकार्यत्वं तच वर्त्तत एव तथापि क्षीरादिवम्म स्वरूपपरिवर्त्तनेन विकारित्वम् । यहा स्वाधिक- विकाराहेतुत्वेन घटं प्रति दण्डादिवदविकार्यत्वमस्ति । तदेवोक्तं प्ररूत्यन्तरालादिति ॥३०॥ ननु मायोपादानवे मायायामेव जगत् प्रतिष्ठितं तर्हि कथं (तै- त्तिरीयखिलोपनि। सं०२६) 'तस्मिन् सर्व प्रतिष्ठितामिति श्रुत्या जगतो ब्रह्मप्रतिष्ठा प्रतिपायत इत्यत्रोत्तरम् । तत्प्रतिष्ठा गृहपीठवत्॥३८॥ तस्मिन् ब्रह्मण्यपि विकारप्रतिष्ठानमविरुद्धं गृहपीठवत् । यथा शाण्डिल्पशतसूत्रीय भाष्यम्। [अ०२।आ..] गृहमध्यस्थपीठे स्थितोऽपि गृहे तिष्ठति पीठे तिष्ठतीति व्यपदिश्य- ते तहत् ॥ ३०॥ ननु तर्हि प्रकृत्यैव ब्रह्मान्यथासिद्धमस्तु नेत्युच्यते । मिथोऽपेक्षणादुभयम्॥३९॥ ब्रह्म प्ररुतिश्योभयमपि कारणम् । परस्परं चेतनाचेतनाभ्यां स्व- ज्ञानाय स्वशक्तिविषयाय चाऽपेक्षितत्वात् किं कस्यापेक्षकमिति॥३९॥ इदानी स्वशास्त्रे व्यवहारलाधवाय पदार्थसङ्कलनमुच्यते। चेत्याचितोन तृतीयम् ॥ ४०॥ चेत्या प्ररुतिः चिद् ब्रह्म तयोर्न तृतीयमर्थान्तरमवेत्यर्थः । ननु न तृतीयस्य सिध्यसिद्धिभ्यां चोयत इति चेत् । अयमर्थः ब्रह्मभिने ज्ञातृत्वं प्रतिभिन्ने च ज्ञेयत्वं निपिध्यत इति ॥४॥ अथ प्रतिपुरुपयोरसम्बन्धे सर्वकार्यविलोपः । सम्बन्धे तु स एव तृतीय इत्यत आह। युक्तौ च सम्परायात् ॥४१॥ मिथ इत्यनुवर्तते । तौ प्रतिपुरुपौ बुद्धिस्यौ परस्परं प्रतिसम्ब- न्धरूपौ न त्वागन्तुकः कश्चित् कस्मात् सम्परायान् अनादित्वादेव । तथा च गीतायाम् (अ०।३। श्लो. १९) 'प्रति पुरुपं चैव वि- दयनादी उभावपीति । अथानादिरेष सम्बन्धान्तरमस्त्विति चेन जडाजविकल्पेन तयोरनन्यत्वादिति ॥३१॥ ननु प्रकतिमिथ्यैव मायारूपत्वात् तस्याः (श्वेताश्व.)। मायां तु प्रहति विद्यान्मायिनं तु महेश्वरम् । इत्यादिश्रुतिभ्यः। तथा च कथं वेयं पदार्य इत्यत आह । शक्तित्वान्नानृतं वेयम् ॥४२॥ देयं प्रधानं नानृतं न मिथ्या भवितुमर्हति कुतः शकित्वादेव ।

[अ०२।आ०१] शाण्डिल्यशतसूत्रीय भाष्यम्। २३ नहि मायावी मायाँशक्ति विना विहितागन्तुकसृष्टये प्रभवति । कि- ञ्च (छां०1) 'कुतस्तु खलु सौम्यैषं स्यादसतः सज्जायतेति श्रुतिः कार्यसच्चेन कारणसत्ता वदन्ती सर्वसत्तामाह नानृतत्वम् । अस्ति तु सर्वदा भागवती सृष्टिः सादृश्यसहकार्यपेक्षा चेतनरूतसृष्टित्वान्मा- यिकसृष्टिवदिति न चादृष्टादिभिरर्थान्तरम् एकशक्त्यपेक्षायां लाघवा- होगतत्साधनेतरेपु अदृष्टहेतुतायां मानाभावात् । एवं सर्वकार्येषु मि- थो व्यभिचारादेकनित्यसहकारिशक्तिसिद्धिः । तदवान्तरानेककल्पनं तु फलमुसमिति न गौरवायेति । विस्तगेऽस्यैव तृतीये इति ॥१२॥ गता प्रासङ्गिको चर्चा प्ररुतमनुसरति । तत्परिशुदिश्वगम्या लोकवल्लिङ्गेभ्यः॥४३॥ यद्यपि जानामीच्छामीत्यादिवदहं भजे अनुरज्ये इत्येवमादिना प्रत्यक्षगम्यैव भक्तिस्तथापि तस्या दृढतरसंस्कारवैशिष्ट्यलक्षणा परि- शुद्धिर्न प्रत्यक्षतो निर्णेतुं शक्यते ज्ञानप्रामाण्यवत् । तस्मात् तन्नि- र्णयो लोकवज्जातलिडेभ्य एव । यथा लोकेऽनुरागतारतम्यं तत्कथा- दावश्रुपुलकादिविकारैरनुमीयते तहदिति ।। ४३ ।। न केवलं लोकवल्लिङ्गानि भवन्ति महर्षीणां स्मृतिभ्योऽपि तानि लिङ्गानि बाहुल्येन लक्ष्यन्त इत्याह । सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमस्या- तितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्रातिकूल्यादीनि चस्मरणेभ्यो बाहुल्यात् ॥४४॥ यथार्जुनस्य सम्मानम्। प्रत्युत्थानं तु सप्णस्य सर्वावस्थो धनञ्जयः। न लङ्घयति धर्मात्मा भल्या प्रेम्णा च सर्वदा ॥ बहुमानं यथा इक्ष्वाकोः। [ नृसिंहपु.। अ०२५॥ सो०२२ ] २१ शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०२ आ] पक्षपातेन तन्नाम्नि मृगे पझे च तादशि। बभार मेघे तहणे बहुमानमति नृपः।। प्रोतिर्यथा विदुरस्य । [महाभारते । उयो । अ०८८ 1] या प्रीतिः पुण्डरीकाक्षं तवागमनकारणात् । सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम् ॥ विरहो यथा गोपीनाम् [ विष्णुपु० अंशेषा अ०१८ श्लो० १७] गुरूणामग्रतो वतुं किं ब्रवीमि न नः क्षमम् । गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ इतरविचिकित्सां यथा श्वेतहीपनिवासिनाम् । नारददर्शनेऽपि विघ्नबुद्धिः यथा चोपमन्योः । (महाभारते। अनुशा० । अ० १४। अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया । ननु शक त्वया दत्तं त्रैलोक्यमपि कामये ॥ महिमवृद्धौ यथा यमस्य । (नृसिंहपु० अ०८ ॥ श्लो० २१) नरके पच्यमानस्तु यमेन परिभापितः। 'किं त्वया नर्चितो देवः केशवः शनाशनः॥ (विष्णुपु. । अंशे३ । अ० ७ । श्लो०१०)। स्वपुरुषमनिवीक्ष्य पाशहस्तम्। वदति यमः किल तस्य कर्णमूले ॥ परिहर मधुसूदनप्रपन्नान्। प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ७॥ तदर्थप्राणस्थितियथा हनूमतः तेनैवोकम् । (वाल्मीकोये । उ- तरकाण्डे । स०१०७॥श्लो० ३१॥)। यावत् तव कथा लोके विचरिष्यति पावनी। तावन स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥८॥ अथ वा त्यसत्यानामपि नारदादीनां तदेकाराधनार्थ प्राणधार- [अ०|आ०१] शाण्डिल्यशतसूत्रीय भाष्यम् । णम् । अत एव श्रुतिः। ( नृसिंहतापिनी । सं०६) 'ये सर्वे देवा न- मन्ति मुमुक्षवो ब्रह्मवादिनथेति ॥ ९॥ तदीयताभावस्तु वसोरुपरिचरस्य (महाभारते । शा.अ०३३७१) आत्मराज्यं धनं चैव कलत्रं वाहनं तथा। पतझागवतं सर्वमिति तत् प्रेक्षते सदा ॥ १०॥ इति । सर्वभूतेषु तझावो यथा प्रहादस्य प्रसिद्धः । उतञ्च तेनैव । (वि- प्णुपु० अंश। अ०१९। श्लो०५) एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी। कर्तव्या पण्डितैात्वा सर्वभूतमयं हरिम् ॥११॥ तस्मिन्नप्रातिकूल्यं यथा हन्तुमागतेऽपि भगवति भीष्मस्य। ते- नेपोकम् । ( महाभारते। भीष्मप०अ०५८1) एहोहि देवेश जगनिवास। नमोऽस्तु ते शाङ्गदासिपाणे ॥ प्रसह्य मापातयं लोकनाथ । रथादुदमाहुतशौर्यसंख्ये ॥ १२ ॥ आदिशब्दादुवाक्रूरादिचेष्टितान्यपि द्रष्टव्यानि । यद्यपि देषवि- पक्षभावादित्यत्रेदमुक्तं तथापि तत्र रागलिङ्गत्वेनात्र च बहुभक्तिपरि- शुद्धिलिङतयेति विशेष इति ॥४४॥ ननु स्वामिन्यनुरागिणां तदनुग्रहतारतम्यक्त्सु देपेादयो भव- न्ति तेऽपि किं लिङ्गानि नेत्याह । पादयस्तु नैवम् ॥ ४५ ॥ तदसमम्भवादेव । यथोकं भगवता दैपायनेन । (महाभारते। अनुशामअ०११९) न क्रोधो नच मात्सर्य न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ इति ।

शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०।आ०१]
शिशुपालस्य तु देषात स्मरणं ततः परा भकिस्ततो मुक्तिरित्येव
क्रम इति ।। ४५॥
अथ प्रायशो भगवदवतारविषयाण्येव तानि लिङ्गानि स्मर्यन्ते
ब्रह्मज्ञानजन्यत्वात् पूर्णविषयता च भकेर्युक्नेत्यत्र सिद्धान्तमाह।
तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा॥४६॥
सा परा भक्तिः प्रादुर्भावात्मविपयापि भवति कस्मादिदं ज्ञायते
वाक्यशेपात् (गी०अ०७१श्लो०२३)
देवान् देवयजो यान्ति महका यान्ति मामपि । इति ।
प्रतिज्ञातार्थस्थिरीकरणाय देवतान्तरभक्तिनिन्दाया वाक्यशेषो
भवति (गी०अ० श्लो०२१)
योयो यांयां तनुं भकः श्रद्धयाचितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥इति ।
तत्र योयो यांयां भक इत्येतावदुतार्थसिद्धौ तनुपर्यन्तनिर्देशा-
इतस्तत्वात्मविपयत्वे तात्पर्यमुन्नीयते । प्रकरणञ्च भनेरेवेति ॥ ४६॥
जन्मकर्मविदश्चाजन्मशब्दात् ॥ ४७॥
जन्म शरीराविनाभूतवेदप्रणयनदैत्यवधभक्कदर्शनादिकार्याय भ-
गवतः शरीरपरिग्रहः । कर्म च वेदप्रणयनादि । तत्ववेदिनो जन्मा-
भावफलाय भवति । यथाह (गी०अ०४ालो०९)
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ इति ।
नच जन्मकर्मवेदनस्य साक्षादमृतत्वफलमुपपद्यते । किन्तु तद्गत-
मनोमालिन्यनिवृत्तिहारा तहिशिष्टपरमेश्वरगोचरपरभक्ति जनयित्वा
जन्माभावफलाय भवति । तस्मान् प्रादुर्भावापन्नगोचरत्वं परभः
शब्दादेवावगम्यत इति ॥१७॥

[अ०।०१] शाण्डिल्यशतसूत्रीय भाष्यम् । तच दिव्यं स्वशक्तिमात्रोद्भवात् ॥४८॥ (गी। अ०४१ श्लो. १) जन्म कर्म च मे दिव्यमित्यत्र के दि- व्यत्वं न धर्मजत्वं धर्मयोगाभावात् तस्मिन्नदृष्टासिद्धेः । नापि दिवि- भवत्वं भूलोकजन्मन्यव्याप्नेः । किन्तु जीवशरीरवन्न भूतोपादानक- त्वमपि तु स्वमायाशक्तिकृतत्वम् । अत एव मोक्षधर्म नारदं प्रति भ- गवहाक्यम् (महाभारते । शा० अ०३४१) मायैषा हि मया सृष्टा यन्मां पश्यसि नारद । इति । तथा च गी- यते (गी० अ०४) श्लो०६) अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रतिस्वामधिष्ठाय सम्भवामि युगे युगे ॥ इति । न चाभौतिकत्वे शरीरत्वव्याघातःभोगायतने भौतिकत्वनियमात। अथ भोगायतनत्वमेव शरीरत्वमिति चेन्न चेटाश्रयत्वस्य तवे ला- घवात् । चेष्टात्वं तु क्रियागतो जातिविशेषः । नच क्रियैव चेष्टा मृ- तशरीरक्रियायां तव्यवहारापत्तेः । नापि साक्षात् प्रयलजक्रियात्वमेव चेष्टावं घटादायपि चेष्टत इति व्यवहतिप्रसङ्गात् ।सर्वक्रियापाः सा- क्षात् परमेश्वरयलजन्यत्वात् । एवं च परमेश्वरशरीरबोधकमानेन त- च्छरीरचेष्टासिद्धिरित्यास्तां तावदिति । नच तच्चाधिक्यं तच्छरीरस्य ब्रह्माण्डानुपादानतया घटादिवदतच्यभावात् इन्द्रियाप्रतित्वाच १८ ननु स्वतः प्रयोजनाभावे कथं प्रवर्तत इत्यपेक्षायामाह । मुख्यं तस्य हि कारुण्यम् ॥४९॥ लोके हि निरुपाधिपरदुःसहानाय प्रवृत्तेपु कारुणिकव्यपदेशः । नचासौ तेपु मुख्यः रुपाजन्यदुःसहानाय पुण्यार्थ वाप्पन्ततः प्रवृत्तेर्ने निरुपाधित्वं सम्भवति । नापि परदुःपप्रहाणमात्रप्रवृत्ते तथा धनायु- पाधियुक्त तदव्यवहृतेः। किन्तु निरुपाधिपरक्वेशनाशिनो भगवत एव मुरन्यं कारुण्यम् । तत्कृत एवान्यप्रयोजनार्थियु कारुण्यपवहारो गौण - शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०२।आ..] इति । तस्मात् जननीयादृष्टमपेक्ष्य स्वकारुण्यात् प्रवृत्तिरिति ॥४९॥ ननु (गी०अ०१०श्लो०२५) नराणां च नराधिप इत्यादिना विभूतीनामपि भगवद्रूपत्वकथनाद्राजादिक्षतेरपि मुक्तिः स्यादित्यत आह। प्राणित्वान्न विभूतिषु ॥५०॥ जीवोपाध्यनवच्छिन्नविपयैव परा भकिन तु प्राणादिजीवोपाधि- युक्तेषु राजादिपु रक्तिमुक्तिफलेति ॥५॥ द्यूतराजसेवयोः प्रतिपेधाच्च ॥५१॥ धर्मशास्त्रेपु बूतराजसेवयोः प्रतिषेधः स्मर्यते परमेश्वरत्वे तु तन्न स्यादिति ॥५१॥ वासुदेवेऽपीति चेन्नाकारमात्रत्वात्॥ ५२॥ ननु (गी १० १०१लो ३५ ) वृष्णीनां वासुदेयोऽस्मीति वि- भूतिपु श्रुतिस्तथा च राजादिवत् सोऽप्यभजनीय एव स्यादिति चेन्न परब्रह्मण एव कृष्णाकारमानत्वात् । यथा पराशर आह । (विष्णुपु०॥ अशेक्षाअ.११|श्लो०२) यदोवंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते। यत्रावतीर्ण विष्ण्वाख्यं परब्रह्म नरारुति ॥ इति । जीवत्वे तन्न स्यादिति ॥५२॥ प्रत्यभिज्ञानाञ्च ॥५३॥ यासुदेवविपये परब्रह्ममत्यभिज्ञा च श्रूयते ( नारायणोपनि । अथर्वशिरसि । दशके । वाक्य९) ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः। 'सर्वभूतस्थमक नारायणं कारणरूपमकारण परब्रह्मस्वरूपमि- ति स्मर्यते च प्रत्यभिज्ञा यथा प्रलये दृष्टानुभावन युधिष्टिर प्रति मा- कण्डेयेनोकम् (महाभारते वन०अ०१८९७ [अ०२|आ०१] शाण्डिल्यशतसूत्रीयं भाग्यम्। यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः । स एव पुरुपव्याघ्रः सम्बन्धी ते जनार्दन ॥ इति । तथा (महाभार. शां.मोक्षधर्मे।अ०३१५। तपोभिरप्यदृश्यो हि भगवानिति श्रुत्वा जनमेजयेनाभिहितम् । तपसाप्यसुदृश्यो हि भगवान् लोकपूजितः । तं दृष्टवन्तस्ते साक्षात् श्रीवत्साविभूपणम् ॥ इति । चकारात् तहतेषु फलस्मरणलिङ्गात् ।। ५३ ॥ तहिं कथं विभूतिपु तत्कीर्तनं तबाह । राष्णिपुऔष्ठयेन तत् ॥ ५४॥ (गी० । अ० १० (श्लो० २१) आदित्यानामहं विष्णुरित्यादी तेषु श्रेष्ठत्वं परमेश्वरस्यैवेति दृष्टिमात्रार्थ विभूतिकथनं तच वासुदेवे- ऽपि वृष्णिपु श्रेष्ठोऽयमित्येतावन्मात्रदृष्टिविधानार्थ विभूतिपु वासुदे- कीर्तनमिति ॥ ५४॥ एवं प्रसिद्धेपुच॥५५॥ एवमनेन प्रकारेण वासुदेववद्ब्रह्मलिङ्गवत्तया प्रसिद्धेषु वराहनृसिंह- वामनरामभद्रादिपु भक्तिरपि मुक्तिफलेति बोध्यम् । यदा एवं ब्रह्म- लिङ्गवत्तया प्रसिद्देषु [गी। अ० १० सी० २३ ] रुद्राणां शङ्कर- श्रास्मीत्यादिविभूत्यात्मसु श्रेष्ठ्यमानदृष्टिमन्तव्या । उन हि स्कान्दे । काशीख । पूर्वभा०। अ० २० १८१] विष्णुरुद्रान्तरं पायः श्रीगोर्यन्तरं तथा। तद्धान्तिकस्य मूर्खस्य वाक्यं शास्त्रविगर्हितम् ॥ इति । शङ्करस्य ब्रह्मलिङ्गप्रसिद्धिः स्मृत्यादी बहुलमुपलभ्यतइति ॥५५॥ इत्याचार्यस्वप्नेचरविहरविरचिते शाण्डिल्यशतसूत्रीयभाष्ये हि- तीयाध्यायस्य प्रथममादिकम् ।।

शाण्डिल्यशतसूत्रीय भाष्यम्) [अ०२/आ०२] उनौ दृष्टोपकारको ज्ञानयोगौ सम्प्रति प्रतिबन्धकदुरितक्षयम्- खेनायवर्गवत्यो गौणभक्तय उच्यन्ते। भक्त्या भजनोपसंहाराद्गौण्या परायैतहेतुत्वात् ॥ ५६॥ [गी। अ० श्लो. १३] अजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । इत्यनेन सप्तमाध्यायप्रतिपादितपरभकिमनूय तत्पश्चाद्गीतं (गी. अ०९। लो०१४) सततं कीर्तयन्तो मां यतन्तय दंढवताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१॥ इत्यादि । तत्पश्चात् [गी० अ० ९१ श्लो०२९] ये भजन्ति नु मां भक्त्या मयि ते तेषु चाप्यहम् । इति तदुपसंहारस्ततस्तत्र [ तैत्तिरीयसं०)अष्ट०२ । प० । अनु०६] चित्रया जयेतेतिवत् सामानाधिकरण्येन भक्तिनाना भजनेन फलं भावयेदित्यर्थः । [गी। अ61 श्लो०१७ ] एकभक्तिर्विशिष्यते इ- त्यादी भगवरको भकिशब्दस्प प्रयुक्तत्वेन संज्ञाप्राप्तः भक्तिभजनयो- रेकार्थत्वाच । नाप्यत्र परभक्तिः फलभावनया विधीयते तस्या अरु- तिसाध्यत्वेनाविधेयत्वात् । न चापि तस्या निःश्रेयसहेतुत्वमज्ञातं ज्ञाप्यते (गी। अ०७॥ श्लो०२३) महता यान्ति मामपीत्यादिना सप्तम एव तज्ज्ञापनस्यापि प्राप्तत्वात् । किन्तु परभक्तेर्विघ्ननाशनसाध- नाकाङ्क्षया कीर्तनादिकमेवोपक्रान्तं भक्तिशब्देन गौण्या वृच्या तृ- तीयान्तेन निर्दिश्य परभजनसाधनत्वं तेषु विधीयते इत्यत्रार्थवादा- काङ्क्षायां (गी। अ० ९. श्लो०२९) मयि ते तेषु चाप्यहमिति पश्चादन्वयः। अन्यथा भया भजनं तेन च मयि स्थितिरिति वाक्य भियेत । कीर्तनादिषु भक्तिसाधनत्वेन [तैत्तिरीयसं०/ अष्ट०२/प्र. ३। अनु०२ ] 'आयुर्वं घृतामितिवद्भक्तिशब्दो गौणः शक्यसंस्कारेण [अ०।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । सुग्रह इति । यहा भन्यते एभिरिति व्युत्पच्या तासु भक्तिशब्दः [आ- श्वलायनश्रौतसू। अ० ९६ खं०८] 'उदिइन् । अथवा (गी। अ० मो०१६] चतुर्विधा भजन्ते मामिति भजनगणपाठात् सृष्टिवत्। [गी। अशो०१८ ] उदाराः सर्व एवैते इत्यौदार्यगुणयोगाहा गौणत्वमिति ॥५६॥ रागार्थप्रकीर्तिसाहचर्याचेतरेषाम् ॥५७॥ एवं हि श्रुतम् (गी। अ.१११ श्लो.३६ ] स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहष्यत्यनुरज्यते च । इति । तत्र साक्षादेवानुरागार्थत्वं कीर्तनस्य श्रुतम् । तत्साहचर्यात् [गी। अ० ९१ श्लो. १४] सततं कार्ययन्तो मां यतन्तश्च दृढवताः। इत्यादिनोक्तानामपि तदेव फलमिति ॥ ५५ ॥ अन्तराले तुशेपाः स्युरुपास्यादौ च काण्डत्वात्॥५८॥ (गो० । अ. ९ । श्लो० १३) भन्चन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्। (गी । अ० ९ । श्लो. २१) ये भजन्ति तु मां भन्या मयि ते तेषु चाप्यहम् । इत्येतयोरन्दराले या गौणभक्तयः श्रुतास्ताः परभम्पड्डानि भव- न्ति परभक्तिसन्देशादेवेति भावः । ता यथा ( गीता० । अ०९। श्लो. १४।१५।२२ । २५ । २६ । २७।२८) सततं कार्ययन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मा भन्या नित्ययुक्ता उपासते ।। ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्नेन बहुधा विश्वतोमुसम् ॥ इति । तया। .

शाण्डिल्यशतसूत्रीय भाष्यम् । [अ०|आ०२]
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेपां नित्याभियुकानां योगक्षेमं वहाम्यहम् ॥ इति । तथा।
यान्ति देवव्रता दैवान् पितॄन् यान्ति पितृवताः ।
भूतानि यान्ति भूतेश्या यान्ति मद्याजिनोऽपि माम् ॥ इति
पत्रं पुप्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भन्युपहृतमश्नामि प्रयतात्मनः ॥ इति । तथा
यत् करोपि यदनासि यज्जुहोपि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ।।
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । इति ।
तत्र नानामभिधानं कीर्तनम् । भक्त्यर्थं यत्नश्यात्र लौकिकोऽप्य-
ताप्रस्तावादुक्तः । दृढवतत्वं महत्थैकादश्युपवासायनुष्ठानम् । न-
मस्कारः स्वापकर्पयोधककरशिरःसंयोगादिव्यापारः । ज्ञानयज्ञश्च हि-
धा मुख्या मुख्यभेदेन एकत्वपृथक्त्वविषयतया । तन्मावचिन्ता तु
ध्यानमनुस्मृतिश्च । यागः पूजा भगवन्तमद्दिश्य पत्रादिदानञ्च तथा
विहितनिपिद्धसर्वकर्मणां परमेश्वरे समर्पणमिति । न केवलमेतान्ये-
वाङ्गानि । किन्तु मनो ब्रह्मेत्युपासीत (गी अ.१०लो०११)
आदित्यानामहं विष्णुरित्याद्युपासनादिशब्दकवलीरुतान्यपि भक्ति-
साधनानि कुतः ब्रह्मकाण्डस्य सर्वस्यापि भक्तित्साधनप्रतिपादक-
स्वादिति ॥५॥
ताभ्यः पावित्र्यमुपक्रमात् ॥ ५९॥
ताभ्यो गौणभक्तिभ्यः पावित्र्यमन्तःकरणमालिन्यहेतुदुरितक्षयः
स एव हारं कुतः [गो० अ० ९, श्लो२J पवित्रमिदमुत्तममित्यु-
पक्रम्याभिधानात् । भनेरन्तःकरणधर्मत्वात् पाविन्यस्यान्तरङ्गत्वादि-
ति॥ ५९॥

[अ०२।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । तासुप्रधानयोगात् फलाधिक्यमेके॥६॥ तास्वेव कोर्त्तनादिषु [गी। अ० ९ो० २६] यो मे भन्या प्रयच्छति [गी। अ० श्लो. १४ ] नमस्यन्तश्च मां क्या इ. त्यादौ प्रकरणादिसिद्धाभावेषु पुनर्भक्तिसंयोगकथनं प्रवृत्तभक्तीनां तदनुष्ठाने फलाथिक्यार्थमेवेत्येक आचार्या मन्यन्ते ॥ ६॥ नाम्नेति जैमिनिःसम्भवात् ॥६॥ जैमिनिराचार्यस्तु तासु गौणत्वसिद्धेः [ आपलायनश्रौत. अ. ९। सं. ७ ] श्येनेनाभिचरन् यजेते त्यादाविव भन्या कीर्तनेन अस्या दानेन परभक्ति साधयेदिति सामानाधिकरण्यसम्भवान्नाम- भावनान्यार्थं तां मन्यते न फलान्तरार्थ गौरवादिति ॥ ६॥ अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत् ॥६२॥ कोननमस्यादीनां सहानुष्ठानमेकैकेन या क्रमेण वानुष्ठानमिति प्रयः पक्षाः। तत्राये कस्यचिदननुष्ठानेऽप्यन्येपां निःफलत्वप्रसङ्गः हितीये विकल्पप्राप्तावथैक्यनियमः स्यात् । तृतीयस्त्वशास्त्रार्थः । एक- रुतावन्यस्याननुष्ठानं च प्रसज्यते गौरवात् । तस्मादेतेपां मिथो ब्य- भिचारहेतुत्वमिति पूर्वपक्षः। सिद्धान्तस्तु सर्वाण्येव साधनानि प्रमा- णसवात् । किन्तु सहानुष्ठाननियमो नास्ति प्रमाणाभावात् । येषां तु गन्धपुष्पधूपदीपनैवेद्यादीनामेकप्रयोगश्रवणं तेपामेव सहानुष्ठानम् । तदितरेपां तु यथाकालं यथासम्भवमनुष्ठानं गृहरुत्यादाविव यथा गृहसाधनतृणस्तम्भायाहरणं कदाचिदेकदा कदाचित् क्रमश इति न- ह्येतावता तृणादीनामकारणत्वमायाति । तस्मात् यद्यादृशदुरितक्षय- समर्थ तत् तादृशदुरितक्षयं रुत्वा सर्वैः स्वस्वसामर्षे दर्शिते परभ- किसिद्धिरिति तथा च गीयते (गी०अ० लो० ०१९)। बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपयत इति ।। ६२॥

शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०शआ०२] ईश्वरतुष्टेरेकोऽपि वली॥६३॥ तेपु मध्ये यः कश्चिदतिशयानुष्ठानेन पलवान् भवति स एकोऽपि परमेश्वरतुष्टिं जनयित्वा परभक्तये प्रभवति बहुतरशिथिलपरिचर्याभि- रपि यथा नेतरः प्रभुस्तुष्यति तुप्यति चैकेनापिनियलीकसततकतपा- दसंवाहनेन तहत् । कीर्तनाद्यन्यतमेनापि दृढतरसेवितेन भगवत्प्रसा- दाद्भक्तिः प्राप्यते यथा (गी०अ०१८श्लो०५७)। बुद्धियोगं समाश्रित्य मञ्चित्तः सततं भव । मश्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि ॥ इत्यादि। तथा कालादिरुतमपि कस्यचिद्दलम् । यथा (ब्रह्मपु० अ०९७। श्लो०१६६)। ध्यायन रुते यजन् यज्ञैत्रेतायां हापरेऽर्चयन्। यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ इत्यादिकम् । नच व्यभिचारो बलवत्प्रत्येकजन्यभक्ति प्रति की- तनत्यादिना हेतुत्वादिति ॥ ३॥ ननु कीर्तनाद्यान्तरालिकानां सर्वेपामेव पावित्र्यं हारमुत केपा- ञ्चिदन्यदपीत्यत आह । अबन्धोऽर्पणस्य मुखम् ॥६४॥ भगवत्पर्पितशुभाशुभकर्मणां स्वफलाजननलक्षणयन्धाभाव एव हारम् । यथोक्तम् [गी। अ०९श्लो०२०] । शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैरिति । अर्पणमन्त्रोऽपि पुराणान्तरे। कामतोऽकामतो वापि यत् करोमि शुभाशुभम् । तत् सर्व त्वयि सैन्यस्तं त्वत्प्रयुक्तः करोम्यहम ॥ इति । न चैवं स्वातन्त्र्यप्रसङ्गः तत्करणवलेन पापाचरणाभावस्यापि त- दत्वात् । यथा स्मृतिः।

[अ०२।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । न वेदवलमाश्रित्य पापाकर्मरविभवेत् ॥ इति । तस्मात् पाविन्यं तदितरविषयमेवेति । अत्र शुभं कर्म स्वाश्रमवि- हितनित्यनैमित्तिकात्मकं बोध्यम् । सम्यगाश्रमपरिपालनाद्ब्रह्मलो- कादिफलं तत्प्राप्तौ मुक्तये विलम्बः स्यादित्यादिवन्धः । ब्रह्मण्यर्पिते तु तत्प्रसिद्धिः । एवं कामाज्ञानरूतकाग्यकर्मपापयोरपि पश्चादपणे फलाभाव एव इति ॥ ६४ ॥ अथ गौणीष्वेव विशेषश्चिन्त्यते तत्र श्रुतिस्मृतिमध्ये यत्स्वरूप- मुच्यते यथा [छां०] य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश इत्यादि । तथा [ नारदपञ्चरात्रे । पटले ११॥ श्लो०७१। ध्येयः सदा सवितृमण्डलमध्यवर्ती। नारायणः सरसिजासनसन्निविष्टः॥ केयूरवान् मकरकुण्डलवान् किरीटी। हारी हिरण्मयवपुर्धतशङ्खचक्रः ॥ १॥ इत्येवमादि । तत्र किमेवंविधेष्वेव ध्याननियमः पूर्णप्रादुर्भावादी वा यथाश्रुतेविति । तत्रं ध्येयस्वरूपश्रवणान्नियमप्राप्तायुच्यते। ध्याननियमस्तु दृष्टसौकर्यात् ॥६५॥ ध्याने ध्येयनियमकथनं दृष्टार्थ नानाविषयत्वे चित्तविक्षेपसम्भवा- त्। तस्मात सौकर्यार्थमेव तत्कथन ज्ञेयम् । अदृष्टार्थत्वे विकल्पादि- प्रसङ्गात् । तस्माद्यथाश्रुतेपु व्यवस्था। अत एव गोपीनां शिशुपाला- देश्च तन्नियममन्तरेणैव ध्यानस्य दुर्लभं फलमुपलब्धमिति ॥६५॥ तद्यजिः पूजायामितरेपां नैवम्॥६६॥ (गी। अ०९ । श्लो० २५) यान्ति मयाजिनोऽपि मामित्यन यजिः किं प्रसिद्धज्योतिष्टोमादिविपयः किं वा पूनावचन इति । त- वायं यजिः पूजायामेष प्रयुक्तः कुतो ज्ञायते विष्णुं पूजपेदित्यादिना शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०२आ०२] नित्यकाम्यपूजा तादर्थे विहितां तस्याः परभक्पङ्गत्वमात्रमत्र वि- धीयते तेन तादर्थ्य इतरयोगानां तु नतादय श्रुतं तेपामीश्वरोद्देश्य- कत्वं भक्तिसंयोगश्योभयं विधातव्यमिति वाक्यभेदः स्यात् । अथ वि- ष्णवे उरुक्रमाय सूते चरुमित्यादिविहितस्य भक्तिसंयोगोऽस्त्विति चेत् सत्यम् । काम्यानां तत्फलेनैव निराकासत्वात् । जीवनमात्रनिमि- तकनित्यपूजायास्तु भनिसंयोगविधौ बाधकाभावात् नित्यत्वे सततो- पस्थितिलाघवाच्चेति । अत एव मोक्षधमें हिंसायुक्तधर्मनिन्दायाम् । [ महाभारत । शां० [अ० २६५] सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् । कामरागा हि हिंसन्ति पहिर्वेयां पशून् नराः।। विष्णुं ये चाभिजानन्ति धर्मादेव यजन्ति ते। पायसैः सुमनोभिश्च तथापि यजनं स्मृतम् ॥६६॥ इति। अथ पूजाप्रस्तावादधिकरणत्रयम् । पादोदकं तु पाद्यमव्याप्तेः ॥६॥ एवं स्मर्यते । [ नृसिंह पु । अ० ५९ । श्लो० ४६] गङ्गाप्रयागगयपुष्करनैमिपाणि । पुण्यानि यानि कुरुजालपामुनानि ।। कालेन तीर्थसलिलानि पुनन्ति पापान् । पादोदकं भगवतः प्रपुनाति सयः ॥ १ ॥ इत्यन।तत् कि पादसंयुक्तं जलंपादोदकमुत पादे दत्तकोत्सृष्टं ज- लम् । तत्र पाचमव पादोदकं कुतो ज्ञायते अन्यथाऽव्यातिप्रसङ्गात् । तथाहि भगवतः साक्षात्पादसम्बन्धो न सम्भवति । नाप्यवतारद्वारा तस्याप्यनुष्टातृसन्निधानासम्भवात् । किन्तु पूजाधिष्टानप्रतिमापाद- सन्बन्धाटुपचाररतत्रापि प्रतिष्ठितायाः अप्रतिष्ठितायास्तु पूजार्थमा- वाहने सति तथा च शालियामशिलायधिष्टाने पादाभावे तम स्यात् । 4 [अ०२।आ०१] शाण्डिल्यशतसूत्रीय भाष्यम् । तत्रैवं व्याभ्यनुरोधात् पायमेवास्तु प्रतिमापत्यन्तव्यवहितसम्बन्धक- ल्पनाप्रसङ्गात् ॥ ६॥ स्वयमर्पितं ग्रात्यमविशेषात् ॥६८॥ पूजायां भगवते दत्तं नैवेद्यर्निमाल्यादिकं वैष्णवं सात्वतेभ्य इत्या- दिना प्रतिपाद्यत्वेन विहितं तदिह सात्वतत्वाविशेषादेव भगवद्भके- न स्वयमपि ग्रामं भोजनधारणादिना स्वोपकार्यमित्यर्थः । स्वयमपि ग्रहणे प्रतिपत्तिः सिध्यति । धर्मशाक्यं तु वर्जनीयमेव यथा अग्न्या- ‘युद्देशेन त्यक्तपुरोडाशस्यापि उत्तरार्धात स्विष्टरुतमवयति यजमान- पञ्चमाः पुरोडाशं भक्षयन्तीति प्रचिपतिस्तथेदमपि वचनादेव । अ- न्यथा सात्वतेभ्योऽपि न प्रतिपादयेत् परद्रव्यत्वात् । वचनादिति चे- 'न्न नहि वचने स्ववर्जनमुक्तम् । अथ ब्राह्मणेभ्यो दद्यादित्यादिना ब्राह्मणत्वादात्मनेऽपि दानप्रसङ्गादिति चेन्न दानस्य स्वस्वत्वध्वंसेन परस्वत्वापादानुरूपत्वात् । नचैवं प्रतिपत्ता युक्त पुरोडाशस्यापि यजमाने प्रतिपत्तिदर्शनात् कयादिवत् प्रतिपत्तिरपि स्वत्वापादिकैव । तदेवं यत्रान्यसात्वताऽसंपत्तिस्तत्र स्वयं ग्रहणेनाप्यवैगुण्यं परिहार्य- मेव । तथा स्वयं दत्तपाद्यादिधारणेऽपि शेयमिति । किञ्च (गी। अ. ३ । लो. १२) 'तैर्दतानप्रदायैभ्यो यो भुढे स्तेन एव स' इत्यत्र समानकर्तृकत्वात् स्वत्वध्वंसे समानकर्मत्वमतीतः। कासमभिव्याह- तनञः सामाधिकरण्येनान्वयात् तैई तानित्यत्र तज्जातीयपरत्वे माना- भावात्। तस्मादाधकं विना देवेभ्योदत्तमपि भोकव्यमितिध्येयम् ६८ निमित्तगुणाव्यपेक्षणादपराधेषुव्यवस्था ॥६९॥ [ वराहपुराणे । अ० १२४ श्लो०४ ] देवपूजापराधास्ते हात्रिंशत् परिकीर्तिताः । इत्युपक्रम्य हानिशापराधास्तत्तत्प्रायश्चित्तानि च वि- हितानि तत्र किं सर्वापराधवर्जनं पूजाङ्गमुत केपांचिद्दर्जनमङ्गं के- पांचित् पुरुषार्थ इति । अत्रोच्यते ( वराहपु०अ०१२४ालो०६५) शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०राआ०२] अकर्मण्येन पुष्पेण यो मामर्चयते नरः । पतनं तस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ॥ १॥ इत्यादि। तत्राकर्मण्यानां पुष्पाणां पर्युदस्तत्वान्न पूजाइत्वम् । किन्तु पू- जाकमप्रयोगमध्ये धमादिनार्पणे रुते तन्निमित्तमपेक्ष्य प्रायश्चित्तम्। यत्र तु (वराहपु० अ० २५श्लो० ३६ ) अदत्वा गन्धमाल्यानि धूपं यो मे प्रयच्छतात्यनेन पूजाक्रमभङ्गापराघे तत्तत्क्रमस्य पूजाङ्गत्वाद- वैगुण्यपरिहारात् तत्प्रायश्चित्तस्याङ्गत्वं द्रष्टव्यम्। पत्र पूजामन्तरेण (बराहपु०अ० १२५।लो. १) दन्तकाष्ठमसादित्वा यस्तु मामुपसमु- पतीत्यादि श्रुतं तत्र व्यकमेव पुरुषार्थत्वमिति व्यवस्थैवति ॥ ६९ ॥ एवं पूजाया भक्तिसंयोगसिद्धौ (गी०अ०९।श्लो. २६) पत्रं पु- प्पं फलं तोयमित्यनेन भगवटुद्देश्यकदानमात्रस्य भन्यङ्गत्वविधिरि- त्याह। पत्रादेानमन्यथा हि वैशिष्ट्यम् ॥७॥ ययदिष्टतमं लोके यच्चान्यद्दयितं गृहे । तत् तद्धि देयं प्रीत्यर्थ देवदेवाय चक्रिणे ॥ इत्यादिना प्राप्तस्य भगवदुद्देश्यकसर्वदानस्य भक्त्यङ्गत्वविधिः। अन्यथा पत्रादिचतुष्टयविशिष्टदानमेव स्यात् । प्रत्येकविधौ वाक्य - दः । तस्मात् पत्रादिशब्देन प्राप्तं दानमनय (तैतिरीय सं०) 'उपव्य- यत' इत्यनेन नित्योपवीतस्य दर्शाडुत्ववदङ्गत्वविधिरेव युक्त इति. सुकृतजत्वात् परहेतुभावाच क्रियासु श्रेयस्यः॥७१॥ ता भक्तयः सर्वकर्मसु श्रेयस्य एव कुतः परभक्तिहेतुत्वात् इतर- धर्मजन्यत्वाच्च यथा (गी अ०४ालो०१०११) बहवो ज्ञानतपसा पूता मझावमागताः। ये यथा मां प्रपद्यन्ते तास्वथैव भजाम्यहम् ॥ इति । भावशब्दश्य भक्तौ प्रयुक्तः।

[0|आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । गङ्गाजले किं न वसन्ति मत्स्याः। देवालये पक्षिगणा वसन्ति । भावोज्झितास्ते न फलं लभन्ते । तीर्थाच देवायतनाच मुख्यात् ॥ इत्यादौ। तथा (गी अश्लो०१६) चतुर्विधा भजन्ते मां जनाः सुरुतिनोऽर्जुन ॥ इति । अब पूर्वसुकृतजत्वाइकीनां तालेभ्यो मुख्याः एतेन भकिमी- मांसायां विचारो युज्यते न कर्ममीमांसायामित्युक्तम् ॥ १७ ॥ ननु भक्तानां न गौणमुख्पभावस्तथा सति (गी - अ०७६) चतुर्विधा भजन्ते मां जनाः सुरुतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ इति । चतुणी तुल्यवदभिधानं कि रातमित्यत आह । गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ।। ७२ ।। गौणं त्रैविध्यमेव तासां मुख्येन साहवर्यश्रवणं तु स्तुत्यर्थम् । यथा राजसमभिव्याहारेणामात्यानाम् । एवञ्च पापक्षयविपदुद्धारा- दिनिमित्तं स्मरणकीर्तनाद्यातभकिः ज्ञानार्थ यज्ञायाचरणं जिज्ञासो- भक्तिः । यथा च (बृहदा०) 'तमेतं वेदानुवचनेन ब्राह्मणाविविदिप- न्ति यज्ञेन दानेन तपसाऽनाशकेने त्यादि । तथा (गी। अ० १८॥ ०४८) स्वकर्मणा तमभ्यर्य सिद्धिं विन्दन्ति मानवाः । विष्णुपु० । अं० ३ ! अ. ७ । श्लो. १६) न चलति निजवर्णधर्मतो यः। सममतिरात्मसुहृदिपक्षपक्षे॥ न हरति नच हन्ति किञ्चिदुच्चैः। स्थितमनसं तमवेहि विष्णुभक्तम् ।। श्लो.

शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०राआ०२] अकर्मण्येन पुष्पेण यो मामर्चयते नरः। पतनं तस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे।। १ ।। इत्यादि। तत्राकर्मण्यानां पुप्पाणां पर्युदस्तत्वान्न पूजाइत्वम् । किन्तु पू- जाक्रमप्रयोगमध्ये धमादिनार्पणे रुते तन्निमित्तमपेक्ष्य प्रायश्चित्तम् । यत्र तु (वराहपु०अ०२५/लो० ३६ ) अदत्वा गन्धमाल्यानि धूपं यो मे प्रयच्छतात्यनेन पूजाक्रमभङ्गापराधे तत्तत्क्रमस्य पूजाङ्गत्वाद- वैगुण्यपरिहारात् तत्प्रायश्चित्तस्याङ्गत्वं द्रष्टव्यम् । यत्र पूजामन्तरेण (बराहपु०अ० १२५॥श्लो. १) दन्तकाष्ठमसादित्वा यस्तु मामुपसमु- र्पतीत्यादि श्रुतं तत्र व्यक्कमेव पुरुषार्थत्वमिति व्यवस्थैवेति ॥ ६९ ॥ एवं पूजाया भक्तिसंयोगसिद्धौ (गी अ०९।श्लो. २६) पत्रं पु- प्पं फलं तोयमित्यनेन भगवटुद्देश्यकदानमात्रस्य भन्यङ्गत्वविधिरि- त्याहा पत्रादेनिमन्यथा हि वैशिष्टयम् ॥७॥ यदिष्टतमं लोके यच्चान्यद्दयितं गृहे । तत् तद्धि देयं प्रीत्यर्थ देवदेवाय चक्रिणे॥ इत्यादिना प्राप्तस्य भगवदुद्देश्यकसर्वदानस्य भक्त्यङ्गत्वविधिः । अन्यथा पत्रादिचतुष्टयविशिष्टदानमेव स्यात् । प्रत्येकविधौ वाक्यो- दः। तस्मात् पत्रादिशब्देन प्रारं दानमनय (तैतिरीय सं०) 'उपन्य- यत' इत्यनेन नित्योपयोतस्य दर्शाइत्ववदगत्वविधिरेव युक्त इति७० सुकृतजत्वात् परहेतुभावाच क्रियासु श्रेयस्यः॥७१ ॥ ता भकयः सर्वकर्मसु श्रेपस्य एव कुतः परभक्तिहेतुत्वात् इतर- धर्मजन्यत्वाच यथा (गी.अ०४ालो०१.१११) वहवो ज्ञानतपसा पूता मनावमागताः । ये पया मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।। इति । भावशब्दश्च भक्तौ प्रयुक्तः।

[अ०२।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । गङ्गाजले किं न वसन्ति मत्स्याः। देवालये पक्षिगणा वसन्ति ।। भावोज्झितारते न फलं लभन्ते। तीर्थाच्च देवायतनाच्च मुख्यात् ॥ इत्यादौ। तथा (गी०अ०७श्लो०१६) चतुर्विधा भजन्ते मां जनाः सुरुतिनोऽर्जुन ॥ इति । अत्र पूर्वसुरुतजत्वातीनां तास्तेभ्यो मुख्याः एतेन भक्तिमी- मांसायां विचारा युज्यते न कर्ममीमांसायामित्युक्तम् ॥१७॥ ननु भक्काना न गौणमुख्यभावस्तथा सति (गी०अ० श्लो३।६) चतुर्विधा भजन्ते मां जनाः सुरुतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ इति । चतुर्णी तुल्यवदभिधानं कि कृतमित्यत आह । गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥ ७२ ।। गौणं त्रैविध्यमेव तासां मुख्येन साहचर्यश्रवणं तु स्तुत्यर्थम् । यथा राजसमभिव्याहारेणामात्यानाम् । एवञ्च पापक्षयविपदुद्धारा- दिनिमित्तं स्मरणकीर्तनाया-भक्तिः ज्ञानार्थ यज्ञायाचरणं जिज्ञासो- भक्तिः । यथा च (बृहदा०) 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिप- न्ति यज्ञेन दानेन तपसाऽनाशकेनेत्यादि । तथा (गी। अ० १८ । श्लो. ४८) स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दन्ति मानवाः । विष्णुपु० । अ० ३ । अ० ७ । श्लो. १६] न चलति निजवर्णधर्मतो यः। सममतिरात्मसुहृद्दिपक्षपक्षे ।। न हरति नच हन्ति किञ्चिदुच्चैः । स्थितमनसं तमवेहि विष्णुभक्तम् ।।

शाण्डिल्यशतसूत्रीय भाष्यम्! [अ०|आ०२] इत्यनेन स्वस्ववर्णाश्रमविहितवेदानुवचनादीनां ज्ञानार्थमनुष्ठान जिज्ञासा भकिः अार्थिता भक्तिरपि विधा तत्रैका परमत्यर्थं कि- यमाणा पर्योका राज्यस्वर्गायथ कियमाणा च कीर्तनादिरूपाऽपरा । यथा [विष्णुपु० । अं० ३ । अ० ७ [ श्लो० ३] श्रीमान् मनोरथान् कामान स्वार्गवन्यं परं पदम् । प्राप्नोत्याराधिते विष्णो निर्वाणमपि चोत्तमम् ॥ इति । तत्र निर्वाणप्राप्तिः परभनिहारेति परततिप्रयोजनार्थिता (मी। अ० ९।श्लो०१९) ये भजन्ति च मां भक्त्या मयि ते तेपु चाप्यहमि- त्यनेनसहकवाक्यत्वात् । यञ्च भागवते ( स्कन्ध ७ । अ०५ । श्लो. २२।२३) श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्य सख्यमान्मनिवेदनम् ॥ इति पुंसार्पिता विष्णी भक्तिश्चेन्नवलक्षणा । इति । तदेतेप्वेव यथायथमन्तावनीयम् तदेवमुपाधीनामेपामुपधेयसा- कर्येऽपि न दोप इति ॥ ७॥ ननु कीर्तनादीनामङ्गत्वे कथमाादिषु प्राधान्यं घटते इत्यपेक्षा- , यामुच्यते। बहिरन्तरस्थमुभयमवेष्टिसववत् ॥७३॥ स्मरणकीर्तनादीनां परमत्स्यतया तदन्तर्गतत्वमनारभ्य फला- न्तरश्रवणात् तद्दर्भािवनोत्कर्पोऽपि । यथा राजसूयान्तर्गताप्यवेष्टिः प्रधानापि अनारभ्य फलान्तरसम्बन्धात् तत उत्रुप्यते । यथा वा बृ- हस्पतिसवः अचिन् प्रधानमपि वाजपेयाङ्गं तहत् प्रमाणसत्त्वस- स्वाभ्यां विशेषात् । एवं प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तहिष्णोः सम्पूर्ण स्यादिति श्रुतिः॥

[अ०।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम्। इत्यनेन सर्वकर्मणां नैमित्तिकाङ्गत्वेनापि प्रवृत्तेः । स्वभावात्वं स्वर्गादिफलाय माधान्यं च न विरुद्धमिति ॥ ३ ॥ इदानीमानभक्तौ विशेपश्चिन्त्यते । स्मृतिकीयो कथादेश्यातौ प्रायश्चित्तभावात् ॥ ७४ ॥ स्मरणकोर्त्तनकथानमस्कारादीनामार्त्तभक्तौ निवेशस्तत्तत्पापकृत- नरकार्त्तिमतां तत्तत्पापक्षयहेतुत्वेन कथनातू यथा [ विष्णुपु०। अं. २१ अ. ६॥ श्लो०३२॥३३] पापे गुरूणि गुरुणि लघूनि च लघुन्यपि । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ १॥ प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥२॥ तथा (विष्णुपु०। अं०६।अ०७१ श्लो०९) यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ एवं [ महाभारका शा० । मोक्षप० । अ०३४५1] सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । । न तथा फलदं सौते नारायणकया यथा ॥ पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम् । नारायणाश्रया पुण्यां सर्वपापप्रणाशिनीम् ॥ इत्यादि। तस्मायुक्तमात्तौं निवेशनमिति ॥ ७ ॥ भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्मह- स्वपि॥७५॥ स्यादेत न्यायविरोधादेतवचनानां स्वल्पपापविषयत्वमेव युक- म् । अन्यथा भूयः केशसाध्यानामननुष्ठानलक्षणमप्रामाण्यमिति चेन . ur शाण्डिल्पशतसूत्रीय भाष्यम् । [अ०२|आ०२] तेपामामरणमुपसंहारस्मरणात् केशाधिक्यात् । यथा (विष्णुपुः । अं० २। अ० ६ । श्लो. २९) तस्मादहर्निशं विष्णुं संस्मरन् पुरुषो मुने। न याति नरकं शुद्धः संक्षीणाखिलकल्मपः ।। इत्यनेन सातत्योपसंहारात् उपक्रमोपसंहारयोरेकार्थत्वादिति भावः । न चोपक्रमे कालः श्रूयते येन तहिरोधादुपसंहारस्य भिन्ना- र्थतीपि भवेत् । तथा च क्लेशसाम्यादितरेपां नाननुष्ठानमप्रामाण्यम् (विष्णुपु० । अं० २। अ० ६ श्लो० ३५) प्रातर्निशि तथा सन्ध्या- मध्यागादिपु संस्मरन् इत्येतदवगुत्यानुवाद एव । नाप्यनुतनाधिका- रिकमिदम् । (विष्णुपु० । अं० २ । अ० ६ । श्लो० ३६) कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते। प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ।। इत्यस्यापि सर्वप्रायश्चित्ताङ्कानुतापस्यानुवादत्वादेकमित्यस्यापि प्रायश्चितान्तरनरपेक्ष्यस्य न्यायप्रामस्यानुवादः । अन्यथा वाक्यानि मियेरन् विशिष्टविषयाश्च भवेयुः। अतो यच्छब्दान्तर्गतत्यायथायथ- मनुयादत्वान्नार्थवादत्वं पूर्ववाक्यानाम् । अत एवान्यत्रापि (विष्णु- पु० । अं० ३ । अ० ७ १ श्लो. ३४३५) किङ्करा दण्डपाशौ वा न यमो न च यातनाः। समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा॥ चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं विद्यते तस्य स पवित्रकरो यतः। इत्यादिभिः सातत्यमुक्तमिति ॥ ७५ ॥ लघ्वपि भक्ताधिकारे महत्क्षेपकमपुरसर्वहानात् ॥६॥ सम्वपि सरुत्स्मरणकीर्तनादि महतामपि पापानां क्षेपक नाशक भवति । यतो भक्ताधिकारे प्रायश्चित्तान्तराणां सर्वपा त्यागलक्षणहा- .

[अ०२।०२] शाण्डिल्यशतसूत्रीय भाष्यम् । निप्रतीतेरित्यर्थः । यथा गौतम् (गी । अ० १०१ श्लो० ६६ ) सर्वधर्मान् परित्यज्य मामेकं शरणं ब्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः ॥ इति । अत्र हि न काम्यकर्मत्यागपूर्वकत्वमर्थः काम्यत्यागे पापाभावात् किं भगवता मोक्षणीयम् । अथ पापान्तरं नाश्यं काम्यत्यागस्यादृष्टा- र्थत्वापत्तेः नित्यनैमित्तिकयोरपि त्यागपूर्वकता न तस्यार्थः तयोरत्या- गे यदि विधिरस्ति न ततः पापं किं मोक्षणीयम् । अथ नास्तीति वा- ध्यम् । मैवम् । एवं वाक्येनैव तद्दिधानात् पापाजनकत्वात् । अथ सर्वधर्मान् परित्यज्येत्यनेन संन्यासिनमनूय तदधिकारिकमिदं तेपा- मवकीर्णादिप्रायश्चित्तादिस्मरणात् तैः सह विकल्पप्रसङ्गात् पूर्ववन्म- हतामननुष्ठानं च स्यात् । न च सातत्येन तद्दोपपरिहारः। महापातकयुक्तोऽपि ध्यायन्निमिषमच्युतम् । पुनरतपस्वी भवति पंक्तिपावनपावनः ।। इत्यादिना लघुनोऽपि महत्क्षेपकत्वात् । किञ्च संन्यासाश्रमस्या- सन्निधानेन बुद्ध्यनारोहात्। तस्माद्यथा लोके सर्वान् विहाय मां भज केशांस्ते नाशयिष्यामीत्यत्र क्लेशनाशकान्तरहानिः प्रतीयते । तथान्त- रपापनाशकान्तरत्यागोऽवगम्यते वाक्यादेव । एतेन कथं चित्संन्या:. सविधायकेन सहकाध्यायपाठेऽपि न तदिपयकत्वं प्रकरणसन्निधान- योः सबलत्वात् । किञ्चास्मिन्नध्याये । (गी । अ०१८ श्लो. २) काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरित्यादिना काम्यकर्म- त्याग एवोको न संन्यासाश्रमः एवञ्च प्रायश्चितान्तरत्यागसङ्कल्पेन केवलभगवन्नामादिभिराति यस्सर्तुमिच्छति तदधिकारिकमेव सक- रस्मरणादि तथा च भिन्नाधिकाराहूपणानां समुचितिः । नापि केश- भयास्यसामननुष्ठानम् । (गी. अ: १८ श्लो. ८) दुःखमित्येव यत् कर्म कायळेशभयात् त्यजेत् ।

शाण्डिल्यशतसूत्रीय भाष्यम्। [अशआ०२] स रुत्वा राजसं त्यागं नैव त्यागफलं लभेत् ।। इत्यनेन तादृशसंन्यासस्य हेयत्वात् । (विष्णुपु. 1 अं०६। अ०७१ श्लो. १० कलिकल्मपमत्युग्रं नरकात्तिभदं नृणाम्। प्रयाति विलयं सद्यः सरुयत्रानुसंस्मृते । इत्यादि। तदधिकारपरम् । एवम् (गी । अ० ९ । श्लो० ३०/३१) • अपि चेत् सुदुराचारो भजते मामनन्यभाक् । सांधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति नियच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ।। इत्यनेन तथा (नृसिंहपु. । अ० श्लो० २८१२९) नारकाः कृष्णकृष्णेति नारसिंहति चुक्रुशुः) 'इति संकार्तितो विष्णु रकै निपूर्वकम् । भारक्यो यातनाः सर्वास्तेपां नष्टा महात्मनाम् ॥ इत्यादिना च भक्त्यधिकारः सुव्यक्त इति । अत्र कीर्तनस्योचार- णत्वमावमिह प्रतीतम् । नतु प्रथमान्तपदेनेत्यादिनियम इति ॥५६॥ तत्स्थानत्वादनन्यधर्मः खले वालीवत् ॥ ७७॥ (विष्णुपु ।०२। अ० ६ । श्लो० ३४) प्रायश्चित्तं तु तस्यैक हरिसंस्मरणं परमित्यादौ नामाऽतिदेशेन प्रायश्चित्तान्तरधर्मस्तु न म- न्तव्यः। प्रायश्चित्तस्थानत्वात् तत्स्थाने तद्दिधानादित्यर्यः। यथा(आ- श्वलायनश्रौतसू । अ० ९ । खं० ५) 'खले वाली यूपो भवतीत्यत्र पशुनियोजने यूपकार्ये खले वालीविधिरिति ।यूपधर्मस्याप्टालिकरणा- देः प्रसङ्गस्तहदन नखलोमादिवपनानां प्रायश्चित्तधर्माणामपासिरिति। न कीर्तनादेरपि पापक्षयहेतुत्वान् प्रायश्चित्तमेवेति वाच्यम् । प्रायो नाम तपः प्रोकं चितं निश्चय उच्यते।

[अ० आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । तयोनिश्चयसंयुक्त प्रायश्चितमिति स्मृतम् ॥ इत्यनेन तपोरूपे प्रायश्चिनशब्दो मुख्यः अन्यत्र गौण इति ध्ये- यम्॥७७॥ अयाड़ानां प्रधानाधिकरणनैयत्यात् तदधिकारश्चिन्त्यते । आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत्॥७८ निन्दितचाण्डालादियोनिपर्यन्तं भक्तावधिक्रियते संसारदुःखजि- हासाया अविशेषात् । अथ वेदाध्ययनानधिकारात् कथमत्र त्रैवर्णिका- नां स इति चेत् तबाह पारम्पर्यादिति। (पूर्वमीमांसासू० । अ०१। पा० १ ।सू०२) 'चोदनालक्षणोऽर्थो धर्मः ( उत्तरमीमांसासू.) अ० ३१ पा० सू०३] 'शास्त्रयोनिस्वादिति न्यायादलौकिकोऽर्थः श्रुत्यैकसमधिगम्य इत्यत्र नविप्रतिपद्यामहे । किन्तु स्त्रीशूद्रादीनामि- तिहासपुराणादिद्वारा चाण्डालादीनां च स्मृत्याचारवदुपदेशपारम्प- येण ज्ञानमपि श्रुतिमूलमेव भवति यथा तेषां सामान्याऽहिंसाधर्मा- दिज्ञानम् । अन्यथा तदसिद्दिप्रसङ्गादिति ।। ७८ ॥ अतो द्यविपकझावानामपि तल्लोके ॥ ७९ ॥ यतः सर्वाधिकारोऽतः खलु येपामत्र परभक्तिविपक्कभावं न गता तेषां श्वेतहीपे भगवळोके परभक्तिसाधनानुष्ठानं स्मर्यते । यथा [ म- हाभार• Jशां० । मोक्षधर्मे । नारायणीये। ( अ. ३३८१) क्षीरोदधेरतरतः श्वेतहीपो महामभः । तब नारायणपरा मानवाश्चन्द्रवर्चसः ।। एकान्तभावोपगतास्ते अनाः पुरुषोत्तमे। इत्यायुपक्रम्य तेपां परभक्तिसाधनानुष्ठानं श्रुतम् । [ महाभार- शांक मोक्षधर्मे। अ०३३८,] सहिताश्चाभ्यधावन्तस्ततस्ते मानवा द्रुताः। रुताअलिपुटा हृष्टा नम इत्येव वादिनः ।।

* शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०२ आ०२] ततो विवदतां तेपामश्रौपं विपुलध्वनिम् । पलिः किलोपक्रियते तस्य देवस्य तैनरैः॥ इत्यादि । तस्मात् सर्वत्र तदधिकार इति । अत एव [ उत्तरमी- मांसासू । अ०११ पा० ३॥ सू२६ ] तदुपर्यपि बादरायणेन सम्भवा- दिति सूत्रितम् ॥ ७९ ॥ अथ विपकभावानामपि कथं न तल्लोक इत्युपोमातेनोप्यते। क्रमैकगत्युपपत्तेस्तु ॥८॥ तुश्चागतशडाव्यवच्छेदाः । नारायणीय एव श्रूयते ( महाभा- २० शां। अ०३४६१) येऽतिनिकलुपा लोके पुण्यपापविवर्जिता इत्युपक्रम्य आदित्यमण्डलद्वारा अनिरुद्धप्रद्युम्नसंकर्षणव्यूहकमेण ग- तिमभिधायाभिहितम् । [महाभार• शां० अ०३४६१] समाहितमनस्कास्तु नियताः संपतन्द्रियाः। एकान्तभावोपगता वासुदेवं विशन्ति ते ।। इति । क्रमगत्यभिधानम् । तथा पश्चादुनम् ।। महाभार शामो- क्षधर्मे । अ०३५.1] ये तु दग्न्धना लोके पुण्यपापविवर्जिताः। तेषां त्वयाभिनिर्दिष्टा पारंपर्यक्रमादतिः।। चतुर्थी चैव ते गत्यां गच्छन्ति परमं पदम् । नुनमकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः॥ अगत्वा गतयलिलो यद्गच्छन्त्यव्ययं हरिम् । इत्येकगत्यभिधानं च पक्कभक्तिविपयत्वेनोपपद्यते । अन्यथा वि- रोधात् तस्मादपकविषयस्तत्तल्लोकलाम इति ॥ ८॥ उत्क्रान्तिस्मृतिवाक्यशेपाच ॥८॥ उत्क्रान्तौ ।गी। अ०८१ श्लो०१०। भक्त्या युक्तो योगरलेन चे ४७ [अ०२।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम्। वेत्युपक्रम्य (गी। अश्लो०१३)। ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ इत्युक्तम् । तत्र च वाक्यशेष.। (गी। अ०८ श्लो-२४)। अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ इति क्रमादतिः श्रुता। तथा ।(गी। अ०८१श्लो०१६)। आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ इतिवाक्यशेपे लोकोपक्रमादुपशब्दमहिम्ना च तत्समीपलोकप्रा- प्तिरविपकभावानामेव युक्ता विपक्कभावस्य न तल्लोकगमनमपि फलं युज्यते तत्फलस्याक्षयित्वात् तल्लोके साधनाननुष्ठानश्रवणाच । किञ्च अविपक्चभनेखत एव क्रममुक्तिसिद्धौ तत्कालीनस्मरणविधियर्थ्य- प्रसङ्गात् । न च तेन परभनिसमुच्चयो घटते । (गी० अ०८॥ श्लो. २२) पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्ययेत्यन्यनिरपेक्षमोक्ष- साधनत्वावगतेः । तस्मात् तल्लोकेऽप्यधिकारः । भारतभूमेस्तु (वि- ष्णुपु०। अं०२। अ०३। श्लो०५) न खल्वन्यन मानां भूमौ कर्म विधीयते । इत्यनेन कोत्पत्तिहेतुतैव । भक्तिस्तु न कात्मिकेत्युक्तं प्राक् नदडानामप्राभिः स्यादिति चेन्नं प्रधानप्राप्तावेवाड़ानेनिपादस्थपति- यागाङ्गवदिति । शूद्रादीनां तु वैदिकमन्त्रजकर्मनिवृत्तिर्न तु स्मरण- कीननादेर्भक्तिसाधनस्येति तावतैवाधिकारसिद्धौ न विद्याप्रयुक्तिक- ल्पना युक्ता ॥१॥ अस्तु तर्हि महापातकिनामपि परभकायेवाधिकारस्तथा व- दावेदानुवचनादावपीत्यत आह ।

१८ शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०२।आ०२] महापातकिनां त्वातौ ॥४२॥ पतनहेतुपापरतानां च पुनरात्तिभकावेवाधिकारः प्रायश्चिनवन्ना- न्यत्र तत्पापक्षयस्य सर्वापेक्षयाऽभ्यहिंतत्वात् भुञ्जानोवर्द्धयेत् पाप- मित्यादिना । तदपगमे तु सुतरामधिकारसिद्धिः ॥ ८२ ॥ अथैकान्तिकप्रस्तावात् सर्वधर्मः किं परभक्तिो भिन्न इति श- ड्रापिशाचीमपाकरोति। सैकान्तावोगीतार्थप्रत्यभिज्ञानात् ॥८३॥ सा परा भकिरेवैकान्तभावो नान्यः कुतः गीतार्थेन प्रत्यभिज्ञाश्र- वणात् । यथा नारायणीय एव (महाभारतमोक्षध ०।०३५०। सहोपनिषदो वेदान् ये विप्राः सम्यगास्थिताः। पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः।। ततो विशिष्ट जानामि गतिमेकान्तिनां नृणाम्। केनैप धर्मः कथितो देवेन ऋपिणाथ वा ॥ इति प्रश्ने प्रत्युत्तरम् । समुपोढेप्वनीकेषु कुरुपाण्डवसेनयोः अर्जुने विमनस्के वै गीता भगवता स्वयम् ॥ इति । तस्मादेकान्तिता परभक्तिरिति ॥ ८३॥ अथ गौण्योऽपि साक्षान्मुनि जनयन्तु को दोपस्तमाह । परां कृत्वैव सर्वेषां तथायाह ॥८४॥ परां भक्ति रुत्वैव सर्वेषां मुक्तावुपयोगः । तथा हि सहेतुकं भग- वानाह (गी अ०१लो०६८) य इदं परमं गुहा मडकेवभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयम् ॥ इति। तचैतधर्मस्योपदेशफलमपि ब्रह्मभावायत्तिरित्येवार्थसिद्धौ भक्ति [अ०३|आ.1] शाण्डिल्यशतसूत्रीय भाष्यम् । मयि परो कत्वेति किमर्थमाह । तस्या मोक्षसाधनत्वेन श्रृंतत्वात् । अत एवोपरिचरवसोः (महामार० । शां० । अ० ३३७ ।) आत्मराज्यं धनं चेत्यादिना परमेश्वरानुरक्तिरूपाया भनेर्लिङ प्रद- शितमिति स्वतः प्रयोजनस्वाभावात् । तस्मात् सर्वेषां मुक्तिहेतुत्वेन श्रुतानां परभक्तिजननेन मुक्कावुपयोग इत्यभिप्राय उन्नीयतइति । नचोभयजनकत्वं तस्य कर्मत्वेन मोक्षाजनकत्वात् । एवञ्च दृष्टार्थता भवति वाक्यस्येति ॥ ८॥ इत्याचार्य स्वप्नेश्वरविइहरविरचिते शाण्डिल्यशतसूत्रीये भाष्ये दि- तीयाध्यायस्थ द्वितीयमादिकम् ॥ ॥ समाप्तश्चाध्यायः॥२॥ भजनीयोत्तमत्वेन भक्तरुत्तमता यतः । भकतनावतश्थान भजनीयो निरूप्यते॥ अजनीयेनादितीयमिदं कृत्स्नस्य तत्स्वरूपात् ॥४५॥ ज्ञानाधीना ज्ञेयसिद्धिरिति तन्त्रेप निर्णयः । ज्ञानं सत्ता न सा जातिर्जात्यादौ तदसवतः॥ सच्चे या नेष्ठसम्बन्धकल्पनागौरवादाप। तस्माज्ज्ञानं परं ब्रह्म सर्वत्रानुगतं स्वतः॥ तदभेदो दृश्यमाने दृश्यभेदस्तु सत्परे। घटो ज्ञानमितीटक स्यात् प्रत्यया सन्निवेति चेत् ॥ अस्ति स्वरूपधी व सत्यत्वेनानुपस्थितेः। सदुपादानविपये ज्ञानेच्छाकृतिहेतुना ॥ तासां सविपयत्वेन हेतुत्वे लाघवं महत् । यत् तत् सविषयं ब्रह्म गुणवन्नैव गौरवात् ॥ कालवेयोपाधिरता तज्ञातुत्वादिकल्पना ॥५॥ .

५० शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०३आ०१J तच्छक्तिर्माया जडसामान्यात् ॥८६॥ तस्य ब्रह्मण ऐश्वर्यशक्तिर्मायेति गीयते (गो०अ०भो०१४) दैवी झेपा गुणमयी मम माया दुरत्यया । मामेव ये प्रपयन्ते मायामेतां तरन्ति ते॥ मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगहिपरिवर्तते ॥ तन्मायात्वं तु कार्याणां वैचित्र्यान्नानृतत्वतः। कार्यसच्चोपपत्यर्थ ब्रह्मसत्ताश्रुतरिति ।। मिथ्यात्वस्यानुपक्तश्च तन्मिथ्यात्वं न साम्प्रतम् । तत्वज्ञानेन बाध्यत्वं मिथ्यात्वमिति चेन्नहि ॥ मिथ्यात्वस्याप्यतथ्यत्वात् सत्यत्वं सुतरां स्थितम् । मिथ्यात्वस्य च सत्यत्वे दृश्यसत्यत्वमागतम् ।। अनीकानामभानाच भास्यत्वे तु सदेव तत् । रजौ सादिभान यदन्यधारण्यातिरेव सा॥ अन्यस्य सदसवाभ्यां बाधाधारव्यवस्थितेः। सा माया जडसामान्य ज्ञेयत्वं नित्यमेव तत् ॥ अन्यथा तु व्यवस्था स्यात् तस्माञ्चिज्जाड्यनित्यता ॥८६॥ व्यापकत्वाद्याप्यानाम्॥८७॥ एवं व्यापकतन्वेभ्यो व्याप्यतच्चसमुहवः । व्यापकानां हि ताटारम्याक्ष्याप्योपादनता मता ॥ न तावत् समायेन भेदसम्बन्धगौरवात् । शब्दानां समयोऽप्येवं शृङग्राहिकया लघुः॥ सच्चेन सर्वकार्येषु कारणत्यं परेरितुः। निमित्तचं हितहुहेर्योद्धव्येप्वनुगत्वतः ।।

[अ०३|आ०१] शाण्डिल्यशतसूत्रीयं भाप्यम् । बुद्धस्तु साक्षिक्षास्याया अबोध्यत्वं यतो धियः। चोदव्याया बुद्धितत्वव्यभिचारेऽपि सम्भवेत् ।। सुप्नोत्थितस्य प्रलयाहुद्धेः प्रथममुद्भवः। कार्यकारणभावादि बुद्ध्या निर्माति स प्रभुः॥ स्वतो निर्विपयाप्येपा चैतन्योपाधिभावतः। तैलादिवत् प्रदीपस्था स प्रकारप्रकाशिनी (छ.1) करिष्यामीतिसङ्कल्पादहङ्कारोहवस्ततः। स ऐक्षत बहुस्यामित्येवमादिश्रुतिस्मृतेः॥ बुद्धेषिकारेष्विच्छादावनुगत्वादहतेः। साप्येकतवं तच्चे तु बुर्व्यािपकभावनात् ॥ ईशोऽहं कतिजन्यत्वात् तन्नैयत्यादहकतेः। मात्राभूतेन्द्रियादीनामहङ्कारोऽपि कारणम् ।। तत्र शब्दस्पर्शरूपरसगन्धत्वसंज्ञया । सामान्यान्येव शब्दादिस्थलानां चापि हेतवः ।। सर्वन ग्रह एव स्यात् तत्त्वानामिति चेदतः। विकारयणे जातिग्रहवत् तद्ब्रहस्थितः ।। एवं व्यापकतवानां व्याप्येष्वनुगमः क्रमात् । ब्रह्मादिसर्वतत्वानां घटोपादानता स्फुटम् ॥ न कर्मणान्पासिद्धिरिह तवस्य युज्यते । तादात्म्यादन्यथासिद्धरतादात्म्यमयोजकम् ।। एवं कारणतच्चानां मोक्षोपायतया पुनः। निर्मितिः प्राणिबुद्ध्यादरतादात्म्पात् पृथक् पृथक् ॥ आसर्गप्रलयादीनां बुद्धिनास्ति न यत् कचित् । सुपुप्तौ जीवबुद्धीनां लयोनन्तः स मोक्षणे ॥ ॥ ८॥ अयानीश्वरसाङ्ख्यानां बुद्दे: सगों न युज्यते ।

शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०भा०1] कमाद्विनिगमाभावादित्यतन सूत्रमुच्यते ॥ न प्राणिवुद्धिभ्योऽसम्भवात् ॥ ८८॥ क्रमाद्देवपिसर्गादिः श्रूयते करसं बुद्धितः। सम्भयाइतसर्गोऽयं तस्मादीशोऽस्ति बुद्धिमान् ॥ ८८ ॥ निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पिटवत् ॥ ८९॥ उच्चावचानि भूतानि धर्माधर्मानुसारतः। निर्माय निर्मिमीतेऽसी वेदास्तद्धितकाम्यया ॥ यथा पितोल्पाय पुत्रानज्ञातो ज्ञापयत्यपि। हिताहितपरीहारी वाक्यैस्तदयं प्रभुः ।। ८९॥ मिश्रोपदेशान्नेति चेन स्वल्पत्वात् ॥९॥ अथायमीश्वरो नैव हितः पितृसमो यतः। पापसाधनहिंसाभिर्मिश्रयागोपदेशनात् ।। इति चेन प्रधानांशफलसौख्यायपेक्षया। अङ्गाहेंसाफलाल्पत्वान्नाहितस्तदिधानरुत् ॥ ननु क्रत्वङ्गहिंसायाः प्रधानैकफलत्वतः। न सामान्यनिषेधस्य विपयत्वं प्रसज्यते ॥ कुर्यान्न कुर्यादित्येवं विकल्पस्त्वन्यथा भवेत् । तस्मादिशेपादन्यत्र स्पायदावनीयवत् ।। अनोच्यतेऽडहिंसायाः स्यादपूर्वस्प हेतुता। पापहेतुश्च सामान्यहिंसेत्येवाऽविरोधिता। अथ प्रस्त्वदुःखस्याननुबन्धीष्टहेतुता। विध्यर्थोऽये नत्रायुक्तस्वदभावस्य बोधकः ।। तथा च सर्वान्मा हिंस्याटस्य दुःखायहेतुता। सत्यं यागाइहिंसातो यहुःखं प्रबलं न तत् ।। प्रधानफलसौख्यादे यत्यान्नान्तरीयकम् ।

[अ०३|आ०१] शाण्डिल्यशतसूत्रीयं भाप्यम्। अन्यथातिप्रसङ्गः स्यातू प्रबलत्वानिरुनितः।। तस्माजातिविशेषोऽयं दुःखेषु प्रबलत्वता। प्रायश्चित्तादिमरणे प्रयागमरणेऽपि वा ॥ आत्महत्यारुतं दुःखं तत्फलापेक्षया लघु । अतः प्रत्यवमर्श हि प्राह पञ्चशिखोऽपि तत् ॥ स्वल्पत्वान बलीयस्त्वायत्र दुःखस्य गौरवम् । पर्यग्निकरणोत्सर्गास्तत्र श्रुत्यैव दर्शिताः॥ [मनु सं० अ० ३१ श्लो० ६८] पञ्चसूना गृहस्थानामिति स्मृतिषु चोदितम् । न सामान्यविशेषोक्तिर्न शून्ये सुतरां यथा ॥ [विष्णुपु० । अं० ३। अ० ६१ श्लो० १८११९] रङ्गोपजीवी पशुहा नरकं शरणं व्रजेत् ॥ ९० ॥ श्रुतिप्रसाच्छौतानामपूर्वमथ चिन्त्यते । कर्तृभोक्तृगतं तत् किमय वा परमेश्वरे॥ फलमस्मादादरायणो दृष्टत्वात् ।।९१॥ [ उत्तरमीमांसा० भ० ११पा० १।सू० २] राजादिरोपतोपाभ्यां दृष्टत्वान कर्मणां फलम् । अस्माद्ब्रह्मण एवाह भगवान् बादरायणः॥ तम कर्तुगत पुजाष्टिफलदभार । अथ भोकृगतो भोगः कस्मिन्नित्येव चिन्त्यते ॥ अन्योन्याश्रय एव स्पाटुभयोः स्वम्पपेक्षणात् । तस्मादृष्टतया रोपतोपाभ्यां परमेशिनुः॥ हिताहितफलमातिः फलोद्देश्यगता भवेत् । नाप्युद्देश्यगतत्वेन व्यापारान्तरकल्पनम् ॥ अन्यथा राजसेवादावप्यपूर्व प्रसज्यते। ।

. शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०३|आ०२] अत एवेश्वरप्रीतिप्रदत्वं कर्मणां श्रुतम् ॥ ५॥ [गी अ० १२३ श्लो. २०] ये तु धर्मामृतमिदं यथोनं पर्युपासते। . लद्दधाना मत्परमा भकास्तेऽतीव मे प्रियाः॥ रोपतोपादिसत्वेऽपि न संसारित्वमीशितुः। तहृत्तत्वाददुःखत्वान्नित्यमुक्ततयापि च ॥९॥ व्युत्क्रमादप्ययस्तथा दृष्टम् ॥ १२॥ प्रलयो व्याप्यतच्यानां व्यापकेयूक्रमान्मतः। व्यापिकायां मृदिव्याप्यघटादिलयदर्शनात् ॥ १२॥ इत्याचार्यश्रीस्वप्नचरविदहरविरचिते शाण्डिल्यशतसूत्रीये भाष्ये तृतीयाध्यायस्य प्रथममाह्निकम् ॥१॥ जीवस्य ब्रह्मभावो हि मुक्तिरित्यभिधीयते । तदिवेकतयात्रापि भजनीयविवेचनम् ॥ अन्यस्य कथमन्यत्वं घटेतेति वितर्कयन् । जीवानां भगवडावे योग्यतामाह सूबरुत् ।। तदैक्यंनानात्वैकत्वमुपाधियोगहानादादित्यवत्॥९३॥ (छान्दो०) सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन (गी। अ.१३ श्लो. १०३३११४)। यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ क्षेत्रमं चापि मां विद्धि सर्वक्षेत्रेषु भारत । इत्यादिभिस्तस्यैकत्वमेव स्वभावः । उभयथा चात्मप्रत्ययःस जीवोपाधिबुद्धिरात्मानुरुतः। तथा च श्रुतिः 'एकधा बहुधा चैव दृश्य- ते जलचन्द्रवत्' । (विष्णुपु० अं०२ । अ० १६ । श्लो० १२)।

. [अ० आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । सितनीलादिभेदेन यथैकं दृश्यते नमः। भ्रान्तदृष्टिभिरामापि तथैकः सन् पृथक् पृथक् ॥ इति । ततः परसत्या जीवोपाधिबुद्धिहाने सति पुनरेकत्वमप्य- विरुद्धं यथादित्यस्य प्रकाशात्मनः प्रतिविम्बोपाधिदर्पणाद्यपगमे त- इत् ॥ १३॥ पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् ॥१४॥ पृथगेव परस्परमत्यन्तभिन्नाः प्रकाशात्मान एव जीवाः अन्यथा कश्चिन्मुक्तः कश्चिद्ध इति व्यवस्था न स्यादिति चेन कथंचिदनी- श्वरसांख्यानां तथा संभवेऽपि सेश्वरसांख्यानां तदसम्भवात् । कथम् । प्रकाशात्मनां परेण परमेश्वरेण सह द्रष्टत्वदृश्यत्वलक्षणसम्बन्धाभा- वात् तेषां स्वप्रकाशतयादित्येनैव प्रदीपानामप्रकाशनात् । तथा- चानीश्वरत्वमसर्वज्ञत्वं ज्ञेयत्वं च ब्रह्मणः स्यात् । अथ प्रकाश्यास्तेपां जामप्रसङ्गानापि मियोबुद्धिवृच्या प्रकाश्यत्वम् । तद्धि तमोऽभिभू- त्यैव नेवान्तःकरणसववृत्या । नच तदयोग्यत्वे तत् सम्भवति ।न खल्वावरणनिवृत्तावपि दापी दीपान्तरप्रकाश्य इति बाह्याभ्यन्तरप्र- काशयोः कश्चिदीपाधिकोऽप्येकधर्मो येन [बृहदा०] स्वयं ज्योतिरेवायं पुरुप' इत्यादौ गौणो ज्योति शब्दः। तस्माञ्चिदात्मा जगत्प्रकाशक- स्वेनैव सिध्यतीति न तत्र परापेक्षा। किञ्च मनोधर्मत्रमतवधियोरधि- ठानतया चात्मसिद्धिप्रत्यूहैव बुद्धिवृत्तीनां तु गौण एव ज्ञानत्वसुख- त्वव्यवहारः। किं मानमात्मनां भेदे बुद्धितरवभिदा स्थिता। पन्धमोक्षव्यवस्थाने नित्यमुकात्मनां कुतः ॥ १॥ इति ॥ ९४ ॥ अथ विकारिण एव सत्तात्मानो ज्ञानेच्छादयस्तद्गुणाः जानामी- च्छामि सुसीत्यादिप्रत्ययादिति मतं निरस्यन्नाह ।

शाण्डिल्यशतसूत्रीय भाष्यम् । [अ०३|आ०२] न विकारिणस्तु कारणविकारात् ॥९५॥ न ज्ञानादिविकारवन्त आत्मानो भवितुमर्हन्ति कुतः सुखोपलं- म्भादेः करणगतत्वेन ज्ञानादीनामुपपत्तेरात्मनामविकारित्वात् । तथा हि सुखोपलब्धिःसकरणिकेत्यायनुमाने तादृशकरणसम्बन्धस्य तादा- म्येन सत्वात् सुखांदयो नात्मविकारा आत्मनि प्रतीतत्वागौरत्वादि- वदित्यनुमानाच्च । एवमहन्त्वस्यापि कारणतादात्म्येनैव मनसा ग्रहण- म् । सुपुप्तौ मनोलये तदग्रहणम् । कालोपाधीनां कालत्ववदिति दि- क्॥९५॥ अथ कथं जीवस्य ब्रह्मभाव इत्यपेक्षायामाह। अनन्यभक्त्या तद्बुद्धिदिलयादत्यन्तम् ॥९६॥ [गी । अ० ८। श्लो. २२) पुरुपः स परः पार्थ भक्त्या लभ्यरत्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ इति श्रुतम् । तथा [नृसिंहपु.] भक्त्यकलभ्ये पुरुपे पुराणे मुक्तौ किमर्थं क्रियते न यत्न इति । तस्मात् परभक्तिमात्रेण बुद्धरत्य- न्तलये सति ब्रह्मानन्दावाप्तिलक्षणा मुक्तिरित्यर्थः। तथा च तदीययु- द्विविलयप्रागभावसहवृत्तिब्रह्मानन्दायाप्तिर्मुक्तिरिति तल्लक्षणं सूचित- म् । अथ ब्रह्मानन्दावानेः सिद्धत्वेनापुरुषार्थत्वमिति चेन्न ग्रामादिव- विशिष्टतया पुमर्थत्वात् । अत्र बुद्धि वोपाधिर्मता भगवत एव. बु- द्वितच्वाभ्युपगमात् । अन्यथा इदं सुखमत्र सुसत्वमिति ज्ञानाजाते. नित्यतया तहिशिष्टस्य पुमर्थाभावप्रसङ्गात् ईहारुत्योर्विकल्पकत्वा- भावात् । तस्मादसिद्धोपरागेण सिद्धे अपीच्छाकृती इति। छत्यसा- 'ध्यत्वज्ञान प्रतिबन्धकमिति चेत् श्येनादौ बलषदनिष्टानुबन्धित्वतिरो- धानादिवोत्कटरागेण रुत्यसाध्यत्वमपि तिरोधाय प्रवर्तितमिति किम- [अ० आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । नुपपन्नम् । 'आनन्दं ब्रह्मणो रूपं तच मोक्षे प्रतिष्टितमित्यागमादपि तथात्वमध्यवसेयमिति ॥१६॥ अथ परभक्तिसिद्धौ जीवनादृष्टभोगवदितरेपामपूर्वाणामपि भो- गेनैव लय इत्यनिर्मोक्ष एव स्यादित्यत उच्यते। आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ॥ ९७॥ आत्मरतौ सत्यां (छां.) 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य' इति । तथा (विष्णुपु.अं० १ । अ०२० । श्लो. २०) धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता। समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥१॥ तथा च आयुर्जीवनादृष्टं तन्मात्रमेव चिरं परभक्तौ सत्यामपि मु- किप्रतिबन्धकं तावदेव जीवन्मुक्तिः। इतरेपां धर्माधर्माणां जीवना- दृष्टलये सति बुद्धरत्यन्तलये भोगास्पदस्याभावाहुद्धिभोगाभाव एवेति नानिर्मोक्ष इति बुद्धरपि विकार्यत्वेन कारणत्वात् । नापि तददृष्टाहे- तुत्वं कारणान्तराभावे फलानिप्पत्तावपि हेतुत्वाक्षतेः तस्य भगवत्तो- परोपरूपस्यापि लयः कालात् प्रलयसामग्रीतो वा यथाडापूर्वाणाम- इन्वैगुण्यादजनितपरमापूर्वाणां लय इति । ब्रह्मार्पणं तु प्रतिबन्धकी- भूतकर्मणामबन्धायेति सर्वमनवयम् । परंपरयैव ज्ञानाग्निना कर्मक्षय इति ॥ ९७॥ संसृतिरेपामभक्तिः स्यान्नाज्ञानातू कारणासिदे॥९८॥ अथ जीवस्य संसारः किमज्ञानरुतो मतः । उताभक्तिरुतस्तत्र सूनमेतत्प्रवर्तते ॥ १॥ स्वर्गोऽथ जीवन्मुक्तत्वं मुनिरेपां त्रयो गतिः। जीवन्मुक्तिः परा भक्तिस्तदसिदिस्तु संसृतिः ॥ २॥ सापि भनेः कामनानामभावादेव तिष्ठति । भनौ सत्यां निवर्तेत तथा चोकं महर्षिभिः ॥ ३ ॥ : ८ शाण्डिल्यशतसूत्रीय भाप्यम्। [अ०३|आ०२] [विष्णुपु.। अं० ११ अ० ९ । लो० ५६ ] तावदार्तिस्तु सा वाञ्छा तावन्मोहस्तथा सुखम् । यावन्नायाति शरणं त्वामशेषाघमोचनम् ॥ तत्त्वाज्ञानरुता सृष्टिानात्तद्धानिरिप्यते । रनुसादिहेतूनामभावात् तदसम्भवात् ॥ जन्मानि घोरयमकिङ्करताडनानि दैन्यानि तानि तपनामजदर्शनानि । जन्तोरहूंममतरङ्गकुरङ्गतृष्णा- कृष्णांघ्रिपङ्कजपराङ्मुखतानुभावः ॥ इति ॥ ९८॥ त्रीप्येपां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् ॥ ९९ ॥ एपां जीवानां त्रीणि नयनानि साधनानि अर्थप्रमिती प्रमाण- भूतानीति यावत् । प्रमितत्वाविशेषेऽपि करणवैविध्यात त्रैविध्यम् । तानि यथा ज्ञायमानयोग्यपदपदार्थरूपः शब्दः शाब्दप्रमाकरणम् । तस्य प्रथममभिधानमलौकिकभकेतत्साधनतादौ प्राधान्यकथनार्थ- म् । तथा ज्ञायमानव्याप्यपक्षधर्मलिङ्गज्ञानमनुमितिकरणमस्माकं सत्कार्यत्वाज्ञायमानत्वमप्यविरुद्धम् । प्रत्यक्षप्रमितिकरणान्यक्षाणि विषयसम्बद्धानि तानि च मनःश्रोत्रत्वकारसनघ्राणानि षट् स्वस- म्बन्धेनान्तःकरणस्य तमोऽभिभूयचिदात्मप्रकाशमानाकारांसच्च- वृत्तिं जनयन्ति अत एवोक्तम् (गी. अ. १४ । श्लो. ११) सर्व- हारेषु देहेऽस्मिन् प्रकाश उपजायते इति । जीवबुद्धिरूपमनसो दु:- खादिविकारास्तु नाज्ञाताः सन्तीत्यात्मप्रकाशेनैव प्रकाश्यन्त इति न तत्र सच्ववृच्यवकल्पनं गौरवात् । एतदेव साक्षिभास्यत्वम् । एवं श- व्दानुमानप्रत्यक्षभेदातू त्रीप्येव यथा रुद्रस्य त्रीणि चक्षुरधिष्ठानानि ना- धिकानि न न्यूनानि तवचन्द्रसूर्याग्निरूपत्वचिङ्गानि । उपमानं तु श- किग्रहमात्रार्थ तच सामान्यतोदृष्टानुमानसहकारेण प्रसिद्धपदसासा- [अ०।आ०२] शाण्डिल्यशतसूत्रीय भाष्यम् । नाधिकरण्यात कविकाव्यपरिच्छेदवन्मनसापि सम्भवतीति त्रिवेवा- न्तर्भूतमिति न पृथक् । प्रमाणविचारोऽस्माभिन्यायतत्वनिकपे वेदा- न्ततवनिकषे च निरूपित इति नेह प्रतन्यते । जीयबुद्धिर्मनो नाम तत् सङ्कोचविकासवत्। यौगपयायोगपये धियां तेनोपपद्यते ॥ १॥ ईश्वराऽहंकतेर्जीवबुद्धीनामुद्भवो यतः। बुद्धौ दुःखादिवत् साक्षादहन्त्वमपि गृह्यते ॥२॥ मात्राभूतेन्द्रियादीनां भगवड्बुद्धिजन्मतः। भगवहुद्धिबोध्यत्वाचिदाग्राह्यं तथेन्द्रियैः ।। ३ ।। भूतानि पञ्च तन्मात्राः पञ्च चैकादशेन्द्रियम। अहम्बुद्धिप्रधानात्मपरेशास्तच्चसंग्रहः॥१॥ इति पड्विंशतितत्वानि ॥ १९ अविस्तरोभावाविकाराःस्युःक्रियाफलसंयोगात्॥१०॥ प्रसङ्गादुत्पत्तिलयौ चिन्त्येते तत्रोत्पत्तिरापि वलक्षणा सत एवं क्रियायोग्यता तथा तिरोभावस्तदयोग्यता एवं वृद्धिहानादयो विकारा एव भवन्ति ।कुतः । करोति घटं नाशयति घटमित्यादौ धात्वर्थफल. सम्बन्धव्यपदेशात् ते च सत एव घटन्ते नासतः। तथा चोकम् । (गी.अ.२ श्लो. १६) नासतो वियते भावो नाभावो वियते सत इति । एवं भवति नश्यतीत्पादावपि क्रियाश्रयत्वं प्रतीयते । तब सत एव संभवति । स चायक्षणसम्बन्धो नाशप्रतियोगित्वं च तदर्थः आयत्वस्यानिरुक्तः । न चाविभावस्याविर्भावान्तरावश्यकत्वे. निवस्थागौरवयोरन्यतरप्रसङ्गः घटसामय्या एवाविर्भावस्याविनीव- त्वात्। अन्यथा उत्पत्तेरुत्पत्तावपि तथात्वप्रसङ्गात् । एवं च घटस्य पू- वपर्यायिभावतिरोभायपरंपरेय मागभावस्तिरोभाव एव माशः स च कदाचिदात्यन्तिकोऽपि यया देवदत्तशरीरस्य यथा वा मुकबुद्ध्यादीना- शाण्डिल्यशतसूत्रीय भाष्यम्। [अ०३।आ०२] म् । अन्योन्यात्यन्ताभावौ च परस्परविरुद्धधर्मतदधिकरणयोनातिरि- च्यते । अन्यथा भावेप्यभावान्तरस्वीकारप्रसङ्गादिति । प्रलये तु प्रल- याख्यविकारातिरिक्तस्य विकारस्याभाव एव । संस्कारास्तु सूक्ष्मात्मना तिष्ठन्तीतिनकोऽपि दोपः॥पर्यवसिताबिलक्षणीभक्तिमीमांसा १०० परिवीतपीतवसनं धनोपमम् । शतपत्रपत्रसदृशायवेक्षणम् ॥ धृतवणुरेणु परिमण्डितं गवाम् ॥ हृदि योऽस्तु कौस्तुभविभूपणं महः ॥१॥ गौडक्ष्मावलये विशारद इति ख्यातादभूमणेः । सर्वोर्वीपतिसार्वभौमपदभाक् प्रज्ञावतामयगोः।। तस्मादास जलेश्वरोबुधवरः सेनाधिपः क्षमाभृताम् । स्वप्नेशेन रुतं तदङ्ग-जनुपा सद्भक्तिमीमांसनम् ॥ २॥ इति श्रीस्वप्नेश्वरविवहरविरचिते शाण्डिल्पशतसूत्रीय भाष्ये तृती- यस्याध्यायस्य द्वितीयमाह्निकम् । समाप्तश्याऽध्यायः॥३॥ समानेयं भक्तिमीमांसा॥

Bhaktimimansa

Author
Risi,shalinda
Title
Bhaktimimansa
File name
Bhaktimimansa
Text
OCR done
Citation
1944
Published
2012/08
Publisher
Mumbai.,shri Venkateshwar Mudranalay
Language
Sanskrit
Pages
61
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311501
Barcode
99999990320382.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
T4iHlCjSVts
Download PDF

Bhaktimimansa