Asr,melkote
Nyaya Sutrapata
Front matter
No text on this page.
Poona Oriental Series No. 62 श्रीगौतममुनिप्रणीतः म. म. गंगानाथशर्मसंकलितखद्योत- टिप्पणीयुतवात्स्यायनभाष्यान्तर्गतः .. न्यायसूत्रपाठः वाचस्पतिमिश्रकृत प्रकरणसहितश्च GAUTAMA'S NYAYA SŪTRAS Text only as embodied in Vats yāyana Bhāşya and Khadyota notes of M. M.Ganganath Jha with topical arrangements of the sūtras by Vachaspati Misra. 0BA POONA ORIENTAL BOO!
Rs. 1-0 1-4 POONA ORIENTAL SERIES No. Title Rs. No. Title 1 Bhagavadgitā with Sānkara 27 Svapnavāsavdattā by Prof. Bhäsya, best critical edition 2-0 Deodhar, M.A., (3rd ed ) 2-0 : 2 Bhagvadgitā-A Fresh 28 Pratimā by Prof. Paranjpe 3-0 Study by Prof.Vadekar,M.A. 1-0 29 Plays ascribed to Bhāsa by 3 & 4 Kena & Katha Upanişads Prof. Deodhar, M.A. with Comms. by M. M. 30 Uttara-Rāma-carita Text Pathak Sastrı (1-8, 2) 3-8 by Dr. Belvalkar 1-8 5 Mundakopanişat by M. M. 31 Meghadūta by Dr. Pathak Pathak Sastri 1-0 32 Pancatantra by Dr Edgerton 1-8 6 Išāvāsyopanişat 1-0 33 Kāvyādars'a by Dr Belvalhar 3-0 7 Constructive Survey of 34 Kāvyālaikārasūtravrtti Upanisadic Philosophy by Text by Kulkarnı, B.A.LL.B.1-8 Prof. Ranade R D., M.A. 10-0 35 trans. by Dr. Jha 1-8 Glazed edition. 15-0 36 Rāstrakūtas & Their Times 8 Minor Works of Saökarāby Dr. Altekar A. S., M.A.7-8 cārya (70 works in all) 4-0 37 22 Srutis of Indian Music 0-8 9 Sānkhyakārikā by Dr. 38 Manual of Hindu Ethics by Sharma. Intro. Trans, etc. 2-0 Mr. Chandavarkar, B.A. 10 Tattva-Kaumudi (Sānkhya) 39 Jha Commemoration Vol. 15-0 by Drs. Jha & Sharma 3-0 40 Kiņa Problem by Mr. Tadpa- 11 Sāökhya System-Critical trikar, M.A. Study by Prof. Sovani, M.A. 1-0 41 Democratic Hinduism by 12 Rgveda, Lectures on by the late Mr. Krishna Sastri 2-0 Dr. Ghate, M.A. 3-0 42 Vaijayanti-(Under revision) 13 Brahmasūtra II, 1 & 2 by 43 Nāmaliigānus'āsana (In Press) Dr. Belvalkar, M.A., Ph.D. 6-0 44 Sās'vata Kos'a by Kulkarni 2-0 14 Vedāntasāra by Hiriyanna 1-8 45 Sabdarūpāvali & Samāsa 0-3 15 Tarkasaigraha with Dīpikā 46 Systems of Sk. Gr. Belvallar 3-0 by Prof. Gokhale, B.A. 0-6 47 Sk. Inscriptions Selections 16 Tarkabhāṣā trans. by Dr. Jha 1-4 by Diskalkar 2 Pts. Text by Mr. Kul 48 Kādambarī of Bāņa, 'Text3-0 karni, B.A., LL.B. 0-8 49 Kāvyaprakās'a X with Comm. Arthasaigraha by Gokhale 2-0 Notes Trans. by Sharma: 3-0 Nyāyasāra by Deodhar and 50 III 0-8 M. M. Abhyankar Shastri 2-8 51 Bhāminivilāsa by Sharma 2-0 Saptapadārthi by Ghate 1-8 52 Jātakasangaha bv Tungar l-12 53 Ancient Karnātaka Vol. I.. ammapada by Vaidya P.L.2-0 History of Tuļuva by Dr: rit Prakās'a by Vaidya 3-0 Saletore 10-0 al of Pali by Joshi, M.A.2-0 54 Bhāsanātakacakram (Text rative Philology by of 13 Plays) by Prof. C. R. Devadhar bahagirdar, M.A. 3-07 55 Pāli Saddarupāvali by Tungkar 0-2 asa by Dhruva 56 Picturesque Orientalia by ra by Dravid 3-0 Dr. Sardesai, 103 Photos 10-0 'ā I and II with Comm., Notes, Trans. by Dr Sharma 1-8 h Vâtsyāna Bhāsya and short Notes 5-0 English Translation by Dr G. Jha 61 प्रतिज्ञायौगन्धरायणम् Rs. 1-4-0 63 गंगालहरी-सान्वय सार्थ 0-8-0 Brāhmaṇical Asceticism (Saṁnyasa) by Sharma 2-0-0
|| श्रीगणेशाय नमः ॥
अथ प्रकरणसहितः न्यायसूत्रपाठः।
प्रथमाध्यायस्य प्रथममाह्निकम् ।
अथ द्वाभ्यां २ सूत्राभ्यामभिधेयप्रयोजनसम्बन्धप्रकरणम् ॥ १ ॥
१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्प-
वितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेय-
साधिगमः ॥ १॥
२ दुःखजन्मप्रवृत्तिदोषमिध्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापाया-
दपवर्गः ॥२॥
अथ षड्भिः ६ सूत्रैः प्रमाणलक्षणप्रकरणम् ॥ २ ॥
३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।। १ ।।
४ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसा-
यात्मकं प्रत्यक्षम् ॥ २॥
५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥३॥
६ प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ॥४॥
७ आप्तोपदेशः शब्दः ॥ ५॥
८ स द्विविधो दृष्टादृष्टार्थत्वात् ।। ६ ।।
अथ चतुर्दशभिः १४ सूत्रैः प्रमेयलक्षणप्रकरणम् ॥ ३ ॥
९ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयम् ॥ १॥
१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ २ ॥
११ चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ ३ ॥
१२ घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ ४ ॥
२
प्रकरणसहितः न्यायसूत्रपाठः ।
[ अ.१.प्र.३.
१३ पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ।। ५ ।।
१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ।। ६ ।।
१५ बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तरम् ।। ७ ।।
१६ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।। ८ ।।
१७ प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः इति ॥ ९ ॥
१८ प्रवर्तनालक्षणा दोषाः ॥ १० ॥
१९ पुनरुत्पत्तिः प्रेत्यभावः ॥ ११ ॥
२० प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ १२ ॥
२१ बाधनालक्षणं दुःखम् ॥ १३ ॥
२२ तदत्यन्तविमोक्षोऽपवर्गः ॥ १४ ॥
अथ त्रिभिः ३ सूत्रैायपूर्वाङ्गलक्षणप्रकरणम् ॥ ४ ॥
२३ समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्षः संशयः ॥ १ ॥
२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ।। २॥
२५ लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ ३ ॥
अथ षड्भिः ६ सत्रैायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥ ५ ॥
२६ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः॥ १ ॥
२७ स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तर-
भावात् ॥२॥
२८ सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ ३ ॥
२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ ४॥
३० यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ ५ ॥
३१ अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥६॥
अ.१.प्र.९.] प्रकरणसहितः न्यायसूत्रपाठः । अथाष्टभिः ८ सूत्रैायप्रकरणम् ॥ ६ ॥ ३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ १।। ३३ साध्यनिर्देशः प्रतिज्ञा ॥ २॥ ३४ उदाहरणसाधात् साध्यसाधनं हेतुः ॥ ३ ।। ३५ तथा वैधात् ॥ ४ ॥ ३६ साध्यसाधात् तद्धर्मभावी दृष्टान्त उदाहरणम् ।। ५ ॥ ३७ तद्विपर्ययाद्वा विपरीतम् ॥ ६ ।। ३८ उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ।।७।। ३९ हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ८॥ अथ द्वाभ्यां २ सूत्राभ्यां न्यायोत्तराङ्गलक्षणप्रकरणम् ॥ ७ ॥ ४० अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ १ ॥ ४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ २ ॥ इत्येकचत्वारिंशता ४१ सूत्रैः, सप्तभिः ७ प्रकरणैः प्रथमाध्यायस्य प्रथमाह्निकं समाप्तम् ।। अथ प्रथमाध्यायस्य द्वितीयमाह्निकम् । अथ त्रिभिः ३ सूत्रैः कथालक्षणप्रकरणम् ।। १ ॥ (८) ४२ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ १॥ ४३ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥२॥ ४४ स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ ३ ॥ अथ षड्भिः ६ सूत्रः हेत्वाभासलक्षणप्रकरणम् ॥ २ ॥ (९) ४५ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः।।१।। ४६ अनैकान्तिकः सव्याभिचारः ॥ २ ॥ ४७ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ ३ ।।
४ प्रकरणसहितःन्यायसूत्रपाठः। [अ.१.प्र.९. ४८ यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ ४॥ ४९ साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥ ५ ।। ५० कालात्ययापदिष्टः कालातीतः ॥ ६ ॥ अथाष्टभिः ८ सूत्रैश्छललक्षणप्रकरणम् ।। ३ ॥ (१०) ५१ वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ १ ॥ ५२ तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं चेति ॥२॥ ५३ अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाकछलम् ॥३॥ ५४ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्य- च्छलम् ॥ ४॥ ५५ धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधे उपचारच्छलम् ॥ ५॥ ५६ वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ ६ ॥ ५७ न, तदर्थान्तरभावात् ।। ७ ।। ५८ आविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः॥ ८ ॥ अथ त्रिभिः ३ सूत्रैःपुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥४॥(११) ५९ साधम्यर्वधैाभ्यां प्रत्यवस्थानं जातिः॥ १ ॥ ६० विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥२॥ ६१ तद्विकल्पान्जातिनिग्रहस्थानबहुत्वम् ॥ ३ ॥ इति विंशत्या २० सूत्रश्चतुर्भिः ४ प्रकरणैः प्रथमाध्यायस्य द्वितीयमाह्निकं समाप्तम् ।। समाप्तश्च प्रथमोऽध्यायः॥ अत्र प्रकरणानि ११, सूत्राणि ६१ ।।
अ.२.प्र.१३.]
प्रकरणसहितः न्यायसूत्रपाठः।
अथ द्वितीयाध्यायस्य, प्रथममाह्निकम् ।
अथ सप्तभिः ७ सूत्रैः संशयपरीक्षाप्रकरणम् ॥ १॥ : (१२)
६२ समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः॥१॥
६३ विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २॥
६४ विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥ ३ ॥
६५ अव्यवस्थात्मनि व्यवस्थितत्वाचाव्यवस्थायाः ॥ ४ ॥
६६ तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ ५॥
६७ यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्त
संशयो वा ॥ ६ ॥
६८ यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ ७ ॥
अथ त्रयोदशभिः १३ सूत्रैः प्रमाणसामान्यपरीक्षाप्रकरणम् ॥२॥ (१३)
६९ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धः ॥ १ ॥
७० पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः ॥ २॥
७१ पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः॥ ३ ॥
७२ युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ।। ४ ॥•
७३ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ ५ ॥
७४ सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ ६ ॥
७५ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥७॥
७६ त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत् तत्सिद्धेः ॥ ८ ।।
७७ प्रमेया च तुला प्रामाण्यवत् ॥९॥
७८ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ १० ॥
७९ तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥ ११ ॥
८० न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ।। १२ ।।
८१ कचित्तु निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनैकान्तः ॥ १३ ॥
६
प्रकरणसहितः न्यायसूत्रपाठः।
[अ.२.प्र.१४.
अथ दशभिः १० सूत्रैः प्रत्यक्षलक्षणपरीक्षाप्रकरणम् ॥ ३ ॥ (१४)
८२ प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ १॥
८३ नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ।। २ ।।
८४ दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥३॥
८५ ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ ४ ॥
८६ तदयौगपद्यलिङ्गत्वाच्च न मनसः ।। ५ ॥
८७ प्रत्यक्षनिमित्तत्वाञ्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ।।
८८ सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥ ७॥
८९ तैश्चापदेशो ज्ञानविशेषाणाम् ।। ८ ।।
९० व्याहतत्वादहेतुः ॥९॥
९१ न, अर्थविशेषप्राबल्यात् ॥ १०॥
अथ सप्तभिः ७ सूत्रैः प्रत्यक्षानुमानत्वपरीक्षाप्रकरणम् ॥ ४ ॥ (१५)
९२ प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥ १ ॥
९३ न, प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥२॥
९४ न चैकदेशोपलब्धिरवयविसद्भावात् ॥३॥
९५ साध्यत्वादवयविनि सन्देहः ॥४॥
९६ सर्वाग्रहणमवयव्यसिद्धेः ॥ ५ ॥
९७ धारणाकर्षणोपपत्तेश्च ॥६॥
९८ सेनावनवग्रहणमिति चेन्न, अतीन्द्रियत्वादणूनाम् ॥ ७ ॥
अथ द्वाभ्यां २ सूत्राभ्यामनुमानपरीक्षाप्रकरणम् ।। ५॥ (१६)
९९ रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ १॥
१०० न, एकदेशवाससादृश्येभ्योऽर्थान्तरभावात् ॥२॥
अ.२.प्र.२०.] प्रकरणसहितः न्यायसूत्रपाठः । अथ पञ्चभिः ५ सूत्रैर्वर्तमानपरीक्षाप्रकरणम् औपोद्धातिकम् ॥६॥ (१७ १०१ वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः ॥ १।। १०२ तयोरप्यभावो वर्तमानाभावे, तदपेक्षत्वात् ॥ २ ॥ १०३ नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ ३॥ १०४ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥ ४॥ १०५ कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥ ५॥ अथ पञ्चभिः ५ सूत्रैरुपमानपरीक्षाप्रकरणम् ।। ७ ॥ (१८) १०६ अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः ॥ १॥ १०७ प्रसिद्धसाधादुपमानसिद्धेर्यथाक्तेदोषानुपपत्तिः ॥ २ ॥ १०८ प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥ ३॥ १०९ नाप्रत्यक्षेगवये प्रमाणार्थमुपमानस्य पश्याम इति ॥ ४॥ ११० तथेत्युपसंहारादुपमानसिद्धेन विशेषः ॥ ५॥ अथ अष्टभिः ८ सूत्रैः शब्दसामान्यपरीक्षाप्रकरणम् ॥ ८ ॥ (१९) १११ शब्दोऽनुमानमर्थस्थानुपलब्धेरनुमेयत्वात् ॥ १ ॥ ११२ उपलब्धेरद्विप्रवृत्तित्वात् ।। २ ॥ ११३ सम्बन्धाच्च ॥३॥ ११४ आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः ॥ ४॥ ११५ पूरणप्रदाहपाटनानुपपत्तेश्च सम्बन्धाभावः ॥ ५॥ ११६ शब्दार्थव्यवस्थानादप्रतिषेधः ॥ ६ ॥ ११७ न, सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य ॥ ७॥ ११८ जातिविशेषे चानियमात् ॥ ८॥ अथ द्वादशभिः १२ सूत्रैः शब्दविशेषपरीक्षाप्रकरणम् ॥ ९ ॥ (२०) ११९ तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ १॥ १२० न कर्मकर्तृसाधनवैगुण्यात् ।। २ ।।
८
प्रकरणसहितः न्यायसूत्रपाठः ।
[अ.२.प्र.२२
.
१२१ अभ्युपेत्य कालभेदे दोषवचनात् ॥३॥
१२२ अनुवादोपपत्तेश्च ॥ ४ ॥
१२३ वाक्यविभागस्य चार्थग्रहणान् ॥७॥
१२४ विध्यर्थवादानुवादवचनविनियोगात् ।। ६ ।।
१२५ विधिविधायकः ॥ ७ ॥
१२६ स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः ।। ८ ॥
१२७ विधिविहितस्यानुवचनमनुवादः ॥ ९ ॥
१२८ नानुवादपुनरुक्तयोविशेषः शब्दाभ्यासोपपत्तेः ॥ १० ॥
१२९ शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥ ११ ॥
१३० मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ १२ ॥
इति नवोत्तरषष्ट्या ६९ सूत्रैर्नवभिः ९ प्रकरणैः द्वितीया-
ध्यायस्याद्यमाह्निकं समाप्तम् ॥
अथ द्वितीयाध्यायस्य द्वितीयमाह्निकम् ।
अथ द्वादशभिः १२ सूत्रैः प्रमाणचतुष्वपरीक्षाप्रकरणम् ।। १ ॥ (२१)
१३१ न चतुष्टमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥ १ ॥
१३२ शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्त-
रभावाचाप्रतिषेधः ।। २॥
१३३ अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ।। ३ ॥
१३४ अनर्थापत्तावर्थापत्त्यभिमानान् ॥ ४ ॥
१३५ प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥ ५ ॥
१३६ तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ।। ६ ॥
१३७ नाभावप्रामाण्यं प्रमेयासिद्धेः ।। ७ ।।
१३८ लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥ ८॥
अ.२.प्र.२२.]
प्रकरणसहितः न्यायसूत्रपाठः ।
९
,
१३९ असत्यर्थे नाभाव इति चेन्न, अन्यलक्षणोपपत्तेः ॥९॥
१४० तसिद्धेरलक्षितेष्वहेतुः ॥१०॥
१४१ न लक्षणावस्थितापेक्षसिद्धेः ॥११॥
१४२ प्रागुत्पत्तेरभावोपपत्तेश्च ।। १२ ।।
अथ सप्तविंशत्याः २७ सूत्रैः शब्दानित्यताप्रकरणम् ॥ २॥ (२२)
१४३ आदिमत्त्वादन्द्रियकत्वात् कृतकवदुपचाराच्च ।।१।।
१४४ न घटाभावसामान्यनित्यत्वान्नित्येष्वप्यनित्यवदुपचाराच्च ॥ २॥
१४५ तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ।। ३ ॥
१४६ सन्तानानुमानविशेषणात् ।। ४ ॥
१४७ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ॥५॥
१४८ प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥ ६ ॥
१४९ तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥७॥
१५० अनुपलम्भादप्यनुपलब्धिसद्भावान्नावरणानुपपत्तिरनुपलम्भात् ८
१५१ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ९ ॥
१५२ अस्पर्शत्वात् ॥ १० ॥
१५३ न, कर्मानित्यत्वात् ॥ ११॥
१५४ नाणुनित्यत्वात् ॥ १२ ॥
१५५ सम्प्रदानात् ।। १३ ॥
१५६ तदन्तरालानुपलब्धेरहेतुः ॥१४॥
१५७ अध्यापनादप्रतिषेधः ॥ १५ ॥
१५८ उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥ १६ ॥
१५९ अभ्यासात् ॥ १७ ॥
१६० नान्यत्वेऽप्यभ्यासस्योपचारात् ॥ १८ ॥
१६१ अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः ॥ १९ ॥
१६२ तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥ २०॥
१०
प्रकरणसहितः न्यायसूत्रपाठः।
[अ.२.प्र.२२.
१६३ विनाशकारणानुपलब्धेश्च ॥ २१ ॥
१६४ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥ २२ ॥
१६५ उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ॥ २३ ।।
१६६ पाणिनिमित्तप्रश्लेषाच्छव्दाभावे नानुपलब्धिः || २४ ।।
१६७ विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥२५ ।।
१६८ अस्पर्शत्वादप्रतिषेधः ॥ २६ ॥
१६९ विभक्त्यन्तरोपपत्तेश्च समासे ॥२७॥
अथ अष्टादशभिः १८ सूत्रैः शब्दपरिणामप्रकरणम् ॥ ३॥ (२३)
१७० विकारादेशोपदेशात् संशयः ॥ १॥
१७१ प्रकृतिविवृद्धौ विकारविवृद्धेः ॥ २ ॥
१७२ न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥ ३ ॥
१७३ द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ॥ ४ ॥
१७४ न, अतुल्यप्रकृतानां विकारविकल्पात् ॥ ५ ॥
१७५ द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः ।। ६॥
१७६ न, विकारधर्मानुपपत्तेः ॥७॥
१७७ विकारप्राप्तानामपुनरापत्तेः ॥ ८॥
१७८ सुवर्णादीनां पुनरापत्तेरहेतुः ॥९॥
१७९ न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥ १० ॥
१८० नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ॥ ११ ॥
१८१ नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच वर्णविकाराणामप्र-
तिषेधः ॥ १२॥
१८२ अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः ।। १३ ।।
१८३ विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चा-
प्रतिषेधः ।। १४ ॥
१८४ प्रकृत्यनियमात् ॥ १५ ॥
अ.२.प्र.२४.] प्रकरणसहितः न्यायसूत्रपाठः । ११ १८५ अनियमे नियमान्नानियमः ॥ १६ ॥ १८६ नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥ १७ ॥ १८७ गुणान्तरापत्त्युपमर्दहासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्ण- विकाराः॥१८॥ अथ द्वादशभिः १२ सूत्रैः शब्दशक्तिपरीक्षा [पदार्थनिरूपण] प्रकरणम् ॥४॥ (२४) १८८ ते विभत्तयन्ताः पदम् ॥१॥ १८९ व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः ॥ २ ॥ १९० या शब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्युपचयवर्णसमासानुब- न्धानां व्यक्तावुपचाराद्व्यक्तिः ॥ ३ ॥ १९१ न, तदनवस्थानात् ॥ ४ ॥ १९२ सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिप- त्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकानपुरुषेष्वत- द्भावेऽपि तदुपचारः ॥ ५ ॥ १९३ आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धः ॥६॥ १९४ व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके,जातिः॥७॥ १९५ नाकृतिव्यत्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥ ८ ॥ १९६ व्यक्त्याकृतिजातयस्तु पदार्थः ॥ ९॥ १९७ व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥ १० ॥ १९८ आकृतिर्जातिलिङ्गाख्या ॥ ११ ॥ १९९ समानप्रसवात्मिका जातिः ॥ १२ ॥ इति नवोत्तरषष्ट्या ६९ सूत्रैश्चतुर्भिः ४ प्रकरणैर्द्वितीयाध्यायस्य द्वितीयमाह्निकम् ॥ समाप्तश्च द्वितीयोऽध्यायः ॥ अत्र प्रकरणानि १३, सूत्राणि १३८ । ॥
१२
प्रकरणसहितः न्यायसूत्रपाठः ।
[अ.३.प्र.२५.
अथ तृतीयाध्यायस्य प्रथममाह्निकम् ।
अथ त्रिभिः ३ सूत्रैरिन्द्रियव्यतिरिक्तात्मप्रकरणम् ॥ १॥ (२५)
२०० दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ १ ॥
२०१ न विषयव्यवस्थानात् ॥ २ ॥
२०२ तळ्यवस्थानादेवात्मसद्धावादप्रतिषेधः ॥ ३ ॥
अथ त्रिभिः ३ सूत्रैः शरीरव्यतिरिक्तात्मप्रकरणम् ॥ २॥ (२६)
२०३ शरीरदाहे पातकाभावात् ॥ १ ॥
२०४ तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥ २ ॥
२०५ न कार्याश्रयकर्तृवधात् ॥ ३ ॥
अथष्टभिः ८ सूत्रैः प्रासङ्गिकं चक्षुरद्वैतनिराकरणप्रकरणम् ॥ ३ ॥ (२७)
२०६ सव्यदृष्टस्येतरण प्रत्यभिज्ञानात् ॥ १ ॥
२०७ नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ।। २ ॥
२०८ एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ३ ॥
२०९ अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ ४ ॥
२१० दृष्टान्तावरोधादप्रतिषेधः ॥५॥
२११ इन्द्रियान्तरविकारात् ॥ ६ ॥
२१२ न स्मृतेः स्मर्तव्यविषयत्वात् ।। ७ ।।
२१३ तदात्मगुणसद्भावादप्रतिषेधः ॥ ८ ॥
(२८)
अथ त्रिभिः ३ सूत्रैरात्मनो मनोव्यतिरेकप्रकरणम् ॥ ४ ॥
२१४ नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ।। १ ॥
२१५ ज्ञातुर्ज्ञानसाधनोपपत्तेः सञ्ज्ञाभेदमात्रम् ।। २ ।।
२१६ नियमश्च निरनुमानः ॥ ३ ॥
अ.३.प्र.३१.] प्रकरणसहितः न्यायसूत्रपाठः ।
अथ नवभिः ९ सूत्रैरात्मनित्यताप्रकरणम् ॥ ५ ॥ (२९)
२१७ पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः ॥ १ ॥
२१८ पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः ॥ २ ॥
२१९ न, उष्णशीतवर्षाकालनिमित्तवात् पञ्चात्मकविकाराणाम् ॥ ३ ॥
२२० प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥ ४ ॥
२२१ अयसोऽयस्कान्ताभिगमनवत् तदुपसर्पणम् ।। ५ ।।
२२२ न, अन्यत्र प्रवृत्त्यभावात् ॥ ६॥
२२३ वीतरागजन्मादर्शनात् ।। ७ ॥
२२४ सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः ।। ८ ॥
२२५ न, सङ्कल्पनिमित्तत्वाद्रागादीनाम् ॥ ९ ॥
अथ पञ्चभिः ५ सूत्रैः शरीरपरीक्षाप्रकरणम् ॥ ६ ॥ (३०)
२२६ पार्थिवं गुणान्तरोपलव्धेः ॥ १ ॥
२२७ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः ॥ २ ॥
२२८ निःश्वासोच्छ्वासोपलब्धेश्चातुभौतिकम् ।। ३ ।।
२२९ गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ।। ४ ।।
२३० श्रुतिप्रामाण्याच्च ॥ ५ ॥
अथ विंशत्या २० सूत्रैरिन्द्रयभौतिकत्वपरीक्षाप्रकरणम् ॥ ७॥ (३१
१३१ कृष्णसारे सत्युपलम्भाव्यतिरिच्य चोपलम्भात् संशयः ॥१॥
२३२ महदणुग्रहणात् ॥ २ ॥
२३३ रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ।। ३ ॥
२३४ तदनुपलब्धेरहेतुः ।। ४ ॥
२३५ नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥ ५ ॥
२३६ द्रव्यगुणधर्मभेदाच्च उपलब्धिनियमः ॥ ६ ॥
२३७ अनेकद्रव्यसमवायादूपविशेषाच्च रूपोपलब्धिः ॥ ७ ॥
प्रकरणसहितः न्यायसूत्रपाठः। [अ.३.प्र.३१. २३८ कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ८ ॥ २३९ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥ ९ ॥ २४० न, रात्रावप्यनुपलब्धेः ॥ १० ॥ २४१ बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥ ॥ ११ ॥ २४२ अभिव्यक्तौ चाभिभवात् ।। १२ ।। २४३ नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ १३ ॥ २४४ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ १४ ॥ २४५ कुड्यान्तरितानुपलब्धेरप्रतिषेधः ।। १५ ॥ २४६ अप्रतिघातात् सन्निकर्षोपपत्तिः ।। १६ ।। २४७ आदित्यरइमेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् ।। १७ ॥ २४८ नेतरेतरधर्मप्रसङ्गात् ।। १८ ।। २४९ आदर्शोदकयोः प्रसादस्वाभाव्यापापे लब्धिवत् तदुपलब्धिः॥ ॥ १९ ॥ २५० दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥ २० ॥ अथ दशभिः १० सूत्रैरिन्द्रियनानात्वप्रकरणम् ॥ ८॥ (३२) २५१ स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ॥ १॥ २५२ त्वगव्यतिरेकात् ।। २ ।। २५३ न युगपदर्थानुपलब्धेः ॥ ३ ॥ २५४ विप्रतिषेधाच्च न त्वगेका ॥ ४ ॥ २५५ इन्द्रियार्थपञ्चत्वात् ।। ५ ॥ २५६ न, तदर्थबहुत्वात् ॥ ६ ॥ २५७ गन्धत्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेधः ॥ ७ ॥ २५८ विषयत्वाव्यतिरेकादेकत्वम् ।। ८ ॥
अ.३.प्र.३४.]
प्रकरणसहितः न्यायसूत्रपाठः।
२५९ न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ९ ॥
२६० भूतगुणविशेषोपलव्धेस्तादात्म्यम् ॥ १० ॥
अथ द्वादशभिः १२ सूत्रैरर्थपरीक्षाप्रकरणम् ।। ९ ।। (३३)
२६१ गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥ १ ॥
२६२ अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ २ ॥
२६३ न, सर्वगुणानुपलब्धेः ।। ३ ।।
२६४ एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ॥४॥
२६५ विष्टं ह्यपरंपरेण ॥ ५॥
२६६ न, पार्थिवाप्ययोः प्रत्यक्षत्वात् ।। ६ ॥
२६७ पूर्वपूर्वगुणोत्कर्षान् तत्तत्प्रधानम् ॥ ७ ॥
२६८ तव्यवस्थानं तु भूयस्त्वात् ।। ८ ।।
२६९ सगुणानामिन्द्रियभावात् ॥ ९ ॥
२७० तेनैव तस्याग्रहणाच ॥ १० ॥
२७१ न, शब्दगुणोपलब्धेः ॥ ११ ॥
२७२ तदुपलब्धिरितरेतरद्रव्यगुणवैधात् ॥ १२ ॥
इति त्रिसप्तत्या ७३ सूत्रैर्नवभिः ९ प्रकरणैस्तृतीयाध्यायस्याद्य-
माह्निकं । समाप्तम् ।।
(३४)
अथ तृतीयाध्यायस्य द्वितीयमाह्निकम् ।
अथ नवभिः ९ सूत्रैर्बुद्धयनित्यताप्रकरणम् ॥ १ ॥
२७३ कर्माकाशसाधात् संशयः ।। १ ॥
२७४ विषयप्रत्यभिज्ञानात् ।। २ ।।
२७५ साध्यसमत्वादहेतुः ॥ ३ ॥
२७६ न, युगपदग्रहणात् ॥ ४॥
२७७ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥ ५ ॥
१६
प्रकरणसहितः न्यायसूत्रपाठः ।
[अ.३.प्र.३४.
२७८ क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ६ ॥
२७९ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ ७ ॥
२८० न, गत्यभावात् ॥ ८॥
२८१ स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ।। ९ ॥
अथाष्टभिः ८ सूत्रैरौपोद्धातिकं क्षणभङ्गप्रकरणम् ॥ २ ॥ (३५)
२८२ स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाध्यक्तीनामहेतुः ।। १॥
२८३ नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ।। २ ।।
२८४ नोत्पत्तिविनाशकारणोपलब्धेः ॥ ३ ॥
२८५ क्षीरविनाशे कारणानुपलब्धिवध्युत्पत्तिवच तदुत्पत्तिः॥ ४॥
२८६ लिङ्गतो ग्रहणान्नानुपलाब्धः ॥ ५ ॥
२८७ न पयसः परिणामगुणान्तरप्रादुर्भावात् ।। ६ ॥
२८८ व्यूहान्तराद्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥७॥
२८९ कचिद्विनाशकारणानुपलब्धेः कचिच्चोपलब्धेरनेकान्तः ॥ ८ ॥
अथ चतुर्विशत्या २४ सूत्रैर्बुद्धेरात्मगुणत्वप्रकरणम् ॥ ३ ॥ (३६)
२९० नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥ १॥
२९१ युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥२॥
२९२ तदात्मगुणत्वेऽपि तुल्यम् ।। ३ ।।
२९३ इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ।। ४ ।।
२९४ नोत्पत्तिकारणानपदेशात् ।।५।।
२९५ विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥ ६ ॥
२९६ अनित्यत्वग्रहणात् बुद्धेर्बुद्धथन्तराद्विनाशः शब्दवत् ॥ ७॥
२९७ ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्ति
२९८ नान्तःशरीरवृत्तित्वान्मनसः ॥ ९ ॥
२९९ साध्यत्वादहेतुः ॥१०॥
अ.३.प्र.३८.] प्रकरणसहितः न्यायसूत्रपाठः। ३०० स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ।। ११॥ ३०१ न तदाशुगतित्वान्मनसः ।। १२ ।। ३०२ न स्मरणकालानियमात् ॥ १३ ।। ३०३ आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ।। १४ ॥ ३०४ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ।। १५॥ ३०५ प्रणिधानलिङ्गादिज्ञानानामयुगपद्धावादयुगपत्स्मरणम् ।। १६ ।। ३०६ ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥ १७ ॥ ३०७ तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ।। १८ ।। ३०८ परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥ १९ ।। ३०९ नियमानियमौ तु तद्विशेषकौ ॥ २० ॥ ३१० यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाञ्च न मनसः ॥ २१ ॥ ३११ परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ २२ ॥ ३१२ स्मरणं त्वामनो ज्ञस्वाभाव्यात् ।। २३ ॥ ३१३ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्ब- न्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधान सुखदुःखे- च्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥२४ । अथ चतुर्भिः ४ सूत्रैर्बुद्धेरुत्पन्नापवर्गित्वप्रकरणम् ।। ४ ।। (३७) ३१४ कर्मानवस्थायिग्रहणात् ॥१॥ ३१५ अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ३१६ हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ३ ॥ ३१७ न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ।। ४ ।। अथ दशभिः १० सूत्रबुद्धेः शरीरगुणन्यतिरेकप्रकरणम् ॥ ५ ॥ (३८) ३१८ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ १ ॥ ३१९ यावच्छरीरभावित्वाद्रूपादीनाम् ।। २ ।।
प्रकरणसहितः न्यायसूत्रपाठः ।
[अ.३.प्र.३८.
३२० न, पाकजगुणान्तरोत्पत्तेः ॥ ३॥
३२१ प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ ४ ॥
३२२ शरीरव्यापित्वात् ॥ ५॥
३२३ न, केशनखादिष्वनुपलब्धेः ।। ६॥
३२४ त्वपर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ ७ ॥
३२५ शरीरगुणवैधात् ॥ ८ ॥
३२६ न रूपादीनामितरेतरवैधात् ॥९॥
३२७ ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ।। १० ॥
अथ चतुर्भिः ४ सूत्रैर्मनःपरीक्षाप्रकरणम् ॥ ६ ॥ (३९)
३२८ ज्ञानायौगपद्यादेकं मनः ॥ १ ॥
३२९ न, युगपदनेकक्रियोपलब्धेः ॥२॥
३३० अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् ॥ ३ ॥
३३१ यथोक्तहेतुत्वाच्चाणु ॥ ४ ॥
अथ त्रयोदशभिः १३ सूत्रैः शरीरस्थादृष्टनिष्पाद्यत्वप्रकरणम् ॥ ७ ॥ (४०
.)
३३२ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ १ ॥
३३३ भूतेभ्यो मूर्युपादानवत् तदुपादानम् ।। २ ॥
३३४ न, साध्यसमत्वात् ।। ३ ।।
३३५ नोत्पत्तिनिमित्तत्वान्मातापित्रोः॥४॥
३३६ तथाऽऽहारस्य ।। ५ ॥
३३७ प्राप्तौ चानियमात् ॥६॥
३३८ शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥ ७ ॥
३३९ एतेनानियमः प्रत्युक्तः ॥ ८॥
३४० तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ९॥
३४१ मनःकर्मनिमित्तत्वाच्च संयोगाद्यनुच्छेदः ॥ १०॥
३४२ नित्यत्वप्रसङ्गश्च प्रायेणानुपपत्तेः ॥ ११ ॥
अ.४.प्र.४३.] प्रकरणसहितः न्यायसूत्रपाठः।
१९
३४३ अणुश्यामतानित्यत्ववदेतत् स्यात् ।। १२ ।।
३४४ नाकृताभ्यागमप्रसङ्गात् ।। १३॥
इति द्विसप्तत्या ७२ सूत्रैः, सप्तभिः ७ प्रकरणै-
स्तृतीयाध्यायस्य द्वितीयमाह्निकम् ।।
समाप्तश्च तृतीयोऽध्यायः ।।
अत्र प्रकरणानि १६, सूत्राणि १४५ ।।
अथ चतुर्थाध्यायस्य प्रथममाह्निकम्
अथ द्वाभ्यां २ सूत्राभ्यां प्रवृत्तिदोपसामान्यपरीक्षाप्रकरणम् ॥ १ ॥ (४१)
३४५ प्रवृत्तियथोक्ता ॥ १ ॥
३४६ तथा दोषाः ।। २ ॥
अथ सप्तभिः ७ सूत्रैर्दोषत्रैराश्यप्रकरणम् ॥ २ ॥ (४२)
३४७ तत्त्रैराश्यं रागद्वेषमोहान्तरभावात् ।। १॥
३४८ नैकप्रत्यनीकभावात् ।। २ ॥
३४९ व्यभिचारादहेतुः ॥ ३ ॥
३५० तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥ ४ ॥
३५१ निमित्तनैमित्तिकमावादर्थान्तरभावो दोषेभ्यः ॥ ५ ॥
३५२ न, दोषलक्षणावरोधान्मोहस्य ॥ ६॥
३५३ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ ७॥
अथ चतुर्भिः ४ सूत्रैः प्रेत्यभावपरीक्षाप्रकरणम् ॥ ३ ॥ (४३)
३५४ आत्मनित्यत्वे प्रेत्यभावसिद्धिः ।। १ ।।
३५५ व्यक्ताव्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ २॥
३५६ न, घटाघटानिष्पत्तेः ॥ ३॥
३५७ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ ४॥
प्रकरणसहितः न्यायसूत्रपाठः।
[अ.४.प्र.४४.
अथ पञ्चभिः ५ सूत्रैः शून्यतोपादानप्रकरणम् ।। ४ ।। (४४)
३५८ अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ १ ॥
३५९ व्याघातादप्रयोगः ॥२॥
३६० नातीतानागतयोः कारकशब्दप्रयोगात् ॥३॥
३६१ न विनष्टेभ्योऽनिष्पत्तेः ॥ ४॥
३६२ क्रमनिर्देशादप्रतिषेधः ॥ ५ ॥
अथ त्रिभिः ३ सूत्रैरीश्वरोपादानताप्रकरणम् ।। ५ ॥
(४५)
३६३ ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ १ ॥
३६४ न, पुरुषकर्माभावे फलानिष्पत्तेः ॥२॥
३६५ तत्कारितत्वादहेतुः ॥ ३॥
अथ त्रिभिः ३ सूत्रैराकस्मिकत्वप्रकरणम् ॥ ६ ॥ (४६)
३६६ अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ।। १ ।।
३६७ अनिमित्तनिमित्तत्वान्नानिमित्ततः ॥२॥
३६८ निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः।। ३ ।।
अथ चतुर्भिः ४ सूत्रैः सर्वानित्यत्वनिराकरणम् ।। ७ ।। (४७)
३६९ सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ॥१॥
३७० नानित्यतानित्यत्वात् ॥ २ ॥
३७१ तदनित्यत्वमग्नेह्यं विनाश्यानुविनाशवत् ।। ३ ॥
३७२ नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् ॥ ४॥
अथ पञ्चभिः ५ सूत्रः सर्वनित्यत्वनिराकरणप्रकरणम् ।। ८॥ (४८)
३७३ सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥ १॥
३७४ नोत्पत्तिविनाशकारणोपलब्धेः ॥२॥
३७५ तल्लक्षणावरोधादप्रतिषेधः ॥ ३ ॥
अ.४.प्र.५२.
]
प्रकरणसहितः न्यायसूत्रपाठः।
३७६ नोत्पत्तितत्कारणोपलब्धेः ॥४॥
३७७ न व्यवस्थानुपपत्तेः ॥५॥
अथ त्रिभिः ३ सूत्रैः सर्वपृथक्त्वनिराकरणप्रकरणम् ॥ ९॥ (४९)
३७८ सर्वं पृथग भावलक्षणपृथक्त्वात् ।। १ ॥
३७९ नानेकलक्षणैरेकभावनिष्पत्तेः ॥२॥
३८० लक्षणव्यवस्थानादेवाप्रतिषेधः ।।३॥
अथ चतुर्भिः ४ सूत्रैः सर्वशून्यता निराकरणप्रकरणम् ॥ १० ॥ (५०)
३८१ सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥ १ ॥
३८२ न, स्वभावसिद्धेर्भावानाम् ।। २ ।।
३८३ न स्वभावसिद्धिरापक्षिकत्वात् ।। ३ ।।
३८४ व्याहतत्वादयुक्तम् ॥ ४ ॥
अथ त्रिभिः ३ सूत्रैः संख्यैकान्तवादनिराकरणप्रकरणम् ॥११।। (५१
३८५ सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥ १ ॥
३८६ न कारणावयवभावात् ॥ २॥
३८७ निरवयवत्वादहेतुः ॥ ३ ॥
अथ एकादशभिः ११ सूत्रैः फलपरीक्षाप्रकरणम् ।। १२ ।। (५२)
३८८ सद्यः कालान्तरे च फलनिष्पतेः संशयः ॥ १॥
३८९ न सद्यः कालान्तरोपभोग्यत्वात् ॥ २ ॥
३९० कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ॥ ३ ॥
३९१ प्रानिष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥ ४ ॥
३९२ नासन्न सन्न सदसत् सदसतोवैधात् ।। ५ ॥
३९३ उत्पादव्ययदर्शनात् ॥ ६ ॥
३९४ बुद्धिसिद्धं तु तदसत् ॥ ७॥
३९५ आश्रयव्यतिरेकावृक्षफलोत्पत्तिवदित्यहेतुः ॥ ८॥
प्रकरणसहितः न्यायसूत्रपाठः। [अ.४.प्र.५२. ३९६ प्रीतेरात्माश्रयत्वादप्रतिषेधः ।। ९ ॥ ३९७ न पुत्रस्त्रीपशुपरिच्छदहिरण्यान्नादिफलनिर्देशात् ।। १०॥ ३९८ तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ११॥ अथ चतुर्भिः ४ सूत्रैर्दुःस्वपरीक्षाप्रकरणम् ।। १३ ॥ (५३) ३९९ विविधबाधनायोगात् दुःखमेव जन्मोत्पत्तिः ॥ १॥ ४०० न, सुखस्याप्यन्तरालनिष्पत्तेः ॥२॥ ४०१ बाधनानिवृत्तेर्वेदयतः पर्थेषणदोषादप्रतिषेधः ॥ ३ ॥ ४०२ दुःखविकल्पे सुखाभिमानाच्च ॥ ४ ॥ अथ दशभिः १० सूत्रैरपवर्गपरीक्षाप्रकरणम् ।। १४ ॥ (५४) ४०३ ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ।।१।। ४०४ प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥२।। ४०५ समारोपणादात्मन्यप्रतिषेधः ॥ ३ ॥ ४०६ पात्रचयान्तानुपपत्तेश्च फलाभावः ॥ ४॥ ४०७ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ।। ५ ।। ४०८ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥६॥ ४०९ न क्लेशसन्ततः स्वाभाविकत्वात् ॥७॥ ४१० प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् ॥ ८ ॥ ४११ अणुश्यामतानित्यत्ववद्वा ॥९॥ ४१२ न, संकल्पनिमित्तत्वाच्च रागादीनाम् ॥१०॥ इति अष्टषष्टया ६८ सूत्रैः, चतुर्दशभिः १४ प्रकरणै- श्चतुर्थाध्यायस्याद्यमाह्निकम् ।।
अ.४.प्र.५७.]
प्रकरणसहितः न्यायसूत्रपाठः।
२३
अथ चतुर्थाध्यायस्य द्वितीयमाह्निकम्
अथ त्रिभिः ३ सूत्रैस्तत्वज्ञानोत्पत्तिप्रकरणम् ॥ १ ॥ (५५)
४१३ दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ १ ॥
४१४ दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥२॥
४१५ तन्निमित्तं त्ववयव्याभमानः ॥३॥
अथ चतुर्दशभिः १४ सूत्रैः प्रासङ्गिकमवयवावयविप्रकरणम् ॥२॥ (५६)
४१६ विद्याऽविद्याद्वैविध्यात् संशयः ॥ १ ॥
४१७ तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥२॥
४१८ वृत्त्यनुपपत्तेरपि तर्हि न संशयः॥ ३ ॥
४१९ कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥ ४ ॥
४२० तेषु चावृत्तेरवयव्यभावः ।। ५ ।।
४२१ पृथक् चावयवेभ्योऽवृत्तेः ॥ ६॥
४२२ न चावयव्यवयवाः ॥ ७॥
४२३ एकस्मिन भेदाभावादभेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ८ ॥
४२४ अवयवान्तरभावेऽप्यवृत्तेरहेतुः ॥ ९॥
४२५ केशसमूह तैमिरिकोपलब्धिवत् तदुपलब्धिः ॥ १०॥
४२६ स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथा-
भावो नाविषये प्रवृत्तिः ॥११॥
४२७ अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ॥ १२ ॥
४२८ न प्रलयोऽणुसद्भावात् ॥ १३ ॥
४२९ परं वा त्रुटेः ।। १४।।
अथाष्टभिः ८ सूत्रैरौपोद्घातिकं निरवयवत्वप्रकरणम् ॥ ३॥ (५७)
४३० आकाशव्यतिभेदात् तदनुपपत्तिः ॥ १॥
४३१ आकाशासर्वगतत्वं वा ॥२॥
२४
प्रकरणसहितः न्यायसूत्रपाठः ।
[अ.४.प्र.५७.
४३२ अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥३॥
४३३ शब्दसंयोगविभवाच्च सर्वगतम् ॥ ४॥
४३४ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ।। ५ ।।
४३५ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ।। ६॥
४३६ संयोगोपपत्तेश्च ॥ ७॥
४३७ अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ।।८।।
अथ द्वादशभिः १२ सूत्रैः प्रासङ्गिकं बाह्यार्थभङ्गनिराकरण
प्रकरणम् ॥ ४ ॥
(५८)
४३८ बुद्धया विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ।। १ ॥
४३९ व्याहतत्वादहेतुः ॥ २ ॥
४४० तदाश्रयत्वादपृथग्रहणम् ॥ ३॥
४४१ प्रमाणतश्चार्थप्रतिपत्तेः ॥४॥
४४२ प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥५॥
४४३ स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥ ६॥
४४४ मायागन्धर्वनगरमृगतृष्णिकावद्वा ।। ७ ।।
४४५ हेत्वभावादसिद्धिः ।। ८ ॥
४४६ स्मृतिसंकल्पवञ्च स्वप्नविषयाभिमानः ॥९॥
४४७ मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशक्त्
प्रतिबोधे ।। १०॥
४४८ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ।। ११ ॥
४४९ तत्त्वप्रधानभेदाच मिथ्याबुद्धेद्वैविध्योपपत्तिः ॥ १२ ॥
अथ द्वादशभिः १२ सूत्रैस्तत्त्वज्ञानविवृद्धिप्रकरणम् ॥ ५ ॥ (५९
४५० समाधिविशेषाभ्यासात् ॥१॥
४५१ न, अर्थविशेषप्राबल्यात् ॥ २॥
अ.५.प्र.६१.] प्रकरणसहितः न्यायसूत्रपाठः।
४५२ क्षुदादिभिः प्रवर्तनाच्च ।। ३ ॥
४५३ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ ४ ॥
४५४ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ ५ ॥
४५५ अपवर्गेऽप्येवं प्रसङ्गः ॥ ६॥
४५६ न, निष्पन्नावश्यम्भावित्वात् ॥७॥
४५७ तदभावश्चापवर्गे ॥८॥
४५८ तदर्थं यमनियमाभ्यामात्म संस्कारो योगाच्चाध्यात्मविध्युपायैः॥९।।
४५९ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥१०॥
४६० तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयुभिरभ्युपेयात् ।।
४६१ प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ १२ ॥
अथ द्वाभ्यां २ सूत्राभ्यां तत्त्वज्ञानपरिपालनप्रकरणम् ॥ ६॥ (६०
४६२ तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्ट-
कशाखावरणवत् ॥ १ ॥
४६३ ताभ्यां विगृह्य कथनम् ॥२॥
इति एकपञ्चाशता ५१ सूत्रः, षड्भिः ६ प्रकरणैश्चतुर्थाध्यायस्य
द्वितीयमाह्निकं समाप्तम् ॥
समाप्तश्चायं चतुर्थोध्यायः॥
अत्र प्रकरणानि २०, सूत्राणि ११९ ॥
अथ पञ्चमोध्यायस्य प्रथममाह्निकम् ।
अथ त्रिभिः ३ सूत्रैः सत्प्रतिपक्षदेशनाभासप्रकरणम् ॥ १ ॥ (६१)
४६४ साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रस-
ङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपल-
ब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥ १॥
२६
प्रकरणसहितः न्यायसूत्रपाठः ।
[अ.५.प्र.६१.
४६५ साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्य-
समौ ॥ २॥
४६६ गोत्वाद्गोसिद्धिवत् तत्सिद्धिः ।। ३ ।।
अथ त्रिभिः ३ स्त्रैःसाध्यदृष्टान्तधर्मविकल्पप्रभावोत्कर्षसमादि
जातिषट्कप्रकरणम् ॥ २ ॥
(६२)
४६७ साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यावर्ण्य-
विकल्पसाध्यसमाः ॥१॥
४६८ किञ्चित्साधादुपसंहारसिद्धवैधादप्रतिषेधः ॥ २ ॥
४६९ साध्यातिदेशाच दृष्टान्तोपपत्तेः ॥ ३ ॥
अथ द्वाभ्यां २ सूत्राभ्यां प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रम-
जातिद्वयप्रकरणम् ॥ ३ ॥
(६३)
४७० प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाध-
कत्वाच्च प्राप्त्यप्राप्तिसमौ ।। १ ।।
४७१ घटादिनिष्पत्तिदर्शनात् पीडने चाभिभिचारादप्रतिषेधः ॥ २ ॥
अथ त्रिभिः ३ सूत्रैर्युगनद्धवाहिप्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम् ।।४॥(६४)
४७२ दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच प्रतिदृष्टान्तेन प्रसङ्ग-
प्रतिदृष्टान्तसमौ ॥ १॥
४७३ प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ २ ।।
४७४ प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ ३ ॥
अथ द्वाभ्यां २ सूत्राभ्यामनुत्पत्तिसमप्रकरणम् ।। ५ ॥ (६५)
४७५ प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ।। १ ।।
४७६ तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥२॥
अथ द्वाभ्यां २ सूत्राभ्यां संशयसमप्रकरणम् ॥ ६ ॥ (६६)
४७७ सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधात्
संशयसमः ॥१॥
अ.५.प्र.७२.] प्रकरणसहितः न्यायसूत्रपाठः २७ ४७८ साधात् संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्त- संशयः प्रसङ्गो नित्यत्वानभ्युपगमाञ्च सामान्यस्याप्रतिषेधः ॥२॥ अथ द्वाभ्यां २ सूत्राभ्यां प्रकरणसमप्रकरणम् ॥ ७ ॥ (६७) ४७९ उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः ॥ १ ॥ ४८० प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः।।२॥ अथ त्रिभिः ३ सूत्रैरहेतुसमप्रकरणम् ।। ८ ।। (६८) ४८१ त्रैकाल्यानुपपत्तेर्हेतोरहेतुसमः ॥ १॥ ४८२ न हेतुतः साध्यसिद्धस्त्रैकाल्यासिद्धिः ॥२॥ ४८३ प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥३॥ अथ द्वाभ्यां २ सूत्राभ्यामर्थांपत्तिसमप्रकरणम् ॥ ९ ॥ (६९) ४८४ अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥ १॥ ४८५ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाचार्था- पत्तेः ॥२॥ अथ द्वाभ्यां २ सूत्राभ्यामविशेषसमप्रकरणम् ॥ १० ॥ (७०) ४८६ एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशे- षसमः ॥ १॥ ४८७ क्वचित् तद्धर्मोपपत्तेः कचिच्चानुपपत्तेः प्रतिषेधाभावः ।। २ ।। अथ द्वाभ्यां २ सूत्राभ्यामुपपत्तिसमप्रकरणम् ॥ ११ ॥ (७१) ४८८ उभयकारणोपपत्तेरुपपत्तिसमः ॥ १॥ ४८९ उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ २ ॥ अथ द्वाभ्यां २ सूत्राभ्यामुपलब्धिसमप्रकरणम् ॥ १२ ॥ (७२) ४९० निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ १॥ ४९१ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ।। २ ।।
२८ प्रकरणसहितः न्यायसूत्रपाठः । [अ.५.प्र.७३. अथ त्रिभिः ३ सूत्रैरनुपलब्धिसमप्रकरणम् ॥ १३ ॥ (७३) ४९२ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धि- समः ॥१॥ ४९३ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ २ ॥ ४९४ ज्ञानविकल्पानां च भावाभावसंवेदनाध्यात्मम् ॥ ३॥ अथ त्रिभिः ३ सूत्रैरनित्यसमप्रकरणम् ।। १४ ।। (७४) ४९५ साधात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥१॥ ४९६ साधादासद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधाञ्च ॥२॥ ४९७ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावान्नाविशेषः ॥ ३ ॥ अथ द्वाभ्यां २ सूत्राभ्यां नित्यसमप्रकरणम् ।। १५ ।। (७५) ४९८ नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः ॥१॥ ४९९ प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः ॥ २॥ अथ द्वाभ्यां २ सूत्राभ्यां कार्यसमप्रकरणम् ॥ १६ ॥ (७६) ५०० प्रयत्नकार्यानेकत्वात् कार्यसमः ॥१॥ ५०१ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥२॥ अथ पञ्चभिः ५ सूत्रैः षट्पक्षीरूपकथाभासप्रकरणम् ॥ १७ ।। (७७) ५०२ प्रतिषेधेऽपि समानो दोषः ॥ १॥ ५०३ सर्वत्रैवम् ॥ २॥ ५०४ प्रतिषधविप्रतिषेधे प्रतिषेधदोषवदोषः ॥३॥ ५०५ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥४॥ ५०६ स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुर्निदेशे परपक्षदोषाभ्युपग- मात् समानो दोषः ॥ ५॥ इति त्रिचत्वारिंशता ४३ सूत्रः, सप्तदशभिः १७ प्रकरणैः पञ्चमाध्यायस्याद्यमाह्निकं समाप्तम् ।
अ.५.प्र.८०.]] प्रकरणसहितः न्यायसूत्रपाठः । २९ अथ पञ्चमाध्यायस्य द्वितीयमाह्निकम् । अथ षड्भिः ६ सूत्रैः प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चक- विशेषलक्षणप्रकरणम् ।। १ ।। (७८) ५०७ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यून- मधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ १॥ ५०८ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ २॥ ५०९ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ।। ५१० प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।।४॥ ५११ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥५॥ ५१२ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥ ६ ।। अथ चतुर्भिः ४ सूत्रः प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्य- निग्रहस्थानचतुष्कप्रकरणम् ॥ २॥ (७९) ५१३ प्रकृतादादप्रतिसम्बन्धार्थमर्थान्तरम् ॥ १ ॥ ५१४ वर्णक्रमनिर्देशवान्निरर्थकम् ।। २॥ ५१५ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातम विज्ञातार्थम् ॥ ३ ॥ ५१६ पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ।। ४ ॥ अथ त्रिभिः ३ सूत्रैः स्वसिद्धान्तानुरूपप्रयोगभासनिग्रह- स्थानत्रिकप्रकरणम् ॥ ३ ॥ (८०) ५१७ अवयवविपर्यासवचनमप्राप्तकालम् ॥ १ ॥ ५१८ हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ २ ॥ ५१९ हेतूदाहरणाधिकमधिकम् ॥ ३ ।।
5.872 Accn, No..... MEN A. IFS8 ३० प्रकरणसहितः न्यायसूत्रपाठः। [.अ.५.प्र.८१. अथ द्वाभ्यां २ सूत्राभ्यां पुनरुक्तनिग्रहस्थानप्रकरणम् ॥ ४ ॥ (८१) ५२० शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।। १॥ ५२१ अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम् ॥ २ ।। अथ चतुर्भिः ४ सूत्रैरुत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् ॥५॥ (८२) ५२२ विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ।। ५२३ अविज्ञातं चाज्ञानम् ।। २ ॥ ५२४ उत्तरस्याप्रतिपत्तिरप्रतिभा ।। ३ ।। ५२५ कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥ ४ ॥ अथ त्रिभिः ३ सूत्रैर्दोषनिरूप्यमतानुज्ञादिनिग्रहस्थानत्रिक- प्रकरणम् ॥६॥ (८३) ५२६ स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥१॥ ५२७ निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥२॥ ५२८ अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः॥३॥ अथ द्वाभ्यां २ सूत्राभ्यां कथकान्योक्तिनिरूप्यनिग्रह- स्थानद्वयप्रकरणम् ॥ ७॥ (८४) ५२९ सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥ १॥ ५३० हेत्वाभासाश्च यथोक्ताः ॥ २॥ इति चतुर्विशत्या २४ सूत्रैः, सप्तभिः ७ प्रकरणैः पञ्चमाध्यायस्य द्वितीयमाह्निकं समाप्तम् । समाप्तश्च पञ्चमोऽध्यायः॥ अत्र प्रकरणानि २४ सूत्राणि ६७ ।। अस्मिन् न्यायशास्त्रे ऽध्यायाः५, आह्निकानि१०, प्रकरणानि८४,सूत्राणि५ ३०. इति प्रकरणसहितः न्यायसूत्रपाठः । शुभमस्तु । .. .. Printed by:-S. R. Sardesai, B.A., LL.B., Navin Samarth Vidyalaya's 'Samarth Bharat Press', 41 Budhwar Peth, Poona 2. Published by :-Dr. N.G. Sardesai, L.M.&s., for the Oriental Book Agency, 15 Shukrawar, Poona 2. (HE ACADEMY OF SANT RESEARCH MELKOT. (KARNATAKA STATE)
No text on this page.