Scl

Nyayasutra Of Goutama

Gandanatha Jha

PDF Proofread

Front matter

No text on this page.

. Poona Oriental Series No. 58 श्रीगौतममहामुनिप्रणीतं न्यायसूत्रम्। (NYAYASŪTRA OF GAUTAMA: A SYSTEM OF INDIAN LOGIC) वात्स्यायनीयं न्यायभाष्यं वाचस्पतिमिश्रकृत- न्यायसूचीनिवन्धसहितं महामहोपाध्याय गङानाथ झा कृतटिप्पण्या समलङ्कतं च पुण्यपत्तनम् ओरिएंटल बुक एजन्सी १९३९

(All rights reserved by the Publisher.]
Published by:-Dr. N. G. Sardesai, L.2. & s., Manager, Oriental Book
Agency, 15 Shukrawar Peth, Poona 2.
Printed by:--S. R. Sardesai, B.A., LL.B., Navin Samarth Vidyalaya's,
Samarth Bharat Press, 41 Budhwar Peth, Poona 2.

. १ श्री सभाष्यन्यायदर्शनस्य भूमिका यत् किञ्चित् प्रस्तूयते विचारयितुं दर्शनशास्त्ररसिकानां विनोदाय । पडदर्शन- मिति प्रयोग इतस्ततः प्रयुक्तो दृश्यते । तत्र किं मूलम् । किं षडेव दर्शनानि सन्ति- नाधिकानि न न्यूनानि ? षडेव दर्शनानीति प्राचीनतमेषु ग्रन्थेषु कुत्रापि नोपलभ्यते। उपनिषदादिषु यत्र यत्र विद्यापरिगणनं कृतमुपलभ्यते तत्र प्रसिद्धानां षण्णां दर्शनानां पूर्वोत्तरमीमांसान्यायवैशेषिकसांख्ययोगानां प्रायशो द्वयोरपि नामनी दृश्येते । तद्यथा छान्दोग्योपनिषदि सनत्कुमारनारदसंवादे (७।१।२) 'ऋग्वेदं भगवोऽध्येमि' इत्यादी पड्दर्शनम्' इति नास्ति । याज्ञवल्क्यस्मृतावपि- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश।' इत्यत्र न्यायमीमांसयोरेव नामग्रहणम् । दशम्यां शताब्दयां राजशेखरोऽपि काव्यमीमांसायां 'वाङ्मय' पदवाच्यनिरूपणे तत्र पुराणमान्वीक्षिकी मीमांसां स्मृति तन्त्रं चान्तर्भावयामास । तस्यामेव शताब्द्यां जयन्तभट्टोऽपि न्यायमञ्चयाँ ‘घटतर्की पदं प्रयुज्य तत्र मीमांसां न्यायं सांख्यं आहतम् बौद्धं चार्वाकमित्येतान्येवान्तर्भावयां- बमूव-नात्र समावेशः कृतः प्रसिद्धानां वेदान्तवैशेषिकयोगदर्शनानाम् । द्वादश्यां शताब्यां हरिभद्रसुरिबौद्ध नैयायिकं सांख्यं जैनं वैशेषिकं जैमिनिमेव वर्णयाम्बभूव । त्रयोदश्यां शताब्यां जिनदत्तसूरिजैनमीमांसाबौद्धसांख्यनास्तिकानामेव निर्देश चकार । चतुर्दश्यां शताब्द्यां प्रसिद्धटीकाकारस्य मल्लिनाथस्य पुत्रः पाणिनि जैमिनि व्यासं कपिलमक्षपादं कणादं च निर्दिदेश । प्रसिद्धतमे सर्वदर्शनसङ्ग्रहे च षोडशानां दर्शनानां समावेशोऽस्ति-न एण्णामेव । सर्वसिद्धान्तसङ्ग्रहे लोकायतिक-आहेत-बौद्ध- वैशेषिकनैयायिकप्रभाकरभट्टाचार्य-सांख्य-पतञ्जलि-वेदव्यास-वेदान्तानां वर्णन- मुपलभ्यते ॥ विदुषां समाजेच 'द्वादशदर्शनानि' इत्यपि प्रयोगः श्रूयते। तत्र च पूर्वोत्तरमीमांसान्यायवैशेषिकसांख्ययोगनाम्ना प्रसिद्धानि 'आस्तिकदर्शनानि', षट् च बौद्धचतुष्टयजैनचार्वाकनाम्ना प्रसिद्धानि 'नास्तिकदर्शनानि' इति विभागः कृतः श्रूयते । एवं षड्दर्शनमिति सकलदर्शनशास्त्रसङ्ग्राहकं पदमस्तीत्यत्र नास्ति किञ्चित् सुदृढं प्रमाणमिति सुधीभिर्विभाव्यम् । तत्त्वतो याज्ञवल्क्योक्यनुसारेण द्विधैव विभागो दर्शनशास्त्रस्य युक्तिसङ्गतः प्रतिभाति-'मीमांसा-न्यायश्चेति । तत्र 'मीमांसा' वाक्यार्थविचारामिका 'न्याय'श्च ३ न्यायसूत्रभाध्ये .. .. नदुपोट्टलकयुक्तिपरिशीलनात्मक इति विवेकः । अत्रैव च सर्वेषां दर्शनशास्त्राणामनु- प्रवेशः । नवबुभुत्सारितमेव दर्शनशास्त्रम् । तत्र च बहवः प्रतिपाद्या विषया अती- न्द्रिया इत्यतः सर्वत्र स्वयंसिद्धप्रामाण्यानां वाक्यानामुपयोगं विना ज्ञानं दुश्शक मतोऽनीव अयोजिका वाक्यार्थविचारात्मिका 'मीमांसा'। प्रामाणिकोऽपि विषयः केवल शब्दप्रमाणसिद्धस्तादृशीं विश्वासभूमि नाधिरोहति यादृश्या कल्याणसिद्धिः स्यात् । अत एव भवति प्रयोजनं युक्तयात्मकस्य 'न्याय'स्य । प्रसिद्धानामस्माकं पण्णां दर्शनानामप्यनयोरेव समावेशः ॥ पडप्येतानि-पूर्वमीमांसोत्तरमीमांसा ( वेदान्त)न्यायवैशेषिकसांख्ययोगाभि- धानि महर्षिप्रणीतसूत्रानि । तत्र भवति काचिद् विचिकित्सा । यदि सर्वाण्येतानि दर्शनानि महर्षिग्रणीतानि महर्पयश्च सिद्धपुरुषाः सत्यवाच: सन्मागोपदेशकाः सर्वे, कथं नहि नः प्रणीतेषु प्रचारितेषु च दर्शनेषु परस्परविरुद्धाः सिद्धान्ताः प्रतिपादिताः। सुगूढमत्र तत्त्वं निपुणमतिनिर्विपश्चिद्भिः सम्यक् विचारणीयं भवति । सूक्ष्मक्षिकया विचारणायां दर्शनेप्येतेषु कोऽपि तादृशो विरोधः पारमार्थिक- विषयेपु नोपलभ्यते। सर्वत्राध्यात्मिकाधिभौतिकश्रेण्योः सर्वे पदार्था अन्तर्भाविता : सर्वत्र च आध्यात्मिकपदार्थस्य प्राधान्यमाधिभौतिकस्य च गौणत्वं स्वीक्रियते । साक्षात् परम्परया वा कर्तृत्वं नियंतृत्वं वा परमात्मन आत्मनो वा सर्वत्र स्वीकृतमेव : सांरव्येऽपि परमस्यात्मनः कण्ठतोऽनुतत्वेऽपि सामान्यतः पुरुषपदवाच्य आत्मैव केवलं चेतनः तस्यैव च सान्निध्येन तद्विमोक्षनिमित्ता च प्रकृतेः प्रवृत्तिरिति परम्परया चेतनस्यैव पुरुपस्य कर्तृत्वमायाति । सर्वत्र च ज्ञानादेव मुक्तिः-ज्ञानसाधनानि च कर्माणि-प्राककृत- कर्ममूलक एव जीवस्य संसारस्तव्योपभोगश्च इत्यादि समानमेव । आवान्तर विषयाणां विचारेषु मतभेदः स्पष्ट एव । परन्तु अभ्युदयनिःश्रेयसविषये नास्त्यतीव वैमत्यम् । कथं वा बैमत्यं भवेत् - यथा सर्वे महर्पयः साक्षात्कृतधर्माण एव कपिलपतञ्जलि- गौतमकणादजमिनिव्यासदेवाः कथं धर्म ऽभ्युदयनिःश्रेयसविपये वैमत्यं भजेरन् विपरीतान् वा उपदेशान् प्रवर्तयेयुः। अतो यत्रकुत्रचिद् विपये मतभेदो दृश्यते ऽभ्युदयनिःश्रेयससाधनविषये तत्र नास्ति तत्वतो वमत्यं केवलमधिकारिभेदेन नत्तत्साधनानामुपदेशः । वेदान्तदर्शनोतसाधनानामभ्यासः कोमलमतीनां सामा. न्यतो मनुष्याणामतीव कठिनइति विभाध्यैव नानाविधसाधनान्तराणां सुसाध्याना. मुपदेशः कृतो दर्शनान्तरेषु । एवमधिकारिभेदेन सर्वेषां दर्शनानामुपदेशः सामन्जस्य भजते । न्यायदर्शनस्याधिकतरजनपयोगः सष्ट एव। पदार्थादीनां प्रमेयाणां प्रमाणानां च विचारः प्राकृतजनबोधसुलभ एवात्र लभ्यते । योगाद्यनुष्टानसिद्धमतिपाटवादीना- मावश्यकता नात्रातीवापेक्ष्यते । अतः समस्तजनतोपकारसम्पादने न्यायशास्त्रं दर्शन- ।

भूमिका १ मूत्रं शास्त्रयूपादेयतमं मन्यते-व्यवदियते च तथैव शास्त्ररसिकैः । तथाहि दर्शनशास्त्रेषु प्रविविक्षुभिा यशास्त्रमेवादावधीयते । तस्परिशीलनेन च शास्त्रान्तरबोधपाटबं लभ्यते। अस्मादेव कारणादिदं शास्त्रम् 'प्रदीपः सर्व विद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥ ' इति प्राचीनमाभणकम् ॥ अस्य शास्त्रस्याद्यः सङ्कलयिता गौतमः। सर्वे चैते महर्षयः सार्वजनीनाः सार्व- दशीयाश्च । तथापि गौतमविषये विदुषां दृढतरो विश्वासो यदयं मिथिलादेशवास्तव्य आसीत् । अत्र च रामायणमेव प्रमाणम् । विश्वामित्रेण सह मिथिलां गतेन श्रीरामचन्द्रेण गौतमपत्न्या अहल्यायाः पतिशापात्पाषाणमयशरीराया उद्धारः कृत इति रामायणे वर्णितम् । मिथिलायाम् 'अहल्यास्थानम् ' इति नान्ना प्रसिद्धः प्रदेशोऽधुनापि वर्तते । तत्समीप एव च 'गौतमकुण्ड 'नाना प्रसिद्ध तीर्थस्थानं समुपलभ्यते ॥ गौतमर्पिग्रणीतं गौतमसूत्रम् । न्यानेसूत्रम् इति प्रसिद्धम्-अध्यायपञ्चकात्मकम् । तत्राद्य एवाध्यायो गातमेन प्रणीतस्तत्रैव उपादेय विपयस्य परिसमाप्तिर्दृश्यते- ततः परं द्वितीयतृतीयचतुर्थपञ्चमाध्यायाः केनचिद- न्येन प्रथमाध्याय एवोक्तानां विषयाणां विस्तरेण व्याख्यानसूत्ररूपेणोपनिवद्धाइति केषां चिन्मतम् । तत्त प्रमाणाभावादेवोपेक्षणीयम् । वात्स्यायनमारभ्य सर्वैर्व्याख्या- तृभिः पञ्चाध्यायीस्वरूपमेव 'गौतमसूत्रं' व्याख्यातमित्यपि तदुपेक्षायाः समर्थकम् । न्यायसूत्रस्य व्याख्यानं वात्स्यायनात् प्राचीनेन केनचित् कृतमासीत्-तदन्तर्गत- वाक्यान्येव बहुशो वात्स्यायनेन स्वकीये भाष्ये सन्निवेश्य स्वशब्देन व्याख्यातानीति केषाञ्चिन्मतम् । एतदप्यसारम् । यानि वाक्यानि भाष्ये पुनरुक्तानीव प्रतिभा- सन्ते तानि नैव पुनरुक्तानि । सझेपेणार्थं प्रदर्श्य पुनस्तदर्थस्य स्वयमेव विशदीकरण- मिति सकलप्राचीनभाष्यवृत्तिकाराणां शैली दृश्यते । स्वपदानि च वर्ण्यन्ते' इति भाष्यलक्षणान्तर्गतं वाक्यं तस्या एव शैल्याः सूचकम् । न्यायसूत्रस्य प्राचीनतमं व्याख्यानं वात्स्यायनप्रणीतमेवोपलभ्यतेऽभ्यस्यते च न्यायशास्त्राध्येतृभिः ॥ इतः परमुद्योतकराचार्यकृतं वार्तिकम्-वाचस्पतिमिश्रविर- चिता न्यायवार्तिकतात्पर्यटीका-उदयनाचार्यकृता तात्पर्यपरिशुद्धिः-वर्धमानोपाध्याय- कृतो न्यायनिबन्धप्रकाश इत्येवं सूत्रभाष्यपरम्परा । समुपलभ्यन्ते चैते ग्रन्थाः यद्यप्यन्तिमौ द्वावधुनाऽमुद्रितावेव वर्तेते । केषुचित् प्रधानेषु दार्शनिकविषयेषु न्यायसूत्रकारस्य स्वकीयः सिद्धान्तः कीदृश आसीदित्यत्र भाष्यवार्तिकतात्पर्यमहिना जिज्ञासुमण्डलीषु सन्देहः समजायत । तद्यथा प्रत्यक्षलक्षणात्मके चतुर्थसूत्रे सूत्राक्षरमात्राणां तात्पर्यपालोचनया प्रति- .

न्यायसूत्रभाष्ये . भाति यन्निविकल्पकमेव सव प्रत्यक्षमिष्टम् । सविकल्पकनिर्विकल्पकोभयरूपं प्रत्यक्ष- मिति तात्पर्यकारेण सयुनिकं स्थापितं विश्वसनीयं श्रद्धेयं चास्ति । परन्तु सूत्रा- अराणां स्वरमोऽपि तादृश एव नवेति भवत्यत्र संशयः। एवमीश्वरकर्तृकसृष्टि- विषये सूत्रकारस्य मतं प्रसिद्वन्यायमिद्धान्तविपरीतभिवाभाति । तद्यथा-तृतीयाध्याये आत्मप्रकरणे जीवात्मपरमात्मरूपेण विभागो नोपलभ्यते । चतुर्थाध्यायप्रथमालिकस्थो- नर्विशे मूत्रे ईश्वरकारणवादो यद्यपि कण्ठतः प्रोक्त उपलभ्यते-'ईश्वरः कारणं पुरुप- कर्माफल्यदर्शनात्' इति तथाऽषि अथमीश्वरकारणवादः शून्यतोपादानादिसंख्य कान्नवादपर्यन्तः सर्वधा हेयः सह समाविष्टो दृश्यते । एतेषां च हेयपक्षाणां सर्वेषां विपये भाप्यकारेण चतुर्थाध्यायप्रथमाह्निकचतुर्दशसूत्रवितरणिकायां स्पष्टमुक्तम्- 'अनः परं प्रावादुकानां दृष्टयः प्रयन्ते' इति । यत् ईश्वरस्य कारणत्वं प्रावादुकष्टिषु' उपन्यन्नमित्यतीव विस्मापकम् । यद्यप्यस्य विस्मयजनकोप- न्यायस्य यथा कथंचित समाधानं वार्तिकादिभियाख्यातृभिः कृतं तथापि तत् सर्व न मनोयमावहति । तत्र च व्याख्यातृपु वैमत्यमेव मुख्य कारणम् । प्राबादुकानां दृष्टयः प्रदर्श्यन्ते' इत्यनन्तरं वार्तिककृतोक्तम्- 'कानिचित् प्रतिषिध्यन्ते कानिचिदनुज्ञायन्ते' इति । तात्पर्यटीकानुसारेण तु 'ईश्वरः कारणम् ' इति सूत्रं वेदान्त्यभिमतमीश्वरस्योपादानकारणत्वं परामृशति-तत् सूत्रं पूर्पक्षोद्भावनपरम्- नैयायिकाभिमतमीश्वरस्य निमित्तकारणत्वमेकविंशे सूत्रे प्रदर्श्यते । 'तत्कारिन्वाद- इति सूत्रावतारकं तात्पर्यवाक्यम्-' तदेवमीश्वरोपादानत्वं ब्रह्मविवर्तत्वं च निरपेक्षेश्वरनिमित्तत्वं च प्रत्याख्यायाभिमतं पक्षं गृह्णाति' इति । सूत्रवृत्तौ विश्वनाथेन तु 'ईश्वरः कारणम् ' इति सूत्रं सिद्वान्तरपरत्वेन गृहीतम्-तात्पर्यकृतव्याख्याने चास्वरसः प्रदर्शितः--' उपादानपरत्वे तु न किमपि मानमाकलयामः' इति । यद्यपि सूत्रे कारणमिति सामान्यशब्दम्तथाऽप्युपादाने द्रष्टव्यः प्रकरणात्' इति वदतोदयनाचार्येणापि तात्पर्यव्याख्याने ऽस्वरस एव सूचितः। एवं च ईश्वर- कारणत्वपक्षस्य प्रावादुकदृष्टि' प्रकरणे उद्भावनम्-तदुद्भावकसूत्रव्याख्याने व प्रधानव्याख्यानृषु महान् मतभेदः-इत्येतत्सर्वमतीवकौतुकावहम् । इदमेव कारणं यत् दिङ्नागादिभिर्बोद्धाचार्यगौतमसूत्रमात्मीयत्वेन परिगृहीत मिव प्रतिभाति । पुतत्तथ्यमनथ्यं वा भवतु-किन्तु गातीयेषु सूत्रेवीश्वरकारणत्वपक्षस्योपोबलकं प्रमाणं नवोपलभ्यत इत्यनिच्छताऽपि स्वीकरणीयं प्राप्नोति ॥ हेतुः . तत्त्वज्ञानातिप्रकाराद्यप्युपादेयं विपयजातमत्र शास्त्रे सम्यक्तया प्रतिपादितम् । इतरदर्शनशास्त्रासाधारण चैतत् यत्सम्पादिततत्त्वज्ञानस्य संरक्षणोपाया अप्यत्र- विशदमुपन्यस्ताः । तद्यथा। प्रथमाध्याये प्रथमाह्निके द्वाविंशसूत्रमारभ्य अनु- मित्यवयवपरीक्षणपुरस्सरं प्रमाणानां व्यापारादिकं बहु प्रपञ्चितम् - ततः परं चतुर्था- भूमिका . ध्यायस्य द्वितीयाहिकेऽन्तिमेषु पञ्चसु सूत्रेषु गृहीतस्य ज्ञानस्य संरक्षणोपायाःप्रदर्शिता 'ज्ञानग्रहणाभ्यासः--तद्विद्यैश्च सहसंवादः (४७)--तं शिष्यगुरुसब्रह्मचारिविशिष्ट- श्रेयोऽथिभिः अनसूयुभिरभ्युपेयात् (४८)-प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्त्वे (४९)--तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्षणार्थ कण्टकशाखा- वरणवन् (५०)--ताभ्यां विगृह्यकथनम् (५१)' इति । इदमेव तत्त्वज्ञानसंरक्षणं न्यायदर्शनरसिकानां परमरमणीयतया परिणतिपथमा- रोहदवरोहच्च नव्यन्यायरूपेणावतिष्ठमानो विपुलं चेतश्चमत्कारमादधाति विपश्चिताम् ॥ नव्यन्यायस्य परमर्पिभूता मिथिलामहीसुपुत्रा गङ्गेशोपाध्यायाः। तत्कृतो ग्रन्थस्तत्त्वचिन्तामणिनाम नव्यन्यायस्य मूलसूत्रमिव भवति । तस्यानन्तासु टीकासु प्रथमः पक्षधरमिश्रकृत आलोकनामैवोपलभ्यते । आलोकस्य च व्याख्या दर्पण- नामिका मिथिलाराज्योपार्जकैन महेशठक्कुरेण निर्मिता। ततः परं च परश्शताष्टीका रघुनाधशिरोमणिप्रभृतिनिर्मिता इदानीन्तने यायिकैरधीयन्ते ।। अनेकशा मुदितेऽपि न्यायभाष्ये विद्यार्थिजनसुलभसंस्करणमपेक्षितमासीत् । तदपेक्षापूरणार्यवायमायासः ! एवंरूप आयासः सम्यक्सम्पन्नो महापुण्याय कल्पते- अपूर्णं यथाकथंचित्सम्पन्नमप्यापपुण्यायैव भवतीति प्रवृत्तिकारणम् । किंकोटिकोऽ- यमायास इत्यत्र शास्त्रनिष्णाता एव प्रमाणम् ॥ इति प्रयाग बोधन्येकादशी १९९५ विदुपां वशंबदः गङ्गानाथ झा शर्मा ।

।
विषयानुक्रमणी
...
३- ७
...
...
भूमिका
न्यायसूचीनिवन्धः
न्यायसूत्रमाप्यं टिप्पणीसहितम्
न्यायदर्शनस्यसूत्रसूचीपत्रम्...
न्यायदर्शनस्यविपसूचीपत्रम्
..
१-३४०
३४१-३४९
...
३५१-३५६
।

॥ श्रीगणेशाय नमः॥
अथ न्यायसूचीनिवन्धः।
प्रथमाध्यायस्य प्रथममाह्निकम् ।
नमामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।
निधये वाग्विशुद्धीनामापादाय तापिने ।। १ ।।
अक्षपादप्रणीतानां सूत्राणां सारवाधिका ।
श्रीवाचस्पतिमिश्रेण मया सूची विधास्यते ॥ २ ॥
प्रमाणप्रमेयसंशयप्रयोजनहष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवित-
ण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः ।। १ ।।
दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ॥२॥
इति द्वाभ्यां २ सूत्राभ्यामभिधेयप्रयोजनसम्बन्धप्रकरणम् ॥ १ ॥
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।। १ ।। इन्द्रियार्थसन्निकर्षोत्पन्नं
ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।। २ ॥ अथ तत्पूर्वकं
त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥ ३ ॥ प्रसिद्धसाधात्
साध्यसाधनमुपमानम् ॥ ४ ॥ आप्तोपदेशः शब्दः ॥ ५॥ स द्विविधो दृष्टा-
दृष्टार्थत्वात् ।। ६ ।।
इति षड्भिः ६ सूत्रैः प्रमाणलक्षणप्रकरणम् ॥ २ ॥
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमे-
यम् ॥ १॥ इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥२॥ चेष्टेन्द्रियार्थाश्रयः
शरीरम् ॥ ३ ॥ ब्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ ४ ॥
पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ।। ५ ।। गन्धरसरूपस्पर्शशब्दाः
पृथिव्यादिगुणास्तदर्थाः ।। ६ ।। बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तरम् ।।७।। युग-
पज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।। ८ ।। प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः इति ।। ९ ।।
प्रवर्तनालक्षणा दोषाः ॥ १० ।। पुनरुत्पत्तिः प्रेत्यभावः ॥ ११ ॥ प्रवृत्तिदोष-
जनितोऽर्थः फलम् ॥१२।। वाधनालक्षणं दुःखम् ।।१३॥ तदत्यन्तविमोक्षोऽ-
पवर्गः ॥ १४ ॥
इति चतुर्दशभिः १४ सूत्रैः प्रमेयलक्षणप्रकरणम् ॥ ३ ॥

हिवल्या अन्नत्रभाव नमानव वनविप्रतिपत्तमपलव्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषा- यो विमः संशयः ..? यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ।। २ ॥ लौकिकपरीक्षकानां अम्निन्नथै बुद्धिसाम्यं स दृष्टान्तः ॥ ३ ॥ इति त्रिभिः : मूत्रन्या अपूर्वाङ्गलक्षणप्रकरणम् ॥ ४ ॥ तन्त्राधिकरणान्युनतमनस्थितिः सिद्धान्तः ॥ ११ स चतुर्विधः सर्वतन्त्र- प्रनितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावान् ॥२॥ सर्वतन्त्राविरुद्धस्तन्त्रेऽ- विकृतार्थः मवतन्त्र सिद्धान्तः !! ३ !! समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रति- तन्त्रमिद्वान्तः । यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ।।५।। अपरीक्षिताभ्युपगमात् तद्विशंपपरीक्षणमभ्युपगमसिद्धान्तः ॥ ६ ॥ इति प्रभिः ६ सूत्रन्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥ ५ ॥ प्रतिज्ञाहेनदाहरणोपनयनिगमनान्यवयवाः ॥१॥ साध्यनिर्देशः प्रतिज्ञा ।१२।। उदाहरणसाधात् साध्यसाधनं हेतुः ॥ ३॥ तथा वैधात् ॥ ४ ॥ साध्यसाधात् तद्धर्मभावी दृष्टान्त उदाहरणम् ॥५॥ तद्विपर्ययाद्वा विपरीतम् ॥ ६॥ उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ।।७ ॥ हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ८ ॥ इत्यष्टभिः ८ सूत्रैायप्रकरणम् ॥ ६ ॥ अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तकः ॥ १॥ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥२॥ इति द्वाभ्यां २ सूत्राभ्यां न्यायोत्तराङ्गलक्षणप्रकरणम् ॥ ७ ॥ इत्येकचत्वारिंशता ४१ सूत्रैः, सप्तभिः ७ प्रकरणैः प्रथमाध्यायस्य प्रथमाह्निकं समाप्तम् ॥ अथ प्रथमाध्यायस्य द्वितीयमाह्निकम् । प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रति- पक्षपरिग्रहो वादः ॥ १॥ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥ २ ॥ स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ ३ ॥ इति त्रिभि: सूत्रैः कथालक्षणप्रकरणम् ।। १ ॥ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥१॥ अनेकान्तिकः सव्यभिचारः ॥२॥ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः॥३।।

न्यायसूचीनिवन्धः। ११ यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥४॥ साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥ ५ ॥ कालात्ययापदिष्टः कालातीतः ॥ ६ ॥ इति षड्भिः ६ सूत्रैः हेत्वाभासलक्षणप्रकरणम् ।। २ ।। वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ १॥ तत् त्रिविधं वाकछलं सामान्यच्छलमुपचारच्छलं चेति ॥ २ ॥ अविशेषाभिहितेऽर्थे वक्तुरभिप्रायाद- धन्तिरकल्पना वाक्छलम् ॥ ३॥ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थ- कल्पना सामान्यच्छलम् ।। ४ ।। धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधे उपचार- च्छलम् ।। ५ ॥ वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ ६॥ न, तदर्थान्तर- भावान् ।। ७॥ आविशेपे वा किञ्चित्साधादेकच्छलप्रसङ्गः ॥ ८ ॥ इत्यष्टभिः ८ सूत्रैश्छललक्षणप्रकरणम् ॥ ३ ॥ साधयवधैाभ्यां प्रत्यवस्थानं जातिः ।।१।। विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहन्थानम् !! २ । तद्विकल्पाजातिनिग्रहस्थानबहुत्वम् ।। ३ ।। इति त्रिभिः ३ सुत्रैः जुरुषाशक्तिलिङ्गदोपसामान्यलक्षणप्रकरणम् ।। ४ ।। इति विंशत्या २० सूत्रैश्चतुर्भिः ४ प्रकरणैः प्रथमाध्यायस्य द्वितीयमाह्निकं समाप्तम् ।। समाप्तश्च प्रथमोऽध्यायः ।। अत्र प्रकरणानि ११, सूत्राणि ६१ ॥ अथ द्वितीयाध्यायस्य प्रथममाह्निकम् । समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः ॥ १ ॥ विप्रतिपत्त्यव्यवस्थाध्यवसायाच ॥ २ ॥ विप्रतिपत्तौ च सम्प्रतिपत्तेः ।। ३ ।। अव्यवस्थात्मनि व्यवस्थितत्वाचाव्यवस्थायाः ॥ ४ ॥ तथाऽत्यन्तसंशयस्त- धर्मसातत्योपपत्तेः ।। ५॥ यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नास- शयो नात्यन्तसंशयो वा ॥ ६॥ यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ।। ७ ।। इति सप्तभिः ७ सूत्रैः संशयपरीक्षाप्रकरणम् ।। १ ॥ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ १ ॥ पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात प्रत्यक्षोत्पत्तिः ॥ २ ॥ पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ।।३॥ युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ।। ४॥ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥५॥ सर्वप्रमाणप्रतिषेधाच्च ..

उचानावहिनन्यायसूत्रमाध्य प्रतिषेधानुनिः । ६ तन्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥७॥ कल्याविच शहादानोद्यसिद्विवन् तत्सिद्धेः ॥ ८ !! प्रमेया च तुला- प्रामाण्यवत् .. २॥ प्रमागतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥१०॥ नाट्ठनिकृनवा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥११॥ न, प्रदीपप्रकाशसिद्धिवत् नमिद्धः । १२क्वचिन्तु निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनैकान्तः॥१३॥ इति त्रयोदशभिः १३ सूत्रैः प्रमाणसामान्यपरीक्षाप्रकरणम् ॥ २ ॥ प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ।।१।। नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षात्पत्तिः ॥२ दिनदेशकालाकाशेप्वप्येवं प्रसङ्गः ॥३॥ ज्ञानलिङ्गत्वादा- स्मनी नानवरोधः ।। 21 तदयोगपद्यलिङ्गत्वाच न मनसः ।। ५॥ प्रत्यक्ष- निभिन्नत्वाचेन्द्रियार्थयोः सन्निकर्पस्य स्वशब्देन वचनम् ।। ६॥ सुप्तव्यासक्त- मनसा चेन्द्रियार्थयोः सन्निकर्षानिमित्तत्वात् ।। ७ ।। तैश्चापदेशो ज्ञान विशेषा- णाम् ।।८॥ व्याहतत्वादहेतुः ॥९॥ न, अर्थविशेषप्राबल्यात् ॥१०॥ इति दशभिः १० सूत्रैः प्रत्यक्षलक्षणपरीक्षाप्रकरणम् ॥ ३ ॥ प्रत्यक्षमनुमानमेकदेशग्रहणादुपलव्धेः ।। १ ।। न, प्रत्यक्षेण यावत्तावद- प्युपलम्भात् ।। २॥ न चैकदेशोपलब्धिरवयविसद्भावात् ॥ ३॥ साध्यत्वाद- क्यविनि सन्देहः ॥ ४॥ सर्वाग्रहणमवयव्यसिद्धेः ॥ ५॥ धारणाकर्षणोप- पत्तेश्च ।। ६ ॥ सेनावनवद्हणमिति चेन्न, अतीन्द्रियत्वादणूनाम् ॥ ७ ॥ इति सप्तभिः ७ सूत्रैः प्रत्यक्षानुमानत्वपरीक्षाप्रकरणम् ॥ ४ ॥ रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ १॥ न, एक- देशवाससादृश्येभ्योऽर्थान्तरभावात् ।। २ ॥ इति द्वाभ्यां २ सूत्राभ्यामनुमानपरीक्षाप्रकरणम् ।। ५ ।। वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः ॥ १॥ तयोरप्य- भावो वर्तमानाभावे, तदपेक्षत्वात् ॥२॥ नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ ३॥ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥ ४ ॥ कृतताकर्तव्यतो- पपत्तेस्तूभयथा ग्रहणम् ।। ५ ।। इति पञ्चभिः ५ सूत्रैवर्तमानपरीक्षाप्रकरणम् औपोद्धातिकम् ॥ ६ ॥ अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः ॥ १ ॥ प्रसिद्धसाधादुप- मानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ २॥ प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥ ३ ॥ नाप्रत्यक्ष न्यायसूचीनिबन्धः। १३ गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥ ४॥ तथेत्युपसंहारादुपमान- सिद्धेन विशेषः ॥ ५ ॥ इति पञ्चभिः ५ सूत्रैरुपमानपरीक्षाप्रकरणम् ।। ७ ।। शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥ १ ॥ उपलब्धेरद्विप्रवृत्ति- त्वात् ।। २ ।। सम्बन्धाच्च ॥ ३ ॥ आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः ॥ ४॥ पूरणप्रदाहपाटनानुपपत्तेश्च सम्बन्धाभावः ॥ ५ ॥ शब्दार्थव्यव- स्थानाइप्रतिषेधः ॥६॥ न, सामयिकत्वाच्छदार्थसम्प्रत्ययस्य ॥ ७ ॥ जातिविशेपे चानियमात् ।। ८ ।। इत्यष्टभिः ७ सूत्रैः शब्दसामान्यपरीक्षाप्रकरणम् ।। ८ ।। तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ १॥ न कर्मकर्तृसाधन- वैगुण्यात् ।। २ ॥ अभ्युपेत्य कालभेदे दोषवचनात् ॥ ३॥ अनुवादोपपत्तेश्च !! ४ ॥ वाक्यविभागस्य चार्थग्रहणात् ।। ७॥ विध्यर्थवादानुवादवचनविनि- योगात् ।। ६॥ विधिविधायकः ॥ ७ ॥ स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः ॥ ८ ॥ विधिविहितस्यानुवचनमनुवादः ॥ ९॥ नानुवादपुनरुक्त- योर्विशेषः शब्दाभ्यासोपपत्तेः ॥ १०॥ शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेष: !! ११ ॥ मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ १२ ॥ इति द्वादशभिः १२ सूत्रैः शब्दविशेषपरीक्षाप्रकरणम् ॥ ९ ॥ इति नबोत्तरषष्ट्या ६९ सूत्रैर्नवाभिः ९ प्रकरणैः द्वितीया- ध्यायस्याद्यमाह्निकं समाप्तम् ॥ अथ द्वितीयाध्यायस्य द्वितीयमाह्निकम् । न चतुष्पमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥ १॥ शब्द ऐतिह्या- नान्तरभावादनुमानेऽर्थापत्तिसम्भाभावानान्तरभावाच्चाप्रतिषेधः ॥२॥ अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ।। ३ ॥ अनर्थापत्तावर्थापत्त्यभिमानात् ॥ ४॥ प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥ ५ ॥ तत्प्रामाण्ये वा नार्थापत्त्य- प्रामाण्यम् ।। ६ ॥ नाभावप्रामाण्यं प्रमेयासिद्धेः ॥७॥ लक्षितेष्वलक्षण- लक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥८॥ असत्यर्थे नाभाव इति चेन्न, अन्य- , २ स्वद्योतसाहितन्यायसूत्रभाष्ये न घटाभा- लक्षणोपपत्तेः ।। ९ ।। तसिद्धेरलक्षितेष्वहेतुः ॥ १० ॥ न लक्षणावस्थितापेक्ष- सिद्धेः ॥ ११ ॥ प्रागुत्पत्तेरभावोपपत्तेश्च ।। १२ ।। इति द्वादशभिः १२ सूत्रैः प्रमाणचतुष्टुपरीक्षाप्रकरणम् ।। १ ।। आदिमत्त्वादेन्द्रियकत्वात् कृतकवदुपचाराच्च ।। १ ।। वसामान्यनित्यत्वान्नित्येष्वष्यनित्यवद्रुपचाराञ्च ॥ २ ॥ तत्त्वभाक्तयोर्नानात्व- विभागादव्यभिचारः ।।३॥ सन्तानानुमानविशेषणात् ।। ४ ॥ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ॥५॥ प्रागुञ्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ।।६।। तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥७॥ अनुपलम्भादप्यनुपलब्धिसद्भावा- नावरणानुपपत्तिरनुपलम्भात् ।। ८ ॥ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः !! ९ ॥ अस्पर्शत्वान् ।। १० । न, कर्मानित्यत्वात् ॥ ११ ॥ नाणुनित्यत्वान् ॥ १२ ॥ सम्प्रदानात् ।। १३ ।। तदन्तरालानुपलब्धेरहेतुः ॥ १४ ।। अध्या- पनादप्रतिषेधः ।।१५॥ उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥१६॥ अभ्यासात् ।। १७ ।। नान्यत्वेऽप्यभ्यासस्योपचारात् ॥ १८ ॥ अन्यदन्यस्मा- दनन्यत्वादनन्यदित्यन्यताऽभावः ।। १९ ।। तदभावे नास्त्यनन्यता तयोरितरे- तरापेक्षसिद्धेः ॥ २०॥ विनाशकारणानुपलब्धेश्च ॥ २१॥ अश्रवणकारणा- नुपलब्धेः सततश्रवणप्रसङ्गः ॥२२॥ उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ।। २३ ।। पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥ २४ ॥ विनाशका- रणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥२५।। अस्पर्शत्वादप्रतिषेधः ॥२६॥ विभक्त्यन्तरोपपत्तेश्च समासे ।। २७ ॥ इति सप्तविंशतिभिः २७ सूत्रैः शब्दानित्यताप्रकरणम् ।। २ ॥ विकारादेशोपदेशात् संशयः ।। १ । प्रकृतिविवृद्धौ विकारविवृद्धेः ॥ २ ॥ न्यूनसमाधिकोपलव्धेर्विकाराणामहेतुः ॥३॥ द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ॥४।। न, अतुल्यप्रकृतानां विकारविकल्पात् ॥५॥ द्रव्यविकारवैषम्य- वद्वर्णविकारविकल्पः ।। ६॥ न, विकार धर्मानुपपत्तेः ॥७॥ विकारप्राप्तानाम- पुनरापत्तेः ॥ ८॥ सुवर्णादीनां पुनरापत्तेरहेतुः ।।९॥ न, तद्विकाराणां सुवर्ण- भावाव्यतिरेकात् ।। १०॥ नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ॥११॥ नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ॥ १२ ॥ अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः ॥ १३ ॥ विकारधर्मित्वे न्यायसूचीनिबन्धः। १५ नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः ।। १४ ।। प्रकृत्यनियमात् ।। १५ ।। अनियमे नियमान्नानियमः ।। १६॥ नियमानियमविरोधादनियमे नियमाचाप्रतिपेधः ॥१७॥ गुणान्तरापत्त्युपमर्दहासवृद्धिलेशश्लेषेभ्यस्तु विका- रोपपत्तवर्णविकाराः ॥ १८ ॥ इति अष्टादशभिः १८ सूत्रैः शब्दपरिणामप्रकरणम् ॥ ३ ॥ ते विभत्तयन्ताः पदम् ।। १॥ व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः ।।२।। या शब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः ॥३॥ न, तदनवस्थानात् ।।४॥ सहचरणस्थानतादर्थ्यवृत्त- मानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गा- शाटकानपुरुषेष्वतद्भावेऽपि तदुपचारः ॥ ५ ॥ आकृतिस्तदपेक्षत्वात् सत्त्व- व्यवस्थानसिद्धः ॥ ६॥ व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृगवके, जातिः ।। ७ । नाकृतिश्यत्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥ ८ ॥ व्यक्त्याकृतिजात- यन्तु पदार्थः ।। ९॥ व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥ १० ॥ आकृतिर्जाति- लिङ्गाख्या ।। ११ ॥ समानप्रसवात्मिका जातिः ॥ १२ ॥ इति द्वादशभिः १२ सूत्रैः शब्दशक्तिपरीक्षा [पदार्थनिरूपण] प्रकरणम् || ४ || इति नवोत्तरषष्ट्या ६९ सूत्रैश्चतुर्भिः ४ प्रकरणैर्द्वितीयाध्यायस्य द्वितीयमाह्निकम् ॥ समाप्तश्च द्वितीयोऽध्यायः ।। अत्र प्रकरणानि १३, सूत्राणि १३८ ।। अथ तृतीयाध्यायस्य प्रथममाह्निकम् । दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ।। १ ।। न विषयव्यवस्थानात् ।। २ ।। तब्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ ॥ इति त्रिभिः ३ सूत्रैरिन्द्रियव्यतिरिक्तात्मप्रकरणम् ॥ १॥ शरीरदाहे पातकाभावात् ॥ १॥ तदभावः सात्मकप्रदाहेऽपि तन्नित्य- त्वान् ॥ २ ॥ न कार्याश्रयकर्तृवधात् ॥ ३ ॥ इति त्रिभिः ३ सूत्रैः शरीरव्यतिरिक्तात्मप्रकरणम् ॥ २॥ सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ १॥ नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ।। २ ॥ एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥३॥ अवयव- रातसहितन्यायसूत्रमाप्ये नाऽवयव्युपलब्धेरहेतुः ।। ४ ।। दृष्टान्तावरोधादप्रतिषेधः ।। ५ ।। इन्द्रिया- न्तरविकारान् ॥ ६ ॥ न स्मृतेः स्मर्तव्यविपयत्वात् ।। ७ ।। तदात्मगुणसद्धा- वादप्रतिषेधः ॥ ८॥ इत्यष्टभिः ८ सूत्रैः प्रासङ्गिकं चक्षुरद्वैतनिराकरणप्रकरणम् ॥ ३ ॥ नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ।। १ ॥ ज्ञातुर्ज्ञानसाधनोपपत्तेः सज्ञाभेदमात्रम् ।।२।। नियमश्च निरनुमानः ॥ ३॥ इति त्रिभिः ३ सूत्ररात्मनोमनाव्यतिरेकप्रकरणम् ॥ ४ ॥ पूर्वाभ्यस्तम्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः ।। १ ।। पद्मा- दिपु प्रबोधसम्मीलनविकारवत् तद्विकारः ।।२।। न, उष्णशीतवर्षाकालनिमित्त- बात् पञ्चात्मकविकाराणाम् ॥३॥ प्रत्याहाराभ्यासकृतात् स्तन्याभिलाषान् ॥४॥ अयसोऽयस्कान्ताभिगमनवत् तदुपसर्पणम् ।। ५ ।। न, अन्यत्र प्रवृत्त्यभावात् ।। ६ ॥ वीतरागजन्मादर्शनात् ।। ७ ।। सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः।। ८ ॥ न, सङ्कल्पनिमित्तत्वाद्रागादीनाम् ।। ९ ।। इति नवभिः ९ सूत्रैरात्मनित्यताप्रकरणम् ॥ ५ ॥ पार्थिवं गुणान्तरोपलव्धेः ॥ १॥ पार्थिवाप्यतैजसं तद्गुणोपलव्धेः ॥२॥ निःश्वासोच्छ्वासोपलब्धेश्चातुभौतिकम् ।।३॥ गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ।। ४ ।। श्रुतिप्रामाण्याञ्च ॥ ५ ॥ इति पञ्चभिः ५ सूत्रैः शरीरपरीक्षाप्रकरणम् ॥ ६ ॥ कृष्णसारे सत्युपलम्भाव्यतिरिच्य चोपलम्भात् संशयः ॥ १ ॥ महदणुग्रहणात् ॥ २॥ रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ।। ३॥ तदनु- पलब्धेरहेतुः ।। ४ ॥ नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥ ५ ॥ द्रव्यगुणधर्मभेदाच्च उपलब्धिनियमः ॥ ६॥ अनेकद्रव्यसमवायाद्रूपविशेषाच्च स्पोपलब्धिः ।। ७ ।। कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ८ ॥ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ।। ९ । न, रात्रावप्यनुपलब्धेः ॥ १० ॥ बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥११॥ आभिव्यक्ती चाभिभवान् ॥ १२ ॥ नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ १३ ॥ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ १४ ॥ कुड्यान्तरितानुप- लब्धेरप्रतिषेधः ।।१५॥ अप्रतिघातात् सन्निकर्षोपपत्तिः ॥१६॥ आदित्यरश्मेः न्यायसूचीनिबन्धः । स्फटिकान्तरितऽपि दाह्येऽविघातात् ।। १७ । नेतरेतरधर्मप्रसङ्गात् ।। १८ ।। आदीदकयोः प्रसादस्वाभाव्याद्रपोपलब्धिवत् तदुपलब्धिः ॥ १९ ।। दृष्टा- नुमितानां हि नियोगप्रतिपेधानुपपत्तिः ॥ २० ॥ इति विंशत्या २० सूत्रैरिन्द्रियभौतिकत्वपरीक्षाप्रकरणम् ।। ७ ॥ स्थानान्यत्वे नानात्वाइवयविनानास्थानत्वाच्च संशयः ॥ १॥ त्वग- व्यतिरेकात् ॥ २ ॥ न युगपदर्थानुपलब्धेः ॥ ३॥ विप्रतिषेधाच्च न त्वगेका ॥ ४॥ इन्द्रियार्थपञ्चत्वात् ।।५।। न, तदर्थबहुत्वात् ॥६।। गन्धत्वाद्यव्यतिरेकाद्- गन्धादीनामप्रतिषेधः ॥७।। विषयत्वाव्यतिरेकादेकत्वम् ।।८॥ न, बुद्धिलक्षणा- धिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ।।९।। भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥१०॥ इति दशभिः १० सूत्रैरिन्द्रियनानात्वप्रकरणम् ॥ ८॥ गन्धरसरूपम्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥१॥ अप्रेजोवायूनां पूर्व पूर्वनपोयाकाशस्योत्तरः ॥२॥ न, सर्वगुणानुपलब्धेः ॥३॥ एकैकश्येनो- त्तरोनरागां तदनुपलब्धिः ॥ ४॥ विष्टं परंपरेण ।। ५ || न, पार्थिवाप्ययोः प्रत्यक्षत्वात् !! ६ ॥ पूर्वपूर्वगुणोत्कर्पात् तत्तत्प्रधानम् ॥ ७ ॥ तद्व्यवस्थानं तु भूयस्त्वात् ।।८। सगुणानामिन्द्रियभावान् ॥ ९॥ तेनैव तस्याग्रहणाच्च ॥१०॥ न. शब्दगुणवैधात् ॥ १२ ॥ इति द्वादशभिः १२ सूत्रैरर्थपरीक्षाप्रकरणम् ।। ९ ।। इति त्रिसप्तत्या ७३ सूत्रैर्नवभिः ९ प्रकरणैस्तृतीयाध्यायस्याद्यमाह्निकं । समाप्तम् ।। अथ तृतीयाध्यायस्य द्वितीयमाह्निकम् । कर्माकाशसाधात् संशयः ।। १ ।। विषयप्रत्यभिज्ञानात् ॥ २ ॥ साध्यसमत्वादहेतुः ॥३॥ न, युगपदग्रहणात् ॥४॥ अप्रत्यभिज्ञाने च विनाश- प्रसङ्गः ॥ ५ ॥ क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ६॥ अप्रत्यभिज्ञानं च विषया- न्तरव्यासङ्गात् ॥ ७॥ न, गत्यभावात् ॥ ८ ॥ स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ।। ९॥ इति नवभिः ९ स्त्रैर्बुद्धयनित्यताप्रकरणम् ॥ १ ॥ स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाध्यक्तीनामहेतुः ॥ १॥ नियमहेत्व- भावाद्यथादर्शनमभ्यनुज्ञा ॥२॥ नोत्पत्तिविनाशकारणोपलब्धेः ॥३॥ क्षीर-

१८
खद्योतसहितन्यायसूत्रभाष्ये
विनाशे कारणानुपलाब्धिवव्युत्पत्तिवञ्च तदुत्पत्तिः ॥ ४॥ लिङ्गतो
ग्रहणान्नानुपलब्धिः ।।५||न पयसः परिणामगुणान्तरप्रादुर्भावात् ।।६॥ व्यूहा-
न्तराद्र्व्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥७॥ कचिद्विनाशकारणा-
नुपलब्धः क्वचिच्चोपलब्धेरनेकान्तः ॥ ८ ॥
इत्यष्टभिः ८ सूत्रैरौपोद्धातिकं क्षणभङ्गप्रकरणम् ॥ २ ॥
नन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥१॥ युगपज्ज्ञेयानुपलब्धेश्च
न मनसः ॥ २ ॥ तदात्मगुणत्वेऽपि तुल्यम् ।। ३ ।। इन्द्रियर्मनसः सन्निकर्षा-
भावात् तदनुत्पत्तिः ।।४।। नोत्पत्तिकारणानपदेशात् ।। ५ ।। विनाशकारणा-
नुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥ ६॥ अनित्यत्वग्रहणात् बुद्धेर्बुद्ध्यन्त-
राद्विनाशः शब्दवत् ॥ ७॥ ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न
युगपदुत्पत्तिः ।।८|| नान्तःशरीरवृत्तित्वान्मनसः ॥९|| साध्यत्वादहेतुः ॥१०॥
स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ।।११॥ न तदाशुगतित्वान्मनसः ॥१२॥
न स्मरणकालानियमात् ॥१३।। आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः
॥ १४ ॥ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ।। १५ ॥
प्रणिधानलिङ्गादिज्ञानानामयुगपद्धावादयुगपत्स्मरणम् ।। १६ ।। ज्ञस्येच्छाद्वेष-
निमित्तत्वादारम्भनिवृत्त्योः ॥ १७ ॥ तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्व-
प्रतिषेधः ।। १८ ।। परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥ १९ ।। नियमानियमौ
तु तद्विशेषको ॥ २०॥ यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः
॥ २१ ॥ परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ २२ ॥ स्मरणं त्वामनो ज्ञस्वाभाव्यात्
।। २३ । प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धा-
नन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थत्वक्रि-
यारागधर्माधर्मनिमित्तेभ्यः ॥ २४ ॥
इति चतुर्विंशत्या २४ सूत्रैर्बुद्धेरात्मगुणत्वप्रकरणम् ॥ ३ ॥
कर्मानवस्थायिग्रहणात् ॥ १॥ अव्यक्तग्रहणमनवस्थायित्वाविद्युत्स-
म्पाते रूपाव्यक्तग्रहणवत् ॥ २ ॥ हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ३ ॥
न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥ ४ ॥
इति चतुर्भिः ४ सूत्रैर्बुद्धेरुत्पन्नापवर्गित्वप्रकरणम् ॥ ४ ॥

न्यायसूचीनिबन्धः। १९ . द्रव्ये स्वगुणपरगुणोपलव्धेः संशयः ॥ १॥ यावच्छरीरभावित्वाइपा- दीनाम् ।।२।। न, पाकजगुणान्तरोत्पत्तेः ॥ ३ ॥ प्रतिद्वन्द्विसिद्धेः पाकजानाम- प्रतिषेधः ॥४॥ शरीरव्यापित्वात् ॥ ५॥ न, केशनखादिष्वनुपलब्धेः ।। ६॥ त्वकपर्यन्तत्वाच्छरीरस्य केशनखादिवप्रसङ्गः ॥७॥ शरीरगुणवैधात् ।।८।। न रूपादीनामितरेतरवैधात् ।। ९ ॥ ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ॥१०॥ इति दशभिः १० सूत्रैर्बुद्धेः शरीरगुणव्यतिरेकप्रकरणम् ॥ ५ ॥ ज्ञानायौगपद्यादेकं मनः ॥ १ ॥ न, युगपदनेकक्रियोपलब्धेः ॥ २ ॥ अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् ॥३॥ यथोक्तहेतुत्वाच्चाणु ॥४॥ इति चतुर्भिः सूत्रैर्मनःपरीक्षाप्रकरणम् ॥ ६ ॥ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ १ ॥ भूतेभ्यो मूर्भुपादानवत् तदु- पादानम् ।। २ ॥ न, साध्यसमत्वात् ।। ३ ।। नोत्पत्तिनिमित्तत्वान्मातापित्रोः ।। ४ ।। तथाऽऽहारस्य ॥५॥ प्राप्तौ चानियमात् ॥६॥ शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ।। ७॥ एतेनानियमः प्रत्युक्तः ॥ ८॥ तददृष्ट- कारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ९॥ मनःकर्मनिमित्तत्वाञ्च संयो- गाद्यनुच्छेदः ॥ १० ॥ नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥११॥ अणुश्याम- तानित्यत्ववदेतत् स्यात् ।। १२ ।। नाकृताभ्यागमप्रसङ्गात् ॥ १३ ॥ इति त्रयोदशभिः १३ सूत्रैः शरीरस्थादृष्टनिष्पाद्यत्वप्रकरणम् ॥ ७ ॥ इति द्विसप्तत्या ७२ सूत्रैः, सप्तभिः ७ प्रकरणै- स्तृतीयाध्यायस्य द्वितीयमाह्निकम् ।। समाप्तश्च तृतीयोऽध्यायः ॥ अत्र प्रकरणानि १६, सूत्राणि १४५ ।। अथ चतुर्थाध्यायस्य प्रथममाह्निकम् प्रवृत्तियथोक्ता ॥ १ ॥ तथा दोषाः ।। २॥ इति द्वाभ्यां २ सूत्राभ्यां प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् ॥ १ ॥ तत्त्रैराश्यं रागद्वेषमोहान्तरभावात् ॥ १॥ नैकप्रत्यनीकभावात् ।।२॥ व्यभिचारादहेतुः ॥ ३॥ तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥ ४ ॥ निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ॥ ५ ॥ न, यद्योतमाहितन्यायसूत्रमाध्ये दीपलक्षणावरोधानमोहत्य ॥६॥ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानाम- प्रतिषेधः ॥ इति नाभिः ७ सूत्रदोषत्रैराश्यप्रकरणम् ।। २ ।। आत्मनित्यत्वे प्रत्यभावसिद्धिः॥१॥ व्यक्ताव्यक्तानां प्रत्यक्षप्रामाण्यात् २॥ न, बटायटानिष्पत्तेः ।। ३॥ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ ४ ॥ इति चतुर्भिः ४ सूत्रै: प्रत्यभावपरीक्षाप्रकरणम् ॥ ३ ॥ अभावाभावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ १ ॥ व्याघातादप्रयोगः २॥ नातीतानागतयोः कारकशब्दप्रयोगात् ॥३॥ विनष्टेभ्योऽनिष्पत्ते: क्रमनिर्देशादप्रतिपंधः ॥ ५ ॥ इति पञ्चभि: ५ सूत्रैः शून्यतोपादानप्रकरणम् ।। ४ ।। ईश्वरः कारणं पुरुषकर्माकल्यदर्शनात् ॥ १॥ न, पुरुपकर्माभावे फला- निष्पत्तेः ॥ २॥ तत्कारितत्वादहेतुः ॥३॥ इति त्रिभिः ३ सूत्रैरीश्वरोपादानताप्रकरणम् ।। ५ ॥ अनिमित्ततो भावोत्पत्तिः कण्टकतैष्ण्यादिदर्शनात् ।। १ ।। आनिमित्त- निमित्तत्वान्नानिमित्ततः ॥२॥ निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ।।३।। इति त्रिभिः ३ सूत्रैराकस्मिकत्वप्रकरणम् ।। ६ ॥ सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ।। १ ॥ नानित्यतानित्यत्वात् ॥२॥ तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥ ३॥ नित्यस्याप्रत्याख्यानं यथोप- लब्धिव्यवस्थानान् ॥ ४॥ इति चतुर्भिः ४ सूत्रः सर्वानित्यत्वनिराकरणम् ।। ७ ।। सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥ १॥ नोत्पत्तिविनाशकारणोपलब्धेः |॥२॥ तल्लक्षणावरोधादप्रतिषेधः ॥ ३॥ नोत्पत्तितत्कारणोपलब्धेः ॥४॥ न व्यवस्थानुपपत्तेः ॥ ५ ॥ इति पञ्चभिः ५. सूत्रः सर्वनित्यत्वनिराकरणप्रकरणम् ।। ८ ॥ सर्व पृथग् भावलक्षणपृथक्त्वात् ॥१॥ नानेकलक्षणैरेकभावनिष्पत्तेः ॥२॥ लक्षणव्यवस्थानादेवाप्रतिषेधः ॥३॥ इति त्रिभिः ३ सूत्रैः सर्वपृथक्त्वनिराकरणप्रकरणम् ॥ ९ ॥ ..

न्यायसूचीनिबन्धः। २१ सर्वमभावो भावेष्वितरेतराभावासिद्धेः ॥ १॥ न, स्वभावसिद्धर्भावानाम् || २ || न स्वभावासाद्धरापचिकत्वात् ।। ३ ।। व्याहतत्वादयुक्तम् ॥ ४ ॥ इति चतुर्भिः ४ सूत्रैः सर्वशून्यतानिराकरणप्रकरणम् ॥ १० ॥ सत्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥ १॥ न कारणा- वयवभावात् ॥ २ ॥ निरवयवत्वादहेतुः ।। ३ ।। इति त्रिभिः ३ सूत्रैः संख्यैकान्तवादनिराकरणप्रकरणम् ॥ ११ ॥ सद्यः कालान्तरे च फलनिष्पतेः संशयः॥१॥ न सद्यः कालान्तरोप- भोग्यत्वात् ॥ २ || कालान्तरेणानिष्पत्तिहेतुविनाशात् ॥ ३ ॥ प्रानिष्पत्तेर्वृक्ष- फलवत् तत् स्यात् ॥ ४ ॥ नासन्न सन्न सदसत् सदसतोवैधात् ।। ५ ।। उत्पादव्ययदर्शनात् ॥ ६॥ बुद्धिसिद्धं तु तदसत् ॥ ७॥ आश्रयव्यतिरेकाद्- वृक्षफलोत्पत्तिवदित्यहेतुः ॥ ८॥ प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥९॥ पुत्रन्त्रीपशुपरिच्छदाहिरप्यानादिफल निर्देशात् ।। १०॥ तत्सम्बन्धात् फल- निष्पत्तेस्तेषु फलवदुपचारः ॥ ११ ।। इति एकादशभिः ११ सूत्रैः फलपरीक्षाप्रकरणम् ।। १२ ॥ विविधवाधनायोगात् दुःखमेव जन्मोत्पत्तिः ॥ १।। न, सुखस्याप्यन्त- रालनिष्पत्तेः ।। २॥ बाधनाऽनिवृत्तेर्वेदयत: पर्येषणदोषादप्रतिषेधः ॥ ३॥ दुःखविकल्पे सुखाभिमानाञ्च ॥ ४ ॥ इति चतुर्मि: ४ सूत्रैर्दुःखपरीक्षाप्रकरणम् ।। १३ ॥ ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ।। १ । प्रधानशब्दानुपपत्तेर्गुणशब्दे- नानुवादो निन्दाप्रशंसोपपत्तेः ॥२॥ समारोपणादात्मन्य प्रतिषेधः ॥ ३ ॥ पात्रचयान्तानुपपत्तेश्च फलाभावः ॥ ४॥ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावाद- पवर्गः ।। ५ ।। न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥६॥ न क्लेशसन्ततः स्वाभाविकत्वात् ।।७।। प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् ।।८।। अणुश्यामतानित्यत्ववद्वा ।। ९ । न, संकल्पानिमित्तत्वाच रागादीनाम् ।। १०॥ इति दशाभिः १० सूत्रैरपवर्गपरीक्षाप्रकरणम् ॥ १४ ॥ इति अष्टषष्टया ६८ सूत्रः, चतुर्दशभिः १४ प्रकरणै- श्चतुर्थाध्यायस्याद्यमाह्निकम् ॥ १ खद्योतसहितन्यायसूत्रभाष्ये अथ चतुर्थाध्यायस्य द्वितीयमाह्निकम् दोपनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ १॥ दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥ २॥ तन्निमित्तं त्ववयव्यभिमानः ॥ ३ ॥ इति त्रिभिः ३ सूत्रैस्तत्त्वज्ञानोत्पत्तिप्रकरणम् ॥ १ ॥ विद्याऽविद्याद्वैविध्यात् संशयः ॥१॥ तदसंशयः पूर्वहेतुप्रसिद्ध- त्वान् ॥२॥ वृत्त्यनुपपत्तेरपि तर्हि न संशयः॥ ३॥ कृत्स्नैकदेशा- वृत्तित्वादवयवानामवयव्यभावः ॥ ४ ॥ तेषु चावृत्तेरवयव्यभावः ॥५।। पृथक् चावयवेभ्योऽवृत्तेः ॥ ६॥ न चावयव्यवयवाः ॥ ७ ॥ एकस्मिन भेदाभावादभेदशब्दप्रयोगानुपपत्तेर प्रश्नः ॥८॥ अवयवान्तरभावेऽप्यवृत्तेरहेतुः ।। ९॥ केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ॥१०॥ स्वविषयानति- क्रमणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥११॥ अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ।। १२ ।। न प्रलयोऽणुसद्भावात् ॥ १३ ॥ परं वा त्रुटेः ।। १४ ॥ इति चतुर्दशभिः १४ सूत्रैः प्रासाङ्गकमवयवावयविप्रकरणम् ॥ २ ॥ आकाशव्यतिभेदात् तदनुपपत्तिः ॥१॥ आकाशासर्वगतत्वं वा ॥२॥ अन्तर्वहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥ ३ ॥ शब्दसंयोगविभवाञ्च सर्वगतम् ।। ४ ॥ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ।। ५ ।। मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥ ६ ॥ संयोगोपपत्तेश्च ॥ ७ ॥ अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ ८ ॥ इत्यष्टभिः ८ सूत्रैरौपोद्धातिकं निरवयवत्वप्रकरणम् ॥ ३ ॥ बुद्धया विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥ १॥ व्याहतत्वादहेतुः ॥ २ ॥ तदाश्रयत्वादपृथग्ग्रहणम् ॥३॥ प्रमाणतश्चार्थप्रतिपत्तेः ॥४॥ णानुपपत्त्युपपत्तिभ्याम् ॥ ५॥ स्वप्नविषयामिमानवयं प्रमाणप्रमेया- भिमानः ॥ ६॥ मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥७॥ हेत्वभावा- दसिद्धिः ॥ ८॥ स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ॥९॥ मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रति- प्रमा-

न्यायसूचीनिबन्धः।
२३
बोधे ॥ १०॥ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ ११ ॥ तत्त्वप्रधान-
भेदाच्च मिथ्याबुद्धेद्वैविध्योपपत्तिः ॥ १२ ॥
इति द्वादशभिः १२ सूत्रैः प्रासङ्गिकं बाह्यार्थभङ्गनिराकरणप्रकरणम् ॥ ४ ॥
समाधिविशेषाभ्यासात् ॥ १॥ न, अर्थविशेषप्राबल्यात् ।। २ ।। क्षुदा-
दिभिः प्रवर्तनाच्च ।। ३॥ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ ४ ॥ अरण्यगुहा-
पुलिनादिषु योगाभ्यासोपदेशः ॥५॥ अपवर्गेऽप्येवं प्रसङ्गः ॥६।। न, निष्पन्ना
वश्यम्भावित्वात्॥७॥ तदभावश्चापवर्गे ॥ ८ ॥ तदर्थं यमनियमाभ्यामात्म-
संस्कारो योगाच्चाध्यात्मविध्युपायैः॥९॥ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः
॥१०॥ तं शिष्यगुरुसब्रह्मचारिविशिष्ट श्रेयोऽर्थिभिरनसूयुभिरभ्युपेयात् ॥११॥
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ।। १२ ।।
इति द्वादशभिः १२ सूत्रैस्तत्त्वज्ञान विवृद्धिप्रकरणम् ।। ५ ।।
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखा-
वरणवन् ॥ १॥ ताभ्यां विगृह्य कथनम् ॥ २ ॥
इति द्वाभ्यां २ सूत्राभ्यां तत्त्वज्ञानपरिपालनप्रकरणम् ॥ ६ ॥
इति एकपञ्चाशता ५१ सूत्रः, षड्भिः ६ प्रकरणैश्चतुर्थाध्यायस्य
द्वितीयमाह्निकं समाप्तम् ॥
समाप्तश्चायं चतुर्थोध्यायः ॥
अत्र प्रकरणानि २०, सूत्राणि ११९ ॥
अथ पञ्चमाध्यायस्य प्रथममाह्निकम् ।
साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रति-
दृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानि-
त्यकार्यसमाः ॥ १॥ साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः
साधर्म्यवैधर्म्यसमौ ॥ २ ।। गोत्वाद्गोसिद्धिवत् तसिद्धिः ॥ ३ ।।
इति त्रिभिः ३ सूत्रैः सत्प्रतिपक्षदेशनाभासप्रकरणम् ॥ १ ॥
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्प-
साव्यसमाः ॥ १॥ किञ्चित्साधादुपसंहारसिद्धेवैधादप्रतिषेधः ॥२॥
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ३ ।।
इति त्रिभिः ३ स्त्रैः साध्यदृष्टान्तधर्मविकल्पप्रभावोत्कर्षसमादिजातिषट्कप्रकरणम् ॥२॥

२४
खद्योतसहितन्यायसूत्रभाष्ये
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधक-
स्वाच प्राप्त्यप्राप्तिसमौ ॥ १॥ घटादिनिष्पत्तिदर्शनात् पीडने चाभि-
भिचारादप्रतिषेधः ॥ २ ॥
इति द्वाभ्यां २ सूत्राभ्यां प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रमजातिद्वयप्रकरणम् ।।३।।
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच प्रतिदृष्टान्तेन प्रसङ्गप्रति-
दृष्टान्तसमौ ॥ १॥ प्रदीपोपादानप्रसङ्गविनिवृत्तिवन् तद्विनिवृत्तिः ॥ २ ॥
प्रतिष्टान्तहेतुत्वे च नाहेतुईष्टान्तः ॥ ३ ॥
इति त्रिभिः ३ सूत्रैर्युगनद्धवाहिप्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम् ।। ४ ॥
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ १॥ तथाभावादुत्पन्नस्य
कारणापपत्तन कारणप्रतिषेधः ॥ २ ॥
इति द्वाभ्यां २ सूत्राभ्यामनुत्पत्तिसमप्रकरणम् ।। ५ ॥
सामान्यदृष्टान्तयेरिन्द्रियकत्वे समाने नित्यानित्यसाधात् संशयसमः
11 १॥ साधान संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशय
प्रसङ्गो नित्यत्वानभ्युपगमाञ्च सामान्यस्याप्रतिषेधः ।। २ ॥
इति द्वाभ्यां २ सूत्राभ्यां संशयसमप्रकरणम् ।। ६ ॥
उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः ॥ १॥ प्रतिपक्षात्
प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ।। २॥
इति द्वाभ्यां २ सूत्राभ्यां प्रकरणसमप्रकरणम् ॥ ७ ॥
त्रैकाल्यानुपपत्तेर्हेतोरहेतुसमः ॥ १ ॥ न हेतुतः साध्यसिद्धौ-
काल्यासिद्धिः ।। २ ॥ प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ ३ ॥
इति त्रिभिः ३ सत्रैरहेतुसमप्रकरणम् ॥ ८॥
अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥ १॥ अनुक्तरवार्थापत्तेः
पक्षहानेस्पपत्तिर नुक्तत्वादनकान्तिकत्वाच्चार्थपत्तेः ॥ २ ॥
इति द्वाभ्यां २ सूत्राभ्यामर्थापत्तिसमप्रकरणम् ॥ ९ ।।
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरावेशेषसमः
।। १ । क्वचित् तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः ।। २ ।।
इति द्वाभ्यां २ सूत्राभ्यामविशेषसमप्रकरणम् ॥ १० ॥

न्यायसूचीनिबन्धः। उभयकारणोपपत्तेरुपपत्तिसमः ॥ १॥ उपपत्तिकारणाभ्यनुज्ञाना- दप्रतिषेधः॥ २ ॥ इति द्वाभ्यां २ सूत्राभ्यामुपपत्तिसमप्रकरणम् ॥ ११ ।। निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ १ ॥ कारणान्तरादापि तद्धमोपपत्तेरप्रतिषेधः ।। २ ।। इति द्वाभ्यां २ सूत्राभ्यामुपलब्धिसमप्रकरणम् ।। १२ ॥ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ॥११॥ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ २ ॥ ज्ञानविकल्पानां च भावाभाव- संवेदनाध्यात्मम् ।। ३ ।। इति त्रिभिः ३ सूत्रैरनुपलब्धिसमप्रकरणम् ।। १३ ।। साधात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥ १ ॥ साधादासिद्धेः प्रतिपेधासिद्धिः प्रतिषेध्यसाधाच ॥२॥ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावा- नाविशेषः ।।३।। इति त्रिभिः ३ सूत्रैरनित्यसमप्रकरणम् ।। १४ ।। नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः ।।१॥ प्रति- ध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः ।। २ ॥ इति द्वाभ्यां २ सूत्राभ्यां नित्यसमप्रकरणम् ॥ १५ ।। प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ १ ॥ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुप- लब्धिकारणोपपत्तेः ॥ २ ॥ इति द्वाभ्यां २ सूत्रैः कार्यसमप्रकरणम् ॥ १६ ॥ प्रतिषेधेऽपि समानो दोषः ॥ १॥ सर्वत्रैवम् ॥२॥ प्रतिषेधवि- प्रतिषेधे प्रतिषेधदोषवदोषः ॥ ३ ॥ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेध- विप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥ ४ ॥ स्वपक्षलक्षणापेक्षोपपत्त्यु- पसंहारे हेतुर्निदेशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥ ५ ॥ इति पञ्चभिः ५ सूत्रैः षट्पक्षीरूपकथाभासप्रकरणम् ।। १७ ॥ इति त्रिचत्वारिंशता ४३ सूत्रैः, सप्तदशभिः १७ प्रकरणैः पञ्चमाध्यायस्याद्यमाह्निकं समाप्तम् ।

२६
खद्योतसहितन्यायसूत्रभाष्ये
अथ पञ्चमाध्यायस्य द्वितीयमाह्निकम् ।
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासच्यासो हेत्वन्तर-
मर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषण-
मज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽप-
सिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥१॥ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते
प्रतिज्ञाहानिः ॥२॥ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम्
||३|| प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥४|| पक्षप्रतिषेधे प्रतिज्ञातार्थापन-
यनं प्रतिज्ञासन्न्यासः ।। ५॥ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो
हेत्वन्तरम् ॥ ६॥
इति षड्भिः ६ सूत्रैः प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चक-
विशेषलक्षणप्रकरणम् ।। १ ।।
प्रकृतादादप्रतिसम्बन्धार्थमर्थान्तरम् ॥ १ ॥ वर्णक्रमनिर्देशवान्निरर्थकम्
॥ २॥ परिपत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ ३ ॥ पौर्वा-
पर्यायोगादप्रतिसम्वद्धार्थमपार्थकम् ।। ४ ॥
इति चतुर्भिः ४ सूत्रैः प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्य-
निग्रहस्थानचतुष्कप्रकरणम् ॥ २॥
अवयवविपर्यासवचनमप्राप्तकालम् ॥ १ ॥ हीनमन्यतमेनाप्यवयवेन
न्यूनम् ॥ २ ॥ हेतूदाहरणाधिकमधिकम् ॥ ३ ।।
इति त्रिभिः ३ सूत्रैः स्वसिद्धान्तानुरूपप्रयोगभासनिग्रहस्थान-
त्रिकप्रकरणम् ॥ ३ ॥
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।। १॥ अर्थादापन्नस्य
स्वशब्देन पुनर्वचनं पुनरुक्तम् ।। २ ।।
इति द्वाभ्यां २ सूत्राभ्यां पुनरुक्तानिग्रहस्थानप्रकरणम् ॥ ४ ॥
विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ॥ १॥
आविज्ञातं चाज्ञानम् ।। २ ॥ उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ ३ ॥ कार्यव्यास-
ङ्गात् कथाविच्छेदो विक्षेपः ॥ ४ ॥
इति चतुर्भिः सूत्रैरुत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् ॥ ५ ॥

। न्यायसूचीनिबन्धः। स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ।। १ ।। निग्रह- स्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ २ ।। अनिग्रहस्थाने निग्रहस्थाना- भियोगो निरनुयोज्यानुयोगः ॥ ३ ।। इति त्रिभिः ३ सूत्रैर्दोषनिरूप्यमतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम् ॥ ६ ॥ सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥ १ ॥ हेत्वाभा- साश्च यथोक्ताः ।। २॥ इति द्वाभ्यां २ सूत्राभ्यां कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम् ॥ ७ ।। इति चतुर्विंशत्या २४ सूत्रैः, सप्तभिः ७ प्रकरणैः पञ्चमाध्यायस्य द्वितीयमाह्निकं समाप्तम् । समाप्तश्च पञ्चमोऽध्यायः॥ अत्र प्रकरणानि २४१ सूत्राणि ६७ ।। आस्मन् न्यायशास्त्रे ऽध्यायाः ५, आहिकानि १०, प्रकरणानि ८४, सूत्राणि ५३०, पदानि २०६, अक्षराणि ८४११ ।। यदलम्भि किमपि पुण्यं दुस्तरकुनिबन्धपकमग्नानाम् । श्रीगोतमसुगवीनामतिजरतीनां समुद्धरणात् ॥ १ ॥ संसारजलधिसेतो वृषकेतौ सकलदुःखशमहेतौ । एतस्य फलमखिलमार्पितमेतेन प्रीयतामीशः ।। २ ।। न्यायसूचीनिबन्धोऽसावकारि सुधियां मुदे । श्रीवाचस्पतिमिश्रेण वस्वङ्कवसु( ८९८ )वत्सरे ॥ ३ ॥ इति श्रीन्यायाचार्यसन्मिनश्रीवाचस्पतिविरचितो न्यायसूचीनिबन्धः समाप्तः । शुभमस्तु । . ।

No text on this page.

श्रीगौतममहामुनिप्रणीतानि खद्योतटिप्पण्यादिसहित- वात्स्यायनभाष्यसमेतानि न्यायसूत्राणि १ अभिधेयप्रयोजनसम्बन्धप्रकरणम् ।। प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् । प्रमाणमन्तरेण नार्थ- प्रतिपत्तिः । नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थ्यम् । प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा । तस्येप्साजिहासाप्रयुक्तम्य समीहा प्रवृत्तिरित्युच्यते। सामर्थ्य पुनरस्याः समीहमानन्तमर्थसभीप्सन जिहासन वा तमर्थमाप्नोति जहाति वा । अर्थस्तु सुखं सुखहेतुश्च दुःखं दुःखहेतुश्च । सोऽयं प्रमाणार्थोऽपरि- संख्येयः प्राणभृद्भेदस्यापरिसंख्येयत्वात् । अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति । कस्मात् । अन्यतमापायेऽर्थस्यानुपपत्तेः । तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता । स येनार्थं प्रमिणोति तत्प्रमाणम् । योऽर्थः प्रमीयते तत्प्रमेयम् । यदर्थविज्ञानं सा प्रमितिः । चतसृषु चैवं विधास्वर्थतत्त्वं परिसमाप्यते । "किं पुनस्तत्त्वम् ?” १ 'समीहा' यत्नः । २ . प्रमाणार्थः 'प्रमाणगम्योऽर्थः । ३ ' अर्थवति' समथै सम्यगर्थे अर्थाच्यभिचारिणीति यावत् । अथवा शक्ते । 'अर्थवन्ति' समर्थानि सम्यगर्थानि । अथवा शक्तानि ॥' अन्यतमेति'-अन्यतमस्य साधकतमस्य प्रमाणस्येति यावत् । अन्यतमार्थः साधकतमाओं द्रष्टव्य इति वार्ति- कम् ।। अथवा प्रमाणप्रमातृप्रमितिप्रमेयाणाम् ‘अन्यतमस्य' -प्रमाणस्य प्रमातुः प्रमितेः प्रमेयस्य वा-' अपाये' अभावे ' अर्थस्य ' प्रवृत्तिरूपस्य ' अनुपपत्तेः ' - असम्भवात्। *अयं प्रकरणविभागो वाचस्पतिमिश्रेण स्वकीये न्यायसूचीनिबन्धे कृतो वेदितव्यः ॥

वद्यानमाहितन्यायमृत्रभाष्ये [अ० ५. आ. १. नू । . । - संतश्च सद्भावोऽसतश्चासद्भावः । मत्सदिति गृह्यमाणं यथाभूतमविपरीतं नन्वं भवति । असञ्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति । कथमुन्नरम्य प्रमाणेनोपलब्धिरिति ? " मत्युपलभ्यमाने तदनुपलब्धेः प्रदीपवत् । यथा दर्शकेन दीपन दृश्ये गृह्यमाण नदिव यन्न गृह्यते, तन्नास्ति-यद्यविष्यदिमिव व्यज्ञास्यत, विज्ञा- नाभावान्नास्तीति । एवं प्रमाणन सति गृह्यमाणे तदिव यन्न गृह्यते तन्नास्ति । यद्यमविष्यदिदमिव व्यज्ञाम्यत, विज्ञानाभावान्नाम्तीति । तदेवं सतः प्रकाशक प्रमाणमसदपि प्रकाशयतीति । सञ्च खलु षोडशधा व्यूढमुपदेश्यते । नामां बल्वामां मद्विधानाम्- प्रमाणप्रमेयमंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्प- वितण्डाहेत्वाभामच्छलजातिनिग्रहम्थानानां तत्वज्ञानानिःश्रेयसावि- गमः॥१॥ निर्देशे यथावचन विग्रहः । चार्थे द्वन्द्वसमासः । प्रमाणादीनां तत्त्वमिति शैषिकी षष्ठी। तत्त्वस्य ज्ञानं निःश्रेयसम्याधिगम' इति कर्मणि पष्ठयो। न एवावन्तो विद्यमानार्थाः । येषामविपरीतज्ञानार्थमिहोपदेशः । सोऽयम- नवयवन नन्त्रार्थ उदिष्टो वेदितव्यः । आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान्नि:- श्रेयमाधिगमः । नञ्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं तस्य निर्वर्तकं, हानम् . . - , . । सनश्चेति । मदसती तत् । नस्य - भावः' प्रमाणविषयता 'तत्त्वम्' । विधायकग्रमाणविषयता · सद्भावः । प्रतिषेधप्रमाणविषयता ' असद्भावः'। २ सन उपलब्धावेव अतोऽसतोऽप्युपलब्धिः, अत एवासतोऽपि प्रमाणेनैवोप- लब्धिः। केवलमयमेव सदसनोभदो यत् सत् स्वतन्त्रमेव प्रमाणस्य विषयः, असत्तु प्रतिषेधमुखेनैव प्रमाणस्य विषयः । कथं सदुपलब्धिद्वारा प्रतिषेधमुखेनासत उपल- विरिति प्रदीपदृष्टान्तेन विशदयति । ३ यदेव निर्देशे वक्ष्यमाणे लक्षणे वचनभेदोपादाने प्रयोजनं तदेवेहाप्युद्देशे । अतोऽत्रापि समासस्य विग्रहे बचनभेदोऽनुसरणीयः।' चार्थे द्वन्द्वसमास' इति वाक्यं । निर्देशे यथावचनं विग्रह ' इत्येतस्मात् प्रागेव योजयति वार्तिककारः । ४ 'शैषिकी। यत्र न कारकार्थों विवक्ष्यते स 'शेषः' । सम्बन्धसामान्यमित्यर्थः। ५ हेयं-हानं-हानोपाय:-अधिगन्तव्यः-इत्येवं भेदाच्चत्वारि अर्थपदानि सम्यक निःश्रेयसमधिगच्छतीति । एतदेव सविस्तरं द्वितीयसूत्रे वय॑ते ।। ' हेयम् .

प्रथमाध्याये प्रथमाह्निके प्रथम सूत्रम् ३ । आत्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्यर्थपदानि सम्यग्बुद्धा निःश्रेयसमधिगच्छति । तत्र संशयादीनां पृथवचनमनर्थकम् । संशयादयो यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति । सत्यमेतत् । इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोप- दिश्यन्ते । यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या । तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः । तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यान। अथोपनिषदः । तस्मात् संशयादिभिः पदाथैः पृथक् प्रस्थाप्यते । नत्र नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तते, किं तर्हि, संशयितेऽर्थे । यथोक्तं ..... विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ” ( अ. १ आ. ? इ. ११ ) इति । विमर्शः-संशयः । पक्षप्रतिपक्षौ-न्यायप्रवृत्तिः। अर्थावधारण- निर्णयस्तत्त्वज्ञानमिति । म चायं किंस्विदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं मंशयः प्रमेयऽन्नवनवमर्थं पृथगुच्यते । अथ प्रयोजनम् । येन प्रयुक्तः प्रवर्तते, तत् प्रयोजनम् । यमर्थमभीप्सन जिहासन वा कारभते. तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश्च विद्य, व्याप्ताः, तदाश्रयश्च न्यायः प्रवर्तते । कः पुनरयं न्यायः ? प्रमाणैरर्थपरीक्षण न्यायः । प्रत्यक्षागमाश्रितमनुमानम् । साऽन्वीक्षा । प्रत्यक्षागमाभ्यामीक्षित- दुःस्वम् । अविद्यातृष्णे धर्माधौं । —हानं ' हेयस्य हानिकरणं तत्त्वज्ञानम् । तस्य • उपायः' गानम् । ' अधिगन्तव्यः' मोक्षः। १ पृथग्रस्थानाः ' विविधप्रकारेण नानाविषयप्रतिपादिकाः । - यद्यपि संशयादयः यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भावयितुं शक्यन्ते नथापि शास्त्रस्यास्य नानाविषयप्रतिपादकत्वसूचनाय तेषां पृथगुपन्यासः। ३ संशयादीनां पदार्थानां न्यायविद्यान्तर्गतत्वं प्रदर्शयितुमुपक्रमते तत्रेति । ४ यस्मात कारणात संशयः सर्वन्यायप्रवृत्तेर्मूलम् । ५ प्रयोजनमुद्दिश्यव यतो न्यायः प्रवर्तते अत एव प्रयोजनं न्यायस्य मूलम् । प्रमाणैरिति । समस्तप्रमाणब्यापारादर्थाधिगतिया॑य इति वार्तिकम् । प्रत्य- शादिप्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः ‘प्रमाणानि नैः ‘अर्थस्य' लिङ्गस्य परीक्षणं 'न्याय' इति तात्पर्यटीका । प्रत्यक्षेति-उपमानमप्युपलक्षयतीति तात्पर्यीका । सप्रयोजनाविति। तत्त्वज्ञान- मेव वादस्य प्रयोजनम् । विजयश्च जल्पस्य । तत्रेति । तेनानेन प्रयोजनेन सर्वे प्राणिनः , , .

खद्योतसाहितन्यायसूत्रभाष्ये [अ० १, आ० १, सू. १ ७ स्यान्वीक्षगमन्वीक्षा । तया प्रवर्तत इत्यान्वीक्षिकी-न्यायविद्या-न्यायशास्त्रम् । यत् पुनरनुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः स इति । तत्र वादजल्पौ सप्रयोजनौ । वितण्डा तु परीक्ष्यते । वितण्डया प्रवर्तमानो वैतण्डिकः । स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते सोऽस्य पक्षः सोऽस्य सिद्धान्त इति वैतण्डिकत्वं जहाति । अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्यापद्यते । अयापि परपक्षप्रतिषेधज्ञापन प्रयोजनं ब्रवीति एतदपि ताहगेव । यो ज्ञापयति यो जानाति येन ज्ञाप्यते यच्च ज्ञाप्यते एतच्च प्रतिपद्यते यदि तदा वैतण्डिकत्वं जहाति । अथ न प्रतिपद्यते परपक्षप्रतिषेधज्ञापन प्रयोजन- मित्येतदस्य वाक्यमनर्थकं भवति । वाक्यसमूहश्च स्थापनाहीनो वितण्डा । तन्य यद्यभिधेयं प्रतिपद्यते सोऽस्य पक्षः स्थापनीयो भवति । अथ नप्रतिपद्यते प्रलापमात्रमनर्थकं भवति, वितण्डात्वं निवर्तत इति । अथ दृष्टान्तः प्रत्यक्षविषयोऽर्थः-यत्र लौकिकपरीक्षकाणां दर्शनं नव्याहन्यते। स च प्रमेयम् । तस्य पृथग्वचनं च तदाश्रयावनुमानागभी । तस्मिन् सति सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ता इत्युक्तं प्राक् । तत्र प्रतिपदार्थ प्रयोजनं दर्शयितुमुपक्रमते। १ स प्रयोजनमित्यादि। वितण्डायां सर्वथा प्रयोजनाभाव एव प्रतिभाति । वैत- ण्डिकत्वहानिभयाद्वैतण्डिकः स्वपक्षं नैवोपस्थापयति । न चैतावता तस्य स्वपक्षी नारत्ये- वेति शङ्कनीयम् । यथाहुर्तिककारा:-न दूषणमात्रं वितण्डा किन्वायुपेत्य पक्षं यो न स्थापयति स वैतण्डिक इति । तत्र-परसाधनदूषणेनास्य स्वपक्षः सिध्यतु मा वा सैन्सीत् स तु स्वपक्षसिद्धथैव प्रयोजनेन परसाधनमाहन्तीति भाव इति टीकाकृतः। २ यो ज्ञापयतीति' वैण्डिकं परामशति, “यो जानातीति तस्य प्रतिपक्षी- भूतं पुरुषम् , ' येन ज्ञाप्यत' इति वैतण्डिकेनोपन्यस्तं हेतुजातम् , ' यच्च ज्ञाप्यत' इति प्रतिपक्षनिरसनम् । एतच्चतुर्वग यदि वैतण्डिकोऽभ्युपगच्छति तदाऽस्यैवान्युपगमस्य नस्य स्वपक्षत्वन्ततश्च तस्य वैतण्डिकत्वहानिः । ३ तस्येति वाक्यसमूहस्येत्यर्थः । ४ यत्रेति । अत्र च यो दृष्टान्तस्स एवम्, न तु य एवं स दृष्टान्तः-इति तात्पर्यकृतः। ५ स चेति । सोऽयन्दृष्टान्तः प्रमेयम्, उपलब्धिविषयस्वात्-इति वार्तिकम् । तस्येति । दृष्टान्तस्य प्रमेयत्वेऽपि प्रमेयात् पृथुगुपन्यासः कृतो यतस्तदाश्रयावेवानु- मानागमाविति योजना। ।

प्रथमाध्याये प्रथमाह्निके प्रथम सूत्रम् न्चातामनुमानागमावसति च न स्याताम् । तदाश्रया च न्यायप्रवृत्तिः। दृष्टान्त: विगंधेन च परपक्षप्रतिषेधो वचनीयो भवति दृष्टान्तसमाधिना च स्वपक्ष- साधनायो भवति । नास्तिकश्च दृष्टान्तमभ्युपगच्छन्नास्तिकत्वं जहाति । अन- भ्युपगच्छन् किंसाधनः परमुपालभेतेति। निरुक्तेन च दृष्टान्तन शक्यमभिधातुम् साध्यसाधयात् तद्धर्मभावी दृष्टान्त उदाहरणम् ( अ० १ आ० १ सू० ६६ ) तद्विपर्ययाद्विपरीतम् " ( अ० आ० १ सू० ३७ ) इति । अस्त्ययमित्यनुज्ञायमानोऽर्थः सिद्धान्तः । स च प्रमेयम् । तस्य पृथग्वचनम्- सन्सु सिन्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातोऽन्यथेति । साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावर वयवा उच्यन्ते । तेषु प्रमाणसमवायः । आगमः प्रतिज्ञा । हेतुरनुमानम् । उदाहरणं प्रत्यक्षम् । उपनयनमुपमानम् । मषामे- काममवावे लामा प्रदर्शनं निगमनमिति । सोऽयं परमो न्याय इति । एतेन वाजल्पवितण्डाः प्रवर्तन्त नातोऽन्यथेति । तदाश्रया च तत्त्वव्यवस्था । ते चैतेऽवयवाः शब्दविशेषाः सन्तः प्रमेयेऽन्तर्भूता एवमर्थं पृथगुच्यन्त इति । तर्को न प्रमाणसङ्गृहीतो, न प्रमाणान्तरम् , प्रमाणानामनुग्राहकस्तत्त्व- ज्ञानाय कल्पते । तस्योदाहरणम् । किमिदं जन्म कृतकेन हेतुना निर्वय॑ते, आहो स्विकृतकेन, अथाऽऽक्रस्मिकम् ? एवमविज्ञातेऽर्थे कारणोपपत्त्या उहः : दृष्टान्तविरोधेनेति । मर्ववादिप्रसिद्धो दृष्टान्तस्तद्विरुद्धस्य परपक्षस्य तद्विरो- घेनेव प्रतिक्षेपां भवति । नास्तिक इति । दृष्टान्तोपन्यासे पूर्वदृष्टव्यक्तीनां तद्वतधर्माणाञ्च प्रदर्शनं भवति । नवेक्षणभङ्गवादिना क्रियते तदा तेनैव तस्य वदतो व्याघातः । ३ तेष्विति । अवयवेषु सर्वेषां प्रमाणानामेकत्रीभावः । उक्तमेव प्रपञ्चयति आगम इति । प्रतिज्ञा शब्दप्रमाणरूपः, हेतुरनुमानरूप इत्यादि । ४ परम इति । परमत्वं विप्रतिपन्नपुरुषं प्रति प्रतिपादकत्वम् । एकैकशः प्रवृत्तानि प्रमाणानि विप्रतिपन्नं पुरुषं नैव विश्वासयन्ति । एकवाक्यतापन्नानि तु सर्वथा प्रति- पादयन्स्येव विप्रतिपन्नानपीत्येष परम इत्यर्थः । ५ तत्वव्यवस्थेति । विप्रतिपत्तिविषयेषु निश्चयात्मकं ज्ञानमवयववाक्याज्जायत ६ एवमर्थमिति ! उक्तहेतुभ्य इत्यर्थः । [ इत्यर्थः। ७ अविज्ञात इति संशयित इत्यर्थः । कारणोपपत्त्येति । सम्भावितकारणा- नान्तत कार्याणां च विचारेणेत्यर्थः । ..

ज ग्वद्यातसहितन्यायसूत्रभाष्ये [अ० १, आ० १ म. : प्रवर्तते । यदि कृतकेत हतुना निवर्त्यते, हेतूच्छेदादुपपन्नोऽयं जन्मोच्छेदः । अथाकृतकंन हेतुना, ततो हेतूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः । अथा- कास्मिकम् , अतोऽकस्मानिवर्त्यमानं न पुननिर्वय॑तीति निवृत्तिकारणं नोपपद्यते, तेन जन्मानुच्छेद इति । एतस्मिंस्तर्कविषये कनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तणानुगृह्यन्ते । तत्त्वज्ञानविषयस्य विभागात् तत्त्व- ज्ञानाय कल्पते तर्क इति । सोऽयमित्थंभूतस्तर्कः प्रमाणसहितो वादे साधनायो- पालम्भाय चार्थस्य भवतीत्येवमर्थं पृथगुच्यते प्रमेयान्तर्भूतोऽपीति । निर्णयस्तत्त्वज्ञानं प्रमाणानां फलम् , तवदसानो वादः । तस्य पालनार्थं जल्प- वितण्ड ! तावतो तर्कनिर्णयौ लोकयात्रां वहत इति । सोऽयं निर्णयः प्रमेयान्त- भूत एवमर्थं पृथगुद्दिष्ट इति । वादः ग्बलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावसानो वाक्यसमूहः पृथगुहिष्ट उपलक्षणार्थम् । उपलक्षितेन व्यवहारम्तत्त्वज्ञानाय भवतीति। तद्विशेषों जल्पवितण्ड तत्त्वाध्यवसायसंरक्षणार्थमित्युक्तम् ( अ.. आ० २ सू०.०)! निग्रहस्थानेभ्यः पृथगुद्दिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्तीति । जल्पवितण्डयोस्तु निग्रहम्थानानीति । ३ प्रवर्तमानानीति । संशयितविषये व्यापृतानि प्रमाणानि जन्मनः कर्मनि- मित्तत्वं बोधयन्ति । अस्मिश्च बोधनाव्यापारे तानि तणानुगृहीतानीति । २ प्रमाणानामिति । अनेन पञ्चावयववाक्यमुपलक्षयति, तत्र सतर्काणां प्रमाणानां समवायात् । परमार्थतस्तु तर्कपूर्वकस्तत्त्वनिश्चयो विनिर्णय इति । प्रत्यक्षादीनामपि नर्कसहायानां निर्णयफलत्वमिति वाचस्पतिमिश्राः। ३ तद्विशेषाविति । विशेषोऽङ्गाधिक्यमङ्गहानिश्च । छलजातिनिग्रहस्थानप्रयोगा- दधिको जल्पः । स प्रतिपक्षस्थापनाहीनस्तु वितण्डा । विषयभेदाच भेदः । शिष्यादि- विषयो वादः शिष्यमाणविषये जल्पवितण्डे इति वार्तिककाराः। ४ 'चोदनीया' इत्यत्र 'देशनीया' इति वार्तिकसम्मतः पाठः प्रतिभाति । हेत्वाभासानां पृथगुपदेशकारणे भाष्यसम्मते वार्तिककारस्यारुचिः प्रतिभाति मैषाऽरुचिरेकदेशिवर्णितभाष्यतात्पर्येण भाप्य एवेति तात्पर्यकृतः परिशुद्धिकाराश्च । तात्पर्यकृतां सम्मतो भाप्यार्थ इत्थंरूपः-हेत्वाभामोद्भावनस्य वादस्य च तत्त्वनिर्णय - प्रथमाध्याय प्रथमाह्निके प्रथम सूत्रम् THomoeon छलजातिनिग्रहस्थानानां पृथगुपदंश उपलक्षणार्थमिति । उपलक्षितानां न्यवाक्ये परिवर्जनं, छलजाति निग्रहस्थानानां परवाक्ये पय्यनुयोगः । जातेश्च परेण प्रयुज्यमानायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति । मेयमान्वीक्षिकी प्रमाणादिभिः पदाथैविभज्यमाना- प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ।। तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमार्थं यथाविधं वेदितव्यम् । इह त्वध्यात्म- विद्यायामात्मादितत्त्वज्ञानं तत्त्वज्ञानम् । निःश्रेयसाधिगमोऽपवर्गप्रानिः ।। १ ।। । एक मुख्य प्रयोजनम् न वादिविजयः। एकस्मिन्वाद सर्वेषान्निग्रहस्थानानामुद्भाव- नन्नैव सम्भवनि । हेत्वाभासाश्वेशानि निग्रहस्थानानि यानि वादे सर्वथोद्भावना- हाणि भवन्ति । अत एवैषां पृथगुपदेश इति । एवञ्च वादे सर्वश्रोद्भावनीयत्वेनैव पगपां पृथगुद्देशाहतान तु पृथगुद्देशाहत्वम्य वादोद्धावनीयत्वेन नान्तरीयकत्वम् ---दथकदशिनोडावितमिनि परिशुद्धिकृतः । १ सुकरः प्रयोग इति । परेण जातो प्रयुक्तायां प्राइिनकान ब्रवीति जातिरनेन प्रयुक्तेति । त एनं पर्यनुयुञ्जीरन् कथनातिः कनमा जातिरतो जात्यभिज्ञः शक्नोति वक्तुमेवं जातिरियं च जातिरिति सुकरः प्रयोग इति वार्तिककृत: । सुकरः अयोगः जात्युत्तरस्य ज्ञानं ज्ञापनश्चेत्युभयरूपः स्ववाक्ये तत्परिवर्जनरूपश्च । इतीति । तदे- ननिर्गलितार्थः संशयादयः पदार्थाः प्रमाणे प्रमेये चान्तर्भवन्तोऽपि विद्याप्रस्थान- भेदज्ञापनार्थं पृथगुद्दिष्टा इति । २ प्रदीप इति । प्रकाशकत्वात् । उपाय इति। क्रियत इति कर्म विषयः शास्त्रा- शाम् । तस्यैव शास्त्रैः कृतत्वान विषयत्वेन परिगृहीतत्वात् । अत्रैव न्यायशास्त्रे प्रकाशिनान अर्थान् इतरा विद्या विषयत्वेन परिगृह्णन्तीत्यर्थः । ३ आश्रय इति । सर्वासां विद्यानां पुरुषप्रवर्तना ' धर्माः ' तेपामाश्रय इति नात्पर्यकृतः । एवं धर्मद्वारेण विद्यानामेवाश्रय इत्यर्थः । सर्वाणीतराणि शास्त्राणि द्रव्यगुणकर्माण्युपाश्रित्यैव विधिनिषेधानुपन्यस्यन्ति द्रव्यादयश्च पदार्था न्यायशास्त्रा- देव तत्त्वतोऽधिगम्यन्त इति भावः । ४ तदिदमिति । व्युत्पाद्याश्चेत प्रमाणादयः सर्वविद्योपयोगिनो न नात्यन्तिकी दुःखनिवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्येत । व्युत्पाद्यस्वभावपर्यालोचनया हि तद्गम्येत । स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन सङ्कर- प्रसङ्ग इत्यत आह तदिदमिति । इति तारपर्यकृतः । न सर्व सर्वत्र व्युत्पाद्यते । सर्वासां क्रियाणामियमान्वीक्षिको 'आश्रयो' भवति स्वयञ्च केषुचि द्विषयेवाश्रिता ..

बद्योतसहितन्यायसूत्रभाष्ये । अ० १, आ० । स्. २ ७ नन् खलु निःश्रेयसं किं तत्त्वज्ञानानन्तरमेव भवति ?" नेत्युन्यत ! किं तर्हि ? तत्त्वज्ञानात्- दुःखजन्मप्रवृत्तिदोपमिथ्याजानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ॥२॥ तत्रात्माद्यावर्गपर्यन्तं प्रमेये मिथ्याज्ञानमनेकप्रकारकं वर्तते । आत्मनि नावत् नास्तीति, अनात्मनि आत्मेति, दु:खे सुखमिति, अनित्ये नित्यमिति, अत्राणे त्राणमिति, सभये निर्भयमिति, जुगुप्सिते अभिमतमिति, हातव्ये अप्रतिहातव्यमिति, प्रवृत्तौ नाऽस्ति कर्म नाऽस्ति कर्मफलमिति, दोषेषु नायं दोषनिमित्तः संसार इति, प्रेत्यभावे नास्ति जन्तुर्जीवो वा सत्त्व आत्मा वा यः प्रेयात् ग्रेत्य च भवेदिति, आनिमित्तं जन्म, अनिमित्तो जन्मोपरम इत्यादिमान प्रेत्यभावः अनन्तश्चेति, नैमित्तिकः सन्नकर्मनिमित्तः प्रेत्यभाव इति, देहेन्द्रिय- बुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति, अपवर्गे भीष्मः खल्वयं सर्वकार्योपरमः, सर्वविप्रयोगेऽपवर्गे बहु भद्रकं लुप्यत इति कथं बुद्धिमान्सर्वसुखोच्छेदमचैतन्यममुमपवर्ग रोचयेदिति । एतस्मान्मिथ्याज्ञानादनुकृलेषु रागः, प्रतिकुलेषु द्वेषः ! रागद्वेषाधिकाराचा- सूर्यामायालोभादयो दोषा भवन्ति । दोषः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्याचरति, वाचाऽनृतपरुपसूचनाऽसम्बद्धानि, मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति । सेयं पापात्मिका प्रवृत्तिरधर्माय । अथ शुभा-शरीरेण दानं परित्राणं परिचरणं च. वाचा सत्यं हितं प्रियं स्वाध्यायञ्चेति. मनसा दयामम्पृहां श्रद्धां चति । सेयं धर्माय । भवति इति परिशुद्धिकाराः। पुरुषप्रवर्तनारूपायां क्रियायामितरा विद्या उपकरोतीय- मिति भावः । एवं यस्मिन् शास्त्रे यो विषयः प्रधानतया वर्णितः स तत एवाधि- गन्तव्य इत्याशयवानेवाह यथाविद्यमिति । 1 तत् खल्विति । प्रथम सूत्रेण शास्त्रस्योद्देश्यमपवर्गमुपवर्ण्य द्वितीयसूत्रेणापवर्गण मह शास्त्रनिरूपितविषयाणां सम्बन्धं प्रदर्शयति । ३ अनेकप्रकारकमिति । सर्वत्र चात्रातस्मिस्तदबुद्धिरिति विपर्ययलक्षणमनुगतम् । ३ अधिकारादिति तद्वशादित्यर्थः। ४ परिचरणम् ' परिचर्या गुरूणां शुश्रूषेति यावत् । सेयमिति प्रवृत्तिरित्यर्थः ।

प्रथमाध्याय प्रथमाह्निके द्वितीयसूत्रम् अत्र प्रवृत्तिसाधनो धर्माधर्मों प्रवृत्तिशब्देनाको । यथाऽन्नसाधनाः प्राणाः अन्नं वै प्राणिनः प्राणा' इति । मयं प्रवृत्तिः कुत्सितस्याभिजितस्य च जन्मनः कारणम् । जन्म पुनः गरन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । तस्मिन सति दुःखम् । तत्पुनः प्रतिकूलवेदनीयम्-बाधना-पीडा-ताप इति। न इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति। यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपति, तदा मिथ्याज्ञानापाय दोषा अपयन्ति, दोषापाये प्रवृत्तिरपति, प्रवृत्त्यपाये जन्माऽपैति, जन्मापाये दुःखमपैति. दुःखा- पाये च आत्यन्तिकोऽपवर्गो निःश्रेयसमिति । तत्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम् । आत्मनि ताव- इम्तीति. अनात्मन्यनात्मेति । एवं दुःख नित्ये त्राणे समये जुगुप्सिते हातव्ये र यथाविपयं वदितव्यम् । प्रवृत्तावस्ति कर्मास्ति कर्मफलमिति । दोषेषु दोष- निमित्तोऽयं संसार इति ! प्रेत्यभाव खल्बम्ति जन्तु वः सत्त्वः आत्मा वा यः प्रेत्य भवेदिति, निमित्तवज्जन्म, निमित्तवान् जन्मोपरम इत्यनादिः प्रेत्य- भावोऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्त इति, सात्मकः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्तत इति । अपवर्गे शान्तः खल्वयं सर्वविप्रयोगः सर्वोपरमोऽपवर्गः, बहु च कृच्छं घोरं पापक लुचत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदमपवर्गं न रोचये दिति । तद्यथा मधुविषसम्पृक्तान्नमनादेयमित्येवं सुखं दुःखानुषक्तमनादेय- मिति ॥२॥ : मिथ्याज्ञानादय इति । मिथ्याज्ञानादीनां सौत्रः क्रमो भाष्यकारेण त्यक्तः भाग्यकारोक्तश्च क्रमा वातिककारेण परावर्तितः। अयञ्च क्रमानिश्चय इष्ट एव । यत उक्तेषु सर्वेषु परस्परं कार्यकारणभावः सुश्लिष्टो वर्तते । तद्यथा मिथ्याज्ञानं दुःखस्त्र कारणम् दुःखञ्च मिथ्याज्ञानस्येति प्रत्यात्मवेदनीयमेतत् । • तद्यथेति । सर्वोपरमोऽपवर्ग इत्युक्तं तत्र कथं सुखस्याप्युपरम इष्ट इति दर्शयति दुःखानुषक्तमिति । अनुषङ्गोऽविनाभावः, यत्रकं तत्रेतरदिति । समाननि- मित्ततावाऽनुपङ्गः, यान्येव सुखसाधनानि तान्येव दुःखसाधनानीति । समानाधारता वाऽनुषङ्गः, यत्र सुखं तत्र दुःखमिति । समानोपलभ्यता वाऽनुषङ्गः, येन सुख- मुपलभ्यते तेन दुःखमित्यादि वार्तिके स्पष्टम् । , प्रथमाध्याय प्रथमाह्निके द्वितीयसूत्रम् अत्र प्रवृत्तिसाधनो धर्माधर्मों प्रवृत्तिशब्देनाको । यथाऽन्नसाधनाः प्राणाः अन्नं वै प्राणिनः प्राणा' इति । मयं प्रवृत्तिः कुत्सितस्याभिजितस्य च जन्मनः कारणम् । जन्म पुनः गरन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । तस्मिन सति दुःखम् । तत्पुनः प्रतिकूलवेदनीयम्-बाधना-पीडा-ताप इति। न इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति। यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपति, तदा मिथ्याज्ञानापाय दोषा अपयन्ति, दोषापाये प्रवृत्तिरपति, प्रवृत्त्यपाये जन्माऽपैति, जन्मापाये दुःखमपैति. दुःखा- पाये च आत्यन्तिकोऽपवर्गो निःश्रेयसमिति । तत्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम् । आत्मनि ताव- इम्तीति. अनात्मन्यनात्मेति । एवं दुःख नित्ये त्राणे समये जुगुप्सिते हातव्ये र यथाविपयं वदितव्यम् । प्रवृत्तावस्ति कर्मास्ति कर्मफलमिति । दोषेषु दोष- निमित्तोऽयं संसार इति ! प्रेत्यभाव खल्बम्ति जन्तु वः सत्त्वः आत्मा वा यः प्रेत्य भवेदिति, निमित्तवज्जन्म, निमित्तवान् जन्मोपरम इत्यनादिः प्रेत्य- भावोऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्त इति, सात्मकः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्तत इति । अपवर्गे शान्तः खल्वयं सर्वविप्रयोगः सर्वोपरमोऽपवर्गः, बहु च कृच्छं घोरं पापक लुचत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदमपवर्गं न रोचये दिति । तद्यथा मधुविषसम्पृक्तान्नमनादेयमित्येवं सुखं दुःखानुषक्तमनादेय- मिति ॥२॥ : मिथ्याज्ञानादय इति । मिथ्याज्ञानादीनां सौत्रः क्रमो भाष्यकारेण त्यक्तः भाग्यकारोक्तश्च क्रमा वातिककारेण परावर्तितः। अयञ्च क्रमानिश्चय इष्ट एव । यत उक्तेषु सर्वेषु परस्परं कार्यकारणभावः सुश्लिष्टो वर्तते । तद्यथा मिथ्याज्ञानं दुःखस्त्र कारणम् दुःखञ्च मिथ्याज्ञानस्येति प्रत्यात्मवेदनीयमेतत् । • तद्यथेति । सर्वोपरमोऽपवर्ग इत्युक्तं तत्र कथं सुखस्याप्युपरम इष्ट इति दर्शयति दुःखानुषक्तमिति । अनुषङ्गोऽविनाभावः, यत्रकं तत्रेतरदिति । समाननि- मित्ततावाऽनुपङ्गः, यान्येव सुखसाधनानि तान्येव दुःखसाधनानीति । समानाधारता वाऽनुषङ्गः, यत्र सुखं तत्र दुःखमिति । समानोपलभ्यता वाऽनुषङ्गः, येन सुख- मुपलभ्यते तेन दुःखमित्यादि वार्तिके स्पष्टम् । , प्रथमाध्याये प्रथमाह्निके द्वितीयं सूत्रम् ११ यदा सन्निकर्षस्तदा ज्ञान प्रमितिः, यदा ज्ञानं तदा हानापादानोपेक्षाबुद्धयः फलम्। अनुमानम्-मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानम् । उपमानम्-मामीप्यज्ञानम-यथा गौरवं गवय इति। मामीप्यं तु सामा- न्ययोगः शब्द:- शब्द्यतेऽनेनार्थ इत्यभिधीयते ज्ञाप्यते । उपलब्धिसाधनानि प्रमणानीति समाख्यानिर्वचनसामाद बोद्धव्यम् । प्रायतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः । तद्विशेषसमाख्याया अपि तथैव व्याख्यानम्। किं पुनः प्रमाणानि प्रमेयमाभसंप्लवन्तेऽथ प्रतिप्रमेयं व्यवतिष्ठन्ते इति? उभयथा दर्शनम्-'अस्त्यात्मा' इत्यामोपदेशात्प्रतीयते । तत्रानुमानम्- इन्छाद्वेषप्रयत्नसुखदुःवज्ञानान्यात्मनो लिङ्गम् ' ( अ० ५ ० १ सू. ५० ) इति । प्रत्यक्षम्-युञ्जानम्य योगसमाधिजमात्ममनसाः संयोगविशेषादात्मा प्रत्यक्ष इति । अग्निराप्तोपदेशात्प्रतीयते 'अत्रानिः इति । प्रत्यासीदता धूम- दशनेनानुमीयते प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते । व्यवस्था पुनः-'अग्निहोत्रं जुहुयात्स्वर्गकामः' इति । लौकिकस्य स्वर्गे न लिङ्गदर्शनं प्रत्यक्षम् । स्तनि- यित्नुशब्दे श्रूयमाणे शब्दहतोरनुमानम् । तत्र न प्रत्यक्षं नागमः । पाणौ प्रत्य- क्षत उपलभ्यमाने नानुमानन्नागम इति । सा चेयं प्रमितिः प्रत्यक्षपरा । जिज्ञासितमर्थमाप्तोपदेशात्प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते, लिङ्गदर्शनानुमितं च प्रत्यक्षतो दिक्षते, उपलब्धेऽर्थे १ हानेति-हानादिकारणीभूता बुद्धिरित्यर्थः । २ मितेनेति । अनेन विशेषणेन हेत्वाभासानान्निरामः ॥ अर्थस्येति माध्यस्ये. व्यर्थः, अर्थ्यते साध्यते यदिति व्युत्पत्तेः । ३ विशेषसमाख्याया इति । उपलब्धिसाधनत्वं यथा प्रमाणसान ज्याभिधानेना- भिधीयते तथैवानुमानादिविशेषाभिधानरपीत्य त्रैव दर्शितम् । ४ अभिमम्प्लवन्त इति । एकैस्मिन प्रमेये बहूनां प्रमाणानां व्यापार एकैकस्य इत्यर्थः। ५ अत्यात्मेति । आत्मा अग्निश्चेति प्रमाणसंप्लवोदाहरणे, अग्निहोत्रं जुहुयात्स्वर्ग- काम इत्यादि प्रमाणव्यवस्थायाः। ६ प्रत्यक्षपरेति । प्रत्यक्षमेव परम् प्रधानमस्याः। प्रत्यक्षस्य परता च तदनन्तर- मेव जिज्ञासाया निवृत्तेः । :

वयानमहिनन्यायमत्रभाष्य । अ० ., आ. १. panto- जिज्ञासा निवत्तेन पूर्वोक्तमुदाहरणम् 'अग्निः इति । प्रमातुः प्रमाणानां मगऽभिमन्त्रः. अमको व्यवस्थेति ॥ ३ . इति त्रिसूत्रीभाष्यम् । ३) प्रत्यक्षलक्षणम् । अध विभक्तानां लक्षणमिति- झन्द्रियार्थनिकपोन्पन्नं ज्ञानमव्यपदश्यमव्यभिचारि व्यवसा- यात्मकं प्रत्यक्षम् ॥४॥ इन्दिग्रन्यार्थेन सन्निकर्षादुत्पद्यत यज्ञानं तत् प्रत्यक्षम् । 'न तहीदानीमिदं भवति, आत्मा मनमा संयुज्यते.मन इन्द्रियेण, इन्द्रि- यमर्थनति " नदं कारणावधारणम्-एतावत्प्रत्यक्ष कारणमिति, किन्तु विशिष्टकारण- वचनमिति । यत्प्रत्यनज्ञानस्य विशिष्टकारणं तदुच्यते, यत्तु समानमनुमानादि- ज्ञानम्य न नन्निवर्तते इति । मनसस्तीन्द्रियेण संयोगो वक्तव्यः भिद्यमानस्य प्रत्यनज्ञानस्य नायं भिद्यत इति समानत्वान्नाक्त इति । . अत्र सूत्रे यत इत्यध्याहृत्य यत्तदोनिन्याभिसम्बन्धात् तत्प्रत्यक्षमिति प्रमाणवात्रि पदं योजनीयम् । २ न तहीनि । "लक्षणघटक सूत्राक्षरानुसारेण इन्द्रियार्थयोरेव सन्निकर्षः प्रत्यक्ष आवश्यकः । एतच्च न सङ्गच्छते नैयायिकसिद्धान्तेन येनात्ममनसोरिन्द्रियमनसोच मनिकर्षावावश्यकतयाऽभ्युपगतो' इति पूर्वपक्षाशयः । ३ नेदमिनि । सकलानां प्रत्यक्षतामयोजकानां परिगणनार्थन्नेदं सूत्रं किन्तु यकि- ञ्चिन्प्रत्यक्षस्यान्यप्रमाणेभ्यो व्यावर्तकं तन्निरूपणार्थमेव ।। ४ मनस इति । एवमपीन्द्रियमनसोः संयोगस्यापि प्रत्यक्षमात्रेऽपेक्षितत्वात्तव्या- बर्नकत्वेन स वकन्यो भवति लक्षणसूत्रे-इति पूर्वपक्षाशयः। ५ भिद्यमानस्येति । एतद्वाक्यं वार्तिककारेण द्विधा व्याख्यातम् । (१) यथोन्द्र- यार्थसंयोगः प्रत्यक्षस्य व्यावर्तकस्तथैवेन्द्रियमनस्संयोगोऽपीति विविच्य यत्किञ्चिदेक व्यावर्तकं सूत्रकारणोक्तम् । यकिञ्चिद्यावर्तकोल्लेखेनैव लक्षणाभिधानस्य संपन्नत्वाद द्वितीयविशेषणं न्यावर्तकमपि नोक्तम् । समानत्वादित्यनेन पदेनैतदेवाभिप्रेतम् ॥ एतदेव प्रथमं व्याख्यानम् ।। (२) द्वितीयञ्च यथा । इन्द्रियार्थयोरेव संयोग एकं प्रत्यक्षमपरस्मात्प्रत्यक्षाब्यावर्तयति । इन्द्रियमनसोस्तु संयोगस्तत्तदिन्द्रियज- मकलप्रत्यक्षसाधारणः । अत एव साधारणत्वात 'समानत्वात् । अयं नोक्त इति ।

प्रथमाध्याय प्रथमाह्निके द्वितीयं सूत्रम् १३ रसः" यावदर्थ वै नामधेयशब्दास्तैरर्थसंप्रत्ययः, अर्थसप्रत्ययाच्च व्यव- हारः । तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नमर्थज्ञानं 'रूपम्' इति वा इत्येवं वा भवति । रूपरसशब्दाश्च विषयनामधेयम् । तेन व्यपदिश्यते ज्ञान -रूपमिति जानते 'रस इति जानीत । नामधेयशब्देन व्यपदिश्यमानं मच्छाब्दं प्रसज्यते” । अत आह अव्यपदेश्यमिति । यदिदमनुपयुक्ते शब्दार्थसम्बन्धेऽर्थज्ञानं नं तन्नामधेयशब्देन व्यपदिश्यते । गृहीतेऽपि च शब्दार्थसम्बन्धेऽस्यार्थस्थायं शब्दो नामधेयमिति । यदा तु सोऽर्थो गृह्यते तदा तत् पूर्वस्मादर्थज्ञानान्न विशि- .. अश्व अपरश्चार्थः 'समानत्वात् । इत्येतस्य वार्तिककारेणोक्तः-आत्मनस्संयोगोऽतीन्द्रियाधार एवमिन्द्रिमनस्संयोगोऽपीति । अथवा-यथाऽऽत्ममन संयोगो विषयावृत्तिस्तथेन्द्रिय- जनम्यांगोऽपि । अथवा-यथाऽऽत्ममनस्संयोगो मनोवृत्तिम्तयेन्द्रियमनस्संयोगोऽपि । बञ् १ अन्यतराभिधानेन चरितार्थत्वात् । अथवा (२) इन्द्रियमनस्संयोग- स्यात्ममनस्संयोगस्य सामान्यादनभिधानमानमानस्संयोगस्य सूत्रे ! इत्यादि वार्तिके स्पष्टम् । द्वितीयमेव व्याख्यानं तात्पर्ये पृतम् ।। १ यावदर्थमिति । अर्था हि सर्वदा सर्वथा सर्वत्र नामधेयेनान्विताः। नास्ति सोऽर्थों यः कदाचिन्नामधेयेन वियुज्यते। तदनेन नामधेयतादात्म्यमर्थानाम् । अर्था हि प्रतीयमाना नामधेयैरुपेतास्तत्सामानाधिकरण्येनावगग्यन्ते- गौरित्यर्थः, इत्यर्थ' इति । तथा चार्थानानामधेयात्मकत्वात्तद्वोचरमालोचनमपि नामगोचर- मित्यर्थवन्नामधेयेन व्यपदिश्यमानं शाब्दं प्रसज्यते । तथा च नाविकल्पकं शब्दरहित- मस्तीति तात्पर्य शङ्काकृतः । तस्य निराकरणमव्यपदेश्यमिति । अन च व्याख्याने शावमित्यस्य पदस्याथोंऽन्यथाकृत्वा व्याख्यातस्तात्पर्यकृता- “न शब्दप्रमाणकतया शाब्दमपि तु शब्दे जातं शाब्दम् | शब्दश्चास्य विषयत्वेन जनकः"-इत्यादिना । एवमर्थकरणञ्च नामजात्यादिसहितस्य सविकल्पस्य प्रत्यक्ष- लक्षणेऽन्तर्भावदृष्टयेत्यवधेयम् ।। नामज्ञानसहिततयोक्तं ज्ञानं नेन्द्रियकमतस्तद्वहिष्करणायैवाच्य पदेश्यपदमित्ये- वार्थः साक्षाद् भाष्याक्षरेभ्यो गम्यते । परं स्वतन्न सङ्गच्छते नैयायिकसिद्धान्तेनेत्येत- स्मादेव तात्पर्यकृताऽन्यथा व्याख्यातम् । २ न तन्नामधेयेति-नकारो मुद्रितपुस्तके वर्तमानोऽपि तात्पर्यानुसारेणात्र धृतः । ..

মশললানা। बत. नांवज्ञानं नागत्र भवति नम्य वर्थज्ञानम्यान्यः समाख्याशब्दो नाम्तीति, वन प्रतीयमानं व्यवहागय कल्पत । न चाप्रतीयमानेन व्यवहार: नम्माउनेबम्याथम्ब मनाशनतिकरणयुक्तन निर्दिश्यत-रूपमिति ज्ञानं 'ग्म डांत ज्ञानमिति नवमर्थभानकाले स न समाख्याशब्दो व्याप्रियते व्यवहारकाले तु व्याप्रियते । नम्मादशाब्दमर्थज्ञानमिन्द्रियार्थमन्निकर्षोत्पन्नमिति। ग्राम मगचयों भौमेनाप्मगा मंसृष्टाः म्पन्दमाना दूरस्थस्य चक्षुष मनिकृष्यन्ते नत्रेन्द्रियार्थसन्निकर्षादुदकर्मिति ज्ञानमुत्पद्यते। तच्च प्रत्यक्ष प्रनयन इत्यत आह अयभिचारीति ' बहतमिम्नदिति तद व्यभिचारि. यत्तु नम्सिन्तदिति तदव्यभिचारि प्रत्यक्षमिति ! दृराञ्चक्षुषा ह्ययमय पश्यन्नावधारयति धूम इति वा रेणुरिति वा। तदतादिन्द्रियार्थसन्निकर्पोत्पन्नमनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्यत आह व्यवसायात्मकमिति न चैतन्मन्तव्यम् 'आत्ममनःसन्निकर्षजमेवाऽनवधारण- ५ न विशियन इति-तात्पर्यसंमतः पाठः। यत्र नामापि ज्ञातं तत्र वस्तुन्ना- नन्तु नदवस्थमेव । यथाऽज्ञाते नाम्नि तथैव ज्ञातेऽपि वस्तुनो ज्ञानमित्यर्थः । २ नस्य विति । तस्य वित्यारभ्य कल्पतेत्यन्तं वाक्यं मुद्रितपुस्तकेऽनुपलब्धमपि गृहीतम् । अनेन विना नचाप्रतीयमानेनेन्याढिवाक्यस्यासम्बदृत्वात , तात्पर्यपरिगृही- ३.तम्मादित्येव पाठः सम्यकरः नात्पर्यपरिगृहीतश्च । ४ अव्यभिचागति विशेषणं प्रत्यक्षलक्षण एवावश्यकम् । प्रमाणान्तरेयु तु व्यभि- बारम्साक्षात्परम्परया वा नन्मूलभृते प्रत्यक्ष गति ध्येयम् । ५. व्यवमायात्मकमिति । वस्तुनो निर्विकल्पकमेव ज्ञानं प्रत्यक्षत्वन सूत्रभाष्या- भ्यामिष्टमिति । तथा च कल्पनापोडमभ्रान्तमिति बौद्धाचार्यकृतमेव लक्षणं सूत्रमा- यसम्मनमिनि नदक्षरतात्पर्यम् । वाचम्पतिमिश्रास्तु सविकल्पकमपि ज्ञानं सौत्रलक्ष- जेऽन्तर्भावयितुं यतन्ते । ' अव्यभिचारिपढ़ेनैव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षा- वरोधार्थ मुपादीयमानं व्यवसायात्मकपदं साक्षात सविकल्पकस्य वाचकमिति'। भाष्यकारेण वातिककारेग च सविकल्पकज्ञानस्य चर्चाऽपि नैव कृतेत्यत्रातिस्फुटत्वा- च्छिप्यगम्यत एवेति भाग्यवानिकाभ्यामव्याख्यातमिति, स्वकृतव्याख्यानं मविकल्प- कान्तर्भावनपरं बिलांचनगुरुन्नातमागानुसारीति वाचम्पतिमिश्राः ।

. प्रथमाध्याय प्रथमाह्निके द्वितीयं मूत्रम् , ज्ञानमिति” । चक्षुषा ह्ययमर्थं पश्यन्नावधारयति । यथा चन्द्रियणोपलन्धमर्थ मनसोपलभते, एवमिन्द्रियेणानवधारयन्मनसा नावधारयति । यञ्चैतदिन्द्रिया- नवधारणपूर्वकं मनसाऽनवधारणं तद्विशेषापेक्षं विमर्शमानं संशयो न पूर्व- मिति । सर्वत्र प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसायः, पश्चान्मनमाऽनुव्यवसायः, उपहतेन्द्रियाणामनुव्यवसायाभावादिति । आत्मादिषु सुखादिपु च प्रत्यक्षलक्षणं वक्तव्यम् । अनिन्द्रियार्थ- सत्रिकर्षजं हि तदिति " इन्द्रियस्य वै सता मनस इन्द्रिय यः पृथगुपदेशो धर्मभदान् । भौतिका- नीन्द्रियाणि नियतविपयाणि, सगुणानां चैषामिन्द्रियभाव इति । मनस्त्व- भौतिकं सर्वविषयं च । नाम्य सगुणम्येन्द्रियभाव इति । सीत चेन्द्रियार्थ- : चक्षुपति ! अनेन चैतन्मचितं यत् मवें संशया नेन्द्रियव्यापानिरपेक्षाः. यअपि कतिपये केवलमानमव्यापारजन्या एवेति । : मनमोपलभत इति । चक्षुस्सहायति शेषः । ३ यच्चतदिति । अनयोर्मनीमात्रजन्येन्द्रियसन्निकर्षजन्ययोः संशयज्ञान यामध्ये इन्द्रियानवधारणपूर्वकम् यत् इन्द्रियसन्निकर्षरूपविशेषसापेक्षं तद् विमर्शमात्रम् । स एव मंशयः केवलमित्यर्थः । स एवात्र संशयत्वेन गृह्यते, न तु पूर्वम् , मनोमात्र- जन्यमनवधारणज्ञानमिति यावत् । एवञ्च बहूनां संशयज्ञानानामिन्द्रियजन्यत्वे तेषां व्युदासाय विशेषणान्तरमपेक्षितमासीत । ४ अनुव्यवसायाभावादिति । अन्धधिरादीनामनुव्यवसायाभावात तत्पूर्व व्यवसायोत्पत्तौ चक्षुराद्यपेक्षणीयम् । तथा च संशयज्ञानोत्पादेऽपीन्द्रियार्थसन्निक- पोऽपेक्षणीयः। ५ आत्मादिग्विति । आत्मादिज्ञानेषु सुखादिज्ञानेषु चेत्यर्थः । स्वतः सुखस्ये- न्द्रियार्थजत्वेऽपि न प्रत्यक्षता । सा हि सुखज्ञानस्यैव भवितुमर्हति । ६ इन्द्रियस्येति । तत्त्वता मनस इन्द्रियत्वेऽपि तस्य तेभ्यः पृथगुदेशे तस्य भिन्नधर्मवत्वमेव कारणम् । ७ सगुणानामिति । घ्राणानि यथा स्वस्वगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति नैवं मन इति । वार्तिके त्वेकमेव मनस इन्द्रियेभ्यो वैधर्म्यमभ्युपगतम् । नच्च मनसस्सर्वविषयत्वमिन्द्रियाणां प्रतिनियतविषयत्वमिति । ८ सति चेति । इद्रियार्थसन्निकर्षे सत्यपि ययुगपज्ज्ञानं नोत्पद्यते तत्र मनसा- ऽसन्निधिरेव कारणम् । मनसस्सन्निधिमसन्निधिं वा कारणं वक्ष्याम इति सम्बन्धः । ७ विद्योत म्हनन्यायमूबमाध्ये ॐ... । . . मान्नकार्य नियममन्निधि चान्य युगपज्ञानानुत्पत्तिकारणं वन्यामः अ. ' मनमचन्द्रियमावानन्न वाच्य लक्षणान्तरमिति : नन्त्रान्तरसमाचागञ्चैत-प्रन्यतव्यमिति । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्र- अन्तिः व्यान्यातं प्रत्यक्षम् ।।५।। (2) अनुमानलक्षणम्। अंथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छपवन्मामान्यतोदृष्टं च ॥५॥ न-पर्व कमिन्यनेन लिङ्गलिङ्गिनाः सम्बन्धन लिङ्गदर्शनञ्चाभिसम्ब. यते । लिङ्गालङ्गिनाः सम्बद्धयोनिन लिङ्गस्मृतिभिसम्बध्यते । स्मृत्या लिङ्गदर्शनन चाप्रत्यआर्थोऽनुमीयते पूर्ववदिति । यत्र कारणेन कार्यमनुमीयते । यथा मघोन्नत्या ‘भवि- यति वृष्टिरिति । शेषवत्तत् यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीत- ५ न वाच्यं लक्षणान्नामिनि । आत्ममुम्बादिज्ञानानामन्तर्भावायति शेषः । २ परमनमिति । बौद्धनैयायिकेन दिडागेन प्रमाणसमुच्चयनाम्नि ग्रन्थे वाक्यमिद- माक्षिप्तम्-अप्रनिषेधम्यैव पराभिमसिद्धान्तानुमनिसूचकत्वं इक्षुरादीनामिन्द्रिया- णामपि नर्थवानुमतन्वयम्भवे तेषां पृथगुपन्यापोऽनर्थक एवेति वदता । ३ अत्र मूत्र अर्थत्यानन्नये । उनं प्रत्यक्षमनुमानस्य हेनुः इदानीमनुमान हेतुमद ब्युत्पाद्यत इत्यर्थः । इति नात्पर्यम् । नत्पूर्वकमिति । (1)'तानि -२) 'ते-(३) 'तत्-पूर्व यस्येति 'तत्पूर्वकम् । (.) यदा नानीनि विग्रहस्तदा समस्तप्रमाणाभिसंबंधात् सर्वप्रमाण- पूर्वकत्वमनुमानस्य वणितं भवति । पारम्पर्येण पुनस्तत् प्रत्यक्ष एव व्यवतिष्टते इति तत्पूर्वकन्वमुकं भवति ।। (२) यदापि विवेकात् ' ते पूर्व यस्येति'-ते द्वे प्रत्यक्षे पूर्व यस्य प्रत्यक्षस्य तदिदं तत्पूर्वकं प्रत्यक्षमिति । ते च द्वे प्रत्यक्षे लिङ्गलिङ्गिसम्बन्ध- दर्शनमाद्यं प्रत्यक्षम् , लिङ्गदर्शनं द्वितीयम् । बुभुत्सावतो द्वितीयात् लिङ्गदर्शनात् स्मृतिः, स्मृत्यनन्तरं च पुनर्लिङ्गदर्शनम् । तदिदमन्तिमं प्रत्यक्षं पूर्वाभ्यां प्रत्यक्षाभ्यां स्मृत्या चानुगृह्यमाणं परामर्शरूपम् ' अनुमानम् ' भवति ।। (३) यदा पुनः 'तत् पूर्व यस्य' तदिदन्तत्पूर्वकमिति-तदा भेदस्याविवक्षितत्वात् लिङ्गलिङ्गसबधार्श. नानन्तरं लिङ्गदर्शनसम्बन्धस्मृतिभिः लिङ्गपरामशों विशिष्यते ॥ इत्यादि वातिकात् अनुसंधेयम् ।

-सू. ५ प्रथमाध्याये प्रथमाह्निके पञ्चमं सूत्रम् .. मुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते 'भूता वृष्टिरिति ।। सामान्यतो दृष्टम्-त्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य, तस्मादम्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति । अर्थ वा पूर्ववदिति यत्र यथापूर्वं प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्याप्रत्यक्ष- म्यानुमानम्-यथा धूमेनाग्निरिति'। शेषवन्नाम परिशेषः । स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः । यथा सदनित्यमेवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेष- समवायेभ्यो विभक्तस्य शब्दस्य तस्मिन् द्रव्यकर्मगुणसंशये-न द्रव्यम् तत्पूर्वं यस्येत्येतावन्माने विग्रहेऽनुमानजन्येऽनुमानेऽव्याप्तिरतिव्याप्तिश्च प्रत्य- क्षजन्येषु स्मरणसंशयादिविज्ञानेप्वित्येव बीजं वार्निकोनत्रिविधविग्रहोपन्यासस्य । अन च वार्तिके अनुमितिज्ञानानुमितिकरणयोः ( अनुमानपदाभिधेययोः ) विवेकः स्पष्टीकृतः। अप्रत्यक्षोऽथोऽनुमीयत इति । अग्निधूमौ सहितौ पश्यतीत्येकं प्रत्यक्षमग्निसम्ब- दधमस्य महानसादौ । पुनः पर्वते धूमं पश्यतीति द्वितीयं प्रत्यक्षम् । पूर्वदृष्टसम्बन्ध- सहकृतेन चानेनाप्रत्यक्षस्याग्नेरनुमानम् । पूर्ववदिति । 'पूर्वम् ' कारणं, कार्यात् । तत् यस्यास्ति विषयतया परामर्श- ज्ञानस्य अनुमितिकरणभूतस्य-अनुमानस्य तत् 'पूर्ववत् ' इत्यर्थः । शेषवदिति । ‘शेषः' कार्यम्, कारणापेक्षया । अयमेव विषयो यस्यानुमानस्य तत् 'शेषवत्'। ६. आदित्यस्य व्रज्येति । अत्र 'देशान्तरप्राप्तिमानादित्यः-द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्राङ्मुखोपलभ्यत्वे च तदभिमुखदेशसम्बन्धात् अनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्ययविषयत्वात्, मण्यादिवत् ' इत्यनुमित्या- कारो वार्तिकसम्मतः। २. अथ वेति । पूर्ववदित्यादिपदानां त्रयाणामर्थान्तरमाह । ३. शेषवन्नामेति । 'प्रसक्तानां) सम्भाव्यमानानां मध्ये केषांचित् 'प्रतिषेधे सति- 'अन्यत्र ' उक्तभ्यः सम्भाव्यमानेभ्यः कुत्रापि 'अग्रसङ्गात् ' असम्भाव्य- मानत्वात् '-शिष्यमाणे '-उक्तेषु सम्भाव्यमानेषु उक्तप्रतिषेधानन्तरं यत् परिशिष्टं तत्र-'सम्प्रत्ययः 'ज्ञानम् । ४. यथोक्तदृष्टान्ते-शब्दः सन् अनित्यश्चेति निश्चयात् शब्दो द्रव्यं गुणः कर्म वा भवितुमर्हति-अतोऽत्र द्रव्यगुणकर्माणि 'प्रसक्तानि'। तेषां च मध्ये भाष्योक्तहेतुभिः द्रव्यत्वस्य कर्मत्वस्य च प्रतिषेधः । अतः गुणत्वमेव 'शिष्यमाणम्। तत्र 'संप्रत्ययः' शब्दो गुण एवेत्याकारकं ज्ञानं जायते । १ : .. न्या.स.२ यद्यांतसाहितन्यायसूत्रभाष्ये अ०१, आ० १ सु ०५ - . एकद्रव्यत्वात् , न कर्म शब्दान्तरहेतुत्वात्-यस्तु शिष्यत सोऽयमिति शब्दम्य गुणवप्रतिपत्तिः । मामान्यतो दृष्टं नाम-यत्राप्रत्यक्ष लिङ्गलिङ्गिनाः सम्बन्धे केनचिदर्थेन लिङ्गम्य सामान्यादप्रत्यक्षा लिङ्गी गम्यते । यथेच्छादिभिरात्मा । ईच्छादयो गुणाः, गुणाश्च द्रव्यसंस्थानाः, तद्यदेपां स्थानं स आत्मेति । . १. एकद्रव्यत्वादिति । एकद्रव्यसमवेतत्वादित्यर्थः । शब्दः एकस्मिन्नव इव्ये- आकाशे-समवैति । च्याणि तु परमाणुरूपाणि कुत्रापि न समवयन्न्यनोऽद्रव्याण्येव । परमाण्यतिरिनानि च व्याण्यनेकपरमाणुसमवेतानि । अत एकद्रव्यसमवेतत्वात शब्दो न द्रव्यम् । २. शब्दान्तरहेनुन्वादिति । समानजानीयारम्भकत्वादिन्यर्थः । शब्दः शब्दान्तर जनयनि-कर्म तु विजातीयमेव कायं जनयतीत्यतः शब्द न कर्म । अस्मिन शेषवदुदाहरणे वाचम्पनिमिश्राणामचिः । तेरुक्तम्---" इदं तु परिशेपस्योदाहरणं नादरणीयम् । व्यतिरेकिणी हि नामान्तरमिदं परिशेष इति । एष पुनरन्वयव्यतिरेकी । द्रव्यकर्मान्यत्वे सति मदाद्यभेदस्य सपक्षे रूपादौ सत्त्वात् विपक्षे मामान्यादावभावात् । नस्मात् आत्मतन्त्रतासाधनमिच्छादीनां परिशेषो- दाहरणं दृष्टव्यम्" इति । एवंच, इच्छादयो गुणत्वाद द्रव्यममवेताः । इच्छाद्याधारत्वेन द्रव्याणि 'प्रसनानि' तेषां मध्ये पृथिव्यादीनां प्रतिषेधात , आत्मैव शिष्यमाणः' । तत्र य 'मंप्रत्ययः' इच्छाद्याधारत्वेन ज्ञानं स । परिशेषः । ३. सामान्यादिति। सादृश्यादिन्यर्थः । यथा दृष्टान्ते 'द्रव्यसंस्थानत्वम् ' इच्छा- दिगुणानामप्रत्यक्षाणां रूपादिगुणानां च प्रत्यक्षाणां सादृश्यम् । ४. इच्छादय इति । इच्छादीनां गुणत्वन केवलपारतन्त्र्यसाधनं सामान्यतो- दृष्टानुमानेन-आत्मपरतन्त्रता तु तेषां शेषवताऽनुमानेनेति विवेकः । ५. तद्यदिति । यद द्रव्यमिति शेषः । पूर्ववदादिस्वरूपमन्यथाऽपि वर्णितं वार्तिके । तद्यथा । पूर्ववदित्यत्र 'पूर्वम् । नाम साध्यम् । अतः पूर्ववदित्यस्य साध्यवत्-साध्ये वृत्तीत्यर्थः। शेषवदित्यत्र *शेषी' नाम साध्यं तत्समानजातीयं च। शेषवदित्यस्य च साध्यं तत्सजातीयं च यस्य नित्यसम्बद्धं तदित्यर्थः। पूर्ववति साध्यमात्रे सत्त्वम् , शेषवति तु साध्ये तत्स- मानजातीये च सत्वमित्येतावन्मात्री भेदः । यच्चान्यत्र कुत्रापि सामान्यस्थलेषु-पक्षा- तिरिक्तघु-'अदृष्टम् ' तत् 'सामान्यतोऽदृष्टम् ' इति । भत्र पूर्ववदनुमानम् 'अबाधितम् असत्प्रतिपक्षितम् साध्यसमानाधिकरणं च' एतत् त्रयं सर्वानुमानसाधारणम् । तच्चानुमानं विविधम्-(१) शेषवत्-(२) : . .

-सू. ६] प्रथमाध्याय प्रथमाह्निके षष्टं सूत्रम् विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायम्य लवीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्यान्यस्मिन वाक्यलाघवेऽनादरः । तथा चायमित्थम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते च्छले शब्दादिषु च बहुलं समाचारः शास्त्र इति । संविषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् । “कस्मात्" ? त्रैकाल्यग्रहणात् । त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते-भविष्यतीत्यनुमीयते भवतीति चाभू- दिति च ! असच खल्वतीतमनागतं चेति ॥ ५ ॥ उपमाननिरूपणम् । अथोपमानम् । प्रसिद्धसाधात्साध्यसाधनमुपमानम् ॥ ६ ॥ प्रैज्ञातेन सामान्यात्प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति । यथा गौरवं गवय इति । सामान्यतादृष्ट-(३) शेपवत्सामान्यतोदृष्टभेदात् । तत्र (१ ) शेषवत् साध्ये तत्समानजातीये च सत् । (२) सामान्यतोऽदृष्टम्-पक्षादन्यत्र अदृष्टम् । ( ३ ) शेपवत्सामान्यतोदृष्टञ्च पूर्वोक्तोभयलक्षणसमन्वितम् । इत्यादितात्पर्ये स्पष्टम् । १. विभागवचनादिति। 'त्रिविधमिति' विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्ध किमर्थं पूर्ववदाधुपादानं सूत्रेणेत्याक्षेपार्थः । इति तात्पर्यम् । किन्तु-पूर्ववदा- दिपरिगणनादेव त्रैविध्ये स्पष्टं प्रदर्शिते किमिति विविधमिति पदेनेत्येवाक्षेपार्थः सम्यक्तरः प्रतिभाति । २. महत इत्यादि । 'महतः 'त्रिविधस्य, ' महाविषयस्य' अतीतानागत- वर्तमानविषयस्य, 'न्यायस्य' अनुमानस्य, लघीयसा सूत्रेण ' पूर्ववदित्यादिना यथावस्थितेन , ' उपदेशात् ' वर्णितस्वात-एतदेव लाघवं ( नानाविधानामनुमाना- नामेकसूत्रेण सूचनम् ) सूत्रकारः परमिष्टं मेने । अत इतोऽप्यधिकं सूत्रलाघवं ( पूर्व- वदित्यादित्यागरूपम् )स नेष्टं मेने इत्यर्थः । ३. सद्विषयमिति । 'सत्' वर्तमानम् , ' असत् ' अतीतमनागतं च । ज्ञानतत्करणयोरुभयत्र प्रमाणानां प्रयोगोऽत्रापि स्फुटः । इन्द्रियार्थसन्निकर्षजं ज्ञानं प्रत्यक्षत्वेन वर्णितम् । अत्र पुनः साध्यस्य (ज्ञानस्य ) साधनं (करणम् ) एवोपमानत्वेन दर्शितम् । बौद्धनैयायिको दिङ्गगः स्वकीये प्रमाणसमुच्चयनाम्नि ग्रन्थे उपमानं प्रत्यक्ष एवान्तर्भावयति । ४. 'प्रज्ञातेन' प्रसिद्धन (गवा ) 'सामान्यात्' सादृश्यात्, 'प्रज्ञापनीयस्य' संज्ञासंज्ञिसम्बन्धस्य 'प्रज्ञापनम् ' ज्ञानकरणमिति यावत् । वार्तिककाराः प्रसिद्ध- . , .

खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ० १ सू०५-- १ . एकद्रव्यत्वात् , न कर्म शब्दान्तरहेतुत्वान्-यस्तु शिष्यते सोऽयमिति शब्दस्य गुणत्वप्रतिपत्तिः । सामान्यतो दृष्टं नाम-यत्राप्रत्यक्ष लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते । यथेच्छादिभिरात्मा । इच्छादयो गुणाः, गुणाश्च द्रव्यसंस्थानाः, तद्यदेषां स्थानं स आत्मेति । १. एकद्रव्यत्वादिति। एकद्रव्यसमवेतत्वादित्यर्थः । शब्दः एकस्मिन्नेव द्रव्ये- आकाशे-समवैति । व्याणि तु परमाणुरूपाणि कुत्रापि न समवयन्त्यतोऽद्रव्याण्येव । परमाण्यतिरिक्तानि च व्याण्यनेकपरमाणुसमवेतानि । अत एकद्रव्यसमवेतत्वात् शब्दो नद्रव्यम् । २. शब्दान्तरहेतुत्वादिति । समानजातीयारम्भकत्वादित्यर्थः । शब्दः शब्दान्तर जनयति-कर्म तु विजातीयमेव कायं जनयतीत्यतः शब्दो न कर्म । अस्मिन् शेषवदुदाहरणे वाचस्पतिमिश्राणामरुचिः । तैरुक्तम्---" इदं तु परिशेपस्योदाहरणं नादरणीयम् । व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति । एष पुनरन्वयव्यतिरेकी । द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वात् विपक्षे सामान्यादावभावात् । तस्मात् आत्मतन्त्रतासाधनमिच्छादीनां परिशेषो- दाहरणं द्रष्टव्यम्" इति । एवंच, इच्छादयो गुणत्वाद् व्यसमवेताः। इच्छाद्याधारत्वेन द्रव्याणि 'प्रसक्तानि' तेषां मध्ये पृथिव्यादीनां प्रतिषेधात् , आत्मैव शिष्यमाणः' । तत्र य 'संप्रत्ययः' इच्छाद्याधारत्वेन ज्ञानं स परिशेषः । ३. सामान्यादिति। सादृश्यादित्यर्थः । यथा दृष्टान्ते 'द्रव्यसंस्थानत्वम् ' इच्छा- दिगुणानामप्रत्यक्षाणां रूपादिगुणानां च प्रत्यक्षाणां सादृश्यम् । ४. इच्छादय इति । इच्छादीनां गुणत्वेन केवलपारतन्त्र्यसाधनं सामान्यतो- दृष्टानुमानेन-आत्मपरतन्त्रता तु तेषां शेषवताऽनुमानेनेति विवेकः । ५. तद्यदिति। यद् द्रव्यमिति शेषः। पूर्ववदादिस्वरूपमन्यथाऽपि वर्णितं वार्तिके । तद्यथा । पूर्ववदित्यत्र 'पूर्वम्' नाम साध्यम् । अतः पूर्ववदित्यस्य साध्यवत्-साध्ये वृत्तीत्यर्थः। शेषवदित्यत्र शेषो' नाम साध्यं तत्समानजातीयं च । शेषवदित्यस्य च साध्यं तत्सजातीयं च यस्य नित्यसम्बद्धं तदित्यर्थः । पूर्ववति साध्यमात्रे सत्त्वम् , शेषवति तु साध्ये तत्स- मानजातीये च सस्वमित्येतावन्मात्रो भेदः । यच्चान्यत्र कुत्रापि सामान्यस्थलेषु-पक्षा- तिरिक्तेषु-'अदृष्टम् ' तत् 'सामान्यतोऽदृष्टम् ' इति । अत्र पूर्ववदनुमानम् 'अबाधितम् असत्प्रतिपक्षितम् साध्यसमानाधिकरणं च' एतत् त्रयं सर्वानुमानसाधारणम् । तच्चानुमानं त्रिविधम्-(१) शेषवत्-(२) . . . ' प्रथमाध्याये प्रथमाह्निके षष्ठं सूत्रम् विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः । तथा चायमित्थम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते च्छले शब्दादिषु च बहुलं समाचारः शास्त्र इति । सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् । "कस्मात्" ? त्रैकाल्यग्रहणात् । त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते-भविष्यतीत्यनुमीयते भवतीति चाभू- दिति च । असञ्च खल्वतीतमनागतं चेति ॥ ५ ॥ उपमाननिरूपणम् । अथोपमानम् । प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ ६ ॥ प्रज्ञातेन सामान्यात्प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति । यथा गौरेवं गवय इति । सामान्यतोदृष्ट-(३) शेषवत्सामान्यतोदृष्टभेदात् । तत्र ( १ ) शेषवत् साध्ये तत्समानजातीये च सत् । (२) सामान्यतोऽदृष्टम्-पक्षादन्यत्र अदृष्टम् । ( ३ ) शेषवत्सामान्यतोदृष्टञ्च पूर्वोक्तोभयलक्षणसमन्वितम् । इत्यादितात्पर्ये स्पष्टम् । १. विभागवचनादिति। 'त्रिविधमिति' विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्ध किमर्थं पूर्ववदाधुपादानं सूत्रेणेत्याक्षेपार्थः । इति तात्पर्यम् । किन्तु-पूर्ववदा- दिपरिगणनादेव त्रैविध्ये स्पष्टं प्रदर्शिते किमिति विविधमिति पदेनेत्येवाक्षेपार्थः सम्यक्तरः प्रतिभाति । २. महत इत्यादि । 'महतः 'विविधस्य, 'महाविषयस्य' अतीतानागत- वर्तमानविषयस्य, 'न्यायस्य' अनुमानस्य, लघीयसा सूत्रेण ' पूर्ववदित्यादिना यथावस्थितेन , ' उपदेशात् ' वर्णितस्वात्-एतदेव लाघवं ( नानाविधानामनुमाना- नामेकसूत्रेण सूचनम् ) सूत्रकारः परमिष्टं मेने । अत इतोऽप्यधिकं सूत्रलाघवं (पूर्व- वदित्यादित्यागरूपम् )स नेष्टं मेने-इत्यर्थः । ३. सद्विषयमिति । 'सत्' वर्तमानम् , ' असत् ' अतीतमनागतं च । ज्ञानतत्करणयोरुभयन्त्र प्रमाणानां प्रयोगोऽत्रापि स्फुटः । इन्द्रियार्थसन्निकर्ष ज्ञानं प्रत्यक्षत्वेन वर्णितम् । अत्र पुनः साध्यस्य (ज्ञानस्य ) साधनं (करणम् ) एवोपमानत्वेन दर्शितम् । बौद्धनैयायिको दिङ्गगः स्वकीये प्रमाणसमुच्चयनाम्नि ग्रन्थे उपमानं प्रत्यक्ष एवान्तर्भावयति । ४. 'प्रज्ञातेन' प्रसिद्धन ( गवा ) 'सामान्यात्' सादृश्यात्, 'प्रज्ञापनीयस्य' संज्ञासंज्ञिसम्बन्धस्य 'प्रज्ञापनम् ' ज्ञानकरणमिति यावत् । वार्तिककाराः प्रसिद्ध- . .

खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ०१ स्०६ - किं पुनरत्रोपमानेन क्रियते ?" यदा खल्वयं गवा समानधर्म प्रतिपद्यते तदा प्रत्यक्षतस्तमर्थं प्रतिपद्यत इति । समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ इत्याह । यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थमिन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्ध प्रतिपद्यत इति । यथा मुद्स्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णीत्युपमाने प्रयुक्ते उपमानात्संज्ञासंज्ञिसम्बन्धं प्रतिपद्यमान- स्तामोषधी भैषज्यायाहरति । एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सि- तव्य इति ॥ ६॥ अन्त्र साधादित्यत्र बहुव्रीहिसमासमप्यभिप्रयन्ति । तत्र च प्रसिद्धं साधयं यस्य तस्मादिति विग्रहः । परन्तु भाष्योक्तस्तत्पुरुषोऽप्येतेषां नानभिमतः । कर्मधारयो-ऽप्यभीष्ट इति परिशुद्धिकृतः, साधम्र्ये प्रसिद्धत्वस्यावश्यकत्वात् । अत्रोपमाननिरूपणे भाष्यमतस्य वार्तिकतात्पर्यमतात् भेदो लक्ष्यते । उपमिति- ज्ञानविषये ज्ञानस्वरूपे वा न कोऽपि भेदः । उभयानुसारेणापि संज्ञासंज्ञिसम्बन्ध एवोपमितिविषयः । 'अयमों गवयपदवाच्य'इति च तत्स्वरूपम् । उपमितिकरण- स्वरूपे तु वैलक्षण्यं लक्ष्यते । उभयपदार्थगतसादृश्यमेवोपमितिकरणमित्यत्राप्यैकम- त्यम् । किन्तु गवयदर्शनसमये गोसदृशो गवय इत्यतिदेशवाक्ये यत्सादृश्यमुक्तं त- देवोपमितेः करणमिति भाष्यमतं प्रतिभाति । यतोऽत्र तद्वाक्यमेवोपमाननाम्नोक्तम् । वार्तिकतात्पर्यानुसारेण तु गवयदर्शनानन्तरं यत् तस्मिन् गोसादृश्यं दृश्यते तदेवोक्ता- तिदेशवाक्यस्मरणसहकृतमुपमितिकरणम् । तथा च वार्तिकम्-'आगमाहितस्मृत्य- पेक्षं सादृश्यज्ञानमुपमानमिति' । अन तात्पर्यम्-'पिण्डस्य हि गवयशब्दवाच्यतां पुरुषोऽतिदेशवाक्यस्मरणसहकारिणः प्रत्यक्षात् गवयगताद् गोसादृश्यात् प्रजानन् तेन प्रज्ञाप्यते ' इति । तत्र-'सादृश्यस्यैव प्रज्ञायमानस्य करणत्वमभिप्रतीति ' परि- शुद्धिकाराः । यद्यपि तात्पर्यकाराः यथा गौरित्यादिभाष्यस्यार्थम्-' यादृशं सादृश्यं गवये प्रत्यक्षत उपलभ्यते तदतिदेशवाक्यद्वारा पूर्वमवगतमेवेति-'वर्णयन्ति, तथाऽपि एतद्वाक्यस्यैव भाष्य उपमानत्वेनोक्तत्वात्सामञ्जस्यं दुर्घटं प्रतिभाति । स्मर्यमाणा- तिदेशवाक्यमात्रमूलकत्वे उपमानस्य स्मृतितुल्यमेव प्रामाण्यं स्यादित्यत्र ध्येयम् । एकवाक्यतायां यत्नोऽपि तात्पर्ये कृतः- " प्रसिद्धसाधादित्यत्र प्रसिद्धि- रुभयो, श्रुतिमयी प्रत्यक्षमयी च । श्रुतिमयी यथा गोरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टेऽयमीदृशः पिण्ड इति" । इति । परन्तु समनन्तरमेवोक्तम्- तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासम्बन्धप्रतिपत्ति हेतुरिति । तेन च प्रत्यक्षदृष्टस्यव सादृश्यस्योपमितिकरणत्वमिति स्फुटम् । ..

----सू. ८] प्रथमाध्याय प्रथमाह्निके सप्तमं सूत्रम् शब्दनिरूपणम् । अथ शब्दः। आप्तोपदेशः शब्दः ॥७॥ आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्करणमर्थस्याऽऽप्तिः । तथा वर्तते इत्याप्तः । ऋध्यार्यम्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते इति । एवमेभिः प्रमाणैर्देवमनुष्यतिरश्चांव्यवहाराः प्रकल्पन्ते, नातोऽन्यथेति ॥७॥ स द्विविधो दृष्टादृष्टार्थत्वात् ।। ८ ॥ यस्येह दृश्यतेऽर्थः स दृष्टार्थः । यस्यामुत्र प्रतीयते सोऽदृष्टार्थः । एवमृषि- लौकिकवाक्यानां विभाग इति । "किमर्थं पुनरिदमुच्यते”। ५. आप्तोपदेश इत्यत्र--उपदिश्यतेऽनेनेत्युपदेशो वाक्यज्ञानं तदर्थज्ञानं वाऽभिधीयते । तत्र वाक्यज्ञानप्रामाण्यपक्षे तदर्थज्ञानं फलम् , पदार्थस्मृत्यादयस्त्वन्तरा- लिका इतिकर्तव्यता । तदर्थज्ञानप्रामाण्यपक्षे तु हानादिबुद्धिः फलम् । परप्रयोजन - वचनमानवाच्युपदेशपदमित्यादि तात्पर्ये स्पष्टम् ।। २. साक्षात्कृतधर्मेति। सुदृढेन प्रमाणेनावधारिता अर्था येनेत्यर्थः । यथादृष्ट- स्येति मत्सरितया विपरीतोपदेशो निवारितः । चिख्यापयिपयेति अकृपाडलसकारिते प्रत्युक्ते। ३. उपदेष्टेति । स्थानकरणपाटववानित्यर्थः । ४. ऋषीति। दर्शनादेव ऋषित्वम् । तेन साक्षात्कृतत्रैकाल्यवृत्तिप्रमेयमात्रोऽत्रा- भिप्रेतः । आरात् यातः पातकेभ्य इति 'आर्यः' । म्लेच्छश्च प्रसिद्ध एव । म्लेच्छा अपि कुत्रचित् पान्थानां सर्वस्वमपहृत्य नगरपथं पृष्टा यथार्थमेव पन्थानं प्रदर्शयन्ति- भवति चात्र तेषामपि 'आप्तस्वम् ' । लोभादिहेतुशून्यत्वमेव चात्राप्तत्वे मूलम् । अतश्च 'आप्तं दोषक्षयं विदुरिति' परोक्तमाप्तलक्षणमव्याप्तिदुष्टम् ॥ आताः पुन- र्द्विविधाः सर्वज्ञा असर्वज्ञाश्च । सर्वज्ञानां प्रामाण्यं तदस्तित्वबोधकप्रमाणैरेव निर्णी- तम् , सर्वज्ञेषु रागद्वेषादीनामप्रामाण्यकारणानामसम्भवात् । असर्वज्ञानां पुनः प्रामाण्यं कारणत्रये निर्भरम् । उपदेशविषयस्य यथार्थज्ञानं यथार्थज्ञानचिख्यापयिषा वचनादिकरणपाटवमित्येवंरूपं कारणत्रयमत्रापेक्षितम् । भूयोदर्शनादेवैतादृशस्वं पुरुष- विशेषस्य निश्चेतुं शक्यते ॥ ५. एभिरिति । प्रत्यक्षानुमानोपमानशब्दैरित्यर्थः । ..

----सू. ८] प्रथमाध्याय प्रथमाह्निके सप्तमं सूत्रम् शब्दनिरूपणम् । अथ शब्दः। आप्तोपदेशः शब्दः ॥७॥ आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्करणमर्थस्याऽऽप्तिः । तथा वर्तते इत्याप्तः । ऋध्यार्यम्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते इति । एवमेभिः प्रमाणैर्देवमनुष्यतिरश्चांव्यवहाराः प्रकल्पन्ते, नातोऽन्यथेति ॥७॥ स द्विविधो दृष्टादृष्टार्थत्वात् ।। ८ ॥ यस्येह दृश्यतेऽर्थः स दृष्टार्थः । यस्यामुत्र प्रतीयते सोऽदृष्टार्थः । एवमृषि- लौकिकवाक्यानां विभाग इति । "किमर्थं पुनरिदमुच्यते”। ५. आप्तोपदेश इत्यत्र--उपदिश्यतेऽनेनेत्युपदेशो वाक्यज्ञानं तदर्थज्ञानं वाऽभिधीयते । तत्र वाक्यज्ञानप्रामाण्यपक्षे तदर्थज्ञानं फलम् , पदार्थस्मृत्यादयस्त्वन्तरा- लिका इतिकर्तव्यता । तदर्थज्ञानप्रामाण्यपक्षे तु हानादिबुद्धिः फलम् । परप्रयोजन - वचनमानवाच्युपदेशपदमित्यादि तात्पर्ये स्पष्टम् ।। २. साक्षात्कृतधर्मेति। सुदृढेन प्रमाणेनावधारिता अर्था येनेत्यर्थः । यथादृष्ट- स्येति मत्सरितया विपरीतोपदेशो निवारितः । चिख्यापयिपयेति अकृपाडलसकारिते प्रत्युक्ते। ३. उपदेष्टेति । स्थानकरणपाटववानित्यर्थः । ४. ऋषीति। दर्शनादेव ऋषित्वम् । तेन साक्षात्कृतत्रैकाल्यवृत्तिप्रमेयमात्रोऽत्रा- भिप्रेतः । आरात् यातः पातकेभ्य इति 'आर्यः' । म्लेच्छश्च प्रसिद्ध एव । म्लेच्छा अपि कुत्रचित् पान्थानां सर्वस्वमपहृत्य नगरपथं पृष्टा यथार्थमेव पन्थानं प्रदर्शयन्ति- भवति चात्र तेषामपि 'आप्तस्वम् ' । लोभादिहेतुशून्यत्वमेव चात्राप्तत्वे मूलम् । अतश्च 'आप्तं दोषक्षयं विदुरिति' परोक्तमाप्तलक्षणमव्याप्तिदुष्टम् ॥ आताः पुन- र्द्विविधाः सर्वज्ञा असर्वज्ञाश्च । सर्वज्ञानां प्रामाण्यं तदस्तित्वबोधकप्रमाणैरेव निर्णी- तम् , सर्वज्ञेषु रागद्वेषादीनामप्रामाण्यकारणानामसम्भवात् । असर्वज्ञानां पुनः प्रामाण्यं कारणत्रये निर्भरम् । उपदेशविषयस्य यथार्थज्ञानं यथार्थज्ञानचिख्यापयिषा वचनादिकरणपाटवमित्येवंरूपं कारणत्रयमत्रापेक्षितम् । भूयोदर्शनादेवैतादृशस्वं पुरुष- विशेषस्य निश्चेतुं शक्यते ॥ ५. एभिरिति । प्रत्यक्षानुमानोपमानशब्दैरित्यर्थः । ..

प्रथमाध्याये प्रथमाह्निके दशमं सूत्रम् २३ २ कथम् ?" मनुत्तरं च, पूर्वशरीराणामादिर्नास्ति उत्तरेषामपवर्गोऽन्त इति प्रेत्यभावः । ससाधनसुखदुःखोपभोगः फलम् । दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम् । किं तर्हि ? जन्मन' एवेदं ससुखसाधनस्य दुःखानुष- ङ्गात् दुःखेनाविप्रयोगाद्विविधबाधनायोगाद् दुःखमिति समाधिभावनमुपदि- श्यते । समाहितो भावयति भावयनिर्विद्यते निर्विण्णस्य वैराग्यं विरक्तस्याप- वर्ग इति । जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणमपवर्ग इति । अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम् तद्भेदेन चाप- रिसङ्घयेयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यत एतदुपदिष्टं विशेषणति ॥ ९॥ आत्मनिरूपणम् । तंत्रात्मा तावत्प्रत्यक्षतो गृह्यते । स किमाप्तोपदेशमात्रादेव प्रतिपद्यत इति ?” नेत्युच्यते । अनुमानाञ्च प्रतिपत्तव्य इति । इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति ॥ १० ॥ यजातीयस्यार्थस्य सन्निकर्षात्सुखमात्मोपलब्धवान् तज्जातीयमेवार्थं पश्यन्नु- पादातुमिच्छति सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धाना- १. जन्मन एवेति । ससुखसाधनस्य दुःखानुषङ्गाद् दुखेनाविप्रयोगाद् विवि- धबाधनायोगात् इदं ( सुखम् ) जन्मन एव ( आदितः स्वभावादेव ) दुःखमेवेति समाधिभावनमुपदिश्यते-इति सम्बन्धः। २. आत्मा प्रत्यक्षतो न गृह्यत इति । अत्र तात्पर्यम्-अहमिति ज्ञानं गौराद्याकार- शरीरावभासं न शक्यं घटादिवद् रागात्मनि प्रमाणयितुमिति भावः । तत्रपरिशुद्धिः- आत्ममनः प्रत्यक्षत्वेऽस्वसंवेदनं मानसम्, तत्कथमात्मनि प्रत्यक्षप्रतिषेधकं भाष्यमित्यत आह-अहमिति । यद्यप्ययम् ( अहमिति प्रत्ययः) सवस्तुकस्तथाऽपि शरीरप्रत्यय- सामानाधिकरण्यात् शरीरवस्तुक एवाहमिति प्रत्ययः स्यात् । अतो न शरीरातिरिक्त- वस्तुनि ( आत्मनि ) प्रमाणयितुं शक्यते तावद्यावद्देहादिभिन्न आत्मा प्रमाणान्त- रेण न साध्यते-इति । आत्मनोऽप्रत्यक्षवादिमतेनैतव्याख्यानम् । आत्मप्रत्यक्षवादिमते तु भाष्ये निषेधवाक्यं परदेहात्माभिप्रायमिति तात्पर्यकाराः । ३. अनुमानाच्चेति । आप्तोपदेशाज्ज्ञाते शरीरान्तर्वर्तिन्यात्मनि तज्ज्ञानमनुमाने- न दृढीक्रियते इति चकारेण ज्ञाप्यते । दृढीकरणं च सामान्यतो ज्ञातस्य प्रतिशरीरमात्म- नोऽस्तित्वप्रदर्शनमिति परिशुद्धिकाराः। ४. यज्जातीयस्येत्यादि । किञ्चिद् वस्तु भूयोभूयः सुखजनकत्वेनानुभूय तादृशं वस्तु सुखमुत्पादयति यत्र यदा तदस्ति तत्र तदा सुखमस्तीति व्याप्तिं निर्धारयति ।

- खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०१ सू० १ ० --- द्भवन्ती लिङ्गमात्मनः । नियंतविषये हि बुद्धिभेदमात्रे न सम्भवति देहान्तर- वदिति । एवमेकस्यानेकार्थदार्शनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः। यज्जातीयोs- स्यार्थः सुखहेतुःप्रसिद्धस्तज्जातीयमर्थं पश्यन्नादातुं प्रयतते सोऽयं प्रयत्नः एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात् । नियतविषये बुद्धि. मात्रे न सम्भवति देहान्तरवदिति । एतेन दुःखहेतौ प्रयत्नो व्याख्यातः । सुखदुःखस्मृत्या चायं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते सुखदुःखे वेदयते । पूर्वोक्त एव हेतुः । बुभुत्समानः खल्वयं विमृशति किंस्विदिति-विमृशंश्च जानीते इदमिति ! तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मलिङ्गम् ! पूर्वोक्त एव हेतुरिति । तत्र देहान्तरवदिति विभज्यते । यथाऽनात्मवादिना देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते तथैकदेहविषया अपि न प्रतिसन्धीयेरन् अविशे- पात्। सोऽयमेकसत्त्वस्य समाचारः स्वयं दृष्टस्य स्मरणं नान्यदृष्टस्य नादृष्टस्येति। एवं खलु नानासत्त्वानां समाचारोऽन्यदृष्टमन्यो न स्मरतीति । तदेतदुभयम- शक्यमनात्मवादिना व्यवस्थापयितुमित्येवमुपपन्नमस्त्यात्मेति ॥ १० ॥ किञ्चित्कालानन्तरं पुनस्तद्वस्तु दृष्ट्वा एतत्पूर्वानुभूतसुखकारणत्वेन वस्तु' इति स्मरति । ततश्चैतत्सुखमुत्पादयिष्यतीति निगमस्य तदुपादानमिच्छति । अनया चेच्छया पूर्व- योनियोस्तदुत्पन्ननिगमनस्य प्रतिसन्धातैवैकः कोऽपीच्छावानिति सूचितं भवति । अयमेव चैक आत्मेति । तथा च तात्पर्यम्-यश्चासावेकोऽनुभविता च स्मर्ता चानु- माता चेपिता च स चात्मेति । १. नियतविषय इति । स्यादेतत्-असत्यप्यात्मनि ज्ञातरि सत्यपि च बुद्धया- दीनां भेदे तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोत्पत्स्यत इत्यत आह नियतेति । मात्र- ग्रहणेन च सन्तानं सन्तानिव्यतिरिक्तमपाकरोति । तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितमित्यादि तात्पर्य स्पष्टम् । २. देहान्तरवदिति पदं भाष्येणैवाग्रे व्याख्यातम् । ३. सुखदुःखस्मृत्येति । सुखसाधनमासाद्य सुखी भवति दुःखसाधनमासाद्य च दुःखी । एतच्च तत्तत्साधनोपनीतसुखदुःखानुभविनस्तत्तत्साधनासादकस्य चाभिन्नत्व एव सम्भवति । दशमसूत्रस्यार्थान्तरमपि वार्तिकवर्णितम् । तद्यथा 'अथवाऽन्वयेनान्यः सूत्रा- थोऽभिधीयते । रूपरसस्पर्शप्रत्ययाः एकानेकनिमित्तकाः, स्मृत्या सह मयेति प्रति- -----सू. १२] प्रथमाध्याये प्रथमाह्निके एकादशं सूत्रम् शरीरनिरूपणम्। तस्य भोगाधिष्टानम्--- चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ ११ ॥ कथं चेष्टाश्रयः ?" इप्सितं जिहासितं वाऽर्थमधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्टान- लक्षणा समीहा चेष्टा । सा यत्र वर्तते तच्छरीरम् । कथमिन्द्रियाश्रयः ? " यस्यानुग्रहेणानुगृहीतानि उपघाते चोपहतानि स्वविषयेषु साध्वसाधुषु वर्तन्ते स एषामाश्रयः तच्छरीरम् । "कथमर्थाश्रयः ?" यस्मिन्नायतने इन्द्रियार्थसन्निकर्षादुत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषामाश्रयः । तच्छरीरामिति ॥ ११ ॥ इन्द्रियनिरूपणम् । भोगसाधनानि पुनः-- प्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ १२ ॥ सन्धानात् , कृतसङ्केतानां वृद्धानामेकस्मिन्नर्तकीभ्रूक्षेपे युगपदनेकप्रत्ययवत् । यथा नानाकर्तृकाणां कृतसङ्केतानां नानाभूताः प्रत्यया निमित्तस्य भ्रूक्षेपस्यैकत्वात्प्रतीयन्ते तथेहापि नानाविषया निमित्तस्यैकत्वात् प्रतिसन्धास्यन्ते । यन्निमित्तं स आत्मेति अथवा गुणा इच्छादयः । गुणाः परतन्त्रा भवन्तीति न्यायः । अयावद्व्यभावित्वेन शरीरगुणत्वप्रतिषेधः । तत्प्रतिषेधाच्चात्मगुणत्वमिति परिशेषात्सिद्ध आत्मेति' १. भोगेति । 'भोगः' सुखदुःखसंवित्, तदधिष्टानं शरीरम् । तदनेन सर्वस्या- नर्थसम्भारस्य परमनिदानं शरीरमतस्तदेवादी लक्षणीयम् । २. चेष्टेत्यादि । अत्र चेष्टाश्रयत्वेन इन्द्रियाश्रयत्वेन अर्थाश्रयत्वेन च प्रत्येक समानजातीयेभ्यःआत्मेन्द्रियादिभ्य: प्रमेयेभ्यः असमानजातीयेभ्यः प्रमाणसंशयादिभ्यः शरीरं व्यवच्छिद्यते । इदं सूत्रं लक्षणत्रयात्मकमिति भाष्यवार्तिकयोः स्पष्टम् । चेष्टा- श्रयः इन्द्रियाश्रयः अर्थाश्रयश्चेति । एकलक्षणमात्रपरकं सूत्रमिति केषञ्चिन्मतं वार्तिककारो नानुमन्यते । ३. समीहा चेष्टेति । हिताहितप्राप्तिपरिहारार्थः स्पन्दश्चेष्टेति वार्तिकम् । प्रयत्नप्रेरितस्यात्मनो व्यापारश्चेष्टेति परिशुद्धिः । ४. भोगसाधनानीति । इन्द्रियस्थोपनायकत्वेन ( साक्षाच्छरीरमाश्रित्य प्रति नियतविषयाधुग्नयद्वारा दुःखहेतुत्वेन) अर्थादिभ्यो विशेषादिन्द्रियाणामर्थादिभ्यः पूर्व- २६ खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ० १ सू०१३-- , जिघ्रत्यनेन ब्राणं गन्धं गृह्णातीति । रसयत्यनेनेति रसनं रसं गृह्णातीति । चष्टेऽनेनेति चक्षू रूपं पश्यतीति । स्पृशत्यनेनेति स्पर्शनं त्वक्स्थानमिन्द्रिय त्वक् । तदुपचारः स्थानादिति । शणोत्यनेनेति श्रोत्रं शब्दं गृह्णातीति । एवं समाख्यानिर्वचनसामर्थ्याद्वोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति । भूतेभ्य इति । नानाप्रकृतीनामेषां सतां विषयनियमो नैकप्रकृतीनाम् । सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवतीति ॥ १२ ॥ कानि पुनरिन्द्रियकारणानि ?” पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥१३॥ संज्ञाशब्दैःपृथगुपदेशो भूतानाम् , भूतानाम् , विभक्तानां सुवचं कार्य भवि- प्यतीति ।। १३ ॥ लक्षणम् । न चाकृते सामान्यलक्षणे विशेषलक्षणं शक्यमिति भाष्यकारः प्रथममि- न्द्रियाणां सामान्यलक्षणं निवेदोपयुक्तमाह । अनेन यच्छरीरसंयुक्तं सत् संस्कारदोष- व्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति सामान्यलक्षणं सूचितम् । साक्षात्- प्रतीतिसाधनमिति वक्तव्ये भोगसाधनाभिधानं निवेदोपयोगि। पारम्पर्येण भोगसा- धनत्वं ब्राणादीनाम् , साक्षात्तत्साधनत्वं मनस एव । सुखदुःखसाक्षात्कारस्य भोगत्वात् । १. तदुपचार इति । इन्द्रियान्तराणां नामानि तत्तद्वारोपलब्धविषयानु- साराणि, त्वगिन्द्रियस्य तु न तथा, तेन स्पर्शस्योपलम्भात् । अत एतन्नामप्रयोगो लक्षणयैव । त्वच्येव स्पर्शेन्द्रियस्य स्थानमित्येव च लक्षणायां मूलम् । २. भूतेभ्य इतीति । पृथिव्या यो गुणविशेषो गन्धः स घ्राणेनैव गृह्यते, न रसनादिभिः । एवं रसनेनैवापां विशेषगुणो माधुर्यं गृह्यते इत्यादि। एतच्चेन्द्रियाणां नानाद्रव्यप्रकृतिकस्व एव सम्भवति नान्यथा। अन च प्रयोगाः। (१) गन्धोपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रि- यावत् । (२) सा च तदन्यक्रियाकरणातिरिक्तकरणनिष्पाद्या, तदन्वयव्यतिरे- काननुविधाने सति कार्यत्वात् , या क्रिया यत्करणान्वयन्यतिरेकाननुविधाने सति कार्या सा सर्वा तक्रियाकरणारिक्तकरणनिष्पाद्या, यथा पटादिक्रिया घटादिक्रिया- करणदण्डाद्यतिरिक्तकरणनिष्पाद्या, तथा चेयम् , तस्मात्तथा । (३) तच्च करणं चक्षुराद्यतिरिक्तं घ्राणं द्रव्यम् , संयोगाधारत्वात् , । (४) तच्च पार्थिवम् , द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव ब्यञ्जकत्वात् , पार्थिवान्तरवत् । ३. पृथिवीत्यादि न सूत्रमिति केचित् । तत्तुच्छम् । न्यायसूचीनिबन्धेऽस्य सूत्रत्वेनोल्लेखात् भाग्ये चास्योपदेशत्वेनाभिधानात् ।

--सू. १४] प्रथमाध्याये प्रथमाह्निके चतुर्दशं सूत्रम् अर्थनिरूपणम् । इमे तु खलु- गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ १४ ॥ पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रममर्था विषया इति ॥ १४ ॥ .. . १. इमे तु खल्विति । अनन्तेषु विषयेवग्रिमसूत्रोक्ता एव विषया गन्धादय- स्तादृशा यदिन्द्रियगोचरत्वेन तात्त्विकरूपेण भाव्यमाना अपवर्गसहायं वैराग्यमुत्पा- दयन्ति अताविकरूपेण च ज्ञायमाना बन्धकारणानि भवन्ति । २. गन्धेत्यादि सूत्रम् । भाष्यकृते व्याख्याने वार्तिकतात्पर्ययोररुचिः । एतया- ख्यानानुसारेणात्रोक्तानां पञ्चानामेवेन्द्रियविषयत्वं न तदितरस्य कस्यापीति न सम्यक्- इत्येव चात्रारुचिबीजम् । वार्तिकतात्पर्याभ्यां च व्याख्यानान्तरमुपन्यस्तम्। एतदनुसा- रेण च तदर्था' इत्यस्य · तैः अर्थ्यमानाः, तेषां व्यापारगम्याः । इत्येवार्थः । तथा चैतत्पदमेव अर्थाभिधस्य प्रमेयस्य लक्षणम् , शिष्टं तु सूत्रं न लक्षणम् , किन्तु तद्गतकतिपयविशेषप्रदर्शकम् । अयं च प्रतिपादनप्रकारो यद्यपि प्रतिवादिनं प्रति नोचितस्तथाऽपि शिष्यान् प्रति नातीवानुचितः । सूत्राक्षरानुसारेण व्याख्याने इन्द्रिय- गोचराणामर्थानां परिगणनतया सूत्रं नीयेत-तत्तु न सम्यगित्येव कृत्वा कुत्रचित्सूत्रांश एवार्थरूपस्य प्रमेयस्य लक्षणं मृग्यमाणेन वार्तिककारेणैवं व्याख्यानमुपन्यस्तम् । ३. वार्तिकानुसारेण 'पृथिव्यादिगुणा' इत्यस्य पदस्याओं यथा-'पृथिव्या- दयः' पृथिवीजलाग्नयः-'गुणाश्च ' गन्धादयः । गन्धादीनां पृथगुपादानं च शिष्यानु- कम्पयेति । एतद्व्याख्यानं नातीव समीचीनं प्रतिभाति । तथा ह्यत्र पृथिव्यादिपदेन त्रीण्येव भूतानि गृह्यन्ते न पञ्चापि, यद्यपि पञ्चानामपि विशेषगुणानां समानमेवेन्द्रिय- गोचरत्वम् । केवलं गन्धाद्यतिरिक्तानां सङ्खथापृथक्त्वादीनामप्रत्यक्षत्वं भाष्यव्याख्या- नेन मन्येतेति व्याख्यान्तरोपन्यासप्रयोजकम् । परन्तु बहूनामिन्द्रियगोचरेष्वप्यथेषु यावन्त एव वैराग्योत्पादकास्तावन्त एवात्रोपन्यस्ता इति ध्येयम् । स्पष्टोकृतं चैतत् तात्पर्य प्रागेव । ४. 'पृथिव्यादीनामिति न षष्टीसमासार्थमपि त्वर्थाभिधानमात्रमिति ' तात्पर्य वार्तिकाभिमतव्याख्यानदृष्टयेति ध्येयम् । ५. यथाविनियोगमिति । यथाक्रमं पृथिव्यादिष्वनिलान्तेषु गन्धादयः स्पर्शान्ताः चतुस्बिद्ध्येकनियमेन विनियुक्ताः । शब्दश्चाकाश एवेति तात्पर्यकाराः। परन्तु पञ्चानां पृथिव्यादीनां भूतानां गुणानां यथाक्रमं गन्धादीनां विनियोगानुसारेण तत्तदिन्द्रियतत्तद्गुणादिव्यापारानुसारेणैतदित्येव सम्यक्तरं प्रतिभाति ।

२८ खद्योतसहितन्यायमूत्रभाष्ये अ० १, आ० १ २०१५ - व १ बुद्धिनिरूपणम् । अचेतनस्य करणस्य बुद्धर्ज्ञानं वृत्तिः चेतनस्याकर्तुरुपलब्धिरिति युक्ति- विरुद्धमर्थं प्रेत्याचक्षाणक इवेदमाह- बुद्धिरुपलब्धिनिमित्यनान्तरम् ॥ १५ ॥ नाचेतनस्य करणस्य बुद्धर्ज्ञानं भवितुमर्हति । तद्धि चेतनं स्वान् । एकश्चायं चेतनो देहेन्द्रियसङ्घातव्यतिरिक्त इति । प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थ- प्रकाशनमुपपत्तिसामर्थ्यादिति ॥ १५ ॥ १. अचेतनस्येति । साङ्ख्यमतं गुणास्त्रयोऽचेतनास्तद्विकारत्वाद् बुद्धेस्साऽप्य- चेतना, अचेतनाऽपि सती पुरुषगतचैतन्यच्छायापत्त्या चेतनेवाभासमाना तच्चैतन्या- भासेन विषयानुद्भासयति ज्ञापयति चेत्यादि "-तन्निराकरणं च तात्पर्येऽनुसन्धेयम् । २. प्रत्याचक्षाणक इवेति । इवकारेण- ' नेदं प्रत्याख्यानपरं सूत्रमपि तु लक्षणपरात् सूत्रादयमर्थः प्रतीयमानोऽपेक्षितश्च नोपेक्षणीय' इति उक्तं भवति । ३. बुद्धिरित्यादि सूत्रम् । अनेन-' एतैःपर्यायशब्दैोऽभिधीयते पदार्थस्सा बुद्धिरिति'-बुद्धिसामान्यलक्षणं पर्यवसितम् । आत्मादयः पदार्थाः बुद्धेः कारणानि निरूपितानि । अतः क्रमप्राप्तं तत्कार्य बुद्धिरूपं निरूपयति सूत्रकारः ४. तद्धीत्यादि साङ्ख्यमतनिराकरणम् । पुरुपगतचैतन्यस्य बुद्धौ छायापत्तिनैव सम्भवति । चैतन्यस्यापरिणामित्वेन तच्छायापत्तेरसम्भवात् । अतो बुद्धेरेव चतन्य- मभ्युपगन्तव्यम् । ततश्च प्रतिज्ञानं पुरुषबुद्धिरूपचेतनद्वयस्य व्यापारोऽपेक्षितः स्यात् । ५. प्रमेयेति । प्रमेयगणपठिताया अपि बुद्धेविषयत्वप्राप्तावपि विषयित्वमुपपत्या सिद्धमित्यर्थ इति केचित् । तन्न । तथा सति बुद्धेःप्रमेयेभ्यो बहिर्भावः सूत्रकारस्येष्टः स्यात् । बुद्धेापारो ज्ञानमिति साङ्ख्यमतनिराकरणमेव ' अन्यार्थ' पदेन विवक्षित- मिति तात्पर्ये स्पष्टम् । ६. उपपत्तिसामादिति । अत्रोपपत्तिपदार्थः पर्यायशब्दाभिधानेन व्याख्यातः । तेनायमर्थः । पर्यायाभिधानलक्षणाया उपपत्तेः सामर्थ्यम्-अनेकार्थत्वप्रतिक्षेपकत्वम्- तस्मादित्यादि परिशुद्धौ स्पष्टम् । बुद्धिर्ज्ञानमित्युभयोः पर्यायत्वाभिधानं यस्सूत्रोपन्य- स्तं तस्यैव सामर्थ्यात् ' बुद्धवृत्तिर्ज्ञानम्' इति साङ्ख्यमतमप्यनेन प्रमेयलक्षणपरेणा- पाततो निराकृतं भवतीत्याशयः। पर्यायशब्दाभिधानमात्रेण लक्षणाभिधानं न पर्याप्तमिति केषांचिदाक्षेपः । तत्परिहारो यथा । द्वयी तावत्पदाभिधेयानां गतिः । कानिचित् प्रतिव्यक्तिसङ्केति- तानि-यथा पित्रा पुत्रनामकरणादौ । अपराणि तु साधारण्येन सर्वगामित्वेन सङ्केति- निता-यथा गवादिपदविषये । द्वितीयप्रकारकपदानां विषये पर्यायाभिधानेनाप्य- - १ प्रथमाध्याये प्रथमाह्निके षोडशं सूत्रम् २९ मनोनिरूपिणम् । स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि । तेषु सत्स्वियमपि- युगयज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १६ ॥ अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुमर्हन्तीति । युगपञ्च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज्ज्ञानानि नोत्पद्यन्ते । तेनानुमीयते अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरम- व्यापि-यस्यासन्निधे!त्पद्यते ज्ञानं सन्निधेश्वोत्पद्यत इति । मनःसंयोगानपेक्षस्थ हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानीति ॥ १६ ॥ प्रवृत्तिनिरूपणम् । क्रमप्राप्ता तु- प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ इति ॥ १७ ॥ भिधेयज्ञानं भवत्येव । एतदेव च लक्षणकरणस्य प्रयोजनम् । प्रकृते तावदुपल- ब्धिज्ञानपदयोरर्थःसर्वजनप्रसिद्धोऽतो बुद्धिानमित्यनान्तरमिति पर्यायाभिधानेनापि काऽसौ बुद्धि रिति बुद्धिस्वरूपं ज्ञातं भवति । तथा च बुद्धिलक्षणं संपन्नं भवति । गन्धादिविषयतया सुखदुःखविषयतया चेयं बुद्धिर्भाव्यमाना निर्वेदाय कल्पते ततश्चापवर्गेऽप्युपयुज्यत इति ध्येयम् । १. स्मृतीति । भाष्यकारः क्रमप्राप्तं षष्टप्रमेयमनोलक्षणसूत्रमवतारयन्नुत्सूत्रमन्या- न्यपि लक्षणान्याह । २. अनिन्द्रियनिमित्ता इति । अबाह्येन्द्रियनिमित्ता इत्यर्थः । ३. तत्तदिन्द्रियसंयोगीति । इन्द्रियगतरूपादिव्यावृत्त्यर्थमुक्तमिन्द्रियसंयोगीति । सहकारीत्याकाशस्य-निमित्तान्तरमित्यालोकस्य,-अन्यापीत्यात्मनः-त्यावृत्तिः । मनसो विभुत्वसाधनानि पराभिमतानि कानिचित् परिशुद्धौ प्रदर्शितानि स्वरूपासिद्धत्वेन निराकृतानि च । तानि यथा-(१) सर्वदा स्पर्शरहितद्रव्यत्वात् ( २ ) विशेषगुणशून्यद्रव्यत्वात्-(३) नित्यत्वे सत्यनारम्भकद्रव्यत्वात्-( ४ ) ज्ञानासमवायिकारणसंयोगाधारस्वात् इति । ४. अमेति । प्रवृत्तिलक्षणमवतारयितुं मनसोऽपि प्रवृत्तिदर्शनीया । न चाप्रति- पादिते मनसि सा शक्या दर्शयितुमिति मनसोऽनन्तरत्वं बुद्धः। ५. प्रवृत्तिरिति । आरम्भः प्रवृत्तिर्द्विधा-ज्ञानहेतुः क्रियाहेतुश्च । या ज्ञानोत्पाद- द्वारेण पुण्यपापहेतुः सा वाक्प्रवृत्तिः । वागिति च ज्ञापकहेतपलक्षणम् । तेन चक्षुरा- दिभिस्साध्वसाधुदर्शनादि सूचितं भवति, मनसेष्टदेवताद्यनुचिन्तनं च । क्रियाहेतु- खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० १ सू०१८- मनोऽत्र बुद्धिरित्यभिप्रेतम् । बुध्यतेऽनेनेति बुद्धिः । सोऽयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । तदे- तत्कृतभाध्यं द्वितीयसूत्र इति ।। १७ ।। दोषनिरूपणम् । प्रवर्तनालक्षणा दोषाः ॥ १८ ॥ प्रवर्तना-प्रवृत्तिहेतुत्वम् । ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा। यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति । प्रत्यात्मवेदनीया हीमे दोषाः कस्माल्लक्षणतो निर्दिश्यन्त इति ? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः । रक्तो हि तत्कर्म कुरुते तेन कर्मणा सुखं दुःखं वा लभते । तथा द्विष्टस्तथा मूढ इति । दोषा रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवतीति ।। १८ ॥ यी-कायनिमित्ता मनोनिमित्ता च । कायो निमित्तं विषयतया यस्यास्साऽऽद्या । दानस्तेयाद्यर्थं यः प्रयत्नः स कायविषयो भवति । एवं दयाद्रोहादयो मनोविषयाः । अयं विभाग आवश्यकः । यतो नास्त्येवासौ पुरुषव्यापारो यत्र कायमनसी न निमि- तम् ! इति तात्पर्यपरिशुद्धयोः स्पष्टम् । १. प्रवर्तनेति । प्रयोज्यव्यापारपूर्वकत्वेन प्रयोजकव्यापारनिरूपणात् प्रवृत्त्यनन्तरं दोषलक्षणम् । २. ज्ञातारमिति । रागद्वेषौ हि मोहप्रभवौ पुरुषं प्रवर्तमान प्रवर्तयतः। तयोधर्मः प्रवर्तना' । सा च मोहकार्थसमवाया। तावद्धययं पुरुषो रागादिवशः स्पन्दते यावदस्य मोहो वर्तते इति तात्पर्यम् । तत्र परिशुद्धिः । फलगोचरौ मोहरागौ मोह- द्वेषौ वा तत्तत्साधनविषयौ मोहरागो मोहद्वेषौ वा जनयन्तौ पुरुष प्रवर्तयतः। फलविषया रागद्वेषमोहाः प्रवर्तकाः, साधनविषयास्तदेकार्थसमवायिनः' प्रवर्तनाः इति । ३. प्रत्यात्मेति । यत् प्रत्यात्मवेदनीयं न तत्र लक्षणापेक्षा। लक्षणस्यानु मानरूप- त्वात् प्रत्यात्मवेदनस्य च साक्षादनुभवरूपत्वादिति भावः। ४. कमलक्षणा इति । स्वरूपतः स्फुटत्वेऽपि न निवेदविषयतया स्फुटता। तया चेह प्रयोजनम् । प्रवर्तनात्वेन चैते निर्वेदविषयाः। सा च प्रवृत्या कार्येण लक्ष्यते इति 'कर्मलक्षणा' इत्युक्तम् । यतः 'कर्मणा' प्रवृत्त्या प्रवर्तकरागादियुक्ताः पुरुषा लक्ष्यन्ते अतो रागादीनां प्रवर्तनावत्त्वमपि लक्षितं भवति । ५. बह्विति । स्वरूपमात्रं रागादीनामुक्तं भवति, न तु प्रवर्तनावत्वमपि तेषामिति । ततः .

-सू. २०] प्रथमाध्याये प्रथमाह्निके एकोनविंशतितमं सूत्रम् ३१ । प्रेत्यभावनिरूपणम् । पुनरुत्पत्तिः प्रेत्यभावः ॥ १९ ॥ उत्पन्नस्य कचित्सेत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः । उत्पन्नस्य-सम्बद्धस्य । सम्बद्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः । पुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः । पुनरित्यभ्यासाभिधानम् । यत्र कचित्प्राणभृन्निकाये वर्तमानः पूर्वोपात्तान्देहादीन् जहाति तत्प्रेति । यत् तत्रान्यत्र वा देहादीन- न्यानुपादत्ते तद्भवति । प्रेत्यभावो-मृत्वा पुनर्जन्म । सोऽयं जन्ममरणप्रबन्धा- भ्यासोऽनादिरपवर्गान्तः प्रेत्यभावो वेदितव्य इति ।। १९ ।। फलनिरूपणम् । प्रवृत्तिदोषजनितोऽर्थः फलम् ॥२०॥ १. पुनरुत्पत्तिरिति । शरीरादीनां दोषपर्यन्तानां परित्यागपूर्वकः प्राप्तिलक्षणो धर्मः प्रेस्यभाव इति तदनन्तरमस्यावसर इति परिशुद्धिः। अपरं च-दोषा एव धर्माधर्म- कारणीभूतप्रवृत्तिद्वारा पुनर्जन्महेतव इति दोषानन्तरमेव प्रेत्यभावस्यावसरः। २. सत्वनिकाय इति । प्राणिशरीरमित्यर्थः । ३. सम्बद्धस्येति। आत्मनो नित्यत्वात्तस्योत्पन्नत्वासम्भवात् उत्पन्नपदस्यार्थः सम्बद्ध इत्याह । ४. अभ्यासाभिधानमिति । अभ्यासं वदन्नेव नान्तरीयकतया पूर्वशरीरादिपरि- त्यागं प्रतिपादयतीत्यर्थः । ५. यत्र क्वचिदिति प्रेत्यभावपदस्याक्षरार्थं व्याचष्टे । ६. प्राणभृनिकाय इति । प्राणभृञ्चासौ निकायश्चेति । प्राणसंयुक्तशरीरे-इति यावत् । ७. तत्प्रैतीति । एतदेव ‘प्रेत्ये'तिपदस्यार्थः । ८. तद्भवतीति । एतदेव 'भाव' पदस्यार्थः। ९. जन्ममरणप्रबन्धाभ्यास इति । जन्ममरणपरम्परायाः पुनः पुनर्भवनम् । १०. प्रवृत्तीत्यादि सूत्रम् । अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्तिं प्रति दोषाणां हेतुभावः, अपि तु प्रवृत्तिकार्ये सुखदुःखेऽपि प्रति इति दर्शनार्थम् । दोषसलिलावसिक्तायामात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयत इति तात्पर्यम् । तत्र परिशुद्धिः । स्वरूपतः प्रवृत्तिं प्रति दोषाणां सहकारित्वं सूत्रकार एव चतुर्थे वक्ष्यतीति । सूत्रे 'अर्थ'ग्रहणं गौणमुख्यफलावरोधार्थम् । मुख्यं फलं सुखदु:- खरूपम्, गौणं च शरीरादिरूपमिति विवेकः ।

. . - खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०१ स ०२१- सुखदुःखसंवेदनं फलम् । सुखविपाकं कर्म दुःखविपाकं च । तत्पुनर्देहेन्द्रिय- विषयवुद्धिषु भवतीति संह देहादिभिः फलमभिप्रेतम् । तथा हि प्रवृत्तिदोषजनि- तोऽर्थः फलमेतत्सर्व भवति । तदेतत्फलमुपात्तमुपात्तं हेयं त्यक्तं त्यक्तमुपादेय- मिति नास्य हानोपादानयोनिष्ठा पर्यवसानं वास्ति । स खल्वयं फलस्य हानो दनापास्रोतसोह्यते लोक इति ॥ २० ॥ दुःखनिरूपणम् । अथैतदेव- बांधनालक्षणं दुःखम् ॥ २१॥ वाधना ' पीडा ताप इति । तयाऽनुविद्धमनुषक्तमविनिर्भागेन वर्तमान दुःखयोगाद् दुःखमिति । सोऽयं सर्वं दुःखेनानुविद्धमिति पश्यन् दुःख जिहासुर्जन्मनि दुःखदर्शी निर्विद्यते निर्विण्णो विरज्यते विरक्तो विमु- च्यते ॥ २१ ॥ अपवर्गनिरूपणम् । यत्र तु निष्ठा यत्र तु पर्यवसानम् सोऽयम्- तंदत्यन्तविमोक्षोऽपवर्गः ॥२२॥ १. सह देहादिभिरिति । देहादिभिः सह सुखदुःखसंवेदनमेव फलमभिप्रेतमिति सम्बन्धः । सुखदःखसंवेदनं फलम् शरीरादिसम्बन्धश्च फलमित्यर्थः । २. एतत्सर्वमिति । सुखदुःखं शरीरादि चेत्यर्थः । ३. निष्टा पर्यवसानमिति । निष्ठेति सामान्यतोऽन्तमानं परामृशति । सा च सुखा- दीनामप्यस्तीत्यत आह पर्यवसानमिति । 'परि-अत्यन्तम्-' अवसानम् ' परि- समाप्तिः । आत्यन्तिकी निवृत्तिरिति यावत् । ४. उह्यते लोक इति । समस्तः संसारः प्रवर्तत इत्यर्थः । ५. अथैतदेवेति। एतत् ' शरीरादि ' एव -अग्रिमेण सन्त्रेण सम्बन्धः । नानुक्ते शरीरादौ तेषां सुखदुःखत्वं शक्यं लक्षयितुमिति तल्लक्षणेभ्यः परमिदं दुःखलक्षणम् । ६. बाधनेति (सूत्रे) बाधनाविषयां बुद्धि लक्षयति । तेन बाधना च तदनु- षङ्गिणश्च शरीरादयो गौणमुख्यभावेन लक्षिता भवन्ति । सैव हि बाधनाबुद्धिर्दुःखे मुख्या शरीरादौ गौणी । दुःखानुभवे द्वयोरप्यपेक्षणीयत्वादेवं व्यवहारः । ७. तयाऽनुविद्धमिति । सर्वमेतत् सुखं दुःखं शरीरादि च दुःखेनानुस्यूतं तद- विनाभावि । अतः सर्व दुःखमेव । ८. तदिति ( सूत्रे) अनन्तरं गौणमुख्यभेदभिन्नं 'दुःखं' सुखदुःखशरीराद्या- स्मकं सर्वं परामशति । मुख्यं दुःखमात्रमेवाभिप्रेतमिति भ्रमो मा भूदिति जन्मनेत्याह १ दुःखमिति' ----सू. २२] प्रथमाध्याये प्रथमाह्निके द्वाविंशतितमं सूत्रम् ३ तेन दुःखेन जन्मनात्यन्तं विमुक्तिरपवर्ग: । कथम् । उपात्तस्य जन्मनो हानमन्यस्य चानुपादानम्-एतामवस्थामपर्यन्तामपवर्ग वेदयन्तेऽपवर्गविदः ! तदभयमजरममृत्युपदं ब्रह्म क्षेमप्राप्तिरिति । नित्यं सुखमात्मनो महत्त्ववन्मोक्षे व्यज्यते । तेनाऽभिव्यक्तेनात्यन्त विमुक्तः सुखी भवतीति केचिन्मन्यन्ते । तेषां प्रमाणाभावादनुपपत्तिः । न प्रत्यक्षं नानुमानं नागमो वा विद्यते नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यत इति । नित्यस्याभिव्यक्तिः-संवेदनम् , तस्य हेतुवचनम् । नित्यस्याऽभिव्यक्तिः -संवेदनम्-ज्ञानमिति । तस्य हेतुवाच्यो यतस्तदुत्पद्यत इति । सुखवन्नित्यमिति चेत् संसारस्थस्य मुक्तेनाविशेषः । यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्ये. पन्नस्तथा संसारस्थोऽपि प्रसज्यत इति, उभयस्य नित्यत्वात् । अभ्यनुज्ञाने भाग्यकारः । तथाच दुःखशब्देन जायमानाः कार्यरूपाः सर्वे शरीरादयोऽभिप्रेता भवन्ति । अत्यन्तमिति पुनरावृत्तिराहित्यं सूचयति । १ अभयमिति पुनःसंसारभयाभावमाह । ये तु "ब्रह्मैव नामरूपप्रपञ्चात्मना परिणमते "इत्याहुः तान् प्रत्याह-अजरमिति । परिणामो हि पूर्वधर्मिनिवृत्तौ धर्म्य- न्तरोत्पादो वा स्याद् वैनाशिकानामिव, पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पादो वा स्यात् साङ्ख्यानामिव । उभयथाऽपि नोपपद्यते परिणामो ब्रह्मणः । सर्वात्मना परिणामे सर्वात्मना ब्रह्मणोऽन्यथास्वाद्विनाशप्रसङ्गः । एकदेशपरिणामे तु सावयवत्वेन घटादि- वदनित्यत्वप्रसङ्गः । प्रदीपस्येव निर्वाणश्चेतसो मोक्ष इति वैनाशिकाः । तान् प्रत्याह अमृत्युपदमिति । भावरूपोऽवस्थाविशेष इत्यर्थः । तदेव स्पष्टयति ब्रह्मेति क्षेम- प्राप्तिरिति च । अतोऽभावरूपत्वं मोक्षस्य निरस्तमिव भवति । २ नित्यमिति । विज्ञानमानन्दं ब्रह्मेति सामानाधिकरण्यश्रुतेः ब्रह्मस्वभावं सुखम् । तथा च ब्रह्मणो नित्यत्वात्तदपि नित्यम् । आत्मन इत्यत्र च षष्टी 'राहोः शिर' इतिवन्मन्तव्या। ३ न प्रत्यक्षमिति । नित्यं सुखमात्मनोऽभिव्यज्यत इत्यस्य पक्षस्य साधकं न प्रत्यक्षं विद्यते नानुमानं विद्यते नागमो विद्यते इति सम्बन्धः । ४ सुखवन्नित्यमिति । यथा सुखं नित्यं तथा तस्याभिव्यक्तिरपि नित्येति प्रथमः कल्पः । तत्र च मुक्तसंसारिणोरविशेषप्रसङ्गः । सुखस्य नित्यत्वेऽपि तदभिव्यक्तिर- नित्येति द्वितीयः कल्पः । तत्र तदभिव्यक्तिकारणनिरूपणानुपपत्तिः । यथा प्रदर्शित- मग्रे अनित्ये हेतुवचनमित्यादि भाष्ये । ५ नित्यवादिति । ततश्च मोक्षार्थप्रयासस्य वैयर्थ्यम् । ६ अभ्यनुज्ञान इति । इष्टापत्तौ--उभयस्यापि नित्यत्वस्वीकारे-इत्यर्थः ।

- , खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०१ सू ०२२- च धर्माधर्मफलेन साहचर्यं योगपद्यं गृह्यते । यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुख दुःखं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो योग- पां गृह्येत । न सुखाभावो नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् । अनित्यत्वे हेतुवचनम् । अथ मोक्षे नित्यस्य सुखम्य संवेदनमनित्यम् , यत उत्पद्यते स हेतुर्वाच्यः । आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम् । आत्ममनःसंयोगो हेतुरिति चेत् , एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति । धर्मस्य कारणवचनम् । यदि धर्मो निमित्तान्तरम्-तस्य हेतुर्वाच्यो यत उत्पद्यत इति । योगसमाधिजस्य कार्यावसायविरोधात्प्रक्षये संवेदननिवृत्तिः । यदि योगसमाधिजो धर्मो हेतुः तस्य कार्यावसायविरोधात्प्रक्षये संवेदनमत्यन्तं निवर्तेत । असंवेदने चाविद्यमानेनाविशेषः । यदि धर्मक्षयात्संवेदनोपरमो नित्यं सुख न संवेद्यते इति किं,-विद्यमानं न संवेद्यते, अथाविद्यमानमिति नानुमानं विशिष्टेऽस्तीति । अप्रक्षयश्च धर्मस्य निरनुमानमुत्पत्तिधर्मकत्वात् । योगसमाधिजो धर्मो न क्षीयत इति नास्त्यनुमानम् । उत्पत्तिधर्मकमनित्यमिति विपर्ययस्य त्वनुमानम् । यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुमेयम् । नित्ये च मुक्त- धर्माधर्माभ्यां जनितयोः सुखदुः :खयोरुपलब्धिकाले नित्यस्य सुखस्य नित्यस्य तज्ज्ञा- नस्य चास्तित्वप्रसङ्गे योगपद्यमिति भावः । नित्यसंवेदनस्येत्येव पाठः सम्यक् । तथा च ' तस्य' सुखस्य, नित्यस्य संवेदनस्य सहभाव इति सम्बन्धः। यद्यपि 'स्व' पद- सन्निवेशे एतत् स्पष्टतरं भवति तथाऽपि तथाविधपाठस्य कुत्रापि लिखितपुस्तकेऽनुप- लम्मान तथा पाठो पृतः। १ न सुखाभाव इति । सुखेन तदभिव्यक्त्या च रहितस्य कालस्यासम्भवात् । २ आत्मेति । आत्ममनःसंयोगस्य केवलस्य हेतुत्वासम्भवे तत्सहकारिभूतस्य कारणान्तरस्यावश्यकता । ३ धर्मस्येति । धर्म एव तदपेक्षितं निमित्तान्तरमिति पक्षं दूषयति । ४ निरनुमानमिति । यद्यपि निरनुमान इत्येव पाठः समीचीनः प्रतिभाति तथाऽपि कुत्रापि पुस्तके तथाविधपाठस्यानुपलम्भात् 'निरनुमानम्' इत्येव सर्व- पुस्तकसम्मतः पाठोऽत्र इतः । ५ उत्पत्तिधर्मेति । 'विपर्ययस्य' पराभिमतपक्षविरुद्धपक्षस्य साधकीभूतम् अनुमानम् ' अस्ति-' यदुस्पत्तिधर्मकं तदनित्यम्' इत्येवंरूपम्-इत्यर्थः। ६ यस्येति । कश्चिदेवंविधः पुरुषः स्याद्यस्य सुखानुभवो नित्यः स्यात्तर्हि स वक्तुं शक्ष्यति तदनुभवस्य कारणभूतो धर्मो नित्य इति । धर्मस्य नित्यत्वे तु मुक्त- संसारिणोरविशेषप्रसङ्गः । यथोक्तं प्राक् ।

-स. २२] प्रथमाध्याये प्रथमाह्निके द्वाविंशतितमं सूत्रम् ३५ " " । संसारस्थयोरविशेष इत्युक्तम् । यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च संवेद- नस्य तूपरमो नास्ति कारणस्य नित्यत्वात् तथा संसारस्थस्यापीति । एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्यतेति । “शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति” चेन्न शरीरादीनामुपभोगार्थत्वात् विपर्ययस्य चाननुमानात् । स्यान्मतम् " संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रति- बन्धकः तेनाविशेषो नास्तीति ।” एतच्चायुक्तम् शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नम् । न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति । इष्टाधिगमार्था प्रवृत्तिरिति चेन्न, अनिष्टोपरमार्थत्वात् । इदमनुमानम्- "इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणां नोभय- मनर्थकमिति"। एतच्चायुक्तम्-अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षू- णामिति । नेप्टेमनिटेनाननुविद्धं सम्भवतीति इष्टमप्यनिष्टं सम्पद्यते । अनिष्ट- हानाय घटमान इष्टमपि जहाति विवेकहानस्याशक्यत्वादिति । ५ तत्संवेदनहेतुश्चेति । नित्य इति शेषः । २ साहचर्यमिति । मोक्षस्येत्यर्थः। ३ शरीरादीति । यस्माच्छरीरादयो नित्यसुखस्योपलब्धौ प्रतिबन्धका भवन्ति तस्मात्सुखमोक्षयोस्साहचर्य न सम्भवतीत्यर्थः । ४ विपर्ययस्येति । एतद्विरुद्धपक्षस्य साधकमनुमानं नास्तीत्यर्थः । ५ अविशेष इति । अभेदो मोक्षादिति यावत् । ६ इष्टेति । 'मोक्षे नित्यं सुखमात्मनोऽभिव्यज्यत' इत्यत्र प्रमाणं नास्तीति भाष्येणोक्तं प्राक् । तत्र वेदान्ती प्रतिविधत्ते “अस्ति तत्र प्रमाणमनुमानम्-या या प्रवृत्तिरसेष्टप्राप्त्यथैवेत्येवंरूपम् । अस्यानुमानस्य तात्पर्य यथा वर्णितं तात्पये- शास्त्रेण हि मोक्षसाधने लोकः प्रवर्तनीयः, इष्टार्थी च प्रवर्तते तत्साधने, सुखं चेष्ट- मिति सुखात्मको मोक्ष इत्यर्थः । अनिष्टेति । न सर्वाऽपि प्रवृत्तिरिष्टाधिगमार्थैव, अनिष्टनिवृत्यर्थाऽपि प्रवृत्तिर्भवतीत्यर्थः । ७ नेष्टमिति । किञ्चिदप्यस्मिञ्जगति सर्वथेष्टं नास्तीत्येतदेवानिष्टोपरमाथैव प्रवृत्तिर्भवति मुमुक्षोरित्यत्र प्रमाणम् । ८ अनिष्टहानायेति । इष्टानिष्टयोस्सर्वत्र सुश्लिष्टत्वादनिष्टहानाय यः प्रवर्तते स तदनिष्टसहचरितेष्टमपि जहात्येवेत्यर्थः। ९ विवेकेति । इष्टानिष्टयोः परस्परसंश्लेषस्तथा घनिष्ठो यथा तयोः पृथ- करणं न सम्भवति । अतोऽनिष्टांशस्य हानमिष्टांशस्य रक्षणं सर्वथा दुश्शकम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० १ स् ० २२ -- । दृष्टातिक्रमश्च देहादिषु तुल्यः । यथा दृष्टमनित्यं सुखं परित्यज्य नित्यं सुखं कामयते एवं देहेन्द्रियबुद्धीरनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहन्द्रिय बुद्धयः कल्पयितव्याः । साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति । " उपपत्तिविरुद्धमिति " चेत् सभानम् । देहादीनां नित्यत्वं प्रमाणविरुद्धं कल्पयितुमशक्यमिति समानम् । सुखस्यापि नित्यत्वं प्रमाणविरुद्धं कल्पयितु- मशक्यमिति । आत्यन्तिके च संसारदुःखाभावे सुखवचनादागमेऽपि सत्यविरोधः । यद्यपि कश्चिदागमः स्यात् मुक्तस्यात्यन्तिकं सुखमिति सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते । दृष्टो हि दुःखादेरभावे सुखशब्दप्रयोगो बहुलं लोक इति । नित्यसुखरागस्याग्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानान् । यद्ययं मोक्षो नित्यं सुखमभिव्यज्यत इति नित्यसुखरागेण मोक्षाय घटमानो न मोक्षमधिगच्छेत् , नाधिगन्तुमर्हतीति । बन्धनसमाज्ञातो हि रागः । न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति । प्रहीणनित्यसुखरागस्याप्रतिकूलत्वम् । अथास्य नित्यमुखरागः प्रहीयते- तस्मिन्प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति । यद्येवं, मुक्तस्य नित्यं १ दृष्टातिकम इति । स्यादेतत्-" लोके क्षणिकं सुखं परित्यज्य बुद्धिपूर्वकारी स्थायि सुखमादत्ते । स्थायितमं च सुखमेव मोक्ष" इति । एवं तु शरीरेन्द्रियाद्यपि प्रति वक्तुं शक्यम्-"क्षणिकं नश्वरशरीरादि त्यक्तुं स्थायितरं तदासादयितुं पुरुषा अभिलपन्ति-अतः स्थायितरशरीरेन्द्रियादिरूप एव मोक्ष " इति । २ साधीय इति । सोल्लुण्ठवचनम् । शरीरादिरूपत्वमात्मनः परिकल्प्य सुष्टु साधितो वेदान्ताभिमत ऐकात्म्यादिसिद्धान्त इति परिहासार्थः । ३ नित्यसुखे यदि मुमुक्षूणां प्रवृत्ती रागादेव भवति तर्हि रागनिवृत्तेरभावात् तत्सम्पाद्यस्य मोक्षस्थाप्यनुपपत्तिरिति चेत्तत्राह नित्यसुखरागेणेति । ४ ननु मोक्षस्य दुःखनिवृत्तिरूपत्वात् तं प्रति प्रवृत्तेर्दुखद्वेष एव कारणं भवि- तुमर्हति-द्वेषश्च बन्ध एवेत्यत आह अहीणेति । यस्य सुखानुरागः प्रहीणः न तस्य किमपि वस्तु प्रति प्रतिकूलताबुद्धिर्द्वषो वा । सुखप्रतिघातेष्वेव हि द्वषो भवति ॥ प्रहीणरागो यदा मोक्षे प्रवर्तते तदा सुखं लभ्यते न वेति सन्देहेन विचारयति । अथ च निधूतसकलप्रतिबन्धकीभूतरागद्वेषादिकस्य मोक्षः सम्पद्यत एव । तथा च तात्पर्य- काराः-' एवं वैराग्येण मोक्षमाणस्य प्रवृत्तौ सत्यां प्रसक्तस्य यदि नित्यं सुखं -3 .

-सृ.२२-२३] प्रथमाध्याये प्रथमाह्निके त्रयोविंशतितमं सूत्रम् . मुखं भवति । अथाऽपि न भवति नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्पत इति ॥ २२ ॥ इति प्रमेयलक्षणप्रकरणम् । ४ न्यायपूर्वाङ्गप्रकरणम् । स्थानवत एव तर्हि संशयस्य लक्षणं वाच्यमिति तदुच्यते- समानाने कधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलव्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ २३ ॥ समानधर्मोपपत्तेविशेषापेक्षो विमर्शः संशय इति । स्थाणुपुरुषयोः समान धर्ममारोहपरिणाही पश्यन् पूर्वदृष्टं च तयोर्विशेष बुभुत्समानः किंस्वि- भवति, कामं भवतु, मा वा भूत् । उभयोरपि पक्षयोः वीतरागप्रवृत्तौ मोक्षाधिगमो न विकल्पते--न सन्दिग्धो भवतीति । ५ पूर्वेषां प्रमाणाधीनत्वात् प्रमेयस्य बुभुत्सितत्वात् ताभ्यां संशयादीनामपकर्षः। लाङ्गोपाङ्गे न्याये व्युत्पाद्ये प्रकरणान्तरेभ्यः संशयादीनामुत्कर्षः । तत्रापि सन्दिग्धे प्रयोजनादिचिन्ता न च प्रयोजनमनु संशय इति संशयस्य प्राथम्यम् । प्रथमे चोद्देश- सूत्रे प्रमेयानन्तरं संशयस्यवोद्दिष्टत्वादस्यैवावसर इत्याह स्थानवत इति । सूत्रे तृतीयस्थानस्थितस्येति यावत् । २ समानेत्यादिसूत्रम् । अत्र 'विमर्शः संशय' इति संशयसामान्य लक्षणम् । एकस्मिन्धर्मिणि विरोधिनानाविमर्षो ‘विमर्शः' ' किंस्वित्' इति ज्ञानम् । तदने- नाममानजातीयेभ्यः प्रमाणादिभ्यः समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो व्यवच्छिन्नो भवति । समानेस्यादि तु त्रीणि विशेषलक्षणानि । तेषु विमर्शः संशय इत्यनुवर्तनीयम् । अत्र 'समानधर्मोपपत्तेः' 'अनेकधोपपत्तेः' 'विप्रतिपत्तेः- इति त्रीणि प्रत्येक शेषैः पदैरुपेतानि लक्षणानि । यद्यप्युपपत्तिशब्दः सत्तामात्रवचन- स्तथापि पदान्तरसमभिव्याहारादवगम्यते यत्सत्तामात्राभिधानेऽपि तदुपलब्धिर्विव- क्षितेति । विषय विषयिणोरभेदविवक्षया सामानाधिकरण्यम्-'उपपत्तिरुपलब्धिरिति' -इत्यादि तारपर्ये स्पष्टम् । वार्तिकानुसारि चैतड्याख्यानम् । भाप्यमतेन त्वत्र सूत्रे पञ्च संशयभेदा लक्षिताः, न य एव । 'उपलब्ध्यव्यवस्थातः' 'अनुपलब्ध्यव्यवस्थातः' चेत्येतद्व- यमपि स्वतन्त्रयोरेव संशयभेदयोर्लक्षकमिति भाप्यकारस्य मतम् । एतत्पदद्वयमुक्तसं- शयभेदत्रयस्यैव विशेषणमिति वार्तिकतात्पर्यमतम् । भाप्यमते वार्तिकस्यारुचिः स्पष्टं प्रदर्शिता तात्पर्ये-नो खलु समानानेकधर्मोपलब्धौ सत्यां, सत्यां च विशेषस्मृती, साधकबाधकप्रमाणासद्भावे संशयो भवतीति न ' उपलब्ध्यनुपलबध्ययवस्थे' पृथक् संशयकारणे-इति । ..

. ३८ खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० १ सु०२३--- दित्यन्यतरं नावधारयति । तदनवधारणं ज्ञानं संशयः । समानमनयोधर्ममुपलभे विशेषमन्यतरस्य नोपलभ इत्येषा बुद्धिः “ अपेक्षा" संशयस्य प्रवर्तिका वर्तते, तेन विशेषापेक्षो विमर्शः संशयः । अनेकधर्मोपपत्तेरिति । समानजातीयमसमानजातीयं च 'अनेकम् । तस्यानेकस्य धर्मोपपत्तेः-विशेषस्योभयथा दृष्टत्वात् । समानजातीयेभ्योऽसमान- जातीयेभ्यश्चार्या विशिष्यन्ते । गन्धवत्त्वात्पृथिव्यबादिभ्यो विशिष्यते गुणकर्म- भ्यश्च । अस्ति च शब्दे विभागजन्यत्वं विशेषः । तस्मिन्द्रव्यं गुणः कर्म वेति सन्देहः-विशेषस्योभयथा दृष्टत्वात् । किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः, आहोस्विद् गुणस्य सत इति, अथ कर्मणः सत इति । विशेषापेक्षा ' अन्य- तमस्य व्यवस्थापकं धर्मं नोपलभ' इति बुद्धिरिति । १ अपेक्षेति । अपेक्षाशब्दो यद्यपीच्छायां वर्तते तथापीह जिघृक्षापरो बोध्यः, वाक्यसामर्थ्यात् । न च सा संशयस्य हेतुः संशये सति तस्याः भावात् । तस्माद्वि- शेषापेक्षया जिवृक्षालक्षणयेह विशेषयोः पुरोवर्तिनोः सादृश्यात्स्मरणे सत्यग्रहणं लक्षणीयम् । एवं च साधकबाधकप्रमाणानुपपत्तौ सत्यां समानधर्मोपलब्धिर्विनश्य- दवस्था विशेषस्मृत्या सहाविनश्यदवस्थैकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् । २ अनेकेति-द्वितीयं संशयभेदं लक्षयति । समानजातीयेति । समानजातीयम- समानजातीयकं च-(तस्माद् विशेषको) धर्मः । अथवा समानजातीयमसमानजातीयं तस्य धर्मः-निवर्तकतया । पूर्वस्मिन् व्याख्याने 'तस्माद् विशेषक' पदयोरध्याहारः कल्पनीयः । ३ अबादिभ्यः-द्रव्यत्वेन समानजातीयेभ्यः । 'गुणकर्मभ्यः '-अद्रव्यत्वाद- समानजातीयेभ्यः । ४ ननु सहचरित: समानधर्मः संशयकारणं भवति न पुनर्विशेषो व्यावृत्त इत्यत आह-विशेषस्योभयथेति । यत् खलु सदादिरूपसम्पन्न विशेषवत् तत् समानजातीये- भ्योऽसमानजातीयेभ्यश्च व्यावृत्तम् । यथा पृथिवीद्रव्यमबादिद्रव्यान्तरेभ्यो गुणकर्म- भ्यश्च विजातीयेभ्यो गन्धवत्वेन व्यावृत्तम् । तथा शब्दः सदादिरूपसम्पन्नः विभाग- जत्वेन विशेषेण समानासमानजातीयेभ्यो विशिष्यते । तस्माद् भवति 'द्रव्यं गुणः कर्म वा' इति संशयः । एतत्तु भाष्यकारीयमुपपादनम् । वार्तिकाभिमतमुपपादनं भिन्नप्रकारकम् । तद्यथा । यद्यपि विभागजत्वं न ज्यादौ क्वचिद् दृष्टम् तथापि तद्व्यतिरेकः प्रत्येक द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दः-(१) द्रव्यकर्मभ्यां इत्यनयोः ..

-सू. २४] प्रथमाध्याये प्रथमाह्निके चतुर्विशं सूत्रम् ३९ 'विप्रतिपत्तेरिति । व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । व्याघातः विरोधोऽसहभाव इति । अस्त्यात्मेत्येकं दर्शनम्-नास्त्यात्मेत्यपरम् । न च सद्भावासद्भावौ सहैकत्र सम्भवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तत्त्वानवधारणं संशय इति । उपलब्ध्यव्यवस्थातः खल्वपि । सच्चोदकमुपलभ्यते तडागादिषु-मरी- चिषु चाविद्यमानमुदकमिति । अतः कचिदुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यतेऽथासदिति संशयो भवति । अनुपलब्ध्यव्यवस्थातः । नोपलभ्यते मूलकीलकोदकादि- असच्चानुत्पन्नं निरुद्धं वा। ततः कचिदनुपलभ्यमाने संशयः, किं सन्नोप- लभ्यते उतासदिति संशयो भवति । विशेषापेक्षा पूर्ववत् । पूर्वः समानोऽनेकश्च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे। एतावता विशेषेण पुनर्वचनम् । समानधर्माधिगमात्समानधर्मोपपत्तविशेषस्मृत्यपेक्षो विमर्श इति ॥ २३ ॥ स्थानवतां लक्षणमिति समानम् । यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ २४ ॥ " .. व्यावर्तमानः किं 'गुणः ' (२) गुणकर्मभ्यां व्यावर्तमानः किं 'द्रव्यम्', (३) गुणदव्याभ्यां ब्यावर्तमानः किं 'कर्म' इति व्यतिरेकमुखेन तत्तत् स्मारयन् साधा- रणो धर्मो भवति संशयकारणम् । ५ विप्रतिपत्तेरिति तृतीयं संशयभेदं लक्षयति । यद्यपि विरुद्धा प्रतिपत्ति ज्ञानं 'विप्रतिपत्तिः' तथापि तस्य वादिप्रतिवादिगताया अत्यन्तपरोक्षत्वात् (अपरेषां) संशयकारणत्वानुपपत्तेः स्वकार्य प्रवाद लक्षयति । विप्रतिपत्तेर्बहुजन- प्रसिद्धत्वमावश्यकम् । २ उपलब्धीति-चतुर्थं संशयभेदं लक्षयति । ३ अनुपलब्धीति-पञ्चमं संशयभेदं लक्षयति । ४ अत्र भाष्यकार उपलब्ध्यव्यवस्थाया अनुपलब्ध्यव्यवस्थायाश्च पृथक् संशय- कारणत्वं मत्वा 'समानधर्मोपपत्तेः' इत्यनेन गतार्थतां परिहरन्नाह पूर्व इति ॥ ५ अत्र विविध एव तत्त्वतः संशय इति सिद्धान्तः प्रदर्यते ॥ ६ अत्र सूत्रेऽर्थशब्दो गौणमुख्यप्रयोजनावबोधार्थः । तत्र मुख्यम्-सुखस्य प्राप्तिर्दुःखस्य परिहारश्च । गौणं तु तत्साधनम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०१ सू०२५- यमर्थमाप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायमनुतिष्ठति, प्रयो- जनं तद्वेदितव्यम् प्रवृत्तिहेतुत्वात् । इममर्थमाप्स्यामि हास्यामि वेति व्यव- सायोऽर्थस्याधिकारः । एवं व्यवसीयमानोऽर्थोऽधिक्रियत इति ॥ २४ ॥ लोकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥२५॥ लोकसामान्यमनतीताः लौकिकाः, नैसर्गिक वैनयिक बुद्धयतिशयम- प्राप्ताः । तद्विपरीता: परीक्षकाः, तर्केण प्रमाणैरर्थं परीक्षितुमर्हन्तीति । यथा यमर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः । दृष्टान्तविरो- धेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीत्यवयवेपु चोदाहरणाय कल्पत इति ॥ २५ ॥ इति न्यायपूर्वाङ्गप्रकरणम् । ' १ ५ व्यवसायेति तात्पर्यसम्मतः पाठः । सूत्रस्थस्य 'अधिकृत्येति' पदस्य व्याख्यानं 'व्यवसाय' निश्चित्यति । २ तदाप्तीति । ससाधनौ व सुखदुःखप्राप्तिपरिहारौ 'अर्थः । न च सुखदुःख- प्राप्तिपरिहारौ स्वरूपेण प्रवृत्तिनिवृत्तिगोचराविति तदुपायप्रवृत्त्यैव चेतनप्रवृत्तिगोचरा- विति दर्शयति । ३ ननु सूत्रे ‘अधिकृत्ये' त्यस्ति, भाष्ये व्यवसायेति तत्कुतो नासमञ्जसम्- इत्यत आह व्यवसाय एवार्थस्य 'अधिकार' इति । ४ संशये प्रयोजने च सति व पुनरेतत्साध्यसम्बद्धं साधनमुपलभेय यदुपा- दायैतत् साधयेयमिति जिज्ञासाकमानुरोधेन दृष्टान्तस्यायमवसरः । ५ लौकिकेति लौकिकाः परीक्षकाश्च पृथग् गृह्यन्ते । तेनाकाशादेरपि दृष्टान्तत्वं सम्भवति। ६ नैसर्गिकमिति स्वाभाविकमयत्नसिद्धमिति यावत् । ७ वैनयिकमिति शास्त्रादिपरिशीलनोत्पन्नमित्यर्थः । एतदुभयरहिता 'लौकिकाः' प्रतिपाद्याः, उभयसहिताश्च परीक्षकाः प्रतिपादका इति बोध्यम् । तदनेन वादिप्रतिवादिनावुक्तौ वेदितव्यौ । ८ दृष्टान्तेति लक्षणप्रयोजनमाह । , -~~~-सू. २६] प्रथमाध्याये प्रथमाह्निके षडिशं सूत्रम् .. . ५ न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् । अंथ सिद्धान्तः । इदमित्थंभूतं चेत्यभ्यनुज्ञायमानमर्थजातं : सिद्धम् ' सिद्धस्य संस्थितिः' सिद्धान्तः । संस्थितिरित्थंभावव्यवस्था धर्म नियमः । स खल्वयम्- तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ २६ ॥ तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः । तन्त्रमितरेतराभिसम्बद्धस्यार्थसमूह- स्योपदेशःशास्त्रम्। अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपग- मसंस्थिति(नवधारितार्थपरिग्रहः, तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः ॥ २६ ।। तन्त्रभेदात्तु खलु स चतुर्विधः- १ अथ सिद्धान्त इति । अत्र भाष्यकारः सिद्धान्तसामान्यलक्षणसूत्रमपठित्वैव तात्पर्य व्याचष्ट अथ सिद्धान्त इत्यादिनेति तात्पर्योक्त्याधारण-'सामान्यलक्षणसूत्रं किमप्यासीद्यदद्यत्वेऽपि न क्वाप्युपलभ्यते' इति केषांचित् कल्पनम् । तदसमञ्जसम् , तन्त्राधिकरणेत्यादेः पडिशसूत्रस्य सिद्धान्तसामान्यलक्षणस्वरूपत्वात् । वस्तुतस्तु सूत्रपाठात् प्रागेव तत्तात्पर्यमुपोद्धातरूपेणैव वर्णितम्' इत्येतावदेव तात्पयोक्तेस्ता- पर्यम् । २ इदमिति सामान्यतोऽवगममाह, इत्थंभूतं चेति विशेषः । ३ संस्थितिरिति । सामान्योपक्रमस्याभ्युपगमस्य प्रमाणतो विशेषपर्यन्तता परिसमाप्तिरित्यर्थः। ४ तन्त्रेत्यादिसूत्रम् । तन्त्रम् अधिकरणं येषामर्थानां ते तन्त्राधिकरणाः, तेषामभ्युपगमसंस्थितिः इत्थं भावव्यवस्था धर्मनियमः सिद्धान्तो भवतीति सूत्रार्थः । तन्त्र्यन्ते व्युत्पाद्यन्ते प्रमेयाण्यनेनेति तन्त्रम् ' प्रमाणम् । तदेवाधिकरणमाश्रयो ज्ञापकत्वेन येषामर्थानां ते तथोक्ताः। ५ षडिशसूत्रान्तरस्था भाष्यपङ्क्तयो यदि तत्सूत्रव्याख्यारूपेण गृह्यन्ते तद तन्त्रस्य संस्थितिः, अधिकरणस्य संस्थितिः अभ्युपगमस्य संस्थितिः-इत्येवंरूपः समासः प्राप्तः । तत्तु नोचितमिव प्रतिभाति। एवं सति षड्डिशसूत्र विभागपरं भवति । तथा च सप्तविंशस्यापि सूत्रस्य तथात्वात्पुनरुक्तता स्यात् । पूर्वोक्तं सर्वं विचायैव तात्पर्यकारेण तन्त्रार्थसंस्थितिरित्यादिपडिंशसप्तविंश- सूत्रमध्यपठिताभाष्यपक्तयःसप्तविंशसूत्रव्याख्यारूपेण गृहीताः। उक्तं च-व्याख्यान- पूर्वकमेव विभागमूत्रं (२७) पठति-तन्त्रार्थसंस्थितिरिति । तन्त्रग्रहणेन च सर्व- तन्त्रप्रतितन्त्रयोरुपादानम् , तयोरपि तन्त्रत्वादिति । ६ अनवधारितेति । साक्षाच्छास्त्रे नोपात्तः। यथा मनस इन्द्रियत्वम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० १ स ० २७.-~- सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।। २७ । तत्रैताश्चतस्रः संस्थितयोऽर्थान्तरभूताः ॥ २७ ।। तासाम्-- सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥२८॥ यथा वाणादीनीन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि, प्रमाणैरर्थस्य ग्रहणमिति ।। २८ ॥ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ २९ ॥ यथा नासत आत्मलाभः न सत आत्महानम् , निरतिशयाश्चेतनाः, तन्त्र- सिद्धदेहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेष इति साङख्यानाम् । पुरु- षकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश्च, स्वगुणविशिष्टाश्चेतनाः, असदुत्पद्यते उत्पन्नं निरुध्यत इति योगानाम् ॥ २९ ॥ यत्सिद्धावन्यप्रकरणसिद्धिःसोऽधिकरणसिद्धान्तः ॥ ३० ॥ १ तासामिति-संस्थितीनामिति यावत् । २ घ्राणादीनीति । यद्यपि घ्राणादिष्वपि भौतिकत्वादयो विप्रतिपत्तयस्त- थाऽपीन्द्रियत्वे नास्ति विप्रतिपत्तिरिति । ३ समानेत्यादि सूत्रम् । समानशब्द एकपर्यायः । नैयायिकानां 'समानं तन्त्रम् ' न्यायशास्त्रम्। ४ निरतिशया इति । अपरिणामिन इत्यर्थः । परिणामश्वोपचयापचयरूपो धर्मः। ५ तत्कारण इति । प्राकृतेषु तत्कारणेषु च महदहङ्कारपञ्चतन्मात्रभूतसूक्ष्मेषु विशेषो — ऽतिशय' इत्यर्थः । ६ योगानामिति । प्रसिद्धयोगशास्त्रेऽसदुत्पत्तेरनभ्युपगमाद् योगशब्देनात्र वैशेषिका एवाभिप्रेता इति केचित्। तस्वतस्तु योगशब्देनात्र नैयायिका एवाभिप्रेताः। एतस्मिन्नर्थेऽस्य प्रयोगो बहुशो लभ्यते प्राचीनग्रन्थेषु । ७ यसिद्धाविति सूत्रम् । यस्यार्थस्य साध्यस्य हेतोर्वा सिद्धौ-इति विषयस- प्तमी। तेन- यस्मिन्नर्थे ज्ञायमाने तदनुषङ्गिणोऽर्थास्तदन्तर्भावेण गम्यन्ते सोऽर्थः साक्षा- दधिक्रियमाणस्तदनुषङ्गिणां चाधारः-तत्सिद्धः सपक्षो वा भवतु हेतुर्वा-अनेन रूपेण 'अधिकरणसिद्धान्तः' । । पक्षस्तावत्-विवादाध्यासितम् उपलब्धिमत्कारणम् । उत्पत्तिमत्त्वात् , वस्त्रवदिति' । अत्र हि पृथिव्यादिगतेन उत्पत्तिमत्वेन उपलब्धि- मत्पूर्वकत्वम् तद्गतं साध्यमानं स्वसिद्धयन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतमेव सिध्यति, नान्यथेहोपलब्धिमत्पूर्वकत्वस्य सिद्धिरिति । भाष्ये हेतुप्रतिसन्धानं सिध्यत् स्वानु षङ्गयर्थान्तरान्वितं सिध्यतीत्युदाहृतम् ।

-सू. ३१] प्रथमाध्याये प्रथमाह्निके एकत्रिंशं सूत्रम् .. यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते न तैविना सोऽर्थः सिद्धयति, तेऽर्था यदधिष्ठानाः सोधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्श- नाभ्यामेकार्थग्रहणादिति । अत्रानुषङ्गिणोऽर्थाः-इन्द्रियनानात्वं, नियतविषया- णीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि, गन्धादिगुणव्यति- रिक्तं द्रव्यं गुणाधिकरणम् , अनियतविषयाश्चेतना इति । पूर्वार्थसिद्धावेतेऽर्थाः सिद्धयन्ति न तैर्विना सोऽर्थः सम्भवतीति ।। ३० ॥ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥ ३१ ॥ यत्र किञ्चिदर्थजातमपरीक्षितमभ्युपगम्यते---अस्ति द्रव्यं शब्दः, स तु नित्योऽथानित्य इति, द्रव्यस्य सतो नित्यताऽनित्यता वा तद्विशेष: परीक्ष्यते, सोऽभ्युगमसिद्धान्त: स्वबुद्धधतिशयचिख्यापयिषया परबुद्धथवज्ञानाच्च प्रवर्तत इति ॥ ३१ ॥ इति न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् । अत्र परिशुद्धिः । एतद् भूषणादयो द्विधा व्याचक्षते । (१) यस्यार्थस्य सर्वज्ञत्वादिविशेषितस्य सिद्धौ क्षित्यादेः सकर्तृकत्वस्य प्रक्रियमाणस्य सिद्धिः स सर्वज्ञत्वादिविशेषोऽधिकरणसिद्धान्तः । ( २ ) अथवा-यस्य सकर्तृकत्वादेः सिद्धावन्तर्भूता अन्येऽभिप्रायक्रान्ताः सर्वज्ञत्वादयो विशेषाः सिध्यन्ति सोऽधिकरण- सिद्धान्तः । तदत्र पक्षद्वयेऽपि फलतो न कश्चिद्विशेष इति । अत्राद्यं सिद्धान्तद्वयं वाचनिकमन्त्यद्वयं चाभिप्रायिकमिति विवेकः । १ पूर्वार्थति । 'पूर्वः अर्थः' यः साक्षादधिकृतः, तस्य सिद्धौ अन्तर्गत इत्यर्थः । २ अपरीक्षितेत्यादि सूत्रम् । अपरीक्षितोऽसूत्रितः ( सूत्रितस्य प्रायः परीक्षा- सम्बन्धात्)। योऽर्थः सूत्रेषु नोपनिबद्धः शास्त्रे चाभ्युपगतः सोऽभ्युपगमसिद्धान्त इति वार्तिकम् । तदर्थश्च-असूत्रिताभ्युपगमात् हेतोः यतस्तद्विशेषपरीक्षणं क्रियते तस्माद् विशेषपरीक्षणात् ज्ञायते-असूत्रितमप्यभ्युपगतं सूत्रकारेणेति-तारपर्ये स्पष्टम् । परीक्षां-विचार-विनैव सुस्पष्टतया यः पक्षः स्वीक्रियते स एव 'अपरीक्षित' इत्येवार्थः समीचीनः प्रतिभाति । यत्र शास्त्रे सूत्राणि न सन्ति तत्रासूत्रितत्वस्या- प्रसिद्धेः प्रसिद्धेश्च तत्राप्यभ्युपगमसिद्धान्तानाम् । ३ परबुद्धयवज्ञानादिति । एतद् वार्तिककाराय न रोचते । तथा चोक्तं वार्तिके- परबुद्धधवज्ञानाच्च प्रवर्तत इति न युक्तम्, परावज्ञानस्यायुक्तत्वात् । अत्र-' अर्थापत्तेरधिकरणसिद्धान्तस्य न कोऽपि भेदः' इति केचित् । तदसत् । वाक्यार्थप्रतिपत्तौ तद्विपरीतवाक्यार्थप्रतिपत्तिरपत्तिः-यथा 'पीनो देवदत्तो दिवा न . . मा कि- खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० १ सू०३२- ६ न्यायस्वरूपप्रकरणम् । अथावयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ ३२ ॥ दशावयवानके नैयायिका वाक्ये सञ्चक्षते । जिज्ञासा संशयः शक्य- प्रातिः प्रयोजनं संशयव्युदास इति । ते कस्मान्नोच्यन्त” इति । अर्थापत्तिः'-वाक्यानुषङ्गी (नतु तद्विरुद्धो) योऽर्थः सोऽधिकरणसिद्धान्तः-इति भेदस्य सुस्पष्टत्वात् । अत्र सर्वे सिद्धान्ताः साक्षात् स्वमुखेनार्थापत्या वाऽभिधीयन्ते तन्नास्ति प्रयोजनमत्र नानाप्रभेदविवेचनाया इति-बौद्धनैयायिकस्य दिङ्गागस्याक्षेपः । परिहृतश्चायं सविस्तरं वार्तिककारेण । १ प्रतिज्ञेत्यादि सूत्रम् । अवयवसामान्यलक्षणमन्तरेणाशक्यो विभागोदेशस्त- द्विशेषलक्षणं चेति केचिदाक्षिपन्ति । तत्परिहार उक्तस्तात्पर्ये-विभागपरमप्येतत् सूत्रं सूचयत्येवावयवसामान्यलक्षणम् । अवयवपदादेव सामान्यलक्षणमवगम्यते । अवयव- त्वेनैकवाक्यता दर्शिता । सा च पदानां परासम्प्रत्यायितापेक्षिता सम्बन्धयोग्यार्थप्रत्य- येन भवति । तस्मात्तथाविधार्थप्रत्यायनमेव प्रतिज्ञादीनामवयवसामान्यलक्षणं सिद्ध- मिति । त्रयोऽवयवा इति मीमांसकाः। दशावयवा इति केचिन्नैयायिकाः स्वयूथ्या गुख भाष्यकारेण निर्दिष्टाः । जैननैयायिकभद्रबाहुमतेनापि दशावयवाः । ते यथा । (१) प्रतिज्ञा (अहिंसा परमो धर्मः ) ( २ ) प्रतिज्ञाविभक्तिः (जैनशास्त्रा- नुसारेण अहिंसा धर्मः )-(३) हेतुः ( अहिंसकानां देवप्रियत्वात् )-( ४ ) हेतु- विभक्तिः (अहिंसकेभ्योऽन्ये धर्मलोकेषु वस्तुं न लभन्ते-) (५) विपक्षः (याज्ञिक- हिंसापरायणा अपि स्वर्गे वसन्तीति वर्ण्यते )-(६) विपक्षप्रतिषेधः (अहिं- सकाः कदापि देवप्रिया न भवन्ति)-(७) दृष्टान्तः (अर्हन्तो हिंसाभयादन्नं न पचन्ति )-(८) आशङ्का ( अन्ये पुरुषा यदन्नं पचन्ति तदन्नमहन्तोऽपि भुञ्जन्ति, अतस्तेऽपि हिंसादोषेण दुप्यन्त एव )-(९) आशङ्काप्रतिषेधः (अहंदुद्देशेनैव यन्न पच्यते तद्तहिंसादोषेण ते न दुष्यन्ति )-(१०) निगमनम्-(अतोऽहिंसा परमो धर्मः)। भाष्योक्तानां दशानां मध्ये संशयसंशयव्युदासयोः स्थाने भद्रबाहूक्तावा- शङ्काप्रतिषेधावित्येतावदेव सादृश्यमत्र । एतन्नानामतनिराकरणार्थमेवैतत्सूत्रम्। परप्रतिपादकाः शब्दा ये वाक्ये सम्भूये- तरेतरप्रत्ययितेनार्थेनार्थवन्तो वाक्याङ्गतामुपयान्ति ते 'अवयवाः' । यत एते संहस्य वाक्यार्थं निप्पादयन्त्यतोऽवयवाः इत्युच्यन्ते । भाष्ये दशावयवेषूक्ता जिज्ञासादयस्तु परप्रतिपादका न भवन्ति, अतो न तेऽनुमानवाक्यस्यावयवा भवितुमर्हन्ति । अपरं च- निश्चित एव साधयिता भवति-जिज्ञासासंशयौ तु न निश्चितौ। प्रयोजनमपि साध- नादेवावगम्यते, शक्यप्राप्तिश्च । अत एते अपि नानुमानवाक्यस्यावयवौ ।।

-सू. ३२] प्रथमाध्याये प्रथमाह्निके द्वात्रिंशं सूत्रम् (अ) तंत्राप्रतीयमानेऽर्थे प्रत्यक्षार्थस्य प्रवर्तिका जिज्ञासा। अप्रतीय. मानमर्थं कस्माज्जिज्ञासते"। तं तत्त्वतो ज्ञातं हास्यामि वोपादास्ये वा उपक्षिष्ये वेति । ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थस्तदर्थमयं जिज्ञासते। सा खल्वियमसाधनमर्थस्येति । (क) जिज्ञासाधिष्ठान संशयश्च व्याहतधर्मोप- सङवातात् तत्त्वज्ञाने प्रत्यासन्नः ।व्याहतयोहि धर्मयोरन्यतरत्तत्त्वं भवितुमर्ह- तीति । स पृथगुपदिष्टोऽप्यसाधनमर्थस्येति । (च) प्रेमातुः प्रमाणानि प्रमेयाधिग- मार्थानि सा शक्यप्राप्तिर्न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवदिति (ट) प्रयोजनं तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं "नैकदेश इति । (त) संशयब्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधे तत्त्वाभ्यनुज्ञानार्थम् । न त्वयं साधकवाक्यैकदेश इति । प्रकरणे जिज्ञासादयः समर्था अवधारणीयार्थोप- १ तत्राप्रतीयमान इति । सामान्येनावगते धर्मिणि (पर्वते) विशेषेण (अग्नि- मत्त्वादिना ) सन्दिग्धे अग्निमत्त्वावधारणं 'प्रत्ययः' तस्य 'अर्थः । प्रयोजनम् , हानोपादानोपेक्षाबुद्धयः, तस्य 'प्रवर्तिका ' उत्पादिका 'जिज्ञासा'। २ व्याहतधर्मेति । 'व्याहतयोः ' विरुद्धयोः धर्मयोः उपसघातो यतः संशये भवति तस्मात् कारणात् अयं तत्त्वज्ञाने प्रत्यासन्नः' प्रमात्मकज्ञानसदृश एव स्यादतो न साधककोटौ प्रवेशमहतीत्यर्थः । 'व्याहतधर्मोपसङ्घातातत्त्वज्ञाने' इति पुरीनगरस्थ- तालपत्रपुस्तकधृतः पाठः । तस्याओं यथा-व्याहतयोः धर्मयोरुपसङ्घातो यस्मिन्नेवं भूते अतत्त्वज्ञाने' प्रत्यासन्न:-मिथ्याज्ञानसदृशो भवति संशयोऽत एव न साधक इति । ३ प्रमातुरिति । शक्यम् ' प्रमेयम् , तस्मिन् 'प्राप्तिः' शक्तता प्रमाणानां प्रमातुश्च । सा च स्वरूपसहकारिभ्यां द्वेधा । तामिमां भाष्यकारोऽनया वाचोभङ्गया दर्शयति । ४ प्रतिज्ञादिवदिति । यथा प्रतिज्ञादयो युज्यन्ते न तथा शक्यप्राप्तिरित्यर्थः । ५ नैकदेश इति । नावयवपदवाच्य इति यावत् । ६ संशयव्युदास इति । शब्दोऽनित्यः कृतकत्वादित्यत्रानुमाने-'यदि शब्दो नित्यःस्यात् कृतको न स्यात् ' इति 'प्रतिपक्षस्य' अनित्यत्वविरुद्धनित्यत्वस्योपवर्ण- नम्-तदेव संशयव्युदासः । अयं च तकस्वरूपः प्रमाणान्तरस्योपोद्वलक एव केवलम् , न प्रमाणभूतानुमानवाक्यस्याङ्गभूतोऽवयवः । ७ प्रकरण इति। 'प्रकरणम् ' कथाप्रवृत्तिः । तदुत्थापका जिज्ञासादयोऽङ्गं कथायाः। ते चोत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेणैव, न पुनः स्वज्ञानेन, येन स्वशब्दप्रतिपाद्याः सन्तः प्रकरणेऽप्यड्गं भवेयुः। यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान प्रतिपादयन्तो भवन्त्येवाङ्गानि । तस्माजिज्ञासादिवाचकपदप्रयोगः साधकबाक्येषु सर्वथाऽनर्थक एव । .

खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०१ सू ०३३- ७ कारात् । तत्त्वार्थसाधकभावात्तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति ॥ ३२॥ तेषां तु यथाविभक्तानाम्- माध्यनिर्देशः प्रतिज्ञा ॥ ३३॥ प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा । प्रतिज्ञा साध्यनिर्देशः । अनित्यः शब्द इति ॥ ३४ ।। उदाहरणसाधात्साध्यसाधनं हेतुः ॥ ३४ ॥ उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः । साध्ये प्रतिसन्धाय धर्ममुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः । उत्पत्ति- धर्मकत्वादिति-उत्पत्तिधर्मकमनित्यं दृष्टमिति ॥ ३४ ॥ किमेतावद्धेतुलक्षणमिति " ? नेत्युच्यते । किं तर्हि ?" तथा वैधात् ॥ ३५ ॥ ५ जिज्ञासादय उत्पत्तिमात्रेण न्यायप्रवृत्तेरङ्गम् , नतु ज्ञप्तिमपेक्षन्ते । अतो नैषां ज्ञापकचिन्ता क्रियते । प्रतिज्ञादयस्तु ज्ञाता एव न्यायमुपकुर्वन्तः फलसिद्धावुपयुज्यन्ते । अत एतेषां ज्ञापकचिन्ता क्रियते । २ परिग्रहवचनमिति । परिगृह्यते स्वीक्रियतेऽनेनेति 'परिग्रहः । स च वचनं चेति परिग्रहवचनम्'। तेन साध्यतया स्वीक्रियमाणस्यार्थस्य वचनं प्रतिज्ञेति सूत्रार्थः । ३ उदाहरणेत्यादिसूत्रम् । अन्न हेतुरिति लक्ष्यनिर्देशः तस्य सामान्यलक्षणं साध्यसाधनम् ' इति । साध्यतेऽनेनेति व्युत्पत्त्या ‘कृतकत्वात् ' इत्यादिकं वचन- मुपलक्षितम् । हेत्वाभासाश्च न साधनमिति तत्पदेनैव ते निराकृताः । ४ सामान्यादिति सूत्रस्य 'साधात् ' पदस्य व्याख्यानम् । यो धर्मः साध्ये भवति स तथाभूत एवोदाहरणेऽपीति भवति साधर्म्यम् । ५ साध्यस्येति साध्यसाधनपदव्याख्यानम् । धर्मिमान्ने (पक्षे ) बुद्धिर्माभूदत उक्तं धर्मसहितस्य धर्मिण इत्यर्थः । ६ प्रतिसन्धायेति-उक्तमेव स्पष्टयति । उदाहरणसाधास्साध्यस्य'-इत्यनेनान्वयपक्षधर्मत्वेऽन्वयव्यतिरेकपक्षधर्म- स्वानि च सूचितानि; 'साध्यसाधनम् ' इत्यत्र च साध्यग्रहणेनाबाधितविषयत्वा- सत्प्रतिपक्षत्वे सूचिते। ७ तथेत्यादि सूत्रम्--'उदाहरणवैधाच्च साध्यसाधनं हेतुः' इति सम्बन्धः। प्रदर्शितमेतद्भाष्ये । .

-सू. ३६] प्रथमाध्याये प्रथमाह्निके षट्त्रिंशत्तमं सूत्रम् .. , , ' उदाहरणवैधाच्च साध्यसाधनं हेतुः । कथम् ? अनित्यः शब्दः- उत्पत्तिधर्मकत्वात्-अनुत्पत्तिधर्मकं नित्यं यथा आत्मादि द्रव्यमिति ॥ ३५॥ माध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ ३६॥ साध्येन साधर्म्य समानधर्मता । साध्यसाधात्कारणात्तद्धर्मभावी दृष्टान्त इति। तस्य धर्मस्तद्धर्मः। तस्य साध्यस्य । साध्यं च द्विविधं धर्मिविशिष्टो १ हेतायुक्ते नाव्याप्तोऽसौ साध्यधर्मेण हेतुभावे व्यवतिष्ठते न च व्याप्तिदर्शनमु- दाहरणमन्तरेणेति हेतुलक्षणानन्तरं क्रमप्राप्तमुदाहरणलक्षणमाह साध्येत्यादि सूत्रम् । 'साध्येन' धर्मिणा (शब्देन ) · साधयं ' दृष्टान्तस्य स्थाल्यादेः (कृतकत्वम् ) तद्धयनित्यत्वेन साध्ये (शब्दे) दृष्टान्ते च (स्थाल्यादौ) समानम् । तस्मात् ' कारणात् प्रयोजकात्--' तद्धर्मभावी' तस्यैव साध्यस्य ( शब्दस्य) 'धर्मः' धर्मान्तरम्येन विशिष्टः शब्दः सिषाधयिषितः (अनित्यत्वेन ) नत् अनित्यत्वं धर्मः, स एव भावः तद्भाव: ( तस्य भावः तद्भाव इति तु भाप्ये)। सोऽस्यास्तीति तद्धर्मभावी ' स्थाल्यादिः अनित्यत्वधर्मवानिति यावत् । तेन तादृशा दृष्टान्तेनोपलक्षितं तद्विशेषवचनमुदाहरणम् । (तात्पर्यम् ) अत्र प्रकरणे साध्यपदं पक्षपरं वेदितव्यम् । अत्र चाक्षेपो (वार्तिके)। उदाहरणमित्यत्र करणकारकपरिग्रहाद् वचनं (वाक्यरूपम् ) उदाहरणम् , दृष्टान्तश्चार्थः । न च अर्थवचनयोः सामानाधिकरण्यं युज्यते । न च विषाणादिम- दित्यभिधानं गवा समानाधिकरणं भवति" इति । तत्रैव च तत्परिहारोऽप्युक्तः। वचनविशेषणत्वेन दृष्टान्तस्योपादानान्न स्वतन्त्रो दृष्टान्त उदाहरणम् , अपि तु साध्यसाधात् तद्धर्मभावित्वे सति अभिधीयमान इति। दृष्टान्तानुरूपं नोदाहरणस्य वचनात्मकस्य स्वरूपतो लक्षणं सम्भवति। तस्मात् स्वाभिधायकवचनोपलक्षकस्वेन लक्षणत्वं सामानाधिकरण्यं भजते इति तात्पर्यम् । भाष्यवार्तिकतात्पर्याद्यनुसारिणी चैषा सूत्रव्याख्या। अपरा तु व्याख्या स्पष्ट- तरा प्रतिभाति । “साध्येन' धर्मेणानित्यत्वेन 'साधर्म्यात् ' साधारण्यात् सामाना- धिकरण्यात्-साध्यसमानाधिकरणं धर्मान्तरमुत्पत्तिधर्मकत्वमवलम्ब्य-' तद्धर्मभावी साध्यधर्मवान् ‘दृष्टान्त उदाहरणम्' इति । धर्मिरूपस्य दृष्टान्तस्य धर्मरूपेण साध्येन साधासम्भवादेवैतव्याख्यानं परित्यक्तमाचार्यैरिति प्रतिभाति । किन्तु भाष्य एवान उक्तमुपलभ्यते यदत्र साधर्म्यपदेन “एकस्मिन् द्वयोधर्मयोर्व्यवस्थानमेव विव- क्षितम् न च सादृश्यमेव । तथा चापेक्षितं सामानाधिकरण्यं कृतकत्वानित्यत्वयोदृष्टान्ते सिद्धमेव । आचार्यदेशीयानामत्र दृष्टान्तलक्षणसूत्रे नानापाठकल्पनं तद्रूषणमार्षस्यैव लक्षणस्य व्यवस्थापनं च वार्तिका दनुसन्धेयम् ।।

४८ खद्योतसहितन्यायसूत्रभाष्ये [अ०१,आ० १ सू०३७ - 3 । वा धर्म:-शब्दस्यानित्यत्वं, धर्मविशिष्टो वा धर्मी-अनित्यः शब्द इति इहोत्तरं तद्ग्रहणेन गृह्यत इति । कस्मात् ? पृथग्धर्मवचात् । तस्य धर्मस्तद्धर्मस्तस्स भावन्तद्धर्मभावः-स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधात्तद्धर्म भावी भवति, स चोदाहरणमिष्यते । तंत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् तञ्च भूत्वा न भवति, आत्मानं जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्मकल साधनमनित्यत्वं साध्यम् । सोऽयमेकस्मिन्द्वयोर्धर्मयोः साध्यसाधनभाव साधाब्यवस्थित उपलभ्यते । तं दृष्टान्तं उपलभमान: शब्देऽप्यनुमिनोति- शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदिति । उदाहियतेऽनेन धर्मयो साध्यसाधनभाव इत्युदाहरणम् ॥ ३६ ॥ तद्विपर्ययाद्वा विपरीतम् ॥ ३७ ।। दृष्टान्त उदाहरणमिति प्रकृतम् । साध्यवैधादतद्धर्मभावी दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्पत्तिधर्मकत्वात् । अनुत्पत्तिधर्मकं नित्यमा त्मादि । सोऽयमात्मादिष्टान्तः । साध्यवैधादनुत्पत्तिधर्मकत्वादतद्धर्मभाव योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन् न भवतीति । अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मत्वस्याभावाद नित्यत्वं न भवतीति उपलभमानः शब्दे विपर्ययमनु मिनोति-उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति । साधम्र्योक्तस्य हेतोः साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् । वैधोक्तस्य हेतोः साध्यवैधादतद्धर्मभावी दृष्टान्त उदाहरणम् । पूर्वस्मिन १ इहोत्तरमिति । धर्मविशिष्टो धर्मीत्यर्थः । २ पृथगिति । यस्मात् धर्मः पृथगेव धर्मशब्देनोक्तोऽतो न स एव तत्पदेनापि व्यपदेष्टुं शक्यते । ३ तत्रेति । शब्दोऽनिस्य उत्पत्तिधर्मकत्वादित्यस्मिन्ननुमाने । ४ 'न भवती 'त्यस्य व्याख्यानमात्मानं जहातीति निरुध्यत इति च । ५ तद्विपर्ययादिति । अत्र वा शब्दः समुच्चये वेदितव्यः । ६ अनित्यः शब्द इति । अत्र भाष्यकारेणान्वयव्यतिरेकी पूर्वसूत्रोदाहृतोप्यु- दाहृतः, साधनधर्माभावप्रयुक्तत्वं च साध्यधर्माभावस्योक्तम् । तच्चायुक्तम् । अन्वय व्यतिरेकिणि हेतौ सत्यपि वैधयें साधोदाहरणमेवोचितम् , तत्र तत्पूर्वकत्वादेव वैधर्म्यप्रतीतेः । ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगादित्यादि भाप्योक्तोदा. हरणेऽरुचिं प्रदर्य तात्पर्यकारेणोदाहरणान्तरं प्रदर्शितम् । तद्यथा जीवच्छरीरं न निरा. अप्राणित्वप्रसङ्गात्-घटादिवदिति । .. . स्मकम् , ४८ खद्योतसहितन्यायसूत्रभाष्ये [अ०१,आ० १ सू०३७ - 3 । वा धर्म:-शब्दस्यानित्यत्वं, धर्मविशिष्टो वा धर्मी-अनित्यः शब्द इति इहोत्तरं तद्ग्रहणेन गृह्यत इति । कस्मात् ? पृथग्धर्मवचात् । तस्य धर्मस्तद्धर्मस्तस्स भावन्तद्धर्मभावः-स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधात्तद्धर्म भावी भवति, स चोदाहरणमिष्यते । तंत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् तञ्च भूत्वा न भवति, आत्मानं जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्मकल साधनमनित्यत्वं साध्यम् । सोऽयमेकस्मिन्द्वयोर्धर्मयोः साध्यसाधनभाव साधाब्यवस्थित उपलभ्यते । तं दृष्टान्तं उपलभमान: शब्देऽप्यनुमिनोति- शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदिति । उदाहियतेऽनेन धर्मयो साध्यसाधनभाव इत्युदाहरणम् ॥ ३६ ॥ तद्विपर्ययाद्वा विपरीतम् ॥ ३७ ।। दृष्टान्त उदाहरणमिति प्रकृतम् । साध्यवैधादतद्धर्मभावी दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्पत्तिधर्मकत्वात् । अनुत्पत्तिधर्मकं नित्यमा त्मादि । सोऽयमात्मादिष्टान्तः । साध्यवैधादनुत्पत्तिधर्मकत्वादतद्धर्मभाव योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन् न भवतीति । अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मत्वस्याभावाद नित्यत्वं न भवतीति उपलभमानः शब्दे विपर्ययमनु मिनोति-उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति । साधम्र्योक्तस्य हेतोः साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् । वैधोक्तस्य हेतोः साध्यवैधादतद्धर्मभावी दृष्टान्त उदाहरणम् । पूर्वस्मिन १ इहोत्तरमिति । धर्मविशिष्टो धर्मीत्यर्थः । २ पृथगिति । यस्मात् धर्मः पृथगेव धर्मशब्देनोक्तोऽतो न स एव तत्पदेनापि व्यपदेष्टुं शक्यते । ३ तत्रेति । शब्दोऽनिस्य उत्पत्तिधर्मकत्वादित्यस्मिन्ननुमाने । ४ 'न भवती 'त्यस्य व्याख्यानमात्मानं जहातीति निरुध्यत इति च । ५ तद्विपर्ययादिति । अत्र वा शब्दः समुच्चये वेदितव्यः । ६ अनित्यः शब्द इति । अत्र भाष्यकारेणान्वयव्यतिरेकी पूर्वसूत्रोदाहृतोप्यु- दाहृतः, साधनधर्माभावप्रयुक्तत्वं च साध्यधर्माभावस्योक्तम् । तच्चायुक्तम् । अन्वय व्यतिरेकिणि हेतौ सत्यपि वैधयें साधोदाहरणमेवोचितम् , तत्र तत्पूर्वकत्वादेव वैधर्म्यप्रतीतेः । ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगादित्यादि भाप्योक्तोदा. हरणेऽरुचिं प्रदर्य तात्पर्यकारेणोदाहरणान्तरं प्रदर्शितम् । तद्यथा जीवच्छरीरं न निरा. अप्राणित्वप्रसङ्गात्-घटादिवदिति । .. . स्मकम् , स्वद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०१ सू०३९- ७ साधोक्ते वा वैधयोक्ते वा यथोदाहरणमुपसंह्रियते तस्मादुत्पत्ति- धर्मकत्वादनित्यः शब्द इति निगमनम् । निगम्यन्ते अनेनेति प्रतिज्ञाहेतूदाहर- णोपनया एकत्रेति निगमनम् । निगम्यन्ते-समर्थ्यन्ते-सम्बध्यन्ते । तत्र साधोक्ते तावद्धेतौ वाक्यमनित्यः शब्द इति प्रतिज्ञा, उत्पत्ति- धर्मकत्वादिति हेतुः, उत्पत्तिधर्मकं स्थाल्यादिद्रव्यमनित्यमित्युदाहरणम् , तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः, तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । वैधयोक्तेऽपि-अनित्यः शब्द उत्पत्तिधर्मकत्वात् , अनुत्पत्तिधर्मक- मात्मादि द्रव्यं नित्यं दृष्टम् , न च तथानुत्पत्तिधर्मकः शब्दः, तस्मादुत्पत्ति- धर्मकत्वादनित्यः शब्द इति । अवयवसमुदाये च वाक्ये संम्भूयेतरेतराभिसम्बन्धात्प्रमाणान्यर्थान साधयन्तीति ! सम्भवस्तावत्-शब्दविषया प्रतिज्ञा । आप्तोपदेशस्य प्रत्यक्षानु- मानाभ्यां प्रतिसन्धानादनृषेश्च स्वातन्त्र्यानुपपत्तेः । अनुमानं हेतुः उदाहरणे , रूपेषु हेतोरविनाभावः परिसमाप्यते । तस्मात् अबाधितत्वासत्प्रतिपक्षितत्वरूप- द्वयसंसूचनाय निगमनमपेक्षितम्। अन्यथा बाधने सत्प्रतिपक्षे वा साध्याविपरीतप्रसङ्गः स्यादिति । सोऽयं प्रसङ्गः प्रतिज्ञाविषयस्यार्थस्याशेपप्रमाणमूलावयवोपपत्तौ सत्यां प्रतिज्ञेयस्यार्थस्य सिद्धतया पुनर्वचनेन निगमनेन प्रतिषिध्यते । न च प्रतिज्ञावचनादेव तत्सिद्धिः, तस्य साध्यपरत्वात् । १ साधम्योक्ते वा वैधयोक्त इति । साधर्म्यानुसारेण वैधानुसारेण वा हेतावुक्ते सतीत्यर्थः । २ सम्भूयेति । अनुमानवाक्येऽनेकप्रमाणानि 'सम्भवन्ति' समेत्य भवन्ति- सम्मिलन्तीति यावत् । अथ च इतरेतरमभिसम्बद्धा भवन्ति । ३ सम्भवेतरेतराभिसम्बन्धयोः प्रथमं सम्भवं प्रदर्शयति-सम्भव इति । 'समेत्य भवः' सम्भवः-संमिश्रणमिति यावत् । ४ शब्देति । प्रतिज्ञावाक्यं शाब्दप्रमाणस्वभावमनुभवति । ननु प्रतिज्ञा यदि शाब्दं प्रमाणरूपं कथं तर्हि तत्रानुमानवाक्येन साधनापेक्षेतेत्यत आह आप्तोपदेश- स्येति । ' अनृषेश्वाप्तोपदेशस्य स्वातन्त्र्यानुपपत्तेः प्रत्यक्षानुमानाभ्यां प्रतिसन्धाना- दिति' सम्बन्धः। य आप्तोपदेशः साक्षादृषिमुखान श्रूयते तत्र स्वतन्त्रं प्रामाण्यं नास्ति, तादृशस्य च साधकत्वेन प्रत्यक्षानुमानयोरस्त्येवापेक्षेति भावः । ५ अनुमानं हेतुरिति। साध्यसाधनयोर्व्याप्तिमुदाहरणे दृष्दैव हेतोहेतुत्वनिश्चयः। उदाहरणे सादृश्यप्रतिपत्तेरनुमानं हेतुरिति ' सम्बन्धः ।

----सू. ३९ ] प्रथमाध्याये प्रथमाह्निके एकोनचत्वारिंशत्तमं सूत्रम् ५१ । सादृश्यप्रतिपत्तेः । तचोदाहरणभाष्ये व्याख्यातम् । प्रत्यक्षविषयमुदाहरणम् , दृष्टेनादृष्टसिद्धेः । उपमानमुपनयः, तथेत्युपसंहारान् , न च तथेति चोपमान- धर्मप्रतिषेधे विपरीतधर्मोपसंहारसिद्धेः । सर्वेषामेकार्थप्रतिपत्तौ सामर्थप्रदर्शनं निगमनमिति । इतरेतराभिसम्बन्धोऽपि । असत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्तेरन् । असति हेतौ कस्य साधनभावः प्रदर्येत । उदाहरणे साध्ये च कस्योपसंहारः स्यात्कस्य चापदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनं स्यादिति । असत्युदाहरणे केन साधर्म्य वैधयं वा साध्यसाधनमुपादीयेत कस्य वा साधर्म्यवशादुपसंहारः प्रवर्तेत । उपनयं चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थं साधयेत् । निगमनाभावे चानभिव्यक्तसम्बन्धानां प्रतिज्ञादीना- मेकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्यति । अंधावयवार्थः । साध्यस्य धर्मस्य धर्मिणा सम्बन्धोपादानं प्रतिज्ञार्थः । उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः। १ तञ्चेति । सोऽयमेकस्मिन्द्वयोर्धर्मयोः साध्यसाधनभावः साधाद् व्यवस्थित उपलभ्यते, तं दृष्टान्त उपलभमानः शब्देऽप्यनुमिनोतीति' पत्रिंशत्सूत्रमाप्यवाक्य- स्यानुसन्धानमत्र विवक्षितम् । २ दृष्टेनेति । दृष्टेन (प्रत्यक्षेण उदाहरणेन ) अदृष्टस्य (निगमनस्य) सिद्धे सुप्रसिद्धत्वादिति शेषः । ३ तथेत्युपसंहारादिति। 'यथा दृष्टान्तो हेतुप्रतिबद्धस्तथा पक्षोऽपीति' उप- मानवाक्यमन्वयिन्यनुमाने । ४ न च तथेतीति-उपमानवाक्यस्वरूपं व्यतिरेकिण्यनुमाने । ५ सर्वेषामिति। निगमनवाक्यं सकलोक्तप्रमाणसंप्लवसाधितमर्थं निरूपयति प्रतिज्ञादीनामुपनयान्तानाम् ‘एकोऽर्थः ' स्वभावप्रतिबद्धं लिङ्ग वा अनुमेयं वा- तस्थ प्रतिपत्तिः, तस्यां सामर्थ्यप्रदर्शनं' निगमनमिति । तदननैकार्थत्वं दर्शितम् ॥ ६ प्रमाणानामनुमानवाक्येति 'सम्भवं'–सम्भूयकारित्वं-प्रदाधुना तेषा- मितरेतराभिसम्बन्धं प्रदर्शयति-इतरेतराभिसम्बन्धोऽपीति । अस्तीति शेषः। द्विविध- मनुमानवाक्यप्रयोजनम् । तत्रावान्तरं स्वभावप्रतिबद्धलिङ्गप्रतीतिः, परमं च साध्य- प्रतीतिरिति । सम्प्रति विभागे साकाङ्क्षत्वं दर्शयति । ७ अथावयवार्थ इति । अवयवानां प्रातिस्विकमुक्तमपि प्रयोजनं शिष्यहिततया भाष्यकारः प्रतिपादयति । - न खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ० १ सू०४०- धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्रोदाहरणार्थः । साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः । उदाहरणस्थयोधर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम् । चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधाभ्यां प्रत्यवस्था- नस्य विकल्पाज्जातिनिग्रहस्थानबहुत्वं प्रक्रमते । अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते । व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वे- नोपादानम् , न साधर्म्यमात्रस्य न वैधय॑मात्रस्य वेति ।। ३९ ॥ इति न्यायस्वरूपप्रकरणम् ॥ ७, न्यायोत्तराङ्गलक्षणप्रकरणम् । अंत उर्ध्वं तर्को लक्षणीय इति । अथेदमुच्यते- अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ।। ४० ॥ १ निगमनमिति । साधने प्रतिपक्षे वा साध्यविपरीतप्रसङ्गः स्यादिति सोऽयं प्रतिज्ञाविषयस्यार्थस्याशेषप्रमाणमूलावयवोपपत्तौ सत्यां प्रतिज्ञेयार्थस्य सिद्धतया पुनर्वचनेन निगमनेन प्रतिबध्यते । न च प्रतिज्ञावचनादेव तत्सिद्धम् । प्रतिज्ञा ह्यवयवान्तरसाधनसापेक्षा सन्दिग्धप्रायमेवार्थमुपन्यस्यति । निगमनं पुनस्सकलाव- यवसाधितं निस्संशयमेवार्थ सिद्धस्वरूपं व्यनक्तीति महान् भेदः । २ अत इति । अवयवानन्तरं तर्कस्यैवोद्देशः, प्रतिपक्षनिराकरणेन चानुमान- स्योपोदलकश्चायमतोधुनाऽयमेव क्रमप्राप्त इति । ३ अविज्ञातेत्यादि सूत्रम् । यस्यां प्रतिज्ञायां प्रमाणं प्रवर्तितुमुद्यतं तद्विपर्यया- शङ्कायां तावन्न प्रवर्तते न यावदनिष्टापत्त्या विपर्ययाशङ्काऽपनीयते । तदपनय एव स्वविषये प्रमाणस्य 'सम्भव' इति ' उपपत्तिः' इति चाख्यायते। यदि लाघवा- दरेण--' उहस्तर्कः' अथवा ' तत्त्वज्ञानार्थमूहस्तर्कः' इत्येतावन्मात्रमेव तर्कलक्षण- मुच्येत, ततो विज्ञाततत्त्वेऽपि यदा पूर्वानुभवपरिच्छेदात्मक ऊहः क्रियते सोऽपि ' तर्कः ' स्यात् । तन्निवारणार्थं 'अविज्ञाततत्वे'-इति निवेशितम् । लक्षणेनानेन समानजातीयात् संशयादेरसमानजातीयाच्चेच्छादेर्व्यवच्छेदस्तर्कस्य । यद्यपि संशय- जिज्ञासे अप्यविज्ञाततत्वेऽर्थे प्रवर्तेते तथाऽपि न कारणोपपत्तित इति तयोर्व्य- वच्छेदः । ४ कारणोपपत्तित इत्यत्र कारणोपपत्येति भाष्यसम्मतः पाठः प्रतिभाति । कारणोपपत्तिस्ततः ' इति च पाठान्तरम् । ..

----सू. ४०] प्रथमाध्याये प्रथमाह्निके चत्वारिंशत्तमं सूत्रम् अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते-जानीयेममर्थमिति । अथ जिज्ञासितस्य वस्तुनो व्याहतौ धौं विभागेन विमृशति-किंस्विदिस्थमाहो- स्विन्नेत्थमिति । विमृश्यमानयोधर्मयोरेकं कारणोपपत्त्याऽनुजानाति-सम्भव- त्यस्मिन् कारणं प्रमाण हेतुरिति-कारणोपपत्त्या स्यादेवमेतन्नेतरदिति । तत्र निदर्शनम् । योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते तं तच्चतो जानीयेति जिज्ञासते । स किमुत्पत्तिधर्मकोनुत्पत्तिधर्मक इति विमर्शः । विमृश्यमानेऽविज्ञा- ततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति । यद्ययमनुत्पत्ति- धर्मकः ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता । दुःखजन्मप्रवृत्तिदोष- मिथ्याज्ञानानामुत्तरमुत्तर पूर्वस्य पूर्वस्य कारणमुत्तरोत्तरापाये तदनन्तराभावाद- पवर्ग इति स्यातां संसारापवौं । उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम् । उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् । उत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति । तदेवमेकस्यानेकशरीरयोगः शरीरवियोग- श्चात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति तन्नानुजानाति । सोऽयमेवलक्षण उहस्तर्क इत्युच्यते । १ अविज्ञातेति न विशेषेण ज्ञातं '-सामान्यतो ज्ञातमिति यावत् । तथा च वार्तिकम्-'यस्मादयमाहाविज्ञाततत्त्व इति तेन ज्ञापयति सामान्यमवगतमिति । यदि पुनः सामान्यमपि नाधिगतं स्यान्न ब्रूयादविज्ञाततत्व इति-अविज्ञात इत्येवं ब्रूयादिति । २ विमृशतीति । जिज्ञासापश्चाद्भावी संशयोऽत्र विवक्षितः । तर्केण तावद्द्वयोः पक्षयोरेकतरनिषेधेनैकतरः प्रमाणविषयतयाऽभ्यनुज्ञातव्य इति विषयप्रत्यासत्या तर्क- प्रवृत्तिं प्रति साक्षादङ्गता संशयस्येत्यत्र सूचितम् । ३ कारणोपपस्येति। 'कारणस्य' प्रमाणस्य ' उपपत्त्या' इतिकर्तव्यतया विषये विशोधिते प्रमाणमप्रत्यूहं प्रवर्तते । उपपत्तेश्च स्वतन्त्राया आश्रयासिद्धतया न निश्चायकत्वं सम्भवति। ४ यद्ययमित्यादि । यद्ययमनुत्पत्तिधर्मकः तदैव कर्मणः फलमनुभवति, तदैव च दुःखेत्याद्यपवर्ग इत्यन्ते वाक्ये यावुक्तौ संसारापवर्गों तौ स्यातामिति सम्बन्धः । ५ तन्नानुजानातीत्ययमेव पाठस्तास्पर्यसम्मतः प्राचीनपुस्तके धृतश्च ।

" खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ० १ सू०४१ कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति ?" अनवधारणात्। अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या, न त्ववधा यति, न व्यवस्थति, न निश्चिनोति "एवमेवेदमिति” । कथं तत्त्वज्ञानार्थ इति ? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहाभांवितात्प्रसन्नादनन्तरं प्रमाणस मर्थ्यात्तत्त्वज्ञानमुत्पद्यत इत्येवं तत्त्वज्ञानार्थ इति । सोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाण सहितो वादेऽपदिष्ट इति । अविज्ञाततत्त्वमनुजानाति-यथा सोऽर्थो भवति तस्य तथाभावस्त त्त्वमविपर्ययो याथातथ्यम् ॥ ४०॥ एतस्मिंश्च तर्कविषये- विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥४१॥ १ १ कथमिति । यदि 'एवमेतन्नेतरत्' इत्येवमाकारस्तर्कस्य तद्ययं तत्त्वज्ञानमेव न पुनस्तत्वज्ञानार्थ इत्यर्थः । २ न निश्चिनोतीति। निश्चयरूपं च तत्त्वज्ञानमिति । अवधारयतीत्याद्यनेकपर्या- यैस्तर्कस्य निश्चयादत्यन्तभेद उक्तः। ३ तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहाद् भावितादिति पाठस्तात्पर्यसम्मतः प्राचीनपुस्तके धृतश्च । ' लक्षणानुग्रहभावितात्' 'लक्षणानुग्रहोद्भावितात्' इति च पाठान्तरे। तत्र तु भावितात् '-' प्रसन्नात् '-इतिविशेषणयोर्विशेष्यस्याभावात्पूर्व एव पाठः सम्यक् । ४ भावितादिति । चिन्तितात् । 'प्रसन्नात्' निर्मलात अबाधितादिति यावत् । प्रमाणसामर्थ्यादिति तर्कस्य स्वातन्त्र्यमपाकरोति । ५ ननु यदि तत्त्वनिश्चयसाधनं प्रमाणमेव, न तर्कः, किमर्थं तर्हि वादेऽस्य समावेशः प्रमाणतर्कसाधनोपलम्भ इत्यादिसूत्रोक्त इत्यत आह सोऽयमिति । प्रमाण- विषयविपर्ययशङ्काविघटितानि प्रमाणानि यत उपोद्वलयति तर्कस्तत एवास्य प्रमाणेन सह सन्निवेशो वाद इति भावः। तथाभाव' इति वार्तिकसम्मतः पाठः। 'यथाभाव' इति पाठान्तरम् । ६ विमृश्येत्यादि सूत्रम् । पक्षाच्च प्रतिपक्षाच्चेति पक्षप्रतिपक्षाभ्याम् । पक्षशब्देन पक्षविषयं साधनमुच्यते, प्रतिपक्षशब्देन च पक्षविषयस्य साधनस्योपालग्भः। अस्य चोपालम्भस्य निर्णय प्रति कारणता पारम्पर्येणेत्यादि वार्तिके स्पष्टम् ।

----सू. ४१] प्रथमाध्याये प्रथमाह्निके एकचत्वारिंशत्तमं सूत्रम् स्थापना साधनं, प्रतिषेध उपालम्भः । तौ साधनोपालम्भौ पक्षप्रति- पक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावित्युच्यते। तयोरन्य- तरस्य निवृत्तिः एकतरस्यावस्थानमवश्यम्भावि । यस्यावस्थानं तस्यावधारणं निर्णयः। " 'नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति । एको हि प्रतिज्ञात- मर्थं हेतुत: स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य । द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश्चोद्भियते । स निवर्तते । तस्य निवृत्ती योऽवतिष्ठते तेनार्थावधारणं निर्णयः इति । " उभाभ्यामेवार्थावधारणमित्याह । कया युक्त्या ? एकस्य सम्भवो द्वितीयस्थासम्भवः । तावेतौ सम्भवासम्भवौ विमर्श सह निवर्तयतः उभयसम्भवे । उभयासम्भवे त्वनिवृत्तो विमर्श इति । विमृश्येति विमर्श कृत्वा । सोऽयं विमर्शः पक्षप्रतिपक्षाववद्योत्य न्यायं प्रवर्तयतीत्युपादीयत इति । एतच्च विरुद्धयोरेकधर्मिस्थयोर्बोद्धव्यम् । यत्र तु धर्मि- सामन्यगतौ विरुद्धौ धौ हेतुतः सम्भवतस्तत्र समुच्चयः। हेतुतोऽर्थस्य तथाभावोपपत्तेः । यथा क्रियावद् द्रव्यमिति लक्षणवचने यस्य द्रव्यस्य १ अत्र, पक्षप्रतिपक्षप्रयोगाद् 'वादे संशयोऽस्ति' इति भ्रान्या चोदयति नेदमिति । (१) वादी प्रतिज्ञातमर्थं हेतुतः स्थापयति । तदनन्तरं 'द्वितीयस्य प्रतिवादिनः-'प्रतिषिद्धं' प्रतिषेधं वाद्युक्तस्य हेतोर्दूषणम्-'उद्धरति' दूषणाभासीक- रोति । (२) ततो ' द्वितीयेन ' प्रतिवादिना वाद्युक्तस्य हेतोः स्थापनहेतुत्वं प्रतिषि- ध्यते । 'तस्यैव' वादिनः प्रतिवाद्युक्तदूषणप्रतिषेधहेतुश्च प्रतिवादिनैव — उद्रियते' । 'सः' वादिनो वा प्रतिवादिनो वा हेतुश्चोपालम्भश्च-निवर्तते ' । तस्मिन्निवृत्ते योऽवतिष्टते तेनैव निर्णयः । अवस्थातुं च शक्नोत्येक एव, न द्वावपि । ततश्चैकेनैव पक्षेणैव प्रतिपक्षेणैव वा निर्णयो, न द्वाभ्याम् । अतो न युक्तं पक्षप्रतिपक्षाभ्यामिति वक्तुम् । इति चोदकस्य हृदयम् । २ अभ्युपेत्य परिहरति उभाभ्यामिति । वादिनः साधनस्य 'सम्भवः' प्रति- वादिन उपालम्भस्य ' असम्भवः' । तावेतौ सम्भवासम्भवौ 'सह' मिलित्वैव 'विमर्श' संशयं 'निवर्तयतः', न प्रत्येकमिति । ३ विमृश्येतीति-सूत्रे विमृश्येतिपदस्य प्रयोजनमाह । ४ अवद्योत्येति । नियमेन विषयीकृत्येत्यर्थः । , खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० १ सू० ४ , यथ क्रियायोगो हेतुतः सम्भवति तत् क्रियावत् , यस्य न सम्भवति तदक्रियमिति एकधर्मिस्थयोश्च विरुद्धयोधर्मयोरयुगपद्भाविनोः कालविकल्पः । तदेव द्रव्यं क्रियायुक्तं क्रियावत् , अनुत्पन्नोपरतक्रिय पुनरक्रियमिति । ने चायं निर्णये नियमः विमृश्यैव पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति । किन्तु इन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति । परीक्षा- विषये तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः। शास्त्रे वादे च विमर्शवर्जम् ।। ४१ ॥ इति न्यायोत्तराङ्गप्रकरणम् । इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम् । १ अनुत्पन्नोपरतक्रियमिति । अनुत्पन्नक्रियम् उपरतक्रियं वा । २ न चेति । न निर्णयमात्रस्येदं लक्षणमपि तु परीक्षाविषयस्यैवेत्यर्थः । ३ इन्द्रियार्थेति । प्रत्यक्षविषये 'अर्थावधारणं निर्णय' इत्येतावन्मात्रमेव निर्णय- लक्षणम् । ४ शास्त्र इति । ज्योतिष्टोमादीनां स्वर्गादिसम्बन्धनिर्णये आगमेन कर्तव्ये विमर्शो नास्ति । नापि वादजल्पवितण्डासु, निश्चितयोरेव वादिप्रतिवादिनोस्तत्र प्रवृत्तः । उपलक्षणं चैतत् । स्वार्थानुमानेपि न विमर्शाद्यपेक्षा। इति महामहोपाध्यायश्रीगङ्गानाथशर्मसगृहीते खद्योते प्रथमाहिकप्रसादः ॥

द्वितीयाह्निकम् १ कथाप्रकरणम् ॥ तिस्रः कथा भवन्ति वादो जल्पो वितण्डा चेति । तासाम्- प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष- प्रतिपक्षपरिग्रहो वादः । १॥ एकाधिकरणस्थौ विरुद्धौ धौ ‘पक्षप्रतिपक्षौ' प्रत्यनीकभावात् । अस्त्यात्मा नास्त्यात्मेति । नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ । यथा नित्य आत्मा अनित्या बुद्धिरिति । 'परिग्रहो'ऽभ्युपगमव्यवस्था । सोऽयं पक्षप्रति- पक्षपरिग्रहो' वादः । तस्य विशेषणं प्रमाणतर्कसाधनोपालम्भः । प्रमाणतर्कसाधनः प्रमाण- तर्कोपालम्भः । प्रमाणैस्तर्केण च साधनमुपालम्भश्चास्मिन् क्रियत इति । साधनं ' स्थापना । ' उपालम्भ:' प्रतिषेधः । तौ साधनोपालम्भौ उभयोरपि पक्षयोर्व्यतिषक्तावनुबद्धौ च । यावदेको निवृत्त एकतरो व्यवस्थित इति । निवृत्तस्योपालम्भो व्यवस्थितस्य साधनमिति । जल्पे निग्रहस्थानविनियोगाद्वादे तत्प्रतिषेधः । कस्यचिदभ्यनुज्ञानार्थं 'सिद्धान्ताविरुद्ध' इति वचनम्। सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' (१, २ १ तिस्रः कथा इति । निर्णयानुकूलतया यद्यपि प्रथमाह्निक एव वादः प्राप्त स्तथाऽपि कथान्तर्गततयाऽत्रास्य लक्षणम् । नानाप्रवक्तृकत्वे सति तद्विचारवस्तु. विषया वाक्यसन्दृब्धिः कथा। तस्यां कथायामेष नियमस्तिस्र इति । इदं च पक्षप्रति- पक्षपरिग्रह इति सूत्रावयवेन सूचितम् । गुर्वादिभिः सह बादः, विजिगीषुणा सह जल्पवितण्डे इति विवेकः । २ प्रमाणतर्कसाधनोपालम्भ इति मध्यमपदलोपी समासः। प्रमाणतर्कसाधनं प्रमाणतर्कसाधनोपालंभश्वेत्यर्थः । ३ यद्यपि वितण्डायामपि पक्षप्रतिपक्षपरिग्रहोऽस्ति तथापि प्रतिपक्षसाधनं नास्ति, तस्याः साधनहीनत्वात् । यद्यपि जल्पेऽपि पक्षप्रतिपक्षसाधनमस्ति तथाऽपि न प्रमाणमूलैरवयवैस्तर्केण च साधनोपालम्भाविति जल्पवितण्डाभ्यां ‘प्रमाणतर्क- साधनोपालम्भ ' ग्रहणेन व्यवच्छेदः । प्रमाणैरेव यत्र साधनं तरेव च यत्रोपालम्भ इत्यर्थः कैश्चिद्वर्णितो न सम्यक् । ४ तत्प्रतिषेध इति । वादिना प्रतिवादिना वा नोपन्यसनीयानीत्यर्थः । न हिंस्यात् सर्वाभूतानीतिवद् वादे सर्वनिग्रहस्थानप्रतिषेधे, अग्नीषोमीयं पशुमालभेतेतिवद् .. १ खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ०२ सू०१- , ४७) इति हेत्वाभासस्य निग्रहस्थानस्यानुज्ञा वादे । पञ्चावयवोपपन्न इति 'हीनमन्यतमेनाप्यवयवेन न्यूनम् हेतूदाहरणाधिकमधिकम् (५, २, १२।१३) इति चैतयोरभ्यनुज्ञानार्थमिति । अवयवेषु प्रमाणतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भ- व्यतिषङ्गज्ञापनार्थम् । अन्यथोभावपि पक्षौ स्थापनाप्रवृत्तौ वाद इति स्यात् । अन्तरेणापि चावयवसम्बन्धं प्रमाणान्यर्थं साधयन्तीति दृष्टम् । तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति । 'छलजातिनिग्रहस्थान- साधनोपालम्भो जल्प' इति वचनाद्विनिग्रहो जल्प इति मा विज्ञायि, छल- निग्रहस्थानसाधनोपालम्भ एव जल्पः प्रमाणतर्कसाधनोपालम्भो वाद एवेति मा विज्ञायि-इत्येवमर्थं पृथक् प्रमाणतर्कग्रहणमिति ॥ १ ॥ सिद्धान्ताविरुद्ध इति विशेषविधिरित्यर्थः स्फुटः प्रतीयते भाप्यस्य । वार्तिककारस्तु रागतः सर्वपञ्चनखभक्षणप्राप्तिवत् उपालम्भग्रहणात् सर्वनिग्रहस्थानप्राप्ती, पञ्च पञ्च- नखा भक्ष्या इतिवत् परिसङ्ख्यानार्थ उत्तरपदारम्भ इत्याह । इह वादे चतुर्धा निग्रहस्थानगतिः । किञ्चिदसम्भावनीयमेव । यथा प्रतिज्ञा- हानिः प्रतिज्ञासंन्यासो निरर्थकमर्थान्तरमविज्ञातार्थमपार्थकमिति षट्कम् । किञ्चित् सम्भवदप्यनुद्भाव्यम् । यथा प्रतिज्ञान्तरं हेत्वन्तरमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमिति सप्तकम् । किञ्चिच्च कथावसानिकम् । यथा हेवाभासो निर- नुयोज्यानुयोगश्चेति द्वयम् । १ अवयवेग्विति । पूर्वस्मिन् प्रयोजने स्थिते भाष्यकारः प्रयोजनान्तरमन्वा- चिनोति । यद्यपि प्रमाणं तदनुग्राहकं च तर्कमन्तरेण पञ्चावयवोपपन्नं न भवति, तथा च पञ्चावयवोपपन्नमित्यनेनैव प्रमाणतकयोराक्षेपः, तथापि अन्नयोः प्रतिपदो क्यैतत्सूच्यते यत् वादिप्रतिवाद्युपन्यस्तानि साधनोपालम्भवाक्यानि परस्परसंबद्धानि भवेयुरिति । अन्यथा यत्र वादी स्वस्थानस्थित एव प्रतिवाद्युक्तिनिरपेक्षः शब्दा- नित्यत्वं साधयति-प्रतिवादी व तदुक्तनिरपेक्ष एव शब्दनित्यत्वसाधकानि वाक्यानि प्रयुङ्क्ते सोऽपि वादः स्यात् । २ अन्तरेणापीति प्रयोजनान्तरमन्वाचिनोति । ३ प्रमाणतर्केत्यादिविशेषणस्य प्रयोजनान्तरमन्वाचिनोति छलजातीति । ४ विनिग्रह इति । वादगतनिग्रहस्थानरहित इत्यर्थः । ५ पृथक् प्रमाणेति । 'वादगतो निग्रहो न जल्पे, जल्पगतश्च निग्रहो न वादे इति मा विज्ञायि । इष्यते हि वादगतो निग्रहो जल्पे। सोऽयमिष्टोऽर्थों प्रमाणतर्क- ग्रहणाल्लभ्यते। .

--सू. २ प्रथमाध्याये द्वितीयाह्निके द्वितीयं सूत्रम् ५९ ७ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प ॥२॥ 'यथोक्तोपपन्न' इति प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चा- वयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः । छलजातिनिग्रहस्थानसाधनोपालम्भ' इति । छलजातिनिग्रहस्थानः साधनमुपालम्भश्चास्मिन् क्रियत इति एवंविशेषणो जल्पः । न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य सम्भवति । प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते-'वचनविघातोऽर्थ- विकल्पोपपत्त्या छलम्' इति, साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः', विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ' (१।२। ५६-५९-६०) इति । विशेषलक्षणेष्वपि यथास्वमिति । न चैतद्विजानीयात्प्रतिषेधार्थतयैवार्थ साधय- न्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्येवमप्युच्यमाने विज्ञायत एतदिति ।" प्रेमाणैः साधनोपालम्भयोश्छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्ष- रक्षणार्थत्वात् । न स्वतन्त्राणां साधनभावः । यत्तत्प्रमाणैरर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानामङ्गभावः, स्वपक्षरक्षणार्थत्वात् । तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्ति । तथा चोक्तं ध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् (४, २, ५) इति । यश्चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस्तस्य चैतानि प्रयुज्य- मानानि प्रतिषेधविघातात्सहकारीणि भवन्ति । तदेवमङ्गीभूतानां छलादी- ५ यथोक्तोपपन्न इति विशेषणं समस्तं बादलक्षणमतिदिशतीति भाप्यमतम् । प्रमाणतर्कसाधनोपालम्भ इत्येतावन्मात्रमतिदिइट त इति वारिक मतम् । सिद्धान्ता- विरुद्धः ' 'पञ्चावयवोपपन्न ' इति पदद्वयं वादे नियमाथे एव, न च जल्पे नियन्तव्यं किञ्चिदस्तीत्येतदेव भाष्यमते वार्तिककारस्यारुचिबीजम् । २ शङ्कते न खल्वित्यादि। ३ परिहरति प्रमाणैरिति । अत्र भाष्यकारेण छलादीनां निषेधार्थतया साधनाङ्गभावमाक्षिप्य-परपक्षविघातेन स्वपक्षरक्षणादङ्गभाव इति दर्शितम्। अत्रापि वार्तिककारस्यारुचिः । अयुक्तोत्तराणां छलादीनां साधनाङ्गभावोऽप्यनुपपन्न एवेति तद्वीजम् । परकीयसाधनविघातार्थमेव छलादीनां प्रयोगो न स्वकीयसाधनाङ्गतयेत्याशयः।

खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०२ सू ०५ -- " नामुपादानं जल्पे, न स्वतन्त्राणां साधनभावः । उपालम्भे तु स्वातन्त्र्यमप्य- स्तीति ।। २ ॥ से प्रतिपक्षस्थापनाहानो वितण्डा ॥३॥ स जल्पो वितण्डा भवति । किविशेषणः ? प्रतिपक्षस्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धौ पक्षप्रतिपक्षावित्युक्तौ तयोरेकतर बैत- ण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्तत इति । अस्तु तर्हि प्रतिपक्षहीनो वितण्डा ।" यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्ष:, न त्वसौ साध्य कंचिदर्थं प्रतिज्ञाय स्थापयतीति । तस्माद्यथान्यासमेवास्त्विति ॥३।। इति कथाप्रकरणम् । २ हेत्वाभासप्रकरणम् । हेतुलक्षणाभावादहेतवो हेतुसामान्याद्धेतुवदाभासमानाः । त इमे- सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥४॥ तेषाम्-- अनैकान्तिकः सव्यभिचारः ॥ ५॥ - . , .4 १ स प्रतिपक्षेत्यादि सूत्रम् । पूर्ववादिपक्षापेक्षया प्रतिवादिन आत्मीयः पक्ष एव प्रतिपक्षः। । तस्य स्थापना ' साधनम् । तया 'हीनः'। २ परपक्षप्रतिषेधेनेति । परपक्षस्थापनाप्रतिषेधेनेत्यर्थः॥ ३ चोद्यभाष्यम्-अस्त्विति । स्थापनाया अभावे स्थाप्यः पक्षी नास्ति, न ह्यन्यथा (स्थापनां विना ) पक्षस्य पक्षत्वमिति । ततश्च प्रतिपक्षस्थापनाहीनेत्यनेन प्रतिपक्षहीनतैवोक्ता भवतीत्याशयः । ४ परिहरति यद्वै खल्विति । वैतण्डिकोऽपि हि वादी' पारिशेष्यात् मत्पक्ष एव सेत्स्यतीति' बुद्धया स्वपक्षमस्थापयन् परपक्षस्थापनामाहन्ति । तस्मात् परपक्षप्रतिषे- धकं वाक्यमेवास्य 'पक्ष' इत्यौपचारिको व्यपदेशः । पक्षत्वं चंद योग्यतामात्रेण, नतु स्थाप्यमानतयेति तात्पर्यम् । ५ समाख्यानिरुक्तिवशेन हेत्वाभासानां सामान्यलक्षण प्रतिपादयति हेविति । ६ 'एकस्य 'साध्यस्य साध्याभावस्य वा अन्ते' अधिकरणमात्रे यस्तिष्ठति स एकान्तः' । तदन्यः ‘अनेकान्तः'। इति विवरणकाराः।

प्रथमाध्याये द्वितीयाह्निके षष्ठं सूत्रम् woman . , , 'व्यभिचार एकत्राव्यवस्था। सह व्यभिचारेण वर्तते इति सव्यभिचारः। निदर्शनं-नित्यः शब्दोऽस्पर्शत्वात् , स्पर्शवान् कुम्भोऽनित्यो दृष्टो, न च तथा स्पर्शवान् शब्दः, तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते स्पर्शवत्त्वमनि- त्यत्वं च धर्मों ने साध्यसाधनभूतौ दृश्येते-स्पर्शवांश्चाणुनित्यश्चेति। आत्मादौ च दृष्टान्ते ' उदाहरणसाधात्साध्यसाधनं हेतुः' (१, १, ३४ ) इति अस्प- र्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति-अस्पर्शा बुद्धिरनित्या चेति । एवं द्विवि- धेऽपि दृष्टान्ते व्यभिचारात्साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति । नित्यत्वमप्येकोऽन्तः अनित्यत्वमप्येकोऽन्तः, एकस्मिन्नन्ते विद्यत इति ऐकान्तिकः, विपर्ययादनैकान्तिकः । उभयान्तव्यापकत्वादिति ॥ ५॥ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ ६॥ तं विरुणद्धीति तद्विरोधी-अभ्युपेतं सिद्धान्तं व्याहन्तीति । यथा- सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतोऽप्यस्ति विनाशप्रति- अत्र चानैकान्तिकलव्यभिचारशब्दौ पर्यायौ पुरुषभेदापेक्षया लक्ष्यलक्षणत्वेना- वस्थितौ । यस्य 'सव्यभिचार ' इति हेत्वाभासविशेषसंज्ञा तस्य सभ्यभिचारपदेन लक्ष्यनिर्देशोऽनैकान्तिकपदेन लक्षणम् । यस्य त्वनैकान्तिक इत्येव हेत्वाभासविशेषसंज्ञा तस्यानैकान्तिकपदेन लक्ष्यनिर्देशः सव्यभिचारपदेन लक्षणमिति विवेकः । १ सव्यभिचार इति लक्षणपदं कक्षीकृत्याह व्यभिचार इति । यत् खलु साध्ये साध्यजातीये तदन्यत्र च वर्तते तत् ' व्यभिचारि', तद्वृत्तित्वं ' व्यभिचारः' । २ न साध्येति । स्पर्शवत्त्वानित्यत्वयोर्मध्ये साध्यसाधनसम्बन्धो नास्ति । स्पर्शवत्त्वमनित्यत्वं न साधयति, न चानित्यत्वं स्पर्शवत्त्वमित्यर्थः । ३ नित्यत्वमिति । अनैकान्तिक इति लक्षणपदं कक्षीकृत्यैतत् । ४ एकस्मिन्निति । नित्ये (साध्ये ) अथ वा अनित्ये (साध्याभावे)। एकस्मिन्नेव अन्ते' यो नियतः स 'ऐकान्तिकः । तद्विपययात् 'अनैकान्तिकः अनियतः, अन्वयेन व्यतिरेकेण वोभयपक्षगामी (साध्यसाध्याभाववृत्तिः) इति भावः। न चैवंभूता अन्ये हेत्वाभासा इति भवति 'अनैकान्तिकत्वं' लक्षणम् । ५ व्याहन्तीति । असम्भवं करोतीत्यर्थः। ६ सोऽयमित्यादिवाक्यं योगसूत्रतृतीयपादगतत्रयोदशसूत्रभाष्यस्थम् । तत्रत्या. क्षराणि तु-' तदेतत् त्रैलोक्यं विकार' इत्यादीनि-यथा वार्तिके वृतानि । महदहङ्कार पञ्चतन्मात्रैकादशेन्द्रियभूतसूक्ष्ममहाभूतानि — विकारः । तस्य व्यक्तिः ' धर्म- लक्षणावस्थापरिणामः-तस्मात् ' अपैति'। .4 ७ . .

, ६२ खद्योतसाहितन्यायसूत्रभाष्ये [अ०१, आ०२ सू०७ - षेधान्' । 'न नित्यो विकार उपपद्यते' इत्येवं हेतुः 'व्यक्तेरपेतोऽपि विका- रोऽस्तीति'अनेन स्वसिद्धान्तेन विरुध्यते। कथम् ? 'व्यक्ति'रात्मलाभः । 'अपायः' प्रच्युतिः । यद्यात्मलाभात्प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्यते । यञ्चक्तेरपेतस्याविकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेरुपपत्तिः । यदात्मलाभात्प्रच्यवते तदनित्यं दृष्टम् । यदस्ति न तदात्मलाभात्प्रच्यवते। अस्तित्वं चात्मलाभात्प्रच्युतिरिति च विरुद्धावेतौ धौ न सह सम्भवत इति । सोऽयं हेतुर्य सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति ॥ ६॥ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः॥७॥ विमाधिष्टानो पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम् । 'चिन्ता' विमर्शात्प्रभृति प्राङ्निर्णयाद्यत्समीक्षणम् । सा जिज्ञासा यत्कृता निर्णयार्थ प्रयुक्त उभयपक्षसाम्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते । १ स १ न नित्य इति। एतदेव नित्यत्वप्रतिषेधात् ' इत्यनेन हेतुना सूचितम् । अपेतोऽप्यस्तीत्यनेन च नित्यत्वं सूचितम् । एवमनयोविरोधः । विरुद्धस्य हेत्वाभासस्य स्वरूपविषये प्राचीननवीनयोर्मतभेद इव दृश्यते । यो हेतुर्य कञ्चिदभ्युपगतं सिद्धान्तं व्याहन्ति स ‘विरुद्ध' इति भाप्यमतं स्पष्टम् । अत एव नित्यत्वप्रतिषेधो हेतुर्नित्यत्वसिद्धान्तविरोधेन ‘विरुद्ध ' इति दृष्टान्तेनापि सूचितम् । यत्साध्यसाधनायोपन्यस्तो हेतुस्तद्विरुद्धमेव यः साधयति स विरुद्ध इति नवीनमतम् । तथा च- साध्याभावव्याप्तो हेतुविरुद्धः , यथा शब्दोऽनित्यः कृत- कावादिति ' तर्कसङ्कहे । वार्तिकेऽपि सूत्रस्य भाप्योक्तं व्याख्यानमुपवर्ण्य व्याख्याना- न्तरमुपन्यस्तम्-'प्रतिज्ञाहेत्वो विरोधो विरुद्धो हेत्वाभास' इति । एतदेव नवीन- मतस्य मूलमिवाभाति । अस्य हेत्वाभासस्यापसिद्धान्ताद् भेदः प्रदर्शितः परिशुद्धौ-स्वमते माना- न्तरसिद्धस्यान्यथावचनमपसिद्धान्तः, वाक्यांशयोरेकार्थाभावभावविषयत्वे विरोध इति । २ विमर्शाधिष्ठानाविति । 'विमर्शः 'संशयः । तस्य विषयौ ' अनवसितौ' अनिर्णीतौ । तादृशयोरनिर्णीतयोरेव पक्षप्रतिपक्षशब्दवाच्यत्वम् । प्रक्रियते साध्यत्वे- नाधिक्रियते वादिप्रतिवादिभ्यामिति 'प्रकरणम् ' । तस्य प्रकरणस्य 'चिन्ता' विम- र्शात् प्रभृति प्रानिर्णयात् समीक्षणम् आलोचनम् , जिज्ञासा । सा खलु तत्वानुप- -सू. ८ प्रथमाध्याये द्वितीयाहिके अष्टमं सूत्रम् । प्रज्ञापनं त्वनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुपलभ्यमाननित्यधर्मक- मनित्यं दृष्टं स्थाल्यादि। यंत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः स- व्यभिचार एव । या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं प्रवर्तयति । यथा शब्दे नित्यधर्मो नोपलभ्यते एवमनित्यधर्मोऽपि । सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति । कथम् ? विपर्यये हि प्रकरणनिवृत्तेः । यदि नित्यधर्मः शब्दे गृह्यते न स्यात्प्रकरणम् । यदि वा अ- नित्यधर्मो गृह्यते एवमपि निवर्तेत प्रकरणम् । सोऽयं हेतुरुभौ पक्षौ प्रवर्तयन्न- न्यतरस्य निर्णयाय न प्रकल्पते ॥ ७ ॥ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ ८॥ द्रव्यं छायेति साध्यम्, गतिमत्त्वादिति हेतुः, साध्येनाविशिष्टः साधनी- यत्वात्साध्यसमः । अयमप्यसिद्धत्वात्साध्यवत्प्रज्ञापयितव्यः। साध्यं तावदेतत्- लब्ध्या कृता । अयं नित्यधर्मान्नित्यत्वाविनाभाविनोऽनित्यधर्माननित्यत्वाविनाभावि- नो नैवोपलभमानः तत्र सन्दिग्धे । तदा जिज्ञासते । सैव नित्यधर्मानुपलब्धिर- नित्यधर्मानुपलब्धिर्वा वादिना निर्णयायापदिश्यमाना प्रकरणसमो हेत्वाभासः। कुतः ? उभयपक्षसाम्यात्'। यथा नित्यत्वपक्षेऽनित्यधर्मानुपलब्धिस्तथाऽनित्यत्वपक्षे नित्यधर्मा- नुपलब्धिः । सेयं तत्वानुपलब्धिस्तथैवानिश्चायिका यथा 'प्रकरणम् । व्युत्पत्तिमानं चैतत्प्रकरणसमपदस्य । प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वम् । अन्य- थाऽनैकान्तिकस्यापि प्रकरणसमत्वं ' स्यात् , अनिश्चायकत्वसाम्यात् । १ प्रज्ञापनमिति । निदर्शनमित्यर्थः, प्रज्ञाप्यतेऽनेनेति व्युत्पत्त्या । २ सत्प्रतिपक्षस्यानैकान्तिकत्वशङ्का व्यवच्छिनन्ति यनेति । ३ संशयसम इति । संशयेन समः, अनिश्चायकत्वात् । एतदुक्तं भवति । नहि नित्यधर्मानुपलब्धिरुभयसिद्धे नित्येऽस्ति, येन सव्यभिचारो भवेत् । नाप्यनित्यधर्मा- नुपलब्धिरुभयसिद्धेऽनित्येऽस्ति, येन सव्यभिचारो भवेत् । अपि तु परस्परमनयोनित्य- धर्मानुपलब्ध्यनित्यधर्मानुपलब्ध्योः सत्प्रतिपक्षतगैव हेत्वाभासत्वमिति । ४ साध्येत्यादि सूत्रम् । यथा साध्येऽनिश्चितस्तथा पक्षेऽप्यनिश्चितो हेतुः 'साध्यसमः ' 'असिद्ध' इति यावत्। अनेन स्वरूपासिद्धैकदेशासिद्धाश्रयासिद्धान्यथासिद्धानां सङ्ग्रहः, तेषामसिद्ध- त्वेन साध्याविशिष्टत्वात् । अत्र च 'असिद्धः साध्यसमः' इति वक्तव्ये साध्यावि- शिष्टग्रहणमन्यतरासिद्धस्यापि सिद्धेः प्रागहेतुत्वज्ञापनार्थम् । अन्यथाऽत्यन्तासिद्ध एवं ३ . । खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ०२ सू०९- किं पुरुषवच्छायाऽपि गच्छति, आहो स्विदावरकद्रव्ये संसर्पत्यावरणसन्तानाद- सन्निधिसन्तानोऽयं तेजसो गृह्यत इति । सर्पता खलु द्रव्येण यो यस्तेजोभाग आत्रियते तस्य तस्यासन्निधिरेवाविच्छिन्नो गृह्यत इति । आवरणं तु प्राप्ति- प्रतिषेधः ॥ ८॥ कालात्ययापदिष्टः कालातीतः ॥९॥ कालात्ययेन युक्तो यदर्थस्यैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते । निदर्शनम्-नित्यः शब्दः संयोगव्यङग्यत्वाद् रूपवत् । साध्यसमो नान्यतरासिद्धः, तस्य कदाचित् सिद्धः इति भ्रान्तिः स्यात् । साध्यावि- शिष्टत्वेन तु सोऽपि सङ्गृहीतः। एवं चान्यतरासिद्ध एव गृहीतः स्यान्नेतरेऽसिद्धाः, तेषामत्यन्तासिद्धत्वेन साध्याविशिष्टत्वाभावात् । अत एवोक्तं साध्यत्वादिति । यदि हि साध्यं नासिद्धं भवेत् साध्यत्वादेव ध्यवेत । न खलु सिद्धं साध्यते । तस्मात् साध्यत्वादेवासिद्धता । सा च कस्यचित्सर्वदा, कस्यचित्कादाचित्को इति सर्वेषामविशिष्टत्वम् । अतो नाव्याप्तिः । नापि साध्यत्वस्यातिप्रसक्त्याऽतिव्याप्तिः, हेत्वाभाससामान्यलक्षणापेक्षित्वाद् विशेष- लक्षणस्य इति सूत्रार्थः। १ किं पुरुषवदिति । अत्र भाष्यकारेण [१] स्वरूपासिद्धस्य [२] आश्रयासिद्धस्य [३] अन्यथासिद्धस्य च साधारणमुदाहरणमभिप्रेत्योक्तं द्रव्यं छाथा गतिमत्त्वादिति । तेषां विभजनं यथा वार्तिके । [१] यथैव द्रव्यत्वं छायायां साध्यं तथा गतिमत्त्व- मपीति स्वरूपासिद्धिः । [२] देशान्तरदर्शनाद्यदि कश्चिच्छायाया गतिमत्वं साधयेत् , नदेदं देशान्तरदर्शनमाश्रयासिद्धो हेतुः स्यात्-सत्येव द्रव्यत्वे छायाया देशान्तरे दर्शनं स्यात् , द्रव्यभावस्त्वसिद्धः । [३] छायाया य द्देशान्तरे दर्शनं तत् गतिमत्त्वाद- न्यथापि भवति । अतो नावश्यं गतिमत्वमेव साधयति । आवरके द्रव्येऽपसर्पति तेजसोऽसन्निधिविशिष्टं द्रव्यं यदुपलभ्यते तदेव छायेत्युच्यते इत्यादि वार्तिके स्पष्टम् । परिशुद्धिः--पक्षानिश्चयादाश्रयासिद्धिः, लिङ्गस्यैवानिश्चयात् स्वरूपासिद्धिः, व्याप्तेरनिश्चयाद् व्याप्यत्वासिद्धिः । एतेषां चानिश्चयः सन्देहाद्वाऽ- भावनिश्चयाद्वति । २ कालात्ययेनेति । यस्य अपदिश्यमानस्य हेतुत्वेनोपन्यस्तस्य अर्थस्य धार्मिणः एकदेशः कालास्ययेन युक्तः स कालात्ययापदिष्टः कालातीत इत्युच्यते इति सम्बन्धः। अस्यापि हेस्वाभासस्य विषये प्राचीननवीनयोर्भेद इवाभाति । तथाहि- कालात्ययेन युक्तो यस्य हेतोरनुरूप एकदेशो हेतुविशेषणमिति यावत् स कालात्यया- पदिष्टः । यथा 'नित्यः शब्दः संयोगव्यङ्गयत्वादि 'त्यत्र शब्दस्योपलब्धिकाले संयोगो हेतुविशेषणत्वेनोपात्त उपलब्धिकालमत्येति । यस्मिन् काले शब्द उपलभ्यते तस्मिन् .. :

प्रथमाध्याये द्वितीयाह्निके नवमं सूत्रम् ६५ प्रागू« च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते । तथा च शब्दोऽप्य वस्थितो भेरीदण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा। तस्मात्संयोग- व्यङग्यत्वान्नित्यः शब्द इति । अयमहेतुः कालात्ययापदेशात्। व्यञ्जकम्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिरत्येति । सति प्रदीपघटसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते । निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले । सेयं शब्दस्य व्यक्तिः संयोगकालमत्येतीति न संयोग- .. n .. .. . काले संयोगो नास्तीति भवत्ययं कालात्ययापदिष्ट इति भाष्यवार्तिकयोः स्पष्टम् । नवीनमतेन तु-यत्र प्रत्यक्षानुमानागमविरोधः - अनुष्णोऽनिद्रव्यत्वादिति' 'अश्रा- वणः शब्दो गुणस्वादिति ''शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति' च सर्वः प्रमा- णतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सोऽयं कालात्ययेनापदिश्य- मानः कालातीत इति-तात्पर्य स्पष्टम् । अनयोर्मतयोरसामञ्जस्यं विभाव्य तात्पर्यकारी हटादिव भाग्यपडिमन्यथा व्याख्यातवान् । तद्यथा-भाष्यकारः सूत्रं स्वपरमतसंश्लिष्टं ब्याचष्टे । (१)काला- त्ययेन संशयकालात्ययेन युक्तो यस्यार्थैकदेशः । धर्मविशिष्टो हि धर्मी हेतोरपदिश्य- मानस्यार्थः । स ह्यर्थ्यते हेतुना । तस्यैकदेशः साध्यधर्मः । स हि धर्मिणि बलवता प्रमाणेन तद्विपरीतधमनिर्णयं कुर्वतः संशयकालमतिपातितः । स तादृशो हेतुः कालात्ययापदिष्टः कालातीत इति स्वमतेनार्थः । अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यानोदाहृतम् । (२) परमते तु कालात्ययेन युक्तो यस्य हेतोरनुरूप एक- देशो हेतुविशेषणं स कालात्ययापदिष्ट इति योजना । परमतेनैव निदर्शनमाह निदर्शनमिति । अनास्य स्वपरमतविभागस्य मूलं मृग्यम् । उक्तयोश्च मतयोः कतरद् भाष्य- पतया स्पष्टं सूचितं कतरच्च हठादिव तत्रारोपितम्-स्वमतेनोदाहरणमनुपन्यस्य परमतेनैवोदाहरणमुपन्यस्तवान् भाष्यकार इति भाष्यकाररीत्यनुकूलं न वेत्यत्र च- सुधिय एव प्रमाणम् । तात्पर्यमतेनार्थशब्दः पक्षपरः भाष्यमतेन तु हेतुपर इति विवेकः । हेतुबद् यद् आभासते तदेव हेत्वाभासनामार्हति । नवीनाभिमते विरुद्ध हेतौ हेतोराभासोऽपि नास्ति । भाप्याभिमते त्वांशिक्येवानुपपत्तिरिति भवत्येवाभासो : हेतोः । भाष्योक्तलक्षणे कैश्चिदाक्षिप्तम्-असिद्धविशेषणतयाऽयं हेत्वाभासोऽसिद्ध एव स्यान्न हेत्वाभासान्तरमिति । परमेतैराक्षेतृभिरिदं. विस्मृतं यद् भाष्यकारादिभिः प्राचीन गासिद्धी हेत्वाभासत्वेन नोझावितः । अथ च भागासिद्धस्यैव भाष्योक्त- कालातीतेऽन्तर्भावसम्भवः । न्या.स.

.. ६६ खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ०२ सू०९- निर्मिता भवति । कस्मात? कारणाभावाद्धि कार्याभाव इति । एवमुदाहरण- साधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति । अवयवविपर्यासवचनं न सूत्रार्थः। कस्मान् ? यस्य येनार्थसम्बन्धो दूरस्थ- स्यापि तस्य सः। अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् ॥ इत्येतद्वचनाद्विपर्या- सेनोक्तो हेतुरुदाहरणसाधर्म्यात्तथा वैधात्साध्यसाधनं हेतुलक्षणं न जहाति । अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति । 'अवयवाविपर्यासवचनम- प्राप्तकालम्' (५, २, ११) इति निग्रहस्थानमुक्तं तदेवेदं पुनरुच्यत इति । अतस्तत् न सूत्रार्थः ॥ ९॥ (३) छललक्षणप्रकरणम् ॥ ( भा०) अथ छलम्। वचनविघांतोऽर्थविकल्पोपपत्त्या छलम् ॥ १० ॥ १ अत्र बौद्धनैयायिकेन सूत्रमन्यथा व्याख्याय दूषितम् । तद्यथा-प्रतिज्ञानन्तरं हि हेतोः 'कालः'। तमतीत्य हेतुः पश्चादपदिश्यमानः कालातीतो भवति । यथा अनित्यः शब्दो घटादिवदित्युक्ते- 'कस्मात् ' इत्युक्तो ब्रूते- कृतकत्वात्' इति । अयमेव हेतुः 'कालातीत' इति । एवं सूत्रार्थमुपवर्ण्य तत्राक्षेपः कृतः। कस्मादिति यः प्रश्नः स किं निरा- काझे वादिन्युद्भवत्युत साकाक्षे यदि निराकाङ्के- 'न्यूनम् ' एवास्थ निग्रहस्थानम् न हेत्वाभासः, हेतोः सर्वथाऽग्रयोगात् । प्रयुक्तो हि हेतुर्हेत्वाभासः स्यान्ना- प्रयुक्तः । अथ साकाक्षे वादिनि प्रतिवादिनः प्रश्नः, तदा पश्चादपि प्रयुक्तोऽसौ हेतुरेव । न ह्यसौ तदा न साध्याविनाभूतोऽपक्षधमों वा । तस्मान्न कालातीतो नाम हेत्वाभासं.ऽस्ति। तदेतद् दूपणमेतब्याख्यानानभ्युपगमेन परिहरति-अवयवेति । २ तदेवेदमिति । यद्युक्तार्थमेव सूत्रं स्यात्तदा यदेवाप्राप्तकालनिग्रहस्थानतयो- तं तदेव कालातीताभिधहेत्वाभासत्वेनातं स्यात्ततश्च पुनरुक्तिरेव स्यादित्यर्थः । ३ अथ छलमिति । साधनवादी प्रमादी प्रतिवादी वा सदुत्तरसमाधानयोरस्फूतौं जिगीषुस्तदाभासमपि ब्रूयादिति तदाभासन्युत्पादनावसरः । तत्रापि जातेः स्वपक्ष- व्याघातापादकत्वेन जघन्यत्वात् , छलस्य च तात्पर्यतो दुष्टत्वेऽपि वचनतोऽदुष्टत्वात्, अस्फूर्तिदशायामपि तदेव प्रथम प्रयोक्तव्यम् । तस्याप्य स्पूतौं जातिरिति जातेः पूर्व छलोदेशः । ४ अर्थविकल्पेति । यथा वक्तुरभिमतस्ततो विरुद्धः 'अर्थ'--तस्य 'विकल्पः' कल्पना-सैव 'उपपत्तिः' तयेत्यर्थः । . .. .

प्रथमाध्याये द्वितीयाह्निके द्वादशं सूत्रम् ६७ न सामान्यलक्षणे छलं शक्यमुदाहर्तुम् । विभागे तूदाहरणानि ॥ १० ॥ विभागश्च--- तत्रिविधम् बाक्छलं सामान्यच्छलमुपचारच्छलं चेति ॥११॥ तेषाम्- अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥१२|| नवकम्बलोऽयं माणवक इति प्रयोगः । अत्र नवः कम्बलोऽस्येति वक्तु- रभिप्रायः । विग्रहे तु विशेषो, न समासे । तत्रायं छलवादी वक्तुरभिप्राया- विवक्षितमन्यमर्थं नव कम्बला अस्येति तावदभिहितं भवतेति कल्पयति, कल्पयित्वा चासम्भवेन प्रतिषेधति-एकोऽस्य कम्बलः कुतो नव कम्बला इति । तदिदं सामान्यशब्दे वाचि छलं वाक्छलमिति । प्रत्यवस्थानम्- सामान्यशब्दस्यानेकार्थत्वेऽन्यतराभिधानकल्प- नायां विशेषवचनम् । नवकम्बल इत्यनेकार्थाभिधानम्-नवः कम्बलोऽस्येति नव कम्बला अस्येति । एतस्मिन्प्रयुक्ते येयं कल्पना नव कम्बला अस्येत्येतद्भव- ताऽभिहितं तच्च न सम्भवतीति । एतस्यामन्यतराभिधानकल्पनायां विशेपो वक्तव्यः-यस्माद्विशेषो विज्ञायतेऽयमर्थोऽनेनाभिहित इति । स च विशेषो नास्ति । तस्मान्मिथ्याभियोगमात्रमेतदिति । प्रसिद्धश्च लोके शब्दार्थसम्बन्धोऽभिधानाभिधेयनियमनियोगः । अस्या- मिधानस्यायमर्थोऽभिधेय इति समानः सामान्यशब्दस्य, विशेषो विशिष्ट- शब्दस्य । प्रयुक्तपूर्वाश्चेमे शब्दा अर्थे प्रयुज्यन्ते नाप्रयुक्तपूर्वाः । प्रयोगश्चार्थ- संप्रत्ययार्थः। अर्थप्रत्ययाच व्यवहार इति। तत्रैवमर्थगत्यर्थे शब्दप्रयोगे सामर्थ्या- सामान्यशब्दस्य प्रयोगनियमः । अजां ग्रामं नय सर्पिराहर ब्राह्मण भोजयेति अस्य । १ यस्मादिति-वचनादिति शेषः । २ अभिधानेति । अभिधानाभिधेययोर्यो 'नियम:'-अयमेवार्थोऽस्य शब्दस्य, अयं शब्दो वाचकोऽस्यैवार्थस्येति-तत्र यः पुरुषस्य 'नियोगः' अस्मादयमेव बोद्धव्य इत्याकारः। ३ समान इति । सामान्यशब्दस्य समानः विशेषशब्दस्य च विशेषो नियोग इति योजना। ४ अर्थगत्यर्थ इति । अर्थावगमार्थे-इति यावत् ।

-- ६८ खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ०२ सू०१३- सामान्यशब्दाः सन्तोऽर्थावयवेषु प्रयुज्यन्ते । सामर्थ्याद्यत्राक्रियादेशना सम्भ- वति तत्र प्रवर्तन्ते ! नार्थसामान्ये क्रियादेशना सम्भवेत् । एवमयं सामान्य- शब्दो नवकम्बल इति योऽर्थः सम्भवति नवः कम्बलोऽस्येति तत्र प्रवर्तते । यस्तु न सम्भवति नव कम्बला अस्येति तत्र न प्रवर्तते । सोऽयमनुपपद्य- मानार्थकल्पनया परवाक्योपालम्भस्ते ने कल्पत इति ॥ १२ ॥ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १३ ॥ अहो खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह सम्भवति ब्राह्मणे विद्याचरणसम्पदिति । अस्य वचनस्य विधातोऽर्थविकल्पोपपत्त्याऽस- म्भूतार्थकल्पनया क्रियते-यदि ब्राह्मणे विद्याचरणसम्पत्संम्भवति व्रात्येऽपि सम्भवेत्, ब्रात्योऽपि ब्राह्मणः, सोऽप्यस्तु विद्याचरणसम्पन्न इति । यद्विवक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम् ! यथा ब्राह्मणत्वं विद्याचरणसम्पदं कचिदाप्नोति क्वचिदत्येति । सामान्यनिमित्तं छलं सामान्य- च्छलमिति। अस्य च प्रत्यवस्थानम्-अविवक्षितहेतुकस्य विषयानुवादः, प्रशंसार्थ- त्वाद् वाक्यस्य । तदत्रासम्भूतार्थकल्पनानुपपत्तिः । यथा सम्भवन्त्यस्मिन्क्षेत्र शालय इति-अनिराकृतमविवक्षितं च बीजजन्म-प्रवृत्तिविषयस्तु क्षेत्रं प्रश- स्यते । सोऽयं क्षेत्रानुवादो-नास्मिन् शालयो विधीयन्त इति । बीजात्तु शालिनिवृत्तिः सती न विवक्षिता । एवं सम्भवति ब्राह्मणे विद्याचरण- सम्पदिति सम्पद्विषयो ब्राह्मणत्वम्, न सम्पद्धेतुः । न चात्र हेतुर्विवक्षितः । १ अर्थावयवेग्विति-अर्थविशेपेस्वित्यर्थः । विशेषो हि सामान्यस्यावयवो । भवति । - २ न कल्पत इति। न सङ्केतकरणावस्थायां वृद्धव्यवहारे वा कश्चिच्छब्दः कञ्चि- दर्थं शृङ्गग्राहितकतया बोधयति । अपि तु सामान्यद्वारेणार्थप्रकरणादिसहकारी विशेष वर्तते । तस्मान्नैष प्रतिपादयितुरपराधो यदविशेषशब्देविशेषान्तरं प्रतिपादयति । किन्तु सङ्केतस्यैवायमपराधो यो विशेषमपहाय सामान्ये वर्तते । तस्माद्यथासङ्केतं बोधय- नापराध्यः प्रयोक्तति । ३ विषयानुवाद इति । सम्पद्विषयस्य ब्राह्मणत्वस्यानुवाद इत्यर्थः । ४ नास्मिन्निति । एतादृशं प्रशस्तं क्षेत्रं यदव बीजवपनमपि विना शालयो रोहन्त्येवेत्यर्थः।

----सू. १४] प्रथमाध्याये द्वितीयाहिके चतुर्दशं सूत्रम् . -- विषयानुवादस्त्वयं प्रशंसार्थत्वाद् वाक्यस्य-सति ब्राह्मणत्वे सम्पद्धेतु : समर्थ इति । विषयं च प्रशंसता वाक्येन यथा हेतुतः फलनिर्वृत्तिर्न प्रत्याख्या- यते । तदेवं सति वचनविघातोऽसम्भूतार्थकल्पनया नोपपद्यत इति ।।१३।। धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥ १४ ॥ अभिधानस्य धर्मो यथार्थप्रयोगः । धर्मविकल्पोऽन्यत्र दृष्टम्यान्यत्र प्रयोगः । तस्य निर्देशे धर्मविकल्पनिर्देशे । यथा मञ्चाः क्रोशन्तीति-अर्थ- सद्भावेन प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति । "का पुनरत्रार्थविकल्पोपपत्तिः ? " अन्यथा प्रयुक्तस्यान्यथाऽर्थकल्पनम् । भक्त्या प्रयोगे प्राधान्येन कल्पनमुपचारविषयं छलमुपचारच्छलम्। उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वदभिधानमुपचार इति । १ धर्मेत्यादि सूत्रम् । वादी स्वोक्तो लक्ष्येऽर्थे पदं प्रयुङ्क्ते प्रतिवादी तत्पदस्य वाच्यार्थतात्पर्येण लक्ष्यं प्रतिषेधति । तदेतदुपचारच्छलमिति भाष्यानुसारी सूत्रार्थः । न तदर्थान्तरभावादिति षोडशसूत्रवार्तिके वाक्छलोपचारच्छल्योर्मेंदवर्णने- एकत्र ( वाक्छले) धर्मः प्रतिषिध्यते, एकत्र ( उपचारच्छले) धमौ ' इत्युक्तम् । तदनेनास्य सूत्रस्याक्षरानुसार्यन्य एवार्थः प्रतिभाति । ' धर्मविकल्पनिर्देशे ' यदा वादी धर्मपरं वचनं प्रयुङ्क्ते--' अर्थसद्भावनिषेधः ' प्रतिवादी तु अर्थस्यैव धर्मिणः, न धर्मस्य, सद्भाव निषेधति--तदा ' उपचारच्छलम् ' इति । २ अभिधानस्येति। अभिधानस्य' शब्दस्य धर्मः' प्रयोगः । तस्य 'विकल्पः' द्वैविध्यम् । तस्य द्विविधः प्रयोगः, प्रधानो भाक्तश्च । तत्रापि प्रधान एव यथार्थ' औत्सर्गिक इति भावः। तस्य तु क्वचिदपवादाद् भाक्तप्रयोगोऽप्याश्रियते । ३ तस्येति । 'तस्य' धर्मविकल्पस्य 'निर्देशे' धर्मविकल्पनिर्देशे इति सूत्र- समासविग्रहः । किन्तु वाक्ये यतोऽर्थस्य निर्देशो न भवत्यतोऽत्रारुचिस्तात्पर्यकारस्य यस्य मतेन--' धर्मविकल्पेन निर्देशो' इत्येव विग्रहः । तत्र च ' निर्देशे' इत्यस्य 'वाक्ये' इत्यर्थः । निर्दिश्यतेऽनेनेति व्युत्पत्त्या । ४ का पुनरिति । अर्थविकल्पोपत्तेः सर्वत्र छलेप्वावश्यकत्वम् । यथाक्त छलसामान्यलक्षणे दशमे सूत्रे । ५ ननु यद्यन्यत्र दृष्टास्यान्यत्र प्रयोगो हेतुः सर्वं सर्वत्र प्रयुज्यतेत्यत आह नीतार्थः इति प्रापितार्थः इति यावत् । अन्यत्र दृष्टस्यान्यत्र प्रयोगः सम्बन्धादेव भवतीति नातिप्रसङ्ग इत्यर्थः । - १ , . १ . ७ खद्योतसहितन्यायसूत्रभाष्ये [अ०१,आ० २ सू०१५ --- 10 अत्र समाधिः-प्रसिद्धे प्रयोगे वक्तुर्यथाभिप्राय शब्दार्थयोरभ्यनुज्ञा प्रतिषेधो वा, ने छन्दतः । प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर्लोकासिद्धः । सिद्धे प्रयोगे यथा वक्तुरभिप्रायस्तथा शब्दार्थावनु- ज्ञेयौ प्रतिषेध्यौ वा, न छन्दतः। यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते यथाभूतस्या- भ्यनुज्ञा प्रतिषेधो वा, न छन्दतः । अथ गुणभूतं तदा गुणभूतस्य । यत्र तु वक्ता गुणभूतं शब्दं प्रयुक्ते प्रधानभूतमभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधोऽसौ भवति न परोपालम्भ इति ॥ १४ ॥ बाक्छलमेवोपचारच्छलं तदविशेषात् ॥ १५ ॥ "न वाक्छलादुपचारच्छलं भिद्यते, तस्याप्यर्थान्तरकल्पनाया अविशेषात्। इहापि स्थान्यर्थो गुणशब्दः, प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रति- षिध्यत इति ” !! १५ ॥ न, तदर्थान्तरभावात् ॥ १६ ॥ न वाक्छलमेवोपचारच्छलं तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात् । कुतः ? अर्थान्तरकल्पनात: । अन्या ह्यर्थान्तरकल्पना अन्योऽर्थसद्भाव- प्रतिषेधः इति ॥ १६ ॥ १ अत्र समाधिरिति-प्रतिविधानमुपचारच्छलस्येति शेषः । २ छन्दतः इत्यस्य स्थाने पाटः इति केचित् । छन्दतः स्वेच्छयत्यर्थः । छद्मनेति तात्पर्यकृतः । ३ वाक्छलमिति सूत्रम् । परीक्षापर्वणः सन्निधानात् तदर्थ लक्षणपर्वण्यपि सूत्रकारश्छललक्षणं परीक्षितुमुपक्रमते । ४ इहापीति । यथा वाक्छले नवीनाओं नवशब्दः सङ्ख्याभेदे विकल्पितस्त- थोपचारच्छलेऽपि मञ्चस्थपुरुषार्थों मञ्चशब्दो मञ्चार्थ एव कल्पित इति साम्यम् । ५ अन्येति । एकत्र-उपचारच्छले-वस्तुसद्भावः प्रतिषिध्यते, अन्यत्र-वाक्- छले-वस्त्वभ्यनुज्ञाय कम्बलयोगमप्यभ्युपगम्य कम्बलस्यानेकतारूपो धर्मः प्रतिषि- भ्यते । एकत्र धर्मः प्रतिपिध्यतेऽन्यत्र धर्मी । सोऽयमतिमहान् विशेष इति वार्तिक- मतेन । भाप्यमतेन तु-उपचारच्छले भाक्तमर्थ विहाय प्रधानस्यार्थस्य कल्पना, वाक्छले तु नवसंख्यास्वरूपस्यार्थस्य सर्वथा प्रतिषेध एवेति विशेषः । अत्र तात्पर्यम्-मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा इति त्वनूद्यते । अत एव गुणे स्वन्याय्यकल्पनेति मञ्चा इत्येतदप्रधानमनूद्यतया भाक्तम्, न तु . . छलतः . ।

--सू. १८] प्रथमाध्याये द्वितीयाह्निके अष्टादशं सूत्रम् अविशेषे वा किञ्चित्सावादेकच्छलप्रसङ्गः ॥ १७ ॥ छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते, किञ्चित्साधात् । यथा चार्य हेतुस्लित्वं प्रतिषेधति तथा द्वित्वमप्यम्यनुज्ञातं प्रतिषेधति । विद्यते हि किश्चित्साधर्म्य द्वयोरपीति । अथ द्वित्वं किञ्चित्साधान्न निवर्तते त्रित्वमपि न निवय॑ति ।। १७ ॥ (४) पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् । अत ऊर्ध्वम्- साधम्यवैधाभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते स जातिः । स च प्रसङ्गः साधर्म्य- वैधाभ्यां प्रत्यवस्थानमुपालम्भः प्रतिषेध इति । उदाहरणसाधासाध्य- साधनं हेतु'रित्यस्योदाहरणसाधर्येण प्रत्यवरथानम् । प्रत्यनीकभावाज्जायमा- नोऽर्थो जातिरिति ॥ १८ ॥ क्रोशनमेव वस्तु प्रतिषिध्यते ‘नैव मञ्चाः कोशन्तीति' छल वाक्येन । “नवकम्बलो देवदत्त' इति वाक्ये तु देवदत्तमनद्य नवत्वविशिष्टः कम्बलो विधीयते। तत्र न विधेयस्य वस्तुतः कम्बलस्य सद्भावः प्रतिषिध्यते, किन्तु तदेकदेशस्थानेकतायाः इति महान् भेद इति। १ प्रतिषिध्यत इति-पञ्चदशसूत्रे शङ्ककेनेत्यर्थः । २ साधयेत्यादि सूत्रम् । व्याप्तिनिरपेक्षयत्किञ्चित्पदार्थसाधर्म्यवैधाभ्यां प्रत्यवस्थानम् ' अनिष्टप्रदर्शनेन दूषणाभिधानं जातिः । यद्यपि साधर्म्यवैधान्य- तरप्रदर्शनं सर्वत्र जातो नास्ति तथाऽपि व्याप्तिनिरपेक्षतया दृषणाभिधाने तात्पर्यमिति विवरणकाराः । अत एव-' असदुत्तरं जाति' रित्येतावन्मात्रमेव जातिलक्षणं नच्यानामिति। ३ न छले साधर्म्यवैधथै स्तः, न च सम्यग् दूषणं साधर्म्यवैधय॑मात्रात् , अपि तु प्रयोगादिति प्रयुक्त हेतौ तदाभासे वा, यः प्रसङ्गो ‘जायते स जातिरिति । जात्योत्तरणं न सर्वत्रानुचितमेव । जल्पे हि वेदप्रामाण्यविद्वांसं प्रति कुहेतुना यदा नास्तिकरधिक्षिप्यते, सदुत्तरं चास्य सहसा न स्फुरति, तदेश्वराणां माभूद्वेदा- प्रामाण्यशङ्केति जात्याऽपि प्रत्यवस्थेयम् । कचित्पुनर्बुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः सम्भवति । ४ उदाहरणेति । अत्रोदाहरणग्रहणमुपलक्षणार्थम् । अनुदाहरणसाधर्म्यवैधम्या- भ्यामपि प्रत्यवस्थानं भवत्येव जातिरिति बार्तिकम् । ५ जायमान इति । जायत इति जातिरिति पदव्युत्पत्ति दर्शयति ॥

७२ खद्योतसहितन्यायसूत्रभाष्ये [अ०१, आ०२ २०१९--- विप्रतिपत्तिरप्रति:त्तिश्च निग्रहस्थानम् ॥ १९ ॥ विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । विप्रतिपद्यमानः पराजय प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः । अप्रतिपत्तिस्त्वारम्भ- विषयेऽप्यप्रारम्भः । परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति । असमासाच्च नेते एव निग्रहस्थाने इति ॥ १९ ॥ किं पुनदृष्टान्तवज्जातिनिग्रहस्थानयोरभेदोऽथ सिद्धान्तवद्भेद" इत्यंत आह- तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥ तस्य साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पान्जातिबहुत्वम् । तयोश्च विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वम्। नानाकल्पो विकल्पः। विविधो वा कल्पो विकल्पः । तत्राननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयो- ज्योपेक्षणमित्यप्रतिपत्तिर्निग्रहस्थानम् । शेषस्तु विप्रतिपत्तिरिति । इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः यथालक्षणं परीक्षिष्यन्त इति त्रिविधा चाऽस्य शास्त्रस्य प्रवृत्तिर्वेदितव्येति ।। २० ॥ इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयमाह्निकम् । समाप्तश्चाऽयं प्रथमोऽध्यायः । १ विप्रतिपत्तिरिति सूत्रम् । निग्रहस्थानेनैव समस्तकथामुद्रणमित्यस्य पश्चादभिधानम् । कथायां प्रवृत्तायां वादिप्रतिवादिनोरतत्त्वज्ञानज्ञापिका क्रिया निग्रहस्थानमिति सूत्रार्थः । २ विपरीतेति । सूक्ष्मविषया प्रतिपत्तिः 'विपरीता', स्थूल विषयाच 'कुत्सिता' इति भेदेन निर्देशः। ३ लाधवाय 'विप्रतिपत्त्यप्रतिपत्ती' इत्येव वक्तव्ये कस्मादसमासकरणमित्यात आह असमासादिति । विप्रतिपस्यप्रतिपत्तिभ्यामन्यदपि हेतूदाहरणाधिकं नाम जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इति भावः । ४ किं पुनरिति । जातिर्निग्रहस्थानं च प्रत्येकमेकविधमेवोत नानाविधमिति प्रश्नार्थः ॥ ५ दृष्टान्तवदिति । यद्यपि साधर्म्यवैधाभ्यां दृष्टान्तस्यापि भेदस्तथाऽपि लक्षणाभेदाभिप्रायेणाभेद उक्तः । ६ तद्विकल्पादिति सूत्रम् । एतेन तयोविभागकथने कालविलम्बः सूचितः । नानाकल्प' इति स्वरूपतः, 'विविध ' इति प्रकारतः । ७ परीक्षिष्यन्त इति द्वितीयादिष्वध्यायेष्विति यावत् । .

, : अथ द्वितीयाध्यायस्याद्यमाह्निकम् । (१) संशयपरीक्षाप्रकरणम् । अत उचं प्रमाणादिपरीक्षा । सा च 'विमृश्य पक्षप्रतिपक्षाभ्यामर्था- वधारणं निर्णय (१, १, ४१) इत्यग्रे विमर्श एव परीक्ष्यते-- "समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः" ॥१॥ "समानस्य धर्मस्याध्यवसायासंशयो न धर्ममात्रात् । अथ वा समानमनयोधर्ममुपलभ इति धर्मधार्मिग्रहणे संशयाभाव इति । अथ वा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नः । न जातु १ समानेत्यादि. संशयलक्षणोक्तकारणमात्रोपलक्षणम् । अत्र पञ्चसूत्रात्मकः पूर्वपक्षः। २ समानस्येत्यादिभाष्यमसमञ्जसमिवाभाति । 'समानधर्माध्यवसायात् न संशय ' इति सूत्राक्षराणां स्पष्टोऽर्थः । अतः 'समानस्य धर्मस्याध्यवसायात संशय इति भाप्योक्तिः सूत्रविरुद्धेवाभाति । केचिदिदमसामञ्जस्यमेवं परिहरन्ति- 'अज्ञायमानस्य धर्ममात्रस्य संशयं प्रत्यहेतुत्वात्तदबधारणे निश्चयस्य संशयविरोधित्व- स्वाभाव्येन संशयहेतुत्वानुपपत्तिरिति भावः "-इति । किन्त्वयमेव भावो भाप्योक्ता- चतुर्थविकल्पस्य स्पष्टः । अतःस्स एव भावः प्रथमकल्पस्य न भवितुमर्हति । इदमसामञ्जस्यं वार्तिककारेण तथा च तात्पर्यकारेणापि लक्षितम् । अत एवे. मां पूर्वपक्षोक्तिं वार्तिककारो यथाश्रुत्युत्थानत्वेन निर्दिष्टवान् । तात्पर्यकारश्च-'समान- धर्मोपपत्त्यादेविशेषणमपश्यतः पूर्वपक्ष' इत्युक्तवान् । अत्र सूत्रे त्रीणि वाक्यानि । (१) प्रथमं तावत्-' समानधर्माध्यव- सायात् न संशय' इति संशयलक्षणसूत्रस्थस्य (१।१।२३) 'समानधर्मोपपत्तेः संशय' इत्यस्य वाक्यस्य प्रतिषेधरूपम् । एतस्यैव वाक्यस्य तात्पर्यभाष्यकार उक्तिचतुष्टयेनाह । संशयलक्षणसूत्रस्थमुपपत्तिपदमस्तित्वपरं मन्वानस्यैवाद्योक्तिः- धर्ममात्रस्य सत्त्वान्न संशयः किन्तु तस्याध्यवसायादिति । अथवेत्यादिद्वितोयोक्ति- रुपपत्तिपदं ज्ञानसामान्यपरं मन्वानस्य । पुनरथवेत्यादितृतीयोक्तिरुपपत्तिपदं निश्चया- त्मकज्ञानपरं मन्वानस्य । पुनरथवेत्यादिचतुर्युक्तिस्तृतीयाया एव प्रकारान्तरेणोप- वर्णनम् । (२) द्वितीयं सत्रवाक्यम्-' अनेकधर्माध्यवसायान्न संशय' इति संशय- लक्षणसूत्रस्थोपपत्तिपदप्रयोगमूलकम् । अत्रापि पूर्ववत्पूर्वपक्षोक्तिचतुष्टयस्य सम्भवः । (३) तृतीयं सूत्रवाक्यम्-' अन्यतरधर्माध्यवसायान्न संशय ' इति । ३ अथ वा समानधर्माध्यवसायादिति । धर्मिणोरर्थान्तरभावाद्वा न संशयः । न ह्यन्यस्मिन्नुपलब्धेऽन्यत्र संशयः । n .

, : अथ द्वितीयाध्यायस्याद्यमाह्निकम् । (१) संशयपरीक्षाप्रकरणम् । अत उचं प्रमाणादिपरीक्षा । सा च 'विमृश्य पक्षप्रतिपक्षाभ्यामर्था- वधारणं निर्णय (१, १, ४१) इत्यग्रे विमर्श एव परीक्ष्यते-- "समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः" ॥१॥ "समानस्य धर्मस्याध्यवसायासंशयो न धर्ममात्रात् । अथ वा समानमनयोधर्ममुपलभ इति धर्मधार्मिग्रहणे संशयाभाव इति । अथ वा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नः । न जातु १ समानेत्यादि. संशयलक्षणोक्तकारणमात्रोपलक्षणम् । अत्र पञ्चसूत्रात्मकः पूर्वपक्षः। २ समानस्येत्यादिभाष्यमसमञ्जसमिवाभाति । 'समानधर्माध्यवसायात् न संशय ' इति सूत्राक्षराणां स्पष्टोऽर्थः । अतः 'समानस्य धर्मस्याध्यवसायात संशय इति भाप्योक्तिः सूत्रविरुद्धेवाभाति । केचिदिदमसामञ्जस्यमेवं परिहरन्ति- 'अज्ञायमानस्य धर्ममात्रस्य संशयं प्रत्यहेतुत्वात्तदबधारणे निश्चयस्य संशयविरोधित्व- स्वाभाव्येन संशयहेतुत्वानुपपत्तिरिति भावः "-इति । किन्त्वयमेव भावो भाप्योक्ता- चतुर्थविकल्पस्य स्पष्टः । अतःस्स एव भावः प्रथमकल्पस्य न भवितुमर्हति । इदमसामञ्जस्यं वार्तिककारेण तथा च तात्पर्यकारेणापि लक्षितम् । अत एवे. मां पूर्वपक्षोक्तिं वार्तिककारो यथाश्रुत्युत्थानत्वेन निर्दिष्टवान् । तात्पर्यकारश्च-'समान- धर्मोपपत्त्यादेविशेषणमपश्यतः पूर्वपक्ष' इत्युक्तवान् । अत्र सूत्रे त्रीणि वाक्यानि । (१) प्रथमं तावत्-' समानधर्माध्यव- सायात् न संशय' इति संशयलक्षणसूत्रस्थस्य (१।१।२३) 'समानधर्मोपपत्तेः संशय' इत्यस्य वाक्यस्य प्रतिषेधरूपम् । एतस्यैव वाक्यस्य तात्पर्यभाष्यकार उक्तिचतुष्टयेनाह । संशयलक्षणसूत्रस्थमुपपत्तिपदमस्तित्वपरं मन्वानस्यैवाद्योक्तिः- धर्ममात्रस्य सत्त्वान्न संशयः किन्तु तस्याध्यवसायादिति । अथवेत्यादिद्वितोयोक्ति- रुपपत्तिपदं ज्ञानसामान्यपरं मन्वानस्य । पुनरथवेत्यादितृतीयोक्तिरुपपत्तिपदं निश्चया- त्मकज्ञानपरं मन्वानस्य । पुनरथवेत्यादिचतुर्युक्तिस्तृतीयाया एव प्रकारान्तरेणोप- वर्णनम् । (२) द्वितीयं सत्रवाक्यम्-' अनेकधर्माध्यवसायान्न संशय' इति संशय- लक्षणसूत्रस्थोपपत्तिपदप्रयोगमूलकम् । अत्रापि पूर्ववत्पूर्वपक्षोक्तिचतुष्टयस्य सम्भवः । (३) तृतीयं सूत्रवाक्यम्-' अन्यतरधर्माध्यवसायान्न संशय ' इति । ३ अथ वा समानधर्माध्यवसायादिति । धर्मिणोरर्थान्तरभावाद्वा न संशयः । न ह्यन्यस्मिन्नुपलब्धेऽन्यत्र संशयः । n .

द्वितीयाध्याये प्रथमाह्निके षष्ठं सूत्रम् - "न संशयः । यदि तावदियमव्यवस्थाऽऽत्मन्येव व्यवस्थिता व्यवस्था- नाव्यवस्था न भवतीत्यनुपपन्नः संशयः । अथाव्यवस्थाऽऽत्मनि न व्यवस्थिता एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति" || ४ ॥ " तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः" ॥ ५ ॥ "येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते, तेन खल्व- त्यन्तसंशयः प्रसज्यते । समानधर्मोपपत्तेरनुच्छेदान् संशयानुच्छेदः। न ह्ययम- तद्धर्मा धर्मी विमृश्यमाणो गृह्यते, सततं तु तद्धर्मा भवतीति" ।। ५ ।। अस्य प्रतिषेधप्रपञ्चस्य सङ्केपेणोद्वारः- यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्त- संशयो वा ॥६॥ न संशयानुपपत्तिः, संशयानुच्छेदश्च न प्रसज्यते । कथं ? यत्तावत् समानधर्माध्यवसायः संशयहेतुः न समानधर्ममात्रमिति । एवमेतत् । कस्मादेवं नोच्यते इति ?” विशेषापेक्ष इति वचनात् तत्सिद्धेः। विशेषस्या- पेक्षाऽऽकाङा । सा चानुपलभ्यमाने विशेष समर्था । ने चोक्तं समानधर्मापेक्ष १ न संशय इति भाष्यस्य सूत्रपदैरेवान्वयः। यदि तावदिति । अव्यवस्थाया अव्यवस्थात्वं यदि निश्चितन्तदा निश्चितरूपत्वात्तस्या अव्यवस्थात्मतैव निरस्ता । अथ च तथात्वन्तस्या यद्यनिश्चितं तर्हि तस्याः स्वरूपहानादेवाव्यवस्थात्मता सुदूर- पराहतेति भावः । २ तयेत्यादिपूर्वरोऽनुवर्तते । समानधमादीनां संशयकारणानां सातत्यानित्य- संशयप्रसङ्गः । ३ नह्यय मिति । स्थाणुरयं पुरुषो वेति संशयानन्तरं स्थाणुरेवायमिति निश्च- यात्मके ज्ञाने जातेऽपि समानधर्मादीनां ज्ञानं वर्तत एव । निश्चयज्ञानेन ते धर्मास्त- धर्मज्ञानं वा नापनोद्यते । ततो यदि समानधर्मज्ञानमेव संशयकारणं तर्हि निश्वय- ज्ञानानन्तरमपि संशयप्रसङ्ग इति भावः । ४ यथोक्तेत्यादि सिद्धान्तसूत्रम् । यदि निर्विशेषणं समानधर्मोपपत्यादि संशय- कारणमुच्येत तदा तदुपपत्तेः पश्चादकरणात् पूर्वमपि न कुर्यादित्यसंशयः स्यात् । अथवा पूर्व करणात् पश्चादपि कुर्यादित्यत्यन्तसंशयः स्यात् । दूरत्वादिदोषविशेषा- दर्शनादिविशेषणविशिष्टमेव तु समानधर्मोपपत्त्यादि संशयकारणत्वेनेष्टमतोनोक्तप्रसङ्ग- प्रसङ्गः। ५ न चोक्तमिति । संशयलक्षणसूत्रे विशेषापेक्षः संशय इत्युक्तम्, न समान- धर्मापेक्ष इति । समानधर्मापेक्षाभावश्च समानधर्माध्यवसाये सत्येव भवितुमर्हति ।

७६ :- खद्योतसहितन्यायसूत्रभाष्ये [अ०२,आ० १ सू० ६- इति । समाने च धर्मे कथमाकाङ्क्षा न भवेद् यद्ययं प्रत्यक्षः स्यात् । एतेन सामयन विज्ञायते समानधर्माध्यवसायादिति । उपपत्तिवचनाद्वा ! समानधर्मोपपत्तेरित्युच्यते । न चान्या सद्भावसंवेद नाहते समानधर्मोपपत्तिरस्ति । अनुपलभ्यमानसद्भावो हि समानो धर्मोऽवि- अमानवद्भवतीति । विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् । यथा लोके धूमेनाग्नि- रनुमीयते इत्युक्ते धूमदर्शनेनाग्निरनुमीयत इति ज्ञायते । कथम् ? दृष्ट्वा हि धूममथाग्निमनुमिनोति नादृष्टे । न च वाक्ये दर्शनशब्दः श्रूयते, अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वम्। तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययस्या- भिधानं बोद्धानुजानाति । एवमिहापि समानधर्मशब्देन समानधर्माध्यवसाय- माहेति । यथोहित्वा-" समानमनयोधर्ममुपलभ इति धर्मधामग्रहणे संशयाभाव इति-पूर्वदृष्टविषयमेतत् । यावमाँ पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे विशेष नोपलम इति, कथं नु विशेषं पश्येयं येनान्यतरमवधारयेयमिति । न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तत इति । यञ्चोक्तं-"नार्थान्तराध्यवसायादन्यत्र संशय" इति, यो यर्थान्तराध्यब- सायमानं संशयहेतुमुपादीत स एवं वाच्य इति । यत्पुनरेतत्-"कार्यकारणयोः सारूप्याभावादिति", कारणस्य भावाभा- वयोः कार्यस्य भावाभावी कार्यकारणयोः सारूप्यम् । यस्योत्पादाद्यदुत्पद्यते -- एवञ्च समानधर्मापेक्षाया अनुपन्यासेनैव समानधर्माध्यवसाय उपलक्षितः । उपपत्ति- पदं सत्तापरमभ्युपगम्यैवेदमुत्तरं पूर्वपक्षस्य । १ विषयशब्देनेति । समानधर्मो ‘विषयः' तेन विषयिणस्तज्ज्ञानस्याप्य- भिधानमित्यर्थः। २ यथोहित्वेति । यदप्युक्तमित्यर्थ इति तात्पर्यकृतः । ३ यञ्चोक्तमिति । प्रथमसूत्रभाष्यगतपूर्वपक्षतृतीयहेतोरनुवादः । ४ सारूप्याभावादित्यनन्तरमध्यवसायादनवधारणात्मकः संशयो नोपपद्यत इति पवपक्षचतुर्थहेतोरनुवादः ।

द्वितीयाध्याये प्रथमाह्निके षष्ठं सूत्रम् यस्य चानुत्पादाद् यन्नोत्पद्यते तत्कारणं कार्यमितरदित्येतत्सारूप्यम् । अस्ति च संशयकारणे संशये चैतदिति । एतेनानेकधर्माध्यवसायादिति प्रतिषेधः परिहत इति । यस्पुनरेतदुक्तं “विप्रतिपत्त्यव्यवस्थाध्यवसायाञ्च न संशय” इति, पृथक्प्रवादयोाहतमर्थमुपलभे विशेषं च न जानामि नोपलभे येनान्यतर- मवधारयेयम् , तत्कोऽत्र विशेषः स्याद्येनैकतरमवधारयेयमिति संशयो विप्रति- पत्तिजनितोऽर्थः न शक्यो विप्रेतिपत्तिसम्प्रतिपत्तिमात्रेण निवर्त्तयितुमिति । एवमुपलब्ध्यनुपलब्ध्यव्यस्थाकृते संशये वेदितव्यमिति । यत्पुनरेतत्-" प्रतिपत्तौ च सम्प्रतिपत्तेरिति” विप्रतिपत्तिशब्दस्य- योऽर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुः । तस्य च समाख्यान्तरेण न निवृत्तिः । समानेऽधिकरणे व्याहताौँ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः । तद्- व्यवसायश्च विशेषापेक्षः संशयहेतुः। न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुत्वं निवर्तते । तदिदमकृतबुद्धिसम्मोहनमिति । १ अस्ति चेति । अत्र केषाञ्चिन्मतेन द्विविधं सारूप्यं भाष्यकारेणोक्तम्-कारणरय भावाभावयोः कार्यस्य भावाभावावित्येकं सारूप्यम् , कारणस्योत्पादात्कारणमुत्पद्यते तदनुत्पादाच्च नोत्पद्यत इत्यपरम् । किन्तु द्वितीयस्य पूर्वानुवादकत्वमेव स्पष्टं प्रतिभाति । वार्तिकमतेन तु विशेपानवधारणमात्रमेव संशयतत्कारणयोः सारूप्यम् । यद्यु- त्पत्तिः सारूप्यं कार्यकारणयोस्तदा नित्यद्रव्याणां तादृशसारूप्याभावादकारणतैव स्यादित्येव भाप्यमतेऽरुचिबीजम् । २ विप्रतिपत्तिसम्प्रतिपत्तीति । विप्रतिपन्नयोर्द्वयोः पुरुषयोर्या विप्रतिपत्तिस्तस्याः सम्प्रतिपत्तिानं पावस्थस्य तृतीयस्य, तन्मात्रेणेत्यर्थः । यत्पुनरिति तृतीयसूत्र- गताक्षेपस्य परामर्शः। ३ समाख्यान्तरेणेति-विप्रतिपत्तिपदस्य प्रसिद्धोऽथों मतभेदस्तस्याध्यवसाया- ज्ज्ञानाद्विशेषापेक्षासंशय उत्पद्यत इति निर्विवादं स्थिते वित्तिपत्तेः 'सम्प्रतिपत्ति' रिति नामान्तरमुद्भाव्य तस्याः संशयकारणत्वं निषेधयितुं न शक्यते । विप्रतिपन्न- योरेकैकम्प्रति स्वमतस्य सम्प्रतिपत्तिरूपत्वेऽपि पार्श्वस्थं तृतीयम्प्रत्युभयोर्विप्रतिपत्ति- रूपतैवेति हृदयम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ सू०७ - -- यत्पुनः-" अव्यवस्थात्मनि व्यवस्थितत्वाचाव्यवस्थाया" इति संशय- हेतोरर्थस्याप्रतिषेधादव्यवस्थाभ्यनुज्ञानाच्च निमित्तान्तरेण शब्दान्तरकल्पना- व्या शब्दान्तरकल्पना। अव्यवस्था खलु व्यवस्था न भवत्यव्यवस्थात्मनि व्यवस्थितत्वाति । नानयोरुपलव्ध्यनुपलब्ब्योः सदसद्विषयत्वं विशेषापेक्ष संशयहेतुर्न भवतीति प्रतिषिध्यते, यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति, तावता ह्यनुज्ञाताऽव्यवस्था । एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति । यत्पुनरेतन्-“तथात्यन्तसंशयः तद्धर्मसातत्योपपत्तेः" इति, नायं समान- धर्मादिभ्य एव संशयः । किं तर्हि ? तद्विषयाध्यवसायाद् विशेषस्मृतिसहिता- दित्यतो नात्यन्तसंशय इति । "अन्यतरधर्माध्यवसायाद्वा न संशय” इति । तन्न युक्तम् । विशेषापेक्षा विमर्शः संशय इति वचनान् । विशेषाश्चान्यतरधर्मः । न तस्मिन्नध्यवसीयमाने विशेषापेक्षा सम्भवतीति ।। ६ ॥ यंत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ ७ ॥ यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्ध समाधिर्वाच्य इति । अतः सर्वपरीक्षाव्यापित्वात् प्रथम संशयः परीक्षित इति ॥ ७ ॥ इति संशयपरीक्षा प्रकरणम् ।। : १ यत्पुनरिति चतुर्थसूत्रगतपूर्वपक्षपरामर्शः। २ अव्यवस्था खल्विति । या किल ' अव्यवस्था' इति नाम्ना प्रसिद्धा तस्याः अव्यवस्थात्मनि ' अव्यवस्थात्वे ' व्यवस्थितत्वात् ' निश्चितत्वात् सा ' व्यवस्था' न भवितुमर्हति । अतस्तस्या व्यवस्थेति यन्नामान्तरकल्पनं तत्सर्वथा व्यर्थमेवेत्यर्थः । ३ अनुज्ञातेति-पूर्वपक्षिणेत्यर्थः । ४ यत्र संशय इत्यादि सूत्रम् । अस्य यथाश्रुत्यर्थों भाष्यकारेणैव स्पष्टीकृतः । परिशुद्धिकारस्तस्य तात्पर्यान्तरमपि वर्णयाञ्चकार । तद्यथा । यस्य (पदार्थस्य) विषये संशयस्तस्यैव परीक्षोपयुक्ता । प्रयोजनादीनां तु परीक्षा नास्ति । यतोऽस्मिन् विषये संशयो नास्ति । आगोपाङ्गनमा च पण्डितरूपेभ्योऽविवादसिद्ध संदेहाभावात् । अथवा प्रयोजनादयोऽप्यतिदेशेन परीक्षिताः । यत्र क्वचित् संशयः स्यात् तत्रैवमुत्तरो- त्तरप्रसङ्गः कर्तव्यः । उतरोत्तरेषु प्रयोजनादिषु परीक्षाप्रसङ्गः कर्तध्य इति भावः ॥ - -~सु. १०] द्वितीयाध्याये प्रथमाह्निके दशमं सूत्रम् ७९ " - (२) प्रमाणसामान्यपरीक्षा प्रकरणम् । अथ प्रमाणपरीक्षा- प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः" ॥ ८॥ प्रत्यक्षादीनां प्रमाणत्वं नास्ति त्रैकाल्यासिद्धेः। पूर्वापरसहभावानुप- पत्तेरित्यर्थः ॥ ८ ॥ अस्य सामान्यवचनस्यार्थविभाग:- "पूर्व हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः” ॥ ९ ॥ "गन्धादिविषयं ज्ञानं प्रत्यक्षम् । तद्यदि पूर्व, पश्चाइन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षादुत्पद्यत इति ॥ ९ ॥ 'पश्चासिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥ असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् । प्रमाणेन खलु प्रमीयमाणोऽर्थः प्रमेयमित्येतत्सिध्यति" ॥ १० ॥ . १ अथ प्रमाणेति । आर्थेन हि क्रमेण संशयपरीक्षायामुद्देशकमो बाधितः प्रमाणादिषु तु तद्बाधकारणाभावादुद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक् प्रमाणान्येव परीक्षितानि । तत्रापि प्रथमं प्रमाणसामान्यलक्षणपरीक्षा, तत्पूर्वकत्वाद्विशेषलक्षणा- नाम् । तत्र सामान्यलक्षणम्-'उपलब्धिसाधनं प्रमाणमिति' । तच्चोपलब्धिसाधन- स्वं प्रत्यक्षादीनामेव । २ प्रत्यक्षादीनामिति पूर्वपक्षसूत्रम् । अयमत्र पूर्वपक्षिणो माध्यमिकस्याभि- सन्धिः । यद्यपि मम विश्वविचारासहत्ववादिनः प्रमाणं नाम न किञ्चिदस्ति विचार- सहम् , तथाऽपि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः पर्यालोच्यमानानि विचारं न सहन्ते । सोऽयं प्रमाणानामपराधो यानि स्वविरोधेन विलीयन्ते, न ममापराध इति । प्रयोगस्तु-प्रत्यक्षादयो न प्रमाणत्वेन व्यवहर्तव्याः, काल लयेऽप्यथाप्रतिपादकत्वात्- यदेवन्न तत् प्रमाणत्वेन व्यवह्रियते-यथा शशविषाणम्-तथा चैतत्-तस्मात्तथेति । ३ पूर्व हीत्यादि पूर्वपक्षसूत्रम् । ज्ञानं हि 'प्रमाणम् । तद्योगात् ' प्रमेयम्' इति च ' अर्थ' इति च भवति । तद्यदि प्रमाणं प्रमेयादर्थात् पूर्वमुत्पद्यते ततः प्रमाणात्पूर्वन्नासावर्थ इतीन्द्रियार्थेत्यादिसूत्रव्याघात इत्यर्थः । ४ पश्चादित्यादि द्वितीयं पूर्वपक्षसूत्रम् । अथ पूर्व प्रमेयं पश्चात् प्रमाणं तत्राह पश्चादिति । यद्यप्यर्थस्य स्वरूपं न प्रमाणाधीनं तथापि तस्य प्रमेयत्वं तदधीनम् । तदपि चेत् प्रमाणात् पूर्व न प्रमाणयोगनिबन्धनं स्यादित्यर्थः । ..

. , . खद्योतसहितन्यायसूत्रभाष्ये [अ० १, आ० २ सू०११- युगपसिद्धो प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धी- नाम् ॥ ११ ॥ यदि प्रमाणं प्रमेयं च युगपद्भवतः एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपत्सम्भवन्तीति ज्ञानानां प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः । या इमा बुद्धयः क्रमेणार्थेषु वर्तन्ते तासां क्रमवृत्तित्वं न सम्भवतीति। व्याघातश्च 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ' (१,१,१६ ) इति । एतावांश्च प्रमाणप्रमेययोः सद्भावविषयः । स चानुपपन्न इति । तस्मात्प्रत्यक्षादीनां प्रमाणत्वं न सम्भवतीति"। अस्य समाधिः-उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसह- भावानियमाद्यथादर्शनं विभागवचनम् । कचिदुपलब्धिहेतुः पूर्व, पश्चादुपलब्धि- विषयः--यथादित्यस्य प्रकाश उत्पद्यमानानाम् । कचित्पूर्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुः-यथावस्थितानां प्रदीपः । कचिदुपब्धिहेतुरुपलब्धिविषयश्च सह भवतः-वथा धूमेनाग्नेब्रहणमिति । उपलब्धिहेतुश्च प्रमाणं, प्रमेयं तूप लब्धिविषयः । एवं प्रमाणप्रमेययोः पूर्वापरसहभावेऽनियते यथाऽर्थो दृश्यते तथा विभज्य वचनीय इति । तत्रैकान्तेन प्रतिषेधानुपपत्तिः। सामान्येन खल्वविभज्य प्रतिषेध उक्त इति । १ युगपदित्यादि द्वितीयपूर्वपक्षसूत्रम् । योगपचे दृष्टव्याघातः सूत्रव्या- वातश्चेत्यर्यः। २ एतावानिति । पूर्ववृत्तित्वम्-पश्चादावित्वं-योगपद्यं वा इत्येत एव त्रयः पक्षाः सम्भवन्ति प्रमाणप्रमेययोर्विषये। ३ अस्य समाधिरिति गतसूत्रत्रयोद्भावितपूर्वपक्षस्य समाधानमाह । ४ उपलब्धिहेतोरित्यादिवाक्यस्य क्वचित्सूत्रस्वेनोल्लेखः प्रामादिकः । ५ 'उपलब्धिहेतुः' प्रमाकरणम् । ' उपलब्धिविषयः' प्रमेयः । यथादर्शनमिति यथाप्रमाणमित्यर्थः। ६ आदित्यस्येति । आदित्यप्रकाशचिरन्तनस्थायि, तदुद्भासिताः पदार्थास्तु क्रमश उत्पद्यन्ते। ७ खल्वविभज्येति पाठः सम्यक् । यतः पूर्वपक्षिणा 'सामान्येन' प्रमाणसा- मान्यप्रमेयसामान्यपरतया- अविभज्य ' पदार्थविशेषावस्थाविशेषादिवैशिष्टयम- विचायव सर्वप्रमाणप्रतिषेध उक्तः । खलु विभज्येत्येव पाठः स्वीकृत्य भाष्य चन्द्रेण - .. व्याख्यातः।

द्वितीयाध्याये प्रथमाह्निके त्रयोदशं सूत्रम् . समाख्याहेतोबैकाल्ययोगात्तथाभूता समाख्या । यत्पुनरिदम्-“पश्चा- सिद्धावसति प्रमाणे प्रमेयं न सिध्यति । प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति विज्ञायत" इति-प्रमाणमित्येतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तम् । तस्य त्रैकाल्ययोगः । उपलब्धिमकार्षीदुपलब्धि करोति उपलब्धि करिष्य- तीति समाख्याहेतोत्काल्ययोगात् समाख्या तथाभूता। प्रमिताऽनेनार्थः प्रमी- यते प्रमास्यत इति प्रमाणम् । प्रमितं प्रमीयते प्रमास्यते इति च प्रमेयम् ! एवं सति भविष्यत्यस्मिन् हेतुन उपलब्धिः, प्रमास्यतेऽयमर्थः प्रमेयमिदमित्येत त्सर्वं भवतीति । काल्यानभ्वनुज्ञाने च व्यवहारानुपपत्तिः । यश्चैवं नाभ्यनुजानीयात्तस्य चकमानय पश्यति लावकमानय लविध्यताति व्यवहारो नोपपद्यत इति । प्रत्यक्षादीनामनामाण्यं त्रैकाल्यासिद्धे" रित्येवमादिवाक्यं प्रमाणप्रति- पंधः । तत्रायं प्रष्टव्यः---अयानेन प्रतिषेधेन भवता किं क्रियत इति । किं सम्भवो निवयते अबालन्यवो ज्ञाचत इति ? तथादिमन्मयो नित्रवते, सनि सम्भवे प्रत्यक्षादीनां प्रतिधानुपपत्तिः । अथासम्मको ज्ञायते, प्रमाणलक्षणं प्राप्तस्तहि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुत्वादिति ।। ११ ।। " किंचात:- त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ १२ ॥ अस्य तु विभागः । पूर्व हि प्रतिषेधसिद्धावसति प्रतिषध्ये किं प्रतिषि- व्यते । पश्चासिद्धौ प्रतिपेध्यासिद्धिः प्रतिषेधाभावादिति । युगपत्सिद्धौ प्रति- ध्यसिद्धयश्यनुज्ञानादनर्थकः प्रतिषेध इति । प्रतिषेधलक्षणे च वाक्येऽनुपपदा- माने सिद्धं प्रत्यक्षादीनां प्रमाणत्वमिति ॥ १२ ॥ सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ १३ ॥ . .. १ प्रमाणप्रतिषेधः-आत्यन्तिक इति भावः । २ सम्भवः--प्रत्यक्षादीनां प्रमाणानामिति शेषः । ३ सति सम्भव इति । यस्य सम्भवः--यन्नात्यन्तमसत्-तस्यात्यन्तिकः प्रतिषेधो नोझावयितुं शक्य इति हृदयम् । ४ अथासम्भव इति । यदि पूर्वपक्षिणः प्रतिपेषवाक्यमसम्भवस्य ज्ञापकं तदा ज्ञापकत्वसाम्यात् प्रमाणस्वभावमेव भवति । ततश्च प्रमाणप्रतिषेधे ये हेतवः पूर्व- पक्षिणोद्भावितास्तैरेव तदीयप्रतिपेधवाक्यमपि प्रतिषिद्धं भवतीति भावः । न्या. सू.६ खद्योतसहितन्यायसूत्रभाष्ये [अ०२,आ०१ सू० १४- । n । कथम् ? त्रैकाल्यासिद्धेरित्यस्य हेतोर्यादाहरणमुपादीयते हेत्वर्थस्य साध- कत्वं दृष्टान्त दर्शयितव्यमिति । न च तर्हि प्रत्यक्षादीनामप्रामाण्यम् । अथ प्रत्यक्षादीनामप्रामाण्यम् , उपादीयमानमप्युदाहरणं नार्थ साधयिष्यतीति । सोऽयं सर्वप्रमाणैाहतो हेतुरहेतुः । सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध (१.२,६) इति । वाक्यार्थो ह्यस्य सिद्धान्तः। स च वाक्यार्थः-प्रत्यक्षादीनि नार्थं साधयन्तीति । इदं चावयवानामुपादानमर्थस्य साधनायेति । अथ नोपादीयते, अप्रदर्शितहेत्वर्थम्य दृष्टान्ते न साधकत्वमिति । निषेधो नोपपद्यते हेतुत्वामिद्धेरिति ॥ १३॥ तत्प्रामाण्य वा न सर्वप्रमाणविप्रतिषेधः ॥ १४ ॥ प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्येऽभ्य- नुज्ञायमाने परवाक्येऽप्यवयवाश्रितानां प्रामाण्यं प्रसज्यते-अविशेषादिति । एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति । विप्रतिषेध इति वीत्ययमुपसर्गः सम्प्रतिपत्त्यर्थे, न व्याघातेऽर्थाभावादिति ।। १४ ।। त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तसिद्धेः ॥१५॥ "किमर्थं पुनरिदमुच्यते ? : वाक्यार्थ इति । 'प्रमाणानि नार्थ साधयन्ति-' इति वाक्यं पूर्वपक्षिण: सिद्धान्तप्रतिपादकम् । तत्साधनाय पञ्चावयवोपपन्नानुमानवाक्यान्युद्भावितानि । प्रत्येकं चैतेऽवयवाः स्वार्थप्रतिपादकाः, तत्प्रतिपादकत्वा ते प्रमाणानि । एवम प्यव- यववाक्यानां स्वसिद्धान्तसाधनायोद्भावने विरुद्धो नाम हेत्वाभासः । २ अप्रदर्शितेति । दृष्टान्ते अग्रदर्शितहेत्वर्थस्य साधकत्वमेव न ' इत्यन्वयः। यस्य हतोः हेतुभावो न प्रदर्शितस्तादृशो हेतुः किमपि साधयितुन्नार्हति । अथ वा यावद्भवतां स्वोद्भावितहेतोदृष्टान्ते हेतुत्वन्न प्रदर्शितन्तावत् तस्य सम्भवति । अस्मिन् पक्षे अप्रदर्शितहेत्वर्थस्य तवेति सम्बन्धः । ३ वीत्ययमुपसर्ग इति । यावदुक्तं विशेषेण सर्वेषु प्रमाणेषु प्रतिषेध इति ताव- टुक्तं भवति विप्रतिषेध इति । कानिचित्प्रमाणानि प्रतिषिध्यन्ते कानिचिदभ्यनुज्ञा- यन्ते-स्ववाक्याश्रितान्यभ्यनुज्ञायन्ते परवाक्याश्रितानि प्रतिषिध्यन्ते । तच्च नातीवोचितं प्रमाणप्रतिषेधकस्य माध्यमिकस्येत्यर्थः। ४ किमर्थमिति । एकादशसूत्रभाष्ये अस्य समाधिरित्यस्यानन्तरमुक्तम्-'उप- लब्धिहेतोरित्यादि' समुद्दिश्य प्रश्नः । यत्तत्रोक्तं तदेवात्र पुनः किमर्थमुच्यत इति भावः। एतत्प्रश्नबलेनैव पूर्वोक्तं वाक्यमुलब्धिहेतोरिल्यादिविभागवचनमित्यन्तं सूत्र- त्वेनाभिप्रयन्ति केचित् । एवं सत्येवानत्यं त्रैकाल्याप्रतिषेधश्चेति वाक्यं प्रति पौनरु- साधकत्वन --- . १६] द्वितीयाध्याये प्रथमाह्निके पोडशं सूत्रम् । पूर्वोक्तनिबन्धनार्थम् । यत्तावत्पूर्वोक्तम्-" उपलब्धिहेतोरुपलब्धि- विषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनमिति "- तदितःसमुत्थानं यथा विज्ञायेत । अनियमदर्शी खल्वयमृषिनियमेन प्रतिषेधं प्रत्याचष्टे । त्रैकाल्ये चायुक्तः प्रतिषेध इति । तत्रैकां विधामुदाहरति शब्दादातोद्यसिद्धिवदिति । यथा पश्चालिद्धेन शब्दन पूर्वसिद्धमातोद्यमनुमीयते । साध्यं चातोद्यं साधनं च शब्दः । अन्त- हिते ह्यातोये स्वनतोऽनुमानं भवतीति । वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेण आतोद्यविशेष प्रतिपद्यते । तथा पूर्वसिद्धमुपलब्धिविषयं पश्चा- सिद्धेनोपलब्धिहेतुना प्रतिपद्यत इति । निदर्शनार्थत्वाच्चास्य शेषयोर्विधयोर्यथोक्तमुदाहरणं वेदितव्यमिति । कस्मात्पुनरिह तन्नोच्यते ? ' पूर्वोक्तमुपपाद्यत इति । सर्वथा तावदयमर्थः प्रकाशयितव्यः । स इह वा प्रकाश्येत तत्र वा-न कश्चिद्विशेष इति ॥ १५ ॥ प्रमाणं प्रमेयमिति च समाख्या समावेशेन वर्तते समाख्यानिमित्त- वशात् । समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश्च प्रमेय- मिति । यदा च उपलब्धिविषयः कचिदुपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयमिति चैकोऽर्थोऽभिधीयते ॥ अस्यार्थस्यावद्योतनार्थमिदमुच्यते--- प्रेमया च तुला प्रामाण्यवत् ॥ १६ ॥ क्याक्षेपः स्यादिति तेषामाशयः । किन्त्वेतन्मतं भाष्यस्थयैवाग्रिमपंक्त्या पूर्वोक्त- निबन्धनार्थमित्यादिरूपया पराहतम् । एकादशसूत्रभाष्ये यदुक्तं तस्य बीजमन्नत्य- सूत्रमेवेति ब्रुवता भाष्यकारेण पूर्वस्य वाक्यस्यासूत्रत्वमनत्यस्य च सूत्रत्वं स्पष्टीकृतम् । १ पूर्वोक्तेति । एकादशसूत्रे यदस्माभिरुक्तं न तदुत्सृनमपि तु सूत्रोक्तार्थ एवेति भावः । २ इतस्समुत्थानमिति । इतः अत्रैव त्रैकाल्येत्यादिसूत्रे समुत्थानम् बीजं यस्य .. तत। ३ समावेशेनेति । समावेशो नियम इति वार्तिकम् । ४ प्रमेया चेति सूत्रपाठी वाचस्पतिमिश्रसम्मतः। तदन्वयश्च-'तुला प्रामाण्यवत् प्रमेया च' इति । तुला यथा प्रमाणं भवति तथा प्रमेया चेत्यर्थः। तुला सुवर्णा- दिगुरुत्वे 'प्रमाणम् ' भवति । किन्तु यदाऽस्याः प्रामाण्यं प्रति सन्देहो भवति तदा वद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० १ सू० १६ गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणं, ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम् । यदा सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्ती सुवर्णादि प्रमाणं तुलान्तरं प्रमेयमिति । ऐवमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः। आत्मा तावदुपलब्धिविषयत्वात प्रमेये परिपठितः । उपलब्धौ स्वातन्त्र्यात् प्रमाता । बुद्धिरुपलब्धिसाधनत्वात् प्रमाणम् । उपलब्धिविषयत्वात् प्रमेयम् । उभयाभावात् तु प्रमितिः । एव- मर्थविशेष समाख्यासमावेशो योज्यः । तथा च कारकशब्दा निमित्तवशान् समावेशेन वर्तन्त इति । वृक्षस्तिष्ठतीति स्वस्थितौ स्वातन्त्र्याकर्ता । वृक्षं पश्य- तीति दर्शनेनाप्तुमिष्यमाणतमत्वात् कर्म । वृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम् । वृक्षायोदकमासिञ्चतीति आसिच्यमानोदकेन वृक्षमभि- प्रैतीति सम्प्रदानम् । वृक्षात्पर्णं पतीति ध्रुवमपायेऽपादानमित्यपादानम्। वृक्ष वयांसि सन्तीत्याधारोऽधिकरणमित्यधिकरणम् । एवं च सति न द्रव्यमानं कारकं, न क्रियामात्रम् । किं तर्हि ? क्रियासाधनं क्रियाविशेषयुक्तं कारकम् । यत्क्रियासाधनं स्वतन्त्रः स कर्ता, न सिद्धप्रमाणभावेन तुलान्तरेण यत् परीक्षितं सुवर्णादि तेन तुलायाः प्रामाण्यं निर्धार्यते- तत्र चेयं 'प्रमेया' भवति । एवमेव प्रत्यक्षादीनि प्रमाणान्यपि स्वगोचरविपयं प्रति ग्रमाणानि प्रमेयाणि स्वस्वज्ञानम्प्रतीति हृदयम् ।। प्रमेयता चेति पाठः क्वचिद्वार्तिकपुस्तकेषु नवीनसूत्रव्याकर्तृभिश्च पृतः । तत्र- प्रमाणानाम्प्रमयता च भवति, तुलाग्रामाण्यवत्-यथा तुलायाः प्रामाण्यम्न मेयता चैवमेव प्रमाणानाम्पीति भावः। १ व्यवस्थाप्यत इति । शुद्धत्वेन परीक्ष्यत इत्यर्थः । २ अनवयवेनेति । कात्स्त्यनेत्यर्थः । उक्तः प्रमेयप्रमाणसमारण्यासमावेशः सकलशास्त्रविपयं व्यामोतीति भावः । ३ एवं च सतीत्यारभ्य हातुमहतीत्यन्तं ग्रन्थं केचित्पूर्वपक्षत्वेनाभिप्रयन्ति । तन्मतेन च ' अस्ति भोः' इत्यादि ग्रन्थस्तत्पूर्वपक्षस्य समाधानम् ' इत्येवमादिने'- त्येतत्पर्यन्तम् । पुनः सेयमुपलब्धिरित्यपरः पूर्वपक्षः। वार्तिकतात्पर्यादिमतेन तु ‘एवं चेत्यादि' हातुमर्हतोत्यन्तं सिद्धान्तिन एव वचनम् । तदनन्तरम् अस्ति भोरित्याद्यष्टादशसूत्रपर्यन्तं पूर्वपक्षवचनम् । ४ द्रव्यमानं कारकमिति माध्यमिकराद्धान्तः । ५ क्रियामात्रमिति । अवान्तरक्रियामात्रमित्यर्थः। ६ क्रियासाधनमिति । यत् प्रधानक्रियासाधकमवान्तरक्रियायुक्त तत्कारक- मित्यर्थः। .. १ ८५ -सू. १६ ] द्वितीयाध्याये प्रथमाह्निके षोडशं सूत्रम् द्रव्यमानं न क्रियामात्रम् । क्रियया व्याप्तुमिष्यमाणतमं कर्म, न द्रव्यमानं न क्रियामात्रम् । एवं साधकतमादिष्वपि । एवं च कारकान्वाख्यानं यथैव उपप- नितः, एवं लक्षणत: कारकान्वाख्यानमपि, न द्रव्यमात्रेण न क्रियया वा ! कि नहिं ? क्रियासाधने क्रियाविशेषयुक्त इति । कारकशब्दश्चायं प्रमाणं प्रमेय- निति । स च कारकधर्मं न हातुमर्हति ।। १६ ।। " अस्ति भोः कारकशब्दानां निमित्तवशात् समावेशः । प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात् , प्रमेयं चोपलब्धिविषयत्वात् । संवेद्यानि च प्रत्यक्षादीनि प्रमाणानि, प्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे प्रत्यक्षं में ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिकं में ज्ञानमिति विशेषा गृह्यन्ते । लक्षणतश्च ज्ञाप्यमानानि ज्ञायन्ते विशेषणेन्द्रि- यार्थसान्नकर्पोत्पन्नं ज्ञानमित्येवमादिना । सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतोऽथान्तरण प्रमाणान्तरमसाधनेति" ।। 3 कश्चात्र विशेष: ? - .. ५ पूर्वपक्षमुत्थापयति अस्ति भोरिति । २ उपलब्धिविषयत्वं कुत इत्यत आह प्रत्यक्षमिति । अयमत्र पूर्वपक्षसङ्केपस्तात्पर्यकारोक्तः । अत्रैते कल्पा उपप्लवन्ते। किं प्रत्यक्षा- दीनामुपलब्धिः ससाधना निस्साधना वा। यदाऽपि ससाधना तदाऽपि किमेभिरेव प्रत्यक्षादिभिराही प्रमाणान्तरेण ! यदाऽप्येभिस्तदाऽपि किं तयैव प्रत्यक्षव्यवत्याऽथैका व्यक्तिय॑क्त्यन्तरेणेति । तत्र प्रमाणान्तराभ्युपगमे विभागसूत्रव्याघातोऽनवस्थापातश्च । नत्र प्रत्यक्षादिभिः प्रत्यक्षाद्यन्तराणां ग्रहणेऽनवस्थापातः। तयैव व्यक्त्या तु ग्रहणे आत्मनि वृत्तिविरोधः । नहि तयैवासिधारया सेवासिधारा छिद्यते। तस्मादसाधना प्रमाणोपलब्धिः । एवं चेत् कृतं प्रमेयसाधनैः प्रमाणैः प्रमाणवदसाधनैवास्तु प्रमेयोप- लब्धिरिति । ३ सिद्धान्ती पृच्छति कश्चेति । अयमन्त्र सिद्धान्तः-नासाधना प्रमाणसिद्धिर्नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणा- भ्युपगमो येन विभागसूत्रव्याघातः स्यात् । नापि च तयैव व्यक्त्या तस्या एव ग्रहणमुपेयते येनात्मनि वृत्तिविरोधो भवेत् । अपि तु प्रत्यक्षादिजातीयेन प्रत्यक्षादि- जातीयस्य ग्रहणमातिष्ठामहे । न चानवस्थाऽस्ति । किञ्चित्प्रमाणं स्वज्ञानेनान्यधीहेतु- यथा धूमादिः, किञ्चित्पुनरज्ञातमेव बुद्धिसाधनम्, यथा चक्षुरादि । तत्र पूर्व स्वज्ञाने चक्षुराद्यपेक्षम् । चक्षुरादि तु ज्ञानानपेक्षमेव ज्ञानसाधनमिति काऽनवस्था। बुभुत्सया खद्योतसहितन्यायसूत्रभाध्ये [अ०२, आ०१ सू०१७- प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥२७॥ "यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते, येन प्रमाणेनोपलभ्यन्ते तत्- प्रमाणान्तरमस्तीति प्रमाणान्तरसद्भावः प्रसज्यत इति । अनवस्थामाह तस्याप्य- न्येन तस्याप्यन्येनेति । न चानवस्था शक्याऽनुज्ञातुमनुपपत्तरिति” ॥ १७ ॥ अस्तु तर्हि प्रमाणान्तरमन्तरेण निःसाधनेति ?- तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः " ॥ १८ ॥ यदि प्रत्यक्षाापलब्धौ प्रमाणान्तरं निवर्तते, आत्माग्रुपलब्धावपि प्रमाणान्तरं निवर्व्यत्यविशेषात् " ॥ १८ ।। एवं च सर्वप्रमाणविलोप इत्यत आह-- न । प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ॥ १९ ।। यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वात् दृश्यदर्शने प्रमाणम् , स च प्रत्यक्षान्तरेण चक्षुषः सन्निकर्षण गृह्यते । प्रदीपभावाभावयोर्दर्शनस्य तथाभावाद्दर्शनहेतुरनु- मीयते । तमसि प्रदीपमुपादीथा इत्याप्तोपदेशेनापि प्रतिपद्यते । एवं प्रत्य- क्षादीनां यथादर्शनं प्रत्यक्षादिभिरेवोपलब्धिः । इन्द्रियाणि तावत् स्वविषय- ग्रहणेनैवानुमीयन्ते । अर्थाः प्रत्यक्षतो गृह्यन्ते । इन्द्रियार्थसान्निकर्षास्त्वावरणेन लिङ्गेनानुमीयन्ते । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमात्ममनसोः संयोगविशेषादा- त्मसमवायाञ्च सुखादिवद्गृह्यते । एवं प्रमाणविशेषो विभज्य वचनीयः । यथा च तदपि शक्यज्ञानम् । सा च कदाचिदेव क्वचिदिति नानवस्था। तस्मात्प्रत्यक्षादिभिः प्रत्यक्षादीनामुपलब्धिरिति । १ सिद्धान्तमवतारयति एवमिति । न प्रदीपेत्यादि सिद्धान्तसूत्रम् । २ गृह्यत इति । ततश्च प्रत्यक्षगम्य इत्यर्थः । ३ तथाभावादिति । भावाभावादन्वयव्यतिरेकादिति यावत् । ४ अनुमीयत इति । ततश्च शब्दोऽनुमानगम्य इति भावः । ५ प्रतिपद्यत इति । ततश्वायं शब्दप्रमाणगम्य इति भावः । ६ इन्द्रियेति। सन्निकर्षप्रतिरोधकावरणाभावे प्रत्यक्षं जायते, तद्भावे । न जायते । एवं चावरणाभावेन सग्निकर्षानुमानम् । ततश्चावरण मेव स्वाभावद्वारा तत्र लिङ्गमिति भावः। अनुमानस्वरूपं च प्रत्यक्षमिन्द्रियार्थसन्निकर्षजं ताशसन्निकर्षप्रति- रोधकावरणे सति सदभावादिति ।

nama द्वितीयाध्याये प्रथमाह्निके उनाविंशं सूत्रम् च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुरिति इंश्यदर्शनव्यवस्था लभते, एवं प्रमेयं सत्किञ्चिदर्थजातमुपलब्धिहेतुत्वात् प्रमाणप्रमेयव्यवस्था लभते । सेयं प्रत्यक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिर्न प्रमाणान्तरतो, न च प्रमाणमन्तरेण निःसाधनेति । 'तेनैव तस्याग्रहणमिति” चेद्, न अर्थभेदस्य लक्षणसामान्यात प्रत्यक्षादीनां प्रत्यक्षादिभिरेव ग्रहणमित्ययुक्तम् । अन्येन ह्यन्यस्य ग्रहण दृष्टमिति” । न, अर्थभेदस्य लक्षणसामान्यात् । प्रत्यक्षलक्षणेनानेकोऽर्थः सङ्- गृहीतः । तत्र केनचित्कस्यचिद् ग्रहणमित्यदोषः । एवमनुमानादिष्वपीति ! यथोद्धृतेनोदकेनाशयस्थस्य ग्रहणमिति । ज्ञातृमनसोश्च दर्शनात् । अहं सुखी अहं दुःखी चेति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते । 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ' (१, १, १६) इति च तेनैव मनसा तस्यैवानुमानं दृश्यते । ज्ञातुर्जेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति। . १ १ दृश्यदर्शनेति । दृश्यं -दर्शनविषयं-'दर्शनं -दर्शनकरणम्-इनि बा व्यपदेशं लभत इत्यर्थः। २ एवं प्रमेयमिति । किञ्चिद्वस्तु यदा ज्ञानस्य विषयस्तदा 'प्रमेयमिति'. यदा ज्ञानस्य हेतुः करणन्तदा 'प्रमाणमिति' व्यपदेशं लभते । ३ अर्थभेदस्येति । तस्वतः प्रत्यक्षव्यक्तयो भिन्ना एव-केवल मिन्द्रियार्थसन्नि- कर्षजत्वादिसादृश्येन प्रत्यक्षमित्यनेन नाम्ना सङ्गृहीता व्यपदिष्टा भवन्ति । एवं व एकस्य प्रत्यक्षस्य प्रत्यक्षान्तरेण ग्रहणे न तस्यैव तेन ग्रहणम्भवति । ४ उद्धृतेनेति । जलाशयादुद्धतेन जलेन जलाशयस्थस्य जलस्यानुमानम् । तत्र यद्यपि जलेनैव जलस्यानुमानं तथाऽपि न तत्त्वतस्तेनैव तद्ग्रहणम् । ५ ज्ञातृमनसोरिति । ज्ञाताज्ञेय इति सकर्माभिप्रायम् । नान्यस्य समवेता ज्ञानक्रिया, येनात्मनः कर्मता स्यात, अपि तु ज्ञातृस्थैव । परसमवेतफलशालि हि कर्मेत्युक्तम् । तस्मात्सुखादीनामास्मधर्माणामत्र कर्मता आत्मनस्तु प्रकाशमानता। तन्त्र विवक्षया ज्ञेयत्वाभिधानम् । मनस्तु यद्यपि करणं कर्म स्वज्ञानं प्रति करणं च तथापि न स्वात्मनि वृत्तिविरोधः । यदि हि ज्ञानं करणं भवेत्तदाऽऽत्माश्रयदोषग्रसङ्गः । स्वसत्तया च ज्ञान प्रति करणम् । अन्यच्च स्य ज्ञानमन्या च सत्ता। न च तत्समवेता ज्ञानक्रिया, किन्त्वात्मसमवेता । तस्माज्ज्ञेयत्वं ज्ञानसाधनत्वं च मनसो न दोषमहतीति हृदयम् । ६ ग्राह्यस्येत्यस्य स्थाने ग्राहकस्येति क्वाचिरकः पाठो न सम्यक् । अहं सुखीत्यादौ ज्ञातुज्ञेयस्य चाभेदः । मनसोऽनुमाने च मन एव ग्रहणकरणम् ग्रहणविषयश्च । नचात्र ग्राहकस्य ज्ञातुस्समावेशः । ..

स्वद्योतसहितन्यायसूत्रभाध्ये [अ०२, आ०१ सू०२०- " ---- निमित्तभेदोऽत्रेति " चेत्,-समानम् । न निमित्तान्तरेण विना ज्ञाताऽऽत्मानं जानीते। न च निमित्तान्तरेण विना मनसा मनो गृह्यत इति ।" समानमेतत् प्रत्यक्षादिभिः । प्रत्यक्षादीनां ग्रहणमित्यत्राप्यर्थभेदो गृह्यत इति । प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः । यदि स्यात किंचिदर्थजातं प्रत्यक्षा- दीनामविषयः----यत्प्रत्यक्षादिभिर्न शक्यं ग्रहीतुम्-तस्य ग्रहणाय प्रमाणान्तरमु- पाढीयेन तन्तु न शक्यं केनचिदुपपादयितुमिति । प्रत्यक्षादीनां यथादर्शनमेवेदं महासच सर्वं विपय इति ।। १९ ।। केचित्तु दृष्टान्तमपरिगृहीतं हेतुना विशेषहेतुमन्तरण साध्यसाधनायो- पाददत-"वथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण गृह्यते तथा प्रमाानि प्रमाणान्तरमन्तरेण गृह्यन्त इति” । स चायम्- चिनिवृत्तिदर्शनानिवृत्तिदर्शनाञ्च क्वचिदनैकान्तः ॥ २० ॥ प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधनायोपादीयते ५ असञ्चति । असनः प्रमाणविषयत्वम्प्रदर्शितमुपोद्धातभाप्ये प्रथमसूत्रे- अमच्चादिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवतीति ॥ १९ ॥ २ केचित्वित्यादि आचार्यदेशीयानां मतम् । तद्यथा-प्रदीपप्रकाशो यथा न प्रका- शान्तरमपेक्षते एवम्प्रमाणान्यपि प्रमाणान्तरमनपेक्षमाणान्यपि सन्ति भविष्यन्तीति । विशेषहेनुमन्तरेण हेतुनाऽपरिगृहीतमेव दृष्टान्तं साध्यसाधनायोपाददते इति यथा चायं . १ सम्बन्धः । - १ ७ " ३ न्यायसूचीनिबन्ध कचिदित्यादि सूत्रत्वेनोपन्यस्तम् । उक्ताचार्यदेशीयान प्रत्येतदिति चोक्तं वाचस्पतिमिश्रेण तात्पर्ये । अपरे तु हेतुविशेषपरिग्रहमन्तरेण दृष्टान्त- मानं प्रदीपप्रकाशसूत्रेणोपादढ़ते तान् प्रतीदमुच्यत इति वार्तिकम् । सूत्राथस्तु- ' कचित् ' प्रदीपादौ प्रमाणान्तरस्य निवृत्तिदर्शनात् वचित् ' रूपादिप्रकाशकवटादौ प्रमाणान्तरस्य अनिवृत्तिदर्शनात् प्रमाणान्तरापेक्षादर्शनादिति यावत्-त्वदीयः प्रकाशकत्वरूपो हेतुः ( प्रत्यक्षादयः प्रमाणान्तरनिरपेक्षाः प्रकाशकत्वादित्यत्रानुमाने) अनैकान्तः सव्यभिचार इत्यर्थः । तथा व प्रदीपदृष्टान्तेन यथा प्रमाणान्तरनिवृत्तिः साध्यते, तथैव घटदृष्टान्तेन प्रमा- मान्तरमापेक्षतव किन्न साध्यत इति । ४ अयं प्रसङ्ग इति । प्रमाणान्तारानपेक्षत्वप्रसङ्ग इत्यर्थः । निवृत्तिदर्शनादिति- प्रमाणान्तरस्येति शेषः । प्रदीपे प्रदीपान्तरानपेक्षया प्रकाशकत्वदर्शनात प्रमाणान्तरान- पेक्षाण्येवालोकवत प्रमाणानि सेत्स्यन्तीत्येवमर्थमुपादीयते प्रसङ्गः ।

द्वितीयाध्याये प्रथमाह्निके एकविंशं सूत्रम् स्विं प्रमेयसाधनायाप्युपादेयोऽविशेषहेतुत्वात् । यथा च स्थाल्यादिरूपग्रहण प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते, एवं प्रमाणसाधनायाप्युपादेयो विशेषहे- त्वभावात् । साऽयं विशेषहेतुपरिग्रहमन्तरेण दृष्टान्त एकस्मिन्पक्षे उपादेयो न प्रतिपक्षे इत्यनेकान्तः । एकस्मिंश्च पक्षे दृष्टान्त उपादेयो न प्रतिपक्षे दृष्टान्त इत्यनेकान्तो विशेपहेलभावादिति । "विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनु- ज्ञानादप्रतिषेधः। विशेषहेतुपरिगृहीतस्तु दृष्टान्त एकस्मिन्पले उपसंह्रियमाणो न झक्योऽननुज्ञातुम् । एवं च सत्यनेकान्त इत्ययं प्रतिषेधो न भवति । "प्रत्यक्षादीनां प्रत्यक्षादिभिरूपलब्धावनवस्थेति” चन् , न । संविद्विषय निमित्तानामुपलब्ध्या व्यवहारोपपत्तेः । प्रत्यक्षेणार्थमुपलभे अनुमानेनार्थमुपलभे उपमानेनार्थमुपलभे आगमेनार्थमुपलभे इति, प्रत्यक्षं मे ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिक में ज्ञानमिति-संवित्तिविषयं संवित्तिनिमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनस्तत्प्रत्यनीकपरिवर्जनप्रयोजनश्च व्यव- द्वार उपपद्यते । सोयं तावत्येव निर्वर्तते । न चास्ति व्यवहारान्तरमनवस्था- लाधनीयं येन प्रयुक्तोऽनवस्थामुपाददातेति ॥ २० ॥ इति प्रमाणसामान्यपरीक्षाप्रकरणम् ।। (३) प्रत्यक्षपरीक्षाप्रकरणम् । सामान्येन प्रमाणानि परीक्ष्य विशेषण परीक्ष्यन्ते । तत्र--- प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् " ॥ २१ ॥ १ एवं प्रमेयेति । प्रमेयाण्यप्यनपेक्षाण्येव सेत्स्यन्तीत्येवमर्थमुपादेयः । तथा च प्रमाणाभाव इत्यर्थः। २ स्थालीति । प्रदीपदृष्टान्ताश्रयणेन प्रमाणाभावप्रसङ्ग स्थाल्यादिदृष्टान्तोपादाने च प्रमाणान्तरापेक्षेति प्रदर्शितम् । ३ विशेषहत्विति । विशेपहेतुपरिग्रहमन्तरेण केवलदृष्टान्तोपादानेऽनिष्टं प्रदर्य ऊनविंशसूत्रभाध्यप्रदर्शितरीत्या विशेषहेतुपरिग्रहेऽनिष्टाभावं दर्शयति भाग्यकारः । ४ विशेपहेतुपरिग्रह इत्यादि वाक्यं भाप्यचन्द्रे सूत्रत्वेन स्वीकृतम् । ५ प्रत्यक्षेति पूर्वपक्षसूत्रम् । एतत्सूत्रस्थं लक्षणपदं केचिद् व्यवच्छेदकपरं वर्णयन्ति । तन्न सम्यक् । लक्षणं हि 'असमग्रं' सकलप्रत्यक्षाव्याप्त्या वा स्यात् , अतिव्यापकत्वेऽपेक्षितविशेषणान्तरानभिधानाद्वा स्यात् । न च प्रकृते तदेकमपि सम्भवति । यथाश्रुते सूत्रे लक्षणपदेन कारणाभिधानमेव प्रतिभासते । अतो यथाप्रति- भासमेव पूर्वपक्षोत्थानम् । .

१ स्वद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ०१ सू० २१. आत्ममनःसन्निकर्षो हि कारणान्तरं नोक्तमिति" ॥ २१ ।। "नै चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति, ज्ञानोत्पत्तिदर्शना दात्ममनःसन्निकर्षः कारणम् । मन:-सन्निकर्षानपेक्षस्य चेन्द्रियार्थसन्निकर्षस्ट ज्ञानकारणत्वे युगपदुत्पद्येरन बुद्धय इति मनःसन्निकर्षोऽपि कारणम् । तदिदं सूत्रं पुरस्तात्कृतभाष्यम्- नात्ममनसोः सन्निक भावे प्रत्यक्षोत्पत्तिः" ॥ २२ ॥ आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षमिन्द्रियार्थसन्निकी भाववदिति ॥ २२ ॥ सति चेन्द्रयार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतो- दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ २३ ॥ *दिगादिषु सत्सु ज्ञानभावात्तान्यपि कारणानीति । - ५ न चासंयुक्तेत्यादिभाप्यं नात्ममनसोरिति द्वाविंशं सूत्रमपटित्वैव व्याष्ट इति तात्पर्यकाराः। २ तदिदमिति ! ' इदम् ' अग्रिमं द्वाविंशं सूत्रं 'पुरस्तात् ' सूत्रपाठात् प्रागेव ‘कृतम्' उपन्यस्तं भाष्यं 'नचासंयुक्त'-इत्यादिरूपं यस्य तदेवंरूपमित्यन्वयः । द्वाविंशस्य सूत्रस्य भाप्यं सूत्रपाठात् प्रागेवोपन्यस्तमिति भावः । ३ नात्ममनसोरिति पूर्वपक्षसूत्रं, तदुपपादकतया भाष्यकारेण व्याख्यातत्वात् । अस्य सिद्धान्तसूत्रत्वे ज्ञानलिङ्गत्वादिति अयोविंशं सूत्रं तदयोगपद्येति चतुविशं चानर्थकमापयेत, पूर्वेणैव गतार्थत्वादिति परिशुद्धौ स्पष्टम् । ४ आत्ममनसोः सन्निकर्षाभावे यतः प्रत्यक्ष नोत्पद्यते तत एतत्सन्निकर्षस्य सन्निवेशः प्रत्यक्षलक्षणसूत्र आवश्यक इति सूत्रार्थः । ५ तदेवं सूत्राभ्यां पूर्वपक्षिते सति-भावमात्रेणेन्द्रियसन्निकर्षादीनामेतैः कारणव- मुक्तमिति मन्वानः पावस्थः प्रत्यवतिष्टते सिद्धान्तिनं पूर्वपक्षिणं च प्रति-सति- वेत्यादि कारणानीत्यन्तेन । पार्श्वस्थस्यैबेयमुक्तिर्न पूर्वपक्षिणो नापि सिद्धान्तिनः। यदि पूर्वपक्षिण उक्तिस्तदाऽऽत्ममनस्सन्निकर्षादेरकारणत्वव्युत्पादनेनासमग्रतापूर्वपक्षस्य विरोधः। यदि सिद्धान्तिन उक्तिस्तापसिद्धान्तः। ६ ब्रुवतः-सिद्धान्तिनः पूर्वपक्षिणश्च-दिगादिप्वप्येवं प्रसङ्ग इति सूत्रेणान्वयः। ७ दिगादिष्विति । न सति भावमात्रेण कारणत्वम् । तथा सत्याकाशादीनामपि कारणत्वप्रसङ्गः । पूर्वपक्ष्युपन्यस्तात्ममनस्संयंगे सिद्धान्त्युपन्यस्तेन्द्रियादिसयोगे च कारणस्वं सति भावमात्रेणोपन्यस्तम् । अतो नैतयोरपि कारणत्वं युक्तमिति पार्श्वस्थस्य हृदयम् ।

१ स्वद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ०१ सू० २१. आत्ममनःसन्निकर्षो हि कारणान्तरं नोक्तमिति" ॥ २१ ।। "नै चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति, ज्ञानोत्पत्तिदर्शना दात्ममनःसन्निकर्षः कारणम् । मन:-सन्निकर्षानपेक्षस्य चेन्द्रियार्थसन्निकर्षस्ट ज्ञानकारणत्वे युगपदुत्पद्येरन बुद्धय इति मनःसन्निकर्षोऽपि कारणम् । तदिदं सूत्रं पुरस्तात्कृतभाष्यम्- नात्ममनसोः सन्निक भावे प्रत्यक्षोत्पत्तिः" ॥ २२ ॥ आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षमिन्द्रियार्थसन्निकी भाववदिति ॥ २२ ॥ सति चेन्द्रयार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतो- दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ २३ ॥ *दिगादिषु सत्सु ज्ञानभावात्तान्यपि कारणानीति । - ५ न चासंयुक्तेत्यादिभाप्यं नात्ममनसोरिति द्वाविंशं सूत्रमपटित्वैव व्याष्ट इति तात्पर्यकाराः। २ तदिदमिति ! ' इदम् ' अग्रिमं द्वाविंशं सूत्रं 'पुरस्तात् ' सूत्रपाठात् प्रागेव ‘कृतम्' उपन्यस्तं भाष्यं 'नचासंयुक्त'-इत्यादिरूपं यस्य तदेवंरूपमित्यन्वयः । द्वाविंशस्य सूत्रस्य भाप्यं सूत्रपाठात् प्रागेवोपन्यस्तमिति भावः । ३ नात्ममनसोरिति पूर्वपक्षसूत्रं, तदुपपादकतया भाष्यकारेण व्याख्यातत्वात् । अस्य सिद्धान्तसूत्रत्वे ज्ञानलिङ्गत्वादिति अयोविंशं सूत्रं तदयोगपद्येति चतुविशं चानर्थकमापयेत, पूर्वेणैव गतार्थत्वादिति परिशुद्धौ स्पष्टम् । ४ आत्ममनसोः सन्निकर्षाभावे यतः प्रत्यक्ष नोत्पद्यते तत एतत्सन्निकर्षस्य सन्निवेशः प्रत्यक्षलक्षणसूत्र आवश्यक इति सूत्रार्थः । ५ तदेवं सूत्राभ्यां पूर्वपक्षिते सति-भावमात्रेणेन्द्रियसन्निकर्षादीनामेतैः कारणव- मुक्तमिति मन्वानः पावस्थः प्रत्यवतिष्टते सिद्धान्तिनं पूर्वपक्षिणं च प्रति-सति- वेत्यादि कारणानीत्यन्तेन । पार्श्वस्थस्यैबेयमुक्तिर्न पूर्वपक्षिणो नापि सिद्धान्तिनः। यदि पूर्वपक्षिण उक्तिस्तदाऽऽत्ममनस्सन्निकर्षादेरकारणत्वव्युत्पादनेनासमग्रतापूर्वपक्षस्य विरोधः। यदि सिद्धान्तिन उक्तिस्तापसिद्धान्तः। ६ ब्रुवतः-सिद्धान्तिनः पूर्वपक्षिणश्च-दिगादिप्वप्येवं प्रसङ्ग इति सूत्रेणान्वयः। ७ दिगादिष्विति । न सति भावमात्रेण कारणत्वम् । तथा सत्याकाशादीनामपि कारणत्वप्रसङ्गः । पूर्वपक्ष्युपन्यस्तात्ममनस्संयंगे सिद्धान्त्युपन्यस्तेन्द्रियादिसयोगे च कारणस्वं सति भावमात्रेणोपन्यस्तम् । अतो नैतयोरपि कारणत्वं युक्तमिति पार्श्वस्थस्य हृदयम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ०१ सू०२५- तदयोगपद्यलिङ्गत्वाच न मनसः ॥ २५ ॥ अनवरोध इति वर्तते । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमित्युच्यमाने सिद्धयत्येव मनस्सान्निकर्षापेक्ष इन्द्रियार्थसन्निकर्षो ज्ञानकारणमिति ॥ २५ ॥ प्रत्यक्षनिमित्तत्वाचेन्द्रियार्थयोः सन्निकर्षम्य स्वशब्देन वचनम् ।।२६।। प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्ममनःसन्निकर्षः प्रत्यक्ष- स्यैवेन्द्रियार्थसन्निकर्ष इत्यसमानः । असमानत्वात्तस्य ग्रहणम् ।। २६ ॥ मुप्तव्यामक्तमनमा चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥ २७ ॥ वार्तिकाद्यभिमतमात्मेत्यादिवाक्यस्य तात्पय प्रागेव प्रदर्शितम्-आत्ममन:- सन्निकर्पः सन्निवेशयितव्य इति । तस्योत्तरे चतुविशं सूत्रम् । आत्ममनःसन्निकर्षस्या- न्यथा सूचितत्वान्न तस्य साक्षाद्वचनमावश्यकमिति तस्यार्थः । कथञ्च स सचिन इत्यस्य प्रदर्शनाथ पञ्चविंशं सूत्रम् । तत्र पुनराक्षेपः-यद्यात्मनःसन्निकपस्यान्यथा सूचितत्वादेव प्रत्यक्षलक्षणेऽस- निवेशस्तहि तस्मादेव कारणादिन्द्रियार्थसंयोगस्यापि सन्निवेशो नातीवावश्यक इति । एतत्समाधाने पड़ावंशं सूत्रम् । १ आत्ममनःसंयोगस्यासमावेशे व्याख्याते इन्द्रियम् नःसंयोगः कस्मान्नोक्त इति प्रश्न सूत्रं तदयोगपद्येति । अत्र सूत्रयोक्त समाधान प्रौढिवादमात्रम् । सवषां प्रत्यक्षकारणानां वचनं. नल्लक्षणे नातीवावश्यकमित्येव पूर्वपक्षिणं प्रति समीचीनमुत्तरमिति वार्तिकतारपर्ययोः स्पष्टम्। २ आत्ममनःसन्निकर्पवदिन्द्रियार्थसन्निकपोऽप्यर्थतः प्राप्त एव । तथा सति कश्रमस्य समावेशः प्रत्यक्षलक्षणसूत्रे कृत इति प्रदने उत्तरम्-~-प्रत्यक्षेत्यादिसूत्रम् । आत्मादीनां सर्वेषामनभिधाने प्रत्यक्षं न लक्षितं स्यात् । तल्लक्षणाय च किञ्चिद्व- क्तव्यम् । तत्रेन्द्रियार्थसन्निकर्ष एव वक्तव्यः, समस्तप्रत्यक्षव्यापकत्वात, नेतरावात्म- मनःसन्निकर्ष इन्द्रियमनःसन्निकर्षश्च, अव्यापकत्वादतिव्यापकत्वाञ्चेति परमः सौत्रः समाधिः । उक्तमव्यापकत्वमतिव्यापकत्वं च प्रदर्यतेऽग्रिमग्रन्थे । ३ सुप्तेत्यादि सूत्रम् । ‘सुप्तं व्यासक्तं ' चेत्येतदुभयमपि मनोविशेषणम् । इन्द्रियाथयोरिति । इन्द्रियार्थसन्निकर्पनिमित्तत्वादित्येवंसमासकरणमेव सामान्यतः समुचितम् । इन्द्रियार्थयो'रिस्येतस्य पृथक्करणेन च समासस्यासमर्थता स्पष्टा । किन्वेतदसमर्थसमासाकरणे सूत्रकारस्य तात्पर्यविशेषः-इन्द्रियार्थयोरेव पाटव. लक्षणं प्राधान्यं यथा विज्ञायतेति । सन्निकर्षनिमित्तत्वादिति-ज्ञानोत्पत्तेरिति शेषः । .. ..

-सू. २८ ] द्वितीयाध्याये प्रथमाह्निके अष्टाविंशं सूत्रम् , , इन्द्रियार्थसन्निकर्षस्य ग्रहणं, नात्ममनसोः सन्निकर्षस्येति । एकदा खल्वयं प्रबोधकालं प्रणिधाय सुप्रः प्रणिधानवशात् प्रबुध्यते । यदा तु तात्रौ ध्वनिम्पशौं प्रबोधकारणं भवतः तदा प्रसुप्तस्येन्द्रियसन्निकर्षनिमित्तं प्रबोधज्ञानमुत्पद्यते । तत्र न ज्ञातुर्मनसश्च सन्निकर्षस्य प्राधान्यं भवति, किं तर्हि, इन्द्रियार्थयोः सन्निकर्षस्य । न ह्यात्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरयतीति । एकदा खल्वयं विषयान्तरासक्तमनाः सङ्कल्पवशाद्विपयान्तरं जिज्ञास- मानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य तद्विषयान्तरं जानीते । यदा तु खल्वस्य निःसङ्कल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसोबाह्यविषयोपनिपातनात्। ज्ञानमुत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम् । न ह्यत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति । प्राधान्यान्चेन्द्रियार्थसन्निकर्षस्य ग्रहण कार्य, गुणत्वात् , नात्ममनसोः सन्निकर्षस्येति ॥ २७॥ प्राधान्ये च हेत्वन्तरम्- तैश्चापदेशो ज्ञानविशेषाणाम् ॥ २८ ॥ तैरिन्द्रियैरथैश्च व्यपदिश्यन्ते ज्ञानविशेषाः । " ज्ञानोत्पत्तेः सन्निकर्षनिमित्तत्वात् “इन्द्रियार्थसन्निकर्षस्य ग्रहणं' (प्रत्यक्षलक्षणसूत्रे) इति भाप्यग्रन्थेन सम्बन्धः। १ सुप्तमनसामिति सौत्रं विशेषणं व्याचष्टे एकदेति । एतत् साधारणानुभवं परामृशति-यदात्वित्यादि स्वनुभवविशेष सूत्रकाराभिप्रेतमिति बोध्यम् । २ प्रणिधायेति । सङ्कल्प्येत्यर्थः । प्रदोषे सुप्तोऽर्धरात्रे मयोत्थातव्यमिति मनसि निधाय यद्यर्धरात्र एवावबुध्यते तदाऽस्त्येव मनस्सन्निकर्षोऽवबोधज्ञानकारणम् । यदा तु तीव्रध्वनिस्पर्शाभ्यामकस्मादेवावबुध्यते तत्रावबोधज्ञाने नास्ति कोऽपि मनस्सन्निकर्षस्य व्यापार इति विवेकः । ३ प्रबोधज्ञानमिति । 'प्रबोधे निद्राविच्छेदे ‘ज्ञानं' दध्यादिस्पर्शस्येत्यर्थः । ४ सुप्तमनसामिति व्याख्याय व्यासक्तमनसामिति व्याचष्टे एकदेति। एतदपि साधारणानुभवं परामृशति । ५ जानीत इति । अत्र च स्पष्टो मनस्सन्निकर्पस्य व्यापारः । ६ मनो न प्रेरयतीति--ततश्च नात्र मनस्सन्निकर्षस्य कोऽपि व्यापार इत्यर्थः । ७ गुणत्वादिति । अप्राधान्यादित्यर्थः । ८ प्राधान्य इति । इन्द्रियार्थसन्निकर्षस्येत्यर्थः । कथम् "? ..

१ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ मू०२९- प्राणेन जिनति, चक्षुषा पश्यति, रसनया रसयतीति, ब्राणविज्ञानं चक्षुर्विज्ञानं रसनविज्ञानं गन्धविज्ञानं रूपविज्ञानं रसविज्ञानमिति च-इन्द्रि- यविषयविशेषाञ्च पञ्चधा बुद्धिर्भवति । अतः प्राधान्यमिन्द्रियार्थसन्निक पस्येति ।। २८ ।। यदुक्तमिन्द्रियार्थसन्निकर्षग्रहणं कार्यम् , नात्ममनसाः सन्निकर्षस्येति, कस्मात् ? सुप्तव्यासक्तमनसामिन्द्रियार्थयोः सन्निकर्षस्य ज्ञाननिमित्तत्वादिति । सोयम्- व्याहतत्वादहेतुः ॥ २९ ॥ यदि तावत् कचिदात्ममनसोः सन्निकर्षस्य ज्ञानकारणत्वं नेष्यते, तदा 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति' व्याहन्येत । नेदानी मनसः सन्निकर्ष- मिन्द्रियार्थसन्निकर्षोऽपेक्षते ! मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः । अथ मा भूद् व्याघात इति सर्वविज्ञानानामात्ममनसोः सन्निकर्षः कारणमिप्यते, तदवस्थमेवेदं भवति-ज्ञानकारणत्वादात्ममनसोः सन्निकर्षस्य ग्रहण कार्यमिति ।। २९॥ न-अर्थविशेषप्राबल्यात् ।। ३० ।। नास्ति व्याघातः। न ह्यात्ममनः सन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति । इन्द्रियार्थसन्निकर्षस्य प्राधान्यमुपादीयते । अर्थविशेषप्राबल्याद्धि सुप्तव्यासक्त- मनसां ज्ञानोत्पत्तिरेकदा भवति । अर्थविशेषः कश्चिदेवेन्द्रियार्थः । तस्य प्राबल्यं तीब्रतापटुते । तच्चार्थविशेषप्राबल्यमिन्द्रियार्थसन्निकर्षविषयं नात्मम- नसोः सन्निकर्षविषयम् । तस्मादिन्द्रियार्थसन्निकर्षः प्रधानमिति । । । १ इन्द्रियविषयेति । इन्द्रियसङ्ख्थानुरोधादेव ज्ञानस्य पञ्चविधत्वमित्यर्थः । २ पूर्वेण सूत्रत्रयेणेन्द्रियार्थसन्निकर्ष एव कारणं ज्ञानस्य, न त्वात्ममनस्सन्निकर्ष इन्द्रियमनस्सन्निकर्षों वेत्युक्तं सिद्धातिनेति मन्वानःपूर्वपक्षी न्याहतत्वादित्याक्षेपसूत्र- मवतारयन्नाह यदुक्तमिति । ३ ग्रहणमिति । प्रत्यक्षलक्षणसूत्रे सन्निवेश इत्यर्थः । ४ नार्थत्यादि सिद्धान्तसूत्रम् । ५ न ह्यात्मेति । इन्द्रियार्थसन्निकर्षस्य प्राधान्यमात्रमुच्यते नचात्ममन- स्संयोगस्येन्द्रियमनस्संयोगस्य वा कारणत्वं प्रतिषिध्यते । अतो न व्याघात इत्यर्थः।

-सू. २१] द्वितीयाध्याय प्रथमाह्निके एकत्रिंशत्तमं सूत्रम् । "असति प्रणिधाने सङ्कल्पे चासति सुप्तव्यासक्तमनसां यदिन्द्रियार्थस- निकर्षादुत्पद्यते ज्ञानं तत्र मनःसंयोगोऽपि कारणमिति मनसि क्रियाकारणं वाच्यामिति"। यथैव ज्ञातुः खल्वयमिच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुण एवमात्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितमस्ति, येन प्रेरितं मन इन्द्रियेण सम्बध्यते । तेन ह्यप्रेर्यमाणे मनसि संयोगाभावाज् ज्ञानानुत्पत्तौ सर्वार्थताऽस्य निवर्तते । एषितव्यं चास्थ गुणान्तरस्य द्रव्यगुणकर्मकारणत्वम् । अन्यथा हि चतुर्विधानामणूनां भूतमूक्ष्माणां मनसां च ततोऽन्यस्य क्रियाहेतोरसम्भवाच्छ- रोरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः ।। ३० ।। इति प्रत्यक्षलक्षणपरीक्षा (४) प्रत्यक्षानुमानत्वपरीक्षाप्रकरणम् । प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः" ॥ ३१ ॥ १ पूर्वपक्षी पृच्छति असतीति । यत्र प्रयत्नादि मनःप्रेरकं वर्तते तत्र मनोव्यापारः सुवचः । यत्र तु सुप्तव्यासक्तमनसां ज्ञानेषु प्रयत्नादिकं मनःप्रेरकं नास्ति तत्र मनो- व्यापारस्य किं कारणमिति प्रश्नार्थः । २ गुणान्तरमिति । अदृष्यमिति यावत् । ३ संयोगाभावादिति । अन्यस्य क्रियाहेतोरभावादित्यर्थः । भोगोऽदृष्टस्य प्रधान प्रयोजनं तन्नान्तरीयकतया जन्मायुषी आक्षिपति। स्वस- म्बन्धिसुखदुःखसाक्षात्कारश्च भोगः । तदायतनं च शरीरम् । अप्राप्तं च मनो न शरीरे भोग वा भोगविपयो सुखदुःखे वा तयोः कारणं ज्ञानं वा जनयितुमर्हति । अतो नूनं तत्प्राप्तिहेतोमनःकर्मणः कारणमदृष्टमेव वक्तव्यम् । अन्यथाऽस्य सर्वद्रव्यगुणकर्म- कारणता न स्यात् । ४ सर्वार्थतेति । सर्वव्यगुणकर्मकारणतेत्यर्थः । ५ ननु माभूत्सर्वार्थतेत्यत आह एषितव्यमिति । ६ भूतसूक्ष्माणामित्यणूनां विशेषणम् । ७ तत इति । अदृष्टादित्यर्थः । ८ स्वरूपतः प्रत्यक्षलक्षणं परीक्षितम् । अथेदानी प्रसङ्गेन विषयतः परीक्ष्यते। अयमेव च प्रकरणार्थः । तत्र तत्प्रसङ्गापादनं प्रत्यक्षस्यानुमानेऽन्तर्भावं कुर्वत् पूर्वपक्षसूत्रम्- प्रत्यक्षमित्यादि । 'एकदेशस्य' पुरोवयंवयवभागस्य ' ग्रहणात्' इन्द्रियसनिकर्षा- दुपलब्धेः अवयविनो वृक्षस्य उपलब्धिरिति भावः । अयमत्र पूर्वपक्षसङ्कपः । न ह्यवयवी नाम कश्चिदर्थान्तरभूतोऽवयवेभ्योऽस्ति, अपि स्ववयवा एव परमार्थसन्तः । तेषु च कतिपयानवयवान् गृहीत्वा तत्सहचरि- : .

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ सू० ३१ - यदिदमिन्द्रियार्थसन्निकर्यादुत्पद्यते ज्ञानं वृक्ष इति, एतत् किल प्रत्यक्षं. तत् खल्वनुमानमेव ! कस्मान् ? एकदेशग्रहणात् वृक्षस्योपलव्धेः । अर्वाग्भा- गमयं गृहीत्वा वृक्षमुपलभते । न चैकदेशो वृक्षः। तत्र यथा धूमं गृहीत्वा वह्निमनुमिनोति ताहगेव तद्भवति" || किं पुनर्गृह्यमाणादेकदेशादर्थान्तरमनुमेयं मन्यसे ? अवयवसमूहपक्षे अवयवान्तराणि, द्रव्यान्तरोत्पत्तिपने तानि चावयवी चेति"। अवयवसमूहपक्षे तावदेकदेशग्रहणाद् वृक्षबुद्धेरभावः । नागृह्यमाणमेक- देशान्तरं वृक्षो गृह्यमाणेकदेशवदिति । अथ " एकदेशग्रहणादेकदेशान्तरानुमान समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः-" न तर्हि वृक्षवुद्धिरनुमानमेवं सति भवि- तुमहतीति । व्यान्तरात्पत्तिपक्षे नावयव्यनुमेयोऽन्यैकदेशसम्बद्धस्याग्रहणात तानवयवाननुमाय प्रतिसन्धानजेयं वृक्षबुद्धिः। तानेवावयवानालम्बमानाननुमाया- नुमानमिति प्रत्यक्षस्यानुमानेऽन्तर्भावात् विभागसूत्रेण न्यूनाधिकसङ्ख्याव्यवच्छेद्रा नोपपद्यत इति। १ प्रत्यक्षमिति । सिद्धान्त्यभिमतमिति यावत् । २ सिद्धान्ती पृच्छति किं पुनरिति । ३ पूर्वपक्षी प्रत्युतरयति अवयवेति । द्विधा चात्र प्रतिपत्तिः । अवयवसमूह एवावयवी नायवेभ्योऽर्थान्तरमिति पक्षे दृष्ट्वेभ्योऽवयवेभ्योऽन्येऽवयवा अनुमीयन्ते । अवयवेभ्योऽर्थान्तरमेवोत्पद्यते कश्चिदवयवी नामेति पक्षे दृष्टेभ्योऽवयवेभ्योऽन्येऽवयवा अवयवी चानुमीयन्ते इति । ४ प्रथमं पक्षं दुपयन्नाह सिद्धान्ती अवयवेति । यथैव प्रत्यक्षदृष्टोऽर्वाग्भागो न वृक्षः ' एवमनुमितौ परमध्यभागावपि न 'वृक्षः । ततश्च 'वृक्षोऽयमिति बुद्धर- पलाप एवेति भावः। ५ पूर्वपक्षिणोऽभिप्रायान्तरं प्रकटयति । अथेति । कतिपयानवयवान् गृहीत्वा तत्सहचरितानवयवाननुमाय प्रतिसन्धानजा बुद्धिरियं 'वृक्ष' इति-इति पूर्वपक्षिणोs- भिप्रायः। ६ उक्तमभिप्रायं दूषयति न तहीति । स्वदुक्तानुसारेणावयवान्तराण्येवानु- मितानि न वृक्ष इति । तथा च प्रतिज्ञाहानिरिति भावः । ७ द्वितीयं पक्षं दूषयति द्रव्यान्तरेति ।अवयवी यद्यमेयस्तर्हि तेन सहावयवानां ज्याप्तिसम्बन्धग्रहणमवश्यं स्वीकरणीयम् । न च सम्बद्धयोग्रहणमन्तरेण सम्बन्धग्रहण सम्भवति । तथा चोक्तव्याप्तिग्रहणकालेऽवयन्यपि गृहीतः स्यात-इत्यभ्युपगन्तव्यम् । तादृशे चाम्युपगमेऽवयविनः प्रत्यक्षग्रहणमभ्युपेतमेव स्यात् । ततश्च तस्य नानुमेयत्व- मिति हृदयम् । । १ १ -सू. ३३] द्वितीयाध्याये प्रथमाह्निके त्रयस्त्रिंशत्तमं सूत्रम् । ग्रहणे चाविशेषादनुमेयत्वाभावः । तस्माद् वृक्ष बुद्धिरनुमानं न भवति ॥३१॥ एकदेशग्रहणमाश्रित्य प्रत्यक्षस्यानुमानत्वमुपपाद्यते। तच्च- ने, प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ ३२ ॥ न प्रत्यक्षमनुमानम् । कस्मात् ? प्रत्यक्षेणैवोपलम्भात् । यत् तदेकदेश- ग्रहणमाश्रीयते प्रत्यक्षेणासावुपलम्भः । न चोपलम्भो निर्विषयोऽस्ति । याव- चार्थजातं तस्य विषयस्तावदभ्यनुज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति । किं पुनस्ततोऽन्यदर्थजातम्"। अवयवी समुदायो वा । न चैकदेशग्रहणमनुमानं भावयितुं शक्यं हेत्वभावादिति । अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गः। तत्पूर्वकत्वात् । प्रत्यक्षपू- र्वकमनुमानम् । सम्बद्धावग्निधूमौ प्रत्यक्षतो दृण्वतो धूमप्रत्यक्षदर्शनादन्नावनु- मानं भवति । तत्र यच्च सम्बद्धयोर्लिङ्गलिङ्गिनोः प्रत्यक्षं, यच्च लिङ्गमात्रप्रत्य- झग्रहणं, नैतदन्तरणानुमानस्य प्रवृत्तिरस्ति । न त्वेतदनुमानम् , इन्द्रियार्थसन्नि- कर्षजत्वात् । न चानुमेयस्येन्द्रियेण सन्निकर्षादनुमानं भवति । सोऽयं प्रत्यक्षा- नुमानयोर्लक्षणभेदो महानायितव्य इति ।। ३२ ।। ने चैकदेशोपलब्धिरवयविसद्भावात् ॥ ३३ ॥ न चैकदेशोपलब्धिमात्रम् । किं तर्हि, एकदेशोपलब्धिः तत्सहचरितावय- व्युपलब्धिश्च । कस्मात् ? अवयविसद्भावात् । अस्ति ह्ययमेकदेशव्यतिरिक्तोऽव- ५ उत्तरसूत्रमवतारयति एकदेशेति । २ तच्चेति सूत्रगतेन 'न'इत्यनेन सम्बध्यते । ३ नेत्यादि सिद्धान्तसूत्रम् । तत्-प्रत्यक्षस्यानुमानत्वं-'न' सम्भवति, यावत्' -एकदेशभूतस्यार्थजातस्य ग्रहणम् एकदेशग्रहणादुपलब्धेरिति पूर्वसूत्रोक्ते हेतौ इप्यते -'तावत् ' अपि प्रत्यक्षेणैव । अतस्तावतोऽर्थजातस्य प्रत्यक्षेणोपलम्भात्-'प्रत्यक्षम. नुमानम्' इति प्रतिज्ञा एकदेशग्रहणादुपलब्धेरितिहेतुना विरुद्धेति विरुद्धो हेतुः । अथ चैकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो हेतुः । सेयमुभयतः पाशारज्जुरित्यर्थः । ४ नन्वनुमानेनैवैकदेशग्रहणान्नासिद्धो हेतुरित्यत आह नचेति। एवं सत्यनवस्था- प्रसङ्गात् तादृशहेतोरभावात् एकदेशग्रहणमप्यनुमानमेवेति पक्षो न युज्यत इत्यर्थः । ५ नचैकेत्यादि सूत्रम् । तात्पर्यकारास्त्वेतत्सूत्रत्वेन न परिगृह्णन्ति । न्यायसूची- निबन्धेऽस्यानुपलम्भः। तदेतद्भाप्यमनुभाष्य वार्तिककारो व्याचष्ट इति च व्याख्यानम् । न्या. सू.

९८ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०१ सू० ३३ ---- यवी । तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्यैकदेशोपलब्धावनुपलब्धिरेनुपपन्ने- ति। अकृत्स्नग्रहणादिति चेत् ” नं, कारणतोऽन्यस्यैकदेशस्याभावात् । चावयवाः कृत्स्ना गृह्यन्ते अवयवैरेवावयवान्तरव्यवधानाद्, नावयवी कृत्स्नो गृह्यत इति । नायं गृह्यमाणेष्ववयवेषु परिसमाप्त इति । सेयमेकेदेशोपलब्धिर- निवृत्तवति"! कृत्स्नमिति वै खल्वशेषतायां सत्यां भवति, अकृत्स्नमिति शेषे सति । तञ्चैतदवयवेषु बहुष्वस्ति, अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणादिति । अङ्गं तु भवान् पृष्टो व्याचष्टाम्-गृह्यमाणस्यावयविनः किमगृहीतं मन्यसे, 'येनैकदेशोपलब्धिः स्थादिति । न ह्यस्य कारणेभ्योऽन्ये एकदेशा भवन्तीति तंत्रावयववृत्तं नोपपद्यत इति । इदं तस्य वृत्तम्-येषामिन्द्रियसन्निकर्षागृहणमव- अवयविनोऽसत्त्वत्वं मन्यमानेन पूर्वपक्षिणा एकदेशोपलब्ध्या वृक्षबुद्धेरनुमानत्व- मुक्तम् । नत्वियमेकदेशमात्रोपलब्धिरपि तु तस्य तस्सहचरितस्य चावयविनः, उपलब्धिलक्षणप्राप्तस्य तस्य सिद्धेरिति सूत्रार्थः । १ अवयवस्थानस्येति-अवयवसमानदेशस्येति यावत् । २ अनुपपन्नेति । महदनेकद्रव्यरूपाण्युपलब्धिकारणानि । तान्येकदेशवदेकदेशि- न्यवयविन्यपि विद्यन्ते । तस्मादेकदेश उपलभ्यते नैकदेशीत्ययुक्तमिति हृदयम् । ३ आक्षेपभाष्यम्-अकृत्स्नेति । ४ उत्तरभाष्यम्-न कारणत इति । कारणतः ' समवायिकारणत इत्यर्थः । ५ आक्षेपभाष्यविवरणम्-नचावयवा इति । एकदेशग्रहणनिवृत्यर्थं हि त्वयाऽ- वयविग्रहणमास्थीयते । न चैतावता कृत्स्नग्रहणसम्भवो यत एकदेशनिवृत्तिःस्यात् । न ह्यवयविग्रहणे कृत्स्ना अवयवा गृहीता भवन्ति । नाप्यवयवी गृहीतो भवति, तस्यार्वाग्भागस्थस्य ग्रहणेऽपि मध्यमपरभागस्थस्याग्रहणादित्याक्षेपभाष्यार्थः । ६ उत्तरभाष्यविवरणम्-कृत्स्नमिति । कृत्स्नमित्यनेकस्याशेषस्याभिधानमेकदेश इति चानेकत्वे सति कस्यचिदभिधानमिति वार्तिकम् । ७ तच्चैतदित्यवयविनं परामृशति । ८ येनेति । येनाग्रहणेन प्रत्यक्षमेवैकदेशस्यैवाभ्युपगतं स्यान्नावयविन इत्यर्थः । अस्येति । अवयविन इत्यर्थः । ९ कारणेभ्य इति । समवायिकारणभूतेभ्योऽवयवेभ्योऽन्यत् किमप्येकदेशपद- वाच्यं नास्तीत्यर्थः। १० तत्रेति । अवयविन्यवयवस्वभाव आरोपयितुं न युक्त इत्यर्थः ।

-सू. ३४] द्वितीयाध्याये प्रथमाह्निके चतुस्त्रिंशत्तमं सूत्रम् 3 यवानां तैः सह गृह्यते, येषामवयवानां व्यवधानादग्रहणं तैः सह न गृह्यते । न चैतत्कृतोऽस्ति भेद इति । समुदाय्यशेषता वा। समुदायो वृक्षः स्यात् तत्प्राप्तिर्वा, उभयथा ग्रहणा- भावः । मूलस्कन्धशाखापलाशादीनामशेषता वा समुदायो वृक्ष इति स्यात् प्राप्तिर्वा समुदायिनामिति । उभयथा समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यत इति । अवयवैस्तावदवयवान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते । प्राप्ति- ग्रहणमपि नोपपद्यते प्राप्तिमतामग्रहणात् । सेयमेकदेशग्रहणसहचरिता वृक्षवुद्धिद्रव्यान्तरोत्पत्तौ कल्पते न समु- दायमात्रे इति ॥ ३३॥ (४) अवयविपरीक्षाप्रकरणम् प्रासङ्गिकम् ।। " माध्यत्वादवयविनि सन्देहः” ॥ ३४॥ यदुक्तमवयविसद्भावात् इति, अयमहेतुः-साध्यत्वात् । साध्यं ताव- देतत्कारणेभ्यो द्रव्यान्तरमुत्पद्यत इति । अनुपपादितमेतत् । एवं च सति विप्रतिपत्तिमानं भवति । विप्रतिपत्ते- श्चावयविनि संशय इति" ॥ ३४ ॥ १ नचेति। अर्वाग्भागस्थस्यावयविन उपलब्धावपि नोपलब्धिरिति पूर्वपक्षोद्भावितं निराकरोति। एकभागस्थैरवयवैस्सहावयवी गृह्यतेऽ- परभागस्थैश्च सह न गृह्यत इत्येतावन्मात्रेण न नानावयविसिद्धिः। २ यः पुनर्मन्यतेऽवयवसमुदाय एवावयवीति तं प्रत्याह समुदायीति । ३ ग्रहणाभाव इति-यद्यवयवी नाम न कश्चित्स्यादिति शेषः । ४ सेयमिति । अवयवी नाम द्रव्यान्तरं नावयवसमुदायमात्रमित्येतत्पक्ष एवोक्ता बुद्धिः सम्भवति नान्यथेत्यर्थः । ५ साध्यत्वादिति पूर्वपक्षसूत्रम् । परं प्रत्यसिद्धत्वमेवावयविनः ‘साध्यत्वम्'। स खल्वेवं मेने–“संविन्निष्टा हि विषयव्यवस्थितिः । स एव संविदा व्यवस्थाप्यते यस्तस्या विषयः। स एव तस्या विषयो यस्तस्यामाकारमर्पयति । न च निरन्तरोत्पन्न- रूपादिपरमाण्वतिरिक्तमवयवाकारं बिभ्रती संविदमीक्षामहे, किन्तु निरन्तरोत्पन्न- रूपादिपरमाण्वाकाराम् । स्थौल्यं च यद्यपि न परमाणूनां प्रत्येकमस्ति, तथाऽपि प्रति- भासधर्मः बहुत्वादिवत् न पुनरवयविनमेकमवस्थापयितुमर्हति" इति । तमेवंमा- निनं प्रत्यवयविनोऽसिद्धविप्रतिपत्तिः। ततः साधकबाधकप्रमाणाभावे सति संशय इति सूत्रार्थः। ६ अनुपपादितमिति-असिद्धमित्यर्थः । परमध्यभागस्थस्य खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०१ सू०३५ - " सर्वाग्रहणमवयव्यसिद्धेः ॥ ३५ ॥ यद्यवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते । " किं तत्सर्वम् ? द्रव्यगुणकर्मसामान्यविशेषसमवायाः । कथं कृत्वा ?" परमाणुसमवस्थानं तावद् दर्शनविषयो न भवत्यतीन्द्रियत्वादणूनाम् । द्रव्यान्तरञ्चावयविभूतं दर्शनविषयो नास्ति। दर्शनविषयस्थाश्चेमे द्रव्यादयो गृह्यन्ते । ते निरधिष्ठाना न गृह्येरन् । गृह्यन्ते तु कुम्भोऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश्चेति। सन्ति चेमे गुणादयो धर्मा इति । तेन सर्वस्य ग्रहणात्पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवीति ।। ३५ ॥ धारणाकर्पणोपपत्तेश्च ।। ३६॥ अवयव्यर्थान्तरभूत इति । १ सर्वाग्रहणमिति सिद्धान्तसूत्रम् । सर्वस्य' द्रव्यगुणादेः 'अग्रहणं' स्यात् , यद्यवयवी न सिध्येत् , परमाणूनां तद्गतगुणादीनां चाग्राह्यत्वात् । सर्वाग्रहणमित्यस्यार्थान्तरमपि वर्णितं वार्तिककारेण । तद्यथा । सवैः प्रमाणैरग्रह- णम् । कथम् ? प्रत्यक्षस्य वर्तमानमहद्विषयत्वात् । अवयविप्रत्याख्याने च न बाह्यकरण- प्रत्यक्षविषयोऽस्ति । प्रत्यक्षस्य चाभावादनुमानादेरप्यभावः । सेयं सर्वप्रमाणनिवृत्तिः। उपलभ्यन्ते चार्थाः प्रत्यक्षादिभिः प्रमाणैः । तैः सर्वैर्ग्रहणात् पश्यामोऽस्त्यवयवीति । तदिदं सूत्रमवयव्यनभ्युपगमे विरोधप्रदर्शनपरम् । २ नास्तीति–पूर्वपक्षमतेनेति शेषः। ३ निरधिष्टाना इति । अवयव्यसत्त्वे तेषामधिष्टानासम्भवादित्यर्थः । ४ धारणेत्यादिसिद्धान्तसूत्रम् । धारणाकषणोपपत्तेश्च अवयवी अर्थान्तरभूत इति सूत्रभाष्ययोरन्वयः । भाष्यस्थवाक्यपूर्तिः सूत्रस्थेन चकारेण सूचितेति वार्तिक- काराः। ५ ' अवयवी अर्थान्तरभूतः-धारणाकर्पणोपपत्ते:'-इत्येवं चेदमनुमानवाक्ये व्यधिकरणो हेतुः । धारणाकर्षणोपपत्तेहि नावयव्यधिकरणं भवितुमर्हति । अतः तत्रो- क्तमनुमानं तात्पर्यकारो व्यतिरेकिरूपमेव व्याख्यातवान् । तद्यथा-योऽयं दृश्यमानो गोघटादिरवयवी ( परमाणुसमूहभावेन विवादाध्यासितः) नासावनवयवी-धारणा- कर्षणानुपपत्तिप्रसङ्गात्-यो योऽनवयवी तत्र तत्र धारणकर्षणे न भवतः यथा विज्ञानादौन चायं गोघटादिस्तथा तस्मानानवयवीति ॥ धारणाकर्षणानुपपत्ति- प्रसङ्गादिति व्यतिरेकिस्वमाविष्कर्तुमेव तात्पर्यकृतामयमायासः । परमार्थतस्तु धारणा- कर्षणवत्त्वादित्येव सूत्रोक्तहेत्वर्थ इति परिशुद्धिः ।

-स्, ३७] द्वितीयाध्याये प्रथमाह्निके सप्तत्रिंशत्तमं सूत्रम् १०१ सङ्ग्रहकारिते वै धारणाकर्षणे । सङ्ग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितमपां संयोगादामे कुम्भे, अग्निसंयोगात्पक्के । यदि त्ववयविकारिते अभविष्यतां पांशुराशिप्रभृतिष्वप्यज्ञास्येताम् । द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसङगृहीतेष्वपि नाभविष्यतामिति । अथावयविनं प्रत्याचक्षाणको मा भूत् प्रत्यक्षलोप इत्यणुसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्य इति ? " एकमिदं द्रव्यमित्येकबुद्धेविषयं पर्यनुयोज्यः। किमेकबुद्धिरभिन्नार्थविषयेति आहो स्विन् भिन्नार्थविपयेति ? अभिन्नार्थविषयेति चेद्, - अर्थान्तरानुज्ञाना- दवयविसिद्धिः । नानार्थविषयेति चेद्,-भिन्नेष्वेकदर्शनानुपपत्तिः । अनेकस्मि- नेक इति व्याहता बुद्धिर्न दृश्यत इति ।। ३६ ।। सेनावनवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ॥ ३७॥ यथा सेनाङ्गेषु वनाङ्गेपु च दूरागृह्यमाणपृथक्त्वेष्वेकमिदमित्युपपद्यते बुद्धिः, एवमणुषु सञ्चितेष्वगृह्यमाणपृथक्त्वेष्वेकमिदमित्युपपद्यते वुद्धिरिति । .. .. १ पूर्वपक्षी सूत्रोक्तं हेतुं दूषयति सङ्ग्रहकारित इत्यादि नाभविष्यतामित्यन्तम् । पांशुराशावपि सिद्धान्तानुसारेणावयविनः सद्भावात् तत्रापि धारणाकर्षणे स्याताम् । जतुसङ्ग्रहीतेषु च तृणोपलकाष्ठादिपूपलभ्येते धारणाकर्षणे, नच तत्रावयवी द्रव्या- न्तरभूत उत्पद्यते सिद्धान्तानुसारेणापि । एवं चोभयथापि धारणाकर्षणाभ्यानावयवि- सिद्धिरिति पूर्वपक्षसझेपः । २ सिद्धान्त्याचार्येणानुक्त एव परिहारे पूर्वपक्षयुक्तिभिर्विचलितहृदयः शिष्यः पृच्छति अथावयविनमिति । योऽयं पूर्वपक्ष्यवयविन प्रतिषेधत्यणुसञ्चयमेव च प्रत्यक्ष- विषयत्वेन स्वीकरोति तमेवंभूतं प्रति को हेतुरुपन्यसितव्य इति प्रश्नार्थः । ३ आचार्यः शिष्यप्रश्नोत्तरव्याजेन पूर्वपक्षं परिहरति एकमिति । एकमिदं द्रव्य- मित्यस्या बुद्धेः को विषय इति स प्रष्टव्य इत्यर्थः । ४ अभिन्नार्थेति-नानेकार्थविषयेति यावत् । अस्या एकबुद्धेः किमेक एव विषय उत नाना ? एकश्चेत् स एवावयवीति सिद्धं नः समीहितम् । नाना चेत् पूर्वपक्षिणो व्याघातः । ५ अगृह्यमाणेति--सामान्यतो दृश्यानामपि दूरत्वाद्यनेककारणवशात् क्वचिद- दर्शनमिति भावः।

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ सू०३७- यथा गृह्यमाणपृथक्त्वानां सेनावनाङ्गानामारात्कारणान्तरतः पृथक्त्वस्याग्रहणं, यथा गृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज्जातिग्रहणं भवति, यथा गृह्यमाणप्रस्पन्दानां नारात् स्पन्दग्रहणं, गृह्यमाणे चार्थजाते पृथक्त्वस्याग्र- हणादेकमिति भाक्तः प्रत्ययो भवति । न त्वणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद्भाक्त एकप्रत्ययोऽतीन्द्रियत्वादणूनामिति । इदमेव च परीक्ष्यते-किमेकप्रत्ययोऽशुसञ्चयविषय आहोस्विन्नेति । अणुसञ्चय एव सेनावनाङ्गानि । न च परीक्ष्यमाणमुदाहरणमिति युक्तं, सांध्यत्वादिति। दृष्टिमिति चेन्न । तद्विषयस्य परीक्षोपपत्तेः । यदपि मन्यते-" दृष्टमिदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणादभेदेनैकमिति ग्रहणं, न च दृष्टं शक्यं प्रत्या- ख्यातुमिति ।" तच्च नैवम् ,तद्विषयस्य परीक्षोपपत्तेः। दर्शनविषय एवायं परीक्ष्यते। योऽयमेकमिति प्रत्ययो दृश्यते स परीक्ष्यते । किं द्रव्यान्तरविषयो वा अथाणु- सञ्चयविषय इति । अत्र दर्शनमन्यतरस्य साधकं न भवति । नानाभावे चाणूनां पृथक्त्वस्याग्रहणादभेदेनैकमिति ग्रहणम् अतस्मिंस्तदिति प्रत्ययः यथा स्थाणौ पुरुष इति । ततः किम् ? अतस्मिंस्तदिति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधान- सिद्धिः। स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम् ? " योऽसौ पुरुषे पुरुषप्रत्ययस्तस्मिन्सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषोऽयमिति । एवं नानाभूतेष्वेकमिति सामान्यग्रहणात् प्रधाने सति भवि. १ गृह्यमाण इति । यत्र सामान्यतो दृश्यानामर्थानां पृथक्त्वन्न दृश्यते तत्र पृथक्त्वादर्शनादेकबुद्धिर्या जायते सा भाक्तवेत्यर्थः । अणूनां त्वदृश्यत्वान्न तत्र तादृश- भाक्तप्रत्ययस्यावकाशः। २ इदमिति । सर्वत्रावयविनमपनुवानस्यातीन्द्रियं वाऽणुसञ्चयमावमिच्छतः सेनावनाङ्गानामपि करिकुञ्जरादीनामतीन्द्रियाणुसञ्चयमानत्वात् दृष्टान्ताभाव इति तात्पर्यार्थः। ३ साध्यत्वादिति साध्यसमत्वादित्यर्थः । ४ तद्विषयस्येति । प्रत्यक्षविषयस्यैव परीक्ष्यमाणत्वान्न प्रत्यक्षमेव साधनबाधन- कोटी प्रवेशमर्हति । ५ प्रधानेति । यद्विषयं यथार्थज्ञानं तद्विषयमेव मिथ्याज्ञानमपि सम्भवति । यथार्थज्ञानमेव मिथ्याज्ञानस्य प्रधानमित्यत्रोच्यते । तथाच यथा पुरुषे पुरुषबुद्धिः सत्या असत्यायाः स्थाणौ पुरुषबुद्धेः प्रधानम्। एवं अनेकविषयेष्वेकमिति मिथ्याज्ञानस्य कुत्राप्येकविषये एकबुद्धया सत्यया भवितव्यम् । " -सू. ३७] द्वितीयाध्याये प्रथमाह्निके सप्तत्रिंशत्तमं सूत्रम् तुमर्हति । प्रधानं च सर्वस्याग्रहणादिति नोपपद्यते। तस्मादभिन्न एवायमभेद- प्रत्यय एकमिति । इन्द्रियान्तरविषयेष्वभेदप्रत्ययः प्रधानमिति" चेद्-न विशेषहेत्व- भावाद् दृष्टान्ताव्यवस्था । श्रोत्रादिविषयेषु शब्दादिष्वभिन्नेष्वेकप्रत्ययः प्रधानमनेकस्मिन्नेकप्रत्ययस्येति । एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते, विशेषहेत्वभावात् । अणुपु सञ्चितेष्वेकप्रत्ययः किमतस्मिंस्तदिति प्रत्ययः स्थाणौ पुरुषप्रत्ययवत् ? अथार्थस्य तथाभावात्तस्मिंस्तदिति प्रत्ययो यथा शब्दस्यैकत्वादेकः शब्द इति ? । विशेषहेतुपरिग्रहमन्तरेण दृष्टान्ती संशयमापादयत इति । कुम्भवत्सञ्चयमात्रं गन्धादयोऽपीत्यनुदाहरणं गन्धादय इति । एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययानन्यनुयोक्तव्यः। तेषु चैवं प्रसङ्ग इति । एकत्वबुद्धिस्तस्मिंस्तदिति प्रत्यय इति विशेपहेतुहिदिति प्रत्ययेन सामानाधिकरण्यात् । एकमिदं महचेति एकविषयो प्रत्ययौ समानाधिकरणौ भवतः । तेन विज्ञायते यन्महत्तदेकमिति । अणुसमूहातिशयग्रहणे महत्प्रत्यय ” इति चेत्-सोऽयममहत्त्व- गुषु महत्प्रत्ययोऽतस्मिंस्तदिति प्रत्ययो भवतीति । “किञ्चातः ? " अतस्मिंस्तदिति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिरिति भवितव्यं महत्येव महत्प्रत्ययेनेति । १ दृष्टान्तोपादानमिति । दृष्टान्तमात्रोपन्यासेन न किञ्चित्सिध्यतीत्यर्थः । २ कुम्भवदिति । यांश्च शब्दादीन् प्रधानप्रत्ययनिमित्तत्वेन भवान् प्रतिपद्यते ते- ऽपि सञ्चिता एव । वैभासिकाःखलु भूतभौतिकसमूहात् पटादपि उत्पन्नान् शब्दादीन् इच्छन्ति । अतस्तेषां मते शब्दादयोऽपि सञ्चिता एव । अपि चास्मन्मतेऽपि शब्दादीनां न मुख्यमेकत्वम् , सङ्ख्याया गुणस्य गुणेषु शब्दादिष्वप्येकत्वप्रत्ययो भाक्त एवेति हृदयम् । भाक्तत्वेऽप्यस्यैकत्वप्रत्ययस्य क्वचित्सत्यत्वम्-यत्र न कोऽपि बाधकप्रत्यय उदेति, क्वचिन्मिथ्यात्वं यत्र बाधप्रत्ययस्योदय इति विवेकः । ३ एवमिति । अवयविनं प्रत्याचक्षाणक एवं पर्यनुयोक्तव्य इत्यन्वयः । यद्यवन- विनमान्तरं न प्रतिपद्यसे ‘महत्' इति 'संयुक्त' इति 'अश्वो गच्छतीति' वा प्रत्यया न प्राप्नुवन्ति । नातीन्द्रियेषु परमाणुषु ते प्रत्यया युज्यन्त इत्यर्थः । ४ उक्तेषु परिमाणस्पन्दजातिविशेषेषु चतुर्यु परिमाणं परामशति एकत्वेत्यादिना।

खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० १ सू० ३७ अणुः शब्दो महानिति च व्यवसायात् प्रधानसिद्धिरिति” चेद्-न, मन्दतीव्रताग्रहणमियत्तानवधारणाद् यथा द्रव्ये । अणुः शब्दोऽल्पो मन्द इत्येतस्य ग्रहणं महान् शब्दः पटुस्तीव्र इत्येतस्य ग्रहणं कस्मात् ? इयत्तानव- धारणात् । न ह्ययं महान् शब्द इति व्यवस्यन्नियानयमित्यवधारयति । यथा बदरामलकबिल्वादीनि । संयुक्ते इमे इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् । "द्वौ समुदायावाश्रयः संयोगस्येति " चेत्--कोऽयं समुदायः ? प्राप्तिरनेकस्यानेका वा प्राप्तिरेकस्य समुदाय इति चेत् " प्राप्तेरग्रहणं प्राप्त्याश्रितायाः । संयुक्ते इमे वस्तुनी इति नात्र द्वे प्राप्ती संयुक्ते गृह्यते । १ अणुः शब्द इति । अणुः शब्दो महानित्यत्राणुत्वमहत्त्वयोः सामानाधिकरण्यं लक्ष्यते । इदमेव च प्रधानं भविष्यति परमाणौ महत्प्रत्ययस्येत्यर्थः । २ इयत्तेति । प्रत्यक्षपरिमाणविषयमियत्तावधारणम् । नच तत्सम्भवति शब्देऽणौ वा। ३ संयुक्ते इति-उक्तेषु चतुर्पु संयोगं परामृशति । 'संयुक्ते इमे' इति ज्ञानं द्वित्वसमानाश्रयं प्राप्तिग्रहणं सत् अवयविनः प्रतिपादकमित्यन्वयः । ४ आक्षिपति द्वाविति । द्वाववयवसमुदायावेव न तु द्वाववयविनौ आश्रितः संयुक्तप्रत्यय इति हृदयम् । ५ आक्षेपं परिहरिष्यन् पृच्छति कोऽयमिति । समुदायार्थ विकल्प्योत्तरयति पूर्वपक्षी प्राप्तिरनेकस्येति । अनेकस्य अवयवस्य प्राप्तिः संयोग एव समुदाय इति प्रथमविकल्पस्यार्थः । भिन्नाः समुदायिनः (अवयवाः) संयोगेन एकीकृताः समुदाय इत्यर्थः । एकस्यैवावयवस्य अनेका प्राप्तिरनेकैरवयवैः संयोगः समुदायार्थ इति द्वितीयविकल्पार्थः। अनेकेऽवयवसमूहा एव समुदाय इत्यर्थः । इमावेव विकल्पौ द्वात्रिंशत्सूत्रभाध्येऽप्युक्तौ -समुदाय्यशेषता वा समुदायो वृक्षः स्यात्त- प्राप्तिवेत्यादिना । तत्र यत्समुदाय्यशेषतापदेन विवक्षितं तदेवान द्वितीयविकल्प- रूपेणोपन्यस्तम्। समुदायिप्राप्तित्वेन यत्तत्रोक्तं तदेवात्र प्राप्तिरनेकस्येत्यनेन विवक्षितम् । ६ आद्य विकलं दूषयति प्राप्तरिति । प्राप्त्याश्रितायाः प्राप्तेरग्रहणमित्यन्वयः संयुक्ते इमे वस्तुनी इत्यत्र द्वयोः समुदाययोः संयोगो गृह्यते । तत्र यदि अनेकस्य गाप्तिरेव समुदायो भवेत् तमुत्र द्वयोः समुदायभूतयोः प्राप्त्योरेव प्राप्तिगृहीता यात् । न च प्राप्तेः प्राप्तिर्गृह्यते । अतो नानेकप्राप्तिः समुदायो भवितुमर्हति । ..

-सू. ३७] द्वितीयाध्याये प्रथमाह्निके सप्तत्रिंशत्तमं सूत्रम् १०५ अनेकसमूहः समुदाय इति चेद्-न, द्वित्वेन समानाधिकरणस्य ग्रहणान् । द्वाविमौ संयुक्तावाविति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते । न च द्वयोरण्वोर्ग्रहणमस्ति । तस्मान्महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानमिति । " प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरमिति "चेन्न, अर्थान्तरहेतुत्वात्संयोगस्य । शब्दरूपादिस्पन्दानां हेतुः संयोगः । न च द्रव्य- योर्गुणान्तरोपजननमन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते । तस्माद् गुणान्तरं, प्रत्ययविषयश्वार्थान्तरं तत्प्रतिषेधो वा-कुण्डली गुरुरकुण्डलइछात्र इति । संयोगबुद्धश्च यद्यर्थान्तरं न विषयः, अर्थान्तरप्रतिषेधस्तर्हि विषयः । तत्र प्रतिषिध्यमानवचनम् । संयुक्ते द्रव्ये इति यदर्थान्तरमन्यत्र दृष्टमिह प्रति- षिध्यते तद्वक्तव्यमिति । द्वयोर्महतोराश्रितस्य ग्रहणान्नाण्वाश्रय इति । जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम् । प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः । व्यधिकरणस्यानभिव्यक्तरधिकरणवचनम् । इति चेत्--प्राप्ताप्राप्तसामर्थ्यवचनम् । किमप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते, अथ प्राप्ते इति ? १ प्रथमं विकल्पं पराहतं कृत्वा द्वितीयमुत्थापयति अनेकसमूह इति । अनेका प्राप्तिरिति पक्षे द्वे वस्तुनी इति द्वित्वसामानाधिकरण्यमनेकत्वस्य न घटते । २ न चेति । परमाणोरतीन्द्रियत्वात्परमाणुद्वयस्याप्यतीन्द्रियवादित्यर्थः ३ पूर्वोक्तेषु चतुर्पु तृतीयं स्पन्दमुद्दिश्य व्याचष्टे प्रत्यासत्तिरिति । ४ प्रतिषिध्यमानवचनमिति । किमत्र प्रतिषिध्यते तद् वक्तव्यमित्यर्थः । ५ उक्तेषु चतुर्षु चतुर्थी जातिमुद्दिश्य व्याचष्टे जातिविशेषस्येति । प्रत्ययानुवृत्ति- लिङ्गस्येत्यत्र लिङ्गपदं निमित्तवाचकम् । लिङ्गमनुमापकमिति तु तात्पर्यकृतः। तथा चोक्तम्-प्रत्ययानुवृत्तिर्यद्यपि प्रत्यक्षा तथाऽपि विप्रतिपन्नं प्रति सैव लिङ्गमुच्यते । ६ व्यधिकरणस्येति ।न चायं जातिविशेषो व्यधिकरणो व्यज्यते-इत्यधिकरण- मवश्यं वक्तव्यमित्यर्थः। ७ विषय इति । अधिकरणमित्यर्थः । परमाणव एव केनचित् समवस्थानेनाव- तिष्ठमानाः तां तां जाति व्यञ्जयन्ति । अतो नावयवी सिध्यतीति पूर्वपक्षिणो हृदयम् । ८ प्राप्ताप्राप्तेति पूर्वपक्षोक्तं दूषयति । यत्तत् परमाणूनां समवस्थानं जातिविशेष व्यनक्ति-इति मन्यसे-किं तच्चक्षुषा प्राप्तं जातिविशेष व्यनक्त्याहोस्विदप्राप्तमिति अणुसमवस्थानं विषय " भावः ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०१ सू०३७- अप्राप्त ग्रहणमिति चेत्,-व्यवहितस्याणुसमवस्थानस्याप्युपलब्धिप्रसङ्गः । व्यवहितेऽणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्येत । प्राप्ते ग्रहणमिति चेत् ? मध्यपरभागयोरप्राप्तावनभिव्यक्तिः । यावत्प्राप्तं भवति तावत्यभिव्यक्तिरिति चेत्,-तावतोऽधिकरणत्वमणुसमवस्थानस्य । यावति प्राप्ते जातिविशेषो गृह्यते तावदस्याधिकरणमिति प्राप्तं भवति । तत्रैकसमुदाये प्रतीयमानेऽर्थभेदः । एवं च सति योऽयमणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेत-यत्र यत्र ह्यणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति । तस्मात्समुदिताणु- समवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वादवयव्यर्थान्तरभूत इति ॥ ३७ ॥ (५) अनुमानपरीक्षाप्रकरणम् । परीक्षितं प्रत्यक्षम् । अनुमानमिदानी परीक्ष्यते-- "रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् " ॥३८॥ " अप्रमाणमिति--एकदाप्यर्थस्य न प्रतिपादकमिति । रोधादपि नदी पूर्णा गृह्यते । तदा चोपरिष्टादृष्टो देव इति मिथ्यानुमानम् । नीडोपघातादपि १ तत्रैकेति । योऽयं वृक्ष इति समुदायः प्रतीयते तस्य वृक्षस्य भेदः प्राप्नोती- त्यर्थः । यावति यावति जातिय॑ज्यते स स वृक्ष इति प्राप्नोति । ततश्चैको वृक्षोऽनेक इति प्रतीयेत-एकप्रत्ययश्च न स्यादित्याशयः । २ उपसंहरति तस्मादिति । समुदिता अणवः समवस्थानमधिकरणं यस्य तादृश- स्यार्थान्तरस्य जातिविशेषाभिव्यक्तिहेतुत्वं नाणूनामिति सिद्धोऽवयवीति भावः । ३ प्रतिपादकमिति । निश्चायकमित्यर्थः । प्रतिपादनमान्नं स्वप्रमाणेनापि क्रियत एव । अतः प्रतिपादनमत्र निश्चायकमेव विवक्षितम् । ४ नदीपूरदर्शनादभूदृष्टिरिति शेषवदनुमानम्-कार्यात् कारणस्येति । तत्सां- शयिकत्वेन दूषयति रोधादिति । जलस्यावरोधादपि नद्याः पूरो भवति । अतो नास्ति नियतः सम्बन्धो नदीपूरस्य वृष्टयेत्यर्थः। ५ पिपीलिकाण्डसञ्चरणाद्भविष्यति वृष्टिरिति पूर्ववदनुमानम् कारणात्कार्यस्य। तद्रूषयति नीडोपघातादिति । स्ववासस्थानभ्रंशादपि पिपीलिका अण्डं गृहीत्वा निस्स- रन्ति । अतो नास्ति नियतः सम्बन्धः पिपीलिकाण्डसञ्चरणस्य भाविवृष्टयेत्याशयः। अत्रेदमवधेयम् । न पिपीलिकाण्डसञ्चरणं वर्षायाः कारणम् । अनुपलब्ध- सामर्थ्यात् । असत्यपि तस्मिन् वर्षोपपत्तेः । वर्षामूलकारणस्य तु महाभूतसक्षोभस्य पिपीलिकाण्डसञ्चरणं पूर्वकार्यम् । भौमेनोमणा क्वथ्यमानाः पिपीलिकाः स्वान्यण्डानि ..

--सू. ३९ ] द्वितीयाध्याये प्रथमाह्निके एकोनचत्वारिंशत्तमं सूत्रम् पिपीलिकाण्डसञ्चारो भवति । तदा च भविष्यति वृष्टिरिति मिथ्यानुमान- मिति । पुरुषोऽपि मयूरवाशितमनुकरोति । तदापि शब्दसादृश्यान्मिथ्यानु- मानं भवति ॥ ३८॥ ने, एकदेशवाससादृश्येभ्योऽर्थान्तरभावात् ।। ३९ ॥ नायमनुमानव्यभिचारः। अननुमाने तु खल्वयमनुमानाभिमानः । कथम् ? नाविशिष्टो लिङ्गं भवितुमर्हति । पूर्वोदकविशिष्टं खलु वर्षोदकं शीघ्र- तरत्वं स्रोतसो बहुतरफेनफलपर्णकाष्टादिवहनं चोपलभमानः पूर्णत्वेन नद्या उपरि वृष्टो देव इत्यनुमिनोति, नोदकवृद्धिमात्रेण । पिपीलिकाप्रायस्याण्डसञ्चारे भविष्यति वृष्टिरित्यनुमीयते, न कासाञ्चिदिति । नेदं मयूरवाशितं तत्स- शोऽयं शब्द इति 'विशेषापरिज्ञानान्मिथ्यानुमानमिति । यस्तु विशिष्टाच्छ- भूमिष्टान्युपरिष्टान्नयन्ति । तस्मात्पिपीलिकाण्डसञ्चारेण वर्षकारणं महाभूतसङ्क्षोभम- नुमाय यदि वर्षकारणात् वर्पकार्यमनुमीयते तदा पूर्ववदुदाहरणम् । अथ कार्यकारण- भावमबुध्वैवानुमिमीते पिपीलिकाण्डसञ्चरणेन वर्ष तदा कार्यकारणभावाभावेन सामान्यतोदृष्टस्योदाहरणमिदम् । १ मयूररुतं श्रुत्वा वर्तमानो मेघोऽनुमीयते--तदपि दृपयति पुरुष इति । यच्छूयते मयूररुतत्वेन च ज्ञायते तत्पुरुषकृतं मयूररुतानुकरणमेव स्यात् । बार्तिक- कारोक्त्या तु मयूररुतेन मयूरस्यैवास्तित्वमनुमीयत इत्येवान विवक्षितम् । २ अनुमानमिथ्यात्वं निराकरोति नेत्यादिना सूत्रेण । अनुमानाप्रामाण्यं न युक्तम्-एकदेशजनदीवृद्धि-त्रासजपिपीलिकाण्डसञ्चार- मयूररुतसदृशरुतेभ्योऽर्थान्तरत्वात्-यथार्थानुमितिकरणत्वेनाभिमतानामिति शेषः । ये नदीवृद्धयादयोऽनुमितिकरणत्वेनाभिमतास्ते एकदेशजादिभ्यो भिन्ना एवेत्याशयः । ३ नाविशिष्ट इति । नदीवृद्धयादिमानं नानुमितिकरणत्वेनाभिमतमपि तु विशिष्टमेवेत्यर्थः। ४ नदीवृद्धयादीनां विशेष दर्शयति पूर्वोदकेति । ५ पिपीलिकेति । प्रायः प्रबन्धः पतिरिति यावत् । ६ विशेषापरिज्ञानादिति । यदा मयूररुतात् तत्सदृशशब्दस्य भेदं नावधारयति तद्वारैव चानुमिमीते तदैवेदमनुमानं मिथ्या। एवं च यदा रोधादिकारणान्तरैरुप- जनितो नदीपूर इति नावधारयति तद्वारेण च उपरि वृष्टो देव इत्यनुमिनोति तदैवानुमानं मिथ्या । ब्रासजोऽयं पिपीलिकाण्डसञ्चार इति यदा नावधारयति- अनुमिनोति च तद्वारैवागामिनी वृष्टिं तदैवानुमानं मिथ्या नान्यथेत्याशयः । ७ विशिष्टादिति । षड्जस्वरविशिष्टादित्यर्थः ।

१०८ खद्योतसहितन्यायसूत्रभाष्ये [अ०२,आ०१ सू०-४१ दाद्विशिष्टमयूरवाशितं गृह्णाति तस्य विशिष्टोऽर्थो गृह्यमाणो लिङ्ग, यथा सादीनामिति । सोऽयमनुमातुरपराधो नानुमानस्य, योऽर्थविषेशेणानुमेयम- र्थमविशिष्टार्थदर्शनेन बुभुत्सत इति ॥ ३९ ।। (६) वर्तमानकालपरीक्षाप्रकरणम् औपोद्धातिकम् ।। त्रिकालविषयमनुमानं त्रैकाल्यग्रहणादित्युक्तम् , अत्र च- " वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः "॥४०॥ वृन्तात्प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितोऽध्या । तत्संयुक्तः कालः पतितकालः । योऽधस्तात् स पतितव्योऽध्या । तत्संयुक्तः काल: पतितव्यकाल: । नेदानी तृतीयोऽध्या विद्यते यत्र पततीति वर्तमानः कालो गृह्येत । तस्माद्वर्तमानः कालो न विद्यत इति " ॥ ४० ॥ तयोरप्यभावो वर्तमानाभावे, तदपेक्षत्वात् ॥ ४१ ॥ नाध्वव्यङ्गथः कालः, किं तर्हि, क्रियाव्यङ्गयः-पततीति । यदा पतन- क्रिया व्युपरता भवति स कालः पतितकालः। यदोत्पत्स्यते स पतितव्यकालः । यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः । यदि चायं द्रव्ये वर्तमान पतनं न गृह्णाति कस्योपरममुत्पत्स्यमानतां वा प्रतिपद्यते । पतितः काल इति भूता क्रिया । पतितव्यः काल इति चोत्पत्स्यमाना क्रिया। उभयोः कालयोः क्रियाहीनं द्रव्यम् । अधः पततीति क्रियासम्बद्धम् । सोऽयं क्रिया- १ सादीनामिति । सर्पादयो मयूरस्यैव विशिष्टं शब्दं श्रुत्वा तस्यास्तित्वमनु- मिन्वन्ति । न तेषां कदापि मयूरसदृशरुतमात्रात्तदस्तित्वभ्रान्तिः । २ तदेवमनुमानलक्षणपरीक्षाद्वारेणानुमानं परीक्ष्य सम्प्रत्यनुमानविषयपरीक्ष- याऽनुमानपरीक्षामवतारयति त्रिकालेति । ३ तयोरिति । अतीतानागतयोरिति यावत्। तदपेक्षत्वादिति वर्तमानापेक्ष- स्वादित्यर्थः। यदा खल्वयं पुरुषः फलं प्रवर्तमानपतनक्रियाविशिष्टं प्रतिपद्यते तदा व्यप- दिशति 'पतति' फलमिति। तन्मूले चास्यातीतानागते-'अपतत्फलम्' 'पतिष्यतीति'। न च प्रवर्तमानं पतनमसिद्धम्--येन कालं न व्यङ्ग्यात् । प्रत्यक्ष- सिद्धं हि तत् पतनम् । प्रवर्तमानपतनक्रियाया अभावे कस्य कारणं गुरुत्वं, कस्य च फलं भूमिसंयोगः । एवं चातीतानागतयोर्वर्तमानापेक्षत्वात् वर्तमानस्य च तदपेक्षत्वादस्ति त्रैकाल्यमिति सिद्धान्तः ।

--सू. ४३] द्वितीयाध्याये प्रथमाह्निके त्रयश्चत्वारिंशत्तमं सूत्रम् १०९ -- ? द्रव्ययोः सम्बन्धं गृह्णातीति वर्तमानः कालः । तदाश्रयौ चेतरौ कालौ तदभावे न स्यातामिति ॥ ४५ ॥ अथापि- नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ ४२ ॥ यद्यतीतानागतावितरेतरापेक्षौ सिद्धेयतां प्रतिपद्येमहि वर्तमानविलोपम् । नातीतापेक्षाऽनागतसिद्धिः नाप्यनागतापेक्षाऽतीतसिद्धिः । केया युक्त्या केन कल्पनातीतः कथमतीतापेक्षाऽनागतसिद्धिः, केन च कल्पेनानागत इति नैतनछक्यं निर्वक्तुम् । अव्यारकणीयमेतद्वर्तमानलोप इति । यच्च मन्येत-"हत्वदीर्घयोः स्थलनिम्नयोश्छायातपयोश्च यथेतरेतरापे- क्षया सिद्धिरेवमतीतानागतयोरिति” तन्नोपपद्यते, विशेषहेत्वभावात् । दृष्टान्त- वत्प्रतिदृष्टान्तोऽपि प्रसज्यते । यथा रूपम्पर्शी गन्धरसौ नेतरेतरापेक्षौ सिध्यतः, एवमतीतानागताविति नेतरेतरापेक्षा कस्यचित्सिद्धिरिति । यस्मादेकाभावेऽ- न्यतराभावादुमयाभावः । यद्येकस्यान्यतरापेक्षा सिद्धिरन्यतरस्येदानी किम- पेक्षा ? यद्यन्यतरस्यैकापेक्षा सिद्धिरेकस्येदानी किमपेक्षा ? एवमेकस्याभावे अन्यतरन्न सिध्यतीत्युभयाभावः प्रसज्यते ॥ ४२ ॥ अर्थसद्भावव्यङ्गयश्चायं वर्तमानः कालः, विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मेति । यस्य चायं नास्ति, तस्य- वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥ ४३ ॥ ५ नातीतेत्यादिसूत्रम् । परस्परापेक्षसिद्धेहि वर्तमानाभावः । सैव तु नास्तीति सूत्रार्थः। २ कया युक्त्येति प्रश्नः । केन कल्पेनेति तस्योत्तरम् । कल्पेनेति प्रकारेणेत्यर्थः । अनेन वर्तमानाभावेऽतीतरूपाक्षेपः कृतः । ३ हस्वत्वदीर्घत्वादीनां परस्परापेक्षसिद्धत्वमङ्गीकृत्याऽऽह तन्नोपपद्यत इति। परमार्थतस्तु ह्रस्वत्वदीर्घत्वादीनामपि न परस्परापेक्षा सिद्धिरिति । ४ वक्ष्यमाणसूत्रावतारपरं भाप्यम्-अर्थसद्भावेति । अयमस्यार्थः । न केवलं पत- नादिक्रियाव्यङ्गयो वर्तमानः कालः । अपि तु ' अर्थसद्भावः'-अर्थस्य सत्ता, अस्ति- क्रिया-तया व्यङ्गय इत्यवधेयम् । ५ वर्तमानेत्यादिसूत्रम् । एतदुक्तं भवति-पतनादयः क्रियाः वर्तमानेषु अपयान्ति उपयान्ति च । अस्तिक्रिया तु सर्ववर्तमानव्यापिनी । तदेवमस्तिक्रियाविशिष्टस्य वर्तमानस्याभावे सर्वाग्रहणम्, प्रत्यक्षानुपपत्तेरिति । : ..

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०१ सू० ४३- प्रत्यक्षमिन्द्रियार्थसन्निकर्षजम् । न चाविद्यमानमसदिन्द्रियेण सन्निकृष्यते। न चायं विद्यमानं सत्किञ्चिदनुजानाति । प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्ष- ज्ञान-सर्वं नोपपद्यते । प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोरनुप- पत्तिः । सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति ॥ ४३ ॥ उभयथा च वर्तमान: कालो गृह्यते । क्वचिदर्थसद्भावव्यङ्गयः, यथा अस्ति द्रव्यमिति । कचित् क्रियासन्तानव्यङ्गयः, यथा पचति छिनत्तीति । नानाविधा चैकार्था क्रिया-क्रियासन्तान:, क्रियाभ्यासश्च । नानाविधा चैकार्था क्रिया-पचतीति-स्थाल्यधिश्रयणमुदकासेचनं तण्डुलावपनमेधोऽपसर्पणमग्न्यभि- ज्वालनं दीघट्टनं मण्डलावणमधोऽवतारणमिति । छिनत्तीति क्रियाभ्यासः- उद्यम्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्युच्यते ॥ ४३॥ यच्चेदं पच्यमानं छिद्यमानं च तक्रियमाणम् । तस्मिन् क्रियमाणे----- कृतताकर्त्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥ ४४ ॥ १ अविद्यमानमित्यस्य विवरणम्-असदिति । २ अयमिति--पूर्वपक्षी ३ प्रत्यक्षनिमित्तमिति । 'प्रत्यक्षनिमित्तं' सन्निकर्षः, अस्मदादिप्रत्यक्षविषयो विद्यमानो घटादिः, प्रत्यक्षं प्रमाणम् अनाधारम्--एतत् सर्वं नोपपद्यत इत्याशयः । ४ कथं पुनर्वर्तमानाभावे प्रत्यक्षानुपपत्तिः । यस्मादिदं प्रत्यक्षं वर्तमानाधारं कार्यत्वात्-यत् कार्यं तद्वर्तमानाधारं दृष्टम्-यथा क्षीरम्-कार्य च प्रत्यक्षं तस्माद्वर्त- मानाधारमिति । अत एव वर्तमानकालानभ्युपगमेऽनाधारं प्रत्यक्षं प्राप्नोति । अना- धारं च कार्य नास्तीति प्रत्यक्षानुपपत्तिरिति । ५ अर्थसद्भावेति--अस्तिक्रियामानगम्य इत्यर्थः । ६ यथा पचतीत्यादि। पचतीत्यत्र नानाविधा एका क्रिया । अतोऽत्र नानाक्रिया- सन्तानगम्यो वर्तमानः कालः । एता नानाक्रिया उद्दिष्टा अधस्तात् स्थाल्यधिश्रयण- मित्यादि । छिनत्तीत्यत्र तु एकस्या व छेदनक्रियाया अभ्यास एव क्रियासन्तानो येन गम्यः कालः । एवंरूपमेव भेदं समुद्दिश्य दृष्टान्तद्वयमुपन्यस्तम् । ७ तदेवं वर्तमानक्रियासद्भावमुक्त्वा तत्सम्बन्धव्यङ्गयां कारणस्य वर्तमानतामाह यच्चेदमिति । तत्' क्रियमाणं वर्तमानक्रियासम्बन्धेन 'वर्तमानं,' नतु स्वरूपत इत्याशयः। ८ तस्य च कारणस्य वर्तमानक्रियासम्बन्धमतीतानागतानपेक्षमपेक्ष्यातीतानाग- त्वे क्रियायाः कारकस्यापि व्यक्तिः तद्भावब्यक्तिः । तद्धेतुकं च द्वैविध्यमिति प्रति- पादनपरं सूत्रमवतारयति तस्मिन् क्रियमाण इति । , --सू. ४५ ] द्वितीयाध्याये प्रथमाह्निके पञ्चचत्वारिंशत्तमं सूत्रम् १११ क्रियासन्तानोऽनारब्धश्चिकीर्पितोऽनागतः कालः--पक्ष्यतीति । प्रयो- जनावसानः क्रियासन्तानोपरमः अतीतः कालः-अपाक्षीदिति । आरब्ध- क्रियासन्तानो वर्तमानः कालः-पचतीति । तत्र या उपरता सा कृतता । या चिकीर्षिता सा कर्तव्यता । या विद्यमाना सा क्रियमाणता । तदेवं क्रियासन्तानस्थस्त्रैकाल्यसमाहारः । पचति पच्यत इति वर्तमानग्रहणेन गृह्यते । क्रियासन्तानस्य ह्यत्राविच्छेदो विधीयते, भारम्भो नोपरम इति । सोऽयमु- भयथा वर्तमानो गृह्यते-अपवृक्तो व्यपवृक्तश्चातीतानागताभ्याम् । स्थितिव्यङ्गथः --विद्यते द्रव्यमिति । क्रियासन्तानाविच्छेदाभिधायी च त्रैकाल्यान्वितः पचति छिनत्तीति । अन्यश्च प्रत्यासत्तिप्रभृतेरर्थस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेपु उत्प्रेक्षितव्यः । तस्मादस्ति वर्तमानः काल इति ॥ ४४ ॥ (७) उपमानपरीक्षाप्रकरणम् । अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः" ॥ ४५ ॥ अत्यन्तसाधादुपमानं न सिध्यति । न चैवं भवति यथा गोरेवं गौरिति । प्रायसाधादुपमानं न सिध्यति । न हि भवति यथाऽनड्डानेवं महिष इति । एकदेशसाधादुपमानं न सिध्यति । ने हि सर्वेण सर्वमुपमी- यत इति” ॥ ४५ ॥ काल्यान्वित इति । 'पचति' 'छिनत्ति' इत्यत्र सम्पृक्तः, काश्चिदन्न क्रियाः व्यतीताः काश्चिदनागताः, एका च वर्तमाना । एवमेव त्रैकाल्यान्वितत्वम् । २ अत्यन्तेत्यादिपूर्वपक्षसूत्रम् । यथा गौरेवं गवय इत्यतिदेशवाक्यार्थस्मृति- सहकारि सारूप्यदर्शनं साध्यस्य-गवयोऽयमिति संज्ञासंज्ञिसम्बन्धस्थ-साधन- मुपमानम् । तच्चेदं नोपपद्यते विकल्पानुपपत्तेः । किं यथा गौरेवं गवय इत्यत्यन्त- साधय विवक्षितम् प्रायिकं साधयं वा । उभयथाऽपि नोपपद्यत इति पूर्वपक्षाशयः । ३ न चैवमिति । गोगवययोरत्यन्तसादृश्ये सति-यावदुक्तं भवति ' यथा गौस्तथा गवय' इति तावदुक्तं भवति । यथा गौस्तथा गौरिति' । न चैतद्वाक्यम- भीप्सितसंज्ञासंज्ञिसम्बन्धं बोधयितुं शक्नोति । ४ नहि भवतीति । प्रायिके सादृश्ये विवक्षिते सति अनडुन्महिषयोरपि तादृशे सादृश्ये वर्तमाने 'यथाऽनड्वांस्तथा महिष' इत्यपि स्यात् । महिषस्यापि च गवा प्रायिकसाश्यदर्शनात् तस्यापि गवयाभिधानप्रसङ्गः स्यात् । ५ नहि सर्वेणेति । सर्वेषामपि वस्तूनां यत्किञ्चित्साधयं भवत्येवेत्याशयः ।

११२ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ सू०४६-- . ?-- प्रसिद्धसाधादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ ४६॥ ने साधर्म्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपैमानं प्रवर्तते, किं तर्हि प्रसिद्धसाधासाध्यसाधनभावमाश्रित्य प्रवर्तते । यत्र चैतदस्ति न तत्रोप- मानं प्रतिषेढुं शक्यम् । तस्माद्यथोक्तदोषो नोपपद्यत इति ॥ ४६ ।। अस्तु तर्युपमानमनुमानम्--- प्रत्यक्षेणाप्रत्यक्षसिद्धेः" ॥ ४७ ॥ यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नर्ग्रहणमनुमानम् , एवं गवा प्रत्य- क्षेणाऽप्रत्यक्षस्य गवयस्य ग्रहणमिति नेदमनुमानाद्विशिष्यते” ॥ ४७ ॥ विशिष्यत इत्याह । कया युक्त्या नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥ ४८ ॥ १ प्रसिद्धसाधादिति पूर्वपक्षपरिहारसूत्रम् । प्रकरणाद्यपेक्षं हि वाक्यं स्वार्थ प्रतिपादयति, न केवलम् । तद्वशाच्च क्वचिदस्यन्तसादृश्यं प्रतीयते, कचित्मा- यिकसाधर्म्यम्, क्वचिदेकदेशसाधर्म्यम् । तदिह प्रतीतमहिषादिकं पुरुपं प्रति यदा 'यथा गोरेवं गवय' इति वाक्यमुच्चार्यते तदा महिषादिपरिहाराय भूयस्साधर्म्य विवक्षितम्-इति तद्वाक्यार्थं स्मरन् महिषादिषु गोसादृश्यं पश्यन्नपि न गवयसंज्ञा निवेशयति अपि तु भूयस्सादृश्यवति गवय एव तां निवेशयतीत्याशयः । २ न साधर्म्यस्येति भाष्यं नियमं निषेधति । न साधर्म्यस्य कृस्नभावमेव वाऽल्पभावमेव वाऽऽश्रित्यातिदेशवाक्यं प्रवर्तत इत्याशयः । ३ उपमानमिति । अतिदेशवाक्यमित्यर्थः। ४ साध्यसाधनेति । 'साध्यः' संज्ञासंज्ञिसम्बन्धः । एतदुक्तं भवति । अतिदेश- वाक्यप्रसिद्धसाधयं यतः संज्ञासंज्ञिसम्बन्धस्य साधनं भविष्यति-ततः न नियमः, किन्तु क्वचित् किञ्चित् साधर्म्यमाश्रित्यातिदेशवाक्यं प्रवर्तते । तच्च दुन्नेयमिति । ५ उपमानमनुमानेऽन्तर्भावयन्नाह पूर्वपक्षी-प्रत्यक्षेणेतिसूत्रम् । यथा गोरेवं गवय इति वाक्यं 'प्रत्यक्षेण' गवा गवयमप्रत्यक्षं प्रतिपादयति । श्रुतवाक्योऽपि यदा प्रत्यक्षेण गवयं पश्यति तदा वाक्यार्थाधिगमादधिकं न किञ्चित् प्रतिपद्यते । संज्ञा- संज्ञिसम्बन्धोऽप्यस्माद्वाक्यादेवावगतः । तस्मात् 'प्रत्यक्षेण' गवा 'अप्रत्यक्षस्य' गवयस्य गवयसंज्ञाविशिष्टस्य प्रतीतेरुपमानस्यानुमानतेति पूर्वपक्षिणो हृदयम् । ६ नाप्रत्यक्ष इत्यादि सिद्धान्तसूत्रम् । प्रकरणा- -सू. ५०] द्वितीयाध्याये प्रथमाह्निके पञ्चाशत्तमं सूत्रम् ११३ यदा ह्ययमुपयुक्तोपमानो गोदर्शी गवा समानमर्थं पश्यति तदाऽयं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्था प्रतिपद्यते, न चेदमनुमानमिति । परार्थं चोपमानं यस्य ह्युपमेयमप्रसिद्धं तदर्थं प्रसिद्धोभयेन क्रियत इति । "परार्थमुपमानमिति” चेत् , न, स्वयमध्यवसायात् । “भवति च भोः स्वयमध्यवसायः--यथा गौरेवं गवय इति"। नाध्यवसाय: प्रतिषिध्यते । उपमानं तु तन्न भवति । प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् । न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभावो विद्यत इति ॥ ४८॥ अथापि-- तथेत्युपसंहारादुपमानसिद्धे विशेषः ॥ ४९ ॥ तथेति समानधर्मोपसंहारादुपमानं सिध्यति, नानुमानम् । अयं चानयोर्विशेप इति ॥ ४९ ॥ (८) शब्दसामान्यपरीक्षाप्रकरणम् । शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् " ॥ ५० ॥ ५ नचेदमिति । गवयत्वं हि ‘संज्ञि' न च तत् 'यथा गौस्तथा गवय' इति वाक्यात्प्रतीयते, अपि तु कस्यचिज्जन्तोः गवा सादृश्यमेव तस्माद्वाक्यात्प्रतीयते । न च वाक्यगतो गवयशब्दस्तस्य सादृश्यस्य वाचकः, तथा तदानीमगृहीतसङ्गति- त्वात् । न च सादृश्यं 'संज्ञि'। तस्मात् प्रत्यक्षे एव गवये गवयत्वस्य जातेः प्रत्यक्षत्वात् संज्ञासंज्ञिसम्बन्धपरिच्छेदः । स एव चोपमानस्य प्रमाणस्यार्थ इति परः प्रत्यवतिष्टते परार्थमुपमानमिति चेदिति । एवमत्र सम्बन्धः । परार्थमनुमानमिति चेन्मन्यसे सिद्धान्तवादिन्, तन्नास्ति,-कुतः स्वयमप्यध्यवसायात् । गौरेवं गवय' इति वाक्यमेव परार्थं स्याद्यदि परस्यैवाध्यवसायं जनयेत् । तावतो- चारयितुरप्यध्यवसायं जनयति । तस्मात् स्वार्थमपीति नानुमानादतीव भेद इत्याक्षेपस्याशयः । २ आक्षेपं परिहरति नाध्यवसाय इति । उक्तोऽध्यवसायोऽतिदेशवाक्योच्चार- यितारं प्रति उपमानं न भवतीत्येतावन्मानं सिद्धान्तिन आशय इत्यर्थः । ३ तथेत्यादि सूत्रम् । नानुमानमेवं भवति-'यथा धूमस्तथाऽग्निरिति' । अस्ति तूपमानं 'यथा गौस्तथा गवय' इति । ४ शब्दोऽनुमानमिति पूर्वपक्षसूत्रम् । प्रत्यक्षेणानुपलभ्यमानार्थत्वादिति तदर्थः। यज्ज्ञानं प्रत्यक्षेणानुपलभ्यमानविषयं प्रत्यक्षस्य पश्चादुपजायते तत् 'अनुमानम् । यथाऽग्निमद्धमज्ञानम् । तथा च शब्दज्ञानम्-तस्मादनुमानमित्याशयः। न्या. सू. ८ यथा ११४ खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० १ सू ० ५ ० शब्दोऽनुमानं न प्रमाणान्तरम् । कस्मात् ? शब्दार्थस्यानुमेयत्वात् । कथमनुमेयत्वम् ? प्रत्यक्षतोऽनुपलब्धेः । यथाऽनुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चान्मीयत इति अनुमानम् , एवं मितेन शब्देन पश्चान्मीयतेऽर्थोऽनुप- लभ्यमान इत्यनुमानं शब्दः " ॥ ५० ॥ इतश्चानुमानं शब्दः- 4 उपलब्धेरद्विप्रवृत्तित्वात् " ॥ ५१ "प्रमाणान्तरभावे द्विप्रवृत्तिरुपलब्धिः। अन्यथा झपलब्धिरनुमाने अन्यथोपमाने-तड्याख्यातम् । शब्दानुमानयोस्तूपलब्धिरद्विप्रवृत्तिः । यथानुमाने प्रवर्तते तथा शब्देऽपि । विशेषाभावादनुमानं शब्द इति” ॥ ५१ ॥ " सम्बन्धाच्च" ॥ ५२॥ शब्दोऽनुमानमिति वर्तते । सम्बद्धयोश्च शब्दार्थयोः सम्बन्धप्रसिद्धी शब्दोपलव्धेरर्थग्रहणं, यथा सम्बद्धयोलिङ्गलिङ्गिनोः सम्बन्धप्रतीतो लिङ्गो- पलब्धौ लिङ्गिग्रहणमिति" ।। ५२ ॥ यत्तावदर्थस्यानुमेयत्वादिति, तन्न- १ पूर्वपक्षे हेत्वन्तरम्-उपलब्धेरिति सूत्रम् । २ द्विप्रवृत्तिरिति-प्रवृत्तिप्रकारभेद इत्यर्थः । ३ पूर्वपक्षे तृतीयो हेतुः सम्बन्धाञ्चेति सूत्रम् । अवहि मूत्रकारेण प्रथमं शब्दस्यानुमानान्तर्गतिरेव परीक्षिता । न चापरी- क्षितप्रमाणभावस्य सा युक्तेति वार्तिककारोऽस्यादौ प्रमाणभावमेव परीक्षाञ्चके । तत्रायं पूर्वपक्षसंक्षेपः यस्मिन् सति प्रमा भवत्येव, न च न भवति, तदेव प्रमाणम्-साधकतमस्य करणत्वात् । सत्यपि तु शब्दे प्रमा न भवति यावदसावश्रुतः । एतच्च तस्य साधकतमत्वं विघटयति । अन्यच्च । प्रामाण्यं हि विषयवत्तया व्याप्तम् । सा शब्द निवर्तमाना प्रामाण्यमपि निवर्तयति। द्विविधश्च विषयः । प्रत्यक्षः परोक्षश्च । तत्र पूर्वः प्रत्यक्षस्य प्रमाणस्य विषयः, अप्रत्यक्षश्चाविनाभूताल्लिङ्गादवगन्तव्यः । तदनपेक्षेणासम्बन्धाविशेषात् सर्वं सर्वस्माद्गम्येत । तथा च सर्वः परोक्षार्थः प्रत्ययोऽ नुमानव्याप्तः। न च प्रत्यक्षपरोक्षाभ्यामन्यो राशिरस्ति। तस्माद् विषयाभावादपि न शब्दप्रामाण्यमिति । एवं च प्रत्यक्षानुमानाभ्यां भिन्नप्रस्थानः शब्दो न प्रमाणम्, प्रमाणत्वे वा तदन्तर्भूत एव । तत्रापि प्रत्यक्षानुमानयोः कतरस्मिन्नस्यान्तर्भाव-इति जिज्ञासायामनुमान एवान्तर्भाव इतिसूत्रत्रयार्थः । ..

-सू. ५३ ] द्वितीयाध्याये प्रथमाह्निके त्रयःपञ्चाशत्तमं सूत्रम् आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः ॥ ५३ ।। स्वर्गः अप्सरसः उत्तराः कुरवः सप्तद्वीपसमुद्रो लोकसन्निवेश इत्येव- मादेरप्रत्यक्षस्यार्थस्य न शब्दमात्रात्प्रत्ययः । किं तर्हि, आप्तरयमुक्तः शब्द इत्यतः सम्प्रत्ययः, विपर्ययेण सम्प्रत्ययाभावात् । न त्वेवमनुमानमिति । यत्पुनरुपलब्धेरद्विप्रवृत्तित्वादिति-अयमेव शब्दानुमानयोरुपलब्धेः प्रवृत्तिभेदः,-तत्र विशेष सत्यहेतुर्विशेषाभावादिति । यत्पुनरिद सम्बन्धाच्चेति-अस्ति च शब्दार्थयोः सम्बन्धोऽनुज्ञातः, अस्ति च प्रतिषिद्धः । अस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः, प्राप्तिलक्षणस्तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः । कस्मात् ? प्रमाणतोऽनुप- लव्धेः । प्रत्यक्षतस्तावच्छब्दार्थप्राप्ते!पलब्धिरतीन्द्रियत्वात् । येनेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतिवृत्तोऽर्थो न गृह्यते । अस्ति चातीन्द्रियविषयभूतोऽ- प्यर्थः । समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर्गृह्यत इति ॥ ५३ ॥ १ आप्तोपदेशेत्यादि सिद्धान्तसूत्रम् । अत्राभ्युच्चयमानतथा भाष्यवार्तिक- काराभ्यामाप्तोक्तत्वाश्रयत्वानाश्रयस्वे शब्दानुमानभेदहेतुतयोपन्यस्ते । वस्तुतस्तु यदत्यन्तादृष्टपूर्व स्वगापूर्वदेवतादि तद् वाक्यार्थरूपमेव, नास्मदादिप्रत्यक्षगोचरम् । न चागृहीतं लिङ्गमस्मिन् प्रवर्तितुमर्हति । नचागृहीते सम्बन्धिनि सम्बन्धः शक्यग्रहः। वाक्यार्थप्रमां च प्रति पदानामेव पदार्थस्मरणावान्तरव्यापाराणां करणत्वम् । पदान्येव हि पदार्थस्मरणद्वारेण तत्संसग लक्षयन्ति वाक्यार्थे प्रमाणम् । तेषां चापक्षधर्मतया न लिङ्गत्वम् । स्मृतिजनकत्वमपि पदानां वाक्यार्थप्रत्यायनाथ कल्पितं न सम्बन्धान्तरं , व्यनक्ति॥ .. ७ २ शब्दार्थयोः सम्बन्ध इति । वाच्यवाचकभावलक्षणः सम्बन्धोऽनुज्ञातः, मीमांसकाभिमतः स्वाभाविकश्च सम्बन्धः प्रतिषिद्ध इत्याशयः । ३ प्राप्तिलक्षण इति । स्वाभाविको हि शब्दार्थयोस्सम्बन्धस्तदा स्यात्-यदा (१) तादात्म्यलक्षणो वा, (२) प्रत्याय्यप्रत्यायकस्वभावो वा, (३) प्राप्तिलक्षणो वा स्यात् । तत्र प्रत्यक्षलक्षणस्थेन अव्यपदेश्यपदेन तादात्म्यमपाकृतम् । ततश्च नाभेदः शब्दस्य प्रत्यक्षात् । प्रत्याय्यप्रत्यायकभावश्चौत्पत्तिकः सम्बन्धो मीमांसकाभिमतो निराकरिप्यतेऽधस्तात् । तेन प्राप्तिलक्षणमेव सम्बन्धं निराकरोति भाष्यकारः। ४ अस्ति चेति । अतीन्द्रियश्चासौ विषयभूत इति समासः। अतीन्द्रियश्च शब्दग्राहकेन्द्रियातिपतित इन्द्रियमात्रमतिपतितश्चेति ज्ञेयम् । ५ गृह्यत इति । एकेन्द्रियग्राह्ययोः प्राप्तिः प्रत्यक्षा । यथाऽङ्गुल्योः। नतु शब्दार्थयोरेकेन्द्रियग्राह्यता । येनेन्द्रियेण शब्दो गृह्यते न तेन तस्यार्थ इति भावः ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०२,आ०१ सू०५४- प्राप्तिलक्षणे च गृह्यमाणे सम्बन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात्, अन्तिके वा शब्दः स्याद्, उभयं वोभयत्र । अथ खल्वयम्- पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ॥ ५४॥ स्थानकरणाभावादिति चार्थः । न चायमनुमानतोऽप्युपलभ्यते-शब्दा- न्तिकेऽर्थ इति । एतस्मिन्पक्षेऽप्यास्यस्थानकरणोचारणीयः शब्दस्तदन्तिकेऽर्थ इति-अत्राग्न्यसिशब्दोच्चारणे पूरणप्रदाहपाटनानि गृह्येरन् । न च गृह्यन्ते । अग्रहणान्नानुमेयः प्राप्तिलक्षणः सम्बन्धः । अन्तिके शब्द इति स्थानकरणासम्भवादनुच्चारणम् । स्थानं कण्ठादयः । करणं प्रयत्नविशेषः। तस्याान्तिकेऽनुपपत्तिरिति । उभयप्रति- षेधाच्च नोभयम् । तस्मान्न शब्देनार्थः प्राप्त इति ॥ ५४ ॥ " शब्दार्थव्यवस्थानादप्रतिषेधः" ॥ ५५ ॥ " शब्दादर्थप्रत्ययस्य व्यवस्थादर्शनादनुमीयते अस्ति शब्दार्थसम्बन्धो व्यवस्थाकारणम् । असम्बन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गः । तस्माद- प्रतिषेधः सम्बन्धस्येति" ॥ ५५ ॥ अत्र समाधिः- ने, सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य ॥ ५६ ॥ न सम्बन्धकारितं शब्दार्थव्यवस्थानम्-किन्तर्हि--समयकारितम् । यत्तदवोचाम-अस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः १ प्राप्तिलक्षण इत्याद्यागामिसूत्रमवतारयति । अतीन्द्रियत्वादप्रत्यक्षः शब्दार्थोऽनुमानेनोपलप्स्यत इति चेत् नानुमानेन, विकल्पानुपपत्तेः । शब्दो वाऽर्थदेशं गच्छति-अर्थों वा शब्ददेशम्-उभयं वा । मोदकशब्दे चोच्चार्यमाणे आगच्छन् मोदकादिरुपलभ्येत-नचोपलभ्यते-तस्मान्न गच्छति शब्ददेशमर्थः । शब्दस्य तु गतिरेव न सम्भवतीत्यादि स्पष्टमग्रिमभाष्ये। २ स्थानेति । 'स्थानं' कण्ठादयः। 'करणं' प्रयत्नविशेषः । ३ चार्थ इति । सूत्रस्थचकारस्यार्थ इति भावः । ४ पूर्वसूत्रोक्तदूषणपरिहारपरं पूर्वपक्षिसूत्रम्--शब्दार्थेति । ५ न सामयिकत्वादित्यादि समाधानसूत्रम् । शब्दार्थयोर्नित्यमेव सम्बन्धं वयं निषेधामो न सम्बन्धमात्रम्-सम्बन्धस्तु अस्माच्छब्दादयमों बोद्धव्य इत्येवंरूपसमयकारितोऽस्त्येव शब्दार्थयोरिति भावः ।

-सू. ५७] द्वितीयाध्याये प्रथमाह्निके सप्तपञ्चाशत्तमं सूत्रम् शब्दार्थयोः सम्बन्ध हति-समयं तमवोचाम इति । कः पुनरयं समयः? अस्य शब्दस्येदमर्थजातमभिधेयमिति अभिधानाभिधेयनियमनियोगः । तस्मिन्नुप- युक्ते शब्दादर्थसम्प्रत्ययो भवति । विपर्यये हि शब्दश्रवणेऽपि प्रत्ययाभावः । सम्बन्धवादिनापि चायमवर्जनीय इति । प्रयुज्यमानग्रहणाच समयोपयोगो लौकिकानां समयपालनार्थं चद्रं पदलक्षणाया वाचोऽन्याख्यानं व्याकरणम् । वाक्यलक्षणाया वाचोऽर्थो लक्षणम् । पदसमूहो वाक्यमर्थपरिसमाप्ताविति । तदेवं प्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थजुषोऽप्यनुमानहेतुर्न भवतीति।।५६।। जातिविशेषे चानियमात् ॥ ५७ ॥ सामयिकः शब्दादर्थसम्प्रत्ययो न स्वाभाविकः । ऋष्यार्यम्लेच्छानां यथाकामं शब्दविनियोगोऽर्थप्रत्यायनाय प्रवर्तते । स्वाभाविके हि शब्दस्यार्थ- प्रत्यायकत्वे यथाकामं न स्याद् । यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेष व्यभिचरतीति ॥ ५७ ॥ (९) शब्दविशेषपरीक्षाप्रकरणम् । पुत्रकामेष्टिहवनाभ्यासेषु...- १ नियमनियोग इति । सर्गादावीश्वरस्येति शेषः । २ सम्बन्धवादिनेति । शब्दार्थसम्बन्धनित्यतावादिना मीमांसकेनापि उक्तः समय एव परमोपायः शब्दार्थसम्बन्धनिर्णयस्येति । ३ समयेति । पारमेश्वरसमयपरिपालनार्थमित्याशयः । तथा च येषां पदानां येनार्थेन परमेश्वरेण समयः कृतः तानि तस्मिन्नर्थ साधून्यसाधूनीतरत्रेति विभागायैव व्याकरणमर्थवदिति सिद्धम् । ४ अनुमानहेतुरिति । प्राप्तिलक्षणसम्बन्धानुमापको हेतुरित्यर्थः । तथा च शब्दस्य स्वाभाविकसम्बन्धाभावादनुमानाभेदायाविनाभावसिद्धयर्थं स्वाभाविकसम्बन्धाभिधानमयुक्तमिति सिद्धं भवति । ५ सम्बन्धानित्यतायामपरो हेतुः-जातिविशेष इति सूत्रम् । ६ ऋप्यायेति । तथाहि यवशब्द आर्दीर्घशूके पदार्थ प्रयुज्यते । ते हि यवश- ब्दात् दीर्घशूकपदार्थ प्रतिपद्यन्ते । म्लेच्छास्तु तमेव प्रियङ्गो प्रयुञ्जते । सोऽयमनियमः स्वाभाविके सम्बन्धे न स्यात् । नहि रूपेण स्वाभाविकसम्बद्ध आलोकः शिल्पिसह- स्रेणापि रसादिसम्बद्धः शक्यते कर्तुं यतस्ततो रसादयो गृह्येरन् । सोऽयमनियमः सामयिकत्वे उपपद्यते, पुरुषेच्छाधीनत्वात्समयस्य, इच्छायाश्वानियतत्वादिति भावः । , ११८ खद्योतसहितन्यायसूत्रभाष्ये [अ०,२आ० १ सू०५८--- " " तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः" ॥ ५८ ॥ " तस्येति शब्दविशेषमेवाधिकुरुते भगवान् ऋषिः । शब्दस्य प्रमाणत्वं न सम्भवति । कस्मात् ? अनृतदोषात् । पुत्रकामेष्टौ-' पुत्रकामः पुत्रेष्टया यजेत ' इति । नेष्टौ संस्थितायां पुत्रजन्म दृश्यते । दृष्टार्थस्य वाक्यस्यानृतत्वाद- दृष्टार्थमपि वाक्यम् ‘अग्निहोत्रं जुहुयात् स्वर्गकाम ' इत्याद्यनृतमिति ज्ञायते । " विहितव्याघातदोषाच्च । हवने-'उदिते होतव्यम् अनुदिते होतव्यम् समयाध्युषिते होतव्यम् ' इति-विधाय, विहितं व्याहन्ति-'श्यावोऽस्याहुति- मभ्यवहरति य उदिते जुहोति, शबलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति, श्यावशबलौ वास्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति' । व्याघाताच्चा- न्यतरन्मिथ्येति । "पुनरुक्तदोषाच्च । अभ्यासे देश्यमाने-'त्रिः प्रथमामन्वाह त्रिरुत्तमाम्' इति पुनरुक्तदोषो भवति । पुनरुक्तं च प्रमत्तवाक्यमिति । , १ तदप्रामाण्यमित्यादिशब्दप्रामाण्यनिराकरणपरं पूर्वपक्षसूत्रम् । २ 'व्याघातः' पदयोर्वाक्ययोर्वा विरुद्धार्थोपस्थापकत्वेन महासम्भवः । पूर्वप्रकरणे समस्तलोकयात्रानुबद्धस्य शब्दस्य झटित्यप्रामाण्याभिधानं लोक- विरुद्धं स्वचरितविरुद्धं चेति मन्वानस्य पूर्वपक्षिणोऽनुमानानन्तर्भावमुखेन तद्बाह्य- तयाऽप्रामाण्यमेवाभिमतम् । तदेवं बहिर्भावसिद्धाविदानी विभाव्य प्रत्यवस्थानम् । न हि सर्वस्य शब्दस्याप्रामाण्यमस्य पूर्वपक्षिणो विवक्षितम् , स्ववचनव्याघातप्रसङ्गात् -इति परमैश्वर्यसाधनत्वेन नैयायिकाभिमतं शब्दविशेषस्य वेदस्यैव प्रामाण्यमाक्षिपति। वस्तुतस्त्वस्य हृदये शब्दमात्रस्यैवाप्रामाण्यं चेष्टते । कैश्चिद् हेतुभिः केषाञ्चिद्वे- दगतानामप्रामाण्य प्रसाध्य तदृष्टान्तबलेनान्येषामपि वाक्यानामप्रामाण्यं साधयितुं सुकरम्-नित्यसन्देहादाप्तानाप्तविभागस्य दुष्करत्वादित्याशयः । ३ तस्येतीति । सूत्रे तच्छब्दप्रयोगोऽप्येतदेव सूचयति । यस्मात्प्रकरणेन प्राप्तमपि शब्दं तच्छब्देन पुनरभिधत्ते तेन ज्ञापयति शब्दविशेष प्रतीयं चिन्ता न शब्दमात्र- मिति । अन्यथैवं वक्तव्यम्-' अप्रमाणं शब्दोऽनृतव्याघातपुनरुक्तदोषेभ्य' इति । ४ अनृतत्वादिति । अत्र फलादर्शनमेव 'अनृतत्वम् । ५ श्यावशबलाविति । ' श्वानौ द्वौ श्यावशबलौ वैवस्वतकुलोद्भवौ। ताभ्या- पिण्डं प्रयच्छामि स्यातामेतावहिंसकाविति' बलिमन्त्रोऽत्रानुसन्धेयः । ६ व्याघातादिति । उदितहोमादिविधिवाक्यानां निन्दावाक्यैाघातः ।

-~-सू. ५९] द्वितीयाध्याये प्रथमाह्निक एकोनषष्ठितमं सूत्रम् ११९ । तस्मादप्रमाणं शब्दोऽनृतव्याघातपुनरुक्तदोषेभ्य इति ” ॥ ५८ ।। न कर्मकर्तृ साधनवैगुण्यात् ॥ ५९ ॥ नानृतदोपः पुत्रकामेष्टौ । कस्मात् ? कर्मकर्तृसाधनवैगुण्यात् । इष्टया पितरौ संयुज्यमानौ पुत्रं जनयत इति-इष्टिः करणं साधनम्, पितरौ कर्तारौ, संयोगः कर्म । त्रयाणां गुणयोगान् पुत्रजन्म । वैगुण्याद्विपर्ययः । इष्ट्याश्रयं तावत्कर्मवैगुण्यं-समीहाभ्रेषः । कर्तृवैगुण्यम्-अविद्वान्-प्रयोक्ता कपूयाचरणश्च । साधनवैगुण्य-हविरसंस्कृतमुपह्तमिति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता चेति । अथोपजनाश्रयं कर्मवैगुण्यम्-मिथ्यासम्प्रयोगः । कर्तृवैगुण्यं-योनि- व्यापादो बीजोपघातश्चेति । साधनवैगुण्यम्-इष्टावभिहितम् । लोके च " अग्निकामो दारुणी मथ्नीयात् ” इति विधिवाक्यम् । १ तस्मादप्रमाणामिति । दृष्टान्तत्वेनैतानि वाक्यान्युपन्यस्यैककर्तृकत्वेनाशेपवेद- वाक्यानामप्रामाण्यामिति । २ न कर्मेत्यादि पूर्वपक्षपरिहारसूत्रम् । तस्यार्थः-फलादर्शनमन्यथाप्युपपद्यमान नानृतत्वं साधयति, ततश्वासिद्धमनृतत्वं हेतुरिति । ३ समीहाभ्रेष इति । 'समीहा' तदङ्गसमिदाद्यनुष्ठानम्-तस्या 'भ्रेषः भ्रंशोऽननुष्टानमिति यावत् । ४ कर्तृवैगुण्यमिति । विदुषो ह्यधिकारः सामर्थ्यात् । अत एव स्त्रीशूद्रतिरश्चा- मसमर्थानामनधिकारः ५ विद्वानपि यदि द्विजातिकर्महानिहेतुं कर्म ब्रह्महत्यादि कृतवान् तत्कृतमपि कर्म फलाय न कल्पते-इति दर्शयति कपूयेति । कपूयं' निन्दितम् आचरतीति ' आचरणः' पुरुषः । अथवा कपूयमाचरणं यस्य स एवंभूतः पुरुषः । ६ असंस्कृतमिति | अपूतमप्रोक्षितमित्यर्थः । ७ उपह तमिति-श्वमार्जारादिभिरिति । ८ स्वरवर्णेति । " मन्त्री हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न स तमर्थ- माह । स वाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधादिति"। ९ दुरागतेति । दौत्यद्यूतोत्कोचादेः दुष्टादुपायादागतेत्यर्थः । हीनति । ऋत्विजः परितोषं न करोतीति । १० निन्दितेति । रजतादिप्रतिषिद्धद्रव्यरूपा । ११ कर्तृवैगुण्यं प्रदर्य कर्मवैगुण्यं प्रदर्शयति अथेति। 'उपजनं' पुत्रोत्पादनरूपं कर्म । n । .

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ सू०६०- तत्र कर्मवैगुण्यम्-मिथ्याभिमन्थनम् । कर्तृवैगुण्य-प्रज्ञाप्रयत्नगतः प्रमादः। साधनवैगुण्यम्-आर्द्र सुषिरं दाविति । तत्र फलं न निष्पद्यत इति नानृत- दोषः । गुणयोगेन फलनिष्पत्तिदर्शनात् । न चेदं लौकिकाद्भिद्यते " पुत्रकामः पुढेष्टया यजेत" इति ॥ ५९ ।। अभ्युपेत्य कालभेदे दोषवचनात् ॥ ६० ॥ न व्याघातो हवन इत्यनुवर्तते । योऽभ्युपगतं हवनकालं भिनत्ति ततोऽन्यत्र जुहोति तत्रायमभ्युपगतकालभेदे दोष उच्यते-“श्यावोऽस्याहुति- मभ्यवहरति य उदिते जुहोति"। तदिदं विधिभ्रेषे निन्दावचनमिति ॥६०॥ अनुवादोपपत्तेश्च ॥ ६१ ॥ पुनरुक्तदोषोऽभ्यासे नेति प्रकृतम् । अनर्थकोऽभ्यासः पुनरुक्तम् । अर्थवानभ्यासोऽनुवादः । योऽयमभ्यासः-" त्रिः प्रथमामन्वाह त्रिरुत्तमाम" इत्यनुवाद उपपद्यते, अर्थवत्त्वात् । त्रिवचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामिधेनीनां भवति । तथा च मन्त्राभिवादः-“ इदमहं भ्रातृव्यं पञ्चदशा- वरेण वाग्वज्रेण बाधे योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति-पञ्चदश- सामिधेनीवजं मन्त्रोऽभिवदति । तद्भ्यासमन्तरेण न स्यादिति ।। ६१ ॥ वाक्यविभागस्य चार्थग्रहणात् ।। ६२ ।। प्रमाणं शब्दो यथा लोके ॥ ६२ ॥ विभागश्च ब्राह्मणवाक्यानां त्रिविधः-- १ मिथ्येति । येषामभिमन्थनेनाग्निर्न जायते तदेव — मिथ्या'। २ नचेदमिति । यथा लोकेऽपि कादिवैगुण्यवशादसम्पन्नमग्निजननरूपं कर्म- 'अग्निकामो दारुणी मथ्नीयात्' इत्यस्य विधिवाक्यस्य प्रामाण्यं न व्याहन्ति-तथैव कादिवैगुण्येनासम्पद्यमानं पुत्रजननरूपं कर्म-'पुत्रकामः पुत्रेष्टया यजेत' इत्यस्य विधिवाक्यस्य प्रामाण्यं न व्याहन्तीति लौकिकदृष्टान्तोद्भावनतात्पर्यम् । ३ अभ्युपेत्येति सूत्रं पूर्वपक्षोक्तं व्याघातदोषं परिहरति । ४ अनुवादेति सूत्रं पूर्वपक्षोक्तपुनरुक्तदोषं परिहरति । ५ अर्थवानिति । पुनरुक्तं नाम तस्यैवार्थस्यानङ्गीकृतविशेषस्य पुनर्वचनम् । अनुवादस्तु पुनः श्रुतिसामान्यादङ्गीकृतविशेषस्यार्थस्य वादः । एवं च सति न यथोक्तो दोषः। ६ वाक्यविभागस्येति सूत्रं समस्तानि वेदवाक्यानि पक्षीकरोति । प्रमाणं वेद- वाक्यानि, अर्थविभागवत्वात्, मन्वादिवाक्यवदित्यर्थः । .

-~-सू. ६५] द्वितीयाध्याये प्रथमाह्निके पञ्चपष्टितमं सूत्रम् १२१ . वा विध्यर्थवादानुवादवचनविनियोगात् ॥ ६३ ।। त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि-विधिवचनान्यर्थवादवचना- न्यनुवादवचनानीति ।। ६३ ॥ तत्र- विधिविधायकः ॥ ६४ ॥ यद्वाक्यं विधायकं चोदकं स विधिः। विधिस्तु नियोगोऽनुज्ञा बा, यथा अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि ।। ६४ ॥ स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः ।। ६५ ।। विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्था-स्तूयमानं श्रद्दधीतेति-प्रवर्तिका च, फलश्रवणात् प्रवर्तते । सर्वजितो वै देवा सर्वम- जयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति " इत्येवमादि । अनिष्टफलवादो निन्दा वर्जनार्थी,-निन्दितं न समाचरेदिति । “स एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽन्येन यजते गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते इत्येवमादि। अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः। हुत्वा वपामेवाग्रेऽभि- घारयन्ति अथ पृषदाज्यम् , तदुह चरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिधारयन्ति, अग्नेः प्राणाः पृषदाज्यमित्येवमभिदधति" इत्येवमादि । १ विधिस्त्विति । 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति वाक्यमप्रवृत्तप्रवर्तकलक्षणं कञपेक्षितोपायतां ज्ञापयत् 'विधिः' इति । तदेव तत्साधनद्रव्याद्यवाप्तिप्रवृत्ति- मनुजानातीति 'अनुज्ञापि' भवति । एतदुक्तं भवति । एकमेवाग्निहोत्रवाक्यमप्राप्ते- ऽग्निहोत्रादौ ‘विधिः,' अन्यतः प्राप्ते तत्साधने 'अनुज्ञा' चेति । पुनश्च ये द्रव्यार्जननियमविधयः-'ब्राह्मणस्य प्रतिग्रहादिना' इत्येवमादयः- ते च रागतो धनार्जने प्रवृत्तानां ब्राह्मणानां लौकिकानेकोपायप्रयुक्तौ सत्यां नियमपराः पुरुषार्थाः, न त्वर्थाः । ऋतुविधयस्तु धनसाधनाः । तेऽनूदिताः पर्यवस्यन्तोऽपि न धनार्जनं वा तन्नियमं वा प्रयुञ्जते तस्य पुरुषार्थत्वेनैव प्रयुक्तत्वात् । केवल- मनुजानन्ति तु तदिति । २ परकृतिरिति । चरकाध्वर्युपुरुषसम्बन्धात् वपाहोमपृषदाज्याभिधारणयोः क्रमभेदस्याप्राप्तस्य पुरुषविशेषधर्मतया विधायकं परकृतिवाक्यम् । तथा वहिप्पव- मानसामस्तोममन्त्रसम्बन्धस्य पूर्वकालपुरुषसम्बन्धितया श्रवणादिदानीन्तनपुरुषधर्म- तया विधायकं पुराकल्पवाक्यमिति विवेकः । स्फुटतरस्तुतिनिन्दाप्रतीत्यभावाच्च परकृतिपुराकल्पयोः स्तुतिनिन्दाभ्यां भेदेनोपन्यासः । " , - १२२ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० १ सू०६६- ऐतिह्मसमाचरितो विधिः पुराकल्प इति । तस्माद्वा एतेन ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन् योने यज्ञं प्रतनवामहे ' इत्येवमादि । "कथं परकृतिपुराकल्पावर्थवादाविति ? " स्तुतिनिन्दावाक्येनाभिसम्बन्धाद्विध्याश्रयस्य कस्यचिदर्थस्य द्योतनादर्थ- वाद इति ।। ६५॥ विधिविहितस्यानुवचनमनुवादः ॥ ६६ ॥ विध्यनुवचनं चानुवादो विहितानुवचनं च । पूर्वः शब्दानुवादोऽपरोऽ- नुवादः । यथा पुनरुक्तं द्विविधमेवमनुवादोऽपि । "किमर्थं पुनर्विहितमनूद्यते ?" अधिकारार्थम् । विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा-विधिशेषो वाऽभिधीयते । विहितानन्तरार्थोऽपि चानुवादो भवति । एवमन्यदप्युत्प्रेक्ष- णीयम् । लोकेऽपि च विधिरर्थवादोऽनुवाद इति च त्रिविधं वाक्यम् । ओदनं पचेदिति विधिवाक्यम् । अर्थवादवाक्यमायुर्व) बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम् । अनुवाद:-पचतु पचतु भवानित्यभ्यासः-क्षिप्रं पच्यतामिति वा, अङ्ग पच्यतामित्यध्येषणार्थम्, पच्यतामेवेति वावधारणार्थम् । यथा लौकिकवाक्ये विभागेनार्थग्रहणात्प्रमाणत्वम् एवं वेदवाक्यानामपि विभागेनार्थग्रहणात्प्रमाणत्वं भवितुमर्हतीति ॥ ६६ ।। १ कथमित्यादिप्रश्नस्योत्तरम्-स्तुतिनिन्देति । स्तुतिनिन्दावाक्येन कस्य- चिद्विधेः शेषभूतेन सम्बन्धादिति भावः । २ अर्थवाद इति । न तावदेतेषु वाक्येषु सिद्धाभिधायिषु विधिश्रुतिरस्ति । तत्र किमश्रूयमाणो विधिः कल्प्यताम्-आहोस्वित् प्रतीतेनैव केनचिदन्येन विधिनैक- वाक्यता कल्प्यतामिति संशये-कल्पनालाघवात् प्रतीतेनैव विधिनकवाक्यता ज्यायसी । पूर्वपक्षे विधिकल्पना तदेकवाक्यताकल्पना चेति द्वयं कल्पनीयम् , उत्तरस्मिस्त्वेक- वाक्यतामात्रमित्याशयः । ३ विधिविहितस्येत्यादि सूत्रम् (१) अश्वमेधेन यजेतेति विधेरनुवादो 'योऽश्व- मेधेन यजते तरति मृत्युं तरति पाप्मानमित्यादि' विहितं स्तोतुम् । (२) उदिते होतव्यमिति विधेरनुवादः 'यदुदिते जुहोति यदनुदिते जुहोति श्यावो वास्याहुतिम- भ्यवहरतीत्यादि' विहितातिक्रमं निन्दितुम् । (३) सोमयागो विहितो दर्शपूर्णमासौ च, तयोरनुवादो 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेत्यादि' अनुष्टानक्रमं बोधयितुम्। सूत्रपञ्चकोक्तमुपसंहरति यथा लौकिक इति ।

" , -सू. ६९] द्वितीयाध्याये प्रथमाह्निके एकोनसप्ततितमं सूत्रम् १२३ नानुवादपुनरुतयोविंशेपः शब्दाभ्यासोपपत्तेः " ॥ ६७ ॥ पुनरुक्तमसाधु साधुरनुवाद इत्ययं विशेषो नोपपद्यते । कस्मात् ? उभयत्र हि प्रतीतार्थः शब्दोऽभ्यस्यते । चरितार्थस्य शब्दस्याभ्यासादुभयम- साध्विति" ॥ ६७ ॥ शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ।। ६८ ॥ नानुवादपुनरुक्तयोरविशेषः । कस्मात् ? अर्थवतोऽभ्यासस्यानुवाद- भावान् । समानेऽभ्यासे पुनरुक्तमनर्थकम् , अर्थवानभ्यासोऽनुवादः, शीघ्रतर- गमनोपदेशवन् । शीघ्र शीघ्र गम्यतां शीघ्रतरं गम्यतामिति क्रियातिशयोऽ- भ्यासेनैवोच्यते । उदाहरणार्थं चेदम् । एवमन्योऽप्यभ्यासः । पचति पचतीति क्रियानुपरमः । ग्रामो ग्रामो रमणीय इति व्याप्तिः । परि परि त्रिगर्तेभ्यो वृष्टो देव इति परिवर्जनम् । अध्यधिकुड्यं निपण्णमिति सामीप्यम् । तिक्तं तिक्तम् इति प्रकारः । एवमनुवादस्य स्तुतिनिन्दाशेषविधिप्वधिकारार्थता विहितानन्तरार्थता चेति ॥ ६८ ।। किं पुनः प्रतिषेधहेतूद्धारादेव शब्दस्य प्रमाणत्वं सिध्यति ? अतश्च- मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ ६९ ॥ किं पुनरायुर्वेदस्य प्रामाण्यम् ? यत्तदायुर्वेदेनोपदिश्यते-इदं कृत्वेष्टमधिगच्छतीदं वर्जयित्वाऽनिष्टं जहा- ति, तस्यानुष्ठीयमानस्य तथाभावः सत्यार्थताऽविपर्ययः । मन्त्रपदानां च विषभूताशनिप्रतिषेधार्थानां प्रयोगेऽर्थस्य तथाभाव एतत्प्रामाण्यम् । १ भाप्योक्तमनुवादप्रयोजनमविद्वानाक्षिपति-नानुवादेति सूत्रम् । २ शीघ्रतरेत्यादि समाधानसूत्रम् । ३ अर्थवानिति । अनुवादलक्षणोऽभ्यासः सप्रयोजनः प्रत्ययविशेषहेतुत्वात् शीघ्रतरगमनोपदेशवदिति । ४ अतश्चेति । यतः प्रतिषेधहेतूद्धारादेव शब्दस्य प्रामाप्यं न सिध्यति-अतः सूत्रकारो हेत्वन्तरैस्तत् साक्षात् साधयति । ५ मन्त्रेत्यादिसूत्रम् । तत्र चकारः पूर्वहेत्वनुकर्षणार्थः । अत्र प्रयोगः-प्रमाणं वेदवाक्यानि वक्तृविशेषाभिहितत्वात् मन्त्रायुर्वेदवाक्यवदिति । अथवा-एककर्तृकत्वेन मन्त्रायुर्वदवाक्यानि पक्षीकृत्यार्थप्रतिपादकत्वेन वैधय॑हेतुर्वक्तव्यः ।

१२४ खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० १ सु.६९- ? साक्षात्कृतधर्मता किं कृतमेतत् ? आप्तप्रामाण्यकृतम् ? किं पुनराप्तानां प्रामाण्यम् भूतदया यथाभूता- र्थचिख्यापयिषेति । आताः खलु साक्षात्कृतधर्माणः-इदं हातव्यमिदमस्य हानि- हेतुरिदमस्याधिगन्तव्यमिदमस्याधिगमहेतुरिति-भूतान्यनुकम्पन्ते-तेषां खलु वै प्राणभृतां स्वयमनवबुद्धयमानानां नान्यदुपदेशादवबोधकारणमस्ति, न चानवबोधे समीहा वर्जनं वा, न वाऽकृत्वा स्वस्तिभावः, नाप्यस्यान्य उप- कारकोऽप्यस्ति, हेन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशामस्त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्यधिगन्तव्यमेवाधिगमिष्यन्ति इति एवमाप्तोपदेशः। एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतोऽनुष्ठीयमानोऽर्थस्य साधको भवति । एवमाप्तोपदेशः प्रमाणम् । एवमाप्ताः प्रमाणम् । दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागोऽनुमातव्यः प्रमाणमिति । आप्तप्रामाण्यस्य हेतोः समानत्वादिति । अस्यापि चैकदेशो "ग्रामकामो यजेत" इत्येवमादिह पार्थः । तेनानुमातव्यमिति । लोके च भूयानुपदेशाश्रयो व्यवहारः। लौकिकस्याप्युपदेष्टुरुपदेष्टव्यार्थ- ज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम् । तत्परिग्रहा- दामोपदेशः प्रमाणमिति । द्रष्ट्रप्रवक्तृसामान्याचानुमानम् । य एवाप्ता वेदार्थानां द्रष्टारः प्रवक्ता- रश्च त एवायुर्वेदप्रभृतीनाम्-इत्यायुर्वेदप्रामाण्यवद्वेदप्रामाण्यमनुमातव्यमिति । नित्यत्वाद् वेदवाक्यानां प्रमाणत्वे तत्प्रामाण्यमाप्तप्रामाण्यादित्य- " युक्तम् "। " अनित्यः शब्दस्य वाचकत्वादर्थप्रतिपत्तौ प्रमाणत्वम् , न नित्यत्वात् , नित्यत्वे हि सर्वस्य सर्वेण वचनाच्छब्दार्थव्यवस्थानुपपत्तिः । “ नानित्यत्वे वाचकत्व- मिति" चेद्, न, लौकिकेष्वर्थदर्शनात् । " तेऽपि नित्या इति" चेद् न, अना- तोपदेशादर्थविसंवादोऽनुपपन्नः । नित्यत्वाद्धि शब्दः प्रमाणमिति । १ इदं हातव्यमित्यादि साक्षात्कृतधर्मतां प्रदर्शयति । २ हन्तेत्यादि यथाभूतार्थचिख्यापयिषां सूचयति । ३ समानत्वादिति । यथाऽऽयुर्वेद आप्तप्रणीतस्तथा वेदोऽपीत्यर्यः । ४ अनातेति । यदि लौकिका अपि शब्दा नित्यास्तमुनाप्तवचने योऽर्थविसंवादः सकलानुभवगम्यः स न स्यादित्यर्थः ।

-सू. ६९] द्वितीयाध्याये प्रथमाह्निके एकोनसप्ततितमं सूत्रम् १२३ स इति ” चेत्, आविशेषवचनम् । अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यमिति । यथानियोगं चार्थस्य प्रत्यायनान्नामधेयशब्दानां लोके प्रामाण्यम् । नित्यत्वात्प्रामाण्यानुपपत्तिः । यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्व नियोगसामर्थ्यात्प्रत्यायको भवति, न नित्यत्वात् । मन्वन्तरयुगान्तरेषु चाती- तानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम् । आप्तप्रामाण्याच प्रामाण्यम् । लौकिकेषु शब्देषु चैतत्समानमिति ॥ ६९ ॥ इति वास्यायनीये न्यायभाष्ये द्वितीया- ध्यायस्याद्यमाह्निकम् । १ मन्वन्तरेति । महाप्रलये ईश्वरेण वेदान् प्रणीय सृष्टयादौ सम्प्रदायः प्रवर्यंत एवेत्याशयः।

१ अथ द्वितीयाध्यायस्य द्वितीयमाह्निकम् (१) प्रमाणचतुष्ट्वपरीक्षाप्रकरणम् । अयथार्थः प्रमाणोद्देश इति मत्वाऽऽह-- " न चतुष्टुवमैतिद्यार्थापत्तिसम्भवाभावप्रामाण्यात् ” ॥१॥ न चत्वार्येव प्रमाणानि । किं तर्हि ? ऐतिह्यमापत्तिः सम्भवोऽभाव इत्येतान्यपि प्रमाणानि । तानि कस्मानोक्तानि । इति होचुरित्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम् । अर्थादापत्तिरर्थापत्तिः । आपत्तिः-प्राप्तिः-प्रसङ्गः। यत्राभिधी- यमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः । यथा मेघेष्वसत्सु वृष्टिर्न भवतीति । किमत्र प्रसज्यते ? सत्सु भवति । " सम्भवो नामाविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादाढकस्य सत्ताग्रहणम् आढकस्य ग्रहणात्प्रस्थस्येति । " अभावो विरोधी-अभूतं भूतस्य, अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम् । विधारके हि वाय्यभ्रसंयोगे गुरुत्वादपा पतन- कर्म न भवतीति" ॥ १ ॥ सत्यमेतानि प्रमाणानि, न तु प्रमाणान्तराणि । प्रमाणान्तरं च मन्य- मानेन प्रतिषेध उच्यते । सोऽयम्- १ एवं प्रथमाह्निके धर्मिणः प्रत्यक्षादीन् शब्दान्तान्निरूप्येदानी द्वितीयाह्निके चतुष्ट्वादयस्तेषां धर्मा निरूपणीयाः । तत्र प्रमाणधर्मपरीक्षा द्वितीयाह्निकार्थः । २ अयथार्थ इति । प्रमाणानां विभागोद्देशो यः सोऽयथार्थ इत्यर्थः । ३ न चतुष्ट्वमित्यादि पूर्वपक्षसूत्रम् । अभ्युपगतोक्तप्रत्यक्षादिप्रमाणभावोऽनभ्युप- गतचतुष्टमात्रोऽत्र पूर्वपक्षी । अथ वा तन्त्रान्तरोक्तप्रमाणान्तरसत्त्वासत्वनिश्चयरहितः सतीर्थ एवात्र प्रष्टा । ४ वारवभ्रेति । अपां पातप्रत्यनीकस्य पातविरोधिनः वाय्वभ्रसयोगस्य ग्रहणम् । तदिदं किलाभावाख्यं प्रमाणम् । प्रमीयतेऽनेन ( मेघोदयेऽपि तोयपाता- भावेन ) वाय्वभ्रसंयोग इत्याशयः । ५ सत्यमिति । सत्यमेतान्यैतिह्यादीनि प्रमाणानि-न तु प्रत्यक्षादिभ्योऽन्यानि । प्रत्यक्षादिभ्योऽन्यत् प्रमाणं नस्तीत्येतावन्मात्रेऽस्माकमाग्रहः । न चैतिह्या- दीनां प्रमाणत्वमेव न मृष्यामह इति हृदयम् । ६ सोयमिति-अनुपपन्न: प्रतिषेध इत्यग्रिमेण भाष्यग्रन्थेनान्वयः । १२६ , द्वितीयाध्याये द्वितीयाह्निके प्रथमं सूत्रम् १२७ शब्द ऐतिह्यानर्थान्तरमावादनुमानेऽर्थापत्तिसम्भवाभावाना- न्तरभावाच्चाप्रतिषेधः ।। २ । अनुपपन्नः प्रतिषेधः । कथम् ? आप्तोपदेशः शब्दः इति । न च शब्द- लक्षणमैतिह्याद्र्यावर्तते । सोऽयं भेदः सामान्यात्सङ्गृह्यत इति । प्रत्यक्षेणाप्रत्यक्षस्थ सम्बद्धस्य प्रतिपत्तिरनुमानम् । तथा चार्थापत्तिसम्भ- वाभावाः । वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद्ब्रहणमर्था- पत्तिरनुमानमेव । अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनो: समुदायेनेतरस्य ग्रहणं सम्भवः, तदप्यनुमानमेव । अस्मिन्सतीदं नोपपद्यत इति विरोधित्वे प्रसिद्ध कार्यानुत्पत्त्या कारणस्थ प्रतिबन्धकमनुमीयते । सोऽयं यथार्थ एव प्रमाणोद्देश इति ॥ २ ॥ सत्यमेतानि प्रमाणानि न तु प्रमाणान्तराणीत्युक्तम् । अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते । तथा हीयम्- " अर्थापत्तिरप्रमाणमनेकान्तिकत्वात् " ॥३॥ असत्सु मेघेषु वृष्टिर्न भवतीति सत्सु भवतीत्येतदर्थादापद्यते सत्स्वपि चैकदा न भवति । सेयमर्थापत्तिरप्रमाणमिति ” ॥३॥ नानैकान्तिकत्वमर्थापत्ते:- अनर्थापत्तावापत्त्यभिमानात् ॥ ४ ॥ असति कारणे कार्य नोत्पद्यत इति वाक्यात्प्रत्यनीकभूतोऽर्थः सति कारणे कार्यमुत्पद्यते इत्यर्थादापद्यते,-अभावस्य हि भावः प्रत्यनीक इति । सोऽयं कार्योत्पादः सति कारणेऽर्थादापद्यमानो न कारणस्य सत्तां व्यभि- चरति । न खल्वसति कारणे कार्यमुत्पद्यते । तस्मान्नानैकान्तिकी । १ शब्द इत्यादिसिद्धान्तसूत्रमुक्तानां प्रागुक्तेष्वेवान्तर्भावप्रदर्शनार्थम् । २ शब्दलक्षणमिति । यत् खल्वनिर्दिष्टप्रवक्तृकप्रवादपारम्पर्यमैतिचं तस्य चेदाप्तः कर्ता नावधारितः, ततस्तत् प्रमाणमेव न भवति । अथाक्षरपरम्परेत्यवगतं तत्राप्तोपदेश इति शब्दलक्षणं नातिवर्तत इत्यर्थः । ३ वाक्यार्थेति । असत्सु मेघेषु वृष्टिन भवतीत्येतद्वाक्यमवगत्य तेनानभिहितं सत्सु मेधेषु भविष्यतीति' अवगच्छत्यर्थापत्त्येति पूर्वपक्षिणोऽभिमतम् । एतच्चानु- मानमेव-यतोऽस्त्येवोक्तयोर्वाक्ययोविरोधरूपः सम्बन्धोऽनुमानबीजम् । ४ अर्थापत्तिरिति पूर्वपक्षसूत्रम् । ५ अनर्थेति सिद्धान्तसूत्रम् । - .

खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० २ सू०७- - यत्तु " सति कारणे निमित्तप्रतिबन्धात्कार्यं नोत्पद्यते " इति, कारण- धर्मोऽसौ न त्वर्थापत्तेः प्रमेयम् । किं तर्यस्याः प्रमेयम् ? सति कारणे कार्य- मुत्पद्यते इति योऽसौ कार्योत्पादः कारणस्य सत्तां न व्यभिचरति तदस्याः प्रमेयम् । एवं तु सत्यनपत्तावापत्त्यभिमानं कृत्वा प्रतिषेध उच्यते इति । दृष्टश्च कारणधर्मो न शक्यः प्रत्याख्यातुमिति ॥ ४ ॥ प्रेतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥ ५ ॥ अर्थापत्ति प्रमाणम् अनैकान्तिकत्वादिति वाक्यं प्रतिषेधः । तेनाने- नार्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः । एवमनैकान्तिको भवति । अनैकान्तिकत्वादप्रमाणेनानेन न कश्चिदर्थः प्रतिषिध्यते इति ॥ ५ ॥ अथ मन्यसे- “ नियतविषयेष्वर्थेषु स्वविषये व्यभिचारो भवति न च प्रतिषेधस्य सद्भावो विषयः' ! एवं तर्हि तत्प्रामाण्ये या नार्थापत्यप्रामाण्यम् ॥ ६ ॥ अर्थापत्तेरपि कार्योत्पादेन कारणसत्ताया अव्यभिचारो विषयः न च कारणधर्मो निमित्तप्रतिबन्धात् कार्यानुत्पादकत्वमिति ॥ ६ ॥ अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते । " कथमिति ?- " नाभावग्रामाण्यं प्रमेयासिद्धेः" ॥ ७ ॥ अंभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्यादुच्यते नाभावप्रामाण्यं प्रमेयासिद्धरिति ॥ ७ ॥ १ न व्यभिचरतीति । ततश्च नानकान्तिकतेति भावः । २ उच्यत इति । पूर्वपक्षिणा तृतीयसूत्र इति शेषः । ३ प्रतिषेधेति सिद्धान्तिनः सूत्रम् । ४ एवमिति । एवं बैकान्तिकः स्याद्यद्यर्थापत्तेः प्रामाण्यं सत्तां च प्रतिषेधेत् । नत्वनकान्तिकत्वात्सत्वं प्रतिषे मर्हति । न भवति 'यदनैकान्तिकं तत् सर्व नास्तीति' । प्रमेयत्वादीनां नित्यत्वसाधनेऽनैकान्तिकत्वेऽपि सत्त्वादिति हृदयम् । ५ तदिति सिद्धान्तिनः सूत्रम् । तदिति प्रतिषेधं परामृशति । ६ नाभावेति पूर्वपक्षसूत्रम् । नाभावज्ञानं प्रमाणम् । कस्मात् ? प्रमेयस्याभा- वस्यासिद्धेः। यत् किल सर्वोपाख्यारहितं तन्न प्रमाणज्ञानविषयभावमनुभवति । केवलं काल्पनिको ह्यभावव्यवहारो लौकिकानामिति पूवर्पक्षिणो हृदयम् । ७ अभावस्येति । पूर्वपक्षपरिहारोऽयम् । सर्वजनीनाभावप्रत्ययव्यवहारौ न काल्पनिको भवितुमर्हतः । न च कल्पनाऽपि सर्वोपाख्यारहितं गोचरयितुमर्हति । ८ वैयास्यादिति । साहसमात्रादित्यर्थः। १ -स. ११] द्वितीयाध्याये द्वितीयाह्निके एकादशं सूत्रम् १२९ अथायमर्थबहुत्वादथैकदेश उदाह्रियते-- लैक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥ ८ ॥ तस्याभावस्य सिध्यति प्रमेयम् । कथम् ? लक्षितेषु वासःसु अनुपादेयेषु उपादेयानामलक्षितानामलक्षणलक्षितत्वाल्लक्षणाभावेन लक्षितत्वादिति । उभय- सनिधावलक्षितानि वासांस्यानयेति प्रयुक्तो येषु वासस्सु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते, प्रतिपद्य चानयति । प्रतिपत्तिहेतुश्च प्रमाण- मिति ॥ ८॥ असत्यर्थे नाभाव इति" चेन्नान्यलक्षणोपपत्तेः ॥ ९ ॥ यत्र भूत्वा किञ्चिन्न भवति तत्र तस्थाभाव उपपद्यते । अलक्षितेषु च वासस्सु लक्षणानि भूत्वा न न भवन्ति, तस्मात्तेषु लक्षणाभावोऽनुपपन्न इति"! नान्यलक्षणोपपत्तेः । यथाऽयमन्येषु वासस्सु लक्षणानामुपपत्तिं पश्यति नैवमलक्षितेषु । सोऽयं लक्षणाभावं पश्यन्नभावेनार्थं प्रतिपद्यत इति ॥ ९ ॥ तत्सिद्धेरलक्षितेष्वहेतुः" ।। १० ॥ तेषु वासस्सु लक्षितेषु सिद्धिर्विद्यमानता येषां भवति न तेषामभावो लक्षणानाम् । यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषामलक्षितेष्वभाव इत्यहेतुः । यानि खलु भवन्ति तेषामभावो व्याहत इति ॥ १० ॥ नं लक्षणावस्थितापेक्षसिद्धेः ।। ११ ॥ १ लक्षितेविति सिद्धान्तसूत्रमनेकधा भिन्नप्रपञ्चस्योदाहरणार्थम् । २ प्रमाणमिति । लक्षणस्याभाव एव च प्रतिपत्तेहेतुरिति । लक्षणाभावज्ञानं विशिष्टे वाससि प्रत्ययं जनयत् साधकतमत्वात्प्रमाणं भवतीत्याशयः । ३ असत्यर्थ इति पूर्वपक्षानुस्यूतं सिद्धान्तसूत्रम् । प्रध्वंस एवाभावः, तस्य भावाधीननिरूपणत्वात्प्राप्तिपूर्वकत्वाद् भावपूर्वकत्वान्नान्योऽस्त्यभाव इति मन्वानस्य वपक्षः। तत्र समाधानम् प्रत्यक्षं हि प्रमाणं प्रमेयाभावं व्यवस्थापयति। तच्च प्रध्वंस- वत् प्रागभावेऽपि तुल्यम् । प्रतियन्ति हि लौकिकाः दनि क्षीराभावं प्रध्वंसरूपं, क्षीरे च दध्यभावं प्रागभावरूपमिति । ४ तत्सिद्धेरिति पूर्वपक्षिसूत्रम् । यत्र लक्षणानि सन्ति तत्र तेषामभावो व्याहतः । यत्र च न सन्ति तत्राप्यभावोऽनुपपन्नः, तस्य भावाधीननिरूपणस्य तद- भावेऽशक्यनिरूपणत्वादित्यर्थः । ५ न लक्षणेति सिद्धान्तसूत्रम् । न्या. सू.९ ..

खद्योतसहितन्यायसूत्रभाष्ये [ अ०२, आ० २ सू०१२- न बमो-यानि लक्षणानि भवन्ति तेषामभाव इति । किन्तु केषु चिल्ल- क्षणान्यवस्थितानि अनवस्थितानि केषु चित् । अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यत इति ॥ ११ ॥ प्रागुत्पत्तेरभावोपपत्तेश्च ।। १२ ॥ अभाव द्वैतं खलु भवति,-प्राक् चोत्पत्तेरविद्यमानता, उत्पन्नस्य चात्मनो हानादविद्यमानता । तत्रालक्षितेषु वासस्सु प्रागुत्पत्तरविद्यमानतालक्षणो लक्ष- णानामभावो नेतर इति ॥ १२ ॥ (२) शब्दानित्यताप्रकरणम् । 'आप्तोपदेश: शब्द' इति प्रमाणभावे विशेषणं ब्रुवता नानाप्रकारः शब्द इति ज्ञाप्यते । तस्मिन् सामान्येन विचार:-किं नित्योऽथानित्य इति । विमर्शहेत्वनुयोगे च विप्रतिपत्तेश्च संशयः । आकाशगुणः शब्दो विसुनित्योऽभिव्यक्तिधर्मक इत्येके । गन्धादिसह- १ प्रतिपद्यत इतीति । अभावो हि भावज्ञानाधीननिरूपणो न भावमात्राधीन- निरूपणः । प्रागभावोऽपि च शक्यो भविष्यद्भावज्ञानेनान्यत्रावस्थितभावज्ञानेन वा निरूपवितुमिति न प्रागभावाभाव इत्यर्थः । २ प्रागुत्पत्तेरिति सिद्धान्तिमूत्रम् । ३ अस्य प्रकरणस्य प्रयोजनं यथा । पदवाक्यकौटस्थ्यशक्षाब्युदासेन निष्प्रत्यूहमा- सोक्तसिहौ वेदप्रामाण्यसिद्धिः। अन्यथा पौरुषेयत्वं दोपप्रवृत्ती यथाऽप्रामाण्यं तथा तदयोएलम्भप्रतिपिपादयिषालक्षणगुणनिवृत्तावन्यप्रामाण्यमाशयेत------अनैवमूलानां लोकेऽग्रामाण्यदशनात् । अपि च शब्दस्यानित्यत्वसिहावाकाशगुणत्वं सिध्येत, तथा चेन्द्रियनियम उपपद्येतेत्येतदपि प्रयोजनम् । अन्यथा गन्धरसरूपस्पशशब्दाः पृथि- व्यादिगुणास्तदा इति भज्येत । ४ अत्र च शब्दसामान्यस्यैव विचारः। वर्णात्मकस्य तु तस्य विचारोऽग्रिमे तृतीये प्रकरणे वर्तिप्यते । ५ आकाशगुण इति जरन्मीमांसकमतमाह । अवघातप्रेरितेन वायुना यावद्वेगम- भिप्रतिष्ठमानेन कर्णशकुल्यवच्छिन्ननभोभागसमवेतो नित्यः शब्दो व्यज्यत इति तन्मतसङ्क्षपः। ६ गन्धादीति साङ्यमतमाह। पञ्चतन्मात्रोत्पन्नभूतसूक्ष्मसमुदायारब्धपृथिव्या- दिविकारो गोघटादिवृत्तिः शब्दो योग्यदेशस्थ आहङ्कारिकतया व्यापकं विषयदेशस्थं श्रोत्रेन्द्रियं विकुर्वन्नवस्थित एव गृह्यत इति तत्सझेपः । ..

१३ द्वितीयाध्याये द्वितीयाह्निके त्रयोदशं सूत्रम् १३१ वृत्तिव्येषु सन्निविष्टो गन्धादिवदवस्थितोऽभिव्यक्तिधर्मक इत्यपरे । आकाश- गुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवदित्यपरे । महाभूतसङ्क्षोभजः शब्दोऽ- नाश्रित उत्पत्तिधर्मको निरोधधर्मक इत्यन्ये । अतः संशयः, --किमत्र तत्त्वमिति । अनित्यः शब्द इत्युत्तरम् । कथम् ? आदिमत्वादेन्द्रियकत्वात् कृतकवदुपंचाराच्च ।। १३ ॥ आदियोनिः कारणम् ,-आदीयते अस्मादिति । कारणवदनित्यं दृष्टम् । संयोगविभागजश्च शब्दः कारणवत्त्वाइनित्य इति । “का पुनरिथमर्थदेशना?" कारणवत्वादिति उत्पत्तिधर्मकत्वात् । अनियः शब्द इति भूत्वा न भवति, विनाशधर्मक इति । "सांशयिकमेतत्-किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य, आहो- स्विडभिव्यक्तिकारणम्---" इत्यत आह-पेन्द्रियकत्वात् । इन्द्रियप्रत्यासति- ग्राह्य एन्द्रियकः । "किमयं व्यञ्जकन लमानदेशोऽभिव्यज्यते रूपादिवन् ? अथ संयोग- जान्छन्दाच्छन्दसन्ताने सति श्रोत्रप्रन्यासन्नो गृह्यत इति" ? संयोगनिवृत्तौ शन्दग्रहणान यचकेन समानदेशस्य ब्रहणम् । दामनश्चने दालपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते । न च व्यञ्जकाभावे व्यड्य- ग्रहणं भवति । तस्मान व्यञ्जकः संयोगः । 'उत्पादके तु संयोगे संयोगजाच्छन्नाच्छन्दसन्ताने सति श्रोत्रप्रत्यालनस्या ग्रहणमिति युक्तं संयोगनिवृत्तौ शब्दत्य ग्रहणमिति । इत्तश्च शब्द उत्पद्यते नाभिव्यज्यते-कृतकवदुपचारान् । ती मन्दमिति १ आकाशेति तृतीय वैशेषिकमतमाह । २ महाभूतेति बौद्धराद्धान्तमाह । ३ केचिदन्ये एवं मन्यन्ते-"प्रत्यभिज्ञव भगवती शस्थेमसाधिनी । तदानु- गुण्याय व्यापिनः शब्दस्य गुणस्य व्यस्य वा प्रयत्नप्रेरिता वायवो यावद्वेगं प्रतिष्ठमानाः श्रोत्रं श्चोत्रावच्छिन्नशब्दविशेषं संस्कुर्वन्तो व्यञ्जका इति कल्प्यते। न च 'समानदेशानां समानेन्द्रियग्राह्याणां नियतव्यञ्जकव्यङ्गत्वन्न दृष्टिमिति' इमं प्रसङ्ग प्रत्यभिज्ञा मृप्यति । सोऽयमनया बाधितविषयो विलीयत' इति । ४ आदिमत्त्वादित्यादि सिद्धान्तसूत्रं पूर्वोक्तं प्रत्याह । तीवस्वमन्दस्वानुनासिकत्वादयो धर्माः शब्दस्यौपाधिका उत नेति संशये -- . .

१३२ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०२ सू०१४- .. कृतकमुपचर्यते । तीव्र सुखं मन्दं सुखं, तीव्र दुःखं मन्दं दुःखमिति । उपचर्यते च तीत्रः शब्दो मन्दः शब्द इति । व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवदिति " चेद्-न, अभिभवोपपत्तेः । " संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्र- मन्दता भवति, न तु शब्दो भिद्यते । यथा प्रकाशस्य तीव्रमन्दतया रूप- ग्रहणस्येति" । तच्च नैवम्, अभिभवोपपत्तेः । तीव्रो भेरीशब्दो मन्दं तन्त्री- शब्दमाभिवति, न मन्दः । न च शब्दग्रहणमभिभावकम् । शब्दश्च न भिद्यते । शब्दे तु भिद्यमाने युक्तोऽभिभवः । तस्मादुत्पद्यते शब्दो नाभिव्यज्यत इति । अभिभवानुपपत्तिश्च, व्यञ्जकसमानदेशस्याभिव्यक्ती प्राप्त्यभावात् । व्यञ्जकेन समानदेशोऽभिव्यज्यते शब्द इत्येतस्मिन्पक्षे नोपपद्यतेऽभिभवः । न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति । " अप्राप्तेऽभिभव इति” चेत्-शब्दमात्राभिभवप्रसङ्गः। अथ मन्येत --" असत्यां प्राप्तावभिभवो भवतीति" | एवं सति यथा भेरीशब्दः कञ्चित्तन्त्रीस्वनमभिभवति एवमन्तिकस्थोपादानमिव दवीयःस्थोपादानानपि तन्त्रीस्वनानभिभवेद्, अप्राप्तेरविशेषात् । तत्र क्वचिदेव भेाँ प्रणादितायां सर्वलोकेषु समानकालास्तन्त्रीस्वना न श्रूयेरन् इति । नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्य तीव्रण मन्दस्याभिभवो युक्त इति । कः पुनरयमभिभवो नाम ?" ग्राह्यसमानजातीयग्रहणकृतमग्रहणम् अभिभवः, यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति ।। १३ ।। "ने घटाभावसामान्यनित्यत्वान्नित्येष्वप्यनित्यवदुपचाराच्च" ॥१४॥ सिद्धान्तः । वर्णसमवेतोऽनुनासिकत्वादिः प्रतीयमानो वर्णधम एव भवति नौपाधिक इति । तथा च युगपद्विरुद्वधर्मयोगात्परस्परमन्यत्वङ्गकारादीनामिति युक्तम् । १ यथोल्केति । अन्यत् खल्वन्येन समानजातोयेनाभिभूयते न तु तदेव तेन । नहि मध्यन्दिनोल्काप्रकाशसम्बधी पटः पटुना सावित्रेण प्रकाशेन प्रकाशमानमात्मानमा- स्मनाऽभिभवति । एवं गकारोऽपि तीवध्वनिप्रकाश्यं गकारमात्मानमभिभवेद्यदि स्वयं मन्दध्वनिप्रकाश्यो गकारस्तीबध्वनिप्रकाश्याद्कारादन्यो भवति। मध्यन्दिनोल्का- प्रकाशस्तु सवितृप्रकाशेनात्मनोऽन्येनाल्पत्वादभिभूयते । २ न घटेत्यादि सिद्धान्ताक्षेपसूत्रं सिद्धान्तहेतूनामनैकान्तिकत्वज्ञापनार्थम् । घटाभावस्य नित्यत्वात् , सामान्यस्य नित्यत्वात् , नित्येष्वनित्यवदुपचाराच्चेत्यन्वयः।

-~-. १६] द्वितीयाध्याये द्वितीयाह्निके षोडशं सूत्रम् १३३ , न खल्वादिमत्त्वादनित्यः शब्दः । कस्मात् ? व्यभिचारात् । आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम् । कथमादिमान् ? कारणविभागेभ्यो हि घटो न भवति । कथमस्य नित्यत्वम् ? योऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिन्निवर्त्यत इति । यदप्यन्द्रियकत्वादिति-तदपि व्यभि- चरति । ऐन्द्रियकं च सामान्यं नित्यं चेति । यदपि कृतकवदुपचारादिति- एतदपि व्यभिचरति । नित्येष्वनित्यवदुपचारो दृष्टः । यथा हि भवति वृक्षस्य प्रदेशः, कम्बलस्य प्रदेशः, एवमाकाशस्य प्रदेशः, आत्मनः प्रदेश इति भवतीति ।। १४ ।। तत्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥ १५ ॥ नित्यमित्यत्र किं तावत्तत्त्वम् ? अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानु- पत्तिर्नित्यत्वम् । तच्चाभावे नोपपद्यते । भाक्तं तु भवति । यत्तत्रात्मानमहासीत् , यद् भूत्वा न भवति, न जातु तत्पुनर्भवति, तत्र नित्य इव नित्यो घटाभाव इत्ययं पदार्थ इति । तत्र यथा- जातीयकः शब्दो न तथाजातीयकं कार्यं किंचिन्नित्यं दृश्यत इत्यव्य- मिचारः ॥ १५ ॥ यदपि--"सामान्यनित्यत्वादिति", "इन्द्रियप्रत्यासत्तिग्राह्यमैन्द्रियक- मिति"-- सन्तानानुमानविशेषणात् ।। १६॥ नित्येष्वप्यव्यभिचार इति प्रकृतम् । नेन्द्रियग्रहणसामर्थ्याच्छब्दस्यानित्य- . -- १ १ आकाशस्येति । 'आकाशस्य प्रदेश' इत्यत्र यथा प्रदेशरहित आकाशे प्रदेशो- क्तिनित्यस्यापि तस्यानित्यत्वं व्यनक्ति, तादृश्येव नित्येऽपि शब्देऽनित्यत्वोक्तिरिति सम्भाव्यते। २ तत्त्वभाक्तयोरित्याक्षेपपरिहारसूत्रम् । ३ तञ्चेति । सत्तासम्बन्ध उभयान्तावच्छिन्नत्वं चेत्येतदुभयमित्यर्थः । ४ यदपीति चतुदर्शसूत्रोक्तमाक्षेपं परामशति ५ सन्तानेत्यादि सिद्धान्तिसूत्रम् । ६. न चयमैन्द्रियकत्वेनानित्यत्वं प्रतिपादयामोऽपि तु शब्दस्याभिव्यक्ति प्रति- षेधामः । नहि न्यज्यमानस्पैन्द्रियकत्वं युक्तमिति वार्तिककाराः ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०२ सू०१७--- “ त्वम् । किं तर्हि ? इन्द्रियप्रत्यासत्तिग्राह्यत्वात् सन्तानानुमानम् , तेनानित्यत्व- मिति ॥ १६ ॥ यदेपि " नित्येष्वप्यनित्यवदुपचाराद् इति"। न-- कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ॥ १७॥ नित्येऽवप्यव्यभिचार इति । एवमाकाशप्रदेशः आत्मप्रदेश इति नात्रा- काशात्मनोः कारणद्रव्यमभिधीयते, यथा कृतकस्य । कथं ह्यविद्यमानमभिधी- यते ? अविद्यमानता च प्रमाणतोऽनुपलव्धेः । किन्तर्हि तत्राभिधीयते ? संयोगस्याव्याप्यवृत्तित्वम् । परिच्छिन्नेन द्रव्येणाकाशस्य संयोगो नाकाशं व्याप्नोति-अव्याप्य वर्तत इति । तदस्य कृतकेन द्रव्येण सामान्यम् । न ह्यामलकयोः संयोग आश्रयं व्याप्नोति। सामान्यकृता च भक्तिराकाशस्य प्रदेश इति । अनेनात्मप्रदेशो व्याख्यातः । संयोगवच्च शब्दबुद्धयादीनामव्याप्यवृ- त्तित्वमिति । परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति । कस्मात्पुनः सूत्रकारस्यास्मिन्नर्थे सूत्रं न श्रूयत इति ? " शीलमिदं भगवतः सूत्रकारस्य बहुष्वधिकरणेपु द्वौ पौ न व्यवस्थापयति । तत्र शास्त्र- सिद्धान्ततत्त्वावधारणं प्रतिपत्तुमर्हतीति मन्यते । शास्त्रसिद्धान्तस्तु न्यायसमा- ख्यातमनुमतं बहुशाखमनुमानमिति ।। १७ ॥ १ ऐन्द्रियकत्वं चात्र इन्द्रियप्रत्यासत्तिग्राह्यत्वम् । तेन शब्दस्य सन्तानोऽनुमीयते, सन्तानवृत्तित्वेन चास्य नित्यत्वमिति सूत्राथः । २ यदपीति चतुर्दशसूत्रोक्तमाक्षेपान्तरं परामृशति । ३ कारणद्रव्यस्येत्यादि अभिधानादित्यन्तमेव सूत्रम् । नित्येप्वप्यव्यभिचार इति तु भाष्यग्रन्थ एव सूत्रेणान्वितः । वृक्षकम्बलादिषु कार्यद्रव्यविपयेषु प्रदेशशब्देन कारणद्रध्यमेवोच्यते । तस्य चाकाशादावसम्भवान्न तादृगुक्तिसभवः । ४ अव्याप्येति । शब्द आकाशेऽव्याप्यवृत्तिः, आत्मनि च बुद्धयादिरिति । ५ कस्मादिति । निष्प्रदेशमाकाशं निष्प्रदेशश्चात्मेत्येतदर्थबोधकं सूत्रन्नास्तीति प्रानिकस्य हृदयम्। सप्तदशसूत्र उक्तयोरर्थयोः प्रतिपादितत्वान्नायं प्रश्नः सङ्गच्छत इति केचित् । परन्तु कारणव्यस्य प्रदेशशब्देनाभिधानात् '.. इतिसूत्रमाकाशादीनां निष्प्रदे- शत्वं साक्षान्न ब्रूत इति कृत्वैव.प्रश्नस्य सङ्गतिः । उक्तामेवासङ्गतिमरुचिबीजं मनसि कृत्वा वातिककारः प्रश्नमन्यथावर्णयाञ्चकार-शब्दसन्तानप्रतिपादने वा ने सूत्रमिति प्राश्निकस्य भाव इति । ।

सू. १९] द्वितीयाध्याये द्वितीयाह्निके एकोनविंशं सूत्रम् १३५ "सतोऽनुप- " अथापि खल्विदमस्ति इदं नास्तीति कुत एतत्प्रतिपत्तव्यमिति ? प्रमा- णत उपलब्धरेनुपलब्धेश्चेति । अविद्यमानस्तर्हि शब्द:-- प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥ १८ ॥ प्रागुच्चारणान्नास्ति शब्दः । कस्मान् ? अनुपलब्धेः । लन्धिरावरणादिभ्यः ।" एतन्नोपपद्यते । कस्मात् ? आवरणादीनामनुपलब्धि कारणानामग्रहणात् । अनेनावृतः शब्दो नोपलभ्यते असन्निकृष्टश्चेन्द्रियव्यव- धानादित्येवमादि अनुपलब्धिकारणं न गृह्यत इति । सोऽयमनुच्चारितो नास्तीति। उच्चारणमस्य व्यञ्जकम् । तदभावात्प्रागुञ्चारणादनुपलब्धिरिति” ।। किमिदमुच्चारणं नामेति ? विवक्षाजनितेन प्रयत्नेन कोष्टयस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः, यथास्थानं प्रतिघाताद्वर्णाभिव्यक्तिीरति । संयोगविशेषो वै प्रतिघातः । प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वम् । तस्मान्न व्यञ्जकाभावादग्रहणम्, अपि त्वभावादेवेति । सोऽयमुच्चार्यमाणः श्रूयते, श्रूयमाणश्चाभूत्वा भवतीत्यनुमीयते । उर्ध्वं चोच्चारणान्न श्रूयते, स भूत्वा न भवति, अभावान्न श्रूयत इति । कथम् ? आवरणाद्यनुपलब्धेरित्युक्तम् । तस्मा- दुत्पत्तितिरोभावधर्मकः शब्द इति ॥ १८ ॥ एवं च सति तत्त्वं पांशुभिरिवावाकिरन्निदमाह-- तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥ १९॥ १ अथापीति-अस्य पर्यनुयोगस्य को विषयः । अनुपलभ्यमानास्तित्वम् । ये शब्दं नित्यङ्कल्पयन्ति त इदम्पर्यनुयोज्याः-इदमस्तीदन्नास्तीति एतद्भवन्तः कथं प्रतिपद्यन्त इति । एवमनुयुक्तास्सन्तः प्रतिब्रुवते-प्रमाणत उपलब्धेरनुपलब्धे- श्वेति । ततश्चानिष्टप्रसङ्ग इति सूचनाथ सूत्रम्-प्रागुञ्चारणादित्यादि । अन्यथाऽपि सूत्रावतरणिकां वार्तिककार आह । यच्चोभयपक्षसम्प्रतिपन्न घटाद्यनित्यत्वेन-तेन चानुयोज्या:-यदिदमनित्यं घटादि भवद्भिः प्रतिपद्यते तत्कथमनित्यमिति । एवमनुयुक्ता यदि घटाद्यनित्यत्वे न्यायं प्रतिपद्यन्ते स शब्देऽपीति सूचनार्थं सूत्रम् । २ तत्वे उक्ते पूर्वपक्षी जात्या प्रत्यवतिष्ठते तदनुपलब्धेरिति सूत्रेण ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०२ सू०२०- " यद्यनुपलम्भादावरणं नास्ति, आवरणानुपलब्धिरपि तर्झनुपलम्भा- नास्तीति-तस्या अभावादप्रतिषिद्धमावरणमिति'। कथं पुनर्जानीते भवान्नावरणानुपलब्धिरुपलभ्यत इति ? किमत्र ज्ञेयम् । प्रत्यात्मवेदनीयत्वात् समानम् । अयं खल्वावरणमनुपलभमानः प्रत्यात्ममेव संवेदयते नावरणमुपलभ इति,-यथा कुडयेनावृतस्यावरणमुपलभमानः प्रत्यात्म- मेव संवेदयते। सेयमावरणोपलब्धिवदावरणानुपलब्धिरपि संवेद्यैवेति । एवं च सत्यपहृतविषयमुत्तरवाक्यमस्तीति ॥ १९ ॥ अभ्यनुज्ञावादेन तूच्यते जातिवादिना अनुपलम्भादप्यनुपलब्धिसद्भावान्नावरणानुपपत्तिरनुपलम्भात् " ॥ २०॥ यथाऽनुपलभ्यमानाऽप्यावरणानुपलब्धिरस्ति एवमनुपलभ्यमानमप्या- वरणमस्तीति। यद्यभ्यनुजानाति भवान्, अनुपलभ्यमानाप्यावरणानुपलब्धि- रस्तीति, अभ्यनुज्ञाय ·च वदति-नास्त्यावरणमनुपलम्भादिति, एतस्मिन्न. स्थभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यत इति " ।। २० ।। अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ २१ ॥ १ यथा आवरणाद्यनुपलब्धिरनुपलभ्यमानाऽप्यस्ति, तथाऽऽवरणमप्यनुपलभ्य- मानमध्यस्तीत्यर्थः । आवरणानुपलब्धेस्तावदुपलब्धिर्न सम्भवति, अनुपलब्धिस्वरूप- विरोधात् । तस्मादावरणानुपलब्धिरेव वक्तव्या। तथा चावरणानुपलब्धेरभावे सत्या- वरणोपलब्धिः। तया त्वावरणसद्भावः ज्ञानस्य निरालम्बनत्वायोगादिति हृदयम् । २ तस्या इति । आवरणानुपलब्धेरित्यर्थः । ३ एवश्चेति सिद्धान्तिन उक्तिः । यथावरणानुपलब्धिरुपलभ्यते मानसेच प्रत्यक्षेण तदा नानकातिकस्वं न चावरणसद्भाव इति पूर्वपक्षिण ऊनविंशसूत्रोतं जात्युत्तरवाक्यमपहृतविषयम्भवतीत्यर्थः । ४ अभ्यनुज्ञेति । सिद्धान्तिन उक्तिमनुज्ञायापि जातिवादी प्रत्यवतिष्ठतेऽग्रिमेण सूत्रेणेत्यर्थः। ५ अनुपलम्भादिति जातिवादिनो द्वितीयं सूत्रम् । यदि पूर्वोक्तदोषभयाद- नुपलभ्यमानाऽप्यावरणानुपलब्धिरस्ति तथासत्यनुपलब्धेस्नैकान्तिकवं प्रसज्यत इति भावः। ६ अनुपलम्भात्मकत्वादिति सिद्धान्तिसूत्रम् । अस्यार्थः । 'अनुपलब्धेः' आवरणानुपलब्धेः अनुपलम्भास्मकत्वात्' आवरणोपलब्धिनिषेधात्मकत्वात्- 'तदनुपलब्धेरनुपलम्भादिति' ऊनविंशसूत्रोक्तः 'अहेतुः-आवरणोपपत्ताविति शेषः- असिदत्वात् इति।

-सू. २५ ] द्वितीयाध्याये द्वितीयाह्निके पञ्चविंशतितमं सूत्रम् , " यदुपलभ्यते तदस्ति, यन्नोपलभ्यते तन्नास्ति, इति अनुपलम्भात्मकम- सदिति व्यवस्थितम् । उपलब्ध्यभावश्चानुपलब्धिरिति । सेयमभावत्वान्नो- पलभ्यते । सञ्च खल्वावरणम् । तस्योपलब्ध्या भवितव्यम् । न चोपलभ्यते । तस्मान्नास्तीति। तत्र यदुक्तं-" नावरणानुपपत्तिरनुपलम्भादिति" अयुक्त- मिति ||२१॥ अथ शब्दस्य नित्यत्वं प्रतिजानान: कस्माद्धेतोः प्रतीजानीते ? अस्पर्शत्वात् " ॥ २२॥ "अस्पर्शमाकाशं नित्यं दृष्टमिति । तथा च शब्द इति" || २२ ॥ सोयमुभयतः सव्यभिचारः । स्पर्शवांश्चाणुर्नित्यः, अस्पर्श च कर्मानित्यं दृष्टम् । अस्पर्शवादित्येतस्य साध्यसाधयेणोदाहरणम्- नं, कर्मानित्यत्वात् ॥ २३॥ साध्यवैधhणोदाहरणम्- नॉणुनित्यत्वात् ॥ २४ ॥ उभयस्मिन्नुदाहरणे व्यभिचारान्न हेतुः ।। २४ ॥ " अयं तर्हि हेतुः सम्प्रदानात् " ॥२५॥ सम्प्रदीयमानमवस्थितं दृष्टम् । सम्प्रदीयते च शब्द आचार्येणान्ते- वासिने । तस्मादवस्थित इति" ।। २५ ॥ अतथाजातीयेन प्रत्यवस्थानादनुत्तरमिति सूत्रार्थः । यथाजातीयकः शब्दो नित्यस्तथाजातीयकं किञ्चिमित्या दृष्टमित्याशयः । १ 'उपलभ्यत' इति विधिविषयेण प्रमाणेनेति भावः । 'न उपलभ्यते'-निषेध- विषयेण प्रमाणेनेति भावः । तस्मादनुपलम्मात्मकं निषेधविषयप्रमाणमिदं असत्- इति स्थितम् । २ नोपलभ्यते-विधिविषयेण प्रमाणेनेत्यर्थः। ३ अस्पर्शत्वादिति विप्रतिपत्तेः प्रमाणमूलत्वाद्धेतोः परिप्रश्नसूत्रम् । ४ न कर्मेति तस्य व्यभिचारप्रदर्शनार्थ सूत्रम् । ५ नाण्विति सिद्धान्तिस्त्रं व्यभिचारान्तरप्रदर्शनार्थम् । अस्पशन कमणवोभयतो व्यभिचारे लब्धे नित्येनाणुना व्यभिचारोद्भावनं कृतकत्वानित्यत्ववत्समन्याप्तिकत्व. मिराकरणार्य द्रष्टव्यम् । ६ सम्प्रदानादिति पूर्वपक्षिसूत्रम् । सम्पदीयमामवादित्यर्थः । -- ६ १३८ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० २ सू०२६- तदन्तरालानुपलब्धेरहेतुः ॥ २६॥ येन सम्प्रदीयते यस्मै च, तयोरन्तरालेऽवस्थानमस्य केन लिङ्गोनोप- लभ्यते ? सम्प्रदीयमानो ह्यवस्थितः सम्प्रदातुरपैति सम्प्रदानं च प्राप्नोति- इत्यवर्जनीयमेतत् ॥ २६ ॥ " अध्यापनादप्रतिषेधः" ॥ २७ ॥ अध्यापनं लिङ्गम् । असति सम्प्रदानेऽध्यापनं न स्यादिति " ॥२७॥ उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥ २८॥ समानमध्यापनमुभयोः पक्षयोः, संशयानिवृत्तेः । किमाचार्यस्थः शब्दोऽ- न्तेवासिनमापद्यते तद्ध्यापनम् , आहोस्विन्नृत्योपदेशवद् गृहीतस्यानुकरण- मध्यापनमिति ? एवमध्यापनेमलिङ्गं सम्प्रदानस्येति ॥ २८ ।। अयं तर्हि हेतु:"- अभ्यासात्" ॥ २९॥ "अभ्यस्यमानमवस्थितं दृष्टम् । पञ्चकृत्वः पश्यतीति रूपमवस्थितं पुन: पुनईश्यते । भवति च शब्देऽभ्यासः,-दशकृत्वोऽधीतोऽनुवाको विंशतिकृत्वोऽ- धीत इति । तस्मादवस्थितस्य पुनः पुनरुच्चारणमभ्यास इति” ॥ २९ ॥ नान्यत्वेऽप्यभासस्योपचारात् ॥ ३० ॥ १ तदन्तरालेति परिहारसूत्रम् । २:पञ्चविंशसूत्रोक्तं हेतुं पूर्वपक्षी विशदयति-अध्यापनादिति सूत्रेण । अयमत्र प्रयोगः-दातृप्रतिग्रहीनोरन्तराले शब्दोऽस्ति, अध्यापनात्, गुरुणा शिष्याय दीयमानत्वात्, धनुर्वेदविदा आचार्येण शिष्याय दीयमानेष्वादिवत्-इति । ३ उभयोरिति. सिद्धान्तिसूत्रम् । ४ सांशयिकत्वादहेतुः पूर्वपक्षोक्तो हेतुरिति सूत्रार्थः । ५ अलिङ्गमिति । सिद्धसाधनत्वात् । वयमपि ब्रूमः दात्रोच्चरितः शब्दः सन्तानवृत्त्या सम्प्रदानमेतीत्यवस्थाने न हेतुः। ६ पूर्वपक्षी हेत्वन्तरमुपन्यस्यति-अभ्यासादिति सूत्रम् । ७ अनित्ये वेवाभ्यास इत्यनेकान्तः, अभ्यासस्वरूपानवधारणादसिद्धश्च । अभ्यासो ह्येकविषयोऽनेकज्ञानोत्पाद एकाकारविषयो वा । तत्रायमभ्यास एकविषय एकाकारविषयो वेति सन्दिग्धासिद्धिरित्यादिभिः उक्तं हेतुं दूषयति-नान्यत्व.इति सूत्रेण ।

-यू. ३३] द्वितीयाध्याये द्वितीयाह्निके त्रयस्त्रिंशत्तमं सूत्रम् १३९ ३ , - अनवस्थानेऽप्यभ्यासस्याभिधानं भवति-द्विनृत्यतु भवान् त्रिर्नृत्यतु भवानिति, द्विरनृत्यन् , निरनृत्यत् , द्विरग्निहोत्रं जुहोति, द्विभडे । एवं, व्यभि- चारान् ॥ ३०॥ " प्रतिषिद्धहेतावन्यशब्दस्य प्रयोग: प्रतिषिध्यते" "अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः" ॥ ३१ ॥ यदिदमन्यदिति मन्यसे तत् स्वात्मनोऽनन्यत्वादन्यन्न भवति । ए.वमन्यताया अभावः । तत्र यदुक्तम्-'अन्यत्वेऽप्यभ्यासोपचारान् '-इत्येतद- युक्तमिति ” ॥ ३१॥ शब्दप्रयोगं प्रतिषेधत: शब्दान्तरप्रयोगः प्रतिषिध्यते तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥३२॥ अन्यस्मादनन्यतामुपपादयति भवान, उपपाद्य चान्यत् प्रत्याचष्टे- अनन्यदिति च शब्दमनुजानाति-प्रयुक्ते चानन्यदिति । एतत् समासपदम् । अन्यशब्दोऽयं प्रतिषेधेन सह समस्यते । यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः ? तस्मात्तयोरन्यानन्यशब्दयोरितरोऽनन्यशब्द इतर- मन्यशब्दमपेक्षमाणः सिद्धयतीति । तत्र यदुक्तमन्यताया अभाव इत्येतदयुक्त- मिति ॥३२॥ अस्तु तीदानी शब्दस्य नित्यत्वम्"- "विनाशकारणानुपलब्धेश्च" ।। ३३ ।। यदनित्यं तस्य विनाशः कारणाद्भवति। यथा लोष्टस्य कारणद्रव्य- विभागात् । शब्दश्चेदनित्यस्तस्य विनाशो यस्मात्कारणाद्भवति तदुपलभ्येत । न चोपलभ्यते । तस्मान्नित्य इति" || ३३ ।। १ प्रतिषिध्यत इति-पूर्वपक्षिणेति शेषः । २ यदि 'अन्यत्' नाम जगति भवेत् ततः 'अन्यत्वेऽप्यभ्यासोपचारात् इत्यनेनानैकान्तिकत्वमुद्भाव्येत । तदेव तु नास्तीति वाक्छलेन प्रत्यवतिष्ठते पूर्वपक्षी- अन्यदिति सूत्रम् । ३ परिहरति सिद्धान्ती-तदभाव इति सूत्रम् । यदि 'अन्यत्' इति प्रयोगो न सम्भवति तर्हि 'अनन्यत्' इत्यपि न सम्भवत्येवेत्यर्थः । ४ अयुक्तमिति । न च स्वस्मात् 'अनन्यत्' परस्मादपि 'अनन्यत्' भवितु- महति । नहि नीलमात्मनः 'अनन्यत्' इति पीतादपि 'अनन्यत्' भवति । अन्यदेव हि नौलम्पीतादिति परमार्थः । ५ पूर्वहेतौ निरस्ते पूर्वपक्षी शब्दनित्यतायां हेत्वन्तरमुपन्यस्यति- विनाशेति सूत्रम् । .. १ खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० २ सू० ३४ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥३४॥ यथा विनाशकारणानुपलब्धेरविनाशप्रसङ्ग एवमश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः। “व्यञ्जकाभावादश्रवणमिति''-चेत् ? प्रतिषिद्धं व्यञ्जकम् । अथ विद्यमानस्य निर्निमित्तमश्रवणमिति -विद्यमानस्य निनिमित्तो विनाश इति-समानश्च दृष्टविरोधो निमित्तमन्तरेण विनाशे चाश्रवणे चेति ॥३४॥ उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ॥ ३५ ।। अनुमानाच्चोपलभ्यमाने शव्दस्य विनाशकारणे विनाशकारणानुपलब्धेर- सत्त्वादित्यनपदेशः,-यथा यस्माद्विषाणी तस्मादश्व इति । किमनुमानमिति चेत्-सन्तानोपपत्तिः । उपपादितः शब्दसन्तान:-संयोगविभागजाच्छब्दाच्छ- ब्दान्तरं ततोऽप्यन्यत्ततोऽप्यन्यदिति । तत्र कार्यः शब्दः कारणशब्दं निरुणाद्धि । प्रतिघातिद्रव्यसंयोगस्त्वन्त्यस्य शब्दस्य निरोधकः । दृष्टं हि तिरःप्रतिकुड्य- मन्तिकस्थेनाप्यश्रवणं शब्दस्य, श्रवणं दूरस्थेनाप्यसति व्यवधान इति । घण्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति श्रुतिभेदान्नाना- शब्दसन्तानोऽविच्छेदेन श्रूयते । तत्र नित्ये शब्दे घण्टास्थमन्यगतं वाऽवस्थित सन्तानवृत्ति वाऽभिव्यक्तिकारणं वाच्यं, येन श्रुतिसन्तानो भवतीति । शब्द- भेदे चासति श्रुतिभेद उपपादयितव्य इति । १ अश्रवणेति सिद्धान्तिसूत्रम् । २ उपलभ्यमान इति सिद्धान्तसूत्रम् । 'अनपदेश' इति अहेतुरित्यर्थः । ३ प्रतिघातीति । शब्दस्य गुणस्वाद्गुणे च गुणान्तरासम्भवात् तस्य संयोगो वैशेषिकराद्धान्तविरुद्ध इति कृत्वा प्रतिघातिव्यमन्त्र आकाशमेवेति तात्पर्यकाराः । तथा चोक्तम्-एतदुक्तम्भवति । धनतरद्रव्यसंयुक्तं नभो न शब्दसमवायिकारणताम्प्रति- पद्यते। ततश्च सन्नप्यसभवायिकारणं शब्दो न शब्दान्तरमारभत इति । प्रतिघाति- द्रव्यमत्र शब्दनिमित्तकारणीभूतो वायुरेवेति न्यायकन्दलीकाराः । ४ शब्दभेद इति । नित्यस्य शब्दस्य न स्वाभाविको भेदो नाप्योपाधिक इत्युप- पादितम् । तथाच सति यदि घण्टास्थेन व्यञ्जनान्यवृत्तिना वाऽवस्थितेन सन्तान- वृत्तिना वा नित्यः शब्दो व्यज्येत तर्हि तार-तारतर- तारतम-मन्द-मन्दतर- मन्दतमादिश्रतिभेदो न स्यादेवेत्याशयः । यदि च तास्तमादयस्तावन्त एव शब्दा निस्यास्ततस्तावन्त एवं युगपदेव गम्येरन् विशेषाभावात् । एको हि व्यञ्जक एषां स्थिर इति । घण्टास्थस्य सन्तानवृत्तेः कारणत्वे युक्तं यत् तारतमादिभेदेन कारण- भेदारकार्यभेद इति । ..

सू. ३७] द्वितीयाध्याये द्वितीयाह्निके सप्तत्रिंशत्तमं सूत्रम् १४१ अनित्ये तु शब्दे घण्टास्थं सन्तानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटु मन्दमनुवर्तते । तस्यानुवृत्त्या शब्दसन्तानानुवृत्तिः । पटुमन्द- भावाञ्च तीव्रमन्दता शब्दस्य । तत्कृतश्च श्रुतिभेद इति ॥ ३५ ॥ न वै निमित्तान्तरं संस्कार उपलभ्यते । अनुपलब्धेर्नास्तीति "। पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥ ३६॥ पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति। तस्मिश्च सति शब्दसन्तानो नोपलभ्यते। अतः श्रवणानुपपत्तिः । तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्यनुमीयते । तस्य च निरोधाच्छब्दसन्तानो नोत्पद्यते। अनुत्पत्तौ श्रुतिविच्छेदः । यथा-प्रतिघातिद्रव्यसंयोगादिषोः क्रियाहेतौ संस्कारे निरुद्धे गमनामाव इति। कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः । कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति । तस्मा- निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिरिति ॥ ३६ ।। विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥ ३७॥ यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्टते, अवस्थानाच्च तस्य नित्यत्वं प्रसज्यते, एवं यानि खल्विमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतम् , न तेषां विनाशकारणं भवतोपपाद्यते, अनुपपादनादवस्थानमवस्थानात् ५ पाणीति सिद्धान्तिसूत्रम् । अत्र सूत्रार्थे मतभेदः । पाणिरूपस्य शब्दाभाव- निमित्तस्य 'प्रश्लेषात् ' संयोगात् 'शब्दाभावे' उपलभ्यमाने शब्दाभावकारणस्य 'नानुपलब्धिः' इति केचित् । अन्ये तु 'पाणि'-'रूपनिमित्तस्य' प्रश्लेषः कार्यत्वरूपसम्बन्धो यत्र स शब्द उत्तरशब्दः, तस्मात् ‘शब्दाभावे' शब्दध्वंसे सति -विनाशकारणस्य 'नानुपलब्धिः' इति । प्रथममेव भाष्यसम्मतम्प्रतिभाति । तत्र च 'नानुपलब्धिः' इत्यस्य 'संस्कारस्यानुपलब्धिरिति न ' इत्येवमन्वयः कार्यः । २ 'पाणिसंश्लेषः' इति सर्वत्र पाठः । कांस्यपात्रादिषु (१) स्पर्शनेन्द्रिय- ग्राह्यस्य कम्पसन्तानस्य उपरमः, तथाच (२) पाणिसंश्लेषः-इत्येतदुभयमेव संस्कार- सन्तानस्य लिङ्गमिति सम्बन्धः । पाणिसंश्लेषे' इति पाठे तु-'कांस्यपात्रादिषु पाणिसंश्लेषे सति स्पर्शनेन्द्रिय- ग्राह्यस्य कम्पसन्तानस्य उपरमः संस्कारसन्तानस्य लिङ्गं सूचकं भवतीत्येवं' सम्बन्धः कार्यः । ३ विनाशकारणानुपलब्धेरिति त्रयस्त्रिंशसूत्रोक्तं पूर्वपक्षहेतु प्रत्याचष्ट । , , . .

सातसाहतन्यायसूत्रभाष्य [अ० २, आ ० २ २.३८- तेषां नित्यत्वं प्रसज्यत इति । अथ नैवं, न तार्ह विनाशकारणादुपलब्धेः शब्दस्थावस्थानान्नित्यत्वमिति ।। ३७ ।। कैम्पसमानाश्रयस्य चानुनादस्य पाणिप्रश्शेषात् कम्पवत् कारणोपरमाद- भावः । वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेपात् समानाधिकरणस्यैवोपरमः स्यादिति"। अस्पर्शत्वादप्रतिषेधः ॥ ३८॥ यदिदमाकाशगुणः शब्द इति प्रतिषिद्धयते, अयमनुपपन्नः-अस्पर्शत्वा- च्छदाश्रयस्य । रूपादिसमानदेशस्याग्रहणे शब्दसन्तानोपपत्तेरस्पर्शव्यापि- द्रव्याश्रयः शब्द इति ज्ञायते, न कम्पसमानाश्रय इति ॥ ३८ ॥ प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते । कथम् ?-- विभक्त्यन्तरोपपत्तेश्च समासे ।। ३९ ॥ १ साङ्ख्यः प्रत्यवतिष्ठते-कम्पसमानाश्रयस्येत्यादि स्यादित्यन्तम् । २ अनुवृत्तो नादः शब्दोऽनुनादः । ३ वयधिकरण्ये हीति । ध्यप्रश्लेषसमानाधिकरणस्यैव संस्कारस्पांच्छेदः स्यात, न व्यधिकरणस्य शब्दस्य । व्यधिकरणस्य तूच्छेदाभ्युपगमेऽतिप्रसङ्गः स्यात् । तस्मात्क- मसन्तानसंस्कारसमानाश्रयः शब्दोऽभ्युपगन्तव्यः । तदनेनाकाशाश्रयत्वं शब्दस्य प्रतिपिद्धमिति हृदयम् । ४ रूपादिसमानदेशस्य-शब्दस्येत्यर्थः ५ ज्ञायत इति । प्राप्यकारित्वनिन्द्रियाणां व्यवस्थितम् । घण्टाद्याश्रयः शब्दो न श्रोत्रम्माप्नोति । एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत्-कर्णशप्कुली 'वा घण्टाम् । न चैतदुभयमस्ति । न चाहङ्कारिकमिन्द्रिय ब्यापीत्युक्तमेव । तस्माच्छ- ब्दोधारी निःस्पर्शी व्यापी वा आकाशः, तदाधारः शब्दः श्रोत्रमायाति सन्तान- वृत्त्येति युक्तम् । तथैव च श्रवणमस्योपपद्यते नान्यथेत्याशयः । ६ विभक्तीति सिद्धान्तिसूत्रम् । रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्खादि- द्रव्यम् । तत्र 'समासे' समुदाय स्थित एव शब्दो व्यज्यत इति साङ्ख्यदर्शनम् । तस्मिन् समुदाये सायाभिमते 'विभक्त्यन्तरोपपत्तेश्च' न व्यज्यते शब्द इति सूत्रार्थः । विभक्तिश्च विभक्त्यन्तरं चेति : विभक्त्यन्तरम्' । यदि समुदाये व्यज्येत शब्दः 'विभक्तिः' षड्जधैवतगान्धारादिभेदेन--' विभक्त्यन्तरं च'-पड्जजातीय- स्यैव तारमन्दाद्यवान्तरभेदेननोपपद्येत । तस्माद् ‘विभक्त्यन्तरोपपत्तेः' न समासे व्यज्यते शब्दः, अपि त्वाकाशगुणः क्रियत इत्येव साम्प्रतम् । .

. ४० ] द्वितीयाध्याये द्वितीयाह्निके चत्वारिंशत्तमं सूत्रम् सन्तानोपपत्तश्चेति चार्थः । तद्व्याख्यातम् । यदि रूपादयः शब्दश्च प्रतिद्रव्यं समस्ताः समुदितास्तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टस्तस्य यथाजातीयस्थैव ग्रहणेन भवितव्यं, शब्दे रूपादिवत् । तत्र योऽयं विभाग:-एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्य- मानाः श्रूयन्ते, यच्च विभागान्तरं-सरूपाः समानश्रुतयः सधर्माणः शब्दा- म्तीत्रमन्दधर्मतया भिन्नाः श्रूयन्ते,-तदुभयं नोपपद्यते । नानाभूतानामुत्पद्य- मानानामयं धर्मो नैकस्य व्यज्यमानस्येति । अस्ति चायं विभागो विभागान्तरं च। तेन विभागोपपत्तर्मन्यामह न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति ॥ ३९ ॥ (३) शब्दपरिणामप्रकरणम् । द्विविधश्चायं शब्दो वर्णात्मको ध्वनिमात्रश्च ! तन्न वर्णात्मनि तावन्- विकारादेशोपदेशात्संशयः ॥ ४०॥ दध्यत्रेति" केचिद् इकार इत्वं हित्वा यत्वमापद्यत इति विकारं मन्यन्ते । केचिदिकारस्य प्रयोग विषयकृते यदिकारः स्थानं जहाति तत्र यका- रस्य प्रयोग ब्रुवते । संहितायां विषये इकारो न प्रयुज्यते, तस्य स्थान यकार: प्रयुज्यते, स आदेश इति । उभयमिदमुपदिश्यते । तत्र न ज्ञायतें किं तत्त्वमिति ? 2 .0 . ५ भित्रश्रुतय इति । षड्जादिरूपा इत्यर्थः । २ विभागान्तरमिति-पड्जस्यैव तारमन्दायवान्तरभेदेनेत्याशयः । ३ तदेवं रूपादिसन्निविष्टः शब्दो व्यज्यत इति साङ्ख्यमते दूपिते स एव साङ्ख्यो वर्णपु प्रकृतिविकारभावतेः मृत्सुवर्णादिवत् परिणामि नित्या वर्णा इति यदि प्रत्यवतिष्टते तत्र परीक्षाभारभते-द्विविध इति । ' वर्गात्मक' अकारादिः, 'ध्वनि- मात्रः' शङ्खादिनिमित्तः । ४ विकार इति । विकारो हि नाम न बौद्धनयवत् पूर्वस्य निरन्वयनि- वृत्तावुत्तरस्य प्रादुर्भावः साङ्ख्यस्य विवक्षितः-किन्त्रवस्थितस्यैव धर्मिणः पूर्व- धर्मतिरोभावे धर्मान्तरस्याविर्भावः। न चेकारस्य धर्मस्य धर्मी कश्चिदुपलम्भगोचरो य इकारधर्मनिवृत्तावप्यनुवृत्ताकारतया परिणमेत । ५ न ज्ञायत इति । इको यणचीत्यत्र उक्तव्याख्यातृविप्रतिपत्तेः संशयः। तन्ना- परीक्ष्य शक्यमवधारयितुम् । ..

खद्यातसाहतन्यायसूत्रभाष्ये [अ०२, आ०२ सू०४० - आदेशोपदेशस्तवम् । विकारोपदेशे ह्यन्वयस्याग्रहणाद्विकाराननुमानम् । सत्यन्वये किञ्चिन्नि- वर्तते किश्चिदुपजायत इति शक्येत विकारोऽनुमातुम् । न चान्वयो गृह्यते । तस्माद्विकारो नास्तीति। भिन्नकरणयोश्चे वर्णयोरप्रयोगे प्रयोगोपपत्तिः। विवृतकरण इकार ईष- स्पृष्टकरणो यकारः। ताविमौ पृथकरणाख्येन प्रयत्नेनोच्चारणीयौ। तयोरेकस्या- प्रयोगेऽन्यस्य प्रयोग उपपन्न इति । अविकारे चाविशेषः। यत्रेमाविकारयकारौ न विकारभूतौ-यतते, यच्छति, प्रायस्त इति, इकार, इदमिति च, यत्र च विकारभूतौ-इष्टया, दध्या- हरेति,-उभयत्र प्रयोक्तुरविशेषो यत्नः, श्रोतुश्च श्रुतिरित्यादेशोपपत्तिः । प्रयुज्यमानाग्रहणाच्च । न खलु इकारः प्रयुज्यमानो यकारतामापद्यमानो गृह्यते। किं तर्हि ? इकारस्य प्रयोगे यकारः प्रयुज्यते । तस्मादविकार इति । अविकारे चे न शब्दान्वाख्यान लोपः। न विक्रियन्ते वर्णा इति-न चैतस्मिन्पक्षे शब्दान्वाख्यानस्यासम्भवों येन वर्णविकारं प्रतिपद्येमहीति । ? ५ आदेशोपश इति । सुवर्णजातीयाः खल्ववयवा अन्यतमव्यूहपरित्यागेनान्य- तमन्यूहमापद्यमानाः 'रुचक' इति वा 'वर्धमान' इति वा परिणमन्ते। अस्ति हि तेषु सर्वेषु सुवर्णजातीयानामवयवानामनुगमः । न तु यकारे इकारस्य वा तदा- रम्भकस्य वाऽवयवस्यानुगममीक्षामहे । तस्माद्विकाराभावादादेशत्वमस्य निश्चिनुमः । २ उपपत्त्यन्तरं चाविकारे दर्शयति-भिन्नकरणयोरिति। यदि हि इकारविकारो यकारः स्याद् यकारप्रयोगाय इकारमुपाददानास्तत्कारणं विवृतकरणं पूर्वमुपाददीरन् । तन्निरपेक्षास्तु यकारम्प्रयोक्ष्यमाणाः ईषत्स्पृष्टकरणमुपाददते। तस्मान्नेकारविकारो यकार इति युक्तमुत्पश्यामः । ३ उपपत्त्यन्तरमाह-अविकार इति । ४ प्रयुज्यमानेति । यथा हि क्षीरं काल विपाकापेक्ष दधि भवतु दृश्यते, न तथा इकारो यकारो भवन्नित्यर्थः । ५ यदि न विकारः कथन्तर्हि शब्दान्वाख्यानम्-इकोयणचीत्यत आह- अविकारे चेति । ६ न चैतस्मिन्निति । इकः प्रयोगप्रसने संहितायां यणः प्रयोगमाह तत्सूत्रे, न पुनरिग्विकारं यणमित्यर्थः ।

५. ४२ ] द्वितीयाध्याये द्वितीयाहिके द्विचत्वारिंशत्तमं सूत्रम् १४५ ६ -- न खलु वर्णस्य वर्णान्तरं कार्यम् । न हि इकाराबकार उत्पद्यते, यका- राद्वा इकारः । पृथक्स्थानप्रयत्नोत्पाद्या ही वर्णाः । तेपामन्योऽन्यस्य स्थाने प्रयुज्यत इति युक्तम् । एतावच्चैतत्परिणामो विकारः म्यात् कार्यकारणभावो वा। उभयं नास्ति । तस्मान्न सन्ति वर्णविकाराः। वर्णसमुदायविकारानुपपत्तिवच्च वर्णविकारानुपपत्तिः । अस्तेर्भूः ब्रुवो बचि 'रिति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद्विषये वर्णान्तर- समुदायो न परिणामो न कार्य, शब्दान्तरम्य स्थाने शब्दान्तरं प्रयुज्यते, तथा वर्णस्य वर्णान्तरमिति ॥ ४० ॥ इतश्च न सन्ति विकाराः-- प्रकृतिविवृद्धो विकारविवृद्धेः ।। ४१ ॥ प्रकृत्यनुविधानं विकारेषु दृष्टम् । यकारे ह्रस्वदीर्घातुविधानं नाम्ति, येन विकारत्वमनुमीयत इति ।। ४१ ।। न्यूनसमाधिकोपलब्धेविकाराणामहेतुः ॥४२॥ द्रव्यविकारा न्यूनाः समाः अधिकाश्च गृह्यन्ते। तद्वदयं विकारो न्यूनः स्यादिति " ॥ ४२ ॥ १ ननु मा भद्विकारः, परिणामोऽर्थान्तरन्तु भविष्यति ततो नित्या वर्णा भवि- प्यन्तीत्यत आह-एतावञ्चैतदिति । २ उभयमिति । इगनपेक्षस्य यणो निप्पत्तेर्न तयोः कार्यकारणभावः। तदभावे चन परिमाणादिसम्भव इत्यर्थः । ३ इकोयणचीति सूत्रमादेशोपदेश एव न विकारोपदेश इत्यत्र हेत्वन्तरम्-वर्ण- समुदायेति । एवं ह्यत्र प्रयोगः । योऽयमिकः स्थाने संहितायां यण उपदिश्यते नासौ तस्य विकारः, ततो वर्णातिरिक्तत्वात् , 'अस्तिस्थाने प्रयुक्त भूर्वत्-इति । ४ अनुमीयत इति । महद्भिः खलु तूलपिण्डैरारब्धः स्थूलः पिण्डः, अल्पै- श्वारब्धो महानल्प इति दृष्टम् । तद्वदिहापि दीर्धकारविकारस्य यकारस्य हस्कार- विकाराद् भवितव्यं विशेषेण । न चास्ति विशेषः । तस्मान्न प्रकृतिविकृतिभावः । ५ न्यूनत्याक्षेपसूत्रम् । अल्पेन न्यग्रोधबीजेनारब्धो न्यग्रोधतरुर्महान्। ततोऽति- महता वा नारिकेलबीजेनारब्धो नारिकेलतरुस्तदपेक्षयाऽल्पः । नारिकेलबीजैरेव पर. स्परापेक्षया समैरारब्धः सम इति । न्या. सू. १० .. , खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० २ सू०४३- १ - द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ।। ४३ ॥ अत्र नोदाहरणसाधाद्धेतुरस्ति, न वैधात् । अनुपसंहृतश्च हेतुना दृष्टान्तो न साधक इति । प्रतिदृष्टान्ते चानियमः प्रसज्येत । यथाऽनडुहः स्थानेऽश्वो वोढुं नियुक्तो न तद्विकारो भवति, एवमिवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति । न चात्र नियमहेतुरस्ति-दृष्टान्तः साधको न प्रतिदृष्टान्त इति ।। ४३ ॥ द्रव्यविकारोदाहरणं च- न, अतुल्यप्रकृतीनां विकारविकल्पात् ।। ४४ ।। अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पते, विकाराश्च प्रकृतीरनु- विधीयन्ते। न त्विवर्णमनुविधीयते यकारः। तस्मादनदाहरणं द्रव्यविकार इति ।। ४४॥ द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः" |॥४५॥ यथा द्रव्यभावेन तुल्यायाः प्रकृतर्विकारवैपम्यम् , एवं वर्णभावेन तुल्यायाः प्रकृतर्विकारविकल्प इति" ।। ४५ ।। , १ द्विविधस्येत्यादिपरिहारसत्रम् । न्यूनसमाधिकोपलब्धेरिति साधनन्न भवितुमर्हति । दृष्टान्तसाधम्यण दृष्टान्त- वैधम्र्येणेत्युभयविधस्यापि हेतोरभावात् प्रतिदृष्टान्तस्य च सम्भवात्-इति परि- हाराशयः । २ यदि च न्यूनसमाधिकोपलब्धेरिति न साधनमपि तु सिद्धान्तोक्तहेतोरनैका- न्तिकत्वोद्भावनन्तदा तत्र परिहारसूत्रम्-नातुल्येत्यादि । ३ अतुल्यायाः प्रकृतेर्विकारा विकल्पन्ते, अथ च विकाराः प्रकृतिभेदमनुविधी- यन्ते । तद्यथा न्यग्रोधबीजं न्यग्रोधवृक्षस्य प्रकृतिरथ च न्यग्रोधबीजान्न्यग्रोधवृक्ष एव जायते न नारिकेलवृक्षः । एतदेव च प्रकृत्यनुविधानं सिद्धान्तिनोक्तम्-न पुनः प्रकृतिवृद्धिहासाभ्यां विकृतिवृद्धिहासाविति । ४ द्रव्यविकार इत्याक्षेपसूत्रम् । न प्रकृतिभेदमवश्यमनुविधीयन्ते विकाराः । व्यत्वेन तुल्यत्वेऽपि प्रकृतीनां विकारवैषम्यदर्शनात् । एवं वर्णत्वेन तुल्यत्वेऽपि विकाराद्वैषम्यम्भवितुमर्हतीति दूषकस्य हृदयम्। ..

-सू. ४८ ] द्वितीयाध्याये द्वितीयाह्निके अष्टचत्वारिंशत्तमं सूत्रम् ~ " ने, विकारधर्मानुपपत्तेः ॥ ४६॥ अयं विकारधर्मो द्रव्यसामान्ये-यदात्मकं द्रव्य, मृद्वा सुवर्ण वा, तस्यात्मनोऽन्वये पूर्वो व्यूहो निवर्तते व्यूहान्तरं चोपजायते, तं विकार- माचक्षते । न वर्णसामान्ये कश्चिच्छब्दात्माऽन्वयी य इत्वं जहाति यत्वं- चापद्यते । तत्र यथा सति द्रव्यभावे विकारवैषम्ये नाऽनडुहोऽश्वो विकारो विकारधर्मानुपपत्तेः, एवमिवर्णस्य न यकारो विकारो विकारधर्मानुपपत्तेरिति ॥४६॥ इतश्च न सन्ति वर्णविकाराः विकारप्राप्तानामपुनरापत्तेः ॥ ४७॥ अनुपपन्ना पुनरापत्तिः । कथम् ? पुनरापत्तेरननुमानादिति । इकारो यकारत्वमापन्नः पुनरिकारो भवति, न पुनरिकारस्य स्थाने यकारस्य प्रयोगोऽ- प्रयोगश्चेत्यत्रानुमानं नास्ति ।। ४७ ।। सुवर्णादीनां पुनरापत्तेरहेतुः" ।। ४८ ॥ अननुमानादिति न । इदं ह्यनुमानम्-- सुवर्णं कुण्डलत्वं हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डल- त्वमापद्यते । एवमिकारोऽपि यकारत्वमापन्नः पुनरिकारो भवतीति" ॥४८॥ व्यभिचारादननुमानम् । यथा पयो दधिभावमापन्नं न पुनः पयो भवति, एवं वर्णानां न पुनरापत्तिः । अथ सुवर्णवत् पुनरापत्तिरिति ? सुवर्णोदाहरणोपपत्तिश्च-- १ आक्षेपप्रत्याख्यानसूत्रम्-न विकारेति । २ सिद्धान्तोपोद्वलकं सूत्रम्-विकारेति । नो खलु क्षीरविकारो दधि पुनः क्षीरं भवद् दृष्टमिति भावः । ३ अननुमानादिति । प्रमाणाभावादित्यर्थः । ४ आक्षेपसूत्रम्-सुवर्णादीनामिति । विकारेत्यादि सिद्धान्त्युक्तोऽसद्धेतुरित्यर्थः। कारप्राप्तानामपि पुनरापत्तिदर्शनादनेकान्त इत्याशयः । ५ पूर्वपक्ष्युक्तहेतोः साधनपक्षे तद्रूषणम्-व्यभिचारादिति । ६ तस्यैव सिद्धान्तदूषणमात्रत्वे तदुत्तरम्-अथ सुवर्णवदित्यादि । ७ ये सुवर्णजातीया अवयवा रुचकत्वमापन्नास्त एव पूर्वव्यूहपरित्यागेन वर्ध- मानतामापन्नाः पुना रुचकत्वमापद्यन्ते, तदवयवानान्तन प्रत्यभिज्ञायमानत्वात् । न ।

१४८ खद्योतसहितन्यायसूत्रभाष्ये [अ०,२आ०२ सू०४९-- . -तद्विकाराणां सुवर्णभायाव्यतिरेकात् ॥ १९॥ अवस्थितं सुवर्णं हीयमानेन धर्मेणोपजायमानेन च धर्मेण धर्मि भवति । नैवं कश्चिच्छब्दात्मा हीयमानेन इत्वेनोपजायमानेन यत्वेन धर्मी गृह्यते । तस्मात्सुवर्णोदाहरणं नोपपद्यते इति । वर्णत्वाव्यतिरेकाद्वर्णविकाराणामप्रतिषेधः- वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति, यथा सुवर्णविकारः सुवर्णत्वमिति"॥ सामान्यवतो धर्मयोगो न सामान्यस्य- कुण्डलरुचकौ सुवर्णस्य धर्मों न सुवर्णत्वस्य । एवमिकारयकारौ कस्य वर्णात्मनो धौं ? वर्णत्वं सामान्यं, न तस्येमौ धौ भवितुमर्हतः। न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिः । तत्र निवर्तमान इकारो न यकार- स्योपजायमानस्य प्रकृतिरिति ॥४९॥ इतश्च वर्णविकारानुपपत्तिः- नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ॥ ५० ॥ नित्या वर्णा इत्येतस्मिन्पक्षे इकारयकारौ वर्णी इत्युभयोर्नित्यत्वाद्विका- रानुपपत्तिः । नित्यत्वेऽविनाशित्वात् कः कस्य विकार इति । अथानित्या वर्णा इति पक्षः, एवमप्यनवस्थानं वर्णानाम् । “किमिदमनवस्थानं वर्णानाम् ” ? उत्पद्य निरोधः। उत्पद्य निरुद्धे इकारे यकार उत्पद्यते, यकारे चोत्पद्य निरुद्धे विहेकारो यकारानुगत इकारयकारानुगतो वाऽन्यः कश्चिद्धर्मी दृश्यते य इत्वम्परि- त्यज्य यत्वमापद्यते । वर्णत्वन्त्वनुगतमपि न धर्मि किन्तु धर्म एव । वर्णत्वस्य हि धर्मित्वे इको यणचीति नियमो न स्यात् , वर्णत्वस्य पञ्चाशत्साधारणत्वात् । न च निवर्तमान इकारो यकारस्य धर्मों भवितुमर्हति, धर्मधर्मिणोः समानकालस्वादिति सङ्केपार्थः। १ न तद्विकाराणामिति सिद्धान्तिसूत्रम् । २ वर्णत्वाव्यतिरेकादित्याक्षेपभाष्यम् । ३ सामान्यवत इति परिहारभाष्यम् । ४ नित्यत्व इति सिद्धान्तिसूत्रम् ।

सू. ५२] द्वितीयाध्याये द्वितीयाह्निके द्विपञ्चाशत्तमं सूत्रम् १४९ इकार उत्पद्यते-कः कस्य विकारः ? तदेतदवगृह्य सन्धाने सन्धाय चावन वेदितव्यमिति ॥ ५० ॥ नित्यपक्षे तु तावत्समाधिः " नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच वर्णविकाराणाम प्रतिषेधः "॥५१॥ नित्या वर्णा न विक्रियन्त इति विप्रतिषेधः। यथा नित्यत्वे सरि किञ्चिदतीन्द्रियं किञ्चिदिन्द्रियग्राह्यम् , इन्द्रियग्राह्याश्च वर्णाः, एवं नित्य सति किञ्चिन्न विक्रियते वर्णास्तु विक्रियन्त '' इति । विरोधादहेतुस्तद्धर्मविकल्पः । नित्यं नोपजायते नापैति । अनुपजना पायधर्मकं नित्यम् , अनित्यं पुनरुपजनापाययुक्तम् । न चान्तरेणोपजनापार्य विकारः सम्भवति । तद्यदि वर्णा विक्रियन्ते, नित्यत्वमेषां निवर्तते । अथ नित्याः, विकारधर्मत्वमेषां निवर्त्तते । सोऽयं विरुद्धो हेत्वाभासो धर्मविका इति ।। ५१॥ अनित्यपक्षे समाधिः- अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः "॥५२॥ यथाऽनवस्थायिनां वर्णानां श्रवणं भवत्येवमेषां विकारो भवतीति" १ ननु दध्यत्रेति प्रयोगे कदा इकारस्योत्पद्य निरोध इत्यत आह-तदेतिदिति अवग्रहः ' असंहिता । ' दधि---अत्र' इति उच्चार्य दध्यत्रेत्युच्चार्यते । दध्यत्रेति वा सन्धाय दधि-अत्रेत्यवगृह्यते । अयमेव चेकारस्योत्पद्य निरोध इत्याशयः । २ समाधिरिति । शब्दनित्यतावादिन इति शेषः। ३ नित्यानामित्यादि जात्युत्तररूपं सूत्रम् । ४ विक्रियन्त इति । यथा हि सत्यपि नित्यत्वे केचिदतीन्द्रियाः-यथा परमा ण्वाकाशादयः, केचिदैन्द्रियकाः-यथा गोत्वादयः, एवं सत्यपि नित्यत्वे परमावा काशादयो न प्रकृतिविकारभूताः वर्णास्तु प्रकृतिविकारभावमापत्स्यन्ते नित्य अपीति हृदयम् । ५ सेयं विकल्पसमा जातिरित्याह-विरोधादिति । न खल्वैन्द्रियकत्वानेन्द्रिय कत्वाभ्यामस्ति कश्चिन्नित्यत्वस्य विरोधः । प्रकृतिविकारभावेन त्वस्ति विरोधी नित्य त्वस्य । न हि सम्भवति कार्य च नित्यं चेत्यर्थः। ६ अनित्यपक्षे जात्युत्तरं पूर्वपक्षिणः-अनवस्थायित्व इति सूत्रम् । ७ यथेति । यथा सत्यप्यनवस्थायित्वे वर्णा इन्द्रियेण सम्बध्य स्वविषयं ज्ञान - Errrrrrrrr------- खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०२, २०५३- असम्बन्धाढसमर्थाऽर्थप्रतिपादिका वर्णोपलब्धिर्न विकारेण सम्बन्धाद- समर्था, या गृह्यमाणा वर्णविकारमर्थमनुमापयेदिति । तत्र यादगिर्द-यथा गन्धगुणा पृथिव्येवं शब्दसुखादिगुणापीति-ताहगेतद्भवतीति । न चे वर्णोप- लब्धिर्वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिक । योऽयमिवर्णनिवृत्तौ यकारस्य प्रयोगो-यद्ययं वर्णोपलब्च्या निवर्तते तदा तत्रोपलभ्यमान इवर्णो यत्वमापद्यते इति गृह्येत । तस्माद्वर्णोपलब्धिरहेतुर्वर्णविकारस्येति ।। ५२ ॥ विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चा- प्रतिषेधः ॥ ५३॥ तद्धर्मविकल्पादिति न युक्तः प्रतिषेधः । न खलु विकारधर्मकं किञ्चि- नित्यमुपलभ्यत इति । वर्णोपलब्धिवदिति न युक्तः प्रतिषेधः । अवग्रहे हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा तत: संहितायां प्रयुक्ते-दध्यत्रेति । चिरनिवृत्ते चायमिवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते ? कारणाभावात् कार्याभाव इति अनुयोग: प्रसज्यत इति ॥ ५३ ।। इतश्च वर्णविकारानुपपत्तिः-- प्रकृत्यनियमात् ॥ ५४॥ १ सेयं साधर्म्यसमा जातिरित्याह-असम्बन्धादिति । कतिपयक्षणावस्थानेन वर्णानां क्षणिकानामपि स्वविषयज्ञानहेतुभावो युज्यते । अवगृह्य चिरं स्थित्वा यदा सन्धीयते-सन्धाय वा चिरं स्थित्वा यदाऽवगृह्यते तदा वर्णानामनित्यानां न तावन्तं कालमवस्थानमस्तीति नोपलब्धिहेतुत्वेन विकारकर्तृत्वं वर्णानां तुल्यम् । तस्मात्- असम्बन्धात् असमर्था वर्णोपलब्धिः वर्णविकारप्रतिपादने इत्याशयः । २ एवं ह्यन वाक्यान्वयः । या वर्णोपलब्धिः वर्णविकारमनुमापयेत् (सा) विकारेण न-सम्बद्धा (सती ) असमर्था-इति । ३ एतदिति जात्युत्तरं परामृशति । ४ ननु मा भूद्वर्णोपलब्धिर्वर्णविकारेण साक्षात्सम्बद्धा-आदेशविरोधितया तु तन्निवृत्त्या पारिशेष्याद् विकारं साधयिष्यति-इत्यत आह-न च वर्णेति । ५ तदेवं जात्युत्तरमुत्थितमेव मारितं भाष्यकारेण । तत्रैवार्थे सूत्रम्-विकार- धर्मित्व इति । ६ प्रकृतीति सिद्धान्तिसूत्रम् । प्रकृत्यनियमादिति । क्षीरजातीयस्य दधिजातीयो विकारः। न पुनः कदा- चिदपि दधिजातीयस्य क्षीरजातीया विकारा उपलश्यन्ते । इह तु यथा इकारजातीयस्य -सू. ५७ ] द्वितीयाध्याये द्वितीयाह्निके सप्तपञ्चाशत्तमं सूत्रम् १५१ इकारस्थाने यकारः श्रूयते यकारस्थाने खल्विकारो विधीयते-विध्यति । तद्यदि स्यात् प्रकृतिविकारभावो वर्णानां, तस्य प्रकृतिनियमः स्यात् । दृष्टो विकारधर्मित्वे प्रकृतिनियम इति ।। ५४ ॥ अनियमे नियमानानियमः" ।। ५५॥ " योऽयं प्रकृतेरनियम उक्तः स नियतो यथाविपयं व्यवस्थितो निय- तत्वान्नियम इति भवति । एवं सत्यनियमो नास्ति । तत्र यदुक्तं " प्रकृत्यनि- यमादित्येतद्युक्तमिति” |॥ ५५ ॥ नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ।। ५६ ।। नियम इत्यत्रार्थाभ्यनुज्ञा, अनियम इति तस्य प्रतिषेधः । अनुज्ञात- निषिद्धयोश्च व्याघातादनन्तरत्वं न भवति । अनियमश्च नियतत्वान्नियमो न भवतीति नात्रार्थस्य तथाभावः प्रतिषिध्यते । किं तर्हि ? तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वान्नियमशब्द एवोपपद्यते । सोऽयं नियमा- दनियमे प्रतिषेधो न भवतीति || ५६ ।। न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद्वा । किं तर्हि ?- गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्ण- विकाराः ॥ ५७॥ स्थान्यादेशभावादप्रयोगे प्रयोगो विकारशब्दार्थः । भिद्यते गुणान्तरापत्तिः--उदात्तस्यानुदात्त इत्येवमादिः। उपमर्दो नाम---एकरूप- निवृत्तौ रूपान्तरोपजनः । ह्रासो-दीर्घस्य ह्रस्वः । वृद्धिहस्वस्य दीर्घः, तयोर्वा यकारजातीयो विकारो दध्यत्रति दृश्यते-एवं यकारजातीयस्यापि विकार इकारजातीयो दृश्यते । यथा व्यधिधातोयकारस्य इकारो विध्यतीत्यत्र । तदेवमनियमान्न प्रकृति- विकारभाव इति । १ छलवादी प्रत्यवतिष्टते-अनियमे इति सूत्रम् । २ नियमानियमेत्यादि सूत्रमुक्तस्य वाक्छलत्वमापादयति । ३ नात्रार्थस्येति । नियमानियमसामानाधिकरण्यं हि विरुध्यते, न त्वाधारा- धेयभाव इति भावः । ४ तदेवं प्रकृतिविकारभाव निराकृत्य शब्दानां विकारवचनव्यक्तिमादेशपक्षे समर्थयते-न चेयमिति । ५ एकस्याप्रयोगेऽन्यस्य प्रयोगो विकार इति सामान्य लक्षणमभिप्रेतम् । ६ उपमर्द इति-यथा अस्तेर्भूः । स १५२ खद्योतसहितन्यायसूत्रभाष्ये [अ० २, आ० २, सू ०५८- , । प्लुतः। लेशो-लाघवम् , स्त इत्यस्तोर्विकारः । श्लेष-आगमः, प्रकृतेः प्रत्ययस्य वा । एत एव विशेषा विकारा इति, एत एवादेशा: । एते चेद्विकारा उपपद्यन्ते तर्हि वर्णविकारा इति ।। ५७ ॥ (४) शब्दशक्तिपरीक्षाप्रकरणम् । ते विभक्त्यन्ताः पदम् ॥ ५८ ।। यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति । विभक्तिर्द्वयी- नामिश्याख्यातिकी च । 'ब्राह्मणः ' 'पचती 'त्युदाहरणम् । " उपसर्गनिपातास्ताहि न पदसंज्ञाः। लक्ष्णान्तरं वाच्यम्” इति । शिष्यते च खलु नामिक्या विभक्तरव्ययाल्लोपः तयोः पदसंज्ञार्थमिति । पदेनार्थसम्प्रत्यय इति प्रयोजनम् , नामपदं चाधिकृत्य परीक्षा । गौरिति पदं खल्विदमुदाहरणम् ॥ ५८ ॥ तदर्थे व्यक्त्याकृतिजातिसनिधावुपचारात्संशयः ॥ ५९ ।। अविनाभाववृत्तिः सन्निधिः । अविनाभावेन वर्तमानासु व्यक्त्याकृति- जातिषु गौरिति प्रयुज्यते । तत्र न ज्ञायते किमन्यतमः पदार्थ उत सर्व इति ।। ५९ ॥ शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम् । तस्मात्- " याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुव- न्धानां व्यक्तावुपचागव्यक्तिः" । ६० ।। " व्यक्ति: पदार्थः । कस्मान् ? याशब्दप्रभृतीनां व्यक्तावुपचारात् । उपचारःप्रयोगः । या गौस्तिष्ठति, या गौनिषण्णेति नेदं वाक्यं जातेरभिधायकम- १ लेश इति । यथा 'स्तः इत्यत्र अस्तेरकारलोपे सकारमात्रस्य लेशस्यैक- देशस्य व्यवस्थापनम् । २ तदेवं वर्णानामनित्यतां प्रतिपाद्य शब्दप्रामाण्योपयोगि पदं निरूपयति-ते विभक्त्यन्ताः पदमित्यादिप्रकरणेन । सर्वमेतत्प्रकरणं स्फोटवादं लक्षीकृत्योक्तम् । स च वादस्तस्य सविस्तरं तात्पर्यटीकायामुक्तन्तत एवानुसन्धेयम् । ३ यथादर्शनमिति। यथाप्रमाणमित्यर्थः । गुणान्तरापत्त्यादिभिरादेशरूपेण विकृताः, नतु प्रकृतिविकारभावेन, तस्य प्रमाणबाधितत्वादित्याशयः । ४ याशब्देत्यादिसूत्रं व्यक्तिवादमुत्थापयति । खण्डनञ्च -सू. ६२ ] द्वितीयाध्याये द्वितीयाह्निके द्विषष्टितमं सूत्रम् १५३ । - 3 भेदात् । भेदात्तु द्रव्याभिधायकम् । गवां समूह इति भेदाव्याभिधानम् , न जातेरभेदात् ! वैद्याय गां ददातीति द्रव्यस्य त्यागो, न जातेरमूर्तत्वात् , प्रति- क्रमानुक्रमानुपपत्तेश्च । परिग्रहः-स्वत्वेनाभिसम्बन्धः। कौण्डिन्यस्य गौाह्मणस्य गौरिति-द्रव्याभिधाने द्रव्यभेदान् सम्बन्धभेद इति उपपन्नम् । अभिन्ना तु जातिरिति । सङ्ख्या-दश गावो विंशतिर्गाव इति-भिन्नं द्रव्यं सयायते, न जातिरभेदादिति । वृद्धिः-कारणवतो द्रव्यम्यावयवोपचयः, अवर्द्धत गौरिति । निरवयवा तु जातिरिति । एतेनापचयो व्याख्यातः । वर्ण:-शुक्ला गौः कपिला गौरिति व्यस्य गुणयोगो न सामान्यम्य । समास:-गोहितं गोसुखमिति द्रव्यस्य सुखादियोगो न जातेरिति । अनुबन्धः-सरूपप्रजननसन्तानो, गौएँ जनयतीति । तदुत्पत्तिधर्मत्वाद् द्रव्ये युक्तं, न जातो, विपर्ययादिति । द्रव्यं व्यक्तिरिति हि नार्थान्तरम्” । ६० ।। अस्य प्रतिषेधः- न, तदनवस्थानात् ॥ ६१ ।। न व्यक्तिः पदार्थः । कस्मात् ? अनवस्थानान् । याशब्दप्रभृतिभिर्यो विशेष्यते स गोशब्दार्थः । या गौस्तिष्ठति या गौर्निषण्णेति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधीयते । किं तर्हि ? जातिविशिष्टम् । तस्मान्न व्यक्तिः पदार्थः । एवं समूहादिषु द्रष्टव्यम् ॥ ६१ ॥ यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्तावुपचार इति ? निमित्तादत- द्भावेऽपि तदुपचारः । दृश्यते खलु- सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मगमञ्चकटराजसक्तुचन्दनगङ्गाशाटकानपुरुषेष्वतद्भावेऽपि तदुप- चारः ॥ ६२ ।। अतद्भावेऽपि तदुपचार इति-अतच्छब्दस्य तेन शब्देनाभिधानमिति । सहचरणात्-यष्टिकां भोजयेति यष्टिकासहचरितो ब्राह्मणोऽभिधीयत इति । स्थानात्-मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुपा अभिधीयन्ते । तादात्-कटा- १ अभेदादिति । एकैव जातिस्तस्या विशेषणमनर्थकमिति भावः। २ विपर्ययादिति । अनुत्पत्तिधर्मकत्वाजातेरित्यर्थः । ३ न तदनवस्थानादिति सूत्रं व्यक्तिवादं दूषयति । ४ या शब्देत्याद्यपरं दूषणं व्यक्तिवादस्य ।

१५४ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ० २१ सू०६३ - " , । र्थेषु वीरणेषु व्यूह्यमानेषु कटं करोतीति भवति । वृत्तात्-यमो राजा कुबेरो राजेति तद्वद्वर्तत इति । मानात्-आढकेन मिताः सक्तवः आढकसक्तव इति । धारणात्-तुलायां धृतं चन्दनं तुलाचन्दनमिति । सामीप्यात्-गङ्गायां गाव- श्चरन्तीति देशोऽभिधीयते सन्निकृष्टः । योगात्-कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्यभिधीयते । साधनात्-अन्नं प्राणा इति । आधिपत्यात्-अयं पुरुषः कुलम् , अयं गोत्रमिति । तत्रायं सहचरणाद्योगाद्वा जातिशब्दो व्यक्तौ प्रयुज्यत इति ।। ६२ ॥ यदि गौरित्यस्य पदस्य न व्यक्तिरर्थोऽस्तु तर्हि ". आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः” ॥ ६३ ।। आकृतिः पदार्थः । कस्मात् ? तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः । सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः। तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यति-अयं गौरयमश्व इति, नागृह्यमाणायाम् । यस्य ग्रहणात सत्त्वव्यवस्थानं सिद्धयति तं शब्दोऽभिधातुमर्हति । सोऽस्यार्थ इति "। नैतदुपपद्यते । यस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते-गौरिति । न चावयवव्यूहस्य जात्या योगः । कस्य तर्हि ? नियतावयवव्यूहस्य द्रव्यस्य । तस्मान्नाकृतिः पदार्थः ॥ ६३ ॥ अस्तु तर्हि जातिः पदार्थः"- व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके, ॥६४॥ " जातिः पदार्थः । कस्मात् ? व्यक्त्याकृतियुक्तेऽपि मृद्गवके प्रोक्षणादी- नामप्रसङ्गादिति । गां प्रोक्षय, गामानय, गां देहीति नैतानि मृद्रवके प्रयुज्यन्ते । कस्मात् ? जातेरभावात् । अस्ति हि तत्र व्यक्तिः, अस्त्याकृतिः । यदभावात्त- त्रासम्प्रत्ययः स पदार्थ इति ॥ ६४ ॥ नांकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥ ६५॥ १ आकृतिरिति सूत्रमाकृतिवादमुपस्थापयति । २ व्यक्त्याकृतीतिसूत्रं जातिवादमुपस्थापयति । ३ नाकृतीति सूत्रमाकृतिवादं निराकरोति-आकृतेरेव प्रधानत्वात् । किन्तत् प्रधानत्वम् ? आकृतिविशेषणत्वं व्यक्तेः । यस्माद्व्यक्त्या विशेष्यमाणा आकृति- तिलिङ्गम्भवति तस्मात्सैव प्रधानमिति तस्या एव प्राङ् निराकरणम् । -- जातिः" Ham- -सू. ६७ ] द्वितीयाध्याये द्वितीयाह्निके सप्तषष्ठितमं सूत्रम् जातेरभिव्यक्तिराकृतिव्यक्ती अपेक्षते । नागृह्यमाणायामाकृती व्यक्ती च जातिमात्रं शुद्धं गृह्यते । तस्मान्न जातिः पदार्थ इति ।। ६५ ।। न वै पदार्थेन न भवितुं शक्यम् । कः खल्विदानी पदार्थ इति ?-- व्यक्त्याकृतिजातयस्तु पदार्थः । ६६ ।। तुशब्दो विशेषणार्थः । किं विशिष्यते ? प्रधानाङ्गभावस्यानियमेन पदा- र्थत्वमिति । यदा हि भेदविवक्षा विशेषगतिश्च, तदा व्यक्तिः प्रधानमङ्गन्तु जात्याकृती । यदा तु भेदोऽविवक्षितः सामान्यगतिश्च, तदा जाति: प्रधानमङ्गं तु व्यक्त्याकृती। तदेतद्वहुलं प्रयोगेपु। आकृतेस्तु प्रधानभाव उत्प्रेक्षितव्यः कथं पुनर्ज्ञायते नाना व्यक्त्याकृतिजातय इति ?” लक्षणभेदान् । तत्र तावत्-- व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥ ६७ ॥ व्यज्यत इति व्यक्तिरिन्द्रियग्राह्येति । न सर्वं द्रव्यं व्यक्तिः । यो गुण- विशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणामव्यापिनः परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यं, मूर्तिः मूर्छितावयवत्वादिति ॥ ६७ ।। १ तदेवं व्यक्त्याकृतिजातीनामन्यतमाभिधाननियमनिराकृत्यानियमाभिधानं सिद्धान्तमाह-व्यक्त्याकृतिजातय इति सूत्रेण । स्पष्टं सविस्तरं च प्रतिपादितोऽयं सिद्धान्तस्तात्पर्यटीकायाम् । व्यक्त्याकृतिजातयस्तित्र एवास्माकं पदार्थः । गुण- प्रधानभावस्तु कस्यचिरक्वचिदेवेति परिस्फुटाथः । २ उत्प्रेक्षितव्य इति । स्वयमुत्प्रेक्षणीय इत्यर्थः । यथा पिष्टकमय्यो गावः क्रियन्तामित्यत्र। ३ न सर्वमिति । यत्र हि व्यक्त्याकृतिजातीनां समावेशस्तन्त्र व्यक्तिनिर्धार- णायेदं सूत्रम् । तेनाकाशाद्यनवरोधेऽपि न दोषः, तत्राकृतेरभावादिति भाष्यमतम् । ४ 'मूर्चिछताः' परस्परं संयुक्ताः ' अवयवा ' यस्य तत् 'मच्छितावयवम् । मूर्छन सम्बन्धः, स चेह समवाय एवेति ध्येयम् । अस्मिन् सूत्रार्थे वार्तिककारस्यारुचिः । एवं चात्र वार्तिकव्याख्यानम्-वयं तु ब्रूमो नाचावयवी व्यवच्छेद्योऽपि तु जात्याकृतिपदव्यतिरिक्तस्य व्यक्तिपदस्याओं वक्तव्य इति । सा च व्यक्तिर्या न जाति कृतिस्तस्या अनेन सूत्रेण सङ्ग्रहः । गुणाश्च विशेषाश्च तदाश्रयश्च । अत्र तच्छब्दलोपाद्गुणविशेषाश्रयशब्देन द्रव्यमुच्यते । कर्मापि गुणविशेषशब्दाल्लभ्यते-गुणेभ्यो विशेषा: व्यावृत्ताः गुणविशेषा अक्षेपणादय इति । मूर्ति- ७ , १५६ खद्योतसहितन्यायसूत्रभाष्ये [अ०२, आ०२, सू०६८- आकृतिर्जातिलिङ्गाख्या ॥ ६८ ॥ यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृति विद्यात् । सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद् व्यूहादिति। नियतावयव- व्यूहाः खलु सत्त्वावयवा जातिलिङ्गम् । शिरसा पादेन गामनुमिन्वन्ति । नियते च सत्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति । अनाकृतिव्यङ्गथायां जाती मृत्सुवर्ण रजतमित्येवमादिष्वाकृतिनिवर्तते, जहाति पदार्थत्वमिति ॥ ६८ ॥ समानप्रसवात्मिका जातिः ॥ ६९ ॥ या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु, यया बहूनीतरेतरतो न व्यावर्तन्ते, योऽर्थोऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं, तत्सामान्यम् । यच्च केषाञ्चिद- भेदं कुतश्चिद्भेदं करोति तत् सामान्यविशेषो जातिरिति ॥ ६९ ॥ इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयमाह्निकम् । समाप्तश्चायं द्वितीयाध्यायः ॥२॥ शब्देनद्रव्यमुच्यते। एवं चैतल्लक्षणं रूपाद्याकाशाद्यनुगतं भवति।अथवा गुणविशेषाणामा- श्रय इति गुगाश्च विशेषाश्च-~-तेपामाश्रयो द्रव्यम् । तत्र मर्च्छत इति भूर्तिः-इति । १ यद्यपि गोत्वम्प्रत्यक्षमेव नाकृतिव्यङ्गयम्, तथाऽपि विप्रतिपद्यमानं प्रत्युच्यते अनुमिन्वन्तीति । २ समानेतिसूत्रम् । प्रसूते इति प्रसवः', भिन्नेषु समानबुद्धेः प्रसोत्री या जातिः साऽवश्यं सामान्यप्रत्ययं प्रसूते न पुनर्गा सामान्यप्रत्ययं प्रसूते सा सर्वा जातिः, पाचकादिषु व्यभिचारात् । व्यक्त्याकृतिभ्यां भेदकत्वमात्रेणेतलक्षणम् , तु सर्वथाऽनवद्यमिति तात्पर्यकाराः । इति खद्योते द्वितीयं प्रस्फुरणम् । ' - .. , अथ तृतीयाध्यायस्यायमाह्निकम् ॥ १) इन्द्रियव्यतिरिक्तात्मप्रकरणम् ॥ परीक्षितानि प्रमाणानि, प्रमेयमिदानी परीक्ष्यते । तञ्चात्मादीत्यात्मा विविच्यते-" किं देहेन्द्रियमनोवुद्धिवेदनासातमात्रमात्मा आहोम्वित्तद्- व्यतिरिक्त इति ? । कुतः संशयः? व्यपदेशस्याभयथा सिद्धेः । क्रियाकरणयोः का सम्बन्धस्याभिधानं व्यपदेशः । स द्विविधः अवयवेन समुदायस्य, मूलै- वृक्षस्तिष्ठति, स्तम्भैः प्रासादो ध्रियत इति । अन्येनान्यस्य व्यपदेशः-परशुना १ परीक्ष्यत इति । प्रमाणेन हि प्रमेयं परीक्ष्यते नान्येन । न च तदपरी- क्षितं प्रमेयपरीक्षायै प्रभवति । तस्मात्प्रमाणपरीक्षा हेतुहेतुमती च प्रमेयपरीक्षा । २ तच्चेति । आत्मैव प्रमेयेषु प्रथममुद्दिष्टो लक्षितश्चेति तदनुरोधादात्मैव प्रथम- म्परीक्ष्यते । अत्र च यद्यपि स्वरूपत आत्मन्येव परीक्षाम्प्रतिजानीते भाष्यकारस्त- थापि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणात् लक्षणपरीक्षैव दृष्टव्या । यथा चेयमात्म- लक्षणपरीक्षा तथोपरिष्टाद्दयिष्यते । ३ किमिति । विचारपूर्वरूपः संशयो दर्शितः। ४ अतो व्यपदेशस्योभयथासिद्धेः संशय इति भाष्यवाक्यमेतन्न सूत्रमिति परिशुद्धिकृतः। न व्यपदेशमानं देहाद्यव्यतिरिक्ताल्मसाधनमुच्यते येन गौरोऽहमिति व्यपदेशेना- नैकान्तम्भवेत्-अपि त्वनुभवः । स चामेत्यनुभवो न शरीरादिष्विदमो विषयेप्वस्ति । असम्भिन्नेदंविषयो ह्यहम्प्रत्ययः शरीराद्यतिरिक्तविषय एवास्ति । स चात्मा । शरीरा. दयस्तु मतुबलोपादभेदोपचाराद्वाऽहमा विषयीक्रियन्ते । ममात्मेति तु व्यपदेश- मात्रम् , न पुनः शरीरादिष्विव ममकारस्तत्र मुख्यो, भेदेनाप्रतिभासात् । राहोः शिर इतिवत्तु ममकार आत्मनि द्रष्टव्यः । अहं जाने-अहं यते-ममात्मा-इत्येवंजातीयकेषु व्यपदेशेषु प्रथमद्वितीययो- बर्बाधकानुपपत्तेर्मुख्यत्वम् , तृतीयस्य वनवस्थालक्षणबाधकोपपत्तो गौणत्वमवधार्यते । ५ अवयवेनेति । यद्यपि वृक्षप्रासादयोरन्ययोरेवान्येनावयवेन समुदायिना व्यपदेशस्तथाऽप्यवयव्यभावं समुदायं च समुदाय्यनतिरिक्तं मन्वानस्य परस्योदाहरणं दृष्टव्यमिति तात्पर्यकृतः । ६ अन्येनेति । अत्रात्मनो शरीरेन्द्रियादिभेदाभेदविषयव विप्रतिपत्तिर्न त्वा- त्मनि धर्मिणि । यतो वाद्यवासौ न भवति यो धर्मिणि विप्रतिपद्यते । नहि धर्मिणि विप्रतिपद्यमानस्यास्ति किञ्चित्प्रमाणम् , सर्वस्य तस्याश्रयासिद्धत्वात् । तस्माद्धर्म्य- भाववादी न लौकिको न परीक्षक इत्युन्मत्तवदुपेक्ष्यः । ..

१५८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०१, सू०१-- , वृश्चति, प्रदीपेन पश्यति । अस्ति चायं व्यपदेशः-चक्षुषा पश्यति, मनसा विजानाति, बुद्धया विचारयति, शरीरेण सुखदुःखमनुभवतीति । तत्र नावधा- यते किमवयवेन समुदायस्य देहादिसातस्य, अथान्येनान्यस्य तब्यति- रिक्तस्य वेति । अन्येनायमन्यस्य व्यपदेशः । कस्मात् ? दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ १॥ दर्शनेन कश्चिदर्थो गृहीतः, स्पर्शनेनापि सोऽर्थो गृह्यते-यमहमद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामीति, यं चास्पार्चा स्पर्शनेन तं चक्षुषा पश्या- मीति । एकविषयौ चेमौ प्रत्ययावैककर्तृको प्रतिसन्धीयते । न च सङ्घात- कर्तृको नेन्द्रियेणैककर्तृको । तद्योऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्तावनन्यकर्तृको प्रत्ययौ समानविषयौ प्रतिसन्दधाति सोऽर्थान्तर- भूत आत्मा। कथं पुनर्नेन्द्रियेणैककर्तृको ? इन्द्रियं खलु स्वस्वविषयग्रहणमनन्यकर्तृकं प्रतिसन्धातुमर्हति नेन्द्रिया- न्तरस्य विषयान्तरग्रहणमिति । कथं न सङ्घातकर्तृकौ ?" एकः खल्वयं भिन्ननिमित्तौ स्वात्मकर्तृको प्रत्ययौ प्रतिसंहितौ वेदयते न सङ्घातः । कस्मात् ? अनिवृत्तं हि सङ्घाते प्रत्येकं विषयान्तरग्रहणस्याप्रति- सन्धानमिन्द्रियान्तरेणेवेति ॥ १॥ " ने विषयव्यवस्थानात् " ॥२॥ १ दर्शनेत्यादि सूत्रम् । भावस्य भवित्रपेक्षत्वादिति तस्यार्थः। अनेकेन्द्रिय- करणकोऽनेकार्थदर्शी कश्चिदेकश्चेतन इति भावः । २ भिन्ननिमित्ताविति । भिन्नम्-इन्द्रियं-निमित्तं ययोस्तावित्यर्थः । ३ अनन्यकर्तृकाविति । आत्मकर्तृकावित्यर्थः । ४ समानविषयाविति । द्रव्यमेवैकं विषय इत्यर्थः । ५ न विषयेत्यादि सूत्रम् । दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति सत्रेण अनेके- न्द्रियकरणकोऽनेकार्थदर्शी कश्चिदेकश्चेतन इति विवक्षितम् । तत्र पूर्वपक्षी प्रतिसन्धान- लक्षणं हेतुमवधार्य साध्यमानं विहन्तुमाह-न विषयेत्यादि । अस्यार्थः । यदापि ।

तृतीयाध्याये प्रथमाह्निके तृतीयं सूत्रम् १५९ न देहाहिसातादन्यश्चेतनः । कस्मान् ? विषयव्यवस्थानान् । व्यव- स्थितविपयाणीन्द्रियाणि-चक्षुष्यसति रूपं न गृह्यते । यच्च यस्मिन्नसति न भवति सति भवति तस्य तदिति विज्ञायते । तस्माद्र्पग्रहणं चक्षुपः,-चलू रूपं पश्यति । एवं प्राणादिष्वपीति । तानीन्द्रियाणीमानि स्वस्वविषयग्रहणाच्चे- तनानि, इन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावात् । एवं सति किमन्येन चेतनेन"। सन्दिग्धत्वादहेतुः । योऽयमिन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथा- भावः, स किमयं चेतनत्वादाहोस्विच्चेतनोपकरणानां ग्रहणनिमित्तत्वादिति सन्दिह्यते । चेतनोपकरणत्वेऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद्भवितुमर्हति ॥ २ ॥ यञ्चोक्तं-" विषयव्यवस्थानादिति --- तयवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३॥ यदि खल्वेकमिन्द्रियमव्यवस्थितविपयं सर्वशं सर्वविषयग्राहि चेतनं स्यान् कस्ततोऽन्यं चेतनमनुमातुं शक्नुयात् । यस्मात्तु व्यवस्थितविषयाणीन्द्रि- याणि तस्मात्तेभ्योऽन्यश्चेतनः सर्वज्ञः सर्वविषयग्राही विषयव्यवस्थितितोऽ- नुमीयते। तत्रेदमभिज्ञानमप्रत्याख्येयं चेतनवृत्तमुदाहियते--रूपदर्शी खल्वयं चेतनान्तरं कल्पितं तदापि न सर्वः सर्वज्ञः किन्तु कश्चित् कचिज्ज्ञानवान् । तथा च वरमिन्द्रियाण्येव स्वस्वविषयव्यवस्थितचैतन्यानि सन्तु कृतमपरेण चेतनेनेति । १ यञ्चेति । यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ तच्चेतनम् । इन्द्रिय- भावाभावानुविधायिनौ च ताविति तदेव चेतनमिति भावः । २ सन्दिग्धत्वादहेतुरिति सिद्धान्तभाष्यम् । अनन्यथासिद्धावन्वयव्यतिरेको कारणत्वमात्रे प्रमाणम्-न तु ' न कर्ता चेतनश्चेतनं करणम्' इत्यत्रेत्यर्थः । इदमुत्त- रम्भाष्योद्भावितपूर्वपक्षस्य । सूत्रोद्भावितस्य तूत्तरमग्रिमसूत्रेण भविष्यति । ३ विषयव्यवस्था विरुद्धम्-इन्द्रियादीनामचेतनत्वसाधनादित्याह-यच्चोक्त- मिति । ४ सर्वविषयग्राहीति । सर्वेषामिन्द्रियान्तराणां च ये विषयास्तग्राही । इन्द्रि- यान्तराणि च पुनव्यवस्थितविषयाणि । तेनार्वाग्गपि सर्वज्ञ इत्यादि सिद्धम् । ५ विषयव्यवस्थित इति । इन्द्रियान्तराणि प्रमाणान्तराणि च पुनः व्यव- स्थितविषयाणीत्यर्थः । ६ अभिज्ञानमिति । असाधारणं चिह्नमिति यावत् । ७ अप्रत्याख्येयमिति । प्रत्याख्यातुमशक्यमित्यर्थः । चेतनवृत्तमभिज्ञानमप्रत्या- ख्येयमुदाहियत इति सम्बन्धः ।

१६० खद्योतसहितन्यायसूत्रमाप्ये [अ०३, आ० १, मू० ४- . , " me- रसं गन्धं वा पूर्वगृहीतमनुमिनोति । गन्धप्रतिसंवेदी च रूपरसावनुमिनोति । एवं विषयशेषेऽपि वाच्यम् । रूपं दृष्ट्वा गन्धं जिव्रति, ब्रात्वा च गन्धं रूपं पश्यति । तदेवमनियतपर्यायं सर्वविषयग्रहणमेकचेतनाधिकरणमनन्यकर्तृक प्रतिसन्धत्ते। प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश्च नानाविषयान् स्वात्मकर्तृकान प्रतिसन्दधाति प्रतिसन्धाय वेदयते । सर्वार्थविषयं च शास्त्रं प्रतिपद्यते अर्थ- मविषयभूतं श्रोत्रस्य । क्रमभाविनो वर्णान् श्रुत्वा पदवाक्यभावेन प्रतिसन्धाय शब्दार्थव्यवस्था च बुध्यमानोऽनेकविषयमर्थजातमग्रहणीयमेकैकेनेन्द्रियेण गृह्णाति । सेयं सर्वज्ञस्य ज्ञेयाऽव्यवस्थाऽनुपदं न शक्या परिक्रमितुम् । आकृति- मात्रं तूदाहृतम् । तत्र यदुक्तम् “ इन्द्रियचैतन्ये सति किमन्येन चेतनेन तदयुक्तं भवति ॥ ३॥ (२) शरीरव्यतिरिक्तात्मप्रकरणम् । इतश्च देहादिव्यतिरिक्त आत्मा, न देहादिसङ्घातमात्रम्- शरीरंदाहे पातकाभावात् ।। ४॥ शरीरग्रहणेन शरीरोन्द्रियबुद्धिवेदनासङ्घातः प्राणिभूतो गृह्यते । प्राणि- भूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकमित्युच्यते । तस्याभावः-तत्फलेन १ अनियतपर्यायमिति-अनियतक्रममित्यर्थः । २ अनेकविषयमिति । अनेकपदार्थों विषयो यस्य अर्थजातस्य तदित्यर्थः । ३ आकृतिमात्रमिति-सामान्यमात्रमिति यावत् । ४ इतश्चेति । एवम्प्रथमेन प्रकरणेनेन्द्रियव्यतिरेके प्रसाधिते यदि कश्चिद्देशयेत्- ननु माभूवन्निन्द्रियाणि चेतनानि, व्यवस्थितविषयत्वात् शरीरं तु भविष्यति, अव्यवस्थितविषयं हि तत् । योऽहं गौरः पीनो युवा रूपं दृष्टवान् सोऽहं स्पर्श स्पृशामीत्यनुभवात् । अतो दर्शनस्पर्शनाभ्यामेकार्थग्रहीतृ शरीरमेवात्मेति" तत्रेदम्प्रकरणान्तरमुपतिष्ठते । ५ शरीरेत्यादि सूत्रम् । प्राणातिपाते पातकाभावप्रसङ्गादित्यर्थः । अयं यद्यपि भूतचैतनिकानां नानिष्टप्रसङ्गस्तन्मते पातकादेरभावात्, तथापि शाक्यान् प्रति दृष्टव्यः । ते हि प्राणातिपातकृतं पातकमभ्युपगच्छन्ति । एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणमिति । विचित्राभिसन्धित्वात्पुंसां यदि कश्चिद्भुतचैतनिकः प्राणातिपातकृतं पातकमिच्छेत् तं प्रति दूषणम्भविष्यतीत्ये- वमर्थमेव। दाहशब्देनात्र नाशमुपलक्षयति । पातकाभावशब्देन च कालान्तरोपयोगि- स्थायिगुणाभावम् । शरीरदाह इति शरीरदग्धरि अथवा शरीरदाहे सति तत्कर्तरि इति सम्बन्धः । यस्यास्मा नास्ति तस्यायं दोष इति प्रतिपादनार्थमेवेदं सूत्रं न पुन- रात्मसाधनार्थम् । (C -~सू. ६] तृतीयाध्याये प्रथमाह्निके षष्ठं सूत्रम् . कर्तुरसम्बन्धात् अकर्तुश्च सम्बन्धात्। शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्वन्यः सङ्घात उत्पद्यतेऽन्यो निरुध्यते । उत्पादनिरोधसन्ततिभूतः प्रबन्धो नान्यत्वं बाधते देहादिसङ्घातस्यान्यत्वाधिष्टानत्वात् । अन्यत्वाधिष्ठानो ह्यसौ प्रख्या- यत इति। एवं सति यो देहादिसङ्घातः प्राणिभूतो हिंसां करोति नासौ हिंसाफलेन सम्बध्यते । यश्च सम्वध्यते न तेन हिंसा कृता । तदेवं सत्त्वभेदे कृतहानमकृताभ्यागमः प्रसज्यते । सति च सत्त्वोत्पादे सत्त्वनिरोधे चाकर्म निमित्तः सत्त्वसर्गः प्राप्नोति । तत्र मुक्त्यर्थो ब्रह्मचर्थवासो न स्यात् । तद्यदि देहादिसङ्घातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत् । अनिष्टं चैतन् । तस्मादेहादिसङ्घातव्यतिरिक्त आत्मा नित्य इति ।। ४ ।। तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् " ॥५॥ यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेहन्धुः । कस्मान् ? नित्यत्वादात्मनः । न जातु कश्चिन्नित्यं हिंसि- तुमर्हति । अथ हिंस्यते ? नित्यत्वमस्य न भवति । सेयमेकस्मिन्पले हिंसा निष्फलाऽन्यस्मिंस्त्वनुपपन्नेति ” ॥ ५ ॥ ने कार्याश्रयकर्तृवधात् ॥ ६॥ इत्यमेव सूत्रार्थ इत्यप्रिमेण सूत्रकलापेन स्पष्टम् । अत एव-(१) यदि शरीरमेवात्माऽभविष्यत् तदा शरीरस्य-मृतकशरीरस्य-दाहे पातकं स्यात् , न च तदस्ति । अथवा (२) शरीरे दग्धे तदनन्तरमाश्रयाभावात् पुण्यपापाद्यभाव एव स्यात् , तथा च न पुनर्जन्मेति-यदर्थद्वयमस्य सूत्रद्वयस्योद्भावितं तस्य नास्त्य- वकाशः। १ अकर्तुरिति । शास्त्रचोदितं फलमनुष्टातरीत्युत्सर्गः । यत्र पुनः शास्त्रमन्यस्य फलमाह-यथा श्राद्धे वैश्वानरीयेप्टयादौ-तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलं पितृकृताया वा जातेष्टेः पुत्रगामि फलमिति भावः । २ सूत्रमिदं द्विधा व्याख्यातम्भाष्यकारेण । 'कार्याश्रयस्य' शरीरस्य यानि वर्तृणि' इन्द्रियाणि तेषां वधादिति । अथवा कार्याश्रयो ' देहेन्द्रियबुद्धिसङ्घातः, स एव कर्ता-तस्य वधादिति । द्वितीयमेतत् व्याख्यानं स्वीकृतं वृत्तिकृता । ३ वधादित्यस्य स्थाने बाधादिति पठन्ति न्यायसूत्रविवरणकाराः। तदर्थश्च- न शरीरदाहेऽदृष्टनाशः । 'कार्यम्' अदृष्टम् , तस्य 'आश्रयस्य' कर्तुः आत्मनः 'बाधात्' नाशाभावात् । २० १ , खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू०६ - न ब्रूमो नित्यस्य सत्त्वस्य वधो हिंसा, अपि त्वनुच्छित्तिधर्मकस्य सत्त्वस्थ कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तृणामिन्द्रियाणामुपघात: पीडा, वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो वा वधो हिंसति । कार्य तु सुखदुःखसंवेदनम् । तस्यायतनमधिष्ठानमाश्रयः शरीरम् । कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तृणामिन्द्रियाणां वधो हिंसा, न नित्यस्यात्मनः । तत्र यदुक्तं-" तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ” इत्येतदयुक्तम् । यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानमकृताभ्यागमश्चेति दोषः । एतावञ्चैतत् स्यात्-सत्त्वोच्छेदो वा हिंसा । अनुच्छित्तिधर्मकस्य सत्त्व- स्य कार्याश्रयकर्तृवधो वा । न कल्पान्तरमस्ति । सत्त्वोच्छेदश्च प्रतिषिद्धः । तत्र किमन्यत् ? शेषं यथाभूतमिति । अथवा कार्याश्रयकर्तृवधादिति । कार्याश्रयो देहेन्द्रियबुद्धिसङ्घातः, नित्य- स्यात्मनः, तत्र सुखदुःखप्रतिसंवेदनं, तस्याधिष्ठानमाश्रयः, तदायतनं तद्भवति, न ततोऽन्यदिति स एव कर्ता । तन्निमित्ता हि सुखदुःखसंवेदनस्य निर्वृत्तिः, न तमन्तरेणेति। तस्य वध उपघातः पीडा, प्रमापणं वा हिंसा, न नित्यत्वेनात्मोच्छेदः । तत्र यदुक्तं-"तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् " एतन्नेति ॥ ६॥ (३) चक्षुरद्वैतनिराकर करणप्रकरणम् (प्रासङ्गिकम् इतश्च देहादिव्यतिरिक्त आत्मा- - अन्यदपि व्याख्यानमुल्लिख्य निराकुर्वन्ति विवरणकाराः । तद्यथा-न सात्म कशरीरदाहे पापानुत्पादः । 'कार्यम्' शरीरम् 'तदाश्रयस्य' तत्सम्बन्धस्य ‘कर्तुः आत्मनः ‘बाधात्' नाशादिति । १ वैकल्यलक्षण इति । यधा शरीरमुपघ्नन् हिनस्ति एवं चक्षुराद्युस्पाटयम्नपि हिनस्त्येवेति भावः । २ अथवेति । प्रकारान्तरेण सूत्रं व्याचष्ट । ३ प्रासङ्गिकस्यैतस्य चक्षुरद्वैतनिराकरणपरस्य प्रकरणस्य विषये व्याख्यातृषु महान् मतभेदो दृश्यते । वस्तुतः सप्तविंशतितमसूत्रपर्यन्तमात्मनः स्वतन्त्रस्थिति- निरूपणपरमेकमेव प्रकरणं वर्तते । तत्साधनप्रकारभेदेन तु व्याख्यातारः प्रकरणभेदमत्र कुर्वन्ति । न्यायसूचीनिबन्धे तात्पर्ये च वाचस्पतिमिश्राः सप्तमसूत्रमारभ्य चतुर्दश- सूत्रपर्यन्तमेकम्प्रकरणमभिप्रेत्य तदर्थम्-चक्षुरिन्द्रियस्य द्वित्वे आत्मनश्चैकत्वे सिद्धे नाश्मेन्द्रिययोरभेदः सम्भवतीति-वर्णयन्ति ।

तृतीयाध्याये प्रथमाह्निके अष्टमं सूत्रम् १६३ सव्यदृष्टस्येतरण अन्यभिज्ञानात् ॥७॥ पूर्वापरयोविज्ञानयोरेकविषये प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम्-'तमेवैतहि पश्यामि यमज्ञासिषं स एवायमर्थ' । इति । सव्येन चक्षुषा दृष्टम्येतरेणापि चक्षुषा प्रत्यभिज्ञानाद्-' यमद्राक्षं तमेवैतर्हि पश्यामीति' । इन्द्रियचैतन्ये तु नान्यदृष्टमन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिः । अस्ति विदं प्रत्यभिज्ञानं, तस्मादिन्द्रियव्यतिरिक्तश्चेतनः ॥ ७ ॥ नकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् " ॥ ८॥ एतत्तु वार्तिककारस्य नाभिप्रेतम् । तैरुक्तम्-एके इदं प्रकरणमात्मन इन्द्रिय- व्यतिरेकज्ञापनार्थं वर्णयन्ति । तन्न पूर्वप्रकरणे व तत्सिद्धेः-इति । भाष्यकारादपि वार्तिककारस्यात्र स्फुटो मतभेदः । भाप्यमते चक्षुरिन्द्रिये द्वित्वम्-वार्तिकमते चक्षुरेकत्वमेव-सिद्धान्तः । चक्षुर्द्वित्वसिद्धान्तपरिग्रहण हि ताभ्या- स्मिन्नस्यैकस्यात्मनः साधनं सुकरम्भवतीति भाष्यकारस्य हृदयम् । भाष्यमतेनैवं सूत्रार्थविभागः । सप्तमसूत्रे सिद्धान्तोपक्रमः-बामेन चक्षुपा दृष्टस्य दक्षिणेन प्रत्यभिज्ञानादुभयाधिष्ठातक आत्मा सिद्धयतीति । अष्टमसूत्रे तदा- क्षेपः-उभयोरपि गोलकयोश्चक्षुरिन्द्रियस्यैकत्वे तन्मूलकमेव प्रत्यभिज्ञानमिति । नवम- सूत्रे तत्परिहारः-गोलकद्वयस्थितस्येन्द्रियस्यैकत्वं न सम्भवतीति । दशमसूत्रे चक्षु- रेकत्ववादिकृतमुत्तरम्-एकस्य गोलकस्य नाशे चक्षुरिन्द्रियस्यैकमवयवमेव नश्यतीति । तत्परिहार एकादशसूत्रे-चक्षुत्विसिद्धान्तप्रतिषेधो न युक्त इति । एवं च चक्षुत्विमानिनो भाष्यकारस्य मतेन सप्तमसूत्रे सिद्धान्तेनवोपक्रमः । वार्तिकमते त्वस्मिन् सूत्रे सव्यदृष्टस्येतरेण प्रत्यभिज्ञानमात्मभेदसाधनायोपन्यस्तं सूत्र- कारेण निराकरणार्थमेव । तन्निराकरणाङ्गत्वेनैवाष्टमसूत्रे चक्षुरद्वैतसिद्धान्तोपन्यासः । नवमसूत्रे तत्राक्षेपः, दशमसूत्रे केषांचिन्मतेन तदाक्षेपपरिहारः, एकादशसूत्रे च तत्परिहारस्य नवमसूत्रकृतस्याक्षेपस्य च खण्डनम् । द्वादशसूत्रमारभ्य षोडशसूत्रपर्यन्तं तु न कोऽपि भेदः । उभयोरपि मतयोस्ते- षामात्मसाधनपरत्वाभ्युपगमात् । १ प्रत्यभिज्ञानात्-आत्मैक इति शेषः । चक्षुषोरभेदसिद्धिरिति तु न्यायसूत्र- विवरणकाराः । तत्तु न सम्यक् । अकस्माञ्चक्षुषोरद्वैतस्योपन्यासेन सूत्रकारस्यासम्बद्ध- प्रलापितैव स्यात् । आत्मभेदसाधनोपन्यासाङ्गतया चक्षुद्वैतोपन्यास एवं प्राकरणिकत्वं स्यात्तदुपन्यासस्य। २ उक्तं हेतुं चक्षुरैक्येनाक्षिपत्ति-नैकस्मिन्निति । .

खद्योतसहितन्यायसूत्रभाष्ये. [अ० ३, आ० १, सू० १? . , " " " एकमिदं चक्षुर्मध्ये नासास्थिव्यवहितं, तस्यान्तौ गृह्यमाणौ द्वित्वाभि- मानं प्रयोजयतो मध्यव्यवहितस्य दीर्घस्येवे" ॥ ८ ॥ एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ९ ॥ एकस्मिन्नुपहते चोद्धृते वा चनुषि द्वितीयमवतिष्ठते चक्षुविषयग्रहण- लिङ्गम् । तस्मादेकस्य व्यवधानानुपपत्तिः ।। ९ ।। अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ १० ॥ एकविनाशे द्वितीयाविनाशादित्यहेतुः । कस्मात् ? वृक्षस्य हि कासु चिच्छाखासु छिन्नासूपलभ्यते एव वृक्षः ।। १० ।। दृष्टान्तविरोधादप्रतिषेधः ॥ ११ ॥ न कारणद्रव्यस्य विभाग कार्यद्रव्यमवतिष्ठते नित्यत्वप्रसङ्गात् । बहुध्व- वयविपु यस्य कारणानि विभक्तानि तस्य विनाशः । येषां कारणान्यविभक्तानि तानि अवतिष्ठन्ते । अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः । मृतस्य हि शिरःकपाले द्वाववटी नासास्थिव्यवहितो चक्षुषः स्थाने भेदेन गृह्यते । न चैतदेकस्मिन्ना- सास्थिव्यवहिते सम्भवति । अथ वा एकविनाशस्याऽनियमाद् द्वाविमावों, तौ च पृथगावरणोप- घातौ अनुमीयेते विभिन्नाविति । अवपीडनाच्चैकस्य चक्षुषो रश्मिविषयसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते, तच्चैकत्वे विरुद्ध्यते । अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानमिति । तस्मादेकस्य व्यवधानानुपपत्तिः ॥ ११ ।। १ दीर्घस्येति-वंशादेरिति शेषः । २ विषयेति । विषयग्रहणं लिङ्गं (सूचकं) यस्य तत् । विषयग्रहणे लिङ्ग- मिति मुद्रितवार्तिकपुस्तकधृतपाठः । तदर्थस्तु द्वितीयमेव चक्षुः विषयग्रहणे लिङ्गम् (करणं) भवतीति । ३ चक्षुद्वैतं दूषयति-अवयवनाश इति सूत्रम्। ४ सिद्धान्तिसूत्रम्-दृष्टान्तेति । ५ अवपीडनादिति । द्वाभ्यां नेत्राभ्यामवलोकितं वस्त्वेकमेव प्रतिभाति । किन्तु यदैकं नेत्रमङ्गल्याऽवपीडितं तदा तदेव द्वे इव प्रतिभाति । भाष्यचन्द्रोक्तस्य नयन- निमीलनस्य चर्चाऽत्र सर्वथा वृथैव । , तृतीयाध्याये प्रथमाह्निके चतुर्दशं सूत्रम् १६५ अनुमीयते चार्य देहादिलङ्घातव्यतिरिक्तश्चेतन इति इन्द्रियान्तरविकागत् ॥ १२ ॥ कस्यचिदम्लफलस्य गृहीततद्रससाहचर्थे रूपे गन्ध वा केनचिदिन्द्रियेण गृह्यमाणे रसनन्येन्द्रियान्तरस्य विकारो रसानुम्मृतो रसगधिप्रवर्तितो इन्तो- दकसंप्लवभूतो गृह्यते। तस्येन्द्रियचैतन्येऽनुपपत्तिः, नान्यदृष्टमन्यः स्मरति॥१२॥ न म्मृतेः स्मर्त्तव्यविपयन्वात् " ॥१३॥ "म्मृति म धर्मो निमित्तादुत्पद्यते, तम्याः म्मर्तव्यो विषयः, तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति" || १३ ॥ तदात्मगुणत्वसद्भाबादप्रतिषेधः ॥ १४ ॥ तस्या आत्मगुणत्वे सति सद्भावादप्रतिषेध आत्मनः । यदि स्मृतिरात्म- गुणः ? एवं सति स्मृतिरुपपद्यते, नान्यदृष्टमन्यः स्मरतीति । इन्द्रियचैतन्ये तु १ प्रतिसन्धानहेतुना (चक्षुद्वैतसाधनद्वारेण) आत्मनि प्रत्ययं प्रमाणयित्वाऽ- नुमानमिदानीम्प्रमाणयति-अनुमीयते चायमिति । विप्रतिपन्नं हि प्रति प्रतिसन्धान- मुक्तम् । परमार्थतस्त्वनुभवानुसारमार्गोऽयमिति मन्तव्यम् । २ स्मरतीति । रूपं गन्धञ्चानुभवति-अथ तत्सहचरितं रसं अनुस्मरति-स्मृत्वा वेच्छति-इच्छातो रसनेन्द्रियविकारो दन्तोदकसम्प्लवलक्षणः प्रवर्तते । तद्दर्शनाच्चा- स्येच्छाऽनुमीयते-इच्छया च स्मृतिरनुमीयते । सेयं स्मृतिरसति सर्वेन्द्रियविषय- वेदिन्यात्मनि न भवितुमर्हति । न्यायसूत्रविवरणकारा अन्यथा व्याचक्षते सूत्रमेतत् । तन्मतेनैतदपि चक्षुर- द्वैतसाधनमेव । तदर्थस्तु-घर्षणादिना पूर्वचक्षुर्नाशे चक्षुरन्तरोत्पादादिति । नैतव्या- ख्यानं सम्यक प्रतिभाति । ३ न स्मृतेरित्याक्षेपसूत्रम् । स्मृतिरात्मानं कारणत्वेनावगमयेत् विषयत्वेन वा न तावत्कारणत्वेन, स्मृतेः संस्कारकारणत्वात् । नापि विषयत्वेन स्मृतेः स्मर्तव्य- विषयत्वात् । स्मृताच्च तस्माद्विषयादिन्द्रियान्तरविकारोत्पत्तिरिति शङ्ककस्य हृदयम् । एतदपि सूत्रं चक्षुरद्वैतपरकत्वेनान्यथा व्याचष्टे विवरणकारः-स्मृतेः स्मर्तव्य- विषयत्वात्-पूर्वानुभूतविषयत्वमात्रनियमात् -न तु तदिन्द्रियजन्यत्वनियमोऽपीति भाव इति । ४ तदात्मेति सूत्रम् । तद्व्याख्यानं विवरणमतेन यथा-ननु स्मृतिसमवायित्वं तत्तदिन्द्रिये स्वीकार्यम् तदन्यस्थानुपस्थितेः-इति कथं पूर्वचक्षुर्नाशे स्मृत्युपपत्ति- रित्यत आह-तदात्मेति । तस्याः स्मृतेः आत्मगुणत्वसद्भावात्-आत्मसमवायितयाs- नुभवात्-न यथोक्तप्रतिषेधः । अनुभवाकारश्च स्मरामीत्यादिरूपः-इति । ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०३,आ० १,सू०१४--- नानाकर्तृकामा विषयग्रहणानामप्रतिसन्धानम् , प्रतिसन्धाने वा विषयव्यव- स्थानुपपत्तिः । एकस्तु चेतनोऽनेकार्थदर्शी भिन्नानिमित्तः पूर्वदृष्टमर्थं स्मरतीति एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् । स्मृतेरात्मगुणत्वे सति सद्भावः, विपर्यये चानुपपत्तिः । स्मृत्याश्रयाः प्राणभृतां सर्वे व्यवहाराः। आत्मलिङ्ग- भुनाहरणमात्रमिन्द्रियान्तरविकार इति । अपरिसङ्ञ्यानाच्च स्मृतिविषयस्य । अपरिसङ्ग्याय च स्मृतिविषय- मिदमुच्यते-'न स्मृतेः स्मर्तव्यविषयत्वादिति'। येयं स्मृतिरगृह्यमाणेऽर्थेs- ज्ञासिषमहममुमर्थमिति, एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोऽर्थो विषयो नार्थमात्रं, ज्ञातवानहममुमर्थम् , असावों मया ज्ञातः, अस्मिन्नर्थे मम ज्ञानमभूदिति । चतुर्विधमेतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम् । सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते । अथ प्रत्यक्षेऽर्थे या स्मृतिस्तया त्रीणि ज्ञानानि एकस्मिन्नर्थे प्रतिसन्धी- यन्ते समानकर्तृकाणि, न नानाकर्तृकाणि, नाकर्तृकाणि । किं तर्हि ? एक- कर्तृकाणि-अद्राक्षममुमर्थं यमेवैतर्हि पश्यामि । अद्राक्षमिति दर्शनं दर्शन- संविच्च । न खल्वसंविदिते स्वे दर्शने स्यादेतत्-' अद्राक्षमिति' । ते खल्वेते द्वे ज्ञाने । 'यमेवैतर्हि पश्यामीति' तृतीयं ज्ञानम् । एवमेकोऽर्थस्विमिर्जा- नैयुज्यमानो नाकर्तृको न नानाकर्तृकः । किं तर्हि ? एककर्तृक इति । सोऽयं स्मृतिविषयोऽपरिसङ्ख्यायमानो विद्यमानः प्रज्ञातोऽर्थः प्रतिषिध्यते- नास्त्यात्मा स्मृतेः स्मर्तव्यविषयत्वादिति । न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयं वा । इदं खलु ज्ञानप्रतिसन्धानवत् स्मृतिप्रतिसन्धानमेकस्य सर्वविषयत्वात् । एकोऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसन्धत्ते- १ अपरिसङ्ख्यानादिति । नैतत्सूत्रम् । न्यायसूचीनिबन्धादौ प्राचीनपुस्तकेषु च तथात्वेनाग्रहणात् । भाष्यकारीयसूत्रमेतदिति विवरणकृतः । २ अपरिसङ्ख्यायेति । असति आत्मनि स्मृत्यनुपपत्तिं दशयित्वा स्मर्तव्यार्थ- विषयैव स्मृतिात्मविषयेति पूर्वपक्षिणोऽवधारणं त्रयोदशसूत्रोक्तं खण्डयति । ३ चतुर्विधमिति । (१) अज्ञासिषमहममुमर्थमिति तिडुक्तकर्तृकं वाक्यम् । (२) ज्ञातवानहममुमर्थमिति कृदुक्तकर्तृकम् । (३) असावों मया ज्ञात इति कृदुक्तकर्मकम् । (४) असावों मया ज्ञात इति कृदुक्तक्रियाकमिति विवेकः । ४ समानार्थमिति । ज्ञानज्ञेयज्ञाप्रकाशनं सर्वेषु समानमित्यर्थः । ५ स्मृतिरिति-प्रत्यभिज्ञानमित्यर्थः । स्मृतिच्छाययावगाहित्वात्तस्य ।

तृतीयाध्याये प्रथमाहिके षोडशं सूत्रम् १६७ 0 अमुमर्थं ज्ञास्वामि, अमुल्य विजानानि, अमुमर्थमज्ञासिष, अमुमर्थं जिज्ञा- समानश्चिरमज्ञात्वाऽध्यवस्यत्यज्ञासिषमिति । एवं स्मृतिमपि त्रिकालविशिष्टां सुरुमूर्षाविशिष्टां च प्रतिसन्धत्ते । संस्कारसन्ततिमात्रे तु सत्त्वे उत्पद्योत्पच सकारास्तिरोभवन्ति । म नास्त्येकोऽपि संस्कारो यस्त्रिकालविशिष्टं ज्ञानं स्मृति चानुभवेत्। चानु- भवमन्तरेण ज्ञानस्य स्मृतेश्च प्रतिसन्धानमहं ममेति चोत्लधते देहान्तरबन्। अतोऽनुमीयते-अस्त्येकः सर्वविषयः प्रतिदेहं स्वज्ञानप्रबन्धं स्मृतिप्रबन्धं च प्रतिसन्धत्त इति, यस्य देहान्तरेषु वृत्तेरभावान्न प्रतिसन्धानं भवतीति ॥१४॥ (४) आत्मनो मनोव्यतिरेकप्रकरणम् । " नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ” ॥ १५॥ न देहादिसङ्घातव्यतिरिक्त आत्मा । कस्मात् ? 'आत्मप्रतिपत्ति- हेतूनां मनसि सम्भवात् ', 'दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ' इत्येवमादीना- मात्मप्रतिपादकानां हेतूनां मनसि सम्भवो यत:, मनो हि सर्वविषयमिति । तस्मान्न शरीरोन्द्रियमनोबुद्धिसङ्घातव्यतिरिक्त आत्मेति" ॥ १५ ।। ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ।। १६ ॥ ज्ञातुः खलु ज्ञानसाधनान्युपपद्यन्ते-चक्षुषा पश्यति, घ्राणेन जिनति, स्पर्शनेन स्पृशति। ऐवं मन्तुः सर्वविषयस्य मतिसाधनमन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यत इति। एवं सति ज्ञातर्यात्मसंज्ञा न मृष्यते, मनःसंज्ञाभ्य- नुज्ञायते । मनसि च मनःसंज्ञा न मृष्यते, मतिसाधनं त्वभ्यनुज्ञायते । तदिदं संज्ञाभेदमात्रं नार्थे विवाद इति । प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङ्गः। अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते 'नास्तीति' । एवं रूपादिविषयग्रहण- साधनान्यपि न सन्ति इति सर्वेन्द्रियविलोपः प्रसज्यत इति ॥१६॥ १ सर्वविषयमिति । सर्वे बाह्यान्तरभूता विषया यस्य तत्-सर्वज्ञमित्यर्थः । २ एवं मन्तुरिति । 'मतिः' स्मृत्यनुमानादिकं ज्ञानम् । यद्यपि चेदं प्राति- स्विकसंस्कारादिकारणकं तथाऽप्यवश्यमेतेनेन्द्रियजेन (अर्थात् शरीरसंयुक्तसंस्कारकद्र- व्यसंयोगजेन) भवितव्यम्-ज्ञानत्वाद् रूपादिज्ञानवत् । तच्चेन्द्रियमसति चक्षुरादौ मते- र्भावात् चक्षुराद्यतिरिक्तम्मन इत्युच्यते । बुद्धिपर्यायस्वेपि मतिज्ञानशब्दयोः साक्षात्कारी प्रत्ययो ज्ञानमिह विवक्षितः, जिज्ञासाधीनं च ज्ञानमिह मतिः । . .

१६८ लगोतसाहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू० १७ - सुखादयस्तदुपलब्धौ नियमश्च निरनुमानः ॥ १७ ॥ योऽयं नियम इष्यते-' रूपादिग्रहणसाधनान्यस्य सन्ति, मतिसाधन सर्व शिपयं नास्तीति'-अयं नियमो निरनुमानः। नात्रानुमानमस्ति येन नियम प्रतिपद्यामह इति । रूपादिभ्यश्च विषयान्तरं करणान्तरसद्भावः । यथा चक्षुषा गन्धो न गृह्यत इति, करणान्तरं घ्राणं, एवं चक्षुर्घाणाभ्यां रसो न गृह्यत इति करणान्तरं रसनम् , एवं शेषेवपि । तथा चक्षुरादिभिः सुखादयो न गृह्यन्त इति करणान्तरेण भवितव्यम् । तञ्च ज्ञानायोगपद्यलिङ्गम् । यच्च सुखाद्युपलब्धौ करणं तच्च ज्ञानायोगपद्यलिङ्गं, तस्येन्द्रियमिन्द्रियं प्रति सन्निधेरसन्निधेश्च न युगपज्ज्ञानान्युत्पद्यन्त इति । तत्र यदुक्तं-' आत्मप्रतिपत्तिहेतूनां मनसि सम्भवादिति' तदयुक्तम् ।। १७ ।। (५) आत्मनित्यताप्रकरणम् । किम्पुनरयं देहादिसङ्घातादन्यो नित्यः, उतानित्य इति । कुतः संशयः ? उभयथा इष्टत्वात् संशयः। विद्यमानमुभयथा भवति-नित्यमनित्यं च । प्रतिपादिते चात्मसद्भावे संशयानिवृत्तेरिति” । १ यथेति । यथा कारणसत्तया कार्य जनितं कारणं ज्ञापयति एवम्मनःसत्तया मनोलिङ्गज्ञानं जनितम्मनो ज्ञापयति । तच्च लिङ्गजं मनोज्ञानं मनस्सत्ताहेतुकम् । न च स्वात्मनि वृत्तिविरोधः । न हि मनस्सत्तायां मनः करणम्-मनोज्ञाने वा मनः करणम्-येन स्वात्मनि वृत्तिविरोधः स्यात् । न च केवलं मनः स्वज्ञाने करणं येनैकत्र कर्मत्वकरणत्वे स्याताम् । अपि तु मनोज्ञाने लिङ्गज्ञानसहितम्मनः करणम्-तत्स्वरूप तु लिङ्गज्ञानसाहित्यादिति न स्वात्मनि वृत्तिविरोधः । तत्त्वतस्तु कर्मस्वकरणत्वयोर्विरोधोऽपि नास्ति । कर्तृव्यापार्यत्वं हि करणत्वम् , अनात्मसमवेतक्रियाफलभागित्वं च कर्मत्वम् । न च कर्तृव्यापार्यतायाः परसमवेत- क्रियाफलभागितायाः किञ्चित्स्वरूपतः फलतो वा विरुध्यते । २ किम्पुनरिति-शास्रार्थभूताभ्युदयनिःश्रेयसोपयोगिनं परलोकं परिचिक्षिषुः परीक्षाहेतुभूतं संशयमाह। उपर्युक्तं संशयं दूषयन्तः एतत्प्रकरणारम्भं केचिदाक्षिपन्ति-देहेन्द्रिवबुद्धिवेद- नाभ्यो व्यतिरिक्तत्वमात्मनो दर्शयता बाल्यकौमारयौवनवार्धक्यभेदेऽपि चैकात्म्यप्रति- सन्धानमर्थादुपपादयता शरीरनाशादूर्द्धमात्मसद्भावो दर्शितः । तावतैव च नः प्रयो- जनम् । ततः किमर्थमिदम्प्रकरणान्तरोत्थापनमिति । तत्परिहारश्च-सिद्धेऽपि देहादि -- स . १९] तृतीयाध्याये प्रथमाह्निके एकोनविंशतितमं सूत्रम् । आत्मसद्भावहेतुभिरेवास्य प्राग्देहभेदादवस्थानं सिद्धमूर्द्धमपि देहभेदा- दवतिष्ठते । कुतः? पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोक सम्प्रतिपत्तेः ।। १८ ॥ जातः खल्वयं कुमारकोऽस्मिन जन्मन्यगृहीतेपु हर्षभयशोकहेतुपु हर्ष- भयशोकान प्रतिपद्यते लिङ्गानुमेयान् । ते च स्मृत्यनुबन्धादुत्पद्यन्ते नान्यथा । स्मृत्यनुबन्धश्च पूर्वाभ्यासमन्तरेण न भवति । पूर्वाभ्यासश्च पूर्वजन्मनि मति, नान्यथेति सिद्धयत्येतदवतिष्ठतेऽयमृद्धं शरीरभेदादिति ।। १८ !! पमादिषु प्रबोधसलिनविकारवत्तद्विकारः" ।।१९।। यथा पद्मादिष्वनित्येषु प्रबोधः सम्मीलनं विकारो भवति, एवम- नित्यस्यात्मनो हर्षभयशोकसम्प्रतिपत्तिर्विकारः स्यात् ” । हेत्वभावादयुक्तम् । अनेन हेतुना पद्मादिपु प्रबोधसम्मीलनविकारवद- नित्यस्यात्मनो हर्षादिसम्प्रतिपत्तिरिति नात्रोदाहरणसाधामाध्यसाधनं हेतुर्न च वैधादस्ति । हेत्वभावान् असम्बद्धार्थकमपार्थकमुच्यत इति । दृष्टान्ताच्च हर्षादिनिमित्तस्यानिवृत्तिः । या चेयमासेवितेपु विषयेषु हषोंदिसम्प्रतिपत्तिःस्मृत्यनुबन्धकृता प्रत्यात्मं गृह्यते सेयं पद्मादिप्रबोधसम्मीलन- दृष्टान्तेन न निवर्तते । यथा चेयं न निवर्तते तथा जातस्यापीति । क्रियाजाताश्च व्यतिरेके बाल्यादिषु चानुगमे-किमयमात्मा आ शरीरोत्पत्तेरा च मरणात् यावद्देह- सन्तानभावी-आहोस्विदुपरतेऽपि देहादिसन्तानेऽनुवर्तत एवेत्येष विमर्षोऽद्यापि न निराकृत इति तन्निरासायेदं प्रकरणमारभ्यत इति । १ देहभेदादिति ल्यबलोपे पञ्चमी । बाल्यकौमारयौवनवार्धकदेहभेदमभिसमीक्ष्य प्रतिसन्धानादस्यावस्थानमित्यर्थः-इति तात्पर्यकृतः। प्रतिसन्धानेनैवास्य प्रतिसन्धातुरवस्थानं सिद्धम् , 'देहस्य भेदात् ' अप्रतिस- न्धातृत्वादिस्यन्यथा व्याख्यानम्परिशुद्धिकृतः । २ लिङ्गानुमेयानिति-यथाक्रमं स्मितकम्परुदितानुमेयानिति यावत् । दृष्टो । निरालम्बनो बालः स्खलन मातुरङ्कारपतनस्यानिष्टसाधनत्वमनुस्मृत्य इदं च पतन- मिति परामृश्य (प्रत्यभिज्ञाय ) तस्याप्यनिष्टसाधनतामनुमाय रुदन् मातुर्मङ्गल्य- मुरःसूत्रं विक्षिप्य हस्तौ वेपमान उपाददानः तस्यानया चेष्टया भयशौकावनुमीयते । ३ यथा चेयमिति । यथा वृद्धादीनाम्प्रत्यात्मवेदनीया हर्षादिसम्प्रतिपत्तिः पद्मादिदृष्टान्तेन न निवर्तते तथैव जातमात्रस्य बालस्यापि सा न निवर्तयितुं शक्यत इति भावः।

, १७० खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू०२० - पर्णसंयोगविभागाः प्रबोधसम्मीलने । क्रियाहेतुश्च क्रियानुमेयः । एवं च सति किं दृष्टान्तेन प्रतिषिध्यते ॥ १९ ॥ अथ निर्निमित्तः पद्मादिषु प्रबोधसम्मीलनविकार इति मतमेवमा- त्मनोऽपि हर्षादिसम्प्रतिपत्तिरिति ? तच्च-- न, उष्णशीतवर्षाकालनिमित्तत्वात् पश्चात्मकविकाराणाम् ॥ २० ॥ उष्णादिषु सत्सु भावादसत्स्वभावात्तन्निमित्ताः पञ्चभूतानुग्रहेण निर्वृत्तानां पद्मादीनां प्रबोधसम्मीलनविकारा इति न निनिमित्ताः । एवं हर्षादयोऽपि विकारा निमित्ताद्भवितुमर्हन्ति न निमित्तमन्तरेण । न चान्यत्पूर्वाभ्यस्तस्मृत्य- नुबन्धानिमित्तमस्तीति । न चोत्पत्तिनिरोधकारणानुमानमात्मनो दृष्टान्तान् । न हर्षादीनां निमित्तमन्तरेणोत्पत्तिः । नोष्णादिवन्निमित्तान्तरोपादानं हर्षादी- नाम् । तस्मादयुक्तमेतत् ।। २० ॥ इतश्च नित्य आत्मा- प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥ २१ ॥ जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते । स च नान्तरे- णाहाराभ्यासम् । कया युक्त्या ? दृश्यते हि शरीरिणां क्षुधापीडयमानानामा- हाराभ्यासकृतातस्मरणानुबन्धादाहाराभिलाषः । न च पूर्वशरीराभ्यासमन्तरे- णासौ जातमात्रस्योपपद्यते । तेनानुमीयते भूतपूर्वं शरीरं, यत्रानेनाहारोऽभ्यस्त इति । स खल्वयमात्मा पूर्वशरीरात्प्रेत्य शरीरान्तरमापन्नः क्षुत्पीडितः पूर्वाभ्यस्तमाहारमनुस्मरन् स्तन्यमभिलषति । तस्मान्न देहभेदादात्मा भिद्यते भवत्येवोई देहभेदादिति ॥ २१ ।। १ दृष्टान्तादिति । आत्मनो नित्यत्वे नानाहेतुभिः सिद्ध केवलपमादिदृष्टा- न्तबलेन तस्योत्पत्तिविनाशावनुमातुन्नोचितम् । तदनुमानप्रकारश्च-यद्विकारि तदुत्पत्ति- निरोधधर्मक-यथा पद्मम्-तथा चात्मा-तस्मादनित्य इति । २ प्रेत्यति सूत्रे आक्षेपः-किमर्थं पुनरिदं सूत्रमारभ्यते यदाऽयमर्थः 'पूर्वा- भ्यस्त सूत्रेऽवगत इति । तत्परिहारश्च-पूर्वसूत्रात् सामान्यतोऽवगतस्य विशेषज्ञापनार्थ सूत्रमिदमित्यदोष इति । हर्षादिना सामान्यत इच्छामात्रमवगतम् , तद्विशेषस्तु स्तन्याभिलाषो रागश्वात्रोक्त इत्यर्थः ।

-स्, २३] तृतीयाध्याये प्रथमाह्निके त्रयोविंशतितमं सूत्रम् "अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम्" ॥२२॥ यथा खल्वयोऽभ्यासमन्तरेणायस्कान्तमुपसर्पति, एवमाहाराभ्यास- मन्तरेण बालः स्तन्यमभिलपति" ।। २२ ।। किमिदमयसोऽयस्कान्ताभिसर्पणं निनिमित्तमथ निमित्तादिति ? निनि- मित्तं तावत्--- न, अन्यत्र प्रवृत्त्यभावात् ॥२३॥ यदि निनिमित्तम् ? लोष्टादयोऽप्ययस्कान्तमुपसर्पयुः । न जातु नियमे कारणमस्तीति । अथ निमित्तात? तत्केनोपलभ्यत इति । क्रियालिङ्गः क्रियाहेतुः, क्रियानियमलिङ्गश्च क्रियाहेतुनियमः। तेनान्यत्र प्रवृत्त्यभावः । बालस्यापि नियतमुपसर्पणं क्रियोपलभ्यते । न च स्तन्याभिलापलिङ्गमन्यदाहाराभ्यास- कृतास्मरणानुबन्धात् निमित्तं दृष्टान्तेनोपपाद्यते, न चासति निमित्ते कस्य- चिदुत्पत्तिः । न च दृष्टान्तो दृष्टमभिलाषहेतुं बाधते । तस्मादयसोऽयस्कान्ता- भिगमनमदृष्टान्त इति । अयसः खल्वपि नान्यत्र प्रवृत्तिर्भवति न जात्वयो लोष्टमुपसर्पति । किं कृतोऽस्य नियम इति । यदि कारणनियमान् ? स च क्रियानियमलिङ्गः । एवं बालस्यापि नियतविषयोऽभिलाषः कारणनियमाद्भवितुमर्हति । तञ्च कारणमभ्यस्तस्मरणमन्यद्वेति दृष्टेन विशिष्यते । दृष्टो हि शरीरिणामभ्यस्त- स्मरणादाहाराभिलाष इति ! २३ ॥ इतश्च नित्य आत्मा । कस्मात् ? १ अयस इत्याक्षेपसूत्रम् । प्रवृत्तिमात्रस्यानैकान्तिकत्वज्ञापनार्थम् । न पूर्वाभ्य- स्तस्मृत्यनुबन्ध एव प्रवृत्तिकारणम् , अयसोऽयस्कान्तोपसर्पणे तदभावात् । यदि च बालकस्य पूर्वाभ्यस्तस्मृत्यनुबन्धो भवेत् जात्यन्धबधिरादयस्त जन्मानुभूतानिव रसम्पर्शगन्धादीन् जात्यन्तरानुभूतान् रूपशब्दादीनपि व्याचक्षीरन्नित्यभिप्रायः । २ दृष्टो हीति । यौवनाद्यवस्थायां हि चेतनस्य प्रवृत्तिः क्षीरादौ पूर्वाभ्यस्तस्मृ- त्यनुबन्धहेतुका प्रतीतेति बाल्यावस्थायामपि चेतनस्य तद्धेतुकैव भवितुमर्हति । तेन हेतुना चेतनप्रवृत्तेः स्वाभाविकसम्बन्धावगमाद् वह्निनेव धूमस्य । एवं व्यवस्थिते यत्र स्मृतेः कार्य दृश्यते तन्मात्रविषयैव बालस्य स्मृतिरनुमीयते नान्यत्र । न च य एकस्य स्मरति तेनापरमपि स्मर्तव्यमिति नियमहेतुरस्ति येन जात्यन्धबधिरादयो रूपादीनाचक्षीरन् । अदृष्टपरिपाकोदोधितस्य संस्कारस्य तन्नियमेन नियमोपपत्तेः । अद्यत्वेपि चानुभूतेषु कस्यचिदेव स्मरति आत्मा न सर्वस्येति तात्पर्यम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ ० १ सू ०२४- वीतरागजन्मादर्शनात् ।। २४॥ सरागो जायत इत्यर्थादापद्यते। अयं जायमानो रागानुबद्धो जायते रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः। पूर्वानुभवश्च विषयाणामन्यस्मिन जन्मनि शरीरमन्तरेण नोपपद्यते। सोऽयमात्मा पूर्वशरीरानुभूतान् विषयान अनुस्मरन् तेषु तेषु रज्यते। तथा चायं द्वयोर्जन्मनोः प्रतिसन्धिः। एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरशरीरस्य पूर्वतमेनेत्यादिनाऽनादिश्चेतनस्य शरीर- योगः । अनादिश्च रागानुबन्ध इति सिद्धं नित्यत्वमिति ॥ २४ ॥ कथं पुनर्जायते पूर्वानुभूतविषयानुचिन्तनजनितो जातस्य गगो । न पुनः - मगुंगद्रव्योत्पत्तिवत्तदुत्पत्तिः " ॥ २५ ।। यथोत्पत्तिधर्मकस्य द्रव्यम्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्म- कस्यात्मनो राग: कुताश्चदुत्पद्यते । अत्रायमुदितानुवादो निदर्शनार्थः" ।।२५।। न, सङ्कल्पनिमित्तत्वाद्रागादीनाम् ।। २६ ।। न खलु सगुणद्रव्योत्पत्तिवदुत्पत्तिरात्मनो रागस्य च । कस्मात् ? “सङ्कल्प- निमित्तत्वाद्रागादीनाम् ' । अयं खलु प्राणिनां विषयानासेवमानानां सङ्कल्पजनितो रागो गृह्यते । सङ्कल्पश्च पूर्वानुभूतविषयानुचिन्तनयोनिः। तेनानुमीयते- 'जातस्यापि पूर्वानुभूतार्थानुचिन्तनकृतो राग' इति । आत्मोत्पादाधिकरणात्तु रागोत्पत्तिर्भवन्ती सङ्कल्पादन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत्। १ वीतरागेति सूत्रम् । स्तन्याभिलापोपन्यासपुनरुक्तिमेव मन्वानेन जन्मान्तरी- येष्टसाधनताज्ञानाधीनस्मरणं हेतुरिति पूर्व स्तन्याभिलाष उक्तः, सम्प्रति तु पतंगादीनां कणादिभक्षणाभिलाषस्य धारणं रागमात्रमित्यपौनरुक्त्यमिति 'प्रेत्याहारा'दिसूत्रोक्त- पुनरुक्तिमत्र मन्वाना वृत्तिकृतः । पूर्वत्र सूत्रे स्तन्याभिलाषस्मरणम्प्रवृत्तिहेतुत्वेनो- पन्यस्तमत्र तु रागो जन्महेतुत्वेनोपन्यस्त इति न पौनरुक्त्यशङ्कावकाशः । २ पूर्वानुभूतेति। एकविण्यस्मृतिप्रवाहः विजातीयप्रत्ययासंभिन्नः 'चिन्तनम् । तच्चानुभवस्य पश्चाद्भवतीति — अनुचिन्तनम् ' । न चैतत् स्मृतिमन्तरेण भवतीत्यर्थः । ३ सगुणेत्याद्यनैकान्तिकत्वप्रतिपादनार्थ सूत्रम् । ' ४ अत्रायमिति । उदितमिदं चोद्यमयस्कान्तदृष्टान्तचोद्येन । तथापि तस्यानु- वादो निदर्शनार्थः । पूर्वमयस्कान्तो निदर्शनम् , इदानीं तु घटादीनामुत्पद्यमानानां रूपादयो निदर्शनमिति तदर्थमित्यर्थः। चोद्यस्योदितानुवादत्वात्परिहारोऽप्युदितानु- वाद एवेति हृदयम् ।

तृतीयाध्याये प्रथमाह्निके पड्विंशतितमं सूत्रम् न चात्मोत्पादः सिद्धो नापि सङ्कल्पाइन्यद्रागकारणमस्ति । तम्मादयुक्तं- सगुणद्रव्योत्पत्तिवत्तयोत्पत्ति रिति । अथापि सङ्कल्पादन्यद्रागकारणं धर्माधर्मलक्षणमष्टमुपादीयते तथापि पूर्वशरीरयोगोऽप्रत्याख्येयः । तत्र हि तस्य निवृतिः नाग्निन् जन्मनि । तन्मयत्वाद्राग इति, विषयाभ्यासः खल्वयं भावनाहेतुः तन्मयत्वमुच्यत इति । जातिविशेषाञ्च रागविशेष इति । कर्म खल्विदं जातिविशेपनिवर्तकं तादात्म्यात्ताच्छन्द्यं विज्ञायते। तस्मादनुपपन्नं- सङ्कल्पादन्यद्रागकारणम् इति ॥२६॥ (६) शरीरपरीक्षाप्रकरणम् अनादिश्वेतनस्य शरीरयोग इत्युक्तम् , स्वकृतकर्मनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानम् । तत्परीक्ष्यते-किं ब्राणादिवदेकप्रकृतिकमुत नानाप्रकृति- कमिति । कुतः संशयः ? विप्रतिपत्तेः संशयः । पृथिव्यादीनि भूतानि सङख्या- विकल्पेन शरीरप्रकृतिरिति प्रतिजानत इति । किं तत्र तत्त्वम् ? १ तन्मयत्वादिति । रागादीनामदृष्टकारणत्वमभ्युपेत्य पूर्वं परिहृतम्, परमार्थ- तस्तु तन्मयत्वाद्राग इति तात्पर्यम् । २ स्यादेतत्-यदि पूर्वाभ्यस्तस्मृत्यनुबन्धाद् रागद्वेषादीनामुत्पादो हन्त मनुष्यजन्मानन्तरं प्राप्तकरभभावस्य मनुष्यजन्मोचितानां मनुष्यजन्मोचितानां भावानामानन्तर्यात् तदनुरूपा एवास्य रागादयो भवेयुः, न करभरूपाः । करभजातेरस्य विजातीयजन्म- सहस्रव्यवहितत्वादत आह-जातिविशेषाञ्चेति । कर्मणः संस्कारोबोधकत्वात् करभ- जात्यनुबद्धन कर्मणा जन्मसहस्रव्यवहिताऽपि करभभावनोदोध्यते नानन्तराऽपि मनुप्यभावना प्रायणाभिभूतेति भावः। ३ अनादिश्चेतनस्येति शरीरपरीक्षाप्रकरणमारभ्यते । आत्मनः शरीरादिभिन्नत्व- साधकस्य पूर्वप्रकरणस्यैवाङ्गभूतेनैतेन भवितव्यमिति न प्रकरणान्तरावकाश इति श्रीवत्सादिकृताशङ्काऽनूद्य परिहा परिशुद्धिकृता। सर्वेपामुद्दिष्टानाम्परीक्षणे कर्तव्ये पूर्वप्रकरणे शरीराद्भिन्नत्वमात्मनः प्रसाधितम् इदानीन्तु तस्यैव शरीरस्य परीक्षा कर्तव्यत्वेनोपतिष्ठते । परीक्षिते च शरीरे तत्स्वभावावगत्यनन्तरन्तत्र निर्विष्णस्तस्मा- ज्जुगुप्सत इति परमोहेश्यम् । ४ सङ्ख्या विकल्पेनेति । एकद्वित्रिचतुःपञ्चप्रकृतिकतामास्थिषत शरीरस्य वादिन इत्यर्थः ।

१७४ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू०२७ - पार्थिवं गुणान्तरोपलब्धेः ॥२७॥ तत्र मानुषं शरीरं पार्थिवम् । कस्मात् ? गुणान्तरोपलब्धेः । गन्धवती पृथिवी गन्धवञ्च शरीरम् । अवादीनामगन्धत्वात् तत्प्रकृत्यगन्धं स्यात् । न त्विदमवादिभिरसम्पृक्तया पृथिव्याऽऽरब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पत इत्यतः पञ्चानां भूतानां संयोगे सति शरीरं भवति । भूतेसंयोगो हि मिथः पञ्चानां न निषिद्ध इति । आप्यतैजसवायव्यानि लोकान्तरे शरीराणि, तेष्वपि भूत- संयोगः पुरुषार्थतन्त्र इति । स्थाल्यादिद्रव्यनिष्पत्तावपि निःसंशयो नाबादि- संयोगमन्तरेण निष्पत्तिरिति ॥ २७ ।। “ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः" ॥२८॥ "निःश्वासोच्छ्वासोपलब्धेश्चातुभतिकम्" ॥ २९ ॥ गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् " ॥३०॥ त इमे सन्दिग्धा हेतव इत्युपेक्षितवान्सूत्रकारः । कथं सन्दिग्धाः ? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिरसति च संयोगाप्रतिषेधात् सन्निहिताना- मिति । यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति । तदिदमनेकभूतप्रकृति १ पार्थिवमिति सूत्रम् । गुणान्तरोपलब्धेरिति-तद्विशेषगुणोपलब्धेरित्यर्थः । इह पार्थिवत्वेन आप्यत्वादिना वा शरीरलक्षणस्य चेष्टाश्रयत्वादेः किमुपपद्यते किं वा नोपपद्यते यत इदम्प्रस्तूयत-इति केपांचिदाक्षेपः। तत्परिहारश्च-भौतिकत्वे शरीरस्य निरूपिते भूतत्वाञ्च घटादिवदचैतन्यमयत्नसिद्धम्भवेत् । ततः प्रयत्नवदात्म- संयोगासमवायिकारणकक्रियारूपचेष्टाश्रयत्वमेव सुखेन सिद्ध्येत् । तदारम्भकशेषीभूता- हारावयवोपचयापचयहेतुभूतेन्द्रियोपचयापचयलक्षणमिन्द्रियाश्रयत्वं तदवच्छिन्नस्या- त्मनो भोगाधिकरणत्वञ्च तस्यार्थाश्रयत्वं च सिद्ध्येदिति लक्षणमेवेदं परीक्ष्यते- इति । २ भूतसंयोग इति । पार्थिव शरीरमिति सिद्धान्तस्यायमेवार्थो यत् पृथिव्येवास्य समवायिकारणमिति। न चैतावताऽबादीनां भूतान्तराणां संयोगः शरीरोत्पत्ती निषिध्यते । यथा मृदेव घटस्य समवायिकारणम्-किन्तु तदुत्पत्तौ जलादिकमप्य- पेक्ष्यत एवेति । ३ उपेक्षितवानिति-तत्परिहारे यत्नं न कृतवानित्यर्थः । ४ तदिदमिति । स्पष्टं व्याख्यातमिदं वार्तिककारेण । तद्यथा- पृथिव्युदकाभ्यामारभ्यमाणमगन्धं कारणगन्धस्यैकस्यानारम्भकत्वात् । पृथिव्य- नलाभ्यामारभ्यमाणमगन्धमरसंच कारणगन्धरसयोः केवलयोरनारम्भकत्वात् । पृथिव्य- निलाभ्यामगन्धमरसञ्चारूपं च वायोरगन्धरसरूपत्वात् । पृथिव्याकाशाभ्यामगन्धमर- समरूपमस्पर्श च आकाशे गन्धाधभावात् । सर्वत्र समानो न्यायः कारणगुणस्थ -दू. ३१] तृतीयाध्याये प्रथमाह्निके एकत्रिंशत्तमं सूत्रम् १७५ ७ शरीरमगन्धरसमरूपमस्पर्श च प्रकृत्यनुविधानान् स्यात् । न त्विदमित्थम्भूतम् । तस्मात्पार्थिवं गुणान्तरोपलव्धेः ॥ २८ ॥ २९ ॥ ३० ॥ श्रुतिप्रामाण्याच ॥३१॥ सूर्य ते चक्षुर्गच्छतान् ' इत्यत्र मन्त्रे 'पृथिवीं ते शरीरमिति ' श्रूयते । तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति । —सूर्यं ते चक्षुः स्पृणोमि ' इत्यत्र मन्त्रान्तरे 'पृथिवीं ते शरीरं स्पृणोमी 'ति श्रूयते । सेयं कारणाद्विकारस्य स्पृतिरभिधीयत इति । स्थाल्यादिषु च तुल्यजातीयानामेककार्यारम्भदर्शनाद्- भिन्नजातीयानामेककार्यारम्भानुपपत्तिः ॥ ३१ ।। (७) इन्द्रियभौतिकत्वपरीक्षाप्रकरणम् । अथेदानीमिन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते-किमाव्यक्तिकान्याहोस्विद् भौतिकानीति । कुतः संशयः ?-- केवलस्यानारम्भकत्वात् । जलानलाभ्यामगन्धञ्चारसं च, जलवायुभ्यामगन्धञ्चारसञ्चा- रूपञ्च, जलाकाशाभ्यामगन्धमरसमरूपमस्पर्शञ्च, तेजोनिलाभ्यामगन्धञ्चारसञ्चारूपञ्च, अनलाकाशाभ्यामगन्धमरसमरूपमस्पर्शञ्च, अनिलाकाशाभ्यामेवमेव भूजलानलैरग- न्धमेव, भजलानिलैरेवमेव, भूजलाकाशेरेवमेव, पृथिव्यनिलानलैरगन्धमरसञ्च, पृथि- व्यनलाकाशेरेवमेव, पृथिव्यनिलाकाशैरगन्धमरसमरूपञ्च, जलानिलानलैरगन्धमरसञ्च, जलानलाकाशेरेवमेव, जलानिलाकाशैरगन्धञ्चारसञ्चारूपञ्च, अनलानिलाकाशेरेवमेव, पृथिव्युदकतेजोवायुभिरगन्धम्पृथिव्युदकज्वलनाकाशेरेवमेव, अवनिजलाकाशेरेवमेव, पृथिव्यनिलज्वलनाकाशैरगन्धमरूपञ्च, जलानिलानलाकाशेरेवमेव, पृथिव्युदकतेजो- वायवाकाशैरगन्धारणगुणस्यैकस्यानारम्भकत्वादिति वाच्यम् । एककारणकत्वे तु सत- तोत्पत्त्यनुत्पत्ती नित्यत्वप्रसङ्गश्चेत्युक्तम् । १ सेयमिति । अस्यापि मन्त्रस्यायमों यद् यस्मादायातं तत् तस्मिन्नेव लयं गच्छतीति प्रकृती विकारस्य लयाभिधानम् । प्रकृतिशब्देन च कार्यशून्यं कारणमुच्यते, न पुनः कारणे कार्यस्य लयः । २ स्थाल्यादिष्विति । अयन्तावत्प्रमाणार्थः। विवादाध्यासितं अणुकं गन्धव- यामेव परमाणुभ्यामारभ्यते गन्धवत्वात् उभयवादिसिद्धपार्थिवद्यणुकवत् । ३ भाष्यमतेनात्र साङ्ख्यनैयायिकयोरेव विप्रतिपत्तिः । तात्पर्यकृन्मते तु बौद्ध- नैयायिकयोरपीति ध्येयम् । तथा चोक्तन्तात्पर्य-उपलक्षणं चैतत् । यदापि भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियमाहो तदधिष्ठानं तैजसमित्यपि संशयो द्रष्टव्यः । तत्र पूर्वः संशयः साङ्खयनैयायिकयोर्विप्रतिपत्तेः । उत्तरस्तु सौगतनैयायि- कयोरिति । ४ आव्यक्तिकानीति । साङ्खयमते इन्द्रियाणामुत्पत्ति व्यक्तात्साक्षात् खद्योतसहितन्यायसूत्रभाष्ये [अ० ३, आ० १, सू० ३२-- 3 - । कृष्णसारे सत्युपलम्भाद व्यतिरिच्य चोपलम्भात्संशयः ॥३२॥ कृष्णसारं भौतिकं, तस्मिन्ननुपहते रूपोपलब्धिः, उपहते चानुपलब्धि- रिति । व्यतिरिन्ये कृष्णसारमवस्थितस्य विषयस्य उपलम्भो न कृष्णसार- प्राप्तस्य । न चाप्राप्यकारित्वमिन्द्रियाणां तदिदमभौतिकत्वे विभुत्वात्सम्भवति । एवमुभयधर्मोपलव्धेः संशयः ॥ ३२ ॥ अभौतिकानीत्याह । कस्मात् ? महंदणुग्रहणात् ॥ ३३॥ मदिति महत्तरं महत्तमं चोपलभ्यते, यथा न्यग्रोधपर्वतादि । अग्विति अणुतरमगुतमं च गृह्यते, यथा न्यग्रोधधानादि । तदुभयमुपलभ्यमानं चक्षुषो भौतिकत्वं बाधते । भौतिकं हि यावत्तावदेव व्याप्नोति । अभौतिकन्तु विभु- त्वात्सर्वव्यापकमिति ॥ ३३ ॥ ने महदणुग्रहणमात्रादभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम् । इदं खलु- रम्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ॥ ३४ ॥ किन्त्वहङ्कारादेव । अत एवोक्तं तात्पर्यद्भिः-आव्यक्तिकत्वमाहङ्कारिकत्वं द्रष्टव्यम् । अहङ्काराद्धि बुद्धिविकाराद्वैकारिकादेकादशेन्द्रियाणि जायन्त इति साङ्ख्याः । आव्यक्तिकत्वन्त्वव्यक्तस्य मूलकारणत्वादुक्तमिति । १ संशयकारणोद्भावनपरं सूत्रं 'कृष्णसार' इति । व्यतिरिच्य चोपलम्भोऽह- कारिकत्वे सत्येव सम्भवति, अहङ्कारस्य विभुत्वेनाप्रतिघातात् । भौतिकत्वे काचाभ्र- पटलादिभिभौतिकैः प्रतिघातसम्भवात् । २ व्यतिरिच्येति । कृष्णसारख्यतिरेकेण विप्रकृष्टदेशावस्थितस्य विषयस्योपल- ब्धिरित्यर्थः। ३ अभौतिकानीति । साङ्खयमतमिदानीमुत्थाप्य अक्षिकनीतिकैवेन्द्रियमिति बौद्धपक्षं दूषयति। ४ अभौतिकत्वप्रतिपादनपरं सूत्रम्-महदिति । गोलकं नेन्द्रियम्-अप्राप्य- कारित्वेऽतिप्रसङ्गात् । इत्थञ्च गोलकातिरिक्तं भौतिकमिति वाच्यम्भौतिकत्ववादिभिः । तदप्यसङ्गतम् । चक्षुषा हि न्यूनपरिमाणम्महस्परिमाणं च गृह्यते, भौतिकत्वे तद- सम्भवादित्यर्थः । ५ न महदिति । पूर्वसूत्रोक्तं साङ्ख्यमतं न्यायमतेन दूषयति । ६ रश्म्यर्थेतिन्यायमतप्रतिपादकं सूत्रम् । :

तृतीयाध्याये प्रथमाह्निके सपत्रिशत्तमं सूत्रम् १७७ । , तयोर्महदण्योहणं चक्षूरश्मेरर्थस्य च सन्निकर्षविशेषाद्भवति, यथा प्रदीपरइमेरर्थम्य चेति ! रम्यर्थसन्निकर्पविशेषश्चावरणलिङ्गः । चाक्षुषो हि रश्मिः कुड्यादिभिरावृतमर्थं न प्रकाशयति यथा प्रदीपर रिमरिति ।। ३४ ॥ आवरणानुमेयत्वे सतीदमाह- 'तंदनुपलब्धेरहेतुः ॥ ३५ ।। " रूपम्पर्शवद्धि तेजः, महत्त्वादनेकद्रव्यवत्त्वाद्रूपवत्त्वाञ्चोपलब्धिरिति प्रदीपवन् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर्यदि स्यादिति " ॥ ३५ ॥ नानुमायमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ।। ३६ ।। सन्निकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर्या प्रत्यक्षतोऽनुप- लब्धि सावभावं प्रतिपादयति, यथा चन्द्रमसः परभागस्य पृथिव्याश्चाधो- भागस्य ॥ ३६॥ द्रव्यगुणधर्मभेदाचोपलब्धिनियमः ॥ ३७ ॥ भिन्नः खल्वयं द्रव्यधर्मो गुणधर्मश्च । महदनेकद्रव्यवञ्च विषक्तावयवमाप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते, स्पर्शस्तु शीतो गृह्यते । तस्य द्रव्यस्यानुबन्धात् हेमन्त शिशिरी कल्प्येते । तथाविधमेव च तैजसं द्रव्यमनुभूतरूपं सह रूपेण नोपलभ्यते, स्पर्शस्त्वस्योष्ण उपलभ्यते । तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्प्येते ॥ ३७॥ १ सन्निकर्षविशेषादिति । योऽयं सन्निकर्षों विशेषप्रतिपत्तिहेतुर्भूयोवयवसंयोगे- नुगृह्यते सोऽयमवान्तरसंयोगापेक्षयाऽवयवीन्द्रिय सन्निकर्षः सन्निकर्षविशेष इत्यु- यते। स चेन्द्रियावयवानामावयवैः-इन्द्रियावयवानामर्थेनावयविना-अर्थावय- नामिन्द्रियेण-इन्द्रियस्य चार्थेनेति । स च रश्म्यर्थसन्निकर्षविशेषो महदण्यो- तुल्यो भवतीत्यन्यथा महदण्वोर्ग्रहणं सिध्यतीति हृदयम् । २ तदनुपलब्धेरिति सूत्रं न्यायमतमाक्षिपति । न चाक्षुषो रश्मिर्विद्यत इति वार्थः । उपलब्धिलक्षणप्राप्तमनुपलभ्यमानमनुमातुं न शक्यते । तथा सति नर- वषाणादीनामप्यनुमानप्रसङ्ग इति हृदयम् । ३ महत्त्वादिति वैशेषिकसूत्रमनुवदति । तच्च सूत्रं यथा-महत्यनेकद्रव्यवत्वा- पाञ्चोपलब्धिरिति ४-१-६। ४ नानुमीयमानस्येति-आक्षेपपरिहारपरं सूत्रम् । प्रत्यक्षमात्रेणानुपलब्धि - न्तितोऽभावमेव साधयतीत्यर्थः । ५ आप्यं द्रव्यमिति । वायुनीतं जलीयत्र्यणुकादीत्यर्थः । न्या. सू. १२ १७८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० ५, सू० २८-- . - .. यत्र त्वेषा भवति- अनेकद्रव्यसमवायाद्रूपविशेषाञ्च रूपोपलब्धिः ॥ ३८ ॥ यत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते, रूपविशेषस्तु यद्भावात् कञ्चिद्रूपोपलब्धिः यदभावाच्च द्रव्यस्य कचिदनुपलब्धिः-स रूप- धर्मोऽयमुद्भवसमाख्यात इति । अनुद्भूतरूपश्चायं नायनो रश्मिः । तस्मा- प्रत्यक्षतो नोपलभ्यत इति । दृष्टश्च तेजसो धर्मभेदः । उद्भूतरूपस्पर्श प्रत्यक्षं तेजो यथा आदित्यरश्मयः । उद्भूतरूपमनुद्भूतस्पर्श च प्रत्यक्षं तेजो यथा प्रदीपरश्मयः । उद्भूतस्पर्शमनुद्भूतरूपमप्रत्यक्षं यथाऽबादिसंयुक्तं तेजः । अनुद्भूतरूपस्पर्शोऽप्रत्यक्षश्चाक्षुषो रश्मिरिति ।। ३८ ॥ कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ३९ ॥ यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्च कल्प्यते तथन्द्रियाणि व्यूढानि । विषयप्राप्त्यर्थश्च रश्मेश्चाक्षुषस्य व्यूहः। रूपस्पर्शान- भिव्यक्तिश्च व्यवहारप्रक्लुप्त्यर्था । द्रव्यविशेषे च प्रतिघातादावरणोपपत्तिय॑व- हारार्था । सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवन् कर्मकारितः पुरुषार्थतन्त्रः । कर्म तु धर्माधर्मभूतं चेतनस्योपभोगामिति । अव्यभिचाराच्च प्रतिघातो भौतिकधर्मः। यश्चावरणोपलम्भादिन्द्रियस्य द्रव्यविशेष प्रतिघातः स भौतिकधर्मो न भूतानि व्यभिचरति-नाभौतिक प्रतिघातधर्मकं दृष्टमिति । अप्रतिघातस्तु व्यभिचारी भौतिकाभौतिकयोः समानत्वादिति । । : १ यत्र स्विति । यत्रैषा रूपोपलब्धिः तत्र) अनेकद्रव्यसमवायात् रूपविशेषाच्च भवति इति सम्बन्धस्सूत्रेण । सूत्रे 'रूपविशेषा'दिति 'रूपविशेषः' उद्भवसमाख्योऽ- भिधीयते न रूपत्वम् । न रूपत्वं रूपं रूपान्तरात् विशिनष्टि, अपि तद्भवो विशेषक- स्वात् विशेष इत्युच्यते । उद्भवश्व कार्यगम्यः-यस्याभावाद् विषक्तावयवमाप्यं द्रव्यं हेमन्ते न गृह्यते तैजसञ्च ग्रीष्मे, यस्य भावात् प्रदीपरश्मिरुपलभ्यते आदित्य- रश्मिश्च स उद्भवो नाम विशेषः। स तस्मिन्नायने रश्मौ रूपविशेषो नास्तीत्यत: चाक्षुषो रश्मिनॊपलभ्यते । २ पुरुषार्थतन्त्र इति-पुरुषार्थकारित इत्यर्थः । ३ अव्यभिचाराच्चेत्यादि न सूत्रम् । न्यायसूचीनिबन्धे वृत्तौ विवरणे प्राचीन- पुस्तकेषु च तथाविधसूत्रस्याभावात् ।

ज्यू, ४२] तृतीयाध्याये प्रथमाह्निके द्विचत्वारिंशत्तमं सूत्रम् ३ यदापि मन्यते "प्रतिघाताभौतिकानीन्द्रियाणि,अप्रतिघातादभौतिकानीति प्राप्रम् । ष्टचाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः- तन्न युक्तम् । कस्मात् ? यम्माद्भौतिकमपि न प्रतिहन्यते । काचाभ्रपटलस्फटिकान्तरितप्रका- शात् प्रदीपरश्मीनाम् । स्थाल्यादिषु च पाचकस्य तेजसोऽप्रतिघातः ।। ३९ ।। उपपद्यते चानुपलब्धिः कारणभेदान- मध्यन्दिनोल्काप्रकाशानुपलब्धियत्तदनुपलब्धिः ॥ ४०॥ यथाऽनेकद्रव्येण समवायाद्रूपविशेषाञ्चोपलब्धिरिति सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यते आदित्यप्रकाशेनाभिभूतः । एवं महदनेक- द्रव्यवत्वाद्रूपविशेषाञ्चोपलब्धिरिति सत्युपलब्धिकारण चाक्षुषो रश्मिनॊपलभ्यते निमित्तान्तरतः। तच्च व्याख्यातमनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतोऽनुपल- विधरिति । अत्यन्तानुपलब्धिश्चाभावकारणम् ।। ४० ॥ यो हि ब्रवीति-"लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान्नो- पलभ्यते इति, तस्यैतत्स्यात् ? ' नं, रात्रावप्यनुपलब्धेः॥४१॥ अप्यनुमानतोऽनुपलब्धेरिति । एवमत्यन्तानुपलब्धेर्लोष्टप्रकाशो नास्ति । न त्वेवं चाक्षुषो रश्मिरिति ।। ४१ ।। उपपन्नरूपा चेयम् -- बाबप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ।। ४२॥ १ तच्चेति-निमित्तान्तरमिति यावत् । २ व्याख्यातमिति-अनेकद्रव्यसमवायादिति सूत्रभाष्ये । ३ न रात्राविति सूत्रम् । स्यादेतत्-आदित्यप्रकाशाभिभवान्मध्यन्दिनोल्का- प्रकाशानुपलब्धिरिति यदुक्तं-तदयुक्तम् । तथा सति सर्वपदार्थानां रश्मिमत्त्वप्रसङ्गात् ! एवं सति सर्व लोष्टादिरश्मिमत् प्राप्नोति । लोष्टादिरश्मयः कस्मानोपलभ्यन्ते- इत्यनुक्तो ब्रूयात्-आदित्यरश्म्यमिभवादिति-एतस्यैवोत्तररूपमेतत् सूत्रम् । ४ बाह्यप्रकाशेति सूत्रं दृष्टान्तोपन्यासरूपम् । यद्यत् बाह्यप्रकाशमपेक्षते तस्य तस्यानुपलब्धी रूपानभिव्यक्तित एव न पुनरभिभवात् । स्वोपलब्धौ बाह्यप्रकाश- मनपेक्षमाणानामेवानुपलब्धिरभिभवाद् भवति यथा दिवसे तारकाणाम् । विषक्ता- वयवस्याप्यद्रव्यस्याकाशवर्तिनो यदनुपलब्धिस्तत्तद्रूपस्यानभिव्यक्तेरेव, आष्यद्रव्याणां स्वग्रहणे बाह्यप्रकाशापेक्षत्वात् । एवमेव चाक्षुषस्थापि रश्मेः स्वग्रहणे बाह्यप्रकाशापेक्ष- स्वात् तस्याप्यनुलब्धिस्तद्रूपानभिव्यक्तरेव स्यान्न पुनरभिभवात् इति हृदयम् ।

रखद्योतसाहितन्यायसूत्रभाष्ये [अ०३, आ०१,स्० ४३ ---- बाह्येन प्रकाशेनानुगृहीतं चक्षुर्विषयग्राहकम् । तदभावेऽनुपलब्धिः । सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषाऽग्रहणं रूपस्यानुद्भूतत्वात् । सेयं रूपानभिव्यक्तितो रूपाश्रयम्य द्रव्यस्यानुपलब्धिष्टा । तत्र यदुक्तं ' तदनुपलब्धेरहेतुः' इत्येतदयुक्तम्॥४२॥ कस्मात्पुनरभिभवोऽनुपलब्धिकारणं चाक्षुषस्य रश्मे!च्यत इति ? अभिव्यक्तौ चाभिभवात् ॥ ४३॥ बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः। यद्रूपमभिव्यक्तमुद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवो विपर्ययेऽभिभवाभावात् । अनुद्भूतरूपत्वाचानुपलभ्यमानं बाह्यप्रकाशानुग्रहाचोपलभ्यमानं नाभिभूयत इति । एवमुपपन्नमस्ति चाक्षुषो रश्मिरिति ॥ ४३ ॥ नक्तञ्चरनयनरश्मिदर्शनाच ॥ ४४ ॥ दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम् । तेन शेषस्यानुमानमिति । "जातिभेदेवदिन्द्रियभेद इति चेत् ? " धर्मभेदमानं चानुपपन्नमावरणस्य प्राप्तिप्रतिषेधार्थस्य दर्शनादिति ।। ४४ ।। १ वृषदंशेति । वृषदंशगोलकसंयोगि अन्यदेव तेजः प्रत्यक्षं न तु तदिन्द्रियम्- इन्द्रियस्यातीन्द्रियस्वात् । इन्द्रियलक्षणे रूपशब्दातिरिक्तोद्भूतविशेषगुणशून्येति विशेषणपक्षेऽपि नोक्तस्य तेजस इन्द्रियत्वम् , गोलकात्तद्विषयपर्यन्तं तदर्शन प्रसङ्गात्-इन्द्रियाणां प्राप्यकारित्वनियमादिति चिचारणीयम् । २ अनुमानमिति । अनुमानप्रकारा यथा- (१) विप्रतिपत्तिविषयः कृष्णसारं रश्मिमत्-द्रव्यत्वे सति रूपोपलब्ध नियतस्य साधनस्य निमित्तत्वात्-प्रदीपवदिति । (२) अथवा-रश्मिमञ्चक्षुः- द्रव्यत्वे सति नियतत्वे सति स्फटिकादिव्यवहितार्थप्रकाशकत्वात्-प्रदीपवदिति अथवा ( ३ ) मानुषं चक्षू रश्मिमत्-अप्राप्तिस्वभावत्वे सति रूपाधुपलब्धिनिमित्त स्वात्-नक्तञ्चरचक्षुर्वदिति । ३ जातिभेदवदिति । यथा बिडालत्वं जातिवृषदंशे वर्तते न मनुष्ये-एवं बिड लस्यैव चक्षु रश्मिमद् भविष्यति न मानुषस्येति शङ्ककहृदयम् । ४ तत्परिहारो-धर्मभेदमात्रमिति । वृषदंशनेत्रस्य रश्मिमत्त्वं धर्मों मनुष्ट नेत्रस्य तु न तस्वमिति योऽयं धर्मभेदः सोऽनुपपन्न एव । ५ अनुपपत्तौ हेतुः-आवरणस्येति । सत्यपि जातिभेदे यथा वृषदंशप्रभृतीन रश्मयः कुड्यादिभिरावियन्ते तथा मनुष्याणामपीति समानमेवेति भावः । ..

रखद्योतसाहितन्यायसूत्रभाष्ये [अ०३, आ०१,स्० ४३ ---- बाह्येन प्रकाशेनानुगृहीतं चक्षुर्विषयग्राहकम् । तदभावेऽनुपलब्धिः । सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषाऽग्रहणं रूपस्यानुद्भूतत्वात् । सेयं रूपानभिव्यक्तितो रूपाश्रयम्य द्रव्यस्यानुपलब्धिष्टा । तत्र यदुक्तं ' तदनुपलब्धेरहेतुः' इत्येतदयुक्तम्॥४२॥ कस्मात्पुनरभिभवोऽनुपलब्धिकारणं चाक्षुषस्य रश्मे!च्यत इति ? अभिव्यक्तौ चाभिभवात् ॥ ४३॥ बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः। यद्रूपमभिव्यक्तमुद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवो विपर्ययेऽभिभवाभावात् । अनुद्भूतरूपत्वाचानुपलभ्यमानं बाह्यप्रकाशानुग्रहाचोपलभ्यमानं नाभिभूयत इति । एवमुपपन्नमस्ति चाक्षुषो रश्मिरिति ॥ ४३ ॥ नक्तञ्चरनयनरश्मिदर्शनाच ॥ ४४ ॥ दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम् । तेन शेषस्यानुमानमिति । "जातिभेदेवदिन्द्रियभेद इति चेत् ? " धर्मभेदमानं चानुपपन्नमावरणस्य प्राप्तिप्रतिषेधार्थस्य दर्शनादिति ।। ४४ ।। १ वृषदंशेति । वृषदंशगोलकसंयोगि अन्यदेव तेजः प्रत्यक्षं न तु तदिन्द्रियम्- इन्द्रियस्यातीन्द्रियस्वात् । इन्द्रियलक्षणे रूपशब्दातिरिक्तोद्भूतविशेषगुणशून्येति विशेषणपक्षेऽपि नोक्तस्य तेजस इन्द्रियत्वम् , गोलकात्तद्विषयपर्यन्तं तदर्शन प्रसङ्गात्-इन्द्रियाणां प्राप्यकारित्वनियमादिति चिचारणीयम् । २ अनुमानमिति । अनुमानप्रकारा यथा- (१) विप्रतिपत्तिविषयः कृष्णसारं रश्मिमत्-द्रव्यत्वे सति रूपोपलब्ध नियतस्य साधनस्य निमित्तत्वात्-प्रदीपवदिति । (२) अथवा-रश्मिमञ्चक्षुः- द्रव्यत्वे सति नियतत्वे सति स्फटिकादिव्यवहितार्थप्रकाशकत्वात्-प्रदीपवदिति अथवा ( ३ ) मानुषं चक्षू रश्मिमत्-अप्राप्तिस्वभावत्वे सति रूपाधुपलब्धिनिमित्त स्वात्-नक्तञ्चरचक्षुर्वदिति । ३ जातिभेदवदिति । यथा बिडालत्वं जातिवृषदंशे वर्तते न मनुष्ये-एवं बिड लस्यैव चक्षु रश्मिमद् भविष्यति न मानुषस्येति शङ्ककहृदयम् । ४ तत्परिहारो-धर्मभेदमात्रमिति । वृषदंशनेत्रस्य रश्मिमत्त्वं धर्मों मनुष्ट नेत्रस्य तु न तस्वमिति योऽयं धर्मभेदः सोऽनुपपन्न एव । ५ अनुपपत्तौ हेतुः-आवरणस्येति । सत्यपि जातिभेदे यथा वृषदंशप्रभृतीन रश्मयः कुड्यादिभिरावियन्ते तथा मनुष्याणामपीति समानमेवेति भावः । ..

१८२ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू०४९-- अव्यूह्यमानावयवेन व्यवधायकेन द्रव्येण सर्वतो द्रव्यस्याविष्टम्भः-क्रियाहे तोर- प्रतिबन्धः-प्राप्तरप्रतिषेध इति। दृष्टं हि कलशनिषक्तानामपां बहिः शीतस्पर्शस्य ग्रहणम् । न चेन्द्रियेणासन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः । दृष्टौ च प्रस्पन्द- परिस्रवौ। तत्र काचाभ्रपटलादिभिर्नायनरश्मेरप्रतिघाताद्विभिद्यार्थेन सह सन्निकर्षादुपपन्नं ग्रहणमिति ॥ ४८ ॥ नेतरेतरधर्मप्रसङ्गात् " ।। ४९॥ काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघात:, कुडयादिवद्वा काचा- भ्रपटलादिभिः प्रतिघात इति प्रसज्यते । नियमे कारणं वाच्यमिति" ||४५॥ आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ॥५०॥ आदर्शोदकयोः प्रसादो रूपविशेषः स्वो धर्मो नियमदर्शनात् । प्रसा- दस्य वा स्वो धर्मो रूपोपलम्भनम् । यथाऽऽदर्शप्रतिहतस्य परावृत्तस्य नयन- रइमेः स्वेन मुखेन सन्निकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यमादर्श- रूपानुग्रहात्तन्निमित्तं भवति--आदर्शरूपोपघाते तदभावात् कुडयादिषु च प्रतिबिम्बग्रहणं न भवति--एवं काचाभ्रपटलादिभिरविघातश्वभूरश्मेः कुड्या- दिभिश्च प्रतिघातो द्रव्यस्वभावनियमादिति ॥ ५० ॥ दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ।। ५१ ॥ प्रमाणस्य तत्त्वविषयत्वात् । न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुमेवं भवतेति-नापि प्रतिषश्रुमेवं न भवतेति । न १ अव्यूह्यमानावयवेनेति । यस्य द्रव्यस्य भर्जनकपालादेः अवयवा न व्यूशन्ते- पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्यान्तरजनकसंयोगोत्पादन क्रियते-तस्य द्रव्यस्य भर्जनकपालादेः अन्तरावयवैः योऽभिसम्बन्धो बढेः, स एव 'अप्रतिघातः' । एतदुक्तं भवति-सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्योऽनु- प्रवेशः स 'अप्रतिघातः'। २ प्रवेशेऽप्रतिघातमुक्त्वा निस्सरणेऽप्यविघातम्प्रदर्शयितुमाह-दृष्टं होति । घटस्थं जलं यदा परितप्यते तदा घटच्छिद्रद्वारा निस्सृत्य धर्मरश्मयोऽभ्यन्तरस्थं जलं तापयन्ति । तत्रापि घटस्य नाशो न भवति । ३ दृष्टाविति । एतदपि सूचयति यत् जलनिस्सरणादपि घटनाशो न भवतीति । ४ रूपविशेष इति । स च द्रव्यान्तरासंयुक्तसमवाय एव, तस्य वा रूपोपल- म्भनसामर्थ्यम् । तस्य या विद्यमानता उदकादिषु तदेव स्वाभाव्यम् । व्यूहनम्'-तम तृतीयाध्याये प्रथमाह्निके द्विपञ्चाशत्तमं सूत्रम् हीदमुपपद्यते रूपबन्धोऽपि चातुपो भवत्विति-गन्धवद्रा रूपं चाक्षुषं मा भूदिति-अग्निप्रतिपत्तिवद् धमेनोदकप्रतिपत्तिरपि भवत्विति-उदकाप्रतिपत्ति- वद्वा धमेनाग्निप्रतिपत्तिरपि मा भूदिति । किं कारणम् ? यथा लल्वर्था भवन्ति य एपां स्वो भावः स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्त इति । तथाभूनविषयकं हि प्रमाणमिति । इमौ बलु नियोगप्रतिषेधौ भवता देशिता, काचाभ्रपटलादिवट्ठा कुख्यादिभिरप्रतिघातो भवतु, कुड्यादिवढा काचाभ्रपट- लादिभिरप्रतिघातो मा भूदिति । न । दृष्टानुमिताः खल्विमे द्रव्यधर्माः । प्रतिघाताप्रतिघातयोर्युपलब्ध्यनुपलब्धी व्यवस्थापिके । व्यवहितानुपलब्ध्याऽ- नुमीयत कुड्यादिभिः प्रतिघातः। व्यवहितोपलव्ध्याऽनुमीयते काचाभ्रप- टलादिभिरप्रतिघात इति ।। ५१॥ (८) इन्द्रियनानात्वप्रकरणम् । अथापि खल्वेकमिदमिन्द्रियं बहूनीन्द्रियाणि वा । कुतः संशयः ?- स्थानान्यत्वे नानात्वाढवयविनानास्थानत्वाच्च संशयः ॥५२॥ १ एवं भौतिकत्वं प्राप्यकारित्वं चेन्द्रियाणां प्रसाध्येन्द्रियनानात्वप्रकरणमारम्भणी- यम् । तस्य चोपोद्घातादवतारः । नानात्वासिद्धौ हि भौतिकत्वन्न सिध्येत-तदसिद्धी च न प्राप्यकारित्वम् । एकत्वे हि रूपादिषु मध्ये नियमेन रूपस्य प्रकाशकस्वादित्या- दीनाम्भौतिकत्वसाधकानामसिद्धिः स्यादिति । तथाच न प्राप्यकारिस्वमत्र सिध्येत् , तस्य भूतधर्मत्वादिति । प्रयोजनं चास्य-इन्द्रियनानात्वसिद्धौ सत्यां दर्शनस्पर्शना- भ्यामेकार्थग्रहणादित्यादिभिरिन्द्रियातिरिक्तात्मसिद्धिः, अन्यथेन्द्रियमेवैकत्वात्सर्व प्रतिसन्दधीतेत्यादि परिशुद्धौ स्पष्टम् । २ स्थानान्यत्व इति सूत्रम् । केचिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते । स्थानान्यत्वे नानात्वं दृष्टम्-यथा बहूनां घटानामिति, एकस्य च नाना. स्थानत्वम्-यथाऽवयविन इति । तदेतदसमञ्जसमिति वार्तिकतात्पर्ययोः स्पष्टम् । स्थानान्यत्वं, स्थानस्य अन्यत्वमुच्यते---' नानास्थानत्वं' च नानास्थानानि यस्येत्यन्यपदार्थः ' स्थानान्यत्वात् ' अन्यः । संशयकारणं चैक एव धों, न धर्मद्वयमित्येकतरस्यैका- नेकसाधारणं वाच्यम् । तत्र (५) यदि तावदेवं संशयः क्रियते--स्थानान्यत्वे नानात्वैकत्वदर्शनात् संशय इति तदा सूत्रार्थालोचनेनैकत्वे स्थानान्यत्वस्यादर्शनात् न समानधर्मः । सूत्रं खल्वेकत्वे नानास्थानत्वमाह, न स्थानान्यत्वमात्रम् । अनेकत्व- मात्रे हि स्थानान्यत्वमुक्तं सूत्रकारेण–' स्थानान्यत्वे नानात्वादिति' । (२) अथ नानास्थानत्वे सत्येकत्वानेकत्वदर्शनात्संशय इति संशयः क्रियते तदा द्रव्यं नाना- . .

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू.५३- " ? बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते । नानास्थानश्च सन्नेकोऽवयवी चेति । तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति ।। ५२ ।। एकमिन्द्रियम्- " त्वगव्यतिरेकात् ॥ ५३॥ त्वगेकमिन्द्रियमित्याह । कस्मात् ? अव्यतिरेकात् । न त्वचा किञ्चि- दिन्द्रियाधिष्टानं न प्राप्तम् , न चासत्यां त्वचि किञ्चिद्विषयग्रहणं भवति । यया सर्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वगेकमिन्द्रियमिति”। नेन्द्रियान्तरार्थानुपलब्धेः। स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे त्वगिन्द्रियेण स्पर्श इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः । न स्पर्शग्राहकादिन्द्रियादिन्द्रियान्तरमस्तीति स्पर्शवदन्धादिभिर्गुह्येरन् रूपादयः, न च गृह्यन्ते । तस्मानकमिन्द्रियं त्वगिति । स्थानमनेकं न किञ्चिद् दृष्टमिति न समानधर्मत्वम् । ' अवयविनानास्थानत्वादिति' सूत्रं नानास्थानत्वेनैकत्वमाह न तु नानात्वमपि । यत् पुनर्घटाद्यनेकम् , न तन्नाना- स्थानमुक्तं सूत्रकृता, अपि तु स्थानान्यत्वमेव-' स्थानान्यत्वे नानात्वात् ' इत्यनेनेति । वर्धमानोपाध्यायाश्चारुचिबीजमन्यथा वर्णितवन्तः । सूत्राक्षरानुसारेण स्थानान्यत्वेन नानात्वसूचनमुद्भावितम्-न पुनरेकत्वम्-एकत्वं च संशयबीजम् । नानास्थानत्वादप्येकत्वं द्वितीयसूत्रांशेन सूचितम्-तत्र च नानात्वन्नोझावितम् । उभयत्रापि संशयबीजमनुक्तमेव वर्तत इति । एवं सूत्रं यथाश्रुतमसम्बद्धं ज्ञात्वा तच्छब्दगतिमवधीर्यार्थगत्यैव व्याख्यात- वान् भाष्यकारः। मूत्रार्थस्तु स्पष्ट एव--यदा वस्तूनि नानास्थानमधितिष्ठन्ति तदा तान्यपि नानैव भवन्ति, यथा घटपटौ । एकमेव च वस्तु नानास्थानान्यधितिष्ठत् दृष्टम्--- यथा नानावयवेष्वेक एवावयवी । एवं च यदा वयमिन्द्रियाणि नानास्थानान्यधि- तिष्ठन्तीति पश्यामस्तदा जायते संशयः-किमेतानि घटपटवन्नाना-उतावयविवदेक- . . : मेवेति । १भिन्नस्थानेष्विति । अत्र नानास्थानत्वनिमित्त इन्द्रियेवेकानेकत्वसंशयः । २ एकमिन्द्रियमिति पूर्वपक्षः । तदुद्भावकं सूत्रम्-त्वगव्यतिरेकादिति । ३ नेन्द्रियान्तरार्थेति पूर्वपक्षव्युदासभाष्यम् ।

-~-यू . ५४ तृतीयाध्याये प्रथमाह्निके चतुःपञ्चाशत्तमं सूत्रम् १८५ . "त्वगवयवविशेषेण धूमोपलब्धिवत्तदुपलब्धिः। यथा त्वचोऽवयवविशेषः कश्चिच्चक्षुपि सन्निकृष्टो धूमस्पर्श गृह्णाति नान्यः, एवं त्वचोऽवयवविशेषा रूपादिग्राहकास्तेषामुपघाताइन्धादिभिर्न गृह्यन्ते रूपादन इति" । व्याहतत्वादहेतुः । त्वगव्यतिरेकादेकमिन्द्रियमित्युक्त्वा वगवयवविशेषेण धूमोपलब्धिवद्रूपाशुपलब्धिः । इत्युच्यते । एवञ्च सति नानाभूतानि विषय- ग्राहकाणि विषयव्यवस्थानान्-तद्भावे विषयग्रहणस्थ भावात्तदुपघाते चामा वात्। तथा च पूर्वो वाद उत्तरेण वादेन व्याहन्यत इति । सन्दिग्धश्चाव्यतिरेकः । पृथिव्यादिभिरपि भूतेरिन्द्रियाधिष्टानानि व्यानानि । न च तेष्वसत्सु विषयग्रहणं भवतीति । तस्मान्न त्वगन्यद्वा सर्व- विषयमेकमिन्द्रियमिति ।। ५३ ।। न युगपदर्थानुपलब्धेः ।। ५४॥ आत्मा मनसा सम्बध्यते, मन इन्द्रियेण, इन्द्रियं सर्वार्थैः सन्निकृष्ट- मिति-आत्मेन्द्रियमनोऽर्थसन्निकर्षेभ्यो युगपद्ग्रहणानि स्युः । न च युगपद्रू १ व्याहन्यत इति । प्रागेकमिन्द्रियं त्वगित्यभ्युपगम्येदानी त्वगवयव विशेषा रूपादिग्राहका इति ब्रुवाणः : प्रतिषेध्यमनुजानातीति व्याघातः । २ न युगपदिति सिद्धान्तनिरूपणपरं सूत्रम् । नैतदस्ति 'एकमिन्द्रियमिति --कस्मात्-युगपदर्थानुलब्धेरिति सम्बन्धः । ३ आत्मा मनसेत्यादिभाष्यकारीयव्याख्याने वार्तिककारस्यारुचिः । तद्वीजं च तत्रैवोपन्यस्तम् । तद्यथा-यथैकेन्द्रियवादिनो युगपदनेकार्थसन्निधाने सति युगपदु- लब्धिर्दोषो भवति, तथानेकेन्द्रियवादिनोऽप्येकेन्द्रियग्राह्येषु युगपदुपलब्धिप्रसङ्गः । य एव चात्र परिहारः स एवैकेन्द्रियवादिनोऽपीति । वस्तुतस्तु न ज्ञानानां योगपद्यमिह विवक्षितम्-किन्तु एकदेवार्थानां ग्रहणमिति परिशुद्धिः। भाष्यकारीयव्याख्यानं दूषयित्वा सूत्रमन्यथा व्याख्यातवान् बार्तिककारः । यत्तदेकमिन्द्रियं सर्वार्थमित्येकेन्द्रियवादी मन्यते तत् किं प्राप्यकारि उत न । यदि प्राप्यकारि, तर्हि किं तदिति वक्तव्यम् । यदि त्वगेव तत्-तर्हि त्वचाऽप्राप्तानां रूपाणामग्रहणप्रसङ्गः । अथाप्राप्तमेव रूपं गृह्यते--स्पर्शादिष्वप्येमेव प्रसङ्गः । किञ्चिदिन्द्रियम्प्राप्तं गृह्णाति किञ्चिच्चाप्राप्तम्-एवं सति करणधर्मातिकमः । “भवतु करणधर्मातिक्रमः। किं नो बाध्यत इति चेत्-तन्निराकरणपरमिदं सूत्रम्-'न युगपदिति । यथाऽनेकेन्द्रियवादिन एकेन्द्रियग्राह्येषु युगपदुपलब्धिप्रसङ्गे 'करणत्वा- दिति' परिहारस्सुवचा--तथायमेकेन्द्रियपक्षे न सम्भवति, तथाभूतस्य करण धमा- तिरेकाभ्युपगमादित्याशय इति । अथ .. ..

- - १८६ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू०५५ - पादयो गृह्यन्ते । तस्मान्नैकमिन्द्रियं सर्वविषयमस्तीति । असाहचर्याच्च विश्व- ग्रहणानां नैकमिन्द्रियं सर्वविषयकम् । साहचर्ये हि विषयग्रहणानामन्धाद्यनुप- पत्तिरिति ॥ ५४॥ विप्रतिषेधाच न त्वगेका ॥ ५५ ॥ न खलु त्वगेकमिन्द्रियं-व्याघातात् । त्वचा रूपाण्यप्राप्तानि गृह्यन्त इत्यप्राप्यकारित्वे स्पर्शादिष्वप्येवं प्रसङ्गः । स्पर्शादीनां च प्राप्तानां ग्रहणाद- पादीनामप्राप्तानामग्रहणमिति प्राप्तम् । प्राप्याप्राप्यकारित्वमिति चेन्-आवरणानुपपत्तविषयमात्रस्य ग्रह- गम् । अथापि मन्येत-" प्राप्ताः स्पर्शादयस्त्वचा गृह्यन्ते रूपाणि त्वप्राप्तानीति" एवं सति नास्त्यावरणम् । आवरणानुपपत्तेश्च रूपमात्रस्य ग्रहणं व्यवहितस्य चेति । दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर्न स्यात् । अप्राप्तं त्वचा गृह्यते रूपमिति दूरे रूपस्याग्रहणमन्तिके च ग्रहणमित्येतन्न स्यादिति ।। ५५ ॥ एकत्वप्रतिषेधाच नानात्वसिद्धौ स्थापनाहेतुरप्युपादीयते- इन्द्रियार्थपञ्चत्वात् ॥ ५६ ॥ अर्थः प्रयोजनं, तत् पञ्चविधमिन्द्रियाणाम् । स्पर्शनेनेन्द्रियेण स्पर्श- ग्रहणे सति न तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुरनुमीयते । स्पर्श- रूपग्रहणे च ताभ्यामेव न गन्धो गृह्यत इति गन्धग्रहणप्रयोजनं ब्राणमनुमीयते । त्रयाणां ग्रहणे न तैरेव रसो गृह्यत इति रसग्रहणप्रयोजनं रसनमनुमीयते । न चतुर्णां ग्रहणे तेरैव शब्दः श्रूयत इति शब्दग्रहणप्रयोजनं श्रोत्रमनुमीयते । एखमिन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात्पञ्चैवेन्द्रियाणि ॥ ५३ ।। " न, तदर्थव हुत्वात् ” ॥५७ ।। १ एकत्वप्रतिषेधादिति । अत्र वाक्ये-(१) 'एकत्वप्रतिषेधात्'-अनन्तरम्- नानात्वसिद्धौ स्थापनाहेतुरुपादीयते--(२) अथवा प्रतिषेधहेतुभिरेव' 'एकत्वप्रति- षेधात् ' एवं 'नानात्वसिद्धौ' संपातायातम्---' स्थापनाहेतुरपि' शिष्यशिक्षाय उपादीयत इति च- अत्र परिशुद्धिकृतः यद्यपि साधनदूषणमात्रेण साध्यं न निवर्तते तथाऽपि परसाध्यनिवृत्तिरेव यत्र साध्यते तत्र तद्विपरीतसिद्धिः । एतदभिप्रायेणैवैतद् भाष्यम् । प्रयोगस्त्वेवम्---एकत्र शरोरे नैकमिन्द्रियम् युगपद्विषयसन्निधानेऽपि क्रमवृत्तित्वात् --यत् पुनरेकं न तत् युगपद्विषयसन्निधानेऽपि क्रमवृत्ति-यथा चक्षुः-तथा चेन्द्रियम्-तस्मान्नैकमिति । -उभयथा सम्बन्धः ॥

तृतीयाध्याये प्रथमाह्निके षष्ठितम सूत्रम् "न खल्विन्द्रियार्थपञ्चत्वात्पञ्चन्द्रियाणीति सिद्धयति । कम्मान् ? तेषालाना बहुत्वान् । बहवः खल्विम इन्द्रियार्थाः । स्पास्तावच्छीतोष्णानु- गाशीता इति । रूपाणि शुक्लहरितादीनि । गन्धा इष्यानिटोपेक्षणीया: । रसाः कटुकादयः । शब्दा वर्णात्मानो ध्वनिमात्राश्च भिन्नाः । तद्यम्येन्द्रियार्थपञ्चत्वात् पछेन्द्रियाणि तम्येन्द्रियार्थबहुत्वादहनीन्द्रियाणि प्रसज्यन्त इति । ५७ !! गन्धत्वाचव्यतिरेकाद्गन्यादीनामप्रतिषेधः ।। ५८ ॥ गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादि- ग्रहणानि तान्यसमानसाधनसाध्यत्वाद्ग्राहकान्तराणि न प्रयोजयन्ति । अर्थ- समूहोऽनुमानमुक्तो नार्थंकदेशः । अथैकदेश चाश्रित्य विषयपञ्चत्वमात्रं भवा- न्प्रतिषेधति । तस्मादयुक्तोऽयं प्रतिषेध इति । "कथं पुनर्गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादय इति' ? स्पर्शः खल्वयं त्रिविधः-शीत उष्णोऽनुष्णाशीतश्च स्पर्शत्वेन स्वसामान्येन लगृहीतः । गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति, स्पर्शभेदानामेकसाधनसाध्यत्वाद् येनैव शीतस्पों गृह्यते तेनैवेतरावपीति । एवं गन्धत्वेन गन्धानां, रूपत्वेन रूपाणां, रसत्वेन रसानां, शब्दत्वेन शब्दानामिति । गन्धादिग्रहणानि पुनरसमानसाधनसाध्यत्वाद् ग्राहकान्तराणां प्रयोज- कानि । तस्मादुपपन्नमिन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति ।। ५८ ॥ यदि सामान्य सङ्ग्राहकं, प्राप्तमिन्द्रियाणाम्- " विषयत्वाव्यतिरेकादेकत्वम्" ॥ ५९॥ विषयत्वेन हि सामान्येन गन्धादयः सङ्ग्रहीता इति " || ५९ ।। न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ६० ॥ न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षा एकसाधनग्राह्या अनुमीयन्ते । अनुमीयन्ते च पञ्चगन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था इन्द्रियान्तरग्राह्याः । तस्मादसम्बद्धमेतत् । अयमेव चार्थोऽनूद्यते-बुद्धिलक्षणपञ्चत्वादिति । बुद्धय एव लक्षणानि, विषयग्रहणलिङ्गत्वादिन्द्रियाणाम् । तदतत्- इन्द्रियार्थपञ्चत्वात्' इत्येतस्मिन् सूत्रे कृतभाष्यमिति । तस्माद् बुद्धिलक्षणपञ्चत्वात्पश्चेन्द्रियाणि । " ९८८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०१, सू०६१- " अधिष्ठानान्यपि खलु पञ्चेन्द्रियाणाम् । सर्वशरीराधिष्टानं स्पर्शनं स्पर्श- ग्रहणलिङ्गम् । कृष्णसाराधिष्ठानं चक्षुः बहिनिःसृतं रूपग्रहणलिङ्गम् । नासाधि- ष्टानं घ्राणम् , जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्, गन्धरसरूप- स्पर्शशब्दग्रहणलिङ्गत्वादिति। गतिभेदादपीन्द्रियभेदः। कृष्णसारोपनिबद्धं चक्षुर्बहिर्निःसृत्य रूपाधि- करणानि द्रव्याणि प्राप्नोति । स्पर्शनादीनि त्विन्द्रियाणि विषया एवाश्रयोप- सर्पणात् प्रत्यासीदन्ति । सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्यासत्तिरिति । आकृतिः खलु परिमाणमियत्ता । सा पञ्चधा । स्वस्थानमात्राणि घ्राण- रसनस्पशर्नानि विषयग्रहणेनानुमेयानि । चक्षुः कृष्णसाराश्रयं बहिनिःसृतं विषयव्यापि । श्रोत्रं नान्यदाकाशात् । तच्च विभु, शब्दमात्रानुभवानुमेयं, पुरुष- संस्कारोपग्रहाच्चाधिष्टाननियमेन शब्दस्य व्यञ्जकमिति । जातिरिति योनिं प्रचक्षते । पञ्च खल्विन्द्रिययोनयः-पृथिव्यादीनि भूतानि । तस्मात्प्रकृतिपञ्चत्वादपि पञ्चेन्द्रियाणीति सिद्धम् ॥ ६० ॥ कथं पुनर्जायते भूतप्रकृतींनीन्द्रियाणि नाव्यक्तप्रकृतीनीति"-- भृतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ ६१॥ दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः । वायुः स्पर्श- व्यञ्जकः । आपो रसव्यञ्जिकाः । तेजो रूपव्यञ्जकम् । पार्थिवं किञ्चिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम् । अस्ति चायमिन्द्रियाणां भूतगुणविशेषोप- लब्धिनियमः । तेन भूतगुणविशेषोपलब्धेर्मन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति ॥ ६१ ॥ १ भूतगुणविशेषोपलब्धिनियम इति । रूपरसगन्धस्पर्शषु नियमेन गन्धस्य व्यञ्जकत्वा' दित्येवं रूपो नियमोऽत्र विवक्षितः । अत्रेदमवधेयम् । इन्द्रियपञ्चत्वेन हस्तपादपायूपस्थवाचामिन्द्रियत्वनिषेधोऽपि सचितः, तेषामिन्द्रियलक्षणविरहात् । यच्छरीरसंयुक्तं संस्कारदोषव्यतिरिक्तं साक्षा- प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणम् । न चैतदस्ति हस्तादिषु । "शरीरा- श्रितमसाधारणकारीन्द्रियमिति लक्षणं हस्तादिष्वपि वर्तत” इति चेत्-वक्तव्यं हस्तादोनामसाधारणं कार्यम् । उक्तन्तत्-वचनादानविहरणोत्सर्गानन्दाश्च पञ्चा- नामिति" चेत्-आदानविहरणोत्सर्गा वक्त्रहस्तादिभिरपि शक्याः कर्तुम् । अपि चास्ति कण्ठहृदयाऽऽमाशयपक्वाशयादीनामपि गिरणादि तत्तदसाधारणं कार्यमिति तान्यपीन्द्रियाणि प्रसज्येरन्-इति तात्पर्यकाराः । । पार्थिवं घ्राणम्, aunawwan तृतीयाध्याये प्रथमाह्निक चतुःषष्टितमं मूत्रम् १८९ .. (९) अर्थपरीक्षाप्रकरणम् । गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टम् । उद्देशश्च पृथिव्यादीनामेक- गुणत्वे चानकगुणत्वे समान इत्यत आह- गन्धरमरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ।। ६२ ।। अप्लेजोवायूनां पूर्व पूर्वमपोह्याकाशस्योत्तरः ।। ६३ ॥ स्पर्शपर्यन्तानामिति विभक्तिविपरिणामः । आकाशम्योत्तरः शब्दः स्पर्शपर्यन्तेभ्य इति । कथं तर्हि तरवनिर्देशः ? स्वतन्त्रविनियोगसामर्थ्यान् । तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते । उद्देशसूत्रे हि म्पर्शपर्यन्तेभ्यः परः शब्द इति । तन्त्रं वा, स्पर्शस्य विवक्षितत्वात् । म्पर्शपर्यन्तेषु नियुक्तेषु योऽन्यस्तदुत्तरः शब्द इति ॥ ६३ ॥ नं, सर्वगुणानुपलब्धेः" ॥ ६४ ॥ १ गन्धादय इति । क्रमप्राप्तमर्थलक्षणं परिचिक्षिपमाणोऽर्थलक्षणम्पूर्वोत (१११।१४) स्मारयति । प्रयोजनं चास्याः परीक्षाया इन्द्रियनानात्वसिद्धिः पृथि- व्यादिलक्षणासिद्धिपरिहारश्च । समुच्चये हि नेन्द्रियपञ्चत्वं स्यात् । २ उद्दिष्टमिति-लक्षितमित्यर्थः । उद्देशस्तु सर्वेषां पदार्थानामाद्य एव सूत्रे कृत इति ध्येयम् । ३ समान इति । नियोगविकल्पसमुच्चयैस्तुल्य इत्यर्थः । तत्र (१) नियोगे- घ्राणादिष्वेकस्य पृथिव्यादिवेक एव विषयः । (२) विकल्पे–कस्यचिदेकः कस्य- चिद् द्वावित्येवमादिः । (३) समुच्चये-सर्वं सर्वत्रेति । तत्र गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्था ( १११११४) इत्येतद्वाक्यं नियोगार्थं विकल्पार्थं समुच्चयाथ वेति संशयः । अथवा गन्धरसरूपस्पर्शशब्देष्वेव गुणत्वेन सन्देहः । गुणा हि केचित् सर्वद्रव्यसाधारणाः केचित्प्रतिनियतव्यवृत्तयो दृष्टाः । ४-५ नियमार्थं सूत्रद्वयम्-गन्धेति, अविति च । ६ स्पर्शपर्यन्तानामिति । पूर्वसूत्रगतस्पर्शपर्यन्ता इति पदस्यानुवृत्तिरबित्यादि- सूत्रे कर्तव्या । तत्र तु विभक्तिविपरिणामः कर्तव्यः। स्पर्शपर्यन्ता इति प्रथमान्त- स्थाने स्पर्शपर्यन्तानामिति षष्ठ्यन्तः कर्तव्य इत्यर्थः । तथा च स्पर्शपर्यन्तानां गन्धा- दीनाम्मध्ये पूर्वम्पूर्वमपोह्य अप्सेजोवायूनां गुणा इति सूत्रार्थः । ७ तन्त्रं वेति । गन्धादिभ्यः परः स्पर्शः स्पर्शादयं ( शब्दः ) पर इति यावदुक्तं भवति तावदुक्तम्भवति 'उत्तर' इति । ८ पूर्वपक्षी 'एकस्यैकमिति नियोगपक्षमुत्थापयति-न सर्वगुणानुपलब्धेरिति सूत्रे ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०१, स०६५ - " नायं गुणनियमयोगः साधुः । कस्मात् ? यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्व उपलभ्यन्ते । पार्थिवेन हि ब्राणेन स्पर्शपर्यन्ता न गृह्यन्ते, गन्ध एव एको गृह्यते । एवं शेषेष्वपीति" ॥६४ ॥ कथं तहीमे गुणा विनियोक्तव्या इति?- एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः" ॥६५॥ "गन्धादीनामेकैको यथाक्रमं पृथिव्यादीनामेकैकस्य गुणः । अतस्तद- नुपलब्धिः-तेषां तयोः तस्य चानुपलब्धिः-घ्राणेन रसरूपस्पर्शानां, रसनेन रूपस्पर्शयोः, चक्षुषा स्पर्शस्येति” । कथं त_नेकगुणानि भूतानि गृह्यन्त इति ? “संसर्गाच्चानेकगुणग्रहणम् । अबादिसंसर्गाच्च पृथिव्यां रसादयो गृह्मन्ते । एवं शेषेष्वपीति" ॥ ६५ ॥ नियमस्तर्हि न प्राप्नोति । संसर्गस्यानियमाचतुर्गणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुरिति । नियमश्चोपपद्यते । कथम् ? - " विष्ट ह्यपरं परण" ॥६६॥ पृथिव्यादीनां पूर्वपूर्वमुत्तरेणोत्तरेण विष्टम् । अत: संसर्गनियम इति । तच्चैतद् भूतसृष्टौ वेदितव्यं नैतीति " ।। ६६ ।। न, पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ६७ ॥ नेति त्रिसूत्री प्रत्याचष्टे । कस्मात् ? पार्थिवस्य द्रव्यस्याप्यस्य च १ एवं शेषेष्विति । पृथिव्यादिप्रकृतीनां घ्राणादीनां गन्धादिप्रतिव्यक्तिनियम एवमुपपद्यते यदि गन्धमात्रगुणा पृथिवी रसमात्रगुणा आप इत्यादि, न त्वन्यथा । अन्यथा तु पार्थिवेन घ्राणेन गन्धवद् रूपरसस्पर्शा अपि व्यज्येरनिति हृदयम् । २ विष्टमिति सूत्रम् । तत्र चन्द्रोक्तं व्याख्यानम्भाष्यसम्मतन्न प्रतिभाति । तदभिमतं तु प्रदर्शितन्तात्पर्ये तद्यथा-'अपरं' पृथिव्यादि ‘परेण' अबादिना 'विष्टम् ' व्याप्तम् । नाबादिमन्तरेणास्ति पृथिवी । तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भः, न स्वबादिषु पृथिवीगुणानाम् । एवमेवाप्सु अनलादि- गुणो व्याख्यात इति । ३ भूतसृष्टाविति । भूतसृष्ट्यादिप्रतिपादकेषु पुराणादिग्रन्थेष्वित्यर्थः । ४ नैतहीति । नेदानीमिति यावत्-इदानीन्तनैरस्माभिस्तदननुभवादित्याशयः ।

तृतीध्यायाये प्रथमाह्निके सप्रषष्ठितमं सूत्रम् १९१ प्रत्यक्षवान् । महन्जानेकद्रव्यवत्वाद्र्पाञ्चोपलब्धिरिति तैजसमेव द्रव्यं प्रत्यक्षं न्यान् , न पार्थिवमाचं वा. रूपाभावात् । तैजसवन्तु पार्थिवाप्ययोः प्रत्यक्ष- त्वान्न संसदिनेकगुणग्रह भूनानामिति । भूनान्तरस्पतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षा वायुः प्रमज्यते । नियम वा कारगमुच्यतामिति । रसयावा पार्थिवाप्ययोः प्रत्यक्षत्वात् । पार्थिवा रस: पड्विधः, आप्यो मधुर एव । न चैतत्संसर्गाद्भवितुमर्हति । रूपयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वान् तेजसरूपानुगृहीतयोः । संसर्गे हि व्यञ्जकमेव रूपं न व्यङ्गयमस्तीति । एका- नेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः । पार्थिवं हरितलोहितपीता- द्यनेकविधं रूपमाप्यं तु शुक्लमप्रकाशकम् । न चैतदेकगुणानां संसर्गे सत्युप- पद्यत इति । उदाहरणमात्रं चैतत् । अतः परं प्रपञ्चः । स्पर्शयोर्वा पार्थिवतंजलयोः प्रत्यक्षत्वात् । पार्थिवोऽनुष्णाशीतः स्पर्शः उरणम्तैजसः प्रत्यक्षः । न चैतदेकगुणानामनुष्णाशीतस्पर्शेन वायुना संसर्गे. गोपपद्यत इति । अथ वा पार्थिवाप्ययोर्द्रव्ययोर्व्यवस्थितगुणयोः प्रत्यक्षत्वात् । चतुर्गुणं पार्थिवं द्रव्यम्, त्रिगुणमाप्यं प्रत्यक्षम् । तेन तत्कारणमनुमीयते तथागुण्य- मिति । तस्य कार्य लिङ्गम् , कारणभावाद्धि कार्यभाव इति । एवं तैजसवाय- व्ययोव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायास्तस्कारणे द्रव्ये व्यवस्थाऽनुमानमिति । १ महत्त्वेति । त्रिविधं हि द्रव्यं चाक्षुषमिप्यते-पार्थिवमाप्यं तैजसं च । तत्र रूपवत्त्वेन तैजसमेव चाक्षुपं स्यात् , नेतरत् , अरूपवत्वात् । न च " रूपिव्य- संसर्गाच्चाक्षुषत्वमरूपयोरपि पार्थिवाप्ययोः” इति वाच्यम् । तथा सति नभोनभ- स्वतोरांपे अरूपवतोः चाक्षुषत्वप्रसङ्गात् । अस्ति हि रूपवता तेजसा तयोरपि संयोग इति । २ रसयोरित्यादि उपपद्यत' इत्यन्तस्य ग्रन्थसन्दर्भस्य संक्षेपार्थो वर्णितस्ता- त्पर्यकारेण–पार्थिवाप्यसम्बन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन प्रत्यक्षत्व- मिति सूत्रस्थहेतोरन्यथा व्याख्यानमिति । ३ उदाहरणमात्रमिति । पार्थिवतैजसयोरप्येवमेव व्याख्यानं युक्तमिति भावः । ४ तथागुण्यमिति । कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि व्यवस्थित- गुणमनुमीयत इत्यर्थः ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, सू०६८- दृष्टश्च विवेकः-पार्थिवाप्ययोः प्रत्यक्षत्वात् । पार्थिवं द्रव्यमबादिभि- वियुक्तं प्रत्यक्षतो गृह्यते, आप्यं च पराभ्यां, तैजसं च वायुना । न चैकैकगुण गृह्यत इति । निरनुमानं तु-विष्ट ह्यपरं परेण ' इत्येतदिति । नात्र लिङ्गमनु- मापकं गृह्यत इति येनैतदेवं प्रतिपद्येमहि । यच्चोक्तं-" विष्टं ह्यपरं परेणेति भूतसृष्टी वेदितव्यं न साम्प्रतमिति - नियमकारणाभावादयुक्तम् । दृष्टं च साम्प्रतमपरं परेण विष्टमिति-वायुना च विष्टं तेज इति । विष्टत्वं संयोगः । स च द्वयोः समानः । वायुना च विष्ट- त्वात् स्पर्शवत्तेजो, न तु तेजसा विष्टत्वाद् रूपवान्वायुरिति नियमकारणं नास्तीति । दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याभिभवादग्रहणमिति । न च तेनैव तस्याभिभव इति ॥ ६७॥ तदेवं न्यायविरुद्धं प्रवादं प्रतिषिध्य ‘न सर्वगुणानुपलब्धे 'रिति चोदितं समाधीयते-- पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ।। ६८ ॥ १ नियमकारणाभावादिति । नियमः-गन्धश्च वै पृथिव्यामित्येवमादिः। तस्य कारणं प्रमाणं वन्मते नास्ति-तद्वाधकस्यैव प्रमाणस्य त्वयोक्तत्वात । तस्माद् भूत- सृष्टिः कथंचिदुपचारतो व्याख्येयेत्यर्थः । २ विष्टत्वमिति । आस्तान्तावत्प्रत्यक्षबाधः । विकल्पतोऽपि विष्टत्वन्नोपपद्यत इत्यभिप्रायः ३ द्वयोः समान इति । अन्यगुणो यदन्यत्रोपलभ्यते तत् किं संयोगादुत व्याप्तेः । यदि व्याः, नायोगोलके वह्निसम्पृक्त वह्निगुणा गृह्येरन् , तयोाप्य- व्यापकभावाभावात् । तस्मादन्यसंयोग एव हेतुः । स च द्वयोरविशिष्ट इति तेजसा संयुक्तस्य वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इति । ४ पूर्वपूर्वेति सूत्रम् । घ्राणादीनाम्मध्ये यत् पूर्वं पूर्वं तत् गुणस्यैकस्य उत्क- र्षात् (अर्थात् अभिव्यक्तिसामर्थ्यात् ) तत्तत्प्रधानम् (स स गुणः प्रधानो यस्य तत् )। एवं च घ्राणं गन्धप्रधानम् , रसनं रसप्रधानमित्यादि सूत्रार्थो भाग्यसम्मतः । अन तु वार्तिककारस्यानभिरुचिः । विषयग्राहकत्वं चेत् प्रधानत्वं ततः सर्वेपा- मिन्द्रियाणां विषयग्राहकत्वात् सर्वाणि प्रधानानि-इत्यरुचिबीजम् । किन्तु यस्मिन् व्याख्याने वार्तिककारस्यारुचिर्न तद्भाष्यकारस्य विवक्षितमिति ध्येयम् । 'तत्तत्प्रधानम् ' इत्यस्य नायमर्थों यत् पूर्वं पूर्वमिन्द्रियम्परस्मात्प्रधानम्- अपि तु स स गुणः प्रधानो यस्य तदेव पूर्व पूर्वमिन्द्रियमिति । न चात्र व्याख्याने बार्तिकोक्तदूषणस्यावकाशः।

तृतीयाध्याये प्रथमाह्निके सप्रतितमं सूत्रम् १९३ , , . तस्मान्न सर्वगुणोपलब्धिः । ब्राणादीनां पूर्व पूर्व गन्धादेर्गुणस्योत्कर्षा- त्तत्तत्प्रधानम् ।' का प्रधानता ? विषयग्राहकत्वम् । को गुणोत्कर्षः ? अभि- व्यक्तौ समर्थत्वम् । यथा वाह्यानां पार्थिवाप्यतेजसाना व्याणां चतुर्गुण- त्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं, गन्धरसरूपोत्कर्पानु यथाक्रम गन्धरम- रूपव्यञ्जकत्वम् , एवं ब्राणरसनचक्षुपां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणा- ग्राहकत्वम् , गन्धरसरूपोत्कर्षात्तु यथाक्रमं गन्धरसरूपग्राहकत्वम् । तन्माद प्राणादिभिर्न सर्वेषां गुणानामुपलब्धिरिति । यस्तु प्रतिजानीते -गन्धगुणत्वाद् वाणं गन्धस्य ग्राहकमेवं रसनादिष्व- पीति तस्य यथागुणयोगं ब्राणादिभिर्गुणग्रहणं प्रसज्यत इति ।। ६८ ॥ "किं कृतं पुनर्व्यवस्थानं-किञ्चित्पार्थिवमिन्द्रियं, न सर्वाणि, कानि- चिदाप्यतेजसवायव्यानि इन्द्रियाणि, न सर्वाणीति ?"- तद्वयवस्थानं तु भूयस्त्वात् ।। ६९ ।। अर्थनिवृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम् ' । दृष्टो हि प्रकर्षे भूयस्त्वशब्दः-प्रकृष्टो यथा विषयो भूयानित्यु- च्यते । यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद्विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वय॑न्ते, न सर्वं सर्वार्थम् , एवं पृथग्विषयग्रहणसमर्थानि ब्राणादीनि निर्वयन्ते, न सर्वविषयग्रहणसमर्थानीति ।। ६९ ।। स्वगुणान्नोपलभन्त इन्द्रियाणि कस्मादिति चेत् "- वर्धमानोपाध्यायास्त्वेवं व्याचक्षते । पूर्व पूर्व घ्राणादिगुणानां गन्धादीनामु- स्कर्षात्-उत्तररसनाद्यवृत्तित्वे सति पूर्ववृत्तित्वात्-तत्तत्प्रधानम् । तेन तेन गुणेन प्रधानमित्यर्थः यतस्तस्माद् घ्राणादिना न सर्वगुणोपलब्धिः। तथा च येनैव गुणेनोक्तरूपं प्रधानं स एवोद्भूतस्तेन गृह्यते न सर्वे-इति भाव इति । ५ उत्कर्षादिति । सर्वेषां समवायाविशेषेऽपि गन्धस्यैव घ्राणे उत्कर्प इति गन्धमेव गृह्णाति । तेनागन्धवत्त्वनिषेधपरं प्राधान्याभिधानम् । न पुनर्गन्धवत्वं गन्धग्रहणे प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् । २ तस्य यथा गुणयोगमिति । “गन्धमात्रगुणत्वादेव घ्राणं गन्धस्य व्यञ्जकं न तु गन्धस्य तत्रोत्कर्षात्" इति यः प्रतिजानीते तस्य वादिनः सर्वेषामेव पार्थिवान गुणानां घ्राणग्राह्यत्वप्रसङ्ग इति भावः । ३ स्वगुणानिति-सूत्रोपोद्रातपरं वाक्यम् ! वृत्तिकृतस्त्वन्यथैवोपोद्दातमाहुः-- घ्राणादीनां गन्धादिगुणवत्त्वे मानमाहेति । .. न्या. सू. १३ १९४ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० १, २०७३- , , सगुणानामिन्द्रियभावात् ॥ ७० ।। स्वान् गन्धादीन्नोपलभन्ते ब्राणादीनि । केन कारणेनेति चेत् "- स्वगुणैः सह घ्राणादीनामिन्द्रियभावात् । घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्य गन्धं गृह्णाति । तस्य स्वगन्धग्रहणं सहकारिवैकल्यान भवति । एवं शेषाणामपि ॥ ७०॥ "यदि पुनर्गन्धः सहकारी च स्याद् ब्राणस्य, ग्राह्यश्चे'त्यत आह- तेनैव तस्याग्रहणाच ॥ ७१ ॥ न स्वगुणोपलब्धिरिन्द्रियाणाम् । यो ब्रूते- यथा बाह्यं द्रव्यं चक्षुषा गृह्यते तथा तेनैव चक्षुषा तदेव चक्षुर्गृह्यतामिति'-तादृगिदम् । तुल्यो ह्युभयत्र प्रतिपत्तिहेत्वभाव इति ॥ ७१ ॥ "न, शब्दगुणोपलब्धेः” ॥ ७२ ॥ स्वगुणान्नोपलभन्त इन्द्रियाणीति,-एतन्न भवति । उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति ॥ ७२ ॥ तर्दुपलब्धिरितरेतरद्रव्यगुणवैधात् ।। ७३ ।। न शब्देन गुणेन सगुणमाकाशमिन्द्रियं भवति । न शब्दः शब्दस्य व्यञ्जकः । न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षम्-नाप्यनुमीयते । अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणं शब्दगुणत्वं च आकाशस्येति । परिशेषश्चानुमान वेदितव्यम् । आत्मा तावच्छोता, न करणम् । मनसः श्रोत्रत्वे बधिरत्वाभावः । पृथिव्यादीनां प्राणादिभावे सामर्थ्यं श्रोत्रभावे चासामर्थ्यम् । अस्ति चेदं श्रोत्रम् । आकाशं च शिष्यते । परिशेषादाकाशं श्रोत्रमिति ।। ७३ ।। इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्याद्यमाह्निकम् ।। १ तेनैवेतिसूत्रं वृत्तिकारोऽन्यथा व्याख्यातवान् । तद्यथा इत्थं च गन्धादि- सिद्धौ अप्रत्यक्षत्वादनुद्भूतत्वकल्पनमित्याशेयनाह-तेनैवेति । 'तेन' इन्द्रियेण 'तस्य' सगुणस्य इन्द्रियस्य ' अग्रहणात् ' अनुद्भूतत्वकल्पनमिति । २ तदुपलब्धिरितिसूत्रम् । यथेतराणीन्द्रियाणि सगुणानि न तथाऽऽकाशम् । कस्मात् ? शब्दस्येतरगुणवैधात् , आकाशस्य चेतरव्यवैधादित्यर्थः। न श्रोत्रं सशब्दमिन्द्रियमिति भावः ।

अथ तृतीयाध्यायस्य द्वितीयमाह्निकम् । (१) बुद्धथनित्यताप्रकरणम्। परीक्षितानीन्द्रियाण्यांश्च । बुद्धेरिदानी परीक्षानमः । ला किमनित्या नित्या वति ? कुतः संशयः ? कर्माकाशमाधात् मंशयः ॥ १ ॥ अम्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ । विशेषश्चोपजना- पायधर्मवत्त्वं विपर्ययश्च यथास्वमनित्यनित्ययोस्तस्यां बुद्धी नोपलभ्यते । तेन संशय इति || १ ॥ अनुपपन्नरूपः स्वल्वयं संशयः । सर्वशरीरिणां हि प्रत्यात्मवेदनीया अनित्या बुद्धिः सुखादिवत् । भवति च संवित्तिः-ज्ञास्यामि जानामि अज्ञा- सिपमिति । न चोपजनापायावन्तरेण त्रैकाल्यव्यक्तिः । ततश्च त्रैकास्यव्यक्तर- नित्या बुद्धिरित्येतसिद्धम् । । प्रमाणसिद्धं चेदं शास्त्रेऽप्युक्तम्-' इन्द्रियार्थस- न्निकर्योत्पन्नम्,-'युगपज्ञानानुत्पत्तिर्मनमो लिङ्गम् ' इत्येवमादि । तस्मा- संशयप्रक्रियानुपपत्तिरिति "! । १ परीक्षितानीति । बाह्यप्रमेयपरीक्षां विधाय शरीरान्तवृत्तिप्रमेयपरीक्षामारभते- इति परिशुद्धिः । तत्र निबन्धप्रकाशकृतः-शरीरान्तवृत्तित्वं न तावच्छरीरान्तस्सम- वेतत्वम् , बुद्धिमनमोरतथात्वात् । नापि तत्संयुक्तत्वम् , बुद्धौ तदभावात शरोराद्यति- व्यापकत्वाचा एवं च शरीरावच्छेदव्याप्यभोगानुकूलसम्बन्धववृत्तिकारणप्रमेयविभाजकोपा- धिमत्प्रमेयपरीक्षैव द्वितीयाह्निकार्थ इति वक्तुं युक्तम् । तद्रूपस्य निवेदोपयोगेन तत्र जिज्ञासोत्पत्तेः । न चातिव्याप्तिः । आत्मादिचतुपके भोगानुकूलसम्बन्धस्य शरीरा- नवच्छेद्यत्वात् । अतिप्रसक्तेनापि रूपेणैकवाक्यतानिर्वाहाद्वा । तेन रूपेण बुद्धि- मनसोरेव विवक्षितत्वात् । यद्यप्येतावताऽपि नाहिकयोः सङ्गतिरुक्ता बुद्धिमात्र- स्याट्लिकार्थाभावेनोत्तराह्निकार्थानभिधानात्-तथाऽपि बुद्धिपदस्योपलक्षणतया मन- सोऽप्युपग्रहो भवत्येवेति । २ विशेषश्चेति । 'विशेषश्च-उपजनापायधर्मवत्त्वम्-अनित्यनित्ययोः विपर्ययः बुद्धौ नोपलभ्यते'-इति सम्बन्धः । ३ अनुपपन्नेति । यद्युपलभ्यमानज्ञानविषयः संशयः, सोऽनुपपन्नः सावथाना- मपि तदनित्यत्वस्याभ्युपगमात् । अथ साङ्ख्याभिमतमहत्तत्वविषयः, तस्य महत्त- ..

१९६ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० २, सू०२- . । दृष्टिप्रवादोपालम्भार्थं तु प्रकरणम् । एवं हि पश्यन्तः प्रवदन्ति साङयाः-“पुरुषस्यान्तःकरणभूता नित्या बुद्धिरिति”। साधनं च प्रचक्षते- " विषयप्रत्यभिज्ञानात् " ॥ २ ॥ किं पुनरिदं प्रत्यभिज्ञानम् ? यं पूर्वमज्ञासिषमर्थं तमिमं जानामीति ज्ञानयोः समानेऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् । एतच्चावस्थिताया बुद्धेरुप- पन्नम् । नानात्वे तु बुद्धिभेदेपूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः । नान्य- ज्ञातमन्यः प्रत्यभिजानातीति" ॥ २ ॥ साध्यसमत्वादहेतुः ॥ ३ ॥ यथा खलु नित्यत्वं बुद्धेः साध्यमेवं प्रत्यभिज्ञानमपीति । किं कारणम् ? चेतनधर्मस्य करणेऽनुपपत्तिः । पुरुषधर्मः खल्वयं-ज्ञानं दर्शनमुपलब्धिर्बोधः त्वस्य सत्व एव विप्रतिपत्तिरिति कुतस्तद्तधर्मविचारः । सति धर्मिणि धर्मश्चिन्त्यते न सन्दिग्धसत्त्व इति । १ दृष्टिप्रवादेति । साङ्ख्यानां हि दर्शने प्रवादो महदन्तःकरणं बुद्धिरिति- तदु- पालम्भनार्थ' दूषणार्थ 'प्रकरगमिति । अयमभिप्रायः-नेह नित्यानित्यविचारः प्रधानतः, अपि त्वनया द्वारा वृत्तेरतिरिक्ता साङ्ख्याभिमता बुद्धिनिराक्रियते, सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण । यदि हि नित्या बुद्धिः स्यात्ततो वृत्तिभ्य उदयवतीभ्यो व्यतिरिक्तं महत्तत्त्वमन्तःकरणं स्यात् । अथ तु नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वसाधनायालमिति वृत्तय एव बुद्धयो न तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति 'बुद्धिरुपलब्धिर्ज्ञानमित्य नर्थान्तरम्' (सूचं १११११५) इति बुद्धिलक्षणम् । तथा चास्य विचारस्य लक्षण एव सङ्गतिः । इतरथा तु प्रधानतो नित्यानित्यविचारोन लक्षणेन सङ्गच्छते । २ बुद्धि नित्यत्वसाधनप्रदर्शनपरं सूत्रम्-विषयप्रत्यभिज्ञानादिति । वृत्तिमान् किल विषयं प्रत्यभिजानन् आत्मानमपि प्रत्यभिजानाति । न च चेतनो वृत्तिमान् , तस्य कूटस्थनित्यत्वात् । अन्यथा तु पूर्वापरावस्थाभेदवान्न कूटस्थनित्यः स्यात् । परिणामिनित्या तु बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः । ३ पूर्वसूत्रोक्तसाधनदूषणपरं सूत्रम्-साध्यसमत्वादिति । वृत्तयो हि वृत्ति- मतो भिन्नाः । तेन तासामनित्यत्वेऽपि न वृत्तिमान् कोटस्थ्याच्च्यवते । तथा च प्रत्यभिज्ञानात् प्रत्यभिज्ञाता आत्मैव नित्यः स्यात्, न त्वन्तःकरणं बुद्धिसंज्ञकम् । न हि तत् प्रत्यभिज्ञाने प्रकाशत इत्याशयः । ..

तृतीयाध्याये द्वितीयाह्निके तृतीयं सूत्रम् ? प्रत्ययोऽध्यवसाय इति । चेतना हि पूर्वज्ञातमर्थं प्रत्यभिजानाति । तस्यैतस्मा- द्वतोनित्यत्वं युक्तमिति ! करणचेतन्याभ्युपगमे तु चेतनम्वरूपं बचनीयम् । नानिर्दिष्टम्वरूपमात्मान्तरं शक्यमस्तीति प्रतिपत्तुम् । ज्ञान चबुद्धेरन्तःकरण- भ्याभ्युपगम्यते, चेतनस्येदानी किं स्वरूप को धर्मः किं तन्वम् ? ज्ञानेन च बुद्धो वर्तमानेनायं चेतनः किं करोतीति ? चेतयत इति चेत् ” न, ज्ञानादर्थान्तरवचनम् । पुरपश्चेत यते बुद्धि- र्जानातीति नेदं ज्ञानादर्थान्तरमुच्यते । चेतयते जानीते बुध्यते पश्यति उपलभते इत्येकोऽयमर्थ इति ! “बुद्धि पयतीति चेत् ।” अद्धा, जानीते पुरुषो बुद्धिर्ज्ञापयतीति सत्यमेतत् । एवं चाभ्युपगमे ज्ञानं पुरुषम्येति सिद्धं भवति, न बुद्धेरन्तःकरणम्येति । प्रतिपुरुषं च शब्दान्तरव्यवस्थाप्रतिज्ञाने प्रतिषेधहेतुवचनम् । यश्च प्रतिजानीते-" कश्चित्पुरुषश्चेतयते कश्चिद्बुध्यते कश्चिदुपलभते कश्चित्प- इयतीति” पुरुषान्तराणि खल्विमानि-चेतनो बोद्धोपलब्धा द्रष्टेति नैकस्यैते धर्मा इति । अत्र कः प्रतिषेधहेतुरिति । अर्थस्याभेद इति चेन्"-समानम् । “ अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिः” इत्येवं चेन्मन्यसे-समानं भवति-पुरुषश्चेतयते बुद्धि- मनीते इत्यत्राप्यर्थो न भिद्यते । तत्रोभयोश्चेतनत्वादन्यतरलोप इति । यदि पुनर्बुध्यतेऽनयेति बोधनं बुद्धिर्मन एवोच्यते, तच्च नित्यम् - अस्त्वेतदेवम् । न तु मनसो विषयप्रत्यभिज्ञानान्नित्यत्वम् । दृष्टं हि करणभेद्रे ज्ञातुरेकत्वान् प्रत्यभिज्ञानम्-'सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादिति' चक्षुर्वत् , प्रदीपवच्छ प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानमिति। तस्माज्ञातुरयं नित्यत्वे हेतुरिति ।। ३॥ १ अर्थस्य अभेद इति वार्तिकमम्मतः पाठः। -'बुद्धयते' इत्यादिशब्दानामेकमेवाभिधेयम्-ततश्च एकेनैव ज्ञात्रा पुरुषेण तेषां सर्वेषामभि- सम्बन्ध इति न युक्तंभवति । एवं यदि पूर्वपक्षिणोऽभिप्रायस्तर्हि स एवार्थाभेदस्त- स्यापि पक्षे न युज्यते एव । तथा हि 'बुद्धिर्जानाति'--'पुरुषश्वेतयते'- इत्यनयोर्वाक्ययोः ज्ञानचेतनयोरेकार्थत्वात्तयोः सम्बन्धस्य बुद्धि पुरुषयोद्धयोः कर्तुम- युक्तमेव भवति । वरमेकस्यैव सम्बन्धोऽभ्युपगन्तुमित्याशयः । प्राचीनतालपत्र पुस्तकानुसारेण 'अर्थस्य भेद' इत्येव पाठः। स एव च भाष्यचन्द्रसम्मतः । तदनुसारेण सन्दर्भस्यास्यार्थश्चन्द्रादेवावगन्तव्यः । चेतयते १९८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० २, सू०४- यच मन्यते-" बुद्धेरवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति, वृत्तिश्च वृत्तिमतो नान्येति" - तच--- ने, युगपदग्रहणात् ॥ ४॥ वृत्तिवृत्तिमतोरनन्यत्वे वृत्तिमतोऽवस्थानाद् वृत्तीनामवस्थानमिति, यानी- मानि विषयग्रहणानि तान्यवतिष्ठन्त इति युगपद् विषयाणां ग्रहणं प्रसज्यत इति ॥ ४ ॥ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥५॥ अतीते च प्रत्यभिज्ञाने वृत्तिमानप्यतीत इत्यन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानात्वमिति ॥ ५ ॥ अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यत इति- क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ६॥ इन्द्रियार्थानाम् । वृत्तिवृत्तिमतो नात्वादिति । एकत्वे च प्रादुर्भावतिरो- भावयोरभाव इति ॥ ६॥ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ ७ ॥ अप्रत्यभिज्ञानमनुपलब्धिः । अनुपलब्धिश्च कस्यचिदर्थस्य विषयान्तर- व्यासक्ते मनस्युपपद्यते, वृत्तिवृत्तिमतोर्नानात्वात् , एकत्वे हि अनर्थको व्यासङ्ग इति ॥ ७ ॥ विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः- ने, गत्यभावात् ॥ ८॥ १ न युगपदितिसूत्रम् । वृत्तिमतोऽवस्थानात् वृस्यवस्थानप्रसङ्ग इति तदर्थः । २ अप्रत्यभिज्ञान इतिसूत्रम् । वृत्तीनामपगमे वृत्तिमतोऽप्यपगम इति तदर्थः । ३ क्रमवृत्तित्वादयुगपद्ग्रहणमितिसूत्रम् । अयुगपद्ग्रहणम् इन्द्रिया- र्थानाम् '-इति भाष्येण सम्बन्धः । ४ वृत्तीति । यत इन्द्रियार्थानामयुगपद्ग्रहणं भवति तत एव वृत्तिवृत्तिमतो - नास्वमिति । ५न गत्यभावादिति मूत्रम् । प्राप्तान्यन्तःकरणेनेन्द्रियाणीति तदर्थः । , , तृतीयाध्याये द्वितीयाह्निके अष्टमं सूत्रम् १९९ प्राप्तानीन्द्रियाण्यन्त करणेनेति प्राप्त्यर्थन्य गमनस्याभावः । तत्र क्रम- वृत्तित्वामानाब्युगपद् प्रहमानुपपत्तिरिति गत्यभावान प्रतिषिद्धं विभुनोऽन्तः- करणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयत इति । यथा चलुपो गति: प्रति- षिद्धा सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात्पाणिचन्द्रमसोयवधानेन प्रतीपाते सानुमीयत इति । सोऽयं नान्तःकरणे विवादो न तस्य नित्यत्वे । सिद्धं हि मनोऽन्तः- करणं-नित्यं चेति। क तर्हि विवादः । तस्य विभुत्वे । तच्च प्रमाणतोऽनुपलब्धेः प्रतिषिद्धमिति । एकं चान्तःकरणं नाना चैता ज्ञानात्मिका वृत्तयः-चक्षुर्विज्ञानं ब्राण- विज्ञानं रूविज्ञानं गन्धविज्ञानम् । एतच्च वृत्तिवृत्तिमतोरेकत्वेऽनुपपन्नमिति । पुरुषो जानीते नान्तःकरणमिति । एतेने विषयान्तरव्यासङ्गः प्रत्युक्तः । विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति । केनचिदिन्द्रियेण सन्निधिः केनचिदसन्निधिरित्ययं तु व्यासङ्गोऽनुज्ञायते मनस इति ।। ८ ॥ " एकमन्तःकरणं नाना वृत्तय इति । सत्यभेदे वृत्तेरिदमुच्यते- १ पुरुषो जानीत इति-स्वमतसाधनपर भाष्यम् । यस्य पुनर्वृत्तिवृत्तिमतो नात्वं तस्यान्त:करणसाधनः चक्षुरादिसाधनश्चात्माऽर्थानुपलभत इति युक्तमेवेत्यर्थः । २ एतेनेति-यदपि साङ्ख्या आचचक्षिरे “विषयान्तरच्यासक्तंऽन्तःकरणे चक्षु- रादिसम्बद्धस्याप्यर्थस्याज्ञानादन्तःकरणवृत्तिानमिति "-तन्निराकरणपरं भाष्यम् । ' एतेन '-पुरुषो जानीते नान्तःकरणमिति हेतुना-' विषयान्तरव्यासङ्गः '-अन्त:- करणस्य- प्रत्युक्तः । व्यासक्तो हि स भवति यो जानीते। न चान्तःकरणं जानीते, किन्तु पुरुष इति एतस्यैवेदृशो विषयान्तरग्रहणरूपो व्यासङ्गो, नान्तः- करणस्य। अन्यादृशस्त्वन्तःकरणस्य व्यासङ्ग इन्द्रियसंयोगरूपो न निषिध्यत इत्याशयः । ३ एकमन्तःकरणमिति चोद्यभाष्यम् । वृत्तेः '-(वृत्तिमतः) अभेदे' (सति), एकमन्तःकरणं नानावृत्तय' -इति-' इटम् उच्यते' यत्-तत्र 'स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमान' एवेति सूत्रेण सम्बन्धः । अयं च पूर्वपक्षाशयः-यद्यपि वृत्तयो नाना प्रतिभान्ति, तथाऽपि भ्रांतिरियम् , एकस्मादन्तः- करणादभिन्नानां नानात्वानुपपत्तेः । तस्मात् स्फटिकस्य यथैकस्यापि तापिच्छजपा- कर्णिकारादिकुसुमोपधानमेदाभेद औपाधिकः-एवमन्तःकरणस्यापि स्वच्छस्येन्द्रि- यप्रणालिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वम्-इति ॥ . . . .

। खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, सू०९ - “ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥ ९ ॥ तस्यां वृत्तौ नानात्वाभिमानः । यथा द्रव्यान्तरोपहितस्फटिकद्रव्येऽ न्यत्वाभिमानो-नीलो लोहित इति, एवं विषयान्तरोपधानादिति” । ने, हेत्वभावात् । स्फटिकान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमान गौणो न पुनर्गन्धाद्यन्यत्वाभिमानवदिति हेतुर्नास्ति-हेत्वभावादनुपपन्न इति । "समानो हेत्वभाव इति चेत् "न, ज्ञानानां क्रमेणोपजनापाय- दर्शनात् । क्रमेण हीन्द्रियार्थेषु ज्ञानान्युपजायन्ते चापयन्ति चेति दृश्यते । तस्माद् गन्धाद्यन्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमान इति ।। ९ ।। (२) क्षणभङ्गप्रकरणम्-औपोद्धातिकम् । स्फटिकान्यत्वाभिमानवत्' ' इत्येतदमृष्यमाणः क्षणिकवाद्याह-- " स्फेटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वायतीनामहेतुः ॥ १० ॥ स्फटिकस्याभेदेनावस्थितस्योपधालभेदान्नानात्वाभिमान इत्ययमविद्य- मानहेतुकः पक्षः । कस्मात् ? स्फटिकेऽप्यपरापरोत्पत्तेः । स्फटिकेऽपि अन्या १ सूत्रोक्तं दूषयति-न हेत्वभावादिति । योऽत्र दृष्टान्त उक्तः स्फटिकवदिति- तत्र विकल्प:-किमयं स्फटिक उपधानभेदेन भिद्यते उत नेति । यदि भिद्यते- न दृष्टान्तः । अथ न भिद्यते नानात्वाभिमानः कथम् ? यापधानभेदान्नानात्वाभिमान इति-तर्हि भिन्नमुपधानमित्येव कथम्प्रतिपद्यसे । यदि प्रत्ययभेदात्-तर्हि भवति व्याघातः, प्रत्ययपर्यायत्वात् वृत्तः । न च प्रत्ययाभेदवादिनः स्फटिके नीलादि- प्रत्ययभेदो युक्तः। एवं स्वमतेन साङ्ख्यपक्षं दूषयित्वा बौद्धैर्यत् साङ्खयसिद्धान्ते दूपणमुक्तं तद्- दूषयितुं बौद्धमतमुपन्यस्यत्यत्र प्रकरणे । प्रयोजनं चास्य सर्वशास्त्रार्थोपकाराविशेषेऽपि प्राधान्यत आत्मसिद्धिरेव । स्थैर्य हि सत्येव दर्शनस्पर्शनाभ्यामेकार्थग्रहणादित्येव- मादयः प्रतिसन्धानहेतवो निष्प्रत्यूहा भवन्ति । गुणगुणिभेदसिद्धौ चेच्छादयः धाचिदाश्रिताः कार्यत्वात् गुणत्वाद्वेत्येवमादयश्च । एतत्प्रकरणं केचित्पूर्वप्रकरणाङ्गत्वेनैव व्याचख्युः । तत्साधकत्वेन चैतत्यक- रणोपसंहारवाक्यं सप्तदशसूत्रभाष्यस्थम् इत्युपपन्नमनित्या बुद्धिरिति' उपन्य- स्तवन्तः। तत्त्वतस्त्वेतत्प्रकरणविषयो नितान्तं भिन्न एव । उक्तं भाग्यवाक्यं च केवलमुभयोः प्रकरणयोस्सम्बन्धप्रदर्शनार्थमित्यवधेयम् । २ स्फटिकेऽपीत्यादि बौद्धोक्तिरूपं सूत्रम् । ‘स्फटिकत्वाभिमान वदिति गौतम- सूत्रोक्तम्-' अहेतुः '--' स्फटिकेऽपि अपरापरोत्पत्तेः'। प्रतिक्षणं विलक्षणस्फटि- कोत्पत्तरित्यर्थः । तत्र मानम्-' व्यक्तीनां क्षणिकस्वादिति । .. १ तृतीयाध्याये द्वितीयाह्निक द्वादशं सूत्रम् . . व्यक्तय उत्पद्यन्ते अन्या निरुद्धचन्त इति । कथम् ? क्षणिकत्वाद् व्यक्तीनाम् । क्षणचाल्पीयान्काल:-क्षणस्थितिकाः क्षणिकाः । कथं पुनर्गम्यते क्षणिका व्यक्तय इति ? उपचयापचयप्रवन्धदर्शनाच्छरीरादिपु ! पक्तिनिवृत्तन्याहार- रसस्य शरीरे रुधिरादिभावेनोपचयोऽपचयश्च प्रबन्धन प्रवर्तते । उपचथाद्- व्यक्तीनामुत्पादः, अपचयाव्यक्तिनिरोधः । एवं च सत्यवश्वपरिणामभेदन वृद्धिः शरीरस्य कालान्तरे गृह्यत इति । सोऽयं व्यक्तिविशपधर्मो व्यक्तिमात्रे वेदितव्य इति” । १० ॥ नियमहेत्वभावाद्यथाशनमभ्यनुज्ञा ॥ ११ ॥ सर्वासु व्यक्तिपु उपचयापचयप्रवन्धः शरीरवदिति नायं नियमः । कस्मान् ? हेत्वभावात् । नात्र प्रत्यक्षमनुमानं वा प्रतिपादकमस्तीति । तस्माद् यथादर्शनमभ्यनुज्ञा' ! यत्र यत्रोपचयापचयप्रबन्धो दृश्यते तत्र तत्र व्यक्ती- नामपरापरोत्पत्तिरुपचयापचयप्रवन्धदर्शनेनाभ्यनुज्ञायते, यथा शरीरादिपु । यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते, यथा ग्रावप्रभृतिषु । स्फटिकेऽप्युपचया- पचयप्रबन्धो न दृश्यते । तस्मादयुक्तं स्फटिकेऽप्यपरापरोत्पत्ते 'रिति । यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानमापादयेत्ताहगेतदिति ।। ११ ॥ यश्च-' अशेषानरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसन्ताने क्षणिकतां मन्यते तस्यैतत्- नोत्पत्तिविनाशकारणोपलब्धेः ॥ १२ ॥ १ उपचयेति । 'शरोरादिषु उपचयापचयग्रबन्धदर्शनात् गम्यते यत् क्षणिका व्यक्तय' इति सम्बन्धः । अत्र प्रयोगः-प्रतिक्षणं शरीमन्यच्चान्यच्च भवति-बाह्य- प्रत्ययाभेदे सत्यन्ते विशेषदर्शनान्-पच्यमानभूमिकजवन् अपच्यमानभूमिपाक- जवञ्चेति । २ एवजेति । अयमत्र बौद्धोक्राशयः। यत् सत् तत् सर्व क्षणिकम्-यथा शरीरम्-तथा च स्फटिकः । शरीरस्य च कालपरिपाकबशेल स्थौल्यस्य हासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणतिभेदोऽनुमीयते । म चान्तरा विनाश एवेति । यस्यापि स्फटिकादेस्तादृशस्थौल्यं हासो वा न दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयते इति । ३ बौद्धोक्तनियमनिराकरणपरं सूत्रम्-नियमेति । ४ नोस्पत्तीति सूत्रम् । उपचयापचयोत्पत्तिविनाशकारणोपलब्धेरित्यर्थः । उप- चयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयसमामः ।

धोतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, २०१३- . . उत्पत्तिकारणं तावदुपलभ्यते अवयवोपचयो वल्मीकादीनाम् । विनाश- कारणं चोपलभ्यते घटादीनामवयव विभागः । यस्य तु अनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वाऽपूर्वोत्पादे न कारणमुभयत्राप्युपलभ्यत इति ॥ १२ ॥ क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुत्पत्तिः ॥ १३ ॥ यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिकेऽपरापरासु व्यक्तिषु विनाशकारणमुत्पादकारणं चाभ्यनुज्ञेय- मिति" ॥ १३ ॥ रङ्गतो ग्रहणान्नानुपलब्धिः ॥ १४ ॥ क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यतेऽतो नानुपलब्धिः । विपर्ययस्तु स्फटिकादिषु द्रव्येषु, अपरापरोत्पत्तौ व्यक्तीनां न लिङ्गमस्तीत्यनुत्पत्तिरेवेति ॥ १४ ॥ अत्र कश्चित्परिहारमाह- न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥ १५ ॥ पयसः परिणामो न विनाश-इत्येक आह । परिणामश्च अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिरिति । गुणान्तरप्रादुर्भाव-इत्यपर आह । गुणान्तरप्रादुर्भावश्च सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरमुत्पद्यत इति । स खल्वेकपक्षीभाव इव ॥ १५ ॥ अत्र तु प्रतिषेधः-- व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥१६ १ । १ परिहारमिति-त्रयोदशसूत्रोक्तबौद्ध कृताक्षेपस्येति यावत् । २ गुणान्तरेति । द्रव्यं तावत्म्देव, गुणोऽपि सन्नेव केवलमनुद्भुत आसीत् । एकश्चोद्भूतो गुणः तत्र य उद्भूतस्तिरोभवति पूर्वगुणस्य निवृत्तौ तिरोभूतौ गुणा- न्तरमुत्पद्यते तद् भवतीत्यर्थः । ३ स खल्विति । उभयोरपि पक्षयोरेकमेवावसानम् । उभयत्र द्रव्यमवतिष्टते- एकस्याविर्भावतिरोभावो एकस्य च विनाशप्रादुर्भावाविति हृदयम् ।

-स. १७] तृतीयाध्याये द्वितीयाह्निके सप्तदशं सूत्रम् सम्मछैनलक्षणादवयवव्यूहाद् द्रव्यान्तरे दधन्युत्पन्ने गृह्यमाणे पूर्वं पयो- द्रव्यमवयवविभागेभ्यो निवृत्तमित्यनुमीयते । यथा मृदययवानां व्यूहान्तराद्- द्रव्यान्तरे स्थाल्यामुत्पन्नायां पूर्व मृत्पिण्डद्रव्यं मृदवयबविभागेभ्यो निवर्तत इति । मृच्चावयवान्वयः पयोदनो अशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटत इति ॥ १६॥ अभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यत इति- 3 क्वचिद्विनाशकारणानुपलब्धेः कचिच्चोपलब्धेरनेकान्तः॥१७॥ क्षीरदधिवन्निष्कारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनामिति नायमे- कान्त इति । कस्मात् ? हेत्वभावात् , नात्र हेतुरस्ति । अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदाधिवत् , न पुनर्यथा विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाञ्चोत्पत्तिः । एवं स्फटिकादिव्यक्तीनां विनाशोत्पत्ति- कारणभावाद्विनाशोत्पत्तिभाव इति । निरधिष्ठानं च दृष्टान्तवचनम् । गृह्यमाणयोर्विनाशोत्पादयोः स्फटिका- दिषु स्यादयमाश्रयवान् दृष्टान्त:-क्षीरविनाशकारणानुपलब्धिवध्युत्पत्ति- कारणानुपलब्धिवचेति। तौ तु न गृह्यते । तस्मान्निरधिष्ठानोऽयं दृष्टान्त इति । अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ योऽत्र साधकस्तस्याभ्यनु- ज्ञानादप्रतिषेधः । कुम्भवन्न निष्कारणौ विनाशोत्पादौ स्फटिकादीनामित्यभ्य- नुज्ञेयोऽयं दृष्टान्तः प्रतिषेद् धुमशक्यत्वात् । क्षीरदाधिवत्तु निष्कारणौ विना शोत्पादाविति शक्योऽयं प्रतिषेधुं, कारणतो विनाशोत्पत्तिदर्शनात् । क्षीर- १ सम्मछेनेति । क्षीरावयवा एव हि क्षीरविनाशे सत्युत्पन्नपाकजा विलक्षणं द्रव्यमुत्पादयन्ति । यदि तु सर्वं कार्यं सदेव कारणव्यापारात्प्रागपि-तर्हि व्यर्थः कारणव्यापारः, अभिव्यक्तेरपि कार्यत्वेन सत्त्वात् । असत्त्वे वा यथा सैव न सती क्रियते एवं कार्यान्तराण्यपीत्याशयः । २ घटत इति । न ह्यनपवृक्तस्य पूर्वावस्थातोऽभिव्यक्तत्यनभिव्यक्ती भवतो विनाशप्रादुर्भावौ वेति । तस्मादयुक्तमवस्थितस्य परिणाम इति । ३ निरधिष्टानञ्चेति । धर्मिणमाश्रित्य तत्समानधर्मा दृष्टान्तो भवति । स्फटिको- पादविनाशौ च धर्मिणौ । तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोदृष्टान्तवचनेन भवितव्यम् । न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्यते । तस्मान्न तत्समानधर्मतया दृष्टान्तावुक्तौ भवत इति तात्पर्यम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, सू०१९- । नोविनाशोत्पत्ती पश्चता तत्कारणमनुमेयम् । कार्यलिङ्गं हि कारणम् । इत्युप- पन्नमनित्या बुद्धिरिति ।। १७ ।। (३) बुद्धेरात्मगुणत्वप्रकरणम् । इदं तु चिन्त्यते-कस्येयं बुद्धिरात्मेन्द्रियमनोऽर्थानां गुण इति । प्रसि- द्धोऽपि खल्वयमर्थः परीक्षाशेषं प्रवर्तयामीति प्रक्रियते । सोऽयं बुद्धौ सन्निकर्षो- त्पत्तेः संशयः, विशेषस्याग्रहणादिति । तत्रायं विशेषः- नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥ १८ ॥ नेन्द्रियाणामर्थानां वा गुणो ज्ञानं, तेषां विनाशेऽपि ज्ञानस्य भावात् । भवति खल्विदमिन्द्रियेऽर्थे च विनष्टे ज्ञानमद्राक्षमिति । न च ज्ञातरि १ क्षणभङ्गप्रकरणानन्तरं बुद्धेरात्मगुणत्वप्रतिपादनपरम्प्रकरणं प्रारभ्यते । सांख्या- भिमतनित्यबुद्धितत्त्वनिराकरणे सति बुद्धरात्मगुणत्वं संभाव्यते । नित्यबुद्धिसद्भावे ज्ञानस्य तद्धमत्वादात्मधर्मत्वानुपपत्तिः । अतः पूर्वप्रकरणमुत्तरस्य हेतुर्निर्वाहकं चेति युक्तमिदानीन्तस्यावतारः । प्रयोजनं चास्य प्रकरणस्य शरीरादिव्यतिरिक्तात्मसिद्धिरेव । आत्मप्रकरणे हि प्रतिसन्धानबलेन बुद्ध्याऽऽत्मा साधितः, इह तु गुणतयेति विवेकः । सर्वस्य क्षणिकत्वे समवायिकारणत्वस्यैवाभावः । तथा चात्मनि बुद्धिर्गुणतया समवैतीति न संभाव्यते । बुद्धरात्मगुणत्वं यद्यपि तृतीयाध्यायाद्याह्निकस्थचतुर्दशसूत्र एव साधितं तथाऽपि बुद्धिरूपगुणस्थाधारत्वेनैवात्मा सन्निति साधितमत्र त्वात्मनो गुणभूता बुद्धिः सतीति साध्यत इति विवेचनीयम् । २ प्रसिद्धोऽपीति । यद्यप्ययमर्थः प्रागेव ( ३।१।१ ) परीक्षितस्तथाऽग्यवान्तर- विशेषपरिज्ञापनार्थ पुनः परीक्ष्यते । तथाहि-परलोकिनमात्मानं साधयता बुद्धिप्रति- कर्तृत्ववच्छरीरादिव्यतिरिक्तस्यैव स्मृतिसंस्कारानुभवाश्रयस्वमपि साधितमेवेत्याशयः। ३ प्रकरणविषये संशयमूलं दर्शयति सोऽयमिति । बुद्धयुत्पत्ती आत्मनः इन्द्रियस्य अर्थस्य च सन्निकयोंऽपेक्ष्यतेऽत एवैतेषामेव गुणः सेति ज्ञायते । किन्त्वेतेषां मध्ये कस्यैकस्येति संशयो जागर्ति । ४ तत्रेति । आत्मन एव गुणो बुद्धिर्नान्यस्येत्यत्र पक्षे साधकीभूतो 'विशेषः' विशिष्टो हेतुः प्रदय॑ते सूत्र इति शेषः । ५ नेन्द्रियार्थयोरित्यादिसूत्रम् । न इन्द्रियार्थयोः (गुणो बुद्धिः) तयोः (इन्द्रियार्थयोः ) विनाशेऽपि ज्ञानस्य (बुद्धेः, बुद्धिरुपलब्धिनिमित्यनान्तर- मिति सूत्रम्) अवस्थानात् इति सम्बन्धः । ..

-सू. २० तृतीयाध्याये द्वितीयाह्निके विंशतितमं सूत्रम् विनष्टे ज्ञानं भवितुमर्हति । अन्यत् खलु वे तदिन्द्रियार्थसन्निकर्षजं ज्ञानं, यदिन्द्रियार्थविनाशे न भवति । इदमन्यदात्ममनःसन्निकर्पजम् । तस्य युक्तो भाव इति । स्मृतिः खल्वियमद्राक्षमिति पूर्वष्ठविपया । न च ज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तम् , न चान्यष्टमन्यः स्मरति ! न च मनसि ज्ञात. र्यभ्युपगम्यमाने शक्यमिन्द्रियार्थयोतृित्वं प्रतिपादयितुम् ।। १८ ।। अस्तु तर्हि मनोगुणो ज्ञानम् युगपज ज्ञेयानुपलब्धेश्च न मनसः ॥ १९ ।। युगपञ् ज्ञेयानुपलब्धिरन्तःकरणस्य लिङ्गम् । तत्र युगपञ् ज्ञेयानुप- लब्ध्या यदनुमीयते अन्तःकरणं, न तस्य गुणो ज्ञानम् । कस्य तर्हि ?" ज्ञस्य, वशित्वात् । वशी ज्ञाता, वश्यं करणं, ज्ञानगुणत्वे वा करणभावनिवृत्तिः । ब्राणादिसाधनस्य च ज्ञातुर्गन्धादिज्ञानभावादनुमीयते-अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश्चेति । तत्र यज् ज्ञानगुणं मनः स आत्मा, यत्तु सुखादा- पलब्धिसाधनमन्त:करणं मनस्तदिति संज्ञाभेदमात्रं नार्थभेद इति ! युगपञ् ज्ञेयानुपलब्धेश्च योगिन इति वा 'चार्थः । योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु युगपज- ज्ञेयान्युपलभते । तच्चैतद्विभौ ज्ञातर्युपपद्यते, नाणी मनसीति । विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः । विभु च मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत् संयोगाद्युगपञ् ज्ञानान्युत्पधेरन्निति ।। १९ ॥ देदात्मगुणत्वेऽपि तुल्यम्" ॥ २० ॥ ५ बुद्धेर्मनोगुणत्वमपाकरोति-युगपदिल्यादिसत्रेण । त्रिधा व्याख्यातोऽस्य सम्बन्धः । स यथा (१) यन्मनो युगपज्ज्ञेयानुपलब्धेतोरनुमीयते तस्य मनसो गुणो ज्ञानं न भवतीति । अत्र व्याख्याने 'युगपज्ज्ञेयानुपलब्धे' रिति मनसोऽनुमाने हेतुः, न पुनर्ज्ञानस्य मनोगुणत्वाभावे । (२) यतो युगपज्ज्ञेयोपलब्धिर्न भवति ततो न मनसो गुणो ज्ञानमिति । (३) अणुमनोद्वारा योगिनां युगपज्ज्ञेयोपलब्धिर्या भवति तस्या असम्भवः स्याद्यदि मनोगुणो ज्ञानं स्यात् । अनयैवानुपपत्त्या मनोगुणों न ज्ञानमिति सिध्यतीति । अयं हेतुः सूत्रस्थचकारेण समुचितो भवतीति भाष्यकारः । २ परः प्रत्यवतिष्टते-तदात्मेतिसूत्रेण । ज्ञानस्य आत्मगुणत्वेऽपि' ' तत् '- ज्ञानयोगपद्यम्-' तुल्यम् ' । आत्मनो विभुत्वेन तस्य सर्वदा सर्वेन्द्रियैः संयुक्त- त्वादिति भावः खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० २, सू०२१- " विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति" ॥ २०॥ इन्द्रियमनसः सन्निकर्षाभावात्तदनुत्पत्तिः ॥ २१ ॥ गन्धाधुपलब्धेरिन्द्रियार्थसन्निकर्षवदिन्द्रियमनःसन्निकर्षोऽपि कारणम् । तस्य चायोगपद्यमणुत्वान्मनसः । अयोगपद्यादनुत्पत्तियुगपज्ज्ञानानामात्म- गुणत्वेऽपीति ॥ २१ ॥ यदि पुनरात्मेन्द्रियार्थसन्निकर्षमात्राद् गन्धादिज्ञानमुत्पद्यते ?---- नोत्पत्तिकारणानपदेशात् ॥ २२ ॥ आत्मेन्द्रियसन्निकर्षमात्राद्गन्धादिज्ञानमुत्पद्यत इति, नात्रोत्पत्तिकारण- मपदिश्यते येनैतत्प्रतिपद्येमहीति ।। २२ ॥ विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥२३॥ यथा ज्ञानस्य विभुमनोगुणत्वे युगपज्ज्ञानोत्पत्तिप्रसङ्गस्तथैव विभ्वात्मगुण- वेऽपीति समानमेवैषाऽनुपपत्तिरुभयोरपि पक्षयोरतश्च नैकप्रत्यपरेण पर्यनुयोज्येनि हृदयम् । १ उक्तं प्रत्यवस्थानमपाकरोति-इन्द्रियैरितिसूत्रेण । आत्मनो विभुत्वात्तस्य सन्निकर्षे सत्यपि ज्ञानोत्पत्ताविन्द्रियमनस्सन्निकर्पस्याप्यपेक्षितत्वादणोश्च मनसोऽने- केन्द्रियैस्सह युगपत्सन्निकर्षस्यासम्भवान्न युगपज्ज्ञानोत्पत्तिसम्भव इत्यर्थः । २ मनस्सन्निकर्षस्याप्युपलब्धावावश्यकतांपुनः समर्थयते--यदीति । मनस- सन्निकर्षानपेक्षं केवलमात्मेन्द्रियार्थसन्निकर्षादेव गन्धादिज्ञानमुत्पद्यते " इति स्यान्म- तमित्युपोद्घातभाध्यार्थः । ३ तस्य मतस्योत्तरम्-नोत्पत्तीतिसूत्रम् । नैतन्मतमादरणीयम् । यतोऽत्र प्रतिज्ञामानं क्रियते--ज्ञानोत्पत्तौ मनस्सन्निकर्षों नापेक्ष्यत इत्यत्र ‘कारणं' प्रमाण न अपदिश्यते प्रदर्श्यते-इत्यर्थः । यथोक्तं वार्तिककृद्भिः-अस्मादेवोस्पद्यतामिति न कारणमपदिश्यत इति सूत्रार्थ इति । अत्र-अस्मादेवेत्यात्मेन्द्रियार्थसन्निकर्षमात्रा- देवेत्यर्थः । विश्वनाथस्त्विदमपि सूत्रं पूर्वपक्षत्वेनोपवर्णितवान् । तन्मतेन चैवं सूत्रार्थः- बुद्धयुत्पत्तौ कारणस्य अनपदेशात् अकथनात नात्मगुणो बुद्धिः, आस्ममनस्संयोगस्य कारणत्वे ज्ञानस्य सार्वदिकत्वप्रसङ्ग इति । अतश्चैवं समुच्चितोऽर्थः-बुद्धरात्मगुणत्वे तस्या विनाशकारणानुपलब्धेस्त- नित्यत्वमिति।

तृतीयाध्याये द्वितीयाह्निके षड्डिशतितमं सूत्रम् . . 'तदात्मगुणत्वेऽपि तुल्यम्'-इत्येतदनेन समुच्चीयते । द्विविधा हि गुणनाशहेतुः-गुणानामाश्रयाभावो विरोधी च गुणः । नित्यत्वादात्मनोऽ- नुपपन्नः पूर्वः । विरोधी च बुद्धेर्गुणो न गृह्यते, तस्मादात्मगुणत्वे सति बुद्धे- नित्यत्वप्रसङ्गः" ।। २३ ॥ अनित्यन्वग्रहणाबुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥ २४ ।। अनित्या बुद्धिरिति सर्वशरीरिणां प्रत्यात्मवेदनीयमेतत् । गृह्यते च बुद्धिसन्तानः। तत्र बुद्धेर्बुद्धयन्तरं विरोधी गुण इत्यनुमीयते. यथा शब्दसन्ताने शब्दः शब्दान्तरविरोधीति ॥ २४ ॥ असङ्ख्येयेषु ज्ञानकारितेपु संस्कारेषु स्मृतिहेतुष्वात्मसमवेतेष्वात्म- मनसोश्च सन्निकर्षे समाने स्मृतिहेता सति न कारणस्यायोगपद्यमस्तीति युग- पत्स्मृतयः प्रादुर्भवेयुः यदि बुद्धिरात्मगुणः स्यादिति ।" तंत्र कश्चित्सन्निकर्षस्यायोगपद्यमुपपादयिष्यन्नाह ज्ञानसमवेतात्मप्रदेशसनिकर्षान्मनमः स्मृत्युत्पत्तेन युगपदुत्पत्तिः ॥ २५ ॥ ज्ञानसाधनः संस्कारो ज्ञानमित्युच्यते । ज्ञानसंस्कृतैरात्मप्रदेशः पर्यायेण मनः सन्निकृष्यते । आत्ममनःसन्निकर्षात्म्मृतयोऽपि पर्यायेण भव- न्तीति ॥ २५ ॥ नान्तःशरीरवृत्तित्वान्मनसः ।। २६ ॥ १ एकदेशिमतमुपस्थापयति-तत्रेति । तत्र पूर्वोक्ताक्षेपविषये कश्चित् नैयायि- कैकदेशी नानाज्ञानजन्यसंस्कारसन्निकर्षाणामयोगपद्यप्रदर्शनेन परिहारमाहेत्यर्थः । २ एकदेशिकृतपरिहारप्रदर्शनपरं सूत्रम्-ज्ञानसमवेतेत्यादि। एकज्ञानजनितः संस्कार एकस्मिन्नेवाल्मप्रदेशे समवैति मनस्सन्निकर्षश्चात्मन एकस्मिन् क्षणे एके- नैवात्मप्रदेशेन भवति । ततश्च यज्ज्ञानजनितः संस्कारो यदात्मप्रदेशावच्छेदेन वर्तते तत्प्रदेशावच्छेदेनैव यस्मिन् क्षणे मनस्सन्निकर्षो भवति तस्मिन् क्षणे तत्संस्कार- इमात्रजन्यस्मृतेः प्रादुर्भावः सम्भवति न स्मृत्यन्तरस्येति न युगपदनन्तरस्मृति- प्रादुर्भावप्रसङ्ग इति परिहारार्थः । ३ एकदेशिमतं दूषयति-नान्तःशरीरेत्यादिसूत्रेण । ( स्मृतियोगपद्यस्य एक- देशिप्रदर्शितपरिहारो)न (युज्यते)। कस्मात् ? मनसः अन्तःशरीरवृत्तित्वात् । अन्तःशरीरे वृत्तिः ज्ञानजनकीभूतो व्यापारो यस्य तत्त्वात् । विभोरास्मनः कति- चित्प्रदेशाः शरीरान्तर्वर्तिनः कतिचित्तदहि प्रदेशवर्तिनः, अणुस्तु मनः शरीराभ्य- . ..

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, सू०२७- सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवन- मिष्यते । तत्रास्य प्राक् प्रायणादन्तःशरीरे वर्तमानस्य मनसः शरीरावहिर्ता- नसंस्कृतैरात्मप्रदेशैः संयोगो नोपपद्यत इति ।। २६ ।। साध्यत्वादहेतुः ॥२७॥ विपच्यमानकर्माशयमानं जीवनम् । एवं च सति साध्यमन्तःशरीर- वृत्तित्वं मनस इति " || २७ ।। स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥ २८ ॥ सुस्मूर्षया खल्वयं मनः प्रणिदधानः चिरादपि कञ्चिदर्थं स्मरति । स्मर- तश्च शरीरधारणं दृश्यते । आत्ममनःसन्निकर्षजश्च प्रयत्नो द्विविधो-धारक: प्रेरकश्च । निःसृत च शरीराद्वहिर्मनसि धारकस्य प्रयत्नस्याभावाद् गुरुत्वात्प- तनं स्यात् शरीरस्य स्मरत इति ॥ २८ ।। "नं तदाशुगतित्वान्मनसः ।। २९ ।। आशुगति मनः । तस्य बहिःशरीरात्मप्रदेशेन ज्ञानसंस्कृतेन सन्नि- कर्षः-प्रत्यागतम्य च प्रयत्नोत्पादनमुभयं युज्यत इति । उत्पाद्य वा धारक प्रयत्नं शरीरान्निःसरणं मनसोऽतस्तत्रोपपन्नं धारणमिति" || २९ ।। न्तरमात्रवृत्ति । अतः शरीरातिरिक्तात्मप्रदेशावच्छेदेन नात्ममनोयोगी भवति । किन्तु शरीरावच्छिन्नस्यात्ममनोयोगस्य ज्ञानहेतुत्वमस्त्येव । ततश्च तच्छरीरावच्छिन्ननाना- स्मृतियोगपद्यप्रसङ्ग आक्षेपकोद्भावितस्तदवस्थ एवेति नैकदेशिपरिहारः सम्यगित्यर्थः । १ एकदेशी शङ्कते-साध्यत्वादितिसूत्रेण । शरीराबहिर्मनो ज्ञानादिपुरुषार्थ न साधयतीत्यद्यत्वे न सिद्धम् । एवं च मनसः शरीरवृत्तित्वादिति यो हेतुरुक्तस्तस्य 'साध्यत्वात् ' साधीयत्वात् स 'अहेतुः' हेत्वाभास इत्यर्थः। शरीराद्धहिर्मनः ज्ञानादिपुरुषार्थ न साधयतीत्यद्यत्वेऽपि न सिद्धमिति भावः । २ एकदेशिकृतां शङ्कां परिहरति-स्मरत इत्यादिसूत्रेण । ' स्मरतः '-यः पुरुषः स्मरणं करोति तस्य-' शरीरधारणोपपत्तेः '-तेन पुरुषेण स्मरणकाले शरीरमपि ध्रियत एव-कदाप्यशरीरस्यात्मनः स्मरणं न दृश्यते-इत्येवंरूपाया ' उपपत्तेः '-शरीरवर्तित्व- साधकप्रमाणस्य सत्त्वात्-पूर्वसूत्रकृतः प्रतिषेधः-मनसः शरीरवृत्तित्वे प्रमाणं नास्ती- त्याक्षेपः-'अप्रतिषेधः '-न समीचीनः प्रतिषेध इत्यर्थः । ३ स्मृतिप्रक्रियां सूचयति भाग्यकारः-सुस्मूर्षयेति । ४ पुनः परश्चोदयति-न तदाशुगतित्वादितिसूत्रेण । यत् पूर्वसूत्र उक्तं शरीर- पतनं तन्न सम्भवति-'तदा' 'मनसो' बहिस्सन्निकर्षे आशुगतित्वात् ' अति- शीघ्रगामित्वात्-शीघ्रमेव शरीरे परावृत्तेः न शरीरधारणप्रतिबन्ध इत्यर्थः । . ' सु. ३५] तृतीयाध्याये द्वितीयाह्निके एकत्रिंशत्तमं सूत्रम् न स्मरणकालानियमान् ।। ३०॥ विञ्चिनिझनं सयंते, किञ्चिचिरेण । बदा चिरेण तदा मुन्मूर्षया मनासे धार्यमाणे चिन्ताप्रबन्धे सति कम्यचिदेवार्थस्य लिङ्गभूतन्य चिन्तनमाराधितं स्मृतिहेतुर्भवति । तत्रैतचिरनिश्चरिते मनसि नोपपद्यत इति । शरीरसंयोगानपेक्षश्चात्ममन:संयोगो न स्मृतिहेतुः, शरीरस्योपभोगायत- नत्वान् । उपभोगायतनं पुरुषम्य ज्ञातुः शरीरं, न ततो निश्चरितम्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनामुत्पत्तौ कल्पते । क्लमो वा शरीरवैयर्थ्य- मिति ॥ ३० ॥ "आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ।। ३१ ॥ आत्मप्रेरणेन वा मनसो बहिः शरीरान् संयोगविशेष: स्यात् ? यदृच्छया वाऽऽकस्मिकतया, ज्ञतया वा मनसः? सर्वथा चानुपपत्तिः । कथम् ? स्मर्तव्यत्वात् , इच्छातः स्मरणान् , ज्ञानासम्भवाच्च। यदि तावदात्मा अमुध्यार्थम्य स्मृतिहेतुः संस्कारः अमुष्मिन्नात्मदेशे समवेतस्तेन मनः संयुज्यतामिति मनः प्रेरयति, तदा स्मृत एवासावर्थो भवति न स्मर्तव्यः । न चात्मप्रत्यक्ष आत्म- प्रदेशः संस्कारो वा ! तत्रानुपपन्नात्मप्रत्यक्षेण संवित्तिरिति । सुरुमूर्षया चायं मनः प्रणिधानश्चिरादपि कञ्चिदर्थं स्मरति नाकस्मात् । ज्ञत्वं च मनसो नास्ति ज्ञानप्रतिषेधादिति” || ३१ ।। एतच्च- १ ज्ञानसमवेतेत्यादिसूत्रोक्तमेकदेशिमतं निराकरिष्णुरपर एकदेश्याह-आत्म- प्रेरणेत्यादि सूत्रम् । आत्मनो बहिःप्रदेशे मनस्संयोगो-(१) न स्मृत्यर्थम् ‘आत्म- प्रेरणेन' सम्भवति [ तस्य प्रयत्नस्य स्मरणीयज्ञानपूर्वकतया प्रागेव स्मृत्यापत्तेः ]- (२) नापि यदृच्छया' अकस्मात् [आकस्मिकत्वस्य निषेधात् ]-(३) नापि मनसो ज्ञतया' ज्ञातृतया [ मनसो ज्ञातृत्वानभ्युपगमात् ], न चैभ्यस्त्रिभ्योऽन्यः प्रकारो वर्तत इति सूत्रार्थः । २ अनन्तरोक्तं द्वितीयैकदेशिमतमपाकरोति-एतच्चेति भाष्याक्षराप्यारभ्य व्यासक्तमनस इत्यादिसूत्रेण । “एतत् ' यदुक्तं तत् ‘संयोगविशेषेण समानम् ' इति सम्बन्धः। व्यासक्तं मनो यस्य तस्य नृत्यादिदृश्यविशेषे दत्तचित्तस्य पुरुषस्य कण्टका- दिना अकस्माद्विद्धः पादो यदा व्यथते तदा तदवच्छेदेन यथा आकस्मिक एव मनस्संयोगो जायते तथैवैतदपीति । तथा चाकस्मिको मनस्संयोगो न भवतीति यदुक्तं द्वितीयेनैकदेशिना तन्न तथ्यमिति हृदयम् । १ न्या. स. १४ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० २, सू०३२- व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्।। ३२ ॥ यदा खल्वयं व्यासक्तमनाः क्वचिद् देशे शर्करया कण्टकेन वा पाइव्यथ- नमाप्नोति तदाऽऽत्मनःसंयोगविशेष एषितव्यः। दृष्टं हि दुःखं दुःखसंवेदनं चति । तत्रायं समानः प्रतिषेधः । यदृच्छया तु न विशेषो नाकस्मिकी क्रिया नाकस्मिकः संयोग इति । कर्माष्टमुपभोगार्थं क्रियाहेतुरिति” चेत् ? समानम्। कर्मा, पुरुषस्थं पुरुषोपभोगार्थं मनसि क्रियाहेतुरेवं दुःखं दुःखसंवेदनं च सिध्यतीति" एवं चेन्मन्यसे- समानं, स्मृतिहेतावपि संयोगविशेषो भवितुमर्हति । तत्र यदुक्तम् ‘आत्मप्रेरणयहच्छाज्ञताभिश्च न संयोगविशेषः' इत्ययमप्रतिषेध इति । पूर्वस्तु प्रतिषेधो-'नान्तःशरीरवृत्तित्वान्मनस' इति ॥ ३२ ।। “कः खल्विदानी कारणयोगपद्यसद्भावे युगपदस्मरणस्य हेतुरिति".- प्रणिधानलिङ्गादिज्ञानाना: युगपद्भावादयुगपत्स्मरणम् ॥३३॥ यथा खल्वात्ममनसोः सन्निकर्षः संस्कारश्च स्मृतिहेतुरेवं प्रणिधानलि- ङ्गादिज्ञानानि। तानि च न युगपद्भवन्ति । तत्कृता स्मृतीनां युगपदनुत्पत्तिरिति। १ एवं च एकदेशिना यः प्रतिषेध आकस्मिकमनस्सयोगस्य उक्तस्स प्रतिषेध उक्तेऽपि पादव्यथाजनकमनस्संयोगे स्यादेव-तच्चानुभवविरुद्धमिति हृदयम् । अनुभवविरोधम्प्रतिबन्दीरूपेणोपन्यस्य तस्वत उत्तरं प्रदर्शयति-यदृच्छयेति । यदृच्छया मनस्संयोगो न भवतीति यदुक्तंतस्ये दमेवोत्तरं यत् किमप्यत्र यदृच्छया न भवतीत्याशयः। २ परः समाधत्ते-कर्मेति । मनस्संयोगादावदृष्टमेव नियामकं भविष्यतीति नाकस्मिकत्वं वचिदपीति । तत्रोत्तरम्-समानमिति । ३ कः प्रतिषेधः पञ्चविंशसूत्रोक्तैकदेशिमतस्येत्यत आह-पूर्वस्त्विति । षडावंश- सूत्रे यत्तन्मतदूषणमुक्तं-नान्तःशरीरेतिसूत्रे-तदेव तस्योत्तरं सम्यगित्यर्थः । ४ परास्तः परः पृच्छति-कः खल्विति । स्मृतिकारणयोगपद्ये सति स्मृतियोग- पद्यं कथन भवतीति प्रश्नार्थः । ५ प्रश्नस्योत्तरमर्पयन् स्मरणायौगपद्यं स्वयमुपपादयति-प्रणिधानेत्यादिसूत्रेण । प्रणिधानादयः स्मृतिहेतवो वक्ष्यमाणा ऊनविंशसङ्ख्यकाः सन्ति न पुनस्संकार- सहितात्ममनस्संयोगमात्रम् । एवं चोक्तसंयोगस्य सत्वेऽप्यन्येषां स्मृतिहेतूनाम- योगपद्यात् स्मृतीनामयोगपद्यमित्यर्थः । ६ एतदेव स्पष्टयति भाष्यकार:-यथा खल्विति ।

सू. ३३] तृतीयाध्याये द्वितीयाहिके त्रयास्त्रंशत्तमं सूत्रम् २११ प्रातिभवन्तु प्रणिधानाधनपेक्षे स्माते योगपद्यप्रसङ्गः। यत्खल्विदं प्रातिभमिव ज्ञानं अगिधानाद्यनपेक्षं स्मार्त्तमुत्पद्यते कदाचित्तस्य युगपदुत्पत्ति- प्रसङ्गो हत्वभावान् । सतः स्मृतिहेतोरसंवेदना प्रातिभेन समानाभिमानः । ब्रह्वर्थविषये वै चिन्ताप्रबन्धे कश्चिदेवार्थः कस्यचित्स्मृतिहेतुः तस्यानुचिन्तनान् तस्य स्मृति- र्भवति, न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते-एवं मे स्मृतिरुत्पन्नेति, असंव- दनात्प्रातिभमिव ज्ञानमिदं स्मार्तमित्यभिमन्यते । न त्वस्ति प्रणिधानाद्यनपेक्षं स्मार्तमिति । "प्रातिभे कथमिति चेन्? पुरुषकर्मविशेषादुपभोगवन्नियमः । प्रातिभमिदानी ज्ञानं युगपत् कस्मान्नोत्पद्यते" ? यथोपभोगार्थ कर्म युग- १ आक्षिपति-प्रातिभवदिति । ('प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्त योगपद्य- प्रसङ्ग' इति वाक्यं के चित्सूत्रंमन्यन्ते । तत्प्रमाणासावादुपेक्ष्य भाप्यस्थमेवेदमाक्षेप- वाक्यमिति निर्धारितम् ।) २ संक्षेपेणोक्तमाक्षेपमनुवदति-यत्खल्विदामिति । अस्ति खलु प्रातिभं ज्ञानं स्मृत्यनुरूपमेव । तच्च प्रणिधानादि विनैव संस्कारसहितात्ममनस्संयोगमात्रादुश्पद्यत आकस्मिकमेव । तदिवान्या अपि स्मृतयस्तत्संयोगमात्रात्प्रादुर्भवितुमर्हन्ति । एतेषां च युगपदुत्पत्तिः सम्भवत्येवेत्याक्षेपाशयः । ३ हेत्वभावादिति-प्रणिधानादिहेत्वभावादित्यर्थः। ४ आक्षेपस्योत्तरम्-सतः स्मृतीति । स्मरणादावनुपलभ्यमानान्यपि कारणानि कारणक्रमश्च स्मृतिरूपकार्योत्पादक्रमेणानुमीयन्ते । एवं च प्रातिभमपि ज्ञानं पुरुषा- दृष्टविशेषापेक्षेभ्य आत्ममनस्सन्निकर्षादिभ्यः कारणेभ्य एव उपजायते न च तदप्य- कारणमक्रमं वा । यथा च प्रातिभे वर्तमानान्यप्येतानि कारणानि नोपलभ्यन्ते क्रमश्व नानुभूयते एवमेव स्मृतिष्वपीति । ५ उपमहरति-न वस्तीति । प्रणिधानाद्यनपेक्ष स्मरणं कदापिन भवतीत्याशयः ६ नन्वस्त्वेतत् सर्वम्-स्मरणेषु प्रातिभे तु ज्ञाने आकस्मिकत्वं कारणान्तर रहितत्वं चानुभवसिद्धमेवेत्याशयवान् पृच्छति-प्रातिभे कथमिति । प्रधानभूतां स्वपक्षोपपत्तिमवतारयितुमेवायं प्रश्नः । ७ तत्रादौ यत्किञ्चिदुत्तरम्-पुरुषकर्मेति । यथा पुरुषस्थादृष्टं तस्योपभोगानां नियामकं तथैव प्रातिभस्येत्यर्थः । ८ प्रश्नस्याशयं प्रकटयति-प्रातिभमिति । प्रातिभे ज्ञाने योगपद्यशास्तीत्यत्र को हेतुरित्यर्थः । ९ उत्तरं विशदयति-यथोपभोगार्थमिति । आविलमेवेदमुत्तरमुत्तरसारस्याने वक्ष्यमाणत्वादिति तात्पर्यकृतः ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२,सू ० ३३ -- . पदुपभोग न करोति एवं पुरुषकर्मविशेषः प्रातिभहेतुर्न युगपढ़नेकं प्रातिभं ज्ञानमुत्पादयति । हेत्वभावादयुक्तमिति” चेत् ? न, करणस्य प्रत्ययपर्याये सामर्थ्यात् । " उपभोगवन्नियम इत्यस्ति दृष्टान्तो हेतुर्नास्तीति " चेन्मन्यसे ? न, करणस्य प्रत्ययपर्याये सामर्थ्यात् । नैकस्मिन् ज्ञेये युगपदनेकं ज्ञानमुत्पद्यते- न चानेकस्मिन् । तदिदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यमित्यम्भूत- मिति न ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययोगपद्यादिति । अयं च द्वितीयः प्रतिषेधः-“ अवस्थितशरीरस्य चानेकज्ञानसमवाया- देकप्रदेशे युगपदनेकार्थस्मरणं स्यात् । क्वचिद्देशेऽवस्थितशरीरम्य ज्ञातुरिन्द्रियार्थ- प्रबन्धेन ज्ञानमनेकमेकस्मिन्नात्मप्रदेशे समवैति ! तेन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्यानेकस्य युगपत् स्मरणं प्रसज्यते, प्रदेशसंयोगपर्यायाभावादिति । आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे स्मृतियोगपद्यप्रतिषेधातु- पपत्तिः "। शब्दसन्ताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत्संस्कारप्रत्या- १ उत्तरस्याविलत्वमेव प्रकटयितुमाक्षिपति-हेत्वभावादिति । अदृष्टजन्यत्वात प्रातिभे न योगपद्यमिति कथामात्रन्न तत्साधकहेतुः कश्चिदुक्तः-उपभोगो दृष्टान्त- मात्ररूपेणोक्त इत्याशयः । २ सम्यगुत्तरमधुना समर्पयति-न-करणस्येति । ३ आक्षेपमनुवदति-उपभोगवदिति। उपभोगदृष्टान्तोपन्यासमात्रेण न किञ्चि- सिध्यतीत्यर्थः। ४ उत्तरमनुवदति-न, करणस्येति । ५ तस्यार्थं विवृणोति-नैकस्मिन्निति । सामान्यतः सर्वेषामेव पुरुषाणामेवमेवानुभवो यदेकस्मिन् विषयेऽनेकेष्वपि वा युगपज्ज्ञानानि नैवोत्पद्यन्त इति । ६ ज्ञानसमवेतसंस्कृतात्मप्रदेशभेदस्यायोगपद्यसाधकत्वम्प्रथमैकदेश्युपन्यस्तम्प्रति परोद्भावितदूषणान्तरमपाकर्त्तन्तद्रूषणमुपन्यस्यति-अयं चेति । यदि ज्ञानसमवेतात्म- प्रदेशसन्निकर्षादेव स्मृतीनां न युगपदुत्पत्तिः तर्हि ये संस्कारा एकदेशास्तेष्ववस्थित- शरीरस्यानेकज्ञानसमवायादेकदेशे युगपदनेकार्थस्मरणं स्यात् । न चैतदस्ति अत एक- देश्युक्तः परिहारो न सम्यगिति दूषणस्याशयः । ७ उक्तदूषणनिराकरणपरं भाप्यम्-शब्दसन्तान इति । शब्दसन्ताने यः शब्दः श्रोत्रेन्द्रियेण साक्षात्सम्बद्धः स एव श्रूयते न तत्सन्तानगतसर्वाः शब्दव्यक्तयः।

-सू. ३४ ] तृतीयाध्याये द्वितीयाह्निके चतुस्त्रिंशत्तमं सूत्रम् २१३ सत्त्या मनसः स्मृत्युत्पत्तन युगपदुत्पत्तिप्रसङ्गः । पूर्व एव तु प्रतिषेधो नाने- कज्ञानसमवायादेकप्रदेशे युगपन् स्मृतिप्रसङ्ग इति ।। ३३ ।। यत्-“पुषधर्मों ज्ञानं, अन्तःकरणस्येन्छाद्वेषप्रयत्नमुखदुःग्यानि धर्मा इति कस्यचिद्दर्शनं-तत्प्रतिषिध्यते- ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥ ३४ ॥ ५ एवमनन्तरोक्तपणे निरस्ते एकदेशिमतस्य का गतिरिति प्रदर्शयति-पत्र एवेति । एकदेशिमतस्य यः प्रतिषेधोऽस्माभिः षडविंशसूत्र उक्तस्स एवैकदेशिमतस्य निरासक इत्यर्थः । २ सम्प्रति बुद्धिरेव किमिच्छादिसमानाधिकरणा न वेति विचारं प्रस्तावयन तद्विषये संशयबीजभूतां सांख्यवैनाशिकानां विप्रतिपत्ति प्रदर्शयति-पुरुषधर्म इति । ज्ञानम् ' बुद्धिः “पुरुषस्य ' आत्मनो धर्मः इच्छादयस्त्वन्तःकरणस्येति न सामा- नाधिकरण्यं बुद्धेरिच्छादिभिरित्यर्थः । अस्य मतस्य सारो वर्णितस्तात्पर्यकृता । पुरुष- चैतन्यमेकमेव कूटस्थनित्यं सत् तत्तदाकारपरिणतबुद्धितत्त्वप्रतिबिम्बविभ्रमवशात् भिन्नमिवोपजनापायधर्मकं विज्ञानमिति वृत्तिरिति चाख्यायते । इच्छादयस्तु वस्तुत उपजनापायधर्माणोऽन्तःकरणस्यैवेति । अस्य विचारस्य प्रयोजनं प्रदर्शितं परिशुद्धिकृता-यावदिच्छादीनामात्मगुणत्वं न माध्यते तावदिन्द्रियार्थमनोव्यतिरेकसिद्धावपि बुद्धरात्मगुणत्वं न सिध्यतीति । इच्छाया अन्तःकरणगुणत्वम्-ज्ञानस्य चेच्छाजन्यत्वम्-अत इच्छाज्ञानयोस्सामानाधि- करण्यस्यावश्यकतया ज्ञानस्याप्यन्तःकरणगुणत्वमेव नास्मगुणत्वमित्यस्य दर्शनस्ब तात्पर्य वर्णितं वृत्तिकृता । ३ उक्तदर्शनप्रतिषेधमवतारयति-तत्प्रतिषिध्यत इति । ४ सांख्यदर्शनप्रतिषेधपरं सूत्रम्-ज्ञस्येच्छेति । द्विधा वर्णितमिदं सूत्रं वृत्तिकृता। तद्यथा-'ज्ञस्थ' ज्ञानवत एवं गुणा इच्छाद्वेषादयः-कुतः-' आरम्भनिवृत्त्योः इच्छा. द्वेषनिमित्तत्वात् ' इच्छाद्वेषप्रयुक्तत्वादिति यावत् । अथ वा ' आरम्भनिवृत्त्योः ज्ञस्यैव इच्छाद्वेषनिमित्तत्वात् ' (तस्यैव ज्ञस्य गुणा इच्छादय इति) 'कस्यचिद्दर्शनं प्रति- षिध्यते' इति भाष्यवाक्येन सम्बन्धः। पूर्व व्याख्यानं न सम्यक् प्रतिभाति । इच्छादयोऽन्तःकरणस्य गुणा इति पूर्वपक्षिणः सिद्धान्तः । ततश्च तदनुसारेण यद्या- रम्भनिवृत्ती इच्छाद्वेषजन्ये तāते अप्यन्तःकरणस्यैव भवेतां न ज्ञानवतः पुरुषस्येति द्वितीयमेव व्याख्यानं सुष्टु । एतदेव वर्धमानोपाध्यायानां सम्मतम् । 'आरम्भनिवृत्ति प्रयत्नरूपे ज्ञानसमानाधिकरणे एवेति सूत्रार्थः' इत्युक्तं तैरन्वीक्षानयतत्त्वबोधे । .

खद्योतसाहितन्यायसूत्रभाष्ये [अ०३, आ०५, सू० ३५ - अयं खलु जानीते तावत्-इदं मे सुखसाधनमिदं मे दुःखसाधनमिति- ज्ञात्वा स्वस्य सुखसाधनमाप्तुमिच्छति, दुःखसाधनं हातुमिच्छति । प्राप्ती- च्छाप्रयुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः, जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः । एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानामेकेनाभि- सम्बन्धः । एककर्तृकत्वं ज्ञानेच्छाप्रवृत्तीनां समानाश्रयत्वं च । तस्माज ज्ञस्ये- च्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाचेतनस्येति । आरम्भनिवृत्त्योश्च प्रत्यगा- त्मनि दृष्टत्वान् परत्रानुमानं वेदितव्यमिति ॥ ३४ ।। अत्र भूतचैतनिक आह- "तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येश्वप्रतिषेधः ॥ ३५ ॥ आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानमिति प्राप्तं--पार्थिवाप्यतैजसवायवीयानां शरीराणामारम्भनिवृत्ति- दर्शनादिच्छाद्वेषज्ञानर्योग इति चैतन्यम्" ॥ ३५ ॥ परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥ ३६ ।। शरीरे चैतन्यनिवृत्तिः । आरम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानर्योग इति प्राप्तं-परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच्चैतन्यमिति । अथ शरीरस्येच्छा- दिभिर्योगः, परश्वादेस्तु करणस्यारम्भनिवृत्ती व्यभिचरत : " न तयं हेतुः- 'पार्थिवाप्यतैजसवायवीयानां शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानर्योग' इति । "अयं त_न्योऽर्थस्तल्लिङ्गत्वादिच्छा द्वेषयोः पार्थिवाद्येष्वप्रतिषेधः । पृथिव्यादीनां भूतानामारम्भस्तावत् सत्स्थावरशरीरेषु तदवयवव्यूहलिङ्गः १ सूत्रार्थं व्याकुर्वन् ज्ञानेच्छादीनां समानाधिकरणत्वं प्रदर्शयति-अयं खल्विति। २ नन्वस्त्वेकमेवाधिकरणं ज्ञानेच्छादीनाम् । भवतु पार्थिवमिदं शरीरमेव तदेक- मधिकरणमित्याशयवान् भूतचैतनिकः-भूतचैतन्यवादी चार्वाक:-शङ्कतेतल्लिङ्गत्वा- दित्यादि सूत्रेण । 'पार्थिवाद्येषु' देहेषु 'अप्रतिषेधः ' न प्रतिषेधः 'इच्छा- द्वेषयोः तल्लिङ्गत्वात् ' आरम्भनिवृत्तिलिङ्गकत्वात् , आरम्भनिवृत्त्योश्च शरीरे प्रत्यक्ष- सिद्धत्वादित्यर्थः। ३ एवं निरस्तो भूतचैतनिकस्तल्लिङ्गत्वादिति स्वोक्तं हेतुं स्वपक्षसिद्धयर्थमन्यथा व्याचष्टे-अयं तहीति। ४ तदर्थान्तरं विवृणोति-पृथिव्यादीनामिति । 'सत्सु ' अस्थिरेषु कृमि- प्रभृतीनां शरीरेषु ' स्थावरेषु' देवमनुष्यादीनां शरीरेष्ववयवव्यूह ददई नाच्छरी- -सू. ३७ ] तृतीयाध्याये द्वितीयाह्निके सप्तत्रिंशत्तमं सूत्रम् २१५ प्रवृत्तिविशेषः । लोष्टादिषु च लिङ्गाभावात् प्रवृत्तिविशेषाभावो निवृत्तिः । आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति । पार्थिवाद्येष्वणुषु तद्दर्शनादिच्छाद्वेषयोग- स्तद्योगाज्ञानयोग इति सिद्धं भूतचैतन्यमिति"- कुम्भादिध्वनुपलब्धेरहेतुः । कुम्भादिमृदवयवानां ब्यूहलिङ्गः प्रवृत्ति- विशेष आरम्भः । सिकतादिपु प्रवृत्तिविशेषाभावो निवृत्तिः । न च मृत्सिक- तानामारम्भनिवृत्तिदर्शनादिच्छाद्वेषप्रयत्नज्ञानयोगः। तस्मात्-'तल्लिङ्गत्वादिच्छा- द्वेषयो':--इत्यहेतुरिति ॥ ३६ ॥ नियमानियमौ तु तद्विशेषको ।। २७ ॥ तयोरिन्छाद्वेषयोर्नियमानियमौ विशेषको भेदको । ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती, न म्याश्रये । किं तर्हि ? प्रयोज्याश्रये। तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्वित्यनियमोपपत्तिः । यस्य तु ज्ञत्वाद् भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमः स्यान्। यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिर्गुणप्रतिबन्धाच निवृत्ति- , . रारम्भकाणामणूनां प्रवृत्तिरूप आरम्भोऽनुमीयते-ततः प्रवृत्तिभेदादिच्छाद्वेषावनु- मीयेते-ताभ्यां च चैतन्यमनुमीयते इत्याशयः । १ भूतचैतनिकस्याएं द्वितीयमपि हेतुं दूषयति-कुम्भादिष्विति । केचिदेतत् सूत्रत्वेनाभिप्रयन्ति । तत्र प्रमाणाभावाद्भाष्यवाक्य मेवेदमिति निर्धारितम् । 'कुम्भा. दिषु' आरम्भनिवृत्तिस त्वेऽपि इच्छादीनां अनुपलब्धेः '-' अहेतुः' इच्छाढे- घयोरारम्भनिवृत्तिलिङ्गत्वादिति न सद्धेतुरित्यर्थः । २ अनियमं भेदकं व्याचष्टे-यस्य विति । 'नियमः स्यादिति' सर्वेषु भूतेषु प्रवृत्तिनिवृत्ती स्यातामित्यर्थः । ३ उक्तमेव स्पष्टयति-यथा भूतानामिति । यथा भूतानां गुरुत्वादिगुणान्तर- निमित्ता प्रवृत्तिः पतनादिल क्षणा तस्यैव गुरुस्वादेर्गुणान्तरस्य ‘प्रतिबन्धः' आधार- द्रव्यसयं गेन-तस्माच्च निवृत्तिः अपतनादिका-उभयमप्येतद्भूतमात्रे भवति निय- मेन व्याप्त, न पुनः शरीरारम्भकमान- तेषु (एष सार्वजनीनोऽनुभवः) एवं भूतमात्रे तद्गुणभूतज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती अपि स्वाश्रये एव स्याताम् । एतदुक्तं मवति-ये ये पृथि यादिगुणास्ते ते यावत्पृथिव्यादिभाविनो दृष्टाः, यथा गुरु- स्वादयः । ज्ञानेच्छादयोऽपि चेत् पृथिच्यादिगुणास्तैरप्यवश्यं यावत्पृथिव्यादिभाविभि- भवितव्यम् । न तु घटादौ तथा दृश्यन्ते । तस्मान्न पृथिव्यादिगुणा ज्ञानादय इति ' ..

खद्योतसहितन्यायसूत्रभाष्ये [अ० ३, आ० २, स० ३७ - भूतमात्रे भवति नियमेनैवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम् । न तु भवतः। तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः, प्रयोज्या- श्रये तु प्रवृत्तिनिवृत्ती इति सिद्धम् । एकशरीरे तु ज्ञातृबहुत्वं निरनुमानम् । भूतचैतनिकस्यैकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम्। ओमिति ब्रुवतः प्रमाण नास्ति । यथा नानाशरीरेषु नानाज्ञातारो बुद्धयादिगुणव्यवस्थानान् , एवमेक- शरीरेऽपि बुद्धयादिगुणव्यवस्थानुमानं स्याज्ज्ञातृबहुत्वस्येति । दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सोऽनुमानमन्यत्रापि । दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिध्वन्यगुणनिमित्तः प्रबृत्तिविशेषः । सोऽनुमानमन्यत्रापि त्रसत्स्थावरशरीरेषु । तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानामन्यगुणनिमित्त इति । स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवदिति । अन्न भाष्यकृता सार्वत्रिकत्वप्रसङ्गविवक्षया नियमशब्दः प्रयुक्तः असार्वत्रिकत्व- विवक्षया त्वनियमशब्द इति तात्पर्यकृतः। अत्र तात्पर्यम्-अवयवानां प्रत्येकं चैतन्ये शरीरे एकस्मिन् बहवश्चेतनाः स्युः । भवतु किन्नो बाध्यत इति चेन्न । विरुद्धाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्य जायेत । न च बनामेकाभिप्रायनियमो दृष्टः । काकतालीयन्यायेन स्यादेका- भिप्रायत्वं न पुनरस्य नियमो दृष्टचर इति एतद्दूषणमुपेक्ष्य वार्तिककृता प्रत्यय- व्यवस्थानुमानं न भवेदिति दूषणमुक्तम् । एकस्मिन् शरीरे प्रत्ययानां परस्परप्रति- सन्धानं पश्यामो न शरीरान्तर इति व्यवस्था । सेयं यद्येकस्मिन् शरीर एक एवं चेतनो न चासौ शरीरान्तरे ततो भवेन्नान्यथेत्यर्थ इति । १ नियमानियमाविति यदुक्तं सूत्रे तत्रानुमानं सूचयति भाष्यकारः-दृष्टश्चा- न्यगुणेति । अत्र तात्पर्यम्-हिताहितप्राप्तिपरिहारहेतुः परिस्पन्दः प्रवृत्तिविशेषः । सोऽयं प्रयोगः-त्रसत्स्थावरशरीरेषु प्रवृत्तिः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्ता प्रवृत्तिविशेषत्वात् परश्वादिगतप्रवृत्तिवदिति । २ कोऽसौ गुणः किमाश्रयश्च यन्निमित्तः शरीरे प्रवृत्तिविशेष इत्यपेक्षाया- माह-स च गुण इति । सोऽयं गुणः संस्कारविशेष एव धर्माधर्मनाम्ना प्रसिद्धः प्रयत्नसमानाश्रय एव । यस्मिन्नाश्रये प्रयत्नः समवैति तस्मिन्नैव स संस्कारोऽपीत्यर्थः । स च ‘सर्वार्थः ' पुरुषसम्बद्धसकलार्थप्रयोजकः 'पुरुषार्थाराधनाय' पुरुषस्यार्था- नामाराधनाय सम्पादनाय भूतानां तत्पुरुषशरीरारम्भकाणां 'प्रयोजकः ' प्रवर्तकः ।

२. ३८] तृतीयाध्याये द्वितीयाह्निके अष्टत्रिंशत्तमं सूत्रम् आत्मास्तित्वहेतुभिरात्मनित्यत्वहेतुभिश्च भूतचैतन्यप्रतिषेधः कृती वेदितव्यः । 'नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ' इति च समानः प्रतिषेध इति । क्रियामानं क्रियोपरममात्रं चारम्भनिवृत्ती इत्यभिप्रेत्योक्तम्-'तल्लिङ्ग- स्वादिच्छाद्वेपयोः पार्थिवाद्येष्वप्रतिषेधः' इति । अन्यथा त्विमे आरम्भनिवृत्ती आग्न्याते. न च तथाविधे पृथिव्यादिपु दृश्यते । तस्मादयुक्तम्- तल्लिङ्गत्वा- दिच्छाद्वषयोः पार्थिवाद्येष्वप्रतिषेध' इति ।। ३७ ।। भूतेन्द्रियमनसां समानः प्रतिषेधो मनस्तूदाहरणमात्रम् । यथोक्तहेतुत्वात्पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥३८॥ इच्छाद्वेषप्रयत्नसुखदुःवज्ञानान्यात्मनो लिङ्ग' मित्यतः प्रभृति यथोक्तं सङ्गृह्यते । तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः । पारतन्त्र्यान् । परतन्त्राणि भूतेन्द्रियमनांसि धारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात्प्रवर्तन्ते । चैतन्ये पुनः स्वतन्त्राणि स्युरिति । अकृताभ्यागमाच्च । 'प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ' इति चैतन्ये भूते- १ तल्लिङ्गत्वादिति (३५) सूत्रोक्तस्याक्षेपस्य समाधानान्तरमाह-क्रियामात्र- मिति । ज्ञस्येच्छेत्यत्र (३४) सूत्रे आरम्भनिवृत्तिशब्देन न प्रबृत्तिनिवृत्तिमात्रम- भिमतमस्नाकमपि तु हिताहितप्राप्तिपरिहारार्थः स्पन्दविशेषः । तमिमं प्रवृत्ति- विशेषमज्ञात्वाऽऽक्षेपकेण प्रवृत्तिसामान्येन प्रत्यवस्थितम् । अतोऽत्र ' अप्रतिपत्ति'- स्ते निग्रहस्थानमित्याशयः । २ बुद्धेःशरीरमात्रगुणत्वमपाकृत्य भतेन्द्रियमनसामपि न सा गुणो भवितु- महतीत्युपपादयितुं हेतूनुपन्यसिप्यन् तत्र कथं केवलं मनस एव ग्रहणं कृतं न भृतेन्द्रिययोरिति बहिः पूर्वपक्षे समाधानमाह-भूतेन्द्रियमनसामिति । ये हेतवोऽ- ग्रिमसूत्र उपन्यस्तास्ते सर्वे वुद्धेः भूतगुणत्वमिन्द्रियगुणत्वम्मनोगुणत्वं च निषेधयितुं तुल्यमेव समर्थास्तथाऽपि मनोमात्रस्य ग्रहणं केवलमुदाहरणरूपेण कृतम् । भतेन्द्रियमन- साम्मध्ये आद्ययोरुभयोरपि भौतिकवान्मनसश्चाभौतिकवादस्यैवाभौतिकेनात्मना यत्किञ्चित्सादृश्यमस्तीति मनोगुणत्वे निषिद्धे सुतरामेव भूतेन्द्रियगुणत्वमपि निषिद्ध- मेवेति हृदयं सूत्रकाररयेत्याशयः । ३ बुद्धमनोगुणत्वप्रतिषेधाय हेतुव्रयसमुच्चयपरं सूत्रम्-यथोक्तहेतुत्वादिति । न मनसः गुणो बुद्धिरिति शेषः । ४ हेत्वर्थ प्रकटयति-प्रवृत्तिरिति । प्रथमाध्यायप्रथमाहिकगतसप्तदशसूत्रे वाग्बुद्धिशरीरारम्भस्य प्रवृत्तित्वमुक्तम्पुनस्तत्रैव द्वितीयसूत्रभाष्ये प्रवृत्तिजन्यत्वं धर्मा- धर्मयोरुपवर्णितम् ।

२१८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ० २, सू.३९ ma- , न्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यत इति स्यात् । अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्युपपद्यत इति ॥ ३८ ॥ अथायं सिद्धोपसङ्ग्रहः- परिशेषाद्यथोक्तहेतूपपत्तेश्च ।। ३९ ।। आत्मगुणो ज्ञानमिति प्रकृतम् । परिशेषो नाम-प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः । भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते, शिष्यते चात्मा । तस्य गुणो ज्ञानमिति ज्ञायते । 'यथोक्तहेतूपपत्तेश्चेति', दर्शनस्पर्शनाभ्यामेकार्थग्रहणान्' इत्येव- मादीनामात्मप्रतिपत्तिहेतूनामप्रतिषेधादिति । परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनमिति । १ बुद्धरात्मगुणत्वमुपसंहरति-अथायमिति । 'सिद्धस्य' सिद्धान्तस्य 'उपसङ्ग्रहः' उपसंहार इत्यर्थः । २ हेतूपसंहारपरं सूत्रम्-परिशेषादिति । 3 सूत्रवाक्यं पूरयति-आत्मेति । एवं च परिशेषाद् यथोक्तापपत्तेश्च आत्मगुणो ज्ञानमिति सिद्धान्तसूत्रं पर्यवसितम् । ४ परिशेषादिति हेतुं व्याचष्टे-परिशेषो नामेति । प्रथमाध्यायप्रथमालिकस्थ- पञ्चमसूत्रभाष्यस्थान्येतान्यक्षराणि तत्रैव व्याख्यातार्थानि । ५ तत्रोक्तं शास्त्र प्रकृते योजयति-भूतेन्द्रियेति । आस्मभूतेन्द्रियमनांस्येव बुद्धयाधारत्वेन 'प्रसक्तानि' तेषु तावदुक्तप्रकारेण भूतेन्द्रियम नसा दाधारस्वेन- 'प्रतिषेधे' 'अन्यत्र' आत्मभूतेन्द्रियमनोन्यतिरिक्तद्रव्यान्तरे 'अप्रसङ्गात् ' बुद्धया- धारस्वासम्भवान् ‘शिष्यमाणः' अवशिष्टद्रव्यम् आत्मैव । ततश्चात्मन एव गुणो बुद्धिरिति निश्चीयते । ६ यथोक्तहतूपपत्तेरिति द्वितीयं हेतुमनूद्य व्याचष्टे-यथोक्तेति । तृतीयाध्याये दर्शनस्पर्शनाभ्यामित्यादिग्रन्थेन ये आत्मास्तित्वसाधनहतच उपन्यस्ता तेषां सर्वेषा- मात्मनो बुद्धिगुणस्वसाधनत्वेऽद्यत्वेऽपि कोऽपि प्रतिषेधो नोपलभ्यतेऽतो त एव सर्वे- ब्रातिदिश्यन्ते । ' उपपत्तेश्चेति' अप्रतिषेधादित्यर्थः। ७ यथोक्तहेतूपपत्तेश्वेत्येतस्य व्याख्यान्तराण्याह-पा शेषेति । परिशेषादित्यस्यैव हेतोरुपोबलकं यथोक्तहेतूपपत्तेश्वति वाक्यम्-यथोक्तहेविति। तथा च यदुक्तमात्मा शिष्यते इति तत्रैव तृतीयाध्यायांतहतवः साधका इति पर्यवसितोऽर्थः ।

--स् . ४०] तृतीयाध्याये द्वितीयाह्निके चत्वारिंशत्तमं सूत्रम् । । , अर्थ वो पपत्तेश्चेति हेत्वन्तरमेवेदम् । नित्यः खल्वयमात्मा, यम्मादेक- स्मिन शरीरे धर्म चरित्वा कायमेदात् स्वर्गे देवेषुपपद्यते, अधर्म चरित्वा देहभेदान् नरकेपपात इति । उपपत्तिः शरीरान्तरप्राप्तिलक्षणा, सा सति सत्त्वं नित्ये चाश्रयवती । बुद्धिप्रबन्धमात्रे तु निरात्मके निराश्रया नोपपद्यत इति । एकसत्त्वाधिष्टानश्चानेकशरीरयोगः संसार उपपद्यते । शरीरप्रबन्धोन्छे- दश्चापवर्गो मुक्तिरित्युपपद्यते । बुद्धिसन्ततिमात्रे त्वेकसत्त्वानुपपत्तेर्न कश्चिहीर्घ- मध्वानं सन्धावति न कश्चिन्छरीरप्रवन्धाद्विमुन्यत इति संसारापवर्गानुपपन्ति- रिति । बुद्धिसन्ततिमात्रे च सत्त्वभेदात्सर्वमिदं प्राणिव्यवहारजातमप्रति- संहितमयावृत्तमपरिनिष्ठितं च स्यात् । ततः स्मरणाभावान्नान्यदृष्टमन्यः स्मरतीति । स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणमज्ञासिषममुम) ज्ञेयमिति । सोऽयमेको ज्ञाता पूर्वज्ञातमर्थं गृह्णाति, तच्चाम्य ग्रहणं स्मरणमिति तद् बुद्धिप्रवन्धमाने निरात्मके नोपपद्यते ॥ ३९ ॥ स्मरणं त्वात्मना ज्ञस्वाभाव्यात् ।। ४० ।। उपपद्यत इति । आत्मन एव स्मरणं न बुद्धिसन्ततिमात्रन्येति । 'तु'श- १ अपरं व्याख्यानम्-अथ वेति । 'उपपत्तेश्चेति तृतीयाध्यायंक्तहे तुभ्योऽन्या उपपत्तीः ' हेतून् परामृशति । अत्र तात्पर्यम् । पूर्वेधुरर्धकृतानामपरेयुः परिसमापना दृष्टा मयारब्धम्मयैव परिसमापनीयमिति प्रतिसन्धाने अप्रतिसन्धाने तु न परिसमापयेयुः । परिसमापेन वा चैत्रारब्धमचैत्रः समापयेत् । यतः स्वयमारब्धात् परारब्धमन्यावृत्तम विशिष्टम्- स्वस्यापि परत्वात् । अपरिनिष्टितं च कर्मजातं स्यात् । तथाहि-वैश्यस्तं मे वैश्य एवाधिकारी न ब्राह्मणराजन्यो-एवं राजसूये राजव न ब्राह्मणो वैश्या वा-एवं सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यो-शूद्रश्चानधिकृत एवेति 'परिनिष्ठा' । मा बुद्धिसन्ततिमात्रे न स्यात् । कुतः ? सल्लक्षणानां सर्वेष मेव त्रैलोक्यवलक्षण्येन भेदात्-अन्यापोह सामान्यस्य च व्यावर्तितत्वादित्यर्थ इति । २ इष्टापत्तिमाशंक्य दोपमाह-तत इति । सकलव्यवहाराणामप्रति- संहितत्वात् स्मरणाभावः । ३ नित्ये स्वात्मनि स्मरणमुपपद्यत एवेत्याह-स्मरणं वितिसूत्रम । ४ सूत्रवाक्यम्पूरयति-उपपद्यत इति । तथा च स्मरणमात्मनो ज्ञस्वाभाव्यादुप- पद्यत इति सूत्रस्वरूपं पर्यवसितम् । त्रिकालव्यापिनी ज्ञानशक्तिरेव 'ज्ञस्वाभा- व्यम्' । तद्धि आकाशादिभ्यो व्यावृत्तं त्रिकालव्यापि स्वरूपमेवात्मनः । एतत्स्वरूपे आत्मनि सत्येव स्मरणमुपपद्यत इति भावः । . , ततः खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२ सू०४१- , ब्दोऽवधारणे । कथम् ? ज्ञस्वभावत्वात् । ज्ञ इत्यस्य स्वभावः स्वो धर्मः । अयं खलु ज्ञास्यति जानाति अज्ञासीदिति त्रिकालविषयेणानेकेन ज्ञानेन सम्बध्यते। तच्चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयं ज्ञास्यामि जानामि अज्ञासिष- मिति वर्तते । तद्यस्यायं स्वो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्म- कस्येति ॥ ४० ॥ स्मृतिहेतूनामयोगपद्याधुगपदस्मरणमित्युक्तम् । अथ केभ्यः स्मृतिरु- त्पद्यत इति ? स्मृतिः खलु प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितस- म्बन्धानन्तर्यवियोगेककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वे- षभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ।। ४१ ॥ सुरुमूर्षया मनसो धारणं प्रणिधानं-सुस्मूर्षितलिङ्गानुचिन्तनं वार्थस्मृति- कारणम् । निबन्धः-खल्वेकग्रन्थोपयमोऽर्थानाम् । एकग्रन्थोपयताः खल्वर्था अन्या- न्यस्मृतिहेतव आनुपूर्येणेतरथा वा भवन्तीति । धारणशास्त्रकृतो वा प्रज्ञातेषु वस्तुपु स्मर्तव्यानामुपनिःक्षेपो निबन्ध इति । अभ्यासस्तु-समाने विषये ज्ञानानामभ्यावृत्तिः । अभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते । स च स्मृतिहेतुः समान इति । लिङ्ग-पुनः संयोगि समवाय्येकार्थसमवायि विरोधि चेति । यथा-धूमोऽग्नेः, गोर्विषाणम् , पाणि: पादस्य, रूपं स्पर्शस्य, अभूतं भूतस्येति । लक्षणं-पश्व- वयवस्थं गोत्रस्य स्मृतिहेतुः-विदानामिदं, गर्गाणामिदमिति । सादृश्य-चित्रगत प्रतिरूपकं-देवदत्तस्येत्येवमादि । परिग्रहात्-स्वेन वा स्वामी स्वामिना वा स्वं स्मयते । आश्रयात्-ग्रामण्या तदधीनं संस्मरति । आश्रितात्-तदधीनेन ग्रामण्यमिति । सम्बन्धात्-अन्तेवासिना युक्तं गुरुं स्मरति, ऋत्विजा याज्यमिति ! आनन्तर्यादिति-करणीयेष्वर्थेषु । वियोगात्-येन विप्रयुज्यते १ स्मृतिहेतूनामयोगपद्यादिति पूर्वोक्तं स्मारयित्वा स्मृतिहेतुवर्णनपरं सूत्रमव- तारयितुं पृच्छति-अथ केभ्य इति । २ पञ्चविंशतिस्मृतिहेतुनिरूपणपरमुत्तरम्-स्मृतिः खल्विति प्रणिधानादि निमित्तेभ्य इत्यन्तम् । - n , भाष्यमारभ्य -स. ४१] तृतीयाध्याये द्वितीयाहिके एकचत्वारिंशत्तमं सूत्रम् वा तद्वियोगप्रतिसंवेदी भृशं स्मरति । एककार्यात्-कन्तरदर्शनात् कर्जन्तरे स्मृतिः। विरोधान्-विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मर्यते । अति- शयात्-यनातिशय उत्पादित: । प्राप्तेः-यतो येन किञ्चित्प्राप्तमाप्तव्यं भवति तमभीक्ष्णं स्मरति । व्यवधानात्-कोशादिभिरसिप्रभृतीनि स्मर्यन्ते । सुखदुःग्याभ्यां-तहेतुः स्मर्यते । इच्छाद्वेपाभ्यां-यमिच्छति यं च द्वेष्टि तं म्मरति । भयात्-यतो विभेति । अर्थित्वान्-येनार्थी भोजनेनाच्छादनन वा । क्रियायाः-रथेन रथकारं म्मरति! रागात-यस्यां स्त्रियां रत्तो भवति तामभीक्षणं म्मरति । धर्मात्-जात्यन्तरम्मरणमिह चाधीतश्रुतावधारणमिति । अधर्मात्- प्रागनुभूतदुःखसाधनं स्मरति । न चैतेषु निमित्तेपु युगपत्संवेदनानि भवन्तीति युगपदम्मरणमिति । निदर्शनं चेदं स्मृतिहेतूनां न परिसङ्ग्यानमिति ।। ४१ ॥ (४) बुद्धेकत्पन्नापवर्गित्वप्रकरणम् । अनित्यायां च बुद्धौ उत्पन्नापवागत्वात् कालान्तरावस्थानाचानित्यानां १ उक्तमर्थं प्रकृते योजयन् प्रकरणार्थमुपसंहरति-न चैतेविति । २ ननन्मादादयोऽपि स्मृतिहेतवो लोकसिद्धास्तत् किन्तेऽत्र नोक्ता इत्यत आह-निदर्शनमिति । ३ परिसंख्यानमिति-अशेषाणां स्मृतिहेतूनाम्परिगणनमित्यर्थः । ४ बुद्धेरात्मगुणत्वे प्रसाधिते तस्या उत्पन्नापवर्णित्वं निरूपयिष्यते। ज्ञानयोगपद्य- निराकरणप्रसङ्गेन च स्मृतिक्रमोऽपि विचारयिष्यते । ज्ञानस्यैवेच्छायेकाश्रयत्वग्रसङ्गेन तन्निर्वाहाय स्मरणं "चात्मनो ज्ञस्वाभाव्यादि"ति सूत्रे ( ४० ) उक्तम् । तदेतत्सर्व स्मरणे सत्येव स्यात् । तच्च सति संस्कारे। स च ज्ञानस्याशुतरविनाशित्वेन त्वन्यथेति तदेवाधुना विचार्यते । अत एव तृतीयाध्यायगतबुद्धयनित्यताप्रकरणेऽस्या उत्पन्नापव- गित्वन्न निरूपितम्-तत्र प्रयोजनाभावात् । बुद्धेः सामान्यतोऽनित्यतायामात्मगुणत्व- सिद्धिः प्रयोजनम् । तच्च तस्याः कालान्तरावस्थाथित्व एव धर्माधर्मवदुपपद्यते । अतो बुद्धरनित्यत्वस्य सामान्यतो विचारितस्य विशेषतस्तस्या उत्पन्नापवर्गित्वं (आशुतरविनाशित्वं) अधुना विचार्यते ५ तत्र संशयकारणं दर्शयति-अनित्यायामिति । बुद्धिरनित्येति साधितम् । अनित्यं चोत्पन्नापवर्गि दृष्टं यथा शब्दः, कालान्तरावस्थायि च यथा घटः-इत्युभय- थादर्शनात् भवति संशयः। उत्पन्नापवर्गित्वमाशुतरविनाशित्वमिति यावत् । कालान्तरावस्थानाच नित्यानामित्येव सर्वत्र पाठ उपलभ्यते। किन्त्वने कुम्भवदिति दृष्टान्तदृष्टयाऽनित्यानामिति पाठः सम्यक्प्रतिभाति । नित्यतायामिति पाठे स्वयमर्थः ७ २२२ खद्योतसहितन्यायसूत्रभाष्ये [ अ०३, आ० २, सू०४२- " सशयः-किमुत्पन्नापवर्गिणी बुद्धिः शब्दवत् आहोस्विन् कालान्तरावस्थायिनी कुम्भवदिति ? उत्पन्नापवर्गिणीति पक्षः परिगृह्यते । कस्मात् ? "- कर्मानवस्थायिग्रहणात् ॥ ४२ ॥ कर्मणोऽनवस्थायिनो ग्रहणादिति । क्षिप्तस्येषोरापतनान् क्रियासन्तानो गृह्यते । प्रत्यर्थनियमाञ्च बुद्धीनां क्रियासन्तानवद् बुद्धिसन्तानोपपत्तिरिति । अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्षनिवृत्तेः। अवस्थिते च कुम्भे गृह्यमाणे सन्तानेनैव बुद्धिवर्तते प्राग्व्यवधानान् । तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते । कालान्तरावस्थाने तु बुद्धेदृश्यव्यवधानेऽपि प्रत्यक्षमवतिष्ठतेति । स्मृतिश्चालिङ्गं बुद्धयवस्थाने । संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात् । यश्च मन्येत-" अवतिष्ठते बुद्धिः दृष्टा हि बुद्धिविषये स्मृतिः, सा च बुद्धाव- नित्यायां कारणाभावान्न स्यादिति -तदिदमलिङ्गम् । कस्मान् ? बुद्धिजो हि संस्कारो गुणान्तरं स्मृहिहेतुर्न बुद्धिरिति । 'हेत्वभावादयुक्तमिति चेन्”-बुद्धयवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः । यादवतिष्ठते बुद्धिस्तावदसौ बोद्धयार्थः प्रत्यक्षः, प्रत्यक्षे च स्मृतिरनुप- पन्नेति ॥ ४२ ॥ “ अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहण- वत् ॥४३॥ " बुद्धिर्यद्यनित्या तर्हि उत्पन्नापवर्गिणी । अथ सा नित्या तर्हि कालान्तरावस्थायिनीति संशय इति । न चायं सङ्गच्छतेऽग्रिमेश ग्रन्थेनेत्ययं पाठ उपेक्षितव्यः । १ सिद्धान्तोपन्यासेनैवोपक्रमते-उत्पन्नापवर्गिणीति पक्ष इति । अन्येभ्यो विनाशिभ्य आशुतरं विनश्यतीत्येवोत्पन्नापवर्गित्वस्यार्थः । न त्वयमर्थः उत्पत्त्यन- न्तरमेव ध्वंसत' इति । २ यावदवतिष्ठत इति । यदि बुद्धिरेव कालान्तरावस्थायिनी तर्हि बुद्धिजनकी- भतेन्द्रियसन्निकर्षादिनिवृत्तावप्यवतिष्ठेतैव । ततश्च बहुकालपर्यन्तम्प्रत्यक्षज्ञानस्यैवाव- स्थानास्मृतेरावश्यकताऽवसरो वा न स्यादित्याशयः । ३ पुनः पर आक्षिपति-अव्यक्तग्रहणेत्यादिसूत्रेण । यदि 'ग्रहणं' 'अनव- स्थायि' स्यात्तर्हि तत् सर्वदाऽव्यक्तमेव स्यात् । यथा विद्युत्सम्पाते यद्पग्रहणं भवति तत् क्षणिकं सदव्यक्तमेव भवतीति सूत्रार्थः ।

-सू. ४४ ] तृतीयाध्याये द्वितीयाह्निके चत्वारिंशत्तमं सूत्रम् , यद्युत्पन्नापागणी बुद्धिः, प्राप्तमव्यक्तं बोद्धव्यस्य ग्रहणं-यथा विद्यु- सम्पाते वैद्युतस्य प्रकाशस्थानवस्थानाव्यक्तं रूपग्रहणमिति व्यक्तं तु द्रव्याणां ग्रहणम् । तस्मादयुक्तमेतदिति ॥ ४३ ॥ हेतूपादानात् प्रतिपेद्धव्याभ्यनुज्ञा ॥ ४४ ॥ उत्पन्नापवर्गिणी बुद्धिरिति प्रतिषेद्धव्यम् । तदेवाभ्यनुज्ञायते 'विद्युत्स- म्पाते रूपाव्यक्तग्रहणवदिति' । यत्राव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिरिति । ग्रहणे हेतुविकल्पाद्ग्रहण विकल्पो न बुद्धिविकल्पात् । यदिदं क्वचिदव्यक्तं कचिव्यक्तं ग्रहणमयं विकल्पो ग्रहणहेतुविकल्पात् । यत्रान- वस्थितो ग्रहणहेतुः तत्राव्यक्तं ग्रहणं, यत्रवास्थितस्तत्र व्यक्तम्-न तु बुद्धेरव- स्थानानवस्थानाभ्यामिति । कस्मान् ? अर्थग्रहणं हि बुद्धिः। यत्र तदर्थ- ग्रहणमव्यक्तं व्यक्तं वा बुद्धिः सेति । विशेषाग्रहणे च सामान्यग्रहणमात्रमव्य- क्तग्रहणम् । तत्र विषयान्तरे बुद्धयन्तरानुत्पत्तिर्निमित्ताभावान् । यत्र समान- धर्मयुक्तश्च धर्मी गृह्यते विशेषधर्मयुक्तश्च तब्यक्तं ग्रहणम् । यत्र तु विशेषेऽगृह्य- माणे सामान्यग्रहणमात्रं तदव्यक्तं ग्रहणम् । समानधर्मयोगाच विशिष्टधर्म- योगो विषयान्तरम् । तत्र यद्ग्रहणं न भवति तद्रहणनिमित्ताभावान् , न बुद्धेरनवस्थानादिति । यथाविषयं च ग्रहणं व्यक्तमेव । प्रत्यर्थनियतत्वाच्च बुद्धीनाम् । सामान्य- विषयं च ग्रहणं स्वविषयं प्रति व्यक्तं, विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तम् । प्रत्यर्थनिता हि बुद्धयः । तदिदमव्यक्तग्रहणं देशितं क विषये बुद्धधनवस्थाकारितं स्यादिति ? धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः । धर्मिणः खल्वर्थस्य समानाश्च धर्मा विशिष्टाश्च । तेषु प्रत्यर्थनियता नानाबुद्धयः । ता १ आक्षेप परिहरति हेतूपादानादितिसूत्रेण । यो हेतुराक्षेत्रांपन्यस्तस्ते- नैवाक्षिप्तस्य पक्षस्य स्वीकारः कृत इत्यर्थः । २ आक्षेपं प्रौढिवादेन परिहृत्य तारिखकम्मरिहारान्तमाह-ग्रहणे हेत्वित्यादि बुद्धिविकल्पादित्यन्तम् । एतद्वाक्यं केचित्सूत्रस्वेनाभिप्रयन्ति । तत्र प्रमाणाभावाद्- भाष्यस्यैव संक्षिप्तोतिरियमिति निर्धारितम् । ३ तदिदभिति यदि बुद्धिरनवस्थिता स्यादव्यक्तमेव ग्रहणं स्यादिति परस्या- क्षेपः । तत्र तावद्ग्रहणस्याव्यक्ततैवाप्रसिद्धति प्रदर्शितम् । तथा चाक्षेपस्य मूलमेवाप- सारितम्मन्तव्यमिति हृदयम् । .

सामान्यग्रहणमात्रं तदाऽव्यक्त ग्रहणमिति । एवं धर्मिणमभिप्रेत्य व्यक्ताव्यक्त- खद्योतसाहितन्यायसूत्रभाष्ये [अ० ३, आ० १, सू० ११ उभय्यो यदि धर्मिणि वर्तन्ते तदा व्यक्तं ग्रहणं धर्मिणमभिप्रेत्य । यदा तु , ។ योग्रहणयोरुपपत्तिरिति ॥ ४४ ।। न चेदमव्यक्तं ग्रहणं बुद्धेर्बोद्धव्यस्य वानवस्थायित्वादुपपद्यत इति । इदं हि- नं प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्तद्ग्रहणम् ॥ ४५ ॥ अनवस्थायित्वेऽपि बुद्धेस्तेषां द्रव्याणां ग्रहणं व्यक्तं प्रतिपत्तव्यम् । कथम् ? 'प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्' । प्रदीपार्चिषां सन्तत्या वर्त- मानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च, प्रत्यर्थनियतत्वाबुद्धीनां, यावन्ति प्रदीपा षि तावत्यो बुद्धय इति । दृश्यते चात्र व्यक्तं प्रदीपार्चिषां ग्रहणमिति ॥ ४५ ॥ (५) बुद्धेः शरीरंगुणव्यतिरेकप्रकरणम् । चेतना शरीरगुणः-~-सति शरीरे भावादसति चाभावादिति - द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ ४६॥ १ सवमिति । ग्रहणस्य यब्यक्तत्वमव्यक्तत्वं वा न तज्ज्ञानस्यावस्थानानवस्थान- कारितमपि तु गृहीतार्थस्वरूपकारितमिति भावः । ततश्चाक्षेपः समूलं पराहतो वेदि- तव्य इति । २ द्वितीयमपि परिहारम्प्रौढिवादमानं मत्वा पुनः प्रकारान्तरेण परिहारमाह-म चेदमिति । ग्रहणस्याव्यक्तता ग्रहणानवस्थायित्वकारिता न भवत्यपि तु ग्रहणविषय- स्वरूपकारितैवेति प्रसाधितम् । तत्त्वतस्तु ग्रहणगतमव्यक्तत्वन्न ग्रहणानवस्थायित्वका- रितं न वा तद्विषयानवस्थायित्वकारितमिति तत्वम् । ३ एवं सति (४३) सूत्रकृतपराक्षेपस्य किमुत्तरमित्यपेक्षायामुत्तरसमर्पकसूत्रम- वतारयति-'इदं हि ' इति भाष्यम् । ४ इदमिति परकृतमाक्षेपं परामृशति-नेति । यत्परेणोक्त तन्न सम्यगित्यर्थः । कुत इत्याह-प्रदीपार्चिरिति । परोक्तेरनैकान्तिकत्वप्रदर्शनार्थमेतत् । ५ उत्पन्नापवर्गित्वं बुद्धेः प्रसाध्य शरीरगुणव्यतिरेकप्रकरणमारम्भणीयम् । उत्पन्नापवर्गित्वे हि सिद्धे वक्ष्यमाणहेतवः सुप्रतिपदा भवन्तीति तदनन्तरमस्यारम्भः। पूर्व भूतेन्द्रियमनोगुणत्वप्रतिषेधे साधारणैर्हेतुभिः शरीरगुणत्वमपि प्रतिषिद्धमेव । अधुना तु शरीरगुणत्वमेव प्रतिषेधुं विशेषहेतवोऽभिधीयन्ते । एतद्विशेषहेतुप्रतिपादन- स्य तु बुद्ध्यनवस्थायिताधीनत्वादेव तस्प्रकरणमवान्तरे निवेशितमिति बोध्यम् । ६ तत्रोत्सूत्रमेव पूर्वपक्षमुपस्थापयति-चेतना शरीरगुण इति । ७ पूर्वपक्षं संशयग्रस्तत्वेन निराकरोति-द्रव्ये स्वेतिसूत्रेण । द्रव्येषु स्वगुणानां परगुणानां चोपलब्धिरतः संशय एवेति सूत्रार्थः ।

--मू. ४७] तृतीयाध्याये द्वितीयाह्निके सप्तचत्वारिंशत्तमं सूत्रम् २२५ कम्मात् ? " - सांशयिकः सति भावः । स्वगुणोऽप्सु द्रवत्वमुपलभ्यते, परगुणश्चो- णता । तेनायं संशयः--किं शरीरगुणश्चेतना शरीरे गृह्यतेऽथ द्रव्यान्तरगुण इति ? !! ४६।। ने शरीरगुणश्चेतना। यावच्छरीरभाविन्वाद्रपादीनाम् ॥ ४७ ॥ न रूपादिहीनं शरीरं गृह्यते । चेतनाहीनं तु गृह्यते, यथोष्णताहीना आपः । तस्मान्न शरीरगुणश्चेतनेति । संस्कारवदिति चेत् ? कारणानुच्छेदान् । यथाविधे द्रव्य संस्कारः तथाविध एवोपरमो न। तत्र कारणोच्छेदाढत्यन्तं संस्कारा- १ पूर्वपक्षं सांशयिकत्वेनापाकृत्य सिद्धान्तमुपस्थापयति-न शरीरेति । २ तत्रोत्तरम्-यावच्छरीरेनि सूत्रम् । इदं वैधम्र्येण दृष्टान्तसूत्रम् । रूपादि- गुणेष्वेव शरीरेणान्वयव्यतिरेकी । रूपादय एव यावच्छरीरभाविनो न पुनश्चैतन्यम् तथा चात्र प्रयोगः न शरीरगुणश्चेतना, शरीरेऽपि तस्यानुपलब्धेः, जलस्य:- यवदिति । इदं लनं तोंभावनपरमिति परिशुद्धिकृतः। तकाकारश्च-'यदि बुद्धया- दिकं शरोरगुणः स्याद्यावच्छरीरभाबि स्यात् , रूपादिवदिति' । अनुमानोद्भावनपरमिति वृत्तिकृतः । तदुक्तमनुमान स्वरूपं च-'बुद्धयादिकं न शरीरविशेषगुणोऽयावय- भाविश्वात् , शब्दवत् , रूपवद्वा ( व्यतिरेके)।' अयावद्रव्यभावित्वं चाश्रयत्वा- भिमतकालीननाशप्रतियोगित्वम् । ३ परः स्वपक्षसाधकं दृष्टान्तान्तरमाह-संस्कारवदिति । यथा संस्कारः शरीरगुणी न च यावच्छरीरं वर्तते तथा चेतनापीत्याशयः । ४ तत्परिहरति-न कारणेति । उक्तवैषम्यपरिजिहीर्षया पर एवं ब्रूयात्-' यथैव संस्कारस्य कारणं तदाश्रय- भूतद्रव्यादन्यदेव नोदनादि, यस्य सत्त्वेन तस्योत्पत्तिर्यस्य चोपरमेण तस्योपरमः, एवमेव शरीरगतचैतन्यस्यापि न शरीरमात्रं कारणमपि त्वन्यदेव किमपि तत्सन्निहितमिति' । एतदेव दूषयितुं विकल्पयति । इदमप्यत्रावधेयम् । यच्छरीरे चेतनोत्पत्तिकारणं तत् किं शरीरस्थमुत व्यान्तरस्थम् । शरीरस्थमपि च यावद्र्व्यभाव्युत नैमित्तिकम् । यदि यावद्र्व्यभावि न कदाचिच्चेतनाहीनं शरीरमुपलभ्येत, निमित्तस्य सन्निहितत्वात् । अथ नैमित्तिकं, यच्छरीरे चेतनोत्पत्तेनिमित्तस्य कारणं तत्रापि स एव ग्रसङ्गः । अथ द्रव्यान्तरवृत्ति कारणं शरीरे चेतनां करोति न द्रव्यान्तरेग्वित्यत्रापि नियमहेतुर्वक्तव्यः । ध्यान्तरस्थं च तत्कारणं नित्यमनित्यं वा । अनित्यमपि कालान्तरावस्थायि प्रतिक्षण- ध्वंसि वेति स एव प्रसङ्गस्तदवस्थ इत्यादि वार्तिके स्पष्टम् । न्या. सू. १५ . २२६ खद्योतसहितन्यायसूत्रभाष्ये । [अ०३, आ०२, सू०४८- नुपपत्तिर्भवति । यथाविधे शरीरे चेतना गृह्यते तथाविध एवात्यन्तोपरमश्वेत- नाया गृह्यते । तस्मात् संस्कारवदित्यसमः समाधिः । अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्याद् द्रव्यान्तरस्थं वा उभयस्थ वा" । तन्न, नियमहेत्वभावात् । शरीरस्थेन कदाचिचेतनोत्पद्यते कदाचिन्नेति नियमे हेतुर्नास्तीति । द्रव्यान्तरस्थेन च शरीर एव चेतनोत्पद्यते न लोष्टादि- ध्वित्यत्र न नियमे हेतुरस्तीति । उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीर एव चोत्पद्यत इति नियमे हेतुर्नास्तीति ॥ ४७ ॥ यच्च मन्येत-"सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्टः, एवं चेतनोपरमः स्यादिति"- न, पाकजगुणान्तरोत्पत्तेः ॥ ४८ ॥ नात्यन्तं रूपोपरमो द्रव्यस्य-श्याम रूपे निवृत्ते पाकजं गुणान्तरं रक्तं रूपमुत्पद्यते । शरीरे तु चेतनामात्रोपरमोऽत्यन्तमिति ॥ ४८ ॥ इतेश्च प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ ४९ ॥ यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस्तावत्सु पाकजोत्पत्तिर्दश्यते, पूर्वगुणैः सह पाकजानामवस्थानस्याग्रहणात् । न च शरीरे चेतनाप्रतिद्वन्द्वि- सिद्धौ सहानवस्थायि गुणान्तरं गृह्यते येनानुमीयेत तेन चेतनाया विरोधः । तस्मादप्रतिषिद्धा चेतना यावच्छरीरं वर्तेत ? न तु वर्तते । तस्मान्न शरीर- गुणश्चेतना इति ॥ ४९ ॥ इतश्च न शरीरगुणश्चेतना- शरीरव्यापित्वात् ॥ ५० ॥ १ परिहरति-न पाकजेति सूत्रम् । वृत्तिकृतस्त्वेतत् सूत्रं पूर्वपक्षत्वेन वर्णितवन्तः। तदर्थश्व-द्रव्ये घटादौ सत्येव तत्र पाकानन्तरं गुणान्तरस्योत्पत्तेः 'न' समीचीन सिद्धान्त्युक्तमिति । तन्मतेनास्यैव पूर्वपक्षस्य परिहारोऽग्रिमे सूत्रे । २ तदेवमात्यन्तिकानात्यन्तिकत्वं वैधय॑मुक्त्वा सप्रतिद्वन्द्वित्वासप्रतिद्वन्द्विी वैधान्तरमुद्भावयितुमाह-इतश्चेति । ३ तद्वैधर्म्यमेवाह-प्रतिद्वन्द्वीतिसूत्रम् । ४ तदेव हेत्वन्तरमाह-शरीरव्यापित्वादितिसूत्रम् । नैतत्साधनमपि तु शरीरे चेतनां ब्रुवतोऽनेकचेतनत्वप्रसङ्गोदावनमात्रमिति वार्तिककृतः। साधनमेवेति परिशुद्धि- -सू. ५३] तृतीयाध्याये द्वितीयानिके त्रिपक्राशत्तमं सूत्रम् २२७ शरीरं शरीरावयवाश्च सर्वे चेतनोत्पत्त्या व्याप्ता इति न क्वचिदनुत्पत्ति- श्वेतनायाः । शरीरवच्छीरावयवाश्चेतना इति प्राप्तं चेतनबहुत्वम् । तत्र यथा प्रतिशरीर चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गम् , एवमेकशरीरेऽपि स्थान ? न तु भवति । तस्मान्न शरीरगुणश्चेतनेति ॥ ५० ॥ यदुक्तं-न क्वचिच्छरीरावयवे चेतनाया अनुत्पत्तिः-इति, सा- न, केशनखादिष्वनुपलब्धेः ॥ ५१ ॥ केशेषु नखादिपु चानुत्पत्तिश्चेतनाया इति अनुपपन्नं शरीरव्यापित्व- मिति" || ५१ ॥ त्वपर्यन्तत्वाच्छरीरस्य केशनखादिवप्रसङ्गः ॥५२॥ इन्द्रियाश्रयत्वं शरीरलक्षणम् । त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्या- यतनभूतं शरीरम् । तस्मान्न केशादिषु चेतनोत्पद्यते । अर्थकारितस्तु शरीरो- पनिबन्धः केशादीनासिति ॥ ५२ ।। इतश्च न शरीरगुणश्चेतना- शरीरंगुणवैवात् ।। ५३॥ द्विविधः शरीरगुणोऽप्रत्यक्षश्च गुरुत्वम् , इन्द्रियग्राह्यश्च रूपादिः । विधान्तरं कृतः । तत्र प्रयोगश्वोक्तः-चेतना न शरीरविशेषगुणः, अध्यायवृत्तित्वात् , शब्दवदिति माष्यवार्तिकोक्तिस्त्वित्थं व्याख्याता तैः-एष चार्थः 'शरीरख्यापित्या'दित्येतस्य सूत्रस्य स्पष्टत्वाभाष्यकारादिभिरुपेक्षितः । उत्तरसूत्रावतारपरैस्त्वेकस्मिन्नपि शरीरे चेतनहु- स्वप्रसङ्गतया सूत्रं व्याख्यातमिति मन्तव्यमिति ५ आक्षेपसूत्रमवतारयन् सिद्धान्त्युक्तमनुवदति-यदुक्तमिति । एकस्मिन्नेव शरीरे अस्यवयवं चैतन्यं स्यादिति यदुक्तं सिद्धान्तिना तन्नेत्यग्रिमसूत्रस्थनकारेण सम्बन्धः । २ आक्षेपसूत्रम्-न केशनखेति । दृष्टान्तसूत्रमिदम् । ३ हेतूद्भावनपरं मूत्रम्-शरीरगुणेति । शरीरे ये गुणा वर्तन्ते तेभ्यस्सर्वेभ्योऽपि विलक्षणमेव चैतन्यमित्यर्थः । १ सूत्रार्थ विशदयति-द्विविध इति । शरीरगुणा द्विधा विभज्यन्ते । केचिद- प्रत्यक्षा अनुमेयाः-यथा गुरुत्वम् । केचित्प्रत्यक्षा इन्द्रियग्रायाः-यथा रूपम् । ५ द्विविधादपि वैलक्षण्यं चैतन्यस्य प्रदर्शयति-विधान्तरमिति । चैतन्यं नाप्रत्यक्षम्-संवेद्यत्वात्-स्वसंवेद्यत्वादेवेत्यर्थः । नापीन्द्रियग्राह्यम् ‘मनोविघयत्वात् ' मनोमात्रग्राह्मत्वादित्यर्थः । एवं च व्याख्याने मनसोऽनिन्द्रियत्वमभ्युपगतं भवतीति २२८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, सू०५४- तु चेतना-नाप्रत्यक्षा संवेद्यत्वात् , नेन्द्रियग्राह्या मनोविषयत्वात् । तस्माद द्रव्यान्तरगुण इति ॥ ५३॥ "न रूपादीनामितरेतरवैधात् ॥ ५४॥ यथेतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहत्येवं रूपादिवैध- याचेतना शरीरगुणत्वं न हास्यतीति " || ५४ ॥ ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ॥ ५५ ॥ अप्रत्यक्षत्वाच्चेति । यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यमतिवर्तन्ते तथा रूपादिवैधाच्चेतना न द्वैविध्यमतिवर्तेत यदि शरीरगुणः स्यादिति । अतिवर्तते तु । तस्मान्न शरीरगुण इति । भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्यारम्भो विशेषज्ञापनार्थः । बहुधो परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति ॥ ५५ ॥ . कृत्वा वार्तिककारेणान्यथा व्याख्यातमिदं वाक्यम् । तद्यथा-चेतना न प्रत्यक्षा न बाह्यकरणप्रत्यक्षा, स्वसंवेद्यत्वात् , 'नापि अप्रत्यक्षा' न ‘अतीन्द्रिया, मनो- विषयत्वादिति । एवं च व्याख्याने एवम्पाठोऽभिप्रेतः-'न प्रत्यक्षा संवेद्यत्वात् , नातीन्द्रियग्राह्या मनोविषयत्वादिति'। १ उपसंहरति-तस्मादिति । चेतना शरीरभिन्नद्रव्याश्रयेत्यर्थः । २ आक्षिपति-न रूपादोनामितिसूत्रेण । शरीरगुणवैधय॑मानान्न शरीरावृत्तित्वं चेतनायाः सिद्धयतीत्यर्थः । ३ समाधत्ते-ऐन्द्रियकत्वादितिसूत्रेण । शरीरगतरूपादयः परस्परविधमाणोऽपि मुख्येऽशे सधर्माण एवेत्यर्थः । 'अप्रतिषेधः ' शरीराश्रयत्वस्येति शेषः । ४ 'यथोक्तहेतुस्वादि'त्यादि (३८) सूत्रोक्तेन बुद्धर्भूतेन्द्रियमनोऽवृत्तित्वेनैत- प्रकरणस्य पौनरुक्त्यमाशङ्कमानः समाधत्ते-भूतेन्द्रियमनसामिति । सिद्धेऽप्यर्थे विशेषज्ञापनार्थमेतत्प्रकरणम् । व्याख्यातमेतत्समाधानमेतत्प्रकरणारम्भे 'द्रव्य'इत्यादि (४६) सूत्रव्याख्याने । ५ विशेषज्ञापनस्य फलमाह-बहुधेति ।

--सू. ५८] तृतीयाध्याये द्वितीयाह्निके अष्टपञ्चाशत्तमं सूत्रम् २२९ (६) मनःपरीक्षाप्रकरणम् । परीक्षिता बुद्धिः । मनस इदानीं परीक्षाक्रमः । तत् किं प्रतिशरीरमेक- भनेमिति विचारे- ज्ञोनायोगपद्यादेकं मनः ॥५६॥ अस्ति खलु वै ज्ञानायौगपद्यमेकैकस्येन्द्रियस्य यथाविषयम्-करणस्यैक- प्रत्ययनिवृत्तौ सामर्थ्यात् । न तदेकत्वे मनसो लिङ्गम् । यत्तु खल्विदमिन्द्रि- शान्तराणां विषयान्तरेषु ज्ञानायौगपद्यमिति तल्लिङ्गम् । कस्मात् ? सम्भवति खलु वै बहुपु मनःस्विन्द्रियमनःसंयोगयोगपद्यमिति ज्ञानयोगपद्यं स्यात् । न तु भवति । तस्माद्विषये प्रत्ययपर्यायादेकं मनः ॥ ५६ ॥ "न, युगपदनेकक्रियोपलव्धेः ॥ ५७ ॥ अयं खल्वध्यापकोऽधीते, ब्रजति, कमण्डलु धारयति, पन्थानं पश्यति, शृणोत्यरण्यजान शब्दान्, बिभेति, व्याललिङ्गानि बुभुत्सते, स्मरति च गन्तव्यं स्थानीयमिति क्रमस्याग्रहणायुगपदेताः क्रिया इति प्राप्तं मनसो बहुत्वमिति " ।। ५७ ॥ अलातचक्रदर्शनवत्तदुपलब्धिराशुसंचारात् ॥ ५८ ॥ आशुसञ्चारादलातस्य भ्रमतो विद्यमानः क्रमो न गृह्यते । क्रमस्या- ग्रहणादविच्छेदबुद्ध्या चक्रवद्बुद्धिर्भवति । तथा बुद्धीनां क्रियाणां चाशुवृत्ति- १ 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति मनोलक्षणम्। एतच्च मनसः एकस्मिन् शरीरे बहुत्वेनाशुसञ्चारित्वेन विभुत्वेन वा स्यात् । एवं चास्य विचारस्य साम्प्रत्ययि- कव्यवहाराविरोधेन धारणायामेकाग्रतासिद्धिः प्रयोजनं स्यात् । अन्यथा स्वेकस्मिन प्रत्याहृतेऽपि मनोन्तरविक्षेपादसञ्चारित्वे विभुत्वे वा प्रत्याहर्तुमशक्यत्वात् न प्रत्या- हारादिसिद्धिः। तथाच निदिध्यासनासिद्धौ मननानुपयोगेन्यायविद्यावैयर्थ्यमापद्येत । अत एव प्रतिशरीरम्मन एकमनेकं वेति विचारस्यावश्यकता। २ तस्य क्रममाह-परीक्षितेति । प्रथमाध्यायनवमसूत्रे प्रमेयाणामुद्देशे बुध- नन्तरम्मान एव पठितमत एव बुद्धिपरीक्षानन्तरम्मनसः परीक्षावसरः । ३ विचारविषयं प्रस्तौति-तक्कि प्रतिशरीरमिति । ४ विचार इति । अस्य विचारे सति अयं सूत्रोक्तः सिद्धान्त इति वाक्यशेषः । ५ तत्र सिद्धान्तेनोपक्रमते- ज्ञानायौगपद्यादितिसूत्रम् । यस्माज्ज्ञानानि न युगपदुत्पद्यन्ते तस्मान्मनः प्रतिशरीरमेकमेवेत्यर्थः।

२३० खद्योतसहितन्यायसूत्रभाष्ये [अ० ३, आ० २,सू० ५९- त्वाद्विद्यमानः क्रमो न गृह्यते । क्रमस्याग्रहणाद्युगपत् क्रिया भवन्तीत्यभिमानो भवति । किं पुनः क्रमस्याग्रहणाद् युगपत् क्रियाभिमानः अथ युगपद्भावादेव युगपदनेकक्रियोपलब्धिरिति ? नात्र विशेषप्रतिपत्तेः कारणमुच्यत इति । उक्तम्-इन्द्रियान्तगणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्ति-इति । तच्चाप्रत्याख्येयमात्मप्रत्यक्षत्वात् । अथापि दृष्टश्रुतानर्थान् चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपदनेनानुमातव्यमिति । वर्णपदवाक्यबुद्धीनां तदर्थ- बुद्धीनां चाशुवृत्तित्वान् क्रमस्याग्रहणम् । कथम् ? वाक्यस्थेषु खलु वर्णेषूच्च- रत्सु प्रतिवर्णं तावन्ट्रवणं भवति । श्रुतं वर्णमेकमनेकं वा पदभावेन प्रति- सन्धत्ते । प्रतिसन्धाय पदं व्यवस्यति । पदव्यवसायेन स्मृत्या पदार्थं प्रति- पद्यते। पढ़समूहप्रतिसन्धानाच वाक्यं व्यवस्यति । सम्बद्धाश्च पदार्थान गृहीत्वा वाक्यार्थं प्रतिपद्यते । न चासां क्रमेण वर्तमानानां बुद्धीनामाशवृत्ति- वात् क्रमो गृह्यते । तदेतदनुमानमन्यत्र बुद्धिक्रियायोगपद्याभिमानस्येति । न चास्ति मुक्तसंशयं युगपदुत्पत्तिबुद्धीनां यया मनसां बहुत्वमेकशरीरे- लुमीयेत इति ।। ५८ ॥ यथोक्तहेतुत्वाचाणु ॥ ५९॥ १ परिहारं सांशयिकत्वेन व्युदस्यति-किम्पुनरिति । अलातचभ्रमिषु ज्ञानेषु च या योगपद्यबुद्धिर्भवति लोकानां सा क्रमस्य सद्भावाद् भ्रान्तिरूपा आहोस्वित्क्रमस्या- सद्भावात् प्रमैवेत्येकतरपक्षसाधकं किञ्चिन्नोच्यते सिद्धान्तिना येन भ्रान्तिपक्षः एकः प्रामाणिकत्वेन स्वीक्रियेत । तथा च ज्ञानायौगपद्यं संशयग्रस्तमेवेति भावः । २ तत्रोत्तरम्-उक्तमिति। नानाविषयाणि ज्ञानानि ऋसिकाप्येव भवन्तीत्युभय- वादिसम्मतम्, प्रत्यात्मवेदनीयत्वादित्याह-अप्रत्याख्येयमिति । ३ उपसंहरति-तदेतदिति। उक्तज्ञानेषु ऋमिकत्वदर्शनमेव हेतुर्भवति ज्ञान- योगपद्यबुद्धान्तित्वसाधने-इत्यर्थः । योगपद्याभिमानो' यौगपद्यभ्रान्तिरिति यावत् । तस्य अनुमानं साधनभूतं लिङ्गमित्यर्थः। ४ परोद्भावितान् ज्ञानयोगपद्यसाधकान् दृष्टान्तान् व्युदस्य प्रकरणार्थमुप- संहरति-न चास्तीति । मुक्तसंशयम् ' उभयवादिसम्मतमित्यर्थः । कुत्रापि दृष्टान्ते ज्ञानयोगपद्यमुभयवादिसम्मतन्नोपलभ्यते-एवं च ज्ञानानामयोगपद्यसिद्धी प्रति- शरीरं मनसो बहुत्वन्नैव सिद्धयतीत्यर्थः ।

-सू. ६०] तृतीयाध्याये द्वितीयाह्निके षष्ठितमं सूत्रम् २३१ अणु मन एकं चेति धर्मसमुच्चयो ज्ञानायोगपद्यात् । महत्त्वे मनसः सर्वेन्द्रियसंयोगाागपद्विषयग्रहणं स्यादिति ।। ५९ ।। (७) शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम् । मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात् । ज्ञातुश्च पुरुषस्य शरीरायतना बुद्धयादयो विषयोपभोगो जिहासितहानताप्सि- तावाप्तिश्च सर्वे च शरीराश्रया व्यवहाराः। तत्र खलु विप्रतिपत्तेः संशयः- किमयं पुरुषकर्मनिमित्तः शरीरसर्गः १ आहो भूतमात्रादकर्मनिमित्त इति ? श्रूयते खल्वत्र विप्रतिपत्तिरिति । तत्रेदं तत्त्वम्- . पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ ६० ॥ १ अनाग्रिमप्रकरणस्य पूर्वापरसम्बन्धम्प्रदर्शयन्नाह-मनसः खल्विति । एवाधिकरणविचारेणापि परीक्ष्यत इति नासम्बन्धः शरीरोत्यत्तिनिमित्तविचारस्य । परीक्षा' नाम 'परितः ईक्षा' सा च स्वरूपतः सम्बन्धितश्च । शरीरं च मनस आश्रयस्तस्मात् तत्सम्बन्धि । तस्मान्मनस एवेयं परीक्षा या शरीरस्येत्यर्थः । अत्र परिशुद्धिकृतः-प्रयोजनं चास्य प्रकरणस्य-विग्रहव्यवस्था संसारापवर्गव्यवस्था प्रायण- व्यवस्था च । अदृष्टाख्यनिमित्तसम्भवे च वर्णाश्रमवृत्तयस्तदर्थालोचनशास्त्राणि च सार्थकानि स्युः। अन्यथा सर्वमेतदनुकारनृत्यमरण्यरुदितं च स्यात् । तदनेन प्रकरणेन सर्वाण्येवातीतानि प्रकरणान्युपक्रियन्ते उत्तराध्यायश्चेति । शरीरमेव पुरुपस्योपभोगा- यतनम् । मनसश्चेन्द्रियवच्छरीर एव वृत्तिः । एतदुभयमपि शरीरस्यादृष्टनिमित्तत्व एवोपपद्यते । अत एवैतत्परीक्षावश्यकत्तम् । शरीरपरीक्षानन्तरमेव तददृष्टनिमित्तत्व- परीक्षाया अवसर इति प्रतिभाति । किन्तु पुरुषोपभोगप्रधानकरणभूतस्य मनसः परीक्षानन्तरमेव तस्या सम्यगवसर इति ज्ञेयम् । २ सेन्द्रियस्येति । इन्द्रियसहितस्य मनसः, इन्द्रियाणां मनसश्चेत्यर्थः। ३ मनस आश्रयत्वेन शरीरमुपवर्योपभोगायतनत्वेन च तद्दर्शयति-ज्ञातुरिति । ४ प्रकरणप्रवर्तकसंशयम्प्रदर्शयति-तत्र खल्विति । अदृष्टोद्भावितभूतपरमाण्वा- रब्धं शरीरमितिप्रथमः कल्पः । अदृष्टनिरपेक्षैरेव भूतपरमाणुभिरारब्धमित्यपरः । ५ कथं ज्ञायतेऽरतीयं विप्रतिपत्तिरित्याह-श्रूयत इति । नानादर्शनग्रन्थेषूप- लभ्यत इत्यर्थः । ६ अत्र विप्रतिपत्ती निषेधकोटिस्त्रेधा समुल्लसति-(१) अदृष्टाभावात्-(२) शरीरहेतुत्वाभावात्-(३) अदृष्टस्य पुरुषसमवायाभावाद्वेति । तत्र सिद्धान्तमुपक्रम- माण आद्यां विप्रतिपत्तिकोटिनिरस्यति-पूर्वकृतेतिसूत्रेण । 'पूर्वकृतस्य' पूर्वकृत- -सू. ६०] तृतीयाध्याये द्वितीयाह्निके षष्ठितमं सूत्रम् २३१ अणु मन एकं चेति धर्मसमुच्चयो ज्ञानायोगपद्यात् । महत्त्वे मनसः सर्वेन्द्रियसंयोगाागपद्विषयग्रहणं स्यादिति ।। ५९ ।। (७) शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम् । मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात् । ज्ञातुश्च पुरुषस्य शरीरायतना बुद्धयादयो विषयोपभोगो जिहासितहानताप्सि- तावाप्तिश्च सर्वे च शरीराश्रया व्यवहाराः। तत्र खलु विप्रतिपत्तेः संशयः- किमयं पुरुषकर्मनिमित्तः शरीरसर्गः १ आहो भूतमात्रादकर्मनिमित्त इति ? श्रूयते खल्वत्र विप्रतिपत्तिरिति । तत्रेदं तत्त्वम्- . पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ ६० ॥ १ अनाग्रिमप्रकरणस्य पूर्वापरसम्बन्धम्प्रदर्शयन्नाह-मनसः खल्विति । एवाधिकरणविचारेणापि परीक्ष्यत इति नासम्बन्धः शरीरोत्यत्तिनिमित्तविचारस्य । परीक्षा' नाम 'परितः ईक्षा' सा च स्वरूपतः सम्बन्धितश्च । शरीरं च मनस आश्रयस्तस्मात् तत्सम्बन्धि । तस्मान्मनस एवेयं परीक्षा या शरीरस्येत्यर्थः । अत्र परिशुद्धिकृतः-प्रयोजनं चास्य प्रकरणस्य-विग्रहव्यवस्था संसारापवर्गव्यवस्था प्रायण- व्यवस्था च । अदृष्टाख्यनिमित्तसम्भवे च वर्णाश्रमवृत्तयस्तदर्थालोचनशास्त्राणि च सार्थकानि स्युः। अन्यथा सर्वमेतदनुकारनृत्यमरण्यरुदितं च स्यात् । तदनेन प्रकरणेन सर्वाण्येवातीतानि प्रकरणान्युपक्रियन्ते उत्तराध्यायश्चेति । शरीरमेव पुरुपस्योपभोगा- यतनम् । मनसश्चेन्द्रियवच्छरीर एव वृत्तिः । एतदुभयमपि शरीरस्यादृष्टनिमित्तत्व एवोपपद्यते । अत एवैतत्परीक्षावश्यकत्तम् । शरीरपरीक्षानन्तरमेव तददृष्टनिमित्तत्व- परीक्षाया अवसर इति प्रतिभाति । किन्तु पुरुषोपभोगप्रधानकरणभूतस्य मनसः परीक्षानन्तरमेव तस्या सम्यगवसर इति ज्ञेयम् । २ सेन्द्रियस्येति । इन्द्रियसहितस्य मनसः, इन्द्रियाणां मनसश्चेत्यर्थः। ३ मनस आश्रयत्वेन शरीरमुपवर्योपभोगायतनत्वेन च तद्दर्शयति-ज्ञातुरिति । ४ प्रकरणप्रवर्तकसंशयम्प्रदर्शयति-तत्र खल्विति । अदृष्टोद्भावितभूतपरमाण्वा- रब्धं शरीरमितिप्रथमः कल्पः । अदृष्टनिरपेक्षैरेव भूतपरमाणुभिरारब्धमित्यपरः । ५ कथं ज्ञायतेऽरतीयं विप्रतिपत्तिरित्याह-श्रूयत इति । नानादर्शनग्रन्थेषूप- लभ्यत इत्यर्थः । ६ अत्र विप्रतिपत्ती निषेधकोटिस्त्रेधा समुल्लसति-(१) अदृष्टाभावात्-(२) शरीरहेतुत्वाभावात्-(३) अदृष्टस्य पुरुषसमवायाभावाद्वेति । तत्र सिद्धान्तमुपक्रम- माण आद्यां विप्रतिपत्तिकोटिनिरस्यति-पूर्वकृतेतिसूत्रेण । 'पूर्वकृतस्य' पूर्वकृत- --सू. ६४] तृतीयाध्याये द्वितीयाह्निके चतुःषष्टितमं सूत्रम् यथा शरीरोत्पत्तिरकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाण- गैरिकाञ्जनप्रभृतीनामप्यकर्ननिमित्तः सर्गः साध्यः । साध्यसमत्वादसाधन- निति ॥ ६॥ भूतेभ्यो मूख़ुपादानवदि 'ति चानेन साम्यम्-- नोत्पत्तिनिमित्तवान्मातापित्रोः ॥ ६३ ।। विषमश्चायमुपन्यासः । कस्मान् ? निर्बीजा इमा मूर्तय उत्पद्यन्ते, वीजपूर्विका तु शरीरोत्पत्तिः। मातापितृशब्देन लोहितरेतसी बीजभूते गृह्यते । तत्र सत्त्वस्य गर्भवासानुभवनीयं कर्म पित्रोश्च पुत्रफलानुभवनीये कर्मणी मातुर्गर्भाश्रये शरीरोत्पत्ति भूतेभ्यः प्रयोजयन्तीत्युपपन्नं वीजानुविधान- मिति ॥ ६३ ॥ तथाऽऽहारस्य ॥ ६४ ॥ . क्रियासामर्थ्यात् सिकतादिवत् -इत्यनुमानमाक्षेप्तुरभिमतम् । तत्रापि न सन् हेतुः, तस्याद्यत्वेऽप्यसिद्धत्वादेवेत्यर्थः । ५ सूत्रं व्याचष्टे-यथा शरीरेति । 'साध्या' नोभयवादिसम्मता। साध्यः उभयवाद्यनभ्युपगतस्वादसिद्ध एवेति । यच्च नोभयवादिसम्मतं तन्न दृष्टान्तत्वेन उपादातुं योग्यमित्यर्थः । सिकतादीनामपि पुरुषकर्मनिमित्तक एव सर्गोऽस्माकम- भिमतस्तथा च न सिकतादिदृष्टान्तोऽपि तूभयवादिसम्मतो रथादिरेव दृष्टान्तस्स च पुरुषगुणविशेषप्रयत्नपूर्वक एव दृष्टः -न च तथाऽकर्मनिमित्तकसर्गस्य कचिदृष्टान्त उभयवादिसम्प्रतिपन्नो लभ्यत इति हृदयम् । २ परोद्भावितं दृष्टान्तमसिद्धत्वेन निरस्य तस्य प्रकृते दृष्टान्तत्वमेव न भवती- त्याह-भूतेभ्य इति । 'भूतेभ्यो मू[पादानवदिति' यदुक्तमाक्षेत्रा तस्य 'अनेन' प्रकृतेन शरीरसर्गेण 'साम्यम् ' 'न' भवतीति सूत्रस्थेन नकारेण सम्बन्धः । ३ उक्तमर्थं प्रकृते योजयन् शरीरोत्पत्तिप्रक्रियां वर्णयन् तत्र पुरुषकर्मसापेक्षतां दर्शयति-तत्र सत्त्वस्येति । मातुर्गर्भाशयगतलोहितेन यदा पितृरेतस्संयुज्यते तदाऽस्य संयोगस्य कारणं पुरुषकमैव भवति-तदेतत् कर्म जनिप्यमाणस्यात्मनः गर्भवास- सुखदुःखाद्यनुभावकमित्येकम्-पित्रोश्च पुत्रजन्मसुखाद्यनुभावकमित्यपरम् । 'अनु- भवनीये' इत्यत्र कर्तरि कृत्यप्रत्ययः। ४ उपपन्नमिति- उक्तप्रकारेण सिद्धम्भवति यच्छरीरोत्पत्तौ लोहितरेतोरूपं बीजमेव साक्षात्कारणम्- पुरुषकर्म च तत्कारणप्रयोजकतयैव निमित्तमिति भावः । ५ शरीरोत्पत्ती निमित्तान्तरं प्रदर्शयति-तथेतिसूत्रेण । १ २३४ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, सू०६५ उत्पत्तिनिमित्तत्वादिति प्रकृतम् । भुक्तं पीतमाहारस्तस्य पक्तिनिव रसद्रव्यं मातृशरीरे चोपचिते बीजे गर्भाशयस्थे बीजसमानपार्क, चोपचयो बीजे यावद् व्यूहसमर्थः सञ्चय इति । सञ्चितं च कललार्बुदमांसपेशी कण्डरशिरःपाण्यादिना च व्यूहेनेन्द्रियाधिष्ठानभेदेन व्यूह्यते । व्यूहे हैं गर्भनाडयावतारितं रसद्रव्यमुपचीयते यावत्प्रसवसमर्थमिति। न चायमन्न पानस्य स्थाल्यादिगतस्य कल्पत इति । एतस्मात्कारणात्कर्मनिमित्तत्वं शरीरस्य विज्ञायत इति ॥ ६४ ॥ प्राप्तौ चानियमात् ॥ ६५॥ न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर्दश्यते । तत्रासति कर्मणि न भवति सति च भवतीत्यनुपपन्नो नियमाभाव इति । कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुषु नियमः स्यात् । न ह्यत्र कारणाभाव इति ॥ ६५ ।। अथापि-- शरीरोत्पत्तिनिमित्तवत्मंयोगोत्पत्तिनिमित्तं कर्म ॥६६॥ यथा खल्विदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नाञ्च कोष्ठगानां वातपित्तकफानां च मुखकण्ठहृदयामाशयपक्काशयाधःस्रोतसां च परमदुःखसम्पादनीयेन सन्निवेशेन व्यूहनमशक्यं पृथिव्यादिभिः कर्मनिरपेक्षै- रुत्पादयितुमिति कर्मनिमित्ता शरीरोत्पत्तिरिति विज्ञायते । एवञ्च प्रत्यात्मनि- १ सौत्रं वाक्यं पूयितुमाह-उत्पत्तीति । एवं च तथाऽऽहारस्योत्पत्तिनिमित्त- स्वादिति सूत्रस्वरूपं पर्यवसितम् । २ सम्भाव्यमानदोषपरिहारपरं सूत्रमवतारयति-अथापीति । ३ नन्वात्मनां विभुत्वात् सकलशरीरैः समं सम्बन्धात् 'इदं शरीरमस्यैवैकस्यात्मन' इत्यत्र किन्नियामकमित्यस्योत्तरम् -शरीरोत्पत्तीति सूत्रम् । यथा प्रत्यात्मशरीरस्यो- स्पत्तौ तत्तदात्मनोऽदृष्टं निमित्तम्भवति तथैव आत्मविशेषस्य शरीरविशेषण संयोगस्य सम्बन्धस्याप्यदृष्टमेव कारणमिति सूत्रार्थः । केचित्तु सूत्रमिदमेवं व्याचक्षते-- ननु प्रत्यात्मशरीरोत्पत्ती भवत्वदृष्टं निमित्त मातापित्रोस्तु संयोगे किनिमित्तमित्यत आह-शरीरोत्पत्तीति सूत्रम् । यथा शरीरोत्पत्ता- वदृष्टं कारणं तथैव मातापित्रोस्सयोगेऽप्यदृष्टमेव निमित्तमित्यर्थ इति । ४ पूर्वनिर्णीतसिद्धान्तमनूद्य परोद्भावितदोषमनुवदति- एवञ्च प्रत्यात्मेति । सर्वे आत्मानो विभवः- अतः सर्वेषामात्मनां शरीरारम्भकपृथिव्यादिभिस्समाने सम्बन्धे प्रत्येकमात्मनः प्रत्येकशरीरे प्रतिनियमने कारणाभावः। ..

--दू. ६७] तृतीयाध्याये द्वितीयाहिके सप्तषष्टितमं सूत्रम् R- यतस्य निमित्तस्याभावानिरतिशयरात्मभिः सम्बन्धात्सर्वात्मनां च समानैः पृथिव्यादिभिरुत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोरभावात् सर्वात्मनां सुखदुःखसंवित्त्यायतनं समानं प्राप्तम् । यत्तु प्रत्यात्म व्यवतिष्ठते तत्र शरीरो- त्पत्तिनिमित्तं कर्मव्यवस्थाहेतुरिति विज्ञायते । परिपच्यमानो हि प्रत्यात्म- नियतः कर्माशयो यस्मिन्नात्मनि वर्तते तस्यैवोपभोगायतनं शरीरमुत्पाद्य व्यव- स्थापयति । तदेवं 'शरीरोत्पत्तिनिमित्तवत्संयोगनिमित्तं कर्म' इति विज्ञायते । प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोग प्रचक्ष्मह इति ।। ६६ ।। एतेनानियमः प्रत्युक्तः ॥ ६७ ॥ योऽयमकर्मनिमित्ते शरीरसर्गे सत्यनियम इत्युच्यते अयं शरीरोत्पत्ति- निमित्तवन् संयोगोत्पत्तिनिमित्तं कर्मेत्यनेन प्रत्युक्तः । कस्तावदयं नियमः? यथै- कस्यात्मनः शरीरं तथा सर्वेषामिति नियमः। अन्यस्यान्यथान्यस्यान्यथेत्य- नियमो भेदो व्यावृत्तिविशेष इति । दृष्टा च जन्मव्यावृत्तिः उच्चाभिजनो १ आत्मगतनियमहत्वभावमन्ध पृथिव्यादिगतोऽपि नियमहेतुर्नान्तीत्याह- पृथिव्यादिगतस्य चेति । एवञ्च नियमहेतोरभावात् सर्वेषामात्मनामुपभोगायतनमेक- मेव शरीरमिति प्राप्तम् । २ एवं परोद्भावितं दोपमनूद्य तत्परिहारमुपन्यस्यति-यत्तु प्रत्यात्ममिति । प्रत्येकमात्मना सम्बद्धमेकमेव शरीरमिति प्रत्यात्मवेदनीयमेतत् । तत्र विभोरप्यात्मन एकशरीरमात्र नियामको हेतुस्तस्यादृष्टमेव । ३ यच्च सूत्रे संयोगपदेनोक्तं तदेतदेव यत्प्रत्यात्ममेकस्य शरीरस्य नियम- नमित्याह-प्रत्यात्मव्यवस्थानमिति । ४ तदेवमात्मगुणनिबन्धने शरीरसगें व्यवस्था दर्शिता । अत्र सांख्या मन्यन्ते-" न कर्मनिबन्धनः शरीरसर्गोऽपि तु प्रकृत्यादिनिबन्धनः । प्रकृतयो हि स्वयमेव धर्माधर्मरूपनिमित्तानपेक्षाः सत्वरजस्तमोरूपतया प्रवृत्तिशीलाः स्वं स्वं विकारमारभन्ते-प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते" इति । ताम्प्रत्याह- एतेनानियम इति सूत्रम् । तस्यार्थः-'एतेन'कर्मसापेक्षेरेव भूतैः शरीरनिष्पत्तिरिति व्यवस्थापनेन 'अनियमः' प्रत्यात्म शरीरभेदः कस्यचिदात्मनः किञ्चिदेव शरीरं कस्यचित् किंचिदन्यदेवेत्येवंरूपः- प्रत्युक्तः' व्यतिरेकमुखेनेति शेषः-सावय- मतेऽनुपपद्यमानतया प्रदर्शित इति भावः । एतदेव सूत्रव्याख्यानम्भाप्यवार्तिकतात्पर्यवृत्त्यादिसम्मतम् । केचिस्वन्य- थैव व्याख्यानमभिप्रयन्ति । तद्यथा--'एतेन शरीरोत्पत्तरदृष्टनिष्पाद्यत्वेन 'अनियमः' सर्वेषामात्मनां सर्वाण्येव शरीराणीत्येवंरूपः परोद्भावितः 'प्रत्युक्तः' परिहत इत्यर्थः । .. ..

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२ सू०६८- निकृष्टाभिजन इति, प्रशस्तं निन्दितमिति, व्याधिबहुलमरोगामिति, समग्रं विकलमिति, पीडाबहुलं सुखबहुलमिति, पुरुषातिशयलक्षणोपपन्नं विपरीत- मिति, प्रशस्तलक्षणं निन्दितलक्षणमिति, पद्विन्द्रियं मृद्विन्द्रियमिति । सूक्ष्मश्च भेदोऽपरिमेयः । सोऽयं जन्मभेदः प्रत्यात्मनियतात्कर्मभेदादुपपद्यते । असति कर्मभेदे प्रत्यात्मनियते निरतिशयित्वादात्मनां समानत्वाच्च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोरभावात्सर्वं सर्वात्मनां प्रसज्येत । न त्विदमित्थम्भूतं जन्म । तस्मान्नाकर्मनिमित्ता शरीरोत्पत्तिरिति । उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः । कर्मनिमित्त शरीरसर्गे तेन शरीरे- णात्मनो वियोग उपपन्नः। कस्मात् ? कर्मक्षयोपपत्तेः । उपपद्यते खलु कर्मक्षयः । सम्यग्दर्शनात् प्रक्षीणे मोहे वीतरागः पुनर्भवहेतु कर्म कायवाङ्मनोभिन करोति इत्युत्तरस्यानुपचयः । पूर्वोपचितस्य विपाकप्रतिसंवेदनात्प्रक्षयः । एवं प्रसवहे- तोरभावात् पतितेऽस्मिन् शरीरे पुनः शरीरान्तरानुपपत्तेरप्रतिसन्धिः। अकर्म- निमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस्तद्वियोगानुपपत्तिरिति ।। ६७ ।। तदद्देष्टकारितमिति चेत् " पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ६८॥ अदर्शनं खल्वदृष्टमित्युच्यते । अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः । न जात्वनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति । तचास्य दृश्यं द्विविधं- विषयश्च नानात्वं चाव्यक्तात्मनोः । तदर्थः शरीरसर्गः। तस्मिन्नवसिते चरि- तार्थानि भूतानि न शरीरमुत्पादयन्तीत्युपपन्नः शरीरवियोग इति" ! १ शरीरोत्पत्तेरदृष्टनिमित्तत्वे हेत्वन्तरमाह-उपपन्न इति । एतद्वाक्यं केचित्सूत्रत्वे- नाभिप्रयन्ति । तत्र प्रमाणाभावाद्भाष्यमेवेति निर्धारितम् । शरीरस्य पुरुषादृष्ट- निमित्तत्व एव तस्य कर्मक्षयाच्छरीरवियोगोऽप्युपपद्यते नान्यथेत्यर्थः । २ उक्तमेव विशदयति-कर्मनिमित्त इति । ३ साङ्ख्योद्भावितशरीरवियोगोपपत्ति प्रदर्श्य दूषयति-तददृष्टेतिसूत्रेण । चेद- न्तम्पराभिमतोपपत्तिप्रदर्शनम्पुनरिस्यादि तदूषणम् । अदृष्टमित्यस्य क्तप्रत्ययस्य भावार्थत्वे 'अदृष्टम् ' अदर्शनम् । तच्चादर्शनमुपभोग्यशब्दादेविषयस्य प्रकृतिपुरुष- भेदस्य चाभिप्रेतम् । तत्कारित एव शरीरवियोग इति पराभिमतम् । तस्य दूषणम्- पुनस्तत्प्रसङ्ग इति । एवं हि अपवर्गे सत्यपि पुनः शरीरोत्पत्तिप्रसङ्ग इत्यर्थः ।

सु. ६८] तृतीयाध्याये द्वितीयाह्निके अष्टपष्ठितमं सूत्रम् एवं चेन्मन्यसे ? पुनस्तत्प्रसङ्गोऽपवर्गे । पुनः शरीरोत्पत्तिः प्रसज्यत इति । यो चानुत्पन्ने शरीरे दर्शनानुत्पत्तिरदर्शनाभिमता-या चापवर्गे शरीर- निवृत्तौ दर्शनानुत्पत्तिरदर्शनभूता-नैतयोरदर्शनयोः कचिद्विशेष इत्यदर्शनस्या- निवृत्तेरपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति । " चरितार्थता विशेष इति चेन्”–न, करणाकरणयोरारम्भदर्शनान् । " चरितार्थानि भूतानि दर्शनावसानान्न शरीरान्तरमारभन्ते इत्ययं विशेष " एवं चेदुच्यते ? ने, करणाकरणयोरारम्भदर्शनात् । चरितार्थानां भूतानां विषयोपलब्धिकरणात्पुनः पुनः शरीरारम्भो दृश्यते, प्रकृतिपुरुषयोनानात्व- दर्शनस्याकरणान्निरर्थकः शरीरारम्भः पुनः पुनदृश्यते। तस्मादकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्थी शरीरोत्पत्तिर्युक्ता । युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः । कर्मविपाकसंवेदनं दर्शनमिति । तदष्टंकारितमिति चेत् ” कस्यचिदर्शनम्-" अष्टं नाम परमाणूनां १ एवं परोद्भावितदर्शनमनद्य तद्पणपरं पुनस्तत्प्रसङ्गापवर्ग' इति सूत्रांशं व्याख्यातुमुपक्रमते-एवं चेन्मन्यस इति । २ तदेव विवृणोति - पुनः शरीरोत्पत्तिरिति । ३ तद्विशदयति- या चेति । ४ शरीरोत्पत्तेः प्राक् यददर्शनं यच्चापवर्गानन्तरमदर्शनं तदेतयोरदर्शनयोर्महान् भेदोऽस्तीति नापवर्गानन्तरं शरीरोत्पत्तिप्रसङ्ग इति मनसि कृत्वा परस्तयोरदर्शनयो- भैदमाविष्करोति-चरितार्थतेति । ५ परिहरति-न करणाकरणयोरारम्भदर्शनादिति । केचिदेतद्वाक्यं सूत्र स्वेनाभि- प्रयन्ति । प्रमाणाभावात् तदुपेक्षितम् । ६ परोक्तस्याशयं विवृणोति-चरितार्थानीति । ७ दर्शनावसानादिति । 'दर्शनस्य' शब्दाद्युपभोगस्य व्यक्ताव्यक्तविज्ञानस्य चेत्युभयरूपस्य 'अवसानात् ' सम्पत्तेः हेतोरित्यर्थः । शिष्टं व्याख्यातम् । ८ स्वोक्तपरिहारस्याशयं व्याचक्षाणस्तमनुवदति-न करणेति। ९ तस्याशयं वर्णयति-चरितार्थानामिति । 'विषयोपलब्धिकरणात् चरितार्था- नामपि भूतानां पुनः पुनः शरीरारम्भो दृश्यते' इति सम्बन्धः । आईतमतनिरसनपरं सूत्रस्य व्याख्यानान्तरमुपन्यस्यन् परोद्भावितपक्षमु- स्थापयति-तददृष्टकारितमिति चेदिति । ११ परमतमनुवदति-अदृष्टं नामेति । आहतास्तावददृष्टं परमाणुगुणं वर्णयन्ति । पार्थिवादीनामणूनां मनसश्च गुणोऽदृष्टम् । तत्र पार्थिवाद्या अणवः स्वादृष्टप्रयुक्ताः २३८ खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२, सू०६९- गुणविशेषः क्रियाहेतुः । तेन प्रेरिताः परमाणवः सम्मूछिताः शरीरमुत्पाद- यन्तीति-तन्मनः समाविशति स्वगुणेनादृष्टेन प्रेरितम् । समनस्के शरीरे द्रवरुपलब्धिर्भवतीति"। एतस्मिन् वै दर्शने गुणानुच्छेदात्पुनस्तत्प्रसङ्गोऽपवर्गे। अपवर्ग शरीरोत्पत्तिः, परमाणुगुणस्यादृष्टस्यानुच्छेद्यत्वादिति ॥ ६८ ॥ मनःकर्मनिमित्तत्वाच्च संयोगाद्यनुच्छेदः ॥ ६९ ॥ मनोगुणेनादृष्टेन समावेशिते मनसि संयोगाद्युच्छेदो न स्यात् । तत्र किंकृतं शरीरादपसर्पणं मनस इति । कर्माशयक्षये तु कर्माशयान्तराद्विपच्य- मानादपसर्पणोपपत्तिरिति । " अहटादेवापसर्पणमिति” चेत्-“योऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुरपीति "। न, एकस्य जीवनप्रायणहेतुत्वानुपपत्तेः । एवं च सति एकमष्ट जीवनप्रायणयोर्हेतुरिति प्राप्तं-नैतदुपपद्यते ॥ ६५ ।। नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ७० ॥ विपाकसंवेदनात् कर्माशयक्षये शरीरपातः ‘प्रायणम् ', न्तराञ्च पुनर्जन्म । भूतमात्रात्तु कर्मनिरपेक्षान्छरीरोत्पत्तौ कस्य क्षयाच्छरीरपातः प्रायणमिति-प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः। यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिरिति ॥ ७० ॥ पुनम्तत्प्रसङ्गोऽस्वर्गे' इत्येतत्समाधिसुराह- शरीरमारभन्ते । मनश्च स्वगुगप्रयुक्तं शरीरमाविशति । तच्च स्वकादेवादृष्टात् पुद्गलस्य (जीवस्य) सुखदुःखोपभांगं साधयति । न तु पुद्गलस्य धोऽदृष्टमिति तेषाम्मतम् । १ तदूषयति-एतस्मिन्निति । अत्रापि पुनस्तत्प्रसङ्गोऽपवनें। तत्र हेतु गुणानुच्छेहादिति । २ उक्तं प्रसङ्गं विशदयति-अपवर्ग इति। परमाणुगुणस्यादृष्टस्य नित्यत्वादा- मन अपवर्गानन्तरमपि तस्य सत्वात् पुनः शरीरोत्पत्तिर्दुवीरेत्याशयः । ३ ननु यः संयोगानुच्छेदः पूर्वसूत्र उद्भावितः सोऽत्यन्तमप्रसिद्धः। यत् सदकरणं च तदेव नित्यं दृष्टं-शरीरं च सत् सकरणं चातः कथं तत् नित्यं भवेदित्यत आह-नित्यत्वेति सूत्रम् । मनसः शरीरादपसर्पणासम्भवे जीवस्य मरणानुपपत्तेर्भव- स्येव नित्यत्वप्रसङ्गः शरीरस्येत्यर्थः । ४ 'पुनस्तत्प्रसङ्गोऽपवर्ग' इति यसिद्धान्तिनोद्भावितन्तस्य परेण कृतं समाधान प्रस्तावयति-पुनस्तदिति । प्रायणम् ', कर्माशया- . ..

। । ---लू ७२ ] तृतीयाध्याये द्वितीयाह्निके द्विसप्ततितमं सूत्रम् अणुश्यामतानित्यत्ववदेतत्स्यात् ॥ ७१ ॥ यथा अणोः श्यामता नित्या अग्निसंयोगेन प्रतिविद्धा न पुनरुत्पद्यते, एवमष्टकारितं शरीरमपवर्गे पुनर्नोत्पद्यत इति ॥ ७१ ॥ नाकृताभ्यागमप्रसङ्गात् ।। ७२॥ नायमस्ति दृष्टान्तः । कस्मात् ? अकृताभ्यागमप्रसङ्गात् । अकृतं प्रमाणतोऽनुपपन्नं-तस्याभ्यागमोऽभ्युपपत्तिर्व्यवसायः एतच्छ्रद्दधानेन प्रमाणतोऽनुपपन्नं मन्तव्यम् । तस्मान्नायं दृष्टान्तः। न प्रत्यक्षं न चानुमान किञ्चिदुच्यत इति । तदिदं दृष्टान्तस्य साध्यसमत्वमभिधीयत इति । अथ वो ‘नाकृताभ्यागमप्रसङ्गात् '। अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्याकृताभ्यागमप्रसङ्गः । अकृते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखमभ्यागच्छतीति प्रसज्येत । ओमिति ब्रुवतः प्रत्यक्षानु- मानागमविरोधः। प्रत्यक्षविरोधस्तावत्-भिन्नमिदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्ष सर्वशरीरिणाम् । को भेदः ? तीव्र मन्दं, चिरमाशु, नानाप्रकारमेकप्रकार- मित्येवमादिविशेषः । न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः । न चासति हेतुविशेष फल विशेषो दृश्यते । कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसञ्चयानां चोत्कर्षापकर्षभावान्नानाविधैकविधभावाच १ परकृते समाधानमाह-अणुश्यामतेति सूत्रम् । यथाऽणनां नित्यत्वेऽपि तेषां श्यामतादिगुणा अनित्या एव तथैव तेषां गुणोऽदृष्टमप्यनित्यमेवेत्यर्थः । २ परकृतसमाधानमपाकरोति-नाकृताभ्यागमेति सूत्रम् । 'अकृतम्' प्रमाणेन अविषयीकृतम् प्रत्युत प्रत्यक्षागमविरुद्धमिति यावत्-तस्य अभ्युपगमः-तत्प्रसङ्गादित्यर्थः । ३ सूत्रस्य यथाश्रुति व्याख्यानान्तरमाह-अथवेति । अकृतस्य कर्मणः 'अभ्यागमः' फलोपभोगः तत्प्रसङ्गादित्यर्थः । यदा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकः तदासौ नित्यवान केनचित् क्रियते । तस्याकृतस्यव फलं पुरुषैरुपभुज्यते। ततश्चायमास्तिकानां विहितनिषिद्धप्रवृत्तिनिवृत्तिनिचयोऽनर्थकः शास्त्रप्रणयां चानर्थकं भवेदिति भावः । ४ सूत्राक्षरं व्याचष्टे-अणुश्यामतेति । ५ ननु भवत्वेवमकृताभ्यागमः का नो हानिरित्यत आह-ओमिति ब्रुवत इति । एतादृशोऽकृताभ्यागमः प्रत्यक्षादिसकलप्रमाणविरुद्ध इत्यर्थः । १ 'अभ्यागमः ..

खद्योतसहितन्यायसूत्रभाष्ये [अ०३, आ०२,सू०७२-- कर्मणां सुखदुःखभेदोपपत्तिः । सोऽयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो न स्यादिति प्रत्यक्षविरोधः । तथाऽनुमानविरोधः-दृष्टं हि पुरुषगुणव्यवस्थानात्सुखदुःखव्यवस्थानम् । यः खलु चेतनावान् साधननिर्वर्तनीयं सुखं बुद्ध्वा तदीप्सन् साधनावाप्तये प्रयतते स सुखेन युज्यते, न विपरीतः ! यश्च साधननिर्वर्तनीयं दुःखं बुद्धा तजिहासुः साधनपरिवर्जनाय यतते स च दुःखेन त्यज्यते, न विपरीतः । अस्ति चेदं यत्नमन्तरेण चेतनानां सुखदुःखव्यवस्थानम्। तेनापि चेतनगुणा- न्तरव्यवस्थाकृतेन भवितव्यमित्यनुमानम् । तदेतदकर्मनिमित्ते सुखदुःखयोगे विरुध्यत इति । तच्च गुणान्तरमसंवेद्यत्वाददृष्टं विपाककालानियमाञ्चाव्यव- स्थितम् । बुद्धयादयस्तु संवेद्याश्चापवर्गिणश्चेति । अथागमविरोधः-बहु खल्विदमार्षमृषीणामुपदेशजातमनुष्ठानपरिवर्जना- अयमुपदेशफलं च शरीरिणां वर्णाश्रमविभागेनानुष्ठानलक्षणा प्रवृत्तिः, परि- वर्जनलक्षणा निवृत्तिः । तच्चोभयमेतस्यां दृष्टौ-नास्ति कर्म सुचरितं दुश्चरितं वाऽकर्मनिमित्तः पुरुषाणां सुखदुः :खयोग-इति विरुद्धयते । सेयं पापिष्ठानां मिथ्यादृष्टिरकर्मनिमित्ता शरीरसृष्टिरकर्मनिमित्तः सुख- दुःखयोग इति ।। ७२ ॥ इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्य द्वितीयमाह्निकम् ॥२॥ समाप्तश्चायं तृतीयोऽध्यायः । ५ परपक्ष आगमविरोधं दर्शयति-आगमविरोध इति । एतस्यां दृष्टौ' परकीये दर्शने । यदि न कर्मनिमित्तः शरीरसर्गः सुखदुःखादि वा तदा शास्त्रविहितकर्तव्या- नुष्ठानेन धर्मस्ततः सुखम् शास्त्रनिषिद्धाचरणेनाधर्मस्ततो दुःखमित्यादिव्यवस्था न स्यात् । अयं च व्यवस्थाभावः सकलागमविरुद्ध एव ।

३ अथ चतुर्थाध्यायस्यायमाह्निकम् । (१) प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् । मनमोऽनन्तरा प्रवृत्तिः परीक्षितव्या । तत्र दल बावद्धन धर्माश्रयशरत- रादि परीक्षितं सर्वा सा प्रवृत्तेः परीक्षेत्याह- प्रवृत्तियथोक्ता ॥१॥ तथा परीक्षितेति ॥१॥ प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह- तथा दोयाः ॥२॥ तथा परीक्षिता इति । बुद्धिसमानाश्रयत्वादात्मगुणा: प्रवृत्तिहेतुत्वात् पुन- १ चतुर्थेऽध्याये आत्मशरोरेन्द्रियार्थबुद्धिमनोरूपकारणस्वरूपप्रमेयपटकं ऋमप्राप्तं परीक्ष्यते । स एवाध्यायार्थः । तत्र प्रथमाह्निके प्रवृत्यादया विधर्मिणो विपयाश्चिन्तनीयाः। द्वितीये त्ववसरतः सर्वप्रमेयाणां विषयी धर्मस्तत्वबोधी निरूपणीयः। २ अध्यायक्रमं निरूपयन्नाह-मनसोनन्तरेति । प्रथमाध्यायगताद्देशसूत्रे नवमे मनोनन्तरं प्रवृत्तेरेवोद्दिष्टत्वात् मनःपरीक्षानन्तरम्प्रवृत्तेरेव परीक्षावसर इत्यर्थः । ३ पूर्वकृतपरीक्षानिदेशनपरं सूत्रमवतारयन्नाह-तत्र खल्विति । सकलायाः प्रवृत्तेधर्मान्तःपातित्वात्तत्परीक्षणेन साऽपि परीक्षिता वेदितव्येत्यर्थः । ४ उक्तातिदेशपरं सूत्रम्--प्रवृत्तिर्यथोक्तेति । ५ सूत्रार्य ब्याचक्षाणस्तस्य शेषं पूरयति-तथेति । एवं च ‘प्रवृत्तिः यथा उक्ता तथा परीक्षिता' इति सूत्रस्वरूपं पर्यवसितम्। यथा लक्षिता तथा परीक्षिता । अस्या लक्षणेनैव परीक्षाऽपि सम्पन्नेत्यर्थः । एतत्सूत्रपूरणं वृत्तिकृतोऽनभिमतम् । तथाचोक्तं तैः-अत्र तथैवेति शेष पूरयन्ति । तदयुक्तम् । तथा सत्यत्रैव यथाशब्दस्याकांक्षाशान्तावनिमसूत्रस्थतथा- शब्देपि यथाशब्दान्तरस्य पूरणीयतया प्रकरणभेदापत्तेः । तस्मादग्रिमसूत्रस्थतथा- शब्देनान्वयो युक्तः । प्रवृत्तियथोक्तलक्षणवती तथा दोश अप्युक्तलक्षणवन्त इत्यग्रिम- सूत्रसम्बलितोऽर्थ इति । ६ दोषाणां परीक्षा कथं वृत्तेति प्रदर्शयन् तद्विषये यत्किञ्चित् प्रागुक्तं तत्संक्षेपेण स्मारयति-प्रवृत्तिहेतुत्वादिति। दोषाणां प्रवर्तनालक्षणत्वात् तेषां प्रवृत्तिहेतुत्वं, तस्माच्च पुनर्जन्मकारणान्यपि तेऽत एव संसारहेतवोऽपि । संसारश्चानादिस्तत्कारण- न्या. सू. १६ २४१ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०३- । १ भवप्रतिसन्धानसामर्थ्याच्च संसारहेतवः, संसारस्यानादित्वादनादिना प्रबन्धेन प्रवर्तन्ते । मिथ्याज्ञाननिवृत्तिस्तत्त्वज्ञानात् , तन्निवृत्तौ रागद्वेषप्रबन्धोच्छेदेऽ. पवर्ग इति प्रादुर्भावतिरोधानधर्मकाः । इत्येवमायुक्तं दोषाणामिति ।। २ ॥ (२) दोषत्रैराश्यप्रकरणम् । 'प्रवर्तनालक्षणा दोषा' इत्युक्तम् । तथा चेमे मानेासूयावि- चिकित्सामत्सरादयः, ते कस्मान्नोपसङ्ख्यायन्ते ? इत्यत आह- तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ।। ३॥ तेषां दोषाणां त्रयो राशयस्त्रयः पक्षाः। रागपक्षः-कामो मत्सरः स्पृहा भूता दोषा अत्यनादिसन्तानरूपेण वर्तन्ते । तथा च तत्त्वज्ञानान्मिथ्याज्ञान- निवृत्तिस्तनिवृत्तो रागद्वेषादिदोषनिवारणम् , ततश्चापवर्गः । एवं च सन्तानवृत्तित्वा- त्तेषामुत्पत्तिनाशवत्वमपि । एवमादिदोषानां प्रसङ्गेनोक्तमेव प्राक्सूत्रेषु (१११२, १1१1१८, ३१११२५)। इदमेव च तेषां परीक्षात्वेन मन्तव्यमित्याशयः । १ अत्र प्रकरणबिभागविषये केषाञ्चिद्विप्रतिपत्तिः । आद्यसूत्रात्मकमेकम्प्रकरण- म्प्रवृत्तिपरीक्षात्मकम्-द्वितीयं तु सूत्रमारभ्य नवमसूत्रपर्यन्तम्परमेकमेव प्रकरणं दोषपरीक्षापरमित्येव विभागः समीचीन: प्रतिभातीति तेषाम्मतम् । तत्समाधानं यथा-उक्तेन विभागेनाद्यं प्रकरणमेकसूत्रात्मकमेव स्यात् । न च तत्सम्यक्, अनेक- सूत्रसमूहस्यैव प्रकरणपदवाच्यत्वात् । अतः प्राचीन एव विभागः सम्यक्-येन आद्यसूत्रद्वयात्मकमेकं प्रकरण-प्रवृत्तिदोषोभयसामान्यपरीक्षापरं, तृतीयसूत्रामारभ्य नवमसूत्रपर्यन्तन्त्वपरं-दोषविशेषपरीक्षापमिति वर्द्धमानोपाध्यायाः । २ तदेवं बहु परीक्षितं दोषाणाम् । यत्तु किञ्चित्तेषामपरीक्षितं तत्परीक्षितुं प्रश्ने- नोपक्रमते-प्रवर्तनेति । दोषाणां प्रवर्त्तनालक्षणत्वमुक्तम्प्राक् । मानेादयोऽपि प्रवर्तना- लक्षणाः । तत एतेऽपि दोषपरिगणने कथनोच्यन्ते इति प्रश्नार्थः । ३ सूत्रं व्याचक्षाणो रागादिषु सर्वेषां दोषाणामन्तर्भावं प्रदर्शयति-तेषामिति । काममत्सरस्पृहातृष्णालोभानां रागस्वरूपत्वाद् राग एवान्तर्भावः। एवं क्रोधेा- सूयाद्रोहामर्षाणां द्वेषस्वरूपत्वाद् द्वेष एवान्तर्भावः । तथा च मिथ्याज्ञानविचिकि- सामानप्रमादानाम्मोहस्वरूपत्वान्मोह एवान्तर्भावः । एवमेव विष्वेव दोषेषु सर्वेषां दोषाणामन्तर्भावः । तत्र स्त्रीगतोऽभिलाषः 'कामः', अक्षीयमाणवस्वपरित्यागेच्छा 'मत्सरः', अस्वपरस्वादानेच्छा 'स्पृहा', पुनर्भवप्रतिसन्धानहेतुभूता 'तृष्णा', प्रमाण- विरुद्धपरदव्यापहारेच्छा 'लोभः' । शरीरेन्द्रियाधिष्ठान_कृत्यहेतुः 'क्रोधः', साधारणे वस्तुनि पराभिनिवेशप्रतिषेधेच्छा 'ईर्ष्या', परगुणाक्षमता ऽसूया', परापकारेच्छा 'द्रोहः', कृतापकाराक्षमताऽमर्षः'। विचिकित्सा संशयः', विद्यमानाविद्यमान- गुणाध्यारोपेगात्मोत्कर्षप्रत्ययो 'मानः', कर्तव्याकरणं 'प्रभादः' । . - , चतुर्याध्याये प्रथमाह्निके षष्ठं सूत्रम् n तृष्णा लोभ इति । द्वेषपक्ष:-क्रोध ईर्ष्याऽसूया द्रोहोऽमर्प इति। मोहपक्षो- मिथ्यानानं विचिकित्सा मानः प्रमाद इति । त्रैराश्यानोपसथायन्त इति । लक्षणस्य तर्षभेदान्त्रित्वमनुपपन्नम्। नानुपपन्नम्-'रागद्वेष- मोहार्थान्तरभावात् ।। आसक्तिलक्षणो रागः, अमर्पलक्षमो द्वेषः, मिथ्याप्रति- पत्तिलक्षणो मोह इत्येतत्प्रत्यात्मवेदनीयं सर्वशरीरिणाम् । विजानात्ययं शरीरी रागमुत्पन्नम्-अस्ति मेऽध्यात्म रागधर्म-इति । विरागं च विजानाति-नास्ति मेऽध्यात्म रागधर्म इति । एवमितरयोरपीति । मानेासूयाप्रभृतयस्तु त्रैराश्य- मनुपतिता इति नोपसङ्कथायन्ते ॥३॥ " नेकप्रत्यीकभावात् " ॥ ४ ॥ " नार्थान्तरं रागादयः । कस्मात् ? एकप्रत्यनीकभावान् । तत्त्वज्ञानं सम्यङमतिरार्यप्रज्ञा सम्बोधे इत्येकभिदं प्रत्यनीकं त्रयाणामिति” ॥ ४ ॥ व्यभिचारादहेतुः ।। ५॥ एकप्रत्यनीकाः पृथिव्यां श्यामादयोऽग्निसंयोगेनैकेन, एकयोनयश्च पाकजा इति ।। ५ ॥ सति चार्थान्तरभावे-- तेषां मोहः पापीयानामूढस्येतरोत्पत्तेः ॥ ६॥ मोहः पापः पापतरो वा द्वावभिप्रेत्योक्तम् । कस्मात् ? नामूढस्येतरो- त्पत्तेः । अमूढस्य रागद्वेषौ नोत्पद्यते । मूढस्य तु यथासङ्कल्पमुत्पत्ति: । विषयेषु १ उपसंहरति-नैराश्यादिति । यस्मात् त्रिवेव वर्गेषु सर्वे दोषा अन्तर्गता- स्तस्मात् तेषां परिगणनं न क्रियते इत्यर्थः । २ सम्यक्बोधः ‘सम्बोध:' । यस्मादेकमेव तत्त्वज्ञानं रागादोनां त्रयाणां 'विरोधि' नाशकम् तस्मात्तेषामप्येकत्वमेव युक्तं न पृङ्गिदेश इति भावः । ३ केयांचिन्मते 'सति चार्थान्तरभाव' इति पूर्वान्वय्येव । तथा चायं सम्ब- न्ध:--' अर्थान्तरभावे सत्यपि ( चोऽप्यर्थः ) श्यामादयः अग्निसंयोगेन एकप्रत्य- नीका इति-यद्यप्येते गुणा भिन्ना एव तथाप्येकप्रत्यनीका इत्यर्थः । वार्तिककृतस्तात्पर्यकृतस्तु मते 'सति चार्थान्तरभावे' इति वाक्यस्याग्रिम- सूत्रेणैवान्वयः । ' अर्थान्तरभावेऽपि मोहस्तेषां पापीयान् ' इति सम्बन्धः । ४ दोषोच्छेदं वर्णयितुकामः कारणोच्छेद एव कार्योच्छेद इति मनसि कृत्वा मोहस्यैव सकलदोषमूलत्वं प्रदर्शयितुं विष्वपि रागद्वेषमोहेषु तारतम्यं वर्णयति-तेषामिति सूत्रम् । तेषाम् ' रागद्वेषमोहानाम्मध्ये 'मोह :पापीयान- अनर्थमूलं 'न अमूढस्य इतरोत्पत्तेः' । अमूढस्य' , मोहरहितस्य 'इतरयां: रागद्वेषयोः ‘उत्पत्तिः' न भवति यस्मात् तस्मात् मोह एव सर्वप्रधानमिति भावः । ७ ८ , ..

२४४ . खद्योतसहितन्यायसूत्रभाध्ये [अ०४, आ०१, सू०७- dama . रञ्जनीयाः सङ्कल्पा रागहेतवः, कोपनीयाः सङ्कल्पा द्वेषहेतवः । उभये । सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणत्वान्मोहादन्ये । ताविमौ मोहयोनी रागद्वेषा- विति । तत्त्वज्ञानाच मोहनिवृत्तौ रागद्वेषानुत्पत्तिरित्येकप्रत्यनीकभावोपपत्तिः । एवं च कृत्वा तत्त्वज्ञानात्-“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरो- न्तरापाये तदनन्तराभावादपवर्ग” इति व्याख्यातमिति ॥६॥ प्राप्तस्तर्हि- निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः "अन्यद्धि निमित्तमन्यच्च नैमित्तिकमिति दोषनिमित्तत्वाददोषो मोह इति ॥७॥ न, दोषलक्षणावरोधान्मोहस्य ॥ ८ ॥ प्रवर्तनालक्षणा दोषा' इत्यनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति ॥८॥ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥९॥ द्रव्याणां गुणानां वाऽनेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्य- जातीयानां दृष्ट इति ॥ ९॥ (३) प्रेत्यभावपरीक्षाप्रकरणम् । दोषानन्तरं प्रेत्यभावः। “ तस्यासिद्धिः-आत्मनो नित्यत्वात् । न १ शङ्कते-प्राप्तस्तहीति भाष्यवाक्यमारभ्य दोषेभ्य इति सूत्रान्त्यपदपर्यन्तम् । तहि दोषेभ्योऽर्थान्तरभावः प्राप्त इति सम्बन्धः । २ क्रमप्राप्त प्रेत्यभावं परीक्षयिष्यमाणस्तत्र क्रमं प्रदर्शयति-दोषानन्तरमिति । प्रमेयोद्देशे दोषादनन्तरं प्रेत्यभाव एवोक्तस्ततः परीक्षायामपि दोषानन्तरं स एव परीक्ष्यत इत्यर्थः । प्रेत्यभाव इत्यत्र ल्यब'मुख व्यादाय स्वपितीतिवद् द्रष्टव्यः । तथा च भूत्वा प्रायणमिति भवनप्रायणयोः समानकर्तृकत्वं अप्युपन्नम् । एतद्विषये च संशयः--अयं प्रेत्यभावः शरीरस्योत बुद्धेरुतात्मन इति। तत्र केषांचिदाक्षेपः- 'पुनरुत्पत्तिः प्रेत्यभाव' इत्यत्र सूत्रे (१११११९) प्रेत्यभाव आस्मन एवेत्यस्य सिद्धत्वादुक्तसंशयस्यावकाशो नास्तीति । तत्र च परिहारः-प्रेत्यभावस्योत्पत्तिनाश- रूपत्वात्तस्य च नित्य आत्मन्यसम्भवादुपपद्यत एव संशयः, एवं चास्य संशयस्य परीक्षावसरः प्रेत्यभावपरीक्षावसर एवेति । ३ प्रेत्यभावस्योत्पत्तिनाशरूपत्वपक्षं सिद्धान्तिनि समासज्य परोक्तं संशयमु- झाव्य तत्रात्मपक्षे दोषमुपन्यसितुमाह-तस्यासिद्धिरिति । प्रेत्यभावस्य सर्वधा- ऽभाव एवेत्यर्थः। ४ तत्र हेतुः---आत्मन इति । .

. चतुर्थाध्याये प्रथमाह्निके एकादशं सूत्रम् बल नित्यं किं चिज्जायते नियते वेति जन्ममरणयोनित्यत्वादात्मनोऽनुप- पत्तिः । उभयं च प्रेत्यभाव" इति । तत्रायं सिद्धानुवाद:- आत्मनित्यत्वे प्रेत्यभावसिद्धिः ।। १० नित्योऽयमात्मा प्रैति-पूर्वशरीरं जहाति-नियत इति, प्रेत्य च पूर्व- शरीरं हित्वा भवति-जायते शरीरान्तरमुपादत्त इति। तच्चैतदुभयं 'पुन- रुत्पत्तिः प्रेत्यभाव' इत्यत्रोक्तं-पूर्वशरीरं हित्वा शरीरान्तरोपादानं प्रेत्यभाव इति । तच्चैतन्नित्यत्वे सम्भवतीति । यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावः तस्य कृतहानमकृता भ्यागमश्च दोषः । उच्छेदहेतुवादे ऋष्युपदेशाश्वानर्थका इति ।। . ० ।। 'कथमुत्पत्तिरिति” चेन्- व्यक्ताद्वयक्तानां प्रत्यक्षप्रामाण्यात् ।। ११ ।। १ तदेव स्पष्टयति-न खल्विति । उत्पत्तिनाशरूप एव प्रेत्यभावः, स च सिद्धान्ते नित्यस्यानुत्पत्तिनाशशीलस्यात्मनो नोपपद्यते। वैनाशिकानान्तु नित्य- मात्मानमनभ्युपगच्छतां सत्त्वमात्रस्योत्पादनिरोधाभ्यां युक्त एव प्रेत्यभाव इत्याशयः । २ उक्ताक्षेपपरिहाररूपेण सिद्धान्तमुपक्रमते-तत्रायमिति । सिद्धस्य सिद्धा- न्तस्य अनुवादो वर्णनम् । ३ विपक्षे बाधकमाह-यस्य विति। वैनाशिकमते आत्मनो मरणे तस्य नितान्तमेव सत्त्वस्योच्छेदः जन्मनि च पुनः सत्त्वस्योत्पत्तिरित्येवंरूप एव प्रेत्यभावः। एवं च यस्य मरणं जातं तस्यात्यन्तं नष्टत्वात् यस्य च जन्म तस्य प्रथममेव जात- स्वादुभयोरेकान्ततो भेद एव-तथा चोत्तरशरीरे य उपभोगा आत्मन आपतन्ति न ते सर्व तस्य स्वप्राक्तनकर्मकृताः, यानि च तस्य पूर्वशरीरे स्वकृतानि कर्माणि तजन्या- श्वोपभोगाम्तस्य नैवापतन्तीति महान् दोषः । एवं सत्यभ्युदयनिःश्रेयसाथ प्रवृत्त्यभावः प्रसज्यत इत्यर्थः । ४ पुनर्विपक्षे बाधकमाह-उच्छेदेति । यद्यात्मोच्छेदविनाशशीलस्तहि यस्या- स्मन उपदेनाः कृतस्तस्योत्तरक्षणे प्रणष्टत्वादपदेशानुष्ठानासम्भवे सकलोपदेशानर्थक्य- प्रसङ्ग इत्यर्थः । नित्यात्मपक्षे तु स्वदेहेन्द्रियबुद्धिसंवेदनासम्बन्धोत्पादविनाशौ नित्य- स्यात्मनो जन्मप्रायणे---तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः । ५ अत्र च प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति। तत्राभिमतं पक्षं गृह्णन्नुत्तरम्प्रस्तौति-व्यक्तादिति सूत्रम् । 'व्यक्तं' नामोपलब्धिलक्षणप्राप्तं रूपादिमद्: १ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०१२- - केन प्रकारेण किन्धर्मकात् कारणाब्यक्तं शरीराद्युत्पद्यत इति" व्यक्ताद् भूतसमाख्यातात्पृथिव्यादितः परमसूक्ष्मानित्याव्यक्तं शरीरे- न्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यमुत्पद्यते । व्यक्तं च खल्विन्द्रियग्राह्यम् । तत्सामान्यात्कारणमपि व्यक्तम् । " किं सामान्यम् " १ . रूपादिगुणयोगः । रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादि- गुणयुक्तं शरीराद्युत्पद्यते । प्रत्यक्षप्रामाण्यात् । दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस्तथा- भूतस्य द्रव्यस्योत्पादः, तेन चादृष्टस्यानुमानमिति । रूपादीनामन्वयदर्शनात् प्रकृतिविकारयोः पृथिव्यादीनां नित्यानामतीन्द्रियाणां कारणभावोऽनुमीयत इति ॥ ११ ॥ ने, घटाद् घटानिष्पत्तेः ॥ १२ ॥ " इदमपि प्रत्यक्षं-न खलु व्यक्ताद् घटाद्यक्तो घट उत्पद्यमानो दृश्यते- इति व्यक्ताद् व्यक्तस्यानुत्पत्तिदर्शनान्न व्यक्तं कारणमिति " ॥ १२ ॥ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ १३॥ न ब्रूमः-सर्वं सर्वस्य कारणमिति, किन्तु यदुत्पद्यते व्यक्तं द्रव्यं तत्तथाभूतादेवोत्पद्यत इति । व्यक्तं च तन्मृद्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते । न चैतन्निनुवानः क्वचिदभ्यनुज्ञां लब्धुमहतीति । तदेतत्तत्त्वम् ।। १३॥ (४) शून्येतोपादानप्रकरणम् । अतः परं प्रावादुकानां दृष्टयः प्रदर्यन्ते द्रव्यम्, तस्योत्पत्तिय॑क्तात् परमाणोः भवतीत्यर्थः । अत्राप्रत्यक्षोऽपि परमाणू रूपत्वादि- सामान्याद् 'व्यक्तम् ' उच्यते । तदेव पृथिव्यादेः कारणमिति । १ सिद्धान्ताशयमबुद्ध्वा परः शङ्कते-न घटादिति सूत्रम् । २ व्यक्तादेव व्यक्तमुत्पद्यत इति मतमुपोद्वलयितुं पृथिव्याधुत्पत्तिविषये यानि मतान्तराणि दार्शनिकैरुपन्यस्तानि तन्निराकरणपरं प्रकरणाष्टकम् । तत्रादौ शून्यतो- पादानप्रकरणम् । ३ एतदेवावतारयति-अतःपरिमिति । प्रावादुकानाम् ' दार्शनिकानाम् । दृष्टयः' मतानि 'प्रदान्ते'-कानिचित्प्रतिषेधुं-यथा शून्यतोपादानदर्शनं कानिचिदभ्यनुज्ञातुं-यथेश्वरकारणतावादः। ईश्वरकारणतावादमभिलक्ष्यैवैष यत्नो T ६ . चतुर्थाध्याये प्रथमाह्निके घोडशं सूत्रम् * अभावाझावोत्पत्तिानुपमृद्य प्रादुर्भावात् " ॥ १४ ॥ "असंतः सद्भुत्पद्यत इत्ययं पक्षः । कस्मात् ? उपमृद्य प्रादुर्भावात् । उपमृद्य बीजमकुर उत्पद्यते नानुपमृद्य । न चेट्ठीजोपमदोऽङ्कुरकारणम्-अनु- पमर्देऽपि बीजस्याङ्करोत्पत्तिः स्यादिति " || १४ || अत्राभिधीयते-- व्याघातादप्रयोगः ॥ १५॥ उपमृद्य प्रादुर्भावादित्ययुक्तः प्रयोगो-याघातात् । यदुपमृद्ाति न तदुपमृद्य प्रादुर्भवितुमर्हति-विद्यमानत्वात् । यच्च प्रादुर्भवति न तेनाप्रादुर्भूते- नाविद्यमानेनोपमई इति ॥ १५ ॥ " नातीतानागतयोः कारकशब्दप्रयोगात्" ॥१६॥ अतीते चानागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते । पुत्रो जनि- वार्तिककृतः । अत्र तु यदीश्वरकारणतार्शदनमुपन्यस्तमग्रे तवेदान्त्यभिमते- श्वरस्योपादानकारणत्वमेव समर्थयतेऽतस्तदपि सिद्धान्तिनः प्रतिषेध्यकोटावेवान्तः- पततीति नावसरो वार्तिककृदभिमतविवेकस्येत्यादि तात्पर्यादवगम्यते । विशदं निरूपयिष्यत एतदग्रिमे ईश्वरोपादानताप्रकरणे । १ तत्र प्रथममसत एव सदुत्पद्यत इति शून्यतोपादानतादर्शनमुपन्यस्यति- अभावादिति सूत्रम् । एके प्राहुः 'अभावादेव भावानां कार्याणामुत्पत्तिः। कुतः यतो नानुपमृद्य प्रादुर्भावः कस्य चिदपि भावस्य भवति-यथा बीजमुपमृधैवाङ्कुरो जायते इत्यर्थः'। २ सूत्रं ब्याचष्टे-असत इति । इदमत्राकूतम्-विश्वं हि शून्यताया एव जायते । एवं किल श्रूयते-असदेवेदमग्र आसीदिति । अत एवाद्याप्यसत एव जन्म दृश्यते न सतः । तत्कस्य हेतोः ? अभावस्तस्य कारणमिति। 'अनुपमृद्य प्रादुर्भा- वादिति' उपलक्षणमेतत् । असत उत्पादादित्यपि द्रष्टव्यम् । तस्मादसदुपादानं विश्वमिति सिद्धम् । ३ यच्च प्रादुभर्वति तत्प्रादुर्भावात् प्रागसदेव, यच्चासदेव तत् कथमुपमर्द करिष्यतीत्यर्थः। ४ सिद्धान्त्यभिसन्धिमविद्वान् पूर्वपक्षी दूषयति-नातीतेति सूत्रम् । यदुक्तं सिद्धान्तिना पूर्वस्मिन् सूत्रे तन्न, यतो ह्यविद्यमानेऽप्यर्थे कारकशब्दः प्रयुज्यत इत्यर्थः । ५ सूत्रार्थ व्याचष्टे-अतीत इति । अविद्यमान इति यद्यपि सूत्रे नोक्तं तथाऽपि भाष्यकारेण योजितं वेदितव्यम् । .. ? ..

२४८ खद्योतसहितन्यायसूत्रभाष्ये अ०४, आ० १, सू ० १७ - प्यते-जनिष्यमाणं पुत्रमाभिनन्दति-पुत्रस्य जनिष्यमाणस्य नाम करोति- अभूत्कुम्भो भिन्नं कुम्भमनुशोचति-भिन्नस्य कुम्भस्य कपालानि-अजाताः पुत्राः पितरं तापयन्तीति-बहुलं भाक्ताः प्रयोगा दृश्यन्ते । को पुनरियं भक्तिः ? आनन्तर्य भक्तिः। आनन्तर्यसामर्थ्यादुपमृद्य प्रादुर्भावार्थः-प्रादुर्भ- विष्यन्नकुर उपमृनातीति भाक्तं कर्तृत्वामिति ” ॥ १६ ॥ न विनष्टेभ्योऽनिष्पत्तेः ।। १७॥ न विनष्टाद्वीजादङ्गुर उत्पद्यत इति। तस्मात्राभावाद्भावोत्पत्तिरिति ।।१७॥ ऊमनिर्देशादप्रतिषेधः ॥ १८ ॥ उपमईप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः । स खल्वभावाद्भावोत्पत्ते- हेतुनिर्दिश्यते । स च न प्रतिषिध्यत इति । व्याहतव्यूहानामवयवानां पूर्व- ज्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्ति भावात् । बीजावयवाः कुतश्चिन्निमित्ता- १ ननु भाक्तप्रयोगे सर्वत्र सादृश्यादि किञ्चिन्मूलमपेक्ष्यते । प्रकृते किन्तन्मू- लमिति पृच्छति-का पुनरिति । २ तत्रोत्तरम्-आनन्तर्यमिति । तदेव विशदयति-आनन्तर्यसामर्थ्यादिति । अङ्कुरमुपमृद्य प्रादुर्भवतीत्यस्यायमेवों यत् प्रादुर्भविष्यन्नङ्कुरो बीजमुपमृद्भातीति- अत्र चाविद्यमानस्याप्यकुरस्य कर्तृत्वं भाक्तमेव । तत्र च मूलं बीजनाशादनन्तर- मेवाङ्कुर उत्पद्यत इत्यानन्तयमेवेति भावः । ३ परोक्तं परिहरति-न विनष्टेभ्य इति सूत्रम् । यदुक्तमभावाभावोत्पत्तिरिति, तन्न । कुतः ? यतो विनष्टेभ्यो बीजेभ्यो नैवोत्पद्यतेऽङ्कुरमित्यर्थः । ४ परोक्तौ यत्किञ्चिदभ्युपगमाहं तदभ्युपगच्छन्नाह-क्रमनिर्देशादिति सूत्रम् । "अप्रतिषेधः' तावन्मात्रस्य परोक्तस्येति शेषः । ५ सूत्रार्थ व्याचष्टे-उपमर्देति । ६ सूत्रस्थक्रमपदस्यार्थमाह-पौवैति । निर्दिश्यत इति परेणेति शेपः । ७ ननु यद्ययं क्रमो न प्रतिषिध्यते स एव च क्रमोऽस्माभिरभावाद्धावा- त्पत्तिसाधकतयोपन्यस्तः । ततः किमिति साधनं स्वीकृत्य तत्साध्यन्न स्वीकरोषीत्यत आह-व्याहतेति । बीजोपमर्दाकुरोल्पत्योर्यः पौर्वापर्यक्रमः स न प्रतिषिध्यते किन्तु तस्य क्रमस्याभावाद्भावोत्पत्तिसाधनत्वम्प्रतिषिध्यत एव । यतोऽत्र बीजस्यानुवृत्तिर्भ- वस्येव केवलं तस्यैकमवयवव्यूह नश्यति, अपरं च व्यूहमुत्पद्यते । अस्मादेव च व्यूहान्तरादङ्कुरमुत्पद्यते । एवं च सत एव बीजादङ्कुरोत्पत्ति सत इत्याशयः । अनन्यप्रयुक्तं ह्यानन्तर्य कार्यकारणभावसाधनम् । इह त्वानन्तर्य व्यूहान्तरप्रयुक्त- मेवेति न तदभावस्य कारणत्वं गमयितुमर्हतीति हृदयम्। ..

-सू. १८ चतुर्थाध्याये प्रथमाह्निके अष्टादशं मूत्रम् २४९ प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते । व्यूहान्तरादङ्कुर उत्पद्यते । दृश्यन्ते खल्ववयवान्तत्संयोगाश्चाङ्गत्यत्तिहेतवः ! न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यहान्तरेण भवितुमित्युपमप्रादुर्भावयोः पौर्वा- पर्यनियमः क्रमः । तस्मान्नाभावाभावोत्पत्तिरिति । न चान्यबीजावयवेभ्योऽ- कुरोत्पत्तिकारणमित्युपपद्यते बीजोपादाननियम इति ।। १८ ।। (५) ईश्वरोपादानताप्रकरणम् । अथापर आह-- १ अत्र ईश्वरोपादानताप्रकरणे वार्तिकतात्पर्ययोर्मतभेदो दृश्यते । जगत ईश्वर- कर्तृकत्वसाधनपरमिदमिति वात्तिकम्-वेदान्त्यभिमतेश्वरीपादानकारणत्वनिराकरण- परमिति तात्पर्यम् । 'पावादुकानां दृष्टयः प्रदर्घान्त' इति भाग्यावतरणिकां विभाव्य तात्पर्यव्याख्यानमेव सम्यक् प्रतिभाति, न्यायदर्शनप्राणभूतस्येश्वरकर्त्तकत्वस्य प्रावादुक- दृष्ट्यभिधानामुम्भवात्। किन्तु कुत्राप्यन्यत्र सूत्रकारेणेश्वरकतकत्वं जगतां नैवोपपादितमिति विभा- व्यैव वार्तिककृत उक्तावतरणिकाभाष्यव्याख्यानावसर उक्तवन्तः-'अत्र कानिचिद् दर्शनानि प्रतिषिध्यन्ते कानिचिदभ्युपगम्यन्ते' इति । अभ्युपगम्यते विदमेवेश्वरकर्तृ- कन्वदर्शनं तन्मतेनेति विचारणीयम् । ईश्वरकर्त्तकत्वस्य न्यायदर्शनप्राणभूतत्वाद्वार्तिक- कारीयमेव व्याख्यानमत्र प्रधानतयोपन्यस्यते । किन्तु तात्पर्यकृतो व्याख्यानमेव सूत्रभाष्याक्षरानुकूलमिति तदपि नोपेक्षणीयमिति तदपि लिख्यते । एवं च ईश्वरः कारणमिति सूत्रे (१९) सिद्धान्तस्यैवोपक्रमः-तत्राक्षेपः, न पुरुषकर्मेति सूत्रे (२०) । तत्परिहारस्तत्कारित्वादिति सूत्रे (२१) इति वार्तिकव्याख्यानम् । ईश्वरः कारणमित्यत्र सूत्रे (१६) वेदान्तिकृतेश्वरोपादानकारणत्वपूर्वपक्ष:- न पुरुषकर्मेति सूत्रे (२०) पूर्वपक्षभूतवेदान्त्यभिमतोपादानकारणत्वानपेक्षनिमित्त- कारणत्वनिरासः-तत्कारितत्वादिति सूत्रे (२१) ईश्वरस्य निमित्तकारणत्वसिद्धान्तो- पन्यासः इति तात्पर्यव्याख्यानमिति विवेचनोयम् । अत्र प्रमझे ईश्वरस्य निमित्तकारणत्वं प्राचीनतमन्यायाचार्याणामभिमतं न वेत्येतदपि विचारमहति । तृतीयाध्यायद्वितीयाह्निकगत- ६६ )-सूत्रवार्तिके सर्गा- देरनभ्युपगमादित्युक्तम्-तदेवपुनरत्रत्य (२१) सूत्रवार्तिके । एवं सर्गादेरनभ्युपगमात् सर्गस्य निमित्तकारणस्य कोपयोगः। तथा चेश्वरः केवलं नियन्तैवेति न्यायमतं प्रतिभाति । भाष्यकारोऽप्यग्रे ईश्वरो द्रष्टा बोद्धा सर्वज्ञातेत्येवोक्तवान् , न पुनः कर्ता स्रष्टा वेति। २ ईश्वरककत्वसिद्धान्तोपन्यासमवतारयति-अथापर इति । न परः 'अपरः' स्वयूथ्यो नैयायिक इति यावदिति वार्त्तिकाभिमतं व्याख्यानम्। तात्पर्यव्याख्याने त्वीश्वरोपादानवादी वेदान्त्येव 'अपरः' ।

खद्योतसहितन्यायसूत्रभाष्ये [ अ०४, आ०१, सू०१९- ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ।। १९ ।। पुरुषोऽयं समीहमानो नावश्यं समीहाफलं प्राप्नोति। तेनानुमीयते- पराधीनं पुरुषस्य कर्मफलाराधनमिति । यदधीनं स ईश्वरः। तस्मादीश्वरः कारणमिति ॥ १९॥ नं, पुरुषकाभावे फलानिष्पत्तेः ॥ २० ॥ " ईश्वराधीना चेत्फलनिष्पत्तिः स्यादपि तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्यतेति" |॥२०॥ १ सिद्धान्तेनैवोपक्रमते-ईश्वर इति । ईश्वर एव निरपेक्षः इरीरादेः निमित्त- कारणम् । कुतः ? पुरुषकर्मणां प्रयत्नानां बहुधा नैष्फल्यदर्शनात् । २ ननु जीवा एव चेतनास्तत्कर्मनिबन्धनो नामरूपप्रपञ्चो भविष्यति-कृतमत्र भगवतेश्वरेणेत्यत आह - पुरुषकाफल्यदर्शनात् । पुरुषश्वेश्चेतयते नैवं निष्फलं कर्मार- भेत । निष्फलं विद्वान् प्रवर्त्तमानः कथं चेतनो नाम । तस्मात्पुरुषकर्माफल्य दर्श- नादीश्वर एवोपादानमिति सर्वमवदातम्-इति पूर्वपक्षः । ३ सूत्रं व्याचष्टे-पुरुषोऽयमिति । 'समीहा' प्रयत्नः । तात्पर्यपरिशुद्धिप्रकाशकाराणां तु मतेऽत्र सूत्रे वेदान्तिनाम्पूर्वपक्ष एवोद्भावितः। स चैवमुल्लसति-माभूदयं नामरूपप्रपञ्चः शून्यतोपादानोऽपि तु ब्रह्मोपादानो भविष्यति । ब्रह्मैव प्रपञ्चरूपेण परिणमते-मृत्तिकेव घटशरावादिभावेन । न चैवं नित्यत्वव्याघातः, परिणामेऽपि तत्त्वानपायात् , तल्लक्षणत्वाच्च नित्यतायाः। एतदेकं दर्शनम्परिणामवादिनाम् । अपरं च विवर्त्तवादिनाम्-यथा-ब्रह्मैवानाद्यविद्योपधानभेदान्नामरूपप्रपञ्चभेदेन विवर्त्तते-मुखमिवैकमनेकमणिकृपाणादर्शभेदान्कविधप्रतिबिम्बभेदेनेति । तदेत- दर्शनद्वयमनेन सूत्रेण सूचितम् । 'ईश्वरो' ब्रह्म, इंशनायोगात् । ' इंशना' च चेतनाशक्तिः, क्रियाशक्तिश्च । सा चास्ति ब्रह्मणोति ब्रह्म 'इंश्वरः' । स एव 'कारणं' जगतः । न चाभावो वा प्रधान वा परमाणवो वा चेतयन्ते । ४ (वार्तिकव्याख्यानेन) सिद्धान्तमाक्षिपति-न पुरुषकमैति- ईश्वरस्य निमि- त्तकारणत्वं 'न', कुतः ? यतः पुरुषप्रयत्नाभावे किमपि फलं न निष्पद्यत इत्यर्थः । ५ सूत्रं व्याचष्टे-ईश्वरेति । यदि निरपेक्ष एवेश्वरः कारणं तर्हि पुरुषप्रयत्नमन्तरे- णापि कर्मनिष्पत्तिसम्भवः । ततश्च कर्मलोपोऽनिर्मोक्षश्च-ईश्वरस्यैकरूपस्यैकरूपाया एव क्रियायाः सम्भवात् । अथेश्वरः कारणभेदानुविधानेन कार्य निर्वर्त्तयति- यदपेक्षते तन्न करोतीति प्राप्तम् । एवं कर्मापेक्षश्चेदीश्वरो जगदुत्पत्तिकारणं स्यात् कर्मणीश्वरो नेश्वरः स्यादित्याक्षेपाशयः।

-सू. २१] चतुर्थाध्याये प्रथमाह्निके एकविंशतितमं सूत्रम् तत्कारितत्वाइहेतुः ।। २१॥ पुरुषकारनीश्वरोऽनुगृह्णाति । फलाय पुरुषम्य यतमानम्येश्वर: फलं सम्पादयतीति । यदा न सम्पादयति तदा पुरुपकर्माफलं भवतीति । तस्मादी- श्वरकारितत्वादहेतु:-'पुरुषकर्माभावे फलानिष्पत्ते रिति ! तात्पर्यव्याख्यानं यथा- न तावन्मृत्तिकेव नामरूपग्रपञ्चरूपेण ब्रह्म परिणमते । तद्धि सर्वात्मना वा परिणमते एकदेशेन वा। तत्र सर्वात्मना परिणामे तत्वविघाताद- नित्यत्वम् । एकदेशेन परिणामे सावयवत्वात्तदेवानित्यत्वम् । न च निरंशे स्वसंवेदन- प्रत्यक्षे ब्रह्मणि तत्स्वरूपाग्रहः सामान्य ग्रहो वा भवति । तस्मादीश्वरो जगद्देदेन परिणमते विवर्त्तते वेत्ययुक्तम् । निमित्तं तु स्यादीश्वरो जगतः। स चेदनपेक्ष एव जगत्कारणमित्युच्येत तत्रेदमुपतिष्ठते--न पुरुषकर्माभाव इति सूत्रम् । -- १ आक्षेपं परिहरति (वार्त्तिकव्याख्याने)-तदेवमीश्वरोपादानत्वं ब्रह्मविवर्त्तत्वं च निरपेक्षेश्वरनिमित्तस्वं च प्रत्याख्यायाभिमतं पक्षं गृह्णाति (तात्पर्यव्याख्याने )- तत्कारितस्वादिति सूत्रम् । सिद्धान्तोपवर्णनपरमिदमित्यत्र सर्वेषां सम्मतिः । 'ईश्वर- कारितस्वात् पुरुषकारस्य तत्सहाय एवेश्वरो जगतो निमित्तकारणम् ' - इत्यस्य पक्षस्य निराकरणे ‘पुरुषकर्माभावे फलानिष्पत्तेः' इति 'अहेतुः' असाधनमिति सत्रार्थः । २ सूत्रं व्याचष्टे-पुरुषकारमिति । 'पुरुषकारमिति' पुरुषस्य प्रयत्नमिति यावत् । ३ अनुगृह्णातीति-यत्कर्म यथाभूतं यस्य कर्मणो यदा विपाककालस्तत् तथा तदा विनियुक्त इत्यर्थः । ४ तदेव स्पष्टयति-फलायेति । ५ कथं तर्हि पुरुषकाफल्यमित्यत आह-यदेति । ईश्वरानुग्रहाभाव एव कर्मनैष्फल्ये हेतुरित्यर्थः । ६ सूत्रार्थमुपसंहरति-तस्मादिति। परमाणुपादानस्य जगतः पुरुषकर्मापेक्ष ईश्वरो निमित्तम् । यच्च तेनापेक्षणीयं पुरुषकर्म तदपीश्वरनिमित्तकमेव । न च यदपेक्षते तत्तस्यानिमित्तम्-वास्यादेस्तक्षसहकारिणस्तक्षनिमित्तकत्वदर्शनात् । तस्मादीश्वरकारितत्वात्पुरुषकारस्य तत्सहाय ईश्वरो निमित्तकारणं जगत इत्यस्य पक्षस्य निराकरणे 'पुरुषकर्माभावे फलानिष्पत्ते' रित्यहेतुः । निरपेक्षेश्वरनिमित्तस्व- निराकरणे तु भवेदेवायं हेतुरिति निर्गलितोऽर्थः ।

२५२ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू.२१-- -- . गुणविशिष्टमात्मान्तरमीश्वरः। तस्यात्मकल्पात् कल्पान्तरानुपपत्तिः । अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टमात्मान्तर- माश्वरः । तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । सङ्कल्पातु- विधायी चास्य धर्मः । प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्तयति । एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यमीश्व- रस्य स्वकृतकर्मफलं वेदितव्यम् । १ ईश्वरनिमित्तकत्वं जगतो विचार्याधुना 'ईश्वर एव क' इत्यपेक्षायामीश्वरं परिचाययति-गुणविशिष्टमिति । जीवात्मभ्योऽन्य इत्यात्मान्तरम् परमात्मेति यावत्। स च गुणैर्विशिष्टः । ते च गुणाः-सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धय एवेति वार्तिकम् । तत्र तात्पर्यम्-बुद्धिवदिच्छाप्रयत्नावष्यस्य नित्यौ तस्कर्तृत्वसाधनान्तर्गती मन्तब्यौ, ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात्कर्तृत्वस्येति । २ नन्वात्मानः सर्वेऽनित्यज्ञानयोगिन एव दृष्टास्तद्वैलक्षण्येन नित्यज्ञानयोगी परमात्मा नात्मजातीयो भवितुमहतीत्यत आह-तस्यात्मेति । आत्मकल्पात् आत्मजातीयादिति यावत् । इदमत्राकूतम् । यद्यप्यात्मान्तराण्यनित्यज्ञानयोगीनि- अयं च नित्यबुद्ध्यादियुक्तः- तथाऽप्यात्मजातीय एव बुद्ध्यादिगुणयोगित्वात् । अन्यथा तोयादिपरमाणूनामतोयादिप्रसङ्गो नित्यरूपादियोगात् । ३ ननु सामान्यत आत्मकोटावेव किमित्ययं न निवेश्यते-किमर्थं चास्या- त्मभ्योऽन्यत्वं वर्ण्यत इत्यत आह-अधर्मेति । आत्मत्वसामान्येऽपि ईश्वरस्य महान् भेदो लक्ष्यतेऽस्य गुणानामात्मान्तरगुणेभ्यः। तथा हि जीवात्मनः स्वधर्मोऽज्ञानं प्रमादश्च-एतेषां तु परमात्मनीश्वरे ‘हानिः' अभावः प्रत्युतास्मिन् धर्मों ज्ञान समाधिश्चेत्येतेषां गुणानां सम्पत्तिलक्ष्यते। एतदेव च वैशिष्टयम्-वैलक्षण्यम् - अस्य जीवात्मभ्य इत्यर्थः। ४ ईश्वरे धर्मादिगुणयोगम्श्रदर्शयति-तस्य चेति । अणिमा--महिमा- लधिमा -गरिमा-प्राकाम्यम्-ईशित्वम्-प्राप्तिः- वशित्वमिति सिद्ध्यष्टकमीश्वरस्य तत्का- रणीभूतधर्मस्यास्तित्वं सूचयतीत्यर्थः । अभ्युपेत्येश्वरे धर्ममेतदुक्तं भाष्यकृता - परमार्थ- तस्वीश्वरस्य धर्मसद्भावे प्रमाणं नास्ति-नित्याभ्यामेव ईश्वरीयज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पत्तिसिद्धेरिति वार्तिकतात्पर्ययोः स्पष्टम् । ५ नन्वीश्वरस्य कर्मानुष्ठानाभावात् कुतोऽस्य धर्म:-तथा चाणिमादिकमस्यै- श्वयं कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग इत्यत आह-सङ्कल्पेति । ६ तदेव विशदयति-प्रत्यात्मेति । ७ मा भूद्वाह्यानुष्ठानसीश्वरस्य, सङ्कल्पलक्षणं जीवात्मपृथिव्यादिप्रवर्तनरूपं चानुष्ठानं तस्य भवत्येव, तजनितस्यैव धर्मस्य फलमस्यैश्वर्यादिकम्भवतीति नाकृता- ।

-- चतुर्थाध्याय प्रथमाह्निक एकविंशतितमं सूत्रम् आम्रकल्पश्चायम् यथा पिताऽपत्यानां तथा पितृभूत ईश्चरो भृतानाम् । न चात्मकल्यादन्यः कल्यः सम्भवति । न ताबदल्य बुद्धिं बिना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम् । आगमाच द्रष्टा बोद्धा सर्वज्ञाना-ईश्वर इति : बुद्धयादिभिश्चात्मालेङ्गनिरुपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं-प्रतिषेधजातमकर्म- निमित्ते शरीरसगै-तत्सर्व प्रमज्यत इति ॥ २१ ॥ भ्यागमप्रसङ्गः । किमायातमनेनेश्वरस्य जगकर्तृत्व इत्यत आह-निर्माणमाकाम्यमिति। जगन्निर्माणशक्तिरप्यस्य धर्मफलमेवेत्यर्थः । ईश्वरस्य ज्ञान क्रियाशकी नित्ये इत्यश्वर्य नित्यमणिमादिकं त्वनित्यम् । तदभिप्रायं च भाग्यस्य धर्मफलत्वाभिधानम् । अत एवैश्वर्यनित्यत्वे धर्मवैयर्थ्यन्तदनित्यत्वे तत्कारणकल्पनयाऽनवस्थेति चोद्यस्य नावकाशः । प्रत्यात्मवृत्तिधर्माधर्मसन्निचयाधिष्टानं सङ्कल्पानुविधायिन ईश्वरधर्मस्य प्रयोजनम् । १ ननु प्रयोजनं विना प्रेक्षावतां न प्रवृत्तिः । न च प्राप्त सकलप्राप्तव्यस्यास्ति प्रापणीयं किञ्चिदीश्वरस्य । तस्मात् कृतमस्य जगन्निर्माणेनेत्यत आह-आप्तकल्प इति । मा भूदस्य भगवतः स्वार्थः परानुग्रहार्थमेव जगन्निर्माणे प्रवर्तत इत्यर्थः । २ पूर्वमुक्तमेवेश्वरस्यात्मजातीयत्वं पुनढयति-न चात्मेति। आत्मजातीय एवेश्वरो नान्यजातीय इत्यर्थः । ३ कथमेतदित्यत आह-न तावदिति । ४ स्यादेतत् यदि कारुण्यादीश्वरो जगन्निर्माणे प्रवर्तेत सुखिनमेव सृजेन्न दुःखिनम् । न च क्षेत्रगतधर्माधर्मसहकारितया निर्माणवैचित्र्य वाच्यम् , धर्मस्य तदनधिष्टितस्य स्वकार्याकरणेन कारुणिकेन तदधिष्टानायोगात्। अतः सुखिदुःख्या- दिभेदेन जगद्वैचित्र्यदर्शनान्नानुकम्पाप्रयुक्त ईश्वरः करोतीत्यत आह-स्वकृताभ्यागमेति । अयमभिसन्धिः-कारुणिकोऽप्ययमात्मान्तरातिशयितमहिमाऽपि न वस्तूनां सामर्थ्य- मन्यथाकत्तुं पारयति । तस्मादधर्मेणोत्पत्तिमतापि नेश्वरप्रभावादपि नित्येन भवितुं युक्तम् । न च स्वफलविरोधिना फलमप्रदाय विनष्टुमपि शक्यम् । अतः क्षेत्रज्ञानां नियतिमलङ्घयतेश्वरेण नाधर्मः शक्योऽनधिष्ठातुम् । तस्मात् कारुणिकोऽप्ययं वस्तु- स्वभावमनुविधीयमानो धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते इति सर्वमधिकृत्याह- स्वकृताभ्यागमलोपेन च प्रवर्त्तमानस्येति। पुरुषैर्यत् कृतं तत्फलाभ्यागमलोपेन प्रवर्त्त- मानस्येत्यर्थः । यदि तथाप्रवृत्तिरीश्वरः स्यात्तर्हि अकर्मनिमित्तसर्गपक्षे ये दोषा उक्ता- स्तृतीयाध्यायाद्याह्निकस्यान्ते ते सर्व एव प्रसज्येरन्नित्यर्थः ।

२५४ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०२२- १ (६) आकस्मिकत्वप्रकरणम् । अपर इदानीमाह- " अनिमित्ततो भावोत्पत्तिः कण्टकतैक्षण्यादिदर्शनात् ॥२२॥ "अनिमित्ता शरीराद्युत्पत्तिः । कस्मात् ? कण्टकतैक्ष्ण्यादिदर्शनात् । यथा कण्टकस्य तैष्ण्यम् , पर्वतधातूनां चित्रता, ग्राणां लक्षणता, निर्निमित्त चोपादानवच्च दृष्टं तथा शरीरादिसर्गोऽपीति" ॥ २२ ।। अनिमित्तनि ित्तत्वान्नानिमित्ततः ॥ २३ ॥ अनिमित्ततो भावोत्पत्तिरित्युच्यते । यतश्चोत्पद्यते तन्निमित्तम् । अनि- मित्तस्य निमित्तत्वान्नानिमित्ता भावोत्पत्तिरिति ॥ २३ ॥ निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥ २४ ॥ अन्यद्धि निमित्तमन्यच निमित्तप्रत्याख्यानम् । न च प्रत्याख्यानमेव प्रत्याख्येयम् । यथाऽनुदकः कमण्डलुरिति नोदकप्रतिषेध उदकं भवतीति । सं १ इदानी व्यक्ताद् व्यक्तनिष्पत्ति निराकर्तुमाकस्मिकवादं गुडजिढिकया शरीरादौ निमित्तकारणनिराकरणमुखेन चार्वाक उपतिष्टत इति परिशुद्धिकृतः। अत्र कारणमात्रनिरासे तात्पर्यमिति वर्धमानोपाध्यायाः। यदि कार्याणामाकस्मिकत्वं तदा न परमाण्वादीनामुपादानत्वं न वेश्वरस्य निमित्तत्वम् । अत आकस्मिकत्वनिराकरण- प्रकरणमारभते इति वृत्तिकृतः। २ आकस्मिकवादमवतारयति-अपर इति । अपरोऽत्र चार्वाकः । ३ भ्रान्त एकदेशी पूर्वपक्षं दूषयति-अनिमित्तनिमित्तत्वादिति सूत्रम् । अनिमित्ततो भावोत्पत्तिरित्यभ्युपगच्छन् भवान् अनिमित्तस्यैव तदुत्पत्तिनिमित्तताम- भ्युपगच्छति । तथा चानिमित्ता भावोत्पत्तिरिति रिक्तं वच इत्यर्थः । ४ सूत्रार्थ विवृणोति-अनिमित्तत इति । व्याख्यातार्थमेतत् । ५ एकदेशिदूषणं दूषयति-निमित्तानिमित्तयोरिति सूत्रम् । ६ नदयं विवृणोति-अन्यद्वीति । अनिमित्तमेव निमित्तन्न भवितुमहतीत्यर्थः । ७ आकस्मिकवादस्य दूषणं स्वयमेव भाष्यकार आह-स खल्वयमिति । तृतीयाध्यायान्तिमप्रकरणे योऽकर्मनिमित्तकशरीरसर्गवादो निराकृतस्तत्समानक्षेमत्वा- दाकस्मिकवादस्य तन्निरासेनैवायमपि निरस्तो मन्तव्य इत्यर्थः । अस्मादेव कारणा- सूत्रकारेणास्याकस्मिकवादस्य निरासे पृथक् प्रयत्नो न कृत इत्यपि सूचितम् । त्रयोविंशचतुविशस्त्रयोर्व्याख्यानान्तरमप्युपन्यस्तं वृत्तिकृता । तद्यथा-नव्यास्तु सूत्रद्वयीमेवं व्याचक्षते । द्वाविंशसूत्रगतमाक्षेपं समाधत्ते-अनिमित्तेति (सू०.२३)।

चतुर्थाध्याये प्रथमाह्निके षड्विंशतितमं सूत्रम् खल्वयं वादोऽकर्मनिमित्तः शरीरादिसर्ग इत्येतम्मान्न भिद्यते । अभेदात्तत्प्रति- पेधेनैव प्रतिषिलो वेदितव्य इति ॥ २४ ॥ (७) सर्वानित्यत्वनिराकरणप्रकरणम् । अन्य तु मन्यन्ते- सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् " ॥ २५ ॥ किमनित्यं नाम ? यस्य कदाचिद्भावस्तदनित्यम् । उत्पत्तिधर्मक- मनुत्पन्नं नास्ति, विनाशधर्मकं च विनष्टं नास्ति । किं पुनः सर्वम् ? भौतिक च शरीरादि अभौतिकं च बुद्धयादि। तदुभयमुत्पत्तिविनाशधर्मकं विज्ञायते । तस्मात्तत्सर्वमनित्यमिति" ॥ २५ ॥ नानित्यतानित्यत्वात् ॥ २६॥ यदि तावत्सर्वस्यानित्यता नित्या?-तन्नित्यत्वान्न सर्वमनित्यम् । अथा- नित्या?-तस्यामविद्यमानायां सर्वं नित्यमिति ॥ २६ ॥ अनिमित्तस्य' अनिमित्तत्वसाधकस्य 'निमित्तत्वात्' अनिमित्तत्वानुमितिजनकत्वात् ' अनिमित्तत' इति व्याहतम् । अनिमित्तत्वानुमितिजनकत्वानभ्युपगमेऽनिमित्तत्वं न सिध्येदिति कण्टकतैक्ष्ण्यादिकम् नानिमित्तकम्-अदृष्टविशेषसहकृतैरणुभिस्त- दुत्पादनादिति हृदयम् । दोषान्तरमाह-निमित्तेति ( सू० २४)। इदमन निमित्त- मिदमनिमित्तमिति प्रतीत्या तयोर्भेदसिद्धेनिमित्तप्रतिषेधो न युक्तः। इतरथा च सार्वलौकिकी प्रतीतिनोपपद्यतेति भावः । १ कारण सामग्री किमनित्यानामेव पदार्थानां समुच्चयोऽथवा नित्यानामुत नित्यानित्यानामितीदानी विचारणा। प्रथमद्वितीयपक्षयोरभिमतः प्रेत्यभावो न सिद्धयति । ततस्तो निराकरणीयौ। तत्र प्रथमं निराकर्तुमिदं प्रकरणम् । न च क्षणभङ्गनिराकरणेवैतद्गतम्-स्थैर्यमाश्रित्य पुनरारम्भादिति परिशुद्धिकृतः । सर्वस्यैवानित्यत्वे आत्मादेरपि नित्यत्वं न स्यादतः सर्वानित्यस्वनिराकरणप्रकरण- मिति वृत्तिकृतः। एवं च पृथिव्यादिपरमाणवोऽनित्याः भौतिकत्वात् , शरीरवत्-आत्मा चानि- त्योऽभौतिकत्वात् , बुद्धिवदिति पूर्वपक्षहृदयम् । २ पूर्वपक्षमेकदेशिमतेन परिहरति-नानित्यतेति । यदुक्तं सर्वमनित्यमिति, तन्न, कुतः ? अनित्यताया एव नियत्वादित्यर्थः । उत्पत्तिमत्त्वं न विनाशित्वसाधकम्-ध्वंसस्य नित्यत्वात्तत्र व्यभिचारादिति हृदयम् । , खद्योतसाहितन्यायसूत्रभाष्ये [अ०४, आ०१, सू० २७- , तदनित्यत्वमग्नेह्यं विनाश्यानुविनाशवत् ॥ २७॥ तस्या अनित्यताया अप्यनित्यत्वम् । कथम् ? यथा अग्निर्दाह्यं विना- श्यानुविनश्यति एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति ॥ २७ ।। नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् ॥ २८॥ अयं खलु वादो नित्यं प्रत्याचष्टे। नित्यस्य च प्रत्याख्यानमनुपपन्नम् । कस्मात् ? यथोपलब्धिव्यवस्थानात्। यस्योत्पत्तिविनाशधर्मकत्वमुपलभ्यते प्रमाणतस्तदनित्यं, यस्य नोपलभ्यते तद्विपरीतम् । न च परमसूक्ष्माणां भूता- नामाकाशकालदिगात्ममनसां तद्गुणानां च केषाञ्चित्सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते । तस्मान्नित्यान्येतानीति ॥ २८ ॥ (८) सर्वनित्यत्वनिराकरणप्रकरणम् । अर्थमन्य एकान्तः- " सर्वं नित्यं पञ्चभूतनित्यत्वात् " ॥ २९ ॥ भूतमात्रमिदं सर्वम् । तानि च नित्यानि-भूतोच्छेदानुपपत्तेरिति । ।।२९।। नोत्पत्तिविनाशकारणोपलब्धेः ॥३०॥ उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च । तत् सर्वनित्यत्वे व्याहन्यत इति ॥ ३०॥ तल्लक्षणावरोधादप्रतिषेधः " ॥ ३१॥ ५ एकदेशिमतं दूषयति-तदनित्यत्वमिति सूत्रम् । २ एकदेशिमतं निरस्य परमसिद्धान्तमुपक्रमते-नित्यस्येति सूत्रम् । नित्यत्वस्थ सर्वथा प्रत्याख्यानं न युक्तम् , कुतः ? यथा यदुपलभ्यते तथैव तस्य नित्यत्वम- नित्यत्वं व्यवस्थापनीयमित्यर्थः । ३ सर्वनित्यत्वेऽपि न प्रेत्यभावसिद्धिरिति तन्निराकरणप्रकरणारम्भः । ४ सर्वनित्यतावादमवतारयति-अयमिति । ५ एकान्त इति-सर्वपदार्थपक्षकप्रतिज्ञावाक्यमित्यर्थः । ६ सिद्धान्तमाह-नोत्पत्तीति सूत्रम् । यदुक्तं तन्न, कुतः? यतो बहूनां भूतानामुत्पत्तिविनाशकारणान्युपलभ्यन्त इत्यर्थः । ७ भूतसारूप्येण तादात्म्यम्मन्यमानः पुनरपि पूर्वपक्षवाद्याह-तल्लक्षणेति 'तल्लक्षणावरोधात्' भूतलक्षणाक्रान्तत्वाद् गोघटादीनाम्-'भूतानां च' नित्यत्वात्-'अप्रतिषेधः' गोषटादिनित्यत्वस्येत्यर्थः । सूत्रम ।

-सू. ३२] चतुर्थाध्याये प्रथमाह्निके द्वात्रिंशत्तमं सूत्रम् २५७ " यस्योत्पत्तिविनाशकारणमुपलभ्यत इति मन्यसे, न तद्भूतलक्षण- हीनमर्थान्तरं गृह्यते। भूतलक्षणावरोधाभूतमात्रमिदमित्ययुक्तोऽयं प्रतिषेध इति" ।। ३१ ।। नोत्पत्तितत्कारणोपलब्धेः॥३२॥ कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते । न चैतदुभयं नित्य- विषयम् । न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुम् । न चाविषया काचिदुपलब्धिः । उपलब्धिसामर्थ्यात्कारणेन समानगुणं कार्यमुत्पद्यत इत्य- नुमीयते । स खलूपलब्धेविषय इति । एवं च तल्लक्षणावरोधोपपत्तिरिति । उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो इष्ट इति । प्रसिद्धश्चावयवी तद्धर्मा। उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति । शब्दकर्मवुद्धयादीनां चाव्याप्तिः। पञ्चभूतनित्यत्वात्', 'तल्लक्षणावरोधा'- चैत्यनेन शब्दकर्मबुद्धिसुखदुःखेच्छा द्वेषप्रयत्नाश्च न व्याप्ताः, तस्मादनेकान्तः । " स्वप्नविषयाभिमानवन्मिथ्योपलब्धिरिति चेत् --भूतोपलब्धौ तुल्यम् । यथा स्वप्ने विषयाभिमान एवमुत्पत्तिविनाशकारणाभिमान इति”। एवं चैतद्भूतोपलब्धौ तुल्यं-पृथिव्याद्युपलब्धिरपि स्वप्नविषयाभिमानवत् प्रसज्यते। १ पूर्वपक्षिण उक्तिं परिहरति-नोत्पत्तीतिसूत्रेण । यदुक्तं तन्न-कुतः यतो गोघटादीनामुत्पत्तिस्तदुत्पत्तिकारणं चोपलभ्यते, तस्मादनित्यान्येवैतानीति मन्तव्यम् । गोषटादीनां भूतसारूप्यं भूतकार्यत्वेऽप्युपपद्यमानं न भूतात्मकत्वं भूतवन्निस्यत्वं वाs- वगमयतीत्याशयः। २ स्वपक्षसाधकमनुभवान्तरमाह-उत्पत्तिविनाशेति । यदि भावानामुत्पत्ति- विनाशौ न वस्तुसन्तौ तर्हि प्रेक्षावतामभिमतवस्तूत्पत्तिकारणासादनायानभिमत- वस्तुविनाशकारणासादनाय च तदर्थिनां प्रवृत्तिनैव स्यादित्यर्थः । ३ उपपश्यन्तरमाह-प्रसिद्ध इति । यः कश्चिदवयवी स सर्व एवोत्पत्तिवि- नाशधर्मेति सार्वजनीनोऽनुभव इत्यर्थः । ४ परोक्तस्य हेतुद्वयस्याव्यापकत्वं प्रदर्शयति-शब्दकति । अनाव्यापक एवानैकान्त उक्तः। पक्षो हि सर्व नित्यमिति-तस्मिन् पक्षे उक्तहेतुद्वयस्य सत्वमप्युपलभ्यते (पृथिव्यादौ), असत्त्वमप्युपलभ्यते (शब्दादौ)- तस्मादयं हेतुरनेकान्तः-' अनेकः' सत्यासत्वलक्षणः 'अन्तः' अवस्था यस्य स इत्यर्थः। न्या. सू. १७ ..

.. खद्योतसहितन्यायसूत्रभाष्ये [अ०४,आ० १, सू०३३ - .. पृथिव्याधभावे सर्वव्यवहारविलोप इति चेत् "-तदितरत्र समानम् । उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्यभावे सर्वव्यवहारविलोप इति । सोऽयं नित्यानामतीन्द्रियत्वादविषयत्वाञ्चोत्पत्तिविनाशयोः-स्वप्नविषयाभिमानवादिति- अहेतुरिति ॥ ३२ ।। "अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते, धर्ममात्र मुपजायते । स खलुत्पत्तिविनाशयोविषयः । यच्चोपजायते तत्प्रागप्युपजन नादस्ति, यञ्च निव- तते तन्निवृत्तमप्यस्तीति । एवं च सर्वस्य नित्यत्वमिति” । न व्येवस्थानुपपत्तेः ॥३३॥ १ तदेवं साङ्ख्यानां मतमपास्य स्वायंभुवानां मतं दूषयिष्यन् तन्मतेन सिद्धा- न्त्युपन्यस्तोत्पत्तिविनाशयोरन्यथोपपत्ति प्रदर्श्य तत्साधकत्वमाक्षिपति-अवस्थित- स्येति । त्रिविधः खल्वयं धर्मिणः परिणामो धर्म-लक्षणा-ऽवस्थारूपः । तद्यथा- सुवर्णं धर्मि--तस्य वर्धमानरुचकादिधर्मपरिणामः । लक्षणपरिणामोऽनागतादिः । यदा खलु सुवर्णकारो वर्धमानकं भस्वा रुचकमारचयति तदा वर्धमानको वर्तमानलक्षणं हित्वाऽतीतलक्षणमापद्यते, रुचकस्त्वनागतलक्षणं हित्वा वर्तमानतामापद्यते। वर्तमानतामापन्न एव च च रुचको नवपुराणभावमापद्यमानोऽवस्थापरिणामवान् भवति । नवपुराणावस्थाश्च वर्तमानलक्षणाश्रया लक्षणपरिणामाः। सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च । धर्मिणोऽभिन्नाः सन्तो धर्मा अपि नित्याः । तस्माद्भिन्नाश्चोत्पत्तिनाशविषया अनिस्याः । तथा च नानाविधेषु परिणामेष्वेक एव धर्म्यनुवर्तते-एवञ्चावर्तमानो नित्य एवेति । ' अवस्थितस्य' नित्यस्य 'उपादानस्य' समवायिकारणस्य धर्ममात्रमुत्पद्यते नश्यति च-एवं च धर्ममात्रमुत्पत्तिनाशयोर्विषयो न वस्तुभूतो धर्मी गोघटादिः । अभ्युपेत्य- वादोऽयम् । वस्तुतस्तु धर्माणामपि नोत्पत्तिविनाशौ-प्रागुत्पत्तेरक्चि विनाशात् धर्मिरूपेण तेषां वर्तमानत्वादिति सर्वनित्यत्वं तदवस्थमेवेत्याक्षेपाशयः । २ उक्तं स्वायम्भुवानामाक्षेपं परिहरति-न व्यवस्थेति सूत्रम् । उपजनापाययोः स्वरूपतः कालतो विशेषतश्च सम्बन्धितोऽनागतत्वादिव्यवस्थानुपपत्तेरित्यर्थः । एतदुक्तं भवति । न तावद् भेदाभेदौ परस्परपरिहार-व्यवस्थितधर्मावकत्र समवेतौ । तस्मादुपजनापायव्यवस्थायै धर्मलक्षणावस्थानां धर्मिणो भेदमिच्छता तेषामनित्य- त्वमप्यभ्युपेतव्यमिति । बृत्तिकारमतेन तु उत्पादविनाशप्रत्ययस्य भ्रान्तत्वं स्यादित्याशङ्कयाह-न व्यवस्थेति सूत्रम् । सार्वलौकिकप्रमात्वेन सिद्धस्यापि भ्रमत्वशङ्कायां प्रमाभ्रम- म्यवहारविलोपः स्यादिति च तस्यार्थः । -- प्रथमाध्याये चतुर्थाह्निक चतुस्त्रिंशत्तमं सूत्रम् २५९ अयमुपजनः, इयं निवृत्तिरिति व्यवधा नोपपद्यते, उपजातनिवृत्तयोर्वि- द्यमानत्वात् । अयं धर्म उपजातोऽयं निवृत्त इति सद्भावाविशेषाव्यवस्था । इदानीमुपजननिवृत्ती, नेदानीमिति कालव्यवस्था नोपपद्यते, सर्वदा विद्यमान- त्वात् । अस्य धर्मस्योपजननिवृत्ती,नास्येति व्यवस्थानुपपत्तिः,उभयोरविशेषात् । अनागतोऽतीत इति च कालव्यवस्थानुपपत्तिः, वर्तमानस्य सद्भावलक्षणत्वात् । अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिरित्येतस्मिन् सति नैते दोषाः। तस्माद्यदुक्तं-प्रागप्युपजनादस्ति, निवृत्तं चारित-तदयुक्त- मिति ॥ ३३ ॥ (९) सर्वपृथक्त्वनिराकरणप्रकरणम् । अयमन्य एकान्त:- - सर्व पृथक् भावलक्षणपृथक्त्वात् ॥३४॥ "सर्वं नाना । न कश्चिदेको भावो विद्यते । कस्मान् ? भावलक्षण- पृथक्त्वात् । भावस्य लक्षणमभिधानम् । येन लक्ष्यते भावः स समाख्याशब्दः, तस्य पृथग्विषयत्वात्। सर्वो भावसमाख्याशब्द: समूहवाची। कुम्भे इति संज्ञा- १ उक्ता व्यवस्थाः सर्वा अपि सिद्धान्त उपपद्यन्त इति स्वपक्षे साधकमाह- अविद्यमानस्येति। २ एवं तावत गुणगुणि-भावाभाव-चेतनाचेतन-दृष्टादृष्ट-नित्यानित्यसमुच्चयः सामग्रीति समर्थितम् । इदानी समुच्चयविरुद्धोऽथों निराकर्तव्यः। स चैकत्वनिरा- करणवादः ( सू० ३४-३६), शून्यतावादः (सू० ३७-४०), सङ्ख्यैकान्तवादश्चेति (सू० ४१-४३) विधा । एकाभावे हि कस्य कः समुच्चयः ? एवमद्वैतवादेऽपि । तत्र सर्वाभावे शून्यतायां निरुपाख्ये जगति कः समुच्चयः ३ प्रथममेकत्वनिराकरणवादमुत्थापयति-अयमन्य इति । अयं वादो बौद्धा- नामिति तात्पर्यकृतः। ४ सर्वपृथक्त्ववादमाह-सर्व पृथगिति सूत्रम् । ' सर्व पृथक् ' घटादिकं स्वस्मा- दपि पृथक्-कस्मात् ? 'भावलक्षणपृथक्त्वात् ' भावलक्षणानां गन्धरसादीनां च पृथक्त्वात् , घटादेश्च तदभेदात्। न रूपाद्यतिरिक्त इव्यं नाम किञ्चिदस्ति । नाप्यवयवातिरिक्तः कश्चिदवयवीति सौत्रान्तिका वैभाषिकाश्च प्रतिपन्नाः । :: :: ५ कुम्भपददृष्टान्तेनैतत् सिद्धं यदेकवाचि किमपि पदं नास्ति । ततश्च सिद्धं, न किमप्येकमस्तीति पूर्वपक्षसङ्क्षपः । ? ? .

खद्योतसहितन्यायसूत्रभाष्ये. [अ०४, आ० १, सू०३५ - " . शब्दो गन्धरसरूपस्पर्शसमूहे बुनपाश्र्वग्रीवादिसमूहे च वर्त्तते । निदर्शन- मात्रं चेदमिति” || ३४ ॥ नानेकलक्षणैरेकभावनिष्पत्तेः ॥ ३५॥ अनेकविधलक्षणैरिति । मध्यमपदलोपी समासः । गन्धादिभिश्च गुणैर्बुध्नादिभिश्चावयवैः सम्बद्ध एको भावो निष्पद्यते । गुणव्यतिरिक्तं च 'द्रव्यमवयवातिरिक्तश्चावयवीति । विभेक्तन्यायं चैतदुभयमिति ।। ३५ ।। अथापि--- लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ३६॥ न कश्चिदेको भाव इत्ययुक्तः प्रतिषेधः । कस्मात् ? लक्षणव्यवस्थानादेव'। यदिह लक्षणं भावस्य संज्ञाशब्दभूतं तदेकस्मिन्व्यवस्थितं-यं कुम्भमद्राक्षं तं स्पृशामि, यमेवारप्राक्षं तं पश्यामीति । नाणुसमूहो गृह्यत इति । अणुसमूहे चागृह्यमाणे यद्गृह्यते तदेकमेवेति । अथाप्येतदनूक्तं- " नास्त्येको भावो यस्मात्समुदायः । एकानुप- १ पूर्वपक्षं निरस्यन् सिद्धान्तमाह-नानेकेति सूत्रम् । यदुक्तं तन्न, कुतः ? यतः अनेकैः ‘लक्षणैः' भावैः एकस्यैव भावस्य तत्समष्टयात्मकस्य निप्पत्तिर्भवति, गुणा- नामाश्रयोऽवयवैरारब्ध एक एवावयवीति भावः । तथा चोक्तं वृत्तिकृता-एकस्य धर्मिणः प्रत्यक्षादिप्रमाणसिद्धत्वात्, तस्य च चाक्षुषत्वरासनत्वादिविरुद्धधर्माध्यस्तरूपरसाद्यात्मकत्वाभावात् , अवयवानां च कारण- स्वान् , कार्यकारणयोरभेदासम्भवाचन तत्तदात्मकत्वं घटादेः सम्भवतीति भावः । २ ननु गुणातिरिक्तत्वमवयवातिरिक्तत्वं च किं तव वाङ्मात्रेण सिद्धं भवती- त्यत आह-विभक्तेति । उभयमप्येतत्-गुणातिरिक्तं गुणाश्रयो द्रव्यमवयवातिरिक्तोऽ- वयवीत्युभयमपि-'विभक्तन्यायम्'-'विभक्ताः' सुस्पष्टं व्युत्पादिता *यायाः' हेतवो यस्य तत्तथाभूतम् । साधितावेवार्थाविमौ प्राक् द्वितीयाध्यायगतद्वितीयाह्निकस्थत्रय- स्त्रिंशादिसूत्रैरतो नात्र पुनः प्रपञ्चते तत्साधनमित्याशयः । ३ पूर्वपक्षनिरासे हेस्वन्तरमवतारयति-अथापीति । अपि चेत्यर्थः । ४ दूषणान्तरमभिधास्यन् पूर्वपक्षतात्पर्यमनुवदति-अथाप्येतदिति । ५ अनुक्तमिति । भावलक्षणपृथक्त्वादिति हेतुमुक्त्वा पश्चादपरं हेत्वन्तरमुच्यत 'इत्यर्थः। ६ तदेव हेत्वन्तरमनुवदति-नास्त्येक इति । धटादिरेको भावो नास्ति किन्व- नेकगुणानामनेकावयवानां च समुदायरूप एवासावित्यर्थः । .. तन्निराकरोति-एकानुपपत्तेरिति । समुदायोऽपि बहुभिः प्रत्येकं भिरेव समुदायिभिः संपद्यतेऽतो यदि एकः कश्चिन्नास्ति तर्हि समुदायस्याप्यभाव एवेत्यर्थः। . .

-सू. ३७] चतुर्थाध्याये प्रथमाह्निके सप्तत्रिंशत्तमं सूत्रम् २६१ ६ पत्तेर्नास्त्येव समूहः । " नास्त्येको भावो यस्मात्समूहे भावशब्दप्रयोगः " ! एकस्य चानुपपत्तेः समूहो नोपपद्यते-एकसमुच्चयो हि समूह इति ब्याहेतत्वा- दनुपपन्न-नारत्येको भाव-इति । यस्य प्रतिषेधः प्रतिज्ञायते-समूहे भावशब्द- प्रयोगात्-इति हेतुं ब्रुवता स एवाभ्यनुज्ञायते, एकसमुच्चयो हि समूह इति । समूहे भावशब्दप्रयोगादिति च समूहमाश्रित्य प्रत्येकं समूहिप्रतिषेधो-नास्त्येको भाव-इति । सोऽयमुभयतो व्याघाताद्यत्किञ्चनवाद इति ।। ३६ ॥ (१०) सर्वशून्यतानिराकरणप्रकरणम् । अयमपरं एकान्तः-- " सर्वमभावो भावेष्वितरेतराभावसिद्धेः" ॥३७॥ १ अनुक्तस्यैव पूर्वपक्षहेतोस्तात्पर्य स्फोरयति-नास्तीति । यस्माद्घटादि. संज्ञाशब्दो गुणानामवयवानां च समूहमेव वक्त्यतो नास्ति कश्चिदेको भाव इत्यर्थः । २ प्रागुक्तमेव दृषगं पुनराह-एकस्येति । उक्तार्थमेतत् । ३ ततः किमित्यत आह-व्याहतत्वादिति-एको भावो नास्ति-समुदाय- श्वास्तीति मिथो व्याहतं वच इत्यर्थः । ४ तदेव स्पष्टयति-यस्य प्रतिषेध इति । 'नास्त्येको भाव इति' यस्य भावस्यैकत्वप्रतिषेधः प्रतिज्ञायते स एवैको भावोऽभ्यनुज्ञायते ‘समूहे भावशब्द- प्रयोगात्' इति हेतुं ब्रुवतेत्यर्थः । ५ कथमभ्यनुज्ञायत इत्यत आह-एकेति । समूहो हि बहुभिरनेकैरेव सम्पा- दितो भवतीत्यतः समूह स्वीकुर्वता भावानां पृथक्त्वमेकत्वं च स्वीकृतं भवतीत्यर्थः । ६ एवं प्रतिज्ञया हेतोयाघातमुक्त्वाऽधुना हेतुना प्रतिज्ञाया व्याघातमाह- समूहे भावेति । 'समूहे भावशब्दप्रयोगादिति हेतुवाक्ये समूहोऽभ्युपगम्यते-अथ च नास्त्येको भाव इति प्रतिज्ञावाक्ये समूहगतसमूही प्रतिषिध्यते-प्रत्येकं सकल- समूहिप्रतिषेधश्च समूहस्यापि प्रतिषेधे पर्यवस्यतीत्यर्थः । ७ उपसंहरति-सोऽयमिति । उक्तव्याघातद्वयेन पराहतत्वादेकप्रतिषेधवादः सर्वथाऽनादरणीय एवेत्यर्थः । ८ सर्वशून्यतायां हि कार्यकारणभावासम्भव इति तन्निराकरणाय प्रकरण- मारभमाणः सर्वशून्यतावादं प्रस्तौति-अयमपर इति । ९ शून्यतावादमुत्थापयति-सर्वमभाव इति सूत्रेण । 'सर्वमभाव' इति प्रतिज्ञा, तत्र हेतुः 'भावेष्वितरेतराभावसिद्धः सर्वेषां पदार्थानां परस्पराभावरूपतैव यत इस्यर्थः । प्रयोगश्च - सर्वे भावशब्दा असद्विषयाः, असत्प्रत्ययभावप्रतिषेधाभ्यां भावशब्दसामानाधिकरण्यात्, अनुत्पन्नप्रध्वस्तपटशब्दवदिति । ..

खद्योतसहितन्यायसूत्रभाष्ये [ अ०४, आ०१, सू० ३७- .. . " यावद्भावजातं तत्सर्वमभावः । कस्मात् ? भावेष्वितरेतराभावसिद्धेः । असन् गौरश्वात्मना-अनश्वो गौः: असन् अश्वो गवात्मना-अगौरवः, इत्य- सत्प्रत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात् सर्वमभाव इति" ।। प्रतिज्ञावाक्ये पढ़योः प्रतिज्ञाहेत्वोश्च व्याघातादयुक्तम् । अनेकस्या- शेषता सर्वशब्दस्यार्थो भावप्रतिषेधश्चाभावशब्दस्यार्थः । पूर्व सोपाख्यमुत्तरं निरुपाख्यम् । तत्रं समुपाख्यायमानं कथं निरुपाख्यमभावः स्यादिति । न जोत्वभावो निरुपाख्योऽनेकतयाऽशेषतया शक्यः प्रतिज्ञातुमिति । शून्यतावादश्वेत्थं समुल्लमति- प्रमाणादयः खल्वमी परस्परानात्मतयाऽसदिति- प्रत्ययस्य नजश्च गोचरा इत्यनुभूयन्ते । अतस्तद्वाचिनां शब्दानां तत्सामानाधिकरण्यम्। ततः प्रमाणादयोऽसन्तोऽनुत्पन्नप्रध्वस्तपटवत् । अपि चामी भावा नित्या अनित्या वा । नित्यत्वे सर्वसामर्थ्यरहितस्यासत्त्वम् । नं हि नित्यं वचित्कार्य उपयुज्यते क्रमा. क्रमानुपपत्तेरित्युक्तम् । अनित्यत्वे तु विनाशस्वभावाश्चेद् द्वितीयादिक्षणेष्विव प्रथम क्षणेऽपि न स्युः । सत्वे वा नामी विनाशस्वभावाः । अतत्स्वभावकत्वे वा क्षणान्त- रेऽपि न नश्येयुः । नो खलु नीलं स्वकारणादुपजातं जातु कारणसहस्रैरपि पीतं कर्तुं शक्यमिति विनाशस्वभावकत्वमकामेनाप्यनित्यानामेषितव्यम् । तस्माद् भावानां शून्यतैव पारमार्थिकी । कल्पनया त्ववस्तुसत्या सन्त इव भासन्ते भावा इति । १ शून्यवादमनूद्योत्सूत्रमेव तावद् दूषयति-प्रतिज्ञावाक्य इति । पूर्वपक्षवाक्ये प्रतिज्ञापदयोः प्रतिज्ञाहेत्वोश्चेति व्याघातद्वयम् । २ तत्र तावत् 'सर्वमभाव' इति प्रतिज्ञावाक्ये तद्गतपदयोांघातं प्रदर्शयति- अनेकस्येति । ' सर्वम् '-' अभावः इति द्वे पदे-तत्र सर्वपदाभिधेयमनेकस्य भावस्याशेषतेति अभावपदस्य चाभिधेयो भावस्य प्रतिषेध इति । ३ ततः किमित्यत आह-पूर्वमिति । अशेषा अनेके हि सोपाख्या , यत्किञ्चित्स्वभाववन्तः भावप्रतिषेधस्त्वभावरूपो ‘निरुपाख्यो' निःस्वभाव एव । ४ तयोः परस्परं सामानाधिकरण्यासम्भवं प्रदर्शयति-तत्रेतिः। यत् 'सोपाख्यं' तत् कदापि निरुपाख्यं' न भवितुमर्हतीति सोपाख्य 'सर्व' निरुपाख्याभावतया प्रतिज्ञातुं न शक्यते। ५ ननु मा भूत्सोपाख्यस्य सर्वस्य निरुपाख्याभावत्या प्रतिज्ञानं विपरीतं तु भवितुमर्हतीत्यत आह-न जात्विति । निरुपाख्योऽभावोऽपि :-सोपाख्यसर्वशब्दाभिधे यानेकाशेषतया प्रतिज्ञातुं न शक्यत इत्यर्थः । न ह्यत्यन्तासनिरुपाख्यं “सर्वमिति' वा 'भाव इति' वा ज्ञानस्य गोचरः-असद्वाऽनिर्वचनीयं वा न ख्यातिगोचरः- अपि तु सदेव सदन्तरात्मना । तथा च कुतोऽत्यन्तासतः.' कल्पनागोचरत्वमपीति तात्पर्यकृतः । , -- ।

—सू. ३८] चतुर्थाध्याये प्रथमाह्निके अष्टत्रिंशत्तमं सूत्रम् २६३ . - " सर्वमेतदभाव इति चेत्-यदिदं सर्वमिति मन्यसे तदभाव इति" | एवं चेत्-अनिवृत्तो व्याघातः । अनेकमशेष चेति नाभावे प्रत्ययेन शक्यं भवितुम् । अस्ति चायं प्रत्ययः सर्वमिति । तस्मान्नाभाव इति । प्रतिज्ञाहेत्वोश्च व्याघातः । सर्वमभाव-इति भावप्रतिषेधः प्रतिज्ञा, भावेष्वितरेतराभावसिद्धेरिति हेतुः । भावेष्वितरेतराभावमनुज्ञायाश्रित्य चेतरे- तराभावसिद्धौ सर्वमभाव इत्युच्यते, यदि सर्वमभावो भाववितरेतराभाव- सिद्धेरिति नोपपद्यते, अथ भावेष्वितरेतराभावसिद्धिः सर्वमभाव इति नोपपद्यते ।। ३७ ॥ सूत्रेण चाभिसम्बन्धः- न, स्वभावसिद्धेर्भावानाम् ।। ३८ १ व्याघातपरिजिहीर्पया परः प्रतिज्ञातार्थस्याभिप्रायं प्रकटयति-सर्वमेतदिति। सर्वमभाव इति प्रतिज्ञावाक्यस्यायमेवार्थों यत् ' यद्भवान् सर्व इति व्यपदिशति स अभाव एवेति'-एवं च प्रतिज्ञातं सामानाधिकरण्यं सुसम्पादमेवेत्यर्थः । २ तत्परिहरति-एवं चेदिति । 'अनेकमशेषं चेति प्रत्ययेन अभावे न भवितुं शक्यमिति' सम्बन्धः । यद् वयं सर्व इति व्यपदिशामस्तदभाव एवेति प्रतिज्ञा- वाक्यम्- अनेकस्याशेषतामेव च वयं सर्व इति व्यपदिशामः- तथा च अनेकम- शेषमभाव इति प्रतिज्ञार्थः पर्यवस्यति, सोऽपि व्याहत एवेति, तथा हि अभावविषये 'अनेकमशेष चेति' ज्ञानं न भवितुमर्हति । ३ ननु मा भूदेवं प्रत्ययः ततः किमित्यत आह-अस्ति चायमिति । अनेकम- शेषमिति प्रत्ययः सर्वशब्देन जन्यत एव-तथा च सर्वमभाव इति वदतोऽनेकमशेष चाभाव इत्येवार्थ उक्तो भवति-स च व्याहत एवेत्यर्थः। ४ उपसंहरति-तस्मादिति-'नाभावः' सर्वमिति शेषः । ५ प्रतिज्ञापदयोर्व्याघातं प्रदर्य प्रतिज्ञाहेत्वोावातं प्रदर्शयति-प्रतिज्ञाहेत्वो- रिति । 'सर्वमभाव' इति वाक्ये सर्वस्याभावत्वमुक्तम् - पुनश्च भावेष्विति हेतुवाक्ये भावेष्विति पदं प्रयुक्तं तेन च नानाभावानामस्तित्वमुररीकृतम् । तेवितरेतरा- भावरूपताऽऽरोपिता। ६ व्याघातं स्पष्टयति--यदीति । ७ उत्सूत्रं दूषणमुक्त्वा भाष्यकारः सौनं दूषणमुत्थापयति-सूत्रेण चेति । अभिसम्बन्धो'-दूषणस्येति शेषः । ८ शून्यवादं दूषयति-न स्वभावेति सूत्रम् । 'स्वो भावो' धर्मों द्रव्यादीनां सदादिः- अथ वा 'स्वभाव ' स्वरूपं भावानाम्-येनामी भावाः स्वभावात् .. .

खद्योतसहितन्यायसूत्रभाध्ये [अ०४, आ० १, सू० ३८ न सर्वमभावः । कस्मात् ? स्वेन भावेन सद्भावाद्भावानाम् । स्वे धर्मेण भावा भवन्तीति प्रतिज्ञायते । कश्च स्वो धर्मो भावानाम् द्रव्यगुणकर्मणां सदादि सामान्यम् । द्रव्याणां क्रियावदित्येवमादिविशेषः स्पर्शपर्यन्ताः पृथिव्या इति च, प्रत्येकं चानन्तो भेदः । सामान्यविशेषसम वायानां च विशिष्टा धर्मा गृह्यन्ते । सोऽयमभावस्य निरुपाख्यत्वात् सम्प्रत्या यकोऽर्थभेदो न स्यात् । अस्ति त्वयम् । तस्मान्न सर्वमभाव इति । अथ वा 'न स्वभावसिद्धेर्भावानामि ति स्वरूपसिद्धेरिति। गौरिति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते, नाभावमात्रम् । यदि च सर्वमभावः गौरित्यभावः प्रतीयेत, गोशब्देन चाभाव उच्येत । कस्मान्न गोशब्देन चाभाव उच्यते ? यस्मात्तु गोशब्दप्रयोगे द्रव्यविशेष: प्रतीयते नाभावः । तस्मादयुक्तमिति । अथ वा 'न स्वभावसिद्धेरि'ति । असन् गौरश्वात्मनेति, असन् गौर्ग- वात्मना इति कस्मान्नोच्यते ? अवचनाद्वात्मना गौरस्तीति स्वभावसिद्धिः । अनश्वोऽश्व इति वा गौरगौरिति वा कस्मान्नोच्यते ? अवचनात्स्वेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते । व्यावर्तन्ते तस्य 'सिद्धेः'। अथ वा असन्नितिप्रत्ययस्य गवि : अश्वात्मनेति" विशेषणात्-अगौरित्यस्य गां परिहत्याश्वादिभिः सम्बन्धाद् गोभावसिद्धेः । एवमश्वा- दिष्वपीति-स्वभावसिद्धर्भावानां नाभाव' इत्यर्थः । १ एवं च 'न सर्वमभावः भावानां परस्परव्यवच्छेदकधर्माणां सत्त्वात् अभावस्य निरुपाख्यत्वात्तादृशधर्मासम्भवात्' इति पर्यवसितोऽर्थः । २ स्वभावसिद्धरित्यस्य सूत्रस्थपदस्य व्याख्यानान्तरमुपन्यस्यति-अथ वेति। 'स्वभावः' अस्मिन् पक्षे स्वरूपमेव, न स्वो धर्मः। ३ किन्तत् स्वरूपमिति स्पष्टयति-गौरितीति । गोत्वजातिविशिष्टो व्यक्ति- विशेषः गोशब्दार्थः प्रतीयते स च भावरूप एव नाभावरूप इत्यर्थः । ४ स्वभावसिद्धरित्यस्य तृतीयव्याख्यानमाह-अथ वेति। ५ यदि सर्व निरुपाख्यमेव तर्हि यत्र भवान् गामश्वात्मना असन्तं ब्रवीति- तत्र को हेतुरित्यपेक्षायामाह- गवात्मनेति। यत्तथा न ब्रवीति भवान् तत्रायमेव हेतुर्यद् यथा गौरश्वात्मनाऽसन् न तथा गवात्मना.अपि तु गवात्मना स सन्नेव । एवं च गवादीनां सरस्वभावसिद्धिरेव सूत्रस्थस्वभावसिद्धिपदेन विवक्षितेत्यर्थः । - --सू. ३९] चतुर्थाध्याये प्रथमाह्निके एकोनचत्वारिंशत्तमं सूत्रम् २६५ अव्यतिरेकप्रतिषेधे च ( असंयोगादिसम्बन्धो व्यतिरेकोऽत्राव्यति- रेकोऽभेदाख्यसम्बन्धः, तत्प्रतिषेधे ) भावेनासत्प्रत्ययस्य सामानाधिकरण्यम् । यथा-न सन्ति कुण्डे बदराणीति । असन् गौरश्वात्मना, अनश्वो गौरिति च गवाश्वयोरव्यतिरेकः प्रतिषिध्यते-गवाश्वयोरेकत्वं नास्तीति । तस्मिन्प्रतिषिध्य- माने भावे न गवा सामानाधिकरण्यमसत्प्रत्ययस्य-असन् गौरश्वात्मनेति यथा-न सन्ति कुण्डे बदराणीति-कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिर- सत्प्रत्ययस्य सामानाधिकरण्यामिति ॥ ३८ ॥ ने स्वभावसिद्धिरापेक्षिकत्वात् " ॥ ३९ ॥ अपेक्षाकृतमापेक्षिकम् । ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं ह्रस्वम् न स्वेनात्मनावस्थितं किञ्चित् । कस्मात् ? अपेक्षासामर्थ्यात् । तस्मान्न स्वभाव- सिद्धिर्भावानामिति” |॥ ३९ ॥ १ ननु यदि सर्वेषां भावानां भावरूपतैव-कथं तहि गोरनश्वत्वमश्वस्य वाऽगोत्वमित्यत आह-अव्यतिरेकेति । अत्रैवं वाक्यसम्बन्धः-अव्यतिरेकप्रतिषेधे च भावेनाप्यसत्प्रत्ययस्य सामानाधिकरण्यं दृश्यते, यथा-न सन्ति कुण्डे बदराणीति- ' असंयोगादिसम्बन्धो व्यतिरेकोऽत्राव्यतिरेकोऽभेदाख्यसम्बन्ध' इति । यथा-कस्य- चिद् भावस्य 'अव्यतिरेकप्रतिषेधे' तादात्म्यप्रतिषेधो भवति तदा भावोऽप्यस- त्प्रत्ययसमानाधिकरणो भवति । यथा कुण्डे बदराणि न सन्तीत्यत्र भावानामपि बदराणामसत्प्रत्ययसामानाधिकरण्यम् भवत्येव । अव्यतिरेकप्रतिषेध इत्यत्राव्यतिरे- कपदस्याथं विवृणोत्यवान्तरवाक्येना"संयोगादिसम्बन्ध" इत्यादिनाs "भेदाख्य- सम्बन्ध" इत्यन्तेन । एवं च अव्यतिरेकोऽपृथक्त्वम् अभेदः तादात्म्यमिति पर्यायाः। सर्वमेतत् स्पष्टीकृतं तात्पर्यद्भिः तद्यथा- असच्छन्दः खलु अभावविशेषणं सदेवाभिधत्ते । एवमसत्प्रत्ययोऽपि अभावविशेषणं सदेवावलम्बते । यथा शुक्लशब्दः शुक्लगुणविशिष्टे पटे वर्तते । तथा चासत्प्रत्ययाभिधानयोरुपपन्नं भाववाचिना पदेन सामानाधिकरण्यमित्यर्थः। भावश्च कश्चिन्नित्यः कश्चिदनित्यः। तत्र नित्यस्य अर्थ- क्रियाकारित्वमुपपादितं क्षणभङ्गभङ्गे। अनिस्योऽपि न विनाशस्वभावो भावः । कारणान्तरात्तु विनश्यति । यत्तूक्तं न शक्यं नीलं पीतं कर्तुमिति-त्रि ब्रूमः-शक्य एव नीलः पीतः कर्तुम् । आमश्यामः कुम्भो वह्निसंयोगाद्रक्त इति । २ स्वभावसिद्धेरिति सिद्धान्त्युक्तं हेतुमाक्षिपति शून्यवादी-न स्वभावेति सूत्रम्। भावानां स्वभावसिद्धिरेव नास्ति-कुतः-सर्वेषां भावानामापेक्षिकत्वात् । तथा च सिद्धान्तिनो हेतुरसिद्ध इति सूत्रार्थः ।

२६६ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू० ४०.. व्याहतत्वादयुक्तम् ॥ ४०॥ यदि ह्रस्वापेक्षाकृतं दीर्घ, ह्रस्वमनापेक्षिकं, किमिदानीमपेक्ष्य ह्रस्वमिति गृह्यते । अथ दीर्घापेक्षाकृतं ह्रस्वं, दीर्घमनापेक्षिकं, किमिदानीम- पेक्ष्य दीर्घमिति गृह्यते । एवमितरेतराश्रययोरेकाभावेऽन्यतराभावादुमयाभाव इत्यपेक्षाव्यवस्थाऽनुपपन्ना। स्वभावसिद्धावसत्यां समयोः परिमण्डलयोर्वा द्रव्ययोरापेक्षिके दीर्घत्व- ह्रस्वत्वे कस्मान्न भवत: ? अपेक्षायामनपेक्षायां च द्रव्ययोरभेदः । यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे । नान्यतरत्र भेदः । आपेक्षिकत्वे तु सत्य- न्यतरत्र विशेषोपजनः स्यादिति । किमपेक्षासामर्थ्यमिति चेत्'-द्वयोर्ग्रहणेऽतिशयग्रहणोपपत्तिः । द्वे द्रव्ये पश्यन्नेकत्र विद्यमानमतिशयं गृह्णाति तीर्घमिति व्यवस्यति । यच्च हीनं गृह्णाति तद्धस्वमिति व्यवस्यतीति । एतच्चापेक्षासामर्थ्यमिति ॥ ४०॥ १ ननु किमापेक्षिकत्वं नाम? नैव किञ्चिदस्ति-यद्यस्ति तदा सा किं करोतीति पृच्छति-किमपेक्षेति। उत्तरम् -द्वयोरिति । उपपादितश्चायं विशदं तात्पर्यकृता। नद्यथा-परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं च। स च भावानामौत्पत्तिकः । केवलं तस्थातिशयानतिशयौ परस्परग्रहणाधीनौ। तथा हीक्षुयष्टेवेणुयष्टितो 'हस्वत्वं' अल्पी- यस्संख्यायोगिहस्तपरिमितत्वमेव 'अनतिशयः'- वेणुयष्टेस्तु दीर्घत्वमतिशयः, तच्च भूयस्संख्यायोगिहस्तपरिमितत्वम् । तच्चेदमतिशयानतिशयादिप्रतियोगिनिरूपणाधीन- निरूपणम् , न तु प्रतियोग्यधीनोत्पत्तीति, न वस्तुधर्मोऽयं परापरापेक्षः। भिन्नत्वं च भेदः । स च वस्तुविशेषनिरूपणे एव वस्त्वन्तरमपेक्षते, न चोत्पत्तौ। एवं पितृ- स्वमपि व्यवस्थिता जनकशक्तिरेव-सा जन्यनिरूपणाधीननिरूपणा, न तु तदधी- नोत्पत्तिः। परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया परापेक्षोत्पत्तिका अपि लोकयात्रां वहन्तो न शक्याः प्रत्याख्यातुम् । तावता. 'तेषामधिकरणे निरपेक्षो भावो न भवतीति.'न । इति सर्वमवदातमिति । च्याहतत्वादिति सूत्रे व्याघात एवोझावितः। स च व्याघातो. व्याख्यातो वार्तिककृता । सर्वमभाव इति सर्वथा चायं वादो व्याहतः। कुतो व्याघार: ? (1) आदौ तावत् प्रमाणोपपत्त्यनुपपत्ती । “ सर्वमभाव" इति ब्रुवाणः प्रमाण पर्यनुयोज्यः । यदि ब्रूते-व्याहतं भवति । अथ नाभिधत्ते-अर्थोऽस्य न सिध्यति, प्रमाणाभावादेव । (२) पुनः सर्वमभाव" इति वाक्यम्-तस्य यद्यभिधेयमर्थ प्रतिपद्यते, पूर्ववयाघातः। अथ न प्रतिपद्यते- वर्णोच्चारणमात्रमनर्थकमिति । (३) पुन: "सर्वमभावः इति च .

-यू ४०] चतुर्थाध्याये प्रथमाह्निके चत्वारिंशत्तम सूत्रम् (११) सङ्ख्यकान्तवादनिराकरणाप्रकरणम् । अथेमे सङ्ख्यैकान्ताः- सर्वमेकं सदविशेषात् । सर्वं द्वेधा नित्यानित्यभेदात् । सर्व - १ . वाक्यस्य प्रतिपादयितारं प्रतिपत्तारं च यदि प्रतिपद्यते, पूर्ववयाघातः । (४) पुनः 'सर्वमभावः' इति — सर्व भाव' इति च वाक्ये। यधनयोभेदं प्रतिपद्यते, व्याहतं भवति, अथ न प्रतिपद्यते, विशेषोपादानं व्यर्थम् । सोऽयं सर्वाभाववादो यावद्यावद् विचार्यते तावत्ताबदुपपत्ति न सहते-इति । एकमेव तत्त्वम्-डे एव तत्वे-त्रीण्येव तवानि-चत्वार्येव तस्वानि-पञ्चैव तस्वानीत्येते सङ्ख्थैकान्तवादाः । सङ्ख्या 'एकान्ता' नियमिता येषु वादेषु ते तथोक्ताः; न्यायसिद्धान्तविरुद्धा अधुना शून्यवादानन्तरं परीक्ष्यन्ते। न च वाच्यम्-" तत्त्व- द्वयादिवादाः किमर्थमुपन्यस्यन्ते-न हि तेषु न्यायाभिमंतसमुच्चयविरोध” इति । एकान्तिके हि द्वैते (हे एव तत्वे इत्यस्मिन् वादे ) द्वयोरपि सदातनत्वे कार्योपयोगे कादाचित्कसामग्न्यसम्भव एव । एवं त्रित्वादिवादेष्वपि दृष्टव्यम् । १ तत्र प्रथमः सङ्ख्यकान्तवादो ब्रह्माद्वैतवादिनाम् । तं सक्षेपेण सूचयति- सर्वमेकमिति । एकमेव तत्वम् - कुतः-सत्वेनानुगमात्सर्वेषामिति । २ इदमस्याकूतम् । न तावदयं नामरूपप्रपञ्चः प्रकाशादिन्नः सन् प्रकाशितु- मर्हति-जडस्य स्वयं प्रकाशासम्भवात् । तथा च ज्ञानाद्भिन्नस्य नामरूपप्रपञ्चस्य प्रकाशासम्भवात् ज्ञानस्यैवैकस्येदं सर्वं विवर्त इति युक्तमभ्युपगन्तुम् । न च प्रकाशा- स्मनो घटादय एवोदयव्ययधर्मिणः परस्परव्यावृत्ताः सन्विति साम्प्रतम्-तघ्यावृत्तिग्रह प्रमाणाभावात् । सा हि यद् यतो ब्यावर्तते तदुभयग्रहे गृह्यते । न च विज्ञानानि विलक्षणानि स्वरूपमात्रावस्थितानि परस्परवातानभिज्ञानि ज्ञानान्तरमपि ग्रहीतु- मुत्सहन्ते प्रागेव स्वस्माद् व्यावर्तयितुम् । न च निषेध्यनिषेधाधिकरणग्रहणकारणको व्यावृत्तिग्रहः स्वकारणेन समसमयोत्पादो भवितुमर्हति-तादृशाः सव्येतरविषाणयोरिव कार्यकारणभावाभावात् । न चैकं विज्ञानं क्षणिकं निषेध्यनिषेधाधिकरणे गृहीत्वा पश्चा- निषेधं गृह्णातीति युक्तम्-क्षणिकस्याक्रमस्य क्रमाक्रमवद्यापारायोगात् । न बैकं विज्ञानं निषेध्यनिषेधाधिकरणे गृह्णात्यथ ज्ञानान्तरं निषेधतीति युक्तम्-चैत्रगृहीतेऽपि तस्मिन् मैत्रस्य निषेधज्ञानप्रसङ्गात् । न च ज्ञानस्वरूपग्रह एवास्य निषेधग्रह इति साम्प्रतम् । एवं हि संभवेद्यदि स्वरूपतदन्यव्यावृत्त्यारेकत्वं स्यात् । तन्त्र व्यावृत्तिस्वभावो वा भावो-भावस्वरूपा वा व्यावृत्तिः । तत्र पूर्वस्मिन् कल्पे व्यावृत्तेस्तुच्छत्वात् तत्स्वभावाभावभेदास्तुच्छाः स्युः । ततश्च . क्चोभङ्गयन्तरेण शून्यवादप्रसङ्गः । इतरस्मिंस्तु कल्पे विधिरूपो भाव एव व्यावृत्तिरिति विधिरूपतया च ते त्यावर्तन्ते ३ .. खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०४१- त्रेधा-ज्ञाता ज्ञानं ज्ञेयमिति । सर्वं चतुर्दा-प्रमाता प्रमाणं प्रमेयं प्रमितिरिति । एवं यथासम्भवमन्येऽपीति। तत्र परीक्षा- सङ्खयैकान्तासिद्धिः कारणानुपपत्युपपत्तिभ्याम् ॥ ४१॥ यदि साध्यसाधनयो नात्वम्-एकान्तो न सिद्धयति, व्यतिरेकात् । अर्थ इति न व्यावृत्ता भावाः परस्परं परमार्थतः। सर्वमिदमभिप्रत्योक्तम्-सदविशेषादिति । अनाद्यनिर्वचनीयाविद्यानिबन्धनं तु भावानां भेदं न व्यासेधामः । न च ज्ञातुरपि ज्ञानाद्भेदग्राहकमस्ति प्रमाणम् - उक्तादेवाविशेषात् । यस्मान्न ज्ञेयानां परस्परतश्च ज्ञानाच्च भेदो नापि ज्ञातुर्मानादस्ति भेदो नापि ज्ञानानामन्योन्यस्य तस्मात् प्रकाश एव प्रपञ्चो ब्रह्येत्यद्वैतसिद्धिरिति । द्वितीयो वादः-सर्व द्वेधेति । न हि नित्यानित्याभ्यामन्यो राशिरस्ति यमाश्रित्य पदार्थास्वित्वादिके व्यवतिष्ठेरन्नित्यर्थः । १ तृतीयो वादः -- सर्व त्रेधेति । ज्ञानपदमत्र ज्ञानकरणपरं ज्ञेयम्- 'ज्ञप्तिरपि ज्ञायमानत्वात् ज्ञेयानातिरिच्यत इति भावः' इति तात्पर्योक्तिस्वरसात् । २ चतुर्थो वादा-सर्व चतुर्धेति । यदि प्रमिति म तत्त्वं प्रमाणादिभ्यो भिन्नं नाश्रियते-प्रमायाः प्रधानक्रियाया अभावात् कथं प्रमात्रादयः । कथं च प्रधानक्रिया- मन्तरेणैकवाक्यता स्यात् , कारकवैचित्र्यं वा । प्रमायाः फलत्वावस्थाया उपरि प्रमेयव्यपदेशन वारयामः । न चैतावता तत्त्वान्तरं न भवति । ३ अन्येऽपि. संख्यैकान्तवादाः सन्ति - तान् सूचयति- एवं यथेति । (१) प्रकृतिपुरुषाविति द्वे एव तत्वे इत्यपरो द्वैतवादः। (२) रूपसंज्ञासंस्कारवेदनानुभवाः पञ्च स्कन्धा इति पञ्चस्ववादः । (३) पशु-पाश - तदुच्छेदेश्वरा इति चतुष्ट्ववादोऽपरः । ४ सर्वेषामेतेषां परीक्षा निराकरणपर्यन्तां प्रस्तौति-तत्र परीक्षेति । ५ संख्यैकान्तवादनिराकरणमुपक्रमते - संख्यैकान्तासिद्धिरितिसूत्रम्। संख्यै- कान्ताः न सिध्यन्ति-कुतः-कारणस्य (साधनस्य प्रमाणस्य ) अनुपपत्तौ (असत्त्वे) उपपत्तौ सत्वे वा तादृशैकान्तासम्भवात् इत्यर्थः । ६ सूत्रार्थ वर्णयति- यदीति । सूत्रस्थोपपत्तिपदार्थं वर्णयति-साध्येति । यदि 'साध्यसाधनयोः' ज्ञेयात् (सङ्ख्यैकान्ततारूपात्) तज्ज्ञानसाधनं प्रमाण भिन्नं तर्हि तयोरानन्त्यात संख्यैकान्तता न सिध्यति । ७ सूत्रस्थानुपपत्तिपदार्थमाह-अथ साध्येति । यदि ज्ञेयाद् भिन्नं ज्ञानसाधनं प्रमाणं नास्ति तहि प्रमाणाभावादेव प्रमेयस्य न सिद्भिरित्यर्थः ..

--सू.. ४२] चतुर्थाध्याये प्रथमाह्निके द्विचत्वारिंशत्तमं सूत्रम् साध्यसाधनयोरभेदः-- एवमप्येकान्तो न सिद्धयति, साधनाभावात् । न हि तदन्तरेण कस्यचित्सिद्धिरिति ।। ४१ ।। न कारणावयवभावात् ॥४२॥ विस्तरेण वर्णितः सिद्धान्ताशयोऽत्र तात्पर्यकृता। अनवयवेन सर्व चेदेकं द्वेधा बेधा चतुर्धा वेति प्रतिज्ञार्थः । तदतिरिक्तं साधनं वाच्यम् । न हि साध्यमेव साधनं भवति । तथा च साधनस्य तदतिरेकान संख्यकान्त सिद्धिः । किञ्चिदपि स्वसंवेदनमस्ति-ज्ञानप्रदीपादीनामपि परसंवेद्यत्वात् । यथा च ज्ञानाति- रिक्तोऽप्यों विषयस्तथा विज्ञानवादनिराकरणावसरे वक्ष्यते। न च विज्ञानादर्थभेदो- ऽशक्यग्रहः । तथा हि नीलमुपलभ इत्यनहङ्कारास्पदमश्वेतादिरूपं नीलं प्रत्यात्ममनु- भवगोचरः। एवं नीलादीनामपि परस्परम् । अन्यथा घटमानयेति देशितोलोचने निमील्य शयीत-शयीथा इति देशितस्तोयमेवाहरेत-कस्य चित्कथंचित् कुतश्चिद्विवेकाभावात् । न चानिर्वचनीयानाद्यविद्यानिबन्धनोऽयं भेदव्यवहार इति साम्प्रतम् । अनिर्वचनीय- ख्यातेः पूर्वमेवापाकृतत्वात् । तस्मात्सर्वजनसंवेदनसिद्धोऽयं भेदप्रत्ययो न कारणमुख- निरीक्षणेन युक्तो निराकर्तुमपि तु स्पष्टदृष्टकार्यभेदप्रत्ययात्तादृशं तत्कारणं कल्पनीयं याह- शेन कारणेन प्रपञ्चप्रत्ययोऽप्रत्यूहमुत्पत्तुमर्हति । तच प्रत्यक्षमेव । तथा हि नीलं परिच्छि- न्दन् पीतादिभ्योऽस्य भेदं परिच्छिनत्ति-संयुक्तविशेषणतालक्षणादिन्द्रियार्थसन्निकर्षात् । नील हि नीलमित्यनुभवन्नयं पीतं च पीतमित्यनुभवन् स्मरन् वा शक्नोति निषेध्यनिषे. धाधिकरणतया समाकलयितुं रूपमात्रेणागृहीतपरस्परभेदमपि । न हि तन्न भेदेन प्रथत इत्यभेदेन प्रथेत, येनानयोनीलपीतयोर्गृहीतस्वरूपयोरवध्यवधिमद्रावो न स्यात् । तथा च तो गृहीत्वा प्रत्यक्षेण शक्नोत्ययमनयोमेंदं ग्रहीतुमित्यसाम्प्रतमेतत् । अन्योन्यसंश्रयाद् भेदो न प्रमान्तरसाधनः । तस्मिन्निदं नायमिति वस्तुभेदं विना न धीः ।। एतेन प्रमातुरपि प्रमाया भेदो व्याख्यातः । प्रमातारश्चानेकविधसुखदुःखोप- भोगव्यवस्थानादधिरान्धादिकोविदजाल्ममुक्तसंसारीविभागोपपत्तेश्च भेदवन्तोऽनुमी- यन्ते । एकस्मिन्नपर्यायेण विरुद्धधर्मसंसर्गासंभवात् । कल्पनया कथंचिस्सम्भाव्यमा- नोऽप्ययं गोमयपायसीयन्यायमावहति । तदेवं प्रत्यक्षादिविरोधादनुपपन्नार्थाः श्रुतय 'एकमेवाद्वितीय'मित्याद्याः प्रथमां वृत्तिमुल्लध्य जघन्यामालम्बते- 'यजमानः प्रस्तर,' 'आदित्यो यूपवदिति । तस्मान्नाद्वैतमिति । साध्यात्साधनभेदेन सङ्ख्यान्तरैकान्ता अप्यपाकृता मन्तच्या इति । १ पूर्वपक्षवाद्याक्षिपति-न कारणेति सूत्रम् । यदुक्तं कार्यकारणभेदेन नाद्वैत- मिति तत् 'न,'-कुतः-कारणस्य अवयवभावात् , कार्यावयवरूपत्वादित्यर्थः ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०४३- ? ".न: सङ्ख्यैकान्तानामसिद्धिः । कस्मात् ? कारणस्यावयवभावात् । अवयवः कश्चित् साधनभूत इत्यव्यतिरेकः । एवं द्वैतादीनामपीति ॥ ४२ ॥ निरवयवत्वादहेतुः ॥४३॥ कारणस्यावयवभावादित्यहेतुः । कस्मात् ? सर्वमेकमित्यनपवर्गेण प्रति- ज्ञाय कस्यचिदेकत्वमुच्यते । तत्र व्यपवृक्तोऽवयवः साधनभूतो नोपपद्यते । एवं द्वैतादिष्वपीति। ते खल्विमे सङ्घयैकान्ता यदि विशेषकारितस्यार्थभेदविस्तारस्य प्रत्या- ख्यानेन वर्तन्ते-प्रत्यक्षानुमानागमविरोधान्मिथ्यावादा भवन्ति । अथाभ्यनु- ज्ञानेन वर्तन्ते-समानधर्मकारितोऽर्थसङ्ग्रहो विशेषकारितश्चार्थभेद इति, एव- मेकान्तत्वं जहतीति। ते खल्वेते तत्त्वज्ञानप्रविवेकार्थमेकान्ताः परीक्षिता इति ॥ ४३ ॥ (१२) फलपरीक्षाप्रकरणम् । प्रेत्यभावानन्तरं फलम्, तस्मिन्- सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥४४॥ " पचति दोग्धीति सद्यः फलमोदनपयसी । कर्षति वपतीति कालान्तरे फलं शस्याधिगम इति । अस्ति चेयं क्रिया-अग्निहोत्रं जुहुयात्स्वर्गकाम- इति । एतस्याः फले संशय :" ॥४४ ।। १ परिहरति सिद्धान्ती-निरवयवत्वादिति सूत्रम् । २ उक्तमद्वैतवादपरिहार सङ्घयैकान्तवादान्तरेष्वतिदिशति-एवमिति । ३ प्रकरणार्थमुपसंहरति-ते खल्वेत इति । अद्वैतादिष्वेकान्तेषु प्रेत्यभावो न तास्विको भवेदपि तु काल्पनिकः। न केवलं प्रेत्यभावोऽपि तु षोडशापि पदार्थाः। तस्मादेतेषां यत् तत्वज्ञानं तत्प्रविवेकार्थ ज्ञेयप्रविवेकेन ज्ञानप्रविवेक इति तदर्थमेते परीक्षिताः। यावच्चान विचारितं तावदप्रकृतमपि प्रकृतं प्रेत्यभावमुपकरोतीत्यर्थः। एवमेव किल पूर्वानुवृत्ताष्टप्रकरण्यप्रकृतार्थापि सङ्गच्छते सम्बध्यते चाग्रिमप्रकरणाथैनेति । i. - ४ अथोद्देशक्रमानुरोधेन फलस्य परीक्षा प्रस्तौति-प्रेत्यभावानन्तरमिति । ५ तद्विषये परीक्षाङ्गभूतसंशयमुपन्यस्यति 'तस्मिन्निति भाष्यांशमारभ्य 'संशय' इति सूत्रांशपर्यन्तम् । 'एतस्याः फले संशयः' इति भाष्योक्तावस्वरसः प्रदर्शितः परिशुद्धिकृता। फलसामान्यमादाय तत्कालान्तरभावि वा स्यात् सद्योभावि वेति सन्देहो नोपपद्यते- लोकेः पंक्त्यादीनां फलरवेऽनन्तरभावित्वस्य धर्मिग्राहकप्रमाणनिर्णीतत्वात् । एवं --सू. ४७] चतुर्थाध्याये प्रथमाह्निके सप्तचत्वारिंतमं सूत्रम् न संद्यः कालान्तरोपभोग्यत्वात् ॥ ४५ ॥ स्वर्गः फलं श्रूयते । तच्च भिन्नेऽस्मिन्देहभेदादुत्पद्यत इति न सद्यः, ग्रामादिकामानामारम्भफलमपीति ॥ ४५ ॥ कालान्तरेणानिष्पत्तिहेतुविनाशात् ॥ ४६ ॥ "ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणमन्तरेणोत्पत्तुमर्हति । न खलु वै विनष्टात्कारणात्किञ्चिदुत्पद्यत इति" ॥ ४६॥ प्राङ् निष्पत्तेवृक्षफलवत्तत्स्यात् ॥ ४७ ॥ यथा फलार्थिना वृक्षमूले सेकाहि परिकर्म क्रियते, तस्मिश्च प्रध्वस्ते पृथिवीधातुरब्धातुना सगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वत यति, स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण सन्निविश- मानः पर्णादिफलं निवर्तयति, एवं परिषेकादि कर्म चार्थवत् । न च विनष्ठा- कलनिष्पत्तिः। तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते । स जातो निमि- स्वर्गस्यापि फलत्वे कालान्तरभावित्वस्योभयवादिसिद्धत्वात्। एवं सद्योभावि लोकपत्यादिफलं कालान्तरभावि स्वर्गादि वेत्येषोऽपि संशयोऽनुपपन्नो धर्मिभेदा- दिति । एवं च संशयस्य स्वरूपान्तरं प्रदर्शितं तेनैव । क्रियैव यागादिका संशय- विषयः-क्रियात्वं च संशयकारणम् । चेतनप्रवृत्तिर्हि काचित् सद्यःफला भवति - यथा पचनदोहनानि, काचित्तु कालान्तरभाविफला भवति- यथा कर्षणसेवनादि । अतः साधकबाधकप्रमाणाभावे सति प्रकृते संशय इति । संशयं प्रदय-तत्र ऐहिककीय॑कीर्त्यादीनामेव फलत्वसम्भवे नादृष्टस्वर्गादि- कल्पनमित्युत्सूत्रे पूर्वपक्षे सिद्धान्तेनोपक्रमते-न सद्य इनि सूत्रम्। यधप्येतत् सूत्रं न्यायसूचीनिबन्धे नोपलभ्यते तात्पर्यकृता चेदं भाष्यत्वेनैव परिगृहीतम् , तथापि नानाप्राचीनसूत्रपुस्तकानामनुरोधात् सूत्रमेवेदमिति निर्धारितम् । वार्तिकस्वर- सोऽप्येवमेव । २ परः शङ्कते-कालान्तरेणेति सूत्रम् । कालान्तरेण तत्कर्मणः फलं न सम्भ- वति- हेतोः' तत्फलकारणस्य कर्मणः 'विनाशात् ' विनष्टत्वादित्यर्थः । ३ उक्तं दृष्टान्तं दार्शन्तिके योजयति-तथा प्रवृत्त्येति । एवमेव कर्मणि निष्पन्ने तनिष्पत्तितत्फलोत्पत्योरन्तराले तत्कर्मगतधर्माधर्मरूपः संस्कारोऽवान्तरकारणान्तरसह- कृतः फलनिष्पत्तिद्वारभूत उत्पद्यते तेन च द्वारेणोत्पन्नं स्वर्गादिफलमुक्तकर्मण एवेति मन्यन्ते प्रेक्षावन्त इत्याशयः । एष तु संस्कारो न स्नानादिजन्य इव बोद्धव्योऽपि तु पुरुषधर्मतामात्रेण संस्कार इत्युच्यते। परमार्थतस्त्वयं धर्मः पुरुषाश्रयोऽपि कर्मणा फले जनयितव्ये तस्यावान्तरव्यापार इति तात्पर्यकृतः। - . २७२ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १,सू०४८ -- , - - त्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति । उक्तश्चैतत्-पूर्वकृतफलानु- बन्धात्तदुत्पत्तिः-' इति ।। ४७ ।। तदिदं प्रानिष्पत्तेर्निष्पद्यमानम्- नासन्न सन्न सदसत्सदसतोवैधात् " ॥४८॥ "प्राङ् निष्पत्तेर्निष्पत्तिधर्मकं नासत्-उपादाननियमात् । कस्यचिदुत्प- त्तये किञ्चिदुपादेयं न सर्वं सर्वस्येत्यसद्भावे नियमो नोपपद्यत इति । न सत्, प्रागुत्पत्तेर्विद्यमानस्योत्पत्तिरनुपपन्नेति । सदसत् न-सदसंतोवैधात् । सदि- त्यर्थाभ्यनुज्ञा । असदिति अर्थप्रतिषेधः । एतयोर्व्याघातो वैधर्म्यम् । व्याधा- ताव्यतिरेकानुपपत्तिरिति " ॥ ४८ ।। प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा, कस्मात् ? उत्पादव्ययदर्शनात् ॥ ४९॥ यत्पुनरुक्तं प्रागुत्पत्तेः कार्यं नासदुपादाननियमादिति ।। ४९ ॥ बुद्धिसिद्धं तु तदसत् ॥ ५० ॥ १ उक्तेऽर्थे पूर्वोक्तं स्मारयति- 'पूर्वकृते'ति । तृतीयाध्यायगतद्वितीयाहिक- स्थषष्ठितम सूत्रमेतत् । २ इदमिदानी चिन्त्यते-किमेतत्फलमुत्पत्तेः प्रागसद्वा सदा सदसद्वाऽनुभयं वेति । तत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति- 'तदिदमिति भाष्या- क्षराण्यारभ्य 'वैधादिति सूत्राक्षरपर्यन्तम् । — तदिदं निष्पद्यमानं 'फलं 'निष्पत्तेः प्राक् ' 'नासन्न सन्न सदसत्'–कस्मात्-'सदसतोवैधात् '-इति सम्बन्धः । कार्यकारणभाव एव न विचारसह इति पूर्वपक्षहृदयम् । यद्यप्यनुभयपक्षो न धृतः सूत्रकारेण भाष्यकारेण वा तथापि वार्तिककारोक्त्यनु- रोधेन सोऽप्युक्तस्तात्पर्यकारेणेत्यवसेयम् । ३ सूत्रार्थ विवृण्वन् कार्यन्नासदिति प्रथमं कल्पं गृह्णाति-प्राङ् निष्पत्तेरिति । ४ प्राङ्निष्पत्तेः कार्यन्न सदिति द्वितीयं कल्पं गृह्णाति-न सदिति । ५ कार्यन्न सदसदित्युभयमिति तृतीयं कल्पं गृह्णाति-सदसदिति । ६ तन हेतुमाह-सदसतोरिति । सत्वासत्त्वयोरत्यन्तविरुद्धत्वाकत्र समावेशः सम्भवतीत्यर्थः। ७ सिद्धान्तं प्रस्तौति-प्रांगुत्पत्तेरिति । असदेव कार्य प्रागुत्पत्तेरित्येव ' अद्धा सत्यमित्यर्थः। .

५४ चतुर्थाध्याये प्रथमाह्निके चतुःपञ्चाशत्तमं सूत्रम् इदमस्योत्पत्तये समर्थं न सर्वमिति प्रागुत्पत्तेर्नियतकारणं कार्यं बुद्ध्या सिद्धमुत्पत्तिनियमदर्शनात् । तस्मादुपादाननियमम्योपपत्तिः ! सति तु कार्ये प्रागुत्पत्तेरुत्पत्तिरेव नास्तीति ॥ ५० ॥ आश्रयव्यतिरकाद् वृक्षफलोत्पत्तिवदित्यहेतुः" ॥५१॥ मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम् । कर्म चेह शरीरे फलं चामुत्रेत्याश्रयव्यतिरेकादहेतुरिति " || ५१ ।। प्रातरात्माश्रयत्वादप्रतिषेधः ॥५२॥ प्रीतिरात्मप्रत्यक्षत्वादात्माश्रया । तदाश्रयमेव कर्म धर्मसंज्ञित-धर्मस्यात्म- गुणत्वात् । तस्मादाश्रयव्यतिरेकानुपपत्तिरिति ॥ ५२ ।। न पुत्रस्त्रीपशुपरिच्छद हिरण्यान्नादिपलनिर्देशात् " ॥ ५३॥ पुत्रादि फलं निर्दिश्यते न प्रीतिः-'ग्रामकामो यजेत' 'पुत्रकामो यजेते'ति । तत्र यदुक्तं-प्रीतिः फलम्-इत्येतद्युक्तमिति" ॥ ५३ ।। तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलबदुपचारः॥५४॥ पुत्रादिसम्बन्धात् फलं प्रीतिलक्षणमुत्पद्यत इति पुत्रादिपु फलवदुपचारः। यथाऽन्ने प्राणशब्दः-अन्नं वै प्राणा-इति ॥ ५४॥ (१३) दुःखपरीक्षाप्रकरणम् । फलानन्तरं दुःखमुद्दिष्टमुक्तं च--'बाधनालक्षणं दुःखम्'--इति । १ देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमानः कश्चित् पारलौकिक- फलमाक्षिपति-आश्रयेति सूत्रम् । 'वृक्षफलवदिति.' यो दृष्टान्तः सिद्धान्तिनोद्भावितः स ' अहेतुः' असाधकः परलोकभाविफलस्य, कुतः- 'आश्रयव्यतिरेकात्', सुख- दुःखादिरूपफलाश्रयस्योभयलोकानुगतस्याभावादिस्यर्थः। २ उक्तमाक्षेपं परिहरति-प्रीतेरिति सूत्रम् । अस्त्यात्मा स्वर्गोपभोगसमर्थः शरीरव्यतिरिक्त एव कर्मणां कर्नेत्युपपादितमेवास्माभिरित्युपपद्यत एवात्राप्येकाश्रय- त्वमेव कर्मफलयोरित्याशयः । ३ अस्यां परीक्षायामाक्षेपः- “ ननु किमिह परीक्षणीयम् । न हि कश्चिद् दुःखस्वरूपे विप्रतिपद्यते-नापि तद्धेयमहेयं वेति सन्दिह्यते । नित्यमनित्यं वा दुःखमित्यत्र परीक्षा प्रकृतोपयोगिनी स्यात् - तन्नित्यत्वे हि शास्त्रानर्थक्यप्रसङ्ग:- अस्ति च संशयकारणं वादिविप्रतिपत्तिः-साङ्ख्या हि सर्वनित्यत्ववादिनो दुःखमपि नित्यमाहुः-तथाऽपि तन्मतनिरासादनन्तरं च सत्कार्यबाधनिषेधादियमपि निरव- न्या. सू. १८ ..

२७४ , खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, स्.५५- " तत्किमिदं प्रत्यात्मवेदनीयस्य सर्वजन्तुप्रत्यक्षम्य सुखस्य प्रत्याख्यानम् । आहोस्विदन्यः कल्प इति ? अन्य इत्याह । कथम् ? न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्या- तुम् । अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखान्निर्विण्णस्य दुःखं जिहा- सतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति । कया युक्त्या ? सर्वे खलु सत्त्वनिकायाः सर्वाण्युत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाह- चर्या द्वाधनालक्षणं दुःख'मित्युक्तमृषिभिः दुःखसंज्ञाभावनमुपदिश्यते। अत्रे च हेतुरुपादीयते-- शेषिता। कारणं च दुःखस्य दृष्टरूपमहिकण्टकादि न विप्रतिपत्तिविषयः । अदृष्टरूपा च प्रवृत्तिः परीक्षितैव । तदवान्तरकार्यरूपं च जन्मादि परीक्षितमेव । कारणनिवृत्ती च कार्य निवर्तत इति प्रथमाध्यायद्वितीयसूत्रे परीक्षितम् । तत् किमपरमवशिष्यते यदर्थोऽयमारम्भ" इति । तत्परिहारश्चेत्थम् - 'बाधनालक्षणं दुःखमिति लक्षितं दुःखम् । तत्र बाधना- शब्देन बाधबुद्धिरुच्यते । अनेन च लक्षणेन दुःखायतनानि दुःखसाधनानि सुखं च व्याप्यते। अतो मुख्यां बाधनाबुद्धिमादाय पूर्वपक्षावकाश इति । दुःखपरीक्षायाः क्रमप्राप्ति प्रदर्शयति - फलानन्तरमिति । १ तत्र पूर्वपक्षिणः प्रश्नः- तत्किमिति । भवतु बाधनालक्षणं दुःखमनुभूय- मानम् । यत्पुनरिदं प्रत्यात्ममनुकूलवेदनीयं सुखं तत्कथं दुःखम् , अनुभवविरोधात् । शरीरेन्द्रियबुद्धयश्च यदि दुःखहेतुतया 'दुःखं' कस्मात्सुखहेतुतया सुखमेव न भवन्ति । सेयमतिभीरुता सकललोकयात्राविरोधिनी। यथा मांसार्थी कण्टकानुद्धत्य मांसमश्नन् कण्टकजन्यदुःखमामोत्येवमेव प्रेक्षावान् दुःखमुद्धत्येन्द्रियसाधनं सुखमेव भोक्ष्यते । सन्ति च विविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरे- काभ्यामिति पूर्वपक्षप्रश्नाशयः । एतदुक्तं भवति । यदि दुःखपरिवर्जनेन शक्येत सुखमुपादातुं ततस्तादृशमनु- कूलवेदनीयं कः प्रेक्षावान् प्रजह्यात् । न तु तादृशमस्ति सुखं क्वचिदपि-सर्वस्य दुःखा- विनाभाविनः केवलस्य सुखस्योपादातुमशक्यत्वात् । न हि मधुविषसम्पृक्तमन्नं विषम- पहृत्य शक्य मधुमात्रमुपादातुम् । तस्मान्नेदं सुखस्यात्यन्तं प्रत्याख्यानमपि तु सुख एव दुःखभावनमात्रमुपदिश्यते ऋषिणेति २ सूत्रमवतारयति-अत्रेति । 'अत्र' सुखे दुःखभावना कार्येत्यस्मिन्नुपदेशे, तत्समर्थनाय 'हेतुः उपादीयते' सूत्रकारेणेत्यर्थः । .

-स्. ५७ ] चतुर्थाध्याये प्रथमाह्निके सप्तपञ्चाशत्तमं सूत्रम् विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ५५ ॥ जन्म-जायत इति-शरीरेन्द्रियबुद्धयः । शरीरादीनां संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः । विविधा च बाधना-हीना मध्यमा उत्कृष्टा चेति । उत्कृष्टा नारकिणाम् । तिरश्चां तु मध्यमा। मनुष्याणां तु हीना । देवानां हीनतरा वीतरागाणां च । एवं सर्वमुत्पत्तिस्थानं विविधबाधनानुपक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते । दुःख- संज्ञाव्यवस्थानात्सर्वलोकेष्वनभिरतिसंज्ञा भवति । अनभिरतिसंज्ञामुपासीनस्थ सर्वलोकविषया तृष्णा विच्छिद्यते । तृष्णाप्रहाणात्सर्वदुःखाद्विमुच्यत इति । यथा विषयोगात्पयो विषमिति बुध्यमानो नोपादत्ते । अनुपादानो मरणदुःखं नाप्नोति ॥ ५५ ॥ दुःखोद्देशस्तु न. सुखस्य प्रत्याख्यानम् । कस्मान् ? ने, सुखस्याप्यन्तरालनिष्पत्तेः ॥५६॥ न खल्वयं दुःखोद्देशः सुखस्य प्रत्याख्यानम् । कस्मान् ? सुखस्याप्य- न्तरालनिष्पत्तेः । निष्पद्यते खलु बाधनान्तरालेपु सुखं प्रत्यात्मवेदनीयं शरी- रिणाम् । तदशक्यं प्रत्याख्यातुमिति ।। ५६॥ अथापि- बाधेनाऽनिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः॥ ५७ ॥ सुखस्य दुःखोद्देशेनेति प्रकरणात् । पर्येषणं-प्रार्थना-विषयार्जनतृष्णा । पर्येषणस्य दोषो-ययं वेदयमानः प्रार्थयते तस्य प्रार्थितं न सम्पद्यते, सम्पद्य १ सूचितं हेतुमाह-विविधेति सूत्रम् । 'जन्मनः ' शरीरादेः 'उत्पत्तिः' सा 'दुःखम्' इत्येव भावयितव्या-कुतः-विविधबाधनायोगादिति योजना । २ सर्व दुःखमिति भावनोपदेशस्य यथोक्तमेव तात्पर्य न पुनः सुखस्यात्यन्त- प्रत्याख्यानमित्येव द्रढयन् पुनराह - दुःखोद्देश इति । ३ तत्रोत्तरम् - न सुखस्येति सूत्रम् । 'न' सुखस्यात्यन्तं प्रत्याख्यानम्-कुतः- सुखस्यापि दुःखानामन्तरालेषु ‘निष्पत्तेः' इति योजना। ४ सुखस्यात्यन्तं प्रत्याख्यानं न सम्भवतीत्येतस्मिन्नर्थे हेत्वन्तरमवतारयत्ति- अथापीति । ५ तदेव हेत्वन्तरमाह-बाधनाऽनिवृत्तेरिति सूत्रम् । 'अप्रतिषेधः' अप्रत्याख्यानं (सुखस्येति शेषः)-कुतः-(सुख) वेदयतः' अनुभवतः-' पर्येषणदोषात् ' तृष्णाया अनुवर्तनात्-'बाधनानिवृत्तेः ' बाधनाबुद्धेः ' अनिवृत्तेः' इति योजना । .

खद्योतसहितन्यायसूत्रभाष्ये [ अ०४, आ० १, सू०५८- " वा विपद्यते, न्यूनं वा सम्पद्यते, बहु प्रत्यनीकं वा सम्पद्यते-इत्येतस्मात्पर्येष- णदोषान्नानाविधो मानसः सन्तापो भवति । एवं वेदयतः पर्येषणदोषागाधनाया अनिवृत्तिः । बाधनाऽनिवृत्तेर्तुःखसंज्ञाभावनमुपदिश्यते । अनेन कारणेन दुःख जन्म, न तु सुखस्याभावादिति । अथाप्येतदनूक्तम्- कामं कामयमानस्य यदा कामः समृध्यति । अथैनमपरः कामः क्षिप्रमेव प्रबाधते ।। 'अपि चेदुदनेमि समन्ताद् भूमिमिमां लभते सगवाश्वां, न स तेन धनेन धनैषी तृप्यति किन्नु सुखं धनकाम' इति ।। ५७ ॥ दुःखविकल्पे सुखाभिमानाच्च ।। ५८ ॥ दुःखसंज्ञाभावनोपदेशः क्रियते । अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते--न सुखादन्यन्निःश्रेयसमस्ति । सुखे प्राप्ते चरितार्थः कृतकरणीयो भवति । मिथ्यासङ्कल्पात्सुखे तत्साधनेषु च विषयेषु संरज्यते । संरक्तः सुखाय घटते । घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्ट- वियोगप्रार्थितानुपपत्तिनिमित्तमनेकविधं यावद् दुःखमुत्पद्यते तं दुःखविकल्प सुखमित्यभिमन्यते । सुखाङ्गभूतं दुःखम् । न दुःखमनासाद्य शक्यं सुखम- वाप्तुम् । तादर्थ्यात्सुखमेवेदमिति सुखसंज्ञोपहतप्रज्ञो जायस्व म्रियस्व चेति सन्धावतीति संसारं नातिवर्तते । तदस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञा भावनमुपदिश्यते--दुःखानुषङ्गाद् दुःखं जन्मेति, न सुखस्याभावात् । यद्येवं, कस्माद् दुःखं जन्मेति नोच्यते ? सोऽयमेवं वाच्ये यदेवमाह दुःखमेव जन्मेति-तेन सुखाभावं ज्ञापयतीति । जन्मविनिग्रहार्थीयो वै खल्वयमेवशब्दः । कथम् ? न दुःखं जन्मस्वरू- पतः, किन्तु दुःखोपचारात् । एवं सुखमपीति । एतदनेनैव निवर्त्यते न तु दुःखमेव जन्मेति ॥ ५८ ॥ १ नन्वयं यद्यप्यन्तराले सुखान्यनुभवति तथापि दुःखसम्भेदमाकलयन्ननुपदि- ष्टोऽपि स्वयमेव निवर्त्यति-कृतमस्य दुःखभावनोपदेशेनेत्यत आह-दुःखविकल्प इति सूत्रम् । दुःखस्य विविध कल्पे (निषिद्धहिंसाभोजनादिरूपे ) सुखाभिमानो दृश्यत एवाविवेकिनाम् । अत एवोपदेशस्यावसर इत्याशयः ।

चतुर्थाध्याये प्रथमाह्निके एकोनषष्ठितमं सूत्रम् ७७ 3 " - (२४) अपवर्गपरीक्षाप्रकरणम् । दुःखोद्देशानन्तरमपवर्गः । स प्रन्याख्यायते ऋणक्लेशप्रवृत्त्यनुवन्धादपवर्गाभावः" ॥ ५९ ।। ऋणानुबन्धान्नास्त्यपवर्गः । 'जायमानो ह वै ब्राह्मणस्त्रिभित्रणैर्ऋण- वान जायते-ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य'-इति ऋणानि । तेषामनुबन्धः स्वकर्मभिः सम्वन्धः । कर्मसम्बन्धवचनान्-'जरा- मयं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ चेति 'जरया ह वा एष तस्मात्सत्रा- द्विमुच्यत मृत्युना ह वेति ' । ऋणानुबन्धादपवर्गानुष्टानकालो नास्तीत्यपवर्गा- भावः । क्लेशानुवन्धान्नास्त्यपवर्गः । क्लेशानुबद्ध एवायं म्रियते, क्लेशानुबद्धश्च जायते । नास्य क्लेशानुबन्धविच्छेदो गृह्यते"। "प्रवृत्त्यनुबन्धान्नास्त्यपवर्गः । जन्मप्रभृत्ययं यावत्प्रायणं वाग्बुद्धिशरीरा- रम्भेणाविमुक्तो गृह्यते । तत्र यदुक्तं 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरो- त्तरापाये तदनन्तरापायादपवर्ग'--इति तदनुपपन्नमिति" ॥ ५९ ॥ .. १ क्रमप्राप्तामपवर्गपरीक्षामुपक्रमते-दुःखेति । २ अपवर्ग इति-उद्दिष्टो लक्षितश्चेति शेषः । ३ तत्र तावत्पूर्वपक्षं प्रस्तौति-स प्रत्याख्यायत इति । ४ नास्त्यपवर्ग इति पूर्वपक्षः । तत्र सूत्रम्-ऋणेति । नास्त्यपवर्ग इति प्रतिज्ञावाक्यम्। तत्र त्रयो हेतवः-ऋणानुबन्धात्-क्लेशानुबन्धात्-प्रवृत्यनुबन्धादिति। ५ ‘क्लेशानुबन्धान्नास्त्यपवर्ग' इति द्वितीयं सौत्रवाक्यम्। 'अविद्यास्मिता- रागद्वेषाभिनिवेशाः क्लेशा' इति योगसूत्रम् । आजन्मसमयादा च मरणात् पुरुषोऽविद्यादिभिः क्लेशैर्ग्रस्त एव वर्तते । एत एव च क्लेशा जीवस्य संसारनिदान- भूताः । तथा चामरणं क्लेशर्मस्तत्वात्पुरुषस्यानुच्छिन्ननिदानः संसारो न शक्य उच्छेत्तुमित्यर्थः। ६ 'प्रवृत्त्यनुबन्धानास्त्यपवर्ग' इति तृतीयं सौत्रवाक्यम् । जन्मसमयमारभ्य मरणपर्यन्तं वाग्बुद्धिशरीरारम्भरूपया प्रवृत्त्या पराक्रान्त एव जीवो वर्तते-न च प्रवृत्तिनिवृत्तिमन्तरेणापवर्गसम्भव इति स्पष्टीकृतं प्रथमाध्यायस्थप्रथमाह्निके द्वितीयसूत्रे। एवं चापवर्गों न सम्भवत्येवेत्यर्थः ।

n १ । खद्योतसहितन्यायसूत्रभाष्ये [ अ०४, आ० १, सू०६ ०- अत्राभिधीयते । यत्तावहणानुबन्धादिति ऋणैरिव ऋणैरिति- प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशसोपपत्तेः॥६॥ ऋणैरिति नायं प्रधानशब्दः । यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानमृणशब्दः । न चैतदिहोपपद्यते-प्रधान- शब्दानुपपत्तेः । गुणशब्देनायमनुवाद ऋणैरिव ऋणैरिति । प्रयुक्तोपमं चैतद् यथाऽग्निर्माणवक इति । अन्यत्र दृष्टश्चायमृणशब्द इह प्रयुज्यते यथाऽग्निशब्दो माणवके । कथं गुणशब्देनानुवादः ? निन्दाप्रशंसोपपत्तेः। कर्मलोपे ऋणीव ऋणदानान्निन्द्यते, कर्मानुष्ठाने च ऋणीव ऋणदानात्प्रशस्यते,स एवोपमार्थ इति । जायमान इति गुणशब्दो विपर्ययेऽनधिकारात् । 'जायमानो ह वै ब्राह्मण इति च गुणशब्दो-गृहस्थः सम्पद्यमानो जायमान-इति । यदायं गृहस्थो जायते तदा कर्मभिरधिक्रियते । मातृतो जायमानस्यानधिकारात् । यदा तु मातृतो जायते कुमारो न तदा कर्मभिरधिक्रियते । अर्थिनः शक्तस्य चाधिकारात् । अर्थिनः कर्मभिरधिकारः, कर्मविधौ कामसंयोगस्मृतेः-'अग्निहोत्रं जुहुयात्स्वर्ग- काम' इत्येवमादि । शक्तस्य च प्रवृत्तिसम्भवात् । शक्तस्य कर्मभिरधिकारः-- प्रवृत्तिसम्भवात् । शक्तः खलु विहिते कर्मणि प्रवर्तते नेतर इति । उभयाभा- वस्तु प्रधानशब्दार्थे । मातृतो जायमाने कुमारे उभयमर्थिता शक्तिश्च न भवतीति । न भिद्यते च लौकिकाद्वाक्याद्वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुषप्रणीत- त्वेन । तत्र लौकिकस्तावदपरीक्षकोऽपि न जातमात्रं कुमारकमेवं ब्रूयात्-अधीष्व यजस्व ब्रह्मचर्य चर-इति । कुत एष ऋषिरुपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति ? न खलु वै नर्तकोऽन्धेषु प्रवर्तते न गायनो बधिरेष्विति । १ सिद्धान्तमुपक्रमते-अत्राभिधीयत इति । २ तत्रादौ पूर्वपक्षीयप्रथमवाक्यस्य तात्पर्य सिद्धान्तानुगुणं वर्णयति-यत्ताव- दिति । ३ यत्तावद्यावज्जीवमृणमनुवर्तत इति श्रुनिवाक्येषु वर्णितं तत्र ऋणशब्दो गौणार्थो न मुख्यार्थ इति सौत्रं सिद्धान्तं सङ्केपेण सूचयति- ऋणैरिवेति । ४ ऋणशब्दस्यौपचारिकत्वं साधयति-प्रधानेति सूत्रम् । यत्र यत्र शब्दस्य मुख्यार्थानुपपत्तिस्तत्र तत्र गौण एवार्थः परिगृह्यते-एवं चोदाहृतं ऋणवाक्यं निन्दाप्रशंसापरतया नेतव्यमित्यर्थः ।

--सू ६० ] चतुर्थाध्याये प्रथमाह्निके षष्टितमं सूत्रम् उपदिष्टार्थविज्ञाता चोपदेशविषयः । यचोपदिष्टमर्थं विजानाति तं प्रत्यु- पदेशः क्रियते, न चैतदस्ति जायमानकुमारक इति । गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदति। यच्च मन्त्रब्राह्मणं कर्मा- भिवदति तत्पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नम् । तम्माद् गृहस्थोऽयं जायमानोऽभिधीयत इति । आर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः । यावच्चास्य फलेनार्थित्वं न विपरिणमते-न निवर्तते, तावदनेन कर्मानुष्टेयमित्युपपद्यते जरामर्यवादन्तं प्रतीति । जरया ह वा ' इत्यायुषस्तुरीयस्य चतुर्थम्य प्रत्रयायुक्तम्य वचनं-- जरया ह वा एष एतस्माद्विमुच्यते-इति । आयुपस्तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्युच्यते । तत्र हि प्रत्रज्या विधीयते । अत्यन्तजरासंयोगे 'जरया ह वा इत्यनर्थकम् । 'अशक्तो विमुच्यते' इत्येतदपि नोपपद्यते । स्वयमशक्तस्य बाह्यां शक्तिमाह-'अन्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जुहु- याद्धनेन स परिक्रीत' इति । अथापि विहितं वानूद्येत कामाद्वार्थः परिकल्प्येत । विहितानुवचनं न्याय्यमिति । ऋणवानिवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्तत इत्युपपन्नं वाक्यस्य सामर्थ्यम् । फलस्य हि साधनानि प्रयत्नविषयो न फलम् । तानि सम्पन्नानि फलाय कल्पन्ते । विहितं च जायमानं विधीयते च जायमानम् । तेन य सम्बद्धयते सोऽयं जायमान इति । १ तदनेन गार्हस्थ्यात् पूर्वावस्था ऋणानुबद्धा न भवतीत्युक्तम् । सम्प्रत्युत्तरा- वस्थाऽपि न ऋणानुबद्धेत्याह-अर्थित्वस्येति । यदा चार्थिन एवं कर्मस्वधिकार- स्तदाऽर्थित्वस्य ' अविपरिणामे' अनिवृत्तावेव 'जरामर्यवाद' उपपद्यते इत्यर्थः। २ संक्षेपेणोक्तं विस्तरेणोपपादयति-यावञ्चास्येति । यावत्कालपर्यन्तं पुरुषस्य फलेच्छा वर्तते तावत्कालपर्यन्तमेवास्य तत्तत्फलजनककर्मसु प्रवृत्तिस्तावस्कालपर्य- न्तमेवैनं प्रति पूर्वपक्षोदाहृतस्य ' जरामयं वा एतत्सत्रं यदग्निहोत्रम्' इत्यादिवाक्य- स्योपपत्तिरित्यर्थः । तेन फलवासनावत्त्वमेवोक्तकर्माधिकारहेतुर्न प्राणधारणमात्रमिति यदुक्तम् 'ऋणापाकरणेन वयःपर्यवसानान्नास्ति मोक्षावसर' इति तदपाकृतं भवतीत्याशयः। अयमभिप्रायः। न तावजायमान इत्यादिवाक्ये विधिविभक्तिरस्ति । तेन अन्यत्र विहितस्यानुवाद एवायमिति स्वरसतः प्रतीयते। यदि तु तस्यार्थसिद्धि- ७ । न, खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, स्०६०- "प्रत्यक्षविधानाभावादिति चेद् " न, प्रतिषेधस्यापि प्रत्यक्षविधानाभावा- दिति । " प्रत्यक्षतो विधीयते गार्हस्थ्य ब्राह्मणेन, यदि चाश्रमान्तरमभविष्यत्त- दपि व्यधास्यत् प्रत्यक्षतः, प्रत्यक्षविधानाभावान्नास्त्याश्रमान्तरमिति " प्रतिषेधस्यापि प्रत्यक्षतो विधानाभावात्-न प्रतिषेधोऽपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते । 'न सन्न्याश्रमान्तराणि एक एव गृहस्थाश्रम' इति प्रतिषेधस्य प्रत्यक्षतोऽश्रवणादयुक्तमेतदिति । अधिकाराच विधानं विद्यान्तरवन् । यथा शास्त्रान्तराणि स्वे वेऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावात् , एवमिदं ब्राह्मणं गृहस्थशास्त्र स्वेऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणाम- भावादिति । ऋग्ब्राह्मणं चापवगाभिधाय्यभिधीयते । ऋचश्च ब्राह्मणानि चापवर्गा- भिवादीनि भवन्ति । ऋचश्च तावत्- कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः । अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः ।। न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।। वाक्यान्तराद्वा प्रमाणान्तराद्वा कथमपि न कल्येत ततो 'वचनानि त्वपूर्वत्वादिति' न्यायेन विधित्वमस्य कल्प्येत। सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि साक्षाद् विधिविभक्तिमन्तीति-को जात्विच्छामात्रेण विध्यर्थतां कल्पयेत्। तस्मा- द्विहितानुवाद एवेदमिति न्याय्यम् । एवञ्च जायमानशब्दो गौणार्थ एव नेय इति युक्तमुत्पश्याम इति । १ यदुक्तमायुषश्चतुर्थे भागे प्रव्रज्या विधीयत इति-तदमृप्यमाणः शङ्कते-- प्रत्यक्षेति। २ शङ्कां परिहरति-न, प्रतिषेधस्येति। ३ शङ्कां विभजते-प्रत्यक्षत इति । तथाचोक्तं गौतमीये धर्मशास्त्रे- 'ऐ- काश्रयं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येति' - इति शङ्काशयः । ४ निराकरणं विभजते-न, प्रतिषेधस्येति । स्मृतीतिहासपुराणानि तावदविवादं विदधति चातुराश्रम्यं उपलभ्यन्ते । तत्र विहितानां प्रतिषेधो यदि प्रत्यक्षश्रुतौ कुत्रा- प्युपलभ्येत भवेयुस्तान्यप्रमाणानीति । न तु चातुराश्रम्यप्रतिषेधः कुत्रापि साक्षा- च्छुतावुपलभ्यते । तस्मात् स्मृत्यादिविहितं चातुराश्रम्यं श्रुत्याऽप्रतिषिद्धं न शक्यं परित्यक्तुमित्यर्थः ।

-सू. ६०] चतुर्थाध्याये प्रथमाहिकं षष्टितमं सूत्रम् परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय । (वाजसनेयिसंहिता ३१।१८। तैत्तिरीयारण्यक ३।१२।७) अथ ब्राह्मणानि- "त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव, द्वितीयो ब्रह्मचार्याचार्यकुलवासी, तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन सर्व एवं- ते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमेति । (छान्दोग्योपनिषद् २।२३।१)," "एतमेव प्रवाजिनो लोकमभीप्सन्तः प्रत्रजन्तीति" (बृहदारण्यक ४।४।२२)। अथो खल्वाहः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भ- वति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते " ( बृहदारण्यक ४।४।५) इति कर्मभिः संसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति "इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आतकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन ब्रह्माप्येती"ति । तत्र यदुक्तम्-ऋणानुबन्धादपवर्गाभाव-इत्येतदयुक्तमिति । 'ये चत्वारः पथयो देवयाना' (तैत्तिरीयसंहिता ५।७।२।३) इति च चातुराश्रम्यश्रुतेरै- काश्रम्यानुपपत्तिः ।। ६० ॥ १ यज्ञ इत्यादिना गृहस्थाश्रमो दर्शितः । तप एवेति वानप्रस्थाश्रमः । ब्रह्मचारीति ब्रह्मचर्याश्रमः । एषामाश्रमाणामभ्युदयलक्षणं फलमाह-सर्व एवैत इति । २ चतुर्थाश्रममाह-ब्रह्मसंस्थ इति । ३ तत्क्रतुरिति । 'ऋतुः' सङ्कल्पः । ४ तदभिसम्पद्यत इति । तत्कर्मानुसाउँवास्याग्रिमं जन्मेत्यर्थः । ५ कामयमान इति । कामयमानो य आसीत् स एवाथाकामयमानो भवति । ६ अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ सोऽकामयमानः तस्य व्याख्यानं-निष्काम इति । ७ आत्मकाम इति । कैवल्योपेतात्मकामस्तत्प्राप्त्या ' आप्तकामो' भवति । ८ न तस्य प्राणा इति । शाश्वतो भवतीत्यर्थः । ९ प्रकृतमुपसंहरति-तत्र यदुक्तमिति । १० अपरामपि चातुराश्रम्याभिधायिनी श्रुतिमाह-ये चत्वार इति । एवं च न गार्हस्थ्यमात्रैकाश्रम्यपक्षः साधुरिति निर्गलितोऽर्थः ।

२८२ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०६१- ? फलार्थिनश्चेदं ब्राह्मणं-"जरामर्थं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमास । च'-इति । कथम् समारोपणादात्मन्यप्रतिषेधः ॥ ६१ ॥ 'प्राजापत्यामिष्टिं निरूप्य तस्यां सर्ववेदसं हुत्वा आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेत् 'इति श्रूयते । तेन विजानीमः-प्रजावित्तलोकैषणाभ्यो व्युत्थि- तस्य निवृत्ते फलार्थित्वे समारोपणं विधीयत-इति । एवं च ब्राह्मणानि-'सोऽन्यद् व्रतमुपाकरिष्यमाणो याज्ञवल्क्यो मैत्रे- यामिति होवाच-प्रव्रजिष्यन्वा अरे अहमस्मात्स्थानादस्मि हन्त तेऽनया कात्या- यन्या सहान्तं करवाणि-इति । अथाप्युक्तानुशासनासि मैत्रेयि एतावदरे खल्व- मृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवज्राज-इति' (बृहदारण्यकोपनिषद्)। ६१॥ पात्रेचयान्तानुपपत्तेश्च फलाभावः ॥ ६२ ।। जरामर्थे च कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि १ फलार्थिनो गृहस्थस्यैव 'जरा 'पर्यन्तमग्निहोत्राद्यनुष्ठानं जरामर्यवाक्येनोच्यत इति गतसूत्रस्य फलितार्थं हेत्वन्तरविधित्सया स्मारयति-फलार्थिन इति । २ तत्रोत्तरम् -समारोपणादिति सूत्रम् । आत्मन्यग्नीनां 'समारोपणात् ' ऋणा- नुबन्धेन अपवर्गस्य — अप्रतिषेधः' प्रतिषेधोऽयुक्त इत्यर्थः । ३ सूत्रार्थमाह-प्राजापत्यामिति । साग्निकस्य चतुर्थाश्रमप्रवेशविधानमेतत् । मनुरप्याह- प्राजापत्यां निरूप्येष्टिं सार्ववेदसदक्षिणाम् । आत्मन्यग्नीन समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ।" इति । ६-३८ ४ किमनेनेत्यत आह-तेनेति । उक्तायामिष्टौ सर्वस्वदानं तदैव सम्भवति यदा पुरुषः पुनधनलोकसम्बन्धिनीभ्य इच्छाम्यो विनिर्मुक्तः फलार्थित्वादपैति, एवञ्च फलार्थिन एव गार्हस्थ्यं तत्सहचारिणो यागादिधर्माः, निवृत्ते च फलार्थिवे गार्हस्थ्य- मपैति-अपेते च गार्हस्थ्ये ते धर्मा अपियन्ति तदैव चाग्नीनामात्मनि समारोपण- मित्युक्तवाक्याल्सिद्धमित्यर्थः। ५ स्वपक्षे साधकान्तरमाह-पात्रचयेति सूत्रम् । ६ सूत्रार्थमाह-जरामर्य इति । साग्निकस्य मरणे तदग्निहोत्रसंबन्धिसकलयज्ञीय- पात्राणि तस्य शरीरेण सहैव दह्यन्त इति विधिः । एवं सति जरामर्यमग्निहोत्रमिति यदि सर्वपुरुषसाधारणं भवेन्न च फलार्थिगृहस्थमात्रपरम्-तदोक्तयज्ञीयसकर पानदहन- स्य सर्वेषां प्राप्तौ चतुर्थाश्रमस्थस्यापि तत्प्राप्तम् ।

. ज चतुर्थाध्याये प्रथमाह्निके त्रिषष्ठितमं सूत्रम् कर्माणीति प्रसज्यते । तत्रैषणाव्युत्थानं न श्रूयेत-'एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक-इति । ते ह स्म पुत्रैषणायाश्च वित्तपणायाश्च लोकैपणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीति' (बृहदारण्यकोपनिषद् ) एषणाभ्यश्च व्युत्थितस्य पात्रचथान्तानि कर्माणि नोपपद्यन्त इति नाविशपण कर्तुः प्रयोजक फलं भवतीति । चातुराश्रम्यविधानाच्चेतिहासपुराणधर्मशास्त्रेवैकाश्रम्यानुपपत्तिः दप्रमाणमिति चेत्-" न, प्रमाणेन प्रामाण्याभ्यनुज्ञानात् । प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यमभ्यनुज्ञायते 'ते वा खल्वेते अथर्वाङ्गिरस एतदितिहासपुराणमभ्यवदन्नितिहासपुराणं पञ्चमं वेदानां वेद' इति । तस्माद- युक्तमेतदप्रामाण्यमिति । अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलो- पाल्लोकोच्छेदप्रसङ्गः। द्रष्टप्रवक्तृसामान्याचाप्रामाण्यानुपपत्तिः । य एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खल्वितिहासपुराणस्य धर्मशास्त्रम्य चेति । विषयव्यवस्थानाच्च यथाविषयं प्रामाण्यम् । अन्यो मन्त्रब्राह्मणस्य विष- योऽन्यश्चेतिहासपुराणधर्मशास्त्राणामिति । यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तमिति- हासपुराणस्य, लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः । तत्रैकेन न सर्व व्यवस्थाप्यत इति, यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति ॥ ६२ ॥ यत्पुनरेतत् ‘क्लेशानुबन्धस्याविच्छेदादिति- सुषुतस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ।। ६३ ।। यथा सुषुप्तस्य खलु स्वप्नादर्शने रागानुबन्धः सुखदुःखानुबन्धश्च विच्छि- द्यते तथापवर्गेऽपीति । एतच्च ब्रह्मविदो मुक्तस्यात्मनो रूपमुदाहरन्तीति ॥६३।। १ ननु भवत्वेवं का हानिरित्यत आह-तत्रैषणेति । प्रजितस्य चतुर्थाश्रम- स्थस्यापि शरीरेण सह यज्ञीयपात्रदहनं यद्यावश्यकं तामरणं तेनापि सकलानि यज्ञीयपात्रादीन्यात्मनः सकाशे रक्षणीयान्येव प्राप्नुवन्ति । एवं च सति कुतस्तस्य प्रव्रजनात् प्राक् विहितमेषणाभ्यो व्युत्थानं सर्वस्वप्रदानं वेत्येते सर्व एव विधयः प्रकुप्येरन्नित्याशयः। २ उक्तैषणाव्युत्थानविधायकं ब्राह्मणवाक्यमुदाहरति-एतद्ध स्मेति । ३ पूर्वपक्षसूत्रोक्तमृणानुबन्धादपवर्गाभावमपाकृत्य क्लेशानुबन्धादपवर्गाभाव इति मतमपाकरिष्यन् तदनुवदति-यत्पुनरिति । १ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १, सू०६४ यदपि ' प्रवृत्त्यनुबन्धा 'दिति-- न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ६४॥ प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्तिर्न प्रतिसन्धानाय । प्रतिसन्धिस्तु पूर्व- जन्मनिवृत्तौ पुनर्जन्म । तच्च तृष्णाकारितम् । तस्यां प्रहीणायां पूर्वजन्मामाने जन्मान्तराभावोऽप्रतिसन्धानमपवर्गः । कर्म वैफल्यप्रसङ्ग इति चेत्”-न, कर्मविपाकप्रतिसंवेदनस्याप्रत्या- ख्यानान् । पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्युच्यते, न तु कर्मविपाकप्रति- संवेदनं प्रत्याख्यायते। सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्त इति ॥६४ न क्लेशेसन्ततेः स्वाभाविकत्वात् " ॥ ६५ ॥ " नोपपद्यते क्लेशानुबन्धविच्छेदः । कस्मात् ? क्लेशसन्ततेः स्वाभाविक- त्वात् । अनादिरियं क्लेशसन्ततिः । न चानादिः शक्य उच्छेत्तुमिति" ॥६५॥ अत्र कश्चित्परीहारमाह- प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम् ।। ६६ ॥ यथाऽनादिः प्रागुत्पत्तेरभाव उत्पन्नेन भावेन निवर्त्यते एवं स्वाभाविकी क्लेशसन्ततिरनित्येति ॥ ६६ ॥ अपर आह-- अणुश्यामतानित्यत्ववद्वा ॥ ६७ ॥ यथाऽनादिरणुश्यामता अथ चाग्निसंयोगादनित्या तथा क्लेशसन्ततिरपीति । सतः खलु धर्मो नित्यत्वमनित्यत्वं च । तत्त्वं भावेऽभावे भाक्तमिति । १ प्रवृत्यनुबन्धादपवर्गाभाव इति पूर्वपक्षोक्तं तृतीयं हेतुमपाकरिप्यन् अनुवदति- यदपीति । २ क्लेशाभावमसहमानः पूर्वपक्ष्याह-न क्लेशसन्ततेरिति सूत्रम् । ३ अभावदृष्टान्तोपादानेऽतुष्यन् उक्तामेव शङ्कामपर एकदेशी भावमेव दृष्टान्त- यित्वा परिहरति-तत्परिहारमवतारयति-अपर इति । ४ परिहारमाह-अणुश्यामतेति सूत्रेण । ५ सिद्धान्ती स्वमतेन शङ्का परिहरिष्यन् प्रथमं तावदेकदेशिमतद्वयं दूषयितु- मुपक्रमते । तत्रादौ प्रथममेकदेशिनं दूषयति-सतः खल्वीति । नित्यत्वानित्यत्वादयो धर्मा भावरूपस्यैव पदार्थस्य सम्भवन्ति नाभावरूपस्य । यत्र कुत्राप्युपलभ्यतेऽभावस्य नित्यत्वाद्युक्तिस्सा गौण्येवेति न युक्तमभावदृष्टान्तोपादानमित्यर्थः ।

२८५ अयं तु -सू. ६८] चतुर्थाध्याये प्रथमाह्निके अट्रषष्टितमं सूत्रम् अनादिरणुश्यामतेति हेत्वभावादयुक्तम् । अनुत्पत्तिधर्मकमनित्यमिति नात्र हेतुरस्तीति ।। ६७ ॥ समाधिः न, सङ्कल्पनिमित्तत्वाच रागादीनाम् ।। ६८ ॥ कर्मनिमित्तत्वादितरेतरनिमित्तत्वाञ्चेति समुच्चयः। मिथ्यासङ्कल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते । कर्म च निकायनिवर्तकं नयमिकान् रागद्वेषमोहान्निवर्तयति, नियमदर्शनात् । दृश्यते हि कश्चित्म- त्वनिकायो रागबहुलः कश्चिद्वेषबहुलः कश्चिन्मोहबहुल इति । इतरेतरनिमित्ता - १ १ द्वितीयमेकदेशिनं दूपयति-अनादिरिति । अणुश्यामता कार्या पृथिवीरूप- त्वात् लोहितादिवदिति प्रत्युतानित्यत्वसाधनमेवाणुश्यामताया भवति-न भवनि यथा कोऽपि हेतुस्तस्य नित्यत्वसाधनमित्यर्थः । २ नन्वनुत्पत्तिमत्त्वादेव सिद्ध्यति नित्यत्वमणुश्यामताया इत्यत आह- अनुत्पत्तीति । यद्यदनुत्पत्तिधर्मकं तत्सर्वं नित्यमेवेत्येतादृशी व्याप्तिर्नास्तीत्यर्थः । अप्रयत्नपूर्वकत्वमात्रेण त्वणुश्यामतादावनादिताव्यवहारो तन्नित्यतयेति हृदयम् । ३ परमं समाधिमाह-न सङ्कल्पेति सूत्रम् । उत्पत्तिमत्त्वादेव रागादीनां न नित्यत्वमित्यर्थः। ४ सूत्रं व्याचक्षाणः सूत्रस्थचकारेण समुच्चितं हेत्वन्तरद्वयं सूचयति-कर्म- निमित्तत्वादिति । 'समुच्चय' इति अनुक्तस्येति शेषः । ५ तत्राचं हेतुं सङ्कल्पनिमित्तत्वादिति विभजते-मिथ्यासङ्कल्पेभ्य इति । यद्यप्यनुभूतविषयप्रार्थना 'सङ्कल्पः' तथाऽपि तस्य पूर्वभागोऽनुभवो ग्राह्यः- प्रार्थनायाः रागत्वात् । तेन मिथ्यानुभव एवात्र सङ्कल्पपदेन विवक्षितः । एवं च मिथ्यानुभवादुत्पद्यन्ते रागादयो दोषा इत्यर्थः । ६ नन्वेकस्मान्मिथ्याज्ञानात्कुतो नानारागादिकार्यवैचित्र्यमित्यत आह-रञ्जनी- येति । भव्यगेयादिषु पाठात् कर्तरि कृत्यप्रत्ययः-तेन रक्षककोपकविमोहकेभ्यो मिथ्याज्ञानेभ्यो यथाक्रमं रागद्वेषमोहा उत्पद्यन्त इत्यर्थः पर्यवसितः । ७ अयमभिप्रायः । कर्म च निकायनिर्वर्तकं तत्वज्ञानकृतान्मिथ्याज्ञानरूप- सङ्कल्पविधातान्न रागाद्युत्पत्तिनिमित्तं भवति। सर्वेषां रागादीनां मिथ्याज्ञानमेव निमित्तम् । कर्माणितु निकायनियमेन रागादीन् प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति । , २८६ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० १ , सू०६८ , च रागादीनामुत्पत्तिः । मूढो रज्यति, मूढः कुम्यति, रक्तो मुह्यति, कुपितो मुह्यति । सर्वमिथ्यासङ्कल्पानां तत्त्वज्ञानादनुत्पत्तिः । कारणानुत्पत्तौ च कार्याः नुत्पत्तेरिति,---रागादीनामत्यन्तमनुत्पत्तिरिति । अनादिश्च क्लेशसन्ततिरित्यप्युक्तम् । सर्व इमे स्वल्वाध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्तन्ते शरीरादयः । न जात्वत्र कश्चिदनुत्पन्नपूर्वः प्रथमत उत्पद्यतेऽन्यत्र तत्त्वज्ञानात् । न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिन्त्ययधर्मकं प्रति- ज्ञायत इति । कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्यासङ्कल्पविधा- तान्न रागाद्युत्पत्तिनिमित्तं भवति । सुखदुःखसवित्तिः फलं तु भवतीति ॥६॥ इति श्रीवात्स्यायनीये न्यायभाष्ये चतुर्थाध्यायस्याऽऽद्यमाह्निकम् । - १ ननु यथा रागादयः सत्यपि कर्मणि मिथ्याज्ञाननिवृत्या निवर्तन्ते एवं सत्यपि कर्मणि मिथ्याज्ञाननिवृत्या फलमपि मा भूदित्यत आह-सुखदुःखेति । कर्माशयप्रपञ्चमुच्छेत्तुम् अमूढोऽप्यसक्तोऽप्यद्विष्टोऽपि-मूढ इव सक्त इव द्विष्ट इव- तत्फलं भुङ्क्त इति रागायनपेक्षमेव कर्म स्वफलं जनयति । तेनासौ फलोपभोगो न बन्धहेतुः । मूढादीनां तु भवत्येव बन्धहेतुः फलोपभोगः। स च तादृशो रागादि- सहायैः कर्मभिः क्रियते न रागादिनिरपेक्षैरित्यवदातम् ।

किं नु खलु अथ चतुर्थाध्यायस्य द्वितीयमाह्निकम्। भोः यावन्तो विषयास्तावत्सु प्रत्येक तत्त्वज्ञानमुत्पद्यते- अथ कचिदुत्पद्यत इति । कश्चात्र विशेष: ? न तावदेकेकत्र यावद्विषयमुत्पद्यते- ज्ञेयानामानन्त्यात् । नापि कचिदुत्पद्यते यत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः । न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्भु- मेति ।" . मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रम् ! तच्च मिथ्या- ज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस्तत्त्वतो ज्ञथ इति । " किं पुनस्तन्मिथ्याज्ञानम् ? " १ तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि, प्रयोजनादयोऽपि 'यत्र संशय- स्तत्रैवमुत्तरोत्तरप्रसङ्ग' (सू० २।३१७) इत्यतिदेशेन परीक्षिता इति षोडशापि नमाणादयः परीक्षिताः। तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् (सू० ११५३)। तत्रापि प्रमेयतत्त्वज्ञानं साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम् । इदमिदानी परीक्ष्यते- किं प्रत्येकमात्मादीनां तत्त्वज्ञानं निःश्रेयसाधिंगमहेतुस्त कस्य- चिदेषामेकदेशस्येति तात्पर्यम् । तत्र परिशुद्धिः। एवं प्रथमाह्निके चतुर्दशभिः प्रकरणः प्रमेयषटकं निरूपितम्। इदानीं तस्य धर्मस्तत्वज्ञानं परीक्षणीयम्-किंलक्षणम्-किं विषयं कथमुत्पद्यते-कथं परिपाल्यते-कथं विवर्धते चेति तत्त्वज्ञानपरीक्षैवाहिकार्थः । तत्र यस्मिन्विषये यथोत्पद्यते तत्त्वज्ञानं तत्क्रमेण प्रतिपादनमिति । वर्धमानोपाध्यायाश्च न्यायनिबन्धप्रकाशे-तत्त्वज्ञानस्यानुद्दिष्टस्यालक्षितस्य कथं परीक्षा प्रवर्तते कथं चालिकद्वयस्य समानविषयत्वं येनैतयोरेकाध्यायावयवत्वमि- त्याशङ्कय तत्त्वज्ञानमुद्दिष्टमाये सूत्रे लक्षितं च द्वितीये सूत्रे-कार्यरूपप्रमेयपरीक्षेव चतुर्थाध्यायविषयस्तत्वज्ञानमपि कार्यरूपमेवेत्यस्त्येव समानविषयतेत्युक्तवन्तः । तथा च तत्त्वज्ञानस्यापवर्गहेतुत्वादपवर्गात्प्रागेव तस्य परीक्षोचितेत्याशङ्कय -- तत्त्व- ज्ञानस्य परीक्षणात्प्राक् येषां तत्त्वज्ञानमपेक्षितं तेषां सर्वेषां प्रमेयाणां परीक्षणमुचित- मपवर्गश्च प्रमेयविशेष एवातो युक्तमेव तस्य परीक्षण प्रमेयेष्विति समाहितवन्तः । २ पृच्छति-किं पुनरिति । सन्ति खल्वस्मिन् विषये वादिनां विप्रतिपत्तयः विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धचिदानन्दघनाद्वैतब्रह्मसाक्षात्कारस्तत्त्वज्ञान- तद्विरुद्धमेव मिथ्याज्ञानमिति वेदान्तिनः । सत्त्वपुरुषान्यताख्यातिरेव तत्वज्ञान- तद्विरोधि मिथ्याज्ञानमिति साङ्ख्याः । धर्मपुद्गलनैरात्म्यज्ञानमेव तत्वज्ञानं तद्विरुद्ध मिथ्याज्ञानमिति केचिद्वाह्याः । शरीरेन्द्रियाद्यनित्यव्यतिरिक्तनित्यात्मदर्शनं तत्त्वज्ञानं तद्विरुद्धं मिथ्याज्ञानमिति वृद्धाः । तदेवं विप्रतिपत्तेरेवायम्प्रश्न इत्यवधेयम् । २८७ २८८ खद्योतसहितन्यायसूत्रमाप्ये [अ०४, आ०२,सू०१- अनात्मन्यात्मग्रहः-- अहमस्मीति मोहोऽहङ्कार इति । अनात्मानं खल्वहमस्मीति पश्यतो दृष्टिरहङ्कार इति । " किं पुनस्तदर्थजातं यद्विषयोऽहङ्कारः ? " शरीरेन्द्रियमनोवेदनाबुद्धयः । "कथं तद्विषयोऽहङ्कारः संसारबीजं भवति ? " अयं खलु शरीराद्यर्थजातमहमस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेद मन्यमानोऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस्तदुपादत्ते, तदुपाददानो जन्म- मरणाय यतते, तेनावियोगान्नात्यन्तं दुःखाद्विमुच्यत इति । यस्तु दुःखं दुःखा- यतनं दुःखानुषक्तं सुखं च सर्वमिदं दुःखमिति पश्यति, स दुःखं परिजानाति। परिज्ञातं च दुःख प्रहीणं भवत्यनुपादानात् सविषान्नवत् । एवं दोषान् कर्म च दुःखहेतुरिति पश्यति । न चापहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितु- मिति दोषान् जहाति । प्रहीणेषु च दोषेषु 'न प्रवृत्ति: प्रतिसन्धानाये'त्युक्तम् । . १ न्यायसिद्धान्तेनोत्तरम्-अनात्मनीति । इदमत्राकृतम् । न तावद् वेदान्ताभि- मतमद्वैतानन्दधनात्मज्ञानं तत्त्वज्ञानम् , भेदस्य प्रत्यक्षसिद्धस्थासति बाधकेऽपलोतुम- शक्यत्वात् । न च प्रकाशानन्दावात्मधर्मातिरिक्तावात्मस्वभावी भवितुमर्हतः । “सत्यं विज्ञानमानन्दं ब्रह्मेति" श्रुतिरानन्दचैतन्यशक्त्यभिप्राया भेद एंव च तद्वत्तया कथंचित् सामानाधिकरण्यमुपपद्यते । अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सह प्रयोगानुपपत्तिः। न च प्रकृष्टप्रकाशः सवितेत्यत्र प्रकृष्टप्रकाशयारभेदोऽप्रकाश- स्यापि प्रकर्षसम्भवात् , अप्रकृष्टस्यापि खद्योतादेः प्रकाशसम्भवात् । नापि सायसिद्धान्तो युक्तिसहः। सत्त्वपुरुषान्यताख्यातिर्हि सत्त्वस्य प्रकृतेरेवासम्भवादयुक्ता। सत्कार्यवादमूलत्वात्प्रकृतिसाधनस्य तद्वादनिराकरणेनैव सा निराकृता वेदितव्या। धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गे नित्यात्मसद्भावकथनेनैव निराकृते । तस्मात्सुष्टूक्तमनात्मन्यात्मग्रहोऽहमस्मीति मोहोऽहकार एव मिथ्याज्ञानमिति । अस्मादेव च कारणात्सर्वस्यैवमात्माशीः कृमेरपि-'मा न भूवम् भूयासमिति'। सोऽयमीदृशोऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्वविदुषः । स खल्वहिनिवयिनीमिवाहिस्ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र स्निह्यति स्नेह विरहान तप्यते नाप्यनुशोचतीत्यादि तात्पर्य स्पष्टम् । २ उक्तमितिः। चतुर्थाध्यायद्वितीयाह्निकस्य चतुःषष्टितमसूत्र इति शेषः ।

चतुर्थाध्याये द्वितीयाह्निके तृतीयं सूत्रम् २८९ .. प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोपांश्च प्रहेयान् ! अपवर्गोऽधिगन्तव्यस्तस्याधिगमोपायस्तत्त्वज्ञानम् । एवं चतमृभिर्विधाभिः प्रमेयं विभक्तमासेवमानस्यास्यस्यतो भावयतः सम्यग्दर्शनं यथाभूतावबोधस्तत्वज्ञानमुत्पद्यते । एवं च- दोषनिमित्तानां तत्वज्ञानादहङ्कारनिवृत्तिः ॥१॥ शरीरादि दुःखान्तं प्रमेयं दोषनिमित्तं, तद्विषयत्वान्मिथ्याज्ञानस्य । तदिदं तत्त्वज्ञानं तद्विषयमुत्पन्नमहङ्कारं निवर्तयति, समानविषये तयोविरो- धात् । एवं तत्त्वज्ञानाद् ‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति । स चायं शास्त्रार्थसङ्ग्रहोऽनूद्यते नापूर्वो विधी- यत इति ॥ १॥ प्रसङ्ख्यानानुपूर्वी तु खलु-- दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ॥ २ ॥ कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते । ते मिथ्या सङ्कल्प्यमाना रागद्वेषमोहान् प्रवर्त्तयन्ति । तान् पूर्व प्रसञ्चक्षीत । तांश्च प्रसञ्चक्षाणस्य रूपादिविषयो मिथ्यासङ्कल्पो निवर्तते । तन्निवृत्तावध्यात्म शरीरादि प्रसञ्चमीत । तत्प्रसङ्घयानादध्यात्मविषयोऽहङ्कारो निवर्त्तते । सोऽयमध्यात्म बहिश्च विवि- क्तचित्तो विहरन्मुक्त इत्युच्यते ।। २ ॥ अतः परं काचित्संज्ञा हेया काचिद्भावयितव्येत्युपदिश्यते, नार्थनिरा- करणमर्थोपादानं वा। कथमिति ?--- तन्निमित्तं त्ववयव्यभिमानः॥३॥ तेषां दोषागां निमित्तं त्ववयव्यभिमानः । सा च खलु स्त्रीसंज्ञा १ शरीरादिवनात्मस्वात्मबुद्धिनिवर्तनीयेत्युक्तम्-तत्रादौ कस्मिन्नात्मबुद्धि- निवर्तनीयेत्यपेक्षायां क्रमप्रदर्शनमवतारयति-प्रसङ्ख्यानेति । 'प्रसङ्ख्यानस्य' समाधिजस्य तत्त्वज्ञानस्य ' आनुपूर्वी ' क्रमः-अधुना प्रदर्श्यत इति शेषः । २ उत्तरम्-तनिमित्तसिति सूत्रम् । 'अवयविनि' तारुण्यादिशरीरे यो- 'ऽभिमानः स एव दोषाणां निमित्तमित्यर्थः । ३ सूत्रार्थमाह-तेषामिति । ४ सूत्रार्थ दृष्टान्तेन स्पष्टयति- सा चेति । न्या. सू. १९ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०३ - , . . . . सपरिष्कारी, पुरुषस्य पुरुषसंज्ञा च स्त्रियाः सपरिष्कारा-निमित्तसंज्ञा अनु- व्यञ्जनसंज्ञा च । निमित्तसंज्ञा-रसनाश्रोत्रम्, दन्तोष्ठम् , चक्षुर्नासिकम् । अनुव्यञ्जनसंज्ञा-इत्थं दन्ता इत्थमोष्टाविति । सेयं संज्ञा कामं वर्धयति तदनुषक्तांश्च दोषान् विवर्जनीयान् , वर्जनं त्वस्याः । भेदेनावयवसंज्ञा-केशलो- ममांसशोणितास्थिस्नायुशिराकफपित्तोचारोदिसंज्ञा । तामशुभसंज्ञेत्याचक्षते । तामस्य भावयतः कामरागः प्रहीयते । १ यथा स्त्रीविषये पुरुषस्य ' इयं स्त्री' इति भावना भवति-सा च भावना तस्य बन्धनकारणं भवतीत्याह-सपरिष्कारेति । २ यथा स्त्रीविषये पुरुषस्य तथैव पुरुपविषयेऽपि स्त्रिया अपीत्याह- पुरुषसंज्ञेति । ३ न तु केवलमियं स्त्रो-अयम्पुरुप इत्येतावन्मानमेव बन्धनकारणं भवत्य- पि तु तत्तद्विषये स्वरूपान्तरभावनैवेति प्रदर्शयितुं कामुकविषये भावनाविशेषद्वयं सूचयति-निमित्तेति । निमित्तसंज्ञाऽनुव्यञ्जनसंज्ञा' (इत्युभयरूपा) स्त्रीसंज्ञा पुरुषस्य सपरिष्कारा' (भवति ) पुरुषसंज्ञा च स्त्रियाः सपरिष्कारा' (भवति ) इत्यन्वयः। ४ कामुकविषयां स्त्रीसंज्ञां विशिनष्टि-निमित्तसंज्ञा रसनेति । 'निमित्त' दन्तत्वादि तद्विशिष्टाः 'संज्ञाः' विषयाः प्रियायाः कामुको रसनोष्ठनासिकादीन- वयवान् केवलान् सम्मुग्ध इव भावयति । सैव भावनाभिप्रेता। ५ अनुव्यञ्जनसंज्ञां विशिनष्टि- अनुव्यञ्जनसंज्ञा इत्थमिति । 'व्यञ्जनानि' अवयविनोऽवयवाः (तैस्सहैव तस्योपलभ्भात् ) तेषां- 'अनुव्यञ्जनम् ' तत्सा- दृश्यम्-तेन तदारोपः-' इत्थं दन्ता इत्थमोष्टौ' इति रूपकादिद्वारेण कामुकः प्रियाया अङ्गानि भावयति । सैव भावनाऽत्राभिप्रेता । ६ उक्तसंज्ञाद्वयस्य फलमाह-सेयमिति । प्रियाया दन्तोष्ठादीनवयवान् तत्त- द्रुपेणैव भावयन्नथ च तानेव दाडिमीबीजबिम्बादिरूपेण भावयन् कामुकस्तस्यामा- सक्तो भवतीत्यर्थः। ७ स्त्रीविषये आसक्तिजनकं संज्ञाद्वयं प्रदर्य तस्यैव स्त्रियाः संज्ञान्तरेण भावनया तस्यां विरक्तिमपि जनयतीति प्रदर्शयितुं तदेव संज्ञान्तरमाह-वर्जनमिति । 'अस्याः' स्त्रिया: 'वर्जनम्' - वर्जयतीति वर्जनम् - परित्यागोपायः तस्या एव 'अवयवसंज्ञा' भवतीत्यर्थः। ८ का चेयमवयवसंज्ञेति विशदयति-केशेति । ९ उच्चार इति-उत्सर्गो मूत्रपुरीषादिः । ..

चतुर्थाध्याये द्वितीयाह्निके पष्ठं सूत्रम् २९१ G सत्येव च द्विविधे विषये काचित्संज्ञा भावनीया काचित्परिवर्जनीयेत्यु- पदिश्यते । यथा विषसम्पृक्तेऽन्नेऽन्नसंज्ञोपादानाय विपसंज्ञा ग्रहाणायेति ॥ ३ ॥ (२) प्रासङ्गिकमवयवावयविप्रकरणम् । अथेदानीमर्थं निराकरिष्यताऽवयविनिराकरणमुपपाद्यते-- विद्याऽविद्याद्वैविध्यात् संशयः" ॥४॥ सदसतोरुपलम्भाद्विद्या द्विविधा। सदसतोरनुपलम्भादविद्यापि द्विविधा। उपलभ्यमानेऽवयविनि विद्याद्वैविध्यात्संशयः। अनुपलभ्यमाने चाविद्याद्वैविध्यात्संशयः । सोऽयमवयवी यापलभ्यते, अथापि नोपलभ्यते, न कथञ्चन संशयान्मुच्यत इति" ॥४॥ तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ५॥ तस्मिन्ननुपपन्नः संशयः । कस्मात् ? पूर्वोक्तहेतूनामप्रतिषेधादस्ति द्रव्यान्तरारम्भ इति ॥ ५॥ वृत्त्यर्नुपपत्तेरपि तर्हि न संशयः” ॥ ६॥ वृत्त्यनुपपत्तेरपि तर्हि संशयानुपपत्तिः । नास्त्यवयवीति" ॥ ६ ॥ १ परिशुद्धिकृतस्त्वाहुः-वस्तुतस्तु मुमुक्षोः सर्वं हेयमेव (नोपादेयं किञ्चिदपि) -हेये चोपादेयबुद्धिविपर्यय एव-तथाऽपि द्विविध एवासाविति बुभुक्षुमुमुक्षुपुरुष- भेदाभिप्रायेणोक्तमिति द्रष्टव्यम् । २ तदेवं स्वमतेन प्रसंख्यानोपदेशमुपवर्ण्य पराभिमतं प्रसंख्यानं निराकर्तुमुपन्य- स्थति- अथेदानीमिति । ' अर्थम् निराकरिष्यता' विज्ञानवादिना 'अवयविनिरा- करणं उपपाद्यते ' निमित्तानुव्यञ्जनसंज्ञयोरवयव्येव विषयः-ते एते संज्ञे वर्जितु- मशुभसंज्ञोपादेयेत्युपदेश इति व्यवस्थापितम्-तत्रार्थमात्रस्याभावात् कुतो निमित्तानु- व्यञ्जनसंज्ञे-इति तन्निराकरणाय प्रथममवयवी निराक्रियते, पश्चात्परमाणुस्ततश्च ज्ञान- मात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायो विज्ञानवादिनः । ३ तत्र सिद्धान्ती वक्ष्यमाणमवयविनिराकरणहेतुम्पश्चान्निराकरिष्यामीत्यादौ प्रौढिवादेन तावत्संशयमेव निराकरोति-तदसंशय इति सूत्रम् । 'तस्मिन् ' अवयविनि असंशयः' नास्त्येव संशयः-कस्मात् ' पूर्वहेतुप्रसिद्धत्वात् ' पूर्वोक्तहेतुभिरवयविनः साधितत्वादित्यर्थः। ४ पूर्वपक्षी स्वपक्षमिदानी प्रतिबन्दिरूपेणाह-वृत्त्यनुपपत्तेरिति । अवयविनि नास्त्येव संशयः इत्यत्रास्माकमप्यनुमतिः-अवयविनः ‘वृत्त्यनुपपत्तेः' यस्मात्तत्सत्त्वं नैवोपपद्यते तस्मात् तत्र 'न संशयः' इत्यर्थः । .

२९२ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०७- - तद्विभजते-- " कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥७॥ " एकैकोऽवयवो न तावत् कृत्स्नेऽवयविनि वर्त्तते । तयोः परिमाण- भेदादवयवान्तरसम्बन्धाभावप्रसङ्गाच्च । नाप्यवयव्येकदेशेन, न ह्यस्यान्येऽव- यवा एकदेशभूताः सन्तीति” ॥७॥ अथावयवेष्वेवावयवी वर्त्तते-- तेषु चावृत्तेरवयव्यभावः ॥८॥ न तावत्प्रत्यवयवं वर्त्तते, तयोः परिमाणभेदात् , द्रव्यस्य चैकद्रव्यत्व- प्रसङ्गात्। नाप्येकदेशेन, सर्वेष्वन्यावयवाभावात् । तदेवं न युक्तः संशयः नास्त्यवयवीति” ॥ ८ ॥ पृथक् चावयवेभ्योऽवृत्तेः " ॥९॥ अवयव्यभाव इति वर्तते । न चायं पृथगवयवेभ्यो वर्तते, अग्रहणात् नित्यत्वप्रसङ्गाच। तस्मान्नास्त्यवयवीति" ।।९।। ने चावयव्यवयवाः ॥१०॥ न चावयवानां धर्मोऽवयवी, कस्मात् ? धर्ममात्रस्य धर्मिभिरवयवै- पूर्ववत् सम्बन्धानुपपत्तेः। पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्याग्रहणादिति समानम् ” ॥ १०॥ एकस्मिन् भेदाभावाद्मेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥११॥ १ सूत्रस्यास्यार्थत्रयमुक्तं वृत्तिकृता । तद्यथा-(१) नन्वास्तामवृत्तिरेवावयवीति शङ्कायां पूर्वपक्षिसूत्रमिदम्-अवयवेभ्यः पृथगवयवी नास्त्येवेति शेषः । अवयव्यभाव इत्यष्टमसूत्रादनुवर्तते । अवयवेषु वृत्त्यभावेऽवयविनो नित्यत्वप्रसङ्गः । नास्ति तु नित्यः । अतो नास्त्यवयवीति । (२) कृत्स्नैकदेशाभ्यामवयवी न वर्तते किन्तु स्वरूपेणैवेति शङ्कायां पूर्वपक्षिसूत्रमेतत् । अवयवेभ्यः पृथक् अवयवी नास्ति, कुतः? अवृत्ते:, अवृत्तित्वप्रसङ्गात् । तथा सति नित्यं स्यादित्यर्थः । (३) कश्चित्तु अवयवा- तिरिक्तोऽवयवी वर्त्ततामित्यत्र पूर्वपक्षिणः सूत्रमिदम् । पूर्वोक्तयुक्त्याऽवयवेभ्यः पृथगप्यवृत्तेरित्यर्थः । २ यस्तु मन्यते-'अवयवानां धर्ममात्रमवयवी' न त्ववयवेभ्योऽत्यन्तं भिन्नोऽ- भिन्नो वा इति-तम्प्रत्याह पूर्वपक्षी-न चेति सूत्रम् । ३ अत्र पूर्वपक्षस्य द्वौ भागौ-अवयवानामवयविनि वृत्यभाव इति प्रथमः । स -सु. १२] चतुर्थाध्याये द्वितीयाह्निके द्वादशं सूत्रम् ។ -- किं प्रत्यवयवं कृत्स्नोऽवयवी वर्तते अथैकदेशेनेति, नोपपद्यते प्रश्नः, कस्मात् ? 'एकस्मिन् भेदाभावा दशब्दप्रयोगानुपपत्तेः' । कृत्स्नमित्यनेकस्या- शेषाभिधानम् , एकदेश इति नानात्वे कम्यचिदभिधानम् । ताविमौ कृत्स्नैक- देशशब्दो भेदविषयौ नैकस्मिन्नवयविन्युपपद्यते भेदाभावादिति ।। ११ ।। अन्यावयवाभावान्नैकदेशेन वर्त्तत इत्यहेतुः-- अवयवान्तरभावेऽप्यवृत्ते हेतुः ॥ १२ ॥ अवयवान्तराभावादिति-यद्यप्येकदेशोऽवयवान्तरभूतः स्यात्तथाप्यक- यवेऽवयवान्तरं वर्तत नावयवीति । अन्योऽवयवीति अन्यावयवभावेऽप्यवृत्तेः, अवयविनो नैकदेशेन वृत्तिरन्यावयवाभावादित्यहेतुः । "वृत्तिः कथमिति" चेत् ? एकस्यानेकत्राश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः। " आश्रयाश्रितभावः कथमिति" चेन् ? यस्य यतोऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः । न कारणद्रव्येभ्योऽन्यत्र कार्यद्रव्यमात्मानं लभते । विपर्ययस्तु कारणद्रव्येष्विति । नित्येषु कथमिति" चेत् ? अनित्येषु दर्शनात्सिद्धम् । नित्येषु द्रव्येषु कथमाश्रयाश्रितभाव इति” चेत् ? अनित्येषु द्रव्यगुणेषु दर्शनादा- श्रयाश्रितभावस्य नित्येषु सिद्धिरिति । .. चानभ्युपगमादेव निरस्तः । न कोऽपि नैयायिकः कारणस्यावयवस्य कार्येऽवयविनि समवायमभ्युपगच्छति । अवयविनोऽवयवेषु वृत्त्यभाव इत्यपरः । तमेवं द्वितीयं पूर्वपक्षभागमुपलक्ष्य सिद्धान्तवादी तन्निरस्यात-एकस्मिन्निति सूत्रम् । 'एकस्मिन्' अवयविनि ‘भेदाभावात् ' भेदघटितशब्दप्रयोगस्य अयुक्तत्वात् 'अप्रश्न: पूर्व पक्षिणोपन्यस्तस्य प्रश्नस्य नावकाश इत्यर्थः । १ अष्टमसूत्रभाष्ये यदुक्तम्-नाप्येकदेशे वर्ततेऽवयवी सर्वेष्वन्यावयवाभावा- दिति-तन्निरस्यति-अन्यावयवेति । एकदेशेन चावयवी न स्वावयवेपु वर्तते इत्यत्र प्रतिज्ञा) अवयवान्तराभावात्' इति अहेतुरित्यर्थः । २ पृच्छति-वृत्तिरिति । यदि न कात्स्न्येन न वकदेशेनावयविनोऽवयवेषु वृत्ति- स्तर्हि किम्पकारिका तस्य तेषु वृत्तिरिति प्रश्नार्थः । ३ यत्र यल्लम्यते तत्रैव तस्य वृत्तिस्तदेव तस्याश्रय इत्यनित्येषु द्रव्येषु गुणेषु च दृष्ट्वा नित्येप्वप्येवमेव भवतीत्यनुमीयत इत्याशयः ।

२९४ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०१३- तस्मादवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य, नावयवी। यथा रूपादिषु मिथ्यासङ्कल्पो न रूपादय इति ॥ १२ ॥ 'सर्वाग्रहणमवयव्यसिद्धेरिति प्रत्यवस्थितोऽप्येतदाह- केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः " ॥१३॥ यथैकैकः केशस्तैमिरिकेण नोपलभ्यते, केशसमूहस्तूपलभ्यते तथैकै- कोऽणु पलभ्यते । अणुसमूहस्तूपलभ्यते। तदिदमणुसमूहविषयं ग्रहण- मिति ॥ १३॥ स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथा- भावो नाविषये प्रवृत्तिः ॥ १४॥ यथाविषयमिन्द्रियाणां पटुमन्दभावाद्विषयग्रहणानां पटुमन्दभावो भवति । चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति, निकृष्यमाणं च न स्वविषयात् प्रच्यवते । सोऽयं तैमिरिकः कश्चिच्चक्षुर्विषयं केशं न गृह्णाति, गृह्णाति च केशसमूहम् । उभयं ह्यतैमिरिकेण चक्षुषा गृह्यते । परमाण- वस्त्वतीन्द्रिया इन्द्रियाविषयभूता न केनचिदिन्द्रियेण गृह्यन्ते, समुदितास्तु गृह्यन्ते, इत्यविषये प्रवृत्तिरिन्द्रियस्य प्रसज्येत । न जात्वर्थान्तरमणुभ्यो गृह्यत इति । ते खल्विमे परमाणवः सन्निहिता गृह्यमाणा अतीन्द्रियत्वं जहति । वियुक्ताश्चागृह्यमाणा इन्द्रियविषयत्वं न लभन्त इति । सोऽयं द्रव्यान्तरानु- त्पत्तावतिमहान् व्याघात इत्युपपद्यते द्रव्यान्तरं यद्ग्रहणस्य विषय इति । सञ्चयमात्रं विषय इति चेत् ? । न । सञ्चयस्य संयोगभावात्तस्य चातीन्द्रियाश्रयस्याग्रहणादयुक्तम् । सञ्चयः खल्वनेकस्य संयोगः । स च गृह्य- १ प्रकरणार्थमुपसंहरति-तस्मादिति । यस्मादवयवी सर्वथा अस्त्येवेति सिद्धमतो यत्तृतीयसूत्रे प्रतिषिध्यते स 'अवयविष्वभिमानो' मिथ्याज्ञानमेव, न स्ववयव्येवेति । २ अवयविनिराकरणवादिनो हेत्वन्तरमवतारयति-सर्वाग्रहणेति । 'सर्वाग्रहण- मवयव्यसिद्धे'रित्यस्मिन् सूत्रे द्वितीयाध्याये यद्यप्यवयविनिराकरणवादी प्रत्यवस्थितः परास्तस्तथाऽप्यत्रापि प्रकरणे पञ्चमसूत्रगतपूर्वहेतुपदेन द्वितीयाध्यायार्थं स्मारितः परः पुनस्तमेवार्थमाक्षिपतीत्यर्थः । ३ अवयव्यसिद्धौ सर्वाग्रहणप्रसङ्गो यो द्वितीयाध्याये उद्भावितः सिद्धान्तिना तस्य प्रसङ्गस्य वारणमाह-केशसमूह इति सूत्रम् । ।

-स्, १६] चतुर्थाध्याये द्वितीयाह्निके पोडशं सूत्रम् २९५ - माणाश्रयो गृह्यते, नातीन्द्रियाश्रयः । भवति हीदमनेन संयुक्तमिति । तस्माद- युक्तमेतदिति । गृह्यमाणस्य चेन्द्रियेण विषयस्याऽऽवरणाद्यनुपलब्धिकारणमुप- लभ्यते । तस्मान्नेन्द्रियदौर्बल्यादनुपलब्धिरणूनाम् । यथा नेन्द्रियदौर्बल्याञ्चक्षु- पाऽनुपलब्धिर्गन्धादीनामिति ॥ १४ ॥ अवयवावयविप्रसङ्गश्चैवमा प्रलयात् ॥ १५ ॥ यः खल्ववय विनोऽवयवेषु वृत्तिप्रतिषेधादभावः सोऽयमवयवस्थावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत, निरवयवाद्वा परमाणुतो निवर्तेत । उभयथा चोपलब्धिविषयस्याभावः । तदभावादुपलव्ध्यभावः। उपलब्ध्याश्रय- श्वायं वृत्तिप्रतिषेधः । स आश्रयं व्यानन्नात्मघाताय कल्पत इति ॥ १५ ॥ अथापि- नै प्रलयोऽणुसद्भावात् ॥ १६॥ अवयवविभागमाश्रित्य वृत्तिप्रतिषेधादभावः प्रसज्यमानो निरवय- वात्परमाणोनिवर्त्तते, न सर्वप्रलयाय कल्पते । निरवयवत्वं परमाणो- १ अवयव्यभावपक्षे दोषान्तरमाह-अवयवावयवीति सूत्रम् । अवयवावयवि- विषये योऽयं वृत्तिविकल्पः पूर्वपक्षिणोद्भावितस्तेन सर्वाभाव एव स्यात्तथा चाश्रय- व्याघातादेव स विकल्पोऽयुक्त इत्यर्थः । अन्न तात्पर्यकाराः - अत्र त्रयः पक्षाः सम्भवन्ति । योऽयमवयवेववयविवृत्ति- विकल्पानुपपत्त्याऽवयविनोऽभावप्रसङ्गः : आपाद्यते स आ प्रलयाद्वा निवर्त्तते-परमा- णोा-न क्वचिदपि वा निवर्त्तते-इति । तत्र प्रथमद्वितीयविकल्पावाश्रित्येदं सूत्रम् । यथैष वृत्तिविकल्पः स्थूले घटादौ एवं तदवयवेषु तदवयवेष्विति तदभावाप्रलये व्यव- तिष्ठते । न च प्रलयः सर्वोपाख्याविरहितो दर्शनविषयः सम्भवतीति । दर्शनविषया- भावादनाश्रयो विकल्प आत्मानमेव न लभते । उपलक्षणं चेदं-आ प्रलयादिति । आ परमाणोरित्यपि द्रष्टव्यम् । परमाणूनामतीन्द्रियत्वेन दर्शनविषयत्वाभावादनाश्रयता विकल्पस्य तदवस्थैव । तदिदमुक्तम्-निरवयवाद्वा परमाणुतो निवर्त्ततेति भाष्ये । वृत्तिकृतस्तु एवमुक्तप्रकारेण वृत्तिविकल्पदोषोऽवयवेऽवयविनि च प्रसक्तः 'आ प्रलयात् '-प्रलयोऽभावस्तत्पर्यन्तं तथा च सर्वाभाव एव स्यात् । न कस्यापि ग्रहणम् । तस्मात् साधूक्तं-सर्वाग्रहणमवयव्यसिद्धेरिति । २ पूर्वपक्षप्रतिषेधे हेत्वन्तरमवतारयति-अथापीति । अपि चेत्यर्थः । ३ प्रलयमभ्युपेत्येतदुक्तमा प्रलयादिति-वस्तुतस्तु 'प्रलयः'-सर्वाभावो-नास्त्येव अणोः सर्वदा सत्त्वादित्याह-न प्रलय इति सूत्रम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०१७- " ॥१८॥ विभागैरल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्रावस्थानात् । लोष्टस्य खलु प्रवि- भज्यमानावयवस्याल्पतरमल्पतममुत्तरमुत्तरं भवति । स चायमल्पतरप्रसङ्गो यस्मानाल्पतरमस्ति यः परमोऽल्पस्तत्र निवर्त्तते । यतश्च नाल्पीयोऽस्ति तं परमाणुं प्रचक्ष्मह इति ॥ १६॥ परं वा त्रुटेः ॥ १७॥ अवयवविभागस्यानवस्थानाद्व्याणामसङ्कयेयत्वात् त्रुटित्वनिवृत्ति- रिति ॥ १७॥ (३) निरवयवत्वैप्रकरणम्-औपोद्घातिकम् । अथेदानीमानुपलम्भिकः सर्वं नास्तीति मन्यमान आह- 'आकाशव्यतिभेदात् तदनुपपत्तिः १ अथानन्तोऽयं विभागः कस्मान्न भवति कस्माञ्च परमाणुपर्यन्त एवायमित्यत आह-परमिति सूत्रम् । त्रुटिस्त्रसरेणुरिति तात्पर्यकृतः । ब्यणुक एवेत्यन्ये । त्रुटेः परं यदतिसूक्ष्मं स एव परमाणुरित्यर्थः । २ सूत्रार्थमाह-अवयवविभागस्येति । त्रुटिस्त्रसरेणुरित्यनान्तरमित्यत्र प्रमाणं- जालसूर्यमरीचिस्थं त्रसरेणुरजः स्मृतम् - यदि त्रुटेः परं द्वित्रिपदकेऽवयवविभागो न विरमेत ततोऽवंयवविभागस्यानवस्थानात् सर्वव्येप्ववयवानामसद्धेययत्वात् त्रुटेस्त्रु- टित्वमेवापेयात् , त्रुटिरपि च सुमेरुणा तुल्यपरिमाणः स्यात्-उभयोरनन्तावयव- वत्वात्। ३ एवमवयविप्रकरणं समाप्य तदुपोद्घातेन निरवयवमपि वस्त्वस्तीति साध- यितुं निरवयवपरीक्षाप्रकरणमारभ्यत इति परिशुद्धिकृतः । अथ विश्वस्य शून्यत्वात् क परमाणुसम्भावनेति मतनिराकरणाय निरवयवप्रकरणमिति वृत्तिकृतः । ४ तत्र सर्व शून्यवादिनः पूर्वपक्षमवतारयति-अथेदानीमिति । आनुपलम्भि- कोऽत्र पूर्वपक्षमाहेत्यर्थः । ५ कश्वासावानुपलम्भिक इत्यत आह-सर्व नास्तीति । सर्वशून्यवादीति यावत् । चतुर्थाध्याये तावजगतः शून्यतोपादानता निराकृता-अधुना तु सर्वशून्यता निराक्रि- यत इति विवेकः । ६ तत्र पूर्वपक्षसूत्रम्-आकाशेति । सावयवत्वे च परमाणोः 'वृत्तिविकल्पात्तद- भाव' इति पूर्वपक्षसूत्रोक्तदिशा तस्याभाव एवेति शून्यतैव तत्वं भावानाम्-अना- श्रितोऽपि विकल्पो लोकप्रतीत्यनुसारेण कल्पनामात्रनिर्मितस्तात्त्विकी शून्यतां गमयति, मिथ्याज्ञानानामपि तत्त्वावगमहेतुत्वदर्शनात् । यथा रेखागवयो गवयत्व- प्रतिपत्तहेतुरित्यादि पूर्वपक्षहृदयम् । .

- सू. २२] चतुर्थाध्याये द्वितीयाह्निके द्वाविंशतितमं सूत्रम् प्रसज्यत "तस्याणोर्निरवयवस्य नित्यस्यानुपपत्तिः । कस्मात् ? आकाशव्यति- भेदात् । अन्तर्वहिश्चाणुराकाशेन समाविष्टो व्यतिभिन्नः । व्यतिभेदा- त्सावयवः । सावयवत्वादनित्य इति ॥ १८ ॥ आकाशासर्वगतत्वं वा" ॥ १९ ॥ अर्थतन्नेष्यते-परमाणोरन्तर्नास्त्याकाशम्-इत्यसर्वगतत्वं इति” || १९॥ अन्तर्वहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तद्- भावः ।। २०॥ 'अन्त'रिति-पिहितं कारणान्तरैः कारणमुच्यते । 'बहि रिति च-व्यव- धायकमव्यवहितं कारणमेवोच्यते । तदेतत्कार्यव्यस्य सम्भवति, नागोर- कार्यत्वात् । अकार्ये हि परमाणावन्तर्बहिरित्यस्याभावः । यत्र चास्य भावोऽणुकार्य तत् , न परमाणुः । यतो हि नाल्पतरमस्ति स परमाणुरिति ॥२०॥ शब्दसंयोगविभवाच्च सर्वगतम् ॥ २१ ॥ यत्र कचिदुत्पन्नाः शब्दा विभवन्न्याकाशे तदाश्रया भवन्ति । मनभिः परमाणुभिस्तत्कार्यैश्च संयोगा विभवन्त्याकाशे । नासंयुक्तमाकाशेन किञ्चिन्मू- तद्रव्यमुपलभ्यते । तस्मान्नासर्वगतमिति ।। २१ ॥ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥ २२ ॥ संसर्पता प्रतिघातिना द्रव्येण न व्यूह्यते-यथा काष्ठेनोदकम् । कस्मात् ? निरवयवत्वात् । संसर्पच्च प्रतिघाति द्रव्यं न विष्टभ्नाति-नास्य क्रियाहेतुं गुणं १ पूर्वपक्षं दूषयति सिद्धान्ती- अन्तर्बहिरिति सूत्रम् । 'अन्तः'शब्दो — बहिः' शब्दश्वावयवाभिधायको। अत: 'कार्यद्रव्यस्य' अवर विनः 'कारणान्तरम्' कारणविशेषभूतम् अवयवमेवाभिदधाति-ततश्चाकार्य परमाणौ न तयोः सम्भव इत्यर्थः। २ शब्दसंयोगेति सूत्रम् । सर्वगतमाकाशम्-कस्मात-' शब्दसंयोगविभवात् शब्दश्च संयोगश्च तयोः विभवः विभुत्वं सार्वत्रिकत्वम्-तस्मादित्यर्थः । अथ वा आकाशगुणस्य शब्दस्य ये संयोगास्तेषां विभुत्वादाकाशं सर्वगतमित्यर्थः । 'सर्वसंयोगशब्दविभवाच्च सर्वगत'मिति सूत्रपाठोऽत्र वार्तिककारसम्मतः । तदर्थश्च यस्मात्सर्वमूर्तिमद्भिः संयोगा विभवन्याकाशे तदाश्रया भवन्ति-शब्दाः स्वकारणसन्निधानादुपजायमानाः सर्व एवाकाशमाश्रयन्ते तस्मात् सर्वगतमाकाश- .. मिति ।

२९८ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० २,सू०२३- प्रतिबध्नाति । कस्मात् ? अस्पर्शत्वात् । विपर्यये हि विष्टम्भो दृष्ट इति-स भवान् सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशङ्कितुमर्हति । अण्ववयवस्याणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधः । सावयवत्वे चाणोरण्व- वयवोऽणुतर इति प्रसज्यते । कस्मात् ? कार्थकारणद्रव्ययोः परिमाणभेददर्श- नात् । तस्मादण्ववयवस्थाणुतरत्वम् । यस्तु सावयवोऽणुकार्यं तदिति । तस्माद- गुकार्यमिदं प्रतिषिध्यत इति । कारणविभागाच्च कार्यस्यानित्यत्वं नाकाशव्यतिभेदात् । लोष्टस्यावय- वविभागादनित्यत्वं नाकाशसमावेशादिति ॥ २२ ॥ " मूतिमतां च संस्थानोपपत्तेरवयवसद्भावः" ॥ २३ ॥ " परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डल- मित्युपपद्यते । यत्तसंस्थानं सोऽवयवसन्निवेशः । परिमण्डलाश्चाणवस्तस्मात्सा- वयवा इति" ॥ २३॥ संयोगोपेपत्तेश्च" ॥ २४॥ १ आकाशव्यतिभेदादिति परोक्तं हेतुं दूषयति-कारणेति । कार्यस्य विनाशः कारणानां तदवयवानां विभागादेव भवति नाकाशव्यतिभेदात् । तथा च यदि पर- माणोविनाशोऽनित्यत्वं वा स्यात् तदारम्भकावयवविभागादेव स्यात् नाकाशव्यति- भेदादित्यर्थः। २ पुनः शून्यतावादी प्रत्यवतिष्टते-मूर्तिमतामिति सूत्रम् । चशब्दस्त्वर्थः सिद्धान्तं निवर्तयति। परमाणोः अवयवसद्भावः'-कस्मात्-'मूर्त्तिमतां' (तेषां) 'संस्थानोपपत्तेः' इति सम्बन्धः । मूर्तिमतामिति पदं पाठ्यन्तमपि हेतु- पदतया नेतव्यम् । तथा च सावयवाः परमाणवः मूर्तिमत्वात् ‘संस्थानवत्त्वाच्च' इत्यर्थः पर्यवसितः । वृत्तिकृतस्तु मूर्तिमतामित्येतत् संस्थानवस्वे हेतुमभिप्रयन्ति- मूर्तिमत्वादेव संस्थान वत्त्वं परमाणूनामित्यर्थः । ३ परमाणोः सावयवत्वे हेत्वन्तरमाह परः-संयोगेति । सावयवाः परमाणव:- कस्मात्-संयोगोपपत्तेरिति सम्बन्धः । अत्र वार्त्तिकम् - " नन्विदं सूत्रं संस्थानवत्त्वादित्यनेनैव चरितार्थम् संयोग- विशेषस्य संस्थानवत्वेनाभिधानात् "। न चरितार्थम् - अवयवसंयोगविशेषस्य संस्थानवत्वेनाभिधानात्-संयोगमात्रं च संयोगशब्देनाभिधीयत इति न दोषः (पौनरुक्त्यम्)। पौनरुक्त्यमेवापाकुर्वन्मार्त्तसंस्थानयोर्भेदं स्पष्टीकरोति । तत्र मूर्तिर्नामाव्यापिद्रव्यस्य षड्विधं परिमाणम् -अणु महद्दीर्घ हरवं परमहस्वं परमा- ण्विति । (संस्थानं) नाम प्रचयाख्यः संयोगः। 'संयोगो'ऽप्राप्तिपूर्विका प्राप्तिरिति --सू . २४] चतुर्थाध्याये द्वितीयानिके चतुर्विशतितमं सूत्रम् २९९ " मध्ये सन्नणुः पूर्वापराभ्यामणुभ्यां संयुक्तस्तयोर्व्यवधानं कुरुते । व्यवधानेनानुमीयते-पूर्वभागेन पूर्वेणाणुना संयुज्यते परभागेन परेणाणुना संयुज्यते । यौ तौ पूर्वापरौ भागौ तावस्यावयवौ । एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति"। यत्तावत्-मूर्त्तिमतां संस्थानोपपत्तेरवयवसद्भाव-इति, अत्रोक्तम् , किमुक्तम् ? विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्र निवृत्तेः, अण्यवयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेध इति । यत्पुनरेतत्-" संयोगोपपत्तेश्चेति ” स्पर्शवत्त्वाव्यवधानम् , आश्रयस्थ चाव्याप्त्या भागभक्तिः, उक्तं चात्र । स्पर्शानणुः-स्पर्शवतोरण्वोः प्रति- घाताब्यवधायको न सावयवत्वात् । " स्पेर्शवत्त्वाच्च व्यवधाने सत्यणुसंयोगो नाश्रयं व्याप्नोतीति , . - १ तदेवं सर्वशून्यतामतं प्रासङ्गिकमुपपाद्य तदपाकर्तुं उत्सूत्रमेवोपक्रमते भाष्य- कारः-यत्तावदिति । त्रयोविंशसूत्रोक्तस्य परमाणुसावयवत्वसाधकहेतोरनुवादः । २ तदपाकरिष्यन् पूर्वोक्तमेव स्मारयति- अत्रोक्तमिति । ३ विस्मरणशीलः परः पृच्छति-किमुक्तमिति । ४ यदुक्तं तत् स्मारयति-विभाग इति । अण्व वयवस्येति च । पूर्व तावत् षोडशसूत्रभाष्यस्थमपरं च द्वाविंशसूत्रभाष्यस्थमिति । अन्न वार्तिककारोऽपरमपि दूषणमाह । तद्यथा- 'सावयवः परमाणुरिति प्रतिज्ञापदे व्याहते। सावयवत्वं नाम-समानजातीयारब्धं समानजातीयाश्रितमिति । अवयवश्च तस्याधार इति । एवं सावयवः परमाणुरिति ब्रुवता कार्यविशेषः : परमाणु- श्वेत्युक्तं भवति । कार्यविशेषश्च परमाणुरिति व्याहतम्' - इत्यादि तत एवानुसन्धेयम् । ५ चतुर्विशसूत्रोक्तं पराभिमतं हेतुमनुवदति-यत् पुनरेतदिति । ६ तस्याशयं विवृणोति-स्पर्शवत्वादिति । यदा परमाणुनयेणैकमवयव्यारब्धं तदा मध्यवर्तिना परमाणुना पूर्वापरयोः परमाण्वोर्व्यवधानं परमाणोः स्पर्शवत्व एव सम्भवति । संयोगश्च स्वाश्रयं न व्याप्नोतीति संयोगवत्त्वादेव परमाणोर्भागाः सन्तीति सिद्धम्भवतीत्यर्थः। ७ एतत्परिहारमपि द्वाविंशसूत्रभाष्योक्तमेव स्मारयति । उक्तं चात्रेति । ८ परिहारस्याशयं विवृणोति-स्पर्शवानिति । ९ उक्तं परिहारं दूषयति परः-स्पर्शवत्वादिति ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ० २,सू ०२५ - " स भागभक्तिर्भवति भागवानिवायमिति" । उक्तं 'चांत्र-विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्रावस्थानान्'-'तद्वयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेध' इति ॥२४॥ मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश्च परमाणूनां सावयवत्वमिति हेत्वो:- अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ २५ ।। यावनमूर्तिमद्यावच्च संयुज्यते तत्सर्वं सावयवमित्यनवस्थाकारिणाविमौ हेतू । सा चानवस्था नोपपद्यते। सत्यामनवस्थायां सत्यो हेतू स्याताम् । तस्मादप्रतिषेधोऽयं निरवयवत्वस्येति । विभागस्य च विभज्यमानहानिर्नोपपद्यते तस्मात्प्रलयान्तता नोपपद्यत इति। अनवस्थायां च प्रत्यधिकरण द्रव्यावयवानामानन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रहणं, समानपरिमाणत्वं चावयवावयविनोः परमाण्वक्यवविभागा- दूर्ध्वमिति ।। २५ ॥ (४) बाह्यार्थभङ्गनिराकरणप्रकरणम्-प्रासङ्गिकम् । .. १ भागभक्तिरिति । पूर्वापरभागाभ्यां विभाग इत्यर्थः । पूर्वेण भागेन पूर्वपर- माणुना संयुज्यतेऽपरेण चापरपरमाणुनेति प्राप्तम्परमाणोस्सावयवत्वमित्याशयः । २ परोद्भावित दूषणमपाकुर्वन् पूर्वोक्तमेव स्मारयति-उक्तं चात्रेति । 'विभा- गेऽल्पतरेति' पोडशसूत्रभाष्यस्थं वाक्यं, 'तदवयवस्येति द्वाविंशसूत्रभाष्यस्थम् । ३ एवं त्रयोविंशचतुर्विंशसूत्रोक्तस्योत्सूत्रमेन परिहारमुक्त्वा सौत्रं परि- हारमुपक्रमयितुं परोक्तौ हेतू अनुवदति-मूर्तिमतामिति । ४ परमाणुसावयवत्वसाधकहेतुनिराकरणपरं सूत्रम्-अनवस्थेति । पूर्वपक्षयुक्त्या परमाणुनिरवयवत्वप्रतिषेधो न युक्त:-कस्मात् ? यस्मादुक्तौ हेतू अनवस्था प्रवर्त- यतः-अनवस्था चानुपपन्नेत्यर्थः । ५ एवं तावद् द्वाभ्यां प्रकरणाभ्यां सावयचं निरवयवं चार्थ प्रसाध्य तत्प्रसङ्गागतं बाह्यार्थापह्नवनिराकरणार्थम्प्रकरणान्तरमिदमारब्धव्यम्भवति । यदि बाह्योऽर्थों नैवास्ति तर्हि नास्त्येवावकाशोऽवयवावयविव्यवस्थाया इत्यस्याः सामञ्जस्या) बाह्यार्थनिराकरणमपाकरणीयम् ।

-सू. २८ चतुर्थाध्याये द्वितीयाह्निके अष्टाविंशं सूत्रम् यदिदं भवान्बुद्धीराश्रित्य बुद्धिविषयाः सन्तीति मन्यते मिथ्यावुद्धय एताः । यदि हि तत्त्वबुद्धयः स्युर्बुद्धया विवेचने क्रियमाणे याथात्म्यं बुद्धि- विषयाणामुपलभ्येत- बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वप- कर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः" ॥२६॥ " यथाऽयं तन्तुरयं तन्तुरिति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिदुपलभ्यते यत्पटवुद्धेविषयः स्यात् । याथात्म्यानुपलब्धेरसति विषये पटबुद्धिर्भवन्ती मिथ्यावुद्धिर्भवति । एवं सर्वत्रेति' ।। २६ ॥ व्याहतत्वादहेतुः ॥ २७॥ यदि बुद्ध्या विवेचनं भावानां, न सर्वभावानां याथात्म्यानुपलब्धिः । अथ सर्वभावानां याथात्म्यानुपलब्धिर्न बुद्धया विवेचनम् । भावानाम् बुद्ध्या विवेचनं याथात्म्यानुपलब्धिश्चेति व्याहन्यते । तदुक्तम्-' अवयवावयविप्रसङ्ग- श्चैवमा प्रलयात्' इति ॥ २७ ॥ तदाश्रयत्वादपृथग्ग्रहणम् ॥ २८॥ १ अत्र प्रमेयत्वं ज्ञानत्वव्याप्यन्न वेति संशये पूर्वपक्षमाह विज्ञानवादी- यदिदमिति । बुद्धीनां विषयाः सन्तीति मतं मिथ्येति भावः । एवं क्रमेण परमाणुष्वपि बुद्धया विविच्यमानेषु याथात्म्यानुपलब्धेर्न बाह्यवस्तु स्थूलं वा क्षोदीयो वास्तीति सर्वा एव बुद्धयः स्वाकारमबाह्यं बाह्यतयाऽऽलम्बमाना मिथ्याभूता इति पूर्वपक्षहृदयम् । तथा चोक्तम्माध्यमिकैः- बुद्धया विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः। २ पूर्वपक्षहेतुं सिद्धान्ती दूषयति-व्याहतत्वादिति सूत्रम् । ३ प्रकृतविषयकं पूर्वमुक्तं स्मारयति- तदुक्तमिति । पञ्चदशसूत्रे प्रागित्यर्थः । अत्र वार्तिककारी दूषणान्तरमप्याह-सर्वभावानामनुपपत्तिरिति ब्रुवाण: प्रमाणं पर्यनुयोज्यः । यदि प्रमाणं ब्रवीति व्याहतं भवति, प्रमाणस्यापि भाव- रूपत्वात् । अथ न ब्रवीति अर्थोऽस्य प्रमाणाभावादेव न सिध्यतीति । ४ यत् पुनरेतत्-“यदि व्यतिरिक्तं पटादि द्रव्यं स्यात् तन्तुषु बुद्धया विविच्य- मानेषु पृथगुपलभ्येत”- इति तत्रं समाधत्ते-तदाश्रयत्वादिति सूत्रम् । यत् पटस्त- न्तुभ्यः पृथक् न गृह्यते तत्र कारणं तन्तुपटयोराश्रयाश्रितभाव एवेत्यर्थः । ' खद्योतसहितन्यायसूत्रभाष्ये । [अ०४, आ०२, सू०२९- , कस्मात् ? " कार्यद्रव्यं कारणद्रव्याश्रितं तत्कारणेभ्यः पृथङ् नोपलभ्यते। विपर्यये पृथग्ग्रहणात् । यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणमिति। बुद्धया विवे- चनात्तु भावानां पृथग्ग्रहणमतीन्द्रियेष्वणुषु, यदिन्द्रियेण गृह्यते तदेतया बुद्धया विविच्यमानमन्यदिति ।। २८ ।। प्रमाणतश्चार्थप्रतिपत्तेः ॥ २९॥ बुद्धथा विवेचनाद्धावानां याथात्म्योपलब्धिः । यदस्ति यथा च, यन्नास्ति यथा च, तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति । या च प्रमाणत उपलब्धिस्तद्- बुद्धया विवेचनं भावानाम् । तेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः। परीक्षमाणो हि बुद्धयाऽध्यवस्यति-इदमस्तीदं नास्ति इति । तत्र न सर्वभावानुपपत्तिः ।। २९ ।। प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥ ३० ॥ एवं च सति सर्व नास्तीति नोपपद्यते । प्रमाणानुप- पत्त्युपपत्तिभ्याम् ' । यदि सर्वं नास्तीति प्रमाणमुपपद्यते, सर्वं नास्तीत्येतद्व्या- हन्यते । अथ प्रमाणं नोपपद्यते सर्वं नास्तीत्यस्य कथं सिद्धिः । अथ प्रमाण- मन्तरेण सिद्धिः सर्वमस्तीत्यस्य कथं न सिद्धिः ।। ३०॥ " स्वमविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः" ॥३१॥ १बुद्ध्या विविच्यमानानामर्थानाम्पृथग्भावोऽपि गृह्यत एवेत्याह-बुद्धयेति । यन्त्र खल्ववयवावयविनावैन्द्रियको तत्र पृथग्रहणमविवेचकानामस्फुटतरम्-अती- न्द्रियेभ्यस्त्वणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयवानां पृथग्ग्रहण- मतिस्फुटमित्याशयः । २ अतीन्द्रियेष्ववयवेषु परमाणुष्वैन्द्रियकावयविभेदः स्पष्टो गृह्यत इति प्रद- र्शितम्-अधुना ऐन्द्रियकेऽप्यवयवेऽवयविनो विविच्यमानस्य याथात्म्येन पृथग्ग्रहण- म्प्रदर्शयति-प्रमाणत इति सूत्रम् । प्रमाणतः' प्रमाणाधीनत्वात् 'अर्थस्य' पटादेः 'प्रतिपत्तेः ' ज्ञानस्य प्रामाणिके चार्थे न बाधकस्य सम्भव इत्यर्थः । ३ पूर्वपक्षे दोषान्तरमाह-प्रमाणेति सूत्रम् । व्याघातान्न बाह्याभाव इति शेषः । 'बाह्यं नास्ति' इत्यत्र प्रतिज्ञायां यदि प्रमाणम् ' उपपद्यते' वर्तते तदा तत्प्रमाणस्य बाह्याभावज्ञानाद् ‘बाह्यस्य' सत्वात् न बाह्याभावः । अथ तत्र प्रमाणं न उपपद्यते' तदा निष्प्रमाणकत्वादेव तत्प्रतिज्ञा न सिध्यतीत्यर्थः । ४ स्वमप्रत्ययदृष्टान्त एव भवता विषयासत्त्वसाधनायोपन्यस्तः स चोक्तप्रकारेण --स्, ३४] चतुर्थाध्याये द्वितीयाह्निके चतुस्त्रिंशत्तमं सूत्रम् " मायागन्धर्वनगरमृगतृष्णिकावद्वा" ॥ ३२॥ यथा स्वप्ने न विपयाः सन्त्यथ चाभिमानो भवति, एवं न प्रमा- णानि प्रमेयाणि च सन्त्यथ च प्रमाणप्रमेयाभिमानो भवति ||३१|| ।।३२।। हेत्वभावादसिद्धिः ॥३३॥ स्वप्नान्ते विषयाभिमानवत्प्रमाणप्रमेयाभिमानो न पुनर्जागरितान्ते विषयोपलब्धिवदित्यत्र हेतुर्नास्तीति 'हेत्वभावादसिद्धिः' । म्वन्नान्ते चासन्तो विषया उपलभ्यन्त इत्यत्रापि हेत्वभावः । "प्रतिबोधेऽनुपलम्भादिति चेत् ?" प्रतिबोधविषयोपलम्भादप्रतिषेधः । यदि प्रतिबोधेऽनुपलम्भात्स्वप्ने विषया न सन्तीति, तर्हि य इमे प्रतिबुद्धेन विषया उपलभ्यन्ते, उपलम्भात्सन्तीति । विपर्यये हि हेतुसामर्थ्यम् । उपलम्भात् सद्भावे सत्यनुपलम्भादभावः सिद्धयति । उभयथा त्वभावे नानुपलम्भस्य सामर्थ्यमस्ति । यथा प्रदीपस्या- भावाद्रूपस्यादर्शनमिति तत्र भावेनाभावः समर्थ्यत इति । स्वप्नान्तविकल्पे च हेतुर्वचनम् । स्वप्नविषयाभिमानवदिति ब्रुवता स्वप्नान्तविकल्पे हेतुर्वाच्यः । कश्चित्स्वप्नो भयोपसंहितः, कश्चित्प्रमोदोपसंहितः, कश्चिदुभयविपरीतः, कदाचित्स्वप्नमेव न पश्यतीति । निमित्तवतस्तु स्वप्न- विषयाभिमानस्य निमित्तविकल्पाद्विकल्पोपपत्तिः ॥ ३३ ॥ स्मृतिसङ्कल्पवञ्च स्वप्नविषयाभिमानः ॥ ३४॥ जागरितप्रत्ययविषयाणां सत्त्वमेव भवदीयप्रतिज्ञाविरुद्धं साधयतीत्यर्थः । एतदुक्त- म्भवति । स्वप्नज्ञानस्यायाथार्थ्यमिच्छता बाधकमन्तरेण तदनुपपत्तेर्जाग्रत्प्रत्यय एवास्य बाधको वक्तव्यः । न चासावसमीचीनस्तद्वाधितुमुत्सहत इति समीचीनत्वं जाग्रत्प्रत्ययस्याभ्युपगन्तव्यमिति । च जागरितान्ते विषयोपलब्धिवदि- स्यनुपपन्नम्। १ परोक्तौ दूषणान्तरमाह- स्वप्नान्तविकल्प इति । २ हेतुवचनमिति । हेतुर्वाच्य इत्यर्थः । ३ स्वाशयं वर्णयति-स्वप्नविषयेति । स्वप्नज्ञानानि विचित्राणि भवन्ति । तत्र वैचित्र्ये को हेतुरिति वक्तव्यम् । ४ स्वप्नज्ञानस्यापि सद्विषयत्वमेवेत्यत्र साधकमाह-स्मृतिसङ्कल्पवदिति सूत्रम्। तथा खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०३५- पूर्वोपलब्धविषयः । यथा स्मृतिश्च सङ्कल्पश्च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते, तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानाय कल्पत इति । एवं दृष्टविषयश्च स्वप्नान्तो जागरितान्तेन । यः सुप्तः स्वप्नं पश्यति स एव जाग्रत्स्वप्नदर्शनानि प्रतिसन्धत्ते-इदमद्राक्षम्-इति । तत्र जाग्रबुद्धिवृत्तिवशात्स्वप्नविषयाभिमानो मिथ्येति व्यवसायः । सति च प्रतिसन्धाने या जाग्रतो बुद्धिवृत्तिस्तद्वशादयं व्यवसायः-स्वप्नविषयाभिमानो मिथ्येति । उभयाविशेषे तु साधनानर्थक्यम् । यस्य स्वप्नान्तजागरितान्तयोर- विशेषस्तस्य स्वप्नविषयाभिमानवदिति साधनमनर्थकं तदाश्रयप्रत्याख्यानात् । अतस्मिँस्तदिति च व्यवसायः प्रधानाश्रयः । अपुरुष स्थाणौ पुरुष इति व्यवसायः स प्रधानाश्रयः । न खलु पुरुषेऽनुपलब्धे पुरुष इत्यपुरुषे व्यवसायो भवति । एवं स्वप्नविपयस्य व्यवसायो-हस्तिनमद्राक्षं पर्वतमद्रा- क्षमिति-प्रधानाश्रयो भवितुमर्हति ।। ३४ ॥ एवं च सति- मिथ्योपलब्धेविनाशस्तत्त्वज्ञानात्स्वमविषयाभिमानप्रणाशव- त्प्रतिबोधे ॥ ३५॥ स्थाणी पुरुषोऽयमिति व्यवसायो मिथ्योपलब्धिः-अतस्मिंस्तदिति ज्ञानम् । स्थाणौ स्थाणुरिति व्यवसायस्तत्त्वज्ञानम् । तत्वज्ञानेन च मिथ्यो- १ सूत्रशेषं पूरयति- पूर्वेति । तथा च 'स्मृतिसङ्कल्पवत् स्वप्नविषयाभिमा- नोऽपि पूर्वोपलब्धविषय एवेति' सूत्रस्वरूपम् । विपग्रीकुरुत इत्युभयवादिसम्मतम् । ततश्चानयोर्विपयौ न प्रतिषेधुं शक्यते । २ ननु भ्रमस्यापि सद्विषयकत्वे तत्प्रतिरोधः कथं स्यादित्याशङ्काया उत्तरमुप- क्रमते-एवं चेति । मिथ्याज्ञानस्य सत्यज्ञानापेक्षत्वे सतीत्यर्थः ३ भ्रमज्ञानस्य प्रतिरोधप्रकारमाह-मिथ्योपलब्धेरिति सूत्रम् । ४ सूत्रार्थमाह- स्थाणाविति । इदमत्राकृतम्- मिथ्योपलब्धीनां बाह्यानालम्बन- स्वमास्थाय तत्त्वबुद्धीनां बाह्यानालम्बनत्वं साधनीयम् । तासां बाह्यानालम्बनत्वं च बाधकाधीनम् । बाधकं चात्र रजतादिभ्रमे समारोपितरजताभिमानमेव निवर्तयति न तु पुरोऽवस्थितमर्थसामान्यमपि शुक्लभास्वरम् । तस्मान्न बाधकानुरोधादपि मिथ्याज्ञानं बाह्यानालम्बनमिति स्वप्नवदिति दृष्टान्तः साध्यविकल इति ।

चतुर्थाध्याये द्वितीयाह्निके षट्त्रिंशत्तमं सूत्रम् तथा पलब्धिर्निवय॑ते, नार्थः स्थाणुपुरुषसामान्यलक्षणः । यथा प्रतिबोधे या ज्ञानवृत्ति- स्तया स्वप्नविषयाभिमानो निवर्त्यते, नार्थो विषयसामान्यलक्षणः, मायागन्धर्वनगरमृगतृष्णिकाणामपि या बुद्धयोऽतस्मिन्तदिति व्यवसायास्तत्रा- प्यनेनैव कल्पेन मिथ्योपलब्धिविनाशस्तत्त्वज्ञानान्नार्थप्रतिषेध इति : उपादानबच्च मायादिषु मिथ्याज्ञानम् । प्रज्ञापनीयसरूपं च द्रव्यमुपा- दाय साधनवान्परस्य मिथ्याध्यवसायं करोति सा माया । नीहारप्रभृतीनां नगरसरूपसन्निवेशे दूरान्नगरबुद्धिरुत्पद्यते, विपर्यये तदभावात् । सूर्यमरी- चिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेषूदकबुद्धिर्भवति सामान्यग्रहणान्। अन्तिकस्थस्य विपर्यये तदभावात्। क्वचित् कदाचिन् कस्यचिच्च भावान्नानिमित्तं मिथ्याज्ञानम् । दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तः परस्य च दूरान्तिकस्थयोर्गन्धर्व- नगरमृगतृष्णिकासु, सुप्तप्रतिबुद्धयोश्च स्वप्नविषये। तदेतत्सर्वस्याभावे निरुपा- ख्यतायां निरात्मकत्वे नोपपद्यत इति ।। ३५ ।। बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ ३६॥ मिथ्याबुद्धेश्चार्थवदप्रतिषेधः । कस्मात् ? निमित्तोपलम्भात् सद्भावो- प्रलम्भाच्च । उपलभ्यते हि मिथ्याबुद्धिनिमित्तम् । मिथ्याबुद्धिश्च प्रत्यात्ममुत्पन्ना गृह्यते संवेद्यत्वात् । तस्मान्मिथ्याबुद्धिरप्यस्तीति ॥ ३६ ॥ १ स्वप्मज्ञानस्य सदाश्रयत्वमुपपाद्य मायाज्ञानस्यापि सदाश्रयत्वमुपपादयति- उपादानवदिति । मायादिष्वपि यन्मिथ्याज्ञानं तस्यापि 'उपादानं' कारणं सदेवेत्यर्थः । २ उपसंहरति-तदेतदिति । यद्यत्यन्तमेव निरात्मकमसदेव सर्वथा सर्वम- भविष्यत्तहीदृशबुद्धिद्वैतं न भवेदित्यर्थः। ३ बाह्यमात्रापलापिनं विज्ञानवादिनं निरस्य सर्वशून्यवादिन निराकर्तुमुपक्रमते- माध्यमिको हि सर्वशून्यवादी मिथ्याबुद्धिदृष्टान्तेन बाह्यापह्नवं कृत्वा तेनैव दृष्टान्तेन विज्ञानस्याप्यभावं प्रसाध्य भावानां सर्वथा विचारासहत्वं व्यवस्थापयति-तम्प्रत्याह- बुद्धेश्चेति सूत्रम् । 'बुद्धेः' ज्ञानस्यापि 'एवम्' अप्रतिषेध एव-कुतः-'निमित्त- सद्भावोपलम्भात्' । यस्मात्तस्य निमित्तं सद्भावश्चोपलभ्यते तस्मादित्यर्थः । सोऽयं माध्यमिकः सर्वैरनुभूयमानां मिथ्याबुद्धिं नैवापह्वोतुमर्हति-मिथ्याबुद्धिं च प्रतिपद्यमानेन तदाश्रयभूतो बाह्योप्यर्थोऽभ्युपगन्तव्य इति हृदयम् । न्या. सू. २० ३०६ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०३७- तत्त्वप्रधानभेदाच मिथ्यावुद्धेद्वविध्योपपत्तिः ॥ ३७॥ तत्त्वं स्थाणुरिति-प्रधानं पुरुष इति-तन्वप्रधानयोरलोपाझेदात स्थाणौ पुरुष इति मिथ्याबुद्धिरुत्पद्यते सामान्यग्रहणात् । एवं पताकाय बलाकेति, लोष्टे कपोत इति । न तु समाने विषये मिथ्याबुद्धीनां समावेशः, सामान्यग्रहणव्यवस्थानात् । यस्य तु निरात्मकं निरुपाख्यं सर्वं तस्य समावेशः प्रसज्यते। गन्धादौ च प्रमेये गन्धादिबुद्धयो मिथ्याभिमतास्तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात्तत्त्वबुद्धय एव भवन्ति । तस्मादयुक्तमेतत्-प्रमाण- प्रमेयबुद्धयो मिथ्येति ॥ ३७॥ (५) तत्त्वज्ञानविवृद्धिप्रकरणम् । दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम् । “अथ कथं तत्त्व- ज्ञानमुत्पद्यत इति ?"-- १ ज्ञानमात्रस्यासविषयत्वस्य सद्विपयकत्वाभावस्य वा साधनाय मिथ्या- ज्ञानदृष्टान्तो न कल्पत इत्याह-तत्त्वेति सूत्रम् । 'तत्त्वं' धर्मिस्वरूपम् (स्थाणुः) 'प्रधानम्' आरोग्यम् (पुरुषः)-तयोदोस्ति यस्मात् तस्मात् 'मिथ्याबुद्धेः द्वैविध्यो- पपत्तिः' । धर्मिस्वरूपविषये प्रमात्वमारोप्यांशे चाप्रमात्वमित्यर्थः। प्रमाप्रमारूपत्वा- मिथ्याज्ञानस्य तदृष्टान्तेन ज्ञानानामत्यन्तासविषयकत्वं न साधयितुं शक्यमिति हृदयम् । २ एवं प्रासङ्गिकं बाह्यार्थप्रकरणं समर्थितम् । पूर्वस्मिश्चालिकादौ दोपनिमित्तता- प्रकरणे तत्त्वज्ञानोत्पत्तये क्रमविशेषश्च दर्शितः । न चैतावता कृतार्थता । तस्य साक्षा- स्कारमोहोन्मूलनासमर्थत्वात् । अतस्तथाविधतत्वज्ञानसमुत्पादपर्यन्तमेतद्विवर्तनीय- मिति तदर्थमिदं पञ्चमप्रकरणमिति परिशुद्धिकृतः। "ननु शास्त्राधीनं ज्ञानं क्षणिकम् । अतस्तन्नाशे पुनर्मिथ्याज्ञानं स्यादेव । न हि तादृशं किञ्चिदपि ज्ञानं सवासनमिथ्याज्ञानसमुन्मूलक्षमम्” इतीमां शङ्कामुद्दिश्य तत्त्वज्ञानविवृद्धिप्रकरणमारम्भणीयम्प्राप्नोति । 'तत्वज्ञानविवृद्धिः' तत्त्वज्ञानवासना तस्यां सत्यां भवत्येव मिथ्याज्ञानस्यात्यन्तिको नाशः-इति वृत्तिकाराः । ३ प्रकरणार्थमवतारयितुं पूर्वोक्तं स्मारयति-दोषनिमित्तानामिति । ४ तत्र शङ्कते पूर्वपक्षी-अथ कथमिति । न तावदागमत उपपत्तितो वा तत्वज्ञानमहङ्कारनिवृत्तिं कर्तुमुत्सहते, दोषनिमित्तेषु च सत्सूत्पन्नज्ञानानामपि पूर्ववद- हङ्कारदोषानुवृत्तेः । साक्षात्कारस्तु तत्त्वज्ञानस्योपायाभावादयुक्त एवेति प्राश्निकस्य हृदयम् ।

---सू. ४१] चतुर्थाध्याये द्वितीयाह्निके एकचत्वारिंशत्तमं सूत्रम् , समाधिविशेषाभ्यासात् ॥ ३८ ॥ स तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस्तत्त्वबुभुत्साविशिष्टः । सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते । तदभ्यासवशात्तत्त्वबुद्धिरुत्पद्यते ॥ ३८ ॥ यदुक्तं-" सति हि तस्मिन् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते "-इत्येतत् 'नै, अर्थविशेषप्राबल्यात् " ॥ ३९ ॥ " अनिच्छतोऽपि बुद्ध्युत्पत्ते.तद्युक्तम् । कस्मात् ? अर्थविशेषप्राव- ल्यात् । अबुभुत्समानस्यापि बुद्ध्युत्पत्तिदृष्टा, यथा स्तनयित्नुशब्दप्रभृतिषु । तत्र समाधिविशेषो नोपपद्यते” ॥ ३९ ॥ " क्षुदादिभिः प्रवर्तनाच" ॥ ४०॥ क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश्चानिच्छतोऽपि बुद्धयः प्रवर्त्तन्ते । तस्मादैकाग्यानुपपत्तिरिति " ।। ४० ॥ अस्त्वेतत्समाधिं विहाय व्युत्थानं, व्युत्थाननिमित्तं समाधिप्रत्यनीकं च, सति त्वेतस्मिन्- पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥४१॥ पूर्वकृतो-जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धर्मप्रविवेकः । फलानुवन्धो योगाभ्याससामर्थ्यम् । निष्फले ह्यभ्यासे नाभ्यासमाद्रियेरन् । दृष्टं हि लौकि- केषु कर्मस्वभ्याससामर्थ्यम् ॥४१॥ १ अस्योत्तर-समाधीति सूत्रं तत्त्वज्ञानविवृद्धौ हेतुमाह । २ आक्षेपसूत्रमवतारयति-यदुक्तमिति । यदुक्तं सिद्धान्तिना तत् 'एतत्' नेति सूत्रेण सम्बन्धः। ३ तत्राक्षेपसूत्रम्-नाथेति । यदुक्तं तन्न-कस्मात्-' अर्थविशेषप्राबल्यात्'। अर्थविशेषाणाम्प्राबल्यात् प्रबलैरिन्द्रियविषयैरपहृतमनसो धारणा नैव सम्भवति, तथा च समाध्यभ्यासाभावात् न तत्त्वसाक्षात्कार इति सूत्रार्थः। ४ समाधानसूत्रमवतारयति-अस्त्वेतदिति । समाधिहानिस्तन्निमित्तको विक्षेपो भवतीत्येतन्न प्रतिषिध्यते सत्स्वप्येतेषु ‘तदुत्पत्तिः' इति सूत्रेण सम्बन्धः । ५ सिद्धान्तमाह-पूर्वकृतेति । 'पूर्वकृतः' पूर्वशरीराभ्यस्तः समाधिः-तस्य फलम् , धर्माख्यः संस्कारविशेषः, तस्य ' अनुबन्धः' स्थेमा-तस्मात्-'तस्य' समाध्युत्कर्षस्य — उत्पत्तिः' भवत्येवेति शेषः । ' ३०८ खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू०४२- - प्रत्यनीकपरिहारार्थं च-- अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ ४२ ॥ योगाभ्यासजनितो धर्मो जन्मान्तरेऽप्यनुवर्तते । प्रचयकाष्ठागते तत्त्व- ज्ञानहतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानमुत्पद्यत इति । दृष्टश्च समाधिनाऽर्थविशेषप्राबल्याभिभवः-नाहमेतदोषं नाहमेतदज्ञासिषमन्यत्र मे मनोऽभूत्-इत्याह लौकिक इति ॥ ४२ ॥ यद्यविशेषप्राबल्यादनिच्छतोऽपि बुद्ध्युत्पत्तिरनुज्ञायते--- " अपवर्गेऽप्येवं प्रसङ्गः ॥४३॥ मुक्तस्यापि बाह्यार्थसामर्थ्याबुद्धय उत्पद्येरन्निति” ॥ ४३ ॥ न, निष्पन्नावश्यम्भावित्वात् ॥४४॥ कर्मवशान्निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावादवश्यम्भावी बुद्धी- नामुत्पादः । न च प्रबलोऽपि सन् बाह्योऽर्थ आत्मनो बुद्ध्युत्पादे. समर्थो भवति । तस्यन्द्रियेण संयोगाद्बुद्ध्युत्पादे सामर्थ्य दृष्टमिति ॥ ४४ ॥ तदभावश्चापवर्गे ॥४५॥ तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावादभावोऽपवर्गे । तत्र यदुक्तम्-अपवर्गेऽप्येवं प्रसङ्ग इति-तयुक्तम् । तस्मात्सर्वदुःखविमोक्षोऽप- १ ननु भवतु समाध्यभ्यासेन तदुत्कर्षः, रागादयस्तु तत्प्रत्यनीका वर्तन्त एव । ते च प्रतिबध्नन्त्येव समाध्युस्कर्षमित्यत आह-प्रत्यनीकेति । प्रत्यनीकानां निवारणायैव योगाभ्यासोपदेश' इति सूत्रेण सम्बन्धः । २ ननु भवदुक्तेरयमाशयः प्रतिभाति यत्तत्त्वतोऽनिच्छतोऽप्युत्पद्यन्ते एव बुद्धयः केवलप्रबलेन समाधिना तास्तिरस्कृता एव वर्तमानाः पुरुषस्य विक्षेपं न जनय- न्तीति । एवं सत्यभ्यनुज्ञायत एव भवताऽप्यनिच्छताऽपि बुद्ध्युत्पत्तिः-तथा च सत्यपवर्गेऽप्यर्थविशेषस्य प्राबल्यादुत्पद्येरन्नेव बुद्धयः इत्यपवर्गानुपपत्तिरेवेति शङ्कते पूर्वपक्षी- यद्यर्थेति । ३ अस्मिन्नेवार्थे सूत्रम्-अपवर्ग इति । ४ पूर्वपक्षोक्तस्योत्तरे सिद्धान्तसूत्रम्-न निष्पन्नेति । यदुक्तं पूर्वपक्षिणा तन्न- कस्मात्-यस्मात् 'निष्पन्ने' पूर्वकर्मवशादुत्पादिते एव शरीरे विषयज्ञानोत्पत्तिरवश्य- म्भाविनीति सम्बन्धः । सत्येव चेष्टाद्याश्रये शरीरे बाह्यविषया ज्ञानकरणं भवन्ति Irrot TRITT. 1 -सू. ४८] चर्तुथाध्याये द्वितीयाह्निके अष्टचत्वारिंशत्तमं सूत्रम् ३०९ . वर्गः । यस्मात्सर्वदुःखवीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते, तस्मात्सर्वेण दुःखेन विमुक्तिरपवर्ग: । न निजि निरायतनं च दुःखमुत्पद्यत इति ॥४५॥ तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥४६॥ तस्यापवर्गस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः। यमः-समानमाश्र- मिणां धर्मसाधनम् । नियमस्तु विशिष्टम् । आत्मसंस्कारः पुनरधर्महानं धर्मो- पचयश्च । योगशास्त्राच्चाध्यात्मविधिः प्रतिपत्तव्यः । स पुनस्तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति । इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषाहीणार्थः । उपायस्तु योगाचारविधानमिति ॥ ४६॥ ज्ञानग्रहणाभ्यासस्तद्विद्येश्च सह संवादः॥४७॥ तदर्थमिति प्रकृतम् । ज्ञायतेऽनेनेति ज्ञानमात्मविद्याशास्त्रं, तस्य ग्रहण- मध्ययनधारणे । अभ्यासः सततक्रियाऽध्ययनश्रवणचिन्तनानि । तद्विद्यैश्च सह संवाद' इति प्रज्ञापरिपाकार्थम्। परिपाकस्तु संशयच्छेदनमविज्ञाताथवोधोऽध्य- वसिताभ्यनुज्ञानमिति । समाय वादः-संवाद: ।। ४७ ॥ तद्विद्यैश्च सह संवाद' इत्यविभक्तार्थं वचनं विभव्यते- तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् ॥४८॥ १ न केवलं समाधिविशेष एव तत्त्वज्ञानस्यापवर्गस्य वा साधनम् अपि तु साधानान्तराण्यपि तस्य सन्तीति तानि साधनान्तराण्यप्याह- तदर्थमिति सूत्रम् । तदर्थम्' अपवर्गार्थम् 'यमनियमाभ्याम् ' ' योगात्' योगशास्त्रप्रतिपाद्यः 'अध्यात्मविध्युपायैः च !'-' आत्मसंस्कारः ' कर्तव्य इति शेषः । २ ननु यद्ययमेव तत्वज्ञानोत्पादक्रमेणापवगोंपायः, कृतं तन्वीक्षिक्येत्यत आह - ज्ञानग्रहणेति सूत्रम् । ३ सूत्रार्थमाह- तदर्थमितीति । तदर्थ मिति पूर्वसूत्रादनुवर्त्तनीयम् । एवं च अपवर्थं पूर्वसूत्रोक्तादन्यदश्यपेक्षितमित्याशयः। ४ संवादपदार्थनिरूपणपरं सूत्रमवतारयति-तद्विद्यैरिति । ५ अविभक्तार्थमिति-अपरिस्फुटार्थमित्यर्थः । ६ विभज्यत इति-विशिष्य वर्ण्यत इत्यर्थः । ७ वृत्तिकारस्तु तमितिपदं सद्विद्यमिति व्याख्याय-शिष्यादिसाहाय्येन तद्विद्यु जानीयादित्येव सूत्रार्थं वर्णितवान् । तात्पर्यकृतस्तु — अभ्युपेयात्' इत्येतस्य अभि- मुखमुपेत्य जानीयादित्यर्थं वर्णयित्वाप्यने 'गुर्वादिभिर्वादं कृत्वे 'त्युक्त्वाऽस्माभिरु- . .

खद्योतसहितन्यायसूत्रभाष्ये [अ०४, आ०२, सू० ४९- Des- . एतन्निगदेनैव नीतार्थमिति ॥ ४८ ॥ यदिदं मन्येत-" पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति --- प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥४९॥ तमभ्युपेयादिति वर्तते । परतः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोधयेदिति । अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि ॥ ४९ ।। (६) तत्त्वज्ञानपरिपालनप्रकरणम् । स्वपक्षरागेण चैके न्यायमतिवर्तन्ते । तत्र- तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ क- प्टकशाखावरणवत् ॥ ५० ॥ तमेवार्थमनुमोदयन्त इव प्रतिभान्ति । वृत्तिकृतस्तु व्याख्याने सूत्रे तृतीयान्तपदयोः सम्बन्धस्य दुरवबोधत्वात्प्रकृताननुगुणत्वाच्च-'शिष्यादिभिः संवादं कुर्यादि 'त्येवा- र्थः सम्यक् प्रतिभातीति सुधिय एवात्र प्रमाणम् । भाष्यकारस्तु सूत्रार्थं निगदेनैव नीतार्थम् ' गतार्थमित्येतावदेवोक्तवान् । १ आक्षेपमवतारयति-यदिदमिति । २ आक्षेपमाह-पक्षेति। पक्षस्य परिग्रहः प्रतिपक्षस्य निरास इत्येवंरूप एव संवादो'ऽभिप्रेतः-सच 'परस्य' गुरुशिष्यादेः 'प्रतिकूलः' खेदकर एवेत्यनुचित इव प्रतिभातीत्याक्षेपाशयः । ३ आक्षेपनिवारणं सूत्रम्-प्रतिपक्षेति । 'अर्थित्वे' तत्त्वबुभुत्सायां सत्याम्- 'प्रयोजनार्थम् ' तत्त्वनिर्णयार्थम् 'प्रतिपक्षहीनम् ' प्रतिकूलपक्षहीनं यथा स्यात्तथा अभ्युपेयादित्यर्थः। ४ तदर्थं व्याचष्टे-तमिति । वर्तत इति पूर्वसूत्रादनुवर्त्तते इत्यर्थः। एवं च प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे तमभ्युपेयादित्येवं पूर्ण सूत्रं सम्पन्नमित्यर्थः । ५ ननु यदि तत्वविनिर्णयायोक्तप्रकार एव वादोऽपेक्षितस्तर्हि निष्प्रयोजने जल्पवितण्डे दत्तजलाञ्जली एवेत्यतो जल्पवितण्डाप्रयोजननिरूपकम्प्रकरणमारभ्यते । ६ जल्पवितण्डयोः प्रयोजननिरूपर्क सूत्रमवतारयति-स्वपक्षेति । अनुसूयिभ्यो गुरुशिष्यादिभ्योऽन्ये बहवो वादिनो भवन्ति ये तत्त्वबुभुस्सामात्रेण कथायां न प्रवर्तन्तेऽपि तु विजिगीषादिप्रयुक्ता एव सन्तः सद्विचारनियममप्रतिपालयन्तो दुस्तकादिकमपि प्रयुञ्जत इत्यर्थः । एवंविधे चावसरे जल्पवितण्डे अपि प्रयोक्तव्ये भवत इत्यर्थः । ७ जल्पवितण्डाप्रयोजनमाह-तरवेति सूत्रम् । यथाऽन्यत्रानुपादेयान्यपि -~-सू. ५१] चतुर्थाध्याये द्वितीयाह्निके एकपञ्चाशत्तमं सूत्रम् ३११ अनुत्पन्नतत्त्वज्ञानानामहीणदोषाणां तदर्थं घटमानानामेतदिति ॥५०॥ विद्यानिवेदादिभिश्च परेणावज्ञायमानस्य-- ताभ्यां विगृह्य कथनम् ॥ ५१ ॥ विगृह्येति विजिगीषया, न तत्त्वबुभुत्सयेति। तदेतद्विद्यापालनार्थं न लाभपूजाख्यात्यर्थमितिं ।। ५१ ।। इति श्रीवात्स्यायनीये न्यायभाष्ये चतुर्थोऽध्यायः समानः॥४॥ कण्टकशाखावरणादीनि क्षेत्ररक्षणार्थमपेक्ष्यन्त एव व-तथैवानुचिते अपि जल्पवितण्डे तत्वज्ञानसंरक्षणायापेक्ष्येते एवेति सूत्रार्थः । न केवलं तत्त्वज्ञानार्थं यतमानानामेव जल्पवितण्डाश्रयणमपि त्वन्यस्या- पीत्येतत्तात्पर्यकं सूत्रमवतारयति-विद्येति । अवज्ञायमानस्य कथनमिति सूत्रेणान्वयः। २ ताभ्यामिति सूत्रम् ।

.. अथ पञ्चमाध्यायस्याऽऽद्यमाह्निकम् (१) सत्प्रतिपक्षदेशनाभासप्रकरणम् । साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पान्जातिबहुत्वमिति सझेपे- णोक्तम् । तद्विस्तरेण विभज्यते । ताः खल्विमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः- साधर्म्यवैधर्योत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्ति- प्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयमरणाहेत्वर्थापत्यविशेषोपपत्यूपलब्ध्य- नुपलब्धिनित्यानित्यकार्यसमाः ॥१॥ १ पञ्चमाध्यायस्यास्य विषयसङ्गत्यादावाक्षेपः परैः कृतः। प्रथमाध्याये प्रथमे सूत्रे शास्त्रपदार्थानामुद्देशः-अवशिष्टे तदध्याये तेषां लक्षणम्-द्वितीयमारभ्य चतुर्थाध्याय- पर्यन्तम्परीक्षा वृत्ता। अतः पुनर्लक्षणाभिधानस्य नास्त्यवसरः-लक्षणमेव चाध्यायार्थः इति बोधसिद्धावुदयनाचार्याः । अतोऽस्मिन्नध्याये यद्वर्णितं तस्य प्रथम एवाध्यायेऽव- सरः समुचित आसीदिति । समाहितश्चायमाक्षेपस्तात्पर्यकृता । यद्यपि जातिनिग्रह- स्थानभेदा जातिनिग्रहस्थानसामान्यलक्षणानन्तरं प्रथमेऽध्याये युक्ता लक्षयितुम्- तथाऽप्येषां बहुत्वात् प्रमेयपरीक्षायां विलम्बो मा भूत्-अपेक्षिता चासो शिष्यैः । संशयादिपरीक्षां तु विना प्रमेयपरीक्षा न शक्यते । तस्मान्मुनिः शिष्यानुरोधेन परीक्षामेव तावद्वर्त्तयाम्बभूव द्वितीयादिषु त्रिवध्यायेषु । तदनन्तरमवशिष्टं जाति- निग्रहस्थानविशेषलक्षणमधुना पञ्चमे वर्त्तयति । समाधानान्तरं च तत्रैवोक्तम् । चतुर्थाध्यायसमाप्तौ जल्पवितण्डापरीक्षा वृत्ता तदनन्तरं तदङ्गभूते जातिनिग्रहस्थाने युक्ते एव लक्षयितुमित्यवान्तरस, तिरस्त्येवेति सर्वमवदातम् । चतुर्विंशतिजातयः षोडशवर्गेषु विभक्ताः प्राचीनः । एतत्पीडशधाविभागा- नुसार्येवाद्यानि षोडश प्रकरणानीत्यवधेयम् । २ अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश्च । तत्किमपरमवशिष्यते यदर्थं पञ्चमोऽध्याय आरभ्यते इत्यत आह-साधयति । प्रथमाध्यायद्वितीयाति- कस्थाष्टादशसूत्रे यदुक्तं तदतिसंक्षिप्तम् । तस्य विस्तरशो निरूपणं कर्त्तव्यमित्येवात्र पुनरारम्भ इत्यर्थः । ३ अत्र 'सम' शब्दार्थों बहुधा व्याख्यातः। तद्यथा-(१)यद्यपि ममोत्तरं हेतुतो नोत्कृष्टतरं तथापि तेन समीकरिष्यामीतिप्रयोगः 'समः' तादात् तदभिप्रायपूर्वत्वा- ३१२ ..

meason -सू. २] पञ्चमाध्याये प्रथमाह्निके द्वितीयं लूत्रम् साधर्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः । अविशेषं तत्र तत्रोदाहरिष्यामः । एवं वैधर्म्यसमप्रभृतयोऽपि निवक्तव्याः ॥१॥ लक्षणं तु--- साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य- वैधर्म्यसमौ ॥२॥ साधर्म्यणोपसंहारे साध्यधर्मविपर्ययोपपत्ते: साधयेणैव प्रत्यवस्थानम- विशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनं-'क्रियावानात्मा, द्वेत्याचार्यः (वार्तिककारः)-यदूचे 'समार्थः समीकरणार्थः प्रयोगो द्रष्टव्य इति-एतेन बुद्धि पूर्वको जातिप्रयोगः साम्यापादनायेति सूचितम्भवति । यदि ह्यग्रं जात्युत्तरेणाकुलीकृतो निःप्रतिभः स्यात्-असहा ब्रूयात्-तदा मम निरनुयोज्यानु- योगवदेतस्यापि पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो वा स्यादिति ‘समौ' स्याव । अन्यथा त्वहमेवापकृष्टः स्यामिति बुद्धया प्रवृत्तेरिति । (२)भाग्यकारस्तु प्रयोगगतं विशेषहेत्वभावं 'साम्य'माह । यदवोचत्-'साधम्र्येण प्रत्यवस्थानमविशिष्यमाण- मिति ' । यथा हि त्वदुपन्यस्तं साधयं तथा मदुक्तमपि-यथेदं वैधयं तथेदमपि- यथेदं तत्सहचरितमुपलब्धं तथेदमपि-इत्याकारेण जातिवादिनः प्रत्यवस्थानात् तेन प्रत्यवस्थानस्वरूपं सर्वजातिसाधारणं सूचितम् । एतच्च तत्र तत्र वक्ष्यते । (३) अन्ये तु वक्तृधर्भ वचन उपचरन्ति । जातिवादी हि 'समः' साधारण: नोत्कृष्टोऽपकृष्टो वेत्यर्थः । स च साधाद्युत्तरद्वारैवोन्नीयत इति उत्तरमेव सममपकृष्ट- मित्यर्थः । तच्चापकृष्टमुत्तरे द्वेधा भवति- दूषणसमर्थमप्यसिद्धम् , सिद्धमपि दूषणा- समर्थम् । प्रथममपि कल्पितटूप्यं यत् तच्छलमुक्तम्-अकल्पितदृष्यं तु केवलनिरनुयो- ज्यानुयोगो वक्ष्यते । शेषं जातिरिति । अनेन सामान्यलक्षणं सूचितं भवति । (४) उदयनाचार्यास्त्वेवम्-यजात्युत्तरं परसाधनमिव स्वात्मानमपि व्याहन्तीत्यतः स्वपर- साम्यात् 'सम' मित्युच्यते । तथा च स्वात्मव्याघातकत्वं नाम सर्वसाधारणं दुष्टत्वमूल- मस्य सूचितं भवति । एतच्च प्रत्युत्तरसूत्रे वक्ष्यते । एतदेव सर्वसाधारणसामर्थ्यम् । तदु- पाधिविशेषाः साधादयः। एवं चान्वर्थसंज्ञानिरुक्तिरेवामीषां यद्यपि विशेषलक्षणम्, तथापि करणादिप्रतिसन्धानाय पृथक्लक्षणारम्भः । ते हि प्रतिसंहिताः प्रतिदूषणाय प्रभवन्ति सदुत्तरापरिस्फूतौ जातिप्रयोगे चोपयोथूयन्ते-इति । १ प्रतिषेध इति-पुल्लिङ्गपदप्रयोगः 'सम' इति पुल्लिङ्गरूपोपपत्त्यर्थम् । बहुषु ग्रन्थेषु 'साधर्म्यसमा' 'वैधर्म्यसमा' इति स्त्रीलिङ्गरूपमेव दृश्यते तत्र जातिरित्येव लक्ष्यपदं ग्राह्यम् । अत्र चतस्रो जातयो भवन्ति (१) साधम्यणोपसंहारे साधर्म्यण .. क ३१४ खद्योतसहितन्यायसूत्रभाष्ये [अ०५, आ० १, सू.३-- , , , द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान् , तथा चात्मा, तस्माक्रियावानिति'। एवमुपसंहृते परः साधर्येणैव प्रत्यवतिष्ठते- 'निष्क्रिय आत्मा, विभुनो द्रव्यस्य निष्कियत्वात्। विभु चाकाशं निष्क्रिय च, तथा चात्मा, तस्मानिष्क्रिय इति' । न चास्ति विशेषहेतुः क्रियावत्सा- धात् क्रियावता भवितव्यं न पुनरक्रियसाधान् निष्क्रियेणेति । विशेष- हेत्वभावात्साधर्म्यसमः प्रतिषेधो भवति । अथ वैधर्म्यसमः । 'क्रियाहेतुगुणयुक्तो लोष्ट: परिच्छिन्नो दृष्टः। न च तथाऽऽस्मा । तस्मान्न लोष्टवत् क्रियावानिति' । न चास्ति विशेषहेतुः क्रिया- वत्साधात् क्रियावता भवितव्यं, न पुनः क्रियावद्वैधाक्रियेणेति । विशेषहेत्वभावाद्वैधर्म्यसमः। वैधर्थेण चोपसंहारे-'निष्क्रिय आत्मा, विभुत्वात्, क्रियावद्र्व्यम- विभु दृष्टं, यथा लोष्टो-न च तथाऽऽत्मा-तस्मानिष्क्रिय' इति । वैधयेण प्रत्यवस्थानम्-'निष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टम्-न तथाऽऽत्मा- तस्मान्न निष्क्रिय ' इति। न चास्ति विशेषहेतुः-क्रियावद्वैधानिष्क्रियेण भवितव्यं न पुनरक्रियवैधात् क्रियावतेति । विशेष हेत्वभावाद्वैधर्म्यसमः । अथ साधर्म्यसमः- क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः-तथा चाऽऽत्मा-तस्मात् क्रियावानिति ' । न चास्ति विशेषहेतुः-क्रियावद्वैधान्नि- क्रियो न पुनः क्रियावत्साधात् क्रियावानिति । विशेषहेत्वभावात्साधर्म्य- समः॥२॥ अनयोरुत्तरम्- गोत्वादोसिद्धिवत्तत्सिद्धिः ॥ ३ ॥ प्रत्यवस्थानम् (२) साधम्यणोपसंहारे वैधयेण प्रत्यवस्थानम् (३) वैधम्यणोप- संहारे वैधम्र्येण प्रत्यवस्थानम् ( ४ ) वैधम्यणोपसंहारे साधर्म्यण प्रत्यवस्थानमिति । अन यत् प्रत्यवस्थानं तत् सदेवोत्तरं किन्तूक्तिदोषेणैव जातिरिति बोधसिद्धा- वुदयनाचार्याः । १ अथ प्रकरणसमहेत्वाभासोझावनवदुक्ते प्रत्यवस्थाने सम्यगुत्तरे एव कस्मान भवत इत्यतोऽनयोरसम्यक्स्वप्रदर्शकं सूत्रमवतारयति-अनयोरिति । २ साधर्म्यसमवैधय॑समयोरसदुत्तरत्वे हेतुमाह-गोत्वादिति सूत्रम् ।

-~सू. ४] पञ्चमाध्याये प्रथमाह्निके चतुर्थं सूत्रम ३१५ साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्याद- व्यवस्था । सा तु धर्मविशेषे नोपपद्यते । गोसाधाद्गोत्वाज्जातिविशेषाद्गौः सिध्यति, न तु सानादिसम्बन्धात् । अश्वादिवैधागोत्वादेव च गौः सिध्यति, न गुणादिभेदात् । तञ्चैतत् कृतव्याख्यानमवयवप्रकरणे । प्रमाणानामभिसम्बन्धाच्चैकार्थकारित्वं समानं वाक्य इति । हेत्वाभासाश्रया खल्वियमव्यवस्थेति ॥ ३ ॥ (२) साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिजातिषटकप्रकरणम् । साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्या- वर्ण्यविकल्पसाध्यसमाः॥४॥ १ सास्नादिमत्त्वस्यास्त्येव स्वाभाविकप्रतिबन्धो गोत्वेनात इयमुक्तिर्भाष्य- कारस्यासम्बद्धव प्रतिभाति । तदर्थमेव हि तात्पर्यकारः सास्नादीतिपदमतद्गुण- संविज्ञानबहुव्रीहित्वेन वर्णयामास-तेन सास्ना आदियेषां ते सास्नादयः सानातिरिक्ता गोत्वव्यभिचारिणः शृङ्गादयो गृह्यन्ते । एवं च शृङ्गादिसत्त्वेन नव गोत्वसिद्धिरित्यर्थः पर्यवसितः । उक्तेऽर्थे पूर्वोक्तं स्मारयति-तञ्चैदिति । २ अवयवप्रकरण इति । अनुमानावयवनिरूपणप्रकरणे प्रथमाध्यायप्रथमाह्नि- कस्थोनचत्वारिंशसूत्रभाष्य इत्यर्थः । 'अवयवसमुदाये च वाक्ये सम्भूयेतरेतराभिः सम्बन्धात् प्रमाणान्यर्थं साधयन्तीति' तत्रस्थं वाक्यम् । तेन च सदनुमानेन भवत्येवार्थसिद्धिरिति सदसतोः साधनयोनास्ति कश्चिविशेष इति रिक्तं वचः। ३ उत्कर्षसमः- अपकर्षसमः-वर्यसमः-अवयंसमः-विकल्पसमः- साध्यसम इति षण्णां जातीनां लक्षणमाह-साध्येति सूत्रम् । अविद्यमानधर्मारोपः 'उत्कर्षः'- विद्यमानधर्मापचयः 'अपकर्षः'-साध्यः, 'वर्ण्यः'-असाध्यः, 'अवर्ण्यः'-विशेष: 'विकल्प:'-एतेषां धर्माणामुद्भावनार्थाः प्रयोगा यथाक्रममुत्कर्षसमाद्या जातयः। साध्यतेऽस्मिन्निति व्युत्पत्त्या साध्यपदेनात्र पक्षो विवक्षितः । 'साध्यदृष्टान्तयोः' पक्षदृष्टान्तयोः “धर्मविकल्पात्' धर्मस्य वैचित्र्यात् अन्यथाभावात् सदसत्त्वादिना उत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसमाः पञ्च जातयः-'उभयसाध्यत्वाच्च' साध्यसमा षष्ठी जातिरित्यर्थः । एवं च (1) दृष्टान्ते दृष्टस्य पक्षेऽनिष्टस्य धर्मस्य साध्येन सहापादनमुत्कर्षसमः (२) दृष्टान्तविद्यमानधर्माभावापादनमपकर्षसमः-() दृष्टान्त- सादृश्यमात्रेण दृष्टान्ते साध्याभावापादनमवर्ण्यसमः (४) पक्षदृष्टान्तयोर्धर्मान्तरेण वैसादृश्यात् साध्यसाधनमसाध्यसाधनं वा विकल्पसमः (५) दृष्टान्ते दृष्टस्यापि साध्यत्वापादनं साध्यसम इति षड्जातयः ।

३१६ खद्योतसहितन्यायसूत्रभाष्ये [अ०५, आ० १, सू०५- . n 'लोष्टः खलु दृष्टान्तधर्मं साध्ये समासञ्जयतः उत्कर्षसमः। 'यदि क्रियाहेतुगुणयोगा- ल्लोष्टवत् क्रियावानात्मा लोष्टवदेव स्पर्शवानपि प्राप्नोति । अथ न स्पर्शवान्, लोष्टवत् क्रियावानपि न प्राप्नोति । विपर्यये वा विशेषो वक्तव्य ' इति । साध्ये धर्माभावं दृष्टान्तात् प्रसञ्जयतोऽपकर्षसमः। क्रियावानविभुइष्टः-काममात्माऽपि क्रियावानविभुरस्तु । विपर्यये वा विशेषो वक्तव्य' इति । ख्यापनीयो वयो विपर्ययाइवर्ण्यः । तावेतौ साध्यदृष्टान्तधर्मी विपर्य- स्यतो वावर्ण्यसमौ भवतः । साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात्साध्यधर्मविकल्पं प्रसञ्जयतो विकल्पसमः । “क्रियाहेतुगुणयुक्तं किञ्चिद्गुरु-यथा लोष्टः । किंचिल्लघु- यथा वायुः। एवं क्रियाहेतुगुणयुक्तं किञ्चिक्रियावत्स्यात्-यथा लोष्टः । किञ्चिदक्रिय-यथाऽऽत्मा । विशेषो वा वाच्य इति । हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः । तं दृष्टान्ते प्रसञ्जयतः साध्य- समैः । 'यदि यथा लोष्टस्तथाऽऽत्मा, प्राप्तस्तर्हि यथाऽऽत्मा तथा लोष्ट' इति । साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोऽपि साध्यः । अथ नैवम् ? न तर्हि 'यथा लोष्टः तथाऽऽत्मा ॥ ४ ॥ एतेषामुत्तरम्-- किञ्चित्साधादुपसंहारसिद्धेवैधादप्रतिषेधः ॥५॥ अलभ्यः सिद्धस्य निह्नवः । सिद्धं च किञ्चित्साधादुपमानं यथा गौस्तथा गवय इति । तत्र न लभ्यो गोगवययोधर्मविकल्पश्चोदयितुम् । एवं १ साध्यदृष्टान्तयोधर्मवैचित्र्यात्स्वरूपेण साध्यसाधनत्वप्रसञ्जनेन वावर्ण्यस- माविति तात्पर्यकृतः । अत्र वर्ण्यसमाजातिविरुद्धदेशनाभासाऽसाधारणादेशनाभासा , वा अवर्ण्यसमा त्वसिद्धदेशनाभासेत्युदयनाचार्याः । २ अत्र विकल्पशब्दो व्यभिचारपर्यायः, व्यभिचारोऽपि हेतोर्धर्मान्तरं प्रति- धमान्तरस्य वा साध्यं प्रति-धर्मान्तरस्य वा धर्मान्तरम्प्रतीति । इयं चानैकान्ति- कत्वदेशनाभासेत्युदयनाचार्याः । ३ साध्यविकल्पत्वसिद्धिदेशनाभासेयं जातिरित्युदयनाचार्याः । ४अन्नात्यन्तसादृश्यं न विवक्ष्यते । तथा च वार्तिकम्-यथा गौस्तथा गवय इत्युक्ते न गोधर्माः सर्व एव गवये न गवयधर्माः सर्व एव गीति प्राप्नोति । तथा चात्रैवं ..

पञ्चमाध्याये प्रथमाह्निके नवमं सूत्रम् साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर्धर्मविकल्पा- द्वैधात्प्रतिषेधो वक्तुमिति ॥ ५ ॥ साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ६॥ यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतोऽर्थोऽतिदिश्यते प्रज्ञा- पनार्थम् । एवं साध्यातिदेशाद्दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति ।।६।। ३) प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रमजातिद्वयप्रकरणम् । प्राप्य साध्यममाप्य वा हेतोः प्राप्त्या विशिष्टत्वादप्राप्त्या - साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥७॥ हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा? न तावत्प्राप्य-प्राप्त्यामविशिष्ट- स्वादसाधकः । द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा । अप्राप्य साधकं न भवति-नाप्राप्तः प्रदीपः प्रकाशयतीति । प्राप्त्या प्रत्यवस्थान प्राप्तिसमः । अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः ।। ७ ।। अनयोरुत्तरम्- घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ८॥ उभयथा खल्वयुक्तः प्रतिषेधः । कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति । अभिचाराच्च पीडने सति दृष्टमप्राप्य साधक- स्वमिति ॥ ८॥ (४) युगनद्धवाहिप्रसङ्गप्रतिदृष्टान्तसमजातिद्वय प्रकरणम् । दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥ ९॥ साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः । पर्यनुयोगो न युज्यते यत् यदि गोसदृशो गवयस्तर्हि सास्नादिकमपि गवये कस्मान्न भवतीत्याह-न लभ्य इति । १ अस्य प्रसङ्गसमस्य साध्यसमाझेदः प्रदर्शितस्तारपर्यकारैः । साध्यसमो हि दृष्टान्ते साध्यवत् हेत्वाद्यवयवं प्रसञ्जयति-पञ्चावयवसाध्यतां दृष्टान्तगतस्य धर्मस्य प्रसञ्जयतीत्यर्थः । प्रसङ्गसमस्तु दृष्टान्तगतस्य धर्मस्य प्रमाणमात्रसाध्यतां प्रसञ्ज- यतीति ।

३१८ खद्योतसहितन्यायसूत्रभाष्ये [अ०५, आ०१, सू. १०- P4 क्रियाहेतुगुणयोगी क्रियावान् ' लोष्ट इति हेतु पदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्रियावानात्मा क्रिया- हेतुगुणयोगात् लोष्टवदि'त्युक्ते प्रतिदृष्टान्त उपादीयते-क्रियाहेतुगुणयुक्तमा- काशं निष्क्रिय इष्टमिति'। कः पुनराकाशस्य क्रियाहेतुर्गुणः ? वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति ॥ ९ ॥ अनयोरुत्तरम्-- प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ॥१०॥ इदं तावदा पृष्टो वक्तुमर्हति-अथ के प्रदीपमुपादते, किमर्थं वेति । दिदृक्षमाणा दृश्यदर्शनार्थमिति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मा- नोपादते ? अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः । तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम् । अथ दृष्टान्तः किमर्थमुच्यत इति ? अप्रज्ञातस्य ज्ञापनार्थमिति । अथ दृष्टान्ते कारणापदेशः किमर्थं देश्यते ? यदि प्रज्ञापनार्थ, प्रज्ञातो दृष्टान्तः। स खलु 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त ' इति । तत्प्रज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्यो- न्तरम् ॥ १०॥ अथ प्रतिदृष्टान्तसमस्योत्तरम्- प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥११॥ प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरपदिश्यते । अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति । एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुईष्टान्त इत्युपपद्यते । स च कथं हेतुर्न स्यात् ? यद्यप्रतिषिद्धः साधकः स्यादिति ॥ ११ ॥ (५) अनुत्पत्तिसमप्रकरणम् । प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः॥१२॥ .. - १ इहैवम्प्रत्युत्तरक्रमः । किम्प्रतिदृष्टान्तस्याधिकबलतामभिमन्यमानेन दृष्टान्तस्य बाधो देश्यते अन्यथा वा? नाद्यः, साधनप्रयुक्तसाध्यधर्मवत्तामवीर्य वादिप्रति- वादिविवक्षितधर्मवत्तामात्रेण दृष्टान्तप्रतिदृष्टान्तयोर्विशेषाभावात् । नापि द्वितीयः । को हि तुल्यबलयोर्बाध्यो बाधको वा। तथा स्वीकारे वा दृष्टान्तेनैव कथन्न प्रति- दृष्टान्तस्य बाध इत्यादिबोधसिद्धावुदयनाचार्याः ।

-सू. १५] पञ्चमाध्याये प्रथमाह्निके पञ्चदशं सूत्रम् ३१९ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवदित्युक्ते अपर आह- प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति । तदभावा- नित्यत्वं प्राप्तम् । नित्यस्य चोत्पत्तिर्नास्ति । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्ति- समः॥ १२ ॥ अस्योत्तरम्-- तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ १३॥ तथाभावादुत्पन्नस्येति । उत्पन्नः खल्वयं शब्द इति भवति । प्रागुत्पत्तेः शब्द एव नास्ति । उत्पन्नस्य शब्दभावाच्छब्दस्य सतः प्रयत्नानन्तरीयकत्वमनि- त्यत्वकारणमुपपद्यते । कारणोपपत्तेरयुक्तोऽयं दोषः-प्रागुत्पत्तेः कारणाभावात् इति ।। १३ ।। (६) संशयसमप्रकरणम् । सामान्यदृष्टान्तयोरेन्द्रियकत्वे समाने नित्यानित्यसाधा- संशयसमः ॥१४॥ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवदित्युक्ते हेतौ संशयेन प्रत्यवतिष्ठते-सति प्रयत्नानन्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्यमैन्द्रियकत्वम्, अस्ति च घटेनानित्येन । अतो नित्यानित्यसाधाद- निवृत्तः संशय इति ॥ १४ ॥ अस्योत्तरम्- साधर्म्यात्संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्त- संशयप्रसङ्गो नित्यत्वानभ्युपगमाच सामान्यस्याप्रतिषेधः ॥ १५ ॥ विशेषाद्वैधादवधार्यमाणेऽर्थे पुरुष इति-न स्थाणुपुरुषसाधात्संश- योऽवकाशं लभते । एवं वैधाद्विशेषात् प्रयत्नानन्तरीयकत्वादवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधात्संशयोऽवकाशं न लभते । यदि वै लभेत, ५ एवं चेयं जातिः प्रवर्तते । यथा निर्णयकारणमस्तीति निर्णयो भवति तथैव संशयकारणमस्तीति संशयेन भवितव्यम् । अस्ति च प्रकृते संशयकारणं समानानेक- धर्मविप्रतिपत्तीनामन्यतमत् । अतः संशयो दुर्निवार इति । इयं च जातिविशेषणा- सिद्धिदेशनाभासेत्युदयनाचार्याः ।

३२० खद्योतसहितन्यायसूत्रभाष्ये [अ० ५, आ० १, सू . १६-- , - ततः स्थाणुपुरुषसाधानुच्छेदाढत्यन्तं संशयः स्यात् । गृह्यमाणे च विशेष नित्यं साधयं संशयहेतुरिति नाभ्युपगम्यते । न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर्भवति ।। १५ ।। (७) प्रकरणसमप्रकरणम् । उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः ॥ १६॥ उभयेन नित्येन चानित्येन च साधर्म्यात्पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवदित्येकः पक्ष प्रवर्त्तयति । द्वितीयश्च नित्यसाधात् प्रतिपक्षं प्रवर्त्तयति-नित्यः शब्दः श्रावणत्वात् , शब्दत्वव- दिति । एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्यसाधर्म्यणोच्यमानो प्रकरणमतिवर्त्तते। प्रकरणानतिवृत्तेनिर्णयानिर्वर्तनम् । समानं चैतन्नित्य- साधम्र्येणोच्यमाने हेतौ। तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं चैतद्वैधये॒ ऽपि । उभयवैधान् प्रक्रियासिद्धेः प्रकरणसम इति ॥ १६॥ अस्योत्तरम्--- प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥ १७॥ उभयसाधात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात्प्रक्रियासिद्धिरुक्ता भवति । यद्युभयसाधर्म्य, तत्र एकतरः प्रतिपक्ष इत्येवं सत्युपपन्नः प्रतिपक्षो भवति । १ समाधानमाह-प्रतिपक्षादिति । 'प्रतिपक्षात् ' जातिवादिपक्षापेक्षया स्थाप- नावादिपक्ष एवं प्रतिपक्षः, तस्मादेव-'प्रकरणस्य' प्रक्रियमाणस्य संशयस्य 'सिद्धेः' सिद्धिर्भवति यस्मात् तस्मात्-'प्रतिषेधस्य' प्रकरणसिद्धया वादिपक्षप्रतिषेधस्य अनुपपत्तिः'-कस्मात्- 'प्रतिपक्षोपपत्तेः'-प्रतिवादिपक्षापेक्षया यः 'प्रतिपक्षः विरुद्धः पक्षः तस्यो 'पपत्ति:' साधकत्वं यस्मादभ्युपगतम्भवति तस्मादिति सूत्र- , .. योजना। .. इदमत्राकूतम् । द्वयोविरुद्धयोः साधनयोरगृह्यमाणविशेषयोः संशयजनकत्वेन प्रतिवादिनाऽभ्युपगततुल्यबलयोः कोऽयमभिमानः प्रतिवादिनो यन्मया स्वपक्षसाध- नेनैव वादिनः साधनं दूषणीयमिति । समानबलयोश्वेदात्मीयादेव साधनात् स्वपक्ष- सिद्धिमिच्छति जातिवादी तानिच्छन्नपि वादिनोऽपि साधनात् वादिपक्षसिद्धिमभ्यु- पगमयितव्यः । अन्यथा प्रागभ्युपगतस्य तुल्यबलवत्वस्यैव हानिरेकपक्षसिद्धथा च संशयस्याप्यसम्भव इति प्रकरणसमजातेस्समूलं नाश एवेति ।

पञ्चमाध्याये प्रथमाह्निके एकविशं सूत्रम् . प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिषेधः। यदि प्रतिपक्षोपपत्तिः प्रतिषेधो नोपपद्यते, अथ प्रतिषेधोपपत्तिः प्रतिपक्षो नोपपद्यते । प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश्चेति विप्रतिषिद्धमिति । तत्त्वानवधारणाच्च प्रक्रियासिद्धिविपर्यये प्रकरणावसानात् तत्त्वावधारणे ह्यवसित प्रकरणं भवतीति ॥ १७ ॥ (८) अहेतुसमप्रकरणम् । त्रैकाल्यासिद्धहेतोरहेतुसमः ॥ १८॥ हेतुः साधनम् , तत्साध्यात् पूर्वं पश्चात्सह वा भवेत् । यदि पूर्व साधनम् , असति साध्ये कस्य साधनम् । अथ पश्चात् , असति साधने कस्येदं साध्यम्। अथ युगपत्साध्यसाधने, द्वयोर्विद्यमानयोः किं कस्य साधनं, किं कस्य साध्य- मिति हेतुरहेतुना न विशिष्यते । अहेतुना साधात् प्रत्यवस्थानमहेतु- समः ।। १८ ॥ अस्योत्तरम्- न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ १९॥ न त्रैकाल्यासिद्धिः । कस्मात् ? हेतुतः साध्यसिद्धेः। निर्वर्तनीयस्य निर्व- त्तिर्विज्ञेयस्य विज्ञानमुभयं कारणतो दृश्यते । सोऽयं महान्प्रत्यक्षविषय उदा- हरणमिति । यत्तु खलूक्तम्-असति साध्ये कस्य साधनमिति-यत्तु निर्वय॑ते यच्च विज्ञाप्यते तस्येति ॥ १९ ॥ प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥२०॥ पूर्वं पश्चाद्युगपद्वा प्रतिषेध इति नोपपद्यते । प्रतिषेधानुपपत्तेः स्थापना- हेतुः सिद्ध इति ॥ २०॥ (९) अर्थापत्तिसमप्रकरणम् । अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥२१॥ १ अन्रोदयनाचार्या आहुः-कृतज्ञप्तिसाधारणीयं जातिः। अस्याश्च प्राप्त्यप्राप्ति- समाभ्यामयं भेदः । तत्र स्वरूपतः सन्निकर्षासनिकर्षचिन्ता-इह तु कारणतः । पुनः ते अर्थद्वारिके-इयं शब्दद्वारिका । पुनः, ते द्विविकल्पोपक्रमे-इयं त्रिविकल्पोपक्रमा। पुनः, तत्र सहकारिशक्तिदृष्टा-इह स्वरूपशक्तिः । पुनः, ते विशेषणासिद्धिदेशनाभासे- यं प्रतिकूलतर्कदेशनाभासेति । न्या. सू. २१ खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ० १,सू.२२- अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धटवदिति स्थापिते पक्षे-अर्था- पत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः। यदि प्रयत्नानन्तरीयकत्वादनित्य- साधादनित्यः शब्द इत्यर्थादापद्यते-नित्यसाधान्नित्य-इति । अस्ति चास्य नित्येन साधर्म्यमस्पर्शत्वामिति ॥ २१ ॥ अस्योत्तरम- अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चा- पित्तेः ॥ २२॥ अनुपपाद्य सामर्थ्यमनुक्तमादापद्यत इति ब्रुवतः पक्षहानेरुपपत्तिर- नुक्तत्वात् । अनित्यपक्षसिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति । अनैकान्तिकत्वाचार्थापत्तः । उभयपक्षसमा चेयमापत्तिः । यदि नित्य- साधादस्पर्शत्वादाकाशवच्च नित्यः शब्दोऽर्थादापन्नम्-अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्य-इति । न चेयं विपर्ययमात्रादेकान्तेनापत्तिः । न खलु वै घनस्य ग्रावणः पतनमिति अर्थादापद्यते-द्रवाणामपां पतनाभाव- इति ॥ २२॥ (१०) अविशेषसमप्रकरणम् । एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेष समः ॥२३॥ एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोरुपपद्यत इत्यविशेषे उभयोर- नित्यत्वे सर्वस्याविशेषः प्रसज्यते। कथम् ? सद्भावोपपत्तेः। एको धर्मः सद्भावः सर्वस्योपपद्यते। सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम- विशेषसमः ॥२३॥ अस्योत्तरम्-- क्वचित्तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः ॥२४॥ १ अन्ये विदं सूत्रमन्यथा व्याचक्षते। तथा हि-एकधर्मोपपत्तेः साधनधर्मस्य प्रयोजकत्वात् अविशेषसाध्यधर्मवत्तालक्षणे पक्षदृष्टान्तयोः सवाविशेषः सर्वप्रकारेणा- विशेषः प्रसज्येत । २ सद्भावोपपत्तेरिति-साहित्यसद्भावोपपत्तेरिति । स च सर्वप्रकाराविशेष- विविधः--व्यक्तितो जातितः साध्यधर्मतश्चेस्यादिबोधसिद्धौ स्पष्टम् ।

-सू. २६ ] पञ्चमाध्याये प्रथमाह्निके षड्विंशं सूत्रम् यथा साध्यदृष्टान्तयोरेकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेरनित्यत्वं धर्मा- न्तरमविशेषो नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरमस्ति येना- विशेषः स्यात्। अथ मतम्-“ अनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्यात्" इति-एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भा- वोपपत्तरिति” पक्षः प्राप्नोति । तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति । अनुदाहरणश्च हेतुर्नास्तीति। प्रतिजैकदेशस्य चोदाहरणत्वमनुपपन्नम्-न हि साध्यमुदाहरणं भवति । सतश्च नित्यानित्यभावादनित्यत्वानुपपत्तिः । तस्मात् 'सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग'-इति निरभिधेयमेतद्वाक्यमिति । सर्वभावानां सद्भावोपपत्तेरनित्यत्वमिति ब्रुवताऽनुज्ञातं शब्दस्यानित्यत्वम् । तत्रानुपपन्नः प्रतिषेध इति ॥ २४॥ (११) उपपत्तिसमप्रकरणम् । उभयकारणोपपत्तेरुपपत्तिसमः ॥ २५ ॥ यद्यनित्यत्वकारणमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकारणमप्यु- पपद्यतेऽस्यास्पर्शत्वमिति नित्यत्वमप्युपपद्यते । उभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमः ॥ २५ ।। अस्योत्तरम्--- उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ २६॥ उभयकारणोपपत्तेरिति ब्रुवता नानित्यत्वकारणोपपत्तेरनित्यत्वं प्रति- विध्यते । यदि प्रतिषिध्यते-नोभयकारणोपपत्तिः स्यात् । उभयकारणोपपत्ति- वचनादनित्यत्वकारणोपपत्तिरभ्यनुज्ञायते । अभ्यनुज्ञानादनुपपन्नः प्रतिषेधः । " व्याघातात्प्रतिषेध इति चेत् ? ” समानो व्याघातः । नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवतोक्तः प्रतिषेध इति चेत् ? " स्वपक्षपर- पक्षयोः समानो व्याघातः । स च नैकतरस्य साधक इति ॥ २६ ॥ एकस्य १ प्रकरणसमायां जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वेऽपि प्रतिवादी साधनात् स्वपक्षसिद्धथा बादिसाधनदूषणे प्रवर्त्तते-उपपत्तिसमायां तु स्वसाधनेनैवेति विवेकः । बाघदेशनाभासा चेयं जातिः ।

३२४ खद्योतसहितन्यायसूत्रभाष्ये [ अ०५,आ० १,सू० २७– (१२) उपलब्धिसमप्रकरणम् । निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ २७ ॥ निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेऽपि वायुनोद- नावृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वमुपलभ्यते । निर्दिष्टस्य साधनस्या- भावेऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानमुपलब्धिसमः ।। २७ ।। अस्योत्तरम्- कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ २८ ॥ प्रयत्नानन्तरीयकत्वादिति ब्रुवता कारणत उत्पत्तिरभिधीयते न कार्यस्य कारणनियमः। यदि च कारणान्तरादप्युत्पद्यमानस्य शब्दस्य तदनित्यत्वमुप- 'पद्यते किमत्र प्रतिषिध्यत इति ।। २८ ।। (१३) अनुपलब्धिसमप्रकरणम् । न प्रागुञ्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः। कम्मान् ? आवरणाद्यनु- पलब्धेः । यथा विद्यमानस्योदकादेरर्थस्याऽऽवरणादेरनुपलब्धिः नैवं शव्दस्या- ग्रहणकारणेनाऽऽवरणादिनाऽनुपलब्धिः । गृह्येत चैतदस्याग्रहणकारणमुदकादि- वत्। न गृह्यते । तस्मादुदकादिविपरीतः शब्दोऽनुपलभ्यमान इति । तदनुपलब्धेरनुपलम्भावभावसिद्धौ तद्विपरीतोपपत्तेनुपलब्धि- समः ॥ २९॥ तेषामावरणादीनामनुपलब्धि!पलभ्यते । अनुपलम्भान्नास्तीत्यभावोऽ. स्याः सिध्यति । अभावसिद्धी हेत्वभावात्तद्विपरीतमस्तित्वमावरणादीनामवधा- यते । तद्विपरीतोपपत्तेर्यत्प्रतिज्ञातं-न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुप- १ इयं च जातिः पञ्चधा प्रवर्त्तते-(१) साध्याभावेऽपि धर्म्युपलभ्यत इति बाधः । (२)साधनाभावेऽपि धर्म्युपलभ्यत इत्यसिद्धिः। (३)उभयाभावेऽपि धर्म्यु- पलभ्यत इत्युभयम् । (४)साधनाभावेऽपि साध्यधर्म उपलभ्यत इत्यव्याप्तिः। (५) साध्यधर्माभावेऽपि साधनधर्म उपलभ्यत इत्यतिव्याप्तिरित्यादि प्रपञ्चितं बोधसिद्धा- वुदयनचार्यैः । २ अनुपलब्धिरत्र विषयिणो धर्मस्योपलक्षणम् । तेनोपलब्ध्यनुपलब्धी-इच्छा- निच्छे-द्वेषाद्वेषौ-कृत्यकृती-शक्त्यशक्ती-उत्पत्त्यनुत्पत्ती-व्यवहृत्यव्यवहृती इत्यादयः सगृहीता भवन्तीति बोधसिद्धिः।

--सू. ३२] पञ्चमाध्याये प्रथमाह्निके द्वात्रिंशत्तमं सूत्रम् लब्धिरित्येतन्न सिध्यति । सोऽयं हेतुरावरणाद्यनुपलब्धेरित्यावरणादिषु चाss- वरणाद्यनुपलब्धौ च समयानुपलब्ध्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति।।२९|| अस्योत्तरम्-- अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ३० ॥ आवरणाद्यनुपलब्धिर्नास्ति अनुपलम्भादित्यहेतुः । कस्मान् ? अनुप- लम्भात्मकत्वादनुपलब्धेः । उपलम्भाभावमात्रत्वादनुपलब्धेः । यदस्ति तदुप- लब्धेविषयः । उपलब्ध्या तदस्तीति प्रतिज्ञायते । यन्नास्ति तदनुपलब्धेविषयः । अनुपलभ्यमानं नास्तीति प्रतिज्ञायते । सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ उपलब्ध्यभावेऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वं विषयं प्रतिषेधति । अप्रतिषिद्धा चाऽऽवरणाद्यनुपलब्धिहेतुत्वाय कल्पते । आवरणादीनि तु विद्य- मानत्वादुपलब्धेविषयाः । तेषामुपलब्ध्या भवितव्यम् । यत्तानि नोपलभ्यन्ते तदुपलव्धेः स्वविषयप्रतिपादिकाया अभावादनुपलम्भादनुपलव्धेविषयो गम्यते न सन्त्यावरणादीनि शब्दस्याग्रहणकारणानि-इति । अनुपलम्भादनुपलब्धिः सिध्यति विषयः स तस्येति ॥ ३० ॥ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ ३१ ॥ अहेतुरिति वर्त्तते । शरीरे शरीरिणां ज्ञानविकल्पानां भावाभावी संवे- दनीयौ-अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम्-इति । एवं प्रत्यक्षानु- मानागमस्मृतिज्ञानेषु । सेयमावरणाद्यनुपलब्धिरुपलब्ध्यभावः स्वसंवेद्यो-नास्ति मे शब्दस्याऽऽवरणाद्युपलब्धिः-इति-नोपलभ्यन्ते शब्दस्याग्रहणकारणान्यावर- णादीनीति । तत्र यदुक्तं-तद्नुपलब्धेरनुपलम्भादभावसिद्धिरिति-एतन्नोप- पद्यते || ३१ ॥ १४) अनित्यसमप्रकरणम् । साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥३२॥ अनित्येन घटेन साधादनित्यः शब्द इति ब्रुवतोऽस्ति घटेनानित्येन सर्वभावानां साधय॑मिति सर्वस्यानित्यत्वमनिष्टं सम्पद्यते । सोऽयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति ॥ ३२ ॥ १ अनित्यसमनाम समर्थयते सोऽयमिति । असत्यनित्ये न घटेन सर्वभावानां सत्त्वं साधर्म्यमिति तात्पर्यकृतः । अस्याप्युपलक्षणमर्थः साधर्म्यवद्वैधयेणापि प्रत्यव- स्थानसम्भवादित्युदयनाचार्याः ।

३२६ खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ०१,सू०३३- अस्योत्तरम्- साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् ॥ ३३॥ प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकम् प्रतिपक्षलक्षणं प्रतिषेधः तस्य पक्षेण प्रतिषेध्येन साधर्म्य प्रतिज्ञादियोगः। तद्यद्यनित्यसाधाद- नित्यत्वस्यासिद्धिः, साधादसिद्धेः प्रतिषेधस्याप्यासिद्धिः-प्रतिषेध्येन साधादिति ।। ३३ ।। दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥ ३४ ॥ दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते स हेतुत्वेनाभिधी- यते । स चोभयथा भवति-केन चित्समानः कुतश्चिद्विशिष्टः। सामान्या- साधयं विशेषाञ्च वैधर्म्यम् । एवं साधर्म्यविशेपो हेतु विशेषेण साधर्म्य- मानं वैधर्म्यमानं वा। साधर्म्यमानं वैधय॑मात्रं चाऽऽश्रित्य भवानाह-- साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसम इति-एतदयुक्तमिति । अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यम् ॥ ३४ ॥ (१५) नित्यसमप्रकरणम् । नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः ॥ ३५ ॥ अनित्यः शब्द इति प्रतिज्ञायते । तदनित्यत्वं किं शब्दे नित्यमथा- नित्यम् । यदि तावत्सर्वदा भवति, धर्मस्य सदाभावाद्धर्मिणोऽपि सदाभाव इति नित्यः शब्द इति । अथ न सर्वदा भवति, अनित्यत्वस्याभावान्नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थानान्नित्यसमः ॥ ३५॥ अस्योत्तरम्- प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः।३६। प्रतिषेध्ये शब्दे नित्यमनित्यत्वस्य भावादित्युच्यमानेऽनुज्ञातं शब्दस्यानि- त्यत्वम् । अनित्यत्वोपपत्तेश्च नानित्यः शब्द इति प्रतिषेधो नोपपद्यते । अथ नाभ्युपगम्यते नित्यमनित्यत्वस्य भावात्-इति हेतुर्न भवतीति हेत्वभावात्प्रतिषे- धानुपपत्तिरिति । १ अविशेषसमाजातिप्रत्याख्याने चतुर्विशसूत्रे यदुक्तं तदत्राप्यतिदिशति- अविशेषसमप्रतिषेध इति ।

-~~~-सू . ३८] पञ्चमाध्याये प्रथमाह्निके अष्टत्रिंशत्तमं सूत्रम् ३२७ उत्पन्नस्य निरोधादभावः-शब्दस्यानित्यत्वम् । तत्र परिप्रश्नानुपपत्तिः । सोऽयं प्रश्नः-तदनित्यत्वं किं शब्दे सर्वदा भवति अथ न-इत्यनुपपन्नः । कस्मात् ? उत्पन्नस्य यो निरोधादभावः शब्दस्य तदनित्यत्वम् । एवं च सत्य- धिकरणाधेयविभागो व्याघातान्नास्तीति । नित्यानित्यत्वविरोधाच । नित्यत्वमनित्यत्वं च एकस्य धर्मिणो धर्माविति विरुध्येते-न सम्भवतः। तत्र यदुक्तं-नित्यमनित्यत्वस्य भावात् नित्य एव- तदवर्तमानार्थमुक्तमिति ।। ३६ ।। (१६) कार्यसमप्रकरणम् । प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ३७॥ प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति। यस्य प्रयत्नानन्तरमात्मलाभः तत्खल्वभूत्वा भवति-यथा घटादि कार्यम् । अनित्यमिति च भूत्वा न भवतीत्येतद्विज्ञायते । एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् । व्यवधानापोहाच्चाभिव्यक्तिर्व्यव- हितानाम् । तत्किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहोऽभिव्यक्तिरिति विशेषो नास्ति । कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ॥ ३७॥ अस्योत्तरम्- कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ ३८ ॥ सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्या- भिव्यक्तौ। यत्र प्रयत्नानन्तरमाभिव्यक्तिस्तत्रानुपलब्धिकारणं व्यवधानमुप- पद्यते । व्यवधानापोहाच प्रयत्नानन्तरभाविनोऽर्थस्योपलब्धिलक्षणाऽभि- १ उभयसाधात्संशयसमः-अयं तु विशेषोपलब्धिमविवक्षित्वा प्रवर्तते इति स शयसमतोऽस्य भेदः । अत्र च प्रयत्नानन्तरीयकत्वादित्ययं प्रयत्नानन्तरमुपलब्धे- रित्यर्थमारोप्य प्रतिषिध्यते, साधर्म्यसमे तु नारोपणमित्येवास्य साधर्म्यसमतो भेदः। २ न्यायमञ्जरीकारास्तु 'अनुपलब्धिकारणानुपपत्तेरिति' पठन्ति । अस्मिश्च पाठे 'यस्माच्छब्दे आवरणादिरूपानुपलब्धिकारणं नोपपद्यते तस्मात्तन प्रयत्नस्य नाभि- व्यक्तिहेतुत्वमिति-सरलमार्गेणैवार्थः सम्पद्यते । तदेवमनेन चतुर्विंशतिजात्युदाहरणप्रतिसमाधानोपदेशवर्मना शब्दानित्यत्व- साधने परकीयोपालम्भजातमेवम्प्रायमन्यच्चाखिलमपाकृतम्भवतीत्यवधेयम् ।

३२८ खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ० १,सू०३९- व्यक्तिर्भवतीति । न तु शब्दस्यानुपलब्धिकारणं किञ्चिदुपपद्यते । यस्य प्रयत्ना- नन्तरमपोहाच्छब्दस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति । तस्मादुत्पद्यते शब्दो नाभिव्यज्यत इति ॥ ३८॥ (१७) षट्पक्षीरूपकथाभासप्रकरणम् । हेतोश्चेदनैकान्तिकत्वमुपपाद्यते अनैकान्तिकत्वादसाधकः स्यादिति । यदि चानैकान्तिकत्वादसाधकम्- प्रतिषेधेऽपि समानो दोषः॥ ३९ ॥ प्रतिषेधोऽप्यनैकान्तिकः। किञ्चित्प्रतिषेधति किंचिन्नेति । अनैकान्तिक- त्वादसाधक इति। .. .. १ तदेवं जात्युत्तरवादिनं प्रति स्थापनावादिना सर्वत्रैव सम्यक् समाधान स्वसाधनस्य वक्तव्यम् । एवं सति निर्णये कथापर्यवसानं भवति । यदि पुनः स्थापनावाद्यपि जातिवादिनं प्रति साधनाभासेनैव प्रत्यवतिष्ठते ततः पटपक्ष्यां सत्यां न तत्त्वनिर्णयावसाना कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति वैफल्यप्रदर्शनार्थ षट्पक्षीमवतारयति-हेतोरित्यादि । 'शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वाद्घटवदिति' स्थापनावादिनः प्रतिज्ञाऽत्र प्रथमः पक्षः (१)। तद्विरुद्धं प्रतिवाद्युक्तिरूपं द्वितीयपक्षं प्रदर्शयति- हेतोरिति । २ वादिनः हेतोः प्रयत्नानन्तरीयकत्वस्य प्रतिवाद्यनैकान्तिकत्वं उपपादयति- अनैकान्तिकत्वादिति । हेतुद्वारेण सव्यभिचारवान्नायं शब्दानित्यत्वं साधयितुमर्ह- तीति भवत्ययं द्वितीयः पक्षः (२)। ३ तत्र वादिप्रत्युक्तिरूपं तृतीयपक्षमुत्थापयति-यदीत्यादि 'समानो दोप' इति सूत्रान्तपर्यन्तम् । ४ सूत्रार्थमाह भाष्यकारः-प्रतिषेध इति। यदि प्रयत्नान्तरीयकत्वादिति वादिनो हेतुरनैकान्तिकस्तहि प्रतिवादिनोऽपि प्रयत्नकार्यानेकत्वादिति (३७ सूत्रोक्तो ) हेतुरनैकान्तिक एवेत्यर्थः । ५ प्रतिवादिनो हेतावनैकान्तिकत्वं प्रदयति वादी-किञ्चिदिति । 'प्रयत्नका- योनेकत्वादिति ब्रुवन् प्रतिवादी कस्यचिदसतः प्रयत्नानन्तरीयकस्योत्पत्तिमभ्युपग- च्छति-यथा घटस्य-कस्यचित्तु नाभ्युपगच्छति-यथा शब्दस्येति । एवं च यथा वादिना हेतुस्नैकान्तिकत्वादसाधकस्तथैव प्रतिवादिनोऽपि हेतुरित्यर्थः । [इदमपि प्रतिवादिनो वचनमुत्तराभासः कार्यसमजातिरेवेत्यवधेयम् ।]

-सू. ४१] पञ्चमाध्याये प्रथमाह्निके एकचत्वारिंशत्तम सूत्रम् SINESS ३२९ १ : अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरमुत्पादो नाभिव्यक्तिरिति विशेषहेत्वभावः । नित्यत्वपक्षेऽपि प्रयत्नानन्तरमभिव्यक्ति!त्पाद इति विशेष- हेत्वभावः। सोऽयमुभयपझसमो विशेषहेत्वभाव इत्युभयमप्यनैकान्तिक- मिति ॥ ३९ ॥ सर्वत्रैवम् ॥ ४०॥ सर्वेषु साधर्म्यसमप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत इति ॥ ४०॥ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोषः ॥४१॥ प्रकारान्तरेण द्वितीयतृतीयपक्षौ दर्शयति-अथ वेति । शब्दानि- त्यत्वपक्षेऽसत एव शब्दस्य प्रयत्नानन्तरमुत्पत्तिरेव भवति न च सतोऽभि- व्यक्तिरेवेति नात्रैकतरपक्षे विशेषहेतुरस्तीति प्रतिवादिनो वचनम्-शब्दनित्यत्वपक्षेऽपि सतः शब्दस्याभिव्यक्तिरेव न चासत उत्पत्तिरेवेत्येकतरपक्षे न विशेषहेतुरस्तीति विशेषत्वभावो वादिप्रतिवाद्युभयपक्षसमान इति द्वावपि हेतू अनैकान्तिकाविति तृतीयः पक्षः (३)। २ न केवलमुक्तायामेव प्रनिवाझुद्भावितजातौ समाधानाभासः प्रतिवादिनोऽपि तु सर्वत्रैव जात्युत्तरेग्विति शिष्यान् शिक्षयति सूत्रकार:-सर्वत्रैवमिति । ३ तयाचष्टे भाप्यकार:-सर्वेष्विति । सर्वेषु जात्युत्तरेषु यत्र यत्र विशेष: प्रतिषेधहेतुत्वेनोद्भाव्यते तत्र तत्राविशेषस्योभयपक्षसमानत्वप्रदर्शनं सम्भवति प्रति- वादिन इत्यर्थः । तथा हि (1) अनित्यः शब्दः कार्यत्वादैन्द्रियकत्वाद्वेति सदस- प्रयोगे (२) तद्वदाकाशसाधादस्पर्शवत्वान्नित्यः किं न स्यादिति-साधर्म्य- समः। (३) अस्पर्शवदाकाशं नित्यं परममहद्दष्टं-शब्देनापि नित्येन सता परम- महता भवितव्यम्-इत्युत्कर्षसमः । (४) ननु यथाऽऽकाशदृष्टान्तेन परममहत्त्वं शब्दस्योच्यते तद्वद्रूपदृष्टान्तेन तद्रहितत्वमेव किं न स्यादिति-प्रतिदृष्टान्तसमः । (५) एवं तर्हि तथा निःस्पर्शमुभयथा दृष्टं किंचिदश्रावण रूपादिकं किंचिच्छ्रावणं शब्दादि तथा किंचिन्नित्यं भविष्यत्याकाशादि किंचित् नित्यं शब्दादीति-विकल्पसमः । (६) ननु तथापि कार्यत्वमैन्द्रियकत्वं वा साध्यमप्राप्य कथं साधयेदतिप्रसङ्गादिति प्राप्य वक्तव्यं तथा चाविशेषात् किं कस्य साधनं साध्यं वेति प्राप्तिसम इत्येवं षट पक्षा भवन्ति । एवमत्राप्यूहनीयम् । यद्यप्येतत्सूत्रं षट्पक्षीसूत्रानन्तरमेव वक्तव्य- मासीत् तथापि त्रिपक्ष्यपि भवति कथाभास इति प्रदर्शयितुमत्रवोक्तम् । ४ अस्मिन् समाधानाभासे वादिना प्रयुक्ते पुनः प्रतिवादी चतुर्थपक्षेण प्रत्यव- तिष्ठते-प्रतिषेधेति सूत्रम्। 'प्रतिषेधो' जातिवादिकृतो द्वितीयपक्षरूपः-तस्य .

३३० खद्योतसहितन्यायसूत्रभाष्ये ०५,आ० १,सू ०४२-- योऽयं प्रतिषेधेऽपि समानो दोपोऽनैकान्तिकत्वमापद्यते सोऽयं प्रति- षेधस्य प्रतिषेधेऽपि समानः । तत्रानित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति साधनवादिनः स्थापना प्रथमः पक्षः । ' प्रयत्नकार्यानेकत्वात् कार्यसम' इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः। स च प्रतिषेध इत्युच्यते । तस्यास्य प्रतिषेधेऽपि समानो दोष इति तृतीयः पक्षो विप्रतिषेध उच्यते । तस्मिन् प्रतिषेधविप्रतिषेधेऽपि समानो दोषोऽनैकातिकत्वं चतुर्थः पक्षः ॥४१॥ प्रतिषेध सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥४२॥ प्रतिषेधं द्वितीयं पक्षं सदोषमभ्युपेत्य तदुद्धारमनुक्त्वाऽनुज्ञाय प्रति- षेधविप्रतिषेधे तृतीयपक्षे समानमनैकान्तिकत्वमिति समानं दृपणं प्रसञ्जयतो दूषणवादिनो मतानुज्ञा प्रसज्यत इति पञ्चमः पक्षः ॥ ४२ ॥ स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोपाभ्युपगमात्समानो दोषः ॥४३॥ 'विप्रतिषेधः' वादिना कृतस्तृतीयपक्षरूपः-तस्मिन्नपि 'प्रतिषेधदोपवदेव' प्रतिवा- दिनो द्वितीये पक्षे यो दोषो वादिना तृतीयपक्षे प्रदर्शितस्तद्वदेव तत्तुल्य एव 'दोष' इति योजना। १ द्वितीयपक्ष एव सूत्रकारेण प्रतिपेधकत्वेन विवक्षित इत्याह-स च प्रतिषेध इति। २ तृतीयपक्ष एव सूत्रकारेण विप्रतिषेधशब्देनोच्यते इत्याह-इति तृतीय इति । अत्र षट्पक्ष्याश्चत्वारः पक्षाः स्पष्टमुक्ता भाष्यकारेण । ३ प्रतिवादिनश्चतुर्थपक्ष प्रतिवादिनः पञ्चमं पक्षमाह-प्रतिपेधमितिसूत्रम् । ४ सूत्रार्थमाह-प्रतिपे, द्वितीयमिति । ५ मतानुज्ञेति-स्वपक्षदोपाभ्युपगमात् परपक्षे दोपप्रसङ्ग इति मतानुज्ञानिग्रह- स्थानलक्षणस्य वक्ष्यमाणत्वात् । प्रतिवादी च 'प्रतिषेधं' स्वकीयं द्वितीय पक्षं सदोषं अभ्युपगत्य तमेव दोषं वादिनस्तृतीयपक्षेऽपि सञ्जयन्नात्मनः चतुर्थपक्षम्प्रवर्तयामासेति भवत्येवास्योक्तलक्षणं निग्रहस्थानमित्यर्थः । अयं च पटपक्ष्याः पञ्चमः पक्षः । ६ सेयं मतानुज्ञा पञ्चमपक्षवादिनोऽपि तृतीये पक्षे भवत्येवेतिप्रतिवादी षष्ठं पक्षमुत्थापयति-स्वपक्षलक्षणेति सूत्रम् । ‘स्वपक्ष: ' वादिनः स्थापना नन्तरीयकत्वादनित्यः शब्द'-इति 'तल्लक्षणः ' तत्समुत्थानः तद्विषयः पक्षो जात्यु- त्तरं प्रतिवाद्युक्तम् प्रयत्नकार्यानेकत्वादिति-तस्य ' अपेक्षया' उपेक्षया तमनुद्धृत्या- प्रयत्ना- ---सू. ४३] पञ्चमाध्याये प्रथमाह्निके त्रिचत्वारिंशत्तमं सूत्रम् ३३१ स्थापनापक्षे प्रयत्नकार्यानेकत्वादिति दोषः स्थापनाहेतुवादिनः स्वपक्ष- लक्षणो भवति । कस्मात् ? स्वपक्षसमुत्थत्वात् । सोऽयं स्वपक्षलक्षणं दोषम- पेक्षमाणोऽनुद्धृत्यानुज्ञाय प्रतिषेधेऽपि समानो दोष इत्युपपद्यमानं दोष परपक्षे उपसंहरति । इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति । तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्यनेन परपक्षदोषोऽभ्युपगतो भवति । कथं कृत्वा ? यः परेण प्रयत्नकार्यानेकत्वा- दित्यादिनाऽनैकान्तिकदोष उक्तः तमनुद्धृत्य प्रतिषेधेऽपि समानो दोष इत्याह । एवं स्थापनां सदोषामभ्युपेत्य प्रतिषेधेऽपि समानं दोषं प्रसञ्जयतः परपक्षाभ्यु- पगमात् समानो दोषो भवति । यथा परस्य प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेध- विप्रतिषेधेऽपि समानो दोपप्रसङ्गो मतानुज्ञा प्रसज्यत इति तथाऽस्यापि स्थापनां सदोषामभ्युपेत्य प्रतिषेधेऽपि समानं दोषं प्रसञ्जयतो मतानुज्ञा प्रस- ज्यत इति । स खल्वयं षष्ठः पक्षः । तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः । प्रतिषेधहेतु- वादिनो द्वितीयचतुर्थषष्ठपक्षाः । तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थपष्ठयोराविशेषात् पुनरुक्तदोषप्रसङ्गः । चतुर्थपक्षे समानदोषत्वं परस्यो- च्यते प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोष इति । षष्ठेऽपि परपक्षाभ्युपगमात् समानो दोष इति समानदोषत्वमेवोच्यत इति नार्थविशेषः कश्चिदस्ति । समानस्तृतीयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः । तृतीयपक्षेऽपि प्रतिषेधेऽपि भ्यनुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानोऽयं दोष-इति दोषस्य ' उपपत्तेः ''उपसंहारः। -तस्मिंश्च उपसंहारे हेतुनिर्देशः' अनैकान्तिकस्वरूपस्य हतोरुक्तिः-तस्मिन् कृते सति 'परपक्षे' प्रतिवादिनः पक्षे यो ‘दोषः' वादिना स्वयमुद्भावितस्तस्याभ्युप- गमात् समानो दोषः मतानुज्ञानिग्रहस्थानरूपः स्थापनावादिन इति योजना। अयं च पट्पक्ष्यां षष्ठः पक्षः। सेयं पटपक्षी समानदोपापादनेनानिर्णायकत्वात् पौनरुवत्याञ्च न तत्त्वनिर्णयाय पर्याप्ता। तस्मात्समाधानाभासेन जातिवादिनं प्रति न प्रत्यवस्थेयम्-किन्तु सम्यक- साधनेन । तथा च पटपक्षी उपहता नावतरति तत्त्वनिर्णयपर्यवसाना च कथा भवति । यदि त्वस्य कदाचित्सम्यक्साधनवादिनोऽपि प्रतिभाक्षयात् सम्यग् समाधान न स्फुरति ततोऽत्यन्तपराजयाद्वरं संशयोऽपीति न्यायेन समाधानाभासेनापि प्रत्यवस्थे- यमित्याशयः।

३३२ खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ० १,२०४३- समानो दोप इति समानत्वमभ्युपगम्यते । पञ्चमपक्षेऽपि प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽभ्युपगम्यते । नार्थविशेषः कश्चिदुच्यत इति । तत्र पञ्चमषष्ठपक्षयोः अर्थाविशेषात् पुनरुक्तदोषः । तृतीयचतुर्थयोर्मतानुज्ञा । प्रथमद्वितीययोविशेषहेत्वभाव इति षट्पक्ष्यामुभयोरसिद्धिः । कदा षट्पक्षी ? यदा प्रतिषेधेऽपि समानो दोष इत्येवं प्रवर्तते तदो- भयोः पक्षयोरसिद्धिः। यदा तु कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणो- पपत्तेरित्यनेन तृतीयपक्षो युज्यते तदा विशेपहेतुवचनात् प्रयत्नानन्तरमात्मलाभः शब्दस्य नाभिव्यक्तिरिति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्त्तत इति ।। ४३ ॥ इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमाध्यायस्याद्यमाह्निकम् ।।

अथ पञ्चमाध्यायस्य द्वितीयमाह्निकम् १) प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेषलक्षणप्रकरणम् । विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वमिति सक्षेपेणोक्तं तदि- दानी विभजनीयम् । निग्रहस्थानानि खलु पराजयवस्तून्यपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिन चाभिसंप्लवन्ते । तेषां विभाग:- प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्रातकालं न्यूनमधिक पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्यापेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥१॥ तानीमानि द्वाविंशतिधा विभज्य लक्ष्यन्ते ॥ १ ॥ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ २ ॥ साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्य- नुजानन् प्रतिज्ञा जहातीति प्रतिज्ञाहानिः। निदर्शनम्-ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृते, अपर आह-दृष्टमैन्द्रियकत्वं सामान्ये नित्ये, कस्मान्न तथा शब्द इति प्रत्यवस्थिते इदमाह-यौन्द्रियकं सामान्यं नित्यं कामं घटो नित्योऽस्त्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमना- न्तमेव पक्षं जहाति । पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्ष- स्येति ॥२॥ १ तदेतद्भाष्यकारीयं लक्षणसूत्रव्याख्यानं वार्तिककारो नानुमन्यते । इदं च वार्तिककारस्यारुचिबीजम् । एतत्तु न बुध्द्यामहे कथमत्र प्रतिज्ञा हीयत इति । हेतोरनै- कान्तिकत्वं सामान्यदृष्टान्तेन प्रतिवादी चोदयति । तमनैकान्तिकस्वदोषं स्वपक्षेऽनुद्- धृत्य वादी स्वदृष्टान्तेऽपि प्रतिदृष्टान्तधर्म प्रतिपद्यते। तत्प्रतिपत्तेश्चासिद्धता दृष्टान्ते दोषो भवति साध्यविकलतारूपः । सोऽयमेतद्दृष्टान्तदोषणाथ.वा हेतुदोषेण विरुद्धत्वेन (घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रियकत्वस्य हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वात् ) निग्रहो वादिनो न प्रतिज्ञाहानिः। यद्ययं 'अस्तु शब्दो नित्य' इत्य- वक्ष्यत् तदैवाभविष्यदस्य प्रतिज्ञाया (अनित्यः शब्द इत्यस्याः ) हानिः । यदि ३३३ ।

, ३३४ खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ०२,सू०३- प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ ३॥ प्रतिज्ञातार्थः-अनित्यः शब्द ऐन्द्रियकत्वात् घटवत्-इत्युक्ते योऽस्य प्रतिषेधः-प्रतिदृष्टान्तेन हेतुव्यभिचारः-सामान्यमैन्द्रियकं नित्यमिति, तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पादिति-दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्म- भेदात्सामान्यमैन्द्रियकं सर्वगतमैन्द्रियकस्त्वसर्वगतो घट इति-धर्मविकल्पा- त्तदर्थनिर्देश इति साध्यसिद्धयर्थम् । कथम् ? यथा घटोऽसर्वगत एवं शब्दोऽ- प्यसर्वगतो घटवदेवानित्य इति । तत्रानित्यः शब्द इति पूर्वा प्रतिज्ञा। अस. वगत इति द्वितीया प्रतिज्ञा-प्रतिज्ञान्तरम् । तत्कथं निग्रहस्थानमिति ? न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरम् , किन्तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः। तदेतदसाधनोपादानमनर्थकमिति । आनर्थक्यान्निग्रहस्थानमिति ॥ ३ ॥ ? दृष्टान्तपरित्यागेन पक्षस्य परित्यागाद्भवत्येव प्रतिज्ञाया अपि हानिरिति मतं ( यथा भाष्यकारेण व्याख्यातम् )-तदा सर्वे एवं दोपाः प्रतिज्ञामेव दूपयन्तीति ते सर्वेऽपि प्रतिज्ञाहानिरेव स्युः। यद्यपि यथाकथञ्चित दृष्टान्तपरित्यागेन प्रतिज्ञा- हानिरुपचरितव्या भवति । यथोक्तं बोधसिद्धौ-दृष्टान्तशब्दोऽत्रोक्त सम्प्रतिपत्तिं लक्ष- यति तद्विपरीतोपगमः प्रतिज्ञाहानिरेव भवतीति तथाप्युपचारस्याश्रयणं सति गत्यन्तरे नोचितमित्यादि। भवति चात्र गत्यन्तरं सूत्रोक्तलक्षणव्याख्यानस्य । तद्यथा-दृष्टश्वासावन्ते व्यवस्थित इति 'दृष्टान्तः'-स्वश्चासौ दृष्टान्तश्चेति स्वदृष्टान्त'-शब्देन स्वपक्ष एवाभिधीयते- प्रतिदृष्टान्त 'शब्देन च प्रतिपक्ष उच्यते--प्रतिपक्षश्चासौ दृष्टान्तश्चेति । एवं चैतदुक्तं भवति-'परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानातीति' । यथाऽनित्यः शब्द ऐन्द्रियकत्वादिति स्थापनायां-प्रतिवादिनि सामान्येन प्रत्यवस्थिते 'यदि सामान्य मैन्द्रियकं नित्यं दृष्टं तर्हि भवतु शब्दोऽपि नित्य' इति । भवत्येषा 'शब्दो नित्य ' इत्यस्याः प्रतिज्ञाया हानिरिति । कथं सम्भवति वादिन एतादृशमुत्तरमिति तु नाशङ्कनीयम् । यतो हि मध्यमप्रज्ञा एवं प्रायशो भवन्ति निग्राह्याः सम्भवन्ति च तेषामीदृशाः प्रमादाः। अत्र बोधसिद्धावुदयनाचार्या आहुः-'प्रतिज्ञाहानिरिति सूत्रार्थः। एवं च लक्ष्यपदनिरुक्तथैव लक्षणसिद्धौ द्वितीयप्रकारसूचनार्थं लक्षणारम्भ' इति । एवं चास्थ मतेन द्विविधा प्रतिज्ञाहानिरत्र निरुक्ता-प्रतिज्ञाया एव परित्यागो वार्तिककारेण दर्शित इत्येका-अपरा च दृष्टान्तपरित्यागरूपा भाष्यकारेण दर्शिता। भवति चैवमेक- वाक्यता भाष्यवार्तिकव्याख्यानयोरिस्यवधेयम् ।

--सू. ६] पञ्चमाध्याये द्वितीयाह्निके षष्ठं सूत्रम् ३३५ प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः ॥ ४॥ गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा, रूपादितोऽर्थान्तरस्यानुलब्धेरिति हेतुः । सोऽयं प्रतिज्ञाहेत्वोर्विरोधः-कथम् ? यदि गुणव्यतिरिक्तं द्रव्यं रूपा- दिभ्योऽर्थान्तरस्यानुपलब्धि!पपद्यते । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः- गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते । गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश्चार्था- न्तरस्यानुपलब्धिरिति विरुध्यते व्याहन्यते-न सम्भवतीति ॥ ४ ॥ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥ ५ ॥ अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते परो ब्रूयात् सामान्यमैन्द्रियकं न चानित्यमेवं शब्दोऽप्यन्द्रियको न चानित्य-इति । एवं प्रतिषिद्धे पक्षे यदि ब्रूयात्-कः पुनराह अनित्यः शब्द-इति । सोऽयं प्रतिज्ञातार्थनिह्नवः-प्रतिज्ञा- सन्न्यास इति ॥ ५॥ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥६॥ निदर्शनम्-एकप्रकृतीदं व्यक्तमिति प्रतिज्ञा । कस्माद्धेतोः ? एकप्रकृतीनां विकाराणां परिमाणात् । मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणम् । यावान् प्रकृतेव्यूहो भवति तावान्विकार इति । दृष्टं च प्रतिविकारं परिमाणम् । अस्ति चेदं परिमाणं प्रतिव्यक्तम् । तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तमिदमेकप्रकृतीति । अस्य व्यभिचारेण प्रत्यवस्थानम्-नानाप्रकृतीनामेकप्रकृतीनां च विका- राणां दृष्टं परिमाणमिति । एवं प्रत्यवस्थिते आह-एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् । सुखदुःखमोहसमन्वितं हीदमव्यक्तं परिमितं गृह्यते । तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्येकप्रकृतित्वमिति । तदिदम्-अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति । सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वान्निग्रहस्थानम् । हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते, नेदं व्यक्तमेकप्रकृति भवति- प्रकृत्यन्तरोपादानात् । अथ नोपादीयते-दृष्टान्त हेत्वर्थस्यानिदर्शितस्य साधक- भावानुपपत्तेरानर्थक्याद्धेतोरनिवृत्तं निग्रहस्थानमिति ॥ ६ ॥ (२) प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्यनिग्रहस्थानचतुष्कप्रकरणम् ।

खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ०२,८०७- प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ॥ ७ ॥ यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूया- नित्यः शब्दोऽस्पर्शत्वादिति हेतुः । हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तं पदम् । पदं च नामाख्यातोपसर्गनिपाताः । अभिधेयस्य क्रियान्तरयोगाद्वि- शिष्यमाणरूपः शब्दो नाम । क्रियाकारकसमुदायः कारकसङ्ख्या विशिष्टः क्रिया- कालयोगाभिधाय्याख्यातं धात्वर्थमात्रं च कालाभिधानविशिष्टम् । प्रयोगे. ध्वर्थादभिद्यमानरूपा निपाताः । उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्येवमादि । तदर्थान्तरं वेदितव्यमिति !! ७ ॥ वर्णक्रमनिर्देशवनिरर्थकम् ।। ८ ।। यथा नित्यः शब्दः कचटतपानां जबगडदशत्वात् , झभवढधषवदिति एवम्प्रकार निरर्थकम् । अभिधानाभिधेयभावानुपपत्तौ अर्थगतेरभावाद्वर्णा एव क्रमेण निर्दिश्यन्त इति ॥ ८ ॥ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥९॥ यद्वाक्यं परिषदा प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते-शिष्ट- शब्दमप्रतीतप्रयोगमतिद्रुतोच्चरितमित्येवमादिना कारणेन तदविज्ञातमविज्ञा- तार्थमसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति ॥ ९ ॥ पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ १० ॥ यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्ति इत्य- सम्बद्धार्थत्वं गृह्यते तत्समुदायार्थस्यापायादपार्थकम् । यथा--दश दाडिमानि, षडपूपाः; कुण्डम् , अजाजिनम् , पललपिण्डः, अथ रौसैकमेतत् कुमार्याः पाय्यं, तस्याः पिता प्रतिशील इति ॥ १० ॥ १ वाक्यानां पौर्वापर्यसम्बन्धाभावस्योदाहरणमाह-यथा ' दश दाडिमानि' षडपूपा' इति । २ पदानां पौर्वापर्यसम्बन्धाभावस्योदाहरणमाह-कुण्डमजाजिनमित्यादि । ३'रौरुक-रुरुसम्बन्धि । ४ 'पाय्यं'-पाययितव्यम् । प्रतिशीलो'--वृद्धः।

--सू. १६] पञ्चमाध्याये द्वितीयाह्निके षोडशं सूत्रम् (३) स्वसिद्धान्तानुरूपप्रयोगाभावनिग्रहस्थानत्रिकप्रकरणम् । अवयव विपर्यासवचनम्प्राप्तकालम् ॥ ११ ॥ प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः । तत्रावयवविपर्या- सेन वचनमप्राप्तकालमसम्बद्धार्थं निग्रहस्थानमिति ॥ ११ ॥ हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ १२ ॥ प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन हीनं न्यूनं निग्रहस्थानम् । साधनाभावे साध्यासिद्धिरिति ॥ १२ ॥ हेतूदाहरणाधिकमधिकम् ॥ १३ ॥ एकेन कृतत्वादन्यतरस्यानर्थक्यमिति । तदेतन्नियमाभ्युपगमे वेदि- तव्यमिति ॥ १३ ॥ (४) पुनरुक्तनिग्रहस्थानप्रकरणम् । शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥ १४ ॥ अन्यत्रानुवादात् शब्दपुनरुक्तमर्थपुनरुक्तं वा । नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । अर्थपुनरुक्तम्-अनित्यः शब्दो निरोधधर्मको ध्वनिरिति । अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः । 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति ॥ १४॥ अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥ १५॥ पुनरुक्तमिति प्रकृतम् । निदर्शनम्-उत्पत्तिधर्मकत्वादनित्यमित्युक्त्वा अर्थादापन्नस्य योऽभिधायकः शब्दस्तेन स्वशब्देन ब्रूयादनुत्पत्तिधर्मकं नित्यमिति । तच्च पुनरुक्तं वेदितव्यम् । अर्थसम्प्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्थापत्त्येति ।। १५ ॥ (५) उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् । विज्ञातस्य परिपदा त्रिरभिहितस्याप्यप्रेत्युच्चारणमननुभाषणम् ॥१६॥ १ उदयनाचार्या अत्रावयवशब्दं समस्तकथाभागसङ्ग्रहार्थं मन्यन्ते । तथोक्तम् बोधसिद्धौ-वादिना हि प्रयोगोऽभिधेयः तदनन्तरं सक्षेपतो विस्तरतो वा हेत्वाभासो- द्वारः कार्यः प्रतिवादिनाऽपि जल्पे वादिप्रयुक्तं हेतुमुपालभ्य स्वपक्षे साधनं वक्तव्यम् , अथ हेत्वाभासा उद्धरणीया इति क्रमः। तत्र यदि प्रथमत एव हेत्वाभासानुद्धरति पश्चात्हेतुं प्रयुङ्क्ते तदा भवति क्रमस्य विपर्यास इत्यादि। २ अत्र यत् 'अप्रत्युच्चारणं' तद्योग्यस्वस्थेन-अनवबोधमनाविष्कुर्वता न्या. सू. २२ यथा ३३८ खद्योतसहितन्यायसूत्रभाध्ये [अ०५,०२,स्० १७- " विज्ञातस्य' वाक्यार्थस्य ‘परिषदा ', प्रतिवादिना निरभिहितस्थ' यदप्रत्युच्चारणं' तदननुभाषणं नाम निग्रहस्थानमिति । अप्रत्युच्चारथम् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात् ।। १६ ॥ अविज्ञातं चाज्ञानम् ॥ १७॥ विज्ञातार्थस्य परिषदा, प्रतिवादिना निरभिहितम्य यद विज्ञातं तदज्ञानं निग्रहस्थानमिति । अयं खल्वविज्ञाय कस्य प्रतिपेधं ब्रूयादिति ॥ १७ ॥ उत्तरस्याप्रतिपत्तिरप्रतिभा ।। १८ ॥ परपक्षप्रतिषेध उत्तरम् । तद्यदा न प्रतिपद्यते तदा निगृहीतो भवति ।। १८ ॥ कार्यव्यासङ्गात्कथाविच्छेदों विक्षेपः ।। १९ ।। यत्रं कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति-इदं मे करणीयं विद्यते, तस्मिन्नवसिते पश्चात्कथयामीति विक्षेपो नाम निग्रहस्थानम् । एकनिप्रहाव- सानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यत इति ॥ १९ ॥ (६) दोषनिरूप्यमतानुज्ञादिनिग्रह स्थानत्रिकप्रकरणम् । स्वपक्षे दोषाभ्युपगमात् परपक्षे दोपप्रसङ्गो मतानुज्ञा ॥२०॥ कथामविच्छिन्दता वादिनेति ध्येयम् । आद्यविशेषणद्वयमननुभापणस्य अज्ञातनाम्नो निग्रहस्थानान्तराद्व्यवच्छेदाय-अन्त्यं चास्य विक्षेपसार्यनिरासायति विवेकः । १ कार्यव्यासङ्गस्यात्राभ्युपगतकथाविच्छेदमात्रोपलक्षणत्वमिति तात्पर्यकृतः। २ तदेतदाह भाष्यकार:-यत्रेति। निग्रहस्थानत्वमुपपादयति-एकनिग्रहति । यद्यपि कालान्तरे उत्तरं दास्यामीति वचनेन वादिनः सर्वथाऽनभिज्ञता न सूचिता पुनरव- सरेऽपेक्षितस्योत्तरस्य सम्भाव्यमानत्वात -तथापि कालान्तरे सतोऽसतो वोत्तरस्य वचनेऽपि कथान्तरमेव तत् स्यात्-पूर्वा तु कथा कार्यव्यासक्त्योत्तरादानादेव विच्छि- बा-कथाविच्छेदस्य चैकतरनिग्रहमूलकत्वादित्यर्थः । न चेदं निग्रहस्थानमर्थान्तरमेव । तत्र प्रकृतमेव साधयामीति व्याजेन प्रसक्तानुप्रसक्तावतारेण कथाया विच्छेदाभावात् । न चास्य हेत्वाभासेष्वन्तर्भावः-न हि विक्षेपस्यान्यतमलिङ्गधर्मानुविधानं नापि प्रकृत- साध्यसिद्धये प्रयोगो येन हेत्वाभासः स्यात् । न चेदमनर्थकम्-न त्यत्रासमान सङ्केतः प्रतिपादकः । न चापार्थकम्-नेह पदानि वाक्यानि वा पौर्वापर्येणासम्बद्धानि। न चात्राज्ञानं येनाप्रतिभा भवेन् । तस्मार पृथगेव निग्रहस्थानमिदमिति सिद्धम् । ३ अस्य --म्. २२] पञ्चमाध्याये द्वितीयाहिके द्वाविशं सूत्रम् ' यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्यानुद्धृत्य वदति-भवत्पक्षेऽपि समानो दोप इति-स स्वपक्षे डोपाभ्युपगमात्परपक्षे दोषं प्रसञ्जयन्परमतमनु- जानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यत इति ॥२०॥ निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ २१ ॥ पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः । तस्योपेक्षणं निग्रहस्थान प्राप्तासीत्यननुयोगः । एतच्च कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयान् । न खेल निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति ॥ २१ ॥ अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ।। २२॥ निग्रहस्थानलक्षणस्य मिथ्याऽध्यवसायादनिग्रहस्थाने निगृहीतोऽसीति परं ब्रुवन् निरनुयोज्यानुयोगान्निगृहीतो वेदितव्य इति ।। २२ ।। १ नन्विदं पर्यनुयोज्योपेक्षणं निग्रहस्थानं केनोद्भावनीयम् । न तावद्वादिना न ह्यसौ स्वसाधनदोपमुन्मत्त वदुद्भावयति । नापि प्रति वादिना-न ह्यनुन्मत्त आत्मा- नमात्मना निगृह्णातीत्यत आह-एतच्चेति । अयं वादी प्रतिवादी वा स्वविपक्ष पर्यनुयोऽयं जानानाऽप्युपेक्षत इति सभापतिना परिपदा वा कस्यात्र कथायां पराजय' इति पृष्टया एतन्निग्रहस्थानमुद्भावनीय मित्यर्थः । २ वादी प्रतिवादी वा कथं नोद्भावयेदिदमित्यत आह-न खल्विति । ३ 'स्वकोपीन' स्वनिग्राह्यत्वम् । व्याख्यातार्थमेतत् । तत्वनिर्णयावसाने वादे यदैतन्निग्रहस्थानमुद्भाव्यते तदा द्वयोरपि वादि- प्रतिवादिनोनिगृहीतत्वात (एकस्य निग्रहस्थान प्राप्तत्वादपरस्य च पर्यनु योऽयापेक्षणा- देव निगृहीत्वान ) परिपदेव विजयते । जल्पवितण्डयोश्च तत्त्वानपेक्षं पुरुषसामर्थ्य- परीक्षणं प्रवृत्तयोर्वादिप्रतिवादिनोः प्रतिवाद्येव पराजीयते, तेनैव पर्यनुयोध्योपेक्षणस्य कृतत्वात वादिनों निग्रहस्य च तेनानुद्भावितत्वादिति विवेकः । वादिना सम्यक साधने प्रत्युक्त प्रतिवादिना उत्तराप्रतिपत्तिरप्रतिभासाधना- भासोपन्यासे चोत्तराप्रतिपत्तिः पर्यनुयोज्योपेक्षणमिति विशेषः । ४ सूत्रं व्याचक्षाण उक्तस्य एवं मिथ्यानुयोगस्य मूलं प्रदर्शयति-निग्रहास्थान- लक्षणस्येति । निग्रहस्थानस्य लक्षणमविद्वानेवैवमभियोगं करोतीत्यर्थः। न चायम- प्रतिभव। मा ह्युत्तराप्रतिपत्तिरयं त्वनुत्तरस्यवोत्तरत्वेन विरुद्धा प्रतिपत्तिरिति महान् विशेषः । न चास्य हेत्वाभासतैव-हेत्वाभासा हि वादिनो निग्रहस्थानमयं तु प्रति- वादिन इति भेदः । अनेनैव च निग्रहस्थानेन सर्वा जातयो निग्रहस्थानत्वेन सङ्- गृहीता भवन्तीत्यवगन्तव्यम् ।

३४० खद्योतसहितन्यायसूत्रभाष्ये [अ०५,आ०२,०२३-- सा (७) कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम् । सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥२३॥ कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययादनियमान् कथा प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः । यथा न सदात्मानं जहाति-न सतो विनाशो-नासदात्मानं लभते- नासदुत्पद्यत-इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति-एकप्रकृतीदं व्यक्तं, विकाराणां समन्वयदर्शनात् । मृदन्वितानां शरावादीनां दृष्टमेकप्रकृतित्वम् । तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते । तस्मात्समन्वयदर्शनात्सुखा- दिभिरेकप्रकृतीदं विश्वमिति । एवमुक्तवाननुयुज्यते--अथ प्रकृतिर्विकार इति कथं लक्षितव्यमिति । यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते प्रकृतिः । यद्धर्मान्तरं प्रवर्तते निवर्तते वा स विकार इति । सोऽयं प्रतिज्ञातार्थविपर्या- सादनियमात् कथां प्रसञ्जयति । प्रतिज्ञातं खल्वनेन-नासदाविर्भवति न सत्तिरोभवति--इति । सदसतोश्च तिरोभावाविर्भावमन्तरेण न कस्य- चित्प्रवृत्तिः प्रवृत्त्युपरमश्च भवति । मृदि खल्ववस्थितायां भविष्यति शरावा- दिलक्षणं धर्मान्तरमिति प्रवृत्तिर्भवति । अभूदिति च प्रवृत्युपरमः । तदेतन्म- धर्माणामपि न स्यात् । एवं प्रत्यवस्थितो यदि सतश्चात्महानमसतश्चात्म- लाभमभ्युपैति तदस्यापसिद्धान्तो निग्रहस्थानं भवति । अथ नाभ्युपैति पक्षोऽस्य न सिध्यति ॥ २३ ॥ हेत्वाभासाश्च यथोक्ताः ॥ २४॥ हेत्वाभासाश्च निग्रहस्थानानि । किं पुनर्लक्षणान्तरयोगात् हेत्वाभासा निग्रहस्थानत्वमापन्नाः, यथा-प्रमाणानि प्रमेयत्वमित्यत आह-'यथोक्ता'इति । हेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति । त इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश्चेति ॥२४॥ योऽक्षपादमृर्षि न्यायः प्रत्यभाद्वदतां वरम् । तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ।। इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमोऽध्यायः समाप्तः ॥५॥ ॥ समाप्तश्चेदं न्यायदर्शनम् ॥

गौतमसूत्राणामकारादिक्रमेण सूचीपत्रम् । अ. आ. सू. पृष्टे अ. आ. २ ३ २ or ३ १ १ २ १ १ ३ 40 २ २ २ ५ २ पृष्ठे १६ अप्रत्युच्चारणं ४५ अप्राप्य ग्रहणं १८१ १४ अभावाभावोत्पत्तिः२४७ ४३ अभिव्यक्तौ च २९ अभ्यासात् ६० अभ्युपेत्य कालमदै १२० २२ अयसोऽयस्कान्त ४२ अरण्यगुहा ३०८ १५ अर्थादापन्नस्य २१ अर्थापत्तितः ३२१ ३ अर्थापत्तिः ५८ अलातचक्र १. अवयवनाशे १६४ ११ अवयव विष १२ अवयवान्तर १५ अवयवावयवि ४० अविज्ञाततत्त्वेऽथें १७ अविज्ञातं १२ अविशेषाभि १७ अविशेषे वा ६ अविशेषोक्त २ ३ २ ३ or ३ १ १ २ २ २ ७१ अणुश्यामता २३९ ६७ अणुश्यामता ४५ अत्यन्तप्रायैकदेश १११ ५ अथ तत्पूर्वकं २७ अध्यापनात् ४ अनर्थापत्तो २५ अनवस्था ५२ अनवस्थायित्वे २२ अनिग्रहस्थाने। ३३९ २४ अनित्यत्वग्रहणात् २०७ २२ अनिमित्ततः २३ अनिमित्त ५५ अनियमे २२ अनुक्तस्यार्थापत्तेः ३२२ २० अनुपलम्भात् ३० अनुपलम्भान्नक ३२५ २१ अनुपलम्मात् ६५ अनुवादोपत्तेश्च ३८ अनेकद्रव्य १७८ ५ अनेकान्तिकः २० अन्तर्बहिश्च २९७ ३१ अन्यदन्यस्मात् १३९ ३१ अपरीक्षित ४३ अपवर्गेऽप्येवं ६३ अप्तेजोवायूनी ४७ अप्रतिघाता ७ अप्रत्यभिज्ञानं ५ अप्रत्यभिज्ञाने च १९८ १ १ १ १ २ २ १ १ २ ३ १ २ ४ ३ २२२ २ २ १ १ 20 २९७ ४ २ ४३ अव्यक्तग्रहण ४ अव्यवस्थान्मनि २२ अव्यूहाविष्टम्भ ३४ अश्रवणकारण ९ असत्यर्थे २२ अस्पर्शत्वात् ३८ अस्पर्शत्वात् १ १३७ ३ ३ ३४२ न्यायसूत्रसूची अ. आ. सू. अ. आ. १ सू. पृष्ठे १६ उभयसाधात् ३२० २८ उभयाः पक्ष १३८ ५९ ऋणक्केशप्रवृत्यनु २७७ or ५ 0 0 ५ २ ३ 40 or २२ २९२ ३ १ १८२ १ २३ एकधर्मोपपत्ते ९ एकविनाशे ११ एकस्मिन् ६५ एकैकश्येनो ६७ एतेनानियमः ए ५५ ऐन्द्रियकत्वात् or ३ २३५ १८ आकाशव्यति १९ आकाशासर्व ६८ आकृतिर्जाति ६३ आकृतिस्तदपे १० आत्मनित्यत्वे ३१ आत्मप्रेरण ९ आत्मशरीर ५० आदर्शोदक ४८ आदित्यरश्मेः १३ आदिमत्त्वात् ७ आप्तोपदेशः ५३ आप्तोपदेश ५१ आश्रयव्यति इ १० इच्छाद्वेषप्रयत्न १२ इन्द्रियान्तर ५६ इन्द्रियार्थ ४ इन्द्रियार्थसन्निकर्प २१ इन्द्रियैर्मनसः २ 40 १ ३ २२८ २ on ४ १ २७३ ३ ३ २ १ २३ ३ ३ १ १ १२ ३ ર ५ १ ई २ or १९ ईश्वरः कारण २५० १ ३९ कर्मकारितः १ कर्माकाश ४२ कर्मानवस्थायि २२२ १७ कारणद्रव्यस्य २८ कारणान्तरान् १९ कार्यव्यासङ्गा ३३८ ३८ कार्यान्यत्वे ३२७ ९ कालात्ययापदिष्टः ४६ कालान्तरेण २७१ ५ किञ्चित्साधात् ३१६ ४६ कुड्यान्तरित ४४ कृतताकर्तव्यता ७ कृत्स्नैकदेशा २९२ ३२ कृष्णसारे १३ केशसमूहे १८ क्रमनिर्देशात् २४८ ६ क्रमवृत्तित्वात् १९८ २४ कचित्तद्धमोपपत्तेः ३२२ २ १ १ on ४ ४ १ १ १ १ १ १८ उत्तरस्याप्रति ४९ उत्पादव्यय २७२ ३४ उदाहरण ३८ उदाहरणापेक्षः २६ उपपत्तिकारण ३२३ ५१ उपलब्धेः ३५ उपलभ्यमाने २५ उभयकारणोपपत्ते ३२३ my २ ४ २ २ ३ २ ५ १ ३ न्यायसूत्रसूची ३४३ पृष्टे on MO अ. आ. सू. २ २० कचिन्निवृत्ति ३ २ १७ व चिद्विनाश ३ १३ क्षीरविनाशे ४० क्षुदादिभिः २०३ २०२ ४ १ १ ३ or ३० गन्धकेद ३ १ ५८ गन्धत्वाद्यव्य ३१९ १ mm ३ 0 १ ३ ६२ गन्धरसरूप १४ गन्धरसरूपस्पर्श ५७ गुणान्तरापत्ति ३ गोत्वाद्गोसिद्धिवत् ३१४ २ ५ १ .. ३ ४ ८ घटादिनिष्पत्ति १२ घ्राणरसनचक्षु १ १ or २ ११ चेप्टेन्द्रियार्थाश्रय अ. आ. सू. पृष्ठे १४ तत्प्रामाण्ये वा ६ तत्प्रामाण्ये वा १२८ ५४ तत्सम्बन्धात् २७३ १० तसिद्धेरलछितेषु १२९ ५ तथात्यन्तसंशयः २ तथा दोषाः १३ तथाभावात् ३५ तथा वैधात् ६४ तथाऽऽहारस्य ४९ तथेत्युपसंहारात् ११३ २२ तदत्यन्तविमोक्षः ३२ ६८ तददृष्टकारितं २७ तदनित्यत्व २९ तदनुपलब्धेः ३२४ १९ तदनुपलब्धेः १३५ ३५ तदनुपलब्धे १७७ २६ तदन्तरालानुपलब्धेः१३८ ५८ तदप्रामाण्यं ४५ तदभावश्चापवर्ग ३ ५ तदभावः ३२ तदभावे नास्ति १३९ २५ तदयोगपद्य ४६ तदर्थं यम ५ तदसंशयः २० तदात्मगुणत्वेऽपि २०५ १४ तदात्मगुणत्व २८ तदाश्रयत्वात् ३०१ ३ ७३ तदुपलब्धिः २ २० तद्विकल्पात् २ १८ तद्विनिवृत्तेः ८६ १ ३७ तद्विपर्ययाद्वा ३ ૨ ३ २ ३ १ 40 ५७ जातिविशेष ३४ ज्ञस्येच्छाप २१३ १६ ज्ञातुर्ज्ञानसाधन ४७ ज्ञानग्रहणाभ्यास ३०९ २४ ज्ञानलिङ्गत्वात् ३१ ज्ञानविकल्पानां २५ ज्ञानसमवेताम्म २०७ ५६ ज्ञानायौगपद्यात् २२९ ૨ १ ९२ ४ or ३ ३ १ مه १ २ or : १ २१ तत्कारितत्वात् २५१ ११ तस्त्रिविधं-वाक्छलं ६७ ३ तत्त्रैराश्य २४२ ३७ तत्त्वप्रधान १५ तस्वभाक्तयोः १३३ ५० तत्वाध्यवसाय ३१० १ ४ २ २ २ २ ३४४ न्यायसूत्रसूची १ - अ. आ. सू. ३७ द्रव्यगुणधर्म ४५ द्रव्यविकारे ३ ४६ द्रव्ये स्वगुण กร 40 २२४ १ ४ २ १ १ १ २ १४ धर्मविकल्प ३६ धारणाकर्षण ६९ ४ २ 1 २ अ. आ. सू. पृष्टे ३ ६९ तयवस्थान १९३ ३ तब्यवस्थानादेव २६ तन्त्राधिकरण ३ तन्निमित्तं २ ४१ तयोरप्यभावः ३१ तल्लक्षणावरोधात् २५६ २ ३५ तल्लिङ्गत्वात् २१४ ४८ तं शिष्यगुरु ३०९ ५१ ताभ्यां विगृह्य ७१ तेनैव तस्य २ २ ५८ ते विभक्त्यन्ताः १५२ १ ६ तेषां मोहः २४३ २ ८ तेषु चावृत्तेः २९२ २ २८ तैश्चापदेशः ९३ २ १५ त्रैकाल्याप्रतिषेधः २ १२ काल्यासिद्धेः १८ त्रैकाल्यासिद्धेः ३२१ ३ २ ५२ त्वपर्यन्तत्वात् २२७ ३ ५३ त्वगव्यतिरेकात् १८४ ३ १ ४ १ ३ ४ ३ ३ ३ ४ १ .. १ 40 or २ ५९ न कर्मकर्तृ २३ न कर्मानित्यत्वात् १३७ ४२न कारणावयव ६ न कार्याश्रय ५५ न केशन खादिपु २२७ ४४ नक्तंचरनयन १८० ६५ न क्लेशसन्ततः ८ न गत्यभावात् १२ न घटाद् २४६ १४ न घटाभाव १३२ १ न चतुष्ट्व १० न चावयवी २९२ ३३ न चैकदेशो ६१ न तदनवस्थानात् १५३ ५७ न तदर्थ १६ न तदर्थान्तर २९ न तदाशुगतित्वात् २०८ ४६ न तद्विकारा १४७ ८ न दोपलक्षण २४४ ४४ न निष्पन्नावश्य १५न पयसः २०२ ४८ न पाकजगुणान्तर २२६ ६७ न पार्थिवाप्ययोः ५३ न पुत्रस्त्रीपशु २७३ २० न पुरुपकर्माभावे २५० १ ३ १ १ १ 40 0 २ ७० ३ २ ४ 10 0. or ३ ३ द ५ दर्शनस्पर्शनाभ्यां १५८ २३ दिग्देशकालाकाशेषु ९० २ दुःखजन्मप्रवृत्ति ५८ दुःखविकल्पे ५१ दृष्टानुमितानां १८२ ११ दृष्टान्तविरोधात् १६४ ९ दृष्टान्तस्य ३४ दृष्टान्ते च साध्य ३२६ २ दोषनिमित्तं २८९ १ दोषनिमित्तानां २८९ ४३ द्विविधस्यापि ४ A १ १ १ ३ ३ ३ १ १ २ न्यायसूत्रसूची ३४५ पृष्ठे १ १ १ आ. सू. ३२ न प्रत्यक्षेण १९ न प्रदीप २ १६ न प्रलयोऽणु ४५ न प्रदीपार्थिः ६४ न प्रवृत्तिः प्रति ६० न बुद्धिलक्षण २९५ : २२४ १ १ १ or ४ न युगपत् १९८ १ 10 M १ १ ३ २ on २ २ १ .0 अ. आ. सू. पृष्टे २ ४२ नातीतानागतयोः १०९ १६ नातीतानागतयोः २४७ ४४ नातुल्यप्रकृतीनां ३ १५ नात्मप्रतिपत्ति २२ नात्ममनसोः २६ नानित्यता २५५ ३ ३६ नानुमीयमानस्य ६७ नानुवादपुनरुक्तयोः १२३ ३५ नानेकलक्षणैः ३ २६ नान्तःशरीर ३ २३ नान्यत्र प्रवृत्ति १७१ ३० नान्यत्वेऽपि ४८ नाप्रत्यक्षे गवये ११२ ७ नाभावप्रामाण्यं १२८ ३० नार्थविशेष ३९ नार्थविशेष ४८नासन्न सन्न २७२ २१ निग्रहस्थान ९१३ ७० नित्यत्वप्रसनश्च २३८ ५० नित्यत्वे १४८ ७ निमित्तनैमित्तिक २४४ ९ निमित्तनैमित्तिक २४४ ३५ नित्यमनित्यभावात् ३२६ २८ नित्यस्याप्रत्या २५६ २ २ ५१ नित्यानां २४ निमित्तानिमित्तयोः २५४ ३७ नियमानियमो २१५ ३ १६८ २ ११ नियमहेत्वभावात् २०१ २ ५६ नियमानियम ४३ निरवयव २७० or ३ १ १ ३ ३ ५७ न युगपदनेक २२९ ५४ न युगपदा ४१ न रात्रावपि ५४ न रूपादीनां २२८ ११ न लक्षणा ४६ न विकारधम्न १७ न विनष्टेभ्यः २४. २ न विषय ३३ न व्यवस्थानु ७२ न शब्दगुणोपलब्धेः ५९४ ४५न सद्य: ६४ न सर्वगुणा ६८न सकल्प २८५ २६ न सङ्कल्पनिमित्त ६२ न साध्यममत्वात् २३२ ५६ न सामयिकत्वात् ११६ ५६ न सुखस्याप्यन्त २७५ ३० न स्मरणकाल २०९ १३ न स्मृतेः स्मर्तव्य १६५ ३९ न स्वभावसिद्धिः २६५ ३८ न स्वभावसिद्धेः २६३ १९ न हेतुतः ७२ नाकृनाभ्यागम २३९ ६५ नाकृक्तिीतव्य २४ नाणुनित्यत्वात् १ १ १ ४ १ ३ or २ २ १ ४ १ १ ३ २ AM ३ १ १ १ १ ४ १७ नियमश्च २ न्यायसूत्रसूची पृष्ठे १ १ १ १ Ym १ १ 5 अ. आ. सू. पृष्ठे २७ निर्दिष्टकारण २९ निःश्वासोच्छवास १७४ ४९ नेतरेतर १८ नेन्द्रियार्थयोः २०४ ३९. नैकदेशनास ४ नैकप्रत्यनीक ८ नैकस्मिन्नासाथि २ २२ नोत्पत्तिकारण ३२ नोत्पत्तितत्कारण २५७ ६३ नोत्पत्तिनिमित्तत्वात् २३३ १२ नोत्पत्तिविनाश ३० नोत्पत्तिविनाश २० नोष्णशीत ४२ न्यूनसमाधिक २ ४ ३ १ १ ८ २ १ กร” ३ ३ २ १ กร २ ५ २ प अ. आ. सू. २ पूर्व हि प्रमाण ३ १८ पूर्वाभ्यस्तस्मृति ९ पृथक्चावयवेम्य १३ पृथिव्यापस्तेजः १० पौर्वापर्यायोगात् ३३६ प्रकृतादर्थात् ४१ प्रकृतिविवृद्धो २ ५४ प्रकृत्यनियमात ४१ प्रणिधाननिबन्ध २२० ३ ३३ प्रणिधानलिङ्गादि २१० ३२ प्रतिज्ञाहेतू ३ प्रतिज्ञातार्थ ३३४ १ प्रतिज्ञाहानिः ३३३ ४ प्रतिज्ञाहत्वोः २ प्रतिदृष्टान्त ३३३ ११ प्रतिदृष्टान्त ३१८ ३ ४९ प्रतिद्वन्द्विसिद्धेः ४९ प्रतिपक्षहीनं १७ प्रतिपक्षात ४१ प्रतिषेध ३२९ ४२ प्रतिषेधं सदो २० प्रतिषेधानुपपत्तेः ३२१ ५ प्रतिषेधाप्रामाण्यं १२८ ३९ प्रतिषेधेऽपि ३२८ ३६ प्रतिषेध्ये ३२६ २ २६ प्रत्यक्षनिमित्त ९२ ३१ प्रत्यक्षमनुमानं २१ प्रत्यक्षलक्षण ८ प्रत्यक्षादीनां ३ प्रत्यक्षानुमान २ ४७प्रत्यक्षेणाप्रत्यक्षसिद्वे:११२ १ ५ २ ३ १ १६९ ३ ५ 40 ७८६ १ १ ३ ५ २ २ १ २ २ १ ५ पक्षप्रतिषेधे १९ पद्मादिषु प्रबोध ३६ परश्वादिषु १७ परं वा त्रुटेः ३९ परिशेषाद्यथोक्त ९ परिषत्प्रति १० पश्चारिसद्धौन ३६ पाणिनिमित्त ६२ पात्रचयान्तानु २७ पार्थिवं गुणान्तर २८ पाथिवाप्यतैजसं १९ पुनरुत्पत्तिः ५४ पूरणप्रदाह ६. पूर्वकृतफलानु ४१ पूर्वकृतफलानु ६८ पूर्वपूर्वगुणोत्कर्ष ४ १ २८२ १ ३ १७४ १ ३ १ १ २ १ २ ३ ૨ १ mr 20 २ १ २ MY १ १९२ न्यायसूत्रसूची अ. आ. पृष्टे ५ १ and भ ६५ भूतगुणविशेप ६१ भूतेभ्यो ३ ३ or १८८ २३२ or ३ १ १ २ १ ३ ४० मध्यन्दिनोल्का ६९ मनःकर्मनिमित्तत्वात् २३८ ६९ मन्त्रायुर्वेद १२३ ३३ महदणुग्रहणात् ३२ मायागन्धर्व ३५ मिथ्योपलब्धि २३ मूर्तिमतांच २९८ And or १ १ १ ० १ wo अ. आ. सू. पृष्टे १० प्रदीपोपादान ६. प्रधानशब्दात् प्रमाणतर्क २९ प्रमाणतश्वार्थ २ १७ प्रमाणतः सिद्ध १ प्रमाणप्रमेय २ ३० प्रमाणानु २ १ १६ प्रमेया च तुला ३७ प्रयत्नकार्या १८ प्रवर्तनालक्षणाः २० प्रवृत्तिदोप १ प्रवृत्तियथोक्का १७ प्रवृत्तिर्वाग १ ६ प्रसिद्धसाधात ४६ प्रसिद्वसाधात् ११२ ६६ ग्रागुत्पत्ते: २८४ २ १८ प्रागुच्चारणात् ર १२ प्रागुत्पत्तेः १३० १२ प्रागुत्पत्तेः ४७ प्रानिष्पत्तः ३ २ ६५ प्राप्ती चानियमात् २३४ १ ७ प्राप्य माध्यं ५२ प्रीतेरात्माश्रय २७३ २१ प्रत्याहाराभ्या १ १ .० १ مه १ ४२ २ or ३ 40 १ ३ १ २ .. २ न ७ यत्र संशयः ३. यत्सिद्धावन्य ५९ यथोक्तहेतुत्वात् २३० ३८ यथोक्तहेतुत्वात् ६ यथोक्ताध्यवसायालेव ६६ २ यथोक्तोपपन्नः २४ यमर्थमधिकृत्य ७ यस्मात् प्रकरण ६२ ४७ यावच्छरीर २२५ ६० याशद्वसमूह १५२ १६ युगपज्ज्ञानानुत्पत्तिः २९ १९ युगपज्ज्ञेयानुपलब्धः२०५ ११ युगपसिध्दौ १ १ १ १ ४ १ m १ ४ १ २ ३ ८० ल ३४ रश्म्यर्थसन्निकर्प ३८ रोधोपघात १७६ १०६ ३ २ ३ १ १ १ १ १ ५.७ बाधनानिवृत्रैः २१ बाधनालक्षणं ४२ बाह्यप्रकाश १५ बुद्विम्पलब्धिः ५० बुद्धिसिद्धन्तु २७२ ३५ बुन्दश्चवं २६ बुध्दया विवेचनात् ३०१ २ १ 00 U८ ३६ लक्षणव्यवस्थानात् २६० ८ लक्षितेषु १२९ १४ लिङ्गतो ग्रहणात् २०२ २५ लौकिकपरीक्षकाणां २ २ ३४८ न्यायसूत्रसूची १ ५ ४ १ or १ .. अ. आ. सू. पृष्ठे व २ १० वचनविधात: ८ वर्णक्रमनिर्देश २ २ ५१ वर्णत्वाव्यतिरेवंरात् १४९ २ ४० वर्तमानाभाव: १०८ २ १ ४३ वर्तमानाभा २ १५ वाक्छलमेव २ १२ वाक्यविभागस्य १२० २ २ ५३ विकारधर्मित्वे २ ४७ विकारप्राप्तानां २ ४० विकारादेशो १६ विज्ञातस्य परि ४ विद्याविद्या ६४ विधिविधायकः १२१ ६६ विधिविहितस्य १२२ ६३ विध्यर्थवाद १२१ ७ विनाशकारणानुपलब्धे १ १ १ अ. आ. सू. पृष्टे ६ वृत्त्यनुपपत्तेः १३ व्यक्ताद्धटनिप्पत्ते २४६ ११ व्यक्ताद्वयक्तानां २४५ २ ६७ व्यक्तिर्गुण २ ६६ व्यक्त्याकृतिजातयः १५५ ૨ ६४ व्यक्त्याकृतियुक्ते १५४ ५९ व्यक्त्याकृति ५ व्यभिचारादहेतुः २४३ १५ व्याघातात् २४७ ३२ व्यासक्तमनसः २१० ४० व्याहतत्वात् २९ व्याहतत्वात् २ २७ व्याहतत्वात् ३ १६ व्यूहान्तरात् २०२ श २ शब्द ऐतिह्य १२७ २१ शब्दसंयोग १४ शब्दार्थयोः ५५ शब्दार्थव्यवस्थानात्११६ ५० शवोऽनुमान ११३ ५३ शरीरगुण २२७ ४ शरीरदाहे १६० ५० शरीरव्यापित्वात् २२६ ६६ शरीरोत्पत्ति २३४ २ ६८ शीघ्रतरगमनोपदेश १२३ ३ ३१ श्रुतिप्रामाण्याच ४ २ ४ २ ३ १ or १ २ २ or ३ 07 २३ विनाशकारणा २०६ ३३ विनाशकारणानुपलब्धेः १३९ १९ विप्रतिपत्तिः ३ विप्रतिपत्ती ७४ २ विप्रतिपत्त्यव्यवस्थ ७४ ५५ विप्रतिषेधात् १८६ ३९ विभक्यन्तर ४१ विमृश्य पक्ष ५५ विविधबाधना २७५ ५९ विषयस्वाव्यति २ विषयप्रत्यमिज्ञानात् १९६ ६६ विष्टं ह्यपरं २४ वीतरागजन्म १७२ २ مه 40 १ וה or ३ १ ३ २ ३ ३ ३ २५ सगुणद्रव्योत्पत्ति १७२ ७० सगुणानां १९२ ४४ सद्यः कालान्तरे २७० ८ स द्विविधः ४१ ३ स प्रतिपक्ष ६० १ १ 40 १ १ न्यायसूत्रसूची ३४९ अ. आ. सू. १ १ om ४ २ २ - 6 ro १ १ २ १ 61 १ ४२ १ २ ९२ २ १ १ १ १ १ १ १ १ ४ १ १ १ ३ अ. आ. सू. पृष्ट २ ३८ समाधिविशेष २९ समानतन्त्र ४२ ६९ समानप्रसवात्मिका १५६ १ १ समानानेक २३ समानानेक ६१ समारोपणात् २८२ २७ सर्वतन्त्रप्रति ४२ २८ सर्वतन्त्राविद्धः ४० सर्वत्रैवम् २९ सर्वं नित्य २५६ ३४ सर्व पृथग्भाव २ १३ सर्वप्रमाण २५ सर्वमनित्यं २५५ ३७ सर्वमभावः २ ३५ सर्वाग्रहणं १ ७ सव्यदृष्टस्य १६३ ४ सव्यभिचार २ ६२ सहचरण ४१ संख्यकान्तासिद्धिः २६८ २ १६ सन्तानानुमान २५ सम्प्रदानात् ५२ सम्बन्धाच्च ૨ १३ सम्भवतोऽर्थस्य २ २४ संयोगोपपत्तेश्च २९८ २ साधर्म्यवैधाभ्यम् ३१३ १ २ १८ साधर्म्यवैधाभ्याम् ७१ १ साधर्म्यवैध ३२ साधर्म्यात्तुल्य ३२५ १५ साधर्म्यात्संशये ३३ साधादसिद्धेः ३२६ २ ३४ साध्यत्वादवयविनि ९९ २७ साध्यत्वादहेतुः २०८ ३ २ पृष्ठे ४ साध्यदृष्टान्तयोः ३३ साध्यनिर्देशः ३ साध्यसमत्वात् ३६ साध्यसाधर्म्यात् ६ साध्यातिदेशात् ३१७ ८ साध्यविशिष्टः १४ सामान्यदृष्टान्तयोः ३१९ ६ सिद्धान्तमभ्यु २३ सिद्धान्तमभ्युपेत्य ३४० २७ सुप्तव्यासक्त ४८ सुवर्णादीनां १४७ ६३ सुषुप्तस्य स्वप्न २८३ ३७ सेनावनवत् १०१ ६५ स्तुतिनिन्दा १२१ ५२ स्थानान्यत्वे १८३ ९ स्फटिकान्यत्व १० स्फटिकेऽप्यपरा- परोत्पत्तेः २०० ४० स्मरणं २८ स्मरतः शरीर २०८ ३४ स्मृतिसंकल्पवच्च ३०३ २० स्वपक्षदोषा ३३८ ४३ स्वपक्षलक्षणा ३१ स्वप्नविषयाभिमान ३०२ १४ स्वविषयानति २९४ ह १२ हीनमन्यतमेन १३ हेतूदाहरण ४४ हेतूपादानाम् २२३ ३९ हेत्वपदेशात् ३३ हेत्वभावात् २४ हेत्वाभासाश्च ३४० ३ ३ १ २ .. ३ २ १३३ mr ७ ४ ५ २ १ १ १ १ १ २ ३ १ १ २ ३०३ २

No text on this page.

सीकन्यायभाप्यस्य अकाराद्यनुक्रमेण विषयसूचीपत्रम् ॥ पृ० पं० ४ निरालः। ७ १ का ३ বিশ্ব पृ० अज्ञानलक्षणम् । अतीतानागतकालसिद्धः परस्परानपेक्षत्वम् । अधिकरणसिद्धान्तलक्षणम्। ४२ अधिकलक्षणम् । अननुमापणलक्षणम् । अनित्यसमनिराकरणम् । अनित्यसमलक्षणम् । अनिमित्ततो भावोत्पत्नि- निरासः। अनुत्पत्तिममनिराकरणम् । ३१९ अनुत्पत्तिसमलक्षणम् । अनुपलब्धिसमनिराकरणम् । ३२५ अनुपलब्धिसमलक्षणम् । अनुमानप्रामाण्याक्षेपः। अनुमानप्रामाण्याक्षेप- निरासः । अनुमानलक्षणविभागौ। अनुवादपुनरुक्तयोवलक्ष- ण्योपपादनम् । अनुवादलक्षणम् । अपवर्गनिरूपणम् । अपसिद्धान्तलक्षणम् । ३४० अपार्थकलक्षणम् । ३३६ अप्रतिभालक्षणम् । ३३८ अप्राप्तकाललक्षणम् । अभावग्रामाण्याक्षेपः। पं० विषय अमावस्य वस्तुत्वव्यव- स्थापनम् । अभावाद भावोत्पत्ति- १२ २४८ ६ अभ्युपगमसिद्धान्तलक्षणम्! ४३ २३ अर्थवादविभागः। २ अर्थान्तरलक्षणम् । ३३६ अर्थापत्तिप्रामाण्यग्रनिषेधा- नुपपत्तिः। १२८ ६ ३ अर्थापत्तिसमनिराकरणम् । ३२२ अर्थापत्तिसमलक्षणम् । २३ अर्थापत्तरप्रामाण्याक्षेपः। १३ अर्थापनेरप्रामाण्याक्षेप- परिहारः । १२७ अवयवविभागः। अवयविपरीक्षारंभः। अवयविनि पूर्वपक्षः। २९२ २ अवयविनि संदहः। अवविमाधनम् । अवविनोऽवयवेभ्योऽ- थान्तरस्वे युक्तिः । अवयविन्याक्षेपपरिहारी। २ अवयव्यनभ्युपगमे- प्रत्यक्षानुपपत्तिः। अविज्ञातार्थलक्षणम् । अविशेषसमनिराकरणम् । ३२२ २३ अविशेषसमलक्षणम् । ३२२ ३५१ ३ . । १ iur MAS १ १ ३५२ वेषयसूचि पृ० पं० ४ १ ३ or ८ ३ १ ३ ६ or ० २ १३ विषय विषय पृ० पं० अहेतुसमनिराकरणम् । १४ इन्द्रियैकत्वपूर्वपक्षः । अहेतुसमलक्षणम् । ३२१ इन्द्रियैकत्वसाधकहेत्वन्त- आकृतिमात्रस्य पदवाच्यत्व- निरासः । पूर्वपक्षः। ईश्वरस्वरूपनिरूपणम् । २५२ आकृतिलक्षणम्। उच्चारणात्प्राक् शब्दाभावः। १३५ ३ आत्ममनःसंयोगस्य शरीरा- उत्कर्पसमादिनिराकरणम् । ३१६ १८ न्तःस्थत्वम् । २०८ उत्कर्पसमादिलक्षणम् । आत्मनित्यत्वे युक्त्यन्तरम्। १७२ उदाहरणलक्षणम्। आत्मनित्यत्वे हेत्वन्तरम् । १७० उपचारच्छललक्षणम् । आत्मनो देहादिव्यतिरिक्तत्व- उपनयलक्षणम् । संशयः। उपपत्तिसमनिराकरणम् । ३२३ आत्मनो नित्यत्वहेतुः ३ उपपत्तिसमलक्षणम् । ३२३ १३ आत्मनो नित्यत्वेऽपि हिंसा- उपमानफलम् । दोषोपपत्तिः। उपमानलक्षणम् । आत्मानुमापकानि। २३ उपमानसाधनम् । ११२ १ आवरणनिरासः। १३६ उपमानसिद्धौ पूर्वपक्षः। १२ आवरणाक्षेपः। उपमानस्यानुमान- इन्द्रियचैतन्यपूर्वपक्षतन्नि- वैलक्षण्योपपादनम् । उपमानस्यानुमानान्त- इन्द्रियपञ्चत्वसाधनम् । र्भावाक्षेपः । ११२ ६ इन्द्रियपरिगणनम् । उपलब्धिसमनिराकरणम् । ३२४ इन्द्रियभौतिकत्वे साधनम् । १७८ उपलब्धिसमलक्षणम् । ३२४ इन्द्रियाणामप्राप्यकारित्व- ऐकाश्रम्यनिरासे युक्तिः । २८२ ३ १८० ऐतिह्यादीनां प्रमाण- इन्द्रियाणां प्राप्यकारित्वे- आक्षेपनिरासः। ६ चतुष्टयान्तर्भावः। १२७ इन्द्रियाणामाव्यक्तिकत्व- ऐतिह्यादीनां प्रमाणा- निरासः। न्तरत्वाक्षेपः। १२६ ३ १८८ इन्द्रियार्थनिरूपणम् । ३ कालातीतलक्षणम् । इन्द्रियार्थसंनिकर्षपदोपादाने- क्षणिकत्ववादेऽनुपपत्तिः । २०१ युक्तिः। १५ गन्धादीदानामाश्रय- इन्द्रियैकत्वनिरासः। १८६ निरूपणम् । १८७ १ ३ : . रासौ। १ ७ २ मतम्। or AM विषयजांच पृ० पं० विषय निग्रस्थानविभागः । निर्णय क्षणम् । निर्णय सर्वत्रं विनाना. 13 1 निन्यसमनिगकरणम् । निन्यसमलक्षणम् । ३ निन्यसुवाभिव्यनिनिगमः। ३३ नियमुग्धाभ्युपगम मोक्षाना- ८. . पनिः । " -- .40 १ .. " विपय घ्राणादीनां गन्धादि. ग्रहणसामर्थ्यम् । घ्राणादीनां स्वगतगुणा- ग्राहकत्वम् । छलद्वित्वाक्षेपपरिहारी। छललक्षणम् । छलविभागः । जल्पलक्षणम् । जल्पवितण्डयाः प्रयोगावसर- निरूपणम् । जातिमात्रस्य पदवाच्यत्य- पूर्वपक्षः। जातिलक्षणम् । जातिलक्षणम् । जात्युत्तरविभागः । ज्ञातव्यपदार्थनिरूपणम् । ज्ञानयोगपद्यनिरामः । ज्ञानस्यमनोगुणावनिरासः । २.५ तत्वज्ञानफलम् । तत्त्वज्ञानविपयविचार: । तत्वज्ञानस्यापवर्गक्रमणापयोगः। तत्वज्ञानोपायकथनम् । दुःखपरीक्षा। दुःखलक्षणम् । दुःखस्य सुरवाभावमात्रय- निरासः । दृष्टान्तलक्षणम् । दोपत्रित्वव्यवस्थापनम् । दोपलक्षणम् । निगमनलक्षणम् । निग्रहस्थानबहुत्वम् । निग्रहस्थानलक्षणम् । न्या. सू. २३ ३ निरनुयोध्यानयोगलक्षणम ३३. निरर्थकारणम् । न्यूनलक्षणम् । पदलक्षणम्। पदार्थानां प्रातानिकमानन्ध- निगमः । पदार्थानां प्रानीनिकमात्रय. निगमे युतिः । पर्यनुयोज्य पक्षणलक्षणम् ३३२ परमाणुनिरवयव आक्षेपः। २५६ বাগণনসমাধান यमिः। সমানিকগম। परिणामवादनगमः । पुनरुन्कलनणम् । पूर्ववदनमानीमाहरणम् । মৰমানৰক্ষৰতা। प्रकरणममलक्षणम् । प्रकरणसमलक्षणम् । ३३. प्रतिज्ञान्नरलक्षणम् । प्रतिज्ञालक्षणम् । অনাভিৰাম্বয়া। प्रतिज्ञापन्यासलक्षणम् । ७ 4 १ ७ ३ विषयसूचि । and पृ० पं० .. o ३ ३ : : विषय विषय पृ० पं० प्रतिज्ञाहानिलक्षणम् । ३३३ ११ प्रामाण्यप्रतिषेधानुपपत्तिः। ८६ प्रतितन्त्रसिद्धान्तलक्षणम् । ४२ प्रामाण्याक्षेपपरिहारः। प्रत्यक्षलक्षणम् । १२ प्रेत्यभावे आक्षेपः। प्रत्यक्षलक्षणाक्षेपः । १८ प्रेत्यभावलक्षणम् । २ प्रत्यक्षलक्षणे हेत्वन्तरा- फलपरीक्षा। २७० नुक्तावुपपत्तिः । फललक्षणम् । प्रत्यक्षस्यानुमानत्व- फलस्य सत्त्वासत्त्वतदुभय- निरासः । निरासः । प्रत्यक्षस्यानुमानत्वाक्षेपः । ३२ फलस्योत्पत्तेः प्रागसत्त्व- प्रमाणपरीक्षारम्भः । व्यवस्थापनम्। प्रमाणमात्रानभ्युपगमे प्रति- बुद्धिनित्यत्वपूर्वपक्षः। षेधस्याप्यनुपपत्तिः । २२ बुद्धिनिरुपणम् । प्रमाणविभागः। ९ ब्राह्मणवाक्यविभागः । प्रमाणाप्रतीतेर्मिथ्यात्व- भावानां क्षणिकत्वा- निरासः। ३०३ क्षेपतन्निरासः। प्रमाणैः प्रमाणसाधने - भावानां स्वभावसिद्धावा- नवस्था। क्षेपपरिहारी। २६५ प्रमाणैकदेशाभ्युपगमे प्रामाण्य भूतगुणनियमोपपादनम् । १९० मात्राक्षेपासंभवः। १४ भूतचैतन्येऽनुपपत्तिः । प्रमेयपरीक्षारम्भः। ३ भूतपरिगणनम् । प्रमेयविभागः। २३ १३ मतानुज्ञालक्षणम् । प्रयोजनलक्षणम् । मनश्चैतन्यपूर्वपक्षः । मनस एकत्वम् । २२९ प्रवृत्तिदोषपरीक्षा। मनसश्चैतन्यनिरासः। २१७ प्रवृत्तिलक्षणम् । मनसोऽणुत्वम् । २३० प्रसङ्गप्रतिदृष्टान्तसम- मनोऽनुमापकनिरूपणम् । निराकरणम् । मानुषशरीराणां पार्थिवत्व- प्रसङ्गप्रतिदृष्टान्तसमलक्षणे। ३१७ १९ साधनम् । १७४ प्राप्त्यप्राप्तिसमनिराकरणम् ।३५७ मोक्षे क्लेशसन्तत्युच्छेदः। २८५ ४ प्राप्त्यप्राप्तिसमलक्षणे। मोक्षे क्लेशानुबन्धविच्छेद प्रामाण्यग्रहोपायप्रमाण- उदाहरणम् । २८३ फलनिरुपणम् । २ ' मोक्षे पूर्वपक्षः। २७७ ३ १ ८ ८ १ ० ४ ur १ विषयसूचि ३५५ पृ० पं० ७ निरासः। .4 RO ६ विषय पृ० पं० विषय मोक्षे पूर्वपक्षनिरासः। २७८ व्यक्तायतोत्पत्ती आक्षेपः। २४६ १२ योगजधर्मस्य नित्यत्व- व्यक्तिमात्रस्य पदवाच्यत्व- निरासः । पूर्वपक्षः। रूपोपलब्धिहेतुनिरूपणम् । १७८ २ व्यक्तिलक्षणम् । वर्णविकारत्वोपगमेऽनुप- व्यक्त्याकृतिजातीनां पदवाच्य- पत्यन्तरम् । त्वम्। वर्णानां नित्यत्वेऽनित्यत्वे च शब्दनित्यत्वहेतोयभिचारः। १३७ विकारत्वाभावे युक्तिः । १४८ १४ शब्दनित्यत्वहेत्वन्तर- वर्णानां विकारत्वनिरासः। १४५ १३८ वर्णानां विकारत्वहेतु- शब्दनित्यत्वेऽनुपपत्तिः। १४० निरासः। १ शब्दनित्यत्वे हेत्वन्तरम् १३७ १६ वणे विकारत्वादेशत्वसंशयः। १४३ शब्दप्रमाणनिरूपणम् । ३ वर्तमानकालाक्षेपः । १०८ ६ शब्दसंतानोत्पत्तिप्रतिबन्धक- वाकछललक्षणम्। ६७ निरूपणम् । वाढलक्षणम् । शब्दस्याकाशगुणत्वम् । विक्षेपलक्षणम् । शब्दस्यानुमानापार्थक्यम् । ११५ १ वितण्डायाः प्रयोजन- शब्दस्यानुमानत्वाक्षेपः । ११३ विचारः। ३ शब्दस्यानुमानत्वे युक्तिः । ११४ वितण्डालक्षणम् । ३ शब्दानित्यत्वसाधनम् । विधिलक्षणम् । ५ शब्दानित्यत्वहेतोय॑भिचार- विप्रतिपत्तेः संशयाहेतुत्वम्। ७४ शङ्का। १३२ विरुद्धलक्षणम् । १० शब्दानित्यत्वहेतोय॑भिचार- वृत्तिनानात्वाभावपूर्वपक्षः।२०० निरासः। १३३ वृत्तिवृत्तिमतोरभेदनिरासः। १९८ ४ शब्दार्थव्यवस्थायाः समय- कारितत्वम् । वृत्तीनामन्तःकरणधर्मत्व- निरासः। १९८ शब्दार्थसम्बन्धसाधनम्। ११६ १२ वेदप्रामाण्याक्षेपः। ११८ शब्दार्थसम्बन्धाक्षेपः। वेदप्रामाण्याक्षेपपरिहारः। ११९ २ शरीरचैतन्यनिरासः। वेदप्रामाण्यावगमोपायः। १२३ १७ शरीरचैतन्यनिरासः। २२६ वेदस्य नित्यत्वेन प्रामाण्य- शरीरचैतन्यपूर्वपक्षः। २२४ निरासः। शरीरचैतन्याभावे हेत्वन्तरम् ।२२७ वैधयोदाहरणलक्षणम् । ३ शरीरलक्षणम् । wr AU ० ३ ५ ० ९ : ७ १ . ४८ A ३५६ विषयसूचि Bureau पृ० पं० पृ० पं० ७४ w ३ ४ ८ ३ ० रणम् । ७ विषय विषयः शरीराणां कर्मनिमित्तकत्वम् ।२३४ संशयानुपपत्तिः। शरीराणां कर्मनिमित्तकत्वे सर्वतन्त्रसिद्धान्तलक्षणम् । उपपत्तिः । ८ ! सर्वनित्यत्वनिरासः शरीराणां प्रत्यात्मनियतत्वे सर्वपृथक्त्वनिरासः। हेतुः । ९ सर्वानित्यत्वनिरासः। शरीरोत्पत्तिविचारः। २३२ १३ सर्वाभावत्वनिरासः २६० शास्त्रप्रवृत्तेसैविध्यम् । सर्वाभावत्वनिरासे युक्तिः । २५४ शेपवदनुमानलक्षणोदाह- सव्यभिचारलक्षणम् । ७ ६ साधम्यवैधर्म्यसमनिरा- पटपक्षीनिरूपणम्। ३२८ करणम् । संख्यैकान्तनिरासः। २६८ साधर्म्यवधर्य समलक्षणे। ३१३ संख्यैकान्तनिरासहेता- साध्यसमलक्षणम्। वाक्षेपः । सामान्यच्छललक्षणम् । ६ संशयपरीक्षा। सिद्धान्तलक्षणम् । संशयपरीक्षोपसंहारः। सिद्धान्तविभागः। संशयलक्षणम् । ३७ स्मृत्ययोगपद्यहेतुनिरूपणम् । २१० १२ संशयसमनिराकरणम् । ३१९ १९ हेतुलक्षणम् द्विविधम् । संशयसमलक्षणम् । ३१९ १२ हेत्वाभासविभागः । संशयाक्षेपपरिहारः। ९ / हेत्वाभासानां निग्रहस्थान- संशयादिनिरूपणोपयोग- त्वम्। २० प्रदर्शनम् । ३ हेयोपादेयभावनानिरूपणम् । २८९ २१ १ है AD ३ . 7 กร ३ . ५ १ ७ ७

No text on this page.

No text on this page.

Nyayasutra Of Goutama

Author
Gandanatha Jha
Other authors
Ccl
Title
Nyayasutra Of Goutama
File name
Nyayasutra Of Goutama
Text
OCR done
Citation
1939
Publisher
Mala Chandra Rao
Language
Sanskrit
Pages
389
Library
Scl
DLI number
326333
Barcode
2020010006595.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
TLdV796R0xI
Download PDF

Nyayasutra Of Goutama