Jayakar Library , Pune
Shassarshana Samuchchaya
Front matter
THE CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 95. षड्दर्शनसमुच्चयः। अर्थात् बौद्ध-नैयायिक कापिल-जैन-वैशेषिक-जैमिनीय- दर्शनीयसंक्षिप्तनिरूपणपरो निबन्धः । आहेतप्रवरश्रीहरिभद्रमूरिरचितः । परमाहतमणिभद्रकृतलघुवृत्तिसमाख्यया व्याख्यया सहितः । कलियुगजनपावनावतारपरपुमर्थप्रेमवितरणपरायसश्री१०८भगवत्कृष्णचैतन्यचरखोप- दिटकवीथीमात्रपथिकेन श्रीक्ष्मध्वसंप्रदायाचार्यसाहित्यदर्शनाचार्येण श्रीगोस्वामिदामोदरलालशर्मणा संशोधितः । SHADDARSHANASAMUCHCHAYA BY SARÉE HARIBHADRASOORI: With a commentary called Laghuvritti by MANIBHADRA, EDITED BY Såhityacharya Pandit Damodara Lal Goswami. PUBLISHED AND SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT BOOK-DEPOT: BENARES. AGENTS:-OTTO HARRASSOWITZ, LEIPZIG: PANDIT JYESHTHARAMA MUKUNDJI, BOMBAY. Printed by Hari Das Gupta, Proprietor, AT THE VIDYA-VILASA PRESS&T.P. WORKS. BENARES. Price Rupee One. 1905. Registered According to Act XXV of 1867.
श्रीः षड्दर्शनसमुच्चयस्य भूमिका । 000 अंहः संहरदखिलं ससदुदयादेव सकललोकस्य । तरणिरिव तिमिरजलधि जयति जगन्मङ्गलं हरेर्नाम ॥ अयि षड्दर्शनीवल्लभाः! लभतां ननु भवतामासेचनकतां चिररात्राय चिन्वानाया- स्तन्वानायाश्च हृद्यायाः किल वोऽस्याः षड्दर्शन्याः समुद्वेलो- कण्ठोदधेरुद्ग्रीविकासहस्रमदानं श्रीमतामात्मदर्शनाय सौखप्रा- कटनिकता भवत्सु पदम् । न हि खलु सर्वदर्शनसंग्रहादिजातीयनिवन्धैः समं पास्प- ईदयं निबन्धो नामाकर्णनमात्रजनुर्धर्भवादृशैहेलालवमपि जामितासधीचीन नेयस्तत्त्वनिभालनमार्मिकतास्वयंस्तैः। नयना- चलार्पणायासमात्रेण चेदमीयरहस्यमनुबोभुवतो भवन्तो भवि- ष्यन्ति, कृतमर्थवादविडम्बनेन । अयश्च निबन्धः सप्ताशीसा पद्यनिर्मितो ग्रन्थका षड्द- र्शनसमुच्चयनाम्ना प्रसेधितः । दर्शनपदार्थश्चैतादृशस्थले दृश्यते ज्ञायत आत्माऽनेनेति ज्ञानसामान्यार्थकात् पश्यतेः करणल्युटा निष्पन्नदर्शनपदजन्यज्ञानविषयः चेतनवस्तुविचारप्रवणागमात्म- कः । दर्शनगतषट्संख्याविधायां तु तैर्थकानां भूयांसि मतानि । के चित् खलु पूर्वोत्तरमीमांसाद्वयं निरीश्वरसेश्वरसांख्यद्वयं- षोडशसप्तपदार्थाख्यायन्यायद्वयं चेति मिलितानि दर्शनषट्कं- पाहुः । अन्ये पुनः सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकम- भेदबौद्धेन जैनलौकायतिकाभ्याञ्च पूर्वदर्शनषट्कं द्वादशदर्शनी- प्रतिजानते। परेतु मीमांसकसांख्यनैयायिकबौद्धजैनचार्वाकाणां- दर्शनानि षड्दर्शनी संगिरन्ते । प्रकृतनिबन्धकारस्तु- भूमिका बौद्धं नैयायिकं सांख्यं जैनं वैशेषिक तथा । जैमिनीयश्च नामानि दर्शनानाममून्यहो- इति तृतीयकारिकायां प्रकारान्तरमेवान्वसरत् । अपराणि चापि दर्शनान्येकेऽमन्यन्त, यानि सर्वदर्शनसंग्रहसर्वदर्शनशिरो- मण्यादिनिबन्धेषु व्यक्तानि । परन्तु न ज्ञायते. दर्शनविभागस्य स्वेच्छयैवेशानस्तद्विभागकर्तृमहाभागैः केनागसाऽसौ तपस्विनी दर्शनसंख्यैतागपव्यवस्थाविपदमनायीति।कथंवा दोषैकहरभ्यो- रोचतेऽप्यवधीरितनिजस्वरूपोऽदसीयो विभागोऽपरिगणयद्भयो "रसो वै स" इसादिप्रमाणमूर्धन्यनैकविधोपपत्तिप्रसाधितरस- स्वरूपात्मप्रतिपादनपरभारतीयदर्शनम् । यतः, स्वसमभिव्या- हृतपदार्थताऽवच्छेदकव्याप्यपरस्परासमानाधिकरणयावद्धर्मप्र- कारकज्ञानानुकूलव्यापारात्मकं विभाग तज्ज्ञाः समाभिप्रय-- न्ति । न चेत्थंभूततैभिरुक्तचरेष्वेकमपि विभागमाश्रयते । प्रकृ- तनिबन्धा त्वशेषदर्शनसम्राजं वेदान्तमवहेलयन् “दीपाधस्ति- मिर"न्यायमेव स्मालम्बते । आस्तां वैषा दुर्व्यवस्था, कृतमने- नानुपक्रान्तविमर्शन । किन्तु तिष्ठसेवायं निबन्ध आपाततः पञ्चषदर्शनीयस्थवीयोऽनेकविषयनिरूपणेन प्रविविक्षुजनानां- कतिपयपदार्थावबोधसंपदं वितरीतुं बद्धपरिकर इति नात्र विश- यलेशोऽपि । अस्य च षड्दर्शनसमुच्चयस्य निर्माता परमाहतो हरिभद्र- सूरिः। अयं हि हरिभद्रसूरिर्जासा ब्राह्मणः, चित्रकूटाद्रिनिक- टवत्तिचित्तौडाख्यनगरराज्यासनारूढस्य जितारिनामकभूपस्य पुरोहितः प्रौढाभिरूपः कदा चित् क चनोपजैनोपाश्रयं- चक्कीदुगं हरिपणागं, पणगं चक्कणकेसवो चक्की । केसवचक्की केसव, दुचक्को केसवचक्कीय इति- .
भूमिका। गार्थों याकिनीनाम्न्याः कस्याश्चिदार्हसासाच्या मुखान्- निशम्योदितविस्मयातिशयस्तदर्थमवबुभुत्समानो भृशमागृहया- लुतां दधदप्यनुपलभमानोऽनुनीयमानयाऽपि निजधर्ममर्मरक्षण- शिक्षणपरायणया तया गोपितां तद्गाथामतिपत्ति, तयैव साचतं- तदर्धावबोधवितरणपरिदृढं जैनविपश्चिदपश्चिमं जिनभमूरि- तदवगतयेऽसर्थमन्वरुणत् । तथाऽनुरोरुध्यमानमानसमेनमवेस जिनभमूरिणाऽपि"विनाए- ईतधर्मोपदेशमेषाऽनीषदवगमा गाथे" त्युक्तोऽयं तदैव विरज्याशि- श्रियज्जिनोपदिष्टधर्मम् । अनन्तरञ्च क्रमेणानेकान्तजयपताका,ल- लितविस्तर,चैसवन्दनवृत्ति,दर्शनसप्ततिको,मुनिपतिचरित्र,वेदवाह्य- तानिराकरण,श्रावकधर्मविधि,समरादियचरित्र,योगविन्दुप्रकरणवृत्ति, षड्दर्शनसमुच्चय,प्रभृतिनिबन्धमकाण्डग्रेसरां चतुश्चत्वारिंशदुत्तर- चतुर्दशशती ग्रन्थानां व्यररचत् । जन्मसमयश्च हरिभद्रसूरेः प्रायः पञ्चम्या वैक्रमशताब्याः समाप्त्युपकण्ठमनुमीयते, यतः षष्ठ्यास्तच्छ- ताब्दयाः पञ्चत्रिंशे वर्षेऽयं पञ्चत्वमगमदिति निरदीधरनैतिहासिका। तत्त्वप्रबोधादिनिर्माता हरिभद्रसूरिस्तु भिन्न एवास्मादसा- चीनः खादलेन्दुमितविक्रमादियाब्देऽविद्यतेति । इदं च सर्वमेतदीयवृत्तं जामनगरवास्तव्यपण्डितश्रावकही- रालालसम्पादित “जैनधर्मप्राचीनेतिहास" नामकग्रन्थाश्रयादुद- धारीत्यैतिह्यविदो विदाकुर्वन्तु । टीकाकृन्मणिभद्रमरित्तं तु विहितेऽपि भूयसि मार्गणे ना- ल्पीयोऽप्यध्यगम्यद्यावधि, भविष्यन्त्यां तदाधिगतौ क चनावसरे- ऽवश्यमितिहासरसिकमनोविकासाय प्रकाशायष्यत इसाशेमहे । अत्युपादेयस्य सटीकस्यास्य ग्रन्थस्याधुनाऽवध्यप्रकाशनमवेक्ष्य दृयमानमानसेनानुक्षणमप्रकाशितप्राचीनप्रशस्तभूरिदर्शननिवन्ध- प्रकटीकृतिबद्धपरिकरेण विद्याऽनुरागिणा सौजन्यशेवधिनाऽस्म- . ४ -- . भूमिका। द्भक्तवरेण श्रेष्ठिना श्रीहरिदासगुप्तेन भृशमेतच्छोधनाय प्रार्थितोऽ- हंब्यापृतोऽप्यन्यात्मीयावश्यकशास्त्रीयकार्यकार्येपूक्तष्ठिभक्ति- मात्रवशंवदः समभ्युपागममेनत् । अस्य चैकं सटीकं पुस्तकं प्रायोऽशुद्धं जयपुरस्थसाहित्याचार्य- विहारिलालशास्त्रिण उक्तश्रेष्ठिनैव तत आनाय्य मदान्तकं प्रापितम्। द्वितीयं च स्वकीयमेव श्रीबृन्दावनस्थश्री१०८भगवन्मदनगो- पालपुस्तकालयस्थमहमानैषम् । एवं पुस्तकद्वयाश्रयतः समुपक्रा- न्तवान् मुद्रयित्वा प्रकाशनायाहममुं ग्रन्थम् । असल्पीयसा समये- नैतत्प्रतिपाद्यं जिज्ञासूनाश्च हिताय कारिकाऽऽत्मकं मूलमात्रं पर्य- शीशिषम् । मध्ये चास्यागतानि प्राकृतवचनानि संस्कृत परिशिष्टात्मना समावीविशम् । अत्र चासवदधतोऽपि शोधने म,न्मा- नुष्यकनान्तरीयकदृष्टिदोषादिजन्मानोऽशुद्धयो मर्षणीयाः सौज- न्यवद्भिर्भवद्भिः। इत्थमदः साङ्गं ग्रन्थरनं स्वकीयविद्याविलासनामके का- शीस्थे यन्त्रालये श्रेष्ठिहरिदासेन स्वीयव्ययेनाविर्भावितं मत्तश्च जातसंशोधनमनुसृस मरालपद्धति भवादृशाश्चेद् दृक्पथपथिकी- कुर्युभवेतां किल फलेग्रहिश्रमौ शोधकप्रकाशकाविसत्र न नाम मात्रयाऽपि सन्देहः। प्रीयताश्चानेनास्मव्यापारेण सर्वान्तर्यामी सच्चिदानन्दवि- ग्रहो भगवान् श्री१०८ राधिकारमण इसाशास्ते कलियुगजनपावनावतारभक्तिजीवजीवातुपरपुमर्थप्रेमवितर- णपरायणश्री१०८भगवत्कृष्णचैतन्यचरणोपदिष्टैकवीथीपथिकः श्रीक्ष्मध्वसम्पदाचार्यः साहित्यदर्शनाचार्यो- दामोदरलालगोस्वामी। विजयादशम्याम् । सं० वै० १६६२ वाराणस्यामू। चाम् ॥ श्रोः॥ षड्दर्शनसमुच्चयः। श्रीहरिभद्रसूरिविरचितः मणिभद्रकृतया टीकया समलतः । :0:0:0: . .... सज्ज्ञानदर्पणतले विमलेऽत्र यस्य ये के चिदर्थनिवहाः प्रकटीवभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्म- प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥ १ ॥ जैनं यदेकमपि बोधविधायिवाक्य- मेवं श्रुतिः फलवती भुवि येन चक्रे । चारित्रमाप्य वचनेन महत्तरायाः श्रीमान्म नन्दतु चिरं हरिभद्रमूरिः ॥ २ ॥ सन्निधोहि तथा वाणि षड्दर्शनाङ्कषड्भुजे। यथा षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥ ३ ॥ व्यासं विहाय संक्षेपरुचिसत्त्वानुकम्पया। टीका विधीयते स्पष्टा षड्दर्शनसमुच्चये ॥४॥ इह हि श्राजिनशासनमभावनाविभावकप्रभोदयभूरि- यशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्र- सूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे म.
षड्दर्शनसमुच्चये करणमारिपतमानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोऽर्थ च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह । सदर्शनं जिनं हत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपण निगद्यते ॥१॥ अर्थो निगद्यतेऽभिधीयत इति सम्बन्धः । अर्थशब्दो- ऽत्राभिधेयवाचको ग्राह्यः । “अर्थोऽभिधेयरैवस्तुप्रयोजननिव- तिष्वि"त्यनेकार्थवचनात् । मयेत्यनुक्तस्यापि गतार्थत्वात् । किं- विशिष्टोऽर्थः सर्वदर्शनवाच्य इति । सर्वाणि च तानि दर्शनानि बौद्धनैयायिकजनवैशेषिकसांख्यजैमिनीयादीनि समस्तमतानि व- क्ष्यमाणानि तेषु ाच्यः कथनीयः । किं कृत्वा जिनं नत्वा । सामान्यमुक्त्वा विशेषमाह । कं जिन, वीरं वर्द्धमानस्वामिनम् । वीरमिति साभिप्रायम् । प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभट- वृत्तित्वात् । भगवतश्च दुःखसम्पादिविषमोपसर्गसहिष्णुत्वेन सु- भटरूपत्वात् । तथा चोक्तम् । विदारणाकर्मततेविराजना- त्त श्रिया विक्रमतस्तथाऽद्भुतात् । भवत्पमोदः किल नाकिनायक- श्चकार ते कीर इति स्फुटाभिधाम् । इति युक्तियुक्तं ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः । यहाऽऽसन्नोपकारित्वेन युक्ततरमेव श्रीवर्द्धमानतीर्थकृतो नम- करणम् । तमेव विशिनष्टि । किंभूतं सद्दर्शनं सत् शोभमानं दर्शनं शासनं स्वमान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरुभयोरपि मुक्तयङ्गत्यात किमर्थं .
दर्शनसंख्यानियमः। ३ . सदर्शनमियेकमेव विशेषणमाविष्कृतम् । न । दर्शनस्यैव माधा- न्यात् । यत्सूत्रम् । "सद्धेण चरित्ताउ दंसणमिह दिढयरं गहेयव्वं । सिज्झति चरणरहिया दंशणरहिया न सिझंति" ॥ इति तद्विशेषणमेव युक्तम् । पुनः किंभूतं स्याहाददेशकम् । स्याद्विकल्पितो वादः स्याहादः सदसन्निसानिसाभिलाप्यानभि- लाप्यसामान्य विशषात्मकस्तं दिशति भावकेभ्य उपदिशति यस्तम् । अत्रादिमा? भगवतोऽतिशयचतुष्टयमाक्षिप्तम् । सद्द- निमिति दर्शनज्ञानयोः सहचारित्वाज्ज्ञानातिशयः । जिनं वीरमिति रागादिजेतृत्वादष्टकर्माद्यपायनिराकर्तृत्वाच्चापायाप- गमातिशयः । स्याद्वाददेशकमिति वचनातिशयः। ईदृग्विधस्य निरन्तरभक्तिभरनिर्भरसुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजाऽतिशयः ॥१॥ कानि तान दर्शनानीति व्यक्तितस्तत्सङ्ख्यामाह- दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः॥२॥ अत्र जगति प्रसिद्धानि षडेव दर्शनानि। एवशब्दोऽवधारणे। यद्यपि भेदप्रभेदत्तया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तं सूत्रे । "असियसय किरियाणं अकिरियवाईण हुंति चुलसोई । अन्नाणिय सत्तही वेणइआणं च वत्तीसं" । इति त्रिषष्टयधिका त्रिशती पाषण्डिकानाम् । बौद्धानां चाष्टादश निकायभेदा, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिका- दयो भेदाः । जैमिनेश्च शिष्यकृता बहवो भेदाः ।
४ षड्दर्शनसमुच्चये . . उत्पलः कारिकां वेत्ति तन्त्रं वेत्ति प्रभाकरः। वामनस्तूभयं वेत्ति न किंचिदपि रेवणः " ।। अपरेऽपि बहूदककुटीचरहंसपरमहंसभामाभाकरादयो बह- वोऽन्तर्भेदाः। अपरेषामपि दर्शनानां तत्त्वदेवताप्रमाणादिभिन्नत- या बहुभेदाः प्रादुर्भवन्ति । तथाऽपि परमार्थतस्तेषामेष्वेवान्तर्भा- वात्पडेवेति सावधारणं पदम् । ननु संघटमानानियतो भेदानुपेक्ष्य किमर्थं षडेवेसाह । मूलभेदव्यपक्षया । मूलभेदास्तावत्पडेव पदसंख्यास्तेषां व्यपेक्षया तानाश्रियेत्यर्थः। तानि दर्शनानि मनी- षिभिः पण्डितैर्जातव्यानि बोद्धव्यानि । केन प्रकारेणेति । देवता- तस्वभेदेन देवता दर्शनाधिष्ठायका,स्तच्चानि च मोक्षसाधकानि रहस्यानि, तेषां भेदस्तेन पृथक् पृथग् दर्शनदेवतादर्शनतत्वानि च ज्ञेयानीसर्थः ॥ २ ॥ तेषामेव दर्शनानां नामान्याह- नैयायिकं सांख्यं जैनं वैशेषिकं तथा जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ अहो इति इष्टामन्त्रणे । दर्शनानां मतानाममूनि नामानी- ति संग्रहः । ज्ञेयानीति क्रिया,ऽस्तिभवसादिवदनुक्ताऽप्यवग- न्तव्या। तत्र बौद्धमिति बुद्धो देवताऽस्येति बौद्धं सौगतदर्शनम् । नैयायिकं पाशुपतदर्शनम् । तत्र न्यायः प्रमाणमार्गस्तस्मादन, पेतं नैयायिकमिति व्युत्पत्तिः। सांख्यमिति कापिलदर्शनम् । आदिपुरुषनिमित्तेयं संज्ञा । जैनमिति जिनो देवताऽस्येति जैन- मार्हतम् । वैशेषिकं काणाददर्शनम् । दर्शनदेवताऽऽदिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्रथा विशिष्टमिति वैशीषकम् । १ इद चिन्त्यम् । इत्यं हि न्याय्यमिति स्यात् । नेयायिकतिपः सूक्दा नगणघट- कन्यायशादध्यतक्विन्यतरार्थकटका निष्पयते । बौद्ध ."
२ बौदर्शनम् । जैमनीयं जैमनिऋषिमतं भाट्टदर्शनम् । चः समुच्चयस्य दर्शकः। एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ॥३॥ अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्वौद्धमतमेवादावाचष्टे- तत्र बौद्धमते तावदेवता सुगतः किल । चतुर्णामार्यसत्यानांदुःखादीनां प्ररूपकः॥४॥ तत्र तस्मिन् बौद्धमते सौगतशासने। तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभट्टारको दर्शनादिकरः किलेयाप्त- प्रवादे । तमेव विशिनष्टि । कथं भूतस्तत्वनिरूपकत्वेन, प्ररूपको दर्शकः कथयितेति यावत् । केषामित्याह । आर्यससानाम् । आ- र्यसत्यनामधेयानां तत्त्वानाम् । कतिसंख्यानामिति चतुर्णा चतू- रूपाणाम् । किं रूपाणामियाह । दुःखादीनां दुःखसमुदयमार्ग- निरोधलक्षणानाम् । आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम् । "सामार्थेऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् " || इति । एवंविधः मुगतो बौद्धमते देवता ज्ञेय इयर्थः ॥४॥ आदिममेव तत्त्वं विकृण्वन्नाह- दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ ५॥ दुःखं किमुच्यत इसाशङ्कायां संसारिणः स्कन्धाः । सं- सरन्तीति संसारिणो विस्तरणशीलाः स्कन्धाः प्रचयविशेषाः। संसारेऽमी चयापचयरूपा भवन्तीसर्थः । ते च स्कन्धाः पञ्च प्रकीर्तिताः पञ्चसंख्याः कथिताः। के त. इसाइ । विज्ञान
षड्दर्शनसमुच्चये
वेदना संज्ञा संस्कारो रूपमेव चेति । तत्र विज्ञानमिति-विशिष्ट
ज्ञानं सर्वक्षणिकत्वज्ञानम् । यदुक्तम् ।
“यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे
सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा ।
नाप्येकैव विधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद्
द्वेधाऽपि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति"॥ इति
विज्ञानम् । वेदनेति-वेद्यत इति वेदना पूर्वभवपुण्यपापपरि-
णामबद्धाः सुखदुःखानुभवरूपाः । भिक्षुभिक्षामटश्चरणकण्टके
लग्ने पाह।
इत एकनवतेः कल्पे शक्तया मे पुरुषो इतः ।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥
इसादि। संज्ञेति-संज्ञानामकोऽर्थः । सर्वमिदं सांसारिकं सच-
तेना तनस्वरूपव्यवहरणं संज्ञामात्रं नाममात्रम् । नात्र कलत्र-
पुत्रमित्रभ्रात्रादिसंबन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः।
तथा च तत्सूत्रम् । “नानीमानि भिक्षवः संज्ञामात्र व्यवहारमात्रं
कल्पनामात्रं संवृति-मात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुकोविनाश
आकाशं पुद्गला" इति । संस्कार इति-इह परभवविषयसंतान-
दार्थनिरीक्षणप्रवुद्धपूर्वभवानुरूपसंस्कारस्य प्रमातुः स एवायंदेव-
दत्तः,सैवयं दीपकलिके, सायाकारेण ज्ञानोत्पत्तिः संस्कारः। यदाइ।
"यस्मिन्नेव हि सन्तान आहिता कर्मवासना।
फलं तत्रैव सन्धत्ते कार्पासे रक्तता यथा "
इति । रूपमिति-रगरगायमाणपरमाणुप्रचयः । बौद्धमवे
रहे स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य वदर्शनोपप-
तिभिर्निराक्रियमाणत्वात् परमाणव एव तात्त्विकाः । च:
पुनरर्थः । एवेति पूरणार्थः ॥५॥
बौद्धदर्शनम् । - .. दुःखनामधेयमार्यससं पञ्चभेदतया निरूप्यार्थसमुदाय- तत्त्वस्वरूपमाह- समुदोत यतो लोके रागादीनां गणोऽखिलः । श्रात्मात्मीयस्वभावाख्यः समुदयः स संमतः॥६॥ यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः स- मस्तो गणः समुदत्युद्भवति । कीमियाह । आत्मात्मीय- स्वभावाख्यः । अयमात्मा,ऽयञ्चात्मीया, पदे पदसमुदायोप- चारादयं परोऽ,यञ्च परकीय, इसादिभावो रागद्वेषनिबन्धनं, तदाख्यस्तन्मूलो रागादीनां गणः । आत्मात्मीयरूपेण रागरूपः, परपरकीयपरिणामेन द्वेषरूपो, यतः समुदेति स समुदयः । समु- दयो नाम तत्त्वं, सम्मतो बौद्धदर्शनेऽभिमतः इति ॥ ६ ॥ अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाह- क्षाणकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयो, निरोधो मोक्ष उच्यते॥७॥ सर्वसंस्काराः क्षणिकाः। सर्वेषां विश्वत्रयविवरविवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स एवायमियाद्युल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः। यत्प्रमाणयन्ति. मर्व सत्र्माणक- मक्षणिके क्रमयोगपद्याभ्यामक्रियाविरोधादिति वादस्थल- मभ्यूह्य क्षणिकत्वाविशेषकम् । विशेषोपपत्तिश्च समग्रं ताव- दौत्पत्तिकं पदार्थकदम्बकं घटपटादिकं मुद्रादिसामग्रीसाकल्ये विनश्वरमाकलय्यते । तत्र योऽस्य प्रान्तावस्थायां विनाशस्व- भावः स पदार्थोत्पत्तिसमये विद्यते, न वा, । अथ विद्यते चेदापतितं -
८
षड्दर्शनसमुच्चये
तदुत्पत्तिसमयानन्तरमेव विनश्वरत्वम् । अथेदृश एव स्वभावो
यत्कियन्तमपि कालं स्थित्वा विनष्टव्यम् । एवञ्चेन्मुद्गरादिस-
विधानेऽप्येष एव तस्य स्वभाव इति भूयोऽपि तावत्काले स्थे-
यम्। एवं मुद्रादिघातशतपातेऽपि न विनाशो जातं कल्पान्तस्था-
यित्वं घटस्य । तथा च जगद्व्यवहारव्यवस्थालोपपातकपङ्किल-
तेसभ्युपेयमनिच्छताऽपि क्षणक्षयित्वंपदार्थानाम् ।प्रयोगस्त्वेवम् ।
वस्तुः उत्पत्ति समये ऽपि विनश्वररूप, विनश्वरस्वभावत्वाद,
यद्विनश्वरं तदुत्पत्तिसमयेऽपि तत्स्वरूपं यथाऽन्यक्षणवत्ति-
घटस्य स्वरूपं, विनश्वरस्वभावं च रूपरसादिकमुदयत एवार-
भ्येति स्वभावहेतुः । ननु यदि क्षणक्षयिणो भाषाः कथं त-
हि स एवायमिति वासनाज्ञानम् | उच्यते। निरन्तरसदृशापराप-
रक्षणनिरीक्षणचैतन्योदयाद,विद्याऽनुबन्धाच्च पूर्वक्षणप्रलयका-
ल एव दीपकलिकायामिव सैवेयं दीपकलिकेति संस्कारमुत्पा-
व तत्सदृशमपरक्षणान्तरमुदयते । तेन समानाकारज्ञानपरम्परा-
परिचयचिरतरपरिणामानिरन्तरोदयाच्च पूर्वक्षणानामत्यन्तो-
च्छेदेऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति । दृश्यते
चावलूनपुनरुत्पन्नेषु नखकेशकलापादिषु स एवायमिति प्रती-
तिः । तथेहापि किं न संभाव्यते सुजनेन । तस्मात्सिद्धं साधन-
मिदं “यत्तत्तत् क्षणिकाम"ति युक्तियुक्तञ्च "क्षणिकाः सर्वसं-
स्कारा इसेवं वासने"ति । प्रस्तुतार्थमाह । एवं या वासना स मा-
ो नामार्यससम् इह बौद्धमते, विज्ञेयोऽवगन्तव्यः । तुशब्दः
पाश्चान्वार्थसंग्रहः पूर्वसमुच्चयार्थे । चतुर्थमार्यससमाह
निरोधः किमियाशङ्कायां मोक्ष उच्यते । मोक्षोऽपवर्गः । सर्व-
क्षणिकत्वसर्वनैरात्म्यवासनारूपो निरोधो नामार्यससमभिधो-
यत इयर्थः॥७॥
बौद्धदर्शनम् । अथ तत्त्वानि व्याख्याय तत्संलग्नान्येवायतनान्याह- पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम्। धर्मायतनमेतानि द्वादशायतनानि च ॥८॥ पञ्चसंख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि । शब्दाद्या विषयाः पञ्च,शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषया इन्दियव्यापारा इसर्थः। मानसं चित्तम्। धर्मायतनमिति धर्मप्रधा- नमायतनं चैत्यस्थानमिति । एतानि द्वादशसंख्यानि ज्ञातव्यानि न केवलमेतानि द्वादशायतनानि जातिजरामरणभवोपादानत. ष्णावेदनास्पर्शनामरूपविज्ञानसंस्कारा अविद्यारूपाणि द्वादशा- यतनानि । चः समुच्चये । अमी सर्वेऽपि संस्काराःक्षणिकाः। शेष तदेवेति ॥८॥ तत्त्वानि व्याख्यायाधुना प्रमाणमाह- प्रमाणे दे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ तथोत प्रस्तुतानुसन्धाने । सौगतदर्शने बौद्धमते । द्वे प्रमाणे विज्ञेये । चशब्दः पुनरर्थे । तदेवाह-असक्षमनुमानं, च । अक्ष- मक्षं प्रात गतं प्रसक्षमैन्द्रियिकमियर्थः । अनुमीयत इसनुमान लैङ्गिकमियर्थः । यतः सम्यग्ज्ञानं निश्चितावबोधो द्विधा द्विप्र- कारः। सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम् । प्रसक्षानुमा- नाभ्यामेवेसर्थः ॥९॥ पृथक्पृथग्दर्शनापेक्षलक्षणसांकर्यभीरु कीहक् प्रयक्षमत्र- ग्राह्यमिसाशङ्कायामाह- प्रत्यक्ष कल्पनाऽपोढमभ्रान्तं तत्र बुध्यताम् । - १ षडायतनेति पदमधिकं वचित्पुस्तके। ર पड्दर्शनसमुच्चय त्रिरूपाल्लिङ्गन्तो लिङ्किज्ञानं त्वनुमानसंज्ञितम्॥१०॥ तत्र प्रमाणोभय्यां प्रसक्षं बुध्यतां ज्ञायतां शिष्येणेति । किं- भूतं कल्पनाऽपोढं, शब्दसंसर्गवती प्रतीतिः कल्पना, तयाऽपोढं रहितं निर्विकल्पकमित्यर्थः। अन्यच्चाभ्रान्तं भ्रान्तिरहितं रग- रगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रयक्षं निर्विकल्पकमभ्रान्त- श्व तद्घटपटादिबासस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम्। तच बाह्यस्थूलार्थानां तत्तन्मतानुमानोपपत्तिभिर्निराकरिष्यमा- णत्वात् । नीलाकारपरमाणुस्वरूपस्यैव तात्त्विकत्वात् । ननु यदि बाघार्था न सन्ति, किंविषयस्तॉयं घटपटशकटादिबायस्थूल- प्रतिभास इति चेत् । निरालम्बन एवायमनादिवितथवासनामवर्ति- तो व्यवहाराभासो निर्विषयत्वादाकाशकेशवत्स्वप्नज्ञानवद्वेति । यदुक्तम् ।- "नान्योऽनुभाव्यो बुद्धयाऽस्ति तस्या नानुभवोऽपरः। ग्राखग्राहकवैधुर्यात्स्वयं सैव प्रकाशत "इति ॥ "बाह्यो न विद्यते हों यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्तत" इति ।। बदुक्तं निर्विकल्पकमभान्तं च प्रसक्षमिति । अनुमानलक्षणमाह-तु पुनः त्रिरूपात्पक्षधर्मत्वसपक्षसत्व- विपक्षव्यावृत्तिरूपाल्लिङ्गतो धूमादेरुपलक्षणाद्यल्लिङ्गिनो वैश्वा- नरादेर्शानं तदनुमानसांज्ञितमनुमानप्रमाणमियर्थः । सूत्रे लक्षणं नान्वेषणीयमिति चरमपदस्य नवाक्षरत्वेऽपि न दोष इति ॥१०॥ रूपत्रयमेवाह- रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम्॥११ nang नैयायिकदर्शनम् । हेतोरनुमानस्य त्रीणि रूपाणि विभाध्यन्तामिति संबन्धः । तत्र पक्षधर्मत्वामिति । साध्यधर्मविशिष्टोधर्मी पक्षः। यथा पर्वतोऽयं वह्निमान् धूमवचादत्र पर्वतः पक्षः, तत्र धर्मत्वम् । धूमवत्वं वन्हिमत्त्वेन व्याप्तं धूमोऽनि न व्यभिचरतीयर्थः । सपक्षे सत्वं यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः । अत्र धूमवत्त्वेन हेतुना सपक्षे महानसे सत्त्वं वह्निमन्वमस्तीसर्थः। विपक्षे नास्ति- तेति यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये, जलाशये' हि वह्निमत्वं व्यावर्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते । एवं मकारेण हेतोस्त्रीणि रूपाणि बायन्तामियर्थः॥ ११ ॥ उपसंहरन्नाह- बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२ अयं संक्षेपो निवेदितः कथितः निष्ठां नीतः । कस्य बौद्धराद्धान्तवाच्यस्य बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्यो ऽभिधातन्योऽर्थस्तस्य । इतोऽनन्तरं नैयायिकमतस्य शिवशा- सनस्य "कथ्यमानो निशम्यतां" संक्षेपः कथ्यमानः श्रूयता- मित्यर्थः॥ १२ ॥ तदेवाह- अाक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नियैकसर्वज्ञो नित्यबुद्धिसमाश्रयः॥१३॥ आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधि- ष्ठायकः शिवो महेश्वरः स कथंभूतः सृष्टिसंहारकृत् सृष्टिः मा- णिनामुत्पत्तिः, संहारस्तद्विनाशः, सृष्टिश्च संहारश्चेति द्वन्द्वः तौ १२ षड्दर्शनसमुच्चये करोतीतिक्विपि तोऽन्तः। तथाहि । अस्य प्रसक्षोपलक्ष्यमाणचरा- चरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः सूष्टा ज्ञेयः। केवलसृष्टौ च निरन्तरोत्पद्यमानापारमाणिगणस्य भु- वनत्रयेऽप्यमातृत्वमिति संहारकर्ताऽपि कश्चिदभ्युपगन्तव्यः । यत्पमाणं, सर्व धरणिधरणीधरतरुपुरप्राकारादिकं, बुद्धिमत्पूर्वकं कार्यत्वात् । यद्यत् कार्य तत्तबुद्धिमत्पूर्वकं, यथा घटः । कार्य चेदं, तस्माद् बुद्धिमत्पूर्वकमिति प्रयोगः। स भगवानीश्वर एवे- सर्थः । व्यतिरेके गगनम् । न चायमसिदो हेतुः । भूभूधरादीनां स्वकारणकलापजन्यत्वेना,वयवितया, का कार्यत्वस्य जगत्मसि- द्धत्वात् । नापि विरुद्धानैकान्तिकदोषौ । विपक्षादसन्तव्या- तत्वात् । नापि कालात्ययापीदष्टः । प्रसक्षानुमानोपमानागमा- बाध्यमानधर्मधर्मित्वात् । नापि प्रकरणसमः। तत्परिपन्थि- पदार्थस्वरूपसमर्थनप्रथितप्रसनुमानोदयाभावात् । अथ नि- तात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्तेश्वर इति प्रस- नुमानोदयात्कथं प्रकरणसमदूषणाभाव इति चेत् । उच्यते । अत्र साध्यमान ईश्वररूपो धर्मी प्रतीतो, ऽप्रतीतो, वाऽनुमन्यते मुह- दा। अप्रतीतश्चद्भवत्परिकल्पितहेतोरेवाश्रयासिद्धिदोपप्रसङ्गः। प्रतीतश्चेत्तर्हि येनैव प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाभ्युपगम्यत इति कथमशरीरत्वमतो न दुष्टो हेतुरिति साधूक्तं सृष्टिसंहारकृच्छिवः । तथा विभुः सर्वव्यापकः । एकनियतस्थानत्तित्वे ह्यनियतप्रदेशनिष्ठितानां पदार्थानां प्र- तिनियतयथावन्निर्माणानुपपत्तेः । न ह्येकस्थानस्थितः कुम्भ- कारोऽपि दुरदृरतरघटघटनायां व्याप्रियते । तस्माद्विभुर्भग- वान् । तथा निखकः । नियश्चासावेकश्चेति, यतो निसोऽत एव एकोऽप्रच्युतानुत्पन्नस्थिरैकरूपं नियम् । भगवतो ह्यनित्यत्वे नैयायिकदर्शनम् । १३ पराधीनोत्पत्तिसव्यपेक्षतया कृतकत्वमाप्तिः। स्वोत्पत्तावपेक्षित- परव्यापारो हि भावः कृतक इष्यत इति । अथ चेत्कश्चिज्जगत्क- रिमपरमभिदधाति स एवानुयुज्यते। सोऽपि नियो,ऽनिसो,का निसश्चेदधिकृतेश्वरेण किमपराद्धम् । अनियश्चेत्तस्याप्यन्येनो- त्पादकान्तरेण भाव्यमनिसत्वादेव तस्याप्यन्येनेति निसानिस- वादविकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः। तस्मानिस एव भगवान् । अन्यच्चैकोऽद्वितीयो बहूनां हि जग- कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृशमतिव्यापा- रतयकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जसमापद्यतेति भगवानेक एवेति, युक्तियुक्तं निसैकेति विशेषणम् । तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता। सर्वज्ञत्वाभावे हि विधित्सितपदा- र्थोपयोगयोग्यजगत्मसमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सा- मग्रीमीलनाक्षमतया याथातथ्येन पदार्थानर्माणरचना दुर्घटा । सर्वज्ञश्च सन् सकलपाणिनां संमीलितसमुचितकारणकलापानु- रूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाणः स्वार्जितपुण्य- पापानुमानेन च स्वर्गनरकयोः सुखदुःखापभोगं ददानः केषां नाभिमतः । तथा चोक्तम् ।- "ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः" । इति । भूयोऽपि विशेषयन्नाह निसवुद्धिसमाश्रय" इति शाश्वत- बुद्धिस्थानं । क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्य- कर्तृत्त्वाभावादनीश्वरत्वप्रसक्तिरिति । ईदृग्गुणविशिष्टः शिवो- नैयायिकमतेऽभ्युपगन्तव्यः ॥ १३ ॥ अथ तत्त्वानि प्ररूपयन्नाह- तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा ।
. षड्दर्शनसमुच्चये प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥११॥ दृष्टान्तोऽप्यथ सिद्वान्तोऽवयवास्तनिर्णयौ । वादो जल्यो वितण्डाच हेत्वाभासाश्छलानिच॥१५ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा, अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥ १६ (त्रिभिर्विशेषकम् ) अमुत्रास्मिन प्रस्तुते नैयायिकमते षोडश तच्चानि प्रमाणादीनि प्रमाणप्रभृतीनि । तद्यथेति। बालावबोधाय नामान्यप्याही प्रमाण- प्रमेयसंशययोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवि- तण्डाहेत्वाभासच्छलजीतिनिर्ग्रहस्थानानां तत्त्वज्ञानान्निश्रेयससि- द्धिरिति षोडश । एषामेवं प्ररूपणेति । तत्त्वानाममु- ना प्रकारेण मरूपणा नाममात्रप्रकटनमियर्थः । अथैकै- कस्वरूपमाह । तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह । अर्थोपल- ब्धिहेतुः प्रमाणं स्यात् । अर्थस्य पदार्थस्योपलब्धिानं तस्य हेतुः कारणं प्रमाणं स्यादिति । परापरदर्शनापेक्षया प्रमाणा- नामनियतत्वात्संदिहानस्य संख्यामुपदिशन्नाह । तच्चतुर्विधमिति । तत्प्रमाणं चतुर्विधं ज्ञेयमिति ॥ १४ ॥ १५ ॥ १६ ॥ प्रत्यक्षमनुमान चोपमानं शाद्विकं तथा, । तत्रेन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारिकम् ॥१७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्ष,मितरन्मानन्तत्पूर्वं त्रिविधं भवेत् ॥१॥ . . ।
नैयायिकदर्शनम् । १५ .. -- " तत्र प्रमाणचातुर्विध्ये प्रसक्षं कीदृगिति सम्बन्धः। विशे- षणान्याह । इन्द्रियार्थसन्निकर्षोत्पन्नमिति । इन्द्रियं चार्थश्चेति द्वन्द्वः। तयोः सन्निकर्षात्संयोगादुत्पन्नं जातम् । इन्द्रियं हि नैकव्या- पदार्थे संयुज्यते। इन्द्रियार्थसंयोगाज् ज्ञानमुत्पद्यते । यदुक्तम् ।- "आत्मा सहैति मनसा, मन इन्द्रियेण, स्वार्थेन चेन्द्रिय,मिति क्रम एष शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ तत्राव्यभिवारिकं,ज्ञानान्तरेण नान्यथाभावि । शुक्तिशकले कलधौतबोधो हीन्द्रियार्थसन्निकर्षोत्पन्नोऽपि व्यभिचारी दृष्टोऽ- तोऽव्यभिचारिकंग्राह्यम् । तथा व्यवसायात्मकं व्यवहारसाधकम् । सजलधरणितले हि बहलशाद्वलक्षावल्यामिन्द्रियार्थसान्निध्योद्- गतमपि जलज्ञानं तत्प्रदेशसंगमेऽपि स्नानपानादिव्यवहारासाध- कत्वादप्रमाणम् । अतः सफलं व्यवसायात्मकमिति विशेषणम्। तथा व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितं, तथा ह्याजन्मकाचकामलादिदोषदृषितचक्षुषः पुरुषस्य धवलशङ्ख पी- तज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रिया- र्थसंनिकर्षोत्पन्नमस्ति तथाऽप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथो- क्तलक्षणं मसक्षमिति प्रसक्षसाधकं विशेषणचतुष्टयमुक्तम् । साम्प्र- तमनुमानमाह । इतरदन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्व प्रथमं त्रिविधं त्रिप्रकारकं भवेज्जायेत । पूर्वमितिपदेनानुमानान्त- रभेदानन्समाह । तत्पूर्व प्रसक्षपूर्वं चेति श्लोकद्वयार्थः॥१७॥१८॥ अनुमानत्रैविध्यमाह-- पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा ।
६ BE- षड्दर्शनसमुच्चये तत्रायं कारणात्कार्यमनुमानमिह गीयते ॥१९॥ पूर्ववत्, शेषवत्, सामान्यतोदृष्टं, चेसनुमानत्रयम् । चः समु- चये । एवेति पूरणार्थे । तथेति उपदर्शने ! तत्र त्रिषु मध्ये, आद्य- मनुमानमिह शास्त्रे कारणात्कार्यमनुमानमुदितं कारणान्मेघा- कार्य दृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यनामानुमानं कथि- तमिसर्थः ॥ १९ ॥ निदर्शनेन तमेवार्थं द्रढयन्नाह- रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः॥२०॥ यथेति दृष्टान्तकथनारम्भे । रोलम्बाः भ्रमरागवलं माहिषं शृङ्गम् । व्याला गजाः, सर्पा, वा। तमाला वृक्षविशेषाः। सर्वेऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवंप्राया, एवंविधाः पयोमुचो मेघा दृष्टिं न व्यभिचरन्तीति । एवंप्राया इत्युपलक्षणेन परेऽपि दृष्टिहेतवोऽभ्युन्नसादिविशेषा ज्ञेयाः। यदुक्तम् ।- "गम्भीरगर्जितारम्भनिर्भिन्नागिरिगह्वराः। तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहा:" इसादयोऽपि दृष्टिं न व्यभिचरन्ति ॥ २० ॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाह- कार्याकारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदी पूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥ यत्कार्यात्फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवदनुमानं मतं कथितं नैयायिकशासने । यथा तथाविध- १७ नैयायिकदर्शनम् । नदीपूरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो नदीपूरः सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलध- राभिवर्षणज्ञानं तच्छेषवत् । अत्र कार्य नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति । उक्तं च नैयायिकैः ।- "आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाङ्कितः ॥ वहरहुलशेवालफलशावलसंकुलः । नदीपूरविशेषोऽपि शक्यते न निवेदितुम्" ॥ इति ॥२१॥ तृतीयानुमानमाह- यञ्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्ये ऽपि सा तथा॥२२॥ चः पुनरर्थे । यत् सामान्यतो दृष्टमनुमानं तदेवममुना प्र- कारेण । यथा पुंसि पुरुषे देवदत्तादौ देशान्तरमाप्तितिपू- विका । एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वकमियर्थः । यथो- जयिन्याः प्रस्थितो देवदत्तो माहिष्मती पुरी प्राप्तः। सूर्येऽपि सा तथेति, यथा पुसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसरणाभावेन गति- नोंपलभ्यते, तथाऽप्युदयाचलात्सायमस्ताचलचूलिकाऽवलम्बन गति सूचयति । एवं सामान्यतोदृष्टमनुमानं ज्ञेयमियर्थः ॥२२॥ अथ क्रमायातमपि शादप्रमाणं स्वल्पव्यक्तत्वादुपेक्ष्यादा- वुपमानलक्षणमाह- प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गार्गवयस्तथा ॥२३॥ ३ षड्दर्शनसमुच्चये तदुच्यमानमुपमानमाख्यातं कथितं । यत्तदोनिससम्बन्धात् । यत्किम् अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते। प्रसिद्धधर्मसाधर्म्यादिति,आबालगोपालाङ्गनाविदितो योऽसौध- र्मोऽसाधारणलक्षणं तस्य साधयं समानधर्मत्वं तस्मादित्युपमान- माख्यातम् । दृष्टान्तमाह-यथागोर्गवयस्तथेति । यथा कश्चिदरण्य- वासी नागरिकेण कीदृगवय इति पृष्टः स च परिचितगोगवयल- क्षणो नागरिकं प्राह यथा गौस्तथा गवयः,सुरककुदलाङ्घसाना- ऽऽदिमान यादृशोगौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इयर्थः। अत्र प्रसिद्धो गौस्तत्साधादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥ उपमानं व्यावर्ण्य शब्दप्रमाणमाह शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं चात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥२४॥ तु पुनराप्तोपदेशः शाब्दम् । अवितथवादी हितश्चाप्तः प्रय- यितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्पकारं नि- ष्ठितमिसर्थः । अथ प्रमेयलक्षणमाह-"प्रमेयं त्वात्मदेहार्थबुद्धी- न्द्रियमुखादि चेति" प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे । आत्मा च देहश्चति द्वन्द्वः। आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः । तच्च नैयायिकमूत्र आत्मशरीरेन्द्रियार्थबुद्धिमन:- प्रवृत्तिदोषप्रेसभावफलदुःखापवर्गभेदेन द्वादशविधं, तत्र सचेतन- त्वकर्तृत्वसर्वगतत्वादिधर्मेरात्मा प्रमीयते । एवं देहादयोऽपि प्रमे- यतया ज्ञेयाः । अत्र तु ग्रन्थविस्तारभयान्न प्रपञ्चित इतरनन्थे- भ्योऽपि सुज्ञेयत्वाच्चेति ॥ २४ ॥ 1 नैयायिकदर्शनम् । संशयादिस्वरूपमाह- किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वाचनु साध्यं प्रयोजनम् ॥२५॥ दुरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राह-किमेत- दिति । एतत्किं स्थाणुर्वा पुरुषो वेति, यः संदिग्धः प्रसयः स संशयो नाम तच्चविशेषो मतः संमतः तच्छासन इति।प्रयोजनमाह- तत्तु तत्पुनः प्रयोजनं नाम तत्त्वं यत्किमियाह-अर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते । प्रतीयध्याहार्यम् । न हि निष्फलकार्या- रम्भ इसथित्वादुक्तम् । एवं यत्पवर्तनं तत्मयोजनमियर्थः ॥२५॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः, सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥ तु पुनरेष दृष्टान्तो नाम तत्वं भवेत् । यत्किमिति । विवाद- विषयो न, यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति । इद- मित्थं भवति न वेति विवादोन भवतीयर्थः। तावच्चान्वयव्यतिरे- कयुक्तोऽर्थः स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः। उक्तं च । तावदेव चलसर्थो मन्तुर्गोचरमागतः । यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ॥ एष दृष्टान्तो ज्ञेयः । सिद्धान्तः पुनश्चतुर्भेदो भवेश् । कथ- मिसाह-सर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः । आदिशब्दाद्भेदत्रयमिदं ज्ञेयम् । यथा प्रतितन्त्रसिद्धा- न्तोऽधिकरणसिद्धान्तोऽभ्युपगमासिद्धान्तश्चेति । अमी चत्वारः सिद्धान्तभेदाः । नाममात्रकथनमिदं, विस्तरग्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥ २६॥ - :
common . २० षड्दर्शनसमुच्चये अवयवादितत्त्वत्रयस्वरूपमाह- प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा। अवयवाः पञ्च तर्कः संशयोपरमो भवेत्॥२७॥ यथा काकादिसंपातातु स्थाणुना भाव्यमत्र हि,। ऊर्ध्वं सन्देहतर्काभ्यां प्रत्ययो निर्णयो मतः॥२८॥ अवयवाः पञ्चोते सम्बन्धः । पूर्वार्द्धमाह-प्रतिज्ञाहेतु- दृष्टान्तोपनया निगमनं चेति पञ्चावयवाः । तत्र प्रतिज्ञा, पक्षः कृशानुमानयं सानुमानियादि । हेतुलिङ्गवचनम्, धूमवत्त्वादि- सादि । दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स स वह्निमान यथा महानसप्रदेश इसादि । उपनयो हेतोरुपसंहारकं वचनं धूमवांश्चायमियादि । निगमनं हेतूपदेशेन पुनः साध्यधर्मोपसंह- रणं, तस्मादह्निमानियादि । इति पञ्चावयवस्वरूपनिरूपणम् अवयवतत्त्वं ज्ञेयमिति । तर्कः संशयोपरमो भवेत् । यथा काकेसादि । दुराद् दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्था- गुर्वा पुरुषो वेति संशयस्तस्योपरमेऽभावे सति तर्को- भवेत् तर्को नाम तत्त्वं स्यात् । कथमिसाह-यथेति । दूरा- दुर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहिती- भूय विमृशति । काकादिसंपातादादिशब्दाबल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः । वायसप्रभृतिसंबन्धादत्र स्थाणुना भाव्यं, कीलकेन भवितव्यम् । पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः। एवं संशयाभावे तर्कतत्वं ज्ञेयमिति । ऊर्ध्व- मियादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यामूर्ध्वमुत्तरं यःप्रययः स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयःनिर्णय- नामा तत्त्वविशेषो ज्ञेयः। यत्तदावर्थसम्बन्धादनुक्तावपि ज्ञेयौ॥२८ नैयायिकदर्शनम् । - वादतत्त्वमाह- प्राचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । यः कथाऽभ्यासहेतुःस्यादसौ वाद उदाहृतः॥२६॥ असौ वाद उदाहृतः कथितस्तज्ज्ञैरियर्थः । यःक इसाह- कथाऽभ्यासहेतुः । कथा प्रामाणिकी तस्या अभ्यासः कारणम् । कयोराचार्यशिष्ययोः। आचार्यो गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति । कस्मात् पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञाऽऽदिपरिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्त- प्रतिज्ञाऽऽदिप्रतिपञ्चकोपन्यासपौढिः तयोः परिग्रहात्संग्रहादि- सर्थः । आचार्यः पूर्वपक्षमङ्गीकृसाचष्टे । शिष्यश्चोत्तरपक्षमुररी- कृस पूर्वपक्षं खण्डयति । एवं निग्राहकजयपराजयच्छलजासादि- निरपेक्षतयाऽभ्यासनिमित्तम् । पक्षप्रतिपक्षपरिग्रहेण यत्र गुरु- शिष्यौ गोष्ठीं कुरुतः स वादो ज्ञेयः ॥ २९ ॥ अथ तद्विशेषमाह- विजिगीषुकथा या तु च्छलजात्यादिदूषणम् । स जल्पः,सावितण्डातु या प्रतिपक्षवार्जता ॥३०॥ स जल्प इति सम्बन्धः । यद् विजिगीषुकथायां विज- याभिलाषिवादिप्रतिवादिमारब्धप्रमाणोपन्यासगोष्ठ्यां ससां छलजासादिदूषणम् । छलं त्रिप्रकारम् । वाक्छलं, सामान्य- च्छलम्, उपचारच्छलं चेति । जातयश्चतुर्विशतिभेदाः।आदिश- ब्दान्निग्रहस्थानादिपरिग्रहः । एतैः कृत्वा दूषणं परोपन्यस्त- पक्षादेर्दूषणजालमुत्पाद्य निराकरणम् । अभिमतं च स्वपक्षस्थाप- नेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजासाद्युपन्यासैः परमयो- गस्य दृषणोत्पादनम् । तथा चोक्तम्- - २२ षड्दर्शनसमुच्चये। "दुःशिक्षितकुतकीशलेशवाचालिताननाः। शक्याः किमन्यथा जेतुं वितण्डा दोषमाण्डिताः । गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः" ॥ इति । संकटे प्रस्तावे च सातच्छलादिभिरपि स्वपक्षस्थापन- मनुमतम् । परविजये हि धर्मध्वंसादिदोषसंभवस्तस्माद्वरं छलादि- भिरपि जयः। प्रतिपक्षस्तेन विवर्जिता रहितेति प्रतिपक्षसाधनवि- हीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किचिहादेन परोक्तं दूषयतीसर्थः ॥ ३० ॥ हेत्वाभासा असिहाद्या,श्छल कूपो नवोदकः। जातयो दूषणाभासाः पक्षादिर्दृष्यते न यैः॥३१॥ हेत्वाभासा ज्ञेया इति । केत इसाह-असिद्धाद्या, असि- द्धविरुद्धानैकान्तिककालासयापादेष्टप्रकरणसमाः पञ्च हेत्वा- भासा ज्ञेयाः। तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः । विपक्षे सन् सपक्षे चासन् विरुद्धः । पक्षत्रयत्तिरनै- कान्तिकः । प्रसक्षानुमानागमविरुद्धपक्षत्तिः कालासयाप- दिष्टः । विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः । उदा- हरणानि स्वयमभ्यूह्यानि । छलं, कूपो नवोदक इति, परोपन्य- स्तवादे स्वाभिमतान्तरकल्पनया वचनविघात श्छलम् । कथ- मिसाह-वादिना कूपो नवोदक इति कथायां प्रसग्रार्थवाचक- तया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दूषयति । कुत एक एव कूपो नवसंख्योदक इति वाक्छलम् । प्रस्तावा- गतत्वेन शेषच्छलद्रयमप्याह-संभावनयाऽतिपसङ्गिनोऽपि सामा- न्यस्य हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम् । यथा अहो नैयायिकदर्शनम्। २३ नु खल्वसौं ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति संभवति ब्राह्मणे विद्याचरणसंपदिति । तच्छल- वादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वन्नभियुङ्क्ते । यदि ब्राह्मणे विद्याचरणसंपद्भवति वासेऽपि साभवेद्वासोऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रसवस्थानम्, उपचा- रच्छलं, यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः कोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति । जातय इसादि। दूषणामासा जातयः। अदूषणान्यपि दृषणवदाभासन्त इति दृषणाभासाः। यैः, पक्षादिर्न दृष्यते, आभासमात्रत्वान्न पक्ष- दोषः समुद्भावयितुं शक्यते केवलं सम्यगहेतौ । हेत्वाभासे चोत्क- पिकर्षसमे जाती भवतः । तत्रैव प्रयोगेदृष्टान्तधर्मकं चित्साध्यध- मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुते । यदि घटवत्कृतक- त्वादनिसः शब्दो घटवदेव मूर्तोऽपि भवेद्, न चेन्मूर्तो घटवद- निसोऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट, एवं शब्दोऽपि भवेद्, नो चेद घटवदनियोऽपि माभूदिति शब्दे श्रावणधर्ममपकर्षति । वर्ष्या- वर्ष्याभ्यां प्रयवस्थानं वर्ष्यावर्ण्यसमे जाती भवतः। ख्याप- नीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यस्तावेतौ वावण्यौ साध्यदृष्टान्त- धर्मों विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते । यथाविधः शब्दधर्मः कृतकत्वादिना न तादृग् घटधर्मो न ताक् शब्दध- म इति साध्यधर्मदृष्टान्तधर्मों हि तुल्यौ कर्तव्यौ । अत्र तु विप- र्यासः, यतो यादग्घटधर्मः कृतकत्वादि न तादृक् शब्दधर्मः। घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वम् । शब्दस्य हि ताल्वोष्ठादिव्यापारजमिति । धर्मान्तरे विकल्पेन प्रसवस्थानं विकल्पममा जातिः। यथा कृतकं किंचिन्मृदु दृष्टं रावशय्याss- षड्दर्शनसमुच्चये दि, किश्चित्कठोरं कुठारादि । एवं कृतकं किञ्चिदनिस भवि- ध्यति घटादिकम् । किञ्चिनियं शब्दादीति । साध्यसाम्या- पादनेन प्रसवस्थानं साध्यसमा जातिः । यथा घंटः तथा शब्द: प्राप्तः, तर्हि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि साध्यो भवेत, ततश्च न साध्यं साध्यस्य दृष्टान्तो, वि- रुद्धलक्षणत्वान्न दृष्टान्तः स्यात् । न चेदेवं तथाऽपि वैलक्षण्या- सुतरामदृष्टान्त इति । प्राप्यमाप्तिविकल्पाभ्यां प्रसवस्थानं, प्राप्यमाप्तिसमे जाती। यथा यदेतत्कृतकत्वं त्वया साधनमुप- न्यस्तं तत्कि प्राप्यं साधयसमाप्यं वा । प्राप्यं चेद् द्वयोर्विद्यमा- नयोरेव प्राप्तिर्भवति न तत्सदसतोरिति द्वयोश्च सत्त्वात्कि कस्य साध्य साधनं वा । अप्राप्यन्तु साधनमयुक्तमतिप्रसङ्गादि- ति । अतिप्रसङ्गापादनेन प्रसवस्थानं प्रसङ्गसमा जातिः । यथा- ऽनियः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवा- द्याह-यद्यनिसत्वे कृतकत्वं साधनं, कृतकत्वमिदानी किं सा- धनं तत्साधने कि साधनमिति । प्रतिदृष्टान्तेन प्रसवस्थानं पति- दृष्टान्तसमा जातिः । यथाऽनिसः शब्दः प्रयत्नानन्तरीयक- त्वाद् घटवदित्युक्ते जातिवाद्याह-यथा घटः प्रयत्नानन्तरीय- कोऽनियोदृष्ट एवं प्रतिदृष्टान्त आकाशं निसमापि प्रयत्नानन्त- रीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनै- कान्तिकत्वोद्भावनं, भङ्गयन्तरेण प्रसवस्थानात् । अनुत्पत्त्या प्रसवस्थानम् अनुत्पत्तिसमा जातिः । यथाऽनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क वर्तते, तदेवं हेत्वभावादसिद्धिरनिसस्यति। साधर्म्यसमा वैधर्म्यसमा वा या जातियथा पूर्वमुदाहृता, सैव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति । यथा कि घट- साधात्कृतकत्वादनियः शब्दः, किं वा तद्वैधयेणाकाश- नैयायिकदर्शनम् । साभ्यानिरवयवत्वान्निस इति । द्वितीयपक्षोत्थापनबुद्धया प्रयु- ज्यमाना सैव साधर्म्यसमा वैधय॑समा वा जातिः प्रकरणसमा भवति । तत्रैवानियः शब्दः कृतकत्वाद् घटवदिति प्रयोगे, निसः शब्दः श्रावणत्वात् शब्दत्ववदिति, उद्भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम् । त्रैकाल्यानुपपत्त्या हेतोः प्रसवस्थापन- महेतुसमा जातिः। यथा हेतुः साधनं, तत्साध्यात्पूर्व पश्चादा सह वा भवेत् । यदि पूर्वमसति साध्ये तत्कस्य साधनम्, अथ पश्चात्साधनं पूर्वं हि साध्यं तस्मिंश्च पूर्वसिद्धे किं साधनेन, अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगो- विषाणयोरिव साध्यसाधनभाव एव न भवेदिति । अर्थापत्त्या प्रसवस्थानम् अर्थापत्तिसमा जातिः। यद्यनिससाधात्कृतक- वादनियः शब्दोऽर्थादापद्यते, नियसाधानिस इति । अस्ति चास्य नियेनाकाशेन साधर्म्य निरवयवत्वमित्युद्भावनप्रका- रभेद एवायमिति । अविशेषापादनेन प्रसवस्थानमविशेषसमा जातिः। यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रस- ज्यत इति । उपपत्त्या प्रसवस्थानमुपपत्तिसमा जातिः । यथा यदि कृतकत्वोपपत्या शब्दस्यानिसत्वं, निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान भवति पक्षद्वयोपपत्त्याऽनध्यवसायपर्यव- सानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् । उपलब्धेन प्र- सवस्थानमुपलब्धिसमा जातिः । यथाऽनिसः शब्दः प्रयत्नान- न्तरीयकत्वादिति प्रयुक्त प्रसवतिष्ठते न खलु प्रयत्नानन्तरीयकत्व- मनिसत्वे साधनं, साधनं तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि विद्युदादावनि- सत्वं, शब्देऽपिक चिद्वायुवेगभज्यमानवनस्पसादिजन्ये तथेति ।
षड्दर्शनसमुच्चये अनुपलब्धिप्रसवस्थानादनुपलब्धिसमा जातिः। यथा तत्रैव प्रयत्नानन्तरयिकत्वहेतावुपन्यस्ते, स प्राह जातिवादी न प्रयत्न- कार्यः शब्दः प्रागुच्चारणादस्त्येवासावावरणयोगात्तु नोपल- भ्यते । आवरणानुपलभ्भेऽप्यनुपलम्भान्नास्येव शब्द इति चेन्न । आवरणानुपलम्भेऽप्यनुपलम्भसद्भावादावरणानुपलब्धे- श्चानुपलम्भादभावः। तदभावे चावरणोपलब्धर्भावो भवति । ततश्च तदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव श- ब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्याभावान्निसः शब्द इति । साध्यधर्मनिसानियत्वविकल्पेन शब्दनियताऽऽपादनं निससमा जातिः। यथा अनिसः शब्द इति प्रतिज्ञाते, जाति- वादी विकल्पयति येयमनिसता शब्दस्योच्यते सा किमनिया निसा वेति । यद्यनिसा तदियमवश्यमपायिनीसनिसताया अभावान्निसः शब्दः। अथ निसैवेति तथाऽपि धर्मस्य निस- वात्तस्य च निराश्रितस्यानुपपत्तेः तदाश्रयभूतः शब्दोऽपि निस एव, स चेन्न तदनिसत्वे तद्धर्मनिसत्वायोगादित्युभयथा निसः शब्द इति । एवं सर्वभावानियत्वोपपादनेन प्रसवस्था- नमनिससमा जातिः। यथा घटसाधर्म्यमनिसत्वेन शब्दस्यास्ती- ति, तस्यानियत्वं यदि प्रतिपाद्यते तद्घटेन सर्वपदार्थानामस्येव किमपि साधर्म्यमिति तेषामप्यनिसत्वं स्यात् । अथ पदा- र्थान्तराणां तथाभावेऽपि नानिसत्वं हि शब्दस्यापि तन्मा भूदिति अनियत्वमात्रापादनपूर्वक विशेषोद्भावनाच्चाविशेषसमा- तो भिन्नेयं जातिः । प्रयत्नकार्यनानात्वोपन्यासेन प्रसवस्थानं कार्यसमा जातिः । यथाऽनिसः शब्दः प्रयत्नानन्तरायिकत्वादि- त्युक्ते जातिवाद्याह-प्रयत्नस्य द्वैरूप्यं दृष्टं किं चिदसदेव तेन जन्यते यथा घटादिक, किं चित्सदेवावरणव्युदासादिना नैयायिकदर्शनम् । २७ व्यज्यते यथा मृदन्तरितमूलकीलादि । एवं प्रयत्नकार्यना- नात्वादेष प्रयत्नेन शब्दो व्यज्यते जन्यते वेति संशय इति संशयापादानप्रकारभेदाच संशयसमातः कार्यसमा जातिभिद्य- ते । तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्ये संकी- गोंदाहरणविवक्षया चतुर्विशतिजातिभेदा एते दर्शिता इति । दृषणाभासानुक्त्वा निग्रहस्थानमाह- निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥ ३२ ॥ येन केन चिद्रूपेण परो विपक्षो निगृह्यते परवादी वचन- निग्रह पासते तन्निग्रहस्थानमाख्यातं कथितमिति । कति चिने- दान नामतो निर्दिशन्नाह-प्रतिज्ञाहानिसंन्यासविरोधादिविभेद- वत् । हानिसंन्यासविरोधाः प्रतिज्ञाशब्देन संबध्यन्ते । आदि- शब्देन शेषानपि भेदान परामृशति । एतदृषणजालमुत्पाद्यते येन तन्निग्रहस्थानम्। यदुक्तं-"विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्था- नम्" । तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धि, ईषणाभासे च दृषणबुद्धिरिति । अप्रतिपत्तिः साधनस्यादृषणं, दृषणस्य चानु- द्धरणम् । तद्धि निग्रहस्थानं द्वाविंशतिभेदम् । तद्यथा-प्रतिज्ञा- हानिः, प्रतिज्ञाऽन्तरं, प्रतिज्ञांविरोधः प्रतिज्ञाँसंन्यासः, हेत्वन्तरम्, अर्थान्तरं, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालं, न्यूनम्, अधिक, पुनरुक्तम्, अन भाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपो मतानुज्ञा, पर्य्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासः, । तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टा- न्तधर्म स्वदृष्टान्तेऽभ्युपगतवतः प्रतिज्ञाहानिनामनिग्रहस्थानं भव- ति। यथा अनिसः शब्द, ऐन्द्रियिकत्वाद् घटवदिति प्रतिज्ञासा- २८ षड्दर्शनसमुच्चय धनाय वादी वदन् परेण सामान्यमैन्द्रियिकमपि निसं दृष्टमिाते है- तावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद्धटोऽपि नियो भव- ति स एवं ब्रुवाणः शब्दनियत्वप्रतिज्ञां जह्यात् । प्रतिज्ञातार्थप्रति- षेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरसाधनमभिदधतः प्रतिज्ञा- ऽन्तरनाम निग्रहस्थानं भवति । अनिसः शब्द, ऐन्द्रियिकत्वा- दित्युक्ते तथैव सामान्येनैव व्यभिचारेणोदिते यदि ब्रूयाद् युक्तं सामान्यमैन्द्रियिकं निन्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति, सोऽयमनिसः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञाऽन्तरमसर्व- गतः शब्द इति प्रतिज्ञाऽन्तरेण निगृहीतो भवति । प्रतिज्ञाहेत्वो- विरोधः प्रतिज्ञाविरोधनाम निग्रहस्थानं भवति । गुणव्यात- रिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं पति- ज्ञाहेत्वोर्विरोधो यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्यो- ऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति तदयं प्रतिज्ञाहेत्वोविरुद्धाभि- धानात्पराजीयते । पक्षसाधने परेण दृषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निह्नवानस्य प्रतिज्ञासंन्यासनाम निग्रहस्थानं भवति । यथा अनियः शब्द ऐन्द्रियिकत्वादित्युक्ते तथैव सा- मान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह निसः शब्द इति प्रतिज्ञासंन्यासात् पराजितो भवतीति । अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तर- नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्येऽस्य व्यभिचारेण दृषिते जातिमत्त्वे सतीसादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । प्रकृतादर्थान्तरं तदौपयिक- मभिदधतोऽर्थान्तरनाम निग्रहस्थानं भवति । निसः शब्दः कृतकत्वादिति हेतुः । हेतुर्हिनोतेर्धातोस्तुमसये कृदन्तं नैयायिकदर्शनम् । २९ . पदम्, पदं च नाम तद्धितनिपातोपसर्गा इति प्रस्तुस नामा- दीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति । अभिधेयरहित- वर्णानुपूर्वीप्रयोगमात्रं निरर्थकनाम निग्रहस्थानं भवति । यथा नित्यः शब्दः कचतटपानां गजडदवत्त्वाद् घझढधभवादित्ये- तदपि सर्वथाऽर्थशून्यत्वान्निग्रहणाय कल्पेत साध्यानुपयोगाद्वा। यत्साधनवाक्यं दृषणवाक्यं वा त्रिवारमाभिहितमाप पर्षत्पतिवा- दिभ्यां बोद्धुं न शक्यते तदाऽविज्ञातार्थनाम निग्रहस्थानं भवति । पूर्वापरासंगतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकनाम नि- ग्रहस्थानं भवति, दश दाडिमानि षडपूपा इति । प्रतिज्ञाहेतू- दाहरणोपनयनिगमनवचनक्रममुल्लङ्यावयवविपर्यासेन प्रयुज्य- मानमनुमानवाक्यममाप्तकालनाम निग्रहस्थानं भवति । स्व- प्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमानक्रमस्यापगमात् । पञ्चावयवे वाक्ये प्रयोक्तव्ये तदेकतमेनानुमानावयवेन हीनं न्यूननाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धर- भावात् प्रतिज्ञाऽऽदीनां पञ्चानामपि साधनत्वात् । एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकनाम निग्रहस्थानं भवति । शब्दार्थयोः पुनर्वचनं पुनरुक्तनाम निग्रहस्थानं भवति । अन्यत्रानुवादात् शब्दपुन- रुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते यथा निसः शब्दो निसः शब्द इति । अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन श- ब्देनोच्चार्यते पुनः पर्यायान्तरेणोच्यते यथा अनिसः शब्दो, विनाशी ध्वनिरिति । अनुवादे तु पौनरुक्समदोषः। यथा हेतूपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति । पर्षदावेदितस्य वादिभिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणनाम निग्रह- स्थानं भवाते । पर्षदा विज्ञातस्याप वादिवाक्यार्थस्य प्रतिवादि- - । ३० षड्दर्शनसमुच्चये नो यदज्ञानं तदज्ञाननाम निग्रहस्थानं भवति । अविदितोत्तर- विषयो हि किमुत्तरं ब्रूयात्, न चाननुभाषणमेवेदं, ज्ञातेऽपि व- स्तुन्यनुभाषणासामर्थ्यदर्शनात् । परपक्षे गृहीतेऽप्यनुभाषिते- ऽपि तस्मिन्नुत्तरापतिपत्तिरप्रतिभानाम निग्रहस्थानं भवति । कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपनाम निग्रहस्थानं भवति । सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिन- त्तीदं मम करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्धइसाद्य- भिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते । स्वपक्षेपरा- पादितदोषमनुस तमेव परपक्षे प्रतीतिमापादयतो मतानुज्ञा- नाम निग्रहस्थानं भवति । चौरो भवान् पुरुषत्वात् प्रसिद्धचौ- रवदित्युक्ते, भवानपि चौरः पुरुषत्वादिति ब्रुवन्नात्मनः परापा- दितचौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते । निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणनाम निग्रहस्थानं भवति। पर्यनुयोज्यो नाम निग्रहोपपत्त्याऽवश्यं नोदनीय, "इदन्ते निग्रहस्थानमुपनतमतो निगृहीतोऽसि" इसेवं वचनीयस्तमु- पेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपक्षणेन निगृह्यते । अनिग्रहस्थाने निग्रहस्थानानुयोगानिरनुयोज्यानुयोगनाम नि. ग्रहस्थानं भवति । उपपन्नवादिनमप्रमादिनमनिग्रहामपि "निगृहीतोऽसी"ति यो ब्रूयात्स एवाभूतदोषोद्भावनानिगृह्यत इति। सिद्धान्तमभ्युपेस नियमात्कथाप्रसङ्गोऽपसिद्धान्तनाम निग्रह- स्थानम् । यः प्रथमं कञ्चित्सिद्धान्तमभ्युपगम्य कथामुपाक्रमत, तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भो यथा सिद्धा- न्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते । हेत्वाभासाश्च य- थोक्ता असिद्धविरुद्धादयो निग्रहस्थानम् इति । भेदान्तरानन्ये- ऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति । .
. कापिलदर्शनम् । ३१ . । . अथोपसंहरन्नाह- नैयायिकमतस्यैवं समासः कथितोऽधुना । सांख्याभिमतभावानामिदानीमयमुच्यते ॥ ३३ ।। एवम् इत्थंप्रकारतया नैयायिकमतस्य शिवशासनस्य स- मासः संक्षेपोऽधुना कथितो निवेदितः साम्प्रतमेव निष्ठित इ- सर्थः । इदानीं पुनरयं समासः सांख्याभिमतभावानाम् उच्यते। सांख्याः कापिला इयर्थः। तदभिमता तदभीष्टा ये भावाः पञ्च- विंशतितत्त्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इसर्थः ॥ तदेवाह एतेषा या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका॥३४॥ एतेषां सांख्यानां प्रकृतिः प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां सत्त्वरजस्तमसां त्रयाणामपि गुणानां या साम्यावस्था समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते, किलेत्याप्तमवादे, सा प्रकृतिः कथ्यते । अन्यच्च सा प्रधानाव्य- तशब्दाभ्यां वाच्या प्रधानाव्यक्तशब्देन च प्रकृतिराख्यायते । शास्त्रे प्रकृतिःप्रधानमव्यक्तं चेति पर्याया न तत्त्वान्तरमित्यर्थः । तथा नित्यस्वरूपिका शाश्वतभावतया प्रसिद्धेत्यर्थः । उच्यते च नित्या नानापुरुषाश्रया च तद्दर्शनेन प्रकृतिर्यदाह- तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृति- रिति ।
३२ षड्दर्शनसमुच्चये दर्शनस्वरूपमाह- साख्या निरीश्वराः के चित्के चिदीश्वरदेवताः। सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥३५॥ के चित्सांख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केव- लाध्यात्मवेदिनः। के चित्पुनरीश्वरदेवता महेश्वरं स्वशासनाधि- टातारमाहुः। सर्वेषामिति । तेषां केवलनित्यात्मवादिनामी- श्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्त्वानां पंचविंशतिः स्यात् । तत्वं ह्यपवर्गसाधकं बीजमिति सर्ववादि- संवादः । यदुक्तम् । पंचविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।। तन्मते पंचविंशतिस्तत्त्वानीत्यर्थः । गुणत्रयमाह- सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोषदैन्यादिकार्यलिङ्ग क्रमेण तत् ॥ ३६॥ तावदिति प्रक्रमे । सत्त्वरजस्तमश्चेति गुणत्रयं ज्ञेयम् । तद् गुणत्रयं, क्रमेण परिपाट्या, प्रसादतोषदैन्यादिकार्यलिङ्गं गुण- त्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते । सत्त्वगुणेन प्रसादकार्यलिङ्गं, वदननयनादिप्रसन्नता सत्त्वगुणेन स्यादिसर्थः । रजोगुणेन तोषः स चानन्दपर्यायः, तल्लिङ्गानि स्फूर्त्यादीनि रजोगु- णेनाभिव्यज्यन्त इयर्थः । तमोगुणेन च दैन्यं जन्यते "हा दैव नष्टोऽस्मि वञ्चितोऽस्मी"खादिवदनविच्छायतानेत्रसंकोचादि- व्यङ्ग्यं दैन्यं तमोगुणलिङ्गमिति । दैन्यादीसादिशब्देन दुःख- त्रयमाक्षिप्यते, तद्यथा आध्यात्मिकम्, आधिभौतिकम्, आधि- भ --- कापिलदर्शनम् । ३३ दैविकं चेति। तत्राध्यात्मिकं द्विविधं शारीरं मानसं च शारीरंवात- पित्तश्लेष्मणां वैषम्यनिमित्तम्, मानसं कामक्रोधलोभमोहेावि- पयादर्शननिबन्धनम् । सर्वं चैतदान्तरोपायमाध्यत्वादाध्यात्मिक दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा, आधिभौतिकम् आधिदैविक चेति। तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम्, आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकमिति । अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तच जिज्ञासोत्पद्य- तेऽतस्तान्येव तत्त्वान्याह- ततः संजायते बुद्धिर्महानिति यकोच्यते । अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः॥३७॥ ततो गुणत्रयाभिघाताद् बुद्धिः संजायते यका बुद्धि- महानिति उच्यते महच्छब्देन कीर्सत इयर्थः। एवमेतन्नान्यथा, गौरयं नाश्वः, स्थाणुरेष नायं पुरुष इसेवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति । तस्यास्त्वष्टौ रूपाणि तदर्शनविश्रुतानि । यदाह । धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वा- रि तामसानीसष्टौ । ततो बुद्धेरहंकारः स चाभिमानात्मको- यथा अहं शब्दे, अहं रूपे, अहं रसे, अहं स्पर्श, अहं गन्धे, अहं स्वामी, अहम् ईश्वरः, असौ मया हतः, अहं त्वां हनिष्यामीसादि- मसयरूप,स्तस्मादहंकारात्षोडशको गणो "जायत" इसध्याहारो- १ अन क्रमेण प्रतीतिपञ्चकाकारस्याने, अहं शृणोमि, अहं रूपयामि, अहं रसयामि, महं स्पृशामि, अहं जिघ्रामि, इत्येवाकारपञ्चकं ज्याय इति भाति, मूले नि- ष्टिाकारकप्रतीतीनामनानुभविकस्वाद पन्थकारलेखानुपूर्वीभङ्गभिया तु मूलस्थ- पागे न पसऽवर्ति। ५
३४
षड्दर्शनसमुच्चये
.
...
ऽस्तिभवतीसादिवत् । पञ्च बुद्धीन्द्रियाणि पश्च कर्मेन्द्रियाणि ए.
कादशं मनः पञ्च भूतानि षोडशको गणः। तथाऽऽह,ईश्वरकृष्णः।
"मूलप्रकृतिरविकृतिर्महदायाः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारोन प्रकृतिर्न विकृतिः पुरुष"इति ।
षोडशकगणमेवाह-
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् ।
पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥३८॥
पायूपस्थवचःपाणिपादाख्यानि मनस्तथा ।
अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥३९॥
युग्मम् ।
पञ्च बुद्धीन्द्रियाणीति सम्बन्धः । स्पर्शनं त्वगिन्द्रियं, रसनं
जिह्वा, घाणं नासिका, चक्षुर्नेत्रं, पञ्चमं श्रोत्रं कर्ण इति, एतानि
पञ्चबुद्धिप्रधानानि बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा
बुद्धीन्द्रियाण्याहुः कथयन्ति, तन्मतीया इति । तथा कर्मेन्द्रि-
याणि चेति । तथा पूर्वोद्दिष्टपञ्चसंख्यामात्रमाप परामृशति ।
तान्येवाह-पायूपस्थवच पाणिपादाख्यानीति । पायुरपानं,
उपस्थः प्रजनन,वचो वाक्यं,पाणिर्हस्तः पादश्चरण,स्तदाख्यानि
पञ्च कर्मेन्द्रियाणि, कर्म कार्यव्यापारस्तस्य साधनानीन्द्रियाणी-
ति कर्मेन्द्रियाणि । तथा मन एकादशमिन्द्रियमित्यर्थः । अन्या-
नि पञ्चरूपाणि तन्मात्राणि चेति । रूपरसगन्धशब्दस्पर्शा-
ख्यानि तन्मात्राणीति षोडश ज्ञेयाः।
पञ्चतन्मात्रेभ्यः पञ्चभूतोत्पत्तिमाह-
रूपात्तेजो रसादापो गन्धामिः स्वरान्नभः ।
स्पर्शाहायुस्तथैवं च पञ्चभ्यो भृतपञ्चकम् ॥४०॥
कापिलदर्शनम् । NA पञ्चभ्य इति, पञ्चतन्मात्रेभ्यः पञ्चभूतकमिति सम्बन्धः । रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्राद् भूमिः, स्वरतन्मात्रादाकाशं, स्पर्शतन्मात्राद्वायुः, एवं पञ्चतन्मा- त्रेभ्यः पञ्च भूतान्युत्पद्यन्ते । असाधारणैकैकगुणकथनमिदम्, उत्पत्तिश्च शब्दतन्मात्रादाकाशं शब्दगुणं शब्दो ह्यम्बर- गुण इति । शब्दतन्मात्रसहितात्स्पर्शतन्मात्राद्वायुः शब्द- स्पर्शगुण इति । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुणमिति । शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मा- त्रादापः शब्दस्पर्शरूपरसगुणा इति । शब्दस्पर्शरूपरसत- मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति पञ्चभ्यः पञ्चभूतकमियर्थः । प्रकृतिविस्तरमेवोपसंहरन्नाह- एवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता,तत्त्वंपुमान्नित्यचिदभ्युपेतः४१ एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विशतितत्त्वरूपं प्रधानं निवेदितम् । प्रकृतिर्महानहङ्कारश्चेति त्रयं, पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि, मनस्त्वेकं, पञ्च तन्मात्राणि, पञ्चभूतानि, चेति चतुर्विंशतिस्तत्त्वानि रूपं यस्येति, एवंविधा प्रकृतिः कथितेयर्थः। पञ्चविंशतितमं तत्त्वमाह-अन्यस्त्विति । अन्योऽक- तर्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मत्वाद्, यदुक्तं-प्रकृतिः करोति प्रकृतिबध्यते प्रकृतिर्मुच्यते, पुरुषोऽबद्धः पुरुषो मुक्तः, पुरुषस्तु अमूर्तश्चेतनो भोगी निसः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्मः आत्मा कापिलदर्शने ॥ पुरुषगुणानाह-विगुण इति । सत्त्वरजस्तमोरूपगुणत्र- यविकलः । तथा भोक्ता भोगी, एवंप्रकारः पुमान् तत्त्वं
षड्दर्शनसमुच्चये
पञ्चविंशतितमं तत्वमित्यर्थः । तथा नियचिदभ्युपेतः,
निसा चासौ चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः । आत्मा
हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । मुखदुःखादयश्च विषया
इन्द्रियहारेण बुद्धौ संक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा।
ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः मुख्यहं दुःख्यह-
मित्युपचर्यते। आह च पातञ्जले, "शुद्धोऽपि पुरुषः प्रलयं बौद्ध-
मनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासत"
इति । मुख्यतस्तु चिच्छक्तिविषयपरिच्छेदशून्या । बुद्धरेव
विषयपरिच्छेदस्वभावत्वात् चिच्छक्तिसन्निधानाच्चाचेतनाऽपि
बुद्धिश्चेतनावतीवावभासते । वादमहार्णवोऽप्याह-
बुद्धिदर्पणसंक्रान्तमर्थविप्रतिबिम्बकम् ।
द्वितीयदर्पणकल्पे पुरुषे बधिरोहति ॥
तदेव भोक्तृत्वमस्य न तु विकारोत्पत्तिरिति। तथा चामुरिः-
विविक्ते दृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छो यथा चन्द्रमसोऽम्भसि ॥
विन्ध्यवासी त्वेवं भोगमाचष्टे-
पुरुषोऽविकृतात्मैव स्वनिर्भासमवेतनम् ।
मनः करोति सान्निध्यादुपाधेः स्फटिको यथे,ति ॥
निसचिज्ज्ञानयुक्तः।
बन्धमोक्षसंसाराश्च निसेऽप्यात्मनि भृसगतयोर्जयपराज-
ययोरिव तत्फलकोशलाभादिसम्बन्धेन स्वामिन्युपचारवदना-
प्युपर्यन्त इसदोषः।
तत्त्वोपसंहारमाह-
पञ्चविंशतितत्त्वानि सांख्यस्यैव भवन्ति च ।
प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥ ४२ ॥
कापिलदर्शनम् । ३७ - पूर्वा निगदमिद्धम् । अत्र सांख्यमते प्रधाननरयोः प्रकृ- तिपुरुषयोटीतर्वर्तनं पङ्ग्वन्धयोरिव पङ्गुश्वरणविकलः, अन्ध- श्व नेत्रविकलः । यथा पङ्ग्वन्धौ संयुक्तावेव कार्यसाधनाय प्रभ- वतो न पृथग्भूतौ । प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृ- त्वम् । प्रकृत्युपात्तं पुरुषो भुङ्क्त इयर्थः । मोक्षप्रमाणं चाह- प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥४३॥ मोक्षः किमुच्यत इसाह । पुरुषस्यात्मन आन्तरज्ञाना त्रिविधबन्धविच्छेदात्मकृतिवियोगो यः स मोक्षः प्रकृया सह वियोगे विरहे सति पुरुषस्यापवर्ग इति । आन्तरज्ञानं च बन्धवि- च्छेदाद्भवति । बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात्रिवि- धः । तद्यथा । प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धी पुरुषबुद्धयोपासते तेषां वैकारिकः । इष्टापूर्ते दाक्षिणः, इष्टापूर्त जनभोजनदानादिकं तस्मिन् । पुरुषतत्त्वानभिज्ञो हीष्टकारी कामोपहतमना बध्यत इति । इष्टापूर्त मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते मुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्तीति वचनात् ॥ इति त्रिविधबन्धविच्छेदात्परमब्रह्मज्ञानानुभवस्ततः प्रक- तिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच्च निहत्तायां प्र- कृतौ, पुरुषस्य स्वरूपावस्थानं मोक्ष इति श्लोक पूर्वार्दम् ।
षड्दर्शनसमुच्चये मानत्रितयं प्रमाणत्रयं च, भवेत् स्यात्, प्रसक्षं लैङ्गिकं शाब्दं चकारः सर्वत्र सम्बध्यते । प्रसक्षमिन्द्रियोपलभ्यं, लैङ्गिकमनुमानगम्यं, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् । अयोपसंहरन्नाह- एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४॥ एवं पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः क- थितः । अपि समुच्चयार्थे न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति । सांख्य इति पु- रुषनिमित्तेयं सज्ञा । संख्यस्य इमे सांख्याः। तालव्यो वा शकारः, शङ्खनामाऽऽदिपुरुषः । अथ क्रमायातं जैनमतोद्देशमाह- अधुनेत्युत्तरार्द्धन सम्बध्यते । अधुना इदानी जैनदर्शनसंक्षेपः कथ्यते कथंभूत इति सुविचारवान् । सुष्ठु शोभनो विचारो- ऽर्थोऽस्यास्तीत्यर्थे मतुप् । सुविचारवानिति साभिमायं प. दम् । अपरदर्शनानि हि। पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धाानि चत्वारि न हन्तव्यानि हेतुभिरि- साधुक्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाहmium १ अप्रामाणिकोऽयं कल्पः । प्रथमकल्पस्तु कथमपि सङ्गमनीयः । वस्तुतस्तु, "शुद्धात्मतत्त्वविज्ञान सांख्यमित्यभिधीयत" इति व्यासस्मृत्या भावार्थकाङ्प्रत्ययनि- पन्नज्ञानवाचकसङ्ख्याशब्दात्सम्बन्धिबोधक शैषिकाणा "सांख्य शब्द: सिद्धः । या "संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्या प्रकीर्तिता" इति भारतात, संख्याशब्दावेदार्थकाणा निष्पन्नः "सांख्य"शब्दः । उभयथाऽपि योगरूढः ।
जैनदर्शनम् । अस्ति वक्तव्यता का चित्तेनेदं न विचार्यते । निर्दोष काञ्चनं चेत्स्यात्परीक्षाया विभेति किम् ॥ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्ति- मुल्लङ्घयति परमार्हतः । उक्तश्च- पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्ववचनं यस्य तस्य कार्यः परिग्रहः ॥ इसादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन"मुविचारवान्"इस- साधारणविशेषणप्रसरणं ज्ञेयमिति । तदेवाह- जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपज्यः सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६॥ तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्प्राप्त इति सम्बन्धः । जैनेन्द्र इति जयन्ति रागा- दीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशास- दृशचतुस्त्रिंशदतिशयसम्पत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुष, एष कीहक् शिवं समाप्त इति परासाधारणानि विशेषणान्याह-रागद्वेषविवर्जित इति । रागः सांसारिकस्ने- होऽनुग्रहलक्षणः, द्वेषो वैराग्याद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवर्जितो रहितः । एतावेव दुर्जयो दुरन्तभवसम्पातहेतुकतया च मुक्तिमतिरोधको समये प्रसिद्धौ । यदाह- ४० षड्दर्शनसमुच्चये को दुःखं पाविजा कस्स न मुश्खेहि विम्हहो हुन्जा । को अ न लभेज मुखं रागद्दोसा जइ न हुज्जा ॥ तथा हतमहामोहमल्लः मोहनीयकोदयाच हिंसाऽऽत्म- कशास्त्रेभ्योऽपि मुक्तिकाङ्क्षणादिव्यामोहो मोहः स एव दुर्जेयत्वान्महामल्ल इव महामल्लः, हतो मोहो महामल्लो येनेति स तथा । रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मु- क्तयङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु मुज्ञेय एव । यदुक्तम्- रागोऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषां दारणहतिगम्यः । मोहः कुत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमहन् । इति रागद्वेषमोहरीहतो भगवान्, तथा केवलज्ञानदर्शनः । धवखदिरपलाशादिव्यक्तिविशेषावबोधो ज्ञानम् । वनमिति सामान्यावबोधो दर्शनम् । केवलशब्दश्चोभयत्र सम्बध्यते । केवलमिन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनश्च यस्येति। केवलज्ञान- केवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद्- व्यपर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केव- लज्ञानदर्शन इति पदं साभिप्रायम् । अन्यस्य हि प्रथमं दर्शनमुत्प- द्यते, ततो ज्ञानं, केवलिनस्त्वादौ ज्ञानं ततो दर्शनामिति । मु. रासुरेन्द्रसम्पूज्यः । सेवाविधानसावधाननिरन्तरदौकमानदासा- यमानदेवदानववन्दनीयः । तादृशैरपि पूज्यस्य मानवतिर्यक्- खेचरकिंनरनिकरसंसेव्यत्वमानुषङ्गिकमिति । तथा सद्भूता- र्थोपदेशकः । सद्भतार्थान् द्रव्यपर्यायरूपान् निसानियसा- मान्यविशेषसदसदभिलाप्याद्यनन्तधर्मात्मकान् पदार्थानुपदिश- ति । तथा हि, वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम् । तच्च निसैकान्ते न घटते । अप्रच्युतानुत्पन्नस्थिरैकरूपो हि निसः स च क्रमेणार्थक्रियां कुर्वीताक्रमेण वा, अन्योन्यव्यतिरिक्तध- " जैनदर्शनम् । र्माणामर्थानां प्रकारान्तरेणोत्पादाभावात्, तत्र न क्रमेण स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्याद समर्थस्य कालक्षेपायोगात्, कालक्षेपिणो वा सामर्थ्यामाप्तेः । समर्थो हि तत्सहकारिसमवधानेन तमर्थं करोतीति चेद्, न तस्य सामर्थ्यमपरसहकारिसापेक्षत्तित्वात् "सापेक्षमसमर्थमि"ति न्यायात् । न तेन सहकारिणोऽपेक्ष्यन्ते, ऽपि तु कार्यमेव सह- कारिष्वसत्स्वभवत्तमपेक्षत इति चेत्, तत्किं स भावोऽसमर्थः समर्थो वा । समर्थश्चेतिक सहकारिप्रेक्षणादीनि तान्यपेक्षते न पु- नर्झटिति घटयति । ननु समर्थमाप बीजमिलाजालानिलादिस- हकारिसहितमेवाकुरं करोति नान्यथा, तकि बीजस्य सह- कारिभिः किं चिदुपक्रियते न वा । यदि नोपक्रियते तदा सह- कारिसन्निधानात्मागिव किं न सोऽर्थक्रियायामुदास्ते, उपनि- यते चेत्स, तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियत इति वाच्य- म् । अभेदे स एव क्रियत इति लाभमिच्छतो मूलक्षतिराया- ता, कृतकत्वेन तस्यानियत्वापत्तेः । भेदे सति कथं तस्योप- किं न सह्यविन्ध्यादेरपि । तत्सम्बन्धात्तस्यायमिति चेत् । उपकार्योपकारकयोः कः सम्बन्धः । न तावत्सयोगो द्र- व्ययोरेव तस्य भावात् । अत्र तूपकार्य द्रव्यमुपकारश्च क्रि- येति न संयोगो, नापि समवायः, तस्यैकत्वाध्यापकत्वाच्च प्रसा- सत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धि- भिः सम्बन्धो युक्तः । नियतसम्बन्धिसम्बन्धे चाङ्गीक्रियमाणे तत्कृतोपकारोऽस्य समवायस्याभ्युपगन्तव्यः, तथा च सत्युप- कारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियत- सम्बन्धे सम्बन्धत्वं, तन्नैकान्तनियो भावः क्रमेणार्थक्रियां कुरुते। कार:
षड्दर्शनसमुच्चये नाप्यक्रमेण । न ोको भावः सकलकालभाविनीयुगपत्ता क्रियाः करोतीति मातीतिकं, कुरुतां वा तथाऽपि स द्वितीयक्ष- णे किं कुर्याद । करणे वा क्रमपक्षभावी दोषः । अकरणे स्वर्थक्रियाकारित्वाभावादवस्तुत्वप्रसङ्ग इसकान्तनिया क्रमाक्र- माभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिबलाब्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति। अक्रियाकारि- स्वञ्च निवर्तमान स्वव्याप्यसत्वं निवर्तयतीति नैकान्तनिसपक्षो युक्तिक्षमः । एकान्तानिसपक्षोऽपि न कक्षीकरणाहः । अनिसो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमर्थों देश- तस्य कालकृतस्य च क्रमस्यैवाभावात् । क्रमो हि पौर्वापर्य,न्त- स्क्षणिकस्यासम्भवि, अवस्थितस्यैव हि नानादेशकालव्याप्ति- देशक्रमः कालक्रमश्चाभिधीयते । न चैतस्मिन् विनाशिनि सा- ऽस्ति । यदाहुः- यो यत्रैव स तत्रैव यो यदैव स तदैव सः । न देशकालयोाप्तिर्भावानामिह विद्यते ॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति । सन्तानस्यावस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं, न ताई क्षणेभ्यः कश्चिद्विशेषः । अथाक्षणिकत्वं तर्हि समाप्तः क्षणभ- ङ्गवादः। नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति । स ो को बीजपूरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन्नेकेन स्वभावेन जनयेद् नानास्वभावैर्वा । यद्यकेन, तदा तेषां रसा. दिक्षणानामेकत्वं स्यादेकस्वभावानन्यत्वात् । अथ नानास्वभा- धैर्जनयति किं चिद्रूपादिकमुपादानभावेन किं चिद्रसादिकं स- हकारित्वेनेति, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता था। अनात्मभूताश्चेत्स्वभावत्वहानिः । यद्यात्मभूतास्तहिं तस्या- - . जैनदर्शनम् । नेकत्वमनेकस्वभावत्वात् । स्वभावानां वैकत्वं प्रसज्येत । तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वात् । अथ य एवेकत्रोपादा- नभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते, तर्हि नियस्यैकरूपस्य क्रमेण नानाकार्यकारिणः स्वभावभेदःका- यसांकर्य च कथमिष्यते क्षणिकवादिना । अथ नियमेकस्व- रूपत्वादक्रमम्, अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्ति- रिति चेदहो स्वपक्षपक्षपाती देवानांप्रियः। यः खलु स्वयमे- कस्मानिरंशाद्रूपादिक्षणलक्षणात्कारणाद्युगपदनेककारणसाध्या- न्यनेककार्याण्यङ्गीकुर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुगावयति तस्मात्क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इसनिसैकान्तादपि क्रमाक्रम- योनिवृत्त्यैव व्याप्याऽर्थक्रिया व्यावर्तते । तद्यावृत्तौ च सत्त्व- मपि व्यापाकानुपलम्भबलेनैव निवर्तत इसकान्तानियवादो न रमणीयः । स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थिति- लक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्याद्वाद इति वा- च्यम् । निसपक्षानिसपक्षविलक्षणस्य कथं चित्सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुभवादिति । तथा च पठन्ति । भागे सिंहो नरो भागे योऽयों भागद्वयात्मकः। तमभागं विभागेन नरसिंहं प्रचक्षत इति ॥ तथा सामान्यैकान्तं, विशेषकान्तं, भिन्नौ सामान्यविशेषौ, आत्यं निराचष्टे । तथा हि । विशेषाः सामान्याद्भिन्ना अभिन्ना वा । भिन्नाश्चेन्मण्डूकजटाभारानुकाराः । अभिन्नाश्चेत्तदेव तत्स्वरूपवदिति सामान्यैकान्तः । सामान्यैकान्तवादिनस्तु षड्दर्शनसमुच्चये . द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः सां- ख्याश्च । पर्यायनयान्वयिनो भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थस्ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमा- नत्वात् । न हि गवादिव्यत्त्यनुभवकाले वर्णस्थानात्मकं व्यक्तिरूपमवहायान्यकि चिदेकमनुयायि प्रसक्षे प्रतिभासते तादृशस्यानुभवाभावात् । तथा च पठन्ति- एतासु पञ्चस्ववभासिनीषु प्रसक्षबोधे स्फुटमगुलीषु । साधारणं रूपमवेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः॥ एकाकारपरामर्शप्रययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्ति- भ्य एवोत्पद्यत इति न तेन सामान्यसाधनं न्याय्यम् । किं च यदिदं सामान्य परिकल्प्यते, तदेकमनेकं च । एकमपि सर्वगतम सर्वगतं च । सर्वगतं चेकि न व्यक्तयन्तरालेष्वपि लभ्यते, सर्वगतैकत्वाभ्युपगमे च तस्य यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरप्यविशेषात् । असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमबाधश्च । अधानेकं गो- त्वाश्वत्वघटत्वपटत्वादिभेदभिन्नत्वात्, तर्हि विशेषा एव स्वीकृता अन्योन्यव्यावृत्तिहेतुत्वात् । न हि यगोत्वं तदश्वत्वात्मकमि- ति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणं तच्च विशेषेष्वेव स्फुटं लक्ष्यते, न हि सामान्येन का चिदर्थक्रिया क्रियते तस्य निष्क्रियत्वात् । वाहदोहादिष्वर्थक्रियासु विशेषाणामेवोप- योगात् । तदेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा । भिन्न चेदवस्तु, विशेषविश्लेषार्थक्रियाकारित्वाभावात् । अभिन्न चेद्रिशेषा एव तत्स्वरूपवदिति विशेषकान्तवादः । नैगमनया- जैनदर्शनम् । नुगामिनस्त्वाहुः । स्वतन्त्रौ सामान्यविशेषौ, तथैव प्रमाणेन प्रतीतत्वात् । तथा हि । सामान्यविशेषावसन्तं भिन्नौ, विरुद्धधर्मा- ध्यासितत्वाद, यावेवं तावेवं यथा पाथ पावको, तथा चेतौ, तस्मात्तथा । सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शवलशाबलेयादयो विशेषाः ततः कथमेषामैक्यं युक्तम् । न सामान्यात् पृथग् विशेषस्योपलम्भ इति चेत्, कथं तर्हि तस्यो पलम्भ इति वाच्यम् । सामान्य व्याप्तस्येति चेत् । न तार्ह स वि- शेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् । ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनि तत्साध्य च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति विशेषाभिधान- व्यवहारयोः प्रवृत्तिदर्शना,त्तस्माद्विशेषमभिलषता तत्र व्यव- हारं प्रवर्तयता तद्ग्राहको बोधोऽभ्युपगन्तव्यः । एवं सामा- न्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुञानेन सामान्येऽपि तद्ग्राहको बोधो विविक्तोऽङ्गीकर्तव्यः । तस्मा त्स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिभासमानत्वाद् द्वावपीतरेतर- विशेकलितौ, ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति स्वतन्त्रः सामान्यविशेषवादः । स्वतन्त्रसामान्यविशेषदेश- का नैगमनयानुरोधिनः काणादा आक्षपादाश्च । तदेतत्प- क्षत्रयमपि क्षोदं न क्षमते । प्रमाणबाधितत्वात् । सामान्य विशे- षोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणमर्थक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं कल- यन्ति परीक्षकाः । तथा हि । गौरित्युक्ते खुरककुदलाङ्गेल- सानाविषाणाद्यवयवसंपन्नं वस्तुरूपं सर्वव्यक्तयनुयायि प्रतीयते, तदा महिष्यादिव्यात्तिरपि प्रतीयते । यत्रापि च शबला गौ रित्युच्यते, तत्रापि च यथा विशेषप्रतिभासस्तथा गोत्वपति- ४६ नैयायिकदर्शनम् । भासोऽपि स्फुट एव । शबलेति केवलविशेषोच्चारणेऽप्यर्था- त्प्रकरणाद्वा गोत्वमनुवर्तते । आप च शबलत्वमपि नानारूपं, तथा दर्शनात् । ततो वक्ता शबलेत्युक्ते क्रोडीकृतशबलसामान्य विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते । तदेवमाबालगो- पालं प्रतोतपमिद्धेऽपि वस्तुनः सामान्य विशेषात्मकत्वे तदुभ- यैकान्तवादः प्रलापमात्रम् । न हि क चित्कदाचित्केन चित् किं चित्सामान्यं विशेषविनाकृतमनुभूयते, विशेषा वा तद्विना- कृताः। यदाहुः- द्रव्यं पर्यायवियुतं पर्याया द्रव्यवजिताः । क कदा केन किरूपा दृष्टा मानेन केन चेति ॥ केवलं दुर्णयबलप्रभावितप्रबलमतिव्यामोहादेकमपलप्या- न्यतरद् व्यवस्थापयन्ति कुमतयः । सोऽयमन्धगजन्यायः । ये- ऽपि च तदेकान्तपक्षोपनिपातिनः मागुक्तदोषास्तेऽप्यनेकान्तवा- दप्रचण्डमुद्गरपहारजर्जरितत्वान्नोच्छसितुमपि क्षमाः । स्वत- त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः सामान्यं प्रतिव्यक्ति कथं चिहिभिन्नं, कथं चित्तदात्मकत्वाद्विसदृशपरिणामवत् । यथैव हि काचिद्व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विस- दृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामात्मकसामा- न्यदर्शनात्समानेति, तेन समानो गौरयं, सोऽनेन समान इति प्रतोतेः । न चास्य व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपता- व्याघातः । यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति । न च तेषां गुणरूपताव्याघातः । कथं चिद्वयतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव पृथग्व्यपदेशादि- भाक्त्वात् । विशेषा अपि नैकान्तेन सामान्यात्पृथग् भवितुः मईन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेषा- जैनदर्शनम् । ४७ . मसर्वगतत्वं, ततो विरुद्धधर्माध्यासः स्याद्, न च तस्य तत्सिद्ध, प्रागुक्तयुक्तया निराकृतत्वात् । सामान्यस्य विशेषाणाञ्च परस्परं कथं चिदव्यतिरकेणैकानेकरूपतया व्यवस्थितत्वात् । विशेषे- भ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते । सामान्यात्तु विशेषाणामव्यतिरेकात् तेऽप्येक रूपा इति । एकत्वं च सामान्यस्य संग्रहनयार्पणात्सर्वत्र विज्ञेयम् । अनेकत्वं च प्रमाणार्पणा,त्तस्य सदृशपरिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्तिभेदात् । एवं चासिद्ध सामान्यविशेषयोः सर्व- था विरुद्धधर्माध्यासितत्वम् । कथं चिद्विरुद्धर्माध्यासितत्वं चेद्विवक्षितं तदाऽस्मत्पक्षप्रवेशः । कथं चिद्विरुद्धर्माध्यासस्य कथं चिनेदाविनाभूतत्वात् । पाथःपावकदृष्टान्तोऽपि साध्य- साधनविकला, तयोरपि कथं चिद्विरुद्धधर्माध्यासितत्वेन भिन्न- वेन च स्वीकाराद, पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्मा- ध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीसामिति । तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति । उक्तं च- दोहिं विणएहिं पणीयं सत्थमुलूगेण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अण्णोणणिरवेव्खं ॥ तथा निर्विशेष हि सामान्यं भवेत्वरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ तथैकान्तसत्त्वमेकान्तासत्त्वं च वार्तमेव । तथा हि । सर्व- भावानां हि सदसदात्मकत्वमेव स्वरूपम् । एकान्तसत्त्वे वस्तुनो वैस्वरूप्यं स्यात् । एकान्तासत्त्वे च निःस्वभावता भावानां स्यात् । तस्मात्स्वरूपेण सत्त्वात्, पररूपेण चासत्त्वात् सदस- दात्मकं वस्तु सिद्धम् । यदाहुः- "सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भव" इति ।।
४८ षड्दर्शनसमुच्चये ततश्चकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभाव- रूपेण वृत्तेरनेकान्नात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मि- नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानं, सर्वपदार्थपरिच्छेदमन्तरेण तन्नि- षेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवात् । आगमोऽप्येवमेव व्यवस्थितः । "जे एगं जाणइ सो सव्यं जाणइ जो सव्वं जाणइ सो एगं जाणइ" । तथा- एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टाः एको भावः सर्वथा तेन दृष्ट इति सुघर्ट सदसदनेकान्तात्मकं वस्तु । अनयैव भङ्ग्या स्यादस्तिस्यान्नास्तिस्यादवक्तव्यादिसप्तभङ्गीविस्तरस्य जगत- पदार्थमार्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति । सद्भूनार्थोपदेशक इति, कृत्स्नकर्मक्षयं कृत्वेति। कृत्स्नानि सर्वाणि घासघासादोनि यानि कर्माणि जीवभोग्यवेद्यपुद्गलास्तेषां क्षयं निर्जरणं विधाय; परमं पदं सम्प्राप्तः । अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसम्भवे भूयो भूयो भवमवत- रन्ति । यदाहुः- ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारत इति न ते परमार्थतो मोक्षगतिभाजः, कर्मक्षयाभावात् । न हि तत्त्वतः कर्मक्षये पुनर्भवावतारः। यदुक्तम्- दग्धे बीजे यथाऽसन्तं प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे न रोहति भवाङ्कुर इति ॥
जैनदर्शनम् । अहश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति । तत्त्वान्याहन जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते॥४७॥ तन्मते जैनमते, नव तत्त्वानि सम्भवन्तीति ज्ञेयम् । नामानि निगद सिद्धान्येव । जीवाजीवपुण्यतत्त्वमेवाह- तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवो, यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः॥४९॥ युग्मम् । तत्र जैनमते, चैतन्यलक्षणो जीव इति सम्बन्धः। विशेषणा- न्याह-ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां धर्माणा- मिति ज्ञानदर्शनचारित्ररूपा धर्मगुणास्तेभ्योऽयं जीवश्चतु- देशभेदोऽपि कथञ्चिद्भिन्नः कथञ्चिदभिन्न इसर्थः । एकोन्द्रि- यादिपञ्चेन्द्रियपर्यन्तेषु स्वापेक्षया ज्ञानवत्त्वमस्सेवेसभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्वमिति भिन्नत्वम् । लेशत- श्चेत्सर्वजीवेषु न ज्ञानवचं, तदा जीवोऽजीवत्वं प्राप्नुयात् । तथा च सिद्धान्त:- "सव्वजीवाणं पियणं अक्खरस्स अणन्तओ भागो नि- चुग्याडिओ। जइ सो वि आवरेज्झा ता जीवो अजीवत्तं पाविज्झा । मुद्धा वि मेहसमुदये होइ पहा चन्दसूराणम्" ॥
५० षड्दर्शनसमुच्चये तथा वित्तिमानिति । वित्तिः परिणामः साऽस्यास्तीति मत्वर्थीयो मतुप्। सुरनरनारकतिर्य क्षु एकेन्द्रियादिपञ्चेन्द्रियप- र्यन्तजातिषु विविधोत्पत्तिरूपान्यरिणामाननुभवति जीव इसर्थः। अन्यच्च शुभाशुभ कर्म कर्ता। शुभं सातवेद्यम्, अशुभपसातवेद्यम्। शुभञ्चाशुभञ्चेति इन्द्रः । एवंविधं कर्म भोक्तव्यफलकर्तृभूतं कर्त्ता, स्वात्मसाद्विधाता उपाजयितेति यावत् । न च साङ्ख्यवद- कर्ताऽऽत्मा शुभाशुभाबन्धक श्चेति । तथा कर्मफलम्भोक्ता।न च केवलः कर्त्ता, किं तु भोक्ताऽपि स्वोपार्जितपुण्यपापकर्मफलस्य वेदयिता । न चान्यकृतस्यान्यो भोक्ता । तथा चागमः- "जीवाणं भन्त ! कि अत्तकडे दुक्खे, परकडे दुक्खे, तदुभ- यकडे दुक्खे,। गोयम ! अत्तकडे दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे," इति ॥ कतैव भोक्ता । तथा चैतन्यलक्षण इति । चैतन्यं चेत- नास्वभावत्वं, तदेव लक्षणं मूलगुणो यस्येति । सूक्ष्मबा- दरभेदा एकेन्द्रिया,स्तथा विकलेन्द्रियास्त्रयः, संज्ञासंज्ञिभेदाश्च पञ्चन्द्रियाः, सर्वेऽपि पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यभिचरन्तीति । अथाजीवमाह-“यश्चै- तद्वैपरीसवानजीवः स समाख्यात" इति । यः पुनस्तस्माज्जीव- लक्षणाद्वैपरीसमन्यथात्वमस्यास्तीति तद्वैपरीसवान् विपरीतस्व- भावोऽचेतनः सोऽजीवः समाख्यातः कथितः पूर्वसरिभिरिति । भेदाश्च धर्माधर्माकाशपुङ्गलाः स्कन्धदेशप्रदेशगुणा अद्धा- केवलपरमाणुश्चेति चतुर्दश जीवभेदाः । पुण्य सत्कर्मपुद्गला इति । पुण्यं नाम तत्त्वं कीहगियाह-सत्कर्मपुद्गला इति । सच्छो- भनं सातवेद्यं कर्म, तस्य पुद्गला दलपाटकानि पुण्यमकतय इस- र्थः। ताश्च द्वाचत्वारिंशत्तद्यथा- जैनदर्शनम् । - नरतिरिमुराउउच्चं सायं परघायआयबुज्जोयं । तित्थुस्तास्मुनिमाणं पणिदिवइरुस्सभचउरंसं ॥ तसदसचउवन्नाई सुरमणुदुगपंचतणुउवंगतिरं। अगुरुलहुपढमखगई वायालीसं मुहपयडी ॥ भावार्थस्तु ग्रन्थविस्तरभयानोच्यत इति श्लोकार्थः। शेषतत्त्वमाह- पापं तद्विपरीतन्तु मिथ्यात्वाद्यास्तु हेतवः । यस्तैबन्धः स विज्ञेय आश्रवो जिनशासने ॥५०॥ तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमि- सर्थः । मिथ्यात्वाद्याश्चेति । मिथ्यादर्शनाविरतिप्रमादकषा- ययोगा हेतवः । पापस्य कारणानि तत्मकृतयश्च यशीति- स्तद्यथा- "थावरदसचउजाई अपढमसंठाणखगइसंघयणा तिरिनिरयदुगाउजाई वनचऊनामचउतीसा ।। नरयाउनीयअस्सा- यघाइपणयालसहियवासीई" इति । पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो व्यशीतिः । वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि सम्बध्यमानत्वा- न दोषः । यस्तैर्मिथ्यादर्शनादिभिर्वन्धः कर्मबन्धः स जिनशा- सन आश्रवो विज्ञेयः, आश्रवतत्त्वं ज्ञेयमियर्थः । तत्प्रकृतयश्च द्वाचत्वारिंशत् । तथा हि । पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिक्यादय, इसाश्रवः । -- .
षड्दर्शनसमुच्चये संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्मसम्बन्धो यो द्वयोरपि ॥५१॥ तु पुनस्तन्निरोध आश्रवद्वारमतिरोधः संवरतत्त्वम् । संव- रमकृतयस्तु सप्तपञ्चाशत्तद्यथा- समिइगुत्तिपरीसहजइधम्मभावणाचरित्ताणि । पणतिगदुवीसदसवार पञ्चभेएहिं सगवणा ॥ पश्च समितय,स्तिस्रो गुप्तयो, द्वाविंशतिः परीषहा, दशावधो यतिधर्मः, द्वादश भावनाः,पञ्च चारित्राणीति प्रकृतयः। बन्धो ना- म जीवस्य प्राणिनः कर्मणा वेद्यस्यान्योन्यानुगमात् परस्परक्षीर- नीरन्यायन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धनाम तत्त्वामियर्थः । स चतुर्विधः प्रकृति- स्थिसनुभागप्रदेशभेदात् । "स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः" । इसादिः स बन्धो ज्ञेयः। निर्जरामोक्षौ चाह- बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेमोक्ष उच्यते ॥५२॥ यः पुनर्बद्धस्य स्पृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति । सा पुनढिविधा, सकामाकामभेदेन । तु पुनर्देहादेरासन्तिको वियोगो मोक्ष उच्यते। स च नवविधो यथा- "संतपयवरूवणया दव्वमाणं च खित्तपसणा य । कालो य अन्तरं भागो भावो अप्पा बहुं चेव" इति ।
-
जैनदर्शनम् ।
५३
नवप्रकारो हि करणीयः । बाह्यप्राणानामासन्तिका-
पुनर्भावित्वेनाभावः शिव इसर्थः । ननु सर्वथा प्राणाभा-
वादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वान् मोक्ष-
तत्त्वाभाव इति चेन्न । मोक्षे हि द्रव्यप्राणानामेवाभावः ।
भावमाणास्तु नैष्कर्मिकावस्थायामपि सन्येव । यदुक्तम् ।
"यस्मात्क्षायिकसम्यक्त्वं वीर्यसिद्धत्वदर्शनज्ञानैः ।
आसन्तिकैः संयुक्तो निर्द्वन्द्वेनापि च सुखन ॥
ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तर्हि ।
तस्माज्जीवत्वं हि निसं सर्वस्य जीवस्य" इति ॥
सङ्गतदेहवियोगान्मोक्ष, आदिशब्दादेहेन्द्रियधर्मविरहोऽपीति
पद्यार्थः।
एवं नामोद्देशेन तच्चानि सङ्कीर्य फलपूर्वकमुपसंहारमाह-
एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः
सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥
एतानि पूर्वोक्तानि, तत्र जिनमते, तत्त्वानि यः कश्चित्
स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीयेन मनुते । एतावता
जानन्नपि अश्रद्दधानो मिथ्यागेव । यथोक्तं-श्रीगन्धिहस्तिमहा-
तर्के। "द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये"ति । तस्य दृढमानस-
स्य सम्यक्त्वयोगेन चारित्रयोग्यता चारित्रार्हता । सम्यक्त्वज्ञान-
योगेनेति । सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन ।
ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चारित्रस्य व्यव-
च्छेदार्थ सम्यक्त्वज्ञानग्रहणमिति ।
फलमाह-
तथा भव्यत्वपाकेन यस्यैतत्रितयं भवेत् ।
सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ॥५४॥
षड्दर्शनसमुच्चये तथेत्युपदर्शने । भव्यत्वपाकेन परिपक्कभव्यत्वेन तद्भव एवा- वश्यं मोक्षे गन्तव्यमिति । भव्यत्वस्य परिपाकेन यस्य पुंस एतत्- त्रितयं दर्शनज्ञानचारित्ररूपं भवेत् । यत्तदोनिसाभिसम्बन्धात् सोऽनुक्तोऽपि सम्बध्यत इति । स पुमान्मोक्षभाजनं जायते निर्वा- णश्रियं भुङक्त इसर्थः। कस्मात् सम्यग्ज्ञानक्रियायोगात् । सम्यगिति । सम्यक्त्वं दर्शनं, ज्ञानमागमावबोधः,क्रिया च चरण- करणात्मिकास्तासां योगः सम्बन्धस्तस्माद् । न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षहेतुकम् । यदाहुभद्रवाहुस्वामिपादाः- सुवहुं पि सुयमहीयं किं काही चरणविप्पमुक्कस्स । अन्धस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥ तथा नाणं चरित्तहीणं लिंगग्गहणं च दसणविहीणं । संजमहीणं च तवं जो चरइ निरत्थयं तस्स ॥ दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि । यदुवाच, वाचकमुख्यः-"दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति । ADMAA प्रमाणे आह- प्रत्यक्षं च परोक्षं च हे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ ५५ ॥ तथेति प्रस्तुतमतानुसन्धाने । वे प्रमाणे मते अभिमते, के ते इसाह-प्रसक्षं च परोक्षं चेति । अश्नुते अक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानियक्षो जीवोऽश्नुते विषयमित्यक्षमिन्द्रिय च अक्षमक्षं प्रतिगतं प्रसक्षमिन्द्रियाण्याश्रितव्यवहारसाधकं यज्- ज्ञानमुत्पद्यते तत् प्रसक्षमिसर्थः । अवधिमनःपर्यायकेवलज्ञानानि, तद्भदाश्च प्रसक्षमेव अत एव मांव्यवहारिकपारमार्थिकैन्द्रियिकाती- न्द्रियिकादयो भेदा अनुमानादधिकज्ञानविशेषप्रकाशकत्वादत्रैवा- न्तर्भवन्ति । परोक्षं चेति । अक्षाणां परं परोक्षम् । अक्षेभ्यः परतो जैनदर्शनम् । वर्तत इति वा । परेणेन्द्रियादिना वोक्ष्यते परोक्षं स्मरणप्रसभि- ज्ञानतर्कानुमानागमभेदम् । अमुयैव भङ्गया मतिश्रुतज्ञाने अपि परोक्षमेवेति, द्वे प्रमाणे । प्रमाणमुक्त्वा तद्गोचरमाह-तु पुनः, इह जिनमते,प्रमाणविषयःप्रमाणयोः प्रयक्षपरोक्षयोविषयोगोच- रो ज्ञेय इसध्याहारः । किं तदियाशङ्कायामनन्तधर्मकं वस्त्विति । वस्तुतत्त्वं पदार्थस्वरूपं किविशिष्टम् अनन्तधर्मकम् अनन्तास्त्रिका- लविषयत्वादपरिमिताये धर्माः सहभाविनः क्रमभाविनश्च पर्याया योति । अनेन साधनमपि दर्शितम् । तथा हि । सत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति हेतुः। अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोरन्ताप्यैव साध्यस्य सिद्धत्वा- द् दृष्टान्तादिभिर्न प्रयोजनं, यदनन्तधर्मकं न भवति तत् सदापि न भवति यथा वियदिन्दीवरमिति केवलव्यतिरेकी हेतुः । साधर्म्य- दृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगाद् । अनन्तधर्मात्मकत्वं चात्मनि तावत्साकारानाकारोपयोगिता कर्तृत्वं भोत्कृत्वं प्रदे- शाष्टकनिश्चलता अमूर्तत्वमसङ्ख्यातप्रदेशात्मकता जीवत्वमिसा- दयः सहभाविनो धर्मा, हर्षविषादशोकसुखदुःखदेवनारकति- र्यनरत्वादयस्तु क्रमभाविनः । धर्मास्तिकायादिष्वप्यसङ्ख्य- यप्रदेशात्मकत्वं गसाधुपग्रहकारित्वं मसादिज्ञानविषयत्वं तत्त- दवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्व- मिसादयः। घटे पुनरामत्वं पाकजरूपादिमत्त्वं पृथुबुध्नोदरक- म्बुग्रीवत्वं जलादिधारणहरणसामर्थ्य मसादिज्ञानविषयत्वं नव- त्वं पुराणत्वमिसादयः । एवं सर्वपदार्थेषु नानानयमताभि- ज्ञेन शाब्दानार्थाश्च पर्यायान् प्रतीस वाच्यशब्देष्वप्युदा- त्तानुदात्तस्वरितविकृतसंवृतघोषनादाघोषाल्पप्राणमहापाणताSS- दयः, तत्तदर्थप्रसायनशक्तयादयश्चावसेयाः । अस्य हेतोरने- . षड्दर्शनसमुच्चये कान्तप्रचण्डमुद्गराघातदलितशक्तित्वेनासिद्धविरुद्धानकान्तिक- त्वादीनां कण्टकानामनवकाश एवे सेवविधपर्यायासन्तसुभग वस्तु जिनशासने प्रमाणविषय इसर्थः। लक्ष्यनिर्देशं कृत्वा लक्षणमाह- अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्ष,मितरज् ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ५६ ॥ तत्र प्रसक्षमिात लक्ष्यनिर्देशः। अपरोक्षतयाऽर्थस्य ग्राहक ज्ञानमीदृशामिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतः, ततो- ऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावत् । अर्थात इयर्थो गम्यत इति हृदयम्, अर्थ्यत इति वाऽर्थो दाहपाकाद्य- र्थक्रियाऽथिभिरभिलष्यत, इति तस्य । ग्राहकं, व्यवसायात्म- कतया परिच्छेदकं यज ज्ञानं तदीदृशामिति ईदृगेव प्रसक्षमिति संटङ्कः । अपरोक्षतयेसनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य प- रिहरति । तस्यासाक्षात्कारितयाऽर्थग्रहणरूपत्वादिति । ई- शमिति । अमुना तु पूर्वोक्तन्यायात्सावधारणत्वेन विशेषण- कदम्बसचिवलक्षणज्ञानोपदर्शनात्परपरिकल्पितस्य युक्तेरय प्रस- क्षतां प्रतिक्षिपति । एवं च यदाहुरिन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञान- मव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रसक्षम्," तथा "सत्सं- प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्पसक्षमि"सादि, तदयु- तमित्युक्तं भवति । अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वा- दसन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादि- दमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसन्निधानात्सा- क्षादर्थग्रहणपरिणामरूपतया निवर्त्तते, तथा चोत्पन्नजन्मरूपादि- विशेषणं न सम्भवेदथैवंविधार्थ सूचकमेवैतादियाचक्षीथास्तथा ससविगानमेवेसास्तां तावद अधुना परोक्षलक्षणं दर्शयति । .
जैनदर्शनम् । ५ । इतरदियादि । अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानं प्रसक्षमुक्तम् । तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् । तदपि स्वसंवेदनापेक्षतया प्रसक्षमेव, बहिरर्थापेक्षया तु परोक्ष- व्यपदेशमश्नुत इति दर्शयन्नाह। ग्रहणेक्षयति । इह ग्रहणं प्रक्रमाद्धहिः प्रवर्त्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात्तस्येक्षाऽपेक्षा तया बहिः प्रीत्तपर्यालोचनयेति यावत् । तदयमों यद्यपि स्वयं प्रयक्ष तथापि लिङ्गशब्दादिद्वारेण बहिविषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यत इत्यर्थः । पूर्वोक्तमेव वस्तुतत्त्वमनन्तधर्मात्मकतया दृढयन्नाह- येनोत्पादव्ययधौव्ययुक्तं यत्सत्तदिष्यते । अनन्तधर्मक वस्तु तेनोक्तं मानगोचरः ॥ ५७॥ येन कारणेन यदुत्पादव्ययध्रौव्ययुक्तं तत्सत्सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः, प्रसक्षपरोक्षप्रमाण- विषय, उक्तं कथितमिति सम्बन्धः । उत्पादश्च व्ययश्च ध्रौव्य- च, उत्पादव्ययधौव्याणि तेषां युक्तं मेलस्तदेव सत्वमिति पति- ज्ञा,इष्यते केवलज्ञानिभिरभिलष्यत इति । वस्तुतत्त्वं चोत्पादव्यय- धौव्यात्मकम् । तथा हि । उर्वीपर्वततर्वादिकं सर्व वस्तु द्रव्यात्मना नोत्पद्यते, विपद्यते, वा परिस्फुटमन्वयादर्शनात् । ठूनपुनजातन- खादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात्। न च प्रस्तुतोऽन्वयःप्रमाण- विरुद्धः, सत्यप्रसभिज्ञानसिद्धत्वात्- सर्वव्याक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। ससोश्चियपचिसोराकृतिजातिव्यवस्थानादिति- वचनात्ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्या- यात्मना तु सर्व वस्तूत्पद्यते विपद्यते, चास्खलितपर्यायानुभव- ५८ षड्दर्शनसमुच्चये सद्भावात् । न चैत्र शुक्लशङ्ख पीतादिपर्यायानुभवेन व्यभि- चारः, तस्य म्खलद्रूपत्वात् । न खलु सोऽस्खलद्रूपो येन पूर्वा- कारविनाशोऽजहद्वत्तोत्तराकारोत्पादाविनाभावी भवेत् । न च जीवादी वस्तुनि हर्षामाँदासीन्यादिपर्यायपरंपराऽनुभवः स्खल- दूपः, कस्य चिद्धाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्य- न्ते न वा, यदि भिद्यन्ने कथमेकं वस्तु ध्यात्मकं, न भिद्यन्ते चेत्तथाऽपि कथमेकं वस्तु ध्यात्मकं, तथा च यद्युत्पादादयो भिन्नाः कथमेकं ध्यात्मकम्, अथोत्पत्त्यादयोऽभिन्नाः कथमेकं ड्यात्मकमिति चेत् । तदयुक्तं, कथश्चिद्भिन्नलक्षणत्वेन तेषां कथं चिद्भेदाभ्युपगमात् । तथा हि उत्पादविनाशधौव्याणि, स्याद्भिन्ना- नि, भिन्नलक्षणत्वा,दूपादिवत् । न च भिनलक्षणत्वमसिद्धम् । असत आत्मलाभः,सतः सत्वाविप्रयोगो,द्रव्यरूपतयाऽनुवर्तनं,च खलुत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानिसकललोकसाक्षि- काण्येव। न चामी भिन्नलक्षणा अपि,परस्परानपेक्षाः,खपुष्पवदस- वापत्तेः । तथा ह्युत्पादः, केवलो नास्ति,स्थितिविगमरहितत्वात्, कूर्मरोमवत् । तथा विनाशः, केवलो नास्ति, स्थित्युत्पत्तिरहित- वा,त्तद्वदेव । स्थितिः, केवला नास्ति, विनाशोत्पादशून्यत्वात, तद्वदेवे,सन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सच्चे प्रतिपत्तव्य- म् । तथा चोक्तं- "घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे तस्माद्वस्तुत्रयात्मकम्" ॥ इति । व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति तद्वस्त्वेव न, यथा खरविषाणं, यथेदं तथेदमिति । अत एवान- जैनदर्शनम् । ५ -- न्तधर्मक वस्तु मानगोचरः मोक्तम् । अनन्ता धर्माः पर्यायाः सामान्यविशेषलक्षणा यत्रेसनन्तधर्मकं वस्त्विति । उत्पादव्य- यधौव्यात्मकस्यैवानेकधर्मकत्वं युक्तियुक्ततामनुभवतीति झाप- नायैव भूयोऽनन्तधमकपदप्रयोगो, न पुनः पाश्चासपद्योतान- न्तधर्मकपदेन पौनरुक्तयमाशङ्कनीयमिति पद्यार्थः। अन्थस्य बालावबोधार्थफलकत्वादथोपसंहरन्नाह- जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥ ५८ ।। इति पूर्वोक्तप्रकारेण, एष प्रसक्षलक्ष्यो, जैनदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वात् । उपयोगसारः संक्षेपो निवेदितः किंभूतोऽनघो निर्दूषणः सर्ववक्तव्यस्य सर्व- ज्ञमूलत्वेन दोषकालुष्यानवकाशात् । तु समुच्चयार्थे । तत्र पुनः पूर्वापरविधातः कापि न विद्यते, पूर्वस्मिन्नादा,वपरस्मिन्, पान्ते च विघातो विर यत्र दर्शने कापि पर्यन्तग्रन्थे- ऽपि परस्परविसंवादो नास्ति, आस्तां तावत्केवलभाषितेषु द्वादशाङ्गेषु पारंपर्यग्रन्थेष्वपि सुसम्बद्धार्थत्वाद् विरुद्धार्थदौर्ग- न्ध्याभावः। अयं भावो, यत् परतथिकानां मूलशास्त्रेष्वपि न युक्तियुक्ततां पश्यामः, किं पुनः पाश्चासविप्रलम्भग्रथितग्रन्थक- थासु, यच्च कापि कापि कारुण्यादिपुण्यकर्मपुण्यानि च वचांसि कानि चिदाकर्णयामस्तान्यपि त्वदुक्तसूक्तसुधापयोधिमन्थोद्ग- तान्येव रत्नानीव सगृह्य स्वात्मानं रत्नपतय इव बहु मन्वाना मुधा प्रगल्भन्ते यदाहुः-श्रीसिद्धसेनदिवाकरपादाः- "मुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसम्पदः । . रुद्धार्थता ६० षड्दर्शनसमुच्चय तथैव ताः पूर्णमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविभुष" इति परमार्थः। अथ वैशेषिकमतस्य देवताऽऽदिसाम्येन नैयायिकेभ्यो ये विशेषं न मन्यन्ते तान् बोधयन्नाह- देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ॥५९॥ शिवदेवतासाम्येऽपि,तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिका- स्तेषां वैशेषिकाणां काणादादीनां नैयायिकैराक्षपादैः समं साई देवताविषये शिवदेवताऽभ्युपगमे भेदो विशेषो नास्ति,तत्त्वेषु शा- सनरहस्येषु भेदो विद्यते । तुशब्दोऽध्याहार्यः । असौ विशेषो नैयायिकेभ्यः पृथग्भावो, निर्दिश्यते प्रकाश्यत इयर्थः । तान्येव तत्त्वान्याह- द्रव्यं गुणस्तथा कर्म सामान्य च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥ ६ ॥ तन्मते वैशेषिकमते, हि निश्चयेन, तत्त्वषट्कं ज्ञेयमिति स- म्बन्धः । कथमिसाह-द्रव्यं गुण इसादि । आदिमतत्त्वं द्रव्य नाम, भेदबाहुल्येऽपि सामान्यादेकम् । द्वितीयतत्त्वं गुणनाम,तथेति भेदान्तरसूचने। तृतीयं तचं कर्मसज्ञम् । चतुर्थकं च तत्त्वं सामा- न्यम् । चतुर्थमेव चतुर्थकं स्वार्थे कः प्रत्ययः । चः समु- चये । अन्यच्च विशेषसमवायौ । विशेषश्च समवायश्चेति इन्द्रः । इति तदर्शने तत्त्वानि षड् ज्ञेयानि । भेदानाह- तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च; गुणाः पुनश्चतुर्विंशतिधा६१ - MARA --40- द्रवत्ववेगौ मान- The वैशेषिकदर्शनम् । ६१ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥ ६२ ॥ बुद्धिः सुखदुःखेच्छा धर्माधर्मों प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरुत्वे गुणा एते ॥ ६३॥ नवद्रव्याणि चतुर्विंशतिगुणाश्च, निगदसिद्धान्येव । सं- स्कारस्य वेगभावनास्थितिस्थापकभेदात्रिविधत्त्वेऽपि संस्कारत्व- जायपेक्षयैकत्वम् । शौय्यौदार्यादीनां च गुणानामेष्वेव च- तुर्विशतिगुणेष्वन्तर्भावान्नाधिक्यम् कर्मसामान्यभेदानाह- उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कमैत,त्परापरे द्वे तु सामान्ये ॥६४ ॥ पञ्चापि कर्मभेदाः स्पष्टा एव, गमनग्रहणाद् भ्रमणरेचनस्य- न्दनायवरोधः। तु पुनः, सामान्ये द्वे द्विसङ्ख्ये । के ते इसाह- परापरे। परञ्चापरं च परापरे, परसामान्यमपरसामान्यं चेयर्थः। एतव्यक्ति विशेषव्यक्तिं चाह- तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपर,मथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिशेत् ॥६५॥ तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति वोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्य द्रव्यत्वादि, एतच सामान्यविशेष इसपि व्यपदिश्यते। हि । द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात्सामान्यं, गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादि- तथा IMer.
६२ षड्दर्शनसमुच्चये . . . कम् । एवं चतुर्विशतौ गुणेषु वृत्तेर्गुणत्वं सामान्य, द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः। एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादिकम् । एवं पञ्चसु कर्मसु वर्तमानत्वात्कर्मत्वंसामान्यं, द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः। एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् । तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्तयेति चेत् । उच्यते । न द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः, एकद्रव्यत्वाद्, एकै- कस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववद्, यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति, किं तु सामान्य विशेषलक्षणं द्रव्यत्वमेव, एवं सत्ताऽपि । वैशेषिकाणां हि, अद्रव्यं वा द्रव्यं, अनेकद्रव्यं वा द्रव्यं, तत्राद्रव्यं द्रव्यमाकाश कालो दिगात्मानः परमाणवः, अनेकद्रव्यं तु द्वयणुकादिस्कन्धा, एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती सत्ता इति द्रव्यल- क्षणविलक्षणत्त्वान्न द्रव्यम् । एवं न गुणः सत्ता, गुणेष्वभावाद्, गुणत्ववत् । यदि हि सत्ता, गुणः स्याद् न तर्हि गुणेषु वर्तेत, निर्गुणत्वाद् गुणानां, वर्त्तते च गुणेषु सत्ता, “सन् गुण" इति प्रतीतेः। तथा न सत्ता कर्म, कर्मसु भावात, कर्मत्ववत् । यदि च सत्ता कर्म स्यान्न तर्हि कर्मसु वर्तेत, निष्कर्मत्वात्कर्मणां, वर्तते च कर्मसु भावः, “सत्कर्मे"ति प्रतीतेः । तस्मात्पदार्थान्तरं सत्ता। अथ विशेषपदार्थमाहार्याऽन-विशेषस्त्विति । निश्चयतो निस- द्रव्यत्तिरन्यो विनिर्दिशेत् । विनिर्दिशेत् कथ येद्, आचार्य इति ज्ञेयम् । कथमिसाह-अन्यो विशेषो निसद्रव्यवृत्तिरिति। तथा हि । निसद्व्यवृत्तयोऽन्त्या विशेषा असन्तव्यावृत्ति- हेतवस्ते द्रव्यादिवलक्षण्या पदार्थान्तरम् । तथा च प्रशस्त- कारः, अन्तेषु भवा अन्याः, स्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषु निसद्रव्येष्वण्वाकाशकालदिगात्ममनासु . , .
वैशेषिकदर्शनम् । ६३ प्रतिद्रव्यमेकशो वर्तमाना असन्तव्यावृत्तिबुद्धिहेतवः । तथा ऽस्मदादीनां गवादिष्पवादिभ्यस्तुल्याकृतिक्रियाऽवयवोपच- यापचयविशेषसंयोगनिमित्तासम्भवाद्, येभ्यो निमित्तेभ्यः प्रया- धारं विलक्षणोऽयं विलक्षणोऽमिति प्रत्ययव्यावृत्ति,देशकालवि- प्रकर्षदृष्टे च परमाणौ स एवायमिति च प्रयभिज्ञानं च भवति तेऽन्सा विशेषा इति । अमी च विशेषा एव, न तु द्रव्यत्वा- दिवत्सामान्यविशषोभयरूपा व्यावृत्तरेव हेतुत्वादिसर्थः। सयवायपदार्थव्यक्तिलक्षणमाह- य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः॥ ६६ ॥ इह प्रस्तुतमते, अयुतसिद्धानामाधाराधेयभूतानामिह प्रस- यहेतुर्यः सम्बन्धः स समवायः । यथेह तन्तुषु पट इत्यादि- प्रययस्यासाधारणं कारणं समवायः। यद्वशात् स्वकारणसाम- •दुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते, यथा छिदिः क्रिया छेद्येनेति । अयुतसिद्धानामिति । परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति । परस्परवैधयं तु विविक्तैरभ्यूह्य, षण्णामपि स्वरूपकथनमात्राधिकृत- त्वाद् ग्रन्थस्य, नेह प्रतन्यत इति । प्रमाणव्यक्तिमाह- प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥६७ ॥ यद्यप्यौलूक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणा नि, तथाऽपि श्रीधरमतापेक्षयाऽत्रोभे एव निगदिते। अमीषां वैशे पिकाणां, प्रमाणं द्विधा द्विप्रकारम् । चः पुनरर्थे । कथमित्याह पदार्थानां षड्दर्शनसमुच्चये प्रत्यक्षमकें प्रमाणं, तथेति द्वितीयभेदपरामर्शे, लैङ्गिकमनुमानम् । उपसंहरन्नाह-एवमिति । एवमिति प्रकारसूचनं, यद्यपि प्रमातृ- फलाद्यपेक्षया बहु वक्तव्यं, तथाऽप्येवममुना प्रकारेण वैशेषि- कमतस्य संक्षेपः कथितः परिकीर्तित इति । षष्ठं दर्शनमाह- जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः। देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥६८॥ जैमिनिमुनेरमी इति जैमिनीयाः। पुत्रपौत्राद्यर्थे तद्धित ईयप्र- त्ययः। जैमिनिशिष्याश्चैके उतरमीमांसावादिनः, एके पूर्वमीमां- सावादिनः। तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवल- ब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तो निर्वाच्यतत्त्वे व्यवतिष्ठन्ते । यदाहुः- "अन्तर्भावितसत्त्वं चेत्कारण सदसत्ततः । नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः॥ यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्व चित् । आस्ते न वीरधीरस्य भङ्गः सङ्गरकेलिषु ॥ एवं वादिप्रतिवादिनोः समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः। का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ॥ उपपादयितुं तैस्तैर्मतैरशकुनीययोः । अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः॥ इसादिप्रलयकालानिलक्षुभितचरमसलिलराशिकल्लोलमाला- . .
मीमांसकदर्शनम् । ६ ५ ऽनुकारिणः परब्रह्माद्वैतसाधकहेतूपन्यासाः पोच्छलन्तश्चतुरच- मत्कारं जनयन्तः क पर्यवस्यन्ति तास्तु युक्तयः सूत्रकृतानुल्लिङ्गि- तत्वाद् ग्रन्थविस्तरभयाच्च नेह प्रपञ्च्यन्ते,ऽभियुक्तैस्तु खण्डनम- हातांदवसेयाः। पूर्वमीमांसावादिनश्च द्विधा प्राभाकरा भाट्टाश्च क्रमेण पञ्चषट्प्रमाणप्ररूपकाः । अत्र तु सामान्येन सूत्रकृत पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान् । ते पुनर्जेमिनीयाः, माहुः कथयन्ति, कथमिसाह-सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं प्रमाणं भवेत् । सर्वज्ञादिविशेषण इति । सर्वज्ञादिना गुणेन विशेष्य इति । आदिशब्दाद्विभुत्वनि- सत्वचिदात्मकत्वादिविशिष्टः कोऽपि देवो नास्ति यद्वचनं प्रमा- णतामनुभवेद, मानुषतनुत्वाविशेषेण विप्रलम्भकत्वाद् दुष्टपुरुष- वत् । सर्वज्ञादिगुणविशिष्टपुरुषाद्यभाव इयर्थः । अथ किङ्कराय- माणमुरासुरसेव्यमानताऽऽग्रुपलक्षणेन त्रैलोक्यसाम्राज्यसूचक- च्छत्रचामरादिविभूसन्यथानुपपत्तेश्चास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेन्न। त्वद्यथोक्तवचनप्रपञ्चोपन्यासैरेव निरस्तत्वाद। यथा- "देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान्" । अथ यथाऽनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिन- क्रियया शोध्यमानस्य निर्मलत्व,मेवमात्मनोऽपि निरन्तरज्ञानाद्य- भ्यासेन विगतमलत्वात् किं न सम्भवेदिति मतिस्तदपि न ह्यभ्या- समात्रसाम्ये शुद्धरापि तदेव तादवस्थ्यम् । यदुक्तम्- "गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससम्भवे । समानेऽपि समानत्वं लङ्घनस्य न विद्यते" ।। न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखाम- धिरोढुं क्षमः । उक्तञ्च- ९ ६ . षड्दर्शनसमुच्चये "दशहस्तान्तरं व्योम्नो यो नामोत्प्लुस गच्छति । न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि" ॥ अथ मा भवतु मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादी- नामस्तु ते हि देवाः, सम्भवन्सपि तेष्वतिशायिसम्पत् । यदाह कुमारिलः। अथापि वेदहेतुत्वाद् ब्रह्मविष्णुमहेश्वराः। कामं भवन्तु सर्वज्ञाः सार्वयं मानुषस्य किम्" ॥ एतदपि न, रागद्वेषमूलनिग्रहानुग्रहग्रस्तानामसम्भाव्यमि- दमेषामिति । न च प्रयक्षं तत्साधकं, “संबद्धं वर्तमानं च गृह्यते चक्षुरादिने"ति वचनात् । न चानुमानं, प्रसक्षदृष्ट एवार्थे तत्प- तेः। न चागमः, सर्वज्ञस्यासिद्धत्वेन तस्य विवादास्पदत्वात् । न चोपमानं, तदभावादेव । अर्थापत्तिरपि न, सर्वज्ञसाधकस्यान्य- थाऽनुपपन्नलिङ्गस्यादर्शनात् । यदि परमभावममाणगोचरः सर्वज्ञ इति स्थितम् । प्रयोगश्चात्र-नास्ति सर्वज्ञः, प्रत्यक्षादिगोचराति- क्रान्तत्वाद, शशशृङ्गवदिति । अथ कथं यथाऽवस्थिततत्त्वनिर्णय इसाह- तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः ॥६॥ तस्मात्मामाणिकपुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरप- दार्थानां साक्षाद् द्रष्टुर्जातुः सर्वज्ञादेः पुरुषस्याभावाद् नियेभ्यः शाश्वतेभ्पो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथाऽर्थत्वविनिर्णयो यथाऽवस्थितपदार्थधर्मादिस्वरूपविवेचनं "भवती"सध्याहारः। अपौरुषेयत्वं च वेदानाम्- "अपाणिपादो ह्यमनो गृहीता पश्यत्यचक्षुः स शृणेसकर्णः। । . N -- . - .
मीमांसकदर्शनम् । .. स वेत्ति विश्वं न च तस्य वेत्ता तमाहुरग्यं पुरुषं महान्तम्" ॥ इसादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीय- मिति । अथ यथाऽवस्थितार्थव्यवस्थापकं तत्त्वोपदेशमाह- अत एव पुरा कार्यों वेदपाठः प्रयत्नतः। ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ॥७॥ यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्व प्रयत्नतो यत्नाद्वेदपाठः कार्यः 'ऋग्यजुःसामाथर्वाणो वेदास्तेषां पाठः कण्ठपीठलुठत्पाठप्रतिष्ठा, नानुश्रवणमात्रेण सम्यगवबोधस्थिरता, ततोऽनन्तरं साधनीयपुण्योपचयहेतुधर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्तव्या विधेया । वेदोक्ताभिधेयविधाने यतितव्यमिसर्थः। वेदोक्तधर्मोपदेशमेवाह- नोदनालक्षणो धर्मों, नोदना तु क्रियां प्रति । प्रवत्तकं वचः, प्राहुः स्वःकामोऽग्नि यजेद्यथा॥७१॥ नोदनैव लक्षणं यस्य स नोदनालक्षणो धर्मः। तत्स्वरूप- मेव सूत्रकृदाह । तु पुन,नोंदनां क्रियां प्रति प्रवर्तकं वचः प्राहुः। वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहु- रिसर्थः। शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह-स्वःकामोऽग्निं यद्यथा । यथा येन प्रकारेण स्वःकामः स्वर्गाभिलाषी जनो- ऽग्निं यजेद् अग्निकार्यं कुर्यात् । यथाऽहुस्तत्सूत्रम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति । .
६८ षड्दर्शनसमुच्चये . प्रमाणान्याह- प्रत्यक्षमनुमानं च शब्दचोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः॥७२॥ जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति सम्ब- न्धः । यद्यपि भाभाकराणां मते पञ्च प्रमाणानि, भाट्टानामेव षट्, तथाऽप्यत्र ग्रन्थकृत्सामान्यतः षट्सङ्ख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव, निरुक्तमाह- तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः । आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३॥ तत्र प्रमाणषट्के, अक्षाणान्द्रियाणां, संप्रयोगे पदार्थैः सह संयोगे, सतामुपहितेन्द्रियाणां मतिर्बुद्धिरिदमिसवबोधः, तत्पसक्षं प्रमाणं "भवती"सध्याहारः। यत्तदावनुक्ताप्यर्थसम्बन्धौ ज्ञेयौ । सतामिति-विदुषामदुष्टेन्द्रियाणामियर्थः। एतावता मरुमरीचिका- यां जलभ्रमः, शुक्तौ रजतभ्रमश्चेन्द्रियार्थसंप्रयोगजोऽपि द्रष्टुरवि- कलेन्द्रियत्वाभावान्न प्रयक्षं तत्प्रमाणकोटिमधिशेते । अनुमानमाह- आत्मनो बुद्धिजन्मसनुमानं लैङ्गिकंः पुनः। आत्मा यदनुमिमीते स्वयं, तदनुमानमित्यर्थः । अनुमानलैङ्गिकयोः शब्दाभेदेऽप्यनुमी- यत इसनुमान, लिङ्गाज्जातं लैङ्गिकमिति व्युत्पत्तिभेदान्दो ज्ञेय उभयशब्दकथनं तु बालावबोधार्थमेवेति । शाब्दं शाश्वतवेदोत्थ,मुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य भाजनम् ॥७४॥ शाब्दमागमप्रमाणं शाश्वतवेदोत्थं, शाश्वतान्निसावेदाज्जा- तम् । आगमप्रमाणमित्यर्थः । शाश्वतत्वं च वेदानामपौरुषेयत्वादेव । + मीमांसकदर्शनम् । ६९ उपमानमाह-यत्तसिद्धार्थस्य प्रतीतपदार्थस्य साधादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाणं प्रकीर्तितं कथितम् । यथा प्रसि द्धगोगवयस्वरूपो वनेचरोऽप्रसिद्धगवयस्वरूपं नागरिकं प्राह, "यथा गौस्तथा गवय"इति, भोः खुरककुदलाफ़लसानाऽऽदि- मन्तं पदार्थ गामिति जानासि, गवयोऽपि तथास्वरूपो ज्ञेय इत्युप मानम् । अत्र सूत्रानुक्तावपि यत्तदावर्थसम्बन्धार्थमध्याहार्यो । अर्थापत्तिमाह- दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना क्रियते यद्दलेनासावपत्तिरुदाहृता ॥ ७५ ॥ असौ पुनरर्थापत्तिरुदाहृता कथिता, अर्थापत्तिप्रमाणं प्रो- क्तमित्यर्थः । यदबलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते सङ्घटना विधीयते,कया दृष्टार्थानुपपच्या दृष्टः परिचितः प्रत्यक्ष- लक्ष्यो योऽर्थो देवदत्ते पीनत्त्वादिः तस्यानुपपत्त्या अघटमानतया अन्यथानुपपत्तेः। यथा पीनो देवदत्तो दिवा न भुङ्क्ते, पीन- वस्यान्यथानुपपत्त्या रात्राववश्यं भुङ्क्त इत्यर्थ इत्यत्र, दृष्ट विना भोजनं पीनत्वं दुर्घट, दिवा च न भुङ्क्ते,ऽतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापत्तिः प्रमाणम् । अथाभावप्रमाणमाह- प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताऽवबोधार्थ तत्राभावप्रमाणता ॥७॥ यत्र वस्तुरूपे, अभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न जायते, तत्राभावप्रमाणता ज्ञेयेति सम्बन्धः । किमर्थमित्याह- वस्तुसत्ताऽवबोधार्थम् । वस्तुनोऽभावरूपस्य मुण्डभूतलादेः सत्ता . -- .
षड्दर्शनसमुच्चये घटाघभावसद्भावः तस्यावबोधः प्रामाणिकपथावतारणं तदर्थं तद्धेतोरिसर्थः । ननु कथमभावस्य मामाण्यं, प्रसक्षं तावद्भतलमेवेदं घटादि न भवतीयन्वयव्यतिरेकद्वारेण वस्तुपरिच्छेदः, तदधिकं विषयमभावैकरूपं निराचष्ट, इति किं विषयमाश्रियाभावप्रामा- ण्यं स्यात् । मुण्डभृतले घटाभावमाश्रियेति चेत् । मैवम् । घटा- भावप्रतिबद्धभूतलग्रहणासिद्धेः । तदुक्तम्- "न तावदिन्द्रियेणैषां नास्तोत्युत्पद्यते मतिः। भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया" इति ॥ नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य, केवल भा- वांश इन्द्रियसन्निकर्षजत्वेन पञ्चप्रमाणागोचरसञ्चरिष्णुतामनु- भवन्नाबालगोपालाङ्गनाप्रसिद्ध व्यवहारं प्रवर्त्तयति । अभा- वांशस्तु प्रमाणपञ्चकविषयवहिर्भूतत्वात्केवलभूतलग्नहणाधुपयो- गित्वादभावप्रमाणव्यपदेशमश्नुत इति सिद्धमभावस्यापि यु- क्तियुक्ततया प्रामाण्यमिति । उपसंहरन्नाह- जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥७॥ अपिशब्दान्न केवलमपरदर्शनानां, जैमिनीयमतस्याप्ययं संक्षेपो निवेदितः कथितः। वक्तव्यस्य बाहुल्याट्टीकामात्रे सा- मस्यकथनायोगात् संक्षेप एव प्रोक्तोऽस्ति। अथ सूत्रकृत्सम्मत- संक्षेपमुक्त्वा निगमनमाह । एवमिति । एवमित्थम्, आस्तिकवा- दिनामिह परलोकगतिपुण्यपापास्तिक्यवादिना बौदनैयायिक- ... लौकायतिकदर्शनम् । साङ्खयजैनवैशेषिकजैमिनीयानां संक्षेपकीर्तनं कृतं, संक्षेपेण वक्तव्यमभिहितमिसर्थः। विशेषान्तरमाह- नैयायिकमतादन्ये भेदं वैशेषिकैः सह ॥ न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७॥ अन्य आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षयाऽऽस्तिकवादिनः पञ्चैव । दर्शनानां षट्सङ्ख्या जगति प्रसिद्धा कथं फलतीसाह- षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥७९॥ ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शन- पञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्यते। तु पुनरर्थे, किलेति परमाप्ताम्नाये,तेन कारणेन तन्मतं चार्वाकमत कथ्यते तत्स्वरूपमुच्यत इति । तदेवाह- लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः । धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥८॥ लोकायता नास्तिका, एवममुना प्रकारेण वदन्ति कथमि- साह-सर्वज्ञादिर्नास्ति, नितिमोक्षो नास्ति, अन्यच्च, न विद्यते, कौ धर्माधर्मों, धर्मश्चाधर्मश्चेति द्वन्द्रः । पुण्यपापे न स्त इसर्थः । पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्सं तत्फलमियादि । तच्छास्त्रो- ७२ षड्दर्शनसमुच्चये तमेव सोल्लुण्ठं दर्शयन्नाह-तथा च तन्मतम् । तथा चेत्यु- पदर्शने । तन्मतं, प्रस्तावान्नास्तिकमतम् । कथमियाह- एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! बृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥८॥ अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् याव- मात्रमिन्द्रियगोचरः। इन्द्रियं स्पर्शनरसनघाणचक्षुःश्रोत्रभेदात्प- ञ्चविधं तस्य गोचरो विषयः। पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किं चन। अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य सङ्ग्रहः । तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः,तदप्रमाणं प्रत्यक्षाभावा देव । अप्रत्यक्षमप्यस्तीति चेच्छशशृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । तथा हि । स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्ण- स्निग्धरूक्षादिभावा उपलम्यन्ते । रसनेन्द्रियेण कटुकषायाम्ल- मधुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते । घ्राणेन्द्रियेण मृगमद- मलयजघनसारागुरुप्रभृतिसुरभिवस्तुपरमलोद्गारपरम्पराः परि- चीयन्ते । चक्षुरिन्द्रियेण भूभूधरपुरपाकारघटपटस्तम्भाम्भो- रुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्था अनुभूयन्ते । श्रोत्रीन्द्रयेण प्रथिष्ठगाथकपथपथिकप्रथ्यमानतालमानमूर्च्छनाप्रे- टोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते । इति पञ्चप्रकारप्रत्यक्षदृष्ट- मेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते। शेषप्रमाणानामनुभवाभावा- देव निरस्तत्वाद् गगनकुसुमवत् । ये चास्पृष्टमनास्वादितमनाघ्रात- मदृष्टमश्रुतमप्याट्रियमाणा: स्वर्गमोक्षादिमुखपिपासाऽनुबन्धचे- तोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टकया स्वजन्म क्षपयन्ति, तन्महासाहसं तेषामिति । किं चामसक्षमप्यस्तितयाऽभ्युपगम्यते लौकायतिकदर्शनम् । ७ चेजगदनपन्हुतमेव स्याद, दरिद्रो हि स्वर्णराशिर्मेऽस्तीसनुध्याय हेलयैव दौःस्थ्यं दलयेत्, दासोऽपि स्वचेतसि स्वामितामवलम्ब्य किङ्करतां निराकुर्यादिति,न कोऽपि स्वानभिमतमालिन्यमश्नुवीत। एवं न कश्चित्सेव्यसेवकभावो दरिद्रधनिभावो वा स्यात् । तथा च जगब्यवस्थाविलोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम् । ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्य- पापव्यापारपाप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति, तान् प्रति दृष्टान्तमाह । भद्रे कपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्भूतकुतूहलां दयितां मन्थरतरप्रसृमरसमीरणसमीकृतपांशुप्रकारस्वाङ्गुलिन्यासेन - कपदाकारतां विधाय प्राह-हे भद्रे ! वृकपदं पश्य । कोऽर्थः । यथा तस्या अविदितपरमार्थाया मुग्धाया विदग्धो वल्लभो कचरणनिरीक्षणाग्रहं कराङ्गुलिन्यासमात्रेण प्रलोभ्य पूरित- वान्, एवममी अपि धर्मच्छमधूर्ताः परवञ्चनप्रवणा यत् किं चिदनुमानागमादिदाय॑मादर्य व्यर्थं मुग्धजनान् स्वर्गादिप्राप्ति- लभ्यभोगाभोगप्रलोभनया भक्ष्याभक्ष्यगम्यागम्यहेयोपादेयादि- सङ्कटे पातयन्ति, मुग्धधार्मिकान्ध्यं चोत्पादयन्ति । एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यद्भहुश्रुताः परमार्थवेदिनो वदन्ति, वक्ष्यमाणपधेनेसर्थः। पिब खाद च जातशोभने ! यदतीतं वरगात्रि! तन्न ते । न हि भीरु ! गतं निवर्त्तते समुदयमात्रमिदं कलेवरम् ८२ हे जातशोभने ! भावप्रधानत्वानिर्देशानां, जातं शोभनत्वं बदननयनादित्वं यस्याः सेति तत्सम्बोधनम् । पिब पेयापयव्यव- स्थावैसष्ठुल्येन मदिरादेः पानं कुरु न केवलं पिब, खाद च भ- क्ष्याभक्ष्यनिरपेक्षतया मांसादिकं भक्षय । यद्वा पिवेति अधरा- . . १०
+:
.
७४
षड्दर्शनसमुच्चये
दिपानं कुरु, खादेति भोगानुपभुङ्क्षवेति काम्युपदेशः, स्वयौ-
वनं सफलीकुर्वियर्थः। अथ सुलभमेव पुण्यानुभावाद्भवान्तरेऽपि
शोभनत्वमिति परोक्तमाशङ्कयाह-वरगात्रि प्रधानाङ्गि ! यद-
तीतम्, अतिक्रान्त यौवनादि तत्ते तव भूयो न, किं तु जराजी-
त्वमेव भविष्यतीसर्थः । जातशोभनेवरगात्रीतिसम्बोधनयोः
समानार्थयोरप्यादरानुरागातिरेकान पौनरुक्तयं दोषः । यदुक्तम्-
"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु ।
ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्" ॥
ननु स्वेच्छयाऽविच्छिन्ने खादने पाने दुस्तरा परलोके
कष्टपरंपरा, सुलभं भवति सुकृतसञ्चये भवान्तरेऽपि यौवना-
दिकमिति पराशङ्का दृषयन्नाह-न हि भीरु गतं निवर्तते । हे
भीरु ! परोक्तमात्रेण नरकादिप्राप्यदुःखभयाकुले ! गतम्, इहभ-
वातिक्रान्तं मुखयौवनादि न निवर्तते परलोके नाढौकते परलो-
कमुखाकाङ्क्षया तपश्चरणादिकष्टक्रियाभिरिहसमुखोपेक्षा व्यर्थे-
सर्थः। अथ जन्यजनकसम्बन्धसद्भावादमुना कायेन परलोकेऽपि
सहेतुकं मुखदुःखादिकं वेदितव्यमवश्यमेवेति चेद्। आह । समु-
दयमार्नामेदं कलेवरम् । इदं कलेवरं शरीरं समुदयमात्रं समुदयो
मेलः वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्रं मात्रशब्दोऽवधारणे
भूतचतुष्टयसम्बन्ध एव कायो, न च पूर्वभवादिशुभाशुभकर्मवि-
पाकवेद्यसुखदुःखादिसव्यपेक्ष इत्यर्थः। संयोगाश्च तरुशिखरावली-
लीनशकुनिगणवत्, क्षणतो विनश्वरास्तस्मात् परलोकानपेक्षया
यथेच्छं पिब, खाद चेति वृत्तार्थः ।
चैतन्यमाह-
किं च पृथ्वी जल तेजो वायुभंतचतुष्टयम् ।
चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३॥
लौकायतिकदर्शनम् । कि चेत्युपदर्शने,पृथ्वी भूमिः,जलमापः, तेजो वन्हिः, वायु: पवन, इति भूतचतुष्टयं तेषां चार्वाकाणां चैतन्यभूमिः चैतन्यो- त्पत्तिकारणं चत्वार्यपि भूतानि संभूय सपिण्डं चैतन्यं जनय- न्तीत्यर्थः । तु पुन,मानं प्रमाणं, हि निश्चितम, अक्षजमेव प्रत्यक्ष- मेवैकं प्रमाणमित्यर्थः। ननु भूतचतुष्टयसंयोगजदेहचैतन्योत्पत्तिः कथं प्रतीयतामि- साशङ्कयाह- पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः । मदशक्तिः सुराऽङ्गेभ्यो यद्वत्तहत्स्थिताऽऽत्मता॥४॥ पृथिव्यादीनि पृथिव्यप्तेजोवायुरूपाणि यानि भूतानि तेषां संहयां मेले संयोगे सति, तथेत्युपदर्शने, देहादिसम्भवः, आदिशब्दादितरे भूधरादिपदार्था अपि चतुष्टयसंयोगजाता एव ज्ञेयाः। दृष्टान्तमाह-यद्वद् येन प्रकारेण सुराऽङ्गेभ्यो गुडधा- तक्यादिभ्यो मद्याङ्गेभ्यो मदशक्तिरुन्मादकत्वं भवति, तद्वत्त- था भूतचतुष्टयसम्बन्धात् शरीर आत्मता स्थिता सचेतनत्वं जातमित्यर्थः। इति स्थिते यदुपदेशपूर्वकमुपसंहारमाह- तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥५॥ तस्मादिति पूर्वोक्तानुस्मारणे,पूर्वं तस्मातत्तः कारणाद् दृष्टपरि- सागाद् दृष्टं पेयापेयखाद्याखाद्यगम्यागम्यानुरूपं प्रयक्षानुभाव्यं यत्सुख, तस्य परिसागाददृष्टे तपश्चरणादिकष्टक्रियासाध्यपर- लोकसुखादौ प्रवर्तनं प्रवृत्तिः । चः समुच्चये । यत्तदोर्जेयसा- वाः यत्सम्बन्धो ज्ञेयः। तल्लोकस्यविमूढत्वमज्ञानत्वं चार्वाका ::
७६ . षड्दर्शनसमुच्चये लौकायतिकाः प्रतिपेदिरे प्रतिपन्नाः। मूढलोका हि विप्रतार- कवचनोपन्यासभासितज्ञानाः सांसारिकं मुखं परिसज्य व्यर्थ स्वर्ग मोक्षपिपासया तपोजपध्यानहोमादिभिरिहसं सुखं हस्त- गतमुपेक्षन्त इति । साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मते तेषां सा चाकाशात् परा न हि॥८६॥ साध्यस्य मनीषितस्य कस्य चिद्रस्तुन आवृत्तिः प्राप्तिः, कस्य चिद्वस्तुनोऽनभीष्टस्य निवृत्तिरभावः, ताभ्यां जने लोके या प्रीतिर्जायते उत्पद्यते सा तेषां चार्वाकाणां निरर्थिका नि- रभिप्राया शून्या मताऽभीष्टा । भवार्जितपुण्यपापसाध्यं सुखदुः- खादिकं सर्वथा न विद्यत इसर्थः । सा च प्रीतिराकाशाद् गगना- व परान हि यथाssकाशं शून्यं तथैषाऽपि प्रीतिरभारूपैवेत्यर्थः । उपसंहारमाह- लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः पालोच्यः सुबुद्धिभिः ॥८७॥ एवममुना प्रकारेण लोकायतमतेऽप्ययं संक्षेपो निवेदितः। अपिः समुच्चये । न केवलं परमते संक्षेप उक्तो लोकायतमतेऽपि । अथ सर्वदर्शनसम्मतसङ्ग्रहे परस्परकल्पितानल्पविकल्पजल्प- रूपे निरूपिते किंकर्तव्यमूढानां प्राणिनां कर्त्तव्योपदेशमाह- अभिधेयेति । सुबुद्धिभिः पण्डितैरभिधेयतात्पर्यार्थः पर्यालोच्यः। अभिधेयं कथनीयं मुक्त्यङ्गतया प्रतिपाद्यं यदर्शनस्वरूपं तस्य तात्पर्यार्थःसारार्थो विचारणीयः। सुबुद्धिभिरिति।शुद्धा पक्षपात- रहिता बुद्धिर्येषामिति । न तु कदाग्रहग्रहिलैः । यदुक्तम्- . . m" .
लौकायतिकदर्शनम् । ७७ आग्रही बत निनीषति युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य हि तस्य यत्र तत्र मतिरति निवशमिति ॥ दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक् पृथगुपदेष्टव्याद्विम- तिसम्भवे विमूढस्य प्राणिनः सर्वस्पृक्तया दुर्लभं स्वर्गापवर्ग- साधकत्वम् अतो विमर्शनीयस्तात्त्विकोऽर्थः । यथा च विचा- रितं चिरंतनैः। श्रोतव्यः सौगतो धर्मः कर्तव्यः पुनराहतः। वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥ इत्यादिविमृश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलम- तिभिरिति पर्यन्तश्लोकार्थः। सप्ताशोतिः श्लोकसूत्रं, टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम् ॥ इति श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये मणिभद्रकृता लघुत्तिः समाप्ता । शम् । . .
मूलमात्र- षड्दर्शनसमुच्चये ग्रन्थारम्भादि। सद्दर्शनं जिनं नत्वा वीरं स्याहाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥ १ ॥ दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥ २॥ षड्दर्शनोद्देशः। बौद्धं नैयायिकं सांख्यं जैन वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ बौडमतम् । तत्र बौद्धमते तावद्देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ४॥ दुःख संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ ५ ॥ समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ॥६॥ -- . षड्दर्शनसमुच्चये। क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयो, निराधो मोक्ष उच्यते ॥७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥ ८ ॥ प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ प्रत्यक्षं कल्पनाऽपोढमभान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम् ॥११॥ बौद्धराद्वान्तवाच्यस्य संक्षेपोऽयं निवेदितः, । नैयायिकमतम् । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ आक्षपामते देवः सृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३ ॥ तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तकनिर्णयौ वादो जल्यो वितण्डा च हेत्वाभासाश्छलानि च॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा, । . . . M ३ षड्दर्शनसमुच्चये। अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥१६॥ प्रत्यक्षमनुमानं चोपमानं शाद्विकं तथा, । तत्रेन्द्रियार्थसन्निकोत्पन्नमव्यभिचारिकम् ॥ १७ ॥ व्यवसायात्मक ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्ष,मितरन्मानन्तत्पूर्व त्रिविधं भवेत् ॥१८॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्य कारणात्कार्यमनुमानमिह गीयते॥ १९॥ रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥ कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥२१॥ यच्च सामान्यतो दृष्टं तदेवं गतिपर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा॥ २२ ॥ प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३॥ शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम्, । प्रमेयं चात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥ २४ ॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥२५॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः, । . -- . ११
सिद्धान्तस्तु
६॥
षड्दर्शनसमुच्चये
चतुर्भेदः सर्वतन्त्रादिभेदतः
॥२
प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा ।
अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ॥२७॥
यथा काकादिसंपातात स्थाणुना भाव्यमत्र हि, ।
ऊर्ध्व संदेहतर्काच्या प्रत्ययो निर्णयो मतः ॥२८॥
आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् ।
यः कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः॥२९॥
विजिगीषुकथा या तुच्छलजात्यादिषणम् ।
स जल्पः, सा वितण्डा तु या प्रतिपक्षवर्जिता॥३०॥
हेत्वाभासा असिद्धाद्या,श्छलं कुपो नवोदकः ।
जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥३१॥
निग्रहस्थानमाख्यातं परो येन निगृह्यते ।
प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥ ३२॥
नैयायिकमतस्यैवं समासः कथितोऽधुना।
सांख्यमतम् ।
सांख्याभिमतभावानामिदानीमयमुच्यते ॥ ३३ ॥
एतेषां या समावस्था सा प्रकृतिः किलोच्यते ।
प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका॥३१॥
सांख्या निरीश्वराः के चित्के चिदीश्वरदेवताः ।
सर्वेषामपि तेसां स्यात्तत्त्वानां पञ्चविंशतिः ॥३५॥
* AL षड्दर्शनसमुच्चये। सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोषदैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३६ ॥ ततः संजायते बुद्धिमहानिति यकोच्यते। अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः॥३७॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥३९॥ रूपात्तेजो रसादापो गन्धामिः स्वरान्नभः । स्पर्शादायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥४०॥ एवं चतुर्विशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता,तत्त्वं पुमान्नित्यचिदभ्युपेतः४१ पञ्चविंशतिस्तत्त्वानि सांख्यस्यैव भवन्ति च । प्रधाननस्योश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥ ४२ ॥ प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिक शाब्दम्॥४३॥ एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनमतम् । जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४४ ॥ जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः। ॥
षड्दर्शनसमुच्चये। हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपूज्यः सद्भतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥४६॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥ तत्र ज्ञानादिधर्मेन्यो भिन्नाभिन्नो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४॥ चैतन्यलक्षणो जीवो, यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः॥४९॥ पापं तद्विपरीतन्तु मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥५०॥ संवरस्तन्निराधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्मसम्बन्धो यो द्वयोरपि ॥५॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेमोक्ष उच्यते ॥५२॥ एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथा भव्यत्वपाकेन यस्यैततत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाजायते मोक्षभाजनम् ॥५४॥ प्रत्यक्षं च परोक्षं च हे प्रमाणे तथा मते । . . . .
षड्दर्शनसमुच्चये। अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ ५५ ॥ अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्ष,मितरज् ज्ञेयं परोक्ष ग्रहणेक्षया ॥ ५६ ॥ येनोत्पादव्ययध्रौव्ययुक्तं यत्सत्तदिष्यते । अनन्तधर्मक वस्तु तेनोक्तं मानगोचरः ॥ ५७॥ जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥ ५८ ॥ देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ॥५९॥ काणाददर्शनम्। द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥६०॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि गुणाः पुनश्चतुर्विशतिधा॥६१॥ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥६२॥ बुद्धिः सुखदुःखेच्छा धर्माधर्मी प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥ ६३ ॥ उत्क्षेपावक्षेपावाकुश्चनकं प्रसारणं गमनम् । पञ्चविधं कमैत,त्परापरे द्वे तु सामान्ये ॥ ६४ ॥ .
G षड्दर्शनसमुच्चये तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपर,मथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्दिशेत् ॥६५॥ य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः॥६६॥ प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैव संक्षेपःपरिकीर्तितः ॥ ६७ ॥ जैमिनिमतम् । जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत्॥६॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः॥६॥ अत एव पुरा कार्यों वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥७॥ नोदनालक्षणो धर्मों, नादनो तु क्रियां प्रति । प्रवर्तकं वचः, प्राहुः स्वःकामोऽग्निं यजेद्यथा॥७१॥ प्रत्यक्षमनुमानं च शब्दश्चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः । आत्मनो बुद्धिजन्मेत्यनुमान लैङ्गिकं पुनः ॥७३॥ शाब्दं शाश्वतवेदोत्थ,मुपमानं प्रकीर्तितम् । ।
on
षड्दर्शनसमुच्चये।
प्रसिद्धार्थस्य साधादप्रसिद्धस्य भाजनम् ॥७४॥
दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना ।
क्रियते यहलेनासावर्थापत्तिरुदाहृता ॥ ७५॥
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्ताऽवबोधार्थ तत्राभावप्रमाणता ॥ ७६ ॥
जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः।
एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥७७॥
नैयायिकमतादन्ये भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥
षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल ।
लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥ ७९ ॥
चार्वाकमतम् ।
लोकायता वदन्त्येवं नास्ति देवो न निवृतिः।
धर्माधर्मों न विद्यते न फलं
पुण्यपापयोः॥ ८०
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः।
भद्रे ! बृकपदं पश्य यद्वदन्ति बहुश्रुताः॥१॥
पिब खाद च जातशोभने ! यदतीतं वरगात्रि! तन्न ते।
नहि भीरु ! गतं निवर्तते समुदयमात्रामदं कलेवरम् ८२
किं च पृथ्वी जलं तेजो
वायुभूतचतुष्टयम्
चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३॥
५० षड्दर्शनसमुच्चये। पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः । मदशक्तिः सुराऽङ्गेभ्यो यहत्तहत्स्थिताऽऽत्मता॥२४॥ तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥५॥ साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां सा चाकाशात् परा न हि॥८६॥ लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः पयर्यालोच्यः ॥८७॥ इति षड्दर्शनसमुच्चयः। सुबुद्धिभिः के .
प्राकृतसंस्करणात्मक
षड्दर्शनसमुच्चयपरिशिष्टम् ।
-000-
प०३
पृ० ३
भटेण चरित्ताउ दसणमिह दिढयरं गहेयव्वं ।
सिझंति चरणरहिया दंसणरहिया न सिझंति ॥
भ्रष्टेन चरित्राद दर्शनमिह दृढतरं ग्रहीतव्यम् ।
सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥
पृ० ३ प० १९
असियसयं किरियाणं अकिरियवाईण हुंति चुलसीई ।
अन्नाणिय सत्तट्ठी वेणइआणं च वत्तीसं ॥
अशीतिशतं क्रियाणामक्रियावादिनो भवन्ति चतुरशीतिः।
आत्मवादिनः सप्तषष्टिविनयवादिनां च द्वात्रिंशत् ।।
पृ० ४ प०
.
को दुक्खं पाविज्जा कस्स न मुक्खेहि विझहो हुजा ।
कोअ न लभेज मुक्खं रागदोसा जइ न हुज्जा ॥
को दुःखं प्राप्नुयात्कस्य न सौख्यविस्मियो भवेत् ।
कश्च न लभेत मोक्षं रागद्वेषौ यदि न भवेताम् ॥
पू० ४७ प० १६
दोहिंवि ण एहिं पणीयं सत्थमुलूगेण तहवि मिच्छत्तं ।
जं सविसयप्यहाणतणेण अण्णोणणिरवेक्खं ॥
१ अत्र "भटेणे"त्येव सुपाठः । “सद्धेणे"ति तु मूलेऽसंगतः।
२
- -
( २ ) द्वाभ्यामपि नयाभ्यां प्रणीत शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम् । यत्सविषयमधानत्वेनान्योन्यनिरपेक्षम् ॥ पृ० ४८ प०६ - जो एगं जाणइ सो सव्यं जाणइ जो सब्बं जाणइ सो एगं जाणइ । य एकं जानाति स सर्व जानाति यः सर्व जानाति स एकं जानाति । . पृ० ४९ प० २१ सव्वजीवाणं पियणं अक्खरस्स अणन्तो भागो निच्चुग्घाडिओ। जइ सोवि आवरेज्झा ता जीवो अजीवत्तं पाविज्झा। सुद्धावि मेहसमुदये होइ पहा चन्दमूराणम् ॥ सर्वजीवानामपि चाक्षरस्यानन्तको भागो नियोद्घाटितः। यदि सोऽप्यात्रियेत तर्हि जीवोऽजीवत्वं प्राप्नुयात् । शुद्धाऽपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः ॥ पृ० ५० ५० १० जीवाणं भन्त ! किं अत्तकडे दुक्खे, परकडे दुक्खे, तदुभय- कडे दुक्खे । गोयस ! अत्तकडे दुक्खे, नो परकडे दुक्खे, नो तदुभय- कडे दुक्खे इति ॥ जीवानां भदन्त ! किमात्मकृतं दुःखं परकृतं दुःखं तदुभय- कृतं दुःखम् ।
(३)
गोतम ! आत्मकृतं दुःखं, नो परकृतं दुःखं, नो तदुभयकृतं-
दुःखम् ॥
पृ० ५१ प० १
नरतिरिसुराउउच्चं सायं परघाय आयवुज्जोयं ।
तित्थुस्सास्मुनिमाणं पणिदिवइरुस्सभचउरंसं ।।
तसदसचउवन्नाई सुरमणुदुगपंचतणु, उवंगति
अगुरुलहु पड मखगई बायालीसं सुहपयडी ॥
नरतिर्यकूसुरायुरुचं सातं पराघातातपोद्योतम् ।
तीर्थोच्छ्वासनिर्माणं पञ्चेन्द्रियवज्रर्षभचतुरस्नम् ।।
त्रसदशकं वर्णचतुष्कं सुरमनुजद्विकं तनुपञ्चकमुपाङ्गत्रिकम्।
अगुरुलघुप्रथमखगतिचत्वारिंशत् शुभप्रकृतयः ।।
पू० ५१ प० १३:
थावरदस. चउजाई अपढमसंठाण खगइसंघयणा ।
तिरिनिरयदुगाउजाई वनचऊनाम चउतीसा ॥
नरयाउनीयअस्सायघाइपणयालसहियवासीई।
स्थावरदशकं जातिचतुष्कमप्रथमसंस्थानखगतिसंहननानि ।।
तिग्निरयद्विकायु तिवर्णचतुष्कं नाम चत्वारिंशत् ।।
नरकायुर्नीचासाघातिपञ्चचत्वारिंशत्साहितन्यशीतिः ।
पृ० ६२ प०६
समिइगुत्तिपरीसहजइधम्मभावचरित्ताणि ।
पणतिगदुवीसदसवारपञ्चभेएहि सगवणा ॥
समितिगुप्तिपरीपयतिधर्मभावनाचरित्राणि ।
पञ्चत्रिद्वाविंशतिदशद्वादशपञ्चभेदैः सप्तपञ्चाशत् ।।
.
घृ०.५२ प० २३
संतपयवरूवणया दव्यमाणं च खित्तपसणाय ।
कालो य अन्तरं भौगो भावो अप्पा बहुं चेव ॥
सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शना च ।
कालश्चान्तरं भागो भावोऽल्पबहुत्वं च ।।
पृ० ५५ प० ९
मुवहुंपि सुयमहीय किं काही चरणविप्पमुक्कस्स ।
अन्धस्स जह पलित्ता दीवसयसहस्सकोडोवि ।।
नाणं चरित्तहीणं लिंगग्गहणं च दसणविहीणं ।
संजमहीणं च तवं जो
चरइ
निरत्थयं
तस्स ॥
सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविप्रयुक्तस्य ।
अन्धस्य यथा प्रदीपा दीपशतसहस्रकोटिरपि ।
ज्ञानं चरित्रहीन लिङ्गग्रहणं च दर्शनविहीनम् ।
संयमहीनं च तपः यश्चरति निरर्थक तस्य ।।
इति ।
THE CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO.97. शुद्धाद्वैतमार्तण्डः। गोस्वामिश्रीश्रीगिरिधरजीमहाराजविरचितः । श्रीरामकृष्णभट्टविरचितप्रकाशाख्यव्याख्यासंवलितः। प्रमेयरत्नार्णवः । श्रीबालकृष्णभट्टविरचितः। श्रीमदाचार्यश्रीवल्लभाधीश्वर शुद्धाद्वैतसंप्रदायवितुषा रत्नगोपालभट्टेन परिशोधितः । ŜUDDHÂDVAITAMÂRTANDA, BY GOSWÂM ŚRÎ GIRIDHARÁJEE MÂHÂRÂT, With a Commentarycalled Prakâsa. BY Sri Ramakrishna Bhatta. And PRAMEYARATNARŇAVA BY SRI BALAKRISHNA BHATTA. EDITED BY Ratna Gopal Bhatta. PUBLISHED AND SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT BOOK-DEPOT: BENARES. AGENTS:-OTTO HARRASSOWITZ LEIPZIG: PANDIT JYESHTHÂRÂMA MUKUNDJÎ, BOMBAY. Printed by Hari Das Gupta, Proprietor, AT THE VIDYA-VILASA PRESS, BENARES. Price Rupee One. 1906 Registered According to Act XXV of 1867.
श्रीहरिः। अथैष किल परिशोध्य प्रकाशितो वरीवर्ति श्रीमदाचार्यवर्य- श्रीवल्लभाधीश्वरशुद्धाद्वैतसिद्धान्तप्रकाशकः सप्रकाशाख्यव्याख्यः शुद्धाद्वैतमार्तण्डग्रन्थः। तत्साहित्येन संमुद्रितो, नाम्नैवाभिव्यक्तप्र- तिपाद्यस्तत्सिद्धान्तानुसारी प्रमेयरत्नार्णवनिबन्धश्च । तत्र, शुद्धाद्वैतमार्तण्डः, श्रीश्रीवल्लभाचार्यात्मजगोस्वामिश्रीश्री- विठ्ठलनाथदीक्षिततनूजनुःश्रीमहाराजगोस्वामिश्रीयदुनाथजीवंशाव. तंसषष्ठगृहतिलकितकाशीवास्तव्यगोस्वामिश्रीगिरिधरजीमहाराज- विरचितः। तव्याख्या च तच्चरणारुणाब्जचश्चरीकचेतोभिः श्रीरामकृष्ण- भट्टैः कृता। तथा, प्रमेयरत्नार्णवस्तु गोकुलस्थश्रीबालकृष्णभट्टैः कृतः। एतदद्वयं च मधुवनदासद्वारकादासकोठीसमध्यक्ष-श्रीकृष्ण भगवञ्चरणभक्तिशास्त्ररसिकश्रीबालकृष्णदास-श्रीयुतश्यामदास. संगृहीतं पुस्तकद्वयं समवलम्ब्य प्रकाशितवानस्मि । अत्र संमुद्रणे नानाविधदर्शनप्रकाशनपरायणश्रीहरिदासगुप्ता- ऽभिधमहाशयसमुत्साहितो यथामति संशोधितवानस्मि ग्रन्थरत्नद्व- यम् । तथापि मानवापरिहार्येण मतिदृष्टिदोषेण जातानि स्खलितानि नानुलक्ष्यीकृत्य सुधीभिर्ग्राह्यस्तत्त्वभाग इत्यलं विस्तरतः। सत्पक्षपातिनो हंसा नूनं नालीकवल्लभाः। गुणं गृहीत मा दोषं नीरक्षीरविवकिनः ।। प्रकाशको, रत्नगोपालभट्टः।
श्रीकृष्णाय नमः। . AN शुद्धाद्वैतमार्तण्डः। गोस्वामिश्रीश्रीगिरिधरजीमहाराजविरचितः । श्रीरामकृष्णभट्टप्रणीतप्रकाशाख्यव्याख्यासहितः । . श्रीमदाचार्यचरणौ श्रीविठ्ठलपदाम्बुजे । श्रीमतां यदुनाथानां श्रीमगिरिधरः सुधीः ॥ १ ॥ चरणाम्बुजकिञ्जल्कपरागान् मणिपय तम् । शुद्धाऽद्वैतविचारार्क तनुते मुधियां मुदे ॥२॥ श्रीमन्मुकुन्दरायाख्यश्रीमद्गोपाललालयोः। अछी श्रीवल्लभाचार्यश्रीविठ्ठलपदाम्बुजे ॥१॥ श्रीमतां यदुनाथानां तदीयाऽन्वयशोभिनाम् । श्रीमद्विारिधराख्यानां पादपद्मे प्रणम्य हि ॥२॥ शुद्धाद्वैतविचारे ये तैः श्लोकाः समुदाहृताः। तदाझया तान् विशदीकरवाणि यथामति ॥३॥ तन मङ्गलमाचरन्तो यथार्थसिद्धान्तबोधकचरणान्नमन्ति । श्रीमदाचार्यचरणावित्यादि * श्रीमदाचार्याणां पुरुषोत्तमास्यत्वेन श्रुतीनां वायूपत्वेन तत्कृपया तदर्थस्फूर्त्यर्थ नमनमिति भावः । भ- वत्पदाम्भोरुहनावमत्र ते निधाय यातास्सदनुग्रहो भवानिति वा- क्याच्चरणयोरुद्धारकत्वात् स्वस्याप्युखार आभ्यामेवेति भावः । विदा ज्ञानेन ठान् शून्यान् लाति स्वदासत्वेनाङ्गीकरोति स विठ्ठलः। एतेन पूर्णकरुणामयत्वं सूचितम् । पदाम्बुजत्वोक्त्या भक्तिप्रवर्तक- त्वं, भक्तिमतां सन्तापहारकत्वं, भक्तरूपमधुपसेवितत्वं च ध्वनि- तम् । प्रेमपूरभरितमानसेषु प्रादुर्भावो भवतीत्यपि ध्वन्यते । यदोः पुष्टिभक्तत्वेन तन्नाथत्वात् पुष्टिभक्तानामिष्टफलदातृत्वं सूचितम् ।
२ समकाशः। श्रीमगिरिधरचरणाः श्रीप्रभुचरणतनयश्रीयदुनाथवंशोद्भवा अस्म- दाराध्यचरणाः॥१॥ चरणाम्बुजेत्यादि * परागसम्बन्धेन मनोमुकुरनिर्मलतया सर्वसिद्धान्तप्रतिफलनं ध्वन्यते । प्रणिपातः साष्टाङ्गप्रणामः। तद्वि- द्धि प्रणिपातेन परिप्रश्नानुसेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिन- स्तत्त्वदर्शिन' इति श्रीभगवदुक्तेः । तनुते विस्तारयति। एतेन स्वक- ल्पितत्वमपास्तम् । सुधीत्वं च भगवदेकशरणत्वम् । तेषां सिद्धा- न्तावलोकनेनानन्दो भविष्यतीत्यर्थः ॥ २ ॥ एवं प्रतिक्षायाद्वैतज्ञानस्य द्वैतज्ञानसापेक्षत्वेन द्वैतपदार्थमाहुः । द्विधाज्ञानं तु यद्यत् स्यानामरूपात्मना मुहुः । ईशजीवात्मना वापि कार्यकारणतोऽथवा ॥ ३ ॥ द्वीतं तदेव द्वैतं स्यादद्वैतं तु ततोऽन्यथा । सर्व खल्विदं ब्रह्म तज्जलानिति पठ्यते ॥ ४॥ . ".. द्विधाज्ञानं त्वित्यादि * द्विप्रकारकं ज्ञानमित्यर्थः । नामरूपे व्याकरवाणीति श्रुत्या नामरूपव्यवहारस्य भगवत्कृतत्वेन भगवद्- पत्वम् । एतेन 'अस्ति भाति प्रियं रूपं नाम चेत्यर्थपञ्चकम् । आy त्रयं ब्रह्मरूपं मायारूपं ततः परम्' इति नामरूपयोर्मायिकत्वमिति निरस्तम् । केचित्त्वत्र जगदुरूपं ततः परमिति पठन्ति । तत्र नामरू- पयोर्जर्गपद्रूत्वेन जगतः कार्यत्वात् कार्यकारणयोरभेदान्नातिप्रतिकू- लम् । यथा मृद्धटयोः । अत एव, नामरूपविभेदेन जगत् क्रीडति यो यतः इति श्रीमदाचार्यचरणैरुक्तम् । यदि च सधर्मत्वभिया तयो- र्मायिकत्वमुच्यते तर्हि अस्तित्वादिनापि सविशेषत्वापत्तेः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति । एष ह्येवानन्द- यातीत्यादिश्रुतिभिः स्वतः प्रकाशकत्वं सर्वावभासकत्वं सर्वानन्द- दातृत्वं यथोक्तं तथा, नामरूपे झतिश्रुत्या नामरूपप्रकाशकत्वमतो न तयोर्मायिकत्वमिति दिक् । नामरूपभेदज्ञानमेवाविद्यकं, न तु ते । एवमीशजीवभेदज्ञानं, तथा कार्यकारणभेदज्ञानमिति ॥ ३ ॥ द्वीतमिति *। ये गत्यर्थकास्ते ज्ञानार्थका इति न्यायेन ग- स्यर्थकादिण्धातो वे के इतमिति सिद्धौ द्विधा इतं द्वीतं तस्मातू शुद्धाऽद्वैतमार्तण्डः । ३ . -- स्वार्थेऽणि द्वैतमिति निष्पन्नम्। तस्य च द्विप्रकारकं ज्ञानमित्यर्थः। *अ- न्यथा* भेदज्ञानाभावे। न द्वैतमद्वैतमिति विग्रहः । ननु कया श्रुत्या- ऽभेद उक्त इति तत्राहुः। *सर्वमित्यादि * छान्दोग्ये शाण्डिल्यविद्या. यां पञ्चमे प्रपाठके पठितमस्ति, तज्जलानित्यस्याग्रे, शान्त उपासी- तेति ।अर्थस्तु जायते लीयते अनितीति जलान् तस्मिन् जलान् तज- लान् । इदं सर्व विश्वं खलु उत्पत्तिस्थितिलयावस्थासु तस्मिन्नतः सर्व ब्रह्मेत्युपासीतेति ॥४॥ भुत्यर्थमाहुः। सर्व ब्रह्मात्मक विश्वागदमा बोध्यते पुरः । सर्वशब्देन यावद्धि दृष्टश्रुतमदो जगत् ॥ ५ ॥ बोध्यते तेन सर्व हि ब्रह्मरूपं सनातनम् । कार्यस्य ब्रह्मरूपस्य ब्रह्मैव स्यात्तु कारणम् ॥ ६॥ सर्वमित्यादि *। *इद्मति*. इदंशब्दस्य प्रत्यक्षवाचित्वात् ॥५॥ सनातनसिति * सदा वर्तमानं. नित्यमिति यावत् । स- स्मूलाः सौम्येमाः प्रज्यः सदायतनाः सत्प्रतिष्ठाना इति, कथमसतः सजायेत, तत्सत्यं, यदिदं किञ्च तत्सत्यमित्याचक्षत, इत्यादिश्रुतेः । असत्यत्वेन ज्ञानं त्वासुराणामेव । तथाच गीतायाम्, असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमिति । ननु जगतो नित्यत्वे द्वैतापत्तिरित्याश- गयामाहुः *कार्यस्येति* विश्वस्य नित्यत्वेपि मृद्धटयोरिव कार्यका- रणयोरैक्यान्न द्वैतापत्तिरिति भावः । सर्व खल्विदं ब्रह्मेत्यादिना बो- धितब्रह्मरूपस्य ब्रह्मैवेत्येवकारेण मायादिकारणं निरस्तम् ॥६॥ ब्रह्मणः कारणत्वे.मानमाहुः । जन्माद्यस्ये सादिमूत्रैासपानिरूपितम् । यतो वेसादिवाक्येषु वेदे स्पष्टं प्रतीयते ॥७॥ जम्माद्यस्येत्यादीति * अत्राधिकरणचतुष्टयन ब्रह्मणः का- रणत्वं विचारितम् । तत्र जन्माद्यस्य यतः शास्त्रयोनित्वादिति सूत्रे, यतो वा इत्यादिवाक्यं विषयीकृत्य, किं ब्रह्म कर्तृ उताकत इति सं- शये, ब्रह्मविदाप्नोति परमितिश्रुत्या ब्रह्मविद्ः परप्राप्ति प्रतिज्ञाय सत्यं . -- समकाशः। बानमनन्तं ब्रह्मेतिं श्रुत्या स्वरूपलक्षणमुत्का परस्य सर्वान्तररूपत्व- बोधनायाकाशाद्वायुरित्यादिसृष्टिरुक्ता । तत्र प्रकृतिगतं कर्तृत्वं ब्रह्म- णि आरोप्यते । एवं भृगु वारुणिरित्यत्रापि गौणसेव कर्तृत्वसनू- द्यत इति पूर्वपक्षे । अस्येति । प्रत्यक्षस्य जगतो जन्मादि जन्मस्थि. तिप्रलया यतो यस्मात् तत् कर्तृ, कुतः शास्त्रयोनित्वात् । शास्त्रे योनिः शास्त्रयोनिस्तस्य भावः शास्त्रयोनित्वं तस्माच्छास्त्रोक्तकार- णत्वादित्यर्थः । पूर्वोत्तरकाण्डसृष्टिवाक्यानां सङ्ग्रहाथै सामान्यग्रह- णम् । स्वरूपलक्षणवाक्यशेषे कर्तृत्वनिषेधाकथनात् । प्रत्युत कार- णत्वस्य कथनादुपनिषदन्तरेऽस्थूलादिवाक्ये धर्मनिषेधनिरूपणेऽपि विरुद्धधर्माश्रयत्वेन प्राकृतधर्मनिषेधपरत्वेनोपपत्तौ लक्षणापादक- स्यारोपस्य दुष्टत्वात् । किञ्च प्रकृती कर्तृत्वस्य निषिद्धयमानत्वेन जी- वस्य स्वातन्त्र्याभावेन च कर्तृत्वाभावादू ब्रह्मण्यारोपासम्भवः । त- स्मातू सकलजगत्कारणं ब्रह्म। अत्र, जन्माद्यस्य यतः, शास्त्रयोनित्वादिति योगविभागः सर्वेषां मते।तन्न । अग्रिमसूत्रेषु साध्यहेतुनिर्देशपूर्वकमेव दर्शनेनाना- पि तथैव युक्तत्वात् । ये तु जन्माद्यधिकरणं, शास्त्रयोनित्वाधिकरण भिन्नमङ्गीकुर्वन्ति, तत्र हि प्रथमसूत्रे हेतोरभावाद द्वितीये साध्या- भावान वाक्यार्थसिद्धिरित्यादिदोष इति श्रीपुरुषोत्तमचरणैर्भाग्य- प्रकाशे बहुशः खण्डितो योगविभागः। द्वितीयेऽधिकरणे,तत्तु समन्वयादितिसूत्रे ब्रह्म समवायि उत नेति संशये समवायित्वे विकारित्वापत्तिरिति न तादृश इति पूर्वप- क्षे, तत् समवायिकारणं ब्रह्म। कुतः। समन्वयात् सम्यगनुवृत्तत्वाद् अनारोपितानागन्तुकरूपेणान्वयात् । घटे मृद इवास्तिभातिप्रियाणा- अगत्यनुवृत्तत्वादित्यर्थः । तादात्म्यसम्बन्धेन यदाश्रयं कार्यं भवति तत् समवायिकारणम्।अस्यैवावस्थाविशेष उपादानम् । तल्लक्षणंच स्वसमानसत्ताककार्याकारेण यदाविर्भवति तदुपादानम् । तृतीये- ऽधिकरणे चिद्रपेण कारणत्वम् । आनन्दमयाधिकरणे आनन्दरूपेण कारणत्वं व्यासपादर्विचारितमित्यर्थः । *यतो वेत्यादीति* भृगुवै वारुणिर्वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति, तर होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रय- त्यभिसंविशन्ति तदू ब्रह्मेति तद्विजिज्ञासस्वेति स्पष्टमेव कारणत्वं . .
शुद्धाद्वैतमार्तण्डः। ९ १ ब्रह्मणि प्रतीयत इत्यर्थः ॥७॥ एवं ब्रह्मणः कारणतामुपपाद्य ब्रह्मणो लक्षणमाहुः ॥ साकारं सर्वशक्त्येकं सर्वशं सर्वकर्तृ च । सच्चिदानन्दरूपं हि ब्रह्म तस्मादिदं जगत् ॥ ८ ॥ साकारमित्यादि * आनन्दाकारमित्यर्थः । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति स- म्पतत्रैवाभूमी जनयन् देव एक इति तैत्तिरीये श्वेताश्वतरे चास्ति श्रुतिः । अन मुखादीनां सर्वत्र विद्यमानत्वमुक्तं सर्वेन्द्रियोपल- क्षणम् । तेन साकारस्यैव व्यापकत्वम् । बाहुभ्यामितिद्विवचनेन ब्र- झणो द्विभुजत्वं श्रुतिसिद्धम् । चतुर्भुजत्वं तु स्मृतिप्रसिद्धम् । देव इत्यनेन लीलास्थपुरुषोत्तमस्यान ग्रहणम् । दिव्धातोः क्रीडार्थक त्वात् । छान्दोग्ये सर्वकामः सर्वगन्धः सर्वरस इत्युक्तम् । रसो वै स इति तैत्तिरीये । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषसूक्तेऽपि साकारत्वम् । अग्रे, ततो विराडजायतेतिकथनानायं विराट् पुरुषः । सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखमित्यादि- गीतायाम् । आनन्दमात्रकरपादमुखोदरादिरिति नारदपञ्चरात्रे । अथवा परमात्मानं परमानन्दविग्रहमिति याज्ञवल्क्यस्मृतौ । नन्व- पाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्सशृणोत्यकर्णः । अस्थूलम- नण्वित्यादिषु श्रुतिषु निषेधात् कथं साकारत्वमिति चेन्न । अपाणि- पादत्वमुक्त्वा यजवनग्रहीतृत्वमुक्तं, तेन लौकिकपाणिपादादिनि- षेधपरम् । अनपिवत्यादिवाक्येऽप्यग्रे, एतस्य प्रशासने गार्गि द्यावा- भूमी विधृते तिष्ठत इत्युक्तम् । यथा सैन्धवो बाह्योऽन्तरः कृत्स्नो रसघन एवं वारे अयमात्मा कृत्स्नः प्रज्ञानघन एवोति श्रुतौ धनपदेन साकारत्वलाभात् । अर्थस्तु यथा सैन्धवः सर्वपरिदृश्यमानो रसघन एवं ब्रह्मापि यावत् तावत् सर्व प्रज्ञानघन एवोति । परास्य शक्ति- विविधैव श्रूयते स्वाभाविकी शानबलक्रिया चेतिश्रुतेः । यः सर्वशः सर्वविदितिश्रुतेः । सर्वकर्ता सर्वभोक्ता चेति । सत्यं ज्ञानमानन्द ब्रह्मेतिश्रुतेरानन्दमानमेव । एवञ्च करादिरपि ब्रह्मैव । *इदं* परिह- श्यमानम् ॥८॥ सच्चिदानन्दरूपब्रह्मणः सकाशाजगदुत्पत्ती जडजीवान्त- यामिणां सदादिश्य उद्गम इत्याहुः ।
aur सपकाबाः। . . जडजीवान्तस्थितानां यथाक्रमश उद्गमः । अग्नेर्यथा विस्फुलिङ्गास्तथा जीवोद्गमः स्फुटः ॥ ९ ॥ जडेत्यादि * उद्गमो निःसरणम् । जीवोद्गमे श्रुत्युक्तं दृष्टान्त- माहुः* अग्नेरिति* यथा सुदीप्तात् पावकाद्विस्फुलिङ्गा व्युच्चरन्ति, एवमेव तस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे जीवाः कपूय- चरणा रमणीयचरणा इति मुण्डकश्रुतौ । एतेन जीवस्योत्पत्ता- वनित्यत्वापत्तिरिति निरस्तम् । जीवस्य निःसरणमेवोच्यते, न तू- त्पत्तिः ॥९॥ ननु जीवस्य विस्फुलिङ्गवनिःसरणेऽशत्वे सर्वशरीरगतचे- तन्यानुपलम्भस्तत्राहुः। विसर्पिगुणचैतन्योऽणुर्जीवॉशो हरेः स्मृतः । जडे चिदानन्दयोस्तु चिसानन्दस्य सर्वशः ॥ १० ॥ विसपीत्यादि* विसर्पि प्रसरणशीलं चैतन्यं गुणो यस्य सः। यथा मणेः प्रभा । तथाच व्याससूत्रम् । गुणाद्वाऽऽलोकवत् । अर्थ- स्तु । जीवस्य चैतन्यं गुणस्तस्मात् सर्वशरीरव्यापी । तत्र दृष्टान्तः । आलोकवत् । सूर्यमण्यादिप्रभा यथा बहुदेशं व्याप्नोति तद्वदित्यर्थः। अग्रे, व्यतिरेको गन्धवत् । अर्थस्तु । व्यतिरेकः । अधिकदेशवर्ती चैतन्यं गुणः । गन्धवत् । यथा चस्पकादेर्गन्धश्चस्पकाधिकदेशस्थले उपलभ्यते तद्वदित्यर्थः । नच चम्पकात्तदवयवानां निस्सरणे ग- धोपलब्धिरिति वाच्यम् । निस्सरणे न्यून वापत्तेः । भोग्यादृष्टत्वेन तद्वयवपूरणकल्पनायां गौरवात् । किञ्चोग्रगन्धादेः स्पर्शे मुहुर्मु- हुः क्षालनेन सुगन्धानपगमादनेकचर्मपुटवेष्टितस्य मृगमदस्य सुग- न्धोपलब्धेश्चातोऽवयवकल्पना निरस्तोत दिक्। किश्च तृतीयोपि छ- ष्टान्तः । अविरोधश्चन्दनवत् । अर्थस्तु । यथा चन्दनमेकदेशस्थितं सर्वशरीरे सुखं शैत्यं च जनयति तद्वदणुत्वेऽपि सर्वशरीरचैतन्यो- पलब्धिमित्यर्थः । एषोऽणुरात्मा चेतसा वेदितव्य इतिश्रुतेः । नि- त्यः सर्वगतस्थाऽणुरिति स्मृतेश्च । सर्वगतेन ब्रह्मणा सह तिष्ठती- ति सर्वगतस्थः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्व- जाते, इति श्रुतेः । स चासावणुश्चेति तदर्थः।यदि यथाश्रुतार्थः स्यात्। तर्हि स्थाण्वचलपयोः पर्यायत्वापत्तौ पौनरुक्त्यं स्यात् । अंशो नान्त- शुदाऽद्वैतमार्तण्डः । व्यपदेशादिति व्याससूत्राद् अंशः । अर्थस्तु। जीवो ब्रह्मणोंऽशः।कुतः मानाव्यपदेशात् ।क्वचिद् ब्रह्मत्वेन क्वचिदशत्वेन क्वचिदीशितव्यत्वेना- णुत्वेन व्यापकत्वेन निरूपणादेकस्यैव विरुद्धधर्माश्रयत्वं ब्रह्माति- रिक्तस्य न सम्भवति । अतो जीवो ब्रह्मांश इति । *हरोरीति * ममै- वांशो जीवलोके जीवभूतः सनातनः इति गीतावाक्यतः । ननु स- र्वस्य ब्रह्मात्मकत्वेन कथं वैविध्यमत आहुः *जडे चिदानन्दयोरित्या- दिना * | आनन्दतिरोभावेन भेद इति भावः ॥ १० ॥ तिरोधानं हरीच्छातो निबन्धादिषु वर्णितम् । आविर्भावे तु सर्व हि ब्रह्मवेति न संशयः ॥ ११ ॥ तिरोधानमिति * । एकोऽहं बहु स्यामितिश्रुतिसिद्धेच्छात इत्यर्थः । ननु तर्हि भेदापत्तिरत्राहुः *आविर्भावे त्वित्यादि * । आ- नन्दाविर्भावो जीवे, चिदानन्दयोर्जडे ॥ ११ ॥ ननु जीवादिभावे किं प्रयोजनमत आहुः । रमणार्थमिदं सर्व ब्रह्मैव स्वेच्छयाऽभवत् । यथा सर्पः स्वेच्छया हि कुण्डलाकारतां गतः ॥ १२ ॥ रमणार्थमिति* । एकाकी न रमते स द्वितीयमैच्छत, तदात्मा- न५ स्वयमकुरुतेत्यादि श्रुतेः । ननु तर्हि विकारित्वापत्तिस्तनाहुः * यथेति * ॥ १२॥ न विकारि तथा ब्रह्म व्यासैः सूत्रे निरूपितम् । सुवर्णस्याविकारित्वं कामधेनोर्मणेरपि ॥ १३ ॥ सूत्रे इति * । उभयव्यपदेशात्त्वहिकुण्डवदिति सूत्र इत्य- र्थः । अर्थस्तु, उभयोर्विरुद्धधर्मयोर्व्यपदेशस्तस्मात् । निर्गुणत्वेना- ऽनन्तगुणत्वेन परिणामित्वेनाविकारित्वेन विरुद्धधर्मरूपेण व्यपदे- शाछुतौ कथनात् सर्वाकारं ब्रह्मेत्यर्थः । तथाच श्रुतिषु, साक्षी चेता केवलो निर्गुणश्चेत्युक्त्वा, एको वशी निष्क्रियाणां बहूनामेकं बीज बहुधा यः करोति । ततो यदुत्तरं तदरूपमनामयमित्यग्रे सर्वाऽऽनन- शिरोग्रीव इति श्वेताश्वतरे । तैत्तरीये यदेकमव्यक्तमनन्तरूपं, वि- श्वतश्चक्षुरुत विश्वतोमुख इत्यादि चोक्तम् । तथानन्दवल्यां, तदात्मा- समकाकाः॥ । - . . नर स्वयमकुरुत, यद्वैतत्सुकृतमिति । अविनाशी वा अरेऽयमात्म- त्यादिकं चान्यत्रोक्तमेव विरुद्धधर्माश्रयत्वेन बहुशो व्यपदेशादित्य- र्थः । तर्हि कथमेकमनेकधेति तनाह । अहिकुण्डलवत् । यथा सर्पः सरलः कुण्डलाकारश्च भवति । तद्वद् ब्रह्म सर्वाकारं भवति । न हि सर्पस्य कुण्डलाकारे कोऽपि विकारः। भाष्ये तु, सर्वाणि तै- जसान्यविकृतानीत्युक्तम् । एवञ्च सुवर्णस्यानेकाकारत्वेऽपि न सु- वर्णस्यान्यथाभावः । सुबोधिन्यां तु, कामधेनुकल्पद्रुमचिन्तामणेश्च जायमानाः पदार्था दृश्यन्ते, तेन न कामधेन्वादीनां विकृतत्वमित्यु- क्तमिति दिक् ॥ १३ ॥ ननु सर्वस्य घटादेरुत्पत्तिनाशदर्शनेनानित्यत्वात् कथं भगव- दूपत्वं कार्यस्येत्याशङ्कामपनयन्ति । प्राविर्भावतिरोभावौ पदार्थानां यतस्ततः । नानित्यता तु विज्ञेया शास्त्रविद्भिर्विचक्षणैः ॥ १४ ।। आविर्भावेत्यादि । घटपटादिसर्वाकारस्वरूपेण या भगव. त आविर्भावेच्छा तया आविर्भवति । तथाच श्रीमदाचार्यचरणै- निबन्धे। मृदादि भगवद्रूपं घटाधाकारसंयुतम् । मूलेच्छातस्तथा तस्मिन् प्रादुर्भावो हरेस्तदोति । व्याख्यातं च तैरेव । मृदि घटादयो यावन्तो भविष्यन्ति ते सर्वे कारणत्वेन वर्तन्त इत्यङ्गीकर्तव्यम् । अन्यथा ततः प्रादुर्भावो नोपपद्यते । ततः सामर्थ्य भगवत्त्वेन सङ्गच्छते । अतो मृदादिभग- वद्रूपं घटादिकार्य च भगवद्रूपं तत्रैव तिष्ठति। मूलेच्छातः पुरुषोत्त- मेच्छात इति। तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवद् इति विष्णुपुराणे प्रथमेंऽशे । वस्तुतो नित्यं, किन्त्वाविर्भावतिरोभावजन्मना- शविकल्पवत् । आविर्भावश्च तिरोभावश्च आविर्भावतिरोभावी ता- वेव जन्मनाशविकल्पौ तद्वदित्यर्थः । 'आविर्भावतिरोभावी शक्ती वै मुरवैरिण इति वाक्यं श्रीमदाचार्यचरणैरुक्तम् । भगवच्छक्तित्वा- देव वीर्यादिपरिणामानां देहादिभावः । परास्य शक्तिर्विविधैव शू- .
शुद्धाश्तयाण्डः। ९ यते स्वाभाविकी शानबलक्रिया चेति श्रुतेः । अनन्तशक्तिवाद भगवतः॥१४॥ आविःप्रकट भावयति कारणान्तःस्थ कार्य बहिः प्रकटीक- रोति या शक्तिर्निमित्तगतोपादानगता च सा आविर्भावशक्तिः । कार्य कारणे तिरोभावयति सा शक्तिस्तिरोभावशब्दवाच्येत्य- भिप्रेत्याहुः। तिरोभावे तु कार्य हि वर्तते कारणात्मना। प्राविर्भावे तु कार्य हि यथा मृदि घटादयः ॥ १५ ॥ तिरोभावे त्वित्यादि*अत्रैवं शेयम्। तन्तुतुरीवेमादिभ्यः प- टोत्पत्त्या मृद्दण्डचक्रादिभ्यश्च घटोत्पत्त्या तस्य तस्य पटघटजनने श- क्तिरिति निश्चीयते । सा च न खभावो, नापि खरूपम्। तथा सति तस्य सार्वदिकत्वाच्छीणेभ्योऽपि तन्त्वादिभ्यः पटाद्युत्पत्तिःस्यात्। भर्जिताद् बीजादप्यकुरोत्पत्तिः स्यात्। प्रतिबन्धकमणिसमवधानेऽपि वन्हेस्तृणादिकं दह्येत । स्वभावस्यानपायात् । स्वरूपस्य च सत्त्वात् । अतःशीर्णतन्त्वादिषु कालेन, भर्जितेषु भर्जनेन च नाश्या, अग्नेर्म- णि सन्निधाने प्रतिबध्या च काचित् स्वभावात् स्वरूपाचातिरिक्तव शक्तिरङ्गीकार्या। ननु तन्त्वादीनामविशीर्णत्वेन बीजानामप्यभर्जित- त्वेन रूपेणैव कार्यजननदर्शनात्तेनैव रूपेण कारणतेति नातिरिक्त- शक्तिकल्पनं गुरुभूतम् । वन्हिस्थलेऽपि प्रतिबन्धकमण्यभावन नि- र्वाहाच्चेति चेन्न । दावदग्धवेत्रबीजेभ्यः कदलीकाण्डजननस्य भा- मत्यां प्रदर्शितत्वात् काचिच्छक्तिर्भर्जनेन नाश्यते, अपरा आधी- यत इति मन्तव्यम् । वन्हिस्थले प्रतिबन्धकमणिसमवधाने उत्तेज- केन मणिना दाहदर्शनादुत्तेजकाभावविशिष्टमण्यभावविशिष्टवन्हेरे- व कारणत्वेऽतिगौरवम् । तथाहि । मण्यभावत्वेन प्रवेशे नानाकार्य- कारणभावकल्पनाऽत्यन्तमेव गुर्वी । मन्त्रौषधादिनापि दाहाभावा- त् । एवमुत्तेजकानामपि नानात्वात्तत्तत्स्वरूपेण प्रवेशे ततोप्यत्यन्त. गौरवम् । यत्किञ्चित्त्वेन प्रवेशे यावत्तदभावविशिष्टमण्यभावविशि- ष्टस्याग्नेर्दाहं प्रत्यकारणत्वात्ततो दाहाभावापत्तिः । यावत्त्वेन प्रवेशे यत्किश्चिद्वैशिष्टये दाहाभावापत्तिः । यथाकथञ्चित्त्वेन प्रवेशेऽपि ताशकार्यकारणभावज्ञानस्योत्तेजकतभावतद्वशिष्टयज्ञानाधीनतया २ . . १० समकाशः॥ तादृशगुरुशरीरकारणतास्वरूपज्ञानस्यैव दीर्घट्यमिति तदपेक्षया श- क्तिकल्पनमेव ज्याय इति सर्वनिर्णयावरणभङ्गे श्रीपुरुषोत्तमचरणै- विस्तरशो निरूपितमिति ततोऽवधेयम् । तस्मादाविर्भावतिरोभा- वयोः शक्तित्वम् । सा शक्तिमति भगवद्रूपे घटे तिष्ठति । अत एव घटो भवतीति कर्तरि प्रयोगः । स्वमते सर्वेषां भगवद्रूपत्वात् । इ- च्छासहकारेण नित्ययोरप्याविर्भावतिरोभावयोन सदैवोदयः। वि- शेषस्तु विद्वन्मण्डने श्रीमत्प्रभुचरणैरुक्तम् ॥ १५ ॥ आविर्भावतिरोभावलक्षणमाहुः। यदाऽनुभवयोग्यत्वं वर्तमानस्य वस्तुनः । प्राविर्भावः स विज्ञेयः स्तिरोभावस्ततोऽन्यथा ॥ १६ ॥ यदेत्यादि * । योग्यतानिवेशेन दरीविवराङ्करेष्वपूर्वं च ना- व्याप्तिः । शशशृङ्गादौ च नातिव्याप्तिः । वृद्धिविपरिणामादिष्वपि पूर्वरूपतिरोभावेन द्वितीयस्याविर्भावः । परिणामे रूपान्तरस्य । क्षये तु तिरोभावः । * अन्यथेति * तदयोग्यत्वमित्यर्थः ॥ १६ ॥ नन्वनयोरङ्गीकारे प्रागभावदिसत्त्वे चातिगौरवमत आहुः । प्रागभावादयो नाङ्गीकार्या आभ्यां यतोऽखिलम् । तद्विस्तरभिया नात्र लिख्यतेऽन्यत्र दृश्यताम् ॥ १७ ॥ प्रागभावादय इति * । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो- ऽन्योन्याभाव एते नाङ्गीकार्याः । यत आभ्यामाविर्भावतिरोभावा- भ्याम् ।कया रीत्या सिद्धिस्तनाहुः* तदित्यादि । अन्यत्र * प्राग- भावखण्डनसर्वनिर्णयनिबन्धावरणभङ्गादिषु । तत्र प्रागभावः कार- णावस्थातो नातिरिच्यते । तस्य भिन्नकारणत्वकल्पनायां प्रमाणा- भावात् । अग्रिमजननशानेनैव तस्यानुभव इति श्रीमदाचार्यचरणैरु- क्तं निबन्धे । नचेह कपाले घटो नास्तीति प्रतीतिस्तन मानम् । त- स्या घटत्वावच्छिन्नप्रतियोगिताकाभावविषयतया सामान्यत्वेन प्राग- भावाख्यविशेषानवगाहित्वात् । एवं ध्वसेऽपि दण्डादिस्वरूपमेव । तिरोभावशक्त्यतिरिक्तस्य ध्वंसस्य निरूपयितुमशक्यत्वात् । तेन रूपान्तरं पश्यन् पूर्वस्य तिरोभावमेव मन्यते ध्वस्त इति, श्रीमदा- . .. ।
शुद्धाऽद्वैतमार्तण्डः। चार्यचरणैस्तनै विनिरूपितम् । तिरो प्रकटं भावयति । तिरोभवनें वा तिरोभावः । उभयथाऽपि निमित्तोपादानान्यतरखरूपातिरिक्तो ध्वंसो न निरूपयितुं शक्यः । तदतिरिक्तस्यादर्शनात् । तथाच कार्य- प्रतिकूला कारणावस्थैव ध्वंस इति तदर्थः । प्रागभावादिप्रयोगाश्च, घटस्थानन्यथासिद्धनियतपश्चाद्भावित्वं दण्डस्य तादृशपूर्वभावित्वं चापेक्ष्य यथा घटदण्डयोः कार्यकारणप्रयोगस्तथा घटादेरग्रिम- जननमाकारान्तरं चापेक्ष्य कारण एव प्रागभावध्वंसपदप्रयोगः। घटः पटो नेत्यन्योन्याभावप्रतीतावपि घटे मूलेच्छया पटादीनां तिरोभा- वः। एवं पटे घटादीनाम् । यद्यपि सर्वेषां पदार्थानां ब्रह्मरूपत्वेन सर्वधर्मवत्वम् । तथापि मत्स्याद्यवतारवजलहरणकार्यार्थमेव घट- ब्रह्मण आविर्भावः । एवमावरणकार्यार्थमेव पटरूपब्रह्मणः । एतेना- न्योन्याभावानङ्गीकारे घटेन पटकार्य स्यादित्यादि निरस्तम् । भ- गवतस्तथेच्छातः सर्वमनवद्यम् । एवमत्यन्ताभावोऽपि तिरोभा- वेनैव गतार्थ इति दिक् । अभावस्याधिकरणरूपत्वमित्यन्यत्र वि- स्तरः ॥ १७॥ एवं प्रपश्चस्य सत्यत्वमुपपाद्य तत्प्रसङ्गेनाविर्भावतिरोभावी निरूप्य प्रस्तुतं कार्यस्य कारणस्याधिकरणस्य करणस्यापादानस्य सम्बन्धस्य सम्प्रदानस्य कर्मणः कर्तुः प्रकारस्य ब्रह्मरूपत्वमेवेति श्री- भागवतपोनाहुः। यव येन यतो यस्य यस्मै यद्यद्यथा यदा स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः ॥ १८ ॥ इति भागवते पद्ये सर्वस्य ब्रह्मता श्रुता । श्रुतिसूत्रैः स्मृतिगणैदृष्टिः स्वर्णार्थिनो यथा ॥ १९ ।। यत्रेत्यादि *। *यदोति* कालार्थकदाप्रत्ययेन कालस्यापि ब्रह्मत्वमुक्तम् । अत एव, कालोऽस्मीति श्रीभगवद्वाक्यम् । एतेना- स्मिन्मते न द्वैतलेशः । एतेनोपादानत्वे निमित्तत्वानुपपत्तिस्तत्त्वे चोपादानस्येति परास्तम् । सर्वभवनसमर्थत्वाद् ब्रह्मणः । विरुद्ध- धर्माश्रयत्वस्य ब्रह्मणो लक्षणत्वात् । तच्च प्रागेव निरूपितम् ॥१८॥ इतीत्यादि*। श्रुतयः, सर्व खल्विदं ब्रह्मेत्यादयः । एवञ्चात्मा- १२ समकाशः। -- क्रात्यमित्यादिसूत्राणि । भूतानि विष्णुर्भुवनानि विष्णुरिति वि- अणुपुराणे । वासुदेवः सर्वमिति स महात्मा सुदुर्लभ इति गी- तायाम्॥१९॥ इष्टान्तमुपपादयन्ति । मुवर्णस्य च ये खण्डाः कटका मुद्रिकादयः । मुर्वणत्वेन गृह्णाति तथा ब्रह्मविदो मतिः ॥ २० ॥ सुर्वणस्येत्यादि * । 'यथा हिरण्यं बहुधा समीयते नृभिः कि- याभिर्व्यवहारवर्त्मसु । एवं वचोभिर्भगवानधोऽक्षजो व्याख्यायते लौकिकवैदिकैर्जनैरिति श्रीभागवताष्टमस्कन्धवाक्यात् । 'यथा सु- वणे सुकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वद्' इति तस्यैवैकादशस्कन्धवा- क्याच्चेति भावः॥ २० ॥ तन श्रुति प्रमाणयन्ति । पथा सौम्येत्यादिश्रुतौ स्पष्टमेव निरूपितम् । तथा तत्त्वमसीत्यत्राऽभेदोंऽशांशिविचारतः ॥२१॥ यथेत्यादि*। यथा सौम्य एकेन मृत्पिण्डेन सर्वे मृण्मयं वि- झातं भवतीत्यादिश्रुतौ यथा मृत्तदवयवयोरभेदस्तथा तत्त्वमसीत्य- नाभेदोंशांशिनोरभेदादित्यर्थः । अत्र सर्वेषां मतसङ्ग्रहश्लोकः । केचित्तत्त्वमसीतिवाक्यविषये तत्त्वम्पदे लक्षणां _केचित्तत्र सो लुकं विदधते भाष्यं तु केचिजगुः ॥ केचिश्चिद्विषयादभेदमपरे छिन्दन्त्यतत्त्वं पदं सिद्धान्ते तु सुवर्णवजगदिदं ब्रह्मैव जीवस्तथा ॥१॥ अस्यार्थस्तु । केचिच्छङ्कराचार्याः । तच्छब्देन सर्वत्रत्वादि- विशिष्टं ब्रह्मा, त्वंशब्दनाल्पज्ञत्वादिविशिष्टो जीवस्तयोरभेदो न स- म्भवतीति भागयोःसर्वज्ञत्वाल्पज्ञत्वयोस्त्यागे केवलं चिदंशमात्रग्रह- णेनाभेदः । सोऽयं देवदत्त इतिवद्भागत्यागलक्षणां विदधते । केचिद् रामानुजमाध्वशैवाः, तत्त्वमित्यत्र, सुपां सुलुकपूर्वसवर्णाच्छेयाडा- शुद्धाऽद्वैतमार्तण्डः । १३ । ज्यायाजाल इति सूत्रेण जसो लुकं विदधते। तस्य त्वमसि तत्सम्ब- न्ध्यसि । मम्बन्धश्च सेव्यसेवकभावः । केचिद् रामानुजादिमतव्या- ख्यातारो भाष्यं व्याकरणभाष्य, प्रातिपदकनिर्देशे यां यां विभाक्तिं! बुद्धिरुपजायते सा सा आश्रयितव्येत्यचः परस्मिन्नितिसूत्रे । तदिति प्रातिपदिकम् । तेन षष्ठीविभक्तेराश्रयणम् । अर्थः पूर्ववत् । केचि. निम्बार्काश्चिद्विषयाच्चित्त्वसाधादू अभेदः । केचिन्माध्यैकदे- शिनः, अतत्वमसीति पदं छिदन्ति । तत्रार्थस्तु, तद् ब्रह्म त्वं नासि, किं तर्हि, जीवोऽसीत्यर्थः । सिद्धान्ते ब्रह्मवादिसिद्धान्ते । सुवर्ण- स्यांशाः सुर्वणरूपास्तथा ब्रह्मांशं जगद् ब्रह्मैव, तथा जीवोऽपि- चिदंशो ब्रह्मानेन वाक्येन बोध्यत इत्यर्थः ॥ १॥ एवमुक्तानां खण्डनसङ्ग्रहश्लोकः । तत्रोपक्रमसङ्गतिबहुविधा भग्ना प्रतिज्ञाश्रुति- भक्तिः स्याद्यदि, न त्वमेव कथयेनेदे च नो तुल्यता ॥ साधयेऽपि तु भेद एव रसितश्छेदो न सम्यग्यतः सिद्धान्तः श्रुतिसंमतो विलसति प्राज्ञैर्विचार्य मुहुः ॥२॥ एतदर्थस्तु, शङ्कराचार्यादिव्याख्यानेषु उपक्रमस्य सङ्गतिर्ब- हुप्रकारेण भग्ना स्यात् । तथाहि । तत्त्वमसीतिवाक्यं श्वेतकेतूपा- ख्यानेऽस्ति । तत्रोपक्रमे, अपि वा तमादेशमप्राक्षो येनाश्रुतं श्रुतं भ- यत्यमतं मतं भवत्यविज्ञातं विज्ञातं भवतीत्यादिना एकविज्ञाने सर्व- विज्ञानं प्रतिज्ञातम् । तदेकमेव चेत् सर्वे भवेत् तदोपपद्यते । यथा सुवर्णकार्य सुवर्णखण्डाः सर्व सुवर्णमिति सुवर्णज्ञानेन तज्ज्ञानम्भ- वति । तदर्थ सदेव सौम्येत्यारभ्य निरूपितम् । ततो जडस्य सर्व- स्थाऽपि सदात्मकत्वार्थम्, ऐतदात्म्यमिदं सर्वमित्युक्तम् । तर्हि जड- गताऽसत्यत्वादिदोषस्तत्परिहारार्थमाह । तत्सत्यमिति । तेनाविर्भा- वतिरोभावी पदार्थानां शेयौ । पूर्वोत्तरयोर्जडजीवयोः सदात्मकत्वे हेतुमाह । स आत्मति । एवं जडस्य ब्रह्मात्मकत्वमुक्त्वा जीवस्याप्या- ह । तत्त्वमसीति । उपदेशश्चाऽयम् । आवृत्तिरसकृदुपदेशादिति ब्र- मसूत्रात् । अतः सम्पूर्णमहावाक्यमुपदेशः । तत्र यथा ऐतादात्म्य- मिति सदंशे न भागत्यागलक्षणा, तथोत्तरत्रापि चिदंशे न भागत्या- गलक्षणा । नापि श्वेतकेतुरवतारः, पूर्व स्तम्धत्वादिदोषकीर्तनात् । -- १४ सपकाशः। अतो ब्रह्मवाक्यत्वात्तदेकदेशस्तत्त्वमसीति केवलं जीवब्रह्मणोरक्यं न बोधयति, वाक्यभेदप्रसङ्गाद उपक्रमविरोधाच्चति सर्व श्रीमदा- चार्यचरणैरुक्तम् । एवञ्च । उपक्रमोपसंहारे योऽर्थस्तु प्रतिपद्यते । स एवोत्तरपक्षः स्यात् पूर्वपक्षस्ततोऽन्यथा ॥ इत्यभियुक्तोक्तेरुपक्रमविरोधेन लक्षणा नाङ्गीकार्येत्यर्थः । भेदयादिनां मते सर्वविज्ञानप्रतिज्ञाभङ्गो, जगतो भिन्नत्वात् । न हि सुवर्णज्ञाने मृद्विकारा ज्ञायन्ते । किन्तु सुवर्णविकारा एव । वास्तविकभेदाभेदवादिनां मते भेदज्ञानस्य वास्तवत्वेन तेषां भेदवा. दिवदुपक्रमविरोधः, प्रतिज्ञाहानिश्च । किश्च भक्तिर्लक्षणा यदि स्यात् तर्हि त्वंशब्दवाच्यस्य पिण्डस्य ब्रह्मत्वमिष्टं न स्यात्तर्हि, न त्वमसी- त्येव ब्रूयात् । त्वमल्पगुणोपाधिको ब्रह्म नासीत्यर्थः । कथयति त्वेवं, तस्माल्लक्षणा नाभिमता । भेदे च, तस्य त्वमसीति व्याख्याने भेद एव स्थितः । तथाच जीवस्य भिन्नत्वात कस्यचित् सुखं कस्यचिद् दुःखमिति ब्रह्मणि वैषम्यमित्यर्थः। एतच्चाने वक्ष्यन्ति । भेदाभेदवा- दिमते चित्त्वसाधयेणाभेदस्तथाच भेद एव रसितः पर्यवसित इ- त्यर्थः । एवञ्च भेदवादिवत्तेषामपि मते दोषः । अतत्त्वमसीतिच्छेद- स्तु न वैदिकसंमत इति श्रीमदाचार्यचरणोक्तेर्न सम्यक् । तस्मिन् पक्षे, अतत् ब्रह्म त्वं नासीत्यर्थे, जीवोऽसीति पर्यवसिते जीवस्य खतः सिद्धत्वेन ब्रह्मत्वस्याप्राप्त्या च तादृशपदच्छेदो न सम्यगि- त्यर्थः । अतः पूर्वश्लोके, छिदन्त्यतत्त्वं पदमित्युक्तम् । तत्रातत्त्वम् । अवैदिकसंमतं पदं छिन्दन्तीत्यपि श्लोकार्थः । सिद्धान्तः शुद्धा - तसिद्धान्तः । श्रुतिसंमत उपक्रमोपसंहारश्रुतिसंमत इति प्राःप- ण्डितैर्विचार्यमित्यर्थः ॥ २१ ॥ एवमद्वैतपदार्थ निरूप्य शुद्धपदव्यावर्त्यमाहुः अत्रच शाङ्कराः प्राहुर्मायिकं नश्वरं जगत् । मायासम्बन्धतो ब्रह्म कारणं नान्यथैव हि ॥ २२॥ . अत्रैवेत्यादि * । कार्यकारणविचारे । शङ्करा एव. शाङ्कराः ।
शुदाऽदैनमार्तण्डः। खार्थेऽण् । ईदृशं घटपटाद्यात्मकं जगन्मायिकमतो नश्वरं नाशशालि। एषांमते प्रपञ्चस्य मायिकत्वेन तस्य कारणेन ताशेनैव भवितव्यम्। कारणसजातीयत्वात्कार्यस्य तश्चाज्ञानमेव कारणम्।ब्रह्मणस्तु निष्क- लं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अथात आदेशो नेति नेतीत्या- दिश्रुतिभ्यः । इन्द्रो मायाभिः पुरुरूप ईयते, यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इत्यादिश्रुतिभ्यो निराकारत्वमकर्तृत्वमुपास्यस्याब्रह्मत्वम् । किञ्च यद्यत् कर्तृ तत्तत् सधर्मकम् । यद्यत् साकृति तत्तन्नश्वरमित्यनुमानत आकारस्य न- श्वरत्वेन च ब्रह्मणो निराकारत्वसिद्धिः । अज्ञानं चाऽहम इत्यनु- भवसिद्धम् । तस्य नामान्तरं माया चाविद्येति । सा विचित्रपरिणा- मशीलतया विचित्र जगत् प्रतीयते ।शुद्धसत्त्वप्रधाना माया।मलि- नसत्त्वप्राधानाऽविद्येति.भेदः । तत्र यथा जलदर्पणादिषु सूर्यादिप्र- तिबिम्बस्तद्वन्मायाविद्यादिब्रह्मप्रतिबिम्बतयेशजीवव्यवहारः । यथा- वाऽऽकाशस्य वृक्षवनादिना परिच्छेदप्रतीतौ वृक्षवनाकाशादिव्यवहा- रस्तथाऽविद्यामायासम्बन्धेन जीवेशादिव्यवहारः। यथा वाङ्गुलिस- म्पर्कादिनाद्विचन्द्रादिप्रतीतिस्तथा मायासम्बन्धतो जीवेशादिप्रती- तिः। अत एव, आभास एव चेति सूत्रेण व्यासैर्जीवस्याभासत्वमुक्तम्। यथा रजौ साभासस्तथा ब्रह्मणि जीवाभास इति। अत एव,वाचा- रम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुतौ वाचैवारभ्यते विकारो घटादिर्न वस्तुतः सदित्यर्थः । 'यदिदं मनसा वाचा चक्षु- या श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् । इति श्रीभगवद्वाक्येनापि मायिकत्वेन नश्वरत्वसिद्धरतो भ्रान्त्यैव जगत्प्रतीतिरतो ब्रह्मण्यपि कर्तृत्वादिकं भ्रान्तिरेव । ननु विश्वतश्चक्षुः, सहस्रशीर्षा, सम्बाहुभ्यां धमति, प्रज्ञान- घनः, विश्वस्य कर्ता भुवनस्य गोप्ता, जन्माद्यस्य यतः, कर्ता कार- यिता हरिः, अहं सर्वस्य प्रभव इत्यादिश्रुतिसूत्रस्मृतिभिः साकार- त्वं कर्तृत्वं च सिद्धत्वादितिचेन्न।शुद्धब्रह्मणो दुईयत्वेन शाखारुन्ध- तीन्यायेनोपासनार्थ सधर्मकत्वं ब्रह्मण्यारोप्य पश्चानिषेधकतया क. तृत्वाद्यपेतं ब्रह्म बोधयति । उपासनया हि चित्तशुद्धौ सत्यामद्वैत- स्फूर्त्याऽविद्यानिवृत्त्या ब्रह्मैव भवतीति तेषां मतम् । तन्न । यदिदं किञ्च तत् सत्यमित्याचक्षते । तत्सत्यम् । सर्व १६ सप्रकाशः। खल्वित्यादि । तदेतदक्षयं नित्यं जगन्मुनिवराखिलमित्यादिवाक्यदु- क्तवाक्यैश्च जगतः सत्यत्वं ब्रह्मत्वं चोक्तमिति जगतो मायिकत्वे मानाभावात् । प्रत्यक्षकादशशाखासु च मिथ्यात्वकथनाभावात् । कार्यकारणयोः साजात्याद् ब्रह्मणः कर्तृत्वं यतो वेत्यादि, जन्माध- स्येत्यादिवाक्यैः प्रतिपादितम् । असतोऽज्ञानस्य कारणत्वाभावात् । नचासतः स्वप्नस्य शुभाशुभफलसूचकत्वेन कारणत्वमिति वाच्यम् । जागरितदशायां रष्टश्रुतस्य मननसम्बन्धन स्वप्नदर्शनादतःसत एवं कारणत्वम् । अन्यथा स्वामिकभोजनादू वास्तविकी तृप्तिः स्यात् । निकलमित्यादिश्रुतौ लौकिकक्रियाकलासत्त्वादिगुणजन्यशरीरवि. कारीन्द्रियजडधर्मनिषेधपरत्वेन कथनात् । सामान्यनिषेधे तु एत- स्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीतिकलाया, आसीनो दूरं व्रजतीत्यादौ क्रियाया, एको देवः सर्वभूतेषु गूढ इत्यादिगुणा- नाम्, अपाणिपादो. जवनो ग्रहीतेति, उताऽमृतत्वस्येशान इत्युक्त्वा सर्वतः पाणिपादकथनादन्यथाशरीरस्याविकारीन्द्रियाणाम्, अणो- रणीयान्महतो महीयानित्यादावणुत्वादिबोधकानां विरोधापत्तेः। अ- थात इत्यनेतिशब्दः प्रकारवाची। तेन लौकिकप्रकारकं न भवतीत्य- र्थः । व्यासचरणैः, प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति सूत्रं पठितम्। तत्र निषेधवाक्यैरतावत्त्वस्थूलत्वादिकं प्रकृतं लो- किकं प्रतिषेधति, न तु ब्रह्मधर्मान् । ततो ब्रवीति च भूय इति । यत्र वाक्ये प्रकरणे वा निषेधति तवैव पुनस्तद्धर्ममाह श्रुतिः । अस्थूला- चुक्त्वा, एतस्यैवाक्षरस्य प्रशासने गार्गि द्यावाभूमी विधृते तिष्ठत इत्यर्थः । यदीदं सूत्र मूर्तीमूर्त्तनिषेधपरं तर्हि प्रकृतैतावत्पदयोरन्य- तरवैयापातः । अथवा प्रकृते ब्रह्मणि यदेतावत्त्वं, तत् प्रतिषेध- तीति । इन्द्रो मायाभिरिति तु, 'रूपं रूपं प्रतिरूपो बभूव यत्तस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते इति मन्त्रः। तत्र माया शानं प्रति करणं, न तु ब्रह्मणो बहुस्वरूपत्वे । अन्यथा पूर्वार्द्ध एव मायाभिः पुरुरूपो बभूवेति वदेत् । यदू वाचेत्यस्यार्थस्तु, यद् वागा- धगम्यं तत् । प्रेरयितृ ब्रह्म विद्धि, नेदं वागादि । तर्हि कथं तस्य शानं तवाह । यदिदं श्रुतिप्रसिद्धम् उपासते, वैदिका इति शेषः । यधुपास्यस्याब्रह्मत्वमभिप्रेयात् पुनरिदारं न श्रूयात् । नेदं यदु. पासत इत्येतावतैव सिद्धः। यद्यत् साकृति संत्तनश्वरमित्यनुमाने । .
शुद्धाद्वैतमार्तण्डः। १७ तु जन्यत्वात्प्राकृताद्धति हेतोरवश्यं वाच्यत्वेनेश्वरे तदभावात् । अज्ञानं चेत्यादिकथनं त्वपेशलम् । तदज्ञानं ब्रह्मणि जीवे वा। आधे ब्रह्मण आधारत्वापत्ती सविशेषत्वापत्तिः। अज्ञानित्वापत्तिश्च । जी- वस्य त्वज्ञानरूपत्वमेवेति । न द्वितीयः। जलादौ खच्छाधारे रूपव- त्प्रतिबिम्बदर्शनेन मायाया मलिनत्वेन मिथ्यात्वेन ब्रह्मणश्चारूप- त्वेन प्रतिबिम्बासम्भवः । अन्यथा वायोरपि काष्ठे स्यादित्यादि वि- द्वन्मण्डने बहुशो निरूपितम् । आकाशस्य तु न प्रतिबिम्बः, किन्तु प्रभामण्डलस्य । किञ्च पञ्चीकरणप्रक्रिययाऽऽकाशे पृथिव्यंशसत्त्वेन रूपवत्तया प्रतिबिम्बत्वोपपत्तेः । वायौ त्वनुभूतरूपवत्त्वेन रूपवत्त्वा- प्रतीतेः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति दृष्टान्त ए- कस्य नानात्वे, न तु प्रतिविम्बत्वे । किञ्च। प्रतिबिम्बपक्षे ब्रह्मणो बि- म्बत्वापत्तौ सविशेषत्वापत्तेः। आभास एव चेति सूत्रं त्वनाचारि- ब्राह्मणे यथा ब्राह्मणाभासस्तथा तिरोहितानन्दांशे ब्रह्माभास इति- बोधकम् । रजुसर्पदृष्टान्तोऽपि न सम्भवति । अन्यत्र वास्तविकदृष्ट- सर्पस्य दृश्ये रजौ तृतीयस्य द्रष्टुः सर्पाभासः । अत्र जगतो वास्त- विकस्याभावाद् ब्रह्मणश्चादृश्यत्वेन द्रष्टुश्चाभावेन वैषम्यात् । कि- च, घटपवाद्यात्मनाभासे यथा मनी नाश्वाकाराभासः, किन्तु स- पाभास एव तत्सादृश्यात् । एवं ब्रह्मण्यपि ताहशत्वापत्तौ साकार- त्वापत्तिः । गन्धर्वनगरादिष्वपि वायुसम्बन्धेन जायमानत्वेनात्रा- न्यस्याभावान्नात्र दृष्टान्तसम्भवः । वाचारम्भणवाक्यं तु ब्रह्माभिन्न- त्वबोधकमित्यग्रे वक्ष्यते। यदिदमितिश्लोके तु चक्षुराभिर्नश्वरं गृ- ह्यमाणं यत् तन्मायाममोमयं विद्धीत्यन्वयेन स्वाप्निकस्यैव नश्वरत्वेन तस्यैव मायिकत्वात् । अत एव, मायामात्रं तु कात्स्न्येनानभिव्यक्त- स्वरूपत्वादिति व्यासपादैः स्वानिकप्रपञ्चस्य मायिकत्वमुक्तम् । अत एव च, वैधाच्च न स्वप्नादिवदित्यनेन जगतःस्वप्नादिवन्नि- षेधेन जगतो मायकत्वाभाव उक्तः। श्रीप्रभुचरणैस्तु, यदिदं याद- वकुलं चक्षुरादिभिर्गृह्यमाणं तन्मायिकं नश्वरं विद्धि । विप्रशापः कथमभूद् वृष्णीनामिति प्रश्नोत्तरप्रकरणे निरूपितत्वादित्युक्तम् । अतो न केनापि वाक्येन मायिकत्वम् । किश्च, मायिकत्वं पुराणेषु वैराग्यार्थमुदीर्यत इति श्रीमदाचार्यचरणैरुक्तम् । उपासनार्थ धर्मा- रोप इत्यादिकमप्ययौक्तिकम् । न हि शाखावत् प्रत्यक्षं ब्रह्म, यस्मि- १८ समकाशः॥ अरुन्धतीव धर्मा आरोप्यन्ते । किञ्चोपहितस्य त्याज्यत्वेन पुत्रादि- वत् तत्त्यागापत्तिः। किञ्च,न मिथ्याज्ञानेन चित्तशुद्धिः। अन्यथा प्रा- पञ्चिकज्ञानेनापि चित्तशुद्धिः स्यात् । किञ्च, जीवन्मुक्त्युच्छेदाप- त्तिः। ज्ञानोदयेऽविद्याशरीरनिवृत्तिः । किञ्च, प्रवेशानुपपत्तिः । जी- वहानिरेव मोक्षः । जीवस्य मायिकत्वेन मायानाशे तन्नाश इति दिक् ॥२२॥ मायामूलत्वमस्य मतस्यातो मायाजन्याजन्यत्वे पृष्टोभयं दू- षयन्ति। किञ्च जन्या त्वजन्या वा मायाऽऽये जनको हि कः। अन्याभावात्तु ब्रह्मैव सविशेषत्वमागतम् ॥ २३ ॥ द्वितीये त्वद्वैतभङ्गः कादाचित्कं लसङ्गतम् । आत्मैवेदमग्र आसीदित्यादिश्रुतिबाधतः ॥ २४ ॥ किञ्चेत्यादि * आये जन्योति पक्षे । ब्रह्मैव जनक इति चेत् तर्हि भद्रं, सविशेषत्वं ब्रह्मण्यागतमित्यर्थः ॥ २३ ॥ २४ ॥ अनादित्वे तु सान्तत्वमिति पक्षोऽप्यसङ्गतः । अनादित्वे त्वनन्तत्वं मायाया इति निश्चयात् ॥ २५ ॥ यद्यदनादि तत्तदनन्तम् । यथा ब्रह्मेत्यनुमानेन मायाया अ- प्यनन्तत्वापत्तेः । अथानादिः सान्तः प्रागभाव इति, नायं नियम इति चेन्न । प्रागभावखण्डनस्योपपादितत्वेन न व्यभिचारः ॥ २५ ॥ एवं तन्मतं खण्डयित्वा प्रकृतमाहुः । एतन्मते सुनिष्पन्न साङ्कय कार्यकारणे तनिवृत्त्यर्थमाचार्यः पदं शुद्धं विशेषतम् ॥ २६ ॥ एतन्मतइति * शङ्कराचार्यमत इत्यर्थः । अविद्यावच्छिन्नचै- तन्य कार्य, मायावच्छिन्नं चैतन्यं कारणमिति साङ्कयमित्यर्थः । त- निवृत्त्यर्थ साङ्कर्यनिवृत्त्यर्थम् । अद्वैतपदे विशेष्ये विशेषणतयान्वि- समित्यर्थः ॥ २६॥ एवं शुद्धपद्प्रयोजनमुक्त्वा समासमाहुः । । ।
. शुद्धाऽद्वैतमाण्डः। शुद्धाद्वैतपदे शेयः समासः कर्मधारयः । अद्वैतं शुद्धषोः प्राहुः षष्ठीतत्पुरुषं बुधाः ॥ २७ ॥ शुद्धाद्वैतपद इत्यादि *। *कर्मधारय इति* शुद्धं च तदद्वैत- मिति विग्रहः । नचाद्वैते सति साङ्काभावः स्पष्ट एवेति शुद्धपद्- मपार्थमिति वाच्यम् । परेषां मते पूर्व साडून्य, ततोऽद्वैतम् । अस्म- न्मते तु सदैव शुद्धत्वमिति शेयम् । अत एव स्पष्टतया बोधाय ष- ष्ठीतत्पुरुषमाहुः । अत्र शुद्ध कारणे कार्यस्याद्वैतमिति पक्षे कार्येशु- द्धत्वम् । अयं दोषः, शुद्धेन ब्रह्मणाद्वैतमिति तृतीयातत्पुरुषेऽपि । शुद्धाभ्यामद्वैतमिति पक्षे तार्तीयोऽपेशितः। शुद्धाभ्यां नामरूपाभ्या. मिति समासे कारणेऽशुद्धत्वम् । एवं शुद्धस्य कार्यस्येति पक्षे कार- णेऽशुद्धत्वं प्राप्तम् । एवं शुद्धानां पदार्थानामद्वैतमित्यत्रापि ॥ २७ ॥ मायासम्बन्धरहितं शुद्धमित्युच्यते बुधैः । कार्यकारणरूपं हि शुदं ब्रह्म न मायिकम् ॥ २८ ॥ मायासम्बन्धरहितमिति *।नचाहन्ताममताऽध्यासस्य माया- कृतत्वेन मायासम्बन्धस्य स्वमतेऽपि सम्भव इति वाच्यम् । स्व- मते मायाया अपि, मम मायेति वाक्याद् भगवच्छक्तित्वेन तस्याश्चा- भिन्नत्वेन न परमतवन्मायासम्बन्धः। किश्चाध्यास एव मायिको, न जीवः । जीवस्य मायिकत्वं तु पूर्व निरस्तम् ॥२८॥ इति ब्रह्मविदां दाह शुद्धाद्वैतं श्रुतेर्मतम् । तत्रोत्तमा मध्यमाश्च कनिष्ठा ह्यधिकारिणः ॥ २९ ॥ इतीति * 1 * श्रुतेरिति * जातावेकवचनम् । नृसिंहतापिन्यां, योनित्वं ब्रह्मणः समर्थयित्वा, सर्व सर्वमयं सर्वे जीवाः सर्वमयाः सर्वावस्थासु तथाऽप्यल्पा इत्युक्तम् । तथापि सर्वरूपत्वेऽप्यल्पा अणुपरिमाणाः । अग्रे चेश्वरः सर्वभूतादीनि सृष्टा प्रविश्यास्त इति निरूप्याने, सन्मात्री नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभु. रद्वय आनन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवगत इति वाक्यं प- ठितम् । अनेन परमात्मनः शुद्धत्वमुदितम् । अग्रे च जगतोऽविद्या- याश्च सदृपत्वेन ब्रह्माभेदो, ब्रह्मण्यविद्याभावो निरूपितः। उपसंहारे, २० सप्रकाशा विष्णुरीशानो ब्रह्मान्यदपि सर्वे सर्वगमिति वाक्यं पठितम् । यत् सर्वगं कारणभूतं ब्रह्म तदेव विष्ण्वादिरूपं घटादिरूपं चेतनाचेतना- ऽऽत्मकमित्यर्थः । एतदने सर्वस्य जगतः शुद्धात्मत्वाय वाक्यं पठि- तम् । सर्वमत एव, शुद्धोऽबाध्यवरूपो, बुद्धः सुखरूप आत्मति । एवञ्च श्रुतिषु सर्वस्य शुद्धाद्वयत्वं स्पष्टमतः श्रुतेर्मतमित्यर्थः ॥२९॥ . - तेषां प्रतीतिः प्रथमस्कन्धे तु श्रीहुताशनैः । इदं हि विश्वमित्यत्र मुबोधिन्यां निरूपिता ॥ ३० ॥ तेषामिति * अधिकारिणामित्यर्थः। * श्रीहुताशनैःश्रीमदाचा- र्यचरणैः। * इदं हि विश्वमित्यत्रोत * 'इदं हि विश्वं भगवानिवेतरो यस्मिञ्जगत्स्थाननिरोधसम्भवाः । तद्धि स्वयं वेद भवाँस्तथापि वै प्रादेशमानं भवतः प्रदर्शितम्' इति श्लोक इत्यर्थः । अत्रेदं विश्वं भ- गवानित्युत्तमस्य प्रतीतिः । इदं विश्वं भगवानिवति मध्यमस्य । तत्र यथा भगवान् सच्चिदानन्दरूपस्तथा जगदिति । इदं विश्वं, भगवा- नितरो जगत्कारणत्वादिति कनिष्ठस्येति श्लोकार्थः ॥ ३० ॥ सर्व ब्रह्मैव तत्राये द्वितीये भगवान् यथा । तथा विश्वमिदं सर्वं ब्रह्मकार्य निजेच्छगा ॥ ३१॥ कार्यरूपेण भेदो हि न भेदः कारणात्मना । भेदसह्यस्तभेदोऽत्र तादात्म्यं परिकीर्तितम् ॥ ३२ ॥ तृतीये भगवान भिन्नो जगनः कर्तृतः स्फुटः । इति द्वैतप्रतीतिस्तु श्रुतिवाधान गृह्यते ॥ ३३ ॥ तत्रेति * अधिकारिष्वित्यर्थः । आये * उत्तमाधिकारिणि । सर्व भगवानेवेति सर्वत्र भगवत्स्फूर्तिः सदेत्युत्तमाधिकारिणः प्र- सीतिः। द्वितीये * मध्यमेधिकारिणि ॥ ३१ ॥ ३२॥ तृतीये * कनिष्ठेऽधिकारिणि । यथा घटोत्पादकः कुलालो घटतो भिन्नस्तथा भगवाञ्जगतो भिन्न इत्यर्थः । * श्रुतिबाधादिति* सर्व खल्विदं ब्रह्म, ऐतदात्म्यमिदं सर्वम् । आत्मैवेदं सर्वम् । पुरुष एवेदं सर्व यदु भूतं यच्च भाव्यम् । द्वितीयाद्वै भयं भवति । य एत- शुद्धाऽदैतमार्तण्डः। . N स्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवति, योऽन्यां देवतामुपास्ते- ऽन्योऽसावन्योऽहमस्मि न स वेद यथा पशुरित्यादिश्रुतिवाधादि- त्यर्थः॥३३॥ शुद्धाद्वैतविदां या हि प्रतीनिः सोत्तमा मता। भेदाभेदप्रतीतिस्तु मध्यमानां प्रकीर्तिता ॥ ३४ ॥ शुद्धाद्वैतविदामिति * सर्वत्र भगवत्स्फूर्त्या विषयान्तरानु- सन्धानानुदयादिति भावः । * भेदाभेदप्रतीतिरिति * कार्यरूपेण भेदः कारणात्मनाऽभेद इति प्रतीतिरित्यर्थः । * मध्यमानामिति * अधिकारिणामित्यर्थः ॥३४॥ अतो हि मध्यमः पक्षः शुद्धाद्वैतानुगेधतः । बोधाय बहु सन्दर्भे गोस्वामिपुरुषोत्तमैः ॥ ३५ ॥ शुद्धाद्वैतानुरोधत इति * । कार्यत्वेन कारणत्वेन भेदेऽपि ब्रह्मत्वं न व्यभिचरतीति शुद्धाद्वैतानुरोधस्तस्मादित्यर्थः । *सन्दर्भ इति* ग्रन्थ इत्यर्थः । वाक्यसन्दर्भो ग्रन्थ इति लक्षणात् ॥ ३५ ॥ श्रीमदाचार्यचरणैर्यत्र कुवापि दर्शितः । निम्बार्कभास्कराचार्यों भेदाभेदनिरूपको ॥ ३६ ॥ श्रीमदाचार्यचरणैरिति * सुबोधिन्यादिषु यत्रकुनापि दर्शित इत्यर्थः । ननु भेदाभेदपक्षस्तु निम्बार्कभास्कराणामिति शङ्कायां स्व- स्माद्भिन्नत्वं समर्थयन्ति * निम्बार्केत्यादि * ॥ ३६ ॥ तत्राद्यानां वास्तवः स भास्कराणामुपाधितः । तत्राद्ये वास्तवो भेदो माध्वाचार्यवदेव हि ॥ ३७ ॥ तत्रेति * उभयोर्मध्य इत्यर्थः । आद्यानां * निम्बार्काणाम् । स *भेदाभेदः। * उपाधित इति * उपाधिकृत इत्यर्थः । *तांति भेदाभेदपक्ष इत्यर्थः । आये * निम्बार्कभेदाभेदे । तत्राभेदो भेदश्चे- ति कोटिद्वये भेदो वास्तवः । * माध्वाचार्यवदिति दृष्टान्तेन माध्वा- चार्यस्य मतमनूदितम् ॥ ३७॥ . ।
२२ सपकाशः । विभिन्नांशाः सदा जीवा न स्वांशा इति निश्चयः । अभेदश्चित्त्वसाधादेनं तेषां मतस्थितिः ॥ ३८ ॥ माध्वाचार्याणां मते अंशा द्विविधाः । करचरणादिवत् स्वां- शाः । पुवादिवद् विभिन्नांशाः । तत्र स्वांशा मत्स्यादयः। विभि- नांशा जीवाः । अंशत्वं नाम राश्येकदेशत्वम् । माध्वानुयायिवन- मालिदासस्तु, तद्भिन्नत्वे सति तत्सहशत्वमंशत्वम्।यथा चन्द्रमण्ड- लाच्छतांशो गुरुमण्डलः। तथांऽशो नानाव्यपदेशादित्यादिष्वित्याह । तेन जीवेषु न कदापि ब्रह्मत्वमिति । तद्वनिम्बार्काचार्याणाम् । तर्हि कथं भेदाभेदस्तत्राहुः * अभेद इति *। * चित्त्वसाधादिति * यथा मुखं चन्द्र इत्यत्राल्हादकत्वादिधर्मसाम्यान्मुखे चन्द्रारोपा- न्मुखं चन्द्र इति व्यवहारस्तथा चित्त्वसाधाजीवो ब्रोति व्यव- हार इति भावः । तेषां * निर्वाकाणाम् ॥ ३८ ॥ कनिष्ठा सा प्रतीतिस्तु नास्मन्मतमवेक्षते । अभेदो वास्तवस्स्वांशा जीवा इति निजे मते ॥ ३९ ॥ कनिष्ठाधिकारिप्रतीतिरतः कनिष्ठत्यर्थः। निम्बार्कभेदाभे- दप्रतीतिस्त्वित्यर्थः । अस्मन्मतं शुद्धाद्वैतमतम् । एवं निम्बार्काणां भेदाभेदं निरूप्य स्वमेते प्रतीयमानं भेदाभेदं निरूपयन्ति * अभेदो वास्तव इति * स्वांशा ब्रह्मांशाः । तेनांशांशिनोरभेदः। स च वा- स्तव इत्यर्थः ॥ ३९ ॥ भेदः कार्यतया जातः क्रीडार्थ तु हरीच्छया। पश्चाल्लये कारणे हि स्थितिदृष्टा यथा मृदि ॥ ४० ॥ क्रीडार्थमित्यादि * । एकाकी न रमते स द्वितीयमैच्छत्, ए- कोऽहं बहु स्यामित्यादिश्रुतेः। क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियः पर ईश कुर्युरिति वाक्यात, क्रीडाभाण्ड- मिदं विश्वमिति वाक्याच्च । * लय इति * तिरोभावे । कारणे का- र्यस्योति शेषः । त्वय्यग्र आसीत्त्वयि मध्य आसीत्त्वय्यन्त आसीदि- दमात्मतन्त्रे। त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः पर- ..
शुद्धाऽदैतमार्तण्डः। २३ स्माद' इत्यष्टमस्कन्धे अमृतमन्थने ब्रह्मवाक्यात् । तदेव दृष्टान्तमुप- पादयन्ति * यथा मृदीति * ॥ ४०॥ पूर्वावस्था तु मृदूपा घटावस्था ततो भवत् । घटोऽपि मृत्तिकारूपो लये पश्चाच्च मृत्तिका ॥ ४१ ॥ पूर्वावस्थेति * कारणावस्थेत्यर्थः । ततः कारणरूपान्मृदः । ननु घटावस्थायां कथमद्वैतं तत्राहुः *घटोऽपीति एवञ्च तिसृष्व- प्यवस्थासु मृदेवैवं जगद् ब्रह्मैवेति न द्वैतसञ्चारः अनेन, वाचारम्भ- णं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुत्युक्तं संगृहीतम् । श्रु- त्यर्थस्तु।यो विकारः पृथुबुध्नोदरादिः स वाचारम्भणं, वाचिकक्रि- यात्मको न तु कारणाद् व्यक्तिभेदापादकः । यथा सुप्त उत्थिते उप- विष्टे च पुरुषेऽवयवविन्यासभेदो न पुरुषभेदः । अतो नामधेयङ्कार- णस्यैव नामधेयं, कारणमेव हि तत्तदर्थक्रियानिष्पत्त्यर्थ घटशरावा. दिनाम्ना व्यवहियत इति कारणादभिन्न कार्यम् । तदाह, मृत्तिके- त्येव सत्यम् । कारणरूपेण सत्यम् । न तु मिथ्या । अन्यथा कार्या- भावेन ब्रह्म कस्य कारणं भवेत् । कारणाभावे कारणप्रतिपादिका यतो वेत्यादिश्रुतयो विरुध्येरन् । यदि विकारे वाङ्मात्रतामभिप्रे- याद् वाचारम्भणं विकारो मृत्तिकैव सत्यमिति वदेत् । तावतैव कार्यस्य मिथ्यात्वसिद्धः । वदति तु नामधेयमितिपदाभ्यां घटितम् । तेन कारणादभिन्न कार्यमित्यभिप्रायादुक्त एवार्थः । किञ्च, वाचार- म्भणमिति वाक्यमुपक्रम्याग्रे, कथमसतः सजायतेति, सदेव सौम्ये- दमग्रमासीदिति पठितम् ।अत एव सूत्रकार इमामेव श्रुतिं विषयी- कृत्य, तदनन्यत्वमारम्भणशब्दादिभ्य इत्यवदत् । अर्थस्तु, वाचा. रम्भणमित्यादिशब्देश्यस्तदनन्यत्वं कारणादभिन्नत्वं बोध्यत इति। अत्राऽदिपदेनेतिशब्दो, नामधेयपदं, सदेवेत्यादीनि वाक्यानि सं- गृह्यन्ते ॥४१॥ तदाहुः। कार्यकारणयोरैक्यं स्वमते न परे मते । नम्बार्के नेशो मार्ग इति योद्धव्यमञ्जसा ॥ ४२ ॥ कार्यकारणयोरित्यादि * । परे * खमताद्भिन्ने । शङ्कराचार्या- २४ सपकाशः। स्तावत् कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयेण कथयन्ति । तेषां कार्यकारणयोरनन्यत्वं न सिध्यति । सत्यमिथ्ययोरभेदानुपप- तेः । अत्र सर्वमतोपन्यासः, खण्डनं च विस्तरभिया नोच्यते। *नै- म्बार्के इति * निम्बार्कस्येदं नम्बार्के मतं, तस्मिन्मत इत्यर्थः । ईदृशः * जगब्रह्मणोरैक्यबोधको मार्गः ॥ ४२ ॥ भास्कराचार्यमतमाहुः । मोपाधिको भास्करे हि स्वस्मादिनस्तु सर्वथा । भेदपक्षे तु जीवानां सुखदुःखादिदानतः ॥ ४३ ॥ सोपाधिक इति * तदनन्यत्वाधिकरणे वाचारम्भणवाक्य- व्याख्याने कारणमेव हि कार्यात्मनाऽवतिष्ठते मृत्समन्वितं हि त्रि- ष्वपि कालेषु कार्य, नाश्वमहिषवद्देशतः कालतो वा व्यतिरिक्तमु- पलभ्यते । कारणस्यावस्थामानं व्यतिरिक्ताव्यतिरिक्तम् । शुक्तिरज- तवदागमापायधर्मत्वात् । अनृतमनित्यमिति च व्यपदिश्यते । तद- र्थमेव मृत्तिकेत्यव सत्यमित्युक्तम् । भेदस्त्वौपाधिक इति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुः वायोरग्निरग्नेराप इत्यादिक्रमेण । जीवस्योत्पत्तेरनुक्तत्वाद, अजो नित्यः शाश्वतोऽयं पुराणः,अविनाशीवा अरेऽयमात्मेत्यादिश्रुतीनामन्यथा कर्तुमशक्य- त्वेन चोपाधिकृतभेदाभिप्रायेण विस्फुलिङ्गश्रुतिर्विपरिणेयेत्यङ्गीक- त्याणुत्वं संसारदशायां लिङ्गशरीराभिप्रायेण मनसो लिङ्गस्य चाणु- त्वाद्, वस्तुतो व्यापक इति चाङ्गीकृत्य जीवस्यांशत्वम् उपाध्यव- च्छिन्नत्वेनाङ्गीकृतम् । तथाच ब्रह्मणो निरवयवत्वमिति । यथाम्नरि- ति श्रुतौ दृष्टान्तकथनेन यथाऽकाशस्य पार्थिवाधिष्ठानावच्छिन्नं क- कच्छिद्रं तथा जीवोऽपि ब्रह्मणो भिन्नाभिन्नस्वरूपम् । अतस्तस्य भिन्नरूपमौपाधिकमभिन्नरूपं तु स्वाभाविकमित्यादिप्रतिपादितं भा- स्कराचार्यरतस्तेषां मते सोपाधिको भेदाभेद इत्यर्थः । स्वमतादतिरेकमाहुः * स्वस्मादिति * स्वमते जीवस्याणु- त्वं वास्तवम् । एषोऽणुरात्मा चेतसा वेदितव्य इति श्रुतेः । लिङ्गश- रीराभिप्रायकथनेन लक्षणाङ्गीकारे गौरवाजीवाभावाश्च । एष महा- नज आत्मत्यादिव्यापकश्रुतीनां ब्रह्मप्रकरणस्थत्वादत एव, नाणुरत- उतेरिति चेन्नेतराधिकारादिति तत्त्वसूत्र सङ्गतं भवति । सूत्रार्थ- . .
शुद्धाद्वैतमार्तण्डः। । स्तु, जीवोऽणुर्न अतच्छ्रुतेः । अणुत्वाभावस्य महत्त्वस्य श्रुतेः । एष महानित्यादिनेति चेन्नेतराधिकारात् । इयं श्रुतिर्ब्रह्माधिकारे पठिता तस्मादित्यर्थः।विस्फुलिङ्गश्रुत्या जीवस्योद्गम एवोच्यते, नो- त्पत्तिरिति सिद्धान्तादतो नानित्यतति । नाप्यजो नित्य इत्यादिश्रु- तिविरोधः । आकाशादिसृष्टौ तु क्रमेणोत्पत्तिः । तत्राप्यन्नात् पुरु- षः, स वा एष पुरुषोऽन्नरसमय इत्युक्तेर्जीवस्य प्रादुर्भावोक्तः । त- च्छब्देनोपादानाद् विस्फुलिङ्गन्यायेन तु सर्वस्योत्पत्तिरेकरीत्या । उपाधिकल्पनायां प्रमाणाभावः । व्यापकत्वं तु ब्रह्मत्वेनोत जीव- त्वेन ?। आद्ये शङ्करमतप्रवेशः । द्वितीये नैयायिकमतप्रवेशेनौपाधि- कभेदस्य निरासेन खमतप्रच्युतिः। किञ्च व्यापकत्वे देवदत्तनाने भ- शिते यज्ञदत्तस्यापि तद्रसानुभवापत्तिः । आत्ममनःसंयोगकारणस्य तत्रापि सत्त्वात् । किञ्च जीवब्रह्मणोापकत्वे नियम्यनियामकश्रु- तिविरोध इति दिक् । नचाणुत्वे सकलशरीरचैतन्यानुपलम्भः । प्रभावदुपपत्तेरि- स्यादि पूर्वमुदितम् । स्वमते भेदस्तु सुवर्णखण्डवदंशांशिभावेन स्पष्ट एवेति पूर्वापरावलोकनेन महद्वैलक्षण्यमत आहुः । * सर्वथेति * । एवं भास्करमतं दूषयित्वा वास्तविकभेदे दूषणमाहुः । * भे- दपक्षे विति *। भेदपक्षे तावदपि वा तमादशमप्राक्षो येनाश्रुतं श्रुतं भवत्यविज्ञातं विज्ञातं भवति सौम्य यथैकेन मृत्पिण्डेन सर्वे मृण्म- यं विज्ञातं प्रतिज्ञातमित्यादिषु श्रुतिषु सर्वविज्ञानप्रतिज्ञा मृत्पिण्डह- ष्टान्तश्च विरुध्यते ॥४३॥ किञ्च। वैषम्यनैपुण्यसंज्ञे दृषणे वे परे स्थिते । अनादिकर्म चाश्रित्य समाधाने त्वनीशता ॥४४॥ कस्यचित् सुख कस्यचिद् दुःखमिति वैषम्यम् । परक्ले- शाभावकरणसामर्थ्यवत्त्वे तदकरणं नैघृण्यम् । परे * ब्रह्मणि । ननु स्वार्जितकर्मणा प्राप्तं सुख दुःखं भुज्यते । उत्तरोत्तरकर्मणः पूर्व पूर्व कर्म निमित्तम् । कर्मणश्चानादित्वान्नेश्वरे दोषप्रसक्तिरतआहुः । * अनादिकर्मेति * । कर्मण एव फलदातृत्वे ईश्वरस्याप्रयोजनतयाऽनी- श्वरवादापत्तिः । कर्मणो जडत्वेन तदनुसारेण फलभोक्तृत्वमीश्व- शुद्धाद्वैतमार्तण्डः। -- M तत्र भेदो न चैवास्ति शक्तेब्रह्मत्वनिश्चयात् । भिन्नत्वे तु जडत्वं स्याद् भेदो यो बोधनाय सः ॥ ४९ ॥ आत्मसृष्टेरिति * । तदात्मानर स्वयमकुरुतेतिश्रुत्या ब्रह्मदेव जगदाकारेण स्वेच्छयैव रमणार्थमुच्चनीचादिभावेन जातमिति बो- धितमतोऽभिन्नत्वान्न वैषम्य, नापि नैघृण्यमित्यर्थः। निबन्धे * शा- स्त्रार्थ ॥ ४६॥ विद्वन्मण्डने इति * । तत्र हि पूर्व जीवानामानन्दादितिरो- धाने मिथ्याज्ञानादिप्रसक्तावुपस्थितहान्यकृताभ्यागमदोषपरिहा- राय स्वेच्छाया एव हेतुत्वमुक्त्वाऽन्यथा जगत्स्थितिसंहारेऽपीमौ दोषौ प्रसज्येयातामित्युक्त्वैतत्साधकयुक्तीविस्तरशो निरूप्य, कृत- प्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिश्य इति सूत्रमुपन्यस्य, ए. कोऽहं बहु स्यामिति प्रपञ्चे रमणेच्छया हि भगवान् क्रीडार्थ कृतः प्रयत्नो विविधमर्यादादिरूपस्तदपेक्षः । जन्मकालादारभ्याऽऽमोक्षं विचारितवान् । तदा हि क्रीडैव मुख्याऽन्यत् सर्वमुपसर्जनीभूतम् । तथाच तदपेक्षो भगवांस्तदनुसारेणैव कारयति । यतो विहितस्य यागादेः, प्रतिषिद्धस्य विप्रहननादेरवैयर्थ्यमेवं भवेत् । मर्यादाभावे त्वीश्वरस्यैव खर्गनरकादिदातृत्वेन विधिनिषेधवैयर्थ्य भवेदित्यु- क्तम् । अतः कृतहानिरकृताभ्यागमवैषम्यनैघृण्यादिरूपदूषणे ने- स्यर्थः॥४७॥ एवं प्रासङ्गिक वैषम्यादिदोष परिहृत्य शक्तिशक्तिमतोभैदा- भेदं परिहरन्ति । शक्तिशक्तिमतोरिति * ॥४८॥ तनति *ब्रह्मणीत्यर्थः ॥ ४९ ॥ ननु, प्रकाशाश्रयवद्वा तेजस्त्वादितिन्यायेन प्रकाशप्रकाशा- श्रययार्भेदाभेद इतिचेत्तत्राहुः । धर्ममिविचारेऽपि ज्ञेयमेवं विचक्षणैः । प्रकाशाश्रयदृष्टान्तेऽप्यभेदो बोध्यते किल ॥ ५० ॥ प्रकाशाश्रयेत्यादि । सूत्रार्थस्तु ब्रह्मधर्मा भिन्ना, उताऽभि- ना इति संशये धर्माणां नित्यत्वेन भिन्ना इति प्राप्ते, आह । प्रकाशे- त्यादि । वाशब्दः पूर्वपक्षनिरासार्थः । यथा प्रकाशाश्रयाः सूर्याद-
सप्रकाशः ।
यः प्रकाशतो न भिन्ना एवं ब्रह्मधर्मा ब्रह्माऽभिन्नाः । कुतः । तेज-
स्त्वात् । यथा तेजः सूर्यश्च तेज एव । सैन्धवधनोऽनन्तरोऽधा-
ह्यो रसघन एवं वारेऽयमात्मा प्रज्ञानघन एवेति श्रुत्या एकरूपत्वक-
थनादत्रापि तेजस्त्वदृष्टान्तेन सर्व ब्रह्मैवेति धर्मिधर्माऽभेद एवेति
बोध्यते ॥५०॥
धर्माणां ब्रह्मत्वे द्वितीयं सूत्रं प्रमाणमाहुः ॥
अरूपवत्सूत्रवाक्ये धर्माणामपि ब्रह्मता ।
निरूपिता प्रभुवरैः श्रीनिद्वन्मण्डने स्फुटम् ॥ ५१ ॥
अरूपवदित्यादि * सूत्रं तु, अरूपवदेव हि तत्प्रधानत्वादि-
ति । तत्र सूत्र इत्यर्थः । अर्थस्तु, रूप्यते व्यवहियत इति रूपं सर्व-
व्यवहारविषयत्वम् । तद्वद्विश्वम् । तद्विलक्षणं ब्रह्मेत्यर्थः । अथवा
रूप्यते व्यवहियतेऽनेनेति रूपं करायुच्यते। यथा लोके करादि भिन्नं
तभिमानी रूपवद्भिन्नः । एवं ब्रह्म न निरूप्यते, किन्तु ब्रह्मैव निरू-
प्यत इति रूपवदित्यर्थः । तत्राह । तत्प्रधानत्वात् । सर्वेषां वेदान्तानां
ब्रह्मैव प्रतिपाद्यं यतः । करादीनामपि ब्रह्मत्वेनैव निरूपणम् । अन्य-
था तेषामब्रह्मत्वे, सर्वे वेदा यत्पदमामनन्ति, वेश्च सर्वैरहमेव वेद्य
इति नियमव्याहतिरतः करादिनिरूपकाः साक्षाद् ब्रह्मप्रतिपाद-
का एवेति । हि युक्तोऽयमर्थः । यथा सैन्धवघन इांत, सत्यं विज्ञान-
मानन्दं ब्रह्मेति, आनन्दमात्रकरपादमुखोदरादिरिति, आनन्दमयो-
अभ्यासादिति श्रुतिस्मृतिन्यायैकवाक्यतया सच्चिदानन्दरूपत्वं क-
रादीनामवधेयम् । अत एव, आह च तम्मानमिति सूत्रकारो जंगा-
द । अर्थस्तु, तन्मात्रम् आनन्दमात्रं करादीनां भुतिः स्मृतिश्चाहेति
श्रीविद्वन्मण्डने धर्माणां ब्रह्मता स्फुटं निरूपितेत्यर्थः । योगियाव-
ल्क्यस्मृतावपि, अथवा परमात्मानं परमानन्दविग्रहमित्युक्तम् ॥११॥
अतः परं रामानुजाचार्यमतमेकदेशीति सूचयितुं स्वमतं त-
न्मते प्रविष्टमित्याशय स्वमतस्य तस्मादतिरेकं साधयन्ति ।
अथ श्रीमनिजाचार्निबन्ध इदमीरितम् ।
यः सर्वत्रैव सन्तिष्ठन्नन्तरः संस्पृशेन्न तत् ।
शरीरं तं न वेदेत्थं योऽनुनिश्श प्रकाशते ॥ ५२ ॥
शुदाऽदैतमार्तण्डः । इति तेन शरीरं तु हगेर्ह चिदचित् स्मृतम् । जडजीवान्तःस्थितानां भेदेन सुनिरूपणैः ॥ ५३ ॥ * अथेत्यारभ्य *। * विचक्षणैरित्यन्तम् *। * निबन्ध इति* शास्त्रार्थे इत्यर्थः । यः सर्वत्रेति *। सर्वत्र पृथिव्यादिषु। अन्तरो मध्यः । तत् पृ- थिव्यादि न संस्पृशेल्लोकवत् तद्गतसुखदुःखादिभाङ् न भवतीत्य- थैः । शरीरं पृथिव्यादि कर्तृ, नम् ईश्वरं न जानाति । यः पृथिव्यादि- षु प्रवशं कृत्वा प्रकाशत इत्यर्थः। तथाच श्रुतिः । यः पृथिव्यां ति- ष्ठन् पृथिवीमन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथि- वीमन्तरो यमयति । य आत्मनि तिष्ठन्नात्मानमन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयतीत्यादि ॥ ५२॥ इतीति * निबन्धे यन्निरूपितं तेन निरूपेणेनेति योजना ॥५३॥ तत्त्ववयं समायाति विशिष्टाद्वैतवादिनाम् । रामानुजानामिति चेन्न दोषोऽस्मन्मते शृणु ॥ ५४ ॥ तत्त्वत्रयमिति * विशिष्टाद्वैतवादितां तत्त्ववयं समायाति, स्वमत इति शेषः । विशिष्टाद्वैतमित्यस्य विशिष्टं च विशिष्टं च वि- शिष्टे विशिष्टयोरद्वैतं विशिष्टाद्वैतमिति समासः । सूक्ष्मचिदचिद्- विशिष्टं कारणम् । स्थूलचिदचिांद्वशिष्टं कार्यम् । तयोरद्वैतमि- स्यर्थः ॥१४॥ जडजीवान्तरात्पान इति कार्ये भिदा श्रिता। बहु स्यां तु प्रजापेयेत्यादिश्रुतिषु वर्णनात् ॥ ५५ ॥ न कारणे भिवा झेया तत्रैकोऽहं निरूपणात् । आत्मैवेदमग्र आसीदिसादिषु च दर्शनात् ॥ ५६ ॥ -- कार्ये भिदेति * । भेदोऽपि न घटपटवत्, किन्तु मृद्घटशराव- यत् । रामानुजाचार्याणां तु वस्तुतो भेदः ॥ ५५ ॥ तत्त्र * कारणावस्थायाम् । आत्मैवेत्येवकारेणाचितो निषे- ॥
सप्रकाशः धात् । इत्यादिषु * श्रुतिषु ॥ ५६ ॥ तत्रैकाकी न रमते द्वितीयेच्छा निरूपिना । श्रुतिविद्भिरतो ज्ञेयं ब्रह्मैकं नान्यदेव हि ॥ ५७ ॥ अन्यस्य च स्थितौ तत्र द्वितीयस्य च सम्भवात् । रमणार्थ द्वितीयेच्छा श्रुत्युक्ता भग्नतामियात् ॥ ५८ ॥ एकोऽहमित्यपि मुधा तस्माच्छतिविरोधतः । तत्त्वत्रयं कारणे हि त्याज्यमेव विचक्षणैः ॥ ५९ ॥ . .. . नान्यदिति * ब्रह्मातिरिक्त नान्यदित्यर्थः ॥ ५७ ॥ ॥ ५८॥ त्याज्यं * नाङ्गीकर्त्तव्यमित्यर्थः ॥ ५९॥ यत्र येनेति पद्ये तु निबन्धे सुनिरूपितम् । प्रकृतिः पुरुषश्चैव कालश्च हरिरेव हि ॥ ६० ॥ यत्रयेनेतीति * । पये * पद्य व्याख्याने । निबन्धे* शास्त्रार्थे। * सुनिरूपितमिति * श्रीमदाचार्यचरणैरिति शेषः । इदं पूर्व निरू. पितं पद्यं श्रीभागवतस्थं श्रीमदाचार्यचरणैर्निबन्ध स्थापितम् ॥६०॥ एकमेवाद्वितीयं तु ब्रह्म सर्वत्र रूप्यते । यः सर्वनैवेति पये गोस्वामिपुरुषोत्तमैः ॥ ६१ ॥ सृष्टिकाले भगवतः शरीरं चिवचित् स्मृतम् । अन्तर्यामिण एतेन विशिष्टाऽद्वैतमेवं यत् ॥ ६२ ।। यः सर्वत्रैवेति पद्य इति * निबन्धटीकाव्याख्याने आवरण- भङ्ग इत्यर्थः ॥ ६१ ॥ ॥ ६२॥ तदेकदेशि विज्ञेयमित्युक्तं तैर्विचक्षणैः । शैवोऽप्येतेन विध्वस्तो यतस्तच्चोर एव हि ॥६३ ॥ विचक्षणैरिति * एतन्मतस्यैकदेशित्वनिरूपणेन बुद्धिमत्त्व- रूपाकाङ्काया उत्थितत्वान्न समाप्तपुनरात्तदोषः। एवं रामानुजाचा- शुद्धाऽद्वैनमार्तण्डः । ३१ यमतं दूषयित्वा तत्तस्करमतखण्डनमाहुः । * शैवोपीति * शैव- स्तावद्विशिष्टाद्वैतमेवाङ्गीकृत्य । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतेन व्याप्तं सर्वमिदं जगदितिश्वेताश्वतरश्रुतिम्, आत्मा तस्याष्टमीमूर्तिरिति स्मृतिं चोदाहृत्य ब्रह्मावयवत्वेन विशिष्टांणं जीवस्य प्रकृतेश्चाह । सर्वत्र शिवपरत्वेन श्रुतिस्मृतीराह च । स तु, एतेन * विशिष्टाद्वैतखण्डनेन । मायां त्वित्यात्मेति श्रुतिस्मृती का. र्याभिप्राये इति न दोषः। शिवपरत्वादिखण्डनं च श्रीपुरुषोत्तमचर- गैर्भाष्यप्रकाशे प्रहस्ताख्ये पण्डितकरिभिन्दिपालाख्ये च वादे नि- रूपितम् । ततोवलोकनीयम् । * तच्चोर इति * रामानुजमतचोरः । क्वचिन्मध्वमतस्यापि । तदेवोतं श्रीपुरुषोमचरणैर्भाष्यप्रकाशे, रामानुजस्यैव चोरो मध्वमतस्य च क्वचित्क्वचित्तद्विरुद्धां शैव- श्रुतिमुदाहरन् भिन्नप्रस्थानं मन्यत इति ॥ ६३ ॥ एवं शैवमतं दूषयित्वा विज्ञानेन्द्रभिक्षुमतखण्डनमाहुः । मायोपाधिककर्तृत्वं भैक्षवे दृश्यते तु यत् । तन्मायिवादध्वंसेन ध्वस्तमायं विशेषतः ॥ ६४ ॥ मायोपाधिककर्तृत्वमिति * भिक्षोरिदं भैक्षवं तस्मिन् भैक्षवे मत इत्यर्थः । स हि, ब्रह्म न समवायी, नाऽसमवायी, नापि निमि- तम् । किन्त्वधिष्ठानकारणम् । तल्लक्षणं च, यत्राविभक्तं येनोपष्ट- ब्धं च सदुपादानकारणं कार्याकारेण परिणमते तदधिष्ठानकारणम्। एतल्लक्षणसमावेशस्तु, यत्र ब्रह्मणि अविभक्तं विभागरहितं, येन ब्र- झणा उपष्टब्धं च सत् साक्षितामात्रेणाङ्गीकृतं च सदुपादानकारणं प्रकृतिरूपं कार्याकारेण जगद्रूपेण परिणमते तद्ब्रह्म अधिष्ठानकार- णमित्यर्थः।ब्रह्मणश्च कर्तृत्वं सोपाधिमायौपाधिकम् । परिणामित्वरू- पोपादानत्वं च प्रकृतितत्कार्याद्यौपाधिकमिति जगाद । तदसङ्गत- म् । आत्मैवेदमग्र आसीदित्यादिश्रुतिषु प्रत्यक्षस्य जगतः पूर्वमा- त्मत्वादिकथनेनेतरस्याभावादविभागाख्यस्वरूपसम्बन्धस्य तदानीं वक्तुमशक्यत्वेनाधिष्ठानलक्षणेनातिव्याप्तेः । एकोऽहमिति श्रुति- विरोधाच्च । ब्रह्म ह वा इदमय आसीत्, आत्मैवेदं सर्वम्, तदा- सप्रकाशः। त्मानर स्वयमकुरुत, बहु स्यां प्रजायेयेत्यादिश्रुतिषु ब्रह्मण उपादान- त्वकथनान्न प्रकृतेरुपादानत्वसिद्धिः। मायौपाधिकं कर्तृत्वं प्रकृति- तत्कायॊपाधिकं परिणाम्युपादानत्वमप्यसङ्गतम् । आनन्दरूपममृतं यद् विभाति, सच्चिदानन्दरूपाय कृष्णायेत्यादिश्रुतिभिरानन्दमात्र- करपादमुखोदरादिरित्यादिस्मृतिभिश्च ब्रह्मण आनन्दाकारत्वे सिद्ध मूलरूपस्योपाधिकल्पनायां बीजाभावात् । विकारित्वपरिहारायौ- पाधिकत्वमुच्यते, तन्निरस्तं प्राक् । किञ्चौपाधिकपक्षस्य मायावादानुसारित्वात् तत्खण्डनेनैतस्या- पिखण्डितप्रयत्वाच्चेत्याहुः।*तन्मायिवादध्वंसन ध्वस्तप्रायमिति* प्रायपदात् सर्वांशतो न ध्वस्तमतस्तन्मतमनूद्य खण्ड्यते । तथाहि । यजीवानां नित्यभिन्नत्वं व्यापकत्वं चाङ्गीकृत्याविभागलक्षणमभेदं चाङ्गीकृत्य, सजातीयत्वे सत्यविभागप्रतियोगित्वमंशत्वं, तदनुयो- गित्वं चांशित्वम्। अविभागश्च, सति सम्पद्य न विदुःसति संपद्या- मह इत्यादिश्रुत्या, प्रकृतिः पुरुषश्चाभौ लीयेते परमात्मनि इत्यादि- स्मृत्या बोधितः । लीङ् श्लेषणे, पद गतावित्याद्यनुशासनेन लयसं- म्पत्त्यव्ययशब्दानामविभागार्थकत्वात् । एवञ्च यथा शरीरकेशादि- रंशो, राशेश्चैकदेशः, पितुश्च पुत्र इति दृष्टान्तत्रयमुक्त्वा सर्वे जीवाः पितरि पुत्रचेतना इव चिन्माने ब्रह्मणि नित्यसर्वावभासके विषय- भासनरूपं स्वलक्षणं विहाय प्रलये लक्षणानन्यत्वं गच्छन्ति । सर्ग- काले च तत एव लब्धचैतन्यफलोपधाना आविर्भवन्ति । पितुरिव पुत्रः । अतो जीवा ब्रह्मांशा भवन्ति । आत्मैव जायते पुत्र इत्यादि- श्रुत्या पुत्रे पितुरविभागलक्षणाऽभेदवज्जीवब्रह्मणोरविभागलक्षणा- ऽभेदस्य बहु स्यां प्रजायेयेत्यादिश्रुत्या सिद्धरिति । अतो जीवा ब्रह्मांशा मुख्या एव भवन्तीत्याह । तदप्यरमणीयम् ।नित्यभेदे स- विज्ञानप्रतिज्ञाभङ्गो, वैषम्यादिदोषप्रसक्तिश्च । व्यापकत्वे, एषोऽ- णुरात्मा चेतसा वेदितव्य इति श्रुतिविरोधः । ब्रह्मणो व्यापकत्वे जीवस्यापि व्यापकत्वे लयकथनस्य, नद्यः प्रविष्टा इव नामरूप इति श्रुत्या, विशते तदनन्तरमिति स्मृन्या च प्रवेशकथनस्यासङ्गतत्वं स्यात् । देहमात्रव्यापकताङ्गीकारे हस्तिकायव्याप्तजीवस्य पिपी. लिकाकाये प्रवेशोऽनुपपन्नः । अविभागेन स्थितिरपि न सम्भवति । ब्रह्मैव सन् ब्रह्माप्येतीति, ब्रह्मवेद ब्रह्मैव भवतीति श्रुतिविरोधात् ।
शुद्धाद्वैतमासण्डः। एवकारेण ब्रह्मातिरिक्तस्थितिनिषेधात् । दृष्टान्तत्रयमपि स्वमतान- नुगुणम् । तथाहि । केशादिकं शरीरस्य विकारः । एवं ब्रह्मणो वि- कारो जीव इति विकारित्वं ब्रह्मण्यागतम् । प्रकृतेः परिणामित्वा- ङ्गीकारे शरीरस्थानापन्ना प्रकृतिः केशादिस्थानापन्नो जीव इति प्र- कृत्यशत्वं, न ब्रह्मांशत्वं स्यात् । एवं दृष्टान्तद्वयेऽपि बोध्यम् । बहु स्यामिति श्रुत्या ब्रह्मण एव सर्वभवनसिद्धयोपाधिकल्पनाया अस- ङ्गतत्वात् स्वमतभङ्ग इति दिक् ॥ ६४ ॥ एवं भिक्षुमतं खण्डयित्वा शक्तिमतमुपन्यस्यन्ति । शाक्तानां तु मते ब्रह्म विश्वोपादानमेव हि । निमित्तकारणं शक्तिविकारित्वभयादतः ॥ ६५ ॥ तत्रात्मनो विकारित्वं श्रुतिशास्त्रविरोधि हि । प्रकृतिमुस्योपादानमाधारः पुरुषः परः ।। ६६ ।। सनोऽभिव्यञ्जकः कालो ब्रह्म तस्त्रितयं त्वहम् । इति भागवते पद्ये उपादानत्वपीरितम् ।। ६७ ॥ तद् विरुध्येत मम तु ब्रह्मतो न पृथक् च सा । शाक्तानां त्वित्यादि * ॥ ६५ ॥ तद् दूषयन्ति तत्रेत्यादि * ॥ ६६ ॥ ॥ ६७ ॥ शङ्कराचार्यरचितसौन्दर्यलहरीश्लोकविरोधमाहुः । मरुत्वमिति पद्ये तु शङ्कराणां च शाम्भवी । परिणामं तु सम्प्राप्तेत्युक्तेर्बाधः प्रसज्ज्यते ॥ ६८ ॥ मरुत्त्वमिति * । पद्यं तु । मरुत्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि । त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ॥ त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा। चिदानन्दाकारं शिवयुवतिभावेन विभृषे ॥ इति ॥ ६८॥ पवनमयि पावकर्माय क्षोणीमाय गगनयि कृषीटमयि ।
सपकाशः। रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ ६९ ॥ इति दुर्वाससा प्रोक्तं सर्वात्मत्वं विरुध्यत । सर्वोपनिषदो या हि ब्रह्मतत्त्वनिरूपिकाः ॥ १० ॥ नास्ति शक्तेर्वणनं हि कारणत्वं तु दूरतः । व्यासस्तु प्रकृतेः सर्वकारणत्वं तिरस्कृतम् ॥ ७१ ।। दुर्वाससेति * ललितास्तवरत्न इति शेषः ॥ ७० ॥ नास्तीति * यत्र वर्णनमेव नास्ति, तत्र कारणत्वस्य सम्भा- वनापि नास्तीत्यर्थः। ननु केषाञ्चिच्छाक्तानां मते शक्तिरेव ब्रह्म । सैव समवायि- कारणम् । किञ्च । साङ्खयमतेऽपि प्रकृतेरपि तत्त्वमिति चेत् । तत्रा- हुः । * व्यासैरिति * साङ्खयमतखण्डनेन सर्वकारणत्वं समवा- यिनिमित्तकारणत्वं तिरस्कृतं ब्रह्मसूत्रैरित्यर्थः ॥ ७१ ॥ तर्हि समवायिनिमित्तकारणं किं ब्रह्मेतिचेल्लोके समवायि- निमित्तकारणयोर्भेदात् कथमुभयं ब्रह्म । यथा समवायिकारणं मृ- निमित्तकारणं कुलालदण्डचक्रचीवरादीत्याशङ्कनमपहरन्ति । ब्रह्मणः समवायित्वनिमित्त निरूपिते । ऋग्वेदे तु यतो देवीसूक्तमस्ति तु तत्र हि ॥ ७२ ॥ अहमेव स्वयं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् । अहं मुवे पितरमस्य मूर्द्धन मम योनिरप्स्वन्तःसमुद्रे ।। ७३ ॥ * ब्रह्मण इति * । * निरूपिते इति * व्यासैरि- ति शेषः । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधाद्, योनिश्च हि गी- यते इत्यादिना । अनयोरर्थस्तु, पूर्व समवायिकारणं प्रकृति- रेवति प्राप्ते आह । प्रकृतिश्चेति । मृत्प्रकृतिर्घटः, तन्तुप्रकृतिः पट इत्यादी प्रकृतिशब्दः समवायिनमाह । एवञ्च ब्रह्म समवायि- शुद्धाऽद्वैतमार्तण्डः । ३५ कारणं, चकारानिमित्तकारणम् । कुतः । प्रतिज्ञादृष्टान्तानुपरोधात्। अपि वा तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतं भवत्यविज्ञातं विज्ञातं भवतीति प्रतिज्ञा । दृष्टान्तो, यथा, सौम्यैकेन मृत्पिण्डेन मृ- ण्मयं विज्ञातं भवतीति । अनयोरनुपरोधाद् अबाधनादित्यर्थः । द्वि- तीये, जडानां ब्रह्मवकारणं चेतनेषु तु योनिबीजयोःसमवायित्वदर्श- नादित्याशडूनं परिहरति । योनिश्चेति । योनिश्च ब्रह्मैव । शक्तिवाद- निराकरणाय चकारः। किञ्च, तदात्मानर स्वयमकुरुत । यतो वे- त्यादि । जन्माद्यस्य यतः शास्त्रयोनित्वात् । तत्तु समन्वयात् । कर्ता कारयिता हरिः। जन्माद्यस्य यतोऽन्वयादितरतश्चेत्यादिश्रुतिस्मृति- श्रीभागवतादिषु ब्रह्मण एव समवायिनिमित्तत्वयोः सिद्धिः तना:- न्वयात् समवायिकारणात् । इतरतो निमित्तकारणादिति श्रीमदा- चार्यचरणैः सुबोधिन्यामुदितम् । तत्तु समन्वयादित्यस्यार्थस्तु, तद् ब्रह्म समवायिकारणम् । कुतः । समन्वयात् । सम्यगन्वयो यथा मृदो घटे, तथा ब्रह्मणो जगतीति । विशेषतस्तु भाष्यकारैर्बहुशो नि. रूपितं, ततोऽवधेयम् । ननु ब्रह्मरुद्रादिकारणत्वं देव्या उदितं तत्राहुः । ऋग्वेद इति ॥ ७२॥ देवीसूक्तपि विष्णुरेव देव्याः कारणमितिबोधाय देवीसूक्त- मन्त्रमाहुः। अहमेवेत्यादि * देवेभिर्देवैः । मानुषेभिर्मानुषैः । जुष्टं सेवि- तम् । यं जीवं कामये इच्छामि तं तं जीवमुग्रं रुद्रं कृणोमि करो- मीत्यर्थः॥७३॥ एवं श्रुतौ तु देव्या हि स्वकारणतयोदितः । पयोऽधिशायी यो विष्णुः स उक्तोऽतो न सा परा ॥७४॥ एवमित्यादि * एवं रीत्येत्यर्थः । सेति * देवीत्यर्थः । एवञ्च परत्वं सर्वजगत्कारणत्वं विष्णोरेवेति सिद्धम् ॥ ७४॥ उग्रः कपर्दी श्रीकण्ठ इति कोशाच्छिवः स्मृतः । अस्येति रुद्रो निर्दिष्टोऽहं रुद्रायति वाक्यतः ॥ ७५ ॥ कोशादू * अमरकोशातू * वाक्यत इति * अहं रुद्राय ध- सप्रकाशः। . नुरातनोमीति तनत्यश्रुतिवाक्यत इत्यर्थः ॥ ७५ ॥ प्रक्रान्तत्वात् पिता ब्रह्मा तद्योनिः शक्तिरत्र हि । तस्पास्तु जनको विष्णुः सिन्धुशायी निरूपितः ॥ ७६ ।। प्रक्रान्तत्वादिति * प्रक्रमप्राप्तत्वादित्यर्थः । * पितेति * रुद्रः पिता निर्दिष्ट इति पूर्वेणान्वयः । एवं शक्तिपदेऽपि । *तद्योनिरिति* तस्य ब्रह्मणो योनिः कारणम् । अत्र हि देवीसूक्ते मन्त्रे मूर्द्धनित्यस्य मुख्यमित्यर्थः । सुपां सुलुगिति सूत्रेण सुब्लोपः । तर्हि शक्तेः किं कारणं तत्राहुः * तस्यास्त्विति * मम योनिरप्स्वन्तःसमुद्रे इति मन्त्रेण निरूपित इत्यर्थः । मम शक्तः, योनिः कारणं समुद्रे अप्सु अन्तः। अस्तीति शेषः । समुद्रशायित्वं विष्णोरेवेति विष्णुः कार- णमित्यर्थः ॥ ७६॥ अस्माकं व्यासचरणैर्यदुक्तं न ततोऽन्यथा । अथाऽतो ब्रह्मजिज्ञासेत्युक्त्वा तल्लक्षणेन हि ।। ७७ ॥ अस्माकमिति * मत इति शेषः। *व्यासचरणरिति । तदेव ग्राह्यमिति शेषः । अन्यथा * व्यासोक्तिविरुद्धम् । ननु व्यासचर- णैः : कस्य कारणत्वमुक्तं तनाहुः * अथात इत्यादि * इदं चोत्तर- तन्त्रादिमं सूत्रम् । ब्रह्मणः ब्रह्मसम्बन्धी । जिज्ञासा विचारः । अथ- शब्दस्तावदारम्भार्थकः । आरभ्यत इत्यर्थः । यतः कर्मादिभ्यो ब्रह्म- ज्ञानं पुरुषार्थसाधकमतस्तज्ज्ञानाय विचार इत्यतःशब्दार्थः ॥७॥ जन्माद्यस्येत्यादिमुत्रैः कारगां ब्रह्म कीर्तितम् । तन्त्रशास्त्रेण चेद् ब्रूषे तदवैदिकसंमतम् ॥ ७८ ।। ब्रह्म किंलक्षणकमिति शङ्कगयां, जन्माद्यस्य यतः शास्त्रयो- नित्वादित्युक्तम् । अर्थस्त्वधस्तात् प्रतिपादितः । असंशयं समग्रं मां यथा शास्यसि तच्छृणु । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवंशिष्यत इति प्रतिज्ञाय।। अहं सर्वस्य जगतः प्रभवेंः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनमिति गीतायां पुरु- षोत्तमवाक्यात् । अग्रेऽपि तत्रैव ।
शुद्धाद्वैतमार्तण्डः । . परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। आहुः स्त्वामृषयः सर्वे देवर्षि रदस्तथा । असितो देवलो व्यासःखयं चैव ब्रवीषि म इत्यर्जुनवचनात् । अहं सर्वस्य प्रभो मत्तः सर्व प्रवर्तत इति पुरुषोत्तमवाक्या- श्व जगत्कारणत्वं श्रीकृष्णस्यैव, न देव्याः । नन्वनेकेषु तन्त्रेषु तस्याः कारणत्वोक्तिरित्यत आहुः । * तन्त्रशास्त्रेणेति * । श्रीतार्चनं तु विप्राणां विशेषेण भवेत् सदा। श्रोतागमार्चनं क्ष वैश्ये केवलमागममिति वाक्यात् ॥ तन्त्रेषु दीक्षितो मयों वैदिकं न स्पृशेत् मदा । वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेन्सदेतिवाशिष्टलैङ्गोक्तेः॥ क्वचित् तन्त्रानुरोधेन धर्म पौराणिका अपि । वदन्ति तादृशोंऽशस्तु ग्राह्यस्तन्त्रावलम्बिनेति पराशरोक्तः । पराशरीयपुराणे। प्रत्यक्षवेदसिद्धार्थः संग्राह्यः सर्वचेतनैः । अप्रत्यक्षं श्रुतेरर्थ स्मरन्ति मुनिसत्तमाः ॥ स्मृतयश्च पुराणानि भारतप्रमुखान्यपि । क्वचित् कदाचित् तन्त्रार्थकटाक्षेण मुनीश्वराः ॥ अधिकारविशेषाणां प्रवदन्त्यर्थमास्तिकाः ब्राह्मणः क्षत्रियो वाऽन्यो निःशहूं तत् परित्यजेत् ॥ वर्णाश्रमपरिभ्रष्टः प्रायश्चित्तेष्वनुन्मुखः। वेदेतरागमं गत्वा पापी तद्धर्ममाचरेत् ॥ वेदबाह्यरताः सक्ता बहवो नरकं गता इति । कौर्मपुराणेऽपि ब्राह्मणानां गौतमशापेन त्रयीबाह्यत्वे जाते तैः स्तुतौ शिवकेशवावि- त्युपक्रम्य। चकार मोहशास्त्राणि केशवः स शिवस्तथा । कापालं लाकुलं वामं भैरवं पूर्वपश्चिमम् ॥ पाश्चरानं पाशुपतं तथान्यानि सहस्रशः । क्वचित् क्वचित् पुराणादौ वेदमूलेऽपि सर्वथा । सन्ति निर्मलतन्त्रांशास्ते तु ग्राह्या न वैदिकरित्यादिवाक्या-: नि सप्तशतीटीकायां नागोजीभट्टेन, भट्टोजिदीक्षितादिभिरप्युपनिब- ।
सप्रकाशः। द्धानि । अत एवाऽऽश्वलायनगृह्यपरिशिष्टे सन्ध्याप्रकरणे । सावि- च्या ऋषिदेवतच्छन्दांस्यनुस्मृत्य तामेतां चतुरक्षरेणविभक्तांमन्त्रयो- जितैः षभिश्चागममन्त्रैर्यथाभागमात्मनि विन्यस्य भावयेदित्यु- क्त्वा हृदयादिषडङ्गन्यासमुक्त्वा, एनमप्येके नेच्छन्ति, स हि विधि- रवैदिक इति निरूपितं सङ्गतं भवतीति दिङ्मात्रमुदितम् । तदेवा- हुः । * तदवैदिकसंमतमिति * । अवैदिकानां संमतमित्यर्थः । वेद- विरुद्धार्थस्य तन्त्रत्वेन व्यवहारः। सर्वनिर्णनिबन्धे श्रीमदाचार्य- चरणैः छलयोगस्तथा सांख्यं शाक्तो मार्गोऽभिधीयते इति । सांख्ययोगी मिलितो धर्ममार्गविरोधेनाऽमेध्यभक्षणसुरापा- नादिपोषितौ । शाक्तो मार्गस्तत्र सप्तभेदा उक्ताः । वैदिकाः ॥१॥ वैष्णवाः ॥ २ ॥ शैवाः॥ ॥३॥ शाक्ताः॥४॥ वामाः ॥ ५॥ सिद्धा- न्ताः ॥ ६॥ कौलाः ॥७॥ लोके व्यामोहकं शास्त्रं सप्तानां बोधकः शिवः । कलौ जनिष्यमाणानामसुराणां क्षयाय हि ॥ सर्वेषां नरके वास इत्युक्तम् । एतट्टीकायां त्याज्यत्वे हेतुरुक्तो महापातकिसंसर्गेऽपि महापातकित्वश्रवणादिति । तत्र कर्मासक्ता- स्तु ये तत्र वैदिकाः समुदाहृताः । लोके संमाननार्थ कर्मासक्ताः । सिद्धान्तानां तु आसुरसिद्धान्तः सर्व मिथ्येति । कर्म सर्वथा त्यक्त- व्यं बाधकमिति, तथा भक्तिरपि । केवलं वाचःपेशैर्मोहयन्ति ये ते सिद्धान्तास्तेषां लोकसङ्गहो नियामकः । कौलानां तु न लोकापेक्षे- ति भेदः। पत्नीत्व दाक्षया रण्डाश्चण्डा अपि भजन्ति हि । दिगम्बराश्चर्मचिन्हाः सुरामांसपरायणाः । पापरूपा दुराचारास्ते कौला परिकीर्तिताः। तेषामनुग्रहनिग्रहादिकं दृष्टं फलं, तन्मार्गसेवितया दुष्टताम- सशक्त्या सिद्धान्तस्य लोके समाननं फलम्। ततोव्यामोहो लोकस्य भवतीत्युक्तम् । वैष्णवास्तु गोपालनृसिंहसंयुक्तां शक्तिमुपासते ।ते यथा गोपालसुन्दरीनृसिंहसुन्दर्याविति । एवमेव शिवयुक्तां ता- मुपासते, ते शैवाः। केवलशक्त्युपासकाःशाक्काः वामाश्च वामाचा- रेण सुरासम्बन्धादिना तामुपासते।
शुद्धाऽद्वेनमार्तण्डः । अन तन्त्र उक्तम्। पञ्चप्रेतासनारूढां परब्रह्मस्वरूपिणीम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ एते पञ्च महाप्रेताः पादमूले व्यवस्थिता इति । श्रीमदाचार्यचरणैस्तु तत्रैवैतन्निर्णयः कृतः । तत्र त्रिपुरसु- न्दर्यादिशक्तयः सेव्या योगश्च साध्य इति बुद्धिः । तत्रानधिकारे शैववैष्णवौ तस्याः शक्तः पादत्वेन पञ्चप्रतमध्ये निरूपितौ । न श- ब्दमात्रेण किश्चिद दुष्यति, पदार्थस्त्वन्य एवातो भूतादिरेव विष्णुशि- वादिनाम धृत्वा तथापास्त इति। तत्रोभयश्लोकेऽपि प्रेतमहाप्रेतत्वे- नोक्ताः । एवञ्च तन्त्रशास्त्रस्य वैदिकानामुपेक्षणीयत्वमतश्चतुःषष्टि- तन्त्राणां प्रतिपाद्यार्थसंहितानां नामानि लिख्यन्ते । तत्र, महामाया- शम्बरतन्त्रम् । अन्यस्मिन् पदार्थेऽन्यथा प्रतिभासनरूपमायाप्रपञ्च- रचनोपायप्रतिपादककर्मेन्द्रजालविद्यारूपम् १ । योगिनीजालशम्ब- रतन्त्रं, योगिनीजालप्रतिपादकम् २। तत्त्वशम्बरतन्त्रमिन्द्रजालवि- धाविशेषः पृथिव्यादितत्त्वानामन्यत्रान्यबोधोपायप्रतिपादकम् ३। सिद्धिभैरवतन्त्रम् ४। मायिकभैरवतन्त्रम् ५ । कङ्कालभैरवतन्त्र- म् ६ । कालाग्निभैरवतन्त्रम् ७ । शक्तिभैरवतन्त्रम् ८ । योगिनीभैर- वतन्त्रम् ९ । महाभैरवतन्त्रम् १० । भैरवनाथतन्त्रमिति भैरवाष्टक. मिदं कापालिकमतप्रतिपादकम् ११ । ब्राह्मीतन्त्रम् १२। माहेश्वरी- तन्त्रम् १३ । कौमारीतन्त्रम् १४ । वैष्णवीतन्त्रम् १५ । वाराहीतन्त्र- म् १६ । इन्द्राणीतन्त्रम् १७ । चामुण्डातन्त्रम् १८ । शिवदूतीतन्त्र- म् । ब्राहम्यष्टकमिदं तत्तदेवताप्रतिपादकम् १९ । रुद्रयामलम् २० । भैरवयामलम् २१ । शिवयामलम् २२ । विष्णुयामलम् २३ । स्क यामलम् २४ । ब्रह्मयामलम् २५ । देवीयामलम् २६ । यामलमिति रुद्रयामलान्यष्टौ सिद्धाम्बाप्रतिपादकानि । चतुषष्टितन्त्राणामपि- यामलत्वेन व्यवहारः २७ । चन्द्रज्ञानतन्त्रम् । कामैश्वर्यादिषोडश- नित्याप्रतिपादकम् । तिथिनामधेयं नित्योति २८ । मालिनीतन्त्रम् । समुद्रयानोपायप्रतिपादकम् २९ । महासंमोहनतन्त्रम्, जाग्रतामपि निद्रोपायप्रतिपादकम् ३० । वामसेवितं वामकेश्वरतन्त्र, चतुःशती. त्यपि कथ्यते ३१ । महादेवतन्त्रं, बटुकादिसिद्धकुलाचारप्रतिपाद- समकाशः। कम् ३२ । वातुलम् ३३, वातुलोत्तरम् ३४, कामिकञ्चतिं त्रीण्येतानि तन्त्राणि क्षेत्राकर्षणादिविधिप्रतिपादकानि ३५ । हृद्भेदतन्त्रं, कापा- लिकाचारप्रदर्शकम् ३६ । तन्त्रभेदगुह्यतन्त्रयोः प्रकाशं रहस्यं वा परकृतमन्त्रतन्त्रप्रयोगाणां परावृत्त्युपायाः प्रदर्शिताः३७।३८ । काला- वादं, कामशास्त्रं वात्स्यायनादिमतम् ३९ । कलासारं, रूपादिवृ- द्धयुपाय प्रतिपादकम् ४० । कुण्डिकामतं, गुटिकासिद्धिप्रदर्शकम् । गुटिका पानपात्रम् ४१ । मत्तोत्तरतन्त्रं, रससिद्धिप्रकाशकम् ४२। वीणातन्त्रं, वीणा नाम योगिनी सम्भोगपक्षिणीत्यस्या नामान्तरं, तस्याः साधनोपायनिरूपकम् ४३ । त्रोतलतन्त्रं, गुटिकाञ्जनपादुका- सिद्धिप्रदर्शकम् ४४ । बोतलतन्त्रोत्तरतन्त्रं, चतुषष्टिसहस्रयोगिनीनां दर्शनोपायनिरूपकम् ४५। पश्चाऽमृततन्त्रं. पृथिव्यादिपञ्चभूतानां सा- धनेन मरणाभावप्रतिपादक कापालिकतन्त्रम् ४६ । रूपभेदादिपञ्च- तन्त्राण्युश्चाटनादिप्रतिपादकानि ५१ । सर्वज्ञानादितन्त्रपञ्चकं कापा- लिकसिद्धान्तैकदोशदिगम्बरमताचारप्रदर्शकम् ५६। पूर्वतन्त्रादिदे- वीमतपर्यन्तं तन्त्राष्टकं दिगम्बरैकदेशिक्षपणमताचारप्रदर्शकम् ६॥ एवमेतानि तन्त्राणि मोहकानि त्याज्यानि वैदिकैरिति बोधा- य लिखितानि ॥ ७८ ॥ तन्त्रशास्त्रस्याप्रामाण्यं प्रतिपाद्य चतुष्टयं प्रमाणमित्याहुः । वेदाः श्रीकृष्णवाक्यानि व्यासमूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम ॥ ७९ ॥ वेदाइति * वेदाः पूर्वोत्तरकाण्डस्थिता अर्थवादादिरूपा अ- पि। यथा बृहस्पतिः स्वांवपामुदखिददित्यत्र वपोत्खेदे बृहस्पतेर्जीवन न स्यादत इदं वाक्यं यज्ञप्राशस्त्याधायकम् । एवं, ग्रावाणःप्लवन्ते इत्यपि।यौते प्लवन्ते तत्रान्यप्लवने कः सन्देह इति नाश्मनां प्लवने तात्पर्यमिति केचित् । तन्न। आधे बृहस्पतेर्देवत्वेन वपोत्खेदने न जी- वत्वहानिरिति । द्वितीये तु सेतुबन्धनसामयिकव्यवस्थानुवादके- यम् ऋगित्यादि शेयम् । विशेषतस्त्वन्यतोऽवधेयम् । श्रीकृष्णवा- क्यानि * गीतायां, चकाराद् व्याससूत्राविरुद्धानि जैमिनिसूत्रा- णि । एवं मन्वादिस्मृतीनां व्यासाविरुद्धत्वेन प्रामाण्यम्। सामाधि- भाषा श्रीमद्भागवतम् ॥ ७९ ॥ ।
शुद्धाद्वैतमार्तण्डः। श्रीमदाचार्यचरणैरत एव निरूपितम् । शाक्तास्तांश्चेत्ततो ब्रूयुस्ते सन्मार्गादू बहिष्कृताः ॥ ८॥ श्रीमदाचार्यचरणैरिति * अणुभाष्य इति शेषः । * सन्मा ादू * वैदिकमार्गात् ॥ ८०॥ इति सर्वेषु मार्गेषु दोषाः सन्ति ततो हरिम् । शुद्धाद्वैतावलम्बन भजेत सुविनिश्चितम् ॥ ८१ ॥ शुद्धाद्वैतावलम्बनेति * । अखण्डाद्वैतभाने हि सर्व ब्रह्मैव ना- न्यथेति । सर्वत्र भगवदूदृष्टया विषयान्तराभावः फलमितिभावः । * सुविनिश्चितमिति * श्रुतिस्मृत्यादिष्वित्यर्थः ॥ ८१॥ भजधातो सेवार्थकत्वेन सेवालक्षणं श्रीमदाचार्यचरणोत्तर माहुः। चेतस्तत्मवणं सेवा फलरूपा तु मानसी। तसिद्ध्यर्थं देहवित्तजनिः कार्या ततो भवेत् ॥ ८२॥ संसारदुःखनाशो हि ब्रह्मात्मत्वाधबोधनम् । ब्रह्मास्य परमाप्तिरानन्दव्रततौ स्फुटा ॥ ८३ ॥ चेतस्तत्प्रवणं सेवेति * इदं च सिद्धान्तमुक्तावल्यामुदितम् । तत्र हि कृष्णसेवा सदा कार्येति पूर्वमुक्तत्वात्तच्छब्देन श्रीकृष्णस्य ग्रहणम् । अत्रापि * हरिमित्युक्तत्वात् तद्रहणम् । * फलरूपा त्वि- ति * । सा बजाङ्गनासु । ता नाविदन्मय्यनुषङ्गबद्धधियः खमा- त्मानमदस्तथेदमिति श्रीभागवतवचनात् । इयं सर्वात्मभावकाष्ठा तृतीयाध्याये भाष्ये स्फुटा । तत्सिद्ध्यर्थे * सर्वात्मभावरूपमानसी. सेवासिद्ध्यर्थ, तनुवित्ताभ्याअन्यते या सा तनुवित्तजनिः। उभयोः साधकत्वं, नैकस्या इति बोधनाय समस्तपदम् ॥२॥ संसारेत्यादि * संसारोऽहन्ताममतारूपः। *ब्रह्मात्मत्वावबो- धनमिति * ऐतदात्म्यमिदं सर्व, सर्व खल्विदं ब्रह्मेत्यादिश्रुतिसिद्ध, बासुदेवः सर्वमिति स महात्मा सुदुर्लभ इत्यादिस्मृतिसिद्धं सर्वस्य सप्रकाशः। जगतो ब्रह्मत्वं तस्यावबोधनं याथार्थ्यज्ञानमित्यर्थः । तर्हि ब्रह्मज्ञानस्य किं फलमित्याहुः * ब्रह्मज्ञस्येत्यादि । श्रीमदाचार्यचरणैर्भाष्ये ब्रह्म- ज्ञानेनाविद्यानिवृत्त्या प्राकृतधर्मराहित्येन शुद्धत्वसम्पादनेन पुरुषो- तमप्राप्तौ स्वरूपयोग्यता सम्पद्यते । तादृशे जीवे स्वीयत्वेन वरणे भक्तिभावात् सहकारियोग्यतासम्पत्त्या पुरुषोत्तमप्राप्तिर्भवतीति निर्णीयत इत्युक्तम् । नन्वत्र किं मानमत आहुः । आनन्दव्रतताविति * आनन्दवल्ल्यामित्यर्थः । वल्ली तु व्रत- तिर्लतेत्यमराव । तस्यां हि ब्रह्मविदाप्नोति परम्, तदेषाभ्युक्ता, सत्य ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते स- वान् कामान् सह ब्रह्मणा विपश्चितेति । अर्थस्तु । ब्रह्मवित् परं ब्रह्मणः सकाशादुत्कृष्टं पुरुषोत्तमं प्राप्नोतीत्यर्थः । परशब्देनात्र ब्रह्मै- वोच्यते तर्हि ब्रह्मप्राप्तानात्मकत्वेन ब्रह्म प्राप्तो ब्रह्म प्राप्नोतीत्यर्थः । सत्त्वसङ्गतः । साध्यसाधनव्याघातस्तस्मात् । परशब्दस्योत्कृष्टवा. चित्वेनोत्कर्षस्य सांनिध्याद् ब्रह्मणः सकाशात् परं पुरुषोत्तममित्ये- वार्थः । विशेषतस्तद्विवक्षमाणानुभवैकगम्योऽयमानन्दो, न मनोवा. विषय इति सूचयितुमाह । तदेषेत्यादि । तदित्यव्ययम् । तद् ब्र. ह्मविदः परप्राप्तिलक्ष्यणमर्थ विशदतया प्रतिपाद्यत्वेनाभिमुखीकृत्य ऋगेषा विदितपरब्रह्मकैरुक्ता । पूर्ववाक्यविवरणमनया क्रियत इ- त्यर्थः । तामेवाह । सत्यमित्यादि । गुहायां हृद्याकाशे, परमे व्योम- न परमव्योम्नीत्यर्थः । अक्षरब्रह्मात्मके व्यापिवैकुण्ठे, निहितं स्थापि- तमिव थो चेद स भक्तो ब्रह्मणा विपश्चिता। विविधभोगचत्तुरेणेत्य- थः । अत्र विविध पश्यच्चित्त्वं विपश्चित्त्वं, पृषोदरादित्वाद्यच्छब्द- लोपः । तेन सह सर्वान् कामानश्नुते भुङ्क्त इत्यर्थः । अत्र तृतीयया ब्रह्मणो, गौणत्वं, भक्तस्य भोगे मुख्यत्वं बोध्यते । अहं भक्तपराधीनो, यशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथेत्यादिवाक्यादिद- मनुग्रहकलभ्यमित्यर्थः । विशेषतो भाष्यावधेयम् ॥ ८३॥ नन्वविद्यायाः प्रतिबन्धकत्वे कथं परप्राप्तिरित्याशङ्कनयां, वि- द्याविद्ये मम तनू विद्धयुद्धव शरीरिणाम् । मोक्षबन्धकरी आधे मायया मे विनिर्मिते' इति श्रीभागवतवाक्येन मायानिर्मितत्वादवि- चाया, अतो मायापगमे तस्या अपि माशो भविष्यतीत्यभिप्रायेण गी- ताधाक्यमाहुः ।
शुद्धाऽद्वैतमार्तण्डः। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । इतिवाक्यात्तु भक्तानामविद्याविनिवृत्तितः ॥ ८४ ।। मामेवेत्यादि * एवकारणाऽन्यप्रपत्तिन मायातरणकारिका । 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं किञ्चिन्नान्य- दस्ति धनञ्जय' इत्यादिश्रीमुखवाक्यात् पुरुषोत्तमस्य सर्वोत्कृष्टज्ञाने प्रपत्तिर्भवति । एतादृशज्ञानस्य फलं तु 'असंशयं समग्रं मां यथा ज्ञा- स्यसि तच्छृणु। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यत' इति वा- क्यादक्षरज्ञानादिकं सर्व सुलभमतो भक्तानां तुश्रीकृष्णप्रपत्त्यैवावि- द्यानिवृत्तिरिति भावः ॥ ८४॥ ततः किमत आहुः। अलौकिकाकारसिद्ध्यै प्रवेशो हरिणोदितः । अव्यक्तोऽक्षर इत्युक्तस्तगाहुः परमां गतिम् ॥ ८५ ॥ अलौकिकाकारसिद्ध्या इति * सिद्ध्यर्थमित्यर्थः । * प्रवेश इति * यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयते, नद्यः प्रविष्टा इव नामरूपे इत्यादिश्रुतिसिद्धप्रवेश इत्यर्थः । * हरिणति* श्रीकृष्णेनेत्यर्थः । गीतायामिति शेषः । विशते तदनन्तरम्, ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपेत्यादिश्लोकैरित्यर्थः । नन्वक्षरे लये कथं पुरुषोत्तमप्राप्तिरित्याशङ्कायां तस्य पुरुषोत्तमगृहरूपत्वात् तत्र प्रवे- शे प्राप्तिर्भवतीति तत्पुरुषोत्तमगृहे गीताप्रमाणमाहुः । * अव्यक्त- इत्यादि। अक्षरब्रह्मणोऽव्यक्त इति नाम । एतेनाऽव्यक्तशब्दो माया- वाचक इत्यपास्तम् । अव्यक्तादीनीत्यनाव्यक्तशब्देनाक्षरब्रह्मैव शेय- म् । एतेन जगतो मायिकत्वं निरस्तम् । परमां * सर्वोत्कृष्ट गति मोक्षरूपाम् आहुः । तत्त्वविद इति शेषः ॥ ८५ ॥ यं प्राप्य न निवर्तन्ते तद्धाम परमं मम । इति वाक्येन भगवद्गृहं ब्रह्म प्रकीर्तितम् ॥ ८६ ॥ न निवर्तन्त इति * । न स पुनरावर्त्तत इति श्रुतेः । मम क्षराक्षरातीतपुरुषोत्तमस्य धाम गृहमित्यर्थः । अत्र भक्तानां त्वक्षर सप्रकाशः। ब्रह्म पुरुषोत्तमगृहरूपत्वेन, ज्ञानिनां ब्रह्मत्वेन, पुरुषोत्तमस्येव, मल्ला- नामशनिरित्यादिखभावानुसारेण । यद्यद्धिया त उरुगाय विभाव- यन्ति तत्तद्वपुः प्रणयसे सदनुग्रहायोति श्रीभागवतात् ॥ ८६ ॥ तयक्षरब्रह्मैव परं प्राप्यस्थानमिति चेत् तत्राहुः । पुरुषः स परः पार्थ भत्त्या लभ्यस्त्वनन्यया । इत्यग्रिमेण वाक्येन गेहाधीशो निरूपितः ॥ ८७ ॥ पुरुष इत्यादि * 'यस्मात् क्षरमतीतो हमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम इति वाक्यातू । परः पुरु- घः पुरुषोत्तमः श्रीकृष्ण इत्यर्थः । अत्र सिद्धान्ते जन्ससरणाद्युपाधि- तया क्षरो जीवः । अक्षरोऽन्तर्यामी । अक्षरातीतः पुरुषोत्तमः । द्वा- विमौ पुरुषौ लोक इत्यादिगीतावाक्यात् । अयं विचारः श्रुतिरहस्य- प्रकाशे निपुणतया निरूपितो मयोति नेह तन्यते ॥ ८७॥ पुरुषोत्तमलाभः कथं तत्राहुः । भक्त्या लाभो हि निर्दिष्टो भक्तिश्चाचार्यसंश्रयात् । श्रीमदाचार्यचरणभजनादेव नान्यथा ॥ ८८ ॥ भक्त्येति ** श्रीसदाचार्यचरणेत्यादि *।अत्र क्रमस्तु, पूर्व भगवत्कृपाङ्करस्य स्वतः संस्कारेण भगवन्मार्गीयसङ्गादिना वा उ. बाधे मार्गेऽस्मिन् रुचिः । ततोऽस्मिन् प्रवेशेच्छा । तत्राप्यङ्करस्य दृढत्वेऽस्मिन्मार्गे सर्वोत्तमत्वभानम् । प्रवेशश्च द्वारभूतश्रीमदाचा- र्यकुलगुरुद्वारा शरणागतिः। ततः शुद्धः कृष्णं भजदितिसिद्धान्ता- तू सपरिकरस्य स्वस्य च शुद्धिरपेक्षिता । सा लोके दुर्घटाऽतो दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनमिति विधिपूर्वक सिद्धं समर्पणम् । तेन च, ब्रह्मसम्बन्धकरणादित्यादिवाक्येन सर्व- दोषनिरासोक्तेः समर्पणोत्तरं सर्वत्र दोषाभावात् प्रतीयमानानां चाभासमात्रत्वाद् गङ्गाजलन्यायेन दोषाणां गौणभावाच सेवाया- मधिकारः । ततः सतां, द्वारभूतश्रीगुरोर्वा सङ्गन शिक्षयावा श्रीम- दाचार्यचरणेषु भगवदभेदबुद्धिः । सर्वोत्तमस्तोत्रादिभिस्तद्भजन- म् । तत एतन्मार्गीयसङ्गेन भगवद्भजनस्वीयग्रन्थावलोकनश्रवणा- शुद्धाद्वैतमार्तण्डः। दिना प्रतिबन्धनिवृत्तौ दोषनिवृत्तिः । सेवोपयोगिगुणवृद्धिश्च । ततः सेवानरन्तर्ये सकुटुम्बस्य भगवत्प्राप्तिरिति । * अन्यथेति * | श्रीमदाचार्यचरणशरणं विनेत्यर्थः । अत एव श्रीहरिराया आहुः । नाश्रितो वल्लभाधीशो, न च दृष्टा सुबोधिनी । नाराधि राधिकानाथो वृथा तजन्म भूतल इति ॥ पृथेत्यस्य निष्फलमित्यर्थः ॥ ८८॥ श्रीमदाचार्यचरणद्वाराङ्गीकृतस्य लीलाधिकारिणो यत् कः- रोति भगवास्तदाहुः। ब्रह्मभावं तु सम्पाद्य परमानुग्रहाद् विभुः । गृहस्थितं स्वीयजीवं समुद्धरति यत्नतः ॥ ८९ ॥ - - - ब्रह्मभावमित्यादि * । यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयत इत्यादिश्रुत्या, नद्यः प्रविष्टा इव नामरूपे इ- त्यादिश्रुत्या, विशते तदनन्तरमिति स्मृत्या निरूपिते ब्रह्मणि लयो ब्रह्मभावसम्पत्तिः । तादृशं कृत्वेत्यर्थः । * परमानुग्रहात् * स्वी- यत्वेनाङ्गीकारात् । यमेवैष वृणुते तेन लभ्य इति श्रुतेः । मुक्ति- दानं तु सर्वेश्यः । भक्तिं तु परमानुगृहीतस्यैव । मुक्तिं ददाति क- हिचित् स्म न भक्तियोगमिति श्रीभागवतोक्तः । अक्षरं ब्रह्म पुरु- षोत्तमस्य गृहम् । तत्र ब्रह्मैक्यतया स्थितं स्वयं समुद्धरति । त- स्मात् पृथक् करोतीत्यर्थः । * यत्नत इत्यनेन तस्योपरि स्नेहभरेण तद्वियोगासहिष्णुस्तस्योद्धरणे इच्छां करोतीति सिद्धम् । अत्र प्रमाण तु व्याससूतं, सम्पद्याविर्भावः स्वेन शब्दादिति । ब्रह्मभावं सम्पा- द्य स्वेन पुरुषोत्तमेनाविर्भावः क्रियते । एवं कथमुच्यते, तत्राह श- ब्दादिति । यो वेद निहितं गुहायां परमे ब्योमन, सोऽश्नुते स- र्वान् कामान् सह ब्रह्मणा विपश्चितेतिशब्दात् । अत्र पुरुषोत्तम- साहित्येन सर्वकामोपभोगो जीवस्य निरूपितः । स लीनस्योद्धरण विना न सम्भवत्यस्मादुद्धरतीत्यर्थः । तथाच । श्रीभागवते । ते तु ब्रह्महदं नीता मग्नाः कृष्णेन चौधृताः। ददृशुर्ब्रह्मणो लोकमिति । श्रीमदाचार्यचरणैरपि फल- प्रकरणमारम्भे॥
४६ सपकाना। ब्रह्मानन्दात् समुद्धृत्य भजनानन्दयोजने। लीलाया युज्यते सम्यक् सा तुर्ये विनिरूप्यत इति ॥ शुद्धपुष्टिलीलास्थजीवानां तु न ब्रह्मणि सायुज्यमुद्धरणं च । अत एव गोपानामेव मग्नत्वमुद्धृतत्वमुक्तं, न व्रजसुन्दरीणाम् । अत एव दामोदरदासादिषु लीलानुभवः स्पष्टः सङ्गच्छते । नन्वलो किकदेहाप्तौ देहस्यानित्यत्वमायातम् । तद्विषयिण्या लीलाया अपी- ति चेन्न पुरुषोत्तमस्य लीलाया नित्यत्वं श्रुतिस्मृतिन्यायादिसिद्धम् । उपपादितं चास्मत्प्रभुचरणैर्विद्वन्मण्डने भक्तिविषयिण्या लीलाया अपि नित्यत्वं, ध्रुवासोऽस्य कीरय इति श्रुतिसिद्धम् । यथाऽक्षरब्रह्म- णः सर्वत्र व्यापकत्वमेवं भगवद्भक्तस्यालौकिकाकारस्य व्यापकत्वेन प्राकृतशरीरेऽपि तिरोहिततया वर्तमानमानन्दाकाररूपम् । अत एव, निराकारास्तदिच्छयेत्युक्तं श्रीमदाचार्यचरणैः । आनन्दस्यैवा- कारत्वेन तत्तिरोधाने निराकारत्वम् । तत्प्रादुर्भावे साकारत्वमेवं त- द्विषयिण्या लीलायास्तदैवाविर्भावः । अतो नानित्यत्वमिति दिक् । येषां तु सायुज्यं, तेषामलौकिकारप्रादुर्भावार्थमेव लयः । मर्यादाया- स्तथात्वात् । येषां च न, तेषां तच्छरीर एवालौकिकाकारस्याविर्भा- वात् । ननु लीलानुभवार्थमाविर्भावे पुरुषोत्तमेन सह भेदो जीवस्या- यात इति चेत्, सत्यम् । अत्र लीलास्थानां ब्रह्मरूपत्वेन न भेद इति । वस्तुतस्तु जीवस्याभेदोऽक्षरब्रह्मणा सह । अभेदबोधकाश्च श्रुत्याद- योऽक्षरब्रह्माऽभेदं बोधयन्ति, न पुरुषोत्तमाऽभेदम् । तथाच श्रीमदा- चार्यचरणाः, पुरुषोत्तमे लयेन लीलाऽननुभवे नाश एवस इति। अत एव श्रीमत्प्रभुचरणपौत्रैर्देवकीनन्दनैः, 'अक्षरेण सहैक्यं हि जीवस्य श्रुतयो जगुरित्युक्तम् । अत एव परेणाऽभेद्बोधको मार्गस्तामसा- नामिति पाझ उत्तरखण्ड उक्तं शिवेन । शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् । येषां स्मरणमात्रेण पातित्यं ज्ञानिनामपीति प्रतिज्ञाय, शैवपा- शुपतवैशेषिकन्यायसांख्यचार्वाकबौद्धशास्त्राणि तामसानीत्युक्त्वा । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते । मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ॥ अपार्थ श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् ।
शुदाऽद्वैतमार्तण्डः। कर्मस्वरूपत्याज्यत्वमात्रैव प्रतिपाद्यते ॥ सर्वकर्मपरिभ्रष्टं विकर्मत्वं तदुच्यते । परेशजीवयोरैक्यं मयाऽत्र प्रतिपाद्यते ॥ ब्रह्मणस्तु परं रूपं निर्गुणं वक्ष्यते मया । सर्वस्य जगतोऽप्यन मोहनार्थ कलौ युगे । घेदार्थवन्महच्छास्त्रं मायावादमवैदिकम् । मयैव कथितं देवि जगतां नाशकारणादिति ॥ नागोजीभहस्तुमार्कण्डयान्तर्गतदेवीमाहात्म्यटीकायां,माया- पादमितिश्लोके चरणत्रयं यथास्थितं पठित्वा जगतां नाशकार- णादिति पपाठेति, तत्तु प्राचीनार्वाचीनसन्दर्भावलोकनेन ब्राह्मणरू- पिणेति प्रतिभातीति तुच्छमेवेति । अत एव सायुज्यं लयः । सह युनक्तीति सहयुक्, सहयुजो भावः सायुज्यमित्यर्थद्वयं ब्रह्मपरब्रह्म- विषयत्वेन सङ्गतं भवतीति दिङ्मात्रमुक्तम् ॥ ८९॥ ननूद्धारानन्तरं तस्य कथं स्थितिस्तत्राहुः । उधृतौ परमक्लेशो विरहाऽनलसम्भवः यदा देहादिनाशाय समर्थो जायते तदा ॥ ९ ॥ निजं श्रीमत्कृष्णचन्द्रः स्वाधिकारानुसारतः । परमानन्दलीला तामनुभावति प्रभुः ॥ ९१ ॥ उद्धृताविति * । भक्तस्य ब्रह्मानन्दादुद्धृतौ । विरहानला द्वियोगाग्नेः सकाशात् सम्भव उत्पत्तिर्यस्य, एतादृशो यः परम- क्लेशो देहादिनाशाय यदा समर्थो जायते, तदेत्यन्वयः । यहा परमक्लेशो विरहानलसम्भवस्ताप इति शेषः । तदा तस्मिन काले ॥१०॥ निजं जीवं प्ररसकारुणिकः श्रीमत्कृष्णचन्द्रो यथाधिकारं प- रमानन्दलीलामनुभावयतीत्यर्थः । गणितानन्दव्यावृत्त्यर्थ परमेत्यान- न्दस्य विशेषणाम् । ताम् *अनुग्रहैकलभ्याम् । प्रभुः समर्थः । अ- नुभवे भक्तस्य प्राधान्यं तदुदितं प्राक् । रसो वै सः, रस होवायं बध्वानन्दी भवति, को खेवान्यात, कः प्राण्यादू यदेष आकाश
सप्रकाशः।
आनन्दो न स्यात, एष ह्येवानन्दयातीति श्रुतिः।अत्र रसात्मकभगवा
स्वरूपलामे सत्यानन्दी भवतीत्यानन्दवत्त्वमुक्त्वा जीवनहेतुत्वं
परमानन्दहेतुत्वं चोच्यते । मरणहेतूपस्थित्यभावे जीवनहेतुं न वदे-
तू । अतो रसस्य संयोगवियोगभावत्वेन पूर्णतया विरहतापस्यो-
पमईकत्वेन प्राणस्थितिरपि न स्यात् । यद्येषः स्फुरदूपः, आनन्दः
आकाशो भगवान् न स्यात् । को वा जीवयेन कोपीत्यर्थः । एताह-
शापन्निवारणं भगवतः एवेति ज्ञापनाय श्रुतौ हिशब्दः । तादृशस्य
जीवनमावश्यकमिति ज्ञापनायैवकारः । तापात्मकस्यानन्दरूपत्वा.
यानन्दपदम् । तदनन्तरं प्रगटीभूय तदन्यः को वा दर्शनस्पर्शाश्ले.
षणभाषणादिभिः स्वरूपानन्ददानेनाऽन्यात पूर्वतापनिवृत्तिपूर्वक-
मानन्दपूर्ण कुर्यादित्यर्थः।अन्यथाऽन्यातूप्राण्यादित्युभयत्रानितेः स.
त्त्वात् पौनरुक्त्यं स्यादिति ।श्रीमद्भाष्यकारचरणैः,स्पष्टो ह्येकेषामिति
सूत्रे, एकेषां शाखिनां भगवत्स्वरूपलाभानन्तरं दुःखतन्निवर्तनलक्ष-
णोऽर्थः स्पष्टः पठ्यत इत्युक्तमिति विस्तरावलोकनेच्छुभिस्ततोऽवधे-
यम् । दुःखस्य परमफलरूपत्वं तु भाष्यविद्वन्मण्डनादौ निरूपितम्।
मयापि श्रुतिरहस्यप्रकाशे प्राकाशि ॥९१ ॥
एतत्प्राप्तौ मुख्य कारणमाहुः ।
इति श्रीवल्लभाचार्यचरणाजकृपाभरात ।
प्राप्यते नान्यथा चैतद् ब्रह्मादीनां सुदुर्लभम् ॥ ९२ ॥
इति श्रीवल्लभाचार्येत्यादि * । आचार्यवान् पुरुषो वेदेति
श्रुतेः । कृष्णाऽमृताऽधराखादसिद्धिरत्र न संशयः इति वाक्यात् ।
'सान्निध्यमात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः । रासलीलैकतात्पर्यः कृ-
पर्यतत्कथाप्रद' इति वाक्याश्च * ब्रह्मादीनां सुदुर्लभमिति *
न स्त्रियो व्रतसुन्दर्यः पुत्र ताः श्रुतयः किल ।
नाहं शिवश्च शेषश्च श्रीश्च ताभिः समा कचित् ॥
षष्टिवर्षसहस्राणि मया तप्तं तपः पुरा ।
तथापि न मया प्राप्तास्तासां वै पादरेणव इति बृहद्वामनपु.
राणवाक्याल्लीलाप्रधानभक्तचरणरेणुरपि दुर्लभस्तदा श्रीकृष्णा-
ऽधरामृतास्वादूनाधतिदुर्लभतरमिति भावः ॥ ९२ ॥
शुद्धाद्वैतमार्तण्डः। ज्ञानिनां मुक्तिमाहुः। ये तु ज्ञानकमनिष्ठास्तषां तु लय एव हि । भक्तानामेव भवति लीलाऽऽस्वादोऽतिदुर्लभः ॥ ९३ ॥ ये त्विति * ऋते ज्ञानान्न मुक्तिः ।शानादेव च कैवल्यमिति। * लय एव हीति * न स पुनरावर्तत इति श्रुतेः । ननु सिद्धान्ते- ऽक्षरब्रह्मणा सहैक्ये भगवतोद्धारः क्रियत इति, न स इतिश्रुति विरोध इति चेन्न । अनया संसारावर्त्तनं निषिध्यते, न तु ब्रह्मातीत- पुरुषोत्तमप्राप्तिः । भाब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यत इति भगवद्वाक्यात् । विशेषतो निरूपणं तु भाष्यावद्वन्मण्डनादौ । यत्राक्षरप्राप्तावपिन पुनरावर्तते, तत्र तदतीतप्राप्तौ तत्सम्भावनापि नेति । * भक्ताना- मेवेति * मुक्तानामपि सिद्धानां नारायणपरायणः ॥ सुदुर्लभः प्रशान्तात्मा कोटिग्वपि महामुन इति भागवतवा- क्यान्नारायणभक्तस्यातिदौर्लभ्यम् । नारायणादिरूपाणि शातान्यस्माभिरच्युत । सगुणं ब्रह्म सर्वेदं वस्तुबुद्धिर्न तेषु नः ॥ ब्रह्मेति पठ्यतेऽस्माभिर्यपं निर्गुणं परम् । वाङ्मनोगोचरातीतं ततो न ज्ञायते तु तदित्याधुक्त्वा ।। आनन्दमात्रमिति यद् वदन्तीह पुराविदः । तद्रूपं दर्शयाऽस्माकं यदि देयो वरो हि न इत्यादिवृहद्वामनपु- राणे श्रुतिप्रार्थनावाक्यात् तत्परस्य पुरुषोत्तमस्य भक्तानां श्रेष्ठये किमु वाच्यम् । तत्र ताभिः स्तुतो भगवान् अक्षरब्रह्मस्थं श्रीवृन्दा- वनश्रीयमुनाश्रीगिरिगोवर्द्धनादिलोकं, तत्रस्थितश्रीगोपिकाकदम्ब- स्थितस्वस्वरूपं दर्शयित्वा, भगवानाह, ब्रूत किं करवाणि व इति । ततः श्रुतयो नित्यसिद्धगोपिकावन्मनोरथं याचितवत्यः । ततः । दुर्लभो दुर्घटश्चैव युष्माकं, सुमनोरथः । मयाऽनुमोदितः सम्यक् सत्यो भवितुमर्हतीत्याहेति लीला- सप्रकाशः। खादोऽनुग्रहकलभ्योऽतोऽतिदुर्लभो लीलास्वादो भक्तानामेव भव- तीत्यर्थः । तत्रैव पुराणे। स्त्रियो वा पुरुषा वाऽपि भक्तिभावेन केशवम् । हृदिकृत्वा गतिं यान्ति श्रुतीनां नात्र संशय इतिवाक्यात् । एतत्पुराणवाक्यानि विद्वन्मण्डने प्रभुचरणैर्निरूपितानि ॥ ९३ ॥ एवं निरूप्य समाप्ति प्रतिजानते। इति श्रीश्रीमदाचार्यचरणाब्जप्रसादतः। प्रोक्तं गिरिधरेणेदं पश्यन्तु हरिभावुकाः ॥ ९४ ॥ इति श्रीश्रीमदाचार्येत्यादि * अत्र श्रीद्वयोपादानमुभयभाग- स्थितस्वामिनीवाचकम् । तेन लीलास्थपुरुषोत्तमत्वमत एषां चर णाजप्रसादेऽयं रसः सदास्वाद्यो भवतीति बोध्यते ॥ ९४॥ एतद्रन्थावलोकनकर्तृणां फलमाहुः । सूर्योदये शीतमति सर्व मार्गावलोको जलजप्रकाशः । तमो निवृत्तिजिकर्मत्ति- स्तथैव मार्तण्डनिबन्धबोधे ॥ ९५ ॥ इति श्रीमन्मुकुन्दरायमहजमाधुरीपरमाऽनिर्वचनीयमरम- वदनतामरसमुधाहृदावगाहिश्रीमदाचार्यकृपापारमारश्रीमत्प्रभु- चरणात्मजमहाराजश्रीयदुनाथकुलोद्भवगोस्वामिश्रीगोपालजनु: षा श्रीगिरिधरेण विरािंचतः शुद्धाद्वैतमार्तण्डः समाप्तिमफाणीत् । सूर्योदय इत्यादि * : * तथैवेति * शीतस्य जाड्यरूपत्वेन जाड्यं गच्छति । निजाचार्यप्रगटितमार्गज्ञानम् । भक्तहृदयाब्जप्रका- शः । तमोऽज्ञानं तस्य निवृत्तिः । द्विजस्य ब्राह्मणादेः सूर्योदये स- न्ध्यावन्दनादिकर्मसु यथा वृत्तिः प्रवृतिस्तथा ब्रह्मसम्बन्धिनः, कर्मा- प्येकं तस्य देवस्य सेवोति वचनाद् भगवत्सेवारूपकर्मणि प्रवृत्तिः ।
शुद्धाद्वैतमार्तण्डः। आत्मनिवदिनामेव भगवत्सेवायामधिकारः । आत्मनिवेदिनो हि भगवत्सेवाऱ्या, नेतरे । गायत्र्युपदेशजसंस्कारवदिति श्रीप्रभुचर- णाः । तथाच गायत्र्युपदेशेन द्विजत्वमेवमात्मनिवेदनेनात्र भगव. सेवाधिकारत्वसम्पादकद्विजत्वम् । यथा जन्म ब्राह्मणकुले, तदनु- गायत्र्युपदेशे कर्माधिकार, एवं शरणमन्त्रोपदेशे वैष्णवत्वं, तद्- न्वात्मनिवेदने सेवाधिकार इति भावः । निबन्धो * ग्रन्थः॥ ९५ ॥ इति श्रीयदुनाथानां कुलचूडामणेर्गुरोः । श्रीमगिरिधरस्याङ्ग्रिसरोरुहपरागलिट् ॥ १ ॥ रामकृष्णः स्वबोधाय व्यरचत् तत्कृपालवात् । शुद्धाद्वैताख्यसिद्धान्तमार्तण्डस्य प्रकाशकम् ॥२॥ यदिदं सदसद्वापि प्रोक्तं धाष्टन्मियात्र हि । तत्र श्रीवल्लभाचार्याः कृपयन्तु निजेश्वराः ॥३॥ इति श्रीमदखण्डपाण्डताडम्बरखण्डनप्रचण्डवचनमीच- श्रीमदाचार्याऽऽत्मजश्रीमत्प्रभुचरणात्मजश्रीमहाराजश्रीयदुनाथकुल. कमलप्रकाशकरश्रीमगोपालात्मजश्रीमगिरिधरचरणकमलमकरन्द- मधुपायमाननेतोपनामकरामकृष्णभट्टविरचितः शुद्धाद्वैतमार्तण्ड- प्रकाशः समाप्तिमगमत् ।
श्रीगिरिधारी तनोतु मङ्गलानि । प्रमेयरत्नार्णवः । श्रीबालकृष्णभट्टविरचितः । गोपीनूतनरूपयौवनमहामाधुर्यलाभोन्मदं वृन्दाकानननिर्मितोज्ज्वलमयस्वच्छन्दरासोत्सवम् । श्रीमद्वल्लभविठ्ठलप्रकटितप्रेमाख्यभक्तिप्रियं वेदान्तोक्तरसात्मकं प्रभुमहं गोवर्द्धनेशं भजे ॥१॥ नन्दाङ्गनालालितवक्त्रचन्द्रो विधीशदुष्पापपदारविन्दः। विराजतां मूर्धनि भक्तिगम्यः श्रीबालकृष्णः कुलदैवतं मे ॥२॥ आनन्दमूर्ति श्रुतिमूर्द्धसिद्धं श्रीकृष्णमप्राकृतधर्मयुक्तम् । यः प्रापयदैवजनान् स्वपुष्टया श्रीवल्लभं तं प्रभुमाश्रयामि ॥ ३ ॥ वंदान्तसिद्धं पुरुषोत्तमस्य स्फुटीकृतं येन रसात्मकत्वम् । गोपाङ्गनाप्रेमनिमग्नचित्तं श्रीविठ्ठलं तं प्रणमामि भक्त्यै ॥४॥ अथ सुबोधिनीनिबन्धभाष्यविद्वन्मण्डनादिषु स्थितानि प्रमे- यानि रत्नानीव सचिनोमि । तत्र भगवद्भजनोपयोगितया प्रपञ्चख- रुपज्ञानस्य निबन्धोक्तरीत्या प्रथमं तदेव विविच्यते । स आत्मानर खयमकुरुत, स हैतावानास, स वै सर्वमिदं जगत्, इदं सर्व यदय- मात्मा, आत्मैवेदं सर्वे, स सर्व भवति, पुरुष एवेद सर्वमित्यादि- श्रुतिभिब्रह्मात्मकः प्रपञ्चो ब्रह्मकार्य इति सिद्धान्तः । अविकृतपरि- णामवादस्वीकारात् । तथोपपादितं भाष्यकारैः, आत्मकतेः परि- प्रमेयरत्नागाचे . णामादित्यत्र । अतो न मायिको, न वा भगवद्भिन्नः, किं तु सत्य त्वादाविर्भावतिरोभावशाली, नोत्पत्तिविनाशवान् । नासतो विद्यते भावो नाभावो विद्यते सत इति वाक्यात् । एवञ्च प्रागभावचतुष्टय- मपि नात्रेति ज्ञेयम् । ननु प्रपञ्चस्य ब्रह्माभिन्नत्वेऽपि प्रापश्चिकघटप. टादीनां घटः पटोनेत्यादिप्रतीतिसिद्धोऽन्योन्याभावो दुर्निवारः । अन्यथा घटेनावरणरूपं पटकार्य स्यादिति चेन्न । बहु स्यामितिश्रुति- सिद्धयेच्छया घटे पटत्वादीनां सर्वेषामेव तिरोभावात् । एकस्य घ. टत्वस्यैव घटे आविर्भावान्न कार्यान्तरसङ्करः । एवं सति सर्वत्र सर्वे ब्रह्मधर्माः सन्तोऽपि तत्तव्यक्ती तत्तत्कार्यकर्तृत्वस्य भगवता निय- मितत्वान्न कार्यान्तरं कर्नु समर्था भवन्ति । अतः प्रमाणसिद्धाभ्या- मानिर्भावतिरोभावाभ्यां सर्वकार्यसिद्धौ, नाऽन्योन्याभावोऽङ्गीक व्यः । सर्व सर्वमयमिति तापनीयश्रुतेः । अत एव, तद्वैतत् पश्य- न्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेत्यादावुक्तः सर्वभावो युज्यते । एवमन्योऽन्याभावे निराकृते पदार्थमात्रस्य सर्वरूपत्वेनात्य- न्ताभावोऽपि दूरीकृतो शेयः । तथाहि भूतले घटो नास्तीत्यत्र हि घटानुपलम्भेऽपि तद्भूतले वस्त्वन्तरस्य तृणादेराकाशस्य वा वि- द्यमानत्वात् तृणादिना आकाशेन वा घटस्यापि सत्वान्नात्यन्ता- भावः। अतः सर्वस्य सर्वरूपत्वात् सर्वस्य सर्वत्र विद्यमानत्वाच्च स- र्वस्य ब्रह्मत्वमिति शुद्धो ब्रह्मवादः । कारणरूपस्य ब्रह्मणः कार्यरूपे- णाविर्भावात् तत्प्रयुक्तं कार्यत्वं निखिलप्रपञ्चे, आत्मकृतेः परिणा- मात्, पटवच्चेति सूत्राभ्याम् । एतदुक्तं निबन्धीयसर्वनिर्णयप्रकर- णे, प्रपञ्चभावो भगवत्येव लीनः प्रकटीभवतीति । अवान्तरकार्येषु घटपटादिषु त्वयं प्रकारः । भगवदिच्छया कारणरूपायां मृदि वि- द्यमानस्य भगवद्रूपघटस्याविर्भावः । एवं सति यस्मिन् भगवद्रूपे रूपान्तरस्याविर्भावस्तत्कारणम्। यथा मृत् । यस्य प्राकट्यं तत् का- ये, यथा घट इति कार्यकारणव्यवस्था बोध्या । तथोक्तं निबन्धे, मृदादि भगवद्रूपं घटाद्याकारसंयुतमिति। अतः सर्वं खल्विदं ब्रह्मेति श्रुत्युक्तं ब्रह्मात्मकत्वं निराबाधमेव । 'मनसा वचसा दृष्टया गृह्यते- ऽन्यैरपीन्द्रियैः । अहमेव न मत्तोऽन्यदिति बुद्धध्वमासा' इति भा- प्रपञ्चविवेकः। - . गवतोपबृंहणाश्च । परन्तु व्यामोहिका माया जीवं व्यामोहयित्वा तदीयबुद्धौ प्रापश्चिकसद्वस्तुसदृशं मायिकं पदार्थमुत्पाद्य पुरःस्थित- विषये प्रक्षिपति । तदा पदार्थग्रहणे तस्यापि ग्रहणात् तद्विशिष्टज्ञानं भ्रमात्मकं भवति । तथा सति वस्तुग्रहे मायिकधर्माणामपि ग्रह- णाद्, 'यदिदं मनसा वाचा चक्षुश्या श्रवगादिभिः । नश्वरं गृह्यमा- णं च विद्धि मायामनोमयम् । देहं मनोमात्रमिमं गृहीत्वा, त्वय्यु- द्धवाश्रयति यस्त्रिविधी विकारो मायान्तराऽऽपतति नाद्यपवर्गयोर्य- तू, स्वप्नाभमस्तधिषणं पुरुदुःखदुःखमित्यादिवाक्यानि सावका- शानि भवन्ति । इमानि तादृक्प्रतीतिमूलकानि प्रमाणान्यवलम्ब्य विवर्त्तादिवादानां प्रवृत्तिः । पुराणादौ तादृशवादमूलमायिकत्वो- क्तिर्वैराग्यार्थमुपयुज्यत इति व्यवस्थापितं तत्त्वदीपे । अतः प्रतीतिरेव मुग्धानां मायिकी, न वस्तुनि कश्चिद्दोषः स्वाभाविकः । अत एव ब्रह्माणं प्रति भगवतोक्तम् । 'ऋतेऽर्थ यत् प्रतीयेत न प्रतीयेत चा- त्मनि । तद्विद्यादात्मनो मायां यथा भासो यथा तम' इति। एतव्या- ख्याने सुबोधिन्यामुक्तं, तया व्यामोहिता बुद्धिः पदार्थानन्यथा म- न्यते, न तु पदार्था अन्यथा भवन्तीति। अग्रे चोक्तं, प्रमाणभूतो वेदः सर्व खल्विदं ब्रह्मत्याह । ब्रह्मविदां प्रतीतिरपि तथा । भ्रान्तप्रतीतेस्तु नार्थनियामकत्वम् । अन्यथा भ्रमदृष्टया गृहीतं जगद् भ्रमरूपमेव स्यात् । अतो विषयता काचित् स्वीकर्तव्या । यया दृष्टिनिर्विषया स्यादिति । एवममुपपाद्य स्पष्टीकर्तुं पुनः फलितमुक्त, विषयता मा- याजन्या, विषयो भगवानिति। एवं सति अब्रह्मविदां विषये विषयता च प्रतीयते इत्युक्तं, भवति । यथा भ्राम्यतः पुरुषस्य, घटो भ्राम्य- तीति प्रत्यक्षे घटगताऽऽकृत्यादिर्वस्तुभूता प्रतीयते । भ्रमणं तु विषय- तारूपम् ।विषयरूपं भगवदात्मकं वस्तुभूतम् । यत् पुनस्तत्रेवोत्पत्ति- विनाशकुत्सितत्वान्योन्याभावादि प्रतीयते तद्विषयतारूपं भ्रमणव- न्मायिकं भासते । तथा घटपटादिरूपं जगत् प्रतीयते, न तु मायिकं बोध्यम् । इदमेव विविच्य सुबोधिन्याम, ऋतेऽर्थ यत् प्रतीयतेत्यस्यैव व्याख्याने उक्तम् । अतो विषयताजनितं ज्ञानं भ्रान्तम् ।विषयजनितं प्रमेतीति । विषयता च द्विधा सुबोधिन्यां विवृता। सा च विषयता द्विधा । आच्छादिकैका । अन्यथाप्रतीतिहेतुश्चापरेत्यारभ्य तस्माद्द- पणे मुखजननवत तेजोऽभावेऽन्धकारजननवन्मायामोहितपुरुषबुद्धा- ४ प्रमेयरमाणवे वपि विषयताद्वयं जनयतीत्यर्थ इत्यन्तेन ग्रन्थेन । विषयताद्वयं कर्म- भूतं माया जनयतीति फक्किकार्थः । पुनर्विषयताद्वयस्यापि स्व- रूपं निगमयितुमने भणितम् । तत्रैका ब्रह्मरूपतां न प्रकाशयति । एका तु जगद्रूपा विषयतोत । इह ब्रह्मरूपतां न प्रकाशयतीत्युक्त्या, ऋतेऽर्थ यत् प्रतीयेत न प्रतीयेत चात्मनीत्यत्र, अर्थो न प्रतीयत इति यदुक्तं तदुपपादितम् । एका तु जगद्रूपा विषयतेत्युक्त्या, अर्थम ऋते यत् प्रतीयेतेति पूर्व यदुक्तं तत् समर्थितम् । जगदुरूपा विषय- ता जगदिव सत्यमिव रूपं यस्याः सा जगद्रूपेति समासो शेयः । एतदेव, यथा भासो यथा तम इति दृष्टान्तेन मूले विवेचितम् । नच जगदूपा विषयतेत्युक्त्या दृश्यमानस्य जगतो विषयतात्वं स्वीक्रिय- तामिति वाच्यम्।विषयो भगवान् विषयता मायाजन्येत्यनेन विषय- रूपस्य जगतो विषयतायाः पृथक्त्वस्वीकारात् । अन्यथा ब्रह्मणो विषयत्वस्य वक्तुमशक्यत्वाजगतश्च विषयतारूपत्वाङ्गीकाराद्विषयो भगवानित्युक्तिरेव बाधिता स्यात् । अतो जगदूरूपा विषयतेत्य- स्याऽस्मदुक्त एवार्थो शेयः । प्रापश्चिकनीलवस्तुसदृशं विषयता- रूपं नीलं तमःप्रतीयते । इयमेव जगद्रपा विषयता । इदं तु विशिष्य ज्ञेयम् । माया हि कुत्रचिद्विषयतारूपधर्म सृजति । कुत्रचिद्धर्मिणं विषयतारूपम् । भ्रमरिकादृष्टया गृहीते घटे भ्रमणं विषयतारूपम् । तेजोऽभावे तु धर्मी विषयतारूपोऽन्धकारः । एवमुभयविधा विषयता जगत्समानाकारा। अत एव जगदुरूपेत्यु- च्यते । एवञ्च विषयतया पदार्थानामन्यथाभानं, न तु पदार्था अन्य. थेति निष्कर्षः । यतो विषयताद्वयमाच्छादकाऽन्यथाप्रतीतिहेतुरूपं ब्रह्मज्ञानेन नाश्यते । तदुक्तं सुबोधिन्यामव । तदुभयव्यावृत्त्यर्थ प्रमाणानीति भाव इति । अयं प्रपञ्चोऽधिकारभेदेन विधा भासते । तत्र ब्रह्मभूतानां ब्रह्मात्मक एव शुद्धो भासते । यथा यस्मिन् क्षणे स एव शुक्लो गृ- ह्यते तद्वत् शास्त्रोत्पन्नज्ञानिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्मस- त्यत्वमिथ्यात्वविवेकपूर्वकं भासते । यथा पटस्वरूपौपाधिकहरित- त्वयुक्तपटे गृहीतेऽपि पटगताऽऽकृत्यादीनां सत्यत्वं, हरितताया मायि- कत्वं बुध्यते तद्वत् । अविवेकिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्मा- णामेकरूपक्षानपुरःसरं भासते । यथा हरितकाचोपनेनयुतचक्षुषा प्रपञ्चविवेकः। ५ , बालेन गृहीतः पटस्तद्गताऽऽकृत्यादेरौपाधिकहरितत्वादेश्च सत्यत्वा- वबोधपूर्वकं भासते तथा । एवं सति भान एव भेदो, न स्वरूपे । अतः प्रपञ्चस्य ब्रह्माभिन्नत्वात् सत्यत्वमङ्गीकार्य श्रुतिशरणैः । ये पुनरुत्पत्तिविनाशकुत्सितत्वभेदादयो धर्माः प्रतीयन्ते, ते मायिका इति सुधीभिराकलनीयम् । भगवन्मूादौ तु भिन्न प्रकारः। तथाहि । भगवन्मूर्ति प. श्यतो भक्तिरहितस्य बुद्धो माया विषयतां सृजति, न तु भगवन्मू- ती विषयतां प्रक्षिपति । तत्र भगवद्गुणानामभिव्यक्ततया माया- याः प्रक्षेपसामर्थ्याभावात् । किं तु तादग्द्रष्टुर्बुद्धावावरणस्य विद्य- मानत्वाद्भगवन्मूर्तावन्यथा भानम् । वस्तुतस्तु तत्र भगवत्त्वं निर्दुष्ट- मेव।अत एव,विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धि- रित्यादिवाक्यैरन्यथाबुद्धेनिन्दितत्वं.श्रूयते । 'शिलाबुद्धिर्न कार्या च तत्र नारद कर्हिचित् । ज्ञानानन्दात्मको विष्णुर्यन तिष्ठत्यचिन्त्य- रुद्, इत्यादिवचोभिस्तत्र भगवदावेशकथनातू प्रपञ्चवैलक्षण्यम- ङ्गीकार्यम् । मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनमित्येकादशवाक्या तू । पूजनं प्रतिमायां तु उत्तमं परिकीर्तितमिति कालनिर्णयदीपि- कास्थविष्णुधर्मवाक्याच्च । निबन्धे च, 'तभावे स्वयं वापि मूर्ति कृत्वा हरेः क्वचित् । परिचर्या सदा कुर्यात् तद्रूपं तत्र च स्थितम्' इत्यस्य व्याख्याने, वस्तुविचारे सर्वस्यापि भगवदूरूपत्वाद्विशेष- स्त्वयम् । एनम् उद्धरिष्यामीति, तदा मृदादेः प्रादुर्भूत इत्यादिना प्रपञ्चवैलक्षण्यस्योपपादितत्वाच्च । अत एव महता प्रबन्धेन मू- र्तिपूजनं श्रीमद्भागवतैकादशस्कन्धे भगवता श्रीमदुद्धवं प्रत्युक्त- मिति दिक् । एवमेव यमुनागङ्गादिजलेषु तुलसीगोपीचन्दनादिषु तादृश- भक्तेषु साधारणवस्तुवैशिष्टयमाप्तवाक्यबलेनैवादणीयम्। तत्तत्से- बकैस्तत्र तत्रोधृत्युपयोगिधर्माणामुपलभ्यमानत्वात् । अत एव भगवन्मू,दिसम्बन्धादू बहूनां भगवत्प्राप्तिः पुराणादौ स्मर्यते । वाचनिके शाले वाचनिक्येव व्यवस्थेति, न शुष्कतभ्रमितव्यमि- त्यलं लेखेन । ननु सर्वस्य ब्रह्मात्मकत्वे सर्वान्तःपातिनो देहस्यापितथात्वेन तत्र जायमानाया आत्मबुद्धःप्रमात्वापातः । नचेष्टापत्तिः । देहात्मvi
६
प्रमेयरत्नाणवे
बुद्धेः श्रीमद्भागवतादौ निन्दितत्वादिति चेत् । सत्यम् । अजातब्र
ह्मज्ञानस्य देहं विकारवत्त्वेन पश्यतो मायामोहवशाजाताया देहा-
त्मबु रेव सर्वशास्त्रेषु निन्दा । सर्वत्र ब्रह्मत्वेन पश्यतः खदेहेऽपि
तथा भानाद्भवन्ती आत्मबुद्धिः प्रमारूपैव । तथाह भगवान् भाष्य-
कारः, आत्मकृतेरित्यत्र, देहात्मबुद्धिस्तु सत्यां विकारबुद्धी दोष
इति।
ननु, त्वय्यद्वितीये भगवन्नयं भ्रम इत्यादिवाफ्यानां का गति-
रिति चेत् । अहन्ताममतात्मकस्य संसारस्य मिथ्याभूतस्यैतादृश-
वाक्यविषयत्वमिति बोद्धव्यम् । तथाच प्रपञ्चो ब्रह्मात्मकः । संसार-
स्तु अहन्ताममतात्मको मिथ्याभूत एव । एतच्च सुष्ट्रपपादितं निब-
धादिष्विति विशेषजिज्ञासायां ततोऽवधेयमिति दिक् ।
इति श्रीमद्भगोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय-
रत्नार्णवे प्रपञ्चविवेकः सम्पूर्णः॥१॥
जीवस्वरूपनिरूपणम् । -- अथ जीवखरूपं विचार्यते । तत्र तत्त्वमसि श्वेतकेतो, एषो- अणुरात्मा चेतसा वेदितव्यः, ममैवांशो जीवलोके, नाणुरतच्छतेरि- ति चेन्नेतराधिकारात्, न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपीति श्रुतिगीताव्याससूत्रसमाधिभाषावाक्यैर्ब्रह्माभिश्नोऽणुर्ब्रह्मांऽशो जीव इति राद्धान्तः । तस्य चावस्थात्रयम् । शुद्धसंसारिमुक्तभेदात् । त- थाहि कारणभूताक्षरब्रह्मणः सकाशाद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युञ्चरन्तीति श्रुतेः सच्चिदानन्दात्मकोऽणुरंशो निःसरति। व्युच्चरणा- नन्तरं कारणरूपाऽक्षरगतस्य, विशुद्धसत्त्वं तव धाम शान्तमित्यादि- प्रमाणसिद्धस्य भगवद्धर्मात्मकस्य विशुद्धसत्त्वस्यांशभूतेन ताइक्स- त्वेन भगवदिच्छया प्रबलीकृतेनानन्दांशस्तिरोभवति । तदा निरुपा- धिकोऽणुरूपोऽक्षरांशश्चित्प्रधानस्तिरोहितानन्दो जीवशब्दवाच्यो भ- वति । तदुक्तं वेदस्तुतिसुबोधिन्यां, खकृतपुरेष्वमीष्वित्यत्र, जीवो नाम भगवतश्चिदंश इति । स्फुटीकृतं च भाष्ये, आनन्दांशस्तु पूर्व- मेव तिरोहितो येन जीवभाव इति । अत्र पूर्वमेवेत्यस्य भगवदैश्वर्या- धंशभूतैश्वर्यादितिरोभावात् पूर्वमित्यर्थः । निबन्धे च, ततः साकारा भगवद्रूपा अपि उच्चनीचभावेच्छया निर्गता इति निराकारा जाता इत्युक्तम् । इहाकारशब्देनानन्दाकार उच्यते । आनन्दो ब्रह्मवादे आ- कारसमर्पक इति तत्र निर्णयात् । ननु व्यापकाद् ब्रह्मणो व्युञ्चरणं न सम्भवतीति चेन्न । व्या- पफत्वेऽपि विरुद्धधर्माश्रयतया, व्युच्चरन्तीतिश्रुतिसिद्धस्य व्युश्चरण- स्याङ्गीकारात् । एवं सति व्युच्चरणोपादानभूताद् ब्रह्मणो व्युञ्चरतो ब्रह्मभूतस्य ब्रह्मभूते प्रदेशे ब्रह्मभूतं व्युच्चरणमित्युक्ते न कश्चिदोषः । सर्वं खल्विदं ब्रोति श्रुतेः । तथैवोक्तं भगवता, 'यत्र येन, यतो यस्य यस्मै यद्यद्यथा यदा । स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वर' इति । अतो व्युश्चरणे सत्यानन्दांशतिरोधानाजीवत्वम् । व्युश्चरणो- तरम्, आनन्दांशतिरोधाने सत्यविद्यासम्बन्धात् पूर्ववर्तिन्यामव- स्थायां शुद्धजीव इति, व्यवहारः । शुद्धसत्त्वव्यवस्थितिरिति लक्ष्मीत- न्त्रात् । जीवे शुद्धत्वं त्वविद्यासम्बन्धराहित्यम् । ततोऽस्मिञ्जीवरूपे भगवदंशे भगवर्दैश्वर्यादिषड्गुणांशभूतानामैश्वर्यादीनां हरीच्छया तिरोभावः । पराभिध्यानात्तुः तिरोहितं, ततो ह्यस्य बन्धविपर्ययाविति तत्त्वसूत्रात् । तदा तेषां मध्ये केषुचिज्जीवेषु रमणेच्छया विचारि- ।
८ प्रमेयरत्नार्णवे । । तस्य बहुत्वभवनस्य सिद्धये उच्चभावेच्छाविषयीभूर मुक्त्यधिकाररूपं सूक्ष्मसद्वासनाविशिष्टं दैवत्वं सम्पादयति भगवान् । तदैव जीका मुक्तियोग्या भवन्ति । देवी सम्पद्विमोक्षायेति भगवद्वाक्यात् । ततो ह्यविद्यासम्बन्धाद् बन्धः । बन्धोऽस्या विद्ययानादिरिति वाक्यात् । अनादित्वं तु कार्यान्तरापेक्षया । अमरेष्वमरत्ववत् । तदुपपादित विद्वन्मण्डने । ततो देहेन्द्रियान्तःकरणाध्यासाः स्वरूपविस्मृतिश्चे- त्यविद्यायाः पञ्चपर्वाणि । तैर्बद्धो दुःखितः। अस्य जीवसंसार उच्यत इति निबन्धात् । उच्यते, न तु जायते । अभिमत्यात्मकत्वात् । ततः सूक्ष्मस्थूलदेहसम्बन्धात् संसारिधर्माजन्ममरणादीन् अनुभवन् भ- गवत्कृपया सत्सङ्गादि लब्ध्वा पञ्चपर्वात्मिका विद्यां प्राप्य परमान- न्दलक्षणां मुक्तिं लभते। वैराग्यं सांख्ययोगौ च तपो भक्तिश्च केशवे । पञ्चपति विद्येयं यया विद्वान् हरि विशेदितिवाक्यात् । तत्र यावत् पञ्चपर्वात्मिका विद्यां प्राप्नुयात् । तावत् संसारीति व्यवहा- रः। तदने मुक्त इति शास्त्रीयो व्यवहारः । स च मुक्तजीवो द्विविधः । जीवन्मुक्तो मुक्तश्चेति । तत्र सनकादयो गताविद्यास्ते जीवन्मुक्ता उच्यन्ते।ये तु व्यापिवैकुण्ठेतर- भगवल्लोकवासिनस्ते मुक्ता इत्युच्यन्ते। ततः परमकृपया परममुक्ति- स्तत्र तु शुद्धब्रह्मत्वमेवेति निर्णयः । केचिदुत्तमा दैवास्तु सत्सङ्गादि प्राप्य मार्गरूचिजन्यश्रवणादिसमुद्भूतखतन्त्रभक्त्या फलरूपया नि- स्यलीलायां प्रविशन्ति । स तेषां मोक्षः । ये तु दैवजीवेभ्यो व्यतिरि- क्तास्तेषां षड्गुणतिरोधानानन्तरम्, अविद्यासम्बन्धे नीचभावेच्छा- विषयीभूतं मुक्तिप्रतिबन्धकमसद्वासनाविशिष्टमासुरत्वं सम्पादयति भगवान् । तदा ते आसुरजीवा उच्यन्ते । ते ह्यसद्वासनावशात् ताहशं स्थूलदेहं प्राप्य निन्दितकर्मनिरताः सन्तो नीचयोनिगा भव- न्ति । ते सर्वदा संसारिण एव । 'क्षिपाम्यजत्रमशुभानासुरीष्वेवयो- निषु । आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमिति' वाक्यातू । तेषां तु तदैवावि- द्याकार्यनाशो यदा भगवानात्मरतीच्छुर्भवति । तदा भगवानविद्या- कार्य संसारं सर्वत्र स्थितं स्वयमेव जीवकृतसाधनानपेक्षो नाशयति । तदा तेषामासुराणां सर्वदोषाणां नाशात् पुनः शुद्धजीवत्वं भवति । . - जीवस्वरूपनिरूपणम् । Q. । . तत्र सर्वत्र जडजीवात्मकप्रपञ्चे तिरोधानकृतवैजात्यनाशार्थ चिदा- नन्दो प्रकटयति । तदा पूर्वोक्तजीवेष्वप्यंशद्वयप्राकट्यम् । ततः प्रप- ञ्चो भगवति लीयते । तदैक एव भगवान् । अक्षरस्यापिपुरुषोत्तमाभि- नतया स्थितिः। यो विशिष्येत सोऽस्म्यहमिति भगवद्वाक्यात् । भ- वानेकः शिष्यते शेषसंज्ञ इति श्रीदेवकीवाक्याञ्च । सुबोधिन्यां त- थैव व्याख्यातत्वाच्च । अत एव, कृष्णस्यात्मरतौ त्वस्य लयः सर्वसु- खावह इति निबन्धे उक्तम् । इदमन ज्ञेयम् । जीवा द्विविधा देवा आसुराश्च । तत्र देवा अपि द्विविधा मर्यादामार्गायाः पुष्टिमार्गीयाश्च । तस्माजीवाः पुष्टिमार्गे भिन्ना एव न संशय इति पुष्टिप्रवाहमर्यादानिरूपणन- न्थात् । भेदकस्तु बीजरूपो निरुपाधिको भावः। स च भगवता अ- विद्यासम्बन्धात् पूर्व देवत्वसम्पादनानन्तरं मर्यादामार्गीयजीवेश्यो भेत्तुं विशेषानुग्रहेच्छया पुष्टिमार्गीयफलं प्रापयिष्यत्येवम् । स तूत्त- रत्राधिकारविवेके विवेचयिष्यते । मर्यादामार्गीया जीवास्तु ज्ञान- भक्तिकर्मयोगादिभिः सच्छास्त्रप्रतिपादितैर्यथायथं मिलिता बहु- विधा शेयाः । तेऽपि मुक्तावधिकारिणः । अतो मुक्तिः पुष्टिमार्गी- याणां मर्यादार्मार्गीयाणां च । अत एवेतरौ भिन्नौ सान्ती मोक्षप्र- वेशत इत्याचार्यवाक्यातू । परं तु मुक्तो यो भेदः स उत्तरत्न प्रपञ्चयिष्यते। नन्विदं सर्व जीवस्याणुत्वे सम्भवेत् । तत्तु सर्वदेहव्यापि- चैतन्योपलब्ध्यन्यथानुपपत्तिसिद्धेन व्यापकत्वेन बाधितमिति चेन्न । अविरोधश्चन्दनवदिति तत्त्वसूत्रे चन्दनदृष्टान्तेनाणुत्वेऽपि सर्वश- रीरव्यापिचैतन्योपलब्धेः साधितत्वात् । ननु चन्दनस्यैकदेशव- तित्वं प्रत्यक्षेण गृहीत्वा तच्छैत्यं सफलशरीरे लभमानस्तबलेनै- कदेशस्थस्यापि चन्दनस्य तादृक् सामर्थ्य कल्पयति । जीवे तु शरीरैकदेशवर्तित्वस्य प्रत्यक्षेणानिर्द्धाराद् दृष्टान्तवैषम्येण ताह- शसामर्थ्यसिद्ध्यभावान्न पूर्वोक्तसमाहितिरिति चेन्न । प्रमाणव- र्याभ्यः, कतम आत्मा योऽयं विज्ञानमयः प्राणेषु, हृद्यन्तोतिः पुरुषः स वा एष आत्मा, हृद्येष आत्मत्यादिश्रुतिभ्य एकदेशस्था- यित्वस्य निश्चयात् । एतदाह सूत्रकारः । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाघृदि हीति । किञ्च । यथा वृक्षस्य संपुष्पितस्य दू- . .
१० प्रमेयरत्नावे रानन्धो धात्येवं पुण्यस्य कर्मणो दूरागन्धो वातीति श्रुतेर्गन्धस्य द्रव्याधिकदेशवर्तित्वमेवं चैतल्यगुणोप्यधिकदेशवर्ती । जीवस्य श- रीरैकदेशहृदयस्थायित्वेऽपि सर्वदेहे चैतन्योपलम्भो भवत्येव । तदाह सूत्रकृत् । व्यतिरेको गन्धवदिति । नच चम्पकाद्यवयवा- नां सूक्ष्माणां दूरदेशे प्रस्तत्वात् तत्र गन्धोपलब्धिः सुवचति वाच्यम् । हिङ्ग्वादेरनेकचर्मपुटादिवेष्टितत्वेनावयवनिर्गमनाभावे- ऽपि गन्धग्रहणात् । लशुनस्पृशि करादौ बहुधा क्षालनेनावयवा- भावेऽपि गन्धानपायाच्च । एतच्च सुष्ट्रपपादितं प्रभुचरणैर्विद्व- न्मण्डने । नच, स वा एष महानज आत्मेति श्रुतेर्व्यापकत्वमिति वाच्यम् । नाणुरतच्छुतेरितिचेन्नेतराधिकारादिति तत्त्वसूत्रेण ब्र- झाधिकृत्येयं श्रुतिः प्रवृत्तेति प्रदाणुत्वस्यैव साधितत्वात् । ननु नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इति भगव- द्वाक्याद् व्यापकत्वमिति चेन्न । ब्रह्म वेद ब्रह्मैव भवतीतिश्रुतेर्ब्रह्म- भावे सति भगवद्धर्मावेशे जायमानस्य व्यापकत्वस्य भगवद्वाक्य- विषयत्वात् । तदुक्तं निबत्धे, व्यापकत्वश्रुतिस्त्वस्य भगवत्त्वेन यु- ज्यत इति । तर्हि व्यापकतायामणुत्वस्य निवृत्तेरवास्तवमणुत्वमि- तिचेन्न । ब्रह्मणो विरुद्धधर्माश्रयत्वेन अणुरूपेऽपि व्यापकताया अदोषात् । एतदुपपादितं निबन्धे । अण्वपि ब्रह्म व्यापकं भवति । यथा कृष्णो यशोदाकोडे. स्थितोऽपि सर्वजगदाधारो भवतीत्यन्तेन। अतो जीवोऽणुरेव । तस्य चैतन्याख्यो गुणः सर्वदेह क्यानोति । तदुक्तं नारदपञ्चरात्रे लक्ष्मीतन्त्र प्रयोदशाध्याये । चैतन्यमस्य धर्मो हि प्रभा भानोरिवामला। तया स्फुरति जीवोऽसौ खत एवानुरूपयेति । यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्तीति श्रुतिः स्पष्टमेवांशत्वं ब्रूते । सूत्रका रोऽप्यंशो नानाव्यपदेशादन्यथाचापि दाशकितवादित्वमधीयत एके, इत्यनेनांशतां स्फुट निरणयदिति पूर्वोक्तमखिलमनवद्यम् । इति श्रीगोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानु चरसेवकेन लालूभट्टोपनामबालकृष्णभट्टेन कृते प्रमेय- रत्नार्णवे जीवविवेकः समाप्तिमगात् ॥ २॥ . " मूलस्वरूप निरूपणम् । ११ .. अर्थ मूलरूपं विचार्यते। तत्र कृषिभूवाचकः प्रोक्तो णश्च निवृतिः वाचकः। तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते । ॐ तत् सत् परं ब्रह्म कृष्णात्मको नित्यानन्दैकखरूपः सोहमों तद्गोपाल एव परं सत्यमबाधितमिति । परं ब्रह्मैतद्यो ध्यायति र- सति भजतीत्यादिश्रुतेर्मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय, अ- क्षरादपि चोत्तम इति भगवद्वाक्याच्च श्रीकृष्णः परं ब्रह्मति नि- ष्कर्षः । अत एव, परं ब्रह्म तु कृष्णो हीति मुक्तावल्यां श्रीमदाचार्य- रुक्तम् । स चापाणिपादो जवनो ग्रहीता, अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतेः प्राकृतपाणिपादादिरहितः सच्चिदानन्दविग्रहः । आनन्द ब्रह्मणो रूपं, 'सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे । नमो वेदा- न्तवेद्याय गुरवे बुद्धिसाक्षिणे, सर्वतःपाणिपादं तद् इत्यादिश्रुते. रानन्दमूर्तिमजहादतिदीर्घतापम्, आनन्दमात्रकरपादमुखोदरादिरि- त्यादिपुराणतन्त्राभ्यामानन्दात्मककरचरणादिरूपो, निष्कलं नि. क्रिय शान्तं, सर्वकामः सर्वगन्धः, परास्य शक्तिर्विविधैव श्रूयते इ- त्यादिश्रुतिभिरप्राकृतधर्माधारः । तदुक्तं निबन्धे । सर्वाधारं वश्यमायमानन्दाकारमुत्तमम् । प्रापश्चिकपदार्थानां सर्वेषां तद्विलक्षणमिति । तथाच निषे- धकश्रुतीनां प्रातीतिकप्राकृतधर्मविषयत्वं, धर्मविधायकोपनिषदां त्वप्राकृतनित्यश्रौतधर्मविषयत्वमिति व्यवस्थया त्वविरोधोऽस्मत्सि- द्धान्ते । यदाह भगवान् भाष्यकारः। प्रतीतं च निषेध्यं, नाप्रतीतं, न श्रुतिप्रतीतमिति । स च परमकाष्ठापन्नः पुरुषोत्तमशब्दवाच्यः कृष्णः सदा प्रकटालौकिकसर्वधर्मा नित्यसर्वलीलः । दशमस्य वि- शुद्ध्यर्थ नवानामिह लक्षणमितिशुकवाक्याद्, यस्य लीला नव- विधाः स शुद्धः पुरुषोत्तम इति निबन्धात् । श्रीकृष्णं परमानन्दं द- शलीलायुतं सदेति स्पष्टमेव श्रीभागवतप्रकरणारम्भे निरूपित. त्वाच्च । स हि द्विभुजचतुर्भुजादिरूपैर्वृहद्वनवृन्दावनव्यापिवैकुण्ठादिषु तत्तद्भक्तैः सह रममाणः सर्वदा विजयते । परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् । चतुर्भुजश्च वैकुण्ठे गोकुले द्विभुजः स्वयमिति ब्रह्मवैवर्तात ।
१२ प्रमेषरत्नार्णवे अत एव परमानन्दः ।रसो वै सः । एतमानन्दमयमात्मानमुपसंक्रा- मतीत्यादिश्रुतेः । आनन्दमयोऽभ्यासात् । पुरुषविधोऽन्वयोऽत्र च- रमोन्नमयादिषु य इति तत्त्वसूत्रश्रीभागवतीयश्रुतिस्तुतिभ्यां च । एतच्च भाष्यसुबोधिन्योः स्फुटम् । अत एव आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेदिात मुक्तावल्यामुक्तम् । तस्यैव बहुस्यां प्रजायेयेति श्रुत्युक्तयेच्छया सकलकारणका- रणभूतं रूपान्तरमाविर्भवति । तस्मिन् रूपे भगवद्धर्मात्मकसत्त्वेना- जनन्दांशस्तिरोहित इव भवति । तदा तद्रूपमक्षरब्रह्मशब्दवाच्यं भवति । तदक्षरं ब्रह्म अधिकारिभेदेन द्विधा स्फुरति । तत्र भक्ता- नां पुरुषोत्तमधामव्यापिवैकुण्ठाद्यात्मकत्वादिधर्मवत् प्रतीयते । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिं, यं प्राप्य न निवर्तन्ते तद्धाम परमं ममेति गीतावाक्यात् । 'दर्शयामास लोकं खं गोपा- नां तमसः परम् । सत्यं ज्ञानमनन्तं यदू ब्रह्म ज्योतिः सनातनमिति श्रीभागवताच्च । अत एवोक्तं निबन्धे । प्रभुत्वेन हरेः स्फूतौ लो- कत्वेन तदुद्भव इत्यादि । भक्तप्रत्यक्षविषयीभूतेऽस्मिन्नक्षररूपे केषाश्चिद् गुणानां प्राकट्यमन्येषां भगवद्गुणानां तिरोधानमे- वेति शेयम् । नच तिरोभावस्याज्ञानमूलकतया न ब्रह्मणि स इति वाच्यम् । आविर्भावतिरोभावी शक्ता वै मुरवैरिण इति वाक्याद् भगवच्छक्तित्वात् । ननु विद्यमानस्य प्रतीत्यविषयता तिरोभावः । तथा सति सर्वज्ञे ब्रह्मणि न सम्भवस्तस्य । तदानीं जीवस्याभावातू तबुद्ध्यभिप्रायेणापि न वक्तुं शक्य इति चेन्न । सतः पदार्थस्य खकार्याकारित्वं तिरोभाव इति लक्षणात् । अत एव ब्रह्मनिष्ठस्य प्र- लयकर्तृत्वादेः प्रपञ्चस्थित्यवसरे खकार्याकारित्वरूप एव तिरो- भावोऽङ्गीक्रियते । एवं सर्वत्र बोध्यम् । सद्विषयकप्रतीत्यभावरूपस्तु तिरोभावो मायाकृतो बद्धजीवधर्म एतद्भिन्न इति दिक् । प्रकृतं वदामः । ज्ञानिनां तु सच्चिदानन्दत्वदेशकालापरि- च्छिन्नत्वखयम्प्रकाशत्वगुणातीतत्वादिखरूपं भासते। व्यतिरेकस्त- द्भावभावित्वान्न तूपलब्धिवदित्यत्र भाष्यऽक्षरस्य द्वेधा स्फूर्तिनिरूप- णात् । अतो ज्ञानिनां प्रकाशमानेऽक्षरे ब्रह्मणि सर्वेषां धर्माणां तिरो- भावादेकस्यास्तिरोधानशक्तरेव प्राकट्यान्निर्द्धर्मकमिति व्यवह्रियते । 'संसुप्तवच्छून्यवत्प्रतयं तन्मूलभूतं पदमामनन्ति । शब्दो न । मूलस्वरूपनिरूपणम् । १३ यत् पुरुकारकवान् क्रियार्थो माया परत्यभिमुखे च विलजमाना। तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजनसुखं विशोकम्' इत्यादिवाक्यात् । न तु श्रुत्युक्तधर्मशून्यम् । तथा सत्यसतः सत्ता स्यात् । विश्वतश्चक्षुरुत विश्वतोमुख इत्यादिश्रुत्युक्तधर्मखीकारे औ- पाधिकपक्षो वा स्यात् । अतो वेदोक्तधर्माणां तिरोभाव एव, न त्व- भावः । अमावास्त्वस्मन्मते तिरोभावातिरिक्ता न भवन्तीति द्वि- तीयस्कन्धसुबोधिन्याम् । नचैवं ब्रह्मणि दुःखं नास्तीत्युक्तेषुःखतिरो- भावस्वीकाराद् दुःखसत्तापत्तिरिति वाच्यम् । दुःखस्य मायिकत्वेन मिथ्यात्वात्तभावस्यापि मिथ्यात्वस्वीकारात् । अत एव कैश्चिन्नि- धुर्मवादिभिः स्थूलत्वाद्यभावानां मिथ्यात्वमङ्गीकृतम् । अन्यथा ह्य- भावनिरूपितं द्वैतं स्यादिति। अतो मायिकधर्माणां भ्रान्तप्रतीतिमात्र- सिद्धानां दुःखादीनां मिथ्यात्वेन तदभावस्यापि मिथ्यात्वम् । व- ध्यासुततदभाववत् । श्रुत्युक्तधर्मप्रतियोगिका अभावास्तु तिरोभा- वात्मका इति विवेकः । अतस्तिरोभावस्वीकारे न कश्चिदोषः । तदेवं तिरोहितसर्वशक्तिकं सर्वव्यवहारातीतमेकं ब्रह्मणो रूपम् । 'ये त्व- क्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्' इतिगीतावाक्ये एतदेव स्वरूपमुक्तम् । तथाच पुरुषोत्तमश- ब्दवाच्यं श्रीकृष्णखरूपमेकम् । अक्षरं द्वितीयम् । तश्च पूर्वोक्तरीत्या द्विविधमिति ब्रह्मणो रूपत्रयं दर्शितम् । पुरुषोत्तमस्य तस्यैव सर्व- नियमनादिकार्यसिद्ध्यर्थ सूर्यमण्डलादौ पृथिव्या अधिदैवादिषु स्थितं यद् रूपं तदन्तर्यामिशब्दवाच्यम् । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मा अन्तर्यायमृत इति श्रुतेः । भेदव्यपदेशाचान्य इति सूत्राश्च । यं इमं च लोकं परं च लोकं सर्वाणि भूतान्यन्तरो यमयतीत्युपक्रम्य यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृ- थिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मा अन्तर्याम्यमृत इति श्रुतेः । अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशादिति सूत्राश्च । अयं पुरुषशब्देनोच्यते। विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः प्रथमं महतः स्रष्ट द्वितीयं त्वण्डसंस्थितम् । तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यत इति वाक्यात् ।
१४ प्रमेयरत्नार्णवे . अयं हि सर्वेर्षा लीलावताराणां मत्स्यादीनां मूलम् । लीलाव- तारान् पुरुषस्य भूम्न इति द्वितीयस्कन्धातू । ते च पुनरवताराः स्येत्यपेक्षायां, यस्तु भूमा पुरुषो ब्रह्माण्डादधिकोऽन्तर्यामिरूपो द्विती- यध्यान उक्तस्तस्यावतारा इति सुबोधिन्यां व्याख्यातत्वाच । द्वितीय- ध्यानं तु, केचित्, खदेहान्तहृदयावकाशे प्रादेशमानं पुरुषं वसन्त- मित्यत्रोक्तम् । एतव्याख्याने पुरुषादतिरिक्त रूपमतिरेकार्थ भज- न्ते। अतिरिक्तमपि पुरुषाकारं वसन्तं तृतीयपुरुषमिति सुबोधिन्या- मुक्तम् । एवं सति तृतीयं सर्वभूतस्थमित्यत्रोक्तमन्तर्यामिरूपमिति सूचितम्।अत एव,यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रदित्यस्याभासे, अन्तर्यामिस्वरूपे, प्रादेशमात्रं पुरुषं वसन्तमित्यादिषदैर्यनिरूपितं भगवत्खरूपं तस्यात्र दशावतारा उच्यन्ते इति सुबोधिन्यामुक्तम् । एते चांशकलाः पुंसः कृष्णस्तु भगवान् खयमित्यत्र एष एवान्तर्यामी पुंशब्देनोक्तापुंसो नारायणस्य ब्रह्माण्डमूर्तेरंशाः कलाश्चेति व्याख्या- तत्वात् । अत एव,य आदित्ये तिष्ठन्नित्यारभ्य,सत आत्मान्तर्याम्यमृ- त इत्यत्रोक्तस्यान्तर्यामिणो नारायणत्वं स्मयते । 'ध्येयः सदा सवि- जुमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः। केयूरवान् म- करकुण्डलवान किरीटी हारी हिरण्मयवपुर्धतशङ्खचक्र' इति । अतः पुरुषोत्तमस्य रूपान्तरमन्तर्यामिसंज्ञकमेकम् । सर्वे तस्यावताराः। एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्त्रयमिति वाक्यात् । अक्ष- रानिर्गमनं येषामन्तर्यामिणामुक्तं ते त्वेतस्य मुख्यान्तर्यामिणोंशा योध्याः । ते ह्यानन्दप्रधाना जीववत्प्रतिशरीरं भिन्ना नियतनियाम. कत्वधर्माणस्तत्तजीवमात्रनियामकाः । जडजीवान्तर्यामिष्वेकैकांश- प्राकट्यादिति । तत्तु समन्वयादिति सूत्रभाष्ये एत एवोक्ताः । अतः परं लीलावताराणां गुणावताराणां च खरूपं विविच्य- ते । तत्र, विशुद्धसत्त्वं तव धाम शान्तं, सत्त्वं यस्य प्रियामूर्तिः,सत्त्वं विशुद्धं श्रयते भवान् स्थितावित्यादिवाक्येभ्यः प्राकृसत्त्वादितर भगवद्धर्मात्मकं सत्त्वमस्ति । एवं प्राकृतरजस्तमोभ्यामितरे भगवद्ध- मात्मके रजस्तमसी अपि स्तः। विशुद्धसत्त्वं तव धाम शान्तमित्यस्य सुबोधिन्यां, प्रयाणामप्यप्राकृतत्वनिरूपणात् । सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय इत्यत्र भगवद्गुणत्वेन त्रयाणामुक्तेः । सुबोधि- न्यां तथा व्याख्यातत्वाञ्च तत्र अप्राकृतसत्त्वं खचिकीर्षितमत्स्या-
मूलस्वरूपनिरूपणम् ।
द्याकृति विधाय तत्रायःपिण्डे वह्निरिवाविर्भूय तत्तत्कार्याणि करो-
ति । अस्मिन् विशुद्धसत्त्वात्मके विग्रहे जगत्स्थितिकार्यचिकीर्षया
चह्नययोगोलकन्यायेनाविश्य विष्णुसंशां भजते । स गुणावतारो वि-
ष्णुः । अप्राकृते रजसि विग्रहभूते वह्नययोगोलकन्यायेन प्रविश्य ब्र-
ह्मसंज्ञां भजते । अप्राकृते तमसि विग्रहभूते वह्नययोगोलकन्यायेन
प्रविष्टः शिवशब्दवाच्यो भवति । एते प्रयोगुणावतारा अप्राकृतदेहा
अपि प्राकृतसत्त्वरजस्तमसां, सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः
परः पुरुष इत्यादिप्रमाणसिद्धानां पूर्वोक्तभगवद्धर्मसत्त्वादिभ्यो
भिन्नानां नियामकतया सगुणा उच्यन्ते । अत एवैते पुराणादिषु
परब्रह्मधर्मवत्त्वेन स्तूयन्ते । अंशिना कृष्णेनाभेदात् । अत्रैतावान् वि-
शेषः । त्रयाणां गुणावतारत्वेऽपि विष्णौ चतुर्भुजाधाकाराणां पी-
ताम्बरवनमालादीनां पुरुषोत्तमधर्माणां बहूनां प्रकटत्वेन ब्रह्मशिवा-
पेक्षया उत्कृष्टत्वं ज्ञेयम् । अत एव, श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां
स्युरिति श्रीभागवते उक्तम् ।
एतावता ग्रन्थेन सिद्धमेतत् । मूलरूपस्य चत्वारि रूपा-
णि । तत्रैकं पुरुषोत्तमखरूपं श्रीकृष्णशब्दवाच्यम् । एकम् अ-
क्षरं स्वरूपम् । तच पूर्वोक्तरीत्या द्विविधम् । एकमन्तर्यामिक-
पम् । एवं चातुर्विध्यं ज्ञेयम् । इदमलौकिकं प्रमेयं वेदान्तप्रतिपा-
घं भगवत्कृपैकलभ्यं यथाबुद्धि मया निरूपितम् । विशेषजिशा-
सायां तु भाष्यसुबोधिनीनिबन्धविद्वन्मण्डनादयो ग्रन्था अवलोक-
नीया इत्यलं लेखेन।
इति श्रीमगोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय-
रत्नार्णवे मूलम्पविवेकः सम्पूर्णः ॥३॥
१६ प्रमेयरत्नावे । अथेदं विचार्यते । का पुष्टिः, कश्च पुष्टिमार्ग इति । तत्र, पोषणं तदनुग्रह इति शुकवाक्यात, कृष्णानुग्रहम्पा हि पुष्टिः कालादिबाधिकेति निबन्धोक्तत्वाश्चानुग्रहरूपो भगवधर्मः पुष्टिः । सा च विलक्षणा लौकिकालौकिकफलसाधिका । अतोऽधि- कारिविशेषे निःसाधने श्लाघ्यफलं जनयन्ती तेनैवानुमीयते । तदुक्तं निबन्धे, अनुग्रहो लोकसिद्धो गूढभावाग्निरूपित इति । अर्थस्तु गू- ढभावादनुग्रहस्य गूढत्वाल्लोकसिद्धो लोके उत्तमफलजननेन प्रक- टीभूतोऽनुग्रहो निरूपितः षष्ठस्कन्धे वर्णितः। तत्कार्य विवेचितम- जामिलादिषु । यतो निन्दितकर्मनिरतः सङ्केतितभगवन्नाम्ना मोचि- तः। विश्वरूपदधीचित्राणां कर्मिशानिभक्तानां हन्ताऽनिष्टफलभो- गयोग्यः शक्रोऽपि पुष्टया रक्षितः दितिगर्भो वजहतोऽपि न मृतः । प्रत्युत बहुत्वं सम्पन्नम् । अत एवोक्तम्, एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता। सर्वबाधकरूपा हि दैत्ये पुष्टिरथोच्यत, इति महापुष्टित्वं तु बलवत्प्रतिबन्धनिवृत्तिपूर्वकस्वपादावाप्तिसा- धकत्वम् । सर्वबाधेत्यत्र सर्वशब्देन कालकर्मस्वभावा ग्राह्याः । त- विह कुत्सितकर्मणामनिष्टफलाजनकत्वेन तद्बाध इन्द्रे स्पष्टः । दितिगर्भप्रसङ्गे वज्रप्रहारस्य प्राणवियोगसाधकत्वस्वभावबाधो क्षेयः । न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षु- एणो द्रौण्यस्त्रेण यथा भवान्' इतिवाक्यात् । एवमन्यत्रापि बोध्यम् । इयं च पुष्टिश्चतुर्विधपुमर्थान् साधयति । अत एव सुबो- धिन्यामुक्तम्, सहस्रार्जुनो. भगवदंशः पुष्टया राजा बभूवेति । निबन्धे देवहूतिमुक्तिश्च पुष्टिकारणिका निरूपिता । योगादीनां तु व्यापारत्वमुक्तमेव, अजामिलादिषु नामादीनामिव । तदुक्तं नि- बन्धे, नामाध्यानार्थनादिकं, पुरस्कृत्य हरेर्वीर्य नामादिषु निरूप्यत इति । इदं सामान्यानुग्रहस्वरूपम् । पुष्टिविशेषस्तु केवलं भगवत्स्व- रूपफलिकां भक्तिं साधयति । अतस्तजन्या भक्तिः पुष्टिभक्तिरित्यु च्यते । तदुक्तं सिद्धान्तमुक्तावल्याम् । अनुग्रहः पुष्टिमार्गे नियाम- क इति स्थितिरिति । पुष्टिमार्गे पुष्टि भक्तिमार्गे इत्यर्थः । तदनुग्र- हैफलभ्यां भक्तिं च नुमस्तदीयांश्चेति भक्तिहेतुनिर्णयेऽपि । अत एव, भक्त्या कार्यरूपया पुष्टिविशेषोऽनुमीयते । तदुक्तं पुष्टिप्रवाह- पुष्टिनिवेकः। १७ मर्यादानिरूपणे । भक्तिमार्गस्य कथनातू पुष्टिरस्तीति निश्चय इति । अयमर्थः । मनोगतिरविच्छिन्ना यथा गगाम्भसोऽम्बुधावित्यारभ्य, स एव भक्तियोगाख्य आत्यन्तिक उदाहृत इत्यन्त, ग्रन्थादो भा- गवते भक्तिमार्गस्य निर्गुगस्य निरूपणादू भक्तिसत्तायां सिद्धायां ताद्दशा भक्त्या तत्कारणीभूता पुष्टिरनुग्रहरूपा भगवत्यस्तीति नि- श्चय इत्यर्थः । सापीशानुकथाशब्देन नवमस्कन्धे व्यवहियते । ईशस्य अनुगामिनां कथा भगवच्छ्रवणादिरूपं चरित्रमित्यर्थः । तञ्च द्विविधं, मर्यादाभक्तिरूपं, पुष्टिभक्तिरूपं च । तत्र वि- शेषानुग्रहजन्या या भक्तिः सा पुष्टिभक्तिः । तल्लक्षणं तु भगव- स्वरूपातिरिक्तफलाकाङ्क्षारहितत्वे सति भगवत्स्वरूपात्मकफला- काङ्गावत्त्वम् । अत एव, अक्षण्वतां फलमित्यत्न स्वरूपस्यैव फलत्वं निरणायि । अतः पुष्टिमार्गीया न तदरिकं कामयन्ते । न योगसि- खीरपुनर्भवं वा मय्यर्पितात्मेच्छनि मद्विनाऽन्यदिति भगवद्वाक्या. द। एतच्च, चीझ्यालकावृतमुखं तव कुण्डलश्रीति पुष्टिभक्तवज- सुन्दरीवाक्ये स्पष्टम् । भक्तिहंसे च निरूपितं, भक्तौ च न खरू- पातिरिक्तफलकत्वमित्यनेन । सा पुष्टिभक्तिश्चतुर्धा । प्रवाहपुष्टिभक्तिमर्यादापुष्टिभक्तिपुष्टि- पुष्टिभक्तिशुद्धपुष्टिभक्तिभेदात् । 'पुष्टया विमिश्राः सर्वधाः प्रवाहेण क्रियारताः । मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिवुलभा' इति वा- क्यात् । पुष्टयेत्यादि । ये पुष्टिभक्ताः पुनः पुष्टया विमिश्रा अनुग्र- हान्तरेण भजनोपयोगिज्ञानजनकेन युक्तास्ते सर्वज्ञा भवन्ति । सर्वशब्देन प्रभुतल्लीलातत्परिकरप्रपञ्चस्वरूपादि ग्राह्यम् । सर्ववस्तू- नां यथोक्तस्वरूपं विदित्वा ये भजन्ते ते पुष्टिभक्ता इत्यर्थः । प्र- काहेणेति । प्रवाहस्याहन्ताममतात्मकसंसारप्रधानत्वात् तधर्मेण केवलं कर्मरुचयः, पुष्टिभक्तत्वाश्च भगवदुपयोगिक्रियायां प्रवर्तन्ते प्रचाहयुष्टिभक्ताः । मर्यादयेति । मर्यादा हि जीवस्य रागतो विषयप्रवृति निराकृत्य निवृत्तिमायधर्मेषु योजयति । अतो म- र्यादया मिश्रणाविषयासक्तिमविभाव्य भगवत्कथाश्रवणादौ ये प्र- वर्तन्ते ते मर्यादापुष्टिभक्ताः । शुद्धाः प्रेम्णेति । ये केवलं प्रेम- प्रधानाः परिचर्यागुणगानादिकं स्नेहेनैव कुर्वन्ति तेऽत्यन्तं दुर्लभाः सर्वोत्कृष्टा इत्यर्थः । स्नेहोत्पत्त्यनन्तरं स्वव्यसनतः क्रियमाणः श्र- .
१८ प्रमेयरत्नार्णवे . . ॥ वणादिरुत्तमः पुष्टिभक्तिरिति भक्तिहंसे तेषामेव भक्तेः स्वरूप मु- क्तम् । न तु सामान्यतः पुष्टिभक्तिस्वरूपम् । स्नेहानन्तर्यकथाना. दुत्तमपदप्रयोगाच्च। इदमत्र ज्ञेयम्, जीवैः पुष्टिपुष्टिभक्त्यर्थ यतनीयम् । भगवद्- भक्त्युपयोगिज्ञानसम्पाद्य भगवान भजनीयः । चतुर्थी शुद्धपुष्टिभ क्तिस्तु भगवहत्ता प्राप्यते । भक्तिः शुद्धा स्वतन्त्रा च दुर्लभेति न सोच्यत इति निबन्धात्। नचानुग्रहे वैलक्षण्याभावात् तजन्यभक्ती कथं नानात्वमिति शङ्यम् । 'नेमं विरज्च्यो न भवो न श्रीरप्यङ्ग- संश्रया।प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात् । नायं श्रियोङ्ग उनितान्तरतेः प्रसादः स्वोषितां नलिनगन्धरुचांकुतोऽन्याः।रासो- त्सवेऽस्य भुजदण्डगृहीतकण्ठलब्धाशिषां य उदगाद् व्रजवल्लवीना- म्' इत्यादिवाक्यैस्तथाऽवधारणात् । अतोऽनुग्रहविशेषेण पुष्टिभक्ति- लभ्यते । तया भगवांस्तदधीनो भवति । वशे कुर्वन्ति मां भक्त्येत्या- दिवाक्यैः । कृष्णाधीना तु मर्यादा खाधीना पुष्टिरुच्यत इति निब- धोक्तेश्च । इह पुष्टिशब्देन पुष्टिभक्तिः । यत्र च भक्तस्य स्वातन्त्र्यं तदिच्छानुसारेण भगवत्कृतिर्यथा दामोदरलीलायां सा पुष्टिरिति व्याख्याखारस्यात्।पुष्टिः स्वार्था परार्था तु भक्तिःसा नवमी मतेत्या- दिवाक्येषु पुष्टिशब्देनानुग्रह एव ग्राह्यो, न पुष्टिभक्तिः। तथैव ग्रन्था- ऽर्थसिद्धेः । तदेवं सुबोधिनीनिबन्धादिषु पुष्टिशब्देन क्वचिदनुग्रहः, कचित् तजन्या भक्तिरुच्यते । स एव च पुष्टिमार्ग इति सहृदयै- विभावनीयम्। नच भगवत्स्वरूपातिरिक्तफलकाङ्क्षारहितत्वं प्रवाहपुष्टिभ- क्यादावव्याप्तं, ताहग्भावस्य शुद्धपुष्टिभक्तष्वेव प्रसिद्धरिति वाच्य- म् । शुद्धपुष्टिभक्तेतरपुष्टिभक्तेष्वपि मोक्षान्तफलाकाङ्क्षाविरहस्य सिद्धत्वात् । नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गापवर्ग- नरकेष्वपि तुल्यार्थदर्शिन इति वाक्यात् । इदं वाक्यं न शुद्धपुष्टिभक्त- परम् । एतादृशस्तु पुरुषःकोटिम्वपि सुदुर्लभ इत्यस्य व्याख्याने नि- बन्धे झानमिश्रनिर्णयात् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्ग इति वृत्रवाक्यात् वृत्रस्य शुद्धपुष्ठित्वाभावात् । अतो लक्षणं सुस्थम्। श्रीहरिरायैस्तु शुद्धपुष्टिभक्तरेव स्वरूप कारिकाभिर्विवृतम् । . ।
पुष्टिविवेकः । न तु पुष्टिर्लक्षिता । विचारे क्रियमाणे तथैवार्थस्फूर्तेः । अन्यथा सर्वसाधनराहित्यादिधर्माणां प्रवाहपुष्टिभक्तावव्याप्तेश्च । अतो नेदमसाधारणं लक्षणं, किन्तु शुद्धपुष्टिभक्तेर्धर्माणां निरूपणमिति शेयम् । तथाहि । सर्वसाधनराहित्यं फलाप्तौ यत्र साधनम् । फलं वा साधनं यत्र पुष्टिमार्गः स कथ्यते ॥१॥ सर्वेत्यादि । यत्र फलस्य भगवत आप्तौ सर्वसाधनाभावी हेतुः स शुद्धपुष्टिभक्तिमार्गः कथ्यत इत्यर्थः । तामसप्रकरणीय- फलप्रकरणेऽन्वेषणगुणगानादिसाधनानि त्यक्त्वा रोदनेन दैन्ये प्रकटीकृते व्रजवधूनां भगवदाप्तिकथनात् । एवं सति साधना- भावस्यापि साधनतायां, न निःसाधनफलत्वं प्रभौ सिध्यतीत्य- रुच्या पक्षान्तरमाहुः । फलं वेत्यादिना । फलरूपो भगवानेव खरूपात्मकफलाप्ती साधनमित्यर्थः । अत एव श्रीमदाचार्यैरुक्तम्। ततो भगवान् ब्रह्मा विष्णू रुद्रश्च भूत्वा पुनः कृष्ण एव जात इत्याहेति ॥१॥ अनुग्रहेणैव सिद्धिलौकिकी यत्र वैदिकी। म यत्नादन्यथा विघ्नः पुष्टिमार्गः स कथ्यते ॥२॥ अनुग्रहणेत्यादि । साधनान्तरनिरपेक्षेणानुग्रहेण यत्र लौकि- कवैदिकसिद्धिः स शुद्धपुष्टिमार्गः । अत एव ब्रजस्थानां तथैव वै- कुण्ठप्राप्तिः । अह्नयापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठ- मुपनेष्यति गोकुलं स्मेति ब्रह्मवाक्यात् । यत्ने कृते तु विघ्न एव भवेत् । एतच श्रीनन्दादीनामम्बिकावनयात्राप्रसने स्पष्टम् ॥२॥ यत्राङ्गीकरणे नैव योग्यतादिविचारणम् । अविलम्बः प्रभुकृतः पुष्टिमार्गः स कथ्यते ॥३॥ यत्रेत्यादि । प्रभु वयोग्यताविचारमकृत्वैव यत्र शीघ्रम- ङ्गीकरोति स शुद्धपुष्टिमार्गः । केवलेन हि भावेन गोप्यो गापः खगा मृगा इति वाक्यात् । स्वरूपविचारे तु शास्त्रस्य पुरुषाधिकारकत्वेन पश्वादीनां मोक्षसम्भावनैव नास्तीति शेयम् ॥३॥ खरूपमात्रपरतातात्पर्यज्ञानपूर्वकम् । धर्मनिष्ठा यत्र नैव पुष्टिमार्गः स कथ्यते ॥४॥ स्वरूपेत्यादि । यत्र धर्मविधायकवाक्यानां भगवत्सम्बन्धे प्रमेयम्त्नार्णवे तात्पर्यमवगत्य कलाप्त्यवसरे तत्प्रतिवन्धकधर्मान् हित्वा धर्मिपरतया स्थीयते, स शुद्धपुष्टिभक्तिमार्गः । अत एव श्रवणादर्शनादू ध्याना- म्मयि भाव इति वाक्यतात्पर्यमवगत्य स्वरूपपरतयैव स्थितं, न तु तद्विरुद्धं गृहगमनमाचरितम् ॥ ४॥ यत्र प्रभुकृती नैव गुणदोषविचारणम् । तत्कृतावुत्तमत्वज्ञा पुष्टिमार्गः स कथ्यते ॥५॥ यत्रेत्यादि । यत्न रोदनचौर्यादिरूपे चरित्ने हीनत्वबुद्धया नानु- पादेयत्वरूपदोषदृष्टिः । न वा कालीयदमनदावाग्निमोक्षणादिषु मा- हात्म्यबोधनादिषु चरित्रान्तरेभ्यो वैशिष्टयबुद्धिः। किं तु भगवत्कृ- तिमात्र उत्तमत्वज्ञानं सर्वत्र स पुष्टिमार्गः ॥ ५ ॥ न वेदलोकसापेक्ष्यं सर्वथा यत्र वर्तते । सापेक्षता खामिसुखे पुष्टिमार्गः स कथ्यते ॥ ६ ॥ न लोकेत्यादि । यत्र तु स्वामिसुखार्थमेवाखिलचेष्टितं, नैहि- कपारलौकिकयत्नः स शुद्धपुष्टिभक्तिमार्गः दिष्टया पुतान् पतीन् देहान् स्वजनान् भवनानि च । हित्वा वृणीत यूयं यत् कृष्णाख्यं पुरुषं परमिति वाक्यात् ॥ ६ ॥ वरणे दृश्यते यत्र हेतुर्नाणुरपि स्वतः। वरणं च निजेच्छातः पुष्टिमार्गः स कथ्यते ॥ ७ ॥ वरणेत्यादि । स्वीयत्वेनाङ्गीकृतौ जीवकर्तृकसाधनानां यत्र न कारणता, स शुद्धपुष्टिमार्गः । यतः साधनसम्पन्नेष्वपि न तत्फलं, यदत्यन्तायोग्येषु पुलिन्धादिषु दीयते । यमेवैष वृणुते तेन लभ्य इति श्रुतिरत्राप्यनुसन्धेया ॥७॥ यत्न स्वतन्त्रता भक्तेराविर्भावानपेक्षणात् । पूर्वानुभवरूपत्वं पुष्टिमार्गः स कथ्यते ॥८॥ यत्नेति यत्र वियोगावस्थायां गुणगानादिरूपाया भक्तरेव स्वरूपानन्दात्मकफलदाने खतन्त्रता,न स्वरूपाविर्भावस्य संयोग- रससम्बन्धिन आकाङ्क्षा । प्रेमभरेण जायमानस्य श्रवणकीर्तनादेरेव सर्वसुखानुभवरूपत्वं, स शुद्धपुष्टिमार्गः ॥ ८॥ लोकवेदभयाभावो यत्र भावातिरेकतः । सर्वबाधकतास्फूर्तिः पुष्टिमार्गः स कथ्यते ॥९॥ लोकवेदेत्यादि । यत्न भावातिरेकतो भगवद्भावाधिक्यातू पति- - पुष्टिविवेकः । २१ पुवादिभयं पारलौकिकभयं च नास्ति। भगवद्भावे सर्वस्य कालकर्म. स्वभावादेर्बाधकोऽयमिति स्फूर्तिः स शुद्धपुष्टिभक्तिमार्ग इत्यर्थः । अत एवाऽख>मयशस्यं चेत्यादिवाक्यैर्वेदभयं, विचिन्वन्ति हप- श्यन्त इत्यादिभिर्लोकभयं च नोत्पन्नम् ॥९॥ सम्बन्धः साधनं यत्र फलं सम्बन्ध एव हि । सोऽपि कृष्णेच्छया जातः पुष्टिमार्गः स कथ्यते ॥ १०॥ सम्बन्ध इत्यादि । यत्र जीवानां भगवता सह देहजभावजा- न्यतरसम्बन्धः फले साधनम् । यत्र च सम्बन्धः सर्वेन्द्रियाणां प्रभु- णा संगमः स एव फलं स शुद्धपुष्टिमार्गः । भगवता सह संलापो दर्शनं मिलितस्य चेत्यादिवाक्यात्। किञ्चसम्बन्धोपियत्र कृष्णेच्छ- या कृष्णस्य भक्तविषयिण्येच्छया जातः स तथा । मदन्यत् ते न जानन्ति, नाहं तेभ्यो मनागपीति वाक्यातू ॥१०॥ तत्सम्बन्धिषु तद्भावस्तद्भिन्नेषु विरोधिता। उदासीनेषु समता पुष्टिमार्गः स कथ्यते ॥ ११ ॥ तत्सम्बन्धिष्विति। यत्र प्रभुसम्बन्धिषु भगवबुद्धिभिन्नोदा- सीनयोर्विरोधिसमत्वबुद्धिः स पुष्टिमार्गः । अत एवोद्धवदर्शने परमोत्साहः । इति स्म सर्वाः परिवदुरुत्सुकास्तमुत्तमश्लोकपदाम्बु- जाश्रयमिति वाक्यात् ॥ ११ ॥ विद्यमानस्य देहादेर्न स्वीयत्वेन भावनम् । परोक्षेऽपि तदर्थित्वं पुष्टिमार्गःस कथ्यते ॥ १२ ॥ विद्यमानस्येति । यत्र देहादेन स्वीयत्वबुद्ध्या रक्षणादिकमपि तु भगवदीयत्वबुद्ध्या, स पुष्टिमार्गः। किञ्च, परोक्षेपि विरहावस्था- यामपि भगवदुपयोग भाविनमालोच्य शरीरादिरक्षा स तथा । त्वयि धृताऽसवस्त्वां विचिन्वत इति वाक्यातू । त्वदर्थमेव प्राणा- नां धारणमिति व्याख्यानात् ॥ १२ ॥ भजने यत्र सेव्यस्य नोपकारकृतिः कचित् । पोषणं भावमात्रस्य पुष्टिमार्गः स कथ्यते ॥ १३ ॥ भजने यत्रेत्यादि । यत्र सेव्यस्य उपकारकृतिरपेक्ष्यत्वेन नास्ति, यत्र च सेव्यकर्तृकं सेवकाधिकरणकं भावपोषणं स शु- पुष्टिमार्गः । अत एव गोवर्द्धनमखप्रसङ्गे अन्यभजनानिवृत्य ख. भजनयोजनेन भाववृद्धिं कृतवान् प्रभुरिति शेयम् ॥ १३ ॥ १० २२ प्रमेयरत्नार्ग . भजनस्यापवादो न क्रियते फलदानतः । प्रभुणा यत्र तद्भावात् पुष्टिमार्गः स कथ्यते ॥ १४ ॥ भजनस्यापवाद इत्यादि । यत्र प्रभुणा भजनस्य फलदानेन अपवादो न क्रियते स शुद्धपुष्टिमार्गः । अयमर्थः । विरहानुभवार्थ भगवता वियोगे सम्पादिते गोपिकास्तजन्यं तापं भूयांसं प्राप्नुव- त्यः । यदि तवस्थायां गुणगानादिना अन्तरेव प्रकटीभूय सुखं दद्याज्ज्ञानमुत्पाद्य ज्ञानिनामिव वा सुखं दद्यात्, तदा पूर्णतापा- ऽनुभवाभावनोत्तरदलादानमेव स्यात् । अतो भगवानू न तथा करोति, प्रत्युत तापमेव वर्द्धयति । कृष्णावेशात्मविक्लवमिति वा. क्यात् । इहागतोऽई विरहातुरात्मेति प्राप्तोपदेशोद्धववाक्याच ॥१४॥ यत्र वा सुखसम्बन्धो वियोगे सङ्गमादपि। सर्वलीलाऽनुभवतः पुष्टिमार्गः स कथ्यते ॥ १५ ॥ यत्रेत्यादि । यत्र वियोगावस्थायां संयोगावस्थातोऽप्यधिकं सु- खम् । क्षणे क्षणे एवान्तलीलान्तरप्राकट्यात् । कस्याश्चिल्लीलाया भावनेन प्रकटीभूताया अनुभवे पुनरन्यस्या लीलाया दिदृक्षया त- प्राप्तिसौकर्यात् । अत एव सुबोधिन्यामुक्तम् । आन्तरं तु परं फलं भावमिति ॥ १५॥ फले च साधने चैव सर्वत्र विपरीतता। फलं भावः साधनं स पुष्टिमार्गः स कथ्यते ॥ १६ ॥ फले चेत्यादि। यत्र साधनफलयोवपरीत्यं स शुद्धपुष्टिभक्ति- मार्गः । तमेव स्पष्टयन्ति फलमित्यादिना । यत्र भावो निरूपधि: स्नेहः फल प्राप्तव्यमित्यर्थः । स्वरूपानन्दप्राप्तिसाधनस्यापि भावस्य पूर्वप्रार्थनीयत्वेन फलत्वात् । स च भावो भगवद्दत्त एव प्राप्यत इति स फलरूपो भगवानेव तत्र साधनमिति स्फुटमेव साधनफ- लयोर्वपरीत्यमिति भावः ॥ १६ ॥ पश्चात्तापः सदा यत्र तत्सम्बन्धिकृतावपि । दैन्योोधाय सततं पुष्टिमार्गः स कथ्यते ॥ १७ ॥ पश्चात्ताप इत्यादि। यत्र भगवत्सम्बन्धिकृतौ भगवल्लीलाया- मनुभूयमानायामपि पश्चात्तापः स शुद्धपुष्टिमार्गः । अयमर्थः । भ- गवतो वजागमनादी या व्रजभक्तानुगुणा कृतिस्तदानन्दमनुभवन्त्यो बमकृतलीलान्तराननुभवजन्यं पश्चात्तापं कुर्वन्ति । तेन च दैन्य- .
पुष्टिविवेकः । माविर्भवति, न तु मानादि । अयं चैको विलक्षणोऽनुभवः, पीत्वा मुकुन्देत्यस्य व्याख्याने स्पष्टः ॥ १७ ॥ आविर्भावे नसापेक्षं दैन्य बल हि साधनम् । फलं वियोगजं दैन्यं पुष्टिमार्गः स कथ्यते ॥ १८ ॥ आविर्भाव इत्यादि । यत्र जीवाधिकरणकं दैन्यमन्यनिरपेक्ष भगवदाविर्भावे कारणं स शुद्धपुष्टिमार्गः। वियोगे मिलनाा तद- सम्भवजं यहैन्यं तद्यत्र फलं प्रार्थनीयमवान्तरफलम् । विरहो हि दैन्यमुत्पादयति । संयोगो मानमिव । तदैन्यं च भगवन्तमाविर्भा- वयति । अतः प्रार्थनीयत्वात् फलत्वम् । अत एव श्रीगोकुलनाथै- रुक्तं, तां कृपां कुरु राधेश यया तदैन्यमाप्नुयामिति ॥ १८ ॥ समस्तविषयत्यागः सर्वभावेन यत्र हि । समर्पणं च देहादेः पुष्टिमार्गः स कथ्यते ॥ १९ ॥ समस्तेत्यादि । यत्र सकललौकिकविषयाणां त्यागः सानुराग- ग्रहणाभावः स शुद्धपुष्टिमार्गः । सर्वभावेन सर्वात्मना देहादेर्यत्र समर्पणम् । अत एव व्रजवरवधूभिरुक्तं, सन्त्यज्य सर्व विषयांस्तव पादमूलं प्राप्ता इति ॥ १९ ॥ विषयत्वेन तत्त्यागः स्वस्मिन् विषयता स्मृतेः। यत्र वै सर्वभावेन पुष्टिमार्गः स कुथ्यते ॥ २० ॥ विषयत्वेनेत्यादि । यत्र विषयत्वेन विषयाणां त्यागो ममता- विरहो, भगवदीयत्वेन ग्रहणं स पुष्टिमार्गः । कृतात्मनिवेदनानां तावदंशस्यैव त्याज्यत्वात् । क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते. स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युरिति वाक्यात पदार्थमात्रस्य भगवदीयत्वेन उत्तमत्वम् । तथा सति ममतामात्रस्यैव संसारत्वे- नानादरणीयत्वम् । किञ्च । स्वस्मिन्नित्यादि । यत्र सर्वभावेन स- त्मिना स्वस्मिञ्जीवे भगवत्स्मृतेविषयता स शुद्धपुष्टिभक्तिमार्गः। अयमर्थः । भक्तो हि यदि भगवत्कर्तृकस्मृतिविषयो भवति तदा भक्तेः साफल्यम् । यदनुस्मय॑ते काले स्वबुद्ध्याऽभद्ररन्धनेति प्रचे- तोवाक्यात् । एतच्च, नामभिर्दूरगान् पशून्; क्वचिदाह्वयति प्रीत्येत्यस्य व्याख्याने स्पष्टम् ॥२०॥ एवमुक्त्वोपसंहरन्ति । एवंविधर्विशेषेण प्रकारैस्तु सदाश्रितैः ।
.
२४
प्रमेयरत्नार्णवे
1-
.
हदि कृत्वा निजाचार्यान् पुष्टिमार्गो हि बुध्यताम् ॥ २१ ॥
एवमित्यादिना ॥२१॥
एवमन्यैरपि पुष्टिर्मागीयैः शुद्धपुष्टौ श्रद्धाधिक्यात् प्राय-
स्तत्स्वरूपमेवोच्यते, न तु सामान्यतः पुष्टिभक्तिरूपम् । सामान्य-
लक्षणं तु पूर्वोक्तमेव निबन्धादिसिद्धमिति कोविदा एव विदा-
कुर्वन्तु ।
इति श्रीगोवर्द्धनधरश्रीवल्लभाधीशश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय-
रत्नार्णवे पुष्टिविवेकः समाप्तिमगमत् ॥४॥
अधिकारनिर्णयः । २२ 14 ... अथ पुष्टिभक्तिमागांधिकारो विमृश्यते । तत्र नायमात्मा प्र- वचनेन लभ्यो न मेधया न बहुना श्रुतेन, यमेवैष वृणुते तेन लव इति श्रुतेर्यस्मिन् भगवत्कृपा सोऽधिकारी । तव कृपाया अप्रत्य- क्षत्वात् तत्कार्यरूपपुष्टिमार्गरुच्या साऽनुमीयते । यतः कृपां विना पुष्टिमार्गे रुचिर्नोदेति । तदुक्तं निबन्धे, कृपायुक्तस्य तु यथा सिद्ध्येत् कारणमुच्यते इति । व्याख्याने, कृपापरिक्षानं च मार्गरुच्या निश्चीयत इति । एवञ्च पुष्टिमार्गीयफलदित्सासमुद्भूतभगव- कृपाजन्यपुष्टिमार्गविषयकरुचिमान् अधिकारीति ज्ञेयम् । तादृश- रुच्युत्पत्तौ प्रकार उच्यते । तथाहि । दैवजीवेषु यं जीवं पुष्टिमा- गैऽङ्गीकर्तुं हरिर्वाञ्छति, तस्य प्रभुकृपया सत्सङ्गे सति तत्कृपया प- रिचर्यादिना तत्प्रसङ्गाद्यथासम्भवं श्रवणतनुजसेवनादिरूपभजना- नुभवादेतन्मार्गे रुचिराविर्भवति । एवं प्रवृत्तस्य विशुद्धचेतस- स्तधर्म एवात्मरुचिःप्रजायत इति वाक्यात् । एतारशरुचिमान् अधिकारी पुष्टिमार्गे । ततो मार्गरुच्या क्रियमाणे श्रवणादौ चित्ते भगवदावेशः । ततश्चित्तशुद्धिः। ततः श्रवणाधनुवृत्तिः। तदुक्तं द्वितीयस्कन्धे, 'प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् । धौतात्मा पुरुषः कृष्णपाद- मूलं न मुञ्चतीति' इति । एवं श्रवणाद्यावृत्ती भगवति रुचिरुत्पद्य- ते । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्गममाभवद्रुचिरि- ति वाक्यात् । इयमननुभूतविषया परोक्षरुचिरित्युच्यते । इयं हि श्रवणादिना सत्पुरुषादरदर्शनादिना रुचिराविर्भवतीति प्रथमकक्षा- पन्ना शेया । यदनुध्यासिना युक्ता इति श्लोकव्याख्याने सर्वत्रा- लौकिकेषु पदार्थेषु माहात्म्यश्रवणाद् रुचिरुत्पद्यत इति सुबोधिन्या- मियमेव रुचिरक्तति बोध्यम् । सा भक्तिरेव । रुचिः श्रवणादिः प्रेम चेति भक्तिस्त्रिविधेति प्रथमस्कन्धसुबोधिन्यामुक्तः । ततोऽननुभूतविषयया भगवद्रुच्या श्रवणादिरूपे भजने भक्तिवर्द्धिनीप्रकरणोक्तदिशा बीजरूपो भावः सूक्ष्मभक्तिवृद्धि प्राप्नोति । स भावो भगवता पूर्वमेव जीवत्वस- म्पादनोत्तरं पुष्टिमार्गीयत्वसिद्धये सूक्ष्मरूपः स्थापित इति शेयम् । स बीजभाव इत्युच्यते । स एष भावः परोक्षरुच्या श्रवणादिसह- कृतोऽन्तर्भगवत्स्फूर्ति करोति । श्रवणादिना तु स्वाभाविको भग- २६ प्रमेयरत्नार्णवे वानाविर्भवतीति द्वितीयस्कन्धनिबन्धात् । तथा सति अन्तर्भगव- त्स्फूर्ती यत्किञ्चिदनुभवादू रुचिविशेष उत्पद्यते । स च अपरोक्ष- रुचिरित्युच्यते । तया स एव भावो बीजरूपः श्रवणादिसाधनैर्व- द्धः सन् प्रेमरूपो भवति । स च स्नेहो हरीतरविषयकरागनिवर्त- कः । स्नेहाद्रागविनाशः स्यादिति भक्तिवर्द्धिनीग्रन्थात्।भगवद्भिन्न- रागनिवर्तको भगवद्भावः स्नेह इति कार्यलक्षणात् । ततः सेवा- श्रवणाऽऽवृत्त्या वर्द्धमानः स एवाऽऽसक्तिरूपो भवति । स तु भग- वत्सम्बन्धरहितपदार्थेषु बाधकत्वं भासयति । आसक्त्या स्याद गृहारुचिरिति भक्तिवर्द्धिनीप्रकरणात् । अरुचिर्न रुच्यभावः, किन्तु रुचिविरुद्धो भावः। विरोधार्थे नमः स्मरणात् । गृहस्थानां बाधक- त्वमनात्मत्वं च भासत इति तत्रैव विवरणात् । तथाच भगवदितर- विषयबाधकत्वस्फूर्तिसम्पादको भाव आसक्तिरिति लक्षणम् । ततः स एवोत्तरोत्तरं वृद्धो व्यसनत्वं प्राप्नोति । विशेषेण अस्यन्ते क्षिप्यन्ते दैहिका धर्मा अनेनेति व्यसनम् । सा व्यसनं भावं प्राप्ता भक्तिर्मानसी सेवेत्युच्यते । सा परानुरक्तिरीश्वर इति भक्तिसूत्रात् । यदा स्याद् व्यसनं कृष्णे कृतार्थः स्यात् तदैव हीति भक्तिवर्द्धिन्याम्। चेतस्तत्प्रवणं सेवा तत्सिद्ध्यै तनुवित्तजेति मुक्तावलीप्रकरणे तद- थस्यैव स्फुटीकरणात् । मुक्तावलीप्रकाशे एतद्विवृतौ, ता नाविदन्म- य्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेदमित्येकादशवाक्योपन्यासा- च्च । 'मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ । लक्षणं भक्ति- योगस्य निर्गुणस्य ह्युदाहृतम्'इति तृतीयस्कन्धे तादृग्भक्तेर्लक्षितत्वाच्च। अत एवैतव्याख्याने, यथा कायिकगतिर्गोपिकानामित्यनेन मुख्यभक्ता एवोदाहृताः । अतो व्यसनपर्यन्तं साधनाचरणम् । अत एव सुबोधि- नीनिबन्धयोःप्रमाणप्रमेयसाधनाख्यस्त्रिभिःप्रकरणैःप्रेमासक्तिब्यस- नानि निरूप्याने फलं निरूपितम्।अतः श्रीमद्भागवतादौश्रीमदाचा- ोक्तौ श्रीमद्विलेशोक्तौ च यत्र यत्र साधनानां प्रेमावधिकत्वं ह- श्यते तत्र तत्र प्रेमव्यसनयोरभेदमादायोक्तमिति ज्ञेयम् । प्रेमसेवा- ऽत एव स्याद्विशिष्टव्यक्तिरुत्तमेत्यादावपि प्रेमसेवाशब्देन मानसी सेवा व्यसनशब्दवाच्या ज्ञेया । एवं सति भगवदुरुच्युत्पत्त्यनन्तरं क्रियमाणैः श्रवणादिभिः साध्यायाः प्रेमभक्तेः प्रथमावस्था प्रेमश- ब्दवाच्या। ततो मध्यमावस्था आसक्तिः । परिपाकावस्था व्यसन- . .
अधिकारनिर्णयः। २७ शब्दवाच्येत्येवमभेदात् कुत्रचित् प्रेमशब्देनासक्तिः, कुत्रचिद् व्य- सनममिधीयत इत्यर्थः स्वारस्याद् बोध्यः । मुख्यफलं तु व्यसनो- त्तरमेव । यदा स्याद् व्यसनं कृष्णे कृतार्थः स्यात् तदैव हीत्यत्र ए- वकारेणान्ययोगव्यवच्छेदात् । इयं व्यसनात्मिकैव भक्ति गवता देवहूतिं प्रत्यात्यन्तिकीत्वेनोक्ता । अहेतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे । सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत ।। दीयमानं न गृहन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्यन्तिक उदाहृत इति तृतीयस्क- न्धात्।व्याख्यातं चाऽऽचार्यः । अत्यन्तप्रेमोत्पत्तावेवं भवतीति । अतः प्रेमपरिपाकावस्था व्यसनम् । ततो व्यसनवशात् सर्वत्र पुरुषोत्त- मवुद्धौ सर्वत्रैवोत्कटस्नेहो भवति । स सर्वात्मभावशब्दवाच्यः । त- सिद्धौ पुरुषोत्तमाविर्भावो बाह्याभ्यन्तरभेदेन निरन्तरं सिद्ध्यति । ततः फलावसरे सेवाफलप्रकरणोक्तरीत्या ह्यलौकिकसामर्थ्य फलं भविष्यतीत्यलं विस्तरेण । एवमनेन प्रकारेण शुद्धपुष्टिभक्तानामधिकारः फलसहितो निरूपितः। फलंतु नित्यलीलान्तःप्रवेशलक्षणम् । तदेव सेवाफलविवरणे- ऽलौकिकसामर्थ्यशब्देनोच्यते । आनन्दमयाधिकरणभाष्ये भग- वता सह कामाशनाख्यं यत्फलमुक्तं जीवस्यात्यनुगृहीतस्य तदिद- म् । पुष्टिप्रवाहमर्यादानिरूपणग्रन्थे, भगवानेव हि फलमित्यनेन ख- रूपस्यैव फलत्वमुक्तं तदपि नित्यलीलान्तःप्रवेशरूपम् । तञ्च बहुप्र- कारकं ज्ञेयम् । नित्यलीलायां हि केचन भक्तरूपेण गोपशुपक्षिवृक्षा- दिरूपेण नद्यादिरूपेण पुरुषोत्तमात्मकं फलं निरवध्यानन्दात्मकम्, आनन्दमयाधिकरणभाष्योक्तरीत्या तादृशमलौकिकं देहं प्राप्य देहे- न्द्रियप्राणान्तःकरणजीवेषु भगक्दानन्दप्राकट्यात् तादृशा भूत्वा- उनुभवन्ति। अत एव, अहो अमी देववराऽमराञ्चितमित्यादिभिर्भगव- ता खलीलापरिकरस्वरूपं तादृशमेव निरूपितम् । पुष्टिमार्गीयो जी- वस्तु फलदशायां तत्परिकरमध्येऽन्यतमः कश्चिद्भविष्यति । तत्रभ- गवदिच्छा नियामिका। पुष्टिभक्तिश्चतुर्विधा शुद्धपुष्टिपुष्टिपुष्टिमर्यादापुष्टिप्रवाहपुर २८ प्रमेयरत्नार्णवे ष्टिभेदात् । तत्र पुष्टिभक्तित्वेन रूपेणैक्येऽपि प्रकारभेदाझेदः । एष- मेतत्फलस्यापि नित्यलीलान्तःप्रवेशत्वेनैक्येऽपि प्रकारभेदो भक्तगो- पशुवृक्षादिरूपेण बोध्यः । एतदेव तारतम्यं च । तथा सति सर्वेषां प्रवाहादिभेदभिन्नानां पुष्टिस्थानामेकमेवालौकिकसामर्थ्यरूपं फलं नित्यलीलान्तःपातित्वशब्दवाच्यम्। तदाऽपीतेः संसारव्यपदेशादिति तत्त्वसूत्रे, तदा नित्यलीलान्तःपातलक्षणपुष्टिमार्गीयमुक्तिदशायामि- ति भाष्योक्तेः। नित्यलीलाश्च शुद्धपुष्टिस्था व्रजसम्बन्धिन्यो शेयाः। ताहशनित्यलीलान्तःपाते सति पुनः प्रकारविशेषस्त्विष्ट एव । आ- सामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीना- मिति वाक्यातू। अत आधिदैविके बृहदुवृन्दावनादौ भक्तरूपेण गोपा- दिरूपेण वा स्थित्वा रसानुभवः । आधुनिकानामपि पुष्टिमार्गस्थि- तानां ताहरभगवत्कृपया पर्यवसाने फलरूपभावोत्पत्ती नित्यलीला- न्तःपातो भविष्यति । तत्र ये आधुनिका हीनाधिकारिणः पुष्टिमा- ीयास्तेषां चरमजन्माभावाद् बहुभिर्जन्मभिस्तादृशभावोत्पत्तौ नि- त्यलीलाप्रवेशो भावीति बोध्यम् । तृतीयस्कन्धे, देवानां गुणलिङ्गा- नामित्यत्र सुबोधिन्याम, अन्येषां तु यथाकथञ्चित् क्रियमाणा भ- गवति खण्डशो वृत्तिरक्षयत्वाद् बहुभिर्जन्मभिः पुष्टिङ्गता अन्तिम- जन्मनि भक्तिरूपां वृत्तिं जनयिष्यतीति न काप्यनुपपत्तिरित्युक्तेः। निबन्धे सेवाप्रकरणे भक्तिमार्गे मुख्यानां फलमाहेत्युक्त्वा, ये व्या- ख्यातास्ते सर्वे मर्यादाभक्तिमार्गीया एव ।अधुना त्वित्यारभ्य, सायु- ज्यं कृष्णदेवेनेत्यन्तेन गौणमुख्यभेदेन मर्यादाभक्तानां फलं सायुज्या- वधि निरूपितम् । अत एव, मर्यादाभक्तिमार्गस्य काष्ठा गङ्गा परा स्मृतेति निबन्धाद् गङ्गाया मर्यादाभक्तिरूपायाः सेवनात् सायुज्य भवतीति । सायुज्यं वाऽन्यथा तस्मिन् गङ्गातीरे न संशय इति नव- मनिबन्धे उक्तम् । सायुज्यं च एकत्वरूपं भगवत्प्रवेशशब्दवाच्यम् । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमित्यादिवाक्यसिद्धम् । अग्रे, तदभावे स्वयं वापि मूर्ति कृत्वेत्यारभ्य, गृहस्थस्य प्रकीर्तित- मित्यन्तेन पुष्टिभक्तिमार्गीयप्रकार उक्तः। विवरणे तु, एवं कुर्वन् स- कुटुम्बो भगवत्सायुज्यमश्रुत इत्यत्र सायुज्यशब्देन अलौकिकसाम- र्थ्यमेव । अत एव, आदिमूर्तिः कृष्ण एव सेव्यः सायुज्यकाम्ययेत्य- स्य व्याख्याने, ब्रह्मविदाप्नोति परमित्यत्र यत् सायुज्यं मुख्यतया अधिकारनिर्णयः। २९ निरूपितं तत्कामनायां कृष्ण एव सेव्य इत्यनेन मर्यादामार्गीयसा- युज्या दं निरूप्यालौकिकसामर्थ्यरूपतैव प्रदर्शिता । एतच्चानन्दम- याधिकरणभाष्ये स्पष्टतममुलभ्यत इति ततोऽवधेयम् । सेवाफलग्र- न्थव्याख्याने, अलौकिकसामर्थ्य सायुज्यं सेवोपयोगिदेहो वैकुण्ठा- दिष्वेत्यनेन यत् फलत्रयमुक्कं, तनालौकिकसामर्थ्य पुष्टिमार्गीयाणां फलम् । शिष्टं फलद्वयं तु मर्यादाभक्तानामिति शेयम् । मूलेऽपि, यादशी सेवना प्रोतत्यत्र सेवनाशब्देन मर्यादासेवा पुष्टिसेवा चोक्ततिबोद्धव्यम् । विवृती फलनयं सेवाद्वयस्योक्तम् । तत्न प्रथम पुष्टिसेवायाः, शिष्टं फलद्वयं मर्यादासेवाया इति विवेकः। अत एव सायुज्यं सेवोपयोगिदेहप्राप्तिश्चान्यत्रापि मर्यादाभक्तस्योक्ता। 'देहभावे हढे तु स्याद् भक्तानां कृष्णदासता । सायुज्यं वान्यथा तस्मिन् गङ्गातीरे न संशय'इति नवमस्कन्धनिबन्धे । तदविरो- धादनापि तत्फलद्वयं मर्याभक्तस्यैवेति निश्चयः। विद्यायाः पञ्चपर्वमध्ये या भक्तिरुक्ता सा मार्यादिक्येवेति । यया विद्वान् हरि विशेदिति निबन्धात् । कचिन्मार्यादिक्यां भक्ती प्रेमशब्दव्यवहारो दृश्यते, तत्र भगवति मोचकत्वबुद्ध्या प्रेमास्तीति तत्सोपाधि प्रेम, नतु पुष्टिमार्गीयाणामिव निरुपाधिकम् । तदुक्तं तृ- तीयाध्याये, गतरर्थवत्त्वमुभयथान्यथा हि विरोध इति तत्त्वसूत्रीय- भाष्ये । मर्यादापुष्टिभेदेनाङ्गीकारे वैलक्षण्यादाद्यायामङ्गीकृतानां मुमुक्षयैव श्रवणादी प्रवृतिस्तदातृत्वेनैव भगवति प्रेमाऽपि, न तु निरुपाधिरिति । आसन् यस्य हरेर्वापि सेवयेत्यस्य व्याख्याने, सा- युज्यब्रह्मभावी हरिसेवयैव भवतो, नान्यसेवयेत्यत्रापि सेवा मा. र्यादिकीति शेयम् । अत एव मर्यादास्थानामेव सायुज्यं फलम् । पुष्टिस्थास्तु दीयमानं न गृह्णन्ति विना मत्सेवनं जना इत्यादिवा- क्येभ्यो, नाद्रियन्ते सायुज्यान्तमुक्तिम् । एतच्च, वीक्ष्याऽलकावृत- मुखमित्यस्य सुबोधिन्यां स्पष्टम् । तत्र हि प्रथमं सारूप्यं सालोक्यं सामीप्यं सायुज्यमिति मोक्षभेदा इत्युक्त्वाग्रेऽलकादिस्वरूपं त- त्फलं च व्याख्याय, हसितावलोकमित्यस्य व्याख्याने, ब्रह्मानन्द प्र. विष्टानां न भक्तिविलास इत्यारभ्य, अनुभवरसो हि भिन्नतया स्थिती भवतीत्यन्तेन सायुज्यं नाकासितमित्युपपादितम् । अतः सायुज्यं प्राप्तानां, सायुज्ये तु रसाधिक्यं भेदेनानुभवातू सदेति-
३०
ममेयरत्नार्णवे
वाक्याद्भवन्नपि परमानन्दानुभवः स्वखरूपेणैव, न त्वलौकिक-
सामर्थ्य प्राप्तानामिव सर्वेन्द्रियैरात्मना च । ब्रह्मानन्दे प्रविष्टाना-
मात्मनैव सुखप्रमेति निबन्धात् । अतः सायुज्यं स्वरूपान्तःपातः,
स नापेक्षितः पुष्टिभक्तानां, किन्तु नित्यलीलान्तःपात एवेति सु-
धीभिर्विभावनीयम् ।
एतद्भक्त्यधिकारो विशेषानुग्रहसाध्यः । 'यदा यस्यानुगृ-
ह्णाति भगवानात्मभावितः । स जहाति मतिं लोके वेदे च परि-
निष्ठिताम्' इति वाक्यात् ।
एतद्भक्तिप्रवर्तका व्रजभक्ता एव । 'भगवत्युत्तमश्लोके भव-
तीभिरनुत्तमा। भक्तिःप्रवर्तिता दिष्टया मुनीनामपि दुर्लभेति'वाक्या-
त् । व्याख्यातं च श्रीमदाचार्यः । एतेन शास्त्रप्रसिद्धायां भक्तो
दानादिसाधनानि श्रूयन्ते । अस्यां तु प्रसिद्ध्यभावात् साधनमपि न
पश्याम इति भावः सूचित इति । अतः सर्वोत्तमेयं पुष्टिभक्तिरिति
भाग्यवद्भिज्ञेयम् ।
इति श्रीमद्गोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानुचर-
सेवकेनलालूभट्टोपनामबालकृष्णेन कृते प्रमेयरत्नार्णवे
पुष्टिभक्त्यधिकारविवेकः समाप्तिमगमत् ॥ ५॥
सर्वात्मभावनिरूपणम् । पुरुषोत्तमलाभे यो मुख्यहेतुतयोदितः। तस्य सर्वात्मभावस्य स्वरूपमिह वर्ण्यते ॥१॥ भगवद्विषयको निरूपधिस्नेहो भक्तिविशेषः सर्वात्मभावः । तथाहि । भावो नाम रतिः । रतिर्देवादिविषया भाव इत्यभिधीयत इति वाक्यात् । आत्मनो भाव आत्मभावः । यथा आत्मन्यात्मनो भावो निरुपधिरेव । न वा रे पुत्राणां कामाय पुत्राः प्रिया भवन्ती- स्वादिश्रुतेः । नृप स्वात्मैव वल्लभ इत्यादिवाक्याच्च । अतो यथात्म- नि शुद्धः स्नेहस्तथा भगवति कर्तव्य इति श्रुतितात्पर्यार्थः । अत एव, स त आत्मान्तर्याम्यमृत इत्यादिना आत्मत्वं बोधयति । तत् त्वमसीत्यत्रापि तथैवाशयः। एतच्च तत्त्वदीपे शास्त्रार्थप्रकरणे उ- पपादितम् । भगवता ब्रह्माणं प्रतीदमेवाभाणि । 'अहमात्मात्मनों 'धातः प्रेष्ठः सन् प्रेयसामपि । अतो मयि रतिं कुर्याद् देहादियंत्कृ- ते प्रिय' इति । अनेन भगवद्भाक्येन, श्रुतावप्यात्मत्वकथनं स्नेहार्थ- मेवेति निर्णीयते । अतो मयि रतिं कुर्यादिति हेतुकथनपूर्वकोपदे- शात् । निर्णीतं च विधिना। तदुक्तं द्वितीयस्कन्धे । भगवान् ब्रह्म कात्स्न्येन त्रिरन्वीक्ष्य मनीषया। तदध्यवस्यत् कूटस्थो रतिरात्मन्य- तो भवेदिति'। अत आत्मनो भावो भगवद्विषयोऽत्यादरेण सम्पाद- नीयः । तस्य सिद्धौ तिरोधाननाशे सर्वत्र पदार्थमात्रे वस्तुतोऽपि भगवद्पे परमानन्दरूपस्य पुरुषोत्तमस्य स्फूर्ती सर्वत्रात्मभावो भ- यति । तथाच सर्वस्मिन्नात्मभावः सर्वात्मभाव इति फलितम् । 'तव परि ये चरन्ति' इत्यस्य सुबोधिन्यां तवेति षष्ठया त्वत्सम्बन्धिनं पदार्थ यं कश्चन परिचरन्ति, परं सर्वात्मभावोऽपेक्ष्यते । मृत्योः स मृत्युमाप्नोति य ह नाना पश्यतीति भेददर्शन एव मृत्युपराक्रम- श्रवणादित्युक्तम् । एतेन सर्वात्मभावपदे सप्तमीतत्पुरुषो भगव- त्स्फूतिरभेदेनैवाहतेत्यध्यवसीयते । आत्मपदेन भगवत्प्रीतिरभेदाव- गाहिनी, न त्वधिष्ठानभेदसंसृष्टा । तन्त्रान्तरवत् । यत आत्मनि जा- यमानो भावो शानमण्यभेदेनैव वस्तुमहिम्नोत्पद्यते । भावपदेन च 'चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगदिति वाक्योक्ते ताहरभ- गवत्स्फुरणे नातिप्रसक्तिः । द्वेषप्रयुक्ततया भावत्वाभावात् । तदे- घोक्तं श्रीधरस्वामिभिः, सर्वात्मभाव एकान्तभक्तिरिति । एकान्त- भक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणमिति तल्लक्षणादस्मदुक्त्या सहैं- प्रमेयरत्नार्णके क्यं शेयम् । तथा सति सर्वस्मिन्नात्मभावः सर्वात्मभाव इति निष्कर्षः । सच मर्यादापुष्टिभेदेन द्विविधः। तत्राद्यो नवमस्कन्धेऽम्बरी- षस्योक्तः। 'सर्वात्मभावं विदधन्महीमिमां तनिष्ठविप्राभिहितः श- शास हेति' । द्वितीयस्तु शुद्धपुष्टिभक्तिमार्गीयाणां व्रजसुन्दरीणां दशमे निरूपितः । विप्रयोगदशायां विगाढभावेन सर्वत्र भगव- स्फूर्ती सर्वात्मभावः सिद्ध्यति । एतावान् विशेषः पूर्वस्मात् । ए- तासां श्रीकृष्णे शृङ्गाररससम्बन्धिभावानां बहूनां सम्भवात् तत्त- द्भावसमानाधिकरणः सर्वात्मभावो भजनानन्दानुभावनेऽत्यन्तं नि- पुण इति शुद्धपुष्टिमार्गीयैस्तोष्ट्रय्यते । तदाह भगवान् भाष्यकारः, लिङ्गभूयस्त्वात् तद्धि बलीयस्तद्पीति सूत्रे । एतेन सर्वात्मभाव- खरूपमेव विवृतं भवति । तत्र विरहभावे अतिविगाढभावेन सर्वत्र तदेव स्फुरतीति स एवाधस्तादित्यादिनोक्त्वा कदाचित् स्वस्मि- नेव भगवत्स्फूर्तिरपि भवतीत्यथाहङ्कारादेश इत्यादिना तामुक्त्वा- एतेषां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनः सर्वत्र भगवत्- स्फूर्तिमाहाथात आत्मादेश इत्यादिनेत्यादि । अयं पुष्टिमार्गीयः सर्वात्मभावः शृङ्गाररसमध्यपाती । एतत्- प्राप्तौ शुद्धपुष्टिभक्तानामेवाधिकारः । भाष्ये त्वयमेव विशिष्य वि- वृतः। मर्यादामार्गीयस्तु श्रुतिस्तुतिसुबोधिन्युक्तदिशाऽम्बरीषादि- भक्तगम्यः । उभयविधोऽप्युभयत्र परमकाष्ठापन्नभक्तिरूप इति कोविदा विदाकुर्वन्तु। नच भ्रमरगीतीयस्य, सर्वात्मभावोऽधिगतो भवतीनामधोक्षज इति श्लोकस्य विवृती, सर्वोऽप्यात्मनो भाव इति विवृतत्वान्न पूर्वोक्तं लक्षणमिति चाच्यम्। उद्धवोक्तौ पूर्वोक्तसर्वात्मभावस्याभावात् । कि- न्तु सर्वोऽप्यात्मनोऽन्तःकरणस्य भावो भवतीनां मम ज्ञानविषयो- भूदित्यर्थात् । यद्यप्येताः पूर्वोक्तपुष्टिमार्गीयसर्वात्मभाववत्यस्तथा- ऽप्युद्धवैः स न शातः, किन्तु तदुक्तङ्गाररससम्बन्धिभावमानं बुद्धमिति शेयम् । 'मधुप कितवबन्धो मा स्पृशाघ्रिं सपत्न्या' इ- त्यादिवाग्विलासै?षभूषणसीमन्तिनीभिस्तदतिरिक्तस्यैव स्फुटीकर- णात् । नच 'मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि स- त्मिभावेन यास्यसे ह्यकुतोभयम्' इत्यत्र सर्वात्मभावेन मां शरणं - -
सर्वात्मभावनिरूपणम् ।
याहीत्युक्तत्वाच्छरणसाधनीभूतस्य सर्वात्मभावस्य न पूर्वोक्तरूप.
तेति वाच्यम् । सर्वदेहिनामात्मानं शरणं शरणभूतं मां सर्वात्मभा-
वेन याहीत्यभिप्रायात् । सूत्रभाष्ये, अथवेति पक्षान्तरेण अस्यैवार्थ-
स्याहतत्वात् । एवं सर्वात्मभावस्य पूर्वोक्त एव महिमा, लक्षणं च
पूर्वोक्तमेवेत्यलं विस्तरेण ।
इति श्रीमगोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणा-
ऽनुचरसेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय-
रत्नार्णवे सर्वात्मभावविवेकः समाप्तः ॥ ६ ॥
प्रमेयरत्नार्णवे अथ पुष्टिमार्गीयाणां फलं विचार्यते। तत्र प्रथमं 'भगवत्युत्त- मश्लोके भवतीभिरनुत्तमा । भक्तिः प्रवर्त्तिता दिष्टया मुनीनामपि दुर्लभा' इत्युद्धववाक्यान्मार्गप्रवर्तकत्वेन मुख्यत्वात् तेषां ब्रजभक्ता- नां फलप्रकारो लिख्यते । तत्र, निरोधोऽस्यानुशयनमात्मनः सह श- क्तिभिरिति द्वितीयस्कन्धीयशुकवाक्याच्छक्तिभिः सहितस्य भगव- तः प्रपञ्चे क्रीडा निरोधः। आत्मशब्दस्य भगवद्वाचित्वात् । अनु. शयनशब्देन तत्तल्लीलानुरूपा स्थितिरुच्यते, नतु निद्रा । पुरुषशब्दे पुरि शयनं पुरुषस्योच्यते, पुरि शेते इति व्युत्पत्त्या। तत्र स्थितिरेव शीधातोरर्थो, न तु निद्रा । एवमिहापि । अत एव सुबोधिन्यां निबन्धे च, 'निरोधोऽस्यानुशयनं प्रपञ्चे क्रीडनं हरेः । शक्तिभिर्दु- विभाव्याभिः कृष्णस्यति हि लक्षणम्' इत्युक्तम् । सा भगवतो निरोधरूपा लीला त्रिविधा । निरोध्यभक्तानां तामसराजससात्त्विकभेदेन विविधत्वात् तत्तन्मनोरोधकतायै क्रिय- माणा लोकानुसारिणी त्रिविधा भवति । 'खभावस्यान्यथा भावो मवै शक्यः कथञ्चन । अतस्त्रिविधजीवेषु त्रिविधाभगवत्कृतिरिति'सु- बोधिन्याम् । तया त्रिविधलीलया क्रियमाणा भक्तानां प्रपञ्चविस्मृति- पूर्विकाभगवदासक्तिःसापिनिरोधशब्दवाच्या। नितरांरोधो निरो- धरति व्युत्पत्तेः। रोधः कस्येत्यपेक्षायां भक्तानामिति पूर्वस्कन्धसङ्ग- त्या लभ्यते । अपादानापेक्षायां प्रपश्चो ग्राह्यः । तथा सति प्रपञ्चाद् रोध इति सिद्धम् । 'भक्ताः पूर्वत्र निर्दिष्टास्ते रोखव्या विमुक्तये' इति निबन्धात् । 'हरिणा ये विनिर्मुक्तास्ते मना भवसागरे । ये नि- रुद्धास्त एवान मोदमायान्त्यहर्निशम्' इति निरोधलक्षणग्रन्थाच । प्रपञ्चाद्रोधेऽपि 'कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यत' इति न्यायेन प्र- पञ्चस्मरणं चेन्न भगवल्लीलानुभवे मुख्योऽधिकारः स्यादतः प्रप- ञ्चविस्मरणमपेक्षितम् । तदुपसर्गेण लभ्यते । नितरां रोधो निरोध इति, प्रपञ्चास्फूर्तिरिति यावत् । कस्मिन् निरोध इत्यपेक्षायां भगव- ति निरोध इति । 'कृष्णे निरुद्धकरणा भक्ता मुक्ता भवन्ति हीति' निबन्धात् । स हि परमरुच्युत्पादकलीलाजन्यत्वेन परमसुखरू- पत्वादासक्तिरूपः । अन्यथा निग्रहमानं स्यात् । तत्तु न सुखकरम् । मनोनिग्रहकर्षिता इति वाक्यात् । प्रपञ्चविस्मृतावेव भगवत्सुखा- ।
फलविवेकः। अनुभवादासक्तिरूपत्वं सिद्धयति निरोधस्य । अतः प्रपञ्चविस्मृतिपू- विका भगवदासक्तिनिरोधपदवाच्येति। इति नन्दादयो गोपा-कृष्ण- रामकथा मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ शय्यासनाटनालापस्नानक्रीडाशनादिषु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतस' इत्यादौ तथैव निरूपितत्वात् । तथाच प्रपञ्च- विस्मृतिपूर्वकभगवदासक्तिसम्पादिका प्रपञ्चाधिकरणिका भगव- ल्लीला निरोधपदवाच्या । सेयं भगवद्धर्मः । तादृशलीलाजन्या प्र- पञ्चविस्मृतिपूर्षिका भगवदासक्तिनिरोधपदवाच्या । सा जीव- धर्मः । तदुभयं दशमस्कन्धे प्रतिपाद्यते । 'समुदायो जन्मवाची क्री- डायुक्तस्य वै हरेः। प्रपञ्चविस्मृतिः सक्तिर्भक्तानां चापि योगत'- इति निबन्धात् । तत्र प्रथमं तामसप्रकरणम् । व्रजस्थानां ताम- सत्वं त्रिविधम् । अविहितभक्तिरसानुभवसाधनरूपं पारिभा- षिकमेकम् । धर्मविशेषरूपं द्वितीयम् । भगवन्मायाकृतं तृतीयं च । तत्राचं तु स्वमनोरथानुकूललोकसहशभगवल्लीलारुचिमत्त्वबाह्यद- र्शनकाभिलाषवत्त्वस्ववियोगासहिष्णुत्वादिरूपम् । तामसा हि हठ- प्रधानास्तेषां यत्राग्रहः पतति स न गच्छति, ज्ञानरहिता मुग्धाश्च भवन्ति । शानराहित्यादेव लोकवेदोल्लकनं कुर्वन्ति । वजस्था अपि भगवति परमाग्रहवन्तो लीलानुपयुक्तज्ञानशून्याः । एवं मदयोंज्यि- तलोकवेदस्वानामिति'वाक्याद्भगवदर्थ लोकवेदोल्लङ्घनशीलाश्चेत्ये- तावद्धर्मसाम्येन तामसत्वमुच्यते, परोक्षवादाय । परोक्षप्रिया इव हि देवा इतिश्रुतेः। परोक्षं मम च प्रियमिति भगवद्वाक्याच । इदं तामसत्वं तामसप्रकरणे सर्वेषु भक्तेष्वनुगतम् । द्वितीयं तु यत्र यत्रोद्गच्छति तत्र तत्र तादृशकार्य करोति । यथा 'शरखुदाशये साधुजातसत्सरसिजोदरश्रीमुषा हशा। सुरतनाय ते शुल्कदासिका वरद निघतो नेह किं वध इत्यादिवाक्यानि । इदं तामसत्वं भाव- विशेषरूपम् । एवं राजसत्वमात्त्विकत्वे अपि भावविशेषरूपे एव । अत एव तामसप्रकरणस्थाया एव कस्याश्चिद्राजसीत्वम, अन्यस्याः सात्त्विकीत्वं कस्याश्चिन्निर्गुणात्वमुच्यते । अतो ज्ञायते इदं ताम- सत्वादिकं भावविशेष एव । अत एव 'मधुप कितवबन्धो इत्यादी एतस्य तामसत्वस्यानुवृत्ती राजसप्रकरणेऽपि दृश्यते । तृतीयं तु प्रमेय रत्नार्णवे भगवन्मायाकार्यम् । मायात्र लीलासृष्टिस्थजीवसम्बन्धिनी क्षेया । 'न ववाथेऽपवर्ग में मोहितौ मम मायया'इत्यत्र , इयं विशेषमा- येत्यादिना सुबोधिन्यामतिरिक्तायाः प्रदर्शितत्वात् । वैष्णवीं व्य- तनोन्मायामित्यत्र मूले वैष्णवीपदाच । अतः सा पशुपुत्रगृहाद्यास- क्तिं जनयति । तत्कार्य व्रजस्थेषु प्रतीयते । अयापृतं निशि श- यानमतिश्रमेणेति वाक्यातू । क्वचिद् भगवद्विस्मृतिं जनयति । नैवा- शृणोद्वै रुदितं सुतस्य सेति' वाक्यात् । अतृप्तमुत्सृज्य जवेन सा यया- विति वाक्याच्च । क्वचिन्मायिकधर्माणां भगवति प्रतीतिः, 'मेहनादीनि वास्तावित्यत्र निरूपिता । यत् सम्परेतः पुनरेव बालक इत्यादिवा- क्यान्यपि अज्ञानमूलानि विशेषमायाकार्यभूतेन तामसत्वेन । अत एतस्य दोषरूपत्वम् । इदं मायाकार्यरूपं तामसत्वं भगवान् क्रमेण लीलाभिर्नाशयति । अग्रे निवर्तनीयस्यापि पूर्व स्थापनं त्वत्यन्तविरु- साधनवत्स्वपि ब्रह्मादिदुरापफलदानेन पुष्टिमार्गीयभगवन्महिम- ख्यापनार्थमिति ज्ञेयम् । तामसप्रकरणीयलीलासमाप्तौ इदं माया- कार्य तामसत्वे विवृतम् । एवं तामसानां निरोधे जातेऽग्रिमकार्या- चिकीर्षितलीलाप्रतिबन्धकीभूतस्य आद्यतामसत्वस्य वियोगास- हिष्णुत्वलोकवेदोल्लङ्घनशीलत्वादिरूपस्य निवारणम् । अत एव 'निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धवान्धवा' इ- त्युक्त्वापि न कृतवत्यः । तामसभावस्य परिहतत्वात् । ततो राजस- भावः। स च, 'विकुर्वन् क्रियया चाधिरनिवृत्तिश्च चेतसः। गा- नाखाथ्यं मनोभ्रान्तंरज पतैर्निशामय'इति वाक्यान्मनोविक्षेपकर्ता। अत एक, 'भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् । आत्मत्वा- दुभक्तवश्यत्वात् सत्यवाक्त्वात् स्वभावत' इत्यादिसन्देशोपदिष्टात्म- जानम् एतासांजातम् । तेन, नास्माकं भगवद्वियोग इति बुद्धम् । तत- स्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयाञ्चक्रुात्वात्मान- मधोक्षजमिति'वाक्यात् । एवमात्मत्वेन ज्ञानानन्तरमपि, दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवमितिवाक्यादुपदिष्टवानं तिरोभवति । रजोगुणेन विक्षेपकरणात् । तथा सति भगवद्विरहोऽस्तीति ज्ञानात् पुनः खेद एव । यावद्राजसभावस्तावदुपदिष्टस्फूर्ती विरहाभाव- शानात सुखम् । उपदिष्टविस्मृतौ विरहज्ञानाद् दुःखमित्युभयं वर्तत इति शेयम्।
फलविवेकः। ततो राजसंभावस्याऽपि निवृत्तौ सत्त्वमुर्वरितम् । तदा सात्त्विका उच्यन्ते । तत्र हि, सत्त्वात् सञ्जायते ज्ञानमितिवाक्याद उद्धवद्वारोपदिष्टं ज्ञानं स्थिरमभूत् । अत एव कुरुक्षेत्रप्रसङ्गे, गेह- जुषामपि मनस्युदियात् सदा न इत्येव प्रार्थितम् । अन्यथा पुरस्थिते भगवति बजे भगवदागमनं प्रार्थयेयुः। अतो भगवच्छा- साप्रकारेण भगवन्मेलनं समीचीनं सार्वदिकं चेति ताभिर्बुद्धमि- त्यध्यवसीयते। ततः सत्त्वनिवृत्तौ निर्गुणावस्था । ततो भगवद्रूपतायां नित्यलीलाप्रवेशो मुक्तिः । मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यव- स्थितिरिति । ततो रमणादिकमपि सर्व पुरुषोत्तमात्मकमिति आश्र- यप्राप्तिरिति भगवदीयैर्विभावनीयम् । अथाधुनिकानां पुष्टिमार्गीयाणां फलं लिख्यते ॥ तत्र श्रीम- द्भागवते द्विधा बोधोऽस्तीति ज्ञेयम् । तत्रैको वाचनिको द्वितीय आर्थिक आध्यात्मिकशब्दवाच्यः । तत्र वाचनिको हि शाब्दबोध- मर्यादया जायते । द्वितीयस्तु लीलातात्पर्यादिज्ञानानन्तरं ज्ञानविशे- षाजन्यते । तत्राद्यो यथा। अहं भक्तपराधीन इति नवमस्कन्धे भगद्वा- क्यश्रवणाद् भगवान भक्ताधीन इत्यवगत्यात्मकः। द्वितीयस्तु, गोपी- भिः स्तोभितोऽनृत्यद्भगवानितिवाक्यात् तादृशलीलायास्तात्पर्यज्ञाना- नन्तरं पुष्टिभक्तिपरवशत्वं भगवतो निर्यिते। तत्र शेयः।यथावा।यो- षित्सङ्गाद्यथा पुंस इति वाचनिकः।वाचं दुहितरं तन्वीं स्वयम्भूर्हरती मन इत्यत्रार्थिकः। एवं सर्वत्रोह्यम् । सोऽयं सुबोधिनीनिबन्धादा- वाध्यात्मिकः पक्षस्तत्तल्लीलाप्रसङ्गे साधितोऽस्ति । एवं सति आधु- निकपुष्टिस्थानों कथं प्राप्तिरिति जिज्ञासायाम, ‘एवं धर्मेर्मनुष्याणामु- द्धवात्मनिवेदिनाम्' इत्यादिभिः प्रकारलाभेऽपि, 'मां च योऽव्यभि- चारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान ब्रह्मभूयाय क- स्पत' इत्यादिवाक्यै गुण्यावस्थानन्तरं फलप्राप्तिरित्याद्याकारकसि- द्धान्तसिद्धावपि नैर्गुण्यानन्तरं फलमित्यार्थिकोऽपि सिद्धान्तः स- म्पद्यते। सोऽयं भागवतमूलकयोः सुबोधिनीनिबन्धयोर्वर्तत इति । ततो बोधसौकर्यायोद्धृत्य लिख्यते। तत्र येषु जीवेषु भगवता पार- मार्थिकफलविशेषसाधनार्थमलौकिकानुग्रहविशेषेण पुष्टिभक्ति:- जरूपा स्थापितास्ति ते पुष्टिमार्गीयाः। तेषां साधनैः फलं भविष्यतीति १२ प्रमेयरत्नार्णवे प्रकारो निर्धार्यते । तन, वैगुण्यं सर्व एव हीति भगवद्वाक्यात ते मायाकार्यतामसादिंगुणैाप्ताः सन्ति । यद्यपि सर्वेषु त्रयो गुणाः सन्ति, तथापि, प्राधान्येन व्यपदेशा भवन्तीति न्यायेन यस्मिन् यस्य गुणस्याऽऽधिक्यं स तेन गुणेन व्यपदिश्यते । तत्र सात्त्विका- नां सेवाश्रवणादिसाधनैः शीघ्रं प्रेमोत्पत्तिः। अत एवोक्तं निबन्धे । सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिण इति, निबन्धीयसेवा- करणे, सात्त्विकानुपदिशतीति च । अतस्ते प्रथमाधिकारिणः। शिष्टौ मध्यमहीनौ । अत एव भक्तिस्कन्धीयभक्तेषु हीनमध्यमोत्तमाः सर्वेऽपि कथिताः । 'पुंसामीशकथाः प्रोक्ता हरेश्चास्यानुवर्तिनाम् इत्यनेन सामान्यतः सर्वेषां भक्तत्वं सूचितम् । अधुना तु कलि- कालदोषान्मोहलोभादियुतास्तामसा राजसा बहवः सन्ति । ते हि पूर्वस्थापितस्य पुष्टिभक्तिबीजस्य अनश्वरत्वेन सत्वाद् भगवत्परि- चर्याश्रवणादि कुर्वाणा अपि दोषप्राबल्यान प्रेमलक्षणां भक्ति ल. भन्ते । प्रतिबन्धकाभावस्य सर्वत्र कारणत्वात् । तेषाम, आदरः प- रिचर्यायामित्यादिभगवदुक्तसेवाश्रवणादिसाधन:जदाचे सति सेवयैव क्रमेण तमोरजःसत्त्वानि निवर्तन्ते । मां च योऽव्यभिचा- रेण भक्तियोगेन सेवते इत्यादिवाक्यात् । तदेतद् गोकुलस्थानां प्रसङ्गे सूचितं च । यतस्तेषां पूर्व तमो निवृत्तम् । पश्चाद्रजःसत्त्वे । तदुक्तं निबन्धे । 'इतोऽपि चेद्धरिगच्छेन्नीत्वा सर्वस्य तामसम् । राजसास्ते भविष्यन्ति गोकुलस्था न संशयः । उभये च ततस्त्वने सात्त्विकास्त्वगुणास्ततः त्रयोऽपि सम्भविष्यन्ति मुक्तौ तेषां निरूप- पम्' इति । इतोऽपि चेदित्यादि। ननु तामसप्रकरणीयलीलासमाप्तिप- र्यन्तं गोकुलस्थानां तामसत्वं स्थितमेव पश्चाद्भगवन्मथुरागमनानन्तरं लीलानां बाह्यतस्तिरोभावाच्छास्त्रीयसाधनानां च गोकुलस्थेऽभावात कथं तामसभावनिवृत्तिरित्याशय तनिवृत्तिप्रकारमाहुः । इतोऽपि चेदित्यादिना । अयमर्थः। यद्यपीह भक्तिशास्त्रीयमर्यादाविचारे ता. मसत्वानवृत्तौ न किञ्चित् कारणम् । कारणाभावेऽपि यदि का- योत्पत्तिस्तदा सर्वमर्यादोच्छेदः स्यात् । तथापि हरिश्चेत्तामसत्वं खयं गृहीत्वा गच्छेत् तदा शास्त्रीयमर्यादाया दुर्बलत्वात् तामसत्वं गच्छत्येव । अतः प्रमेयबलस्यैव मुख्यत्वं, न प्रमाणबलस्येति । प्रमेय- बलेन राजसास्ते भविष्यन्ति । अस्मिन्नर्थे संशयो नास्ति । अतो न - फलविवेकः। कश्चिद्विरोधः। न वा मर्यादाभङ्गः । प्रमाणबलविचारे तथात्वेऽपि प्रमेयबलविचारेण समाधानादिति कारिकार्थः फलितः। यद्यपि ली- लासृष्टिस्थभक्तास्तु, 'यो नन्दः परमानन्दो यशोदा मुक्तिरूपिणी । गोप्यो गाव ऋचस्तस्य'इत्यादिभिः कृष्णोपनिषत्स्खतिश्लाधितस्वरू- पाः प्रापश्चिकविलक्षणास्तथाप्यंशविशेषे दृष्टान्तीकरणान्न दोषः । नच पुष्टिभक्तेर्निगुणत्वात्तद्वतो राजसत्वं तामसत्वं च न सम्भव- तीति वाच्यम् । वृत्रे तामसत्वदर्शनात् । रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मन इति वाक्यात् । अजातपक्षा इव मातरं खगा इत्यादिवाक्यैर्वत्रस्य पुष्टिभक्तत्वनिर्धारात् । अतो भक्तेनिगुणत्वे- ऽपि भक्तानां सगुणत्वमस्त्येव । अभिसन्धाय यद्धिंसामित्यादिवा- क्यैस्तारक्कामजन्याया एव भक्तः सगुणत्वं, न त्वस्याः । अत इय भक्तिर्निर्गुणैव । भक्तानां तु वैविध्यं वर्तत एव । अत आधुनिकानां पुष्टिभक्तानां साधनसापेक्षत्वादादित आ- रश्य सेवाश्रवणादिप्रकारस्तामसादिगुणनिवृत्तिप्रकार आध्यात्मि- करीत्या निरूप्यते । तथाहि । यथा लीलासृष्टी तामसप्रकरणारम्भे प्रथमाध्याये भगवदाविर्भावोत्सवस्तयेहापि साधकस्य श्रीमूर्तेरावि- र्भावोत्सवः । अत एव निबन्धे सेवाप्रकरणे, एनमुद्धरिष्यामीति तदा मृदादेः प्रादुर्भूत इत्युक्तम् । मूर्तिरूपेण प्रभोराविर्भाव एवा-- ङ्गीकृतः । तथा यत्र । यथा, नेह स्पेयं बहुतिथं सन्त्युत्पाताश्च गोकुल इत्यनेन प्रादुर्भूतभगवत्सुखानुभवप्रतिबन्धकशाने वसुदेवस्य कार-- णता एवमत्रापि गुरोः सकाशाद्भक्तिमार्गप्रतिबन्धकज्ञानम् । ततः पूतनामरणं सा चाऽविद्यारूपा । अविद्या पूतना नष्टा इति वाक्या- तू । नच पूतनाबकादीनामविद्यादम्भादिरूपत्वे मानाभावः इति वा- च्यम् । लोभकोधादयो दैत्या इति कृष्णोपनिषत्सु सर्वेषां दैत्यानां परिदृश्यमानस्वरूपातिरिक्तलोभादिरूपत्वेन प्रतिपादनात् । लोभ- क्रोधादयो दैत्या इत्यत्रादिशब्देन सर्वेषां संग्रहात् । एतदुपनिष- म्मूलिकैव धेनुकादौ देहाध्यासत्वाद्युक्तिः सुबोधिन्यामिति ज्ञेयम् । एवं सति तत्र अविद्यारपा पूतना नाशिता तथेहापि भगक्दबहि- मुखत्वसम्पादिका अविद्या सेव्यमानेन-प्रभुणा नाश्यते । सकदिष्टवा- दिपुरुषमिति वाक्यात् । तत्र यथा वसुदेवमुखादुत्पातश्रवणे, तन्निवृत्त्यर्थ श्रीनन्दन, हरि जगाम शरणमिति वाक्याच्छरणागमनं प्रमेयरत्नावे कृतं तथेह साधकेन गुरुद्वारा भक्तिमार्गप्रतिबन्धकानि श्रुत्वा तन्नि- वृत्तये हरिशरणागमनं कार्यम् । तदुक्तं निबन्धे । आये तु भगवन्मार्गे बाधकानि बहूनि हि । द्वितीये तदभावो हिं हरिणैव भवेदिति । तत्र यथा पूर्व सञ्चितस्वासक्तिविषयीभूतभगवदनुपयुक्तगृ- हरूपशकटस्य भक्तिरूपचरणेनोत्क्षेपणमेवं साधकस्यापि भगवद- नुपयुक्तवस्तुसम्बन्धो निवर्तते । तृणावर्तो भगवत्साक्षात्कारप्रति- बन्धरूपो रजोगुणात्मा हतः । एवमस्यापि भजनप्रतिबन्धरूपो रजो गुणो नश्यति । ततो यथा श्रीयशोदाया विश्वरूपदर्शनेन महिम- ज्ञापनं, तथेहापि साधकस्य सेव्यस्वरूपे स्वप्नादिद्वारा कश्चिदनु- भावो ज्ञाप्यते । ततो गर्गेण एकान्ते भगवन्नामान्युक्तानि । तन रूपगुणलीलावैशिष्टयं निरूपितम् । 'बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जना' इत्यनेन सन्तीति प्रयोगेण तेषां नामरूपगुणकर्मणां नित्यत्वं बोधितम् । तथाच सिद्धमेतत् । साधकेन भगवदीयमुखाद् गुणली- लाविशिष्टानां नाम्नां दुःसङ्गवर्जनपूर्वकं स्वरूपं श्रुत्वा तत्तल्ली- लासंयुतस्वरूपगुणस्मरणपूर्वकं तन्नाम ग्राह्यम् । यथा गोवर्द्धनो- द्धरणधीर इति नामग्रहणे गोवर्द्धनोद्धरणात्मकलीलाविशिष्टं वाम- करकमलधृतगोवर्द्धनं श्रीकृष्णस्वरूपं हृद्यानेयमिति । एतश्च नाम- करणप्रसङ्गसुबोधिन्यां विस्तृतं श्रीमदाचार्यचरणैः। ततो जानुरिङ्गणलीलायां, द्वे जानुनी सुतलं विश्वमूर्ते- रिति वाक्याजानुनोः सुतलाधिदैविकत्वात् । तत्र च दैत्यानां निवा- साजानुभ्यां गमनेन गुप्ततयैवालौकिकप्रकारेण दैत्यमर्दनमाचरित- म् । तथेहापि सेव्यमानो भगवान् अनेकधा स्थितान् अज्ञातानपि बहूनासुरभावान् दूरीकरोति । चौर्यादिप्रसङ्गे व्रजसुन्दरीभिर्भगव- तो दोषेषु निवेदितेषु महिमज्ञानाभावेपि केवलस्नेहान्न मातृचर- णैर्दोषा गृहीताः । न छुपालन्धुमैच्छदिति वाक्यात् । एवमेव भगवदीयो ज्ञानरहितोऽपि भजनस्वभावान्न भगवति दोषं गृहा- ति। ततो मृद्भक्षणप्रसङ्गे, नाहं भक्षितवानम्बेत्यादिनासर्वसाधारण- रीत्या प्रतीतोऽशनरूपो धर्मों मयि नास्ति । क्षुत् खलु मनुष्यस्य भ्रातृव्य इति श्रुतेर्भक्षणकारणीभूतक्षुधो मनुष्या साधारणधर्मत्वेन वै फलविवेकः। भय्यभावादित्युक्तं हरिणा । तथाच क्षुधितः सन्नानाति, भक्ति- पूर्वकं भक्तेन दत्तमश्नात्येव । 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्र- यच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मन'इति वाक्यात् । अशनं चात्र भोगो, न तु भक्षणमात्रम् । पुष्पादीनां संग्रहात् । तथाच सर्वमेव वासोभूषणस्रगादि भक्त्यादत्तं स्वीकरोति । अत इमं प्र- कारं बुद्ध्वा नैवेद्यादि भक्त्यैव समर्पणीयमिति लभ्यते स्म । एत- तु मृद्भक्षणप्रसङ्गटिप्पण्यां स्फुटम् । श्रीमातृचरणानां साधारण- रीत्याऽशनधर्मे प्रतीते मुखं व्यादाय विश्वरूपं प्रदय सर्वसाधार- णनिखिलधर्माऽभावो बोधितः । अग्रे तु, यन्माययेत्थं कुमतिः स मे गतिरिति वाक्यात स्नेहस्य सर्वथा तिरोधाने, वैष्णवीं व्यवतनो- न्मायामिति वाक्याल्लीलास्थजीवनियामिफया वैष्णव्या मायया मो- हयित्वा स्नेहं वर्द्धितवान् । एवमस्यापि सेव्यखरूपे लौकिकमा- वस्फूर्ती तन्निराकृतये भागवताद्यर्थविशेषस्फुरणेन महिमानं बो- धयति । तत्राप्यत्यन्तमहिमस्फूर्ती स्नेहोपचारशैथिल्ये स्नेहिभ- क्तसङ्गादिना स्नेहोपचारश्रद्धां द्रढयति भगवान् । ततो, द्रोणो वसूनां प्रवर इत्यादिप्रश्नोत्तराभ्यां श्रीनन्दयशोद्योभक्तो महा- पुरुषकृपैव कारणमिति सिद्धान्तितम् । एवमिहापि श्रीमदाचार्य- चरणश्रीविठ्ठलेश्वरकृपातो भक्तिर्भवतीति शेयम् । ततो मातृचर- णानां दधिमन्थनावसरे भगवद्गुणगान, दधिनिर्मन्थने काले स्मरन्ती तान्यगायतेति वाक्यात् । एवं साधकेनापि गुणगानादि कुर्वतैव व्यावृत्तिः कार्या। ततो दधिमण्डभाजनभेदः। शिक्यस्थ- नवनीतस्य मर्कटेश्यो दानम् । तदुभाभ्यामिदं सिद्ध्यति । भगव- दावेशाभावदशायां भगवदितरभोगोपयोगबुद्ध्या सम्पादितान् पदा- र्थानाङ्गीकरोति भगवान् । एवं सति समर्पणीयस्य वस्तुनः सं- पादनदशामारभ्य भगवदुपयोगसमयावधि चित्तस्य कृष्णैक- परतैव रक्षणीयेति बोद्धव्यं साधकेन । ततः श्रीयशोदा दाम्ना ब- द्धं प्रवृत्ता । तथा न बद्धः । यदा खेदं दृष्टवान् भगवाँस्तदा कृ- पया भक्तवश्यतां सूचयन् बद्धोऽभूत् । तथा साधकोऽप्यनेकसं- भृतसपर्यया न पुरुषोत्तमं वशीकर्तुं शक्नोत्यपि तु भक्त्यैव । ततो यमलार्जुनप्रसङ्गे भगवदीयनारदसमागमेन श्रीमदरूपमहादोषज- न्यस्त्रीसङ्गादिनिवृत्तौ बजे वृक्षदेहं प्राप्य स्थिती नलकूवरमणिग्रीवा । .
प्रमेयरत्नार्गावे हरिर्मोचितवान् । तत्रापि, तत्तथा साधयिष्यामि यद्गीतं तन्महा- ऽऽत्मनेति भक्तानुगृहीतो मोचयिष्यामीत्युक्तवान् प्रभुः । अतो भ- कानां सङ्गमः सकलपुमर्थसाधक इति सिद्धम् । ततो गोपीभिः स्तोभितोऽनृत्यदित्यत्र भक्तिवश्यत्वं स्फुटमेव । ततो वृन्दावनक्री- डा । तत्र, चारयामासतुर्वत्सान्नानाक्रीडापरिच्छदाविति वाक्या, भ्रमरचक्रसूक्ष्मदण्डकाष्ठखण्डकृत्रिमरथवादिवाकर्षणादीनि क्रीडा- परिच्छदानि गृहीत्वा क्रीडति हरिः । एवं सति सेवायामपि तानि- स्थापनीयानि । “एवं तो लोकसिद्धाभिः क्रीडाभिश्चरतुर्वने'इति पञ्चदशाध्याये वक्ष्यमाणत्वाच । यद्यदिष्टतमं लोके यश्चातिप्रिय- मात्मनः । तत्तनिवेदयेन्मह्यं तदानन्त्याय कल्पत' इति भगव- द्वाक्याञ्च । विस्तृतं चैतत् सेवाकौमुद्याम् । ततो वत्सासुरवधः । स हि वत्सचारणसामग्रीरूपाणां वत्सानां दोषरूपः। तस्य निवार- णेन वत्सा निर्दोषाः कृताः । एवमिहापि सेवोपयोगिसामग्री प्रभु- णा शोध्यते । तत्र यथा वयस्यानां भक्तानां दोषरूपो लोभानृत- सहितदम्भात्मको नाशितस्तथेहापि लोभाऽनृतसहितो दम्भादि- दोषः सेवया नश्यति। तत्र यथा'इति नन्दादयो गोपा' इति वाक्याद् गुणगानं प्रेम च सूचितं, तथात्र भगवदीयादिरूपगुणगानम् । एवं प्रमाणप्रकरणसमाप्तौ यथा तेषां प्रेमपूर्णत्वं सिद्धं तथात्र साधकस्य एतावत्साधनसम्पत्तौ प्रेम पूर्णमुत्पद्यते । तत्र यथा देहाध्यासरूपो धेनुको नाशितस्तथान सेवाकर्तुर्देहस्य स्वकीयत्वाध्यासो गच्छति । यथा कालीयशिरांसि विषयसंसृष्टेन्द्रियरूपाणि चरणारविन्देन भ- क्तिरूपेण विमर्थ शोधितानि । 'अनुग्रहोऽयं भवता कृतो हि न' इति वाक्यात् । तथेहापि विषयोन्मुखानीन्द्रियाणि भजनेन संशोध्य भ- गवत्पराणि क्रियन्ते । यथा इन्द्रियदोषाभिमानिनो दावाग्नेः सका- शात् सर्वेषां रक्षा,तथेहापीन्द्रियदोषनियामकादासुरभावाद् भक्तस्य रक्षा । यथा अन्तःकरणदोषात्मप्रलम्बो हत एवमिहापि सेवां कु- र्वतोऽन्तःकरणदोषा निवर्तन्ते । यथा अज्ञानात्मा आत्मदोषो द्विती- यो दावाग्निस्तन्निवृत्तिः कृता, तद्वदत्रापि स्वरूपाज्ञाननिवृत्तिर्भवति । यथा भक्तानां भावविशेषेण गानम् अष्टादशाध्याये निरूपितं, तथे- हापि सेवाया अनवसरे भगवतःकीर्तनादिरूपं गानम्। तत इन्द्रया- गभङ्ग कृत्वा स्वयागः कारितः । तत्र शक्रकृतोपद्रवे गोवर्द्धनोद्धर- फलविवेकः। णेन व्रजो रक्षितस्तथा सति साधकैरन्याश्रयो न कर्तव्यः । एवं सति केवलभगवदाश्रये यदि कश्चिदुपद्रवो भवेत् तदा भगवान् पालयिष्यतीति विश्वासो रक्षणीयः । एवं भगवदुक्तवर्णाश्र- मधर्माचरणेन परोपकारादिधर्माचरणेन च वैष्णवान्नभक्षणेनाऽन्याश्र- यत्यागेन भगवान् सेव्यः। ततःकुमारिकाव्रतप्रसङ्गे यशपत्नीव्रतप्रसङ्गे यथाऽध्यात्मिकः पक्षः सिद्धः।तदुक्तं निबन्धे । 'कृष्णवाक्यं सदा कार्य मायामोहं निवार्य हि। वृक्षवत्तु स्थितिः कार्या शुद्धानेन च वर्तयेद्' इति । अयमर्थः। व्रतप्रसङ्गे अग्निकुमारैर्लजां परित्यज्य सर्व कृतं, तेन भगवत्प्रसादोऽभूत् । अतो भगवद्वाक्यं सर्वथा कर्त्तव्यम् । तदत्र श्रुतिस्मृत्यादिरूपं कर्त्तव्यमिति फलितम् । मायामोहं निवार्य वृक्षव. सुस्थितिः कार्येति । मायया जातो यो मोहो ममेदमित्यज्ञानात्मक- स्तं दूरीकृत्य वृक्षवत् केवलपरोपकारतया स्थेयम् । अहो एषां वरं जन्म इत्यारभ्य, तोक्मैः कामान् वितन्वत' इत्यनेन परोपकृतेः प्रभुणोपदिष्टत्वात् । शुद्धानेन च वर्तयेदिति । एषा वै ' बाधते क्षुन्न' इति गोपविज्ञापितो, मां शापयत पत्नीभ्य इत्युक्त्वा यज्ञपत्नीस- निधौ प्रेषयित्वा ताभिरानीतेनानेन गोपानां तृप्तिः सम्पादिता । ता हि भगवदीयाः । भगवत्युतमश्लोके दीर्घश्रुतधृताशया' इति वा- क्यात् । अत इदमन लब्धं, वैष्णवानामेवानं प्राह्यम् । तत उक्तम्, शुद्धानेन च वर्तयेदिति। तत ‘एवंविधा भगवतो या वृन्दावनचारि- णः। वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुरिति वाक्यात् । तासामासक्तिरेवं साधकस्याप्येतावत्साधनसम्पत्तावास- क्तिः सिद्ध्यति । प्रतिबन्धकपापनाशे भगवत्प्रसादे च क्रियमाणायाः श्रवणादिरूपायाः पोषो बीजभावदाळव्यसनभावरूपो भगवति भ- वति।ततो वृद्धौ क्रमेण गुणानां नाशः।लीलासृष्टिस्थानां यथा, 'दर्श- यामास लोकं खं गोपानां तमसः परम् । सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनमिति' वाक्याद् व्यापिवैकुण्ठात्मकाऽक्षरब्रह्मानुभ- घस्तथा पूर्वोक्तरीत्या सेवया व्यसनसिद्धौ गुणनाशे ब्रह्मभावः । 'स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं म- द्भावायोपपद्यत' इति वाक्यात् । ततः फलप्रकरणे यथा सर्वात्मभा- ववतीनां तासां भजनानन्दानुभवस्तथेह साधकस्यापि सर्वात्मभा- वोत्पत्तौ सदैव पुरुषोत्तमाविर्भावात् सेवायां भजनानन्दानुभवः फ- यथा
प्रमेयरत्नार्णवे
लति। ततो, भोगेन वितरे क्षपयित्वाऽथ सम्पद्यते इतिसूत्रभाष्योक्त-
रीत्या स्थूललिङ्गशरीरयो शे भगवल्लीलोपयोगिदेहं प्राप्य नित्य-
लीलायां प्रविशति । स एव मुक्तिपदार्थः । मुक्तिर्हित्वान्यथारूपं
स्वरूपेण व्यवस्थितिरिति लक्षणात् । तत्रच, सोऽश्नुते सर्वान् कामा-
न सह ब्रह्मणा विपश्चितेति श्रुत्युक्तरीत्या पुरुषोत्तमेन सह पुरुषोत्त-
मात्मकानां पुरुषोत्तमात्मकभोगाशनमाश्रयप्राप्तिरिति निष्कर्षः ।
निरोधलीलामुक्त्वाथ मुक्तिस्तद्नुवर्ण्यते ।
मुक्तानामश्रयः कृष्णो नान्येषामिति शास्त्रत इति सुबोधिन्याः ।
इति श्रीमद्गोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानुचर-
सेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय-
रत्नार्णवे पुष्टिमार्गीयफलविवेकः
समाप्तिमफाणीतू ॥७॥