Library
Dasavatara Storam
Front matter
No text on this page.
श्रीमद्वेदान्तदेशिकस्तोत्राणि-२
58
॥ दशावतारस्तोत्रम् ॥
C
भागववातिरेणुना
अन्बिल् . वेङ्कटगोपालदासेन विरचितया
व्याख्यया सहितम् ।
श्रीरङ्गस्थ
श्रीवाणीविलासमुद्रायन्त्रालये
संमुद्रितम् ।
१९२८.
1 VOYAP ET!!
Q2:4196
N28
12
3
4
*
121.93
LIBRARY
ILVES
YY
IS ॥ श्रीः॥ ॥ दशावतारस्तोत्रम् ॥ श्रीनिवासं परं ब्रह्म तन्नाम्नश्च गुरुत्तमान् । वन्दे भागवतान्सर्वान्देशिकाशयलब्धये ॥ व्यङ्गथप्रधाना गम्भीरा निगमान्तगुरोर्गिरः । दर्शयन्तु प्रसादेन कृत्स्नं स्वं भावमञ्जसा ॥ इदं स्तोत्रं कविहृदयानुसारेण सम्यग्भावितमहश्यब्रह्माध्य- अणे रसस्वरूपब्रह्मरसस्य भावुकहृदयसंक्रान्तौ चोपकुर्यादिति पदर्शयिष्यते । अधोक्षजस्य ब्रह्मणः सकलमनुजनयनविषयी- २ श्रीमदेदान्तदेशिकस्तोत्राणि । . करणं तदवतरणैर्निवर्यते । मन्दभाग्या वयं पुरावृत्तानवतारा. प्राध्यक्षयितुं पारयामः । न वयं तत्कृतपरावरनिखिलजनमनो. नयनहारिनवनीतनटनादिदिव्यचेष्टितान्यनुभवामः, तेषाम- तिक्रान्तत्वात् , अतिक्रान्तदर्शनदक्षसूक्ष्मदृष्टुरस्माकमभावात् । यदि वयं भावुकत्वं रसिकत्वं च संपादयेम, शुकपराङ्कुशपर- कालादिवद्वयं भिन्नकालानपि तानवतारांनध्यक्षयम । ' अध्य- क्षितो भावुकैः' इत्याचारस्ति चेद्भावुकत्वमतिकान्तमप्यध्य. क्ष्येवेति व्यज्यते 'पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ।' इति श्रीशुक एतदर्शयति । भाग. वतो रसः रसस्वरूपो भगवानेव वा, ‘समेस ब्रह्मसंस्पर्श सुखमत्यन्तमश्नुते' इत्युक्ततत्संस्पर्शजन्यात्यन्तसुखभूतो रसो वा, अमृतद्रवभूतशुकमुखगलिततदास्वादितफलरसग्रन्थो वा। शाखारूढः शुकोऽच्युतं फलमासाद्य 'एकाकी न रमेत 'एक: स्वादु न भुञ्जीत' इति च न्यायमनुसृत्य तमच्युतं रसमस्मत्पानाय स्वमुखाच्च्यावयति । 'रसो वै सः, रसं हवायं लब्ध्वानन्दी भवति' इत्यानन्दमयस्यानन्दरसघनत्वं श्राविवम् । रसिका भावुकास्तद्रसचर्वणाधिकारिणः । वे सं. बोष्यन्ते 'रसिका भावुकाः' इति । निगमकल्पतरोगलितं फलं शारीरकप्रमितफलभूतो भगवान्भवेत् । यावलयं पेयो . - । ।
दशावतारस्तोत्रव्याख्या। ३ रसः, मध्वपूपो यथा मधुकरैः । भुवीति निवृत्ततर्षा नित्य- मुक्ता व्यावयन्ते । लयश्च विगलितवेद्यान्तरमनुभाव्यरसत- न्मयतापत्तिः । 'तन्मयत्वं रसेषु' इति नटस्याभिनेयभाव. तन्मयतायां भावुकसभ्येषु तद्भावसंक्रान्तिः सुलभा । रामा- यणादिषु सीतारामशोकवर्णनप्रकरणेषु वयं रुविमः स्थूल- स्थूलानयनमुकुलैष्पिबिन्दून्प्रतिकलं मुन्धामः । ध्रुवं वयं तदानीं करुणापराधीनास्तद्रसमयतां प्राप्नुमः । तब श्रव्य- काव्ये पाठ्ये गेये च मधुरे। कथानायकनायक्यौ रुदितः । तच्छोकद्रष्टा ऋषिस्तिर्यग्दम्पतिवियोजनदर्शनेऽपि करुणवेदी काविष्टो भवति । तस्य शोकः श्लोकत्वमापद्यते । तच्छो- कभरितश्लोकान्वयं श्रुत्वा शोकेनाविश्यामहे । ऋषेर्दर्शनम- तिक्रान्तव्यवहितदर्शनमनुग्रहलब्धदिव्यचक्षुरूपधर्मवीर्येण सं- पन्नम् । न साक्षात्तत्तद्वृत्तान्तकाले स प्रत्यक्षदर्शी । कालदेश- व्यवहितमपि तेन धर्मवीर्येण यथावत्प्रत्यक्षीकृतम्। तत्प्रत्यक्षी- कृतं सोऽस्मान्श्रावयति स्वशोकभरितैः श्लोकः। तैश्च वयं पुरा- वृत्तान्तमिदानान्तनमिवानुभूय नायकनायिकासमानशोका भ- वामः । सुदूरबहुविप्रकर्षपरम्पराव्यवधानेऽप्यध्यक्षीकरण- समर्थता नापैतीत्यनुभवसिद्धम् । अनुपलब्धधर्मवीर्य- तुल्यवीर्यमस्त्युत्तमार्षकाव्यस्य श्रोतृणां पठितॄणां च प्रति- श्रीमवेदान्तदेशिकस्तोनाणि । पाद्यरसतस्यतापादने । दृश्यकाव्येषु नाटकेषु नाट्यमा. नेषु नृत्ते चाभिनेयस्य स्थायीभावस्य सभ्यानुभवगोचर- तापत्तिः सुलभतरा । तत एव तत्काव्यानां दृश्य- त्वविशेषणम् । यदि रस एव नायको नटश्च भवेत्तश्चेष्टितं कृत्स्नं रसमयं स्यात् । आनन्दमयस्य भगवतो मुख्यं रस- त्वम् , तत्संबन्धेनेतरसुखानां रसत्वमिति च श्रावयन्ति श्रुतयः । 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति ।' इति तैत्तिरीयश्रुतिः । यद्यत्सुखत्वेन लौकिका मन्यन्ते तत्सर्व सवासनं परित्यक्तं अयमिति निर्दिष्टेन मुमुक्षुणासमब्रह्माति- रिक्तसर्वसङ्गदृढपरित्यागिनासङ्गशस्त्रेण सुविख्ढमूलसंसार- क्षस्य दृढच्छेदिना । पुत्रेषणाया वित्तेषणाया लोकेषणायाश्च व्युत्थाय भिक्षाचर्य खल्वयं ब्राह्मणश्चरति । ब्राह्मण इति ब्रह्ममात्रसंस्पर्शवान्स्पर्शान्तररहितः। यदि दारपुत्रास्त्यक्ताः के एनं पोषयेदन्नादिना । स्याद्वित्तम् , येन पाचकान्संपाद्य तैर्भरणं कार्यतेति चेत्तदपि त्यक्तम् । यदि तदप्यत्यक्ष्यत के- नायमभोक्ष्यत ? तत्रोच्यते--- 'भिक्षाचर्य चरति' इति । चर गतिमक्षणयोः । पूर्वो गतौ। द्वितीयो भक्षणे । भैक्ष्य हेतोर्न चरणादाधिकं कुर्यात् । न भिक्षामपि याचेत वाचा 'मिवां देहि' इति गुरुकुले वर्तमानमाणवकवत् । अटन- दशावतारस्तोत्रव्याख्या। मानं कुर्याद्वीथीषु । यदि यहच्छया कारुणिकैर्जनैः शिक्ये किमप्यमं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति श्रुत्यर्थः । न केवलं सुखसाधनानि परित्यक्तानि, दृष्टविधया क्लेशभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीत्रमविच्छिभमनुष्ठी- यन्ते । सर्वसुखपरित्यागी बहुल्लेशपरिगृहीत्यानन्दसागरमनः सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अव- धूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । यदुनिरीक्ष्य पप्रच्छ' त्वं हि नः पृच्छतां ब्रह्मनात्मन्यानन्दकारणम्' 'ब्रूहि' इति । अवधूतस्यानन्दभरितत्वदर्शनेन विस्मितः संराट् स्वेन स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ । केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम् , येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मधि- ताः' इति भगवदेकचित्तोऽयम् । 'मगतप्राणाः' इति भगवश्चिन्तयैव प्राणिति । तत्स्मृत्यपहारे गतप्राण: स्यात् । रसभूमानं सर्वान्तरमानन्दमयमेवायमावृत्तचक्षुषा पश्यति, तमेव शृणोति, विजानाति ; नान्यत्पश्यति, शृणोति, वि- जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत। अन्वयव्यतिरेकाभ्यामर्थापत्त्या चास्य रसान्तरविरक्तस्यान- न्दपीनत्वं ब्रह्मसंस्पर्शहेतुकमिति निश्चीयते । एवंरीत्या सहे.
श्रीमद्वेदान्तदेशिकस्तोत्राणि। , तुकं प्रदश्यते आनन्दमयस्य ब्रह्मणोऽस्तित्वं मातापितृसह- मेभ्यो वत्सलतरया श्रुत्या । ' अस्ति ब्रह्मेति चेद्वेद' इत्यादि- कोकः पुच्छवदानन्दमयविषये पठितः । ब्रह्मण आनन्दम- यत्वेनास्तित्वं सर्वलोकहृदयारूढं यथा स्यात्तथा निरूपयति 'रसो वै सः, रस सेवायं लब्ध्वानन्दी भवति' इति भुतिः सर्वाः प्रजाः सतां लभेरनित्याशया । प्रजानामसत्क- स्पत्वं मातूदुःखाय भवेत् । श्रोत्रियस्य चाकामहतस्येत्यका- महतत्वं हेतूक्रियते निरतिशयानन्दप्राप्तौ । कथं सर्वतो विरकस्य रतिरिति चेदात्मकामोऽयम् , आत्मरतिः । अ- यम्' शब्देन त्यक्तसर्वपरिग्रहोऽभ्युपगतसमस्तक्लेशरूपधर्म- स्तपस्वी विवक्षितः । एवं च ब्रह्मणः स्वान्तरानन्दमयत्वेना- स्तित्वं ब्रह्मविदनुभूयमाननिरतिशयानन्दनिदर्शनेन लोकाय- तिकानामपि हृदयारूढतया सुविशदं प्रदर्श्यतेऽनया श्रुत्या । प्रसनं मुखं ब्रह्मवित्त्वे स्पष्ट लिङ्गमिति 'प्राविद इव ते सो- म्य मुखं भाति । इत्युपकोसलं प्रत्याचार्यवचनं बोधयति । अतिस्थमुखशब्दो ब्रह्मविदवयवान्तराणामप्युपलक्षणमिति दर्श- यन्त्यचार्या अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुलं मानसं चिन्ता च द्रुतशर्कराप्रतिनिधिः शीताश्रुणी लो- पने।' इति संकल्पसूर्योदये 'आहादशीतनेत्राम्युः पुलकी- दशावतारस्तोत्रव्याख्या । . कृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिमिः ॥' इत्युपवृक्षणानुसारेण । परमात्मनो द्रष्टव्यतां विदधाति श्रु. विः। विश्वदेहिप्रभृतिसर्वदेहिभिब्रह्मरसमनस्यात्मज्ञस्य द्रष्टव्य- वं विधीयते उपबृह्मणेन । नेसमुकुलगलवानन्दशीताश्रुभिरा- नन्दपुलकोद्मादिभिश्च प्रत्यक्षलिङ्गैरान्तरा निश्चला रतिः प्रत्यक्षीक्रियते । पुलकीकृतगात्रवानिति मतुपा गात्रस्य सदा- कुरनवनवपुलकवत्त्वं व्यज्यते। प्रतिक्षणं नवनवाः पुलका उद्गच्छन्ति । तदेव ' मुहुर्मुहुः पुलकितानि' इत्याचाहच्य- ते। कण्ठकवराह इति प्रख्यातः श्वापदो हर्षकोधभयापिनिमि- वेषु कृत्सगात्रेऽपि कण्टकोद्गमं बिभर्ति । तत्र च कण्ठकन- स्वमन्वर्थम् । तत एव पुलकस्य कण्टकसंज्ञा कृवा स्यात् । रसेन भगवता नटीभूय नायिकया सह निवर्तितलोकोत्तरभू. मिकानामध्यक्षणेन भावुकचित्तं नियतं रज्येत । रसस्वरूपन- टभावितरसेन तद्भावयिचित्तं ध्रुवं व्याप्येत। तत्चदवताराणां यथावृत्तं विचित्रवर्णनेन दृश्काव्यादपि चारुतया श्रोतृचि- तरञ्जनं क्रियते भाचार्यः । तत्तदवतारविषयवर्णने महर्षि भिमन्यैः कृतमेकेन श्लोकेनातिविचित्र संगृह्यत इति वर्ध- यिष्यते ॥ चित ईश्वरश्च सर्वे नटाः । यद्यपि शुद्ध चैतन्यं तेषाम- श्रीमद्वेदान्तदेशिकस्तोत्राणि । नुगतस्वरूपम् , ते विविधभूमिकाः परिगृह्य नटन्त एवासते वयं नाट्येन भगवतो लीलारसमुत्पादयामः । सोऽत्रावतीर्य भूमिकां परिगृहन्नटन्नरमानुहिधीर्षति । अस्मदार्तिस्तमध आ- नयति । अस्मदुन्निनीषया सोऽवतरति । कूपादिषु पतितान शिशूस्तत्रावतीर्णः पित्रादिरुद्दिधीर्षति । ‘कान्तां प्राप्य वि- चित्रकर्मरचितां पर्यायतो भूमिका केनाप्यद्भुतनाटकेन कमपि श्रीमन्तमानन्दयन् । कृत्वा शास्त्रमुखे मनः प्रतिमुखं गर्भा- वमर्शात्परं विद्यानिर्वहणेन लब्धनिर्भररसो हृद्येष विद्योतते ॥' इत्याचार्या जीवपरिच्छेदान्ते न्यायसिद्धाञ्जने । शैलूषवद्विवि- धवेषपरिग्रहवन्तं भगवन्तं विविधभूमिकापरिग्रहवयं लीला- रसोत्पादनेन सन्तोषयामः । यदि कदाचिद्वयमहृदयमपि प्रपनरूपप्रणतवेषं परिगृह्णीमस्तन्मात्रेण संतोषितः श्रियःपति- रस्मान्द्वदि भूषणत्वेन निधायात्मानं विद्योतयति । 'एष ह्ये- वानन्दयाति' ' तदेतुव्यपदेशाच' इति श्रुतिसूवाभ्यां सर्वे- तरानन्दहेतुभूतो भगवानपि अनयापूर्वया प्रणतभूमिकया- नन्दितो भवति । अद्भुतनवनाटकेषु विशेषप्रीतिं कुर्वन्तो जनास्तइष्टुं प्रवेशदक्षिणां दत्वा नाटकशालामण्टपं गच्छन्ति, प्रजागरं च कुर्वते । तदिदृक्षायास्तीव्रत्वेऽद्भुतत्वं नूतनत्वं च निमित्तम् । प्रणतवेषश्चेतनस्य नूतनः, भगवतोऽद्भुतो नूत- दशावतारस्तोत्रव्याख्या। .. नश्च । सुदुर्लभः खल्वस्य प्रपत्तृजनः । 'न नमेयं हि कंचन' 'ईश्वरोऽहम' 'कोऽन्योस्ति सहशो मया इत्य- हंभावमदमसेषु स्तब्धजनेषु सुदुर्लभाः प्रणन्तारः। अपूर्वा- द्रुततद्भूमिकापरिग्रहक्षण एव श्रिया सहितो भगवान्संतु- ष्यति । विस्मयते, आश्चर्यमाश्चर्यमिति वक्ति । अञ्जलिभर- वहनमात्रमधिकं मातरं संतोषयितुम् । गात्रप्रणामोऽपि तया नापेक्ष्यते । तस्यां श्रीणितायां तदिङ्गितपराधीनस्तत्पतिः सद्यः प्रीयेत । नटस्य विचित्रभूमिकया संतोषितो लौकिक: प्रभुः श्रीमांस्तस्मै पारितोषिकत्वेनाभरणादिकं दद्यात्तद्वक्षासि धर्तुम् , प्रभोर्बहुमतिप्रसादं जनानां प्रख्यापयितुं च। अयं तु विलक्षणो जगदीश्वरो नटमेवाभरणीकृत्य स्वहृदयेऽत्यन्त- हृद्यत्वेन सततं धरति । तेन चात्मानं विद्योतितं मन्यते । कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा' इति नाटकप्रणेता तत्क्लेशज्ञाता कविः । वयमेव नाटकवस्तु नि-. माय नायका नटाश्च भूत्वा नटाम इत्याचार्याः । 'प्रपञ्चः कृत्स्नोऽपि रङ्गम् । तत्र सर्वेऽपि नटाः' इत्याशिलेयकवि- सार्वभौमः। नटो भगवानटैरस्माभिनंटनेनाराध्येत । सग- धेषु प्रीतिः सहजा । नटनक्लेशं नटो जानीयात् । एतदुच्यते भाचाय: ' स्वाधीनसंसरणनास्यनिरूदवले संतोषितः प्रणव- , . Monoc DRA श्रीमद्देदान्तदेशिकस्तोत्राणि । भूमिकयास्य पुंसः । स्थाने विधास्यति विभुः स्थिरचिन्ह भेदं क्रीडानटः स भगवान्कृपया स्वसाम्यम् ॥' इति। क्रीडानट इति प्रथमान्तपाठ आचार्यसंमतः स्यात् ।। यज्ञादिभगवदुत्सवान्तेषु वयं भगवन्तं यात्रायातान्सुजन- निवहांश्च नाटकनाटनेन नृत्तगीतादिना चाराधयामः । 'दे- वानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्' इति ना- व्योपाध्यायः । मुनयो भरतादयः । तच नाटयं बहुधा मिनरुचेरपि जनस्यैकं समाराधनम् । अस्माभिर्विचित्रवि- विधनाटकैराराधितः कृतज्ञसार्वभौमो देवः श्रिया सह वि. विधभूमिकाः परिगृह्य नाटकानि निर्वतयति । 'देवानाम्' इति श्लोकपठितषष्ठ्यन्तदेवशब्दस्थाने एतत्स्तोत्रारम्भे प्रथमा- न्तदेवशब्द इत्यवधेयम् । तत्र नाट्यजनितप्रीत्युद्देश्या देवाः । देवोऽत्र स्वयं नटन्मनुष्याणां सभ्यानां प्रीतिविधाता । 'देवानाम्' इत्यस्य स्थानेऽत्र 'न' इति । देवो नः' इति शब्दो कालिदासश्लोकोक्तक्रमविपर्ययेण नटसभ्यान प्रदर्शयत इव ॥ 'नटवभूमिकाभेदैनाथ दीव्यन्पृथग्विधैः। पुंसामनन्य- भावानां पुष्णासि रसमद्भुतम् ।।' इति यादवाभ्युदये । स च श्लोक एतत्स्तोत्रायश्लोकस्यात्यन्तसदृशः । निर्भरत्वरूपप्र- दशावतारस्तोत्रव्याख्या । । पत्तिरसाविष्टानस्माभिर्भरं संपूर्ण रसं लम्भायितुं भगवानराम- कृष्णादिभूमिकाः परिगृहाति । निर्भरस्य निर्मरो रसो देयः । निर्भरैः प्रपन्नेनिर्भरो रसः प्राप्यत इति चारु व्यज्यते आचा- बैलब्धनिर्भररसैरिति प्रथमश्लोके । भगवतो दशभूमिकानां भूमिकाभूत: प्रथमश्लोकः । 'प्रपञ्चं निष्प्रपञ्चोऽपि विड- म्बयसि भूतले । प्रपन्नजनतानन्दसंदोहं प्रथितुं प्रभो ॥' इति ब्रह्मा ब्रह्म कृष्णं प्रति । तेनावतारप्रयोजनं दर्शितं भवति । तदेव प्रपन्नजनतानन्दसंदोहप्रथनमत्र प्रथमश्लोके प्रयोजन. त्वेन कात्य॑ते 'नः शुभमातनोतु' इति । आतनोत्विति विस्तारण- रूपप्रथनप्रार्थना । शुभमित्यानन्दसंदोहः । अद्भुतप्रपनवेषपरि- गृहीतिनोऽस्मांस्तन्मात्रप्रीतो देवः स्वाद्भुतभूमिकाभिरस्माकम- द्भुतरसं पुष्णाति। धर्मसंस्थापनार्थाय' 'परित्राणाय साधूनाम् इति सामान्येनोक्तमवतारप्रयोजनमन पर्यवस्यतीति चारु प्रत्यपादि गीताभाष्यारम्भे भूमिकापरिग्रहविषयभूमिकायाम- बतारविषयावतारिकायाम् । तदेव विशदतरमवाच्यवताररह- स्यभाष्ये, तत्तात्पर्यचन्द्रिकायां च । गीताशास्त्रतात्पर्यभूतभ- जियोगमवतारयितुं भगवतावतारः कत इत्युक्तं गीतावतारि- कायाम् । अवतारावतारितो भक्तियोगोऽवतीर्णभगवतोऽपि मुख्यतर इति चार व्यज्यते । लावण्यधान्नः स्वाद्भुतदिव्य- । " .
श्रीमद्वेदान्तदेशिकस्तोत्राणि । , विग्रहस्य सकलमनुजनयनविषयीकरणं विना कथं विश्वममृ- तप्लावनेनाप्यायितं भवेत् । कथं चाकरमालाकारादिपरमभा- गवतानां दृष्टिचित्तापहरणेन तद्भक्तिरूपधर्मवर्धनम् । अवता- रितभक्तियोगरूपगीताया गीतेत्यसाधारणो व्यपदेशः । निरु- पपदगीताशब्दो भगवद्गीतामभिदध्यात् । 'गीताः सुगीताः कर्तव्याः' इति ऋषिवचनम् । गीतान्तराणामनुगीता, शिव- गीता, श्रुतिगीता, भ्रमरगीता, गोपिकागीतेति सविशेषना- मान्येव भवन्ति ॥ अवतारप्रशंसायां ब्रह्मणोच्यते — को वेत्ति भूमन्भगवन्प. रात्मन्योगेश्वरोतीर्भवतत्रिलोक्याम्' इति । तत्रावतरब्रह्म भूमन्निति संबोध्यते । अल्पप्रत्यर्थिनो विभुभूतभूनोऽल्पभूमि- काभूतावतारवेषपरिग्रहः सर्वशक्तिं विना दुर्घट इति तेन संबोधनेन व्यज्यत इव । तदेव निपुणं प्रदर्श्यते आचार्यैः 'यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिकाम्' इति स्वज्ञानप्रदात्री हयवदनभूमिकारूपाचार्यभूमिकापरिग्रहीत्रीमा- दिमां देवतामुद्दिश्य । तेजोमयस्य देवस्य विभोर्भूमिकापरि- ग्रहः श्रमसाध्य इति प्रथमश्लोकपठितेन भूमिकाशब्देनाचार्या व्यजयन्तीव । अजहद्भूमा स्वयं भूमिकाम्' इत्यवतारेषु सकलमनुजदृश्यत्वाय भूमिकापरिग्रहेऽपि निरतिशयबृहत्व- दशावतारस्तोत्रव्याख्या । T . , रूपस्वभूमा न त्यक्ष्यत इति बोध्यते । विभुर्विष्णुः खल्वबत- रति स्वं स्वभावमविहाय | भूमा च स्वस्वभावः । विष्ण्वव. तारे तद्वैभवमध्यवतरति । अन्यथावतीर्णो न विष्णुः स्यात् । 'वरये वैष्णववैभवावतारम्' इत्यतिमानुषस्तवप्रथमश्लोके श्रीवत्साङ्कमिर्भगवद्वैभवस्यावतारो व्यज्यत इव । ' अनासी- ददोषो जहदवधिषाङ्गुण्यमहिमा विहारस्वाच्छन्द्याद्विभुरिह दधानो विभवताम् । तिरश्चामप्येतैः कमठकिटिपाठनिपतग- प्रकारैराकारैः परिबृढतमत्वं दृढयति ।' इत्याचार्याः सङ्क ल्पसूर्योदये । सर्वैरुपसत्तुं योग्यं भगवन्तं दोष एक एव ना- सीदेदिति व्यज्यते 'अनासीदद्दोषः' इति । अशेषशरण्यो ऽपि न दोषशरण्यः । न दोषास्तस्मिन्शरणं लभेरन् । आस. भेषु दोषं मृष्येत् ‘दोषो यद्यपि तस्य स्यात्' इति । आसी- दन्तं दोषं तु न मर्षयेत् । न तस्य किमप्यननुकूलवेदनीयं हेयं भवति । लोके हेयभूता रोषादयोऽपि तस्य निःसीम- शक्ते: सुनिरसविषये प्रीतये स्युः । विभोर्विष्णोर्विभवरूपाव- तारो युक्त इति व्यज्यते 'विभुरिह दधानो विभवताम्' इति । 'ब्रह्म परिबृढं सर्वतः' इति यास्कनिर्वचनं ब्रह्मश- ब्दस्य । 'ब्रह्म ततमम्' इति श्रुतिः । तल्लक्षणसमन्वयार्थ वस्य परिबृढतमत्वं दृढयितुं विर्यग्भूतसर्वप्राणिप्रकाराकारप- श्रीमदेदान्तदेशिकस्तोत्राणि । रिग्रहं करोति विभुः। सर्वत्वाभावे कथं ब्रह्मत्वसंभवः सर्ववनिर्वाहार्य ब्रह्मणो दाशदासकितवत्वादिकीर्तनं श्रुत्या तच सामानाधिकरण्यमंशांशिभावेनेति स्पष्टमुच्यते बादराय- गेनांशाधिकरणप्रथमसूत्रेण । तावता तादात्म्यरूपसामानाधि करण्यं नोपपायेत । तादृशं च सामानाधिकरण्यं समर्थ्यते मनिकूर्मवराहाद्यात्मतयावर्णित्वेन । अवतारभूतमीनादिदे. हेषु न भगवता जीवेनात्मनानुप्रवेशः । न खांशभूतजीवद्वारा, किं तु साक्षात्पूर्णेन खेनैव । विहारस्वाच्छन्द्यादिति यदुक्तं तद्वोध्यते 'देवो नः' इति देवशब्देन । तिर्यग्भवनस्यातिनि. हनित्वाहुर्घटत्वाञ्च वट्यते प्राथमिकैस्त्रिभिरवतारैः । ‘ब्रह्म दाशा' इति श्रुतिर्विस्मयते भगवतो दाशसामानाधिकरण्यं वीक्ष्य । तिष्ठतु दाशैः शरीरशरीरिभावादिना तान्त्रिकं सा- मानाधिकरण्यं मुख्यममुख्यं वेति वितर्कितं वादिभिः । तैर्दा- शैर्जालगुह्यमाणस्वतोऽपि निहीनो मत्स्य एव भवानि, तयो- निना मुख्यमविगीतं सामानाधिकरण्यं लभेयेति प्रथम मत्स्यो भवतीव भगवान् । दाशानां मत्स्यमांससततसंसर्गेण दुर्ग: न्यवत्वं तनिहीनत्वे हेतुः। संसर्गेण तनिहीनतापादकमत्स्य एव भविताहमिति भगवदिच्छा प्रादुर्भवति । 'ब्रह्म कितवाः' इति श्रुतिः स्वयं मुख्यकितवोऽपि भवतीति 'गोपत्रीणां दशावतारस्तोत्रव्याख्या । ' जयति कितवः कोऽपि कौमारहारी' इत्याचाय॑ज्यते । ब्रह्म दासाः।' दास्यं सर्वप्रकारेण भगवान्सर्वप्राणिनां करो. तीति बहुधा विचित्र प्रदर्श्यते भगवतैव गीतासु । अन्तरव. यवेष्ववस्थायास्मासु स्वपत्सु वैश्वानररूपो भगवान्मुक्तमन्नं पाचयति । बाह्यपाचका लोके भृत्यतया संपाद्यन्तेऽधिकम- धिकं वेतनं प्रदाय । अयमन्तःपाचकः सर्वेषां प्राणिनाम् । ईदृशं स्वयं दास्यमाश्रितं भगवन्तं वीक्ष्य तद्विषये स्वयं दासा भवन्ति तपस्विन इत्युच्यते ' स्वयं दासातपखिनः' इति । एषोऽप्यर्थो वर्णयितुं शक्यः ! सूक्ष्मदृष्टीनां तपखिनां भगव- स्कृतान्तस्यादिव्यापारो दृष्टिगोचरो भवति । तदृष्ट्वा ते तस्य खयं दासा भवन्ति । समुद्रशायिना भगवता खवासस्थानरू- पसन्निकर्षवन्तं जलधिमधिकरणीकृत्य तत्र प्रथम त्रयोऽवताराः परिजगृहिरे । अतिनिहीनयोनिष्ववतार अधोगमनरूपावता- रस्य काष्ठां निर्वहेत् । अगाधजलधाववतीणोऽतिदुःमाधमवत- रणं निर्वर्तयेवित्युच्येत । प्रत्यवतारमजहद्भूमत्वं निरतिशयवै. भवं च प्रदश्यतेऽस्मिन्स्तोत्रे ।। मेघभूतेन भगवता निरवधिकरुणाभारखिन्नत्वेनावतीर्यंत इति चारु व्यज्यते श्रीमच्छङ्कराचार्यै भगवदवताविषयश्लोके। मत्स्यः कूर्मों वराहो नरहरिणपतिर्वामनो जामदग्न्यः का- .
१६ श्रीमद्वेदान्तदेशिकस्तोत्राणि । कुत्स्थः कंसघाती मनसिजविजयी यश्च कल्कीभविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुमा त एते गुरुतरकरुणाभारखिन्नाशयास्ते ॥' इति श्लोके यश्च कल्कीभविष्यन्' इत्येतत् 'आविन्या दशया भवन * कल्कवाहनदशाकल्किन्' इति च तदवतरणवर्णनस्य सुसहशमिव । 'किं पात्रमन्नदाने क्षुधित कोऽर्यो भगवदव- तारः। को भगवान्महेशः शंकरनारायणात्मैकः । इति शंकराचार्याः प्रश्नोत्तरमालिकायाम् । 'अन्नस्य क्षुधितं पात्रम्।' आतार्तिपरिहरणेनैव करुणैकजीवितो भगवानात्मानं धारयेत् । आर्तिपरिहरणेनैव तत्करुणाया लब्धावकाशता । सदा क्षुधिता बुभुक्षिता भगवद्दया । घस्मरत्वमपि तस्या भवति । जगदुरितघस्मर दयाशिशरिता भगवदाशयाः । प्र. णमदपराधास्तयायाः प्रियमनपानम् । आर्तिपरिहरणं च तस्याः प्राणनम् । एतब्यज्यत इव श्रीशंकराचार्यैः क्षुधितस्या- अपावत्ववर्णनानन्तरं भगवदवतारस्याय॑त्वं निर्धारयद्भिः । यथा क्षुधिता अन्नं याचन्ते तथार्तजनेभ्योऽर्चा याचते भग- वानस्मल्लोकमागत्य । अञ्जलिं याचमानः कश्चित्खलु सः । 'अहमन्नमहमन्नम्' इति सततगीयमानमुक्ततया सङ्गीत- नमात्र क्रियते परमपदे । शाब्दस्यानस्यैव लाभस्तब। न को- दशावतारस्तोत्रव्याख्या । । ऽप्यपराधी तत्र । नाप्यातः । आयपराधात्यन्ताभाव क्षमादया- दिजीवितेन भगवता कथमात्मधारणं लभ्येत । तदला मेन क्षुधा- तो भगवानार्तिभूयिष्ठामपराधभूयिष्ठां बनवती भुवमवत- रति । ताभ्यां संपन्नानाड्यानस्मांश्च याचते तदन्नं क्षुन्निवृ- तये। तं चाभ्यागतं वयं सम्यगाराधयितुमर्हामस्तन्निकटेs- स्मदार्तिनिवेदनेन 'क्षमस्व' इत्युक्तिपूर्वकमस्मदपराधसहस्रो- पहरणेन च ॥ अवतरन्तं च देवं देवी छायेवानुगच्छति । यथा सूर्यस्य देवी छाया, तथा 'सूर्यस्यापि भवेत्सूर्यः' इत्युक्तसूर्यसूर्यस्य श्रीः छाया । यथा स नटो भवति तथा सा नटी भवति यथा सर्वगतो विष्णुस्तथा चेयम् । यथा स सर्वयोनिषु ग- च्छति तथेयमपि । तदपि व्यज्यत इव सर्वगतशब्देन । विभोर्विष्णोभिवपरिग्रहस्तया सहैव । यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथास्य रसदा स्यादैकरस्यात्तथा।' ब्रह्मचर्याश्रमस्थस्यापरिग्रहत्वनिर्ब- न्धोऽपरिहार्यः । तथापि तां न जहाति । यत्तदाश्रमलिङ्गं कृष्णाजिनं तेनैव विद्युयोतवती वक्षःस्थलगतां तां संघृणोति। सर्वलोकस्य पश्यतो वामनेनाणीयसा विविक्रमभवनं ना . तम् । ब्रह्मचारिणः सपत्नीकत्वम् , निरतिशयदीप्तिमत्यावे.
श्रीमद्देदान्तदेशिकस्तोत्राणि । जोराशेर्भगवत्प्रभाया वक्षःस्थलविद्योतमानाया अजिनमात्रेण वैरोचनसदसि संवरणं चात्यन्तदुर्घटम् । दम्पती दिदृक्ष्ये. यातां भक्तजनैः । तदृष्टिगोचरीभवनं मुख्य प्रयोजनम् । इतरदसुरनिरसनादिकं तदानुषङ्गिकं चशब्दसंगृहीतम् । 'श्रियं लोके देवजुष्टामुदाराम्' इति श्रुतिश्चान्वर्थनीया । यथा वै- कुण्ठे परे लोके श्रिया सार्धममेयात्मास्ते , तथास्मिन्नवरे मानुषे लोके देव्या सह मेयात्मामेयात्मा चावतरति । करुणा खल्ववतारे निमित्तम् । अवतारकार्य कृत्स्नं करुणाकार्यम् । तञ्च करुणामिव रूपिणी तां विना न घटेत ॥ । अस्मिंस्तोले आचार्यैर्मुख्यतया प्रतिपिपादयिषितं किमिति चेदवतारभूमिकानामपि ब्रह्मवद्वृहत्त्वम् । सशैलवनकानना- वस्य अगतो ब्रह्मशरीरत्वेन तच्छरीरैकदेशत्वेन च प्रदर्शनं ब्रह्मणो बृहत्त्वमुपपादयेत् । यदि ब्रह्मणो भूमिकानामेव वा- अनसातीतं बृहत्त्वमध्यक्ष्येत किमु वाच्यं भूनस्तस्य निरति- शयवृहत्त्वे । ब्रह्मलक्षणवर्णनशब्दैनिरतिशयबृहत्त्वमुपलक्ष्य- मिति भाषितम् । यदा लक्ष्यं ब्रह्मैवावतरति तेनापि निरतिशयबृहत्त्वोपलक्षणं न्याय्यम् । कत्लस जगत- खदाधेयत्वतच्छषत्वतानियाम्यत्वानां सकलमनुजनयनविष- यसया प्रदर्शनेन विश्वस्य शास्त्रादवगतं ब्रह्मशरीरत्वम- दशावतारस्तोत्रव्याख्या । Ow परोक्षितं स्यात् । कारणत्वविशिष्टं तदुपलक्षितं वा ब्रह्म जिज्ञास्यत्वेन विहितम् 'तद्विजिज्ञासख' इति । तादृश- स्य ब्रह्मणो ध्येयत्वं विहितम् 'कारणं तु ध्येयः' इति । उभयविभूतिविशिष्टं ब्रह्मैव फलदशायामनुभाव्यम् । 'सर्व खल्विदं ब्रह्म तज्जलान्' इति शाण्डिल्यश्रुतिः कृत्स्नस्य जगतो ब्रह्मात्मकतयानुसन्धानमुपदिशति तज्जला- निति हेतूपन्यासपूर्वकम् । दहरविद्या यद्यप्यन्तःकलेबरं सुसूक्ष्मं दहराकाशमन्वेष्टव्यत्वेन विदधाति, · उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते' 'यावान्वा अयमाकाशस्ता- वानेषोऽन्तर्हृदय आकाशः' इत्यादिना तस्य निरतिशयबृहस्व- मपि कथयति । श्रीशंकराचार्याश्च तदधिकरणभाष्ये 'अस्मि- न्कामाः समाहिताः, एष आत्मापहतपाप्मा' इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य 'अथ य इहा- त्मानमनुविद्य ब्रजन्येतांश्च सत्यान्कामान्' इति समुच्चयार्थेन चशब्देनात्मानं कामाधारमाश्रितांश्च कामान्विज्ञयान्वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि हृदयपुण्ड. रीकाधिष्टानः सहैवान्तस्थैः समाहितैः पृथिव्यादिभिः स. स्थैश्च कामैर्विज्ञेय उक्त इति गम्यत इत्यभाषिषत । कृत्स्नवि- शिष्टब्रह्मण उपासनं तेषां संमतम् । विशेषणत्वञ्चाधेयत्वादि- दहर एवाकाशो २० श्रीमदेदान्तदेशिकस्तोत्राणि । नेति स्पष्टमुक्तम् । भूमविद्या सर्वस्य जगतस्तदुत्पन्नत्वं श्राव. यति । सद्विद्या चास्य जगतः सन्मूलत्वसदायतनत्वसत्पति- ठत्वप्रदर्शनेन सदात्मकत्वं निगमयति । तदेव जम्मादिहेतुत्वं तज्जलानिति सङ्ग्रहेण सूच्यते शाण्डिल्यश्रुत्या । आत्मनः सर्वसुखहेतुतयान्वेष्टव्यतां पत्नथा उपदिशन्याज्ञवल्क्यः 'इदं सर्व यदयमात्मा' इत्यात्मनः सर्वात्मकतां बोधयति । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति लक्षितस्य ब्रह्मण आनन्त्यरूपनिरति- शयबृहत्त्वोपादनाय सर्वस्य तत्संभूतत्वं दर्शयति 'आत्मन आकाशः संभूतः' इत्यादिना । य आकाशस्तार्किकैर्नित्यत्वेन निर्णीतः सोऽप्याकाश एतस्मादात्मनः संभूत इति प्रथम प्रदर्श्यते । यद्यपि तार्किका ईश्वरम् , तस्य निमित्तकारणत्वं च मन्वते, न ते ब्रह्म निरतिशयबृहत्स्वेन मन्वते, जगतस्त- दुपादेयत्वानभ्युपगमात् , उपादानत्वानभ्युपगमे वस्तुपरि. च्छेदस्यापरिहार्यत्वात् , तत्परिच्छेदे सत्यानन्त्यरूपानरतिश- बबृहत्त्वस्यासिद्धेः॥ इदमेव चारु व्यनक्ति श्रुति: 'नावेदविन्मनुते तं बृहन्तम्' इति । अवेदवित्तार्किकादिर्यद्यपि ब्रह्म मनुते, तद्गृहन्न मनुत इति तदर्थः । वैश्वानरविद्या स्पष्टमेव स्वलोकवाताम्बरादेभंग. बदवयवत्वं ब्रवीति । मुण्डके च बुभ्वाद्यायतनत्वं वर्ण्यते ।
दशावतारस्तोत्रव्याख्या। २१ 'जगत्सर्व शरीरं ते' इति प्राचेतसगुरोर्ब्रह्मणो वचनं वर्ण्यते प्राचेतसेन रामाभिधानं हरिं प्रति । 'तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ इति भगवतो विश्वरूपे कृत्स्नं विश्वमर्जुनो ददर्श । शिशोः कृष्णस्य वक्त्रे विश्वं ददर्श यशोदा । सार्वात्म्यविशिष्टमग- वदैकात्म्यप्रत्ययसारैर्मुमुक्षुभिर्भवितव्यम् । तथैव तैः सदा अनु- सन्धान कार्यम् । 'ऐकात्म्यप्रत्ययसारं शान्तिसमृद्धममृतान- न्दम्' इति माण्डूक्योपनिषद्विशिष्टैकात्म्यानुभवेनैकरस्यं बो- धयति । इदमेव विशिष्टाद्वैतदर्शनं भवति । 'अशेषचिद- चित्प्रकारं ब्रह्मैकमेव तत्त्वम्' इति वदन्त आचार्या एतदेव तत्त्वदर्शनं विदधति । पृथक्त्वेन तु यज्ज्ञानं नानाभावा- पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ इति पृथक्त्वज्ञानं भगवता राजसत्वेन जगहें । ' सर्वभूतेषु बेनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ इति सात्त्विकज्ञानं लक्ष्यते भगवता । वदेव सम्यग्दर्शनं स्यादिति भगवन्मतम् । तञ्च जगद्विशिष्ट- ब्रह्मण एकत्वेन ऐकात्म्यप्रत्ययसारतयानुभव: स्यात् । एतस्य श्लोकस्यैवमर्थवर्णनं शक्यम् । 'ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् ॥'
२२ श्रीमदेदान्तदेशिकस्तोत्राणि । इति गीताश्लोकभाष्ये 'बहुधा पृथक्त्वेन जगदाकारेण विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति- भगवान्बासुदेव एव नामरूपविभागानोतिसूक्ष्मचिदचि- द्वस्तुशरीरः सन् सत्यसंकल्पो विविधविभक्तनामरूपस्थूलचि- दचिवस्तुशरीरः स्यामिति संकल्प्य स एक एव देवतिर्यानु- व्यस्थावरान्तविचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसन्दधानाश्च मामुपासते' इति भाषितम् । तादृशसर्वप्रकारविशिष्टैकब्रह्म- णोऽनुसन्धाने वासुदेवमन्त्रस्य तात्पर्यमिति तात्पर्यचन्द्रिकायां प्रदर्शितम् । अत एव भगवता 'वासुदेवः सर्वमिति प्रपद्यते' इत्युक्तमिव । सर्वविशिष्टेकविशेष्यब्रह्मज्ञानं सम्यग्दर्शनम् । तादृशज्ञानेनैकरसता, शान्तिश्च सम्यक्सिद्धयेतामिति शा- ण्डिल्यश्रुतिः स्पष्टं ब्रवीति । सर्वभूतानां ब्रह्मात्मकत्वेनानु- सन्धानं सर्वत्र समदर्शनमावहति, मिवामित्रकथां कथाशे- पतां नयंतीयशेषसाधूपमानभूतप्रह्लादस्यानुभवः । जगतो ब्रह्मशरीरत्वं श्रुतिः श्राक्यतीति न केऽपि विप्रतिपद्यन्ते । शरीरत्वं चान्तः स्थितेन ब्रह्मणा नियाम्यत्वरूपमिति यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयति यस्य पृथिवी शरी- रम्' इत्याचन्तयामिब्राह्मणे स्पष्टं श्राव्यते । परमात्मनियाम्यं कृत्स्नं जगदिति सर्वेऽभ्युपगच्छन्ति । शरीरप्रतिसंबन्धी . 3 दशावतारस्तोत्रव्याख्यौं। २३ ब्रूमः, कि आत्मशब्दो नियन्तचेतनवाची। शरीरशरीरिभावेन तयोः सामानाधिकरण्यं समर्थ्यते न्यायामृततरङ्गिण्याम् । कुलस्व जगतोऽस्माकं च स्वात्मकत्वं निरस्य भगवदात्मकत्वेन तद- पृथक्त्वेन तदद्वैततया अद्वैतानुभवोऽस्माभिः सततमभ्यस- नीयः । आरम्भणाधिकरणोतानन्यत्वं ब्रह्मव्यतिरेकेणाभाव इति श्रीशाङ्करभाष्ये। 'अनन्यत्वमिति नाभेदं तु भेदं व्यासेधामः' इति तदधिकरणभामत्यभेदेऽरुचिं कण्ठरवेण ब्रवीति । 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते' इति श्लोकभाष्ये ‘पर्युपासते सर्वकल्याणगुणा- न्वितं सर्वविभूतियुक्तं मां परित उपासते अन्यूनमुपासते' इति भाषितम् । 'अन्यूनमित्यखण्डितगुणविभूतिकमित्यर्थः' इति चन्द्रिका । इममखण्डार्थमखण्डानुभवं च वयं रोचा- महे। विशिष्टस्याद्वैतेनानुभवमभ्यसिषिषामो न विशेष्यमात्रस्य निर्विशेषाद्वैतम् 'एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति' इति कठवल्ली धर्माणां विशेषणानां ब्रह्मणः पृथग्दर्शनमनर्थ- हेतुतया निन्दति । विश्वस्य भगवच्छरीरत्वं तदन्तस्थत्वं च प्रत्यक्षं निदर्शितमर्जुनस्य निजैश्वररूपदर्शनेन भगवता । य- अपि न तावन्मात्रमैश्वररूपप्रदर्शनमवताररूपेषु सर्वेषु, यथा विश्वरूपे, अम्त्येव तत्रापि ब्रह्मत्वप्रदर्शन नियाम्यजगद्विशि- , .
श्रीमद्वेदान्तदेशिकस्तोत्राणि । ष्टप्रदानुभावनं चेत्यस्मिंस्तोत्रे आचार्यैः सम्यक्प्रदर्यत इति प्रदर्शयिष्यते । तस्वप्रदर्शनमवतारकृत्यम् । जगनियन्तु जग- द्विशिष्टं निरतिशयबृहद्ब्रह्मकमेव तत्त्वमित्यवतारैः सकललो- कसाक्षिकं प्रदर्श्यते ॥ यत्किंचिद्विशेषमात्रविशिष्टानुभवः खण्डानुभवः स्यात् । सर्वविशिष्टस्य कथं खण्डत्वम् । सर्वविशेषविशिष्टं कथमनु- भवपथं गच्छेदिति चेत् सर्वविशेषाणां ब्रह्मकार्यत्वशेष. त्वाद्यनुगतैकाकारेणेति ब्रूमः । एवमेवैकब्रह्मज्ञानेन सर्ववि- ज्ञानसमर्थनं श्रुत्या । सद्विद्याप्रतिपाद्यस्य कारणस्य यथाक- थांचद्विशिष्टत्वमेव सर्वैरभ्युपगम्यत इति चार प्रदर्श्यते आचार्यैः 'मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो वेषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यव तत्तद्विशिष्टे । अपा- धान्यात्तथा न: प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन्स्थू- लसूक्ष्मान्वय इति जगतोऽनन्यभावोपपत्तिः ॥' इति श्लोके विशिष्टानुभव आवर्तनीयो निरन्तरमन्यूनपूर्णोपासनलाभाय । प्राप्यानुभवो विशिष्टः । 'यदेवेह तदमुत्र यदमुत्र तदन्विह इति श्रीतप्रदर्शनमनुसृत्य प्राप्यानुभवो यथाशक्त्यत्रैवाभ्यसि- तुमुचितः । द्वितीयादर्शनं वदन्त्री श्रुति: 'न ततोऽन्यद्विभ. कमस्ति यत्पश्येत्' इति द्वितीयविभक्तपदार्थस्याभावं नि. ।
दशावतारस्तोत्रव्याख्या। फैधगम्यत्वेन बोधयति ॥ . सूत्रकारश्च कार्यस्य कारणानन्यत्वं सूत्रयति, नैक्यम् । फलदायां चाविभागमेव प्रतिजानीते 'अविभागेन दृष्टत्वात्' इति, नैक्यम् । 'तनिष्ठस्य मोक्षोपदेशात्' इति सन्निष्ठां मोक्षोपायतया सूत्रयति । स्वमात्रविश्रान्तिरूपस्वनिष्ठता न मोक्षप्रापिका । कृत्स्नस्य चिदचित्प्रपञ्चस्य तदन्तर्गतस्य स्व. स्थापि ब्रह्ममयता भावनीया अभ्यसनीया सात्मीकार्या च । सादृशानुभवः प्रमा । पृथक्त्वानुभवो भ्रमः । प्रपन्नश्च ब्रह्म मयतां प्रपन्नः स्यात् । 'त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः' इति वदन्त आचार्या एतत्सूचयन्तीव । शास्त्रेणैतदात्म्यमिदं सर्वमित्युक्ते स्वव्यतिरिक्तस्य सर्वस्य ब्रह्मापृथक्त्वं झटित्य- भ्युपगच्छामः तदपृथक्त्वस्यास्मत्प्रत्यक्षानुभवाविरुद्धत्वात् । अस्माकं तदपृथक्त्वे न तूर्ण विश्वसिमः, पृथक्त्वाभिमान- स्यास्माकमत्यन्तदृढत्वात् । शाखवासनया सुदृढश्रद्धया दृढा- भ्यासेन च स्वपृथक्त्वबुद्धिय॑पोह्येत । अत एव श्रुतिः प्रथम सर्वस्येदम ऐतदात्म्यरूपं सदात्मकत्वमुपदिश्यान्ते 'तत्त्वमसि' इति संबोध्यशिष्यस्यापि सदात्मकत्वं बोधयति । स्वपर्यन्तमैतदात्म्यानुभवे कृत्स्नप्रपञ्चस्य तदात्मकता अनुभवा- रूढा भवेत् । एतत्क्रमेणैव भगवान् धर्मराजः 'सकलमिदं .२६ श्रीमदेदान्तदेशिकस्तोत्राणि । वासुदेवः' इत्युक्त्वानन्तरम् ' अहं च वासुदेवः' इत्याशङ्का- निरासकचशब्दपूर्वकमात्मनो वासुदेवात्मकत्वं वदति । नाहं मत्प्रकारो मनिष्ठो मदात्मकः । अहमित्युक्ते मत्पकारं ब्रह्मे- त्येव शास्त्रीयो बोधोऽनुभवश्च न्याय्यः । चिन्तितनिभिषित- सर्वचेष्टितानि तेनैव निर्वय॑न्त इति सदा भाव्यम् । 'यस्थ नाहंकतो भावः' इति गीतावचनमनुसृत्याहंकृतत्वबुद्धिं नि- रस्थ ब्रह्मकृतत्वबुद्धिः परिचेया । यथानेककोट्यवयवविशिष्टे- कदेहिन एकत्वेनानुभवः सुलभः सहजश्च तथा विश्वदेहिन एकत्वानुभवं परिचिनुयाम । 'दृष्टिं ज्ञानमयीं कृत्वा पश्ये- ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी।' इति श्रीशंकराचार्याः॥ . 'ब्रह्मस्वभावो हि प्रपना, न प्रपश्चस्वभावं ब्रह्म ।' प्र- पञ्चगतजाड्यपरिमितत्वदुःखरूपत्वादीनि न ब्रह्माणि । ब्रह्म- स्वभावभूतानुकूल्यानन्दत्वे प्रपञ्चस्य निजं वास्तवं रूपम् । तब्यक्तीकरणे सर्वस्याप्यानन्दमयत्वेनैकरस्य भवेत् । तदयं सर्वदास्माभिर्विशिष्टेकब्रह्मानुभवोऽभ्यसनीयः । 'सर्वस्याप्या- नुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य व्यक्तिं तन्मुक्ति- काले भजति' इत्याचार्याः। अवताराणां भूमिकात्वेन रूपणे रखे तत्परिग्रह उचितः । श्रीरङ्गे दशावतारमूर्तीः पश्यामः ।
दशावतारस्तोत्रव्याख्या। २७ तदुच्यते 'निवर्तयन्भूमिका रङ्गे धामनि' इति । नटस्प रचं कुलधनं यथा तस्य नाट्यविद्या कुलविधेति गणदासः । नटस्य रामस्य कुलधनं स्याद्रङ्गम् । अत एव 'रामादीनां कुलधनमिदं रङ्गतां याति रङ्गम्' इति ॥ हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्वं कदा नु भविता विषयो ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारवृक्षस्तृ- जैश्च सुलभ समयं व्यतीतः ॥' इति श्रीवत्साडमिश्राः कोस- लजनपदस्य कृत्स्नतृणवृक्षपशुपक्षिमनुष्यादिप्राणिसामान्यमो- क्षेण समयातीतत्वं शोचन्ति | कृष्णावतारे राससमये यमु- नापुलिनसिकतभावालाभं च शोचन्ति । ' हा जन्म तासु सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोप- कन्याः । यास्तावकीनपदपतिजुषोऽजुषन्त निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥' इति । इन्दोः शीतरश्मित्वं विरहि- जनेष्वयथार्थम्, यस्मादिन्दुस्तेषु हिमगमर्मयूखैरामिं विसृजती- त्युक्त्वानुपदमेव ' शक्यमरविन्दसुरभिः कणवाही मालिनीत- रत्राणाम् । अङ्गरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥' इति शैत्यसौरभ्यादियुक्तपवनस्यानङ्गतापशमनत्वमवर्णयन्महाकविः। 'पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥' इति श्लोकस्य शिवशोकविना- २८ श्रीमद्वेदान्तदेशिकस्तोत्राणि । शनशब्दयोः पञ्चतापादनेन दुःखनिवृत्तिः खल्वर्थः । वन. सारीकृतकुसुमशरविद्धानां कामानितप्तानां पञ्चता सुखाय भवेत् । मूर्छावस्थाया उपकारकत्वं वर्ण्यते शोकव्यथिता- नाम् ‘मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ।' इति । मलयपवनादेः कामामिसंधुक्षकत्वं कविसमयसिद्धम् । मदनताप: शीतवा- तेन न शाम्येत् । अनेनैवाभिप्रायेण 'अङ्गमनङ्गतप्तम्' इति तुल्यं शब्दं प्रयुञ्जानाः 'न यमुनासलिलकणवाहिशीतलपव- नेन गोपिका मदनतापशान्तिमीयुः । किं तु यमुनासिकत- स्थासु कृष्णपदपटिषु निजमतं विन्यस्य तापशान्तिीषुः' इत्यूचुः। यदुक्तं कविना 'द्वारेऽस्य पाण्डुसिकते पदपङ्किई- श्यतेऽमिनवा ।' इति तस्मिन्प्रकरणे, तदपि स्वीकृतं श्रीव- साकमित्रैः । यावान्बहुमानो दुध्यन्तस्य शकुन्तलापदपतौ वावांस्तदधिको व्यामोहो गोपिकानां कृष्णपदपतिषु । इत्थं भिन्नकालत्वं शोचन्ति ते । श्रीवकुलभूषणा अतीतानवतारा- ननुभवितुं तीब्रोत्कण्ठां प्रदर्शयन्ति वटतलशयितशिशुः सप्तलोकी निगीर्येत्याचासु गाथासु । शिशुत्वादिविशिष्टं भगवन्तमनुबुभूषोर्वकुलभूषणस्य इन्दुं करस्थं काद्भिः शिशुभिस्तौल्यं संपद्यत इवेति चारु व्यञ्जयन्ति श्री- , दशावतारस्तोत्रव्याख्या। २९ . मद्वरवरमुनयो वकुलभूषणान्तादिगाथाशतके । 'ब्रह्मन्का. लान्तरकृतं तत्कालीनं कथं भवेत् । यत्कौमारे हरिकृतं जगुः पौगण्डकेऽभकाः ।' इति परीक्षिता पृष्ठः श्रीशुकोऽनन्तस्य भगवत: कालोपाध्यतीतत्वं सदा वर्तमानस्वभावत्वं साक्षादप- रोक्षत्वं च स्मरंस्तदनुभवे मनो विसस्मार श्रोतारं परीक्षित कथकमात्मानं च । कृच्छाच्छनैर्लब्धबाहिशिः प्रत्याह । ‘सतां ह्ययं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य स्त्रिया विटानामिव साधुवार्ता ।। इति । स्त्रीचित्तानां स्त्रीमयानां विटानां प्रियस्त्रीविषयस्मरण- वार्तादिना वृत्तानुभवोऽपि वर्तमान इव प्रतीयेत । तथा ब्रह्मचित्तानां ब्रह्ममयानां ब्रह्मविदां वृत्तान्यपि तदवताररू. पाणि वर्तमानवद्नुभूयेरन् । दूरस्थितकामिनीविषयपुरावृत्तस्य वर्तमानत्वानुभवो नियतं श्रमात्मकः, तद्वृत्तान्तस्य वर्तमान- त्वाभावात् । भगवतस्तु सदा वर्तमानत्वात्तद्नुभवो नावश्यं भ्रान्ति: स्यात् । अवताररूपाणां भावनाजन्यसंस्काररूपेण शिल्पिना चिन्तनारूपचित्रभित्तौ आलेखनीयांवतारप्रसादेन सम्यग्लेखनं सुशकमित्याचार्याः प्रदर्शयन्ति सङ्कल्पसूर्यो दयसप्तमाके । ' विदुषश्चिन्तनां शक्त्या चिवभिात्ति वितन्वता । शुद्धाशुद्धविभागाई विश्वं विलिखितं मया ॥'
३० श्रीमद्वेदान्तदेशिकस्तोत्राणि । । इति संस्कारः । 'परिचयमहिमानं प्राप्य सञ्जातभूमा दिवि. पदनुविधेयो दिव्यसंस्कारशिल्पी। व्यलिखदनघरूपं विश्व- मेतद्यथावञ्चिरगतमपि दृश्यं चिन्तनाचित्रभित्तौ ॥' इति व्यवसायः संस्कारस्यालेखनकौशलमभिष्टौति । चिरगतस्या- व्यवतारस्य वर्तमानत्वप्रतीतिप्रकारो वर्ण्यतेऽनन्तरश्लोके तेन 'प्रमाणप्रत्ययादन कल्पितान्यविकल्पतः । अपि भूतानि भावीनि भवन्तीव भवन्ति नः ॥' इति । भावनयैव चित्तभित्तो लि. ख्यन्तेऽवताररूपाणि । अतीतान्यवताररूपाण्यतीतविषयिण्या भावनया लिख्यन्ते । भविष्यत्कल्किरूपं वागामिविषयिण्या भावनयेति विशेषः । भगवदनुग्रहेण सन्तोषेण आन्तरमा. वनामात्रेण विरच्यते इदमवताररूपशिल्पम् । यथाह विवे- क:- ‘नैतद्वाखैस्तूलिकावर्णकाद्यैः क्लप्तं चित्रं किं तु सन्तोषलिप्ताम् । नानाकारां भावनामेव शिल्पी शिल्पव्या. जानूनमनोजगार ॥' इति । 'यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा बृणुते तनूं स्वाम्' इति श्रुतिमनुसृत्य भगवदवतार. वनुर्भगवद्नुग्रहेणैव चिन्तायां लिख्येत । 'हृदि मुग्धशिख- न्डमण्डनो लिखितः केन ममैष शिल्पिना ॥' इति प्रश्न- स्योत्तरं दीयते आचार्यैः सङ्कल्पसूर्योदये अखण्डब्रह्माण्ड प्रथमवरशिल्पी स भगवान्स्वयं पद्माजानियलिखदिह चित्रं दशावतारस्तोत्रव्याख्या। my . स्वविषयम्' इति । एतत्स्तोत्रश्लोकाः प्रायेण तत्सप्तमाके दृश्यन्ते । चेतःस्थितिमण्टपे संस्कारशिल्पिना लिखितानि भावनामयावतारशिल्पानि विवेकः सुमतिश्च पश्यतो व्यव- सायेन सह । भावनया अस्माकं चित्तभित्तौ पुरावृत्तावता. ररूपान् लेखयितुं यथानुभवमुल्लेखनं क्रियते आचार्यैः । नि. वर्यमाना भूमिका भावनाभूमिकाः । 'भजास मनसि नित्यं भूमिकां भावनाख्याम्' इत्याचार्याः पादुकां प्रत्यन्तिमपद्धतौ। किंचिदूनसहस्रश्लोकर्मुहूर्तकालं निबिडं निपुणं भाविता पा- दुका भावुकाचार्यमनास स्वभूमिकामातनोतीत्याचार्यानुभवः । तादृशोऽनुभवोऽम्माभिरपि संपाद्येत, यदि वयमाचार्य- श्लोकान्प्रत्यहं जल्पन्तस्तदर्थ च भावयेम । वितानवतारानस्माननुभावयितुमेवाचार्यप्रयत्नः । शुभमा- तनोतु' इति प्रार्थना 'शुभविग्रहमस्माकमाविष्कारयतु इत्यप्याभिप्रेति । कथमध्यक्षणमात्रेण ब्रह्मानन्दोऽस्मदानन्दो भवेत् ? एकेनानुभूयमानस्य दर्शनेन कथं द्रष्टुलदानन्दः १ ब्रह्मानन्दोऽन्यूनातिरिक्तं नित्यमुक्तलभ्यत इति वयमभ्युपग. च्छामः । जीवब्रह्मणोरानन्दस्य साम्ये तयोरप्यैक्यं नियतमि- त्याक्षिप्येत । शारीरकशास्त्रार्थदीपिकायां श्रीमद्रारामानुज- मुनिभिरोनन्दस्य स्वकीयत्वमनपेक्षितमिति वर्णयन्ति । रसस स्वभा- . ..
३२ श्रीमदेदान्तदेशिकस्तोत्राणि । खभावोऽयम्, यद्भावुकानामपि तुल्यरसतेति । रसरूपस्य भगवतो रसस्यापरोक्षणे तत्तुल्यो रसोऽनुभूयेत तद्नुपहेण तत्प्रियतमैनित्यमुक्तैः ॥ यद्यत्पश्यामस्तत्र तत्र परमविशेष्यभूतं परमप्राणभूतं सत्- सत्यात्मादिशब्दरुपनिषद्भिद्घोषितं ब्रह्म प्राधान्येन वयम- ध्यक्षयितुमहस्तित्तजडाजडं चाप्राधान्येन । बोधे विशेष्यत्वं ब्रह्मणः । जडसरं समाप्यान्ते 'वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्मा. धवीं दोधवीति । भूर्यद्वा बोभवीति स्थिरचरमखिलं तच्च ताहक्च सर्व स्वायत्ताशेषसत्तास्थितियमनपरब्रह्मलीलोमिच- क्रम् ॥' इत्यद्भुतमुल्लिखितो जगद्विशिष्टब्रह्मानुभवो आचार्यैः । वेदान्ताचार्यों वृथा जडपदार्थस्वरूपं शोधयामास ; नेदम- ध्यात्मशास्त्रमिति मा मथाः । अस्मदर्शनरीत्यानुभवे सर्व ज. डम् , भगवतः सर्वाश्चर्यमयत्वमुपपाद्य तस्मिन्भक्तिं वर्धयेत् । तदर्थमेव भगवता भक्तियोगषट्के भूयो विभूतयः प्रादर्शि- षत। 'गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् । वीक्ष्य- माणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥' इति सद्विद्यायाः प्रयोजनं परिदृश्यमानसर्वजडाजडपदार्थस्य ब्रह्मप्रतीविजनक. त्वमिति सुन्दरं प्रदर्शयन्ति शिंकराचार्याः । 'यथा एकेन दशावतारस्तोत्रव्याख्या। ३३ ३ ३ मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात्' इत्युपक्रम्य ऐतदात्म्यमिदं सर्वम् ' इत्युपसंहरतः पितुरेषोऽभिप्रायः । ' यथा मृन्मयपदार्थेषु मृदमेव पश्यसि, लोहमयपदार्थेषु लोहमेव पश्यसि, कायसपदार्थेषु कृष्णाय एव पश्यास, तस्य तस्योपादानत्वात् । तथा सर्वस्मिन्मृन्मये लोहमये कार्णायसे इतरत च ब्रह्म पश्य, तस्य सर्वोपादा- नत्वात्तदात्मकत्वात्सर्वस्य । स्वस्मिन्नपि ब्रह्म पश्य, बवापि तदात्मकत्वात् । यावत्स्वस्मिन्विशेषे नैतदात्म्यस्योपसंहार- स्तावन्न तस्यानुभवारूढता । 'अखिलजगत्स्वामिन्नस्मत्स्वा. मिन्' इति गद्ये अखिलजगत्स्वामी स्यान्न स्वस्वामी , स्वस्वातन्त्र्यस्यानादिदृढवासनामूलत्वात् । उपादानभूतब्रह्मप्र- तीतिः सर्वैः कार्यपदार्थैरुत्पाद्या । विशेष्यमात्रस्य विवर्ततयो- पादानत्वमद्वैते। विशिष्टस्य विशेषणगतपरिणामद्वारोपादानत्व- मस्मन्मते । यद्यपि विशिष्टदर्शनं वयं सर्वत्राभ्यस्यामः, तथापि न ब्रह्ममयत्वप्रतीतिहानिः, तस्यैव प्राधान्येन प्रचुरत्वात्। अ- प्रतीकदर्शनं चेदम् । प्रपश्चस्य निष्प्रपञ्चीकरणमद्वैते । तस्यापि ब्रह्मप्रचुरतानुभवो विशिष्टाद्वैते | सर्वस्य ब्रह्मात्मकत्वरूपस- त्येन शेपे प्रह्लादः यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥' इति मृतपुरो- . 3 श्रीमद्वेदान्तदेशिकस्तोत्राणि । हितान् जीवयिष्यन् । विशिष्टानुभवेऽपि विशेषणभूतस्य स्वस्य प्रपञ्चस्य च विस्मरणमपि प्रकाश्यते श्रीपराशरण प्रह्ला- दानुभववर्णने ! 'एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवापायं मेने चात्मानमच्युतम् ॥ विसस्मार तदा- स्मानं नान्यत्किंचिदजानत । अहमेवाव्ययो नित्यः परमा- त्मेत्यचिन्तयत् ॥' इति । समाधेव्युत्थितश्च दृष्ट्वापि स जगद्भूयो गगनाधुपलक्षितम् । प्रह्लादोऽस्मीति सस्मार पुन- रात्मानमात्मना ॥' इति प्रथमं प्रपञ्चमनन्तरमात्मानं च विशेषणतया सस्मार । पूर्णानुभवमग्नदशायां विशेषणस्य विस्मरणं गुणायैव भवेत् । ब्रह्माधीनसत्ताकस्य स्वस्य विस्म- रणमात्रं नात्यन्तमसत्तेति वयम् । अनुभूयमानानन्तब्रह्मेतर- स्यात्यन्तं बाधितत्वमित्यद्वैते । विशेषणानि न पृथक् सन्ति, न स्वातन्त्र्येण सन्ति । 'परमार्थस्त्वमेवैको नान्योऽस्ति जग- तीतले' इति वयमप्यनुभवामः । 'प्रत्यक्षं चिदचिन्मयं जग. दिदं यस्येत्यनुश्रूयते यश्चानन्यधियामनन्तविभवः प्रत्यक्षताम- नुते। यश्चैको युगपत्सदा स्वत इदं विश्वं दरदृश्यते प्राज्ञं तं प्रतिपनमोक्षणविधौ दक्षं दिक्षेमहि ॥' इति प्रत्यक्षपरिच्छे- दान्ते आचार्या न्यायपरिशुद्धौ। सर्वत्र ब्रह्मापरोक्षणं प्रत्यक्षस्य परिशुद्धिरित्याचार्याणामाशयः । जडवस्तुमावदर्शनं भ्रमात्म- दशावतारस्तोत्रव्याख्या । . यथाकाश- - 'ज्योतींषि विष्णुर्भुवनानि विष्णुः' इत्यादिना सर्वत्र ब्रह्मदर्शनमुपदिश्यते श्रीपराशरेण । स्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूनानि मत्स्थानीत्युपधारय ॥' इति गीताश्लोकभाष्ये 'स. वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय । यथाहुर्वेदविदः · मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फु. रितानि वायोः ॥ विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्वि- चित्राः प्रभवन्ति मायाः । ' इति विष्णोरनन्यसाधारणानि महाश्चर्याणीत्यर्थः। श्रुतिरपि ' एतस्य वा अक्षरस्य प्रशासन गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' 'भीषास्माद्वातः पव- ते । भीषोदेति सूर्यः। भीषास्मादग्निश्वेन्द्रश्च मृत्युर्घावति पञ्चमः ।' इत्यादिका इति भाषितम् । मेघोदयेत्यादिश्लोक: एवं व्याख्यातस्तात्पर्यचन्द्रिकायाम्---- अस्मदायगोचरोपा. दानोपकरणसंप्रदानादिकानां तत्क्षणादेव सकलदिङ्मुखव्या- पिनां धाराधराणामुत्पत्तिः । सकलभुवनाप्लवनलम्पटस्यैव जलनिधेरम्बरालम्बिना तरङ्गाणां वेलातले निवृत्तिः । प्रतिनि- यतकलावृविक्षयशृङ्गोन्नमनादिरूपश्चन्द्रमसो विभागः । अश- वित्तागमानामानियतदिग्विशेषाणां तृणगिरितरुषण्डलण्टाकानां चण्डमारुतादीनां विष्फूर्तयः, प्रशान्तदहनमिहिरमकरादिमह- ३६ ६ श्रीमद्वेदान्तदेशिकस्तोत्राणि। सि प्रावृषि निशीथेऽप्यविदितपूर्वोत्तरक्षणानां क्षणरुचीनां वि- भङ्गः। निरालम्बने विहायसि महीयसो मिहिरमण्डलस्य प्रतिनियतरजनिमासायनसंवत्सरादिदेशिक: सञ्चारः । एवं. विधान्यन्यानि च परिवेषोपरागेन्द्रचापकरकास्तनिताशनिभू- कम्पप्रभञ्जनभ्रमणादयोऽत्यद्भुतप्रकाराः सर्वे सर्वव्यापिन: सर्वशक्तेर्विष्णोरेव विचित्रसृष्टिशक्तिमूला भवितुमर्हन्तीति लोकार्थः' इति । सर्वाश्चर्यमयस्य भगवतोऽद्भुतमयत्वस्येदृशम- द्भुतप्रदर्शनं कुत्र वा पश्येम । आर्षो योऽनुभवः स भाष्यका- रैरन्वभावि । तदेवाचार्याः स्वयमनुभूयास्माननुभावयन्ति । शास्त्रेषु श्रुतं जगच्छरित्वमद्भुतमयत्वं च प्रत्यवतारं भगवता दृश्यं कृतं तदनुग्रहेण । वृत्तानामपि भावनाबलाद्भगवदनुग्र- हेण चेदीनामप्यपरोक्षता भवेदित्यत्र प्रदर्यते आचार्यैरिति. दर्शयिष्यते ॥ देवो नः शुभमातनोतु दशधा निर्वर्तयन्भूमिका रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं विभ्रती यद्धमैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ श्रव्यस्य दृश्यत्वापादनं नाटककृत्यम् । श्रवणविषयभूतौ दम्पती तदवतरणनाटकैदृश्यतामापाद्यते । अदृश्यावपि स्वा- दशावतारस्तोत्रव्याख्या। ३७ वतारैदृश्यौ भवतः । अतीतास्वप्यवतारदशासु तदनुमहसह- कृतयास्मद्भावनयाध्यक्ष्यते ।। देवः । १. रङ्गस्य मध्येऽत्यूर्जिततेजोवदीपोऽवश्यं निवे. शनीयो नटान् शोभयितुम् , रङ्गशालां च दीपयितुम् । नि- शि नाटकं नाट्येत । संसारनिशीमानि नाटकानि प्रवर्त्य- न्ते । दीपापेक्षायां देवं विहाय कोऽन्यो दीपः प्रकाशेत तत्संनिधौ । सहस्ररश्मेरपि सन्तमसपर्व खलु भवति त- निकटे । स्वयंप्रकाशः सो नान्यतः प्रकाश्यतामहति । तद्भासयते सूर्यो न शशाको न पावकः।' तिष्ठतु भासक- त्वम् । स्वयमेव न भासेरंस्तत्र । 'न तत्र सूर्यों भाति न चन्द्रवारकम्' तहूरे आत्मानं यदि भासयेयुस्तदपि तद्भासैव । 'तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' निरतिशयदीप्तियुक्तो द्योतमानोऽनन्याधीनस्वप्रकाशो देवः स्वयं दीपो भवत्यात्मानं सभ्यान रङ्गं च भासयितुम् । २. निष्कलस्य निष्क्रियस्य शान्तस्यास्य कथं नटनसंभवः । क्रीडनशीलत्वादयं नटो भवति । यद्यपि सर्वेश्वरोऽयं देवन- लोलत्वानानाकारभूमिकाः परिगृह्य नटति । ३. अयं विश्वस्य सूत्रम् । अस्मिन्समिदं प्रोतं सूत्रे मणिगणा इव । लोक- त्रयसूबधारोऽप्ययम् । सर्वानप्ययं सततं यन्त्रारूढानिव भ्राम- '३८ श्रीमद्वेदान्तदेशिकस्तोत्राणि । यति, नर्तयति । सूत्रत्वेऽपि सूत्रधारत्वेप्ययं सततनटः । सर्गस्थितिप्रलयविभ्रमनाटिकासु शैलूषवद्विविधवेषपरिग्रहो- यम् । ४. नायं सभ्येभ्यो ग्रहीता नटः । अयं तु दाता देवो नटः । ये स्वनाटकं पश्यन्ति तेषां सर्वस्वमात्मानमपि यच्छति । ५. अन्यः प्राकृतो नट आत्मानं प्रद्योतयेद्वर्ण- धारणादिना । अयं तु तेजसां राशिरूर्जितः । आत्मज्योति- षमावृणोति योगमायया ॥ नःशुभमातनोतु। १. शुभमिति शुभाश्रयविग्रहो गृह्येत, नामैकदेशे नामग्रहणम् । तेनैव खलु तद्विग्रहो लेखनीयोऽस्म- द्धृदि । शुभविग्रहमस्मश्चक्षुर्गोचरतया विस्तारयतु । 'विस्तार- यन् क्रीडसि योगमायाम्' इत्यवतारक्रीडावर्णनं ब्रह्मणा । योग- माया चाश्वर्यभूतशुभविग्रहः । 'तां देवमायामिव दिव्यरू- पिणीम्' इति श्रीरुक्मिणीदिव्यमजलविग्रहविषये । २. शुभ- मिति भगवद्विग्रहापरोक्ष्यजनितानन्दसन्दोहोऽपि सङ्ग्रहीत: स्यात् । अस्माकमानन्दं तनोतु, 'लक्ष्मी तनोतु' इतिवत् । ३. उपक्रमस्थं शुभमुपसंहारदृष्टशुभं स्यात् । एतत्स्तोत्रविव. क्षणे 'दिशासु दशसु ख्यातिः शुभा जृम्भते' इति फलमु- तम् । दशदिशासु जम्भमाणा शुभा ख्याति: शुभशब्देना- भिप्रेता स्यात् । यथावतारस्य ख्यातिः 'यशः कलिमलाप- दशावतारस्तोत्रव्याख्या । हम्' इति गीयते तथा तद्भावुकानां ख्यातिर्भूयात् । भावु- कल्यातिरवतारख्यातौ पर्यवस्येत् । फलश्लोकोक्तं सर्वमत्र शु. भत्वेन गृह्येत । ४. भूमिका निर्वर्तयन्नः शुभमातनोतु इत्यन्वयः ॥ दशधा । मध्यमणिन्यायेनोभयत्रान्वेति । दशधा शुभमा- तनोतु, ‘कृतं दशगुणं मया' इतिवत्। शुभगुणनमस्य सहजम् । तदर्थमेवायमवतीर्णः । शुभविग्रहं दशधा विस्तार- यतु । एकस्यास्मत्प्रपन्नवेषस्य फलत्वेन दश वेषान्प्रदर्शयति रूपकं नाटकेषु दीर्घतमम् ! तच्च दशाङ्कम् । अवतारसंख्या पि रूपाकाङ्कसंख्यासमाना। ब्रह्मावतारसंख्या न न्यूनाङ्कसंख्यया भवेत् । एकमिदं नाटकं दशाकम । दशधा भूमिका निर्वत यन्त्रः शुभमातनोतु ॥ निर्वर्तयन्भूमिकाम् । भून्नोऽल्पभूमिकापरिग्रहस्य श्रम साध्यत्वं पूर्वमुक्तम् । देहपरिमाणत्वमात्मनोऽभ्युपगच्छन्तो जैना अस्माभिः पर्यनुयुज्यन्ते हस्तिशरीरपरिमाणो जीवः पिपीलिकाजन्म प्राप्नुवन्न पिपीलिकाशरीरे संमीयेतेति ॥ रङ्गे धामनि । रङ्गं धाम गृहम् । अन्येषां सूत्रधारा नटानां च रङ्गमन्यद्गृहमन्यत्स्यात् । अयं तु सदा नटन शी श्रीमद्वेदान्तदेशिकस्तोत्राणि । . लत्वाद्रङ्ग एव वसति । रङ्ग विना वेषपरिपहं विना न क्षणमपीमाववस्थातुं शक्नुयाताम् ॥ भक्तातिपरिजिहीर्षया भक्तमनोरथानुरोधेन सदा भूमिकापरिजिघृक्षुः सञ्जस्तिष्ठ- ति रङ्गे॥ लन्धनिर्भररसैर्भावुकैः । १. रसस्य लब्धत्वमाश्चर्या- वहम् ' आश्चर्योऽस्य लब्धा' इति कठश्रुतिब्रह्मरसलाभस्या- त्यन्तदुर्लभत्वं वदति । तच्छ्रुतिः प्रत्यभिज्ञाप्यते लब्धशब्देन । 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतिरपि सङ्ग्रह्मत इति पूर्वमुक्तम् । श्रवणमेव न लभ्येत बहुभिः । श्रवणेऽपि वेदनं दुर्लभम् । वेदनेऽपि प्राप्तिर्दुर्लभा । प्राप्तिश्च लाभश- ब्देनोच्यते । सा चानुभवगोचरतापत्तिः। तदेवोच्यते महाक- विना ' सतान्तिरन्यस्य विशेषयुक्ता' इति । सङ्क्रान्तिरुच्यते श्रुत्या ' एतमानन्दमयमात्मानमुपसक्रम्य' इति । आनन्द- वल्ल्युक्तवाङ्मनसागोचरानन्दो निर्भररस इत्युच्यते । निर्भर- रस: पूर्णरस: । पूर्ण ब्रह्म । रसो ब्रह्म । तद्विषयः पूर्णरस उचितः । स च नास्मत्प्रयलेन संपादयितुं शक्यः। नैर्भ, वरूपप्रपन्नत्वसंपादने संपूर्णो रसोऽनायासेन लभ्येत । नैर्भ- बलभ्यरसो निर्भरः पूर्णः स्यादिति चारु व्यज्यते निर्भर- शब्दप्रहणेन । २. 'यो वै भूमा तत्सुखं नाल्पे सुखमास्ति ।
दशावतारस्तोत्रव्याख्या। ४१ - इति भूमविद्या अल्पे रसजनकत्वं निषेधति । इयं भूनो भूमिका यद्यपि भूमापेक्षयाल्पा, अस्यां पूर्णसुखमित्यघटित- घटकत्वं व्यज्यते । ३. 'नटवभूमिकाभेदैर्नाथ दीव्यन् पृथ- ग्विधैः । पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥' इति श्लोकः पूर्वमेवोदाहृतः॥ अध्यक्षितः । १. अधोक्षजोऽदृश्योऽध्यक्ष्यते भूमिकाप- रिग्रहेण । २. भगवान्नटश्चेत्क: सभाध्यक्षः । सभ्याः परका. लादयस्तद्भक्तास्तं विना कमन्यं सभाध्यक्षं कुर्युः । अयं नट एव सभ्यैर्भावुकैरध्यक्षत्वेन स्थाप्यत इत्यपि चारु व्यज्यते । ३. सभ्यानेवायमध्यक्षान्मनुते । भावुकैरध्यक्षवदाचर्यते भ- गवदुद्धधेत्यपि व्यज्यते । अध्यक्षणीयावतारसंख्या दश , अध्यक्षकाभिनवदशावतारभूतभावुकसंख्यापि दश। ४. ब्रह्म- रसस्य साक्षात्करणेनैव तद्रसोऽस्मान्सङ्कामति । एकस्य रसः कथमन्यस्याध्यक्षयितुः स्यादिति चेद्रसस्य स्वभावोऽयम् , यदेकत्रोत्पन्नमन्यान्द्रष्टुन सङ्कमेदित्येतदपि व्यज्यतेऽध्यक्षितो भावुकैरिति । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती । पुमान् देवः शैलूषो भवेत् । स्त्रीवेषः प्रायेण पुनटैः परिगृ- श्रीमदेदान्तदेशिकस्तोत्राणि । ह्यते । न नटस्य पत्नी नटीवेषं परिगृहाति। असूर्यपश्या शुद्धान्तस्त्री देव्यपि शैलूषी भवति । तस्या विभुत्वेऽप्यस्ति जगन्मोहिनी माया यवनिका , येन सा तिरोधीयत इति व्यञ्जयन्ति श्रीयामुनाचार्याः । वेषं परिगृह्य बहिरागमने सा दृश्येत सर्वैरपि जनैः । न केवलमुत्कृष्टदेवमनुष्यादियोनिष्व- वतरति । पृथग्विधेषु निहीनयोनिध्वप्यवतरति नायकेन सह तच्छायाभूता। ' यस्तेन सह स स्वर्गो निरयो यश्च तं विना' इति खलु स्वर्गनरकव्यवस्था तस्याः । पृथक्छब्दो नानार्थको निहींनार्थकश्च । भावशब्दो जन्मपरोऽभिनेयहादभावपरश्च । नटनप्रकरणे भावशब्दस्य तदर्थ आवश्यकः । स्वयमिति छायावत्रनुगमनाय नियोगनिर्बन्धाभावो द्योत्यते । न छाया अनुगमने नियुज्येत । नापि ततो निवार्येत । विधिनिषेधा- नहीं तदतीतेयं छाया । सजीवेयं छाया । ' छाया: सजीवा इव धर्मदाराः' इत्याचार्याः ।। यद्धमैंरिह धर्मिणी । 'यथा सर्वगतो विष्णुस्तथा चेयं द्विजोत्तम' इति पराशरवचनं स्मार्यते ॥ 00- विहरते । वसन्तोषार्थमेव भूमिकाः परिगृह्णातीत्यात्म- नेपदेन व्यज्यते ॥
दशावतारस्तोत्रव्याख्या। ४३ नानाकृतिर्नायिका । १. नानाकारवती । २. नाना- विकृतिमती। कृतिषु नायकमातशेते नायिका । लघुतरा रामस्य गोष्ठी कृता' इत्यादिकमत्र भाव्यम् । पृथग्विधेष्व- नुगुणान्भावान्बिभ्रतीयेव नानाकारपरिग्रह उपपादितः । अत्र नानाकृतित्वेन नायकादपि विविधाधिककृतिमत्ववर्णनं स्वरसं स्यादिति रसिकैर्भाव्यम् ॥ निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै- रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । निष्प्रत्यूहतरङ्गरिङ्खणमिथः प्रत्यूढपाथश्छटा- डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ।। अतिबृहद्भगवतो मात्स्यं वपुर्मकरालयं कृत्स्नं क्षोभयति । तिमिङ्गिलः, तिमिङ्गिलगिलः, तद्गिलस्तगिल इति गिलपरं- परा पठ्यते । विश्वनिगरणशीलोऽयं महागिलः । भगव- दर्चाप्रतिमाया डोलोत्सवं वयं चिकीर्षामः । तदर्थ वयं डोला निर्मिीमहे । अतिबृहतो मात्स्यवपुष: के वा डोलां रचयितुं प्रभवेयुः । कुतो वा तदर्थदायसशृङ्खलादीनि संपाघेरन् । डोलोत्सवं च दिक्षन्ति भक्ताः । 'किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः' इति पृच्छती श्रुतिः .
'४४ श्रीमद्वेदान्तदेशिकस्तोत्राणि । -- ब्रह्म वनं ब्रह्म स वृक्ष आसधितो द्यावापृथिवी निष्टतक्षत्' इत्युत्तरयति । भक्तच्छन्दानुवर्ती भगवान् स्वयं डोलारो- होत्सवं निवर्तयति । अस्मदोहदमनु तस्य दोहदो जायते। का डोला भवेदस्य महतो भूतस्य । मात्स्यं वपुर्वीप इव भवति । स्ववपुषा मकरालयं संक्षोभ्यात्युच्चदीर्घास्तरङ्गानुत्पा- दयति । ते च तरङ्गा यद्यप्यन्यतो निष्प्रत्यूहा मिथः प्रत्यूढा भवन्ति डोलासंपादनाय । उत्सवडोला पद्मरलंकृता स्यात् । कुतोऽस्याः समुद्रतराडोलायाः पद्मानि संपाथेरन् । अन्त:- समुद्रे कथं तेषां संभवसंभवः । का गतिः । तत्कटाक्षा एव गतिः । तान्यपि विरच्यन्ते भगवत्कटाक्षैः। पुण्डरीकाक्षस्य वी- क्षणैः पनवनानि सृज्यन्तेऽन्तःसमुद्रे लवणमयीष्वप्सु ! भगव. द्वपुरेव डोलोत्सवसामग्री कृत्स्नां स्वयं संपादयति । मीनस्याक्षीण्युपमानत्वेन प्रसिद्धानि । यदि पुण्डरीकाक्षो मीनो भवेत्तद्वीक्षणैर्विचिवपद्मवनसृष्टौ कः संशयीत मत्स्यावतारस्यातिबृहत्वं प्रपन्नजनानन्दसन्दोहप्रथनं च चारु वर्ण्यतेऽत्र रसिकमनोहारितया। मत्स्यावतारो श्रीमद्धयवद- नावताराभिन्नः । 'मत्स्याश्वकच्छपवराह- इति श्री. भागवते मत्स्याश्वयोरेकीकृत्य सहपठनम् । श्रीहयग्रीवं नमः शके सङ्कल्पसूर्योदयप्रथमाके नाटकमारिप्समानः 'तदहम- , - दशावतारस्तोत्रव्याख्या । शेषविद्यासंपदुपलम्भिनीमभूतपूर्वबहुविधभूमिकापरिग्रहेऽप्य - तिरस्कृतपारम्यामनवबोधजलधिकुझिंभरीमनन्यभक्त्युन्मीलि- मादिमां देवतामभ्युपगच्छामि' इति । अत्र भगवदनेक- नाटकवर्णनप्रकरणे तन्नमस्क्रिययावतारवर्णनोपक्रमः स्वादुत. मः कवीनाम् । एतस्मिन्नन्तरे राजन् देवो हवशिरोधरः । जग्राह वेदानखिलान् रसातलगतान् हरिः । प्रादाच्च ब्रह्मणे राजन् ततः स्वां प्रकृतिं ययौ ॥' इति स्तोत्रभाष्योदाहृत- भगवच्छास्त्रवचनान्यत्र भाव्यानि । मधुकैटभाविति मूर्त- रजस्तमसी ज्ञानमयान्वेदानपजहतुः । रजस्तमसी निरस्य सत्त्वमयवेदसंप्रदायप्रवर्तको मधुसूदनः । ज्ञानसंप्रदायप्रवर्त- कत्वाद्गीताचार्यस्तन्नाम्ना भूयो निर्दिश्यते संबोध्यते गीता- शास्त्र इति भाव्यम् । नष्टं योगं पुनः प्रवर्तयति गीतया । तथा चोक्तं स्वेनैव स कालेनेह महता योगो नष्टः परं. स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।। शास्त्रारम्भे ' उवाच मधुसूदनः' इति । 'योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन' इत्याचार्यसंबोधनं शिष्येण । मधु- सूदनश्च विद्यामूर्तिः श्रीहयवदनः । लक्ष्मीहयग्रीवपरब्रह्मणे नम इति प्रथममङ्गलपाठः सर्वेषु द्वैतप्रन्थेषु ।। निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणैः । १. म- तप ।
'४६ श्रीमद्वेदान्तदेशिकस्तोत्राणि । स्यं वर्णयंस्तद्वीक्षणैर्जितो भवत्याचार्य । अन्तर्जले मत्स्याक्षी. भामेव प्रसरसंभवः। २. क्षणशब्दोऽवधानार्थकः, उत्सवा- र्थकश्च । मार्गणावधानव्याजेनास्माकमुत्सवप्रदैः मार्गणदशायां दत्तोत्सवैः । ३. श्रुतयः सर्वा अपि निःशेषं मनाः। श्रुतयः पुत्रस्य ब्रह्मणः, प्रजानां सर्वलोकानां च चक्षुषि । ' वेदा मे परमं चक्षुः' इति रुरोद ब्रह्म। प्रजाचक्षूषि वेदाः भग. वद्वीक्षणैरन्विष्यन्ते । ४. ननु कथमयं सर्वज्ञमत्स्यः जाल- मन्विष्यतीत्युच्यते । भ्रान्ता मूढा मत्स्या बडिशभक्षणाय जालसमीपं गच्छन्ति, बद्धधन्ते म्रियन्ते चेति चेत्- अयं परमकारुणिको मत्स्यः श्रुतिजालं मार्गते, तेन बद्धो भूत्वा जनश्रवणेषु प्रविश्य तहारा तानुजीवयितुं च । एतद्व्यञ्जयति श्रुतिजालमार्गणेत्युक्तिः । ५. श्रवणस्य जले ममतायां नि:- शब्दतानुभवः सहजः । लोकश्रवणभूतश्रुतौ जले निर्भने स- शब्दता निवृत्ता भवति । ६. शब्दराशेरन्तर्जले मजने तस्यात्यन्तं मृग्यता स्यात् । तदयोत्यत इव निर्मनशब्देन । ७. 'मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविन्नतां क्षणम् ॥' इति माघे क्षणशब्दप्रयोगो मात्स्यवपुर्वर्णने । तस्य क्षणश- शब्दस्यात्र विचित्रः प्रयोगः प्रदर्यते ॥
दशावतारस्तोत्रव्याख्या। अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । अ- न्तर्जले पद्मवनानि सृज्यन्ते डोलामलंकर्तुम् । लवणाम्भसि पद्मान्यन्तः सृज्यन्ते । तन्वच्छब्देन 'शुभमातनोतु' इति पूर्वश्लोकप्रार्थितं तत्क्षणमेव करुणामयेनान्वर्थीक्रियत इति व्यज्यते। शुभं डोलोत्सवं पझैस्तदलंकरणादिकं च तन्वदिव। कावितशुभं तन्यते ॥ निष्प्रत्यूहतरङ्गरिङ्खणमिथः प्रत्यूढपाथश्छटाडोलारो. हसदोहलम्। तरङ्गाः सहजाः समुद्रस्य भगवद्रूपमहामत्स्यवि- हारजनितहर्षेण भूयानानन्दक्षोभो भवति । निरतिशयबृह- मत्स्यशरीरक्षोभजनिता यद्यपि तरङ्गा नेतरेण प्रत्यूझेरंस्ते इतरेतरं मिथप्रत्यूढा डोलां निवर्तयन्ति । समुद्रे वेगं यान्तो बृहन्तो धूमनावः सततं डोलायन्त इत्यनुभवसिद्धम् । तच डोलायितत्वं तरङ्गरिङ्खणमिथःप्रत्यूढपाथश्छटाभिः । एष एवानुभव: आचार्यैः सम्यक्प्रदर्यत इति रसिकैर्विभा- व्यम् ॥ मात्स्यं वपुः पातु नः । डोलारोहोत्सवे वयमिमं मक- लश्लोकं गायामः । विभववपुःप्रदर्शनं विचित्रडोलारोहोत्स- वप्रदर्शनं चास्मत्परित्राणम् । तद्विवक्ष्यते 'पातु' इति ।
४८ श्रीमद्वेदान्तदेशिकस्तोत्राणि । वीक्षणैः पातु नः। वीक्षणैः स्वप्रजाः संवर्धयन्ति मत्स्या इति प्रसिद्धम् । 'ईक्षणध्यानसंस्पर्शप्रमुखैः पोषयन्प्रजाः । मत्स्यकूर्मविहङ्गादिविग्रहः प्रेक्ष्यते प्रभुः । इति सङ्कल्पसू. र्योदये । मात्स्यं वपुरिदानीमपि मनुराराधयतीति भागवते ॥ अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः । यद्विक्षेपणसंस्कृतोदधिपयः प्रेढोलपर्यङ्किका- नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥ कूर्मवपुषो बृहत्त्वाधारत्वामृतहेतुत्वादिवर्णनम् । स्वपृष्ठे मन्थाचल आरोपितः। स चातिवेगं बम्भ्रम्यते वयस्त्रिं- शत्कोटिदेवैरसंख्यैरसुरैश्च इतस्तत आकृष्टोऽब्धिमथनाय । सहजशत्रवः सुरासुराः स्पर्धमाना अधिकमधिकं बलमुष- युञ्जते कर्षणे | मथनेनातिक्षुब्धः सिन्धुः । तुमुलः शब्दः । 'दधार पृष्ठेन स लक्षयोजनप्रसारिणा द्वीप इवापरो महान्' इति कमठपृष्ठस्यातिबृहत्वम् । मन्थभूतस्याद्रेः स्वपृष्ठे भ्रमण पामकण्डूयनरूपसुखाय भवत्यस्याप्रमेयस्य । अनन्तरं तज्ज- नितसुखेनानघां निद्रामावहति । एतद्विचित्र प्रदर्श्यते सङ्कल्प- सूर्योदये 'कचिद्वाहाधीशः कचिदमरदन्तावलपतिः कचि- , दशावतारस्तोत्रव्याख्या। ४९ पालेयांशुः कचिदमृतविष्फूर्जितमिति ! अतिक्षोभे सिन्धो. रयमनघनिद्रो धृतगिरिविषादं देवानां विघटयति वैकुण्ठक- मठः ॥' इति । नष्टद्रव्यरूपोचैःश्रवसैरावतकल्पवृक्षादिलाभे तुमुल: शब्दो देवगणानां भवेत् । अब्धिरत्यन्तं क्षुभितः । धृतगिरिरयं बैकुण्ठकमठोऽनघं निद्राति । अयं कमठो सर्व- प्रकारैरकुण्ठो वैकुण्ठो ब्रह्मकमठ इति को वा विप्रतिपद्येत यद्यप्ययमसुरान्वञ्चयति मोहनावतारेण, न तेषां हननमस्मिन्न- वतारे । ईदृशविचित्राघटितघटको भगवानेकमेव विघटयति । किं तदिति चेत् 'विषादं देवानां विघटयति ।' अन्यासुः। पूर्व मात्स्यवपुषः प्रार्थनम् । अत्र निद्राण- कूर्मदीर्घनिश्वासाः प्रार्थ्यन्ते । निश्वासरस्मत्प्राणनं सुलभं खलु । प्राणनैः प्राणनं सुकरम् । प्राणभूतः परमात्मा प्राणान् जीवान जीवयति । 'प्राणा वै सत्यं तेषामेष सत्यम् ॥' भुवनत्रयीम् । पूर्वावतारेण वेदरूपनयी रक्षिता। अने- नापरा त्रयी त्रिभुवनरूपा रक्ष्यत इति व्यज्यते । “वेदः' लोकः' इति भेदो व्यवहारसिद्धः ॥ अनिभृतं कण्डूयनैरद्रिणा । 'विभ्रत्तदावर्तनमादिक- च्छपो मेनेऽङ्गकण्डूयनमप्रमेयः' इति शुकानुभव: प्रत्यभि- ५० श्रीमद्वेदान्तदेशिकस्तोत्राणि । ज्ञाप्यते । अनेनाप्रमेयत्वरूपबृहत्वं व्यज्यते ॥ निद्राणस्य परस्य कूर्मवपुषः । न केवलं कण्डूयपना- यकत्वमयावर्तनस्य । निद्राहेतुत्वमपि । निश्वासवातोर्मयः । १. पूर्वमपहृतवेदोद्धारः । इदानी खनिश्वसितैर्वेदनिश्चारणम् । २. अस्य महतो भूतस्य निश्व. सितमित्यादिश्रुतिः कूर्मविषयिणीव । महान् भूतः कूर्मः स्यात् । विष्णुरिदं महद्भूतम् । ३. महान्क्षोभः समुद्रस्यैत- निश्वासवातजनिततरङ्गैः। न तथा क्षोभोऽद्रिणा मथनेन ४. कूर्मनिश्वसितभूता वेदा भुवनत्रयमवन्ति धर्मोपदेशेन । धर्मेण लोको ध्रियेत ।। यद्विक्षेपणसंस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किकानित्यारो. हणनिर्वृतः। १. पूर्व मथनेनाप्यसंस्कृत उदधिः । प्राकृतः पूर्वम् । इदानीं वेदरूपनिश्वसितरचितोर्मिविक्षिप्तः संस्कृतो भवतीति व्यज्यते । निश्वसितोर्मिविक्षेपणैः संस्क्रियते उद. धिः । वेदवाततरङ्गैः स संस्कृतीक्रियत इव । २. डोलारूढा पूर्वश्लोके । इदानीमान्दोलितपर्यङ्कारोहो योगनिद्रासौकर्याय ३. वेदमन्त्रभूतः संस्कृत: पर्यक उचितो धर्मसंस्थापनार्थम- वतीर्णयोः सनातनधर्मस्वरूपदम्पत्योः । श्रुतयः शय्या भव- दशावतारस्तोत्रव्याख्या । ५१ । न्तीति प्रसिद्धम् । 'तल्पं कल्मान्तयूनः ।' अत्र श्रुतिरूपनि- श्वसितसंस्कृतमयः पर्यङ्कीभवति । ४. प्रेङ्खोलपर्यतिका सद्यः प्रादुर्भूतया नववध्वा श्रिया सह शयनायातीव भोग्या स्यात् । चन्द्रस्तदानीमेवोत्पन्नः। अमृतं च नवं प्रभूतम् । चिरविर हिता नवा वधूर्वक्षस्थलमारूढा पश्यतां सर्वदेवानाम् । तया सह नित्यमेव कूर्मत्वेन पर्यङ्किकामारुह्य निर्वृणोति । आरूढ- या सह देव्या पर्यारोहः । ५. यथा वक्षःस्थलारोहो नित्य- स्तथा तया सह पर्यारोहोऽपि नित्यः । कूर्मावतारस्यावता- रान्तरत्ववत्कालावच्छेदो मास्तु । श्वशुरगृहे श्रीराब्धावेवायम- वतारः। नवां रक्तां वधू प्रेखोलपर्यङ्किकां च लब्ध्वा नित्या- रोहमेव काङ्क्षतीति नित्यशब्देन व्यज्यते । पर्यटोऽतिस्वच्छ. श्वेतपटरानियेत । पयःपर्यटके तत्साम्यं सुलभम् । ६. डोला- सेवा वृत्ता। इदानी पर्यङ्कसेवा लभ्यते भक्तजनैः ।। सहैव श्रिया । यदर्थमम्भोधिरमन्थि तां श्रियमसितेक्षणां विना क्षणमपि न जीवेत् । कूर्मवपुरिति नोद्विजते सा। तत्रिं नित्यं कामयते । तद्वपुश्च तस्या नित्यं रोचते । वेदप्रा- स्यनन्तरं स्थितप्रज्ञो वेदार्थ ध्यायेत् पुरुषः । यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।' इति कूर्मसादृश्यं प्रत्याहरण- व्यापूतस्य ध्यातुः ।। - श्रीमद्वेदान्तदेशिकस्तोत्राणि । अ- गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत- ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैधुंधुरैः । यहूंष्ट्राडरकोटिगाढघटनानिष्कम्पनित्यस्थिति- ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वंभरा ।। नष्टा श्रीलब्धा कूर्मवपुषा । नष्टा भूमिर्लभ्यते वराहवपुषा । तस्यां भूयान्बहुमानो भगवतः । वक्षःस्थलेन वरुणालयराज- कन्यां संभावयति । भूमिं तु शेषात्मना सहस्त्रैः शिरोभिर्द- धति । तद्धारापनयनाय भूयोऽवतरति श्रिया सह । प्यघिसंभव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भ- णेन' इत्युक्तरीत्या नष्टां भूदेवीमानीय परिरब्धं वराहवपुः- परिप्रहो युक्तः । अस्य वराहस्य निरतिशयबृहत्त्वं श्रीभागवते स्फुटं वर्ण्यते । 'यस्यायुतशतैकांशे विश्वशक्तिरियं स्थिता' इतिवद्विश्वस्य भगवदंष्ट्राङ्करकोटिलग्नत्वप्रदर्शनेन समस्तजग- तः शरीरत्वरूपाधेयत्वं प्रदर्श्यते । भगवतो निरतिशयबृहत्त्वं विचित्रं व्यज्यते । अस्य वराहस्य घोणारवाः प्रलयोमिघोष. मभिभवन्ति । अस्य दंष्ट्राया अङ्करस्य कोटौ लमा विश्वं- भरा । तेन गाढघटिता, अत: परमकम्पनीयां नित्यां स्थिति लभते । निष्कम्पत्वं निदयते चतुर्थेन पादेन। तथा निश्चलां स्थितिं लभते ; यथा सा आब्रह्मस्तम्बपर्यन्तं कृत्स्नचेतना.
दशावतारस्तोत्रव्याख्या। . चेतनान् सुखं सूते । अन्तर्वन्यः स्त्रियो आसन्नप्रसवा न कम्पचलनादिकं सहेरनिति प्रसिद्धम् । दंष्ट्राङ्करकोटिलग्नेयं कोटिसहस्रप्रजाः सूते । यथा मुस्ता तदंष्ट्राजकुरे लग्ना दृश्येत, तथा विश्वंभरा तत्र दृश्यते। किमु वाच्यं तस्य निरतिशयबृहत्त्वे । तस्य विश्वशरीरत्वं सम्यगध्यक्ष्यते । तत्तद्योनिस्वभावोऽप्यहेयो भगवता तत्र तत्रावतीर्णेन । व. राहा नागासधमुद्रादौ विहरेयुः । पल्वलादौ पहिलजले खुरदन्ने जानुन्ने वा विहरणं तेषां स्वभावः । क्रियतां वराहततिभिर्मुस्ताक्षति: पल्वले' इति कविसार्वभौ- मः। अत्रोच्यते । अयं ब्रह्मवराहः । अस्य खुरदन्न एव जले अयं विहरति । महोदधिरस्य खुरदन्न इति प्रदर्श्यते आचार्यैः । 'कापि कल्पान्तवेशन्ते खुरदन्ने समुद्धृताम् वहते मेदिनीमुस्तां महते पोत्रिणे नमः ।।' इति सङ्कल्पसू- । योदये॥ गोपायेदनिशं जगन्ति । नावतारकालिकरक्षणमात्रातृ- प्यामः । अनिशं रक्ष्यमानेन ब्रह्मवराहेण । 'हरेघृतकोडत- नोः स्वमायया' इति श्रीभागवते । देवीमात्ररक्षणेन न स- न्तुष्यामः । एतद्रूपप्रदर्शनेन सर्वाणि जगन्स्यव्यात् ॥
श्रीमद्वेदान्तदेशिकस्तोत्राणि । १ कुहनापोत्रीपवित्रीकृतब्रह्माण्डः । 'अनाविरं शुद्धम- पापविद्धम' इति वर्णितस्य जगत्पवित्रभूतस्य यज्ञमूर्तेः कथं वराहत्वेनावतारः। अयं मिथ्यापोत्री। न वास्तवपोत्री । पवित्रतमोऽयं कोलः । अनेन जगन्ति पवित्रीक्रियन्ते । पूर्व- मपवित्रो लोक इदानी पवित्रीभवति । पवित्राणां पवित्रो. ऽयं बराहः । 'त्रयीमयं रूपमिदं च सौकरम्' 'विधु. न्वता वेदमयं निजं वपुः' 'यज्ञावयवस्य मायागृहीतवाराह- तनोमहात्मनः' क्रोडापदेशः स्वयमध्वराङ्गः' 'यद्रोमगर्तेषु निलिल्युरध्वराः' इति वेदमयो यज्ञमयोऽयम् । 'सर्ववेदम- यो हरिः ''सर्वयज्ञमयो हरिः' 'यज्ञो वै विष्णुः' इत्या. दिवचनान्यस्मिन्मुख्यानि। एतत्कथाश्रवणादिफलमेवं समकी- यंत श्रीशुकेन ' शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः । एतन्महायुष्यमलं पवित्रं० पदमायुरा- शिषाम ॥' इति । वराहावतारकाले तद्धघुरितं श्रुत्वा 'जन- स्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म' इति त्रिलोकस्था मुनयः पवित्रम् , पवित्रम् , पवित्रमिति त्रिर- पठन् शान्तिपठनवत् । इदं सर्व प्रत्यभिज्ञाप्यते पवित्रश. ब्देन ॥ प्रलयोर्मिघोषगुरुभिर्घोणारवैधुंधुरैः । सागरान्तं खलु दशावतारस्तोत्रव्याख्या। हिरण्यकेशाहिरण्याक्षयोरायोधनम् । हिरण्यकेश इति भगव- न्तं निर्दिशन् श्रीशुको हिरण्याक्षस्य 'आ प्रणखात्सर्व एवं सुवर्णो हिरण्यकेशः' सदृशोऽधिकश्च शत्रुश्चेति चारु व्य- अयति । अक्षिमात्रं हिरण्यं तस्यासुरस्य । प्रलयोर्मिघोषो नियतः सागरे तयोस्तदन्तयुद्धक्षोभसंरम्भवमये। तद्धोषादपि गरीयानस्य घोणारवः : प्रथमगुरोर्वेदमयस्यादिवराहस्य घो- णारवस्य गुरुत्वं न्याय्यमिति गुरुशब्देन व्यज्यते । 'विद्या- गुरवे नमो नमः' इति श्रीशुकः। मत्स्यावतारेण लब्धस्य कूर्मेण योगेनाशैथिल्येनाभ्यस्तस्य वेदस्वेदानी वराहेणोश्चैत्र- ह्माण्डव्यापिभिर्घोणारवैरुद्घोषणम, तेन च ब्रह्माण्डपवित्रीकर. णमित्यवधेयम् । असुरापहारेणापवित्रीकृताया भुवो वेदमन्त्रा. नुपाठैः शुद्धिरूपसंस्कारः संपाद्यते । यथा मत्स्यस्य वीक्षणं सततधावनादिकमान्दोलनं च, यथा च कूर्मस्य निद्रानिश्वा- सादिकमङ्गसंहरणादिरूपव्यापारण प्रत्याहाररूपयोगसाम्यं चा. वर्ण्यन्त, तथा वराहस्य स्वभावभूतघोणारवा वर्ण्यन्ते । यथा- वतीर्णेन ब्रह्मणा ब्रह्मस्वभावो न जाते, तथावतीर्णतत्तद्योनि- स्वभावोऽपि न त्यज्यते । घोणैव मुख्यं बलं वराहस्य । 'स्थूलनासिकापूर्वसुन्दराम्' इति माघे । वनमृग इत्युपह- सितो भगवान् ‘सत्यं वयं भो वनगोचरा युष्मद्विधान्मृगया- . , ५६ श्रीमद्वेदान्तदेशिकस्तोत्राणि । मो ग्रामसिमान्' इति प्रतिवक्ति ! घोणया प्राणेनापहृतभुवो मार्गणं कारणसूकरस्य सुकरमभूत् । यथा वीक्षणैार्गणं नि- मैग्नस्य श्रुतिजालस्य, तथा घोणाया आघ्राणैर्मागणं निर्ममा या भुवः । 'निशम्यते घुघुरितम्' इति श्रीशुकानुभवः प्रत्य भिज्ञाप्यते धुपुरशब्देन । शुकानुभवानुकरणं वराहरूपभगव- होणारवानुकरणं च संपाद्यत एतच्छब्देनेति सहृदयैर्भाव्यम् । भगवत्कृतवेदघोषानूचारणरूपाध्ययनसंपादनेन तत एव सा. क्षाध्ययनसंप्रदायः संपादितः स्यात् । गुरुकुलवासरूपश्रम- विलम्बाक्षमाणामियं काचिद्गतिरध्ययनप्रापणे ॥ यइंष्ट्राकुरकोटिगाढघटनानिष्कम्पनित्यस्थितिः। - - ष्ट्रापकोट्या भगवस्त्वया धृता विराजते भूधरभूः सभूधरः 'स्वदंष्ट्रयोद्धृत्य महीं निमग्नाम्' भूमण्डलेनास्य दता धृतेन ते' ' तस्य चोद्धरतः क्षोणी स्वदंष्ट्राग्रेण लीलया' इत्यादिरार्षोऽनुभवः स्मार्यते गाढघटना' इति निष्कम्प- नित्यस्थितौ हेतुः। अच्युतोऽयं वराहः। निष्कम्पत्वमनेक- कोटिसुखप्रसवानुकूलम् ॥ ब्रह्मस्तम्बमसौत् । आब्रह्म स्तम्बपर्यन्तं कृत्स्नं भूतजा- तं सुषुने । असुरापहृतधराया अनिर्यातनेऽन्तः स्थितगर्भ- दशावतारस्तोत्रव्याख्या। ६७ भूतजीवराशयो विच्छिद्येरन् । भगवता दता तामुद्धृत्य तत्र तस्या निष्कम्पां स्थितिं संपाद्यानेककोटिसुखप्रसवसंभवो नि- वयते ॥ असौ। पुरोवतिष्ठत इव देवी भूराचार्याणामनुभवे । यथा । सैषा देवी' इति श्रीस्तुत्यन्ते । ध्रुवमध्यक्षितोऽवतार- वृत्तान्तः सर्वोऽपि स्तोत्रकाले । भूम्येकदेशमध्यस्थैरस्माभिः कथं तस्याः पुरोवर्तित्वेन निर्देश्यत्वस्य संभवः । ईदृशाव- तारदशापरोक्षणकाल एव तत्संभवः ।। भगवती विश्वंभरा। विश्वं भरतीयम् स्वगर्भे । इमा बिभर्ति भगवइंट्राड्डरकोटिः । तं बिभर्ति तस्य स्खो महिमा । अथ वा न सोऽपि । भगवती भगवान्बिभर्ति । “विश्वंभरा भगवती भवतीमसूत ।' इत्युत्तररामचरिते। तत्रातिसुन्द- रम् । 'सर्व बिभ्रती तव माता स्वामप्यसूत' इति सीतां प्रति वचनं कथं तस्याः स्तुतौ पर्यवस्येत् । यथा सर्वान्प्रा. णिनो गर्भे बभार तान् सुषुवे, तथा त्वामप्यसूतेति खलु तद्वचनभङ्गीपर्यवसानम् । 'भगवती विश्वंभरा' इति पदयोः सम्यग्विनियोजनं क्रियते आचारित्यवधेयम् ।। मुस्तेव । यथा मुस्तां लीलयानायासेन दन्ताये बिभू- ५८ श्रीमद्वेदान्तदेशिकस्तोत्राणि । याद्वराहस्तथा विश्वंभरां बिभर्त्ययं ब्रह्मवराहः । यथा मुस्ता- या निष्कम्पा निरपाया स्थितिः स्यात्तथा अस्या इति व्य- ज्यते । यथा मुस्ता स्तम्बादितृणप्ररोहस्य मूलं भवेत्तथेयं विश्वंभरा जगत्कन्दभूतेत्यपि व्यज्यते । वराहदंष्ट्रायां मुस्ते- वातिसूक्ष्मा दृश्यते विश्वंभरा भगवदंष्ट्रायामिति च व्यज्यते । 'यथा वनानिःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्र- पद्मिनी ।' इति गजेन्द्रदंष्ट्रागतपद्मिनीव भूपद्मं शुशुभे इति श्रीशुकानुभवः । 'दंष्ट्रानुषक्तां धरणीं दधानो जम्बालरेखा- मिव केलिलग्नाम् ।' इत्याचार्याणामनुभवः सङ्कल्पसूर्योदये । पङ्करेखावदत्यन्तसूक्ष्मा दृश्यते रेखा निरतिशयसूक्ष्मा। सपङ्के पल्वले विहरतो मुस्ताक्षतिं च कुर्वतो वराहस्य दं- ष्ट्रायां पङ्करेखालगनं सुसंभवि । अत्र मुस्तात्वेनानुभवः । तत्क्षति: सहजा वराहाणाम् । तच्च वर्णितमुदाहृतशाकुन्तल- श्लोके। खुरदन्नप्रमाणे समुद्रपल्वले विहरतानेन वराहेण लब्धा जगत्कन्दभूता देवी तदंष्ट्रायां विहारलग्ना मुम्तेव भासते । 'हृदि सुररिपोर्दष्ट्रोत्खाते क्षिपन्प्रलयार्णवं क्षितिकुचतटीमर्च न्दैत्यास्रकुङ्कुमचर्चया। स्फुटधुतसटाभ्राम्यद्ब्रह्मास्तवोन्मुख- म्हितः शरणमसि मे रङ्गिस्त्वमूलकोलतनुर्भवन् ॥' इति श्रीमद्भट्टारकैब्रह्मत्वप्रदर्शनं कोलवपुषः ।। भूः।
दशावतारस्तोत्रव्याख्या । or प्रत्यादिष्टपुरातनप्रदरणग्रामः क्षणं पाणिजै- रव्यात्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः । यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ।। 'दिवि स्पृशत्कायम' 'सदावधूता जलदाः परापतन्' 'अम्भो. धयः श्वासहता विचुक्षुभुर्निह्रादभीता दिगिभा विचुक्रुशुः । द्यौस्तत्सटोरिक्षप्तविमानसकुला प्रोत्सर्पत क्षमा च पदाति. पीडिता ।' 'शैलाः समुत्पेतुरमुध्य रंहसा तत्तेजसा स्वं ककुभो न रोजिरे।' इत्यस्य नृसिंहवपुषो निरतिशयबृहत्वव्य- ञ्जनं श्रीभागवते । 'सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया इति माघकवेस्तद्वपुषो बृहत्त्वानुभ- वः। 'हिरण्यकरघट्टितात्सपदि जृम्भित: स्तम्मतः । पुरः स्फुरति संभ्रमस्फुटसटाच्छोटनत्रुटद्धनघनारवद्विगुणवृम्हितः सिंहराट् ' ' सटाविधुतिसंभ्रमभ्रमितसप्तलोकस्थितिः त्यूढस्थेमभीमप्रलयधनघटाघोषणाडम्बराणि । क्षुभ्यत्सप्ताम्बुधी- नि....अस्मद्भतिव्यपोहं विदधतु नृहरेरट्टहासाद्भुतानि' इति विचित्रो ब्रह्मत्वानुभवो नृसिंहब्रह्मविषय आचार्याणाम् । अ. ध्यक्षयाम इव नृसिंहं तद्वर्णनैः । 'प्रकर्षाद्विष्णुत्वद्विगुणपरि. णाहोत्कटतनुः' इति श्रीभाट्टानुभवः । विष्णोर्व्याप्तिरूपब्रह्म- १ 'प्र- ६० श्रीमद्वेदान्तदेशिकस्तोत्राणि । , त्वं खल्वाक्षिप्तं शत्रुणा । तत्स्थापनार्थ खल्वयमवतारः । यथा ब्रह्मणो भक्तबृह्मयितृत्वं तथा सत्यस्य तस्य भक्तसत्यापनं स्वभावः। आत्मसाम्यावहत्वं खलु तत्प्रकृतिः। 'सत्यं वि. धातुं निजभृत्यभाषितं व्याप्ति च भूतेष्वखिलेषु चात्मनः इति व्याप्तिसत्यापनयोः सहपाठः । यथा वराहस्य नासा बलं तथा सिंहस्य नखं बलम् ॥ प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः । १. अत्र भगवतस्तदायुधानां चोक्तिप्रत्युक्तिरूपसंवादो व्यज्यते । भग. वन्तं सङ्गामाय यियासन्तं सुदर्शनकौमोदक्यादिदिव्यायुधानि भगवता सह स्वानुगमनानुज्ञां निर्बन्धेन याचन्ते 'वयं पुरातनान्यायुधानि । बहुषु सङ्ग्रामेषु कृतसाहाय्यानि सम्य- क्परीक्षितानि । चिरकृतयोधनयोग्यानि वयम् । पुरातनभृत्या वयम् । न वयं भूषणायेतरभूषणवत् । न वयमलंकारार्थ ति. ष्ठामः । अस्त्राणि खलु वयम् । शर्बु प्रहतुं वयमास्महे । वयं बहून्यास्महे । ईदृश: सङ्कामोत्सवो दुर्लभः । न वयमधुना परित्याज्यानि । अस्माकं प्रत्यादेशो न न्याय्यः। एवंरूपा आ- क्षेपाः 'प्रत्यादिष्ट' 'पुरातन' 'प्रहरणप्राम' इत्यादिशब्दैर्व्यज्य- न्ते। तान्याश्वास्यन्ते भगवता 'क्षणमात्रं भवद्भिर्मविश्लेषः सह्यः । क्षणकाले प्रतियास्यामि । भवधिकारे एतेषां पाणि- दशावतारस्तोत्रव्याख्या। ६१ , जानां निवेशनं क्षणिकमेव । न तेभ्यो भवदधिकारः स्थिर दास्यते । तेषां भवत्प्रतिभूत्वं भवत्पत्यादेशत्वं न क्षणादधिकं स्यात् । यूयमेव मम स्थिरायुधाधिकारभाजः । एवं वदं- स्तानि पाणिजैः ‘तिष्ठन्तु भवन्तः, मानुयान्तु माम्' इति संज्ञां करोतीव तानि क्षणं निषेधन भक्तवागसत्यताभि- या। पाणिजैः प्रत्यादिशति तान्यनुगमनोत्सुकानि 'क्षणम् इति कथयन् । 'पाणिजान्' प्रदर्य तान्याश्वासयति, न भेतव्यं भवद्भिरहं निरायुधो यास्यामि प्रबलशत्रु योद्धमिति । सन्त्येतेऽगुताः पाणिजा इति प्रहरणप्रामशब्देन द्योत्यत इव । पाणिजशब्देन नखविशेषणतया पाणेरपि ग्रहणेन तेन निषेधनमभयप्रदानं च व्यज्यते । यथा वराहस्य घोणा बलम् , तथा सिंहस्य नखानि बलम् । तद्बलं भूयः प्रदश्यते सर्वैरपि कविमिः । “समुग्धकान्तास्तनभङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ।' 'वक्ष एष निरदारयनखैः' इति माघानुभवः। 'नखक्षुण्णारातिक्षतजपटलैः ' इति भाट्टानु. भवः । ' नखरशृङ्गदम्भोलिभिः' 'दम्भोलिश्रेणिदीप्यत्खरन- खरमुखक्षुण्णदैतेयवक्षोनिष्ठयूतासक्नवन्तीभरितदशदिशादर्शि- तापूर्वसन्ध्यः' इत्याचार्यानुभवोऽन्यत्र । 'माद्यन्मोहमहेभ- कुम्भदलनप्रोतसन्मौक्तिकद्योतालंकृतचित्सुखाद्वयवपुः श्री- .
• ६२ श्रीमद्वेदान्तदेशिकस्तोत्राणि । मान्नुकण्ठीरवः । प्रह्लादस्य गिरः प्रमाणनविधौ दिव्याकृति स्तम्भतो निर्यात: प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ।। इत्यद्भुतोऽनुभवः श्रीनृसिंहविषये कल्पतरुकाराणां श्रीमदम- लानन्दयतीनाम् । एतच्छोकभाववर्णने नानावतरामश्विरमज नभयात् ॥ - । अव्यात्रीणि जगन्ति । पाणिजैरव्यादित्यप्यन्वयः 'प्रह्लादलादनानि' इति सततं प्रकृष्टह्लादमग्नमत एव प्रह्लाद इति ख्यातं प्रह्लादमद्भुतमपूर्व ह्रादयितुमतिसुन्दरात्यन्तसुघटि. तनृसिंहतनुः परिजगृहे । तामेवागौणी नृसिंहननु सर्वदास्म. लोचनचमत्काराय अस्मत्पुरतोऽवस्थाप्यास्मान्मन्दह्लादान्हाद- यतु। अद्भुतसुन्दरवपुःप्रदर्शनेनावनं प्रार्थ्यते । ‘नारसिंह. वपुः' इत्युक्त्वा तस्य भीषणत्वादि निवार्य सौन्दर्य प्रख्याप. यितुमनुपदमेव 'श्रीमान्' इति पठ्यते सहस्रनामसु । तद्व- पुर्दर्शनानन्तरं प्रत्येकं लोकोत्तरसुन्दरं नरं वा सिंह वा द्रष्टुः जुगुप्सा जायेतेत्युक्तं श्रीमद्भट्टारकैस्तद्भाष्ये । तदेव वर्णित श्रीरङ्गराजस्तवे 'नृहरिदशयोः पश्यन्नोत्पत्तिकं घटनाद्भुतं नरमुत हरिं दृष्ट्वैकैकं समद्विजते जनः' इति ॥ , अकुण्ठमहिमा वैकुण्ठकण्ठीरवः । क्षणिकोऽयमवतारः ।
दशावतारस्तोत्रव्याख्या । ६३. हतो रिपुः । गतश्च प्रह्लादः । कथं तत्प्रादुर्भावेन त्रिजगदनु- प्रहस्तत्परित्राणं च प्रार्थ्यत इति चेत् , अकुण्ठमहिमायमि- त्युच्यते । यदा प्रह्लादः प्रतिजज्ञे पितृसंनिधौ ‘हरिः सर्वत्र' इति, तत्सत्यपरीक्षक: पिता यत्र कुत्र वा स्वेष्टस्थले हरि प्रदर्शयेत्याज्ञापयेत् । तत्काङ्कितस्थलेऽप्रदर्शने भक्तवाग्वन्ध्या भवेत् । 'शिर: कायाद्धरामि ते' इत्याक्रोशन्पिता तमर्भक हन्यात् । न हि तत्पूर्व पित्रा साक्षात्स्वबलेन पुत्रहनने प्रवृ. त्तम् । तदानीमेव तदिच्छा उदघुध्यत । तदिच्छाप्रकटनक्षण एव भगवता प्रादुर्भवनीयम् । हरि दिदृक्षति पिता तेन यो- दुम् । हरेाप्तिं प्रतिजानीते पुत्रः । अवतरता च हरिणा सिंहेन भाव्यम् । आदौ 'किं साधु मन्यते भवान्' इति पृष्टवन्तं पितरम् ' तत्साधु मन्येऽसुरवर्य देहिनाम्....वनं गतो यद्धरिमाश्रयेत' इति प्रत्याह सुतः । तत्रापि सिंहमेव हरित्वेनासूसुचत् । वनं गतो वनराज सिंहमेवाश्रयेत । प्रह्ला- दस्य हरिः सिंह एव स्यात् । यत्र कुत्रापि हरिप्रदर्शनेच्छाप्र- कटनसंभवेन सर्ववस्त्वन्तर्भगवता नृसिंहरूपेणावस्थितमिति प्रदश्यते आचार्य: 'स्तम्बैकवर्जमधुनापि करीश नूनं त्रैलोक्य- मेव नियतं नरसिंहगर्भम्' इति । तत्र ' त्रैलोक्यम्' इति । अत्र त्रीणि जगन्तीति वर्णनसाम्यमवधेयम् । गर्भभूतोऽच्यु- .६४ श्रीमद्वेदान्तदेशिकस्तोत्राणि । तो न च्यवेत् । अमोघोऽयं गर्भोऽधुनापि तत्र तत्रास्ते तत्र तत्र गर्भस्थितस्तत्र तत्र भक्तमनोरथेन बहिः प्रादुर्भूय वा त्रीणि जगन्ति रक्षतु। अखिलेषु भूतेषु व्याप्तिः सत्या- प्यते श्रीनृसिंहेणेति श्रीशुकः। तच्च सर्वत्रान्तर्यामितया गर्भे नृसिंहत्वेनावस्थानेऽत्यन्तस्वरसं भवेत् । अकुण्ठमाहिमाव्यात्स वाणि भूतानि । महिमा च व्याप्ति: । व्याप्तिश्च नृहरित्वेन । व्याप्तिं च भूतेष्वखिलेषु चात्मनः' इत्यस्य ग्रहणं महिमा- शब्देनेत्यवधेयम् । कथं सिंहस्य सर्वव्याप्तत्वमिति चेत्- उच्यते । अयं वैकुण्ठकण्ठीरवोऽकुण्ठः कण्ठीरव इति । श्रीमच्छङ्कराचार्यास्तदनुयायिनश्च नृसिंहोपासकाः । पूर्वोदाहृतावतारश्लोके — नरहरिणपतिः' इत्यधिकवर्णनं तद्वि- षयेऽवतारान्तरेभ्यः । 'वैकुण्ठीये तु कण्ठे' इत्युक्तं तैर्भग- वत्कण्ठविषये । 'श्रीमानृकण्ठीरवः' इति कल्पतरुकृत: । वैकु- ण्ठकण्ठीरव इत्याचार्याः । याहग्गम्भीरं रूपं तादृङ्नाम ॥ यत्मादुर्भवनादवन्ध्यजठरा यादृच्छिकात् । यद्यपि त्रैलोक्येऽपि नरसिंहो गर्भत्वेनावस्थितः, अखिलभूतमध्ये एकैव स्थूणावन्ध्या प्रसुषुवे नृसिंहम् । इतरत्सर्वमन्तर्वदास्ते । या काचित्स्थूणासूत । किमित्येकस्यां प्रादुर्भावः, इतरत्रान्तरे. वावस्थानमिति चेदुच्यते 'यादृच्छिकात्' इति । भगवदि- अव । .
दशावतारस्तोत्रव्याख्या । । । च्छैव नियामिका । असुरेच्छा वा यदृच्छाशब्देन ग्राह्या । इत- रत्र प्रदर्शनं स नाचकाङ्क्ष । यदृच्छया सोऽत्रैव दिदृक्षां प्रकटी. चकार । किमिदमघटितघटनम् । तिष्ठतु नरसिंहयोरेकत्र सुश्लिष्टं घटनम् । तिष्ठतु महासुरेणाप्यघटनीयत्वेन निश्चि- तपरस्परविरुद्धानेकद्विकहानघटनम् । इयमचेतना स्थूणा चेत- नानां चेतनमसूत । किमिदमाश्चर्यम्। 'परस्परविरोधे हि न प्रकारान्तरस्थितिः । नेकतापि विरुद्धानामुक्तिमात्रविरोधतः॥' इति न्याय: श्रद्दधेऽसुरेण वरवरणकाले । ब्रह्मणः सकलतर्का- तीतत्वं विस्मृतं तेन। 'नैषा तर्केण मतिरापनेया' इत्याधुपनि- षदा न गृहीतास्तेन विरोचनजातीयेनासुरेण ।। वेधसां या काचित्सहसा महासुरगृहस्थूणा पिताम- ह्यभूत् । अघटितघटना दृढीक्रियते । वेधसां पितामहानां पितामह्यभूत्स्थूणा। वेधसां पितामहानां पितामही स्थूणा गर्भ धत्ते। सूते च सर्वलोकपितामहम् । महासुरशब्दः प्रयुज्यते हिरण्यकशिपुविषये श्रीशुकेन । ' सुतं महाभागवतं महासुरः 'अभ्यहनन्महासुरः' इति शुकमुखाच्च्युतः शब्द आचार्गृह्य- ते । महासुरगृहे वेधसां पितुर्जन्म । यद्यपि स महासुरः, स्वेन स्वीयेन वा भगवतो भागवतोत्तमस्य च गर्भ धारणमस्य भाग्यमित्यपि व्यज्यते । यथा प्रह्लादोऽस्य गर्ने, तथा भग- ६ ६६ ६ श्रीमद्वेदान्तदेशिकस्तोत्राणि । . , वानेतद्गृहस्थूणागर्भे । महासुरगृहस्थूणासुप्रज इति श्रीनृसिंहः संबोध्येत । उत्तरा सन्ध्या प्रवर्तते उत्तिष्ठ नरसिंह । गर्भ- वासकालतारतम्यं बहुविधं वर्तते । कुत्रापि नैकक्षणमात्रा- वच्छेदो गर्भवासस्य । प्रह्लादः प्रतिजज्ञे ‘स सर्वत्र' इति । कासौ ? यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते इत्यनुपदं पितुः प्रश्नः। अनुपदमेव 'दृश्यते' इत्यवतारदर्शनं प्रहादस्य । दृश्यत इति प्रह्लादवचनमपि भवेत् । 'विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।' यद्यपि पित्रा न तदा दृष्टः , नापि लोकेन, ज्ञानालोकेन पुत्रेण पूर्वमेव दृष्टः स्यात् । प्रह्लादार्थे नृसिंहः, तेनैव प्रथमं दृश्येत। तदृष्टं तत्प्रदर्शितमनूद्यते 'सत्यं विधातुं निजभृत्यभाषितम्' इत्यवतारवर्णनश्लोकेन । ब्रह्मस्तम्बमसौद्विश्वंभरेत्युक्तं पूर्वश्लोके । अत्र ब्रह्मपितरं ब्रह्म स्तम्भः प्रासूतेत्युच्यते । अत्र वा पूर्वश्लोके वा असुरनिरसनं न प्रकाशितम् । साधुपरित्राणमात्रं वर्णितम् । शुभतननं खलु प्रार्थितं प्रथमश्लोके ।। ब्रीडाविद्धवदान्यदानवयशोनासीरधाटीभट- स्त्रैयक्षं मकुटं पुनमवतु नस्वैविक्रमो विक्रमः। यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रोतोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥
दशावतारस्तोत्रव्याख्या। ६७ त्रिविक्रमो भवन्वामनः 'अणोरणीयान्महतो महीयान्' इति श्रुति निदर्शयतीव । एकस्मिन्नवतारे एककाले उभयप्रदर्श- नम् । त्रिविक्रमस्य निरतिशयबृहद्रूपबृहत्त्वे न कोऽपि संश- यीत : 'भूः पादौ' इति स्मृतिः । भूरेकः पाद इति भग- वास्ततोऽपि बृहत्त्वं प्रदर्शयति । पादोऽस्य विश्वाभू- तानि' इति श्रुतिरन्वर्यत इव त्रिविक्रमेण । “य: पार्थि- वानि विममे रजांसि । योऽस्कभायदुत्तरं सधस्थं विचक्रमाण- नेधोरुगायः' इति त्रयी गम्भीरनिहादिभिः शब्दैडिण्डिम- वदुदजूघुपत्रिविक्रमयशः । एवमेवायं वेदमन्त्रोऽनुभूत: श्री. भट्टायः दैत्यौदार्येन्द्रयाच्चाविहतिमपनयन्वामनोऽर्थी त्व- मासीर्विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये। नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुस्तस्थौ रङ्गे- न्द्र वृत्ते तव जयमुखरो डिण्डिमस्तव वेदः॥' इति स्तवे। अद्भुतोऽयं श्लोकः प्रकृतावतारविषयः , तं च संग्रहेणानुभ- वामः । प्रह्लादपितृसभायां दिविस्पृशत्कायो नृसिंहोऽभूत् । तवंश्यवैरोचनेः सदस्यतिकनीयान्वामनोऽभूत् । त्रीणि जग- न्त्यव्यादिति पूर्वावतारविषये प्रार्थना कृता । तदवतारेण गूढमेव गर्भत्वेनावस्थितं त्रिलोक्याम् । यथा रामावतारे ऋषिभिः प्रार्थितम् , कृष्णावतारे तानेव गोपिकाः २८ श्रीमद्वेदान्तदेशिकस्तोत्राणि। कृत्वान्वर्थ्यते, तथा नृसिंहावतारविषये कृता प्रार्थनेदानी पूर्यते त्रिजगतां पादाम्भोजस्पर्शदानेन । तत्संयोग एव परमपुरु- षार्थः । वैरोचनो यद्यपि दितिजः , स परमोदारः । यस्मै कस्मैचिदर्थिनेऽर्थितं सर्व दद्यात् । स्वेनापहृतं त्रैलोक्यराज्य. मरिरपीन्द्रो यदि याचेत नियतं तस्मै दद्यात् । सुरनायको याच्चाया अपवेपे । सर्वलोकनायकस्तस्मिन्स्वाश्रिते याच्या. लाघवं याच्याभङ्गं चापनयन्स्वयं याचको बभूव । कोऽयं नाथगुणः । नाथ इत्यामन: समाख्यां नाथनेन कर्तृव्युत्प. त्यापि पूर्णां करोतीव प्रभुः । ' लोकनाथः पुरा भूत्वा सुप्री- वं नाथमिच्छति' इति तस्य नाथनम् , नाथकामनं च स्व- भावः। यद्यपि त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् इति तेनैव सनाथतरं जगत् । 'इन्द्रयाच्यामपनयन्वामनो. ऽर्थी त्वमासीः' इतीन्द्रस्य याचकत्वपरिहाराय स्वयं भिक्षुको भवतीति द्योत्यते । 'मध्ये वामनमासनिं विश्वेदेवा उपासते' इति कठश्रुतिर्वामनावतारविषय इति श्रीमन्मध्वमुनयः । त- थार्थवर्णने सर्वदेवोपास्यत्वं वामनस्योपपाद्येत । तस्य च ब्र. झरुद्रादिमान्यत्वं प्रसिद्धम् । 'शब्दादेव प्रमितः' इति सूत्रेण परामृष्टः शब्दो वामनश्रुतिरूपशब्दः, नेशानपदघ. टितः ईशानो भूतभव्यस्य' इति लिङ्गप्रतिपादकशब्दः , .
दशावतारस्तोत्रव्याख्या । ६९ कुतः सृष्टिसंभवः यद्रीत्यार्थवर्णने ईशानरूपश्रुतेरितीश्वरपरत्वतात्पर्य विवर्ण- यिध्येत सत्पक्षपातिभिरिति तेषामाशयः स्यात् । वामन. शब्दो नियतं भगवन्तमेव बोधयेत् । पादपद्मो भुवो माता , पिता वा, उभयं वा । तदाश्लेषे वत्सभूतस्त्रिजगत्तत्रासज्जत। अणो मनस्य पादपद्मेऽणुपरागवत्रिलोकी निलिल्ये । का. रणे लयः सहजः। एतेन भगवतो निरतिशयबृहत्त्वम् , विश्व- शरित्वं च विचित्रमुपपादितं भवति । लयानन्तरं सृष्ट्या भाव्यम् । भगवतोऽन्यतः । तल्लक्षणत्वेन तदसाधारणं खलु विश्वस्रष्टुत्वम् । तदवयवान्तरं नाभीप- हामन्यं भुवनप्रामं सिसृक्षति । तन्नालीकसृष्टब्रह्मसृष्टं जग- स्वदेउवयवान्तरभूतपद्मान्तरस्य नालमभूदिति स्पर्धयेवान्य- न्मानक्षमं जगत्सिमृक्षति । नित्योऽपौरुषेयो वेदो बन्दीव त्रिविक्रमयशांसि गायति । ताताड्यते तद्विक्रमडिण्डिमम् । ऋगेषाभेरीदुन्दुभिताडनवदुञ्चगम्भीरा शब्दतोऽर्थतश्चेति रसि- कमनःसाक्षिकम् । ' उरुगायः' इति वदन्ती श्रुतिस्तद्यशसो गायमानत्वं व्यनक्ति । उरुभिर्बहुभिरुरु विस्तीर्ण दीर्घमुच्चै- रुगीयत इत्युरुगायः । उरुगाने उरुतालापेक्षा स्वरसा । सा व पूर्यते श्रुत्यैव दुन्दुभिनिदिगम्भीरशब्दैः । शब्देस्तालो निर्वय॑ते । वेदशब्देषु सर्वे शब्दा अन्तर्भवेयुः । न शब्दो.
श्रीमद्वेदान्तदेशिकस्तोत्राणि । । ऽन्यं शब्दं सहेत । जयभेरी संपादितेत्युक्तम् । अष्टसु दि- क्सौधेषु स्थिरध्वजपट्टिकाः स्थाप्यन्त इति प्रदर्यतेऽत्राचारि- ति रसिकैर्भाव्यम् । त्रिविक्रमयशो वेदो घोषयतीति श्रीमद्ध- हार्याः । जिगीषितस्य दैत्यस्यौदार्येण जितोऽजितो वामनस्त- द्यश: प्रख्यापयितुं स्वयं लोकविक्रान्तभटो भूत्वा पदातिरेख लोकानतिवेगेन क्षणकालेनाक्रम्याष्टसु दिशासौधेषु पवि- वामृतध्वजपटीवर्तयति खचरणनिर्गलत्सुरसिन्धुस्रोत:फेनै- रित्याचार्याः प्रदर्शयन्ति । ' ध्वजारविन्दाङ्कुशवजलाञ्छनम् इति चरणगतध्वजेनापि विजगदङ्कनं चारु प्रदश्यते । वाम. नभूमिकया वैरोचनसदःप्रवेशः । करे पतिते तोये वामनस्त्रि- विक्रमो भवति । पूर्वावतारे विग्रहविशिष्टस्य भगवतो व्या. प्तियरूपि । अधुना विग्रहैकदेशभूतपादमात्रण निजगढ्या- प्तिनिरूप्यते । स्वयं बृहत्त्वं वदान्यस्य बलेयंगसो बृह्मणत्व- मित्युभयरूपं ब्रह्मत्वं प्रदर्यत इत्यवधेयम् । ब्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः। औदा- यंजलधिर्भगवान्बलिं याचते । याच्याया ब्रीडा सहजा। तया च प्रांशोरपि वामनीभवनं सहजम् । महत्या नवीन- दीनभावजन्यब्रीडया विध्यते भगवान् । ततोऽपि महती दातुर्बले/डार्थिनोऽल्पयाचने । प्रतिषेधन्तं गुरुमुल्लचथ ददा- दशावतारस्तोत्रव्याख्या। ०१ , ति । दानेऽप्यल्पमेव याचितमपूर्वदुर्लभपालेणेति लज्जया वि- द्धो भवति । तल्लज्जागुणेन विद्धो भवति प्रतिग्रहीता भग- वान् ‘ह्रिया देयम्' इति शास्त्रीयधर्मानुष्ठानेन सन्तोषितः । उदारो भगवानौदार्यरसज्ञः । दातरि हीरूपश्रियः शोभा स एव वेद । स्वस्य याच्याजन्यब्रीडावृतत्वेऽप्यल्पयाच्याप्रयुक्त- ब्रीडाविद्धत्वरूपदातूगुणेन विद्धस्तथशो दिगन्तेषु स्वेनैव सद्यः पादचारेण गत्वा प्रथनीयमिति दिशोऽन्तान्धावतीव बृहद्रूपं परिगृह्य । नायं त्रिविक्रमावतारो जगन्ति मातुम् , स्वीकर्तुम् , इन्द्राय प्रदातुं च । किं तु दातुर्बलेरौदार्ययशः स्वयं क्षण- काले दिगन्तविश्रान्तं प्रथयितुमित्याचार्या व्यञ्जयन्तीव । यद्यप्यवतारात्पूर्वमन्य उद्देशोऽभूत् , अधुना तद्विस्मृत्य ब- लियशसः सद्यः प्रथनमेव काचते बलिगुणविद्धेन । वदान्य- शब्दो वद अन्यदपीति व्युत्पन्नः स्यादिति भाति । अन्यं वरं वृणीष्व, अन्यद्वद' इति खल्वबोचदाता दानवः । तद्वि- षये वदान्यशब्दोऽन्वर्थः । ईदृशव्युत्पत्तिरप्याचार्याभिप्रेतेव ! वदान्यदानवशब्दयोरत्यन्तं वर्णसाम्यम् । दानवेषु वदा- न्यो दुर्लभ इति तस्याधिकं यशः । बलिं जेतुमागतो भग- वांस्तद्रीडागुणेन जितः स्वयं तहास्यमङ्गीकृत्य तत्सेनाप्रभटो भूत्वा तद्विजयध्वज स्वयं पादचारेण सर्वत्र नयनटाट्यते । ' श्रीमद्वेदान्तदेशिकस्तोत्राणि । . यद्यपि यशस्वी प्रभुर्जीडाविद्धोऽधोमुखस्तिष्ठति, औदार्ययश- सोरल्पदानेन हासः समजनीति, अयं तद्गुणजितः शत्रुभट- स्तधश उद्धतमुद्घोषयतीति घाटीशब्देन व्यज्यते । यशसः स्वयं प्रथनं स्वभावः ‘न हि कस्तूरिकामोदः शपथेन नि- वार्यते । ततोऽप्यप्रयायी भवत्ययमप्रभटः । स्वतः प्रथने भगवतो बृह्मणत्वं न सिध्येत् ।। त्रैयक्षं मकुटं पुनन्नवतु नस्वैविक्रमो विक्रमः। शिव- स्य शिवत्वकरणं प्रथमम् । अनन्तरं त्रिजगतः पवित्रीकरण पादविन्यासेनेति व्यज्यते । 'देवो नः शुभमातनोतु' इति खलु शुभत्वविस्तारणमवतारेभ्यः प्रार्थितम् । शुभत्वरूपशि- वत्वं प्रदीयते । 'त्रैयक्षम्' इत्यक्षित्रयेणापि सादरवीक्षणं भगवत्पादस्य मकुटनिवेशनकाल इति व्यज्यते । सादरं सानन्दं तत्र बीण्यपि विलोचनानि व्यापारयामासेति भावः। धूर्जटिशिरसि पतन्ती गङ्गा विचित्रं प्रीणात्याचार्यान्। विन्ध्या- चलविकटसन्ध्यानटजटापरिभ्रान्तेति गङ्गा वर्ण्यते । नटराजो धूर्जटिः । सन्ध्यायां सन्ध्यारक्तजटाभिर्विचित्रमानन्दताण्डवं वर्तयते । नृत्यतस्तस्य शिरसि गङ्गा विष्णुपदानिपत्य भूयो- भिरावतॆरतिद्रुतं बम्भ्रमीति । को वा तदर्शनेन न रञ्जितो भवेत् । नृत्यत: शंभोर्जटासु पतन्ती गङ्गा विचित्रं नृत्य- , दशावतारस्तोत्रव्याख्या। तौति चारु प्रदय॑ते आचार्यैः 'जडकिरणशकलधरजटिल- नटपतिमजुटतटनटनपटुविबुधसरित्' इत्यादिना। नृत्यतश्चू. डायां तत्स्था शशिकलापि नरीनति | गङ्गा चातिवेगं सबह्वा- वर्त नृत्यति। धूर्जटेरङ्गमधु नारी, अर्ध पुमान् । उमाकृतव्य- तिकरे तदङ्गे लास्यताण्डवभेदेन द्वेधा विभक्तं नाट्यम् । यद्यपि रुद्रः, स्वार्धभूतया नार्यायमतिसुकुमारलास्यमपि दर्शयतीति रुद्रशब्देन व्यज्यते महाकविना | सन्ध्यायां चेदं नर्तनम् । एवं खलु श्रीनटराजस्य नटनमनुभाव्यमिति प्रदर्श्यते तद्रसझै- राचार्यैः । 'कदा पुनस्त्रिविक्रम त्वचरणारुणाम्बुजं मदीय- मूर्धानमलंकरिष्यति' इत्युत्कण्ठन्ते महान्तः । अस्मदज्ञानद- शायामलंकरणेन न तुष्यामः। पुनः कदा वयमनुभवाम इत्युत्कण्ठ्यत इति शब्देन द्योत्यत इव । विष्णुं क्रान्तं वासुदेवं विजानन् ' ' लोकविक्रान्तचरणौ शरणं तेऽब्रज प्रभो' इत्यादिवचनान्यत्र भाव्यानि । विश्वामित्रः 'विष्णु- मानुषरूपेण चचार वसुधातले' 'मया तु भक्त्या तस्यैव वामनस्योपभुज्यते' इति च पुंसां दृष्ठिचित्तापहारिविग्रहस्य रामस्य पुरतो वामनस्य शोभां प्रशशंस । वामनावतारस्य सर्वातिशायिलावण्यमिति वकुलभूषणादिभावुकानामनुभवः । भूमौ पादं न निक्षिपेयुर्देवा लाघवभिया । अयं देवदेवः पुन: . N श्रीमद्वेदान्तदेशिकस्तोत्राणि । सर्व पृथिवीतलं निबिडं निरन्तरं पस्पर्श पादेन । एतब्यज्यते ऋषिणा 'वसुधातले चचार' इति । पूर्व वामनश्वचार । इदानीं तदभिन्नस्य तव तदाश्रमे सश्चरणं संपाद्य, तत्सश्चर- णानन्दमनुभवेयमिति खलु मयात्र त्वदानयनम् , न ऋतुर- क्षणार्थमित्यपि व्यज्यते । नभःस्थले लचितार्कशशिमण्डल: क्रमः' इति माघानुभवः । चरणपङ्कजेनाङ्कितम्' इति दयाशतके ।। यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिःस्रो- तोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ! शौरिपदो- झिता सुरसरिदाकाशे निष्पतन्ती दिक्षु सर्वत्र व्यापिनीः शुभ्राः फेनच्छटाः प्रक्षिपति । गिरिनिर्झरपातं दृष्टवतामेत- सुविदितं स्यात् । ताश्च यशस्ततय इव, श्वेतध्वजपटा इव च दृश्यन्ते । 'नलः सितच्छत्रितकीर्तिमण्डलः' इति नैष- धारम्भे । स्वग्रन्थस्यापि ताशयश आशास्त इव कविर्यथा सुधावत्स्वग्रन्थस्य सुरैरपि पानमाशास्ते । पूर्वार्धे ' कथाम्' इति पठता तन्मनोरथः स्पष्टमेव प्रकटचिके, स्वकाव्यस्यापि तत्कथात्वात् । सिद्धान्तशब्देन स्वसिद्धान्तगुरुपतिविषयः 'दिक्सौधाबद्धजैत्रध्वजपट...' इत्यादिश्लोकः स्मार्यत इव । नाभीपद्मसिद्धान्तवदयं पादप्रदर्शितो भगवत्परत्वसिद्धान्तः । :
दशावतारस्तोत्रव्याख्या। यशसः पवित्रत्ववर्णनमुचितम् । न गङ्गाम्भसः पवित्रम् । न त्रिविक्रमपादात्पवित्रम् । म्वच्छावदातगङ्गाफेनच्छटा ध्व- जायन्ते । भगवत्पादो ध्वजवाही भटः । दिक्सौधा ध्वजस्थापनस्थानानि । एवं बृह्मन्यते भगवदभिमानपात्रस्य यशः ॥ क्रोधाग्नि जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा- दक्षत्रामपि संततक्ष य इमां त्रिसप्तकृत्वः क्षितिम् । दत्वा कर्मणि दक्षिणां वचन तामास्कन्ध सिन्धुं वस- नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥७॥ अयमवतारः शेषभूतं कंचिदनुप्रविश्य । शेषस्य निरति- शयशक्तिप्रदर्शने बृम्हणत्वरूपबृहत्त्वं सम्यगुपपाद्यत । तच्छ- क्तिदातृब्रह्मणो निरतिशयबृहत्त्वमप्युपलक्ष्येत । विप्रे परशु. रामे सर्वक्षत्रियविनाशनानुरूपां महतीं बाहुशक्तिमादधाति । भगवद्वाहुजाः क्षत्रिया विप्रबाहुना घात्यन्ते । किमर्थ विप्र- योनौ शक्त्यावेशनम् ? लोकरक्षार्थ स्थापिताः क्षत्रियाः । निरायुधा दीना अनाथा ब्राह्मणास्तैखातव्याः। 'क्षत्रियैर्धा- येते शस्त्रं नार्वशब्दो भवेदिति' इति क्षत्रियवंश्यो दाश- रथिः । यैरेव ब्राह्मणा रक्षणीया यदि ते क्षत्रिया एवं ता- न्यातयेयुर्यथा जमदग्निं कार्तवीर्यादिः, तेषां निर्मूलनं नान्या.
७६ श्रीमद्वेदान्तदेशिकस्तोत्राणि । ? य्यं स्यात् । यदि प्रजारक्षणार्थ नियुत्ता अधिकारिणस्तत्रापि सेनाधिकारिणः स्वयं प्रजाघातुका भवेयुस्तेषां प्राणान्तिको दण्डो न्याय्यः स्यात् । तथैवेदानीं नियमः सर्वेषु देशेषु सेनानये को ब्राह्मणः 'मौनं चामौनं च निर्विद्याथ ब्राह्मणः' इति श्रुतिप्रतिपादितो महातपस्वी 'ब्रह्मण एवायम्' ब्रह्ममात्रसंबन्धी। शमप्रधानास्तपोधना राज्ञा सर्वथा रक्ष. णीयाः। तद्विषये किंचित्कारेण तत्सुकृतं सर्वमपि दायत्वेन लभ्यते । तदपकृतौ च तदुष्कृतं सर्वमपकारिण सङ्कमेत् । शास्त्रफलं प्रयोक्तरि' इत्यनुल्लङ्घनीयं न्यायमपोद्यात्यन्तादरे- पैनं निरायुधं क्रुध्यन्तमप्रतिक्रुध्यन्तं स्वदेहयात्रायां निरपेक्ष रक्षितुं श्रुतिरेवं शशास । कार्तवीर्यः प्रसिद्धः पृथिवीपालः । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता। अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ॥ इति हृषीकेशवत्प्रजानामकार्यचिन्तनसमय एव चापहस्तः पुरस्तादाविर्भूय भीषयित्वाकार्यकरणानिवारयामास । तादृशी सिद्धिः संपादिता तेन परेषामकार्यनिवारणे। यदि स धर्म- सेतुः स्वयं तपस्विब्राह्मणपीडको भवेत् , तत्पुत्रस्य कोपो जायेव । रौद्रबीभत्सरसौ प्रदर्येतेऽस्मिन्नवतारे। क्रोधो न सहजो भगवतः । आहार्यः स तस्य । 'क्रोधमाहारयामास - दशावतारस्तोत्रव्याख्या। इतिवत् । न क्रोधः स्थायीभावो भवेद्भगवतः, यथा परशु- रामे विद्यते । क्षत्वजातिसामान्यस्य क्षत्रियेग भगवतोन्मू- लनं न न्याय्यम् । ब्रह्मण्यपराधो ब्राह्मणावेशनेन दीर्घवरः परिहर्तुमुचितः । जामदग्न्यो रुद्रशिष्यः । महावीरः को- पनश्च । तस्मिन्स्वशक्तिमावेश्य तद्वारा चिकीर्षितं साधयति । दशस्त्रवतारेषु द्वाववतारौ शेषजीवयोः। अवतारेष्वपि शेषी शेषमपि निवेशयति । तस्य कनीयानपि भवति। अक्त- रन्तौ शेषशेषिणौ समकालेऽपि भुवमलंकुर्वाते । यथात्र स्खे. च्छया शेषं गुरुत्वेन पूजयति लालयति च , तथा परमप- देऽपि तं संमानयिष्ये इति रहस्यमवतारेऽपि प्रकाश्यते । परशुरामकृत्यं जुगुप्सितमिति मन्येत । अब्रह्मण्यापाकरणरू. पनिमित्तेन ताशघोरकृयानि निरवय॑न्त इत्याचार्या व्यञ्ज- यन्ति · अब्रह्मण्यमपाकरोतु' इति । कथमन्यथा तद्वोरकृ- त्यस्य शुभत्वं निरुह्येत। हतक्षत्रियतनुगलक्षतजधारापूर्णानि घोरपञ्चमहासरांसि खल्वनेन व्यरचिषत । पञ्चत्वमापनक्ष- त्रियरक्तैः पञ्च सरांसि । क्षत्रमात्रप्रलयकृदयं रुद्रशिष्यः । भगवदाहितशक्त्या तस्य ताशं बृहत्त्वम् ।। क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमात् । पितृवधनिमित्त: क्रोध इति क्रोधहेतुप्रदर्शनं तस्य दोकान्त- Ge श्रीमद्वेदान्तदेशिकस्तोत्राणि । त्वनिवृत्तये । जमदग्निरित्यग्निरूपाक्षरघटितनामा पिता । त- मग्निं पीडयामास शत्रुः । तदाप्तभूतपुत्रस्य क्रोधाग्निस्तेनाजा- ज्वल्यत । पीडितोऽग्निरन्यमग्निमुदपाइयत् । अयं पुत्रः पि- तृवधोत्थितक्रोधाग्निं पितरं जमदग्नि मेने , उभयोरप्यग्न्यन्त. त्वात् । क्रोधाग्निं च पितरं मत्वा तं संततर्प शत्रुभातिक्षत- जधाराभिः । दीर्घायुश्चिरजीवी परशुरामः , तत्क्रोधोऽपि चिर. जीवी | बहुकालं तेन पितृतर्पण कार्यम् । चिरजीविनः क्रोधो दीर्घः । क्रमादेकाविंशतिकृत्वः प्ररोहतीनवनवक्षत्रिय- सन्ततीविच्छिद्य विच्छिद्य तद्रतधाराभिर्निवापाञ्जाल ददौ । क्रुद्धस्य करुणागन्धो न स्यात् । शत्रुरुधिरदर्शनं तस्य परमप्री- णनं भवेत् । ख्यपि द्रौपदी दुःशासनरुधिरेण स्वकेशपाशमा- ञ्जिजिषत् । क्रोधाग्नौ रुधिरमेव होतव्यम् । ' देवः स्वर्गग. तोऽपि शात्रववधेनाराधितः स्यात्' इति राक्षसः । दिवं ग. वोऽपि पिता शत्रुवधेनारात्स्येत । अमृतत्वतुल्यत्वेन वर्णितं वर्गसुखमनुभवन्नपि ततोऽप्यधिकं सुखमनुभवेच्छत्रुवधेनेति मुद्राराक्षसश्लोकस्य भाव इत्यवधेयम् । अनावाज्यादिक क्रमेण हूयेत , न यौगपद्येन , सकृद्वा । 'क्रमेण इति विकल्पशिरोवर्णनं क्षणभङ्गवादिमिस्ताथागतैः । नास्य क्रोधस्य क्षणिकत्वम् , किं त्वनेकजन्मानुगतत्वम् । अतः , युगपद्वा' दशावतारस्तोत्रव्याख्या । ७९ क्रमेण होमः । यथाग्निर्हताशनस्तथा क्रोधाग्निः शत्रुरक्ता- शनः ॥ . अक्षत्रामिह संततक्ष य इमां त्रिः सप्तकृत्वः क्षितिम् । ' द्यावापृथिवी निष्ठतक्षुः' इति श्रुतिः प्रत्यभिज्ञाप्यते । क्षि. तितक्षणमवतारबृहत्त्वोपलक्षकम् । ने तेनेव जगन्निर्माण तक्षणेन , किं तु क्षितेस्तक्षणेन निष्कण्टकीकरणमात्रम् । अत्त्रसामान्यं कण्टकमभूत् । तन्मात्रमपनीतं सम्यक्तन- णेन । अक्षत्वां संततक्ष । छेद्या वृक्षगुल्मलतादयो यथा छेत्सारं न प्रतियुध्येरन् , तथास्य प्रतिभटाः परशुना छिद्य- माना न प्रत्ययुध्यन्निति व्यज्यते । मूलानि निर्मूलयितुं क्षिति. तलं संतक्ष्येत । क्षत्वप्ररोहं निर्मूलयितुं पुनः पुनः क्षितितलं संततक्ष । 'अलावीभूपालान् पितृगणमताप्र्सीत्तदमृजा' इति श्रीभट्टपादाः ॥ त्रिः सप्तकृत्वः । अयं नीरसो निष्करुणः शुष्कः श्रो- त्रियः । 'दश पूर्वान्दशापरान् पुनाति' इति शुश्राव । आ- स्मानं चान्तर्भाव्य एकविंशतिः संपद्यन्ते । पावनकर्मणि पूर्वेषामपि तच्छास्त्रविषयीकरणं सुलभम् । अत्र तु हननवि. षये न शत्रुपूर्व्या दिवं गताः पुनर्हन्येरन् । पित्रादिप्रीणना राधनपावनादिविषये श्रुता निःसप्तसंख्याद्रियतेऽनेन श्रोत्रि- . .
८० श्रीमद्देदान्तदेशिकस्तोलाणि । येण वध्यसंख्यायाम् । अयं ब्रह्मचारी। अयं ब्राह्मणः, न जितं राज्यमीप्सेत् । राजगुणभूतरञ्जनव्यापारोऽस्याय- न्तमशक्यः । विप्रत्वाद्विरक्तत्वाच जितां पृथिवीं काश्यपाय प्रादात् । ब्राह्मणस्येशी विरक्तिः । राज्ये यदि सजेत तदर्थमेव क्षत्वहननं भवेत् , न पितृसन्तर्पणार्थम् , क्रोधा- ग्निसन्तर्पणार्थ वा। राज्यकामना क्रोधैकान्त्यं विहन्यात् । अयं क्रोधमेव जानाति, नार्थकामौ । धर्म तु जानातीति तृतीयपादेन बोध्यते ॥ दत्वा कर्मणि दक्षिणां वचन तामास्कन्ध सिन्धु वसन् । न स्वावस्थानार्थं स्वल्पमपि स्थलमियेष । कृत्स्नं ददौ । दत्वा भूमेबहिर्गत्वा समुद्रमास्कन्ध तत्र स्वतेजसा के- चित्स्थलं कल्पयित्वा तत्रोवास ॥ अब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः। किं शुभमयं क्रोधेकरस आतन्वीतेति चेत् , आब्रह्मकीटमब्रह्म- ण्यमपाकुर्यादित्युच्यते । ब्रह्मण्यविरोधे किमापद्येत । 'ब्रा- ह्मणो मम देवता' इत्युक्तभगवदैवतस्य हानिः स्यात् । धर्मेण लोको ध्रियते । देवेन लोको ध्रियते । वेदैर्लोको ध्रियते । तस्वितयं ब्राह्मणाधीनम् । असहनमुनिरित्युक्तः कोपनो मुँनिः । “आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता दशावतारस्तोत्रव्याख्या। . मुनेः' इति तस्य मुनित्वेन ग्रहणं वेण्याम् ॥ पारावारपयोविशोषणकलापारीणकालानल- ज्वालाजालविहारहारिविशिखव्यापारपोरक्रमः। सर्वावस्थसकृत्प्रपनजनतासंरक्षणैकव्रती धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥ निरतिशयबृहत्त्वादिपरत्वप्रदर्शनमस्मिन्नवतारे कथं श- क्यम् । 'आत्मानं मानुषं मन्ये' इति ब्रह्मत्वमत्यन्तं विस- स्मरेऽवतरता भगवता। आसुरमोहनार्थ तानात्मनो मानु- षत्वं मानयितुं मुक्तकण्ठं रुरोद दण्डकेषन्मत्तवत् , पामर- वक्ष । अस्मिन्नवतारेऽपि परत्वं प्रदर्शनीयं ब्रह्मत्वाहानार्थम् , अवतारेष्वपि बृहत्त्वमध्यक्षयितुं च । कथमेतत्संपायेत । यद्यपि स न स्वयं बृहत्त्वं प्रदर्शयामास, तच्छरण प्रलयामेरपि घोरतरं सागरशोषणरूपोपसंहर्तृत्वादिकं प्रादर्शि । तच्छरस्य वाशबृहत्त्वेन तद्ब्रहत्त्वमध्यक्ष्येत । शूरतमः शत्रुपक्षप्रधा- नमल्लः शऋजिदेतस्मिन् सागरशोषणविक्रमं दृष्ट्वा विसिध्मिये, तेन च राममुत्तमवीरं स्वसदृशप्रतियोद्वारं मेने इति सुन्दरं प्रदश्यते काव्यप्रकाशोदाहृते 'क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा युष्मदेहेषु लज्जां दधति परममी ८२ श्रीमद्वेदान्तदेशिकस्तोत्राणि। . सायका निष्पतन्तः । सौमिले तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः किंचिद्भभङ्गलीलानियमितजलाधं राम- मन्वेषयामि॥' इति श्लोके ।। अस्यावतारस्य मुख्य प्रयोजनं शरणागतिरूपसूक्ष्मधर्मप्र- काशनम् । तद्धर्मसंस्थापनार्थोऽयमवतारः । सुग्रीवं प्रपन्नं जिघांसंस्तपितृसमस्तज्ज्येष्ठो वाली अस्य प्रथमवध्योऽभूत् । अनन्तरमेव रावणः । यद्यपि स भायर्यापहारी महापराधी, न स प्रपन्नं कमप्यहिनत् । मतङ्गाश्रमरूपस्थलविशेषलाभा. सुग्रीवप्राणा ररक्षिरे । यो धर्मः प्रतितिष्ठापयिषितस्तद्विघाती प्रधानशत्रुर्भगवतः । नूतनाश्रितो विभीषणो राघवेण समुद्र- शरणवरणं रुरुचे । तदिच्छामनुरुध्याञ्जाल प्राङ्मुखः कृत्वा अतिशयनभूमिकया पयोधिपुलिनममूषयत् । अवतारभूमि- कामध्ये प्रदर्शिता प्रतिशयनभूमिका । तेन चोद्यतो महोदधि- राधिकमधिकं विजजम्भे । सागरतरणार्थ मार्गादानेन न चु- क्रोध प्रभुः । किं तु प्रपत्तिमार्गविहननेन । तदानीमेव समु- द्रराजस्य शृण्वत उद्घोषित: प्रभुणा तत्पुलिने प्रपत्तिधर्मः तद्धर्मविहनने महान् क्रोधः समजनि । तत्समयसंरम्भवि- जृम्भितस्तस्य सर्वेश्वरभावः, यो महता प्रयत्नेन पूर्व गुप्तः । उद्घोषितं च तदा 'सागरं शोषयिष्यामि' इति । 'कुशली यदि दशावतारस्तोत्रव्याख्या। ८३ काकुत्स्थः किं न सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥' इति सीतया पपृच्छे हनूमान् । स च प्रश्न आवेदितः प्रभोभक्तेन प्राज्ञेन दूतेन । सागरमेख- लामिति वदन्त्या सीतया सागरोऽपि तस्य युगान्ताग्ने- रिन्धनं भवेन्महीदहनायेति व्यजितम् । 'जगत्सशैलं परि वर्तयाम्यहम् ' इति च क्रोधसमये उक्तं भगवता । न मही सीतामाता दिधक्ष्येत भगवता । मह्येकदेशभूतलका ददहे हनूमता ! सा च पुनर्नवीकृता । सागरेण महदपराद्धम् । तहहनं सीतामभिनन्दयेत् , इन्द्रजिदादिशत्रूश्च विस्मापयेत् , अपराधिनं समुद्रराजं च विष्यात् । क्षितितक्षणमुक्तम् । इदानी समुद्रदहनमुच्यते । नाटकेषु विचित्राद्भुतदर्शनान्या. बश्यकानि ।। पारावारपयोविशोषणेत्यादि । जलेन शाम्येत्प्रज्वलि- तोऽग्निः । अग्निना जलं तप्येत । आशीविषोपमविशिख. प्रवरदग्निना दिधक्ष्यतेऽब्धिः । 'अग्निर्वै मृत्युः सोऽपाम- नम्' इति बृहदारण्यके याज्ञवल्क्यः । लोकनाशकोऽग्नि- स्तनाशका आप इति मृत्युमृत्युत्वमपां दर्शितं तत्र । तद- न्यथा क्रियते भगवता । : अग्नेरापः' इति श्रुतिः । अप्का- रणकोऽग्निः। प्रलयाग्नौ अपां लय उचितः । प्रलयाग्नेः ४ श्रीमद्वेदान्तदेशिकस्तोत्राणि । . . । समुद्रदहनसामर्थ्य न्याय्यम् , लयप्रकरणात् । कारणे लय- स्य न्याय्यत्वात् । प्रलयकारणत्वं च ब्रह्मणः । जन्मादे: प्रत्येकं ब्रह्मलक्षणत्वमस्ति खलु । तच्छराणां तदिच्छामात्रेण समुद्रदहनशक्ति: स्यात् । परावरस्य भगवतो विशिखः पा. रावारं दहति । ज्वालाजालविहारहारीति तत्साम्यं वा, तदा- धिक्यं वा । दयानिधिना खलु प्रपत्तिमार्गः प्रकाश्येत उत्तरार्धे च प्रपचिः प्रस्तूयते । कथं पूर्वार्धे ईशनिष्करुण. त्वघोरत्वादिप्रदर्शनामिति चेत् , तत्प्रत्युक्तं दयाशतके - अपा पत्युः शत्रूनसहनमुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् । विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्वि- हातिभिर्दिशत्येवं देवो जनितसुगतिं दण्डनविधिम् ॥' इति । सागरं दण्डायतुं प्रवृत्तः कोपस्तद्धितं परिणनाम । अतः पूर्वार्धेऽपि दयाप्रमावस्यैव वर्णनम् । समुद्रराजं तादृशकोपज. नकापराधिनमपि शरणवरणक्षणे ररक्ष । तदहितांश्च तेनैक कोपेन जघान । कोपस्थातिबृहत्वप्रदर्शनं तच्छमनोपायभूत. नमस्कारस्य ततोऽपि बृहस्वं प्रदर्शयेत् । 'प्रत्सनमञ्जलिरसौ वय निप्रहाले।' अन्यापि गतिर्वर्तते पूर्वोत्तरार्धयोरेकीकरणे। सागरः प्रेप्सितां सीतां व्यवधत्ते । मध्यपाती स सीताप्रा- प्तिपरिपन्थी । सीता च शोकान्मुमोचायषितश्चेतनः । चेत । - दशावतारस्तोत्रव्याख्या । नवृजिनविरचितस्तस्य भवसागरः । हनूमत्समेन गुरुणा चेत- नस्य भर्तृप्रेप्सोत्कण्ठानिवेदने तत्संश्लेषध्यवधायकपापल्पभव- सागरं शोषयति भगवान्विशिखदवाशुशुश्चणिना। चेतनशा- नाग्निना जनितो भगवत्क्रोधाग्निः सर्वकर्माणि भस्मसाकुर्या. दित्यध्यक्षीकार्यत इव भगवता। अस्मज्ज्ञानजन्यभगवत्को- धानिरस्मत्पापसागरं शोषयति । नास्मज्ञानमात्रस्य तत्सा- मर्थ्यम् ॥ सर्वावस्थसकृत्तपत्रेत्यादि । सर्वलोकशरण्यकर्तृकार- णागतिभङ्गरूपमहापराधिनमपि शरणं गतं ररक्ष। तब्ध- ज्यते सर्वावस्थेति । तादृक्प्रवृद्धो मन्युरा पराधिनस्तस्य प्रणामक्षणे शशाम ॥ धर्मो विग्रहवान् । शत्रोमारीचस्य वचनं रावणं प्रति । शत्रुमपि रमयति गुणै रामः । 'न रामः परदारान्वै चक्षु- यामपि पश्यति' इति तत्काले शात्रवाविष्टा कैकेयी शत्रुकृतप्रशंसा कथमयथार्था स्यात् । तत्कृतप्रशंसां सर्वः श्रद्धास्यति । अनुकूलकृतप्रशंसा पक्षपातप्रयुक्ता स्यात् । श्रद्धा खलु मुख्यमकं प्रपत्तेः । सा चोत्पाद्यते शत्रुप्रशंसा- शब्दोपादानेन । धर्मश्च प्रपचिरूपधर्मः स्यात् ॥
श्रीमदेदान्तदेशिकस्तोत्राणि । । 'वीर्य- -- अधर्मविरतिं धन्वी स तन्वीत नः । किं शुभमातनो- त्वयम् । अधर्मविरतिरूपं शुभमातनोतु। भवसागरपिरति तनोतु । सागरशोषणवृत्तान्तेन सेतुनिर्माणं ज्ञाप्यते । तेन च सेतुना ब्रह्महत्याद्यधर्मविरतिर्भवति । 'धन्वी सः' इति 'रामः शस्त्रभृतामहम्' इति प्रसिद्धः स धन्वी। वान्न च वीर्येण महता स्वेन विस्मितः' इति स्ववीर्यावि. स्मितोऽपि स्वयमेवावतारान्तरे दाशरथ्यवस्थमात्मानमेकध- वित्वेन प्रशशंस । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' इति प्रपन्नस्य शिष्यस्य तत्त्वमवश्यकथनीयम् , न गोप- नीयम् । 'शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा' । अनितरश- रणानामाधिराज्येऽभिषिञ्चेच्छमितविमतपक्षा शार्ङ्गधन्वानु- कम्पा' इति शरणागतत्राणविषये शार्ङ्गधन्वित्वकर्तनमेत. च्छलोकार्थ व्यञ्जयतीव ।। फकत्कौरवपचनप्रभृतयः प्रास्तप्रलम्बादय- स्तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः। क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै- राकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः॥ शेषशेषिणावुभौ समकालं भुवमलंचक्रतुः । शेषश्च शेष्य.
दशावतारस्तोत्रव्याख्या। इत्याद्यो रामः। भवच्छेषी च शेषः । शेषमत्यन्तं संमानयते शेषी । स च शेषिधर्मः सम्यक्स्थाप्यते । 'कचित्क्रीडापरिश्रान्तं गोपोत्स- झोपबहणम् । स्वयं विश्रमयत्यार्य पादसंवाहनादिभिः ॥' इति रामपादसंवाहनं कृष्णेन । बृहत्त्वप्रदर्शनं खलु मुख्य. कृत्यमत्र । तत्कथं निरूप्यत इति चेत् , हलाप्रेण हस्तिनपु- रमाकृष्य गङ्गायां पातनम् , तेनैव यमुनाकर्षणमित्यादिभिः कृत्यैस्तस्य बृहत्त्वमुपलक्ष्यते । — अक्षत्रां क्षिति करिष्यामि' 'अद्य निष्कौरवामुवीं करिष्यामि' इति तृतीयो रामः । यथा कृष्णः शिशुर्विपुलोलूखलं चकर्ष तथा तज्ज्येष्ठः ‘लाङ्गलाण नगरमुद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥' उभयोात्रोः कर्षकत्वं स- मानम् । एकः संकर्षणः, अपरः कृष्णः । एको हलधरः । अपरश्चक्रधरः । एकेन शेषेणाधरामेण क्षितिनिष्कण्टकं स. ततक्षे । अनेन हलधरेण सा कुष्यत इव । क्षेमकृषीवलो- ऽयं हलधर इति श्रीमट्टपादाः । कौरवपत्तनफक्कनेन ब्रह्म मितशेषस्याद्भुतबृहच्छक्तिः प्रदश्यते । ब्रह्मणो बृहत्वं ब्रह्म- यितृत्वं च दर्शितं भवति । शेषशेषिणोरुभयोरपृथग्भूतत्व- रूपानन्यत्वं सम्यग्बोध्यतेऽत्र तद्विहृतीनामपृथग्भूतत्वकथनेन अपृथग्भूतशब्दः सिद्धान्तप्रतितन्त्रभूतमर्थमुद्घाटयतीव । त. .
८८ श्रीमदेदान्तदेशिकस्तोत्राणि । दध्यक्षीकरणं मुख्यप्रयोजनम् । विशिष्टाद्वैतरूपभद्राण्ययं त. नोति । 'भद्राणि नस्तन्वीत' इत्युक्तम् ‘न: शुभमातनोतु' इतिवत् । किं भद्रं तन्वीतेति पृष्टे प्रतिवचनं दीयते उत्तरा- धैन । उभयोरपृथग्भूतयोः क्षीरशर्करयोरिव परस्परास्वाद- कत्वम् । तादृशं भद्रमाशास्यते । तदेवाभिप्रेयत इव क्षेम- शब्देन श्रीभट्टायः । एतादृशापृथक्सिद्विरूपभद्रविस्तारणा- दस्य बलभद्र इति नामेवेति व्यञ्जयन्याचार्याः शुभार्थकय- द्रशब्दमत्र प्रयुञ्जानाः। उमयोरनन्यत्वमाभिप्रेत्य श्रीभाम. कारैर्बलरामकृतप्रलम्बमुष्टिकादिहननमपि कृष्णचेष्टितत्वेना- वर्ण्यतेत्युक्तं तात्पर्यचन्द्रिकायाम् । 'भगवतो बलभद्रस्या- प्येतदंशरूपत्वात्प्रलम्बमुष्टिकादिहननमप्येतत्कर्तृकतयोपात्तम्' इति । तदेवानन्यस्वमत्रापि द्योत्यत इवाचारपृथग्भूतशब्दं अयुब्जानैः ॥ फकत्कौरवपत्तनप्रभृत्तयः। कृष्णो गजं कुवलयापीडं जधान । तज्ज्येष्ठो रामो गजाह्वयं नगरं हलाप्रेण विचकर्ष । प्रभृतिशब्देन यमुनाकर्षणवृत्तान्तो द्योत्यते। 'अनागतां हला- प्रेण कृषितो विचकर्ष ह।' पादयोः पतिता यमुना चक्रन्द राम राम महाबाहो न जाने तव विक्रमम । यस्यैकांशेन विधृता जगती जगतः पते ॥ इति । एनेन ब्रह्मवत्तस्य दशावतारस्तोत्रव्याख्या । महिमा सुस्पष्टं प्रकाश्यते । यदा सा 'परं भावं भगवतो भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्त- वत्सल ॥' इत्यभयं ययाचे, सद्यस्तदपराधमक्षाम्यदल इत्यु- च्यते । ततो व्यमुलचधमुनां याचितो भगवान्बलः ।' अ- नेन पूर्वोत्तराभ्यां स्थापितशरणागतवाणधर्मोऽनेनापि प्रख्या- पित इति सूच्यते विहृतयः । कनीयानिव रागतालादौ नायं रसिकः । अस्य तालो ध्वजा चिन्हभूतः। नेतरं तालं जानात्ययम् ।। तालाङ्कस्य तथाविधा . तन्वन्तु भद्राणि नः । नः शुभमातनोतु' इति य. दुक्तं प्रथमश्लोके तदिहापि प्रार्थ्यते । उचितमिदं भद्रे भद्र- प्रार्थनेति व्यज्यते बलभद्रनामदृष्टभद्रशब्दप्रयोगेण किं भद्रं प्रार्थ्यत इति चेदुच्यते उत्तरार्धे । क्षीरं शर्करयेत्यादि । उभयोः शेषशेषिणोस्तव्यापारयोश्च परस्परापृथग्भूतत्वेनान्योन्यावादयितृत्वरूपं भद्रं विवक्ष्यते भद्रप्रार्थने । शेषी क्षीरम् । शेषः शर्करा । शर्करीभूतः शेष: शेषिणमधिकं स्वादयति । केवलो दाशरथी रामो न तथैकः शोभेत, यथा गुहेन सहितो लक्ष्मणेन च सीतया । यावन्तः श्रीमद्वेदान्तदेशिकस्तोत्राणि । शेषास्तावानधिकमधुरिमा शेषिणः । कृष्णस्य केलय: स्वादु- त्वेन प्रसिद्धा इति 'ता:' इत्यनेन व्यज्यते । कृष्णशब्देन निर्वृतिभूमिरिति निर्वचनलब्धार्थो विवक्ष्यते । स्वयं निर्वृति- भूमिः कृष्णः । अखेलन् केलीरहितोऽपि से निवृतिभूमिः । तस्य कृष्णस्य केलयो जगते स्वदेरन् । ता: प्रसिद्धाः कृष्ण. केलयोऽपि बलभद्रकेलिभिरपृथग्भूता अत्यन्तं रसवत्योऽभू- वन् । अपायधुरंधरस्य साहसरसिकस्य कृष्णस्य क्षणविश्लेष- मपि न सेहे ज्येष्ठ इति व्यज्यते श्रीमद्भः ‘यद्विश्लेषलवो- ऽपि कालियभुवे कोलाहलायाभवत्' इति । नाथायैव नमःपदं भवतु नश्चित्रविचित्रक्रमै- qयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते । कालिन्दीरसिकाय कालियफाणिस्फारस्फटावाटिका- रङ्गोत्सङ्गविशङ्कचङ्गमधुरापर्यायचर्या यते ॥ निर्वृतिभूमिराचार्याणां कृष्णावतारः । तथा चोक्तं तात्प- र्यचन्द्रिकायां नवमाध्यायचतुर्दशश्लोकभाष्यटीकायाम् ' कृषि- भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।' इति कृष्णशब्दोऽपि पुरुषार्थहेतुत्वप्रतिपादनमुखेन परव्यूहादिसमस्तावस्थासाधार- ण इवि ज्ञापनाय व्यापकयोः (नारायणवासुदेवशब्दयोः) मध्ये दशावतारस्तोत्रव्याख्या। ९ पठितः । अवतारान्तरेष्वपि कृष्णशब्दः प्रयुज्यते ' उद्धृतासि वराहेण कृष्णेन शतबाहुना' इति । अस्यावतारस्य ब्रह्मत्वे न कोऽपि संशयीत । नाहं प्रकाशः सर्वस्य योगमाया- समावृतः' इति श्लोकमवतारयन्तो मधुसूदनसरस्वत्य ऊचुः 'ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमाविर्भवितवति संप्रति च श्रीवत्सकौस्तुभवनमालाकिरी- ठकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रव- रधारिचतुर्मुजे श्रीमद्वैनतेयवाहने निखिलसुरलोकसंपादितरा. जराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदि- व्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके निखिललोकनिस्ताराय भुवमवतीर्णे विरिश्चिप्रपञ्चासंभविनि. रतिशयसौन्दर्यसारसर्वस्वमूर्ती बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे कर- दीकृतपारिजातार्थपराजितपुरन्दरे बाणयुद्धविजितशशाङ्को- खरे समस्तसुरासुरविजयिनरकप्रभृतिमहादैतेयप्रकरप्राणपर्य- न्तसर्वस्वहारिणि श्रीदामादिपरमरक्तमहावैभवकारिणि षोड शसहस्रदिव्यरूपधारिणि अपरिमेयगुणगरिमाण महामहिमनि नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनो- ऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीपुराह भगवा- श्रीमदेदान्तदेशिकस्तोत्राणि । - न्' इति । साधूक्तं श्रीमद्ब्रह्मानन्दैरेतद्विषये — मधुसूदन- सरस्वत्याः पारं वेत्ति सरस्वती। सरस्वत्याः परं पारं बोत्त वै मधुसूदनः ।' इति । भूतार्थव्याहृतिरेषास्यान स्तुतिः । ब्रह्मत्वप्रदर्शिका विश्वरूपादिवृत्तान्ता बहवः सन्ति । किमर्थ तेषामन्यतमस्येहाग्रहणम् ! यदि कौमारकेऽपि ब्रह्मत्त्वं निदर्येत ; तत्तत्सम्यगुपपादयेत् । मिथ्यागोपस्य विश्वगोपत्वं प्रदिदयिष्यन्त्याचार्याः । गोपायेदित्यवतारान्तरेषु प्रार्थना । गोपवदाचरेदित्यर्थद्वयं भवेदत्र । तन्न हास्यते वैचित्र्यदिद. शयिषुभिराचार्यैः । 'चित्रविचित्रक्रमैः' इत्यस्मिन्श्लोकेऽपि वैचित्र्यसक्तताप्रकटनम् । तर्हि शैशवेऽपि मावे मुखं व्या- दाय तत्र विश्वं प्रादर्शि । तदपि गोपालबालकृतम् । बाल्ये प्रदर्शनादपि कौमारके तत्प्रदर्शनं निपुणतरं स्यात् । किमर्थ कालियमर्दनचरित्रोपादानमिति चेत् , सन्यत्र बहवो हेतवः -रख्ने धामनि नटनं खलु प्रतिजज्ञे। वृत्ता अवतारा अब समाप्यन्ते । भाव्यवतारः कश्चिदवशिष्टः । वृत्तावतारपरि- समाप्तौ नृत्तवर्णनसंभवे तदुपादानमत्र सुसङ्गतम् । अत्र कालियफणा रकं भवतीत्युच्यते । नवनीतनटनादेर्यद्यपि नवनीतादपि स्वादुत्वमस्ति, न तेन बृहत्वमुपपाद्येत । कृष्णत्रयमम्मिश्चरित्रे सजनमिति चार दयते श्रीशुकेन - दशावतारस्तोत्रव्याख्या । , 'विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः इति वदता । तन्मूर्धरत्नीनकरस्पर्शतिताम्रपादाम्बुजो- ऽखिलकलादिगुरुननत ।' इति विचित्र प्रदर्श्यते नर्तनो- पक्रमः । नर्तनभूमौ भूतले दीपपङ्कयो, निवेश्येरन्पा- दजवादिसुन्दरललितचेष्टाः प्रकाशयितुम् । तत्कार्य निर्व- त्य॑ते नागशिरोरत्नैः पादाम्भोजाधःस्थितैः । अखिलकला- दिगुरौ रसमये कृष्णे नृत्यति सर्वे प्रसिद्धगायका धावन्ति नवनवक्रमान् शिक्षितुम् , तत्र तालादिना सह कर्तुं च । नर्तनेऽवश्यं तालापेक्षा। वेणुगाने न तनयत्यम् । नवनीतनाट्ये निमन्थमुखरं दधि तालं निबबन्ध । अत्र 'तं नमुद्यतमवे- क्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः । प्रीत्या मृद- अपणवानकवायगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ॥' इति गन्धर्वसिद्धादीनां तत्रागत्य सर्वैतालाद्युपकरणवाद्यैर्गीतादि- भिश्व सह कर्तृत्वमुच्यते । प्रथम वाचाधुपहारः । अनन्तरं पुष्पोपहार इति चार व्यज्यते परमरसिकेन ऋषिणा । ' उप- सेदुः' इति गुरूपसदनं व्यज्यते । अखिलकलादिगुरुः खलु मृत्यति । अयं प्रथमगुरुर्न केवलमध्यात्मविद्यायाः। तमुप- सद्य बहु शिक्षणीयमस्ति सिद्धानामपीति सिद्धशब्देन व्य. ज्यते । आदिगुर्वपेक्षया ते साधका भवन्ति । ईशचित्रता- ।
९४ श्रीमद्वेदान्तदेशिकस्तोत्राणि । . ण्डवेन वृत्तावतारसमापनं रोचयन्त आचार्याः । त्रुटितज. नताशोकः श्लोको य उदगायत भगवता, तदुपदिष्टोपायस्या- नुष्ठानमपि संपादितं भवत्यनेन क्रोधोऽपि तेऽनुग्रह एव संमतः ।' तप: सुतप्तं किमनेन पूर्वम् ... कस्यानुभावो- ऽस्य न देव विद्महे तवाधिरेणुस्पर्शाधिकारः' इति पर- मकश्मलमापत्रस्य नागस्येषदपि प्रयत्नं विना शरणवरण- बुद्धिमानसंपादनेन स्वशिरसां भगवत्पादाम्भोजसंयोजनप्र- णामादिसौकर्य बभूव । भगवत्पादाम्बुजसंयोगेन सर्वाणि शिरांस्यनुजगृहिरे । अस्माकमेकस्यापि शिरसस्तत्संयोगो दुर्लभः । शिरःसंख्याधिक्यं सकृत्प्रणामप्यनेकप्रणामसंपा- दनानुकूलम् । “तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपी. तवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलो दराद्घि संदश्य मर्मसु रुषा भुजगश्चछाद ॥' इति पुष्पहाससुकुमारं कुमारं क्रूरं ददंशायं नागः । परमापद- मापन्नो रुधिरमुरु वमन् गत्यन्तराभावान्ननाम तम् ' नारा- यणं तमरणं मनसा जगाम' इति । तादृशमाापराधिनं शरणोक्तिमात्रादरम । न केवलं तं मुमोच, किं तु तमनुज- आह सुपर्णाभयप्रदानेन । सर्वभूतेभ्यः खलु तेनाभयं दीयते 'सुपर्णस्त्वां नार्यात्' इति । क्रोधोऽप्यनुकूलं परिणतः ।
दशावतारस्तोत्रव्याख्या । , समुद्रराजो भगवन्तं न ददंश । आहूतो नागच्छन्मार्गदानाय । अयं नागो महापराधी, आर्द्रापराधी च । अयमप्यरक्षि। त्रिविक्रमपादाम्भोजेन त्रिजगदङ्कितमभूदित्युक्तम् । तदनं वयं न पश्यामः । अयं नागस्तत्पदलाञ्छितोऽभूत् । भगव- त्पादचिन्हितोर्ध्वपुण्ड्रं शिरःसु दधार । न केवलं सः । तजातिभवाः कृष्णसर्पाः सर्वेऽपि तञ्चिन्हवन्तोऽभूवन् । पुरा परमदुष्टोऽपि नाग आदिदेवं शरणं समाश्रित्य निर्दोषो भा- गवतोऽभूत् । एतद्वृत्तान्तेनान्यदपि तत्त्वं द्योत्यत इति वर्ण्यते आचार्यैर्यादवाभ्युदये 'प्रणेमुषां प्राणभृतामुदीर्ण मनो विने- ध्यन्विषमाक्षवक्त्रम् । अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यां पतगेन्द्रवाहः ॥' अस्मन्मनः कृष्णाहेरपि दुष्टम् , कृष्णतरं मलघनम् । विषमाक्षवक्त्रं मनः । प्रणमतां मनो मर्दनीयं भगवत्पादाम्भोजेन, विनेयं च । बलपायं मनोमर्दनम् , दुर्घ. टतमं च । कष्टं तत्कार्य सिषाधयिष्यस्वदपेक्षया सुलभेन कालियशिरोमर्दनेन मर्दनाभ्यासं करोतीव भगवान् । अस्म- न्मनसो विनयनमेव वयमाकाडामः । ' शतकशीर्णः' इत्ये- कशतसंख्या कालियशिरसाम् । तत्पाठ आचार्यसंमतः स्यात् । ‘शतं चैका च हृदयस्य नाड्यः' इति मनसः एकशतनाडीवत्त्वम् । पतगेन्द्रवाहनो भगवान् किमर्थ कालि.
श्रीमदेदान्तदेशिकस्तोत्राणि । यशिरःसु नृत्येत् ? गरुडवाहस्य स्ववाहभूतगरुडच्छायामात्रेण स नागो हन्येत । अस्मन्मनोमर्दनाय तदभ्यासं कर्तुमेव भगवान्कालियशिरांसि मर्दयन्ननतेत्युत्प्रेक्षितमाचार्यैः । कालि- यमर्दने महान रस आचार्याणाम् । विचित्रं तन्नर्तनानुगुण. वर्णनं दृश्यते ' यादवाभ्युदये 'लोलापतञ्चरणलीलाहतिक्षरि- तहालाहले निजफणे नृत्यन्तमप्रतिघकृत्यं तमप्रातममत्यन्त- चारुवपुषम् । देवादिभिः समयसेवादरत्वरितहेवाकघोषमुख- रैदृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ।।' नाथायैव नमःपदं भवतु नः । अयं मम नाथो रजनाथः कालियशिरोनृत्सरले नृत्यति । नामैकदेशे नाम- ग्रहणम् । यदुनाथः कृष्णो मम नाथः। तस्मिन् गरीयसी भक्तिः सूच्यते एवकारेण । यथा कालियं विनयते तथा मन्मनोऽपि संमर्दनेन विनीय तत्र नृत्यात् । तदनमने मर्चेत शिरः॥ चित्रैश्चरित्रक्रमरित्यादि । सर्वाश्चर्यमयो देवः किमस्य नाश्चर्यम् । अमुमेव नारद आर्यत्वेन निर्दधारेति हरिवंशे आश्चर्योपाख्याने । स्वस्मिन्नाश्चर्यपदविश्रान्ति प्रतिषेबुमसमर्थः • अहमाश्चर्योऽस्मि' इति नारदं प्रत्यूचे नाथः ॥
दशावतारस्तोत्रव्याख्या। ९७ कुहनागोपाय । मिथ्यागोपाय, मायागोपाय ; गोपवे- , पाय॥ गोपायते । यद्यप्यात्मानं योगमायया गोपयामास, अ. स्मान् गोपायति॥ , कालिन्दीरसिकाय । रसिकः खलु नृत्येत् । यथा भावुका रसिकाम्तथा रसस्वरूपोऽयं परमरसिकः । कालि- न्दीरसिकोऽयं यामुनः, तस्याः कृष्णाहिना दूषणं न मर्ष- येत् । कालिन्द्यां व्रजयुवतिभिः सह जलक्रीडादेरयमहिः परिपन्थी। कालिन्दीरसिकत्वमहिमर्दने तदुपरि नर्तने च हेतुः । 'नद्यस्तदाकर्ण्य मुकुन्दगीतमावर्तबुद्रुदमनोभवभनवे- गाः । आलिङ्गनस्थगितमूर्मिभुजैमरारेगैह्णन्ति पादयुगलं कम- लोपहाराः ।।' इति कालिन्द्याः कृष्णगानरसिकत्वम् । रसि- कायां तस्यां नद्यां विहरणरसिकः कृष्णः । तस्यां नर्तनेन तां सन्तोषयितुमिच्छति ॥ । कालियफणिस्फारस्फटेत्यादि । 'यद्यच्छिरो न नमद- अशकशीणखत्चन्ममर्द खलदण्डधरोऽधिपाः ।' इति श्रीशुकानुभवः । समीचीनसन्मार्गनिर्माता खलु भगवान् । मार्गरचयितारः शर्करासश्चयानिवेश्य तान्मईयेयुर्दण्डादिभिः।
श्रीमद्वेदान्तदेशिकस्तोत्राणि । या याः शर्करा विषमा उद्धृतशिरम: स्युस्ता मर्चेरन्मार्गस. मीकरणार्थम् । एषोऽनुभवश्चारु प्रदर्श्यते आचारस । श्री. शुकस्तदेवाभिप्रेयाय 'ममर्द खलदण्डधरोऽद्धिपातैः' इति । अघ्रिणापि संमर्दनं क्रियेत तत्कर्मकरैः । स्फटावाटिका मार्गों भवति । स्फारत्वं मार्गवैशाल्यं द्योतयति । विशङ्कच- इम-' पर्यायचर्या-' इति विषमा उच्छिरसः शर्कराः सङ्क्रम्यन्त इति सूच्यते ॥ यते । गच्छते नाथाय। अयं चर्या गच्छत्यस्मत्सुचर्या संपादनार्थमिति व्यज्यते । . भाविन्या दशया भवनिह भवध्वंसाय नः कल्पता कल्की विष्णुयशःसुतः कलिकथाकालुष्यकलंकषः । निःशेषक्षतकण्टके क्षितितले धाराजलौघैर्धवं धर्म कार्तयुगं प्ररोहयति यभिस्त्रिंशधाराधरः ॥ श्वेताश्ववदनः श्रीहयग्रीवः प्रथमावतारः। तेनोपक्रान्ता. वतारनाटिका | कल्कः श्वेताश्वः । तद्वता कल्किनोपसंह्रियते । इदं चाचार्याणां परमभोग्यम् । धर्मसंस्थापनार्थमवताराः । धर्मेषु श्रेष्ठो कातयुगधर्मो निवृत्तिधर्मः । तस्य नितरां ग्लानि- भेवत्यस्मिन्कलियुगे। वर्धमाने कलौ क्षितितलं कृत्व कण्टक- दशावतारस्तोत्रज्याख्या । ९९ - . जनैरेव व्याप्येत । 'उत्खातलोकत्रयकण्टकेऽपि' इति राघ- वस्य प्रथा लोककण्टकभूतरावणसंहारेण । 'त्रिदिवमुद्धृतवा- नवकण्टकम इत्यन्यदा दानवमानस्य कण्टकत्वम् । कलि- युगान्ते नष्टप्रायत्वाद्धर्मस्याधरोत्तरत्वात्सर्वस्य निःशेषजनाः कण्टकभिवरन् । कृत्स्नकण्टकजनानां क्षतिः कार्येत श्वेताश्वा- रूढेन निस्त्रिंशधरेण भगवता । संहारः मृष्टिश्चोभयमपि प्रद- येतानेनावतारेण । लभगद्वयसमन्वयस्तेनोपपाधेत । संहा- रोऽप्यतुग्रहे पर्यवस्येदिति निस्त्रिंशस्यापि मेघत्वम् , तेन च धर्ममेघेन कार्तयुगधर्मबीजप्ररोहजनकत्वं च वर्ण्यते । अयं चावतारो भावी, न वृत्तः। वृत्ता अवतारा अद्यापि सन्ति, आराध्यन्ते च तत्तद्वर्षेष्विति श्रीभागवते प्रोच्यते पश्चमस्क- न्धे । 'रम्यके भगवतः प्रियतमं मात्स्यमवताररूपं तद्वंशपु- रुषस्य मनोः प्राक्प्रदर्शितम् , स इदानीमपि महता भक्तियो- गेनाराधयति' इत्यादिना। तादृशभक्तियोगं विनैव निर्भरत्वप. त्यारूढानां भावुकानामस्माकं भक्तिभरागीका भगवता स्वयं प्रत्यक्षवत्प्रदयन्ते वृत्तावताररूपाणीति प्रथमश्लोके व्यञ्जि- तमाचार्यैः 'लब्धनिर्भररसैरध्यक्षितो भावुकैः' इति । वृत्तावतारा: सम्यग्वर्णिता महर्षिभिः । भविष्यदवतारोऽयम् । भूतावतारभावनाद्भाव्यवतारभावनं क्लिष्टतरं स्यात् ।।
100
श्रीमवेदान्तदेशिकस्तोत्राणि ।
भाविन्या दशया भवनिह । परिदृश्यमाना इतरावता-
रमूर्तयो भूतदशया भवन्तः। अयं तु भाविदशया भवन् ।
सर्वेषामवताराणां व्यवहितत्वं तुल्यम् । इतरेषु भूतका-
लव्यवधानमत्र भविष्यकालव्यवधानमिति भेदः । सर्वेषां
भवत्त्वरूपवर्तमानत्वतुल्यत्वमपि तुल्यमिति भवच्छब्देन
ज्यज्यते । अध्यक्षायता सर्वशक्तो भगवान् । कर्मोपाधिहाने
न त्रिकालभेदः । सर्वोऽपि काल: सततवर्तमान एवं स्यात् ।
भगवता स्वावताराध्यक्षीकरणे भविष्यन्नपि भवन् भवेदिति
व्यज्यते ॥
भवध्वंसाय नः कल्पताम् । किं शुभमस्माद्भाव्यते ।
न दुःखध्वंसः, किं तु भवध्वंसः । भवन्नयं भवध्वंसं तनो.
विति विरोधोऽप्यापाततश्चारु व्यज्यते ।।
कल्की। श्वेताश्वविशिष्टः ।।
विष्णुयश सुतः । विष्णुयशसो जातोऽयम् । प्रणष्टप्राये
विष्णुयशसि तद्यशोरूपकातयुगधर्म प्रतिष्ठापयिष्यत्रयं यशो-
नामा जनिष्यते
। 'तस्य नाम महद्यशः' इति भगवतो
यशोनामत्वं प्रसिद्धम्। तस्य विष्णुयशोनामा ब्राह्मणोऽनुरूपः
पितेति व्यज्यते । तमसावृते कलावयं यशसो जातः । अस्व
दशावतारस्तोत्रव्याख्या । १०२ यश: कलिमलापहम् ॥ कलिकथाकालुष्यकूलंकषः । अयं धाराधरहस्तः प्रभूतं धर्म वृष्ट्वा कालुष्यमपनुदति । धर्ममेघेन धर्मेण पापमपनु- दति । कलिका कथाशेषं नयति । कथायाः कथाभवनं । न्याय्यम् ॥ निःशेषेत्यादि । नैकोऽप्यकण्टको भवति । कृत्स्नं परि- वर्तयित्वा नूतनशुद्धप्ररोहा अवतार्यन्ते ।। धाराजलौषैः । कण्टकक्षपणसाधनो निविंशो धर्मजलौ- घवषुकधाराधरोऽपि भवति । दुष्कृद्विनाशनमेव धर्मसंस्था- पनसाधनमपि भवति ॥ ध्रुवम् ध्रुवं धर्म प्ररोहयति । धर्म ध्रुवं प्ररोहयति। ध्रुव- मित्युत्प्रेक्षार्थकत्वमपि । धाराधरत्वेनोत्प्रेक्षा समर्थ्यते । धर्म कार्तयुगं प्ररोहयति । त्रेतायुगप्रवर्तितकातयुगवृ- त्तान्तो धर्मो विग्रहवांश्चक्रवर्तितनूजः । अयं कलियुगे त- धर्म प्ररोहयति ॥ यनिस्त्रिंशधाराधरः । अस्य मेघस्य खगोऽपि मेघो भवति ।
१०२ श्रीमदेदान्तदेशिकस्तोत्राणि । इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् । क्रीडावल्लव कल्कवाहनदशाकल्किभिति प्रत्यहं जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ।। पूर्वोदाहृतशाङ्करलोकप्रकारेण सर्वावतारानेकीकृत्याखण्डा. नुभवं प्रदर्शयत्यखण्डरमलब्धये । यद्यपि प्रत्येक पूर्णत्वम- स्त्येव भगवतः, नथाप्यनेकपूर्णसहानुभवजन्यो रसोऽखण्डतमः स्यात् । एकस्यैव दश भूमिकाः । तासामखण्डानुभवसंपादन- मुचितम् । दशप्रकारविशिष्टाद्वैतानुभवो भवेत् । विशिष्टैक्य मवतारनाटकप्रदर्श्यम् । यथा सर्वचिदचित्प्रकारविशिष्टब्रह्मा- नुभवस्तथा सर्वावतारप्रकारविशिष्टप्रकार्यनुभवो निरूप्यते । प्रथमश्लोके समासः । अनन्तरं दशभिः श्लोकैया॑सः । पुनरपि निगमनरूपसमासः। तार्किकसिंहोऽयं कविसिंहो- ऽनुमानसरणिं न जहाति । प्रथमश्लोके प्रतिज्ञा । निगमनम् । विशिष्टवैशिष्ट्यावगाहिज्ञानरूपं फलं लभ्यते । प्रायेण तत्तत्पूर्वश्लोकोक्तानुभवा अत्रत्यैः शब्दैः सगृह्यन्ते । इच्छामीन । पूर्व परोक्षतया प्रार्थना भगवतः । इदानीं तत्तच्छ्लोकानुभवेनाध्यक्षितं भगवन्तं समक्षं संबोधयतीत्य- अत्र ..
दशावतारस्तोत्रव्याख्या। १०३ वधेयम् । अध्यक्षितो भावुकैरिति यदुत्तं तदन्वर्थितम् । शुभमातनोत्विति प्रार्थितं फलितम् । भक्तानुजिघृक्षया प्रद- र्शितडोलारोहविषयो दोहद इच्छाशब्देन प्रत्यभिज्ञाप्यते । अस्मदनुग्रहे दोहदस्तस्य , यथा गर्भिण्याः । वीक्षणैः प्रजा- रक्षणं मत्स्यानां स्वभाव इत्युक्तम् । वीक्षणस्येच्छापर्यायत्वं वेदान्तेषु । ब्रह्ममीनस्यास्येक्षणं सङ्कल्पार्थकम , यथा 'सदै. क्षत बहु स्यां प्रजायेय' इत्यत्र ।। विहारकच्छप । 'विहरते देवः सदैव निया' इत्युक्त- विहारप्रत्यभिज्ञापनम् । कूर्मस्य ध्यानम् । प्रत्याहारे स दृष्टा- न्तीक्रियते । तस्य च कथंचियञ्जन विहारशब्देन ।। महापानिन् । पूर्वोक्तपोत्रिशब्दस्यैव ग्रहणम् । पवित्र- शब्दसनिकृष्टत्वात् । मीनशब्दो दिव्यप्रबन्धप्रयुक्तशब्दपरि. प्रहाय । कच्छपशब्दः 'मत्स्याश्वकच्छप-' इति शुको क्तानुवादाय । महच्छब्दो बृहत्त्वोपपादकः । तमाम्नस्त- स्वस्य स्मारणेनेच्छासङ्गाहकबुद्धिग्रहणाय च । स्वबुद्धया स्वेच्छयायं पोच्यभवत् ।। यदृच्छाहरे। यादृच्छिकात्प्रादुर्भवनादित्युक्तं स्मार्यते । यहच्छाप्रादुर्भूनोऽयं हरिः । हरिनित्यहरिः स्यात् । अयं १०४ श्रीमदेदान्तदेशिकस्तोत्राणि । यहच्छाहरिः । हरिरपि रामो हनुमन्तं हरित्वेन संबोधयति 'वत्वयोपकृतं हरे' इति । तस्य हरिहनूमाखदापदुद्धारकः । नरत्वमधः कृतं नरहरिणैव । अतो हरित्वमात्रेण संबोधनम्।। रक्षावामन । आश्रितमिन्द्रम् , तच्छत्रु बलिम् ,उदा. सीनं त्रिलोकं च ररक्ष । त्रीन ररक्ष यथा तत्पादसलिलम् । मुहर्रदुदासीनत्रयाणामपि रक्षकत्वात्तस्य रक्षा असाधारणी एष ह्येव वामनीः । सर्वाणि बामानि नयति । अयं वामनः कथं रक्षकादन्यो भवेत् ॥ । रोषराम । अस्य नाममा राम इति । विरुद्धपपि क- चिनाम भवेद्यथार्कस्य महावृक्ष इति नाम । यौगिकार्थनि- बन्धेऽयं अत्त्रविरामकरो रामः । रोष एवायं रमते अतो रोषरामः ॥ करुणाकाकुत्स्थ । नात्र लोकरामे रामशब्दः। जामद- न्यविषयप्रयुक्तरामशब्देन नास्य सदनन्तरमेव संबोधन न्याय्यं स्यात् । काकुत्स्थ इति श्रीशाहरनामानुबादो वा। पारावारेत्यादिश्लोकः कृत्स्नोऽपि करुणाप्रतिपादकः ।। हेलाहलिन् । हलिनो हेला युज्यत इति व्यज्यते ॥
दशावतारस्तोत्रव्याख्या। क्रीडावल्लव । कुहनागोप , मिथ्यागोप । देव इत्युप. क्रमे व्यञ्जितस्य ऋडिनस्यात्र कण्ठोक्तिः ॥ य' कल्कवाहनदशाकल्किन् । कल्कीत्युक्तं तदवतारवर्णन- श्लोके । कल्क इति कलकार्थकः स्यात् । कलियुगेऽवतरन् कल्की सकल्कः स्यात् । तब्यावृत्त्यर्थ कल्कशब्दस्य श्वेताश्व इत्यर्थो वर्ण्यते । कल्करूपश्वेताश्ववाहनदशायामयं कल्की भवति । नायं कल्करूपकलवान् | भाविन्यां कल्कवाह- नदशायामयं कल्की । कथमसिद्धस्य भविष्यतः संज्ञाकर. गम् , तस्य च संबोधनमिति चेत् , ' अस्य सूखस्य शाटकं इत्यादाविव भाविनीमवस्थामाश्रित्यापि संझाकरणं सं- भवेदिति बोध्यते । नायं प्रकार्यसिद्धः | प्रकारमात्रं भावी- त्यपि व्यज्यते । कल्कवाहनदशायामयं कल्की भवति । तेन प्रकारेणायं कल्की, नेतरथा दोषवत्त्वादिना । 'माविन्या दशया भवन्' इति वर्णनानुगुणोऽयं पाठः । कल्कवाहन दशाकल्पिन्निति पृथक्पाठो वा । इतिशब्दस्याभ्यासस्तदा अ. पेक्ष्येत । इति दशाकल्पिन्निति प्रत्यहं जल्पन्तः ।। इति प्रत्यहं जल्पन्तः। न पूर्वोक्ततत्तदवतारविषयश्लो. कानां जल्पनमपेक्ष्यते । एतच्छलोकोक्ततत्तन्नामावलीपठनम- प्यलम् । न सम्यङ्नामपठनमप्यपेक्ष्यते । तज्जल्पनमप्यल- . ।
श्रीमद्वेदान्तदेशिकस्तोत्राणि । मिति व्यज्यते । भावशून्यं स्वरनेत्राङ्गादिविक्रियारहितं ज. ल्पनमप्यलम् । 'जामदग्न्यस्य जल्पतः' इति भीष्मोक्तवत् । न रोपरामस्य शास्त्रप्रवचने स्वरनेत्राङ्गविक्रियादिसंभवः । तस्य रोषरूपविक्रियैकैव । नान्या विक्रिया । पुरुषाः। पुरुषमात्रस्यैतन्नामजल्पनेऽधिकारः । नात्रा- धिकारिव्यवस्था । पुनन्ति भुवनम् । पवित्रयन्ति भुवनम् । 'तत्रोपजग्मु- भुवनं पुनानाः' इति सप्ताहावधिजीवितं परीक्षितमनुग्रहीतुं श्रीभागवतं च श्रोतुमागतमहाभागर्षिसङ्घस्येव एषां भुवनपु. नीतृत्वमिति तच्छब्दप्रयोगेण व्यज्यते । यथा ब्रह्माण्डः प- वित्रीकृतो भगवद्धोणारवैरित्युक्तम् , तथैतेषां जल्पनैः पवि- त्रीक्रियन्ते भुवनानीति व्यज्यते !! पुण्यौघपण्यापणाः । ततदवतारकथाश्रवणपठनादिभिः कोटिकोटिपुण्यलाभः श्राव्यते तत्तत्फलश्रुतिभिरिति प्रसि- खम् । दशावतारनाम्नां जल्पनेन तत्फलं कृत्स्नमेभिः सतिं भवति । पुण्यपण्यसंभारोऽनन्त एषाम् । एते सञ्चरन्तः पुण्यापणाः । नैतेऽल्पपण्यापणाः, किं त्वोघपण्यापणाः । अल्पपण्यवाणिजो द्रोणादिपरिमितप्रमाणैर्विक्रीणीयुः । एते रा. 1 दशावतारस्तोत्रव्याख्या । १०७ शिपण्यवणिजो राशिभिर्विक्रीणीयुः । राशिपण्यापणाः पुण्यौघानेव लम्भयेयुर्नाल्पाल्पं द्रोणादिपरिमितं पण्यमिति व्यज्यते ओघशब्देन । एते आपणाः। न विक्रेतारो वणिजः। 'तं ज्ञानपण्यं वणिज वदन्ति' इति ज्ञानविक्रेतारो गन्ते। पुण्यपण्यविक्रेता गर्खेततराम् । तेषामुरुसंभृतपुण्यपण्यरा- शयस्तेषु यत्किचित्सौहार्द यदा कदापि प्रकटितवद्भिर्दायत्वेन विभज्येरन् । अनन्तपुण्यसंभारवत्त्वादेते पुण्यपण्यापणाः । नात्र यो विक्रयो वा । नात्र वणिक् कश्चित् । अवतारद- शकस्यापि रहस्यवेत्तुरस्येह जन्मन्येव मुक्ति: मिद्धा। शरीर- वियोगे सुहृदः माधुकृत्यामुपगच्छन्ति । अभ्य भूरि पुण्यं विभज्यते सुहृद्रिः । सौहाईमेव पण्यश्यमूल्यम् । एतज. ल्पनम्य श्रवणमपि सोहार्दमेव । तन्मात्रेण पण्यलाभो भव- तीति · जल्पन्तः पुनन्ति' इत्यनेन द्योयते । जल्पितनाम- श्रोतृषु वरिपुण्यं सङ्कमयन्ति । वणिग्रहितपुण्योधपण्या- पणेऽस्मिन् यो यद्यतुण्यं वाञ्छति तत्तस्माल्लभेत श्रवणरूप. सौहृदमात्रेण । नाल्पं लभ्येतास्मादापणात् । ओघैः पुण्यं लभ्येत । 'पण्यं न चेदस्ति तदस्तु पुण्यम' इति नैषधे । एते संचरन्त आपणाः । पण्यसंभारस्यातिभूयस्त्वे संभारल- घूकरणार्थ सद्यस्तस्य भूरिविनियोगाय पण्यौपानादाय बहिः १०८ श्रीमद्वेदान्तदेशिकस्तोत्राणि। .. सञ्चरेयुः; स्वल्पमूल्यार्थमपि वेगेन विक्रीणीयुरिति प्रसि. द्वम् । एते पुण्यभारार्दितास्तद्दानाय पात्राण्यन्विष्यन्तश्चरन्ति विद्योदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गलं देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत यः । वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥ अवतारनामावली ल्पन्तः पुरुषाः पुनन्ति भुवनम् । ते च भूरिपुण्यपण्यापणा इत्युक्तम् । आपणत्वरूपणेन भूरिपु- ण्यसंभारो नामजल्पनमात्रेण लभ्यतेत्यपि व्यञ्जितम् । तज्ज. रूपनमात्रश्रोतारस्तत्पुण्यभाज इत्यपि व्याचितम् । इदानीं मास्तु नाम पठनम् , एतत्स्तोवविवक्षामात्रेण भूयः फलं लभ्यतेति तत्फलं कीत्यते ॥ विद्योदन्वति । समुद्रशायी भगवांस्तत्र त्रिरवतवार । यदि वयमुदन्वाम्भवेम , अस्मासु सोऽवतरेदिति स्वस्योद- न्वत्वं संपाद्यते कविना ! नायं प्राकृतः क्षारसमुद्रः, क्षीर- समुद्रो वा । किं त्वप्राकृतशुद्धमधुरैकान्तविद्यासमुद्रः । क. रूपान्तयूनो भगवतोऽयं प्रियस्तल्पो भवेत् । उदन्वत्यवता- रस्य भगवतः प्रियत्वात् , अस्मिन्विद्योदन्वत्यवतारविषय- दशावतारस्तोत्रव्याख्या । १०९ स्तोत्रमवतत् सुसांप्रतमिति व्यज्यते ।। वेङ्कटेश्वरकवौ । कविर्भगवान् । कविरयं नटः। कवि- नटभूमिकास्तोत्रं कवौ जातम् । 'अहिरेव ह्यहः पादान्वि- जानाति न संशयः।' कविः कवेर्नटस्य भूमिकाः स्तौति कवेर्जनि कविः सम्यग्जानीयात् । युक्तमिदं देवेशस्यावतार- स्तोत्रं बेङ्कटेश्वरो रचयामासेति ।। कवौ जातं जगन्मङ्गलम् । यथा स्तुत्यः कविः स्रष्टा स्तोता कविरपि स्रष्टा । स्तुत्यम्य कवेः स्वेतरसृष्टिर्नियति- कृतनियमवती सुखदुःखमयी । तस्य स्वावताररूपस्व- सृष्टिस्तु नियतिकृतनियमरहिता स्वेच्छामात्रनिवृत्ता हाक. मयी । स्तोतुः कवेः स्वेतरसृष्टिम्तथैव हादैकमयी । निरति- शयहादैकमयमिदं स्तोत्रम् | कविरूपोदन्वति कविमतिमना मथिते जातमिदं जगन्मङ्गलं स्तोत्रम् । यथा क्षीरोदधि- मथने सर्वमङ्गला जाता , तथेदं जगन्मङ्गलं जातमेतदुद- न्वन्मथने । यथा जातो भगवदवतारो जगत्कल्याणभूतस्त- येदं तज्जन्मस्तोत्रम् । यादृशं प्रतिपाद्यं भगवजन्म तादृशं तत्प्रतिपादकस्य स्तोत्रम्य जन्म । 'देवो नः शुभमातनोतु इति शुभातननप्रार्थनायामेतत्स्तोत्ररूपजगन्मङ्गलविस्तारणम- प्यन्तर्गतमिव ॥ १ श्रीमद्वेदान्तदेशिकस्तोत्राणि । - । देवेशस्य । यद्यप्ययं नटाप्रणी यं नटेश: , किं तु तस्य देवस्यापीशो देवेश. ॥ दशावतारविषयस्तोत्रं विवक्षेत यः। एतत्स्तोत्रविव क्षामात्रस्य भूयः फलमस्ति विविदिषामात्रम्य , वेदनस्य वा फलत्वेन साध्यत्वं स्यान्मतभेदेन यज्ञादिना । अस्या विवक्षायाः फलं म्यादेव । अवतारदशकविवक्षात्वात् । ए. कस्य ज्ञेयस्य ब्रह्मणो विविदिषा वा , वेदनं वा लिप्स्यतेति विप्रतिपत्तिः स्याद्यज्ञादिश्रुत्यर्थविषये । कथं भगवदवतारद- शकविषयस्तोत्रविवक्षाया भूरिफलवत्वं न स्यात् ! नात्र विविदिषापर्यन्तापेक्षा । विवक्षामाबमलम् । अक्षरराशिन- हणमात्रेऽध्ययनविधिपर्यवसानं प्रतिजानीते सूत्रकार: ‘अ- ध्ययनमात्रवतः' इति सूर्य प्रणयन् ।। वक्रे तस्य सरखती। वकं खलु विवक्षति । तेन खलू- चार्येत । वक्तरि वक्तुर्व के सरस्वती सन्निधत्ते। स्नुषा दश- रथस्याहम्' इति सीताया भूयान्बहुमानः श्वशुरे। श्वशुर- स्यापि तुल्यं प्रेम स्नुषायाम् । भर्तुह्मणोऽक्षिदानं वेदसर. स्वतीदानं च कृतं प्रथमेनावतारेण। इतरे चावतारा ब्रह्मदत्त- वरासुरपीडानिवर्तनाथं कृताः। कथं तादृशेषु श्वशुरावतारेषु सा न रज्येत । भगवत्स्तोते तस्या भूरिरुचिरिति बोध्यते - दशावतारस्तोत्रव्याख्या ! १११ - भिट्टायें: 'भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तन:' ति । एतद्दशावतारस्तोत्रविवक्षुवके भारती सन्निधत्ते, दार्थज्ञानं सम्यक्तस्य दत्वा भगवदवतारांस्तेन सम्यक्स्ताव- यतुम। वस्या अपि तत्स्तवनेऽन्वयः स्यादिति । श्वशुरस्य गवतः स्तोत्रस्थाज्ञकर्तृकपठनं सा न मृष्येत् । अतो यो I को वा जडोऽज्ञो एतत्स्तोत्रं विवक्षेत् तदिच्छाक्षण एव ता तद्वक्रे सन्निधत्ते तं झं कर्तुम् बहुमुखी। न चतुर्मुखी, यथा नाथमुखेषु । ‘वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः' इति नाथमुखेषु चतुर्मुख- बमेव । अत्र तदधिकमुखत्वम् । तावत्कुतूहलं लस्याः । वि- पोदन्वति कवी जातेयं स्तोत्रसरस्वती। कथमेतां सरस्वती न बहुमन्येत ।' भक्तिः परा मानसे । यथा वक्त्रस्य सरस्वत्या शोभा, तथा मनसो भक्त्या शोभेति व्यज्यते । भक्तिरहितं मनो जडमुखवद्गहणीयम् । विद्योदन्वतीति भक्तिसागरे इत्यप्यभि. तम् । वेदान्ताचार्यप्रयुक्तविद्याशब्दस्य भक्तिवाचकत्वं स्वर- सम् । भक्तिसागरे जातस्यास्य स्तोत्रस्य विवक्षणे एतन्मातु- मूता भक्तिजलधिः परा भक्तिः स्वसुतं प्रकाशयितुमिच्छन्ती मनसि नियतं सानुग्रहं सभिदध्यात् । मनसि खलु विवक्षा १९२ श्रीमवेदान्तदेशिकस्तोत्राणि । जाता। . -- शुद्धिः कापि तनौ । विद्योदन्वति जातमिदं स्तोत्रं स्व- विवक्षोर्विलक्षणं ब्रह्मवर्चसं ददाति । नातेजस्केन वचनमेत. न्मर्षयेत् । स्वस्यातेजस्कपठनरूपाशुद्धिनिवारणाय स्वविवक्षु. तनुं पठनात्पूर्व विवक्षाक्षण एव विलक्षणशुद्धिमती करोति परा भक्तिोता मानसे। मोक्षः सिद्धः । स चैतजन्मावसा- न एव सिद्धयेदवताररहस्यस्य ज्ञातत्वात् । अस्य स्तोत्रम्य विलक्षणं फलं विलक्षणकायशुद्धिजनकत्वम् । अजायमाने पुरुषे जाते तत्तनौ यादृशी विलक्षणा शुद्धिस्तादृशी देहशुद्धि- भवति तद्विषयस्तोत्रविवक्षोः । तत्क्रतुन्यायः प्रेत्य फलं द- दाति । इदमवतारस्तोत्रमिहेव भावितसादृश्यं ददाति । दिशासु दशसु ख्यातिः शुभा जृम्भते । एकस्याव- तारस्यैकस्यां दिशि यशःप्रथनेऽपि सञ्चिकीर्तयिषितदशाव. तारैर्दशस्वपि दिशासु यशः पूर्येत । वदान्यस्य बलेयशो- ऽष्टासु दिक्षु प्रख्यापितम् । 'उदारा: सर्व एवैते' इति कीर्तितस्योदारस्य यशो दशस्वपि दिक्षु तन्यते । एतद्रूपशु- मख्यातितननमपि प्रथमप्रार्थिताभान्तर्गतमिव । 'याही भावना यस्य सिद्धिर्भवति ताशी 'यशोऽहं भवामि प्राह्मणानाम्' इत्यवताररूपशुभे आतते तद्विवधोब्रझमात्रो. , दशावतारस्तोत्रव्याख्या । ११३ पलक्षितबामणस्य यशस्तन्येत । शुभहपावतारविस्तारणं य- शोविस्तारणे पर्यवस्यति । यशोव्याप्तदिक्संख्या आतताव. तारसंख्यासमाना॥ जृम्भते । वर्धतेऽभिवर्धते च । देवो जृम्भत इत्युपक- मोपसंहारावेकीकृत्य लभ्यते । वर्धते ऽभिवर्धते च देवः । तज्जृम्भणे रसो जृम्भेत ।। जृम्भतामिदमाचार्यस्तोलम् । तसच वर्धतामभिवर्ध. ताम्॥ आचार्यरसविज्ञानं गोपालस्य कथं भवेन् । अवतीर्णः साहसेऽस्मिन्बालोऽयं वीक्ष्यतां शुभम् । इत्थं गोपालदासेन वात्स्यवेक्टसूतुना । रचितं निगमान्तार्यस्तोत्रव्याख्यानमादरात् ॥ F
No text on this page.
शुद्धिपत्रिका॥ पृष्ठम् पति १४ २. ८ ११ शुद्धम् भ्रव्य श्राव्य स्थायीभावस्य स्थायिभावस्य हनित्वा हीनत्वा बृहत्त्वोपादनाय बृहत्वोपपादनाय मक्षिण समयातीतत्वं मोक्षणसमयातीतत्वं श्रीचित्तानां स्त्रीमयानां) स्त्रीचित्तः स्त्रीमयैर्विटैः विटानां ब्रह्मचित्तानां ब्रह्ममयानां ब्रह्मचित्तब्रह्ममय- ब्रह्मविदा विद्भिः ब्रह्मापराक्षण ब्रह्मापरोक्षण भ्रव्यस्य श्राव्यश्य भावुकैरध्यक्षवदाचर्यते भावुरध्यक्षवान् कि- यते भगवदुदयस्यपि भगवानस्वबुध्येयपि यदेवलोत्पनमन्यान्द्रष्टन् यदेकत्रोत्पन्नोऽन्यान्द्र- ट्रन् मत्स्याक्षीणामेव मस्याणामेव मार्ग मृगयते तानुज्जीवयितुं च। तानुजीवयितुम् । १८ :) १५ ४६ " १ ३ ५० १७ " २ सागरान्तं ३ ५८ नष्टदव्यरूपोचः श्रवसैरावत-नद्रव्यरूपोचैःश्रवैरावत खनिश्वसितैर्वेदनिश्चारणम्। स्वनिःश्वसितैवेदनिः- सारणम्। वेदमन्त्रभूतः वेदमन्नपूतः निश्वसितसंस्कृतमयः निश्वसितसंस्कृतपयः सागरान्तः घोणाया घोणया खुरदनप्रमाणे स्फुटधुत सटानाम्यमा स्कुरघुनसानाम्यद्रह्म- सदावधूता सटावधूता वं विष्णोयाप्तिरूपब्रह्म विष्णोयाप्तिरूपबृह यियासन्तं थियासुं प्रतियास्यामि प्रेत्यायास्यामि तनालीकमग्राम खनालीकसूब्रह्म योद्यतो चोद्धतो ब्रह्मवप्रदक्षिका ब्रह्मत्वप्रदर्शका विश्वगोपत्वं विश्वगोप्तृत्वं तन्मधरनौनकर तम्मूर्धरत्नानिकर- सह कर्तृतमुच्यते सहकर्तृत्वमुच्यते '" ८ . ८२ ४ wr