Tibetian Institute Sarnath Varanasi

Mitachhara

Pandit Ratan Bhatta · 17.01.06

PDF Proofread

Front matter

RIDAS SANSKRIT SERIES:
CTION OF AND SANSKRIT WORKS.
কােন্দল শাফাআম?
শিশুৰাৰ চলমান
सरस्वती स्वामिता।
करानमा कलाकार निधन का त्र।
स्तकानुसारेण रक्षोपालन सागोता
MITA SHRA
A Cross
VASAN PBAKAS AYANTA S RASWAT SYAM.
Pandit Rataa Gopala Bata
atm
HTED BY TIRIKRISHA DASBROS.
STORS, CHOWKRTAMBA SANSKT KOOL DEPOT
BENARDS:
AMRI
aaple
cov Harikrishna Dis Crose Puppri
A TRENDS
BÆNARES
vestered Acconamai Ac XXV. If 7867.
Myjiotosit

होइनिर्वचनीयानादिमायाविलासभूत दुःखप्राये संसार मो- काममोक्षायचतुर्विधपुरुषार्थेषु यथायथं नित्याखेच्छया सर्वदुःख महासया च स्वस्वाऽनादिकादिवासदया प्रवृत्ताः सर्वेऽपि जीवा इनन् । सनिय तदाधिष्टाने निविशेषमेकमेवाद्वितीय ब्रह्मा- इग्न्यस्ति श्रुति प्रतिवादि । वमा तपादिका उपनिषद लान्त । उपनिपूर्वकं पद वियनाम्धिति धातोः विपि प्रत्यये उपनिषदगिरि सियति এগাসায় খেলেন এষার। লিমা। বিজ্ঞাঅলা মা मामीप्यतया निश्चयेन ब्रह्मात्मैक्य सादयति बोधयति, समादीन शिथिलयति, सशाशयतीत्युपनिषदू ब्रहाविद्या । तत्साहचर्याद भन्योऽयुपनिषदिति । तथापि तर दुयमालस्य नानावासना- अनुसारेण न भेदेन ना गाविधानि शास्त्राणि महर्षिभिः पका- शिशतानि जान्धाता कमेण नित्यसुखावाप्तये सर्वदुःश्वनिवृत्तये वेदि। तत्र पूर्वोत्तषु पुरुषार्थेषु मोक्ष एव परमः पुरुषार्थः । सत्र नक्षी ज्यनेकविध मारप्यादिभेदेन अधिकारिभेदाच मुन्तिकानि लिरूपितः । तथाष्टि-- सालोक्यादिविभागेन चतुधी मुस्लिीरिता परन्तु कैवल्यमुक्तिरकैव परमार्थस्वसापिणी । सा तु प्रमाक्यज्ञाना- । तदुक्तं, मानादेव तु कैवल्यम् , झारचा देवं सर्वपाशापहानिः, जन पन्या विधताचाय, यदा चर्मवदाकाशं वेष्टयिध्यन्ति मान- * तदा देवमविज्ञाय दुःयस्यान्ता भविष्यतीत्यादिमामामात् । सतुर्विधातु मुक्तिरूपासकानामांश्वरोपासनया भवति । र धेरच काशीमराजा मुक्तिरपि चतुर्विधमुक्तावतभवनि तथाचोक्त शक्तिकोपनिषदि- সুলামী ব্যাধি সম্মানকালার কর ! मालोक्यमुक्तिसानोति, न तु लोकान्तरादि काम् ।। काश्या तु अझनालेस्मिन् मृतो सत्तारमान्यात् ॥

(२) ततश्च, तारकार्थब्रह्मात्मैक्यज्ञानात् पुनरावृत्तिरहितां मुक्ति प्रा- प्रोति निश्चितं मानवः॥ यत्र कुत्राऽपि वा काश्यां मरणे स महेश्वरः। जन्तोदक्षिणकर्णे तु मत्तारं समुपादिशेत् ॥ निर्धूताशेषपापौघो मत्सारूप्यं भजत्यसौ । सैव सालोक्यसारूप्यमुक्तिरित्यभिधीयते ॥ सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः । मयि सर्वात्मके भावो मत्सामीप्यम्भजत्ययम् ॥ सैव सालोक्यसामीप्यसारूप्या मुक्तिरिष्यते । गुरूपदिष्टमार्गेण ध्यायन् मद्गुणमव्ययम् ॥ मत्सायुज्यं द्विजः सम्यग् भजेद् भ्रमरकीटवत् । सैव सायुज्यमुक्तिः स्याद् ब्रह्मानन्दकरी शिवा ॥ चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् । इयं कैवल्यमुक्तिस्तु ज्ञानादेव हि लभ्यते, इति । सा केन क्रमणेति मारुतिप्रश्ने, श्रीरामस्योत्तरम् । निष्कामतया ईश्वरबुज्या श्रौतस्मातकर्मणि कृते, निषिद्धे कर्मणि वर्जिते सति । नाऽविरतो दुश्चरितादिति श्रुतेः। निष्कामतया च परमेश्वरोपासना- यां सत्यां सच्छास्त्रोक्तप्रकारेण, न तु स्वकपोलकल्पनया । ब्रह्मनिष्ठ- सद्गुरूपसत्त्या विधेकादिचतुष्टयसाधनपूर्वकं षड्विवत्तात्पर्यबोधक- लिङ्गसहितेनाऽसाधारणवेदान्तश्रवणादिना, महावाक्यार्थयथार्थ- साक्षात्कारेण, ब्रह्मात्मैक्याऽपरोक्षबाधेनैव । कैवल्यमुक्तिर्नाम केवली- भावः स्वरूपस्थितिः, परमानन्दावाप्तिः सकलदुःखनिवृत्तिर्भवति, नान्यथा । तथाचोक्तं भागवते-मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यव- स्थितिरिति । हित्वा नाम अविद्यादिद्वैतं प्रबाध्य । बाधो नाम ब्रह्म- व्यतिरिक्तस्य त्रैकालिकात्यन्ताऽभावनिश्चयः । तथायोक्तं वार्तिक कारण सुरेश्वराचार्येण- तत्त्वमस्वादिवाक्योत्थसम्बग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यतीति। सर्वबाधे शुद्धाद्वैतमेव ब्रह्मास्ति । सैव कैवल्यमुक्तिरिति एतद् ब्रह्मनिष्ठसद्गुरुतो निश्चित्येति भागवतवाक्यार्थ इति याषन् ।

(३) तत्रोपनिषदश्चापि शाखाभेदेनाऽनेकविधाः सन्ति । तासामेव नाम झानकाण्डं, वेदान्तो, ब्रह्मविद्या, अध्यात्माविद्या, पराविद्या, वेदान्तदर्शनं, ब्रह्मसूत्राणि इति । ब्रह्मविद्याप्रतिपादकत्वाद् ग्रन्थोऽपि वेदान्तादिः कथ्यते । तापीशावास्यादिदशोपनिषदः प्रधानाः । तास्वपि माण्डूक्यो- पनिषदेव मुख्या उत्तमाधिकारिणां परमहंसपरिव्राजकानामर्थे । तथाचोक्तं मुक्तिकोपनिषदि- माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये । तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ॥ ज्ञानं लब्ध्वाऽचिरादेव मामकं धाम यास्यसि, इति । शानमत्र ब्रह्मात्मैक्यमेव विवक्षितं, न तु भेदज्ञानम् । तस्य राजस- त्वात् त्याज्यत्वम् । तथाचोक्तं भगवता श्रीकृष्णेन- सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ सर्व कर्माखिलं पार्थ छाने परिसमाप्यते ॥ कर्मणि समाप्यते, भक्तौ समाप्यते इति नोक्तं भगवता । एतेन भक्तिकर्मणी मोक्षस्य परम्परमा अन्तःकरणशोधनकायद्वारा साधने ग्रमात्मैक्यज्ञानं तमोनिवर्तकत्वेन साक्षात्साधनमिति ध्वनितम् । तदधिकार्यपि मुख्यः संन्यासी परमहंस एव । तस्या माण्डूक्यो- पनिषदो मन्त्रा द्वादश सन्ति । तदुपरि भगवतो गौडपादाचार्यस्य कारिकास्तदर्थाविष्करणरूपाः सन्ति । तदुपरि च श्रीभगवतः श्रीशङ्करावतारपूज्यपादशङ्कराचार्यवर्यस्य मुमुक्षुजनमनोहरं भाष्य- मस्ति । तच्छायामाश्रित्य यथार्थाविष्करणरूपा माण्डूक्यकारिका- बृत्तिमिताक्षरानाम्नी श्रीमत्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशा- मन्दसरस्वतीस्वामिपूज्यपादकृतास्ति । द्वादशमन्त्राणामुपरि च शङ्करानन्दसरस्वतीस्वामिना कृता दीपिकाभिधाना वृत्तिरास्ति । एतवृत्तिद्वयपठनपाठनेन झटिति भाष्यार्थोऽववोधयितुं शक्यत इति कृत्वा सर्वमुमुक्षूपकाराय चौखम्बासंस्कृतसिरीजाध्यक्ष श्रेष्ठि हरिदासात्मज हरिकृष्णदासेन निजविद्याविलासनाम्नि यन्त्रे मुद्र- यित्वा प्रकाशिता इति ।

(४) धन्या महात्मानो यदहर्निशं अनोपकाराय प्रयतन्ते स्ववचन- सुधया च मुमुक्षून् परमकृतकृत्यतां प्रापयन्तीति शम् । सर्वमुमुक्षुपरमहितैषी वेदान्तनिष्ठः प्रज्ञानानन्दसरस्वतीस्वामी कैवल्यधाममठानिवासी काशी ब्रह्माघाट २ ४ ५ अथ मिताक्षरासहित-गौडपादीयमाण्डूक्यकारिकाविषयसूची ॥ विषयाः पुष्ठसंख्या १ मङ्गलाचरणम् १ २ विश्वतैजसप्राक्यत्वनिरूपणम् ३ स्थूलसूक्ष्मादिभेदेन त्रिविधभोगनिरूपणम् ३ ४ त्रिविधतृप्तिनिरूपणम् ५ भोक्तृभोग्यादिशानफलनिरूपणम् ६ कारणातिरिक्तसत्ताशून्यरूपसत्कार्यवादकथनम् ७ सृष्टिचिन्तकमते परमेश्वरविभूति रूपजगन्निरूपणम् ८ केषाञ्चिन्मते स्वप्नमायास्वरूपा सृष्टिः ९ केषाञ्चिन्मते परमेश्वरस्येच्छामानं जगदिति १० ज्योतिर्विदाम्मते कालात् सृष्टिप्रतिपादनम् ११ केषाञ्चिन्मते परमेश्वरस्य स्वभोगार्थ सृष्टिः १२ केषाञ्चिन्मते क्रीडार्थ सृष्टिः १३ सिद्धान्ते सृष्टिर्मायैव, न काचिद् विचार्यमाणा इति १४ कार्यकारणरूपवस्तुपरिच्छेदाऽसम्भवाच्छुद्धाद्वैतमेवेति १५ शुद्धस्यैव तुरीयं तुरीयातीतं नाम, बोधार्थ ग्रन्थे प्रतिपादनम् ६ १६ मायोपहितस्यैव कारणत्वमिति ६ १७ तुर्ये शुद्ध प्रपञ्चाऽभावः सार्वकालिकः कल्पनया तदेवाधिष्ठान न तु वस्तुतस्तदतिरिक्तम् । वस्तुनोऽभावात् १८ परमार्थदर्शिनः स्वाऽभिन्नं शुद्धाद्वैतमेव पश्यन्ति १९ अन्यथाग्रहणं स्वप्नावस्थाकार्य, तत्त्वमशानं सुषुप्तिः प्रलयश्च २० स्वरूपज्ञानमेव प्रबोधावस्था, २१ अनादिमायासुप्तो जीवः शुद्धपुण्यवलेन ज्ञानेन च शुद्धोऽहमिति जागर्ति २२ वस्तुतः प्रपञ्चो नास्त्येव, नासीन भविष्यति कारणाभावादिति९ २३ अकारमात्रोपासनाफलं वैश्वानरप्राप्तिः २४ उकारमात्राचिन्तनस्य हिरण्यगर्भप्राप्तिः फलम् २५ मकारमात्राचिन्तनस्येश्वरमाप्तिः फलम् ७ ८ ११ 2 (२) २६ ॐङ्कारचिन्तनस्य शानद्वारा कैवल्याप्तिः फलम् ११ २७ कामनाभेदेन ॐङ्कारचिन्तनस्य सगुणनिर्गुणब्रह्म ध्यानशान- द्वारा प्राप्तिफलम् २८ प्रणवे चित्तसमाधानेन निर्भयत्वप्राप्तिः २९ प्रणवस्य ब्रह्मरूपत्वम् १३ ३० ॐकारस्वरूपज्ञातुरेव मुनित्वं ब्रह्मवित्त्वं चेति १३ इत्यागमप्रकरणं प्रथमम् ॥ १॥ १ स्वप्ने सर्वपदार्थानां मिथ्यात्वम् २ स्वप्नमिथ्यात्वे युक्तयः कालाऽल्पत्वादिरूपाः । १५ ३ आद्यन्तशून्यत्वेन वार्त्तमानिकप्रतीतित्वेन च सर्वः प्रपञ्चः स्वप्नवन्मृषैव ४ स्वप्नमिथ्यात्ववत् सर्वद्वैतस्य मिथ्यात्वम् ५ अपूर्वस्वप्नदर्शनं स्वप्नद्रष्टुरेव धर्मः ६ सर्वस्य चित्तकल्पितत्वेन मिथ्यात्वम् ७ सर्वोऽपि प्रपञ्चो ब्रह्मविवर्त्त एव स्वस्वरूपाऽपरित्यागेन रूपान्तरापत्तिरूपः ८ सर्वस्य निर्माता समष्टिव्यष्टिभेदेन ईश्वरः। स एव स्वमायया जीवभावं गत इव । वस्तुतो जीवापि ब्रह्मैव यथार्थविचारे सति ९ व्यावहारिकः प्रातीतिकश्च प्रपञ्चो मिथ्यैव १० जीवकल्पनापुरःसरं सर्वकल्पना स्वशक्त्या इति ११ रज्जुसादिवदात्मनि सर्वकल्पना, तेन मिथ्यात्वम् ૨૦ १२ अधिष्ठानसाक्षाज्ञानेन द्वैतकल्पनानिवृत्तिः २१ १३ वादिनां स्वाधिष्ठानाशानेस कल्पनाभेदः २१ १४ प्राणोपासकानां प्राण एवात्मा २१ १५ देहात्मवादिचार्वाकमते चतुर्णी भूतानां सङ्घात एव मद- शक्तिवदात्मा २१ १६ सांख्यमते सत्त्वादिगुणा एव जगतः कारणम् ૨૨ १७ नवीनशैवमते आत्मा अविद्या शिव इति त्रीणि तत्त्वानि २२ १८ केषाञ्चिन्मते विश्वतेजसादयः पादाः सर्वव्यवहारहेतवः ૨૨ ।

(३) ૨૨ २२ २२ २२ २२ १९ वात्स्यायनमते भूयो भूयो भुज्यमाना विषया एव तत्त्वम् २० भूर्भुवः स्वरिति त्रयो लोका वस्तुभूता इति पौराणिकाः २२ २१ अग्नीन्द्रादयो देवाः सर्वकर्मफलदातारो, नेश्वर इति देवताकाण्डीयाः २२ ऋग्वेदादयो घेदा धनान्तस्वरपठनेन तत्त्वानि सुख- प्रदाश्चति वेदस्वरपाठका वदन्तीति २३ ज्योतिष्टोमादयो यज्ञा वस्तुभूता इति बोधायनादयः कल्पगृह्यसूत्रकाराः २२ २४ भोक्तवात्मा का प्रधानं जडमिति सांख्याः २५ सूपकारास्तु भोज्यमेव वस्तुतत्त्वमिति जल्पन्ति २२ २६ आत्मा अणुपरिमाण इति सर्वोपासकाः २२ २७ स्थूलो देह एव आत्मा इति केवलप्रत्यक्षप्रमाणवादिन- श्चार्वाकाः प्राकृताश्च २८ साकार एवेश्वरः कैलासवैकुण्ठादिषु त्रिशूलचकादिधारी परमार्थ इत्युपासकाः जल्पन्ति २२ २९ सर्वाकारशून्यो निःस्वभावः परमार्थ इति शून्यवादिनो माध्यमिका बौद्धाः २२ ३० स्वरोदयविदस्तु दिशः परमार्था इति जल्पन्ति २३ ३१ धातुवादो मन्त्रवादश्चेति रसायनविदस्तान्त्रिकाच २३ ३२ चतुर्दश भुवनानि तत्त्वानि इति पौराणिकाः २३ ३३ मनोबुद्धिचित्तं सौत्रान्तिकवैभाषिकयोगाचारा बौद्धाः क्षणिकात्मवादिनः २३ ३४ धर्माधर्मी तत्त्रमिति पूर्वमीमांसका जैमिनीयाः ३५ पञ्चविंशतिः षड्विंशतिस्तत्त्वमिति सांख्याः पातञ्जलाश्च २३ ३६ एकत्रिंशकं तत्त्वमिति पाशुपताः शैवाः २३ ३७ अनन्ताः पदार्था इति गाणपत्यादयः पदार्थवादिनश्च २३. ३८ लोकानुरञ्जनमेव तत्त्वमिति प्राकृता लौकिकाः ३९ दक्षप्रजापतयश्चत्वार आश्रमास्तत्त्वं वदन्ति ४० स्त्रीपुनपुंसकं शब्दजातं स्फोटात्मकं तत्त्वमिति वैयाकरणाः २४ ४१ परं चापरं च ब्रह्म परमार्थतत्वमिति केचिदुपासकाः ५२ सृष्टिस्थितिलयास्तत्वमिति केचित् २६. २४ (४) ४३ सत्यं वाऽसत्यं वा यं भावं युक्त्या इमेव सत्यमिति दर्श- यति यमधिकारिणं विद्वान् स्वकल्पनया तदेव तत्त्वमिति मूढाः स्वीकुर्वन्ति ४४ पूर्वोक्तविकल्पैरनास्पृष्टत्वं विज्ञत्वम् ४५ सर्वोपनिषत्सु बोधार्थ स्वप्नमायास्वरूपैव सृष्टिर्वस्तुतस्तु सजातीयादिभेदरहितं शुद्धं ब्रह्मैवेति ४६ कारणाभावान्निरोधादयो न सन्तीति परमार्थता पूर्वोक्ता २६ ४ केनाऽपि प्रकारेण प्रमाणेन वा पारमार्थिकभेदस्याऽसिद्धिः २६ ४८ रागद्वेषादिदोषरहितैरेवाऽजातवादो ज्ञायते ४९ यथार्थाद्वैत ज्ञात्वा परमहंसैौके जडवच्चेष्टा दर्शयितव्या २८ ५० स्तुतिनमस्कारस्वधादिवर्जितश्चलाञ्चलनिकेतः स्यात् इति वैतथ्यप्रकरणं द्वितीयम् ॥२॥ १ उपास्योपासकभावस्तु कृपण एव स्वस्वरूपशानस्य पूर्व- भावित्वादेव २ अकार्पण्यभावप्रतिपादनप्रतिज्ञा ३ वेदान्ते बोधार्थ स्वप्नादिवदुत्पत्यादिरर्थवादः ४ परमार्थतोऽद्वैतत्वेऽपि बन्धमोक्षादिव्यवस्था महाकाशघटा- काशादिवन् न विरुद्ध्यते ५ मूढदृष्टया बन्धमोक्षौ, न वस्तुतः ६ तत्तिरीयबृहदारण्यादिश्रुतिपर्यालोचनया साक्षादद्वैतसत्यत्व- प्रतीतितमिथ्यात्वं च ७ अद्वैतपरमार्थता भेदनिन्दनं च श्रुत्या कृतं तदेव समञ्जसम् ३३ ८ अज्ञानदशायां भेदकथनं लोकदृष्टयाऽनुवादः ९ उत्तमादित्रिविधवर्णाश्रमदृष्टया उपासनादिनिरूपणम् १० अज्ञानिद्वतिदृष्टया परमार्थाद्वैतं न दुष्यति,सर्वस्यात्मत्वादेव३५ ११ माययैव भेदो,न परमार्थदृष्टया, भिद्यत इति व्युत्पत्तेरनवस्थादि- दोषापत्तेश्च, पूर्वोक्तयुक्त्याऽपि भेदाऽसत्यत्वसिद्धिः १२ स्वभावतो निर्विकारस्य कथमपि न विकारता १३ नेह नानास्ति इत्यादिश्रुत्या भेदो न पारमार्थिका ३७ १४ मन्त्रेण हिरण्यगर्भादेरभावप्रतिपादनेनापि, न भेदः ३७ ३० ४० (५) १५ सर्वमग्राह्यभावेन हेतुना अजमेवाद्वैतं ब्रह्म १६ नैयायिकाद्युक्ताऽसद्वादाऽसंभवप्रदर्शनम् १७ आत्मसत्यानुबोधेन मनसः संकल्पादिक्षयाद् द्वैतबाधः “१८ बाधितमनसः प्रचारः सुषुप्तेर्विलक्षणः १९ बाधितमनसः सदा समाधिः २० अनेकजन्मसु नैरन्तर्याभ्यासेन मनसो बाधः २१ मनसो बाधे शान्तनिर्वाणाऽकथ्यकैवल्यब्रह्मैवाद्वैतं निर्विशेषं शिष्यते ४३ इत्यद्वैतप्रकरणं तृतीयम् ॥३॥ ४९ १ नमस्कारात्मकं मङ्गलम् २ नमस्कारस्तुतिर्मुमुक्षूणां साधनप्रवृत्तये ४७ ३ अद्वैतदर्शनस्याऽविरुद्धत्वेनाऽविवादत्वम् ४ सांख्यादीनां परमार्थमित्यस्यैवोत्पत्तिता ५ नैयायिकादीनामसत एव कार्यस्योत्पत्तिता ६ सतोऽसतश्चोत्पत्तेरसम्भवो विद्यमानाऽविद्यमानत्वेन हेतुना ४९ ७ स्वरूपस्य प्रच्युत्यसम्भवोऽन्युष्णत्ववत् ८ सांख्यसत्कार्यवादखण्डनम् ९ अजादुत्पत्तौ दृष्टान्ताभावोऽसम्भवोऽनवस्थादोषापाताच्चेति ४९ १० पूर्वमीमांसकमते धर्माधर्मयोः शरीराद्युत्पत्तौ शरीरादेर्धर्मा- ५२ द्युत्पत्तौ चाऽनवस्थाऽन्योन्याश्रयादयो दोषा,निग्रहादि च ५२ ११ बीजाकुरादिदृष्टान्ते साध्यसमो दोषः १२ कारणाभावान्न जातं किंञ्चिदित्यजातवादः सिद्धान्तः १३ निर्विषयं विज्ञानं कूटस्थं ब्रह्मेति दृढीकरणार्थ योगाचारबौद्ध- मतक्षणिकविज्ञानवादखंण्डनम् १४ अनिर्वचनीयवादेन बाह्यार्थवादसमर्थनम् १५ स्वप्नादिदृष्टान्तरसतो द्वैतस्य वैलक्षण्यरूपमिथ्यात्वम् १६ कार्यकारणभावस्याऽनिर्वचनीयत्वं तुच्छत्वं च १७ प्रतीतिबलेन न द्वैतसत्यत्वं संभवति १८ श्रुतिष्त्पत्त्यादिकथनं ब्रह्माद्वैतनिर्विशेषबोधर्थम् ५४ स ।

७६ (६) १९ उपाधिना जात्याद्याभासेन ब्रह्माद्वैतमेव भासते २० अलातदृष्टान्तेन निर्विकारविज्ञानसिद्धिः २१ यावद्धतुफलभावाऽऽग्रहस्तावजन्ममरणादिः ६६ २२ द्वैतप्रतीतिर्मायैव, माया नाम, न किंश्चिद् वस्तु, ६७ २३ मनोमानं द्वैतं, तेन सुषुप्तौ तदभावसिद्धिः ७१ २४ निमित्ताभावे नैमित्तिकस्याप्यभावः ७२ २५ शुद्धाद्वैतस्य यथार्थसाक्षात्कारेणाऽभयपदप्राप्तिः ७३ २६ मिथ्याभिनिवेशाद् दुःखप्राप्तिः सुखतिरोधानं च ७३ २७ अस्त्यादिचतुर्विधकोटिरहित आत्मा शुद्धाद्वैतः २८ शुद्धब्रह्माद्वैतसाक्षात्कारवान् सर्वशः २९ ब्रह्माद्वैतसाक्षात्कारवतः सर्वकर्तव्याऽभावः ७६ ३० ब्रह्माद्वैतज्ञानिनः सदा समाधिः ७६ ३१ ब्रह्माद्वैतविदो विनयशमदमादिकं स्वाभाविकम् ७६ ३२ वेदान्तपरिभाषया श्रवणादिनिरूपणम् ३३ शुद्धाद्वैतशानिनं मूढा न जानन्ति तेषामविषयत्वात् ३४ शुद्धाद्वैतबोधकं गुरुं प्रति सर्वोत्कृष्टत्वादन्ते नमस्कारः इत्यलातशान्तिप्रकरणं चतुर्थकम् ॥ ४॥ अथ सवृत्तिकमाण्डूक्योपनिषद्विषयसूची । विषयाः पृष्ठसंख्या १ : मङ्गलाचरणम् २ सर्वस्योङ्कारमात्रत्वम् ३ अङ्कारस्य प्रथममात्राऽकारविश्वजीवजाग्रदवस्थादिनिरूपणम् २ ४ द्वितीयोकारमात्रातैजसजीवस्वप्नावस्थादिनिरूपणम् ५ मकाररूपतृतीयमात्राप्राशेश्वरसुषुप्तयवस्थादिनिरूपणम् ६ समष्टिप्राशस्येश्वरत्वजगत्कर्तृत्वसर्वज्ञत्वादिनिरूपणम् ७ सर्वावस्थासाक्षितुरीयतुरीयातीतशुद्धाद्वैतनिरूपणम् ८ मात्रापादेक्यनिरूपणम् ९ अकारादिमात्राचिन्तनफलनिरूपणम् (इति शङ्करानन्दीयवृत्तिसहितमूलमाण्डूक्यविषयसूची) on or m m3055 श्रीगणेशाय नमः॥ अथ आचार्यश्रीभगवद्गौडपादविरचित- माण्डूक्योपनिषत्कारिकाव्य ख्या मिताक्षरा। हरिः ॐम् ॥ अस्ति प्रत्यगुपाधिवर्गविधुरं शुद्धं परं भास्वरं पूर्णानन्दमपास्तभेदविभवं ब्रह्मति निर्मायते ॥ तस्मिन्नस्मि सदा निषण्णधिषणो धीशब्दयोनौ पदे वेदान्तैरधिगम्यमानमहिमन्यात्मावबोधे मयि ॥१॥ वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतुष्टयम् ॐमित्येतदक्षरमि- त्याद्यारभ्यते । तत्र यान्येव तु वेदाते सम्बन्धाभिधेयप्रयोजनानि ता- न्येवेह भवितुमर्हन्ति । तथापि प्रकरणव्याचिख्यासुना सक्षेपतो वक्त- व्यानि । तथाहि । प्रयोजनसम्बद्धं शास्त्रं साधनाभिव्यञ्जकत्वेन । तच्च द्विविध, सुखाभिव्यक्तिरनर्थापध्वस्तिश्च । ब्रह्मविद् ब्रह्मैव भवति, तरति शोकमात्मविदित्यादिश्रुतेरवगन्तव्यम् । विषयसम्बद्धं च प्रत्यग्ब्रह्मणो- रैक्यमज्ञातत्वेनाज्ञातं हि प्रमाणानां विषयो वादिनां मत इति हि वृद्धाः। सम्बन्धो नाम प्रतिपाद्यप्रतिपादकत्वम् । तं त्वौपनिषदमिति श्रवणात् । तत्कामस्त्वधिकारी । यदिच्छन्तो ब्रह्मचर्य चरन्तीति श्रुतेः । भवति हि यो यत्कामी स एव तदधिकारीति सर्वजनीनम् । एवं प्रयोजनादिप्रकार उपनिषत्पदव्युत्पादने तु दर्शितोऽन्यत्रेत्यलम् । सम्प्रति प्रकरणचतुष्टय- स्यासङ्कीर्णो विषयो दर्शयितन्यो बुद्धिसौकर्याय । तत्रैवमोङ्कारनिर्णयाय प्रथमं प्रकरणमागमप्रधानमात्मतत्त्वप्रतिपत्त्युपायभूतम् । यस्य द्वैतप्रपञ्च- स्योपशमेऽद्वैतप्रतिपत्तिः । रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्व- प्रतिपत्तिवत् । तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्र. करणम् । तथाऽद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितोऽतथात्वदर्शनाय

२
-
-
माण्डूक्योपनिषत्कारिकाव्याख्या
प्रकरणं तृतीयम् । अद्वैतस्य तथात्वप्रतिपक्षभूतानि यानि वादान्तराणि
अवैदिकानि तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निरा-
फरणाय चतुर्थं प्रकरणम् ॥
तदेवं प्रयोजनाद्यभिधाय प्रकरणानामसङ्कीर्ण विषयं च प्रदा-
रभ्यत इत्यत्र द्योतितां प्रतिज्ञां प्रकटयन्, *मित्येततदक्षरमित्यादि,
सर्वस्य प्रभवाप्ययौ हि भूतानामित्यन्तेनोक्तो योऽर्थस्तस्मिन् प्रकाशक-
त्वेन, बहिरित्यादीन्-भोगार्थ सृष्टिरित्यन्तान् श्लोकानवतारयति-
अत्रैते श्लोका भवन्ति-
बहिःप्रज्ञो विभुर्विश्वो यन्तःप्रज्ञस्तु तैजसः॥
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः॥१॥
अत्रेति ॥ ॐमित्यादिश्रुतौ पादत्रये विश्वादिपदार्थान् क्रमेण
दर्शयति ॥बाहरिति ।। देहाद् बाह्येषु स्थूलरूपादिविषयेषु वर्तमाना प्रशा
यस्य सोऽयं बहिःप्रज्ञो विभुरित्यध्यात्माधिदैविकयोरभेदेनावधेयम् ।
तथा तैजसप्राशयोर्हिरण्यगर्भाव्याकृताभ्यामैक्यं द्योतयितुं हीत्युक्तम् ।
देहेन्द्रियाद्यतिरिक्तेषु वासनामयेषु रूपादिविषयेष्वासक्ता प्रज्ञा, पश्यामि
शृणोमीत्येवंरूपा यस्य सोऽयमन्तःप्रज्ञस्तैजसस्तथा प्रज्ञानानां जाग्रत्स्वप्न-
बोधानां यत्रैकीभावः । सोऽयं प्रशानधनः प्राज्ञः पर्यायेण त्रिस्थानत्वात्
सोऽहमिति स्मृत्या प्रतिसन्धानाच्च स्थानत्रयव्यतिरिक्तत्वमेकत्वं शुद्ध-
त्वमसङ्गत्वंच सिद्धमित्यभिप्रायेणाह॥एक एवेति ॥ केचित्तु, यो जाग्रति
व्यवहरति तस्मादन्यः स्वप्ने चरति, यस्तु स्वप्ने व्यवहरति तस्माद्भिन्नः
सुषुप्तिगच्छति, तथाऽऽगमनक्रमेऽपि भिन्नोऽभिन्नश्चात्मावस्थाधर्मवानि-
ति। तत्तुच्छम् । यद्यात्मनश्चैतन्यमिव स्वाभाविकंस्थानत्रयं तर्हि न व्याभि-
चरेद, न तर्हि तद्वदेव तं व्यभिचरितुमर्हति । व्याभिचरति चात्मानं
स्थानत्रयम्।क्रमाऽक्रमाभ्यांतस्य त्रिस्थानत्वादतस्तद्यतिरिकत्वमात्मनः
सिद्धम् । सोऽहमिति प्रतिसन्धानान्महामत्स्यादिश्रुतेश्वोक्तलक्षणो युक्तो-
ऽङ्गीकर्तुमित्यर्थः ॥१॥
जागरितावस्थायामेवैकस्मिन्नेव देहे विश्वादीनां त्रयाणामनुभव-
प्रदर्शनेनैक्यमेव वस्तुतोऽस्तीति दर्शयन् भेदवादमपनुदति-
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः॥
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २॥

मिताक्षरा। आगमप्रकरणं १ प्रथमम् । ३ दाक्षिणति ॥ दक्षिणमक्ष्येव मुखमुपलब्धिस्थानं, तस्मिन् प्राधा- न्येन द्रष्टा स्थूलानां विश्वोऽनुभूयते । इन्धो ह वै नामैव योऽयं दक्षिणेक्षन् पुरुष इतिश्रुतिर्दीप्तिगुणं वैश्वानरं चक्षुषि प्रदर्शनेनाध्यात्माधिदैवयोरैक्य- मुपदिशजागरिते विश्वं दर्शयतीति सर्वाविवादम् । दक्षिणाक्षीति विशेषणं दक्षिणाङ्गे वीर्यवद्यापारोपलब्धेरुक्तश्रुत्यनुग्रहाच्च द्रष्टव्यम् । यद्यपि देहदेशभेदे विश्वोऽनुभूयते तथापि कथं जागरिते तैजसोऽनुभूय- त इत्याशय द्वितीयं पादं व्याचष्टे ॥ मनसीति ॥ दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षस्तदेव स्मरन्मनस्यन्तःस्वप्न इव वासनारूपाभिव्यक्तं पश्यत्यतो मनस्यन्तस्तुतैजसोऽपि विश्व एव । अत्रापि तैजसो हिरण्यगर्भ इति ध्येयः। मनोमयोऽयं पुरुष इति श्रवणात् । तृतीयं पाद व्याकुर्वजान- त्येव सुषुप्तिं दर्शयति ॥ आकाशे चेति ॥ यो विश्वस्तैजसत्वमुपगतः स पुनः स्मरणाख्यस्य व्यापारस्य व्यावृत्ती हृदयावच्छिन्नाकाशे स्थितः सन् प्राशो भूत्वा प्राणात्मरूपाव्याकृतात्मना तिष्ठति । प्राणो हवैतान् सर्वान् संवृक्ते इतिश्रुतेरत्रापि प्राशस्य प्राणात्मना व्याकृतेनैक्यं ध्येयम् । प्राणबन्धनं हि सोम्य मन इति श्रुतेरिति भावः। एकस्मिन्नेव देहे विश्व- तैजसवत् प्राणात्मनः प्राज्ञस्यापि न किञ्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनादेकस्मिन्नेव देहे जीवात्मभेदः केनापि नाभिमत इत्याह ॥ त्रिधेति ॥२॥ विश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थितिप्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति- विश्वो हि स्थूलभुनित्यं तेजसः प्रविविक्तभुक् ।। आनन्दद्भुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥३॥ विश्वो हीति ॥ एकोनविंशतिमुखैर्बुद्धीन्द्रियकर्मेन्द्रियप्राणपञ्चक- मनोबुद्ध्यहङ्कारचित्ताभिधैः स्थूलान् रूपादिविषयान् भुत इति स्थूलभुग् विश्व इत्यर्थः। तेजोवासनामयी प्रज्ञा यस्य सोऽयं तैजसः तैरेव द्वारैः प्रविविक्तान् वासनामयान् विषयान भुङ्क्ते इति प्रविविक्तभुक् । तथा प्रज्ञप्तिमात्रमेव रूपं यस्य सोऽयं प्राज्ञ आनन्दस्वरूपाभिव्यकं सुखं भु- उनुभवति । एवं विधाभोगं निबोधत यूयमित्यर्थः ॥३॥ भोगप्रयुक्तां तृप्तिमधुना प्रेधा विभजते- माण्डूक्योपनिषत्कारकाव्याख्या - स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।। आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत ॥४॥ स्थूलमिति । तृप्ति दृष्टानुसारेण सुखाद्युत्पत्तिरित्यर्थः ।। ४॥ प्रकृतभोक्तृभोग्यपदार्थद्वयपरिज्ञानस्यावान्तरफलमाह- त्रिषु धामसु यड्रोज्यं भोक्ता यश्च प्रकीर्तितः॥ वेदैतदुभयं यस्तु स भुनानो न लिप्यते ॥५॥ त्रिष्विति ॥ जाग्रदादिषु स्थूलप्रविविक्तानन्दाऽऽख्यं भोज्यमवान्तर- भेदात् त्रैविध्यमपि भोज्यत्वेनैकत्वम्। यश्च विश्वतेजसप्राशाख्योभोक्तैकः एकत्वे युक्तिः । योऽहं सुषुप्तः सोऽहं स्वप्नं प्राप्तः । यश्च स्वप्नमऽद्राक्ष सोऽहमिदानी जागति प्रतिसन्धानादशानतत्कार्य प्रति न जाने मम देहादिरिति द्रष्टुत्वाच्च प्रतिपादितः श्रुतिस्मृतिग्वित्यर्थः। द्वितीयार्द्ध विभजते ॥ वेदेति ॥ यो वेदैतदुभयं भोज्यभोक्तृतयाऽनेकधा भिन्नं स भुआनो न लिप्यते । न हि यस्य यो विषयः स तेन हीयते वद्धते वा। न ह्यग्निः स्वविषयान् काष्ठादीन् दग्ध्वा हीयते वर्द्धते वेत्यर्थः ॥५॥ एष योनिरित्यत्र प्राज्ञस्य प्रपञ्चकारणत्वं प्रतिशातम् । तत्र सत्कार्य- मसत्कार्य प्रति वा कारणत्वमिति सन्देहे निर्धारयितुमारभते- प्रभवः सर्वभावानां सतामिति विनिश्चयः॥ सर्व जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ॥६॥ प्रभव इति ॥ सतामधिष्ठानात्मना विद्यमानानां स्वेनाऽविद्याकृत- नामरूपमायास्वरूपेणाविद्यमानानां सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभव उत्पत्तिरिति वेदान्तेषु निश्चयो वर्तते इत्यर्थः । यदि ह्यसतामेव जन्म स्याद् ब्रह्मणोऽव्यवहार्यस्य ग्रहणद्वाराऽभावादासत्वप्रसङ्गः। दृष्टं च रज्जुसपोदोनामविद्याकृतमायाबाजोत्पन्नानां रज्ज्वाद्यात्मना सत्त्वम् । न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः कचिदुपलभ्यते केनचित् । वक्ष्यति च वन्ध्यापुत्रो न तत्वेन मायया वाऽपि जायत इति । श्रुतिरपि वक्ति, ब्रह्मैवेदमात्मैवेदमय आसीदिति । तस्मात् सतामेवोत्पत्तिरिति भावः । तत्रावान्तरभेदमाह ॥ सर्वमिति ॥ पुरुषो हि सर्वमचेतनं जगदु- पाधिभूतं तमःधानं गृहीत्वा जनयति । अत एव पुरुषे कारणवाचि प्राणपदं प्रयुज्यते । स च चैतन्यप्रधानश्चेतसश्चैतन्यस्यांशव इव चेतो-

मिताक्षरा । आगमप्रकरणं १ प्रथमम् ।
५
रूपा जलार्कसमा अनिविस्फुलिङ्गसमाश्च प्राशतेजसविश्वभेदेन देव-
तिर्यगादिदेहभेदेषुविभाव्यमानाश्चेतोऽशवो ये ताँश्चेतोऽशून् पृथविषय-
भावविलक्षणांश्चैतन्यत्वेन सलक्षणाजीवान् पुरुषो जनयति । अत एव
चिदात्मनो जनयितुस्तत्वतो जीवानां न भिन्नत्वं जलपात्रप्रतिबिम्बिता-
ऽऽदित्यादीनां बिम्बभूतात्तत्त्वतो भेदाभावादित्यर्थः ॥ ६ ॥
चेतनाचेतनात्मकस्य जगतः सर्गे प्रस्तुते स्वमतविवेचनार्थ मता-
न्तरमुपन्यस्यति
विभूतिप्रसवं त्वन्ये मन्यन्ते स्मृष्टिचिन्तकाः॥
स्वप्नमायासरूपेति सृष्टिरन्यर्विकल्पिता ॥७॥
विभूतिप्रसवमिति ॥ ईश्वरस्य विभूतिविस्तारः स्वकीयैश्वर्यख्या-
पनार्थ जगदुत्पत्तिरिति सृष्टिचिन्तकास्तत्वदृष्टिविधुरा मन्यन्त इत्यर्थः।।
तस्मिन् पक्षे सृष्टवस्तुत्वशङ्कायां पक्षान्तरमाह ॥ स्वप्नेति ॥ स्वप्नरूपा
मायारूपा चेत्येतदपि सृष्टिचिन्तकानामेव मतं, न तु परमार्थचित्तका-
नां सृष्टावादरः । इन्द्रो मायाभिः पुररूप ईयत इत्यादिश्रुतेः। अतः सृष्टे-
स्तजनयि तुरन्यस्मिंस्तुरीयाख्ये परमार्थतत्त्वे तत्त्वविदां मुमुक्षूणां
चादरो महानित्यर्थः । जाग्रद्गतानामनामेव स्वप्ने प्रथनात्तस्य सत्य-
त्वं मायायाश्च मण्यादिलक्षणायाः सत्यत्वाङ्गीकारात्। सिद्धान्ते कुत्रचित्
स्वप्नमायावत्प्रतियापनं तु मिथ्यात्वार्थम् । वस्तुतः सृष्टेरनिर्वाच्यतैवेत्यु-
नेयम् ॥ ७॥
सृष्टिचिन्तकानामेव सृष्टिविषये विकल्पान्तरमुत्थापयति-
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः॥
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥८॥
इच्छामात्रमिति ॥ प्रभोः सत्यसङ्कल्पत्वात् सृष्टिर्घटादिः सङ्कल्पना-
मात्र, न सङ्कल्पनातिरिक्तमित्यर्थः । ज्योतिर्विदां कल्पनाप्रकारमाह ||
कालादिति ॥ ८॥
यथा तथा वाऽस्तु सृष्टिः । तस्यास्तु किं प्रयोजनमिति फलगतं
विकल्पद्यमाह-
भोगार्थ सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥९॥

६
माण्डूक्योपनिषत्कारिकाव्याख्या
भोगार्थमिति ॥ सिद्धान्तमाह ॥ देवस्येति ॥ पूर्वपक्षाणामर्थवादं सू-
चयति ॥ आप्तेति ॥ देवस्य परमेश्वरस्यैषः सृष्टिप्रभवः स्वभावः स्व-
भावशब्दिता माया । न ह्याप्तकामस्य मायां विना सृष्टिः।न हिरज्ज्वा-
दीनामविद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम् ।
तस्मादज्ञानाद् ब्रह्मणः सृष्टिसम्भवः । आत्मन आकाशः सम्भूत इति
श्रुतेरित्यर्थः ॥९॥
तदेवमध्यस्तप्रधानं पादत्रयं व्याख्यायाधिष्ठानप्रधानं चतुर्थपादं
क्रमप्राप्तं व्याख्यातुं नान्तःप्रज्ञमित्यादि चतुर्थ मन्यन्ते इत्यन्तेन श्रुत्युक्ते-
ऽर्थे निवृत्तरित्यादि विकल्प इत्यन्तान् श्लोकानवतारयति-
अत्रैते इलोका भवन्ति-
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ॥
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥१०॥
अत्रेति ॥ तत्राद्यं श्लोकं व्याकरोति ॥ निवृत्तरिति ॥ प्राज्ञतैजस-
विश्वलक्षणानामाध्यात्मिकादिभेदभिन्नानां तद्धेतूनां तदाधाराणां सर्व-
दुःखानां निवृत्ति प्रति प्रमाणारूढत्वेन यः प्रभुः समर्थः।यश्च सर्वभावा-
नां पूर्वोत्तानामद्वैतः प्रत्यक्सादिभावानां प्रत्यग्रज्जुवत् । यश्चाव्ययः
स्वरूपतोन व्येतिन व्याभिचरति देवः स्वप्रकाशः स तुर्यो विश्वाद्यपेक्षया
चतुर्थो विभुप्पीति विद्वद्भिनिश्चित इत्यर्थः। ईशान इत्यस्य व्याख्यानं
प्रभुरिति ॥१०॥
विश्वादीनां सामान्यविशेषनिरूपणद्वारेण तुरीयमेव निारयति-
कार्यकारणबद्धौ ताविष्यते विश्वतैजसौ ॥
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः॥११॥
कार्येति ॥ कार्य क्रियत इति फलभावः । कारणं करोतीति बीज-
भावः । तत्वाग्रहणान्यथाग्रहणाभ्यां बीजफलभावाभ्यां तो यथोक्तौ
विश्वतेजसौ बद्धौ संगृहीताविष्येते। प्राज्ञस्तु बोजभावेनैव बद्धः । विश्व-
तैजसयोरुभयबद्धत्वं सामान्यम् । प्राज्ञस्य कारणमात्रबद्धत्वं विशेष
इत्यर्थः । त्रयाणामवान्तरविशेष स्थिते प्रकृते तुरीये किमायातमित्या-
शङ्ख्याह ॥ द्वौ त्विति ॥ बीजफलभावौ तत्त्वाग्रहणान्यथाग्रहणे तुर्ये न
सियतो, न विद्यते, न सम्भवत इत्यर्थः ॥११॥

मिताक्षरा । आगमप्रकरणं १ प्रथमम् । प्राशस्य कारणबद्धत्वं साधयति- नाऽऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् ॥ प्राज्ञः किञ्चन संवेत्ति तुर्य तत् सर्वदृक् सदा ॥१२॥ नात्मानमिति ॥ यस्मात् प्राज्ञो नात्मानमहमेवंविध इति वेत्ति, य- स्माच्च स्वस्मादन्यमयमेवंविध इति, अयं सत्यमयंमिथ्येत्येवंच न वेत्ति, तस्मात् कारणबद्धोऽसावित्यर्थः । तुरीयस्य कार्यकारणाभ्यामसंस्पृष्टत्वं स्पष्टयति ॥ तुर्यमिति ॥ यस्मात्तुरीयं तत्सर्वदा सदैव सर्व च तद् हगिति सर्वदृक् । तस्मान्न तत्र तत्त्वाग्रहणलक्षणं बीजमत एव तत्प्रसू- तस्यान्यथाग्रहणस्याप्यभावः । न हि सवितरि सदा प्रकाशात्मके तद्वि- रुद्धमप्रकाशनमन्यथाप्रकाशनं वा सम्भवति। न हि द्रष्टुईष्टेर्विपरिलोपो विद्यत इति श्रुतेर्नान्यदतोऽस्ति द्रष्टा इत्यादिश्रुतेश्च सर्वस्य द्रष्टेति वा सर्वदृगित्यर्थः ॥ १२ ॥ विमतं कारणबद्धं, द्वैताग्रहणत्वात्, प्राशवदित्यनुमानप्रयुक्तां तुरीये- ऽपि कारणबद्धत्वाशङ्कां परिहरति- दैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ॥ बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥१३॥ द्वैतस्येति ॥ यद्यप्युभयोः प्राज्ञतुरीययोद्वैतस्याग्रहणं तुल्यं- सममेव, तथापि प्राशो बीजनिद्रायुतः। तत्त्वाऽप्रतिबोधो निद्रा सैव च विशेष- प्रतिबोधप्रसवस्य बीजम् सा बीजनिद्रा । तया युतोऽसौ । तुर्य सा बीज- निद्रा न विद्यते, नास्त्येव । सदा हक्स्वभावत्वात् । तथाचात्मनो विशुद्ध- चिद्धातुत्वसाधकतत्त्वमादिमानविरोधानानुमानस्य मानतेत्यर्थः ॥१३॥ कार्यकारणबद्धौ तावित्यादिश्लोकोक्तमर्थमनुभवावष्टम्भेन प्रपञ्चयति- स्वमनिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ॥ न निद्रां नैव च स्वमं तुर्ये पश्यन्ति निश्चिताः ॥१४॥ स्वप्नोति ॥ स्वप्नोऽन्यथाग्रहणमहम्ममादिलक्षणो, निद्रोक्ता तत्वा- ऽप्रतिबोधलक्षणं न जान इत्येवंरूपं तम इति, ताभ्यां युक्तो विश्वतैज- सौ । अतस्तो कार्यकारणबद्धावित्युक्तावित्यर्थः । द्वितीयं पादं विभज- ते ॥ प्राशस्त्विति ॥ प्राशो हि स्वप्नवर्जितः केवलयैव निद्रया युत इति - माण्डूक्योपनिषत्कारिकाब्याख्या । कारणबद्ध इत्युक्तमित्यर्थः । तुरीयमनुभवेन साधयति ॥ नेति ॥ नोभ- यं पश्यन्ति तुरीये निश्चिता ब्रह्मविदो विरुद्धत्वात् सवितरीव तमः । अतो न कार्यकारणबद्ध इत्युक्तस्तुरीय इत्यर्थः ॥ १४ ॥ कदा तर्हि स्वप्नो भवतीत्यपेक्षायामाह- अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।। विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥१५॥ अन्यथेति ॥ निद्रा तर्हि कदेति सन्दिहानं प्रत्याह ॥निद्रेति। तुरीय- प्रतिपत्तिसमयं सङ्गिरते ॥ विपयास शति स्वप्नजागरितयोस्तत्त्वमन्यथा गृह्णतः स्वप्नो भवति रज्ज्वामिव सर्पः, तत्वमऽजानतो निद्रा तयोर्विप- यांसे स्वप्ननिद्रे तत्वबोधतो क्षीणे नष्टे तुरीयं परमानन्दं चतुर्थमश्नुते । तदेव पूर्णोऽहमिति निश्चितो भवति । प्रतिबन्धकारणाभावादित्यर्थः । विश्वादिषु त्रिषु, तयोरिति द्विवचनं तु विश्वैतजसयोनिद्रायागुणभूत- त्वेनान्यथाग्रहणस्य प्राधान्यत्वादेकराशित्वं, प्राज्ञस्य पुनर्निद्राप्रधानत्वा- दुराश्यन्तरत्वमिति द्रष्टव्यमिति भावः ॥ १५ ॥ कदा तत्त्वप्रतिबोधो विपर्यासक्षयहेतुर्भवतीत्यपेक्षायामाह- अनादिमायया सुप्तो यदा जीवः प्रवुद्ध्यते ॥ अजमनिंद्रमस्वप्नमतं बुद्ध्यते तदा ॥ १६ ॥ अनादीति॥ योऽयं संसारी जीव उभयलक्षणेन तत्त्वाप्रतियोधरूपेण बीजात्मनाऽन्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वप्नेन, ममाऽयं पिता पुत्रोऽयं नप्ता क्षेत्रं पशवोऽहमेषां स्वामी सुखी दुःखी क्षपितोऽहमनेन वर्द्धितश्चानेनेत्येवम्प्रकारान् स्वप्नान स्थानद्वयेऽपि पश्यन् सुप्तः । स यदा वेदान्तार्थतत्त्वाभिशेन परमकारुणिकेन गुरुणा नाऽस्येवं त्वं हेतुफलात्मकः, किन्तु तत्त्वमसीति प्रतिबोध्यमानो यदा तदैवं प्रतिबुद्ध्यत इत्याह।।अजमिति।नास्मिन् बाह्यमाभ्यन्तरं वा जन्मादि- भावविकारोऽस्ति,अतोऽजं, यस्माजम्मादिकारणभूतं नास्मिन्नविद्यातमो- बीजं निद्रा विद्यत इति अनिद्रम् । तत्तुरीयम् । अत एवास्वप्नम् अन्यथा- ग्रहणशून्यम् । तन्निमित्ताभावात् । यस्माच्चानिद्रमस्वप्नं तस्मादजमद्वैतं तुरीयमात्मानं बुद्ध्यते इत्यर्थः ॥ १६ ॥ प्रपञ्चनिवृत्त्या चेद्वैत, कथं तानिवृत्ते प्रपञ्चे तत् स्यादित्याशङ्ख्याह मिताक्षरा। आगमप्रकरणं १ प्रथमम् । प्रपञ्चो यदि विद्यत निवर्तेत न संशयः॥ मायामात्रमिदं दैतमद्वैतं परमार्थतः ॥ १७ ॥ प्रपञ्च इति ॥ यदि प्रपञ्चः परमार्थसत्यः स्यात् तर्हि तस्मिन् सति नाद्वैतं सिद्ध्येत् । तत्तु नास्ति । यतो रज्ज्वां सर्पवत् कल्पितत्वाद् विद्यमानश्चेन्निवर्तेत न संशयः । अतो शायते, मायामात्रमित्याह । मायति ॥ न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सो विद्यमानः सन् विवेकतो निवृत्तः । बाधितस्य कालत्रयेऽपि सत्त्वाभावात् । नैव वा माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुबन्धापगमे विद्यमाना सती निवृत्ता । तथेदं प्रपञ्चाख्यं मायामानं द्वैतं रज्जुवन्मायाविवच्चाद्वैतं परमार्थत इत्याह ॥ अद्वैतमिति ॥ १७ ॥ ननु प्रपञ्चस्य कल्पितत्वात् तस्मिन् सत्यप्यद्वैतं सिद्ध्यति । शास्ता शास्त्रं शिष्य इति विकल्पस्य तु परमार्थत्वात् तस्मिन् सति नाद्वैतमि- त्याशङ्ख्याह- विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ॥ उपदेशाद्यं वादो ज्ञाते हैतं न विद्यते ॥ १८ ॥ विकल्प इति ॥ यदि केनचिद्धेतुना तत्त्वाशानेन कार्येण शास्त्रादि- विकल्पो हेतुतया विकल्पितस्तथाप्यसावपि बाधितो निवर्तत, न तु ता- त्त्विकमद्वैतं विरोधुमर्हति । तत्त्वज्ञानात्प्रागवस्थायामेव तत्त्वोपदेशं नि- मित्तीकृत्य यतः शास्त्रादिभेदोऽनूद्यते । उपदेशप्रयुक्ते तु शाने निर्वृत्ते न किञ्चिदपि द्वैतमस्तीत्यद्वैतमविरुद्धमित्यर्थः ॥ १८ ॥ तत्त्वज्ञानसमर्थानां मध्यमानामुत्तमानां चाधिकारिणामध्यारोपा- ऽपवादाभ्यां पारमार्थिकं तत्त्वमुपदिष्टम् । इदानीं तत्त्वग्रहणाऽसमर्थाना- मधमाधिकारिणामात्मध्यानविधानायारोपदृष्टिमेवावष्टभ्यपादानां मात्रा- णां च यदेकत्वं सनिमित्तं सोऽयमित्यादि सर्वमपीतिश्च भवति य एवं वेदेत्यन्तेन श्रुत्योपन्यस्तं तस्मिन्नुक्तेऽर्थे, विश्वस्येत्यादि अकारो नयत इत्यन्तान् श्लोकानवतारयति- अत्रैते श्लोका भवन्ति- विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ॥ मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥ २ १० माण्डूक्योपनिषत्कारिकाव्याख्या अत्रेति ॥ प्रथमपादस्य प्रथममात्रायाश्चाभेदारोपार्थमुक्तं सामान्यद्वयं विशदयति॥ विश्वस्येति ॥ अत्वविवक्षायामित्यस्य व्याख्यानं, मात्रासम्प्र- तिपत्तौ इति ॥ विश्वस्य अकारमात्रत्वध्याने आदिसामान्यमुत्कटमुद्भूतं स्पष्टं दृश्यते । विश्वो हि तैजसप्राज्ञाऽपेक्षया आदिर्भवति । अकारश्च उकारमकारापेक्षया । तथाप्तिसामान्यमुत्कटमिति चशब्दादनुवर्तते । अकारो वै सर्वा वागिति श्रुतेरकारेण सर्वा वाग् व्याप्ता । तथा वैश्वा- नरेण जगत् । तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूव सुतेजा इति श्रुते । अतः सामान्यद्वयाद्विश्वस्याकारत्वेन ध्येयत्वमित्यर्थः ॥ १९ ॥ द्वितीयपादस्य द्वितीयमात्रायाश्चैकत्वाऽऽरोपप्रयोजकद्वयं श्रुत्युक्त ध्यनक्ति- तैजसस्योत्वविज्ञाने उत्कर्षों दृश्यते स्फुटम् ॥ मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥ तैजसस्थति ॥ उत्वविज्ञाने इत्यस्य व्याख्यानं, मात्रासम्प्रतिपत्तावि- ति ॥ स्फुटमिति क्रियाविशेषणम् । तैजसस्योकारत्वविवक्षायामुत्कर्षः अकारादुकारस्य विश्वात् स्थूलाभिमानिनः सूक्ष्माभिमानवतस्तैजसस्य स्फुटं यथा स्यात्तथा दृश्यते । युक्तं हि स्थूलाभिमानिनः सकाशात् सूक्ष्माभिमानिन उत्कर्षत्वम् । यद्यप्यकारस्योत्कर्षों वास्तवोऽपि, तथापि पादक्रमादुकारस्योत्कर्षवत्वमौपचारिकम् । तथोभयत्वमकारमकारयो- मध्यस्थत्वमुकारस्य । विश्वप्राशयोर्मध्यस्थत्वं तैजसस्य, तथाविधं मध्य- स्थत्वेन सामान्यं स्फुटमेवेत्यतः सामान्यद्वयात् तैजसस्योकारत्वेन ध्ये- यत्वमित्यर्थः ॥२०॥ तृतीयपादस्य तृतीयमात्रायाश्चैकत्वाध्यासे सामान्यद्वयं श्रुत्या दार्श- तं विशदयति- मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ॥ मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ २१ ॥ मकारेति ॥ मितिमानम् । मायते हि विश्वतैजसो प्राशेन प्रलयोत्प- त्योः प्रवेशनिर्गमाभ्यां, प्रस्थेनेव यवाः । तथा अमित्योङ्कारस्य नैरन्त- येणोच्चारणे सत्याकारोकारौ प्रथमं मकारे प्रविश्य पुनस्तस्मान्निर्गच्छ- न्ताविवोपलभ्येते । तेन मकारेऽपि मानसामान्यम् । तथा वा लयोऽप्य-

मिताक्षरा । आगमप्रकरणं १ प्रथमम् ।
पर एकीभावः सामान्यम् । ॐकारोच्चारणे अन्त्येऽक्षरे एकीभूताविव
अकारोकारौ । तथा विश्वतैजसौ सुषुप्तिकाले प्राशे। अतः सामान्यद्वया-
देकत्वं 'प्राज्ञमकारयोरिति चिन्त्यमित्यर्थः । शेषं पूर्ववत् सर्वम् ॥ २१ ॥
विश्वादीनामकारादीनां च यत्तुल्यं सामान्यमुक्तं तद्विज्ञानं स्तौति-
त्रिषु धामसु यत्तुल्यं सामान्यं वेति निश्चितः ॥
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२ ॥
त्रिष्विति ॥ यथोक्त जाग्रदादिस्थानत्रये पादानां मात्राणां च सामा-
न्यमाऽऽद्याप्त्युत्कर्षोभयत्वमव्ययरूपं यो वेत्ति जानाति स महामुनिब्रह्म-
वित् सर्वेषां भूतानां पूज्यः पूजा), वन्द्यश्च नमस्करणीयो भवति ।
अतस्तज्ज्ञातव्यमित्यर्थः ॥ २२॥
पूर्वोक्तसामान्यज्ञानवतो ध्याननिष्ठस्य फलविभागं दर्शयति-
अकारो नयते विश्वमुकारश्चापि तैजसम् ॥
मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥
अकार इति ॥ यथोक्तैः सामान्यरात्मपादानां मात्राभिः सहकत्वं
कृत्वा यथोक्तोङ्कारं प्रतिपद्य यो ध्यायीत तम् अकारस्तत्प्रधान ॐकारो
विश्वं वैश्वानरं नयते प्रापयति । विश्वप्राप्तेानमन्तरेणासिद्धत्वादि-
त्यर्थः । तथोकारप्रधान तमेव ध्यायतस्तैजसस्य हिरण्यगर्भप्राप्तिर्भवती.
त्याह । उकारश्चापीति ॥ मकारप्रधान ॐङ्कारः प्रासमव्याकृतं नयते
इति चशब्दादनुवर्तते इत्याह ॥ मकारश्चेति ॥ यत्र तु पादानां मात्राणां
च विभागो नास्ति तस्मिँश्चोङ्कारे तुरीयात्मनि व्यवस्थितस्य प्राप्तृ-
प्राप्तव्यप्राप्तिविभागो नास्तीत्याह ।। नामात्रे इति । स्थूलप्रपञ्चो जागरितं
विश्वश्चेत्येतत्रितयमकारमात्रमिति ध्यानं वैश्वानरप्राप्तिसाधनं, सूक्ष्म-
प्रपञ्चः स्वप्नस्तैजसश्चैतत्त्रितयमुकारमात्रमित्यध्यवसायो हिरण्यगर्भ-
प्रानिहेतुर्भवति । प्रपञ्चद्वयकारणं सुषुप्तं प्रासश्चैतत्रितयं मकारमात्र-
मिति निश्चयोऽव्याकृतप्राप्तिकारणम् । तत्रापि पूर्व पूर्वमुत्तरोत्तरभाव-
मापाद्य तदेवं सर्वमोङ्कारमात्रमिति ध्यात्वा स्थितस्य यदेतत्सर्वमामिति
रूपेण प्रतिपन्नं तत्परिशुद्धं ब्रह्मवेत्याचार्योपदेशसमुत्थसम्यग्ज्ञानेन पूर्वो-
तसर्व विभागनिमित्ताशानस्य मकारत्वेन गृहीतस्य क्षये ब्रह्मण्येव शुद्ध
पर्यवसितस्य न क्वचिद् वृत्तिरुपपद्यते। परिच्छेदाभावादिति भावः ॥२३॥

१२ माण्डूक्योपनिषत्कारिकाव्याख्या अमात्रश्चतुर्थ इत्यादि, य एवं वेदेति समाप्त्यन्तेन श्रुत्योक्तेऽर्थे, ॐङ्कारमित्यादि, अमात्र इति पादसमाप्त्यन्तान् श्लोकानवतारयति- अत्रैते इलोका भवन्ति- ॐकारं पादशो विद्यात् पादा मात्रा न संशयः ॥ ॐकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥२४॥ अत्रेति ॥ पादानां मात्राणां चान्योन्यमेकत्वं कृत्वा तद्विभागविधुर- मोङ्कारं ब्रह्मबुद्ध्या संशयरहितः सन् जानीयादित्याह- ओङ्कारामिति ॥ एवमोङ्कारे ज्ञाते दृष्टार्थमदृष्टार्थ वा न किञ्चित् प्रयोजनं चिन्तयेत्, कृतार्थत्वादित्याह ॥ ओङ्कारमिति ॥ २४॥ प्रणवानुसन्धानकुशलस्य प्रणवज्ञानेनैव सर्वद्वैतापवादकेन कृतार्थ- ता भवतीत्युक्तम् । इदानीं तदनभिज्ञस्य परोपदेशमात्रशरणस्य ध्यान- कर्तव्यतां दर्शयति-- युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ॥ प्रणवे नित्ययुक्तस्य न भयं विद्यते कचित् ॥ २५ ॥ युञ्जीतेति ॥ ननु मनसः समाधानं ब्रह्मणि कर्तव्यं, किमिति प्रणवे तत्कर्तव्यतोच्यते ? तत्राह ॥ प्रणव इति ॥ सम्प्रति प्रणवे समाहितस्थ फलं दर्शयति ॥ प्रणवे नित्यति ॥ युजीत समादध्यात् । यथाव्याख्याते परमार्थरूपे प्रणवे चेतो मनः॥ यस्मात् प्रणवो ब्रह्म निर्भयम् । न हि तत्र सदा युक्तस्य भयं विद्यते क्वचित् । विद्वान्न बिभोति कुतश्चनेति श्रुतेरि- त्यर्थः॥ २५॥ कीदृशस्तहि प्रणवो मन्दानां मध्यमानां चाधिकारिणां ध्येयो भव- तीत्याशङ्ख्य परापरब्रह्मात्मनेत्याह- प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः॥ अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६ ॥ प्रणवो हीति ॥ उत्तमाधिकारिणां कीदृशस्तर्हि प्रणवः सम्यग्ज्ञान- गोचरो भवति इति वीक्षायां सर्वविशेषशून्यमेकरसं प्रत्यग्भूतं यद् ब्रह्म तद्रूपेणेत्यांह ॥ अपूर्व इति ॥ न पूर्व कारणमस्य विद्यत इत्यपूर्वः । नास्यान्तरं भिन्नजातीयं किञ्चिद्विद्यत इत्यनन्तरः । तथा बाह्यमन्यन्न विद्यत इत्यबाह्यः । अपरं कार्यमस्य न विद्यत इत्यनपरः । स बाह्याभ्य-

१
,
मिताक्षरा । आगमप्रकरणं १ प्रथमम् ।
१३
न्तरो ह्यजः सैन्धवघनवदित्यर्थः । सगुणनिर्गुणस्वरूपः प्रणवो ब्रह्मैवेति
शातो भवत्युत्तमानामित्यर्थः ॥ २६ ॥
यदोङ्कारस्य प्रत्यगात्मत्वमापन्नस्य तुरीयस्यापूर्वत्वमनन्तरत्वमित्या-
दिविशेषणमुक्तं, तत्र हेतुमाह-
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ॥
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥
सर्वस्येति ॥ यथा मायाव्यादयः स्वगतविकारविरहिणः स्वमाया-
स्वाशानादेव मायाहस्तिरज्जुसर्पमृगतृष्णिकादिहेतवस्तथैव च सर्वस्य
स्वप्नादिवदुत्पद्यमानस्य वियदादिप्रपञ्चस्यादिमध्यान्ता उत्पत्तिस्थितिप्र-
लयाः, यथोक्तात्मगतविकारमन्तरेणैव स्वाज्ञानवशादेवात्माधीना भव-
न्ति । अतस्तस्योक्तं विशेषणं युक्तमित्यर्थः । एतेन परिणामवादं प्रत्यु-
तं वेदितव्यम् । यथोक्तविशेषणं प्रत्यञ्च प्रतिपद्य कृतकृत्यो भवतीत्या-
ह ॥ एवं हीति ॥ पूर्वोक्तविशेषणसम्पन्नं हि प्रणवमात्मानं मायाव्यादि-
स्थानीयं ज्ञात्वा तत्क्षणादेव सहायान्तरमन्तरेणोक्तविशेषणमात्मानं
व्यश्नुत इत्यर्थः ।। २७॥
ब्रह्मबुद्ध्या प्रणवमभिध्यायतो हृदयाख्यं देशमुपदिशति--
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ॥
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ २८ ॥
प्रणवमिति ॥ सर्वप्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थित-
मीश्वरं प्रणवं विद्यादित्यर्थः । परमार्थदर्शिनस्तु देशाधनवच्छिन्नवस्तु
दर्शनादार्थिकं शोकाभावं, तत्र को मोहः कः शोक इत्यादिश्रुतिसिद्ध-
मनुवदति ॥ सर्वव्यापिनमिति ॥ सर्वव्यापिनं व्योमवदोङ्कारमात्मानम-
संसारिणं धीरो विवेकबुद्धिमान् मत्वा साक्षात्कारं सोऽहमित्यनुभूय
न शोचति शोकनिमित्ताऽज्ञानाभावात् । तरति शोकमात्मवित, भिद्यते
हृदयग्रन्थिरित्यादिश्रुतिभ्य इत्यर्थः ॥ २८ ॥
ॐकारं तुरीयभावमापन्नं यः प्रतिपन्नस्तं स्तौति-
अमात्रोऽनन्तमात्रश्च दैतस्योपशमः शिवः ।।
ॐङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥

माण्डूक्योपनिषत्कारिकाव्याख्या अमात्र इति ।। पादविभागो मात्राविभागो वा यत्र तुरीये आत्मनि न विद्यते सोऽयममात्रः । मीयत इति मात्रा परिच्छित्तिः । सा अनन्ता यस्यौपाधिकी सोऽनन्तमात्रः । सर्वद्वैतोपशमत्वादेव शिवः । ॐकारो यथाव्याख्यातो विदितो येन स परमार्थतत्त्वस्य मननान्मुनिरित्यर्थः। यथोक्तप्रणवप्रतिपत्तिविहीनस्तु जननमरणमात्रभागी, न पुरुषार्थभाग्भव- तीति विद्यारहितं निन्दति ॥ नेतर इति ॥ शास्त्रविदापि तत्त्वज्ञानाभा- वात् संसरत्येवेत्यर्थः । तदेवं प्रणवद्वारेण निरुपाधिमात्मानमनुसंधान- स्य पुरुषार्थपरिसमाप्तिर्नेतरेषां बहिर्मुखानामिति स्थितम् ॥ २९ ॥ इति माण्डूक्योपनिषदाविष्करणपरासु गौडपादीयकारिकासु प्रथमभागम- प्रकरणम् ॥ १॥ इति श्रीगौडपादीयश्लोकवृत्तौ प्रथमं प्रकरणम् ॥ १ ॥ अथ द्वितीयं प्रकरणम् ॥ २॥ शाते द्वैतं न विद्यत इत्युक्तम् । एकमेवाद्वितीय, यत्र हि द्वैतमिव भवतीत्यादिश्रुतिभ्यश्चागमप्राधान्येनाद्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वैतस्य मिथ्यात्वमर्थादुक्तम् । इदानीं तन्मिथ्यात्वमुपपत्तिप्राधान्येनापि शक्यते विधारयितुमिति दर्शयितुं प्रकरणान्तरमवधारयन्नादौ दृष्टान्त- सिद्ध्यर्थ तस्मिन् वृद्धसंमतिमाह- हरिः ॐम् । वैतथ्यं सर्वभावानां स्वम आहुर्मनीषिणः ।। अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥१॥ वैतथ्यमिति ॥ प्रमाणानुग्राहकत्वात्तस्यानुग्राह्यप्रमाणस्य प्रधान- त्वात्तधीनविचारानन्तरं तकांधीनविचारस्य सावकाशत्वादित्यवसर- सङ्गत्या युक्तं पौर्वापर्य पूर्वोत्तरप्रकरणयोरिति ध्येयम् । वितथस्य भावो वैतथ्यमसत्यत्वं, सर्वेषां बाह्याध्यात्मिकानां घटदुःखादीनां भावानां प- दार्थानां स्वप्न उपलभ्यमानानामाहुः कथयन्ति मनीषिणः प्रमाणकुशला इत्यर्थः । न केवलमाप्तोक्तिवशादेव स्वप्नमिथ्यात्वं, किन्तु युक्तितोऽपी- त्याह ॥ अन्तःस्थानादिति॥अन्तः शरीरस्य मध्ये स्थानं येषाम् । तत्र हि , -- मिताक्षरा । आगमप्रकरणं १ प्रथमम् । - भावा उपलभ्यन्ते पर्वतहस्त्यादयो, न बहिः शरीरात् । तस्मात्ते वितथा भावितुमर्हन्तीत्यर्थः। तेषामन्तरुपलभ्यमानत्वेऽपि न वैतथ्यम् । अप- वरकाद्यन्तरुपलभ्यमानघटादिषु व्याभिचारादिति शङ्का पारहरति ॥संवृ- तत्वनेति ॥ अन्तः संवृतस्थानादित्यर्थः । न हि देहे पर्वतोऽस्ति । तदा संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां सम्भवो नास्तीति किमु वक्तव्यम् । तस्मात् स्वाप्ता भावाः सत्या न भवन्ति। अन्तःस्थत्वे सत्युचितदेशशून्य- त्वाद्, रजतभुजङ्गादिवदित्यनुमानस्य नास्ति व्यभिचारितेति भावः ॥१॥ स्वप्नदृश्यानां भावानामन्तःसंवृतस्थानमित्येतदसंप्रतिपन्नम् ।यस्मात् प्राच्येषु सुप्त उदक्षु स्वप्नान् पश्यन्निव दृश्यते इत्येतदाशङ्ख्याह- अदीर्घत्वाच कालस्य गत्वा देशान्न पश्यति ॥ प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥२॥ अदीर्घत्वाच्चेति ॥ न देहाट् बहिर्देशान्तरं गत्वा स्वप्नान् पश्यति । यस्मात् सुप्तमात्र एव देहदेशाद् योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान् पश्यन्निव दृश्यते । न च तद्देशप्राप्तेरागमनस्य च दीर्घः कालो- ऽस्ति । अतः स्वप्नः सत्यो न भवति । उचितकालविकलत्वात्, सम्पति- पन्नवत् । तस्मान्न स्वप्नदृग् देशान्तरं गच्छतीत्यर्थः । बहिः स्वप्नोप- लब्धिपक्षे दोषान्तरमाह ॥ प्रतिबुद्धश्चेति ॥ सर्वोऽपि स्वप्नद्रष्टा देशान्तरे स्वप्नान् पश्यन्नकस्मादेव प्रतिबुद्धो न तत्रास्ति, किन्तु शयनदेशे वर्तते । यदि च स्वप्ने देशान्तरं गच्छेद्, यस्मिन् देशे स्वप्नान् पश्येत् तत्रैव प्रति- बुद्ध्येत । न चैतदस्ति । रात्रौ च सुप्तोऽहनीव भावान् पश्यति बहुभिः संगतो, यैश्च सङ्गतो भवति तैर्गुह्येत । न च गृह्यते । गृहीतश्चेत्त्वामद्य तत्रोपलब्धवन्तो वयमिति ब्रूयुः । न चैतदस्ति । तस्मान्न देशान्तरं गच्छ- ति । स्वप्ने उचितस्य कालस्य करणस्य सहकारिणश्चाभावेऽपि स्वप्नदर्श- नाश्च तन्मिथ्यात्वं सिद्धमित्यर्थः ॥ २॥ स्वप्नदृश्यानां भावानां मिथ्यात्वे हेत्वन्तरमाह- अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ॥ वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३॥ अभावश्चेति ॥ न तत्र रथा न रथयोगा न पन्थानो भवन्तीत्यादि- श्रुत्या स्वप्ने स्वयञ्ज्योतिष्ट्रमात्मनो दर्शयन्त्या तत्र दृश्यानां रथादीनाम- भावो योग्यदेशाद्यभावद्योतकन्यायपुरःसरं श्रूयते। अतस्तेन न्यायेन प्राप्त - माण्डूक्योपनिषत्कारिकाम्याख्या मेव स्वप्नदृश्यभावानां मिथ्यात्वमन्यपरया श्रुत्या प्रकाशितमिति ब्रह्म- विदो वदन्ति । तथाच स्वप्ने भावानां मिथ्यात्वं श्रुतियुक्तिभ्यां सिद्धमि- त्यर्थः॥३॥ R- उक्तन्यायेन दृष्टान्ते सिद्धे फलितमनुमानमारचयाति- अन्त स्थानात भेदानां तस्माजागरिते स्मृतम् ॥ यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥४॥ अन्तःस्थानादिति ॥ जाग्रदृदृश्यानां भावानां वैतथ्यं भवितुमर्हति। दृश्यत्वात् । स्वप्नदृश्यभाववत् । यथा तत्र स्वप्ने दृश्यानां भावानां वैत- थ्य, तथा जागरितेऽपि दृश्यत्वमविशिष्टम् । तस्माज्जागरितेऽपि वैतथ्यं स्मृतम् । अन्तःस्थानात् संवृतत्वेन च स्वप्नदृश्यानां भावानां जाग्रद्- दृश्येभ्यो भेदः । दृश्यत्वं चाविशिष्टमुभयत्रोत प्रतिज्ञाहेतुदृष्टान्तोपनय- निगमनसपक्षपक्षाणां क्रमेण द्योतनंजाबद्भावमिथ्यात्वसाधकमित्यर्थः।।४।। स्वप्तवज्जागरितस्य मिथ्यात्वे स्वप्ननिद्रायुतावित्यादौ जागरिते स्वप्न- शब्दप्रयोगो युक्तो भवतीत्याह- स्वमजागरितस्थाने येकमाहुर्मनीषिणः॥ भेदानां हि समत्वेन प्रसिद्धनैव हेतुना ॥५॥ स्वप्नेति ॥ उभयत्रैकत्वं विद्वदऽभिमतमित्यत्र हेतुमाह ॥ भेदानामि- ति॥भेदाभिधमानाभावात् तेषामवस्थाद्वयवर्तिनां ग्राह्यत्वं ग्राहकत्व- मविशिष्टम् । तेन दृश्यत्वेन हेतुना प्रसिद्धमेव तेषां मिथ्यात्वेन समत्वम् । तेन स्थानयोरेकरूपत्वं विवेकिनामभिप्रेतमिति यत् पूर्वमनुमानाख्यं प्र- माणसिद्धं तस्यैव फलं स्थानद्वयाविशेषरूपमनेन श्लोकेनोक्तमित्यर्थः॥६॥ जाग्रदृश्यानां भावानां मिथ्यात्वामित्यत्रानुमानान्तरमाह- आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥६॥ आदाविति ॥ तर्हि घटः सन् पटः सन्निति प्रत्यक्षविरुद्धमनुमानम- मानमितिचेद् नेत्याह ॥ वितथैरिति ॥ यदाऽऽदावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येऽपि नास्तीति निश्चितं लोके । तथा इमे जाग्र- दृश्या भेदा आद्यन्तयोरभावाद्वितथैरेव मृगतृष्णिकादिभिः सदृशत्वा- द्वितथा एव । तथाप्यवितथा इव लक्षिता मूढैरनात्मविद्भिः। घटः मिताक्षरा। आगमप्रकरणं १ प्रथमम् । सन्नितिप्रतीतिस्तु सद्गन्धर्वनगरमितिवदाऽऽपातकीति भावः ॥ ६ ॥ ननु जाग्रदृश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्व- न्तो गमनागमनादिकार्य च सप्रयोजना दृष्टा, न तु स्वप्नदृश्यानां त- दस्ति । तस्मात् स्वप्नदृश्यवजाग्रदृश्यानामसत्त्वं मनोरथमात्रमिति चेन्नेत्याह- सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ॥ तस्मादाधन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥७॥ सप्रयोजनतेति ॥ यस्मात् सप्रयोजनता दृष्टा याऽन्नपानादीनां सा स्वप्ने विप्रतिपद्यते । जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तित- तृट् सुप्तमात्र एव क्षुत्पिपासाद्यातमहोरात्रोपोषितमभुक्तवन्तमात्मानं मन्यते । यथा स्वप्ने भुक्त्वा पीत्वा चाऽतृप्तोत्थितस्तथाऽतो जाग्रद्- दृश्यानां स्वप्ने विप्रतिपत्तिदृष्टाऽतो मन्यामहे तेषामप्यसत्वं स्वप्नदृश्य- वदनाशङ्कनीयमित्यर्थः तस्मादाद्यन्तवत्त्वसुभयत्र समानमिति मिथ्यैव स्वलु ते जाग्रदृश्याः स्मृतास्तत्त्वनिष्ठरित्याह ॥ तस्मादिति ॥ ७ ॥ ननु चतुर्दन्तं गजमारूढमष्टभुजमात्मानं मन्यते । अन्यदपि एव- स्प्रकारमपूर्व पश्यति स्वप्ने । तन्नान्येनाऽसता सममिति सदेव । अतो दृष्टान्तोऽसिद्धः । तस्मात् स्वप्नवजागरितस्यासत्त्वमित्ययुक्तमित्या- शङ्कयाह- अपूर्व स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।। तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥८॥ अपूर्वमिति ॥ यथा स्वर्गनिवसनशीलानामिन्द्रादीनां सहस्राक्ष- त्वादिधर्मस्तथा यदिदमपूर्व स्वप्नप्रदर्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः। तेन दृश्यत्वात्तस्य मिथ्यात्वसिद्धि- रित्यर्थः । कथं तेनैव दृश्यत्वं तत्राह ॥ तानयमिति॥ यथैवेह व्यवहार- भूमौ सुशिक्षितो देशान्तरप्राप्तिमार्गः । तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते, तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् य- थोक्तप्रकारान् प्रतिपद्यते । ततश्च स्वप्नस्य स्थानिधर्मत्वाद्रग्जुसोदि- वन्मिथ्यात्वमित्यर्थः॥ ८॥ एखमपूर्वत्वाऽऽशङ्का निराकृत्य स्वप्नदृष्टान्तस्य जाग्रदृश्यानां मिथ्यात्वं तेषु सदसद्विभागप्रतिभानविरुद्धमित्याशङ्कय दृष्टान्तेन समाधत्ते- ३ माण्डूक्योपनिषत्कारिकान्याख्या - स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।। बहिश्वेतोगृहीतं सद् दृष्टं वैतथ्यमेतयोः ॥९॥ स्वप्नवृत्ताविति ॥ स्वतस्थानेऽप्यन्तश्चेतसा मनोरथसङ्कल्पितमस- त् । सङ्कल्पानन्तरसमकालमेवादर्शनात् तत्रैव स्वप्ने बहिश्चेतसा गृही- तं चक्षुरादिद्वारेणोपलब्धं घटादि सदिति । एवमसत्यमिति निश्चि- तेऽपि सदसद्विभागो दृष्टः । उभयोरप्यन्तर्वहिश्चेतःकल्पितयोर्वैतथ्य- मेव दृष्टमित्यर्थः ॥९॥ दार्शन्तिकमाहं- जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ॥ बहिश्वेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥१०॥ जाप्रदिति ॥ अन्तर्बहिश्चेतःकल्पितत्वाविशेषादिति व्याख्यात- प्रायम् ॥१०॥ स्वप्नजाग्रत्स्थानयोभैदानां यदि वैतथ्यं तर्हि क एतान्नान्तर्बहि- श्वेतःकल्पितान् भेदान् बुद्धते । बोधुरभावात् प्रमातृप्रमाणादि- ब्यवहाराग्नुपपत्तिः स्वादिति शङ्कते- उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ॥ क एतान् बुद्ध्यते भेदान् को वैतेषां विकल्पकः॥११॥ उभयोरिति ॥ को वैतेषां विकल्पको निर्माता स्मृतिज्ञानयोरा- लम्बनम् । न चेत् कश्चिदस्ति, निरात्मवाद इति कर्तृकरणकार्यव्यव- स्थानुपपत्तिश्चेति शङ्कान्तरमाह ॥ को वेति ॥ ११ ॥ सर्वस्य मिथ्यात्वेऽप्येकस्मिन्नेवाद्वितीये प्रतीचि मायाकल्पितभेदा- ऽनुरोधेन कर्तृकार्यादिव्यवस्था सिधतीत्यन्त्यामनुपपत्तिं परिहरति- कल्पयत्यात्मनाऽऽत्मानमात्मा देवः स्वमायया ॥ स एव बुद्ध्यते भेदानिति बेदान्तनिश्चयः ॥ १२॥ कल्पयतीति ॥ तस्य घोतकान्तरापेक्षा वारयति ॥ देव इति ।। विवर्तवाद द्योतयति ॥ स्वमायेति ॥स्वयं स्वमायया स्वमात्मानमात्मा देवः, भात्मन्येव वक्ष्यमाणभेदाकारं कल्पयति रज्ज्वादाविव सादी- मिताक्षरा । आममत्रकरणं १ प्रथमम् । नित्यर्थः । स्वयमेव च तान् बुध्यते भेदानित्येवं वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । नन्वनिरास्पदे एव ज्ञानस्मृती वैना- शिकानामिवातो नाद्याऽनुपपत्तिर्नापि निरात्मवाद इत्याह ॥ स एवेति ॥ कादिभेदस्य प्रमात्रादिभेदस्य च मिथ्यात्वे आत्मनि घ निर्भदे, नेहं नानास्तत्यिादि एकमेवाद्वितीयमित्यादि च श्रुतिं प्रमाण- यति ॥ इतीति ॥ १२॥ स कल्पयन् केन प्रकारेण कल्पयतीत्युच्यते- विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान् ।। नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥ विकरोतीति ॥ अपरान् लौकिकान् भावान् पदार्थाञ्च्छब्दादीन- न्याँश्च शास्त्रीयान् अन्तश्चित्ते वासनारूपेण व्यवस्थितान् अव्याकृता- नियताँश्च पृथिव्यादीन्, चशब्दादनियताँश्च कल्पनाकालान् विद्यु- दादीनन्तश्चित्ते विकरोति नानाकरोति । तथा बहिश्चित्तो बहिर्मुखः सन् तत्रैव बहिर्व्यवहारयोग्यतायै कल्पयति प्रभुरीश्वरश्चात्मनि । एवं सृष्टेः क्रमः । यथा लोके कुलालस्तन्तुवायो वा घटं पटं वा कार्य चिकीर्षुरादौ व्यवहारगां व्यक्तिं बुद्धावाविर्भाव्य पश्चात्तामेव बहि- नामरूपाभ्यां संपादयति तद्वदित्यर्थः ॥ १३ ॥ भावानां कल्पितानां कल्पनाकालादन्यस्मिन् काले सत्त्वाभावा- जाग्रद्भावानां च कल्पनाकालात् कालान्तरेऽपि प्रत्यभिज्ञया सत्त्वा- वगमादनुपपन्नं तेषां मिथ्यात्वमित्याशङ्कयाह- चित्तकाला हि येऽन्तस्तु व्यकालाश्च ये बहिः॥ कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥ चित्तेति ॥ ये कल्पनाकालभाविनो भावा मनस्यन्तर्वर्तन्ते, ये च सोऽयमिति प्रत्यभिज्ञायमानत्वेन पूर्वापरकालभाविनो बहिरेव व्यव- हारयोग्या दृश्यन्ते, ते सर्वे कल्पिताः सन्तो मिथ्यैव भवितुर्महन्ति प्रत्यभिज्ञायमानत्वलक्षणो विशेषस्तु नाकल्पितत्वप्रयुक्तः । स्वप्नेऽपि कल्पितभावेषु प्रत्यभिज्ञादिव्यवहारदर्शनादित्यर्थः ॥ १४ ॥ स्वप्नजागरितयोरुभयोरपि मिथ्यात्वे स्फुटास्फुटावभासविभागा- नुपपत्ते विशेषेण मिथ्यात्वमित्याशझ्याह- २० माण्डूक्योपनिषत्कारिकाव्याख्या अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।। कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥ अव्यक्ता इति ॥ ये मनस्यन्तर्भावनारूपत्वादस्फुटाः, ये च मनसो बहिरुपलभ्यमानाःस्फुटा भवन्ति ते सर्वे मनःस्पन्दनमात्रत्वेन कल्पिता मिथ्यैव । अन्तर्बहिरिन्द्रियभेदनिमित्तः स्फुटत्वास्फुटत्वविशेषो, न मिथ्यात्वममिथ्यात्वं वा तत्रोपयुज्यते । सर्वसंप्रतिपन्नमिथ्यात्वेऽपि स्वप्ने स्फुटत्वास्फुटत्वविशेषप्रतिभानादित्यर्थः ॥ १५ ॥ भवतु सर्वस्य कल्पितत्वं, सा पुनः सर्वकल्पना केन द्वारेणेत्या- शङ्ख्याह- जीवं कल्पयते पूर्व ततो भावान् पृथग्विधान् ॥ बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथा स्मृतिः॥१६॥ जीवमिति ॥ आत्मा हि सर्व स्वमायावशेन कल्पयन्नादौ- अहं करोमि, मम सुखदुःखे इत्येवल्लक्षणं जीवमानेवल्लक्षण एव शुद्ध आत्मनि रन्ज्वामिव सर्प कल्पयति । तत् सृष्ट्वा तदेवानुप्राविशदिति श्रुतेः। स्वयमेव जीवभावमापद्यते । तद्वारेण पुनर्नानाविधान् बाह्यान् शब्दादीनाध्यात्मिकान् सुखं दुःखं ज्ञानं रागश्चेत्येवल्लक्षणांश्च निर्मिमीत इत्यर्थः। ननु वैषम्यकारणाभावादेकरसमेव विश्वं स्यादिति- चेन्नेत्याह ॥ यथेति ॥ योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायाम- धिकृतः स यथाविद्यो यादृशी विद्या विज्ञानमस्येति यथाविद्यस्तथा- विधैव स्मृतिस्तस्येति तथास्मृतिर्भवति सः । अतः स्पृष्टवैषम्यत्वे धर्मादिकारणसद्भावान्नैकरस्यम् । यथाकर्म यथाश्रुतमिति श्रवणादि- त्यर्थः ॥ १६॥ तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तम् । सैव जीवकल्पना किनिमित्तेति दृष्टान्तन प्रतिपादयति- अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।। सर्पधारादिभिर्भावस्तद्धदात्मा विकल्पितः॥ १७ ॥ अनिश्चितेति ॥ यथा लोके स्वेन स्वरूपेणानिश्चिताऽनवधारिता एवमेवेति रज्जुः, मन्दान्धकारे सर्प उदकधारा दण्ड इति वाऽनेकधा विकाल्पता भवति पूर्वस्वरूपानिश्चयनिमित्तम् । यदि हि पूर्वमेव H

मिताक्षरा । आगमप्रकरणं १ प्रथमम् ।
२
रज्जुः स्वरूपेण निश्चिता स्यान्न सादिविकल्पोऽभविष्यत् । यथा स्व-
हस्ताङ्गुल्यादिषु झातेषु न सादिभ्रान्तिः कस्यचिजायते । तद्वद्धतु-
फलादिसंसारधर्मानर्थविलक्षणतया स्वेन विशुद्धविज्ञप्तिमात्रसता-
ऽद्वयरूपेणानिश्चितत्वाजीवप्राणाधनन्तभावभेदैरात्मा विकल्पितइत्येषः
सर्वोपनिषदां सिद्धान्त इत्यर्थः॥१७॥
अविद्याकृता जीवकल्पनेत्यन्वयमुखेनोक्तम् । तदेवेदानी व्यतिरेक-
मुखेन दर्शयति-
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ॥
रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः॥१८॥
निश्चितायामिति ॥ रज्जुरेवेति ॥ रज्ज्वां निश्चितायां तदशाननि-
वृत्तेस्तदुत्थसादिविकल्पः सर्वथा निवर्तते, रज्जुमानं चाद्वैतमवाशि-
ध्यते सर्वम् । अपूर्वोऽनपरोऽनन्तरोऽबाह्यः, स बाह्याभ्यन्तरो हजः,
अजरोऽमरोऽमृत इत्येवल्लक्षणो यदा संपद्यते तदा सर्वस्यात्माऽविद्या-
कल्पितस्य जीवादिविकल्पस्य व्यावृत्तेरद्वैतमेव आत्मतत्त्वं परिशिष्य-
ते । तस्मादात्माविद्याविजृम्भिता जीवकल्पनेत्यर्थः ॥ १८ ॥
यद्यात्मैक एवेति निश्चयः, कथं प्राणादिभिरनन्तभावैरेतैः संसार-
लक्षणैर्विकल्पित इत्यभिप्रायप्रतिपत्त्याशङ्कते-
प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः॥
मायैषा तस्य देवस्य यया संमोहितः स्वयम् ॥१९॥
प्राणादिभिरिति ॥ सिद्धान्ती स्वाभिसन्धिमुद्धाटयन्नुत्तरमाह ॥
मायेति ॥ तस्यात्मनो देवस्यैषा मायैव । यथा मायाविना विहिता
माया गगनमतिविमलं कुसुमितैः सफलपलाशैस्तरुभिराकीर्णमिवं
करोति, तथेयमपि देवस्य माया ययाऽयं स्वयमपि मोहित इव मोहि-
तो भवति । मम माया दुरत्ययेति स्मरणादित्यर्थः ॥ १९ ॥
के ते प्राणादयोऽनन्ता भावा यैरात्मा विकल्प्यते माययेत्यपेक्षा-
यामादौ प्राणो हिरण्यगर्भस्तटस्थेश्वरो वा स जगतो हेतुरिति प्राण-
विदो हैरण्यगर्भाद्या वैशेषिकादयश्च कल्पयन्तीत्याह-
प्राण इति प्राणविदो भूतानीति च तद्विदः॥
गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥२०॥

माण्डूक्योपनिषत्कारिकाव्याख्या प्राण इति ॥ पृथिव्यप्तेजोवायवस्तत्त्वानि । तानि चत्वारि भूतानि जगत्कारणानीति लोकायतिका इत्याह ॥भूतानीति॥सत्त्वरजस्तमांसि त्रयो गुणाः साम्येनावस्थिता जगतो महदादिलक्षणस्य कारणमिति सांख्याः कल्पयन्तीत्याह||गुणा इति|आत्माऽविद्याशिवा इति सबेपत- स्त्रीणि तत्त्वानि सर्वजगत्प्रवर्तकानीति शैवा मन्यन्त इत्याह|तत्त्वानी- ति ॥ २०॥ एकस्यात्मनो विश्वादयः पादाः सर्वव्यवहारहेतवो भवन्तीति केचिदित्याह- पादा इति पाविदो विषया इति तद्विदः॥ लोका इति लोकविदो देवा इति च तद्विदः ॥२१॥ पादा इति ॥ शब्दादयो विषया भूयोभूयो भुज्यमानास्तत्त्वमिति वात्स्यायनप्रभृतीनां कल्पनामाह ॥ विषया इतीति ॥ भूर्भुवः स्वरिति त्रयो लोका वस्तुभूताः सन्तीति पौराणिका वदन्तीत्याहं ॥ लोका इति ॥ अग्नीन्द्रादयो देवास्ततत्कर्मफलदातारो नेश्वरस्तथेति देवता- काण्डीया भवन्तीत्याह ॥ देवा इति ॥२१॥ ऋग्वेदादयो वेदाश्चत्वारस्तत्त्वानीति पाठका वदन्तीत्याह- वेदा इति वेदविदो यज्ञा इति च तद्विदः ॥ भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः॥२२॥ वेदा इति ॥ ज्योतिष्टोमायो यज्ञा वस्तुभूता भवन्तीति बोधायन- प्रभृतयो मन्यन्त इत्याह ॥ यज्ञा इति ॥ भोक्तैवात्मा न कर्त्तति सांख्या इत्याह ॥ भोक्तेति ॥ सूपकारास्तु भोज्यवस्त्विति प्रतिजानत इत्याह॥ भोज्यमिति ॥ २२॥ आत्मा सूक्ष्मोऽणुपरिमाणः स्यादिति केचिद् भ्रमन्तीत्याह- सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः॥ मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥२३॥ सूक्ष्म इतीति॥स्थूलो देहोऽहम्प्रत्ययादात्मेति लोकायतमतमाह ॥ स्थूल इति ॥ मूर्तस्त्रिशूलादिधारी महेश्वरश्चक्रादिधारी वा परमार्थों भवतीत्यागमिकाः कल्पयन्तीत्याह॥मूर्त इति॥अमूर्तः सर्वाकारशून्यो मिताक्षरा । आगमप्रकरणं १ प्रथमम् । २३ निःस्वभावः परमार्थ इति शून्यवादिन इत्याह॥अमूर्त इति चेति ॥२३॥ कालः परमार्थ इति ज्योतिर्विदां कल्पनामाह- काल इति कालविदो दिश इति च तद्विदः॥ वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥ काल इति ॥ स्वरोदयविदस्तु दिशः परमार्था इत्याहुरित्याह ॥ दिश इति ॥ धातुवादो मन्त्रवादश्चेत्यादयो वादा वस्तुभूता भवन्ती- ति केचिदित्याह ॥ वादा इति ॥ भुवनानि चतुर्दश वस्तूनीति भुवन- कोशविद इत्याह ॥ भुवनानीति ॥ २४ ॥ मन एवात्मेति लोकायतभेद इत्याह- मन इति मनोविदो बुद्धिरिति च तदिदः ।। चित्तमिति चित्तविदो धर्माधौं च तद्विदः २५ ॥ मन इति ॥ बुद्धिरेवात्मेति बौद्धाः कल्पयन्तीत्याह ॥ बुद्धिरिति ॥ चित्तमेव बाह्याकारशून्यं विज्ञानं, तदेवात्मेत्यपरे इत्याह ॥ चित्तमि- ति ॥ धर्माधर्मी विधिनिषेधचोदनागम्यौ परमार्थाविति मीमांसका इत्याह ॥ धर्मेति ॥२५॥ प्रधान मूलप्रकृतिर्महदहङ्कारतन्मात्राणीति सप्त प्रकृतिविकृतयः, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च विषयाः मनश्चैकमिति षोडशविकारा एव । पुरुषस्तु दृशिस्वभाव इति पञ्चविंशतिसंख्याका प्रपञ्चो वस्त्विति सांख्या भ्राम्यन्ते इत्याह- पञ्चविंशक इत्येके षड्विंश इति चापरे ॥ एकत्रिंशक इत्याहुरनन्त इति चापरे ॥२६॥ पञ्चविंशक इति ॥ पातञ्जलाः पुनरीश्वरमधिकं पश्यन्तः षड्डि- शतिः पदार्था इति कल्पयन्तीत्याह ॥ षट्विंशक इति ॥ पाशुपातास्तु रागाविद्यानियतिकालकलामायाऽधिकास्ते एवैकत्रिंशत् पदार्था इति ब्रुवते इत्याह ॥ एकत्रिंशक इति ॥ अनन्तपदार्थभेदो न नियतोऽस्तीति केचिदित्याह ॥ अनन्त इति ॥२६॥ लोकानुरञ्जनमेव तत्वमिति लौकिकानां भ्रममाह- - माण्डूक्योपनिषत्कारिकाव्याख्या लोकाँल्लोकविदः प्राहुराश्रमा इति तद्विदः ॥ स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७ ॥ लोकानिति ॥ दक्षप्रभृतयस्तु, आश्रमाः परमार्था इति समर्थयन्त इत्याह ॥ आश्रमा इति ॥ वैयाकरणास्तु स्त्रीपुंन्नपुंसकं शब्दजातं 'तत्त्वमिति वर्णयन्तीत्याह ॥ स्त्रीति ॥ द्वे ब्रह्मणी वेदितव्ये परं चापरं चेत्याह ॥ परापरमिति ॥ २७ ॥ सृष्टिवा, लयो वा स्थितिर्वा तत्त्वमिति पौराणिका इत्याह- सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।। स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥२८॥ सृष्टिरित्यादिना ॥ यथोक्तकल्पनानामधिष्ठानं सूचयति ॥ सर्वे चेति ॥ उदाहृताश्चानुदाहृताश्च कल्पना यावन्तो विद्यन्ते ते सर्वेऽपि रज्ज्वामिव सादयस्तच्छून्य आत्मन्यात्मस्वरूपानिश्चयहेतोरविद्यया सर्वदैव कल्पिता इत्यर्थः ॥ २८ ॥ लौकिकानां परीक्षकाणां च कतिपयकल्पनाभेदानुदाहृत्यानन्त- त्वादशेषतस्तेषामुदाहर्तुमशक्यत्वं दृष्ट्वा संक्षेपमाचष्टे- यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ॥ तं चावति स भूत्वाऽसौ तद्रहः समुपैति तम् ॥२९॥ यं भावमिति ॥ प्राणादीनामन्यतममुक्तमनुक्तं वाऽज्यं यं भावं पदार्थ दर्शयेद्यस्याचार्योऽन्यो वाऽप्त इदमेव तत्त्वमिति सोऽधिकारी तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा ॥ तं च द्रष्टारं स- भावोऽवति । यो दर्शितो भावोऽसौ भूत्वा साधकपुरुषतादात्म्य- मापद्य रक्षति । साक्षादसाधारणरूपत्वेन स्वस्मिन्नेव निष्ठामापाद्य ततोऽन्यत्र प्रवृत्तिमुपासकस्य निवारयतीत्यर्थः । तस्मिन् ग्रहस्तद्- ग्रहस्तदभिनिवेश इदमेवतत्त्वमिति स तद्ग्रहः, तं ग्रहीतारमुपैति तस्यात्मभावं निगच्छतीति चतुर्थपादार्थमाह ॥ तद्ग्रह इति ॥ एतेना- ऽन्यत्र प्रवृत्तिनिरोधे हेतुरुक्तः ॥ २९ ॥ तर्हि प्राणादीनामात्मवदेव तात्त्विकत्वं प्राप्तमित्याशङ्कय कल्पि- तानामधिष्ठानातिरेकेणावस्तुत्वान्मैवमित्याह- मिताक्षरा। वैतथ्याख्यं २ द्वितीयम् । एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ॥ एवं यो वेद तत्त्वेन कल्पयेत् सोऽविशङ्कितः॥३०॥ एतैरिति ॥ एतैः प्राणादिभिरात्मनोऽपृथग्भूतैः रज्जुरिव सर्पादि- विकल्पनारूपैर्भावैरेष आत्मा पृथगेवेति लक्षितो निश्चितो मूढैः । विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तिं । इदं सर्व यदयमात्मेति श्रुतेरित्यर्थः । उक्तज्ञान- स्तुत्यर्थमाह ॥ एवमिति ॥ एवमात्मव्यतिरेकेणाऽसत्त्वं रज्जुसर्पवदा- त्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन पूर्वोक्त- श्रुतितः स्वप्नवत् प्रपञ्चमिथ्यात्वसाधकोक्तदृश्यत्वादियुक्तितश्च सो- ऽविशङ्कितो वेदार्थ, विभागतो शानकाण्डं साक्षादद्वैतवस्तुपरं, कर्म- काण्डं तु साध्यसाधनसम्बन्धबोधनद्वारा परम्परया ज्ञानोत्पादन- परमित्येवंरूपम् । संशयविरहितः सन् कल्पयेत् कल्पयति। सर्वे वेदा यत्पदमानन्तीति श्रवणात् । न ह्यनध्यात्मविद् वेदार्थतत्त्वं ज्ञातुं श- नोति तत्त्वतः। न धनध्यात्मवित् कश्चित् क्रियाफलमवाप्नुयादिति हि मानववचनम् । क्रियाशब्देन वेदान्तवाक्यान्युच्यन्ते तत्फलं तत्त्वज्ञानम् । अग्निहोत्रादिक्रियायाश्च बुद्धिशुद्धिद्वारा झानोत्पत्त्युप- योगिनीत्वमिति स्मृतिस्थपदस्यार्थः ॥ ३० ॥ यदेतद् द्वैतस्यासत्त्वमुक्तं युक्तितस्तदेतवेदान्तप्रमाणावगतमित्याह- स्वप्नमाये यथा दृष्ट गन्धर्वनगरं यथा ॥ तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥ स्वप्नति ॥ स्वप्नश्च माया च स्वप्नमाये यथा असद्धस्त्वात्मिके असत्ये सद्धस्त्वात्मिके इव लक्ष्येते अविवेकिभिः, यथाच प्रसारित- पण्यापणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्य- मानमेव सदकस्मादभावतां गतं दृष्टं, तथा विश्वमिदं द्वैतं समस्त- मसद् दृष्टमित्यर्थः । केत्याह ॥ वेदान्तग्विति ॥ नेह नानास्ति किञ्चन, इन्द्रो मायाभिरात्मैवेदमग्र आसीद, ब्रह्मैवेदमग्र आसीत्, द्वितीयाद्वै भवति, न तु तद् द्वितीयमस्ति, यत्र त्वस्य सर्वमात्मैवा- ऽभूदित्यादिषु विचक्षणैर्निपुणतरवस्तुदार्शभिः पण्डितैः । तमःश्वभ्र- निभंदृष्टं वर्षबुबुदसन्निभम् *नाशप्रायं सुखाद्धीनं नाशोत्तरमभावग- मिति व्यासस्मृतेरित्यर्थः । तमसि मन्दान्धकारे रज्ज्वामधिष्ठाने भू-

२६
माण्डूक्योपनिषत्कारिकाव्याख्या
च्छिद्रामिति यद्भ्रान्त्या भाति तन्निभं तत्तुल्यं विवेकिभिर्विश्वं दृष्ट-
मिति स्मृतिस्थपदस्यार्थः ॥ ३१ ॥
यदा प्रमाणयुक्तिभ्यां वितथं द्वैतमात्मैकः परमार्थतः सन् तदा
इदं निष्पन्नं भवति । सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्या-
विषय एवेति प्रकरणार्थमुपसंहरति-
न निरोधो न चोत्पत्तिन बद्धो न च साधकः ॥
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥
न निरोध इति ॥ निरोधनं निरोधः प्रलयः, उत्पत्तिर्जननं, बद्धः
संसारी जीवः, साधकः साधनान्मोक्षस्य, मुमुक्षुर्मोचनार्थी, मुक्तो
विमुक्तबन्धनः। उत्पत्तिप्रलययोरभावाद् बद्धादयो न सन्तीत्येषा पर-
मार्थतेत्याह । इत्येषेति ॥ ३२॥
यदुक्तं निरोधाद्यभावस्य परमार्थतेति, तदयुक्तम् । सामान्यविशे-
षात्मकं वस्तु नानारसमिति मते निरोधादेःसुसाध्यत्वादित्याशङ्कयाह-
भावैरसद्भिरेवायमद्वयेन च कल्पितः॥
भावा अप्यद्वयेनैव तस्माद्वयता शिवा ॥ ३३ ॥
भावैरिति ॥ भावाः व्यावृत्ता विशेषाः । ते च व्यभिचारित्वाद-
ऽसन्तो, रज्जुसर्पवत् । तैरद्वयमनुवृत्तं सामान्यं, तेन चायमव्यावृत्तो-
ऽनुगतपूर्णसत्ताचिंदेकतानः सन्नात्मैव मूढैर्मोहमाहात्म्यात् कल्प्य-
ते, न वस्तुतः सामान्यविशेषभावोऽस्ति । परस्पराश्रयत्वादित्यर्थः ।
विशेषाणामसत्त्वे कथन्त्वेन व्यवहारःस्यादित्याशङ्कय सत्तातादात्म्येन
कल्पितत्वात् तेषां सत्त्वेन व्यवहारोपपत्तिरित्याह ॥ भावा इति ॥ अनु-
गतसत्ताकारेण कल्पिताः सत्त्वव्यवहारा भवन्तीति शेषः । सामान्य-
विशेषभावस्य कल्पितत्वादखण्डैकरसत्वे वस्तुनः सिद्धे निरोधादे-
दुःसाधनत्वमुचितमिति फलितमाह ॥ तस्मादिति ॥ अद्वयता अभ-
यता सैव शिवेत्यर्थः ॥ ३३ ॥
यदुक्तम् अद्वयता शिवेति, तत्र हत्वन्तरोपन्यासपरत्वं श्लोकस्य
दर्शयति-
नाऽऽत्मभावेन नानेदं न स्वेनापि कथञ्चन ।।
न पृथङ्नापृथकिञ्चिदिति तत्त्वविदो विदुः ॥ ३४॥

मिताक्षरा । वैतथ्याख्यं २ द्वितीयम् । २७ नेत्यादिना ॥ इदं हि नानाभूतं द्वैतं नात्मतादात्म्येन सेधुमर्हति। जडाजडयोर्विरुद्धस्वभावयोस्तादात्म्यायोगात । भेदादिशून्यात्म- तादात्म्ये च द्वैतस्य नानात्वासिद्धरित्यर्थः । स्वेन सत्ताप्रतीत्योरन्या- नपेक्षतालक्षणस्वातन्त्र्येणापि नेदं द्वैत सेधुं पारयति । तथा स्वात- व्ये सत्यात्मत्वप्रसङ्गादनात्मनो द्वैतत्वापातादित्याह ॥ न स्वेनेति ।। न हि किञ्चिदपि द्वैतं परस्परं पृथगेव सिद्ध्यति, दुर्निरूप्यात्वादित्या- ह ॥ न पृथगिति ॥ नापि किश्चिदन्योन्यमपृथग्भूत्वा सिध्यति । घट- पटादिशब्दानां पर्यायत्वप्रसङ्गाद्व्यवहारलोपादित्याह ।नापृथगिति। अतो वास्तवाकारेण सर्वथा निरूपणादद्वैतता शिवा निश्चितत्याह ॥ इतीति ॥ ३४॥ किमिति यथोक्तमद्वैतं सर्वेषां न प्रतीतिगोचरतामाचरतीत्या- शय रागादिप्रतिबन्धविधुराणामेव यथोक्तमद्वैतदर्शनं न सर्वेषामि- ति सम्यग्दर्शनं स्तौति- वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः। निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥ वीतेति ॥विगतरागभयक्रोधद्वेषादिसर्वदोषैः सर्वदा मुनिभिर्मनन- शीलैर्विवेकिभिर्वेदपारगैरवगतवेदार्थतत्त्वैानिभिनिर्विकल्पः सर्व- प्राणादिविकल्पशून्योऽयमात्मा दृष्ट उपलब्धो वेदान्तार्थतत्परैः । प्रपञ्चोपशमः प्रपञ्चो द्वैतभेदाविस्तारः, तस्योपशमोऽभावो यस्मिन् स आत्मा प्रपञ्चोपशमः । अत एवाद्वयः विगतदोषैरेव पण्डितैर्वेदा- न्तार्थतत्परैः संन्यासिभिः परमात्मा द्रष्टुं शक्यो, नान्यैः रागादि- कलुषितचेतोभिः स्वपक्षपातदर्शनस्तार्किकादिभिरित्यभिप्रायः॥३५॥ मिथ्याशानप्रचयसंस्कारावेदान्तार्थतात्पर्यवतां पण्डितानामपि नाद्वैते प्रत्ययदाय सिध्यतीत्याह- तस्मादेवं विदित्वैनमबैते योजयेत् स्मृतिम् ॥ अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६॥ तस्मादिति ॥ शास्त्रादद्वैतमवगम्य स्मृतिसन्तति कुर्वतो लोका- नुवर्तने विधिनियममाह ॥ अद्वैतमिति ॥ यस्मात् सर्वानर्थप्रशमरूप- त्वादद्वयं शिवमभयमत एवं विदित्वा एनमात्मानमद्वैते योजयेद् अबै- माण्डूक्योपनिषत्कारिकाव्याख्या तावगमायैव स्मृति कुर्यात् । तच्चाद्वैतमवगम्याहमस्मि परं ब्रह्मेति विदित्वाऽशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यव- हारातीतो जडवल्लोकमाचरेदप्रख्यापयन्नात्मानमहमेवंविध इत्यभि- प्रायः॥ ३६॥ कया चर्यया लोकमाचरेदित्याह- निस्तुतिनिनमस्कारो निःस्वधाकार एव च ॥ घलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७॥ निःस्तुतिरिति ॥ स्तुतिनमस्कारादिसर्वकर्मवर्जितस्त्यक्तसर्व- बा!षण प्रतिपन्नपरमहंसपारिव्राज्यः,एतं वै तमात्मानं विदित्वेत्यादि- श्रुतेः । तद्बुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाइत्यादिस्मृतश्चेत्यभि- प्रायः । चलं शरीरं प्रतिक्षणमन्यथाभावादचलमात्मतत्त्वं, ते निकेतो यस्य सोऽयं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रय इत्याह ॥ चलेति ॥ स च यादृच्छिको भवेत् । यदृच्छाप्राप्तकौपीनाच्छादन- प्रासमात्रदेहस्थितिरित्याह ॥ यतिरिति ॥ ३७ ।। अहमेव परं ब्रह्म, नमत्तोऽन्यदस्ति किञ्चिदितिस्मृतिसन्ततिकरण- मपि न कालविशेषनियतं, किन्तु नैरन्तर्येण कर्तव्यमित्याह- तत्त्वमाध्यात्मिक दृष्ट्वा तु बाह्यतः ॥ तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥ इति श्रीगौडपादीयकारिकासु वैतथ्याख्यं द्वितीयप्रकरणम् ॥ २॥ तत्वमिति ॥ आध्यात्मिकं शरीरादिकल्पितं तत्त्वमधिष्ठानमा पृष्ट्वा बाह्यतो देहाद बहिरवस्थितं पृथिव्यादि च कल्पितत्वेनावस्तु- त्वादधिष्ठानमात्रमेवेत्यनुभूय स्वयमपि द्रष्टा परमार्थवस्तुस्वभाव- मात्र एवासक्तचेताः,बाह्येभ्यो विषयेभ्यो व्यावृत्तबुद्धिस्तस्मिन्नेव तत्त्वे परमार्थभूते प्रतिष्ठितस्तदर्शननिष्ठः स्यात्। वाचारम्भणं विकारो नाम- धेयं, स बाह्याभ्यन्तरो ह्यजः, शुनि चैव श्वपाके च, समं सर्वेषु भूतेष्वित्यादिश्रुतिस्मृतरित्यर्थः ॥ ३८ ॥ इति श्रीगौडपादीयश्लोकवृत्तौ वैतथ्याख्यं द्वितीयं प्रकरणम् ॥२॥ दृष्ट्वा तत्त्वं

अथ तृतीयं प्रकरणम् ॥ ३॥
तीवष्टम्भेन द्वैतवैतथ्यनिरूपणं परिसमाप्याद्वैतपारमार्थिकत्व-
मपि तर्कतः संभावयितुं प्रकरणान्तरं प्रारिप्सुरुपास्योपासकभेदाष्टिं
तावदपवदति-
ॐम् ॥ उपासनाधितो धर्मो जाते ब्रह्मणि वर्तते ॥
प्रागुत्पत्तेरजं सर्व तेनासौ कृपणः स्मृतः ॥१॥
उपासनेति ॥ देहस्य धारणाद्धर्मो जीवो भूतसंघाताकारेण जाते
ब्रह्मणि तदभिमानित्वेन वर्तते । स प्रागुत्पत्तेरजं सर्वमित्येवं काला-
वच्छिन्नं वस्तु मन्यते । स पुनरुपासनां पुरुषार्थसाधनत्वेनाश्रित-
स्तदेव ब्रह्म प्रतिपत्स्ये शरीरपातादूर्ध्वमित्येवं यतो मिथ्याशानवान-
वतिष्ठते।तेनाऽसौ कृपणोऽल्पको ब्रह्मविद्भिःस्मृतश्चिन्तित इत्यर्थः॥१॥
भेदर्शिनमुपासकमद्वैतविरोधिनं निन्दित्वा संप्रत्यद्वैतप्रतिज्ञा
करोति-
अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ॥
यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २॥
अत इति॥स बाह्याभ्यान्तरमजमात्मानं प्रतिपत्तुमशक्नुवनविद्य-
या दीनमात्मानं मन्यमानः कृपणो भवति
यस्मात्,
अतो वक्ष्याम्यका-
ऽर्पण्यमकृपणभावमजं ब्रह्मेत्यर्थः । जातिर्जन्म तद्रहितमजातिम् । तत्र
हेतुमाह ॥ समतामिति ॥ सर्वात्मना साम्यं निर्विशेषत्वं गतमित्यर्थः ।
यथा रज्ज्वां सोभ्रान्त्या जायते तथा सर्वभ्रान्तिदृष्टया जायमानमपि
यथा येन प्रकारेण किञ्चिदल्पमपि वस्तुतो न जायते, किन्तु समन्ततः
समन्तात् सर्वतो देशतः कालतो वस्तुतश्च पूर्ण कूटस्थमेव वस्तु
भवति तथा तं प्रकारं वक्ष्यामीति जन्मराहित्यं साधयति॥यथेति॥२॥
प्रतिशावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः । स कीगित्यपेक्षा-
यामाह-
आत्मा ह्याकाशवजीर्घटाकाशैरिवोदितः॥
घटादिवच सङ्घातै तावेतन्निदर्शनम् ॥ ३ ॥

३० माण्डूक्योपनिषत्कारिकाव्याख्या आत्मा हीति ॥ जीवभेदप्रतीतिस्तर्हि कथमित्याशङ्याह ॥ जीवै- रिति ॥ यथाकाशो विभुत्वादिधर्मः स्वगततात्त्विकभेदवान्न भवति तथा परमात्मा विशेषाभावात् । यथा च महाकाशो घटाकाशाका- रेण प्रतीयते तथा परमात्मा नानाविधजीवाकारेण प्रतीतिगोचरो भवतीत्यर्थः । यथा मृदः सकाशाद् घटादयो जायन्ते तथा परमा- त्मैव पृथिव्यादिसङ्घाताकारेण जायत इत्याह ॥ घटादिवदिति ॥ यदा मन्दबुद्धि प्रतिपिपादयिषया श्रुत्यात्मनो जातिरुच्यते । जीवादीनां तदा जाताबुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदित आकाश- वदित्याह ॥ जाताविति ॥३॥ अद्वैतस्य जीवसृष्टिश्रुतिविरोधं परिहृत्य तस्यैव प्रलयश्रुत्या विरोधं परिहरति- घटादिषु प्रलीनेषु घटाकाशादयो यथा ॥ आकाशे संप्रलीयन्ते तवज्जीवा इहाऽऽत्मनि॥४॥ घटादिग्विति ॥ यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः । यथा च घटादिप्रलये घटाकाशादिप्रलयः । तदेहादिसङ्घातोत्पत्त्या जीवो- त्पत्तिस्तत्प्रलये च जीवानामिहात्मनि प्रलयो, न स्वत इत्यर्थः॥४॥ सर्वदेहेष्वात्मैकत्वे एकस्मिन् जननमरणसुखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियायाः फलसाङ्कटं च स्यादित्यव्यवस्थामाशङ्कयाह- यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते ॥ न सर्वे संप्रयुज्यन्ते तबज्जीवाः सुखादिभिः ॥५॥ यथेति ॥ यथा एकस्मिन् घटाकाशे रजोधूमादिभिर्युते संयुक्ते, न सर्वे घटाकाशादयस्तद्रजोधूमादिभिः संयुज्यन्ते, तद्वदेकस्मिञ्जीवे सुखादिसंयुक्ते सत्यापरे जीवास्तैरेव सुखादिभिर्न संयुज्यन्ते। औपा- धिकभेदादित्याह ॥ तद्वदिति ॥५॥ अद्वैतस्य श्रुत्यादिविरोधाभावेऽपि, विमता जीवास्तत्त्वतो भिद्य- न्ते, भिन्ननामकत्वाद् भिन्नकार्यकरत्वाद् भिन्नरूपत्वात्, घटपटादि- वदित्यनुमानविरोधमाशय व्यभिचारित्वेनानुमानं दूषयति- रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै॥ आकाशस्य न भेदोऽस्ति तद्धजीवेषु निर्णयः॥६॥ - - मिताक्षरा । अद्वैताख्यं ३ तृतीयम् । रूपेति ॥ यथेहाकाश एकस्मिन् घटकरकापवरकाद्याकाशाना- मल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते,तथा कार्यमुदकाहरणधा शयना- दि, समाख्याश्च- घटाकाशः करकाकाश इत्याद्यास्तत्कृताश्च भिन्ना दृश्यन्ते तत्र तत्र वै व्यवहारविशेषे सर्वोपमाकाशे रूपादिभेदकृतो व्यवहारो न परमार्थ एव,परमार्थतस्त्वाकाशस्य न भेदोऽस्तिातदेहो- पाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निर्णयो निश्चयः कृतो बुद्धिमद्भिरित्यर्थः ॥ ६॥ ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इतिचेद्, नेत्याह- नाऽऽकाशस्य घटाकाशो विकारावयवौ यथा ॥ नैवाऽऽत्मनः सदा जीवो विकारावयवी तथा ॥७॥ नेति ॥ यस्मात् परमार्थाकाशस्य घटाकाशो न विकारो, यथा सुवर्णस्य रुचकादि यथा वाऽपां फेनबुबुदहिमादिः । नाप्यवयवो, यथा वृक्षस्य शाखादिः । न तथाकाशस्य घटाकाशो विकारावयवौ यथा तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटा- काशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तबलेन विकारो, ना- प्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥७॥ जीवो ब्रह्मणो नाशो न विकारः, अपि तु ब्रह्मैवोपाध्यनुप्रविष्टं जीवशब्दितमित्युक्तम् । तदयुक्तम् । ब्रह्मणः शुद्धत्वाजीवस्य रागा- दिमलवत्त्वादनेकत्वादेकत्वायोगादित्याशङ्कय परमार्थतो जीवस्यापि नास्ति मलवत्त्वमित्याह- यथा भवति बालानां गगनं मलिनं मलैः॥ तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः॥८॥ यथेति ॥ यथा भवति लोके बालानामविवकिनां गगनमाकाशं धनरजोधूमादिमलैर्मलिनं मलवत् । न गगनं मलवद् याथात्म्यविवेकि- नाम् । तथा भवत्यात्मा परोऽपि यो विज्ञाता प्रत्यक्क्लेशकर्मफलैम- लिनोऽबुद्धानां प्रत्यगात्मविवेकरहितानां, नात्मविवेकवताम् । न हि ऊपरदेशस्तटयत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमान् । तथा नाऽऽत्मा अबुधारोपितक्लेशादिमलैर्मलिनो भवतीत्यर्थः ॥ ८ ॥ पुनरप्युक्तमेवार्थ प्रपञ्चयति- माण्डूक्योपनिषत्कारिकाव्याख्या मरणे संभवे चैव गत्यागमनयोरपि ॥ स्थिती सर्वशरीरेषु आकाशेनाविलक्षणः ॥९॥ मरणे इति ॥ जीवो मरणानन्तरं धर्माऽनुरोधेन स्वर्ग गच्छति । अधर्मवशाच नरकं प्रतिपद्यते । धर्माधर्मयोश्च भोगेन क्षये पुनरागत्य योनिविशेषे सम्भवति । तत्र यावद्भोगं स्थित्वा पुनरपि परलोकाय प्रतिष्ठते इत्येवमादिः सर्वशरीरेष्वात्मनो जन्ममरणादिव्यवहार आ- काशेनाविलक्षणो घटाकाशजन्मनाशगमनागमनस्थितिवत् प्रत्येत- व्यो न परमार्थत इत्यर्थः ॥९॥ ननु सङ्घातशब्दितानामुपाधीनां सत्यत्वात् तत्प्रयुक्तभेदस्यापि तथात्वादद्वैतानुपपत्तितावस्थ्यामितिचेत्तत्राह- संघाताः स्वमवत् सर्वे आत्ममायाविसर्जिताः॥ आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥१०॥ सङ्घाता इति ॥ घटादिस्थानीयास्तु देहादिसङ्घाताः स्वप्नदृश्य; देहादिवन्मायाविकृतदेहादिवश्चात्ममायाविसर्जिताः। आत्मनो माया- विद्या तया प्रत्युपस्थापिता, न परमार्थतः सन्तीत्यर्थः।देवादिदेहानां पूज्यतमत्वेनाधिक्याभ्युपगमान्नाविद्याकृतत्वमित्याशङ्ख्याह ।आधिक्य इति ॥ यद्यप्याधिक्यभावस्तिर्यग्देहाद्यपेक्षया देवादिकार्यकरण- संघातानां, यदि वा सर्वेषां देहानां पञ्चभूतात्मकत्वाविशेषात् साम्ये स्वीकृते नास्ति संघातेषु पुनः सत्यत्वे काचिदुपपत्तिः। सद्भावप्रति- पादको हेतुर्यस्मानास्ति । तस्मादविद्याकृता एव, न परमार्थतः संभ- वन्तीत्यर्थः॥१०॥ जीवस्याद्वितीयब्रह्मत्वमुपपत्त्यवष्टम्भेनोपपादितमिदानीं तत्रैव तै- त्तिरीयकश्रुतेस्तात्पर्यमाह- रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके ॥ तेषामात्मा परो जीवः खं यथा संप्रकाशितः॥११॥ रसादयो हीति ॥ रसादयः, अन्नरसमयः प्राणमय इत्येवमादयः कोशाः कोशा इव कोशा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिर्भावा- त् पूर्वस्य पूर्वस्य व्याख्याता विस्पष्टमाख्यातास्तैत्तिरीयके तैत्तिरीयक- शाखोपनिषद्वल्ल्याम् । तेषां कोशानामात्मा येनात्मनाऽयं चापि कोशा - -- मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम् । आत्मवन्तोऽन्तरतमेन स हि सर्वेषां जीवननिमितत्वाजीवः । कोऽसा- वित्याह ॥ पर एवात्मा, यः पूर्व, सत्यं शानमनन्तं ब्रह्मोति प्रकृतः स आत्मा अस्माभिर्यथा खं तथा सम्प्रकाशितः, आत्मा ह्याकाशवदि- त्यादिश्लोकैः, न तार्किकपरिकल्पितात्मवत् पुरुषवुद्धिप्रमाणगम्य इत्यभिप्रायः॥११॥ मनुष्योऽहं प्राण्यहं प्रमाताऽहं कर्ताहं भोक्ताहमिति पञ्चानां यदेकं स्वरूपमनुगतं प्रत्यक्चैतन्यं तद्ब्रह्मैवेति जीवपरयोरैक्ये तैत्तिरीयक- भुतेस्तात्पर्यमुक्त्वा तत्रैव बृहदारण्यकश्रुतेरपि तात्पर्यमाह- छयोईयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् ॥ पृथिव्यामुदरे चैव यथाऽऽकाशः प्रकाशितः ॥१२॥ द्वयोरिति ॥ ब्रह्मविद्याख्यं मध्वमृतम् । अमृतत्वं मोदनहेतुत्वाद्वि- शायते यस्मिन्निति मधुशानं मधुब्राह्मणम् । तस्मिन्मधुब्राह्मणे बहुषु पर्यायेषु अधिदैवाध्यात्मविभक्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्याभूतं प्रकाशितमित्यर्थः । पृथिव्यामुदरे चैव यथैक आकाशोऽनु. मानेन प्रकाशितो लोके तदिति दृष्टान्तमाह ॥ पृथिव्यामिति ॥ १२॥ इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह- जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते ॥ नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥ जीवात्मनोरिति॥यद् युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनोरनन्यत्वमभेदेन, ब्रह्मविद् ब्रह्मैव भवतीत्यादिना ब्रह्मभाव- फलवादेन प्रशस्यते स्तूयते शास्त्रेण, व्यासादिभिश्च- वासुदेवः सर्वमिति स महात्मा सुदुर्लभः, अहं हरिः सर्वमिदं जनार्दनो नान्य- ततः कारणकार्यजातमित्यादिवाक्यरित्यर्थः । यत्प्रशस्यते तद्विधेय- मित्यादिन्यायादेकत्वं प्रशस्तत्वाद्विवक्षितमिति भावः । यच्चानेकत्वं सर्वप्राणिसाधारणं तन्निन्द्यमानं दृश्यते, न तु तद् द्वितीयमस्ति, द्वितीयाद्वै भयं भवति, उदरमन्तरं कुरुते अथ तस्य भयं भवतीत्या- दिवाक्यैः । या वेद्वाह्याः स्मृतयो याश्च काश्च कुदृष्टयः * सर्वास्ता निष्फलाः प्रेत्य तमामूला हि ताः स्मृता इत्यादिस्मृतिवाक्यैश्च । य- निन्द्यते तन्निषिद्धते इति न्यायानानात्वं शास्त्रार्थो न भवतीत्याह । नानात्वमिति ॥ तदुभयमेकत्वप्रशंसनं नानात्वनिन्दनं चैवमेकत्वमेव ५

माण्डूक्योपनिषत्कारिकाव्याख्या
शास्त्रीयमित्यभ्युपगमे सति युक्तमिति फलितमाह ॥ तदेवं हीति॥१३॥
न भेदवादानासुत्प्रेक्षामात्रमूलत्वं, श्रुतिमूलत्वादित्याशङ्कय परि-
हरति-
जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् ॥
भविष्यवृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते॥१४॥
जीवात्मनोरिति ॥ उत्पत्तिः व्युत्पत्तिः। सम्यग्ज्ञानम् । तदर्थोप-
निषदां प्रवृत्त्यपेक्षया प्राक्प्रवृत्तकर्मकाण्डे यत् परापरयो नात्वमुक्तं,
तदोदनं पचतीति भविष्यवृत्त्या तन्दुलेष्वोदनत्ववगौणमेव, न
मुख्यभेदार्थत्वं श्रुतेयुज्यते । भेदस्यापूर्वत्वपुरुषार्थत्वयोरभावादि-
त्यर्थः ।।१४॥
सृष्ट्यादिश्रुतिषु शब्दशक्तिवशादेव सृष्ट्यादिभेददृष्टेरद्वैतानु-
पपत्तिरित्याशङ्ख्याह-
· मृल्लोहविस्फुलिङ्गायैः सृष्टिा चोदिताऽन्यथा ॥
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥१५॥
मृल्लोहेति॥ मूल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिर्या चोदिता
प्रकाशितान्यथान्यथा च स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्य-
वतारायोपायोऽस्माकम् । यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाधा-
ख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय । अतो
नास्त्युत्पत्त्या-
दिकृतो भेदः कथञ्चनेत्यर्थः ॥१५॥
उत्पत्त्यादिश्रुतिविरोधमद्वैते परिहृत्योपासनविध्यनुपपत्तिविरोधं
परिहरति-
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ॥
उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥
आश्रमा इति ॥ आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनदृष्ट-
यः। कारणब्रह्मोपासका मध्यमदृष्टयः।अद्वितीयब्रह्मदर्शनशीला उत्तम-
दृष्टयः । एवमेतेषु त्रिविधेषु मध्ये स्वेषां मन्दानां मध्यमानां च
उत्तमदृष्टिप्रवेशाध दयालुना वेदेनोपासनोपदिष्टा । तथाचोपासना-
ऽनुष्ठानद्वारेणोत्तमामेकत्वदृष्टिं क्रमेण प्राप्ता उत्तमेष्वेवाऽन्तर्भवन्त्यतो
न तद्विरोधोऽपीत्यर्थः ॥ १६ ॥

मिताक्षरा । अद्वैताख्यं प्रकरण ३ तृतीयम्। अद्वैतदर्शनस्योपासनादिविधिविरोधाभावेशितान्तरैर्विरोधो- ऽस्तीत्याशङ्ख्य तेषां भ्रान्तिमूलत्वान्मैवमित्याह- स्वसिद्धान्तव्यवस्थासु दैतिनो निश्चिता दृढम् ॥ परस्परं विरुध्यन्ते तैरयं न विरुद्ध्यते ॥ १७ ॥ स्वसिद्धान्तेति ॥ स्वसिद्धान्तरचनानियमेषु कपिलकाणादबुद्धार्हता- दिदृष्ट्य नुसारिणो वैतिनो निश्चिताः-एवमेवैष परमार्थो, नान्यथेति तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं राग- द्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तमेव परस्परमन्योन्यं विरुधन्ते। तै- रन्योन्यविरोधिभिरस्मदीयोऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शन- पक्षो न विरुद्ध्यते, यथा स्वहस्तपादादिभिः । एवं रागद्वेषादिदोषाना- स्पदत्वादात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः॥ १७ ॥ द्वैतप:रद्वैतपक्षस्य स्वमतपर्यालोचनया अविरोधमाह- अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ॥ तेषामुभयथा द्वैतं तेनायं न विरुद्ध्यते ॥ १८ ॥ अद्वैतमिति ॥ अद्वैतं परमार्थो हि यस्माद् द्वैतं नानात्वं तस्याद्वै- तस्य भेदस्तस्य कार्यम् एकमेवाद्वितीयं, तत्तेजोऽसृजतेति श्रुतेः का- र्यस्य च कारणाद् भेदेन सत्त्वनिषेधादित्यर्थः । मिथ्याभूतेन द्वैतेन अद्वैतस्याविरोधेऽपि परमार्थभूतेन विरोधः स्यादित्याशय तथाविधं द्वैतमेवं नास्तीत्याह ॥ तेषामिति ॥ द्वैतिनां तु तेषां परमार्थतश्चापर- मार्थतश्चोभयथा द्वैतमेव । यदि च तेषां भ्रान्तानां द्वैतदृष्टिः, अस्मा- कमद्वैतदृष्टिरभ्रान्तानां, तेनायं हेतुनाऽस्मत्पक्षो न विरुद्ध्यते तैः । इन्द्रो मायाभिः,न तु तद्वितीयमस्ति इति श्रुतेः । यथा मत्तगजारूढः उन्मत्तं भूमिष्ठं प्रति गजारूढोऽहं वाहय मां प्रतीति वाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वदित्यर्थः॥ १८ ॥ द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत् परमार्थसदितिवन्नत्याह- मायया भिद्यते वेतन्नान्यथाऽज कथञ्चन ॥ तत्त्वतो भिद्यमाने हि मर्त्यताममृतं ब्रजेत् ॥ १९ ॥ माययेति ॥ परमार्थसद्वैतं मायया भिद्यते होतत्तमिरिकानेक- चन्द्रवद्, रज्जुः सर्पधारादिभिर्भेदैरिव निरवयवमजं ह्यात्मतत्त्वम्। na माण्डूक्योपनिषत्कारिकाव्याख्या नान्यथा परमार्थतः, कथञ्चन केनचिदपि कार्यत्वधर्मत्वादिप्रकारेण न भिद्यत इत्यर्थः । विवर्तवादानगीकारे दोषमाह ॥ तत्त्वत इति ॥ तत्त्वतो भिद्यमाने हमृतमजमद्वयं स्वभावतः सन्मयतां बजेद्यथा- ऽग्निः शीतताम् । तथानिष्टं स्वभाववैपरीत्यगमनम् । सर्वप्रमाणविरो- धात् । तस्मान परमार्थसद् द्वैतमित्यर्थः ॥ १९ ॥ स्वपक्षमुक्त्वा स्वयूथ्यपक्षमनुभाष्य दूषयति- अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः॥ अजातो हमृतो भावो मयतां कथमेष्यति ॥२०॥ अजातस्येति ॥ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूकाः, अजातस्यैवात्मतत्त्वस्याऽमृतस्य स्वभावतो जातिमु. त्पत्तिमिच्छन्ति, परमार्थत एव तेषां जातं चेत्तदेव मर्त्यतामेष्यत्य- वश्यम् । स चाऽजातो हमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्य- तामेष्यति, न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः ॥ २० ॥ पदार्थानां स्वभाववैपरीत्यगमनमनुपपन्नमित्युक्तं प्रपञ्चयति- न भवत्यमृतं मयं न मर्त्यममृतं तथा ॥ प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ २१ ॥ न भवतीति ॥ यस्मान भवत्यमृतं मर्त्य लोके, नापि मर्त्यमऽमृत- म् । तथा ततः प्रकृतेः स्वभावस्यान्यथाभावः स्वतः प्रच्युतिर्न कथ- श्चिद् भविष्यति । अग्नेरिवौष्ण्यस्य स्वरूपनाशप्रसङ्गादित्यर्थः ॥२१॥ ननु ब्रह्म कारणरूपेण प्रागुत्पत्तेरमृतमपि कार्याकारेणोत्पत्त्युत्तर- कालं मर्त्यतां गमिष्यति, ततो रूपभेदादुभयमविरुद्धमिति, तत्राह- स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।। कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥ स्वभावेनेति ॥ यस्य पुनर्वादिनः स्वभावेनामृतो भावो मर्त्यतां गच्छति परमार्थतो जायते तस्य प्रागुत्पत्तेः स भावः स्वभावतोऽमृत इति प्रतिशा मृषैव । कारणस्यैव कार्याकारेण जन्मयोग्यतया मर्त्य- त्वावगमादित्यर्थः । कृतकेनामृतः कथं स्थास्यति निश्चलः, अमृत- स्वभावतया न कथञ्चित् स्थास्यति । आत्मजातिवादिनः सर्वदा अजं नाम नास्त्येव । सर्वमेतन्मयै कार्यमानं वस्त्वित्यजं ब्रह्मास्मीति मिताक्षरा । अद्वैताख्यं प्रकरणं ३ तृतीयम् । ३७ झानाभावादनिर्मोक्षप्रसङ्गोऽपीति दोषान्तरमाह ॥ कृतकेनेति ॥ २२ ॥ परिणामवादस्य सृष्टिश्रुत्यनुसारेण स्वीकार्यत्वमाशङ्ख्य निरस्यति भूततोऽभूततो वाऽपि सृज्यमाने समा श्रुतिः॥ निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥ भूतत इति ॥ भूततः परमार्थतः सृज्यमाने वस्तुनि अभूतः माय- या वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिरित्य- थः । सृष्टिश्रुतेरद्वैतानुगुण्येन प्रमाणयुक्त्यनुगृहीतमेवाभ्युपगन्तव्य- मिति फलितमाह ॥ निश्चितमिति ॥ यस्माच्छ्त्या निश्चितं यदेक- मेवाद्वितीयमजममृतमिति युक्तियुक्तं च युक्त्या च सम्पन्नं तदेव श्रुत्यर्थो भवति, नेतरत् परिणामिद्वैतं कदाचिदपि । तस्मान्न परिणाम- वादः स्वीकार्य इत्यर्थः ॥ २३ ॥ कथं श्रुतिनिश्चय इत्याह- नेह नानेति चाऽऽनायादिन्द्रो मायाभिरित्यपि ॥ अजायमानो बहुधा मायया जायते तु सः ॥ २४ ॥ नेहति॥यदि हि भूतत एव सृष्टिः स्यात्ततः सत्यमेव नानावस्त्वि- ति तदभावप्रदर्शनार्थमाम्नायो न स्यात् । अस्ति च, नेह नाना- ऽस्ति किञ्चनेत्यादिराम्नायो द्वैतभावप्रतिषेधार्थः । तस्मादात्मैकत्व- प्रतिपत्त्यर्था कल्पिता सृष्टिरभूतैव । प्राणसंवादवत् । इन्द्रो मायाभि- रित्यप्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशादसौ कल्पितेत्यर्थः । मायामयी सृष्टिरित्यत्र हेत्वन्तरमाह ॥ अजायमान इति ॥ न ह्यजाय- मानत्वं बहुधा जन्म चैकत्र सम्भवति । अग्नाविव शैत्यमौष्ण्यं च । तस्मान्माययैव जायते सः । तुरवधारणार्थः । तत्र को मोह इति फलवत्त्वादेकत्वदर्शनमेव श्रुतिनिश्चितोऽर्थ इति भावः ॥ २४ ॥ भेददृष्टर्मिथ्यात्वे हेत्वन्तरमाह- संभूतेरपवादाच संभवः प्रतिषिद्ध्यते ॥ को न्वेनं जनयेदिति कारणं प्रतिषिद्ध्यते ॥ २५ ॥ सम्भूतेरिति।सम्यग्भूतिरैश्वर्य यस्या साः सम्भूतिर्देवता हिरण्य- गर्भाख्या । तस्याश्च कार्यमध्ये श्रेष्ठायाः, अन्धन्तमः प्रविशन्ति ये सम्भूतिनुपासते इत्यत्र निन्दितत्वात् प्रधानमल्लनिवर्हणन्यायेन स.

- माण्डूक्योपनिषत्कारिकाव्याख्या म्भवशब्दितं कार्यमात्रमेव निषिच्यते । तथाच सिद्धं तस्याऽवस्तुत्व- मित्यर्थः । कारणप्रतिषेधेन तदवस्तुत्वसिद्धेश्च भेदद्दष्टिमिथ्येत्याह ॥ को न्वेनमिति ॥ एवं मायानिर्मितस्यैव जीवस्याविद्यया प्रत्युपस्था- पितस्याविद्यानाशे स्वभावरूपत्वात् परमार्थतः को न्वेनं जीवं जनये- त् । न हि रज्ज्वामविद्यारोपितं सर्प पुनर्विवेकतो नष्टं जनयेत् कश्चित् तथा न कश्चिदेनं जनयोदिति को न्वित्याक्षेपार्थत्वात् कारण प्रतिषि- यते । नायं कुतश्चिन्न बभूव कश्चिदिति श्रुतेरित्यर्थः ॥ २५ ॥ इतोऽपि द्वैतं वस्तु न भवतीत्याह- स एष नेति नेतीति व्याख्यातं निन्हुते यतः ॥ सर्वमग्राह्यभावेन हेतुनाऽजं प्रकाशते ॥ २६ ॥ स एष इति ॥ द्वे वा वेत्यादिना व्याख्यातं मूर्तीसूर्तादिसर्वमेव ग्राह्यं नेति नेतीति वीप्सया यतो निषेधति श्रुतिरतः स एष इत्युप- क्रम्य प्रतिपादितं सबाह्यान्तरमजमात्मतत्त्वमविषयत्वेन हेतुना कार- णेन प्रकाशते प्रथते स्वयमेवेत्यर्थः ॥२६॥ आत्मतत्त्वमजमद्वितीयं परमार्थभूतं, द्वैतं तु मायाकल्पितमसदि- ति प्रतिपादितम् । तत्रैव हेत्वन्तरमाह- सतो हि मायया जन्म युज्यते न तु तत्त्वतः ॥ तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥ सतो हीति ॥ यदात्मतत्त्वं सदा सदेकरूपं, तस्य माथया जगदा- कारेण जन्म युक्तम् । मायाया दुर्निरूपार्थसमर्थनफ्टीयस्त्वात् परमा- र्थतस्त्वेकरूपमनेकरूपतया नोत्पत्तुं पारयति । विरोधादित्यर्थः । विपक्षे दोषमाह ॥ तत्त्वत इति ॥ यस्य वादिनो मते ब्रह्मैव परमार्थतो जगदात्मना जायते तस्याजस्य जायमानत्वप्रतिज्ञाया व्याहतत्वाजा- तस्यैव जायमानत्वे स्यादनवस्थेत्यर्थः ॥ २७ ॥ सत्पूर्वकं कार्यमिति न व्याप्तिः । असद्वादिभिरसतोऽभावात् स- जन्माभ्युपगमादित्याशङ्ख्याह- असतो मायया जन्म तत्त्वतो नैव युज्यते॥ वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते ॥२८॥ असत इति ॥ असतो निःस्वरूपस्य स्वरूपाभावादेव तत्वतो- मिताक्षरा । अद्वैताख्यं प्रकरणं ३ तृतीयम् । ऽतत्वतो वा न कार्याकारेण युक्तं जन्मेत्यर्थः । तत्र दृष्टान्तमाह ॥ बध्येति ॥ न हि बन्ध्यापुत्रो मायया तत्त्वतो वा जायते। अदृष्टत्वात्। तस्मात् सद्वादो मायया सम्भवत्यऽसद्वादस्तु तयाऽपि नेति दूरत एवानुपपन्न इत्यर्थः ॥ २८ ॥ सतत्त्वस्यैव मायया जन्मेत्युक्तमयुक्तम् । अवस्थायेऽपि वैतस्य मनःस्पन्दितत्वस्वीकारादित्याशयोक्तमुपपादयति- यथा स्वप्ने व्याभासं स्पन्दते मायया मनः ।। तथा जाग्रदृदयाभासं स्पन्दते मायया मनः ॥ २९ ॥ यथेति ॥ यथा रज्ज्वां विकल्पितः सो रज्जुरूपेणावेक्ष्यमाणः सन्नेवं मनःपरमार्थविज्ञप्त्याऽऽत्मरूपेणावेश्यमाणं सद् ग्राह्यग्राहक- रूपेण द्वयाभासं स्पन्दते । स्वने मायया रज्ज्वामिव सर्पः। तथा तद्वदेव जाग्रजागरिते मायया हयाकारेण मनः स्पन्दत इवेत्यर्थः ॥ २९ ॥ मनो ब्रह्म चेति कारणद्वयं तहि द्वैतस्य स्वीकृतमित्यभिप्रायमप्र- तिपत्त्याशय दृष्टान्तेन निराचष्टे- अद्वयं च दयाभासं मनः स्वप्ने न संशयः॥ अवयं च दयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥ अद्वयमिति ॥ रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेणाद्वयं सद् द्वयाभासं मनः स्वप्ने न संशयः । न हि स्वप्ने हस्त्यादिग्राह्यं तद्ग्राहक वा चक्षुरादिद्वयं चैतन्यव्यतिरेकेणास्ति । तथैव जागरितेऽपि परमा- ऽर्थात्मस्वरूपेणाद्वयं सन्मनोग्राह्यग्राहकद्वैताकारणावभासते । तथाच परमार्थसतो विज्ञानमात्रस्यावस्थाद्वयेऽपि विशेषाभावात् तस्मिन्नेवा- ऽधिष्ठाने मायया कल्पितंमनः स्पन्दते द्वयाकारमित्यङ्गीकारान्न कारण- द्वयं शङ्कितव्यमिति भावः ॥३०॥ मनोमात्रं द्वैतमित्युक्तम् । तत्रान्वयव्यतिरेकलक्षणमनुमानमाह- मनोदृश्यमिदं द्वैतं यत्किञ्चित् सचराचरम् ॥ मनसो यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ।। मन इति ॥ तेन हि मनसा विकल्पमानेन दृश्यं मनोदृश्यमिदं तं सर्व मन एवेति भवितुमर्हति । तद्भावे भावात् तद्भावेऽभावात् । मनसो हमनीमावे निरुद्ध विवेकदर्शनाभ्यासवैराग्याभ्यां रज्वामिव माण्डूक्योपनिषत्कारिकाव्याख्या सर्प लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति सिद्धं द्वैतस्यासत्त्वमि- त्यर्थः॥३१॥ मनसो यमनस्त्वमुक्तं तदुपपादयति- आत्मसत्यानुबोधेन न संकल्पयते यदा ॥ अमनस्तां तदा याति ग्राह्याभावे तद्ग्रहम् ॥ ३२॥ आत्मेति ॥ आत्मैव सत्यमात्मसत्यम् । तस्य शास्त्राचार्योपदेश- मनु ब्रह्मैवेद सर्वमहं चेत्यवबोध आत्मसत्यानुबोधः। तेन सङ्कल्प्या- भावतया यदा यस्मिन् काले न सङ्कल्पयते, दाह्याभावे ज्वलनमिवा- ऽग्नस्तदा तस्मिन् काले अमनस्ताममनोभावं याति। ग्राह्याभावे तन्मनः अग्रहं ग्रहणविकल्पनावर्जितं भवति । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यात्मशाने पृथक्त्वाभावादित्यर्थः ॥ ३२ ॥ मनश्चेन्मनस्त्वं व्यावर्तते तर्हि व्यञ्जकाभावान्नावबोधः सम्भवति। मनसैवानुद्रष्टव्यमिति श्रुतेर्मनसश्चासत्त्वाङ्गीकारादित्याशङ्कय स्वरूप- भूतेन शानेनैवात्मनोऽवबोधसम्भवानातिरिक्ते मनस्यपेक्षेत्याह- अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ॥ ब्रह्मज्ञेयम नित्यमजेनाजं विबुद्ध्यते ॥ ३३ ॥ अकल्पकमिति ॥ अकल्पकं सर्वकल्पनावर्जितमत एवाजं झामं शाप्तिमात्र शेयेन परमार्थसता ब्रह्मणा भिन्नं प्रचक्षते कथयन्ति ब्रह्मवि- दः । न हि विशातुर्विज्ञातेर्विपरिलोपो विद्यते इति श्रुतेस्तस्यैव विशे- षणं, ब्रह्म शेयं यस्य स्वस्य ज्ञानस्य तदिदं ब्रह्मशेयम् । औषण्यस्येवा- ऽग्निवदभिन्नं तेनात्मरूपेणाजेन शानेनाजं शेयमात्मनस्तत्त्वं स्वयमेव विबुद्धधते अवगच्छति नित्यप्रकाशरूप इव सविता नित्यविज्ञानक- रसघनत्वान्न शानान्तरमपेक्षते इत्यर्थः ॥ ३३॥ मोक्ष्यमाणस्य शानफलं स्वर्गवन्न परोक्षं, किन्तु तृप्तिवत् प्रत्यक्षम्। अतश्च प्रकृतशानफलस्य प्रत्यक्षत्वार्थ प्रसङ्गं प्रकरोति- निगृहीतस्य मनसो निर्विकल्पस्य धीमतः॥ प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४॥ निगृहीतस्येति ॥ निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतो विवेकवतःप्रचरणमात्मन्येव पर्यवसानं मिताक्षरा । अद्वैताख्यं प्रकरणं ३ तृतीयम् । ४१ प्रचारो यः स तु प्रचार आत्मनि पर्यवसानात्मको विशेषेण ज्ञेयो योगि- भिरात्मज्ञैरित्यर्थः । ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तस्थस्य मनसः प्रचारस्तादृश एव निरुद्धस्यापि प्रत्ययाभावाविशेषात्, किं तत्र विशे- यमितिचेन्नेत्याह ॥ सुषुप्ते इति ॥ यस्मात् सुषुप्तेऽन्यः प्रचारोऽविद्या- मोहतमोग्रस्तस्यान्तीनानेकानर्थप्रवृत्तिबीजवासनावतोमनस आत्म- सत्यानुबोधहुताशविप्लुष्टाविद्याद्यनर्थप्रवृत्तिबीजस्यान्य एव प्रशान्त- सर्वक्लेशरजसः स्वतन्त्रप्रचारः । अतो न तत्समः । तस्माद्युक्तः विज्ञातुमित्यभिप्रायः ॥ ३४॥ मनसः सुषुप्तस्य समाहितस्य च प्रचारभेदोऽस्तीत्युक्तम् । तत्र हेतुमाह- लीयते हि सुषुप्ते तन्निगृहीतं न लीयते ॥ तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥ लीयत इति ॥ लीयते हि यस्मात् सर्वाभिरविद्यादिप्रत्ययबीज- वासनाभिः सह तमोरूपम् अविशेषरूपं बीजभावमापद्यते । तद्विवेक- विज्ञानपूर्वकं निरुद्धं निगृहीतं सन्न लीयते तमोबीजभावं नापद्यते। त- स्मायुक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनस इत्यर्थः । समाहि- तस्य मनसो द्वैतवर्जितस्य स्वरूपं कथयति ॥ तदेवेति ॥ यदा ग्राह्य- ग्राहकाविद्याकृतमलद्वयवर्जितं तदा परमद्वयं ब्रह्मैव तत्संवृतमित्यत- स्तदेव निर्भयं शान्तमभयं ब्रह्म ज्ञप्तिर्ज्ञानमात्मस्वभावचैतन्यं तदेव ज्ञानमालोकः प्रकाशो यस्य तद् ब्रह्म ज्ञानालोकं विज्ञानैकरसघन स- मन्ततः समन्तात् सर्वतो नैरन्तर्येण व्योमवद् व्यापकमित्यर्थः ॥ ३५ ॥ प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति- अजमनिद्रमस्वप्नमनामकमरूपकम् ॥ सकृतिभातं सर्वशं नोपचारः कथश्चन ॥ ३६॥ अजमित्यादिना ॥ जन्मनिमित्ताभावात् सबाह्याभ्यान्तरमजम्, अत एवानिद्रम् अविद्यालक्षणानादिमायानिद्रास्वापात् प्रबुद्धोऽवय- स्वरूपेणात्मना । अतोऽस्वप्नमन्यथाग्रहवर्जितमविद्याकृते नामरूपे यस्य नस्तस्तद् ब्रह्माऽनामकमरूपकम् । यतो वाचो निवर्तन्त इत्या- दिश्रुतेः । सकृद्विभातं सदैव विभातं भारूपमत एव सर्वच तज्ज्ञस्व- रूपं चेति सर्वज्ञमित्यर्थः । विदुषो निरुद्धमनसो ब्रह्मस्वरूपावस्थानमु- ६ माण्डूक्योपनिषत्कारिकाव्याख्या तम् । ये तु विदुषोऽपि समाध्यादि कर्तव्यमाचक्षते तान् प्रत्याह ॥ नेति ॥ नेह ब्रह्मण्येवंविधे उपचरणमुपचारः कर्तव्यसंभवः । कथञ्चि- दपि नित्यशुद्धमुक्तस्वभावत्वाद् ब्रह्मण इत्यर्थः ॥ ३६ ॥ विद्वानेव ब्रह्मेत्यङ्गीकृत्य प्रकृतं ब्रह्म पुंल्लिङ्गत्वेन निर्दिशति- सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ॥ सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७॥ सर्वति॥ अभिलप्यतेऽनेनेत्यभिलापःकरणम् । तस्माद्विगतः सर्व- बाह्यकरणवर्जितः । तथा, सर्वचिन्तासमुत्थितः ॥ चिन्त्यतेऽनयेति चिन्ता बुद्धिः । तस्याः समुत्थितः । अन्तःकरणवर्जितः । अप्राणो ह्यमनाः शुभ्र इति श्रुतेः । यस्मात् सर्वान्तर्बाह्यविशेषवर्जितः। अतः सुप्रशान्तः सकृज्योतिः सदैव ज्योतिरात्मा चैतन्यस्वरूपेण । अत एव, समाधिः ॥ समाधिनिमित्तप्रज्ञावगम्यत्वात् समाधीयतेऽस्मिन्नि- ति वा समाधिः ॥ अचलः अविक्रियः। अत एवाभयो विक्रियाभावा- दित्यर्थः॥ ३७॥ प्रकृते ब्रह्मण्यविक्रिये विधिनिषेधाधीनयोर्वेदिकयोर्वा लौकिकयो- र्वा हानोपादानयोरनवकाशत्वमित्याह- ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते ॥ आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८॥ ग्रहो नेति ॥ यस्माद् ब्रह्मैव समाधिरचलः, अभय इत्युक्तम् । अतो न तत्र तस्मिन् ब्रह्मणि ग्रहो ग्रहणम् उपादानं, नोत्सर्ग उत्सर्जनं हानं वा विद्यते। विकारहेतोन्यस्याभावान्निरवयवत्वाञ्चेत्यर्थः। चिन्ता यत्र न विद्यते सर्वप्रकारैव चिन्ता न संभवति । मनोऽविषयत्वात् । कुतस्तत्र हानोपादाने !! इत्याह ॥ चिन्तेति॥ ब्रह्मणि ज्ञाते फलितमाह ॥ आत्म- ति ॥ यदैवात्मसत्यानुबोधो जातस्तदैवात्मसंस्थं विषयाभावादग्न्यु- ष्णत्ववदात्मन्येव स्थितं ज्ञानमित्यर्थः । प्रकरणादौ प्रतिज्ञातमुपसं- हरति ॥ अजातीति ॥ जातिवर्जितं समतां गतं परं साम्यमापन्नं भव- ति । यदादी प्रतिज्ञातम्, अतो वक्ष्याम्यकार्पण्यमजाति समतांगत- मिति ॥ इदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंहृतमित्यर्थः ॥ ३८ ॥ परमार्थब्रह्मस्वरूपावस्थानफलकं चेद्वैतदर्शनं किमिति तर्हि सवै. .

मिताक्षरा । अद्वैताख्यं प्रकरणं ३ तृतीयम् । रेव नाद्रियते, तत्राह- अस्पर्शयोगो वै नाम दुर्दशःसर्वयोगिभिः ॥ योगिनो बिभ्यति यस्माद्भये भयदर्शिनः ।। ३९ ॥ अस्पर्शति ॥ सर्वसंबन्धाख्यस्पर्शवर्जितत्वादस्पर्शः। स एव योगो जीवस्य ब्रह्मभावेन योजनाद् नाम वै स्मर्यते प्रसिद्ध उपनिषत्सु, न लिप्यते कर्मणा पापकेनेत्याद्यासु । दुःखेन दृश्यत इति दुर्दर्शः सर्वै- योगिभिः॥ वेदान्तविहितविज्ञानरहितैः सर्वयोगिभिरित्यर्थः ॥ परमा- ऽर्थतत्त्वं कर्मनिष्ठानां बहिर्मुखानां दुर्दर्शनमित्यत्र हेतुमाह ॥ योगिन इति ॥ कर्मिणो हि श्रोत्रिया ब्राह्मण्याद्यस्माकं नयतीति मत्वाऽस्मा- त्तत्त्वज्ञानाद् बिभ्यति भयं कुर्वन्ति । अभयेऽस्मिन् भयदर्शिनः ॥ भय- निमित्तात्मनाशदर्शनशीला अविवेकिन इत्यर्थः ॥ ३९ ॥ उत्तमदृष्टीनामद्वैतदर्शनमद्वैतहष्टिफलं च मनोनिरोधमुक्त्वा मन्द- दृष्टीनां मनोनिरोधाधीनमात्मदर्शनमुपपादयति- मनसो निग्रहायत्तमभयं सर्वयोगिनाम् ॥ 'दुःखक्षयः प्रबोधश्चाप्यऽक्षया शान्तिरेव च ॥ ४० ॥ मनस इति ॥ सर्वेषां योगिनां कर्मानुष्ठाननिष्टानां बुद्धिशुद्धिमता- मभयमशेषभयनिवृत्तिसाधनमात्मदर्शनं मनोनिरोधाधीनं भवतीत्य- ऽर्थः । मनोनिरोधाधीनं प्रागुक्तमनूद्य तत्फलं कैवल्यं कथयति ॥ दुः- खेति ॥ दुःखक्षयोऽपि आत्मप्रबोधश्च मनोनिग्रहायत्त एव । तथा अक्षयाऽपि मोक्षाख्या शान्तिस्तेषां मनोनिग्रहायत्तैवेत्यर्थः ॥४०॥ कथं मुमुक्षूणां जिज्ञासूनां मनोनिग्रहः सिद्धोदित्याशङ्कयाह- उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिन्दुना ॥ मनसो निग्रहस्तबद्भवेदपरिखेदतः ॥ ४१ ॥ उत्सेक इति ॥ मनोनिग्रहोऽपि तेषामुदधेः कुशाग्रेणैकाबन्दुना उत्सेचनेन शोषणव्यवसायवद् व्यवसायवतां संयतान्तःकरणानाम- निर्वेदाद् ब्रह्म नास्तीत्युद्धेगवर्जनादपरिखेदतोऽनायासेन भवती- त्यर्थः॥४१॥ समाधि कुर्वतस्तत्त्वसाक्षात्कारप्रतिबन्धका लयविक्षेपसुखरागा- - माण्डूक्योपनिषत्कारिकाव्याख्या - स्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समाधि- साफल्यानुपपत्तेरित्याह- उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ॥ सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥ उपायेनेति॥अंपरिखिन्नव्यवसायवान् स वक्ष्यमाणेनोपायेन काम- भोगविषयेषु विक्षिप्तं मनो निगृह्णीयाग्निरुन्ध्यादात्मन्येव । लीयते- ऽस्मिन् स्थानद्वयमिति सुषुप्तो लयः। तस्मिन् लये व सुप्रसन्नमायास- वर्जितमपि निगृह्णीयादित्यर्थः । लये सुप्रसन्नं चेत् कस्मानिगृह्यत इत्याशङ्कयाह ॥ यथेति ॥ यस्माद्यथा कामोऽनर्थहेतुस्तथा लयोऽप्यतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यमित्यर्थः ॥ ४२ ॥ उपायेन निगृह्णीयादित्युक्तम् । तमेवोपायं वैराग्यरूपमुपदिशति- दुःखं सर्वमनुस्मृत्य कामभोगानिवर्तयेत् ॥ अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥ दुःखमिति ॥ सर्वद्वैतमविद्याविजृम्भितं दुःखमेवेत्युनुस्मृत्य काम- भोगात् कामनिमित्तो भोग इच्छाविषयस्तस्माद्विप्रसृतं मनो निवर्तये; द् वैराग्यभावनयेत्यर्थः । ज्ञानाभ्यासाख्यमुपायान्तरमुपन्यस्यति । अजमिति ॥ अजं ब्रह्म सर्वमित्येतच्छास्त्राचार्योपदेशतोऽनुस्मृत्य त- द्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥ ४३॥ ज्ञानाभ्यासवैराग्याभ्यां लयाद्विक्षेपाच्च व्यावर्तितं मनो रागप्रति- बद्धं श्रवणाद्यभ्यासप्रसृतसंप्रज्ञातसमाधिनाऽसंप्रज्ञातसमाधिपर्यन्तेन ततोऽपि प्रतिबन्धाद् व्यावर्तनीयमित्याह- लये संबोधयेच्चित्तं विक्षिप्तं शमयेत् पुनः॥ सकषायं विजानीयात् समप्राप्तं न चालयेत् ॥ ४४॥ लय इति ॥ एवमनेन श्रवणाद्यभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं चित्तं मनः संबोधयेद् आत्मविवेकदर्शनेन योजयेत् । वि. क्षिप्तं च कामभोगेषु विप्रसृतं शमयेद् व्यावर्तयेत् ॥ पुनः, एवं पुनः पुनरभ्यासतो लयात् संबोधितं विषयेभ्यश्च व्यावर्तितं ब्रह्मभावं चा- नापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानी- यात् । ततोऽपि यत्नतः साम्यमापादयेत् । यदा तु समप्राप्तं सम- - मिताक्षरा । अद्वैताख्यं प्रकरण ३ तृतीयम् । प्राप्त्यभिमुखीभवति तदनन्तरं न विचालयेद् विषयाभिमुखं न कुर्या- दित्यर्थः ॥४४॥ तत्र समाध्यवस्थायां समाधिसतो योगिनो यत्सुखं जायते त- नास्वादयेत् तत्र नानुरज्येत । तद्विषयाभिलाषादपि मनो निरोद्धव्य- मित्याह- नाऽऽस्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ॥ निश्चलं निश्चरञ्चित्तमेकीकुर्यात् प्रयत्नतः॥ ४५ ॥ नास्वादयेदिति ॥ किन्तु तस्यामवस्थायां सुखं यदुपलभ्यते तद- ज्ञानविजृम्भितं मिथ्यैवेति प्रज्ञया विवेकविज्ञानेन निःस्पृहो यथोक्ते सुखेऽनुरागरहितः सन् भावयदित्याह ॥ निःसङ्ग इति ॥ किञ्च य- ञ्चित्तं प्राचीनवैराग्याद्युपायेन निश्चलं प्रत्यगात्मप्रवणं प्रसाधितं तद्य- दि निश्चरत्स्वभावानुसारेण बहिर्निर्गन्तुमिच्छेत्तदा संप्रज्ञातसमाधे- रसंप्रज्ञातसमाधिपर्यन्तात् प्रयत्नात्तदात्मन्येवैकीकृत्य तन्मात्रमापाद्य परिशुद्धपरिपूर्णब्रह्मात्मकोऽहमिति तिष्ठेदित्याह । निश्चरदिति ॥४५॥ कदा पुनरिदं चित्तं ब्रह्ममात्रमापद्यते तत्राह- यदा न लीयते चित्तं न च विक्षिप्यते पुनः॥ अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६॥ यदेति ॥ यथोक्तेनोपायेन निगृहीतं सुषुप्तौ न लीयते, न च पुन- विषयेषु विक्षिप्यते ॥ अनिङ्गनमचलं निर्वातप्रदीपकल्पमनाभासं, न केनचित् कल्पितेन विषयभावेनावभासते, किन्तु ब्रह्माकारेणेत्ये- वल्लक्षणं चित्तं यदा संपद्यते तदा निष्पन्नं ब्रह्मस्वरूपेण चित्तं भवती- त्यर्थः॥४६॥ असंप्रज्ञातसमाध्यवस्थायां येन रूपेण चित्तमभिनिष्पद्यते तद् ब्रह्मस्वरूपं विशिनष्टि- स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।। अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥४७॥ स्वस्थमिति ॥ यथोक्तं परमार्थसुखमात्मसत्यानुवोधलक्षणं स्व- स्थं स्वात्मनि स्थितं शान्तं सर्वानर्थोपशमरूपं सनिर्वाणं निवृत्ति:

माण्डूक्योपनिषत्कारिकाध्याख्या
निर्वाणं कैवल्यं सह निर्वाणेन वर्तते । तच्चाकथ्यं न शक्यते कथयितु-
म् । क्षीरगुडादिमाधुर्यभेदस्येव मूकस्य तस्य स्वानुभवमात्राधिगम्य-
त्वात् । सुखमुत्तमं निरतिशयं हि तद् योगिप्रत्यक्षमेव । न जात-
मित्यजम् । यथा विषयविषयम् । अजेनानुत्पन्नेन शेयेन ब्रह्मणाऽव्य-
तिरिक्तं सत् स्वेन सर्वज्ञरूपेण सर्वशं ब्रह्मैव सुखं परिचक्षते कथयन्ति
ब्रह्मविद इत्यर्थः॥४७॥
उक्तानामुपायानां परमार्थसत्यत्वे सत्यद्वैतहानिरन्यथा तद्प्र-
मितिरित्याशङ्ख्याह-
न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते॥
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८ ॥
इति श्रीगौडपादीयकारिकासु अद्वैताख्यं तृतीयं
प्रकरणम् ॥ ३ ॥ ॐ तत्सत् ।।
न कश्चिदिति ॥ सर्वोऽप्ययं मनोनिग्रहादिर्मूलोहादिवत् सृष्टिरुपासना
चोक्ता परमार्थस्वरूपप्रतिपत्त्युपायत्वेन,न तु परमार्थसत्येति । परमार्थ-
सत्यं तु नकश्चिजायते जीवःकर्ताभोक्ता नोत्पद्यते केनचिदपि प्रकारेण
अतः स्वभावतोऽजस्यात्मनः संभवः कारणं न विद्यते । नास्ति
यस्मादस्य कारणं तस्मान्न कश्चिजायते जीव इत्येतत् पूर्वेषु ग्रन्थेषु
उपायत्वेनोक्तानां प्रातीतिकसत्यानामेतदुत्तमं सत्यम् । यत्र यस्मिन्
सत्यस्वरूपे ब्रह्मण्यणुमात्रमपि किञ्चिन्न जायते। तदेतदुत्तमं सत्यमि-
त्यर्थः॥४८॥
इति श्रीगौडपादीयवार्तिकवृत्तौ अद्वैताख्यं तृतीयं प्रकरणम् ॥३॥

अथ अलातशान्त्याख्यं प्रकरणं चतुर्थम् ॥ ४ ॥ ॐडारनिर्णयद्वारेणाऽऽगमतःप्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेद- वैतथ्याश्च सिद्धस्य पुनस्तृतीये शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्यै- त तदुत्तमं सत्यमित्युपसंहारः कृतोऽतस्तस्यैतस्यागमार्थस्याद्वैतदर्शन- स्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च । तेषां चान्योन्याविरोधाद् रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् । क्लेशाना- स्पदत्वादात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यद्वैतदर्शनस्तुतये । तदिह विस्तरेणान्योन्यविरुद्धतया असम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेना- द्वैतदर्शनसिद्धिरुपसंहर्तव्या व्यतिरेकेण- यन्नानित्यं न तत्कृतकमि- त्येवंरूपेणेत्यलातशान्तिरारभ्यते । तत्राद्यन्तमध्यमङ्गला ग्रन्थाः प्र- चारिणो भवन्तीत्यभिप्रेत्याद्ये चोङ्कारोच्चारणवदन्ते परदेवताप्रणामव- न्मध्येऽपि परदेवतारूपमुदेष्टारं प्रणमति- ॐम् ॥ज्ञानेनाऽऽकाशकल्पेन धर्मान् यो गगनोपमान् ॥ ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ १॥ ज्ञानेनेति ॥ आकाशेन ईषदसमाप्तमाकाशकल्पमाकाशतुल्यम् । तेनाकाशकल्पेन ज्ञानेन ज्ञेयैर्धर्मेरात्मभिरभिन्नमग्न्यौष्ण्यवत् सवितृ- प्रकाशवञ्च ज्ञानं, तेन ज्ञेयाभिन्नेन धर्मान् आत्मनो गगनोपमान् गगन- मुपमा येषां ते गंगनोपमास्तानात्मनो धर्मान् यः सम्बुद्धवानित्ययमेव ईश्वरो नारायणाख्यः । तं वन्दे अभिवादये । द्विपदां वरं, द्विपदोप- लक्षितानां पुरुषाणां वरं प्रधानं पुरुषोत्तममित्यभिप्रायः । तदेवमुप- देष्टुनमस्कारमुखेन ज्ञान यज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्र- करणे प्रतिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवतीति फलि- तम् ॥ १॥ इदानीमद्वैतदर्शनयोगस्तुतये तं नमस्कारं प्रस्तौति मुमुक्षूणां तत्साधनेषु प्रवृत्त्यर्थमित्याह- अस्पर्शयोगो वै नाम सर्वसत्त्वसुग्खो हितः॥ अविवादोऽविरुद्धश्च देशितस्तं नमाम्यम् ॥२॥ अस्पर्शेति ॥ स्पर्शन सम्बन्धो न विद्यते यस्य योगस्य केनचित् , माण्डूक्योपनिषत्कारिकाव्याख्या कदाचिदपि सोऽस्पर्शयोगो ब्रह्मस्वभाव एव वै नामति ब्रह्मविदा. मस्पर्शयोग इत्येवं प्रसिद्धः। स च सर्वेषां सत्वानां देहभृतां सुखयती- ति सर्वसत्त्वसुखो भवति । कश्चिदत्यन्तसुखसाधनविशिष्टोऽपि दुःख- रूपः । यथा तपः । अयं तु न तथा। किन्तु सर्वसत्त्वानां सुखः । तथेह भवति कश्चिद्विषयोपभोगः सुखो, न हितः । अयं तु सुखो हितश्च नित्यमप्रचलितस्वभावत्वात् । किञ्चाऽविवादः । विरुद्धवदनं विवादः पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते सोऽविवादः । कस्माद् यतोऽविरुद्धश्च ॥ न हि कस्यचिदात्मप्रकाशो विरुद्धः । य ईदृशो योगो देशित उपदिष्टः शास्त्रेण, तं नमाम्यहं प्रणमामीत्यर्थः॥२॥ अद्वैतदर्शनस्याविरुद्धत्वेनाविवादत्वं विशदीकर्तु द्वैतिनां विवादं तावदुदाहरति- भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि ॥ अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥३॥ भूतस्येति ॥ भूतस्य विद्यमानस्य वस्तुनो जातिमुत्पत्तिमिच्छन्ति वादिनः केचिदेव हि सांख्याः, न सर्व एव द्वैतिनः। यस्मादभूतस्या- विद्यमानस्यापरे वैशेषिकानैयायिकाश्च धीराधीमन्तःप्रज्ञाभिमानिनो जातिमिच्छन्तीत्यर्थः। एवं विरुद्धं वदन्तो मिथोजेतुमिच्छन्तीत्याह ।। विवदन्त इति ॥ विरुद्धं वदन्तो बन्योन्यमिच्छन्ति जेतुमित्यर्थः ॥३॥ तैरेवं विरुद्धवदनेनान्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवतीत्युच्यते- भूतं न जायते किश्चिदभूतं नैव जायते ॥ विवदन्तो दया ह्येवमजाति ख्यापयन्ति ते ॥४॥ भूतमिति ॥ भूतं विद्यमानं वस्तु न जायते किञ्चिद्विद्यमानत्वा- देव आत्मवदित्येवं वदन्नसद्वादी सांख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतमविद्यमानमविद्यमानत्वाद् नैव जायते, शशविषाणवदित्येवं वदन् सांख्योऽप्यसद्वादिपक्षमसजन्म प्रतिषेधति ॥ विवदन्तो विरुद्ध वंदन्तो, द्वया वतिनोऽप्येतेऽन्योन्यस्वपक्षी सदसतोर्जन्मनी प्रतिषेध- न्तोऽजातिमनुत्पत्तिमर्थात् ख्यापयन्ति प्रकाशयन्ति ते इत्यर्थः॥४॥ तर्हि प्रतिवादिभिरुक्तत्वादजातिरपि भवता प्रत्याख्येयेत्याशङ्कयाह- - मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । ४९ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् ॥ विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥ ख्याप्यमानामिति ॥ तैरेवं ख्याप्यमानामजातिमेवमस्त्वित्यनुमोदा- महे केवलं, न तैद्वैतवादिभिः सार्द्ध विवदामः । पक्षप्रतिपक्षपरि- ग्रहणेन, यथा तेऽन्योन्यमित्यभिप्रायः । प्रतिवादिभिः सह विवादा. ऽभावे फलितमाह ॥ अविवादमिति ॥ अतस्तमविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिर्निबोधत, हे शिष्या इत्यर्थः ॥ ५ ॥ जातस्यैव जन्मानर्थक्यादनवस्थानाधाजातस्यैव पदार्थस्य जन्म सद्वादिनोऽसद्वादिनश्च सर्वेऽपि स्वीकुर्वन्तीति परपक्षमनुवदति- अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।। अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥६॥ अजातस्यति ॥ तत्र शिष्टाभीष्टं दोषं प्रदाऽभ्यनुजानाति । अ- जातो हीति ॥ अवशिष्टानि श्लोकाक्षराणि तृतीये व्याख्यातत्वान्न पुनर्व्याख्यानसापेक्षाणीति ध्येयम् ॥ ६ ॥ परिणामिब्रह्मवादे यद् ब्रह्मवादिभिर्दूषणमुच्यते तदप्यनुशातमेवे- ति मत्वाह- न भवत्यमृतं मयं न मयममृतं तथा ॥ प्रकृतेरन्यथाभावो न कथश्चिद्भविष्यति ॥ ७ ॥ न भवतीति ॥ अमृतं हि ब्रह्म न तदूपे स्थिते मयं भवितुमर्हति। स्थितरूपविरोधात् । न च मयं कार्य स्वरूपे स्थिते प्रलयावस्थाया- ममृतं ब्रह्म सम्पद्यते । नष्टेऽपि स्वरूपे तस्यैवाभावात्तु नान्यथात्वाम- त्यभिप्रेत्याह । प्रकृतेरिति ॥ ७ ॥ किश्च यस्य परिणामवादिनः स्वभावेनामृतः सन् परमात्माग्यो धर्मशब्दितो भावो मर्त्यतां कार्यभावापत्त्यागच्छति तस्य कृतकेन समुच्चयानुष्ठानेनाऽमृतो जीवो मुक्तो वक्तव्यः । स च कथं निश्चलः स्थातुं पारयति । यत् कृतकं तदनित्यमिति न्यायविरोधादित्याह- स्वभावेनाऽमृतो यस्य धर्मो गच्छति मर्त्यताम् ।। 'कृतकेनाऽमृतस्तस्य कथं स्थास्यति निश्चलः ॥८॥ स्वभावेनेति ॥ तृतीये उक्तार्थानां श्लोकानामिहोपन्यासः परवादि- - ७ माण्डूक्योपनिषत्कारिकाव्याख्या पक्षाणामन्योन्यविरोधख्यापितानुत्पत्त्यनुमोदनप्रदर्शनार्थ इति न पौनहत्यमित्यर्थः ॥ ८॥ प्रकृतेरन्यथाभावो न कथञ्चिदित्युक्तम् । तत्र प्रकृतिशब्दार्थ कथ- यति- सांसिद्धिकी स्वाभाविकी सहजा अकृता च या॥ प्रकृतिः सति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥ सांसिद्धिकीति ॥ सम्यक् सिद्धिः संसिद्धिः साङ्गयोगमनुष्ठाय परिसमापनम् । तत्र भवा सांसिद्धिकी । यथा योगिनां सिद्धाना- मणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः । सा भूतभविष्यत्कालयोरपि योगिना न विपर्येति । तथैव हि सा । तथा स्वाभाविकी द्रव्यस्वभावत एव सिद्धा । यथाऽग्न्यादीनामुष्णप्रकाशादिलक्षणा । साऽपि न कालान्तरे व्यभिचरति देशान्तरे या । तथा सहजा आत्मना सहैव जाता। यथा पक्ष्यादीनामाकाशगमनादिलक्षणा । अभ्यापि याकाचिदकृता केनचिन्न कृता । यथाऽपां निम्नप्रदेशगमनादिलक्षणा । अन्याऽपि याकाचित् स्वभावं न जहाति सा सर्वा प्रकृतिरिति विज्ञेया। लोके मिथ्याकल्पितेष्वपि लौकिकेषु वस्तुषु प्रकृति न्यथा भवति, किमुत अजस्वभावेषु परमार्थवस्तुष्वऽमृतत्वलक्षणा प्रकृति न्यथा भवतीति भावः॥९॥ प्रासङ्गिकीमेव जीवानां प्रकृतिं दर्शवितुं प्रक्रमते- जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः। जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥ जरेति ॥ सर्वे धर्मा आत्मानो अरामरणादिसर्वक्रियावर्जिताः स्वभावतः प्रकृतितो भवन्तीत्यर्थः। तेषामुक्तप्रकृतेरन्यथात्वे का क्षति- रित्याशङ्कयाह ॥ जरामरणमिति ॥ एवं स्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इव इच्छन्तो रज्ज्वामिव सर्पमात्मनि कल्पयन्त- इच्यवन्ते स्वभावतश्चलन्ति ॥ तन्मनीषया जन्ममरणचिन्तया तद्भाव- भावितत्वदोषेणेत्यर्थः ॥१०॥ प्रासङ्गिक परित्यज्य सांख्यपक्षे वैशेषिकादिभिरुच्यमानं दूषण- मभ्यनुज्ञातमनुभाषते- मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । कारणं यस्य वै कार्य कारणं तस्य जायते ॥ जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥ कारणमिति ॥ यस्य वादिनो मते कारणमेव कार्याकारण परिया- मते तस्याजमेव सत् प्रधानादिकारणं महदादिकार्यरूज जायत इति स्यादित्यर्थः । भवत्वजस्य जायमानत्वं, का क्षतिरित्याशया- ऽजं प्रधानमिति प्रतिक्षा हीयेत, जायमानं चाजमिति लावाविर कथमेका स्याद्, न कथमपीत्याह ॥ जायमानमिति ॥ नित्यं प्रधान- मिति च प्रतिज्ञा तेषाम् । साऽप्यजत्ववदसम्भवी । महदादिकार्या- कारेण भिन्नं विदीर्ण स्फुरितमेकदेशेन तत्प्रधानं कथं नित्यं भवेत् । न हि सावयवं घटादि एकदेशस्फुटं धर्मि नित्यं च दृष्टं लोके । वि. प्रतिषिद्धत्वादित्याह ।। भिन्नभिति ॥ ११ ॥ किञ्च कार्यकारणयोरभेदे किं कारणाभिनं कार्य, किंवा कार्या- ऽभिन्न कारणमिति विकल्प्याद्यमनुवदति- कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि ॥ जायमानाद्धि वै कार्यात् कारणं ते कथं ध्रुवम् ॥१२॥ कारणादिति ॥ अतोऽस्मिन् पक्षे कार्यमजं स्यात् । तथाविध- करणाभिन्नत्वादिति दूषयति ॥अत इति॥ द्वितीयमनुद्रवति ॥यदीति॥ आयमानात् कार्यात् कारणमभिन्नं यदीति योजना । न तर्हि कारणं ध्रुवं भवितुमर्हति । कार्याभिन्नत्वात् । तस्य चाध्रुवत्वादित्याह ॥ कारणमिति ॥१२॥ किञ्च यस्य प्रधानवादिनो मते अजादनुत्पन्नात् प्रधानादभिन्नं कार्य जायते महदादीत्यभ्युपगम्यते तस्य पक्षे तस्मिन्नर्थे पृष्टान्ती वक्तव्यः । तदवष्टम्भेनैव तेनार्थव्यवस्थापनात् । मचात्रोभवसम्प्रति- पन्नो दृष्टान्तो दृष्टोऽस्तीति दोषान्तरमाह- अजादै जायते यस्य दृष्टान्तस्तस्य नास्ति वै॥ जाताच जायमानस्य न व्यवस्था प्रसज्यते ॥१३॥ अजादिति ॥ यद्यजानित्याद्वस्तुनो जायमानमभ्युपगन्तुं न शक्य- ते, जाताच्च प्रधानाज्जायमानस्य महदादेर्जन्म स्यादितीच्छेन नदा तदप्यन्यस्माज्जातात्तदप्यन्यस्मादिति न व्यवस्था प्रसज्यत. अन. - माण्डूक्योपनिषत्क्षारिकाव्याख्या वस्थानं स्यादित्याह || जातादिति ॥ १३ ॥ द्वैतवादिभिरन्योन्यपक्षप्रतिक्षेपमुखेन ख्यापितं वस्तुनोऽजन्यत्व- मद्वैतवादिनाभ्यनुज्ञातम् । इदानीं, यत्र त्वस्य सर्वमात्मैवाभूदिति श्रुत्या विद्वदनुभवेन च सिद्धं द्वैतस्य दुर्निरूप्यत्वमभ्यनुज्ञातमित्याह- हेतोरादिः फलं येषामादिहेतुः फलस्य च ॥ हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥१४॥ हेतोरीत ॥ कारणं कार्य चानादिरिति तेषां प्रतिज्ञान्तरम् । तद- ऽपि दुर्निरूप्यम् । यतो हेतोर्धर्माधर्मादेरादिः कारणं देहादिसङ्घातः फलं येषां वादिनां तथादिः कारणं हेतुर्धर्मादिः फलस्य च देहादि- सङ्घातस्य । एवं हेतुफलयोरितरेतरकार्यकारणत्वेनादिमत्त्वं वद्भिरेव हेतोः फलस्य चानादित्वं कथं तैरुपवर्ण्यते विप्रतिषिद्धम् । न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मकता सम्भवतीत्यर्थः ॥ १४ ॥ हेतुफलयोरन्योन्यमादिमत्त्वं ब्रुवता तदात्मकस्य संसारस्यानादि- मत्त्वं विप्रतिषिद्धमित्युपपादितम् ।सम्प्रति कार्यकारणभावोऽपि तयो- ने सम्भवतीत्याह- हेतोरादिः फलं येषामादिहेतुः फलस्य च ॥ तथा जन्म भवेत्तेषां पुत्राजन्म पितुर्यथा ॥ १५ ॥ हेतोरित्यादिना ॥ हेतुजन्मरूपादेव फलाद्धेतोर्जन्माभ्युपगच्छतां तेषामीशो विरोध उक्तो भवति । यथा पुत्राजन्म पितुरित्यर्थः ॥१५॥ प्रतीतितो हेतुफलयोरुत्पत्तेरुपगन्तव्यत्वान युक्तं तन्निराकरणमि- त्याशङ्कयाह- संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया ॥ युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥ १६ ॥ सम्भव इति ॥ प्रतीतितोऽपि हेतुफलयोः सम्भवे उत्पत्तौ क्रम एषितव्यस्त्वयाऽन्वेष्टव्यः । हेतुः पूर्व पश्चात् फलं चेत्यर्थः। प्रतीत्या क्रमस्वीकारवदुपपत्तेश्चेत्याह ।। युगपदिति ॥ युगपत्सम्भवे यस्माद्धेतुः फलयोः कार्यकारणत्वेनासंबन्धः । यथा युगपत्सम्भवतोः सव्येतर- गोविषाणयोस्तद्वदित्यर्थः॥ १६ ॥ - मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । ५३ , ययोर्युगपत् सम्भवस्तयोर्न कार्यकारणत्वम् । यथा गोविषाण- योरित्युक्तव्याप्तेरनुग्राहकं तर्कमुपन्यस्यति- फलादुत्पद्यमानः सन्न ते हेतुः प्रसिद्ध्यति ॥ अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥ फलादिति ॥ स्वतो हेतुस्वरूपाज्जन्यं फलं तदधीनत्वेन लब्धा- त्मकं, स्वतश्चालब्धात्मकं, सादृशात् फलादुत्पद्यमानः सन्नेष हेतुर्न प्रसिद्ध्यति जन्म न लभते । न खलु शशविषाणादेरसतः सकाशात् किञ्चिल्लुब्धात्मकमुपलभ्यते । हेतुश्चेदसिद्धोऽलब्धात्मकोऽभ्युपगतः स तर्हि तथाविधोऽसद्रूपः सन्न ते तव फलमुत्पादयितुमुत्सहते। न हि सद्वादिमते फलमसतः सकाशादुपलब्धचरम् । अतो हेतुफलभाव- स्यैवासिद्धिरित्यर्थः ।। १७॥ हेतुफलयोस्गपद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शशविषाणयोरिवान्योन्यापेक्षया जन्यजनकत्वं नोपपद्यते । शश- विषाणादिष्वपि प्रसङ्गादित्युक्तम् । इदानीं पुण्यो वै पुण्येन कर्मणा भवतीत्यादिश्रुतेर्धर्मादिषु हेतुफलभावमाशय श्रुतेरसम्भाविताथै प्रामाण्यायोगादवश्यं पौर्वापर्य वक्तव्यामित्याह- यदि हेतोः फलासिद्धिः फलसिद्धिश्च हेतुतः॥ कतरत् पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥१८॥ यदीति ॥ असम्बन्धतादोषणापोदितेऽपि हेतुफलयोः कार्य- कारणभावे यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया, कतरत् पूर्वनिष्पन्नं हेतुफलयोर्यस्य पश्चाद्भाविनः सिद्धिः स्यात् पूर्व- सिध्यपेक्षया तद् बृहीत्यर्थः ॥ १८ ॥ हेतुफलयोरिदं पूर्वमिदं पश्चादिति न ज्ञायते । परस्पराश्रयात् । अतश्चेदं पूर्व निष्पन्नमिति वक्तुमशक्यामित्याह- अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः॥ एवं हि सर्वथा वुद्धैरजातिः परिदीपिता ॥ १९ ॥ अशक्तिरिति ॥ उत्तरावसरे चेत्तदुत्तरापरिज्ञानं तर्हि कथयाऽशक्ति- सूचकं तन्निग्रहस्थानमप्रतिभाभिधानमापततीत्यर्थः । अथवा यो- ऽयं त्वयोक्तः क्रमः हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरिती- माण्डूक्योपनिषत्कारिकाव्याख्या तरेतरानन्तर्यलक्षणस्तस्य कोपो विपर्यासोऽन्यथाभावः प्रतिशाहानि- निग्रहान्तरमापद्यतेत्याह ॥क्रमति॥एवं हेतुफलयोः कार्यकारणभावा- ऽनुपपत्तेरजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिताऽन्योन्य- पक्षे दोषं वद्भिर्वादिभिः पण्डितैरित्याह ॥ एवामिति ॥ १९ ॥ बीजाङ्करयोरिव हेतुफलयोरन्योन्यत्वं, कार्यकारणभावाभ्युपगमा- नान्योन्याश्रयत्वमित्याशङ्कय बीजाङ्कराख्यो दृष्टान्तो यः स साध्येन हेतुफलात्मकेन समस्तुल्योऽन्योन्याश्रयत्वेन सर्वदैवायुक्त इत्याह- बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः ॥ न हि साध्यसमो हेतुःसिद्धौ साध्यस्य युज्यते ॥२०॥ बीजेति ॥ दृष्टान्तस्य साध्यसमत्वेऽपि साधकत्वमस्त्वित्याश- झ्याह ॥ न हीति ॥ न खलु लोके साध्यसमो हेतुः संदिग्धदृष्टान्तः साध्यस्य सिद्धौ सिद्धिनिमित्तं प्रयुज्यते प्रमाणकुशलैरित्यर्थः॥२०॥ कथमन्योन्यपक्षं प्रतिक्षिपद्भिरजातिः परिदीपितेति ? तत्राह- पूर्वापरापरिज्ञानमजातेः परिदीपकम् ॥ जायमानाद्धि वै धर्मात् कथं पूर्व न गृह्यते ॥ २१ ॥ पूर्वापरेति ॥ यदेतद्धेतुफलयोः पूर्वापरापरिक्षानं तचैतदजातेः परिदीपकमवबोधकमित्यर्थः । कार्यस्व गृह्यमाणत्वादजातिरसिद्ध- त्याशङ्ख्य जायमानो हि चेद्धर्मो गृह्यते कथं तस्मात् पूर्व कारणं न गृहाते । अवश्यं हि जायमानस्य ग्रहीत्रा तजनकं ग्रहीतव्यम् । जन्य- जनकयोः सम्बन्धस्यानपेक्षितत्वात् । तस्मादितरेतराश्रयत्वेनाजा- तिपरिदीपकं तदित्याह ॥ जायमानादिति ॥ २१॥ कस्यचिदपि वस्तुनो वस्तुतो जन्म नास्तीति षोढाविकल्पपूर्वक साधयति- स्वतो वा परतो वाऽपि न किचिवस्तु जायते ॥ सदसत् सदसद्वाऽपि न किञ्चिद्वस्तु जायते ॥ २२॥ स्वत इति ॥ स्वयमेव जायमानं कार्य स्वस्मादेव स्वरूपान्न ता- वजायते । कार्यस्य स्वकारणाधीनतया पूर्वमसिद्धत्वात् । अन्यथा स्वसिद्धेः स्वसिद्धिरित्यात्माश्रयात्। न हि घटादेवघटोजायमानो दृष्टः। नापि परतोऽन्यस्मादन्यो जायते । यथा घटात् पटः पटात् पटान्तर-

मिताक्षरा । अलास शान्त्याख्यं प्रकरणं ४ चतुर्थम् ।
-
म् । तथा नोभयतः। विरोधात् । न हि घटपटाभ्यां घटः पटो वा जाय-
मानो दृश्यते सखेद्, न जायते सत्त्वान्मृत्पिण्डादिवत् । यधसत्तथापि
न जायते । असत्त्वादेव । शशविपाणादिवत् । अथ सदसत्तथापि
न जायते । विरुद्धस्यैकस्यासंभवादतो न किञ्चिद्वस्तु जायते इति
सिद्धमित्यर्थः ॥२२॥
वस्तुनो वस्तुतो जन्मराहित्ये हेत्वन्तरमाह-
हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः ॥
आदिन विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥
हेतुर्नेति ॥ नाऽनादेरादिरहितात् फलात् संघातातुर्जायते। सदा
तजन्मप्रसङ्गादित्यर्थः । फलं चादिरहितादनादेहेतोरजाद् धर्मादेः
सकाशात् स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगम्यते ।
दोषसाम्यादित्याह । फलं चेति ॥ निमित्तमन्तरेण हेतुफलयोर्जन्मा-
भावे हेतुमाह ।। आदिरिति । यस्मादादिः कारणं विद्यते यस्य लोके
तस्य धादिः पूर्वोक्ता जातिर्न विद्यते । कारणवत एव ह्यादिरभ्युप-
गम्यते, नाकारणवतः । तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफल-
योरजन्मैवाभ्युपगम्यत इत्यर्थः ॥ २३ ॥
वस्तुनो वस्तुतो जन्मायोगादजं विज्ञानमात्र तत्त्वमित्युक्तमिदा-
नी तस्यैव दृढीकरणचिकीर्षया बाह्यार्थवादमुत्थापयति-
प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः॥
संकेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥
प्रज्ञप्तरिति । प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिः । तस्याः सनिमि-
त्तत्वं सविषयत्वं स्वात्मव्यतिरिक्तविषयतेति प्रतिज्ञायां प्रत्ययवै-
चित्र्यानुपपत्तिं प्रमाणयति ॥ अन्यथेति ॥ ज्ञानस्य निर्विषयत्वे शब्द-
स्पर्शनीलपीतादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतः नाशोऽभावः
प्रसज्येत । अतः स्फटिकस्येव नीलाद्याश्रयैः प्रत्ययवैचित्र्यस्य द-
र्शनात् परेषां तन्त्रं परतन्त्रमित्यन्यशास्त्रं तस्य परतन्त्राश्रयस्य बाह्या-
ऽर्थस्य ज्ञानव्यतिरिक्तस्यास्तिता मताऽभिप्रेतेत्यर्थः। संक्लेशनं संक्लेशो-
इग्न्यादिदाहनिमित्तं दुःखम् । तस्य प्रत्यक्षत्वाञ्च परतन्त्राश्रयस्य
बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तितेत्याह ॥ संक्लेशस्येति ॥ २४ ॥

- माण्डूक्योपनिषत्कारिकाव्याख्या द्वाभ्यामपत्तिभ्यां बाह्यार्थवादे प्राप्ते विज्ञानवादमुद्भावयति- प्रज्ञप्तः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ॥ निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ २५ ॥ प्रझतेरिति ॥ बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसंक्लेशोपलब्धियुक्ति- दर्शनादिष्यते त्वया । तथाऽपि निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य तव घटादेरनिमित्तत्वमनालम्बनत्वं वैचित्र्याहेतुत्वमिष्यतेऽस्माभिः । कथम् ? भूतदर्शनात् परमार्थदर्शनात् । न हि परमार्थभूतमृद्रूपव्यतिरे- केण घटो नामास्ति, पटो वा तन्तुव्यतिरेकेण, तन्तवश्चांशुष्यतिरेकेणे- ति। कुतो बाह्यार्थसत्तेत्याह ॥ निमित्तस्येति ॥ अथवा अभूतदर्शनाद् बाह्यार्थस्यानिमित्तत्वमिष्यते रज्ज्वादाविव सादेस्तत्त्वदर्शिनां स्फुरणातिरिक्तवस्त्वनुपलम्भाद्वैचित्र्यदर्शनं दुःखोपलब्धिश्चार्थाभावे- अपि स्वप्नवद्भ्रान्त्या सङ्गच्छते इत्यर्थः ॥२५॥ यस्मानास्ति बाह्य निमित्तम् अतश्चित्तं न संस्पृशत्यर्थ बाह्या- लम्बनविषयमित्याह- चित्तं न संस्पृशत्यर्थ नार्थाभासं तथैव च ॥ अभूतो हि यतश्चार्थों नार्थाभासस्ततः पृथक् ॥ २६ ॥ चित्तमिति ॥ चित्तस्यार्थस्पर्शित्वाभावेऽपि तदाभासस्पर्शित्वं स्यादित्याशय, नॉप्यर्थाभासं चित्तत्वात् स्वप्नचित्तवदित्याह ॥ न- ति ॥ अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थों यतो- ऽतो न स्वविषयशानजनको भवतीत्याह ॥ अभूत इति ॥ अर्थजन्यत्वा: भावे विज्ञानस्यार्थाभासजन्यत्वं स्यादित्याशय, नाप्यर्थाभास- श्चित्तात् पृथग विद्यते। चित्तमेव हि घटाद्यर्थववभासते, यथा स्वप्ने। ज्ञानजनकत्वं तु तस्य दुरापास्तमित्याह ॥ नार्थेति ॥ २६ ॥ शानस्य सालम्बनत्वाभावे तस्य तथात्वप्रथा भ्रान्तिर्भवेत् । भ्रा- न्तिश्च पूर्वदृष्टसद्वस्तुस्मरणपूर्विकेत्यन्यथाख्यातिमतमाशङ्कय निमित्तं विषयमतीतानागतवर्तमानाध्वसु चित्तं न संस्पृशेदेवे- त्याह- निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ॥ अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥२७॥ त्रिष्वपि सदा मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । निमित्तमिति ॥ कालत्रयेऽपि ज्ञानस्य वस्तुतोऽर्थस्पर्शित्वाभावे तद्वासनाभावात्तजन्यान्यथाख्यातिः सिद्ध्यति । भ्रान्तिस्त्वविद्यया- sपि भविष्यतीत्याह ॥ अनिमित्त इति ॥ तस्मादनिमित्तो विपर्यासः कथं तस्य चित्तस्य भविष्यति । न कथञ्चिद्विपर्यासोऽस्ति । अयमेव हि स्वभावश्चित्तस्य यदुतासति निमित्ते घटादौ तद्वदवभासनमि- त्यर्थः॥२७॥ बाह्यार्थवादिपक्षमेवं विज्ञानवादिमुखेन प्रतिक्षिप्य विज्ञानवाद- मिदानीमपवदति- तस्मान्न जायते चित्तं चित्तदृश्यं न जायते ॥ तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥२८॥ तस्मादिति ॥ यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिनाऽभ्युपगता तदनुमोदितमस्माभिरपि भूतदर्शनात् । तस्मात्तस्यापि चित्तस्य जायमानावभासता सत्येव जन्मनि युक्ता भवितुमित्यतो न जायते चित्तम् । यथा चित्तदृश्यं न जायत इत्यर्थः। प्रतिक्षणं विज्ञानस्य जन्म दृश्यते विज्ञानवादिभिरित्याशय तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनःक्षणिकत्वदुःखित्वशून्यत्वा- ऽनात्मत्वादि, तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनामत इतरेभ्योऽपि द्वैतिभ्योऽत्यन्तसाह- सिका इत्याह ॥ तस्येति ॥ २८ ॥ यदि विज्ञानस्य बाह्यालम्बनत्वक्षणिकत्वादि न सम्भवति, किं तर्हि तत्त्वमेकरूपं सम्भवतीत्याशङ्ख्याजमेकं ब्रह्मति सिद्धमुपसंहरति- अजातं जायते यस्मादजातिः प्रकृतिस्ततः ॥ प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २९ ॥ अजातमिति ॥ यच्चित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्य- ते तदजातं जायते । यस्मादजातिः प्रकृतिस्तस्य । ततस्तस्माद् अजातरूपायाः प्रकृतेरन्यथाभावो जन्म न कथञ्चिद्भविष्यतीत्याह ॥ प्रकृतेरिति ॥ २९॥ कूटस्थं तत्त्वं तात्त्विकमिति वश्चात्मनः संसारमोक्षयोः परमार्थ- सद्भाववादिना दोषान्तरमाह- - माण्डूक्योपनिषत्कारिकाव्याख्या अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति । अनन्तता चाऽऽदिमतो मोक्षस्य न भविष्यति॥३०॥ अनादेरिति ॥ आदिवर्जितस्य संसारस्यान्तवत्त्वं समाप्तिन से. स्थति, युक्तिः सिद्धिं नोपयास्यत्यनादिभावत्वादात्मवादित्यर्थः । तथाऽनन्तताऽधि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्यादिमतो न भ- विष्यति । भावत्वे सत्यादिमत्त्वाद् घटवदित्याह ॥ अनन्ततेति॥३०॥ अस्तु तर्हि मोक्षस्याद्यन्तवत्त्वं तत्राह- आदान्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ चितवैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥३१॥ आदाविति ॥ यदित्यूषरोदकादि गृह्यते । तथा वस्तुतो नास्त्ये- देति शावता । वितथैस्तरेव मरीच्युदकादिभिः सादृश्यमाद्यन्तवत्त्व- म् । विसता मोक्षादयो न परमार्थसन्तो भवितुमर्हन्ति । आद्यन्तव- स्वाद मरीच्युदकादिवदित्यर्थः । कथं तर्हि मोक्षादीनामपि तथात्व- प्रथेत्याशङ्कयाह ॥ अवितथा इति ॥ लक्षिता मूढेरविचारकैरिति शेषः॥ ३१॥ ऊषरोदकादीनां स्नानपानादिप्रयोजनानुपलम्भान्मोक्षस्वर्गादीनां तु सुखादिप्राप्तिप्रयोजनप्रतिलम्भान्न मोक्षादिवैतथ्यमित्याशङ्ख्याह- सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः॥३२॥ सप्रयोजनतेति ॥ तेषां मोक्षादीनामिति यावत्। वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितावतो न पौनरुत्तयमि- त्यर्थः॥३२॥ किञ्च । येन हेतुना स्वप्नस्य मिथ्यात्वमिष्टं तस्य जागरितेपि तुल्यत्वाज्जन्मादिरहितं संविन्मानं तत्वमेष्टव्यमिति विवक्षित्वाह- सर्वे धर्मा मृषा स्वभे कायस्यान्तर्निदर्शनात् ॥ संवृतेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३ ॥ सर्व इति ॥ यदि देहान्तर्दर्शनान्मिथ्यात्वं स्वप्नस्येष्टं तर्हि वैराज- देहे सर्वस्व जागरितस्य दर्शनान्मिथ्यात्वं तुर्वारमित्यर्थः । किञ्च मिताक्षरा । अलातशान्त्याख्यं प्रकरणं चतुर्थम् । - योग्य देशवैधुर्यान्मिथ्यात्व स्वप्नस्य यदभीष्टं तर्हि संवृते प्रदेशे प्रत्य- ग्भूते ब्रह्मण्यखण्डैकरसे भूतानां विद्यमानानां दर्शनं न छुतोऽपि स्याद् ब्रह्मणोऽनवकाशत्वादित्याह ॥ संवृत इति ॥ निमित्तस्यानिमि- तत्वमिप्यते भूतदर्शनादित्ययमर्थः प्रपञ्च्यते, आहायन्ते अत्यारभ्य, जात्याभासमित्यस्मात् प्राक्तनैः श्लोकैरित्यर्थः ॥ ३३ ॥ उक्तमेवार्थ प्रपञ्चयति- न युक्तं दर्शनं गत्वा कालस्यानियमागतौ ।। प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ ३४ ॥ न युक्तमिति ॥ स्वप्ने देशान्तरगतौ नियतकालाभावान गत्वा दर्शनमिष्टम् । तथा मरणादूर्ध्वमर्चिरादिमार्गेण गत्वा ब्रह्मदर्शनमयु- क्तम् । कालानवच्छिन्नत्वादित्यर्थः । किञ्च यद्देशस्थः स्वप्नं पश्यति, प्रतिबुद्धस्तस्मिन् देशे नास्तीति मिथ्यात्वमिष्टम् । तथा यस्मिन् देशे स्थितः संसारमनुभवति ब्रह्मभावं प्रतिपन्नस्तस्मिन् देहदेशे नास्ति । परिपूर्णब्रह्मरूपेणावस्थानादतो जागरितस्यापि मिथ्यात्वमेष्टव्यामि- त्याह ॥ प्रतिवुद्धश्चेति ॥३४॥ किञ्च यथा स्वप्ने विसंवादादप्रामाण्यमिष्टं तथा जागरितेऽपि परं श्रेयोऽस्माभिः साधनीयमिति सब्रह्मवादिभिः सह समालोच्याविद्या- निद्रातः प्रतिबुद्धो नैव श्रेयःसाध्यत्वमालोचितं प्रतिपचते । सर्वस्य नित्यमुक्तत्वनिश्चयादतो मुमुक्षत्वं श्रवणादिकर्तव्यता च झान्त्यैरे- त्याह- मित्राद्यैः सह संमन्व्य संबुद्धो न प्रपद्यते ॥ गृहीतं चापि यत्किश्चित् प्रतिबुद्धो न पश्यति ॥३५॥ मित्रायैरिति ॥ किञ्च स्वप्नवदेव गृहीतमुपदेशादि विद्वान पश्य- ति । तत्साध्यफलाभावादित्याह ॥ गृहीत चेति ॥ अथवा लोकप्रया यत्किञ्चिद् गृहीतं वस्त्रानोदकादि तद्विद्वान्नैव किश्चित् करोमीति प्र- घुद्धोऽन्यप्रत्ययवाधान्न स्वसंबन्धित्वेनाधिगच्छति। तेन तदाभासमात्र- मेवेत्याह ॥ गृहीतं चेति ॥ ३५ ॥ किश्च । स्वप्नावस्थायां येन देहेन नद्यादिषु पर्यटति स मिथ्या । पृथग्भूतस्य निश्चितस्य देहस्य दर्शनात् । तथा जागरितेऽपि येन - ६० माण्डूक्योपनिषत्कारिकाव्याख्या परिव्राजकादिशरीरेण लोकस्य पूज्यो द्वेष्यो वा दृश्यते स मिथ्या कथ्यते । पृथगेव कूटस्थब्रह्माख्यशरीरस्यानुभवादित्याह- स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् ॥ यथा कायस्तथा सर्व चित्तदृश्यमवस्तुकम् ॥ ३६ ॥ स्वप्ने चेति ॥ किञ्च यथा स्वप्ने देहो मिथ्या, तथा चित्तदृश्यं जडं सर्वमवस्तुकं मिथ्याभूतं जागरितेऽपि चित्तदृश्यत्वादेषितव्य- मित्याह ॥ यथेति ॥ ३६॥ कार्यस्य मिथ्यात्वे कारणस्यापि मिथ्यात्वमिति न्यायादपि जाग- रितस्य मिथ्यात्वमित्याह- ग्रहणाजागरितवत्तद्धेतुः स्वम इष्यते ॥ तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७॥ प्रहणादिति ॥जागरितवजागरितस्येव ग्रहणाद् ग्राह्यग्राहकरूपेण स्वप्नस्य तजागरितं हेतुरस्य स्वप्नस्य स स्वप्नस्तद्धेतुको जाग- रितकार्यमिष्यते इष्टमेवातः कार्यमिथ्यात्वात् कारणं मिथ्येत्यर्थः। जागरितस्य विद्यमानत्वानेकसाधारणत्वाभावाश्च मिथ्यात्वमित्याह॥ तद्धेतुत्वादिति ॥ तद्धेतुत्वाजागरितकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागरितं, न त्वन्येषाम् । यथा स्वप्नः स्वप्नदृश एव सन् .साधारणविद्यमानवस्तुवदवभासते तथा तत्कारणत्वात् साधारण- विद्यमानवस्तुवदवभासमान, न तु साधारणं, विद्यमानवस्तुस्वप्नव- देवेत्यभिप्रायः ॥ ३७॥ ननु स्वप्नं प्रति कारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तु- त्वम् । अत्यन्तचञ्चलो हि स्वप्नो, जागरितं तु स्थिरमित्याशङ्कया- ऽविवेकिनामेवमपि, विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धो- इतोऽप्रसिद्धत्वादुत्पादस्यात्मैव सर्वमित्यजं सर्वमुदाहृतं घेदान्तेषु, सबाह्याभ्यन्तरो बज इत्याह- उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।। न च भूताद्भूतस्य संभवोऽस्ति कथञ्चन ॥ ३८॥ उत्पादस्येति ॥ यदपि मन्यसे जागरितात् सतोऽसत्स्वानो जाय- मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । ते इति । तदसत् । न भूताद्विद्यमानादभूतस्यासतः सम्भवोऽस्ति लोके । न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपीत्याह॥ न चेति ॥ ३८॥ ननूक्तं त्वयैव,स्वप्नो जागरितकार्यमिति। तत् कथमुत्पादोऽप्रसिद्ध इत्याशङ्कयासदविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मयः स्वप्नेपि जागरितवद्ग्रााग्राहकरूपेण वि- कल्पयन् पश्यतीत्याह- असजागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ॥ असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥३९॥ असदिति ॥ तथाऽसत् स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति आविकल्पयन् , च-शब्दात्तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचित् । तस्मात् प्रायशो जाग्रद्वासनाधीनत्वाजागरितं स्वप्नहेतु- रुच्यते, न तु परमार्थसदिति न पूर्वापरविरोधइत्याह॥असदिति॥३९॥ व्यवहारदृष्टया कार्यकारणत्वं स्वप्नजागरितयोरुक्तम् । परमार्थ- तस्तु न कस्यचित् केनचिदपि प्रकारेण कार्यकारणभाव उपपद्यत इत्याह- नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा ॥ सच्च सद्धेतुकं नास्ति सद्धेतुकमसत् कुतः ॥ ४०॥ नास्तीति ॥ असच्छशविषाणादि हेतुः कारणं यस्यासत एव खपुष्पादेस्तदसद्धेतुकमसन्न विद्यते इत्यर्थः । सदेव कार्य जायते शून्यादिति शून्यमतमाशय, सदपि घटादि वस्तु असद्धेतुकं, शश- विषाणादिकार्य तथा नास्तीत्याह ॥ सदिति ॥ कार्यकारणयोयो- रपि सत्त्वमिति सांख्यमतमाशङ्ख्य सच्च विद्यमानं घटादि सद्धेतुकं विद्यमानघटादिवस्त्वन्तरकार्य नास्तीत्याह ॥ सञ्चेति ॥ सद्ब्रह्म कारणं मिथ्याप्रपञ्चसृष्टेरित्येकदेशिमतमाशय, सत्कार्यमसत् कुत एव संभवति। न चान्यः कार्यकारणभावः संभवति, शक्यो वा कल्पयितु- मतोऽनिर्वाच्यं मायामयं प्रतीतिमात्र कार्यकारणमित्याह||सदिति॥४०॥ स्वप्नजागरितयोर्वस्तुतो नास्ति कार्यकारणत्वमित्यत्रैव हेत्व- न्तरमाह- , -

-
माण्डूक्योपनिषत्कारिकाव्याख्या
विपर्यासाद्यथा जाग्रचिन्त्यान् भूतवत् स्पृशेत् ॥
तथा स्वप्ने विपर्यासाद्धमस्तित्रैव पश्यति ॥ ४१ ॥
विपर्यासादिति ॥ अविवेकतो यथा जागरितेऽचिन्त्यान् भावान्
अशक्यचिन्तनीयान् रज्जुसर्यादीन् भूतवत् परमार्थवत् स्पृशेत्
स्पृशनिव विकल्पयेत् कश्चिद् यथा तथा स्वप्ने विपर्यासाद्धस्त्यादीन
धर्मान् पश्यन्निव विकल्पयति,तत्रैव पश्यति,न तु जागरितादुत्पन्नाना-
मतो विवेकिनामसिद्ध एव कार्यकारणभावः कस्यचिदित्यभिप्रायः॥४१
तत्त्वदृष्टया कार्यकारणत्वस्याप्रसिद्धत्वे कथं जन्मादिसूत्रप्रमुखैः
सूत्रैर्जगत् कारणं ब्रह्म सूत्रितमित्याशङ्ख्याऽविवेकिनां विवेकोपायत्वेन
कार्यकारणत्वमुपेत्य सूत्रकारप्रवृत्तिरित्याह-
उपलम्भात् समाचारास्तिवस्तुत्ववादिनाम् ।
जातिस्तु देशिता बुद्धरजातेस्त्रसतां सदा ॥ ४२ ॥
उपलम्भादिति ॥ वाऽपि घुबैरद्वैतवादिभिर्जातिदेशितोपदिष्टा ।
उपलम्भनम् उपलम्भस्तस्मादुपलब्धेः समाचाराद् वर्णाश्रमादिधर्म-
समाचरणादाभ्यां हेतुभ्यामस्तिवस्तुत्ववादिनामस्तिवस्तुभावो द्वैत-
स्येत्येवंवदनशीलानां दृष्टाऽऽग्रहवतां श्रद्दधानानां मन्दविवेकिना-
मर्थोपायत्वेन ब्रह्मणः सकाशादशेषं जगद्भवतीत्युपेत्य तदतिरेकेण
जगतोऽभावामेव सर्वमिति निश्चित्य तद्विषयेषु च वेदान्तेषु पौर्वा-
पर्येणालोचितेषु तदभ्यासिनां तेषां तद्भ्यासप्रसाददेव कूटस्था-
ऽद्वितीयात्मविवेको भविष्यतीत्यभिप्रायेण सन्देशिता जातिर्न तु परमा-
ऽर्थबुधा, ये हि श्रोत्रियाः स्थूलबुद्धित्वादजातेरजातिवस्तुनः सदा
अस्यन्त्यात्मनाशं मन्यमाना अविवकिनस्तेषामित्यर्थः। उपायः सो-
ऽवतारायेत्युक्तम् ॥४२॥
उदरमन्तरं कुरुते अथ तस्य भयं भवतीत्यादिश्रुतिभ्यो ब्रह्मणि
विकारदर्शिनां भयप्राप्तिः श्रूयते । तथाच श्रोत्रियाणामपि भेददर्शिनां
नानुग्राह्यतेत्याशङ्कयाह-
अजातेस्त्रसतां तेषामुपलम्भाछियन्ति ये ॥
जातिदोषान सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति॥४३॥

--- - मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । अजातेरिति ॥ ये चैवमुपलम्भात् समाचाराच्चाऽजातेरजाति- वस्तुननसन्तोऽस्ति वस्त्वित्यद्वयात्मनो वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्ते तेषामजातेस्नलतां श्रद्दधानानां सन्मार्गावलम्बिनां जाति- दोषाः जात्युपलम्भकृता दोषा न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति । विवेकमार्गप्रवृत्तत्वात्। न हि कल्याणकृत् कश्चिदिति स्मरणादित्यर्थः। यद्यपि निन्दानुपपत्त्या कश्चिदोषः स्यात् सोऽप्यल्प एव भविष्यति सम्यग्दर्शनाप्रतिपत्तिहेतुको गर्भवासादिलक्षण इत्यभ्यनुजानाति ॥ दोषोऽपीति ॥ ४३॥ ननूपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति चेन्न । उपलम्भसमाचारौ मायामये हस्तिनि वस्तुत्वाभावेऽपि भवत इत्याह- उपलम्भात् समाचारान्मायाहस्ती यथोच्यते ॥ उपलम्भात् समाचारादस्ति वस्तु तथोच्यते ॥४४॥ उपलम्भादिति ॥ उपलभ्यते हि मायाहस्ती। हस्तीव हस्ती । तमिवात्र समाचरन्ति बन्धनाऽऽरोहणादिहस्तिसम्बन्धिभिधमैः । हस्तीतिचोच्यतेअसन्नपि यथा तथैवोपलम्भात् समाचाराद् द्वैतं भेद- रूपमस्तिवस्त्वित्युच्यते । तस्मादुपलम्भसमाचारयोर्व्यभिचारान्न तद्वशाद् द्वैतवस्तुसत्तेत्यर्थः ॥ ४४ ॥ भूतदर्शनावष्टम्भेन निमित्तस्यानिमित्वमुक्तमेतदन्तैः श्लोकैर्वि- प्रपञ्चितम् । संप्रति भूतदर्शनमुपसंहरति- जात्याभासं चलाभासं वस्त्वाभासं तथैव च ॥ अाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥ जात्याभासमिति ॥ अजाति सजातिवदवभासत इति जात्या- भासम् । तद्यथा, देवदत्तो जायते इति । चलाभासं चलनमिवाभासत इति । यथा, स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि तद्वदवभासत इति वस्त्वाभासम् । यथा, स एव देवदत्तो गौरो दीर्घ इति जायते, देवदत्तः स्पन्दते दी| गौर इत्येवमवभासते । परमार्थतस्त्वजमचलमवस्तुत्वमद्रव्यत्वं च। तदेवम्प्रकारं विज्ञानं वि- शाप्तिीत्रादिरहितत्वाच्छान्तमत एवाद्वयं च तदित्यर्थः॥४५॥ एवं कार्यकारणभावस्य दुर्भणत्वादिभ्य उक्तहेतुभ्यो न जायते चित्तं चैतन्यं ब्रह्मेत्युक्तमुपसंहरति- - ६४ माण्डूक्योपनिषत्कारिकाव्याख्या एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः ॥ एवमेव विजानन्तो न पतन्ति विपर्यये ॥४६॥ एवमिति ॥ एवं प्रतिबिम्बानां बिम्बमात्रत्ववञ्चित्प्रतिबिम्बानां जीवानां बिम्बभूतब्रह्ममात्रत्वाद्धर्मा आत्मनोऽजाः स्मृता ब्रह्मविद्भिरि- त्याह ॥ एवमिति ॥ धर्मा इति बहुवचनं देहभेदानुविधायित्वादद्वय- स्यैवोपचारतः । एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्म- तत्त्वं विजानन्तस्त्यक्तबाषिणाः पुनर्न पतन्त्यविद्याध्वान्तसागरे वि- पर्यये । तत्र को मोहः कः शोक एकत्वमनुपश्यत इत्युक्तशानफलमा- ह॥ एवमिति ॥४६॥ विज्ञानमचलमेव जात्याभासं चलाभासं चेत्युक्तम् । तदिदानी दृष्टान्तेन प्रपञ्चयति- ऋजुवक्रादिकाभासमलातस्पन्दितं यथा ॥ ग्रहणग्राहकाभासं विज्ञानं स्पन्दितं तथा ॥४७॥ ऋजुवक्रादिकेति ॥ यथा हि लोके ऋजुवक्रादिप्रकाराभासमलात- स्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषयाभासं विज्ञानं स्पन्दितमविद्यया । न हाचलस्य विज्ञानस्य स्पन्दनमस्ति । अजाचलमिति झुक्तम् ॥ ४७॥ विज्ञानं शान्तमित्युक्तं दृष्टान्तेन स्पष्टयति- अस्पन्दमानमलातमनाभासमजं यथा ॥ अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥४८॥ अस्पन्दमानमिति ॥ स्पन्दनवर्जितं तदेवालातमृज्वाद्याकारणा- ऽजायमानमनाभासमजं यथा तथाऽविद्यया स्पन्दमानमविद्योपरमे अस्पन्दमानं जात्याद्याकारणानाभासमजमचलं भविष्यतीत्यर्थः ॥४८॥ अलातदृष्टान्ते कथम् ऋजुवक्रादीनामसत्त्वमित्याशङ्कायां नि- रूपणासहत्वादित्याह- अलाते स्पन्दमाने वै नाऽऽभासा अन्यतो भुवः॥ न ततोऽन्यत्र निस्पन्दानालातं प्रविशन्ति ते ॥४९॥ अलात इति ॥ यदा खल्वलातं स्पन्दमानमवतिष्ठते तदा तस्मिन् मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । ६५ - अन्यतो देशान्तरादागत्याभासा भवन्तीति न शक्यं वक्तुम् । ऋजु. वाद्याभासानां देशान्तरागमनस्यानवगमात् । यदा तदेवालातं निःस्पन्दनस्पन्दवर्जितं वर्तते तदा ततस्तस्मानिःस्पन्दादलातादन्यत्रा- भासा भवन्तीत्यपि न युक्तं वक्तुम् । अनुपलम्भाविशेषात् । न चा- भासास्तस्मिन्नेव लीयन्ते । तदनुपादानत्वात् । यदि हि स्पन्दन- निमित्तमलातमुपादानं तदा निमित्ताभावमात्रान्नैमित्तिकाभावादर्शना. द् ऋजुवकाद्याकाराः स्पन्दनाभावेऽप्यलाते भवेयुरित्यर्थः॥४९॥ ऋजुवक्राद्याभासानां दृष्टान्ते निर्गमनप्रवेशयोरसम्भवं साधयति- न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः॥ विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ५० ॥ नेत्यादिना ॥न निर्गता अलातात्ते आभासा गृहादिव द्रव्यत्वा- भावयोगतः । द्रव्यस्य भावो द्रव्यत्वं, तद्भावो द्रव्यत्वाभावस्त- स्माद् द्रव्यत्वाभावयुक्तेर्वस्तुत्वाभावात् । वस्तुनो हि प्रवेशादि सं- भवति, नावस्तुनः । विज्ञानेऽपि जात्याद्याभासास्तथैव स्युर्मिथ्यैव भवेयुरित्यर्थः । ऋजुवक्राद्याकारेषु जन्माद्याकारेषु चाभासत्वस्य तुल्यत्वादित्याह ॥ आभासस्येति ॥५०॥ तुल्यत्वं सार्द्धनोत्तरश्लोकेन साधयति- विज्ञाने स्पन्दमाने वै नाऽऽभासा अन्यतो भुवः॥ न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥५१॥ न निर्गतास्ते विज्ञानाद् द्रव्यत्वाभावयोगतः ॥ कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥५२॥ विज्ञान इति॥न हि तस्मिन् विज्ञाने यथाकथञ्चिश्चलनवति ततो. ऽन्यस्मादागत्य जन्माद्याभासास्तत्र भवितुमर्हन्ति । तथा प्रथाभावा. त्। न च तस्माद्विशानादचलतयाऽवस्थितादन्यत्राभासा भवितुमु- सहन्ते । प्रतीत्यभावस्य तुल्यत्वात् । नाऽपि तदेव विज्ञानं प्रविश- न्ति । तस्य केवलस्य तदुपादानत्वानुपगमात् । न च ते विज्ञाने प्रवेष्टुं समर्थास्ततो निर्गन्तुं वा पारयन्ति । तेषामवस्तुत्वादित्यर्थः। अलातेन समं सर्व विज्ञानस्य सदा अचलत्वं तु विज्ञानस्य विशेष- श्चेत्तर्हि तत्र जात्याद्याभासा हेत्वभावान स्युरित्याशयान्तिमान ९ माण्डूक्योपनिषत्कारिकाव्याख्या परिहरति ॥ कार्येति ॥ यत आभासानां विज्ञानस्य च कार्यकारणता. था दुर्वचनत्वादाभासाः सर्वदैव निरूपयितुमशक्यत्वादितो माया- मयाः सन्तो मिथ्यैव भवन्तीत्यर्थः॥५१॥५२॥ यदुक्तं कार्यकारणताभावादिति। तदिदानीमुपपादयितुमुपक्रमते- द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि ॥ द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ५३ ।। द्रव्यमिति ॥ अजमेकमात्मतत्त्वमिति स्थितम् । तत्र यैरपि कार्य- कारणभावः कल्प्यते तेषामवयवद्रव्यमवयविद्रव्यस्यान्यस्यावयवि- गुणस्य शुक्लादेरन्वदवयवगुणोऽशुक्लादि हेतुः कारणं स्यात् । न च द्रव्यत्वं धर्माणामात्मनामुपपद्यते, अन्यत्वं वा कुतश्चियेनान्यस्य कारणत्वं कार्यत्वं च प्रतिपद्यते । अतोऽद्रव्यत्वादनन्यत्वाच्च न कस्य चित् कार्य कारणं चात्मेत्यर्थः ॥ ५३ ।। एवमात्मरूपस्य निर्विकारत्वाद् द्रव्यत्वस्याप्रसिद्धत्वान्न चित्तजा बाह्या घटादयो धर्मा, नौपि बाह्यधर्मजं चित्तं, विज्ञामस्वरूपाभास- मात्रत्वात् सर्वधर्माणामित्याह- एवं न चित्तजा धर्माश्चित्तं वाऽपि न धर्मजम् ॥ एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४॥ एवमिति ॥ यश्च धर्मादेः शरीरादेश्च कार्यकारणभावो विद्वद्- दृष्ट्या पुरस्तानिरस्तः सोऽप्यन्यत्वाभावे, न सिद्ध्यतीत्याह ॥ एव- मिति ॥न हेतोः फलं जायते, नाऽपि फलाद्धेतुरिति हेतुफलयोरजाति हेतुफलाजातिं प्रविशन्त्यध्यवस्यन्त्यात्मनि हेतुफलयोरभावमेव प्रति- पद्यन्ते ब्रह्मविद इत्यर्थः ॥ ५४॥ ये पुनर्हेतुफलयोरभिनिविष्टास्तेषां किं स्यादित्युच्यते- यावद्धतुफलावेशस्तावद्धेतुफलोद्भवः ॥ क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥१५॥ यावदिति ॥ धर्माधर्माख्यस्याहं कर्ता, मम धर्माधौं, तत्फलं कालान्तरे क्वचित् प्राणिनिकाये जातो भोक्ष्य इति यावद्धतुफलयो- रावेशो हेतुफलाग्रह आत्मन्यारोपणं, तच्चित्तता । तावद्धेतुफलयो- रुद्भवो, धर्माधर्मयोस्तत्फलस्व चानुच्छेदेन प्रवृत्तिः । यदा पुनमन्त्री- - मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । पधिवीर्येणेव प्रहावेशो यथोक्ताद्वैतदर्शनेनाविद्योद्भवहेतुफलावेशो- ऽपक्षीणो भवति तदा तस्मिन् क्षीणे नास्ति हेतुफलोद्भवः । कारणा- भावादित्यर्थः ॥ ५५ ॥ अभिनिवेशवशाखेतुफलोद्भवे किं भवति, तदाह- यावद्धतुफलावेशः संसारस्तावदायतः॥ क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥५६॥ यावदिति ॥ सम्यग्दर्शनेन हेतुफलावेशो यावन्न निवर्तते संसार- स्तावदायतो दीपो भवतीत्यर्थः । अभिनिवेशनिवृत्त्या तदनुद्भवे वा किं स्यादित्याशङ्ख्य क्षीणे पुनर्हेतुफलावेशे संसारं न प्रपद्यते। कारणा- भिनिवेशाभावादित्याह ॥ क्षीण इति ॥ ५६ ॥ नन्वजादात्मनोऽन्यन्नास्त्येव । तत् कथं हेतुफलयोः संसारस्य चोत्पत्तिविनाशावुच्येते इत्याशङ्कय संवृत्या संवरणं संवृतिरविद्या- विषयो लौकिको व्यवहारः। तया संवृत्या जायते सर्वमित्याह- संवृत्या जायते सर्व शाश्वतं नास्ति तेन वै ।। सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७ ॥ संवृत्यति ॥ तेनाविद्याविषये शाश्वतं नित्यं नास्ति वै । अत उत्पत्तिविनाशलक्षणः संसार आयत इत्युच्यत इत्याह ॥ शाश्वत- मिति ॥ परमार्थसद्भावेन त्वजं सर्वमात्मैव यस्मादतो जात्याद्यभा- वादुच्छेदस्तेन नास्ति वै कस्यचिद्धतुफलादेरित्याह ॥ सद्भावेनेति ।। तथाच, परमार्थकूटस्थाऽऽत्मदर्शनं मूढदृष्टया व्यावहारिकजन्मादि- वचनेनाविरुद्धमिति भावः ॥ ५७ ।। संवृत्या जायते सर्वमित्युक्तम् । तदिदानी प्रपञ्चयति- धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।। जन्म मायोपमं तेषां सा च माया न विद्यते ॥२८॥ धर्मा इति ॥ येऽप्यात्मानोऽन्ये च धर्मा जायन्ते इति शब्दवाच्य- संवृत्यैव धर्मा जायन्ते, न तत्वतः परमार्थतो जायन्ते । यत्पुनस्तत्सं- वृत्या जन्म तेषां यथोक्तानाम् । यथा मायया जन्म तथा तन्मायोपमं प्रत्येतव्यं जन्म, सा च माया न विद्यते । मायेत्यविद्यमानस्याख्येत्य- भिप्रायः॥५८॥ -

माण्डूक्योपनिषत्कारिकाव्याख्या
-
कथं मायोपमं तेषां धर्माणां जन्मति दृष्टान्तावष्टम्भेन साधयति-
यथा मायामयाबीजाजायते तन्मयोऽङ्कुरः॥
नाऽसौ नित्यो न चोच्छेदी तबद्धर्मेषु योजना ॥१९॥
यथेति॥यथा मायामयादाम्रादिबीजाजायते तन्मयो मायामयो-
ऽङ्करः । नाऽसावधैरो नित्यो, न चोच्छेदी विनाशी वा। अभूतत्वा-
त्। एवं धर्मेषु जन्मनाशादियोजना युक्तिर्न तु परमार्थतो धर्माणां
जन्म नाशो वा युज्यत इत्यर्थः ॥ ५९॥
यदुक्तं सद्भावेन ह्यजं सर्वमिति तत् प्रपञ्चयति-
नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ॥
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥१०॥
नेति ॥ परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्रसत्ताकेषु,
शाश्वतोऽशाश्वत इति वा नाभिधा नाभिधानं प्रवर्तत इत्यर्थः ।
आत्मनि नित्यानित्यकथा नावतरतीत्यत्र हेतुमाह ॥ यत्रेति ॥ वर्ण्यन्ते
यैरास्ते वर्णाः शब्दा यत्र येषु न प्रवर्तन्तेऽभिधातुं प्रकाशयितुमज
इदमेवमिति विवेको विविक्तता, तत्र नित्योऽनित्य इति नोच्यते।
यतो वाचो निवर्तन्ते इति श्रुतेरित्यर्थः ॥ ६०॥
यथा स्वप्ने दयाभासं चित्तं चलति मायया ॥
तथा जाग्रद्वयाभासं चित्तं चलति मायया ॥६॥
आत्मनः शब्दागोचरत्वे कथमसौ व्याख्यातृभिः शब्दैरेव प्रति-
पाद्यतामायातीत्याशय चित्तस्पन्दनमात्रमविचारसुन्दरं प्रतिपाद्य-
प्रतिपादकरूपं द्वैतमिति दृष्टान्तमाह ॥ यथेति ॥ ६१ ॥
स्वप्ने प्रतिपाद्यप्रतिपादकद्वैतस्य चित्तस्पन्दितमात्रत्वेऽपि जाग-
रिते कथं तथा स्यादित्याशङ्कयाह-
अयं च द्वयाभासं चित्तं स्वप्ने न संशयः॥
अवयं च दयाभासं तथा जाग्रन्न संशयः॥६२॥
अद्वयं चेति ॥ तृतीये ग्राह्यग्राहकात्मकस्य जगतोऽद्वयात्ममात्रत्व-
प्रतिपादनार्थों श्लोकावत्र तु प्रतिपाद्यप्रतिपादकात्मकस्य तस्य मनो
मात्रत्वार्थावित्यपौनरुक्त्यम् ॥ ६२ ॥

मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । वाचा गोचरीभूतस्यासत्त्वे हेत्वन्तरमाचक्षाणो दृष्टान्तमाचष्टे- स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजानस्वेदजान्वाऽपिजीवान्पश्यतियान्सदा॥६३ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् ॥ तथा तदृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४ ॥ स्वप्नदृगिति ॥ स्वप्नान् पश्यतीति स्वप्नदृक् । प्रचरत् पर्यटत् स्वप्ने स्वप्न- स्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान् प्राणिनोऽण्डजान् स्वेदजान् वा यान् सदा पश्यति स्वप्नहशश्चित्तं स्वप्नदृचित्तम् । तेन दृश्यास्ते जीवास्तस्मात् स्वप्नचित्तात् पृथग् न विद्यन्ते न सन्ती- त्यर्थः। तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतं ? नेत्याह ॥ तथेति ॥ तदपि स्वप्नचित्तमिदं तदृश्यमेव । तेन स्वप्नदृशा दृश्यं तद्- दृश्यम् । अतः स्वप्नस्थस्य चित्तस्य स्वप्नदृग्व्यतिरेकेण सत्त्वाभावान स्वप्ने वैविध्यकारणतेत्यर्थः ॥ ६३॥ ६४ ॥ दृष्टान्तनिविष्टमर्थ दार्शन्तिके योजयति- चरञ्जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् । अण्डजानस्वेदजान्वाऽपिजीवान्पश्यतियान्सदा॥६५ जाग्रचित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् ॥ तथा तदृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥६६॥ चरन्नित्यादिना ॥ जाग्रतो दृश्या जीवास्तञ्चित्साऽव्यतिरिक्ताः, चित्तेक्षणीयत्वात् स्वप्नदृञ्चित्तेक्षणीयजीववत् । तच्च जीवेक्षणात्मकं चित्तं द्रष्टुरव्यतिरिक्त, द्रष्टदृश्यत्वात् स्वप्नचित्तवत् । तत्र जीव- शब्देन कार्यकरणसङ्घाता गृह्यन्ते । चेतनानां दृश्यत्वाभावादिति द्रष्टव्यम् । अक्षरव्याख्यानं तु दृष्टान्तव्याख्यानेनैव स्पष्टत्वान्न पृथग- अपेक्षितमिति ध्येयम् ॥ ६५ ॥ ६६ ॥ दृश्यदर्शनव्यतिरेकग्राहकप्रमाणप्रतिहतं हेतुद्वयमित्याशदयाह- उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति नोच्यते ॥ लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥६७ ॥ उभे होति ॥ ते हि दृश्यदर्शने उभे परस्परापेक्षसिद्धिके । दृश्ये , माण्डूक्योपनिषत्कारिकाध्याख्या सिद्धे, तदवच्छिन्नं दर्शनं सिद्ध्यति । तस्य च सिद्धौ, तदवच्छिन्नं दृश्यं सिद्ध्यतीत्यन्योन्याश्रयान्न दृश्यं दर्शनं वा सिध्यत्यतो विभागा- ऽवगाहिप्रमाणाभावान्न तद्बाधो हेतुद्वयस्येत्यर्थः। किञ्च सम्भावनायां प्रमाणप्रवृत्तिर्वक्तव्या । न च दृश्यदर्शनयोरन्यतरस्यापि नैरपेक्ष्येण विभागाऽवगाहिप्रमा सम्भवति । अन्योन्याश्रयदोषात् । तथाच परस्परपुरस्कोरण सिधेदुभयं कल्पितमेव स्यादिति मत्वाह ॥ किं तदिति ॥ तदृश्यं दर्शनं वा किमस्तीति पृष्टे विवेकिना नास्तीत्ये- वोच्यते । प्रागुक्तदोषादित्यर्थः । किञ्च प्रामाणिकस्यैव प्रामाणिको भेदः सम्भवति । न च दृश्यदर्शनयोः स्वरूपे प्रमाणमस्तीत्याह ॥ लक्षणेति ॥ लक्ष्यतेऽनयोत लक्षणा प्रमाणम् । प्रमाणशून्यमुभयं चित्तं चैत्यं द्वयमित्यर्थः । कथं तर्हि प्रमाणप्रमेयविभागो वादिभिर्गृह्यते। तन्मतेन तञ्चित्ततादोषेणैव तद् गृह्यते इत्याह ॥ तन्मतेनेति ॥६७ ॥ दृश्यानामण्डजादीनां दर्शनातिरिक्तानामसत्त्वानुमानस्य भेद- ग्राहकप्रमाणवादं परिहत्य दर्शनातिरेकेण तेषामसत्त्वे जन्मादि- प्रत्ययबाधः स्यादित्याशय परिहरति- यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च ॥ तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥६८॥ यथा मायामयो जीवो जायते म्रियतेऽपि च ॥ तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥६९॥ यथा निर्मितको जीवो जायते म्रियतेऽपि वा ॥ तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥७॥ यथेत्यादिना॥मायामयो मायाविना कृतो निर्मितको मन्त्रौषध्या- दिभिर्निष्पादितः। स्वप्नमायानिर्मितका अण्डजादयो जीवा यथा तेषां सत्त्वाभावेऽपि जायन्ते म्रियन्ते इति व्यवहृतिस्तथा मनुष्यादि- लक्षणा अविद्यमाना एव चित्तविकल्पनामात्रा, जायन्ते म्रियन्त इति प्रत्ययो भवत्येवाऽतो नानुमानबाधकता तस्येत्यर्थः॥ ६८ ॥ ६९ ॥७॥ यस्तु जन्मादिसत्त्वमिति मन्यते, तं प्रति प्रागुक्तं स्मारयति- न कश्चिजायते जीवः संभवोऽस्य न विद्यते ॥ एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ७१ ॥ -

मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् ।
७१
न कश्चिदिति ॥ व्यवहारसत्यविषये जीवानां जन्ममरणादिः
स्वप्नादिजीववदित्युक्तम् । उत्तमं तु परमार्थसत्यं नकश्चिजायते जीव
इति तृतीयान्ते व्याख्यातम् ॥ ७१ ॥
संवेदनस्य कल्पितदृश्योपहितरूपेण दृश्यत्वान्न द्रष्टुर्व्यतिरेकेण
सत्त्वमिति स्वप्नदृष्टान्तेनोक्तम् । इदानीं तत्त्वतः संवेदनस्य विषय- .
सम्बन्धाभावादात्मैव संवेदनमित्याह-
चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद् द्वयम् ॥
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२ ॥
चित्तेति ॥ सर्व ग्राह्यग्राहकवञ्चित्तस्पन्दितमेव द्वयं चित्तं परमार्थ-
त आत्मैवेति निर्विषयम् । तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तितं
ब्रह्मनिष्ठैः । असङ्गो ह्ययं पुरुष इति श्रवणात् । सविषयस्य हि विषये
सङ्गः । निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः ॥ ७२ ।।
निर्विषयत्वेन चित्तस्यासङ्गत्वं सङ्गीतम् । तदसङ्गतम् । शास्त्रादे-
विषयस्य सत्त्वादित्याशङ्कयाह-
योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ ॥
परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३ ।।
योऽस्तीति ॥ यः पदार्थः शास्त्रादिर्विद्यते स कल्पितसंवृत्या ।
कल्पिता च सा परमार्थप्रतिपत्त्युपायत्वेन संवृतिश्च । तथा यो-
ऽस्ति परमार्थेन नास्त्यसौ न विद्यते इत्युक्तमित्यर्थः । ननु परमार्थ-
तो वैशेषिकाः षट्पदार्थान् द्रव्यादिसमवायान्तानातिष्ठन्ते । तथाच
चित्तस्य कथमसङ्गत्वम् ? तत्राह ॥ परेति ॥ यश्च परतन्त्राभिसंवृत्या
परशास्त्रव्यवहारेण स्यात् पदार्थः स परमार्थतो निरूप्यमाणे ना-
ऽस्त्येव । तस्माद्युक्तम्, असङ्गं तेन कीर्तितमिति ॥ ७३ ॥
शास्त्रादिभेदकल्पनायाः संवृतिसिद्धत्वे तद्धीनात्मन्यजत्वकल्पना-
ऽपि संवृतिसिद्धैव स्यादित्याशङ्याङ्गीकरोति-
अजः कल्पितसंवृत्या परमार्थेन नाप्यजः॥
परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः॥७४ ॥

माण्डूक्योपनिषत्कारिकाव्याख्या - अज इति ॥ शास्त्रादिकाल्पितसंवृत्यैवाज इत्युच्यते । परमार्थेन नाऽप्यजः । कैवल्यावस्थायां तद्व्यवहाराभावादित्यर्थः । कल्पित- मात्मन्यजत्वमित्यत्र हेतुमाह ॥ परतन्त्रेति ॥ यस्मात् परतन्त्राभि- निष्पत्त्या परशास्त्रसिद्धिं परिणामकल्पनामपेक्ष्य तनिषेधेन योऽज इत्युक्तः स संवृत्या जायते । अतोऽज इतीयमपि कल्पना परमार्थ- विषये नैव क्रमत इत्यर्थः॥ ७४॥ ननु ज्ञानस्य कल्पितशास्त्रादिजन्यत्वे मिथ्यात्वान्नापुनरावृत्ति- फलसाधनत्वं, तत्राह- अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते ॥ द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥७॥ अभूतति॥यस्मादसद् द्वैतविषयस्तस्मादसत्यभूते द्वैतेऽभिनिवेशो- ऽस्ति केवलमभिनिवेश आग्रहमा द्वयं तत्र न विद्यते । मिथ्या- ऽभिनिवेशमानंच जन्मनः कारणं यस्मात्तस्माद् द्वयाभावं बुद्ध्वा नि- निमित्तो निवृत्तमिथ्याद्वयाभिनिवेशो यः स न जायते।मिथ्योपायस्या- ऽपि सत्यत्वसाधनत्वं दृष्टमित्यर्थः॥ ७५॥ निनिमित्तो न जायते इत्युक्तम् । तदेतत् प्रपञ्चयति- यदा न लभते हेतूनुत्तमाधममध्यमान् ॥ तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥७६ ॥ यदेति॥जात्याश्रमविहिताः फलतृष्णारहितैरधिकारिभिरनुष्ठीय- माना धर्माः देवत्वाद्युत्कृष्टजन्महेतव उत्तमाः । प्रधानधर्मा अधर्म- व्यामिश्रा मनुष्यत्वादिमध्यमयोनिप्राप्त्यर्था मध्यमाः। तिर्यगाद्यधम- जन्मनिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्चाधमाः। तानुत्तममध्यमा- ऽधमान् अविद्यापरिकल्पितान् यदा एकमेवाद्वितीयमात्मतत्त्वं सर्व- कल्पनावर्जितं जानन्न लभते न पश्यति यथा बालैदृश्यमानं गगने मलं विवेकी न पश्यति तद्वत् तदा न जायते नोत्पद्यते चित्तं देवाद्या- कारैरुत्तमाधममध्यमफलरूपेण । न ह्यसति हेतौ फलमुत्पद्यते, बीजा- धभाव इव सस्यादिरित्यर्थः ॥ ७६ ॥ तदा न जायते चित्तमिति कालपरिच्छेदप्रतीतेरागन्तुकत्वमाश- झ्य परिहरति- मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । अनिमित्तस्य चित्तस्य याऽनुत्पत्तिः समाऽद्वया ॥ अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७ ॥ अनिमित्तस्येति ॥ परमार्थदर्शनेन निरस्तधर्माधर्माख्योत्पत्तिनिमित्त- स्यानिमित्तस्य चित्तस्याऽजातस्यैव सर्वस्याद्वयस्य या मोक्षाख्याग्नु- त्पत्तिः सा सर्वदा सर्वावस्थासु समा निर्विशेषाद्वया च भ्रमनिवृत्य- ऽपेक्षया तु तदा न जायत इत्युक्तमित्यर्थः । यस्मात् प्रागपि विज्ञाना- च्चित्तदृश्यं तद्वयं जन्म च तस्मात् पूर्वमप्यजातस्यैवानुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्य सर्वदा समाऽद्वयैवानुत्पत्तिर्न पुनः कदाचिद् भवति कदाचिद् वा न भवति, सर्वदैकरूपैवेति हेतुमाह ॥ अजातस्ये- ति ॥ ७७॥ द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायत इत्युक्तम् । तदिदानी प्रपञ्चयति- बुद्ध्वाऽनिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथाऽकाममभयं पद्मश्नुते ॥ ७८ ॥ बुद्ध्वेति ॥ द्वैतस्य दृश्यत्वादिना सर्पवत् कल्पितत्वादेव जन्म- निमित्तस्याभावादनिमित्ततां च सत्यां द्वैताभावोपलक्षितां परमार्थ- रूपां बुद्ध्वा देवादियोनिप्राप्ती धर्मादिहेतुं पृथगसाङ्कZणानाप्नुव- अनुपादानस्त्यक्तबाझैषणः सन् यदा विद्वानवतिष्ठते तदा काम- शोकादिवर्जितमविद्यारहितमभयं पदमश्नुते न पुनर्जायत इत्यर्थः॥७८ यथोक्तपदप्राप्तिः सदाऽस्तीत्याशङ्कयाह- अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते ॥ वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९ ॥ अभूतेति ॥ असति द्वये द्वयाऽस्तित्वनिश्चयो भूताभिनिवेशस्त- स्मादविद्याव्यामोहरूपाद्धि यस्मात् सदृशे तदनुरूपे तच्चित्तं प्रवर्त- ते । तस्याभिनिवेशविषयस्य द्वयस्य वस्तुनोऽभावं यदा बुद्धवांस्तदा तस्मानिःसङ्गं निरपेक्षं सद्विनिवर्तते । अभूताभिनिवेशविषयात् तदैव पदमश्नुते इति व्यवहृतिरित्यर्थः ॥ ७९ ॥ अभयं पदमश्नुत इत्यत्र हेतुमाह- - माण्डूक्योपनिषत्कारिकाब्याख्या निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः॥ विषयः स हि बुद्धानां तत्साम्यमजमदयम् ॥ ८॥ निवृत्तस्येति ॥ निवृत्तस्य द्वैतविषयाद्विषयान्तरे चाप्रवृत्तस्या- इभावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थिति- श्चित्तस्येत्यर्थः । विद्वदनुभवैकगम्यत्वादशेषकल्पनातीतत्वाञ्च सिद्धं मोक्षस्याभयादिरूपत्वमित्याह॥विषय इति ॥ यैषा ब्रह्मस्वरूपा स्थिति- श्चित्तस्याऽद्वयविज्ञानकरसघनलक्षणा । स हि यस्माद्विषयो गोचरः परमार्थदर्शिनां बुद्धानां तस्मात् तत्साम्यं परं निर्विशेषमजमद्वयं चेत्यर्थः॥ ८०॥ यो मोक्षो विदुषां विषयो दर्शितस्तमेव पुनर्विशिनष्टि- अजमनिद्रमस्वनं प्रभातं भवति स्वयम् ॥ सकृद्धिभातो ह्येवैष धर्मो धातुः स्वभावतः ॥ ८१ ॥ अजमिति ॥ स्वयमेव प्रभातत्वे हेतुमाह ॥ सकृदिति ॥ कल्पितस्य सर्वस्य धारणाद्धर्मों, नाऽसौ कथमपि परतन्त्रो भवितुमर्हति । अन- वस्थानात् । अतः स्वयञ्ज्योतिरित्याह ॥ धर्मा इति ॥ किञ्च, धीयते सर्व निक्षिप्यते सुषुप्त्यादौ अस्मिान्नति धातुरात्मोच्यते । तथाच सर्वस्य ज्ञानसाधनस्योपसंहारेऽपि सुषुप्त्यादौ साक्षितयात्मनः सिद्धः स्वयज्योतिष्वमेष्टव्यमित्याह, धातुरिति॥किचात्मत्वादेवात्मनःस्वय- अज्योतिमवन्यथा घटवदनात्मत्वप्रसङ्गादित्याह॥ स्वभावत इति ॥८॥ आत्मा चेदुक्तलक्षणो व्यवस्थितस्तहि किमित्यसौ श्रुत्याचार्यो- पदिष्टस्तथैव सर्वैर्न गृह्यते, तत्राह- सुखमात्रियते नित्यं दुःखं विद्रियते सदा ।। यस्य कस्य च धर्मस्य अहेण भगवानसौ ॥ ८२ ॥ सुखमिति ॥ यस्माद्यस्य कस्यचिद् व्यवस्तुनो धर्मस्य ग्रहणा- वेशेन मिथ्याभिनिविष्टतया सुखमावियते अनायासेनाच्छाद्यते, दुःखं च वित्रियते प्रकटीक्रियते । भगवासावात्माऽद्वयो देवः । अतो वेदा- तराचार्यश्च बहुश उच्यमानोऽपि नैव ज्ञातुं शक्यः । आश्चर्यो वक्ता कुशलोऽस्य लब्धेति श्रुतेरित्यर्थः ॥ ८२॥ परीक्षकाभिनिवेशानामप्यात्मावरणत्वे सति, लौकिकपुरुषाभि- मिताक्षरा । अलातशान्त्याख्यं प्रकरण ४ चतुर्थम् । निवेशानां तदावरणत्वं किमु वक्तव्यमिति साधयति- अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः।। चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३ ॥ अस्तीत्यादिना ॥ प्रमाता देहादिव्यतिरिक्तोऽस्तीत्याद्यो वैशेषिकादि- पक्षः १। देहादिव्यतिरिक्तोऽपि नाऽसौ बुद्धर्व्यतिरिच्यते, क्षणिक- स्थ ज्ञानस्यैवात्मत्वादिति द्वितीयो विज्ञानवादिपक्षः २ । अस्ति नास्तीति तृतीयो दिगम्बरपक्षः३। नास्ति नास्तीत्यन्तं शून्यवादी ४। तत्रास्ति भावो योऽयं प्रमातोक्तः स चलः सविशेषः सन् परिणामि- घटाद्यनित्यविलक्षणत्वाद् देहाद्यतिरिक्तोऽपि प्रमाता बुद्ध्यतिरिक्तो नास्तीति । यो नास्ति भावः स स्थिरो निर्विशेषत्वात् । उभयं चल- स्थिरविषयत्वात् । सदसद्भावोऽभावोऽत्यन्ताभावः । प्रकारचतुष्टय- स्यापि तैरेतैश्चलस्थिरोभयाभावैः सदसदादिवादी सर्वोऽपि भगवन्त- मावृणोत्येव । बालिशः अविवेकी । यद्यपि पण्डितो, बालिश एव । परमार्थतत्त्वानवबोधात् । किमुत स्वभावमूढा जना इत्यभिप्रायः॥३॥ आत्मनो यदावरणमुक्तं तदुपसंहराति- कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदाऽऽवृतः॥ भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ॥ कोट्य इति ॥ यासां कोटीनां परीक्षकपरिकल्पितनिर्णयानां ग्रहै- रभिनिवेशविशेबैरात्मा सदा वृतस्ताः खल्वेताश्चतस्रः कोटयः सन्ति । तथाचात्मनो न यथावत् प्रथनमित्यर्थः । यदि-सदाऽऽत्मा समाइतो, न तर्हि तस्य ज्ञानं, शाने वा नास्ति नैराकासया ज्ञातव्यान्तरपरि- शेषादित्याशङ्कयाह ॥ भगवानिति ।। आत्मा ह्याभिरस्ति नास्तीत्यादि- कोटिभिश्चतसृभिरप्यस्पृष्टोऽस्त्यादिकल्पनावर्जितो येन मुनिना दृष्टो झातो वेदान्ते औपनिषदः पुरुषः स सर्वशो ज्ञातव्यान्तरमपश्यन् परमार्थपण्डितो निराकासो भवतीत्यर्थः ॥८४ ॥ शानवतोऽपि यावजीवादिश्रुतिवशादग्निहोत्रादि कर्तव्यमित्या- शङ्ख्याह- प्राप्य सर्वज्ञतां कृत्लां ब्राह्मण्यं पद्मद्रयम् ॥ अनापन्नादिमध्यान्तं किमतः परमीहते । ८५ ॥

माण्डूक्योपनिषत्कारिकाव्याख्या
प्राप्येति ॥ तां यथोक्तां कृत्स्नां समस्तां सर्वशतां ब्राह्मण्यं पदं
मुख्यब्राह्मणभावमनापन्नादिमध्यान्तम्।आदिमध्यान्ता उत्पत्तिस्थिति-
लया अनापन्ना अप्राप्ता यस्याऽद्वयस्य न विद्यन्ते तदनापन्नादिमध्या-
न्तम् । तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वमीहते
चेष्टते निष्प्रयोजनम् । नैवतस्य कृतेनार्थ इत्यादिस्मरणादित्यर्थः॥८॥
यावजीवादिश्रुतेरविद्वद्विषयत्वाद्विदुषो नाग्निहोत्रादि कर्तव्यमि-
त्युक्तम् । इदानीं तस्यापि नियोगतोऽस्ति कर्त्तव्यमित्याशङ्ख्याह-
विप्राणां विनयो ह्येष शमः प्राकृत उच्यते ॥
दमः प्रकृतिदान्तत्वादेवं विद्वाञ्च्छमं ब्रजेत् ॥८६॥
विप्राणामिति॥ब्रह्मविदांब्राह्मणानामेष विनयो विनीतत्वं स्वाभाविकं य-
देतदात्मरूपेणावस्थानम् । शमोऽप्येष एव प्राकृतः स्वाभाविकोऽकृतक
उच्यते । दमोऽप्येष एवं प्रकृतिदान्तत्वात् स्वभावत एव चोप-
शान्तरूपत्वाद् ब्रह्मण एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वान् शम-
मुपशान्ति स्वाभाविकी ब्रह्मरूपां बजेद् ब्रह्मस्वरूपेणावतिष्ठते । अतो
विदुषो न नियोगगोचरतेत्यर्थः॥८६॥
परमतनिराकरणमुखेनात्मतत्त्वमवधारितम् । अधुना स्वप्रक्रिय-
याऽवस्थाद्वयोपन्यासमुखेनापि तद्वधारयितुमवस्थाद्वयमुपन्यस्यति-
सवस्तु सोपलम्भं च इयं लौकिकमिष्यते॥
अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७॥
सवस्त्विति ॥ संवृतिसता वस्तुना सह वर्तत इति सवस्तु। तथो-
पलब्धिरुपलम्भस्तेन सह वर्तत इति सोपलम्भं च शास्त्रादिसर्व-
व्यवहारास्पदं ग्राह्यग्राहकलक्षणं द्वयं लौकिकं लोकादनपेतं लौकिक
जागरितम्, एवल्लक्षणं जागरितमिष्यते।वेदान्तेऽपि अवस्तुसंवृतेरप्य-
भावात् सोपलम्भं वस्तुवदुपलम्भोऽसत्यपि वस्तुनितेन सह वर्तत इति
सोपलम्भं च शुद्धं केवलं प्रविविक्तं जागरितात् स्थूलाल्लौकिकं सर्व-
प्राणित्वादिष्यते स्वप्न इत्यर्थः । यद्धि प्रातिभासिकं व्यावहारिक
च स्थूलम् अर्थजातम् आदित्यादिदेवताऽनुगृहीतैरिन्द्रियैरुपलभ्यते
तजागरितं बाह्येषु करणेषुपसंहृतेषु जाग्रद्वासनानुसारेण मनस-
स्तत्तदर्थाभासाकारत्वभासनं स्वप्नशब्दितमिति फलितम् ॥ ८७ ॥

मिताक्षरा । अलातशान्स्याख्यं प्रकरणं ४ चतुर्थम् । ७७ संप्रति सुषुप्तं दर्शयति- अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् ॥ ज्ञानं ज्ञेयं च विज्ञेयं सदा वुद्धैः प्रकीर्तितम् ॥ ८८ ॥ अवस्त्विति ॥ स्थूलं सूक्ष्मं च वस्तु विषयभूतं यत्र न विद्यते तत् तथा । इन्द्रियार्थसंप्रयोगजन्यो वा स्थूलार्थावगाही वासनात्मको वा यत्रोपलम्भो न सम्भवति तदशेषविशेषविज्ञानशून्यं सुषुप्तमिति विशिनष्टि॥ अनुपलम्भं चेति ॥अत एव लोकोत्तरं लोकातीतं कारणा- त्मना बुद्धेरवस्थानम् । ग्राह्यग्रहणविषयो हि लोकस्तभावात् सुषुप्तं तदित्याह ॥ लोकोत्तरमिति ॥साक्षिप्रत्यक्षत्वेन सर्वप्रवृत्तिबीजं सुषुप्त- मित्येवं स्मृतं शास्त्रविद्भिरित्याह ॥ इतीति ॥ एवमवस्थात्रयं स्वप्रक्रिययोक्तम् । इदानीं ज्ञानशेयविज्ञेयपदार्थान् तयैव क्रमेण वर्दैस्तत्र विद्वदनुभवं प्रमाणं कथयति ॥ ज्ञानमिति ॥ सोपायं परमाऽर्थतत्त्वं लौकिकं, शुद्धं लौकिकं, लोकोत्तरं क्रमेण येन शानन ज्ञायतेतन्मनोवृत्तिरूपं ज्ञानमिति शेयमेतान्येव त्रीणि । एतव्यतिरेकेण शेयाऽनुपपत्तेः। सर्वप्रावादुककल्पितकार्यकारणवस्तुनोऽत्रैवावस्थात्रये नियमेनान्तर्भावादिति विज्ञेयम् । परमार्थसत्यं तुर्याख्यमद्वयमज- मात्मतत्त्वमिति सदा सर्वदैतल्लौकिकादिविज्ञेयान्तं बुद्धैः परमार्थ- दार्शभिर्ब्रह्मविद्भिः प्रकीर्तितमित्यर्थः॥ ८८ ॥ आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीति श्रुत्या यत् प्रतिज्ञातं तदुक्तवस्तुज्ञाने फलतीति कथयति- ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ॥ सर्वज्ञता हि सर्वत्र भवतीह महाधियः॥ ८९ ॥ झाने चेति ॥ ज्ञाने च लौकिकादिविषये शेये च लौकिकादौ त्रि- विधे पूर्व,लौकिकं,तदभावेन पश्चाच्छुद्धं लौकिकं,तदभावेन लोकोत्तर- मित्येवंक्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्येऽद्वयेऽजे अभये विदिते सति स्वयमेवात्मस्वरूपमेव सर्वशता सर्वश्चासौ क्षश्च सर्वक्षस्तद्भावः सर्वज्ञता। इह जीवन्नेव जन्मनि महाधियो महाबुद्धेःसर्वलोकातिशय- विषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति । सद्विदिते स्वरूपे स्फुरणस्य व्यभिचाराभावात् । न हि परमार्थविदो शानोद्भवाभिभवो माण्डूक्योपनिषत्कारिकाव्याख्या स्तो यथाऽन्येषां प्रावादुकानामित्यर्थः ॥ ८९ ॥ अवस्थात्रयस्य शेयत्वनिर्देशात् परमार्थतास्तित्वमाशय परिहरति- हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः॥ तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः॥ ९०॥ हेयेति ॥ हेयानि लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तानि आत्मन्यसत्त्वेन रज्ज्वां सर्पवद् हातव्यानि । शेयमिह चतुष्कोटिवर्जि- तं परमार्थतत्त्वम् । आप्यान्याप्तव्यानि त्यक्तबादेषणात्रयेण भिक्षुणा पाण्डित्यबाल्यमौनाख्यानि साधनानि । विपाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि । सर्वाण्येतानि हेयशेयाप्यपाक्यानि भिक्षुणोपायत्वेनाप्रयाणतः प्रथमतो बोधात् पूर्व तेषां हेयादीनाम- न्यत्र विज्ञयात् परमार्थसत्यं विज्ञेयं, ब्रह्मैकं वर्जयित्वोपलम्भनमुप- लम्भोऽविद्याकल्पनामात्रं हेयाप्यपाक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिः । न परमार्थसत्यता त्रयाणामित्यर्थः ॥९० ॥ यदुक्तं ज्ञेयं चतुष्कोटिवर्जितं परमार्थतत्त्वमिति, तदिदानी स्फुटयति- प्रकृत्याऽऽकाशवज्ज्ञयाः सर्वे धर्मा अनादयः॥ विद्यते न हि नानात्वं तेषां कचन किञ्चन ॥ ९१॥ प्रकृत्येति ॥ प्रकृत्या स्वभावत आकाशवदाकाशतुल्याः सूक्ष्म- निरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मनो ज्ञेया मुमुक्षुभिरनादयो नित्या इत्यर्थः । बहुवचनकृतभेदाशङ्का निराकुर्वन्नाह ॥ विद्यत इति ॥ वचन देशकालावस्थादौ किञ्चिदपि कार्यकारणांशांशित्वेनाणुमात्रमपि तेषां न विद्यते नानात्वमित्यर्थः ॥ ९१ ॥ शेयशब्दप्रयोगान्मुख्यमेव शेयत्वं प्राप्तं व्युदस्यति- आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ॥ यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥१२॥ आदिबुद्धा इति ॥ यस्मादादौ बुद्धा आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपः सवितैवं नित्यबोधस्वरूपाः सर्वे धर्माः सर्व आत्मानः । न च तेषां निश्चयः कर्तव्यो नित्यसुनिश्चितस्वरूपाः, न सन्दिह्यमानस्वरूपाः, एवं नैवं चेत्यतो शेयतौपचारिकीत्यर्थः । यथोक्तरीत्या समुत्पन्नज्ञानस्य फलमाह ॥ यस्यति ॥ यस्य मुमुक्षोरेवं मिताक्षरा । अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम् । ७९ यथोक्तप्रकारेण भवति क्षान्तिः बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि सोऽमृतत्वाय अमृतभावाय कल्पते मोक्षाय समर्थो भवती- त्यर्थः ॥ ९२॥ सोऽमृतत्वायेत्यादिवचनादागन्तुकममृतत्वं प्राप्तम् । तत् प्रत्युदस्यति- आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिवृताः॥ सर्वे धर्माः समाऽभिन्ना अजं साम्यं विशारदम् ॥१३॥ आदिशान्ता इति ॥ नित्यमेव शान्ता अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्टूपरतस्वभावा नित्यमुक्तस्वभावाः सर्वे धर्माः समा- श्चाभिन्नाश्च समाभिन्ना इत्युक्तमेवार्थ चतुर्थपादेन सक्षिप्य दर्शयति । अजमिति॥यस्मादजं साम्य विशारदं विशुद्धमात्मतत्त्वं तस्माच्छान्ति- मोक्षो वा नास्ति कर्तव्यम् । कृतकस्यानित्यत्वादित्यर्थः ।। ९३ ॥ इदानीं मुमुक्षुप्ररोचनार्थमविद्वन्निन्दा दर्शयति-- वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ॥ भेदनिन्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥१४॥ वैशारद्यं त्विति ॥ यस्माद्भेदनिम्ना भेदानुयायिनः संसारानुगाः पृथग्वादाः । पृथग् नानावस्त्वित्येवं वदनं येषां ते पृथग्वादा द्वैतिन- स्तस्मात्ते कृपणाः क्षुद्राः स्मृताः। यस्माद्वैशारा विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैलमार्गे अविद्याकल्पिते सर्वदा वर्तमानानामतो युक्त- मेव तेषां कार्पण्यमित्यर्थः॥ ९४॥ यदिदं परमार्थतत्त्वं तदमहात्मभिरपण्डितैर्वेदान्तबहिष्ठैः क्षुद्रैरल्प- प्रज्ञैरनवग्राह्यमित्यविद्वन्निन्दां प्रदर्श्य तद्विपरीतैस्तु ग्राह्यमिति विद्वत्- प्रशंसां प्रसारयति- अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ॥ ते हि लोके महाज्ञानास्तच लोको न गाहते ॥९५ ॥ अज इति||जन्मवर्जिते परिपूर्णे परमार्थतत्त्वे ये केचित् स्त्र्यादयो- ऽपि सुनिश्चिता भविष्यन्तिचेत् त एव हि लोके महाज्ञानाः महति निरतिशयतत्त्वाविषये असम्भावनादिरहितनिश्चितज्ञानवत्त्वान्महानु- भावा भवन्तीत्यर्थः । ननु तत्वविषयज्ञानस्य सर्वलोकसाधारण- .

८० माण्डूक्योपनिषत्कारिकाव्याख्य, त्वात्तत्त्वज्ञानवतां किमिति प्रशंसा प्रस्तूयते, तत्राह ॥ तच्चेति ॥ तेषां वर्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिरन्यो लोको न गाहते, नावतरति, न विषयीकरोतीत्यर्थः ॥९५॥ अजं साम्यमित्युक्तं प्रमेयं, तद्विषयनिश्चयवान् प्रमाता, प्रमाणं तथाविधनिश्चयज्ञानमिति वस्तुपरिच्छेदे कथं महाशानत्वमित्याश- झ्याह- अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते ॥ यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६ ॥ अजेष्विति ॥ अजेष्वनुत्पन्नेष्वचलेषु धर्मेष्वात्मसु चित्प्रतिबिम्बे- प्वजमचलं च ज्ञानमिष्यते सवितरीवौष्ण्यं प्रकाशश्च यतस्तस्मादसं- क्रान्तमर्थान्तरे ज्ञानं बिम्बकल्पं ब्रह्माचलमात्मभूतमभ्युपगम्यते । तथाच मानमेयादिभावस्य कल्पितत्वेऽपि वस्तुपरिच्छेदाभावादुपपन्नं तज्ज्ञानवतां महाज्ञानत्वमित्यर्थः । किञ्चास्मिन्मते ज्ञानस्य यदसङ्ग- त्वमङ्गीकृतं तदपि विषयाभावादेव सिद्ध्यति । ततश्च मुक्तौ निर्विषयं मन इति यदुच्यते तदप्यविरुद्धमित्याह ॥ यतो नेति॥ यस्मान क्रमते- ऽर्थान्तरे ज्ञानं तेन कारणेनासङ्गं तत् कीर्तितमाकाशकल्पमित्युक्त- मित्यर्थः॥१६॥ कूटस्थं ब्रह्मैव तत्त्वमिति स्वमते ज्ञानमसङ्गं सिद्धतीत्युक्तम् । मतान्तरे पुनः सविषयत्वाज्ञानस्यासङ्गत्वमसङ्गतमासज्ज्यतेत्याह- अणुमात्रेऽपि वै धर्मे जायमानेऽविपश्चितः॥ असङ्गता सदा नास्ति किमुताऽऽवरणच्युतिः॥९७॥ अणुमात्रेऽपीति॥इतोऽन्येषां वादिनामणुमात्रेऽल्पेऽपिवैधर्मे वस्तुनि बहिरन्तर्वा जायमाने उत्पद्यमाने स्वीकृते आविपश्चितोऽविवकिनो- ऽसङ्गता असङ्गत्वं सदा नास्ति, किमु वक्तव्यमावरणच्युतिर्बन्धनाशो नास्तीत्याह ॥ किमिति ॥९७ ॥ तेषामावरणच्युतिर्नास्तीति ब्रुवता स्वसिद्धान्तेऽभ्युपगतं तर्हि धर्माणामावरणं ? नेत्युच्यते- अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ॥ आदौ वुद्धास्तथा मुक्ता बुद्ध्यन्त इति नायकाः॥९८॥ - मिताक्षरा । अलातशान्त्यावं प्रकरणं ४ चतुर्थम् । - अलब्धेति ॥ अलब्धमप्राप्तमावरणमविद्यादिवन्धनं येषां ते धर्मा अलब्धावरणाः बन्धनरहिताः प्रकृतिनिर्मलाः स्वभावशुद्धा आदी युद्धास्तथा मुकाः, यस्मान्नित्यशुद्धबुद्धमुक्तस्वभावास्तस्मादविद्वद्- दृष्टयैवाविद्यावरणं, न तत्वदृष्टया सिध्यतीत्यर्थः । आत्मनो यथोक्त- स्वभावत्वे बोद्धृत्वं न सिद्धतीत्यनित्यबोधेषु तद्भावादित्याशङ्ख्या- ऽऽह ॥ बुद्ध्यन्त इति ॥ नायकाः स्वामिनः समर्था बोधृबोधशक्तिम- त्स्वभावा इत्यर्थः। यथा नित्यप्रकाशस्वरूपोऽपि सविता प्रकाशत इ. त्युच्यते, यथावा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्य- ते, तथा बोधस्वरूपा अपि धर्मा बुद्धन्त इत्यौपचारिक बोधृत्व सिद्धतीत्यर्थः॥९८॥ किमिति मुख्य बोद्धृत्वे संभाविते तदेव नेष्टमित्याशङ्ख्य, ज्ञानस्य विद्वदृष्टया विषयसंबन्धासंभवादित्याह- क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ॥ सर्वे धर्मास्तथा ज्ञानं नैतद् बुद्धेन भाषितम् ॥ ९९॥ क्रमत इति ॥ यद्याकाशकल्पस्य परमार्थदर्शिनस्तदनन्यत्वादा- काशकल्पं ज्ञानं तंन क्रमते कचिदपि विषयान्तरे, किन्तु सवितरि प्रकाशवदात्मन्येव प्रतिष्ठितं यस्मादिष्यते तस्मान्नास्मिन् मुख्यं बो- धृत्वं सेधुमर्हतीति । यदादावुपन्यस्तं, ज्ञानेनाकाशकल्पनेत्यादि तदिदमुपसंहृतमित्यर्थः । किञ्च जीवानां ब्रह्मात्मना विभुत्वादाकाश- वत् क्रियासमवायाऽयोगान मुख्यं बोद्धृत्वं सेधुमलमित्याह ॥ सर्च इति ॥ सर्वे धर्मा आत्मानोऽपि तथा ज्ञानादेवाकाशकल्पत्वान्न क्रमन्ते क्वचिदप्यन्तरेऽतो गत्यभावादेव न मुख्यं बोद्धृत्वं तेषामित्यर्थः । ज्ञानमात्रं पारमार्थिक, तत्रैव ज्ञातृ यादिकल्पितमिति सौगतमतमेव भवताऽपि संगृहीतमित्याशङ्ख्याह ॥ ज्ञानमिति ॥ ज्ञानज्ञेयज्ञातृभेद- रहितं परमार्थतत्वमद्वयमेतन भाषितं बुद्धेन । यद्यपि वाह्यार्थनिरा- करणं ज्ञानमात्रकल्पना चावयवस्तुसामीप्यमुक्तम् , इदं तु परमार्थ- तत्त्वमद्वैतं वेदान्तेष्वेध विशेयमिति कुतो मतसाङ्काशङ्कावकाशमासा- दयतीत्यर्थः ॥ ९९ ॥ शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थ नमस्कार उच्यते- , -

८२
माण्डूक्योपनिषत्कारिकाव्याख्या
दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् ॥
बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥१०॥
इति श्रीगौडपादाचार्यभगवतः कृतिषु आगमग्रन्थे
उपदेशग्रन्थे वेदान्तमूले माण्डूक्योपनिषत्-
कारिकाः संपूर्णाः ॥ ॐ तत्सत् ॥
दुर्दर्शमिति ॥ दुःखेन दर्शनमस्येति दुर्दर्शम् अस्तिनास्तीतिचतु-
कोटिवर्जितत्वाद् दुर्विज्ञेयम्।अत एवातिगम्भीरं दुष्प्रवेशं महासमुद्र-
घद् अकृतप्रज्ञैः अजं साम्यं विशारदम् ईदृक् पदमनानात्वं नाना-
त्ववर्जितं बुद्ध्वावगम्य तद्भूताः सन्तो नमस्कुर्मस्तस्मै पदाय ।
अव्यवहार्यमपि मायाशक्त्या व्यवहारगोचरतामापाद्य यथावलं यथा-
शक्तीत्यर्थः॥१००॥
इति श्रीगौडपादीयवार्तिकवृत्ती श्रीमत्परमहंसपरिव्राजकाचार्य-
स्वयम्प्रकाशानन्दसरस्वतीस्वामिकृतायां मिताक्षरायां
चतुर्थ प्रकरणम् ॥४॥

हरिः ॐम् ।
अथ माण्डूक्योपनिषत।
श्रीशंकरानन्दभगवत्कृतदीपिकाख्यव्याख्यासहिता ।
हरिः ॐम् । अमित्येतदक्षरमिद५ सर्व तस्योप-
व्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव ।
यच्चान्यत्रिकालातीतं तदप्योङ्कार एव ॥१॥
माण्डूक्योपनिषयाख्यां करिष्ये पदचारिणीम् ॥
ॐमात्माभेदसम्बोधादानन्दात्मप्रकाशिनीम् ॥१॥
नामनामिनोलॊके भेदस्याप्रसिद्धत्वाद्वस्तुतश्चोङ्कारस्य ब्रह्म-
विवर्तत्वाद्विवर्तानां च विवाधिष्ठानेन भेदशून्यत्वादत कारं
ब्रह्मनामधेयं ब्रह्मदृष्टयाऽऽह ।। ॐम् ॥ अवति ब्रह्मबुद्ध्या दृष्टो
द्रष्ट्रनित्योम् ।।इति, अंडारानुकरणार्थः ।। एतत् ।। उक्तमोङ्कार-
रूपं जगत्पर्णस्य शङ्कुस्थानीयं ब्रह्मणा तादात्म्यं प्राप्तं ब्रह्मणो
विकारो नामधेयं च ॥अक्षरम् , वर्णात्मकम् ॥ इदं विविधप्रत्यय-
गम्यं चेतनाचेतनात्मकं जगत् सर्व निखिलं तस्य सर्वात्मक-
स्योंकारस्योपव्याख्यानमुप, सामीप्येन विस्पष्टमा समन्तात्कथन-
मुक्ताविवरणमित्यर्थः॥ भूतमतीतं भवद्वर्तमानं भविष्यदनागत-
मित्यनेन प्रकारेण सर्व निखिलमोंकार एव प्रणव एव, न त्व-
न्यत् ॥ यच्च यदपि प्रसिद्ध सदसदात्मकमन्यदुक्ताव्यतिरिक्तं त्रि-
कालातीतमुक्तकालत्रयासंसृष्टं तदप्युक्तं ब्रह्म नरविषाणादिक-
मपि । अपिशब्दः पूर्वेण समुच्चयमाह ॥ ॐकार एव ॥ व्या-
ख्यातम् ॥ १॥

३
दीपिकाख्यव्याख्यासहिता ।
सर्व खेतब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतु-
पात् ॥२॥
जागरितस्थानो बहिष्पज्ञः सप्ताङ्ग एकोनविंशति-
मुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥
ॐकारस्य ब्रह्मणो नामधेयत्वादिसंव्याप्तिरित्यभिप्रायेण
आह ॥ सर्व निखिलं हि निश्चितमेतत्पपञ्चजातं ब्रह्म सत्य-
ज्ञानादिलक्षणं बृहत् । जडस्यैव ब्रह्मात्मत्वमुक्तं, न चेतनस्येति-
शङ्कानिराकरणार्थमाह ॥ अयमनुभूयमान आत्माऽस्मत्प्रत्यया-
लम्बनश्चेतनस्त्वम्पदार्थः । ब्रह्मोक्तं तत्पदार्थः। स कार्यकारण-
भावमन्तरेण ब्रह्मणा तादात्म्यं प्राप्तोऽयमात्मा व्याख्यातम् ।
चतुष्पाच्चत्वारः पादा यस्य स चतुष्पात् ॥ २॥
गौरिव किं चतुष्पादित्याशङ्कय नेत्याह ॥ जागरितस्थानो
जागरितं स्थानं यस्य स जागरितस्थानः॥ वहिःप्रज्ञो बहीरूपा-
दौ चक्षुरादिग्राह्ये प्रज्ञा यस्य स बहिःप्रज्ञः ॥ सप्ताङ्गः सप्त-
संख्याकानि युसूर्यवाय्वाकाशरयिपृथिव्याहवनीयाख्यानि मूर्ध-
चक्षुःमाणशरीरान्तर्भागमूत्राशयपादास्यान्यङ्गानि यस्य स सप्ता-
ऽङ्गः॥ एकोनविंशतिमुखः, पञ्चज्ञानकन्द्रियमाणान्तःकरणचतु-
टयरूपाणि मुखान्येकोनविंशतिसंख्यांकानि यस्य स एकोनविं-
शतिमुखः ॥ स्थूलभुक्, स्थूलं रूपादिकं भुत इति स्थूलभुक् ॥
वैश्वानरो विश्वेषामयं नरो विश्वे वा नरा यस्य विश्वश्चासौ नरश्चेति
वा विश्वानरः, स एव वैश्वानरः । अथवा विश्वेषां नरशब्द-
वाच्यानां चतुर्विधानां स्थूलानां देहानामधिष्ठाताऽयं वैश्वानरः
प्रथमः पादः।आत्मनोऽयं सर्वैः सुकरावगमत्वात् प्रथमोऽशः॥३॥

माण्डूक्योपनिषत् । ३ स्वप्रस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः॥४॥ यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वर्ण पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानधन एवाऽऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः॥५॥ इदानी द्वितीयं पादमाह । स्वमस्थानः स्वमं जागरितवासना- जन्यं स्थानं यस्य स स्वमस्थानः ॥ अन्तःप्रज्ञोऽन्तानसवासना- विलासे प्रज्ञा बुद्धिर्यस्य सोऽन्तःप्रज्ञः ॥ सप्ताङ्ग एकोनविंशति- मुखः ॥ व्याख्यातम् । प्रविविक्तभुक्प्रविविक्तं सूक्ष्म भुत इति प्रविविक्तभुक् । तैजसस्तेजोऽन्तःकरणं कर्तृकरणकार्यादिभावेन परिणतं तदेव स्थूलशरीरादिहीनं यस्य स तैजसः। अन्तःकरण- स्य स्वामीत्यर्थः। जागरितानन्तरभावित्वात् ।। द्वितीयः पादः ॥ स्पष्टम् ॥४॥ इदानीं तृतीयं पादं वक्तुमाह॥यत्र यस्मिन् काले सुप्त उप- रतेन्द्रियग्रामो, न कञ्चन कामं कामयते कमपि पुण्यपापहेतुभूतं पुत्रक्षेत्रादिकं नाभिलषति ॥ न कञ्चन स्वमं पश्यति कमपि शुभमशुभं वासनाविलासं नावलोकयति॥ तत् कामाकामनस्वमा- नवलोकनरूपं सुपुप्तं गाढनिद्राप्राप्तिस्थानम् ।।सुषुप्तस्थानः॥सुषुप्तं स्वयं श्रुत्या व्याख्यातं स्थानं यस्य स सुपुप्तस्थानः॥ एकीभूतः सर्वजगद्वीजभूतस्याऽऽवरणात्मकस्याज्ञानस्यानुपरमादनेकोऽप्य- न्तःकरणविक्षेपोपरमादेकतां गतः, प्रज्ञानधन एव प्रज्ञानमात्मनो रूपं ब्रह्मणा भेदरहितं स्वयंप्रकाशं तस्य धनः पिण्ड इव स एव न त्वन्त:करणादिबाह्यं च । न च निरानन्द इत्याह ॥आनन्द- ४ दीपिकाख्यव्याख्यासहिता । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥ नान्तःप्रज्ञंन बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रशंनाप्रज्ञम्।अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्य- मयो,विक्षेपाणामुपरमादावरणस्यानुवृत्तेश्च स्वरूपानन्दमचुरो, हि यस्मात्तस्मादानन्दभुगानन्दो विक्षेपाभावोपलक्षित आत्मा तमेव भुक्तेऽज्ञानवृत्तिभिरवगच्छतीत्यानन्दभुक् ॥ चेतोमुखः, चेत आत्म- स्वरूपबोधः स एवाऽऽवरणशक्तिसहितो मुखं यस्य स चेतोमुखः॥ प्राज्ञः प्रकृष्ट स्वयम्प्रकाश आनन्दात्मान साज्ञाने ज्ञाप्तिरज्ञानवृत्ति- रूपो बोधो यस्य स प्रज्ञः प्रज्ञ एव प्राज्ञः। उक्तावस्थाद्वयाभावेना- ऽवगम्यमानत्वात् ॥ तृतीयः पादः । स्पष्टम् ॥५॥ इदानीं प्राज्ञ प्रस्तौति सर्वकारणत्वात्तस्य।एष उक्तः प्राज्ञः सर्वेश्वरः सर्वनियामकः ॥ एष प्राज्ञः सर्वज्ञः सर्वश्चासौ ज्ञश्चेति सर्वकार्यात्मकत्वादज्ञानस्य वा जानातीति सर्वज्ञः॥ एप प्राज्ञो- ऽन्तर्यामी अन्तर्यमयिता एष प्राज्ञो, योनिः कारणं, सर्वस्य निखिलस्य चेतनाचेतनात्मकस्य जगतः ॥ योनित्वे हेतुमाह ।। प्रभवाप्ययावुत्पत्तिविनाशौ हि यस्माद् भूतानां चेतनाचेतनरूपा- णामितो भवत इति शेषः ॥ ६ ॥ इदानीं तुरीयं पादमाहानान्तःप्रज्ञं,न मानसवासनाविलास- दर्शनलालसं, न बहिःप्रज्ञं नेन्द्रियैर्विषयावलोकनपरं,नोभयतःमझं जागरणस्वमान्तरालावस्थावबोधशून्यं, न प्रज्ञानधनं न ज्ञानमात्र- बोधं, न प्रज्ञं निर्विकल्पबोधशून्यं,नाप्रज्ञं न बोधाभावरूपम् । अदृष्टं प्रत्यक्षादिप्रमाणैरनवलोकितम् । अव्यवहार्य वचनादानादिव्यव- हारगन्धरहितम् ॥अग्राह्यं सर्वप्रकारग्रहणायोग्यम् ॥अलक्षणं गन्ध- माण्डूक्योपनिषत् । मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपश्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः॥७॥ सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥८॥ वत्त्वादिबोधशून्यम् ॥ अचिन्त्यम् अन्तःकरणवृत्त्यविषयभूतम् ।। अव्यपदेश्यं पृथिवीत्यादिव्यपदेशवद् व्यपदेशायोग्यम् ॥ एकात्म- प्रत्ययसारं सर्वाद्वैतप्रत्ययः सारभूतोऽवगतिहेतुत्वेन यस्मिंस्तदे- कात्मप्रत्ययसारं, वाङ्मनसातीतमप्यात्मबोधेनावगन्तुं शक्यमि- त्यर्थः॥ प्रपञ्चोपशमं प्रपञ्चस्य कार्यकारणात्मकस्योपशमोऽभावो यस्मिंस्तत्प्रपञ्चोपशमम् । शान्तं स्पष्टम्।।शिवं स्वयम्प्रकाशमानन्दा- ऽऽत्मस्वरूपत्वान्मङ्गलम् ॥ अद्वैतम् आनन्दात्मव्यतिरिक्तशून्यं, चतुर्थ तुरीयं पादं मन्यन्ते संख्याशून्यमपि पूर्वापेक्षयाऽवगच्छ- न्ति ॥ स वस्तुतस्त्वतुरीयरूपोऽप्यविद्यया चतुष्पादात्माऽऽनन्दा- त्माऽस्मत्प्रत्ययव्यहारयोग्यः, स तुरीयरूपोऽपगतसमस्तविशेषो विज्ञेयो विशेषेण साक्षात्कर्तव्यः॥७॥ इदानीमात्मोङ्कारयोरभेदं कण्ठत आह।।सोऽयमात्मा ॥ व्याख्या- तम्॥अध्यक्षरम् अक्षराण्यकारोकारमकारार्धमात्राख्यानि स्वपाद- सम्मितान्यधिकृत्य वर्तत इत्यध्यक्षरम् ॥ ॐकार कारस्वरूप ॐकारस्याऽऽत्मस्वरूपत्वे साम्यम् ॥ अधिमात्रम् अकाराया- श्चतस्रो मात्रा विश्वादिपादसमसंख्याका अधिकृत्य अधिमात्रम् । आत्मोंकारयोरभेदे कारणमाह ॥ पादा विश्वतैजसप्राज्ञतुरीया- ख्या, मात्रा अकारोकारमकारार्धमात्राः । तादात्म्यं दृढीकर्तु- मुक्तं विपर्ययेण निर्दिशति ॥ मात्राश्च पादाः । चकार एवकारा- ऽर्थः । नायं विपर्ययनिर्देशस्त्वमहमितिवदुपचारार्थः, किन्तु घटः

दीपिकाख्यव्याख्यासहिता।
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा-
ऽऽतेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान् कामानादिश्च
भवति य एवं वेद ॥९॥
कलशः कलशो घट इतिवनिरुपचरितं मात्राणां पादानां च
तादात्म्यमित्येवकारार्थः । व्याख्यातमन्यत् । अर्धमात्रायास्तुरीय-,
पादरूपत्वात्तुरीयस्य च पूर्वपादत्रयादत्यन्तवैलक्षण्यादतोर्धमात्रां
परित्यज्य शेषमात्रा आह।।अकार उकारो मकारः॥स्पष्टम्।। इति
मात्रात्रयनिर्देशार्थः ॥ ८॥
इदानीं विभागेन मात्राणां पादरूपतामाह ॥ जागरित-
स्थानो वैश्वानरोऽकारः, प्रथमा मात्रा पूर्वा मात्रा ॥ व्याख्या-
तमन्यत् । अकारस्य पूर्वमात्रात्व उपपत्तिमाह ॥ आप्तेयाप्तः ।
अकारो हि जागरितस्थानादिकं सर्वमाप्नोति ॥
प्रकारान्तरेण पुनर्निरुक्तिमाह॥आदिमत्त्वाद्वा॥अ आ इ इत्येव-
मादिरादिस यस्मिन्नस्ति सोऽयमादिमांस्तस्य भाव आदिमत्त्व-
मादिसामान्यवत्त्वमित्यर्थः । प्रथमपादोऽपि यथा पादानामादि-
रत एव तत्सामान्यवानाप्नोति चेतरत्पादनातं पूर्वभावित्वा-
त् । वाशब्दः पक्षान्तरार्थः । विश्वाकारयोरैक्यमाप्तेाऽऽदिम-
चाद्वेत्यर्थः । इदानीं विश्वाकारयोराप्त्याऽऽदिमत्त्वज्ञानात् फल-
माह ॥ आप्नोति प्राप्नोति हि प्रसिद्धान् वै स्मर्यमाणान् सर्वा-
निखिलान् कामान् काम्यमानान् पुत्रक्षेत्रादीन्।आप्तेः फलमुक्त्वा,
ऽऽदिमत्त्वस्य फलमाह ॥ आदिश्च स्वानां मध्ये सर्वेषु कार्ये
प्रथमगण्यः । चकारादपि प्रथमं फलं भवति । स्पष्टम् ॥ यस्य
फलं तमाह ॥ यः पादमात्रातादात्म्यज्ञ,एवमुक्तेन प्रकारेणोक्तयोः
पादमात्रयोः सामान्यं वेद जानाति स आप्नोतीत्यन्वयः॥९॥

माण्डूक्योपनिषत् । स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षा- दुभयत्वाद्वोत्कर्षति ह वै ज्ञानसंततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति य एवं वेद ॥१०॥ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मिते- रपीतेर्वा मिनोति ह वा इद सर्वमपीतिश्च भवति य एवं वेद ॥११॥ स्वमस्थानस्तैजस उकारो द्वितीया मात्रा । स्पष्टम्।।तैजसो- कारयोस्तादात्म्ये हेतुमाह ॥ उत्कर्षाप्रभावित्वेनोत्कृष्टत्वात् । पुनरन्यत् सामान्यमाह॥उभयत्वाद्वा॥विश्वाकाराभ्यां तैजसोका- रयोतिीयत्वात् ॥वाशब्दःपूर्ववत् । इदानीमुक्तज्ञानस्य फलमाह ।। उत्कर्षति ह वै ज्ञानसंतति शिष्यपशिष्यादिज्ञानसंतत्योत्कृष्टो भव- । व्याख्यातमन्यत् ।उभयत्वज्ञानस्य फलमाह।।समानश्च भवति, पोहिस्वावस्थानदेशेकालेवोत्कृष्टस्तत्समानः चकारात्तस्मादुत्कृष्टो- पि भवति । इदानीमुभज्ञानस्य साधारणं फलमाह ॥ नास्या- ब्रह्मवित्कुले भवति ॥ अस्योत्कर्षोभयत्वज्ञानवतः कुलेऽन्वये शिष्यपशिष्यादिरूपेऽहं ब्रह्मास्मीत्येतज्ज्ञानशून्यो न भवति ॥ य एवं वेद ॥ व्याख्यातम् ॥ १० ॥ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा,स्पष्टम् । प्राज्ञमकारयो- महात्म्ये हेतुमाह ॥ मितर्मिनोति हि प्राज्ञः सर्वमात्मनि तादा- येन कारोऽप्यकारोकारौ प्रक्षिपत्येवमात्मस्वरूपेऽन्यथोंकार- नानिष्पक्तः । अपीतेर्वा मकारो ह्योंकारे वर्तमानः स्पष्ट नोपल- भ्यते । ततः लयः प्राज्ञश्च प्रलयः प्रसिद्धः। प्रलयसामान्यात् । वाशब्दः पूर्ववत् ॥ इदानी मितिज्ञानस्य फलमाह ॥ मिनोति ह वा इदं सर्वम् । इदं विविधप्रत्ययगम्यं जगन्निखिलं प्रस्थमिव ८ दीपिकाख्यव्याख्यासहिता। अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः ऽदैत एवमोंकार आत्मैव संविशत्यात्मना य एवं वेद ॥१२॥ इति माण्डूक्योपनिषत् ॥ यावत्, मिनोति सर्वात्मभावेन स्वात्मनि प्रक्षिपति । पीनि ज्ञानस्य फलमाह ॥ अपीतिश्च भवति, सर्वाधिक्येन पल सर्वस्य ॥ चकारात् स्वयं प्रलयशून्यश्च भवति ॥ य केन्द्र व्याख्यातम् ॥११॥ अर्धमात्राया अवयवस्योंकारस्याऽवयविनधाभेदमुनीतल्या चतुर्थपादरूपनिरञ्जनात्मस्वरूपतामोंकारस्याऽऽह ॥ मानो ऽकारादिमात्राशून्यश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिको स्पष्टम् ।। एवमुक्तेन मात्रातादात्म्येनोंकार आत्मैव ।। स्पष्टम् । संविशति सम्यक्प्रवेश करोत्यात्मनोंकारेणाऽऽत्मानमानदान्म स्वरूपं य ॐकारात्मज्ञ एवमुक्तेन प्रकारेणोंकारात्पनोस्तादा त्म्यं वेद जानाति तस्योक्तोङ्काररूप पानन्दात्मप्राप्तिफलमर्थसिद्धम् ततः श्रुत्या नोक्तम् । अथ वा संविशत्यात्मनाऽऽ मानमितीद फलवाक्यमस्तु ॥ ११ ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यानन्दात्मपूजयाद शिष्यस्य श्रीशंकरानन्दभगवतः कृती माण्डूक्योपनिषद्दीपिका समाप्ता॥ परिमाणसं प्रधालय, के. उ. लि. शि. संस्था रसायबाली ..-

Mitachhara

Author
Pandit Ratan Bhatta
Title
Mitachhara
File name
Mitachhara
Text
OCR done
Citation
1910
Published
17.01.06
Publisher
Harikrishna Das And Brothers Benaras
Language
Sanskrit
Pages
101
Library
Tibetian Institute Sarnath Varanasi
Classification
literature
DLI number
477543
Barcode
5990010152547.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
TksZc8M0ALR
Download PDF

Mitachhara