Svi-ksri-chennai
Sriimaduttarachampuugrantha
Front matter
No text on this page.
SREE RAMO JAYATHI:
TME
20HK
UTHARACHAMPU.
A POEM
Containing Proses and Verses on
UTHARA SREE RAMAYANA.
BY
SUBRAHMANYA KAVI
with the preface of Author.
Certificates of Pundits and gentlemen and
with footnotes of
K. SAMBASIVASASTRI
Sanskrit Pundit, Senimangudi.
Edited and Published by
THE AUTHOR.
Printed at the
SRI VIDYA PRESS, KUMBAKONAM.
1910.
Prioe
As,' 12.
No text on this page.
desosisotootsswokmatoisetosisekseisoisekseise bhabar
seatrakatek
॥ ओं॥
॥ श्रीरामचन्द्रो विजयतेतराम् ॥
अयं किल
बहुविधैहिकामुष्मिकफलार्पणनिपुणतर
श्रीमदुत्तररामायणकथाप्रतिपादकः
॥ श्रीमदुत्तरचम्पूग्रन्थः॥
बहुतरविबुधवरपरिष्ट्रयमानसरसतरसाहितीजन्ययशोभिशोभितलोकेन
श्रीसुब्रह्मण्यकविवरण प्रणीतः
तदनुजेन
शाब्दिकवरश्रीसाम्बशिवशास्त्रिणा
विरचितया विषमपदटिप्पण्या समुद्भासितः
SROGRSSBSIGGosssssssssssis
andestostometasoksattaekatatatasati
कविनैव संस्कृतश्च
श्रीकुम्भघोणनगरपरिष्कारायमाण
श्रीविद्या" मुद्राक्षरशालायां मुद्रितश्च विजयते.
"
साधारणसंवत्सरे चैत्रमासः
1910
Price 12 Annas]
[मूल्यं रूप्यकत्रिपादी.
ം ര
A
No text on this page.
॥ उपोद्धातः॥ आर्याः अभिरूपचूडामणयः दत्त सदयमिह श्रवसी अवधत्त च किञ्चिदिव मयोच्यमानं । यद्यपि न ह्यविदितं किमपीर भवतामावेदयिष्यते नाश्रुतं श्रावयि- प्यते नादृष्टं दर्शयिष्यते तथापि करुणया केवलं कारणेन मदभ्यर्थनाङ्गी- करणस्य वो भवितव्यं । अद्य खल विजृम्भमाणे कलिमाहात्म्यपरिमाणे, विद्राणेषु विद्वज्जनभद्राभिध्यानपरेषु पूर्वतरनृषेषु प्रायः प्रलीनमिव लोके सु- कविवचसामभिनन्दनमपि । सुदूरे किल सम्माननादिभिः प्रोत्साहनं कवीनां । केचन पुनः सारग्रहणचतुरंमन्याः प्राचीनान् सुप्रसिद्धयशोऽवमासान् कालि- दासादिकानेव कवीन् करणैस्त्रिभिरपि सम्मन्यमाना अकालिदासीयमपि कालिदासस्येदमिति मनोरमतया गीयमानं पद्यमभिनन्दन्तः कालिदासीया- यापि पद्याय परस्येदमिति श्रुताय चातितरामसूयन्तो विवृण्वन्तश्च दूषण- शतानि तुदन्ति सहृदयानां हृदयानि । प्रभवश्व केचन यत्रकुत्राप्यविदुषि विदुषि वा बद्धाभिमाना रसिक- शिरोमणितां स्वनिष्ठतया तदभिवर्ण्यमानामाकर्ण्य प्रमोदमानमानसा मानसा- दनमप्यविगणय्य अगतिकतया स्खनिकटमुपागतानां पण्डितानां कवीनां वा वचनानि चूका इव दोषकदृष्टयः शयनासने शयाना एव दूषयन्तः अस्थान- व्ययितबहुधना निधानायमाना असूयायाः शुचा मलिनयन्ति मानसानि मनी- पिणां । तदेवं सञ्जातदुभिक्षे सरसप्ताहितीपक्षे भाग्यवशागारतवर्षस्य यत्र कुत्रापि वर्तमाना अपि मणय इव सागरस्य जगतो गौरवमादधाना दत्ताव- धाना विरळानामपि गुणलेशानां सङ्ग्रहणे नन्दन्तश्च कविवचांसि कुर्वन्तश्च निर्वचनमेव प्रोत्साहनं सम्मानयन्तश्च यथाशक्ति दरीदृश्यन्त एव विदित. वेदिकयाः प्रभवः । यानेवाश्रित्य जिजीविषन्ति पण्डिताः । येरेव पोष्यमाणा विवर्धन्ते कवयः । यानेवोनान् मन्यते सुमनसामामोदेन माननीया समुन्न- . तस्थानाभिलाषिणी गीर्वाणवाणीलता । तदवलम्बनवलादेव बहवः सरसम. धुर : प्राचीनग्रन्थरसास्वादतुन्दिलानपि रसिकमणीन् परवशीकुर्वाणा धृतगर्वा- गा केषाञ्चन वोधसरणिमतिदूरमतिक्रान्ताः प्रणीयन्त एवानपणीयांसः प्रव. न्धा इझनीतनैरपि कविभिरिति सत्यमिदं हर्षस्थानमेव महतामित्यशङ्कमा- घेदनीयमिह भवति । तदेवं सत्स्वपि बहुषु प्रबन्धेषु यशोनिबन्धेषु, प्रकाशमानेषु चन्द्र तरागणेषु खद्योत इव स्वतेजः लोकानुपयुक्तमपि कमप्यहमपि प्रबन्धं प्राका यमिति जिहेमि युष्मभ्यमिदमावेदयितुमपि । नाहमुत्तमकाव्यकर्तृतास जातयशःसंपिपादयिषया प्रावर्तिषि । न च निजग्रन्थरसस्रुतिसंपदा लोकान पयितुं शक्नोमीति धैर्यतः । नापि वृत्तवत्तिप्यमाणसकलकथांशसङ्घटन समस्तीति धिया। किन्तु भगवतः श्रीरामभद्रस्य चरितमुपवर्ण्य वाचं स कलीकुर्यामिति । उक्तं किल भगवता बादरायणेन "स वाग्विसर्गो जनताविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोङ्कितानिचेत् शृण्वन्तिगायन्ति गृणन्ति साधवः इति तस्य च भगवतः श्रीरघुनन्दनस्य चरितं चतुरानानुग्रहसमासादित रस्वती प्रसादेन चतुराननसमुच्चारितसरसतरसरसिजासनसुन्दरीधम्मिल्लग मल्लिकाकुसुमसुकुमारवाग्विलासमहनीयेन भगवता वाल्मीकिना चतुर्विंशति सहच्याकनिरवद्यपद्यहृद्यतरकाण्डसप्तकपरिमण्डितेन रामायणाख्ये महाका परत्नेन पण्डितपामरसाधारण्येन हृदयरञ्जकमञ्जसा समुपन्यबन्धि तञ्च सर्वेतिहासानां मूर्धन्यतामासाद्य सर्वलोकाम्यर्हितं वरीवर्तीति विदिर मेवेदं विश्वेषां । तद्गतमाधुर्यसौकुमार्यादिप्रशंसा च विश्वजनविदितत्वात्पि पेंषणन्यायाध्वनीना भवेदिति विरम्यते । तस्य चातिपुष्टार्थत्वादतिविस्तृतत्व च पनपाठनादिषु ॥लानशक्नुवतो निर्धार्थ स्पर्धा विजितमात्रीक सार शैलीमाल पमनादरमपसारस्यतुं गद्यपद्यात्मकतामुपगतया सरण - ॥ उपोद्धातः ॥ चम्पूरामायणाख्यं ग्रन्थरत्नं रत्नहार्यपि विदर्मरानो भोजो महत्या करुणारा प्राचीकशत् । तच्च शब्दार्थगतसारळयबाहुळ्यादतिसौन्दर्याच्च सारं सार. स्वतमधिजिनमिषुभिरद्यापि पठ्यत इति सार्वजनीनोयं विषयः । पर न्तु तत्केन वा कारणेन पञ्चकाण्डीपरिमितमेव निरमायीति नाद्यावधि केनचि. दपि विमर्शकेन स्फुटीकृतं । ततश्च नायकाभ्युदयान्तं काव्यमिति न्याय- मनुसृत्य पण्डितवरेण लक्ष्मणकविना अविनाभूतरसमर्यादः पर्याप्तशब्दरत्नरञ्जि तः प्राणायि युद्धकाण्डोपि । एवं भगवतो रामायणकथापुरुषस्य जनकृतक्षेमस्य रामस्य राज्य- प्राप्तिपर्यन्तचरितवर्णनेन सम्पूर्णे चम्पूप्रबन्धे उत्तरश्रीरामायणकथामरि भा. जिग्रथिषुणा सर्वशास्त्राब्धिपारदृश्वना विश्वकाव्यगुणगरिष्ठविश्वगुणादर्शादि- ग्रन्धकर्तृतासंपादितयशस्केन श्रीमदात्रेयवेङ्कटाध्वरिणा प्रौढमधुराभिर्वाभि- ग्रन्थे ग्रन्थ उत्तरचम्पूर्नाम । सः च महाकविर्भूयिष्ठविघ्नविध्वस्ततया का श्रीरामकृतजानकीपरित्यागादिकथावर्णनविहस्ततया वा श्रीमदुत्तररामायण- पूर्वभागस्थदशाननविजयादिकथान्त एव विररामेति विज्ञायते । तेन च बाला- नां रामकथालोलानां च विदुषां समग्रकथाविच्छेदतस्तुद्यमानं हृदयमालोच्य पुनरपि कश्चनोत्तरचम्पूरिति ग्रन्थो निर्माय प्रकाशितः श्रीवेङ्कटकाविना । सा चेदानी स्मार्तोत्तरचम्पूरिति प्रतीता पठ्यते पाट्यते च । एवं च सति तामेवोत्तरश्रीरामायणकथां गद्यपद्यात्मकचम्पूप्रबन्धरू- पेण पुनरपि किमर्थं निरमिमीथा इत्ययमनुयोगः केषाञ्चन स्वत एव प्रानुर्भ त् । तत्रेदमुत्तरं भवितुमर्हति । उत्तरश्रीरामायणकथाप्रतिपादकं चम्पद्वयं वि द्यते । तत्र च उत्पत्तिक्रमाच्छब्दार्थगतगुणविशेषाच्च प्रथमगणनार्दा श्रीधेङ्क- ध्वरिकृता चम्पू: । सा तावत्सुतरां प्रौढार्थत्वाच्चम्पूप्रबन्धपठनयोग्ये का वर्तमानानां बालानां नात्युपकारकत्वादसमापितकथत्वाच्च साधूनां व्यापत- हर्ष चेतस्तनोति । द्वितीया पुनः कथासमाप्तिमत्यपि संक्षिप्ततरचरितनिरू पपलान्नावि भोदावहा भवति । न . लभ्यते चापरा काचिदुत्तराना- पणकथाप्रतिपादिका चम्पूबहुत्र बहुना प्रवासेन मृश्यमाणाऽपि पठितृभिः ६ ॥ उपोद्धातः ॥ माठकैश्च । तदिमामवस्थामालोक्य रसिकशिरोमणिभिः कैश्चन मे सुहृद्भिः सुतरां प्रेर्यमाणो नातिसंक्षेपविस्तरचरितं प्रबन्ध में प्राणैषं । बहुतरमहावि- धनपाथोधिमुल्लङ्घय समापितेऽस्मिन् प्रबन्धे तदवलोकनसंहृष्टमानप्तास्त एव मे सुहृदः सम्मुद्रय प्रकाश्यतामयं ग्रन्थ इति मां प्रोदसाहयन् । मया तु स्व- ग्रन्थस्य सकलसहृदयहृदयाह्लादकतायां सन्दिहानेन मुहुः प्रणुन्नेनापि नाङ्गी- कृतोऽस्य मुद्रणारम्भः । अन्ततश्च मया महाकविश्रीकालिदासप्रणीतं । "आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलबदपि शिक्षितानामात्मन्यप्रत्ययं चेतः" || इति पद्यं मनसि निधाय पण्डितपरितोषान्वेषणाय प्रवृत्तं । बहवश्व खलु सुप्रसिद्धाः पण्डिताः पठित्वा श्रुत्वा च मदीयमिमं ग्रन्थं सर्वात्मना सन्तुष्टान्तरङ्गाः स्वकीयमप्याशयमभिलिख्य सर्वथा मामनुगृह्य च सद्य एवै. तन्मुद्रणाय सप्रणयं समादिशन् । ततश्च सोऽहं बहुद्रव्यसाध्यं मुद्रापणम- स्य ग्रन्थस्य निश्चित्य कांश्चिद्रसिकमणीन् पण्डितान् प्रभुंश्च संप्राप्य सबहु- मानादरं तैः समुपकृतेन द्रव्येण समापयमस्य मुद्रापणकर्म । अत्र चै भगवतः श्रीरघुनन्दस्य चरितमुत्तरमुपवर्णयितुमुपक्रान्ते ग्रन्थे महषिश्रीवाल्मीकिक्षुण्णात्कथावर्त्मनो न मया रेखामात्रमपि व्यतीतं। प्र- क्षिप्तत्वेन चाधिकपाठत्वेन च व्याख्यातृभिरव्याख्याताना केषांचित्सर्गाणां कथांशा अवाल्मीकीयत्वादनैहिकामुमिकफलसाधका इत्युपेक्षिताः। तत्तत्सम- योचिनत्वेन प्रसक्तं तत्तद्रसवर्णनमपि न किल मया नादृतं । किन्तु न.ति. विस्तरोऽस्य ग्रन्थविस्तरभयात्कृतः । प्रसङ्गानुसारेण हरेर्हरस्य च वर्णना- पराणि स्तुतिपराणि च कानि चित्पद्यानि सगद्यानि संयोनि तानि । बालानां सुबोधताभङ्गभिया श्लेषादयश्शब्दालङ्काराः क्वाचित्का एव समादृताः । तेषा- मपि सुबोधतासम्पादनाय मदनुजेन आयुप्मता साम्बशिवशास्त्रिणा कृता काचन टिप्पण्याप तत्रतत्र निवेशिता । नांशतोऽप्यादृतः कव्यन्तरकृतादरो भुव्यन्तरिक्षे चाप्रसिद्धा रामकथाविपासः अवाल्मीकीयोयं न किञ्चिदष्यदृष्टं जनयिष्यतीति । न च वैरम्यापादकानि बीभत्सरसादिवर्णनानि प्रदर्शितानि ।
॥ उपोद्धातः ॥ एवंविधस्यास्य ग्रन्थस्य मुद्रापणे ये मह्यमुपकृतवन्तस्तेषां कृते मुमहती कृतज्ञतां वहामि । अस्य च ग्रन्थस्य मुद्रणविषये शोध्यपत्रशोधनादिद्वारा बहूपकृतवता “अभिनवभट्टबाणशब्दतालङ्कारविद्याभूषण" बिरुदमः जां पण्डितमणीनां मत्प्रियसुहृदां रा. च. वि. कृष्णमाचार्यमहोदयाना मुपकारस्सर्वथा न मे हृदयादपयास्यति । अस्मिंश्च मुद्रणे स्वीयग्रन्थभुद्रण इ. सबहुश्रद्धं प्रचारितकार्याणां श्रीविद्यामुद्राक्षरशालाध्यक्षाणां श्रीमतां नारा यणस्वाम्यार्यमहाशयानां सुबहून् धन्यवादान् वितनोमि । एनं च ग्रन्थं अकृतपुरातननूतनविचारमवलोक्य विरळतमानापे ता; तत्र लभ्यमानान् गुणलेशानास्वाद्य च सन्तोष्टव्यं तत्रभवद्भिविद्यावाद्भः । द्वेष्टव्यं च नवीनमिदं किमत्र लभ्येत यत्प्राचीनेषु प्रबन्धेषु न लभ्यत इति । आनेतव्यं च स्मरणपथं काळिदासीयं "पुराणमित्येव न साधु सर्व न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः" !! इति पद्यमिति सविनयाञ्जल्यभ्यर्थये । रघवरगुणसङ्गानीरसं मेऽपि वाक्यं सहृदयहृदयानां नूनमाहादकं स्यात् । पतितमशुचिदेशे मेघतोयं नदीनां मिळति यदि जलेन स्नानयोग्यं सतां हि ॥ तिप्पराजपुरग्रामः सहृदयसमुदायवादयः सौम्यफाल्गुन शुक्लतृतीया व. कृ. सुब्रह्मण्य.. अथेदानीमेतद्वन्थपठनश्रवणसंतुष्टमानसानां पण्डितवराणामाशया अ- भिप्रदश्यन्ते ॥ (१) तिरुविशनल्लूरग्रहारवास्तव्यानां स्तव्यानों महामहोपाध्याय श्रीरामसुब्रह्मण्यशास्त्रिणामयमाशयः । . श्रीमद्रामायणाख्यो भुवि खलु विदितः शास्त्रसारस्तदीये सपडाव्ये घुत्तरेस्मित गदितबदुविधानर्थसारान् विदि 'सुबमाया कवीन्द्र तिमतिरमणी चम्पुसशांतु कृत्वा तिष्ठत्यस्यारत महा यदि भवति तदा माग:
॥ उपोद्धातः ॥ (२) तिप्पराजपुरवास्तव्यानां विष्णुपुराभिजनानां गोलमतंत्रपारा- रिपारीणानां पण्डितवरश्रीस्वामिशास्त्रिणां मतामेदं ॥ सुब्रह्मण्याख्यफविप्रणीतमतिसरलपदपदार्थचयं । उत्तरगुणं व्यलोकयमुत्तरचम्पूसमाह्वयं ग्रन्थम् ॥१॥ हृद्या वर्णनचातुरी सुमधुरः पोषो रसानां तथा सालङ्कारतया विभान्ति नितरां गद्यानि पद्यानि च । पुण्या श्रीरघुनन्दनस्य च कथाप्यन्यस्मिन् दरीदृश्यते तन्मन्ये महतामयं खलु भवेद्वाह्यो रसैकात्मनाम् ॥२॥ विष्णुपुराभिजनोयं विस्तरशो वीक्ष्य कृतिमिमां हर्षात् । श्रीस्वामिशास्त्रविबुधो दत्ते स्वां सम्मति सद्यः ॥ ३ ॥ (३) कुम्भवोणनगरनिवासिनां पण्गानामामाभिजनानां श्री'वे- न्तिकेसरि" विरुदभाजां पण्डितमणिश्री गणपतिशास्त्रिणामयमाशयः ॥ सुब्रह्मण्याख्यबुधैः सुघटितमुपदार्शतं च तैरेव । उत्तरचम्पुग्रन्थं हयत्साहादशृणवं यथावदहम् ॥१॥ ललितः पदसन्दर्भश्चरितं रघुनायकस्य पुण्यतमं । अर्थाः शब्दाचास्मिन्नलंकृता भान्ति सहचमत्कारम् ॥२॥ काव्यपथकुतुकिमनसां मन्ये कमनीयमेतदपि काव्यम् । एवं गणपतिशास्त्री स्वाशयमाविष्करोति निर्व्याजम् ॥३ (४) चिदम्बरक्षेत्रे विराजमानानां विबुधवरश्रीहरिहरशास्त्रियां सम्मतिरियम् ॥ सुब्रह्मण्यकविप्रवीणभणितः शब्दार्थभूषोज्वलः श्रीमद्दाशरथेर्गुणौघकलनात्सन्दर्भसारल्यतः। सारग्राहिगुणाकरैः सहयैः सम्माननीयो भृशं ग्रन्थो हयुत्तरचम्पुनामविलसन् लोकोत्तरः शोभते ॥१॥ त्यागराजमखीन्द्राणां शिष्यो हरिहरः सुधीः । इत्थं सम्मन्य कुतुकात्प्रादात्सम्मतिपत्रिकाम् ॥२॥ (५) पञ्चनदक्षेत्रवासिनां परमपवित्रबहुविधक्रतुयाजिनां विद्वजन- मान्यानां ब्रह्मश्री बालकृष्णमखिनां पण्डितमण्डलीपरिवृतानामियं स्वाश- प्रदर्शनी पत्रिका ॥
॥ उपोद्धातः॥
सुब्रह्मण्यकवीन्द्रस्य कृतिरेषा सुधाधिका।
सबालकृष्णविदुषां धिनोति सुधियां धियम् ॥ १॥
(६). पञ्चनद् Tiruvadi क्षेत्रविराजमानगीर्वाणवाणीमहापाठशाला-
प्रधानोपाध्यायता (Head-Master Sanskrit College) पदमधितिष्ठतां वि-
विधपण्डितमण्डलीविभासितसभानायकत्वमधिगतानां पण्डितमणीनां श्री-
माधवाचार्याणामयमाशयः ।।
तर्कालकारशब्दागमगणितमहापण्डितैः साकमेत
त्सुब्रह्मण्याभिधश्रीकविवरचितं चम्पुरत्नं रसाढ्यं ।
श्रुत्वा क्षिप्तावृतित्वात्परिगळितसुविज्ञेयमाभातसंवि
ब्रह्मानन्दाधिमग्नो निभृत इह न चोत्थातुमीशोऽस्मि सत्यम् ॥१॥
सालङ्कारा सरसवचना साधुचित्तं हरन्ती
रम्यां शय्यामलुळितपदां भूषयन्ती स्वभासा।
रामासङ्गाद्वहुतरगुणा लब्धसदृत्तवृत्ति.
ोषेवेयं प्रकृतिसुभगा तोषयत्यन्तरङ्गम् ॥ २॥
श्रीमत्पञ्चनदस्थसंस्कृतकलाशालाबुधाध्यक्षतां
नीतः श्रीनिधिमाधवार्यविबुधो न्यायाधिजेवातृकः ।
सुब्रह्मण्यकवीश्वराय विबुधोत्तंसाय मत्सम्मतेः
प्रादां पत्रमिदं चिरं विजयतामाचन्द्रतारं भुवि ॥ ३॥
(७) पञ्चनदक्षेत्रालङ्कारभूतानां गणिताद्यागमनिष्णातधियां मुप्र-
सिद्धवाक्यपञ्चाङ्गप्रचारणप्रचारितयशसां ब्रह्मश्रीस्वामिनाथशास्त्रिणामिद-
मामोदनं ॥
तिप्पराजपुरस्थानसुब्रह्मण्यबुधेरिता।
कृतिरुत्तरचम्प्याख्या समालोकि मयाधुना ॥१॥
श्लेषप्रसादसमतासुकुमारतार्थ
व्यक्तथादिभासुरतनुः कृतिरद्य तोषम् ।
धत्ते च तादृशममूल्यमपूर्वमेषा
वल्मीका प्रमुनिवर्यगताध्वनीना ॥२॥
इयं कृति कोकिललापशीला गुणान्विता दोषवियुक्तदेहा ।
रसातिपोषो ज्वलवर्णसक्ता साकामिनीषोवायतीह चित्तम्॥३॥
॥ उपोद्धातः ॥ श्रीमत्तञ्जापुराभ्यंचितधरणिपतिश्रेणिराजच्छिवाजि क्ष्मापालान्तःपुरस्त्रीमणिगणितकलाशालिकापण्डितो यः । धर्म तर्के सकाव्ये प्रकलितधिषणो ज्योतिषि स्वामिनाथः सुब्रह्मण्यार्यचम्प्या व्यतनुत शिरसा श्लाधितं मोदपत्रम् ॥ ४ ॥ (७), त्रिशीर्षनगरप्रतिष्ठितमहाविद्याशालाप्रधानसंस्कृताध्यापक- पदमश्नुवाना 'Senior Sanskrit Pandit s P. G College Trichinopoly) "अभिनवभट्टबाणशब्दतालङ्कारविद्याभूषण" इति विरुदभा- जां पण्डितप्रकाण्डानां रा-च वि- कृष्णमाचार्याणां दृढोऽयमभिप्रायः ॥ श्रीमता कविमणिना वि-के- सुब्रह्मण्यशास्त्रिमहाशयेन प्रणीतमत्तर- चम्पूनःमकं ग्रन्थरत्नं बहुषु स्थलेषु पठ्यमानं कविनैवाहमशृणवं । श्रुते च तस्मिन्महानानन्दः भूयानादरश्च मे सद्य एव समभूत् । नवीनमपि काव्यमिदं प्राचीनच्छायामनुवर्तत इति यत्सत्यमिदं कवेरसाधारणो गुणः । स्वयमेव रसिकमणिणा पण्डितवरेण कविना सरसमधुराभिर्वाग्भिरागुम्यमानमिदं क.व्यं भगवतः श्रीरामभद्रस्य उत्तरं चरितमुपश्लोक्यत इति नूनमसाधारिणीं चम- कारकारितामात्मना वहतीति मन्ये सोऽयं कनकस्य कल्याणो गन्धः । प्राचीनसंप्रदायानुसारेण कविना तत्रतत्रोपयुक्ताः श्लेषादयः कवेरस्य काद- म्वर्यादिषु बहुषु प्रौढग्रन्थेषु प्रशंसनीयं परिशीलनमक्षर मावेदयन्ति । किं बहना । साम्प्रतं तत्तत्कविभिरारचितानामाधुनिकानां साहित्यग्रन्थानां स. वत्मिना समाटीकते प्रथमां कोटिमिदं काव्यमिति अस्ति मे द्रढीयानभिप्रायः ।। रा-च-वि- कृष्णमाचार्यः (९) मद्रपुर संस्थानस्थितसकलसंस्कृतविद्याशालापरिशोधकपदमधि- ठितानां विदितवेदितव्यानां विद्यानिधिश्रीकृष्णमाचार्यमहोदयानामयम- भिप्रायः ॥ “ I went through portions of this Manuscript of “ Utharashampu” by Brahmasree, V. K Sabrahmania Sastriar of l'ipparajapuram. His style is fairly good and some of the zhuroikus are smoothflowing. The production shows not only his powers of Sanskrit Composition but also his intimate acquintance with standard authors like Bava and Nagka. Purasawalkam. (Sd.) R. KRISHNAMACHARIAR M.A., Sul-assistant Inspector of 9-11-1000 Sanskrit Schools.
॥ उपोद्धातः ॥ ११ (१०) मद्रपुरप्रतिष्ठापितसंस्कृतमहाविद्यापाठशालाप्रधानपण्डितत्व- रयतां विदितवेदितव्यानां पण्डितमणिश्रीकुप्पुस्वामिशास्त्रिणामामोदनम् ॥ THE Madras SANSKRIT COLLEGE, MYLAPORE. 8th November 1909. I have had the pleasure of hearing many portions of the "Uthararamayana champu” read to me by the Author himself Brahma Sree Snbrahmania Sastrigal of Tipparajapuram. I am glad to say that the work speaks much in favour of the poetical talent and litarary taste of the Author. I think it would fairly stand the test of Sound criticism and I hope it would not fail to occupy, when published, a respectable place in the list of Sanskrit Champus. (Sd), S. KUPPUSAMI SASTRIAL, M, A. Principal, Sanskrit College, Mylapore. (११) मधुरानगरविराजमानानां विदितवेदितव्यानां रसिकशिरो- रत्नायमानानां श्रीमतां सुब्रह्मण्यार्यमहोदयानां नटेशार्यमहाशयानां च प्र. मोदसूचनं पत्रमिदम् ॥ Brahma Sree Subrahmania Sastrigal belongs to Tipparaja puram in the Tanjore District. His poetical talent is unique, and some of his works are highly praiseworthy. Among them, “ Uthararamayana champu” deserves a special appriciatior having been composed in a style indicative of his great schola" ship, free from pedantry and it owns characteristics peculia: to the “ Bhoja champu" Being desired by rary appreciativ. critics, the Gentleman has resolved to print and publish th: "Uthararamayana champu” and if it is accomplished th: publication will serve as a valuable addition to the Sanskrit library. (Sd), N, Natesaiyer, (Sd), P, S, Subramania aiyar', * * * * १२ एतद्न्थे तत्रतत्र निवेशनीयाः प्रमादादनिवेशिताश्च केचन टिप्पण्यंशा इह निवेश्यन्ते । श्लोकः १७५ ॥ "प्रभास" इति वरुणमन्त्रिणो नाम । श्लोकः २२६ ॥ अमृतेति ॥ अमृतात्मतां मोक्षस्वरूपत्वं मुघातनुत्वञ्च । पादम- क्तानां चरणसेविनां किरणसेविनां च । तापा: आध्यात्मिकादयः ताप: आतपादि- जन्यश्च । सद्भिः साधुभिः नक्षत्रैश्च परिवृतः । सुवृत्तः शोभनचरित: सुष्ठु वर्तुलाकार- व । अतएव चन्द्र इवाभासि ॥ . श्लोकः ॥ २३६ ॥ श्रुत्वाऽमुमिति "निप्राषिः” पुलस्त्यइत्यर्थः "रावणग्रहणं. तत्तु वायग्रहणसन्निभं । ततः पुलस्यः शुश्राव कथितं दिवि दैवतै": ॥ इति रामायणोक्तलात् ॥ गद्यं ३४३ ॥ अवापितेति । “नेत्रेषु सर्वभूतानां वसेयं मुरसत्तमाः" ॥ (इतिनिमि:) बामित्येव विबुधा निमेश्वेतस्तदाब्रुवन्” । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि । त्व. स्कृते च निमिष्यन्ति चतूंषि पृथिवीपते" ॥ इत्युत्तरश्रीरामायणे सप्तपश्चाशे सर्गे ॥ श्लोकः ॥ २१७ ॥ "सर्वसहावस्त्रहरी मुनीन्द्रः । समुद्रपायी ऋषिश्रेष्ठः अगस्य इत्यर्थः॥
॥ श्रीरामचन्द्रो विजयते तराम् ॥ अथ श्रीसुब्रह्मण्याख्यकविवरप्रणीतः ॥ श्रीमदत्तरचम्पग्रन्थः॥ वैदेहीदाशरथ्योः परिणयसमये रनवेदीपविष्टां पार्श्वस्थां भूमुतायाः प्रतिकृतिममलां पश्यतो भ्रान्तवृत्तेः । अत्रागच्छ समेतं कुरु विधिमिति तां वेदिमुद्दिश्य वक्तु- श्रुखा वाक्यं वसिष्टाद्भवतु महिभुवो मन्दहासश्श्रियै नः ॥१॥ त्रैलोक्याम्बुजिनीमतङ्गजवरं हत्वा रणे रावणं सानन्दं त्रिदिवालयैश्च सभयं दोषाचराणाङ्गणः । साश्चर्यश्च विभीषणेन मरुतस्सप्रश्रयं मूनुना सस्नेहं वगेश्वरेण तनयाद्रामस्स दृष्टश्शिवम् ॥ २॥ यन्मूर्तिद्वितयं दधद्धरिहराभिख्योज्वलं मायिक मूढानामधिकापकृष्टधिषणोत्पादावहं कर्मभिः । प्राज्ञानामपर्वगदं पुरुषइत्याम्नायमौलौ श्रुतं तद्वः पातु निरस्तदोषगुणकं किश्चिन्महस्सर्वगम् ॥ ३ ॥ हृदि वसति यो यं ब्रह्माहुश्च येन विना जग- चलनरहितं यस्मै लोको विधाय नमस्मुखी । भवति च जगद्यस्माद्यस्याप्यबोधनशाद्भव स्मुखमनुपमं यस्मिन् ज्ञाते सनोऽस्तु हरिसुदे.॥४॥ पिणी ।। अभिवाद्य रगतसं ससाराजनिशाकरम् । टिप्पण्युत्तरचम्प्वाल्यग्रन्थस्य क्रियते लधुः ॥ वैदेहीति ॥दखल सीतारूपिण्या श्रीदेव्या मन्दहासस्य श्रीकरवेन ग्रन्थारम्भे प्रा- थिततमा कव: प्रारासतग्रन्थस्याविनेन परिसमाप्तिः पठितृश्रोत्रादीनां सर्वाभीष्टसिद्धिश्व भगतति प्रतीयते ॥
२ उत्तरचम्पूग्रन्थः। । मन्देनापि यदीयसन्निधिजुषा शास्त्रज्ञता प्राप्यते शिष्या यस्य च विद्यया बुधततेरानन्दसन्दायिनः । योऽन्तेवासिजनस्य वीक्ष्य विजयं मोमुद्यते सादरं तं श्रीस्वामिबुधोत्तमं गुरुमणिं मूर्धा नमाम्यन्वहम् ॥५॥ येन श्रीः स्वयमेव याति पुरुषं निष्कल्मषा शेमुषी बाभाति प्रथमाननैजमहिमा वाणी प्रसीदत्यलम् । यत्साहाय्यमुपेयुषां विजयिता सर्वत्र चाव्याहता सख्यं तत्सह साधुभिदृढतरं बोभोतु नश्श्रेयसे ॥६॥ वन्द्या सत्कविविततिनिन्द्या न मया तु कुकवयो लोके । किं द्यावाभूमितले भिन्द्यानिन्दाऽसतां दुःखम् ॥७॥ वाणि त्वां विनताघमोषणचणां विश्वस्य(१)विश्वेष्टदां श्रीराम कथा प्रवक्तुमयमस्म्यारब्धसत्साहसः । तन्मां देवि विभातपङ्कजवनीदम्भप्रियम्भावुकैः पश्यन्ती नयमाञ्चलैर्मम मुखे नित्यं प्रसन्ना वसेः ॥ ८॥ सल्लीलयेक्षणानां हल्लीनं मे निवार्य चाज्ञानम् । वल्ली विधुतरुनिलया(२)मल्लीमुमतुल्यवाचमाधेयात् ॥९॥ जन्मी यदीयचरणस्मरणाद्रािऽल कर्मीणवाग्जयति संसदि भूपतीनाम् । वर्मीभवेशमशराहतिभाजनस्य वल्मीकजन्ममुनिरद्य मुदे ममासौ ॥ १० ॥ श्रीकालिदासभवभूतिमुखान्कवीन्द्रान् वन्दे महायशस उत्तमकाव्यकर्तृन् । येषां कृतीस्समवलोकयिता यदिस्या- ल्लोकः पुनर्न भविता कविताभिलाषी ॥ ११ ॥ (१) विश्वस्येति ल्यबन्तम् । (२) वाग्देव्या वल्लीत्वरूपणं माकुसुमसमानवामा- धानयोग्यताभिप्रायगर्भम् ॥
उत्तरचम्पूग्रन्थः । कर्तुं यतेऽहमपि रामकथाभिलेखा- न्मल्लेखिनीमतितरां कृतधीः कृतार्थी । सन्तः प्रसन्नहृदयादृशमर्पयन्ता मस्मिन्नलजरचितेऽपि मम प्रबन्धे ॥१२॥ रघुवरचरितस्यालापतस्स्वीयजिहां रचयितुमतिधन्यां शून्यमानो यतेऽहं । सफलयतु मदीयं तीव्रमुद्योगमेतं दशरथसुकृतानामेकरूपं फलं सः॥१३॥ कलितविनतिः पित्रे कृष्णाभिधाय च सूरये धृतगुरुपदाम्भोजद्वन्दो हृदन्तरसमनि । कलयात कविस्सुब्रह्मण्यो विलेखितुमुत्तरां रघुवरकथां गद्यैः पद्यैश्च चम्पुविधात्मना ॥१४॥ गद्यं हि यद्यपि बुधाशयमोदकं स्या त्पद्यञ्च तद्यमिदं मिलितं यदीह । कुर्यात्सतामतितरां हृदयं प्रहृष्टं सह्यात्मजोद्धृतजलं सितयेव युक्तम् ॥१५॥ मृद्धद्धेः कवनं हि मे प्रतरणं नावं विना वारिधे. न्यैस्सत्कविनिर्मितैस्सह तु तद्भूयः प्रहासास्पदम् । तत्रापि प्रभुणा(१)विदर्भविभुना भोजेन यो निर्मितः श्रीमल्लक्ष्मणपण्डितेन च पुनस्तं पूरयाम्यत्रपः ॥१६॥ तथापि काकुत्स्थपदाम्बुजद्वयं विधाय चित्त विलिखामि वस्तु चेत् । विलोकयेद्वार्धितया दयारसै- वलीमुखाधीशमुहद्दशा प्रभुः ॥ १७॥ (१) प्रभुणा-समर्थेन, महाकविनेत्यर्थः ।।
४
उत्तरचम्पूग्रन्थः ।
हत्वा राक्षसनायकं रणभुवि क्षिप्त्वा त्रिलोकीशुचं
कृत्वा पशिशिरःपदे तदलुजं नत्वाऽब्जयशङ्करौ ।
धृत्वाऽऽज्ञा शिरसा पितुर्निजपुरं गत्वा सुहृद्भिस्सम
भृत्वा पौरनुतीर्भुवः पतिरभूदत्वाऽधिकं राघवः ॥ १८ ॥
अवाप्तराज्यं रघुवंशरनं निशाचराणां विलयेन तुष्टाः ।
अगस्त्यमुख्या मुनिसार्वभौमाः प्रतस्थिरे हन्त दिदृक्षमाणाः ।।
गत्वा ते रघुकुलराजराजधानी द्वारस्थैरसमयमथ प्रवेश्यमानाः।
पूजाभीरघुकुलकेतुना काभिस्सन्तुष्टास्सद उपजग्मुरस्य विप्राः !!
अथ ससंभ्रम निर्वतितसपर्याणां पर्याप्तप्रभावाणां पादयोः प्रणि-
पत्य कृत्यपटुभृत्यगणसमास्तीर्णब्रप्तीगणे सभाङ्गणे यथेष्टमुपविष्टानामतिहृष्टा
नां मुनिवरिष्ठानामनुज्ञया स्वयमप्युपविष्टशिष्टजनकष्टहरणनिविष्टश्शिरसि
निवेशिताञ्जलिर्दाशरथिः कुशलानुयोगानन्तरमित्थमकथयत् ॥२१॥
अद्यैव राघवकुले महिता जनिर्म
पुण्यावनीरुह उदग्रफलश्च जातः ।
देवा अनुग्रहपराः पितरश्च सर्वे
यन्मे गृहं भगवतां पदधूलिचिह्नम् ॥ २२॥
म्रियमाणलब्धमनृतं महादरिद्रेण चाप्तमतुलनिधिम् ।
मन्ये भवत्समागममहितजयं कान्दिशीकसैन्यस्य ।। २३ ॥
अलभ्यलाभोद्भवदुर्निवारमहामुदम्भोनिधिमग्नमग्नम् ।
समीहते मे हृदयं मुनीन्द्रा भवत्समादेशतरी तरीतुम् ॥ २४॥
इति प्रतिश्रुतिमती श्रुतिमधुराममृतधुराधरां धराधुरावहस्य वाचं
निशम्य मुनयो मुदितान्तःकरणसीमानो दुर्विज्ञेयभूमानो भूमावाविभूतस्य
चिरन्तनपुरुषम्य स्तुतिरूपं वचनमिदमवोचन्त ॥ २५ ॥
काकुत्स्थ कोऽयं विनयोऽस्मदग्रे भूमीमिमां रक्षसि लोकनाथः।
प्राप्ता वयन्त्वद्य कृतार्थभावं जातो यदस्मन्नयनातिथिस्त्वम् ॥२६॥
उत्तरचम्पग्रःथः । ५ दिष्टया राम त्रिभुवनजुषां कारणा(१) कारिणस्ते प्राप्ता नाशं दशमुखमुखा धविक्षोभदक्षाः । येन प्राप्ता रघुकुलविभो पारिकाङ्क्षिप्रकृष्टा- वीताशङ्कं मखशतविधिप्राप्यमानन्दमग्यम् ॥ २७ ॥ तथा तेनामाकं मनसि न सुखं यदशमुखः परे वा क्रव्यादा जगदहितसक्ताः क्षरमगुः । यथा रक्षश्रेष्ठश्शतमखजयी करचरितो महामायादशोऽप्यनशदिति वाक्यश्रवणतः ॥ २८॥ इति रावणवधमप्यनादृत्य रावणिवधमेव प्रशंसतां भृशंसतां मुनि महतां निशम्य मोदकोलाहलमेदुरां गिरं रघुपतिरपि विस्मयदस्युसमपहृत मानसधनम्तपोधनगणान् साञ्जलिबन्धमिदमवादीत् ॥२९॥ भो भो स्तपोधना महद्धिनामैनदाश्चर्यस्थानम् ॥ ३०॥ तथाहि । पत्यास्यं कुम्भकर्ण प्रघसखरमुखांश्चापि रक्षोनिकायां- स्त्यक्खा वालं तनूजं रजनिचरपतेः किं भवन्तः स्तुवन्ति । किं वीर्य का प्रभावः कथमपि च बलं कीदृशी तस्य माया का बुद्धिः कि तपोवा कथमिव जनितस्सर्वमाख्यातमह्यम् ॥ इत्थं प्रार्थयमानमधिमकुटतटविलुठदञ्जलिकञ्जकुटमलं कुमली कृतवैरियशसं कञ्जविलोचनं कलशसम्भव इत्थमभाणीत् ॥३२॥ नानटीति कुतुकं हृदयान्ते तां कथां कथायितुं सरसां ते । सावधानहृदयश्शृणु राजन्वर्णयामि परमादितएव ॥३३॥ सरसिजभवजन्मा साधुभिः स्तूयमान- त्रिभुवनततकीर्तिसेतया तुल्यकान्तिः । शमविमलमनोऽजस्थापिताब्जाक्षहंस- स्सकलमुनिवरोऽभूद्राम नाम्ना पुलस्त्यः ॥३४॥ (१) कारणा तीनवेदनेत्यमरः ॥
६ उत्तरचम्पग्रन्थः । कनकगिरिसमीपे तातपीति स्म सोऽयं तदुटजमतिहृद्यं नित्यसर्वर्तुकत्यम् । सुरदनुजनृपाणां कन्यकाः प्राप्य नित्यं मुनिनियमविघातं साधु चक्रुर्विहारैः ॥ ३५॥ तदागमं वीक्ष्य दिनेदिनेऽसौ तपोविधि स्वस्य च भज्यमानम् । क्रुधा पराभूतमना मनाक्स मुनिस्तु शापं दददेऽथ ताभ्यः ॥३६॥ इतः परं योटजमेत्य कन्या मदृष्टिमार्गे निपतेदधन्या । तपोविघातोद्भवमन्युना मे सद्योभवेत्सा भृतगर्भमूर्तिः ॥ ३७॥ एवं कृतमनस्तापं शापमाकर्ण्य ससम्भ्रममाश्रितान्यारामासु कन्या सु कानने तत्रैव तपः कुर्वाणस्य निर्वाणस्पन्दिमनसस्तृणबिन्दुसमाख्यस्य राजर्षेस्तनया विनयावनताङ्गयनङ्गविजयपताकेव रम्यतरमूर्तिरातिमती सखी गवेषणेनानभिज्ञतया मुनिशापस्य तदेवाश्रमपदमासदत् ॥ ३८ ॥ पुलस्त्यस्तदानीं समाप्य स्वजप्यं समागात् स्ववासादहिश्शुद्धचेताः। तदा तां चरन्ती महाराजपुत्री- मदर्शत्तमेषाऽप्यथो निर्विकारा ॥ ३९॥ अन्विष्य तत्र च.सखीरथ राजकन्या यान्ती स्ववासभुवमद्भुतगात्रयष्टिः । हेतुं विना मनसिजस्य गता वशं सा स्वं देहमैक्षत मनोहरगर्भचिदम् ॥ ४० ॥ अचिन्तयञ्चैवमाधिभूयिष्ठमानसा ॥ विनापि हेतुं किमिवाद्य चिचजः प्रहारपात्रं प्रकरोति मेऽकम् । उपैति चालस्य महो तनुं च मे सुधासवर्णवमिह प्रदृश्यते ॥४१॥ तनुरियमहो पुष्टिं प्राप्ता तथापि मुदुर्बला कुचयुगमिदं पीनं सस्तं भृशासितचूचुकम् ।
उत्तरचम्पूग्रन्थः अहह महती कष्टावस्थां गताऽस्मि विधेर्वशा- त्किीमह बहुना गर्भोऽकस्मात्तनौ मम दृश्यते ॥ ४२ ॥ कुप्येत्पिता यदि मम प्रवदानि किंवा श्रुखाऽपि वा मम गिरं स कथं प्रतीयात् । चिन्तागुणग्रथितचित्ततयेतिमन्दं यान्ती स्वतातनिकटं सभया जगाम ॥४३॥ तां विलोक्य शुभगर्भलक्षणां वेपमानतनुकाश्च साध्वसात् । लजया नतमुखीच भूमिपो ध्यानमीलितविलोचनोऽभवत् ॥४४॥ विज्ञाय वृत्तं विमना महीन्द्रो मुनीन्द्रमासाद्य च सान्वयिता । पबीमथास्याभ्यकरोत्स्वकन्यां धन्यां च सोऽमूं स्वपरिग्रहेण॥४५॥ तयोस्ततोऽभूत्तनयस्तु विश्रवा स्सुतां भरद्वाजमुनेरयं ततः। उदुह्य कन्यामथ देववर्णिनीं सुतं सुतेजस्कमजीजनत्ततः ॥ ४६॥ अनन्तरं श्रवणसुखदायिश्रवणस्सवैश्रवणस्तपः परितुष्टात्त्रिविष्टप पतिमुखामरपरिवृताच्चतुर्मुखाद्धनपतित्वं दिशापतित्वञ्च सह पुष्पकेण प्रप- नोऽभिपन्नो मुदा, विनुन्नो निर्लयनिलयनिवासकौतुकेन पितुराज्ञया उषिता पसृतपूर्वशर्वरीचरां चराचररमणीयतया वरामोदकारिणी समपहृतद्रष्टुजना तङ्का लङ्कामासाद्य दिनेदिने विरचितसन्मानो विमानेन तेनैव पितसमीप गतागतमाचरन् सुखमासामास ॥४७॥ एतदाकर्ण्य विस्मेरचेता रामो “भगवन् किं वैश्रवणतपूर्वमपि राक्षसास्समभवन् , मया खलु पौलस्त्याएव राक्षसा इति प्रतीयते, विदलयतु मे संशयं विस्तरशः पूर्वतरराक्षसवृत्तान्तवर्णनेन भगवान" इति सप्रश्रयम- श्रावयन्मैत्रावरुणिम् ॥ ८॥ महीन्द्रस्योक्तिमाकर्ण्य मुनीद्रो मोचितस्मितः । आशराणां कथां सर्वामादितो वक्तुमादृतः ॥ ४९ ॥ आकर्णयार्कान्वयरत्र सादरं हेतिपहेती दनुजौ बभूवतुः । तत्र प्रहेतिस्सति वर्त्मनि स्थितो हेतिस्तु लोकत्रयबाधकोऽभवत् ।। १ ८ उत्तरचम्यूग्रन्थः । स च देवदानवयक्षराक्षसकिन्नरकिंपुरुषादिसुखासहिष्णुर्विष्णुभक्त- विद्वेषणपरः पर्यटस्त्रिलोकी कालस्य भगिनी निजरूपसञ्जनितसकललोकम. यां मयां नाम भार्यां संप्राप्य तस्यामहृद्य विद्युत्कशं विद्युत्केशं नामतनयं परि त्यक्तनयं कौशिक(१)इव कादम्बिन्यामशनि शनिमिव च छायायां जगच्चक्षु (२)जगदहितायोत्पादयामास ॥५१॥ तेन च तृगीकृतसकलन भस्सदा सदामदोत्कटा सालकटङ्कटा नाम सन्ध्यासुता परिणीता चापन्नसत्वा प्राप्तपसवसमया च समया कन्दरं सुन्दरे मन्दरे पर्वते नगदनर्थसार्थमिव मूर्त सुकेशनामानमर्भकं निर्भयमेव प्रसूय प्रसूनशरनिभिन्नहृदया हृदयदगितसङ्गममभिलपन्ती विषन्तीब्रमिव सुतसमा गमं मन्वाना तन्वा निजायाश्शिशुं तं रुदन्तं विमोच्य विद्युत्केशसकाश मवाप ॥५२॥ तदनन्तरम। . वामाङ्कस्थितभूधरेन्द्रननयावाहालतालिङ्गितः कैलासप्रतिमल्लाविग्रहमहाभद्रस्य (३) पृष्ठे स्थितः । गच्छन् पुकरवर्त्मना गिरितटे क्रोशन्तमेतं शिशुं कारुण्याद्रमनास्समीक्ष्य दयितावाक्येन जातश्शिवः ॥ ५३ ।। अनुग्रहेणाथ पुरामराते गातुर्वयो (४) ऽसौ चिरजीवितां च । अवाप, शम्भो लदोपमस्य प्रसीदतो नो सदसद्विचिन्ता ॥ ५४|| तेनापि (५) ग्रामणीनाम्नो गन्धर्वस्य सुतायां समुत्पादिता माल्यव सुमालिमालिनामानो मानोन्नता नतारिशिरसस्तपोबलपरितुष्टात्पद्मविष्टरादुर्भ- यत्वादिकान् वानू प्राप्य प्राप्याप्राप्यविवेकशून्या मान्यानपि वितीणदेन्या न् विदधाना यातुधाना मालुधाना इव भेकानेकान्ततस्समाक्रामन्तस्सुरा- न्धरावासहेतोविश्वकर्मणो विश्वकर्मणाऽङ्कितां त्रिकूटालङ्कारभूतां लङ्का- मासेदः ॥ ५५॥ (१) काशिक:-इन्द्रः ॥ (२ जगच्चक्षुः मूर्यः । उक्षाभद्रोबलीवर्दः इतिकोशः । (८) वय इव वय इति श्लिष्टोपमा । (५) तेन सुकेशनापि। (३। भद्रस्य-वृषभ - उत्तरचम्पूग्रन्थः । यत्सालमूर्धनिलयो गण आशराणां मन्दाकिनी (१) पयसि तीव्रतरं निपत्य । कुर्वश्च केलिमधिका सुरवामनेत्रा, स्नानागताः परवशा विदधुभयेन ॥५६॥ यद्गोपुराग्रगतशीतकरोपलानां तत्रागतार्कगतमाधववामनेत्रम् । दृष्ट्वा द्रवपयतां पृपतैस्सुशीतैश्छन्नो रविवितपते नहि दक्षिणाध्या।। ततश्च सन्मानसकृतशल्यानां माल्यवदादीनां दुष्कर्मविष्कम्भित महारम्भास्सम्भावितमन्यवः (२) पुरस्कृतशतमन्यवस्सर्वेपि बहिर्मुखाश्चतु- मुखेन समं समस्तभक्तशङ्करस्य शङ्करस्य चरणयोः प्रणिपत्य कृत्यविदा वरिष्ठा विज्ञाप्य स्वागमनप्रयोजनं जनहितकृतां वरेण हरेण च "मयैव व. पिनं मयैव न हन्तव्यमिदं निशाचरकुलं तद्गच्छत गरुडकेतन" मिनि समा- दिष्टाश्शिष्टापदम्भोधिकुम्भोद्भवस्य पद्मनाभस्य नाभिसरसीरुहरससरसीकृत- तरपयस पयसां निधिमासेदः ॥१८॥ तत्र च श्वासमरुत्प्रवेशनिर्गमनिरर्गलसंप्राप्तशरीरपेषतदभावतया महुरुत्क्षेपावक्षेपसञ्जनिततोषे नमनपरदुरितमोघे शेपे शयानं, जङ्गम- मिव जगदानन्दं, प्राणजुष्टमिव प्राणिजातसौख्यजातं, सदेहमिव साधुजनम- नोरथं, सशरीर मिवपकललोकपण्यनिकर, प्रत्यक्षयोग्यमिव प्रपदनजुषां भाग्य' कलितकायमिव कमलवासिनीनयनमुकृतनिकायं, मूर्तमिव मुनिजननियम- फलं, सेतुं भवाम्बुधेः, केतुं त्रिभुवनस्य, पातुं नरकेषु पातुकान् प्रवृत्तं, स्तोतुं मुनिभिरप्यशक्यं, आदर्शमाश्रितविषादस्य, (३) आस्पदं दयायाः, आलयं प्रभवस्य, आश्रयं प्रेम्णां, आरामं गुणानां, आकरं महसां, दिवाकरं दिविष- दवान्धतमसस्य, निशाकरं नीरधिकन्याहृदयकुमुदस्य रक्षाकरं रक्ष मामि- ति वदतां, प्रलयकरं प्रथितामरविद्विषां, रमणीयतमं त्रिलोक्यां, गमनीयतम योगिबृन्दस्य, स्पृहणीयतमं वयमेव लोचनानां, कमनीयतमं कलुषतरचि-' (१) मन्दाकिनी वियद्गङ्गत्यमरः ॥ (२) सम्भावितमन्यवः प्राप्तदैमाइत्यर्थः ।। (३) आदर्शों यथा झडिति सन्निहितमन्तनिक्षिपति तथा दृटमात्रस्य दुःखं जा. नातीत्यर्थः ॥ 2 १० उत्तरचम्पूग्रन्थः । . . . - त्तवृत्तीना, भाग्यं कविकुलगिरां, योग्यं योग्यन्तःकरणचिन्तायाः, सोपान मार्ग मोक्षमहाप्रासादस्य, प्रपाप्रदेशं भवमरुपचारतान्तजनस्य, गतिं विपापा. नां, पति सकलसरसिजमवाण्डाना, ततिं सौन्दर्याणां, पात्रं मनोविहारस्य, दात्रं दुरुच्छेदमायामहीरुहस्य, पारं तत्व (१) महं दधेः, सारं सकलकृत- केतरवचतां, निर्मितमिव नीलोत्पलैः, निबद्धमिव निरहङ्कारचेतोगुणेन, नि. लीनमिव वारिधौ, लिप्तमित्र मरकतद्रवेण, रूपान्तरमिव महेन्द्रनीलशैलस्य, स्थानान्तरमित्र नीलाम्बुज कदम्बकस्य, स्थलान्तरमिव तमालकुमुमनिकर- स्य, निवेशान्तरमिव शतपर्विकावनस्य. (२) निवासानारमिव सतोयतोय- धरबृन्दस्य, निधानं भाग्यस्य, विधानं विनतजनसम्पदा, प्रधानं मात्रय- स्य, पिध'नं द नजनविषदां, शेवधि दयायाः, तोयधिं सकललोकनमस्कृति तरङ्गिणीनां, प्रतीतं ज्ञानिमिः, अतीतं गुणत्रयीं, (३)शतक्रतुमिव सहस्रवि. लोचनदर्शनीय, अग्निमिवाश्रिताशनकरणबद्धादरं, वैवस्वामित्र सुकृतेतर- वचनश्र, नितिमिव सकलपुण्यजनसमाश्रयं, वरुणमिव, जलाशय- निवासपरं, वायुमिव स्पर्शनसमुपजनितमुदं, कवेरमिव उत्तराशासंपूरकं, ईशानमिव सर्वमङ्गळालिङ्गितं, सूर्यमिव स्वालोकसमुपशमिततमसं, च-द्रमिव (१)तत्वानि पृथिव्यादीनि पञ्चविंशात, तान्यतीत्य स्थितमित्यर्थः॥(२) दूर्वात शत:पविका इन्यमरः ॥(३) सहस्रति, । सहस्र लोचनानि यस्य तं, अतएव दर्शनीयं, अन्यत्र, अति- सुन्दरत्वात्सहनेण लोचनैर्दर्शनीयं । आश्रितति । आश्रितस्य वस्तुनः, अशनकरणे भोजने- बद्धादा; अन्यत्र, आश्रितानामशन काणे ( उपलक्षणमिदं ) अशनादियोगक्षेमकरणे- बद्भादरं । सुकृतेति । सुकृतेतोषां पापिना वचनानिभृणोतीति तादृशं; अन्यत्र, शोभनेषु- कृतेतरवचनेषु वेदवचस्मु श्रूयतातितादृशं । सकलेति । पुण्य जनाः गक्षसाः, पुण्यकृतो ज- नाथ । जलेति । जलाशया जलाधारस्थानानि तत्र निवासपरं। अन्यत्र, जलाशयस्स. मुद्रः । स्पर्शनेति । स्पर्शनेन स्पर्शाख्यविशेषगुणेन, अन्यन, दानेन, समुपजनिता मुन् , प्रीतियन तं । उत्तोति । उत्तगशा, उत्तरादेशं सम्पयतीति, अन्यत्र उत्त- गंशाः - श्रेष्ठान्याप्सितानि सम्पश्यतीति तादृशं । सर्वेति । सर्वमङ्गलया पार्वत्या आलिङ्गितं, अन्यत्र, सर्वैरपि मङ्गलः ( आश्रितेभ्यो देयैः ) आलिङ्गित विशिष्ठ- मिति यावत् । स्वेति । स्वालोकेन शोभनया कान्या समुपशमितं नाशित- तमः तिमिर येन तं । अन्यत्र, स्वालोकेन स्वीक्षणेन समृगशितं तमः अविद्या येन तो " . - - उत्तरचम्पूग्रन्थः । ११ सन्मार्ग नुवावनप्रियं, लोहिताङ्गमिव बुधाग्रगण्य, बुधमिव सौम्याभिख्यं, गुरुमिव त्रिदशाविहीनं, शुक्रपित्र देवयानार्षितसुखं, शनैश्चर मिव सूर्यादर- पात्रभूतं, राहुमिवोपकण्ठविलोलानितचक्रं, केतुमिवानुत्तमाझं, आकाशमिव स्वगुण- फलीकृतजनश्रवसं, त्रिविष्टपमित्र प्राप्तामृतपरिसेवितं, सगरमित्र रखाकर जनकनिनप्रभावं, भगीरथमिव गाणिसरस्वतीजातस्तुतिं, ब्रह्माण- मिव सत्यालय, प्रयागक्षेत्रदेशमिव त्रिभुवनरमणीयं, सनेरुमिवानन्नमणिकुल. प्रभाभासितं, सानुमत्प्रदेशमिव सुरभिकुसुमावभासितवनमालाधारिणं, कृष्ण- जायमानं हि पुरुषं यं पश्शेन्मधुसूदनः । सात्विकस्म तु निशेगस्त मोक्षार्थचि. न्तक" इत्य के: । सतिति । स-मार्ग: आका I:, अन्यत्र माधुमार्गः, तत्रानुधावन. प्रियं । बुधेति । बुधाप्रे बधापूर्व गणं, गणनायोग । नवग्रहगणनाप्रस्तावे कुजानकार- व बधो गण्यते । अन्यत्र विद्वच्छष्टं । सौम्यति । सौम्न इति अभिल्या. नाम, यस्य तं, अन्यत्र, सौम्या प्रसन्ना अभिख्या शोभा यस्य ।। वीति । विशेदववि- हीनं, समासेवितमित्यर्थः । अन्यत्र तिमभिर्दशाभिर्वाल्ययीवन जगत्मिकाभिविहीनं । देवे. नि । देवयानाय स्त, अर्पित • दत्तं मुखं येन तं । अन्यत्र देवयानेभ्यः (अर्शा- धवा ) मार्गविशेषविशिष्टेभ्यः, आँपतं दत्तं, सुखं अपुननिवृत्तिरूप आनन्दः येन- तं । मूर्याटरेति । सूर्यादास्य सूर्यपेम्णः (पुत्रत्वात् । पात्रभूतं । अन्यत्र, सरीणां विदुषां ब्रह्मज्ञानिनापिति यावत् ; आदस्य भक्त्यपरपयस्य पात्रभुतं । उपेति । उपकण्ठं • कण्ठे (विभक्त्यर्थेऽव्ययीभावः) विलोलं, अजितस्य - विष्णोश्चकं यस्य तं । अन्यत्र उपकण्ठे समीपे, विलोलं, अजितं, न कुवापि पगजिनं चक्रं यस्य तं अनुत्तमेति । अनिद्यमान, उत्समाङ्गं - शिरः, यस्य तं । अन्यत्र अनुत्तमान्यतिथ. न्यहानि यस्य तं । स्वेति । स्वगुणः - शब्दः, शब्दगुणकाकाशमितिगौतमीगोक्तिः तेन सफलीकृतानि श्रवांसि कर्णा येन तं (कर्णानां शब्दकग्राहकत्वात् । ) अन्यत्र । स्वगुण गमायणादिगतःसपलीकृतश्रवसमिति पूर्ववत् कर्णप्राप्तेर्भगवद्गुणाकर्णकफलत्वात् । प्राप्तेति । प्राप्तामृदेिवगिति यावत् , अन्यत्र, मुक्तः परिमवित । ग्नेति । नाकरः समुद्रः, तस्य जनकः उत्पादकः निजप्रभाव: यस्य तं । अन्यत्र, नाकरः श्रेष्ठ वस्तुपुनः तजनकनिजप्रभावं । गांवणिति । गीर्वाणमस्ती गङ्गा, तया तदानय- नेनेत्यर्थः । अन्यत्र, गीर्वाणानां देवानां सरस्वतीभिर्वाग्मिर्जातस्तुति । सत्येति । मत्य. लोकनिवासं । अन्यत्र, सत्यस्य आलयं । त्रिभुवनेति । त्रिभिर्भुवनैः (गङ्गायमुनासर- स्वतीनां) जलै: रमणीयं । अन्यत्र, लोकत्रयमुन्दरं । अनन्तेति । अनन्तानां मणि: कुलामा प्रभाभि सितं नमानुत्वान्मेरोः । अन्यत्र । अनन्तस्य शेषस्य मणिकुलाना शिरोरत्नसमूहाना प्रभाभि सितं शेषफणानां घायमाणवाद्भगवतः । सुरभीति । वनमा. . .
. १२ उत्तरचम्पूग्रन्थ । पक्षनिशाकालमिव तारकाभिख्याशोभनं, कैलासमिव राजराजाञ्चितपाद, हिमवन्तमिव शिवाभिजननकर, सञ्चारिण्येव काञ्चनलतया, स्थिरीभूतयेव विद्युता, पक्षान्तकालवृद्ध्येव लावण्यरत्नाकरस्य, शुक्त्येव 'मुक्ताश्रितया, सरम्येव पद्माभिख्याविलसितया, विहङ्गयेव विष्णुपदासेवनतत्परया, पद्म या परिसेवितं, सविधस्थितेन, बद्धाञ्जलिपुटेन, कायकान्तिपरिहसितका- ञ्चनशैलेन, मण्डनेन दुग्धोदस्य, खण्डनेन विद्विषां, पिण्डीभूतेनेव दैतेय- महाविपजालकेन, वैनतेयेन विनीताकारेण विहिताहणं, सकललोकवन्दनी- यतादशाह, दाशार्ह दिविषदः प्रणिषत्य सत्यमेवमस्ताविपुः ॥ १९ ॥ श्रियमिह कुर्यादधिकां श्रितजनदुःखौघतिमिरहरणचणम् । श्रीशेषभोगदृश्यं श्रीपतिनामाङ्कितं तेजः ॥ ६॥ कल्याणाय तदास्तां करुणाकूपारवीक्षणं कामम् । कलशीपयोधितनयाकटाक्षपुनरुक्तकाळिम महो नः ।। ६१ ॥ सारं श्रुतिवचनानां भारं नमतां वहन्तमतिहर्षात् । पारङ्गतैर्भवाब्धेस्तारं विजुतं भजामहे देवम् ॥ ६२ ॥ कृत्यानि ते प्रतुष्ट्ये हत्यान्यस्माभिरच्युत कनानि । अत्याहितानि नाशय मत्या कलितोऽसि विपदि जातायाम् ॥६३॥ देव त्वदशिकमलं नियतात्मनामप्यत्यन्त दुर्लभनरं महतामृपीणाम् । तत्तादृशं कथमिम विपधावसक्ता जानीम इष्टद ततः परिपाहि दीनान् । ला वनपतिः भगाता ध्रियमाणा माला च । नारकेति । तास्काणां नक्षत्राणां आमख्यया शोभनं, कृष्णपक्षे चन्द्राभावात् नक्षत्राणां प्रकाशवत्वात् । अन्यत्र तारिकया संसारतो भक्तानुद्धर्तुं समर्थया अभिष्यया आया, भगवन्नाम्नां पठनमात्रेण संसारनिवर्तकत्वात् । राजेति । राजराजः कुवर: तेनाञ्चित: वासत्वेन प्राप्तः पादः प्रयन्तपर्वतः यस्य त, केला. सैकदेश एव कुबेरस्य निलयात् । अन्यत्र कुबेरपूजितचरणं । शिवेति । शिवायाः पार्वत्याः अभिजनां जन्म, तत्करोतीति अन्यत्र । आश्रितानां मङ्गलोत्पादनतत्परं । सञ्चारि- प्येत्यादीनि लक्ष्मीविशेषणानि । मुक्तेति । मुक्ताभिः मौक्तिकः श्रितया प्राप्तया । अ. न्यत्र । मुक्तस्सनकादिभिराश्रिया सेवितया । पनेति । पद्माभिख्यया कमलशोभया, अन्यत्र 'पद्मा" इति नाना, विलसितया । विष्ण्विति । विष्णुपदं आकाशं हरिचरणश्च ॥
उत्तरचम्पूग्रन्थः । १३ एवमभिष्टुत्य मुहुर्मुहुः प्रणिपत्य च विज्ञापितस्व गमनकृत्यान. त्याहितशङ्किनोऽमानत्यादरेण नयनारविन्दनिप्यन्दिमकरन्दबिन्दुसन्दोह- स्यन्दिभिरिव सदयावलोकनरनुगृह्य प्रगृह्य निखिलान्यायुधानि युध्यध्वं तावदीभिस्तमीचरैरहमप्येनानभिलुनामी"ति आक्ष पयन्नेवान्त िजगाम ॥ देवास्ततस्तेऽप्यभिषेणनो (१) स्कैश्चक्रुयुधं गत्रिचरैस्सभीमाम् । तदन्तरे दन्तुरकोणपोघे पक्षीन्द्रमारुह्य हरिजंगाम ।। ६६ ।। भयेन धावत्म निशाचराणां गणेपु दम्भोळिधरस्य वाणैः । माली गहास्यन्दनमारोह महीय्यमानः कुशलेन यन्त्रा ॥ ६७॥ तदनु शरसमूहैर्मालिनारायणीयः कवचितइव भाति व्योनि सर्वत्र सर्वे । न च निशिचरवर्गा नैव चास्वनसचा-- नयनपथमनैपुरस्वामिनं स्वं स्वपार्ताः ॥ ६८ ।। कृत्वा माली दरमहं सैन्ययाना- कोपं कृष्ण खां गदां निमोच । । दैत्यारिस्तां भञ्जयित्वाऽथ रक्षो हत्ता दध्मौ पाञ्चजन्यं स जन्ये ॥ ६९ ॥ वनमालिनि हतमालिनि समालिमुरूमा भिया विहस्ततराः । निगमतनो (२) निहतानिशे सङ्घास्तमसो यथा द्रु। दुष्टाः ॥७० ॥ अथ भयविद्वरितमानसेषु मा मुज्झित्वोपहरे समालोच्य नि- श्चित्य कृत्य गातं परित्यज्य लङ्कां तरसा तरसाशनेषु रसातलं प्रविष्टेषु ह- तावशिष्टेप्वहृष्टेषु, कदाचन सदातनभोगरसाभिलापां कुमृष्टिमन्यादृशीमिव वैधसी कैकसी सुतामादाय मेदिनीमवाप्य इतरानवाप्येन पृप्तकेण निप्पतन्तं निनपितृसमीपतः पतिं निधीनामधीनं धर्मे दुर्मेधास्सुमाली समानातीननिज- पुरसमाक्रमणविमानितस्समीक्ष्य समीपतस्समीकतो जेतुमेनमक्षमतया सावेगं तनयामिदमवादीत् ॥ ७१ ॥ (१) अभिषेणनं सैन्यैस्सह शत्रून् प्रति यानम् ॥ (२) निगमतनो सूर्ये ॥
१४ उत्तरचम्पग्रन्थः वत्सेऽमुनास्मनगरी प्रभुज्यने तन्भुना विश्रवसोऽननुश्रिया । बयाप्यमुष्मान्मुनिसार्वभौमती बावाप्यतां शीघ्रममूदृशरमुतः।.७२॥ अथ सा तरसा तरसाशनप्रवरस्य जनकस्य कनकपुरीनिवासविहि. तेहितस्य तस्य शिरसा प्रतिगृह्य शासनं पाकशासनपहितान् नाकसनि. वह नुत्पत्स्यमानेनात्मजेन परानेतु कामा कामाभितापितहृदयसमा सीम. विरहितभूमानं मार्ताण्डमण्डलमैत्रधामानं विख्यातनामानं विश्रासमपि लो- कान्तरगतभाषणानामपि श्रवणनिपुणं मुनिमुपेत्यावन्ध्या भवितुमिच्छन्ती स. ध्याकाल प्रनाम ।। ७३॥ स तु विज्ञानचक्षुषा विज्ञ तत-मनोगतमनोरथो · भद्रे भवतु भवत्या ईप्सितं सिद्धिंगतं जनिष्यन्ते च ते यथाभिम सुताः, परन्तु कालस्यास्य क्रौर्यवत्तया क्रूग एव ते भविष्यती" त्युक्ता पुनरपि तया सप्रणाम प्रसा- दितः "तेप्वन्तिमस्सत्ववान् सत्यतांश्च भवति"ति तामनुगृह्य स्वमाश्रम मशिश्रियत् ॥ ७४ ॥ तदनु गर्भमत भूय:- काले गतेऽथ सुषुने तनयं दशास्यं । तं कुम्भकर्णकमयो जनगंवभून तस्मात्परन्त जनि शूर्पणखा तनूजा ॥ ७९ ॥ जा तेषु तेषु जननीजठरात्मनेषु करो वो च पवनो घरणिश्वकम्मे । रक्तं ववर्ष मरुतापधिपः पयोद जवाल नैव सुशिखोऽनरवदिवहिः ॥७६ ॥ विभीषणमजीजनतदनु केकसी देहभा- विलजितदिनचरं विशुतवृत्तमिन्द्रादिभिः । शिशुस्स तु सुराङ्गनाकरसरोजमुक्तैस्मुमः सहैत्र माभूरुहां भुवमगात्समां तुष्टयं ॥ ७७॥ सा ककसी उत्तरचम्पग्रन्थः । १५ तदनु मातृसमानवयोगता दशमुखादिसुमालिसुतासुताः । स्वापितुरेव कृतावसथा बने समभवंश्व कलासु विशारदाः ॥७८॥ अथ कंदाचन पुष्कोण समागच्छन्तं वैश्रवणं विलोक्य त्रैलोक्य- विनतमहिमानं मानधनं धनञ्जनयकरकरं (१) अधृष्यया महेप्पया सम्पूर्ण मानसा, मानसादनपरा परस्य वृत्तिं परिगता तामसी केकसी स्वतनयाना- "वत्सा निशामयतामुं प्रशान्तारिमस्मत्पूर्वतरोषितपूर्व पूर्व विश्वकर्मणा निर्मितं वैरिगणगरं नगरगनुभवन्तं । मवन्तोऽपीदृशीमवस्थामात्मन्यवस्थाप- यन्त्वचिरेणे" ति समादिश्य तथात्वाधिगमाय तपःकरणमेव प्रथमतरं कर- णमुपदिदेश ॥ ७९॥ मातुर्वाक्यं क्षेमदं साधु बुद्धा बद्धा चताऽतुल्यसम्पत्समृद्धौ । गोकर्णेसम्मोचितणेंश्रितानां तप्तुं तीव्र ते तपःप्रारभन्त ॥०॥ तत्र च ॥ याते वर्षसहस्रके दशमुखश्छित्वैकमग्नौ शिरो हुत्वा ब्रह्मण एतदित्यभिजपन्मन्त्रं प्रपेदे मुदम् । एवं स्वस्य शिरांसि पङ्कसहभूसात्कृत्य हर्षा भवा. प्यायाते न तथापि वेधसि शिर छेत्तुं प्रत्तोऽन्तिमम् ।।८१॥ तदात्वएव साविकवरसनकसनत्कुमारादिसमुपवर्ण्यमानविरुदमासुर- पुरःप्रदेशः, पन्नगपतिशायिपत्रपत्ररथराजस्पर्धयेव स्वयमपि कुम्भीनसानिव पद्मनाळानास्येन बिभ्राणं, सप्राणमिव सत्वगुणनिकरं, परमप्रमाणं मल्लि. काक्षमल्लमारुह्य समस्तैरपि विहस्तैस्सुधाशनवरैरन्वीयमानः, सञ्छिन्ननवक- न्धरं धरमिव वजधरनिकृत्तकतिपयशिखरं खरतरतपसमुपेत्य "वत्स मा. मैवं साहसं कृथा वृथा। वृणीव वरान् । घृणी तावदहमस्मी"त्याचष्ट पद्मवि. ष्टरः ॥ (२॥ दशवदनस्ततो जलजसम्भवपादयुगे पणिपतनं मुहुरिचयन् गिरमेवमधात् । • ) धनजयः भनि: तस्य जयं न्यूनीभवनं (जि अभिभः इति धातुः अभिभवो न्यूनीभवनमिति दीक्षितवर्याः) करोतीति तादश: करः देहकान्तिर्यस्य तं ।।
उत्तरचम्पूग्रन्थः
भुवनपते दिशेस्सकलदेहिभिरप्यमृति
मनुजविनाकृतैस्तु स ददावर तां द्रुहिणः ॥ ८३ ॥
चतुर्मुखोऽयो मघवन्मुखैयतः
स कुम्भकर्ण समवाप्य दुर्धियम् ।
सरस्वतीदूषितवाक्प्रवृत्तये
सुदीर्घनिद्रां प्रददौ प्रयाचिताम् ॥ ८४ ॥
विभीषणस्सत्ववनां वरिष्ठो वत्रेऽच्युते भक्तिमजादरिष्ठाम् ।
सोऽनेन तुष्टस्सुतरां स्वयम्भूः पादात्स्वमस्त्रं चिरजीविताश्च ॥८५॥
एवं वितीर्य वरमब्जभवे प्रयाते
पेतुस्स्वमातृपदयोरथ कैकसेयाः ।
नीत्वा दशाननमथो जननी स्वमङ्क
वाचं सुमालिसहिता निजगाद हष्टा ॥ ८६ ॥
वत्स त्वत्सनाथाया अपि ममाधिरयं सरयं हृदयं पीडयति, यत्किल
तव वैमात्रेयः कुवेरः, कृत्स्नस्य निधिगणस्य महेश्वरः प्रतिवसति मत्पितृ-
समार्जितामेव लङ्कां । अलङ्कातर्येण । तमेनं विद्राव्य भद्राय तस्यामेव वसन्
सकलनिशाचराणामविता मवितासि चेदतिताम्यदिदमस्मत्स्वान्तं कान्तं मुदा
भविष्यतीति ॥ ८७ ॥
निशम्य तां वाचपसौ दशास्यः प्रहस्तमुख्यैस्सचिवैर्विचार्य ।
संप्रेषयामास सहोदराय प्रहस्तमेवार्पितवाचिकं तम् ॥ ८८ ॥
अथ वैश्रवणेऽपि प्रहस्तवचनश्रवणविहस्ततरे समस्तैरपि स्वजनस्सह
निदेशारिपतुः परित्यज्य लङ्कां कैलासमभ्येत्य, तपःप्रसादितस्य समासादितो
पकण्ठस्य शितिकण्ठस्य कृपया तत्सख्यं तत्रैवाळकाभिधानं पुटभेदनश्च
संप्राप्य सुखं रममाणे, दशाननोऽपि स्वज्ञातिवर्गण सह त्रिकूटशिखराल-
ङ्कारभूनां लङ्कां प्रविश्याभिषिक्तश्च राक्षसाधिपत्ये सुखमासामास ॥ ८१ ॥
उत्तरचम्पूग्रन्थः । १७ - वनमथं मृगयायै जातु पतयाननोऽगा. न्मयमसुरवरेन्द्र तत्र वीक्षाम्बभूव । तदनुं दनुजरक्षोनायको स्वस्व (१) वार्ता- प्रवचनकुतुकाढ्यौ जातवन्तौ नितान्तम् ॥ ९० ॥ ततः परस्परालापकालविज्ञातनिशीथिनीचरनायकत्वसम्प्रीतेन पूर्व देवदेवेन विश्राणिता, निजसौन्दर्यसन्दानितमन्दाक्षबृन्दारकसुन्दरीबृन्दा, आधारं शृङ्गारस्य, आवासं विलासस्य, आस्थानी जननयनहारित्वनृपस्य, द- म्भोलि मनोजयमहीधरस्य, कुम्भोद्भवं स्वावलोकनपरदुःखपारावारस्य, द- म्भोद्रेकहारिणी शिरीषकुसुमानां, अम्भोजविजयिनीमाननकरचरणेन, स्थि. रामिव विद्युतं, परामिव स्त्रीरत्नसृष्टि, वरामिव मनसिजसाम्राज्यासिद्धि, नता पूर्वाङ्गे, गतामभिरूपकुसुमशरजयसाधनातां, नुताञ्चक्षुष्मद्भिः, कृतामिव ज्योत्स्नादिभिर्मनसिनेन, शोणामधरे, वीणां स्वरे, स्त्रीणां वरां, हीणां नि. सर्गत एव, एणापमाननपरकोणारुणचपलनयनां, प्राणापहारिणी सकृ- दर्शनमात्रेण यूनां, सूर्यमण्डलीमिव (२) पद्मावभासकरशोभितां, यमुना- मिव विविधकुसुमालंकृतवेणीसमुज्ज्वलन्महानैल्या, लतामिव सुमधुरोत्कम्पा, उद्यानभूमिमिव आमोदबहुलकुचाभोगभूषितां, पार्वतीमिव शिवाङ्गालङ्कार -- (१) वार्ता वृत्तान्तः ॥ (२)पद्मति, पद्मानि अभासयन्तीति पद्मावभासाः कगः किरणास्तै शोभिता । अन्यत्र पद्माविवा वभासते इति पद्मावभासौ, तादृशाभ्यां कराभ्यां हस्ताभ्यो शोभितां । विविधेति। विविधैः कुसुमैः पद्मादिभिरलंकृतायां वेण्या प्रवाहे समुज्ज्वलत् महानत्यं यस्यास्ता। अन्यत्र विविधैः कुसुमै तीमल्लिकादिभिरलतायां वेण्या एकीकृते कचकलापे समुज्ज्वलन्महानै- ल्यां । सुमधुरेति । सुमधुरया- पुष्पमारेण उत्कम्पां अतीव कम्पमानां । अन्यत्र सुमधुरः अतिसुन्दरः उत्कम्पः पाणिग्रहणकालिकः श्रृङ्गारवेपथुर्यस्यास्तां । आमोदेति । आमोदेन गन्धेन बहवः पूर्णाः लकुचा: जम्बीरवृक्षाः यरिंगस्तादृशेन, आभोगेन विस्तारेण भूषितां अन्यत्र आमोदबहुलयो: चन्दनादिगन्धपूर्णयोः कुचयोगभोगे विस्तारे भूषितां हारादि . भिग्लंकृता । शिवेति। शिवाङ्गस्येश्वरशरीरस्यालङ्कार इवालङ्कारस्तस्य भावस्तत्ता तामापन्ना, अन्यत्र शिवा मङ्गलात्मकाः अङ्गालङ्काराशरीरभूषणानि यस्यास्तस्या भावमापन्नां । 3 उत्तरचम्मन्थः । तापन्नां, लक्ष्मीमिव पुण्डरीकेक्षणदर्शनसञ्जनितानन्दा, सरस्वतीमिव चतुरा- ननगतविलासा, पौलोमीमिव सहस्रविलोचनदर्शनीयां, अमरावतीमिवानि. मेषानुभवयोग्यां, बाणासुरनगरीमिव सोमलसन्मुखभागां, क्षीरोदम्थलीमिवा- धरस्थितसुधां, किष्किन्धामिव सुग्रीवोपकण्ठशोभमानाङ्गदां, सुमेरुस्थली मिव शोभमानमणिकटका, चोलविश्वंभरामिव कांचीपरिदृश्यमानाधिकलो. कां, न्यग्रोधदलराजमानमन्दोदरी मन्दोदरीं तदीयतनुभवां पाणौकृत्य गृह गयासीत्केकसीतनुजः ॥९१॥ रक्षोनाथस्स्वनगरगतः कुम्भकर्णस्य पनी पुत्रीपुत्री परुपहृदयां हन्त वैरोचनेस्सः । वज्रज्वालामकुरुत, तनूजाश्च शैलूपनाम्नो गन्धर्वस्यालभत सरमां तत्कनिष्ठोऽपि पनीम् ॥९२ काले गने बहुतिथे मयपुत्रिका सा वंशं कलङ्कयितमनभवस्य भूयः । पुण्डरीयोति । पुण्डरीकेक्षणा हरिस्तम्य दर्शनेन संजनित: आनन्दो यस्यास्तां अन्यत्र पुण्डरीकेक्षणाभ्यां पद्मसदृशने त्राभ्यां दर्शनेन म जनितानन्दः । चतुरेति । चतुगननं ब्रह्माणं गतः प्राप्तः तदेकविषय इतिभाव: विलासः विभ्रमो यस्यास्तां । अन्यत्र चतुरा: आनन- गताः विलासाः अस्यास्तां । महति । सहलविलोचन इन्द्रः तेन द्रष्टुं योग्यां अन्यत्र सह स्रेण विलोचनेंद्रष्टुं योग्यां । मुन्दरत्वात् । आनमेषेति अनिमेषाणां देवानां अनुभवस्य भोगस्य योग्यां अन्यत्र अनिमेष पक्ष्मव्यापार शून्यं यथा तथा अनुभवस्य दर्शनस्य योग्यां । सोमेति। सोमश्शिवस्तेन लसन् मुखभाग: द्वारभूमिर्यस्यास्तां अन्यत्र सोमवचन्द्रवलसन्भुस्न- भागः वदनप्रदेशो यस्यास्तां । अधति। अधरे अधाभागे स्थिता मुधा यस्यास्तां अन्यत्र अबो दन्तच्छद स्थिता मुचा यस्यास्तां सुधामधगधगामित्यर्थः । सुग्रीवेति । मुग्रीवस्य वानर- मजम्य उपकण्ठे समीप शोभमानः अङ्गदः वालिमूनुः (तय युवराजत्वात्) यस्यां तां अन्यत्र सुग्रीवायाइशोभनकण्टम्य उपकण्टे समीपे शोभमाने अङ्गदे यस्यास्तां सोभमानेति। शोभमान: भगिकटकः पलाचर: नितम्बापपर्याय: पर्वतमध्यप्रदेश: यस्यो ता अन्यत्र शोभमान मणिकटक रत्नकङ्कणम् यस्यास्तां । काचीति । काञ्च्यां तदभिधानायां पुरि, परिदृश्यमानः अधिकलोकः जनः यस्यास्तां तस्या गजधानात्वात् । अन्यत्र काञ्च्यां तदभिवायां भूगायां परिदृश्यमानोऽधिकलोकः प्रपञ्चः यस्यास्तां तस्यारत्नमयत्वात् ॥ -
उत्तरचम्पग्रन्थः ।
१२
मन्दोदरी सुतमसूत सुरार्तिहेतुं
कादम्बिनीव जगतामशनि भयाय ॥९३ ॥
जाते सूते दशमुखः प्रमदाभिपूर्णः
कल्पान्तवारिधरवत्प्रतिमुक्तनादम् ।
साकं समस्तसचिमहमारचय्य
नाम्ना च तं समतनोदथ मेघनादम् ॥१४॥
लोके शूर्पणखां न कोऽपि च यदा स्वीकर्तुपैच्छत्तदा
विद्युजिह इतीरिताय दनुजश्रेष्ठाय रक्षोऽधिपः ।
दत्त्वा नां स्वयमेव भूरिवमुभिस्सन्तोष्य सम्प्रेष्य च
प्राप्तो विज्वरतामुवास सुखितो मूनि स्थितो रक्षसाम् ॥ ९५ ॥
अथैकदाऽदसीयदुश्चरितममाकर्णनविदनमानसेन निधीश्वरेण प्रहि.
तं हितमुपदेष्टुं कमपि दूतं कालदुतवशंवदनां नीला, तदैव विलोक्य त्रि-
लोक्या विनयं करणीयकोटी, भरणीयैश्च वैधयैरपि विधेयैः महोदरमहा-
पार्श्वग्रहस्तमारीचशुकसारणादिभी रिपुमारणादृतैः परिवृतम्सचिवैर्मोह
इव कामादिभिर्विवेकमिव व्यम्बकसखं प्रथमतो जेतु तत्पुराभिमुखमेव प्रतम्थे
कृतलोककदनः पतिवदनः ॥९६ ॥
कैलासं समवाप्य राक्षसपतिश्चाद्य यक्षान् युधे
योद्धं स्वानपि सैनिकानगणितान् सम्पाहिणोत्साधुयान् ।
जाने तत्र महारणेऽथ दलिते रक्षाबलेऽमर्पितो
मारीचो मरुता समः परवलं चक्रे च तूलोपमं ॥ ९७ ॥
अथ राजराजवचनात्समागतं
मुधि माणिभद्रमवलोक्य राक्षसाः ।
तरणिं यथान्धतममस्य सञ्चया-
भय कृष्यमाणनवः पलायिताः ॥९८॥
२० उत्तरचम्पूग्रन्थः । मारीचादीन् सीदतो वीक्ष्य वीरान् क्रोधायुद्धं माणिभद्रेण कृत्वा। तेनोन्मुक्तर्गिणैमर्मघाता- त्सुस्रावास्याच्छोणितं राक्षसेन्द्रः ।। ९९ ॥ अथ मायामय्या मांतिवेधनिर्मापितारातिगदया गदया निहत्येनं पार्श्वगौलि (१) तामापाद्य तच्छ्रवणसञ्जातरोषेण भीषणाकारतामुपेयुषा ससै- न्येन शिववयस्येन समागतेन सत्वरं युद्धचत्वरं सुचिरं नियुध्य दम्भोद्रेके- प दम्भोलिसदृशेन तलेनाभिहत्य निपात्य च विसंज्ञमेनं, तदनु समाश्वास- नाय समानीतेऽस्मिन्नन्दनं विश्रवोनन्दने, निश्शङ्कमलकापुरमलर्क इव देवालयं प्रविश्य तत्रत्यं घुप्पमिव पुष्पकमपहृत्य निर्जगाम दुर्जनाग्रगण्यः पुण्यजनाधिपतिः ॥ १०॥ ततस्तत इतः सञ्चरन् क्रौञ्चारिजन्मस्थानमवाप्य तत्रत्याश्चर्यपालोकन. सन्तुष्टमानसो यथामानसोत्कल्पनसञ्चारकृतमानेन विमानेन कैलाससानु- मभ्येत्य, तत्र गतिभङ्गं विमानस्य विलोक्य तत्कारणमवनिगमिषुरवतीर्य तत्रै- व कृतस्थितिं पिण्डीभूतमिव खण्डपरशुभक्तिमण्डलं तण्डुमपश्यत् ॥१०१॥ सोऽप्येवमब्रवीत् ॥ रे केकसीयौवनदाववते मा प्राणनाशं गम एहि लङ्काम् । मृडो मृडानी रमपत्यमुष्मिन् गिरौ ततो नात्र गतिः खलानाम् ॥ निशम्य शम्भोरनुगस्य वाचं सहस्ततालं विकटं विहस्य । निशाचरेशो निजगाद वाक्यं मारीचमुख्यान् प्रति मन्त्रिमुख्यान् ॥ १०३ ॥ को नामात्र मृडायस्वदयितासम्भोगसक्ताशयो- मामप्यागतमाकलय्य सहसा नो पूजयामास यः। (१) पार्श्वमौळि पार्थच्युतकिरीटम् पराजितमिति यावत् ॥ .
उत्तरचम्पूग्रन्थः । २१ तत्तस्यावसथं गिरिं सुरपथे क्षिप्त्वा करैलीलया दर्प तस्य नयामि नाशमखिलं पश्यन्तु सर्वेऽपि माम् ॥१०४॥ इति तस्य सर्वलोकजुगुप्सनीयनिजाभिलषितप्रकाशनं भाषणं कर्ण परुषमाकाभ्यर्णस्थितो महाशैलाभश्शैलादिस्सरभसमस्मै चुक्रोध जहा. सच ॥ १०५॥ तीक्ष्य नन्दिवदनं दशकन्धरस्य कोऽयं कपिहसति मामिति गां सहासां । शापं मुमोच स निशम्य रुषा "कपिस्ते दर्प हरे" दिति सहामरसाधुवादैः ॥ १०६॥ इति वचस्स निशम्य रुषान्वितः सरभसं निखिलैरपि बाहुभिः । तमवनीधरमीशनिकेतनं चलयति स्म मनश्च नभस्सदाम् ॥१०७॥ उदस्ते वासाद्रौ, प्रमथनिकरे धावति भया- त्सफूत्कारे शम्भोरधिकरुषि भूषाफणिगणे । व्यपास्ते नागास्ये, गिरिनिलयपश्चास्यनिवंहे दरीलीने, गौरी समयमथ शिश्लेष गिरिशम् ॥ १०८ ॥ तां वीक्ष्य तादृशभयाकुलकम्पिताङ्गी गङ्गाधरोऽधिकरुषा मनसा विचिन्त्य । अङ्गुष्ठकेन चरणस्य गिरि धरान्तः पापप्य रावणभुजालिमपीडयत्ताम् ॥ १०९॥ व्यलापीदथासौ दशास्यो विभास्यो (१) भुजानां विकर्षेऽपटुर्भनदर्पः। स्तवीति स्म पश्चान्महापार्श्वमुख्यै- शिवे स्तूयमाने स्ययं चादृतोऽमुम् ॥ ११० ॥ ११) विभास्यः निश्शोमवदनः २२ उत्तरचम्पूग्रन्थः । एवं सहस्रं समास्समभिष्ट्रयमानः प्रसन्नान्तःकरणः पावतीरमणः स्व. मरणार्थमुद्यतं खेदमधिकं धरन्तं दशकन्धरं तमतिक्षामशरीरं साक्षात्सगा- साद्य निजपुङ्खप्रभापहसितचन्द्रहासं चन्द्रहास नाम कञ्चन काञ्चनकोशोपस- श्चितं निस्त्रिशं, त्रयस्त्रिंशत्कोटिसङ्ख्याकदेवताविद्रावणं "रावण' इति नाम- धेयश्च वितीर्य पश्यतए वास्य तिरोदधे ॥ १११ ॥ दशाननोऽथो विचरनितस्ततो हिमालयोपत्यकया भुवा वजन् । शिलातले शून्यमले समाधियां समाग्रहीत्कामपि सुन्दरी दृशा ॥ ११२॥ दृष्ट्वा तां स मतिं व्यधात्किमियमाकोप्याच्युतं भूतलं प्राप्ता श्री, गिरिजाऽथवा पितृवने बीभत्सयेता (१) हरात् । किं वा नागवधूस्सुपर्णविनय तप्त्वा तपोऽन्वीहते किं जेतुं तपसि स्थितानपि कृता माया नवामान्मथी ॥११३।। मनास कलयन्ने रक्षःपतिस्स विमानतो भुवमभिगतः पप्रच्छेनां समास्त्रसमाहतः । सुममृदुतनुः कल्याणि त्वं तपस्यास किंकते, कथय कतमस्तातो माता निवासपुरी च ते ॥ ११४॥ यसौन्दर्यलबैकपातितनलब्धं सुपर्वत्रियो यज्वानो यजनोन्सका मुनिगणा घोर तपस्तन्वते । सावं सुन्दरि मन्मथस्य करणं श्लाघ्यं त्रिलोकीजये घोरेऽस्मिस्वपसि स्थिता मम मनोदात्रं विना कुन्तसि ॥११५॥ इति कृतवचनेऽस्मिन् सा नताङ्गी बभाषे मुनिनिगमश्चोभ्यो वेदवत्याह्वयाऽहं । (१) पितृनने यो मन्मना हगा इत्रा अपगतेतियावत् ॥
उत्तरचम्पूग्रन्थः । २३ उदभवमथ देवा अर्थयन्ते स्म तात न स दनुजरिपुं मां माददात्प्राप्तुमिच्छुम् ।।११६ ॥ अथैकदी दम्भुनाम्ना सीम्नाऽविनयस्य पूर्वमुपर्वराजेन गभाना मां संप्रार्थ्य विफलीभूतेन कुशध्वजनाम्नि मे पितरि पितृलोकं प्रापिते साध्वी च मे माता साध्वी भर्तुरनुमृतिः स्त्रीणाति मन्वाना तन्वा तमन्वागात् ॥ हते तु ताते सरसीरुहासं भर्तारमाप्तुं विहितादराई । प्रसादये नान्यगतिः प्रभुतं तपोविशेषेण यथास्वशक्ति ॥११८॥ तां वीक्ष्य तादृशतनुं तपसाऽपि रम्यां मूर्त्तामिवास्य विपदं हृदयं हरन्ती। पञ्चास्त्रवञ्चितमनाः पिशिताशनेन्द्र- ससञ्चारिणीमथ चकार गिरं मुखे स्खे ॥ ११९॥ आय सुन्दरि मन्दिरे मणीट्ये त्रिजगन्नायकभोग्ययौवनेड्ये । गिरिसानुनि गैरिकाश्मरूक्षेऽनुचितं श्वापदवृन्दनन्दिताऽसि ॥ नीलाम्बुवाहचित हेममहीध्रकूट- शोभाहरेण कुचयोद्वितयेन बाले । मां स्मरप्सर्पदष्ट सञ्जीवयाधरसुधां सदयं प्रदाय || १२१ ॥ वक्त्रामृतांशुकिरणनिचितं कचाम्भी- जातद्वयं मुकुलितं त्विति युक्तमेतत् । चित्रं तु तन्नयननीलसरोजयुग्मं यन्मीलनं सुतनु याति समाधिदम्भात् ॥१२२ ॥ मुक्तानामपि चित्तमोहनकर मुक्तादिहारार्पण- स्थान ते कुचमण्डले, न तुलसीदामाऽत्र धामाईति । कौशेयस्य सुवर्णसितदशस्याह यदङ्गं तव प्रोतं तत्राहि वल्कलं मम मनो धत्ते भृशं व्याकुलंम् ॥१२३॥ चतो हरस्यहह, - २४ उत्तरचम्पग्रन्थः । विख्यातोऽहं त्रिभुवनतले रावणो नाम राजा क्रव्यादानां भुजबलवशस्थापिनाशेषलोकः । भीतो यस्मात्सुरपतिरपि प्रत्यहं, रत्यवज्ञा- कारिण्यद्धा स विनतिपरो याचते ते प्रसादम् ॥ १२४॥ आयातस्सदृशः पतिर्दशमुखस्त्वत्पुण्यपाकोदया- द्भाग्यान्मे च दृगध्वनि त्वमभवस्तन्नौ प्रसन्नो विधिः। तन्मां पश्य यदृच्छाऽऽगतममुं पुण्यैर्विना दुर्लभं भुञ्जीथाश्च शुभे गृहे सह मया भोगानभोगोचितान् ॥१२५॥ इत्थं संप्रार्थ्यमानाऽपि, मानाथनिहितमानसा सा मानिनीकुलशो- मिनी बहुशो निराकृत्यापि कृत्याकृत्याविवेकेन तेन प्रसभमेव मूर्धजेषु गृहीता सुभीताऽपि तानाच्छिद्य पाणिना कृपाणतामाप्तेन सद्यः समापिततपः- करणा मरणाय कृतादरणा समयोचितकरणीयेषु चतुरा चतुराननजनक मनसि निधाय विधाय च वधाय रिपोराशयं वर्धमानरोषहुताशना हुताश- नसमीपमुपेत्य सुधाशनद्विषमित्थमकथयत् ॥१२६ ॥ (१) यन्मामनन्यशरणां कमलानिवासजात- स्पृहां स्पृहयसि प्रसभं ततस्त्वां । नेतुं यमस्य निकटं जननान्तरे वा हेतुर्भवानि यदि मे सुकृतं तपस्स्यात् ॥ १२७॥ इति वितीर्णशापायामपापायां वीतिहोत्रपात्रीकृतपवित्रशरीरवत्यां वेदव- त्यां सदागतिसमानेन विमानेन विविधान् देशानटित्वा क्रमेण प्रशान्तचारो निशान्तमगमन्निशाचराधिपतिः ॥ १२८ ॥ (१)यन्मामिति । अनन्यशरणामित्यनेन रक्षकान्तगभावात् स्त्रिया अपि स्वस्याः शाप- दानस्वातन्त्र्यं उचितमिति ध्वनितं । कमलानिवासजातस्पृहामित्यनेन,अन्यकामुकस्त्रीकामु. कत्वात्तस्य शापपात्रत्वं सचितं । स्पृहयसि प्रसभमित्यनेन निग्रहस्यावश्यकत्वं व्याअतम् ।
उत्तरचम्पूग्रन्थः ।
२५
अथ समंतीते बहुतिथे काले कदाचित्कस्मिंश्चित्सरोवरे सहस्रभानु-
समाने सहस्रपत्रे काञ्चन काञ्चनम्ये समुदञ्चितवाल्यां धन्यम्मन्योऽयं कन्य-
कामवलोक्य त्रैलोक्यदुर्लभेयमिति मुदा समादाय समासाद्य च गृहममन्दा-
नन्दतुन्दिलो मन्दोदर्यै दर्शयांबभूव ॥ १२९ ॥
साप्येवमब्रवीत् :---
नाथेयमेव सदृशी तव रूपरम्या
रामा नथापि तव नाशकरी स्वचिह्नः।
एनां विसर्जय ततो भवनाद्वहिष्टा-
न्मा गा विनाशममुया गतया निरोधम् ॥ १३०॥
रावणोऽपीदमाकर्ण्य कनकपेटिकान्तर्गतां कान्ततनुत्वात्तां विरचय्या-
पारेऽकपारे विसर्जयामास । १३१॥
या रामानिमुपाश्रिता कृतयुगे पतयाननादीतित-
त्रेतायां समजायताम्बुरुहि सा याता च. रक्षागृहम् ।
क्षिप्ता चाम्बुनिधौ विदेहनृपते ताऽथ यज्ञावनेः
प्राप्य त्वां दशकण्ठनाशविधये सीताऽभवत्कारणम् ॥ १३२ ॥
शिष्टां कथा शृणु रघूत्तम वदवत्या
शापं वितीर्य परुपं ज्वलनं विशत्याम् ।
आरुह्य पुष्पकमथातिजवेन गच्छन्
जेतुं मनो धरणिपानकरोदशास्यः ॥ १३३ ॥
ततो मरुत्ताख्यमिलाधिनाथं सह द्विजेन्द्रैस्सवमाचरन्तम् ।
प्रहस्तमुख्यैरभिवीक्ष्य रूक्ष रक्षोभिरक्षोभि मखो महार्हः ॥१३४॥
आयाते हविषोंऽशमाप्तुममरवाते द्रुतं विद्रुते
देवेशश्शिखिनो यमो बलिभुजो हंसस्य यादःपतिः ।
वित्तेशः कृकलासकस्य च तनुं सम्प्राप्य याता दिवं
सम्भ्रान्तेन घरेश्वरेण ददृशे पश्याननः क्रोधतः ॥ १३५ ॥
२६ उत्तरचम्पूग्रन्थः । विद्राणेषु च याजकेषु विहते रक्षोगणैः कर्मणि व्यालीने श्रुतिमूलमन्त्रनिचये वित्ते हृते चान्ततः । साटोपं वचनं जगाद नृपति रात्रिश्चराधीश्वरो युद्ध्यस्वाद्य मया जिनोऽहमिति वा व्या हियं मा गमः॥१३६॥ निशम्य तद्वाक्यमुदारविक्रमः स दीक्षितः प्राह निशाचरेश्वरम् । दिदृक्षसे संयमिनी यदि द्रुतं रणाय मां प्रामुहि मा च दुद्रुवः॥१३७॥ एवं सुपर्वशत्रुस्सगर्वमस्य वचनमुर्वीपतेस्सर्वमपि निशम्य निशाम्य च क्रूरमेनं सात्मप्रशंसं नृशंस इत्थं वचनमुत्थापयामास । १३८ ॥ स्मृत्वा यस्य यदृच्छया धनपतिारारिमित्रं भिया साकं गुह्यकपुङ्गवैरतितरां मद्ध्येसभं वेपते । तस्याने वरपुष्पके स्थितिजुषः पतयाननस्यापि मे साफल्यं नु भजेत किं शठ गिरां गुम्भो हि दम्भोदितः ॥ तदाकर्ण्य कर्णकठोरं रे रे पिशिताशन सर्वथा प्रशंसनीयमेव ते बाहुबलं, यस्त्वं सकल वर्मवाराशिपारदृश्वानं, विदितविश्वागमसारं, नयपथ- प्रचारं, आश्रितजनापदम्बुनिविपारं, पितृतुल्यं ज्येष्ठभ्रातरमप्यभिभृतवान- स्मीति सस्मयं विकत्थसे, धिक्त्वामनुचित कृत्यतः कृतकृत्यंमन्यं, अन्तु, किमनेन वृधावाक्कलहेन, तिष्ठ तावदिदानीमेव न भवति धीरं पर्जन्य- इव ॥ १४०॥ कोपावाचामिमां विधाय स महानापाव विद्विषः पापानां प्रवरस्य तस्य तु मृतेस्सोपायमापादने । रोपासं परिगृह्य यन्त्रितमना रोपान्सजन्विद्विपे भूपालो गुरुणा निजेन यजनं गोपायितुं प्रोद्यतः ॥ १४१ ॥ निर्वर्त्य सद्यो मखमेन मुग्रं क्षितीश युद्धाय ततोऽभियाहि । श्रुत्वैवमुक्तं गुरुणा मरुत्तो विनेश यज्ञायतनं सविप्रः ॥ १४२ ॥ एवं यदा सवमवाप नृपो मरुत्तः पक्याननः परिकलव्य जिनं तमेषः । जगर्न उत्तरचम्पूग्रन्थः । २७ उद्घोष्य तस्य नगरे विजयं विमाने- नासेदिवान् पुरमथो अनरण्यगुप्ताम् ॥ १४३ ॥ ततस्तत्पुरवास्तव्यस्य स्तव्यस्य महीपतेस्त्रिविक्रमस्येव लोकमातृपद- स्य(१) हिमवत इव समस्ताचलेशस्यैक्ष्वाकस्य सकाशं प्रति "युद्धायसन्न- व्यं जितोऽस्मीति वा वक्तव्यम्" इति सन्दिश्य दूतमेकं प्रेषयामास ॥१४४॥ परारण्यदावोऽनरण्योऽथ गत्वा दशास्त्रं निशाम्येत्थमाह स्म रुष्टः । अरे तिष्ठ नूनं परेताधिनाथं प्रपद्येहि (१) शान्तिं मयाह कृत्तः।।१४५॥ अथ परस्परवाकलहमुखरे, सकललोकभयंकरे, सविस्मयसुरासुरे, पलायिताशरनिकरे, रुधिरनदीमजनोन्मजनपरमारितमतङ्गजादिसेनाङ्गप्रक- रे, कल्पान्तसलिलाकर इवादृष्टचरे समरवरे वर्तमाने, मायया शस्त्राशस्त्रि विदधानो यातुधानो निपात्य पतिं साकेतस्य, पाकेनाथ दुरितस्य सोपहास- मिदमवादीत् ॥ १४६ ॥ राजन् पूर्व वीरवादान् गभीरान् कृत्वाऽलज्जो युद्ध्यमानो मया त्वम् । विद्धो बाणैर्मामकीनैः कृतान्तं द्रक्ष्यस्यस्मात्का परा मानहानिः ॥ १४७ ॥ श्रुत्वैतद्धराणिपती रुपावलीढः प्रावोचन्निशिचरनाथमार्तचेताः । यजानन विजयपराजयावनित्यौ मौढ्यान्मामुपहससीह तच्छपे ते ॥ १४८ ॥ उत्पत्स्यते मम कुलं किल धर्मसेतु- विख्यातिमान् दशरथाभिधया प्रसिद्धः । (१) लोकति । लोकानां मातृणी मानकणी पदे-चाणे यस्य । अन्यत्र. लोकमातुर्लक्ष्म्याः स्थानस्य । सपस्तेति। समस्तानामचलानां गिरीणामीशस्य । अन्य- व समस्ताया अचलाया ममेरीशस्य ॥ (१) प्रपद्य-इहि-इति च्छेदः, यमं प्रपल शान्ति इहि प्राप्नुहि इत्यन्वयः ॥ .
२८
उत्तरचम्पूग्रन्थः ।
तस्यात्मजो निशिचराधम रामनामा
स त्वां हनिष्यति सपुत्रसुहृत्सगर्यम् ॥ १४९ ॥
शापं प्राप्य महीपालाचापं निक्षिप्य दोस्ततौ ।
पापं महस्तमालम्ब्य तापं नावाप्य निर्ययौ ॥ १५० ॥
पुष्पकमारुह्य ततो गच्छन्व्योमाध्वनाऽऽशराधीशः।
घनमण्डलमद्ध्यगतं ददर्श वीणाधरं मुनिश्रेष्ठम् ॥ १५१ ॥
ब्रह्मर्षिमुख्योऽथ पलाशमुख्यं
पदोनमन्तं परिगृह्य दोाम् ।
महाशिषा वर्धयमान एनं
वचो गभीरं स्मयमान ऊचे ॥ १५२॥
रजनिचरपते त्वां वक्तुमिच्छामि किश्चि-
निशमय हितमेतत्सादरं साधुबुद्धे ।
किमिह मनुजसद्धेनिजितेहींनवीये-
निमरणजरायैः पीडितेदुःखजातैः ॥ १५३ ॥
किञ्च ॥ नरानेतान् सर्वान् य इह समवतीति हरत
त्वमेनं हत्वैनान् कलय परिहीनान् मरणतः ।
यदीत्थं कीर्तिस्ते तदनु भविता लोकविशदा
भयं नो जन्तूनां पृथुतरमिहास्ते हि मृतितः ॥ १५४ ॥
इति तस्य वची निशम्य हष्टो
दशवस्सह मन्त्रिभी रणोत्कः ।
विजिगीषुरवाप याम्यलोकं
न हि दृप्ताः कलयन्ति शक्तिचिन्ताम् ॥ १५५ ॥
पूर्व गतेन मुनिना विदिताखिलार्थों
रक्षोऽधिपं समितयेऽथ समागतं तम् ।
संवीक्ष्य किङ्करगणे भयकान्दिशीके
शस्त्री रथी पितृपतिमधभूमिमागात् ॥ १५६ ॥
उत्तरचम्पूग्रन्थः ।
२९
रक्षोनाथविमुक्तमार्गणगणैर्मृत्यौ तु मृत्यु गते
काले बाल इव प्रशोचति भिया प्रोते च सूते शरैः ।
तप्तः क्रोधमहानलेन रिपवे सन्नाहवान् दण्डमु.
द्दण्डं प्रेरयितुं दधौ करतले मोघतरं प्राणिषु ॥ १५७ ॥
अलातचक्राभमथास्य हस्ते
बम्भ्रम्यमाणं समीक्ष्य दण्डम् ।
प्रस्थापिता भीसुहृदा पलाशाः
प्रवेपिताङ्गाः प्रययुर्दिगन्तान् ॥ १५८ ॥
तत्क्षण एव राक्षसाधिपकर्मसासिनन्दनयोस्तादृशं रूक्षतरं युद्धमवे-
क्षितुमक्षमा अपि ऋभुक्षिप्रमुखा बर्हिमुखाः कथञ्चन कृतक्षणा एव वीक्षमा-
णाः खण्डितारातिमुण्डेन दण्डेन परिहिण्ड्यमानकरदण्डं मार्तण्डनन्दनमा-
लोक्यालोच्य च लोकेशवितीर्ण रावणयमदण्डयोवरनिचयं चिन्तासन्तानता-
तान्तःकरणा रणावलोकितमखिलमपि वृत्तं कमलभवाय वाङ्मनसागोचर-
विभवाय विज्ञापयामासुः ॥ १५९॥
अथ कमलजश्श्रुत्वा वाचं सुपर्वसमीरिता
समरधरणिं प्राप्तो वेगादुवाच यमं मृदु ।
शृणु वच इदं वत्स त्वम्मे समस्तहितावह
त्रिभुवनहिते धुर्याणां त्वं यतोऽसि पुरस्कृतः ॥ १६० ॥
अमोघपातस्तव नाम दण्डः सुरैरवध्यश्च दशाननोऽसौ.।
कृतौ मया तद्भवताऽद्य कार्य यथाऽनृतत्वं न वचो ममेयात् ॥१६१॥
उपदिशामि तदद्य निशम्यतां मृधभुवं परिहत्य निजं गृहम् ।
निखिलराक्षसनेत्रपथाऽस्थितो व्रज सवाजिरथौघकरिव्रजः।१६२।
आकर्ण्य वाक्यमिदमम्बुजसम्भवस्य
धर्म विचिन्त्य जलजासनगौरवश्च ।
'अन्तर्धिमाप शमनोऽथ यथोक्तमेव
मानात्सतां गुरुतरं गुरुगौरवं हि ॥ १६३ ॥
उत्तरचम्पग्रन्थः । . ततोऽट्टहासं विपुलं विमुच्य प्रपूर्य शङ्ख परिदृष्टचेताः। जयं समाघोष्य च संयमिन्यां पातालमागासह सैनिकौघैः ॥ १६४ ॥ अथ तत्र ततस्ततः सञ्चरन्नक्तञ्चरतिनिवातकवचामिविद्रावितामरै- गृहीतप्रासकामुकखड्गतोमरैः पूर्वामरैम्सह बहूनि दिनानि कृतयुद्धोऽति- विद्धोऽदसीयैः शरनिचय स्तेषु च बहून्निपात्य, कृपात्ययवस्मरैः सम्मयै- रतिलाघवकृतविस्मयेस्तैरेव दृढमभिहन्यमानो विमुक्तविमानो विमानो मु- मोह ॥ ९६५॥ अत्रान्तरे शतधृतिस्सह देवसङ्घः प्राप्तो निवातकवचैरभिपूजितश्च । ऊचे वचः परिमृशन् किल कार्यजातं सान्त्वोक्तिभिस्सकलपूर्वसुरान्वराध्यान् ॥ १६६ ॥ वचो दैत्योसंसाः शृणुत मम सम्मानयत मां दशास्यो मद्वाक्यात्सुरदनुजवध्यो न भवति । मृधोद्योगं त्यक्त्वा सह तदमुना सख्यमधुना कुरुध्वं वैरं मा मनसि कलयध्वं कथमपि ॥ १६७ ॥ तन्निशम्य परमेष्ठिभाषितं भाषितं दनुभवा दशाननम् । संविधाय सुहृदं निजान् गृहानानयन्त चतुरास्यगौरवात् ॥१६८॥ उषित्वाऽथ मासं दशास्यः सुहृद्भिः समासाद्य मायाः प्रचण्डाश्च तेभ्यः । चरन्पुष्पकेण प्रहस्तादियुक्तो ययो कालकेयैः पुरं साधु गुप्तम् ॥ १६९ ॥ तं वीक्ष्य तत्र दशकण्ठमनुप्रपन्न ते कालकेयदनुजा अनुजातकोपाः । अभ्यायय रचित भीममहाहहासा- भर्ता उत्तरचम्पग्रन्थः । ३३ श्रुखा तत्सचित्रवरैतस्समन्ता- गला तन्मधुपुरमाशु रुष्टचेताः। विक्षोभ्य प्रथितवलान्मधोः सहाया- व्याहत्य व्यमुचदथो महाट्टहासम् ॥ १८५॥ वृद्धोग्रकोपमथ तं निशमय्य, युद्धो- द्वद्धोद्यम निजपति रिसांत्व्य शीघ्रं । कुम्भीनसी दशमुखं शरणं प्रपन्ना वैणं हि नाम समयोचितनद्धबुद्धि ॥१८६ ॥ त्रायस्व मामविधवां कुरु वीर, भ्रातर्मधुर्मम मनः सदृशो न चान्यः । इत्यं विलोचनजलैः सह गां सृजन्ती कुम्भीनसी निशिचरेश इदं जगाद ॥१८७॥ वत्से त्रिलोकजयिनो मम किं जितेन खन्नायकेन जहिहि समतो भयं मत् ।। सोऽयं सुरेश्वरजयाय दिवं प्रयातुः पार्थ ममैतु यदि मद्विजयाभिलाषी ॥१८८॥ इति कुम्भीनसी भयकुम्भीनसगरुडं विरुडभिहितं भ्रातुर्वचनमाक- र्थ, कर्णयोरथ पत्युनिपात्य कृत्यमुचितं, रचितं रणोद्योगं निवर्त्य, प्रवर्त्य च तं सहोदरसाहाय्ये मुखमगारे विहारेऽपितमना आसीत् ॥ १८९ ॥ तदनु मधुना युक्तोऽयुक्तोद्यमः स दशाननः त्रिदशनगरी गच्छन् व्योम्नाऽसमानविमानतः । निलयमकरोकैलासाख्ये गिरी सह सैनिकः रविरापि तदा पाश्चात्याम्भोनिधौ निखिलैः करैः ॥ १९०॥ चित्रमिदमत्र दृष्टं यातेऽप्यस्ताचलं दिनाधीशे । • चन्द्रोदयेऽतिरम्ये (१)पुष्करमाभासते म रक्तरुचि ॥१९१ ॥ (१) पुष्का पञ आकाशश्च ।। 5 उत्तरचम्पूग्रन्थः , रुचं दधाना अथ शनैश्शनैरपहृततमसि चंद्रमसि, मकरन्दभोजनस्पृहयाळी ता- मरसाधिगमतन्द्राळौ कुतुकोपसेवितकुमुदालौ चालौ, परिहृतक्षुधे च राज. करैकसंपादितभोजने द्विजयूथे, (१) परिदर्शितमहाकारे च निपतितहिमक. रकरे सलिलाकरे ॥ १९२॥ सतारका शुभ्ररुचा परीता पर्यन्तदेशोज्ज्वलरक्तवर्णा । गता तथा पुष्करसाध्वभिख्यां दिवःस्थली दृष्टिसमा रराज ॥ १०.३॥ (२) धृतास्थिमालोडगणेवहन्ती सितांशुबिम्बेन कपालमग्रयम् । भसितावदातां शिवस्य भाति स्म तन्त्रिव द्यौः ॥ १९४ ॥ (३) सतां समूहैः परिवार्यमाणः कुरङ्गशृङ्गश्च वहन्निजांगे। प्राग्वंशसंस्थापितपाद एष भस्मावदातः किल दीक्षितोऽब्जः ॥ १९५॥ (४) (१) द्विजयथे-चकोरसमूहे ॥ (२) सतारकेति । सतारका-नक्षत्रसहिता अ- न्यत्र कनीनिकया युक्ता । शुभ्ररुचा पर्गता चन्द्रिकालिप्तत्वात्, अन्यत्र तारकाया: स- मन्तात् शुक्लवर्णो नैसर्गिकः पर्यन्तदेशे पश्चिमोपान्तप्रदेशे उज्वल: रक्तवर्णः सन्ध्या- रागः यस्याः । अन्यत्र नेत्रान्तः स्वभावतो रक्तवर्णः । पुष्करमिति साध्वीं शुभां अभि- ख्यां नाम गता। अन्यत्र । पुष्करस्य कमलस्य सार्वी अभिव्यां शोमा । अतएव दिवः स्थली दृष्टिसमा ग्राज ॥ (३) भसितवदवदातां शुक्लां । अन्यत्र भसितेन भस्मना अब- दातां । अन्यत्सुगम । (४ सतां मनीषिणां, नक्षत्राणां च समूहः, परिवार्यमाणः । कुरङ्ग- शृङ्ग निजाङ्गे वहन् अङ्कस्थितकुरङ्गकत्वात् । अन्यत्र विधिविहितत्वात् । प्रागुदयोत्तर- क्षणे वंशेषु वेणु संस्थापिताः पादा: किरणा येन सः, उदयकालिकचन्द्रकिरणानामुन्नत. देशमानस्पर्शित्वात् , वंशानाशोन्नतत्वात् । अन्यत्र प्राग्वंशे हविग्रहप्राग्भागे संस्थापित. पादः सश्चरणवान् भस्मवदवदातः । भस्मना चावदातः । अन्जः चन्द्रः, दीक्षितः तनुल्ये लक्षणा, आसीदिति शेषः ॥
RESEARCH INSTITUTE. XYLAPORE MADRAS उत्तरचम्पूग्रन्थः। २५ कुरङ्गवासः कृतयोगिहर्षः समुद्रजाताऽऽदृतदिव्यपादः। अनन्तशोभो ह्यमृतकरूपो विधुर्विभाति स्म तमो विनिनन् (१) ॥ १९६॥ इत्थमतिमात्रविवृतांशुममृतांशुमालोक्य सोत्कण्ठस्य दशकण्ठस्य म- नसीत्थमस्फुरत् ॥ १९७॥ सिञ्चन्नप्यमृतेन हन्त सकलान् पीयूपभानुश्चिरं तप्ताङ्गारवितापिभा भवति यन्नित्यं वियुक्तावळौ । तन्नूनं जलधावयं समुषितो हालाहले स्नेहवां. स्तत्खण्डं शशदम्भतो हृदि वहत्यातापि दुर्दैविनाम् ॥ १९८॥ इत्थं विरहिजनमारे, साहाय्यकसमृद्दीपितमारे, कुमुदिनीचाटुकारे प्रदर्शितजगदाकारे, शूर्पकार बारातिप्रहितशरततिप्रहतिसञ्जातखेददशाननो दशा- ननस्तत इतः तुहिनांशकरप्रतिफलनपुनरुक्तप्रसादे रजतगिरिप्रासादे स- श्वरन्, पञ्चशरविजयवैजयन्तिकामिव, सुरलोकशुभादृष्टतरुप्रसूतिमिव. जन- नयनपुण्यपरिपाकमिव, आकरं लावण्यस्य, आचार्या जनचित्ताकर्षणविद्या- याः, आश्रयं प्रेम्णां, आवासं कोमलतायाः, आस्पदं मदनसौभाग्यस्य, समुद्रं सकललोकप्रीतिनदीनां, निधानं कुसुमशरसर्वस्वस्य, पिधानं मुनिमन- सामप्यात्मबोधस्य, जङ्गमीभूतामिव जातरूपलतां, मेघच्युतामिव विद्युतं, (१) कुरङ्गेति । को भूमौ रङ्गे तदाख्ये विमाने वासः यस्य सः । कुरङ्गस्य हरिणस्य वासः वासस्थानश्च । कृतः योगिनां मुनीनां संयुक्ततरुणानाञ्च हों येन सः।समुद्र- जातैः समुद्रसमहैराटता: आदरात्प्रत्युद्गताः दिव्या: देवाहः पादाः किरणा: यस्य, समुं. द्रजातया लक्ष्म्या आहतौ दिव्यपादौ यस्य स इति च । अनन्ता अपरिमिता शोभा यस्य. अनन्ते शेषे शोभत इति च । अमृतं सुधा एक केवलं रूपं शरीरं यस्य । मोक्षक- स्वरूपश्च। तमः ध्वान्तं अविद्याञ्च, विनिघ्नन्', विधुश्चन्द्रो हरिश्च विभाति स्म ॥
२६ उत्तरचम्पग्रन्थः । १ . लोकमोहनार्थमटन्तीमिव कन्दर्पसुन्दरी,ज़म्भामिव मुखविकासोद्गमां, द्रौपदी- मिव नकुलस्त्रियं, गङ्गामिव त्रिभुवनसञ्चरिणी, मन्दाकिनीमिव वेणीलब्ध- परभागसुमनसं,यमुनामिव विष्णुपदजातरङ्गनर्तनकरी, कादम्बिनीमिव अमृत- धाराधरां, सरसीमिव रमणीयकोकनदमुखभागां, चन्द्रिकामिव योगिजनमान- सोल्लासनचणां, मातङ्गवधूमिव मदजातमन्दगमना, विपुलां नितम्बयोः, चटुलां नयनयोः, पृथुलां कुचयोः, कुटिलां कचेष, मृदुला तनौ, विमलां स्मिते, कमला सकलाङ्गेषु, सुमलाञ्छितकबरिका,(१)सकलान्नवदनां, सलीलां गतो, सुनी. लां दृगन्तयोः, विध्वान्तदिविषदध्वान्तरचारिणी, विध्वंसितमुनिजन (२) महारम्भामूरुस्तम्भावजितरम्मां रम्भा सम्भावयामास नयनैः ॥ १९९॥ ततश्च रावणस्य ॥ र्धय जगाम (३) विलयं भ्रमिताश्च चित्तं लज्जा विनाशमुदयं स्मरचापलीला । तदर्शनात्तजलश्च वभूव देह- चन्द्रावलोकनवशादिव चन्द्रकान्तः ॥ २००॥ मुखेति । मुखविकासेन आस्यव्यादानेन उद्गमः उत्पत्तिर्यस्यास्तां, अन्यत्र, मुखे विकासोद्मः शोभाप्राप्तिः यस्यास्तां। नकलेति । नकुलस्य स्त्रियं पञ्चानामपि पाण्डवा नां तस्याः पत्नीत्वात्तस्यापि पत्नीत्युक्तं । अन्यत्र कुलत्री न भवति तादृशीं । त्रिभु. वनेत्युभयत्र तुल्यं । वेणीति । वेण्या प्रवाहे लब्धः परभाग: भूयान् प्रदेशो पैस्ते सु. मनसो देवा यस्यां तां । अन्यत्र, वेण्या बद्धकचेष लब्धपरभागा: वोत्कर्षमाप्ताः सुम- नसः पुष्पाणि (अर्थाच्छुक्लानि मल्लिकादीनि) यस्यास्तां । विष्णुपदेति । विष्णुपदजाया: गङ्गायाः तरङ्गेषु नर्तनं जलोत्प्लवनं करोतीति, तस्या गङ्गाजलप्रवेशित्वात् । अन्यत्र विष्णुपदे व्योम्नि जाने रङ्गे नर्तनस्थले नर्तनकरी, अप्मामामाकाशनर्तनस्य स्वाभाविक- स्वात् । अमृतेति । अमृतधारा: जलासारान् धरतीति । अन्यत्र अमृततुल्यरसवि. शिष्टाधरामित्यर्थः । रमणीयेति । रमणीय कोकनदः चक्रवाकशब्दः मुखभागे यस्या- हतां । अन्यत्र रमणीयं कोकनदं रक्ताम्बुजमिव मुखभागः वदनप्रदेशो यस्यास्तां । योगीति । योगिनां मुनीनां संयुक्ततरुणानाञ्च मानसस्य उल्लासने कामवशवर्तित्वकरणे समर्था । मदेति । मदेन दानेन जात मन्दगमनं यस्यास्तां । अन्यत्र । मदः आसवादिजन्यः । सम्भोगान्वेषणेन गमनशीलत्वात् । चटलामिति । चपलामित्यर्थः ॥ (१) सकलाजः सम्पूर्णकलश्चन्द्रः । (२) महान्तः आरम्भाः दमशमादयो रोगव्यापागः। (३) "जगामे" त्यतत् "तिलयं” “भ्रमिता" "विनाशं" "उदय'' - , उत्तरचम्पग्रन्थः । ४ तामेनां सुरसुन्दरीपथ बलादाकृष्य रक्षोऽधिप- वाटूक्तौ चतुरः “प्रियेऽमृत(४)भृतैरङ्गैः समालिंग्य मां । कन्दाहिमहाविषावशतनुं मञ्जीवये, स्वं पुन जीवातुर्मम दैन्यभाज" इति च प्रोवाच गामत्रपः । २०१॥ प्रत्यब्रवीत्सा भयकम्पिताङ्गी स्नुषा तवाहं मयि मुश्च वाञ्छाम् । खदातपुत्रो नळकूवरोमांखा निशोऽस्यादयितामकार्षीत्।।२०२॥ "हुताशनं साक्षिणमाकलय्य पाणौ गृहीता कुलमुन्दरी या । तस्या व्रतं खल्विदमात्मनीन" मितीरयामास वचो दशास्यः ॥२०३॥ इति प्रयत्नशतेनाप्यनुदितकामां सौन्दर्यस्य सीमामतिवामां सुर- वामां सामाविषयभूतां तामालोक्य, पञ्चवाणवाणप्रपञ्चवञ्चितहृदयसञ्चित विवेकतया सहनीयेतरतापः, पापमप्यगणयन् , कोणपगणनायेकः, दुःखवि- स्मृतलीला भयननिततापपरिग्लपितकुसुममालामैल (५) विलनाथतनयैक- लोलामपरित्यक्त निजशीलां तां वाला बलादाक्रम्य बुभुजे ॥२०४॥ विभ्राणा परमाकुलान् श्लथतया विभ्रष्टकाढ्यान् कचान् प्रस्वेदप्रविलुप्तचित्रकमुखी श्वासापरक्ताथरा। मन्दाक्षेण कृतेक्षणा स्वपदयोः कम्पायमानाङ्गका सा श्रीदात्मजमाप सोऽपि बुबुधे सर्व प्रतीच्या दृशा ॥२०५!! शापं च रक्षःपतये ददो सो- s"कामां स्त्रियं चेदित ऊर्ध्वमेपः । भुञ्जीत, मूर्ना शतधाऽस्य सद्यः फलिप्यते नून"मिति क्रुधान्धः ॥२०६॥ इत्येतेषु प्रत्येकमन्वेति । (४) अमृतभृतैरिति विशेषणं विधापनयन सामयभिप्रायगर्भ । (५) ऐलबिलनाथः यक्षराजः (कुबेरः) ।
३८ उत्तरचम्पग्रन्थः । श्रुखा तदातरधीनळकवरोक्तं गला परम्परितशापगणेन चिन्ताम् । धृत्वाऽथ धैर्यमचलत्सह सैनिकोप- ने बाहवे मतिमुद्दास समं सुरोधैः ।।२०७॥ तदनु पृतनाऽधिनायकपदमधिगतेन मधुना सह महावातेनेव क- ल्पान्ताश्रयाशो विरचितविविधनयकोलाहलोऽयं त्रिदशालयं प्रविश्य तत्र- त्यान् धृताधिपत्यान् मत्याप्यनाकलितरणकृत्यानत्यादरमत्याहितशङ्काकरी युद्धकाहलीमतिव्यलीकामबोधयद्वृद्धश्रवःप्रमुखान् विश्रवःकुलकलङ्कः॥२०॥ तदनु दनुजनिकरविहस्तीकृतामरवत्याममरावत्यां, विप्रकीर्णश्रवसि चोच्चैश्श्रवासि, संक्षोभितान्ते समन्ततो वैजयन्ते, जयन्ते च किञ्चिदधिगत- विजयान्ते चिरविरचितसमरतान्ते मूच्छीक्रान्ते विश्रान्तेः कृते पुलोम्ना निननिलयान्ते विनिहिते, रोषदीवीभूतमुखश्वसनो द्विरसनोत्तममिव खई कटितटे निवध्य वामशयकुशेशयशयशरासनो मातलिसारथिं रथमारुह्य निगृह्य च रिपुवाहिनी, वाहिनीजलमिव शकुल:(१)प्रतीपं प्रविश्य प्रतिपक्षा- नीक, सम्मुखागतेन दशमुखेन दुनयेनापि निर्जराधिपतिश्चिरं युयुधे ॥२०९॥ क्रमेण च ॥ निष्कृत्तक्रूरचापं निरवधिविगळद्रक्तसिक्ताखिलाङ्गं निर्वाणप्राप्तमूतं नयनगणगळद्वाप्पसंक्लिन्नवस्त्रम् । कालाक्रान्तस्वस्थ्यं कलितशरगणाक्रान्तितान्ताङ्गसन्धिं निधूताऽनीकदर्प व्यतनुत सुमनोनायको राक्षसेन्द्रम् ॥२१०॥ तादृशं रिपुनिर्जितं स्वपितरं रक्षोऽधिनाथात्मजो दृष्ट्वाऽदृष्टरथे स्थितोऽम्बरतले मायावलालम्बितः । संस्तब्धं विरचय्य शक्रमिपुभिर्वद्धं दृढं रज्जुभिः पश्चात्स्वस्तिकमानिनाय नगरं तातं समाश्वासयन् ॥२११॥ (१) शकुलः . मत्स्यविशेषः ॥
। , उत्तरचम्पूग्रन्थः । कारागृह स्थितिजुषोऽथ सुराधिनतु- निर्मोचनाय विबुधैर्षहरर्थ्यमानः। तैः संवृतः करुणयाऽऽमना विरिश्ची रक्षोऽधिनाथसविधं समुपाजगाम ! २१२ ॥ तदनु रावणेन रावणिना च विविवदधिकतरादरमभ्यचितो विधि- निरवधिकविनयवितीर्णभद्रासनोपविष्टस्त्रिविष्टपपतेर्मोचनार्थ तज्जयिने विती- विविधवरो विरोचनमिव विधुन्तुदक्षितमृभुक्षाणं धतक्षामशरीरं शोच्यतरं परिमोच्य, हृदयशल्यायितैः " अहल्यासङ्गमसञ्जातपापफलमिद " मित्यादि- भिः सत्यानपेतैर्वचननातैः सन्तयं विसय॑ च याजितसप्ततन्तुपवित्रीकृत- मेनं हृष्टः स्वविष्टपमध्यासिष्ट ॥ २१ ॥ तदारभ्य काकुत्स्थ देवेन्द्रजते. त्यवाप्तः समज्ञां त्रिलोकीप्रसिद्धाम् । अतस्तद्धेन प्रमोदाम्बुराशे- स्तलं प्राप्तमस्मन्मनो मानवेश ॥२१४ ॥ एवंविधां तिरस्कृतसुधारसा रसाधिपतिः कथां तथा समाकर्ण्य कर्णा- नन्दममन्दं विन्दन् सुन्दरतरेण स्वरेण जम्भभेदीवाम्भोजासनं कुम्भसम्भव- मभाणीत् ॥२१५॥ शुश्रूषां करवाणि ते कुलपते सद्यः प्रसीद क्षणं शुश्रूषा महतीयमस्ति हृदये तामद्य निर्वापयः । तत्काले प्रवला नृपाः किमभवन्नेवेह यद्रावणः कापि प्राप पराजयं क्षितितले युद्धाय बद्धादरः ॥२१६ ॥ आकर्ण्य तां वाचमपारभूमा रामेरितां श्रोत्रमनोऽभिरामां । सर्वसहावस्त्रहरो मुनीन्द्रः सर्व यथावत्कथयाम्बभूव ॥ २१७ ।।
ट उत्तरचम्पूग्रन्थः । पुराऽऽसीदैवाकप्रवर भुवनाल्युद्गतयशा महीपालो नाम्नाऽर्जुन इति महावीर्यनिलयः। कदा चिद्रेवांसोऽगमदयुतयुक्तोऽम्बुजदृशां जलक्रीडाश्चाधादशशतकरी बद्धकुतुकः ॥२१८॥ नत्रान्तरे दशमुग्वो नगरं तदीयं गत्वा रणाय नदभावनिवर्तमानः । विन्ध्यावनीधरमवाप्य विमानतोऽसौ सिष्णासुरापदथ मेखलकन्यकां तां ॥ २१ ॥ स्नात्वा तत्र यथाविधि प्रयतहृत्पीताम्बरालंकृतः पूतात्मा निजभृत्यवर्गसमुपानीतः प्रमूनोश्चयैः । लिङ्गं चन्द्रकलाधरस्य पुलिन चन्दाद्भवाया अय सौवर्ण हाद भावितेशचरणश्वास्थाप्य पूजामधात् ॥ २२० ॥ पूजान्ते विरचितनृत्त एषरक्षा राजोऽग्रे पुरमथितुः कृताञ्जलिः सन् । नत्वाडौ तमथ सहस्रकृत ईशं तृष्टावावश इव हर्षरुद्धकण्ठः ॥२२१ ।। काऽपि मम भाग्यसीमा कामिन्याकलितकायसमभागा। कलयतु कल्याणं मे कपालपाणिपि कल्पितमहर्दिः ॥२६२।। इन्दुरविवह्निनयनकगिन्द्रियजिन्मानसाम्बुजनिकेतम् । इन्धां समीक्ष्य लाचनामदामति निर्देशवर्जिन तेजः ॥ २२३ ।। भिक्षार्थमटास शम्भी रक्षां निजपादसंगिनां कुर्वन् शिक्षां कुरु मदरीणां दक्षाध्वरवैरिणे नमस्तुभ्यम् ।। २२४ ॥ आधेरन्तं करुणाम्भोधे शिव धेहि शेवधे धान्नाम् । बोधन विमलय मनः क्रोधेनेक्षिष्ट मा भवान् जातु ॥ २२५ ॥ अमृतात्मतां प्रपन्नोऽस्यपहनतापोऽसि पादसक्तानाम् । सत्परिवतः सुवनचन्द्र इवाभामि चन्द्रमा न्वम् ।। २२६ ।।
उत्तरचम्पूग्रन्थः । तापाजनांस्त्रिविधतो निजपादसक्तान् गोपायितुं स्वशिरसा वहसे सुधांशुम् । पापानि हन्तुमपि निर्जरधामसौध- सोपानवीचिममृताशधुनी च तेषाम् ॥२२७ ।। दुग्धोदे यस्य बाणो धनुरापि धरणीमध्यतो ज्याऽहिलोके वक्रे ऊर्व रथोऽधो धरणिसुरमुखेष्वासते हन्त रथ्याः। यन्ताऽऽस्ते सत्यलोके रिपव उडुपथे नित्यमावद्धचारा इत्थं भूतेऽपि युद्धोपकरणनिवहे पातु जैत्रः पुरारिः ॥२२८॥ निष्कामादिहदेयुपे निधिपतमैत्रीपदे तस्थुषे निस्तोयांबुधरत्विषे निकृतिसन्नद्धासमेषुप्लुषे । निन्दाकृत्परमद्विषे निरुपमानन्दात्मतां जग्मुषे नीहारादिमुतामयाधवपुषे नित्यं नमो ज्योतिषे ॥ २२९ ।। अत्रान्तरे हस्तसहस्रकेण पूरो निरुद्धः कृतवीर्यमूनोः । सोमोद्भवायाः समुढवेगः प्रतीपमागाद्दशकण्ठपार्श्वम्॥२३०॥ मल्लीचम्पकजातिमुख्यसमनःपुजे गिरीशार्चना- यानीतेऽपहृते जलेन बहुधा सम्प्लाविते चात्मनि । सद्यः प्राप्ततटः समापितनातवद्धाञ्जलन्मिान्त्रणः पोवाच प्रतिघाऽतिरक्तनयनः स्खं चन्द्रहासं स्पृशन् ॥२३॥ कस्येदमन्तकभटानयनैकहेतुः कर्मेत्यवेत झटितीति दशाननस्य । श्रुत्वा गिरं गगनमार्गगतः प्रहस्तो गत्वाऽर्जुनं समवलोकयति स्म नद्याम् ॥ २३२॥ आमत्य सोऽथ रजनीचरनाथमन्त्री व्यज्ञापयदशमुखाय यथाऽऽत्मदृष्टं । 'सोऽपि क्रुधाहृतमना अतिवीरमानी साकं ययौ निजबलेन रिपुं जिघांसुः ।।२३३ ।। 6
उत्तरचम्पूग्रन्थः ।
अथ रजनीचर नायकोद्भटभटरटितविद्रुतेषु रेवातटनिविष्टेषु निजभटे-
पु, तत्कोलाहलाकर्णनसञ्जातसाध्वसप्रकम्पितप्रतीकप्रमदाजनस्वयङ्ग्रहाश्लेष-
पात्रीकृतमूर्तिनिजकीर्तिविरचितभुवनपरिपूर्तिरातिमरातेरापिपादयिपू रुषास.
ञ्चारितमार्गाध्वनीनोऽविनीतशिक्षणप्रकाशितवीर्यः कृतवीर्यसुतो विकटमेव
तटमवाप्य विहस्तीकृतैः समस्तैरपि रिपुवलैरास्तीर्य वसुन्धरां बन्धुरं निपा-
त्यमानामात्यकन्धरतया विकृतदशाननं दशाननं साधुजनवितीर्णविमाननं
विमानतो विनिपात्य, मुष्टीमुष्टिविनिप्पिष्टवक्षसं रक्षम्सङ्घस्य समीक्षमाण.
स्यैव सलीलमादाय, नगरमा नीय काराकुटाम्बनं कारयामास ॥२३४॥
धाराळदृष्टियुगला धरणौ कृतेक्षा
मुख्या महोदरमुखा मुखकान्तिहीनाः ।
लङ्का मवाप्य सचिवा निजनाथमोक्ष
सञ्चिन्तयन्त उपजग्मुरहो न चान्तम् ॥२३५
श्रुत्वाऽयं निशिचरनायकस्य वन्धं
विपिरुत इवाथ दीर्वदर्शी।
निर्मोक्षं सपदि चिकीपुरर्जुनस्य
पायासीनगरमथार्चितश्च तेन ॥२३६॥
अथ वाचमाह कृतवीयसुतं परिसान्त्वयन् शतधृतेस्तनयः ।
नृपवर्य तेऽद्य यशसा धवलीकृतविष्टपस्य नतिरस्ति किमु ॥२३७॥
नन्मुश्च राजन् रजनीचरेश्वरं संप्राप्तभों प्रथमं त्वदन्तिकात् ।
एनेन कारागृहवासितेन ते सिद्धिं प्रपश्यामि न कामपि प्रभो ॥
इति सप्रार्थनं मुनिप्रकृष्टवचनं निशम्य प्रशमय्य च हृदयगतां रुपं
जातानुतापेन भूपेन प्रशंसितदशवदनप्रतापेन रिपुजनस्तुतवीर्येण कार्तवीर्यण
मध्येमभं वक्ष्येन तुल्यमानीय बन्धाद्विमोचितो “ममोचितोऽयमवमानो
महीपतीनक्रममाक्रामतः" इति तत्प्रियतमायामतिमात्रक्षमायां क्षमायां समाप.
यन्निव निनापराधं विनततर मुखो दशमुखो मन्दतरेण पादचारेण सञ्चरमा-
णोऽलं कातरो लङ्कामवाप ॥२३९॥
उत्तरचम्पूग्रन्थः।
४३
कदाचनाऽऽशराधिपो महाबलेन सङ्गरे
समुत्सुकः समासदत्वयं कपीशितुः पुरीम् ।
अमात्य ऊच उच्चकैस्थात्र तारनामकः
"प्लवंगनायको गतः पयोनिधीन्मिमक्षया ॥२४०॥
अमी तमीचरप्रभो प्रमीतयाहुशालिनां
सितास्थिसञ्चयास्ततः कृतालयोऽत्र मा स्म भूः ।
यदीदृशं विधीप्सितं किमीरितैः समीपतो
भवेद्रुतं रवनतो धनादृतेः कपिप्रभोः ॥ २४ ॥
इति तारं तारवचनं हृदि विरचय्यापि विधिचर्यावशंवदोऽखण्डरण-
कण्डतिविनुन्नः समुन्नतभुजवलपराभूतिदक्षिणो दक्षिणोदधौ क्रियमाणसंध्या-
कार्य वलीमुखार्यं ददर्श ॥ २४२॥
अथ दक्षिणवारिधेः प्रतीरे कपिनाथं रघुनाथ वीक्ष्य पश्चात् ।
ग्रहणे सयुपेत्य बुद्धिमाधात्तरसाऽयं तरसाशनाऽधिनाथः ॥२४३॥
आलक्ष्येदं मूक्ष्मबुद्धिः स वाली यत्तस्तस्थौ बाहुमूले प्रसार्य ।
जग्राहेनं राक्षसेन्द्रश्च तत्र व्यग्रान् बान् विंशति संप्रयुज्य ॥२४४॥
परिगृह्य तथैव तं कपीन्द्रोऽप्यगमत्पश्चिमवारिधि नभस्तः ।
स च तत्करमूललम्बमानः प्रतिपदे गरुडास्यगाऽहिलीलां ॥२४॥
स्नाखा कक्षगतारिरत्र जलधि कौवेरकाष्ठास्थित
प्राप्यात्रापि तथैव मज्जनविधिं कृताथ पूर्वाम्बुधौ ।
कृत्वैवं समवाप्य नैजनगरी कक्षान्मुमोचाम्बरे
पतयास्य, युगपत्रपाजलनिधभूमेश्च सोऽगात्तलम् ॥२४६ ॥
तदनु बहु नमन्तं सख्यमिच्छन्तमम्त:-
करणविधृतलज्जं तं कृतार्थ विधाय ।
'अगमयदथलङ्कां योऽथ सत्कृत्य सोऽपि
प्लवगपतिरघानि त्वच्छरेणैककेन ॥२४७॥
४४ उत्तरचम्ग्रन्थः पुनश्च पप्रच्छ स रामचन्द्रः स्थिते हनुमत्यपि वानरेन्द्रः। किमर्थमाशान्तमभिद्रुतोऽभूभीतोऽवसद्भूभृति चर्यमूके ॥२४८॥ प्रत्युवाच मैत्रावरुणिः॥ महाराज श्रूयतामस्य निदानं । पुरा किल समुपहसिताप्सरोलाव- ण्यां गुणवरेण्यां गृहिणी केसरिनाम्नो वानरस्य परिस्कन्दितसकलपूरुषमन- स्कामयस्कान्तशलाकामिव कठिनतरस्यापि मानसस्य लोहस्येव समाकर्षण- चतुरां चतुराक्षिविलोकनसमुत्पादितकञ्जपुञ्जामञ्जनाभिधानव्यञ्जितां स्व. भर्तरि शम्बसादनसादनाय सद्मनो निर्गते कामरूपतया गृहीतसुभगतरमानुष- रूपामापादितकुसुमचापाशुगतापां विलोक्य सफलीभूतायुर्वायुः सविधमुपेत्य प्रकाश्य च विविधचाटुपटुत्वं तेन सह सङ्गमे पातिव्रत्यभङ्गशङ्किनी "मा भै- पर्मिनसैव मे त्वया सह सङ्गतिरस्तु निस्तुलगुणवस्तुविस्तृतयशाः पुत्रस्तु ते भविते" त्यनुगृह्यानुभूय च परममानन्द, नन्दनोत्पादनेन विरचितसुर- द्धिरन्तद्धिमाजगाम ॥२४९॥ अथैवमनुगृहीती मरुता विहितादरा सा सुसुताभिजनने, जननेत्र- सफलीकरणपटुतरतेजोमरणं, तरणिमिव कुलिशाभरणदिशा, करिणमिव च वशा, विशालवक्रं सकलगुणमित्रं पुत्रं कुत्रचन गोत्रप्रदेशे प्रसूय फला- हरणार्थमगात् ॥२५॥ गतायां जनन्यां परित्यज्य पुत्रं धरण्यां शयानोऽशनायापरीतः। समुद्यन्नमारादविं सोऽर्भकोऽयो फलास्वादनेष्टोऽडयिष्टोद्रहीतुम् ॥२५१ ॥ विधुन्तुदस्तं प्रसमीक्ष्य यान्तं विहस्ततामेत्य सुराधिपाय । विज्ञापयामास मदन्य एको बुभुक्षते ब्रनमिति प्रभीतः ॥२२॥ इत्यरुन्तुदं विधुन्तुदवचनं निशम्य सावेगमारान्नीराजितमैरावतं ता. रापतिरिव पूर्वाद्रिमधिरुह्यासह्यविक्रममक्रममेव क्रमं विदधानमतिदानं सुर उत्तरचम्पूग्रन्थः । ४५ मातङ्गमप्रभझंव भक्षयितुमारब्धवन्तं संरब्धंतं वलीमुखशिशं सलीलमेक वारितदेतेयदम्भोद्रेकेण दम्भोळिना निहत्य बृहत्यवनीधरशिखरे कृपारहि- तो निपातयामास वासवः ॥२५३ ॥ अथ निजपुत्रनाशनकोधनतया वलमाने पवमाने सर्वस्मादपि लोका- दात्मानमाकृष्य गिरिगुहां प्रविष्टे सह शिशुना, शुनासीरप्रमुखैहिमुखैरा- वेदितः सावेगमेव जगदुद्वेग, जातशङ्कः पङ्कजासनः सर्वैरपि सुपर्वभिः समं खतरेण वेगेनोपेत्य, दुर्वारमपि मरुतः कोपं निर्वाप्य पर्वामृतांशुशीतलैः सान्त्वैः सञ्जीव्य च प्रभञ्जनादञ्जनायां सञ्जातं कजातकेसररुचिं पुञ्जीभूत- मिव नयं तनयं, वितीर्य च विविधवरजातं, वरजातमेनं विदधानो हन्मद- भिधानोज्ज्वलं,विज्वरमेव पुनरप्यनिलं प्रचलय्य यथाऽऽगतं प्रययौ ॥२५४॥ काले गतेऽथ ससुतो मरुतो महर्षीन् हर्षी क्रतून विदधतः परिबाधते स्म । शप्सः कदाचिदथ तैमिलितैलं वं जानाति न स्म च विना स्तुतिजालमग्रयम् ॥२५५ ।। अथ जातु मरुत्सुतो ग्रहेशं प्रणमन् प्रार्थयते स्म शब्दविद्याम् । स च तं दिनमात्रतोऽखिलां तां मुदितोबोधयदप्रमेयबुद्धिम् ॥२५६ ॥ ततो निजपुत्रपरिपालनमेवातिदक्षिणां गुरुदक्षिणां मन्यमानेन गुरु- णा करुणावरुणालयान्तःसञ्जातमजनेन कञ्जाळिबन्धुना समादिष्टस्तद्वचनं प्राभृतकमिव स्वीकुर्वन् प्राभञ्जनिस्तदा प्रभृति सुग्रीवे ,व्यग्रीभूतहृदयोऽपि दयोज्झित इव मुनिगणवितीर्णशापविस्मृतनिनभुजबलतया न चलतया वा- भाविक्या सापदमप्येनं नूनमिननन्दनमुपैक्षिष्ट ॥ २५७ ॥ एवं मुनिपरिबृढेरितां निजरसतिरस्कृसुधां कथां समाकर्ण्य समासा- दितामन्दानन्दसन्दोहसन्दानितमना यामिनीचरशत्रुस्तान्मुनीन्यथाविधि सपac ४६ उत्तरचम्पूग्रन्थः यया मर्यादातीतया पर्यायतः पर्याप्तमारादाराध्य, स्वधाम संप्रेप्य शिप्य- जनपरिवृतान , हतारातितया गताधिः कृतामितानन्दः पौराणां मुख- मासामास ॥२९८॥ तदनु प्रचलितेषु कतिपयेषु दिवसेषु निजराज्याभिषेकमहानुभवमदि- ततमान् महानुभावो रामोऽपि सामोपहितया वाचा कामोर्चतैश्च तैस्तबह- मानैर्मानेकधनो धनोपबृंहितैहितैषिणो यथालाभपरितोषिणो यथोचितं परि- तोष्य, कपीश्वरमुखान् वलीमुखान् नृपश्चिान्यानन्यादृशमेव सम्मान्य, मान्य- तरचर्यो वितीय चाभ्यनुज्ञां निजावासगमनाय प्रजारञ्जनप्रनागरितमना वभूव ॥ २६९॥ अथ यथाक्रमं पराक्रमवशीकृतसामन्तचक्रः शक्रगुरुमपि मतिविभवे. न विजितवद्भिरतिवृद्धैानशीलाभ्यां निजनयोपायकुशलताप्रकम्पितपररा- ज्यैः शत्रुमित्रोदासीनसमदृष्टिभिः कोशसम्पूरणस दरैः सर्गारम्भकालिक गिरिभिरिव पक्षपातरहितैरहितैधनासहनैरतिहितैस्मचिवैः सुमन्त्रादिभिर- न्ववेक्ष्यमाणराजकार्यः, कार्य किमपि प्रजानामपश्यन् , वश्यमेव जगदाखि- लं निधारयन् , कदाचिदतिसूक्ष्मवुद्धिर्वेदागमपारदृश्वनां मुनीनां सदसि धमस्येतिक तव्यतां निर्धार्य प्रजासु प्रचारयन्, कदाचिदतुल्यमाल्यमलय- जादिसाधनः सरसमधुराभिवाग्भिमन्दस्मितमुन्दरमपचर्यमाणो विदेहराज- मृतया विषयमुखमनुभवन् , कदाचिदतिविन तेन नरपतिशतेन समानीतं कर निकरमादाय समुचिततमसम्माननैः " इतोप्यधिकतर एवातः परं करो दयः" इति तन्मनसि जनयन्नादर, कदाचिदात्मारामरतिदुश्शमविषयमधुपि- पासापरिहनैरद्विनीयब्रह्म मविचारसुखमनुभवन् ज्ञानिभिः, कदाचित्सरस- तर साहित्यमाधुयास्वादनमुखितः सम्मानयन कवीन् , कदाचिदखण्डातिप्रच- ण्डवाग्दवर्ग प्रकम्पितप्रतिवादिभिः प्रतीततरः शास्त्रार्थवादतत्परैः पण्डितप्र- काण्डम्तारतम्यनिश्चायकपदं नीयमानः शास्त्राटवीं प्रविशन् , कदाचित्का- कोशस्य द्रव्याधा गृहाय पूरणे सादगति पक्षपातति । पक्षपातः स्नेहः पक्षाणां पतगं च । अहितति । अहितानां शऋणामधनं वृद्धिः तस्य असहनः । .
उत्तरचम्पूग्रन्थः ! ४७ . , व्यनाटकाख्यायिकानां मूक्ष्मतरं विमर्शमादधानः, कदाचिद्वीणावेणुमुरजादि- वाद्यकलासङ्कलनहृदयङ्गमतरतामुपगतां गानगोष्ठीमश्नुवानः,कदाचिदतिरूक्ष- नियुद्धप्रदर्शितसामथ्र्यैः सपलकीकृतवीक्षकजनैर्देशान्तरागतैर्मल्लैः परिष्ट्रयमा- नसारग्रहणचातुरीकः, कती कमनीयतमकृत्यानां, संस्कर्ता पूर्वतरराजप्रवत्ति- तस्य नातिसुभगम्य नयम्य, कुटिलगामित्वं नदीषु न जनेषु, कञ्चुकनिषेवणं कामिनीषु न भटेषु, तक्षिणत्वं सायकेषु न वचम्मु, क्षताधायकत्वं सुरतेषु न कलहेषु विग्रहास्पदत्वं देवालयेषु न सामन्तेषु, प्रौढवन्धत्वं कविप्रवन्धेषु ना- पराधिषु च प्रतिष्ठापयन् , अनवरतमतिमात्रपरिवारपरिवृतोऽप्यद्वितीयः, मन्मथ इवालक्ष्यविग्रहः, कमुदाकरइव राजकरसंपूरितविलसत्कोशः, क्षीरोद मथनारम्भ इव लक्ष्मीप्राप्तिहेतृभूतः, चन्द्र इव लक्ष्मणानुगतः, समुद्र इव मुक्तानामप्यालयभूतः, भूतानुकम्पानिधिरविपतिः साकेतस्य, रामश्चिरम- वनीमवनकर्मीचकार ।। २२०॥ शासति रामे पृथिवीं शाम्यदवस्थं (?) रजोद्वयं समभूद युद्धाय भूपतीनां सर्वेषां चापि पापकरणाय ॥२६१ ॥ विशदितलोके यशसा रामे राजन्यगुर्मुदं (२) हंसाः । केचित्तु दूयमाना आसन् काकस्य निजतलापाप्त्या ॥२६२॥ - , कुटिलेति । कुटिलगामित्व वक्रगतिशीलत्वं, असन्मार्गप्रतिश्च । कञ्चुकेति । क. चुकः कवचं, स्वाभिधायः वविशेषश्च । तीक्ष्णत्वं लपभेदक्षमत्वं कटुत्वं च । विग्रहा देवतामूर्तयः, कलहाश्व । प्रोटेति । बन्धा रज्ज्वादिकृताः । आलङ्कारिकोक्ताः स. वतोभद्रादयश्च । अपराधिनां तत्रामावात् । आद्वितीयः द्वितीयरहित:- असदृशश्च । म- न्मथ इति । अलक्ष्य: द्रष्टमशक्य: विग्रहो मतिर्यस्य, अन्यत्र विग्रहो युद्धं । कुमु. देति । राज्ञश्रन्द्रस्य कौ: किरणः संपरिता अत एव विलसन्तः विकसिता इति यावत् कोशाः मुकुलानि यस्मिन् । अन्यत्र राज्ञां सामन्तादीनां कौगद्रव्यैः संपूरितः विलसन् कोशः धनागारं या।। क्षिगेदेति । लक्ष्मीदेवता संपत्तिश्च । चन्द्र इति।। लक्ष्मणा कलङ्केन अनुगतः । पक्षे लक्ष्मणेन सौमित्रिणा। समुद्र इति । मुक्तानां माक्तिकानां अन्यत्र मोक्ष प्राप्तानां ॥ (१) रजमी-धलि:-जोगुणश्च । (२) हंसा: ज्ञानिन:-पक्षिविशेषाश्च ॥
उत्तरचम्पूग्रन्थः । . . अथ कदाचिदशेषमानुषमानसविशेषमोदपुषि, सम्फुलंसुरभिकेसरके- सरपरागविराजितदशाशाजुषि, पथिकयुवधीरतामुषि, कमनीयतमसुमसम- लंकृतकामिनीवपुषि, युवजनविजयोद्यतपुष्पधनुषि, प्रणयकलहकुपितका- मिनीनिद्राकृषि, विरहिननाङ्गारायमाणसुधाशोचिषि, कुरवककुसमासङ्गस- ङ्गतसुखभृङ्गाङ्गनासङ्गीतमङ्गीनन्दितकृशाङ्गीजनस्तूयमानप्रमदावनतामुपेयुपि प्रतिदिवसापचीयमानकान्तारुषि, यज्वलोकतर्यमाणासुरद्विषि, सर्वलोकस- मवाप्तश्रेयसि, युक्तयुवजनप्रणुतवेधसि, नात्युष्णनातिशीतनातिवृद्धनाति- कृशतरङ्गिणीपाथसि, नातितापावहतिग्मतेजसि, वसन्तानेहसि, लीलोया- नविद्योतमानवकुळतरुमूले गभस्तिमालिगमस्तिगळहस्तिकादानशीले रत्न- सिंहासनोपविष्टां, सम्यगवभासमानरम्यतरगर्भा, अन्तर्मुक्तामिव शुक्तिकां, निगूढवीजामिव नभोमहीं, अनाविष्कृतसुधामिव मथनपूर्वकालिकक्षीरोद स्थली, अधिकतरपाण्डरीभूतया शरीरलतया शमितविलोचनातङ्का, कल- कच्छद्मछिद्रवतश्चन्द्रमण्डलात्प्रच्युतामिव चन्द्रिकां, पञ्चमहाभूतमयीमपहाय सामग्री केवलेनेव मृणालेन विनिर्मितां, प्राप्तप्राणपरिग्रहामिव गनदन्तपुत्तलि. कां, रामपूर्वस्वरूपस्मरणसञ्जातभक्त्यतिशयसमुद्भूतसिषेविषासमागतामिव त्रि- स्रोतसं, पुनश्शयनार्थ रामाह्वानाय सम्प्राप्तामिव क्षीरोददेवता, एकत्र स्थि- सामिव सत्त्वगुणशकलपरम्परां कुन्दपुण्डरीककुटजादिसितकुसुमकृतशरीरा- मिव ऋतुदेवतां, हरदग्धमदनाङ्गमस्मविलुठितशरीरामिव रति, परमेश्वर गाढालिङ्गनसम्पृक्तभूतिमिव पार्वती, क्षीरोदवीचिकानिषिच्यमानतनुमुत्प- द्यमानामिव श्रियं, प्रणयकलहकुपितागतामिव सरस्वती, पुरःस्थितया वयस्यया करचलनझणझ्झणितकङ्कणमावीज्यमानां ताळवृन्तेन, कोमळत्वनि- जितैः सेवार्थमागतैः पल्लवत जैः परिवृतेनेव प्रसृतरक्त द्युतिना मज्जनगृहे- णेव (१) कलशरेखाङ्कितेन नारायणकरनिकरेणेव (२) लसच्छङ्खरथाङ्ग- कोमळेन प्रमातकालेनेव (३) अरुणकान्तिसमुद्योतितेन चरणयुगळेन च- (१) कलशरेखा घटपद्भिः तदात्मिका रेखाश्च । (२) एकत्र आयुधात्मन, अन्यत्र रेखासना । (३) अरुण:-सूर्यसारथिः अरुणा-रक्ता कान्तिश्च ।
उत्तरचम्पूग्रन्थः । कासतीं, चन्द्रिकाया भयेन पादरूपतामापन्नं तामरसमत्रापि तर्जयितुमागत. येव चन्द्रिकया नखकान्त्या कान्ततमां, मदनशरधिशङ्कावहेन कोमळ- तरांचर समाच्छादितेन मनागुन्नम्य स्थिरीकृतेन उपरिविन्यस्तबाहालनेन वामेन जानना स्वभावतः सिंहासने निवेशितेन दक्षिणेन च सन्धुक्षितनयना- नन्दां, मदनविरचितस्त्रीपुरुषविजयस्तंभाभ्यामिव पृथक्पृथनिवेशिताभ्यां मदनोत्सवस्थापितरंभास्तंभाभ्यां द्विरूपतापन्नकुलिशधरहस्तिहस्तशोभाव- हाभ्यां उरुदण्डाभ्यां मण्डितदेहां, हेमन्तकालेनेव (४) विगतमहा- काशरूपेण दृष्टिगोचरतामुपगन वलग्नभागेन विलसन्ती, रत्नाकरेणेवान्तः (५)सत्वेन आरामेडितपाळफल्येनान्तरवकाशाभावादिव बहिनिर्गना नाभ्या कृताम्यासशोभेन जठरेण जनितमुदं, गाधीभूतनाभिवल्मीकतया बहिर्निर्गतया तदुषितपूर्वयेव कृष्णभुनङ्गया कुचमहीधरोपत्यकारूहयेव तमालवनरेखया सुधापरि गरितकुचकुम्भरसग्रहणार्थमागच्छन्त्येव पिपीलिकापलया रोमावळ्या रुचिरतरां, गर्भधारणकालिकतया किश्चिदिव वित्रन्तवन्धाभ्यां श्यातरचूचका म्यां मरकतशिखराभ्याभिव रजतशिखरिभ्यां शिरःस्थितमधुकराभ्यामिव पुण्ड- रीकमुकुळाभ्यां शक्रनीलमुखाभ्यामिव मनसिजाभिषेकार्थकरूप्यकलशाभ्यां जनुमुद्रालाञ्छिताभ्यामिव मारसर्वस्वनिक्षेपस्फटिकसमुद्काभ्यां,मन्दाकिनीति- हारलग्नशैवलाग्रमहेन्द्रकुम्भिकुम्भोपमाभ्यां रघुपतिसंसारकपित्थतरुफलाभ्यां रोमावळी जम्बीरलताफलाभ्यां विपमशरमोहचूर्णपरिपूरितदन्तकुम्भाभ्यां प. योधराभ्यां परिचितमहाशोभां, शरीरलताविटगाभ्यां रत्नोमिकामणिवलयम. हः पुञ्जरञ्जिताभ्यां सन्ध्यारागसन्दानिताभ्यामिव दुग्धोदतरङ्गरेखाभ्यां, हरिचन्दन चचितोपरिभागाभ्यां विकचकनककमलकान्ति करविताभ्याभिव विष्णुपदीवीचिकाभ्यां लावण्यरसपूरितकायकमलिनीकृतोदयाभ्यामिव वि- साभ्यां भुजलताभ्यां भुवनाभीष्टदानप्रवणां, बल्लकीदण्डेनेव मधुरम्वराल. येन दक्षिणावर्तशङ्खनिभेन कण्ठेन चिरण्टीचिहमङ्गळालङ्कारमुद्रहन्ती, (४) विगतं महत आकाशस्य रूपमित रूप यस्मात् । अन्यत्र महतः काशस्य शरत्कालिककामविशेष रूपं । (५) अन्त: मत्वानि प्रामिनः सतं गर्भश्च ॥
उत्तरचम्पूग्रन्थः । वदनेन्दुलाल्यमानाम्यामिव सन्ध्याशिशुभ्यां दन्तच्छदाभ्या दलितांववा- फलदम्भां, अन्तःप्रतिफलितताटाभ्यां मुखकमलनयनोत्पलविकासनेच्छा- समायातरविविधुमण्डलनिवासभूताभ्यामिव सुमशरमहाराज वलोकनार्थमा- निर्मितरुपटिकदर्पणाभ्यामिव द्रष्टुनयनतर्पणाभ्यां कपोलामा कमनीयतम- मुखभागां, मन्मथमहावीरवाणाभ्यां नीलोत्पलकानाकृतांदेशाभ्या तिरः प्रफुल्लनीलोत्पलश्रीवहाभ्यां अवलोकितजनमनोगदध्वान्तविरोचनाभ्यां वि. लोचनाभ्यां विहित नगदीहितां, मुखचन्द्रजिगीषया समागतस्य नासाख- गाग्रपातद्विधाभूतस्य दुःखकृशीभूतस्य चान्धकारपटलस्य खण्डाभ्यामिव परिहसितपुप्पचापचापदण्डाभ्यां भ्रलताभ्यां भुवनेप्वनुपमां, वदनसुधां- शकळङ्केन कस्तूरिकाचित्रकेण चित्रीयमाणास्यपद्मप्रभां, पक्षाशीता- शुशोभावहां ललाटस्थलीमुद्वहंती, द्विरेफनिकरेणेव वदनसरोजस्पृहासमा- गतेन नासिकाचम्पकावलोकनसञ्जातसाध्वसस्तव्धेन सुमालङ्कारशोभिना सु- वर्णसवर्णदेहलव्यपरभागेन केशकलापेन तुलारहितां, मथनावसानकालि. कधोदम्थलीमिव (१) मुधाभासितां, अमरीमिव मुरणदीप्रलीलापरि- गृहीतां, रात्रिसरसीमिव वर्धमानकुमुदशोभा, शिवशिरःस्थलीमिव सूक्ष्म- तरसितांशकशोभितां चन्द्रमण्डलीमिव भास्वज्ज्योतिःप्रवेशसञ्जातविशे- परामणीयका शब्दविद्यामिव गोत्रगुणवृद्धिकृत्पदाङ्किता, सायविद्यामिव- प्रधानगुणावस्तरकरा, अरुणामधर, करुणामाश्रितपु, तरुणामुपर्वणामांक- (१) सुधेति । सुधा अमृतन भामिनां । अन्यत्र । मुधाया आभयेवाभया (शुक्रत्वेन) सितां । ताति । शुतीनां वेदानां रमणीयः स्वररुदात्तादिभिः आभ्यां पूर्णा । अन्यत्र । कर्णानन्दकरकण्ठस्वाभ्यां । मुरणेति । मुग्णदी मन्दाकिनी तस्यां परिगृहीता प्रकृया लीला ययातां । आहिताग्मयादित्वानियायाः पनिपात: । अन्यत्र । सुरणे श्लाव्ये युद्धे दीप्रया लीलया शत्रुनिपातनरूपया परिगृहीतां युद्धे महति लीलया रावणमुन्मथ्य गमेण ममासादिनामित्यर्थः । वर्धमानेति । कुमुदानां शोभत्येकत्र । अ. न्यत्र कुमदानां शोभेव शोभेनि । मूक्ष्मेति । सूक्ष्मतर: अन्यल्प: सितांशुकः वाल- चन्द्रः तेन शोभिता । अन्यत्र । सूक्ष्मतरेण मितांशुकेन शुक्लाम्बरंण भूषिता । भा- स्वदिति । भास्वत: नृपस्य यज्ज्योति: किरणः तस्य प्रवेशेन सजातं विशेषरागणीयक उत्तरचम्पग्रन्थः । ५१ " ञ्चनेषु,(२)करणमानन्दस्य तरणमघसमुद्रस्य भरणं दीनजनस्य शरणञ्चरणपति तानाञ्च कारयन्ती, भास्वता नासामुक्ताफलेन सुधांशुना देहेन लोहिनाध- रण सौम्येन गुभवेन, गुरुणा नितम्वेन सितेन स्मितेन मन्देन गमनेन तम- सा केशकलापेन केतुना नारीकुलम्यात्मना च नवग्रहमयीमिव, सङ्केतभू- मिमिव त्रैलोक्यसौन्दर्यस्य, सर्वस्वाधानस्थलीमिव मदनमहाराजस्य, चक्षुर्व न्धनविद्यामिव रामसुकृतेन्द्रनालिकस्य, कृतपापैरिव विलासैः परिहिय. माणां, कृतपुण्येनेवालस्येनसेव्यमानां, दुर्वर्णकालितानीति भूपणानि पारी- त्यजन्ती, निमितामिव नक्षत्रः, निलीनामिव चन्द्रिकायां, लिप्तामिवामृतेन, परिप्वक्तामिव गङ्गया, भोगाभिमतामपि नभोगाभिमतां, खमणिकुलमासमाना- मपि नखमणिकुलभासमानां, नष्टापदाळिमप्यनष्टापदाळिं, लङ्केशकुलकृत- शोभामप्यलकेशकुलकृतशोभा रघुनन्दनो जनकनन्दिनीमवलोकयामास ॥ यस्याः । चन्द्रस्य स्वतस्तेजो नास्ति मूर्यकिरणप्रतिफलनवादेव प्रकाशइति ज्योतिश्चिन्त. काः । अन्यत्र । भास्वति प्रकाशविशिष्टे ज्योतिष्यग्नी प्रवेशेन (रावणवधोत्तरकालिकेन) सजातविशेषरामणीयकां । अग्निप्रवन न कापि म्लानता किन्तु तेजोवृद्धिग्वेति भावः । शब्दविद्यामिति । “गोत्रं", "गुणः", "वृद्धिः". “कृत्", "पदं” एतैः साङ्केतिकैः शब्दरङ्कितां । अन्यत्र । गोत्रस्य वंशस्य गुणवृद्धिः उत्तमगुणपूर्तिः, तत्कृद्भयां पदाभ्यां चरणाभ्यामङ्किता। प्रधानेति । प्रधानात्मकानां गुणानां सत्वर जस्तमसां विस्तर जगदात्मना परिणति कति प्रतिपादयतीति तादृशीं । अन्यत्र आश्रितानां मुख्यमुणाभिवृद्धिकरी । (२)अकिञ्चनेषु दरिद्रेयाश्रितेयु सुपर्वणां तरुणा कल्पवृक्षेण (तुल्या) भास्वतेत्यादि । भास्व ता प्रकाशवता मूर्यण च । मुधांशुना सुधासदृशकान्तिना चरेण च । लोहितेन रक्तन कुजेन च । सौम्येन प्रमन्नेन बुधेन च । गुरुणा बृहता बृहस्पतिना च। सितेन शुक्लेन शुक्रण मन्देन मृदना হনস च। तमसा अन्धकारसदृशेन राहुणा च । केतुग ध्वजवत्य- काशकेन तन्नामकग्रहेण च । दुर्वणेति । दुर्वर्णकलितानि दुरजातिप्राप्तानि । स्वर्णनिमितानि च । भोगेति । नभोगाभिमतामिति विरोधः,वस्तुतस्तु नभोगेदवभिमतां पूजितां । नखमणी- त्यादिना विरोधः । वस्तुतस्तु । नत्रमणानां । रत्नवदवभासमानाना नखानां कुलेन सम्- हेन भासमाना, नष्टा: आपदालयः यस्याम्तां । अनष्टेति विरोधः । वस्तुतस्तु । अष्टा- पदानि लक्षणया सुवर्णाभरणानि अविद्यमानानि यस्यां। (गर्भधारणकालिको भूषणानादरः प्रसिद्धः)लवेति । लङ्केशकुले रावणगृहे कृता नाशिता (कहिंसायामिति धातुः) शोभा यया । अलङ्केति विरोधः । वस्तुतस्तु । अलमिति च्छेदः अलं पर्याप्तं यथातथा केशकुलेन कचकलापेन कृता शोभा रामणीयकं यस्यास्तां ॥ .
५२ उत्तरचम्पूग्रन्थः यस्याः करा वदन तनुमाक्षण च पः शिरीषकुमुमैरपि चोत्पलाभ्यां । वेधा विधाय मधु तनिलयं सपस्तं वाचि न्यधाद्विरचयन् श्रुतिपयमेतत् ॥ २६४ ॥ यस्याः स्वरस्य मधुरखमवेत्य भूयो लज्जाकुलः पिक उपेत्य वनान्तराणि । पर्णाशनस्तप उदग्रमिव प्रपन्नो नादं स्वमिच्छति मनोरममद्वितीयम् ॥ २६५ ॥ यस्याः स्मितं जडधियः पयसा समानं केचिदन्ति न तदहमिति प्रतीमः । यदुह्यत पय इह (?) प्रतियत्नपूर्व दोदुयतेऽखिलार्भागमाप स्मितं तत् ॥ २६६ ॥ तामालोक्यामन्दमानन्दमाप्तो रामः सीतां वंशवृदयगुराख्यां । उत्तिष्टन्ती सम्भ्रमाद्वामिन्या नीत्वा निजाम् ॥ २६७॥ चामोरु मामिह समागतमद्य वीक्ष्या- त्तिष्ठस्यतीव समुदाचरणेकनिष्ठा । स्वं साम्प्रतं ग्लपयसीनि न मऽतिखेदो- गर्भः स्फुरन्नुदरगस्तव मां हिनस्ति ॥२६८ ।' प्रिये हृदा स्वेन यदिच्छास त्वं विस्रब्धमाख्याहि विशेषतोऽद्य तथा करिष्यामि यथा त्वदीहा संपूरणीयं किल दोहदं त ॥२६९।। इन्युक्तयाऽसौ जन केन्द्रपुत्र्या पांच स समार्थनाशितोाः । प्रपूरयनिद मेऽद्य कामं बदामि धृष्टा प्रणयन किंचित् ॥२७० ॥ (१) प्रति लो गुणाधान धासार्पणादि । प्रोवाचेई साधु
उत्तरचम्पूग्रन्थः ।
५३
भूयापि मायोऽपनिरोधहीनेः
कायापसशापणतवियोगैः।
तपस्विभिः सेवितमादितेय-
नदीतटं सेवितुमादरोमे ॥ २७१ ॥
इति सप्रश्रयप्रणयं प्रार्थयमानां, दशनकिरणराकीकृताखिलदिशान्तां,
तान्तावयववत्वेऽपि शान्तान्तरङ्गनिपवणविशेपितरुचिं, कान्तां दृढन्तामा-
लिङ्गय नवनीरदन्थिरभासमानशम्पाद्युतिसम्पदमस्याः सम्पादयन्नकम्पा-
नुकम्पानियिरयं "प्रिये
भवतु
तथैव श्वः प्रभाते लक्ष्मणस्त्वां नप्यति
त्वदुक्तं प्रदेश" मित्यभिधाय विधाय च क्षणं सरमसल्लापं, सुहृलाभकाम-
नीयां कामपि सभामताप्य, कदाप्यनादेक्तिमिथ्यावचनेन तदात्वएव
नगरवृत्तान्तजिज्ञासवाऽनुज्ञालप्रवेशेन भद्रनामा चारेण मियः किमप्य-
भिहितः प्रशानदृयमानमानसो मानधनो मानवनाथः मुमन्त्रापमानीतस दर्य-
सन्निधावावेद्य भद्रादपतं भवादधिगन विरचितमोदान्तं वृत्तान्तं लक्ष्मण-
माहय कृतक्षण एवमादिश ।। २७२ ॥
वत्स सूक्ष्मः खल मूर्धाभिषिक्तानां धर्मः, पाटनमेव हि प्रजानां
परमो धर्मः पृथिवीक्षितां, न हि ता अहिताचरणे रमणे पृथिव्या अशक्ताः
प्रतिकर्तुमित्युपेक्षितुमर्हाः, स हि नरपतिनीलोत्तमालेति कृष्णसर्प वेष्टयति,
माणिक्यभङ्गा इत्यारान् शिरसि धारयति, कामिनीकुचकालशाविति
मत्तकुंभिकुम्भौ पराशति, वासवनीलकुट्टिम इति सागरमध्ये निवातस्त-
व्धेऽवतरति, होमधूमलेखेति कृपाणारा नेत्रयोरर्पयति, यः प्रजा वशंवदा
इति यथष्टं चेष्टते ॥ २७३ ॥
ततः ॥ श्वः प्रातस्त्वं रथवरमधिष्य साकं पृथिव्याः
पु-या गला त्रिदशतस्लिीपारगनाय तत्र ।
त्यात्वानां दुततरमिहत्याहि वाल्मीविवासो-
पान्त मा धाः तिमिरमतः शालिपा मे पदाभ्यां ॥ २७४ ॥
उत्तरचम्पूग्रन्थः ।
.
इत्यशनिपातनिष्ठुरं ज्येष्ठस्य वचनमाकर्ण्य विवर्णतामभ्यर्णस्थित-
इवार्यम्णश्चन्द्रमा आपदे, तपान्त इव नववर्षधाराभिषिक्तो मरुर्वाप्पमधिक
मुदसृजत् , वडवानलमुग्वपतित इव मकरो भृशं तताप, कल्पान्तकालिक
इव गिरिरनल्पं चकम्पे, पदाहत इव पृदाकुर्विदारितमुखो नितरां निशश्वास,
न प्रतिवचनमदात् , नचोत्थातुमशकत् , न कर्तव्यमज्ञासीत् , प्रज्ञावतां
धुर्यः सुमित्रातनयवर्यः ॥ २७५ ॥
अथ कथमपि कर्तु भ्रातुराज्ञां प्रभाते
करुणकरुणचेता गद्गदोद्रुद्धकण्ठः ।
धरणितनुभवां तां प्राप्य वाणीमभाणी-
चरणयुगममुष्याः प्राञ्जलिः सन् प्रणम्य ॥२७६ ॥
आर्य गङ्गातीरमासाद्य भूयो
लब्धं मोदं दोहदं ते यदासीत् ।
आर्यस्याज्ञां मोलिमालां वितन्वन्
प्राप्तोऽहं तत्पूरयिष्यन् प्रसीद ॥ २७७ ।.
एवं तस्योगदां वाचमेना-
माकयापि प्रक्षमाणाऽपि वक्त्रं ।
प्राप्ता सीता वैकृतं नैव किञ्चि-
कालेव के पाटवं कास्ति बुद्धः ॥ २९८ ।।
अथावनीजा सह लक्ष्मणेन
द्रुतं समानीतरथेन यन्त्रा।
प्रतस्थ एवं त्वरयोपगङ्गा-
तटं स्थितं तां लुदते हि दैवं ॥ २७॥
अचिन्तयित्वैव महीननूभवा
निमित्तमुद्भुतमुददुःखदं।
रथेन गङ्गां समवाप च क्षणात्
सतीव शीलन विमुक्तिमन्ततः ॥ २८० ॥
उत्तरचम्पूग्रन्थः ।
५५
अथ रथादवतीर्य शृङ्गिवेरपुराधिपत्वरानीततरणिसन्तीर्णसुरापगा-
जलौ धरानराधिपसुतौ तौ चराचरविहीनं खरतरखराभीशकरापातदुस्सहं
पराभूतपराक्रमशालिधैर्य पुरातनदुरितानभवस्थानमिव मरूप्रदेशं, चरणा-
भ्यामेव सञ्चरमाणावुपेतौ ॥ २८१ ॥
दृष्ट्वाऽथ तत्र करुणं तनयामिलाया-
मध्यङ्गते दिनकर वियतः स धीरः ।
मूर्याशुतापितसुमोपमचारुगात्री
वाचं जगाद पदयोः प्ररुदनिपत्य ॥२८२ ॥
आर्ये प्रकम्पमयते वदतोऽद्य जिह्वा
स्वच्छन्दतोऽक्षियगळास्रवतीह वाप्पं ।
वक्तुं विभमि च हहा वचनं, हतोऽस्मि
दैवं दयानिरहितं किल बाधते मां ॥ २८३ ॥
इति विलपन्तं मुहुर्मुहुः पदयुगळे निपतन्तं भावविलुठन्तं, अन-
न्तदुःखसागरान्तमज्जनमाचरन्नं देवरं तं विलोक्य विचिन्तितविविधदुःख-
सन्ताना सन्तापितस्वान्ता नितान्ततान्ता कान्ता रामम्य कथमपि धैर्य-
वत्स लक्ष्मण मा भैपीर्मा च विषीदः, देवं खल त्वां नियोजयति
किमत्रायासेन विशङ्कमाख्याहि शोकशङ्कुनिदान” मितिबहुशः समाश्वा-
"
मवष्टम्य
सयानास ॥ २८४ ।।
अथ तत्र समये ललाटन्तपतरणौ धरणौ च नखम्पचरेणी, तां
धरणीरमणरमणीमणीयसीमिव मृणाळिकां क्षणादेव परिशोषमयितामपरिशे-
पितारिर्मेघनादारिमॆवनादभीषितामिव महोरगी पात्रीकृत्य नयनयोविनयनत-
मस्तकोऽयमस्तोकशोकविशोषितजिह्वः शनैरबाहिदमवादीत् ॥ २८५ ॥
आर्येऽस्मि वज्रहृदयो वचनं च वच्मि
श्रुत्वा तदद्य मयि मा भव रोपरूक्षा ।
दैवं दुनोति वरमेव हि जन्मवनतं
राहुर्यथा ग्रहगणेषु लसत्सु चन्द्रम् ॥ २८६ ॥
५६ उत्तरचम्पग्रन्थः रहसि विदितवातश्चारमुख्यनियुक्तै- विगतरुचिमुखाब्जो वीक्षमाणः सवाष्पं अगददवनिजे त्वनायकः सायकाम वचनमवचनीयं धेर्यमुत्सृज्य दुरात् ॥ २८७ ॥ ब्रह्मादिवहिर्मुखसन्निधाने वैश्वानरं भूमिसुतां प्रविष्टां । पौराजना जानपदाश्च नित्यं विश्वासहीनाः परिदूपयन्ति ॥२८८॥ तनच्छ शीघ्रं धरणेस्तनूजां तीरे तटिन्या अमृताशनानां । सन्त्यज्य चैहीति निदेशवाक्यं मन्त्री बन्नेवमयां कठोरः ॥२८९।। इति वचोऽस्य खरं क्रकचोपमं श्रवणयाविरचय्य महीसना । नयनयुग्मभवेन सहाम्बुना अवगगाशमज्झितचनना ॥ २९० ॥ मूछोलतां प्राप्य महोना सा मही प्रपन्ना मृतवत्तदानीं । उपेक्षितानां पनिभिवधनां गनिः किमारने जननीं विनाऽन्या ॥ चिराप्रपद्याऽपि युता घरण्याः संज्ञान जानाति किल स्म कार्य कथाचदासाादलयलगा समग लक्ष्मणमावयाच ॥ २९२ मा त्वं रुदो लक्ष्मण देवमेवं करोति कार्य कृपया विहीन । उत्सत्य मां यातिशीरभाव: न चागुणजी मी न चाहमीक्षऽयमपि स्वदोषम् । इनञ्च दुःवं समुपस्थितं में विधि विना-हं कमुपालभय ॥२१४ ।। आग्याहि ने भातरमप्रमेयं शोचामि नात्मानभिदंदशापि । वं सर्वथा रक्ष यशः स्वकीयं प्रजानुकृत्येकधुरीणचेताः ॥ २५ ॥ निहत्य रक्षांमि सुरक्षिनास्त्वया कथं विदयुर्मुनयोऽवनं न मे । बने प्रमक्ताऽपि तवैव वीर्यनः कृतावना निति ने सधर्मणी।।२०६॥ .
उत्तरचम्पूग्रन्थः। ६७ श्वश्रूजनं सर्वमपि क्रमेण प्रणम्य विज्ञापय भक्तिपूर्व । दैवं यदि स्यादिह सुप्रसन्नं भवेत्प्रमूतिर्मम दर्शनीया ॥ २९७ ॥ नन्दामि ते लक्ष्मण भक्तिमय्यामत्राग्रजे रक्षितरि मजानां । द्रुतं निवर्तस्व पुरं प्रति त्वं त्वया सनाथः किल मेस नाथः॥२९८॥ इति मुहुर्मुहुर्वदन्ती, क्रन्दन्तीं कररीमिव, निन्दन्ती च विधिविल- सितानि, तत्तादृशे विकर्तनकरविकर्त्यमानमानववले मरुस्थले महीसुतां विसृज्य सज्ज नेक्षणे तत्रैव लक्ष्मणे तत्क्षणमेव निवृत्ते निवृत्तधैर्या सा रामभार्या कार्यान्तरमजानाना नानाविधमित्थं व्यलापीत् ॥ २९९ ॥ भूत्वा विदेहतनयाऽहमयोनिजाता पाणौकृताऽधिकमुद्रा रघुपुङ्गवेन । वल्लयुपनरहितेव निराश्रयत्वा- सीदामि हाऽत्र नियतेरिदमेव वीर्यम् ।। ३०० ॥ हा नाथ लोकत्रयसन्निधाने तथा हि संशोध्य तनूनपाता। ममापि शीले किल संशयानो यदत्यजो मां विधिरत्र वाच्यः ॥ ३०१ ॥ हा दैव किं नाम फलं त्वयाऽऽप्तं सन्ताप्य मामेवमिहाऽतिघोरं । त्यक्ष्यामि नूनं पतिविप्रयोगा- त्याणानहं त्वं तु कृतार्थमेधि ॥ ३०॥ हा राम हा वत्सल धर्मबुद्ध गर्भालसा मामटवीतलेऽस्मिन् । कारुण्यहीनः कथमत्यजस्त्वं यद्वा न वाच्योऽस्यहमल्पभाग्या ॥ ३०३ ॥ विशामि चेदय शरारुवक्त्रं स्त्रीहत्ययाऽयं ध्रुवमाप्स्यसि त्वं । दोषेण युक्ता हि नरेन्द्रपुत्राश्चिरं न राज्यं परिपालयन्ति॥३०४॥ 8
५८
उत्तरचम्पूग्रन्थः ।
अतोऽहमद्येदमहो शरीरं
रक्षामि यत्नाद्यदि ते शिवाऽऽ प्त्यै।
को नाम मे पालयिताऽस्त्यरण्ये
स्त्रियो हि नित्यं परिपालनीयाः ॥ ३०५ ॥
तस्मादमूना परित्यजेयं सन्तापयर्मा सुतरां खरांशो ।
इयं हि भर्तृहृदयाप्रियत्वाध्या. न तेस्त्यत्र तु धर्मलोपः ॥३०६॥
इत्थं विलप्य करुणं वसुधातनूजा
प्राणव्यये धृतमतिश्च शनैः शनैः सा ।
मूर्ते शुक्सुरधुनीजलमाजगाम
तामानमञ्च जगतां दुरितं हरन्तीं ॥ ३०७ ॥
तत्रान्तरे मुनिसुताः प्रसमीक्ष्य देवी
वाल्मीकये प्रजगदुः स दृशा प्रतीच्या ।
ज्ञासाऽखिलं जनकजासविधं प्रपन्नो
ऽद्राक्षीच तां सुरधुनीसलिले स्फुरन्तीम् ॥ ३०८ ॥
अत्रान्तरे जनकजाऽपि जलेऽवतीर्णा
"जन्मान्तरेऽपि रघुनन्दन एव भर्ता ।
भूयादिनेश कृपया तव लोकसाक्षिन्"
इत्थं विलप्य जलगाहनतत्पराऽभूत् ।। ३०९॥
इति कृतमरणोद्योगां वेगाद्भोगवतीमार्ग प्रपन्नामिव नागकन्यां धर-
णिकन्यामन्याय्यमिदं कार्यमिति मन्यमानो मुनीन्द्र उपसृत्य "भद्रे काऽसि,
कस्य वाऽसि, किमर्थं वेदं साहसं रचयसीति वचसा सान्त्वयुक्तेनानुयुज्य
तद्विज्ञापिताखिलवृत्तान्तः प्रज्ञावतामग्रेसरः पुनरपीत्थमभ्यधात् ॥ ३१ ॥
माजयाऽक्षिसलिलं कुरु धैर्य तीरमात्रज बधान च वेणीं।
गच्छ मेऽद्य पुरतः पृथिवीजे स्वाश्रमे सति किमत्र विषादः॥३१॥
हन्ताऽप्युद्धतरावणस्य जगतां हिंसैककर्तुर्नम-
सन्तापघ्नपदाम्बुजोऽपि निरतो धर्मेऽपि शर्मेप्मुभिः ।
चिन्त्योऽपि स्वयमेव योगिनिवहरन्त्योपरोधे तनोः
रोन्मोचनकार्यतस्तव विभुनों रोचते मे हृदे ॥३१२ ॥
उत्तरचम्पूग्रन्थः । ९९ आश्वासितेऽतीव विदेहपुत्री कथश्चिदालवितधैर्यलेशा । ततोऽनुवत्राज तमेव विमं लक्ष्मीरिव प्राप्तकलं(१)विनीतं ॥३१३॥ उटजमेत्य, ततो मुनिपुङ्गवो मुनिवधूषु समर्प्य महीसतां । दुहिततुल्यम परिपालयन् स्वनिलयं विलयं बुबुधे पदम् ॥३१४॥ सौमित्रिः पुनरेत्य सिद्धतटिनीतीरे सुमन्त्रं स्थितं प्राप्तः शोकमहार्णवे जलनृतां मूर्छालतामानशे । सूतोऽप्येवमवस्थमनमनघं नानाविधाश्वासनै- रुत्थाप्यास्रनलं प्रमृज्य वचनं प्रोवाच नीचैरिदम् ॥३१५॥ वत्सावनीजारघुनाथयोस्त्वं नियोगतः प्राप्नुहि मा विषादम् । निदानमाकर्णय तत्र वक्ष्ये निशम्य यत्वं न पुनः शुचे स्याः ॥ ३१६॥ कदाचन परमेष्ठिसुतवरिष्ठस्य वसिष्ठस्य कुलगुरोः पादवन्दनार्थ मया सह तदीयाश्रमपदं प्रपद्य विरथो दशरथोऽस्य पार्वतः समुपविष्टं विष्टपत्रयविख्यातदुष्टनिग्रहपरकोपं, दुरापं कृतपापस्य जनस्य, विनतनन- हृतदुर्वासनं, दुर्वाससं, गर्वापेतवृत्तिरखर्वादरं विलोक्य द्वावपि प्रणम्य प्रणयोचिताभिः सत्क्रियाभिः पुरस्कृतः कृतसमुचितासनपरिग्रहो रहोऽभि- धीयमानविविधकथाप्रस्तावे "भगवन् कियदायुर्मे वत्सो रामः, किंप्रमाणञ्च मे कुलं भविष्यति, प्रसीदतु भगवान् प्रणयतः प्रतिवचनदानेनेति" दुर्वा. ससमप्राक्षीत् ॥ ३१७॥ सोप्येवं प्रत्यब्रवीत् ॥ राजन् श्रूयतामिदं पुराणमाख्यानं । पुरा किल दैवासुरे सङ्गरे पूर्व- देवा देवानामायुधैरायुःक्षयं नीयमाना मानाथानुद्रुता मानापगमेन लघवः पलालवत्पलायमानाः शिलामयमिव पुरं भृगुपत्नीचरणं शरणं प्रपद्य तया- दत्ताभया, वित्तापाहरणकृतागसो दस्यव इव गूढमवात्सुः ॥ ३१८ ॥ (1. प्राप्तविद्यम्।
उत्तरचम्पग्रन्थः । दैत्यानामभयार्पणेन कुपितश्चक्रेण नारायण- स्तच्छीर्ष प्रथमं निकृत्य दनुजांश्चिच्छेद सर्वानथ । "विष्णो स्त्रीवियुतो भवेर्विधुरता यन्मे त्वयाऽऽपादिते" त्येवं शापमदादृगुर्मुररिपुर्नाङ्गीचकारैव तम् ॥ ३१९ ॥ ऊरीचकार भगवान यदाऽस्य शाप नारीवियोगदमनेन भृशं विनतः । पारीणतामथ भृगुश्चययौ तपोऽब्धे- पोरीभवनियमजाग्निविदग्धलोकः ॥ ३२० ॥ तुष्टोऽथ तेन तपसा वचसाऽम्बुजाक्षः कस्ते मनोरथ इति द्विजमन्वयुङ्ग । सोऽप्याख्यदच्युत रुषः फलभूतमेत शापं गृहाण मम पाहि च मामिहति ॥ ३२१ ॥ इति निर्वन्धपूर्वकं प्रार्थयमाने तस्मिन् ब्राह्मणबन्धुर्दयासिन्धुः सिन्धुसु. ताजानिर्मुनिदारवधजनितपापफलं शापमेनमभ्युपगम्य तमन्यस्मिन् जन्मन्य- नुबुभषुस्तदपि जन्म देवकार्यार्थ प्रतीक्षमाणः कृती क्षमाभारनिरसनाय द्वि- रसनाधिपमयाच्छयनाद्भुवमाजिगमिपुस्तव सुतोऽजनि ॥ ३२२ ॥ एकादशाब्दकसहस्रामितं किलायू रक्षिष्यतो भुवामिमां भवतः सुतस्य । पत्नीवियोगमपि चाप्स्यति शीघ्रमस्य पुत्रौ भविष्यत उभौ न पुनः पुरे ते ॥ ३२३ ॥ निशम्य वाक्यं नृपतिर्मुनीन्द्रा- त्सुदुर्मनाः स्वं सदनं समागात् । रहस्यमेतद्ध्यशुचे तवोक्तं न धीमता हेतुविदां हि शोकः ॥ ३२४ ॥ इति तेन वचनेन प्रतिष्ठापितधृतिः सौमित्रिमित्रे पश्चिमपोनिधि प्रति कृतयात्रे मित्रेण तेन सुमन्त्रेण तत्रैव तां निशां नीत्वा प्रातरयोध्या-
उत्तरचम्पूग्रन्थः ।
मध्यास्य भ्रात्रे नेत्रे लोकस्य नेत्रेऽश्रुसंपूर्णाय कर्णान्तिके स्वनिर्तितं कृत्य-
जातं निवेद्य तेन च विषीदन्तं वदन्तं दुरन्तमेवेदं मे व्यसनमिति समाश्वासनै
राममवन्ध्यबोधं प्रतिबोधयामास ॥ ३२५ ॥
अथ नृशंसमपि निजशासनमनुष्ठितवन्तं कनिष्ठानुनं तं भृशं स
प्रशंसन् रामः “पौरकार्यानवेक्षणतो दोषो नृगस्येव मवेदस्माकमपी "
त्यभिधाय तद्विवरणैषिणा सौमित्रिणा प्रार्थितः पुनरेवमभाषत ॥ ३२६ ॥
अभून्नृपो नृग इति नीतिविक्रमो
गवां शतं कनकशर्फ स जातुचित् ।
शुभां गतिं जिगमिषुरास्तिकोत्तमो
द्विजेभ्य उद्गतबहुवित्त आर्पिपत् ॥ ३२७ ॥
अथ सङ्घशः स्थितासु द्रोणदुधासु गोषु दैवादविदितमेव निज-
गोकुलमिळितामन्यस्मै दत्तपूर्वी चार्वाभरणशोभितां गां दत्तवति कैम्म
चिद्दारिद्यनिधये द्विजातये नृपतौ, पूर्वप्रतिग्रहीता खीयां धेनुं तत्र तत्र
विचिन्वन्नतन्वादरः कनखलाख्यग्रामे तस्यापरस्य प्रतिग्रहीनुर्गृहे निवसन्ती
दृढसञ्जात प्रत्यभिज्ञस्तां विलोक्य स्वमुखावलोकनस्ववचनश्रवणसम्भूतवित्रंमां
समाकर्षन् स्वग्राम प्रति प्रतस्थे ॥ ३२८ ॥
अथ ममेयं खं ममेयं स्वमिति परस्परसन्तजनपरावधृष्येयप्यया
कलहस्य निर्वाणमकुर्वाणौ तौ धरणीगीर्वाणौ निश्चित्यान्ततः “स एव
राजाऽऽवयोवाद निर्वापयिष्यतीति' राजद्वारमुपेत्य प्रतीक्षमाणावपि निद्रा.
परवशं राजानं न द्रागवलोकयन्तौ मुद्रातीतरुषावभद्रायास्य “यस्मान्नौ
द्वारगतावपि कार्यार्थिनौ ब्राह्मणावुपैक्षिष्ठास्तस्मात्त्वं कृकलासो भूत्वा बहु-
वर्षसहस्राणि गर्ने निवत्स्यसि, युगान्तरे यदुकुलपयोनिधिपारिजातः पाल-
यिष्यति मवन्तं श्रीकान्तः” इति शापं तदवसानं च वितीर्य गामपि तां-
द्विजायान्यस्मै प्रतिपाद्य यथागतं ययतुः ॥ ३२९॥
६२
उत्तरचम्पग्रन्थः।
श्रुत्वाऽथ नारदमुनेनिजशापमेष
मारक्षिताऽपि सह मन्त्रिपुरोहिताद्यैः ।
सद्योऽभिषिच्य तनयं, विरचय्य गर्न
शीतोष्णवर्षमरुदादिसह विवेश ॥ ३३० ॥
इति लक्ष्मणाय कृतक्षणाय कथायित्वा प्रथितयशा रामस्तादृशं
ब्राह्मणकोपं राज्ञश्च क्षमा प्रति विस्मेरचित्तस्य तस्य मानसोत्साहनाय कथा-
मन्यां पुनरकथयत् ॥ ३३१ ॥
इक्ष्वाकोदशोऽभून्निमिरिति तनयो बैजयन्ताभिधानं
निर्मायासौ पुराग्रथं सवकरणकृते ब्रह्ममूनुं वसिष्ठं ।
पत्रे चान्यांश्च विधानवददजसुतो जैष्णवे सप्ततन्ता-
वृत्विग्गच्छामि पूर्व वृत इति तदयं पाल्यतां में स कालः॥३३२॥
इति वदन्नेव निजागमनकालं प्रतीक्षेत पृथिवीपतिर्निमिरिति दृढं
मन्वानः सुरपदमन्वासीनः समाप्य च तत्र तत्कर्म पुनर्निवृत्य तत्रान्तरे
तत्स्थाने भृगु प्रकल्प्य यथाकल्पं यजमानाय कृतनिनावमानाय निमये भृशं
चक्रोध वक्रोऽथ भृकुटौं वसिष्ठः ॥ ३६३ ॥
शशाप चोवीरमणाय योगी यन्मामनादृत्य मखं तनोषि ।
इदं शरीरं परिहत्य तस्माद्भमिष्यसि त्वं सकलासु दिक्षु ॥३३४॥
अथानागसः स्वस्यानालोच्यैवास्यानेन शापदानेन समेधितमन्युना
स्वमन्युकर्मण्यसमाप्तेऽपि तादृश एव शापे भूपेन प्रत्यर्पिते महर्षयेऽप्यहर्षि-
णौ द्वावपि देहमिह विहाय विहायस्तलमलञ्चक्रतुः ॥ ३३५॥
ततो वसिष्ठः परमेष्ठिपादौ प्रणम्य देहीति तनुं ययाचे ।
असौ च मित्रावरुणोपरतः प्रविश्य देहं कलयेत्यवोचत् ॥३३६॥
अत्रान्तरे दुग्धपयोधिनाथतां
मित्रोऽभजत्कार्यवशेन जातुचित् ।
वृतोर्वशी तेन यदृच्छयक्षिता
प्रचेतसा चापि वृता ततोऽभवत् ॥ ३३७ ॥
उत्तरचम्पूग्रन्थः। मित्रणाह यदृता पूर्वमेव न्याय्या न स्यात्वद्वृति पुनस्तत् । इत्युक्त्वाऽगात्सा स तत्कामोत्थं रेतोऽमुश्चत्कुत्रचित्कुम्भिकायाम् ॥३३८॥ मित्रोऽपि स्वनिकटमुवंशीमथेतां यादोराग्निहितविलोचनां विदित्वा । कोपेनाकृलितमनाः शशाप चैनां जानंस्तां जनितविभङ्गनैजशीलाम् ॥ ३३९॥ अथ तस्मिन् यन्मया वृताऽपि निर्भयमेव पुरुषान्तरमुपेतवती, तत्व- मितोऽमर्त्यलोके पुरूरवसमुपेत्यापत्याविर्भावावधि निवत्स्यसी"ति शप्त्वा स्व- कीयमपि तदीयमोहननितं तस्मिन्नेव कुम्भे विसृज्य वीर्य निर्गते, शोकपरव- शीमूतोर्वशी शर्वरीव ग्रहग्रस्तविधुमण्डला विधुतरुचिवदना सदनान्निजान्मे- दिनीमवाप्य, वशस्थापितसकलेलं महाराजमैळमासाद्य तद्गुणगणरञ्जितमानसा शापमपि मित्रस्य मित्रस्य कृत्यमिव हितकरमेव मन्यमानाऽनन्यमानसेन तेन सह सहस्राक्षादीनामपि दुर्लभान् भोगान् सुचिरमनुभूय भूयसि काले गते गतेारोषं दीर्घायुषं सुतमायुषं प्रसूय स्वःस्थानमागतवती ॥ ३४०॥ घटात्तस्माजज्ञे सलिलनिधिपायी मुनिवृषा पुरस्तात्पश्चात्सोऽप्य जनि रघुवंशोत्तमगुरुः । अर्थक्ष्वाकुर्वत्रे निजकुलपुरोधस्त्वविधये वसिष्ठं सोऽप्यास्ते कुलगुरुरतस्तत्मभृति नः ॥ ३४१॥ निशम्यतां वत्स निमेश्च वृत्तं गते तनोरात्मनि याजकास्ते । संरक्ष्य गन्धादिभिरस्य देह सवं यथावत्तु समापयन्त ॥३४२॥ अथावभृथान्ते वरप्रदानार्थमागतैरुपागतदयैरादितौरवापितजननयन निवासे निमौ, याजकास्तु तद्वंशाङ्कराय देहमस्य मथनक्रियया संयोज्य उत्तरचम्पूग्रन्थः । तज्जातं मथनसम्भूतत्वान्मिथिरिति नाममाज तनयमनयन्त निमिसद- नम् ॥ ३४३॥ तेनापि शर्मास्पदपौररम्या निर्मापिता पूर्मिथिलायंगम्या। अध्यास्य यां भूर्जुगुपेऽय तेन यस्यान्वये नो जनकः प्रसूतः ॥३४४॥ एवमाकर्णितकथस्य विप्रशापे प्राप्तेऽपि क्षान्तावेव कर्तव्यकोटी स्थितायां कथमित्थं चुक्रोध निमिरिति विलक्षतरस्य लक्ष्मणस्य मनोविनो- दनाय कथामन्यामित्थं वर्णयामास ॥३४५ ॥ पुरा किल नयातिश्रद्धमना ययातिनामा महीपतिः (१) दैतेयगुरु राजयोरात्मजे देवयानाशमिष्ठे बंहिष्ठगुणगणाकृष्टमानसे परिणीय धरणीतल विख्यातयशसो यदुमुखांस्तनयांस्तयोः पूर्वस्यामपरस्यामपि महोजितानूरु- सारथीन् पूरुप्रभृतीनपि पुत्रानुत्पादयामास ॥ ३४६ ४ दैतेयेशसुता तदीयतनुजाचोवींपियस्य प्रिया नाऽन्येऽतो रुषितः कविर्नरपति शापाजराढ्यं व्यधात् । राज्ञः सान्ववचःप्रसन्नहृदयस्त्वेनां जरामन्यतो दानादानविधानपात्रमकरोदस्य प्रतुष्टय पुनः ।। ३४७ ।। राजा यदुं मृदु जगाद जरां गृहाण त्वद्यौवनं दिश समाः किल काचिदेव । तत्त पुनः प्रतिदिशानि मुखं विहत्ये- त्येवं यदुस्तु विफलां पितृवाचमाधात् ॥ ३४८ ॥ अथ तथैवाभ्यर्थितेन प्रथिततरपुरुषवरगुणगणगुरुणा पूरुणा सप्र- मोदं जर।ग्रहणपूर्वकं निजयौवने प्रत्यर्पिते पृथिवीपतिः प्रहासपराय विनीते- तरतराय मतिमृदवे यदवे राक्षसत्वप्रापकं शापं वितीर्य राज्यादप्येनमपवाह (१) दंतेयगुरुः शुक्रः । दैतेयगनः वृषपर्वा तयोरित्यर्थः ।
au उत्तरचम्पूग्रन्थः । निजसूनुदापिततारुण्यया लावण्यगुणगरिष्ठया शर्मिष्ठया दृढालिंगनत्रुटित- . हारया सह विनहार ॥ ३४९ ॥ काले गत बहुतिथेऽथ स भूमिपालो भूमिश्च यौवनमपि प्रणिधाय पूर्ग। शान्ति गतो वनमियाय मुमुक्षुसेव्यं न ह्यासते प्रवयसः सदनेषु सन्तः ।। ३५० ॥ अथ यथाकालमवेक्षितराजकार्यस्य परित्यक्तभार्यस्याप्यपुनरूढान्य- कळत्रस्य रघुपुत्रस्य व्यतीयाय सकलजननुतिपात्रं किमपि गणरात्रं ॥३५१॥ अथ कदाचिल्लवणोदधिवेलावनान्तसञ्चारिणो ब्रह्मचारिणो चारणोप- गीयमानरावणोद्धरणाकर्णनसम्भूतमहानन्दा अमन्दारातिनिग्रहप्रवणं लवण- कृतबाधामसहमाना मानधनं तपोधना राम विरामं स्वबाधाकरस्येच्छन्तः प्रशान्तान्तःकरणाः प्रपद्य यथाविधि जितारिणा पूजितास्तेन पृष्टाश्चागमन- प्रयोजनं विपत्परित्रातजनं तमेनमिति विज्ञापयामासुः ॥ ३५२ ॥ रामाभवन्मधुरिति श्रुतवान् सुरारिः शम्भु प्रसाद्य तपसाऽथ समक्षरूपात् । स्वस्यात्मनस्तनुभवस्य च युद्धभूमौ नित्यं जयपदमवाप हरात्स शूलम् ॥ ३५३ ॥ तस्याद्य सूनुलवणाभिधानस्तेनैव शूलेन मदान्धर्चताः । द्विनान्महीपान्मनुजांश्च हत्वा दिने दिनेऽयं जठरं बिभर्ति ॥३५४॥ यस्य प्रभो ते भुजवीर्यवह्नौ दशास्यमुख्याः शलभायमानाः । नाशं गतास्तस्य तवैव वाहोर्वध्यः स दैतेय इति प्रतीमः ॥३५॥ इति निमितमुनिजनकथे दाशरथौ महारथौ रथौषकरितुरगादि विनाऽपि बलं रिपुवधनिनौ भरतशत्रुघ्नौ समाहूय कस्यायं भागो लवणा- मुरदेशस्याभोगो निहत्य रिपुमनुभवनीय इत्यनुयुञ्जाने सञ्जातादरः शत्रुघ्नो विघ्नोपशमनं स्वस्यारात्यभिषेणने चिकीर्षुः "आर्य न कार्यमुपेक्षणमनि- वीयादर वदता मम वचसि, भरतस्तु पुरा भवदागमनापेक्षः प्रक्षीणसुखद- शश्चतुर्दश हायनानि महायमी भूत्वा दुम्सहं खेदमनुभवति स्म, तदयमेव जनोऽत्र नियुज्यतां" इत्यथयांबभूव ॥ ३५६ ॥ रामोऽपि शत्रुघ्नमवेक्ष्य सुद्धसन्नद्धमेनं मणिपीठपृष्ठे । कृखाऽभिषिच्याथ मधोः पुराधिपत्ये वभाषे वचनं गभीरम् ॥ वत्स शत्रुघ्न सुमित्रासभगापत्य सम्प्रत्यन्वर्थतां गमिप्यति ते नाम, चतुराङ्गचतुरङ्गबलसहितो वर्धान्तेऽमीत्तत्पुरं प्रतिपद्य वहिर्गतमेन- मगृहीतशूलमेव पुरं प्रविशन्तं निषिद्धय, मधुकैटभवधाभिनिविष्टाविष्टर- श्रवःसृष्टेन रिपुम्यो दर्शितयमलोकमार्गेण मार्गणेनानेन तं निहत्य तम्या- मेव पुरि कस्याप्यप्रियमनाचग्न् विनामृतदुःखनिकरान् पौरानानन्दयन् विन्देथा निवासमित्यभिधाय वितीय च तं शरं पूर्वप्रेषितसेनमेनं स्वसमीपे मासमावास्य प्रस्थापयामास प्रभुः ॥ ३५८ ॥ प्रस्थाय सोऽपि क्षितिपालमूनु- स्त्रस्ताभयप्रापणवद्धकक्ष्यः । जाल्मीकरिष्यन् लवणं वनान्ते वाल्मीकिमासाद्य ननाम भक्त्या ॥३५॥ अथ यथोचितमभ्यर्च्य निजोट प्रवेशितो मुनिना म नरना वसू- नुर्विमना रघुनायकदारम्मरणेन तरणेः किल किरणेभ्यः सुदृरासिकामर्पित- वांत तास्मन् दवं निवेशितनेत्रम्तत्रत्यसत्रविभूति प्रति पृष्टेन शिष्टजन- प्राप्तिहृष्टेन मुनिवरिष्ठेन वचनमिदमाचख्ये ॥ ३६० ॥ त्वत्पूर्वकोऽभूत्क्षितिपालवयः सुदासजो वीरसहाभिधानः । अत्तुं वनेऽस्मिन्नखिलान मृगौवान् ददर्श स व्याघ्रतनू पलाशौ ।। ३६१ ।. आशुगासनवशी कुणपाशो वीक्ष्य चैकतरमत्र जघान । भूमिपाय रुषितः प्रतिकर्नु तत्समक्षमपरः प्रतिजज्ञ ॥ ३६२ ।।
IN ७ उत्तरचम्पग्रन्थः। अथ कदाचित्क्रियमाणवाजिमेधक्रियस्य यज्ञायतनकृतवासस्य सौ- दासम्य पुरो निष्ठितो ह्मनिष्ठस्य वसिष्ठस्य रूपं पापं कर्तुं प्रपन्नः क्षपाचरः स कृपारहितः “राजन् याजनक्रियातान्तस्य मे कान्तं भोजनं सामिषं निमिपकालमात्रेण दीयता" मिति संप्रार्थान्तधिमापद्य च सद्य एवं सत्यमेतदिति बुद्धया समुपगतत्वरेण नृपवरेण " तरसा तरसाऽभियुक्तं भोजनं भाजने रम्ये निधाय सन्निधाय गुरोः समक्षं तस्मै देहि' इति समादिष्टः दरूपेण तथेत्यभ्युपगम्य मानवमांसमस्मै समर्प्य यथागतमगात ॥३६॥ धातुः सुतो नृपललं असमीक्ष्य रुष्टः शेपे नृपाय नृपलाशनतां बजेति । शप्तु जलं नरपतिश्च दधौ निरागाः सामेरितोऽथ मदयन्तिकया (१) स शान्तः ॥ ३६४ ॥ अथ निजगुरुशापानिवृत्ते सुवृत्त तज्जलं निजपदयोर्विसृज्य तेन कल्म- षितपादे कल्मापपादाभिधां जग्मुपि सौदासे वसिष्ठोऽपि राक्षसचेष्टितमिद- माखिलमिति विज्ञाय प्रज्ञावतामग्रणीगुरुणा करुणारसेन तरणायास्या विपदो "नेतासि द्वादशवत्सर मात्रावधिकं शापमिम” मिति पनरेनं सकरग्रहमन्व- नाहीत् ॥ ३६५ ।। अथाभिभुज्य द्विजवर्यशापं तदुक्तकालं नरपालवर्यः । पुनः प्रपन्नो नगरी स्वकीया- मशादिशापूर्णयशा धरित्रीं ॥३६६ ॥ तस्येयमध्वरभृरिति निर्दिशति तपोधने शौर्यधनेड्यः शत्रुघ्नौपि निन- वंशसंभृतचित्रचरित्राकणनेन मुदर्णवनिमग्नहृदयः शयनीयमगात् ॥३६७॥ अथ तस्यामेव रजन्यां निशीथसमये जनकजाप्रसवं सकुतूहलमुनि- बालकगणेरावेदितो वाल्मीकिः सत्वरमेव गत्वा हृष्टतरस्तत्रारिष्टस्थितिबद्ध- (१) .न्तिकति सौदासान्या - T ६८ उत्तरचम्पूग्रन्थः । श्रद्धाभिवृद्धाभिनिजकरस्थितेन कुशमुष्टिना लवेन च भूतरक्षाकरमन्त्राभि- मन्त्रितेन बालयोः शरीरे. पर्यायशः परामर्थ्य तत एव कारणात्कुशलवा- विति नामभानौ तावकरोत् ॥ ३६८ ॥ श्रुत्वा जातौ राघवस्यात्मजातो रामभ्राताऽतीव हर्षस्य धाता। तस्या गत्वा वासमूचेऽथ नत्वा दिल्या भासीत्याया वीक्ष्य दृष्ट्या ॥३६९ ॥ अथ गतयामायां त्रियामायामनुज्ञाप्य मुनि विज्ञाप्य च तस्मै प्र. स्तुतं कार्यमहायवर धैर्यपरः परप्राणच्यवनकरश्च्यवनमुखैस्त्वरितमेव रि- पुवधकांक्षिभिः पारिकांक्षिभिः सह प्रस्थाय महावीर्यपरिमाणप्रस्थाय मधु- पुरस्थाय साधुकृतरणाय लवणाय मरणावस्थामवस्थापयिप्यन्नदप्सीयवृत्ता- न्तमन्वयुत मुनीन् ।। ५७० ॥ ते चैनमेवमवोचन्त ॥ "पुरा किल सकलमागणगणप्रार्थितसन्धाता मान्धाता नाम वः पूर्वको राजा विजातीयनिजातिवलविजितरिपुचक्रश्चक्रवर्तितां प्राप्य शक्रार्धा सनमन्ते सुधर्मान्ते कान्ते प्रपद्य सद्यः सम्भवदसूयेन जम्भरिपुणा किं वि- जितास्त्वया सर्वेऽप्युवतिले वीराः न ह्यजिताखिलारिसार्थस्य भूनाथस्य समुचितमिदं स्थान". मिति पृष्टः शिष्ट सम्मतशीलतया तया गिरा परां प्रतीतिमुपेत्य धरां पुनरवाप्य निस्सीमधुतपरबलेन मधुपुरं बलेन समं समासाद्य बहूनि दिनान्यतिशयितरावणेन लवणेन युद्धा विद्धा च तं मर्मसु, तदनु विजितप्रायेणानेन गतमानेन विमुक्तेन विपत्कालपालेन शूलेन पतितेन महत्यनिले तूलेन सदृशी दशामापेदे ।। ३७१ ॥ तस्मादस्माकं भवन्तं विना रिपुन्तं विजेतुं नास्ति प्रत्याशा, असं शयं भवास्तु विजेप्यते त" मिति प्रोत्साहितोऽहितोपतापनान्वर्थितनामा शत्रुघ्नश्च्यवनाश्रममुपेत्य, परद्यवि करेऽपितकोदण्डो (१) हिण्ड्यमानोदये (१) हिण्ड्यमान: प्राप्यमाण: उदयः उदयंशलो येन ।
उत्तरचम्पूग्रन्थः । ६९ कमलिनीरागोंदये तेजसि, सञ्जातपूरामिव लवणायशोराजि (१) राजीविनी- नाथसुतां निस्तीर्य विस्तीर्णेरुडुपैः प्रातरेव कातरत्वं विहाय मक्ष्यसंपादनाय बहिर्गतलवणं,लवणराशिरिव दुग्वं पुरं रिपोः प्रविश्य विक्षोभयाञ्चक्रे ॥३२॥ पुष्करमध्यं याते पुष्करभाग्यावळीपरीपाके । (२) बंगादागादागानागादिप्राणिकुणपल्लवणः ॥ ३७३ ॥ नगरद्वारे रोधान्नगतुल्याङ्गो निबद्धदृढमन्युः । न गतः शूलमुपैतुं नगदृष्ट्या योद्धुकाम आगात्सः ॥ ३७४ ।। अथ मथनसमये मन्दरमिव क्षीरबिन्दुन् कङ्कपत्रिणः शरौघान- मोघान् किरन्तं रघुवरं तं केनाप्यभ्रंलिहेनानोकहेन सन्ताड्य पीड्यमान- चेतनं केतनमिवेन्द्रस्य पातयित्वा मत्वा च मृतोऽयमिति खानीतं अथितमुनिमदावलमृगकुक्कुरद्वीपितरक्षुप्रभृतिकलेबरं वरमुसलं सलीलमा- दाय पुरं प्रवेष्टुमुद्यतचरणे निन्दिततराचरणे लवणे, शत्रुनोऽपि मूर्छा- मपहाय सरभसमुत्थिततनुधनुर्गृहीत्वा स्वाग्रजदत्तं संवर्तिपुरप्रापितसपत्नं बाणरत्नं सन्धाय समनुसन्धाय च रघुनन्दनं हृदा तेन च शरेण तं पूर्व- देवमप्यपूर्वदेवमेव (३) विरचय्य तद्ववसन्तुष्टविष्टपत्रयसमभिष्टुतप्रभावः प्रमा- करकुलतिलकस्तदनु ज्ञानिजनानुज्ञयैव मधुपुरं प्रविश्य तत्रत्यलोकमपि समा- श्वास्य विश्वास्य च निने विश्वावनीरजनक्षमत्वे सुखं पृथिवीं पालय- नास्त ॥ ३७५॥ अथ कदाचिदग्रनसेवासमुत्सुकमानसो मानसोत्सुक इव राजहंसो राजहंसोऽयमुत्तराभिमुखं प्रस्थाय कतिचन मित्राणि मित्रादिकानिब सुत्रामा पुरस्कृत्य कृत्यविदां प्रवरो वल्मीकजन्मानमतिथिकृतमानमुपेत्य तेन च लवणवधसञ्जनितामन्दानन्दतुन्दिलहृदयेन कृतोज्जवलदयेन (४) भृशं स कृतप्रशंसस्तत्र तां रात्रिमुवास ॥ ३७६ ॥ (१) राजीविनीनाथसुता रनितनयां यमुनामित्यर्थः ॥ (२) सूर्ये । (३) अपूर्वदेवं असुरभिन्नमिति विरोधः । नवसुरमिति परिहार: । (४) कृतः उज्वलन प्रकाशमानः भयः (लवणवधजातदृष्टिदोषादिहर:) शुभावहविधियन ।।
उत्तरचम्पग्रन्थः। . सीमानं कवितारसस्य महतो रामायणाख्यां कृति रामापत्यकगीतपद्यसुभगां प्रेमान्ध आकर्ण्य सः । सोमांशुस्थितचन्द्रकान्तसमहद्धीमान्मुनेराज्ञया धामाप्याऽथ रघूत्तमस्य चरणौ नामालपन्नग्रहीत् ॥ ३७७॥ साकेते सप्त निशा नाके किल वासितोऽथ शत्रुघ्नः । सम्मानितश्च सहजः शर्मास्पदमागमत्पुनः खपुरम् ॥ ३७८ ॥ कदाचिदत्य प्रतिहारदेशं मृतं सुने कश्चन बाल्य एव । द्विजोऽङ्कमारोप्य निजं सुदुःखश्चिरं व्यलापीदभिहत्य वक्षः।।३७९॥ हा वत्स चेतोहररूप यासि खन्नाथमेतं पितरं विमुच्य । तं मामपीतो नय पुत्र देशं यत्र त्वया गम्यत पत्र देगा ॥३,.॥ हा वत्स पापस्य नृपस्य राज्ये प्राणान्तहतोरुपितोऽसि ननम् । पूर्वेषु शासत्सु नृपेषु भूमि श्रुतः किमल्पायुरवाप्तमृत्युः ॥३८१ ॥ हा राजन मम पुत्रघातदुरितं पुष्णासि तृष्णा न ते धर्मेण क्षितिरक्षण दशरथाद्धर्मात्मनस्त्वं कथं । पापानमा जनिमाग़मो ध्रुश्मयं दोपात्तवान्तं गतो देवं मां परिपात्य ते जनपदे हा हन्त हन्ति द्रुतम् ॥ ३८२॥ इत्यादि वह विलपन्तं प्रलपन्तं निन्दन्तं नृपं नन्दनमनशोचन्तञ्च कटोरशोक शंकपटुतहृदयं सदयं धरणीरमणो धरणीगीर्वाणं निर्वर्ण्य निर्वाण- मितस्प मुतम्य शरीररक्षणं लक्ष्मणेन समादिश्य निखिलमहर्षिप्रमुखाभिर्दश- मुखारिः तिभिः सभामवाप्य तत्र स्थितेन महानुभावताविराजितेन मुनिराजने नाग्दैन " राजन् शम्बुका नाम कलियुगतपश्चर्यायोग्यो मर्यादा- मीत्य तपस्यनि, तत एवाधर्मान्मृतो विप्रसुतोऽयमतोऽसावन्यथाकारी हन्यतामान्वयेति मन्यते म हृदयं " इत्यादिष्टः सद्य एव द्विजादिष्टं शुभ- चन्मयः। पुष्टं कर्तुं यममुष्टपत्यानयनार्थमतिकष्टमप्यनपराधवधं विधातुमुद्यतः प्रद्यो- तनकुलमणिः स्मृतिमात्रसमागतेन पुप्पकेण निष्पतन् गवेषितदिशात्रितयो दक्षिणो दक्षिणस्यां दिशि दण्डकायामधोमुण्डकं तपश्चरन्तं कमप्यालोक्य प्रश्नोत्तरविदिततदीयजाति तक्रोधः समाकृष्य कृपाणमपप्राणमेनम- करोत् ॥ ३८३॥ सोऽयं ततो नभसि लम्बितमप्रमेयं दिव्याम्बररगनुलेपन भव्यमूर्तिः। तस्माच्छरित उदेत्य मुदेक्षमाणे रागे विमानवरमद्भुतमारोह ।। ३८४॥ यानेन तेनैव गती धरित्री दिनेशविम्बोजवलचारुणाऽसौ । दिव्यः पुमानत्य दिलीपवंशमुक्तामणिं तं पणनाम भक्तया !! साञ्जलिबन्धमुवाच चैवं ॥ (१) एतेनैव शरीरकेण सह सम्प्राप्तुं सुपर्वालयं वाञ्छावानतप तपस्तदधुना दत्ते स्म भूषः फलम् । नो चेन्मे कनु दर्शनं तव विभा स्वर्गः कथं चाप्यता मन्नाथाय नमो नमोऽस्तु जगतामीशाय रामाय ते ॥३८६॥ इति विज्ञाप्य प्रणिपत्य च दिवं गते शम्बूके. परितुष्टसुरदत्तवर- लब्धजीवितं द्विजसुतं विरचय मुनिगणसमभ्यर्थ्यमानः कुम्भयोनेराश्रम- मुपेत्य तेन सत्कृतस्तत्प्रतिपादितं मगिवलयं तदुक्त्या (२) क्षत्रियोऽपि प्रतिगृह्णानः तदागमनिदानं पृष्टेन हृष्टेन मुनिना जगदे जगदेकनाथः ॥३८७॥ पुरा किल त्रेतायुगेऽहं गेहं कुत्राप्यकल्पयन् , वनेऽस्मिन् पक्षि- मृगादिहीने चरणाभ्यामेव सञ्चरमाणः प्रमाणातीतं कमपि रमणीयतरतीरं सरोवरं प्रपन्नः स्नानादिकमनुतिष्ठन् तस्य जले प्लवमानं पुष्टप्रतीकं प्रतीर (१) एतेनेति खड्ग हतस्य पूर्वशरीरस्य निर्देशः । (२) गज्ञः सर्वलोकपालांश वदिन्दशिन प्रतिग्रहोऽप्यचित इत्याद्यामिका ॥ न ७२ उत्तरचम्पूग्रन्थः । तीयमानपूतिगन्धं प्रेतशरीरमभिवीक्ष्य कस्येदं किंनिमित्तं चास्यात्र प्लवन- मिति विचिन्तयन्, किङ्किणीनिनादपरितोषितश्रवणं वैश्रवणरथसङ्काशम- कल्पान्तेऽपि पतदङ्गपतङ्गभ्रमकरणचणमप्सरोगणवीज्यमानं वालव्यजनाष्ट- केन परमाद्भुतभद्रासनपरिकर्मितमध्यप्रदेशं स्वसमानरहितं विमानवरमधि- ष्ठितं भूपृष्ठमवतरन्तं कमपि दिव्यपुरुषं क्रमादद्राक्षं ॥ ३८८ ॥ कष्ट कष्टं स धरणिगतः प्राप्य कासारमध्यं प्रेतं तत्र स्थितमपि मुदा भक्षयित्वाऽथ तृप्तः । गत्वा तीरं निहितनयनः सर्वतो विस्मितं मां वेगादेत्य प्रणतिमकरोत्पाञ्जलिः पादयोर्मे ॥ ३८९ ।। तदनु " कोऽसि किमर्थ चेदृशमतिबीभत्सं कर्माचरसी" ति पृष्टः स पुमानात्मनो वृत्तान्तमित्थमकथयत् ॥ ३९० ॥ "अहं किल विदर्भाधिदेवस्य सुदेवस्याग्रजस्तनुजः पितरि स्वर्ग तेनि गतेादिदुर्गुणो लवणोदधिकृतावधिं भुवं चिरं प्रशास्य दशामवाप्य जरात्मि- कामरातिनिषूदनवरिष्ठे धर्मैकनिष्ठे कनिष्ठे भ्रातरि तरिष्यन् भवांबुधिमम्बुधि- मेखलां निक्षिप्य पक्षिमृगमात्रसहायः सहादरेण परेण वने विचरन् पर्याप्त- तपश्चर्यालंकृतः सरमोऽस्य वरसोपानतले परित्यज्य शरीरं परीप्मुरानन्द ब्रह्मानुध्यानविधूतैनसा मनसा ब्रह्मलोकमगमं ॥ ३९१ ॥ ततो महाहर्षिमहर्षिवरतोष्ट्रय्यमानपद्मविष्टरे नारदतुंबुरुप्रमुखसुरवैणि- कजेगीयमानगीर्देवतापदाने सनकादियोगिवरजाघुष्यमाणनिगमनिगमान्तमहा रहस्ये सदस्येव क्षुत्पिपासावसादावसन्नमूर्तिरातिमापन्नो विपन्नो विधिमुपेत्य कृत्यमात्ययिकं विज्ञाप्य समाज्ञापितश्च तेन " न ह्यशनायातृषादितानामस्त्य- शनायात्र दातव्यं, तत्स्वर्ग एवेदं मार्गयितव्य" मिति नाकमभ्येत्य तत्रापि वृत्रारिणा विदितमदीयवृत्तेन " न हि त्रिदिवेऽस्ति किञ्चिदपि तव भोज्यं । यन्न किमपि त्वया पूर्वस्मिन् भवे चार्षभिजनाय दत्तं, तत्तवैव तनुमतनुं नित्यमक्षणेऽपि मत्प्रसादेन भक्षय, यदा कुंभसंभवं संभावयिप्याति प्रदानेन उत्तरचम्पूग्रन्थः । ताद किल लप्स्यसे क्षत्प्रशान्ति" इत्यादिष्टः प्रतिदिनमिहागत्य गत्यन्तरा- भावात्परमजुगुप्सितमपि कर्मेदमीप्सितमिवाचरन् प्रतिपालयामि चिरकाल- यापितं भगवदागमनं " इत्यभिधाय रचिताश्रुपिसर्गे स्वर्गिणि तस्मिन्नकम्पा- नुकम्पासमाकंपिताय मह्यं शंपाविजेत्रप्रभाङ्कनं कङ्कणमिदं वितीर्य प्रतीर्य च दुःखसागरं तत्र च मया प्रतिगृहीतमात्रे क्षणादेव देवपुरुषे सरःस्थस्व- शरीरविनाशदर्शनसुखमनुभूयान्तर्हिते हितेहितमना अहमप्यस्य दानपात्रं समुचितं चिरान्निश्चित्य भवन्तं भवतेऽद्य प्रादामिति ॥ ३९२ ॥ निशम्यैतद्वृत्तं रघुपतिरथो विस्मितमना (?) वने ज्ञातुं हेतुं खगमृगविहीनत्वकरणम् । अपृच्छद्योऽमुं मुनिवृषभमेषोऽप्यकथयत् रघूत्तंस श्रीमन् शृणु समवधेह्यद्य कश्ये ॥ ३९.३ ॥ इक्ष्वाकोर्दण्डनामा चरम उदभवत्पुत्रकः सोऽपि काव्यं पौरोहित्याय कृत्वाऽशिषदवनिमथो जातु सोऽगादरण्यम् । गत्वाऽऽचार्यस्य वासं रतिसदृशतनुं तत्र वीक्ष्यास्य पुत्री कामातस्तामकामामरमयत बलात्स्वगतेऽस्यास्तु ताते ॥३९४॥ अरजा (२) मथ जातमन्युना ता- मभिवीक्ष्योशनसा कृताऽस्य भूमिः । रहिता मृगपक्षिवृक्षगुल्मेः पतितव्योमतलात्तु पांसुवर्षेः ॥ ३९५ ॥ एवमाकर्ण्य कर्णमधुरां कथां दाशरथिर्मुनिवरमापृच्छ्याथ वियच्छ्या- मतनुलब्धपरभागदिव्यकङ्कणोऽयोध्यामध्यास्य बुद्धया निश्चित्य यष्टुमिष्टतरौ सहोदरौ समानीय सकलराजकमाननीयराजसूयसवविधित्सां धृनोत्साह- माभ्यां निवेदयामास ॥ ३९६ ॥ अथ वश्यावश्यपरीक्षाशुन्यं सकलानपि महीपतीन् विजितवतैव कर्तव्यस्य राजसूयसवस्य चिकीर्षया खिन्नमना मनागप्यनायासयन्नेव परांन् (१) पूर्वमगस्त्यवाक्ये “पक्षिमृगादिहीने" इति वनविशेषणं मनसि निधाय रामः सन्दिग्धे ॥ (२) अरजेति शुक्रपुम नाम 10 ७४ उत्तरचम्पग्रन्थः । भरतो “वश्यानामवश्यायनिन्दनामिव स्वर्भवतः सन्निधाने स्थातुमप्यशक्नुवतां राज्ञां निपीडनापेक्षया वरं ऋतुवरमश्वमेधमनुष्ठाय देवप्रीणन" मिति राम विज्ञापयामास ॥ ३९७ ॥ निशम्य त सावरमेव भारती स्तवोचितां लक्ष्मण एप भारतीम् । कथां स्मरन् कामपि वाजिमधनां रघूत्तमं वाक्यमवोचदुत्तमम् ॥ ३९८ ॥ धर्मात्मा त्रनामाऽभरदसुरवशे वीर्यधैर्यकभूमि- स्तिष्टन्तं वीक्ष्य चैनं तपसि सुरपतिीतभीतो रमेशम् । संप्रा.स्मिन् महेन्द्र कुलिशमपि भुवं चाविशत्यानवन- स्तं हत्वा ब्रह्महत्यापरिकलिततनुर्विद्रतः कापि लिल्ये ॥३२९॥ संपाप्याथो महेन्द्रं जलजभवमुखा बोधयामासुरुचैः मोऽकापदिश्वमेधं तदनु परिगता दृश्यतां दुर्वसा (१) सा । कृत्वाऽऽत्मानं चतुर्धा भुवि च युवतिपु प्राण्य च पूरे विप्रादूपं च लीनाऽभवदथ सुखितः स्वां पुरीमिन्द्र आगात् ।। अथ हयमेधसमेधितभेध्यताप्रशंसां भृशं साधयितुं रामोऽपि सोमो- द्भवसङ्गतेळोपाख्यानमालयातुमुपचक्रमे ॥ ४ ० १ ॥ आसीदाजेळनामा मृगयुरयमयाजातु शैलेन्द्रपा तत्रादेशन शम्भाः स्वगततनुमतां स्त्रीत्वदं दावमागात् । आत्मानं वीक्ष्य नारीकृतमथ विहतो बद्धतृणं ययाचे देवं देवीसमनं पुनरपि पुरुषत्वाप्तिमत्यन्तमातः ॥ ४०२ ॥ देवो नैवानुमनेऽन्यथयितुमथ गां स्वादिता, मेप देवी प्रापत्स्वापत्प्रशान्त्य, तदन गिरिसुता वाचमूचे दयाः । शम्भोरङ्ग ममार्ध स्वमत इदमिह प्राच्यसे मासमेक स्वी भूत्वा मासमकं पुरुपतघरा न स्मारप्यस्यतीतं ॥४०॥ (१) दुर्वसा ब्रह्महत्याजाता काऽपि कसा ।
उत्तरचम्पूग्रन्थः । ७५ . सेळा सर्वाङ्गसुन्दर्यथ वनमविशद्विस्मृतातीतकार्या, तामीक्षामास सौम्यः सरसि कृततपाः कुत्रचित्तत्र चाप्तां । विद्धः कामेन तीरं समुपगत इमां चाटुभिहियित्वा रेमे मासं, ततोऽगात्पुरुषतनुमसो, सोऽपि तप्तुं सरस्तत् ॥ याते गाने पुनः स्त्रीमरमयदथ तामेवमापन्नगर्भा काले पुत्रं प्रमूलेयमथ बुध इमं नित्यपुंस्त्वं चिकीर्षुः । आलोच्याप्नैर्मुनीन्द्रररचयत सवं वाजिमेधं नृपेण प्रादात्तुष्टस्ततोऽस्मै सह वरनिकरैनित्यपुंस्त्वं महेशः ॥४०५॥ पुरं प्रतिष्ठानमवाप्य राजा स्वनिर्मितं भूमिमिळ: शशास । वृद्धो वनं चाप मुते स्वमूते पुरूरवस्यर्पितराज्यभारः ॥ ४०६ ।। एवं परस्परसम्मन्त्रणमिद्धान्तितकर्तव्यताके तुरगमेधमखे रामः प्रसन्नमनाः समानाय्य वमिष्ठादीन् गरिष्ठान्मनीननश्वरमश्वमेधमवश्यं विधेयं निश्चित्य नैमिशे विशेषतः कर्मणां फलप्रदे प्रदेश यज्ञम्य कारयित्वा सन्दे- शसमानीतसकलमुनिनृपप्रमुख जनः जनकनन्दिन्या काञ्चनमय्या पुरतो भरतोपनीतया सह समनुगतश्च महता सैन्येन पादपीठसङ्घर्षितसामन्त- किरीटतटो यज्ञवाटं प्रविश्य श्याममश्वं शुभावर्त शुभे मुहूर्त विससर्न ।।४८७|| ततो मखदर्शनार्थमुपागतम्य वाल्मीकेः प्रियान्तेवासिनौ सहनतेनः- पुञ्जमञ्जातशरीराच्छादनावपि वल्कलाच्छादनौ कुशीलवौ सुप्रसिद्धकुशलवना- मानौ विधृतवीक्षकजनकट'क्षदामानौ निजगुरुनिदेशेन तत्र तत्र गीयमानरा- मायणी रामः स्वयज्ञवाटमानाय्य सत्कृत्य कृत्यविदां वरः परमेष्ठिसमप्रभा- वैः प्रभापहसितप्रभा रेर्मुनिभिर्महीपतिभिरन्यैश्च 'पन्यैः प्रकृतिमण्डलैः परि- मण्डिनोपान्तो वारितश्रोतृश्रावकजनदुरितजातं, (१) आतङ्कमातङ्गमातङ्ग- रिपुं, आश्रयं रसानां, आस्पदं (२) गुणानां, आकरं (३) रमणीयपद्य- मणीनां, विधानं श्रोतृजनमनोरथसिद्धीनां, प्रधानं महाकाव्यानां, कमनीयं श्रुतिलगसम्पदा, श्रवणीयं भवस गतिविद्भिः, सुनमिव लालनीयं, निधिमित,पालनीय, मार्गप्रदर्शक महाकवीनां, माहात्म्य प्रदर्शनस्थानं महा. कवित्वस्य, सर्वम्वाधानस्थलं सरस्वत्याः, सदयावलोकन कारणं सागरकन्य. (१) आतड़ा एव माता गजास्तेषां मातभरिपुं मिहं। रामायणस्मरणमात्रे. ण सर्वेऽप्यात हा गन्नान्यः । (२) गुणानां प्रसादादानां । (३) आकरं खनि जन्म- , - ७६ उत्तरचम्पग्रन्थः । कायाः, शशशृङ्गायमाणदोषनिकरे, शुभरङ्गायमाणं शोभनार्थनटानां, पेट- कायमानमलङ्काराणां (४) घोटकायमानं (५) पदरचनाविशेषाणां, हरि- मिव (६) श्रुतिलयविशिष्टचरणं, सत्कळत्रमिव शुभतरशय्यासमाकलन- सम्पादितपुरुषार्थ, सज्जनमिव बहुसर्गप्रपञ्चप्रदर्शनकलितमुदं, कामिनीकण्ठ- मिव सवर्णाकलितमुक्तावळीसमाश्रितं, नगरमिव महापद्याकलितपदकृतानन्द, रामायणं गातुमादिदेश ॥ ४०८ ॥ वाग्देवीभुजगाधिपावृततर्नु वाल्मीकिमन्थाचलं श्रीमद्रामकथासुधाजलनिधौ निक्षिप्य निर्लोडिते । श्रीरामायणनामकामृतमजेनात्तं श्रवःपेयक निम्नद्रोगजरामृती रघबरो मत्तोऽनुभूयाभवत् ॥ ४०९ ॥ स्थानमित्यर्थः । (४) अलङ्कारा अनुप्रासादय: उपमादयश्च त एवं अलङ्कारा भूषणा- नति निष्टरूपक। (५) पदानां सुप्तिङन्तानां रचना प्रयोगप्रकार: तद्विशेषाणामेव पद रचनायाः पादविन्यामस्य (धारात्मकस्य विशेषाणां भेदानामिति लिटरूपकं । (६) श्रुती त्यादि । श्रुतयः स्वरावयवविशेषाः सङ्गीतशास्त्रे प्रसिद्धाः लया: तालमाम्यापरपर्या- याः तविशिष्टाः चरणाः लोकतर्गयांशा यस्मिन् । हरिपक्षे श्रुतौ वंदे लयः ली. नत्वं (प्रतिपाद्यतया) तद्विशिष्टौ चरणी यस्य तं । शुभेति । शुभतराया अति ला• घ्यागा शप्यायाः शब्दगुम्भविन्यासात्मिकायाः समाकलनेन मनसाऽनुध्यानेन सम्पा- दिताः पुरुषार्था धर्मादय: येन । अन्यत्र शुभतरायां शय्यायां तल्पे समाकलनेम सह स्थित्या सम्पादितः पुरुषस्य अर्थाद्भर्तुः अर्थः स्वपाणिग्रहणप्रयोजनं येन । सद्रीती- ति । सद्रीतः शोभन (अनुष्टानम्य) प्रकारस्य अनुसरणेन वशीकृता: स्वस्मिन् भक्ती. कृताः जनाः येन । रामायणपक्षे रीतयो वैदादयः । बहिति । बहूनां सर्गाणां त- दाख्यानां अध्यायानां प्रपश्चस्य विस्तास्य प्रदर्शनेन कलितमुदं रचितानन्दं । अन्यत्र बद्दषु सर्गेषु दैनन्दिनप्रळयान्तकालिकसष्टिषु प्रपश्चस्य जगतः प्रदर्शनेन कलितमुदं प्राप्त- हर्षे, कल्पान्तेऽपि मुक्ताना विनाशाभावात् । सुवर्णेति । सुवर्णः पूजनीयाक्षरंगकलि- तं पूर्णमित्यर्थः । मुक्तावल्या मोक्षं प्राप्तानां ममूहेन समाश्रित सवितमित्यर्थः । मुव. र्णाकलिनच तन्मुक्तावलीसमाश्रितवेत्यन्यतरस्य विशेष्यत्दाभिप्रायेण समासः । अन्यत्र सुवर्णाकलितया हेममत्रगुम्भितया मुक्तावल्या हारेण समाश्रितं । महापद्येति । मह. त्सु पूज्येषु पद्येषु लोकेष्वाकलितः प्रयुक्तः पर्दः कृतानन्दं । अन्यत्र महापद्या राज मार्ग: तन कलितपक्षानां सञ्चरतां कृतानन्दं । नगरे राजमार्गस्यैव रमणीयतमत्वात् दृश्यत्वात् दृश्यवस्तुपूर्णत्याच ॥ - उत्तरचम्पग्रन्थः । इति मधुसमधुरमधुरकण्ठस्वरेण पञ्चमादिस्वरप्रपञ्चसमुदञ्चितविपञ्ची. निनादसङ्कलनसमभ्यहितसम्यजनकर्णनिकायेन सकलजनविलक्षीकरणनि- पुणतररामसादृश्यदृश्यतरकायेन कुमारद्वयेन प्रतिदिनं विंशतिः सर्गा इति रीत्या गीयमाने रामायणे, ग्रन्थसन्दर्भपरिज्ञातनिजतनयभावी कुशलवावा- दाय प्रदाय चाज्ञां वाल्मीकेः स्वसमीपं प्रत्यानयनाय नयनारविन्दविष्टंभि- ताश्रुः प्रतीक्षमाणो मुनेरागमनं नमनपरदुरितविरामकरो रामः सभायामव- तस्थे ॥४१०॥ अथ सदसि सीतास्मरणजदुःखनिमीलिताक्षेण रामेण "क्षेमेण युक्ता यदि क्षमातनया सकललोकसमक्षं समानीयताम्" इति वल्मीकजन्मा समादिष्ट- स्तदिष्टमवष्टभ्य तथैव तामपेतानन्दां बृन्दारकसरितमिव निदाघशुष्कां कृश- सिता सीता समितिमानीय सकलानपि पौरजानपदान् हस्तमुद्यम्य विहस्त- तरमिदमवोचत् ॥ ४११॥ सीता पूता न खलु विशयः साधु विज्ञाय नीता नैजावासं ध्रुवमिह मया सत्यमद्य ब्रवीमि । स्यादेषा चेदुरितकलुषा सिद्धिमान्मा स्म भूवं जन्मारभ्याकलिततपसां पापितानां च वृद्धिम् ॥ ४१२॥ इति मुनिवचनं निशम्यापि निशाम्यापि च पुरतः स्थितामस्थिमा- प्रशेषावयवां मूर्तामिव पातिव्रत्यलक्ष्मी लक्षितक्षितितलाम् क्षितिसुतां, रम्येतरमनःसंस्काराणां पौराणां केषाञ्चित्प्रत्यायनाय " कृत्यानि समुचितानि क्रियन्तामस्मन्मात्रविदितसञ्चरित्रयाऽपि विदेहराजपुत्र्या" इति भृशदूनचेतसं प्रचितसमुद्दिश्य सामान्वितां रामादाकर्ण्य गिरं रामाकुलशिरोमणिरियमिति- करणीयमतिशून्येषु मान्येषु जनेषु वचनमिदं रचयामास ॥ ४१ ॥ करणैत्रिभिरपि नित्यं राघवमेवाहयामि यदि सत्यम् । माता भूतानामिह मम च ददातृ प्रसद्य विवरं में ॥ ४१४ ॥ समनन्तरमेव तद्रोिऽस्या वरसिंहासनमुत्तमाश्मदीमम् । भुजगेर्धतीक्ष्यते स्म जातं विवरामितलस्य पाटितस्य ॥४१५ उत्तरचम्पूग्रन्थः अथ पश्यत एव राघवस्य द्रुतमारोप्य तदासनं सुतां स्वां । धरया विवरे तिरोबभूवे मिळितं चाथ दळद्वयं धरण्याः ॥४१६॥ अन्तर्हितां स दयितामनुचिन्त्य रामो दीनं विलप्य दुरवस्थितमानसोऽयम् । कोपाद्विपाटयितुमुद्यत एष भूमि लिप्मू रसातलगतामपि चापमाप ॥ ४१७॥ अथ कमलभवः सुरैः समेतः सविधमुपेत्य रघूत्तमस्य भक्त्या । विरचितविनुतिर्जगाद वाचं विदधदतिस्फुटमेव रामतत्वम् ॥ ४१८ ॥ देव न स्मरसि किमिदं भृगवे प्रतिज्ञास्यसे " त्वदीयं शापं दशरथा- दुद्भविता सन्ननुभवितास्मी "ति । तदशोच्योऽयं विषयः यदि भवान् स्मरति सवाशनैः सह विहितं मन्त्रं सन्त्रस्तसुररक्षणाय शिक्षणाय च दशवदनस्य महीमवतरिप्यामीति । तस्माद्विस्मायिताखिललोके स्वीकृत्येमे अपत्ये कृतकृत्यो भविष्यसि । शिष्टमप्याभ्यां गीयमानं निशम्य मिथ एव रामायणं विरचित- धर्मसंस्थापनः समागमिप्यसि च यथाप्रतिज्ञमेकादशसहस्रवत्सरान्ते वैकुण्ठ- मकुण्ठप्रभावः । सङ्गस्यते च तदा त्वया क्षमातलकृताधिवासा क्षमातनूजेति विज्ञाप्यानुज्ञाप्य च रामं स्वलोकाभिमुखे चतुर्मुखे, समापितावशिष्टमसक्रियः प्रियौ तनुजावादाय तोदावहो विद्विषां स्वपुरमवाप्य मुनिजनमात्रसभ्यः परममयहित निजकथाशेपं निशम्य नीतिपूर्वमुर्वी सर्वा परिपालया- चक्रे ॥ ४१९॥ मातॄणां पतिलोकमीप्सिततमं पुण्यैर्गतानां ततो दातृणां वर और्वदैहिकविधीनन्यादृशान् कारयन् । भ्रातृणामपि चात्मनस्तनुभवैरन्वास्यमानो महीं नेतृणां प्रवरोऽशिपद्रयवरो धर्मेण शर्मेधयन् ॥ ४२० ॥ अथ कदाचिचुधाजिदनुप्रहितेन पुरोहितेन गाग्र्येण निवेदितगन्धर्व- हिंसावृत्तान्तेन रामेण कुमारौ तक्षपुष्कला यगन्र्धवरााथमभिषिच ताभ्यां . उत्तरचम्पग्रन्थः । सह प्रेषितो विजयैकरतो भरतो निजसैन्यनिवेशीकृतमातुलपुरः पुरस्कृतमा- तुलः पुनरपि प्रस्थाय स्वस्थानीकृतसिन्धुनदीतीरान् बन्धुभिः सह युद्धाय सन्नद्धान् बद्धायुधान् बुद्धावनाहितभयान् सिद्धान्तितस्वविजयान् त्रिकोटि- सङ्ख्याकान् सङ्ख्यावनौ गन्धर्वानिन्धनानि शराग्नौ विरचय्य तेषां विषये पृतनाभिः सह कृतवासः पञ्च समाः समाकलितरामदर्शनादरोऽथादरोदि- तत्वरोऽसौ तक्षं तक्षशिलायां पुष्कलं पुष्कलावते च पुरे परेणाभिषिच्य विभवेन भवेन समो विक्रमे क्रमेण रामेण सञ्जग्मे ॥ ४२१ ॥ सौमित्रः सुतयोस्ततोऽङ्गदमवापय्याङ्गदीयां पुरी चन्द्रश्रीवहचन्द्रकेतुकमपि श्रीचन्द्रकान्ताभिधाम् । राजानावभिषिच्य कारुपथकश्रीमल्लभूदेशयो- रादिश्यावनिरक्षणाय च रघूत्तंसोऽशिषद्गां चिरम् ।। ४२२ ।। कतिपयदिने काले याते तपस्विवपुर्धरो रघुवरमगात्कालस्तेनाप्यतीव पुरस्कृतः । वचनमवद“द्वाच्यं किश्चिद्रहोऽस्ति तृतीयको यदि निशमयेत्पश्येद्वा नौ त्वयाऽथ स वध्यताम् ॥ ४२३ ॥ अथ तथेति प्रतिपद्य सद्य एव लक्ष्मणमाहूयु विनिवेद्य च मुनिमनी- षितं "द्वाररक्षणपूर्वहेन त्वया न कश्चिदप्यन्तः प्रवेशयितव्यः । यदि कश्चि- दावां पश्यति निशमयति वा मिथो जल्पन्तो नूनमयं वध्यतामध्यागेहेदिति समादिश्य चावश्याकर्णनीयं परमेष्ठिप्रेषितं वैकुण्ठागमनप्रार्थनासन्देशं स- माकर्ण्य तथा करवाणीति वरवाणीमर्पयति रिपुदर्पभङ्गकरे रघुवरे ॥४२४॥ दुर्वासा द्वारमागादवददपि वचो लक्ष्मणं पूजयन्तं रामं मेऽद्यैव नेत्राध्वनि रचय न चेत्संप्रवक्ष्यामि सर्वम् । श्रुत्वा खैकघातेन तुष्यन् पार्श्व रामस्य गत्वा विदितमतनुतास्यर्षिवृत्तं समस्तं ॥४२५॥ सौमित्रिरेतद्भयभृतहृदयः
८०
उत्तरचम्पूग्रन्थः ।
श्रुत्वैतद्यापयित्वा यममथ मुनिमभ्यागमद्रामभद्रो
दत्त्वा भोज्यानमस्मै व्रतविरतिकृते पारणाय गतेऽस्मिन् ।
खिन्नः सौमित्रिशिक्षाकरण उपगतो ब्रह्मपुत्रादिगोहीं
विज्ञाप्याशेषवृत्तं तदनु च विललापत्थमत्यन्तमातः ॥४२६॥
आन्मा बहिश्वर इवास्ति हि लक्ष्मणो मे
घोरा मया विरचिता किल सा प्रतिज्ञा ।
तप्तायसि प्रणिहितस्य कृमेरवस्यां
चेतो ममैति भृशपीडितमाः किमेतत् ।। ४२७॥
इत्यादि वह विलपन्तं रघुवरं तमनन्तविज्ञानकतप्रतिष्ठे वसिष्ठे "द्र.
दिष्ठोऽयं तव कनिष्ठवियोगनियोनितपाकश्शोकः परमर्षिभिष्टचर एव त-
द्विसर्मय लक्ष्मणमपुनदर्शनाय न पुनः प्रतिज्ञा । यदाम्नायते "वधो विसर्ग-
च द्वयमपि तुल्यमेवेति" करिष्यसि च राज्यं विनैव सौमित्रि मित्रवत्सलं"
इति समाश्वासयति, रामोऽपि “वामो मे जातस्त्वयि स्नेहः" इति मबाप्प-
गद्दं शोकशंकुपीज्यमानस्वान्तं स्वान्तादपि रामवियोगमेव शोककर
मन्वानं पक्ष्मभृताश्रुलक्षणं लक्ष्मणमभिधाय विहाय च तं सदश्च सुदुश्वर-
कृत्यो भृत्योपदर्शितमार्गः स्वमगारमगात् ॥ ४२८ ॥
सौमित्रिः सरयूतट प्रतिगतः पादं स्वमंशं हरे-
यात्वा श्वासनिरोधतस्तनुपगादिव्यां ततो वैष्णवीम् ।
दृष्ट्वा त पुरुहूत एत्य सुमना नीत्वा विमानं वरं
प्रापय्य त्रिदिवं च नित्यपकरोत्पूजां सुजातादरः ॥ ४२९ ॥
रामोऽपि सौमित्रिवियोगविनो
धामोत्तमं खं प्रति यातमिच्छुः ।
सामोक्तिभिः सभ्यसमक्षमचे
कामोपपूत्यै भरतं भृतश्रीः ॥ ४३०॥
उत्तरचम्पूग्रन्थः । ८१ भूमेभर भर चिरं भरत प्रयातुं धामेप्सितं मम मनस्त्वरते सदाऽपि । को मे मुखस्य लव आ (२) हतलक्ष्मणस्य सीमेयमेव मम चायुष ईहितस्य ।। ४३१॥ इति गुर्वादेशमिमं सर्वात्मनाऽननुमन्यमाने पर्वामृतांशुनेव शर्वरीचर- मयामे रामेण सहैव गन्तुं नितान्तरते भरते व्युपरतेळागतवस्तुस्पृहो धूर्व- हो रघुकुलस्य कुशलस्य कृते कोसलानां सकलराजन्यमदावळांकुशं कुशं कुशावत्यां क्रव्यादसमर्पितरिपुशरीरलवं लवं च कामनीयकाधिगतप्रशस्त्यां श्रावस्त्यां राजत्वेऽभिषिच्य पच्यमानमनाः शोकेन त्यक्ष्यमाणमहीस्थानो महाप्रस्थानोपकल्पितसंनाहः शत्रुघ्नाय दूतान् प्रेषयामास ।। ४ ३२ ॥ अथैतदुपश्रुत्य कृत्यमात्ययिकं मनसि निश्चित्य नन्दिततरजननेत्रयोः पुत्रयोरिवधोद्यतवाहुं सुबाहुं चिन्तितवस्तुसमर्पणधृतधुरायां मधुरायां प्र. वृद्धबलशत्रुघातिनं शत्रुघातिनं रमणीयमणिसदनप्नभाप्रकाशितदिशे वैदिशे च निवेश्यादिश्यच क्षितिरक्षणाय सत्वरमेव प्रस्थाय प्रविश्य च रिपुजना. बाध्यामयोध्यां तत्पूर्वनिध्यातवृत्तान्तैस्तान्तैस्तृणीकृतानेजान्तैः कपिराक्षस रुपेत्यासेव्यमानं, अतिमानमहिमानं, विरहितलक्ष्मणाश्रयं, लक्ष्मणानुनो रामं सप्रश्रयप्रणामं समभिग्गय रम्यतरां निजामांप तदनुनिगमिषां विषाद- रहितं विनिवेदयामास ॥ ४३ ॥ अथ विदितराघवव्यवसाये दुःखविवर्णीभूतकाये पौरनिकाये विस-. ष्टाक्षितोये विहायेषणात्रयं कृलरामानुगमनस्पृहे, सहैवापत्यसदृशैः सकलै. रपि दिवं जिगमिषुविना विभाषणादीन् पञ्च वञ्चितमिवात्मानं मन्यमानान् " मा नाम वो भूत्खेदो मामनुगच्छत" इति सर्वान्निर्वापयन् शोकाग्निम- न्वग्रहीत् ॥ ४३४॥ (1) आः इति खेदे । 11 ८२ उत्तरचम्पूग्रन्थः । अथ रामः कृतानुगमनेषणं रिपुकुलभीषणं विभीषणमिक्ष्वाकुकुलध. ना (१) राधने नियुज्य प्रयुज्य च विविधानि सान्त्ववचानि स्वचरणभक्त्ये- कविनेयमाञ्जनेयमपि प्लङ्गवर्यमाभूतसंप्लवं रामायणकथाश्रवणपरान्तःक- रणं द्रुहिणवितीर्णमरणाभावं महानुभावं स्थिरतरनिजपदभक्तिप्रदानेनानु. गृह्यावस्थाप्य च जाम्बवन्मैन्दद्विविदानपि यावत्कलि भूमौ स्थातव्यमित्या- दिश्य च प्रस्थातुं कृतक्षणः क्षणदान्तं प्रतीक्षमाणस्तस्थौ ॥ ४३५ ॥ प्रभाते रामोऽसौ विरचितमहापस्थितिविधिः पुरस्कृत्याग्निं सद्विजगणमथ प्रास्थित गृहात् । सपना श्रीभूत्वा जनकतनया दक्षिणमगा- पभोः पार्श्व सव्यं धरणिरपि मूर्ती श्रितवती ॥ ४३६ ॥ शत्रुघ्नो भरतोऽप्यथानुययतुः प्रेष्ठं रघूणां समं शुद्धान्तेन, मुनिवजाश्च सचिवाः पौराश्च युक्तानुगाः । ये द्रष्टुं समुपागता रघुवरं ये वाऽस्य देशे स्थिता- स्ते सर्वे सचराचरा अनुययुहर्षान्न निर्वन्धतः ॥ ४३७॥ तैः साकं रघुनन्दनेऽथ सरयूमभ्येत्य तस्या जलं पन्यां स्पृष्टवति प्रभौ कमलजः संप्राप्य कृत्वा नतीः । स्वं स्व रूपमुपायवाद्भरथ तं सम्माळत भ्रातभी- रामं स्वीकृतविष्णुरूपममरैरानर्च सार्धं रसात् ॥ ४३८ ॥ अथ हरितना रामस्याज्ञावशन पितामहो भुवनमदिशत्सन्तानाख्यं प्रभोरनुयायिनां । विविशुमरांस्तत्तजाः कपीन्द्रमुखास्तदा पनगनिकराः सर्व हृष्टं प्रमनतरं वभौ ॥ ४३९ ॥ (1) इक्ष्वाकुकुलधनं रविमानमिति पौराणिकाः ॥ ..
उत्तरचम्पग्रन्थः । ८३ एवं स्वाश्रितदत्तदिव्यनिलयः सम्मज्जनात्सारवे तीर्थ गोप्रतरे रमामहियुतो रामात्मकः श्रीपतिः । धानां सुमनोगणैः सुमनसां स्थानं मुनीन्द्रः स्तुत- स्तूयः साध्वभिनन्दितश्च भुवनं वैकुण्ठमागान्मुदा ॥ ४४० ॥ (१) उद्धत धरणीभरं पुनरपि प्राप्ते युगे द्वापरे पुत्रत्वं वसुदेववृष्णिरमणस्यासाद्य कंसादिकान् । हत्वा दुष्टतमान् विदर्भतनुजारूपामुदुह्य प्रियां सीतां द्वारवतीपुरे वसुमती रामश्चिरादन्वशात् ।। ४४१ ॥ दशोत्तरे पञ्चसहस्रवर्षे कलौ युगे जग्मुपि कीलकान्दे । माघे किलासावभिलिख्य चम्पः समापिता रामपदेऽर्पिता च ।। इति श्रीचोळमण्डलमण्डनायमानश्रीकुम्भवाणनगरवरपरिसरविराज- मानवलङ्गिमान्यामाभिननेन पण्डितप्रकाण्डमण्डलाभिष्ट्रयमानयशोडिण्डीर श्रीकृष्णदैवज्ञसूनुना लक्ष्म्यम्बाग दुग्धोदमुग्धामृतांशुना विष्णुपुराभिजनानां गौतमतन्त्रपारावारपारीणानां श्रीस्वामिशास्त्रिणां प्रियान्तेवासिना श्रीराम- चन्द्रचरणारविन्देन्दिन्दिरायमाणमानसेन श्रीसुब्रह्मण्यकविवरण प्रणीता . उत्तरचम्पूः समाप्तिमगमत् ॥ श्रीरामचन्द्राय परब्रह्मणे नमः ॥ (१) भगवतः वैकुण्ठप्राप्तिकथनेन ग्रन्थसमापनममङ्गळमिव शङ्कमानः कविरनन्त. रावतारे तावेव सीतारामौ रुक्मिणीकृष्णत्वेनाभिवर्ण्य तयोरनुग्रहमात्मन आशास्ते उद्धर्तुमि- त्यादिना पद्येन। लोके सञ्जातभीके दशमुखदमनात्प्रार्थितो देवसकैः कोसल्याकमसिद्धिदरथसुकृतोवीरुहाणां फलश्च । भूत्वा, भुमीतनजामयकमलगृहासंयुतः स्थापयित्वा धर्म, हत्वा दशास्यं निजभुवनगतः पातु नः पद्मनाभः ॥ इत्युत्तर चम्पग्रन्थागजी समाप्ता ॥ ॥ श्रीराम: दारणं मम ॥
श्रीमदुत्तरचम्पूग्रन्थस्थश्लोकानां श्लोकाङ्क- सहितानामकारादिक्रमेण सूचिका।। अचिन्तयित्वैव महीतनूभवा २८० अमोवपातस्तव नाम दण्डः १६१ अतोऽहमोदमहो शरीरं ३०५ अयि सुन्दरि मन्दिरे मणीध्ये १२० अत्रान्तरे जनकजाऽपि ३०९ अरजामथ जातमन्युना तां ३९५ अत्रान्तरे शतधृतिस्सह सर्व १६६ अलभ्यलाभोद्भवदुर्निवार २४ अत्रान्तरे हस्तसहस्रकेण २३० अलातचकाभमथास्व १५८ अत्रान्तरे दुग्धपयोधिनाथतां ३३७ अवाप्तराज्यं रघुवंशरत्नं १९ अथ कमलनः श्रुत्वा वात्र १६० आकर्णयान्वियरत्न सादरं अथ कथमपि कर्तुं भ्रातु २७६ | आकर्ण्यता वाचमपारभूमा २१७ अथ जातु मरुत्सुतो ग्रहेशं २५६ आकर्ण्य वाक्यमिदमम्बुजसं १६३ अथ दक्षिणवारिधेः प्रतीरे २४३ आख्याहि ते भ्रातरमप्रमेय २९५ * : पश्यत एवं राघवस्य ४१६ आगत्य सोऽथ रजनीचरनाथ २३३ राजराजवचनात्समा ९८ आगच्छद्भुजगसुपर्वदानवानां १७७ अथ वाचमाह कृतवीर्यसुतं २३ आत्मा बहिश्चरइवास्ति हि ४२७ अथ हरितनोरामस्याज्ञा , ४३९ आधरन्त करुणाम्भोधे २२५ अयाभिभुज्य द्विनवर्यशापं ३६६ आयातः सदृशः पतिर्दशमुखः १२५ अथावनीना सह लक्ष्मणेन २७९ आयाते हविषोशमाप्तुममर १३५ अद्यैव राघवकले २२ आर्ये गङ्गातीरमालोक्य भूयः २७७ अनुग्रहेणाथ पुरामरातेः ५४ आर्य प्रकम्पमयते वदतोऽद्य २८३ अन्तहितां सदयितामनुचिन्त्य ४ १७ आर्येऽस्मि वजहृदयो वचनञ्च २८६ अन्येषां वनिता हरंस्त्वमधुना १८४ आलक्ष्येदं सूक्ष्मबुद्धिः सवाली २ ४ ४ अश्विप्य तत्र च सखीरथ राज ४० आशुगासनवशी कुणपाशौ ३६२ अभून्नृपो नृगइति नीति ३२७ आश्वासितेतीव विदेहपुत्री २१३ अमी तमीचरप्रभो प्रमीत २४१ आसीद्राजेळनामा अमृतात्मतां प्रपन्नोऽस्य : २२६ इक्ष्वाकोर्दण्डनामा चरम ४०२ (८५) इक्ष्वकोद्वादशोऽभूत् ३३२ कल्याणाय तदस्तां इतः पर याटमेत्य कन्या ३७ कष्टं कष्टं सधरणिगतः २४९ इति कृतवचनेऽस्मिन् सा नता ११६ कस्येदमन्तकभटा नयनैक २३२ इति तस्य वचो निशम्य हृष्टः १५५ काकुत्स्थकोऽयं विनयो २६ इति वचः स निशम्य दशाननः १०७ कापि मम भाग्य सीमा २२२ इति वचोऽस्य खरं क्रकचोपमं २९० कारागृहे स्थितिजुपोथ २१२ इत्युक्तयासौ जनकेन्द्रपुत्र्या २७० काले गते बहुतिथे मयपुत्रिका ९३ इत्थं विलप्य करुणं वसुधा ३०७ काले गते बहुतिथेथ ययाति ३५० इन्दरविवह्निनयनकमिन्द्रिय २२३ काले गतेथ ससुतो मरुतो २५५ उटजमेत्य ततो मुनिपुङ्गवः ३१४ कुप्येत्पिता यदि मम प्रवदानि ४३ उत्पत्स्यते मम कुले किल १४९ कुरङ्गवासः कृतयोगिहर्षः १९६ उदस्ते वासाद्रौ प्रमथ १०८ कृत्यानि ते प्रतुष्ट्यै उद्धर्तुं धरणीभरं पुनरपि .. ४ ४ १ कृत्वा माली दुस्सहं ६९ उपदिशामि तददयनिशम्यतां १६२ केलासं समवाप्य राक्षस उषित्वाऽथ मासं दशास्यः १६९ कोनामात्र मृडाह्वयो १०४ ऊरीचकार भगवान्नयदास्य ३२० कोपाद्वाचमिमां विधाय १४१ एकादशाब्दकसहस्रमितं ३२३ गतायां जनन्यां परित्यज्य २५१ एतेनैव शरीरकेण सह ३८६ गत्वा ते रघुकुलराज एवं तस्योद्गद्गदां वाचमेनां २७८ गद्यं हि यद्यपि बुधाशय १५ एवं यदासवमवाप नृपो १४३ घटात्तस्माजज्ञे सलिलनिधि ३४१ एवं वितीर्य वरमनभवे प्रयाते ८६ ' चतुर्मुखोऽथो मघवन्मुखै एवं स्वाश्रितदत्तदिव्यभुवनो ४४० चिरात्प्रपद्यापि महीसुता २९२ कतिपयदिने काले याते ४२३ जन्मीयदीयचरणस्मरणागिरा १० . कदाचनाशराधिपो महा २४० जातेषु तेषु जननीजठरात् ७६ कदाचिदेत्य प्रतिहारभुमि ३७९ जाते सुते दशमुखः प्रमदा ९४. कनकगिरिसमीपे तातपीतिस्म ३५ तच्छ्रुत्वाथ समागतास्तनुभवा १७४ कर्तुं यतेऽहमपि रामकथा १२ ततोऽट्टहासं विपुलं विमुच्य १६४ करणैस्त्रिभिरपि नित्यं ४१४ ततो मरुत्ताख्यामिलाधिनाथं १३४ कलितविनतिः पित्रे कृष्णा १४ ततो वसिष्ठः परमेष्ठिपादौ ३३६ २०॥
(८६) ४३८ २ (३ तत. प्रभासो रचितातिहासः १७५ तां वीक्ष्य तादृशभयाकुलकम्पि १०९ तत्रान्तरे दशमुखस्य सुतोति १८० तामेनां सुरसुन्दरीमथ २०१ तत्रान्तरे दशमुखो नगरंतदीयं · १९ तुष्टोऽथ तेन तपमा तत्रान्तरे मुनिसुताः प्रसमाक्ष्य ३०८ तेनापि शर्मास्पदपोगरम्या तथापि काकुत्स्थ पदाम्बुजद्वयं १७ तैः साकं रघुनन्दनेऽथ तथा तेनास्माकं मनसिनसुखं २८ त्वत्पूर्वकोभूत्क्षिति तदन विजयघोषं घोषयित्वा १७३ त्रायस्व मामविधवां कुरु १८७ तदनु मधुना युक्तोऽयुक्तो १९० त्रैलोक्याम्बुजिनीमतङ्गज तदन बहुनमन्तं सख्यमिच्छ २४७ दशवदनस्ततो जलजसम्भव तदनु मातृसमानवयोगताः ७८ दशाननोऽथो विरचन्नितस्ततः ११२ नदन शरसमूहैर्मालि ६८ दशोत्तरे पञ्चसहस्रवर्षे ४४२ तदारभ्य काकुत्स्थ देवेन्द्र २१४ दिष्ट्या राम त्रिभुवनजुषां सदागमं वीक्ष्य दिनेदिनेसौ ३६ दुग्धोदे यस्य बाणा २२८ तद्च्छ शीघ्रं धरणेस्तनूजां २८९ दुर्वास'द्व रमागादवददांप तद्वीक्ष्य नन्दिवदनं दशकन्धर १०६ दृष्ट्वा तां समति व्यधाकिमि १ १३ तन्निशम्य परमेष्ठिभाषितं १६८ दृष्ट्वाऽथ तत्र करुणं तनया २८२ जनरियमहो पुष्टिं ४२ देव त्वदंधिकमलं नियता तन्मुच्च राजन् रजनीचरेश्वरं २३८ देवास्ततस्तेऽप्यभिषे ६६ तमीचराणामधिपः स्वपुत्रं १८१ देवो नैवानुमेने ४६ देतेयेशसुतातदीयत नस्मादसूनद्यपरित्यजेयं ३०६ दैत्यानामभयार्पणेन ३१९ ताम्मन् युद्धे कान्दिशीकेषु १७१ धर्मात्मा वृत्रनामाऽभवदसुर ३९९ तस्याद्य सूनुर्लवणाभिधानः ३५४ धातुः सुतोनृपललं तं वीक्ष्य तत्र दशकण्ठमनुप्रप १७० धाराळदृष्टियुगळा धरणौ २३५ तादृशं रिपुभत्सितं स्वपितरं २११ धैर्य जगाम विलयं तापाजनांस्त्रिवितो निज २२७ धृतास्थिमालोडुगणे १९४ तामालोक्यामन्दमानन्दमाप्तः २६७ नगरद्वारे रोधान्नगतु तां विलोक्य शुभगर्भलक्षणां ४४ । न चागुणज्ञो रघुवंश तां वीक्ष्य तादृशतनुं तपसापि ११९ "नन्दामि ते लक्ष्मणभक्ति २९८ तयोस्ततोऽभूत्तनयस्तु ३४७ (८७) नरानेतान् सर्वान् य इह १५४ बिभ्राणा परमाकुलान् २०५ नाथेयमेव सदृशी तव १३० । ब्रह्मर्षिमुख्योऽथ पलाश १५२ नानटीति कुतुकं हृदयन्ते ३३ ब्रह्मादिवहि मुखसन्निधाने २८८ निवर्त्य सद्यो मखमेनमुन १४२ भयेन धावत्सु निशाचराणां निशम्य तद्वाक्यमुदारविक्रमः ६३७ भिक्षार्थमटसि शम्भो रक्षा २२४ निशम्यतां वाचमपारभूमा ८८ भूत्वा विदेहतनयाहं निशम्यतां वत्स निमेश्च वृत्तं ३४२ भूमेर्भर भर चिरं भरत ४३१ निशम्य तां सादरमेव भारती ३९८ भूयोऽपि मायोपनिरोध २७१ निशम्य वाक्यं नृपतिर्मुनीन्द्रा ३२४ भ्रात्रा क्रूरतमेन हन्त १७९ निशम्य शम्भोरनुगस्य वाक्यं १०३ मनसि कलयन्नेवं रक्षः ११४ निशम्यैतद्वृत्तं रघुपति ३१३ मन्देनापि यदीयसन्निधिनुषा ६ निप्कामादिहृदेयुपे निधि २२९ मल्लीचम्पकजातिमुख्यसुमनः २३१ निष्कृत्तऋरचापं निरवधि २१० महीन्द्रस्योक्तिमाणये ४९ निहत्य रक्षांसि सुरक्षिता २९६ मातृवाक्यं ते हितं साधु नीलाम्बुवाहचितहेममहीध्र १२१ मा त्वं रुदो लक्ष्मणदैवमेवं २९३ पतयास्यं कुम्भकर्ण प्रघस ३१ मारीचादीन् सीदतो वीक्ष्य वीरा ९९ परिगृह्य तथैव तं कपीन्द्रः २४५ मार्नयाक्षिसलिलं कुरु धैर्य ३११ पुनश्च पप्रच्छ सरामभद्रः २४८ मातृणां पतिलोकमीप्सिततम ४२० पुरं प्रतिष्ठानमवाप्य राजा ४०६ मित्रणाहं यद्ता पूर्व ३३८ पुरासीदैवाकप्रवर २१८ मित्रोऽपि स्वनिकटमुवंशी ३३९ पुलस्त्यस्तदानीं समाप्य ३९ मुक्तानामपि चित्तविभ्रम १२३ पुष्करमध्यं याते पुष्कर ३७३ मूर्छालतां प्राप्य मही २९१ पुष्पकमारुह्य ततो गच्छन् १५१ | मृद्भुद्धः कवनं हि मे १६ पूजान्ते विरचितनृत्त एष २२१ म्रियमाणलब्धममृतं २३ पूर्वगतेन मुनिना विदितीःखला १५६ यत्सालमूर्धनिलयोगण प्रत्यब्रवीत्साभयकम्पिताङ्गी २०२ यत्सौन्दर्यलवैकपात्रित प्रभात रामोऽसौ विराचत ४३६ यद्गोपुरम्ग्रगतशीतकरो प्रस्थाय सोपि क्षितिपाल ३५९ यन्मामनन्यशरणां कमला १२७ प्रिय हृदा स्वन यदिच्छसि २६९ 'यन्मर्तिद्वितयं दधद्धरिहरा ३ (८) - यस्य प्रभो ते भुनवीर्यवह्नौ ३६५ वन्द्या सत्कविविततिनिन्द्या न यस्याः करांघिवदनं २६४ वाग्देवी भुनगाधिपावृततर्ने ४०९ यस्याः स्मितं जडधियः २६६ वाणि त्वां विनताघमोषण यस्याः स्वरस्य मधुरत्वमवेत्य २६५ वाताशनानिव पलाशनसनि १७२ याते मासे पुनः स्त्रीमरमयत ४०५ वामोरु मामिहसमागतमद्य २६८ याते वर्षसहस्रके दश ८१ विख्यातोऽहं त्रिभुवनतले १२४ यानेन ते । गतो धरित्री ६८५ विज्ञाय वृत्तं विमना महीन्द्रः ४५ या रामाग्निमुपाश्रिता कृतयुगे १३२ विद्राणेषु च यानकेषु १३६ येन श्रीः स्वयमेव याति पुरुषं ५ विधुन्तुदस्तं प्रसमीक्ष्य २५२ रक्षोनाथः स्वनगरगतः कुम्भ ९२ विनापि हेतु किमिवाद्य रक्षोनाथविमुक्तमार्गण १५७ विभीषणः सत्ववतां वरिष्ठः रखुवरचरितस्यालापतः १३ विभीषणमजीजनत्तदनु केकसी ७७ रजनिचरपते त्वां किञ्चि १५३ विशदितलोके यशसा २६२ रहसि विदितवार्तश्च रमुख्यैः २८७ विशामि चेदद्य शरारुवक्र ३०४ राजन् पूर्व वीरवादान् गभीरा १४७ वृद्धोग्रकोपमथ तं प्रशमय्य १८६ राजा यदुं मृदु जगाद ३४८ वैदेहीदाशरथ्योः परिणय रामाभवन्मधुरिति प्रथितः ३५३ व्यलापीदथासौ दशाम्यो ११० रामोऽपि शत्रुघ्नमवेक्ष्य ३५७ शत्रुघ्नो भातोप्यथानुययतुः ४३७ रामोपि सौमित्रिवियोग, ४३० शशाप चोरिमणाय रे केकसीयौवनदाववढे १०२ शापं च रक्षःपतयं इदौ २०६ लोके शूर्पणखां न कोपि ९५ शापं प्राप्य महीपालात् वक्त्रामृतांशुकिरणैः १२२ शासति रामे पृथिवीं शाम्य २६१ उचो दैत्योत्तमा १६७ शिष्टां कथां शृणु रघूत्तम त्सातिकष्टयनसीह १८२ शुश्रूषां करवाणि ते कल २१३ वत्सावनीनारघुनाथयोः ३१६ श्रियमिह कुर्यादधिकां श्रित ६० वत्सेमुनास्मन्नगरी प्रमुज्यते ७२ श्रीकाळिदासभवभूतिमुखान् ११ वत्से त्रिलोकजयिनो मम किं १८८ श्रुत्वा जातौ राघवस्यात्मजातौ ३६९ धनमथ मृगयायै जातु ९० श्रुत्वा तदातरधीनळकूबुरो २०७ वनमालिनि हतमालिनिममालि ७०' श्रुत्वा तत्सविषवरवृतः १८५
४००
श्रुत्वाऽथ नारदमुनिजशाप ३३० सोऽयं ततो नभसि लम्बिनं ३८४
श्रुत्वाऽमुं निशिचरनायकम्य २३६ सौमित्रिः पुनरेत्य सिद्धतटिनी ३१५
श्रवनद्धरणिपनी रुपावलीट: १.४८ सौमित्रिः सरयूनटं प्रतिगतः ४९२
श्रुत्वतद्यापयित्वा यममथ
४२६ मौमित्रेः सुतयोस्ततोङ्गद ४२२
श्व: प्रातस्त्वं रथवरमधिष्ठाय २७४ संप्राप्याथो महेन्द्र
श्वश्रृजनं सर्वमपि क्रमेण प्रणम्य २९.७ स्नात्वा कक्षगतारिरत्र जलधि २४६
मतारका शुभ्ररुचा परीता १९३ स्नात्वा तत्र यथाविधि प्रांत २२०
मनां समहैः परिवार्यमाणः १९५ स्मृत्वा यस्य यदृच्छयाऽपि १३९
ममनन्तर मेव तांद्गेऽस्य : ३:५ हने तु ताते सरसीरुहाक्ष ११८
मर्गमजभवजन्मा साधुभिः
३४ हत्वा राक्षसनायकं रणभुवि १८
मल्हीलचेक्षणानां हृल्लीनं
२. हन्ताऽप्युद्धतरावणम्य जगतो ३१२
मा कमी तदनु गममयत्त ७५ हा दैव किं नाम फलं त्वया ३०२
माते सप्तनिशा नाक
३७. हा नाथ लोकत्रयमन्निधाने ३०१
मा अतिवचनानां
६२ हा राम हा वत्सल धर्मबुद्ध ३०३
मिञ्चन्नप्यमान हन्त मकलान् १९८ हा राजन् मम पुत्रघातदुरितं ३८२
माता पृना न ग्नल विशयः ४१२ हा वत्स चेतोहररूप यासि ३८...
पीमान करिनारमम्य महनः ३७७ हा वत्स पापस्य नृपस्य देशे ३८१.
मरज्येष्ठादशादशमन
१७६ हुताशनं साक्षिणामाकलय्य. २०
मेळामी
माङ्ग सन्दयथ
४०४ हृदि वसति यो यं ब्रह्माहुँच
शुद्धाशुद्धविवचनम्. : पतिः अशुद्धम् गुद्धम पतिः अशुद्धम् गुद्धम् I) - मन मिन 17 इयाना श्यामना निपिग्य निधिाय दतता নি' शापिनो रकर ननन वन्त नेऽनाव तनाव मतां मना कम्म पन पत्र मन्नान वायचा वाय गा ! 13 . 1.) । 1 1. । मन्ननन गुण पपोग 4. जयजय 7 17 द्वारा रहना चमा fuતમય मनोऽम यिप्य : ।] लंकृत ननाय माधान वापर स्य 7 । 19 । महतः राजन पक्षमा निनामा महस गजन पक्षाया it for 22 पात्रता पांना 7 77 }:). १): येट - ज्येष्टा नारकः नायक यगन्धवा गन्धर्व ज्यांग ज्या वाऽय વાયું 421 !. 102. 6 2. सादर आत्मा वत्सल 12 आत्मा वाल: 17
No text on this page.