Central Library, Bits- Pilani

कुमारसम्भव भाग 1, 2 सर्ग

Kaalidaas · 2005/06/17

PDF Proofread

Front matter

Birla Central Library
PILANI (Jaipur Statu)
Class No :: 5.81
K 125KT
Book No:-
Accession No :-16 50/
REQUEST
IT IS EARNESTLY DESIRED THAT THE
BOOK BE HANDIED WITH CARE AND BE
„NOT MARKEC. UNDEF LINED OR DISFIGUR.
ED IN ANY OTHER WAY. CTHERWISE IT
WILL HAVE TO BE REPLACED OR PAID
FOR DY THE BORROWER IN THE INTEREST
OF THE LIBRARY
LIBRARIAN.

No text on this page.

No text on this page.

TRIVANDRUM SANSKRIT SERIES
NO, XXVII,
THE
KUMARASAMBHAVA
KALIDASA
With the two commentaries, PRAKASIKÂ of
ARUNAGIRINÂTHA
and VIVARANA ol'
NARAYANAPANDITA
EDITED BY
T. GANAPATI SÂSTRÎ
C'urator of the Department for the publieetin Of Nierzakril murmu Beripils,
TRIVANDRUM.
Part 1.1 & 2 Sargas.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
PRINTEI) AT THE TRAVAXCORE GOVERYONEXT PRESS.
1913.
(All Rights Reserved.)

No text on this page.

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्क: २७.
कुमारसम्भवः
महाकविश्रीकालिदासप्रणीतः
श्रीमदरुणगिरिनाथविरचितया कुमारसम्भवप्रकाशिकया
नारायणपण्डितविरचितेन कुमारसम्भवविवरणेन च
समेतः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितः ।
प्रथमः सम्पुट:-१.२. सौ।
सच
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः ।
कोळम्पादाः १०८८, ऊस्ताब्दाः १९१३,
राग्यज्ञा.

No text on this page.

PREFACE. Prakâsikî and Vivarana are the two comincutaries on Kaliclasâ's Kumarasambhava. The former of these was written by Arunachalanatha who, at the beginning of Prakasiki, oliserves, "वर्ण्यत शिवयोवृत्तं कालिदासस्य सूतयः । व्याख्यातारो वयं चेति मन्ये कोऽप्युत्सवः सताम् । and implies by JETTTT azi ? that his roumentariis, on account of its pre-oninent merits, best ou tu ilk: acknowledged excellence of the text and the livive chararter of the subject matter. This is certainly a statement i fart, and by no means a piece of vanity on the part of the commentit:r. 1: has also written a commentary of equal merit on Raghuvam-a. which along with the text will be included in the Trivandrum izskrit Series before long. Irimachalarida quotes in his mentary, its an authority, Resavaswamir, the author of Nânârthârnavasamkshepa who lived in the 12th century A. D. Mallinâtha, the famous commentator of Valâkivyas who i* taken to harc flourished about the end of the 14th century A.D. referst to Arunachalanátha, in his commentary on Raghuvarsil. It is therefore probable that our commentawr mighi lave flourished between the 12th and 14th centuries, ! The other cominentary Vivarana closely follows Prakasiki. in almost all cletails and is indeed an explanatory paraphrase * " त्रिवन्यत्रोपयुक्ततः इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेषशब्दस्व faire partag" vide sarea 1, slokal 16. + “नाथस्तु चतुर्विध पद्धत्वमिति ज्ञात्वा अनाकृष्टस्य इलादिना विशेषणत्रयेण maaktepatangarisataa" vidy sarga 1 slukil 23, राग्यज्ञा.

of the latter, for it becomes intelligible, in many places, with the help of Vivarana. The author of Vivarana is Narayana Pandita of whom niention has already been made in the preface of Manameyotlaya. He has also written a commentary on Raghuvamsa, called Parlârthadipika. The edition of Prakâsikâ is based on the following five manuscripts. 1. (*)--A transcript in Devanagari character kiully sent to me by Sruân Punna-seri Nilakantha Sarma, calitor of Vijạânachintamani and naile from his ok manuscript. 2. (a) -- Lent by Mr. Keavan Nambiyatiri, Njarakkal, Permail. 3. d. () (9) - Belonging to Panthalam Palace. 5. (7) --Belonging to Brahinasri kumaraswami Namburi. pard of Chennasuumjanakkal. The clition of livarana is based on the following five manuscripts. 1. (*)-Ohtained from Manalik kara Vatham. () - Belonging to Mr. Kesaran Nambiyatiri, Njarakkal, Perunad, 3. (1) Belonging to Panthalam Palace, incomplete. 1. (a)-Lent by Jr. Iravi Ayyappan, Panthulam, incomplete. in (1) Lent by Mr. Kurava Kaiinal, Thottakam, in. complete. All the above manuscripts are written in Malayalam charac. ter ou palın Icaves, The first two sargas of Kumarasambhava along with the corresponding portions of the two commentaries are now offered to the public as the first part. The remaining parts will be published in due course. udrum, T. GANAPATI SASTHÍ, निवेदना। कुमारसम्भवस्य प्रकाशिकेति विवरणमिति च व्याख्यादयेऽस्मिन् प्रकाशिकायाः कर्ता श्रीमान् अरुणगिरिनाथः । स ग्रन्थोपक्रमे "वर्ण्यते शिवयोवृत्तं कालिदासस्य सक्तयः । व्याख्यातारो वयं चेति मन्ये कोऽप्युत्सवः सताम् ॥" इत्याह । अत्र प्रतिपाद्यप्रतिपादकयोर्यलोकविदितं महत्त्वं सहृदयहृदयग्राहि , तदनुरूप आत्मीयव्याख्याया व्याख्यान्तरागोचरो महिमेति 'व्याख्यातारो वयं चेति' इत्यंशेन व्याख्याता द्योतयति । तदेतत् प्रतिपत्तृप्ररोचनाङ्गं ग्रन्थगताया गुणसम्पदस्तत्त्वाख्या- नमात्रं, न पुनररुणगिरिनाथस्यात्मश्लाघावाक्यम् । अनया व्याख्या सदशी रघुवं- शस्यापि काचिद् व्याख्या श्रीमदरुणाचलनाथेन प्रणीतास्ति, याम् अस्यां संस्कृत- ग्रन्थावलावचिराद् प्रथयितुमभिलषामः । अरुणाचलनायो। नानार्थार्णवसंक्षेप- कर्तारं कैस्ताब्दद्वादशशतकस्थित केशवस्वामिनं प्रमाणयस्तदपेक्षयार्वाचीनः । रघु- वंशव्याख्यात्रा कैस्ताब्दचतुर्दशशतकस्थितेन मल्लिनाथेन तु स्मर्यमाणोऽसौ तदपेक्षया प्राचीनः । विवरणं तु प्रकाशिकानुसारि तस्याश्छायाव्याख्यानप्रायम् । अतिप्रौढा हि प्रकाशिका बहुत्र विवरणबलेन सुगमार्था लक्ष्यते । विवरणस्य कर्ता नाराय- णपण्डितस्तु मानमेयोदयस्य निवेदनायां वर्णितः । पदार्थदीपिका नाम रघुवं- शस्य व्याख्याप्यनेन प्रणीतास्ति । प्रकाशिकायाः संशोधनाधारभूता आदर्शग्रन्थास्तावत् पञ्च । तत्र क. संज्ञः विज्ञानचिन्तामणिपत्राधिपेन श्रीमता पुनश्शेरि-नीलकण्ठशर्ममहाश- येन मातृकान्तराद् देवनागराक्षरैर्लेखयित्वा सकृपं प्रेषितोऽष्टमसर्गान्तः । Anemommon- +"त्रिवन्यत्रोपयुक्तत इति केशवस्वामिवचनादुपयुकादन्यदभिदधानस्य शेषशब्दस्य विशेष्यालिङ्गत्वमवसेयम् ।' (स. १.सो. १६) * 'नावस्तु चतुर्विध वृदत्वमिति ज्ञात्वा अनाकृष्टस्य इत्यादिना विशेषणत्रयण वैराग्या नशीलतत्वान्युजानात्यवाचेत् ।' (स. 1. लो. २७)

२
ख. संज्ञः पेरुनाट्ट आरकल् श्रीकेशवनम्बियातिरिसकाशादानीतः ।
ग. घ. संज्ञौ श्रीपन्तलराजसम्बन्धिनौ ।
रु. चिहितः (चेन्नम् मनकल्) श्रीकुमारस्वामिनम्पूतिरिमहाशयस्वामिकः ।
विवरणसंशोधनस्याधारादर्शास्तु एते भवन्ति
क. संज्ञो मणलिक्करमठीयः ।
ख. संज्ञः पेरुनाट्ट श्रीकेशवनम्बियातिरीयः सप्तमसर्गावधिकः ।
ग. संज्ञः पन्तलराजसम्बन्धी पञ्चमसगैकदेशान्तः ।
घ. संज्ञः पन्तल इरवि अय्यप्पसकाशालब्धः पष्टसगैकदेशान्तः ।
ङ. चिह्नितः तोट्टक केशवकैम्मल्सम्बन्धी सप्तममर्गकदेशावधिकः ।
सर्व एते तालपत्रात्मकाः केरलीयलिपयः ।
एतद्व्याख्यानरनद्वयसंवलितस्य कुमारसम्भवस्य प्रथमो भागः प्रथमद्विती-
यसर्गात्मक एष इदानी प्रकाश्यते; क्रमेण तु भागान्तराणि प्रकाशयिष्यन्ते ।
अनन्तशयनम्.
त. गणपतिशास्त्री.

॥ श्रीः ॥ महाकविश्रीकालिदासप्रणीतः कुमारसम्भवः श्रीमदरुणगिरिनाथविरचितया कुमारसम्भवप्रकाशिकया श्रीनारायणविरचितेन कुमारसम्भवविवरणेन च समेतः । प्रथमः सर्गः। अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः। पूर्वापरौ चारिनिधी विवाद स्थितः पृथिव्या इव मानदण्डः॥१॥ (प्रकाशिका) समस्तागमसंवेद्यं समस्तागमकारणम् । शरण्यं सर्वलोकानां प्रपद्येऽहं कपर्दिनम् ॥ यः काव्ये पदवाक्पशक्त्यवगमा योऽलनियास्वागमो या नानाविधवेद्यवस्तुविषये प्राप्तप्रतिष्टा मतिः । यश्चायं रसभावमेलनगुणप्राधान्यबोधोदय- स्तत् सर्वं भवपादपङ्कजरजःसम्पर्कजं मन्महे ॥ रघुवंशे महाकाव्ये विमृश्य रससम्पदम् । कालिदासकवीन्द्रस्य ज्ञातास्वादेन सूक्तिषु ।। ----- mamme + 'तोयनिधी वगा' मुद्रितकोशपाठः, .

५ कुमारसम्भवे अरुणाचलनाथेन द्विजपादाजसेविना । कुमारसम्भवाख्येऽपि मया टीका वितन्यते ॥ वर्ण्यते शिवयोवृत्तं कालिदासस्य सूक्तयः। व्याख्यातारो वयं चेति मन्ये कोऽप्युत्सवः सताम् ।। तत्र कविरादौ वस्तुनिर्देशं करोति - अस्तीति । उत्तरस्यां दिशीति हिमवतो देवभूम्यन्तर्भाव उक्तः । वक्ष्यति च 'पितुः प्रदेशास्तव देवभूमयः' (५. ४५) इति । देवतात्मा, न केवलं स्थावरात्मा । इदं तु वक्ष्यमाणचेतनकृत्यविवाहादिघटनार्थम् । नाम प्रसिद्धौ । पूर्वेत्यादि मानदण्डोत्प्रेक्षाङ्गम् । मानं परिच्छेदस्तदर्थो दण्डो मानदण्डः । अन्ये तु पृथिवीमतिव्याप्य स्थितत्वात् तस्याः पृथुत्वाभिमान- दम इवेति व्याचक्षते। न त्वेतत् सरसकाव्ययोजनासु युज्यते। ननु कोऽयं वस्तुनिर्देशो नाम। उच्यते । वस्त्विनिवृत्तम् । तत्र च प्राधान्याद् वस्तुश- ब्देनात्र नायक उच्यते । तस्य प्रधानस्येतरस्य वा निर्देशो वस्तुनिर्देशः । अत्र च धंधणेन 'श्रियः पतिः' इत्युदाहृतं, भोजेन तु हयग्रीववधे 'आसीद् दत्याही प्र.. मोहयग्रीवः' इत्यादि । हिमवांश्चात्र प्रवन्धे पताकांनायकः। ननु वस्तुनिर्देशैकोपक्रमेयूँ काव्यपु ENiness निरामि दो महलाचारः कविभि- हितः स्यात् । न । तत्रापि तैः परमेश्वरनमस्कारो मानसः क्रियते । बाचिकस्तु कैश्चिचरितार्थम्मन्यतयोपेक्ष्यते, कैश्चित्तु व्याख्यातेश्रोतृजना- नुग्रहाय प्रयुज्यते । इह तु हिमवत्कीर्तनान्मङ्गलमप्याचरितमेव ॥१॥ (विवरणम्) पट्पदमुवरितगण्डं कोटीरभरावबद्धशशिखण्डम् । प्रणमत वारणतुण्डं पदकमलप्रणतसकलसुरपण्डम् ।। अपारकरुणापूरतरङ्गितहगबलम् । कलायकोमलच्छायं जानकीनायकं भजे ॥ सुरारातेर्वक्षाकुहररुधिरक्षोदकपिशैः स्वतः श्वेतः सन्ध्याकपिशशशिखण्डांशुसदृशैः । mat Rem- -dimemusam ३. 'कावृत्तना' स, पाठः . १. 'साङ्गिना' ख. पाठः. २. 'प्रधानत्वाद्' ख. पाठः, 5. 'शि' क. पाटः. ५. 'तृज' ख. पाट:

प्रथमः सर्गः। ३ . मलोद्योतैर्भक्तप्रकरहृदयध्वान्तभिदुरा दया काचिद् दिव्या विलसति पुरश्रेणिविपिने ॥ लोकानामुदयस्थितिक्षतिकरी वन्दारुवृन्दारक- श्रेणीमौलिमणिप्रभारविकरप्रोद्यत्पदाम्भोरुहा । भाति ब्रह्मखलालये शशिकलाशुम्भजटावल्लरी भक्ताभीष्टविधानकल्पलतिका काचित् कृपावल्लरी ।। अङ्गे तुङ्गशशाङ्कशङ्खधवल कोटीरभारे परे बालादित्यकराङ्कुरप्रतिभटं कण्ठे धनश्यामलम् सत्त्वादीनपि बिभ्रतं निजगतां रक्षादिसिहौ गुणा- नाबद्धाञ्जलि बालमन्दनिलयं मारारिमाराधये ॥ कृष्णो विवुधाधिपतिनिष्णातो विमरणेषु विद्यायाः । मुष्णातु हृदयतिमिरं पुष्णातु च मङ्गलानि सकलानि ।। प्राचीनाचार्यकृताः सुविचार्य कुमारसम्भवव्याख्याः । बालप्रबोधनार्थ ललितं करवाणि विवरण तम्य ॥ प्राचीन मूरिविहित महति प्रभूते व्याख्यान्तरे विफल एप परिश्रमी मे । वाति प्रकामसुभगे मलयाद्रिजाते वाले फलं किमु करोति' मुखानिलोऽयम् ॥ व्याख्यैषा तु तथापि प्रदर्शितान्वयपदार्थवाक्यार्था । विवृतसमासा पठतां गुरुतरमुपकारमारचयत् ॥ व्याख्यान्तरेषु दृष्टेषु विमृष्टापि तत्वतः । सुभगः शिवदासोक्तो मार्ग एवानुगम्यते । इह खलु महाकविः कालिदासः पार्वतीपरमेश्वरपवित्रचरित्रविचित्रं कुमारसम्भवा भिधानं काव्यं चिकीर्षुः ‘आशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इनि' वचनानु सारेण वस्तुनिर्देशं तावत् करोति- अस्तीति । ननु काव्ये यत् साध्यं तदनुसारेणैव काव्यसंज्ञा कर्तव्या, यथा युधिष्ठिरविजयजानकीहरणशिशुपालवधप्रभृतीनाम् । अत्र तु तारका- सुरनिग्रहः काव्ये साध्यतया निर्दिष्टः, 'तस्मिन् विप्रकृताः काले तारकेण दिवौकसः' (२. १) इत्युपक्रमात् । तस्मात् तारकवध इत्येव संज्ञा १. "तु ख. पाठः. २. 'त्यादिव' ख. पाठः, कुमारसम्भव क-या। तत्पर्यन्तं च काव्यं प्रवर्तयितव्यम् । नचैतत् कृतम् । तस्माद- समञ्जसमिदं काव्यम् । अपिच कुमारोत्पत्तिपर्यन्तमपि न काव्यं कृतम् । तस्मादनुपपन्नमिदं नामापीति । अत्रोच्यते । नात्र तारकासुरनिग्रहः काव्ये साध्यः । 'तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्तये' (२. ५१) इति दैवैः कुमारसृष्टिमात्रस्यैव ब्रह्माणं प्रति प्रार्थितत्वात् । तारकासुरनि- ग्रहस्तु कुमारोद्भवप्रस्तावकतया निमित्तत्वेनोपक्षिप्तः, यथा किरातार्जुनीये दुर्योधनजयः । तस्मात् कुमारसम्भव इत्येव संज्ञा युक्ता । नचैवंसति तत्पर्यन्तं काव्यं प्रवर्तयितव्यमिति वाच्यम् । उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभीर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥” (२. ५९) इति ब्रह्मणः प्रतिवचनेन शंभोश्चित्ताकर्षणमात्रस्यैव परमसाध्यत्वेन प्रतिपादनात्। कारणपौष्कल्ये कार्यस्यावश्यम्भाव एव ब्रह्मणस्तथा निर्देशे हेतुरिति चावग- न्तव्यम् । शंभोश्चित्ताकर्षणं पुनरष्टमे सर्गे विस्तरतः प्रतिपादितम् । यथो- क्तमन्त्यश्लोके- "समदिवसनिशीथं सङ्गिनस्तत्र शंभोः शतमगमहतूनां सार्धमेका निशेव । स न सुरतरसेषुच्छिन्नतृष्णा बभूव ज्वलन इव समुद्रान्तर्गतस्तजलेषु ॥" इति । उक्तं च पञ्चमसर्गान्ते देवी प्रति देवेनैव 'अद्यप्रभृत्यनवमाङ्गि! तवास्मि दासः क्रीतस्तपोभिरि'ति। तस्मादुमारूपेणेत्युपक्रमाद् अद्यप्रभृतीति परामर्शात् समदिवसनिशीथमित्युपसंहाराच शंभोश्चित्ताकर्षणमात्र एव ता- पर्यम् , उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति वचनात् । तच सम्यक् प्रतिपादितम् । अष्टमसर्गे सम्भोगवर्णनेन कुमारोत्पत्तेर्बिन्दूपक्षेपोऽपि कृत इति सर्वमनवद्यम् । यत्त्वत्र तारकासुर- प्रथमः सर्गः। निग्रहपर्यन्तं चिकीर्पितमिदं काव्यं निजसम्भोगवर्णनेन कुपिताया देव्याः शापादसंपूर्ण जनितमिति कैश्चिदुक्तं , तदप्युक्तया रीत्या परिहृतं वेदितव्यम् । कवेश्चिकीर्षाया एतत्पर्यन्तत्वस्य समार्थतत्वात् । देव्याः शापाभावं पुनरष्टम- सर्गादौ निपुणमुपपादयिष्यामः । ननु कुमारसंभव इत्यत्र कः समासः । षष्ठीतत्पुरुष इति ब्रूमः । नचैवंसति कुमारसंभवरूपार्थपरत्वाच्छब्दस्य कुमारसंभवः काव्यमिति सामानाधिकरण्यं न स्यादिति वाच्यम् । अभिधेयेना- भिधायकस्यापि बहुशो व्यपदेशदर्शनात । यथा जानकीहरणं प्रबन्धः शिशुपालवधः काव्यमित्यादिग्वित्यलमतिग्रसङ्गेन । प्रकृतमेवानुसरामः । उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः अस्ति : उत्तग्रयां दिशीत्यनेन हिमवतो देवभूमिष्वन्तीव उक्तः। वक्ष्यति च 'पितुः प्रदेशाताव देवभूमयः' (५. ४५) इति । उत्तरस्यां दिशि देवभूमयः, दक्षिणस्यां दिश्यसुरभूमयः, मध्ये मनुष्यभूमय इति पुराणप्रसिद्धिः । हिमानां तुपाराणामालयो हिमा- लयः । नामेति प्रसिद्धिवाचकमव्ययम् । हिमवानिति प्रसिद्ध इत्यर्थः । नगानां पर्वतानामधिराजो नगाधिराजः । अधिराजः श्रेष्ठः । अस्ति भवति । अत्रास्तीति वर्तमाननिर्देशेन परमेश्वरश्वशुरस्यास्य नित्यत्वमुक्तम् । आसीदु- दीच्यां दिशीत्यादिरीत्या विनाशसहधर्मचारिण्या उत्पत्तेरनुपादानात् । वक्ष्य- माणानां चेतनेष्वेवोपपन्नानां विवाहपुत्रोत्पादनादिधर्माणाम् उत्पत्तिं दर्शयन नगाधिराजं विशिनष्टि-देवतात्मेति । देवतास्वरूपः न केवलं स्थावरात्मेन्यर्थः । हिमवत आयामविस्तारादिकं दर्शयति----पूर्वापरौ वारिनिधी विगाह्य स्थितः । पूर्वमपरं च पूर्वापरौ प्राच्यपश्चिमी वारिनिधी समुद्रौ विगाह्य सम्प्राप्य स्थितः अवस्थितः । अत एवोत्प्रेक्षते-पृथिव्या मानदण्ड इवेति । पृथिव्या भूमेः मानाय परिच्छेदाय दण्डो मानदण्डः । मानदण्डो हि मेयेन तुल्यपरिमाणो भवति । ननु परमेश्वरो ह्यत्र नायकः । तन्निर्देशाभावे कथमत्र वस्तुनिर्देशः । उच्यते। अत्र पताकावृत्तनायकभूतस्य हिमवतो निर्देशाद् वस्तुनिर्देशः । कथा- शरीरं हि वस्तुशब्देनोच्यते । तत्र प्रधानभूतत्वान्नायकोऽपि वस्तु निर्देश्यम् । नायकास्तु प्रधाननायकपताकानायकप्रतिनायकभेदेन त्रिविधाः । तत्र घंघ- १. 'नकु' ख. पाठ:. २. 'करी' ख. पाठ:. ३. 'तमनु' ख. पाठः.

कुमारसम्भव णाचार्यः कथायां प्रधानभूतस्य नायकस्य निर्देशो वस्तुनिर्देश इत्युक्त्वा श्रियः पतिः श्रीमति शासितुं जगद्' इत्यादिश्लोकमुदाहृतवान् । भोजराजस्तु हय- श्रीववधे काव्ये 'आसीद् दैत्यो हयग्रीव' इत्यादिश्लोकमुदाहृत्य प्रतिनाय- कनिर्देशस्यापि वस्तुनिर्देशत्वमुक्तवानिति युक्तमत्र पताकानायकनिर्देशस्यापि वस्तुनिर्देशत्वमित्यलमनेन । नच वस्तुनिर्देशमात्रोपक्रमेषु काव्येषु कविभिः शिष्टाचारसिद्धो मङ्गलाचारः समुपेक्षित इति शङ्कनीयम् । तत्रापि मानसस्य वाचिकस्य वा पारमेश्वरस्य नमस्कारस्य तैरङ्गीकृतत्वात् । अङ्गीकृतत्वे च तेषां शिष्टत्वमेव प्रमाणम् । कैश्चित् तु श्रोतृजनानुग्रहाय स्वग्रन्थेषु निवेश्यत इत्येव विशेषः । इह तु महाकविगदावस्तिपदप्रयोगात् तेनैव परमार्थसतः पर- मात्मन एव प्रतिपादनाद् देवतात्मनो हिमवतः प्रतिपादनाच निष्प्रत्यूहपरि- समाप्त्यादिप्रयोजनं शिष्टाचारसिद्धमिष्टदेवतास्मरणात्मकं मङ्गलमपि कृतवाने- वेत्सवसेयम् । अत्र प्रकृतस्य हिमवतस्तुल्यपरिमाणत्वलक्षणसमानधर्मयोगात् पृथिवीमानदण्डत्वेन संभावनादुत्प्रेक्षालङ्कारः। 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यद्' इत्युत्प्रेक्षालक्षणम् ॥१॥ यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥२॥ (प्रकाशिका) अथ. यत्तदादरुपादानं क्रियाभ्याससमुच्चयौ । क्रियासमभिहारश्च वाक्यार्थान् युञ्जते मिथः ॥" इति न्यायेन यच्छन्दपरामर्शेन वर्णनावाक्यार्थान् प्रकृतेन योजयति- यं सर्वशैला इति । पुरा किल पृथुरादिराजः प्रजानां सिद्धये गोरूपां पृथिवीं तत्तददुहत् । तत्र च तेषु वर्मेषु यथोचितं दोग्धारो वत्सा- श्र परिकल्पिता इति तदनुसारेणेदं वाक्यम् । मेराविति सतिसप्तमीति १. 'र्थतः'ख, पाठः, २, 'धु तेषु व ख. पाठः, या प्रथमः सर्गः। दक्षिणावर्तः। भोजसूत्रं तु 'क्रियाहस्य कारकत्व' इति सप्तमीविधायकम् । दुदुहुरित्यन्त वितण्यर्थत्वान्मेरोर्दोग्धृत्वं न व्याहतम् । अनेन भुवः सारा- व्यवस्तुपात्रत्वमस्य हिमवतो द्योत्यते । यतो वसंपीतशेष दोग्धार उपयुञ्जते । मेरुहिमवतोर्दोग्धृत्ववत्सत्वकरणवद् धरिच्या गोत्वकरणमपि पृथूपदिष्टामिति विशेषणवशाल्लभ्यते ॥२॥ (विवरणम्) अथ पोडशभिः श्लोकरयमेव गिग्वियों यच्छडदवाक्यरुपवर्ण्यते । न च तत्रत्यानां यच्छब्दानां तच्छब्दाकाङ्क्षा, प्रागेवाध्याहृतनच्छछेदन हिमालयशब्देनैवाब सानिवृत्तः, " यत्तदादेरुपादानं क्रियाभ्याससमुच्चयो । क्रियासमभिहारश्च वाक्यार्थान् युजते मिथः ।। इति न्यायात् । तत्रादौ हिमवतः स्वजातिश्रेष्ठन्चमाह- यमिति । मेरौ दोग्धरि स्थिते सर्वशैलाः यं वत्सं परिकल्प्य धरित्री भास्व. न्ति रत्नानि महौषधीश्च दुदुहुः। मेगै महामेरौ दोग्धरि दोहनं कर्तरि स्थिते अव- स्थिते । अत्र 'क्रियाहस्य कारकत्व' इति भोजसूत्रेण सप्तमी । अत्र दोहन- क्रियाहस्यैव कारकत्वात् । सर्वशैलाः सर्वे निषधविन्ध्यादयोऽन्य शैलाः यं हि- मवन्तं वत्सं परिकल्प्य वत्सत्वेन कल्पयित्वा धरित्री भूमि भास्वन्ति प्रशस्तशा- भायुक्तानि, प्रशंसायां मतुप् , रत्नानि मरतकपद्मरागमौक्तिकप्रभृतीन् मणीन् महौषधीः महतीः वीर्ययुक्ताः ओषधीः मृतसञ्जीविनीप्रभृतीः । चकारः समुच्च- यार्थः दुदुहुरित्यत्रान्तर्भूतण्यर्थत्वं द्रष्टव्यम् । अन्यथा मेरो ग्धृत्वनिर्देशानुपप- तेः। दोहयामासुरित्यर्थः। अत्र दुहेर्दिकर्मकत्वाद् धरित्र्या रत्नादीनां च कर्मत्वम् । तत्र धरित्र्या 'अकथितं च' (१.४.५१) इति कर्मसंज्ञा । रलमहौ- षधीनां 'कर्तुरीप्सिततमं कर्म' (१.४.४९) इति कर्मसंज्ञा। हिमवतो वत्सत्वनि- देशाद् दोहनकर्मभूताया धरित्र्याः पशुरूपधारणमितिहासप्रसिद्धमर्थादायातीति १. वमन्या' ख. पाठ.. २. 'त्सनिपी' ख. पाठः. 1. 'बलाल' ख. पाठः. ., हक.ख. पाठः, कुमारसम्भवे तन्नोक्तम् । मेरोदोग्धृत्वे हेतुमाह-दोहदक्ष इति । दोहने दक्षे विदग्धे । यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेदिति हि न्यायविदो वदन्ति । ननु कथं पृथिव्यां तत्र तत्रावस्थितानां रत्नमहौषधीप्रभृतीनां दोहनोपपत्तिः, अत आह-पृथूपदिष्टामिति । पृथुनर्नाम नारायणांशभूतो राजा । "वेनो नामाभवद्राजा दुश्शीलो दुष्पराक्रमः । तं शप्त्वा मुनयो जग्मुः पीडतास्तदुपद्रवैः ॥ राजाभावात् ततो जाता धरित्री दुर्जनाकुला। ततस्ते मुनयः सर्वे सञ्चिन्त्य मनसा हरिम् ॥ ममन्थुस्तस्य वेनस्य गतप्राणं कलेवरम् । तस्मादभून्महातेजा अरणेरिव पावकः ॥ नारायणांशसम्भूतः पृथुः पृथुपराक्रमः ।" इति भागवतप्रसिद्धायाः पृथूत्पत्तेः संक्षेपः । तेनोपदिष्टाम् । जनानामभीष्टदोह- नार्थ त्वयानुकूलया भवितव्यमि-युपदेशप्रकारः। पुरा किल पृथुः क्षुत्क्षामदेहानां प्रजानाम् अन्नपानाद्यभीष्टसिद्धयर्थं गोरूपधरामुवी प्रजाभिरात्माभीष्टमर्थं दोहया- मास । तत्र तेपुतेषु वर्गेपु यथोक्तं दोग्धारो वत्साश्च परिकल्पिता इति भागवतप्र. सिद्धा कथानेन वाक्येनोच्यते। नहि नारायणप्रभावात् किमपि दुर्लभमिति भावः । अत्र हिमवतो वत्सत्वनिर्देशाद् वसुन्धरासारभूतानां रत्नादीनां समृद्धि- हिमवति द्योत्यते । वत्सनिपीतशेवं दोग्धार उपयुञ्जत इति न्यायात् । अपिच देवादीनामभीष्टदोहने महेन्द्रादीनां स्वजातिश्रेष्ठानामेव वत्सत्वं परिकल्पितम् । " सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पयः । सर्वकामदुघां पृथ्वी दुदुहुः पृथुभाविताः ॥” (श्री. भा. ४.१८.२६.) इति भागवतवचनात् । अतो हिमवतः स्वजातिश्रेष्ठत्वममेन श्लोकेनो- च्यते ॥२॥ ner 1. 'ति न्या' क. पाठा २. 'नोत्पत्तिः' ख. पाठः.

प्रथमः सर्गः। अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥३॥ (प्रकाशिका) अनन्तेति । रत्नान्युत्तमवस्तृनि तेषां प्रभवो जन्मकारणम् । सौभाग्यमभिगम्यता । सन्निपातो बहूनां समवायः । निमज्जति न्यग्भवति । ननु विशेषस्य सामान्येन समर्थने किमत्र दृष्टान्तेन , यः "यथा रन्ध्र व्योम्नथलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा वियुज्ज्वालोल्लसनपरिपिशाच ककुभ- स्तथा मन्ये लग्नः पथिकनरुपण्डे स्मरदवः ॥" इत्यत्र काव्यानुमानेऽपि कार्कश्य भयात् तानुमान इव न प्रयुज्यते । तत्र ह्यप्रतीतप्रतीत्युत्पादनं कियते । अर्थान्तरन्यासे तु प्रतिपिपादनम् । न च कचिदीदृशे विपये दृष्टान्तो दृश्यते । न च वाच्यं "गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गडिः ॥" इत्यत्र सामान्यस्य समर्थको यो विशेषः स दृष्टान्त एव, एवमिहापि दृष्टान्तोऽस्त्विति । यतस्तत्र स एव समर्थकः प्रकृतायाः सामान्यव्याः। इह तु प्रकृतस्य विशेषस्य समर्थिका सेति विशेषः । न च तस्या अपि स्थिरीकरणाय दृष्टान्तोऽपेक्ष्यः। न हि कान्ये प्रमाणप्रतिपन्नेनैवार्थेन व्यव. हारः, प्रतीतिमात्रस्यैव उपयोगात् । तत् कथमत्र दृष्टान्तः। उच्यते । 'अत्रक पार२... 'न्यस' क, पाठः, -- कुमारसम्भवे न तावदयं दृष्टान्तो व्याप्तिविरोधी, किन्त्वतिरिक्त इति शङ्कयते । न चैव शक्यम् । चारुत्वाधानात् । अर्थान्तरन्यासस्य यस्य (तु?) शृङ्गाराङ्गभूतः स्वभावसुकुमारोऽयं दृष्टान्तश्चारुत्वमाधत्ते । उक्तं च कुन्तकेन- "अलंकारस्य कवयो यत्रालङ्करणान्तरम् । असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥" इति । यः पुनर्यच्छब्दवाक्यस्य तच्छब्दवाक्येन साकासत्वादर्थान्तरन्यास- वाक्येनासम्बन्धः कैश्चिच्छङ्कितः, सोऽपि न । यतोऽत्र द्विधाकासा, शाब्दी ार्थी च । तत्र प्रथममर्थस्य स्वभावकृतत्वादन्तरङ्गभूताया आर्थ्या आ- काङ्क्षाया अर्थान्तरन्यासवाक्यान्वयेन निवृत्ती पश्चादितरान्वयेनेतरा निव तेते ॥३॥ (विवरणम्) नन्वस्य सर्वगुणास्पदन्वेऽपि हिमदोपवृपितत्वात कुतो वैशिष्ट्यम् , अत आह-- अनन्तेति । अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । अनन्तरत्नप्रभवस्य अनन्तानां निरवधिकानां रत्नानामुत्तमवस्तूनां प्रभवस्य जन्मकारणस्य यस्य हिमवतः हिमं 'तुषारस्तुहिनं हिमम्' इत्यमरः । सौभाग्यविलोपि सौभाग्यम् अभिगम्यतागुणं विलोप्तुं नाशयितुं शीलं यस्य तादृशम् । अत्र रत्नशब्दः स्वजातिश्रेष्ठवाची 'रत्नं स्वजातिश्रेष्ठेऽपी 'त्यमरः । उमाख्यस्य कन्यारत्नस्य, वैदूर्यादीनां मणिरत्नानां, देवदारुप्रभृतीनां वृक्षरत्नानां, मृतसञ्जीवनीप्रभृतीनाम् औषधरत्नानां, गङ्गादीनां सरिद्रत्नानां,सोमलताप्रभृतीना यज्ञद्रव्यरत्नानां च प्रभवस्य जन्मकारणभूतस्य यस्य हिमदोष एको रमणी- यतामपहन्तुं न शशाकेत्यर्थः । उक्तमर्थमर्थान्तरन्यासेन समर्थयते-एको दोषो गुणसन्निपाते निमज्जति हि । एकः असहायो दोषः गुणसन्निपाते एकत्र समवाये निमज्जति न्यग्भवति, तिरस्कृतो भवतीत्यर्थः । हिशब्दः प्रसिद्धौ। medy --hmaaNMMAur Rammalnerabangamusername 1. 'नां प्रकट - प्रथमः सर्गः। 'हि हेतौ च प्रसिद्धौ च' इति भोजः। अत्र स्वभावसुकुमारं दृष्टान्तमु- पन्यस्यति- इन्दोः किरणेषु अङ्क इव । इन्दोश्चन्द्रस्य किरणेषु रश्मिषु अकः कलङ्क इव । 'कलाकौ लाञ्छनं च चिहं लक्ष्म च लक्षणमित्यमरः । न चात्रार्थान्तरन्यासस्य तर्कसमय इव दृष्टान्तेन समर्थनं, न शृङ्गाराङ्गमिति शङ्कनीयम् । अत्र दृष्टान्तस्य विशेषतश्चारुत्वाधानमात्रपरत्वादिति । यथाह कुन्तकाचार्यः- अलङ्कारस्य कवयो यत्रालङ्करणान्तरम् । असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥" इति । अनेन श्लोकेनाभिगम्यत्वगुणयोगित्वं हिमवतः समर्थितम् । अत्र एको हि दोष इत्यत्र विशेषस्य सामान्येन समर्थनार्थान्तरन्यासः । 'सामान्यं वा विशेषा वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यामः साधयेणेतरेण वा ॥" इति तस्य (लक्षणम्)। इन्दोः किरणेष्विवाङ्क इत्यत्र तूपमा । 'साधर्म्यमुपमा भेद' इति तलक्षणम् । अत्र तु तयोः संयोगरूपेणावस्थानात् संसृष्टिरलङ्कारः । 'एषां तिलतण्डुलन्यायेन मिश्रत्वे संमृष्टिः' इति तलक्षणम् । वस्तुतस्तु विकस्वरालङ्कार एव । यत्र कस्यचिद्विशेषस्य समर्थनार्थ सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरितुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमारीत्या अर्थान्तरन्यासविधया वा विन्यस्यते, तत्र विकस्वरालङ्कारः । 'यस्मिन् वि- शेषसामान्यविशेषाः स विकस्वरः' इति च तलक्षणम् ॥३॥ यश्वाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्नि। बलाहकच्छेदविभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् ॥ ४॥ 1. 'या' स. पाठः.

कुमारसम्भव (प्रकाशिका) यश्चेति । चो वाक्यार्थसमुच्चये। विभ्रमेति विलासेन क्रियमाणानां मण्डनानां तदुपकरणीभावेन सम्पादयित्रीम् । वलाहकच्छेदाः सन्ध्या- वायुना विच्छिन्ना मेघाः। यदुक्तं रघुवंशेऽपि 'दिनान्तमुग्रानिलभिन्नमेघम्' (१६. ११) इति । तेषु विभक्तः संक्रमितः स्वरूपभूतो रागो यया । अका- लसन्ध्यामादित्यास्तमयकालव्यतिरिक्तकालभवां सन्ध्याम् । धातुमत्तां धातुसम्पदम् । अत्र शिखरपतिवस्तुभूतवलाहकच्छेदविभक्तरागया अका- लसन्ध्यया शिखरगता धातुसम्पदध्यवसीयते, न तूपमीयते, सिद्धेनैवो- पमानेन भवितव्यामिति । अयं च विवेको रघुवंशप्रकाशिकायां विस्तरे- णास्माभिः कृतः, तत एवावधार्यताम् । दक्षिणावर्तस्तु विभ्रमस्त्वरया- काले भूषास्थानविपर्यय' इति लक्षणानुसारेण विभ्रमशब्दं व्याख्याय यस्य शिखरलग्नां धातुमत्तामालोक्याकाले सायंसन्ध्याभ्रमेण त्वरमाणाः सायन्तनमण्डनमयथायथमप्सरसः कुर्वन्तीत्यभिप्राय इति व्याचष्ट । न चैतद् युक्तम् । स ह्यर्थो विभ्रमशब्दस्य शास्त्रव्यवहार एव । लोके तु वि- लासपर्यायो विभ्रमशब्दः । यथा 'वियोकैर्वकसहवासिना परोक्षरि'- त्यत्र विव्वोकशब्दः । तदर्थत्वे मण्डनशब्दश्चातिरिक्तः । न च तासां तथा भ्रमः केनचिच्छब्देनोक्तः, "कपाले मार्जारः पय इति कराल्लेढि शशिन- स्तरुच्छिद्रप्रोतान् विसमिति करी सङ्कलयति । रतान्ते तल्पस्थान् वसनमिति गृह्णाति वनिता प्रभामत्तश्चन्द्रो जगदिदमहो विक्लबयति ॥" इत्यत्र, येन तासामयथायथं मण्डनमुपपद्यते । न च कविकर्तृका तत्सम्भावना तदुपपादयितुमलं , व्यधिकरणत्वात् । यदप्यत्रान्यदव- करमायमस्य व्याख्यानं, तद् विस्तरभयानोद्भाव्य दूषितम् ॥ ४ ॥ यथा- -..--.- १. 'यः। ख. पाठः. २. 'त्यायाच' ख, पार ३. 'ब्दः वि क. पाठः, " प्रथमः सर्गः। (विवरणम्) अथ शृङ्गारागभूताङ्गरागास्पदत्वेनाप्यस्य सर्वपर्वतोत्कर्षमाह- - यश्चेति। यः शिखरैः धानुमत्तां बिभर्ति च। यो हिमवान् शिखरैः शृङ्गैः 'कूटोऽस्त्री शिखरं शृङ्गमि'त्यमरः । धातुमत्तां धातुसम्पदमित्यर्थः । बिभर्ति द- धाति । चकारः पूर्वोक्तगुणग्रामसमुच्चयार्थः । धातुसम्पदा रमणीयत्वमाह-अ- प्सरोविभ्रममण्डनानां सम्पादयित्रीमिति । अप्सरसाम् अप्सरःस्त्रीणां विभ्रमेण विलासेने 'विभ्रमः सम्भ्रमे भ्रान्ती शोभायां चेति वैजयन्ती। क्रियमाणानां मण्डनानामलङ्काराणां सम्पादयित्रीं स्वयमेव तदुपकरणतां सम्प्राप्य सम्पादयि- त्रीम् । अनेन विशेषणेन धातुसम्पदामप्रयाससाध्यत्वाद् अन्यालङ्कारसाधनेभ्यो व्यतिरेको दर्शितः । तादृशीं धातुसम्पदमुटोक्षते ---- वलाहकच्छेदविभक्तरागा- मकालसन्ध्यामिवेति । वलाहकच्छेदेयु छिन्नेषु वलाहकेषु । अत्र छेदशब्देन छि- नं द्रव्यं लक्ष्यते । कार्यकारणभावश्च सम्बन्धः । छेदस्य तात्कालिकत्वप्रतिपाद- नेन मनोहारित्वप्रतीतिः फलम्। सन्ध्यावायुना विच्छिन्नेषु मेघेष्वित्यर्थः । उक्तं च रघुवंशे 'दिनान्तमुग्रानिलभिन्नमेघम्'(१६. ११) इति । विभक्तस्तादात्म्येन समितो रागो यया ताम् अकालमन्ध्याम् आदित्यास्तमयकालव्यतिरिक्तकाल- सम्भवां सन्ध्यामिव । अत्र शिखरस्थानीयानि वलाहकशकलानि, अकालसन्ध्या तु धातुसम्पत्स्थानीयेति विवेकः । धातुसम्पदां रागातिशय उत्प्रेक्षाहेतुः । गोरोचनाधलङ्कारान्तरानादरप्रतीतिः फलम् ॥ ४॥ पदं तुषारसनिधीतरक्त यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्ग नम्बरन्ध्रमुक्तै- मुक्ताफलैः केसरिणां किराताः ॥५॥ १. 'ति । यो क. पाठः, २. 'न कि' क, पाठः.

कुमारसम्भव (प्रकाशिका) पदमिति । पदमद्धिविन्यासमतिबिम्बम् । तस्य तुषारयुति- पौवरक्तवाददर्शनम् । कुटिलत्वात् सरन्धेषु नखेषु लमानां मुक्तानां पदवि- न्यासवशाद् गलनमित्यवसेयम् । अत्र मुक्तासंपदुदात्तमलङ्कारः ॥५॥ (विवरणम्) सरस्वपि सर्वेषु रत्नेषु हिमवति मुक्ताफलानां प्राचुर्यमाह- पदमिति । किराताः यस्मिन् हतद्विपानां केसरिणां पदम् अदृष्ट्वापि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्ग विदन्ति । किराता वनेचराः यस्मिन् हिमवति हतद्विपानां हताः निहताः द्विपाः गजाः यैः तेषां केसरिणां सिंहानां 'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिरि 'त्यमरः । पदम् अशिविन्यासप्रतिबि- म्बम् । ‘पदमौ' इत्यारभ्य 'चिहेऽद्धिविन्यासे' इति केशवः । अदृष्ट्वा अनवलोक्यापि । अपिशब्दो विरोधमाह । नखरन्ध्रमुक्तैः नखानां रन्ध्रेभ्यो मुक्तैर्गलितैः । सिंहनखानां सरन्ध्रत्वं प्रसिद्धम् । मुक्ताफलैमौक्तिकैः मार्ग पन्थानं केसरिणामित्यनुषज्यते । विदन्ति जानन्ति । शोणिताक्तस्य पद- स्यानवलोकने हेतुमाह-तुवारस्रुतिधातरक्तमिति । तुषारो हिमः 'तुषा- रस्तुहिनं हिमम्' इत्यमरः । तस्य स्रुतिभिः आस्रवैः धौतं क्षालितं रक्तं शोणितं यस्मिंस्तत् । अयमभिप्रायः-सर्वेषु हि पर्वतेषु हतगजानां सिंहानां शोणि- ताक्तानध्रिप्रतिबिम्बानवलोक्य किरातास्ताननुगच्छन्ति । हिमवति पुनः शोणितानामनवरतनुतहिमजलसंक्षालितत्वात् तादृशान् पदविन्यासानवलो- क्यानुगन्तुमसमर्था अपि कुटिलेषु सरन्ध्रेषु नखेषु गजमस्तकेभ्यो लमानां मुक्ताफलानां पदविन्यासवशात् क्रमेण गलितत्वात् तान्येवावलोक्य सिंहानां मार्गमनुगच्छन्तीति । मौक्तिकानामुत्पत्तिर्गजेन्द्रेभ्योऽप्यस्तीत्युक्तमगस्त्येन- 'ई' क. पाठः.

प्रथमः सर्गः। "द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्तयुद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥" इति । अत्रोदात्तमलङ्कारः, दर्शनसमय एवादाय रक्षितव्यानां मौक्तिकानां सिंहमार्गप्रदर्शनोपक्षीणत्वप्रतिपादनेन मुक्तासम्पदामुपादानात् । 'उदात्तं व- स्तुनः संपद्' इति तल्लक्षणम् ॥५॥ आमेखलं सश्वरनां घनानां छायामधासानुगतो निषेव्य । उजिता वष्टिभिराश्रयन्ते शृङ्गाणि 'यस्थानपवन्नि सिद्धाः ॥३॥ (प्रकाशिका) आमेग्वलामिति । अभिविधावाइ । अद्रेमध्यसानुप्रदेशेष्वित्य- र्थः । सिद्धाः प्राप्ताष्टगुणैश्वर्या विश्वावमुप्रभृतयो देवयोनयः। छाया- या निषेवणं ग्रीष्म आतपोद्वेगाद्, यथा वर्षासु वृषभ्युद्धेगादातपस्य ॥६॥ (विवरणम् ) हिमवतः सर्वकालरमांयत्वमाह- आमेखलमिति । सिद्धाः आमेखलं संचरतां घनानां छायाम् अधस्सा- नुगताः निषेव्य वृष्टिभिः उद्वेजिताः यस्य शृङ्गाणि आश्रयन्ते । सिद्धाः संप्रा- साष्टैश्वर्या विश्वावसुप्रमुखा देवयोनयः । आमेखलम् , अभिविधावाङ् । मेखला मध्यसानुप्रदेशः। तत्रैव सञ्चरतामित्यर्थः । घनानां मेघानां छायाम् अनातपम् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातप' इत्यमरः। अधस्सानुगताः अधो- भागे ये सानवः प्रस्थाः 'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । तान् गताः wimmun १. 'तो' अहितकोक्षपाठः... २० । म ख. पाठः, कुमारसम्भवे प्राप्ताः सन्तः उष्णबाधानिवृत्तिपर्यन्तं नितरां सेवित्वा । छायानिषेवणे पूर्व- मातपोद्वजितं हेतुरिति द्रष्टव्यम् । पुनश्च वृष्टिभिरुद्वेजिताः पीडिताः सन्तो यस्य हिमवतः शृङ्गाणि शिखराणि आश्रयन्ते सेवन्ते । हिमवच्छिखरेषु वर्त- माना गन्धर्वादयः पूर्वमातपोद्वजिताः किंचित्कालमधोवर्तिनो भूत्वा छाया- सुखमनुभूय पुनश्च शीतबाधायां जायमानायां शृङ्गप्रदेशमेवाश्रयन्त इत्यर्थः । शृङ्गनिषेवणे हेतुमाह--आतपवन्तीति । प्रशंसायां मतुप् । प्रशस्तातपयुक्ता- नीत्यर्थः । प्रशस्तत्वं च सद्य एव शीतबाधकत्वात् । अत्र पर्वतवर्तिनां जनानां छायातपयोर्यथेष्टनिषेवणप्रतिपादनेनातिकान्तमेधमार्गत्वप्रतिपादनेन चास्य सर्वकालरमणीयत्वमौन्नत्यं चोक्तम् । अत्र काव्यलिङ्गमलङ्कारः । वृष्टिभिरुद्वेजिता इति पदद्वयस्य आतपयन्तीति पदस्य च शृङ्गनिषेवणे हेतुत्वेनो- पादानात् । 'काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति तलक्षणम् । अयमलङ्कारः प्रायेण सार्वत्रिकः ॥६॥ न्यस्ताक्षरा धातुरसेन पत्र মূলম্ব হাহাগা। ब्रजन्ति विद्याधरसुन्दरीणा- मनालग्यक्रियापयोगम् ॥७॥ (प्रकाशिका) न्यस्ताक्षरा इति । कुञ्जरा इव बिन्दुशोणाः। 'उपमानानि सामा- न्यवचनैः (२.१.५५) इति समासः । कुञ्जरेषु पकाख्यं बिन्दुजालकम् । 'विन्दुः पद्मकं बिन्दुजालकम' इति सिंहः। भूर्जत्वक्षु धातुद्रवबिन्दुर्बिन्दुः। कुञ्जरस्थानीया भूर्जत्वचः। विन्दुजालकस्थानीया धातुद्रवविहिताक्षर- बिन्दवः। अनङ्गसूचकं पत्रमनङ्गलेख: तस्य क्रियया करणेन उपयोग- मङ्गभावम् अर्थात् प्रियतमाहानादौ । विद्याधराः खगगुलिकाञ्जनादि- विद्याधारिणो जीमूतवाहनादयः ॥७॥ 1. 'माख्यं ख. पाठ प्रथमः सर्गः। (विवरणम्) अथ काराभूतपदार्थसमृद्धिरस्मिन् पर्वते चतुर्भिः लोकैरुपवर्यते। तत्रादौ प्रिय. समानयनादौ यदुपकरणं, तस्य समृद्धिमाह- न्यस्वासरेति । यत्र भूर्जत्ववः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं ब्रजन्ति । भूर्जत्वचः मृदुतरास्तद्देशसुलभा वृक्षत्वग्विशेषाः। 'भुजपत्रो भुजो भू| मृदुत्वक् चर्मचर्मिका ' इति यादवः । विद्याधरसुन्दरीणां विद्या- धरत्रीणाम् अनङ्गसूचकं पत्रम् अनङ्गलेखः तस्य क्रियया करणेन उपयोगम् अङ्ग- भावं प्रियतमाह्रानादावित्यर्थात् सिध्यति । सर्वत्र हि तालीपत्रादौ आत्मनः स- न्देशान् विलिख्य कामिन्यः कामुकेभ्यः प्रयच्छन्ति, हिमवति तु भूर्जत्वक्ष्विति भावः । तेन च मनोहरतराणां भूर्जत्वचा सुन्दरीणां च निरवधिकत्वं ध्व- न्यते । उपयोगप्रकारमाह-धातुरसेन न्यस्ताक्षरा इति । धातुरसो धातुद्रवः तेन न्यस्तानि लिखितान्यक्षराणि यासु तास्तथा। गैरिकरसविलिखिताक्षरा इ- त्यर्थः । अत एव कुलरबिन्दुशोणाः कुञ्जराइव बिन्दुशोणाः। 'उपमानानि सामा- न्यवचनैः' (२.१.५५) इति समासः । बिन्दुभिः शोणाः बिन्दुशोणाः । कुल- रेषु विन्दवः पद्मकानि । ' पद्मकं बिन्दुजालकम्' इत्यमरः । भूर्जत्वक्षु धातु- द्रवषिन्दवः । अनेन विशेषणेन परभागदर्शनीयत्वमपि भूर्जत्वचां प्रतिपा- दितम् ॥ ७॥ यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्धेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥८॥ (प्रकाशिका) यति। कीचका वेणवः । वेणका कीचकास्ते स्युर्य स्वनन्त्यनि- लोडवाः" इति सिंहा। किमरा अश्वमुखा देवमायना इति दक्षिणा. वर्तः । तत्र निरूप्यते । 'बिम्बोष्ठं बहुमनुते तुरायमुम्बन्त सुखमिह किनर कुमारसम्भव प्रियायाः' (४. ३८) इत्यत्र माषप्रयोगे अश्वमुखादन्यः किभर इति प्रतीयते । भट्टमयूरमयोगे तु "मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधान्नां निकाये वीक्ष्य वीलावतीनां प्रतिकुहरमुखं किन्नरीणां मुखानि । स्तेऽसूयत्यपीपज्जलगति वहता कन्धराधैवलद्भि- हानां व्यस्यताद्वः सममसमहरेहेषितं कल्मषाणि ॥" इत्यत्राश्वमुखः किन्नर इति प्रतीयते । अत्र हि कुहरस्थानां तासां मुख- मात्रदर्शने वाहानां स्वजातिभ्रमादभिलापः, 'नान्ययोनिषु गन्धर्वा मनः कुर्वन्ति सङ्गम' इति वचनात् । तस्मादश्वमुखानवमुखभेदेन द्विधा किन्नर- जातिः । सा च मुखमात्रे तद्वयतिरिक्तगात्रमात्रे च नराकृतित्वात् कि- अरकिंपुरुषशब्दाभ्यां वितर्कव्युत्पादिताभ्यामुच्यत इत्यवसेयम् । तानो नामोद्गातव्यस्य स्वरादेरियत्तापरिच्छेदः। स चांशस्वर उच्यते । अत्रा- मिनवगुप्तः 'द्विकत्रिकचतुष्काः स्यु या वंशगताः स्वराः । अधोऽधस्तारतां प्राप्तास्तानस्त्वंशस्वरो मतः॥" इति । अंशस्वरलक्षणे भरतः- "रागो यस्मिन् निवसति यस्माञ्चापि प्रवर्तते । नेना च तारमन्द्राणां योऽत्यर्थ चोपलभ्यते ॥ ग्राहोपन्यासविन्यासंसन्यासन्यासगोचरः। अनुवृत्तश्च यश्चेह सोऽशः स्याद् दशलक्षणः॥" इति । तानप्रदान च वंशेनैव कार्यम् । ‘गाता यं यं स्वरं गच्छेत् तं तं वंशेन वादयेदिति भरतः। अत्र सर्वो वाक्यार्थ उत्प्रेक्ष्यते । मनु पूर- णादेवस्तिवस्य किमुपेक्षया।न। गिरेस्तत्र तावत् पूरणन्यापारासम्भवः २. 'द्विविधा' ख. पाठः. ३. 'वेन' क. पाठः. ६. 'नं वै' क. पाठः. ७. 'पू' क, पाठः. - ४. '' १. 'नु' ख. पाठः. पाट.. ५. 'ता' ख. पाठा.

- - प्रथमः सर्गः। तत एव च तत्कारकवर्गस्याप्यसंभवः, क्रियापेक्षित्वात् कारकाणाम् । ततस्तत्सर्वमुत्प्रेक्षामाणकम् । तामेव च दरीमुखेति रूपकमुपस्करोति । यथा 'पिनष्टीव तरङ्गारुदधिः फेनचन्दनम्' इत्यत्र । एवं तत्कर्तृकाया- मिच्छायां तदभूतपदार्थवर्गे चोत्प्रेक्षा । तस्वशब्दः केनान्वयमुपेयात् । प्रधानभूतेनेच्छतिना। प्रधानभूततदर्थोपेलयैव सामादितरोत्प्रेक्षासिद्धः। यथाह महिमा- एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यतः॥ इति ॥८॥ (विवरणम्) उड़ापनसद्भावमप्याह- य इति । यः दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्य- किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छतीव । यो हिमवान् दरीमुखो- स्थेन दर्येव मुखं दरीमुखं, दरी गुहा । तस्या मुखत्वारोपो वंशपूरणोत्प्रेक्षासिद्ध्य- र्थम् । दरीमुखादुत्तिष्ठतीति दरीमुखोत्थः । 'आतश्वोपसर्गे' (३. १. १३६) इति कर्तरि कः । 'उदःस्थास्तम्भोरि'(८. ४. ६१)ति पूर्वसवर्णश्च । तेन समीरणेन वायुना कीचकानां सरन्ध्राणां वेणूना, 'वेणवः कीचकास्ते स्यु- ये स्वनन्त्यनिलोद्धता' इति सिंहः। रन्ध्रभागान् रन्ध्रप्रदेशान् । 'भागः प्रदेशे श- कले भागधेये च कथ्यते' इति भोजः । पूरयन् सन् उद्गास्यताम् । 'लुटः स. द्वा' (३. ३. १४) इति लटः शत्रादेशः । उच्चैर्गानं करिष्यतामित्यर्थः । तानप्रदानस्य गानारम्भात् पूर्वमेव कर्तव्यत्वनियमादुद्गास्यतामित्युक्तं, न तूद्राय तामिति । किन्नराणां किम्पुरुषाणाम् । अश्वमुखा अनश्वमुखाश्चेति द्विविधाः किन्न: राः। अश्वमुखाः मुखव्यतिरिक्तेषु गात्रेषु नराकृतयः । अनश्वमुखास्तु मुखे नराक- १. 'वदःख. पाठः, - कुमारसम्भवे तयः इतरत्र पश्चाकृतयः। अत एव नरः किमयं, पुरुषः किमयमिति शहा- जनकत्वादुमे च जाती किनरकिम्पुरुषाम्यामुच्येते इति विवेकः । अत एप मा- घेन द्विविधा किन्नरजातिकता । "बिम्बोष्ठं बहुमनुते तुरङ्गवत्रश्चुम्बन्तं मुखमिह किन्नरं प्रियायाः । श्लिष्यन्तं पुनरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ (४. ३८) इति । तानप्रदायित्वं तानं प्रदातुं शीलमस्येति तानप्रदायी, तस्य भावस्तत्त्वम् । उद्गातव्यस्य स्वरादेरियत्तापरिच्छेदस्ताने इत्युच्यते । स एवांश- स्वर इति च व्यपदिश्यते । यथोक्तमभिनवगुप्तेन "दिकत्रिकचतुष्काः स्युज्ञेया वंशगताः स्वराः । अधोवस्तारतां प्राप्तास्तानस्त्वंशस्वरो मतः ॥" इति । अंशस्वरलक्षणं च भरतेनोक्तं "रागो यस्मिन्निवसति यस्माच्चापि प्रवर्तत । नेता च तारमन्द्राणां योऽत्यर्थ चोपलभ्यते ॥ ग्रहोपन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यह सोंऽशः स्याद् दशलक्षणः ॥ इति । तदुपगन्तुं प्राप्तुमिच्छतीव । तानप्रदानं च वंशेनैव कर्तव्यमित्याह भरतः-- 'गाता यं यं स्वरं गच्छेत् तं तं वंशेन वादयेदिति । अत एव रघुवंशे वंशकृत्य. मित्युक्तं 'स कीचकैर्मारुतपूर्णरन्त्रैः कूजगिरापादितवंशकृत्यम् (२.१२) इति । यथा केचिद् गातुमारब्धेषु गानारम्भात्पूर्व कश्चिन्मुखमारुतेन वेणुसुपिरं पूर- यन् गेयानां स्वराणाम् इयत्तापरिच्छेदं करोति, तथायमपि कर्तुमिच्छतीवेति क्रियोप्रेक्षा । यधप्यत्र मुखमारुतेन वेणुरन्ध्रपूरणादिकं सर्वमप्युस्त्रक्षितमेव, तथाप्यवमिवशन्दः प्रधानमूतेनेच्छतिनैवान्वयमुपेयात् । तदन्वये व सामथ्या: वितरोत्प्रेक्षापि सिध्यति । यथाह महिमा me 1.उ'क.पाठः प्रथमः सर्गः। 'रम्याणि एकत्रोत्रोक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यतः ॥ इति । गानादीनामुद्दीपनत्वं प्रसिद्धम् । उक्तं च शाकुन्तले वीक्ष्यं मधुरांश्च निशम्य शब्दान् पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः (५.२) इति । अत्र दरीमुखोस्थेनेत्यत्र रूपकमलङ्कारः । तद् रूपकममे- दो य उपमानोपमेययोः' इति तल्लक्षणम् । तदेव रूपकमुत्प्रेक्षाणामनि- व्यकम् । तस्मादत्र सजातीयानामुत्प्रेक्षाणां विजातीयस्य रूपकस्य च परस्प- रार्थापेक्षत्वादङ्गाङ्गिभावलक्षणः सङ्करः । 'अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सकरः' इति तल्लक्षणम् ॥ ८॥ कपोलकण्डूः करिमिर्षिनेतुं विघहितानां सरलQमाणाम् । यत्र सुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥९॥ (प्रकाशिकी) कपोलकण्डूरिति । विघट्टितानां कपोलकषणेन मुदितानां सर- लद्रुमाणां गन्ध इत्यन्वयः॥९॥ (विवरणम्) हिमवति सौरभ्यस्याप्यप्रयाससाध्यत्वमाह- कपोलेति । यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टिताना. सरलदू- माणां तक्षारतया. प्रसूती गन्धः सानूनि सुरभीकरोति । यत्र हिमवति करिमः गजैः कपोलकण्डूः कपोलयोः गण्डप्रदेशयोः कण्डूः सवन्मदजल- 1. 'काषेण म स..पाठः..

कुमारसम्भवे तया भ्रमराधिष्ठिततया च जनिता गण्डकण्डूतीः विनेतुं शमयितुं विघट्टितानां संघर्षणोन्मुदितानां सरलद्रुमाणां सुगन्धिनिर्यासानां वृक्षविशेषाणां सुतक्षीर- तया झुतानि गलितानि क्षीराणि निर्यासा येभ्यः, तेषां भावस्तता, तया हेतुना प्रसूतः उद्भूतः गन्धः सानूनि प्रस्थान् सुरभीकरोति सुगन्धीकरोति । अभूततद्भावे विः । प्रस्थशब्देनात्र प्रस्थगताः पदार्था अप्युपलक्ष्यन्ते । यत्र गजैः परिमृदितानां सरलद्रुमाणां गन्धः सौरभ्यरहितानपि पदार्थान् सुर- मिलान् करोतीत्यर्थः । सुगन्धानामुद्दीपनत्वमनुभवसिद्धं, 'यथा सन्निधि- मात्रे(ण)गन्धः क्षोभाय जायत' इत्यादिवचनसिद्धं च ॥९॥ वनेचराणां वनितासखानां दरीगहोत्सङ्गनिषक्तभासः। भवन्ति यत्रौषधयो रजन्या- मतैलपूराः सुरतप्रदीपाः ॥१०॥ (प्रकाशिका) वनेचराणामिति। 'तत्पुरुषे कृति बहुलम् (६.३.१४)इत्यलुक् । इदं विशेषोक्तावुदाहृतं वामनेन । अस्मन्मते तु रूपकविशेष एवायम् ।। (विवरणम् ) रतिप्रदीपानामप्यप्रयाससाध्यस्वमाह- वनेचराणामिति । यत्र ओषधयः रजन्यां वनितासखानां वनेचरा- गास् अतैलपूराः सुरतप्रदीपाः भवन्ति । यत्र हिमवति ओषधयः रात्रावुज्ज्वला वृक्षविशेषाः रजन्यां रात्रौ वनितानां सखायो वनितासखाः तेषाम् । षष्ठी- तत्पुरुष एवात्र समासः। बहुव्रीहिविवक्षायां तु समासप्रत्ययो न स्यात् । 1. 'ब' क. पाठः, प्रथमः सर्गः। १३ - सीसहितानामित्यर्थः । अनेन विशेषणेन सुरतप्रदीपानामुचितत्वमुकम् । वने चरन्तीति वनेचराः तेषाम् । 'तत्पुरुषे कृति बहुलम्'(६.३.१४) इत्यलुक्। अतैलपूराः तैलानां स्नेहानां पूरेण रहिताः । तैलनिषेकनिरपेक्षा इत्यर्थः । अनेनाप्रयाससाध्यत्वमुक्तम् । मध्ये विनाशाभावादयश्च द्योत्यन्ते। सुरतोप- योगिनः प्रदीपाः सुरतप्रदीपाः। सुरतगृहे दीपस्याप्यावश्य(कत्व)मुक्तं रति- रहस्ये- "प्रसृतसुरभिधूपे पुष्पदामावकीर्णे ज्वलितमहितदीपे धाग्नि कामी सुवेषः । सह सहचरवगैर्वामभागे निवेश्य स्त्रियमुपहितभूषां भावयेन्नर्मगोष्ठीम् ॥" इति । ओषधीनां रतिप्रदीपत्वरूपणे हेतुमाह ---दरीगृहोत्सङ्गनिषक्तभास इति । दर्यो गुहाः, ता एव गृहा दरीगृहाः, तेषाम् उत्सङ्गेष्वन्तर्भागेषु निषक्ताः नितरां सक्ताः भासः प्रभा यासां तास्तथा । अत्रौषधीनां सुरतप्रदीपत्वेन रूपणात् सुरतप्रदीपानामतैलपूरत्वविशिष्टत्वाच्च सविशेषणं रूपकमलङ्कारः, भोजराजेन रूपकभेदस्य चतुर्धा दर्शितत्वात् 'समस्तं व्यस्तमुभयं सविशेष- णमित्यपि' इति ॥१०॥ उखेजयत्यङ्गुलिपाणिभागान मार्गे शिलीभूतहिमेऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्द गतिमश्वमुख्यः ॥११॥ (प्रकाशिका) उमेजयतीति । उद्वेजयत्यपीत्यन्वयः। अङ्गुलिपाणिभागग्रहणं १. रणेन र क. पाठः.. २. 'रवि' ख. पाठः.

लमयाबसमनपादतकार्पण थोतयति । अत्र चैत्यदुःखादपि प्रोसिपयो- घरदुहत्वदुःखस्य तत्कार्यभूतशीघ्रगतिविरुद्धस्वकार्यसम्पादनेन प्रवसत्तर- -- (विवरण) इत्थमुपवर्णितानामुद्दीपनानां तदनुरूपवनिताजनसद्भावप्रतिपादनेन सोपयोगत्वमाह- उद्वेजयतीति । यत्र अश्वमुख्यः दुर्वहश्रोणिपयोधरार्ताः मन्दा गति न भिन्दन्ति । यत्र हिमवति अश्वमुख्यः किन्नराङ्गनाः दुःखेनोह्यन्त इति दुर्वहाः। कृच्छ्रार्थे खल् । तैः श्रोणिपयोधरैः श्रोण्या जघनस्थलेन पयोधराभ्यां स्तनाभ्यां च आर्ताः पीडिताः सत्य इति मन्दगमनपरित्यागाभावे हेतुः । मन्दां गतिम् अत्यन्तमन्दं गमनं न भिन्दन्ति नान्यथा कुर्वन्ति, न परित्य- जन्तीत्यर्थः । ननु स्त्रियः श्रोणिपयोधरभारान्मन्दमेव गच्छन्ति । अत्र को विस्मयः, यदेवमुच्यत इत्यत्राह-शिलीभूतहिमे मार्गे अङ्गुलिपाणिभागान् उद्वेजयत्यपीति । शिलीभूतानि शिलात्वं प्राप्तानि हिमानि यस्मिंस्तस्मिन् मार्ग अङ्गुलीः पाणिभागौ च । गुल्फयोरधोभागः पाणिशब्देनोच्यते । तद्ग्रन्थी धुटिके गुल्फो पुमान् पाणिरधस्तयोः' इत्यमरः । उद्वेजयति पीडयति सत्यपि । अत्रापिशब्दः शीघ्रगमनस्य कारणपौष्कल्यं दर्शयति । अङ्गुलीनां मार्दवाधिक्यात् तासु शैत्यकाठिन्यवाधाया अप्याधिक्यमिति शैत्यादिभयात् पाणिभागाभ्यां गमनम् । तेन च तत्रापि पीडाधिक्यमिति पाणि- शब्द प्रयुञानस्यामिप्रायः । अत्र शैत्यादिदुःखस्य कार्य शीघ्रगमनम् । तत्त श्रोणिपयोधरदुर्वहत्वखेदेन बाध्यत इति श्रोणिपयोधरगौरवातिशयः प्रतिपा- दितः । तेन च तत्रत्यानां वधूनां सर्वावयवसौन्दर्य दर्शितम् ॥११॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् Arr .. 'तरणस्य क.स. गपाठः, र्योऽर्थो यथा प्रथमः सर्गः। २५ क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममस्वमुच्चैःशिरसां सतीव ॥१२॥ (प्रकाशिका) दिवाकरादिति । भीतमिव दिवा गुहासु लीनमित्यन्वयः । क्षुद्रोऽनार्यः । शरणं प्रपंचे शरणत्वेनात्मानमुपसन्न इत्यर्थः । ममत्वं मदीयमित्यभिमानिस्वम् । ममेत्यस्मच्छन्दमतिरूपकमव्ययमिति केचित् । अन्ये तु---सर्वेषां प्रायः शब्दानां योऽर्थाः--स्वरूप व्यवहार्योऽर्थो बुद्धि- श्व । तत्र स्वरूपं यथा--घटशब्दस्य प्रकारटकारसमुदायः । व्यवहा- तस्य पृथुबुनोदराकारो मृदादिविकारः । बुद्धिर्यथा- तद्विषया तदाकारा च बुद्धिः । नत्र बुद्ध्यर्थत्वे शब्दशक्तिस्वाभाव्याद् इत्यवच्छिन्नत्वेन वृत्तिगतत्वेन वा केवलं प्रयोगः । यथा घट इति बुद्धि- रिति, घटबुद्धिरिति वा, न तु स्वातन्येण प्रयोगः । तस्मान्ममशब्दस्य ममेति बुद्धिरथैः, यथा 'निर्मम' इत्यत्र । तया चात्र तद्वाल्लँक्ष्यते । तस्य भावो ममत्वमिति समर्थयन्ते । उचैश्शिरसाम् उन्नतानाम् । सति आर्ये । अत्र काव्यप्रकाशकृता दूषितम् । तद्यथा---उत्पेक्षितमपि तात्त्विकेन रूपेण परिवर्जितत्वानिरुपाख्याख्यम् । तत्समर्थनाय यदर्थान्तरन्यासो- पादानं, तदालेख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषयत्वमेव तस्य, अनुचितार्थतैव दोष इत्युक्त्वा इमं सु श्लोकमुदाहृत्यात्राचेतनस्य तमसो दिवाकरात् त्रास एव न संभवतीति कुत एव तत्पयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपप- तिरिति व्यर्थ एव तत्समर्थनायां यत्र इति । तदयुक्तम् । यतः परित्राणं वक्त प्रकृतम् । तत्र हेतुत्वेन केवलं भीतिरसंभविनी संभाव्यते । परि. 'विष्ठे श' स. पाठ २. रित्यर्थः' क. ग. पाठः, ३. 'ति कु' स. पाठः. एत' 'कदाचि खः पाठः, ६. त एत' ख. पाठः, सुतहेतु' ग. पार कुमारसम्भवे चमर्यश्चमरमृग्यः । अत्र चमरस्त्रीणामुपादानेन स्त्रीणामेव चामरग्रहणाधिकार इति दर्शयति । यथोक्तम् ‘एतासापरविन्दसुन्दरदृशां द्राक् चामरान्दोल. नाद्' इति । यस्य हिमवतः गिरिराजशब्दं गिरिराजोऽयमिति शब्द बालव्य- जनैः निजलाङ्गलमयैश्चामरैस्र्थयुक्तं यथार्थ कुर्वन्ति । प्रकृतिषद् कस्वामित्वं हिं सामान्यतो राजशब्दस्यार्थः । अतोऽत्र तत्स्वामिनश्चिभूतैर्यालव्यजनैः गिरि- राजशब्दस्यार्थयुक्त(ल)करणमुपचार इत्यरुणाचलनाथेन व्याख्यातम् । वयं तु बालव्यजनावधूननदर्शनेनायमेव गिरिराज इति या सर्वजनप्रतीतिः, तत्कर- पात्रार्थयुक्तत्वकरणमिति मन्यामहे , प्रतीतिमात्रपरायणत्वात् काव्यव्यव: हाराणाम् । न केवलं बालव्यजनानां सत्तामात्रम् , अपितु वीजनमपि दृश्यत इत्याह - लालविक्षपविसर्पिशोभैरिति । लालानां बालदण्डानां विक्षेपेण चालनेन विसर्पिण्यो व्यापिन्यः शोभा येषु तैः। अनेन विशेषणेन व्यजनान्दो- लनसमयसम्भविनी महती शोभा दर्शिता, बालदण्डानां व्यजनदण्डसाम्यं च प्रकाशितम् । सितव्यजनसाम्यमण्याह इतस्ततचन्द्रमरीचिगौरैरिति । इतस्ततः समन्ततः सर्वत इत्यर्थः। चन्द्रमरीचिगौरैः चन्द्रस्य मरीचिवत् किरणवद् गौरैः धवलैः, सर्ववेतैरित्यर्थः ॥ १३ ॥ , Home यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् । दरीगृहवारि विलम्बिबिम्बा- स्तिरस्करिण्यो जलदा भवन्ति ॥ १४ ॥ (प्रकाशिका) यन्त्रेति । आक्षेपो हरणम् । यच्छया सात्या । बिम्ब शरी- रम्। 'बिम्बोऽत्री मण्डलसमपतिमामुखलक्ष्मनु । प्रतिविम्बे तत्मकती इति यादवः। तिरस्करिण्यो यफनिकाः । अत्र लज्जया लज्जया गुबगनाय प्रथमः सर्गः। - - करतलेषु व्यापार्यमाणेषु दैवोपनतेन जलदरोधतमसा समाहितसौकमि- ति समाधिरलङ्कारः प्राधान्येन ध्वन्यते ॥१४॥ (विवरणम् ) नवोढानुसरणमध्यत्रैव सुखकरमित्याह- यत्रेति । यत्र अंशुकाक्षेपविलजितानां किम्पुरुषाङ्गनानां जलदाः तिर- स्करिण्यो भवन्ति । यत्र हिमवति अंशुकाक्षेपविलजितानाम् अंशुकानां वसनानाम् आक्षेपण हरणेन विलाजितानां विशेषेण लज्जितानाम् । नवोढा हि पूर्वमेव लज्जिताः प्रियतमकृते' तु वसनहरणे विशेषेणेति भावः । किंपुरुषाङ्गनानां किन्नरस्त्रीणां जलदा मेघा एव तिरस्करिण्यो यवनिका भवन्ति । 'प्रतिसीरा यवनिका स्यात् तिरस्करिणी च सा' इत्यमरः । जलदानां यवनिकात्वप्राप्तिप्रकारमाह यहच्छया दरीगृहद्वारि विलम्बिबिम्बा इति । यदृच्छया यादृच्छिकसङ्गत्या दरीगृहद्वारि दरीरूपाणां सुरतभवनानां द्वारि द्वारप्रदेशे विलम्बिनो लम्बनशीला बिम्बाः शरीराणि येषां ते तथा । 'बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु । प्रतिबिम्बे तत्प्रकृतौ इति यादवः । गुहाद्वारे घनोपरुद्धे सति गुहायामोषधिप्रकाशौदिप्रवे- शाभावात् तमोवृद्धिः । ततश्च गुह्यगोपनार्थ करतलादिव्यापारनैरपे- क्ष्यमिति भावः । अत्र जलदेषु तिरस्करिणीत्वमारोपितम् । तस्य च प्रकृतोपयोगित्वात् परिणामोऽलङ्कारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम' इत्यलक्षारसूत्रम् । काव्यप्रकाशकृतः पक्षे तु रूपकमेव । 'तैलपूरा' इत्यत्राप्येवं द्रष्टव्यम् । तत्र सविशेषणस्य रूपकस्यातिस्फुटत्वादय- मलकारो नोक्तः । अत्र समाधिरलकारः प्राधान्येन ध्वन्यते च । जलदरोधतमसा "नवोढाणुगोपनकार्यसिद्धेः । 'समाधिः सुकर कार्य का- एणान्तस्योगत' इति ॥ १४ लादि ख. पाठा....."तेब' क. पाठः. ३. 'शाभा' क. पाठ: ४. स्वाति क. .

कुमारसम्भवे भागीरथीनिझरशीकराणां घोढा मुहुः कम्पितदेवदारुः । यवायुरन्विष्टमृगैः किरातै- रासेव्यते भिन्नशिखण्डिवहः॥ १५ ॥ (प्रकाशिका) भागीरथीति । मुहुः सद्यः। 'पौनःपुन्ये भृशार्थे च सद्योर्थे स्यान्मुहुःपदम्' इत्यजयः । अत्रेदं च प्रमाणं 'भित्त्वा सद्यः किसलयपुटं देवदारुद्रुमाणास्' (उत्तरमेघे. ४४) इति प्रयोगः । यद्वायुर्य- सम्बन्धी वायुः । अन्विष्टमृगैरिति श्रमस्य विभावः, वायुसेवनमनुभावः । भिन्न इतस्ततो विकीर्णः शिरोभूषणं शिखण्डिबों यैः ॥ १५ ॥ (विवरणम्) हिमवति वायोरपि गुणोत्कर्षमाह- भागीरथीति । यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते । य- द्वायुर्यत्सम्बन्धी वायुः अन्विष्टा मृगा यैस्तैः । मृगान्वेषणार्थमितस्ततः कृता- वधानैरित्यर्थः । अनेन श्रमस्य विभाव उक्तः । किरातैः शरैः आसेव्यते आभक्षिण्येन सेव्यत इति श्रमस्यानुभावः । वायोः श्रमहरत्वद्योतकानि विशेषणान्याह- भागीरथीत्यादिना । तत्र शैत्यमाह-भागीरथीनिझरशी- कराणां वोढा इति । भागीरथ्यां गङ्गायामेव निझरे वारिप्रवाहे । 'वारिप्रवाहो- निर्झरो झर' इति सिंहः । हिमवति निर्झरो गङ्गैव । तत्र ये शीकराः जल कणाः । 'शीकरोऽम्बुकणाः स्मृता' इत्यमरः । तेषां वोढा वाहकः। सौरभ्य- माह - मुहुः कम्पितदेवदारुरिति । मुहुः पुनः पुनः कम्पिता देवदारवो वृक्ष- विशेषा येन । देवदारूणां सौरभ्यातिशयः प्रसिद्धः । मुहुःपदेन सौरभ्यस्यान- १. 'शी' ख. ग. पाठः. २. 'गुणो' क. ख. पाठः, प्रथमः सर्गः। न्त्यमुक्तम् । मुहुःपदस्य सद्य इति वार्थः । 'पौनःपुन्ये भृशार्थे च सद्योर्थे स्यान्मुहुःपदम्' इत्यजयः । 'भित्त्वा सद्यः किसलयपुटं देवदारुद्घमाणाम्' (उत्त- रमेघे. ४४) इति मेघसन्देशप्रयोगश्चास्मिन्नर्थे प्रमाणम् । मान्धमाह-भिन्न- शिखण्डिबर्ह इति । भिन्ना इतस्ततो विकीर्णाः शिखण्डिनां वनप्रदेशेषु वर्तमानानां बर्हिणां बर्हाः पिञ्छाः येन स तथा शिखण्डिबहैर्निरुद्धवेगप्रसरत्वाद वायो- न्धिम् । 'भिन्नशिखण्डिबहैरिति पाठे वायोः सकलशरीरस्पर्शार्थं स्वकरा- भ्यामितस्ततो विक्षिप्ता निजशिरोमण्डनशिखण्डिबर्दा यैरिन्यर्थः । अस्मिन्नर्थे वायुसेवनस्वभावोक्त्या स्वभावोक्तिरलङ्कारः । 'स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्' इति तल्लक्षणम् । अत्र तमःप्रकृतीनां मृगवधलालसानां किरातानामप्यनवरतगङ्गाजलसेवनप्रतिपादन प्रारब्धभोगक्षये तत्रत्यानां मुक्तिरेव (इति) ध्वन्यते ॥१५॥ सप्तर्षिहस्तावचिनावशेषा- ण्यधी विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोमहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूग्वैः ॥ १६ ॥ (प्रकाशिका) सप्तर्षीति । अवशिष्यत इत्यवशेषः । कर्मणि घञ् । 'त्रिष्वन्यत्रोप- युक्तत' इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेपशब्दस्य वि- शेष्यलिङ्गत्वमवसेयम् । हस्तशब्दः स्वयङ्ग्रहणेनादरं द्योतयति । सप्तपीत्या- दिपदेन विशिष्टोपयोगित्वमुक्तम् । अथवा सप्तर्षिहस्तावचिताविति नि- मित्तसप्तमी । अशेषाणीति बोधनस्य प्रायनिकत्वं ध्वनितम् । सप्तर्षि- स्थानस्य मूर्यादुपरिवर्तित्वादियमुक्तिः । वक्ष्यति च 'नित्यमांच सोमाञ्च परमध्यास्महे पदम्' (६. १९) इत्यादि ॥ १६ ॥ ----- १. 'म' क. पाठः, - कुमारसम्म (विवरणम्) औषयमाह- सप्तर्षीति । विवस्वान् यस्य अग्रसरोरुहाणि पनानि ऊर्ध्वमुखैः मयूखैः प्रबोधयति । विवस्वान् आदित्यः यस्य हिमवतः अग्रसरोरुहाणि अग्रसरस्सु अधित्यकावर्तिषु सरस्सु कमलिनीषु रोहन्ति उद्भवन्तीति तथा पमानि कमला- नि ऊर्ध्वमुखैः ऊर्ध्व मुखानि अग्रभागा येषां तैः मयूखैः रश्मिभिः प्रबोधयति उन्मीलयति । सविता यस्य शिरःपुष्करिणीषु प्ररूढानि कमलानि बिम्बस्य पृष्ठमागादूर्ध्व गतैरेव मयूखैरुन्मीलयतीत्यर्थः । तत्र हेतुमाह-अधः परिवर्त- मान इति । अधित्यकापेक्षयात्यन्तमधोभाग एव परितो वर्तमानः । तत्र- त्यानां पनानां विशिष्टोपयोगित्वमाह-सप्तर्षिहस्तावचितावशेषाणीति । सप्त- पिभिरादरातिशयात् स्वहस्तैरेवावचितानि लूनानि । अवशिष्यत इत्यवशेषः । कर्मणि घञ्। 'त्रिष्वन्यत्रोपयुक्ततः' इति. केशवस्वामिवचनं शेषशब्दस्याभि- धेयवल्लिङ्गत्वे प्रमाणम् । सप्तर्षिभिर्देवतार्चनाद्यर्थं यानिकानिचिदवचितानि, पुनश्च पनानां बहुत्वात् सरस्स्वेवावशिष्टानि पद्मानीत्यर्थः । सप्तर्षिहस्तावचि- ताविति वा पदच्छेदः । निमित्तसप्तमी चेयम् । अशेषाणि समस्तानि । यत्र सूर्यः सप्तर्षीणामुपयोगार्थ समस्तानि पद्मानि प्रबोधयतीत्यर्थः । सप्तर्षीणां सूर्य- मार्गादुपरि वर्तमानत्वादित्थमुक्तम् । उक्तं च वसिष्ठसिद्धान्ते औत्तानपादिरखिलग्रहकारकाणा- मुचैस्तरे वसति धाग्नि ततोऽप्यधस्तात् । सप्तर्षिमण्डलमवस्थितमप्यमुष्मात् तिष्ठन्त्यधो नभासि च ग्रहतारकाधाः ॥" इति । वक्ष्यति च 'नित्यमर्काच सोमाञ्च परमध्यास्महे पदम्' (६. १९) इति। अत्र हिमवतः सूर्यमार्गोलक्षित्वकथनादौन्नत्यं भङ्गयन्तरेणोक्तमिति पर्यायो- १. 'ना ख. पाठः.

प्रथमः सर्गः। तमलकारः । 'गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम्' इति । अग्रस- रोरुहाणि पमानीत्यत्र पुनरुक्तवदाभासोऽलकारः । 'पुनरुक्तवदाभासो विभि- नाकारशब्दगः । एकार्थतेव' इति ॥ १६ ॥ यज्ञानयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभाग: शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १७ ॥ (प्रकाशिका, यज्ञाङ्गति । यज्ञाङ्गानि सोमलताप्रभृतीनि । अत्र पुराणवचन झापर्क- "हिरण्यगर्भो भगवान् व्याजहार हरिं प्रति । देवतानां मुनीनां च समक्षं सर्वसाक्षिणम् ।। अस्य देवस्य वामाङ्गाजातस्त्वमनया सह । दक्षिणाङ्गात् समुद्भूतः सृष्ट्यर्थ जगतामहम् ।। यज्ञानार्थ मया सृष्टो हिमवानचलेश्वरः।" इति । सारो बलम् । कल्पितो हस्तिरूपो यज्ञभागो येन । अत्र किल श्रुतिः प्रमाणम् । स्वयं आत्मना । अन्वतिष्ठद् अन्तर्भावितण्यर्थः प्रयोगः। “अनुष्ठितानन्तरजाविवाहः" (रघु.७. ३२) इतिवत् । यज्ञाङ्गयो. निस्वाद् यज्ञभागं कल्पयित्वा तस्य साराधिकत्वाच्छैलाधिपत्यं प्रजापतिः स्वयमनुष्ठापितवानित्यर्थः । हिमवन्तमधिष्ठाय प्रजापतिः स्वयं शैलाधिप- त्यमनुष्ठितवानिति पुराणवचनविरुद्धम् । तद् यथा ब्रह्माण्डे- १. 'ग' मुद्रितकोशपाठः. २. 'न - हि' हु. पाठः. ३. 'र्थत्वात् प्र' क. ग. घ. ४. 'छापित' क. पाठः. * विष्णुपुराणम् ।

३४ कुमारसम्भवे "शैलानां हिमवन्तं च नदानामथ सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः॥" इति । अत्र प्रकरणे 'यं सर्वेत्यादिना स्वजातिश्रेष्ठत्वम्, 'अनन्तरत्ने - त्यादिनाभिगम्यत्वं, ‘पदं तुपारे'त्यादिना लाङ्गले' त्यादिना च रत्नसम्पद् , 'आमेखलमि'त्यादिना सर्वकालमुखत्वं, 'दिवाकरादित्यादिना संश्रितर- क्षणं, 'सप्तर्षी त्यादिना तुगत्वं, 'यज्ञाङ्गे'त्यादिना देवत्वमैश्वर्य च, इतरैस्तु श्लोकैर्यथासम्भवं शृङ्गाराङ्गभूनपदार्थवत्तया रमणीयत्त्वं चोक्तम् ॥ १७ ॥ (विवरणम्) देवत्वमैश्चर्य चाह- - यज्ञेति । प्रजापतिः यस्य यज्ञाङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अ- वेक्ष्य कल्पितयज्ञभागः शैलाधिपत्यं स्वयम् अन्वतिष्ठत् । प्रजापतिर्ब्रह्मा यस्य हिमवतो यज्ञाङ्गानां सोमलताप्रभृतीनां योनित्वम् उद्भवस्थानत्वम् । एतच पुराणप्रसिद्धं- "हिरण्यगर्भो भगवान् व्याजहार हरिं प्रति । देवतानां मुनीनां च समक्षं सर्वसाक्षिणम् ॥ अस्य देवस्य वामाङ्गाज्जातस्त्वमनया सह । दक्षिणाङ्गात् समुद्भूतः सृष्टयर्थं जगतामहम् ।। यज्ञाङ्गार्थ मया सृष्टो हिमवानचलेश्वरः ।" इति । धरित्रीधरणक्षमं धरित्र्याः भूमेः धरणे धारणे क्षमं शक्तं सारं बलं च अवेक्ष्य सम्यगवलोक्य कल्पितयज्ञभागः कल्पितो यज्ञेषु यागेषु भागो हस्तिरूपोंऽशो येन तथाभूतः सन् , इन्द्रायैस्तुल्यमेवास्य हविर्भागं कल्पयित्वेत्यर्थः । हिमवतो हस्ती यज्ञभाग इति श्रुतिप्रसिद्धिः । शैलाधिपत्यं पर्वताधिपतित्वं स्वयमन्वति- ष्ठत् स्वयमेवानुष्ठापितवान् । अन्तर्भूतण्यर्थोऽयं प्रयोगः। 'अनुष्ठितानन्तरजा- , प्रथमः सर्गः। २ विवाहः' (रघु. ७. ३२) इतिवत् । प्रजापतिः स्वयमेव हिमवन्तमधिष्ठाय शैलाधिपतित्वमनुष्ठितवानिति कैश्चिद् व्याख्यातम् । तत्तु पुराणविरुद्धम् । यथोक्तं ब्रह्माण्डे "शैलानां हिमवन्तं च नदानामथ सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः ॥" इति । अत्र यज्ञाङ्गयोनित्वमित्यादिना क्रमेणोद्दिष्टयोरर्थयोः कल्पितयज्ञभाग इत्यादिना पश्चान्निर्देशाद् यथासङ्ख्यमलङ्कारः । 'उद्दिष्टानामर्थानां क्रमेणानू- देशो यथासङ्ख्यम्' इति ॥ १७ ॥ स मानसीं मेरुसग्वः पितृणां कन्यां कुलस्य स्थितये स्थितिज्ञः। मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयमे ॥ १८ ॥ (प्रकाशिका) स इति । मुनीनामपि माननीयां ब्रह्मवादयोगवत्तया। अत्र श्रीविष्णुपुराणवचनं- "पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । अग्निष्वात्ता बर्हिषदो नामयः सामयश्च ये ।। तेभ्यः स्वधासुता जज्ञे मेना "वैतरणी तथा। ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभ द्विज ! ॥" इति । तस्या मानसीत्वे ब्रह्माण्डवचनं- "तेषां तु मानसी कन्या मेना नाम महागिरेः। पनी हिमवतो यस्याः पुत्रो मैनाक उच्यते।" - १. 'ति रघुवंशत्रयोगवत्' ख. पाठः. २. 'धिः। अ' क. पाठः, ३. 'रमणी' इ. पाठ:. -- "वैधारणा' इति संज्ञा दृश्यते।

1 कुमारसम्भवे इति । कुलस्य स्थितये, न तु कामायः। अनेनातिसत्त्वोत्तरत्वादस्य शान्त- नायकत्वम् अस्याश्च मुनीनामपि माननीयत्वेन योतितम् । अत एवात्मानु. रूपामित्युक्तिः । स्थितिमादो, गृहीतविधेन गुरुकुलनिवृत्तेन गार्हस्थ्य- मङ्गीकार्यमिति या शास्त्रमर्यादा तस्या अभिज्ञः। विधिना शास्त्रतः । एव. सदपत्येन कुलस्थितिः स्यात् । मेरुसख इत्यनेन वरणसंविधानादिषु तत्सहायत्वमुक्तम् ॥ १८ ॥ (विवरणम्) इस्थमुपवर्णितस्य हिमवतो जगदेकनायिकायाः प्रबन्धनायिकाया उत्पत्तिहेतुभूतं विवाहं वर्णयति- स इति । सः मेनां विधिना उपयेमे । सः हिमवान् मेनां नाना मेने. ति प्रसिद्धां विधिना शास्त्रतः । शास्त्रसिद्धेन विधिना स्वीकृतायां हि भार्यायां सदपत्येन कुलस्थितिर्भवेदिति भावः । उपयेमे परिणीतवान् । ननु पूर्वोक्तस- कलगुणविशिष्टः स किमर्थं कामोपभोगे मनः कृतवानित्यत्राह-कुलस्य स्थि- तये इति । कुलस्य वंशपरम्परायाः स्थितये स्थिरत्वाय, न कामार्थमित्यर्थः । अनेनातिसत्त्वोत्तरत्वादस्य शान्तनायकत्वमुक्तम् । तेन च पार्वतीजन्मयोग्यत्वं ध्वनितम् । मेनायाः कुलशुद्धिमाह-पितॄणां मानसीं कन्यामिति । पितृणां अग्निष्वात्तादीनां मानसीं मनसो जाताम् । अनेनायोनिजत्वमुक्तम् । तेन च दिव्यत्वं ध्वन्यते । उक्तञ्च मेनाया मानसीत्वं ब्रह्माण्डे- "तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनांक उच्यते ॥" इति । अत्र तेषामिति पुराणे प्रकृतानां पितॄणामुपादानम् । बहुसहायसाध्ये विवाहे हिमवतः सहायसम्पत्तिं दर्शयति मेरुसख इति । मेरोः सुमेरोः सखा । अनेन वरणादिष्वपि तत्सहायत्वं द्रष्टव्यम् । हिमवतः शास्त्रीयविवाह- १. 'दा, गुरुगृ' .क, ग, घ, पाठः.. २. 'गि' क. स. प. पाठः. स. पाठ प्रथमः सर्गः - प्रवृत्तौ हेतुमाह --स्थितिज्ञ इति। स्थितिमर्यादा, तां जानातीति स्थितिज्ञः । वियाग्रहणानन्तरं गुरुसकाशान्निवृत्तेन गार्हस्थ्यमङ्गीकार्य, पुनश्चाग्न्याधाना- दिकर्म कर्तव्यमिति शास्त्रमर्यादां जानन्नित्यर्थः । मेनाया उत्तमनायिकात्व- माह-मुनीनामपि माननीयामिति । मुनीनां मुनिभिः। 'कृत्यानां कर्तरि वा' (२. ३.७१) इति षष्टी । सर्वमाननीयैर्मुनिभिरपि माननीयामित्यपिशब्दार्थः । मुनिमाननीयत्वं ब्रह्मवादवत्तया योगवत्तया च । तदुक्तं श्रीविष्णुपुराणे- "पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । अग्निष्वात्ता बर्हिषदो नाग्नयः साग्मयश्च ये ।। तेभ्यः स्वधासुता जज्ञे मेना वैतरणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज !!" इति । अत एव प्रागुक्तस्य नायकगुणविशिष्टस्य हिमवतः सदृशी भार्या चेयमि- साह-आत्मानुरूपामिति। आत्मनोऽनुरूपां सदृशीम् । 'कुलाद्यैः सदृशीं भायाँ विन्दत स्नातको द्विजः' इत्यादिस्मृतेरिति भावः । अत्र कामव्यपोहाय कुलस्य स्थितय इत्युक्तमिति परिसङ्ख्यालङ्कारः । "किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते । ताहगन्यव्यपोहाय परिसङ्ख्या तु सा स्मृता ॥" इति ॥१८॥ अस्त सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाशं कुलिशक्षतानाम् ॥१९॥ (प्रकाशिका) असूतेति । नागवधूपभोग्यत्वं तत्परिणयनादिति दक्षिणावर्तः । १. 'शी चेक.स. ग. घ. पाठः, २. 'वर्तते' क. ख. ग. घ. पाठः. ३. 'तः। व, पाठ, ૨૮ कुमारसम्भवे वयं तु समुद्रमनस्य नागलोकसन्निकर्षादिति मन्यामहे । तत्सख्यस्य फलमाह-क्रुद्धेऽपीति। अत्रेतिहासः सुलभः। ननु किमनेन मैनाकोत्पत्ति- कथनेन कथानुपकारिणा । न । देव्याः सभ्रातृकत्वेन परिणेयत्वात् । अत्र मनु:- यस्यास्तु न भवेद् भ्राता ने विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥" (अ. ३. श्लो. ११) इति ॥ १९॥ (विवरणम् ) "यस्यास्तु न भवेद् भ्राना न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः" इति मनुवचनेनाभ्रातृकाणां स्त्रीणां परिणेयत्वनिरासाद् भवान्याः सभ्रातृकत्वं प्रतिपादयितुं मेनायां पुत्रोत्पत्ति दर्शयति- अमूतेति । सा मैनाकम् असूत । सा मेना मैनाकं नाम पर्वतम् असूत प्रसूतवती । मेनातनूजस्य सौभाग्यातिशयमाह ---- नागवधूपभोग्य- मिति । नागवधूभिः सर्पस्त्रीभिः उपभोग्यम् उपभोक्तुं योग्यम् । नागवधूपभो- ग्यत्वे हेतुमाह- अम्भोनिधिबद्धसख्यमिति । अम्भोनिधिना समुद्रेण सह बद्धं स्थिरीकृतं सख्यं बन्धुत्वं येन तं, सदा समुद्रस्थमित्यर्थः । समुद्रस्य नागलोक- संन्निकर्षाद् भुजङ्गाङ्गनोपभोग्यमिति भावः । समुद्रसख्यस्य फलमाह-वृत्रशत्रौ पक्षच्छिदि क्रुद्धेऽपि कुलिशक्षतानामवेदनाज्ञमिति । वृत्रशत्रौ वृत्राभि- धानस्यासुरस्य शत्रौ । अनेनास्य दुरभिभवत्वमुक्तम् । तेन च महाजनसख्य॑स्य फलपरिपूर्तिर्ध्वन्यते । पक्षौ छिनत्तीति पक्षच्छिद् तस्मिन् , पक्षच्छेदोयुक्ते सतीत्यर्थः । न केवलमुद्युक्तः, कुपितश्चेत्याह-क्रुद्ध इति । अपिशब्देन पक्ष- च्छेदस्य कारणपौष्कल्यं दर्शयति । कुलिशक्षतानां वज्रप्रहारजनितानां व्रणानाम् अवेदनाशं वेदनां पीडां जानातीति वेदनाज्ञः वेदनाज्ञो न भवतीत्यवेदनाज्ञः १. 'न पिता ज्ञातयोऽपि वा' क. पाठः. २. 'वर्णय' क. ख, ग, घ. पाठः. ३. 'संथः ।' क. ग. घ. पाठः, ४. 'ख्यफ' क. ख, ग, घ, पाटः,

प्रथमः सर्गः।
तम् । महेन्द्रे पक्षच्छेदोद्युक्ते रुष्टेऽपि महासत्त्वस्य समुद्रस्य सख्यादद्यापि
'कुलिशक्षतवेदनानभिज्ञमित्यर्थः।
"सर्वेऽपि पर्वताः पूर्व पक्षवन्तः किलाभवन् ।
ततस्तेषामवस्थानैवेगैः पक्षसमीरणैः ।।
चूर्णीभूतान् जनपदानवलोक्याथ वृत्रहा ।
क्रुद्धः कुलिशमादाय पक्षच्छेदेन पर्वतान् ।।
क्षणेन स्थावरीचक्रे मैनाकस्तरसा ततः ।
अम्भोधिमतिगम्भीरं महासत्त्वमुपाश्रितः ।।
समुद्रसख्यादद्यापि तत्पत्रौ नाहतो"
इति कथानेन श्लोकेन दर्शिता ॥१९॥
अथावमानेन पितुः प्रयुक्ता
दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविमृष्टदेहा
तां जन्मने शैलवधू प्रपेदे ॥ २० ॥
(प्रकाशिका)
एवमाधिकारिकम्य पीठिकान्वेन प्रासङ्गिकमुपवाधिकारिकं प्रस्तौति
अयेति । अथशब्दः प्रकरणान्तरोपक्रमद्योतकः । अवमानेन
स्वभईविर्भागापदानादिकृतेन प्रयुक्ता प्रेरिता। पितुरिति पितुः परम-
गुरुत्वात् तद्विपये प्रकारान्तरेण कोपमतीकारः कर्तुमनुचित इति द्योत्यते ।
सती इदं दक्षसुतात्वे नाम । सती भवन्ती । योगविसृष्टदेहा सतीत्यन्वयः।
शैलवधूमिति स्त्रीजनने स्त्रियाः प्राधान्यात् । अत्र भवपूर्वपत्नीत्यनेन पर-
शक्तिरूपत्वं धनयता भुवनैकमातुः स्वेच्छया विग्रहत्यागस्वीकारावुपपा.
दितौ ॥ २०॥

- कुमारसम्भवे (विवरणम् ) इत्थं पीठप्रतिष्ठामुपपाचाधिकारिक वृत्तमेव प्रस्तुपन् नायिकाया उत्पति वर्णपति श्लोकहूयेन । तत्रादौ देव्याः पूर्वजन्मवृत्तान्तसंक्षेपकथनेन नित्याया एव तस्या उत्पत्ती हेतुं बदम्नुत्पतेः पूर्वावस्थामाह- अथेति । अथ दक्षस्य कन्या भवपूर्वपत्नी पितुः अवमानेन प्रयुक्ता योगविसृष्टदेहा सती सती जन्मने तां शैलवधू प्रपेदे। अथशब्दोऽयं प्रकर- णान्तरोपक्रमद्योतकः। 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ' इत्यमरः । दक्षस्य दक्षप्रजापतेः कन्या पुत्री भवपूर्वपत्नी भवस्य परमशिवस्य पूर्वपत्नी प्राचीनभार्या। अनेन नित्यायाः परमशक्तिरूपायो देव्याः स्वेच्छयैव शरीरत्या- गस्वीकारसामर्थ्य दर्शितम्। पितुः आत्मनो जनकभूतस्य दक्षस्य अवमानेन स्वभर्तुर्हविर्भागाप्रदानादिरूपया निन्दया प्रयुक्ता प्रेरिता देहत्यागायेति शेषः । परमगुरौ पितरि विषये प्रकारान्तरेण कोपप्रतीकारोपायादर्शनात् तदवमानेन शरीरत्यागायैव प्रेरितेत्यर्थः । योगविसृष्टदेहा जीवात्मनः परमात्मनि योजनं योग इत्युच्यते, तेन विमृष्टः परित्यक्तो देहो यया। सती भवन्ती। सती दक्ष- सुतात्वे देव्या नाम । जन्मने स्वोत्पत्तये तां पूर्वोक्तसकलगुणविशिष्टां शैलवधूं मेनां प्रपेदे प्राप्ताभूत् । हिमवत्प्राप्तिद्वारेणेत्यर्थात् सिध्यति । स्त्रीजन्मनि स्त्री- णामेव प्राधान्याच्छैलवधू प्रपेद इत्युक्तम् । पितुरवमानेन शरीरत्यागाय प्रेरिता योगामिना निर्दग्धशरीरा भवन्ती सतीदेवी स्वजन्मलाभाय लोकोत्तरगुण- विशिष्टां मेनां प्राप्तवतीत्यर्थः । अनेन स्वेच्छयैव देव्याः शरीरपरित्यागस्वी- काराविति दर्शितम् । "पुरा किल पुराराताववमानं प्रकाशयन् । अनाहूयैव तं देवं देवानन्यानुपानयत् ॥ मोहान्धो यज्ञमारेभे दक्षो दाक्षायणी तदा । अनाहूता स्वपित्रापि प्रतिषिद्धापि शम्भुना ॥ जगाम स्वपितुर्गेहं यज्ञदर्शनलालसा । अनाहतापि पित्रा सा दृष्ट्वा च सकलाः क्रियाः ॥ १. 'याः स्वे' क. ख. ग. घ. पाठः. २. 'तं भवति । पि' ख. पाठः.

प्रथमः सर्गः। रुद्रमामविनिर्मुक्ताः कोपेनापाटलेक्षणा । सत्याज योगमास्थाय दक्षेणोत्पादितं वपुः ॥" इति श्रीभागवतादिप्रसिद्धायाः कथायाः सङ्घयः ॥२०॥ सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या । सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन सम्पद् ॥ २१॥ (प्रकाशिका) सेति । समाधिमत्यां तपस्विन्याम् । वक्ष्यति च 'अलं समा- धिना' (५. ४५) इति । कथमन्यथा परमेश्वरीजन्माधिकरणतेति भावः। उदपादि अजनि । कर्मण्ययं प्रयोगः । उत्पत्तिश्चात्र- "सुराणां कार्यसिद्धयर्थमाविर्भवति सा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ इति न्यायेन द्रष्टव्या। भव्या कल्याणी । अपरिक्षतायाम् अविहतायाम् । नीतौ सन्ध्यादिप्रयोगे । उत्साहस्य गुणेनासंमोहाध्यवसायादिस्वकारण- सामग्रीलक्षणेन । कर्मधारयपक्षे गुणशब्दो गतार्थः। अत्रोपमायामधि- करणयोर्विशेषणे बिम्बप्रतिबिम्बभावेन स्थिते । भव्येति तु कर्मणोः सा- धारणम् । उपमया च तल्लाभेन मेनाहिमवतोः कृतार्थता घोत्यते ॥२१॥ (विवरणम्) - अथ देव्या उत्पत्ति वर्णयति- - सेति । साभूधराणाम् अधिपेन समाधिमत्यां तस्याम् उदपादि । सा दाक्षायणी भूधराणां पर्वतानाम् अधिपेन श्रेष्ठेन हिमवता समाधिमत्यां समा- विस्तपः । वक्ष्यति च- १. 'कारिते' क. पाठः कुमारसम्भवे -- "दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विच्छति मृग्यते हि तेद् ॥” (५.४५) इति । तद्वत्यां तपस्विन्यामित्यर्थः । अनेन परमेश्वरीजन्माधिकरणत्वयोग्यता दर्शिता । तस्यां मेनायाम् उदपादि । कर्मण्ययं प्रयोगः ।गर्भसंस्कारादिपुरस्सरं जनिताभूदित्यर्थः । उत्पत्तिश्चात्र नित्याया भगवत्या देवकार्यसिद्धयर्थ स्वे- च्छया शरीरस्वीकार एव । तदुक्तं देवीमाहात्म्ये- "देवानां कार्यसिद्धयर्थमाविर्भवति सा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥" इति । अत्र तारकासुरनिग्रहार्थं कुमारोत्पादनं देवकार्यमित्यवसेयम् । अत्रोप- मामाह- सम्यक्प्रयोगाद् अपरिक्षतायां नीतौ उत्साहगुणेन संपद् इवेति । अत्र प्रयोगस्य सम्यक्त्वं नाम परात्मनोः प्राबल्यदौर्बल्यादिविवेकपूर्वकत्वम् । यथोक्तं रघुवंशे "परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावभि*विशिष्टश्चेत् परस्मादास्त सोऽन्यथा ॥"(१७.५९) इति । सम्यक्प्रयोगाद्धेतोरपरिक्षतायाम् अविहतायां नीतौ सन्ध्यादिप्रयोगे । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयभेदेन षड़िधा या राजनीतिः, सा तत्तदुचिते प्रयुक्ता सती न विहन्यते इति तादृश्यां नीत्यामित्यर्थः । उत्साहगुणेन उत्साहस्य गुणेन । तस्य गुणश्च सम्मोहाभावादिरूपः । असम्मोहसावधानत्वादिलक्ष- णगुणसामग्रीसहितेनोत्साहेनेत्यर्थः । उत्साह एव गुण उत्साहगुण इति क- भधारयसमासस्तु गुणशब्दस्य निरुपयोगत्वप्रसङ्गादयुक्तः । सम्पत् समृद्धि- रिव । यथा सम्यक्प्रयोगादपरिक्षतायां नीतावुत्साहगुणेन सम्पदुत्पाद्यते, तथा समाधिमत्यां मनायां भूधराणामधिपेन देवी समुत्पादिताभूदित्यर्थः । अत्र समाधिमत्यामिति मेनाविशेषणं सम्यक्प्रयोगादपरिक्षतायामिति नीति- विशेषणं च परस्परं बिम्बप्रतिबिम्बभावमनुभवतः । देवीसम्पदोः साधारण १. 'जन्मभू' ङ. पाठः. २. 'य' ङ, पाठः. ३. 'ते । ता' क. ख. ग. पाठः, । * 'बलिष्ठ' इति मुद्रितरघुवंशपाटी .

प्रथमः सर्गः। ४३ विशेषणमाह-भव्येति । भव्या कल्याणी। उपमानोपमेयसाधारणधर्माणामिव- शब्दस्य चोपादानात् पूर्णोपमेयम् । तया चात्र देवीलाभेन मेनाया हिमवतश्च कृतकृत्यता घोत्यते ॥ २१ ॥ प्रसन्नदिक पांसुविविक्तवातं शरुखस्वनानन्तरपुष्पवृष्टि। शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥ २२ ।। (प्रकाशिका) प्रसन्नदिगिति । विविक्तो रहितः । शङ्कस्वनति । उत्सवशङ्ख- स्वनं श्रुत्वा देवैर्भक्त्या कृतपुष्पवर्षमित्यर्थः । 'भवो हि लोकाभ्युदयाय तादृशाम्' (रघु. ३. १४) इतिवन्नात्रोपपादनं, तजन्मेतिविशेषणबलादेव तदनपेक्षत्वात्। या सर्वस्यात्मभूता, सा हि भगवती जन्मावलम्बते ॥२२॥ (विवरणम् ) इन्थमुत्पनाया देव्या जन्मदिनं वर्णयति- प्रस- प्रसनेति । तजन्मदिनं स्थावरजङ्गमानां शरीरिणां सुखाग बभूव । तजन्मदिनं तस्याः भगवत्याः जन्मदिनं जननदिवसः स्थावरजङ्गमानां स्थाव- राणां महीरुहमहीधरप्रभृतीनां जङ्गमानां जरायुजाण्डजस्वेदजभेदेन त्रिवि- धानां नरतिर्यगादीनां च शरीरिणां सुखायाभूत् । सुखकारणान्याह नदिगित्यादिना विशेषणत्रयेण । प्रसन्नाः क्ररातपमेघावरणराहित्यान्मनो- हरा दिशो यस्मिंस्तत् । अनेन नेत्रसुखमुक्तम् । त्वगिन्द्रियसुखमाह पांसुविविक्तवातमिति । मन्दत्वात् पांसुभी रजोभिः विविक्ताः विरहिताः वाता वायवो यस्मिंस्तत् । श्रोत्रेन्द्रियस्य प्राणेन्द्रियस्य च प्रीतिमाह शङ्खस्वनानन्तरपुष्पवृष्टीति । शङ्खस्वनस्य शङ्खनादस्यानन्तरं पुष्पवृष्टिः पुष्पवर्ष · यस्मिंस्तत् । उत्सवशङ्खस्वनश्रवणानन्तरं भक्त्या दैवैः पुष्प- १. 'गण्डजानां ख. ग. पाठ:.

- कुमारसम्भव वृष्टिः कृतेत्यवसेयम् । अथवा आदौ देवैर्मङ्गलार्थः शङ्खनादः कृतः । पुष: प्रसादातिशयात् पुष्पवृष्टिरपि कृतेत्यर्थः । आकाशदेशाद् दिव्यकुसुमेषु पतलु कि- मिदमित्यूर्ध्वमवलोकयतां जनानामास्ये दिव्यमकरन्दविन्दुपतमाजिहेन्द्रियस्या- पि प्रीतिरर्थादनेनैवोक्तेति माधवः । स्थावराणां तु पत्रपुष्पफलादीनां साति- शयोत्पत्तिदर्शनेन सुखं जातमित्यवंसेयम् । उक्तञ्च श्रीकृष्णविलासे- "तद्वंशनालच्युतमच्युतस्य गीतामृतं साधु निषेव्य वृक्षाः । चिरं जराजर्जरितत्वचोऽपि बाला इवासन् नवपल्लवाढ्याः॥" इति। अत्र स्थावरजङ्गमानामिति बहुवचनेन हिमवतीत्यादिविशेषानुपादानाच तजन्माजानतामपि कोऽप्यानन्दातिशयः सञ्जात इत्युक्तं भवति । नात्र कश्चिद् विस्मयः, सर्वात्मिकापि भगवती जन्मावलम्बत इति समर्थनस्य तअन्म- दिनमित्यनेनैवोक्तत्वादत्र 'भवो हि लोकाभ्युदयाय तादृशाम्' (३. १४) इत्यनेन रघुवंश इवार्थान्तरन्यासो न कृत इत्यवसेयम् ॥ २२ ॥ तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशे। विदूरभूमिर्नवमेघशब्दा- दुन्निया रत्नशलाकयेव ।। २३ ॥ (प्रकाशिका) तयेति । विदूरो नाम पर्वतः। मेघशब्दाद् वैदूर्यमुत्पयत इति प्रसिद्धम् । यथाह माघकविः "उरगेन्द्रमूर्धरुहरनसमिधेर्मुहुरुन्नतस्य रसितैः पयोमुचः । अभवन् यदङ्गणभुवः समुल्लसनववालवायजमणिस्थलाकुराः ।।" (१३. ५८) इति ॥ २३॥ -nimRA- १. 'नुमेय' घ. पाः मधमः सर्गः। (विवरणम्) जातमात्राया देव्या नैसर्गिको शरीरसुषमामाह- - तयेति । सवित्री तया दुहित्रा सुतरां चकाशे । सवित्री माता तया दुहिता पुत्र्या सुतराम् अत्यर्थं चकाशे शोभते स्म । जातमात्रायामेव देव्यांमा- सुः पूर्वावस्थातः शोभाधिक्यं जातमित्यर्थः । अत्रोपमामाह --विदूरभूमिः नवमेषशब्दाद् उद्भिन्नया रत्नशलाकयेवेति । विदूरभूमिः विदूरो नाम रत्नोद्भ- वस्थानभूतः पर्वतविशेषः, यदुद्भूतं रत्नं वैदूर्यमित्युच्यते । तत्स्था भूमिः स्थली नवमेघशब्दाद् नवाद वर्षादावुभृताद् मेघशब्दाद धनगर्जिताद् उद्भिन्न- या स्थली भित्त्वोद्गतया रत्नशलाकया शलाकारूपेण रत्नेन, रत्ना कुरणेत्यर्थः । विदूरभूमेमेघशब्दाद् वैदूर्योत्पत्तिः । यदाह भोजः "अस्ति शैलो विदूराख्यः पर्यन्ते तत्र काचन । मही रत्नाकरीभूता वैदयं तत्र जायते ॥ मेघशन्देन जायन्ते तत्र रत्ननवाकुराः । क्रमात् परिणतास्ते स्युर्मणयो राजपूजिताः ॥" इति । उपमानोपमेययोः साधारणं धर्ममाह स्फुरत्प्रभामण्डलयेति । स्फु- रत् शोभमानं प्रभामण्डलं मण्डलाकारा प्रभा यस्यां सा तथा। "अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशान्तदीपाः सहसा हतविपो र भूवुरालेख्यसमर्पिता इव ॥” (३.१५) इति रघुवंशोक्तः प्रकारोऽनेन दर्शितः ॥ २३ ॥ दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव रेखा। पुपोष लावण्यमयान् विशेषा- ज्योत्लान्तराणीव कलान्तराणि ॥२४॥ नवमेघ' क. ख. ग. पाठः, -- १ कुमारसम्भधे (प्रकाशिका) दिने दिन इति । लब्ध उदयः सूर्यात् पृथगुपलम्भो यया प्रतिपदि । लावण्यमयान् लावण्योत्तरान् । लावण्यं हि नामावयवसं- स्थानाभिव्यङ्गय निखिलावयवव्यतिरिक्तं किञ्चिदेव तत्त्वान्तरमिति ध्व- निकारः। विशेषान अवयवान् । 'विशेषोऽवयवे व्यक्तौ पुण्ये शेषविवर्जिते' इत्युत्पलमालायाम् । ज्योत्स्नया अन्तरं व्यवधानं येषामिति विग्रहः । कलान्तराणि कलाविशेषान् । अत्र हलायुधः- "मध्ये वस्त्रे तथा छिद्रे व्यवधानेऽन्तरात्मनि । अवकांशे बहिर्योगे विशेषेऽवयवेऽन्तरम् ॥ इति । दक्षिणावर्तः मयटोऽन्तरशब्दस्य चावयवार्थत्वं तु युक्तम् (१) । नन्वत्रैकेनैवैवशब्देन किं न चरितार्थत्वम् , न , प्रतिपदार्थमुपमितिविव- क्षणात् । वाक्यार्थोपमाव्यवहारस्त्वीदृशे विपये, वाक्यार्थव्यापित्वात् । ज्योत्स्नालावण्ययोस्तु वृत्त्यन्तर्भावान्नेवशब्दस्तद्विषयः । अर्थतस्तूपमितिः । तदेवमन्वयः- लब्धोदया चान्द्रमसी रेखेव दिने दिने परिवर्धमाना सा ज्योत्स्नान्तराणि फलान्तराणीव लावण्यमयान् विशेषान् पुपोषेति ॥२४॥ (विवरणम्) उत्पन्नाया देव्याः शरीरपरिपोपानुरूप लावण्यवृद्धिमाह- दिने दिन इति । लब्धोदया चान्द्रमसी रखेव दिने दिने परिवर्धमा- ना सा ज्योत्लान्तराणि कलान्तराणीव लावण्यमयान् विशेषान् पुपोष । लब्धोदया लब्ध उदय आविर्भावः सूर्यात् पृथग्भावश्च यया। अमावास्यायां सूर्य प्रविष्टस्येन्दोः पूर्वपक्षारम्भे यस्तस्मात् पृथग्भावः, स एवोदयशब्देनोच्यते । यथोक्तं ज्योतिःशास्त्रे , - - १. 'दि'. पाठः, २. 'साने व ख. पाठ:.

प्रथमः सर्गः। "भानोः समासन्नतया ग्रहाणामदर्शनं यत् तदिहास्तमुक्तम् । ततश्च तेषां रविदूरगत्या यद् दर्शनं स्यादुदयं तदाहुः ॥" इति । चान्द्रमसी चन्द्रमःसम्बन्धिनी। 'हिमांशुश्चन्द्रमाश्चन्द्र' इत्यमरः । रेखा कलेव, प्रतिपच्चन्द्रकलेवेत्यर्थः । दिने दिने अहन्यहनि परिवर्धमाना वर्धन- मुपयान्ती सा पार्वती ज्योत्स्नान्तराणि ज्योत्स्नया चन्द्रिकया अन्तरं व्यव- धानम् आच्छादनं येषां तानि, ज्योत्स्नामयानीत्यर्थः । कलान्तराणि कलारू- पानवयवानिव । "मध्ये वस्त्रे तथा छिदे व्यवधानेऽन्तरात्मनि । अवकाशे बहिोंगे विशेषेऽवयवेऽन्तरम् ॥" इति हलायुधः । लावण्यमयान् लावण्योत्तरान् । प्राचुर्यार्थ मयट् । विशेषान् अवयवान् । 'विशेषोऽवयवे व्यक्तौ' इत्युत्पलमाला । पुपोष प्राप । यथा पूर्वप- क्षप्रतिपदुदिता शशिकला प्रतिदिनमधिकाधिकज्योत्सान् कलारूपानवयवान् प्राप्नोति, तथेयमपि जन्मलाभानन्तरमनुदिनं लावण्यप्रचुरानवयवानुपलेभ इत्यर्थः । अवयवसंस्थानविशेषाभिव्यङ्गचं निखिलावयवेभ्यो व्यतिरिक्तं यत्कि- ञ्चित् तत्त्वान्तरं लावण्यमिति ध्वनिकारः । अत्र प्रतिपदार्थमुपमितेर्विवक्षणा- दिवशब्दद्वयोपादानमिति द्रष्टव्यम् । ज्योत्मालावण्ययोस्तूपमानोपमेयभावे सत्यपि तयोः समासान्तर्भावात् तत्रेवशब्दो न प्रयुक्तः ॥ २४ ॥ तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुवी जगाम ॥ २५ ॥ (प्रकाशिका) तां पार्वतीति । आभिजनेनाभिजननिमित्तेन । जुहाव आकारित- कुमारसम्भवे वान् । उ इति तपोवाचकमव्ययम् । मा निषेधे। तपसे मा भवेति निषि- देत्यर्थः ॥२५॥ (विवरणम् ) नामकरणप्रकारमाह- - तामिति । बन्धुजनः ताम् आभिजनेन नाना पार्वतीति जुहाव । बन्धुजनः महामेरुप्रभृतयो बन्धवः तां गौरीम् आभिजनेन अभिजन आभि- जात्यं तन्निमित्तम् आभिजनम् आभिजात्यनिमित्तेन नाम्नेत्यर्थः । जुहाव ह्वेनस्पर्धा- यांशब्दे च'इत्यस्माद्धातोलिटि रूपम् । धातूनामुपसर्गेण येऽर्थाः प्रतीयन्ते ते सर्वे- ऽपि तेषां स्वार्था एव । उपसर्गाणां पुनरभिव्यञ्जकत्वम् । यदाह माघः- धातु- लीनमुपसर्ग इवार्थम् (१०.१५) इति । तस्माद् युक्त एवात्रोपसर्गेण विनापि प्रयोगः। देवतात्मकत्वादभिजनसम्पन्नस्य पर्वतस्यापत्यमिति व्युत्पत्त्या बन्धव- स्तां पार्वतीत्याहृतवन्त इत्यर्थः । बन्धुजनस्य तद्विषयां प्रीतिमाह - बन्धुप्रिया- मिति । बन्धूनां प्रियामिष्टाम् । अनेनाहाने तेपामादरातिशयो द्योत्यते । एवं नामान्तराण्यपि सञ्जातानीति दर्शयन्नाह - सुमुखी मात्रा उ मा इति तपसः निपिद्धा पश्चाद उमाख्यां जगाम । शोभनं मुखं यस्याः सा सुमुखी । अनेन स्मितपूर्वभाषित्वादिरूपो महागुणो दर्शितः । मात्रा मेनया उशब्दस्तपोवाच- कमव्ययम् । 'उ तापेऽव्ययमीशे ना' इति यादवः । माशब्दो निषेधवाचक- मव्ययम् । 'मास्म मालं च वारण' इत्यमरः । तपो मा भवेदिति तपसः सकाशानिषिद्धा वारिता सती पश्चात् तपश्चरणारम्भकाले उमाख्याम् उमेत्या- ख्यां च जगाम प्राप्तवती। मृदुशरीरा कठिनतरं तपः कर्तुकामा रोगभीतया जनन्या 'मनीषितायार्च' (५. ४) इत्यादिवक्ष्यमाणप्रकारेण तपसः सका- शानिषिद्धा सती सा पश्चाद्धमेति नाम च जगामेत्यर्थः । एवं देव्या गुणकर्मा- वरूपाणि नामान्तराण्यपि बभूवुरिति भावः ॥ २५॥ wom १. 'भान्धवाः सा ख. पाठः, २. 'नस्य क. ख. ग. पाठः प्रथमः सर्गः। महीभृतः पुत्रवतोऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते हिरेफमाला सविशेषसङ्गा ॥ २६ ॥ (प्रकाशिका) महीभृत इति । अत्र पर्यायप्रक्रमभङ्गदोषं पश्यन् काव्यप्रकाशक- दुक्तवान्– अपत्यवतोपीति युक्तम् । अत्र सत्यपि पुढे कन्यारूपेऽपत्ये सस्नेहोऽभूदिति केचित् समर्थयन्तै इति। तस्य चान्यदीयं समर्थनमपि नानु- मतम् । अनुमतत्वे पाठान्तरं न दद्यात् । दत्त्वा वा यद्वत्यादि विकल्पवा- चि पदमनन्तरवाक्ये प्रयुञ्जीत । न च केचिदित्येकीयमतत्वेन निर्दिशेत् । युक्तं चैतत् । तथाहि प्रतिवस्त्वलकारे दृष्टान्तदान्तिकयोर्वाक्यार्थ- योबिम्बप्रतिबिम्बभावेन भाव्यम् । अन्यथा तद्भावासंभवात् तदसम्भवे च भवत्येकवाक्यता न स्यात् । एवं स्थितेत्र दृष्टान्ते पुष्पशब्देन सामा- न्यवाचिनोपक्रमे चूतशब्देन विशेषवाचिनोपसंहारः । दार्शन्तिके पुत्रश- ब्देन विशेषवाचिनोपक्रमे अपत्यशब्दन सामान्यवाचिनोपसंहारः, सर्व- नामवशाद्वा विशेषान्तरवाचिनोपसंहारः। ततश्च न बिम्बप्रतिबिम्बभाव इति । ननु "आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॥" इत्यमरसिंहवचनाद् विशेषवाचिनः पुत्रशब्दस्य कथमपत्यपर्यायत्वम्। भिन्न- व्युत्पत्तिनिमित्तयोः प्रवृत्तिनिमित्तैक्ये हि पर्यायत्वम् । नैवम् । सामान्य- बाच्यपि पुत्रशब्दोस्ति । तथाश्वलायनगृह्य दर्शनाद् 'यदि कामयते पुमांस १. भेददो' ख. पाठः. २. 'पेऽप्यप' ख. पाटः. ३. 'न्ति' स्व. पाठः, ४. 'य' ख. पाठ.. ५. 'वाक्यक ख. पाठ:: ६. 'येते पुख. पाठः, कुमारसम्भवे. एव मे पुत्रा. जायेरनिति । एवञ्च सामान्यविशेषरूपोभयार्थवाचिनः पुत्रशब्दस्य सामान्यार्थत्वे पर्यायपक्रमभङ्गः । तत्परिहाराय तु विशेषार्थ- त्वे वाक्यार्थयोरनन्वयः । तत्रानन्वयात् पर्यायप्रक्रमभेदो वरम् । तदपेक्ष- याल्पदोषत्वात् । महाकविप्रयोगे चासंभावनीयस्तादृशो वाक्यार्थदोषः । न हि मन्दचक्षुरपि पुरःस्थं द्विरदेवरं न पश्येत् , किमुत चक्षुष्मान् । अन- यैव खलु युक्त्या व्यक्तिविवेककाव्यप्रकाशकारी महामती प्रक्रमभेदमेवाङ्गी. चक्रतुः ॥ २६ ॥ (विवरणम् ) पितुस्तस्यां स्नेहातिशयमाह- महीभृत इति । महीभृतः दृष्टिः तस्मिन् अपत्ये तृप्तिं न जगाम । महीभृतो हिमवतः दृष्टिर्नेबद्वयी तस्मिन् पार्वतीरूपे अपत्ये । आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॥" इत्यमरः । तृप्तिम् अलम्भावं न जगाम न प्राप्ताभूत् । हिमवतो दृष्टिः पा- त्यामेव सस्पृहं सक्ताभूदित्यर्थः । ननु किमपत्यान्तरराहित्यं तत्र हेतुः, नेत्याह पुत्रवतोऽपीति । स्त्रीरूपे पुरुषरूपे चापत्यान्तरे सत्यपीत्यर्थः । तत्र स्त्रीरूपमपत्यान्तरं गङ्गा । तदुक्तं श्रीकृष्णविलासे "अधीशितुः सानुमताममुष्य कः स्तोतुमीष्टे कमलाक्ष! कन्ये। ययोः स देवः स्मरशत्रुरेकां धत्ते जटायामपरां शरीरे ॥" इति । सामान्यवाच्यपि पुत्रशब्दोऽस्ति । तदुक्तमाश्वलायनगृह्ये 'यदि कामयते पुमांस एव मे पुत्रा जायेरन्' (१. ७. ३) इति । अत्र प्रति- वस्तूपमामाह ----अनन्तपुष्पस्य मधोः द्विरेफमाला चूते सविशेषसङ्गा हीति । PAR-4-- roman १॥ दन' ख. पाठा.

प्रथमः सर्गः। अनन्तानि निरवधिकानि पुष्पाणि कमलादीनि यस्य, तस्य मधोर्वसन्तस्य द्विरेफमाला भ्रमरसन्ततिः चूते सहकारकुसुमे सविशेषसङ्गा सविशेष विशे- -पसहितं यथा भवति तथा सङ्गः सक्तिर्यस्याः सा तथा । हिशब्दः प्रसिद्धौ । उक्तश्च रघुवंशे 'न हि प्रफुलं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदा- ली' (६. ६९) इति । अत्र महीभृद्वसन्तौ दृष्टिद्विरेफमाले पुत्रान्तरपुष्पा- न्तराणि पार्वतीरूपापत्यचूतकुसुमे च परस्परं बिम्बप्रतिबिम्बभावमनुभवन्ति । अत एव पुत्रशब्दः 'आत्मजस्तनयः सूनुरि'त्याधमरसिंहवचनमतिक्रम्याश्वलाय- नमतेन सामान्यवाचित्वेन व्याख्यातः । अन्यथा सामान्यवाचिनः पुष्पशब्द- स्यैतत्प्रतिबिम्बत्वाभावप्रसङ्गात् । बिम्बप्रतिबिम्बभावाभावे च प्रतिवस्तुत्व- मपि विरुध्यत एव । प्रतिवस्तुलाभावे पुनरेकवाक्यता न स्यादित्यलमनेन । यत् पुनरत्र पुत्रवतोऽपीत्युपक्रम्य पर्यायान्तरणापत्यशब्देनोपसंहार इति पर्याय- प्रक्रमभेददोष इति, तत्तु महाकविप्रयोगस्य महनीयगुणांन्तरास्पदत्वात् सहनी- यम् । यत्तु पर्यायप्रक्रमभेदभयाद् महीभृतोऽपत्यवतोऽपीति पाठान्तरं दत्तं, तदपि तादृशगुणाभावादेवोपेक्षणीयम् । अत्रात्यासङ्गः साधारणो धर्मः शब्द- भेदेन वाक्यद्वयेऽप्युपात्त इति प्रतिवस्तूपमालङ्कारः । वाक्यार्थगतत्वेन सामा- म्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तूपमेति । नात्रार्थान्तरन्यासत्वं शङ्कनी- यं, सामान्यविशेषभावाभावात् । नापि दृप्रान्तालङ्कारत्वं, साधारणधर्मस्यापि बिम्बप्रतिबिम्बभावाभावात् ॥ २६ ॥ प्रभामहत्या शिखयेव दीप- स्त्रिमार्गयेव त्रिदिवस्य मार्गः। संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ २७॥ (प्रकाशिका) प्रभेति । दीपो नाम स्निग्धवादिगतो वह्निः । शिखा तु तस्य १. 'मास्क' क. ख. ग. पाठ:.

कुमारसम्भवे क्षणनवरोऽवयवासरः । त्रिदिवस्य मार्ग आकाशः । संस्कारवत्या लक्षणानुसारिण्या । दीपस्य पूतत्वमवतमसमेलनाभावः। आकाशस्य तच्छीकरादिसम्पर्कात् तत्रत्यानां दुरितक्षयः । मनीषिणः पुण्यला- भः। तदुक्तम्-'एकः शब्दः सम्यग् ज्ञातः सुष्टु प्रयुक्तः स्वर्ग लोके काम- धुम् भवतीति । महीभृतस्त्वनुग्रहोन्मुखया तया मलमायाकर्मतत्कार्याणां दग्धप्रायता । विभूषितत्वं तु सर्वत्र जनितशोभत्वम् । अत्र व्यङ्गयेनापि केनचित् साधारणधर्मेण प्रत्युपमानं भिन्नावश्यं भवितव्यमिति केचिन्म- न्वते । न तदलङ्कारकृतामनुमतम् । अनुमतं चेन्मालोपमाप्रस्तावेऽभिदध्युः। ते तु प्रत्युतास्या अभिन्नभिन्नधर्मत्वेन द्वैविध्यमूचुः । "अधनस्येव दातृत्वं क्लीवस्येवास्त्रकौशलम् । अज्ञस्येव प्रगल्भत्वमकवेः शास्त्रवेदनम् ।।" इत्यत्र त्वश्रूयमाणत्वात् साधारणधर्मस्याक्षेपे कर्तव्ये औचित्यादनेक आति- प्यते, न तु व्यज्यते । यत्र तु महाकविषयोगे कचिद् व्यङ्गयेनापि भूयेन तत्राधिकं चारुत्वमस्तु। न त्वेतावता तनियमः । न चैकस्मिन्नुपमान उपात्ते उपमानान्तरवैयर्थ्यशङ्कयो व्यङ्गयधर्मभेदो मृग्यः । उपमानान्त- रस्य सौन्दर्यातिशयहेतुत्वात् । यथालङ्कारान्तरस्य चन्द्र इव वदनकमल- मस्या इति ॥२७॥ (विवरणम्) अथानुग्रहोन्मुखया भगवत्या हिमाचलस्य मायातकार्याणां दग्धप्रायत्वं जनितशो- भत्वं चाह- प्रभेति । सः तया पूतश्च विभूषितश्च । सः हिमवान् तया निजानुग्रहा- र्थमेव निजपुत्रीत्वमनुभवन्त्या देव्या पूतः संसारप्रवर्तकाज्ञानविनाशनवशाद्वि- 'मि' ख. पाठः. २. 'यते ख. पाठ.. ३. 'या' ख. पाठः, प्रथमः सर्गः। " शुद्धान्तःकरणः विभूषितः इतस्ततः सञ्चरन्त्या तया जनितशोभश्र बभूवेति शेषः । अत्रोपमात्रयमाह -प्रभेत्यादि । दीपः प्रभामहत्या शिखयेव । स्त्रि- ग्धवादिद्रव्यवर्ती वहिर्दीप इत्युच्यते । प्रदीपात् प्रतिक्षणमुद्गच्छन्नालो- कप्रसरः शिखेत्युच्यते । प्रभया शोभया महती प्रभामहती । यथा दीपः प्रभामहत्या शिखया पूतश्च विभूषितश्च भवति, तथायमपि तये- त्यर्थः । शिखया दीपस्य पूतत्वं तमोनभिभवनीयत्वं, विभूषितत्वं तु स्पष्टमेव । अनेनोपमानेन लोकान्तरेऽप्यज्ञानाभिभवो न भविष्यतीति द्योत्यते । उपमानान्तरमाह-त्रिदिवस्य मार्गः त्रिमार्गया इव । त्रिदिवस्य मार्ग आका- शः । पातालभूतलाकाशवाहिनीत्वात् त्रयो मार्गा यस्याः सा त्रिमार्गा गङ्गा । आकाशस्य गङ्गया पूतत्वं तच्छीकरादिसम्पर्कात् तत्रत्यानां दुरितनिवृत्तिः । विभूषितत्वं दर्शनीयत्वम् । अनेनोपमानेन हिमवतः समीपवर्तिनामपि जनानां शुद्धिर्दर्शिता । उपमानान्तरमप्याह- मनीषी संस्कारवत्या गिरेवेति । मनी- षी विद्वान् संस्कारवत्या व्याकरणादिलक्षणानुसारिण्या गिरा वाचेव । अत्र मनीषिणः पूतत्वं सुकृतलाभः । तदुक्तं “यस्तु प्रयुक्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥" इति । विभूषितत्वं जनबहुमानास्पदत्वम् । अनेनोपमानेन हिमवतः पति- पावनत्वं द्योत्यते । अत्र मनुः "यश्च न्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पतिपावनपावनौ ॥" इति ॥ २७॥ मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसान्निर्विशतीव बाल्यम् ॥ २८ ॥ - १. 'सं नि', २. 'ल्ये' इति मुद्रितकोशपाठः, कुमारसम्भवे (प्रकाशिका) मन्दाकिनीति । क्रीडारसादिति पाठः । निर्विशतीति हेत्वर्थे शता। यथा राजानमाराधयन् धनं विन्देतेति । यथा क्रीडारसहेतुकम- स्या बाल्यग्रहणं तद्धेतुकं च रमणमित्युत्मेक्ष्यते, तथा सातिशयं रेम इत्यर्थः । ननु बाल्यग्रहणस्य रमणे हेतुखं नोत्प्रेक्ष्यं , वास्तवत्वात् । न । क्रीडारसहेतुकस्य तस्य तदसिद्धेः । लोकानुजिवृक्षया हि सर्वो व्यापारो भगवत्याः । तर्हि तदेवोत्प्रेक्ष्यं, न तु बाल्यग्रहणस्य रमणे हे- तुत्वमपि । नैवम् । वाल्यग्रहणस्यैवासिद्धायमानत्वात् । यथा विधिवाक्ये चारेण पश्यदित्यादौ प्रधानभूतदर्शनादिक्रियाभिनिर्वर्तकस्वक्रियाभिसंब- न्धाचारादेः साध्यायमानता, तथेहाप्यसिद्धक्रीडारसहेतुकत्वान्वयाद् बा- ल्यग्रहणस्यासिद्धायमानता । तत्र च यथा चारादेः करणत्वादिमात्रं विधेयं, तथात्र बाल्यग्रहणस्य हेतुत्वमात्रम् । यथा च प्रमाणान्तरंसिद्ध- त्वाद् दर्शनादेन विधेयत्वं, तथा प्रकृतत्वाद् रमणस्य नोत्प्रेक्ष्यत्वम्। न चा- नैकान्तिकः प्रकृतत्वहेतुः । प्रकृतस्य ह्यतिशयाधानाय तत्रामकृतमुत्प्रेक्ष्य- ते । प्रकृतं तु तस्य विषयत्वेनावतिष्ठते । तस्येहोत्प्रेक्ष्यत्वे मिथ्यात्वमन- लङ्कारत्वं च स्यात्। अलङ्कारान्तरेष्वप्ययं न्यायोऽनुसन्धेयः। तर्हि 'त्वन्मु- खमिव कमलमि'त्यत्र कथं प्रकृतस्योपमानत्वम् । न तत्रोपमानत्वं वास्त- वम् । इह तूत्प्रेक्ष्यत्वं वास्तवमेवेति विशेषः । एवञ्चोक्तन्यायेन रमण- स्याप्यसिद्धायमानत्वं स्यादिति चोद्यमपि परिहतम् । अथवा क्रीडारस- हेतुकत्वविशिष्टस्य बाल्यग्रहणस्यासिद्धत्वं, यथा 'कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इवे'त्यत्र कपालोन्मुक्तत्वविशिष्टस्याङ्करस्य । क्रीडा- रसमिति पाठे क्रीडया क्रीडारसेन रसो यत्रेति विग्रहेऽप्ययमेवार्थनि- वाहः ।। २८॥ * अत्रापि पाठे बाल्यशब्दस्य द्वितीयान्ततैव ।

प्रथमः सर्गः। ५५ (विवरणम् ) क्रमेण सम्पन्नबाल्यावस्थाया देव्याः क्रीडाप्रकारानाह- - मन्दाकिनीति । सा सखीनां मध्यगता मन्दाकिनीसैकतवेदिकाभिः कन्दुकैः कृत्रिमपुत्रकैश्च मुहुः रेमे । सा पार्वती सखीनां मध्ये मध्यभागं गता सती। अनेन सखीनां तद्दर्शनमात्रकौतुकं ध्वनितम् । मन्दाकिनीसैकत- वेदिकाभिः मन्दाकिन्या गङ्गायाः सैकते पुलिने । 'तोयोत्थितं तत् पुलिनं सैकतं सिकतामयमि'त्यमरः। या वेदिकाः कौतुकात् स्वेनैव रचिता इत्यर्थात् सिध्यति । ताभिः मन्दाकिनीतटे स्वेनैव रचितैः सिकतासन्निवेशमयैः मण्ड- पविशेषैरित्यर्थः । कन्दुकैः कन्दुकाघातैः कृत्रिमपुत्रकैः कृत्रिमैः करणनिवृत्तः पुत्रकैः । अल्पार्थे कः । बालपुत्रैः पुत्रत्वेन कल्पितैर्दारुविशेषैरित्यर्थः । मुहुः पुनःपुनः, अनवरतमित्यर्थः । भृशार्थे वा मुहुश्शब्दः । चकारोऽनु- तानामपि समुच्चयार्थः । अनुक्ताश्च तेऽर्था बालस्वभावादेवावसेयाः। रेमे चिक्रीड । 'रमु क्रीडायाम्' इति धातुः । इत्थं देव्याः सखीभिः सह सता विहितायां क्रीडायां हेतुमुत्प्रेक्षते-क्रीडारसाद् बाल्यं निर्विशतीति। क्रीडारसात् क्रीडायां यो रसः रागः, तस्माद्धेतोः बाल्यं बालभाव निर्विशती अनुभवन्ती सतीव । निर्विशतीति हेतौ शता। क्रीडारसादेव बाल्यमवलम्ब्यावस्थितत्वा- दिवेत्यर्थः । 'कृष्णमाराधयन्नपवर्ग लभत' इतिवत् । अत्रातिमहत्येवंविधे रमणे बाल्यानुभवरूपो हेतुरुत्प्रेक्ष्यते, बाल्यानुभवे च क्रीडारस इति विवेकः । यथा नित्याया भगवत्याः क्रीडारसहेतुकं बाल्यग्रहणं, बाल्यग्रहणहेतुकं च रमणमित्युत्प्रेक्ष्यते, तथा सातिशयं रेम इत्यर्थः । जगदुपकृतिमात्रव्यापाराया देव्या बाल्यग्रहणादिव लोकोत्तरं रमणमित्येकोत्प्रेक्षा, क्रीडारसादिव बाल्य- ग्रहणामित्यन्या ॥२८॥ तां हंसमालाः शरदीव गङ्गा महौषधि नक्तमिवात्मभासः।

कुमारसम्भवे स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥२९॥ (प्रकाशिका) तामिति । स्थिरो वासनारूपेण उपदेशः पूर्वजन्मकृतो यस्याः। उपदेश आचार्यैः कृतः, तस्य काले यौवनादर्वाचि वयसि । यदाह मुनिः 'पाग यौवनाद् युवतिरि'ति । न च विद्यासु स्त्रिया नाधिकारः। तस्यापि मुनिना समर्थितत्वात् । अत्र स्थिरोपदेशामिति उपदेशकाल इति च विद्या- विनयस्य स्वाभाविकः कृतकश्चेति यावंशावुक्तौ, तयोः प्रत्येक प्रतिवि- म्बनायोपमानद्वयं दत्तमित्यवसेयम् । आचार्याणामनतियत्नश्च द्योत्यते॥२९॥ (विवरणम्) अथ देव्या विद्याग्रहणप्रकारमाह- . तामिति । प्राक्तनजन्मविद्याः उपदेशकाले तां प्रपेदिरे। प्राक्तनजन्म- विद्याः प्राक्तने प्राचीने जन्मनि दक्षसुतात्वावस्थायां या विद्यास्ताः सर्वा अपि उपदेशकाले आचार्यैः क्रियमाणस्योपदेशस्य काले समये। स च यौवनोत्पत्तेः पूर्वकालः । यदाह मुनिः 'प्राग यौवनाद् युवतिरि'ति । विद्यां ग्राहयितव्येति शेषः । तां पार्वती प्रपेदिरे संप्रापुः । प्राक्तनजन्मविद्याः भाचार्योपदेशमात्रं निमित्तीकृत्य देवीं प्रतिपेदिर इत्यर्थः । तत्र हेतुमाह- स्थिरोपदेशामिति । स्थिराः वासनारूपेण पूर्वमेव वर्तमानाः उपदेशाः पूर्व- जन्मकृताः यस्यां, ताम् । अनेन स्वाभाविको विद्याविनय उक्तः, उपदेश- काल इत्यनेन कृतकः । द्विविधो विद्याविनयः । यदाह विष्णुगुप्तः- 'कृतकः स्वाभाविकच विनयः' (कौटि. अर्थ. १. ५. २) इति । तत्र कृतके विद्याविनये प्रथममुपमानं दर्शयति-हंसमालाः शरदि गङ्गामिवेति । हंस- मालाः हंसपतयः शरदि शरत्काले गङ्गामिव । हंसानां वर्षासु मानसे स्थितिः, -- प्रथमः सर्गः। पुनश्च शरदारम्भे स्वाभिमतेषु भागीरथीप्रदेशादिष्विति प्रसिद्धिः । स्वाभावि- के विद्याविनयेऽप्युपमानमाह आत्मभासः नक्तं महौषधिमिवेति । आत्म- भासः दिवसेषु सूर्यप्रभाभिभूता निजा एव भासः प्रभाः । नक्तमिति रात्रिवा- चकमव्ययम् । 'दोषा च नक्तं च रजनौ' इत्यमरः । महौषधि रात्रावुज्ज्वलं वृक्षविशेषमिव । यथा सूर्यप्रभाभिभूता निजा एव प्रभाः सूर्यप्रभातिरोभावे महौषधिं प्राप्नुवन्ति, तथा बाल्यादप्रकाशमाना वासनारूपेण पूर्वमपि विद्य- माना विद्यास्तामपीत्यर्थः । अत्रोपमाद्वयेनाचार्याणामनतिप्रयासो व्यज्यते॥२९॥ असंभृतं मण्डनमयष्टे- रनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्तमत्रं बाल्यात् परं माधवयः अपेदे ॥३०॥ (प्रकाशिका) असंभृतभिति । असंभृतमसंपादितं मण्डनमलक्रियासाधनम् । अनासवाख्यं आसवत्वशून्यमित्यर्थः। अस्त्रं जयसाधनम् । अथानन्तरं, कालक्रमेणेत्यर्थः। अत्र संभृतत्वादिसण्डनादेः प्रसिद्धो हेतुावर्त्यते, हेत्वन्तरं च स्तनोद्भेदधातूपचयलावण्यलक्ष्मीलाभादिर्विभाव्यत इति विभावनात्रालङ्कार इति भानः। कश्चित् तु विभावनायाममुं श्लोकमुदा- हत्य 'अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावे- ऽपि यौवनहेतुकत्वेनोपनिबन्धः कृत' इति योजनां कृत्वा 'असंभृत मण्डनमिति कामस्य पुष्पव्यतिरिक्तमस्त्रमिति चात्र विवदन्ते----इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं च प्रत्यकारणत्वाद् वार्तमेतद्' इति पादद्वये विभावनां निराकृतवान् । तत्र च रूपकमुत्कट- त्वेन प्रतीयते ॥ ३०॥ २. 'व्यर्थमेड. पाठः. 3 'तमात्रम' क. पाठः. १. 'का' ख.पाठ:. * वातै निस्सारम्।

कुमारसम्भवे - (विवरणम्) अथ यौवनावस्था वर्णयितुमुपक्रमते- असम्भृतमिति । अथ सा पाल्यात् परं वयः प्रपेदे । अथ विद्याग्रह- णानन्तरं, कालक्रमेणेत्यर्थः। सा यौवनारम्भात् पूर्वमपि लोकोत्तरशरीरलाव- ण्या पार्वती । अनेन शरीरसामान्यमपि यौवनारम्भे मनोहरं भवति, किं पुनः शरीरविशेष इति दर्शितम् । तेन च वक्ष्यमाणानां गुणानामुपपत्तिव॑न्यते । बाल्यात् परं वयः यौवनं प्रपेदे प्राप्तवती । कीदृशं पुनस्तदित्यत्राह अस- म्भृतमित्यादिना विशेषणत्रयेण । तत्रादौ नेत्रानन्दकरत्वमाह- अङ्गयष्टेः अस- म्भृतं मण्डनमिति । अङ्गयष्टेः प्रशस्ताङ्गस्य, 'हस्तयष्टिलतादयः प्रशंसावचना' इत्युक्तत्वात् । अत्राङ्गविशेषानुपादानादस्य सर्वाङ्गीणत्वमुक्तम् । असम्भृतम् असम्पादितं मण्डनम् अलक्रियासाधनम् । अप्रयाससाध्यं नयनानन्दजनक- मलङ्कारसाधनमित्यर्थः। शरीरशोभापादनद्वारा नयनानन्दकारित्वं मण्डनत्वरू- पणे हेतुः । दर्शनानन्तरभवस्य चित्तविकारस्यापि हेतुत्वमाह- मदस्य अना- सवाख्यं करणमिति । मदस्य अन्तःकरणविभ्रमस्य । 'सम्मोहानन्दसम्भेदो मदिरादिकृतो मदः' इति भोजः । अनासवाख्यम् आसवो मद्यम् । आसव इत्याख्या यस्य नास्ति तदनासवाख्यम् । करणं साधकतमम् । 'करणं साधक- तमे क्षेत्रगानेन्द्रियेष्वपि' इति सिंहः। आसर्वव्यतिरिक्तं मदकारणमित्यर्थः । अनेन मदकरेभ्यो द्रव्यान्तरेभ्यो व्यतिरेक उक्तः । मनोहरवस्तुदर्शनं मदकार णमित्युक्तं रघुवंशे 'अमदयन् सहकारलता मनः सकलिकाः कलिकामजि- तामपि' (९. ३३) इति, 'किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः' (९. २८) इति च । चित्तविकारानन्तरभवस्य कामविकारस्यापि हेतुत्वमाह-कामस्य पुष्पव्यतिरिक्तम् अस्त्रमिति । कामस्य मदनस्य पुष्पव्यतिरिक्तं पुष्पाद् व्यतिरिक्तं पुष्पादन्यत् पुष्पादत्यन्तो- स्कृष्टमिति च प्रतीयते । 'व्यतिरिक्तः समधिक' इत्यमरः । अस्त्रं १. 'मम् , आ' घ. पाठः. २. 'वत्वव्य' घ. पाठः.

प्रथमः सर्गः। ह - जयसाधनम् । अथास्यैव श्लोकस्यापरा व्याख्या बाल्यात् परं साथ वयः प्रपेदे इत्यत्र नार्थलाभः । यौवनस्य नैसर्गिक शरीरशोभाहेतुत्वमाह-अङ्गयष्टेरस- म्भृतं मण्डनमिति । अत्र यौवनस्य मण्डनत्वरूपणेन मण्डनवच्छोभाहेतुत्वमुक्तम् । तेन च देव्याः शरीरे तद्धेतुः कोऽपि शोभाविशेषो जात इति व्यज्यते । सविलासगमनादिनिदानभूतस्य मदस्यापि हेतुत्वमाह-मदस्य अनासवाख्यं करणमिति। यौवनस्य मदकारणत्वं प्रसिद्धम् । यथोक्तम् "उपदिशति कामि- नीनां यौवनभद एव ललितानि" इति । विशेषणद्वयेनोक्तस्यार्थस्य फलमा- कामस्य पुष्पव्यतिरिक्तमस्त्रमिति । मदनस्य त्रैलोक्यजयसाधनमित्य- थः । केचित् तु देवीजयस्यैव साधनमिति व्याचक्षते । अस्य श्लोकस्यालङ्कार- निर्णये भोजराजप्रभृतिभिरनेकधा विवादः कृतः। सर्वत्र विभावनेति मोजराजः। द्वितीयपाद एव विभावनेति मख़ुकः । वामनः पुनः 'एकगुणहानिकल्पनायां साम्यदाढवं विशेषोक्तिः' इति लक्षणमाश्रित्य विशेषोक्तिरलङ्कार इत्युक्त- वान् । यौवनस्य मण्डनन्वादिरूपणाद रूपकालझार एव स्फुटः। सव्यतिरे- कं चेदं रूपकमित्यस्मद्गुरोरुपदेशः ॥ ३० ॥ उन्मीलितं तूलिकयेव चित्रं सूर्याशुभिभिन्नमिवारविन्दम् । बभूव तस्याश्चतुरश्रशोभ वपुर्विभक्तं नवयौवनेन ॥ ३१ ॥ (प्रकाशिका) उन्मीलितमिति । उन्मीलितं स्फुटीकृतम् । तूलिकया चित्र- लेखनशलाकया । भित्रं विकासितम् । चतुरश्रा शोभा यस्य । च. तुरश्रशब्दोऽयं निरूढलक्षणया समग्रार्थः । चतुरश्रशोभीति पाठे चतु- १. 'मि' मुद्रितकोशपाठः. २. ':' ख. पाठः.

-- कुमारसम्भव रथ शोभितुं शीलमस्येति णिनिरिति वामनः । विभक्तं व्यक्तीकृत- स्तनजघनादिसंस्थानमित्यर्थः । तूलिकयोन्मीलितं चित्रभिव सूर्याशु- भित्रिमरविन्दमिव च नवयौवनेन विभक्तं तस्या वपुश्चतुरश्रशोभं व- भूवेत्यन्वयः । अत्रोन्मीलितभिन्नत्वे विभक्तत्वं च दृष्टान्तालङ्कारवदन्योन्य विम्वप्रतिविम्वभावेन स्थितानि यथास्वं धर्मिणि साधारणधर्मभूतस्य चतुरश्रशोभत्वस्य हेतवः । प्रथमेनोपमानेन सातिशयचमत्कारहेतुत्वं द्वितीयेन तु विशिष्टोपयोगयोग्यत्वं च वषुपः प्रत्याय्यते । नवशब्देन स्वापतित एवेशकार्यकारि यौवनं लब्धप्रतिष्ठत्वे किं किं न कुर्यादिति घोत्यते । ननु लिङ्गवचनकालभेददोषाः कथमत्र न स्युः । उच्यते । दुष्टताहेतोः साधारणधर्मभेदस्याभावादाद्ययोन कुष्टत्वम् । तृतीयस्तु कविप्र- भावेन निराक्रियते ॥ ३१ ॥ (विवरणम्) तादृशावस्थायास्तस्याः शरीरसुषमा धर्गयति- - उन्मीलितमिति । नवयौवनेन विभक्तं तस्या वपुस्तूलिकया उन्मी- लितं चित्रमिव सूर्यांशुभिभिन्नमरविन्दमिव चतुरश्रशोभं बभूव । नवयौवनेन नवेन यौवनेन । अत्र नवशब्देन यौवनमिदमारम्भावस्थायामेवैतादृशं कार्य चकार, लब्धप्रतिष्ठं पुनः किं किं न कुर्यादिति द्योत्यते । विभक्तं कृतवि- भाग, व्यक्तीकृतस्तनजघनाद्यवयवसंस्थानमित्यर्थः। तस्याः पार्वत्या वपुः श- रीरं तूलिकया चित्रलेखनशलाकया उन्मीलितं स्फुटीकृतं चित्रमिव । अनेनो- पमानेन सातिशयचमत्कारहेतुत्वं वपुषः प्रतिपादितम् । सूर्यांशुभिः सूर्यस्यां. शुभिः रश्मिभिः भिन्नं विकासितमरविन्दमिवै । अनेन विशिष्टोपयोगयोग्यत्वम् । चकारोऽध्याहार्यः । चतुरश्रशोभं चतुरश्रा समग्रा शोभा यस्य तत्तथा। चतुरश्र- शब्दोऽयं निरूढलक्षणया समग्रार्थवाचकः । सम्पूर्णशोभमित्यर्थः । बभूव सजा- १. 'त ए'ख, पाठः. २. 'बाहेन' ख. पाठः. ३. 'व च । अध, पाठः.

प्रथमः सर्गः। ६१ तम्। अत्र चतुरश्रशोभत्वम् उपमानद्वयस्योपमेयस्य च साधारणो धर्मः । अत्र तूलिकोन्मीलितत्वसूर्यांशुभिन्नत्वे यौवनविभक्तावयवत्वं च दृष्टान्तालङ्कारवत् परस्परं बिम्बप्रतिबिम्बभावमनुभवन्ति , साधारणधर्मभूतस्य चतुरश्रशोभत्वस्य हेतुभावमप्यनुभवन्ति ॥३१॥ अभ्युन्नताङ्गुष्ठनवप्रभाभि- विक्षेपणाद् रागमिवोद्गिरन्नो। आजहतुस्तच्चरणों पृथिव्यां स्थलारविन्दश्रियमध्यनस्था ॥ ३२ ॥ (प्रकाशिका अभ्युन्नतेति । “यस्या रक्तनखौ पादावुन्नतानी तलस्पृशौ । निगूढगुल्फी निचितौ सा म्यानृपतिसम्मतः ।।" इति सामुद्रिकवचनाद् अभ्युन्नतत्वविशेषणम् । स्त्रीनखानां रक्त मु- चितम् । तथा चास्यान्यः प्रयोगः 'अग्रे स्त्रीनखपाटलं कुरवकं श्याम यो गयोरिति । विक्षेपणात् सवेगप्रेरणात् , तज्जनिता खेदादित्य- थः। रागं लाक्षाम् । 'रागोऽनुरागे लाक्षायामिति यादवः । अव्यवस्था सञ्चारिणीम् । अतः सविशेषेयं निदर्शना। 'हस्ती हि जङ्गमं दुर्गमिति सविशेषरूपकवत् ॥ ३२ ॥ (विवरणम्) अथ पोडशभिः श्लोकैर्देव्या अवयवान् वर्णयनि ! तत्रादी अङ्गुष्ठयोः शोभातिशयं च- रणयोः शोभां चाह- अभ्युनतेति । तच्चरणौ स्थलारविन्दश्रियमाजहतुः । तच्चरणौ तस्या देव्याश्चरणौ पादारविन्दे स्थलारविन्दश्रियं स्थलारविन्दस्य स्थलपद्मस्य श्रीः शोभा या ताम् आजह्रतुराहृतवन्तौ । तत्र हेतुमुत्प्रेक्षते-पृथिव्यां विक्षेपणा- १. 'स्तिभिर्जा' . पाठः. २. 'तस्याः पादौ वर्णयति-अभ्यु'घ. पाठः, २ - कुमारसम्भवे दभ्युन्नताङ्गुष्ठनखप्रभाभी रागमुगिरन्ताविवेति । पृथिव्यां भूम्यां विक्षेपणात् पदविन्यासाद्धेतुना । अभ्युन्नताङ्गुष्ठनखप्रभाभिः अभ्युन्नतयोस्तलस्पर्शनसमये- ऽधिकमुन्नताग्रयोरिति यावत् । तयोरङ्गुष्ठयोयौँ नखौ तयोः प्रभाभिः करणभू- ताभिः रागं लाक्षाम् । 'रागोऽनुरागे लाक्षायाम्' इति यादवः । उगिरन्तौ उ- द्वमन्ताविव । पूर्वसेवितं लाक्षारसं स्वभावारुणैर्नखमयूखैरुद्वमन्ताविवेत्यर्थः । खेदाकुला हि पूर्वसेवितमुद्वमन्तीति भावः । तत्रा(जहार?हरण)हेतुं श्रीविशेष- णमाह----अव्यवस्थामिति । सञ्चारिणीमिति यावत् । अनेनारविन्दश्रीविशेष- णेन तन्नखश्रीः सर्वदैवेति द्योतितं , न तलस्पर्शनसमय एवेति भावः । अत्र नखमयूखानां रागातिशय उत्प्रेक्षाहेतुः । चरणाग्रस्याभ्युन्नतत्वं रक्तनखत्वं च महाभाग्यद्योतकम् । यथोक्तं सामुद्रिके- “यस्या रक्तनखौ पादावुन्नतायौ तलस्पृशौ । निगूढगुल्फो निचितौ सा स्यान्नृपतिसम्मता ॥" इति ॥ ३२॥ सा राजहंसैरिव सन्नतांसा गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशस्लुब्धै- रादित्सुभिर्नूपुरशिक्षितानि ॥ ३३ ॥ -- (प्रकाशिका) सा राजहंसैरिति। सत्रतांसेति राजहंससाम्यप्रतिपत्त्यर्थम् । ते हि तथा प्रसिद्धाःप्रयोगेषु, यथा- 'स्मर्तव्याः शिथिलांसहंसरुचयो गोदा- वरीवीचयः इति। यथा वा 'वक! यदि तथा वेत्सि किश्चिच्छ्यांसस्तूष्णी- मेवासितुमपि सखे! त्वं कथं मे न हंस'इति। अञ्चितः पूजितः विक्रमः पद- २. 'वः । अत्र' ग. घ. पाठः, १. 'थः । मृदुतया तलस्पर्शनखे' क. ख. पाठः. ३. 'तानी' मुद्रितकोशपाठः.

प्रथमः सर्गः। विन्यासः।इदं तदीयगतसाम्यसिद्धयर्थम् । अत्र देव्या गतेषु विषयभूतेषु राजहंसकर्तृकं विनयनं, तद्धेतुतया प्रत्युपदेशलोभः, तद्धेतुनया नूपुरशि- जितादित्सा चोप्रेक्ष्यते । तत्र च तद्गमनसंवादिनो देव्यास्तथाविधस्य गमनस्य, तन्नूपुरशिञ्जितसंवादिनस्तद्रुतस्य चोपलम्भो हेतुः । प्रत्युपदे- शश्वार्थादादित्सासमानविषयोऽवसेयः ॥ ३३ ॥ (विवरणम्) अथ चरणगतं सविलासगमनं वर्णयति - सेति । सा राजहंसैर्व्यनीयतेव । सा पार्वती राजहंसैहँसविशेषैः । "हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः । राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ॥" इति सिंहः । गतेषु गमनेषु व्यनीयत विनीताभूत् । पार्वती गमनविषये राजहंसैः शिक्षिताभूदिवेत्युत्प्रेक्षा । देव्यास्तादृशगमनशिक्षणे योग्यत्वमाह- सन्नतांसेति । सन्नतौ सम्यङ्नतावंसौ यस्याः सा तथा। 'मन्नतांसाः स्त्रियः पूज्या उन्नतांसास्तु पूरुषाः' इति सामुद्रिकप्रसिद्धिः । अनेन स्वरूपतोऽपि देव्या राज- हंससाम्यं प्रतीयते । हंसा हि सन्नतांसतया प्रसिद्धाः ‘स्मर्तव्याः शिथिलांस- हंसरुचयो गोदावरीवीचयः' इत्यादिषु । ननु हंसविनीतत्वोत्प्रेक्षायां को हेतुरि- त्यत्र गमनविशेषणमाह-लीलाश्चितविक्रमेष्विति । लीलया विलामेन अञ्चिताः पूजिताः विक्रमाः पदविन्यासा येषु तेषु । हंमगमनानामपि तधात्वमुत्प्रेक्षाहे- तुरिति भावः। किमर्थमेते देवीमशिक्षयन्नित्यत्राह--प्रत्युपदेशलुब्धैरिति । प्रत्यु- पदेशे लुब्धैः सश्रद्धैः । "गुरुशुश्रषयां वापि पुष्कलेन धनेन वा । अथवा विद्यया विद्या तुरीयं नोपपद्यते ॥" १. 'भ्यार्थम्' इ. पाठः, २. 'या विद्या पु' क. स. ग. पाट:.

- कुमारसम्भवे इति न्यायेन प्रत्युपदेशलोभादिति भावः। ननु किमेतेषामभिलषितमित्यत्राह- नूपुरशिक्षितान्यादित्सुभिरिति ! नूपुरयोः मञ्जीरयोः । 'पादाङ्गदं तुलाकोटिर्म- जीरो नूपुरोऽस्त्रियामि'त्यमरः । शिक्षितानि शब्दान् । 'भूषणानां तु शिक्षित- मि'त्यमरः । अत्र देव्याः सविलासगमने राजहंसकर्तृकं विनयनमुत्प्रेक्ष्यते । विनयने तु प्रत्युपदेशलोभो हेतुत्वेनोप्रेक्ष्यते । लोभे तु नूपुरशिजितादित्सेति सर्वोऽप्युत्प्रक्षित एवायं वाक्यार्थः । देव्यां तद्गमनसंवादिनो गमनस्य, हंसेषु नूपुरशिक्षितसंवादिनो रुतस्य च दर्शनमुत्प्रेक्षाहेतुः ॥ ३३॥ वृत्तानुपूर्व च न चातिदीर्धे जंघे शुभे सृष्टवतस्तदीये । शेषाइनिर्माणविधी विधातु- लावण्यंमुत्पत्तमिवाम यत्नः ॥ ३४ ॥ (प्रकाशिका) वृत्तेति । वृत्ते अनुपूर्वे अनुगतपूर्वे पूर्वानुरूपे च ये भवतः, ते तथा। शुभे भद्रे, लावण्यमय्यावित्यर्थः। शेषाङ्गनिर्माणविधौ ‘निमित्तात् कर्मसंयोगे' (वा.२.३.३६) इति सप्तमी, 'चर्मणि द्वीपिनं हन्ती तिवत् । शेषा- निर्माणेन हि निमित्तेन लावण्यमुत्पाद्यते। अनादरे सप्तमीति तु न युक्तं, नि- मित्तस्य रमणीयत्वात् । अत्रासेति प्रयोग समर्थयितुं वामनसूत्रम् 'आसेत्य- सतेः' (५.२.२७)। वृत्तिश्चास्य सूत्रस्य 'लावण्यमुत्पाद्यमिवास यन इत्यत्रासेत्यसतेर्धातोः अस गतिदीप्त्यादानेष्विति प्रयोगः, नास्तेः, भू- भावविधानाद्' इति । दक्षिणावर्तेन तु धातुमदीपकारमतमनुसरता 'लाव- ण्य उत्पाद्य इवास यत्न' इति पाठोऽङ्गीकृतः, गत्यर्थत्वं च । तत्र विस- न्धिदोषोऽसिङ्गतिश्च, गत्यर्थयोगे कर्मणोऽपेक्षितत्वात् । उत्पत्तमिति 1. 'ज्य उत्पाद्य इ' मुद्रितकोशपाठः. - - 'त्यस्य प्र' इति मुद्रितकाव्यालङ्कारसूत्रपाठः.

प्रथमः सर्गः। पादेऽप्यन्त वितण्यर्थत्वेन धातोर्दीप्त्यर्थत्वेन च निर्वाह शक्य इव प्रति माति। नातिदीर्षे इति प्रसज्यमतिषेधो न युक्तः । तत्र हि क्रियापदसम्ब- देन नवा भाव्यम् । तदा च विवक्षितार्थवैपरीत्यं स्यात् । पर्युदासेन तु भाव्यम् । यतस्तत्र प्रतिषेधवाचिनः समासे गुणीभाषात् क्रियाया न निषेधः । इत्यश्च प्रसज्यातिषेधपर्युदासयो कविषयस्वम् । तयोच लक्षणं कृतं भर्तृहरिणा--- "प्रधानत्वं विधेर्यत्र प्रतिषेधेप्रधानता। पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नम् ।। अप्राधान्यं विधेर्यत्र प्रतिषधे प्रधानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नम् ॥" इति ।। ३४॥ (विवरणम्) जवाह्वयं वर्णयति- वृत्तेति । तदीये शुभे जथे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ लावण्यमुत्पत्तुं यत्न आस इव । तदीये तत्सम्बन्धिन्यौ शुभे भद्रे लावण्यम- य्यावित्यर्थः । जो जवाद्वयं सृष्टवतो निर्मितवतो विधातुब्रह्मणः शेषाङ्गनिर्माण- विधौ शेषाणामवशिष्टानामङ्गानामवयवानां निर्माण एव विधौ विधाने । 'विधि- विधाने दैवेणी'त्यमरः। 'निमित्तात् कर्मसंयोगे (वा ० २.३.३६)इति सप्तमी। चर्मणि दीपिनं हन्तीतिवत् । शेषाङ्गनिर्माणमेव लावण्योत्पादने निमित्तम् । अर्थात् तस्या इति लभ्यते। लावण्यं सौन्दर्यम् उत्पत्तुमुत्पादयितुम् । अन्तर्भूत- ण्यर्थोऽयं प्रयोगः। यतः प्रयासः आस बभूवेव । नायमस्तिधातोरुत्पन्नः शब्दः, तस्य 'अस्ते' (२.१.५२) इति भूभावविधानात् । 'अस गतिदीप्त्यादाने- १. 'यास क. ग. पाठः कुमारसम्भवे - ६६ वि'ति धातोलिटि दीप्त्यर्थोऽयं शब्दः । दिदीपे यत्नोऽतीव बभूवेत्यर्थः। तथाच वामनसूत्रम् 'आसेत्यसतेः' (५. २. २७) इति । तदीयाङ्गनिर्मा- णार्थ सम्पादितेषु लावण्यद्रव्येषु सर्वेष्वपि जङ्घाइयनिर्माणकर्मण्येवोपक्षीणेषु पुनर्महता प्रयासेन लावण्यपुऑ सम्पाद्य तदनुरूपमवयवान्तरं निर्मितवानिव विधातेत्युप्रेक्ष्यते । जङ्घाद्वये लावण्यातिशयदर्शनमुत्प्रेक्षाहेतुः । लावण्याति- शयमेव विशेषणद्वयेनाह ----वृत्तानुपूर्व चेत्यादिना । अत्रातिदीचे न भवत इति नञः क्रियासम्बन्धानुपपत्तेर्न प्रसज्यप्रतिषेधः । किन्तु पर्युदास एव । प्रसज्यप्रतिषेधपयुदासयोर्विशेषे भर्तृहरिः "प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । प्रसज्यप्रतिषेधोंऽसौ क्रियया सह यत्र नम् ॥ इति, "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नम् ॥ इति च । तदेवमन्वयः--वृत्तानुपूर्वे चातिदीर्धे न चेति । वृत्ते चानुपूर्वे चेति वृत्तानुपूर्व । वृत्त वर्तुले अनुगतपूर्वे पूर्वानुरूपे पूर्ववर्णितचरणद्वयानुगुणे चेत्यर्थः । अतिदीचे अत्यन्तं दीर्घ च न, नाप्यतिहस्वे चेति भावः। 'अतिदीर्घा भृशं हस्वा', 'दीर्घजधा प्रपद्यायुर्दीर्घकालं सुखं त्यजेत्', ह्रस्वजवां स्त्रियं त्यजेद्' इत्यादिसामुद्रिकोक्तस्त्रीदोपनिषेधपरमिदं विशेषणम् ॥ ३४ ॥ नागेन्द्रहस्तास्त्वचिकर्कशत्वा- देकान्मशैत्यात् कदलीविशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तर्वोरुपमानयायाः ॥ ३५ ॥ (प्रकाशिका) नागेन्द्रहस्ता इति । त्वचिकर्कशत्वादिति 'अमूर्धमस्तकात स्वा- ---- १. ''ध, पाठः प्रथमः सर्गः। माद-' (६.३.१२) इत्यलुक् । एकान्तं नियतम् । अनेन धर्मकाल एव तोंः शीतलत्वमिति ध्वन्यते। कदलीविशेषा विशिष्टकदल्यः । यथा पुरुषविशेष ईधर इति । लोके लोकदृष्टौ । यथा लोकवृत्तं लोक इति । उपमानमुपमितिः, तत्र वाया अनुपयोगिनः, अर्थादुपमानत्वेन । लोक उपमानवाया जाता इत्यन्वयः। नागमात्रहस्तस्य कदलीमात्रस्य च नैत- दूरुतुल्यपरिणाहिरूपत्वमपीतीन्द्रविशेषशब्दो प्रयुक्तो। व्यतिरेकश्चाबाल- कारः । तस्य चाङ्ग विरोधः । तथाहि---प्रसिद्धः साधारणधर्म उपमान- त्वं प्रयोजयति । एवं स्थिते परिणाहिरूपत्वलक्षणसाधारणधर्मे सत्युप- मानत्वाभावो विरुद्धः। विरोधे सत्यपि स्वधर्मनिकर्षहेतोः कर्कशत्व- शीतलत्वलक्षणधर्मद्वयस्य भावल्यात् तत्कार्यभूतस्योपमेयाधिक्यस्य ल. ब्धप्रतिष्ठत्वम् । आधिक्यमेवें चास्मन्मते व्यतिरेकः । न चात्र सन्नप्यसत्क- ल्पो विरोधः पुष्णाति । यथा बाध्यत्वेन निबद्धो रसोगिनं रसम् । ननु तर्वोरिति विधेयाविमर्शदुष्टं, वर्णनीयतया तदर्थस्य प्राधान्यात् , समामे च तस्य गुणीभावात् । न । ऊोरेव वर्णनीयत्वेन संरम्भविषयत्वात् । न च तत्सम्बन्धनिबन्धन ऊोरतिशयो विवक्षितः। यथा रामस्य बाहुर- सीत्यादौ वाहोर्निर्दयत्वम् । किन्तु सम्बन्धमात्रम् । तस्मान्न विधेयत्वम् । तदुक्तं- "सम्बन्धमात्रमर्थानां समासो ह्यवबोधयेत् । नोत्कर्षमपकर्ष वा वाक्यात् तूभयमप्यदः॥" इति ॥ ३५॥ . - (विवरणम् । अरुखयं वर्णयति- नागेन्द्रेति । नागेन्द्रहस्ताः त्वचिकर्कशत्वात् कदलीविशेषा एकान्तशै- -- १. 'ल्य' ख. पाठः २. हित्व' ख. पाठः. ३. 'तत्व' ख. पाटः. ४. 'वास्म' क. पाठः.

कुमारसम्भव सात् परिणाहि रूपं लब्ध्वापि लोके तदूर्वोरुपमानवाया जाताः । नागेन्द्रहस्ता- नागेन्द्राणामरावतादीनां हस्ताः शुण्डाः, न तु सामान्यगजहस्ताः, तेषां परि- पाहेनापि सादृश्याभावात् । त्वचिकर्कशत्वाद् 'अमूर्धमस्तकात् स्वाझाव कामे' (६. ३. १२) इत्यलुक् । त्वग्गतात् कार्कश्यादित्यर्थः । कदलीवि- शेषाः विशिष्टाः कदल्यः, न तु सामान्यकदल्यः । नन्दनोचानादिप्ररूढाः कन- ककदलीकाण्डा इति भावः । यथोक्तं सौन्दर्यलहयां 'करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीमुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती' इति । एकान्तशैत्याद् एकान्तेन नियमेन यत् शैत्यं शीतत्वं तस्माद्धेतोः। धर्म- काल एव तदूर्वोः शीतलत्वादिति भावः । यथोक्तं 'शीतकाले भवत्युष्ण- मुष्णकाले च शीतलम् । सुन्दरीणां कुचद्वन्द्वमूरुद्वन्द्वं च' इति । परिणाहि परि- माहो विशालतास्यास्तीति परिणाहि । 'परिणाहो विशालता' इत्यमरः । रूपं स्वरूपं लब्ध्वापि सम्प्राप्यापि लोके लोकदृष्टावित्यर्थः । लोकवृत्तं लोक इति- वत् । तदूर्वोः तस्याः पार्वत्याः ऊर्वोः ऊरुप्रदेशयोः उपमानबाह्याः उपमानं उपमितिः। भावे ल्युट्। तत्र बाह्या अनुपयोगिनो जाताः। करीन्द्रशुण्डादीनां विशालस्वरूपसाधारणधर्मलाभे सत्यपि स्वरूपणावस्थायां कर्कशत्वैका- न्तशैत्याभ्यामपकर्षः, उपमेयस्य तु तदभावादुत्कर्ष इत्युपमानादुपमेयस्योत्क- प्रतिपादनाद् व्यतिरेकोऽलङ्कारः । 'उपमानाद् यदन्यस्य व्यतिरेकः स एव स' इति । परिणाहि रूपं लब्ध्वाप्युपमानवाया जाता इति प्रतीयमानो विरोष- स्तु व्यतिरेकस्याङ्गम् ॥ ३५॥ एतावता नन्वनुमेयशोभं काचीगुणस्थानमनिन्दितायाः। आरोपितं यद् गिरिशेन पश्चा- दनन्यनारीकमनीयमङ्गम् ॥ ३६ ॥ 3 - 1. 'भ्यां चार क. ग. पाठ: का' क, ख. ग, पाठः. ३. 'मि' इति मुद्रितकोश- पा (प्रकाशिका) एतावलेति । एतच्छब्देन यच्छब्दं परामृश्योत्तरवाक्यार्थः प्रत्यः बमुश्यते । प्रत्ययेन तु वाक्यपलात् परिमितपरिमाणवाचिनानुमितेः सौकर्यगुणो दर्शितः । ननुरवधारणे । तेन शोभावगमे वर्णनानपेक्षोः च्यते । अनिन्दिताया अनवद्यायाः, सर्वाङ्गशोभिन्या इत्यर्थः। ततथ नितम्बशोभायाः सातिशयत्वमनुमीयते, न शोभामात्रमित्यवसेयम् । आरोपितं न त्वारूंढस् । गिरिशेन, न तु गिरिशस्य । वर्ण्यमानावस्था- पेक्षया पश्चाच्छब्दः। अनन्यनारीकमनीयम् , अत्यन्तदुरवापत्वात् । तथा- विधपरमेश्वराक्षारोपणेनैव नितम्बस्य सर्वातिशायिशोभत्वमनुमेयं, न त्वितरावयवद् वर्णनापेक्षीत्यर्थः । नन्वनेकस्यैकत्र विकल्पेन प्राप्ती नियमः। ततश्चानेकसाधारणेन विषयेण भवितव्यम् । तदत्र लिजवर्ण- नयोः साधारणं मेयत्वमेवोपादेयं, न तद्विशेषोऽनुमेयत्वं, तस्यासा- धारणत्वात् । सत्यम् । किन्तु मेयत्वमेवात्र विवक्षितम् । न चात्र सा- मान्यपरिवृत्तिर्दोषः, यतोऽनेनानुमितेराव्यभिचारित्वाद् वर्णनात उत्क- पों द्योत्यते । तस्मादत्र दोषस्यापि गुणत्वम् ॥ ३६ ॥ (विवरणम्) नितम्बप्रदेशं वर्णयसि- एतावतेति । अनिन्दितायाः काञ्चीगुणस्थानमेतावता ननु अनुमेयशो- भम् । अनिन्दितायाः निन्दितं दोषस्तद्रहितायाः, अनवद्याया इत्यर्थः । सर्वा- वयवसुन्दर्या इति यावत्। तेन च नितम्बशोभाया निरतिशयत्वमेवात्रानुमेयं, न शोभामात्रमिति व्यज्यते । काञ्चीगुणस्य रशनादानः स्थान, नितम्ब- प्रदेश इत्यर्थः । एतावता एतावन्मात्रेण । अत्र एतच्छब्देन उत्तरवा- क्यार्थः परामृश्यते । परिमितपरिमाणवाचिना वतुप्रत्ययेन पुनरनुमितेः सौकर्य, दर्शितम् । ननुशब्दोऽवधारणे । एतावन्मात्रेणैवेत्यर्थः । अनुमेया क्षम पाठ:..

कुमारसम्भवे अनुमातुं शक्या शोभा यस्य तत् तथा । भगवत्या नितम्बशोभा वक्ष्यमाण- प्रकारेणैव सुखानुमेयेति किं तद्वर्णनयेति भावः । तमेव प्रकारमाह-पश्चाद् गिरिशेनाकमारोपितं यदिति । अत्र वर्ण्यमानावस्थापेक्षया पश्चाच्छन्दः । गिरिशेन न तु गिरिशस्य । अङ्कमुत्सङ्गमारोपितं, न त्वारूढम् । जगदीश्वरेण स्वयमेव रागातिशयादारोपितं, न तु देव्या गिरिशस्याङ्क- मारूढमिति भावः । यद् यस्मात् तस्माद्धेतोरनुमेयशोभमिति पूर्वेणा- न्वयः । गिरिशाङ्कस्य विशेपणमाह ---- अनन्यनारीकमनीयमिति । अन्याभि- नारीभिः कामयितुं शक्यं न भवतीति तथा । न ह्यत्यन्तदुरवापेऽर्थे कामः सम्भवतीति भावः । नन्वत्रावगम्यशोभमित्येव वक्तव्यम् । अत्र हि वर्णन- यावगम्यत्वं प्रतिषिध्यते, न लिङ्गान्तरेणावगम्यत्वम् । यदि लिङ्गान्तरं प्रतिषिध्य गिरिशाङ्कारोपणरूपं लिङ्गं विधीयते, तमुनेनैवानुमेयशोममिति शक्यं वक्तुं, (न) वर्णनप्रतिषेधपरत्वे । मैवम् । अवगम्यत्वमात्रस्यैवात्रापि विवक्षितत्वात् । न चैवं सति सामान्यवाचिनावगम्यशब्देनैव वक्तव्यमिति वाच्यम् । अनुमितेराव्यभिचारित्वं, वर्णनायास्तु न तथेति विशेषप्रतिपाद- नपरत्वादनुमेयशब्दप्रयोगस्य । तस्मात् सामान्यपरिवर्तो नात्र दोषाय, अपितु गुणायैव ॥३६॥ तस्याः प्रविष्टा नतनाभिरन्ध्र रराज तन्वी नवरोमराजिः। नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥ ३७ ॥ (प्रकाशिका) तस्या इति । नतनाभिरन्ध्र प्रविष्टेति रोमावल्यास्तदवधिकसरत्व- बचनेन नवत्वं, तेन च नवयौवनस्यावस्थाविशेषः प्रकाश्यते । सम्भाव- नाभागेऽपि नतनाभिरन्धं प्रविष्टेत्यनुषञ्जनीयम् । अन्यथा अतिक्रमस्य प्रथमः सर्गः। पौर्वकाल्यं किमपेक्षं स्यात् । तन्वीति प्रशस्तलक्षणार्थम् । नीवी वस्त्रप्रथ- नम् । स्त्रीकटीवखवन्धे स्यानीवी' इत्यादि केशवः । तदतिक्रमणमर्चि- पोऽसम्भवदुत्प्रेक्षाङ्गम् ॥ ३७॥ (विवरणम् ) रोमराजि वर्णयति - तस्या इति। तस्या नतनाभिरन्ध्र प्रविष्टा नवरोमगजिः रराज । तस्याः पार्वत्या नतनाभिरन्ध्र नतं गम्भीरं नाभिरन्ध्र नाभिप्रदेशं प्रविष्टा प्राप्ता सती। तदानीमेव नाभिरन्ध्र प्रसृतेत्यर्थः । अत एव यौवनारम्भसम्पादिता रोम- राजिः रोमावलिः रराज शुशुभे । अत्र नतनाभिरन्ध्रमित्यनेन नाभिवर्णनमपि कृतम् । रोमराज्या मनोहारित्वमाह-तन्वीति । तन्वी कृशा। एतदपि प्रशस्त- नारीलक्षणम् । रोमराजिमुत्प्रेक्षते-सितेतरस्य तन्मेखलामध्यमणेरर्चिनींवी- मतिक्रम्य नतनाभिरन्ध्र प्रविष्टवेति । सिततरस्य कृष्णस्य तन्मेखलामध्यमणेः तस्याः पार्वत्या मेखला रशना तस्या मध्ये यो मणिः रत्नम् । 'रत्नं मणिई- योरि 'त्यमरः । तस्यार्चिस्तेजो नीवीं वस्त्रवन्धम् । 'स्त्रीकटीवस्त्रबन्धेऽपि' इत्यमरः । तामतिक्रम्य नतनाभिरन्ध्र प्रविष्टेव । मेखलामध्यवर्तिनो नायक- मणेरचिरेव नीवीमतिक्रम्य नतनाभिरन्धं प्रविष्टेवेत्यर्थः । वर्णसाम्यादिक- मुत्प्रेक्षाहेतुः । नेयमुपमा, अर्चिषो नीव्यतिक्रमासम्भवात् ॥३७॥ मध्येन सा वेदिविलग्नमध्या वलित्रयं चार बभार बाला। आरोहणाथै नवयौवनस्य कामेन सोपानमिव प्रयुक्तम् ॥ ३८॥ 1. 'नवयौवनेन कामस्य' इति मुद्रितपुस्तकपाठः, সুজালেম (प्रकाशिका) मध्येनेति । वेद्या विलग्नं मध्यमिव मध्य यस्या इति विगृहानी दक्षिणावर्तः 'सप्तम्युपमाने त्यादि । समासममस्त । वयं तु वेदिरिव विल- अमध्यति विगृह्य 'उपमानानि --' (२. १. ५५) इति समास मन्यामहे विलगति हसतीति विलग्नं कशमित्यर्थः । ननु अवलग्नं विली मध्यो मध्यम इत्यपी'ति हलायुधवचनाद् वेदिविल वेदिमध्यामिव मध्य यस्या इति विग्रहः किं नाश्रितः । तदाश्रयणे वेदिविलग्नेति वेदिमध्येति वा रूपं स्यात् । उत्तरपदलोपात्। अत्राकारसाम्या वलित्रये विशिष्ट- सोपानोत्प्रेक्षायां कामेनति कर्तविशेषवाचिना शब्दोपात्तस्य चारुत्वस्य लोकोत्तरता ध्वन्यते। सोपानौचित्याद् आरोहणस्य प्रयोजनस्वेन कल्प- नम् । नवयौवनस्येति तत्कविशेषवाचिना प्रागेव तदागमनप्रतीक्षता कामस्य ध्वन्यते । दक्षिणावर्तस्तु --कालेनेति पठित्वा यौवनोत्पादकाले- नेति व्याचष्ट । तत्र कर्तविशेषस्यानुपयोगः । कर्तृमात्रस्यान्यथापि सिद्धिः॥ ३८॥ (विवरणम् ) वलिंत्रयं वर्णवति - मध्येनेति । सा बाला मध्येन वलित्रयं वभार । सा. पार्वती बालेत्यनेन वलित्रयाभिव्यक्तेः कालप्राप्तिर्ध्वन्यते । मध्येनावलग्नेन । 'अव- लमं विलग्नं च मध्यं मध्यम इत्यपि' इति हलायुधः । वलिजय वलीनां त्रयं, त्रिवलीमित्यर्थः । बभार धृतवती वलित्रयमुत्प्रेक्षते - नवयौव- नस्यारोहणार्थ कामेन प्रयुक्तं सोपानमिवति । नवयौवनस्य नवस्यामिनवस्य यौवनस्य । अत एवारोहणे सोपानापेक्षा । आरोहणार्थ स्तनवदनादिप्रदेश- नवस्था स.ग. घ. पाटी प्रथमः सर्गः। प्राप्त्यर्थमित्यर्थः । अत्र तादृशवलित्रयरूपसोपाननिर्माणकर्म तच्छिल्पिनं कल्पयति-कामेनेति। न ह्यन्येन निर्मिते तादृशं चारुत्वं सम्भवतीति भावः । प्रयुक्तं निर्मित सोपानमिव । अत्र मदनस्य सोपानकर्तृत्वोत्रेक्षया तस्य प्रागेवागत्य यौवनागमप्रतीक्षणं ध्वन्यते । तेन च देव्याश्चारुत्वातिशयः । अवलग्नं वर्णयति-वेदिविलममध्येति । वेदिरिव विलममध्या। 'उप- मानानि सामान्यवचनैः' (२. १. ५५) इति समासः । वेदियज्ञशालायां यङ्गुलनिखातो भूभागः । विलगति हसतीति विलग्नं. कृशमित्यर्थः । वैदिरिव कृशमध्येत्यर्थः । वेद्याः कृशमध्यत्वं प्रसिद्धम् । वलित्रयस्य सोपानपरम्परावत् क्रमेणावस्थानं तदुप्रेक्षाया हेतुः । अत एव चारु सुन्दरम् ॥३८॥ अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ ३९ ॥ (प्रकाशिका) अन्योन्यमिति । उत्पीडयदुत्थाय पीडयत् । पाण्डुत्वं श्याम- मुखत्वं च यौवनमौतिकृतम् । मृणालसूत्रस्यान्तरमवकाशः । अलब्ध परीक्षकलोकेनेति शेषः । 'मृणालसूत्रेण पदं न लब्धामिति केचित् पठन्ति। तदानीमर्थः सुगमः। किन्त्वपेरपेक्षितत्वान्न्यूनपदत्वम् । ननु उत्पीडनकर्तृभूतस्तनसमुदायरूपैकार्थवाचिस्तनद्वयशब्दसमभिव्याहारेणा- न्योन्यशब्दः कथं प्रयुज्यते, तस्यानेकविषयकर्मव्यतीहारवाचित्वात् । नैवम् । स हि न कर्मव्यतीहारवाची। किन्तु कर्मव्यतीहारविषयभूत- १. 'वेयाः' ख. पाठ... २. 'न्योन्यवि' . पाठः, कुमारसम्भवे समकक्ष्यानेकपदार्थसमुदायवाची । तस्मात् कर्तृद्वयवाचिना स्तनद्वयश- ब्देन कर्मद्वयवाचिनोऽन्योन्यशब्दस्य समभिव्याहारो घटत एव ॥ ३९ ।। (विवरणम् ) स्तनद्वयं वर्णयति- - अन्योन्यामिति । उत्पलाक्ष्याः स्तनद्वयं तथा प्रवृद्धम् । उत्पलाक्ष्याः उत्पले कुवलये इवाक्षिणी यस्यास्तस्याः । स्तनद्वयं स्तनयोः कुचयोर्द्वयं द्वन्द्वम् । तथा वक्ष्यमाणप्रकारेण प्रवृद्धं प्रकर्षण वृद्धं परिपुष्टमासीत् । तमेव प्रकारमाह-यथा श्याममुखस्य तस्य मध्ये मृणालसूत्रान्तरमपि अलभ्यमिति। यथा यादृशेन वर्धनेन श्याममुखस्य श्यामं मुखं यस्य तस्य । श्याममुखत्वं यौवनकृतम् । तस्य स्तनद्वयस्य मध्ये अन्तराले । मृणालसूत्रान्तरं मृणालस्य सूत्रं मृणालसूत्रं, तस्यान्तरमवकाशः। किं पुनरन्यसूत्राणामन्तरमित्यपिशब्दार्थः । अलभ्यं लब्धुमशक्यम् । कियदन्तरमनयोरित्यवगन्तुं परीक्षाप्रसङ्गे तन्मध्यं नीयमानस्य बिसतन्तोरन्तरमपि यथा परीक्षकजनेन न लभ्यं, तथा प्रवृद्धमा- सीदित्यर्थः । 'मृणालसूत्रान्तरमप्यलब्धमिति पाठे कर्मणि निष्ठा। 'मृणालसूत्रेण पदं न लब्धमिति पाठस्तु सुगमार्थोऽप्यपिशब्दाभावेन न्यूनपदत्वदोषादुपेक्ष- णीयः । उक्तार्थसमर्थकं विशेषणमाह अन्योन्यमुत्पीडयदिति । अन्यो- न्यं परस्परम् । उत्पीडयदुत्थाय पीडयत् । अत एव चारु सुन्दरम् । पा- ण्डिति पाठे पाण्डुत्वमपि यौवनकृतम् ॥ ३९ ॥ शिरीषमालाधिकसौकुमायौं बाहू तदीयाविति मे प्रेतर्कः। पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥४०॥ - १. 'थवा' ड. पाठः. २. 'कुचद्ध' ख. पाठः. .. 'तम् । स्त' स. पाठः. ४. 'पुष्पाधि' मुद्रितपुस्तकपाठः. ५. 'वि' मुद्रितपुस्तकपाठः, प्रथमः सर्गः। ७५ (प्रकाशिका) शिरीषेति । प्रतर्क अहः । विजितविश्वो मकरध्वजो दर्पाद् देवमासादयन् पराजितो विफलीभूतसुकुमारतरपूर्वोपकरणजातः सन्नप्या- भ्यामुपकरणभावमुपयन्यां पशुमिव रज्ज्वा कण्ठे गृहीत्वा तमेव देवं यदात्मविधेयं चकार, तदनयो होः सौकुमार्य शिरीषादिना नोपमातुं शक्यमिति भावः॥४०॥ (विवरणम्) बाहुद्वयं वर्णयति- शिरीषेति । तदीयो बाहू शिरीषमालाविकसौकुमायौं इति मे प्रतर्कः। तदीयौ तत्सम्बन्धिनौ बाहू भुजौ। शिरीषपुष्पैः कृता माला शिरीषमाला, तदपेक्षयाप्यधिकं सौकुमार्य सुकुमारत्वं ययोस्तौ । इति उक्तप्रकारण । प्रतर्क ऊहः । पार्वतीभुजयोः सुकुमारत्वं शिरीषमालाया अप्यधिकतरमिति वयं मन्यामह इत्यर्थः । कथमेवं प्रतकै इत्यत्राहयौ पराजितेनापि मकर- ध्वजेन हरस्य कण्ठपाशौ कृताविति । यो बाहू पराजितेन पराजयं प्राप्तेन, विफलीभूतसुकुमारतरपूर्वोपकरणेनापीत्यर्थः । मकरो मत्स्यविशेषो ध्वजो यस्य तेन कामदेवेन । हरस्य परमेश्वरस्य कण्ठे पाशौ कण्ठपाशौ, स्ववशीकृत्य स्वेच्छया तत इतः कर्षणार्थं कण्ठे. निक्षिप्तौ पाशावित्यर्थः । कृतौ विहितौ । यो मकरध्वजः पूर्व दर्पाद् देवमासाद्य विफलीभूतसुकुमारतरपूर्वोपकरणो जातः, स एव याभ्यां पशुमिव रज्ज्वा कण्ठे निबध्यात्मविधेयं चकार, तयोः सौकुमार्य कथं शिरीषकुसुमादिमिरुपमातुं शक्यमिति भावः । अत्र व्यतिरेको- ऽलङ्कारः ॥४०॥ कण्ठस्य तस्यास्तनुबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । ३. 'काल' क. ख. ग. पाठः, १. 'कृ' घ, पाठः. २. 'कृ' ख. पाठः. ४. 'स्याः स्तनव' मुद्रितपुस्तकपाठः.

BE .. कुमारसम्भव अन्योन्यशोभाजननाद बभूव साधारणो भूषणभूष्यभावः ॥४१॥ (प्रकाशिका) कण्ठस्येति । 'बन्धुरं तूबतानतमिति, 'कलापो भूषणे इति, वर्तुलं निस्तलं वृत्तमिति च सिंहः । अत्र विशेषणयोः शोभाजननं प्रति हेतुत्वम् । तत्रापि यथा निस्तलत्वं शोभाजनने हेतुः, तथा तनुब- न्धुरत्वमित्युपमानोपमेयभावोऽपि द्रष्टव्यः । अन्योन्यस्मिन् शोभामादु. भर्भावात् । अन्योन्येन शोभाजननादिति तु पक्षे भूषणभाव एव साधा- रणो न भूष्यभाव इति दक्षिणावर्तः। तदयुक्तम् । तथाहि-न ताव- दयमन्योन्यशब्द उभयपर्यायः । स हि कर्मव्यतीहारविषयवाची । तयोगे च शोभोत्पत्तेरनपेक्षितहेतुत्वं कथं घटते । अन्योन्येनेति विग्रहे भूज्यभाषोऽप्यर्थसिद्धः, भूषणभावस्तु शाब्द इत्येतावान् विशेषः। नन्वेवं भूषणभूष्यभावाविति वक्तव्यम्। एकवचनान्तनिर्देशे तु सम्बन्धस्य वाच्य- त्वात् तस्य च द्विष्ठत्वात् साधारणत्वं न हेत्वपेक्षं न चातिशयप्रयोजकम् । उच्यते । भूषणभूष्ययोर्भाव इति विग्रहे भावशब्दो यद्यपि सामान्यवाची यथा स्त्रीणां चक्षुषा कुवलयितानि वातायनानीत्यत्र चक्षुश्शब्दः, तथापि तस्य व्यक्तिपर्यवसायित्वात् कण्ठमुक्ताफलापविषये व्यक्तिधर्मोऽसाधारण- त्वमेवोपपनः। तत्र चक्षुश्शब्दस्य व्यक्तिपर्यवसायित्वादनेकवातायनकु- वलयनम् । अनुगतरूपाभिधाने हि तस्य सम्बन्धवाचकत्वं मन्तव्यम् ॥४१॥ (विवरणम्) कण्ठं वर्णयति- कण्ठस्येति । तस्याः कण्ठस्य मुक्ताकलापस्य च अन्योन्यशोमाजननाद् प्रथमः सर्गः। भूषणभूष्यमावः साधारणो बभूव । तस्याः पार्वत्याः कण्ठस्य गलस्य मुक्ताभिः मौक्तिकैः कृतः कलापो मुक्ताकलापः । कलापो भूषणम् । 'कलापो भूषणे बहें तूणीरे संहतावपी' त्यमरः । अन्योन्येन हेतुना शोभाजननात् शोभाया जननात् प्रादुर्भावात् । 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव' इत्यमरः । यद्यप्यन्योन्येन शोभाजननादिति विग्रहे शोभाजनने हेतुभूतयोः कण्ठमुक्ताकलापयोर्भूषणभाव एव कण्ठोक्तः, न भूष्यभावः, तथापि भूध्यमा- णयोः कण्ठमुक्ताकलापयोkष्यभावोऽप्यर्थादायातीति न काचिदनुपपत्तिः । भूषणभूष्ययोर्मावो भूषणभूष्यभावः । द्वन्द्वात् परः श्रूयमाणो भावशब्दः प्रत्येकमभिसम्बध्यते । भूषणभावो भूष्यभावश्चेत्यर्थः । नन्वत्र भूषणभूष्यभावा- विति वक्तव्यम् । एकवचनान्तनिर्देशे तु सम्बन्धस्य वाच्यत्वात् तस्य च 'सम्बन्धो हि सम्बन्धिभ्यां भिन्नस्तावाश्रितश्चैकश्च' इति न्यायन स्वभा- वादेवोभयाश्रितत्वनियमादन्योन्यशोभाजननादिति हेतुर्निष्प्रयोजनः स्यात् । कण्ठमुक्ताकलापयोर्भूषणभूष्यभावरूपः सम्बन्धः साधारणोऽभूदित्युक्तेनापि न कश्चिदतिशयः प्रतिपादितो भवति । मैवम् । सामान्यवाचिनोऽप्यस्य भाव- शब्दस्य व्यक्तिद्वयपर्यवसायित्वात् । यथा स्त्रीणां चक्षुषा कुवलयितानि वातायनानीत्यत्र सामान्यवाविनोऽपि चक्षुश्शब्दस्य सर्ववातायनगतचक्षुर्विशेष- पर्यवसायित्वं, तथात्रापीति । कण्ठेन भुक्ताकलापस्य शोभाजनने हेतुमाह- तनुषन्धुरस्येति । तनुश्वासौ बन्धुरश्चेति तनुबन्धुरः । तनोः कृशस्य, नात्यन्तपी- वरस्येत्यर्थः, अत एव बन्धुरस्य सुन्दरस्य । 'बन्धुरौ नम्रसुन्दरौ' इति वैजयन्ती । मुक्ताकलापेन कण्ठशोभाजनने हेतुमाह-निस्तलस्येति । निस्त- लस्य वर्तुलस्य । 'निस्तलं वर्तुलं वृत्तम्' इति सिंहः । एते विशेषणे च परस्परमुपमानोपमेयभावमप्यनुभवतः । यथा निस्तलत्वं शोभाजनने हेतुस्तथा तनुबन्धुरत्वमपीति । अत्रान्योन्यमलङ्कारः। 'परस्परक्रियाजननेऽन्योन्यम्' इति ॥४१॥ - १. 'भिः कृ' ख. पाठः. २. 'ययोः' ख. पाट:. ३. 'पशो' घ. पाठः, ४. रकि' घ.पाठ:.

कुमारसम्भवे चन्द्रं गता पनगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला दिसंश्रयां प्रीतिमवाप लक्ष्मीः॥४२॥ (प्रकाशिका) चन्द्रमिति । भुङ्क्ते अनुभवति । 'भुजोऽनवने' (१.३. ६६) इत्यात्मनेपदम् । अभिख्यां शोभाम् । रात्रिसङ्कोचदिवानुदयलक्षणेन प्रसिद्धन हेतुद्वयेन पद्मचन्द्रगुणान् पर्यायेणानुभवन्ती तत एव च तत्र तत्र भ्रमन्ती लक्ष्मीस्तदुभयगुणविशिष्टं देव्या वदनकमलं दैवादासाद्य तदुभ- यानुभवजन्यां प्रीति प्रापेत्यर्थः ॥ ४२ ॥ ( विवरणम् ) वदनं वर्णयति- चन्द्रमिति । लक्ष्मीश्चन्द्रं गता पद्मगुणान् न भुङ्क्ते । लक्ष्मीः श्रीः चन्द्रं पूर्णचन्द्रं गता प्राप्ता सती। पद्मगुणान् पझे पङ्कजे ये गुणा दिवारम- णीयत्वसौरभ्यादयः, तान् । न भुते नानुभवति । 'भुजोऽनवने' (१. ३. ६६) इत्यात्मनेपदम् । तर्हि पद्माश्रितैवास्त्वित्यत्राह-पद्माश्रिता चान्द्रमसीम- भिख्यामिति । पमं पङ्कजमाश्रिता प्राप्ता सती । चान्द्रमसीं चन्द्रमःसम्बन्धि- नीमभिख्यां कान्तिम् । 'अभिख्या कान्तिद्युतिश्छविः' इत्यमरः । अत्र चकारोऽर्थाद् द्रष्टव्यः । न भुत इति अत्राप्यनुषञ्जनीयम् । लक्ष्मीः पद्माश्रिता सती रजनीरमणीयत्वादिकान् गुणांश्च नानुभवतीत्यर्थः । इत्थं रात्रौ चन्द्रम् अहनि पद्मं च पुनः पुनराश्रित्य भ्रमन्त्या लक्ष्म्या देवीजननानन्तरं दैववशात् कोऽप्यानन्दः सञ्जात इत्याह-उमामुखं प्रतिपद्य तु द्विसंश्रयां प्रीतिमवापेति। उमामुखम् उमायाः पार्वत्या मुखम् । प्रतिपद्य प्राप्य । तुशब्दः पूर्वस्माद् , प्रथमः सर्गः। विशेषमाह । 'तु स्याद् भेदेऽवधारणे' इत्यमरः । द्विसंश्रयां द्वौ पद्मचन्द्रौ संश्रय आश्रयो यस्यास्तादृशीं प्रीतिमवाप प्रतिपेदे। सर्वकालरमणीयस्वाभा- विकसौरभ्याभिरामं देवीवदनं प्राप्य तु लक्ष्मीश्चन्द्रपद्मानुभवजन्यां प्रीतिमास- सादेत्यर्थः । लक्ष्म्याः पार्वतीवदनप्राप्तेः पूर्वकालीनं विशेषणमाह-लोलेति । लोला चञ्चला । रात्रौ चन्द्रप्राप्तेरहनि पद्मप्राप्तेश्च नियतावस्थानरहितेत्यर्थः ॥ पुष्पं प्रवालोपहितं यदि स्या- न्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद् विशदस्य तस्या- स्ताम्रोष्ठपास्तचः स्मितस्य ।।४३ ।। (प्रकाशिका) अथ मुखावयवान् वर्णयति-. - पुष्पमिति । अत्र यद्यर्थबलादसिद्धस्यार्थस्य कल्पनमतिशयोक्ति- रलङ्कारः । असिद्धौ च तथाविधावुपमानधर्मिणौ ताभ्यामनुकारश्च ॥४३॥ (विवरणम् ) अथ मुखगतानवयवान् वर्णयिष्यन्नादौ मन्दस्मितं वर्णयनि- पुष्पमिति । पुष्पं प्रवालोपहितं मुक्ताफलं स्फुटविद्रमस्थं वा स्याद् यदि ततस्तस्याः स्मितस्यानुकुर्यात् । पुष्पम् अर्थाद् धवलपुष्पम् । प्रवालोप- हितं प्रवाले रक्तपलवे उपहितं न्यस्तम् । मुक्ताफलं मौक्तिकम् । स्फुटविद्रु- मस्थं स्फुटे स्पष्टकान्तौ भद्रतर इत्यर्थः, विद्रुमे रक्तरत्नविशेष तिष्ठत्तीति तथा । 'सुपि स्थः' (३. २. ४) इति कः । वाशब्दो विकल्पे। स्यादि- ति सम्भावनायां लिङ् । यदिशब्दस्तथाविधस्य धर्मिणोऽभावं सूचयति । १. 'प्रप' घ. पाठः, २. 'वादीन' घ. पाठः.

कुमारसम्भवे ततस्तर्हि । तस्याः पार्वत्याः। स्मितस्य मन्दहासस्यानुकुर्यात् । अत्रापि सम्भावनायां लिङ् । अनुकरणं हि तुल्यतया वर्तनमिति 'तुल्यार्थैरतुलो- पमाभ्यां तृतीयान्यतरस्याम्' (२. ३. ७२) इति षष्टी । स्मितमनु कुर्यादि- त्यर्थः । प्रवालोपहितधवलपुष्परूपं स्फुटविद्रमस्थमुक्ताफलरूपं वोपमान- धर्मियं यदि कुत्रचिदुपलभ्येत, तर्हि तयोरन्यतरत् पार्वतीमन्दस्मितमनुकु- योदित्यर्थः । असिद्धौ च तादृशावुपमानधर्मिणौ। ततश्च तत्कर्तृकमनुकरण- मप्यसिद्धमेवेति भावः । ननु किं तादृशोरुपमानधर्मिणोरेवानुकरणसामर्थ्य, चन्द्रिकादीनामितीमामाशङ्कां विशेषणद्वयेन परिहरति-विशदस्येत्या- दिना। विशदस्यात्यन्तधवलस्येत्यर्थः। विशेषणान्तरमाह-ताम्रोष्ठपर्यस्त- रुच इति । ताने रक्ततरे ओष्ठे दन्तच्छदे पर्यस्ता परितः क्षिप्ता रुक् शोभा येन तस्य । चन्द्रिकादीनां तादृशधावल्ये सत्यपि ताम्रद्रव्योपहितत्वाभावान्नानु- करणसामर्थ्यमिति भावः। अत्र यदिशब्दबलादसिद्धस्यार्थस्य कल्पनमिति 'यद्यर्थोक्तौ च कल्पनम्' इत्युक्तोऽतिशयोक्तिभेदोऽलङ्कारः ॥ ४३ ॥ स्वरेण तस्याममृतस्रतेव सञ्जल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताज्यमाना ॥४४॥ (प्रकाशिका) स्वरेणेति । सञ्जल्पितायां सञ्जल्पितुमुपक्रान्तायाम् । आदि- कर्मणिः क्तः । प्रजल्पितायामिति वा पाठः । अभिजातशब्दो लक्षणया सुकुमारार्थः। यथा 'अभूभवाम्भोजदलाभिजात' इति । अन्यपुष्टेति ताड्यमानेति च पाठः । तत्रि कुटुम्बधारण' इति धातोः अवितृस्तृतन्त्रिभ्य ईः' (उणा० ३. १५८) इति ईप्रत्यये तन्त्रीरिति ८१ प्रथमः सर्गः। भवति। विरुद्धा तत्रीवितन्त्रीरिति प्रादिसमासः। या तूत्पाद्यस्य स्वरादे- विहितताडनक्रम विना यथासम्भवं ताडिता स्यात् ता वितन्त्रीरित्याहु- राचार्याः। अमृतस्राविणेव स्वरेण तस्यां सल्लपित्रमुपक्रान्तायां तच्छ्रोतु- स्ताज्यमाना वितन्त्रीरिव कोकिलाप्यरम्यशब्दाभवदित्यर्थः। अत्रोपक्र- मदशैव तावद् रम्येऽप्यरम्यप्रतिभाकारिणी, किमुत प्रसिद्धस्य तदेतोः परि- शीलनहेतुरनिवृत्तिदेशत्युपक्रमवाचिना प्रत्ययेन द्योत्यते । श्रोतुः श्रोत्मा- अस्यैव, न तु तद्विशेषस्य । अत्र माधुर्यसौकुमार्यसाम्ये सत्यमृत मुतेवेति तदतिरेकयोतिकयोत्सेक्षयोपकृतः प्रतिकूलशब्दाभिव्यङ्गयो देवीसञ्जल्पि- तस्य कोकिलारुताद् व्यतिरेकोऽलङ्कारः प्रतीयते ॥४४॥ (विवरणम्) वचनं वर्णयति- - स्वरेणेति । अभिजातवाचि तस्याममृतस्रतेव स्वरेण सञ्जल्पिताया- मन्यपुष्टापि श्रोतुः प्रतिकूलशब्दा । अभिजातवाचि अभिजातशब्दोऽयं लक्ष. णया सुकुमारार्थपर्यवासायी। तथा च प्रयोगः 'अभून्नवाम्भोजदलाभिजात.' इति । अभिजाता सुकुमारा वाग् यस्यास्तस्याम् । अथवा स्थानप्रयत्नादिगु- णयोगात् सम्यगुत्पन्ना वाग् यस्यास्तस्याम् । कथ्यमानार्थसमर्थकमिदं विशे- षणम् । तस्यां पार्वत्याम् । अमृतस्रुता अमृतं पीयूषं स्रावयतीत्यमृतनुत् तेन स्वरेण । अन्तर्भूतण्यर्थः प्रयोगः । सञ्जल्लितायाम् 'आदिकमणि क्तः कर्तरि च' (३. ४.७१)। सम्यग्वक्तुमुपक्रान्तायामित्यर्थः । अनेन देवी- सबल्पनम्यारम्भदशायामेवैतावान् प्रभावः, किं पुनः परिशीलनदशायामिति दर्शयति । यथोक्तं सौन्दर्यलहयां- "विपञ्च्या गायन्ती विविधमपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने! । 9. 'जल्पितु' घ. पाठः.

कुमारसम्भवे " तदीयैर्माधुर्यैरपहसिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥" इति । अन्यपुष्टा कोकिला । यस्याः शब्दो माधुर्यसौकुमार्यादिगुणवत्तया प्रसिद्धः, सापीत्यपिशब्दार्थः । श्रोतुः श्रोतृमात्रस्य । विशेषज्ञस्य किं पुन- रिति भावः । प्रतिकूलशब्दा प्रतिकूलो विरुद्धः शब्दो यस्याः सा तथा । आसीदिति शेषः । उक्तमर्थमुपमया स्फुटयति-ताड्यमाना वितन्त्रीरिवेति । ताड्यमाना शास्त्रानभिज्ञैराहन्यमाना। विरुद्धा तन्त्रीवितन्त्रीरिति प्रादिसमासः । 'तत्रि कुटुम्बधारणे' इति धातोः 'अवितृस्तृतन्त्रिभ्य ईः'। (उणा०.३. १५८) इति ईप्रत्यये तन्त्रीरिति पदम् । तन्त्रीरिति च वीणागुण उच्यते । "उत्पाद्यानां स्वरादीनां विहितं ताडनक्रमम् । विना या ताड्यते मन्दैः सा वितन्त्रीरिहोच्यते ॥ इत्याहुराचार्याः । देवीवचनान्तराले सञ्जल्पन्ती कोकिलापि वीणायाः समी- चीनवादनवेलायामक्रमताडिता वीणागुणवल्लरीव श्रोतृजनानामरुन्तुदमेव श- ब्दमुत्पादयामासेति भावः । अत्रामृतस्रतेवेत्युत्प्रेक्षा माधुर्यसौकुमार्यादिगुणैः परभृताविरुताद् देवीसञ्जल्पितस्य व्यतिरेकं द्योतयति, प्रतिकूलशब्दश्व तम- भिद्योतयतीति व्यतिरेकालङ्कारो ध्वन्यते ॥ ४४ ॥ प्रवातनीलोत्पलनिर्विशेष- मधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्य- स्ततो गृहीतं नु मृगाङ्गनाभिः ॥४५॥ (प्रकाशिका) प्रवातेति । अधैर्यप्रतिवस्तुतया प्रवातसम्बन्ध उपात्तः। ससन्देहोत्रालङ्कारः। 'ससन्देहस्तु भेदोक्तौ तदनुक्तौ तु संशय' 1. 'च' ख. घ. पाठः.

प्रथमः सर्गः। इति । नन्वत्र नुशब्दो वितर्कयोतकः । वितर्कश्च भोजराजेन पृथगलकारत्वेनोक्तः । उच्यते । नुशब्दोऽयमुभयं द्योतयति वितर्क संशयं च । अत्र भोजः 'कः पुनर्वितर्कसंशययोर्भेदः । उच्यते। निर्णयासनो वितर्कः। वितर्कासन्नः संशयः। संशयानो हि वितर्कस्य कोटिमारुह्य ततो विभ्रष्टस्तत्वं चाभिनिविशते । शब्दाश्च किंस्विदित्या- दयस्तुल्यरूपा एव संशयवितईयोरिति दुरवबोधस्तद्विशेष' इति । अत एवास्मदलङ्कारकृता ससन्देहात् पृथगलकारत्वेन वितर्को नोक्तः । विशे- षणानां संशयाङ्गत्वं द्रष्टव्यम् ॥ ४५ ॥ (विवरणम्) कटाक्षं वर्णयति- प्रवातेति । प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाङ्गनाभ्यो गृहीतं नु मृगाङ्गनाभिस्ततो गृहीतं नु । प्रवातनीठो- पलनिर्विशेष प्रकृष्टोऽधिको वातो यस्मिन् देशे स प्रवातः, तत्रत्यं नीलोत्पलं प्रवातनीलोत्पलं, तेन निर्विशेषं विशेषरहितं, सदृशमिति यावत् । अधीरवि- प्रेक्षितम् अधीरं चपलं यद् विप्रेक्षितं विलोकनम् । भावे निष्ठा । तद् आय- ताक्ष्या आयते विशाले अक्षिणी यस्यास्तया । अनेन नेत्रस्यापि मृगनेत्रसा- दृश्यं दर्शितम् । तेन च नेत्रस्वरूपवर्णनमपि कविः कृतवानित्यवसेयम् । तया पार्वत्या मृगाङ्गनाभ्यः मृगीभ्यः सकाशाद् गृहीतं स्वीकृतं नु । नुशब्दः संशयवाचकः । मृगाङ्गनाभिभृगस्त्रीभिः ततः पार्वतीसकाशात् । उभय- त्रापि 'आख्यातोपयोगे' (१.४.२९) इति पञ्चमी । गृहीतं स्वीकृतं नु । चारुमारुतावधूयमानचञ्चलेन्दीवरसदृक्षं कटाक्षविक्षेपणं किं तया मृगाङ्गना- सकाशाद् गृहीतम् उत मृगाङ्गनाभिस्तत्सकाशादितीमं विशेषं निपुणतरं निरू- पयन्तोऽपि वयं नावगच्छाम इति भावः । अत्राधीरप्रतिवस्तुतया प्रवातग्रह- १. 'नो वि' क. पाठः. २. परमात्रस' ग. घ. पाठः, कुमारसम्भवे पम् । आयताच्या इति विसर्गान्तपाठे आयताक्ष्याः प्रवातनीलोत्पलनिर्वि- शेवमधीरविप्रेक्षितमित्यन्वयः। सन्देहोऽत्रालङ्कारः 'विषयस्य सन्दिरमा नत्वे सन्देह' इति । विशेषणसन्देहोऽङ्गम् ॥४५॥ तस्याः शलाकाअननिर्मितेव कान्तिर्भवोरानतरेखयोर्या । तां वीक्ष्य लीलाचतुरामनगः स्वचापसौन्दर्यमदं मुमोच ॥४६॥ (प्रकाशिका) तस्या इति । शलाकाग्रस्थेन हरितालद्रवादिना निर्मितस्य चित्रा- देनिर्मातृमनोनुकूला शोभा भवतीति शलाकाञ्जननिर्मितत्वमुत्प्रेक्ष्यते । आनता कुटिला रेखा सन्निवेशो ययोः । लीलाभिर्विलासैश्चतुराम् । अत्रापि शोभासन्निवेशविशेषाभ्यां साम्ये सत्यनङ्गचापाद् देवीभ्रुवोर्लीला- चतुरत्वेनाधिक्येन तां वीक्ष्येत्यादिना व्यतिरेक उक्तः। अत्र सा यां वीक्ष्ये. ति पठितव्यमिति कश्चित् सुधीः । एवं हि वाक्यस्य प्रकृतपर्यवसायित्वं भवतीति ॥ ४६॥ (विवरणम् ) ध्रुवौ वर्णयति- . तस्या इति । तस्याः ध्रुवोः कान्तिः सा । तस्याः पार्वत्याः ध्रुवोः अयुगलस्य कान्तिः शोभा सा तथाविधेत्यर्थः । अवामनसगोचर इति भावः । अत एवोत्प्रेक्षते-शलाकाखननिर्मितेवेति । शलाका चित्रलेखन- 1. 'भातिशयस' ख. घ. पाठः, २. ' निक' ख. पाठः.

प्रथमः सर्गः। - साधनं, शलाकागावस्थितमञ्जनं शलाकाञ्जनं, तेन निर्मितेव । शलाकाग्रवर्तिना हरितालद्रवादिना लिखितं हि चित्रं निर्मातृजनमनोनुकूलं भवतीति सन्निवे- शविशेषसौन्दर्यमुत्प्रेक्षाफलम् । तादृशं सन्निवेशविशेषमेव विशेषणेनाह- आनतरेखयोरिति । आनता कुटिला रेखा सन्निवेशो ययोस्तयोः । भ्रशो- भाया अवाङ्मनसगोचरत्वमेव द्रढयति--अनङ्गो यां वीक्ष्य स्वचापसौन्दर्य- मदं मुमोचेति । अनङ्गो मन्मथः या भकान्ति वीक्ष्यावलोक्य स्वचापसौन्दर्यमदं स्वस्य चापस्य यत् सौन्दर्य मनोहारित्वं, तेन यो मदः आत्मश्लाषिता, तं मुमोच त्यक्तवान् । नत्र हेतुमाह--लीलाचतुरामिति । लीलया विलासेन चतुरां सुन्दरम् । 'चतुरौ दक्षसुन्दरौं' इति वैज- यन्ती। अनेन विशेषणेन गुणान्तरसाम्ये सत्यगि देवीभ्रुवोरनङ्गचापाद् व्य. तिरेकः प्रतिपादितः । 'कान्ति वारानतरेखयोर्या तां वीक्ष्ये ति पाठे पुनरेक- वाक्यतया योजना । अत्र व्यतिरेकोऽलङ्कारः ॥४६॥ लज्जा तिरश्चां यदि चेनसि स्था- दसंशयं पर्वतराजपुत्र्याः। तत् केशपाशं प्रमक्ष्यि कुर्यु- वालप्रियत्वं शिथिल चमर्यः ॥४७॥ (प्रकाशिका) लज्जेति । तत् तस्मात् । अत्राप्यतिशयोक्तिभेदः प्रागुक्तोऽलङ्कारो व्यतिरेकश्च गम्यते । वाक्यार्थयोश्चात्र लोकसिद्धः कार्यकारणभावः योऽधिकगुणदर्शनाल्लज्जितः, स स्वगुणेषु नादरं कुर्वीतेति ॥४७॥ (विवरणम् ) - केशपाशं वर्णयति- - लज्जेति। तिरश्वां चेतसि लज्जा स्याद्यदि तत् चमर्यः पर्वतराजपुत्र्याः 1. 'राम्। भ' ग. घ. पाठः. २. 'तं के' इति मुद्रितपुस्तकपाठः. ३. 'ते ॥ ए' क. पाठः, कुमारसम्भवे केरापाशं प्रसमीक्ष्य वालप्रियत्वं शिथिलं कुर्युः असंशयम् । (तिरश्वां) तिर्य- ग्योनिजानां पश्चादीनां चेतसि मनसि लजा अपनपा । स्यादिति सम्भावनायां लिङ् । यदीति गच्छब्दस्य प्रतियोगिनं तच्छब्दं निर्दिशति- तदिति । ती यर्थः । पर्वतराजपुत्र्याः पर्वतानां राज्ञः पुत्र्याः पार्वत्याः केशपाशं प्रशस्तं केशम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् परे' इत्यमरः। प्रसमीक्ष्य प्रकर्षण सम्यक् चावलोक्य । अत्र प्रकर्षेणावलोकन नाम देव्याश्चमरीणां च हिमवत्पार्श्ववर्तित्वादनवरतावलोकनम् । देवीकेश- पाशगतानां स्वाभाविकसौरभ्यादिगुणयोगित्वादीनां स्ववालेष्वभावावगमपर्य- न्तमवलोकनं सम्बगवलोकनम् । तस्मात् सम्यगवलोकनं प्रकर्षावलोकनसा- ध्यमिति प्रशब्दस्य पूर्वनिर्देशः । चिरपरिचयवशाद् देवीकेशपाशगतान् विशे- पगुणान् विविच्यावगम्येत्यर्थः । अत्र विविच्यावलोकनमारोपितम् । वाल- प्रियत्वं वालो लाशूलं प्रियो यासां ताः वालप्रियाः, तासां भावस्तत्त्वम् । 'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः'(वा०. ६. ३. ३५) इति पुंवद्भावा- दत्र टापो निवृत्तिः । शिथिलमल्पं कुर्युः । अत्रापि सम्भावनायां लिङ् । असंशयं, नात्र सन्देह इत्यर्थः । यो हि गुणाधिकदर्शनेन लज्जितः, (सः) स्वगुणेषु नादरं करोतीति लोकसिद्धम् । तत्र यदि मनुष्यादीनामिव पश्चा- दीनामपि गुणाधिकदर्शनेन लज्जा भवेत् , तर्हि चमर्यो देवीकेशपाशदर्शनान- न्तरं स्ववालेषु कदाचिदपि नादरं कुरिन्नित्यर्थः । चमरीणां देवीकेशपा. शदर्शने सत्यपि यदेताः स्वलालेष्वादरं कुर्वन्ति, तिर्यग्योनिजातानामे- तासां लज्जाभाव एव तत्र हेतुरिति भावः । अत्र 'पुष्पं प्रवालोपहितं यदि स्याद्' इत्यत्र प्रतिपादितोऽतिशयोक्तिभेदोऽलकारो व्यतिरेकश्रध्वन्यते ॥४७॥ सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । १. 'शं प्र' ग. घ. पाठः. २. ने ल' ग. घ. पाठः. ख.ग, पाठा. ४. 'रः॥ईक. ख. ग. पाठः. ३. 'क्तिरल' क.

प्रथमः सर्गः। -- सा निर्मिता विश्वसृजा प्रयत्ना- देकस्थसौन्दर्यदिदृक्षयेव ॥ ४८ ॥ (प्रकाशिका) एवं दिङ्मात्रदर्शनाय काश्चित् प्रधानावयवानुपवर्योक्तानुक्तावयवसाधारण्या वर्णनया प्रकरणमुपसंहरति- सर्वोपमेति । उपमाद्रव्यं प्रागुक्तं चन्द्रकमलादि, अनुक्तं च नासादिप्रतिवस्तुतिल कुसुमादि, तस्य सगुचयः समाहारः समूह इत्येकोऽर्थः । (नेन) यथाप्रदेशं यथाशब्दः पदार्थानतिक्रमे । प्रदेशो विषयः। स्वस्वोचितप्रपदादिविषयानतिक्रमणेत्यर्थः । विनिवेशि- तेन तिर्यगूर्खादिविशेषतो निवेशितेन । अन्यथा परस्परसाकर्यानौचि त्याभ्यां सौन्दर्यव्यतिरेकाभावः स्यात् । अनेन निर्मातुरवधानाति. शयो ध्वन्यते । विश्वसृजेति, तस्य किमशक्यमिति भावः । प्रयत्नात् प्रकृष्टं यत्नमवलम्ब्य । एवं निर्माणे हि नस्यापि महता यनेनावश्यं भाव्य- मिति भावः । एकस्थस्य एकावयविस्थितस्य सौन्दर्यस्य,अर्थात सर्वोपमा- द्रव्यगतस्य सर्वस्यैव । अन्यथा त्वसमुचयेऽप्येकैकस्थस्य सौन्दर्यस्य खण्ड- शो द्रष्टुमशक्यत्वात् । अत्राखण्डसौन्दर्यदिदृक्षामूलैवविधविधिनिर्माणोत्ने क्षया देव्यामखण्डसौन्दर्याध्यासः प्रतीयते ॥४८॥ (विवरणम्) इत्थं दिङ्मानप्रदर्शनार्थ देव्याः कांचन प्रधानावयवानुपवर्ण्य विस्तरभिया महा- कविरनुक्तानामुक्तानां चावयवानां साधारणवर्णनेन प्रकृतमङ्गवर्णनमुपसंहरति- सर्वोपमेति । विश्वसना सा एकस्थसौन्दर्यदिक्षया प्रयत्नाद् यथाप्रदेश विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मितेव । विश्वजा विश्वं सजतीति विश्वसृट् (तेन) सकलजगन्निर्माणकर्मठेन ब्रह्मणा । तस्य किं दुष्करमिति १. 'रई' क. पाठः. २. 'स्थस्य' क. ख, ग, पाठः.

कुमारसम्भव भावः। सा पार्वती। एकस्थसौन्दर्यदिदृक्षया एकस्थस्यैकस्मिन्नेवावयविनि वर्तमानस्य सौन्दर्यस्य सर्वोपमाद्रव्यगतस्येत्यर्थात् सिध्यति, द्रष्टुमिच्छया । हेतौ तृतीया । न हि पृथक्पृथगवस्थापने पुञ्जीकृत्यावस्थापनेऽपि सुकुमाराणां चन्द्रकमलादीनां सौन्दर्यमेकस्मिन्नेवावयविनि वर्तमानतया द्रष्टुं शक्यमिति भावः । प्रयत्नात् ल्यब्लोपे पञ्चमी, प्रयत्नमवलम्ब्येत्यर्थः । यथाप्रदेशं यथा- शब्दः पदार्थानतिक्रमे । प्रदेशो मुखादिस्थानं, तत्तदुचितप्रदेशानतिक्रमेणे- त्यर्थः । विनिवेशितेन विशब्दो विशेपवाची, तिर्यगूर्वादिविशेषेण निवेशितेन स्थापितेन । पदादिस्थाने पद्मादीनामधोमुखतया स्थापनं, नयनादिस्थाने. कुवलयादीनां तिर्यगवस्थापनमित्यादिविशेषेणेत्यर्थः । अनेन विश्वस- जोऽपि सावधानत्वं ध्वन्यते । सर्वोपमाद्रव्यसमुच्चयेन सर्वेषां न तु केषा- ञ्चिद्, उपमाद्रव्याणां चन्द्रकमलादीनाम् , अनुक्तानां नासादिप्रतिवस्तुभू- तानां तिलकुसुमादीनामप्युपादानार्थ सर्वशब्दः, समुच्चयेन समाहारेण । 'समाहारः समुच्चय' इत्यमरः । समूहेनेत्यर्थः । करणार्थे तृतीया । निर्मिता सृष्टेव । अत्र ततइतो विप्रकीर्णानि चन्द्रकमलापमाद्रव्याणि प्रयत्नादेकत्र समानीय पुनश्च तानि यथोचितप्रदेशं रमणीयतया विन्यस्य ब्रह्मणस्तदङ्ग- निर्माणमित्युत्प्रेक्ष्यते, एकस्थसौन्दर्यदिक्षा तु तत्र हेतुत्वेन । अनेनोत्प्रे- क्षाद्वयेन च देवीसौन्दर्यस्य लोकोत्तरत्वं ध्वन्यते ॥४८॥ तां नारदः कामचरः कदाचित् कन्यां किले प्रेक्ष्य पितुः समीपे । समादिदेशैकवर्धू भवित्री प्रेम्णा शरीराधहरां हरस्य ॥४९॥ (प्रकाशिका) अर्थतत्प्रकरणमुपयोजयन् प्रकरणान्तरमारभते- - 1. 'स्थस्य सौन्दर्यस्यै' ग. घ. पाठः, २. 'स्थाने' घ. पाठः..

प्रथमः सर्गः। तामिति । तामेवंविधगुणविशिष्टाम् । कामचर इति दर्श- नस्य बाछिकरने हेतुः । कदाचिदिति यादृच्छिकत्वम् । कन्यामिति कन्यानो दर्षने हि तपित्रादिप्रीतये तत्मवृत्तये वा भाविनमर्थमादिशन्ति सन्ता, लोकदृष्टयनुसारेणैव नारदस्य तदर्शनादिकमिति च ध्वन्यते । अन्यथा कथं शिवयोरासन्नसेवकः स तयोस्तत्त्वं न विजानीयात् । तौ हि तत्त्वतो नित्यव्यतिषक्तावेवेति सोऽन्य एव परमार्थः । किलशब्दो वार्तायाम् । पितुः समीप इति दर्शनोपपत्यर्थम् । आदेशो भाव्यर्थ- शंसनम् । एकामद्वितीयां वधू भार्याम् । भवित्री भाविनीम् । अयमादेशभकारः । इदमेव तावन्मनोरथस्या यविषयः । इतोऽप्यपरम- स्तीत्याह-प्रेम्णेति । प्रेम्णा, न तु दाक्षिण्यादिना । शरीरस्यार्थहरा- मिति विग्रहः। अन्यथा अर्धशब्दस्य समाविभागवाचित्वे सति 'अध नपुंस- कम्' (२. २. २) इति समासकरणादर्धशरीरहरामिति स्यात् । हरस्ये. त्यत्र तु यथाबुद्धि व्यङ्गयोऽर्थोऽनुसतव्यः, न तु संज्ञिमात्रम् ॥ ४९ ॥ (विवरणम्) अथैतत्प्रकरणोपयोगि प्रकरणान्तरमारभते- तामिति । नारदः कदाचित् तां कन्यां पितुः समीपे प्रेक्ष्य हरस्यैक- वधू भवित्रीं समादिदेश किल । नारद इत्यनेन श्रद्धेयवाक्यत्वमुक्तम् । स हि परमेश्वरस्यासन्नसेवकः । कदाचिदित्यनेन नारदस्य यादृच्छिकमागमनं प्रतिपादितम् । तां पूर्वोक्तसकलगुणविशिष्टाम् । अनेन हरयोग्यत्वमुक्तम् । कन्यामित्यनेन पितुस्तदुचितभर्तृचिन्ता व्यज्यते । तत एव नारदस्य समा- देशावकाशश्च ध्वन्यते । सन्तो हि कन्यादर्शने पित्रादिप्रीतये भाविनमर्थमा- दिशन्ति । पितुः हिमवतः समीपे । अनेन नारदस्य देवीदर्शनोपपत्तिरुक्ता । प्रेक्ष्य सम्यगवलोक्य । अनेन नारदस्य तद्गुणावलोकनं तादृशादेशे हेतुरिति २. 'कावयबावे' ह. पाठः. ३. 'मति व्य' अ. पादः. ४. 'शहे क. न. ग. पाठः - १. 'वेगुहु पाठः.

कुमारसम्भवे लोकदृष्ट्यनुसारो व्यज्यते । हरस्य परमेश्वरस्य एकवधूम् एकामद्वितीयाम् , अनेन पन्यभाव उक्तः, वधूं भार्याम् । 'वधूर्जाया स्नुषा स्त्री चे'त्यमरः । भवित्री भाविनीम् । समादिदेश सम्यगादिदेश । अत्र भाव्यर्थकथनमादेश इत्युच्यते । तत् कृतवानित्यर्थः । एषा हरवधूभविष्यतीति स्पष्टमेवोक्तवानि- त्यर्थः । किलेत्यनेन पुराणप्रसिद्धोऽयमर्थ इति ध्वन्यते । एतावन्मात्रमपि पितुर्मनोरथस्याप्यविषयः । ततोऽप्यधिकं किञ्चिदस्तीत्याह-प्रेम्णा शरीरार्ध- हरामिति । प्रेम्णा नेहेन, न तु दाक्षिण्यादिनेति भावः । 'प्रेम स्नेह' इत्य- मरः । शरीराधहरां, नन्वत्र समांशविवक्षायामर्धशरीरहरामिति वक्तव्यम् । 'अर्ध नपुंसकम' (२. २. २) इति समस्यमानस्यार्धशब्दस्योपसर्जनत्वेन पूर्वनिपातस्यावश्यम्भावात् । अर्धशब्दस्य पुल्लिङ्गत्वे तु शरीरैकदेशहरामित्ये- वार्थः स्यात् । 'अर्धं समेंऽशक' इत्यमरसिंहवचनात् । मैवम् । शरीर- स्यार्धहरामिति विग्रहस्वीकारात् । नारदस्य यादृच्छिकदेवीदर्शने हेतुमाह- कामचर इति । कामं चरतीति कामचरः ॥ ४९ ॥ गुरुः प्रगल्भेऽपि वयस्यतोऽस्या- स्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोन हि मन्त्रपूत- महन्ति तेजांस्यपराणि हव्यम् ॥ ५० ॥ (प्रकाशिका) ततः किमित्याह- गुरुरिति । प्रगल्भे प्रोडे वयसि प्रकृते यौवने । अतो नार- दवचनात् । तस्थौ व्याकुलतामत्यजत् । निवृत्तोऽन्यस्मिन् देवव्यति- रिक्ते वरे वोढर्यभिलाषो यस्य । अयमर्थः-प्रथमं प्रौढयौवनां तां दृष्ट्वानु- रूपस्य कस्यचिद्वरस्याभिलषितत्वानिरूप्यमाणस्यापि तस्यान्यस्य लोके. १. 'के दे' घ. पाठः.

प्रथमः सर्गः। ऽनुपलम्भादनुरूपस्य च देवस्य मनोरथानामप्यविषयत्वादसौ व्याकुलो- ऽभूत् । पश्चान्नारदवचनाद् देवे भाविनि वर उपलब्धे निवृत्तान्यवराभि- लाप एव भूत्वा निर्व्याकुलोऽभूदिति । युक्तञ्चैतदित्याह ऋत इति । हविषि मन्त्रपूतत्वमपरानहत्वे हेतुः । प्रकृते तु प्रकरणप्रतिपादितो वि- श्वातिशायी गुणग्रामः ॥ ५० ॥ (विवरणम्) -- नारदादेशानन्तरं पितुः प्रवृत्तिमाह-- गुरुरिति । गुरुरतोऽस्याः प्रगल्भ वयस्यपि निवृत्तान्यवराभिलाष- स्तस्थौ। गुरुः पिता हिमवान अती विश्वसनोयनारदादेशाद्धेतोः अस्याः पार्वत्याः प्रगल्भे प्रौढे वयसि, यौवन इत्यर्थः । अपिशब्दो दुहितुयौवनाव- स्थायां पितुस्तथावस्थानस्यासम्भवं द्योतयति । तस्य च मुनिवचनमेव हेतु- रिति सूचयति-निवृत्तान्यवराभिलापः (इति)। निवृत्तो व्यावृत्तः अन्यास्मिन् भगवद्वयतिरिक्ते वरे विवाहकर्तरि अभिलाषो यस्य तथाविधः सन् तस्थौ । 'ठा गतिनिवृत्ताविति धातुः । मनोव्यापारनिवृत्तिरेवात्र विवक्षिता । लोकातिशायिलावण्यामारूढयौवनां च तनयामवमवलोकयन् हिमवान् भग- वद्वयतिरिक्तस्य कस्यचिदपि देव्या असमानत्वाद्, भगवतस्तु मनोरथानामप्य- विषयत्वात् को वा मे दुहितुर्भर्ता भविष्यतीति व्याकुलोऽभूत् । नारदादे- शानन्तरं तु निर्व्याकुलोऽभूदिति भावः । युक्तं चैतदित्याह-----मन्त्रपूतं हव्यं कृशानोते अपराणि तेजांसि नार्हन्तीति । मन्त्रैः पूतं मन्त्रपूतम् । एतच्चा- न्यानहवे हेतुः । देव्याः पूर्वप्रतिपादितविश्वातिशायिगुणगणप्रतिवस्तुभूतं चेदं विशेषणम् । हव्यं हविः कृशानोते अग्निं विनी । 'अन्यारादितरते'- (२.३.२९) इति पञ्चमी । अपराण्यन्यानि तेजांसि सूर्याचन्द्रमसादीनि १. 'यन् भ' ग. प्र. पाठः. २. 'ना अप' घ. पाट.. ३. 'र्यचन्द्रादी' ग. घ. पाठः.

कुमारसम्भव नाईन्ति । हिशब्दः प्रसिद्धौ। यथा मन्त्रपूतं हविः कृशानुरेवाईति, तथा सामपि हर एवेति भावः ॥५०॥ अयाचितारं न हि देवदेव- मद्रिःसुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधु- माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥५१॥ (प्रकाशिका) तर्हि किमसौ स्वयं कन्यया देवं नोपस्थितवानित्याह--- अयाचितारमिति । अभ्यर्थनाभङ्गः प्रत्याख्यानम् । साधुर्मानी। माध्यस्थ्यममत्तिम् । अत्र देवगतस्यायाचनस्य अद्रिगतस्य कन्याग्राहणा- शक्तत्वस्य च कार्यकारणभावः "अयाचितानि देयानि सर्वद्रव्याणि भारत! । अन्नं विद्या तथा कन्या अनर्थिभ्यो न दीयते ॥" इत्यागमसिद्धः । अत्र प्रत्युपसृष्टस्य गृह्णातेः प्राप्त्यर्थत्वाद् 'गतिबुद्धि-' (१.४.५२) इत्यादिसूत्रेण कर्मसंज्ञायां देवमिति द्वितीयेति दक्षिणावर्तः। वयं त्वनुपसृष्टस्यापि प्राप्त्यर्थत्वं मन्यामहे । तथा च देवदेवमद्रिः सुता ग्राहयितुमि ति महिमा पपाठ । एवञ्च- "तमादौ कुलविद्यानामर्थमर्थविदां वरः। पश्चात् पार्थिवकन्यानां पाणिमग्राहयत् पिता ॥" इत्यत्रोत्तरवाक्ये दक्षिणावर्तर्देशितो विभक्तिविपरिणामो न कार्यः ॥५१॥ (विवरणम्) ननु यदि हर एवास्याः पतिरिति नारदादेशादवगतं हिमवता तहि केन कारणे- नासौ स्वयमेव कम्यया न देवमुपस्थितवानत आह- १. या न देवमुप' ङ. पाठः. २. 'ज्ञया ' ज. पाठः. ३. 'रम्' क. पाठः 'कृतो'. पाठ. -- - .

प्रथमः सर्गः। अयाचितारमिति । अद्रिः सुतामयाचितारं देवं प्रतिग्राहयितुं न हि शशाक । अद्रिः हिमवान् अयाचितारं याचनं करोतीति याचिता, ततोऽन्यम् अयाचितारं देवं परमेश्वरं सुतां तनयां प्रतिग्राहयितुम् । अत्र 'गतिबुद्धि-' (१.४.५२) इत्यादिसूत्रे ग्रहेरनुपादानाद् देवं प्रतिग्राहयितु- मिति द्वितीयानुपपत्तेः प्राप्त्यर्थत्वमेव युक्तम् । तत् तु प्रत्युपसर्गवशादिति दक्षिणावर्तः । अरुणाचलनाथस्तु ----निरुपसर्गस्यापि ग्रहेः प्राप्तयर्थत्वमुक्तवान् । सुतां देवं प्रापयितुमित्यर्थः । हिशब्दोऽवधारणे । नैव शक्तोऽभूदित्यर्थः । "अयाचितानि देयानि सर्वद्रव्याणि भारत : । अन्नं विद्या तथा कन्या अनर्थिभ्यो न दीयते ॥" इति वचनादिति भावः । अत्रार्थान्तरन्यासमाह-मानी इष्टे अर्थे अभ्यर्थना- भङ्गभयेन माध्यस्थ्यमवलम्बत इति । मान्यभिमानी जनः इष्टे स्वसाध्य- भूतेऽर्थेऽपीत्यर्थः । अभ्यर्थना याचना, तस्यास्तु भङ्गः प्रत्याख्यानं, तस्माद् भयेन । न वयमस्यां सक्ता इत्यादिवचनभयादिति भावः । मध्यस्थस्य भावो माध्यस्थ्यमौदासीन्यमिति यावत् । मानिनो हि जना निजाभिलषिते- ऽप्यर्थे प्रत्याख्यानभिया नातीव प्रयतन्त इत्यर्थः ॥५१॥ यदैव पूर्वे जनने शरीर सा दक्षरोषात् सुदती ससर्ज । तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ २२ ॥ (प्रकाशिका) इत्थं सकलजगदेकनायिकायाः प्रबन्धनायिकायाश्चरितमुपवर्ण्य तत्प्रसङ्गेन नायकस्य वृत्तान्तमवतारयति । तत्र चाय प्रसङ्गः - एवंविधां पूर्वपत्नी किमयं देवः स्वयं भूधरेन्द्र न याचितवानिति ।

कुमारसम्भवे -- यदैवेति । दक्षिणावर्तेनोक्तं 'दक्षरोषात्तु सतीति पाठः। तुश- ब्दोऽवधारणे । सतीति तादात्विकं नामेति । तत्पाठे तुशब्दः प्रकर- णान्तरोपक्रमद्योतको युक्तः । यथा महाभारते ‘कृत्वा विवाहं तु कुरु- प्रवीरा' इति, ‘कृतशौचं तु राजानं धर्मात्मानमिति च। रामायणे- ऽपि 'प्रविश्य तु महारण्यं दण्डकारण्यमि'ति । सती सेत्यन्वयः । सुदती- ति पाठे सुदतीशब्दस्य वयोवस्थाविशेषवाचित्वानिरुपयोगता । देवतानां वयोवस्थाया अविशेषात् । यद्वा वयोवस्थया देवं प्रति देव्या अपर्या- तभुक्तत्वं लक्ष्यते । तच्च निर्वेदकारणम् । अपर्याप्तभुक्तस्येष्टस्य वस्तुनो झटित्यत्यन्तनाशः सत्त्ववतां सर्वतो निर्वदाय हि भवति । सङ्गत्यागश्च निर्वेदः। अपरिग्रहो ममत्वरहितः। ममत्वं हि सङ्गस्य कार्यम् । पशूनां पतिरित्यनेन सकलचेतनप्रवृत्तिनिवृत्तिकर्णधारस्यास्य कथमपरिग्रहत्व- मिति कथं वास्य मायाकार्य परिग्रह इति वा सोत्माशोक्तिय॑ज्यते । अत्र देवीदेहत्यागो देवस्य सङ्गत्यागे कारणम् । तथाहि-प्रकृष्टशांका- भिभूताः सन्तः सत्त्ववन्तः प्रत्यवमर्शिकया सत्त्वात्मिकया दृष्टया विष- येषु दोषान् पश्यन्तः सर्वतो निर्विद्यन्ते। किञ्च जनयिता च विप्रियाचर- णन देहत्यागहेतुर्जातः । तस्मात् यावतः कुरुते जन्तुः सम्बन्धान मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥" इति न्यायन सम्बन्धः सर्वतो दुःखावह इति देहत्यागस्य सङ्गत्यागहेतुत्वं समर्थयितुं प्रकरणसिद्धोऽपि दक्षरांपो हेतुरुपात्तः । तर्हि तदेहत्यागस्य हेतुत्वमात्रे वक्तव्यं तदैव प्रभृतीति कालनियमोपक्रमवाचीनि पदानि किमर्थमुपात्तानि । उच्यते । अत्र तदेति निर्दिष्टस्य कालविशेषस्यैव MH- २. पिऊ. ' पि3.पाठः. ३. 'न्धाः' ड. पाठ:. १. . 'करणाधा' क. ख. ग. पाठः. ४. 'खहेतव इ' इ. पाठः.

प्रथमः सर्गः। शाब्दं हेतुत्वम् । अव्ययत्वात्तु विभक्त्यश्रवणम् । कालो हि सकलभावानां प्रवृत्तिनिवृत्तिहेतुत्वेनेष्टः । अत एव तस्य नैमित्तिकाधिकरणत्वं 'मधौ मा- धन्ति कोकिला' इत्यादाविच्छन्ति शाब्दिकाः। देहत्यागस्य तु काल- विशेषणत्वादार्थ हेतुत्वम् । विशेषणे हि तात्पर्य भवति । एवशब्दस्तु तस्यैव कालस्य हेतुत्वमिति द्योतनाय । यद्यपि सर्ववाक्यानां सावधार- णत्वं, तथापि व्यवच्छे यम्योकटत्वेन प्रावधारणाय विवक्षित- त्वद्योतनाय तद्वाचि पदं प्रयुज्यते । अत्र देहत्यागस्य पप्पर या सङ्गत्यागं प्रति हेतुत्वे कालान्तरस्य हेतुन्वं, साक्षातु हेतु वे नविशिष्टस्यैव कालस्य हेतुत्वमिति विकल्पेन कालयमाप्ताववधारणस्य विवक्षितत्वम् । नन्वे- वमेक एव तच्छन्दनिकटस्थ पवशब्द उपादेयः, न लायः, अर्थविशेषा भावात् । नैवम् । अनुवाददशायामपि कालविशेषधर्मस्यावधारणस्य वक्तृबुद्धावुद्रेकेणावभासमानखात् । तथा च शिष्टप्रयोगः 'येव त्वं हि पुरा जाता सैव त्वं हि शिखण्डिनीति । प्रभृतिशब्दस्याभावे तु सङ्ग- त्यागस्यानुवृत्तिन प्रतीयेत । तस्मात् त्रितयमप्युपादेयम् । इतःप्रभृति स्वेच्छापरिगृहीतधीरोदात्तावस्थस्य देवस्य लोकानुग्रहदेतावितिवृत्त आ- धिकारिकतया वर्ण्यमाने दयावीरो रसोऽङ्गी । तदन्येषामङ्गत्वम् । अत्र पूर्वप्रवृत्तत्वेन सचितस्य शृङ्गारस्य रोिधी तपश्चर्यानुभावकः शान्तो रसस्तृतीयसर्गान्तं यावदनुवर्तते । तयोश्च विरोधस्तदुभयाविरुद्धेन देवी- देहत्यागमूचितेन मध्ये पतता करुणेन प्रशमिलः । तदुक्तं ध्वनिकृता- "रसान्तरान्तरितयोरंकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता।" इति ॥५२॥ (विवरणम्) इस्थमखिललोकनायिकायाः प्रबन्धनायिकाया वृत्तमुपवर्ग नन्प्रसङ्गप्रातो नायकवृत्तान्तः १. 'ण भा' क. पाठः. २. 'पि' क. पाट:. ३. 'जाभावस्या' ख. घ. पाटः. ४. 'त' ख. ५. '' ह. पाठः. - ग. घ. पाट:.

कुमारसम्भवे प्रस्तूयते । सत्राचे प्रसङ्गप्रकार: कैधियुक्ताननु पदि देवगतमयाचनमहिमसाय कया- प्राहणाशक्तवस्य हेतुस्तर्हि केन हेतुनायं देवः स्वयमेव हिमवन्तं निजपूर्वपली न याचि- सवानित्यवाह-यदैवेतीति। वयं तु देवीशरीरत्यागानन्तरं देवः किमकरोदित्यवाहेति प्रमः। सुदती सा पूर्वे जनने दक्षरोषाद् यदैव शरीरं ससर्ज पशूनां पति- स्तदाप्रभृत्येवापरिग्रहः अभूत् । शोभना दन्ता. यस्याः सा सुदती । 'वयसि दन्तस्य दतृ' (५.४.१४१) इति दत्रादेशः। 'उगितश्च' (४.१.६) इति डी। शोभनदशना युवतिश्चेत्यर्थः । अनया च वयोवस्थया देवस्य देवीस- म्भोगेष्वतृप्तत्वं लक्ष्यते । देवतानां वयोवस्थाया अविशेषात् । अर्धभुक्तमिष्टं विनष्टं हि वस्तु सत्त्ववतां सर्वतो निर्वेदमापादयति । अत एव विमुक्तसङ्ग इत्युक्तम् । दक्षरोषात् तु सतीति पाठे तुशब्दः प्रकरणान्तरोपक्रमद्योतकः । सतीति नाम । सा पार्वती पूर्व जनने पूर्वस्मिन् जन्मनि, दक्षपुत्रीत्वाव- स्थायामित्यर्थः । दक्षरोषाद् दक्षविषयाद् रोषाद् यदैव शरीरं ससर्ज विससर्ज, पशूनां कर्मपाशयन्त्रितानां ब्रह्मादिस्तम्बपर्यन्तानां जीवानां पतिः अन्तर्यामितया नियन्ता । अनेन सङ्गत्यागादीनामप्यस्य लोकयात्रा- मूलत्वं व्यज्यते। तदाप्रभृत्येव तदानीमेवारभ्य अपरिग्रहो ममत्वरहितोऽभूत् । यदैव देवी दक्षरोषादात्मनः शरीरं विससर्ज, तदानीमेव परमेश्वरोऽहम्ममा- भिमानरहितोऽभूदित्यर्थः । किमत्र चित्रम् । पितापि विप्रियमाचरन् पुण्याः शरीरत्यागे हेतुर्जात इति द्योतयितुं प्रकरणसिद्धमपि दक्षरोषमुपात्तवान् । देवी तु- "यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्गवः ॥" इति न्यायमवलम्ब्य स्वशरीरमेव तत्याजेत्यर्थः । अपरिग्रहत्वावलम्बे हेतुमाह-- 4marati .. 'ति' घ. पाठः २. 'स्थ' च. पाठः ३. रत' ख. पाठः.

प्रथमः सर्गः। विमुक्तसङ्ग इति । विमुक्तो विशेषेण मुक्तः सङ्गः सक्तिर्येन स तथा । सङ्गो हि ममत्वाभिमाने हेतुः । ननु कुतो भगवतो ममत्वं, कुतस्तरां तत्परित्यागः । सत्यम् । इष्टजनवियोगे महाजनैरेवमेव कर्तव्यं, न पुनरतिमोह इति लोक- शिक्षार्थमेव देवस्यायं व्यापारः । ननु यदि देवीशरीरत्याग एव देवस्य ममत्वपरित्यागे हेतुस्तर्हि किमर्थं तदाप्रभृत्येवेति कालनिर्णयस्योपादानम् । देवीशरीरत्यागाद् देवो ममत्वरहितोऽभूदित्येव हि वक्तव्यम् । उच्यते । काल एव हि सर्वेषामपि भावानां प्रवृत्तिनिवृत्तिहेतुः, 'मधौ माद्यन्ति कोकिला' इत्यादिव्यवहारदर्शनात् । तस्माद् देवीशरीरत्यागविशिष्टस्य काल- स्यैव सङ्गत्यागकारणत्वमिति न काचिदनुपपतिः ॥५२ ।। स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रपातोत्थितदेवदारु । प्रस्थं हिमाद्रेर्मगनाभिगन्धि किश्चित् कणत्किन्नरमध्युवास ॥ २३ ॥ (प्रकाशिका) ततः किमित्याह-- -- स इति । यतात्मा हिंसादिभ्यो निवृत्तचित्तः । प्रपनत्य- स्मिमिति प्रपातः । मृगनाभिः कस्तूरी । कणत्किन्नरं किश्चित् प्रस्थमिति विशेषानादरं द्योतयति । परमेश्वरपरिगृहीतस्यैव क्षेत्रत्वात् । अत्रायेन विशेषणत्रयेण तपसः परिकर उक्तः । अन्येन विशेषणद्वयेन रमणीयत्वप्रतिपादकेन विरोधिसविधावःयतिधीरत्वाद् देवस्य धैर्यलोप- शका नास्तीति घोत्यते । यथा शाकुन्तले- "प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकापशे धर्माभिषेकक्रिया। १. 'बाहोक्षित' मुद्रितकोशपाठः, २. 'षेणाद' घ. पाठ;

कुमारसम्भवे ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत् कालन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥" इति ॥ ५३॥ (विवरणम्) निस्सङ्गस्य भगवतः प्रवृत्ति दर्शयति- स इति । स कृत्तिवासास्तपसे हिमाद्रेः किञ्चित् प्रस्थमध्युवास । सः य एवं निर्विण्णः स इत्यर्थः । कृत्तिवासाः कृत्तिरर्थाद् गजचर्म वासो यस्य स तथा । अनेन तपःपरिकरभूतमजिनधारणमुक्तम् । तपसे तपश्च- रितुं हिमाद्रेर्हिमाचलस्य किञ्चिद् यत्किञ्चित् । अनेन प्रस्थविशेषणेन देवस्य प्रस्थविशेषानादर उक्तः , परमेश्वरपरिगृहीतस्यैव पुण्यफलत्वात् । प्रस्थं सानुम् । 'प्रस्थः सानुरस्त्रियाम्' इत्यमरः । 'पुनपुंसकयोः प्रस्थम्' इति शाश्वतः । अध्युवासाध्यास्त । 'उपान्वध्याकसः' (१.४.४८) इति प्रस्थस्य कर्मसंज्ञा । तपसः परमोपकरणमाह-यतात्मा। यतः संयत आत्मा मनो येन । एतच्च बहिरिन्द्रियाणामप्युपलक्षणम् , अन्येन्द्रियप्रवृ- त्तिपूर्वकत्वात् । जितेन्द्रिय इत्यर्थः । तपसो वाह्योपकरणसम्पत्तिं दर्शयितुं प्रस्थं विशिनष्टि----गङ्गाप्रपातोत्थितदेवदारु । गङ्गायाः प्रपातो गङ्गाप्रपातः । प्रपतत्यस्मिन्निति व्युत्पत्त्या प्रपातः प्रपतनस्थानम् । गङ्गायाः प्रपतनस्थानमि- त्यर्थः । तत्रोत्थिताः प्ररूढाः देवदारवो वृक्षविशेषा यस्मिंस्तत् । अनेन प्रस्थस्य पावनत्वं, जलबाहुल्यं, छायासौख्यं चोक्तम् । प्रस्थस्य रमणीयत्व- माह-मृगनाभीत्यादिना विशेषणद्वयेन । मृगनाभिः कस्तूरी, तस्य गन्धो- ऽस्त्यस्मिन्निति तथा। क्वणन्तो वीणया सह गायन्तः किन्नरा यस्मिंस्तत् तथा । अनेन विशेषणद्वयेन देवस्यातिधीरत्वाद् रमणीयवस्तुसन्निधावपि समाधि- भङ्गशका नाभूदिति घोत्यते । उक्तं च शाकुन्तले- प्रथमः सर्गः। "प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्ष वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥" इति । तेन च कथानायकस्य स्वेच्छापरिगृहीतधीरोदात्तावस्था ध्वन्यते । "महासत्त्वाऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ।' इति धीरोदात्तलक्षणमिति । अत्र काव्य तावदाधिकारिकतया वर्ण्यमाने तारकासुरनिग्रहाय कुमारोत्पादनरूपे भगवच्चरिते दयावीरो रसोऽङ्गी । इत- रेषां तु शृङ्गारादीनां तदङ्गता। नन्वत्र तृतीयसर्गान्तं यावत् तपश्चर्यानु- भावभासुरः शान्तो रसोऽङ्गतया वर्ण्यते । स च पूर्ववृत्तत्त्वेनोपक्षिप्तस्य शृङ्गा- रस्य विरोधीति कथं तयोः समावेशः । उच्यते । तद्विरोधनिवृत्त्यर्थमेव हि महाकविना तन्मध्ये तदुभयाविरोधी देवीदेहत्यागसूचितः करुणो रस उप- क्षिप्त इति नात्र कश्चिद् विरोधः। तदुक्तं ध्वनिकारण- "रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशविरोधिता ॥" इति ॥ ५३॥ - गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्वसानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयगन्धेषु शिलातलेषु ॥५४ ॥ २. 'दधानाः' मुद्रितकोशपाठः. ३. 'नद्वेषु' मुद्रित- १. 'पुण्याभि' ग. घ. पाठः. कोशपाठः.

१०० कुमारसम्भवे (प्रकाशिका) गणा इति । नमेरुः सुरपुनागः । मनःशिलया विच्छुरितास्त- दङ्गरागाः । शैलेयं गन्धौषधिविशेषः शिलाजतु वा । अत्र परमेश्वरोपा- सकानां मायागर्भनिष्क्रान्तानां सर्वज्ञत्वादिगुणयुक्तानामपि गणेश्वराणां लीलावलम्बितलोकवृत्तत्वात् तद्देशोचितोपभोगवर्णनमुपपद्यत एव । एव- मुत्तरश्लोकेऽप्यवसेयम् ।। ५४ ॥ (विवरणम्) इत्थं तपश्चरणोयुक्ते परमेश्वरे तदुपासनापरिहतमायातत्कार्याणां भूतगणानां तदेश- कालोचितमुपभोगं वर्णयति- गणाः गणा इति । गणाः शैलेयगन्धेषु शिलातलेषु निषेदुः । परमेश्वरपार्षदा भूतगणाः । शैलेयगन्धेषु, शैलेयाः गन्धौषधिविशेषाः शिलाजतु वा । 'शिलाजतु तु शैलेयम्' इति वैजयन्ती । शैलेयानां गन्धो येषु तेषु शिलातलेषु शिलाप्रदेशेषु । अनेनावस्थानसौ- ख्यमुक्तम् । निषेदुः स्थितिं चक्रुः । तेषां तद्देशकालोचितं मूष- णादिकं वर्णयति विशेषणत्रयेण । तत्रादौ शिरोलङ्कारमाह-नमेरुप्रसवा- वतंसा इति । नमेरूणां सुरपुन्नागानां प्रसवाः पुष्पाण्यवतंसाः शिरोलङ्कारा येषां ते तथा । अनेन नमेरुकुसुमानामतिरक्तत्वादलङ्कारसौख्यमुक्तम् । वस- नसौख्यमाह-स्पर्शवतीर्भूर्जत्वचो वसाना इति। स्पर्शवतीविशिष्टतरस्पर्शगुण- युक्ताः, अतिमृद्वीरित्यर्थः । अनेन परिधानसौख्यमुक्तम् । भूर्जत्वचस्तद्देश- सुलभान् वृक्षत्वग्विशेषान् । वसानाः परिदधानाः । अङ्गरागसौख्यमाह- मनश्शिलाविच्छुरिता इति । मनश्शिला धातुविशेषः, तया विच्छुरिता रूषिताः, तदङ्गरागा इत्यर्थः । अनेन तेषां रक्ततरत्वादितराङ्गरागेभ्यो मनोहारित्वमुक्तम् । भूतगणास्तद्देशसुलभैरुपभोगसाधनैर्भगवत्सन्निधावेव रेमिर इति भावः ॥५४॥ - ५. 'ज्येवाव' क. व. ग. पाट:.

प्रथमः सर्गः। १०१ तुषारसङ्घातशिलाः खुराप्रैः समुल्लिखन दर्पकलः ककुमान् । दृष्टः कथाश्चिद् गवयैर्विविग्नै- रसोढसिंहध्वनिरन्ननाद ॥ ५५ ॥ (प्रकाशिका, तुषारेति। तुषारसङ्घातश्चासौ शिला चेति विग्रहः। दर्पकला दर्पण कला सुन्दरः । विविनीतैः । गवयाः गोसदृशाकृतयो मृगाः । नित्यदृप्त- त्वात् तद्देशसम्भविनं धीरधीरं सकलसत्त्वभीषणं सिंहध्वानमसहमानस्तत एव खुरविलिखिततुहिनशिलः कैलासकूटप्रख्यवपुष्मत्तया प्रलयमेघगजि- तप्रतिमध्वानतया च चैकितैः सजातीयशङ्कया गवयैर्विलोक्यमानो देवस्यौ- पवायो वृषो जगजेत्यर्थः ॥ ५५ ॥ (विवरणम्) भगवद्वाहनभूतस्य ककुमतः प्रवृत्तिं वर्णयति- तुषारेति । ककुद्मानुन्ननाद । ककुमान् हरवृषभः उन्ननाद उच्चै- ननाद । वृषभस्वभावमाह-तुषारसङ्घातशिलाः खुराग्रैः समुलिखन्निति । तुषाराणां तुहिनानां सङ्घाताः समूहाः तुषारसङ्घाताः, तुषारसङ्घाताश्च ताः शिलाश्चेति तुषारसङ्घातशिलाः, ताः खुराप्रैः समुल्लिखन् खुराणामग्रैः कर्षन् । खुराणामप्रैस्तद्देशसुलभान हिमजालोपलाननवरतमुलिखन्नित्यर्थः । अयं च कुपितानां मत्तानां वृषभाणां स्वभावः । तत्र मत्तत्वमाह-दर्पकल इति । दर्पण परिभूतसकलमृगतया जनितेनाहकारेण कलः सुन्दरः । अत एव विवि- प्रैगवयैः कथञ्चिद् दृष्टः । विविनीतैश्चलितैश्च । 'ओविजी भयचलनयोः' इत्यस्माद् धातोर्निष्ठान्तोऽयं शब्दः । गवयैर्गोसदृशाकृतिभिर्मगविशेषैः । कथञ्चित् कथमपि दृष्टो विलोकितः । कैलासप्रतिमाङ्गतया प्रलयधनघटा- १. 'मानध्वा' घ. पाठः. २. 'भयचकि' ग. घ. पाठः. ३. 'ज' क. स. पाठः.

१.२ कुमारसम्भव गर्जितसदृक्षनिखानतया च जायमानात् त्रासात् स्वयूथ्यशङ्काजनितेन विश्वा- सलवेन च यथाकथञ्चिदवलोक्यमान इत्यर्थः । कुपितत्वमाह --- असोढसिंह- ध्वनिरिति । सोढो मर्षितो न भवतीत्यसोढः, असोढः सिंहानां ध्वनिर्येन स तथा । तद्देशसुलभं सकलजनमयानकं सिंहध्वनिमप्यसहमान इत्यर्थः । अत्र स्वभावोक्तिरलङ्कारः । 'स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्' इति ॥५५॥ तत्राग्निमाधाय समित्समिद्धं खमेव मूर्त्यन्तरमष्टमूर्तिः। स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥५६॥ (प्रकाशिका) तत्रेति । अग्नेः सकलवैदिकानुष्ठाने प्राधान्येन तदाधानस्य पौ- र्वकाल्यम् । अग्निश्चायं तपोर्थः न गार्हपत्यादिः, अपनीकत्वात् । समित्स- मिद्धमिति तत्परिचर्यायामविकलत्वं द्योत्यते । स्वमेव मूर्त्यन्तरमिति तत्स्वरूपविशेषाभिज्ञत्वम् । तपसः फलानां स्वयं विधातेति परमपरिपूर्ण- खेन स्वतन्त्रत्वेन च स्वर्गादिप्रसिद्धफलापेक्षाविरहं द्योतयता विशेषणेन केनापीति निर्दिष्टं कामस्याचिन्तनीयत्वमुपपादितम् । तपसः कामनापूर्व. कत्वाद् निष्कामानामपि वा तपस्यतामन्तःकरणशुद्धः कर्मपरिक्षयस्य वा समभिहितत्वात् फलभावानुमितिः। फलस्य चोक्तप्रकारेणीचिन्तनीय- त्वम् । अभिसन्धिविशेषश्च फलं कामः । तस्मात् केनापि कामेनेत्युक्तम् । अतिशयार्थ चाचिन्तनीयत्वं कामस्योक्तम् । वस्तुतस्तु लोकानुग्रहाय कारुणिकस्य तस्य तप इति पुराणादिप्रसिद्धम् ॥ ५६ ॥ १. 'णानुमितिचि' घ. पाठः, २. 'षयश्च' ङ. पाठः.

प्रथमः सर्गः। १०३ - (विवरणम् ) इत्थं भगवत्पार्षदानां प्रवृत्तिं प्रतिपाद्य प्रकृतस्य भगवतस्तप एव प्रस्तीति- तत्रेति । अष्टमूर्तिस्तत्राग्निमाधाय केनापि कामेन तपश्चचार । सूर्या- नलादिभेदेनाष्टौ मूर्तयः शरीराणि यस्य सोऽष्टमूर्तिः शिवः । यथोक्तं- "सूर्यानलेन्द्वात्मधरानिलाम्बुव्योमाया यस्य हि मूर्तयोऽष्टौ । तं लोकनाथं कथयन्ति सन्तः शैलेन्द्रकन्यापतिमष्टमूर्तिम् ॥" इति । अनेन भगवतस्त्रैलोक्यात्मकत्वमुक्तम् । तत्र हिमवच्छिखरे अग्नि- माधाय विलेखनप्रोक्षणादिना सम्पाद्य । नात्र गार्हपत्यादीनामग्नीनां श्रौते- नाधानविधिना सम्पादनं विवक्षितं, तत्र सपत्नीकस्यैवाधिकारात् । सकलवै- दिककर्मानुष्ठानेष्वग्नेरेव प्राधान्यात् तदाधानस्य पूर्वकालल्वम् । केनापि कामेन निपुणं निरूपयसामप्यवाङ्मनसगोचरेण केनाप्यभिसन्धिविशेषेण । हेतौ तृतीया । तपश्वचार तपः कृतवान् । अग्नौ विहितानि कर्माण्यपि संक्षिप्य दर्शयति-समित्समिद्धमिति । समिद्भिः समिद्धं सम्यगिद्धम् । अनिद्धेऽनौ होमनिषेधादिद्धमित्युक्तम् । पुनश्च समिद्धोमानन्तरं ताभिः सम्यागिद्ध- मिति भावः । देवेनाराध्यस्य देवतान्तरस्याप्यभावं द्योतयन्नग्निं विशिनष्टि- स्वमेव मूर्त्यन्तरमिति । स्वमात्मीयमेव मूर्त्यन्तरं मूर्तिभेदम् । अष्टमूर्तेर्भग- वत एका हि मूर्तिरग्निरेव । भगवतस्तपःफलेष्वनादरं द्योतयन् भगवन्तं विशिनष्टि-स्वयं तपसः फलानां विधातेति । अत्र स्वयमित्यनेन फलप्रदाने स्वातन्त्र्यमुक्तम् । तपःफलत्वेन प्रसिद्धानां स्वर्गादीनां स्वयमेव प्रदातेत्यर्थः । अनेन देवस्य तपश्चरणे फलप्रदानन्तराभाव उक्तः। अखिलकर्मिणां कर्म- फलप्रदस्य भगवतस्तपश्चरणे तदाराधनीयस्य देवतान्तरस्याभावात् फलप्रदा- वन्तराभावात् प्रदेयस्य स्वर्गादेः स्वानुवर्तित्वेन भगवतस्तत्र साध्यत्वा- भावाच कथं देवकृतस्य तपसः फलविशेषानुमानोपपत्तिरिति केनापि कामेने- १. 'तंभ' क. ख. ग. पाठः. २. 'न्यपि क' क. ख. ग. पाठः. ३. 'णि सं' क. ख. ४. 'धात् समिद्धमि' क. स. ग. पाठः. ५. 'स्याप्यभा' घ. पाठः. ६. 'स्वोत्पत्तित्वे' पाठ. घ, पाठ, १०४ कुमारसम्भवे त्युक्तम् । नन्वकामनया तपश्चरणमस्तु । मैवम् । अकामनया तपश्चरतामपि दुरितक्षयादिभिरन्तःकरणशुद्धिद्वारेण मोक्षफलार्थित्वात् । नित्यमुक्तस्य भगव- तश्च तदभावात् । तस्मात् तपश्चरणदर्शनेन फलसामान्याभिलाषानुमानोदये सत्यपि तद्विशेषानुमानस्य दुष्करत्वादुपपन्नमेव केनापि कामेनेति वचनम् । कामस्याचिन्तनीयत्वप्रतिपादनमतिशयार्थमेव । परमार्थतस्तु भगवतस्तप- श्वरणं लोकानुग्रहणाय । अनुग्रहश्च सर्वैरप्येवं कर्तव्यमित्युपदेशः । यथोक्तं भागवते- "ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा। लोकानां ग्राहयञ्छीलं यथान्योऽघापनुत्तये ॥" इति ॥५६॥ - अनमर्येण तमद्रिनाथः स्वौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमग्रां समादिदेश प्रयतां तनूजाम् ॥५७॥ (प्रकाशिका) अथ वक्ष्यमाणाधिकारिकवृत्तभार्गसङ्घटनाय खावसरे पतार्कादिवृत्तं किञ्चिदनु- सन्धत्ते- अनर्घमिति । अर्घः पूजा, तद्रहितोऽनघः । दवीयस्तया तदगो- चरमित्यर्थः । स्वर्गीकसामर्चितं देवैरर्च्यमानम् । 'मतिबुद्धि (३.२.१८८) इत्यादिना वर्तमाने क्तः । 'क्तस्य च वर्तमाने' (२.३.६७) इति षष्ठी। प्रयतां शुद्धाम् । तनूजामिति गृहमेधिनो ह्यतिथीनां सत्काराय ३. 'गषट' घ.. पाठः, १. 'य' मुद्रितकोशपाठः. २. 'मेता' मुद्रितकोशपाटः ४. 'का' क.स्व. ग. घ. पाठः, प्रथमः सर्गः। कन्यका नियुञ्जन्ति । यथा दुर्वाससः कुन्ती कुन्तिभोजः । यथा वा बल- भद्रः सुभद्रा यतिवेषस्य किरीटिनः । अयमर्थ:---- यदनुग्रहविशेषलब्ध- तत्तदैश्वर्या ब्रह्मादयः पुनरनावृत्ति यत्पदमवाप्तुं यमेव करणग्रामागोचरं नानाद्रव्यमयेषु लिनेवर्चयन्तीनि श्रूयते, तं देवं केनापि पुण्यपरिपाके- नोपस्थितमुपलभ्य भूधरेन्द्रोऽध्यादिभिरभ्यय नदविच्छेदाय श्रद्धादिगु- समन्वितां देवीमेव नत्र नियुक्तवानिनि ॥ ५७ ।। (विवरणम् ) इत्थमुपवर्णितवृत्तयोनायिकानायकयोः परस्परसंघटनाथ प्रसङ्गागन किमपि वृत्तं प्रस्तौति-- अनर्घमिति । अदिनाथस्तमध्येणार्चयिन्यास्वाराधनाय सखीसमग्रां तनूजां समादिदेश । अद्रिनाथा हिमवान् । तम्त्यं तपश्चरन्तं भगवन्तम् । अर्येण, अर्घः पूजा तदर्थं जलमय॑म् । एतच गन्धपुष्पादीनामप्युपलक्षणम् । अर्चयित्वा पूजयित्वा । जलगन्धादिक्रमण पुजयित्वेत्यर्थः । अस्य भगवतः आराधनाय पूजायै सखीसमग्रां सखीभिः समग्रां सम्पूर्णा तनूजा समादिदेश सम्यगादिदेश नियुक्तवान् । गृहमेधिना हि गृहागतानामतिथी- नामाराधनाय कन्यकां नियुञ्जते । यथा दुर्वासमः परिचर्यार्थ कुन्तिभोजः कुन्तीमादिदेश, यथा वा यतिवेषधारिणः किरीटिनः परिचर्यार्थ सुभद्रा बलभद्रः । भगवतो माननीयत्वातिशयमाह ----अनर्घमिति । अर्थः पूजाविधिः । 'मूल्ये पूजाविधावर्ष' इत्यमरः । तद्रहितोऽनर्वः, अवामनसगोचरतया पूजाविधेरगोचरमित्यर्थः । अनेन विशेषणेन हिमवतस्तदर्चनलाभस्य सुकृत- परिपाकमात्रायत्तत्वमुक्तम् । अन एवाह-स्वीकसामर्चितमिति । स्वर्ग ओको गृहमेषामिति स्वर्गीकसो देवाः , तैरर्चितं पूज्यमानम् । मति मुद्धिपूजा- थेभ्यश्च (३.२.१८८) इति वर्तमाने क्तः । 'क्तस्य च वर्तमाने'(२.३.६७) इति षष्ठी । भगवदनुग्रहमानलब्धब्रह्मादिलोका देवा अध्यनावृत्तिपदोपलन्धये ..

कुमारसम्भवे वचसां मनसामप्यगोचरं यमेव देवं नानाद्रव्यनिर्मितासु प्रतिमाखेवार्चय- न्तीति श्रतिपुराणादिषु प्रतिपाद्यते , तमेव देवं साक्षादर्चयतो हिमवतः पुण्य- परिपाका मनसां वचसामप्यगोचरा एवेति भावः । तनूजायास्तदर्चननियोगे योग्यत्वमाह-प्रयतामिति । शुद्धान्तःकरणामित्यर्थः । हिमाचलमध्यासीनं भगवन्तं हिमाचलः स्वयमेवार्घ्यपाद्यादिभिरभ्यर्च्य तदविच्छेदाय परिशुद्धा- न्तःकरणां तनूजामेवादिदेशेत्यर्थः ॥ ५७ ।। प्रत्यर्थिभूतामपिता समाधेः शुश्रषभाणां गिरिशोऽनुमेने । विकारहतौ सनि विक्रियन्ते येषां न चेतांसिताच धीराः ॥८॥ (प्रकाशिका प्रत्यर्थीति । प्रत्यथिंभूतामिति वर्णितां रूपसंपदमनुस्मारयति । शुश्रूषमाणां परिचरन्तीम् । 'ज्ञाशुस्मृदृशां सनः' (१.३. ५७) इत्यात्मने- पदम् । शुश्रूपाशब्दश्च कार्यलक्षणया परिचर्यायां रूहः । एतच्च वाक्यं व- क्ष्यमाणकामदहनपर्यन्तमकरणायसेयस्य परमेश्वरगतस्यारूपहार्यत्वस्य वी- जम् ॥ ५८॥ (विवरणम् तस्यां भगवतः प्रतिपत्तिमाह-- -- प्रत्यर्थीति । गिरिशस्तां शुश्रषमाणामनुमने । गिरिशः परमेश्वरः तां पार्वतीं । शुश्रपमाणां परिचरन्तीम् । 'ज्ञाश्रुस्मृदृशां सनः' (१.३.५७) इत्यात्मनेपदम् । शुश्रुषाशब्दश्च श्रवणेच्छायाः कार्य लक्षयन् परिचर्यायां रूढः । परिचरन्तीं सतीम् अनुमेने अनुज्ञातवान् । नन्वस्या लावण्यसम्पदः २. 'णां वचसा तनूजां समादि' घ. पाठः, ३. 1. 'लयः स्व' स. घ. पाठः. सती।' घपाटा १०७ प्रथमः सर्गः। सकलजनचित्तक्षोभकरत्वमनवगम्यैव वा किमेवमनुज्ञातवान् , नेत्याह समाधेः प्रत्यर्थिभूतामपोति । समाधेश्चित्तैकाग्र्यस्य प्रत्यर्थिभूतां परिपन्थिभू- तामपि । सर्वेषामेतद्दर्शने चित्तकाग्र्यं दुष्करामेत्यवगच्छन्नपीत्यर्थः । एतेन विशेषणेन वर्णिता रूपसम्पदनुस्मारिता । युक्तं चैतदनुमननं देवस्येत्याह- येषां चेतांसि विकारहेतौ सति न विक्रियन्ते त एव धीरा इति । येषां जनानां चेतांसि हृदयानि विकारस्य चित्तक्षोमस्य हेतौ कारणभूते रूपादौ सत्यपि । न विक्रियन्ते विकारं न प्राप्नुवन्ति । कर्मकर्तरीदं रूपम् । त एव धीराः नान्य इत्यर्थः । अनेन वाक्यन वक्ष्यमाण कामदहनादिवृत्ता- न्तावगम्यस्य देवगतस्यारूपहार्यत्वस्य धीजन्यासः कृतः । अत्राप्रस्तुतस्य धीरवृत्तसामान्यस्य कथनेन प्रस्तुतं विशेषभूतं देवस्य धीरत्वं प्रतीयत इत्य- प्रस्तुतप्रशंसाविशेषः । अप्रस्तुतात सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रणीतावप्रस्तुतप्रशंसा ।। ५८ ।। अवचितलिपुष्पा वेदिमम्मार्गदक्षा नियमविधिजलानां बर्हिपां चोपनेत्री। गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखंदा तच्छिरश्चन्द्रपादैः ॥ ५९॥ (प्रकाशिका) अथोत्तासार्थप्रस्तावाय प्रस्तुतां शुश्रूषामाह -- -- अवचितेति । वेदिरुपवेशनार्था । सम्पार्गः शोधनम् । निय- मस्याचमनादेः विधिरनुष्ठानं, तदर्थानि जलानि । 'नियमस्तु स यत् कर्म नित्यमागन्तुसाधनमिति सिंहः । अवचयादीनां शुश्रूपाप्रकारत्वादि- यमुक्तिः। प्रत्यहमित्यतन्द्रीकत्वमुक्तम् । तच्छिरश्शब्देन चन्द्रपादानां क.ख. ग. पाठः. २. 'गंप्र' क. ख, ग, पाठः. ३. ':' इ. पाटः.

कुमारसम्भव - नित्यसुलभत्वमुक्तम् । कूपखनकवद् वृत्तिरिति च ध्वन्यते, सेवया जनि- तः श्रमस्तयैवापनुयत इति । अत्र परिखेदसुकेशीशब्दाभ्यां- "स्वस्तांसावतिमात्रलोहिततली वाहू घटाक्षेपणा- दद्यापि स्तनवेपथु न जहति श्वासाः प्रमाणाधिकाः । बद्धं कर्णशिरीपरोधि वदने धर्माम्भसां जालक बन्धे संसिनि चैकहस्तयमिताः पर्याकुला मूर्धनाः ॥" इत्युक्तः श्रमावस्थासुलभः शोभाविशेषः प्रत्याय्यते । अत्र प्रकरणे कवि- कुलपरमेश्वरेण कामतन्त्रे कन्यासम्पयुक्तकाधिकरणे 'प्रयोज्यस्योपावर्त- नमिति यत् प्रकरणं तदर्थोऽनुसंहितः । तथाहि --- प्रयोज्यस्य प्रवर्तनीय- स्योपावर्तनमाभिमुखीकरणमिति मूत्रार्थः। तत्र प्रथम भाष्यं-- मन्दोपदेशा गुणवत्यपि कन्यका धनहीना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी समानरयाच्यमाना प्राप्तयौवना स्वयमेव पाणिग्रहणं लिप्सेतेति । तत्र पाणिग्रहणस्वयंलिप्सायां प्राप्तयोवनत्वे सत्यनुरूपवरायाच्यमानत्वं नियतो हेतुः। मन्दाभिज्ञधनहीनपितृवियुक्तत्वानां चायाचनहेतूनां प्रायिकत्वम् । ते हि प्रायो लोके हेतवो भवन्ति । तस्मादिह परमेश्वरस्वभावो लोक- विलक्षणो हेतुरयाचने । अयाचनं चोक्तम् 'अयाचितारम्'(श्लो.५१)इति । अनुरूपवरान्तराभाववोक्तो 'निवृत्तान्यवराभिलाषः'(श्लो.५०) इत्यनेन । न चात्र देव्यास्तद्विषया लिप्सा नोक्तेति मन्तव्यम् । भवपूर्वपत्नी (श्लो.२०) इति प्रतिपादिताया नैसर्गिक्या रतेयांवनेना(पि ? वि)स्पष्टसुद्धोधितायाः पुनर्नारदवचसा स्पष्टोदोधात् । प्रौढयौवनायाः स्वयंवरश्चानुमतो धर्म- शास्त्रे "त्रीणि वर्पण्युदासीत कुमायूतुमती सती । ऊर्य तु कालादेतस्माद् विन्देत सदृशं पतिम् २. 'पाणिग्रहणं स्वयं लि' ख. पाठः ३. 'जन' 3. १. 'न्दा' क. ख. ग. पाठ:. ४. 'तिस्पंष्टमुघ. पाठः. पाठ..

प्रथमः सर्गः। इति । सदृशश्च देव एवेत्युक्तम् । माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कुर्यादिति चतुर्थ भाष्यम् । तत्र सखीभिः सहेति लज्जाप- नयनार्थम् । मातेति गुरूपलक्षणत्वात् तद्विहितमनुष्टानं 'सखीसमग्रां समा- दिदेश' (श्लो.५७) इत्युक्तम् । पञ्चमे च गत्वा गन्धपुप्पताम्बूलहस्ताया विजने काले च तदुपस्थानमित्यादिनोक्तमनुष्ठानम् अवचितबलिपुष्पे'त्या- दिना दर्शितम् । दर्शयिष्यते च परस्ताद् ‘अथोपनिन्ये गिरिशाय गौरी' (स.३. श्लो. ६५)इत्यादिना ॥५९ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकाया प्रथमः सर्गः। (विवरणम्) अथोत्तरसर्गे कथान्तरप्रस्तावाय प्रस्नुनशुअपाप्रकारेणेव देव्याश्चिरावस्थानं दर्शयितुं शुश्रषाप्रकारमेवाह- अवचितेति । सा सुकेशी प्रत्यहं गिरिशमुपचचार । सा या गिरिशेन शुश्रषायामनुमता सेत्यर्थः । सुकेशी शोभनाः केशा यस्याः सा तथा प्रत्यहमहरहः । अनेनातन्द्रितत्वं सावधानत्वं चोक्तम् । गिरिशं परमेश्वरम् उपचचार पर्यचरत् । परिचर्याप्रकारमाह-अवचितेत्यादिना विशेषणत्रयेण । तत्रादौ प्रातरेव कर्तव्यं पुष्पावचयमाह-अवचितबलिपुष्पति । अवचितानि बल्यर्थानि पुष्पाणि यया सा तथा । पुनस्तदनन्तरकर्तव्यमाह-वेदिसम्मा- गदक्षेति । वेदिरवस्थानभूमिः, तस्याः सम्मार्गे शोधने दक्षा निपुणा । अथ गिरिशागमनानन्तरं कर्तव्यमाह - - नियमविधिजलानां बर्हिषां चोपनेत्रीति । नियमानामाचमनादिकर्मणाम् । 'नियमस्तु स यत् कम नित्यमागन्तुसाधनम्' १. 'त्रादि चै' ङ. पाटः. २. 'गूढत्रपाल' घ. पाठः. ३. 'व्यमर्थमा' घ. पाठः.

- कुमारसम्भव इत्यमरः । तेषां विधिरनुष्ठानं , तदर्थानां जलानाम् । सर्वकर्मणामाचमनपूर्व- कत्वाद् जलानां पूर्वमुपादानम् । बर्हिषां परिस्तरणाद्यर्थानां च उपनेत्री समीपप्रापणं कुर्वाणा । चकारोऽनुक्तानां प्रदीपादीनामपि समुच्चयार्थः । उपचचार । खेदप्रशमनोपायोऽपि तत्रैव सुलभ इत्याह तच्छिरश्चन्द्र- पादैनियमितपरिखदेति । तस्य परमेश्वरस्य शिरसि यश्चन्द्रस्तस्य पादै रश्मिभिः कर्तृभूतैः नियमिताः परिखेदाः परितः खेदाः सकलशरीरव्यापिनः खेदाः पीडा यस्याः सा तथा । अत्र तच्छिरश्शब्देन पीडाहारकाणां नित्य- सुलभत्वं कूपखनकवृत्तिश्च ध्वन्यते । यथा कृपखनकस्य खननोद्भवं खेदं तदु- द्भूतमेव जलमपनयति , तथास्या अपि हरसेवाजनितश्रमस्तच्छिरश्चन्द्रपादैरे. वापनुद्यत इति भावः । अत्र परिखंदमुकेशीशब्दाभ्यां श्रमावस्थासुलभः शोभा- तिशयः प्रत्याय्यते । यथोक्तं शाकुन्तले-.. "सस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद अद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालक वन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥" इति । एतादृशशोभाविशेपदर्शने कस्य चित्तक्षोभो न भवेदिति भावः । अत्र प्रकरणे कविप्रवरः कामशास्त्रे कन्यासम्प्रयुक्ताधिकरणे प्रतिपादितं सर्वमप्यर्थं यथावत् प्रतिपादितवान् । तत्र 'प्रयोज्यस्योपावर्तनम्' इति वात्स्यायन- सूत्रम् । अस्यार्थः --प्रयोज्यस्य प्रवर्तनीयस्य स्वाभिमतस्य वरस्येत्यर्थः । उपावर्तनम् अभिमुखीकरणं , स्वानुकूलताविधानमिति यावत् । कुर्यादिति शेषः । खानुरूपं वरं तत्कालोचितशुश्रपादिभिरात्मानुकूलं कुर्यादिति । न चेदं धर्मशास्त्रविरुद्धं, "त्रीणि वर्षाण्युदासीत कुमाय॒तुमती सती । ऊर्ध्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् ॥"

प्रथमः सर्गः। इति स्मृत्या स्वयंवरस्यानूदितत्वात् । अनुरूपवरान्तरविरहिता स्वानुरूपेण वरेणायाच्यमाना गुणवती प्राप्तयौवना कन्या तत्राधिकारिणीति जयमङ्गला- यामुक्तम् । तत्रानुरूपवरान्तराभावो 'निवृत्तान्यवराभिलापः' (श्लो. ५०) इत्यत्रोक्तः, प्राप्तयौवनत्वं 'वाल्यात् परं साथ वयः प्रपदे' (श्लो. ३९) इत्यत्र , गुणवतीत्वं पुनरङ्गवर्णनादौ । 'भवपूर्वपत्नी (श्लो.२०)त्यनेन देव्याः परमेश्वरविषयो नैसर्गिको मिलापः प्रदर्शितः ! उद्घोधित वासावविस्पष्टं योवनेन नारदवाक्येन तु स्पष्टमुद्रोधित इति भगवतः प्रयोज्यत्वमपि प्रतिपादितमेव । तस्यानुकूल्यकरणापायश्च गुरुजनानुवादपूर्वकं सीजनैः सह तदभिमतगन्ध- पुष्पताम्बूलादिप्रदानं, विजन काले च तदुपस्थानमित्यपि रायमङ्गलायामु- क्तम् । तदपि 'सखीसमग्रां समादिदेश (श्लो.५५७) अपचितवलिपुष्पेत्यादिना च प्रदर्शितम । वक्ष्यति च 'अोपनिन्य गिरिशाय गौरी (स. ३.श्ली. ६५) इत्यादिनति सर्व सुमङ्गलम् ।। ५९ ॥ सगोऽयं प्रथमा गुणैश्च गिरिजालावण्यसारं पर यम्मिन वर्णयति स्म कर्णमधुरवणः कविग्रामणीः । तत्राहं कृशधीः करोमि किमिति च्यालोलचित्तं तु मा- मित्थं किञ्चिदजल्पयद गिरिभुतापादाब्जभक्तिः स्वयम् ॥ गाविन्दाङ्गगुणौधवर्णनविधौ दक्षस्य नारायण- मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये । व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते प्रथमः समाप्तिमगमत् मगों निसर्गोज्ज्वलः ॥ इति श्रीकृष्णप्रियशिप्यस्य नारायणम्य कृतो कुमारसम्भवविवरणे प्रथमः सर्गः । MAPramom अथ द्वितीयः सर्गः। तस्मिन् विप्रकृताः माले तारकेण दिवौकसः । तुरामाहं पुरोधाय धाम स्वायम्भुवं ययुः ॥१॥ (प्रकाशिका) अथैत प्रकरणोपयोगितया प्रकरणान्तरमारभते- तस्मिन्निति । तस्मिन् काले उपावर्तनकाले । इदमप्यपरमासी- दित्यर्थः। तुरापाटछब्दस्य 'छन्दसि सहः' (३.२.६३) इति विप्र- त्ययविधानाच्छन्दस्येव साधुत्वम् । भाषायामपि साधुत्वं गिरिशादिवत् । तदाश्रयणपक्षे तु नुरासाहमिनि पाठः । यद्वा भाषायामपि साधुत्वम् । यथा भीरतरङ्गिण्यां-- तुरं वरितं साहयत्यभिभवत्यरीन । 'पह मर्पण' इति चौरादिकोऽयं धानुः । ततो णिजन्तात् कि । पूर्वपदस्य 'न हि वृति-(६.३.११६) इत्यादिना दीर्घः । 'सहेः साडः सः (८. ३. ५६) इति साइभूतस्य संहेः पत्वविधानाद् द्वितीयायां पत्वं नास्ति । पुरो- धाय पुरस्कृत्य । धाम सदनम् । म्वायंभुवं 'ओगुणः' (६.४.१४६) इति गुणग्रहणाद् गुणज्ञापितस्यानित्यत्वाद् गुणाभावः ॥१॥ (विवरणम्) अथोपवर्णिनप्रकरणानुगुणं प्रकरणान्तरमारभने- नस्मिनिति । दिवौकसः तस्मिन् काले तारकेण विप्रकृताः तुरासाह पुरोधाय स्वायम्भुवं धाम ययुः। दिवौकसो देवाः तस्मिन् काले देव्याः प्रयो- ज्योपावर्तनकाले तारकेण तारकाख्येनासुरेण विप्रकृताः पीडिताः सन्तः । १. 'क्ष तुरा' क. स. न. पाटः. २. 'ख्यास' क. पाटः, द्वितीयः सर्गः। तुरासाहम् इन्द्रम् । तुरापाट्छन्दस्य 'छन्दसि सहः' (३. २. ६३) इति विप्रत्ययविधानात् कथं भाषायां साधुत्वम् । उच्यते । तुरं त्वरितं साह- यत्यमिभवत्यरीनिति तुरापाट् । 'पह मर्पण' इति चौरादिको धातुः । ततो णिजन्तात् क्विप् । 'नहिति-' (६.३. ११६) इत्यादिना पूर्वपददीर्घः । 'सहेः साडः सः' (८. ३.५६) इति साइभूतस्यैव संहः पत्वविधानाद् द्वितीयायां तदभावेन षत्वाभावः । पुरोधाय पुरस्कृत्य स्वयम्भुव इदम् । 'ओर्गुणः' (६.४.१४६) इति गुणग्रहणाद् गुणज्ञापितस्य 'संज्ञापूर्वको विधिरनित्य' इति अनित्यत्वादत्र गुणाभावः । धाम सदनम् । 'धाम तेज- स्सदनयोरिति भोजः । ययुः जग्मुः । देव्याः परमेश्वरपरिचर्यासमये शत- मखमुखा मखभुजस्तारकासुरपरिभवमसहमानास्तन्निवेदनाय परमेष्ठिनः सद्म प्रपेदिर इत्यर्थः ॥१॥ तेषामाविरभूद् ब्रह्मा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥२॥ (प्रकाशिका) तेषामिति । आविरभूत् प्रकाशोऽभूत् । 'प्रकाशे प्रादुराविः स्या- दि'त्यमरः । अनेन स्वयमनुग्रहोन्मुख आत्मानं दर्शितवान , न तु ते स्व- प्रयत्नेन ददृशुरिति घोत्यते । अत एव तादृगुपमानं दत्तम् । उपमानेन च स्वापस्येव परिम्लानमुखश्रीत्वस्य तदीयाविर्भावावधिकत्वं द्योत्यते । प्रातरिति नियतनिमित्तभूतकालवाचिना ब्रह्मणोऽपि लोकानुग्रहार्थं भा- विनि सभायामाविर्भावे निमित्तत्वेन नियतस्वेच्छापरिकल्पितः कालः प्रकाश्यते , यत्र तेषां तदुपस्थानमासीत् ॥ २ ॥ (विवरणम्) तेषां तदर्शनप्रकारमाह- तेषामिति । ब्रह्मा तेषाम् आविरभूत् । तेषां दिवौकसाम् । सम्ब- 3 ४. 'दिति १. 'व्या ईश्व' ग. पाठः, २. 'खप्रमु' घ. पाठः. ३ 'शः' क. पाठः. सिंहः।म. घ. पाठः.

कुमारसम्भवे धषष्ठी चेयम् । आविरभूत् प्रकाशोऽभूत्। 'प्रकाशे प्रादुराविः स्यादि'त्यमरः। तेषां तारकासुरपीडाया अनुभावमाह --~-परिम्लानमुखश्रियामिति । परिम्लाना परितः समन्ताद् म्लाना म्लानिमुपगता मुखश्रीः गुखशोभा येषाम् । कल्पा- न्तकृशानुकल्पेन तारकासुरभुजबलोष्मणा परिम्लानमुखानां बर्हिर्मुखानां दया- निधिः परमेष्ठी स्वयमेवात्मानं दर्शितवान् , न तु तैः प्रयत्नेनान्विष्य दृष्टोऽभू- दिति भावः । अनेन ब्रह्मणोऽपि देवकार्यानुगुणत्वं व्यज्यते । अत एव तद- नुगुणमुपमानमाह-सुप्तपमानां सरसां प्रातः दीधितिमान् इव इति । सुप्त- पद्मानां सुप्तानि मुकुलितानि पद्मानि येषां तेषां सरसां पद्माकराणां प्रातः प्रभाते । उपमेयपक्षे तद्दर्शनानुगुणकाल इत्यर्थात् सिध्यति । दीधिति- मान् आदित्य इव । अत्र परिम्लानमुखश्रियामिति सुप्तपद्मानामिति विशेषण- द्वयं परस्परबिम्बप्रतिविम्बभावेन स्थितम् । उपमया तेषां मुखवैवर्ण्यस्य ब्रह्म- दर्शनावधिकत्वं ध्वनितम् ॥२॥ अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वारिभराभिः प्रणिपत्योपतस्थिरे ॥३॥ (प्रकाशिका) अथेति । सर्वस्य धातारमिति प्रणिपातोपस्थानौचित्यम् । सर्वे, न त्वतिभूयस्त्वादलब्धसाम्मुख्येन केचन । कुत इत्याह- सर्वतोमुख- मिति। अनेन समन्ताद् युगपञ्चोपस्थानं प्रतीयते। तत एव वक्ष्यति-चतु- मुखसमीरिता चतुष्टयी शब्दानां प्रवृत्तिरिति । अर्थ्याभिरर्था- दनपेताभिः, सत्याभिरित्यर्थः । यतोऽयं वागीशः, ततोऽस्योपस्थाने तथा- विधानां वाचां प्रसर उपपन्न एवेति भावः । उपतस्थिरे पूजयामासुः। उपाद् देवपूजासंगति--(वा. १. ३. २५) इत्यादिनात्मनेपदम् ॥३॥ १. 'भ'. ग. घ. पाठः, द्वितीयः सर्गः । (विवरणम्) तेषां तदुपस्थानप्रकारमाह- अथेति । अथ ते सर्वे वागीशं प्रणिपत्य अर्थ्याभिः वाग्भिः उपत- स्थिरे । अथ आविर्भावानन्तरं ते दिवौकसः सर्वे, न तु जनबाहुल्याद- लब्धसम्मुखत्वेन केचिदेवेत्यर्थः । वागीशं वाचः सरस्वत्या ईशं भर्तारम् । अत एव तदुपस्थाने तथाविधानां वाचां प्रसर इति भावः । प्रणिपत्य प्रणम्य अर्थ्याभिः अर्थादनपेताभिः । 'धर्मपथ्यर्थन्यायादनपेते' (४. ४.९२) इति यत्प्रत्ययः । यथार्थभूताभिर्वाग्भिः उपतस्थिरे पूजयामामुः । 'उपाद् देवपूजा- सङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम् (बा.१.३.२५)इत्यात्मनेपदम्। तस्य प्रणिपातोपस्थानयोग्यत्वमाह-सर्वस्य धातारमिति । सर्वस्य कृतस्य जगतः धातारं स्रष्टारम् , अखिलजगन्निर्माणकर्तारमित्यर्थः । ननु कथमे कस्यैव सर्वेषां युगपदाभिमुख्यन प्रणिपातादिसम्भवः, अत आह- सर्वतोमुखमिति । सर्वतः सर्वासु दिक्षु मुखानि यस्य तं, चतुर्मुखभित्यर्थः। तस्य चतुर्मुखत्वात् समन्ताद् युगपञ्चोपतस्थिर इति भावः । अत एव वक्ष्यति- "पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥"(श्लो. १६) इति ॥३॥ नमोऽस्त्वमूर्तये तुभ्यं प्राक् पृष्टः केवलात्मने । गुणत्रयविभागाय पश्चाद् भेदमुपेयुषे ॥४॥ (प्रकाशिका) नमोऽस्त्विति । अमूर्तये अशरीराय । केवलात्मने एकात्मने । 'निर्णिक्ते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोरिति सिंहः। गुणत्रयेण १. 'मठमि' घ. पाठः, २. 'णीते के' इति मुद्रितामरकोशपाठः, ---- ११६ कुमारसम्भवे विभागो यस्य । भेदमुपेयुषे त्रिमूर्तित्वेनेति शेषः। अयमर्थः- सृष्टः पागेकात्मनेऽमूर्तये पश्चात् सत्त्वादिगुणमधिष्ठाय ब्रह्मविष्णुरुद्रात्मने तुभ्यं नमोऽस्त्विति ॥४॥ (विवरणम् ) अथ तेषां वाकिमुपस्थानं प्रपञ्चयति नमोऽस्त्वित्यादिभिरेकादशभिः श्लोकैः । तत्रादौ ब्रह्मणस्त्रिमूर्तिमृष्टौ हेतुत्वमाहुः- नम इति । तुभ्यं नमः अस्तु । तुभ्यं 'नमस्स्वस्ति - '(२.३.१६)इत्यादिना नमश्शब्दयोगे चतुर्थी। नम इति नमस्कारवाचकमव्ययम् । अस्तु भवतु । अस्माभिः कृतो नमस्कार एतादृशाय भवते भवत्वित्यर्थः । कीदृशायेत्याका- ङ्क्षायां ब्रह्मणो मूर्तित्रयसृष्टेः पूर्वावस्थामाहुः - सृष्टेः प्राक् केवलात्मने अमूर्तये इति । सृष्टेः प्राक् त्रिमूर्तिसृष्टेः पूर्वावस्थायां केवलात्मने एकात्मने । 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्लयोरि'त्यमरः । अद्वितीयायेत्यर्थः । अत एवामूर्तये अशरीराय । सृष्ट्यनन्तरं तु भवानेक एव त्रिधा भासत इत्याहुः- पश्चाद् भेदम् उपेयुपे इति । पश्चात् सृष्टेरूर्वकालं भेदं ब्रह्म- विष्णुशिवात्मना त्रैविध्यव्यवहारम् उपयुषे प्राप्तवते । त्रैविध्यप्राप्तौ हेतु- माहुः-गुणत्रयविभागायेति । गुणानां सत्त्वरजस्तमसां त्रयं गुणत्रयं, तेन विभागः पृथग्भावो यस्य तस्मै । तदुक्तं- "पालने विमलसत्त्ववृत्तये जन्मकर्मणि रजोजुषे लये। तामसाय जगतां पराकृतद्वैतजालवपुषे नमोऽस्तु ते ॥" इति ॥४॥ यदमोघमपामन्तरुप्तं बीजमज! त्वया । अदश्चराचरं विश्वं प्रभावस्तस्य गीयते ॥५॥ १. 'ये च प' क. पाठः.. २. 'हे' घ. पाठः, द्वितीयः सर्गः। - (प्रकाशिका) यदिति । 'अदश्चराचरं विश्वं प्रभावस्तस्य गीयत' इति पाठः। पकृष्टो भावः प्रभावो विभूतिः। "श्रिणीभुवोऽनुपसर्गे' (३. ३. २४) इत्यनुपसर्गाद् घविधानात् । अयमर्थः त्वया यद् बीजमपामन्तर्नि- षिक्तं, तस्य बीजस्य प्रभाव इति चराचरमिदं विश्वं लोकैर्गीयत इति । अत्र मनु:- "अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवदैम सहस्रांशुसमपभम् ।।" इति। अत्राशब्देन सूक्ष्मभूतान्युच्यन्त इति तद्विदः । 'अतथराचरं विश्वं प्रभवस्तस्य गीयस' इति पाठे यदमोघमपामन्तरित्यस्य पौनरुक्त्यं स्यात् ।। (विवरणम् ) अथ जगत्सृष्टिप्रकारमाहुः---- यदिति । हे अज! त्वया अपाम् अन्तः यद् बीजम् उप्तं चराचरम् अदः विश्वं तस्य प्रभावः गीयते । अज! न जायत इत्यजः । 'अन्येष्वपि दृश्यते' (३. २,१०१) इति डः। अनेन जननप्रतिषेधेन विनाशोऽपि प्रति- षिद्धः । 'जातस्य हि ध्रुवो मृत्युरि'त्युत्पन्नस्यैव भावस्य विनाशप्रतिपादनात्। जगतामेवोत्पत्तिः, त्वं तु नित्य एव इति भावः । अपां त्वयैवादौ सृष्टानां जलानाम् । अत्रापामित्यनेन सूक्ष्मरूपाणामपामुपादानं, चराचरं विश्वमित्यनेन तु स्थूलरूपाणामिति सृष्टिप्रकरणात् सिध्यति । अन्तः अन्तभांगे यद् बीजं वीर्यम् उप्तं निषिक्तं चराचरम् अदो दृश्यमानं विश्वं तस्य प्रभाव इति गीयते । मन्वादिभिरिति शेषः । प्रकृष्टो भावः प्रभावो विभूतिः । श्रिणीभुवोऽनुपसर्गे' (३. ३. २४) इति अनुपसर्ग एव घञ्- विधानात् । गीयते उच्यत इत्यर्थः । तस्य बीजस्य जगदुत्पादनसामर्थ्य- १. 'द्वीज' इ. पाठः. २. 'के गीय' ङ, पाठः. ३. 'शनप्र' घ. पाठः.

११८ कुमारसम्भव माहुः-अमोघमिति । सफलमित्यर्थः । जगदुत्पत्तेः प्रकृष्टं कारणमिति या- वत् । त्वया पूर्वं जलं निर्माय तदन्तर्भागे निषिक्तस्य वीर्यस्य विभूतिरेव चराचरात्मकमिदं विश्वमिति मन्वादयो वदन्तीत्यर्थः। अत्र पुराणवचनं मनु- वचनं च- "हिरण्यगर्भो भगवान् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ।। तदण्डमभवढेमं सहस्रांशुसमप्रभम् । तस्मादण्डात् समुत्पन्नं जगत् स्थावरजङ्गमम् ॥" इति ॥५॥ तिमृभिस्त्वमवस्थाभिमहिमानमुदीरयन् । प्रलयस्थितिमर्गाणामेकः कारणतां गतः ॥ ६ ॥ (प्रकाशिका) तिमृभिरिति । उदीरयन् प्रकाशयन । 'पश्चाद् भेदमुपेयुष'(श्लो.४) इत्यस्य प्रपश्चनरूपेयमुक्तिः ॥ ६ ॥ .. न केवलं सृष्टिरेव त्वदुपक्रमा, अपितु स्थितिसंहारावीन्याहुः-- - तिमभिरिति । त्वम् एकः प्रलयस्थितिसर्गाणां कारणतां गतः । त्वमेकः, नान्यसहाय इत्यर्थः । अनेन स्थितिप्रलययोर्विष्णुरुद्रोपज्ञत्वप्रतीति- निरस्ता । प्रलयस्थितिसर्गाणां प्रलयः संहारः, स्थिती रक्षा, सर्गः सृष्टिः, तेषा- मिति द्वन्द्वः। कारणताम् उपादानादिरूपतां गतः प्राप्तोऽसि । अत्र सर्गस्थितिप्रलयानामिति क्रममपहाय सर्गस्य चरमोपादानं तस्य पूर्वश्लोक (स्य ? एव) प्रतिपादितत्वेनानुवादरूपत्वादित्यवगन्तव्यम् । अविवक्षित एव वो क्रमः । ननु स्थितिप्रलयौ विष्णुरुद्रकर्तृकत्वेन प्रसिद्धाविति कथं त्वमेक --- १. 'ला' घ. पाटः. २. 'वात्र क' ग, पाठः, ३. 'को प्र' घ. पाठः, द्वितीयः सर्गः। इत्युच्यते, अत आहुः-तिसृभिः अवस्थाभिः महिमानम् उदीरयन् इति । तिसृभिः हरिहरहिरण्यगर्भस्वरूपाभिः अवस्थाभिः अवस्थाविशेषैः । महिमानं माहात्म्यम् उदीरयन् प्रकाशयन् , निजमेव वैभवं मूर्तित्रयभेदेन प्रकट- यन्नित्यर्थः । 'पश्चाद् भेदमुपेयुपे'(श्लो.४)इत्यस्य विवरणत्वेनेयमुक्तिः ॥६॥ स्त्रीपुंसावात्मभागौ ने भिन्नमर्नेः सिमुक्षया । प्रमनिभाजः मर्गस्य ताबेच पितरौ स्मृती ।। ७ ॥ (प्रकाशिका) एवं लिङ्गमृष्टिमुक्त्या मिथुनसृष्ट्यर्थ ब्रह्मणो रूपमाह--- स्त्रीपुंसाविति। स्त्रीपुंसी निपातनाद, समासान्तः । भिन्नमर्तेः परिगृहीतमूर्त्यन्तरस्य । प्रमूतिभाजः मिथुनीभूय सन्तानकारिणः । अत्र मनुः- "द्विधा कृत्वात्मनो देहमर्धन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः ॥" इति ॥ ७ ॥ (विवरणम्) -- अथ मिथुनसर्गप्रकारमाहुः-- स्त्रीपुंसाविति । सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्त्रीपुंसौ यौ तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेः भिन्ना मायावलम्बनेन प्रकृतिपुरुषात्मना द्विधाकृता मूर्तिः शरीरं येन तस्य । ते तवात्मभागौ आत्मन एव भागौ अंशौ स्त्रीपुंसौ स्त्री च पुमांश्च स्त्रीपुंसौ । 'अचतुर-'(५.४.७७)इत्यादिना निपातनादच् समासान्तः । तावेव नान्या- वित्यर्थः । प्रसूतिभाजः प्रसूतिं प्रसवं भजत इति प्रसूतिभाक् तस्य, मिथुनी- १. 'प्रत्ययान्त' ङ. पाठः, २. 'नाच' घ. पाठः.

Mon १२० कुमारसम्भवे भूय सन्तानकारिण इत्यर्थः । सर्गस्य सृष्टेः पितरौ मातापितरौ। 'पिता मात्रा' (१.२.७०)इत्येकशेषः । स्मृतौ, मन्वादिभिरिति शेषः । अत्र मनुः- "द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः ॥" इति । अत्र विराडिति प्रपञ्चरूपः पुरुप उच्यते । तस्य च स्वरूपमित्थमुक्तं श्रीभागवते—'नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरधिरुवी' इत्यादि। तव शरीरभेदमेव मन्वादयो मिथुनसर्गप्रकरणे स्त्रीपुरुषात्मना व्यप- दिशन्तीत्यर्थः ॥७॥ स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते । यावेव स्वप्नयोधौ तौ भूतानां प्रलयोदयौ ॥८॥ (प्रकाशिका) स्वकालेति । स्वकालः परार्धद्वयं, तस्य परिमाणेन करणभूतेन । पत्रिंशत्सहस्रसङ्ख्यरहोभिर्यथा स्वकालः परिमितो भवति, तथा व्यस्तानि विभक्तानि रात्रिन्दिवानि येनेत्यर्थः। अनेन स्वायुषोऽपि स्वयमेव व्यवस्थापक इतीश्वरस्येतरवन्न कालाधीनत्वमित्युक्तम् । अनेन स्वमबो- धयोः प्रलयोदययोश्च स्वेच्छाधीनत्वमुक्तम् ॥ ८॥ (विवरणम् ) अथ वेदान्ताभिमतसृष्टिप्रलयप्रसङ्गेनापि स्तुवन्ति- स्वकालेति । ते स्वप्नबोधौ यौ तौ एव भूतानां प्रलयोदयौ । ते जगदीशितुस्तव स्वप्नश्च बोधश्च स्वप्नबोधौ, लीलामात्रकल्पितौ निद्राप्रबो. धावित्यर्थः । तावेव पञ्चभूतानां तत्कार्याणां प्रलयोदयौ प्रलयो महा- १. 'यौ तु स्वप्नावबो' मुद्रितकोशपाठ:. २. 'सस्वका' ख. ग. पाठः. ३. 'वस्था पाठ..

द्वितीयः सर्गः। - , प्रलयः उदयः सर्गः। तव निद्रव जगतो महाप्रलयः । तत्सर्गस्तु तव प्रबोध एवेत्यर्थः । तदुक्तं वेदान्तविद्भिः- "निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि । स्मृतमेतस्य चराचरमस्य च सुप्तं महाप्रलयः॥" इति । पुराणप्रसिद्धयायमर्थः- "यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्व प्रलीयते ॥" इति । स्वापप्रबोधयोनिमित्तभूतस्याहोरात्रविभागस्यापि स्वेच्छामात्रनिर्मित- त्वमाहुः-स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य । स्वस्य कालः स्वकालः, स च द्विपरार्धसंवत्सरसरिमितः, तस्य परिमाणमियता, न करणभूतेन व्यस्तं विभक्तं रात्रिन्दिवं येन तस्य ! रात्रिश्च दिवा च रात्रिन्दिवम् । 'अच- तुर-(५.४.७७)इत्यादिना निपातनाद व् समासान्तः । परार्थयारिमिो. नात्मनः परमायुषा यथासम्भवं कलिताहोराबविभागस्ये यर्थः । अओन स्वायु- पोऽपि स्वयमेव व्यवस्थापक इत्युक्तं भवतीति जगदीश्वरस्य नेतरजनवत् कालाधीनत्वं, नापि कर्माधीनत्वमिति लोकतो व्यतिरेको धन्यते ।। ८॥ जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥९॥ (प्रकाशिका) जगद्योनिरिति । योनिरीश इत्याभ्यां क्रमादुपादानत्वमधिष्ठा- तृत्वं चोक्तम् । आदिरन्त इत्याभ्यां जगतः प्राक् पश्चाचास्यावस्थिति- रक्का। अयोनिरित्यादिभिरस्योपादानान्तरादिविरह उक्तः॥९॥ (विवरणम्) नपादानादिना विना कथं स्वमप्रबोधमात्रेण जगतः प्रलयोनवायुपपत्तिरत भादु:- जगमोनिरिति । त्वं जगपोनिः। जगवः स्थावरजङ्गमात्मकस्य प्रम- १२२ कुमारसम्भवे वस्य (योनिः) उपादानकारणमसि । अनाधविद्यातिरस्कृतस्य स्वरूपस्या- ज्ञानादेवाधिष्ठानभूते त्वयि जायमानस्य प्रपञ्चभ्रमस्य सर्पभ्रमस्य रज्जुरिव त्वमेवोपादानकारणमसीत्यर्थः । तदुक्तं- "यदज्ञानाद् विश्वं भवति फणिवद् रज्जुशकले निलीनं यज्ज्ञाने भवति सनिदानं त्रिभुवनम् । यदुच्चैरानायैः सततमवगम्यं मुनिजनै- स्तदेतद् ब्रह्माहं सहजपरमानन्दसुभगम् । इति । त्वं पुनः कारणान्तररहित एवेत्याहुः -अयोनिरिति । योनिः उपा- दानादिकारणम् अस्य नास्तीत्ययोनिः । इत्थं देवस्य जगदुपादानत्वमुक्त्वा कर्तृत्वमस्याहुः-त्वं जगदीश इति । जगतामीशः स्वामी। उत्पादको रक्षिता चेत्यर्थः । त्वं पुनरीशान्तररहित इत्याहुः - निरीश्वर इति । ईश्वररहितः । उत्पादको रक्षिता च तव नास्तीत्यर्थः । जगद्योनित्वाद् जगदुत्पत्तेः पूर्वमपि विद्यमान एव त्वमित्याहुः-जगदादिरिति । जगतामादिः। अत एवानादिः आदिरस्य नास्तीत्यनाादः, पूर्वकोटिरहित इत्यर्थः । संहर्तृत्वमप्याहुः--त्वं जगदन्त इति । जगतामन्तः अ(व)धिकरोऽसि । त्वं पुनः संहर्तृरहित इत्याहुः-निरन्तक इति । अन्तकोऽस्य नास्तीति निरन्तकः, अपरकोटिरहित इत्यर्थः॥९॥ आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना। आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥१०॥ (प्रकाशिक) अथ पराधीनज्ञानसर्गस्थितित्रलयात् प्रपञ्चादस्य व्यतिरेकमाह- आत्मानमिति। आत्मानमात्मना वेत्सीति उत्पत्स्यमाने स्वा- मनि सदुत्पत्युपायं स्वयमेव जानासीत्यर्थः । मृजस्यात्मानमात्मना स्व- १. 'गा' क.ख.ग: पाटा. .

द्वितीयः सर्गः। १२३ मातेनोपायेन सृज्ये स्वात्मनि स्वयमेव सृजनीत्यर्थः । आत्मना कृतिमा च त्वमात्मन्येव प्रलीयस इति । कतिना कृतकृत्येन। कृतकृत्यत्वं चात्मनः स्थितौ । कृतिना आत्मना स्वात्मन्येव प्रलीयस इत्यर्थः। अत्र मनु:- "एवं स सर्व सृष्टेदं मां चाचिन्त्यपराक्रमः। आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥" इति ॥१०॥ (विवरणम्) ननुत्पादकान्तरराहित्ये दृश्यमानस्य तनुर्मुखस्य कथमुत्पत्तिरित्यत्राहुः-- आत्मानमिति । त्वम् आत्मना आत्मानं वेत्सि । आत्मना स्वयमेव । 'स्वयमात्मने'त्यमरः । आत्मानं सृज्यं स्वहं वेलि जानासि । सृष्टेः सृज्यस्वरूपावगमाधीनत्वाद् आदौ सृज्यं स्वदेई तत्सृष्ट्यपायं च स्वयमेव जानासीत्यर्थः । तदनन्तरं तु मृजपीत्याहुः-प्रात्मना आत्मानं सृजसि इति । आत्मना स्वयमेव आत्मानं स्वदेहं मृजासे मृष्टं करोपि । 'सृज विसर्ग' इति धातुः । स्वयमेव स्वदेहसृष्टिरित्यर्थः । स्वदेहस्यापि स्वयमेव संहर्तेत्याहुः- कृतिना आत्मना आत्मन्येव प्रलीयसे चेति। कृतिना कृतकृत्येन, स्वाव- तारकार्याणां विधानान्निवृतेनेत्यर्थः । आत्मना स्वदेहेन करणभूतेन आत्मनि स्वस्मिन्नेव प्रलीयसे प्रकर्पण लीनो भवसि । त्वमादावात्मदेहस्वरूपं तत्स- गोपायं च स्वयमेव जानासि । ततः परं तं सृजसि । सर्गानन्तरं पुनः परार्धद्वय- वत्सरपर्यन्तं रक्षिते स्वदेहे स्वावतारकार्येषु च निवृत्तेषु कृतकृत्यः सन् स्वदेहं स्वात्मन्येव लीनं करोपीत्यर्थः । अत्र मनु:- "एवं स सर्व सृष्टेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥" - 'ना' घ. पाठः. ३. 'स्यास्य शरीरस्य क' घ. पाठः. 'ने घ. पाठः. २. ४. 'तश्व तं' क.ख. ग. पाठः, कुमारसम्म इति । अत्र स्वाधीनात्मसर्गस्थितिप्रलयस्यास्य ब्रह्मणः पराधीनसर्गादेः प्रप- चाद् व्यतिरेकोक्तिः ॥१०॥ उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥११॥ (प्रकाशिका) उद्धात इति । उद्धात आरम्भः । 'स्यादभ्यादानसुद्धात आ- रम्भ' इति सिंहः । न्यायैरुदात्तादिभिः । कर्म प्रतिपाघम् । गिराम् अर्थात् वेदानाम् ॥११॥ (विवरणम्) बेदा अपि त्वदुद्भूता एवेत्याहुः- उद्धात इति। वं तासां गिरां प्रभवः । तासां ताशीनां गिरां वाचाम् । यच्छन्दवाक्यविशेषणवशाद् वेदवाक्यानामित्यर्थः । प्रभवः उद्भव- स्थानमसि । अत्र तार्किकास्तावत्-कविरिव काव्यं महेश्वरो वेदवाक्यान्या- रचितवानित्याहुः । वेदान्तिनस्तु-निःश्वासरूपेण परब्रह्मण एवोद्भूयमाना(१) वेदा इत्याहुः । सर्वथापि त्वदुद्भवा वेदा इत्यर्थः । कीदृशीनां गिरामित्यत्र तासां वेदत्वद्योतकं विशेषणत्रयम् । तत्रादावध्ययनारम्भसमय एवावगम्यं विशेषमाहुः-यासां प्रणव उद्घात इति । यासां गिरां प्रणवः प्रणवोच्चारणम् उद्धात आरम्मो भवति । 'स्यादभ्यादानमुद्धात आरम्म' इति सिंहः । या गिरः प्रणवोच्चारणपूर्वकमुच्चार्यन्त इत्यर्थः । अनेनारम्भसमय एव गीरन्तर- १. 'त्यमरः । या' घ. पाठः. २. 'च्यन्त' क. पाठः. - ६ इत उत्तरं- "द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यको व्यकेतरवासि प्राकाम्यं ते विभूतिपु॥" इसापक पवं मुदितकोशे श्यते ।

द्वितीयः सर्गः। १२५ व्यतिरेक उक्तः । अध्ययनवेलायामपि व्यतिरेकमाहुः-यासां त्रिभिायैरु- दीरणम् इति । त्रिभिायैरुदात्तानुदात्तस्त्ररितभेदेन त्रिभिः (न्यायैः) व्यवस्याभिः उदीरणम् उच्चारणं भवति । अथार्थज्ञानसमयेऽपि व्यतिरेक- माहुः यासां यज्ञः फलं स्वर्गः कर्म इति । यज्ञो यागः तस्य फलं खर्गध कर्म प्रतिपाद्यं भवतीति शेषः। प्रतिपादनक्रियायां यज्ञस्वर्गयोः कर्मत्वात् कर्मेत्युक्तम् । यासां गिरां यागश्च तत्फलभूतः स्वर्गश्च प्रतिपाद्यो भवती- त्यर्थः ॥११॥ त्वं पितॄणामपि पिता देवानामपि दैवतम् । परतोऽपि परश्चासि विधाता वेधसामपि ॥१२॥ (प्रकाशिका) त्वमिति । अत्र पूर्वान वेदेषु प्राधान्येन यष्टव्ययोः पितृदेव- गणयोरपि पतित्वमुक्तम् । परतो विश्वोत्तीर्णात् पुरुषात् परोधिकः । वेधसां मरीच्यादीनामपि विधाता स्टा ॥१२॥ (विवरणम्) उत्तप्रकारसिद्धमस्य सर्वोत्कर्षमाहुः- त्वमिति । त्वं पितॄणाम् अपि पिता असि । पितृणाम् अग्निष्वात्ता- दीनाम् । अपिशब्दः पितॄणां पुराणप्रसिद्धसर्वोत्कर्षमाह । 'इज्यन्ते पितरो देवैः सुरेन्द्रादिभिरप्युत' इत्युक्तत्वात् । पिता माननीयोऽसि । देवाधिपति- त्वमप्याहुः -त्वं देवानामपि दैवतम् असि इति । इन्द्रादिदेवानामप्य- धीश्वरोऽसि । कर्मकाण्डे यष्टव्यतया प्रसिद्धानां पितृदेवगणानामपि त्वमेव पतिरित्यर्थः । तेषामप्यधिपतित्वे हेतुमाहुः-लं परतः अपि परः च असि इति। प्रपञ्चोत्तीर्णाद् मायाशबलात् पुरुषादपि परः परमात्मैवासीत्यर्थः । १. 'देवता' मुद्रितकोशपाठः अत एवाहुः-त्वं वेधसाम् अपि विधाता असि । वेधसां जगत्सर्गकृतां मरीच्यादीनामपि विधाता स्रष्टासि । वक्ष्यति च मरीच्यादीनां जगदेकदेश- कर्तृत्वं 'सर्गशेषविधायित्वाद्'(स० ६. श्लो. ९)इत्यत्र ॥१२॥ स्वामामनन्ति प्रकृति पुरुषार्थप्रवर्तनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥१३॥ (प्रकाशिका) त्वामिति । प्रकृतिः मूलकारणम् । पुरुषस्यार्थान् भोगान् प्रवर्तय- तीति कर्तरि ल्युट् । तद्दर्शिनं प्रकृतिदर्शिनम् । उदासीनं प्रवृत्तिरहि- तम् ॥१३॥ (विवरणम्) सांख्यसिद्धान्तसिद्धौ प्रधानेश्वरावपि त्वमेवेत्याहुः त्वामिति । त्वां पुरुषार्थप्रवर्तनीं प्रकृतिम् आमनन्ति । त्वां, नान्यं कञ्चिदित्यर्थः । पुरुषार्थप्रवर्तनीं पुरुषस्यार्थान् भोगान् प्रवर्तयतीति तथा । कर्तरि ल्युट् । तादृशीं प्रकृतिम् । 'प्रधानं प्रकृतिः स्त्रियामि'त्यमरः । आमनन्ति । 'ना अभ्यासे' इति धातुः । 'पाघ्राध्मास्थाना-'(७.३.७८) इत्या दिना मनादेशः । आम्नायसिद्धार्थत्वेन व्यपदिशन्तीत्यर्थः। साङ्ख्यस्मृतय इति शेषः । सत्त्वरजस्तमसां साम्यावस्था प्रधानमिति साङ्ख्यानां व्यवहारः । तामेव मूलप्रकृतिरिति प्रकृतिरिति च ते व्यवहरन्ति । तदुद्भूतो महदादि- प्रपञ्च इति तेषां मतम् । तदुक्तं साढयसप्तत्यां- "मूलप्रकृतिरविकृतिर्महदायाः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिन विकृतिः पुरुषः ॥" इति । तत्र साङ्ख्या द्विविधाः निरीश्वराः सेश्वराश्चेति । तत्र निरीश्वराः साडया अन्यनिरपेक्षात् प्रधानादेव जगदुद्भवस्थितिविलया इत्याहुः । सेश्वराः पुनरी- १. 'श्च । त' घ. पाठः.

- द्वितीयः सर्गः। श्वरस्य निष्क्रियस्यापि सान्निध्यमात्रेणैव प्रधानाजगदुद्भवादय इत्याहुः । तदुक्तं- "यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥" इति । तत्र सेश्वरसाङ्यमतसिद्धा प्रकृतिरनेन वाक्येनोच्यते । पुरुषस्यार्थान् प्रवर्तयितुमेव तस्या व्यापार इति च तेषां मतम् । तदप्युक्तं साङ्यसप्तत्यां- "रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तम् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ इति । सेश्वरसाङ्ख्यास्त्वामेव जगत्सर्गादिकरी मूलप्रकृतिमाहुरित्यर्थः । साङ्ख्य- सम्मतः पुरुषोऽपि त्वमेवेत्याहुः--त्वामेव तद्दर्शिनम् उदासीनं पुरुषं विदुः इति । तां प्रकृतिं द्रष्टुं शीलमस्येति तदर्शी, तम् । उदासीनं निर्व्यापार पुरुषम् ईश्वरं विदुः । 'विदो लटो वा' (३. ४.८३) इति णलादिविकल्पः । विदन्तीत्यर्थः । निर्व्यापारस्यापि यस्य सन्निधिमात्रेण प्रधानस्य जगत्सर्गादि- सामर्थ्यमिति माङ्यविदो वदन्ति, सोऽपि त्वमेवेत्यर्थः ॥१३॥ त्वमेव हव्यं होता च भोग्यं भोक्ता च शाश्वतम् । वेद्यश्च वेदिता चासि ध्याता ध्येयं च नॆत्परम् ॥१४॥ (प्रकाशिका) त्वमिति । हव्यं हविः। भोग्यं पशुवर्गादि । शाश्वतमित्यनेन भोग्यस्य कर्मविनाशेऽप्यवस्थानमुक्तम् । अत्र पूर्वार्धेन वेदेषु कर्मभाग- विषयोऽर्थः उत्तरार्धेन ज्ञानभागविषयोऽर्थचोच्यते । एषु च स्तुतिवाक्ये- वन्यथापि योजयन्ति तद्विदः॥१४॥ १. 'ते । तत्र पु घ. पाठ:. २. 'ज्य', ३. "तः', ४. 'य' मुद्रितकोशपाठः. ५. 'चतुर्वर्गा' काग..पा. '.

कुमारसम्भव (विवरणम्) अथारा सदात्मकत्वप्रतिपादनंन स्तुतिगोचरत्वं निराकुर्वन्तः स्तुतिमुपसंहरन्ति. वपिति । त्वम् एव हव्यं होता च असि । हव्यं पशुपुरोडाशादि- रूपं होमसाधनं होता यजमानश्वासि । हविर्यजमानश्च न त्वत्तो भिन्ना- वित्यर्थः । भोग्यभोक्तृस्वरूपत्वमप्याहुः-त्वम् एव शाश्वतं भोग्यं भोक्ता च असि इति । शाश्वतं नित्यं भोग्यं फलं भोक्ता यागादिकर्मफलानुभोक्ता चासि । स्वर्गपश्चादिरूपं फलं तद्भोक्ता चासीत्यर्थः । अत्र शाश्वतमिति भोग्यविशे- षणेन 'यत कर्मफलं तत् कर्मनाशे नश्यति , यथा मर्दनकर्मनाशे तत्फल- भूतं सुखम् । तस्मादग्निहोत्रादिकर्मणां कालान्तरे स्वर्गादिफलदातृत्वं वदतां वेदवाक्यानामुन्मतातिप्रायत्वमेघ' इति नास्तिकानुमानं निरस्यते। अग्नि- होत्रादिफलं तु नित्यमेव, न कर्मविनाशे नश्यतीति भावः । अनेनं पूर्वकाण्ड- प्रतिपाद्यानागानां ब्रह्मात्मकत्वं प्रतिपादितम् । अथोत्तरार्धेनोत्तरकाण्डप्रति- पाद्यार्थस्यापि तदात्मकत्वमाहुः ----वेद्यमित्यादिना । वं वेद्यं वेदिता च असि । वेद्यं प्रपञ्चः वेदिता ज्ञाता । प्रपञ्चः प्रपञ्चसाक्षी च त्वमेवेत्यर्थः । उपास्योपासकभेदप्रतिभासस्यापि त्वमेवाधिष्ठानमित्याहुः-- त्वं ध्याता तत्परं ध्येयं च असीति । ध्याता उपासका जीवाः । जातावेकवचनम् । एकजीव- पक्षापेक्षया वा । तत्परं तस्मादुपासकात् परम् उत्कृष्टम् ध्येयम् उपास्यं च । उपासका मुमुक्षवो जीवाः । उपासकेभ्यः परं सकलनिष्कलभेदभिन्नं स्वरूप त्वमेवासीत्यर्थः । तदिति पृथक्षदं वा। वेदान्तवाक्येषु तच्छब्दवाच्यतया प्रसिद्धमित्यर्थः ॥१४॥ इति तेभ्यः स्तुतीः श्रुत्वा याथार्थ्यहृदयङ्गमाः। प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥१५॥ १. "दिहो. पाठः. २. 'न वचनेन ' घ. पाठः. ३. 'यथार्थ है' मुद्रितकोशपा.

द्वितीयः सर्गः। (प्रकाशिका) इतीति। इत्थम्भूताः । स्तुतिनाम स्वाभिप्रायानुरूपं देवतावीर्यो- धनम् । अभिप्रायश्चात्र वक्ष्यते 'तदिच्छामः (श्लो.५०)इत्यादिना । तत्र च “सनानीसृष्टिः सृष्टेन च लोकस्थितिः तारकासुरसंहारः तस्य च निरतिशय- शक्तिमत्त्वं चेत्येतत् सर्वमभिप्रेतम् । तदनुरूपविधातृवीर्योद्रोधनं चात्र स्पष्टम् । याथार्थेन स्वरूपानतिक्रमेण । प्रसादेनाभिमुखोऽनुग्रहोनाखः । अनेनास्य सुमसादत्वाल्लोकतो व्यतिरेकः प्रतीयते । लोके हि स्तुतय आरोपितमायार्थाः प्रसादनाय, इह तु यथार्था इति ॥ १५ ॥ विवरणम् अथ ब्रह्मणः प्रतिवचनं प्रस्तीति- इतीति । वेधाः तेभ्यः इति स्तुतीः श्रुत्वा प्रसादाभिमुखः दिवौकसः प्रत्युवाच । वेधाः ब्रह्मा तेभ्यः देवेभ्यः सकाशाद् इति उक्तप्रकाराः स्तुतीः । स्तुति म स्वाभिप्रायानुरूपं देवतावीयाँद्वोधनम् । अभिप्रायश्चात्र 'तदिच्छामो विभा स्रष्टुं सेनान्यं तस्य शान्तये' (श्लो. ५०) इति वक्ष्यते । अतस्तादृशवीर्यतारकासुरविमर्दनक्षमस्य सेनान्यः सृष्टौ यद् ब्रह्मणो वीर्यं तदुदो- धनं 'नमोऽस्तु'(श्लो.४)इत्यादिभिः श्लोकः कृतम् । लीलामात्रकलितसकलज- गसृष्टिस्थितिप्रलयस्य तव सेनानीसृष्टौ का प्रयास इति स्तुतिवचनानां तात्पर्या- थः । श्रुत्वा आकर्ण्य । प्रसादाभिमुखः अनुग्रहोन्मुखः सन् दिवौकसः देवान् प्रत्युवाच प्रतिवचनं कृतवान् । ब्रह्मणः स्तुतौ सामान्यस्तुतिव्यतिरेकमाह याथार्थ्यहृदयङ्गमा इति। याथार्थेन यथार्थत्वेन हृदयङ्गमाः मनोहराः । लोके हि प्रसादनाय क्रियमाणाः स्तुतयः प्रायेणारोपितार्थाः , ब्रह्मणः स्तुतयस्तु यथार्था एवेति भावः ॥१५॥ पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छन्दानां चरितार्था चतुष्टयी ॥१६॥ १. भ्यः स. ग. ध पाठः. २. 'देवत्वालो' घ, ङ. पाठः ३. 'मसे ध. पाठः. १. 'सर्गस्थि' घ. पाहा: ५. न्यः' ध. पाठः कुमारसम्भवे (प्रकाशिका) प्रतिवचनप्रस्तावे विशेषमाह - -- पुराणस्येति । पुराणस्याद्यस्य कवेर्निबन्धुः प्राज्ञस्य वा । चतुर्भि(रवैः समीरिता सम्यगीरिता सकलसंस्कारसमग्रमुच्चारिता । प्रवृत्तिः प्रवाहः । पुराणकविसम्बन्धात् समग्रसंस्कारः। अत एव चरितार्था । चतुभ्यो मुखेभ्यश्चतुर्धा शब्दानां प्रवृत्तिरासीदित्यर्थः । चरितार्थत्वं त्वौपचारिकं द्रष्टव्यम् । यथा देवाः सर्वतोमुखत्वादस्य सुलभसाम्मुख्याः सन्तः सर्व एव युगपत् परितश्चोपतस्थिरे , तथासावपि तान् सर्वानेव चतुर्मुखविनिर्गतया चतुष्टय्या शब्दानां प्रवृत्त्या युगपत् परितश्च प्रत्युक्तवानित्यर्थः । दक्षिणावर्तस्तु-वैखर्यादिरूपेण चतुष्टयीति व्याचष्ट । तत् तु निरूपयितव्यम् ॥१६॥ (विवरणम्) अथास्य प्रतिवचनप्रस्तावे विशेपमाह- पुराणस्येति । पुराणस्य कवेः चतुर्मुखसमीरिता चतुष्टयी शब्दानां प्रवृत्तिः चरितार्था आसीत् । पुराणस्य आद्यस्य कवेः प्रवाचः सर्वज्ञस्य वा। 'वाक्प्रबन्धविधाता च सर्वज्ञश्च कविः स्मृत' इति भोजः । चतुर्मुख- समीरिता चतुर्भिर्मुखैः वदनैः समीरिता सम्यक् सकलसंस्कारसमग्रम् ईरिता उच्चारिता चतुर्मुखोदीरितत्वादेव चतुष्टयी । 'संख्याया अवयवे तयप्' (५. २.४२)। अवयवचतुष्टययुक्तेत्यर्थः । शब्दानां प्रवृत्तिर्वचसा प्रवाहः चरितार्थी कृतार्था आसद् िबभूव । चतुर्यो मुखेभ्यः प्रवृत्ताश्चत्वारो वाक्- प्रवाहाः कृतार्था बभूवुरित्यर्थः । यथा देवाः सर्वतोमुखत्वादस्य सुलभसा- म्मुख्याः सन्तः सर्व एव युगपत् परितश्वोपतस्थिरे, तथासावपि तान् सर्वा- नपि चतुर्भिर्वदनैर्युगपदेव प्रत्युवाचेत्यर्थः । सर्वेषामपि युगपदेव प्रतिव- चनसिद्धेः कृतार्थत्वम् । अत्र वक्तुः कृतार्थत्वं वासवृत्तावुपचर्यते, वाक्- , द्वितीयः सर्गः। प्रवृत्तेरचेतनायाः कृतार्यत्वानुपपत्तेः । इह वाक्प्रवाहस्य पुराणकविसम्बन्धात् समग्रसंस्कारवत्त्वं , 'चतुर्मुखोच्चारितत्वाचतुष्टयत्वं , तेन कृतार्थ(त्व)मिति विभागः ॥१६॥ स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः। युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥१७॥ (प्रकाशिका) स्वागतमिति । स्वागतं शोभनंमागमनम् । अध'कारान् 'उप- सर्गस्य पत्रि-(६. ३. १२२) इति दीर्घः । वः युष्मभ्यम् । प्रभावः स्वानधीकारानवलम्ब्य स्थितेभ्यो युष्मभ्यं स्वागतमित्यर्थः । युगपदित्य- नेन प्राप्तेः सहेतुकत्वं सूचयति । युगानीव बाहवो येपामिति समासः । प्राज्यं प्रभूतम् ॥१७॥ (विवरणम्) विधातुः प्रतिवचनप्रकारमाह स्वागतमित्यादिभिरेकादशभिः श्लोकैः । तत्रादौ स्वा- गतमाह- स्वागतमिति । हे प्राज्यविक्रमाः! वः स्वागतम् । हे प्राज्यविक्रमाः ! प्राज्यः प्रभूतो विक्रमो येषाम् । 'प्रभूतं प्रचुरं प्राज्यमि'त्यमरः, 'विक्रमस्त्व- तिशक्तिता' इति च । अनया सम्बुद्ध्या तेषां परिभवावकाशाभावो ध्वन्यते । वः युष्मभ्यं स्वागतं शोभनमागमनम् । अम्त्विति शेषः । भवतामागमन- कार्य शोभनं भूयादिति भावः । प्राज्यविक्रमत्वस्य फलमाह-प्रभावः स्वान् अधीकारान् अवलम्ब्येति । स्थितेभ्य इति शेषः । प्रभावैः सामयः खान् आत्मीयान् । 'स्वो ज्ञातावात्मनि स्वं विष्वात्मीये स्वोऽस्त्रियां धने' इति सिंहः । अधीकारान् ‘उपसर्गस्य घन्यमनुष्ये बहुलम्' (६.३.१२२) इति दीर्घः । अवलम्ब्य धृत्वा स्थितेभ्यः । स्वाधिकारावलम्बने शक्तत्वमाह- १. 'नाग' ग. पाठः. २. 'तम् । प्राज्यः' घ. पाठः, ३. 'धी' घ. पाठः.

१३२ कुमारसम्भवे युगवाहुभ्य इति । युगा इव पाहवो येषाम् । 'यानाधङ्गे युगः पुंसि' इत्य- मरः। आगमनं सहेतुकमिति द्योतयन्नाह- युगपत् प्रान्य इति । युगपत् सहैव प्राप्तेभ्य आगतेभ्यः । तत्र आत्मीयानधिकारानवरंब्य पृथगवस्थि- तानां सम्भूयागमनवचनेनागमनं सहेतुकं, सच हेतुर्महानिति चव्यज्यते ॥१७॥ किमिदं द्युतिमात्मीयां न विभ्रति यथापुरम् । हिमक्लिष्टप्रसादानि ज्योतीषीव मुखानि वः ॥८॥ (प्रकाशिका) किमिति। किं प्रश्ने । इदमिति वक्ष्यमाणं वैकृतं परामृष्टम् । इदं किंतुकमित्यर्थः । तदाह किमित्यादिना श्लोकाष्टकेन । तत्र सा- मान्यतो निरूपयति-द्युतिमिति । अत्मीयां नैसर्गिकीम् । न तु सर्वथा न बिभ्रतीत्याह यथापुरैमिति । ज्योतींषि चन्द्रेतारकादीनि ॥१८॥ (विवरणम्) इत्थं सूचितमर्थ किञ्चिद् विवृणोति- किमिति । इदं किम् । इदंशब्देन वक्ष्यमाणं मुखवैवादिकं सर्वप्रत्यक्षदृष्टं परामृष्टम् । किंशब्दः प्रश्ने । दृश्यमानमिदं सर्व किंकारण. कमित्यर्थः । तत्रादौ सकलसुरसाधारण्येन मुखवैवर्ण्यमेवाह-वः मुखानि आत्मीयां द्युतिं यथापुरं न बिभ्रति इति । वः युष्या मुखानि वदनानि आत्मीयां स्वाभाविकी युतिं कान्ति । यथापुरम् । पदार्थानतिवृत्तौ यथा- शब्दः । पूर्वकालानतिक्रमेण , पूर्ववदिति यावत् । न बिभ्रति न दधति । भवतां मुखानि पूर्ववत् कान्तिं न दधतीत्यर्थः। मुखवैवर्ण्यमुपमया स्फुट- यति-हिमक्लिष्टप्रसादानि ज्योतीषीवेति । हिमेन तुषारेण क्लिष्टः क्लेशं १. 'रा' मुद्रितकोशपाठः. २. 'काशानि' मुद्रितकोशपाठः. ३. 'मा' ख. ग. घ. पाठ:. ५. 'रम । ज्यो' ख. प. पाठः. ५ 'न्द्रादी' ङ. पाठः, द्वितीयः सर्गः। प्राप्तः प्रसादः मा येषां तानि ज्योतीषि चन्द्रादीनीव । अनेनोप- मानेन कालवीत् प्राप्तस्य वैवर्ण्यस्य कालान्तरे निवृत्तिरप्यस्तीति योत्यते ॥१८॥ प्रशदर्चिचामेतदनुद्गीर्णसुरायुधम् । वृत हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥१९॥ (प्रकाशिका) अथ विशेषतो निरूपयति-.. प्रशमादिति। अनुद्गीर्णसुरायुधम् अनुद्गतनानारत्रच्छायम् । अ- नेन कार्यसुखेनार्चिाप्रशम उपपादितः। अधिः कोटिः। अर्चिषां प्रश- मादिति कुण्ठिताश्रित्वोत्क्षणे हेतुः। अत्रा/षि किरणाः, न तु ज्वालाः, तासामूर्ध्वमुखत्वेनाश्रिवत् सर्वतोमुखत्वासिद्धेः ॥ १९ ॥ (विवरणम्) इत्थं सामान्येनोक्त विशेषतः प्रतिपादयति सप्तभिः श्लोकः। तत्रादी प्राधान्यान्म- हेन्द्रावस्थामाह- प्रशमादिति । वृत्रस्य हन्तुः एतत् कुलिशं कुण्ठिताश्रि इव लक्ष्यते । वृत्रस्य हन्तुः वृत्राभिधानस्य दानवपतेः निग्रहीतुः । देवेन्द्रस्य तादृशावस्थाप्राप्तेरनौचित्यमुक्तम् । एतद् दृश्यमानं कुलिशं वज्रम् । अनेन अचलेष्वप्यकुण्ठितत्वं द्योत्यते । कुण्ठिताश्रि कुण्ठिताः क्षीणधारा अश्रयः कोटयो यस्य । 'स्त्रियः पाल्यत्रिकोटय' इत्यमरः । तथाभूतमिव लक्ष्यते । कुण्ठिताश्रित्वोत्प्रेक्षायां च हेतुमाह- अर्चिषां प्रशमाद् अनु- गीर्णसुरायुधमिति । अर्चिषां किरणानां, न तु ज्वालानाम् । तासामूर्ध्व- मुखत्वेन सर्वतोमुखश्री? खाश्रि)साधर्म्यानुपपत्तेः । प्रशमात् संक्षयाद् अनुद्गीर्णसुरायुधम् अनुद्गीर्णम् अनुद्गतं सुरायुधम् इन्द्रचापरूपा नानारत्न- १. 'पितः प्रक.पाठः. २. 'व्यो य क.ख. ग. पाठः. ३. 'यां हे' घ, पाठः.

कुमारसम्भवे प्रभा यस्य तत् तथा । नानारत्नप्रभानुगमनादर्चिःप्रशमः, सुखावसेयः । अर्चिःप्रशमनेन कुण्ठिताश्रित्वमुत्प्रेक्ष्यत इति भावः ॥१९॥ किश्चायमरिदुर्वारः पाणौ पाशः प्रचेतसः। मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥१०॥ (प्रकाशिका) किश्चेति । अपि च दैन्यं चेतसोऽनौजस्यम् । तेन तत्कार्यभूत- मनुज्ज्वलत्वमत्र लक्ष्यते । नन्विन्द्रावरुभावादित्येष्वन्तर्भूतौ । सत्यम् । अधिकारभेदात् तु विग्रहभेदो व्यवहारभेदश्च ॥२०॥ (विवरणम्) अथ वरुणावस्थामाह- किञ्चेति । किञ्च प्रचेतसः पाणौ अयं पाशः मन्त्रेण हतवीर्यस्य फणिनः दैन्यम् आश्रितः । किञ्च अपिचेत्यर्थः । प्रचेतसः वरुणस्य । 'प्रचेता वरुणः पाशी'त्यमरः । पाणौ हस्ते वर्तमान इत्यर्थात् सिध्यति । अयं दृश्य- मानः । अनेन दैन्यस्य प्रत्यक्षप्रमाणसिद्धत्वमुक्तम् । यमवरुणौ पाशहस्ता- विति प्रसिद्धिः । मन्त्रेण अर्थाद् गरुडदैवतेन हतवीर्यस्य हतं प्रतिहतं वीर्य प्रभावो यस्य । 'वीर्य बले प्रभाव चे'त्यमरः । तस्य फणिनः दैन्यं दीनत्वम् । 'दौर्गत्यादेरनौजस्यं दैन्यं काामृजादिकृत्' (४.१४) इति दशरूपके । मानस ओजःक्षय इत्यर्थः । तेनात्र तत्कार्यभूतमनुज्ज्वलत्वं लक्ष्यते । आश्रितः प्राप्तः । पाशस्य पूर्वावस्थामाह --- अरिदुर्वार इति । अरिभिः शत्रुभिः दुर्वारः दुःखेन वार्यत इति तथा । कृच्छार्थे खल् । अरिजनैरवारणीयशक्तिरित्यर्थः । अनेनास्यैतादृशदशाप्रवेशा(न)वकाशो निरू- प्यते। अपकारिजनदुर्वारः फणी यथा मन्त्रप्रमयितशक्तिीनां दशामाप्नोति, तथा , १. 'ज्वल्यम' क. घ. ह. पाठः.

द्वितीयः सर्गः। १३५ वरुणस्यायं पाशो पीत्यर्थः । पाशफणिनोः स्वरूपसाम्यमेवव्यवहारे हेतुः । ननु 'अमी च कमादित्याः (श्लो. २३)इत्यनेन श्लोकेन द्वादशादित्यावस्थाया वक्ष्यमाणत्वादिद्रावरुणयोश्च द्वादशादित्येष्वेवान्तर्भावात् कथं पृथग् वर्णनम् । मैवम् । अधिकरभेदनिमित्ताद् विग्रहभेदात् पृथग् व्यवहारोपपत्तेः । अत्र पाशः फणिदैन्यसदृशं दैन्यमाश्रित इति निदर्शना ॥२०॥ कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगदो बाहुर्भग्नशाग्न इव द्रुमः ।। २१ ॥ (प्रकाशिका) कुबेरस्येति । शंसतीवेत्युत्प्रेक्षया स्फुटत्वं द्योत्यते । मनःशल्यं पराभवमिति रूपकम् ॥२१॥ (विवरणम) कंधेगवस्थामाह- कुबेरस्येति । कुबेरस्य अपविद्धगदः बाहुः पराभवं शंसति इव । कुबेरस्य वैश्रवणम्य । अपविद्धगदः अपविद्धा त्यक्ता । यथा रघुवंशे 'अपविद्धशुचाविव' इति । अपविद्धा शत्रुप्रहारसामर्थ्याभावेन निरुपयोगत्वात् त्यक्ता गदा येन सः बाहुः हस्तः पराभवं परिभवं शंसति कथयतीव । वैश्रवणस्य गदाशून्यो हस्त एव शत्रुपरिभवं कथयतीवेत्युत्प्रेक्षा । कथनोटो- क्षया च पराभवस्य स्फुटत्वं द्योत्यते । कथितं हि स्फुटतरमवगभ्यते। तादृशं बाहुमुपमिनोति भग्नशाखः द्रुमः इव इति । भग्नाः भङ्गं प्रापिताः शाखा यस्य तादृशो द्रुमः वृक्ष इव । पराभवस्यात्यन्तासह्यत्वं द्योतयन् पराभवं विशिनष्टि ---- मनश्शल्यमिति । मनसः शल्यं शल्यवदत्यन्तदुस्सहमित्यर्थः । रूपकं चदम् । अत्रोत्प्रेक्षोपमारूपकाणां संसृष्टिः ॥२१॥ -- .----... १. 'नालङ्कारः ॥' घ. पाठः, ११६ कुमारसम्म यमोऽपि विलिखन् भूमि दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥२२॥ (प्रकाशिका) यमोऽपीति । भूपिलेखनं विषादस्यानुभावः । वायवमबहुमा- नम् । अयं तु श्लोकः 'प्रशमादर्चिषाम्' (श्लो. १९)इत्यस्यानन्तरं पठनीयः ॥२२॥ (विवरणम्) यमावस्थामाह- , यमोऽपीति। यमः अपि दण्डेन भूमि विलिखन् अमोघे अपि अस्मिन् निर्वाणालातलाघवं कुरुते । यमयति नियमयत्यसत इति यमः । असतां निय- न्तायमन्तकोऽपीत्यपिशब्दार्थः । अनेनास्य पूर्वोक्तदिक्पालत्रयव्यतिरेक उक्तः । तथाभूतोऽयमप्येतादृशो जातः, किमुतान्य इति भावः । यमस्यैतादृशं विशेष प्रतिपादयितुमेव महेन्द्रवृत्तान्तवर्णनानन्तरं क्रममतिक्रम्य वरुणकुबेरयोरवस्था प्रतिपादिता । अरुणाचलनाथादयः पुनः अयं तु श्लोकः 'प्रशमादर्चिषाम्' (श्लो.१९) इत्यस्यानन्तरं पठनीय इत्येवोक्तवन्तः । दण्डेन स्मरणमात्रेणाप्य- सतां भयङ्करेणेत्यर्थः । भूमिं विलिखन् । विषादवन्तो हि दण्डादिना भूमिवि- लेखनं कुर्वन्तीति विषादस्यानुभावोऽयम् । अमोघे (मोघो) निष्फलो न भवतीत्यमोघः तस्मिन्नपि, सफलप्रहारेपीत्यर्थः । अपिशब्दोऽस्य तादृशा- वस्थाया अयोग्यत्वं सूचयति । अस्मिन् दण्डे निर्वाणालातलाघवं निर्वाणे प्रशान्तानले अलाते उल्कायां यल्लाघवम् अबहुमानः , तत् करोति । यतो- ऽयं तादृशमपि दण्डमित्थं भूविलेखनादावुपयोजितवान् , ततोऽस्य तस्मिन्न- नादरः स्फुट एव । अनादरश्च शत्रुप्रहारसामर्थ्याभावकृत इत्यबसेयम् । दण्डस्यापि निस्तेजस्त्वप्राप्तिदर्शनमात्रेणैवावसेयेत्याह-अस्तमितत्विषेति । Mammad १. इति भावः । अंग. पाठ:

द्वितीयः सर्गः। अस्तमिता विनष्टा विद् शोभा यस तत्तथा । एतच दण्डविशेषणं निर्वाणा- लातसाम्यसिद्धयर्थम् । अत्रेन्द्राद्यायुधानां नष्टप्रभावत्वप्रतिपादनेन तदधि- छान्या देवताया अपि भयाकुलत्वं दर्शितम् ॥२२॥ अमी च कथमादित्याः प्रतापक्षयशीतलाः। चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥२३॥ (प्रकाशिका) अमी इति । कथमिति विस्मये। प्रकामं यथेच्छम् ॥२३॥ (विवरणम्) दिक्पालावस्थावर्णनानन्तरमवशिष्टेषु देवेषु प्रधान भूतानामा.िन्यानामवस्था प्रस्तौति- अमी इति । अमी आदित्याः च प्रकामालोकनीयतां गताः कथम् । अमी पुरतो दृश्यमानाः । हम्तनिर्देशपूर्वकोऽयं व्यवहारः। आदित्याः द्वाद- शादित्याः। चकारोऽयमपिशब्दार्थे । ये पूर्व प्रभया दुर्निरीक्षाः, तऽपी- त्यर्थः । प्रकामालोकनीयतां प्रकामं यथेच्छम् आलोकनीया द्रष्टुं शक्या इति प्रकामालोकनीयाः, तेषां भावस्तत्ता , तां गताः प्राप्ताः कथम् । कथं- शब्दो विस्मये । तादृशा आदित्या अप्येवंभूताः, अत्यद्भुतमतदित्यर्थः । उत्प्रेक्षते --चित्रन्यस्ता इव इति । चित्रेषु न्यस्ताः लिखिता इव । न हि चित्रन्यस्ता आदित्या दुरालोका भवन्ति । प्रकामालोकनीयत्वप्राप्ती हेतु- माह प्रतापक्षयशीतला इति । प्रतापस्य आतपस्य । 'प्रतापी पौरुषातपौ इति.यादवः । क्षयेण शीतलाः शीताः। एतच्च पराभवहेतुकस्य दैन्यस्यानु- भावः ॥२३॥ पर्याकुलस्वान्मरुतां वेगभङ्गोऽनुमीयते । अम्भसामोघसंरोधः प्रसीपगमनादिव ॥२४॥ .- २. 'ति' मुद्रितकोशपाठः. ३.'' घ. पाठः. १. 'तान' घ. पाठः. मक पाठः, कुमारसम्भवे - (प्रकाशिका) पर्याकुलत्वादिति । मरुतां वायूनाम् । ते च स्मृत्युक्ता अष्टौ "गगनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः॥" इति । अथवा तन्त्रान्तरोक्तानां वायूनामेकोनपश्चाशतो ग्रहणम् , अत्र लिङ्गं वेगभङ्गः, न तु मरुद्गणानां, तदसम्भवात् ॥ २४ ॥ (विवरणम्) वायूनामवस्थामाह- पर्याकुलत्वादिति । मरुतां पर्याकुलत्वाद् वेगभङ्गः अनुमीयते । मरुतां "गगनः स्पर्शनी वायुरनिलो मारुतस्तथा । प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः॥" इति स्मृत्युक्तानामष्टानां वायूनां , न तु मरुद्गणानां , तेषां वेगभङ्गानुपपत्तेः । पर्याकुलत्वाद् व्याकुलत्वाद् , अयथापूर्वसंचाराद्धेतोरित्यर्थः । वेगस्य भङ्गो वेगभङ्गः। अनुमीयते दृश्यमानेन पर्याकुलत्वेन लिङ्गेन वायूनामपि वेगो यत्रकुत्रापि भन्नो जात इत्यनुमीयत इत्यर्थः । अत्रोपमामाह- अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव इति । अम्भसां जलानाम् ओघसंरोधः ओघस्य प्रवाहस्य संरोधः सम्यग्रोधः समुद्रवर्धनादिना विच्छेदः प्रतीप- गमनात् प्रतीपं प्रतिकूलं यथा भवति तथा गमनादिव। यथा नदीनां वेगभगः सुखानुमेय इति भावः ॥२४॥ आवर्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः क्षतीहङ्कारशंसिनः ॥२५॥ १. 'म'. पाठः. २. 'तहुशा मुद्रितकोशपाठः, द्वितीया सर्मः। १३९ (प्रकाशिका) आवर्जितेति। आवर्जिते जटामये मौलौ केशबन्धे विशेषेण लम्बि- न्यः शशिकोटयो येषाम् । अहङ्कारोऽभिमानित्वम् । अहङ्कारस्याधिदैवतं शिवः । स एवैकादशात्मा रुद्रः। तत इयमुक्तिः ॥ २५ ॥ (विवरणम्) रुद्राणामवस्थामाह- - आवर्जितेति । रुद्राणां मूर्धानः अपि क्षताहङ्कारशंसिनः। रुद्राणा- मेकादशरुद्राणां । मूर्धानः शिरांसि क्षताहङ्कारशंसिनः क्षतं भनम् अह- कारम् अभिमानित्वं शंसितुं शीलमेषामिति तथा । भवन्तीति शेषः । अह- कारस्याधिदैवतं शिव इति पुराणप्रसिद्धिः । एकादशात्मा रुद्रोऽपि स एव । ततश्च अहङ्काराधिदैवतानामप्यहङ्कारक्षतिरिति विरोधोऽपिशब्देनोच्यते । मूर्धामहङ्कारक्षतिकथनप्रकारं विशेषणद्वारेणाह-आवर्जितजटामौलिविलम्बि- शशिकोटय इति । आवर्जितेषु विषादभरानतशिरस्कतया शिरसा सहावनमितेषु जटारूपेषु मौलिषु केशबन्धेषु । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रय' इति सिंहः । विलम्बिन्यः लम्बनशीलाः शशिकोटयश्चन्द्रकला येषु ते तथा । नप्रशिरस्त्वं विषादस्यानुभावः । शिरोनमने शिरोलङ्कार(स्वस्त ? संस)- स्तु स्वभावसिद्ध इति स्वभावोक्तिः ॥२५॥ लब्धप्रतिष्ठाः प्रथमं न खलु स्थ बलोत्तरैः। अपवादरियोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २६ ॥ (प्रकाशिका) इत्थं निरूपितस्य वैकृतस्य हेतुं स्वयमेवाभ्यूहति- लब्धेति । प्रथम लब्धप्रतिष्ठाः प्राप्तस्वपदस्थितयः। न खलु स्थ । -- २. १. 'ति । ज' क. ख. ग. घ. पाठः. 'त्यमरः ।' घ. पाठः. बलवत्तरैः' मुद्रितकोशपाठः, ४. 'यति' ङ. पाठः, ३. 'यूयं किं कुमारसम्भवे खल्लर्जिज्ञासायाम् । एतद् विशेषतो ज्ञातुमिच्छामीत्यर्थः।न स्थ न भवथ । काका भवथैवेत्यर्थः । 'मश्रामि कौरवशतमि'त्यादिवत् । कृतव्यावृत्तयः स्वपदाच्च्याविताः । अत्र हेतुः-वलोत्तरैरिति । अपवादानां बलवत्तरत्वं 'सावकाशनिरवकाशयोर्निरवकाशो बलीयानि ति न्यायात् । परैः श- श्रुभिः ॥२६॥ (विवरणम्) इत्थं प्रतिपादितानां मुखवैवर्ष्यादीनां कारणं स्वयमेवाभ्युह्य कथयति- लब्धेति । यूयं परैः कृतव्यावृत्तयः न खलु स्थ । परैः शत्रुभिः कृतव्यावृत्तयः कृता विहिता व्यावृत्तिः स्वपदच्युतिर्येषां तथाविधा न खलु । खलुशब्दो जिज्ञासायाम् । स्थ भवर्थ । अत्र काका भवथैवेत्यर्थः । 'मन्नामि कौरवशतं समरे न कोपाद्' इत्यादिवत् । भवन्तः शाभिः स्वपदात् प्रच्याविता एव । तद्विशेषविषया मे जिज्ञासेति भावः। 'निषेधवाक्या- लङ्कारजिज्ञासानुनये खलु' इत्यमरः। स्वपदात् प्रच्यावनमुपमया स्फुटयति- अपवादैः उत्सर्गाः इव इति । अपवादैविशेषविधिभिः उत्सर्गाः सामा- न्यविधय इव । यथा विशेषविधिभिः सामान्यविधयः स्वस्थानान्निरस्यन्ते, तथा यूयमपि परैरिन्द्रादिस्थानान्निरस्ता एव । के पुनस्त इत्यादयो विशेषाः कथ्यन्तामित्यर्थः । सामान्यविधीनां देवानां च साधारणं धर्ममाह-प्रथम लब्धप्रतिष्ठा इति । प्रथमं शत्रुसमागमात् पूर्व विशेषशास्त्रश्रवणात् पूर्व च लब्धा प्राप्ता प्रतिष्ठा स्वपदस्थितियैस्ते तथा । परेषां (विशेष)विधीनां च सा- धारणं धर्ममाह-बलोत्तरैरिति । बलेन शक्त्या उत्तरैः उत्कृष्टैः । इन्द्रादिभ्यो- ऽपि बलाधिकैरित्यर्थः । विशेषविधीनां बलोत्तरत्वं तु 'सावकाशनिरवकाशयो- निरवकाशो विधिर्वलीयानि ति न्यायात् । सर्वे ब्राह्मणा भोज़यितव्या इत्यादयः सामान्यविधयः । देवदत्तस्तु क्षीरयवागूं पाययितव्य इत्यादयो विशेषविधयः। तत्र ब्राह्मणसामान्यतः प्रथमं देवदत्तेऽपि प्रासं भोजयित- १. 'रैः।' इ. पाठः, २. 'थ । का' घ. पाठः ३. 'ण' घः पाठः, द्वितीयः सर्गः। १४१ व्यत्वं पाश्चात्येन विशेषविधिना निरस्यते । तत्र यदि विशेषविधिदेवदत्तादपि निवर्तेत, तर्हि स निरवकाश एव स्यात् । न च विधेर्निरवकाशत्वं युक्तं कल्प- यितुम् । सामान्यविधिस्तु ब्राह्मणान्तरेषु सावकाश एवेति युक्तं विशेषविधीनां बलोत्तरत्वम् ॥२६॥ तद् ब्रत वत्साः! किमितः प्रार्थयध्यै समागताः । मयि सृष्टिहि लोकानां रक्षा युष्मास्ववस्थिता ॥२७॥ (प्रकाशिका) तदिति । तत् तस्माद् , यस्माद् वैकृतहेतुरेवंविधः । बृत वत्साः!। किं ब्रूम इत्याह-किमित इति । यत् प्रार्थितं तद् ब्रूतेत्यर्थः । इतोऽस्मत्तः । समागताः सम्भूयागमनात् प्रार्थनयावश्यं भवितव्यमिति भावः। ननु लोकस्थितिभङ्गे मति लोकगुरोस्तव लोकपालानामस्माकं च समानेयं प्रार्थनेत्याह-मयीति । तस्माद् रक्षाप्रार्थना युष्माकमेवेत्यभिप्रायः॥२७:। (विवरणम्) अथ तस्मिन् विषये स्वकर्तव्यांशं पृच्छन् वचनमुपसंहरति- तदिति । तद् वत्साः! समागता यूयम् इतः किं प्रार्थयध्वे ब्रत । तद् भवतामिदं मुखवैवादिकं परपरिभूतत्वं यतो वदति , तस्मादित्यर्थः । वत्साः! पुत्राः! । अनेनानुकम्पातिशय उक्तः । समागताः सम्भूयागताः । अनेन प्रार्थनाया अवश्यम्भावः सूचितः। (इतः) मत्सकाशात् किं वस्तु प्रार्थ- यध्वे । 'अर्थ याच्याम्' इति धातुः। ब्रत व्यक्तं वदत। 'बञ व्यक्तायां वाचि' इति धातुः । को भवतां पराभवकर्तेति शेषः कथ्यतामित्यर्थः । किं प्रार्थयध्वे इत्यनेन प्रश्नेनैव ब्रतेत्येतद् गतार्थमपि पुनर्वचनं त्वराविशेष योतयति । मत्सकाशाद् यदपेक्षितं, तत् त्वरितं ब्रत, नात्र शङ्का कर्तव्येत्यर्थः । ननु लोकरक्षापरिक्षये जायमाने लोकगुरोस्तव लोकपालानामस्माकं च समा- १. 'तते, त' घ. पाठः, २. 'ध्वं' मुद्रितकोशपाठः.

१५२ कुमारसम्भवे नमेव व्यसनम् । तस्मात् किमर्थ प्रार्थयध्व इत्युच्यत इत्यत्राह-मयि लोकानां सृष्टिः अवस्थिता, रक्षा युष्मासु हि इति । रजोगुणमवलम्ब्याव- स्थिते मयि लोकानां सृष्टिरवस्थिता । रक्षा तु लोकपालनाधिकृतेषु युष्मास्वेव। हिशब्दः प्रसिद्धौ । ततो लोकरक्षापरिक्षये तद्रक्षणाधिकृतानां युष्माकमेव प्रार्थना युक्तेति भावः ॥२७॥ ततो मन्दानिलोद्धृतकमलाकरशोभिना। गुरु नेत्रसहस्रेण चोदयामास वासवः ॥२८॥ (प्रकाशिका) तत इति । गुरुं बृहस्पतिम् ॥ २८ ॥ (विवरणम्) अथ प्रतिवचनप्रस्तावे वाचततेरेव तयोग्यन्वान्महेन्द्रस्य तन्नियोगप्रकारमाह- तत इति । ततः वासवः नेत्रसहस्रेण गुरुं चोदयामास । ततः ब्रह्मणो नियोगानन्तरं वासवः इन्द्रः नेत्राणां सहस्रेण करणभूतेन गुरु बृहस्पतिम् । 'बृहस्पतिः सुराचार्यों गीष्पतिर्धिषणो गुरुरि'ति सिंहः । चोदयामास प्रेरयामास । 'चुद प्रेरण' इति धातुः । प्रतिवक्तुमिति शेषः । नेत्रसहस्रव्यापारप्रतिपादनेन नियोगप्रकारमेव वदन् नेत्रसहस्रं विशिनष्टि- मन्दानिलोद्धतकमलाकरशोभिनेति । मन्दानिलेन मन्दवातेन उद्धृतश्चलितो यः कमलाकरः पद्माकरः तद्वत् शोभितुं शीलमस्येति तथा । गुरुविषयगौरव- योतकं तत्कालविशेषणं च । अत्र नेत्रसहस्ररूपोऽवयवी कमलाकरस्थानीयः । अवयवभूतानि नेत्राणि तु कमलस्थानीयानीति विभागः ॥२८॥ स विनेतृ हरेश्चक्षुर्दशचक्षुश्शताधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ २९ ॥ १..'नो' मुद्रितकोशपाठः. २. 'अमरः ।' घ. पाठः. ३. 'द्विनेत्रं ह', ४. 'क्षुः सहस्रनयनाधि' इति मुद्रितकोशपाठः. - द्वितीयः सर्गः। २४३ (प्रकाशिका) स इति । हरेरिन्द्रस्य चक्षुः अर्थप्रकाशकत्वादुपचारः। दश च तानि चक्षुश्शतानि चेति दशचक्षुश्शतानि, तेभ्योऽधिकं विशिष्टम् । कथं वैशिष्ट्यमित्याह-विनेत् । विनयोपदेशकम् । ‘स द्विनेत्र' इति पाठे द्वे नेत्रे यस्य धर्मदृष्टिरर्थदृष्टिश्च । अनेन भगवतो बृहस्पतेर्भगवतः शुक्राद् व्यति- रेको ध्वनितः। स हि बलियज्ञ विरोधमाचरन् भगवता विष्णुना धर्मदृष्ट्या विकलीकृतः। असो तु दृष्टिद्वययोगाद् धर्मार्थावुभावपि समीक्ष्योक्तवा- नित्यर्थः । दशचक्षुश्शताधिकं तदगोचरार्थग्राहकमित्यर्थः । चस्पतिः अलुकि 'षष्ठयाः पतिपुत्र-' (८.३.५३) इति सत्वम् ।। २९॥ (विवरणम्) अथ बृहस्पतः प्रतिवचनप्रस्तावमाह- स इति । सः वाचस्पतिः प्राञ्जलिः जलजासनम् इदम् उवाच । सः य एवं वासवेन नियुक्तः स इत्यर्थः । वाचस्पतिः गीष्पतिः । 'जीव आङ्गिरसो वाचस्पतिरि'त्यमरः । अलुक् । 'षष्ठयाः पतिपुत्र-'(८.३.५३)इति सत्वम् । अनेन बृहस्पतेरुक्तिचातुर्य दर्शितम् । तच्च नियोगहेतुः । प्राञ्जलिः प्रकृष्टोऽञ्जलि- यस्य तथाभूतः सन् , अञ्जलिं कृत्वेत्यर्थः । जलजासनं ब्रह्माणम् . उवाच उक्तवान् । न केवलमुक्तिचातुर्य , विचारचातुर्यं चास्तीत्याह-द्विनेत्र इति । धर्मदृष्टिरर्थदृष्टिश्चेति द्वे नेत्रे यस्य स द्विनेत्रः । अनेनासुराचार्याद् भार्गवात् सुराचार्यस्यास्य व्यतिरेको ध्वन्यते । शुक्रो हि बलियज्ञे नारायणप्रार्थित- पदत्रयपरिमितभूभागप्रदाने विरोधमाचरन् भगवता धर्मदृष्ट्या वियोजितः । असौ तु दृष्टिद्वयशालित्वाद् धर्मार्थावुभावपि समीक्ष्योक्तवान् । अत एव विज- यार्थ सेनानीसृष्टिमात्रं प्रार्थयिष्यति 'तदिच्छामः'(श्लो.५०)इत्यादिना.। अस्य महेन्द्रयोगक्षेमविधानमात्रतत्परत्वं महेन्द्रापेक्षया विज्ञानाधिक्यं चाह-हरेः दशचक्षुश्शताधिकं चक्षुरिति । हरेरिन्द्रस्य ।

कुमारसम्भवे "यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले त्रिषु ॥" इति सिंहः। दश च तानि चक्षुश्शतानि चेति तथा। तेभ्योऽधिकं विशिष्टं चक्षु- रित्यर्थः । चक्षुश्शब्दोऽयमर्थ. काश(क)त्वाद् वाचस्पतौ गौणः । 'लक्ष्यमाणगु- णैर्योगाद् वृत्तेरिष्टा तु गौणता' इति । चक्षुस्सहस्रागोचरार्थग्राहक इत्यर्थः।।२९॥ एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥३०॥ (प्रकाशिका) एवमिति। 'लब्धप्रतिष्ठाः'(श्लो.२६)इत्यादिना परैरस्माकं पदमा- क्रान्तमिति यदात्थ, तदेवं, सत्यमित्यर्थः । प्रत्येकं प्रतिपदार्थम् । विनि- युक्तात्मा विभक्तशक्तिः। विश्वव्यापित्वात् सर्वगतं जानासीत्यर्थः ॥३०॥ (विवरणम्) वचनप्रकारमेवाह- एवमिति । हे भगवन् ! त्वं यद् आत्थ तद् एवम् । भगाः सन्त्य- स्येति भगवान् । "ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥" हे भगवन् ! ऐश्वर्यादिषड्गुणपरिपूर्ण ! त्वं यद् आत्थ 'लब्धप्रतिष्ठाः प्रथमम्' (श्लो.२६)इत्यादिनास्माकं पदं परैराक्रान्तमिति यद् ब्रवीषि। 'अवः पञ्चानाम्' (३.४.८४)इत्यादिना सिपस्थलादेशो ब्रवश्वाहादेशः। तदेवं, तत्तथेत्यर्थः । अनू- दितमेवार्थ सुखग्रहणार्थमुद्दिशति नः पदं परैः आमृष्टम् इति । नः अस्मा- के पदम् इन्द्रादिस्थान परैः शत्रुभिः । अत्र तारकासुरस्यैकत्वेऽपि तत्सहचराणां बहुत्वाद् बहुवचनम् । इन्द्रादीन् प्रायशस्तत्तत्स्थानेभ्यो निरस्य १. 'जा' क. पाठः.. - Awar- द्वितीयः सर्गः। खानेव दैलास्तत्र तत्र नियोजितवानिति बहुवचनेन द्योत्यते । आसृष्टं परि- मृतम् । भवता यदस्मद्विज्ञापनात् पूर्वमेवास्मद्वत्तान्तसाक्षात्कारः कृतः, तदु- पपन्नमेवेति वदन् पुनरपि स्तौति-प्रभो! प्रत्येकं विनियुक्तात्मा त्वं कथं न ज्ञास्यसि इति । हे प्रभो! सर्वलोकनियन्तः ! प्रत्येकं प्रतिपदार्थम् । सर्वे- ध्वपि पदार्थेष्वित्यर्थः । विनियुक्तः आत्मा येन स तथा। अनेन सर्वलोक- साक्षित्वमुक्तम् । तत एवं हेतोः कथं न ज्ञास्यसि कथं न जानीयाः। लट्- प्रयोगस्तु 'कथं स लक्ष्यप्रभवो भविष्यति' 'भविष्यति प्रार्थितदुर्लभः कथम्' इत्यादिवद् द्रष्टव्यः । सर्वजनान्तर्यामितया विश्वव्यापी भवान् किं के न लोक- वृत्तं जानातीति भावः ॥३०॥ त्वया दत्तवरोदीर्णस्तारकाख्यो महासुरः। उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥३१॥ (प्रकाशिका) तमेव स्वाधिकारोपप्लवं प्रपञ्चयति- - - उपप्लवा- त्वयेति। दत्तवरत्वादुदीर्ण उद्रिक्तः। अनेन शक्त्युपचय उक्तः । महासुर इत्यमुरविजयित्वात् तस्य क्रूरत्वमुक्तम् । अत एवाह येति । धूमकेतुरुत्पातविशेषः ॥३१॥ (विवरणम्) अथ तमेव स्वाधिकारोपप्लवं विस्तरतः प्रदर्शयिष्यन्नुपप्लवहेतुभूतं तारकासुरमेव निर्दिशति-- त्वयेति । तारकाख्यो महासुरः लोकानाम् उपप्लवाय उत्थितः । तारक इत्याख्या नाम यस्य स तथा महासुरः महान् असुरः 'आन्महत:-' (६. ३. ४६) इत्यादिनात्वम् । असुरश्रेष्ठ इत्यर्थः । असुरविजयित्वात् कर- १. 'तान्तं जा' का पाठः. १. 'भवल्लब्धव' मुद्रितकोशपाठः.

कुमारसम्भवे स्वभाव इति भावः । धर्मविजयिनश्च लोभविजयिनश्वासुरविजयिनश्चेति त्रिविधाः खलु विजिगीषवः । यदाह कौटिल्यः -- धर्मलोभासुरविजयिन इति त्रयोऽभियोक्तारः । तेषामभ्यवपत्त्या धर्मविजयी तुष्यति; तमभ्यवपद्येत । परेषामपि भयाद् भूमिद्रव्यापहरणेन लोभविजयी तुष्यति; तमर्थेनाभ्यवप- घेत । भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी तुष्यति ; तं भूमिद्रव्याभ्या- मुपगृह्याग्राह्यः प्रतिकुर्वीत (१२. १. १६२) इति । अत एव वक्ष्यति- - "इत्थमाराध्यमानोऽपि क्लिनाति भुवनत्रयम् । शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥” (श्लो. ३९) इति। लोकानां चतुर्दशभुवनानाम् उपप्लवायात्यन्तविनाशाय । असुर- विजयित्वादिति भावः । उत्थितः उदितः, भवतीति शेषः । ननु लोकोत्तर- बलैर्भवद्भिरेव स हन्यतामित्यत्राह त्वया दत्तवरोदीर्ण इति । त्वया विश्व- गुरुणा भवतैव, न तु येनकेनचिदिति भावः । दत्तवरोदीर्णः दत्तो वरो यस्मै स दत्तवरः, अत एव उदीर्ण उद्रिक्तः । त्वद्वरादस्माकमवध्यतां गत इत्यर्थः । एतस्यैव चतुर्दशलोकविनाशहेतुत्वमुपमया स्फुटयति-धूमकेतुः इव इति । धूमाकारः केतुधूमकेतुः उत्पातविशेषः। 'अग्न्युत्पातौ धूमकेतू' इत्यमरः । धूमकेतोरुदयस्यात्यन्तिकविनाश(हेतु)त्वमुक्तं गार्ग्यसंहितायाम्- "उत्तिष्ठति यदा भीमो धूमकेतुर्नभस्तले । तदा विनश्यति क्षिप्रं जगदेतच्चराचरम् ॥" इति ॥ ३१॥ पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिकाकमलोन्मेषो यावन्मात्रेण सिध्यति ॥३२॥ १. 'सान्यते' मुद्रितकोशपाठः, द्वितीयः सर्गः। " - . (प्रकाशिका) अथ तद्विषये यथाशक्त्यनुवृत्तिमाह सप्तभिः श्लोकैः- पुर इति। यावन्मात्रेण, मात्रशब्दोऽवधारणे । यावतैवेत्यर्थः ॥३२॥ (विवरणम्) अथ विषयीभूतेषु तद्विषयेषूपायान्तरेषु स्वशक्त्यनुरूपां समाश्रयवृत्तिं दर्शयति ससभिः श्लोकैः। तत्रादौ रवेरनुवृत्तिमाह- पुर इति । रविः अस्य पुरे तावन्तम् एव आतपं करोति । रविरादित्यः अस्य तारकासुरस्य पुरे राजधान्यां तावन्तं तत्परिमाणम् । 'यत्तदेतेभ्यः परिमाणे वतुप्' (५.२.३९) । आतपं प्रकाशम् । 'प्रकाशो द्योत आतप' इत्यमरः । करोति विदधाति । किंपरिमाणमित्यत्राह - -यावन्मात्रण दीर्घि- काकमलोन्मेषः सिध्यति इति । यावन्मात्रेण, मात्रशन्दोऽवधारणे । 'मात्रं कात्सर्येऽवधारण' इत्यमरः । यावतैवेत्यर्थः। दीपिकाकमलोन्मेषः दीपिकासु क्रीडावापीषु । 'वापी तु दीर्घिके'त्यमरः । तासु यानि कमलानि पद्मानि तेषा- मुन्मेषो विकासः सिध्यति सिध्येत् । यावतैव निजातपेन वापीकमलविका- ससिद्धिः, रविस्तत्पुरे तावन्मात्रमेवातपं करोति, न न्यूनमधिकं वा । न्यूनत्वे कमलोन्मेषाभावेनापराधप्रसङ्गाद् , अधिकत्वे तु तदवरोधवधूमुखारविन्दपरि- म्लानताविधानेनात्यन्तमपराधप्रसङ्गाचेति भावः ॥ ३२ ॥ सर्वाभिः सर्वदा चन्द्रस्तं कलाभिनिषेवते । नादत्ते केवलां रेखां हरचूडामणीकृताम् ॥३३॥ (प्रकाशिका) सर्वाभिरिति । सर्वदा अपरपक्षेपि । केवलामेकाम् ॥३३॥ (विवरणम्) चन्द्रस्थानुवृत्तिमाह- सर्वाभिरिति । चन्द्रः सर्वदा सर्वाभिः कलाभिः तं निषेवते । चन्द्रः 'चदि आहादने' इति धातुः । इदमेव तस्य सर्वदा निषेवणनिर्बन्धहेतुः, - १. 'ले' मुद्रितकोशपाठः.

१४८ कुमारसम्भवे "गुणानामेव दौरात्म्याद् धुरि धुर्यों नियुज्यते । असञ्जातकिणस्कन्धः सुखं स्वपिति गौगडी ॥". इति न्यायादिति भावः । सर्वदा अपरपक्षेऽपि सर्वाभिः, न तु कृष्णप्रति- पदादिषु न्यूनाभिः । कलाभिः 'कला तु षोडशो भाग' इत्यमरः । उपलक्ष- णतृतीया चेयम् । निषेवते नितरां सेवते । चन्द्रोऽयं सकलकलापरिपूर्णः सन् सर्वदा तमेव निषेवत इत्यर्थः । ननु हरजटाकोटिघटिता चन्द्रस्यैका कला । अतः कथं सर्वाभिरित्युक्तं, तत्राह-हरचूडामणीकृतां केवलां रेखां न आदत्ते इति । हरेण परमेश्वरेण चूडामणीकृतां शिरोलकारतां प्रापितां केवलामेकां रेखां कलां, रेखाशन्देनात्यल्पत्वमुक्तम् । इदमसुराधिपतेस्त- दुपादाननिर्बन्धाभावे हेतुः । नादत्ते न स्वीकरोति । किमनया ममात्यल्पया रेखयेति तदुपेक्षामात्रेण चन्द्रः परमेश्वरपराधीनां रेखां नादत्त इत्यर्थः ॥ ३३॥ व्यावृत्तगतिरुद्याने कुसुमस्तेयसाहसात् । न वाति वायुस्तत्पार्वे तालवृन्तानिलाधिकम् ॥३४॥ (प्रकाशिका) व्यावृत्तेति । व्याहत्ता निवृत्ता गतिर्यस्य । उद्याने आक्रीडे । कुसुमस्तेयसाहसात् कुसुमापहारदण्डमाशयेत्यर्थः॥३४॥. (विवरणम्) पवनस्यानुवृत्तिमाह- व्यावृत्तेति । वायुः तत्पार्थे तालवृन्तानिलाधिकं न वाति । वायुः 'वा गतिगन्धनयोरिति धातुः । सञ्चारशीलोऽपीत्यर्थः। तपाई तस्य तारकासुरस्य पार्थे समीपे तालवृन्तानिलाधिकमिति वानक्रियाविशेषणम् १. 'लापू' घ. पाठ... २. "ब' मुहितकोशपाठ।

द्वितीयः सर्गः। तालवृन्तस्य व्यजनस्यानिलो वायुस्तालवृन्तानिलः । व्यजने वीज्यमाने जाय- मानोऽनिल इत्यर्थः । तस्मादधिकं यथा भवति तथा न वाति औचित्या- नुसारेण तालवृन्तानिलवद् वाति चेत्यर्थः । किमर्थं ततोऽधिकं न वातीत्य- माह - उद्यानकुसुमस्तेयसाहसाद् व्यावृत्तगतिरिति । उद्यानकुसुमस्तेयसा- हसादिति ल्यन्लोपे पञ्चमी । उद्यानकुसुमस्तेयसाहसमाशयेत्यर्थः । उद्याने आक्रीडे 'पुमानाकीड उद्यानमि'त्यमरः । यानि कुसुमानि पुष्पाणि तेषां स्तेयम् अपहारः, तस्माद्धेतोर्यः साहसः दण्डः, 'दण्डो दमः साहसोऽस्त्री' इति वैजयन्ती । तम् आशङ्कय व्यावृत्तगतिः निवृत्तस्वैरसञ्चारः । उद्या- नकुसुमस्तेयरूपादनालोचितकर्मणः सकाशाद् व्यावृत्तगतिरिति केचिद् व्या- चक्षते । तत्पक्षे गतिशब्दो निरुपयोगः स्याद् , उद्यानकुसुमस्तेयसाहसान व्यावृत्त इत्यनेनैव चरितार्थत्वात् ॥ ३४ ॥ पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः। उद्यानपालसामान्यमृतवस्तमुपासते ॥३५॥ (प्रकाशिका) पर्यायेति । सम्भारः सम्पादनम् । उद्यानपालैः सामान्यं यथा भवति ॥३५॥ (विवरणम्) ऋतूनामनुवृत्तिमाह- पर्यायेति । ऋतवः पर्यायसेवाम् उत्सृज्य तम् उद्यानपालसामान्यम् उपासते । ऋतवः वसन्तादयः। "वसन्तश्च तथा ग्रीष्मः प्रावृट् च शरदेव च । हेमन्तः शिशिरश्चैव षडेत ऋतवः स्मृताः ॥" इति । पर्यायसेवां पर्यायेण क्रमेण सेवा पर्यायसेवा, ताम् । उत्सृज्य - कुमारसम्भवे त्यक्त्वा । सर्वत्र हि वसन्तादयः क्रमेण प्रवर्तन्ते , तद्गृहे तु युगपदेवेति भावः । तं तारकम् । उद्यानपालसामान्यमित्युपासनक्रियाविशेषणम् । उद्या- नमाक्रीडं पालयन्तीत्युद्यानपालाः, तैः सामान्यं साधारणं यथा भवति तथा । समानशब्दात् चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्' (वा. ५.१.१२४) इति स्वार्थे ष्यनि कृते सामान्यशब्दसिद्धिः । उपासते सेवन्ते । ननु कथ- मृतूनामुद्यानपालसाधारण्यमित्याशङ्कय साधारणं धर्ममाह--पुष्पसम्भारतत्परा इति । पुष्पाणां सर्वर्तुसम्भवानां चम्पकादीनां सम्भारे सम्पादने तत्पराः सावधानाः । शीतोष्णादिकं स्वगुणमपहायाक्रीडपालकवत् स्वस्खकुसुमसम्पा- दनमात्रपरा वसन्तादयः कुसुमान्तरमविनाशयन्तो युगपदेव तमाराधयन्ती- त्यर्थः । यथोद्यानपालकानां पुष्पसामग्र्या अन्यथाभावे दण्डः, तथा वसन्तादी- नामप्यस्तीति भावः ॥३५॥ तस्योपायनयोग्यानि रत्नानि सरितां पतिः। कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते ॥३६॥ (प्रकाशिका) तस्येति । निष्पत्तेः उपायनयोग्यतावस्थायाः । रनेषु यानि समग्रगुणत्वात् तदुपायनयोग्यानि अम्भास पच्यमानानि कालपरिणामापे- क्षित्वाद् अनिष्पन्नानि रत्नानि, तेषां निष्पत्तिं समुद्रस्तत्सेपाखरया कथ- चिद् धैर्येण प्रतिपालयतीत्यर्थः ॥३६॥ (विवरणम्) वरुणस्यानुवृत्तिमाह- तस्येति । सरितां पतिः तस्य उपायनयोग्यानि रत्नानि अम्भसाम् अन्तर्निष्पत्तेः आ कथमपि प्रतीक्षते। सरितां पतिः समुद्रः तस्य तारका- सुरस्य उपायनयोग्यानि उपायने उपचारार्थपदार्थप्रदाने योग्यानि उचि- . ....'कासुरम्' घ, पाठः, द्वितीयः सर्गः। तानि रत्नानि मौक्तिकादीनि अम्भसामन्तः स्वजलान्तर्भागे निष्पत्तेः आ उत्पत्तिपर्यन्तम् । मर्यादायामाझ् । उपायनयोग्यताप्राप्तिपर्यन्तमित्यर्थः । कथ- मपि धैर्यमवलम्ब्येति भावः । प्रतीक्षते प्रतिपालयति । समग्रगुणानामेव रत्नानां तदुपायनयोग्यत्वात् तदितरप्रदाने दण्डमाशङ्कय स्वजलान्तर्भागे पच्य- मानानां रत्नानां कालवशादेव परिपाकोपपत्तेरुपायनयोग्यताप्रातिपर्यन्तं तत्सेवायाः कालविलम्बगप्याशङ्कमानो यथाकञ्चित् प्रतीक्षते । शुक्तिकायां पतितो जलबिन्दुः षण्मासोत्तरकालमुद्गीर्णो हि प्रशस्तं मौक्तिकं भवति । यदाह राजशेखरः-- मौक्तिकानां दत्तपाण्मासिकानामिति । एवं रत्नान्तरेष्वपि तदुचितकालपासेरावश्यकत्वात् प्रतीक्षणोपपत्तिः । योग्यताप्राप्त्यनन्तरं तु झटिति तस्मै समर्पयत्येवेति भावः ॥ ३६॥ ज्वलन्मणिशिवाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ॥३७॥ (प्रकाशिका) ज्वलदिति । ज्वलन्तो मणय एवं शिखा येषाम् । स्थिराः वाय्वादिभिरनिर्वापणीयाः प्रदीपाः दीपभाजनवादिसमष्टयः , थवा स्थिरप्रदीपाः तत्र तत्राविचलत्वेन स्थापिता गृहप्रदीपा दीपभाज- नानि ॥३७॥ (विवरणम्) अथ भूलोकवासिनां क्षुद्रत्वात् तदनुवृत्तिकथनमतिलङ्घय पातालवामिनां नागाना. मनुवृत्तिमाह-- ज्वलदिति । वासुकिप्रमुखाः भुजङ्गाः निशि स्थिरप्रदीपताम् एत्य एनं पर्युपासते । वासुकिप्रमुखाः वासुकिः प्रमुखः आदिर्येषां ते तथा, वासुकि- प्रभृतय इत्यर्थः । भुजङ्गाः सर्पाः। न केवलं स्वर्गवासिनो वयं, किन्तु पाताल- वासिनो विषकटुका भुजङ्गाश्चेति चशब्दार्थः । निशि रात्रौ। अनेन प्रदी.

कुमारसम्भवे पयोग्यकालो निर्णीतः। स्थिरप्रदीपताम् । स्थिराः, अनेन तेषां तैलवादिनिर• पेक्षत्वेन तद्विनाशनिमित्ताभावात् पवनादिमिरनिर्वापणीयत्वाच प्रदीपान्तरेम्यो व्यतिरेक उक्तः। प्रदीपाः दीपभाजनवर्तिज्वलनानां समष्टयः । स्थिराव ते प्रदीपाश्चेति स्थिरप्रदीपाः, तेषां भावस्तत्ता, तामेत्य । अथवा दीपयोग्येषु तेषु तेषु स्थानेषु निश्चलतया स्थापिताः प्रदीपाः स्थिरप्रदीपाः, प्रदीपशब्दस्य प्रदीपभाजनमर्थः । एनं तारकं पर्युपासते परितः समन्तात् सेवन्ते । भुजङ्गानां प्रदीपत्वप्राप्तौ हेतुमाह-ज्वलन्मणिशिखा इति । ज्वलन्तो मणय एव शिखा ज्वाला येषां ते तथा । भुजङ्गाः समुत्क्षिप्तफणास्तेषु तेषु प्रदेशेष्व- वस्थाय निजफणामणिभिस्तिमिरमपहरन्तस्तमेव सेवन्त इत्यर्थः ॥ ३७॥ तस्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः । अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ॥ ३८॥ (प्रकाशिका) इत्थं भूलोकवासिनः स्वल्पबलानविगणय्य स्वर्गपातालवासिनां तारकं प्रति दण्डोपनतवृत्तमुक्ता त्रैलोक्याधिपतेरिन्द्रस्य वृत्तं विशेषत आह- तत्कृतेति । अयमर्थः-उभयोरपि त्रैलोक्याधिपतित्वेन मत्स- रस्य संश्रयवृत्तावपि दुरपाकरत्वाद् विशेषतस्तस्यासुरविजयित्वात् तत्स. निकर्षतो विभ्यद् दूरस्थ एवेन्द्रस्तदनुग्रहमाकासन दूतमुखेन प्रापितैः कल्प- द्रुमभूषणैस्तमनुवर्तत इति । अत्र कौटिल्यः-भूमिद्रव्यपुत्रदारमाणहरणे- नासुरविजयी तुष्यति । तं भूमिद्रव्याभ्यामुपगृह्याग्राह्यः प्रतिकुर्वीत । (१२. १. १६२) इति ॥३८॥ (विवरणम्) इत्थं त्रैलोक्यवासिनां तारकं प्रति दण्डोपनतवृत्तं प्रतिपाय त्रैलोक्याधिपतेरिन्द्रस्य वृत्त सविशेषमाह- तत्कृतेति । इन्द्रः अपि दूतहारितैः कल्पद्रुमविभूषणैः तं मुहुः अनु- - - १. 'ति' का ख, ग.ध. पाठः.

द्वितीयः सर्गः। कूलयति । न परं त्रैलोक्यवासिनः, अपि तु तत्पतिरिन्द्रोऽपीत्यपिशब्दार्थः । दूतहारितैः आत्मनो दूतैः प्रयोज्यकर्तृभिः हारितैः असुरसमीपं प्रापितैः कल्पद्रुमविभूषणैः कल्पद्रुमोत्पन्नैर्विचित्रैराभरणैः तं तारकम् । मुहुः प्रति- क्षणम् अनुकूलयति आत्मानुकूलं करोति । त्वया मयि प्रसादः क्रियता- मिति दूतमुखेन वदन् तदुचितान्याभरणानि च प्रतिपादयन् प्रतिक्षणं तं प्रसादयतीति यावत् । किमर्थमेवं करोतीत्यत्राह -- तत्कृतानुग्रहापेक्षी इति । तत्कृतमसुरकृतमनुग्रहमपेक्षितुं शीलमस्येति तथा । अयमभिप्रायः - इन्द्रनै- लोक्याधिपतित्वाभिमानिनमात्मानं प्रति समत्सरस्य विशेषत श्वासुरविजयिन- स्तारकासुरस्य संश्रयवृत्त्याप्यानुकूल्यकरणमशक्यमिति निश्चिन्वानः ग्रहण- बन्धनादिभयात् सन्निधिं परिहत्य दूरावस्थित एव तदनुग्रहमाकाङ्क्षमाणः प्रतिक्षणं दूतजनप्रापितैः कल्पद्रुमविभूषणैः तमनुवर्तते । 'तं भूमिद्रव्याभ्या- मुपगृह्याग्राह्यः प्रतिकुर्वीत' (१२. १. १६२) इति कौटिल्योक्तप्रकारोऽनेन दर्शित इति वेदितव्यम् ॥ ३८ ॥ इत्थमाराध्यमानोऽपि क्लिनाति भुवनत्रयम् । शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥३१॥ (प्रकाशिका) इत्थमुपवर्णिताया: संश्रयवृत्तवैफल्यमाह- इत्थमिति । क्लिन्नाति बाधते । विग्रहमेवास्मास्वाचरतीत्यर्थः। शाम्येत् सन्धि कुर्यात् । ननु संश्रये प्रकृते सन्धिः किं निषिध्यते । न । द्वैगुण्यपक्षे सन्धिरेव संश्रयोऽपि । अत्र नोपकारेण शाम्येदित्येतावता विरोधपरिहारे सत्यपि प्रत्यपकारेण शाम्येदिति वचनं तनियमप्रतीत्य- थम् ॥३९॥ १. 'ता' क, ख. पाठः, २. 'व्यः' घ. पाठः.

Me- कुमारसम्भवे (विवरणम्) इस्थमुपवर्णितायाः संश्रयवृत्तेरप्यसुरविजयिनि तस्मिन् विफलत्वमाह- इत्थमिति । इत्थम् आराध्यमानः अपि भुवनत्रयं क्लिभाति । इत्थं पूर्वोक्तप्रकारेण आराध्यमानः सेव्यमानोऽपि । अपिशब्दः सेव्यमानस्य विरोधाचरणं विरुद्धमिति दर्शयति । भुवनानां त्रयं भुवनत्रयं त्रैलोक्यं क्लिश्नाति पीडयति । अस्मासु वैरमेवाचरतीत्यर्थः । ननु प्रतिक्षणमाराध्यमा- नस्य कथं प्रतिकूली प्रवृत्तिरितीमामाशङ्कां दुर्जनस्यायं स्वभाव इत्यर्थान्त- रन्यासेन परिहरति - दुर्जनः प्रत्यपकारेण शाम्येद् उपकारेण नेति । दुष्टो जनः दुर्जनः । अपकारिणमुद्दिश्य क्रियमाणोऽपकारः प्रत्यपकारः, तेन । शाम्येत् सन्धि कुर्यात् । उपकारस्तु दुर्जने दोषमेवावहतीत्याह-उपकारेण नेति । उपकारेण तु न शाम्येदित्यर्थः । ननु दुर्जनो नोपकारेण शाम्यदि- त्येतावदेवात्र वक्तव्यमिति किमर्थं प्रत्यपकारोपन्यासः । प्रत्यपकारेणैव शा- म्येदिति नियमप्रतिपादनार्थमिति ब्रूमः । यदाह माघः- "चतुर्थोपायसाध्ये तु शत्रौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥"(स. २.श्लो. ५४) इति । अत्राराध्यमानोऽपि न शाम्यतीत्यस्य समर्थ्यस्य प्रत्यपकारेण शाम्ये- दित्येतत् सामान्यं वैधयेण समर्थकं, शमनाभावस्यैवोक्तत्वात् ॥३९॥ तेनामरवधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छिन्नपातानां क्रियन्ते नन्दनद्रुमाः ॥४०॥ (प्रकाशिका) तमेव विग्रहं प्रपञ्चयति सप्तभिः श्लोकः १. 'लाचरणोपपत्ति' क. ग. घ. पाठः. २. 'श्छेदपा' मुद्रितकोशपा.

, , ma- द्वितीयः सर्गः। तेनेति । छिमपातानामिति कर्मणि षष्ठी। विशेषणेन तदनईत्वं घोत्यते ॥४०॥ (विवरणम्) क्लिभाति भुवनत्रयमिति यो विग्रह उक्तस्तमेव प्रपञ्चयति सप्तभिः श्लोकैः । तत्र विध्वं. सनम् अपहरणम् उपरोध इति त्रिविधी विग्रहः । तत्र विध्वंसनमाह- तेनेति । तेन नन्दनद्रुमाः छिन्नपातानाम् अभिजाः क्रियन्ते । तेन तारकासुरेण । नन्दनद्रुमाः नन्दने नन्दनोद्याने ये द्रुमाः वृक्षाः ते । छिन्न- पातानां छिन्नानां पाताः पतनानि छिन्नपाताः, अथवा लिन्नं छेदनं, भावे निष्ठा, तेन पाताः छिन्नपाताः तेषाम् अभिज्ञाः । कर्मणि चेयं षष्ठी। अभि- जानन्तीत्यभिज्ञाः क्रियन्त इति कर्मणि लट् । कल्पवृक्षानसौ छित्त्वा पातय. तीत्यर्थः । पूर्व तदमिज्ञानलेशस्याप्यभावमाह अमरवधूहस्तैः सदयालूनप- लवा इति । अमरवधूनां स्वर्गस्त्रीणाम् । वधूहस्तस्य कोमलत्वातिशया वधूपदो- पादानम् । हस्तैः करैः । सदयमिति लवनक्रियाविशेषणम् । सदयं दयासहितं यथा भवति तथा आलूनाः छिन्नाः पल्लवा येषां ते तथा । अत्रामरशब्देन तेषां नन्दनद्रुमेष्वात्मीयत्वाभिमानः प्रकाश्यते । स च लवने सदयत्वमापाद- यति। तत्रापि वधूहस्तैरिति कोमलत्वं द्योत्यत इत्यत्यन्तदूरे छिन्नपाताभिज्ञत्व- मिति भावः । अत्र कार्यभूतेन छिन्नपातज्ञापनेन कारणभूतं पातनं प्रतीयत इति कार्यद्वारेण पातनस्यैवाभिधानात् पर्यायोक्तमलङ्कारः । नात्राप्रस्तुतप्रशंसा, कार्यकारणयोरुभयोरपि वर्णनीयत्वेन प्रस्तुतत्वात् ॥ ४० ॥ वीज्यते स हि सन्तप्तश्वाससाधारणानिलैः । चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥ ४१ । प्रकाशिका) वीस्यत इति । सन्तप्तश्वासैः साधारणः सदृशोऽनिलो येषाम् । १. 'यं य' क, ख. ग. पाठः. २. 'ताभिज्ञपदेन' घ. पाठः. ३. संमुप्तः श्रा' मुद्रितकोशपाठ..

कुमारसम्भवे अत्र हेतुर्बाष्पशीकरवर्षिभिरिति । बन्दी हठहृतमहिला । दक्षिणावर्तस्तु तत्सवात इत्याह ॥४१॥ (विवरणम्) अथ त्रिभिः श्लोकैरपहरणं प्रतिपाद्यते । तत्रादी अत्यन्तासचं दारापहरणमाह- - -- वीज्यत इति । स हि सुरबन्दीनां चामरैः वीज्यते । सः तारकः । हिशब्दः प्रसिद्धौ । प्रसिद्धः स इत्यर्थः । वाक्यालङ्कारे वा हिशब्दः । सुरब- न्दीनां सुरा देवाः तेषां बन्दीनां तारकेण बलात्कारेण हृतानां वनितानाम् । 'बन्दी परस्य वनिता हृता बद्ध्वा बलेन या' इति भोजः । चामरैः सितव्यजनैः वीज्यत इति कर्मणि लट् । वर्तमाननाद्यापि तदवस्थत्वमुक्तम् । सुरबन्दीनां दुःखातिशयं द्योतयन् व्यजनं विशिनष्टि सन्तप्तश्वाससाधारणानिलैरिति । सन्तप्तैः सम्यक् तप्तैः, दुःखवशादुष्णतरैरित्यर्थः, श्वासैः दीर्घश्वासैः साधारणः सदृशोऽनिलो वायुर्येषां तैः, प्रियतमवियोगादिदुःखसन्तप्तदीर्घनिःश्वासवातस- दशवातैरित्यर्थः । व्यजनानिलानामुष्णत्वे हेतुमाह --- बाष्पशीकरवर्षिभिरिति। बाष्पाणां शोकाश्रूणां शीकरान् कणान् वर्षितुं शीलमेषामिति तथा । मुहुर्मुहुः कराभ्यां बाष्पपरिमार्जनात् ताभ्यां व्यजनग्रहाच बाष्पशीकरवर्पित्वं व्यजनानि- लानामित्यवसेयम् । शोकाश्रूणामुष्णत्वमुक्तं रघुवंशे --- 'शोकोष्णैः पार्थिवा- श्रुभिः' (स० १२. श्लो. ४) इति । अनेन व्यजनानिलानां सुखकरत्वाभावे- ऽप्यनवरतं वीज्यमानत्ववचनेनासुरविजयिनस्तस्य परपीडामात्रतत्परत्वं व्य- ज्यते। अत्र पूर्वश्लोक इव पर्यायोक्तं , बन्दीशब्दोपादानेन हठहृतात्वस्य स्पष्टमेवोक्तत्वात् । 'गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तमिति हि तस्य लक्षणम् । पूर्वत्र तु छिन्नपातज्ञापनकथनेन छित्त्वा पातयतीत्यर्थः प्रतीयत एवेति विशेषः ॥४१॥ remon ६. 'राह' क. ५. पाठः. 'नक, पाट:.

१५७ द्वितीयः सर्गः। उत्पाव्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः। आक्रीडपर्वतास्तेन कल्पिताः स्वेषु चेश्मसु ॥ ४२ ॥ (प्रकाशिका) उत्पाव्येति । हरितां मूर्याश्वानाम् । आक्रीड उद्यानम् ॥ ४२ ॥ (विवरणम् ) धनापहरणमाह -- उत्पाव्येति । तेन मेरुशृङ्गाणि उत्पाट्य स्वेषु वेश्मस आक्रीडपर्वताः कल्पिताः। तेन तारकेण मेरोमहामेरोः शृङ्गाणि शिखराणि उत्पाट्य उन्मूल्य स्वेषु आत्मीयेषु वेश्मस् गृहेषु आक्रीडपर्वताः आक्रीड उद्यानम् । 'पुमानाकीड उद्यानमित्यमरः । आक्रीडेषु ये पर्वताः क्रीडापर्वताः तत्त्वेन कल्पिताः । मेरुशिखराणि तेन क्रीडापर्वतविधानेपूपयोजितानीत्यर्थः । उत्पा- टनसौकर्यमाह - हरितां खुरैः क्षुण्णानीति । हरितां सूर्याश्वानाम् । 'सूर्ये सूर्यतुरङ्गे च मेरौ च हरिदिष्यत' इति भोजः । खुरैः पादाग्रभागैः क्षुण्णानि परिमृदितानि । मेरुपर्यन्तभागेनानुदिनं गच्छतां रवितुरगाणां खुरैरुद्धरण- योग्यतामापादितानीत्यर्थः। धनापहरणस्य दारापहरणवदत्यन्तासात्वाभा. वादेव तदनन्तरमुपादानमित्यवसेयम् ॥ ४२ ॥ मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् । हेमाम्बुरुहसस्यानां तदाप्यो धाम साम्प्रतम् ॥४३॥ (प्रकाशिका) मन्दाकिन्या इति : शेषं शिष्टम् : अन्यत् किं कुत्रोपयुक्तमित्याह- हमेति । तेन हेमाब्जानि स्ववापीविरचनायामुपयोजितानि मरुशृङ्गाणी. वाक्रीडपर्वतविधान इत्यर्थः । दिग्वारणमदाविलत्वं तदुपेक्षाहेतुः। सा- म्पतमिति अयमपरः कालो वर्तत इत्यर्थः ॥४३॥ १. 'म्भो' मुद्रितकोशपाठ.. ......

कुमारसम्म (विवरणम्) अयोपभोगसाधनानां कनकारविन्दादीनामप्यपहरणमाह मन्दाकिन्या इति । मन्दाकिन्याः पयः शेषम् । मन्दाकिन्याः सुर- दीर्घिकायाः। 'मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीपिके'त्यमरः । पयः शेष शिष्टमित्यर्थः, भवतीति शेषः । 'त्रिष्वन्यत्रोपयुक्तत' इति केशवस्वामिवचनात् शेषशब्दस्याभिधेयलिङ्गत्वंसप्तर्षिहस्तापचितावशेषाणि (स.१.श्लो.१६)इतिवद् द्रष्टव्यम् । किंवा तदन्यत् , कुत्र वा तदुपयुक्तमित्यत्राह-साम्प्रतं हेमाम्बुरुहस- स्यानां तद्वाप्यः धामेति।साम्प्रतमिदानीम् । अनेनास्य कालस्य पूर्वस्मात् कालाद् महान् विशेषो जात इति ध्वन्यते । हेमाम्बुरुहसस्यानां हेमाम्बुरुहाणां सुवर्णपङ्क- जानां सस्यानां ब्रीह्यादीनाम् । उत्खातप्रतिरोपणात् सुवर्णपङ्कजेषु सस्यत्वा- रोपः । प्रधानोपभोगसाधनत्वप्रतीतिश्च फलम् । तद्वाप्यः तस्य वाप्यो दी- पिकाः । 'वापी तु दीर्घिके'त्यमरः । धाम गृहम् । तारकासुरः सुवर्णपङ्कजा- न्युन्मूल्य स्ववापीरचनायामुपयोजितवान् । ततश्च तत्र जलमात्रमवशिष्टं भव- तीत्यर्थः । ननु पयांसि केन नापहृतानि, अत आह-दिग्वारणमदाविलमिति । दिग्वारणानां दिग्गजानां (मदेन) मदजलेन (आविलं कलुषं) कलुषीकृत- मिति भावः । अत्र पर्यायोक्तं स्फुटम् ॥४३॥ भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीकृते विमानानां तदाघातभयात् पथि ॥ ४४ ॥ (प्रकाशिका) भुषनेति । भुवनमथात् स्वादन्यत् । खिलीकृते सञ्चारवर्जिते विमानानां पथीत्यन्वयः। आघातोऽवस्कन्दः॥४४॥ १. 'क' घ. पाठ::. 'भू' ३, 'पा' मुद्रितकोशपाठः द्वितीयः सर्गः। (विवरणम्) उपरोधमाह- भुवनेति । विमानानां पथि तदाघातभयात् खिलीकृते स्वर्गिमिः भुव- नालोकनप्रीतिः न अनुभूयते । विमानानां व्योमयानानाम् । 'व्योमयानं विमानोऽस्त्री'त्यमरः। पथि मार्गे तदाघातभयात् तस्य तारकोसुरस्याघातस्त- दापातः (तस्मात्), तारकासुरकर्तृकादापातादित्यर्थः । आपातोऽवस्कन्दः अभिभव इति यावत् । आघाताद् यद् भयं तस्माद्धेतोः खिलीकृत सञ्चारवर्जिते। 'खिलमप्रहतस्थानमिति भोजः । निमित्तसप्तमी चेयम् । स्वर्गिभिर्देवैः भुव- नालोकनप्रीतिः भुवनानां स्वर्गादन्येषां लोकानां स्वर्गेऽपि स्वावस्थितप्रदेश- व्यतिरिक्तप्रदेशानामिति चार्थादायाति । आलोकनं दर्शनं तेन या प्रीतिः सा नानुभूयते न प्राप्यते तारकासुराभिभवभयात् । कुत्रापि गुहायामेवास्माकमि- दानीमवस्थानमित्यर्थः॥४४॥ यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥४५॥ (प्रकाशिका) यन्वभिरिति । सम्भृतमर्पितम् । हव्यं हविः। विततेषु प्र. तेषु । उपक्रमे तु शाठ्यान्न विघ्नमाचरतीति भावः । मायी मायये- त्यर्थः ॥ ४५॥ (विवरणम्) भोजनस्याप्यपहरणमाह- यज्वमिरिति । सः अध्वरेषु विततेषु यज्वभिः सम्भृतं हव्यं मिषतां नः जातवेदोमुखाद् आच्छिनत्ति । सः तारकासुरः अध्वरेषु यागेषु वित- तेषु प्रवृत्तेषु सत्सु यज्वभिः विधिना कृतयज्ञैर्यजमानैः । 'सुयजोईनिए' १. 'कस्याप. पाठः. २. 'क: अघ. पाठ:. -- १५० कुमारसम्भवे (३. २. १०३)इति यजे निप् । 'यज्वा तु विधिनेष्टवानि'त्यमरः । अनेन हव्यस्यादरणीयत्वं ध्वनितम् । सम्भृतमर्पितम् । मिषतामित्यनादरे षष्ठी। 'मिष स्पर्धायामिति धातुः। 'स्पर्धायां मिषतीति स्यादिति देवः । स्पर्धमाना- नस्माननादृत्येत्यर्थः । उन्मिषतोऽस्माननादृत्येति वा । जातवेदोमुखाद् जात- वेदा अग्निः, जातवेदा एव मुखं जातवेदोमुखम् । अग्निरेव हि देवानां मुखम्। तस्माद् आच्छिनत्ति अपहरति । क्रतोरुपक्रमे शाठ्यान्न विघ्नमाचरति । प्रवृत्ते तु यागे वदनादेव हविराहरति चेति भावः । ननु कथं मिषतामेव भवतां हविरा- हरणोपपत्तिरत आह-मायीति । मायास्यास्तीति मायी। ब्रीह्यादित्वादिनिः । मायावी मायामाश्रित्याहरतीत्यर्थः ॥ ४५ ॥ उच्चैरुचैःश्रवास्तेन हयरत्नमहारि च । देहबन्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ ४६ ॥ (प्रकाशिका) उच्चैरिति । उच्चैस्त्वं हयानां प्रधानगुणः। महत् सुसंहतमिति शरीरलक्षणे वचनात् । उपलक्षणं चैतदन्येषां गुणानाम् । देहं बनातीति देहबन्ध, मूर्तिमदित्यर्थः। चिरकालार्जितमिति उच्चैस्त्वहेतुः लोभनीयत्वा- देव द्योतकम् । अत्र प्रकरणे 'तेन'(श्लो. ४०)इत्यादिना विध्वंसनम् , 'उत्पाव्य (श्लो. ४२)इत्यादिना 'मन्दाकिन्या'(श्लो.४३) इत्यादिना चाप- वाहनं, 'भुवन' (श्लो. ४४) इत्यादिनोपरोधः, अन्यैस्तु विलोप इति विग्र. हमकारा उक्ताः॥४६॥ (विवरणम्) किंबहुना महेन्द्रस्याश्वरत्नमपि तेनापहृतमित्याह- उच्चैरिति । तेन उच्चैःश्रवाः हयरत्नं च अहारि । तेन तारकेण उच्चैः- श्रवा इति इन्द्राश्वस्य नाम । 'हय उच्चैःश्रवा' इत्यमरः। हयरत्नं हयश्रेष्ठः १. '' मुद्रितकोशपाठः.

द्वितीयः सर्गः। चकारोऽपिशब्दार्थे । किमन्येषामपहरणेन वियते, जयसाधनभूतमश्वरत्नमप्यप- हृतमित्यर्थः । अहारि अपहृतम् । उच्चैःश्रवसः स्वजातिश्रेष्ठस्ने हेतुमाइ- उच्चैरिति । उच्चैरित्यव्ययम् । उन्नतमित्यर्थः । 'महसुचैरि'त्यमरः । अनेनाश्व- विशेषणेनान्येभ्यः प्रधानगुणसद्भाव उक्तः । उन्नतत्वमश्वानां प्रधानगुणः, शरीरलक्षणे 'महत् सुसंहतमित्युक्तत्वात् । उपलक्षणं चैतदन्येषामपि गुणानाम्। अश्वरत्नमुत्प्रेक्षते- इन्द्रस्य चिरकालार्जितं यशः देहबन्धमिवेति । इन्द्रस्य महेन्द्रस्य चिरकालार्जितं बहुकालसश्चितम् । एतदुन्नतत्वे हेतुः, लोभनीय- त्वादिकं च ध्वनति । चिरकालसञ्चितं हि वस्तु लोभनीयं भवति । तदपहरणं च खेदमातनोति । यशः कीर्तिः देहं बनातीति देहबन्धम्। कर्मग्यण् । मूर्ति- मदित्यर्थः । उभयोरपि धावल्यमतिमहत्त्वं चोत्प्रेक्षाहेतुः । अश्वापहारे तेस्य यशसोऽप्यपहृतत्वप्रतीतिः फलम् ॥४६ ॥ तस्मिन्नपायाः सर्वे नः करे प्रतिहतक्रियाः । वीर्यवन्त्यौषधानीव विकारे सान्निपातिके ॥४७॥ (प्रकाशिका) तर्हि किमन्यैरुपायैर्नोपक्रान्तमित्याह- तस्मिन्निति । सर्वे, न. केवलमुक्ता संश्रयत्तिः। क्रूरे कठिने अभेद्यचित्त इत्यर्थः । प्रतिहता क्रिया कार्यजननं येपाम् । विकारे ज्वरे। सानिपातिके दोपत्रयसन्निपातभवे ॥ ४७ ।। (विवरणम् ) मनु समाश्रयप्रवृत्तिव्यतिरेकेणान्येऽप्युपायाः सन्ति नाम । ते किं न तस्मिन् प्रयुक्ता इत्याशङ्कय प्रयुक्तानामपि तेषां वैफल्यमाह- ३. 'तमेष व. पाठः. 'तः' घ. पाठः. २. 'वत्वं ह्यश्वा' ख. पाठः. ४. 'महत्त्वं धावल्यं चो' स. पाठः. ५. 'स्यय घ पाठः.

. - १६२ कुमारसम्भवे तस्मिन्निति । नः सर्वे उपायाः तस्मिन् प्रतिहतक्रियाः। नः अस्माकम् । सर्वे, न केवलं संश्रयवृत्तिपर्यन्तः (सामा?सन्ध्या)दिप्रयोगः, अपितु सामादिप्रयोगोऽपीति भावः । उपायाः सामादयः । तस्मिन् तारके । प्रतिहता कृतप्रतिहनना क्रिया कार्यजननं येषां ते तथा । आसन्निति शेषः । अत्रोपमा- माह सान्निपातिके विकारे वीर्यवन्ति औषधानीवेति । सान्निपातिके, वातपित्तश्लेष्मसमाहारः सन्निपातः, सन्निपातादुद्भूतः सान्निपातिकः, तादृशे विकारे ज्वरादौ वीर्यवन्ति प्रशस्तवीर्ययुक्तानि । प्रशंसायां मतुप् । औषधानि मुस्तापर्पटकादीनीव । दोषत्रयसम्भवे ज्वरादौ महावीर्याण्यौषधानीवास्माक- मुपायाः सर्वेऽपि तारके प्रतिहतशक्तयो जाता इत्यर्थः । सन्निपातज्वरादावौ- षधानां निष्फलत्वमुक्तं वैद्यशास्त्रे- "वातपित्तकफानां च सन्निपातो यदा भवेत् । तदा जातो ज्वरस्तीवो ह्यसाध्यः सर्वभेषजैः ॥" इति । उपमानोपमेययोः साधारणं धर्ममाह-कर इति । असुरविजयित्वाद- भेचित्ते दोषत्रयसम्भूतत्वादसाध्ये चेत्यर्थः ॥ ४७॥ जयाशा यत्र चास्माकं प्रतिघातोद्तार्चिषा। हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ॥ ४८ ॥ (प्रकाशिका) सर्वोपायेभ्यो बलवत्तमो दण्डः कथं न फलेदित्याह-- जयाशति । यत्र जयाशास्माकमिति दण्डोपाये मूर्धाभिषिक्तत्व पोतयति । निष्क उरकण्ठभूषणम् । 'साष्टे शते सुवर्गानां हेम्न्युरो- भूषणे पले । दोनारेऽपि च निष्कोऽस्त्रीति सिंहः । कण्ठकाठिन्यात् पति- -- २. 'ध' घ. पाठः. ३. 'धे विकारे दो' ग. पाठः. १. 'तस्म दु' घ. पाठः. ४. 'स्थ' मुद्रितकोशपाठः.

१६३ - द्वितीयः सर्गः। इतप्रज्वलितेन कण्ठगतेन हरिचक्रेण हेतुनास्य कण्ठे निष्फोऽर्पित इवेत्यु- स्प्रेक्ष्यते ॥ ४८॥ (विवरणम् ) ननु सर्वोपायेभ्यो बलवत्तरो दण्डः किं न तस्मिन् फलित इत्यत्राह- जयाशेति । यत्र अस्माकं जयाशा तेन हरिचक्रेण च अस्य कण्ठे निष्कमर्पितमिव । यत्र यस्मिन हरिचके अस्माकं जयाशा जेष्यामो वयम- नेनेत्याशा, पूर्वमासीदिति शेषः । अनेन विष्णुचक्रस्य दण्डोपायेषु मूर्धाभि- षिक्तत्वं द्योत्यते । तस्याप्यत्र निष्फलत्वमाह-- तेनेत्यादिना । तेनास्मदाशा- निष्ठितेन हरिचक्रेण विष्णोश्चक्रेण सुदर्शनेन हेतुभूतेन । अपिशब्दार्थे चकारः। स चास्य तादृशावस्थाप्राप्त्यनुपपत्तिं द्योतयति । अस्य तारकासुरस्य कण्ठे गले निष्कमुरोमूषणम् । 'साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री'त्यमरः । अर्पितं न्यस्तमिव । उत्प्रेक्षायां हेतुमाह- प्रतिघातोद्गतार्चिषेति । प्रतिघातः प्रतिहननम् । भावे घञ् । तेनोद्गतमुत्थितम् अर्चिः ज्वाला यस्य तेन । शिलातलकर्कशे तत्कण्ठे विष्णुचक्रे पातिते सति कण्ठदेशकाठिन्यादुद्तया वक्षःप्रदेशपर्यन्तं लम्बमानयानलज्वालयास्य काय- देशे महत्तरमुरोभूषणमर्पितमिवेत्यर्थः । उत्प्रेक्षया हरिचक्रस्यापि तस्मिन् कुण्ठ- शक्तित्वं सूचितम् ॥ ४८॥ नदीयास्तोयदेष्वद्य पुष्कलावर्तकादिषु । अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः॥४९॥ (प्रकाशिका) अथ तदवष्टम्भेन तदीयानां दुर्विलसितं दिङ्मात्रेण दर्शयति- तदीया इति । प्रलयकाल एव वर्षित्वात् तोयपूर्णत्वम् । पुष्फ- १. 'प्णुचके' घ. पाठः. ... 'ति सिंहः । अघ. पाठः. ३. 'घुकत्वा' प. पाठः.

कुमारसम्भव - सावर्तकादिषु प्रलयकार्यार्थ सम्भृतेषु देवराजवल्लभेषु कूटस्थमेथेषु । यदाह-'जातं वंशे भुवनविदिते पुष्कलावर्तकानाम् (पू० मे ०६) इति । आदिशब्देन राजावतकादयो गृह्यन्ते । तटायातमभ्यस्यन्तीति , लोभनी- येवपि परधनेषु सानां सुलभा निर्दयतेति भावः। निर्जितैरावता इति दर्पकण्डविनोदस्यान्यत्र दुर्लभत्वं घोतितम् ॥ ४९ ॥ (विवरणम्) इत्यं निष्फले सति हरिचके देवेषु च पराङ्मुखेषु विजितलोकत्वेन निवृत्तयुद्धसत्रा- हानां तारकासुरपरिजनानां दुर्विलसितं दिख्यात्रेण दर्शयति- तदीया इति । तदीयाः गजाः अद्य पुष्कलावर्तकादिषु तोयदेषु तटा- पातम् अभ्यस्यन्ति । तदीयास्तारकासुरसम्बन्धिनः । अनेन गजानां तदी- यत्वामिमानित्वाद् गर्वोद्रिक्तत्वं सूचितम् । तारकासुरसम्बन्धित्वादस्माकं के वा प्रतियोद्धार इति हि तेषामभिमानः। अद्य इदानीं, युद्धप्रसङ्गवार्तयापि विरहितेजस्मिन् काल इत्यर्थः । पुष्कलावर्तकादिषु पुष्कलावर्तकः प्रलयकाल- वर्षशीलो महामेघः, स आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिश- ब्देन राजावर्तकादीनामुपादानम् । तोयदेषु मेघेषु । ते हि तोयदाः प्रलय- कार्यसिद्धयर्थं देवराजेन सम्भृता नित्यास्तस्य प्रियतराश्च । यथोक्तं मेघस. न्देशे-'जातं वंशे भुवनविदिते पुष्कलावर्तकानां जानामि त्वां प्रकृतिपुरुष कामरूपं मघोनः' इति । तटाघातं वप्रक्रीडां, मत्तानां गजानां गिरिवप्रादिषु कण्डूविनोदनाथ यो दन्तप्रहारः तमित्यर्थः । अभ्यस्यन्ति पुनः पुनः कुर्वन्ति । ते हि तोयदाः प्रलयकाल एव वर्षन्तीति तेषां नित्यं तोयपूर्णत्वेन काठिन्यात् तेषु तटाघातोपपत्तिः । तद्गजानां दृप्तवे हेतुमाह-निर्जितैरावणा इति । नि. र्जितः नितरां जितः ऐरावणः ऐरावतो यैस्ते तथा । 'ऐरावतोऽभ्रमातङ्गैरा- २. 'नयस्या' घ, पाठः ३. 'घ: भा' क. स.ग. पाट:. १. भृते' प. पाठः. ४. घ..पाठः द्वितीयः सर्गः। वणाप्रमुवल्लभा' इत्यमरः । अनेन विशेषणेन दर्पकण्डूविनोदनस्यान्यत्र दुर्ल- मत्वं योत्यते ॥४९॥ तदिच्छामो विभो! स्रष्टुं सेनान्यं तस्य शान्तये। कर्मबन्धच्छिदं धर्म भवस्येव मुमुक्षवः ॥५०॥ (प्रकाशिका) अथात्र प्रतीकाररूप स्वाभिलषितं प्रस्तौति- तदिति । तत् तस्माद् , यस्मादेवमापदन्यथोपायो न विद्यते । शान्तये नाशाय । कर्मबन्धच्छिदं निवृत्तिलक्षणम् । भवस्य संसारस्य । उपमानेनैकान्तसिदिमाशंसते ॥ ५० ॥ (विवरणम्) इत्यं देवानां तारकासुरकृतां महती पीडा प्रतिपाद्य तत्र प्रतीकाररूपं स्वाभिलषित- मर्थयते- - - तदिति । हे विभो! तद् वयं तस्य शान्तये सेनान्यं स्रष्टुम् इच्छामः । विभो ! प्रभो ! भवतः किं दुष्करमिति भावः । तद् यस्माद् वयमेवमापन्नाः आपन्निवृत्त्यर्थमुपायान्तरं च न विद्यते, तस्माद्धेतोः तस्य तारकस्य शा- न्तये नाशाय । 'क्षमायां निर्विकारत्वे तथानिष्टनिवर्तने। परिक्षये च शान्तिः स्यादिति भोजः । सेनान्यं देवसेनानायकम् । सेनां रक्षां नयतीति सेनानीः तं स्रष्टुं निर्मातुम् इच्छामः अभिलषामः । अत्रोपमामाह- मुमुक्षवः भवस्य कर्मबन्धच्छिदं धमिवेति । मुमुक्षवो मोक्षेच्छवः भवस्य संसारस्य, जननस्येत्यर्थः । भवः संसाररुद्रयोरिति भोजः। शान्तय इति अत्रापि योज्यम्। कर्मवन्धच्छिदं कर्मणां बन्धः कर्मबन्धः, कर्मबन्धं छिनत्तीति कर्मबन्ध- च्छित् तं, निवृत्तिलक्षणं धर्ममित्यर्थः । यथा मुमुक्षवो भवस्य शान्तये नि- 1. 'प्राय ड. पाठः. १. 'दो' प., 'या' क. म. पा. ३. धमर्षय' प. पाठः.

कुमारसम्भवे वृत्तिलक्षणं धर्ममिच्छन्ति, तथा वयं तस्य शान्तये सेनान्यमित्यर्थः । अनेनो- पमानेन देवानां तारकासुरभयनिवृत्तिमात्रं न केवलमाकाक्षितम् , अपितु सर्वभयनिवृत्तिरेवेति ध्वन्यते । एतादृशार्थप्रार्थनसमर्थत्वादेवादी ‘स द्विनेत्रो हरेश्चक्षुर्दशचक्षुश्शताधिकम्'(श्लो.२९)इत्युक्तम् ॥ ५० ॥ गोतारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव सुरश्रियम् ॥५१॥ (प्रकाशिका) सेनान्यां लब्धेऽपि कथमेकान्तसिद्धिः, कस्तस्य परिकरः, कीडशो वा स भवेदित्याह- गोप्तारमिति । यं यादृशशक्तियुक्तम् । पुरस्कृत्येति देवैः परि- करितत्वमुक्तं , गोत्रभिदिति दुर्वारशक्तित्वं , प्रत्यानेष्यतीत्येकान्त- सिद्धिः । कथमीदृशोऽसौ तादृशेन सेनान्या न कार्य साधयेदिति भावः ॥५१॥ (विवरणम् ) ननु सृष्टेऽपि सेनान्यां कथमात्यन्तिकभयनिवृत्तिः, कश्च तस्य परिकरः, कीदृशो वा स भवेदित्यत्राह- गोसारमिति । गोत्रभिद् यं पुरस्कृत्य शत्रुभ्यः बन्दीमिव सुरश्रियं प्रत्यानेष्यति । गोत्रभित् पर्वतपक्षच्छेदी देवेन्द्रः । अनेन देवेन्द्रस्यैव सहज- दुर्वारशक्तिमत्त्वं द्योत्यते । सेनानीलाभे स एव जेतुं समर्थ इत्यर्थः । यं से- नान्यं पुरस्कृत्य अग्रतः कृत्वा । अनेन सेना(नी?न्यः) सुरपरिकरत्वमुक्तम् । शत्रुभ्यः शत्रुजनसकाशाद् , न केवलं तारकासुरादिति बहुवचनस्यार्थः । अने- नात्यन्तिकभयविनाश उक्तः । बन्दी हठहृतमहिलामिव सुरश्रियं देवल. क्ष्मी प्रत्यानेष्यति प्रत्यानेतुं समर्थों भवेदिति भावः । यादृशेन सेनान्या तादृशशक्तियुक्तो महेन्द्रः स्वयमेव हठहृतमाहेलामिव शत्रुवशवर्तिनी देवलक्ष्मी १. 'जयधि' मुद्रितकोशपाठः, द्वितीयः सर्गः। प्रत्यानेष्यति रदृशस्त्वया सृज्यतामित्यर्थः । सृष्टे तु सेनान्यां गोत्रमित् स्वय- मेव साधयिष्यति चेति भावः । अत्र प्रबलशत्रुवशवर्तिनांतनं) तज्जयान- न्तरमात्मवशवर्तिनांतनं) च सुरश्रीबन्योः साधारणो धर्मः । अथवा बन्दी- मिति जातावेकवचनम् । बन्दीमिव सुरश्रियमित्यस्य बन्दीः सुरश्रियं चेत्यर्थः । यथा रघुवंशे-'वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः' (स० १६. श्लो. १९) इति । सेनानीशब्दस्यार्थमाह-सुरसैन्यानां गोतार- मिति । सुराणां देवानां सैन्यानि सुरसैन्यानि तेषां गोतारं रक्षितारम् ॥५१॥ वचस्यवसिते तस्य ससर्ज गिरमात्मभूः। गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥२२॥ (प्रकाशिका) ब्रह्मणः प्रतिवचनमाह- वचसीति । अवसिते निराकाङ्क्ष इत्यर्थः। अनेन वाचोऽवसर उक्तः। उपमानेन विश्वोपकारकत्वं द्योत्यते । तत्राप्यनन्तरशब्दोऽवसर- योतकः ॥५२॥ (विवरणम् ) अथ ब्रह्मणः प्रतिवचनप्रस्तावं वर्णयति- वचसीति । तस्य वचसि अवसिते आत्मभूः गिरं ससर्ज । तस्य गुरोः वचसि अवसिते , आकाङ्क्षान्तरविरहिते सतीत्यर्थः । अनेन ब्रह्मणो वचनावसर उक्तः । आत्मभूः ब्रह्मा गिरं वाचं ससर्ज उवाचेत्यर्थः । ब्रह्मणो वचनस्य लोकोपकारकत्वं वृष्ट्युपमानेन दर्शयति-सा सौभाग्येन गर्जितानन्तरां वृष्टिं जिगायेति । सा गीः सौभाग्येन मुभगत्वेन गर्जि- तानन्तरां गर्जितं मेघनिर्घोषः। 'स्तनितं गर्जितं मेघनिर्घोष' इत्यमरः। तस्मा- १. 'न्दी' क,ख, ग. पाठः. २. 'स्मिन् स' मुद्रितकोशपाठः. ३. 'क्षित ई' क. ख.घ.पाठः. ४. 'वचनाव' ङ. पाठः. ५. 'रत्वं' हु. पाठः.

कुमारसम्भवे दनन्तराम् अव्यवधानाम् , अम्भोधरनिनदानन्तरसम्भवामित्यर्थः । गर्जिता- नन्तरशन्देन वृष्टेरवसर उक्तः । वृष्टिं वर्षम् । जिगाय जितवती । अत्र तारकासुरवृत्तान्तप्रतिपादकस्य गुरुवचनस्य गर्जितोपमानेन गाम्भीर्य भयहे- तुत्वं च व्यज्यते , ब्रह्मवचनस्य वृष्ट्युपमानेन लोकोपकारकत्वम् । परमे- ठिनः प्रतिवचनं वर्षमिव सर्वानप्यानन्दयामासेत्यर्थः ॥५२॥ सम्पत्स्यते वः कामोऽयं कालः कश्चित् प्रतीक्ष्यताम् । न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मनः ॥५३॥ (प्रकाशिका) सम्पत्स्यत इति । कामोऽनर्थपरिहारः। अयमिति सेनानीला- भद्वारकः । ननु 'हिमवति दिव्योषधयः कोपाविष्टः फणी शिरसी तिवत् सुदूरस्थे प्रतिकारे प्रत्युपस्थिते चानर्थे कास्माकं प्रतिपत्तिरित्याह-काल इति। कालो हि सफलसाधनमिति भावः। कश्चिदिति कार्यक्षमः । प्रतीक्ष्यतां, तावत्काल सहिष्णुतैव प्रतिपत्तिरित्यर्थः। सम्पादयिष्यामीति कि नोक्त- मित्याह-न विति । अस्य कामस्य । सिद्धौ सिद्धिमुद्दिश्य । आत्मन इति कर्मणि षष्ठी। अंशेनात्मानं न स्रक्ष्यामीत्यर्थः॥५३ ।। (विवरणम्) तामेव गिरं प्रपञ्चयति- सम्पत्स्यत इति । युष्माकम् अयं कामः सम्पत्स्यते । अयं सेनानी. लामद्वारकः कामः अनर्थपरिहारः सम्पत्स्यते भविष्यति । ननु प्रत्युप- स्थिते महत्युपद्रवे कथं सम्पत्स्यत इति भविष्यकालनिर्देशः। कोपाविष्टे महति फणिनि शिरसि वर्तमाने हिमवच्छिखरे कुत्रापि दिव्यौषधयो भविष्य- न्तीति विषवैद्यवचनमिव भवतो वचनमिदमस्माकं प्रतिभातीत्यत्राह-कश्चित् कालः प्रतीक्ष्यतामिति । कश्चिद् योऽस्माकमनुकूलत्वात् कार्यसाधनक्षमः, स इत्यर्थः । कालः उपरिष्टात् । प्राप्तिपरिहारयोः कालो हिं साक्षात् साधनमिति .. 'वृत्ति' ङ. पाठः.

द्वितीयः सर्गः। भावः । तदुक्तं श्रीभागवते.---'तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः' (स्क०.१०. अ० ५४. श्लो०१६) इति । प्रतीक्ष्यतां प्रतिपाल्यताम् , जयानु- कूलकालप्राप्तिपर्यन्तमुपद्रवसहिष्णुतैव कर्तव्येति भावः । ननु भवतां काम- महमेव सम्पादयिष्यामीति वचनमपहाय किमत्रभवता 'सम्पत्स्यत' इति पृथ- ग्जनवत् कथितमित्यत्राह - अहमस्य सिद्धौ आत्मनः सर्गव्यापार न यास्यामीति । अस्य भवद्भिरिदानी प्रार्थितस्य कामस्य सिद्धौ प्राप्तिमुद्दिश्य । आत्मन इति कर्मणि षष्ठी। आत्मांशेनैवात्मानं न स्रक्ष्यामीत्यर्थः । सर्ग- व्यापार सृष्टिकर्म । तुशब्दोऽवधारणे। नैव यास्यामीत्यर्थः । भवतामस्याभि- लषितस्य सिद्धिमहमेवांशेन (न) करिप्यामीति आवः ॥५३॥ इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥५४॥ (प्रकाशिका) अत्र हेतुमाह- इत इति । अभिनयविशेषादिदंशब्दोऽस्मदर्थ बोधयति । अत्र प्रतिवस्तु विषेति । दक्षिणावर्तस्तु 'संवर्ध्यः' इति पदच्छेदमाह । तत्तु न चतुरनं, निर्हेतुकत्वदोषात् । क्षयस्यैव निषेध्यत्वेन प्रस्तुतत्वाच । 'विषक्षम्' इति तु भवितव्यमित्याशङ्कयाह वामनः 'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात्' (काव्या० मू० अधिक ५. अध्या० २. सू. २२) इति । 'तिङ्कृत्तद्धितसमासैरि'ति सूत्रे परि- गणनं, तस्य प्रायिकत्वात् । तिडादिना हि बाहुल्येन कर्मणोऽभिधान- मिति परिगणनं, न तु नियमार्थम् । तस्मादनभिधानमेव विभक्तेः प्रयो- 1. 'तुत्व' क. ख. घ. अ. पाठः. * 'अनभिहिते' (२. ३. १) इति सूत्रे ।

-- कुमारसम्म अकमिति निपातेनापि यत् कर्माभिहितं तत्र न द्वितीया । असाम्ब- तमिति वद्धितान्तो निपात्यतेऽयुक्तमित्यस्यायें । वस्य चार्षः कर्म । तब निपातेनाभिहितमिति न द्वितीया ॥५४॥ (विवरणम्) मनु किमत्र कारणमित्यत्राह-- इत इति । इतः प्राप्तश्रीः सः दैत्यः इत एव क्षयं नार्हति । अभि- नयविशेषादितश्शब्दोऽयमस्मच्छन्दार्थः । बहुविधैस्तपोमिस्तुष्टन्मत्त इत्यर्थः । प्राप्तश्रीः प्राप्ता श्रीः ऐश्वर्य येन स तथा । स दैत्यस्तारकासुरः । इतः मत्स- काशादेव । क्षयं नाशं । नार्हति । मया दत्तवरस्य दैत्यस्य मयैव हन्तुम- योग्यत्वादित्यर्थः । अत्र प्रतिवस्तूपमामाह-विषवृक्षोऽपि संवर्ध्य स्वयं छे तुमसाम्प्रतमिति। विषवृक्षो नाम प्राणिनां मरणप्रदो वृक्षविशेषः । तदुक्तं- यस्य स्पर्शनमात्रेण वायुसंस्पर्शनेन वा । प्रियन्ते जन्तवः सर्वे विषवृक्षः स कीर्तितः ॥" इति । अपिशब्दः पूर्वोक्तस्य न्यायस्य सार्वत्रिकत्वं प्रतिपादयति । संवर्ध्य वर्धयित्वा स्वयमेवच्छेत्तुमसाम्प्रतम् अयुक्तम् । असाम्प्रतमित्यव्ययमयुक्त- मित्येतस्मिन्नर्थे । 'युक्ते द्वे साम्प्रतमित्यमरः । तेन, यदि केनचित् पुरुषेण विषवृक्षोऽपि येनकेनापि कारणेन वर्धितो भवेत् तर्हि तस्यैव तद्भङ्गो न युक्त इत्यर्थः । ननु विषवृक्षोऽपीत्यत्र विषवृक्षमपीति द्वितीयाप्रयोगो युक्तः, तिकृतद्धितसमासैरनभिहिते हि कर्मकारके द्वितीया विहिता । अत्र तु नि- पाताभिहितो विषवृक्षः । असाम्प्रतमित्यस्य निपातत्वात् । तेनैव हि विषवृक्षः कर्मत्वेनाभिहितः, न तिङ्कृत्तद्धितसमासैः । तस्माद् विषवृक्षमित्येव भवित- व्यम् । (न)। तिङ्कृत्तद्धितसमासैरिति परिगणनं न नियमार्थम् । तिडादिभि- रेव प्रायशः कर्माभिधीयत इत्येव तेषामुपादानं, न नियमार्थम् । तस्मादनभिधा- नमेव कर्मविभक्तेः प्रयोजकम् । अत्र तु निपातेनापि विषवृक्षोऽभिहित एव । 1. 'धैः स्तवैस्तु' क. स. ग. पाठः. २. 'ति भावः।'. पाठः. ४. 'त्ययु' क. ख. ग. प. पाठः. ५. 'ते'. पाठ:. द्वि' पाठ:. ३. ६. 'केहि द्वितीयः सर्गः। तस्मान्नात्र द्वितीया । तदुक्तं वामनेन-निपातेनाप्यभिहिले कर्मणि न कर्म- विभक्तिः, परिगणनस्य प्रायिकत्वाद्' इति ॥५४॥ घृतं तेनेदमेव प्राङ् मया चास्मै प्रतिश्रुतम् । वरणाशमितं लोकानलं दग्धं हि तत्तपः ॥५५॥ (प्रकाशिका) न केवलमयुक्तं , समयभाश्च स्यादित्याह--.. वृतमिति । इदमिति 'नाहं स्वया निग्राह्य इति । किमेवमभ्युपगत- मित्याह-वरेणेति । तदपि लोकार्थ कृतमित्यर्थः ॥५५॥ (विवरणम्) न केवलमयुक्तमित्येव दोषः, समयभङ्गोऽपि भवेदित्याह- वृतमिति । तेन प्राग् इदमेव वृतम् । तेन तारकेण । इदमेव मद- वध्यत्वमेवेत्यर्थः। वृतं प्रार्थितम् । स तारकासुरो वरप्रदानसमये तपसा तुष्टं मां प्रति मदवध्यत्वमेवाभ्यर्थितवानित्यर्थः । अभ्यर्थनानन्तरं देवेन तु किं कृतमित्यत्राह-मया अस्मै प्रतिश्रुतं चेति । मया तपसा तुष्टेनेति शेषः । अस्मै तारकाय। 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' (१.४.४०) इति सम्प्रदा- नत्वाचतुर्थी । तथास्त्विति मया तं प्रत्यनुज्ञातं चेत्यर्थः । नन्वस्मदनुग्रहार्थी भवान् कथं तस्मै तादृशं वरं दत्तवानित्यत्राह तत्तपः वरेणाशमितं लोकान दग्धुमलं हि इति । तस्य तारकासुरस्य तपः वरेण तदुक्तवरप्रदानेन अश- मितं शान्तिमप्रापितं सत् लोकान् त्रीनपि लोकान् दग्धं भस्मसात्कर्तुम् अलं पर्याप्तं हि । 'अलं भूषणपर्यातिशक्तिवारणवाचकमिति सिंहः । यदि तदा तदभ्यार्थितं बरं नादास्य, तर्हि. तस्य मूर्धानं निर्भिय निर्गतस्तपोमयो वहिः सर्वानपि लोकान् भस्मसादकरिष्यत् । यथोक्तं श्रीभागवते हिरण्यक- शिपोस्तमःप्रसङ्गे - 'वार्थि हु. पाठः, 'कस्य' ङ. पाठा. 'ण श' मुद्रितकोशपाठः, ४. 'दि तद इ. पा.

१७२ कुमारसम्भवे "तस्य मूर्धः समुद्भूतः सधूमोऽमिस्तपोमयः । तिर्थगू मधोलोकानतपद् विप्वीरितः॥" (स्कन्धः ७.अ.३.श्लो.४) इति । उपद्रवसहनमेव हि भस्मीभावाद् वरीयः। 'त्यजेदेकं कुलस्यार्थे' इत्या- दिन्यायात् । अतो लोकानुग्रहार्थमेव मया तदुक्ता वराः सर्वे तस्मै दत्ता इति भावः ॥ ५५॥ संयुगे सम्मुखीनं तमुद्दं प्रसहेत कः । अंशादृते निषिक्तात् तु नीललोहितरेतसः॥५६॥ (प्रकाशिका) कालप्रताक्षणे कथं भाविनी कार्यसिद्धिरित्याशङ्कय तस्या दिङ्मात्रं दर्शयितु. मुपक्रमते- संयुग इति। संमुखीनं 'यथामुखसम्मुखस्य दर्शनः खः' (५.२. ६) इति खः। किं नास्त्येवेत्याह-अंशादिति । 'निषिक्तात् त्वि'ति पाठः। नीललोहितशब्देन कुमारजन्मसमर्थ गौरीशबलत्वं ध्वनितम् । निषेक- सामदिंशशब्देन पुत्रोऽभिधीयते ॥५६॥ (विवरणम्) ननु कश्चित् काल: प्रतीक्ष्यताम्' (श्लो. ५३) इति हि भवतोक्तं, प्रतीक्षिते तु काले कथमापत्प्रतीकारो भविष्यतीत्याशङ्कयापप्रतीकारप्रकारमेव दिमात्रेण दर्शयितुमारभते- संयुग इति । निषिक्तानीललोहितरेतसः अंशाद् ऋते कः तु संयुगे सम्मुखीनम् उद्गदं तं प्रसहेत । निषिक्तात् स्त्रीयोनौ कृतनिषेकाद् नीललो- हितरेतसः। नीललोहितो हरः। 'धूर्जटिनीललोहित' इत्यमरः। अत्र नीललो- हितशब्देन गौरीसमिश्रितत्वेन शबलशरीरो हरोऽभिधीयते । तेन च कुमारो- त्पत्तेरानुगुण्यं ध्वनितम् । तस्य रेतो वीर्यम् । 'शुक्लं तेजोरेतसी चे'त्यमरः । १. 'सांयुगीनं त,' २ 'यतं प्र', ३. 'क्तस्य नी' मुद्रितकोशपाठः. ४. 'त्र उच्यते' ङ. पाठः, ५. रमे घ. पाठ:. ६. 'नं प्रद' क. ख. गः . पाठः, ७. . 'हरसं' क. ग, घ, ङ.पाठः. .

द्वितीयः सर्गः। तस्यांशात्, रेतसः स्त्रीयोनौ निषिक्तोंऽशः पुत्र एवेति निषेकसामर्थ्यांदंशश- ब्देनात्र पुत्रोऽभिधीयते । तस्माहते हरपुत्रादन्यः क इत्यर्थः । तुशब्देना- स्यान्येभ्यो व्यतिरेक उक्तः । संयुगे युद्धे । सम्मुखीनं यथामुखसम्मुखस्य दर्शनः खः'(५.२.६) इति खः, अभिमुखगतमित्यर्थः । उद्गदम् उत्क्षिप्तगदं तं तारकं प्रसहेत सोढुं शक्नुयाद्, न कोऽपीत्यर्थः । हरपुत्र एव कालप्रतीक्षणे सति तारकासुरस्य हन्ता भविष्यति, नान्यः कोऽपीति भावः ॥५६॥ . स हि देवः परं ज्योतिस्तमःपारे प्रतिष्ठितम् । परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥७॥ (प्रकाशिका) तत्रापि का संभावनेत्याह- स इति । देवो द्योतनस्वभावः । तच्च क्रीडाव्यवहारद्युति- स्तुतिकान्तिगतयः । अत एवाह-परं ज्योतिरिति । देशकालाद्य- वच्छिन्नप्रकाशं न भवति, तत्प्रकाशकं च । तमोऽविद्या, तस्याः पारे पर- स्तात् । प्रतिष्ठितं निर्विकारत्वात् कूटस्थ इत्यर्थः । उत्तरार्धेन तु उक्तो- पपादनाय 'नो गम्यः सरसिजभुवो नाप्यधः शापाणेरि'त्यादिनो- क्तमितिहासार्थमनुस्मारयति ॥ ५७ ॥ (विवरणम्) ननु विष्णुनाप्यवध्यं तारकासुरं हरपुत्रः कथं हनिष्यतीत्याशङ्कायां हरस्य तस्माद् व्यतिरकमाह- स हीति । स देवः हि । सः हरः देवः द्योतनस्वभावः, क्रीडाव्यवहारद्युतिस्तुतिकान्तिगतिमानित्यर्थः । स्वयंप्रकाश इति वा। हि- १. 'व्यवस्थितम्' मुद्रितकोशपाठः. २. 'डाविजिगीषान्य' क. ख, ग. घ. पाठः, ३. 'महार'. पाठः, कुमारसम्भवे शब्दः पुराणादिप्रसिद्धि प्रतिपादयति । द्योतनस्वभावत्वमेवोपपादयति परं. ज्योतिः । परं देशकालाधनवच्छिन्नम् । तेजोन्तराणि हि देशकालाघ-. वच्छिन्नानि देशकालाधवच्छिन्नस्यैव प्रकाशकानि च। अयं तु न तथेति भावः । ज्योतिस्तेजः । देशकालाधनवच्छिन्नत्वे हेतुमाह-तमःपारे प्रति- ठित इति । तमसः अविद्यायाः पारे. परस्तात् प्रतिष्ठितः स्थितः । विनाशादिधर्मवतामविद्यातत्कार्याणां परस्तानिर्विकारत्वात् कूटस्थनित्यत्वेना- वस्थित इत्यर्थः । उक्तार्थोपपादनार्थमितिहासप्रसिद्धां कथामनुस्मारयति- परिच्छिन्नेत्यादिना। स इति अत्राप्यनुषज्यते। सः मया परिच्छिन्नप्रभावर्द्धिन, प्रपञ्चप्रवर्तकेन मयापीत्यर्थः । परिच्छिन्नप्रभावर्द्धिः परिच्छिन्ना इयत्तया कृतपरिच्छेदा प्रभावस्य महिमः ऋद्धिः समृद्धिरतिशयो यस्य स तथा । मगवानपि नारायणस्तत्परिच्छेदे मत्तोऽप्यतिरिक्तो न भवतीत्याह-विष्णुना च नेति। परिच्छिन्नप्रभावर्द्धिरिति अत्रापि योज्यम् । हरतेजसामन्तमवगन्तुं हंसमारुह्य प्रजापतिरूवं गतः। विष्णुस्तु भूदाररूपमादायाधोभागं गतः । बहुदिव्यसंवत्सरं गत्वराभ्यामुभाभ्यामपि न तदन्तोऽवगत इति पुराणप्रसिद्धा कथानेम वाक्येनोक्ता । तदुक्तं 'नोचं गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरि'ति ॥५७॥ उमारूपेण ते यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥५८॥ (प्रकाशिका) तेजोशनिषेकोपायमाह- उमेति। त इति, य इत्थमनर्थप्रतीकारार्थिनः । संयमस्तिमित- त्वमाकर्षणीयत्वे हेतुः । परमेश्वरस्यारूपहार्यत्वमभिप्रेत्याक्रष्टुं यतध्व- मित्युक्तम् । अन्यथाकर्षतेति श्रूयात् । ननु तहि किमर्थोऽयं विधिः । १. 'व्य': पाठ २. "ति । अक. पाठः - द्वितीयः सर्गः। न। परम्परया सार्थकत्वस्य दर्शयिष्यमाणत्वात् । अत एव वक्ष्यति- अर्थोऽयमर्थान्तरभाव्य एव (स० ३. श्लो. १८) इत्यादिना । उपमानेन तु परमेश्वरस्य नैसर्गिकं निजशक्तिपरशक्तिपराधीनत्वं ध्वनितम् । अत्र तु वतिनिरूप्यः। 'तत्र तस्येव (५.१.११६) इति, 'तेन तुल्यं क्रिया चेद. तिः (५.१.११५) इति सूत्रद्ववनीत्या दुर्लभत्वात् ॥५६॥ (विवरणम्) तेजोनिषेकोपायप्रकारमप्युपदिशति- उमारूपेणेति । ते यूयम् उमारूपेण शम्भोः मनः आक्रष्टुं यतध्वम् । ते ये सेनानीसर्गद्वारेणापत्प्रतीकारं प्रार्थयन्ते , त इत्यर्थः। उमायाः पार्वत्याः रूपेण सौन्दर्येण साधनेन शम्भोः परमेश्वरस्य मनः चित्तम् आक्रष्टुम् उमाया अभिमुखं प्रवर्तयितुं । यतध्वं यलं कुरुत। शम्भोररूपहार्यत्वम- भिप्रेत्य यतध्वमित्युक्तं, न पुनराकर्षतेति । इदानीं तु विशेषतोऽप्यनाकर्ष- णीयमित्याह-संयमस्तिमितमिति । रागद्वेषादिविरहः संयमः, तेन स्तिमितं निश्चलम् । उमारूपेण चित्ताकर्षणमुपमया स्फुटयति अयस्कान्तेन लोहवदिति । अयस्कान्तेन अयस्कान्तपाषाणेन लोहवल्लोहमिव । अयो यथायस्कान्तेनाकर्षति, तदित्यर्थः । अनेनोपमानेन परमेश्वरस्य स्वाभाविक मेव शक्तिपराधीनत्वमिति ध्वन्यते । अत्र वतिप्रयोगश्चिन्त्यः 'तत्र तस्येव' (५.१.११६) इति सूत्रेण, 'तेन तुल्यं क्रिया चेद्वतिः'(५.१.११५) इति सू- त्रेण च दुर्लभत्वादित्यरुणाचलनाथेनोक्तम् । अतस्तन्मतानुसारिभिरस्माभि- श्चिन्त्यते । 'तेन तुल्यं क्रिया चेद्वतिरिति तृतीयान्ताद् विहितः प्रत्ययः सर्व- विभक्त्यर्थानन्तर्भावयतीति कैयटपदमार्योः प्रतिपादितम् । अत एव सर्ववि- भक्तीनां क्रमेणोदाहरणे 'ब्राह्मणेन तुल्यं, ब्राह्मणमिव भवन्तं पश्यामीति द्विती- 'प्रकारे प्रतीकारे प. पाठः २. 'न व्याख्यातम्' म. पाठ:.

कुमारसम्म यार्थे वतिरुदाहृतः । तथा च 'पूर्ववत् सनः' (१.३.६२) इत्यत्र पूर्वस्मादिव पूर्ववदिति पञ्चम्यर्थे वतिर्व्याख्यातः ॥५८॥ उभे एव क्षमे वोदुमुभयोर्वीर्यमाहितम् । सा वा शम्भोस्तदीया वा मूर्ति लमयी मम ॥१९॥ (प्रकाशिका) निषेकं प्रत्यधिकरणान्तरस्यायोग्यत्वं दर्शयति- - उभे इति । सा उमा। तदीया शम्भुसंबन्धिनी। अनेन परमेश्व- रशक्तेरेव सर्वभरसहत्वमिति द्योतयति । वाशब्दोऽवधारणे। यद् वक्ष्यति 'सैव क्षमेत्यात्मभुवोपदिष्टम् ' (स० ३. श्लो. १६) इति ॥ ५९॥ (विवरणम्) निषेकं प्रत्यधिकरणान्तरस्यायोग्यत्वं दर्शयति- - उभे इति। उभयोः आहितं वीर्य वोढम् उभे एव क्षमे। उभयोरिति षष्ठया अत्र वीर्यशब्देनैव सम्बन्धः । आहितमित्यस्य कर्ता पुनरुभाभ्यामित्यर्थात् सिध्यति । आहितं निषिक्तं वीर्य रेतः वोढुं प्रसवपर्यन्तं धर्तुम् उमे एव, नान्याः स्त्रियः, क्षमे शक्ते । उभाभ्यां निषिक्तमुभयोर्वीय धर्तुमुमे एव योषितौ क्षमे इत्यर्थः । उभयशब्दोक्तमर्थ विविच्य दर्शयति-शम्भोः सा वा मम तदीया जलमयी मूर्तिर्वा इति । शम्भोः परमेश्वरस्य । वीर्यमित्यर्थादायाति। सा पार्वती। वाशब्दोऽवधारणार्थे । ननु 'वा विकल्पोपमानद्वन्द्वसमुच्चयेष्वि'ति निपातसूत्रे न वाशब्दस्यावधारणार्थत्वं प्रोक्तम् । सत्यम् । 'निपाता अनेकार्था' इति वचनानुसारिणा कविनात्रावधारणार्थत्वमेव विवक्षितम् । अत एवं १. 'बीजमा' मुद्रितकोशपाठः. २. 'सह' घ., 'भार' क. पाठः।

द्वितीयः सर्गः। वक्ष्यति- योषित्सु तद्वीर्य निषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्' (स. ३. लो.१६) इति । शम्भोवीर्य सोढुं पार्वत्येव क्षमेत्यर्थः । मम जगत्सिसक्षया वीर्यमुत्सृजतः। तदीया शम्भुसम्बन्धिनी । जलमयी जलस्वरूपिणी । मूर्तिः अष्टमूर्तेः परमेश्वरस्यैका मूर्तिः । मंद्वीर्यभारसहिष्णुत्वमपामेवेत्यर्थः । 'यदमोघमपाम् ' (श्लो. ५) इत्यादिना यदपां मवीर्यभाग्महिष्णुत्वमुक्तं, तदपि तासां हरमूर्तिभेदत्वादेवेति वदता ब्रह्मणा परमेश्वरांशस्यैव तारकासुरनिग्रह- सामर्थ्यमित्युक्तं भवति । अत्रापामुपन्यासो दृष्टान्तत्वेनेति मन्तव्यम् ॥ ५९॥ तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः। मोक्ष्यते सुरबन्दीनां वेणीवीर्यविभूतिभिः ॥३०॥ (प्रकाशिका) एवं कृतेऽवश्यंभाविनी सिद्धिरित्याह तस्येति। आत्मा पुत्र इत्यर्थः । शिनिकण्ठस्येत्यनेन कालकूटनिग- रणं द्योतयतांस देवोऽस्माकं परमापत्सु शरणमिनि द्योतयति। अत्र मोक्ष्यत इत्यादि पर्यायोक्तम् । तद्वीयविध्वस्ते शत्रौ सुरस्त्रियः स्वभवृविरहभाविनं केशरचनाविशेषं त्यक्ष्यन्तीति प्रतीतेः ॥६०॥ (विवरणम्) पार्वतीपरमेश्वग्योः परस्परसम्मेलने कृते कार्यसिद्विरवश्यं भविष्यत्येवेति वाचा देवा. नानन्दयति- तस्येति । तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्य- विभूतिमिः स्वर्गबन्दीनां वेणीः मोक्ष्यति । तस्य, य एवम्भूतप्रभावः तस्येत्यर्थः। शितिकण्ठस्य नीलकण्ठस्य । 'शिती धवलमेचकावि'त्यमरः । कालकूटनिगरण- प्रभूतकण्ठनैल्यस्येत्यर्थः । अनेनायमेवास्माकमापत्सु शरणमिति द्योतयति । ३. 'न्' र पाठः. १. 'मम वीर्य क. ख. ग. पाठः. २. 'थामो क. ख. ग. पाठः. ४. 'शविर' घ. पाठः. .५. 'मापद. पादः, कुमारसम्भवे आत्मा पुत्र.इत्यर्थः । 'आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्' (स्क.१०. अ.७८. श्लो. ३६) इति श्रीभागवतवचनाद् आत्मशब्दप्रयोगेणात्र तत्पुत्रस्य परमेश्वरतुल्यशक्तित्वं ध्वनितम् । वः युष्माकं सैनापत्यं सेनापतित्वम् । 'पत्य- न्तपुरोहितादिभ्यो यक्' (५.१.१२८) इति यक् । उपेत्य प्राप्य वीर्यविभूतिभिः वीर्यातिशयैः । बहुवचनेन विभूतिशब्देन च तद्वीर्याणां निरवधिकत्वं ध्वनितम् । स्वर्गबन्दीनां , बन्यो हठहृतमहिलाः । तारकासुरेण बन्दीकृतानां स्वर्गस्त्री- णामित्यर्थः । वेणीः संश्लिष्टकेशान् । 'वेणी प्रवेणी शीर्षण्यशिरस्यावि'त्यमरः । भर्तृविरहिता हि कुलस्त्रियः स्वकेशान् भर्तृसमागमपर्यन्तं दृढं निषभन्ति । यथोक्तं शाकुन्तले "वसने परिधूसरे वसाना नियमक्षामतनुधृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घ विरहव्रतं वहन्ती ॥" इति । मोक्ष्यति विश्लेषयिष्यति । अत्र कार्यभूतेन वेणीविश्लेषणेन कारण- भूतस्तारकासुरवधः प्रतीयत इति पर्यायोक्तम् ॥६०॥ इति व्याहृत्य विबुधान् विश्वयोनिस्तिरोधे । मनस्याहितकर्तव्यास्तेऽपि प्रतिययुर्दिवम् ॥६१॥ (प्रकाशिका) प्रकरणमुपसंहरति- इतीति । व्याहृत्य तिरोदध इत्यनेन लोककार्यार्थ देवेभ्यो दत्तस्य विधादर्शनस्य चिरसुलभत्वं घोत्यते । मनसीति, मनसा तमेवार्थ सङ्क- ल्पयन्त इत्यर्थः ॥६१॥ (विवरणम्) प्रकरणमुपसंहरति- इतीति । विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । विश्व- १. 'त्मैव पु' क, ख. ग. घ. पाठः. २. 'मुखी धृ' क. ख. ग. घ. पाठः. ३. 'देवा दिवं ययुः ॥' मुद्रितकोशपाठः. , - द्वितीयः सर्गः। योनिर्विश्वस्य योनिरुद्भवस्थानं प्रपञ्चकर्ता ब्रह्मा विबुधान् सुरान् इति पूर्वोक्तप्रकारेण व्याहृत्य उक्त्वा तिरोदधे अन्तर्हितोऽभूत् । इति व्याहृत्य तिरोदध इत्यनेन देवकार्यार्थमेवादौ दर्शनं दत्तं, तच दर्शनं तदनु- ग्रहप्रदानपर्यन्तं सुलभं चाभूदिति देवानां प्रमोदातिशयप्राप्तिर्ध्वनति । लब्धप्रसादानां देवानां प्रवृत्तिमाह -तेऽपि मनसि आहितकर्तव्याः दिवं प्रतिययुरिति । ते देवाः मनसि आहितं निहितं कर्तव्यं करणीयं यैस्तथा- भूताः सन्तः । अनन्तरकरणीयं मनसा निश्वित्येत्यर्थः । दिवं स्वर्ग प्रतिययुः, यथागतं गता इत्यर्थः ॥६१॥ तत्र निश्चित्य कन्दर्पमगमत् पाकशासनः । मनसा कार्यसंसिद्धित्वराद्विगुणरंहसा ॥१२॥ (प्रकाशिका) अथ तदुपायानुष्ठानरूपोत्तरसर्गार्थबिन्दुमुपक्षिपति--- तत्रेति। तत्र दिवि । निश्चित्य मन्त्रेण प्रकंस्यमानमुपायानुष्ठान- मवधार्येत्यर्थः । मनसा अगमत् सस्मार उपस्थानार्थम् । 'कार्यसंसिद्धि- स्वराद्विगुणे'ति पाठः ॥६२॥ (विवरणम्) भथ पार्बतीपरमेश्वरसङ्गमोपायानुष्ठानरूपमुत्तरसर्गायविन्दुमुपक्षिपति- तत्रेति । पाकशासनः तत्र निश्चित्य मनसा कन्दर्पम् अगमत् । पाकशासनः इन्द्रः । 'इन्द्रो मरुत्वान् मघवा बिडोजाः पाकशासन' इत्यमरः । तत्र दिवि निश्चित्य करिष्यमाणमुपायानुष्ठानं मन्त्रिभिः सह सम्मन्त्र्य । सम्यगवधार्येत्यर्थः । मनसा कन्दर्पमगमत् । सस्मारेत्यर्थः । समीपागमनार्थ- मिति शेषः । स्मरणे मनसो विशेषं दर्शयति-कार्यसंसिद्धित्वराद्विगुण- - १. 'म'घ, क. पाठः. २. 'तं क' घ, ङ. पाठः, ३. 'दी' मुद्रितकोशपाठः.

१८० कुमारसम्भवे रहसेति । कार्यस्य सेनानीलाभरूपस्यार्थस्य संसिद्धौ सम्यसिद्धौ या त्वरा त्वरणं तया द्विगुणं प्रवृद्धं रंहः वेगो यस्य तेन । मनसः स्वतो वेगवत्त्वाद् द्विगुणरंहसेत्युक्तम् । स्वाभिलषितस्य सेनानीलाभरूपस्यार्थस्य स्वमनोरथानु- रूपे लामे त्वरया प्रवृद्धवेगेनेत्यर्थः । अनेन मनोविशेषणेन 'कश्चित् कालः प्रतीक्ष्यताम्'(श्लो.५३) इति ब्रह्मणा निर्दिष्टस्य कालप्रतीक्षणरूपस्यांशस्य कार्य- सिद्धित्वरयातिकान्तत्वात् कामदहनरूपो भविष्यन्ननर्थोऽपि सूचितः ॥६२॥ अथ स ललितयोषिद्भलताचामशृङ्गं रतिवलयपदाङ्के चापमासज्ज्य कण्ठे। सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥१३॥ (प्रकाशिका) बिन्दोराविर्भावं दर्शयति- - अथेति । अथशन्द आनन्तर्ये । स्मरणानन्तरमेवेत्यर्थः। ललिते- त्याधुपमागर्भम् । उपतस्थे , सङ्गतिकरण आत्मनेपदम् । शतमखेन सङ्गतोऽभूदित्यर्थः। अत्र विशेषणानि स्वभावोक्तिं पुष्णन्ति । सा च समीहितार्थसाधनक्षमतामस्याभिव्यनक्ति । प्राञ्जलिरिति तु विधेयत्वा- भिप्रायम् ॥ ६३॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां द्वितीयः सर्गः। Avaimmitme- 'मानगड.पाठ द्वितीयः सर्गः। (विवरणम्) अयोपक्षिप्तस्योत्तरसर्गबिन्दोराविर्भावमपि दर्शयति- अथेति । अथ सः पुष्पकेतुः कण्ठे चापम् आसज्ज्य प्राञ्जलिः शतमखम् उपतस्थे इति । अथ स्मरणानन्तरमेव । अनेन पुष्पकेतोः शतमखवश- वर्तित्वमुक्तम् । सः, य एवं महेन्द्रेण स्मृतः स इत्यर्थः । पुष्पकेतुः कामदेवः कण्ठे चापमासज्ज्य स्थापयित्वा । अनेन चापभृतां स्वभाव उक्तः । तेन च तदुक्तकरणोद्योगः सूचितः। प्राञ्जलिः कृताञ्जलिर्भूत्वेत्यर्थः । अनेन भृत्यतया तदुक्तकारित्वमुक्तम् । शतमखं शतक्रतुम् । अनेन तन्नियोगस्यानतिक्रमणीयत्व- मुक्तम् । उपतस्थे, 'उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम्' (वा०. १. ३. २५) इत्यात्मनेपदम् । शतमखेन सङ्गतोऽभूदित्यर्थः । चापस्य समीहितार्थसाधनक्षमतामभिद्योतयन् चापं विशिनष्टि - ललितयोषिद्- भूलताचारुशृङ्गमिति। ललितायाः सुन्दर्याः योषितः स्त्रियाः भूलता प्रशस्ता भूरिव चारु कोमलं शृङ्गम् अग्रं यस्य तत्तथा । अत्र ललितलताशब्दाभ्यामुपमानत्वसि- द्विरुक्ता। अनेन चापविशेषणेनास्मत्कार्यमसौ साधयिष्यत्येवेति शतमखस्य बु- द्विव॑न्यते। तादृशचापाधिष्ठानयोग्यं कण्ठं विशिनष्टि-रतिवलयपदाङ्क इति । रतेरात्मवल्लभाया वलयपदं वलयस्थानमेवाकश्चिहं यस्य तस्मिन् । कण्ठाश्लेषे वलयस्य चिरं कण्ठीवसक्तत्वाद् वलयप्रतिबिम्बलाञ्छितमित्यर्थः । अनेन गाढा- लिङ्गनं ध्वनितम् । बाणानामप्यादानमाह सहचरमधुहस्तन्यस्तचूताङ्क- रास्त्र इति । सहचरस्य त्रैलोक्यविजये सहायभूतस्य मधोर्वसन्तस्य 'मधुर्व- सन्ते दैत्ये च मधु मद्ये च माक्षिक' इति भोजः । हस्ते न्यस्तः निक्षिप्तश्च- ताङ्कुर एवास्त्रं येन स तथा । अनेन सहायसम्पत्तिः सहायस्य स्वाधीनता च दर्शिता ॥६३॥ १. 'वंद' प... पाठ:. २. 'कम् । य' है. पाठः. ३. 'ई'. पाठः, प. पा.. ५. 'बाच्चम् च.., पाठः, ६. 'ण्ठास' ब.. घ. पाठः. ७. 'ममुकम्' घ.पाठ . कुमारसम्भवे द्वितीये सर्गेऽस्मिन् महति गहनार्थे मितपदे निगूढानर्थान् को जगति विवरीतुं प्रभवति । तथाप्यस्माभिर्यत् प्रलपितमिति क्षीणमतिभि- विलज्जैस्तत् सर्वं भवतु शिवयोः स्तोत्रविधये ॥ मीमांसोचितमानमेयघटनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये । व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते निरगाद् द्वितीय उदितः सर्गो निसर्गोज्ज्वलः ॥ इति श्रीकृष्णप्रियशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे द्वितीयः सर्गः। १. 'दयमा' घ. क. पाठ Ready for sale. arra (Stuti) by H. H. Svâti Srî Râma Varma Mahârâjab. 100 Trivandrum Sanskrit Series. No. 1-494 (Vyakarana) by Deva with Purushakara of Krish nalîlâsukainuni. 1 0 0 No. 2 - अभिनवकौस्तुभमाला- दक्षिणामूर्तिस्तवौ by Krishnalilásukamuni, 0 2 0 No. 3 tepaya: (Kavya) by Vâinana Blatta Bâņa. 040 No. 4-feesterofa: (Kavya) by Nîlakantha Dikshita. 2 U O No. 5-affaà: (Alankâra) by Mahima Bhatta with commentary. 2 120 No. 6 - geafa: (Vyakarana) by Sarañadova. 2 0 0 No. 7Taxerat (Vedanta) by Sadasiverdra Sarasvati. 2 0 No. 8-wanajesh (Nataka) by Ravi Vanna Bhūpa. 1 0 0 No. 9- fastene (Vedânta) by Virâpákshanatha with the commentary of Vidyachakravartin. 0 80 No. 10 - ATAKAE (Gajalakshaņa) by Nîlakaộtha. U 80 No. 11. anciacort (Nâtaka) by Kulasekhara Varma with the commentary of Sivarama. 2 40 No. 12 ---ATTERT (Vedânta) by Bhagavad Âdisesha with the commentary of Raghavananda. 080 No, 13 सुभद्राधनजयम् (Nataka) by Kulasekhara Varma with the commentary of Sivarama. 200 No. 14 - Fearc: (Niti) by Kamandaka, with the commentary of Sankarârya. 3 86 2 No. 15 - Farhaath (Nataka) by Bhasa. No. 16-sifararegru (Do.) Do, 1 80 No. 17-HTET (Do.) Do. 1 0 0 No. 18-arreira (Stuti) by Narayana Bhatta with the commentary of Desamangala Vârya. 4 0 0 No. 19—AAHSIGE: (Mímâmså) by Narayana Bhatta and Nârâyaņa Pandita. 1 4 0 No. 20-TARSH (Nataka) by Bhâsa. 1 80 No. 21-416H (Do.) Do. 1 0 0 No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभङ्गानि (Nataka) by Bhâsa 1 80 No. 23— taraturanata: (Kosa) by Kesavaswamin (1 & 2 Kândas) 1 12 0 No. 24-4119tufurat: (Kavya) by Chakrakavi. 0 0 No. 25—Turere el 87216541 (Nyâya) by Gangadharasuri 0 12 0 No. 26—3770124H (Nataka) by Bhasa 0 12 0 No. 27-HIFATI: (Kavya) by Kálidâsa with the two commentaries, Prakäsikâ of Arunagirinatha and Vivarana of Narayanâ Pandita (1 & 2 Sargas)1 120 Apply to:- The Agent for the sale of Government Sanskrit Publications, Trivandrum.

No text on this page.

DATE O
ibout
Chim beseda val la penaltimet
Mit 2:1633, 7, 1. dofitnisglitt. A
Pinruf OP.NL Wolf day will
tre chiariroutit hio bom! :* Urdue.
www
. Un

Class Su.. 5.81
K175 ha
Book Act 125
Vol.
thing
dotoo:
KALI DA SO........
............1
Title.KU.M.A.R.S.A.M.B. H.A.K ...
Acc. No.16 501

कुमारसम्भव भाग 1, 2 सर्ग

Author
Kaalidaas
Title
Kumaarasambhava Bhaag 1, 2 Sarga
File name
कुमारसम्भव भाग 1, 2 सर्ग
Text
OCR done
Citation
1913
Published
2005/06/17
Publisher
The Travancore Government Press, Trivandrum
Language
Sanskrit
Pages
196
Library
Central Library, Bits- Pilani
Classification
Literature
Keywords
Dritiiy
DLI number
477469
Barcode
99999990177846.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Copyright Permitted
VMLT id
TspBUDHIXkY
Download PDF

कुमारसम्भव भाग 1, 2 सर्ग