Svi-ksri-chennai
Shriishakaraachaaryacharitamuu
Front matter
No text on this page.
श्रीशङ्कराचार्यचरितम् ।
444
WITH A FOREWORD BY
P. S. Ananthanarayana Sastry.
THE KUFPIISWAMI SASTTin
RESEAL INSTITLE:
[RAS
PUBLISHED BY
The Proprietor of
"HE KERALA PUBLISHING HOUSE,
TRICHUR.
1926.
Price 5 as.
PRINTED AT
THE MANGALODAYAM PRESS, TRICHUR
(All Rights Reserved by the Publisher)
भूमिका । विदितमेवेदं विश्वेषां विपश्चितां, यदिह भारत- मण्डलस्य पश्चिमोऽयं भागो भगवतामादिशङ्कराचार्या णामतिपावनेनावतारेणापश्चिमतामनायीति । परमतवि- दलनेनाद्वैतसिद्धान्तस्य महीयसी महनीयां च प्रतिष्ठा- माहितवतामाचार्यपूज्यपादानां यशपताका तावन्यहीत. ले विजेष्यते यावदिवि विराजिष्यते ज्योतिषां कदम्ब. कम् । भवार्णवकर्णधाराणां दिग्विभागविज्ञानाय पश्चि- माम्बुनिधिवेलायामुद्योतितोऽयमद्वैतदीपमहास्तम्भः स. कलेऽपि मण्डले सम्पति कियती नाम प्रवर्षति प्रका- शपरम्परामिति नेदं तिरोहितं लब्धवर्णस्य कस्यापि ॥ एमगुराः पावलं चरित्रं संक्षिप्तमधुरया सरण्या वर्णयदिदं ग्रन्थरत्नं सहृदयानामुपहरतो मे चिरस्य च. रितार्था लेखनी । कचिन्माधवाचार्यविरचितं शङ्करदि- ग्विजयमपरत्राविदितकर्तनामधेयं शङ्करविनयविलासं चानुसरनेतद्ग्रन्थप्रणेता कोऽपि केरलीय एव भवितु- महंतीति बलवती मे संभावना । यतः केरळीयानां दे. शविशेषाणां देवायतनानां चानन्यसाधारणं परिचयमेष वर्णनाभिराविष्करोति । बहुषु सन्दर्भेषु पुराणरीतिम- 11 नुकुर्वनेतत्प्रणेता नैसर्गिकमात्मनः काव्यनिर्माणपाटवं न निगुहितुं पारयतीति मे प्रतिभाति । वाल्मीकीयरीत्या कथासंक्षेपं प्रथमाध्याये निवनन् विष्णुयमदूतादिसला- पेष्वपि पुराणसरणिमनुकुर्वन्नयं स्थलान्तरेषु कीदृशीम- र्थचारुतां प्रकाशयतीत्यत्र हनुमत्कृतशिवस्तुतिप्रभृतयो वहन्ति साक्षिभूयम् । अदलीयम्य वर्णनाचमत्कीरस्य किमप्युदाहरणमदत्वा न मे शाम्यति कुतूहलम् । दृ. श्यताम्-- "संन्यासमूलः सच्छायः शिष्यशाखामहत्तमः । ज्ञानपुष्पोऽमृतफलो रेजे शकरपादपः ।" भगवत्पादानां परधामप्रवेशं तु प्रस्तुतग्रन्थकता श्रीषाचले संवृत्तमाचष्टे इत्येतदन्यग्रन्था स्थावस्तु । पुरात्तमात्रे दत्तदृष्टीनां चरित्रान्वेषकाणामेतद्विषयक आदरो यादृशः कीदृशो वा भवतु, सरलमधुकथाकथ. रसलालसाः सहृदयाः सशिरकम्पमादरिष्यन्ते प्र. स्तुतं ग्रन्थतल जमित्यत्र नास्ति संशयलेशस्याप्यवकाशः।। स्वगृहग्रन्थशालाया अदसीयमादर्श जनतोपकृत- ये प्रकाशकसा३कृतवते कूटल्लर ब्राह्मणगृहावतीर्णाय श्रीमने नारायणनम्पूक्तिरिप्पाट महाशयाय महदाधमर्थ्य चारयति सहृदयसमुदायः । आदर्शग्रन्थेऽनुपलब्बा लु सनया भासमानाः केचिदंशा मया स्वयमुल्लिखिताः को-
111
धान्तः प्रक्षिप्य प्रकाश्यन्ते । अनवगतार्थो भागः को-
ष्ठान्तः प्रश्नचिह्नन चाङ्कितः । अदसीयस्यादर्शान्तरस्य
दर्शनं यावत् कालविलम्बोऽणि प्रकाशकानां दुस्पहः
समपद्यतेत्यत्र तु प्रकाशनसमुलुकना परमपराधिनी ।
सति पुनर्द्वितीयमुद्रणभागधेये आदर्शान्तरसंवादाविना
सर्न समीकृत्य संस्कारष्यत इत्येतायता सम्पति संतो-
ट्रव्यं सहृदयगिति प्रार्थयते-
Palghat
रसिकजनचरणसेवी
5 -11-26.
अनन्तनारायणशास्त्री।
शुद्धिपत्रम् । पुटम् पक्तिः अशुद्धम् शुद्धम् २२ २९ ७ ३० १ दीप्यति नावपद्यत साहीत्वे न्यवसन् नीर्मली विष्णुदता विपरीताश्च दर्शनन दीव्यति नान्वपद्यत साक्षित्वे न्यवसत् निर्मली विष्णोर्दता विपरीतश्च दर्शने न ३३ ३८ १ ३९ ११ ४७ ३ ॥ श्री॥ शङ्कराचार्यचरितम् ॥ प्रथमाध्यायः॥ - गणेशाय नमस्तस्मै यत्प्रसादविवस्वता । प्रत्यूहध्वान्तविध्वसः क्रियते सर्वकर्मणाम् ।। १ । मदीयरसनारंगनटनेषु समुत्सुका । एषा सरस्वती भूयात् सतामानन्ददायिनी ।। २ ।। समाश्रितपूदाभोजजनतासुरपादपः । सर्व मम शुभाभीष्टं पूरयेत् पार्थसारथिः ।। ३ ।। क्षिप्त्वा ज्ञानतमोराशिं पदार्थानथ दर्शयन् । गुरुरत्नप्रदीपो मे मनोधामनि भासताम् ॥ ४ ॥ सर्वेश्वरकथानां ये कारः कविपुङ्गवाः । जयन्ति सुतरां लोके वाल्मीकिव्यासशङ्कराः ।। ५। सर्वागमास्पदं वन्दे व्यासाचलमिमं कविम् । बभूव शङ्कराचार्यकीर्तिकल्लोलिनी यतः ॥ ६ ॥ अत्युन्नतस्य काव्यद्रोासाचलभुवोऽखिलम् । अर्थप्रसूनमादातुमसमर्थोऽहमद्भुतः (१) ॥ ७ ॥ इस्वमत्यंकुशग्राह्यं गृहीत्वा कलयामि तत् ।
शङ्कराचार्यचरितम निबन्धनस्र काश्चिद्यतीश्वरमनोमुदे ।। ८॥ निबन्धनमिदं पुण्यमध्यायनवकान्वितम् । करोमि यतिवर्यस्य निदेशं समुपाश्रितः ।। ९ ।। कथासंक्षेप एवाये द्वितीयेऽध्याय उद्भवः । तृतीये व्याससल्लापस्तुर्ये प्रायशिष्यसंभवः : १० सुरेश्वरस्य शिप्यस्य संन्यासः पश्चमे ततः । षष्ठे तु हस्तामलकतोटकाभिख्यशिष्ययोः॥ ११ ।। सप्तमे मुक्तिदायिन्याः काल्या माहात्म्यकीर्तनम् । रामेश्वरकथाख्यानं सर्वपापहरं ततः ।। १२ ।। सर्वज्ञाननिधेस्तस्य शङ्कराचार्ययोगिनः नवमे परमानन्दसायुज्यमनुवर्णितम् ।। १२ ।। शब्दे चार्थे कथायां च मौढ्यभाजावयान्यथा । यत् प्रोक्तमिह तत् सर्व क्षन्तुमर्हति शङ्करः ॥१४॥ यतीन्द्र निर्मलात्मानं नानाविधकथाविदम् । शिष्यभूतो यतिः कश्चित् पप्रच्छ जनितादरम् ।। १५ शिष्यः- सर्वेषां गुरुरस्माकं सर्वज्ञो यतिपुंगवः । जातः श्रीशङ्कराचार्यः कस्मिन् देशे सुपावने?1.१५॥ अरभ्य जन्मत. कस्मिन् वत्सरे भिक्षुतामगात्? । केषां निवन्धनानां च कर्ताभूत् स यतीश्वरः? ५१७' कति शिष्या महात्मानः तस्याभूवन्महामतः १ । सशिष्यः सञ्चरन भूमौ कानि चक्रेऽद्भुतानि स.१।१८ प्रथमाध्यायः मायुज्यं कुत्र देवो नः प्राप्तवानपि तत्ववित्? । एतत् सर्वमपि श्रोतुं गुरो कौतुकवानहम् ।। १९ ।। गुरु:- हन्त ते कथयिष्यामि पापहारिणमद्भुतम् । अस्मदेशिकत्तान्तं शिष्य, तं शृणु सादरम् ॥ २०॥ पुरा केरळमेदिन्यां कालटिक्षेत्रवासिनः । समीपे पद्मनाभस्थ महानासीत् द्विजोत्तमः ॥ २१ ।। तस्य पुत्रो महान जज्ञे वृपाचलनिवासिनः । ईश्वरस्य प्रसादेन सर्वज्ञः शङ्कराहयः ॥ २२ ॥ बाल्य एव मृते ताते जनन्या परिपोषितः । उपनीतः स निश्शेषविद्यापारगतोऽभवत् ।। २३ ।। षोडशाब्दे समायाते विज्ञायान्तं निजायुषः । सोऽनुज्ञातो जगन्याभूत् तुरीयाश्रममाश्रितः ॥२४॥ तीर्थस्नानानि कुर्वाणः प्राप्तो बदरिकाश्रमम् । उषित्वा सुचिरं नत्र नरनारायणाश्रमे ॥ २५ ॥ चक्र वेदान्तमूत्राणां भाष्यं मोक्षकसाधनम् । सन्तुष्टं तत्र संप्राप्त वेदव्यासं ददर्श सः ॥ १६ ॥ संभाषणमथान्योन्यं चक्रतुस्तावुभौ मुदा । भाष्यं निरीक्ष्य सन्तुष्टे पाराशर्ये महामुनी ॥ २७ ॥ गते, मात्रा स्मृतस्तस्मात् स्वजन्मागारमाप सः । मातरं तत्र नत्वा स्वामासन्नमरणां सतीम् ॥ २८॥ तस्यै स परमं नेद्यमुपादिशदुदारधीः ४ शङ्कराचार्यचारतम् मृनायास्तु ततो मातुर्देहं छित्वा समुज्ज्यले ॥२९॥ कुण्डस्थे पावके हुत्वा भक्त्यासौ कुण्डमानमत् । भूयोऽपि शङ्कराचार्यों गत्वा बदरिकाश्रमम् ॥३०॥ संन्यासं कारयामास द्विजातेर्विष्णुशर्मणः । दधौ सनन्दनाभिख्यां सोऽन्त्याश्रममुपाश्रितः॥३१॥ पद्मपादाभिधानं च वितीर्ण दैवतैः पुनः । अचार्यस्तेन शिष्येण प्रयागं तीर्थमागतः ।। ३२ ॥ वत्र गत्वा महापुण्ये गंगायामुनसंगमे । स्नानं कृत्वा तु विधिवत् सुखासीनो गतश्रमः ॥ ३३ अथासीनं ददर्शासौ कुमारांशसमुद्भवम् । कर्मकाण्डेऽतिनिपुणं भट्टाचार्य महामतिः ॥ ३४ ॥ भट्टाचार्यः समाकर्ण्य भाष्यं देशिकनिर्मितम् । मन्तोषं नितरां प्राप्य निजगाद महानतिः ॥ ३५॥ "जित्वा वादेन मच्छिष्यं विश्वरूपं यतिं कुरु । भाष्यस्य महतोऽयाथो तेन कारय वार्तिकम् । ३६ नथैव सकलं कृत्वा भट्टाचार्यवचस्ततः । सुरेश्वराहयेनापि तेन शिष्येण सोऽसत् ॥ ३७ ।। शिष्याभ्यां सह गोकर्ण ततो देशिकपुङ्गवः । गच्छन् पथि ददशैंकं निराशं द्विजनन्दनम् ॥ ३८ ॥ मंतुष्टहृदयोऽत्यर्थमाचार्यस्तं च वर्णिनम् । स्वतो लब्धामलज्ञानं निनायाश्रममन्तिमम् ।। ३९ ।।
प्रथमाध्यायः
..
तृतीयो गुरुशिष्योऽयं हस्तामलकसंज्ञया ।
विश्रुतस्तोटकाख्योऽभूदेकः शिष्योऽप्य तत्परः ४०
शिष्यैश्चतुर्भिराचार्यो रराज चतुरात्मभिः ।
मोदादुपनिषद्वाक्यैस्तत्सेवार्थमिवागतः ॥ ४१ ::
तीर्थानि सेवमानोऽथ शिष्यैः सार्ध महात्माभिः ।
भूमेः प्रदक्षिणं कृत्वा रामसेतुमवाप सः ॥ ४२ ।।
स्नात्वा तीर्थे यथावत् तैः शिष्यैः सह यतीश्वरः ।
गंगातोयाभिषिक्तं च रामनाथं ननाम सः । ४३।।
ततः काश्चीपुरं गत्वा सर्वज्ञो यतिपुंगवः ।
सर्वज्ञपीठमारोदुमैच्छत्तत्र विराजितम् ।। ४४ ॥
तदा पप्रच्छ तं वाणी विजिताखिलमूरिणम् ।
भवतातिं. यतिश्रेष्ठ ज्ञाता कामकलाखिला ? । ४५
अस्योत्तरमहं वाणि! भाविन्यष्टमवासरे ।
वक्ष्यामीति ततो गत्वा जिज्ञासुर्मान्मथीः कलाः । ४६
स्वदेहरक्षणे शिष्यानादिश्य चतुरो गुरुः ।
गतासुं कस्यचित् देहं प्रविवेश महीपतेः ॥ ४७ ।।
उषित्वा राजयोषिद्भिः सार्ध राजगृहेषु सः ।
कामशास्त्रस्य तत्त्वज्ञः स्वदेहं प्राप्तवान् पुनः । ४८॥
भूयो गत्वा सरस्वत्या दत्वा चोद्योत्तराण्यथ ।
सर्वज्ञपीठमारुह्य निविष्टः सोऽष्टमेऽहनि ॥ ४९ ।।
सुविस्मितैः सभासद्भिरत्यर्थ मानितस्ततः ।
..
शङ्कराचार्यचरितम्
ar
::
शिष्यैः सह शादीशं प्राप्तवानथ देशिकः ।। ५०
वायुवोऽन्तं स विज्ञाय स्नात्वा तत्रत्यदेवना ।
नत्वा कुर्वन् हरिस्तोत्रं देवसायुज्यमाप्तवान् ।। ::१ ।
ईदृशं शङ्कराचार्यचरितामृतमद्भुतम् ।
श्रोतव्यं कीर्तितव्यं च यतीनां तु विशेषतः ।। ५२ ।
॥ इति श्रीशङ्कराचार्य चरिते प्रथमोऽ यायः ।।
द्वितीयाध्यायः॥
शिष्यः- आचार्यचरितं किञ्चिद्विस्तरेण समन्वितम् ।
श्रोतुमिच्छामि पापघ्नं वक्तुं पीडा न चेद्गुरोः ।।१
गुरुः- नैव पीडा न तन्द्री च नैव निद्रा कदाचन
अस्मद्देशिकत्तान्तं ब्रुवतो मम कतिकात् ।। २ ।।
शिष्य, वक्ष्याम्यहं किञ्चिद्विस्तरेण गुरोः कथाम् ।
अतिविस्तरतो वक्तुं नालं भुजगगडपि ।। ३ ।।
सर्वपापहरं रम्यं सर्वव्याधिविनाशनम् ।
चरितं देशिकेन्द्रस्य शृणु वत्स, समाहितः ।। ४ ।।
पुण्यतीर्थसमाकीर्णा
पुण्यदेवालयान्विता।
मेदिनी केरळाख्यास्ति भूसुरोत्तमभासुरा ॥ ५ ॥
नानापदानविख्याता राजवीरविराजिता ।
नानावननदीशैलनगरागारशोभिता ॥ ६ ॥
द्वितीयाध्यायः ७ क्षेत्र दक्षिणकैलासनामधेयं सुविश्रुतम् । यत्र राजत्युमाशङ्करास्पदं भुक्तिमुक्तिदम् ।। ७ ।। धाम विष्णोरतिख्यातं स्यानन्दरसमाह्वयम् । श्रीशंबराभिधानं च यत्र राजति पावनम् ॥ ८ ॥ निळा मुरुद्वधा चेति तब नद्यौ विराजतः । निळायां शंबरकोडं भासते शास्तुरास्पदम् ।। ९ ।। नावाक्षेत्रं च तश्या हि तीरे दीप्यति मुक्तिदम् । भवनं पद्मनाभस्य भुवनत्रयपावनम् ।। १० ।। चूर्णीति चापरा ख्याता तीरयोरुभयोर्नदी । अतिस्वच्छ जला धत्ते पुण्यान् बहुसुरालयान् ।। ११ ऋद्धिमानुत्तरे तीरे नस्याः पावनपाथसः । कश्चिद्देशो महानस्ति कालटीति सुविश्रुतः :: १२ ।। सर्ववेदार्थनिपुणैः सर्वशास्त्रविशारदैः । सर्वाश्रुमरतैः शान्तैरन्वितो विप्रसत्तमैः ॥ १३ ॥ दूरीकृतसमस्तापत्स्वानुभावेन भूयसा । यत्र नारायणो भाति कर्ता सकलसंपदाम् ॥ १४ ।। तत्र विप्रोत्तमो जज्ञे सर्ववेदार्थतत्त्ववित् । सर्वशास्त्रार्थतत्त्वज्ञो गृही दानरतो महान् ।। १५ ।। निजधर्मरतो नित्यं पन्या सह गृहे वसन् । स निनायानपत्यो हि भूसुरो बहुवत्सरान् ।। १६ । लोका न सन्त्यपुत्रस्येत्यतिमात्रमनारतम् ।
८ शङ्कराचार्यचरितम •• - सन्तापसहितं विमं भार्योवाच विचार्य तम् । १७ । सर्वभक्तजनाकांक्षापूरणामरपादपः । निषेव्यः क्षिप्रमावाभ्यामपत्यार्थमुमापतिः ॥ १८ ॥ उपमन्युरिति ख्यातो विप्रसूनुः पुराभवत् । क्रपतस्तस्य वृत्तान्तं शृणु सादरमद्भुतम् ।। १९ ।। दारिद्येण कृशांग्या स स्वमात्रा सह जातुचित् । मातुलस्य गृहं प्राप्तो धानिनः करुणानिधेः ॥ २०॥ सदुग्धं सघृतं भक्तमश्नन सः शिशुरात्तमुत् । संक्रीडमानस्तत्रत्यैरवसत् द्विजबालकैः ।। २१ ।। ततः स्वगेहमायातं पुत्रं दुग्धानकांक्षिणम् । रुदन्तं बालकं प्रोचे माता दौर्गत्यपीडिता ॥ २२ पूजितं न मया पूर्व चन्द्रमौलिपदांबुजम् । कथं नु लभ्यते संपदनीशचरणार्चनैः ॥ २३ ॥ श्रुन्वेति वचनं मातुरुपमन्युरुदारधीः । तपसे कृतसङ्कल्पो ययौ तदनुमोदितः ॥ २४ ॥ पावनं वनमासाद्य सरस्तीरे महामनाः । स पञ्चहायनो बालस्तपश्चक्रे सुदुष्करम् ॥ २५ ।। अतिघोरं तपस्तस्य चरतस्तेजसा भृशम् । अतिभानुहुताशेन ज्वलितं भुवनत्रयम् ॥ २६ ॥ भीत: शतक्रतुस्तावत् ब्रह्मणा माधवेन च । समेतः शङ्करं प्राप्य स्तुत्वोवाच निजं भयम् । २७ द्वितीयाध्यायः नतो महेको देवस्तं गत्वा द्विजबालकम् । महेन्द्रवपुषा छन्नः प्रोवाच विविधां गिरम् ।। २८ ॥ इशो विचित्रया वाचा तं निवर्तयितुं शिशुम् । तपसः सुस्थिरात्मानमनीशो हि बभूव सः ।! २९ ॥ हित्वा कपटवेषं स सुप्रसन्नमनाः शिवः । • आश्रितो निजरूपं च शिशोः प्रत्यक्षतामगात् ॥ ३० अहिनद्धे जटाजूटे सुधांशुकलयोल्लसन् । काळकूटस्य कालिम्ना शोभमानगळान्तरः ॥ ३१ ॥ त्रिशूलमृगटङ्कायैर्विराजितकरांबुजः । व्याघ्रचर्मावरोऽहीन्द्रकाश्चीवलयभूषितः ।। ३२ ॥ फणिनूपरपादाब्जः सुप्रसादमुखांवुजः । करुणांवुधिकल्लोलचालितेक्षणपङ्कजः ॥ ३३ ॥ अन्वितः प्रमथनातः सहितो गिरिकन्यया । पुत्रयोरिव तत्रालं बाले प्रेम दधानया ।। ३४ ।। ईदृशं गिरिजाकान्तमुपमन्युर्विलोक्य तम् । प्रणाममकरोद्भक्त्या सन्तोषपुळकाश्चितः ।। ३५ ॥ दोभ्या॑मुत्थाय चालिंग्य स्वपुत्रमिव तं शिशुम् । किं त्वमिच्छसि बालेति शङ्करः परिपृष्टवान् ॥ ३६॥ अन्यन्नवाहमिच्छामि त्वत्पदांबुजसेवनात् । ब्रुवाणमिति तं भूयः स्वाङ्कमारोपयत् प्रभुः ॥ ३७॥ तस्य जिघन् मुखांभोज कारुण्याविवशो भृशम् ।
१०
शङ्कराचार्य चरितम
नस्मै ददौ महादेवो बालायाखिलसंपदम् ।। ३८ ॥
गिरिजागिरिशौ नवा लब्ध्वाप्यनुमति तयोः ।
स्वगेहं प्राप्तवान् बालो मातरं सादरोऽनमत् ।।३९॥
उपमन्युरितीशस्य प्रसादेन समृद्धिमान् ।
मात्रा सह मुदावात्मीत् स्त्रगेहे बहुसंपदि ॥ ४० ॥
एवं प्रसादिनं देवं भक्ताभीष्टवरप्रदम् ।
शंभु सेवावहै भक्त्या क्रमततनयार्थिनौ ॥ ४१ ।।
इत्थं प्रियावचः श्रुत्वा सन्तुष्टो द्विजपुंगवः ।
तया सह षाद्रीशं बहुकालमसेवत ।। ४ ।।
सेव्यमानो महादेवस्ताभ्यां बिभ्रद् द्विजाकृतिम् ।
आत्मानं दर्शयामास तस्मै स्पने कदाचन ॥ ४३ ॥
किं त्वं वाञ्छसि विप्रेति सुपृष्टेन द्विजन्मना ।
कांक्षामि पुत्रमित्युक्तः शंभु प्रोवाच तं तदा ॥ ४४
पुत्रं सर्वगुणोपेतमेकं सर्वज्ञमेव वा ।
अपीच्छसि बहून् पुत्रान विपरीतान् महीसुर? ॥ ४५
एवमुक्तो महीदेवस्तं द्विजं पुनरब्रवीत् ।
अहं वाञ्छामि सर्व पुत्रमेकं गुणाकरम् ॥ ४६ ॥
इत्थमुक्तो बभाषे तं द्विजवेपो महेश्वरः ।
तथैवास्तु सुतो थीमान् सर्वज्ञस्तव भूसुर ॥ ४७ ।।
त्वं गच्छ गृहमित्युक्तस्तरसा प्रतिबुध्य सः ।
स्वपियां विश्वर्यस्तं स्वमवृत्तान्तमब्रवीत् ॥ ४८ ॥
द्वितीयाध्यायः मु ततस्तौ दम्पती मत्वा सफलं स्वमदर्शनम् । समाप्तभजनं शंभुं प्रणम्य भवनं गतौ ॥ ४२ ॥ संतर्य विप्रसंघातं वस्त्रानकनकादिभिः । आशीर्वचासि तेषां तौ जगृहाते वधूवरौ ॥ ५० ॥ लब्धानुज्ञी द्विजातीनां तेषां भुक्तवतां ततः । तद्भुक्तशेषमन्नं तौ भोक्तुकामौ बभूवतुः ॥ ५१ ॥ तत्राने भोक्ष्यमाणे तु प्राविशज्ज्योतिरैश्वरम् । दम्पती ती मुदोपेतौ बुभुजाते तदाहतौ ॥ ५२ ।। गर्भ दधार सा तूर्ण शङ्करांशेन राजितम् । प्रवृद्धे तत्र चामूत नन्दनं समये शुभे ॥ ५३ ।। प्रादुर्भावे कुमारस्य लग्नमासीत् सुशोभनम् । बलयुक्तं शुभज्योतिस्समारूढ समीक्षितम् । ५४ ।। येन सर्वज्ञतामेति जातवान् भुवि मानुषः । स च"योगोऽप्यभूत्तस्य द्विजपुत्रस्य संभवे ।। ५५ ।। मृगेन्द्रगजसखुतरक्षुहरिणादयः । हित्वान्योन्यं तदा वैरं जन्तवो व्यहरन् वने ।। ५६।। पुष्पाणि पुष्पिता वृक्षा मुमुचुश्च तथा लताः । सुप्रसन्नजला नधो निष्कम्पाः सिन्धवोऽभवन ।। द्वैतवादिकराग्रेभ्यः पुस्तकानि तदापतन् । अद्वैतवादिनां चेतो हृष्टं व्यासस्य चाभवत् ।। ५८ स द्विजस्तनयं दृष्ट्वा मनोऽप्यानन्दसागरे ।
१२ शङ्कराचार्यचरितम् स्नात्वा नदीजले प्रादादिप्रेभ्यो धनसश्चयम् ॥ ५९ यथावत्स महीदेवो जातकर्म विधाय च । भूयो दृष्ट्वात्मजं हृष्टो यथेन्दु कुमुदाकरः ॥ ६० ॥ नारकान्तेन रुद्रांशेनारिसरोधिशक्तिना । पार्वतीव कुमारेण तुष्टा सा च द्विजागना ।। ६१ : जन्मकालममुष्याथ ज्योतिश्शास्त्रविशारदाः । विचार्य सुतरां बुध्या शशंसुर्द्विजपुङ्गवाः ।। ६२ ।। सर्वज्ञो भविता नूनं तव पुत्रो महीसुर! । हितमद्वैतवादिभ्यः शास्त्ररत्नं विधास्यति ।। ६३ ।। चित्रैर्बहुविधैर्वादैविजेता च सरस्वतीम् । स्थापयिष्यति लोकेऽस्मिन् कीर्ति च विमलां निजाम्।। एवंविधान समाकर्ण्य पुत्रजन्मगुणान् द्विजः । विस्मितोऽतीव पूर्वस्मात् गिरीशे भक्तिमानभूत् । ॥ इति श्रीशङ्कराचार्यचरित द्वितीयोऽ यायः ॥ तृतीयाध्यायः॥ द्वादशेऽहनि तं बालमङ्कमारोप्य कौतुकात् । चक्रे शङ्करनामानं पिता शङ्करभक्तिमान् ॥१॥ दैवज्ञवाणी संचिन्त्य तत्पज्ञामवलोक्य च । आरब्धाक्षरमारंभे तृतीयाब्दस्य तं व्यधात् ।। २ ।
तृतीयाध्यायः
१३
एकवारं लिखित्वा स जग्राह लिपिसञ्चयम् ।
नानाविधं समस्तं च शङ्करोऽतीव बुद्धिमान् ।। ३ ।
काव्यानि चेतिहासानि पुराणान्यखिलानि सः ।
यथावजगृहे धीमान प्रयाते वत्सरत्रये ।। ४ ॥
पञ्चमाब्दे निजं पुत्रमुपनेतुमना द्विजः !
पश्चत्वमगमत् सद्य कालो हि दुरांतक्रमः ॥ ५।
वल्लभे पञ्चतां याते शोकविहलमानसा ।
भार्या बालमुना वृद्धा रुरोद करुणं सती ।। ६ !
क्रमेणाश्वासिता मित्रै. शोकमुत्सृज्य सा ततः ।
मुतेन कारयामास संस्कारादिक्रियाः पितुः । ७ ।
संवत्सरान्ने दीक्षां च समाप्य विविवत् पितु. ।
पञ्चमाब्दे शुभे काले द्विजत्वं प्राप शङ्करः ।: ८
ततः स जगृहे सांगान निगमानखिलानपि ।
पदानि तषामांश्च कालनाल्पेन बुद्धिमान् ।। ९
किं फलं बहुनोक्तेन पोडशाब्दे समागते ।
सर्वज्ञत्वमगादेव शङ्करः शङ्कगंशजः ।। १० ।.
दूरयानाक्षमां दृष्ट्वा जरया जननीमसौ ।
किश्चिदृरगतां चूर्ण निन्ये निजगृहान्तिकम् ।। ११.
अंबा हितार्थमानीता पुत्रेणात्मगृहान्तिकम् ।
अंबापगेति चाख्याता तम्यां ककुभि सा नदी
स्नानार्थमेकदा तम्मिन्नवतीर्ण नदीजले ।
शङ्कराचार्यचरितम्
अग्रहीतीक्ष्णदंष्ट्रस्तं ग्राहः पादे महाबलः ।. १३ !
निजाकोशं समाकर्ण्य मातरं द्रुतमागताम् ।
सोऽब्रवीदंब, मां नक्रो बलवानग्रहीत् पदे :: १४ ,
संन्यासी भवितुं बुद्धथा यदि निश्चिनुयामहम् ।
मोक्ता मामयमहाय नाल कार्या विचारणा !: १५।
उक्तेति निजपुत्रेण तस्य जीवितकांलया ।
सानुमेने च तत् कर्तुं संन्यस्तं चात्मना तदा ॥१६ ।
ग्राहातो जलात्तीर्णः सोऽब्रवीजननी ततः ।
मया जननि, संन्यस्तं मनसा विधिवैभवात् :: १७ ॥
मनसा कृतसंन्यासो यदि कुर्या विलंबनम् ।
जीवन् श्राद्धादिकरण पतितः स्यामहं ध्रुवम् ॥१८:
ततोऽयव गमिष्यामि त्वां निधाय सुहृजने ।
संस्मृतोऽहं त्वया मातरागमिष्यामि सत्वरम् ।।१९
मृतां च संस्करिष्यामि त्यक्तशोका, यमालये ।
इत्युक्त्वा स विनिक्षिप्य बन्धुलोके स्वमातरम् ।।
प्रणम्य तदनुज्ञातो यियासुरभवद्भुतम् ।
सोऽपश्यत् पुरतस्तावत् कंचिदिन्दीवरन्विपम् ।।
महानुभावमूचे तं शङ्करं समहोदधि (?)।
अप्रमेयानुभावं त्वं वासुदेवं शिलामयम् ॥ २२ ।।
वसन्तमिह साधनां रक्षणार्थमवेहि माम् ।
त्वया माहितं कर्तुमानीतातिसमीपगा ॥ २३ ।।
तृतीयाध्यायः १५ मद्धामोनिकररेषा (तापयत्यनिशं नदी)। प्रतिवर्ष महावेगैरन्तहमुपागतः ॥ २४ ॥ सलिलचाल्यमानोऽप्या आसनपतनोऽस्म्यहम् । प्रयाते भवनि क्षिपं यास्याम्यहमपि ध्रुवम् ॥ २५ ॥ नस्माद्विधाय मद्रक्षां याहि कांक्षितसिद्धये । इत्युक्तः स शिलारूपं दोभ्या॑मुदृत्य तं शनैः ।। १६॥ काश्चदूर नदीतीर नीत्वा चक्रे प्रतिष्ठितम् । तस्मादपि जनन्याश्च लब्ध्वानुज्ञां नतोऽप्युभा ॥ २७ शङ्करोऽजीव निस्सनः संन्यासाय जगाम सः । श्रीशुकस्वाभवच्छिष्यो गौडपाद इति श्रुतः ॥१८॥ तस्य शिष्यो महातेजा वर्तते यो द्विजोत्तमः । संन्यासविधिनत्वज्ञं गोविन्दस्वामिनं स्थितम् ।।२९।। काश्यामवाप वेगेन वायुमार्गमुपाश्रितः । ततश्च कृतसंन्यासो (यथावज्जगृहेऽजसा) ।। ३० ॥ सर्व यतिजनैाह्य मुपदेशं महत्तरम् । तुरीयमाश्रमं गत्वा निर्मलात्मा जिनेन्द्रियः ।। ३१ ।। गुरुश्रुश्रूषयानैषीत भूयिष्ठानि दिनानि सः । म जातु शङ्कराचार्यतीर्थयात्रासमुत्सुकः ॥ ३२ ॥ नदनुज्ञामयाचिष्ट निजं देशिकमादरात् । नानादेशान दिदृक्षऽहं बहुतीर्थसमन्विनान ।। ३३ ।। देयानुज्ञा गुरो, मह्यं तदर्थ शिष्यवत्सल । नमुवाच गुरु. शिष्यं तीर्थयात्राममुत्सुकम् ।। ३४ ॥
१६ अकराचायचरितम यतीनां ज्ञाननिष्ठानां तीर्थस्नानं सुदुष्करम् । निर्मानुपा निरावासा निर्जला बहुकण्टकाः । ५॥ प्रदेशा बहवः सन्ति (मार्गेषु मतिमत्तम) । यावाविघ्नकराधान्ये चोरव्याघ्रादयस्तथा ।। ६६ ।। क्षेत्रवासो गुरो वासातीर्थ नच्चरणा : कम् स्थितिरत्रव कार्या ते वदान्तार्थ विचिन्तयन् (?) ॥ इति श्रुत्वा गुगेर्वाक्यं यनिश्रेष्ठस्तपत्रवीत् । सत्यं हि भगवद्वाक्यं तथापि मम मानसम् ॥ ३८ ॥ तीर्थस्नाने समुद्युक्तं साम्प्रतं वर्तते गुरो । म दूरस्थोऽप्यदूरस्थो यो धत्ते गुरुमात्मना ।। ३९ ।। मोऽन्तिकायोऽपि दूरस्थश्चिन्त्यते येन नो गुरुः । तीर्थसेवासु सत्सङ्गः सत्मङ्गानिर्मला मनिः ।। ४०॥ निर्मलायां मतौ ज्ञानं ज्ञानान्मुक्तिश्च जायते । इत्थं चिन्तयतो मेऽद्य तीर्थम्नानम्तर पतिः।। ११ ॥ तदनुज्ञा प्रदातुं त्वं गुरो, मेऽर्हसि सत्वरम् । इति शिष्यवचः भुला गुरुः प्रीतिसमाकुलः ।। ४२ अनुज्ञामददात् क्षिप्रं तस्म निर्मलचेनस । तीर्थस्नानरतं चितं यद्यस्ति तव शङ्कर ।। ४ ।। गन्तव्यमचिरेणैव त्वया सानुचरेण हि । चोरव्याघ्रादिसङ्कीर्ण मार्ग मुक्त्वा सुग्वं त्रज ।' ४४ अध्वना सतरुच्छायातटाकद्विजवेदममा ।
तृतीयाध्यायः १७ ' ४८।। भिक्षाशेनं तु कर्तव्यं द्विजवेश्ममु सुव्रत ॥ ४५ ॥ विधूपे सन्नमुगल इनि वाक्यानुमानतः । सन्ध्या मठेषु कर्तव्या निद्रा रात्रिगु शङ्कर ॥ ४६ मार्गेषु नेक्षणीयाम्से नरा नगरवासिनः । तदेशो द्राक (समुलंध्य कर्तव्या नत्र न स्थिति.) । दृष्ट्वा चेत् कुवचिन्नारी नस्यां मातृमनि कुरु : दीर्घमार्गप्रयाणेगु भवेत् सर्व च शङ्कर । (हेमखण्डं निपतितं मार्गे दृष्टमनाथवन्) । लोष्टबहरतस्त्यक्त्वा यायाः सुशिरमानमः ।। ४९!. प्रतिमा देवतानां च तत्र तत्र विलोकयन् । समवुध्याखिला नन्तुमर्हसि त्वं धृतादरम् । ५० : सन्ततं सर्वमार्गषु राजनैः सह सङ्गमे । तत्कयाम नपानेन विनेयोऽध्यक्षपो भृशम् ।। ५१ ।। अन्वितः सर्वमार्गेपु सज्जनरबलात्माभिः । तीर्थयात्रां विधाय द्रुतमायाहि शङ्कर ।। ५२ ।। गुरोरिति मुखेन्दोस्तत् गळितं वचनामृतम् । कर्णरन्ध्रेण नीत्वान्नश्चक्रे च गुरुसंनतिम् ॥ ५३ ।। उदीच्यां दिाशे तीर्थानि पुण्यानि सकलानि सः । सेवमानोऽथ संप्राप्तः पुण्यं बदरिकाश्रमन् ॥ ५४ ।। दिनानि तत्र सोऽवात्सीत् सुखं बदरिकाश्रमे । नानाविद्वज्जनत्रातः सेव्यमानो महामतिः। ५५ ॥
१८
शङ्कराचार्यचरितम्
-
-
वेदान्तसूत्रवेश्मान्तर्वर्तमानार्थदृष्टये ;
तदानीं सोऽकरोत् प्रज्ञः श्रीमद्भाष्यप्रदीपिकाम् ॥
सर्वदिग्व्याप्तभाष्यांशुः श्रीशङ्करदिवाकरः ।
तिरश्चक्रेऽखिलं लोके प्रतिपादितमोगणम् । ५७ ।
निजनिर्मितसूत्राणां श्रुत्वा भाष्यनिवन्धनन् । '
तत्राजगाम सन्तुष्टः पराशरसुतो मुनि. । ५.८ :
दृष्ट्वान्योन्यं व्यतनुतां सपर्यामुचितामुभौ ।
उवाच तदनु व्यासं शङ्करा हृष्टमानसः ।। १.९ ॥
हे मुने! स्वागतं तेऽस्तु कृतार्थोऽस्मि नवेक्षणात्
अद्य मामनुगृणासि यत्तयुक्तमिदं त्वयि । ६० ।
येन त्वया त्रयी व्यस्ता लोकानुग्रहकाम्यया ।
तदीयार्थप्रकाशार्थ भारतं च महत् कृतम् । ६१ ॥
सन्दर्शिताखिलाम्नायमहानि कृतानि च ।
अष्टादशपुराणानि त्वया येन महामुने ।। ६२ ।।
लोकाननुजिघृक्षुस्त्वं लोके संचरास ध्रुवम् ।
पूर्णकामाः किमन्यद्वै वाञ्छन्ति हि भवादृशाः ।! ६३
तथाप्यागमने हेतुं तव पृच्छामि कौतुकात् ।
किमर्थमागतोऽसि त्वं सर्ववेदार्थपारग ।। ६४ ।।
त्वदागमनजेनायं हर्षेणाविष्टचेतसः ।
महोत्सवनिमो विद्वान , दिवसः प्रतिभाति मे । ६५॥
इत्युक्तो यतिवर्येण शङ्करेण महात्मना ।
चतुशाध्याय,
१०
--
प्रत्युवाचानिहृष्टात्मा पाराशर्यो महामुनिः । ६६ .
वेदान्तागममूत्राणां रचितानां मया यते ।
त्वया भाष्यं व्यधायीति श्रुत्वा वालोऽस्मि साम्प्रतम् ।
तहष्टुं कौतुकेनालं त्वरते मम मानसम् ।
इत्युक्तो दर्शयामास स गर्म पाध्यपुस्तकम् ।। ६८ !
अपूर्व तत् समादाय यनिवर्यावाननिनम् ।
यथावदखिलं वीक्ष्य वेदव्यानलमब्रवीत् ।'
विताखिलमूत्रार्थ विद्वजानमनोरम् ।
हिताय सुतरामेत जायतेऽद्वैवाटिनाम् । ७०i.
अर्थामृतं यतिश्रेष्ठ ! मूत्रदुरवपयोनिधौ ।
आविष्कर्तुमिदं भाष्यं त्वत्कृतं मन्दरायत ।' ७१ :
प्रमोदो मम जातोऽलमस्माद्भाष्यनिवन्धनात् ।
तस्मादस्य प्रतिष्ठां वं शिष्यादिषु यते, कुरु ।' ७२ ।।
इत्युक्त्वा यतिवर्याय पुस्तकं प्त प्रदाय तत् ।
सन्तुष्टः सुतरां व्यासस्तिरोधानं गतोऽभवत् ।७३।
॥ इति श्रीशङ्कराचार्यचरित तृतीयोऽ याय. ॥
चतुर्थाध्यायः ॥
अथ श्रीशङ्कराचार्यः स्वमात्रा संस्मृतस्ततः ।
आत्मजन्मगृहं प्राप वायुमार्गेण सत्वरम् ॥ १
२० शङ्कराचार्यचरितम् . नन्वा स जननीं तत्र समासन्नमृति निजाम् । शैवं च वैष्णवं रूपं पद्यैः कश्चिदुपादिशत् ॥२। सश्चिन्त्य मुरजिद्रूपं यथावदसुनिर्गमे । यतिगम्यं पदं प्राप माता यतिवरस्य सा ॥ ३ ॥ संस्कर्तु जननीमिच्छन्नलाद्विजपावकः । निधाय बहुकाष्टानि कुण्डे शुष्काणि नानि सः ।। जातेन मथिताद्वाहोर्दक्षिणादक्षिणाग्निना । प्रदीप्य मातरं तत्र जुहावाच्छिद्य शङ्करः ।। ५ ।। आस्तां तावदियं प्रमूतिसमगे दुर्वारशूलव्यथा नरुच्यं तनुशापणं मलमयी शय्या च सांवत्परी। एकस्यापि न गर्भभारभरणलेशम्य यम्याः क्षमो दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः" । इमं मन्त्र जपन गुा मातृभक्त्या समन्वितः । कुण्डं प्रदक्षिणीकृत्य साष्टाङ्गं च ननाम सः ॥ ६ । यतीन्द्रोऽय रुपा गापं त्रयीवाह्या भवन्त्विति । दत्वा तत्रत्यविप्रेभ्यः प्राप्तो बदरिकाश्रमम् । ७ ! अथागमद्विजेन्द्रस्तं कश्चित् भासा जितानलः । अधीतवेदो वेदाङ्गपारगो महिमालय. ॥ ८ ॥ सर्ववाच्छाविहीनात्मा भवसागरभीतिमान् । आयातः स च ओंकारैर्ननाम शिरसा गुरुम् ।। ९ पतितं निजपादाब्जे तमुत्थाप्य जगाद सः ।
चतुर्थाध्यायः
२१
:
कस्त्वं क धाम विप्रेन्द्र कुन आगमनं तव? । १०॥
इत्युक्तो दिनवर्यम्तं वमापे विन यान्वितः ।
शृणुष्व मम वृत्तान्तं देशिकेन्द्र, कृपानिधे ।। ११ ।।
केरळेपु महाक्षेत्र कैलासाचलसंनिभन् ।
श्रीकुण्डग्रामनामान्ति कीर्तनान्पुण्यवर्धनम् . १२ :
यंत्र नित्यं महादेवः पार्वतीशो विराजति ।
कुण्डस्थो जामदग्न्यस्य लोकानुग्रह तत्परः।' १३ ॥
अमादेवाः क्षमायुक्ताः पञ्च यज्ञपरायणाः ।
वंदाध्ययनशीलाश्च विद्यन्ते तत्र विश्रुताः ॥ १४ ॥
तषां विद्वत्तमः कश्चित् द्विजवर्या महागुणः ।
अनपत्याश्चिरं गेहे न्यवात्सीद्दारसंयुतः ॥ १५ ॥
सोमशर्माभिधानोऽसौ नृसिंहवपुपं हरिम् ।
तनयं लब्धुकामस्तं भेजे भक्तिसमन्वितः ।। १६ ॥
नस्य विष्णोः प्रसादेन मत्पिता द्विजसत्तमः ।
मामेव तनयं लेभे नृसिंहां समन्वितम् ।। १७ ।।
नतोऽहं विष्णु शर्माख्यः क्रमेण परिपोपितः ।
अभवं पितुरादेशान् सर्वविद्याब्धिपारगः ।। १८ ।।
चोडगाब्दे समायाने गुरूणामाज्ञया मम ।
वर्णिभावे समाप्ते च दारिद्यविवशोऽभवम् ।। १९ ।।
पाऽह बहान वैश्यानां वाहताान यतश्विर ।
क्रयविक्रयकर्माणि कुर्वन् समचरं चिरम् ॥ २० ॥
शङ्कराचार्यचरितम अथ नर्धन्यशोकेन विहीनो निवसन् गृहे । अभूवं गन्तुकामोऽहं जातु देशान्तरं गुरोः ।। २१ ।। गजैरश्वैः खररुष्ट्री पैश्च बहुभिर्युतः । नानादेशान् समुल्लंघ्य गतोऽहं निर्जनं वनम ॥२२॥ सिंहव्याघ्रवराहाद्यैश्चोरैरपि निषेवितम् । महारण्यं मयि प्राप्ते भानुमानस्तमागमत् ।। २३ ।। नत्वा वननदीतोये तस्मिन परिजनो मम । भुक्त्वा पीत्वा यथेष्टं वै निद्रामाप श्रमान्वितः । २४ द्रुमादिषु गजाश्वादीनाबध्य सुतरां दृढम् । पीतकेवलपानीयो भयेनाकृतभोजनः ॥ २५ ॥ अद्य का विपदं यास्याम्यहमित्यनुचिन्तयन् । रात्री जागरणं कुर्वनवसं तत्र कानने ! २६ ।। तदानीं मेघनिर्घातसदृशास्तत्र निस्वनाः । सिंहव्याघ्रादिजन्तूनां श्रूयन्ते स्म समन्ततः : २७॥ नदा गजतुरङ्गायाः पाशान् छित्वा बलेन ते । दुर्निवारजवा भीत्या दुद्रुवुः ककुभो दश । २८ ॥ इयानोऽध्यपरिश्रान्तिमाहूतोऽपि पुन पुनः । न्यपन् स्वजनसंघानः प्रबोधं नावपद्यत ॥ २९॥ मञ्चरन्तो निशामध्ये च्छन्नवेषा धृतायुधाः । कृतान्तसदृशाश्चोरास्तत्रायातास्तदा बने ।। २० ॥ पुनःपुनः समाहूना नोत्थिताः सेवका जनाः । तेनातीव परिश्रान्तो निशामध्ये यतीश्वर ।। ३१ ॥
चतुथाध्यायः . तदा गजादीनादाय चोरा यान्ति स्म सत्वरम् इस्थं बहुविधं दुःखमनुभूय महावने ॥ ३२ ।। शृण्वन्नन्योन्यवचनं चोराणां धनहारिणाम् । कथञ्चित्तत्र नत्विा तां क्षणदामतिदारुणात् ।। ईषद्रक्तरुचौ प्राच्यामर्कसारथितेजसा । 'अद्राक्षं तत्र किश्चिन्न स्वपत. स्वजनाइते ॥ ३ ३ . अचिन्तयं तदा सोऽहं दैवध्वस्तमनोरथः । अनतिक्रमणीया स्यादहो ! कालगतिर्नृणाम् । ३४१' तस्माजन्मविनाशाय यत्नः कार्यो मयाधुना । इत्येवं चिन्तयित्वाइमाचार्य समुपागतः ॥ ३५ । गुरो, युष्मत्कृपानावमधिरुह्य भवार्णवम् । तितीर्घरस्म्यहं नानाव्यसनोर्मिसुदुस्तरम् ।। ३६ । इत्थं कथितवृत्तान्तं द्विजवर्य यतीश्वरः । यथोक्तं चक्षुषा दिव्येनापश्यत्सर्वमञ्जसा ॥ ३७ ।। ततः संन्यास विधिना चक्र तं यतिनं द्विजम् । ग्राह्य चोपदिदेशास्मै समस्तं यतिसत्तमः ॥ ३८ ॥ दत्वा सनन्दनाभिख्यां तस्मै देशिकपुङ्गवः । उपादिशच वेदान्तं भाष्यं च निजनिर्मितम् ।। ३९ । तेन प्रथमशिष्येण रराज यतिपुङ्गवः । शरद्यधिकदीप्तेन भानुना भानुमानिव ।। ४० । ॥ इति श्रीशङ्कराचार्यचरिते चतुर्थोऽध्यायः ॥
पञ्चमाध्यायः॥ ततो निषेव्य तीर्थानि सच्छिष्येण समन्वित . : संप्राप देशिकेन्द्रस्तं प्रयागं तीर्थमुत्तमम् ॥ १ ॥ तत्र तीर्थे मनुष्याणां स्मृतिमात्रफलप्रदे । संस्मृत्य जननीमुक्तिं सस्नौ यतिकुलेश्वर. ।। २ । यथावद्विहितस्नानस्तीरे तस्याथ पावने भट्टाचार्य ददर्शासौ संस्थितं तुपपावके । '३ ।। परितः शिष्यवर्गेण ज्वलिताग्निसमद्युति । भट्टाचार्योऽपि तं दृष्ट्वा सशिष्यं यतिसत्तमम् ।। ४. पूजयामास विधिवत् शिष्यसंधैः समन्वितः । भिक्षां कृत्वा यतिश्रेष्ठः कुमारांशाय धीमने ।। ५ ॥ दर्शयामास सुपीतः श्रीमद्भाष्यं महामतिः । भाष्यमालोक्य हृष्टात्मा भट्टाचार्यों यतीश्वरम् . ६। निर्मत्सरो गुणग्राही निजगाद महामतिः । दर्शनं दुर्लभं नृणां यतीश्वर, भवादृशाम् ।। ७ ।। समासन्नशरीरान्ते समये तु विशेषतः । पुण्यैः पुरातनैरेव दृष्टोऽसि भगवन मया । ८॥ नृणां संमृतिमोक्षाय त्यादृशैः सङ्गतिर्भवेत् । चिरं दिक्षुरेवास्मि भगवन्तं यतीश्वर ॥ ९ । कर्मकाण्डे रतिर्मेऽस्ति पूर्वमेव महामने । इदानीं भगवद्भाष्य थुत्वा ब्रह्मण्यपि स्थिरा ।
पश्चमाध्यायः २५ रतिर्जाता शरीरान्ते विशेषेण सुदुर्लभा । अस्मिन्नष्टौ सहस्राणि वार्तिकानां यतीश्वर ॥ ११ ॥ विभान्ति प्रथमे भाष्ये तत्कृती नालमस्म्यहम् । नाहमय मुमूर्षुश्चेत् करिष्याम्यद्य वार्तिकम् ॥ १२ : ईदृश्या मे मुमूर्षाया हेतुं शृणु यतीश्वर । वेदमार्गे पुरा तेन सुगतेन मुबाधिते . १३ ।। तत्त्वाणं कर्तुकामेन भृशं यत्नः कृतो मया । सौगतस्य मतं सम्यक ज्ञात्वा तस्य निराकृतिः । कर्तव्यति तु निश्चित्य तस्य शिष्योऽभवं ततः । एकदा वैदिकं मार्ग तथा सुगतदूषितम् ॥ १५ ॥ शृण्वतो मम नेत्राभ्यां शोकेनाश्रुकणोऽपतत् । तदाप्रभृति तच्छिष्या मयि शङ्कितमानसा. ॥ १६॥ अस्मच्छास्त्रनिरास्येष द्विजातिरिति निश्चिता. । प्राणिहिंसापरास्तुङ्गात् सौवाग्रान्मामपातयन् ॥ १७ 'यदि वेदः प्रमाणं स्यात् जीवेय'मिति चाब्रवम् । प्रयोगाद्यदिशब्दस्य तस्य सन्देहवाचिनः । १८!] शास्त्रश्रवणतो व्याजाद्विनष्टं पततोऽक्षि मे । ततो निरस्तवानस्मि बौद्धशास्त्रं तु युक्तिभिः ।। १९।' वेदमार्ग यथावत्तु प्रकाशं नीतवानपि । एवं लोकहितं कृत्वा वर्तमानस्य मे मुदा ॥ २० ॥ ईदृशी बुद्धिरुत्पना निश्चिता यतिपुङ्गव ।
२८
शङ्कराचार्यचरितम
विरिश्चांशो विश्वरूपो दृष्ट्वा तं यतिपुङ्गवः ॥ ४२ ॥
आसनं परमं दत्वा ननाम शिरसा भुवि ।
सोऽन्तर्नीत्वा यतिश्रेष्ठं सशिष्यं भक्तिपूर्वकम् ॥ ४३
तत्पादपझं प्रक्षाल्य तज्जलं लोकपावनम् ।
शिरसा धारयामास समार्यों द्विजसत्तमः ।। ४४ ॥
नतः स विश्वरूपाख्यो पतिवर्यपुरोभुवि ।
अन्नमादाय विधिवत्सघृतं सोपदंशकम् ॥ ४ ॥
यतिहस्ते जलं दत्वा भैक्षं दत्वा पुनर्जलम् ।
दत्वा जुषध्वमित्युक्त्वा तूष्णीमास कृताञ्जलिः ॥
ततः करगतं तोयमाचार्यो नापिबत् द्रुतम् ।
बभाषे च तदा पृष्टो द्विजेनाकुलचेतसा ॥ ४७ ॥
भोजनानन्तरं मह्यं वादं दाता भवान्यदि ।
पिबामि तोयमन्नं च भुञ्जेऽहं विप्रसत्तम ॥ ४८ ।।
अथाब्रवीत् द्विजश्रेष्ठो यतिश्रेष्ठं महामतिः ।
अहं वादं करिष्यामि न सन्देहो महामते ॥ ४९ ॥
इत्युक्तः स जलं पीत्वा भिक्षाशनमथाकरोत् ।
भिक्षानन्तरमादाय मुखशुद्धिं गृहाश्रमी ।। ५० !!
यतिश्रेष्ठाय दत्वा तं ननाम शिरसा भुवि ।
गृहीतानुमतिस्तस्मात् ततोऽभुङ्क्त द्विजोत्तमः ।। ५१
बुभुजे तस्य भार्या च लब्धानुज्ञा निजप्रियात् ।
ततो भिक्षुवरः प्रोचे वादे यदि पराजितः ॥ ५२ ॥
पश्चमाध्यायः २९ अहं रक्तबरं हित्वा ग्रहीष्यामि सिांवरम् । कृतप्रतिज्ञे तत्रेति प्रतिज्ञातं द्विजन्मना ॥ ५३ ॥ भिक्षुभावं गमिष्यामि यद्यहं तु पराजितः । ज्ञातुं जयाजयो सूक्ष्मौ विदग्धा सत्यवादिनी ॥ ५४ वादे नौ तत्र साक्षीत्वे तिष्ठत्वेषा वधूर्मम । इति तौ यतिविप्रेन्द्रौ विद्वज्जनसभागतौ ।। ५५ ।। वाणी कृत्वा तु साक्षीत्वे चक्रतुर्वादमद्भुतम् । श्रोतुकामास्तयोर्वादं ब्रह्माद्या निखिलाः सुराः ।। समारूढविमानास्ते नभोमार्गमुपागताः । सस्मिताननपद्माभ्यां प्रगल्भाभ्यां प्रतिक्षणम् ।। ५७॥ ताभ्यामुत्तरमन्योन्यमश्रमेणेव खण्डितम् । इत्थं विदधतोर्वादं तयोः शङ्करविषयोः । ५८ ॥ दिनषदकपतिक्रान्तं परस्परजयैषिणोः । सप्तमेऽहनि विप्रेन्द्रो मस्करीन्द्रेण धीमता ॥ ५९ ॥ पराजितस्तदा वाणी भावि कति निश्चिता । भर्तुरग्रे निधायाशु दण्डादीन सा मनस्विनी ॥ ६० मुनिशापविनिर्मुक्ता तिरोभावं जगाम सा । सत्यवादी स विप्रेन्द्रः पपात यतिपादयोः ।। ६१ ॥ अनुक्तपूर्वमनृतं मया मस्करिपुङ्गव । इत्युक्त्वा वस्त्रदण्डादीनादाय स्वीकृताश्रमः ॥ ६२ ।। पुनर्गुरुमुखाच्छृत्वा श्रोतव्यं स यतीश्वरः ।
३० शङ्कराचार्यचरितम तत्रैव न्यवसन् सोऽपि गुरुशुश्रूषणे रतः ॥ ६३ विश्वरूपं विरिश्चांशं लब्ध्वा शिष्यं यतीश्वरः । खमनोरथलाभेन सन्तुष्टः सुनरामभूत् ।। ६४ ॥ ॥ इति श्रीशङ्कराचार्यचरिते पञ्चमोऽ-याय. ॥ षष्टाध्यायः॥ .. । आचार्यस्य द्वितीयोऽयं शिष्यः संन्यासनामतः । सुरेश्वर इति ख्यातो बभूव मतिमत्तमः । १ : कृतानि देशिकेन्द्रेण भाष्याणि दश पञ्च च । तेषामुपनिषद्भाष्यदशकं स्यादनुत्तमम् ॥ २ ॥ श्रीमद्भाष्यस्य टीकाख्यं व्याख्यानमामितद्युतिः । श्रीमत्सनन्दनाचार्यश्चकार ब्रह्मवित्तमः । . नैष्कर्म्यसिद्धिमकरोत् सुरेश्वरसमावयः । वार्तिकरितयं चापि स चकार महामतिः ॥ ४ ॥ एवंभूतौ तु तो शिष्यौ यतीन्द्रस्य बभूवतुः । नृहरेरंशभूतस्तु सनन्दनसमाहृयः । ५ ॥ विरिश्चस्यांशभूतस्तु सुरेश्वरसमाहृयः । हस्तामलकसंज्ञोऽभूत् तस्य शिष्यो महान गुरोः ।। तत्यकारं प्रवक्ष्यामि शिष्य, त्वं शृणु सादरम् ।
षष्टाध्यायः ३१ गोकर्ण यातुकामः सन्नेकदा देशिकेश्वरः ॥ ७॥ मार्गे शिवविहाराख्यं ग्रामं प्रापदनुत्तमम् । अग्निचिद्भिस्त्रयीविद्भिः सर्वशास्त्रविशारदैः ।। ८ ।। सदादानरतैः शान्तरन्वितं ब्राह्मणोत्तमैः । द्विजानां विहरन्मध्ये शिवो गिरिसुतान्वितः !, ९ . यस्य नाम यथार्थ हि करोति करुणानिधिः । सर्वलक्षणसम्पनं वेदाध्ययनमन्वहम् ॥ १० ॥ द्विजानां यत्र गूढात्मा शृणोति चतुराननः । यत्र पान्थजनो नित्यं प्रीतियुक्तेन चतसा । ११ । करोति विश्रमं भुक्त्वा यथेष्टं च दिवानियाम् । द्विजाहुतहविर्गन्धो यत्र पुण्यतमो महान् । १२ !! नीयमानोऽल्पवातेन जनानां संहरत्यघम् । आसीत्तस्मिन् द्विजश्रेष्ठो वेदोक्तविक्तित्परः ।। ६:" खदारतुष्टोऽनुदिनं पूजयन्नतिथीन्मुदा । कश्चित्तस्यात्मनो जज्ञे चक्षुरादिप्रत्तिषु ।। १४ ।। चेष्टासु च करादीनां निराशः सर्वदाभवत् बुमुक्षुर्न पिपासुश्च नाभवत्स कदाचन ।। १५ ।। पिपीलिकादिसंदष्टे स्वदेहेऽप्यविकारवान् । एवंविधं सुतं दृष्ट्वा पिता चिन्तापरः सदा ॥ १६ ॥ गोभूहिरण्यदाराचैरन्वितोऽपि शुचं दधौ । श्रुत्वा तत्रागतं विप्रः सपुत्रः प्राप्य देशिकम् ।। १७ शङ्कराचार्यचरितम् मां प्रणम्य सोऽपृच्छत् सुतनैराश्यकारणम् । जनेरारभ्य कुत्रापि विद्यते नैव कांक्षितम् । १८ । मत्सुतस्यास्य नीतोऽयमुपनीतिं कथंचन । जाड्यतुं यतीन्द्र, त्वं मत्सुतस्य वद प्रभो ।। १९ ।' भवादशा हि जानन्ति सर्व च विमलात्मना । इति पृष्टो यतिश्रेष्ठः सोऽपृच्छत् द्विजनन्दनम् ।।२०। कस्त्वं द्विजात्मजैवं कि वर्तसे जडवत् सदा? । बालोऽप्यबालबुद्धिस्तमुत्तरं निजगाद सः ॥ २१ हृद्येादशभिः पधैः प्रकाशितचिदात्मकैः । करस्थधात्रीफलवञ्चित्स्वरूपं प्रकाशितम् ॥ २२ ॥ तत्पद्यैर्हि ततोऽस्याख्या हस्तामलक इत्यभूत् । द्विजपुत्रं निवृत्तं तं विज्ञाय यतिपुङ्गवः ।। २३ ।। ऊचे तत्पितरं नेह वस्तुं योग्यस्तवात्मजः । देहगेहादिममता विद्यते नास्य भूसुर ।। २४ ॥ बोधेनायं तमो हित्वा परमं धाम पश्यति । इत्युक्त्वा विप्रसूनुं तं गृहीत्वा प्रस्थितो गुरुः ।। २५ किश्चित्तमनुगम्याथ स्वगेहं प्राप्तवान् द्विजः । आचार्यो यतितां नीत्वा तं च भूसुरनन्दनम् ।। २६ महात्मभित्रिभिः शिष्यैर्विरेजे सुतरां गुरुः । तुरीयः कोऽपि शिष्योऽभूदाचार्यस्य ततो महान ।। तोटकाख्याभवत्तस्य शिष्य, तत्कारणं भृणु।
सप्तमाध्यायः ३३ विनीतोऽमित सत्योक्तिर्दयालुः सुतरां गुरोः ।। २८॥ शुश्रूषातत्परः सोऽभूत् छायेवानुसरन् सदा । गुरौ तिष्ठति वै तिष्ठन् गच्छन् गच्छति सन्ततम् ॥ गुरोः श्रीवस्त्रकौपीननीमलीकरणे रतः । दन्तकाष्ठप्रदाता च स्नानकाले यथोचितम् ।। ३० ।। गुरोस्तु देवपूजायां जलाद्याहरणे रतः । गुरोः श्रीमन्पदांभोजसंवाहनविचक्षणः ॥ ३१ ॥ इत्थं निजगुरौ भक्तिं निर्व्याजां निश्चलां भृशम् । बिभ्रतः सर्वदा तस्य मुखांभोजात् कदाचन ॥३२॥ पद्यजातमुदारार्थमद्वैतप्रतिपादकम् । तोटकाख्यमभूतस्मात् तोटकाख्यो बभूव सः ॥ ३३ खेच्छानुवृत्तिनिरतान् देशिकेन्द्रः सुविश्रुतान् । लेभे शिष्यवरानेवं चतुरस्तत्त्ववेदिनः ।। ३४ ।। संन्यासमूलः सच्छायः शिष्यशाखामहत्तमः । ज्ञानपुष्पोऽमृतफलो रेजे शङ्करपादपः ॥ ३५ ॥ ॥ इति श्रीशङ्कराचार्यचरिते षष्ठोऽ यायः । सप्तमाध्यायः॥ एतैः शिष्यवरैः सार्ध चतुर्भिर्देशिकोत्तमः । नीर्थस्नानरतो धीमान् चचार भुवि सर्वतः ।। १ ।।
शङ्कराचार्यचरितम् एकदा स हारद्वार शनर्गन्तु समुद्यतः । मार्गश्रमहरं पुण्यं तन्माहात्म्यमवोचत ॥ २॥ पुराभूदुत्कले देशे कोऽपि धर्मरतो द्विजः । तस्यासीत्तनयः कश्चित् प्रकामं दुष्टमानसः ॥ ३ ॥ व्याधैः सह मृगान हत्वा विचरन् विपिनेषु सः.। तपोधनस्य कस्यापि शापात्माप पिशाचताम् ॥ ४॥ अतीव विवशो दीन. क्षुधया च पिपासया । असौ निपतितोऽरण्य मूर्छा पाप कदाचन ॥ ५ ॥ तदा स्नात्वा हरिद्वारे काचिद्गन्धर्वसुन्दरी । हरविष्णुगणेशाद्या नत्वा तत्रत्यदेवताः ॥ ६ ॥ भणन्तुं रामनाथं तं त्वरया गगनाश्रिता । जगाम तस्या वासोंऽबु पिशाचे मूर्छितेऽपतत् ।। ७॥ गङ्गासलिलमाहात्म्यादुत्थितः सत्वरं ततः । अपश्यत्सर्वमाशान्तं पिशाचः शान्तमानसः॥८॥ दृष्ट्वा खनिकटे कण्वं मूले वटतरोः स्थितम् । आसाद्य विनयोपेतः पृष्टवांस्तं महामुनिम् ।। ९ ॥ शान्तबुद्धिरहं कस्मादिदानीं मुनिपुङ्गव । तत्र हेतुं वदास्माकं सर्वज्ञो हि भवान्मुने ॥ १० ॥ इति पृष्टः पिशाचेन कण्वो मुनिवरोऽब्रवीत् । जन्मप्रभृति दुर्बुद्धेः, शृणु, ते शमकारणम् ॥ ११ ॥ स्नात्वा तत्र हरिद्वारे तीर्थे भुवनपावने ।
सप्तमाध्यायः ३५ गन्धर्वमहिळा काचिद्याताधाकाशमाश्रिता । १२ । निस्सृतो वसनात्तस्य गङ्गाजलकणोऽपतत् । सर्वपापहरोऽरण्ये मूर्छिते पतिने त्वयि ॥ १३ ।। तस्य तीर्थस्य माहात्म्यात् प्रबुद्धोऽसि पिशाचक । तत्र स्नान्वा ततो याहि विदिवं क्षीणकल्मषः ।। १४ इत्युक्तो मुनिना तेन पिशाचः प्रीतमानसः । हरिद्वारे कृतस्नानो दिव्यमूर्ति दिवं ययौ ॥ १५ ॥ इत्युदीर्य कथां रम्यां सर्वपातकहारिणीम् । हरिद्वारमुपागम्य सशिष्यो दोशेकोऽवसत् ॥ १६ ॥ श्रीपद्मपाद इत्येवं गुणनाम सुविश्रुतम् । प्राप्तः सनन्दनाचार्य शिष्य, तत्कारणं शृणु ॥ १७ स्थिते पुण्यतमे तस्मिन् गङ्गाद्वारे यतीश्वर । आसीज्जातु, मिथः स्पर्धा सनन्दनसुरेशयोः ।। १८ ।' तत. सुरेश्वरः प्रोचे विविक्ते देशिकोत्तमम् । अद्याचार्य, त्वया कार्य म्नाने किश्चित् प्रियं मम ।। प्रदातुमङ्गवस्त्रं ते संप्राप्ते तु सनन्दने । । तदा नाभिंमिते तोये स्थित्वा हस्तः प्रसार्यताम् ।। तावदागम्य यदि चेदङ्गवस्त्रं प्रदास्यति । व्रतोऽपि तर्हि भन्नः स्यादंबनाक्रमलक्षणः ।। २१ ।। अन्यथा तस्य नास्तिक्यमप्रकाश्यं प्रकाशितम् । गुरुः सुरेश्वोणोक्तं तत्तथैव चकार सः ॥ २२ ।।
३६ शङ्कराचार्यचरितम् सनन्दनस्य माहात्म्यं कर्तुं लोके प्रकाशवत् । महाप्राज्ञो महायोगी सनन्दनयतीश्वरः ॥ ६३ ।। जले तृणानि विक्षिप्य पादन्यासं तदाकरोत् । यत्र यत्र पदन्यासं चक्रेऽसौ तत्र तत्र हि ॥ २४ । सलिलोपरि पद्मानि संजातानि विरोजिरे । पद्मविन्यस्तपादानो गुरवे स सनन्दनः ॥ २५ ॥ विततार जलस्थाय देहसंमार्जनांवरम् । तदानी विस्मयोत्फुल्लमानसास्त्रिदिवौकसः ।। २६ ।। श्रीपद्मपादनामामै ददुलोंके सुविश्रुतम् । एवं स्थितेऽथ काले तु हरिद्वारे महामतिः ॥ २७ ।' रामसेतुं महापुण्यं द्रष्टुकाम. कदाचन । वशिष्यैरन्वितो मोदात् प्रतस्थे यतिपुङ्गवः ।। २८ । दक्षिणां दिशमुद्दिश्य प्रस्थिनो देशिकेश्वरः । गत्वा बहुविधान देशान स्नात्वा तीर्थजलेषु सः ।' श्रीकाळहस्तिसंज्ञं तं क्षेत्रं त्रैलोक्यविश्रुतम् । सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ ३० ॥ श्रीमदक्षिणकैलाससंज्ञं च पृथिवीतले । तत्र गत्वा यतिश्रेष्ठः सुवर्णमुखरीजले ॥ ३१ ॥ स्नात्वा तु विधिवत्पुण्ये शिष्यवर्गसमन्वितः । उपेत्य संनिधि देवमद्राक्षीद्विरिजापतिम् ।। ३२ ।। नानादीपप्रभाजालनिर्धूततिमिरोदरे ।
सप्तमाध्यायः अद्भुते.भवने भान्तं प्रभामण्डलमण्डितम् ॥ ३३ ॥ पुष्पमालासुगन्धेन सुरभीकृतदिङ्मुखम् । प्रत्युप्तदिव्यरत्नौघहेमाभरणभूषितम् ॥ ३४ ॥ व्याघ्रचर्माबरधरं सर्पजालविभूषितम् । जटाजूटाग्रसन्नद्धमुग्धचन्द्रकलान्वितम् ॥ ३५ ।। विधिविष्णुमहेन्द्राद्यैर्निगूढाकृतिभिः सुरैः । सेव्यमानं मनुष्यैश्च भूरिपुण्यचयैः सदा ।। ३६ ।। दृष्ट्वा तं शङ्करो देवं भवान्या सहितं भवम् । स्तुत्वा चोपनिषद्वाक्यैर्ननाम भुवि दण्डवत् ।। ३७ ॥ पुनः प्रदक्षिणं कृत्वा वन्दित्वा च पुनःपुनः । तस्मादघहरात क्षेत्रात् प्रस्थितो देशिकेश्वरः ॥३८॥' निर्वाणधाम नृणां तत् काञ्चीपुरमवाप सः । काञ्चीपुरमवाप्तोऽयं शङ्करो यतिपुङ्गवः ॥ ३९ ॥ कथयामास शिष्येभ्यस्तन्माहात्म्यमनुत्तमम् । भूसुरेन्द्रो धरेन्द्रो वा वैश्योऽपि वृषलोऽपि वा ॥४० अन्त्यजो वा मृतस्तस्मिन्नमृतो भवति ध्रुवम् । अनेकजन्मजं कर्म कृतवानपि मानुषः ॥ ४१ ।। अत्र पश्चत्वमापन्नो मुक्तो भवति मानवः । कृत्वा क्षेत्रान्तरालेऽस्मिन् शिरोमानं मृतो नरः ॥ योऽस्मादहितान्याह्नः सोऽपि याति परं पदम् । तथा मृतः पुरा कश्चित् भूरिपातकसश्चयः ॥ ४३ । 4 ३८ शङ्कराचार्यचरितम् उभयेऽपि परीतास्तं विष्णुदूता यमस्य च । स्थित्वा तस्योपशीर्षान्ते विष्णुदता महाबलाः ॥ ४॥ पादाने तस्थिवांसोऽन्ये वादानेवमकुर्वत । विष्णुदताः-शिरः सकलगात्रस्य प्रधानं हि विधाय तत् ।। अस्मिन् पुरे मृतोऽयं वै नेयोऽस्माभिरसंशयम् । यमदूताः- मृतस्याङ्गनिवेशस्य विशेषः किं नु कथ्यते । सर्वत्रापि मृतानां तु यमः शास्ता दुरात्मनाम् । जन्मप्रभृति पापिष्ठः पुरुषोऽयं मृतिं गतः ॥ ४७ ।। दण्डयोऽयं नरके तस्मान्नेयोऽस्माभिन संशयः । विष्णुताः- काश्चया बहिर्मुतो जन्तुर्नेयो वः कृतकिल्विष. नेतन्यो विष्णुलोकं हि काञ्चीपुरमृतो नरः । इत्युक्त्वा विष्णुदूतेषु गृहीत्वा तं गतेषु ते । ४९ ।। यमदूता गताः सर्वे लज्जाभीतिसमाकुलाः । तवृत्तमखिलं श्रुत्वा स्वदूतेभ्यः परेतराट् ।। ५० तानुवाच रहस्येवमात्मदूतान् कृपान्वितः । अस्माकमपि सर्वेषामीश्वरौ हरमाधवी ॥ ५१ ।। यूयं नमत भक्त्या दूता, मामिव सर्वदा। गन्तव्यं दूरतस्त्यक्त्वा युष्माभिर्भुवनत्रये ।। ५२ ।। हरे, कृष्ण, महादेव, राम, नारायणाच्युत । हर, शंभो, शिवेत्यादिनाम्नां विष्णुगिरीशयोः ।।५३॥ सकृदेकाक्षरं चापि सर्वपातकनाशनम् । तो
सप्तमाध्यायः
३९
कुर्वतो मानुषान्
ब्रुवतोऽन्तगृतान्मान् दूर मुञ्चत किङ्कराः ॥ ५४॥
साळग्रामशिलापूनां शिवलिङ्गार्चनं तथा ।
सर्वान् मृतान् मुश्चत किङ्कराः ॥
यः शृणोति च वेदान्तं जिज्ञासु. परमं पदम् ।
भिक्षुको वा गृहस्थो वा तं च मुश्चत दूरतः ।। ५६ ।।
काश्चीपुरे च काश्यां च पुण्यक्षेत्रे तथापरे ।
मानुषा ये मृति यान्ति तान दूतास्त्यजताखिलान् ।।
भेदबुद्धिर्न कर्तव्या देवयोरुभयोस्तयोः ।
विष्णुशङ्करयोर्नित्यं तावुभावैक्यगामिनी ॥ ५८ ।।
शिवभक्तो हि विष्णुं च विष्णुभक्तांश्च निन्दति ।
यो योऽत्य विपरीताश्च तावुभौ नयताशु माम् ।।५९
सन्त्यजन्त्यात्मदारान् ये परदारसमुत्सुकाः ।
नान्मृतानाशु मे लोकं नयध्वं किङ्करा, नरान् ।
पशुपक्षिगणं यान्तं तृष्णात सलिलाशयम् ।
यो वारयनि दुर्बुद्धिस्तं च मां नयताञ्जसा ।। ६१ ।।
यो निजाश्रमविभ्रष्टश्चतुराश्रमवासिनाम् ।
निरये सोऽपि दण्ड्यः स्यात् किङ्करा, मम शासनात् ।।
अर्थ प्रतिश्रुतं पूर्व यो ददाति न लोभतः ।
प्राग्दत्तं हरते यश्च तौ यातो द्वौ दरिद्रताम् ॥ ६॥
स्वर्णचोरः सुरापायी ब्रह्मघ्नो गुरुतल्पगः ।
तत्संयोगीति पञ्चैते महापाताकनो नराः ॥ ६४ ॥
शङ्कराचार्यचरितम ये च विश्वस्त हन्तारो ये चोपकृतविस्मृतिम् । प्रयान्ति ते च दण्ड्याः स्युनरके बहुवत्सरान् ॥ ६५ अदण्ड्यलक्षणं पूर्व मया सर्वमुदीरितम् । विचार्यवाखिला नेया मल्लोकं पापिनो मृताः ।। ६६ आदिश्यैवं यमो भृत्यानुवास निजविष्टपे । न्यवसद्विष्णुलोके च काञ्चीपुरमृतो नरः ।। ६७ ॥ इति काञ्चीपुरं प्राप्तः शङ्करो देशिकेश्वरः । शिष्येभ्यः कथयामास तन्माहात्म्यकथामृतम् ।। ६८ ॥ति श्रीशङ्कराचार्य चरिते मप्तमोऽ यायः ॥ अष्टमाध्यायः॥ एकाम्रनाथं देवेशं काञ्चीपुरनिवासिनम् । देवीमल्लाळनाथं च नत्वा यातस्ततो गुरुः ॥ १॥ अथ भिक्षुवरः पुण्यं पुण्डरीकपुरं ययौ । यत्र नृत्यति देवेशः शङ्करः सर्वदादरात् ॥ २ ॥ यत्र नृत्तं समालोक्य पार्वती हरवल्लभा । करताळं महादेवी करोति मुदितानना ॥ ३ ॥ अत्र किं वर्तते तीर्थमिति पृष्टो यतीश्वरैः । शिवपादांबुजासक्तचित्तः कश्चिनरोऽब्रवीत् ॥ ४ ॥ शिवगति विख्यातं तीर्थमत्र यतीश्वराः ।
अष्टमाध्यायः
४१
यत्र मज्जन भवांभोधौ पुन व निमज्जति ॥ ५ ॥
नृणां संसारविच्छित्त्यै शंभु करुणया स्वयम् ।
अस्मिन् गङ्गाजलं किञ्चित् क्षिप्तवानिति केचन ॥६
नृत्तश्रमापनोदाय भर्तुः प्रणयविह्वला ।
गङ्गैव स्वयमायाता क्षेत्रेऽस्मिन्निति केचन ।। ७ ।।
नृत्य दूर्जटिकोटीरात्पतितं जाह्नवीजलम् ।
किश्चिदत्रेति तन्याहु शिवगङ्गेति केचन ॥ ८ ॥
तस्यास्तु शिवगङ्गायाः शुद्धिं वर्णयितुं पराम् ।
सर्वज्ञः स्वयमेवासौ शक्तो जगति नापरः ।। ९ ।।
पद्मनाममुखा देवास्तीर्थे तसिन् दिने दिने ।
स्नात्वा शिवार्चनं कृत्वा भक्त्या पश्यन्ति ताण्डवम् ।।
शतयोजनदूरस्थः शिवगङ्गेति यो वदन् ।
निमज्जति स च क्षिप्रं शुद्धो याति परं पदम् ।। ११
इत्युक्तास्ते यतिश्रेष्ठाः शिवभक्तन केनचित् ।
श्रीशङ्करमुखाः स्नात्वा शिवगङ्गाजले शुचौ ।। १२ ।।
हर शंभो महादेव देवदेव दयानिधे ।
अस्मान भक्ति समायुक्तानुदराशु भवार्णवात् ।।
इति सङ्कीर्तनं कृत्वा गत्वान्तर्भवनं शुभम् ।
अपश्यन् गिरिजाकान्तं लोकत्रितयनायकम् ॥ १४
शारदांबुदसङ्काशं बालचन्द्रावतंसकम् ।
आशाव्यापृतदोर्दण्डं शार्दूलाजिनवाससम् ॥ १५ ॥
४२. शङ्कराचार्यचरितम् भूषणोज्ज्वलसर्वाङ्ग नृत्तं कुर्वन्तमद्भुतम् : वेदान्तागमपद्मान्तगूढानन्दमधुव्रतम् ॥ १६ स्तुत्वा नत्वा च तं देवं सशिष्यो यतिपुङ्गवः । रामसेतुमनुस्मृत्य प्रस्थितोऽभूत्ततो मुदा :. १७ । गच्छन्नध्वनि कावेरी सरितं सन्ददर्श सः । यत्र स्नान्चा हरौ भक्ति मुक्तिदां लभते नरः ॥ १८ यस्याः पावनतोयाया मध्ये स्वर्णमयं हरेः । क्षेत्रमाभाति विख्यातं लोके श्रीरसंज्ञितम् ।। १९ ॥ तत्र स्नात्वा यतीन्द्रस्तं सशिष्यः कमलापतिम् । ददर्श भोगिशय्यायां मान्तं श्रीरङ्गनायकम् ।। २० राजनखमणिवातसंशोभितपदांबुजम् । इन्द्रनीलमहादण्डचारुजंघायुगान्विता ।। २१ हस्ति हस्तसमुल्लासित्तपीनोरुभासुरम् । स्वर्णकाञ्चीलतानद्धपीताबरविराजितम् ॥ २२ ॥ नाभीसरसिजावासचतुर्मुखसमी.डतम् । निश्शेषभुवनन्यासमन्दिरोदरसुन्दरम् । १३ ।। श्रीवत्सोद्योतसंमिश्रकौस्तुभानिमण्डितम् । इन्दिरासुन्दरागारवक्षःस्थलमनोहरम् ॥ २४ ॥ शंखचक्रासिशाळदिविद्योतितकरांबुजम् । शारदेन्दुमनोहारिसुषमाभासुराननम् ।। २५ ।। कारुण्यतटिनीवीचिनृत्यनेनसरोरुहमू ।
अष्टमाध्यायः ४३ दधानं हेममकुटं कोटिमार्ताण्डभाबरम् ॥ २६ ॥ निर्जितांभोघरच्छायं कमलामेदिनीयुतम् । तुलसीदामसौरभ्यलुब्धसंभ्रान्तषट्पदम् ॥ २७ ।। नत्वा तस्य पदांभोजे रङ्गनाथस्य शङ्करः । अर्चयित्वा ततः स्तुत्वा प्रतस्थे शिष्यसंयुतः ।। २८ रामसेतुमथासाद्य सशिष्यो यतिपुङ्गवः । धनुष्कोटिमहातीर्थे स्नानं कृत्वा यथाविधि ।। २९ । अस्मत्पापानि सर्वाणि संहराशु दयानिधे । नमस्ते रामनाथेति ननाम शिरसा शिवम् ::३० रामनाथाभिधानोऽभूव कुतोऽसौ गिरिजापतिः । इति पृष्टस्तदा शिष्यैराचार्योऽकथयन्मुदा : ३१ । पुरा दशाननं हत्वा युद्धरङ्गे स राघवः । अभिषिच्य च तद्राज्ये निजभक्तं विभीषणम् ।। ३२ आनिशुद्धां समादाय जानकी प्रमदोत्तमाम् । ससैन्यो मुनिभिः सार्धमगस्त्यायैः पुरी ययौ । स गच्छन् सेतुमार्गेण धनुष्कोट्या रघूत्तमः । छित्वा स्थानत्रये सेतुं बभाषे कुंभसंभवम् ।। ३४ । शिवलिङ्ग प्रतिष्ठाप्य सेतावत्र महामुने । गन्तुमिच्छाम्यहं तत्र सहायो भव मे गुरो ।। ३५ ।। तथेत्युक्तस्ततो रामो मुनिना भरताग्रजः । हनुमन्तमुवाचैवं महाबलपराक्रमम् ॥ ३६ ।।
४४ शङ्कराचार्यचरितम हनूमन , नर्मदां गत्वा लिङ्गमानय सत्वरम् । अधुना तत्प्रतिष्ठायै मुहूर्तः संनिधिं गतः ।। ३७ ।. इत्युक्तो मारुतिस्तेन नर्मदां प्राप्य सत्वरम् । विचित्य तज्जले लिङ्गनापश्यत्तरसैव सः ।। ३८ । समागते मुहूर्ते च मारुतावप्यनागते । राघवः संभ्रमोपेतः कुंभोद्भवगिरा ततः ॥ ३९॥ तत्रैव वर्तमान सच्छिचलिङ्गं पुरातनम् । स्थापयित्वा यथावत्तन्नन्नाम जनितादरम् ।। ४० . आजगाम ततो वेगात् सलिङ्गो भारुतात्मजः । तत्र लिङ्गान्तरं दृष्ट्वा स्थापितं स रुष ययौ ॥ ४१ रामस्तमब्रवीत वीरं हनूमन्तं कृपान्वितः । कस्मात् त्वं रोषमायासि वत्स मारुतनन्दन । ४२॥ हनूमानब्रवीद्रामं ततः कोपसमन्वितः । स्वामिना मत्पयनो हि मानुषेन्द्र, वृथा कृतः ॥ ४३ एतल्लिङ्गं समुद्धृत्य मयानीते प्रतिष्ठिते। शमं यास्यति मे कोपो नान्यथा भक्तवत्सल । ४४ इत्युक्तो रघुवीरस्तं प्रोवाच पवनात्मजम् । स्थापित लिङ्गमुद्धर्तुं नैव शक्तोऽस्मि मारुते ॥ ४५ ।। इदं लिङ्गं समुद्धृत्य त्वमेव पवनात्मज । स्थापयाशु त्वयानीतं नर्मदालिङ्गमुत्तमम् ।। ४६ ॥ बलिनाथ कपीन्द्रेण लिङ्गं लांगूलवेष्टितम् ।
अष्टमाध्यायः . उत्कृष्टं नाचलत् किन्तु त्रिलोकी चलिताखिला ।। चचाल मेदिनी सर्वा सवनाब्धिनदीनगा। निद्रां तत्याज पद्माक्षः समाधि मुनयोऽत्यजन् ।। ४८ निजपुच्छेन तल्लिङ्गं बद्ध्वा बभ्राम मारुतिः । स पपात ततो दूरे मूर्छिनो रुधिरं वमन् ॥ ४९ ॥ 'अद्यापि वर्तते तीर्थं तद्वान्तं शोणितं महत् । तन्नामविश्रुते कुण्डे सर्वपापहरं नृणाम् ।। १० ।। लब्धसंज्ञः शनैर्गत्वा लिङ्गात्मानं शिवं नमन् । अप्रमेयानुभावं तमस्तौषीत् कपिसत्तमः ।। ५१ ।। नमस्ते सर्वलोकेश, पाहि मां भक्तवत्सल । अपराधं ममाशेष क्षमख करुणानिधे ॥ ५२ ॥ देवदेव जगन्नाथ पार्वतीवर शङ्कर । ममाज्ञानकृतं पापं क्षमस्व सकलं विभो ।। ५३ ॥ यामाहुः सर्वभूतानां प्रकृति सृष्टिवेदिनः । या च गन्धगुणा तस्यै धरामूत्र्यै नमोऽस्तु ते ।। ५४ या सृष्टा प्रथमं धात्रा सर्वसृष्टिकृता विभो । या वै रसगुणा तस्यै तोयमूत्यै नमोऽस्तु ते ॥५५॥ विधिवद्विजन्देन हुतं वहति या हविः । या च रूपगुणा तस्यै वह्निमृत्यै नमोऽस्तु ते ॥ ५६ पाणवन्तो भवन्त्येते प्राणिनः सकला यया । या च स्पर्शगुणा तस्यै वायुमूर्यै नमोऽस्तु ते ।। ५७ ४ शङ्कराचार्यचरितम् इदं चराचरं विश्वं याखिलं व्याप्य वर्तते । या च शब्दगुणा तस्यै नभोमूर्यै नमोऽस्तु ते .. ५८ ऋतुमासायनद्वन्द्वदिनरात्रीः करोति या। या चोद्भूततभास्तस्यै भानुभूत्यै नमोऽस्तु ते ।। ५९ ॥ वितीर्णकुमुदामोदा जगतां तापहारिणी । या च ते भूषणं तस्यै चन्द्रमूर्यै नमोऽस्तु ते ॥ ६० या तु वेदोदितं मार्ग निर्वहन्तीह विद्यते । यजमानात्मिकां मूर्ति तावकी तां नमाम्यहम् .. ६१ यद्न्धमात्रमाजिघ्रन्म्रियते प्राणिसश्चयः । काळकूटः स ते यस्य कण्ठभूषणतामगात् ।। ६२ ।। त्रिलोक्यां नाशकारो ये वै ते त्रिपुरासुराः । भस्मीकृताः क्षणेनैव यस्य ते, नयनाग्निना ।। ६३ ।। तं त्वापिमं जगन्नाथमुद्धर्तुं कृतनिश्चयात् । मूढात्मा विद्यते न जगत्त्रये ॥६४॥ तत्क्षन्तव्यस्त्वया सर्वोऽप्यपराधो मम प्रभो। भक्तस्य तव भृत्यस्य सुतरां मूढचेतसः ॥ ६५ ॥ इति स्तुतेन तुष्टेन देवेन करुणाधिना । कं वरं वांछसीत्युक्तो हनुमानित्युवाच सः ।। ६६ ।। तावकं लिङ्गमानीतं यत्नेन भगवन् , मया । प्रतिष्ठामस्य वाञ्छामीत्यार्थितो विभुरब्रवीत् ।। ६७॥ अन्तस्सालं त्वया लिङ्गं स्थापितव्यमिदं दिशि । मदन्यः कोऽपि अष्टमाध्यायः ४ उत्तरस्यां जगत्येतत्त्वन्नाम्ना ख्यातिमेष्यति ॥ ६८। त्वत्पूजितं कपे, लिङ्गं पूर्वमालोक्य मानुषाः । द्रष्टारो मां नचेत्तेषां दर्शनेन भवेत् फलम् ।। ६९ ।। शंभोरिति समादेशं राघवस्यापि लब्धवान् । प्रतिष्टां मारुतिर्निन्ये स्वानीतं लिङ्गमैश्वरम ॥ ७० ॥ रामेश्वर इति ख्यातो रामपूजित ईश्वर । हनूमत्पूजितोऽन्यस्तु विश्रुतोऽभूत्तदाख्यया । ७१ । सेतुस्नानं महापुण्यं कृत्वा चेश्वरवन्दनम् । दानादिसुकृतं कुर्वन्मुच्यतेऽखिलपातकैः ॥ ७२ ।। स्नानदानमहादेववन्दनादिषु यत्फलम् । तत्फलं लभते सेती पादस्पृष्टे हि मानुषः ।। ७३ । सेतुयानासमर्थो यः सुदूरस्थः स्मरत्यमुम् । सोऽपि पातकसंघातैरखिलैरपि मुच्यते ।। ७४ ।। इत्युदीर्य यतिश्रेष्ठो रामेश्वरकथां शुभाम् । तत्रत्येषु च तीर्थेषु स्नानं कृत्वा यथाविधि ।। ७५ : प्रदक्षिणनमस्कारैः प्रसाद्य परमेश्वरम् । सशिष्यः प्रस्थितस्तस्मात् तीर्थस्नानामलाशयः ।। ॥ इति श्रीशङ्कराचार्यचरिते अष्टमोऽ यायः ।। ..
नवमाध्यायः॥ ततो यतिकुलाचार्यः सशिष्यः शास्त्रवित्तमः । भूमि प्रदक्षिणीकृत्य भूयः काञ्चीपुरं गतः ॥ १ ॥ जंबूद्वीपस्य कुर्वाणे शोभा भारतमण्डले । शस्तं काश्मीरनामानं देशं विद्योतयत् भृशम् ॥ २ कामाक्ष्या नाम वाग्देव्याः स्थानं,तत्पुरमाप्तवान् तत्रत्यर्वविद्वद्भिः पूज्यमानं दिने दिने .. ३ ॥ सर्वज्ञपीठमारोदुमियेष यतिपुङ्गवः । वादिभिः कर्मकाण्ड : कणादादिभिरप्ययम् ।। ४ खे स्खे शास्त्रे रहस्यं यत् तत्पृष्टः शङ्करो महान् । यथावदुत्तरं सर्व समुदीर्य महामति ॥ ५ ॥ आरुरुक्षुरभूत पीटं तदैका भारती श्रुता । कामशास्त्रस्य तत्वज्ञः किं भवान् यतिपुङ्गव ।। ६ । अस्य दत्वोत्तरं पीठं पुनरारुह्यतां त्वया । आकर्ण्य विस्मितो धीमान वचनं तदमानुषम् ।। ७ सर्व बुद्धया विनिश्चित्य देवीमेवमयाचत । तस्योत्तरमहं वक्ष्ये गते हि दिनसप्तके ॥ ८॥ हे भारति, दयांभोधे देहि मे तावदन्तरम् । देव्या तथेत्यनुज्ञातस्ततो योगीश्वरो यतिः ॥ ९॥ खदेहरक्षणे शिष्यानादिश्य तरुकोटरे ।
नवमाध्यायः
४९
.
स्थित्वा निजतनुं त्यक्त्वा परमेण समाधिना १० ॥
विवेशामरुकाख्यस्य राज्ञ. कायं गतासुकम् ।
वात्स्यायनरह त्यार्थ ज्ञात्वा सर्व च बुद्धिमान् ।। ९१
तयाख्यानं च कृत्वा स प्रविवेश निजां तनु। ।
अथ तां भारती देवी द्रुामासाद्य शङ्करः ।। १२ ॥
तस्या. प्रश्नोतरं सर्व निजगाद महामतिः ।
तदा तं भारती पोचे कस्मात्त्वं यतिपुङ्गव ।। १३ ।।
वात्स्यायनार्थतत्त्वज्ञो विना म्याश्रमकल्मषम् ? ।
अथ तां शङ्करः प्रोचे परकायप्रवेशतः ॥ १४ ॥
कामशास्त्ररहस्यानि मया ज्ञातानि भारति ।
जन्मप्रभृति देहेऽस्मिन् नैवाहं कृनकिल्बिषः ।। १५ ।
इत्युक्त्वा तदनुज्ञातः पीठमारुह्य तस्थिवान् ।
मानितोऽथ सभासद्भिर्वाग्देव्या च सविस्मयः । १६
महानुभावः स्वैः शिष्यैः प्रतस्थे शङ्करम्ततः ।
ततः क्षेत्राणि पुण्यानि तीर्थानि च निषेव्य सः । १७
क्रमेण शिष्यसंयुक्तो वृषाचलमवाप्तवान् ।
तत्र दक्षिणकैलासे निवसन्नेकदा गुरुः ।। २८ ।।
ज्ञात्वा निजशरीरान्तं सह शिष्यैः प्रसनधीः ।
कासारे पश्चिमे स्नात्वा नत्वा तत्रत्यमीश्वरम् ।। १९ ।।
श्रीमूलस्थानमासाद्य चक्रे तस्य प्रदक्षिणम् ।
गोपुरेणान्तराविश्य कृष्णं नत्वा यतीश्वरः ॥२०॥
शङ्कराचार्यचरितम् वाहनेन्द्रं पुरारातेर्गत्वा वृषभमानमत् । केरळावनिकर्तारं हारं सर्वभूभुजाम् ॥ २१ ।। सोऽनमत् भार्गवं रामं नृगामवनतत्परम् । सिंहोदरमथार्य च नत्वा कुर्वन् प्रदक्षिणम् २२॥ शंखचक्रगदापद्मायायुधायनम हरेः । नतो भक्तिसमायुक्तः प्रविश्य भवनोदरम् ॥ २ ॥ नृतं भगवतः शंभोनत्वा नतफणीश्वरः । उत्तरेशमुमाकान्तं पार्वती च विनायकम् ॥२४॥ ततो हरिहरं चव दक्षिणेशं रमापतिम् । यथावद्वन्दनं कृत्वा (?) मण्डपेपु ननाम सः :.२५॥ बहूनि स्तोत्रमुख्यानि देवत्रित यवन्दने । चक्रे श्रीशङ्कराचार्यों भृशं भक्तिसमन्वितः । २६ ।। नारायण मुराराते कृष्ण गोविन्द माधव । पाहि मां शरणं प्राप्तमाशु संमृतिप्तागरात् ॥२७ ।। हर विष्णो महादेव वैकुण्ठ गिरिजापते । लक्ष्मीरमण मां पाहि भवांभोधेः सुदुस्तरान् ॥२८॥ हर रुद्र मृडेशान शंभो गिरिश शङ्कर । गङ्गाधर पुराराते गिरीश मदनान्ता ! २९ ।। वेदान्तवेद्य सर्वज्ञ नम ते भगान् विभो । प्रपन्नं पाहि मामेनं भवांभोधिनिमज्जनात् ॥ ३० ॥ अजाननपि जानन्वा जन्मन्यत्र परत्र वा ।
नवमाध्यायः .. महत् । यदकार्षमहं पापं तत्सर्व हर संहर ॥ ३१ ॥ देवत्रयमिति स्तुत्वा भासमानं वृपाचले । शिष्यैः सह महायोगी प्रदेशे कुत्रचित् गुरुः ।। ३२॥ निविष्टः सुप्रसनात्मा सर्वपापादमूर्द्धजम् । यथावञ्चिन्तयामास वैष्णवं रूपमादरात् ॥३३॥ वाञ्छितं निरैः सर्वैः शिरसा धर्तुमन्वहम् । विष्णोः पादसरोजन्मपांसुरमघापहम् । ३४ ।। चक्रमत्स्यादिरूपाभिर्वन्याभिरखिलामरैः । रेखाभिः शोभमानं तत्पादांबुजतलयम् ॥ ३ ॥ बलियज्ञे समाक्रान्तभुवनत्रितयं पादपल्लवयुग्मं च शारदांभोजसनिभम् ॥ ३६ ॥ हिमांबुकणिकाभूपितांभोरुहदलाश्चिताम् । पादयुग्मांगुली राजनखरत्नविराजिताम् ॥ ७ ॥ हरिन्मणिमहाकूर्मशोभाहारि शरीरिणाम् । श्रेयःप्रदायि दैत्यारेः पादानयुगलं च नन् ।। ३८ ॥ इन्द्रनीलशिलादण्ड सुन्दराकारशोभते । इन्दिराकरसंपृष्टे जंधे मूरीन्दवन्दिते । ३९ : चितादर्शनिपानार्थ निर्मितामेव योगिनाम् । समुद्गयुगली रम्या वृत्तां जानुयी हरेः । ४० !" मधुकैटभदैत्येन्द्रबध्यस्थलगप स्फुटम् । जगत्पावनमुख्यं तमूरुद्वन्द्वं च भासुरम् । ४१ ॥
५२ दाङ्कराचायचरितम वाडवाग्निप्रभाभूषितार्णवांबुममुज्ज्वलन् । उदारं जघनद्वन्दं पीतांवरविराजिनाम् ॥४२ ।। नानाविधमाणिवातकिरणावालपूरिताम । काञ्चनीमपि काञ्ची तां नद्धां पीतांपरोपरि । ४३' स्वर्णाद्रिशार्णिकां विनन् गाह्मालिपन्दिग्म । नाभीसरास सजा जिपि भूमय ।।४।। काश्चनोदरपद्धाभावाडवानिप्रभावितम् । योगिमानरामत्यानामावासयुदरार्णवम् ॥ १५ ॥ कौस्तुभांशुवालाढ्यमुक्काफलविराजितम् । वक्षोभागं रमोद्यानं श्रीवत्सस्तवकाश्चितम् ॥४६। शंखचक्रगदापद्मनन्दकाग्रुपलक्षितान् । विश्वरक्षासमुमुक्तान क्षत्रसृष्टिकृतो भुजान् ॥ ४७। स्वर्णकुण्डलसञ्जातरुद्योतैरुषशोभितम् । कण्ठमालिङ्गने लक्ष्मीकङ्कणालिपदाङ्कितम् । ४८ । पद्मानन्दकरं छबदन्ततारीयोजसम् । दन्तांवरसहला पत्रांवरविराजितम् ।। ४१॥ इन्द्रनीलशिलाक्लमसुन्दरादर्शजित्वरम् गण्डमण्डल युग्मं च कुंण्डलोद्योनाण्डितम् । ५० । घोणं दन्तांबरापकबिंवदंशनकालिगः । शुकस्य तुण्डवत्का शोण कुण्डलशोभया ।। त्रैलोक्यमन्दिरालोकढीपचन्द्रार्क रूपिणी ।
नवमाध्यायः
५३
नेत्रपझे पदांभोजसंश्रितातिदयापरे ॥ ५२ ॥
सदा नियमिताशेषलोकत्रितयमुल्लसत् ।
भ्रूयुगं भुग्नमध्यं च शोभाविजितषट्पदम् ।" ५३ ।।
पद्माकटाक्षसंफुल्लपद्मार्चितमनारतम् ।
शिवलिङ्गं ललाटस्थमूर्ध्वपुण्ड्मयं च तत् ॥ ५४ ।।
महादेवशिरोगङ्गास्पर्द्धया यमुनामिव ।
आरुह्याजशिरोऽधस्तात् गलन्ती कुन्तलावालिम् ।।
अब्धितीरगतीर्वाग्निज्वालाशङ्का प्रपश्यताम् ।
कुर्वन् स्वर्णकिरीटं च सोऽस्मरन्मुरवैरिणः ॥५६॥
तिष्ठन्तमन्तिके ताय शय्यारूपं च भोगिनम् ।
प्राणनाथे च कंसारेः सोऽस्मरत् भार्गवीधरे । ५७ ।।
इत्थं चिन्तयतो रूपं वैष्णवं सकलं गुरुोः ।
वक्त्रात् प्रादुरभूत् स्तोत्रं स्रग्धरात्तमाश्रितम् ॥५८
निर्गलत् गुरुवक्त्रेन्दोर्मधुजिन्नवनामृतम् ।
कर्णाभ्यां सम्यगापीय सर्वाङ्गोत्पुलकान्विताः ।।५९॥
तदागता नभोमार्ग विमानस्था दिवौकसः ।
यक्षाकंपुरुषाद्याश्च सर्वे मुमुदिरे भृशम् ॥६० ।।
सन्तुष्टदिविषत्संघे वाद्यघोषं च निर्भरम् ।
कुर्वत्यानन्दनृत्तं च वृष्टिं दिव्यां च कौसुमीम् ।। ६१ ।।
देशिकेन्द्रो महायोगी स्तोत्रं कुर्वन् स वैष्णवम् ।
विवेश परमानन्दं भानुबिंबान्तरास्थितम् ॥ ६२ ॥
शङ्कराचार्यचरितम् इदं श्रीशङ्कराचार्यचरितं लोकपावनम् । कृतं गोविन्दनाथेन यनिभक्तिसहायतः ।।.६३ ॥ ज्ञानमदं नरैः सर्वैयतिभिस्तु विशेषतः । स्मर्तव्यं पठितव्यं च श्रोतव्यं चानुवाप्सरम् ।। ६४ । ये पठन्ति नरा वृत्तं शङ्कराचार्य योगिनः ज्ञानं विद्यां च मोक्षं च ते प्राप्नुयुरसंशयम् ।। ६५. पुत्रार्थी पुत्रसम्पतिं शिष्यार्थी शिप्यसम्पदम् । लभते शङ्कराचार्यचारतं की यन् नरः ॥६६॥ भिक्षुको यः पठत्येतत् शृणोति च दिने दिने । स ज्ञानी बहुलारोग्यो लयो परमं पदम् ।। ६७। इत्युवाच यतिश्रेष्ठः शङ्कराचार्यशकथाम् । श्रोतुकामाय शिष्याग भक्तियुक्ताय भकिमान् ॥६८ ॥ इति श्रीगङ्कराचार्य चरिते नवनोऽ पाय ।। ॥ समाप्तमिदं शङ्कराचार्यचरितम् ॥ SHRS*NDROF3 ।। शुभमस्तु । 563 8 153 802048*402050