Svclrc
Purva Mimansa
Front matter
January 1917. THB CHOWKHAMBA SANSKRIT SERIES; A. COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS, NO. 229. पूर्वमीमांसा- अधिकरणकौमुदी। श्रीमन्महामहोपाध्याय पं० रामकृष्णभट्टाचार्य- विरचिता नेने-इत्युपाव्हगोपालशास्त्रिणा परिशिष्टाधिकरणानि- रूपणपूर्वकं टिप्पण्या परिष्कृत्य संशोधिता । साच- बाबू हरिदासात्मजेन जयकृष्णदासगुप्तेन 'स्वीये विद्याविलासनानि यन्त्रालये संमुन्य प्रकाशिता। PURVAMÎMÂMSÂ ADHIKARANAKOUMUDI By Mahdmahopadhyāya Pandit Ramkrishna Bhttacharya. Edited by Pandit Gopal Sastri Nene. FASCICULUS 1-1 1521 OLD BY THE SECRETARY, "RIT SERIES OFFICE. BENARES. AGENTS:- IRASSOWITZ, LEIPZIG: HARAM MUKUNDAJI, BOMBAY: CO; BOOKSELLERS, LONDON. Jai Krishna Das Gupta, at the Vidya Vilas Press. BENARES. Price Rupee one.
॥ श्रीः ॥ -:0:- आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवकः-२२९ १ अस्यां चौखम्बा- संस्कृनग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकः स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन् स्तवके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशास्त्र साहित्यपुराणादिग्रन्थ एवान सुपरिष्कृत्य मुद्रयन्ते । २ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः परिंडता अन्ये च शास दृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतवर्षीयः,ब्रह्मदेशीयः,सिंहलद्वीपवासिभिश्चैतद्ग्राहकैयं वार्षिकमग्रिम मूल्यम्-मुद्राः ७ आनकाः ५ अन्यैदेयं प्रतिस्तवक २ ६ भापणव्ययः पृथग् नास्ति । " " ... ... ... साम्प्रतं मुद्रयमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञान भिक्षुकृतव्या. (२) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्ण । ( वेदान्तः) ६ खण्डे २ . (९) स्याद्वादमञ्जरीमविषेणनिर्मिता सम्पूर्णा २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १० (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् (६) इलोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्री ६ श्रीयामु- पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया नमुनिभिर्विरचितम् । सम्पूर्ण(वेदान्तः)२ व्याख्यया सहितम् । सम्पूर्णम् । १० | (११) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टार- (४) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैत काचार्यसंगृहीतः । आचार्यचित्सुखमुनि- दर्शनप्रकरणम् । श्रीमल्लोकाचार्यप्रणीतम्। विराचितव्याख्योपेतः ( वेदान्तः) श्रीनारायणतीर्थविरचितभादृभाषाप्रकाश- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- सहित सम्पूर्णम् (वेदान्तः) २ सप्तविभक्तिविस्तृतविचाररूप: म. म. (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः १ श्रीगिरिधरोपाध्यायविरचितः सम्पूर्ण: (६) भादृचिन्तामाणिः । महामहोपाध्यायश्री ( न्याय:) गागाभट्टविरचिता। तर्कपाद:(मीमांसा) २ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम्। (७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविर सम्पूर्णम् ( मीमांसा ) २ चिता सम्पूर्ण: ( मीमांसा ) २ | (१४) न्यायसुधा (तन्त्रवार्तिकटीका ) भट्टसो- (८) अहासूत्रभाष्यम्-बादरायणप्रणीतवेदान्त मेश्वरविरचिता । (मीमांसा) ..
THE CHOWKHAMBA SANSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NO. 229. 5.39. Collag 1 पूर्वमीमांसा- अधिकरणकौमुदी। श्रीमन्महामहोपाध्याय पं० रामकृष्णभट्टाचार्य- विरचिता नेने-इत्युपामगोपालशाखिणा परिशिष्टाधिकरणनि- रूपणपूर्वकं टिप्पण्या परिष्कृत्य संशोधिता । सा च- बाबू हरिदासात्मजेन जयकृष्णदासगुप्तेन स्वीये विद्याविलासनानि यन्त्रालये संमुन्य प्रकाशिता। PURVAMÎMÂMSA ADHIKARANAKOUMUDI By Mahamahopadhyaya Pandit Ramkrishna Bhttacharya. Edited by Pandit Gopal Sastri Nene, PUBLISHED & SOLD BY THE SECRETARY, OHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, BENARES, 1916. Registered According to Act XXV of 1867.
भूमिका। ईश्वरकृपया समापत् किल मुद्रणमेतस्य मीमांसावादशल- णीसहस्राधिकरणगतधर्मशास्त्राापयुक्ताधिकरणानां संग्राहक- राधिकरणकौमुद्याख्यस्य ग्रन्थस्य । अयं खलु निबन्धो धर्मशास्त्रोपयोगिमीमांसाशास्त्रजिज्ञासूनों दर्थमधिकरणमालाशास्त्रदीपिकादिबहुग्रन्थान् सप्रयत्नं पठताम- । तेषामतिविस्तृततयाऽभ्यासासौकर्य पर्यालोच्य तेषामुपकार- रणे कृतमतिभिर्विरचितो महामहोपाध्याय पं० श्रीमद्विद्वद्वरराम- ष्णभट्टाचार्यमहाशयः । मीमांसादर्शनाभिलाषिणां धर्मशास्त्रिणां झटित्यर्थबोधकं क. श्वत्थं बहुदिनेभ्यो गवेषयद्भिः काशीस्थराजकीयप्रधानपाठ- लातो लब्धव्याकरणाचार्यपदवीकैः श्री १०६ युत पं० नित्यान- इपन्तैर्गुरुचरणैः प्रेरितेन विविधसंस्कृतपुस्तकसम्पादनरसिकेन गोविन्ददासमहाशयेन मिथिलातो महता ऽऽयासेन महामहोपा- पाय पं० श्रीगङ्गानाथ झां डाक्तरमहाशयद्वारा नायितमेकं ख. डतमपरं जगन्नाथपूरीस्थगोवर्द्धनमठाल्लब्धमशुद्धप्रायं च पुस्तकं तरता प्रवर्तितो गुरुजनाज्ञया च मुद्रणे कृतमतिरन्यशुद्धपुस्तक- उम्पादने कृतबहुलायासोऽपि हताभिलाषः त्रुटिताक्षरस्थलेषु विष- पदस्थलेषु च समपादयं शाबरभाष्यादिपर्यालोचनया टिप्पणीम् । अथास्य मुद्रणे प्रवृत्ते प्रमाणतयोपन्यस्तानि सूत्राणि म. र्षिजैमिनिकात्यायनादिसूत्रेष्वपश्यन् तत्रतत्राध्यायाङ्कमददानः तानि तात्पर्यार्थकानि' इति सूचयन् क्वचिच्च पाठभेदं दर्शयन् तत्पर्यालोचिनामवगमसोकर्याय सूत्राणि स्थूलाक्षरैरस्थापयम् । धर्मशास्त्रादिषु बहुश उपयुक्तान्यत्र चानुक्तानि कतिपयान्यधिकर. पनि तन्त्रवार्तिकादिप्राचीनग्रन्थाशयपरिग्रहेण यथामतिन्यरूपयंश्च । तदेवं महान्तमायासमनुभूय सम्पादितेऽस्मिन् कार्य मीमांसा- र्शनदुरूहतायाः सुप्रसिद्धतया मन्मतेरपाटवेन सीसकाक्षरयो- कदोषेण च सुलभानि स्खलितानि क्षाम्यन्तो गुणैकदशो द. नरसिका, आस्वादयन्तु च मीमांसाधिकरणरचनासुगमशैली- समुत्थं प्रमोदं, प्रसीदतु च भगवाननेन व्यापारण सर्वान्तर्यामी श्रीकाशीविश्वेश्वर इति शम् । नेने-इत्युपाख्यो गोपालशर्मा..
अधिकरणकौमुद्याम् । Co:- अधिकरणसूचीपत्रम्। पृ० पं० १ १४ २ ३ २३ ... ... ... २१ ... ... ... ६ १७ ६ १६ ... ... २० १ परिषदधिकरणम् २ रात्रिसत्राधिकरणम् ३ विश्वजिदधिकरणम् ४ सर्वस्वदाक्षिण्याधिकरणम् ५ होलाकाधिकरणम् ६ फलचमसाधिकरणम् ७ सर्वपिष्टाधिकरणम् ८ हविरुभयत्वाधिकरणम्... ९ ग्रहकत्वाधिकरणम् १० तदर्थशास्त्राधिकरणम् ११ निषादस्थपत्यधिकरणम् १२ रथकाराधिकरणम् १३ तन्त्रन्यायः-(क्षामवतीष्टिन्यायः) १४ प्रसङ्गन्यायः १५ अङ्गस्य प्रधानावृत्त्यप्रयोजकत्वन्यायः १६ योगसिद्ध्यधिकरणम् १७ कर्मण्यारम्भाधिकरणम् १८ शंबधिकरणम् १९ देवताधिकरणम् २० परिषदधिकरणम् २१ कौण्डपायिनामयनाधिकरणम् २२ यागदानहोमाधिकरणम् २३ पदाहवनीयन्यायः २४ पदिन्यायः ९ १० ११ " १९ २४ ... :: ११ A १५ १० १६ १७ ... ...
(२) पू० पं० १७१२ ::: ... ... २१ १९१४ :: D ... " ... २२ १ २३ २३.१० ... ... ... ... ... ૨૭ ૨ ... २८१८ २५ स्फ्यादिलष्टेज्याधिकरणम् २६ कृष्णलन्यायः २७ कपालाधिकरणम् २८ अर्थवादाधिकरणम् २९ विरोधाधिकरणम् ३० प्रतिनिध्यधिकरणम् ३१ फलभूमाधिकरणम् ३२ अनुषङ्गाधिकरणम् ३३ देवतासाहित्याधिकरणम् (विकल्पे अष्टदोषनिरूपणम्) ३४ यावजीवाधिकरणम् ३५ जातेष्ट्यधिकरणम् ३६ काम्यस्य नित्यापेक्षया विलम्बिताधिकारः ३७ तदन्तापकर्षन्यायः ३८ तदाद्युत्कर्षन्यायः ३९ संयोगपृथक्त्वन्यायः ४० व्यक्तिवचनन्यायः ४१ पणपुराणन्यायः ४२ दण्डापूपन्यायः ४३ धूतपणन्यायः ... ४४ कपिजलाधिकरणम् ४५ तक्षसूत्राधिकरणम् ४६ आरम्भणीयन्यायः ४७ अङ्गस्य प्रधानकालान्वयानन्वयौ ४८ समं स्यादश्रुतित्वादितिन्यायः ४९ अनेकार्थत्वाकल्पना ५० प्रक्रमाधिकरणम् ५१ पृथग्विधौ गुणविधानासम्भवः ५२ सर्वशक्त्यधिकरणम् ५३ तिर्यगधिकरणम् ३० १ ... ... ... २४ :: : ... " ... ... ... १७ ... " ... ... १० १८ ३५ ८ ... ... " (३) पृ० पं० ... ... ३७ १३ ... : : ... ... ११ 60 ... ... ... " ४२ ५ १२ ... ... : ५४ पश्वधिकरणम् ५५ सहसाहित्यविवेकः ५६ खलेवालीन्यायः ५७ प्रतिपत्त्यधिकरणम् ५८ आष्टमिकविकृत्यधिकरणम् ५९ धान्यमस्यधिकरणम् ६० ऊहाधिकरणम् ६१ पाशाधिकरणम् ६२ कालशौचाधिकरणम् ६३ हेतुमन्निगदाधिकरणम् ६४ आरुणीन्यायः ६५ सोमयाजिन्यायः ६६ अक्ताधिकरणम् ६७ आमिक्षाधिकरणम् ६८ अभ्युदितेष्टिन्यायः ६९ हविरुपलक्षणाधिकरणम् ७० प्राणाधिकरणम् ७१ विविदिषदधिकरणम् ७२ स्मृत्यधिकरणम् ७३ ज्योतिरधिकरणम् ७४ वैश्वानराधिकरणम् ७५ गुणविकृत्यधिकरणम् ७६ क्रम .. ७७ श्रुतिलिङ्गादिन्यायः (श्रुतिप्राबल्यम् ) (वाक्याल्लिङ्गस्य बलवत्वम्) (प्रकरणाद्वाक्यस्य (स्थानात्प्रकरणस्य (समाख्यातः स्थानस्य") ७८ विधिनियमादिः :: १३ ... २३ " २३ ૨૨ " ४८ १७ ... ... ५२ ८ ... ... ) ) ५३ १२ ६४ ७ " ...
(४) ... पृ० पं० ५९ १ १३ ६० २ ... ... ... ... ... ७९ श्रुतशब्दात्यागः ८० विध्यनुवादवैषम्यम् ८१ नित्यानित्यवैषम्यम् ८२ सापेक्षत्वनिरपेक्षत्ववैषम्यम् ८३ द्वयोः प्रणयन्तीत्यधिकरणम् ८४ परिभाषाधिकरणम् ८५ सर्वनामाधिकरणम् ८६ निषेधपर्युदासौ ८७-यद्भक्तन्यायः ८८ अनुयाजाधिकरणम् ८९ सक्त्वधिकरणम् ९० गिरगिराधिकरणम् ९१ कलाधिकरणम् ९२ लिङ्गसमवायन्यायः ९३ प्रकृतिभागव्यवस्था (प्रकृतिविकृतिलक्षणे) ९४ स्थालीपुलाकन्यायः ... ९५ वाजपेयाधिकरणम् ९६ अरुणाधिकरणम् ९७ वैश्वानरेष्टयधिकरणम् ( जालेष्टिन्यायः) ९८ असातविरोधिन्यायः ... ... ::: ७२१३ ... ... १४ ७८ १३ ... ... ८६ १ ८९ १२ शुद्धिपत्रम् । पृ० पं० " अशुद्ध. करियते इष्टत्वन्तु समृण्मये मृण्मय काठपा नन्यरं विहितत्वात् निर्वाहः बाधका यदाह १ " शुद्ध. करिष्यते ૨ २ स मृन्मये २२ मृन्मय २३ काष्ठे पा ६ नन्तरं ९ विहितत्वात् १० निर्वाह १३ बोधका १४ ९ पदाह सूर्य मनोता २४ २७ चेतनत्वेन ३४ २४ बोधना समुच्चयो वा ( इत्यादि) ४२ २४ १२-४-३-६ दरः নাহাল ४६ १३ तस्य चाधि मनोहा तश्चाधि चेनत्वेन वोधना अर्थकत्वे (इत्यादि) - नाशकन तेन्न घाधका बाधकम् प्रायश्चित वैष्णव्यविति अथैकत्वं बोधका बोधकम् प्रायश्चित्त वैष्णव्याविति अर्थैकत्वे ७५ १८ ८१ ८७ २१ ॥ अधिकरणकौमुदी॥ श्रीहनुमते नमः ॥ श्रीगुरुभ्यो नमः । श्रीगणेशाय नमः॥ नन्दसूनुं नमस्कृत्य सर्वलोकेश्वरेश्वरम् ॥ निरूप्यते ऽधिकरणं रामकृष्णेन विश्रुतम् ॥ १॥ अधिकृय क्रियते ऽर्थविचारो यस्मिस्तदधिकरणं मीमांसास- द्धान्तः । तस्याङ्गानि पञ्च । यथाऽऽह भट्टः- विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्ग शास्त्रे ऽधिकरणं स्मृतम् ।। विषयो यमधिकृस विचारः। विशयो विप्रतिपत्त्या संश- यः। पूर्वस्य वादिनः पक्षो मतं पूर्वपक्षः । वादिनिरासकं वा- क्यमुत्तरम् । निरासश्चासदुत्तरेणाप्यप्रतिभस्य वादिनः सम्भव- तात्यत आह-निर्णयश्चेति । प्रमारूप इत्यर्थः । १ अथ परिषदधिकरणम्- यथा "सप्तदशावरा ऋद्धिकामा द्वादशाब्द सत्रमुपासीरन , य एवं यजमानास्त एवं ऋत्विजः" इति श्रूयते । सप्तदश अब- रे निकृष्टा येषां ते सप्तदशावरा ऋलिजः, तेन सप्तदशन्यून- कर्तृकं सत्रं न सम्भवति । य एव यजमाना इति । तथाच स- वैरेव होतव्यमिति पूर्वपक्षे जैमिनिसूत्रम्-(१)"सत्रे वो होता (१) अस्मिन् ग्रन्थे प्रमाणतयोपन्यस्तानि सूत्राणीदानीसुपल- ब्धेषु महर्षिजैमिनिप्रणीतषोडशाध्यायीसूत्रपाठ-तत्सहितशाबरभा- याधिकरणमालासूत्रवृत्त्यादिषुस्तकेषु नोपलभ्यन्ते । अतः कुत्र- २ -- लघुपूर्वमीमांसाऽधिकरणकौमुदी- अन्येषामर्पणम्" इति । अस्यार्थ:--सत्रे स्त्रीयस्त्रीयद्रव्याणि मि. अणेन साधारणानि कृत्वा वय्य मुख्यं होतारं कृत्वा ऽन्ये ब्रह्म- त्वसदस्यत्वादीनि ऋत्विकर्माणि कुथुः । साधारणद्रव्येषु सर्वेषां स्वत्वेन देवोद्देश्यकत्यागात (१)यजमानत्वमिति । किन्त्वनाऽऽन- तिकरीदक्षिणा नास्ति । सर्वेषां यजमानत्वात्। स्त्रोद्देश्यक(२)सागा- सम्भवात् । तिर्यगधिकरणविरोधात अ०६पा०१ अधि०२। आनतिः भीतिः । तथाच स्वा एवं स्वस्मिन्मीतिरस्ति । नचैकेनान्यस्मै दक्षि- णा दीयतामिति वाच्यम् । सत्रस्यैककर्मत्वनैक एव दक्षिणोत्सर्गः, ज्योतिष्टामे षोडशत्विज उद्दिश्य गोशतदक्षिणोत्सर्गवत् । अ- त्र सर्वेषामृत्त्रिक्वेन स्वोद्देश्यकत्वस्यासम्भवात् । श्राद्धादौ वा- चनिको दक्षिणाभेदः । नचोदासीनाय दीयतामिति वाच्यम् । तर्हि नानतिकरी दक्षिणा, तस्यानृवित्वात् । अदृष्टार्था दक्षि- णा तु वाचनिकी । वचनन्त्रत्र नास्त्येवेति सत्रे दक्षिणाभा. व एवेति । अत्र च फलस्य न परिपत्तत्वम् ब. हुत्वविशिष्टस्याचेतनत्वात् । किन्तु प्रसेकत्तित्वमिति । तथाच फलस्य बहुत्वमेवान्यथाऽनुपपत्तेः । तदुक्तं-"सर्वतो बलवती झ- न्यथाऽनुपपत्ति" इति । २ अथ रात्रिसत्राधिकरणम्- "प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति" इति श्रूयते । प्रतिप्सिायाम् । पुनः पुनर्देहावच्छेदेन लिष्ठन्तीत्यर्थः । चिरंजी- विनो भवन्तीति यावत् । एता रात्री रिति प्रकरणात् । अ- धिकार्थे उप । यन्तीति इण् धातोः । तथाच अधि- त्यानीति न ज्ञायते । क्वचित्तु पाठभेदेन दृश्यन्ते । स च तत्र तत्र स्पष्टीकरियते। (१) यागजन्यफलभागित्वमित्यर्थः। (२) स्वमुद्दिश्यति वा पाठः। - ।
३ लघुपूर्वमीमांसाऽधिकरणकौमुदी- कं ध्यायन्तीत्यर्थः । यागे उद्देश्यदेवताध्यानस्य विहितवाद । अत्र चास्याः श्रुतेर्थवादत्वेन प्रतिष्ठाफलं न ग्राह्यम् । किं तु विश्वजि. न्यायेन स्वर्ग एवं फलमिाते पूर्व पक्षे मूत्रम्-"फलं सान्निधिक- मू" अ०४पा०३११८ इति(१)। अस्थार्थ:--यद्यत्सन्निहितं श्रुतं तदेव फलं ग्राह्यम् । तत्राऽऽदौ विधिश्रुतम्, तत आर्थवादिकम्, सदभावे आनुषङ्गिकम् , तदभावे लिङ्गस्थमिति । अत्र यथापूर्व सन्निहितं बोध्यम् । तथाच रात्रिमत्रे विध्यभावेनाऽऽर्थवादिकं प्रतिष्ठाख्यं फलमेव ग्राह्यम् । विश्वजित्स्थले तु फलं न श्रुतं किन्तु कल्प्य- मिति तस्य दुर्बलत्वम् । आनुषङ्गिकं यथा-"आरोग्यकामः सौरेण यत"इसनन्तरं "आश्विनौ यजेत" इति श्रूयते । तत्राप्यनुषङ्गा(२)दारो- ग्यं फलम् । नचानुपङ्गे तत्पदस्याऽऽत्तिरिति वाच्यम् । आवृ. तौ हि तादृशपदान्तरकल्पनम, अनुपने तु तत्पदस्य परवा- क्ये समभिव्याहारकल्पनमिति । अयमेवानुपतिकाधिकरणन्या- यः । अ० २ पा० १ अधि० १६ । अन्नयबोधस्तु क्रमिकः । अतो वाक्यभेद एवेति । अत्र चैकसाधनावरुद्ध साधनान्तरस्य निराकाङ्कितत्वेन विकल्पः कल्प्यते । सौरेण वा ऽऽश्वियागे- न चा आरोग्यमिति । सौरस्य बहकत्वेन तदसामर्थे आ- वियाग इति व्यवस्थितो विकल्प इति । लिङ्गस्थं फलं यथा-लिङ्ग मन्त्रः(३)। “ऐन्द्रं यजेत" इत्यत्र यागे मन्त्रः श्रूयते "इन्द्रो देवः सहस्वाक्ष ऐन्द्रदस्तस्मै जुहोमि" इति । अनेन्द्रद इति श्रवणादैन्द्रपदं फलमिति । ३ अथ विश्वजिदधिकरणम्- (१) “फलमात्रेयो निर्देशादश्रुनौ ह्यनुमानं स्यात् इति पाठः । (२) अनुषङ्गः सामीप्यम् । (३) लिङ्गयते ज्ञाप्यतेऽनेनेतिव्युत्पत्तेः।
४ लघुपूर्वमीमांसाऽधिकरणकौमुदी- "विश्वजिता यजेत" इति श्रुत्येष्टसाधनत्वं बोधितम् । इ. एत्वन्तु कल्प्यम् । उक्त चतुर्विधफलासम्भवात् । तत्र च ग्राम- धनादीनां गौणपुरुषार्थत्वाद्विनिगमनाविरहाच्च न फलत्वम् । मोक्षस्य च तत्त्वज्ञानमात्रसाध्यत्वात्, तत्र ज्ञानस्य च गौणप्रयो- जनत्वात्, प्रतियोगिनिरूप्यतया मोक्षस्याभावरूपस्यानुपस्थितेश्चे- ति, स्वर्गस्याप्यनुपस्थित्या फलत्वेन कल्पने मानाभावादिन्यत्र सूत्रम्- "स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वातू" अ० ४ पा० ३ सू० १५ इति । देशात्मकस्वर्गवारणाय स इति । दुःखास- म्भिन्नादिरूप(१) इत्यर्थः । सर्वानिति । वैराग्यरहितानिति शेषः । अविशिष्ट इति-इच्छाज्ञानविषयत्वेन । तथाच ज्ञानं विना इच्छाया असम्भवान स्वर्गस्योपस्थितिरस्येवोत फलं स्वर्ग एव । ननु विश्वजयिनो विश्वजिद्यागो नित्य एवास्तु फला- श्रवणात, कार्तिकामावास्यायामुल्कादानलक्ष्मीपूजनवव, इति चेन्मवम् । विश्वजिसवीजबहुमुवर्णकराजसूयादिसर्वमेधान्तानां पोडशानामेव विश्वजयिकर्तव्यत्वेन बोधनात् । तथाच विश्व- जितो नित्यत्वेन प्रथमकर्तव्यत्वात् तत्र च सर्वस्वदक्षिणया सर्व- जिदादिषु धनाभावेनाप्रवृत्त्या सद्विधेरननुष्ठानलक्षणाप्रामाण्यं स्यात् । अतो विश्वजियागो न नित्यः । सर्वजिदादीनान्तु फलश्रुत्या काम्यतैवेति। ४ अथ सर्वस्वदाक्षिण्याधिकरणम्- "उद्गातृपूर्वान् विश्वजिात, प्रतिप्रस्थानृपूर्वान् सर्वजि- (१) यन्न दुःखेन सम्भिन्नं नच ग्रस्तमनन्तरम् ॥ अभिलाषोपनी- तञ्च तत्सुखं स्वःपदास्पदम् । इति तन्त्रवार्तिकोक्तः स्वर्ग इति यावत् ।
लघुपूर्वमीमांसाधिकरणकौमुदी- दादौ, सर्वमेधे तूभयम् इतिश्रुन्या विश्वजित्युद्गातृप्रधा- नाः षोडशलिजः, सर्वजिदादौ प्रतिप्रस्थातृप्रधानाः षोडश, सर्वमेधे तूगातृप्रधानाः प्रतिप्रस्थातृप्रधानाश्च । तेनात्र गणद- येन द्वात्रिंशदृत्विजो भवन्ति । तथा च "उदातृभ्यः सर्वस्वं दाक्षिण्यं, प्रतिप्रस्थातृभ्यो न"इति श्रूयते । उद्गातृभ्य उद्गात्रा. दिभ्यः । तेन विश्वजिति सर्वस्वदक्षिणा, सर्वजिदादिषु यत्किञ्चि तू पारितोषिकं, सर्वमेधे तु सर्वस्वं यत्किञ्चिच्चेति । न च सर्वस्वे दत्ते यत्किञ्चिदिति कथं स्यादिति वाच्यम् । सर्वस्वपदेन सर्व तैजसमुक्त(१) भूमिवस्त्रादिकं च न सर्वस्वाभ्य- तरीणम् । ५ अथ होलाकाधिकरणम्- माच्यानां होलाकाऽऽचारदर्शनात्तदर्थं 'होलाका SSचरणी- या' इति सामान्यविधिः कल्प्यते । न च प्रतीच्यानामनाचर. णात्माच्यैरिति विशेषणपदं देयम् । सामान्यविधिनैव प्राच्या- ऽऽचारोपपत्तेः। प्रतीच्यानामनाचरणस्येच्छाविरहेणैवोपपत्तेः । इच्छाविरहश्च तद्देशीयपूर्वपूर्वाणामनाचारदर्शनात, प्रतीच्याना- मुल्कादानाद्याचारविरहवत् । नानाचारार्थ वेदः(२) कल्प्यते । तथा च यत्र सामान्यभुसा उपपत्तिरता विशेषविधिर्न कल्प्यते, 'गुरुरनुगन्तव्यः सदा' इसिबत् । नहि कर्मकाले तदसम्भवात्तदन्य- काले इति तत्र विशेषणीयमिति । ६ अथ फलचमसाधिकरणमू- (१) अत एव रघुकाव्ये “समृण्मये वीतहिरण्मयत्वात्' इति । अन्यथा मृण्मयमपि कथं तस्य । हिरण्मयं तैजसम् । (२) श्रुतिरिति पाठः।
- लघुपूर्वमीमांसाधिकरणकौमुदी- "मोद्गातॄणां फलचमसं हुतशेषं भक्ष्यं ददाति" इति श्रू. यते । मोद्गातृणामिति बहुवचनात् प्रोद्गात्रादिऋत्विजां सर्वे- षामित्यर्थः। यवव्रीहितिलैर्मुद्रैः साधितश्चमसः स्मृतः ।। फलं नारिकेलं "अनादेशे नारिकेलं फलम्" इति श्रुनेः । तथा च फलसहितश्चमस इयर्थः । हुतशेषमिति । तेन होमेऽपि तद्रव्यमिति । ७ अथ सर्वपिष्टाधिकरणम्- "सर्वपिष्टं मिथुनेन पेषणीयम्” इति श्रूयते । अत्र मिथु- नशब्दस्य सपुत्रपाषाणे न लक्षणा । तथा च मिथुनपदेन स्त्रीपुंसावित्युक्तौ । पेषणन्तु यत्र तत्र काष्ठपाषाणादौ वा कर्तव्यमिति पूर्वपक्षे जैमिनिसूत्रम्-"निरूढत्वात्" इति । निरू- ढलक्षणा शक्तितुल्या, शक्तिवत्तस्या अपि झटित्युपस्थापकत्वा. त् । मिथुनपदस्य सपुत्रपाषाणे निरूढलक्षणा । तेन सपुत्रपाषाण एव पेषणम् । अन्यथा कुत्र पेषणीयमित्यनध्यवसायेन प्रवृत्तिन स्यात् । पेषणे स्त्रिया अप्यन्वये गौरवञ्च स्यादिति । ८ अथ हविरुभयत्वाधिकरणम्- पुत्रेष्टियागे श्रुतिः "बीहिभिर्यवैश्च प्राजापत्यं पृथक् श्र- पयेत्, हविषी संस्कुरुते, आज्येन मोक्ष्यावहत्य कपिलाक्षीरेण पचेत्" इति । आज्येनेतिविशेषश्रुतेः सामान्यविधिप्राप्तस्य जलेन मोक्षणस्य बाधः । हविषी व्रीहियवौ । अथास्य विकृतौ पु. त्रेष्टियागान्तरे श्रुतिः “यवमयश्वर्भवति" इति । अत्र च "प्र. कृतिवद्विकृतिः' इतिन्यायेन सर्वधर्मप्राप्तावपि न संस्कारमाप्तिः । प्रकृतौ इविषी इतिश्रवणात् द्वित्वविशिष्टस्य संस्कारप्राप्तः ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- पत्र च यवमात्रश्रवणे द्वित्वविशिष्टहविषोऽभावात् तत्प्राप्तयभाव त्याज्येन नात्र प्रोक्षणं, किन्तु सामान्यप्राप्तजलेनैवेत्यत्र सिद्धा- सस्त्रम्-"द्वित्वमनपक्षितामधानत्वात्" इति । शाब्दबोधे वि- बेयं प्रधानम्, उद्देश्यमप्रधानम् । तेनात्रोदेश्यगतस्त्राद्वित्वं हविर्गत लिङ्गञ्च नपुंसकमविवक्षितामिति । ९ अथ ग्रहैकत्वाधिकरणम् ~~ "ग्रहं समाष्टि" इति श्रूयते । गृह्यते हविरनेनेति ग्रहो य. पात्रम् । सुनुवादयः । “ग्रहैर्जुहोति" “दश ग्रहान् गृ- हाति" इति । तथा च ग्रहमित्येकवचनेनैकपात्रस्य मार्जनप्राप्ती कस्येत्यनध्यवसायादप्रवृत्त्यापीत्तरिति । अत्र सूत्रम् - "सर्वेषां- लक्षणत्वादविशिष्टं हि लक्षणम्" अ० ३ पा० १ ० १४ ति । असंस्कृतेन पात्रेण यज्ञनिषेधात्सर्वेषामेव मार्जनमपे- क्षणम् । तेनात्रैकत्वमविवक्षितम् । न च हविरुभयत्वाधिकरणेने- इमन्यथासिद्धम् । तत्र द्वित्वस्यान्वयबोधे ऽप्रवेशात् । अत्र चैकत्व- यावच्छेदकत्वेनानन्वयेऽपि सामानाधिकरण्येनान्वये प्रवेशादिति । १० अथ तदर्थशास्त्राधिकरणम्- बार्हस्पत्यथागे श्रूयते "प्रयाजं करोति नानुयाजम्" इति । प्रत्र नानुयाजमिति श्रवणान्निषेधानुपपच्या दर्शधर्मातिदेशः पश्चा- दाव्यः । तथा च "अनुवादः प्राप्तबोधो विधिरप्राप्तबोधकः" इति सूत्रे प्राप्तेति निष्ठापत्ययश्रुतेः पश्चात्माप्तव्येऽपि प्रयाजे न वधित्वहानिः । पूर्ववाक्यस्य "प्रयाज करोति" इति वाक्य- य सार्थकत्वादादौ प्रयाजाचरणं ततो ऽनुयाजं विहायाति- समाप्तव्याश्चतस्त्र आहुतयः कर्तव्या इति नात्र षडाहुनय इति पक्षे सिद्धान्तमूत्रम् -"तदर्थशास्त्रे निष्ठाया अनिष्ठितत्वाद" ८ लघुपूर्वमीमांसाऽधिकरणकौमुदी- इति । स विधिरर्थो ऽभिधेयो यस्य तत्तदर्थशास्त्रम् 'अप्राप्तप्रापको विधिः' इतिसूत्रम् । तत्र निष्ठाप्रत्ययस्यानिष्ठितत्वादविवक्षणादि- त्यर्थः । तेन मानान्तरेण प्राप्तयविषयबोधको विधिः । अत्र च प्राप्तव्यत्वेन प्राप्तिविषयत्वात् प्रयाजं करोतीति न विधिः । कि- न्वनुयाजस्थाने एव प्रयाजान्तरविधिः । तेनातिदेशमाप्तव्यस्य प्रयाजस्याऽऽदावाचरणम्, ततो ऽनुयाजस्थले पुनः प्रयाजान्तरा. चरणं, ततश्चतस्त्र आहुतय इति षडाहुतिसंख्या स्थितेति । ११ अथ निषादस्थपत्याधिकरणम् "निषादस्थपति याजयेत् , स वै शाक्त इति स्वयं जुहो ति" इति श्रुया यजमानकर्तृको मन्त्रपाठः प्राप्तः । तथा च नि- पादस्थपतीत्यत्र कर्मधारयसमासे निषादस्य मन्त्रपाठापत्त्या वि. द्यामयुक्त्यापत्तिः । निषिद्धस्य पाठनं विद्याप्रयुक्तिः । तथा च निषादः स्थपतिर्यस्येति बहुव्रीहिः,निषादस्य स्थपतिरिति षष्ठीतत्पु. रुषसमासो वा ऽऽश्रयणीयः । तेन त्रैवर्णिकस्यैवम्भूमस्य याजन. मिति न विद्यापयुक्तिरिति । अत्र सिद्धान्तसूत्रम् - "झटित्युप- स्थापकत्वातू" अ० ६ पा० १ ० ५१ इति(१) । बहुव्रीहिषष्ठी तत्पुरुषसमासयोलाक्षणिकत्वेनानुपपत्यधीनतया विलम्बोपस्थाप- कत्वात् । कर्मधारयस्य तदभावेन शीघ्रोपस्थापकत्वात् तेनैवान्च- यबोधः । फलमुखत्वाद्विद्याप्रयुक्तिर्न दोषायेति ।। १२ अथ स्थकाराधिकरणम् "वर्षासु रथकार आदधीत" इसाधानाख्यं कर्म रथ- कारस्य विधीयते । अत्र योगार्थाऽऽदरे त्रैवर्णिकपरत्वं सम्भ- वदपि लाघवाढस्य जातिविशेषस्यैव ग्रहणम् । यथा- (१) “शब्दसामर्थ्यात्" इति सूत्रपाठे । a M लघुपूर्वमीमांसाऽधिकरणकौमुदी- 'माहिष्येण करिण्यां तु रथकारः प्रजायते' इति । योगार्थस्य तु रूढ्यर्थतो गौरवम् । अनेकपदार्थान्वयानन्त- रमुपस्थापकत्वादिति । तेन याजनं विना आधानकरणासम्भवाद स्थकारस्य ब्राह्मणेन पाजनसिद्धिरिति ।। १३ अथ(१) तन्त्रन्याय:-- "असंस्कर्ता पिता बालहा भवति यथासमयम, तदकर- णे क्षामवत्या यजेत, ततश्च संस्करोति" इति श्रुतेः मुख्य- काले जातेष्टयादेरकरणे तज्जन्यप्रत्यवायनाशाय क्षामवतीमिष्टिं कृत्वा गौणकालेऽपि संस्कारान् जातेष्टयादीन कुर्यादिति सिद्धम् । तत्र पदि बहुसंस्काराकरणं तदा बहुप्रत्यवायोत्पत्तेः प्रत्येकदो. पनाशाय पृथक् क्षामवती कुर्यात् । एकया क्षामवत्याऽनेकप्रसवाय- नाशाप्तम्भवात् । प्रत्येकविघ्ननाशाय भिन्नमङ्गलवन, इत्यत्र सिद्धा न्त सूत्रम्-"तन्त्रवत्" इति । यथा तन्त्रस्य दीर्घसूत्रसमुदाय. मध्ये सर्वसूत्रमुद्दिश्य कृतेन एकेन विस्तरसूत्रप्रक्षेपेण सर्वसूत्रसम्ब न्धो, न तु यावन्ति दीर्घसूत्राणि तन्मध्ये प्रसेकं प्रस्तारसूत्रप्र- क्षेपः कुविन्देन क्रियते, तथा एकया क्षामवसा सर्वमुद्दिश्य कृतया सर्वदोषसम्बन्धात् सर्वेषामेव नाशः । नाशकस्य नाश्य- सम्बन्धे सति नाशे ऽन्यानपेक्षणादिति । एवं दर्शे प्रयाजादिषण्णामङ्गत्वं श्रूयते । दर्शयागश्चाऽऽहु- तित्रयरूपः । तथाच तन्त्रन्यायेन सकृत्कृतेन प्रयाजादिनाऽदृष्टनि. पत्तिर्न तु प्रयाजादीनां त्रिधा आत्तिरिति । प्रयो- गविध्यैक्ये तन्त्रता । प्रयोगविधिश्च एभिररिदं कर्तव्यमेवं- रूपः । तेन समानाङ्गत्वेनैव तन्त्रता । तथाच देवतैक्ये तन्त्रता। क- १ नानाफलकसमानाकारकव्यापाराणां मध्ये नानाफलान्युदि- श्यैकव्यापारकरणं तन्त्रम् । ૨ १० लघुपूर्वमीमांसाऽधिकरणकौमुदी- चिद् द्रव्यैक्येऽपि। किन्तु काम्ययोर्न सन्तति । नित्ययोनित्यका- म्ययोरङ्गयोश्च तन्त्रता । क्षामवत्याः प्रायश्चित्तरूपत्वेनावश्यक- तव्यत्वात् । “चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये " इति- वाचनिकनित्यत्वात् । काम्यानां तन्त्रत्वे यजमानद्वयस्य शिव- लिङ्गसहस्त्रद्वयसंकल्पे एकसहस्त्रपूजनेनैव निर्वाहः स्यादिति । अयमेव क्षामवतीष्टिन्यायः । १४ अथ (१)प्रसङ्गन्याय:- "पशुं प्रोक्ष्य, तन्मांसैर्जुहुयात्" इति श्रुतिः । अत्र पशुप्रो- क्षणेन न मांसस्य मोक्षणं सिद्ध्यति, तस्य ततो ऽन्यत्वादितिमांसमापि प्रोक्षयोदित्यत्र सिद्धान्तसूत्रम्-"प्रसङ्गात्सिद्धे" इति । प्रस- ङ्गो नान्तरायकत्वम् । तथाच पशुगोक्षणेन समन्त्रणामन्त्रक पुरोडाशस्य तन्मांसस्य च प्रोक्षणमपि सिद्धं, सत्र जलसम्बन्धा- भावेऽपि पशुघटकत्वेन पुरोडाशस्यापि संस्कारो धान्यराशे- रुपरि प्रोक्षणेनाधोत्रीतधान्यानामपि सर्वेषां तद्घटकत्वेन मो. क्षणवत् ॥ 'होम्यं यत्कठिनं स्यात्तु पुरोडाश इति स्मृतम्, इति । तेन मांस-पिष्टकमोदकादीनां होमे विहितानां पुरोडाशसंज्ञोते। तेन समानाङ्गके उद्दिश्य कृते तन्त्रन्यायः । अधिकाङ्गेन न्यूना- ङ्गसिद्धौ प्रसङ्गन्यायः । अत्र कुत्रचिदुद्देश्यस्य सिद्धिः, कचिद- नुद्देश्यस्यापि । आद्यं यथा-आज्यसंस्कारस्य तद्यागोपयुक्तसर्वाऽऽज्यमुद्दि श्य करणात कलशस्थाऽऽज्यस्थापि शुद्धिानहि राजयादियागो- पयुक्तं सर्वमाज्यं (२)पात्र स्थातुमहीत । नच यदाज्यं. ग्राह्यं तद- १ अन्योद्देशेनान्यदीयस्यापि सहानुष्ठानं प्रसङ्गः । २ आज्यस्थाल्यामित्यर्थः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- - ११ - पि संस्कार्य , तत्समयस्य कुण्डिकान्तर्गतत्वेनातीतत्वात् । एवं संस्कृतस्नुवापचारे नत्रीनवे संस्काराभावः । द्वितीयं यथा-अधिकपापप्रायश्चित्तेन क्षुद्रपापनाशस्यानुद्दे- श्यस्यापि सिद्धिः। वृश्चिकनाशाय पाषाणक्षेपे पिपीलिका- दिनाशवव । माधवीये तु पशुयागार्थं प्रयाजाद्यनुष्ठाने कृते पुरोडाशार्थं न पुनः प्रयाजायनुष्ठानं प्रसङ्गेनोभयाङ्गानुष्ठाना- दित्युक्तम् । १५ अथाङ्गस्य प्रधानाऽऽवृत्त्यप्रयोजकत्वन्याय:- प्रधाननिष्यत्यनन्यरं चरोरपचारे ऽङ्गभूतस्विष्टकृदोमार्थ न पुनः पाकः । तस्य होमशेषद्रव्येण निहितत्वात् । किन्तु चरूं प्रसाध्य पुनः प्रधानाचरणं स्विष्टकोमाथै कार्यामसत्र सिद्धा- तसूत्रम्-"अगस्य प्रधानाऽऽवृत्यप्रयोजकत्वात्"इति । सेन स्त्रिष्टऋद्धामं विनैव सत्र कर्मनिर्वाहः । एजमेकोद्दिष्टादौ न पुनः श्राद्धाऽऽत्तिः । शेषानापचारे पिण्डा न पाकान्तरं कार्य- मिति । एवमपिण्डकेन मघाश्राद्धन पक्षश्राद्धनिर्वाहः । अत एव छन्दोगपरिशिष्टम्- प्रधानस्याक्रिया यत्र साङ्गं तरिक्रयते पुनः । तदङ्गस्याक्रियायां तु नाऽऽकृषि षि सतिळपा" इति ।। १६ अथ योगसिध्यधिकरण - यः पुत्रकामः स इदं कुर्यात, पः पशुकामः स इदं कुर्यात्" इयादि चतुर्दशलिथिषागानुक्त्वा "एकैकस्मै कामाया- न्ये यज्ञक्रतब उपाहियन्ते सर्वेभ्यो दर्शपौर्णमासान्" इति श्रुतावुक्तम् । यज्ञक्रतू मिन्नौ । "इष्टिस्तु चरुणा यागो यज्ञस्तु पशुना स्मृतः । एतच्छेषः क्रतुः मोक्तो होमान्यत्पूजनं स्मृतम् ।। - १२ - लघुपूर्वमीमांसाऽधिकरणकौमुदी- यज्ञोऽपीष्टिरेव यजधातोः सिद्धत्वात् । एतच्च "क्रतुय- ज्ञेभ्यश्च" इति अ० ४ पा० ३ सू० ६८ पाणिनिसूत्रे उक्तम् । सर्वेभ्य इति । प्रक्रान्तपुत्रादिचतुर्दशफलान्युद्दिश्ये- त्यर्थः । तथाचैकदैव पुत्रपश्वादिचतुर्दशफलकामनया द- शपूर्णमासौ कार्याविति पूर्वपक्षे जैमिनिसूत्रम्-“ योग- सिद्ध्यसम्भवात्" इति । योगः साहित्यम् । तथाचैकस्मा- कर्मणः साहियेन फलासम्भवादियर्थः । अयम्भावः । यः पु- त्रकाम इत्यादिप्रक्रमेण प्रत्येकमधिकारित्वश्रुतेः तेषामेवान्वयबोधो युक्तो, नतु समुञ्चितफलकामस्याधिकारित्वम् । फलानां समुच्चय- स्याश्रवणात् । कल्पनायां मानाभावात् । तथाच प्रयोगभेदात्स- 4 फलं भवति नत्वेकप्रयोगणेति । अत्र च बाधकाभावे सती. ति बोध्यम् । तेन यत्र समुच्चयेन फलश्रुतिस्तत्र न दोषः । यथा "स्वर्गमामोति मोक्षं च कार्तिके केशवार्चनात्" इति । अत्र चकारेण समुच्चयबोधः । एवञ्च महाभारतादिश्रवणस्य बहुफ- लश्रवणे ऽप्येकं फलमुद्दिश्य सङ्कल्पः कार्यों न तु समुच्चयेन, तद्वोधकाभावादिति । १७ अथ कर्मण्यारम्माधिकरणम्- नन्वेकस्माद्दण्डाद्यथा बहुघटोत्पत्तिः । तथैकस्मात् ज्योति- ष्टोमादहूनि स्वर्गादिकानि फलानि भविष्यन्तीति किमर्थं पुन: पुनरनुष्ठानाचार इति पूर्वपक्षे सिद्धान्तसूत्रम्-"कर्मण्यारम्भा- वृत्या फलात्तिः" इति । अयमाशयः । “ज्योतिष्टोमात्पष्टिव- पसहस्राणि स्वर्गों भवति" इति श्रुतौ षष्टिवर्षसहस्त्राणीति व्य- थै स्यात् । फलानामानन्त्यादनिर्मोक्षश्च स्यात् । एकयागफ- लाविच्छेदायागान्तरफलमाप्तिश्च न स्यात् । सूत्रार्थस्तु एकक- मविषयकाऽऽरम्भ आद्यः प्रयत्नस्तस्याऽऽत्तेर्यावती संख्या ता.
लघुपूर्वमीमांसाऽधिकरणकौमुदी- १३ वत्संख्यं फलं भवतीति । आद्यप्रयत्नभेदस्तु कर्मभेदादेव । तथा. च प्रधानीभूतादेकस्मात्कर्मण एकमेव भिन्नकालीनं फलं भव- तीति । प्रधानीभूतेति प्रयाजादिवारणाय तेषां सकृत्कृताना- मेव दर्शत्रयोपकारकत्वात्तत् त्रयमपि फलं तन्त्रप्रसङ्गाभ्या- म् । बहुपापनाशककर्मवारणाय, 'कुलकोटि सुमुद्धरेत्' इत्यत्र तत्तदात्मनिष्ठनानाफलोत्पादककर्मवारणाय च भिन्नकालीनेति । १८ अथ शय्वधिकरणम् "सोमयाजी ब्रह्मलोकमाप्नोति" इति श्रुत्या सोमयाजिनो ब्रह्मलोकावाप्तिरुता । अत्र च सोमयागस्य हेतुत्वं न सम्भवति कर्तृविशेषणत्वेनोपस्थितत्वात्कुलालत्ववत् । तथाच ब्रह्मलोकप्राप्ति कस्य फलमुक्तमित्पत्र जैमिनिमूत्रम्-"शयुवत्तत्त्वसिद्ध" इति । अयम्भावः । "देवाः शंयुं बार्हस्पत्यमब्रुवन् , त्वमस्माक- मविनाशाय हव्यं वह, ततः शंयुमन्तस्ते ऽरीनमयन्" इति श्रूयते । अत्र शंयुविशिष्टदेवानामरिजयहेतुत्वं प्राप्तम् । बाधकामा- वाच्च विशिष्टस्य हेतुत्वबोधे विशेषणस्यापि हेतुत्वम् । कुला- लत्वस्य तु न तथा स्वतन्त्रान्वयव्यतिरेकामावाद । शंयोस्तु त- त्सत्वाद्धेतुत्वबोधविषयीभूतदेवविशेषणत्वेऽपि हेतुत्वमिति । श्रुसर्थस्तु-बृहस्पतिपुत्रं शंयुं देवा . अब्रुवन् हव्यं शत्रु- नाशकं याग वह ततस्तधागानन्तरमियर्थः । तथा च शंयोः साक्षाजनकत्वाभावाद्यथा यागो व्यापार: तथा सोमयागस्यापि अपूर्व व्यापार:(१) । एवं "सप्तदश पशु- नाल भेत" इत्यत्र सप्तदशत्वविशिष्टपशूनामङ्गत्वबोधनात् सप्तद- शत्वमप्यङ्गमिति ॥ १९ अथ देवताऽधिकरणम् --- (१) तजन्यत्वे सति तजन्यजनको व्यापारः ।
लघुपूर्वमीमांसाधिकरणकौमुदी- ननु देवतामीतिरेव यागव्यापारो ऽस्तु किमपूणेयत्र मूत्रम्- "देवता चैतन्यासम्भवात्" इति । चेतने एव प्री- तिजीयते नवचेतने तथा च कथं देवतामीतिरिति । २० अथ परिषदधिकरणम्- "ब्राह्मणेभ्यो ऽन्नं दद्यात्" इति श्रुत्या बहुत्वविशिष्टमेव सम्प्रदान तथा चैकमेवोत्सर्गवाक्यमत्र सूत्रम्-"परिषदि दत्त. मदनम्" इति । परिषदो बहुत्वविशिष्टस्याचैतन्येन स्वीकारास- म्भवात प्रत्येकमेव दानवाक्यम् । तुलापुरुषादिदाने च वाच- निकत्वाद्वहुत्वविशिष्टा एवोद्देश्याः । तेन बाधकामाचे सतीति विशेपणं मूत्रे इति ॥ २१ अथ कौण्डपायिनामयनाधिकरणम्- "उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहुयात् तेजस्कामः" इति । उपमत् कल्प्यते यत्र सतिलैहिभिश्वरुः । तथा च सतिलैवाहिभिः चरित्वा-चरुं कृत्वा मासं व्या. प्याग्निहोत्रं जुहुयादिसर्थः । अत्र चाग्निहोत्रान्तरविधौ गौर- वात् प्राप्ताग्निहोत्रे एवं मासव्याप्तोपसद्विधिः । तेन प्रकृता- ग्निहोत्रमेवोपसदा कर्तव्यम् । अन्यथा प्रकृताग्निहोत्रं कृत्वा ऽग्नि- होत्रान्तराऽऽचरणे गौरवं स्यादिसत्र सिद्धान्तसूत्रम्-"वाक्यमें- दापत्तेः" इति(१) । प्रकृताग्निहोत्रमुद्दिश्य मासोपसदुभयगुणविधी वाक्यभेदापत्तेः। मासविशिष्टोपमद्विधिः गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्स्यात्" इति यादङ्गानामन्योन्यं विशेष्यविशेषणभावविरहादिति • । गु- (१) वाक्यभेदस्य च दुष्टत्वमुक्तमभियुक्तैः- 'सम्भवत्येकवाक्यत्वे वाक्यभेदो न युज्यते' इति । न्या- - लघुपूर्वमीमांसाऽधिकरणकौमुदी १५ णानामङ्गानां परार्थवादङ्गयर्थत्वादसम्बन्धः परस्परं वि. शेष्यविशेषणभावविरहः । कुत इयत्राऽऽह-समत्वादिति । वि- निगमनाविरहादियर्थः । तथा च गुणद्वयविशिष्टस्याग्निहोत्रा- न्तरस्यैव विधिः । अग्निहोत्रपदप्रयोगस्तु तद्धर्मप्राप्यर्थ इति । कु- ण्डसम्बन्धित्वात्कौण्डः पिण्डप्लोमस्लत्पायिनाम् अयनं-कर्तव्यत्वेन ज्ञानं यत्र तत्कौण्डपायिनामयनम् । अलुक्समासात् यागस्य संज्ञा(१)। कृतसोमयागस्य तत्राधिकारात । केचित्तु कौण्डपायिनां कृतसोमपानानामयनं तदाख्यो यागः सच द्वादशाहसाध्य इसर्थः। षष्ठयर्थश्च कर्तृत्वमिति वदन्ति । २२ अथ यागदानहोमाधिकरणम्- बार्हस्पययागे श्रूयते "शरमयं बहिरुत्तरतस्त्यजति, · तत्र द्रव्याण्यासादयति" इति । अत्र च त्यक्तद्रव्ये कथं द्रव्याऽऽसादनं त्य तस्य विनियोगविरहादित्यत्र सूत्रम्-"यागदानहामान्यत्वे त्यागानुपपत्तेः" इति । अस्यार्थः-या क्रिया यागदानहोमाऽन्या सा न त्यागरूपेति । तथा च शरमयबहिषो न त्यागः। तेन त्यजती त्यस्य स्थापयतीत्यर्थः। ननु मुख्यशब्दं विहाय लाक्षणिकस्य त्यजतीत्यस्याभिधा- नं कथम् ? इत्थं, "देवा गातु इति मन्त्रेण बहिषो होगमाचरेत्" इति पूर्णाहुत्यनन्तरं बर्हिपो होमविधानादत्र शरस्य बहिष्ट्वेन होमप्राप्तौ सद्वारणाय त्यजतीति । तेन त्यक्तधर्मातिदेशात्पुनर- नुपादानाच न शरस्य होम इति । नचोत्सर्गोऽपि त्याग एवेति कथं स्पागस्य त्रितयान्यतमरूपत्वमिति वाच्यम् । उत्सर्गस्यापि त्यागादिरूपत्वात् । तथाहि-सडागोत्सर्गस्य देवतोद्देश्यकत्यागत्वेन १) संज्ञास्वरूपभङ्गभिया षष्टया अलुगित्यर्थः ।
लघुपूर्वमीमांसाधिकरणकौमुदी- यागत्वम् । सर्वसत्त्वानां चतुर्थ्यन्तपदनिर्देश्यत्वेन देवतात्वात् । एवं वृपोत्मर्गस्यापि । तत्रापि वत्सतरीणां देवतात्वात् । एवं मठाधुत्सर्गस्य साक्षादेव यागत्वम् । एवं मनसा ब्राह्मणमुद्दिश्य त्यागस्य दानत्वमेव स्वीकारार्होदेश्यकसागस्य दानत्वात् । नतु स्वीकारोपहितेति वक्तव्यम् गौरवात् । स्वीकारयोग्यता च वि. शिष्ट चेतनत्वेन । शूद्रााद्देश्यकयागेऽपि दानपदप्रयोगात् । नचैवं वैराग्यादिना एवमेव द्रव्यत्यागे कथमुपपत्तिर्शित वाच्यम् । तत्रोत्सर्गत्वस्याप्यभावेन उभयसमाधेयत्वात् । तथा च मानायकत्यागस्य त्रैविध्यमिति । एवं 'सर्व परित्यज्य संन्य- सेतू' इत्यत्रापि स्नानाधङ्गत्वाभाव इति । न च होमोऽपि देवतोद्देश्यकत्यागत्वाद्याग एवेति कर्थ वस्य पृथगुपन्यास इति वाच्यम् । स्वतन्त्रेच्छस्य मुने- नियोगपर्यनुयोगानहत्वात् । कर्मणो गुणान्तर्भावसम्भवेऽपि पृथ- गुपन्यासवत् । तथा च यागे ऽन्यानुपहितत्वं विशेषणं दे- यम् । होमे त्वग्निप्रक्षेपविधिकेति विशेषणमिति सर्वे पूर्वपक्षा: परास्ताः। २३ अथ यदावनीयन्याय:- सोमयागे "पदे जुहोति" इति श्रूयते । सहप चानुपपत्तिः "पज्जुहोति तदाहवनीये" इतिश्रुतेःसामान्याया:सङ्कोचापत्तेरिख- व मिद्धान्तमूत्रम्-"निरवकाशत्वात्” इति । पदे जुहोतीत्यस्य निरवकाशलापत्त्या आहवनीयवाक्यस्य सङ्कोच एव युक्तः । स- थाच निरवकाशवचनविषयातिरिक्त सामान्यवचनस्य प्रशीत- रिति । एवं ज्योतिष्टोमे “सोमेन यजेत" इति सामान्यश्रुतिर- स्ति, तथा "राजन्यवैश्यौ फलचमसाभ्याम्" इति । तत्र वि- शेषश्रुत्या सामान्य श्रुतेाह्मणमात्रपरत्वं नतु राजन्यवैश्ययोर- लघुपूर्वमीमांसाऽधिकरणकौमुदी- पि सोमसहितफलचमसाभ्यां याग इति । २४ अथ पदिन्याय:- "पदपांसुना यूपयनक्ति, सप्तमं पदम् गृह्णाति" इति सो- मयागे श्रूयते । तत्र कस्य पदं ग्राह्य मिति अनध्यवसाये सूत्रम्- "उपस्थितत्यागायोगात्" इति । प्रकरणादुपस्थितायाः सोम. क्रयणार्थमानीताया गोरेव पदपांसुग्राह्यः । सथाच पदित्वेनोपस्थि- तायास्तस्या एव सप्तमं पदं पास्वर्थ ग्रामिति । “ऐशानीतः सम्पूज्य गामग्निं परिक्रमयति" इति । अग्निप्रदक्षिणारम्भार्थ- काथमपदचलनावधि सप्तमत्वं बोध्यमिति । एवं “पदे जुहोति" इत्य- नापि तदेव सप्तमं बोध्यम् । “वर्त्मनि जुहोति" इत्यत्रापि प्रदक्षि- णवर्त्म बोध्यमिति । २५ अथ स्पयाश्लिष्टेज्याधिकरणम्- "यत् स्फ्ये आश्लिष्येत्, तदधो मृज्यात, उरुविक्रमाय द्वादशकपालञ्चरुं निपेत्" इति श्रुतिः । 'खड्गाकारः खादिरः स्फ्यश्वरोरावर्तनाय सः'। यत्-यदि अग्निष्टोमे यागे चरोरावर्तने चरुसंश्लेषः रूपये भवेत्, तत्-तदाऽधो-भूमिभागं मृज्यात्-शोधयेत् । तत्र उरु. विक्रमाय-विष्णो द्वादशकपालं चरुं द्वादशाहुयर्थं कुर्यात् । 'कपालं मृन्मयं पात्रं चक्राघटितमुच्यते । आसुरं (१)चक्रघाटन दैवे पिध्ये च वर्जयेव' तथाचाग्निष्टोमे स्फ्याश्लेषे सति तन्निमित्तिकामिज्यां कृ- त्वा ऽग्निष्टोमयागः कार्य इति । तस्या इज्यायाश्च इष्टित्वन दर्श- धर्मपाले-मासामिष्टीनां दर्शपूर्णमासौ प्रकृतिः, प्रकृतिवञ्च बिक- १ कुलालचक्रेण निर्मितमित्यर्थः । ३ लघुपूर्वमीमांसाऽधिकरणकौमुदी- निः' डानन्यायेन दर्शधर्मस्य पूर्वदिने देवनाऽऽवाहनस्य प्राप्तिः । गया य महिने स्माश्लेषशयेऽपि पूर्वदिने आवाहनं का- बमा । अगथा मनि यागे तबाङ्गबैगुण्यापत्ते, इत्यत्र सिद्धा- नत्रा-"न नैमित्तिकत्वात्" इति । नैमित्तिके निमित्तनि- श्चयवानधिकारी । तेन पूदने तदभावान्न यागाधिकारः । प्र. धानाधिकाराभावे च कथमङ्गानुष्ठानमिति पूर्वदिने नाऽऽवा- छनम् । परदिने स्फ्याश्लेषे सत्यापे नाऽऽवाहनं, तन पूर्वाद- नस्याङ्गत्वादिनि तत्राऽऽवाहनवाध एवं । निमित्तनिश्चयश्चासति निबन्धे अवश्यमेव कर्तव्यमित्येवंरूपः । तेन भविष्यद्विवाहा. दिनिमित्तकमाभ्युदयिककरणं सिद्ध्यांत । अन्यथा आविनि मा- नाभावेन (१)नेपामनिश्चयात्तत्रापि वृद्धिश्राद्धं न स्यात् । इज्यायां तु नाशो निश्चयो नास्ति स्फ्याश्लेषसंशयेन संशयादिति । २६ अथ कृष्णलन्याप:- "कृष्णलान् श्रपयेत्” इति ब्रीहिविकृनियागे श्रूयते । ऋष्ण लश्च कलापाकारः स्वर्णमापनिर्मितः । तत्र यागे व्रीहि- धर्माधान पाया तुपाभावेऽप्यष्टार्थ कृष्णले ऽवघातः कार्य इत्यत्र मूत्रम-"द्वाराऽसम्भवात्" इति । अनघातस्य वैतुष्यं द्वार, तस्य च सत्र स्वतः सिद्धत्वादवघातो व्यर्थः । नचाह- प्रार्थः । दृष्टार्थव सम्भवत्यदृष्टार्थत्वकल्पनाया अयुक्तस्वागौरवा- दिति कृष्णले अपघातबाधः । २७ अथकपालाधिकरणम् "बीहिणिवायव्यं यजते, अष्टाकपालं पुरोडाशं करोति, पुरोडाशकपालेन तुपान् उपपति" इति श्रूयते । अत्र (१) विवाहादीनाम् ।
लघुपूर्वमीमांसाधिकरणकौमुदी- -- १९ कपा- यागे शूर्पण न तुपप्रस्फोटनं किन्तु पुरोडाशकपालेन । तत्र चाष्टानां कपालानां सत्ताव केन कपालेनेत्यनध्यवसाये सूत्रम् –“प्रथमोपस्थितिस्तन्त्रम्" इति । अयमाशयः- द्रव्यासादने पश्चिमावधि पूर्वान् पंक्तिक्रमेण तत्र लस्थापनम् । तथाच यजमानसन्निधौ यत्कपालं प्रथमपुरोडाशार्थ- मासादितं तस्य सन्निहितत्वेन प्रथमोपस्थितत्वेन च सदेव तुपन. स्फोटनार्थ प्रामिति । तथाच लक्षणया प्रथमोपस्थितपुरोडा. शकपालेन इसन्चयबोधः । अत्र पुरोडाशकपालेत्यत्र लक्षणा- या आवश्यकत्वात् । लक्षणया यदि पुरोडाशप्रयोजनकं क- पालमित्युच्यते तदा लत्र नोपचापाकाला । प्रयोजनबच्वेनोपस्थि- तस्य प्रयोजनान्तरानाकासयात् । तथाच तत्र नोपचापान्वयः स्यात् । सेनाधिष्ठाने लक्षणा कर्तव्या। पुरोडाशाधिष्ठातव्यकपाले- नेयर्थः । अधिष्ठानन्तु स्थितिरेवेति । २८ अथार्थवादाधिकरणम्- "शम्भुः सर्वदेवेश आशुतोषः सर्वकामफलपदश्च" इत्यर्थ. वादः श्रूयते । कार्यान्वितबोधकत्वन्तु सर्वशब्दानाम् । अर्थवा- दस्य सिद्धार्थकत्वात् अन्वयबोधाजनकत्वात् व्यर्थमेवाभिधान- मियत्र सूत्रम्-"विधिशेषत्वात्प्रामाण्यम् " इति । वि. धिशेषत्वात विधयेकवाक्यत्वात् । तथाच यस्यार्थवादश्य वि. घिसमभिव्याहारस्तस्य प्रामाण्यमिति । विधिश्च द्विविधा-क्लप्स: कल्प्यथेति । तथाचान विधिः कल्प्यः । तस्मात् 'सर्वकाम्यका- मः शम्भुं यजेस' इति । क्सविधिर्यथा-'वायु क्षेपिष्ठा(१) देवता' इसर्थवादस्य "वायव्यं श्वेतमालभेत" इतिश्रुतविधिनै- कवाक्यत्तमिति । १ शीघ्रफलदात्रीत्यर्थः । URATIO . लघुपूर्वमीमांसाऽधिकरणकौमुदी- २९ अथ विरोधाधिकरणम् - "औदुम्बरी स्पृष्ट्वोद्गायति" इति ऐन्द्रयागे श्रूयते । तत्रैव योगे 'म; औदुम्बरी वेष्टयितव्या' इति कात्यायनोक्ता स्मृत्तिः । तथा च स्श्रृंतरपि श्रुतिकूलकत्वादुभयोः समबलत्वेन स्पृष्ट्वेत्य- त्र श्रुतौ (१)उपस्पर्शलक्षणाया अयोगात् , एवं स्मृतावपि स. पदसङ्कोचस्यायुक्तत्वादनुपपत्तिारेखन सूत्रम्-"श्रुत्या स्मृ- तिबाध्यते" इति । श्रुतेर्बलबच्चादिति भावः । तथा च स्मृ. तौ सर्वपदे सङ्कोचः-स्पर्शयोग्यभागं विहाय सर्वा बेष्टयितव्ये. ति। नच स्मृतेरपि समानार्थक श्रुतिमूलकत्वमिति वाच्यम् । स्मृत्या ऽनुमीयमाना श्रुतिः प्रत्यक्षश्रुतिविरोधेन स्मृतिसमा- नार्थिका अनुमातुं न शक्यते किन्तु श्रुत्यनुगुणैवानुमातव्ये- ति । औदुम्बरी-उदुम्बरक्षनिर्मिता पशुवन्धनाथ स्थूणा, तस्या एव यूपसंज्ञेति । माधवीये तु औदुम्बरी. उदुम्बरशा- खेति व्याख्याता । १० अथ प्रतिनिध्यधिकरणम् । "ब्रीहिभिर्यजे" इत्यत्र वीरुपादाने कृते तदपचारे सति यागो न सम्भवति । न च यवोपादानं कार्य विकल्पे एकोपा दाने ऽन्यग्रहणस्य निराकासत्वेनासम्भवेनाशास्त्रार्थत्वादिति पूर्वपक्षे सिद्धान्तमूत्रे-“पूतीकाविधिदर्शनात्" "सार- यं तन्त्रम्" इति । तथाच प्रतिनिधिना सदृशेन कर्मा- ऽऽचरणीयम् । अन्यथा “यदि सोमं न विन्देव, पूतीकानभि- पुणुयात्' इत्यस्य वैयर्थं स्यात् । अयम्भाव:-वीहिन चरुसा- धनं, किन्तु तदवयवस्तण्डुलः । तथाच 'बीहिभिर्यजेस' इत्यत्र ( १ ) सर्ववेष्टनस्कृतिवलेन स्पृष्ट्वति पदस्य वस्त्रव्यवधानेन स्पर्श कृत्वेत्यर्थे लक्षणाया अयुक्तत्वादित्यर्थः ।
लघुपूर्वमीमांसाधिकरणकौमुदी- २१ ? बीहिशब्दस्य तदनपने लक्षणा । तेन ब्रीद्यवयवमत्यभिज्ञायाः शाल्पवयवेऽपि सशायदर्शनात् ब्रीह्यभावे शालिग्राह्य इति । एतन्यारामूलं वचनं । "यथोक्तास्त्वसम्पत्तौ प्राह्यं सदनुकारि यत् । यवानामिव गोधूगा ब्रीहीणापिय शालयः" इति । अन्यथा प्रतिनिध्यस्वीकारे “मौद्गश्वरुर्भवति, अयज्ञीया वै माषाः" इति माषनिषेधानुपपत्तिरमाप्तत्वात् । अत्र च माषा इति बहुवचनं मापमिश्रितमुद्गस्यापि निषेधार्थम् । तथाच प्रतिनिधित्वेन प्राप्त्या निषेधः । एवं 'काण्डमूलपत्रपुष्पफलमरोहगन्धरसादिना सादृश्येन प्रतिनिधिं कुर्यात्' इति पैठीनसिवचनादपि यथायथं प्रतिनिधिोध्य इति । अत्र वदन्ति-किं तावत्प्रतिनिधित्वम् ? । न हि तत्कार्यकारि- त्वम् । तत्रैव मुख्ये गतत्वात् । नच तदभावे तस्कार्यकारित्वम् । होपाधयोग्येन यजमानेन संकल्प्य यागादौ प्रतिनिधिकरणे य- जमानस्य सत्त्वेन तत्प्रतिनिधावगतत्वात् । नच तदभाव इस- स्य तदयोग्यत्वे इत्यर्थः । विज्ञेनापि यजमानेन वाचनिकम- तिनिधिकरणे ऽसत्त्वात् । 'होतारं वृणुयात्' इति विधेः । न च तत्र होता न प्रतिनिधिः किन्वङ्गमेव, तत्र स्वयं प्रक्षेपस्य विधानात् । होता तु न सागकर्ता तस्य द्रव्ये स्वत्वाभावात किन्तु प्रक्षेसोच्यते। मुख्ये यागे सागरूपे यजमान एवाधिका- री, अतो लक्षणं युक्तमवति वाच्यम् । तथाऽप्यन्यकार्यस्या- न्याजन्यत्वात् । नीहित्वेन कारणत्वस्य श्रुतत्वाव । अन्य- था व्रीहेभिचारेण जनकत्वं न स्यात् । उच्यते । तद्या. गत्वेन तत्र विहितचरुत्वेन-एवं तच्चरुत्वेन तत्र विहितद्रव्यत्वेन कार्यकारणभावस्य वाच्यत्वादुक्तपेव लक्षणमिति ।
२२ लघुपूर्वमीमांसाऽधिकरणकौमुदी ३१ अथ फलभूनाऽधिकरणम् --- आधाने दक्षिणा श्रूयते "एका देया, सिस्रो देयाः, षट देयाः" इति । अत्र चैकदक्षिणावरुद्ध दक्षिणान्तरस्य निराका- जलयाऽनन्त्रयात वाशब्दः कल्प्यते । तेन एका वा देयेति । स. थाच तिस्र इयत्राऽऽकाङ्क्षा भवति । वाशब्दस्य कोट्यन्नराका- कोत्थापकत्वात् । तथा च "अल्पेनेष्टस्य संसिद्धावधिक का प्रव- तते" इति न्यायात् गोत्रयादिदक्षिणायाममवृत्तौ तद्वदापामा- ण्यमियत्र सूत्रम्-"यो भूय आरभते, तस्थ फले वि. शेषः" इति । भूय इति बहुशब्दस्य सिद्धम् । तेन भूयः वहूपका. रणाङ्गकम्, उत्कृष्टाङ्गकञ्च; एवं बहुकालकृच्छ्रसाध्यं, कृष्टोत्क- साध्यञ्च । आरभते-करोति । तस्य फले विशेषो बहुकालव्या- पकत्वम् । फलगतोत्कर्षविशेषश्च भवतीयर्थः । तेनाधिकफला- थिना विस्रो देया इति । अत्र वदन्ति । "स्वर्गकामो वसन्ते आदधीत इत्या- धानविधौ स्वर्गकाम इति श्रवणात्तत्कायना-अधिकारः, नतु स्व- गविशेषकामना । तथा चाधिकारिमविष्टकामनायामनुलिखितफल- स्य यागजन्यत्वे ऽतिप्रसङ्गात् कथं फलभूमेति ? उच्यते । यथा दीपमात्रार्थी दीपं करोति तत्र च तैलबहुत्वे तस्याधिक- कालव्यापकत्वं, वर्युत्कर्षे दीपोत्कर्षः, कारणवैलक्षण्यात् । तथाऽ. त्रापि सामान्यकामनाया आधिकारात् सामान्यफलं भवत्येव, विशेषस्तु कारणलक्षण्यात् । विशेषफलेऽपि सामान्यधर्मो ऽस्त्येव । नचातिमसङ्गः । अन्यफलप्रयोजकरूपासचादिति । ३२ अधानुषणाधिकरणम्- "पारमेष्ठ्यकामः परमेष्ठिनं यजते भास्वन्तम्” इति श्रु. " लघुपूर्वमीमांसाऽधिकरणकौमुदी- २३. - त्या परमेष्ठिदेवतावरोधे देवत्तान्मरं निराकासमिति । तथाच भास्वन्तमित्यत्र पारमेष्ठयकाम इत्यस्य यजते इत्यस्य चानुष- झाकर्मामानिधिः । तत्कामो भावन्तं सूर्य यजते इत्यत्र सूत्रम्- "वाक्यभेदापत्तर्विशेषणत्वम्" इति । तथा च भास्वन्त- मिति परमेष्ठिविशेषणम्, न तु रूपपरं, वाक्यभेदभिया रूढ्यर्थोऽपि त्यज्यत इति । एवमनुषङ्ग एकत्र समभिव्याहृतस्य पदस्य वाक्या- बारे ममभिव्याहारः । तत्कल्पनश्च तात्पर्य कल्पनाधीनम् । सत्र च मानाभावः । यत्र तु सत्प्रमाणपस्ति तत्रानुषणाधिकरणन्यायो न प्रवर्तते इति बोध्यम् । ३३ अथ देवतासाहित्याधिकरण- "अग्नीपानीयं पशुमालमेत " इत्यत्र "द्वन्द्वात्परो यः श्रूयते स प्रसेकमभिसम्बध्यते" इति न्यायाच्छमत्ययबोध्यदेवतात्वस्य प्रत्येकमन्वयेन प्रसेकं देवतात्वं युक्तम् । अत एव 'मनोतास्यग्ने पारिरिषस्त्वन्तवे जुबल सर्वरीरं नियुक्ष्न वाह " इति मन्त्रेण केवलाग्निप्रकाशकेन होमः सङ्गच्छते । सोमस्य होमस्तु परिभाषिके- ण प्रणवादिचतुर्थीन्तनाम्नत्यत्र पूर्णपक्षे सूत्रम्-"विकल्पाप- स्था अष्टदोषासात्" इति । साहिखानवच्छिन्नयोः केव- लाग्नीषोमयोधर्मिणोस्तात्पर्यविषयत्वे विकल्पापत्तेः । एकदेवता. वरुद्धे यागे देवतान्तरविधानस्य साकासवाय विकल्पः स्यात् । तथा चाष्टदोषग्रामः । ते च वक्ष्यन्ते । अत एव 'यदग्नये च प्रजापतये च सायं जुहोति, य- सूर्याय च प्रजापलये च प्रातः' इसत्र प्रत्येक श्रुनावपि सा- हित्येन देवतमत्वमुक्तम् । नच यागे चतुर्थ्यन्तपदप्रयोगे समाहारः प्रयोज्य इतरेतरो वेति वाच्यम् । समाहारे साहित्यस्य विशे- ध्यत्वात, तस्य च देवतास्वाभावात् । इतरेतरे तु पदार्थी एव २४ लघुपूर्वमीमांसाधिकरणकौनुदी- विशेष्या इति स एव आदरणीयः । तेनाग्निप्रजापतिभ्यां मना- हेति वाच्यम् । "इन्द्रात्पर” इति न्यायस्तु यत्र साहिबान्वयो योग्यतत्परः । यथा शस्त्राशस्त्रहतानामित्यादौ । 'इन्द्राग्निलो- कमामोनि तत्तीर्थे स्नानमात्रता' इसादौ चन्द्राम्योरेकलोकाभा. वादिति । तथाच मनोहामन्त्रे अन्न इति पदस्य सोमसाहित्ये ल- क्षणा । नच लक्षणा स्वार्थ हानि-परार्थकल्पना-दोषद्वयदुष्टेति वाच्यम् । अनन्यगतिकत्वात् । अथ विकल्प:-~स द्विविधः । ऐच्छिको व्यव- स्थिनश्च । आयो यथा-"व्रीहिभिर्यजेत" “यत्रैर्वा यजेत" इत्यनेन यागे हेतुत्वमुभयो?ध्यने । तत्र चैकसाधनावरुद्ध सा- धनान्तरविधेनिराकासतापत्या विकल्पार्थं वाशब्दः यवै।- ति । वाशब्दार्थश्चान्यतरव्यवच्छेदेनान्यतरान्वयः । तेन त्रीहौ यवाभावः । सहकारियवे ब्रीह्यभाव इति । नच ब्रीह्यभावे यत्र इति यवस्य पश्चादुपदेशात् प्राप्यते, यवाभावे त्रीहिरिति कुत इति वाच्यम् । ब्रीहिजन्य पुरोडाशे यवस्य सहकारित्वे ब्रीह्यभावे यव इसेव न स्यात् । नच समुच्चय एवं कथं न कल्प्यते इति वा- च्यम् । तर्हि एकस्य यजतिपदस्य वैयपित्तेः । तथाच यजति पदेन प्राधान्येनैवोभयस्य हेतुत्वं बोध्यते । तच्च विकल्पं वि- ना तुपपन्नमिति । तेन यवजन्यपुरोडाशे ब्रीह्यभावः कारणम- वच्छेदको वा । नच यत्रोभयमस्ति तत्र को ग्राह्य इति वा- च्यम् । तत्र यागाभाव एनान्यत्तराभावविशिष्टस्याऽन्यत्सारख्यामा- वात् इति पूर्वपक्षे सूत्रम् -"इच्छाता निश" इति । तेन तुलपवलयोर्विकल्प ऐछिकः । तथा च यत्र त्रीहिमाचगस्ति पुरुष- स्य तु न तच्छ!, तत्र यागनिवृत्तिरेव । एवं योऽपि । ऐच्छिकविकल्पे ऽष्टौ दोषा यथा--स्वार्थस्य त्रीस्त्यागः, - लघुपूर्वमीमांसाऽधिकरणकौमुदी- २५ रार्थस्य व्रीह्य भावस्य कल्पनं, ब्रीहिभिरिति तृतीयार्थस्य साधन- स्वस्य प्रकृत्यर्थे ऽनन्धयः, अन्वयश्चाप्रकृत्यर्थे वह्यभावे इति वीहिपक्षे चत्वारो दोषाः । एवं यवपक्षेऽपीयष्टौ दोषाः । "स्वार्थत्यागो न्यार्थक्लाप्तिः प्रकृत्यर्थेऽप्यनन्वयः । अन्वयश्चाप्रकृयर्थे द्वयोरित्यष्टदोषकाः" इति । अत्र बदन्ति । वीडभावस्य जनकत्वे जनकीभूताभावप्रतियो- गित्वेन वीहेः प्रतिबन्धकत्वापत्तिः(१)। नच यचजन्ययागे तदस्त्ये- चेति वाच्यम् । नहि “यत्रैर्यजेत" इत्यनेन पृथग्यागविधिः, वाक्य. भेदापत्तेः । किन्तु प्राप्तपुरोडाशकरणकयागे ब्रीहियत्रयोः सा- धनत्वविधिः । तथाच पायजन्ये यागे व्रीहेः फलोपधा- नाभावेऽपि जननयोग्यताऽस्त्येवेति तस्य प्रतिबन्धकत्वं विरु- द्धमेव । तयोर्जनकत्वञ्च तृणारणिमणिन्यायेनेति । अत एव 'सपिण्डीकरणादूर्ध्वं सांवत्सरिकमाचरेत् । इत्यनेन माप्ते सांवत्सरिके श्राद्धे मृताह विधानम् । तदसम्भचे तत्रैव कृष्णैकादश्यां विधानं, नत्वेकादशीनिमित्तकश्राद्धान्तरं विधीयते । तथा सति तस्य श्राद्धस्य सपिण्डीकरणोत्तरत्वेन मृताहानिमि- तकत्वेन च त्रैपुरुषिकत्वापत्तेरिति। नचैत्रमाप तस्य ताहानिमि- तकत्वमेवेति वाच्यम् । एकोद्दिष्टं मृताहाने' इत्यस्य मृता. हनिमित्तकत्वयोग्यताया आर्थत्वाव । योग्यता च साशवि- धिविषयत्वमिति । अत्राहु-त्रीह्यभावस्याङ्गत्वं न श्रुतं, किन्तु कल्प्यम् । तथा चावच्छेदकत्वेनोपपत्तौ न तस्य कारणत्वं कल्प्यते । तेन वीभा- वावच्छिन्नलेन पवस्य हेतुतेति । अभावस्यावच्छेदकत्वकल्प- (१) तद्वत्ताबुद्धिं प्रति तदभाववत्ताबुद्धेरिव तुल्यवित्तिवेद्यन्या- यात्तदभाववसाबुद्धिं प्रति तद्वत्ताबुद्धेः प्रतिबन्धकत्वमिति भावः ।
२६ लघुपूर्वमीमांसाऽधिकरणकौमुदी-
नमेवैको दोषो बोध्यः । केचित्तु व्रीहेर्मुख्यत्वं यवस्था
ल्पत्वमुभयोपस्थितौ मुख्यत्वाद् व्रीहिरव ग्राह्य इति वदा
तन्मते-
'वैशाखे पौर्णमास्यां तु नरो भक्तिसमन्वितः ।
शम्भुं हरिं वा सम्पूज्य स्वर्गलोके वसेच्चिरम् ॥
इसैच्छिकविकल्पोदाहरणं बोध्यम् ।
व्यवस्थितविकल्पो द्विविधः । मुख्यकल्पानुकल
देन शस्ताशस्तभेदेन च । आयो यथा-'कुशैः काशैः
च्छाद्धम्' इसत्र काशे कुशाभावः सहकारी, नतु कुशे
शाभावः । ससपि काशे कुशस्यैव ग्रहणान्मुख्यत्वात् । ते
षट् दोषाः । कुपक्षे स्वार्थहानिः परार्थकल्पना कुशजन
त्वबाधः अमावस्यावच्छेदकत्वम् । काशपने स्वार्थहानिः स्वार्थ
जनकत्वाभावश्चेति । शस्ताशस्तभेदश्च-कचिच्छत्तयो
कचिदैच्छिक इति यथायथं दोषा बोध्या इति । शस्तत्वमधिक
लजनकत्वमिति ।
३४ अथ यावज्जीवाधिकरणम् ।
"सन्ध्यामुपासते ये तु" इत्याद्यर्थवादोपस्थितफलक
नाया अधिकारत्वबोधात् । अन्यथा ऽर्थवादवैयात् । तथा
फलकामनाविरहे ऽधिकाराभावात्तदकरणे प्रत्यवायो न स्या
अशौचकालवदिसत्र पूर्वपक्षे सूत्रम्-"यावज्जीवश्रुतिविरो'
त्"अ०२पा०४०२इति(१)"यावज्जीवमहरहः सन्ध्यामुपासी
इति विधिना"शुचिः कुर्यात्" इत्यनेनैकवाक्यतया (२)शौचकार
नजीवनस्य सन्ध्यावन्दनव्याप्तिर्बोधितेति तदाधापत्त्या न फलका
(१) 'कर्तुर्वा श्रुतिसंयोगात्' इति पाठः।
(२)'शुचिरकालजीवी कर्माधिकारी' इति सूत्रम् ।
लघुपूर्वमीमांसाधिकरणकौमुदी २७ सत्राधिकारस। अर्थवादस्तु विध्यपेक्षया दुर्बल: स्तुतिरूपः कर्ट- प्रोत्साहार्थम् । तथाचोक्तम्-'परोचना चाङ्गतयोपयुज्यते' इति । ३५ अथ जातेष्टयधिकरणम् । अश्वयुकृष्णपक्षश्राद्धादौ पक्षव्यापकश्राद्धस्य प्रशस्तत्वम् । तच्चाधिकफलवत्त्वम् । तेन फलजनकत्वं तस्य सिद्धम् । तथाच फलकामनाया अधिकारत्वे काम्यत्वाभिसत्वहानिः स्यादित्यत्र भाष्यम्-'जातष्टियत्सम्वलिताधिकारात्'इति । यथा-जा- तेष्टेरकरणे प्रत्यवायो 'बालहा भवेत्' इतिश्रुतेः । करणे पुत्रपूतत्वं फलम् । तथाच पुत्रोत्पादकस्य तत्संस्कारकामना नियता भवयेवेति जीवित्वसहिता फलकामना जातेष्टावधिकारः। तथा पक्षश्राद्धमत्तस्य फलकामना नियताऽस्येव । अन्यथा प्रत्यवायपरिहारमात्रस्य चरमकल्पालघूपायादेव सिद्धेः तन्मात्रा) बहुवित्तव्ययाऽऽयाससाध्ये पक्षश्राद्धे प्रवृत्तिर्न स्यादिति । तत्म- वृत्तस्याधिकोद्देश्यताऽस्त्येव । तथाच जीवित्वसहिता फलकामना तत्राधिकार इति काम्यत्वेऽपि नावश्यकरणवहानिः । ३६ अथ काम्यस्य नित्यापेक्षया विलम्बिताधिकार:- "कार्तिक्यामायुष्कामः पातघृतं दयात्" इति श्रुया मा- तर्दानं विहितम् । अग्निहोत्रमपि तत्काले कर्तव्यम् । तथा च किमादौ कर्तव्यमिति तत्र सिद्धान्त:-काम्यं हि कामनापेक्षं, सा चेष्टसाधनत्वज्ञानसापेक्षोत विलम्बिताधिकारम्(१)। "यावजी. वमग्निहोत्रं जुहोति" इति श्रुया कृताग्निग्रहणस्याग्निहोत्रं जीवनमात्रापेक्षमिति निसं झटित्यधिकारम् । अतो ऽग्निहो- त्रमादौ कार्यम् । नन्वेवमुपरागे श्राद्धात्पूर्व दानं न स्यात् । (१) विलम्बितो ऽधिकारो यस्मिस्तदिति बहुव्रीहिः । एवं झटित्याधिकारमित्यत्रापि बोध्यम् । - २८ लघुपूर्वमीमांसाऽधिकरणकौमुदी- - काम्यत्वेन तत्र विलम्बिताधिकारात् । श्राद्धस्य नित्यत्वेन झटित्यधिकारात् । तत्काले ऽधिकृताकरणेन प्रत्यवायप्रस- ङ्गात् । श्राद्धानन्तरञ्च दाननिषेधात्तदुत्तरमाप न स्यादिति दानस्य बाध एव स्यात् । नच दानविधिबलाद्भविष्यति दान- विधेः श्राद्धानधिकारिजीवत्पितकादिपरत्वेनोपपत्तेः । उच्यते- 'स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने' इति वचने, तथा- 'स्नाने दाने तथा जप्ये होमे श्राद्धे मुरार्चने । पुण्यः स कालो भविता नित्यमेव सुरेश्वर' ॥ इति वचने च स्नानानन्तरं दानस्य पाठात् श्राद्धात पूर्व पा- ठाच्च दानमेवाऽऽदौ । तदानीं श्राद्धाकरणेन जातस्य प्रत्यवायस्य पश्चात् श्राद्धकरणेन नाशात् । यथा शरदि नवश्राद्धाऽनाच- रणजन्यप्रसवायस्य गौणकाले वृश्चिके करणेन नाश इति । अत्रेदं बोध्यम्-यदि स्वल्प उपरागे कालः तदा श्रा- मेव कर्तव्यं निसबाधेन काम्यस्यान्याय्यत्वात् । यदि स्ना- नतर्पणाभ्यामेव कालो गच्छति तदा कालाभावात् श्राद्धं नास्त्येव । ३७ अथ तदन्तापकर्षन्याय:- "अनुदिते जुहोति" इत्यनेनारुणोदये होमस्य कर्तव्यता विहिता । स्नानकालोऽपि स एव । तथा च निरवकाशत्वा- द्धोम एव कर्तव्यस्तदानीं न स्नानं, तत्पूर्वञ्च न स्नानं रात्रि- त्वात् । तेन स्नानं विनैव होमः । तेन 'स्नातो अधिकारी भवति' इत्यत्र (१)सङ्कोच इति पूर्वपक्षे मूत्रम्-"तदन्तापकर्षा दुपप- त्तेः" इति । रात्रावलक्ष्मीः कालकी । दुःस्वप्नेन्द्रियश्रवणादिना (१) अनुदितहोमकतिरिक्ततयेति भावः । - लघुपूर्वमीमांसाऽधिकरणकौमुदी- अशौचं जातम् । नहि सति अशौचे होमः। अतः स्नानं तत्पूर्व कर्तव्यं सन्ध्यावन्दनञ्च पूर्व सन्ध्यावन्दनहीनस्य कर्मानहत्व- बोधनात् । सूत्रार्थस्तु तदन्तत्वादपकर्षः-तस्य पूर्वकर्तव्यतेति । तथा च स्नानानन्तरकर्तव्यत्वात्स्नानस्यापकर्षः। विहितकालं विनाऽपि पूर्वाचरणमिति । तेनारुणोदयस्नानविधिरनुदितहो- मीतरपरः। ३८ अथ तदाद्युत्कर्षन्यायः- उत्कर्षः स्वकालं विहायोत्तरकालकर्तव्यता । तथा च यत्कर्म तदादिभूतं तत्स्वकाले ऽकृत्वा तदुत्तरकाले कर्तव्यम् । यथा सपिण्डनं स्वकाले ऽपराह्ने कृत्वा तदिवसीयं सांवत्सरिक मध्याहाभावेऽपि कर्तव्यं सपिण्डनस्य तदादित्वात् । नच तदन्तापकर्षन्यायात्सपिण्डनं पूर्वाह्न कृत्वा सांवत्सरिकं मध्याह्ने क्रियतामेकस्य कालसागे विनिगमनाभावादिति वाच्यम् । स. पिण्डनस्य भावरूपपितृत्वप्राप्तिफलकत्वात् । भावात्मक फलं तु मुख्यकालेनैव भवतीति । सांवत्सरिकस्य प्रत्यवायपरिहारमात्रा- र्थकत्वेन गौणकालेऽपि सम्भवात् । अत्र केचित्- 'तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते' इतिवचनात सपिण्डनात्पृथक् न सांवत्सरिक कर्तव्यमिति वदन्ति । तन्न- 'असंक्रान्तेऽपि कर्तव्यमाह्निकं प्रथम द्विजैः। तथैव मासिकं पूर्व सपिण्डीकरणं तथा ॥ इसस्य निर्विषयत्वापत्तेः । तेनैव च सपिण्डत्वमिति वचन- स्यानाकरत्वाद । साकरत्वेऽपि एकादश्यादिक्रियमाणपतितस- पिण्डनपरमिति । .
३० लघुपूर्वमीमांसाधिकरणकौमुदी- ३९ अथ संयोगपृथक्त्वन्यायः- "खादिरे पशु बध्नाति" खादिरं वीर्यकामस्य यूपं करोति" इति श्रुतिभ्यां खादिरस्य नित्याङ्गत्वम् , काम्याङ्गत्वञ्च बोधितम्। काम्यञ्च कामनासापेक्षत्वादनियतम् । तथाच सति अनिससंयो- गविरोधः । संयोगः सम्बन्धः प्रकृते तादात्म्यमिति यावत् । नच खादिरः काम्य एव । तथा काम्यत्वेन माप्ते खादिरे पशुब- न्धनाश्रयत्वमात्रं "खादिरे पशुं बध्नाति' इत्यनेन विधीयते । तेन यत्र कामनाविरहाद्यूपाभावस्तत्र पशुबन्धनाभाव एवेति वाच्य- म् । खादिरे इत्यस्य सप्तम्यन्तस्य वैयर्थ्यापत्तेः । सान्निध्या. देवाश्रयलाभात् । यस्यानियताङ्गत्वं तत्र नित्याङ्गत्वं नास्त्येव । यथा "चमप्तेनाऽपः प्रणयेत्, गोदोहेन पशुकामस्य" इति । चमसो-यत्काष्ठनिर्मितं प्रणीतार्थ पात्रं सः । गौदुह्यते ऽति गोदोहो दोहनपात्रम् । गोदोहेनाऽपा प्रणयनं कामनासत्त्वे एवेति तस्यानियताङ्गतेति । तथा च खादिरे नियतत्वमनियत- त्वञ्च विरुद्धमित्यत्र सूत्रम्-"एकस्योभयत्वे संयोगपृ. थक्त्वम्" इति । एकस्याङ्गस्योभयत्वे नित्यत्वकाम्यत्वोभयत्वे संयोगयोः प्रयोजकधर्मसम्बन्धयोः पृथक्त्वं द्वित्वं प्रयोजकामिति । निपताङ्गत्वप्रयोजकं यागं प्रति नियतपूर्वसत्त्वं, काम्याङ्गत्वप्रयो- जकं यागं प्रति नियतपूर्वासत्त्वं यस्याङ्गत्वप्रयोजिका कामना । एतदुभयसम्बन्धयोः पृथक्त्वमस्येव । खादिर इति । अयम्भाव:- यूपे पशुं निवध्याथ मोक्षयेदालभेत् । तत्र परिभाषया यूपे पशुनिबन्धनमावश्यकम् । ततः खादिरयूपस्य नियतत्वमेव । तत्रैव, यूपे काम्यत्वं बोषितम् । अपिना नियतत्वं कर्तुं समर्थम् । अतो ऽत्र न निसत्वकाम्यत्वयोर्विरोधः । तेन यस्य न कामना तेनापि खादिरः कर्तव्य एवेति । माधवीये तु "खादिरे पशुं बध्नाति" लघुपूर्वमीमांसाऽधिकरणकौमुदी ३१ इयत्र "खादिरो वै यूपो भवति" इति पाठो लिखितः । गोदो. हे तु कामनासम्बन्धमात्रम् । अयञ्च न्यायो ऽङ्गविषयो जाते- ष्टिन्यायस्तु प्रधानविषयः । ४० अथ व्यक्तिवचनन्याय:- "आग्नेय्या जुहोति" इति श्रूयते । आग्नेयी अग्निप्रका- शिका ऋक् । तस्याश्च स्थाने स्थाने नानाविधायाः श्रुतत्वात सर्वा एव ग्राह्या इति केचित्, तन्न । प्रच्छन्नवेदवर्तितादृश- ऋक्शङ्कया ऽप्रवृत्तेः । तथा च यस्यामृचि इच्छा इयैव जुहुया. दिसत्र सिद्धान्तसूत्रम्---"व्यक्तिवचनानां सन्निहितवि- शेषपरत्वात्" इति । व्यक्तिमात्रवाचकपदानां सन्निहितत- रसन्निहिततमसन्निहितपरत्वात् । व्यक्तिवाचकास्तु योगार्थमा- अपुरस्कारेण प्रवृत्ताः पाचकादिशब्दाः । पाचकशब्दः पा- ककर्ममात्र प्रयुज्यते । पाचकमात्रवृत्तिधर्मश्च न पाककति न तत्र प्रयोगः । एवञ्चाग्नेयीपदमपि व्यक्तिमात्रवाचकम् । अग्निर्देवता अस्या इति योगार्थत्वात् । तथाच सन्निहितैव ऋक् ग्राह्येति । मीमांसकमते रूढं घटादिपदं जातिवाचकम् । योगार्थ- प्रवृत्तम्पदं व्यक्तिमात्रवाचकं तत्र समुदायशक्त्यभावादिति। तेन गां दद्यादिसत्र यत्रेच्छा तां गां दद्यात् । तत्र नायं न्यायः व्यक्तिवाचकत्वाभावादिति । ४१ अथ पणपुराणन्याय: "पुराणं षोडश पणा” इत्यत्र षोडशपणघटितं पुराणं श्रुतं तत्र च षोडशात्वं चरमव्यक्तः । तथाचान्येषां पणानां कथं तटकत्वमिति चेन्न, प्रत्येकापेक्षया सर्वेषां षोडशत्वात् । ४२ अथ दण्डापूपन्याय:- पिष्टकेषु पाकाथै स्थाल्यामधिश्रितेषु एकस्मिन् पक्षे तदुद्ध- - ३२ लघुपूर्वमीमांसाधिकरणकौमुदी- - रणं सूच्यग्रेण दण्डेन क्रियते । अत्र च अपूपस्योद्धरणे दण्डस्यो- द्धरणं भवतीति । ४३ अथ धूतपणन्याय:- द्यूते प्रथमक्रीडायां यः पणः कृतः ततो द्विगुणः पणो द्वितीयवारक्रीडायां पराजयिना दुःखारिक्रयते । एवं तृतीयवारं दारपितृगुणादि । अत एव जिकनभट्टेन प्रथमप्राजापत्यानन्तरं द्वितीयादिशाजापत्ये दुःखाधिक्यादेकधेनुनाचिता किन्तु घेनुद्व- यादीत्युच्यते। ४४ अथ कापिञ्जलाधिकरणम् "कपिअलानालभेत" इति श्रुत्या कपिअलगतं बहुत्वं बो. धितम् । तच्च विवक्षितं विधेयगतसंख्यात्वात् । कपिलस्या- न्यतो ऽमाप्तत्वाविधेयत्वम् । बहुत्वञ्च त्रित्वमारभ्य परार्द्धपर्यन्त- मित्यनध्यवसायेनाप्रवृत्त्या तटेदाप्रामाण्यापत्तिरिया सूत्रम्-"प्र. थमोपस्थितेस्तन्त्रत्वात्"अ०११पा० १५०४३ इति(१)। त्रि- वोत्पत्यानन्तरं त्रित्वसहितैकत्वेन चतुष्वं जन्यते इति मते त्रित्वस्य प्रथमोपस्थितत्वात्तदेव बोध्यते । यस्य मते ऽपेक्षाबुद्धिविशेषसहक. तेनैकत्वत्रयेण त्रित्वं जन्यते इति, तन्मते चतुष्ट्वोत्पत्तिकाले त्रित्वस्यानुपस्थितत्वान्न पूर्वव्याख्या समीचीना। किन्तु प्रथमोप स्थितिशब्देन लाघवमुक्तम् । तथाच व्यक्तिलाघवात त्रित्वमेव बहुत्वमिति । कपिआलो जलचरः पक्षिविशेषः । ४५ अथ तक्षसूत्राधिकरणम्- "पर्यङ्कीयतक्षसूत्रे च्छिन्ने आयुषीमिष्टिं निर्वपति" "आश्वि: न्यां जुहोति" इति श्रुतिः । पर्यङ्कपरिमाणज्ञापनार्थं तक्ष्णा (१)"प्रथमं वा नियम्यते कारणादतिक्रमः स्यात्" इति पाठः।
NA लघुपूर्वमीमांसाऽधिकरणकौमुदी ३३ यत्सूत्रं पर्यङ्कार्थककाष्ठे ऽपितं तस्य दैवाच्छेद इयर्थः । अत्र च इष्टेः प्रधानत्वकल्पने फलकल्पनाऽधिकारकल्पनयोगौरवापत्त्या (१)पर्यङ्कस्यैवाङ्गित्वं कल्प्यते इति पूर्वपक्षे सूत्रम्-"अलौकि- कस्य लौकिकाङ्गत्वायोगात्" इति । अयम्भावः-अङ्गस्य प्रधानविधिसापेक्षत्वं नियतम् । पर्यङ्के च प्रधाने विध्यभावा- दिष्टेर्न तदङ्गत्वं किन्तु सूत्रच्छेदनिमित्तकं तत्सूचितामङ्गलनाशाय कर्मान्तरमेवेति । ४६ अथ आरम्भणीयन्याय:- "आमावैष्णवमेकादशकपालं निर्वपेत् दर्शपूर्णमासावा- रिप्समानः" इति श्रुतावारम्भणीयेष्टेर्दर्शपूर्वकाले कर्तव्यता बोधिता। तथा तस्या दर्शाङ्गत्वमेव कल्प्यते कर्मभेदे गौरवादिय- त्र सिद्धान्त:-"तस्या अतः सफलत्वात्" इति(२) । यथा "आग्नावैष्णवमारम्भणीयाख्यं जुहोति बसुकामः" इति श्रुत्या सफलत्वबोधनात्, तदेकवाक्यतया चैकमेव कर्मेति । तथा चा. रिप्समान इत्यनेन दर्शारम्भकालकर्तव्यत्वमात्रं बोधितं नत्व- ङ्गत्वमिति। ४७ अथाङ्गस्य प्रधानकालान्वयाऽनन्वयो- शिखाबन्धनस्याङ्गत्वं "विशिखो व्युपवीतश्च यत्कराोते न तस्कृतम्" इत्यनेन श्रूयते । कर्मभेदे ऽङ्गानां भेदादङ्गस्य प्रधानका. लान्वयनियमाव प्रतिकर्म पृथक् पृथक् शिखाबन्धनं कर्तव्यमि- ܕܐ (१) पर्यङ्केष्टेरेवेत्यर्थः। (२) "सकृद्धा ऽऽरम्भसंयोगादेकः पुनरारम्भो यावजीवप्रयो- गात्" ( अ०९ पा० १ अधि० ११ सू० ३५) इति सूत्रं भाष्यादि- पुस्तकेषु दृश्यते । ।
- लघुपूर्वमीमांसाऽधिकरणकौमुदी- त्यत्र सिद्धान्त:-साधारणे ऽङ्गे प्रधानकालान्चयानियमाव किन्तु असाधारणे प्रधानप्रयोगान्तर्गतेऽङ्गे प्रधानदेशकालान्वय- नियमः । श्राद्धादिपूर्वदिनकर्तव्यनिमन्त्रणादिवारणाय प्रधान- प्रयोगान्तर्गते इति । ४८ अथ समं स्थादश्रुतित्वादिति न्याय:- "अश्वं प्रस्तोतृपतिहर्तृभ्याम्" इति यागविशेषे एकाश्वद- क्षिणोभयोः श्रूयते । अत्र कीदृशो भाग इमात्र सिद्धान्त:-"समं स्थादश्रुतिस्थात्" (अ० १० पा० ३ अधि० १३ मू० ५३) इति । समभागकल्पनमित्यर्थः(१)। ४९ अथानेकार्थत्वाकल्पना- "आदित्यो चै यूपो भवति" इति । अत्राऽऽदित्यपदेन आदित्यवर्ण उच्यते । आदित्यस्य यूपत्वासम्भवाद । तथा च आदित्यपदस्य आदित्यवर्णे शक्तिरेवाऽऽदित्यपदप्रयोगादित्यत्र सूत्रम्-"अन्यायश्चानेकार्थत्वम्" इति । लक्षणयाऽप्युपपत्ती न शक्तिः कल्प्यते। पाक्तिकल्पने नानार्थता स्यात् सा चायुक्ता। अत्र च बोधकाभावे सतीति बोध्यम् । तेन हरिपदादौ न दोषः । तत्र शक्तिग्राहकमानस्य कोशस्थ बोधकत्वादिति । ५० अथ प्रक्रमाधिकरणम्- "मनसा सङ्कल्पयात, वाचा ऽमिलपति, कर्मणा चोपपाद- (१) वस्तुतस्तु इदं सूत्रं पूर्वपक्षसाधकम् । “अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान कर्मण्युपपद्यते दर्शना- विशेषस्य तथाऽभ्युदये” इति सूत्रेण-दीक्षावाक्ये प्रतिहस्तृिती. यित्वसमाख्यानात् प्रस्तोतुश्चार्द्धित्वश्रुतेः समाख्याश्रुतिबलाद्वि- षमैव दक्षिणेति सिद्धान्तितम् । उभयसमुदायस्याचेनत्वेन स. म्प्रदानत्वासम्भवादक्षिणा विभज्यैष दातव्येति च भाष्यादितो -- इषगन्तव्यम्।
-- लघुपूर्वमीमांसाधिकरणकौमुदी ३५ पति, भक्रपे च सकुश्चतिलं सलिलं त्यजति" इति श्रुत्या प्रक्रमे कारम्भसमये कुशतिळसहितजलत्यागो विहितः । आरम्भश्च मनसा सङ्कल्पपतीत्यनेन बोधिता कर्मेच्छेद । तथा च कर्मक रणेच्छाकाल एव सलिलत्याग इत्यत्र सिद्धान्त:-"तस्याः प्रक्रमत्वासम्भवात्" इति । इच्छायाः पूर्वमासपूर्वदिनादायपि सम्भवात्तस्या न प्रक्रमत्वं किन्वमिलापस्य । तथा चाभिला- पनिष्पत्ती सकुशतिलजलत्यागः कार्य इति । ५१ अथ पृथग्विधौ गुणविधानासम्भवः- "खगै नयति चात्मानं बथा पितृगणानपि । कल्पे पः स्नाति तपसि परिकश्चित्सलिलाशये" ॥ इति श्रूयते । कल्पे-उपसि । तपसि-माघे । अत्र च न कर्मा- न्तरविधिः, किन्तु प्राप्तनित्यस्नाने माघाख्यगुणविधिरित तेन पृथक् न सङ्कल्प इसत्र सिद्धान्त:-"पृथग्विधाने गुणविधा- नायोगात्"इति । पृथग्विधानं प्रकरणान्तरे विधानम् । नित्यस्ना- नप्रकरणे माघस्नानाविधानास्कर्मान्तरमेवेति । ५२ अथ सर्वशत्यधिकरणम्- ननु नित्यस्य यथा किञ्चिदङ्गहान्याऽपि सिदिस्तथा काम्य- स्यापि स्यात् विहितत्वाविधाषादित्यत्र सिद्धान्तसूत्रम्--"का- म्ये सर्वशक्तिमानधिकारी" इति । अयमर्थ:- काम्या. पूर्व प्रति तत्तदङ्गानां हेतुत्वेनैकस्याप्यभावे काम्यापूर्वानिष्प- तेः । नित्ये तु काम्यापूर्व नास्ति, किन्तु नित्यानाचरणस्य प्र- त्यवायहेतुत्वम् । तथा च शक्ययावदङ्गसहितप्रधानानाचरणस्य प्रत्यवायहेतुत्वं कल्प्यते निसे प्रतिनिध्युपदेशात् । अशक्ता- बन्नोत्सर्गमात्रेण श्राद्धनिर्वाहविधानाच शक्येति विशेषणम् ।
३६ लघुपूर्वमीमांसाऽधिकरणकौमुदी- एतच्च बोधकाभावे सतीति बोध्यम् । “यदि सोमं न विन्दे- त, तदा पूतीकानभिषुणुयात्" इति बोधकम् । तथा च सो- मप्राप्त्या सङ्कल्पेन कर्मारम्भे सति यदि सोमापचारस्तदा पूती- को ग्राह्यः । आरब्धसमापनस्याऽऽवश्यकत्वात् । नतु प्रथममेव सोमालाभे पूतीकानादाय सङ्कल्प इति । ५३ अथ तिर्यगधिकरणम्- यथा जौमिनिसूत्रम्-"तिर्थक्पशव्यायदेवानां कर्मसु नाधिकारः" इति(१) । तिरश्चां विशिष्टज्ञानाभावात, पङ्गोः प्र- चरणशत्त्यभावेन 'उत्थाय पूर्णी जुहोति' इति कर्मणो बाधात्, ध्यायेति-त्रय आर्षेया ऋषिधर्मा येषां ते घ्याया अन्धमूक- बधिराः। यथा-कश्चिदृषिः परद्रव्यादिवीक्षणे रागोत्पत्तिसम्भ- चेन नयने निमील्य तिष्ठति न किञ्चित्पश्यति । एवं कश्वि- षिः परद्रोहमिथ्यावचनसम्भवेन यत्किञ्चिन्न वक्ति, मौनी तिष्ठ- ति । तथा कश्चिदृषिः परनिन्दाश्रवणजन्यदोषपरिहाराय बनान्तं गत्वा तिष्ठति, किञ्चिन्न शृणोतीति । तथाचान्धस्य वीक्षणा. भावात् 'यजमानवीक्षितं हविर्जुहोति' इत्यादिबाघात, मूकस्य मन्त्रोच्चारणासामर्थ्यात्, बधिरस्य श्रोत्राभावेन लौकिकवैदिकव्य- वहाराभावाद, देवानान्तु मन्त्रमयत्वेनाचेतनत्वात् । अत एव देवग्रामो हस्तिग्राम इसादयो गौणप्रयोगाः । अत्र वदन्ति-तिरश्चां विशिष्टज्ञानाभावात् , देवा- नां विग्रहशून्यत्वेनाचेतनत्वात्मसक्तिरेव नास्ति कथमधि- (१) “कर्तुर्वा श्रुतिसंयोगाद्विधिः कात्न्यन गम्यते" (अ०६ पा० १ अधि०२ सू० ५) इति पाठो ऽन्यपुस्तकेषु ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी ३७ कारनिषेधः । अन्यथा (१)घटादीनामाप निषेधो बोध्येत । तत्रा: हु:-येषां तिरश्चां विशिष्टज्ञानमस्ति वालिसुग्रीवादीनां, तेषामनधि- कारबोधनात् । देवानां तु विग्रहसत्त्वेन चैतन्यमस्त्येव "इन्द्रः सहस्राक्षः" इति श्रुतेः । किन्तु तेषामेकदा नानायागसान्नि- ध्यासम्भवेन यागीयदेवतात्वासम्भवात् मन्त्रस्य देवतात्वमुच्यते । तथा च देवानां यागोद्देश्यत्वयागकर्तृत्वविरोधान्न कर्मण्यधिकारः । वस्तुतस्तु तिरश्चां वर्णाश्रमाभावादेवानधिकार प्राप्त एव । देवानान्तु मध्ये यो यष्टा स स्वं विहायान्येषां करणे ऽवि- रोधाव, यथा कृष्णले ऽवघातबाधः । तथा स्वोद्देश्यकयागबाधेऽपि न कर्मवैगुण्यमिति । यत्र चान्यमात्रदेवतायागस्तत्र स्वाच्छन्धे- नाधिकारः । एवं दानेऽपि । अत एवेन्द्रादीनां महाभारतादौ यागश्रुतिरप्पुपपन्नेति । ५४ अथ पश्वधिकरणम्- "पशुना रुद्रान् यजेत" इति श्रूयते । अत्र बहुरुद्रोद्देश्यक- एकपशुरनुचितोऽतो रुद्रसमसंख्याः पशवो ग्राह्या इतिपूर्वपक्षे जैमिनिसूत्रम्-"असति बाधे वैभक्तिकसंख्याया अत्या- गात्" इति(२) । पशोधेियतया तद्गतसंख्या विवक्षिता । रु- द्रानिति बहुवचनेन साहिसेन देवतात्ववोधनाच मोक्षणे नानु- पपत्तिः । रुद्रेभ्यः प्रोक्षयामीति सकृदेव प्रोक्षणादिति । ५५ अथ सहसाहित्यविवेक: तुल्यक्रियाणां (रूपाणां) परस्परसापेक्षाणामेकक्रियाहत्वं (१) घटस्थजलप्रतिमादीनामिति यावत् । (२) एतदधिकरणसिद्धान्तसूत्रं-"शब्दवत्तूपलभ्यते, तदागमे हि तद् दृश्यते तस्य ज्ञानं हि यथा अन्येषाम्" ( अ०४ पा०१ अधि० ०५ सू०१५) भाष्यादिपुस्तकेषु । - लघुपूर्वमीमांसाधिकरणकौमुदी- त्पम् । (१)अनेवम्भूते सहत्वमिति । सूल्यरूपत्वञ्च तरिक्रया- कतरधर्मिविशेषणत्वेनान्यतरस्यानुपस्थितत्वम् । तेन- "दामोदराय नभसि तुलायां लोलया सह । प्रदीपं ते प्रयच्छामि नमो ऽनन्ताय वेधसे" ॥ इत्यत्र सहत्वमेव दामोदरविशेषणत्वेन लोलाया उपस्थितः। श्च तुल्यरूपत्वं 'घट पटञ्च पश्यात' इत्यत्राप्यस्ति एकस्पा: याः समूहालम्बनामिकापा विषयत्वात, साहित्यं तु नास्त्प. परस्परसापेक्षाणामिति । तस्क्रियान्वयियावदमिनिरूप्यध- स्थतिविषयाणामित्यर्थः । “अग्नीषोमाभ्यां स्वाहा" इत्यादि- | द्वित्वादिः साधर्म्यम् । सहस्थले तु लोलायुतदामोदर- । तेन धर्मेणोभयोरुपस्थितिविषयत्वञ्च । चैत्रमैत्री स्वग्रामौ त इति वारणाय एकक्रियेति । तत्र गमनक्रियाला प्रत्येक पत्वात् । ननु तथापि द्वन्द्वन कथं साहित्यबोधः ? वच. यापेक्षया , साहित्यात, क्रियायां शब्दोपात्तत्ववियोषणा- दिति। ५६ अथ खलेवालीन्याय:- सोमयागविकृतौ "खळेवाली यूपो भवति" इति श्रूयते । गाली बलीवर्दवन्धनाय खले निखातस्य मेढिकाष्ठस्य संज्ञा । च यूपधर्मा अष्टाश्रीकरणादयः अत्रापि कार्या इति(२)। -- १) अतुल्यरूपाणामित्यर्थः । २) वस्तुतस्तु खलेवालीस्वरूपभङ्गभिया अष्टाश्रीकरणत- देयूपोत्पत्तिसाधनसंस्काराणां बाध एव । ये तु खेलेवाली. विरोधिनो यूपसंस्काराः पयूँहणादयस्ते एवात्र कार्या इति । दं सुबोधिन्यां वशमाध्याये (पा० २ अधि० ३२ सू० ६९) लघुपूर्वमीमांसाऽधिकरणकौमुदी- - ५७ अथ प्रतिपत्यधिकरणम्- "शकृत्समविध्यति, लोहितं निरस्यात, गुदेनोपयजाति, सर्व जुहोति" इत्यानीपोमीयपशौ श्रूयते । शकत्संपविध्यतीति दृष्टा- तार्थम् । यथा पशोरुदरवर्ति शकृत् त्यजति, तथा लोहितमाप त्यजति । अन्यत्र पशौ शीर्षमांसोपक्रमेण होमः । अत्र तु गुदमां- सोपक्रमेणेति । तथा च "यज्ञशेषमृत्विग्भ्यो ददाति" इति परिभाषया मांसस्य उत्तरा प्रतिपसिः प्राप्ता । अत्र च सर्वप्रहरणेन प्रतिपत्पभावात्कर्मवैगुण्यं स्यादिसत्र सिद्धान्त:--"यदि का. रानुपपत्तेः" इति । यदि प्रतिपाद्यं स्याचदा प्रतिपत्तिरङ्ग- मित्यर्थः। ५८ अथ आष्टमिकविकृत्यधिकरणम्- दर्शदिवसमपेक्ष्याष्टमदिने क्रियते इसाष्टमिकी विकृतिदर्श- यागस्य । यथा श्रुतिः-" अष्टमे हि सौर्य चळं निपेत् ब्रह्मवर्चसकामः" इति । अस्प यागस्येष्टित्वेन दर्श- विकृतित्वम् । तथाच दर्शधर्मातिदेशेन षड्विधहोमद्रव्याङ्गकत्वं प्राप्तम् । तथा चात्र सौर्यमियेकवचनश्रुतावपि चरुषट्कं कार्य करणगतषट्वस्यापि प्राप्तत्वात् इति पूर्वपक्षे सिद्धान्तः- "ए. कोद्देश्यकत्वेनाकांक्षितत्वात्" इति । अत्रैकदेवतायाः सू- पस्योद्देश्यत्वेन एकचरुरेवाकांक्षितः । अतो ऽतिदेशमाप्तस्यापि षट्वस्य बाध एव । दशैं तु षद्रव्यस्यैव देवताभिधानादिति । ५९ अथ धान्यमस्यधिकरणम्- "धान्यमसि,इति तण्डुलानावपति" इति श्रूयते । अत्र मन्त्र- लिनेन धान्यप्रकाशनात्तण्डुलशान्दो धान्यपरः । युक्तश्चै- तत् । तण्डुलपरत्वे अपघातबाधापरित्यत्र सिद्धान्त:-तण्डु.
लघुपूर्वमीमांसाऽधिकरणकौमुदी- लानिति द्वितीयया क्रियाजन्यफलस्य संस्कारविशेषस्य तण्डुले बोधनात् । मन्त्रलिङ्गेन चानुमितिद्वारा धान्ये संस्कारबोधः, तस्य च विलम्बितत्वात् । यथा-इदमावपनं धान्यनिष्ठसंस्कारज- नकं धान्यप्रकाशकमन्त्रकरणत्वादिति । तथा च श्रौतान्वय- बोधबलात्तण्डुलस्य कर्मत्व प्राप्ते कृष्णलन्यायेनावघातबाधो न दोषाय । तथा च मन्त्रे धान्यपदं लक्षणया तण्डुलपरामिति । ६० अथ जहाधिकरणम्- "अग्नये त्वा जुष्टं निर्वपामि" इति मन्त्रः प्रकृतौ श्रुतः। तथा विकृतौ सौर्यचरावापे अग्नये इत्येव पाठ्य लक्षणया च सूर्यपरं, न तु सूर्यायेति । वेदे तथाश्रुतेः कल्पने य मन्त्रत्वव्याहते- रिसत्र सिद्धान्तः~"अतिदेशादेवोपपत्तेः" इति । अ. यमर्थ: -यथा मन्त्रो ऽतिदेशप्राप्तः तथा मन्त्रगतसमवेतार्थत्वमपि मासं, तच्चोहं विना ऽनुपपन्नम् । तथा च यो मन्त्रः प्रकृतौ समवे- तार्थकः स मन्त्री विकृतौ यद्यसमवेतार्थकः, तदा समवेतार्थकपद- प्रक्षेपः प्रयोज्य इति । अहश्चासमवेतार्थकपदत्यागपूर्वकसमवेता- थपदसमभिव्याहारकरणम् । यस्तु प्रकृतावप्यसमवेतार्थकस्तस्य नोहः । यथा 'एतद्रः पितरो वास' इसस्य पार्षणप्रकृतावसमवे- तार्थकत्वादेकोद्दिष्टेऽपि नोहः । ननु धान्यमसीति मन्त्रेऽपि तण्डुलपदोहोऽस्तु । नच तत्र लक्षणयैवोपपत्तिरिति वाच्यम् । “अग्नये त्वा जुष्टमित्यत्रापि तथात्वापरित्यत्र सिद्धान्तमूत्रम्-"न प्रकृतावूडो ऽपूर्वत्वा- त्" इति । अपूर्वत्वादुपदेशविधिप्राप्तत्वात् । अयम्भावः-प्रकृतावूहे तत्र मुख्यपदं विहाय अद्यपदमेव वेदे प्रयुज्येत. मुख्यपदस्य निष्प्रयोजनलात् । नन्वेवं "शब्दे ऽविप्रतिपत्तिः" इति कात्याय- नमूत्रविरोधः । मुख्यशब्दप्रयोगे न कस्यापि विप्रतिपत्तिः-न Aama लघुपूर्वमीमांसाऽधिकरणकौमुदी ४१ वैयमिति तदर्थत्वादिति, मैवम् । तत्सूत्रस्य प्रतिनिधित्वेन गृ. हातपदार्थवाचकपदप्रयोगनिषेधार्थकत्वात् । यथा व्रीहिपति- निधिशालिग्रहणे "वीहिर्यज्ञेषु कल्पताम्" इति मन्त्रे शालिप- दोहाभावः । एतदपि मन्त्रे बोध्यम् । वाक्ये तु प्रतिनिधिरेनो. ह्यः । यथा मृताहप्रतिनिधावेकादश्यां श्राद्ध एकादमीत्वेन प्रयो- गो न तु मृततिथित्वेनेति । अग्नये त्वा ऽजुष्टमिति । अग्निमुद्दिश्य वा-साम, अजुष्टम्-अयातयामं, पोक्षामीत्यर्थः । ६१ अथ पाशाधिकरणम्-- दैक्षयागे श्रूयते "पाशेन पशुं बध्नाति, अथ मोक्षति, निष्ठन्तं पशुं प्रयजति,ततः पाशं छिनत्ति, अदितिः पाशं प्रग्नुमोक्नेतम अदितिः पाशान् गमुमोक्त्वेनान" इति । तरास्तद्वितियागे श्रू- यते "पाशाभ्यां पशुं बध्नाति" इति । अत्रातिदेशागतो पू. वोक्तगाशच्छेदनमन्त्रौ । ततः प्रथममन्त्रे पाशमित्यत्रैकवचनस्था- ने द्विवचनोहः कार्य: । द्वितीयमन्त्रे तु पाशानिति बहुवचनं प्रकृतावप्यसमवेतार्थकम्, अतस्तस्य विकृति पागेऽपि नोहः । अदृष्टार्थकत्वेन पाशानियेव पाव्यमिति सिद्धान्तः । वस्तुतस्तु पाशानिति : संमारपाशकामक्रोधादिपरमिनि । तिष्ठन्तमिति या. गान्तरे पशुघातानन्तरं प्रयाजाचरणम् । अत्र तु पशौ जी- वति । तथा च प्रयाजापकर्षे तदन्तकर्यकलापापकर्ष इति । ६२ अथ कालशौचाधिकरणम्- ननु शौचस्याङ्गत्वेन तदभावेऽपि नित्यानुष्ठानं काव्यमे- व । किञ्चिदङ्गहान्याऽपि तस्येष्टत्वात् । एचममावास्यायामती- सायामपि श्राद्धं कार्यमगावास्याया अङ्गत्वादङ्गबाधेऽपि निला- नुष्ठानादिसत्र सिद्धान्त:- "पुरुषविशेषणत्वान्नैवम्" इति । अयमर्थ:-'काले कुर्याच्छुचिः कुर्यात् । इतिश्रुत्या शौ- - ६ ४२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- चमधिकारिविशेषणं तदभावेऽधिकाराभावान्न कर्माऽऽचरणम् । एवं विहितकालजीवनस्याधिकारिविशेषणत्वाकालो ऽप्यधि. कारसम्पादक इति । एतन्यायमूलकमेव सन्ध्यां पञ्च महायज्ञा: न्' इसादिवचनमिति ॥ ६३ अथ हेतुमन्निगदाधिकरणम्- हेतुमन्निगदः-सहेतुकं वचनम् । यथा “अग्निं यजेत्, सहि आशुतोषो, यथेष्टदाता" इति । अत्राऽऽशुतोषत्वादिकथनादाशु. तोषत्वादिनाऽग्नेर्देवनात्वमन्यथा तद्वचनयर्यादित्यत्र सिद्धान्त- सूत्रम्-"प्ररोचनायोपपत्तेः" इति(१) । अयमाशयः-स हि आशुतोष इति हेतुमन्निगदः तस्य प्ररोचनार्थेनोपपत्तेः । प्ररोचना स्तुतिः । अग्निगागे झटिति प्रवृत्त्यर्थं हेतुन्निगदोऽग्नि प्रस्तौतीति । ६४ अथाऽऽरुणीन्याया- " अरुणयैकहायन्या गवा सोमं क्रीणाति" इत्यनन्तरं "वा- ससा क्रीणाति " इति श्रूयते । अत्र च विकल्पो युक्तः । गवा वाससा वा सोमक्रयः कार्य इति । अत्र सिद्धान्त:-"गुणत्वेनै म्यसिद्धेः" इति(२) । पूर्ववचनेन प्राप्त ऽरुणैकहायनगो. करणकसोमक्रये फलाधिक्याय वासोलक्षणगुणविधिरेवेति ॥ ६५ अथ सोमयाजिन्यायः- यागविशेषे श्रूयते “सोमेन दधिपयोभ्याञ्च यजेत" इति । अत्र सोमस्य दधिसहितपय सश्चभियोरपि प्राधान्यं यद्यप्युचि- तं तथापि “असोमयाजी न सोमेन " इति श्रुत्या प्रकृतसोम- ककम् . ( १ ) "अर्थस्तु विधिशेषत्वाद्यथा लोके” इति सूत्रं ( अ० १ पा०२ आधि०३ सू० २९) इति दृश्यते । (२) "अर्थैकत्वे द्रव्यगुणयोरैककान्नियमः स्यात्" इति सूत्रं (अ०३ पा० १ आधि० ६ सू० १२) इति दृश्यते ।
लघुपूर्वमीमांसाधिकरणकौमुदी- ४३ यागस्य सोमनिषेधात् न सोमस्य प्राधान्यमत्र, किन्तु दधिषय- सोरेव । अत्र सिद्धान्त:-"निमित्तायतिरेके प्राधान्यावि. रोधात्" इति । सोमयागाकरणनिमित्तात्सोमस्य व्यतिरे- केपि न प्राधान्यबाधः । तथा च सोमयाजिनां यागे उभय. स्यैव प्राधान्यम् । असोमयाजिनां तु प्रधानीभूतस्य सोमस्य बाधः । नहि बाधेन तस्य प्राधान्यं दूरीक्रियते इति । ननु सोमस्याङ्गत्वमस्तु, मैवम् । तर्हि तद्विकृतियागे ऽति- देशात्सोमप्राप्तिः स्यात् । प्रधानत्वे तु तस्यातिदेशो न स- म्भवति प्रधानातिदेशे तद्यागस्य प्रकृतयागत्वमेव स्यात् वै- लक्षण्याभावात् । तथा चाङ्गानामेवातिदेशः । तेषामुपकारकत्वा- तू प्रधानस्य चोपकार्यत्वात् कथं यजेतेसाकाङ्क्षायामतिदेशः । त- था च कथमित्यस्य केनाङ्गेनेत्यर्थत्वादङ्गानामेवातिदेश इति । अत एव दीक्षणीयादियागे "अप्रयाजास्ता" इति श्रूयेत । तत्र आहुतयो ऽपयाजाः प्रयाजरहिताः कार्या इसमाप्तयाजनिषेधा- नुपपत्त्या दर्शधर्माणामतिदेशः कल्प्यते, नतु दर्शमधानीभूता- नामाग्नेयादीनां त्रयाणांमिति ।। ६६ अथाक्ताधिकरणम्- "अक्ताः सिता जुहुयात्" इति श्रूयते । तत्र केनाक्ता इत्याकाङ्क्षायामेतत्प्रकृतियागे 'दना जुहोति' इति श्रुतेर्द- वाताः सिता इति प्राप्यते । अत्र सिद्धान्त:-"वाक्यशेषे घृतस्तुतेः" इति । अस्य यागाकरणस्योपसंहारे तेजो वै घृतम्" इति घृतस्तुत्यन्यथाऽनुपपत्या घृत वाक्ता इति बोध्यते । नच व्याहृतिहोमाद्यर्था घृतस्तुतिः तस्य सर्वत्राऽऽज्यकरणलेन स्तुतेर्वैयर्थात् ॥
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ताकम् ६७ अथाऽऽमिचाधिकरणम्- "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति, वा- जिभ्यो वाजिनम्" इति श्रूयते । अत्युष्णदुग्धे ऽम्लदधियोगेन क्षीरभागः कठिनो. भवति, नीरभागश्च भवति । तत्र क्षीरभाग आमिक्षा, सा विशोदेवदेवताका । नीरभागो वाजिनं तद्वाजिदे- । वाजं होमद्रव्यमामिक्षारूपमस्तीति वाजी इति योगार्थेन उपस्थिता विश्वेदेवा एव बोध्यन्ते । यथा 'बृहस्पतिर्वि श्वेदेवैः' इत्यत्र विश्वशब्दस्य . सर्वार्थतयोक्तसर्वदेवरित योगा- र्थाऽऽदरो नतु रूढ्या विश्वदेवगणग्रहणं, तथा ऽत्रापि । अन्ये तु योगाढेलन वाव बाजिपदेन सूर्याशा एवो- च्यन्ते । बृहस्पतिर्विश्वेदेवरिपत्र प्रकरणाद्योगार्थाऽऽदरः । नचान तथा । तथाच कर्मभेद एवेति वदन्ति । ६८ अथाभ्युदितेष्टिन्यायः- अभ्युदिरोष्टिकालः सूर्योदयकालः। सच मुहूर्तात्मकः । यथा- सन्धिदिनरजन्योश्च उदयास्तमयौ तथा । दिवाराव्योस्तथार्द्धश्च मुहूर्ताः समुदाहृताः ।। तथा च मुहूर्नात्मके उदयसमये साङ्गेष्ट्यनिष्पत्तेः कथं तत्र पत्तिः । अन सिद्धान्त:-"कालस्यारम्भ एवोपयोगात्" इति। अगम्भाव:-विहितकालजीवित्वेनाधिकारित्वात्कालो ऽधि- कारसम्पादकः । तथा चाधिकारस्य आरम्भ एवोपयोगः । शुचित्रवत् । अन्यथा आरम्भानन्तरमशौचे कर्मवैगुण्यं स्यात् । 'आरब्धे मूगकं न स्यात्' इत्यपि वचनमेनन्यायमूलकमेव । काले खलु समारब्धमकाले ऽपि समापयेत् ' इति । केचित्तु प्रधाननिष्पत्तिपर्यन्तं कालापेक्षाऽस्येव, उत्तराने - - तथा च- लघुपूर्वमीमांसाऽधिकरणकौमुदी- ४५ स्वपेक्षा नास्ति कालस्याधिकारत्वे ऽपङ्गत्वात् । अङ्गत्वश्च प्रधाननिष्पत्त्यैव चरितार्थमिति वदन्ति । ६९ अथ हविरुपलक्षणाधिकरणम्- “यस्य निरुतं हविश्चन्द्रमा अभ्युदियात, स त्रेधा तण्डुलान विभजेद, व्याहृतिभिर्जुहुयात्" इति दर्शयागे श्रूयते । "आग्ने. योऽष्टाकपालो भवत्यमावास्यायाम्" "ऐन्द्र दधि" "ऐन्द्र पयः" इत्यनेनामावास्यायां दध्यारम्भो विहितः । दनश्च व्यहसाध्यत्वाव यागो नाऽमावास्यायां, किन्तु तदुत्तरदिने । तत्र चापराण्हे द्विती- यावेये सति न यागः, किन्तु पूर्वदिने एव । तथा च दध्यार- म्भोऽपि यागपूर्वदिने । तथा च द्वितीयाविद्धप्रतिपदि याग. करणे प्रायश्चित्तार्थमाह-यस्य निरुप्तमिति । यस्य हविर्निरुतं पूर्वाण्हे यागो निष्पन्नः । अथ च दिवा द्वितीयावेधाधीनस्तदिने सायं चन्द्रोदयो भवति स महाव्याहृतिहोमरूपप्रायश्चित्ताय चर्थ त्रेधा तण्डुलान् विभजेत् । अत्र च "देवतातो हविर्षिभ- जेत्" इति चोपसंहारे श्रूयते । दर्शे या देवतोद्देश्या तस्या यद्ध- विस्तविभजेदित्यर्थः । तेन दधिपयसोरपि त्रेधा विभागः प्राप्तः । तथा च तण्डुलानिति पदं हविरुपलक्षणामिति । तथा च कात्यायन:- पर्वणयोश्चतुर्थीश आद्याः प्रतिपदस्त्रयः । यागकालः स विज्ञेयः प्रातरुतो मनीषिभिः॥ तेन यागपरदिने प्रायश्चित्ताथै दधिपयस्तण्डुलान् समानीय प्रत्येकं त्रेधा, कृत्वा व्याहृतिभिः प्रत्येकं जुहुयादिति । ७० अथ प्राणाधिकरणम् - "वेधसे वैधस्या जुहोति" इति श्रूयते । वैधस्या वेधःप्रका.
४६ लघुपूर्वमीमांसाधिकरणकौमुदी- शिकया ऋचेत्यर्थः । वेधःशब्दवाच्यो विरिश्चिर्विष्णुश्चेति । अत्र सन्देहे प्रवृत्त्यनुपपत्तिरिसत्र सिद्धान्त:- प्राणशब्दवत् ख्यातत्वात्" इति । अयमर्थः-उपासनाकाण्डे 'प्राणोऽस्मीति सं चिन्तयति' इति श्रुतिरास्ति । तत्र प्राणशब्दस्य प्रयोग इन्द्रे इन्द्रिये जीवे वायौ ब्रह्मणि च दृश्यते । यथा- 'इन्द्रन्द्रियब्रह्मजीववायुषु प्राण इप्यते' इति । तत्र बहुप्रयोगो ब्रह्मणि । यथा “सोऽयं प्राणमयः" इति, "प्राणः सर्व विभावयति" इति, "प्राणो ह्यानन्दमयः" इति । तथा च प्रयोगप्राचुर्यात प्राणोऽस्मीति ब्रह्मपरम् । तथा वेधाशब्दस्य विरिश्ची ख्यातत्वेन बहुप्रयोगाद्विारश्चिरेव वेधःशब्दार्थ इति । ७१ अथ विविदिषदधिकरणम्- "तमेवात्मानं ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकन" इतिश्रुत्या आत्मज्ञानफलको ऽग्निहोत्रादिर्यज्ञः माप्तः । “यावज्जीवमग्निहोत्रं जुहोति" इतिश्रुत्या नित्यमाप तत्माप्तम् । तथा च विविदिषुभिहस्थैर्वारद्वयमेतत्कर्तव्यम्, मैवम् । ब्रह्मज्ञानार्थ तत्करणेनैव नित्यस्यापि निष्पत्तेः । नच नित्यानित्यवैषम्यम् । काम्यकरणेनैव नित्यस्यापि सिद्धिरित प्रसङ्गन्याय एवात्र । यथा निमन्त्रितो ब्राह्मणो भुक्त्वा परकी. यश्राद्धं, स्वतृप्तिञ्च निष्पादयतीति । गुरुमते तु काम्यापूर्वनियापूर्वयोरेकविधिबोध्यतासम्भवा. दात्तौ वाक्यभेदापत्तेनित्यस्य फलश्रुतिः स्तुतिरूपैव, नतु नित्यस्य सकामाधिकारित्वमिति । ७२ अथ स्मृत्यधिकरणम्- स्मतेर्वेदमूलकत्वानुमानादेव निष्कम्पपत्तिजनकत्वम् ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ४७ अन्यथा पौरुषेयत्वेन भ्रमादिमूलकत्वशङ्कया तन्न स्या- त् । तथाहि-इयं स्मृतिः स्वसमानार्थकवेदमूला, अ- सम्भवन्मूलान्तरत्वे सति समूलत्वात, प्रत्यक्षवेदमूलकस्मृ. विवत् । एवञ्च वेदमूलकत्वानुमानादेवावच्छेदकतया वाक्या. थसिद्धेः श्रुतेर्न प्रमाजनकत्वमिसत्र सूत्रम्-"अकार- णत्वादर्थस्य" इति । कार्येण स्मृया कारणस्य वेदस्यानुमाने Sकारणत्वात् पदार्थस्यैव नानुमानविषयत्वं कुतो वाक्यार्थ- स्येति । अकारणस्य तद्विषयत्वे ऽतिप्रसङ्गात् । नचैवं कुतो विशिष्टप्रतीतिः ?, अर्थविषयकेण तटस्थपूर्वज्ञानेन भेदाग्रहाद्विशिष्टधीव्यवहारः । पाककृतौ मानसप्रत्यक्षायां पाक- विशिष्टधीव्यवहारवत् । बहिविषयके मनसो ऽस्वातन्त्र्यात् । मी. मांमकमते ज्ञानस्यामत्यासत्तित्वादिति ॥ ७३ अथ ज्योतिरधिकरणम्- "अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरनेन स. हस्रदक्षिणेन यजेन" इति श्रूयते । तेन ज्योतिष्टोमयागस्य त्रै- विध्यं नामत्रयविधानात् । 'गोशतं दक्षिणा' इत्यनेन च दक्षिणा विहिता प्राक् । अनेन सहस्रदक्षिणाख्यो गुणो विधीय. ते । तथा चानेनेतिपदात् त्रयाणामप्युपस्थानात् त्रिष्वेव सह. स्रदक्षिणागुण इत्यत्र सिद्धान्त:--"अथ पदेन च्छेदात्" इति(१)। अथैष सर्वज्योतिरित्यत्रसाथ पदेन पूर्वोक्तव्यवच्छेदाद- नेनेतिपदेन सन्निहितसर्वज्योतिर्याग एवोक्तस्तत्रैव सहस्रदक्षिणेति । ७४ अथ वैश्वानराधिकरणम्- " वैश्वानरमुपास्ते विद्युदादिसवारवाकाशोदकपृथिव्या (१) संज्ञा चोत्पत्तिसंयोगातू" ( अ०२ पा० २ आधि० ८ सू० २२) इति सूत्रं सूत्रपाठेऽस्ति ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- स्मकः : षड्भिरुपेतम्" इति । अत्र विद्युदादिरूपेण वैश्वानरस्य चिन्तनमुक्तम् । अत्र किं समुदायरूपेण चिन्तनं प्रत्येकं वा ?, इति संशये सिद्धान्त:-"साहित्यश्रुतेः" इति । बहुवचनेन सा- हित्यबोधनात् समुदायरूपेणैव चिन्तनमिति । यथाह भट्टः-- "साहित्यं द्विवचनबहुवचनाभ्यां द्वन्द्वसमासाच्च" इति । ननु “आ. दिसेभ्यो जुहोतीत्यादित्यो वै देवता" इति श्रुत्या साहित्येन च- तुर्था देवतात्वबोधोऽस्तु, मैवम् । नहि देवतात्रे चतुर्थाः शक्तिः किन्तु चतुर्था देवतायामनिराकर्तृकसम्प्रदानत्वान्यथाऽनुपपत्त्या तत् कल्पनीगं, तत्र च बाधकं देवना इति बहुत्वश्रुतिः । तथा च भाष्यम् -'बहुत्वस्य पृथग् निवेशितत्वात्' इति । अयार्थः-पृथक्पदं तृतीयान्तं परस्परभिन्नस्त्राश्रयार्थकं ते- न परस्परभिन्नस्वाश्रयैर्निवेशितत्वात् बुद्धावपितत्वात् । प्र. कृत्यर्थतावच्छेदकविशिष्टयावत्स्वाश्रयनिरूप्यत्वादिति यावत । तथा च देवता इलि बहुवचनेन प्रत्येक देवतात्वावगम इति । नि. राकर्तृकं “मा दद्या" इति निषेधवचनं तनास्ति यस्य सम्पदा- नस्य तदनिराकर्तृकामिति । अनिराकर्तृक सम्पदानस्यार्थः ॥ ७५ अथ गुणविकृत्यधिकरणम्- "एष एव विधिर्यत्र कुत्रचिरोमे" इत्यनेन कुशकण्डिकाक- मातिदेशादग्निष्टोमे 'शरमयं बर्हिर्भवति' इत्यनेन किं विधात- व्यमास्तरणार्थं कुशस्य प्राप्तत्वादित्यत्र सिद्धान्त:-"गुणवि- कृतिभावात्" इति । अयमर्थः-गुणस्य प्राप्तकुशस्य विकृति- त्वं तत्कार्यकारित्वं शरस्य विधीयते । तथा च शरा आस्तर- णीया नतु कुशाः। नचैवं "दध्ना जुहोति" इति स्थलऽपि प्रकृ- तियागातिदेशमाप्तचरुस्थाने दधिविधानं स्यादिनि वाच्यम् । तत्र 'दध्नेन्द्रियकामस्य' इति श्रवणात् गुणफलत्वं, नतु गुणविकृति- लघुपूर्वमीमांसाऽधिकरणकौमुदी- ४९ - - स्वम् । दध्नो गुणविकृतित्वे कदाचिदपि चरुस्तत्र न स्यादिति ॥ ७६ अथ क्रमः- यथाऽऽह भट्टा- "श्रुयर्थपठनस्थानमुख्यमावृत्तिकाः क्रमाः" इति । तत्र श्रौतक्रमो यथा-"त्रिता यूपं परिवीय आग्नेयं सव. नीयं पशुमुपाकरोति" इसत्र क्त्वाश्रुत्या आनन्तर्य बोध्यते । त्रि- वृता-त्रिगुणात्मककुशमेखलया परिवीय-परिवेष्टय सवनीयं- सोमाङ्गकम् उपाकरोति-आलभते इसर्थः । अत्र केचित्-क्वामययेन परिव्यानस्याङ्गत्वं बो. ध्यते । तेन पशूपाकरणस्याङ्गं परिव्यानमिति वदन्ति, तन्न । उभयोरपि मुख्ययागाङ्गतया "गुणानाञ्च परा- र्थत्वादसम्बन्धः समत्वात्स्यात् (अ० ३ पा० १ अधि० १२ सू० २२) इति न्यायादं । अत एवाग्नीषोमीययागे "यूपं परिवीयानीषोमीयं पशुमुपाकरोति, ततः सवनीयम्" इसभिधाय तद्विकृतियागे उक्तं "नात्राग्नीषोमीयमालभते, आश्वि- नग्रहं गृह्णाति" इति । तेनात्र यूपपरिव्यानानन्तरमाश्विनग्रहग्रहणं, ततः सवनीयपशूपाकरणम् । यदि परिव्यानं सवनीयपशूपाकरणाङ्गं स्यात्तदा मध्ये आश्विनग्रहग्रहणं नोच्येत इति । यथा वा “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत" इति । अर्थक्रमो यथा-"अग्निहोत्रं जुहोति" "यवागू पचति" इति । अत्र पाठक्रमादग्निहोत्रस्य पारिभाषिकस्याऽऽदावनुष्ठाने य- वागूपाकस्य निरर्थकत्वं स्यात् । तथा च कथं जुहोतीसाकाङ्क्षायां यवागूपाकोंपदेशः । तेनाऽऽदौ यवागूपाकः कार्यः । ततस्तया होमः । अर्थों युक्तिस्तेन क्रमो ऽर्थक्रमः । इदमग्निहोत्रं कर्मा- न्तरं पूषदेवताकम, अग्निहोत्रकर्ममाप्यर्थं तत्प्रयोगः । यवागुस्तु लघुपूर्वमीमांसाऽधिकरणकौमुदी- पिष्टचरुरिति । पाठक्रमो यथा-"इन्द्राय जुहोति", "अग्नये जुहोति" इसादौ । यथा वा मातृपूजानन्तरं वसुधारादानम् । यथा च स्नानतर्पणयोर्मध्ये सन्ध्यावन्दनपाठात् मध्ये एव तदाचरणमिति । स्थानक्रमो यथा-एकोद्दिष्टे पार्वणधर्मातिदेशात कुशा- सनाधनुष्ठान कर्तव्यम् । तत्र पार्वणे यस्मिन् स्थाने यत् क्रियते एकोद्दिष्टेऽपि तथा । तेन नाऽनध्यवसायः केन क्रमेण कर्तव्य- मिति । स्थानपदेनाऽऽदिमध्यावसानमुच्यते । मुख्यक्रमो यथा-ग्रहयागे ऽधिदैवतप्रत्यधिदैवतपूजनं केन क्रमेण कार्यमित्याकाङ्क्षायां मुख्यपूजनानन्तरमेव कर्तव्य- मुत्पत्ति विधौ मुख्यस्य प्रथमोपस्थितत्वादिति । प्रावृत्तिकक्रमो यथा-वाजपेये "सप्तदशा प्राजापत्यान पशूननक्ति, आलभेत" इति श्रूयते । तत्र च सप्तदशानाम- अने इच्छया क्रमो, ऽभ्यअनन्तु अभनप्रवृत्तिक्रमेण कर्तव्यमे- मालम्भनञ्चेति । एवं आद्धे पितृपितामहादिपात्रक्रमेण संस्रक. ग्रहणं पितृपात्रे कर्तव्यम् । एवं बलिच्छेदनमुत्सर्गक्रमेणेति ।। ७७ अथ (१) श्रुतिलिङ्गादिन्याय:- यथाऽऽह-जैमिनिः "श्रुतिलिङ्गवाक्यप्रकरणस्थानस- माख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्" ( अ० ३ पा० ३ अधि० ७ सू० १४) इति । श्रुत्यादिन्यायानामेक- विषये प्रसक्तावुत्तरोत्तरन्यायस्य दौर्बल्यं पूर्वमपेक्ष्योत्तरस्य विल- म्बनार्थोपस्थापकत्वादित्यर्थः । एषां लक्षणमुक्तं भाष्ये । यथा- (१) क्वचित् समवाये विरोधन्याय इति पाठः।
लघुपूर्वमीमांसाधिकरणकौमुदी- 4. ५१ श्रुतिर्द्वितीया, (१)क्षमता च लिङ्ग, वाक्यं पदान्येव तु संहतानि । सा प्रक्रिया या कथमित्यपेक्षा, स्थानं क्रमो, योगबलं समाख्या ॥ १ ॥ कारकविभत्त्यात्मकद्वितीया(२)श्रुतिः, तया कर्मगतं क्रियाफलाश्रयत्वं बोध्यते । तत्र क्रिया ( गमनादिः) शेषः साधनत्वात् (प्रामप्राप्तरियर्थः) । क्रियाफलाश्रयः शेषी साध्यत्वात् । तथा च शेषशेषिबोधकत्वाद् द्वितीयाया बलवत्त्वम् । मासमधीते इत्यादिवारणाय कारकविभक्तीति(३) उपपदविभक्ती- नान्त्वन्तर्भावितपदसापेक्षत्वाद् विलम्बितत्वम् । वेदान्तटीकायां वाचस्पतिमिश्रास्तु कारकविभक्तिमात्रं श्रुतिः,सर्वासामेव विभ- तीनां प्रकृत्पर्थस्वार्थबोधे ऽन्यनिरपेक्षत्वा बलवत्त्वमिति वदन्ति । लिङ्गयते झाप्यते ऽनेनेति लिङ्गं मन्त्रः । बोधकप- दघटितमन्त्रस्पार्थप्रकाशनसामर्थ्य लिङ्गत्वम् । यथा-बर्हिर्देवसदनं दामि" इत्पस्य मन्त्रस्य 'दाप लवने' इतिधातोर्दामीति सिद्धत्वा- बर्हिच्छेदनप्रकाशकत्वेन तत्रैव विनियोगः । वाक्यं परस्परसा- काङ्क्षपदकदम्बः। प्रकरणन्तूत्पत्तिविधिना प्रधानबोधानन्तरं केन प्रकारेण कर्तव्यमित्याकाङ्क्षाऽङ्गाभिधानप्रयोजिका । स्थानं क्रमः, स च तत्सानिध्ये पठितत्वम् । समाख्या योगार्थेन प्रवृत्तं पदम् । यथाऽऽह भट्टः- (१)शब्दसामर्थ्यमित्यर्थः। (२) यथा “व्रीहीनवहन्ति" इत्यत्र द्वितीयाश्रवणमात्रेण वी. हीणामवहननक्रियायां विनियोगो ऽवगम्यते । (३) "कालाध्वनोरत्यन्तसंयोगे” इति सूत्रविहितद्वितीयाया उपपदविभक्तित्वात । - - लघुपूर्वमीमांसाऽधिकरणकौमुदी- - अभिधातुं पदे ऽन्यस्मिन्ननपेक्षो रवः श्रुतिः । सर्वत्रावगता शक्तिीलङ्गमियभिधीयते ॥ संहत्याऽथ ब्रुवन्द्वन्दं पदानां वाक्यमिष्यते । प्रधानवाक्यस्याङ्गोत्या ऽऽकाङ्क्षा प्रकरणं मतम् ॥ स्थानं समानदेशत्वं समाख्या यौगिको वरः। इति श्रुत्यादिलक्ष्मोक्तं मीमांसापारदर्शिभिरिति । घर:- शब्दः सर्वत्राभिधीयते इसन्वयः। समानदेवात्वं-सान्निध्यम् । तत्र श्रुतिर्यथा-"ऐन्या गार्हपत्यमुपतिष्ठते" इति द्वितीयया गार्हपत्याग्निगतंक्रियाजन्यप्रीतिफलाश्रयत्वं साक्षा बोधितमातथा च तस्य देवतात्वं श्रुतिप्राप्तम् । ऐन्येति इन्द्रप्रकाशिकाया ऋचः करणत्वं बोधिनम् । तथा च विरोधः । नान्योपस्थापकमन्त्रेणा- न्यस्योपस्थानं विहितं, तेनैकलक्षणा ऽऽवश्यकी । तत्र च गा- ईपयपदे नेन्द्रलक्षणा । तदेवतात्वस्य श्रौतत्वात् । लिङ्गेन तु देवतात्वं विलम्बबोध्यम् इदमुपस्थानमिन्द्रदेवताकमिन्द्रप्रका- शकमन्त्रकरणत्वात्, ततः श्रुतिकल्पनम् 'ऐन्या इन्द्रमुपतिष्ठते' इतीसनुमानाधीनत्वात् । अत इन्द्रपद एवं गार्हपत्यलक्षणास च मन्त्रः कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इति । एवं "पा: यसेन दधना जुहोति" इति श्रुतिः । पायसेन-पयः प्रकाशन मन्त्रेण, पयः पृथिव्यामित्यादिना । तथा च दधिनिष्ठं करण. त्वं श्रौत, पयोनिष्ठश्च लिङ्गादनुमेयमिति लिङ्गं दुर्बलमिति । लिङ्गस्य वाक्याबलवत्त्वं यथा- "पुरोडाशं श्रपयेत्" इसनन्तरमङ्गाकाङ्क्षायां "स्योनं ते सदनं कृणोमि, घृतस्य धा. रया सुषेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठनीहीणां मे- ध(१) सुमनस्यमान"इति श्रूयते । अत्र कल्पयामीसन्तेन पूर्वाशेन (१) सारभूतत्यर्थः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ५३ पुरोडाशसदनकरणस्य प्रकायाः । उत्तरांशेन सादनस्य प्र. काशनम् । तथा च मन्त्रीलङ्गताद्वयप्रकाशः। एवं तस्मिन्निति श्रुत्या यदिति पदं कल्प्यम् । यत्सदने कल्पयामि, तस्मिन् सी. देत्येकवाक्यतया एक एव मन्त्रः सादनमात्रे वाक्येन विनियुज्यते इति लिङ्गवाक्ययाविरोध, इति चेन्न । लिङ्गस्य वाक्यतो बलवत्वा. त् । तथाहि यत्पदं श्रुतं नास्ति, किन्तु तत्कल्पयित्वा एकवा- क्यतया लिङ्गं कल्पनीयम् । तत्कल्पने तु प्रमाणाभावः । तद्विना च एकवाक्यता नास्त्येकार्थप्रतिपादकत्वाभावाद, सदनसादन- योः प्रतिपादकत्वात् । अत एव सूत्रम्-"अथैक्यादेकं वाक्यं साकाझं चेद्रिभागः" इति । शीघ्रोपस्थापक लिङ्गम्" इति च । वाक्यप्रकरणयोर्विरोधो यथा-ज्योतिष्टोमप्रकरणे श्रूयते "तिस्रः सान्नाय्यस्योपसदो द्वादशाहीनस्य"इति । अत्र च उपस- तु-सतिलत्रीहिचरुः । सानायो-ज्योतिष्टोमविशेषः । अत्र च ज्यो. तिष्टोमप्रकरणीयत्वेनाहीनपदं 'न हीनम्' इतियोगार्थेन सान्ना- ययपरम् । न च तत्रोपसत्त्रयविधिरस्त्येवेति वाच्यम् । एकवाक्य- तया पञ्चदशोपसद्विधानात् । एवं वाक्येन चाहीनपदस्य रू- ढ्या ज्योतिष्टोमविकृतरहीनाख्ययागस्योपस्थितिः तत्रैव द्वाद. शोपसदः, इति विरोधे सिद्धान्त:-योगाढेलववेन रूढपदघ- टितवाक्याच्छीघ्रं यागविशेषस्योपसदङ्गत्वप्राप्तिः, नतु प्रकरणा- नुरोधात् योगार्थस्याऽऽदरः । अहीनविषये प्रकरणस्य 'ज्योति, टोमः कथम्' इत्याकाङ्क्षाकल्पनाधीनमत्तिकत्वेन विलम्बितत्वा- दिति । अन्यप्रकरणमध्ये ऽपि प्रसङ्गादन्यनिरूपणं क्रियते इति ग्रन्थरीतिः। यथा छन्दोगपरिशिष्टे आभ्युदयिकप्रकरणे प्रस- ङ्गात्कतिचित्पार्वणधर्मा उक्ता इति । यथा वा दर्शप्रकरणे .
लघुपूर्वमीमांसाधिकरणकौमुदी- ब्राह्मणावगोरणादेदोषमुक्त्वाऽऽह-श्रुति:-'तस्माद् ब्राह्मणो नागोरयितव्यो नापि ताड्य' इसादि । अत्र प्रकरणाद् ब्राह्म- मानवारणं तदहननादि च श्रुत्या दर्शाङ्गतया बोधितम् । तथा चान्यत्र न नियम इति, तेन्न । वाक्यात्मकरणस्य दुर्बलत्वात् । तथा च सर्वदैव निषेधः । नच तत्प्रकरणपाठः किमर्थ इति वाच्यम् । प्रसङ्गसङ्गासा तपाठाद ।। प्रकरणस्थानयोर्विरोधो यथा-- राजसूये सर्वे एव इंष्टिपशुयागा अङ्गत्वं प्राप्ताः । तत्रा- भिषेचनीयाख्यस्य सोमयागविशेषस्य सन्निधौ श्रूयते "अक्षैर्दी- व्यति, राजन्यं जिनाति, शौनायोः शृणोति" इति । शौनायोफ-शुनाशेफमुनेश्चरितं पुराणोक्तम् । अत्र चाक्षदेव- नादि अभिषेचनीयस्थाने श्रवणात तस्यैवाङ्गं ?, किंवा प्रकरणा- द्राज मूयस्पाङ्गमिति ? । नचोभयथापि राजसूये तेषां कर्तव्यत्वा- द्विचारो ऽयमनुपयुक्त इति वाच्यम् । देवनादीनामभिषे. चनीयाङ्गत्वे यत्र प्रधानीभूतो ऽभिषेचनीययागः स्वतन्त्रस्तत्रापि तेषामनुष्ठानापत्तेः । अत्रोच्यते । कथं राजसूयः कर्तव्य इत्या- काङ्क्षायाः प्रवृत्तवाद तेषां राजसूयाङ्गत्वम् । अभिषेचनीयसनि. विपाठस्तु तदानन्तर्यकरणार्थमात्रमिति । स्थानसमाख्ययोर्विरोधो यथा- बहून्मन्त्रानुक्त्वा "एतत्पौराडाशिकम्" इति पठितम् । तन्मन्त्रगणमध्ये 'शुन्धध्वं दैव्याय कर्मणे' हात पठितम् । तथा च ' सान्नाय्ययागे श्रूयते “सान्नाय्याय ग्रहान् गृह्णाति, शुन्धध्वं दैव्याय कर्मणे, सानायेन जुहोति, पुरोडाशग्रहान् गृह्णाति" इति । अत्र च मन्त्रलिङ्गाच्छुन्धध्वमिति मन्त्रः पात्रशोधने विनियुक्तः। सच साम्नाय्यसन्निधौ श्रुतः। तथा च सानिध्यरूपस्थानबला- - लघुपूर्वमीमांसाऽधिकरणकौमुदी- त्साम्नायपात्रशोधने उपयुक्तः । अथ पौराडाशिकमन्त्रगणमध्यपाठाद्योगार्थवलेन पुरोडाश. पात्रक्षालने विनियुक्तः । पुरोडाशस्येदं पौराडाशं पात्रम् । तत्स- म्बन्धित्वान्मन्त्रः पौराडाशिक इति योगार्थः । अत्र सिद्धान्तः । सान्निध्यं बलवद् यदा पौराडाशिकपदस्यान्यत्रोपस्थितस्यानुसन्धान तदा योगार्थस्योपस्थितिस्तत्पूर्वमेव सान्निध्यात्सान्नाय्यपात्रे ऽन्व- पादिति । नच पुरोडाशपात्रक्षालनमावश्यकं तत् केन मन्त्रेणेति पाच्यम् । पौराडाशिकमन्त्रगणपठितान्यमन्त्रेण तत्कर्तव्यत्वा- द । नचैवं शुन्धध्वमिति मन्त्रस्य पौरोडाशिकमन्त्रमध्यपाठो नोचित इति वाच्यम् । यागान्तरे तस्य पुरोडाशपात्रेषूपयु- कत्वात् । सान्नाय्यं (१)ह विविशेषः । ग्रहः पात्रं, गृह्यते ऽत्रेति व्युत्पत्त्या। समाख्योदाहरणं यथा-"हौत्रमाचरति, औद्गात्र- माचरति" अत्र होतुरिदमिति योगार्थेन हौत्रं होमः । औद्गानं गानम् । अत्र बाधकाभावाद्यौगिक एवार्थो ग्राह्य इति । तदुक्तं- बाधिकैच श्रुतिनिसं समाख्या बाध्यते सदा । मध्यमानन्तु बाध्यत्वं बाधकत्वमपेक्षयोत ॥ ७८ अथ विधिनियमादि:- विधिरसन्तमप्राप्तौ नियमः पाक्षिके सति । सत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥ यद्यपि कार्यत्वप्रमापकः प्रसयो विधिः । सच लिडादिः । कार्यादिपदवारणाय प्रत्यय इति । तथापि प्रकृतेऽज्ञातार्थप्रमापको (१) दधिपयोरूपम् ।
५६ लघुपूर्वमीमांसाधिकरणकौमुदी- वैदिकः शब्दो विधिः । अनुवादकस्य गृहीतग्राहकत्वेनापमापक- स्वात् । नच तस्य भ्रमजनकत्वं वाच्यम् । प्रमाभ्रमविलक्षण. ज्ञानजनकत्वात् । स्मृतिवत् निर्विकल्पकवच तन्मते तदुभयविल- क्षणज्ञानमस्तीति । नियम आवश्यकत्वम् । अयोगव्यवच्छेद इति यावत् । परिसंख्या ऽन्ययोगव्यवच्छेदः । असन्तममा साविति प्राप्तिसामान्याभावार्थम् । तथा च वेदान्तराद, आतिदे. शाद, अर्थतो, रागाचाप्राप्तवित्यर्थः । आये यथा-"सोष्णीषा ऋत्विजः पचरन्ति" इत्यनेन पूर्वमुष्णीषस्य विहितत्वाद "लोहितोष्णीषा ऋखिज" इसनेनाधि- कफलार्थ प्राप्ते उष्णीषे लौहिसमा विधीयते। अन्यांशोऽनुवादः। अतिदेशाद्यथा-"एष एव विधिर्यत्र कचन होमे" इसनेन कुशकण्डिकातिदेशात्पर्युक्षणस्यापि प्राप्तौ वैश्वदेवहोमे “पर्युक्षण, स्वाहाकारैर्जुहुयात्" इत्यनेन पर्युक्षणोत्तरसकलकुशकण्डिकाधों निषिध्यते । “आधारमाघारयति" इत्यनेनापि कुशकण्डिकाधर्मत्वे- नाऽऽधारस्य माप्तत्वादाज्यभागनित्तिर्बोध्यते । यथा वा पा- णधर्मातिदेशात्सपिण्डने विश्वेदेवप्राप्तौ- सपिण्डनं तथा श्राद्धं दैवपूर्व नियोजयेत् । इति काण्डानुसमयो विधीयते । अनुसमयः अमिश्रणम् । देवकाण्डं समाप्य पितृकाण्डं कर्तव्यमिति । अर्थतो यथा-एकोद्दिष्टे ऽथैक्येन पवित्रैक्यस्यार्थतः प्राप्त्या एक पवित्रमित्यनेन दलैक्यं विधीयते । रागाद्यथा-ऋतौ भार्यामुपेयात् इत्यत्र नियमो विधीयते उपेयादेवेति । तथा “पञ्च (१)पश्चनखा भक्ष्या" इत्यत्र परिसंख्या १ "शशकः शल्यकं गोधा कुर्मी खगश्च पञ्चमः" इति स्मृ- त्युक्ता बोध्याः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- विधीयते । पञ्चनखेतरेऽभक्ष्या इति । तथा च कुत्र नियमः कुत्र परिसंख्या रागप्राप्तत्वाविशेषादत आह-नियमः पाक्षिके स- तीति । अयं भाव:--रागतो-यथा तस्य(१) प्राप्तिः, तथा तदभावस्यापि प्राप्तिरिति पाक्षिको भावः, अयोग इति यावत् । तस्मिन्नयोगे सति प्रशस्तिनियम:-अयोगस्य व्यवच्छेदः । अप्राशस्यञ्च पापजनकत्वं कावैगुण्यश्च यथासम्भवं बोध्यम् । सत्र चेति । तत्र-अप्रशस्ते । अन्यत्र-मास्ते । तथा चं अप्रशस्तान्यविषयकमाप्तौ परिसंख्या । अन्ययोगव्यवच्छेदो यथा-पश्चनखेतरभक्षणस्याप्र- शस्तत्वात्तन्यवच्छेदः । तथा च नियमे ऽयोगो दोषः । अतस्तद- भावो विधीयते । परिसंख्यास्थले ऽन्ययोगो दोषः । अतस्तद. भावो विधीयते इति । तेन नियमे लक्षणया तदभावनित्तिः । तथा च स्वार्थहानिः, परार्थकल्पनेति दूषणद्वयम् । परिसंख्याया- न्तु स्वार्थहानिः, परार्थकल्पना, रागमाप्तपञ्चनखेतरभक्षणबा- धश्चेति दोपत्रयमिति ॥ मिश्रास्तु-पाक्षिकसं-समुच्चयाभावः । ऋतुकालतदन्य- कालयोरुपगमे समुच्चयाभावात् नियमः । पञ्चनखतदन्ययोर्भक्षणे समुच्चपसम्भवात्परिसंख्या । अत एव शेषतदन्ययोर्भक्षणे समुच्च- यप्तम्भवात् "शेपम्भुजीत" इत्यत्र परिसंख्येति, वदन्ति । तञ्चि- नत्यम् । “स्वदारनिरतः सदा" "शयनं मध्ययामयोः" इत्यादौ समुच्चयासम्भवेन परिसंख्या न स्यादिति । विधिश्चतुर्विधः-उत्पत्तिविधिरधिकाराविधिरङ्गविधिः प्र- योगविधिश्वेति । तत्र प्रधानस्वरूपविधिरुत्पत्तिविधिः । यथा- (१) भार्यागमनस्य ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- "अमावास्यायां पितृभ्यो दद्यात्" इति । उत्पत्तिविधेश्च विध्यन्तरापेक्षया बलवत्वं निरपेक्षत्वात् । द्वितीयो यथा- "सपिण्डीकरणाचं दर्शश्राद्धादि चेष्यते" इति । अनेन कृतसपिण्डीकरणपिसकत्वममावास्याश्राद्धेऽधिकार इति बोध्यते । अङ्गविधिर्यथा-प्रधानमुक्त्वा तत्कथमित्याकाङ्क्षायां प्रह- तायथा-दर्शमुक्त्वा "इडो यजात" "समिधो यजति" "तनूनपा- तं यजति" "स्वाहाकारं यजति" "बहिर्यजति" "हविर्यजति" इति प्रयाजाद्यङ्गपदक विधिः । प्रयोगविधिस्तु कल्प्यः । यथा-अयमधिकारी एमिर- ङ्गैः कुर्यादिति विशिष्टविधिः । तथा उत्पत्तिविधिरपि द्विविध:- श्रूयमाणः, कल्प्यश्च । आद्यः प्रसिद्ध एव । कल्प्यो यथा-रा- त्रिसबेऽर्थवादाविधिकल्पनम्-"प्रतितिष्ठन्ति ह वा य एता रात्री- रुपयन्ति" इसनेन प्रतिष्ठाकामो रात्रिसत्रं कुर्यादिति कल्प्यते । कचिदनुवादाविधिकल्पनम् । यथा-"चरुं श्रपयति, चतुर- वत्तं जुहोति" इति । अनेन चरुहोममनूध चरुश्रपणं चतुरवदानं च विधीयते।तेन"चरुहोमं कुर्यात्"इत्यादावेव विधिः कल्प्यते।अवदा. नं तु जुबादौ घृतपूर्णेन स्रवेण घृतनिधानं, ततश्च तदुपरि चरुः स्थाप्यते, तदुपरि पुनस्तादृशघृतदानमित्युच्यते इति । एव. मतिदेशोऽपि कचित्कल्प्यः । यथा दीक्षणीयादियागानुक्त्वा "अप्रयाजास्ता" इति श्रूयते । ता आहुतयः प्रयाजरहिताः कार्या इयर्थः । तथा च प्रयाजामाप्तौ तनिषेधासम्भवाद्दर्शधर्मातिदेशः करप्या।
पूर्वमीमांसाधिकरणकौमुदी- ५९ थ श्रुतशब्दात्याग:- द्विष्णोरिति केशवं यजते" इति श्रूयते । अत्र केशववा- बहूनां सत्त्वाकेन नाम्ना उल्लेख इयत्र सिद्धान्त:- रेण वक्तव्यम्' इति । विहारो व्याहारः । तत्रा- स्य बलवत्त्वात्केशवेत्युल्लेख्यम्, नतु मन्त्रस्थवि- त्र विधौ नाम नास्ति तत्र लिङ्गस्थं ग्राह्यम् । यथा नभसीति । ननु- पद्मक्षेपेण शिवलोके महीयते । पिशब्दो लक्षणया दानपरः । तथाच तत्सङ्कल्पवा- पशब्दप्रयोगः स्यात् । मैवम् । स्वायत्ते काक्ये लक्ष. रनुचितत्वात् । अध्याहारेऽपि वाक्यभेद एव श्रुत. ब्दबोधविषयादधिकविषयकबोधजनकत्वादिति । 'थ विध्यनुवादवैषम्यम्- ये वाक्यस्य विधित्वानुवादत्वयोर्विरोध इसर्थः । सन्तसितपक्ष वन्ह्यादीन् यजेत, पौर्णमास्यां पौर्णमा. , भ्रूयते । तत्र च पौर्णमासेनेसंशेऽनुवादत्वं "दर्शपौर्ण नेत" इसनेन तस्य प्राप्तत्वेन तदंशे विधिवासम्भi विहायैव चतुर्दशतिथिषु विधिरस्तु । पक्षमियस्यन्त- पाश्रुतिविरोधात् । तथा चायं पौर्णमासोऽन्य एक णमासेनेति तद्विधिमाप्त्यर्थं तत्संज्ञा । यथा इष्टिसंज्ञा ष्टिधर्मकत्वात् पशुयागविशेषस्य । तथा चाऽऽरब्ध- सौर्णमास्यां पौर्णमासद्वयमेव कार्यम् । काम्ययो- व । एवापरपक्षनिमित्तकममावास्यायां । विधीयते । तत्र तु सामान्यामापास्याश्राद्ध अत - लघुपूर्वमीमांसाऽधिकरणकौमुदी- तदमावास्याश्राद्धयोस्तन्त्रेणैव निर्वाहो निसत्वात् । ८१ अथ नित्यानित्यवैषम्यम्- यस्य कर्मणो नियविधिविषयत्वं तस्य काम्यविधिविषयत्वं नास्ति । एतच्च गुरुमते बोध्यम् । निसापूर्वकाम्यापूर्वयोरेक- विधिबोध्यत्वासम्भवात् । यथा- 'यस्तु पूजयते निसं लिङ्गं त्रैभुवनेश्वरम् । स स्वर्गवासमोक्षाणां क्षिप्रं भवति भाजनम् ।। इति नित्यशिवपूजनस्य स्तुतिमात्रम् । यद्वा विधिकल्पनद्वारा कर्मान्तरमेवानेनार्थवादेन बोध्यते । तथा च काम्येन नित्यस्यापि प्रसङ्गेन सिद्धिर्न तु कर्मेक्यमिति । ८२ अथ सापेक्षत्वनिरपेक्षत्ववैषम्यम्- " आदित्यपरिवेशे आदिसाय यजेत" इति श्रूयते । न पूर्वाण्हनियमः आदित्यपरिवेशसमयकर्तव्यत्वादित्यत्र सिद्धान्त:--"बाधसापेक्षत्वापत्तेः" इति । तथा हि-सा- मान्यप्राप्तपूर्वाग्रहबाधं कृत्वा ऽस्य मध्याह्नादौ प्रवृत्तिः । पूर्वाण्ड- समये परिवेशे तु बाधीनरपेक्षेति एकविधेरुभयविधत्वं न सम्भ- वति । तेनास्य यागस्य पूर्वाहमात्रपरिवेशे कर्तव्यत्वम् न तु मध्याह्नादौ, निरपेक्षमत्तेः । यस्य बाधसापेक्षा प्रवृत्तिः । स विधिः कदाचिदपि न निरपेक्ष इति । न चोपरागस्यापरा- पहबाधकत्वात्तत्राप्येतादृशं स्यादिति वाच्यम् । सूर्योपरागस्या- पराण्हविषयकत्वसम्भवेऽपि चन्द्रोपरागस्य निरवकाशत्वापत्त्या अपराहविधेरेवोपरागातिरिक्तविषयत्वं कल्प्यत इति । वस्तुतो 'निशि काम्यत्रतेषु च' इतिवचने (५)पदाहवनीयवद्विरोधापत्त्या (१) एतबन्थस्थ(२३)त्रयोविंशाधिकरणवदित्यर्थः । तत्र . .
लघुपूर्वमीमांसाऽधिकरणकौमुदी ६१ निश्यपीयर्थः । तथा दिवा भागान्तरे मध्याह्नादौ (१)दण्डापूपव- सिद्धिरिति ॥ ८३ अथ द्वयोः प्रणयन्तीत्यधिकरणम्- यथा धातुयागे "तपस्तपस्यौ शशिरण, मधुमाधवौ वासन्तेन, शुकशुची ग्रैष्मेण, नभोनभस्यौ वार्षिकेण, इषोजौँ शारदेन, सहःसहस्यौ हैमन्तेन यजते" । "चतुर्पु पर्वसु वेदि कुर्व- नित"। "शारदे तु द्वयोः प्रणयन्ति, उपात्र वपन्ति"। "न वैश्व- देवे उत्तरवेदिमुपकिरन्ति, न शुनासीयर्ये" इति शतपथश्रुतिः(२)। अस्याः-तपस्तपस्यौ माघफाल्गुनौ व्याप्य शैशिरनाम्ना या. गेन यजो । एवमुत्तरत्रापि व्याख्येयम् । धातौ च पौर्णमा- सीद्वयममावास्याद्वयं च वर्तते । तदेव पर्वचतुष्टयम् । तेषु द्रव्या. सादनाय वेदिं कुर्वन्ति । तेन नैतेषु पत्र सु दर्भे द्रव्यासादनम् । शारदधातुयागे तु द्वयोः पर्वणोरेव वेदि प्रणयन्ति-कुर्वन्ति । पर्वनामान्याह- कर्कभाष्ये । आग्नेयं प्रथगं प्रोक्तं वैश्वदेवं द्वितीयकम् । बार्हस्पत्यं तृतीयन्तु शुनासीयं तुरीयकम् ॥ १॥ आद्ययोः पूर्ववेदिः स्यादुत्तरादिरन्सयोः । यागोपयुक्तवस्तूनि स्थापयेत्तत्र याज्ञिक इति ॥ २ ॥ प्रथमं पर्व पौर्णमासी । द्वितीयममावास्या । तृतीयञ्च पौर्ण- मासी । चतुर्थममावास्येति । शुनासीर इन्द्रस्तत्सम्बन्धि शुनासी- यम् । आधपर्वद्वये वेदिः पूर्ववेदिसंज्ञिका । अन्त्ययोरुत्तरवेद्या. (१) अत्रत्य(४२)द्विचत्वारिंशाधिकरणन्यायेनेति भावः। (२) उक्तानुपूर्वीका श्रुतिः शतपथब्राह्मणे नोपलभ्यते । संहितायां तु 'तपश्च तपस्यश्च शैशिरावृतू' इत्याद्यानुपूर्वी- का दृश्यते इति बोध्यम् ।
२ लघुपूर्वमीमांसाधिकरणकौमुदी- --- या । वेदिषु किं करणीयं तत्राऽऽह-उपात्र वपन्तीति । अ- -आसु वेदिषु उपत्रपन्ति-उपरि द्रव्याणि स्थापयन्ति । शा. । द्वयोरित्युक्तं तत्कयोद्वयोरियाह-न वैश्वदेवे उत्तरवेदिमु. करन्ति-कुर्वन्ति । एवं शुनासीयेऽपीति । तेन शारदे पूर्व- देवयकरणमेव उत्तरवेद्योनिषिद्धत्वात् । अत्र च शारदेऽपि दचतुष्टयस्य प्राप्योत्तरवेदिनिषेधः सङ्गच्छते । तथा चोत्तर- शे प्रापकस्य विधेर्बाधं विना न निषेधविधिर्भवतीति, दैिव बाधसापेक्षोऽयं निषेधविधिन कदाऽपि बाधनिरपेक्षः। तु निरपेक्षः स कदापि न तत्सापेक्ष इति । श्राद्धविवेके तु पर्युदासविधिरयमुक्तः । वैश्वदेवशुनासीर्य- नपर्वणि वेदि कुन्तीसर्थः । तथा 'वेदाविदं पिनाष्ट' इति रभाषया सोमाङ्गकयागमात्रे सोमपेषणार्थं वेदिविहिता। सो- ङ्गकयागविधिश्च द्विविधा-इष्टिः, पशुश्च । चर्वङ्गको याग हः । तेन दीक्षणीयादिविधिः सोमाङ्गकस्तत्र सोमविधेः । || च सर्वासामिष्टीनां दर्शपौर्णमासौ प्रकृतिः । 'प्रकृतिवच्च कृतिः' इति न्यायेन दर्शधर्मा दीणक्षीयादिष्यतिदिष्टाः । वे- रपि दर्शधर्मः । यागोपयुक्तं कर्म वेद्यां क करणीयमिति iऽश्रवणादिरप्यतिदेशादर्शे प्राप्ता । एवं सोमाङ्गकत्वेन (भाषयाऽपि वेद्यन्तरं प्राप्तम् । तथा च वेदिद्वयस्य वैयर्थेन शा- र्थत्वाभावादातदिष्टवदि बाधित्वा दीक्षणीयादिषु परिभाषा- धेतवेदिप्रवृत्तिः । परिभाषातो ऽतिदेशस्य दुर्बलत्वात् । सोम:- गादौ विष्टित्वाभावेन दर्शधर्मानतिदेशाद्वाधनिरपेक्ष एव पारि- पिकवेदिविधिरिति वैषम्यम् । तथा च वैषम्यपरिहाराय दी. यादिषु वेद्यतिरिक्तधर्मातिदेश एव । पारिभाषिकवेदिवि- तु तत्र निरपेक्ष एव भवतीति स्पष्टं दायभागसंसृष्टिवचन- लघुपूर्वमीमांसाऽधिकरणकौमुदी- ६३ द्वयप्रकरणे । एवं-- दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः ।। अयातयामान्येतानि नियोज्यानि पुनः पुनः । इतिवचने दर्भपदं केचित् श्रावणामावास्याऽऽहृतदर्भपरं वदन्ति। मासे नभस्यमावास्या तस्यां दर्भोच्चयो मतः ॥ अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः । इसनेनैकवाक्यत्वादिति, तन्न । वैषम्यात् । दर्भा इत्यस्यै- कवाक्यत्वाय वचनान्तरसापेक्षत्वात, कृष्णाजिनादौ तु निर- पेक्षत्वाद्वाक्यभेदः स्यात् । न तु समूहालम्बनरूपैकान्वयबोध: स्यात् । सापेक्षस्य विलम्बेनान्वयबोधजनकत्वादिति-दर्भा इति पदं दर्भसामान्यपरमेव । मासे नभस्यमावास्येति वचनं प्रति- मसवरूपम् । यथा- वार्षिकांश्चतुरो मासान् नाऽऽहरेत् मृत्तिकाः, कुशान् । असम्भवे त्वाददीत सद्यो यस्य प्रयोजनम् । इसनेन कुशाहरणनिषेधे तस्य प्रतिप्रसवरूपत्वादिति ॥ ८४ अथ परिभाषाऽधिकरणम्- 'कर्मण्यङ्गवैगुण्ये जुहोति' इति श्रूयते । तत्र द्रव्यमन्त्राका- कायां परिभाषा ग्राह्या । यथा । 'आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च मजापतिरिति स्थितिः ।। मन्त्रस्यानादेशे प्रजापतियाहृतिमन्त्र इयर्थः । यथाऽऽह परिशिष्टे-. प्रजानां पतये वेता महाव्याहृतयो ऽव्यया इति । एवं देवतायाश्वानादेशे व्याहृतिरेव प्रजापतित्वेन पूज्ये.
- ६४ लघुपूर्वमीमांसाऽधिकरणकौमुदी- सर्थः । एवञ्च यत्र विशेषपरिभाषा नास्ति तत्रोक्ता सामा- न्यपरिभाषा ग्राह्या । तथाहि "चतुर्होत्रां पौर्णमासीम" इति, “पञ्चहोत्राममावास्याम्" इति च श्रूयते । चत्वारो होत्रा होतारो ऽस्यामिसनेनोपांशुसंज्ञको याग उक्तः । पञ्चहोत्रामि- त्यनेनाग्नीषोमसंज्ञको याग उक्तः । अनयोर्द्रव्यदेवतासाकाङ्क्षवा- द्विशेषपरिभाषा ग्राह्या । यथा- ऐन्द्रं दध्यमावास्थापौर्णमास्योः पयस्तथा । तथा ऐन्द्रमियर्थः । एत्रम् "आग्नेयेन पक्षान्ते यजेत" इति श्रूयते । आग्नेयेन-आग्नेयाख्ययागेन । पक्षान्ते-तत्तिथिद्रये । तेन पौर्णमास्यामारम्भः, समाप्तिस्त्वमावास्यायामिति । मध्यस्थप्र- तिपदादिचतुर्दश्यन्ततिथिव्यवधानं न दोषाय वचनबलात एवञ्चाग्नेयेऽपि द्रव्यदेवताकाङ्क्षायां तयैव परिभाषया तिथिद्वये ऐन्द्रदध्यैन्द्रपयसोरेव ग्रहणमिति ॥ ८५ अथ सर्वनामाधिकरणम्- बहुष्वपि प्रक्रान्तेषु सर्वनामपदेन शीघ्रोपस्थितिकं ग्राह्यम् । यथा श्रुतिः-'इष्टिपूर्वकमेवादः पौर्णमासं हविः' इति । प्रयाजाद्याहुतित्रयमदः पौर्णमामं हविरिष्टिपूर्वकं कुर्यादियर्थः । पौर्णमासयागो द्विविधा-एकोऽग्नीषोमीयपुरोडाशद्रव्यकः, अपर उपांशुयागाख्यो ऽग्नीषोमबृहस्पतीन्द्रादिदेवताऽऽज्य द्रव्यकः । यथा 'अग्नीषोमाभ्यां पुरोडाशेन, उपांशुयाजी त्वग्नीषोमबृहस्प- तीन्द्रादिभ्य आज्येन जुहोति' इति । अत्र चादःपदस्य सर्व- नामत्वादुभयमेवोपस्थितं हविः-पुरोडाशः, आज्यञ्च वाच्यम् । च पौर्णमासयोर्द्वयोरेवेष्टिपूर्वकता प्राप्लेसन सिद्धान्तमू- त्रम्-"शीघ्रोपस्थितिकेनानुभयम्" इति । उभयत्र नेष्टि- तथा लघुपूर्वमीमांसाऽधिकरणकौमुदी ६५ पूर्वकता प्राप्यते, अग्नीपोमीयपुरोडाशस्पाल्पदेवताघटितत्वेन शीघ्रोपस्थितिवाददःपदेन तदेवोपस्थाप्यले । अतस्तेनैवान्वय इति दायभागे उक्तम् । ८६ अथ निषेधपर्युदासौ- सत्रातिदेशादागादर्थलश्च यत्र प्राप्तिस्तत्र न पर्युदासः । किन्तु निषेध एव, भूयगाणस्य मापकविधेरभावात् । तादृशविध्यभावे च पर्युदासनमा कन सबकवाक्यत्वं कर्तव्यमिति । अतिदेशाद्यथा-"न सौ पशौ करोति" इसनेन पशुयागे प्रयाजानुयाजौ निषिध्येते । न च निषेधः प्राप्तिमन्तरेण स- म्भवति, इति दर्शधर्मातिदेशः कल्प्यते । रागाद्यथा-'पर्वणि मांसं नाश्नीयात् ' इसादौ । अर्थतो यथा-शरद्वसन्तयोर्नवश्राद्धं विहितम् । तत्र शरत्पदेन शारदादिषण्मासा एव गौणमुख्यभावेन विहिताः। तथा च शरदादिषण्मासेषु नवश्राद्धं कर्तव्यमित्यर्थतो विधि: कल्प्यते । तत्र च 'नन्दायां भार्गवदिने' इसादिनिषेधः । यत्र तु सामान्यरूपेण शास्त्रतः प्राप्तस्य विशेषरूपेण निषे- धस्तत्र पर्युदासः-यथा-"यजतिषु ये यजामहं करोति, नानु- याजेषु' इति श्रुतिः । अत्र च नानुयाजेषु यजतिष्वित्यन्वयः । एकवाक्यत्रानुरोधात् । निषेधे वाक्यभेदापत्तिः । न चेष्टापत्तिः । "सम्भवयेकवाक्यत्वे वाक्यभेदो न युज्यते" इति वचनात् । तथा चानुयोगिपतियोगिनोः समानविभ- क्तिकत्वेन यो नञा ऽन्योन्याभावो बोध्यते स एव पर्युदासः । तेनानुयाजभिन्नेषु यजतिष्वित्यर्थः । अत्र यजतिरनुयोगी, अ- नुयाजः प्रतियोगीति । तथा-"अहरहर्ददाति" "दीक्षितो न ददाति" इसत्र -- लघुपूर्वमीमांसाऽधिकरणकौमुदी- पयुदासेन दीक्षितेतर इत्यर्थः । दीक्षितः कृतयज्ञारम्भः । एक- कर्ममध्ये ऽन्यकर्मनिषेधादाननिषेधः । ननु पर्युदासनमा दीक्षि- तेतरोऽहरहर्ददातीति सिद्धम् । तथाचैकस्य ददातिपदस्य वैयर्थ्य- म(१)। मैवम् । निषेधपक्षे वाक्यभेदान्मूलभूनश्रुतेरपि वाक्य- भेदापत्तेः । तथा चास्मन्मते सम्भेदे नान्यतरवैयमिति न्या. यादरः । सम्भेदे एकपदार्थोपस्थापकबहुपदोपस्थितापित्यर्थः । अयम्भाव:-यदि पदोपस्थाप्यपदार्थो नान्वयबोधे निविशते, सदा वैयर्थ्यम् । अत्र तु तन्नास्ति 'बहवो विमाः सन्ति' इसत्र बहव इ- तिपदवत् । अत एव तत्तत्स्थले एकवाक्यत्वाय दोषद्वयग्रस्ता लक्षणाऽपि समाश्रीयते इति । नचाधिकस्य ददातिपदस्याऽऽकाङ्क्षा नास्ति तत्पदं विनाऽपि तदर्थान्वयबोधादिति वाच्यम् । यत्प- दोपस्थाप्यस्यार्थस्य यत्पदोपस्थितिजन्यार्थोपस्थिति विना अ. न्वयानुभवविषयत्वाभावस्तत्पदस्य तत्पदे आकांक्षेत्युक्तत्वात् । घट कलशमानयेत्यादावप्यन्वयबोधो भवत्येव किन्त्वधिकक- लशपदप्रयोक्तुनिग्रहमात्रमिति । यञ्चोक्तं-विप्रेभ्यो दधि दातव्यं, कौण्डिन्याय न दातव्य- मित्यादौ दातव्यपदस्याऽऽधिक्यापच्या निषेध एव न तु पर्युदास इति । तदपि लौकिकवाक्ये । तत्रैकवाक्यताविरहे क्षत्यभावात् । नहि तदृदृष्टान्तेन वेदेऽपि वाक्यभेद आदरणीय इति युक्तमिति । एवं 'रात्रौ श्राद्धं न कुर्षांत' इत्यत्रैकवाक्पत्वानुरोधात्पर्युदासेन रात्रीतरामावास्यायामियन्वयः । अमावास्यावचनस्य सावका- शत्वेन पर्युदरतेतरकर्मसम्भवात् । न चैकवाक्यतायां कुर्वीतेति व्यर्थमुक्तोत्तरत्वात् । वस्तुतस्तु श्राद्धं कुर्वीतेसनेन प्राप्तश्राद्धकरणमुद्दिश्य तत्र (१) एवञ्च निषेध एवोचित इति ।
लघुपूर्वमीमांसाधिकरणकौमुदी- ६७ म रात्रौ इत्यनेन रात्रिभिन्नः कालो विधीयते । अतो ऽनुवादा- र्थमेव तत्पदम् । अन्येतु अमावास्यादिश्राद्धविधेः प्रात:कालादिदिवस. भागचतुष्टयपरत्वेन रात्रौ प्रसत्त्यभावानिषेधो ऽनुपपन्न इति पर्युदास आश्रीयते इत्याहु:- अत्र वदन्ति-प्रत्यक्षे आरोपरूपप्रसक्तिप्तम्भवेऽपि इदे वहिर्नास्तीति शाब्दबोधस्थले प्रसत्यभावेन निषेधबोधानुपपत्तेः प्रसक्तिर्न तत्र हेतुः । नन्वाऽऽकाशं नखाद्यमित्याप विधिः कथं न कृतः ?, तत्र प्रयोजनाभावात् । अत्र तु तात्पर्यानवधारणनि- बन्धनरात्रिश्राद्धकरणवारणस्य प्रयोजनस्य सच्चादिति तत्स्वात- व्यम्। नहि विशेषदर्शिभ्रमप्रवृत्तिवारणाय वेद इति युक्तम् । यथा 'दक्षिणामुखः श्राद्धं कुर्यात्' इति विशेषादार्शनो-देवयागे पूर्वा- भिमुखत्वदर्शनाद् भ्रमेण तन्मुखश्राद्धवारणाय तनिषेधो विधीयते। तथाऽत्रापि रात्रिनिषेधादर्शिनां तत्र प्रवृत्तिः कथं वारणी. येति । उक्त वहिर्नास्तीति शाब्दबोधस्थलेऽपि प्रसक्तिरस्त्येव । लोके निषेधवाक्यं हि सन्दिग्धविपर्यस्तान्यतरं प्रत्येक प्रयुज्यते, न तनिश्चितार्थकं प्रति । तथा चोद्देश्यस्याश्रोतुः सन्देहवि- पर्यस्तान्यतररूपा प्रसक्तिरस्त्येव । तथा च व्युत्पन्न प्रति वेदो विहितः, न विशेषादर्शिनं प्रति । तथाचोक्तम्- 'यस्त•णानुसन्धत्ते स धर्म वेद नेतरः' इति । तर्केण विशेषदर्शनप्रयोजकन्यायेन । स धर्म वेद-व्यवस्था- प्रयोजकमवृत्तिप्रयोजनार्थवान स एवेत्यर्थः । अन्येतु पर्युदासपक्षे निषेधप्रसक्तस्य नमो. लक्षणा स्यात् । न चात्र लक्षणाबीजमनुपपत्तिरस्तीति । अत्र हेतुः-अमावास्या. पदाव सामान्या रात्रिपरस्यापि माप्त्या निषेधो वाच्यः । स - लघुपूर्वमीमांसाऽधिकरणकौमुदी-- न सम्भवति उपजीव्यवाधापत्तेः । तथा च बाधवारणायोभय- विधिसार्थक्याय च विकल्पो वाच्यः । राज्यमावास्याऽवच्छदेन निषेधेन बाधाद्विकल्प च तदभावात् । तथा चामावास्या. विधेर्दिवांशश्राद्धविधौ निरपेक्षवाद राज्यशे विधौ विकल्प- कल्पनासापेक्षत्वाद्विधेः सापेक्षत्वनिरपेक्षवलक्षणं वैषम्यं स्या- दिति विधित्वानुपपत्त्या लक्षणोति- अत्र वदन्ति-नाहि सावकाश निरवकाशविध्योर्विकल्पस्तु. ल्यबलवत्त्वाभावात् । निरवकाशत्वेन निषेधस्य बलवत्तात् । (१)पदाहवनीयस्थले निरवकाशस्य बलवत्वेन क्लुप्तत्वात् । इतरे तु प्राप्तनेष्टसाधनत्वबोधः । तथा चामावास्यापदस्य दिवारात्रिसामान्यपरत्वे राज्यंशे इष्टसाधनत्वबोधे तज्ज्ञानस्य राज्यंशे भ्रमत्वमापद्येत । तत्र च वेदस्य भ्रमत्त्रे ऽश्वमेधादिबो- धकवेदे ऽनाश्वासापच्या ऽननुष्ठापकत्वलक्षणापामाण्यं स्यात् । अतः प्राप्यभावार्थं पर्युदासलक्षणेति वदन्ति । तन्न । तात्पर्यभ्रमे वेदस्यापि भ्रमजनकत्वादव्यवस्थादर्शनात् । तथा चाज्ञा. ततात्पर्यकत्वेन भ्रमजनकत्वं, न वेदत्वेन । अतो वेदत्वेना- 5श्वास एव । अन्येतु अमावास्याविधेर्दिवापरत्वमेवास्तु, कि पर्युदासनि- षेधाभ्याम् । तदपि न । दिवापरत्वे तात्पर्यग्राहकप्रकरणाद्यभावात्त- तात्पर्यग्रहार्थमेव निषेधवचनस्य सार्थक्यात । दृष्टश्च तात्पर्यग्रहार्थं विशेषवचनम् । यथा-'पायसेन श्रियै जुहोति' इति । श्रीहोमे पायसशब्दस्य श्रीवासाख्यगन्धद्रव्यस्थापि वाचकत्वात्तात्पर्यन- हाय वाक्यशेष उक्त:-क्षीरभृतस्तण्डुलः पायसो भवाते' इति । यथा वा 'यत्रमय श्चर्भवति' इति । अत्र यवशाब्दस्य- (१) अत्रत्य (२३)त्रयोविंशाधिकरणे । .
। लघुपूर्वमीमांसाऽधिकरणकौमुदी- यवेभ्यः स्वाहेति धान्ये निरूढलक्षणया धान्येऽपि यवपदम- योगदर्शनात्तात्पर्यग्रहाय वाक्य शेषः- "वसन्ते सर्वसस्यानां जायते यत्र शातनम् । मोदमानाश्च दृश्यन्ते यवाः कणिशशालिनः" इति ॥ ननु पर्युदासपक्षेऽपि कथं लक्षणा ?, अत्यन्ताभाव इव भेदे. ऽपि नमः शक्तः । मैवम् । 'अन्यायश्चानेकार्थ' इति न्यायेन नानार्थत्वायोगात् । तथा च अन्योन्याभावे लक्षणैव तस्यैवाभे- दान्वयात् । तथा चैकवाक्यार्थ एव पर्युदास इति । परे तु पर्युदासपक्षे अमावास्यायामित्यत्र यथा रात्रीतरान्व- यस्तथा ऽष्टकादावपीति रात्रिश्राद्धनिषेधवचनस्याऽऽत्यापत्ति- रिति, सत्यम् । सति तात्पर्ये आकृत्यकल्पना विशेषवचना- विषयसर्वश्राद्धतिथीनामेव दिवापरत्वग्रहस्याऽऽकाशितवादात्ति विनैव सर्वत्रान्वय इति सर्वत्रान्वये एकवाक्यस्यैव तात्पर्यमिति । तुल्यबलवत्त्वे विकल्पो यथा-'अतिरात्रे षोडशिनं गृह्णाति' 'नातिराने षोडशिनं गृह्णाति' इत्यत्र उभयोरेव निरव- काशत्वात्तुल्यत्वम् । षोडशकला अस्य सन्तीति षोडशी सोमः । प्रकृते स वृक्षविशेषः । तथा च प्रकृतियागे सोमग्रहणस्य वि- हितत्वाद्विकृतियागे ऽतिराने ऽतिदेशेन सर्वदा प्राप्तत्वात्तद्विक- ल्पार्थ वचन । नच यदि पोडशिग्रहणं विना यागसिद्धिस्तदा सद्हणोपदेशो व्यर्थः । फलभूमार्थ ग्रहणोपदेशात् । ८७ अथ यद्भक्तन्यायः ननु तत्तद्देवपूजायामावरणपूजा क्रियते तत्कथम् । न तत्प्रधा- नस्वरूपनिर्वाहकं प्रधानस्वरूपस्यं गन्धाधुपचारैरेव सिद्धेः । नाप्यदृष्टद्वारा, मानाभावात् । कदा वा तस्कार्यमत्र सिद्धान्त:- "यो यद्भक्तः स तद्वलात्" इति । तदलात्प्रधानपूजनात्म- माया- ?
लघुपूर्वमीमांसाधिकरणकौमुदी- कबलात् । तथा च प्रधानपूजा तेषां प्रयोजिका । अतः प्रधान. पूजानन्तरं तत्कार्यम् । अत एव प्रयोजकत्वात्तदुत्तराङ्गमिति । तेन प्राचीनाङ्गापूर्वसहितं प्रधानं प्रधानापूर्वं (परमापूर्व) जनयति । चरमाङ्गापूर्वसहितं प्रधानापूर्व चरमाङ्गापूर्वं जनयति इति । तथा च ग्रहयागे ऽधिदैवतप्रसधिदैवते ग्रहपूजानन्तरं पूज्ये । एवं दुर्गापूजायां पश्चादेव योगिन्याद्याः पूज्याः । एवमिष्टदेवता. पूजनेऽपि । नच तत्तत्क्रमविधित एव तत्तत्पूजा प्राप्तति न्यायोऽयं व्यर्थः । एतन्न्यायमूलत्वात्तत्क्रमविधेः । आवरणदे- वताज्ञानार्थमेव तद्विधेः । पश्चात्कर्तव्यत्वञ्च न्यायवलादिति । ८८ अथानुयाजाधिकरणम्- तत्र परिभाषाश्रुतिः श्रूयते "सूक्तवाकेन्द्रस्तुतिमाजापसमू- क्तानि प्रजप्यानुयाजान करोति, ततः प्रकृतमनुतिष्ठति"इति । तथा चानुयाजाङ्गकयागे सूक्तवाकादीन प्रजप्यानुयाजान कृत्वैव प्रकृतं कुर्यात् । अयञ्चानुयाजः प्रयाजानुयाजभिन्नः । एवं बहुसुवर्ण के श्रूयते "आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति" इति । आग्निमा- रुतयागो बहुसुवर्णयागैकदेशः प्रधानीभूतः । तदुत्तरमनुयाजानां विधानादनुपाजानामुत्कर्षों नतु सूक्तवाकादीनां तथाश्रुतेरिति पूर्वपक्षे जैमिनिमूत्रम्-"तदन्तत्वादनुपाजानाम्" इति । अयमर्थः-अनुयाजानां सूक्तवाकोत्तरं कर्तव्यत्वादनुयाजो. स्कर्षे सूक्तवाकादीनामप्युत्कर्ष इसेतदधिकरणं तदाद्युत्क- न्यायमूलमिति । एवं सपिण्डनापकर्षे मासिकानामप्यपकर्ष इति श्राद्धचिन्तामणिः॥ ८९ अथ सक्त्वधिकरणम्- पूषयागे "सक्तुना यजेत" इति श्रूयते । सक्तोस्तु मोक्षणं न श्रूयते । अतः सक्तोरमोक्षितस्यैव होम इत्यत्र सिद्धान्तम्- लघुपूर्वमीमांसाऽधिकरणकौमुदी- ७१ त्रम्- "नियोगसाधनलक्षणया सिद्धेः" इति । अस्या. र्थ:-नीहीन प्रोक्षतीसत्र द्वितीयाबोधितक्रियाजन्यफलाश्रय- स्वरूपकर्मत्वानुपपत्त्या व्रीहिनिष्ठः संस्कारः कल्प्यते । अन्यथा मोक्षणस्याऽऽशुविनाशितया प्रोक्षिततुल्यतया प्रोक्षितवदप्रोक्षि- तस्याप्यवघातान्वयापत्तेः। एवं यः प्रोक्षणं कथम् ? इत्थम् । व्रीहिशब्दस्य नियोगसाधनद्रव्यपरतया यवेऽपि तत्सिद्धेः । अन्यथाऽवघातस्यापि यो बाधः स्यात् । व्रीहिष्वेव तदुपदेशात् । नच ब्रीहीनवहन्तीसत्र लक्षणाऽस्तु । अन्यथा यवाऽनवधाते सतुषयवेन पुरोडाशानिष्पत्तिरिति वाच्यम् । व्रीहीन प्रोक्षति ब्रीहीनवहन्तीसादौ समानप्रकारतानिर्वाहार्थं सर्वत्रैव लक्षणा । एवं सक्तोरपि नियोगसाधनत्वात् प्रोक्षणान्वयः । अन्ये तु अवघातमकरणीयत्वाद् व्रीहिपदस्य सक्ती न मोक्षणम् । अत एवाऽऽज्यस्य प्रोक्षणं विनैव होम इति वदन्ति- तत्र परे वदन्ति । संस्कृतद्रव्यस्य वैदिककर्मणि नियो- गादाज्यस्यापि पवित्रोत्पवनेन संस्कृतत्वात् न तत्र प्रोक्षणापेक्षा । सक्तोस्तु प्रोक्षणं विना संस्काराभावात्मोक्षणमेव । अत एव- "नापोक्षितं स्पृशेत् किञ्चिदेवे पित्र्ये च कमीण" । इसत्र नियमार्थ नद्वयम् । नन्ववघातरूपः संस्कारस्ताहि कथं न स्यादिसत आह-वीहीनित्यादि । तत्र विधेरसम्भवान्ना- सौ संस्कारः । प्रोक्षणे तु नापोक्षितमित्यादिविधिरस्त्येवेति । त्रीहीनवहन्तीति लक्षणया सर्वत्र प्रोक्षणप्राप्तत्वाद्विधरसम्भवात् । परे तु बीहाविसत्रासमानप्रकारकबोधं कल्पयित्वा यवे प्रो. क्षणाभाव एव कल्प्यताम् । कल्पनातो जघन्या लक्षात न्यायात् । यथा विष्णुधर्मोत्तरे- - लघुपूर्वमीमांसाऽधिकरणकौमुदी- सव ज्येष्ठे मासि सिनाष्टम्यां य: पूजगति केशवम् । न दुर्गनिवानि या जयश्च विन्दति ॥ शिवरहग- शुक्लाष्टम्यां शुक्रमासे यः पूजयति शंकरम् । दुर्गतिं न लभेचैत्र वाजपेयफलं लभेत् ।। अत्र मूलभूतश्रुतिद्वयकल्पनाभिया केशवपदस्य लक्षणया शङ्करपरत्वमेवास्तु । नन विनिगमनाविरहः अष्टमीतिथेः शैवत्वे- नोक्तत्वात् । यथा- 'हरस्य तिथिरष्टमी' इति । तथा चात्र लक्षणा न नियते, किन्तु मूलश्रुतिद्वयकल्पनैवेति वदन्ति । एवं ते वक्तव्याः-धान्यमसिमन्त्रे धान्यपदेन तण्डुललक्षणा कर्तव्या मन्त्रपाठस्यादृष्टार्थकत्वकल्पन कत्वकल्पनयैवोपपत्तेः । केशत्रपदे च न लक्षणा लक्षणावीजस्य मुख्यार्थानुपपत्तेरभावादिति । ९० अथ गिरगिराऽधिकरणम्- अग्निष्टाये "ऋत्विजो देवानामन्त्रयन्ति, यज्ञायज्ञा वो ऽग्नये गिरागिरा च दक्ष" इति श्रुतिः । अस्यार्थ:-को युष्मभ्यमिन्द्रा- दिभ्यः अग्नये च यज्ञा यज्ञा यज्ञे यज्ञे गिरा गिरा तत्तन्मन्त्रेण दक्षमे ऽहं यजे। 'दक्ष दाने' इतिधातोर्लेट उत्तमपुरुषैकवचनांमद् , तस्यैत्वं “सिब्बहुलं लेटि"इति सिपि दक्षसे इति । यज्ञायज्ञा इति "मुपां सुलुम्" इति सप्तमीस्थाने आजादेशः । उक्तश्रुसनन्तरं "न गिरागिरेति ब्रूयात् । यद्विरागिरेति ब्रूयादात्मानमेव तदुद्गाता गिरत् । तस्मादैरं कृत्वोनेयम् इति । अस्यार्थ:-ऋत्विजा देवानिति यदुक्तं तत्रोद्गातृव्यतिरिक्ता ऋविज इति बोध्यम् । तत्र हेतुमा- ह---उद्गाता न गिरागिरेति ब्रूयात् यदि वदेत् तदाऽऽत्मानमे.. व गिरेन्नाशयेत् । तर्हि किं वाच्यम् । तत्राऽऽह- तस्मादिति । ऐरं गिरागिरेतिपदस्थाने इसपदयुक्तं मन्त्रं कृत्वोगात्रोद्य- लघुपूर्वमीमांसाऽधिकरणकौमुदी- a- . मित्यर्थः । तथा चोद्गात्रैवं पाठ्यम्-"यज्ञायज्ञा वो अग्नये इरा इरा च दक्षसे" इति(१) । इराइरेति-"मुपां सुलुम्" इति तृती. याया आजादेशः । तेन इरया मन्त्रवाण्या दक्षसे इत्यर्थः । इरा- शब्देन वाण्युच्यते इति ॥ ९१ अथ कलञाधिकरणम्- 'न कलअं(२) भक्षयेत्' इसत्र लिङा बोधितङ्कार्यत्वमभावे ऽन्वेति । तेन कलाभक्षणाभावविषयक कार्यमित्यन्वयबोधः । तथा च निषेधापूर्वस्य विहितादृष्टत्वेन संस्कारसापेक्षोत्पत्तिक- स्वादनुपनीतानामपरिणीतानां कन्यानाञ्च नैतद्विधिविषयत्वम् । न चाष्टकादिश्रादाधिकारो ऽनुपनीतानामपि दृश्यते इति नादृष्टे संस्कारापेक्षेति वाच्यम्। बाधकाभावे सतीति विशेषणात् । तत्र च- 'एतच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वमु' इसेव वचनं बाधकम् । अन्यथा ऽनुपनीतानां दर्शादिया- गाधिकारोऽपि स्यात् । इसत्र सिद्धान्तसूत्रम्- "नैतदन्यनि- षिद्धत्वात" इति । अस्यार्थ:-एतद्भवदुक्तं न । कुतः ?, अस्य कलअभक्षणस्य निषिद्धत्वात् । अयम्भावः -कलाभक्षणस्य रागप्राप्तविषयकनिषिद्धत्वेन पापजनकत्वव्याप्तत्वात् । न च पा- पोत्पत्तौ संस्कारः सहकारी । तथा च असंस्कृतैरपि कलअभक्ष- णादितो निवर्तितव्यम् । अष्टकादिश्राद्धवदेतददृष्टेऽपि न संस्कारः सहकारी । तब वचनवदत्र (कलअभक्षणे) न्यायस्य सत्त्वादिति । (१) सामगा इरापदगानार्थ गानशास्त्रपरिभाषयेकारस्य स्थाने आकारो यकार ईकारश्चेति त्रीन्वर्णान् प्रयुञ्जते । तत आयी। इत्येव गातव्यम् । (२) विषाक्तशरविद्धपशुमांसं कलङ्गम् । १० लधुपूर्वमीमांसाऽधिकरणकौमुदी- ९२ अथ लिङ्गसमवायन्यायः- इष्टकाचयनयागे 'प्राणभृता इष्टका संस्करोति' इति श्रूयते । प्राणभृता-प्राणभृन्मन्त्रेण । अत्र च दशानामिष्टकानां यागे उपयोगः । तथा श्रुखन्तरं "माणभृत उपदधाति" इति । अस्यार्थ:-- प्राणभृन्मन्त्रेण संस्कृता इष्टका अग्निसमीपे दशदिक्षु स्थापयतीति । तथा च सर्वेष्टकानामेव संस्कारः, पूर्वश्रुतौ इष्टकामियेकवचन- स्थाविवक्षितत्वात् । अत्र सिद्धान्तसूत्रम्-“लिङ्गसमवायात" (अ०१पा०४अधि०१८सू०२८) इति । लिङ्यते ज्ञाप्यते ऽनेनेति लिङ्गं, प्राणभृत्पदवाच्याः संस्कृता इष्टकास्तत्समवायात्तत्सम्बन्धा- दिष्टकागणस्यैवाजहत्स्वार्थलक्षणया ऽभिधानमिति प्राणभृत इति बहुवचनस्योपपत्तेरुत्तरश्नुतेलक्षणयबोपपत्तौ पूर्वश्रुतियाधस्या- न्याय्यत्वम् । तस्य निरपेक्षत्वेन बलवत्वात् । नचेष्टकासंस्कारे ऽनध्यवसायः पुरोडाशकपालबदुपपत्तेः । ९३ अथ प्रकृतिभागव्यवस्था- "कृष्णाघ्न्याक्षीरे कृष्णलान् श्रपयेत्, विष्णुब्रह्मरुद्रेन्द्रादिय- यमेभ्यो जुहोति इदं विष्णुः, ब्रह्मादेवानां, नमः शम्भवे, वाताव. मिवं, आकृष्णेन, असियमइति" इति श्रुतिः । कृष्णान्या-कृष्णा गौः। अत्र यमेभ्यइति बहुत्वश्रुतावपि न साहित्येन देवतात्वम् प्रत्येकम्मन्त्रोपदेशादिति । अस्य विकृतियागे श्रुतिः "तथैव नीवारान् अपयेद, तथैव जुहोतीत्यायुष्कामः, व्यंशं विष्णवे, साम्येनान्येभ्यः" इति । चरुत्रिभागं कृत्वा एकमशं विष्णवे ऽन्यद्यशं समभागेन ब्रह्मादिभ्यो जुहुयादित्यर्थः । तथा च प्रकृति यागे कृष्णलचरोर्न व्यंशकरणम् विकृतावत्र तदुपदेशात् । इत्यत्र सूत्रम्-"असति विरूपे पूर्वापरयोः साम्यम्" इति । विरूपे बाधके ऽसति पूर्वापरयोः प्रकृतिविकृत्योः लघुपूर्वमीमांसाधिकरणकौमुदी- ७५ साम्यमेव । तेन कृष्णलचरोरपि त्र्यंशकरणमिति । पृथिवीयागे श्रूयते-"पृथिव्यै क्षीरेण दधा च जुहोति, इरा- वतीति वायुं पिवति, क्षीरं, दधि च" इति । अस्य विकृतौ श्रुतिः "वायवे जुहोति, चतुःपलं चतुर्थ ऽश्नाति" इति । अत्र पल- चतुष्कस्य चतुर्भागं कृत्वा ऽशनं विहितम् । प्रकृतिविकृयोः सा- म्यकथनात्-प्रतावपि तथैव भागस्य वाखादित्रयाणां प्रा- तत्वादाह-असति विरूप इति । वायोर्गुरुत्वाभावेन पलाभावा- भागासम्भव इति प्रकृतौ दधिपयसोरेव भागकरणं, वायोः सकृदेव पानम् । एवं विकृतियागे वायुभक्षणं नाङ्गं तस्य पला- सम्भवात् । पलत्वेनैव भक्षणविधानात् । तथा च- यो येन संपिबेद्वर्ष सोऽपि तत्समतामियात् । पादन्यूनश्चरेत्सोऽपि तस्य तच व्रतं द्विज ॥ इति व्यासवचनम् । यः पापी येन पापिना सम्पिबेत्संसर्गी स्यात् तस्य व्रतं पादन्युनं स कुर्यादित्यर्थः । तेन ज्ञानपूर्वक- ब्राह्मणघातिनि मनुना द्वादशवार्षिकादित्रयोदशप्रायश्चित्ताभि- धानात्तन्मध्ये मरणस्य विधानेऽपि न तस्यातिदेशः तसंसर्गि. णि मरणस्य पादन्यूनत्वासम्भवात किन्तु द्वादशवार्षिकमेव पाद- न्यूनं प्रायश्चितमिति प्रायश्चित्तविवेकः । एवं प्रकृतिविक- सोः साम्यकथनाद्विकृतावाभ्युदयिके 'कराग्रायपवित्रकान्' इति श्रुतेः पार्वणेऽपि तथैव विशेषानुपदेशादिति नवीनगौडाः । मैथिलास्तु 'पिश्ये द्विगुणा दर्भा दक्षिणाग्राश्च' इति परि- भाषया पवित्रस्य पार्वणे ब्राह्मणकरे दक्षिणाग्रत्वमेव, तथाऽऽभ्युद- यिकेऽपि सथात्वमाप्त्या तद्वाधाय कराग्रायोति । अत एवा. Wणामुत्सर्गे द्विगुणकुशाग्रदिशि नानध्यवसायः किन्तु दक्षि- णाग्रा एव धार्या इति वदन्ति ।
- लघुपूर्वमीमांसाऽधिकरणकौमुदी- अत्र वदन्ति-पार्वणस्याभ्युदयिकप्रकृतित्वे 'प्रकृतिष- द्विकृतिः' इतिन्यायेन पार्वणाङ्गसमुदायस्यैवातिदशः । तथा चाष्टकाश्राद्धस्यापि पार्वणतया तद्धर्माणामपूपमांसशाकानामा- वश्यकानामङ्गानामपि प्राप्तिः स्यात्पार्वणपदवाच्यता च तस्या- पि । यथा भविष्ये- अमावास्यायां क्रियते पार्वणं समुदाहृतम् । क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः। तथा चामावास्याश्राद्धत्वं पर्वश्राद्धत्वञ्च पार्वणपदवाक्यताव- च्छेदकमतोऽष्टकाश्राद्धं पार्वणपदवाच्यमेवेति । अत्र नवी- ना:-यद्यपि पार्वणपदस्योभयमपि शक्यं, तथापि अमावास्या- श्राद्धे रूढेस्तस्य शीघ्रोपस्थितिकत्वात्पार्वणविधिना कुर्यादिख- घामावास्याश्राद्धमुपस्थापितम् । पर्वश्राद्धे यौगिकत्वात्तस्य चाव- यवार्थोपस्थियधीनत्वाद्विलम्बोपस्थितिः । ततः शीघ्रोपस्थि- तिनैवान्वयबोध: स्यादिति नापूपादीनामति देश इति बहु- दिनभावनापूर्वकं समाधानमाहुः । सामान्यातिदेशे विशेषा- नतिदेश इति न्यायापार्वणविशेषाष्टकाधर्मस्यामाप्तत्वात् । स तु न्यायो यथा-"विद्याकाम ऊर्जमारभ्य वर्षे प्रति कृष्णचतु- दश्यां रुद्राय तिलैर्जुहोति इमारुद्रायेति, तपस्ये तु यवान् श्रपयति" इति रुद्रयागमुक्ता "एवं दाम्पससर्वकामः प्रत्यष्टम्य- म्बिकायै जुहोत्यम्बेऽम्बिकइति" इति श्रुतायुक्तम् । ऊर्ज-कार्ति- कमिति । तपस्ये-फाल्गुने । अत्र च रुद्रयागः अम्बिकायागस्य प्रकृतिरेवमित्युक्तेः । तथा च रुद्रयागे फाल्गुनकर्तव्ये चरुरङ्गम् । तथा चाम्बिकायागे सर्वमासेष्वेव चरोरप्यतिदेशात्माप्या अ. म्बिकायागस्तिलैश्चरुणा च कार्यः । नच तपस्ये इतिश्रुतेः कथं सर्वमासेष्विति वक्तव्यम् । त- लधुपूर्वमीमांसाऽधिकरणकौमुदी- पस्यस्य चतुर्दशीधीशेषत्वात्तपस्ये च चतुर्दश्यामियन्वयात् । तथा अष्टम्यां न तपस्यान्वयो ऽन्यान्वितत्वात् । एवञ्च केवलम. तिदेशेन यवस्यैवान्वयः । इसत्र सिद्धान्तसूत्रम्-"तुल्यप्राप्त्या नातुल्यप्राप्तिः" इति । सामान्यस्यातिदेशेन न विशेष- स्यातिदेश इत्यर्थः । तेनाम्बिकाहोमे न चरुः तस्य भासवि. शेषणीयत्वेन विशेषत्वात् । एवं सांवत्सरिकैकोद्दिष्टं प्रकृतिरायैकोद्दिष्टे च "इह लोकं परित्यज्य" इति मन्त्रोऽङ्गम् । सांवत्सरिके एकोद्दिष्टविकृतौ त- स्याङ्गत्वं स्यात्तत्राप्येष एव न्याय इति । यच्चोक्तं-पार्वणपदस्योभयमेव शक्यं, तदापे न । “अन्या- यश्चानेकार्थत्वम्' (अधि०४९) इति सूत्रात । अमावास्याश्रा- द्धत्वमेव शक्यतावच्छेदक, नान्यत् । तथा हि अमावास्यायामिति यद्यधिकरणसप्तमी तदा मावास्याधिकरणकं भाद्राधेकोहि- ष्टमपि पार्वणं स्यात्, ततश्चामावास्यात्वेन यत्र निमित्तता सपार्वणं नत्वमावास्यानिमित्तकमात्रम् । अमावास्याया मृताहत्वे मृताहनिमित्तकस्यामावास्यानिमित्तत्वात । एवं पर्वणीसत्रा- धिकरणसप्तमीत्वेन स एव दोषः । अतः पर्वत्वेन निमित्तता वाच्या, सा च न सम्भवति अष्टकादिश्राद्धे पर्वणीत्युल्लेखा- पत्तेः । निमित्ततावच्छेदकरूपेण निमित्तस्योल्लेखाव । नच निमित्तानामिति श्रवणानिमित्तस्यैवोल्लेखो न तु तत्त्वेनेति वाच्यम् । एवमशौचान्तद्वितीयेऽनि इसादरनुल्लेखात । निमि- तस्य तद्दिनस्य अधेसनेनैवोल्लेखात् । तथा चामावास्या- त्वावच्छिन्ननिमित्तताकश्राद्धत्वं पार्वणपदशक्यतावच्छेदकम् । कथं पार्वणपदप्रयोगस्तत्राह-क्रियते इति । वा एवार्थः । "वा स्याद्विकल्पोपमयोरेवार्थे चावधारणे" ७८ लघुपूर्वमीमांसाऽधिकरणकौमुदी- इति कोशात् । पर्वण्येव क्रियत इंति पार्वणम् । तथा च योगस्यापि दर्शनेन पङ्कजपदवद्योगरूढिः प्रदर्शितेति । एवञ्चामावास्यायां पार्वणश्राद्धमिसेव प्रयोगो नतु अ- मावास्यानिमित्तकमिति श्राद्धीवशेषणम् । पार्वणपदेनैव सद- थोपस्थितः । अमावास्यायामिति निमित्तसप्तमीमुक्त्वा केचि- द्विशेषणं वदन्ति । तन्न। अमावास्यायास्तहि अधिकरणत्वेना. लाभाव । नोका सप्तमी सकृदुचरिता उभयम) बोधयति । ततश्चाष्टकायामपि पार्वणविधिनेति प्रयोज्यम्, न पार्वणमिति मघादिश्राद्धवदिति । अत एव । पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तथाब्दिके । इसत्र पार्वणाष्टकाश्राद्धयो)देनोपादानम् ।। अथ कस्तावत्प्रकृतिविकृतिभावः । न तावत्कार्यकारणभावः । घटस्य कुलालविकृतित्वापत्तेः। मृद्विकारो हि घटः । नच समायेनेति तत्र वाच्यम् । गुण- स्य द्रव्यविकृतित्वापत्तेः । अथ कारणतावच्छेदकाश्रयकार्यत्वं विकृतित्वम् । तथा च सुवर्णत्वं कुण्डलकारणतावच्छेदकं तदाश्रयं कुण्डलमिति सुवर्णविकारं तदुच्यते । नचैवं कार्यस्य स्वजनकत्वा- पत्तिरिति वाच्यम् । स्वरूपयोग्यत्वस्येष्टत्वात् । फलोपधान- स्य तु पूर्ववर्तित्वाभावादभावः, जातघटं प्रति भाविदण्डवत् | मैवम् । उक्तविकृतित्वमाभ्युदायकादावसत्त्वेन प्रकृतानुपयोगीति । ननु सुवर्णादिसाधारणमिदं प्रकृतित्वं विकृतित्वञ्च ना- स्ति यागादेः प्रकृतित्वम् -- अतिदिश्यमानाङ्गप्रतियोगित्व- म् । यस्याङ्गमतिदिश्यते तत्प्रतियोगि । तादृशानुयोगित्वञ्च विकृतित्वमिति चेदेवमन्योन्याश्रयापत्तिः । प्रकृतित्वज्ञाने प्रकृति- - लघुपूर्वमीमांसाऽधिकरणकौमुदी- बद्विकृतिरियातदेशः। अतिदेशघटितस्य विकृतित्वमिति। उच्यते- नानान्योन्याश्रयः । स हि द्विविध एव दुष्टः । उत्पत्तितो क्लप्तित- श्चेति । नाद्यः-प्रकृतित्वस्याजन्यत्वेनाऽतिदेशानपेक्षणात् । न द्वि- तीयः प्रकृतित्वस्यातिदेशज्ञानं विनापि कचित्तद्वदिदमित्यादि- वाक्यत्वाद, कचिन्यायगम्यत्वात् । किञ्चातिदेशज्ञानं न प्रकृतित्वज्ञानाधीनं लक्षणमविष्टाति. देशपदादेव तदुपस्थितेः । नन्वतिदेशात्माप्तिरिसवानिषिद्धविषये प्राप्तिः ममैव वा. च्या । तथा चातिदेशस्यातिरिक्तप्रमाणत्वापत्तिः । प्रत्यक्षा- नुमानयोरसम्भवाद, शब्दस्याभावाच्च । मैवम् । अन्यत्र श्रुतस्य प्रकृतेऽश्रुतस्य कल्पनमतिदेशः । “पार- मेष्ठयकामो विरिञ्चये जुहोति ब्रह्मादेवानामिति, मो. द्गातृभ्यो हुतशेषफलचमसमक्षं प्रयच्छति" इति श्रूयते । मो. द्गातृभ्य इति बहुवचननिर्देशात्मोद्गात्रादिभ्य ऋत्विग्भ्य इत्यर्थः । अत्र यद्यपि होमस्य द्रव्यं नोक्तं तथा ऽपि हुतशेषमिति श्रुत्या फलचमसस्य होमद्रव्यत्वं कल्प्यते नातिदेशादतोऽन्यत्रश्रुतस्येति । श्रुनस्य-प्राप्तस्य । तेनातिदिष्टातिदेशे नाव्याप्तिः । यथा पार्व- णातिदेश एकोद्दिष्टे, तदतिदेशः साम्वत्सरिके इति । “चक्षुष्काम- आदिखायार्कसमिधा जुहुयात्" इति । चित्रं देवानामिति स- हस्रं सौरलोककामस्तथैव तस्मै जुहोति" इसत्र तथैवेति श्रुसैव पूर्वोक्तसर्वाङ्गमाप्तिातिदेशादतोऽतिव्याप्तिवारणाय भ- कृतेऽश्रुतस्यति । वस्तुतोऽश्रुतस्येति न देयम् । तथैवेत्यनेनाप्य- तिदेशदर्शनादिति । कल्पनन्त्वनुमानम् यथाऽयं यागः प्रकृ- तिविकृतियावदङ्गाङ्गकः विकृतित्वात् दर्शविकृसाष्टमिकयागवद । नच दृष्टान्तेऽसिद्धिः पूर्वपूर्वानुमानाधीनत्वात् । यद्वा प्रकृ.
लघुपूर्वमीमांसाधिकरणकौमुदी- तिश्रुतानामेव वाक्यानां न्यायेन समभिव्याहारः कल्प्यते । तथाच शब्द एवातिदेशः। नन्वतिदेशस्य शब्दत्वे ऽतिदिष्टनिषेधस्य पर्युदासत्वा- सम्भवः श्रुखभावेनैकवाक्यताया असम्भवादिति । न, तत्र पर्युदासत्वे वैयापत्तेः । एकोद्दिष्टे नावाहनम्' इत्यत्र पर्युदासत्वे आवाहनभिन्नं कुशासनादि कुर्यादित्यर्थः स्यात्तस्य चाति- देशादेव प्राप्त्या नावाहनमिति व्यर्थं स्यात् । आवाहनश्च स्यात्तस्याप्यतिदेशात् । 'आवाहनरहितं कुर्यात्' इयर्थे तु निषेधे एव पर्यवसानमिति । ९४ अथ स्थालीपुलाकन्यायः- "श्येनेनाभिचरन् यजेत । मेमीक्षीरेण श्येनं श्रपयात । कालान्तकयमरुद्रेभ्यो जुहोति, कालाकरालइति, कार्पिरसीति, असियमइति, यातेरुद्र इति । अष्टाशासु भस्म किरति । अष्टलोह- पात्रे पुलाकान दहति स्थाल्यां वाइति श्रूयते । कस्य भस्मेसतो अष्टेति । अष्टलोहानि यथा- काञ्चनं रजतं ताम्रमारकूटं तंथायसम् । शीसकं रङ्गकांस्ये च लोहाष्टकमुदाहृतम् ॥ १ ॥ तथा शैवयागे "भस्मतिलकी मृत्युञ्जयाय जुहोति" "अभिचार- शमनाय गोमयचूर्णानि लोहाष्टकपात्रे दहति तद्भस्म भवति" इति । एवञ्च लोहाष्टकपात्रसम्पत्त्या शिवयागसङ्कल्पे कृते त. पात्रापचारी कथं कर्म कुर्यात् ?। कर्मासम्पत्तौ च प्रयवायी स्यादत्र मूत्रम्-"स्थालीपुलाकवत्" इति । यथा-पुलाकदाहे- लोहाष्टकापचारे स्थाली ग्राह्या, तन्न्यायादत्रापि तथा । एवं गवामभावे दातव्यं तन्मूल्यं न तु संशयः । इति गोवधप्रकरणोक्तमन्यत्रापि सम्बध्यते । तथा लधुपूर्वमीमांसाऽधिकरणकौमुदी- अम न्यप्रकरणोक्तमवश्यापेक्षणीयमन्यत्रापि ग्रामिति । मैथिला:-यज्ञप्रकरणोक्तं "पवित्रस्थोवैष्णव्यौ" इति म- द्रयं श्राद्धार्थपवित्रेषु न वदन्ति, अमावास्यापेक्षणी- साभानाव अवश्यापेक्षणीयत्वे दक्षिणकरधारणार्थ- त्रेऽपि तदापत्तेः । नचैवं श्राद्धेऽसंस्कृतपवित्रान्वय- ङ्गः । तत्र द्रव्यान्तरवत्तूष्णीं मोक्षणेन संस्कारात् । वस्तुत- "बर्हिषः प्रादेशमाने पवित्रे कुरुते, ओषधीमन्तीय छिन- न नखेन, पवित्रस्थोवैष्णव्यविति । अथैनमद्भिरनुमाष्टि णोर्मनसा पूनेस्थ" इति गोभिलवचनं यज्ञप्रकरणपठित- परिभाषारूपम् । अन्यथा श्राद्धे नखेनापि छेदनं स्यात् । श्राद्धे ओषधिव्यवधानेन छेदनमायातमिष्टापत्तेः । ओषधि- दिः । धारणार्थपवित्रे तु ओषध्यादेरन्वयोऽस्त्येव, नतु इन्वयः । स्नानं विना मन्त्रपाठेऽनधिकारात् । स्नानेऽपि बधारणस्याङ्गत्वात् । नचासोऽधिस्नातेन समन्त्रकपवित्रं तां, विशेषवचनाभावे अज्ञानां समानकर्तृत्वनियमात् । एवं निकृतसमन्त्रकपवित्रस्य न कर्माङ्गत्वं विशेषवचनाभावे स- कालकर्तव्यत्वात् । नच स्नानातिरिक्तकर्मसु मन्त्रान्वयो. मन्त्रपाठेऽपि पवित्रधारणस्याङ्गत्वादनवस्थापातात् । तथा ष्णले ऽवघासवाधवद्धारणपवित्रे मन्त्रबाधः । नच गोभिलेन स्थाने पवित्रेण रेखोक्ता, तत्र मन्त्रान्वयोऽस्त्विति वाच्यम्। पेअरपा इति श्रवणात् । तथा च पवित्रपदेन पत्राभिधान न्त्रिस्याङ्गता । नचैवं सर्वाङ्गपवित्रे मन्त्रान्वयः । इष्टापत्तेः । | तादृशलेरवनन्तु आज्यसंस्कारकपवित्रमनावुपदेशात् तत्रा- था भाप्त्येति । अत्र वदन्ति-यज्ञे 'बर्हिषः पवित्रे कुरुते' इति श्रुतेमध्य- ११ .
, ८२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- एव समन्त्रकपवित्रकरणं, श्राद्धे तु "चमसेषु पवित्रान्तहितेष्वप: क्षिपति शन्नोदेवीरिति" इति तदानीकरणश्रुतेः श्राद्धारम्भाव पूर्व समन्त्रकपवित्रकरणमस्तु । यथा- "शुचींश्च विदुषो विमान सम्यग्यत्नेन भोजयेत्"। इसत्र श्राद्धभोजनसमये तेषां न शुचित्वकरणं, किन्तु श्राद्धारम्भात्पूर्व शुचित्वविशिष्टा एव ते भोजनसमये इति । यथा वा चमसानां न तदा करणमिति । तन्न, श्राद्धात्पूर्व पवित्रं यत्कर्तव्यं तत्र मन्त्रपाठो न । तद्विधानं द्विविधम्- काम्यं, नियञ्च । नाद्यं, फलाश्रुतेः । विश्वजिन्न्याये च तत्र पृ- थक् सङ्कल्पः स्यात् । न द्वितीयमकरणे प्रत्यवायाश्रुतेः, प्राय- श्चित्तानुपदेशाच्च । किन्तु पवित्र विशेषणत्वेनाङ्गत्वम् । पवि. त्रमप्यस्य विशेषणत्वेनाङ्गमतो मन्त्रविशिष्टं पवित्रमध्ये ऽपेक्षितम् । अतस्तदानीमेव समन्त्रकपवित्रकरणं, न श्राद्धारम्भात्पूर्वम् । नच तदानीमपि पवित्रपाक्षणमपेक्षितमिति वाच्यम् । दलद्वयं सन्निधाप्य प्रोक्षणं कार्यमयसमये तेनैव दलद्वयेन पवित्रं कर्तव्य- मिति । नच श्राद्धोपयुक्तयावद्रव्यमोक्षणमादौ कर्तव्यं पवित्रञ्च तदुपयुक्तं न दलसामान्यमिति वाच्यम् । तथा सति मोक्षितपिण्ड- दानापत्तेः । आकारविशेषविशिष्टस्यापि तत्वात्तदभावात् । तथा च पिण्डघटकानादिप्रोक्षणेन यथा पिण्डस्य संस्कारः, तथा प- वित्रघटकदलपोक्षणादेव पवित्रसंस्कारः । किञ्च पवित्रमोक्षणं "विष्णोर्मनसा पूतेस्थ" इति मन्त्रकर्तव्यं, तच्च नादौ विहितं किन्वय॑समये एवेति । ननु पचित्रे इति द्विवचनानुपपत्तिः, पवित्र- पदस्य दलद्वयवाचकत्वात नानार्थत्वकल्पने मानाभावादिति । मैवम् । मन्त्रपाठकरणकच्छेदान्मन्त्रपाठकाले छेदाभावेन प- वित्रत्वानिष्पत्तेरिति पवित्रपदं तदारम्भकदलपरम् । एवं प.
वाजपेयाधिकरणम् । वित्रे इति मन्त्रेऽपि । “विष्णोर्मनसा पूतेस्थ" इत्येतत्पा- ठकाले पवित्रवाच्यत्वेऽपि तत्र विशेष्यपदाभावादनन्वयेऽन्व- यार्थ पूर्वमन्त्रस्थं पवित्रे इति पदमनुषज्यते । तस्य च दलप- तैवोक्ता । नोकं पदं तत्र दलमात्रपरमत्र दलद्वयपरं भवितुमर्हति । तदात्वनुषङ्गः । अनुषङ्गे तत्पदस्यैव पदान्तरसम- भिव्याहारतात्पर्यम् । आरत्तौ तु तादृशपदान्तरकल्पनम् । तथा च पवित्रे कुरुते इत्यनेन दलद्वयविषयककृतिर्विहिता । तत्र किं. क्रियानुकूला कृतिरिसत्राऽऽह-छिनत्तीति । इति सर्व समञ्जसम् । इति श्रीमहामहोपाध्याय पं० रामकृष्णभट्टाचार्य विरचिताऽधिकरणकौमुदी समाप्ता ॥ अस्मिन् ग्रन्थे ऽनिर्दिष्टानि कानि चित् बहुशश्चो. पयुक्ताधिकरणानि प्रदश्यन्ते । १ अथ वाजपेयाधिकरणम् । इदं श्रूयते "वाजपेयेन स्वाराज्यकामो यजेत" इति । वा. जोऽन्नं तस्य पेयं द्रवीभूतो रसो यवागूरिति यावत(१)। अत्रोक्त- व्युत्पत्त्या वाजपेयशब्दस्य मसिद्धार्थकत्वेन "दध्ना जुहोति" इतिवद् यजतिना ज्योतिष्टोमं प्रकृतमनूद्य वाजपेयद्रव्यविधानाद गुणविधिरिति चेत्फलपदानर्थक्यापातः । अथ फलोद्देशेनापूर्व कर्म विधेयं, तदुद्देदोन च द्रव्यरूपगुणविधिस्तहि वाक्यं भिद्येत । तत्परिजिहीर्षकैकस्यार्थिकत्वे “सोमेन यजेत" इतिवद् मत्वर्थलक्ष- णामसङ्गः 'वाजपेयद्रव्यवता यागेन स्वाराज्यं भावयेत्' इति (१) अधिकरणमालादिषु वाजो ऽन्नं तच्च पेयं सुराद्रव्यमिति यावत्' इति व्युत्पत्तिः प्रदर्शिता । मूलोक्ता तु तन्त्रवार्तिके- "वाजपेयं यवागूः स्यादौषधद्रव्यता ततः"इत्यनेन स्पष्टीकृतेति सुधिभिराकलनीयम् ।
परिशिष्टाधिकरणेषु- इति चेन्न । तन्त्रेणाख्यातस्य फलद्रव्याभ्यां युगपत्सम्बन्धस्वी- कारेण विनैव मत्वर्थलक्षणामुभयविधिसिद्धेः। आह च- करणेषूपदिष्टेषु या अर्थात्साध्यत्वकल्पना । तस्यां गुणविधानेन नास्ति मत्वर्थलक्षणा ॥ १ ॥ तथाहि-यजेनेसाख्यातस्य तावद् द्वौ भागौ । एकः प्रकृतिरपरश्च प्रसयः। तत्र प्रत्ययांशेन तावद् भावनोच्यते । प्रकृत्यंशेन च यागः। प्रकृतेश्च निर्विभक्तिकतया प्रत्ययार्थेन साकं सम्बन्धविशेषानव पोधात्समभिव्याहारात्सम्बन्धसामान्यं प्रतीयते । तदुक्तम्- सम्बन्धमात्रमुक्तं च श्रुखा धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारो ऽस्या न विद्यते ॥ २॥ इति । निर्विशेषं न सामान्यमिति विशेषाक्षेपोन्मुखं तदविशेषाद् द्रव्यफलापेक्षितं साध्यसाधनरूपं सम्बन्धद्वयमाक्षिपेत् । तथा च द्रव्येण सम्बन्धात कर्मकारकत्वं 'वाजपेयद्रव्येण यागं भाव- येत्' इति । फले सम्बन्धे च करणकारकत्वमपि 'यागेन स्वारा- ज्यं भावयेत्' इति । न खलु काचिदत्र कर्मत्वस्य करणत्वस्य वा प्रतिपादिका साक्षादसाधारणी विभक्तिः श्रूयते, येन उभ- यसम्बन्धासम्भवः स्यात् । तस्माद् गुणकर्मोभयविधिरिपत्र सि- दान्तसूत्रे-"तुल्यत्वात् क्रिययोन" (अ० १.पा० ४.अधि०६. सू०७) "ऐकशब्द्ये परार्थवत्"(अ०१.पा०४.अधि०६.सू०८) इति । अयमर्थ:-क्रिययोः-दर्शपूर्णमासवाजपेययोः, तुल्यत्वात्- समानत्वात्,न-गुणविधिनेति । तथा -सकृदुचरिते धात्वर्थे कर्म- खकरणत्वयोयुगपत्सम्बन्धत्वसापेक्षया परो यवागूरूपो यो ऽर्थ- स्तद्विधानवत तद्विधानाश्रयः तदर्थमनुवादवदिति यावत् । अयम्भाव:-यवागूरूपगुणविधाने ओषधिद्रव्यत्वेन वा. जपेयस्य दर्शपूर्णमासविकृतित्वापत्तिः । न चेष्टापत्तिः "सप्त- वाजपेयाधिकरणम् । ८५ दशोपसको वाजपेयः" इति सौमिकधर्मश्रुतिविरोधात् । किञ्च यागस्य तन्त्रेण सम्बन्धाङ्गीकारे विरुद्धत्रिकद्याप- त्तिः । विरुद्धत्रिकं च- उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः। उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ ३ ॥ इति माधवाचार्येणोक्तम् । तत्रोद्देश्यत्वमिच्छाविषयत्वम् । उपादेयत्वञ्च अनुष्ठीयमान. त्वम् । ततश्चैतौ मनःशरीरोपाधिको धर्मों । विधेयत्वं नाम विधिविषयत्वम् । विधिश्च अज्ञातबोधनम् । ज्ञातस्य कथनन्त्व. नुवाद इति । विधेयत्वानुवाद्यत्वधर्मौ च शब्दोपाधिको । मुख्यत्वं तावत् प्रधानत्वम् । गुणत्वञ्च अपधानत्वम् । न चैतस्य त्रि. कद्वयस्यैकत्रावस्थानं सम्भवति, मिथो विरोधात् । यागफलयोस्तावत्स्वभावपर्यालोचनायां फलमुद्दिश्य पाग. स्योपादेयत्वात, फलानुवादेन तत्साधनतया यागस्य विधानात्, फलेच्छाधीनेच्छाविषयत्वाच, यागस्योपादेयत्वादित्रिकं, फलस्य च उद्देश्यत्वादित्रिकं पर्यवस्यति । तथा यागवाजपेयद्रव्ययोः स्वभावपर्यालोचने यागमुद्दिश्य द्रव्यस्योपादेयत्वाद,यागानुवादेन तस्य विधानात्, तदधीनेच्छा. विषयत्वाच्च यागस्योद्देश्यत्वादि, द्रव्यस्य उपादेयत्वादि, त्रिकं पर्यवस्यति । न च द्रव्यं प्रति यागोऽई उपादातुम् । तस्य तत्सं- स्कारकत्वमसङ्गाव, तृतीयाश्रुतिबाधाच । नापि संस्कृत- स्य यवागूद्रव्यस्यान्यत्रोपयोगो ऽस्ति येनैवमाश्रीयेत । त- स्माद्वाजपेयपदस्यानिहोत्रशब्दवद्यागसामानाधिकरण्येन च कर्म- नामधेयतेति स्वतन्त्रकर्ममात्र विधिरिति । .
परिशिष्टाधिकरणेषु- . २ अथारुणाधिकरणम् । ज्योतिष्टोमे श्रूयते "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति । तत्रारुणाशब्दो गुणिविषयतया प्रयु. ज्यमानोऽपि अरुणं गुणमाचष्टे । “नागृहीतविशेषणा विशिष्टवुद्धि" इति न्यायादन्वयव्यतिरेकाभ्यां सत्रैव व्युत्पत्तेश्च । तस्य च तृतीयाश्रुसा क्रयसाधनत्वं प्रती. यते । तच्चानुपपन्नम् । अमूर्तस्य तस्य वासोहिरण्या- दिवत्क्रयसाधनत्वासम्भवात् । उक्तं च- अमूर्तत्वाद् गुणो नैव क्रियां साधयितुं क्षमः ।। तस्मात्क्रीणातिना नास्य सम्भवसेकवाक्यता ॥ १॥ इति अतश्च तृतीयाश्रुतेरविनियोजकतया तया ज्योतिष्टोमप्रकरणगतग्र- हचमसादीन करणतयोपदिष्टाननूद्यारुण्यरूपो गुणो विधीयते । यदि च विभक्तेः निष्कृष्य कारकशक्त्यभिधायकत्वेन क्रियाविशेषकत्वात्कथं कृदन्तकरणादिशब्दवत्तृतीयया द्रव्याभि- धानमिति उच्यते, तर्हि गुणवाचकप्रातिपदिकस्योपादानलक्षणया द्रव्यवाचित्वेन तृतीयया तद्गतकरणत्वाभिधानेन प्राप्ताप्राप्तविवेकेन विधिशक्तेर्गुणे उपसंक्रमात् प्रकरणगतविशेष्यभूतद्रव्यानुवादेन विशेषणभूनो गुणस्तत्परिच्छेदकत्वेन विधीयते । तथा च अरुण- येति भिन्नं वाक्यं, पिङ्गाक्ष्यति च । तत्राऽऽद्यस्य येन द्रव्येण किञ्चित् क्रियते तेनाऽरुणगुणकेन इयर्थः । नचैवं पिङ्गाक्ष्ये- कहायन्योरपि ज्योतिष्टोमगतसकलसाधनद्रव्यगामित्वं शङ्कनी- यम् । तयोर्द्रव्यवाचित्वेन द्रव्यान्तरगामित्वासम्भवात् । नच पिने अक्षिणी यस्या इति षष्टयर्थे समासविधा- नात्सम्बन्धवाचित्वं शङ्यम् । लाघवानुरोधेन सर्वैरपि यौगिकैः अरुणाधिकरणम् । शब्दव्याभिधानात् ॥ तथाहि-तेषां सम्बन्धवाचित्वे सम्बन्धमात्रमभिधेयं कल्प्यते, सम्बन्धविशेषो वा ? । नाद्यः, तेषां सर्वेषां सम्बन्धमानवाचित. यैकार्थकत्वापातात् । अथ सम्बन्धविशेषः । ततस्तज्ज्ञानस्य सम्बन्ध्यधीनस्वादनुक्तसम्बन्धिनश्च तव्यवच्छेदासामर्थ्य मिति, तस्य चोभयनिष्ठत्वादुभौ सम्बन्धिनावश्यमभिधातव्यो । तत्रै. कस्य वृत्तिघटकपदेनाभिधानाद द्वितीयनिरूपिता वृत्तौ शक्तिः कल्प्यते इत्यवश्यमभ्युपेतव्यमिति । ततश्च सम्बन्धिनमभिधाय सम्बन्धाभिधानेऽतिगौरवमिति । एवं च पिङ्गाक्ष्येक हायनीशब्दयो. रपि पिङ्गे अक्षिणी यस्याः, एक हायनं यस्या इति यौगिकत्वेन सिद्धं द्रव्यवाचित्वम् । उक्तं च- सर्वत्र यौगिकैः शब्दैद्रव्यमेवाभिधीयते । न हि सम्बन्धबाचित्वं सम्भवसतिगौरवात् ॥ २ ॥ सम्बन्धिनैव सम्बन्धः प्रसेतुं यदि शक्यते । पुनस्तस्याभिधाशक्ति कः श्रुतेः परिकल्पयेत् ॥ ३ ॥ एवं च वाक्यभेदेन प्रकरणात् ज्योतिष्टोमगत करणभूतस. कलद्रव्यगामी आरुण्यगुणः । यत्तु समानवाक्यश्रुनपिङ्गाक्षीद्रव्यानुवादेनाऽऽरुण्य गुणो वि- धीयताम् । वाक्यभेदश्च नेति । तन्न, "ऐकशब्द्ये परार्थ- वत्" इतिन्यायेन पिङ्गाक्ष्याः क्रपारुणौ प्रति वैरूप्यप्रसङ्गादिति पूर्वपक्षे सिद्धान्तसूत्रम्-"अर्थैकत्वं द्रव्यगुणयोरैकका- नियमः स्यात्' इति ( अ०३-पा० १-अधि०६-मू० १२) अयमर्थः-द्रव्यगुणयोरेकक्रियान्वयित्वरूपाचँ कत्वे सम्भवति त. योः परिच्छेद्यपरिच्छेदकभावनियमः । ऐककाद् एकार्थप्रति- "म परिशिष्टाधिकरणेघु- वरूपैकवाक्यत्वात् । अयम्भावः-उदाहतवाक्येन भावा- रणन्यायेन ( अ० २-पा० १ अधि० १ ० १ द्वि- कम् ) क्रयो विधीयते । सस्मिश्च तृतीयाश्रुसा पि. देर्यथा करणत्वं, तथा आरुण्यगुणस्यापि । तच्च स्वसा- पेक्षितया पिङ्गाक्ष्यादिद्रव्यमनपेक्ष्यैव वाक्येन साक्षात्क्रये । खलेकपोतन्यायेन सर्वकारकाणां साक्षाक्रियान्वय. । उक्तं च- रकं ह्युच्यते कुर्वन्नाक्रिया तत्करोति च ।। मान्न द्रव्यसम्बन्धः कारकस्यास्ति कस्य चित् ॥४॥ इति । दे तस्यामूर्तत्वात्साक्षास्क्रियासाधनत्वं न सम्भवति इति ते,ताई क्रयसाधनद्रव्यपरिच्छेदमुखेनान्वीयताम् । तदुक्तमू- तीयया गुणस्यैव करणत्वं क्रयं प्रति ।। वस्पष्टं गम्यते तच्च द्रव्यद्वारेण युज्यते ॥ ५ ॥ - व्येण साधनीयेयमिति ज्ञाता यदा क्रिया । शेने अपेक्षा ऽस्य गुणे ऽप्युत्पद्यते तदा ॥६॥ यमप्यपरिच्छिन्नं न क्रियां साधयितुमलमिति परि- मपेक्षते । । गुणश्व क्रियासाधनत्वेनोच्यमानः तां च साधयितुमक्षमः तदर्थ परिच्छेद्यं द्रव्यमपेक्षते इति गयोः परस्परमपेक्षितत्वात्मनिरूपितः पाणिकः प- परिच्छेदकभावेनान्वयः । युक्तं च गुणस्य तत्प- कत्वात्क्रियासाधनस्वाभिधानम् । एवञ्च साधनत्वेन गु. दिधती श्रुतिः यथैतेन शक्यते क्रियां साधयितुं तथा कु. गाह । स च द्रव्यपरिच्छेदेनैव शक्नोति साधयितुं, नान्यथा ।
वैश्वानरेष्टयधिकरणम् । तथा च अरुणपरिच्छिन्नेन पिङ्गाक्षाद्रव्येण क्रय कुर्यादिसर्थस्य पर्यवसानेन वाक्यभेदाभावेन च न चमसादिषु गुणो निविशते । किञ्च मकरणेन चमसादिषु गुणनिवेशं वदता वक्तव्यमिदं केन तत्र गुणो विधीयते । नच श्रूयमाणविधिना तत्सम्भव- ति । क्रीणातिना स्वया सम्बन्धस्य नेष्यमाणत्वात् । नाप्यरुणपदस्य विधिशक्तिरस्ति । प्रयोगवचनं त्वक्रियात्म- कं दुरादुपेक्षते । मम तु क्रीणातिना सम्बन्धस्येष्टत्वात्सुलभ विधानम् । न चैवं वासोहिरण्यादिषु क्रयसाधनत्वात्तनिवेशः स्यादिति वाच्यम् । तेषां क्रयान्तरसाधनत्वात् । नहि स्ववाक्यगतं पिङ्गाक्षीद्रव्यमुपेक्ष्य वाक्यान्तरोपात्तवस्त्रायवच्छेदो युक्तः । तस्मादारुण्यगुणः क्रयहेतुं पिङ्गाक्षीमेव भजते इति । ३ अथ वैश्वानरेष्टयधिकरणम्- काम्येष्टिकाण्डे श्रूयते "वैश्वानरं द्वादशकपालं निवपेन् पुत्रे जाते, यदष्टाकपालो भवति गायव्यबैनं ब्रह्मवर्चसेन पु- नाति, यन्नवकपालस्त्रिवास्मिस्तेजो दधाति, यद्दशकपालो वि. राजैवास्मिन्नन्नाचं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्नि- न्द्रियं दधाति, यदद्वादशकपालो जगत्यवास्मिन पशून दधाति, यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रि- यावी पशुमान् भवति" इति । तत्राष्टाकपालादिशब्दाः प्रकृत- वैश्वानरयागस्य नामधेयपरा गुणविधिपरा अर्थवादपरा वा ? | तत्राष्टाकपालादिशब्दबोधिताष्टत्वादिसंख्यानां द्वादशस्वन्तर्भावे- न प्राप्तत्वात्तत्प्रख्यन्यायेन "वैश्वदेवेन यजेत" इतिवद् "अ- ग्निहोत्रं जुहोति" इतिवद्वा रोपां यागनामधेयत्वं युक्तम् । तत्र हि "वैश्वदेवीमामिक्षाम् इत्यनेन यागे विश्वदेवसम्बन्धस्य ૧૨ .. " परिशिष्टाधिकरणेषु- प्राप्ततया "वैश्वदेवेन यजेत" इसत्र वैश्वदेवशब्देन विश्वदेवदे- वताविधानासम्भवात्तस्य नामेधयविधित्वम् । “अग्निहोत्रं जुहोति" इत्यत्रापि “अग्निज्योतिज्योतिरग्निः स्वाहा" इति मन्त्रवर्णेनाने प्राप्तत्वेन तद्विधानासम्भवादाग्निहोत्रमिति कर्मनामधेयम् । अथ नात्र द्वादशकपालादिशब्दाः संख्यापराः, किन्तु द्वा. दशसु कपालेषु संस्कृतः पुरोडाश इति योगेन द्रव्यपराः । एवञ्च द्रव्ये द्रव्यान्तरानन्तर्भाव इसमाप्तत्वम् । द्वादशकपाल एवाष्टसु संस्कृत इति तु वक्तुमशक्यम् । अन्यथा ऽष्टानामन्यैश्चतुभिः कपालैः साकाङ्क्षतया सामर्थ्याभावात्समर्थाधिकारे संस्कृतं भक्षा" ( अ० ४ पा० २ सू० १६) इति पाणिनिसूत्रविधी- यमानतद्धितानुत्पत्तिप्रसङ्गः । एवं च न नामत्वम् । अप्राप्तत्वादेव च नार्थवादत्वम् । न ह्यविहितस्याष्टाकपालस्य स्तुतिः सम्भव- ति । तदुक्तम्- "सामानाधिकरण्ये हि नामधेयं प्रगीयते" । इति । "पूर्वज्ञातार्थवाचित्वे नामधेयार्थवादते" ॥ इति च । तस्मात्मकृतवैश्वानरयागे ऽष्टाकपालपुरोडाशरूपगुणविधिरिति । न चैवमुत्पत्तिशिष्टद्वादशकपालावरुद्धत्वात् तत्रान्यद्रव्यनिवे- शासम्भवातयेयमिति वाच्यम् । उपक्रमोपसंहारवशात्सर्वं चे- दमेकं वाक्यमिति पर्यालोचनेन वैकल्पिकाष्टाकपालादिद्रव्य- विशिष्टवैश्वानरेष्टिविधानात्सर्वेषामुत्पत्तिशिष्टत्वसाम्पेन पक्षे चा- रितार्थ्यात् । तस्माद् गुणविधिरिति पूर्वपक्षे सिद्धान्तसूत्रम्- अविभागाविधानार्थे स्तुत्यर्थेनोपपद्येरन् ( अ० १-पा० ४-अधि० ११ मू० २०.) इति । अयमर्थ:--विधानार्थे--कपा- लगनद्वादशसंख्यायामष्टत्वादिसंख्याया अविभागात-नियमात, वैश्वानरेष्टयधिकरणम् । ९१ आयवरूपत्वादिति यावत् । द्वादशकपालस्तुसर्थत्वेनाष्टा- देशब्दा उपपोरन । अषयवस्तुतिद्वारा अयविस्तु. । तथा हि- ष्टत्वाधविधानत्वाम्यर्थे यं तत्परोचना । मादवयवद्वारं द्वादशत्वं रोच्यते ।। भाव:-सर्वत्र तावद्वरस्य स्तुतिदृश्यते । वरं चात्र द्वादश- 'स्कृतपुरोडाशद्रव्यं विधेयत्वात् । तस्मात्तस्य यथा स्तुति- ते तथा कर्तव्या । अष्टाकपालादिशब्दाश्च तत्पतीत्यजन- । तदेकदेशं प्रत्याययितुमहन्तीति तदेकदेशप्रत्यायनद्वारा नो द्वादशकपालस्य तैः शब्दैः स्तुतिः प्रतीयते । तथा यमर्थः-ईदृशोऽयं द्वादशकपालः पुरोडाशो महाभागः, क्रियमाणे अष्टाकपालादयोऽपि सम्भाविता भवन्ति, ते वर्चसादिसिद्धिभिः प्रशस्ताः, तस्मात्प्रशस्तोऽयमिति । [यकवाक्येन द्वादशकपालस्य विहिततया न स्तुत्य- वं, येनाष्टादिशब्दानां स्तावकत्वं नोपपद्यत । श्च तस्य "जगरवास्मिन्" इति पृथक्स्तुतिसत्वेष्य- स्यबोधनार्थमाधिकस्तुत्यपेक्षया नानर्थक्यम् । धपक्षे तु वैश्वानरस्य द्वादशकपालावरुद्धत्वात् पश्चा- णाष्टाकपालादीनां वैयर्थ स्पष्टमेव । क्तं सर्वेषामुत्पत्तिशिष्टत्वेन समानबलवत्त्वाह्रीहियवव. चारितार्थ्यमिति । तत्रोक्तम्- त्तिवाक्पशिष्टत्वं न तावदुपपद्यते । पांमर्थभेदेन वाक्यं तत्र हि भिद्यते ॥ ल्पिका अष्टाकपालादिगुणा वैश्वानरे विधीयन्ते इसि वि- परिशिष्टाधिकरणेषु- , भाव्यते चेन्नानागुणविधानेनार्थभेदाद्वाक्यभेदप्रसङ्गः । उपक्रमोप. संहारदर्शनेन च वाक्यैकत्वं प्रतीयते । तस्मान्नाष्टाकपालादीनां स- मानवलवत्वमिति । ननु मास्तूत्पत्तिशिष्टत्वं परमष्टाकपालादिगुणविधिगत- द्वादशकपालाद्यन्यथाऽनुपपत्त्या वैश्वानरवाक्यगतद्वादशकपालस्य मामान्यतो द्रव्योपलक्षकत्वविवक्षणात्सर्वेषामेवैभिर्विधानादुत्पन्न शिष्टत्वात्तुल्यबलस्वामिति । उच्यते, अष्टाकपालादीनां स्तावकत्वे- नापपत्तौ विधिवाक्यगतवैश्वानरसमानाधिकरणद्वादशकपालशब्द- स्थापलक्षणत्वविवक्षाया निष्प्रमाणत्वात् । किञ्च निर्वपतिनाऽत्र यागो विधीयते । स च द्विती- यानोन द्वादशकपालेनैव सम्बध्यते, न तु प्रथमान्ताष्टाकपा- लादिभिः, निराकासत्रात । आख्यातानिष्ठविशेष्यतानिरू- पिनाकारतासम्बन्धेन शाब्दबोधे प्रातिपदिकाद्विहितकारकवि- भक्तिजन्योपस्थितेः कारणत्वादाख्यातस्य कारकविभत्यन्तेन माकाशत्वात् । नचाष्टाकपालादिवाक्यैः स्वतन्त्रं कर्म विधीयते । द्रव्यदेवतारूपयागस्वरूपानुपलब्धेः । ननु वैश्वानरपदस्य अनुषङ्गाधिकरणन्यायेन ( अ० २- पा. १० १६) सम्बन्धे देवतालाभेन यागस्वरूपसिद्धिरिति चेन । भिन्नविभक्तिकत्वेन द्वितीयान्तवैश्वानरपदस्य प्रथमान्ता- टाकपालादिशब्दैरनुपङ्गासम्भवात् । तदुक्तम्- वैश्वानरपदं नापि यागायात्रानुषज्यते । विभत्स्यन्तरयोगित्वात्, न चर्तेऽस्मादनर्थकम् ॥ इति । न च विभक्तिविपरिणामेन तत्सम्भव इति वाच्यम् । अष्टाकपालादिश्रुतेः स्तावकत्वेनोपपत्त्या ऽनुषङ्गविभक्तिविपरि- णामयारयुक्तत्वात् ।
असञ्जातविरोधिन्यायः । नापि ब्रह्मवर्चसादिफलाय गुणविधिः । वाक्यभेदप्रस- ङ्गात् । तस्मात् पूर्वोक्तप्रकारेण नामधेयविधित्वयोरभावेन 'पुत्रे जाते' इत्यत्रोपक्रान्तस्य द्वादशकपालस्य 'यस्मिन् जाते' इत्य- नेनोपसंहारादेकवाक्यत्वपर्यालोचनया स्तुसा विना च तदसम्भ- वात्स्तावकत्वमेव युक्तम् । तथा च अष्टाकपालादिभिरौरंशिनो द्वादशकपालस्य स्तुतिरिति ॥ ४ अथासञ्जातविरोधिन्यायः । "प्रजापतिरकामयत प्रजाः मृजेयेति । स तपो ऽतप्यत । तस्मात्तेपानाव* त्रयो देवा असृज्यन्त 'अग्निायुरादिस' । ते सपो ऽतप्यन्त । तेभ्यस्तेपानेभ्य *स्त्रयो वेदा घसृज्यन्त । अग्नेर्क- ग्वेदो, वायोर्यजुर्वेद, आदियात्सामवेदः" इत्युपक्रम्य ज्योतिष्टोमे श्रूयते "तस्मादुच्चैर्ऋचोपांशु यजुषा उच्चैः साम्ना" इति । अत्रोपक्रमोपसंहारयोरेकवाक्यत्वानुरोधाय तयोरेकार्थविषयत्वा- वश्यकतया उच्चैस्त्वादिविधिवाक्यगतऋगादिशब्दा-पत्रार्थवशेन पादव्यवस्थेत्यादिलक्षणार्थकां: पूर्वश्रुतमन्त्र-ब्राह्मणसमुदायपर- वेदशाब्दसामानाधिकरण्याय लक्षणया तदर्थपरत्वेन व्याख्येया:? उतोपक्रमगतवेदशब्द एवोपसंहारस्थऋगादिशब्दसमानार्थत्वाय लक्षणया व्याख्येय इति । तत्रोक्तम्- गुणत्वादनुवादत्वादर्थवादस्य लक्षणा ॥ मुख्यस्यापि प्रधानत्वादप्राप्तविषयत्वतः ॥ विध्युद्देशो जघन्योऽपि स्वार्थहानि न गच्छति ॥ इति । उच्चैस्त्वादिधर्मविधाने हि ऋगादेरुद्देश्यतया विधिवाक्य- गतत्वेन पावल्यादमाप्तविषयत्वेन प्राधान्याच्च तदपेक्षयोपत्र- * कानजन्तमेतत् ।
परिशिष्टाधिकरणेषु- गगतवेदंशब्दस्यार्थवादगतत्वेन तस्य च विधिसापेक्षप्रमाणत्वेन दौर्बल्यात, प्रमाणान्तरसिद्धस्यैवानुकीर्तनमर्थवाद इसनुवादत्वाद गुणभूतत्वेन "गुणे त्वन्यायकल्पना" इति न्यायेनोपक्रमगतो वे. दशब्द एव लक्षणया तदेकदेशमन्त्रपर इति । किञ्च ऋगादिशब्दानां वेदपरत्वे तैस्तदेकदेशब्राह्मणाभिधान स्यात् । नच कदाचिदपि साम्प्रदायिका ब्राह्मणे ऋशब्द प्रयुञ्जने । दृष्टपयोगानुसारिणी च सर्वत्र तिकल्पना युक्ता। वे. दशब्दस्तु 'ग्राम आयात' इतिवदेकदेश बोधयितुमीष्टे । ऋचं ब्राह्म. णमानं वा ऽधीयानस्य सर्वैरपि वेदाध्यायी इत्युच्यमानत्वात् । किञ्च एकत्र वेदे पठ्यमाना वेदान्तरेऽप्युपलभ्यन्ते काश्चिह- चस्तथा यजूंषि सामानि च । वेदपरत्वे तेषूच्चै स्वादिधर्मस्यानुष्ठाने संशय-उभय वेदगतत्वेन किङ्गतस्यानुष्ठानमिति । वेदद्वयव्यपदेशस्य तुल्यतया समानबलवत्तविभावने त्वष्टदोषग्रस्तविकल्पापत्तिः। तेषां ऋगादिपरत्वे तु नोक्तापत्ती । न ह्ये कस्मिन् वर्णसमुदाये ऋक्त्वं यजुष्टं चेत्युभयं समवेतम् । ज्योतिष्टोमप्रकरणं चैवमनुगृह्यते । अन्यथा वेदस्य समस्तेष्टिपश्वकाहाहीनसत्रविषयत्वाद्यावद्वेदानु- सारी धर्मः प्रकरणमुल्लङ्घय सार्वत्रिक: स्यात् । तथाचोपक्रम- गतवेदशब्दस्य तदवयवे लक्षणया ऋगादिपरत्वमिति पूर्वपक्षे सिद्धान्तसूत्रम् "वेदो वा प्रायदर्शनात् । ( अ० ३ पा० ३ अधि० १ सु० २) इति । अयमर्थः-वेदः-उक्तविध्युद्देशः मन्त्रब्राह्मणसमुदायरूपवेदधर्मः । ऋग्वेदेन विहितं कर्म उच्चैः कर्तव्यम, यजुर्वेदेनोपांशु, सामवेदेनोचैरित यावत् । प्राये- वाक्योपक्रमे दर्शनाव-वेदशाब्ददर्शनात् । अयम्भाव:-उप. क्रमे मन्त्रब्राह्मणसमुदायपरवेदपदश्रुया तज्जनितसंस्कारव्याप्तम- नस्कतया पश्चाच्छ्रूयमाणऋगादिशब्दानामेव लक्षणा करणीया।
असनातविरोधिन्यायः। ९५ यत्तु विध्युद्देशवलीयस्त्वान्न तत्र लक्षणोते । तत्रोक्तम्- विध्यर्थवादसम्बद्धमन्यदेव बलाबलम् । मुख्यपश्चात्तनत्वेन ज्ञानानामन्यदेव तत् ॥ इति । ते एवार्थवादा विध्युद्देशैः प्रबाध्यन्ते ये पश्चाच्यन्ते । येतु पूर्व, न ते पश्चाच्छ्यमाणस्य विधेरप्यनुरोधाय स्वार्था- तिक्रमं सहन्ते, कुतो विध्युद्देशस्य । सर्वेषामपि शब्दानां स्वार्था- तिक्रमे विरोधः कारणम् । स च विरोधिज्ञाने ससेवोपपद्यते । न चात्र "त्रयो वेदा ह्यसृजन्त अग्नेग्वेद" इसादिवाक्यश्रवणकाले जातिवाचकऋगादिपदानां श्रुतिः । यदशेन वेदशब्दस्तदवय- वे लक्षणां भजेत । अवधारिते च तदा वेदपदार्थे उपसंहारगतऋ- गादिशब्दाः सातप्रतिपक्षज्ञानत्वात्स्वार्थपराः सन्तस्तदेकवाक्य- तामप्रतिपद्यमाना बलाल्लक्षणां भजन्ते । किञ्च विध्यर्थवादयोः समानविषयत्वनियमात याव- देवार्थवादे सङ्कीर्तितास्तावदेव किमप्येषां वि- धास्यते इथेतदवधृतम् सतश्च किमेर्षा विधेयमिसे. तन्मात्रमपेक्षते, न तु कस्य किमिति । तथा चोत्तरस्माद्वाक्याद- मेक्षितमात्रं गृह्यते । विधेयं चापेक्षितम् , न विधिविषय इति उच्चै- स्वादिमा सम्बध्यते, नतु ऋगादयः । ततश्चाविवक्षितत्वादेषाम- र्थवादगतवेदशब्दे च विध्युद्देशनावधारिते यस्मादवमेते वे- दा जातास्तस्मादेषामुच्चस्त्वादि कर्तव्यमितिवक्तव्ये तमेवार्थ सिद्धमङ्गीकृस ऋगादिशब्दा उचार्यन्ते । अन्यथा ह्यसम्बद्धमेत्र स्यादिति तेषामेवानुवादत्वम् । यत्तूक्तं न हि कदाचिदपि ब्राह्मणे ऋक्शब्दप्रयोग इति । तन्न, वेदे एव- वेदाः क परिशिष्टाधिकरणेषु । "ऋग्भिः पूर्वाह्न दिवि देव ईयते यजुर्वेदेन तिष्ठति मध्ये अन्हः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः" ॥ इति मन्त्रे प्रथमचरणे ऋक्शब्दस्य मन्त्रब्राह्मणसमुदा प्रयोगदर्शनाव । नहि तत्र स मन्त्रमात्राभिधानाभिप्रायेण प्रयुत्त इति भ्रमितव्यम् । चतुर्थचरणे वेदैरिति बहुवचनानुपपत्तेः । यश्व संशय उच्चैस्त्वानुष्ठाने उक्तः सोऽपि न । नहि पाठ मात्रेण तद्गतधर्मानुष्ठानप्रसक्तिः। किन्तु येषां यत्र विधानं ते पां तद्गतधर्मो भवति । यदि केषां चिदुभयत्रापि विधानं तर्हि "भूयस्त्वेनोभयश्रुति" (अ० ३-पा० ३ अधि० ३ सू०१०) इति न्यायेन निर्णयः । यत्र तु भूयस्त्वमपि नास्ति तोष्ट एव विकल्प इति । शिवं भूयात् । A ... त ... " ४ ... ... ... ... ३ (१५) शिवस्तोधावली । उत्पलदेवविरचिता।। प्रमेयरत्नार्णवश्व श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- १६) मीमांसाबालप्रकाश: जैमिनीयद्वादशा णिकृतदीधित्या आगदीशी टीका। १३ ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज- (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमिय- मिश्रविरचितः परिभाषा-संस्कारप्रका- भदृशङ्करविरचितः। (मीमांसा) २ शात्मकः | सापिण्यदीपकश्च १७) प्रकरणपश्चिका प्रभाकरमतानुसारि-मी- मांसादर्शनम् । महामहोपाध्यायधीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायश्री- मिश्रमिअविरचितः आहिकप्रकाशः ६ कनाथमिश्रविरचितम् श्राशङ्करभट्टकृतो (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपा- मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ ठिसंकलितः। १८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (१३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषो- तमाचार्यकृता । ... मलङ्कृतः। (वेदान्तः) (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो - १९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय तमजीमहाराजविरचितः... श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (३५) वेदान्तपारिजातसौरभं नाम अक्षमीमांसा- २०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ चितं संपूर्णम् (वेदान्तः) (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- २१) श्रीहर्षप्रणीत खण्डनखण्डखाद्यम् । आ- नारायणतीर्थविरचित-योगसिद्धान्त चन्द्रि- नन्दपूर्णविरचितया खण्डनफक्किकावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीति (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्य- प्रसिद्धया समेतम्। (वेदान्तः) १४ श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- १२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता १ कर्षिणीसमाख्यव्याख्यासंवलिनम् । १३) श्रीलक्ष्मीसहस्त्रम् -बालबोधिनीव्याख्य- । (३८) विश्वप्रकाशः । कोश । विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः । २ १४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथ- (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता भट्टकृता ( वेदान्तः) २ श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठल- १५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर- नाथदीक्षितविरचित टिप्पणीसहिता । श्रीम- सिद्धान्तवागीशविरचितानि अनुमानजा- द्भागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- गदीश्याः प्रत्यक्षानुमानगादावर्याः प्रत्य- धिनीटिप्पण्यो।-प्रकाश: गोस्वामि श्रीश्री क्षानुमानमाथुर्या व्युत्पत्तिवादस्य शक्ति- पुरुषोत्तमजीमहाराज विरचित वादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- कायाः कुसुमाञ्जलेश्च क्रोडपत्राणि २ त्रमिविरचितः पूजाप्रकाशः | ... ६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । अतिसिद्धा-- हरचितसिद्धान्तसेतुकाऽभिधटीकासहित न्तापरनामकः । श्रीब्रह्मचारिवनमालि- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २ मिअविरचितः । वेदान्तकारिकावली ७) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म- पिलजैनवैशषिकमिनीयदर्शनसंक्षेपः । सुधातरङ्गिण्याख्य टीकया सहिता । ३ मणिभद्रकृत टीकया सहितः । हरिभद्र- (४९) स्वानुभवादर्शः । श्रीमत्परमहंसपरिबाज- मरिकृतः । काचार्यनारायणाश्रमशिष्यमाधवाश्रमविर ८) शुद्धावतमार्तण्डःप्रकाशव्याख्यासहितः। चितः । स्वकृत टीकाविभूषिनश्च । ... . - १ ... ४ (४) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्य. (१७) व्याकरणसिद्धान्तसुधान घाख्यासमलड्कृतमिताक्षरासाहता । व्य विश्वेश्वरसििवरचितः। वहाराध्यायः ११ (४८) विरमित्रोदयः । लक्षणम (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- महामहोपाध्यायशीमित्रा तिकृता । श्रीगङ्गशोपाध्यायविरचिततत्त्व- (१९) बृहदारण्यकवार्त्तिकसार चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि- मिविरचितः । महेश्वरा विचितदीधित्या च गर्भिता। (५५) शानदीपिका । श्रीपार्थसारथिमिश्र प्रणि- प्रहाख्यया टीकया समत ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या- (५०) विरमित्रोदयः । राजनीति ख्यव्याख्यया सहिता तर्कपाद । महोपाध्यायश्रीमिघमिश्रा (४६) वैयाकरणसिद्धान्तलघुमञ्जूषा महामहो- 1 (५१) पूर्वमीमांसा अधिकरणके पाध्याय-श्रीनागेशभट्टाविरचिता । हामहोपाध्याय पं० राम श्रीमदुर्बलाचाय- बालम्भट्टाभ्यां विर विरचिता परिशिष्टाधिक चितकुञ्जिकाकलाहटीकाद्वयसंवलिता। के टिप्पण्या परिष्कृत। पत्त्रादिभेषणस्थानम् । हरिदासगुप्ता, चौखम्बा बनारस सिटी .