Sringeri Sharada Peetham
Purushrthamimamsa
Front matter
॥ श्रीः॥ यान्यस्माक सुचरितानि तानि खयोपास्यानि । पुरुषार्थमीमांसा ॥ श्रुतिमूल स्मृतिस्कंका-सदाचारसुमोज्वला।। धर्मकल्पतरुजीयात्पुरुषार्थफलपदः ॥ इह खलु सर्वेषां मानुषाणामिष्यमाणतयाऽवगतेषु पुरु- पार्थेषुः प्रवृत्ति सर्गिकी । सा प्रवृत्तिरविगीता पुंसां निखिल- श्रेयस्साधनाय कल्पते ॥ विभिन्नरुचीनां लोकानां पुरुषार्थ- प्रवृत्तयोऽपिनानाप्रकाराः। विशिष्टसंस्कारोपेतांतःकरणानुरूपा मनुष्याणामभिरुचिः ॥ सा यद्यनवस्थिता तदा लोकमर्यादा विपर्यस्ता भवेदिति लोकतः शास्वतश्च कापि व्यवस्था सर्वेषा- मावश्यकी भवति । पौरुषेयीमपौरुषेयी वा व्यवस्थामाश्रित्य पुरुषार्थसाधनाय प्रयतते ।। महापुरुषैरनुष्ठीयमानो धर्मः पचयं गमिष्यत्ति । धर्मस्वरूपनिरूपणं हि नानाशाखासु विप्रकीर्णत्वेन कालदेशादिभेदेन व्यवस्थानामानंत्येन. नानाप्रकरणस्थत्वेन च दुस्चगाहमतिसूक्ष्मं च तदत्र शास्त्राण्येव प्रमाणम् । उक्तं च भगवता (गी.१६ अ. श्लो. २४) 'तस्माच्छास्त्रं प्रमाणं ते कार्या- कार्यव्यवस्थिता' विति ॥ शास्त्राणि पुरुषं धर्मे प्रवर्तयंति निव- २ यंति चाधर्मात् ॥ प्रवृत्तिप्रयोजको विधिः। निवृत्तिप्रयोजकः प्रतिषेधः । विधिप्रतिषेधौ शास्त्राचार्योपदेशनयलोकवृत्तादिवि- ज्ञानेन सम्यग्विज्ञाय पुरुषार्थसाधनाय प्रयतितव्यम् ॥ अज्ञाते अन्यथा ज्ञाते वा पुरुषार्थस्वरूपे न किमपि प्रयोजनं भवति । परमार्थदर्शिनः पुरुषाः परस्परानुबंधिषु पुरुषार्थेषु यथा- योगं प्रवृत्ताः परां सिद्धिमुपयांति ॥ अत्र केचन सुखहेतु- त्वादर्थकामावेव श्रेयो मन्वते ॥ अपरे कामहेतुतामवष्टभ्य ध- मार्थों श्रेयो विजानंति ॥ अर्थ एव धर्मकामयोस्साधनमिति तमेव परमार्थमाचक्षते मनीषिणः कतिचन ॥ आचार्याः केचन धर्म एवार्थकामयोमूलमिति व्यवस्यति ॥ अनायविद्यावासनया कृतकामकर्मवशादुच्चावचेषु जन्मसु परिभ्रमतो जीवराशेः कदाचित्स्वकृतकुशलकर्मणा लब्धे मानुष्यके यथाविधि साधि- तेन त्रिवर्गेण शुद्धसत्वस्य कर्मबंधनिवृत्तिलक्षणो मोक्ष एव परमार्थस्तत्साधनद्वारा धर्मार्थकामरूपस्य त्रिवर्गस्यापि पुरुषा- र्थत्वमिति प्रकाशयंति शास्त्ररहस्यमन्ये ॥ एवं यथाभिलापं विम तिपन्नेपि पुरुषार्थविचारे परस्पराविरोधिनश्चत्वारः पुरुषार्थाः श्रेयोभ्युदयहेतव इति सर्वेषामपि प्राज्ञानामभिमतम् ॥ यथा वि- जिज्ञासितस्यास्यैवार्थस्याभिव्यक्तिर्भवेत् तथैवेयमारभ्यते पु- रुषार्थमीमांसा ॥ 1. r पुरुषार्थाश्चत्वारी धर्मार्थकाममोक्षाः । एतेषु धर्मार्थका- मानां त्रिवर्गसंज्ञया व्यवहारः । समोक्षाणामेषां चतुर्वर्ग इति च ॥ पुरुषार्थसाधनाय प्रयतमानेन सांगानि सरहस्यानि तत्पमाणान्यध्येतव्यानि ॥ उपासनीया ज्ञानवृद्धा गुरवः ॥ स्वयं च श्रद्धास्तिक्यपूतमानसेन भाव्यम् ॥ कामात्मानो हेतु- वादपरा नास्तिकाश्च नाधिक्रियते शास्त्रेषु । प्रभुसंमितानि शास्त्राणि विकल्पासहानि ॥ लौकिकालौकिकोपायबोधकानि तान्यान्वीक्षिकी त्रयी वार्ता दंडनीतिरिति चत्वारि ॥ आन्वी- शिक्यां जीवस्य स्वरूपानंदाविर्भावलक्षणमोक्षोपायः । त्रय्यां धर्माधर्मविवेकः । वातीयां कृषिवाणिज्यपाशुपाल्यामुखवृत्ति- निरूपणम् ॥ दंडनीत्या लोकयात्रानिर्वहणोपायः ॥ एष्वेव प्रतिष्ठितास्सर्वे पुरुषार्थाः॥ इतराण्यपि शास्त्राणि साक्षात्परंपरया वा बहूपकुवैति पुरु- पार्थानाम् ॥ पुरुषार्थसाधकानां शास्त्रविज्ञानं सहजः प्रबोधः क्रियासु दाक्ष्यं देशकालानुरोधः सूता वाणी स्थिरस्संकल्पः प्रतिभा चेति लोकमान्या गुणाः काममापूरयंति त्रिवर्गस्य लौकिकमलौकिकं चेति द्विविधं फलम् ॥तत्र प्रथमोदिष्टं लोकया- त्रानिर्वहणोपयोगि भवति ॥ शारीरमानसबल द्धिरात्मरक्षगं विहितहत्या जीविकालाभः स्व कुटुंधरक्षगं परोपकृतिः सामा- ४ + जिकव्यवहारी नीत्यनुरोधः पापानिवृत्तिरित्यादयस्सर्वेषामैहि- कमुखहेतवः शास्वनिर्दिष्टा यथाविध्यनुष्ठातारं सुकृतैर्वर्धयति । द्वितीयं तु जन्ममरणलक्षणसंसारपरिश्रांतस्य जीवस्य स्वर्गाप- वर्गसाधकम् ।। एतदेवैहिकमामुष्पिकं फलं मनुपराशरादिमि- महामुनिभिर्धर्मशास्त्रेषु प्रपंचितम् ॥ चतुर्यु पुरुषार्थेषु धर्मस्यैव प्राधान्यम् । अर्थकामावपि धर्मस्यैवांगभूतो॥ केवलभोगार्थयो- रनयोर्न पुरुषार्थत्वम् । शास्त्रेषु विनिंदितत्वात् ॥ अतः धर्मस्य पुरुषार्थेष्वभ्यर्हितत्वात् तत्स्वरूपलक्षणप्रामाण्यविभागादीन् विचारयामः॥ 'श्रुतिचोदितक्रियाजन्यो निखिलश्रेयोभ्युदय- हेतुरपूर्वाख्यो मुणो धर्मः । यमाः क्रियमाणं प्रशंसंति स- धर्मः' इत्यादीनि धर्मलक्षणानि श्रुतिमूलकतयैव प्रामाण्यं धर्मस्य कथयति ॥ एतेन पौरुपैयी कांचन व्यवस्थामाश्रित्य प्रवृत्तेषु चैत्यवंदनकेशोल्लुन्छननग्नस्नानादिरूपेषु शाक्यादि- धर्माभासेषु श्रुतिमूलकत्वाभावात् धर्मत्वं प्रत्यादिष्टम् । ननु 'शाक्यादयः क्षत्रियाः श्रुतिविदः । तत्मणीतागमानामपि श्रुति- मूलकतया प्रामाण्यमव्याहतं तन्मूलभूतश्रुतीनामिदानीमुत्सन्न- प्रच्छन्नत्वेनानुपलंभा' दिति घन्मैवम् ।। वेदाप्रामाण्यवादिनां तेषां धर्मस्य वेदमूलकत्वकल्पनानौचित्येन तदसंभावितमेव ॥ नच पापीयसी योनिमापनानां संकरजातीनां कैवर्तभिल्लपुल्कसा- दीनां श्रुत्यनहींणां तत्तत्कुलीनमहापुरुषाचरितधर्मेणैव चारि- तार्थ्य दृष्टम् । भगवान्बादरायणोपि (भागवत्ते ७ स्कंधे १४ अध्याये) "स्वभावविहितो धर्मः कस्य नेष्टःप्रशांतये" इति प्रत्य- पीपदत्। उक्तं च भगवता (गीतायां १८अ.) "स्वभावविहितं कर्म सदोषमपि न त्यजेत्" इति । तस्मात्स्वभावविहितधर्मस्य श्रुति- चोदनाभावादिदं लक्षणमव्याप्तमिति वाच्यम् ॥ धर्मविभागा- परिज्ञानमूला भ्रांतिरियं यदुच्यते विहितकुलाचारेण चारि- तार्थ्यमिति ॥ स हि वृत्तिधर्मतया विहितः॥ लोकयात्रानिर्वा- हाय वृत्तिधर्मोपि श्रुतिचोदित एव ।। मन्वादयो महर्षयो मंत्र- द्रष्टारस्तमर्थ स्मृतिषु निवबंधुः । नहि वितथगिरो महामुनयः॥ तस्मिन्नपि वृत्तिधर्मे यावदर्थपरिग्रहादिधर्मेण वर्तमानानामष्टा- भिरात्मगुणैर्दया क्षांति रनसूया शौचमनायासो माङ्गल्यमकार्प- ण्यमस्पृहेतिगौतमादिमतिपादितैनिन्दवृत्तानामस्त्येव कोप्यु- त्तरोत्तस्मकृष्टजन्महेतुर्धर्मइति संप्रतिपन्नमेव विदुषाम् ॥ तस. त्कुलीना अपि महापुरुषा निर्वैररागाःप्रशांतहृदयाः कमपिधर्म सूक्ष्मेक्षिकया विचार्य जीविकानिहाय निरूपयामासुः ॥ यथा लोकयात्रा न विपयेत यथा धर्मः स्वनुष्ठितो भवेत् तथैव प्रवर्तते महाजनाः ॥ रजस्तमःप्रकृतयो वृत्तिकार्तिता हिंसाचौर्यादिषु यथा न प्रवरन् तथा लोकरक्षणायः सर्वे नियमास्समारब्धाः ॥ तमेतमर्थमभिसंधायैव भगवान्मनुराप 'विद्वद्भिस्सेवितः' 'हृदयेनाभ्यनुज्ञातोयोधर्म' इति धर्मलक्षणम- भाणीत् द्वितीयाध्याये ॥ तस्मालोकद्वयाविरोधिनां सर्वेषामपि धर्माणां वेदभूलकतवैव प्रामाण्यनिर्वाहानोक्तदोषप्रसंगः ॥ धर्मज्ञापकहेतवः श्रुतिः स्मृतिः सदाचारः अविगीतात्मेच्छेति चत्वारः परस्परानुबंधिनः श्रेयोभ्युदयहेतवः ॥ सदाचारः सर्वधर्ममूलम् ॥ उक्तलक्षणो धर्मो द्विविधः ॥ साधारणो विशिष्टश्चति ॥ तत्र साधारणो याज्ञवल्क्यादिभिस्पदर्शितः । अहिंसा सत्यम् अस्तेयम् शौचम् इंद्रियनिग्रहः दानं दया दमः क्षांतिरिति सर्वेषां साधारणः ॥ विशिष्टस्तु श्रौतः स्मा- तश्चेति द्विविधः । सोमसंस्थादिः श्रोतः॥ तदुपयोगी स्मार्तस्तु वर्णधर्मः आश्रमधर्मः वर्णाश्रमधर्मः गुणधर्मः निमित्तधर्मश्चेति पंचविधस्वणिकमात्रविषयः ॥ इतरेषामपि सत्यलौकिको- पायबोधार्थत्वे हेत्वंतरेण निषेधदर्शनान तत्राधिकारः। यस्मि- अविच्छिन्ना गर्भाधानादयो वैदिकास्संस्कारा यथाक्रमं नि- वृत्ताः स द्विजो विहितेषु धर्मेष्वधिकारी भवति ॥ द्विजशरीरं वैदिकसंस्कारैस्संस्कृतमुपचितगुणं भवति ॥ यथा दोहदेन गुणाधिक्यं तरूणाम् ॥ अस्तु वा ताइक्संस्कारः शूद्रस्या- पीति चेत् ॥ न चायमहँति वैदिक संस्कारं योग्यताभावात् । केव- ॥
लरजस्तम-प्रकृतीनां सत्वैकसाध्यानि कर्माणि दुश्शकानि ॥ श्रद्धामयः पुरुषस्तदनुरूपमेव कारभते ॥ इदं च प्रतिपादितं भगवता (गीतायां १९ अ.) "सत्वानुरूपा सर्वस्य श्रद्धा भवति भारते"त्यादिभिः॥ नहि शक्यं प्रकृतिमन्यथा कर्तुं व्यापारश- तैरपि ॥ द्रव्याणां सुमुक्ष्मः कश्चिद्विलक्षणः परिणामविशेषः संस्कारसाध्यः ॥ तद्विशेषं सर्वज्ञकल्पा मंत्रार्थरहस्यवेत्तारो मुनयो विजानते॥ नियोगपर्यनुयोगपदमतिकामंतिमहतां शास- नानि ॥ वयमिह तदादेशकारिणः केवलम् ॥ अपरे छांदसाः पुनर्गायच्या ब्राह्मणमसृजत् निभा राजन्यं जगत्या वैश्यम् न केनापि शुद्रमिति श्रुतिमवलंब्यच्छन्दसा- मृणानां त्रैव- र्णिकानामेवच्छांदसस्संस्कारो नान्येषामिति निगदंति ॥ व- स्तुतस्तु लोकेपि यथा गुणाधिकष्वेवाधिकार प्रचयं गमिष्यति तथैव संसारिणः पुरुषस्यापीति हृदयम् ॥ त्रैवर्णिकेष्वपि तत्तदा- श्रमानुरोधेन धर्मो विहितः॥ यथा ब्रह्मचारिधर्मो गृहस्थधर्म इ- त्यादिः॥ ननु वेदाभ्यासाग्निहोत्रादीनि कर्माणि विधीयते शा- स्त्रेषु न धर्माः। अतींद्रियाणां तेषां निरूपणाशक्यत्वात् इति चे- सत्यम् । अतींद्रियस्यापि कर्मजन्यापूर्वाव्यस्य धर्मस्य तद्धेतु- भूतकमव्याख्यानादेव लक्षणप्रामाण्यायभिव्यक्तिर्भविष्यतीति सर्वाण्यपि कर्माण्येव निरूपितानि ॥ वर्णमधिकृत्य प्रवृत्तो वर्ण- धर्म उपनयनवेदाभ्यासादिः स साधारणत्रैवर्णिकानाम् ॥ ब्राह्मणानां तु प्रवचनप्रतिग्रहादिको विशिष्ट इति पूर्वोक्तपं- चस्खपि साधारणविशिष्टाख्यौ भेदौ प्रवर्तते ॥ वर्णाश्रमोचितानि कर्माणि यथाविधि यथाशक्ति सम्य- गाचरन् संकल्पितानैहिकान् आमुष्मिकांश्च कामान् समभुते ।। अहिंसादयो ये साधारणधर्मास्ताभिरूपयामः ॥ अहिंसा- नाम त्रिभिः करणैः प्राणिनामपीडनं यया च्छेदभेदादिनात्यर्थ व्यर्थले भूलानिसा कायिकी । यया हृदि विद्धइव संतप्यते लोकः सा वाचिकी । मानसिकी पुनरनिष्टचिंतनया समुद्भूतक्रोधा- वेशादिना भूतानि बाधते मलिनयति च चित्तम् ॥ मलिने चित्ते परात्मनोविनाशहेतको रागद्वेषादयस्समुत्पते ॥ त एच खर साक्षात्पुरुषार्थविरोधिनः । उक्तं च भगवता (गी. अ. १९) "द्वार नाशनमात्मन" इति ॥ मनस्तु सकृदृष्टश्रुतानुभूतार्थान विषयीकृत्य आहितसंस्कारवशात् कचित्कदाचित् तदेवान्वेति प्रासंस्कारारब्धान्येव कर्माणि प्राणिनां यतो जातमात्रस्यापि शिशोरसंस्कृतमतेः स्तन्यपानादिप्रवृत्तिरपि प्राक्संस्कारार- धैव, पुनर्जन्मबंधहेतुरपि संस्कार एव जननांतरकृतानि संस्म- रति खलु मनः ॥ महाकवयोपि मनो हि जन्मांतरसंगतिज्ञ मिति प्रत्यपीपदन् ॥ संस्कारः फलानुमेय इति प्रथितं च लोके ॥ यथा मनसि पापीयान् संस्कारांकुरो नोत्पद्येत ताँ प्रयतितव्यमित्यनुशासनार्थमेव ॥ सर्वश्शास्त्रीयविधिप्रतिषे- धारंभः सफलो भवति ॥ कायिकेनापराधेन स्थावरखं वा- चिकन पाशवं मानसिकेन च अंत्यजतामुपैतीति भृगुसंहि- तायां (१२ अ.) मनूक्तमन्द्यते ॥ अतः पापीयान्मानसिको- पराधः । तस्मात्रिभिः करणैरहिंसैव परमो धर्म इति श्रुतिरनु- शास्ति 'माहिस्यात्सर्वाभूतानी' ति ॥ नचाग्निष्टोमीयपश्वालं- भनस्यापि हिंसारूपवेन कथमहिंसा परमो धर्म इति वा- च्यम् । यथा दंडपारुष्यनिर्णय राजाज्ञाविहितकशापहारो न हिंसा भवति यथा अन्यत्र सा हिंसव तथा विहितेषु न हिंसैव ॥ अहिंसया स्थैर्य वैतृष्ण्यं मन प्रसादमभयं चाधि- गच्छति ॥ शरीराद्यस्थिरखविचारेण निवृत्तहिंसाकर्मणः पुरु- पस्य संसर्गाद् भूतान्यपि निर्वैराणि भवंति ॥ अतः अहिंसा- परमो भवेत् ॥ सत्यं नाम यथार्थसूनृताभिधानम् । 'सत्या- नास्ति परो धर्मः' 'सत्येन विधृतानि जगंति' 'सर्वाणि भूतानि सत्येन संतिष्ठते 'सत्ये सर्व प्रतिष्ठित ' मिति ॥ यजु- रारण्यकी श्रुतिरपि 'तस्मात्सत्यं परमं वदंती' त्यभिदधाति ॥ तदेतत्सत्यं सर्वधर्मेष्वभ्यर्हितमहिंसाधृतिक्षमादिशुभगुणानां नि- दानं सत् पुरुषार्थसाधनाय बहूपकरोति ॥ अत्र लोकतंत्र- १० निष्णाताः "सत्यं दुरूहलक्षणं न निश्चेतुं शक्यते । येन परषामुपतापो भवति तत्सत्यमपि विफलं प्रत्यवायहेतुश्च । तस्मात्सुसूक्ष्मा कार्यगतिमाभवीक्ष्य सत्यासत्ययोः प्रावल्य- दौर्बल्ये निश्चेतव्ये । कार्यगत्यनुरोधेनानृतमपि सत्यस्यैव फलमुपनयति । तदेतदनुशिष्टं पूर्वाचार्यैः 'पंचानृतान्याहुर- पातकानी' ति ॥ उपन्यस्यति 'अन्यदेव हि पांडित्यमन्य- च्छास्त्रनिबंधन मिति॥नात्र स्वाच्छन्द्यमवलंबितुंयुज्यते॥कचि- त्सत्यानृतयोः फलविपर्यासः सुसूक्ष्मेण केनापि हेतुना निष्प- नोपि न ह्यनृतं सत्यवद्भवति ॥ बलिर्दानेन संबद्ध इति न लोभस्योत्कर्षः कदापि संपद्यते ॥ यदुक्तं 'कार्यगत्यनुरोधे- नानृतमपि विशिष्यत' इति । तदेतदर्थतंत्राणामतिसाहसं ध- मप्रधानाः प्रशमायना न सहते ॥ शुभान्यशुभानि वा क- माणि कृतानि कायेनाभ्युदितानि वाचा चिंतितानि मनसा जलतरंगसंगततैलबिंदुवद् विसृखराणि स्वोत्तरोत्तरविपुल- कर्मजनकानि भूखा सर्वथैव कर्तारं भजते ॥ अनृतं हि मह- त्पातकं श्रेयोविघातकं सर्वस्य ॥ ऐतरेयारण्यके 'तस्मादन- तन्न वदेहयेतखेनेनेति सर्वथा निंदत्यनृतम् ॥ अर्थकेवलिभिः पुनराद्रियंते खल्वन्येपि धर्मविद्विष्टा औपनिषदधिकरणोक्ताः काणकुष्ठादयो योगाः । अर्थशास्त्रनिर्दिष्टाः विवाहबंधमोचना- दयो लोकस्थितिहेतव इति तदभिप्रायेण यथार्थधर्मनिवाहो नैव भवेत् । तदुपेक्ष्यमेव । तस्मात्सत्यमेव परमं वदति ॥ दमो नाम बायेंद्रियनिग्रहः । निगृहीते खल्विंद्रियग्रामे सर्वसंपदा भा- जनं भवति पुरुषः। सर्वधर्ममूलं हि दमः । यदर्थमेव कृच्छ्रचां- द्रायणादयो नियमाः प्रकृप्ताः ॥ नियमाध्ययनस्य वृद्धोपास- नायाश्च दम एव फलम् । अदांतः पुरुषः सर्वक्लेशभाजनं भ- वति । इंद्रियारामा दांडक्यादयो विनष्टा इति प्रथितमेव । दम- प्रभवा एते धृतिदाक्ष्यसाम्पार्जवमार्दवप्रियवादिताऽकार्पण्य- संतोषादयो महागुणा मंडयंति पुरुषप्रकांडम् ॥ सारस्वतम- थमावतारभूमिवल्मीकजन्मा महामुनिः श्रीरामायणयुद्धकांडे प्रतिपादयति 'इंद्रियाणि पुरा जिला त्रैलोक्यं जितवान- सी' ति ॥ अतः दम एव दोषानुषंगिणावप्यर्थकामौ धर्मानु- बधिनौ विदधाति ॥ संतोषो नाम दैवाल्लब्धेन पर्याप्तिबुद्धिः। येन केनापि संतुष्टस्य यत्सुखं तदेतदुपर्युपरि मनोरथमनुकाम- यमानस्य तदलाभाक्लिश्यतः दुरापूरेण कामेन नष्टबुद्धेः पुरु- पस्य कुतः स्यात् ॥ असंतोषप्रभवा इमे रागद्वेषभयक्रोधश्रम शोकमोहादयो दोषाः पुरुषस्य तेजोदाक्ष्ययशःप्रमुखान् पुरुषा- र्थसाधनहेतुभूतान् विनाशयंति शुभगुणान् । यथा नैराश्येन मनसः प्रशांतिर्न तथा दुराशासंपादितैरथैरिति मंकिरनु- , १२ जगौ महाभारते ॥ ययातिरपि उपभोगेन कामो न शाम्यति किं तु परित्यागेनैव शाम्यतीति भागवते जगाद ॥ एवम शुकादयोप्यसंतोष विनिंदतो नैराश्यं परमं सुखमिति व्यव स्यंति ॥ संतोषस्य फलमद्रोहः ॥ अक्रोधा नाम सत्स्वार क्रोधहेतुषु परेषामाक्रोशाभिघातादिषु समुत्पतितस्य क्रोधस्ट क्षमयैव निरासः। अक्रोधेनैवमैत्रीप्रमुदितादयो महात्मभिरप्यः लभ्याः भूयांसो गुणाः लभ्यते ॥ क्रोधोच्चलद्गात्रस्य भृकुटी भीषणमुखस्य भूतवित्रासोः गुरुतिरस्कृतिरात्मोपघातः प्रद्वेषो. ऽवाच्यजल्पनमित्यादयः सर्वपाणिविद्वेषहेतवो दोषास्समुद्भ- वंति श्रेयांसि प्रतिबन्नति पुरुषस्य ॥ अक्रोधनः शुभलक्षण पुमान् मंगलमायतनं लक्ष्म्याः । अतः पुरुषार्थसाधकस्य अं. तरंगतमः क्रोधक्षयः ॥ शभो नाम अंतरिंद्रियनिग्रहः । येनै- केन बलवदभ्यस्तेन त्रिवर्गसिद्धिः स्वयं वृणुते पुमांसम् । यदर्थमेव मुनयो गिरिगुहाग्रावाणमधिशिश्यिरे ॥ यदर्थमेव यतते चतुराश्रमिणोपि ॥ यदर्थनिबंधनाः निखिलाम्नायमौ लिमीमांसारंभाः ॥ तादृक्शमस्य लाभ एव पुरुषार्थलाभ इति प्रभिन्न स्थानानामपि विदुषामेकं मतम् । नारायणीय- याज्ञिक्युपनिषदि समाम्नायते 'शमेन शांतारिशवमाचरंति' इति । सैषा शमप्राप्तिर्वहुसाधनापेक्षिणीति प्रवृत्ताः शास्त्र- - नियमाः कामचारकामवादकामभक्षादीन अत्यंत निषेधति । दिङमंडलजयिनो महावीरास्तपस्विनो महर्षयः सर्वस्वदाता- रस्सत्पुरुषाः सदसस्पतयोपि मनीषिणः शमसंपदमनुपलभ्य विफलायासास्संवृत्ताः ॥ अत एव भगवती श्रुतिरपि 'शमो भूतानां दुराधर्षम्' इति प्रतिपादयति ॥ भगवानपि (गीता ६ अ.) 'मनो दुर्निग्रहं चल' मित्यभिप्रैति ॥ तन्निनहोपायाश्च अ- भ्यासवैराग्यादयस्तत्रैव प्रतिपादिताः ॥ किंबहुना तेनैकेन शमाभिधेन सर्वधर्महेतुना भुवनभूषणा भवंति महापुरुषाः ॥ स एव सकलपुरुषार्थहेतुः ॥ अप्रदत्तानुपादानम् अस्तेयम् । बहिरंतःशुद्धिः शौचम् । आपन्नार्तिपरिहारोदया। पात्रेभ्यः प्र- तिपादनं दानम् । चित्तस्य निर्विकारः क्षमा । एत एव धर्माः सर्वमानुषसाधारणाः । यैरेतैर्विदुरादयः शूद्राः पापयोनयो धर्मव्याधादयश्च पूतात्मानो महापुरुषतां प्राप्ताः ॥ एतैधर्वि- रहितानां त्रैवर्णिकानामपि वर्णाश्रमविहितधर्मो न गुणाय क- ल्पते ॥ यागः अध्ययनं दानं तपः इत्येते चखारो धर्ममार्गाः कैश्चिदंभार्थमपि सेव्यते ॥ सत्यं दया क्षमा अलोभ इति च- खारो महापौरुषिका एव धर्माः ॥ महाभारते आरण्यपर्वणि युधिष्ठिराजगरसंवादे अयमेवार्थः सम्यापंचितः । तस्मादेते सार्वजनिका धर्मा निखिलश्रेयोभ्युदयहेतवो महापुरुषैरप- मत्तैस्संसेविताः पुरुषार्थफलं साक्षात्परंपरया वा समुपन- यंति ॥ यथा त्रैवर्णिकविषयाः विशिष्टधर्मास्साक्षानिश्रेयस- करास्तथा ताव्याख्यास्यामः॥ब्राह्मणस्याध्ययनयजनदानानि साधारणो धर्मः । अध्यापनयाजनप्रतिग्रहाः विशिष्टो धर्मः। क्षत्रियस्य युद्धाभिनिवेशः प्रजापालनं विशिष्टः । वैश्यस्य वा- ताश्रयणं विशिष्टः । अध्ययनयजनदानानि सर्वेषां साधा- रणः । शूद्रस्य सेवैकैव । त्रैवर्णिकाः स्वस्वविहितेन धर्मेणैव पू- तात्मानः परां सिद्धिमभियांति ॥ प्रतिजानाति भगवान् य- दुनंदनो गीतायां (१८ अ.) 'स्वकर्मणा तमभ्यर्च्य सिद्धि वि- दति मानव' इति ॥ त्रैवर्णिकानां ये ये धर्मा विहितास्तेपि दे- शधर्मजातिधर्मकुलधर्मादिभेदेन बहुधा विभिन्ना महाजनैरनु- मताश्च ॥ शिष्टाचारमाप्तस्याप्युपादेयतामंगीकृत्य लोकविद्विष्टं धर्म्यमपि नाचरेदिति मन्वादयो न्यरूपयन् ॥ शिष्टसांप्रदा- यिका अपि देशकालानुकूलाः वृत्तिलोपभिया प्रवृत्ताः पुरु- वार्थाविरोधिनः जनोपकारका भवंति ॥ यथौत्तरीयाणां स- मुद्रसंयानं ब्राह्मणानामायुधग्रहणादिकम् ॥ दाक्षिणात्यानां मातुलकन्यापरिणयो यातयामानभोजनादिकं च देशाचारा- लतम् ॥ तत्र देशाचार एव प्रमाणम् ॥ धर्मशास्त्रेषु तेषां पातकेषु परिगणनात् ॥ एवं स्थितेपि अविगीतशिष्टाचारम- १५ वृत्ताः श्रुतिस्मृत्यनुज्ञाता एव धर्माः श्रेयसे कल्पते नेतरे । उक्तं च मनुना (१ अ.) 'आचारः प्रथमो धर्मः श्रुत्युक्तः स्मात एव चेति ॥ ब्राह्मणानां विहितेषु कर्मसु यजनाध्यापनदा- नानि निष्कामकृतानि मोक्षसाधनानि ॥ सकामानि प्रवृत्ति- लक्षणानि ॥ अध्यापनादीनि वृत्यर्थकानि ॥ आपदि वृत्ति- कर्शितस्य ब्राह्मणस्य प्रत्यनंतरवृत्तिग्रहणमप्यनुज्ञातं शास्त्रव- चनैः । प्रत्यनंतरवृत्याश्रयिणो ब्राह्मणा भोगलोलुपा अर्थकेव- लिनः कामात्मानो ब्राह्मण्य लक्षणाच्यवंते च्युतानां पुनर्वर्ण- सांकर्येण वर्णाभिव्यंजकलक्षणमपि संकीर्णायं इसति ॥ एवं क्षत्रिसादीनामपि ॥ एवं संकर्णिकृत्तिभिरर्थकामपरवैदिको ध- मस्त्वा यथान्यथायुक्तिबलादुन्नीतः स्वरूपहानिमापद्य पुरुषार्थ- साधनाय दुर्वलः संवृत्तः ॥ शास्त्रनिर्दिष्टवर्त्मना स्ववर्णाश्रम- धर्मा अनुष्ठेयाः ॥ आश्रमाश्चवारः । तेष्वाद्यं ब्रह्मचर्यमेव । आश्रमांतराणां तन्मूलानां पुरुषार्थानां च निदानं वेदग्रहणव- ताचरणं ब्रह्मचर्यम् । तच्च गर्भाधानादिभिर्वेदिकैस्संस्कारैस्सं- स्कृतस्य यथाकालं विहितोपनयनस्य द्विजन्मनो विहितम् । उपनयनं नाम विद्यार्थस्य श्रुतितस्संस्कारः । उपनीतो ब्रह्म- चारी गुरुकुलमधिष्ठाय वेदग्रहणांतं यथोक्तनियमेन वर्तमानो द्वितीयाद्याश्रमयोग्यो भवति । त्रिवर्गसाधनाय ये ये गुणा- स्समपेक्षितास्ते सर्वेपि ब्रह्मचर्ये यथोक्तनियमवता पुरुषेण ल. भ्यते । नवे वयस्याहितस्संस्कारो गुणोपचयाय संपद्यते । रागादिभिरमलिनायां चित्तवृत्तौ सदुपदेशाः प्रतिफलंति । यथोक्तनियमविधुर फले दुर्विधो भवति । यावजीवमनुभू- यमानत्रिवर्गस्य मूलं ब्रह्मचर्यम् । अनेनोपचितदृढशरीरस्या- लंकर्मीणस्य प्रसन्ने चेतसि प्रज्ञाप्रतिभादयः स्वयमुत्पद्यते ॥ नियमानभ्यस्यतः क्लेशसहिष्णुता सुखदुःखसंवेदनं भूतमैत्री प्रमुदिता इंद्रियजयः संतोषः परोपकृतिरुपशांतिरकार्यान्नि- वृत्तिरनालस्यं सन्नतिरिति सर्वार्थहेतवो गुणास्संभवति । यः पुमानायुषि यं यं कामं कामयेत तमैहिकामुष्मिकं वा समधि- गंतुं शास्त्रोक्तनियमचारी ब्रह्मचारी शक्नुयात् ॥ यद्यपि प्रा- चामिव यथोक्तनियमानुष्ठानं कालदेशविपर्यासेनाधुनातनानां दुष्करं तथापि 'यावच्छक्यं तदाचरे' दित्येवं महर्षयो वि- हितं षट्त्रिंशदाब्दिकं ब्रह्मचर्य वेदग्रहणांतं वेति संकुच्य निरू- पयामासुः ॥ नियमवान् ब्रह्मचारी सर्वदा गुरुशुश्रूषया प्र- तिषिद्धपरित्यागेन यथाकालप्रबोधेन अखंडितब्रह्मचर्येण च समिध्यमानब्रह्मतेजसा ज्वलन् श्रेयोविघातकान् प्रमादाल- स्यजाड्यादीन् विजेतुं सांयुगीनो भवति ॥ अग्नींधनभैक्ष्यच- दियो ब्रह्मचारिनियमास्तेजोयशःप्रज्ञामेधायुष्यादिकं वर्ध- १७ यंति ॥ अतस्समाचरितब्रह्मचर्यो भवति त्रिवर्गभाजनम्॥ एवं ब्रह्मचारी वेदशास्त्राभ्यासादिना विज्ञातोभयलोकतंत्रः गाह- स्थ्यमाश्रित्य श्रुतिसमुदितमैहिकं पारलौकिकं च धर्ममाचरेत् ॥ गाहस्थ्यं नाम श्रुत्युदिता याधानादिकनिर्वहणयोग्यतासं- पादकम् । संतत्या पितृऋणापाकरणं धान फलं गाई- स्थ्यस्य । तथाच याज्ञिक्युपनिषदि श्रूयते 'प्रजननं वै प्र- तिष्ठा लोके साधु मजायास्तंतुं तवानः पितृणामनृणो भवति' इति ।। स एष गृहस्थाश्रमस्त्रिवर्गावापक्षेत्रं यस्मिन्बुप्तानि त्रिव- र्गबीजानि फलति ॥ धर्माविरुद्धयोरर्थकामयोगार्हस्थ्यमेव जन्मभूमिः ।। तदिदं सर्वेषां प्राणिनामुपजीवनम् । अत एवं मन्वादिभिरस्यैवोत्कर्षः प्रतिपादितः। महाभारते शांतिपर्वणि मुनिशकुनिसंवादरूपाख्यायिकामुखेनास्यैव प्रशंसाभिधीयते ।। ब्रह्मचर्यादेव अवजतः कुमारानुवीक्ष्य शक्रः शकुनिरूपस्तानि- वर्तयितुकामः प्रावोचत् 'अये कुमाराः विघसामृताशने परि- त्यज्य प्रबजतां भवतां कुतश्चित्तशुद्धिः । ऋणान्यनपाकृत्य कर्य मुमुक्षवो भवथेति ॥ कृतदारसंग्रहस्य वेषां परेषां वा योग- क्षेमनिर्वहणाय अप्रतिषिद्धावर्थकामो यावदर्थ जुपमाणत्य साधीयापुरुषार्थलाभः स्यात् । 'जायमानो वै ब्राह्मणविधि- ऋणवा जायते' इति श्रया देवर्षिपितृणापाकरणयावश्यक १८ वति ॥ ऋणं नाम मद्वेश्यास्सर्वे वेदाभ्यासादिकं नोल्लंघयेयु- रिति बलवदनुशासनम् ॥ अधीतवेदः ऋषीन् आहिताग्निः- वान् कुलतंतुना पितॄश्च मीणयन् कृतकृत्यो भवति । देवर्षि- पितृभूतानि नित्यमन्नादिसंविभागेनाराधितानि श्रेयांस्याशा- सते गृहस्थस्य । गीतासु 'एतेन प्रसविष्यध्वमेष वोस्त्विष्टका- मधुक ' इति(३अ.) भगवान् निरूपयामास । यज्ञस्य स्वार्थपरि- त्यागपूर्वकपरोपकृतिः फलम् । ते च ब्रह्मयज्ञदेवयज्ञपितृयज्ञ. मनुष्ययज्ञभूतयज्ञसंज्ञकाः पंच ॥ शतपथब्राह्मणे 'पंच वा एते महायज्ञाः सतति प्रतायंते सतति संतिष्ठंत' इति आम्नातम् । सर्वेषामपि यज्ञविधीनां तत्तत्कर्मोचितानेकावांतरक्रियाकलाप.. रूपाणामपि पुरुषार्थसाधनोपयोगी कश्चित्परमार्थो निगूढो विज्ञायते । यजेर्देवपूजादानाद्यर्थकलेन यज्ञशब्दस्यापि य- थासंभवं दानादिकमर्थः । ब्रह्मयज्ञो नाम अध्ययनमध्यापन च । अनुष्ठीयमाने कर्मणि विधिप्रतिषेधज्ञानमावश्यकम् । तद- र्थमध्ययनं च । अनधीतवेदः प्रमाद्यति स्वकर्तव्यतायाम् । अ- ध्यापनस्य च अनभिज्ञानां कर्तव्यतोपदेशः फलम् । अतो नित्यानुष्ठेयो ब्रह्मयज्ञः स्वस्य च परेषां चोपकुरुते नित्यहोमेन तर्पणेन च समाराधितैदवैः पितृभिश्च परमनुगृहीतः संवर्धते । देवाः पितरश्च भौमेन पथा निगूढं संचरमाणाः क्रियावतः . १९ पुरुषस्य कामानापूरयति । तैर्दत्तैरर्थेस्तानेवाराध्य श्रेयो विंदते विघसामृताशी सर्वकिल्बिषात्मतिमुच्यते । देवयानेन पितृया- णेन वा स्वकर्मवशात्संचरमाणस्य तदनुग्रहेण त्रैलोक्यपि सुख. । लाभः स्यात् । यस्तु स्वोदरपूरणायैव पचति नार्थिभ्यस्संविभ- जते स पापीयान् भवति श्रेयसा च वियुज्यते ॥ भगवता संद- शितोयमों गीतायां 'भुंजते तेवघं पापा' इति । अतो दैवाल- ब्धेन देवपितृयज्ञावनुष्ठेयौ। अतिथिसत्कारोमनुष्ययज्ञः। सुवि- दितमेतत्सर्वेषां गृहागतानां महीयसां सत्कारैर्दुलभस्याप्यर्थस्य लाभः स्यादिति । रंतिदेवालकशिविप्रमुखैः परमादरेण पद- शितोयं पंथाः कस्य वा धर्मिष्ठस्य नाभिमतः स्यात् । अनेन महा- यज्ञेन अहरहराचरितेन सर्वेषां दयनीयः कौटुंबिकः सर्वक्लेशा- नुत्तरति ॥ स एष महायज्ञः स्वल्पेनापि तृणजल नृतादिना निष्पाद्यते । गार्हस्थ्यमाश्रितेन सर्वभूतदयालुना भाव्यम् । यथाशक्ति प्राणिनामुपकुर्वाणः आर्तानामार्तिहरः सर्वभूतांतर- स्थमात्मानं समाराध्य स्वात्मोद्धाराय प्रभवति । कविरभि- धत्ते 'सदुपकारफलां श्रियमर्थिन' इति । स एष सर्वार्थ- साधको मनुष्ययज्ञः। भूतयज्ञो नाम आश्वपचमा च कीटपतं- गेभ्यो भूतेभ्योऽन्नादिसंविभागः। स्वाश्रितभरणं हि साधी- यान्धर्मपथः । अनभ्यवहारदूनेषु स्वाश्रितेषु कस्य वा सचेतन- २० स्यात्मा परितुष्यति । तिरश्चामपि भूताराधनश्वृत्तिदृश्यते क- पतलुब्धकोपाख्यानेन महाभारते । कश्चित् कपोतो गृहागतं लुब्धकमपि स्वैमासयमंत्रयदिति । प्राणिनां क्षुत्पिपासादि- जनितदुःखं खानुभवेन विजानन् रंतिदेवः कतिचिधिनान्युप- वसन्नपि दैवाल्लब्धं जलमन्नं चार्थिभ्यः प्रायच्छदिति च । त एते सर्वेपि महायज्ञा अर्थमूलाः॥ अर्थो नाम व्यवहारोपयोगी चराचरात्मको वस्तुविशेषः । अर्थेन विहीनस्य सर्वाः क्रिया पुच्छिद्यते । अनधिगतार्थः पुमानणुमात्रमपि दातुं भोक्तुं च न पारयति । इष्टापूर्तानि कर्माणि बहुद्रव्यसाध्यानीति बहुधा प्रपंचितं शास्त्रेषु । तत्र सप्तविधा अर्थागमास्त्रैवर्णिकानां य- थायोगं विहिताः । अदुष्टः प्रतिग्रहः । कुलानुगतं धनम् । निध्यादीनां लाभः। क्रयविक्रयोपार्जितः । विजयलब्धः । कुसीदलब्धः। कृषिवर्धितश्चेति ॥ अत्र त्रैवर्णिकानां वृत्तिध- मतया यो विहितोधिगमः स श्रेयान् । वृत्तिकर्शितस्य सीदत्कुटुंबस्य धर्मादनपेतः प्रत्यनंतरवृत्तिलब्धोपि विहितः । संपन्नः पुनर्वृत्त्यंतराश्रयणेन दूपितो भवति । आपदि “विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः। धृतिर्भेक्ष्यं कुसीदं च दश जीवन हेतव" इति मनुरब्रवीत् ॥ एतेपि मनुष्याणामत्यं तापदि ययाः। एतेषु यथायोग्यं वर्तमानखैवर्णिकाः स्व- २१ धर्मान् आतिष्ठेयुः। आपदनापद्विषयौ देशकालानुगुण्येन व्यव- स्थितौ । तत्रापि तारतम्येन कांचन पौरुषेयी व्यवस्थामवलंब्य धर्म प्रयतेरन् । यद्यंतरा कामलोभादयो नापतेयुः तदा शास्त्रोक्ता विधयोपि सफला भवेयुः । इदानीं तादृशानां विधीनामात्य- तिको विलोप एव कचित्कचिदृश्यते । तादृशलोपस्य केवलका- मलोभादय एव हेतवः ॥ त एते श्रेय परिपंथिनो विद्वांसमपि धीरमपि सचेतनमपि बलादाक्रम्य खलीकुर्वते ॥ एतैराक्रांत- चेतसां सर्वा अपि विधिचोदिताः क्रियाः कृता अपि निष्फला भवंति ॥ तस्माद्यथा नावस्कंदेयुरिमे लोभादयो नाभिभवे- युर्दोषारजस्तमः प्रभवा नाक्रामेयुरपयशांसि पुरुषं तथा विधिम- तिषेधौ निदर्शयंति शास्त्राणि ॥ शास्त्रविध्युल्लंघने दोषमपि भग- वान् (गीता१९अ.) न्यरूपयत् 'यः शास्त्रविधिमुत्सृज्य' इत्यादि । श्रद्धा वित्तं विधिरिति श्रेयोभ्युदयहेतवः शास्त्रनि- र्दिष्टा नोल्लंघनीया लेखामात्रमपि । अतो वृत्तिकर्शिता द्वि- जातयो मनूक्तेषु दशविधजीवनहेतुष्वपि येनात्मापकर्षों न भवेद्यदालंबनेन कुलधर्मा न विपोरन् येनांतरात्मापि प्रमोदेत तमेव जीवनहेतुमाश्रित्य यावदर्थपरिग्रहाः स्वधर्मानातिष्ठेयुः। अन्यथा विधेति मद्यसंधानावरोहणं लाभ इति न्यासहरणं शिल्पमिति कृत्तिसीवनं कुसीदमिति चक्रद्धिग्रहणं सेवेति .. नीचोषसर्पणं विपणिरिति विगीतवस्तुविक्रयो वृत्तिरित्युच्चा- श्वकर्मारंभश्चैते पुनर्द्विजन्मनां नाशहेतवः ।। विगीतकृत्या वृत्ति- सांकयं तेन वर्णसांकर्य ताभ्यामात्मापकर्षस्तैरधोधःपात इत्य: नर्थपरंपरा प्रसज्येत ॥ तस्मादभिजातः पुमानात्मोद्धारायैव प्रयतेत नैवात्मनिपाताय । अनुशास्ति यदुनंदनो गीताशास्त्रे 'उद्धरेदात्मनात्मानं नात्मानमवसादये 'दिति ।। तस्माद्विहि- तैत्तिधर्मरास्थितलोकयात्रः सुखमेधते । उक्तैर्दशविधजीवन- हेतुभिः सप्तधनागमैश्च समुपार्जितेन वित्तेन नित्यनैमित्तिकानि निवर्तयन् पंचमहायज्ञान् यथाशक्ति समाचरेदन्यथा समधि- कार्थलोभेन पापीयान् भवति । इतिधर्मरहस्यम् अर्थतंत्राः पुनरेतन क्षमते ॥ यथाकथंचिदर्थलाभ एव पुरु- पार्थः। धर्मकामावपि तदधीनौ । तद्विहीनस्य तेजो धृतिर्दाक्ष्य महापौरुषिकसमित्यादयः सर्वजनाभिनंदनीया गुणा विली- यते । व्यर्थः कुटुंबभरणाकल्पः सर्वैः परिभूयमानो न शर्म लभते । नास्त्यर्थवतामसाध्यं नाम । अतः कौटिल्यकामंदका- दिभिरुपदिष्टमर्थशास्त्रमागमनिदानमिति मन्वानाः अर्थोपा- जनाय पत्ता अर्थार्जनरक्षणवर्धनादिष्वेवाप्रमत्ता दिवानिशंभ- यतते । काणवराटिकाध्ययमप्यसहमानानां येषामभीक्ष्णध- नागमचिंताशवलितधियां वितस्तिमात्रोदरपूरणाय व्ययितम- ।
मृतिपरिमिततंडुलं तत्पाकव्ययितेंधनसंचयं च विलिख्य वि- लिख्य भृशं निवसतांन धर्मो नापिवाभोगः संपद्यते वृथासं- चितेनेति केचन तदसत्। अर्थपूर्वास्सर्वे समारंभातस्मादर्थवृध्यै आयव्ययपरिवर्तनपतिबंधापहारोपभोगादीनापचयहेतूनपास्य कृषिपाशुपाल्यशिल्पविद्याममुखान्यर्थोपचयसाधकानि संवर्ष- येत् । यद्यत्र सामयिकाचारधर्मशास्त्रादिनियमभंगास्यात् तदा तत्संकोचेनैव व्यवहरेत् । देशकालानुरोधेन धर्मशास्त्रार्थशा- स्त्रयोः संकोचविकासौ संभवतः। येन केन वा निमित्तेन स्वा- र्थोद्धारः माज्ञलक्षणं तद्भशो हि मौख्यंम् । नित्यमुत्थानवता- धिगमायैव प्रयतितव्यम् ! परधनवतामेव यज्ञदानादयः कामोपभोगादयश्च सेत्स्यते । धनविहीनानामग्निहोत्रादिक- मपि निदति श्रुतिः । संचितधनानामेव सोमपानाहतां मनु- रनुजानीते ॥ यदि कुटुंबिना यावत्कुटुंबभरणपर्याप्त्यधिकं धनं । विद्यते तदा दानादिषु प्रवृत्तिर्भवति । यानासनशयनोल्लोचभ- वनादिकामोपसाधनान्यर्थमूलानि पुरुषमनुरंजयंति । धर्माय यशसेर्थाय कामाय स्वजनाय च पंचधा संविभज्य यथा- योग्यमर्थमुपजुषाणः पुरुषार्थमुपचिनोति । अर्थाधिगमाय प्रयतमानानां कथंचिद्धर्मलोपसंभवेपि प्रचुरधनसाध्यैः पाय- श्चितैः स दोषः शाम्यति । निर्देति च स्वानर्थकारणं धर्ममपि- चढचाः ॥ पराग्वा एतद्रिक्तमक्षरं यदेतदोमिति । धनाद्धर्मस्त- तस्सुखमित्यभियुक्तोत्तया च धनं धर्ममूलम् ॥ तस्माद्धर्मका- भयोरांनुबंधिनोः पुरुषार्थसमर्थादेवेति तमेव प्रधान मन्यते पुरुषार्थम् ॥ केमे धनलाभमोहाभ्यां संतापितहृदयाः काण- वीटकाकराटाः क ते सुकृतिनस्सर्वस्वदक्षिणादातारो महा- धीरा धर्मगोप्तारः । न संभावितमेव धर्मविधुरयोरर्थका- मयोः पृथक्पुरुषार्थवम् । सर्वलोकनिंद्यास्ते अर्थकामपरमा लुब्धाः कामिनश्च । अर्थतंत्राः केचन न विजानंति तमेतं परमार्थम् । यदिह लोके स्पंदनप्रवेक्षकैरश्वरत्नैर्मदालसमदा- वलैर्विहारवीथीषु विचरंति श्रीमंतस्सुकृतिनस्तदेतदानविल- सितमिति ॥ यदिह सुखिनोऽस्पृष्टक्लेशलेशाः संपन्नसर्वमनोरथा विराजते तदेतद्धर्मवैभवमिति । यदिह वसुंधरायां यशस्विनो दयालवः सर्वजनश्लाध्यमानदिव्यमहिमानः सुकृतभागिनः सर्वभूतान्यावर्जयति तदेतत्पूर्वकृतपरोपकारफलमिति च । किंबहुना ? तुल्यश्रुतधरास्तुल्योद्योगिनोप्यपुण्यभाजो न ल. भंते काकिणीमपि ये पुनस्सुकृतिनः संचिन्वते सर्वमप्यभी- प्सितमर्थमनायासेन ॥ एवं दृष्टश्रुतानुभूतैलिङ्ग धर्म एवानु- मीयते ॥ श्रुतिरपि 'धर्मों विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पती' ति धर्मधर्मवतोः प्रशंसामभिधत्ते ।।
तदनुगामिनोरर्थकामयोर्याचदर्थोपादेयतामनुब्रह्नाति । एतद- र्थानुबंधीन्येव सर्वाणि धर्मशास्त्राच्यपि । आन्वीक्षिकी त्रयी वार्ता दंडनीतिश्चेति चतस्रो विद्या हिकामुरमकफलहेतव इति प्रतिपादयितुं प्रवृत्तान्यप्यर्थशाम्राणि पूर्वपूर्वाविरोधेनो- पादेयतामनंतरोत्तानां निर्दिशति । अन्यथा स्वोक्तिव्याघा- तदोषस्य स्वहस्तो दत्तः स्यात् । अतो धर्माविरोधेनोपार्जि- तस्यार्थस्यैव पुरुषार्थोपयोगितयास्य द्वितीयतया निर्देशस्सा- धीयान्। एवं धर्मार्थावविरोधेन साधयतस्तृतीयोपि कामा- ख्यः पुरुषार्थः ॥ कृतिसाध्येष्टसाधनताबुद्धिः संकल्पः । तन्मूलकेच्छा कामः । काममयोयं पुरुषो नित्यमात्मनः कामानाशीमिराशास्ते । आयुः प्राणं मे धुश्व पशूविशं मे धुश्व श्रियं यशो मे धुक्ष्व लोकं ब्रह्मवर्चसमभयं यज्ञसमृद्धि मे धुश्व इति यद्यप्ययमवरोपि पुरुवार्येषु सर्वारभेष्वप्यनु- • ततयास्य पुरुषार्थत्वम् । न ह्यकामस्य कचिदपि प्रवृत्तिर्दृश्यते । सर्वमपि लौकिकमलौकिक वा कर्म न काममंतरणोपपद्यते ।। धर्मार्थमाक्षादिपुरुषार्थेष्वपि प्रवर्तकः काम एव । यद्यदनु- तिष्ठति पुमान् तत्सवमपि काममूलम् । तस्मात्पुरुषार्थेषु कामस्यैवप्राधान्यमिति चेत् । बाढम् । किमत्र काममात्रस्य पुरुषार्थत्वमथवा विध्यनुलहीतस्य । न प्रथमः ! बंधहेतुत्वात् विद्विष्टवाच्च साधुभिनिदितखाच्च धर्मप्रमाचचनैः। यो हि केवलेच्छासमारब्धे वस्तुनि विगीते प्रवर्तते तस्यद्रियचपलस्या नायं लोकोस्ति ॥ बहुप्रकाराः कामशाखाः पुरुषमदांत बलान्निपातयति । नहि कामादन्यत्रैवविशे निपानहेतुरुप- लभ्यते । बहवो विशिष्टमतयः खलीकृताः खल्बनेन । विनाश एवास्य फलम् । भगवता गीतायामुपदर्शिन (२ अ०) ये ये दोषाः पुरुषार्थविरोधिनस्ते सर्वेपि काम- प्रभवाः । सौभरिप्रमुखा मुक्तसंगा अपि केनापि हेतुना संभूतेनानेन स्वसिद्धिं परित्याजिताः । सैषा कथा विष्णु- पुराणे संदर्शिता । सौभरिर्मुनिः संगभीतो जलांतर्निमग्न- स्तपश्चरन् कस्यचन मीनस्य कौटुंबिकव्यापारेण विकृतचेताः पंचाशन्मांधातृदुहितुरुगृहन् चिराय विषयसुखांतरितविवेक आसीदिति । आस्वादितविषयरुचिरिंद्रियगणो नोपारमाति विषयेभ्यः ॥ न द्वितीयः। बंधहेतुतया दूषितवादाचार्यैः ।। जन्ममरणलक्षणस्य संसारस्य वासनारूपेणावस्थितः काम एव निदानम् । तस्मान्न पुरुषार्थः काम इति ॥ आस्तामयं वि- वादशीलानां विवादः । सुप्रयुक्तः कामः पुरुषार्थ एव । कामात्मता न प्रशस्ते ' त्यादिना मनुर्विगीतं कामं निषे- धति नतु शास्त्रविहितं कामम् । तेषु सम्यग्वर्तमान ' इत्या- :
- दिना विहिनं कामं प्रशंसत्येव ॥ कामोहि द्विविधः । प्रवृत्ति- जनको निवृत्तिजनकश्चेति । स्वर्गादिफलाभिलाषेणानुष्ठितानि कर्माणि पुनर्जनन हेतुतया बंधकारणानि भवति । यानि नित्यनैमित्तिकानि कर्माणि सत्वसंशुद्धिकामैरनुष्ठीयंते स काम आत्मज्ञानसहकारितया मोक्षाय कल्पते प्रशस्ततरश्च भवति । पूर्वोक्तं वैविध्यमप्यधिकारिभेदाद्भिद्यते । अधिकारिणः पुन- विभिनेच्छानियंत्रिताः कर्मवासनया स्वस्वाभिमतेषु प्रवर्तते । नचैकस्मिन् विषये समानधर्माणः पुरुषाः॥ तमेतमर्थ दोगा अनुश्रावयंति ‘स यदा पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठंती' त्यादिभिः। एतदविरोधी धर्ममूलः विधिविहितश्चेद्रियपीतिहेतुः स्वक्चंदनवनितालिं- गनादिरूपश्च कचिदभ्यनुज्ञायते मुनिभिः ॥ उत्सिताना- मिद्रियाणां विषयरसास्वादवरस्यप्रदर्शनद्वारा निग्रह एवात्र विविक्षितः। नतु तदेकांतिकलम् । इंद्रियाणि विषयाणामसेवया नियंतुमशक्यानि भवंति ॥ अनुभूतास्वादानि न जहत्येव विषयरसम् । सर्वथा दुश्शकमेवात्र तदभ्यनुज्ञामात्रमपि । चप- लानींद्रियाणि यदि विषयमवणानि तदा प्राज्ञस्यापि प्रज्ञा परिभूयते । प्रज्ञाविधुरो न शक्नोति युक्तायुक्तचिंतायामपि मनस्समाधातुम् । अविवेकिनः कायवाङ्मानसैरपराधेरैधः- पानो भवति। अतः कामः किंरूपः किंलक्षणकः कानि वास्य स्थानानि किमधिष्ठानमिति दुरूहतरलमानसैरयापि विमृश्यते मापिभिः ! नाद्यावधि कश्चिदपि निर्णयो इत्तः । सर्वः कामपरतंत्री लोक उच्चावचेषु कर्ममु प्रवर्तते स एव परमाथ इनि मन्यने च !! किंबहुना । नैतादृशं संवननं प्राणिनां त्रिषु लोकेष्वप्यन्यदास्त ॥ अतो गुरूपदेशशास्वावगाहन- न्यायनिष्णातमतिभिरस्य स्वरूपं सम्यगालोच्य यथानुषंगं धर्माविरोधन प्रतितव्यम् । विधिविहितः सतां संप्रतिपन्नः कामः पुरुषार्थ इति संपिंडितोर्थः ॥ अन्योन्याबाधितत्रिवर्ग- मुपजुषाणो गृहस्थाश्रमे परमार्थमोक्षहेतुभूतपरिव्राजकधर्म- साधनाय वैखानसाश्रममवलंब्य तत्तन्नियमाननुष्ठाय मनो मोक्षे निवेशयेत् ॥ गृहस्थाश्रमनिवानि कर्माणि यथाविधि समाप्य कुटुंबभरनिर्वहणधुरीणेषु पुत्रादिष्वाहितभरो जरा- जीर्णमात्मानं तपसि नियोजयेत् । चिरानुभूतविषयरसम- लिनं हि मनो नाल्पायसा कारणेन विरज्यते । यमैनियमैः सात्विकैराहारैः पराकचांद्रायणादिभिर्विषयवैराग्याभ्यासैर- न्यश्च देहवाङ्मनोदंडैः सर्वतः प्रतिरुद्धप्रसरं शनैर्निर्वि- षयकं भवति मनः । कामाशयं हि चित्तं चिराहितदृढतरवि- षयवासनया कलुपितं पुनःपुनरुच्चावचजन्मकारणं भवति ॥
मानुष्यं हि स्वर्गापवर्गयोारम् । मुकृतविशेषलब्धे तस्मि- नात्मनो बंधमोक्षायैव प्रयतितव्यम् ॥ प्रशांतचेतसः काम- संकल्पशून्यस्यात्मानमनुसंदधानस्य संसरणनिवृत्तिः कदापि भूयादिति सर्व वैखानसनियमाः प्रकल्पिता मुनिभिः । यथा युगांतरेषु सर्वे वर्णाश्रमधर्मा नियता आसन् न तथेदा- नींतनानां नियतुं शक्यते । युगभेदाद्धर्माधर्मयोईद्धिहासौ स्वयमेव संभवतः । देशकालवयोद्रव्यादिभेदेन विभिन्ना पौरुषेयी व्यवस्थापि । शक्याशक्यविचाराधीनं हि करणी- यम् । यावच्छक्यमात्मश्रेयसि प्रयतितव्यम् ॥ कुटुंबभरण- लालनवर्धनादिचिंतया वा लोकानुसरणजीविकासंपादन व्यग्रतया वा केवलमायुषो व्ययेन न कश्चिदात्मोद्धारमयो- जको लाभः संजायते । स्वार्थावबोधक्रियाकल्पेष्विंद्रियेषु कार्याक्षमेष्ववयवेषु चिंतासंतानसंदानितस्य तृष्णायष्टिमव- लंब्य संचरतोयदि कदाचिदपिनोत्पद्यते विवेकस्तदा सुतरामेव न किंचिदपि प्रयोजनं स्यात् । अतः स्वहितमिच्छता पुरुषेण विवेकिना भाव्यम् । स च विवेको नित्यानित्यवस्तुविचार एव ॥ यत्रेदं सचराचरं त्रिगुणात्मकं जगदविद्यया भासते तन्नित्यं सदन्यत् सर्वमपि खाविद्याविजूंभितमनित्यमिति परीक्ष्य निर्वेदाद् गुरुमभिगच्छेदेव । तदनुग्रहेणासादितब्रह्म- विद्यो ध्यानधारणादिभिर्योगैर्यावदात्मसाक्षात्कारस्तावन्न वि- रमेत् ॥ निष्पन्ने पुनरात्मदर्शने कृतकृत्यो भवति ॥ एतदर्थमेव ३० सर्वेsपि विधिप्रतिषेधादयो धर्मशाखेषु निरूपिताः ॥ सर्वे- पामपि धर्मनियमानां योगांतरायहेतुभूतषड्वर्गसंयमः फलम् । अन्यथा केवलं श्रमावहा एव ॥ देहायभिमानो हि बंधहेतुः । सर्वोपि आढ्योहमभिजातः कोन्योस्ति मत्सम इत्यभिमन्यते. खात्मानम् । अनेनैवाभिमानेन कामक्रोधलोभमोहदंभमदमा- सर्यादयः श्रेयोविरोधिनस्संभवंति । तन्निग्रहार्थमनमत्तः प्रयतेत । असंकल्पात्काम कामनिग्रहात्क्रोधमर्थेष्वनर्थवुध्या लोभमात्मविद्यया मोहं साधुसेवया दंभं तखावमर्शन मदं भूतसाम्येन मात्सर्य च समूलघातं निहत्य शास्त्राचार्योपदेश- कुशलमति/रः श्रेयो विंदत । तलपरामर्शात् केवलसत्खयो। गात् कर्मबीजपरिक्षयात् सतां सन्निकर्षाच योगः प्रवर्तते । ईश्वरप्रणिधानेन नानाविधजन्ममरणलेशप्रहाणकारणेन विग- लितान्यसंवेदनः स्वसंवेद्यमानंदं समश्नुते ॥ यद्यपि वर्णाश्रम धर्माः साकल्येन सर्वैरनुष्ठातुं न शक्यते तथापि शास्त्रनिर्दिष्ट- वर्त्मना यत्रकुत्राप्याश्रमे क्सन सत्यास्तेयेंद्रियनिग्रहदयाभूत- साम्यादिभिः कल्याणगुणैः परां सिद्धिमधिगच्छति ॥ तदेत- त्परमकारुणिकेन योगेश्वरेण याज्ञवल्क्येन सम्यग्व्यवसितम् । यथा "न्यायागतधनस्तबज्ञानानिष्ठोऽतिथिमियः॥ श्राद्धक- त्सत्यवादी च गृहस्थापि हि मुच्यत" इति । तदिदं धर्मसर्वख मुं- डकोपनिषदि प्रतिपाद्यते "परीक्ष्य कर्मचितान् लोकान् ब्राह्मणो निर्वेदमायादिति । “यदहरेव विरजेत् तदहरवे प्रव्रजेत्" इति ३१ च। “तमेतं ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसाऽनाश- केन" इत्यायन्यत्रापि । तदेतत्सर्वमनुशासनं स्वकर्मवशादेवति- यड्नरादिषु परिभ्रमतो जीवराशेरात्यंतिकसंसाराच्छेद एव परमः पुरुषार्थ इति निरूपणायैव प्रवृत्तम् । तत्साधनान्य- न्यानि त्रिवर्गसाधनान्यपि विहितानि । सर्व एते नियमा निवृत्तिप्रयोजका एव ॥ भागवत । एकादशस्कंधे “ व्यवस्थि- तिस्तेषु विवाहयज्ञसुराग्रहैराशु निवृत्तिरिष्टेति " प्रतिपादितम् । श्रुतयोपि “त्यागेनैके मृतसमानशु"रिति प्रतिपादयति । तस्मात्पुरुषार्थेषु मोक्ष एव श्रेष्ठइति व्यवसितमाचार्यः ॥ वस्तुतस्तु सर्वेपि पुरुषार्थाः परस्परोपकारका यावदर्थपरि- ग्रहविधया संसेविता मोक्षाय संपाते । शररिवाङ्मनोभिः श्रद्धया विहितैर्विद्ययानुष्टितैः कर्मभिरंतरात्मा प्रसीदति । प्रसन्न तस्मिन् स्वस्वश्रद्धानुरूपान् भीमान् दिव्यांच कामान् यथाधिकारं पुरुषस्समश्नुते । इदमेव पुरुषार्थप्रयोजनम् । एतदर्थमेव विधिनिषेधात्मकं शास्त्रं प्रवृत्तम् ॥ नन्वस्तु धर्ममो- क्षयोरत्यंताप्राप्तयोर्विधायकं शास्त्रम् । रागमाप्तयोरर्थकामयोः किं विधायकेन शास्त्रेणेति चेत्-रागमाप्तेष्वपि नियंत्रणाभावे लोकसेरनवस्था भवेत् । अनकस्थितायां लोकवृत्तौ का म- सक्तिधर्ममोक्षयोः । अतो रागमाप्तयोरपि तयोर्धर्मार्थ नि- यंत्रणमावश्यकमेव ॥ अतः शास्त्रमेव बलवदिष्टानुबंधिषु श्रे- योहेतुषु प्रवर्तयति निवर्तयति च बलवदनिष्टानुबंधिभ्यः श्रे- योविघातकेभ्यः। भृग्वंगिरोमनुहारीतप्रमुखैरवितथवचनैर्लो- कानुग्रहायैव गृहीतविग्रहैः स्वयमनुष्ठाय प्रदर्शितेन सत्पथेन संचरते साधवः ॥ संदिग्धविपर्यस्तबुद्धीनां रजस्तमःमक- तीनामपि स एव साधुपथः श्रेयोभ्युदयहेतुः । तमिममर्थमाम- नंति तैत्तिरीयाः। “अलूक्षाधर्मकामाःस्युः। यथा ते तत्रवर्तेरन् । तथा तत्र वर्तथाः । एष आदेश" इति । इत्थं च स्वरूपानंदा- विर्भावलक्षणो मोक्षः परमः पुरुषार्थः ॥ तदंतरंगसाधनं धर्मः। इष्टापूर्तादिधर्मोपयोगितया अर्थः ॥ तदुभयाविरोधी धर्मप्र- जासंपत्तिहेतुः काम इति ॥ पूर्वपूर्वापेक्षया प्रत्यवरीणधर्मामः पुरुषार्थाश्चत्वारः सर्वेषां श्रेयोभ्युदयहेतवः प्रसिद्धाः॥ यथा- स्माभिरयमर्थः संगृहीतस्तथा भगवती श्रुतिराभिमुख्येनानुमो- दते । गर्भाधानपुंसवनममुखैस्संस्कारैः परिपूतशरीरस्य द्विजन्मनोऽधीतवेदस्य कृतदारसंग्रहस्य यायजूकस्य क्रमेण विषयपराङ्मुखचेतसः कर्मसहकृतशुद्धसखसम्पादितब्रह्मज्ञा- नस्य सच्चित्स्वरूपेणावस्थितिरेव परमः पुरुषार्थस्वैवर्णिकानाम्। तदितरेषां स्ववत्तिधर्मानाश्रित्य सर्वसाधारणैः सत्यास्तेया दिभिर्वर्तमानानां पुण्योपचयसंपादितोत्तरोत्तरोत्कृष्टजन्मला- भद्वारा श्रेयोलाभो भविष्यतीति प्रतिपादनायैव कल्पविधिमं- त्रार्थवादमीमांसान्यायसांख्यधर्मशास्त्रपुराणेतिहासादि निबंध- नारंभास्सर्वेपि सफलाः ॥ ॥ इति श्रीसुब्रह्मण्यशर्मणःकृतिषु पुरुषार्थमीमांसा ॥